Asr Melkote
Brahmasutram
Front matter
No text on this page.
॥ ब्रह्मसूत्रम् ॥
MOR>-
.
अथातो ब्रह्मजिज्ञासा ॥१॥
जन्माद्यस्य यतः॥ २ ॥
शास्त्रयोनित्वात् ॥ ३ ॥
तत्तु समन्वयात् ॥ ४ ॥
ईक्षते शब्दम् ॥ ५॥
गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
हेयत्वावचनाच्च ॥ ८॥
स्वाप्ययात् ॥ ९॥
गतिसामान्यात् ॥ १० ॥
श्रुतत्वाञ्च ॥ ११ ॥
आनन्दमयोऽभ्यासात् ॥ १२ ॥
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
तद्धेतुव्यपदेशाच ॥ १४ ॥
२
ब्रह्मसूत्रे
पाचवर्णिकोव च गीयते ॥ १५ ॥
नेतरोऽनुपपत्तेः ॥ १६ ॥
भेदव्यपदेशाच्च ॥ १७ ॥
कामाच्च नानुमानापेक्षा ॥ १८ ॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
आकाशस्तल्लिङ्गात् ॥ २२ ॥
अत एव प्राणः ॥ २३ ॥
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगद्रात्तथाहि
दर्शनम् ॥ २५॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
उपदेशभेदान्नेतिचेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
माणस्तथानुगमात् ॥ २८ ॥
न वक रात्मोपदेशादिति चेदध्यात्मसंबन्धभूमाह्यस्मिन् ॥
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
जीवमुल्यप्राणलिगन्नेति चेन्नोपासात्रैविध्यादाश्रितत्वा-
दिह तद्योगात् ॥ ३१॥
प्रथमोऽध्यायः ।
३
द्वितीयः पादः ॥
सर्वत्र प्रसिद्धोपदेशात् ॥ १॥
विवक्षितगुणोपपत्तेश्च ॥२॥
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
कर्मकर्तृव्यपदेशाच ॥ ४ ॥
शब्दविशेषात् ॥ ५॥
स्मृतेश्च ॥ ६॥
अर्भकौकस्त्वात्तद्वयपदेशाच्च नेति चेन्न निचाय्यत्वादेवं
व्योमवच्च ॥ ७ ॥
संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
अत्ता चराचरग्रहणात् ॥ ९ ॥
प्रकरणाच्च ॥ १० ॥
गुहां प्रविष्टावात्मानौ हि तदर्शनात् ॥ ११ ॥
विशेषणाच ॥ १२ ॥
अन्तर उपपत्तेः ॥ १३ ॥
स्थानादिव्यपदेशाच्च ॥ १४ ॥
सुखविशिष्टाभिधानादेव च ॥ १५ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
ब्रह्मसूत्रे
अनवस्थितेरसंभवाच्च नेतरः ॥ १७ ॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
शारीरश्चोभयेऽपि हि भेदेनेनमधीयते ॥ २० ॥
अदृश्यत्वादिगुणको धर्मोक्तः ॥ २१ ॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
रूपोपन्यासाच्च ॥ २३ ॥
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
शब्दादिभ्योऽन्तः प्रतिष्ठानाच नेति चेन्न तथादृष्टयुपदे-
शादसंभवात्पुरुषमापि चैनमधीयते ॥ २६ ॥
अत एव न देवता भूतं च ॥ २७ ॥
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
अभिव्यक्तरित्याश्मरथ्यः ॥ २९ ॥
अनुस्मृतेर्बादरिः ॥ ३० ॥
संपत्तेरिति जैमिनिस्तथाहि दर्शयति ॥ ३१ ॥
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
प्रथमोऽध्यायः । तृतीयः पादः ॥ शुभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥ मुक्तोपमृप्यव्यपदेशात् ॥ २ ॥ नानुमानमतच्छब्दात् ।। ३- प्राणभृच्च ॥ ४ ॥.... भेदव्यपदेशात् ॥ ५॥ प्रकरणात् ॥ ६॥ स्थित्यदनाभ्यां च ॥ ७ ॥ भूमा संप्रसादादध्युपदेशात् ॥ ८ ॥ धर्मोपपत्तेश्च ॥ ९॥ अक्षरमम्बरान्तधृतेः ॥ १० ॥ सा च प्रशासनात् ॥ ११ ॥ अन्यभावव्यावृत्तेश्च ॥ १२ ॥ ईशतिकाव्यपदेशात्सः ॥ १३ ॥ दहर उत्तरेभ्यः ॥ १४ ॥ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥ १५ ॥ धृतेश्च महिनोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥ प्रसिद्धेश्च ॥ १७ ॥ B w ur ब्रह्मसूत्रे इतरपरामर्शात्स इति चेन्नासंभवात् ॥ १८ ॥ उत्तराच्छेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ अन्यार्थश्च परामर्शः ॥ २० ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ अनुकृतेस्तस्य च ॥ २२ ॥ अपि च स्मर्यते ॥ २३ ॥ शब्दादेव प्रमितः ॥ २४ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥ तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥ अत एव च नित्यत्वम् ॥ २९ ॥ समाननामरूपत्वाचावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।। मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ३१ ॥ ज्योतिषि भावाच्च ॥ ३२ ॥ भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥ क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥ संस्कारपरामर्शात्तदभावाभिलापाच्च ।। ३६ ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ।।
प्रथमोऽध्यायः ।
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
कम्पनात् ॥ ३९ ॥
ज्योतिर्दर्शनात् ॥ ४० ॥
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ।। ४१ ।।
सुषुप्त्युत्क्रान्त्योभैदेन ॥ ४२ ॥
पत्यादिशब्देभ्यः ॥ ४३ ॥
चतुर्थः पादः ॥
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तग्रही-
तेर्दर्शयति च ॥१॥
सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
तदधीनत्वादर्थवत् ॥ ३ ॥
ज्ञेयत्वावचनाच्च ॥ ४॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
महद्वच्च ॥ ७ ॥
चमसबदविशेषात् ॥ ८ ॥
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥
८
ब्रह्मसूत्रे
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥
न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
प्राणादयो वाक्यशेषात् ॥ १२ ॥
ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
समाकर्षात् ॥ १५ ॥
जगद्बाचित्वात् ॥ १६ ॥
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्वयाख्यातम् ॥ १७ ।।
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ।
वाक्यान्वयात् ॥ १९ ॥
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥
उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
अभिध्योपदेशाच्च ॥ २४ ॥
साक्षाच्चोभयानानात् ॥ २५ ॥
आत्मकृतेः परिणामात् ॥ २६ ॥
योनिश्च हि गीयते ॥ २७ ॥
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
ॐ द्वितीयोऽध्यायः॥ ..... >-- स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोष- प्रसङ्गात् ॥ १॥ इतरेषां चानुपलब्धेः ॥ २ ॥ एतेन योगः प्रत्युक्तः ॥ ३ ॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥ दृश्यते तु ॥ ६॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥ न तु दृष्टान्तभावात् ॥ ९॥ खपक्षदोषाच्च ॥ १० ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्र- सङ्गः॥ ११ ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ भोक्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥ C ब्रह्मसूत्रे तदनन्यत्वमारम्भणशब्दादिभ्यः॥ १४ ॥ भावे चोपलब्धेः ॥ १५ ॥ सत्त्वाच्चावरस्य ॥ १६ ॥ असदयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥१७॥ युक्तेः शब्दान्तराञ्च ॥ १८ ॥ यथा च प्राणादिः॥ २० ॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥ अधिकं तु भेदनिर्देशात् ॥ २२ ॥ अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥ देवादिवदपि लोके ॥ २५ ॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥ श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥ स्वपक्षदोषाच्च ॥ २९॥ सर्वोपेता च तदर्शनात् ॥ ३० ॥ विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥ न प्रयोजनवत्त्वात् ॥ ३२ ॥ लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥ ॥
द्वितीयोऽध्यायः ।
वैषम्यनैर्घण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥
न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥
उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
"*
द्वितीयः पादः॥
PATTA
रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥
प्रवृत्तेश्च ॥ २
पयोम्बुवच्चेत्तत्रापि ॥ ३ ॥
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥
अन्यत्राभावाच न तृणादिवत् ॥ ५ ॥
अभ्युपगमेऽध्यर्थाभावात् ॥ ६ ॥
पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥
अङ्गित्वानुपपत्तेश्च ॥ ८ ॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥
विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥
महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् ॥ ११ ॥
१२
ब्रह्मसूत्रे
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥
नित्यमेव च भावात् ॥ १४ ॥
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥
उभयथा च दोषात् ॥ १६ ॥
अपरिग्रहाचात्यन्तमनपेक्षा ॥ १७ ॥
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥
इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥
उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥
असति प्रतिज्ञोपरोधो योगपद्यमन्यथा ॥ २१ ॥
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥
उभयथा च दोषात् ॥ २३ ॥
आकाशे चाविशेषात् ॥ २४ ॥
अनुस्मृतेश्च ॥ २५ ॥
नासतो दृष्टत्वात् ॥ २६ ॥
उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥
नाभाव उपलब्धेः ॥ २८ ॥
वैधाच्च न स्वप्नादिवत् ॥ २९ ॥
न भावोऽनुपलब्धेः ॥ ३० ॥
क्षणिकत्वाच ॥ ३१ ॥
द्वितीयोऽध्यायः
१
सर्वथानुपपत्तेश्च ॥ ३२ ॥
नैकस्मिन्नसंभवात् ॥ ३३ ॥
एवं चात्माकाय॑म् ॥ ३४ ॥
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥
पत्युरसामञ्जस्यात् ॥ ३७ ॥
संबन्धानुपपत्तेश्च ॥ ३८ ॥
अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥
करणवञ्चेन्न भोगादिभ्यः ॥ ४० ॥
अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥
उत्पत्त्यसंभवात् ॥ ४२ ॥
न च कर्तुः करणम् ॥ ४३ ॥
विज्ञानादिभावे वा तदप्रतिषेधः॥ ४४ ॥
विप्रतिषेधाच्च ॥ ४५ ॥
तृतीयः पादः ॥
न वियदश्रुतेः ॥ १ ॥
अस्ति तु ॥२॥
ब्रह्मसूत्रे
maya
गौण्यसंभवात् ॥ ३॥
शब्दाच ॥ ४ ॥
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५॥
प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥
यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
असंभवस्तु सतोऽनुपपत्तेः ॥९॥
तेजोऽतस्तथाह्याह ॥ १० ॥
आपः ॥ ११ ॥
पृथिव्याधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशे-
षात् ॥ १५॥
चाराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशो भाक्तस्तद्भावभा-
वित्वात् ॥ १६ ॥
नात्माश्रुतेनित्यत्वाच्च ताभ्यः ॥ १७ ॥
ज्ञोऽत एव ॥ १८ ॥
उत्क्रान्तिगत्यागतीनां ॥ १९ ॥
स्वात्मना चोत्तरयोः॥ २० ॥
द्वितीयोऽध्यायः ।
१
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥
स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
अविरोधश्चन्दनवत् ॥ २३ ॥
अवस्थितिवशेष्यादिति चेन्नाभ्युपगमाइदि हि ॥ २४ ॥
गुणाद्वा लोकवत् ॥ २५ ॥
व्यतिरेको गन्धवत् ॥ २६ ॥
तथा च दर्शयति ॥ २७ ॥
पृथगुपदेशात् ॥ २८॥
तद्गुणसारत्वात्तु तव्यपदेशः प्राज्ञवत् ॥ २९ ॥
याबदात्मभावित्वाच न दोषस्तदर्शनात् ॥ ३० ॥
पुंस्त्वादिवत्तस्य ततोऽभिव्यक्तियोगात् ॥ ३१ ॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥
कर्ता शास्त्रार्थवत्वात् ॥ ३३ ॥
बिहारोपदेशात् ॥ ३४॥
उपादानात् ।। ३५ ॥
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६ ॥
उपलब्धिवदनियमः ॥ ३७ ॥
शक्तिविपर्ययात् ॥ ३८ ॥
समाध्यभावाच ॥ ३९ ॥
यथा च तक्षोभयथा ॥ ४० ॥
ब्रह्मसूत्रे
परात्तु तच्छ्रुतेः ॥ ४१॥
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वम-
धीयत एके ॥ ४३ ॥
मन्त्रवर्णाच ॥ ४४ ॥
अपि च स्मर्यते ॥ ४५ ॥
प्रकाशादिवन्नवं परः ॥ ४६ ॥
स्मरन्ति च ॥ ४७ ॥
अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ १८ ॥
असंततेश्चाव्यतिकरः ॥ ४९ ॥
आभास एव च ॥ ५० ॥
अष्टानियन्यत् ॥ ५१ ॥
अभिसंध्यादिष्वपि चैवम् ॥ ५२ ॥
प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥
चतुर्थः पादः॥
तथा प्राणाः॥ १ ॥
गौण्यसंभवात् ॥ २॥
द्वितीयोऽध्यायः ।
PRurmer
".............-.
तत्प्राक्श्रुतेश्च ॥ ३ ॥
तत्पूर्वकत्वाद्वाचः ॥ ४॥
सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
अणवश्च ॥ ७॥
श्रेष्ठश्च ॥ ८॥
न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॥ १२ ॥
अणुश्च ॥ १३ ॥
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
प्राणवता शब्दात् ॥ १५ ॥
तस्य च नित्यत्वात् ॥ १६ ॥
त इन्द्रियाणि तद्वयपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥
भेदश्रुतेः ॥ १८ ॥
वैलक्षण्याच्च ॥ १९ ॥
संज्ञामूर्तिक्लूप्तिस्तु निवृत्कुर्वत उपदेशात् ॥ २० ॥
मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥
वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥
तृतीयोऽध्यायः॥
तदन्तरप्रतिपत्ती रहति संपरिष्वक्तःप्रश्ननिरूपणाभ्याम् ॥
ल्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
प्राणगतेश्च ॥ ३ ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
चरणादिति चेन्नोपलक्षणार्थेति काष्णाजिनिः॥९॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
संयमने स्वनुभूयेतरेषामारोहावरोही तद्दतिदर्शनात् ॥१३॥
स्मरन्ति च ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
द्वितीयोऽध्यायः ।
१९
तत्रापि च तद्वद्यापारादविरोधः॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
न तृतीये तथोपलब्धेः ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
तत्साभाव्यापत्तिरुपपत्तेः ।। २२ ॥
नातिचिरेण विशेषात् ॥ २३ ॥
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
रेतःसिग्योगोऽथ ॥ २६ ॥
योनेः शरीरम् ॥ २७ ॥
द्वितीयः पादः॥
संध्ये सृष्टिराह हि ॥ १ ॥
निर्मातारं चैके पुत्सादयश्च ॥२॥
मायामात्रं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
२०
ब्रह्मसूत्रे
पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥
देहयोगाद्वा सोऽपि ॥ ६॥
तदभावो नाडीषु तच्छूतेरात्मनि च ॥ ७ ॥
अतः प्रबोधोऽस्मात् ॥ ८॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ १० ॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
अपि चैवमेके ॥ १३ ॥
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
प्रकाशवञ्चावैयर्थ्यम् ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
अम्बुवदग्रहणातु न तथात्वम् ॥ १९ ॥
वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
दर्शनाच्च ॥ २१॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥
तदव्यक्तमाह हि ॥ २३ ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
तृतीयोऽध्यायः ।
२
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ।। २५ ।।
अतोऽनन्तेन तथाहि लिङ्गम् ॥ २६ ॥
उभयव्यपदेशात्त्वाहिकुण्डलवत् ॥ २७ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
पूर्ववद्वा ॥ २९ ॥
प्रतिषेधाच्च ॥ ३०॥
परमतः सेतून्मानसंवन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
सामान्यात्तु ॥ ३२ ॥
बुद्धयर्थः पादवत् ॥ ३३ ॥
स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
उपपत्तेश्च ॥ ३५ ॥
तथान्यप्रतिषेधात् ॥ ३६ ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
फलमत उपपत्तेः ॥ ३८ ॥
श्रुतत्वाच ॥ ३९ ॥
धर्म जैमिनिरत एव ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
२२
ब्रह्मसूत्रे
तृतीयः पादः॥
सर्ववेदान्तप्रत्ययं चोदनायविशेषात् ॥ १॥
भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च
तन्नियमः ॥ ३ ॥
दर्शयति च ॥ ४ ॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
सर्वाभेदादन्यत्रेमे ॥ १० ॥
आनन्दादयः प्रधानस्य ॥ ११ ॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
इतरे त्वर्थसामान्यात् ॥ १३ ॥
आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
आत्मशब्दाच्च ॥ १५ ॥
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
तृतीयोऽध्यायः । कार्याख्यानादपूर्वम् ॥ १८ ॥ समान एवं चाभेदात् ॥ १९ ॥ संबन्धादेवमन्यत्रापि ॥ २० ॥ न वा विशेषात् ॥ २१ ॥ दर्शयति च ॥ २२ ॥ संभृतियुव्याप्त्यपि चातः ।। २३ ।। पुरुषविद्यायामिव चेतरेषामनानानात् ॥ २४ ॥ वेधाद्यर्थभेदात् ॥ २५ ॥ हानौ तूपायनशब्दशेपत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदु- क्तम् ॥ २६ ॥ सांपराये तर्तव्याभावात्तथा ह्यन्ये ।। २७ ।। छन्दत उभयाविरोधात् ॥ २८ ॥ गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः ॥ २९ ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥ अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥ यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥ अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामोपसदवत्तदु- क्तम् ।। ३३ ॥ इयदामननात् ॥ ३४ ॥ अन्तरा भूतग्रामवत्स्वात्मनः ।। ३५ ।
ब्रह्मसूत्रे
अन्यथाभेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ।।
व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
सैव हि सत्यादयः॥ ३८ ॥
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
आदरादलोपः ॥ ४०॥
उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥ ४२ ॥
प्रदानवदेव तदुक्तम् ॥ ४३ ॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
पूर्वविकल्पः प्रकरणात्स्यास्क्रियामानसवत् ॥ ४५ ॥
अतिदेशाच्च ॥ ४६॥
विद्यैव तु निर्धारणात् ॥ १७ ॥
दर्शनाच्च ॥ ४८ ॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ॥ ५० ॥
न सामान्यादप्युपलब्धेदृत्युवन्नहि लोकापत्तिः ॥ ५१ ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्वनुबन्धः ॥ ५२ ॥
एक आत्मनः शरीरे भावात् ॥ ५३ ॥
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
अङ्गाबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
तृतीयोऽध्यायः । २५ मन्त्रादिवद्वा विरोधः ॥ ५६ ॥ भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥ नाना शब्दादिभेदात् ॥ ५८ ॥ विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६०॥ अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ शिष्टेश्च ॥ ६२ ॥ समाहारात् ॥ ६३ ॥ गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥ न वा तत्सहभावाश्रुतेः ॥ ६५ ॥ दर्शनाञ्च ॥ ६६ ॥ चतुर्थः पादः॥ पुरुषार्थोऽतः शब्दाति बादरायणः ॥ १ ॥ शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥ आचारदर्शनात् ॥ ३॥ तच्छ्रुतेः ॥ ४ ॥ समन्वारम्भणात् ॥ ५॥ G
२६
ब्रह्मसूत्रे
तद्वतो विधानात् ॥ ६ ॥
नियमाञ्च ॥ ७ ॥
अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात् ॥ ८ ॥
तुल्यं तु दर्शनम् ॥ ९॥
असार्वत्रिकी ॥ १०॥
विभागः शतवत् ॥ ११ ॥
अध्ययनमालवतः॥ १२ ॥
नाविशेषात् ॥ १३ ॥
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
कामकारेण चैके ॥ १५॥
उपमर्द च ॥ १६ ॥
ऊईरेतःसु च शब्दे हि ॥ १७ ॥
परामर्श जैमिनिरचोदना-चापवदति हि ॥ १८ ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
विधिर्वा धारणवत् ॥ २० ॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
भावशब्दाच ॥ २२ ॥
पारिलवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
तृतीयोऽध्यायः ।
२७
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामव.
श्यानुष्ठेयत्वात् ॥ २७ ॥
सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् ॥ २८ ॥
अबाधाच्च॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥
विहितत्वाचाश्रमकर्मापि ॥ ३२ ॥
सहकारित्वेन च ॥ ३३ ॥
सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
अनभिभवं च दर्शयति ॥ ३५ ॥
अन्तरा चापि तु तदृष्टेः ॥ ३६ ।।
अपि च स्मर्यते ॥ ३७॥
विशेषानुग्रहश्च ॥ ३८ ॥
अतस्त्वितरज्ज्यायो लिगाच ॥ ३९ ॥
ततस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
बहिस्तूभयथापि स्मृतेराचाराच्च ।। ४३ ॥
खामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
ब्रह्मसूत्रे आर्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥ ४५ ॥ श्रुतेश्च ॥ ४६॥ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ कृत्लभावात्तु अहिणोपसंहारः ॥ १८ ॥ मौनवदितरेषामप्युपदेशात् ॥ १९ ॥ अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तदर्शनात् ॥ ५१ ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥
चतुर्थोऽध्यायः आवृत्तिरसकृदुपदेशात् ॥ १३ लिङ्गाच ॥ २ ॥ आत्मेति तूपगच्छन्ति पाइयन्ति च ॥ ३ ॥ न प्रतीके न हि सः ॥ ४ ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ ५॥ आदित्यादिमतयश्चात उपपतेः ॥ ६ ॥ आसीनः संभवात् ।। ७॥ अचलवं बापेक्ष्य ॥ ९॥ स्मरन्ति च ॥ १० ॥ यत्रैकाग्रता तलाविशेषात् ॥ ११ ॥ आ प्रायणातत्रापि हि दृष्टम् ॥ १२ ॥ तदधिगम उत्तरपूधियोरश्लेषविनाशौ तव्यपदेशात् ॥ इतरत्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥१५॥ H
ब्रह्मसूत्र
अग्निहोनादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
अतोऽन्याऽपि ोकेषामुभयोः ॥ १७ ॥
यदेव विद्ययेति हि ॥ १८॥
भोगेन वितरे क्षपयित्वा संपद्यते ॥ १९ ॥
upamneplenda
द्वितीयः पादः ॥
वाङ्मनासि दर्शनाच्छब्दाच ॥ १ ॥
अत एव च सर्वापयनु ॥ २ ॥
तन्मनः प्राण उत्तरात् ॥ ३ ॥
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
भूतेषु त्वच्छूतेः ॥ ५॥
नैकस्मिन्दर्शयतो हि ॥६॥
समाना चास्मृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
तदापीतेः संसारख्यपदेशात् ॥ ८॥
सूक्ष्म प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥
नोपमर्दैनातः ॥ १० ॥
अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
चयोऽध्यायः
३१
स्पष्टो ोकेषाम् ॥ १३ ॥
स्मयते च ॥ १४ ॥
तानि परे तथा ह्याह ॥ १५ ॥
अविभागो वचनात् ॥ १६ ॥
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्
तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शता-
धिकया ॥ १७॥
रश्म्यनुसारी ॥ १८॥
निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥
अतश्चायनेऽपि दक्षिणे ॥ २० ॥
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
तृतीयः पादः॥
अर्चिरादिना तत्प्रथितः ॥ १ ॥
वायुमब्दादविशेषविशेषाभ्याम् ॥२॥
तडितोऽधि वरुणः संबन्धात् ॥ ३॥
आतिवाहिकास्तल्लिङ्गात् ॥ ४॥
उभयव्यामोहात्तत्सिद्धेः ॥ ५॥
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
१२
ब्रह्मसूत्रे
514 कार्य बादरिरस्य गत्युपपत्तेः ॥७॥
55 विशेषितत्त्वाच्च ॥ ८ ॥
Tre सामीप्यात्तु तद्वयपदेशः ॥ ९ ॥
57 कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥१०॥
७ स्मृतेश्च ॥ ११ ॥
* परं जैमिनिमुख्यत्वात् ॥ १२ ॥
दर्शनाच ॥ १३॥
न च कार्ये प्रतिपत्त्यभिसंधिः ॥ १४ ॥
52 अप्रतीकालम्बनान्नयतीति बादरायण उभयथादोषा
त्तत्क्रतुश्च ॥१५॥
523 विशेषं च दर्शयति ॥ १६ ॥
HAN
चतुर्थः पादः ॥
संपद्याविर्भावः खेनशब्दात् ॥१॥
५ मुक्तः प्रतिज्ञानात् ॥ २॥
आत्मा प्रकरणात् ॥ ३ ॥
अविभागेन दृष्टत्वात् ॥ ४॥
ब्राह्मण जैमिनिरुपन्यासादिभ्यः॥५॥
5-7 चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥
चतुर्थोऽध्यायः । .. एवमन्युरन्यासापूर्वभावादविरोधं वादरायणः ३३ ९७ ॥ संकल्पादेव तु तच्छ्रुतेः ॥ ८॥ अत एव चानन्याधिपतिः ॥ ९ ॥ अभावं वादरिराह ह्येवम् ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ द्वादशाहबदुभयविधं बादरायणोऽतः ॥ १२ ॥ तन्वभावे संध्यवदुपपत्तेः ॥ १३ ॥ भावे जाग्रत् ॥ १४ ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥ खाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥ जगद्व्यापारवर्ज प्रकरणादसंनिहितवाच ॥ १७ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तः ॥१८॥ विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥ दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ भोगमात्रसाम्यलिङ्गाच ॥ २१ ॥ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥ इति चतुर्थोऽध्यायः ॥ ब्रह्मसूत्राणि संपूर्णानि ॥
No text on this page.
No text on this page.