Prakrit Bharati Academy, Jaipur

Kumatahi Vish Janguli Mantra

Punay Vijay · 2010/02

PDF Proofread

Front matter

No text on this page.

प्राकृत
भारता
सस्थान
PHON
V
प्रस्थान
S
श्रीपरणेन्द्र-पद्मावतीसहिताय श्रीशखेश्वरपार्थनाथाय नमः ॥
त
पस्ता कमांक/974
कुमताहिविपजाङ्गुलीमंत्र:
ॐ
जयपुर
।
प्रकाशक:
प्रविणचंद्र अमृतलाल शाह
लींबडी [ सौराष्ट्र]
प्राप्तिस्थान
शा. जशवंतलाल गीरधरलाल
१२३८ रूपासुरचंदनी पोळ, अमदावाद.
मूल्य रु.
6.4-0-0

संवत् २००७ जेठ दि ११
सने १९५१ जुन
नीलकमल प्रीन्टरीमा जादवजीभाई मोहनलाल शाहे
छापी, सोवील होस्पोटल सामे, अमदावाद.

*र ॥ श्रीगुरुभ्यो नमः ॥ श्रीहीरविजयसूरये श्रीविजयसेनसूरये सम्प्रति विजयमानगच्छाधिराजभट्टारकपुरन्दरसौभाग्यभाग्यवैराग्यादिगुणातिगायि-- युगप्रधानसमानश्रीविजयवेवसूरये नमः ॥ - ॥ कुमताहिविषयुक्तिजाङ्गुलीमन्त्रः॥ o-ox० पूर्व श्रीविजयदानसूरीणां वचनोत्थापकं तैश्च सम्यग्दत्तशिक्षं साम्प्रतं चैतेषां सूरीणां वचनोत्थापकं केवलिशरीरात् सूक्ष्मबादर- त्रसादिजीवन्यपरोपणं न भवतीति वादिनं प्रति बहून् जिनागमाननुसृत्य किंचिद् ब्रूमहे- ननु भोस्त्वं वदसि केवलिशरीरात् सर्वथा सूक्ष्मादिजीववधो न भवत्येव तर्हि केवलिना साधूनां छद्मस्थसाधूनां च पञ्चमहावतविचारे भेदो दर्शनीयस्तत्र तु भेदो न दृश्यते यतः- पढमे भंते ! महन्वए सव्वाओ पाणाइवायाओ वेरमण, सव्वं भंते ! पाणाइवायं पचक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाइजा, नेवन्नहिं पाणे अइवायाविजा, पाणे अइवायंते वि अन्ने न । . कुमताहि- ॥१॥ विपयुक्ति- जाङ्गली- मन्त्रः॥ Annonto समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजा- गामि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामीत्यालापकपाठस्य श्रीदशकालिकाचारांगसूत्रादौ सर्वत्र समानत्वात् । तथा चतु:शरणप्रकीर्णके- सव्वजियाणमहिंसं, अरहंता सच्चवयणमग्हंता । बभन्वयमरहंता, अरहंता इंतु मे सरणं ॥१॥ इति सूत्रं साक्षीकृत्य केवलिशरीराज्जीववधसंभवं निषेधयसि तदपि युक्तिक्षम न । तत्रैव स्वमतकदाग्रहभूतप्रस्तः किं न पश्यसि ? यतः- हिंसाइदोससुन्ना, कयकारुण्णा सयंभुरुप्पना । अजरामरपहखुण्णा, साहू सरणं सुकयपुण्णा ॥१॥ यथा पूर्वसूत्रेण केवलिशरीराज्जीववधसंभवं निषेधयसि तथैवानेन सूत्रेण छाम्धसाधोः गरीराजीववधसंभवं कथं न निषेधयसि ! तेन जानीमस्तव स्वमतहठ एव मतिरस्ति, न तु तत्त्ववुभुत्सायामिति ॥ तथोपासकदशांगे कुंडकोलिकथावकाधिकारे महामाहन इति सूत्रं दर्शयन् मा मुग्धान् जनान् भावानभिज्ञान् वचयं महामाहन इति कोऽर्थः । आत्मना हनननिवृत्तत्वात् महान् माहनो महामाहनः, एतस्य पदस्य छद्मस्थसाधोरपि विशेषणतया योजने दोषो ज्ञातो नास्ति, जिनवदुक्तविशेषणविशिष्टः छद्मस्थः साधुरप्यस्ति तेनान्वर्थसमानत्वादिति । यथा च वं माहनगन्देन साधु वदसि ॥१॥ RE 1565 HUASSESEGISTERS " तथा च माइनशब्देन साधु वदसि " तथा च माहनगब्देन श्रावकोऽप्युच्यते । यतः-श्रीभगवतीप्रथमशतके सप्तमोद्देशकवृत्तौ 'श्रीअभयदेवसूरयः प्रोचुः- जीवे णं भंते ! गभगए समाणे देवलोएसु उववज्जेजा, गोयमा! अत्थेगइए उववज्जेज्जा, अत्यंगतिए नो उववज्जेजा, से केणटेणं ?, गोयमा! से ण सन्नी पंचिदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए तहारूवस्स समणस्स वा माहणस्स या अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचत्ति । अस्य वृतियथा-तहारुवस्स तथाविधस्य, उचितस्येत्यर्थः, श्रमणस्य-साधोः, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमानव- चनयोस्तुल्यत्वप्रकाशनार्थः, माणस्सत्ति मा हनेत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद्यः स माहनः, अथवा ब्राह्मणो-ब्रह्मचर्यस्य देशतः सदावाद् बामणो-देशविरतस्तस्य वा, अंतिपत्ति, समीपे एकमप्यास्तामनेकम् , आर्य पापकर्मभ्य इत्यार्यम् , अत एवं धार्मिकमिति, सुवचनं श्रुत्वेति । अत्र माहनशब्देन श्रावक एवं व्याख्यातः । तथा च त्वं, कथयिष्यसि छमस्थः साधुः सूक्ष्मादिभेदभिन्नजीवहनना- मिवृत्तो नास्ति एतदपि तव वाचाटत्वं न युक्तं, पञ्चमहाव्रतोचारे सर्वेषां पाठस्य तुल्यत्वात् तथा चेति वदन् छमस्थसाधोर्जीवदयायां विंशतिविशोपकान् कथं वदसि । तव मते केवलिन एव जीवदयायां विंशतिविशोपका न तु छमस्थसाधोः। तथा च वं वदिप्यसि छमस्थः साधुः सूक्ष्मादिमिनजीवहननानिवृत्तोऽस्ति परं परिहर्तुं न शक्नोति, आराद् यात

कुमताहि-
॥२॥
विषयुक्ति-
जाङ्गली-
मन्त्रः॥
56RRENA
केवली तु परिहर्तुं शक्नोति, एतदपि न युक्तितुलामारोहति । इस्तपादाापकरणसाम्यात् उत्पन्नफेवलत्वात्केवलिनो ज्ञानेनाधिक्यं
परं हस्तपादायुपकरणे समानत्वं तेन केवल्यपि परिहतुं शक्नोत्येवेति न तेन महामाहन इति विशेषणं छद्मस्थसाधोरपि
युक्तम् । यदि श्रावको माहनतया व्याख्यातस्तदा साधुमहामाहनतया कथं नोच्यते तेन महामाहन इति जिनविशेषणमु-
पदिश्य मुग्धान् अभिवातवन्मा भ्रमे पातय स्वयं मा भ्रम चानन्तसंसार इति ॥
अन्यच्च-रायगिहे जाव एवं बयासि अणगारस्स णं भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्स
अहे कुवकूडपोतए वा वट्टापोतए वा फुलिंगच्छाऐ वा परियावज्जेज्जा तस्स णं भंते । किं ईरियावहिया किरिया किज्जड़
संपराइया किरिया कज्जइ १, गोयमा ! ईरियावहिया किज्जइ से केणद्वेणं भंते ! एवं बुचह-जहा सत्तमसए संवुडद्देसए जाव
अट्ठो निक्खित्तो सेवं भंते सेवं भंते जाव विहरति ।
अस्य वृत्तिर्यथा-पुरोत्ति अग्रतः, दुहओत्ति द्विधान्तरान्तरा पार्श्वतः पृष्टतश्चेत्यर्थः । जुगमायापत्ति यूपमात्रया दृष्टया, पेहापत्ति
प्रेक्ष्य २ रीयंति गतं-गमनं, रीयमाणस्स कुर्वत इत्यर्थः । कुक्कूडपोयपत्ति कुर्कुटडिंभः, वट्टापोयत्ति इह वर्तकः पशिविशेषः, फुलिंगच्छा-
पत्ति पिपीलिकासदृशः, परियावज्जेज्जत्ति पर्यापद्येत-म्रियेत, एवं जहा सत्तमसए इत्यादि ॥ इति अष्टादशमगतकस्याप्टमोद्देशके ।
अत्र यदुक्तं-
जहा सत्तमसए संवुडद्देसए तदपि तव कुमतनिरासाय सूत्रं लिख्यते-संवुडस्स णं भंते ! अणगाररस आउत्तं गच्छ-
-
॥ २॥

है माणस्स जाव आउत्तं तुयमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स पं भंते ! किं ईरियावहिया किरिया कजइ ? संपराइया किरिया काइ ?, गोयमा! संवुडस्स णं अणगारस्स जाव तस्स णं ईरियावहिया किरिया कज्जइ, णो संपराइया किरिया कज्जइत्ति । से केणद्वेणं भंते ! एवं वुच्चइ-संवुडस्स णं जाव संपराइया किरिया कज्जइ १, गोयमा ! जस्स णं कोहमाणमायालोभा वोच्छिण्णा भवंति तस्स णं ईरियावहिया किरिया कज्जह, तहेव जाव उस्सुतं रीयमाणस्स संपराइया किरिया कज्जइ, से णं अहासुत्तमेव रीयइ, से सेणद्वेणं गोयमा! जाव नो संपराईया किरिया कज्जइ ॥ इति ससमशतके सप्तमोदेशक सूत्रं ॥२८८ ॥ न च वाच्यं अणगारस्स णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्सेति विशेषणं केवलिनो न घटते किंतु एकादशम-द्वादशम-गुणस्थानवर्तिनश्छद्मस्थसाधोर्विशेषणमिति । यतः सत्यपि केवलज्ञाने केवलिन ई-प्रवृत्तसोपयोगछमस्थसाधोरिव विशेषतो गमनं भवति तस्य यथा तथा गमने लोकापभाजनापतेः अहो जैनः केवली यातीत्युप- हासकरणं भवति च तथा च जनानां बोधिनाशकारणं भवति तस्य केवलज्ञानमजानंश्च कश्चित् साधुनिन्दापरों भवतीति बहवो दोषाः । तथा च संवुढस्स णे भंते ! अणगारस्सेति सामान्यसूत्रकथनेन जस्स णं कोहमाणमायालोभा वोच्छिन्ना इति कथनेन चैकादशम- द्वादशम-त्रयोदशमगुणस्थानवर्तिनः साधवो गृहीताः। यदि एतत्सूत्रकर्तुः श्रीसुधर्मगणभृतोऽयमभिप्रायो न स्थात्तदा छउमस्थस्स णं भंते ! अणगारस्स भावियप्पणो इति केवलिव्यावर्तकं विशेषणं कुर्यात् , इति च विशेषणं न कृतं, तदावसीयते ११-१२-१३ गुणस्थान- वर्तिनः साधवो गृहीता इति भगवतीसूत्रं तवत्तिं च विलोक्य सम्यग् ज्ञानशा विचारय, मुंच च स्वमतहठम् । प्रतिपयस्व च संप्रति द कुमताहि- ॥३॥ विषयुक्ति- जाङ्गली- मन्त्र॥ विजयमानयुगप्रधानसमाननैकराजसभालब्धबहुमानश्रीविजयदेवसूरीश्वराणामाज्ञां शिरःशेषामिवेति ॥ अन्यच्च-केवली णं भंते ! अर्सिस समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभू णं भंते ! केवली सेयकालं सिवि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहिसा णं चिट्ठित्तए ?, गोयमा ! णो तिणद्वे समढे, से केणद्वेणं भंते ! जाव केवली णं अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्थं वा जाव चिद्वित्तए ?, गोयमा! केवलिस्स णं पीरियसजोगसहव्वयाए चलाई उवकरणाई भवति, चलोवगरणयाए य णं केवली अस्सि समयंसि जेसु आगास- पदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसि बि तेसु चेव जाव चिट्ठित्तए, से तेणटेणं जाव वुच्चइ- केवली णं अस्सि समयंसि जाव चिट्टित्तए । सूत्र १९८, भगवतीसूत्रपश्चमशतके चतुथोंदेशके । अर्थतस्य वृत्तिर्यथा-अस्सि समयंसित्ति, अस्मिन् वर्तमान समये, ओगाहिसाणंति अवगाहाक्रम्य, सेयकालसिवित्ति एण्यत्कालेऽपि वीरियसजोगसइन्वयाएसि वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तप्रधानं सयोग-मानसादिव्यापारयुक्तं यत् सद्-विद्य- मानं द्रव्यं जीवद्रव्यं तत्तथा; वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्व्यं विशेषितं, सदिति विशेषणं च तस्य सदा सत्तावधारणार्थ, अथवा स्व-आत्मा तद्रपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स १ -- चासौ सद्व्यश्च मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्व्यस्तस्य भावस्तत्ता तया हेतुभूतया, बलाइंति अस्थिराणि, उवगरणाईति अंगानि, चलोवगरणट्टयाएति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः ।। अत्र केवलिनः सत्यपि केवलज्ञाने चलोपकरणत्वं दशितं चलोपकरणत्वादेव कदाचित् सूक्ष्मादिजीववधसंभवों दुर्निवार्य इति । अत्र च निरंशः कालः समय इति लक्षणः समयो न गृह्यते यतः सा क्रिया नास्ति यस्यां क्रियमाणायां असंख्याताः समया न भवन्ति । नात्र समयशब्देनावसरो वेला इति व्याख्येयं यथा कश्चित् शिष्यो गुरुं विज्ञपयति समयो भवति तदाहं पठितु- मागच्छामीत्यादि सर्वजनप्रतीतं अस्मिन्नेव सूत्रे सेयकालंसित्ति कथनेनायमेवार्थः सूचितः । अत्रापि सम्यग् विचारय स्वमतेप्रस्तो भूत्वा अन्यथार्थ मा कुरु । यतः- पयमक्खरं पि इक्कं जो न रोएइ सुत्तनिदिडं । सेसं रोयंतो वि हु मिच्छट्टिी जमालि व ॥१॥ इति वचोजानानस्त्वं हठप्रस्तः किं भवसीति ॥ अवश्यंभावी भावः सर्वत्रापि केवलिनोऽपि दुस्त्याज्यो दृश्यते ' । यदाहुः-श्रीअभयदेवसूरयो भगवत्यां नवमशतके जमाल्यधिकारवृत्तौ। अथ श्रीमहावीरेण सर्वज्ञत्वादमुं व्यतिकरं जानतापि किमिति प्रबाजितोऽसाविति उच्यते-अवश्य भाविभावानां महानुभाव- रपि प्रायो लंधितुमशक्यत्वादिति ॥ अन्यच्च- कुमताहि- ॥४॥ विषयुक्ति- जागली- मन्त्रः॥ तथाष्टमहाप्रातिहार्यशालिनि चतुस्त्रिंशदतिशयश्रीविराजमाने श्रीधीरे सति कुशिष्येण सुनक्षत्रसर्वानुभूती साधू तेजोलेश्यया भस्मसात्कृतौ । एवं द्वारकादाहादयोऽपि भावाः सुरेन्द्रैर्जिनेन्द्रैरपि दुरपासनीयास्तत्रावश्यंभावी जीववधो दुरपासनीयः, स च जीववध ईर्यापथिकीक्रियाया एव कारणं न तु आरंभिकीक्रियायाः, यत ऊचुः श्रीभगवत्यां प्रथमशतके प्रथमोद्देशकवृत्तौ श्रीअभयदेवसूरयः- यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारंभकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानां तु कथंचिदात्माघारंभकत्वेऽप्यनारंभकत्वं," यदाहर • जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स सा होइ निज्जरफला अज्झत्यविसोहिजुत्तस्स ॥१॥ ति । न च वाच्यं चलोपकरणतयावश्यंभावि सूक्ष्मादिजीववधवत् मृषावादित्वादसभोगित्वाधप्यस्त्विति तत्र चलोपकरणत्वं कारणं नास्ति यथा चलोपकरणतया अणगारस्स णं भावियप्पणी- पुरओ दुहओ जुगमायाए पेहाए रीयरीयमाणस्स अहे कुक्कुडपोत एवेति सूत्रं श्रीभगवतीसूत्रे दर्शितं तथा चलोपकरणतया चलोपकरणतया मृषावादित्वादत्तभोगित्वादिविषयकं मूत्रं दर्शितमभविष्यत्तच्च न दृश्यते तेन चलोपकरणत्वं तत्र कारणं न भवतीति तेन मुंच प्रतिकूलतया जल्पाकत्वं अंगीकुरु स्वगच्छाधिराजश्री- विजयदेवसूरीणां वच इति । यतः- जह आणवेइ राया पगईओ तं सिरेण इच्छंति इय गुरुजणमुहमणिय कयंजलिउडेहिं सोयब्बंति सूत्र प्रतिदिन RSSI - ॥४॥ SHREG पठन्नपि स्वगच्छाधिराजानां वच कथं लुपसीति । अन्यच्च असāद्याथवाधिकारे श्रीप्रवचनसारोद्धारवृत्ती ६६ चरणद्वारे- 'आश्रवाणा निरोधो यः, संवरः स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभिद्यते ॥१॥ अयोगिकेवलिष्वेव, सर्वतः संचरो मतः । देशतः पुनरेकद्वि-----प्रभृत्याश्रवरोधिषु ॥२॥" अत्र 'अयोगिकेवलिष्वेव सर्वतः संबरो मतः' इति कथनेन सयोगिषु केवलिषु सर्वतः संवरो नागत एवेत्यक्षराणि त्वया दृष्टाम्येव न तन्मन्ये त्वं स्वमतहठी वर्तसे तेन स्वमतानुकूलाभासान्यक्षराणि पश्यसि परं तत्त्वमार्गानुसारीण्यक्षराणि पश्यस्येव न । यथा लोभाभिभूतो वगिक स्ववहिकापत्रेषु लभ्याक्षरागि पश्यति पर देयाक्षराणि पश्यत्येव नेति दृष्टान्तं त्वं करोपीति ॥ अन्यच्च-द्रव्यभावाभ्यां हिंसा चतुर्भङ्गीविचारे प्रतिक्रमणसूत्रवृत्तौ तत्र द्रव्यतो भावतश्च हिंसा हन्मीति परिणतस्य मृगादिवभे १, द्रव्यतो न तु भावतो हिंसा ईर्यासमितस्य साधोः सत्त्ववधे २, भावतो न तु द्रव्यतो हिंसांगारमर्दकस्य कीटबुद्धयाङ्गारमर्दने ३, न द्रव्यतो न च भावतो हिंसा मनोवाक्कायैः शुद्धस्य साधोः ४ ॥ अत्र मनोवाक्कायैः शुद्धः साधुर्मेषोन्मेषौ कुर्वाणस्तथान्यसूक्ष्मांगसंचाले बादरवायुकामादिविराधनां कुर्वाणश्च चतुर्थभंगे निर्दिष्टस्तेना- वधेहि यथा केवली नित्यं चतुर्थभंगे वर्तते । तथा मनोवाक्कायैः शुद्धः साधुरशक्यपरिहारजां हिंसां कुर्वन्नपि चतुर्थे भंगे एवापतति अशक्यपरिहारजा हिंसा १ तीर्थकदाज्ञातक्रिया जाता च हिंसा २ हिंसा दोषाय न भवतीति ज्ञायते यथा व्यारव्यानक्षणे हस्तकान् 515 कुमताहि- ॥५॥ RECTRESS विषयुक्ति- जाङ्गली- मत्रः॥ - कुर्वाणो गीतार्थ ईर्यापथिकीभाग् न भवति १ । यथा च प्रतिक्रमणं कुर्वाणः साधुरुद्घाटमुखेन वन्दनकयुगलं ददानो 'अहो कार्य काय'मित्यालापकं बाढस्वरेण पठन्नपीर्यापथिकीभाग न भवति चतुर्थे भंग नाकामति च । तथा केवल्यपि कदाचिदशक्यपरिहारजां हिंसां कुर्वाणश्चतुर्थ भंगं नाकामति यदि अशक्यपरिहारजा हिंसा १ तीर्थकदाज्ञातक्रियाजा च हिसा २ हिंसात्वेन परिणमति तदाहर्निशं जानतोऽपि साधोस्तयोजीयमानत्वात्पंचमहावतोच्चार एव कथं स्यात्तेन ते उभे हिसे हिंसात्वेन न गण्ये अविधिन. प्रवर्तमानस्य ते अपि हिंसे हिंसात्वेन भवत एव । तत्र ' जा जयमाणस्स भवे' इति गाथयोक्त एवेति । यदुक्तं--- शरीरी वियतां मा वा, ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि, प्रमादरहितस्य न ॥१॥ प्राणी प्रमादतः कुर्याद्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्राझै-/जं संसारभूरुहः॥२॥ 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसे'ति तत्त्वार्थसूत्रम् ॥ अन्यच्चातिक्रान्ताष्टवर्षीयः कश्चित्साधुः केवलज्ञानं प्राप्याप्टवर्षन्यूनां पूर्वकोटि विहरति स किं नदीरुत्तरति न वा ? । तत्र कस्मिंश्चि- सूत्रे निषेधः प्रतिपादितो नास्ति तेन नदीरुत्तरतीत्यागतं, स किं मार्गेणाथवोन्मार्गेण ! उन्मार्गेण, उन्मार्गेगोत्तरणं न घटते किंतु मार्गेणैव । मार्गेणोत्तरतः सतः सर्वत्राचित्ताप्कायप्रदेशो भवत्येवेति नियमो नास्ति । क्वचिदचित्ताप्कायप्रदेशो भवति, बाहुल्येन तु सचित्ताप्कायप्रदेश एव भवति, तेन केवलिनो नद्युत्तरणविषयेऽपि त्वं किमुत्तरं दास्यसीति वद । तथैकस्मिन् मार्गे केवलिनां शतानि सहस्राणि वा समु- ॥ ५॥ - - दायेन विहरन्ति तदा सर्वत्राचित्ताकागप्रदेशाः प्राप्यन्त एवेति निश्चयः क्व प्रोक्तोऽस्तीति वद ॥ अन्यच्च-सत्तहिं ठाणेहि छउमत्थं जाणेज्जा, तं०-पाणे अइवाहत्ता भवति १, मुसं वइत्ता भवति २, अदिन्नं आदित्ता भवति ३, सदफरिसरसरूवगंधे आसादइत्ता भवइ ४, पूयासक्कारमणुव्हेत्ता भवति ५, इमं सावज्जति पण्णवेत्ता पडिसेवेत्ता भवति ६, नो जहावाई तहाकारि यावि भवइ ७ । तथा सत्तहिं ठाणेहिं केवली जाणेज्जा, तं-नो पाणे अइवाइत्ता भवइ १, नो मुसं वइत्ता भवइ २, नो अदिन्नं आदइत्ता भवइ ३, नो सद्दफरिसरसरूवगंधे आसादइत्ता भवइ ४, नो पूयासक्कारमणु- व्हेत्ता भवइ ५, नो इमं सावज्जति पण्णवेत्ता पडिसेवित्ता भवइ ६, जहावाई तहाकारि यावि भवइ ७ ॥ इति श्रीस्थानांगसूत्रालापकौ दर्शयन् मा मुग्धान् स्वमताभिनिवेश कारय, अनन्तसंसारचक्रभवभ्रमणतो भयं विचारय च । अरे मूढ ! अरे सिद्धान्तभावानभिज्ञ ! इदं सामान्यसूत्रं वर्तते न विशेपसूत्रम् । यदि सर्वोऽपि छद्मस्थः प्राणातिपातयिता भवति तदा प्रथमवतोचारोच्छेद एव जातस्तव मते यदि छद्मस्थः सात्विाऽपि प्राणातिपातं कुर्यात्तदा प्रतिदिन प्रातरुत्थाय प्रथमवतोच्चारस्य क्रियमाणस्य वैफल्यमेव । तथा च मनोवाक्कायैः शुद्धः साधुश्चतुर्थमंगे निर्दिष्टस्तदपि कथं संजाधटीति । एवं च सति छद्मस्थसाधुपंचमहावतोच्चारे च कुत्राति भेदो भवत्येव । यदि कश्चन भेदोऽभविष्यत्तदा छद्मस्थः व्रतोच्चारे पाणाइवायाओ वेरमणमित्यफरिष्यत् , केवली व्रतोच्चारे सव्वाओ पाणाइवायाओ वेरमणमित्यकरिष्यदिति कुत्रापि आगमे न कृतं तेनेदं सामान्यसूत्रं न विशेपसूत्रमिति अशक्यपरिहारजा हिंसा १, तीर्थकदाज्ञातक्रियाभ्यो जाता च हिंसा २, हिसादोपो न भवति, तेन नो इमं सावज्जे पण्णवेत्ता पडिसेविता भवइ । जहा RESS SC कुमताहि- ॥६॥ विषयुक्ति- जाङ्गुली- मन्त्रः॥ वाई तहा कारिया भवइ इति द्वे सूत्रे न व्याहते, यदि च तीर्थकदाज्ञातक्रियाः कुर्वाणस्य हिंसादोपो भवति तदा तीर्थकृदेवंविधे कार्ये छमस्थं साधुं प्रवर्तयेदपि कथं प्रवर्तितश्च दृश्यते यथा- जत्थ णं नई निचोयगा निच्चसंदणा नो से कप्पेइ सव्वओ समंता सक्कोसं जोअणं भिक्खायरियाए गंतुं पडिनियत्तए ॥ ११॥ एरावई कुणालाए जत्थ चक्किया सिया एगं पायं जले किचा एगं पायं थले किच्चा एवं चक्किया सिया एवण्हं कप्पइ सवओ समंता सक्कोसं जोअणं गंतुं पडि नियत्तए एवं नो चक्किया सिया एवं से नो कप्पइति । तथा छद्मस्थः साधुः केवलिनं विहारविषये परिपृच्छनि तदा याहीत्येवमादेशं दद्यान्न वा याहीत्येवमादेशं ददानो दृश्यते तदावश्यं भाविनं सूक्ष्मादिजीवव्यपरोपं ज्ञात्वापि कथमादिष्टश्छद्मस्थः साधुर्विहारविषये तथा केनचिदविरतेन देशविरतेन वा गमनविषये केवली पृष्टम्सन् मौनमालम्व्य तिष्टति वा न वा । तत्र मौनमेवावलम्ब्य तिष्टतीनि दृश्यते । तत्र कारणं त्वविरतत्त्वमेव साधुविहारादेशविषये कारणं सर्वविरतित्वमेव तेनावसीयते अशक्यपरिहारजा हिंसा तीर्थकृदाज्ञातक्रियाः कुर्वाणस्य साधोहिंसा हिंसादोषाय नेति । यदि सापि हिंसा दोषाय स्यात्तदा स्वायुपोऽन्त्यसमये यथाख्यातचारित्रवान् श्रीवीरः श्रीगौतमं प्रति देवशर्मणः प्रति- बोधायान्यस्मिन् ग्रामे गमनाय याहीत्यादेशं कथं दत्तवान् ? इत्यादयः शतश: श्रीजिनागमसंवादिन्यो युक्तयस्तव 'प्रतिबोधाय सन्ति, परमभिनिवेशमिथ्यात्वान्धकारगहनममस्य ता युक्तयो भास्वद्भास्करकान्तय इव लोचनविकलस्य किं दुर्धन्तीति ॥ अन्यच्च तव हितायैवाहं प्रवृत्तस्सन् आगमवाक्यं प्रतिभूकृत्य वन्गमि । तदपि श्रुणु , .

SASA पंचहिं ठाणेहिं छउमत्थे णं उदिण्णे परीसहोवसग्गे सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा, तं जहा-उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा निच्छोटेति वा णिभंछेति वा बंधति वा रुंभति वा छविच्छेतं करेति वा पमारं वा णेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पाय- पुंछणं अछिंदति वा विच्छिदति वा भिंदति वा अवहरति वा १, जक्खाति? खलु अयं पुरिसे, तेणं मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिज्जे कम्मे उदिण्णे भवति, तेणं मे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३, ममं च णं सम्म असहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासमाणस्स किं मन्ने कजइ ?, एगंतसो मे पावे कम्मे कजति ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जति ?, एगंतसो मे निज्जरा कज्जइ ५, इच्चेतेहिं पंचहि ठाणेहिं छउमत्थे उइण्णे परीसहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा। पंचहिं ठाणेहि केवली उदिने परिसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा, तं जहा-खेत्तचित्ते खलु अयं पुरिसे तेण ममं एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा १, दित्तचिचे खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव अवहरति वा २, जक्खातिढे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा ३, ममं च णं तन्मववेयणिज्जे कम्मे उदिण्णे भवति तेण मे एस पुरिसे जाव अवहरति वा ४, ममं च सम्म सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासित्ता बहवे अण्णे छउमत्था समणा निग्गंथा उइण्णे २ परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५, इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिण्णे परीसहोवसग्गे S कुमताहि- ॥७॥ विषयुक्ति- जाङ्गुली- मन्त्र सम्म सहेज्जा जाय अहियासेज्जा इति श्रीस्थानांगसूने पंचमाध्ययने (सूत्र ४०९)॥ अत्र केवलिन उन्मत्तादिपुरिषणेतस्तत आकर्षणादि क्रियमाणे यथा तथा पदन्यासे जीवविराधनासंभवों युक्तिमान्न वेति स्वचेतसि स्वत एव बिचारय । तथा केवली साधुर्भूताधाविष्टहस्ते आयातीति विषये अवश्य भावि भावा जिनैरपि परिहर्तुमशक्या इत्युत्तरमन्तरेण किमुत्तरं दास्यतीति वद । अत्रार्थे अन्यदुत्तरं नास्तीति अत एव त्वमेव प्रथमरात्रौ मार्गभ्रष्टोऽसि नाहमिति ॥ अन्यच्च--अस्थि णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ?, हंता ! अन्थि । कहं णं भंते ! समणाणं निग्गंथाणं किरिया काइ १, मंडियपुत्ता! पमादपच्चया १, जोगनिमित्तं २, एवं खलु समणाणं निग्गंथाणं किरिया कज्जइ । भगवतीसूत्रे तृतीयशतके तृतीयोद्देशे सूत्रं १५१) अत्थिणमित्यादि, अस्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुःप्रयुक्तकायक्रियाजन्यं कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म ॥ 15 MEERRORSCIENCE जीवे ण भंते ! सता समियं एयति वेयति चलति फंदति घट्टति खुम्भति उदीरति तं तं भावं परिणमति ?, हंता ! मंडियपुत्ता! जीवे णं सता समियं एयति जाव तं तं भावं परिणमति । जावं च णं भंते ! से जीवे सता समितं ॥७॥ RANG SSURES जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ?, णो इणढे समढे, से केणटेणं भंते ! एवं वुञ्चति-जावं च णं से जीवे सता समितं जाव अंते अंतकिरिया ण भवति ?, मंडियपुत्ता! जावं च णं से जीवे सता समितं जाव परिणमति तावं च णं से जीवे आरंभति संरंभति समारंभति आरंभे वट्टति संरंभे वकृति समारंभे वकृति आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे संरंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूताणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाऐ तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टति, से तेणद्वेणं मंडियपुत्ता! एवं चुच्चति-जावं च णं से जीवे सता समितं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवइ ।। जीवे णं भंते ! सया समियं णो एयइ जाव णो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता ! जीवे णं सया समियं जाव नो परिणमति । जाव च णं भंते ! से जीवे नो एयति जाव नो तं ते भावं परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ?, हंता ! जाव भवति । से केणद्वेणं भंते ! जाब भवति ?, मंडियपुत्ता ! जावं च णं से जीवे सता समितं णो एयति जाव -णो परिणमति तावं च णं से जीवे णो आरंभति णो संरंभति णो समारंभइ नो आरंभे वट्टति णो संरंभे वकृति णो समारंभे वट्टति अणारंभमाणे असंरंभमाणे असमारंभमाणे आरंभे अवट्टमाणे सरंभे अवमाणे समारंभे अवठ्ठमाणे बहूर्ण पाणाणं भूयाण जीवाणं सत्ताणं अदुक्खावणयाए जाव अपरियावणयाए वट्टति। से जहानामए केइ पुरिसे सुक्क तणहत्थयं जायतेयंसि पक्खिवेज्जा, से णूणं मंडियपुत्ता! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जइ :, हंता! मसमसाविज्जइ, से जहा णामए केइ पुरिसे तचंसि अयकवल्लंसि उदयबिंदू पक्खिवेज्जा, च

--
--
है
कुमताहि-
॥८॥
विपयुक्ति-
जाङ्गुली-
मन्त्रः॥
से पूर्ण मंडियपुत्ता! से उदबिंदू तसि अयकवल्लंसि पक्खित्ते समाणे खिप्पामेव विद्धंसमागच्छति ?, हता! विद्ध-
समागच्छति, से जहाणामए हरए सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडत्ताए चिट्ठति १, हता
चिट्ठति, अहे णं केइ पुरिसे तंसि हरयंसि एगं महं णावं सतासवं सतच्छिदं ओगाहेज्जा, से णूणं मंडियपुत्ता!
सा णावा तेर्हि आसवदारेहिं आपूरेमाणी २ पुण्णा पुण्णप्पमाणा बोलमाणा वोसट्टमाणा समभरघडताए चिट्ठति ?, हंता!
चिट्ठति, अहे गं केइ पुरिसे तीसे नावाए सव्वओ समंता आसवदाराई पिहेति पिहित्ता नावाउसिंचणए उदयं
उसिंचिज्जा, से गूणं मंडियपुत्ता ! सा नावा तंसि उदयंसि उस्सिचिज्जसि समाणसि खिप्पामेव उड्डे उदाति ?, हंता! उदाइज्जा,
एवामेव मंडियपुत्ता ! अत्तत्तासंवुडस्स अणगारस्स इरियासमियस्स जाव गुत्तवंभयारियस्स आउत्तं गच्छमाणस्स चिट्ठ-
माणस्स निसीयमाणस्स तुयट्टमाणस्स आउत्तं वत्थपडिग्गहकंबलपायपुंछणं गेण्हमाणस्स णिक्खिवमाणस्स जाव चवखुपम्ह-
निवायमवि वेमाया सुहुमा ईरियावहिया किरिया कज्जइ, सा पढमसमयवद्धपुट्ठा वीयसमयवेइया ततियसमयनिजरिया
सा बद्धा पुट्ठा उदीरिया वेदिया णिज्जिण्णा सेयकाले अकर्म वा वि भवति, से तेण?णं मंडियपुत्ता ! एवं उच्चति-जावं
च णं से जीवे सता समितं णो एयति जावे अंते अंतकिरिया भवति ।
श्रीभगवत्यां तृयशतके तृतीयोदेशके सूत्राणि १५२)
अस्य किंचिद् व्याख्या श्रीभगवतीवृत्तिगता लिख्यते-
जीवेणमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राखः, अयोगस्यैजनादेरसंभवात्, सदा नित्यं समियंति सप्रमाण पयइत्ति
RE
॥ ८॥

एजते-कम्पते एनृङ् कम्पने इति वचनात् वेयइति व्येजते विविधं कम्पते चलइत्ति स्थानान्तरं गच्छति । फंदइत्ति स्पन्दते, किंचिच्चलति स्पदि किश्चिच्चलने इतिवचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, घट्टपत्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति, खुभइत्ति क्षुभ्यति पृथिवीं प्रविशति, क्षोभयति वा, पृथिवीं, बिभेति वा, उदीरइत्ति प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा, शेपक्रियाभेदसंग्रहा- र्थमाह-तं तं भावं परिणमतित्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं, न तु प्रत्येकापेक्षया, क्रममाविमां युगपदभावादिति, तस्स जीवस्स अंतित्ति मरणान्ते, अन्तकिरियत्ति सकलकर्मक्षयरूपा, आरंभइत्ति आरभते पृथिव्यादीनुपद्रवयति, सारंभइत्ति संरभते तेषु विनाश-संकल्पं करोति समारंभइत्ति समारभते तानेव परितापयति, आह च-" संकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सव्वनयाणं विसुद्धाण ॥ १ ॥” इदं च क्रिया क्रियावतोः कथंचिदभेद इत्यभिधानाय तयोः समानधिकरणतः सूत्रमुक्तम्, अथ तयोः कथंचिद्दोऽप्यस्तीति दर्शयितुम्-पूर्वोक्तमेवार्थ व्यधिकरणत आह- आरंमेइत्यादि, आरंभे अधिकरणभूते बर्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेनप्रकृतयोजनामाह-आरंभमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, आरंभे वर्तमान इत्यादिना तु द्वितीयः, दुक्खावणयाए इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां मरणलक्षणदुःखप्रापणायाम् , अथवा इष्टवियोगादिदुःख-हेतुप्रापणायां, वर्तत इति योगः, तथा शोकापनायां देन्यप्रापणायां जूरावणतागत्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां तिप्पावणयापत्ति तेपापनायां 'सिट ष्टेट क्षरणार्थों ' इति वचनात् शोका- तिरेकादेवाशुलालादिक्षरणप्रापणायां पिट्टावणतापत्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्तते, क्वचित् पठ्यते दुक्खावणयाए इत्यादि, तच्च व्यक्तमेव, यच्च तत्र किलामणयाए उद्दावणयाए इत्यधिकमभिधीयते तत्र किलामणयाएत्ति ग्लानिनयने उद्दावणयापति कुमताहि- ॥ ९॥ विषयुक्ति- जाङ्गली- मत्रः -SRO उत्त्रासने ॥ उक्तार्थविपर्ययमाह-जीवेणमित्यादि णो एयइति शैलेशीकरणे योगनिरोधानो एजत इति, एजनादिरहितस्तु नारंभादिपु वर्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथापि च योगनिरोधामिधानशुक्लध्यानेन सकलकर्मध्वंसरूपान्तक्रिया भवति, तत्र दृष्टान्तद्वयमाह- से जहेत्यादि तिणहत्थयंति तृणपूलकं जायतेयंसित्ति वह्नौ मसमसाविज्जइत्ति शीघ्र दह्यते, इह च दृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्य- 'गम्यो, यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाहदहनं स्यादिति । अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह-से जहाणामए इत्यादि, इह शब्दार्थः प्राग्वन्नवरं उद्दाइत्ति उद्याति, जलस्योपरि वतर्ते, अत्ततासंवुडस्सति आत्मन्यात्मना संवृत्तस्य, प्रतिसलीनस्येत्यर्थः, एतदेव इरियासमितस्सेत्यादिना प्रपंचयति-आउत्तंति आयुक्तमुपयोगपूर्वकमित्यर्थः, जाव चक्खूपम्हनिवायमवित्ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिंगव्यत्ययः, उन्मेषनिमेषमात्रक्रियाप्यस्ति, आस्तां गमनादिका, तावदिति शेषः, वेमायत्ति विविधमात्रा, अन्तर्मुहूर्तादेर्देशोनपूर्वकोटीपर्य- न्तस्य क्रियाकालस्य विचित्रत्वात् , वृद्धाः पुनरेवमाहुः यावच्चक्षुषो मेपोन्मेषमात्राऽपि क्रियाक्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, क्वचिद्विमात्रेत्यस्य स्थाने सपेहात्ति दृश्यते तत्र च स्वप्रेक्षया स्वेच्छया चक्षुःपक्ष्मनिपातो, न तु परकृतः, सुहुमत्ति सूक्ष्मबन्धादिकाला, ईरियावहियत्ति ईर्यापथो-गमनमार्गस्तंत्र भवा ऐपिथिकी, केवलयोगप्रत्ययेति भावः, किरियेत्ति कर्म सातवेदनीयमित्यर्थः, कज्जइत्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्ती वीतरागोऽपि हि सक्रियत्वात् सातवेद्य कर्म बध्नातीति भावः । सेति ईर्यापथिकी क्रिया पढमसमयबद्धपुट्ठत्ति बद्धा कर्मतापादनात्, स्पृष्टा जीवप्रदेशैः स्पर्शनात्, ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति, एतदेव वाक्या- ॥ ९॥ SCREEk न्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता उदयमुपनीता, किमुक्तं भवति ! -वेदिता, न कसिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च सेयकालेत्ति एण्यत्काले अकम्म वावित्ति अक्रर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्म-अक्रम भवति तथापि तक्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात्-तृतीये समये निर्जीण कर्मेति व्यपदिश्यते । चतुर्थादिसमयेपु त्यकर्मेति, असत्तासंघुडस्से त्यादिना चेदमुक्तं यदि संयतोऽपि साश्रवः कर्म, बधाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्थगाणतयाऽर्थतो अधो निमज्जनमुक्तं, सक्रियस्य कर्मबन्धगणनाच्नाक्रियस्य तद्विपरीतत्वात् कर्मबन्धभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्ध्वगमनं सामर्थ्यादुपनीतमक्सेयगिति ॥ --भगवत्यां तृतीयशतके तृतीयोद्देशके सूत्रं १५२॥ अत्रापि केवलिन ईर्यापथो गमनमार्गस्तत्र भवेयोपथिकी क्रियोक्ता तेन सवृत्तिकस्यालापकस्य भावार्थ तत्त्ववृत्त्या विचार्थांगी- कुरुष्व स्वगच्छाधीशाज्ञां मा भव जमालिवद्गोष्ठामाहिलवत्कदाग्रही मा पत च तद्वत्संगारपारावारगहने ॥ जीवाणं भंते ! किं आयारंभा १ परारंभा २ तदुभयारंभा ३ अणारंभा ४ गोयमा! अत्यंगइया जीवा आया- रंभावि परारंभावि तदुभयारंभावि णो अणारंभा अत्थेगइया जीवा णो आयारंभा णो परारंभा णो तदुभयारंभा अणारंभा से केणठेणं भंते ! एवं चुच्चय-अत्थेइगया जीवा आयारंभावि ? एवं पडिउच्चारेयव्वं । गोयमा ! जीवा दुविहा पण्णता, तं जहा-संसारसमावण्णगा य असंसारसमावण्णगा य। तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा णं णो - R558 २-४

कुमताहि-
॥१०॥
विपयुक्ति-
जाङ्गुली-
मन्त्रः॥
आयारंभा परारंभा तदुभयारंभा जाव अणारंभा । तत्थ णं जे ते संसारसमावण्णगा ते दुविहा पण्णता, तं जहा-संजया य
असंजया य । तत्थ णं जे ते संजता ते दुविहा पण्णता, तं जहा-पमत्तसंजता य अप्पमत्तसंजता य। तत्थ णं जे ते अप्पमत्तसंजता
णं णो आधारंभा णो परारंभा जाव अणारंभा। तत्थ णं जे ते पमत्तसंजता ते सुहं जोगं पडुच्च णो
आयारंभा नो परारंभाजाव अणारंभा । असुभं जोगं पडुच्च आयारंभावि जाव णो अणारंभा । तत्थ णं जे ते असंजता ते अविरतिं
पडुच्च आयारंभावि जाव णो अणारंभा, से तेणठेणं गोयमा ! एवं वुच्चति-अत्थेगतिया जीवा जाव अणारंभा.॥
इति भगवत्यां प्रथमशतके प्रथमोद्देशके सूत्रं १६॥
अत्र सिद्धानामनारंभकत्वं निरुपचारतः परं सर्वेषामप्रमत्तानामनारंभकत्वं कथं स्यादतोऽत्य सूत्रस्य वृत्तिर्लिख्यते-से केणडेणंति
अथ केन कारणेनेत्यर्थः, दुविहा पण्णत्तेत्ति मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदां मतभेदमाह, मतभेदे तु विरोधिवचन-
तया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति, प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगः स्यात्
संयतत्वात् प्रमादपरत्वाच्च इत्यत आह-सुभं जोगं पडश्चत्ति शुभयोगः-उपयुक्ततया प्रत्युपेक्षणाधिकरणम्, . अशुभयोगस्तु तदेवानु-
पयुक्ततया, आह च-पुढवी आउक्काए तेऊवाऊवणस्सइतसाणं । पडिलेहणा पमत्तो छण्हपि विराहओ होई ॥१॥ तथा-सव्वो-
पमत्तजोगो समणस्स उ होइ आरंभोत्ति ततः शुभाशुभौ योगावात्मारंभादिकारणमिति । अविरई पडुच्चत्ति इहायं भावः यद्यप्य-
संयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारंभकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततोऽनिवृत्ताः, अतोऽसंयतानामविरतिस्तत्र
३
॥१०॥

कारणमिति, निवृत्तानां तु कथंचिदात्माद्यारंभकत्वेऽप्यनारंभकत्वं, यदाह--जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥१॥ त्ति से तेणटुंगति अथ तेन कारणेनेत्यर्थः । इदं पूर्वोक्तमपि सूत्रं व्याख्यानावसरप्राप्त- त्यात्पुनरपि लिखितं विस्तरवाक्यमुपकारीति न पुनरुक्तदूषणमिति । ततोऽत्राप्रमानां सप्तमाष्टमनवमदशमैकादशमद्वादशमत्रयोदशमगुणस्था- नवर्तिनां संयतानामनया रीत्यानारंभकत्वमवसेयं तेनास्यापि सूत्रस्य भाव विचार्य प्रतिबुध्यस्व ॥ अन्यच्च-एग्गया गुणसमियस्स रीयतो कायसंफासमणुचित्रा एगतिया पाणा उहायति । अस्यार्थः-एकदा कदाचिद्गुणसमितस्स गुणयुक्तस्याप्रमत्तयतेः रीयमाणस्स सम्यगनुष्ठानवतोऽतिक्रामतः संकुचतः प्रसारयतो विनिवर्त- मानस्य संपरिमृजतः कस्यांचिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसंगमागताः संपातिमादयः प्राणिन एके परितापमाप्नुवन्त्येके म्लानतामुपयान्त्येकेऽवयवध्वंसमापद्यन्ते । तथाहि-शैलेश्यवस्थां अपश्चिमावस्यां तु सूत्रेणैव दर्शयत्येक प्राणाः प्राणिनोपशीचंति प्राणैर्विमुच्यन्ते अत्र च कर्मबन्धं प्रति विचित्रता तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि पंचविधोपादानकारणयोगाभावान्नास्ति बन्धः उपशान्तमोहक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिको बन्धः । सप्तमाष्टमनवमदशमगुणस्थानवर्तिनोऽप्रमत्तयते - धन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽन्तःकोटाकोटीसागरस्थितिरिति । श्रीआचारांगवृत्तौ ॥ उप्पाडियम्मि पाप इरियासमियस्स संकमहाए वा पज्जेज्ज कुलिंगी मरेज्ज तज्जोगमासज्ज ॥१॥ न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए अणवज्जे हुपयोगेण सव्वभावेण सो जम्मो ॥२॥ इति

कुमताहि-
॥११॥
ओघनियुक्तिसूत्रे इत्यादि बहुवागमेषु दृश्यमानत्वात्तव को भवान् मतिमोह इति ॥
विषयुक्ति
जागली-
मन्त्र॥
तथा च भवन्मतमूलं प्रवचनपरीक्षाकृदप्याह--तत् श्रृणु-"अपञ्चक्खाणकिरिया तयभावे वि य न देसविरईणं । नारंभकियारंभे
पवट्टमाणाण सुमुणीणं" ४४ गाथा । अस्या गाथाया ग्रन्थकृतः स्वोपज्ञावृत्तिलिख्यते-देशविरतानां श्रावकाणा तदभावेऽपि क्वचि-
देकादशविरतिरधिकृत्य प्रत्याख्यानाभावेऽपि च अप्रत्याख्यानक्रिया न भवति । यतः-' तत्थ णं जे ते संजयासंजया तेसि णं आदिमाओ
तिन्नि किरियाओ कन्जंति' इति
भगवत्या प्रथमशतके द्वितीयोदेशके । अत्रारंभिकी १ पारिग्रहिकी २ मायाप्रत्ययिकी ३ अप्रत्याख्यानिकी ४ मिथ्यादर्शनप्रत्ययिकी
५ चेति । पंचक्रियाणां मध्ये आदिमास्तिस्रः आरंभिकी १ पारिग्रहिकी २ मायाप्रत्ययिकी चेति ३ तत्रैकादशानामविरतीनामप्रत्याख्यानेऽपि
अप्रत्याख्यानक्रियाया अनुदयो भणितः । तथा च पुनरर्थे अप्यर्थे वा सुमुनीनां शोभना मुनयः साधवस्तेषां अप्रमत्तगुणस्थानकादारभ्य
त्रयोदशगुणस्थानकं यावदारंभे प्रवर्तमानानामप्यारंभिकी क्रिया न भवति । यदागमः-तत्थ णं जे ते अपमत्तसंजया तेसि णं एगा माया.
वत्तिया किरिया काजइत्ति भगवत्यां प्रथमशतके द्वितीयोंद्देशके इत्यादि प्रवचनपरीक्षायां ४४ गाथाया विस्तरः ।।
अन्यच्च प्रवचनपरीक्षां कृत्वा यत् श्रीविजसेनसूरिभिरप्रमाणीकृतं सर्वज्ञशतकं चकार तत्रामर्ष एव हेतुरवसेयो नान्यो
हेतुरतोऽमर्षस्य कारणं लिख्यते- भट्टारकपुरन्दरभट्टारकश्रीहीरविजयसूरिभिः शास्त्रविरुद्धपंचजल्पजल्पनविषये मिथ्यादुःकृतं बलादापितं:
॥११॥

. * 5555 ROCES तत्र पञ्च जल्पा यथा संवत् १६४९ वर्षे पौषपौर्णिमायां पुष्यार्के च अहम्मदावादनगरे उपाध्यायश्रीधर्मसागरगणिभिलिख्यते- मिच्छा मि दुक्कड देवानी विगति लिखीह। मरी मरीचि संबंधि दुभासिएण इक्केण ए वचन दुर्भाषित कही। पणि उत्सूत्र न कहीइ एह अम्झे कहता पणि श्राद्धप्रतिक्रमणसूत्र चूर्णि प्रमुख घणा ग्रंथनई अनुसारि मरीचिनुं कविला इत्थंपि इहयपि ए वचन उत्सूत्र जणाइ छइ । तथा अम्झे प्रवचन परीक्षामांहि ए मरीचिनुं वचन उत्सूत्र होइ एहा आण्णु छह पणि ते सांभर्यु नहीं ते मार्टि ए विपरीत कवाणुं होइ तेहर्नु मिच्छा मि दुक्कडं । १ । तथा भगवती सूत्रनई मेलि श्रीअभयदेवसूरिसंतानीय श्रीगुणचन्द्रसूरिकृत श्रीवीरचरित्रादिक ग्रन्थई अनुसारि जमा- लिनई १५ भव जणाइ छइ ते माटि ए थकी विपरीत कहि होइ तेहर्नु मिच्छा मि दुक्कडं ।२। तथा उत्सूत्र भाषीनई नियमा अनंतां भव होइ पहचुं अम्हो कहता पणि श्रीभगवतीसूत्रमाहि जमालिनई १५ भव कहिया पणि अनुसारि बीजाइ शास्त्रनइं अनुसारिं उत्सूत्र भाषीनई संख्याता असंख्याता अनंता भव होइ इम जणाइ छ। ते माटि पथकी विपरीत प्ररूपणाई कहवाणु होइ तेह मिच्छा मि दुक्कडं । ३। तथा केवलिना शरीर थकी बस थावर जीवनी विराधना न होइ अम्झे एह कहता पणि श्रीआचारांगवृत्तिधी- भगवतीसूत्रनई अनुसारि जणाई छइ जे केवलीना शरीर थकी अस थावर जीवनी विराधना होइ तो ना नहीं ते मारिए विपरीत सद्दहिउँ होइ-कहवाणुं होइ तेहनु मिच्छा मि दुक्कडं।४। तथा १२ बोल आशरी जिम श्रीपूज्यइ आश दीधुं छइ ते थकी विपरीत कहवाणु होइ तेहनु मिच्छा मि दुक्कडं हवइ ५। - कुमताहि- ॥१२॥ आज पछी श्रीपूज्यनी आशा थकी विपरीत प्ररूपणा थाइ तु अम्हनई भगवनजी जे आश दिइ ते अम्ह्ये कर अंगीकार कर सही ३॥ विषयुक्ति- जागुली- मन्त्रः॥ २ अत्र पू० पं. लब्धिसागरगणिमतं पू० पं. दर्शनसागरगणिमतं पू० पं. भक्तिसागरगणिमतं पू० पं. कुंअरसागरमतं my ४ . अथैतन्मिथ्यादु कृतं कुंभकारक्षुल्लकमिथ्यादु:कृतवद्विधाय तदनु श्रीसूरीणामादेशात् सूरतिबंदिरे समागत्य चेतसि चिन्तितामर्प- स्वोत्सूत्रभाषितात्संजातहठः हठादेव च स्वयमेव कृतां प्रवचनपरीक्षाया ४४ गाथां अपच्चक्खाणा किरिया इति रूपां विस्मारयन् सर्वज्ञशतकं चकार मा श्रीहीरविजयसूरयोऽन्ये वा केचिज्जानन्तु इति धियावच्छन्नं रक्षितवान् । तद्नु श्रीहीरविजयसूरयो महतामहेन मेवात मेवाड-मरुस्थली-मालव-वागड-कच्छ-गूर्जरात्रादिदेशसंधैः सह श्रीशत्रुजयतीर्थयात्रां छ गूर्जरात्रादिदेशसंधैः सह श्रीगनुंजयतीर्थयात्रां विधाय द्वीपबंदिरासन्नोन्नतदुर्गे चतुर्मासकं चक्रुस्तदनु संजातासाध्यरोगा द्वितीयं चतुर्मासकं तत्रैव स्थिताः, संवत् १६५२ वर्षे भाद्रपद शुकैकादश्यां कृतानशनाश्चित्तसमाधिभाजः स्वर्जग्मुः तच्चित्तासन्नाम्रवने भाद्रमासेऽपि फलदर्शनेन देवसान्निध्यमवगत्य सर्वे चमत्कार प्रापुः । तदनु श्रीविजयसेनसूरयो गोमिथुन- ॥१२॥ प S RECE महिषमिथुनवनिषेधमृतस्वमोचनमनुष्यबंदग्रहनिवारणस्फरन्मानप्राप्तसन्मानाः पातसाहि श्री ५ श्रीअकब्बरमहाराजाधिराजानुज्ञां प्राप्य सं. १६५३ वर्षे लाभपुरतः समागत्य श्रीस्तंभतीर्थे चतुर्मासकं चक्रुः, तच्चतुर्मासकपारणके श्रीसूरिवन्दनार्थ समागता उपाध्यायश्रीधर्मसागर- गणयस्तत्रैव स्थिता गाढमांधभाजः परलोकं प्राप्ताः । तदनु संवत् १६७१ वर्षे कुतश्चिन्द्रादप्रछनरक्षितमपि सर्वज्ञशतकपुस्तकं प्राप्य पू० उपाध्याय श्री शान्तिचंद्रगणि साषि (क्षि) श्रीविजयसेनसूरय उत्सूत्रनिराकरणाय सकलाहम्मदावादसंघर्समत्या पू० पं० ज्ञानविमलगणि साषि सकलतपागच्छगीतार्थसमत्या संवत् १६७१ वर्षे स्वाज्ञोल्लंघनपर नेमिसा पू० पं० नयविमलगणि साषि उपाध्यायश्रीलब्धिसागरगणि शिष्यं सर्वज्ञातककृताशिष्यशिष्यं उपाध्या- पू० पं० शिवसागरगणि साषि पू० पं० लीबागणि सापि यपदग्रहणपूर्वकं गच्छानिष्कास्य सर्वज्ञगतकम प्रमाणीचक्रुः । तस्मिन्नेव पू० पं० लाभविजय साषि वर्षे श्रीविजयसेनसूरिषु दिवं गतेषु सत्सु श्रीविजयदेवसूरयः संवत् पू० पं० सीहविमलगणि सापि १६७२ वर्षे श्रीपत्तननगरादासन्नचाणसमाग्रामे श्रीअहम्मदावादीयसंघ- पू० पं० दीपपिंगणि सापि श्रीपत्तनसंघ-श्रीस्तंभतीर्थीयसंघाग्रहेण स्वाज्ञामंगीकार्य तं गणमध्ये समस्त अहम्मदावाद संघ सापि जगृहुः । एतच सर्वजनप्रतीतं गच्छभेदेऽप्ययमेव ग्रन्थो हेतुरिति समस्त अहम्मदाबादपुराना संघ सापि ,'सर्व त्वमपि जानीषे । पुनरपि तशिष्यो भूत्वा लोकान् विप्रतारयसि म

कुमताहि-
॥१३॥
विषयुक्ति-
जाङ्गुली-
मन्त्रः॥
यदा चायमप्रमाणीकृतस्तदा तज्जल्पाकस्त्रं क्व गतमभूद्यदिदानीप्रादुर्भूतमिति सर्वज्ञशतकाऽप्रमाणकरणरीतिरपि लिख्यते-
यथा--श्रीहीरविजयसूरिगुरुभ्यो नमः ।
संवत् १६७१ वर्षे वैशाखसित-तृतीयाया श्रीअहम्मदावादनगरे श्रीविजयसेनसूरिभिर्लिख्यते-
' समस्तसाधु-साध्वी-श्रावक-श्राविकासमुदाययोग्य
श्री ५ श्रीहीरविजयसूरि जे बार १२ बोल प्रसाद करया छइ ते तिमज प्रमाण करवा। ते आशरी नवो अर्थ करीनइ
कोणि विपरीत प्ररूपणा न करवी १
तथा सर्वज्ञशतक ग्रन्थ सूत्र वृत्तिमांहि श्रीहीरविजयसूरि जे पांच बोलना मिच्छा मि दुक्कडा देवराज्या हता ते आश्री विपरीत
प्ररूपणा सिद्धांतनई अणमीलती लिखी छइ ते मार्टि सर्वशशतकग्रन्थ अप्रमाण छई। ए ग्रन्थ कुणइ वांचवो नहीं। तथा
कुणिं लिखाववो नहीं। जे वांचइ तथा लिखावइ तेहनई विद्यमान गच्छनायकई गच्छवाहिरनु ठवको देवो। तथा श्रावक
वांचड़ तु श्रावक संघ बाहिरनु ठबको देवु २।
तथा व्याख्यान विधि शतक सूत्रवृत्ति औष्ट्रिक मतोत्सूत्र दीपिका तद्वालाववोध प्रमुख ग्रन्थमांहि पणि केतलाइक
शास्त्र विरुद्ध बोल छइ ते माटि ते ग्रन्थ गच्छनायकनी आक्षा पूर्वक शोध्या विना कोणई वांचवा नहीं।
ए आशासहू कोणि मानवी, जे न मानई सेहनई गच्छनायकई रूडी मेलि शीष देवी ॥
ASSIS
4565
॥१३॥

१४ rom eru, Get तथा जल्पसि तेन तवापि विद्यमानगच्छाधिराज-- श्रीविजयदेवसूरिभ्यो महान् दंडो भावीति विमृश स्वचित्त ।। अत्र पू० श्रीविजयदेवसरिमतं पू० पं० श्रीधनविजयगणिमतं पू० उपाध्यायश्रीरत्नचंद्रगणिमतं पू० पं० श्रीजय विजयगणिमतं पू० उपाध्यायश्रीमेघविजयगणिमतं पू० पं० श्रीशुभविजयगणिमतं पू० उपाध्यायश्रीसोमविजयगणिमतं पू० पं० श्रीदेवविजयगणिमतं पू० उपाध्यायश्रीभानुचंद्रगणिमतं पू० पं०.श्रीधनविजयगणिमतं पू० उपाध्यायश्रीनंदिविजयगणिमतं पू० पं० श्रीराम विजयगणिमतं पू० उपाध्यायश्रीविजयराजगणिमतं पू० पं० श्रीकीर्तिविजयगणिमतं पू० उपाध्यायश्रीधर्मविजयगणिमतं पू० पं० श्रीकनकविजयगणिमतं पू० उपाध्यायश्रीविवेकहर्पगणिमतं पू० पं० श्रीकुशल विजयगणिमतं पू० पं० श्रीदेवविजयगणिमतं पं० सीहविमलगणिमतं १० पू० पं० श्रीसौभाग्यविजयगणिमतं पू० पं० श्रीविजयगणिमतं ११ पू० पं० श्रीधर्मचन्द्रगणिमतं पू० पं० श्रीकनकविजयगणिमतं १२ पू० पं० श्रीरत्नकुंशलगणिमतं पू० पं० श्रीलामविजयगणिमतं १३ पू० पं० श्रीविजयचंद्रगणिमतं १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ 155 .

२७ कुमताहि- ॥१४॥ विषयुक्ति- जाङ्गुली- मन्त्रः ॥ २८ २९ ३० ४१ ४२ ४३ ४४ ४५ ४६ ४७ ३२ पू० पं० श्रीगुणविजयगणिमतं पू० पं० श्रीदेव विमलगगिमतं पू० पं० श्रीराजसुन्दरगणिमतं पू० पं० श्रीशान्तिविजयगणिमतं पू० पं० श्रीरामविजयगणिमतं पू० पं० श्रीविद्योदयगणिमतं पू० पं० श्रीलाभचन्द्रगणिमतं पू० पं० श्रीवेलर्षिगणिमतं पू० पं० श्रीसूरविजयगणिमतं पू० पं० श्रीभानुविजयगणिमतं पू० पं० श्रीजयविजयगणिमतं पू० पं० श्रीसोमकुशलगणिमतं पू० पं० श्रीविजयगणिमतं पू०.पं० श्रीदेवचन्द्रगणिमतं पू० पं० श्रीकल्याणकुशलगणिमतं पू० पं० श्रीजयवंतर्षिगणिमतं पू० पं० श्रीमेरुविजयगणिमतं पू० पं० श्रीगुणहर्षगणिमतं पं० श्रीपद्मविमलगणिमतं पू०. पं० श्रीवीरसागरगणिमतं पू० पं० श्रीमाणिक्यसागरगणिमतं पू० पं० श्रीकीर्तिसागरगणिमतं पू० पं० श्रीश्रुतसागरगणिमतं पू० पं० श्रीकुंअरसागरगणिमतं पू० पं० श्रीगणिहेमसागरमतं पू० पं० श्रीगणिकनकसागरमतं पू० पं० श्रीगणि अभयसागरमतं ४८ ३४ ३५ ४९ ५० ३७ ३८ ५२ ४० ॥१४॥ ५३ -- अन्यच्च त्वं जानीपे केवलिनि सर्वथा जीववधसंभवं निराकुर्वन्नहं विशेषगुणारोपं करोमि, एतच्चिन्तनमपि मिध्या। यत:-असतः सतः कथनं १, सतोऽसतः कथनम् २, उमे अपि मिथ्यैव ते त्वमत्रार्थे उत्सूत्रवाद्येव भवसि न सूत्रवादीति । एवं वदतस्तव यमुत्सूत्रवादित्वं न भवति तदा केवलिनि भक्ति निपधयतो दिगम्बरस्य निहवत्वं कथं स्यात्तेन भक्तिदोपं निराकुर्वता विशेपगुणारोप एव कृतस्तेन यथा तस्यासदारोपं कुर्वतो निववत्वं तथा तवाप्यसद्गु- गारोपं कुर्वत उत्सूत्रवादित्वं दुनिरमिति हितवाक्यं मत्वा स्वहितं कुरु येनेहलोके परस्मिन् लोकेऽपि च बोधि- वीजावाप्तिः स्यादिति मंगलम् ॥ इमां रीतिं त्वं चक्षुषा दृष्ट्वापि यथा सिद्धान्तपीयूषमहार्णवस्य । सारं सुधां तत् परिगृह्य चक्रे, भूयादिदं दुर्मतसर्पसर्पद्विपापहारप्रवणं सुशास्त्रम् ॥ १॥ सामध्यभावात् किल पुस्तकानां, छमस्थभावान्मतितुच्छतायाः मया ह्यनाभोगवशायदत्र लिपीकृतं तद्विबुधैः सुशोध्यम् ॥२॥ सिद्धान्तवाङ्मयोऽयं कुमततमोरत्नराजदीपरविः । अन्थोऽयं भवतान्मे तत्वार्थविवेचने च तु ॥३॥ 5 श्रीरस्तु॥

कुमताहि- ॥१५॥ विषयुक्ति- जाङ्गुली- मन्त्रः॥ संवत् १६८० वर्षे कार्तिकमासे कृष्णपक्षे द्वादशी(१२)तिथौ रविवारे स्थंभवास्तव्यं ओदीच्यज्ञातीय-जोसी नानजीसूत-शरामेन पुस्तकं लिखितं लेखकपाठकयोः शुभं भवतु ॥ वाच्यमानः श्रूयमाणः, पठयमानश्च सादरम् । लेख्यमानं पुस्तकेषु, ग्रन्थोऽयं मे प्रवर्तताम् ॥१॥ सूर्याचन्द्रमसौ यावत् , यावत् सप्तधराधराः । यावत्चपागणस्तावत् , अयं जयतु पुस्तकः ॥२॥ - SHRIKANGRESEARS5*** ॥ इति श्रीकुमताहिविषमविषोत्तारजागुलीमन्त्रनामकं शास्त्रं संपूर्णम् ॥ RASHREFECHEENCHA

No text on this page.

Kumatahi Vish Janguli Mantra

Author
Punay Vijay
Title
Kumatahi Vish Janguli Mantra
File name
Kumatahi Vish Janguli Mantra
Text
OCR done
Published
2010/02
Publisher
Jasavant Giradhar Lal, Rupa Sur Chandani Pol, Ahmedabad
Language
Sanskrit
Pages
34
Library
Prakrit Bharati Academy, Jaipur
DLI number
322223
Barcode
99999990245061.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
jGxwintNuDs
Download PDF

Kumatahi Vish Janguli Mantra