University Library,gurukul Kangri Vishwavidyalaya
संस्कृत कथामञ्जरी
Front matter
* म
संस्कृत कशामञ्जरी
(Optep
minaMINATANEMAN
MARAN
maaytrina
MADAM
mmURIRAMPROPRA -
MAGNainment
-श्री स्वामी वेदानन्द जी
Mamatarnakediowww
-
।
mainternama
numanasammewwplantonymnanewsindee
phoeantarampalamanyammannewmortementeroneamaraMorvan
चदिक साहित्य सदन दिली
संस्कृतांकुर का परिशिष्ट
संस्कृत कथा मञ्जरी
[विरजानन्द संस्कृत परिषद् की परीक्षाओं में निर्धारित]
CHECKED SO
--
intituol 122
श्री स्वामी वेदानन्द जी तीर्थ.. -
*MEGREENSapnaSURESSmcorresearBamasomcomsoantammandemmanmom
ट
१२८."
२८2
..
प्रकाशक
वैदिक साहित्य सदन
आर्य समाज मन्दिर सीनाराम बाजार, देहली
प्रथमावृत्ति १०००
सं० २०१० वि०
मूल्य
दो शब्द । यह जब विरजानन्द संस्कृतपरिपत ने संस्कृत भाषा के प्रचार- विस्तार के लिए संस्कृत परीक्षायें पचलित करना स्वीकार किया, तब किसी भी सदस्य का यह विचार न था कि हमें ऐसी सफ लता मिलेगी, सभी कहते थे कि यदि पचास परीक्षार्थी हो जायें तो बहुत समझना चाहिये । किन्तु हुआ क्या ! ३७। परीक्षार्थी बैठे तो आशातीत समाचार है और सत्य पछा तो यह एक चमत्कार है । जब जान-अनजान सब ओर ऐसा हो रहा हो कि जिससे संस्कृत भाषा नाम शेष रह जाये, ऐसे समय में इतने परीक्षार्थियों का होना संस्कृत भाषा की महिमा का फल समझना चाहिये । संस्कृत भाषा के प्रति लोगों का स्वाभाविक प्रेम तथा परिपत् के परीक्षा मन्त्री के अदभ्य उत्साह को इसका श्रेय मिलना चाहिये। प्रथम बार परीक्षा के पश्चात् परिषत् ने निश्चय किया कि 'संस्कृतांकुर' पुस्तक के परिशिष्ट रूप में एक छोटी सी कथामञ्जरी भी लिखी जाय । तदनुमार यह कथामञ्जरो लिखी गई है। इसमें नये शब्दों का प्रयोग कम किया गया है । कथायें इतनी सरल कि जिन्होंने संस्कृतांकुर का उचित राति से अभ्यास किया है, उनको इन कथाओं के समझने में कुछ भी कठिनता न होगी। संस्कृतांकुर की आलोचकों ने तथा जनता ने बहुत प्रशंसा आशा है यह भी उनको रुचेगी। सं २००६ पौष संक्रान्ति वेदानन्द है
ओ३म्
कथा मञ्जरी
[संस्कृतांकुर का परिशिष्ट]
प्रथमा कथा
पुरातने समये अस्मिन् भारते वर्षे रामो नाम प्रतापवान्
राजा आसीत् । तस्य त्रयः भ्रातरः आसन् । तेषाम्
नामानि क्रमशः भरतः, लक्ष्मणः, शत्रुघ्नः च श्रासन् ।
ते चत्वारोपि भ्रातरः परस्परम् अतिप्रीत्या श्रवर्तिषत ।
रामः तेषु ज्येष्ठः, गुणैः अपि श्रेष्ठः आसीत् । सर्वे भ्रातरः
रामस्य श्रादरं कुर्वन्ति स्म (अकार्ष) । रामः अपि तेषु
अतिमात्रं स्नेहमकार्षीत् । तस्य नृपस्य रामस्य सौता नाम
पतिव्रता भार्या आसीत् । या अद्यापि जनैः सादर
स्मर्यते । सा देवी बहन क्लेशान् अनुभवति स्म । यदा
पत्युः राज्याभिषेकसमयः प्राप्तः. तदा सः वनाय प्रस्था-
पितः। पतिव्रता सीता अपि तमनुगतवती । लक्ष्मणः अपि
सहैव वनं गतः । त्रयः ते वने मुनिवृत्तिम् अवतिषत ।
२
कथा मञ्जरी
ते
पूर्व ते चित्रकूटे वासम् अकाः । पश्चात् किंचित् विचार्य
दण्डकारण्यं गताः, तत्र एकस्मिन् स्थाने पञ्च वटवृक्षाः
आसन, यस्मात् कारणात् तस्य स्थानस्य 'पञ्चवटी'
इति नाम श्रासीत् । तत् स्थानम् अतिमनोरमम् आसीत् ।
तस्य सौन्दर्येण मुग्धाः सन्तः ते तत्र वासाय मनः
अकाषुः । ईशपूजने ऋषिसंगे च कालं ते नीतवन्तः ।
तस्मिन् घोरे वने राक्षसनामानः दुष्टाः नरघातकाः मनुष्याः
श्रवात्सुः (वासम् अकार्ष:)। दुष्टाः ऋषिभ्यः दुःख
ददति स्म । ऋषयः स्वकष्टनिवारणाय रामम् अवादिषुः ।
रामः तेषां कष्टप्रदाम् कथाम श्रुत्वा तस्याः निवारणाय
श्रवादीत् । रामस्य एतत् वचनम् श्रुत्वा सर्वे ऋषयः हृष्टाः
जाताः । दुष्टाः राक्षसाः रामस्य वार्ताम् श्रुत्वा अधिकम्
उपद्रवम् अकार्षः । तेषाम् उपद्रवं दृष्ट्वा श्रुत्वा च रामस्य
क्रोधः जातः । सम्मुखयुद्धे ते राक्षसाः असमर्थाः, अतः
छल कपटं च कतु प्रवृत्ताः । कपटी राक्षसराजः रावणः
कपटमुनिवेषं धृत्वा भिक्षार्थम् सीतायाः समीपम् आगतः ।
यदा सीता भिक्षां दातु प्रवृत्ता, तदा ताम् एकाकिनी
असहायां सीतां सः बलात् अपजहार (अपोहार्षीत ।)
प्रथमा कथा
३
यदा रामलक्ष्मणौ प्रत्यागतो, सीताम् तत्र अदृष्ट्वा
अत्यन्तं दुःखितौ अभूताम् । कुत्र गता सीता इति तयोः
महती चिन्ता सञ्जाता। तस्याः अन्वेषणसमये एव तयोः
सुग्रीवेण हनुमता च सह मैत्री संजाता। हनुमता प्रयत्न
कृत्वा ज्ञातम् , सीता रावणेन अपहता, लंकार्या दुःखम्
सहमाना वर्तते इति । सीतायाः उद्धाराय राक्षसैः सह
महद् युद्ध अभूत्। राक्षसराज्यस्य विनाशो जातः ।
रामेण नीतिनिपुणेन लंकाराज्यं राक्षसकुलोत्पन्नाय
विभीषणाय दत्वा आर्यशीलं प्रकाशितम्
तृतीया कथा भारते वर्षे श्रासीत् महान् प्रतापी शान्तनुः नाम राजा । यौवने तस्य पत्नी मृता। तस्य एकः एव तनयः आसीत्, यस्य नाम देवव्रतः इति आसीत् । सः देवव्रतः अतीव सदाचारी धर्मात्मा अभूत् । शान्तनुना विद्याभ्यासार्थ विशेषतः धनुर्विद्याशिक्षणार्थ स भार्गवस्य परशुरामस्य गुरुकुले प्रेषितः । तत्र स बहूनि वर्षाणि वासं कृतवान् (अकार्षीत्) । तम्मिन् गुरुकुले भीष्मः सर्वान् वेदान् वेदाङ्गानि च अपाठीत् । धनुर्वेदम् सः विशेषेण अपाठीत् । राज- शास्त्रस्य धर्मशास्त्रस्य च सः महान् पण्डितः अभूत् । पितुः प्रसन्नताय स आजन्मब्रह्मर्यव्रतं कृतवान् । तस्य इमां घोरां दुश्चरां प्रतिज्ञाम् श्रुत्वा 'भीष्मोऽयम्, भीष्मो- ऽयम्' इति सर्वे प्रवादिषुः । ततः प्रभृति 'भीष्म' इति तस्य नाम प्रसिद्धं जातम् । तस्य श्रासन् त्रयः भ्रातृव्या(भ्रातपुत्राः)एको धृतराष्ट्रः, द्वितीयः पाण्डुः, तृतीयः विदुरः । धृतराष्ट्रः जन्मान्धः, अभूत, अतः कुरुकुलपरम्परानुसारेण सः राज्याधिकारी न तृतीया कथा अभूत् । पाण्डुः राजा कृतः । स यौवने क्षयरोगेण रुग्णः जातः, पर्वतम् च गतः । तत्र तस्य पञ्च पुत्राः जाताः । पत्नीप्रमादात् सः मृतः । कुन्ती पञ्च पुत्रान् गृहीत्वा हस्तिनापुरम् अाजगाम (आगमत्) । भीष्मेण ते पौत्राः स्नेहेन पालिताः वर्धिताः च । पाण्डुपुत्रेषु धृतराष्ट्रपुत्रमः दुर्योधनादयः ईाम् अकापुः तेषु परस्परं कलह कर्वाणे भीष्मः वारंवारं सन्धिम् अकारयत् । भूपस्य पुत्राः वयम् इति पाण्डुपुत्राः राज्ये स्वाधि- कारम् अवादिपुः । वस्तुतः राज्यधिकारः तु धृतराष्ट्रस्य, वयं च तस्य तनयाः, अतो राज्ये अस्माकम् अधिकारः, न च पाण्डुपुत्राणाम् इति । अयं भावः शनैः शनैः प्रवृद्धः अभूत् । भीष्मः अपि न अशकत् एतं विवाद शमयितुम् । ज्ञानी भीष्मः मनसि पाण्डवान् सत्यस्थान् जानन् अपि केनापि कारणेन तेषां पक्षं न अकार्षीत् । इदं तु सर्वथा सत्यम्, यत् समये-समये भीष्मः पाण्डव- पक्षस्य सत्यताम् अपि मेने (अंमस्त) । तस्य समक्षे द्रौपद्याः अपमानम् दुःशासनः अकार्षीत् । दुर्योधनः तदा अहसीत् । भीष्मः किमापे न अवादीत् । अद्य अपि लोकाः श्राश्चर्य
कथा मञ्जरी
कुर्वन्ति, भीष्मः किमर्थ न किमपि अवादीत् इति । यदि
स तदानीं किमपि अवदिष्यत्, इदं निश्चितम् यत् महद्
अनर्थकारि युद्धं न अभविष्यत् । किं विचार्य भीष्मः न
किमपि न अवादीत्, इति न कोपि जानाति । अपरम् इदम्
आश्चर्यम्, यत् पाण्डवान् सत्यस्थान् जानन् अपि सः
युद्धे दुर्योधनपक्षे युद्धम् अकार्षीत् । यद्यपि भीष्मः ययसा
कृष्णात् वृद्धतरः, तथापि कृष्णं सः बहु मेने ( अमस्त )।
कृष्णः अपि तस्मिन् आदरखुद्धिम् अकार्षीत् । नीतिशास्त्रस्य
यानि तत्वानि तेन उक्तानि, तानि महाभारतस्य शान्ति-
पर्वणि अनुशासनपर्वणि सङ्कलितानि सन्ति । ततो ज्ञायते,
अयं पितामहः न केवलं वयसा वृद्धः, अपितु ज्ञानेन
अपि वृद्धः।
चतुर्थी कथा महाभारतयुद्धात् अनन्तरं शनैः शनैः भारतवर्षम् अवनतिम् अगमत् । महाविद्वांसः वैज्ञानिकाः, महर्षयः, भूपाः बहवः युद्ध न क्षपिताः । तदानीं न धर्मोपदेशका: अवशिष्टाः, न च धर्मव्यवस्थापकाः भूपाः शेषाः स्थिताः । सर्वत्र अव्यवस्था जाता। न धर्मभयं तदानीम् आसीत्, कस्यापि न च राजभयम् । तदा जनाः कुमार्गे प्रवृत्ताः सन्तः अखाद्यानि अखादिपुः, अवद्यानि अवादिषुः, अपाठ्यानि अपाठिषुः । तेन जनानां संस्काराः विचाराः च मलिनाः जाताः । प्रमादस्य आलस्य च वृद्धिः शनैः- शनैः अभूत् । उपदेशकानाम् अभावात् राजभयस्य च अपगमात् अन्यदेशेषु विविधानि मतानि प्राचलिषुः । तत्र वैदिकधर्मस्य क्रमात् लोपः एव जातः। भारतेऽपि सुदृढस्य व्यवस्थापकस्य प्रभावात् अनेकानि राज्य- चक्राणि प्राचलिषुः। समस्ते भारतेवर्षे न एक: कोपि एतादृशः सत्ताधारी शासकः अवशिष्टः यस्य निदेशं सर्वे कथामञ्जरी मन्येरन् । भारतस्य अव्यवस्था ज्ञात्वा परदेशीयाः साह- सिकाः इमं देशम् आक्रान्तवन्तः। इतिहासतः ज्ञायते, एकस्मिन्काले भारतस्य विशालं भागं पारसीकाः अधि- कृतवन्तः, तस्मिन् भागे अपध्नस्थानम्. सिन्धुसौवरं, सौराष्ट्र, पञ्चाम्बुप्रदेशः अपि आसन् । तदा यवनदेशीयः अलक्षेन्द्रः पारसीकान् पराजित्य भारतम् अपि आक्रान्त- वान् । पारसीकविजेता अलक्षन्द्रः भारतीयैः वीरैः प्रता- डितः, यत् सः स्वजीवने अपि सन्दिग्धो जातः । येन केनापि प्रकारेण सः स्वप्राणान् रचितु शशाक (अशकत्)। तदानीं सिन्धोः महानदस्य पश्चिमतटवर्तिनि प्रदेशे मोरीनामकानां क्षत्रियाणाम् आधिपत्यम् आसीत् । तस्य मोरीवंशस्य शिरोमणिः अदम्योत्साहः, स्वदेशस्य परो- धीनतायाः सदा ग्लानिं कुर्वाणः खण्डितंभारतं भूयः अखण्डितं विधातुम् इच्छन् महामतिचाणक्यशिष्यः चन्द्रगुप्तमौर्यः स्वगुरु शरणम् अगमत् । गुरुशिष्यौ मिलित्वा यदकार्टी तस्य कथां तु पुनः कदाचित् वदिष्यामः । किन्तु इदं निस्सङ्कोचम् अत्र वक्तुं शक्यते, यत तौ 'यत्र ब्रह्म च क्षत्रं च उभौ सम्यञ्चौ चरतः'
चतुर्थी कथा
इति वेदवचनं यथार्थम् अकाष्टीम् । यथा श्रीकृष्णेन महात्मना
भारतम् एकच्छत्रं कृतम् , तथा आभ्यां गुरुशिष्याभ्यां
चाणक्यचन्द्रगुप्ताभ्यां भारतम् पुनः एकं कृतम् । यः भाग
त्रिदेशीयानां यवनानाम् अधिकारे आसीत, सः अपिः
भाग: पुनः भारतस्य अवयवः कृतः । अलनेन्द्रस्य मृत्युतः
पश्चात् तदीयसेनापतिना पुनः आक्रमणं कृतम् , किन्तु
स्वदुहितदानेन वाह्नीक-(बलख-बुखारा) पर्यन्तदेशत्यागेन
च प्रात्मनः प्राणान रक्षितु शशाक (अशकत)। ऐति-
हासिका: वदन्ति, यः चाणक्यः स एव वात्सायनमुनिः
न्यायदर्शनस्य भाष्यकारः । कदा कोपि चाणक्यः चन्द्रगुप्तः
च आविर्भूय इदं पुनः खण्डितं भारतवर्षम् अखण्डितम्
विधास्यतः १ रोदनं कुर्वन्तः वदाम-'को देशम् उद्धरिष्यति'
इति । पुरा तु खण्डितं सत् अपि भावे एकम् आसीत् ।
अधुना तु भावेषु अपि वैषम्यं जातम् । ईश्वर ! दयानिधे !
दयां कुरु।
पञ्चमी कथा
भो बालकाः ! कथाम् कथयामि ! सावधानेन मनसा
शृणुत । श्रवणकाले मा क्रीडत । मा किमपि खादत ।
पुरा अस्माकम् देशः धनधान्येन सदा पूर्णः आसीत् ।
अत्र विद्यायाः प्रचारः अपि प्रचुरः आसीत् । एतैः गुणैः
आकृष्टाः सर्वदेशीयाः विद्वांसः विद्यावर्धनाय अत्र आगमन्।
धनलोलुपाः अन्यदेशीयाः शासकाः अस्मात् देशात् धनं
हत्तुम् एतम् देशम् आगमन् । प्रायः बहुवारं ते पराजिताः
सन्तः किंचित् प्रदाय एवं प्रतिनिवृत्ताः । केचन बलिनः
अपि अासन् । तैः अयं देशो जितः। पराजिताः अपि
भारतीयाः निश्चिन्ताः न अतिष्ठन् । सदा कमपि उपायम्
शत्रूणां निष्कासनाय अकार्षः । ते प्रक्रीडिषुः, अखादिषुः,
किन्तु तेषां मनसि शत्र णां विनाशाय विचारः सदा
प्रचण्डः अतिष्ठत् । विरोधिभिः अस्माकम् इतिहासग्रन्थाः
दग्धाः, अनेन इतिहासपरम्परा लुप्ता । तथापि वृद्धः
कथमपि वाचिकाभिः कथाभिः सा परम्परा रक्षिता । ततः
पश्चमी कथा १३ ज्ञायते अस्माकम् पूर्वजाः अतिकर्मठाः पुरुषार्थिनः स्वदेश- रक्षणे सदा कटिबद्धाः आसन् । स्त्रियः ततोपि अधिकतराः तत्पराः अभूवन् । पुरातनी इयं कथा, अस्याः कालं निर्देष्टु कोपि न शक्नोति । तदानीम् अस्मिन् देशे एतागद् धनम् आसीत्, यत् तस्य गणनाम् कतुन कोपि समर्थः अभूत् । धनबहु- लतायाः फलम् प्रायः आलस्यम् भवति । तया धनवृद्ध्या अस्माकम् पूर्वजाः अपि प्रमादिनः संजाताः । तान् भोग- विलासरतान् ज्ञात्वा राक्षसनामकाः विदेशीयाः एतं देशम् श्रोक्रान्तवन्तः। एतं देशं स्वाधिकारे कृत्वा अतिमात्रम् अत्या- चारम् अकाः। तेषु राक्षसनामकेषु विदेशीयेषु मनुष्येषु केपि मनुष्यखादकाः अपि आसन् । ते अवसरं लब्ध्वा श्राव्न् हत्वा अखादिषुः । विलासगोतपीडिताः श्रार्याः राक्षसान निष्कासयितु न अशकन् । किं कर्तव्यनिमूढाः सन्तः हतबुद्धयः अभूनन् । यद्यपि अत्यन्तं दुःखिताः आसन् श्राव्ः तदानीम्, तथापि कोपि उपायः तेषाम् न प्रत्य- भात् । राक्षसः भार्याणाम् सर्वस्वम् अपहृतम् । तेन पार्याः निर्धना जाताः । तेषु केचित पळतेषु स्नम्
१४
कथामञ्जरी
अोश्रयम् अकाषु । शत्र निनाशाय ते सदा उपायम्
चिन्तितवन्तः । तेषु मध्ये एका युगतिः स्वदेशभक्तिरता
देशागस्थाम् विलोक्य भृशम् कातरा आसीत् । पुरुषान्
कर्मरहितान् दृष्ट्वा सा चिन्तितयती । अहम् अस्मिन
देशे उत्पन्ना । अस्य देशस्य जलेन वायुना च जीवामि ।
अस्य-एव देशस्य अनेन परिपुष्टा अस्मि। मया एव
देशोद्वाराय यत्नः कर्त्तव्यः । यदि पुरुषाः न कुर्नन्ति
स्वीयं कर्त्तव्यं, मा नाम कुर्वन्तु । किन्तु स्त्रीभिः कुतः न
कर्तव्यम्, विशेषतः मया किमिति न कर्त्तव्यम् । एवम् मनसि
विचार्य सखिभिः सह तया मन्त्रितम् । भ्रातृणाम्
समक्षेऽपि अयं विचारः तया प्रस्तुतः । सर्वाः तस्याः सख्यः
एनं विचारम् स्वीकृतवत्यः, भ्रातरः अपि सर्वे तस्याः
अनुगमने मतिम् अका। सखीनाम् भ्रातृणाम् च
सहमतिम् विदित्वा सा एकां सेनाम् अकार्षीत् । ताम्
सेनाम् गृहीत्वा सा शत्रूणाम् अविदिता एव तेषाम् शिविरे
प्रविष्टा, सहसा सेनाम् आगताम् विदित्वा राक्षसाः
प्लायिताः, प्लायमानाः बहवः मारिताः । तस्याः प्रथमेन
अाक्रमणेन प्रस्ताः सन्तः राक्षसाः किंकर्त्तव्यविमढाः
पश्चमी कथा
१५
जाताः । तया स्वसेना प्रोत्साहिता । एतेन विजयेन प्रसन्नाः
सन्तः बहवः आर्याः प्रत्यक्षरूपेण तस्याः धनेन जनेन
सहायताम् अकापुः । इत्थम् स्वकीयेभ्यः धनस्य जनस्य
सहायताम् प्राप्य सा वीरांगना शत्रून् अस्मात् देशात
वहिष्कतु समर्था अभूत् ।
शमुभिः देशे शून्ये सति आर्यैः सा सबहुमानम्
सत्कृता अर्चिता अभिनन्दिता । वृद्धैः युवकैः बालकः
स्त्रीभिः तस्यै श्रादरप्रदर्शनाय तस्याः प्रतिमा स्थापिता ।
याम् प्रतिमां विलोक्य सोत्साहाः अभूवन् तदानींतनाः
आर्याः । काले गते सति यदा वैदिकविचाराः लुप्तप्रायाः
अभूवन् तदा ताम् लोकोत्तराम् मनुष्येतगं च मत्वा देवी-
भावेन तस्याः प्रतिमा परमेश्वरवत् पूजयितुम् प्रवृत्ताः
जनाः । तेन कारणेन विस्मृतवन्तः तदीयां वीरता शूरतां
देशभक्ति च । यत् कर्म पुरुषाः न अशकन कतुम्, सा,
कौशलेन अकार्षीत्, अतः सा सत्यं पुरुषेभ्यः उत्कृष्टतरा ।
तस्याः माननीयायाः वीरशिरोमण्याः देव्याः पूजित
नाम दुर्गा इति ।
यदा भारते एतादृश्यः वीरांगनाः आसन्, तदा
कथामञ्जरी
श्रयम् देशः सर्वेषाम् देशानाम् शिरोमणिः प्रासीत् ।
इतिहासात् ज्ञायते यत् अनेकवारम् अस्य देशस्य उद्धारः
स्त्रीभिः कृतः, तत्संस्मृतिसंरक्षणाय सर्वाः ताः दुर्गानाम्ना
स्त्रियः इतिहासे अङ्किताः । दुर्गायाः अनुकरणात् सर्वाः
ताः दुर्गाः एव। तासाम् सर्वासाम् कथाः एकरूपाः एव ।
अत्यन्तप्राचीनसमयस्य
एतासाम् कथानाम् विस्तरः
विस्मृतिपथं गतः, सारमात्रम् कृतज्ञैः प्राय्यः रक्षितम्
कदाचित् कस्मिंश्चिद् विलुप्ते विरोधिभिः दग्धे आसाम्
दुर्गाणाम् कथाः विस्तृताः स्युः ।
पुरातनीषु जातिषु एका आर्या जातिः जीवति । तत्र
कारणम् एदेशीयानाम् संस्कृतेर्महत्वम्। अस्याम् संस्कृत्याम्
स्त्रीणां स्थानम् अतिगौरवास्पदम् अस्ति ( भोः बालकाः
बालिकाः च ! एताम् का मनसि कृत्वा स्वदेशरक्षायें सदा
तत्पराः भवत ।
षष्ठी कथा प्राचीनसमये भारतमहादेशस्य मगधनामके प्रदेशे एकः धर्मात्मा ब्रह्मज्ञानी राजा आसीत् । तस्य धर्मात्मनः ब्रह्मज्ञानिनः भूपस्य नाम 'जनक' इति श्रासीत् । योगिनी नामिका तस्य भार्या आसीत् । सा योगिनीदेवी एकाम् दुहितरम् अस्त, यस्याः नाम पितरौ 'सीता' इति अकालम् । मातापितृभ्याम् सीता अतिस्नेहेन लोलिता पालिता संवर्द्धिता, सर्वासु विद्यासु च शिक्षिता । विवाह- योग्ये वयसि जाते तस्याः स्वयंवर विधानेन दशरथ- पुगेण रामेण सहः विवाहः जातः । आर्याणाम् स्त्रीणाम् पतिवरणे श्रासीत् अधिकारः । तस्य अधिकारस्य प्रयोगाय एक: महोत्सवः भवति स्म । तस्य नाम स्वयंवरमहः । तस्मिन् नानादिग्देशेभ्यः विवाहाभिलाषिणः युवानः श्रामच्छन्ति स्म । तेषां युवकानाम् परिचयः तत्र घोप्यते स्म । यं युकानं कृणोति स्म कन्या, सस्याः गले पुष्प- मालाम् अर्पयति स्म।
१८ कथामञ्जरी सीतायाः अपि एतादृशः स्वयंवरमहः तस्याः मातापितृभ्याम् कारितः । तस्मिन् उत्सवे बहवः राजपुत्राः अन्ये च प्रतिष्ठिताः युवानः सर्वजातीयाः समागताः । सर्वेषाम् यूनाम् गुणाः तत्र तत्परिचितैः यथायथम् श्राविताः। सर्वम् श्रुत्वा सीतायैः राज्ञः दशरथस्य पुत्रः रामः अरो- चिष्ट । सीता तस्य गले वरमालाम् अर्पितवती । एतत् ज्ञात्वा अन्ये सर्वे युवानः स्वं स्वं स्थानं प्रति प्रस्थिताः। विश्वामित्रस्य ऋषेः परामर्शात् राज्ञा जनकेन राजानं दश- रथम् सपरिवारम् आनेतुम् दूताः अयोध्यायाम् प्रेषिताः । अयोध्यां प्राप्य ते दूताः राज्ञः दशरथस्य सेवायाम् उपस्थिताः निवेदनमकाः, यत् श्रीमतः ज्येष्ठः पुत्रः गुणैः अभिरामः श्रीरामः राज्ञः जनकस्य दुहित्रा श्रीमत्या सीतया स्वयंवरे वृतः । अधुना वेदमर्यादया विवाहविधिः सम्पादनीयः अस्ति । स च विधिः श्रीमतः उपस्थिती एव विधेयः इति मर्यादाविदः वेदज्ञाः कथयन्ति । अतः हर्षोत्फुल्लस्वान्तः मिथिलाधिपतिः सबहुमानम् भवन्तम् आमन्त्रयते । भवतः दिक्षाप्रतीक्षायाम् उत्सुकः तिष्ठति । अतः श्रीमान् मिथिलावासिनः जनान् राजानं च पुनात , षष्ठी कथा १६ इति अस्ति प्रार्थना । एतत् श्रुत्वा राजा दशरथः तान् दूतान् यथाविधि सत्कृतवान् । राजपरिवारेण परामृश्य मन्त्रिभिः सचिवैः अमात्यौः च संमन्व्य स्वपुत्राविवाह-विधि- सम्पादनाय मिथिलाम् प्रति प्रस्थितः । तस्य आगमन- वार्तां श्रुत्वा मैथिलाः पौरजानपदाः स्त्रियः बालाः वृद्धाः युवानः तस्य 'स्वागत' कत्तु प्रत्युद्गताः । तम् दशरथं राजानं तस्य परिजनं च एकस्थाः सन्नः ते मैथिलाः पुष्पैः अवाकिरन् । जनकः राजा स्वनूतनं सम्बन्धिनम् महाराजम् दशरथम् विलोक्य अत्यन्तम् प्रसन्नो जातः । यथासमयं उभयपक्षीयः विद्वद्भिः निर्दिष्टया रीत्या विवाहः सम्पन्नः (सम्पादिता)। लक्ष्मणस्य भरतस्य शत्रुध्नस्य अपि विवाहाः राजपरिवार कन्याभिः तदानीम् एव जाताः। कतचिद् दिनानि राजाः दशरथः तत्र उषित्वा मिथिला- धिपतिना अनुज्ञातः परिवारेण पुरैः स्नुषाभिः च सह अयोध्या प्रत्यागतः । अयोध्यायाम श्रीरामादीनाम् विवाहोत्सवस्य उपलक्ष्ये सर्वाणि गृहाणि उत्पताकानि जातानि, राजमार्गाः तोरणस्रग्भिः अलंकृताः । अयोध्या तदा स्वयं नववधूरिव दृश्यते स्म । सर्वे तत्रत्याः जनाः प्रसन्नाः लक्ष्यन्ते स्म।
२०
कथामञ्जरी
कियतिचित् काले गते सति राजा दशरथः आत्मानं
वृद्धम् अन्वभूत् । तस्य मनसि रामं युवराज कतु विचारः
उत्पन्नः । एतदर्थम् तेन प्रजानाम् सम्मतिः अपेक्षिताः ।
प्रजाः राज्ञः एतम् विचारम् श्रुत्वा अति प्रसन्नाः अभवन् ।
राज्ञः विचारम् ताः सर्वसम्मत्या स्वीकृतवत्यः । अमात्या-
दयः तु पूर्वम् एव अस्मिन् अर्थे सम्मताः आसन् ।
पुरोहितप्रवरस्य वसिष्ठस्य अनुमत्या राज्याभिषेकदिवसः
नियतः । देवान रामस्य विमाता कैकेयी एतस्मिन् अर्थे
विमता जाता । तस्याः आग्रहात् रामः वनं प्रेषितः ।
पतिव्रता सीता अपि स्वधर्म जानती तम् अनुपालयन्ती
पत्या साकम् वनं अगमत् । वने पत्या सह बहून् क्लेशान्
असहिष्ट । राजभवनोचिता सा पत्या सह वनाद् वनम्
अभ्रमीत् । परन्तु कदापि शोकः न कृतः तया ।
दुष्टेन रावणेन अपहता भगवती सीता । तेन बहुधा
विलोमिता अपि सा स्वधर्म न अत्याक्षीत् । नानाविधान्
क्लेषान् सः राधणः तस्यैः अदात् , किन्तु सा कथमपि
स्वधर्मात न विचलिता । अनेन ज्ञायते सा यथार्था
धर्मिष्ठाः । स एव यथार्थः धर्मात्मा यः विषत्सु अपि
.
षष्ठी कथा
२१
धर्मस्य त्यागं न करोति । घोरायाम् आपदि अपि सीता
पतिव्रतधर्मस्य त्यागं न अकार्षीत् । अतः एव सा
अद्यापि सर्वैः सज्जनः सादरं स्मयते
पतिविरहे सा अरोदीत् किन्तु मनसि कमपि हीनं
विचारम् न अकार्षीत् । पत्या पुनर्मिलनस्य आशया सा
प्राणान् धारितवती । प्राण धारणाय च भोजनम् अपि
अकार्षीत् ।
सती सीता ईश्वरभक्ता श्रासीत् । उभे वेले सा
श्रद्धया सन्ध्यावन्दनम् अकार्षीत् । सीतालोपेन भृशं
दुःखितः रामः तस्याः अन्वेषणाय सर्वत्र बने अभ्रमीत् ।
रावणेन सीता 'अपहृता इति ज्ञात्वा सः लङ्काम् अाक्रा-
न्तवान् । तत्र तुमुलम् युद्धम् अभूत । युद्धे रावण
सपरिवारः हतः श्रासीत् । विजयम् लब्ध्वा सीताम् आदाय
रामः चतुर्दश वर्षाणि व्यतीत्य अयोध्याम् पुष्पकविमानेन
आगतः । सर्वे पुरवासिनः तस्य भूरि भूरि अभिनन्दनम्
अकार्युः।
सीता अनुपमादेवीं। अन्यदेशीयानाम् इतिहासे
एतादृशी पतिभक्तानारी दुर्लभाः। यावन्तं काल सूर्यः
कथामञ्जरी
AAJ
तपति । चन्द्रः च प्रकाशते, वायुः च वाति, नद्यः वहन्ति,
तावन्तं काल सीतायाः नाम स्थास्नु । नारीणाम् आदर्श
भूता सीता कस्य नाम न स्यात् पूजनीया। तस्याः
अनुकरणम् एव यथार्था पूजा । धन्या भारतभूमिः, यत्र
सीता उत्पन्ना । धन्यौ तस्याः मातापितरौ । धन्यः च
रामः, यस्य सा पत्नी । धन्यं च इक्ष्वाकुकुलम्, येन ईदृशी
स्नुषा प्राता।
अद्य नारीणाम् न तादृशः समोदरः यादृशः पूर्वम्
भारते श्रासीत् । हा ! हन्त ! ते हिनो दिवसाः गताः ॥
A
.
सप्तमी कथा
अस्मिन् संसारे यदा वैदिकधर्मस्य प्रचुरः प्रचारः
आमीत्, तदा सर्वत्र शान्तिः प्रीतिः सुनीतिः अराजीत् ।
सर्वे जनाः धार्मिकाः धनाढ्याः सदाचारनिरताः आस्तिका
आसन् । न कोपि नरः अशिक्षितः आसीत् । स्त्रियः
पुरुषाः च सन्ध्यावन्दनपरायणाः अग्निहोत्रकारः च
आसन् । दुराचारं कोपि न अज्ञासीत् । सर्वत्र विविधान्
यज्ञान् जनाः अनुतिष्ठन्ति स्म, तेन समये यथेष्टा वृष्टिः
अभूत् । अतः अन्नस्य प्रचुरता श्रासीत् । न कोपि
मनुष्यः क्षुधात तदानीम् अभूत् । मनुष्याणाम् का कथा,
पशवः अपि हृष्टाः पुष्टाः च अभूवन् । एतस्याः समृद्धः
कारणात् सर्वे सुप्रसन्नाः परस्परं प्रीतिमन्तः श्रासन् यतः
सर्वे समृद्धाः श्रासन अतः न कोऽपि अन्यस्य समृद्धिम् दृष्ट्वा
ईर्ष्याम् अकार्षीत्, प्रत्युत हर्षम् अकार्षीत् । भारतं वर्ष तु तदा
सर्वेषां देशानां मुख्यम् आसीत् । अत्र बहवः ज्ञानिनः
ध्यानिनः ऋषयः मुनयः शिल्पिनः अभूवन, येभ्यः विद्या-
कथामञ्जरी ग्रहणाय अन्येभ्यः देशेभ्यः महान्तः विद्वांसः अत्र भाग- च्छन्ति स्म । अत्रत्याः गजानः अपि अति प्रभावशालिनः आसन् । अन्येषु देशेषु च तेषाम् शासनम् आसीत् । महान्तः तपस्विनः प्रचारकाः अस्माद् देशात् देशान्तराणि गत्वा सद्धर्मस्य सद्विद्यायाः च प्रचारम् अकाः। यतः तदानीम् खाद्यस्य पेयस्य च भूमा आसीत् अतः कोपि मनुष्यः कस्यापि प्राणिनः हिंसाम् न अकार्षित् । धनस्य विपुलता एव आर्याणां पतने कारणम् जाताः। ते विलासिनः प्रमादिनः च जोताः । प्रमादात् तेषु बहूनि व्यसनानि उत्पन्नानि । व्यसनेभ्यः केचन क्षीणाः अपि जाता। ते स्वीयां क्षीणतां निराकर्तुम् असमर्थाः सन्तः अन्येषु समृद्धषु ईर्ष्याम् अकार्षः । तेन परस्परम् वैरम् उत्पन्नम् एतादृशम् वैरम् एव महाभारत युद्धस्य कारणम् । तस्मिन् महायुद्धे जनस्य धनस्य च महान् क्षयः अभूत् ।राज्य- शासनम् अपि दुर्बलम् जातम् । सुप्रबन्धस्य अभावात् प्रचारकाः अपि धर्मस्य प्रचाराय न अगमन, तेन तत्र आचारस्य विचारस्य च शिथिलता जाता । यथा सूर्य अस्तंगते महान्तः क्षुद्राः च विविधाः प्रदीपाः प्रज्वान्यन्ते, सप्तमी कथा तथा वैदिकधर्मसूर्ये लुप्तप्राये जाते नाना मतमतान्तर- दीपाः समुद्भूताः । तेषु मतेषु कैश्चित् हिंसामयाः यज्ञाः प्रचालिताः । यद्यपि वेदे तु अयम् आदेशः अस्ति "पशुम् मा हिंसीः" तथापि एतैः एतं मन्त्रं पठित्वा यज्ञार्थ पशु- घातः आरब्धः । तेन सर्वत्र पशुहत्या प्रसृता । ताम् पशुहत्याम् निवारयितुम् महात्मना बुद्धेन कश्चन यत्नः कृतः। महात्मा बुद्धः नृपस्य शुद्धौदनस्य सुतः आसीत् । तस्य पूर्वम् नाम सिद्धार्थः इति । बाल्ये एव सः विरक्तः आसीत् । एकदा एकम् वृद्धम् दृष्ट्वा स्वसारथिम् अप्राक्षीत् । किम् इदम् ? अयम् किमर्थम् इत्थम् चलति । सारथिना उक्तम् - राजकुमार ! अयम् वृद्धो जातः, चलितु न शक्नोति । राजकुमारेण पुनः पृष्टम्-किम् अहम् अपि वृद्धो भविष्यामि ? सारथिः उक्तवान् -इयम् अवस्था सर्वेषाम् प्राणिनाम् स्वाभाविकी इति । एतत् श्रुत्वा राज- कुमारः अतीच दुःखितः अभूत् । राजमहिलम् च निवृत्य गतः, तत्र चिन्तामग्नः अभूत् । एकदा पुनः रुग्णम् एकम् मनुष्यम् अद्राक्षीत, तेन भृशं दुःखितः सः राजभवनम्
२६
कथामञ्जरी
प्रत्यागतः । पुनः चिन्ताम् अकार्षीत् । पुनः कदापि एक
मृतं मनुष्यम् श्मशानं प्रति नीयमानम् दृष्ट्वा सारथिम्
अप्राक्षी–किम् इदम् ? सः अवादीत्-- राजकुमार !
अयं मृतः पूर्वम् अयम् भयान्-इव अक्रीडीत् , अखादीत्,
अचालीत् । एतस्य प्राणाः शरीरम् त्यक्त्वा बहिर् निरसृताः,
अधुना अयम् न खादति, न पिबति, न वदति, न क्रीडति,
न चलति, न श्वासम् गृह्णाति. किमपि न करोति । अतः
एनम् श्मशानं नयन्ति, अग्नौ स्थापयित्वा अस्य
दाहम् करिष्यन्ति । एतत् श्रुत्वा व्याकुलो भूत्वा राजकुमारः
पुनः अप्राक्षीत् । विम् मम अपि एषा दशा भविष्यति ।
तेन उक्तम्-राजकुमार ! सर्वेषाम् अवश्यम् इयम् दशा
भवति, राजा बा भवेत्, रङ्कः वा। राजकुमारः सारथिम्
अवादीत्-रथम् निर्वतय, न अहम् अत्र संसारे भोग्यं
पश्यामि । तम् सिद्धार्थ सदा चिन्तालीनं दृष्ट्वा तस्य पिता
तस्य चिन्तानिवारणाय बहून् उपायान् अकार्षीत्, किन्तु
सफलः न अभूत् । अन्ततः तस्य विवाहम् सः रचितवान् ।
विवाहस्य फलम् एकः पुत्रः । यदा पुत्रजन्मसमाचारः
तेन श्रुतः, तदा पुनः तस्य प्रतिबोधः जातः । गृहम् त्यक्त्वा
सप्तमी कथा सः वनम् अवाजीत् । बहुभ्यः गुरुभ्यः स उपदेशं गृहीत- वान्, किन्तु तस्य हृदये शान्तिः न जाता । षड् वर्षाणि यावत् सः घोरम् तपः अकार्षीत् । गयानगरे वटवृक्षस्य मूले तपः कुर्वतः तस्य प्रतिभातम् --बुद्धः असि । तदा प्रभृति सः बुदनाम्नाः प्रसिद्धः अभूत् । स्थानात् स्थानं गत्वा सः सदाचारस्य प्रचारम् अकार्षीत् । यज्ञेषु पशुहिंसां दृष्ट्वा दयालुः सः अत्यन्तं खिन्नः नातः । प्राणिहिंसावारणाय तेन महान उद्योगः कृतः । स प्रवादीत, न अहम् नूतनं किमपि मतम् प्रचारयामि, पुरातने आर्यधर्मे ये दोषाः कुतश्चित् आगताः, तान निवारयामि । अशीतिवर्षाणि सः अजीवीत, निरन्तरं प्रचारम् अकार्षीत् । अष्टचर्षवयस्क स्वपुत्रम् अपि सः भिक्षुम् अकार्षीत् , तदा प्रभृति बाला- नाम् संन्यासदीक्षा प्रवृत्तो । हन्त ! विचित्रम् एतत् । यः पशुहिंसां वारयितुम् स्वप्राणानाम् चलिम् दातुम् उद्यतः आसीत् तस्य महाभागस्य अनुयायिनः प्रायः सर्वे मांस- भक्षकाः सन्ति । अतः केचन कथयन्ति स नांसभक्षणस्य विरोधी, किन्तु पशुहिंसाविरोधी । स महान् महात्मा इति अत्र न कोपि सन्देहः ।
अष्टमी कथा आसीत् पुरा काले अस्मिन् भूतले एकः राजा । यः रात्रौ अन्यम् वेषम् कृत्वा स्वे राज्ये भ्रमणम् अकार्षीत् । एकदा रात्रौ भ्रमणम् कुर्वन् सः एकस्य कुटीरय समीपम् अयासीत् । तत्र पति-पत्न्योः वार्ताम् अश्रौषीत् । पत्नी पतिम् अवादीत्, जनाः कथयन्ति श्रीमान् महान् विद्वान इति । परन्तु अहम् भवतः विद्यायाः किमपि चमत्कारं न पश्यामि । पतिः अवादी-प्रिये ! यदा अहम् नृपस्य प्रधानन्यायाध्यक्षः भविष्यामि, तदा त्वम् मम बुद्ध: विद्यायाः चमत्कारम् द्रक्ष्यसि इति । राजा एताम् वार्ताम् श्रुत्वा निभृतः तिनिवृत्तः । आगामिनि दिने स राजा तस्य ब्राह्मणस्य समीपं स्व- भृत्यम् प्रेषितवान् । दूतः अवादीत् । राजा त्वाम् आह्व- यति । सः भूपस्य समीपे गतः । राजा तम् दृष्ट्वा प्रवा- दीत्, अद्य प्रभृति भवान् अस्माकम् राज्यस्य प्रधानन्याया- ध्यक्षः इति । सः ब्रामणः राज्ञः शासनम् स्वीकृतवान् ।
अष्टमी कथा २३ एकदा स राजा रात्रौ भ्रमणं कुर्वन् केनापि राजकर्म- चारिणाः निरुद्धः । क्रुद्धः राजा तम् घातितवान् । आगा- मिनि दिने स राजा तम् न्यायाध्यक्षम् अवादीत्-यदि अस्य हत्याकत: अन्वेषणम् सप्ताहे न भवति, भवतः शिरश्छेदम् भविष्यति । षष्ठस्य दिनस्य समाप्तौ राजा पृष्टवान्, किम् हत्याकर्ता लब्धः । न्यायाध्यक्षः अवादीत, अधुना तु एक दिनम् अवशिष्टम् अस्ति । अन्तिमे दिने न्यायाध्यक्ष : भूपस्य समीपे एकम् पत्रम् प्रेषितवान्, तत्र लिखितवान्, भवान् एव हत्याकर्ता, अतः न अहम् अन्न कार्यम् करोमि । यदि राजा अपि प्रजाजनस्य घातका स्यात् कथं शान्तिः भवेत् इति । सर्वे जनाः न्यायाध्यक्षस्य बुद्धिचातुर्यस्य प्रशंसाम् अकाए । राजा अपि स्वीयम् दोषम् स्वीकृतवान्, तस्य च बहुमानम् अकार्षीत् । किन्तुः न्यायाध्यक्षः राजकार्यम् त्यक्त्वा स्वकुटीरे गत्वा छात्रान् पाठयति स्म ।
नवमी कथा महात्मनः बुद्धम्य उपदेशैः प्रतीयते यत् सः महात्मा स्वसमये प्रचलितानाम् दोषाणाम् प्रदर्शने निवारणे च यत्नवान् आसीत् । ईश्वरविषये प्रायः मौनम् एव सः अवालम्बिष्ट । एतेन तदीयैः पश्चाभाविभिः शिष्यैः ईश्वरा- नङ्गीकारे तस्य अभिप्रायः ज्ञातः। तस्मात् ईश्वरवादिभिः सह तेषाम् बहवः शास्त्रार्थाः जाताः, ईश्वरसत्ताखण्डने बहवः ग्रन्थाः तैः लिखिताः । ईश्वरविरोधे बौद्धानाम् आग्रहः एतावान् प्रवृद्धः, यत् ते महात्मनः बुद्धस्य उद्देश्यम् एव विस्मृतवन्तः। तस्य फलम् इदम् जातम् , यत् यस्मात् गर्तात् जनताम् उद्धतुम् स महात्मा यत्नम् आकार्षीत् ( अयतिष्ट ), तस्मिन् एव गर्ने बौद्धाः स्वयं निपतिताः । तेषु मांसभक्षणम्, मद्यपानम् , परस्त्रीगमनम् अन्ये च दोषाः बलवत्तया प्रविष्टाः। येषाम् दोषाणाम् निवारणे बुद्धमहात्मा अयतिष्ट ते तु जनतातः न गताः, अपितु केचन अन्ये समागताः बौद्धानाम् प्रभावतः अकृत- नवमी कथा विद्याः बालाः अपि संन्यासिनः अभवन् , स्त्रियः अपि प्रकामम् परिव्राजिकाः अभवन् , तेन देशे महती अव्य- वस्था उत्पन्ना, स्त्रीपुरुषाणाम् सहवासफलम् दुराचाररूपेण प्रस्फुटितम् । चौद्धानाम् विहारेषु (मठेषु) विपुला सम्पत्तिः संजाता, सम्पत्तिमदात् उन्मत्ताः सन्तः भिक्षवः स्वकर्तव्यं विस्मृतवन्तः। अतः तेषु जनतायाः श्रादग्भावः अपि विनष्टः । यावन्तम् कालम् धौद्धभिक्षवः लोकसेवाकार्यम् अकार्ष:, तावन्तं कालम् लोके तेषाम् प्रभावः स्थिरः अस्थात् । तेषु लोकसेवाविमुखेषु जातेषु विलासपङ्कनिमग्नेषु तेषाम् इयान् हासः अभूत् , यत् तेषाम् जन्मभूमौ कोपि तेषाम् नामग्रहणम् अपि न अकार्षीत् । तदानीम् वैदिक- कर्मकाण्डम्य ज्ञानकाण्डस्य उपासनाकाण्डस्य च सर्वथा उच्छेदः जातः । एतादृशे विनाशकरे समये भारतस्य दाक्षिणत्ये प्रदेशे केरलनामके स्थाने श्रीशङ्कराचार्य्यस्य जन्म अभूत् । बाल्ये वयसि सः व्याकरणादीनि शास्त्राणि उपनिषदादिकं च पठित्वा वैदिकधर्मस्य पुनरुत्थाने सयत्नः अभूत् । सः प्रचण्डतार्किकः अतीवमेधावी विद्वान् पासीत् । स्थाने स्थाने सः बौद्धपण्डितैः शास्त्रार्थम् कथामञ्जरी अकार्षीत् , सर्वत्र सः विजयी अभूत् । राजानः साधारणाः च जनाः बौद्धमतं परित्यज्य चैदिकधर्मं गृहीतवन्तः । श्रीशङ्कराचार्यः स्वमतप्रचारार्थं भारतवर्षस्य चतसृषु दिनु चतुरः मठान स्थापितवान् । हिमालये ज्योतिर्मठम् , उत्कलप्रदेशे भूगोवर्धनम्, पश्चिमे दिग्विभागे द्वारकामठम्, दाक्षिणात्ये प्रदेशे शृङ्गरीमठम् अकरोत् । तस्य शिष्यैः प्रशिष्यैः प्रचण्डवेगेन शाङ्करमतस्य प्रचारः कृतः । तेन बौद्धमतस्य जैनमतस्य च महती क्षतिः जाता। केचन बौद्धाः विदेशेषु गताः। इत्थम् सर्वत्र पुनः वैदिकधर्म- प्रचारः जातः । किन्तु वस्तुतः अयम् अपि न आसीत् विशुद्धः वैदिकधर्मः । बौद्धाः अवादिषुः-अचेतनं विहाय न अस्ति कापि चेतनसत्ता। श्रीशङ्कराचार्यः तेषाम् विपक्षे अवादीत् , न अस्ति किमपि जडं वस्तु, यद् अस्ति तत् सर्न चैतन्यम् , । तत् च ब्रह्म एव । ब्रह्माति- रिक्तम् न किमपि सत्यम् इति । वेदे तु त्रयः पदार्थाः नित्याः गदिताः। भयम् श्रीशङ्करसिद्धान्तात् महान् भेदः वैदिकसिद्धान्तस्य । -- दशमी कथा श्रीशङ्कराचार्यात् पश्चात् अस्मिन् देशे महान्तः मतस्थापकाः अन्ये अपि प्राचार्याः उत्पन्नाः । तेषु इमे अत्यन्तं प्रसिद्धाः-(१) श्रीरामानुजः (२) श्रीमध्वाचार्यः (३) श्रीनिम्बार्कः (४) श्रीवल्लमः इति । शङ्कराचार्य्यस्य एतेषां च थाचार्याणां मतानाम् अाधारभूताः ग्रन्थाः- (१) उपनिषदः (२) ब्रह्मसूत्रम् = वेदान्तदर्शनम् (३) श्रीमद्भगवद्गीता च । एतस्य ग्रन्थसम्हस्य पारिभाषिकम् नाम 'प्रस्थानत्रयी' इति । श्रीशङ्कराचार्य्यस्य सिद्धान्तः अद्वैतवादः अर्थात् ब्रह्मातिरिक्तम् किमपि वस्तु जगति न अस्ति, यत् किंचित् दृश्यते, इदम् सर्व मिथ्या एव । श्रीरामानुजाचार्यः स्वसिद्धान्तम् विशिष्टाद्वैतवादम अवादीत् । सः अवादीत्, ब्रह्म तु एकम् एव, किन्तु चिदचिद्भ्याम् तद्विशिष्टम् अर्थात् ब्रह्मातिरिक्ताः सन्ति अन्ये चेतना: अचेतनाः च । अयम् आचार्यः विष्णुम् परमं देवम् अमंस्त । मध्वाचार्यः द्वैतवादी । निम्बार्कः द्वैताद्वैतवादी । एतेषाम् प्राचार्याणाम् व्याख्याभिः एते ग्रन्थाः व्याकुलिताः । शङ्कराचार्य्यस्य अनुयायिनः कथमपि
३४
कथामञ्जरी
शैवाः जाताः, रामानुजादीनाम् आचार्याणाम् अनुगामिनः
वैष्णवाः उच्यन्ते । एतेषाम् उपास्यः देवः विष्णुः ।
एकदेवताभक्ताः सन्तः अपि वैष्णवाः परस्परम् भिन्नाः ।
एते सर्वे मतप्रवर्तकाः तदनुयायिभिः 'वैदिकधर्मपुनः
प्रतिष्ठापनाचार्याः' निगद्यन्ते । परन्तु मध्वाचार्यात
विना एतेषु केनापि प्राचार्येण वेदे न कोपि यत्नः कृतः।
मध्वाचार्यस्तु ऋग्वेदस्य कतिचित् सूक्तानि व्याख्यातवान् ।
एतस्मिन् अन्तरे भारत राज्यपरिवर्तनम् अभूत् ।
आर्याणाम् स्वच्छन्दं शासनम् लुप्तम् । पूर्वम् विविधानाम्
यवन-(मुस्लिम) वंशानाम् अत्र आधिपत्यम् जातम् ।
अाय्यः, महान्त प्रयत्नं कृत्वा, यदा यवनराज्यस्य
उच्छेदः कृतः, तदानीम देशस्य दुर्भाग्यात आर्याणाम्
पारस्परिकण अनैक्येन प्रांग्लानाम् प्रभुत्वम् जातम् । यवनः
स्वसमये आर्याः वैदिकधर्मात् बलात्कारेण पातिताः ।
श्रांग्लैः : स्वमतप्रचाराय विविधानि प्रलोभनानि दर्शयित्वा
इमे स्वधर्मात च्याविताः । यवनानाम् असिः यत् कत्तुं
न अशकत , तत् आंग्लानाम् मसिः अकार्षीत् । असंख्याताः
आर्याः स्वधर्मम् त्यक्त्वा स्त्रीष्टमते प्रविष्टाः । एताम्
अवस्थाम् अदलोक्य ख्रीष्टीयैः प्रचारकैः श्रार्यधर्मस्य
सर्वनाशस्य तिथिनिश्चयः कृतः ।
दशमी कथा ३५ तेषाम् दुर्भाग्यात् भारतम्य पश्चिमे देशे सौराष्ट्र कश्चित् अपूर्वमेधाशक्तिसंपन्नः यतिः उत्पन्नः। स्वगृहे पितृव्यस्य स्वसुः च मरणं दृष्ट्वा मरणयारणमहौषधस्य अन्वेष- णाय यौवनारम्भे एव गृहम् त्यक्तवान् सः । तस्य तीव्रम् वैराग्यभावं ज्ञात्वा मातापितरौ विवाहपाशे तं बद्धम् तत्परौ अभूताम् । यदा सर्वा विवाहसामग्री प्रस्तुता आसीत्, कमपि किमपि अविज्ञाप्य स पुनरनागमनाय गृहात् बहिर्जगाम । बहूनि दुष्कराणि तपांसि तेन तप्तानि, बहूनि वर्षाणि बहूनि तपांसि तप्त्वा सः कनखले पूर्णानन्द- सरस्वतीस्वामिनः सविधे आजगाम, तेन जरठेन महात्मना सः उक्तः, अहम् अधुना अतीव वृद्धः जातः । अस्ति मथुरानगरे मम योग्यः शिष्यः विरजानन्दसरस्वती स्वामी। तस्य समीपे त्वम याहि, सः तव कामान् पूरयिष्यति । तस्य महात्मनः वचनं मञ्जूरीकृन्य सः वर्षचतुष्टयानन्तरं मथुराम् अगात् । एतम्मिन् अन्तरे भारतीयप्रथमस्वात. त्र्यमहासंग्रामे सः सम्मिलितः अभूत् । विरजानन्देन स्वामिना दयानन्दस्वामिनः हृदयकपाटम् उद्घाटितम् यद् न्यूनत्वं तत्र आसीत्, तत् सकलं प्रपूरितम् । विद्यासमाप्तिसमये विरजानन्देन दक्षिणा याचिता- कथामञ्जरी वेदधर्मस्य लोपः जातः, अस्य पुनरुद्धारः कार्यः । दयानन्देन वेदस्य प्रचारे स्वप्राणाः त्यक्ताः। प्रा ः बलिनः कृताः । सर्वमतस्थाः तेन अनुगृहीताः। तस्य आलोचनाप्रकाशेन सर्वे स्वस्वदोषाणां दूरीकरणे प्रयत्न कुर्वन्ति, स्वमतानि परिष्कुर्वन्ति । अद्य आर्यजातिम् कोपि मरणासन्नाम् न वदति । इयम दयानन्दस्य दया । दयानन्दाय वेदाः अरोचिषत । वेदाः सर्वेषाम् मनुष्याणां कल्याणाय प्रवृत्ताः । 'मनुर्भव' = 'मनुष्य : भव' इति वेदस्य मननीयः उपदेशः । दयानन्देन संस्कृत- भाषायाः उद्धारः कृतः । भारते ऐक्यसम्पादनाय तेन एव महात्मना सर्वप्रथमम् विचारस्य ऐक्यम्, आचारस्य ऐक्यम, उच्चारस्य (भाषायाः). ऐक्यम्, लिपेः ऐक्यम् घोषितम् । स्वराज्यस्य अनिवार्यता अपि तेन सर्वप्रथम प्रकाशिता प्रचारिता च । सः ब्रह्मवादी सन्नपि लोकस्य परलोकस्य च उभयस्य उत्कर्षसाधने प्रेरितवान् । सः न केवलं परलोकसाधने प्रेरयति, लोकस्य उन्नतये अपि प्रेरयति । लोकं विना परलोकसाधनम् असंभवम् इति तस्य उपदेशः । परलोकसाधनं विना लोकोन्नतिः पतनकारिणी इनि सर्नजनप्रत्यक्षम् । सम्राट प्रेस पहाड़ी धीरज देहली।
No text on this page.