Banasthali University
Dashavatara Charitam
Front matter
ܙܘܢ
;44}
ܟ
ܦܕܙ
1

ܛ
, iܐܺܝܽ . '! :.f

KAVYAMÂLÂ 26.
THE
DASVATÂRACHARITA
OF
KSHEMENDRA,
EDITED BY
PANDIT DURGAPRASAD
AND
KASINÂTH PÂNDURANG PARAB.
Jata Entered nose
4 JULP2005ED
PRINTED AND PUBLISHED
BY
THE PROPRIETOR

OF
rear
THE "1 H-SÅGARA” PRESS.
BOMBAY
1891.
Price 1 Rupee.
í Registered according to Act XXV of 1867. )
( All rights reserved by the publisher. )
!!!111
ļ ...sund ...,
A pronssion 1
15.8.3.4.
i

v
nogi Re

काव्यमाला। महाकविश्रीक्षेमेन्द्रप्रणीतं दशावतारचरितम् । मत्स्यावतारः प्रथमः । अशेषविश्ववैचित्र्यरचनारुचये नमः । मायागहनगूढाय नानारूपाय विष्णवे ॥ १ ॥ देवः पायादपायात्रिभुवनभवनस्तम्भभूतः स युष्मा- नायुष्मान्यस्य भक्त्या प्रभवति पुरुषः स्वर्गमार्गेऽपवर्गे । मत्स्यः कूर्मो वराहः पुरुषहरिवपुर्वामनो जामदग्न्यः काकुत्स्थः कंसहन्ता स च सुगतमुनि: कर्किनामा च विष्णुः ॥२॥ आदिमत्स्यः स जयताद्य: श्वासोच्छ्वासितैर्जलै: । गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥ ३ ॥ तं नमस्कुर्महे कूर्म यः कवाटमसंकटम् । अतीतसर्वब्रह्माण्डमवशेषमिवावहत् ॥ ४ ॥ वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् । अधोधृतार्धच्छन्नेव तलस्थार्कातपासहा ॥ ५ ॥ १. काव्यस्यास्य पुस्तकचतुष्टयमस्माभिरासादितम्. तत्र पुस्तकद्वयं डॉक्टर बू- लरेण कश्मीरदेशादानीतं सांप्रतं पुण्यपत्तनस्थराजकीयपुस्तकालये स्थितं भाण्डारक- रोपाहरामकृष्णशर्मपण्डितेन्द्रै: कृपया प्रहितम्. तत्र प्रथमं शारदाक्षरैलिखितं १०९ पत्रात्मक क-संज्ञम्. द्वितीयं नागराक्षरलिखितं नवीनं ६७ पत्रात्मकं ख-संज्ञम्. पुस्त- कद्वयं चास्मत्परमसुहृद्भिः कश्मीरमहाराजाश्रितैः श्रीविश्वेश्वरदैवज्ञवरैः प्रहितम्. तत्र प्रथमं ५३ पधात्मकं नवीनं ग-संज्ञितम्. द्वितीयं ८८ पत्रात्मकं समाप्तौ किंचित्रुटितं नवीनं नातिशुद्धं च घ-संज्ञम्. एतत्पुस्तकचतुष्टयमस्मन्मुद्रणाधारतां गतमस्ति. २. 'शंभवे' ग. ३. 'अस्य कीर्त्या' ख. ४. 'सुकृतमतिः' ग. ५. 'यच्छ्वासोल्लसितै- जलैः । गगने विदधेऽम्भोधिः' ग. ६. 'नमस्यामहे' ग. ७. 'अतीतम' क: 'अती तमब्रह्माण्डमर्धशेष इवावहन्' ख; 'अतीव' व. ८. 'अतो' ग.
२ काव्यमाला। जयाय नृहरिवोऽस्तु दैत्योरःशोणितार्णवे हारमौक्तिकगर्भास्ताश्चर्यन्नखशुक्तयः ॥ ६ ॥ त्रिविक्रमोऽस्तु भूत्यै वः प्राग्लध्वी मध्यमा ततः । यस्य पश्चादनन्ताभूत्सत्संगतिरिवाकृतिः ॥ ७ ॥ अभग्नं जामदग्न्यो वः प्रयच्छतु जयोदयम् । यत्कुठारकठोराग्नौ भूपालैः शलभायितम् ॥ ८ ॥ नौमि रामं रिपोश्चक्रे यः काञ्चननिभैः शरैः । होमानलशिखारूढमिव वक्रवनं पुनः ॥ ९ ॥ शौरिर्जयति कंसस्य जीवितप्रथमातिथिः । यश्चक्रे चक्रोनेन बाणवाहुप्रतिग्रहम् ॥ १० ॥ यस्य सभ्रूभ्रमाकम्पा माररामाः ससैनिकाः । चक्रुर्न रागं न द्वेषं स शान्त्यै सुगतोऽस्तु वः ॥ ११ ॥ स्वच्छन्दप्रोच्छलन्म्लेच्छतिमिरोद्भेदसच्छविः । कर्किविष्णुः प्रकाशाय प्रभातार्क इवास्तु वः ॥ १२ ॥ अवतारकथायुक्त्या भक्त्या भगवतो हरेः । श्रीव्यासदासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥ १३ ॥ स्वजनस्थितिखिन्नस्य पुण्यारण्यविहारिणः । हरिभक्तिरसासिक्ताः श्रूयन्तां मम सूक्तयः ॥ १४ ॥ संतोषो यदि किं धनैः सुखशतैः किं यद्यनायत्तता वैराग्यं यदि किं व्रतैः किमखिलैस्त्यागैविवेको यदि । सत्सङ्गो यदि किं दिगन्तगमनप्रस्थानतीर्थश्रमैः श्रीकान्ते यदि भक्तिरप्रतिहता तत्किं समाधिक्रमैः ॥ १५ ॥ लसति हसति हर्षात्तीव्रदु:खे परेषां स्खलति गलति मोहादात्मनः क्लेशलेशे। १. 'संचेरु: ग. २. 'पतयः' क. ३. 'हेमानल' घ. ४. 'बाणेन' क-घ. ५. 'प्रो- लसन्' ध. ६. 'कुरुते क्षेमेन्द्रः' क-ख-घ. ७. 'सजन' क-ख; 'सुजन' ग. ८. 'वि. द्यया यत्तता' का 'विद्यया यत्नता' ख.
१ मत्स्यावतारः]]
दशावतारचरितम् ।
नदति वदति निन्द्यं मानिनां कि न नीचः
परुपवचनमल्पं श्रावितो हन्तुमेति ॥ १६ ॥
पुण्यान्यहीनहरिणानि तपोवनानि
सत्संगतानि शमधर्मविवेचनानि ।
एतानि तानि भवबन्धविमोचनानि
चर्चोचितानि चरितानि च चक्रपाणेः ॥ १७ ॥
मान्यः किंल मनुर्नाम जगज्ज्येष्ठः प्रजापतिः ।
चचार पूर्वमुर्व्या यः सर्वतीर्थपथातिथिः ॥ १८ ॥
स वदर्याश्रमं प्राप्य नरनारायणाश्रयम् ।
हरिसंदर्शनधिया चकार सुचिरं तपः ॥ १९ ॥
तं कदाचिदतिखल्पतनुस्तनुतरेऽम्भसि ।
उवाच तलसंलीनस्त्रांसान्मत्स्यशिशुः शनैः ॥ २० ॥
भीतोऽहं स्थूलमत्स्येभ्यो रक्ष मां करुणानिधे ।
भक्षयन्ति क्षुधा नित्यं दुर्वलं बलवत्तराः ॥ २१ ॥
आश्वासनं विपमशोकविमोहितस्य
भीतस्य भीतिशमनं कृशपक्षपातः ।
धृत्यै विपन्निपतितस्य करावलम्बः
संपूर्णपुण्यनियस्य समुच्चयोऽयम् ॥ २२ ॥
मुनिः श्रुत्वैतदाश्चर्यकारि मत्स्यशिशोर्वचः ।
दयाद्रस्तं समादाय जलकुम्भान्तरेऽक्षिपत् ॥ २३ ॥
अवर्तमानं कालेन तत्र वृद्धिमुपागतम् ।
समीपवाप्यां चिक्षेप गङ्गायामथ सागरे ॥ २४ ॥
कालेन सकलाम्भोधिव्यापी विपुलविग्रहः ।
कौतुकालोकनायातं मनुं मत्स्यः समभ्यधात् ॥ २५ ॥
'उर्वयो ग-घ. २. महत्तीर्थ' क-ख. ३. 'त्रसत्' ग. ४. 'क्षिप्रं' ग-घ, ५.
योच्चसमुच्चयः' घ. ६. 'कुण्डान्तरे' ग-घ.,७. 'आवर्तमानं' इति सर्वेषु पुस्तकेषु.
४
काव्यमाला।
अधुना विषमः कालः कलुषः प्रत्युपस्थितः ।
विपरीतनिमित्तानि प्रवृत्तानि प्रजापते ॥ २६ ॥
परदारपरप्राणपरवित्तापहारिणः ।
विचरन्ति नराः कामक्रोधलोभपरायणाः ॥ २७ ॥
धनं नास्त्यस्ति वा स्तोकं तधर्म्य न तिष्ठति ।
मुष्णाति दक्षिणं पाणिं वामो वामं च दक्षिणः ॥ २८ ॥
दास्यं द्विजः श्रयति शूद्रतपस्विशिष्य:
शूद्रान्वयः कृषिवणिकूक्रियया कृतार्थः ।
वैश्यः स्वजात्यरुचिविषविवाहकारी
होता गुरुर्वदति मन्त्रपदानि शूद्रः ॥ २९ ॥
शौचं नास्ति कुतः परोपकृतयः सत्यस्य वार्तंव का
रौद्रः क्षुद्रतया परं परधनद्रोही दरिद्रो जनः ।
लेशेनापि सुखं खपुष्पसदृशं स्वैरापचाराः स्त्रियः
संपूर्ण युगसंक्षयस्य पुरतः संलक्ष्यते लक्षणम् ॥ ३० ॥
कल्पान्तघनसंघातनिर्घातसलिलाहतम् ।
जगदेकार्णवीभूतमचिरेण भविष्यति ॥ ३१ ॥
सर्वबीजभृतां तस्मिन्काले सप्तर्षिभिः सह ।
मत्सृष्टां नावमारुह्य स्थातव्यं स्थितये त्वया ॥ ३२ ॥
मनः प्रकम्पनं श्रुत्वा मत्स्यस्य वचनं मनुः ।
तत्तथेति प्रतिश्रुत्य जगाम निजमाश्रमम् ॥ ३३ ॥
अथोद्ययौ दिशां देहपरित्यागाग्निमण्डली ।
कालजिह्वासमूहाभा द्वादशार्कोदयद्युति: ॥ ३४ ॥
अनेकोचण्डमार्तण्डप्लुष्टे भुवनमण्डले ।
चराचरजगत्सर्गः सहसा भस्मसादभूत् ॥ ३५ ॥

१. 'प्रचरन्ति' ग-घ. २. 'क्षुद्रान्वयः' क-ख-घ. ३. 'क्रिययाहितार्थः'
४. 'सलिलावहम्' ग-घ. ५. 'संदृष्टां' घ. ६. 'विनिश्चित्य' ग-घ.
१ मत्स्यावतारः] दशावतारचरितम् । अथादृश्यत कार्तान्तमहिपस्येव संततिः । निर्दग्धजगदङ्गारमलिना मेघसंहतिः ॥ ३६ ॥ ततः पपात नीरन्ध्रधारासारभरः क्षितौ । विश्वसंक्षयशोकाश्रुप्रवाहः ककुभामिव ॥ ३७ ॥ संवर्तकानलप्लुष्टे सप्तपातालमण्डले । कल्पान्तपवनापातभग्ने ब्रह्माण्डमण्डपे ॥ ३८ ॥ पुष्करावर्तकाम्भोभृत्सृष्टवृष्टिसमुत्प्लवैः । जगदेकार्णवीभूतं क्षणेन समपद्यत ॥ ३९ ॥ (युग्मम्) विपुले विप्लवे तस्मिन्मत्स्यस्य वचनं स्मरन् । भुजविक्षिप्तसलिलस्तं द्रष्टुमगमन्मनुः ॥ ४० ॥ स ददर्श महामत्स्यं चण्डांशुशशिलोचनम् । कृतैक्यमिव संहारे दिनरात्रिप्रकाशयोः ॥ ४१ ॥ विभ्राणं मेरुसंकाशं शृङ्गं शिरसि काञ्चनम् । अम्भोभिरावृतस्थानं निर्यान्तमिव वाडवम् ॥ ४२ ॥ पुच्छाच्छोटोच्छलितसलिलालोलकल्लोलजालै: श्वासाभ्यासप्रसरदमलोत्तुङ्गरङ्गत्तरङ्गैः खं कुर्वाणं श्रितमिव घनोल्लासकैलासलक्षै- दृष्ट्वा मत्स्यं हरिरिति मनुस्तत्प्रणामानतोऽभूत् ॥ ४३ ॥ तदुच्चशृङ्गसंलग्नां नावं. धृतिमिवायताम् । आरुरोह गिरा तस्य सह सप्तर्पिभिर्मनुः ॥ ४४ ।। तस्मिन्काले निरालम्बे मार्कण्डेयो निराश्रयः । देवर्षिः सलिलग्रस्तं दृष्ट्वा जगदचिन्तयत् ॥ ४५ ॥ अहो वत महानेप कालः संकलिताखिलः । जगद्रासरसाभ्यासादनिशं न निवर्तते ॥ ४६ ॥ 'संततिः' क-ख-ग. २. 'मण्डले' क-ख-घ. ३. 'सृष्टि' क-ख-घ. ४. 'यु- ग-ध-पुस्तकयोर्नास्ति. ५. 'मुनिः' ग-घ. ६. 'सलिलालोक' क-ख-घ. ७. ङ्गत् क; 'तुङ्गतुङ्गैः' ख. ८. 'शृतं' क; 'धृतं' ग-घ. ९. 'लक्ष्यै:' क-ख-ग-घ. :। ४.
موا काव्यमाला। क्व स सनगरग्रामग्रामः समग्रगिरीश्वरः प्रथितभुवनाभोगः सेन्दुग्रहार्कगतिर्गतः । अहह कुटिलस्वप्नोत्पन्नैरिवाश्रितविभ्रमै- र्भरमयति भवे भावैः कालः कृतैरथ संहृतैः ॥ ४७ ।। मान्यास्ते मुनयस्तपोवनभुवस्तास्तीर्थसार्थाथिताः शौर्योत्साहमहोदयाः क्व वत ते भूभूषणं भूमिपाः । अन्ते सज्जनमन्युनीचविनयस्त्रीचित्तधूर्तभ्रम- स्वप्नाकारमधर्मलब्धधनवत्कष्टं न किंचित्स्थितम् ॥ ४८ ॥ इति संचिन्तयन्दोर्भ्या विक्षिप्तसलिलस्तरन् । तामासाद्यमुनिर्नावमाललम्बेऽम्बरोन्मुखीम् ॥ ४९ ॥ आकृप्यमाणः स तया मत्स्यशृङ्गाग्रकृष्टया । मग्नोन्मग्नः प्रपेदेऽन्तं संसारस्येव नाम्भसः ॥ ५० ॥ त्वङ्गत्तुङ्गतरङ्गभङ्गविहितव्योमाङ्गनालिङ्गने वाताघातविभक्तयोजनशतावर्ते च निम्नेऽन्यतः । अक्षोभस्थितिनिश्चले स्फटिकभूतुल्ये प्रसन्ने क्वचि- न्नासालग्नजलः श्वसन्मुनिवरस्तोये श्रमार्तोऽभवत् ॥ ११ ॥ अनर्कचन्द्रनक्षत्रे दिनरात्रिविवर्जिते । अप्रमाणे गते काले मध्यं प्रापाम्भसो मुनिः ॥ १२ ॥ तत्र सप्तर्षिभिर्जुष्टां मनुना च प्रजासृजा । नावं मत्स्यं च नापश्यन्मुह्यमानमना मुनिः ॥ १३ ॥ अथ विद्रुमवैदूर्यहेमशाखासहस्रिणः । उद्गतस्याम्भसो मध्यान्न्यग्रोधस्य महातरोः ॥ ५४ ॥ अङ्के पर्यङ्कबन्धेन स्थितं कमललोचनम् । ददर्श श्यामलं बालं दीप्ताभरणभूषितम् ॥ ५५ ॥ (युग्म 'प्रो- १. 'कुतः' ख. २. 'आशृत' क; 'आदत' ख; 'स्मित' ग; 'आवृत' घ. 'वि 'स्थिरम्' ग-घ. ४. 'तुङ्गोत्तुङ्ग' ख. ५. 'प्रसक्ते' ख. ६. 'तनुर्मुनिः' क-घ.
७ २ कूर्मावतारः] दशावतारचरितम् । तत्समीपमवाप्तोऽथ स मुनिर्जलविह्वलः । निपीतः शिशुना तेन पश्यश्चुलकलीलया ॥ ५६ ॥ तस्योदरे सगिरिगहरसागराणि द्वीपापगानगरतीर्थतपोवनानि । पश्यन्नशेषभुवनान्यनिशं महर्षि- र्नैवान्तमन्तरचरः क्वचिदाससाद ॥ ५७ ॥ प्रयाते विपुले काले निष्क्रान्तस्तन्मुखान्मुनिः । अपश्यन्नाभिजाम्भोजे तस्य जातं प्रजासृजम् ॥ ५८ ॥ ब्रह्मणो मानसाज्जातैः प्रजापतिभिरद्भुतः । मनुमुख्यैः कृतः प्राग्वत्सर्गः पुनरदृश्यत ॥ ५९ ॥ अथ बहुविधवर्णाकारचेष्टानुभावं समविपमविभागं कर्मरेखाविभागैः । नवविधिविहितं तद्विश्वनिर्माणचित्रं भुवनभवनभित्तिव्यक्तसंसक्तमासीत् ॥ ६० ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते मत्स्यावतारः प्रथमः । कूर्मावतारो द्वितीयः । दक्षस्ततः सर्गविधानदक्षः प्रजापतिः कान्तिविभूपिताशः । एकाधिकाः सर्वगुणोन्नतेभ्यः शतार्धसंख्याः प्रददौ स्वकन्याः ॥ १ ॥ ज्येष्ठामुमाख्यां भगवान्पिनाकी त्रयोदशान्याः किल कश्यपश्च । सप्ताधिकां विंशतिमत्रिपुत्रश्चन्द्रः प्रपेदे दशकं च धर्मः ॥ २ ॥ असूत देवानदितिः समस्तान्दैत्यान्दितिः कश्यपतः कमेण । कद्रूश्च नागान्गरुडारुणौ च खगाधिनाथौ विनताभिधाना ॥ ३ ॥ दनुस्तथा दानवसंघमुग्रं शुनां जनित्री सरमा वभृव । अन्यासु चाभूदथ कश्यपस्य हंसादिभेदेन विहंगसर्गः ॥ ४ ॥ १. 'गिरिसागरगहराणि' क-ख. २. निर्गतः' ग-घ. ३. 'अद्भुतैः' क-ख. ४. 'विरागं' ग.५. 'विभावैः'क. - काव्यमाला । ततः सुराणां बलवत्तराणां दितेः सुतानां च भुजोर्जितानाम् । दुग्धोदधौ मन्दरभूधरेण सुधाप्तये मन्थमनोरथोऽभूत् ॥ ५ ॥ अथार्थितोऽभ्येत्य हिताय विष्णुः सुरासुरैः प्रीतिधृतककार्यैः । मन्थक्षमं मन्दरमादरेण दलद्दरीकंदरमुज्जहार ॥ ६ ॥ तटे निविष्टेषु सुरासुरेषु ताह्मध्वजं क्षीरनिधिनिरीक्ष्य । प्रक्षेप्तुमभ्युद्यतमद्रिराजं कृताञ्जलिविंग्रहवानुवाच ॥ ७ ॥ चतुर्मुखः सृष्टिमिमां तनोषि विष्णुः स्थितिं पासि जगन्निवास । अन्ते हरः संहरसि त्रिलोकीमेकस्त्रिधा कारणभेदतस्त्वम् ॥ ८ ॥ भवद्धजोत्क्षेपरयेण मुक्तः स्वातन्त्र्यनिर्यन्त्रगतिः प्रमाथी । न सप्तपातालतलावभेदी क्वाप्येष विश्राम्यति शैलराजः ॥ ९ ॥ मन्थप्रयत्नो यदि सर्वथैव तच्चिन्त्यतामस्य धृतिर्महाद्रेः । वोढुं दृढोपक्रमकार्यभारं धृत्या विहीनः किल कः समर्थः ॥ १० ॥ यथार्थमाकर्ण्य सुधार्णवोक्तं युक्तं विनिश्चित्य तथेति विष्णुः । मन्थोद्यमे मन्दरधारणाय द्वितीयरूपेण बभूव कूर्मः ॥ ११ ॥ वनप्रमोदप्रतिमेन तेन विस्तारिणान्तः परिपूर्यमाणः । तरङ्गदोभिर्गगनाग्रगङ्गां क्षीरोदधिः क्षीब इवालिलिङ्ग ॥ १२ ॥ क्षिप्तस्य सावेगमथाच्युतेन सेहे भरं भूमिभृतः स कूर्मुः। नवेश्वरस्येव विशृङ्खलस्य स्वकार्यसिद्ध्यै मतिमान्विकारम् ॥ १३ ॥ गिरा गरीयान्गरुडध्वजस्य वकक्रियां वासुकिरादधानः । आकर्षयोग्यं हृदयग्रहेण चक्रे गिरिं मुग्धमिवातिधूर्तः ॥ १४ ॥ अथाद्रिनाथे त्रिगुणानुबद्धं मन्थोत्थिता मन्थनकार्यसिद्ध्यै । भुजंगराजं जगृहुर्महेच्छाः पुच्छेन देवा वदनेन दैत्याः ॥ १५ ॥ अथ मथनविधाने क्षोभणेऽब्धेः प्रवृत्ते भुवनभवनभङ्गभ्रान्तिहेतुर्वभूव । १. 'बलोर्जितानाम्' ग. २. 'दरत्' क-घ, ३.. 'गतिः' क. ४. 'क्षोभने क-ख-ग.
२ कूर्मावतारः] दशावतारचरितम् । कठिनकमठपीठप्रष्ठपृष्ठप्रतिष्ठ- प्रविलुठदचलेन्द्रोद्धातनिर्घातघोपः ॥ १६ ॥ ततः श्रियः स्फाटिकमण्डपाभं दन्तायतस्तम्भचतुष्टयाङ्कम् । मन्थोत्थमैरावणमिन्दुशुभ्रं द्विपेन्द्रमिन्द्राय ददावुपेन्द्रः ॥ १७ ॥ ससत्त्वमुच्चैःश्रवसं च सप्तिं निर्दोषमुत्साहगुणोपपन्नम् । प्रभाभिरामं सकलकियार्ह शूरप्रतापोदयसुप्रकाशम् ॥ १८ ॥ श्रमश्वसद्वासुकिसृग्वि(कि)निर्यद्विपानलोल्काविकरालवक्रान् । विलोक्य दैत्यान्पुरतः पयोधेरथोद्ययौ हास इवामृतांशुः ॥ १९ ॥ स्वयं समादाय हरिहिमांशुं हरस्य चूडाभरणीचकार । गुणोचितस्थानसमर्पणेन पुष्णन्ति मानं महतां महान्तः ॥ २० ॥ अथोदितं कौस्तुभमब्जनाभ: स्वभावहृद्यं हृदये वबन्ध । संपूरिताशं विपदप्रकाशैः कृतज्ञधीः साधुरिवोपकारम् ॥ २१ ॥ समुन्मिपद्विद्रुमहेमशाखासहस्रनिर्यन्नवरत्नपत्रः । जातः सुधाब्धेरथ पारिजातः स्वयं महेन्द्रोपवनं जगाम ॥ २२ ॥ अथोद्ययावुत्कटकालकूटः समीरसंमोहितदेवदैत्यः । दानोद्यतस्य स्वरसेन सिन्धोरत्यर्थमर्थार्थनयेव कोपः ॥ २३ ॥ विष्णोगिरा विश्वहितप्रवृत्तः शिवस्तदत्युग्रतरं निगीर्य । गौरीपरिष्वङ्गरसादिवाभूत्कपोलकालागुरुनीलकण्ठः ॥ २४ ॥ सुधाब्धिमध्यान्नवनीतमृद्वीमभ्युद्गतां कान्तितरङ्गिताङ्गीम् । ततः श्रियं श्रीरमणः प्रपेदे स्वयंवरक्षिप्तकटाक्षमालाम् ॥ २५ ॥ अथौपधीनां घनसौरभेण श्रमापहारी त्रिदशासुराणाम् । हर्षाय धन्वन्तरिराविरासीत्पीयूषपूर्ण: कलशश्च पश्चात् ॥ २६ ॥ सुरापनीतद्विरदाश्वरत्नशशाङ्कलक्ष्म्यक्षमिणोऽतिजिह्माः । दिवौकसां मूलवधे प्रवृत्ता दैत्याः सुधां जह्रुरलक्ष्यवेगाः ॥ २७ ॥ . १. 'प्रविष्ट ग. २. 'प्रविचलत्' ग. ३. 'निर्घोष' घ. ४. 'सुप्रतापम्' ग. ५. 'सुधांशुं' ख-ग. ६. 'भव्यं' क-घ. ७. 'उद्धत' व. ८. 'लक्ष्मीक्षमिणः' ख-ग. २ १० काव्यमाला । - पीयुषपूर्णं कलशं जवेन हृत्वा प्रयातेप्वसुरेषु विष्णुः । मन्थाचलेन्द्रं स्वपदे निधाय क्षणं प्रदध्यौ विबुधार्थसिद्धिम् ॥ २८ ॥ सुनिर्मलाङ्गी सुरवैरिवामां वामाकृतिं कामकृपाणवल्लीम् । तनीयसीं विश्वतनुस्तनुं स्वां लावण्यलीलालहरीं चकार ॥ २९ ॥ तरलवलनलीलामित्रनेत्रत्रिभागैः श्रवणकुवलयस्य क्लैव्यमापादयन्ती । अमृतहरणहेलादृप्तदैत्येश्वराणां हृदयहरणसज्जा सा समीपं जगाम ॥ ३० ॥ शृङ्गारिणीं भगवतस्तनुमच्युतस्य दृष्ट्वाद्भुतां त्रिभुवनाभिमतां बभूव । भव्यप्रभावविभवाय मनोभवस्य तद्विभ्रमप्रभवभावभवोऽभिमानः ॥ ३१ ॥ मनसिजविजयोद्यद्वैजयन्तीविलासां तुहिनकिरणहासां तां विलोक्यैव दैत्याः । झटिति गतविवेकाः शेकुरौश्चर्यमोहा- दमृतमनृतलब्धं नैव पातुं न हातुम् ॥ ३२ ॥ संत्यज्य लब्धामृतपानतृष्णां ते प्रेमलब्धाधरपानलुब्धाः । गाढाभिलाषोष्णविषानुबन्धादूचुर्मिथः प्रस्खलितप्रतापाः ॥ ३३ ॥ पूर्णेन्दुर्वदने गतौ गजपतिर्लावण्यसारे सुधा श्रीर्गात्रे मधुराधरेऽरुणमणिः संभाव्यते सुभ्रवः । नीतं यत्रिदशैरहो सुमतिना भीतेन दुग्धाब्धिना तत्सर्व परितोषणाय वनिताव्याजेन नः प्रेषितम् ॥ ३४ ॥ तीव्रश्रमाप्तममृतं यदि बुद्धिमोहा- देतत्कराम्बुरुहदत्तमिदं न पीतम् । १. 'निवेश्य' ग. २. 'उत्पादयन्ती' ख-ग. ३. 'ऐश्वर्य' ग. ४. 'सुमनसा' ख- ग ३ वराहावतारः] दशावतारचरितम् । ११ तत्किं वृथा दलितकंदरमन्दराद्रि- मन्थैरुपद्रवशतैः परिखेदितोऽब्धिः ॥ ३५ ॥ इत्युक्त्वामृतपूर्णरत्नकलशं तस्यै ददुर्दानवाः साप्यादाय तमम्बरेण सहसा धामामराणां ययौ । अन्यायेन यदर्जितं कथमिह स्वास्थ्येन तद्भुज्यते यत्नात्तोऽपि पलायते विहगवन्मूढस्य हस्तान्निधि: ॥ ३६ ॥ प्रत्याहृतं तत्कमलाधवेन पातुं प्रवृत्तेष्वमृतं सुरेषु । विवेश राहुः सुररूपगूढस्तन्मध्यमास्वादविशेपलुब्धः ।। ३७ ।। जिह्वाग्रलग्नं रससारमाद्यमास्वादयन्विस्मयलोलवक्रः । राहुर्मुहुः कातरतामवाप्तः संसूचितः सोमदिवाकराभ्याम् ॥ ३८ ॥ अर्धग्रोत्कार(?)रावप्रविलुठदमृते कण्ठपीठेऽथ राहो- र्वक्रस्य कूरकोपात्कमरहिततया चक्रिचक्रेण कृत्ते । निर्यान्ती व्यक्तरक्तस्त्रुतिभरशवला शेषपीयूषधारा हाराग्रालीनपीनारुणमणिकिरणश्रेणिशङ्कां चकार ॥ ३९ ॥ इति स भगवान्विष्णुः कूर्माकृतिधृतभूधरः सुरहितविधौ बद्धश्रद्धः सुधां विदधेऽम्बुधे: । अविचलतया संसक्तानां परोपकृतिव्रते भवति महतां स्फीतोत्साहे मनागपि न श्रमः ॥ ४० ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते कूर्मावतारो द्वितीयः । वराहावतारस्तृतीय: । अथामृते विष्णुहृते दितेः सुतः कृती हिरण्याक्ष इति प्रभावभूः । तपःश्रिया सर्वजगज्जयोर्जितामवाप भूतिं परिभूतवासवः ॥ १ ॥ कदाचिदास्थानसभाभुवं श्रितः स विप्रचित्तिद्रुमभौमतारकान् । निसुम्मसुम्भान्यकजम्भशम्बरान्महासुरान्वृत्रमुखानभापत ॥ २ ॥ १. 'यत्नाप्तः' ग, २. 'अर्धाप्रोत्कार' ग, ३. 'शंभरान्' ग-घ.
१२ काव्यमाला अपि श्रुतं दृष्टमदृष्टमीदृशं सुरैः कृतं वक्रतया कुकर्म यत् । न मर्मसंलग्नविषोक्षितेषुवत्करोत्यहो दुःसहदाहलाघवम् ॥ ३॥ न लज्जते सज्जनवर्जनीयया भुजंगवक्रक्रिययापि दुर्जनः । धियं कुंमायासमयाभिचारिणीं विदग्धतामेव हि मन्यते खलः ॥ ४ ॥ रणाग्रभीतिलिखितेव चक्रिणा दिगन्तपट्टेष्वयशोमषीभरै: । भुजाभिमानाभरणः करोति किं सुधापहारं वनिताकृतिच्छलात् ॥ ५ ॥ निपीय पीयूषमुपायमायया जराक्षयादक्षयकायतां गताः । ध्रुवं समुत्सारितसंपदः सुराः सदैव निन्दन्त्यतिदीर्घजीवितम् ॥ ६ ॥ अदानभोगेन धनोदयेन किं मदस्पृशा द्वेषजुषा श्रुतेन किम् । सदम्भसंभारवता व्रतेन किं विपद्विमानेन कुजीवितेन किम् ॥ ७ ॥ यस्मिन्नूर्जिततेजसा निजभुजोत्साहाजिताः संपदो भुज्यन्तेऽल्पतरोऽप्यनल्पसुकृतैः पूज्यः स जीवक्षणः । याच्ञाक्लिष्टनिकृष्टचेष्टमनिशं कष्टेऽप्यपुष्टाशनं काकानामिव पुण्यपिण्डकभुजां कस्येष्टमायुश्चिरम् ॥ ८ ॥ विवासिताः स्वर्गपदान्मयाधुना सुधानिबद्धायतजीवितद्विषः । व्रतानि देवाः कुगतिक्षताः क्षितौ चरन्ति तीर्थेषु तपोवनेषु च ॥ ९ ॥ घनावमानाशनिशातितौजसां वियोगिनां दैवनिपीतसंपदाम् । प्रतिक्रियाहीनरिपुप्रणामिनां प्रजायतेऽतीव तपोवनादरः ॥ १० ॥ रिपोर्गतस्यापि शरीरशेषतां न नाम युक्तं क्षणमप्युपेक्षणम् । अतः सुराणां व्यसनप्रवासिनां समूलनिर्मूलनकर्म कुर्महे ॥ ११ ॥ इति स्थिरान्तर्गतगूढमन्युना यथार्थमुक्तं सुरवैरिभूभृता । निशम्य दैत्याः प्रमदात्तमूचिरे सुधापहारोग्रनिकारदारिताः ॥ १२ ॥ वयं त्वदाज्ञापरतन्त्रवृत्तयः पराभवं शत्रुकृतं सहामहे । रिपुक्षमापङ्ककलङ्कितं यशो न नाकिकान्ताश्रुजलैः पुनीमहे ।। १३ ॥ 1 १. "कियं' ख-ग. २. 'कुमारक्रियया' क-ख-ग, ३. 'भित्तिः' क-ख. ४. 'क. टेष्ट' क-ख-ग.५. 'चान्य' ग.
३.वराहावतारः] दशावतारचरितम् । १३ स कुञ्जरेन्द्रः स हयः स कौस्तुभः प्रसह्य सा श्रीः सा शशी स पादपः । हृताः सुरैरेव विलोकिताः पुरः प्रणष्टचेष्टैलिखितैरिवासुरैः ॥ १४ ॥ अमर्षिभिमर्पित एष दुःसहः सुधाशया दैत्यवरैर्व्यतिक्रमः । न सापि पीता बत निष्फलोदयः कृतोऽतिलोभादभिमानविक्रयः ॥१५॥ पुनः पुनः किं विपुलं विचार्यते समीहितं हन्त हिते विधीयताम् । भवत्यभावप्रभवे दिवौकसां न नाम नामापि यथा जगत्रये ॥ १६ ॥ इति प्रवृद्धोद्धतमन्युमूर्छितैः सुरारिभिः क्रूरतरैरुदाहृतम् । प्रियं समाकर्ण्य हिरण्यलोचनः प्रमोददिग्धः सचिवानभापत ॥ १७ ॥ अतीव युक्तं मतमायतिक्षमं भवद्भिरुक्तं हितयुक्तमुत्तमम् । विनाशसज्जः प्रथमं दिवौकसां क्षितिं स्थितिं देहधृतिं हराम्यहम् ॥१८॥ ममाज्ञया संप्रति सैन्यनायकाः प्रविश्य पातालतलं वलाधिकाः । क्षितिं समाक्षिप्य नयन्त्वदृश्यतामसंशयं संक्षय एव विद्विषाम्॥१९॥ इति प्रभोर्भूमभीमशासनं निशम्य दैत्याः पृथिवी प्रवासनम् । समुच्चलन्तश्चरणैः प्रचक्रिरे क्षितिं क्षयत्रासविसंस्थुलामिव ॥ २० ॥ अथ दितिसुतसेना मज्यमानाननानां स्थितिविदलनलज्जां दिग्गजानां दिशन्ती । धरणिहरणसज्जा मज्जयन्ती दिगन्ता- नविशदतिविशालोत्तालपातालमूलम् ॥ २१ ॥ क्षितौ हृतायां दितिजैः सदानवैर्जगत्सु जाते स्थितिलोपविप्लवे । भुवं समुद्धर्तुमथाच्युतः स्वयं वराहवक्र: प्रविवेश भूतलम् ॥ २२ ॥ स राजवर्ताचलतुल्यविग्रहः सशङ्खचक्रः शशिसूर्यवानिव । अकालसंध्यामिव पिङ्गलोचनः प्रभां वभार क्षयलक्षणां द्विपाम् ॥२३॥ स सप्तपातालतलान्तकोटरे निसूदितार्मुन्मददानवैर्महीम् । समुज्जहाराम्बुविहारलीलया तनीयसीं शेवलवल्लरीमिव ॥ २४ ॥ १. 'अमर्पितैः' ख. २. 'एव' ग-घ. ३. 'लोकात्' ख. ४. 'प्रयुद्ध' ग-ध. ५. 'असंशयः' ग. ६. 'प्रशासनम्' ग. ७. नीलवर्णो रत्नविशेषो राजवर्तः. ८. 'समस्त ग. ९. 'दुर्मद' ख.
काव्यमाला । १४ ४ ... पोत्रप्रान्तसमुद्धृता भगवतः क्रोडाकृतेः श्यामला दंष्ट्राग्रे शशिनीव लक्ष्मलहरीशोभां दिशन्ती क्षणम् । वकालोकनकम्पभीतितरला स्वेदाम्बुतिभ्यत्तनु- लीलापल्वलमुस्तपव्रलतिकालीलामुवाह क्षितिः ॥ २५ ॥ अथाययौ भूमिसमुद्धृतिक्रुधा सुधापहारस्मृतिवर्धमानया । भरेण दैत्याधिपतिश्चलच्चमूरज:पटग्रस्तसमस्तवासरः ॥ २६ ॥ ततस्तदुत्सृष्टशराश्ममुद्गरत्रिशूलपाशाङ्कुशशक्तितोमरैः । बभूव देवः परिपूरिताकृतिर्महाभ्रवर्षैरिव निश्चलोऽचलः ॥ २७ ॥ आशाकाशप्रसृतवपुषा व्याप्तसप्ताब्धिलोकः स्तोकारम्भक्षुभितभुवनभ्रंशशङ्कानिलीनः । स्वस्थां धृत्वा स्थिरनिजपदे क्ष्मां हिरण्याक्षमुग्रं क्रोडीकृत्य प्रसभमवधीत्क्रीडया क्रोडराजः ॥ २८ ॥ इति स भगवान्विष्णुर्जिष्णुर्जगत्कुशलक्रिया- प्रणिहितमतिः कृत्वा विश्वं समुद्धृतकण्टकम् । निजनिजपदे धृत्वा देवाञ्जगत्रितयस्थितिं विभुरभिनवोत्साहां चक्रे पुनः प्रथमामिव ॥ २९ ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते वराहावतारस्तृतीयः नरसिंहावतारश्चतुर्थः । हते महावराहेण हिरण्याक्षे क्षितिद्रुहि । हिरण्यकशिपुः श्रीमानभवत्तत्सुतोऽधिकः ॥ १ ॥ नो ननाम रणे यस्य क्षणाद्विश्वक्षयं विना । दोर्दण्डपीडनक्रीडाव्रीडाकुण्डलितं धनुः ॥ २ ॥ प्रतापकेसरी यस्य निःशेषीकृतविद्विषः । अलब्धयुद्धः सुष्वाप जगद्दिरिगुहागृहे ॥ ३ ॥ १. 'वक्र' ग. २. 'ताम्यत्' ख. ३. 'वलेन' घ. ४. 'सुस्यां' ग. ५. 'कृत घ. ६. 'अधिकस्तत्सुतोऽभवत्' ग. ।
१५ ४ नरसिंहावतारः] दशावतारचरितम् । स जम्भवृत्रनमुचिप्रमुखैर्दैत्यदानवैः । हेमसिंहासनासीनः सह भेजे सभाभुवम् ॥ ४ ॥ प्रणमद्यैत्यसामन्तप्रतिबिम्बभरक्षमे । विपुले रत्नपर्यङ्के विन्यस्तचरणाम्बुजः ॥ ५ ॥ (युग्मम्) पार्श्वे हठहृतामर्त्यतरुणीचामरानिलैः । प्राणेशविरहोच्छ्वासैरिव लोलांशुकाञ्चलः ॥ ६ ॥ तस्याग्रे विग्रहग्रस्तसमस्तसुरसंपदः । तेजसा मुद्रितः कश्चिन्न वक्तुमभवद्विभुः ॥ ७ ॥ तस्मिन्निःशब्दसंचारे दैत्यवृद्धः सभातले । प्राह राहुः शिरःशेषः सुरवैरं वहन्मुखे ॥ ८ ॥ दैत्याधिनाथ धन्योऽसि युधि येनासिधारया। क्षमापङ्ककलङ्काङ्कं कुलस्य क्षालितं यशः ॥ ९ ॥ सुरापकारशल्यानि भ्रूभेदेन तवाधुना । कामं कङ्कमुखेनेव हृदयादुद्धृतानि नः ॥ १० ॥ पूज्यं जन्म प्रथितयशसस्तस्य माहात्म्यपूतं मानस्तस्यामरगिरिगुरुर्वर्धते निष्प्रमाणः । बद्धस्तेन स्थिरगुणकथाहेतुरौचित्यसेतु- र्यस्योन्नत्या कुलमविकलं याति सर्वोन्नतत्वम् ॥ ११ ॥ अल्पागसां वृथास्माभिः कृता हिंसा दिवौकसाम् । विष्णुर्मूलं विकाराणामवलेपादुपेक्षितः ॥ १२ ॥ तन्वी मूर्तिः कुसुमकलिकाकोमला सा च वाणी वैकं सौम्यं हृदयमदयं दूषितं चेष्टितं च । वैदग्ध्यं तद्वत मधुरिपोर्मायया मौग्ध्यदिग्धं वाममूर्तेरमृतहरणे हन्त किं विस्मृतं वः ॥ १३ ॥ 1. 'विमले' ख. २. 'ओजसा' ख. ३. 'प्रभुः ग-घ. ४. 'सेतुरौचित्यहेतुः' क-ग. वक्रतरं हृदयं' ग. ६. 'रामामूर्तेः' ग.
काव्यमाला । यश्चमत्कारविरहान्न स्मर्ता स्नेहवैरयोः । तेन तुष्टेन रुष्टेन मित्रारिविफलेन किम् ॥ १४ दैत्येश्वरे हिरण्याक्षे क्षपिते तायलक्ष्मणा । शृङ्गभङ्गः समुत्तुङ्गो दैत्यक्षितिभृतां कृतः ॥ १५ ॥ साधारोदधिमन्थोत्थां लक्ष्मीं वक्षसि कुर्वता । तेनाबलानामस्माकं स्त्रीत्वमेवोपपादितम् ॥ १६ ॥ लक्ष्मीकौस्तुभपारिजातहरणं स्त्रीमायया वञ्चनं मत्कण्ठे कठिनेऽमृतस्य लुठतो विघ्नाय चक्रक्रिया । दैत्येन्द्रैरवलेपविद्रुतमदैर्दैवेन वा मुद्रितै- वैकुण्ठस्य शठस्य कुण्ठमतिभिश्चिन्त्यं न तच्चिन्तितम्॥१७॥ अधुना दानवपते खड्गपातपवित्रित: । पितुर्विष्णुवधश्रद्धाश्राद्धकालो विधीयताम् ॥ १८ ॥ इत्युक्ते राहुणा स्पष्टं दैत्याः क्लिष्टमुखत्विषः । बभूवुर्लक्ष्यवैलक्ष्याः प्रेक्षमाणाः क्षणं क्षितिम् ॥ १९ ॥ अमानमौनमूकेषु दानवेष्वभिमानिषु । उवाच तारकः कृत्वा राहोरभिमुखं मुखम् ॥ २० ॥ साभिमानमसंभाव्यमौचित्यच्युतमप्रियम् । दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥ २१ ॥ सवैकषेण कालेन दैत्येन्द्रे कवलीकृते । किं मिथ्याकारणत्वेन नीयते विष्णुरुन्नतिम् ॥ २२ ॥ कल्पान्ते क्षिप्यते येन सुमेरुः पांसुलीलया । विलम्बं कुरुते तस्य कः कालस्य बलीयसः ॥ २३ ॥ यस्य त्रैलोक्यभर्तुः सुरपतियशसां हर्तुराश्चर्यकर्तुः कोटीनां षण्णवत्या सुगणितवयसो वर्षसंख्या बभूव । ३. 'पवित्रितम्' ख-ग. १. 'मुद्रितपदैः' ख-ग. २. 'संचिन्तितम्' ख-ग. ४. 'श्राद्धकालाय दीयताम्' ख-ग. ५. 'मुढेषु' घ.
. ४ नरसिंहावतारः] दशावतारचरितम् । १७ निःशङ्काश्वासलीलालससरलमतेरसुप्तस्य मैच्या- श्चित्रं तस्यापि कालः कवलनकलनातीतविघ्नः कृतघ्नः ।। २४ ।। दैवमेव वधे तस्य कारणं दैत्यभूभृतः । हरिहन्ति हिरण्याक्षमिति किं केन संगतम् ॥ २५ ॥ नियन्त्रणं स्वतन्त्रस्य विचित्रचरितं विधेः । किं पात्यते न कीटेन शतशाखो वनस्पतिः ॥ २६ ॥ बलवान्दुर्वलं हन्तीत्येष नास्त्येव निश्चयः । दीपं हन्ति पतंगोऽपि पन्नगं च पिपीलकः ॥ २७ ॥ भीरुर्जयति सङ्ग्रामे याति वीरः क्षयं क्षणात् । एवंविधा एव भवे भवन्ति भवितव्यताः ॥ २८ ॥ दैत्येन्द्रस्यारिसंहारे प्रेरणा कोपयुज्यते । प्रेर्यते दन्तिदलने कानने केन केसरी ॥ २९ ॥ राहो निन्दापदेशेन कृता शत्रोः स्तुतिस्त्वया । न वेत्सि हृदयाभावादनौचित्योक्तिलाघवम् ॥ ३० ॥ इत्युक्ते तारकेणाप्तजीविनामिव मानिनाम् । साधुसाध्विति दैत्यानां निश्चेरुयुगपद्रिः ॥ ३१ ॥ अथ धर्ममतिः प्राह हिरण्यकशिपोः सुतः । प्रह्लादः पितुरासन्ने यौवराज्यासने स्थितः ।। ३२॥ तात तिष्ठत्सु वृद्धेषु घागुण्यज्ञानमानिषु । * मद्विधानामिदं वक्तुं युक्तमल्पधियां कथम् ॥ ३३ ॥ प्रस्थितानाममार्गेण निपातभयशङ्कया । दूराद्वारणनादेन येनकेनचिदुच्यते ॥ ३४ ॥ अयुक्तं यद्भगवतो विष्णोनिन्दाभिनन्द्यते । अशस्तं वाङ्मयं पापमभ्यस्तं स्वस्तिनाशनम् ॥ ३५ ॥ यस्य सद्गुणनिन्दायां श्रद्धया वाक्प्रवर्तते । सत्क्षेत्रोप्तमपर्याप्तमयशस्तस्य जायते ॥ ३६ ॥ 1. 'तेन' ग. २. 'संश्रुतम्' ख. ३. 'यान्ति वीराः' ख. ३ १८ काव्यमाला। विष्णोर्जगन्निवासस्य नैव द्वेष्योऽस्ति न प्रियः । दोषे वैरं गुणे प्रीतिनिसर्गेण जगद्गुरोः ॥ ३७ ॥ गुणहीना वयं नूनं त्रिदशा गुणशालिनः । हरिः कुतोऽन्यथास्मासु विमुखस्तेषु संमुखः ॥ ३८ ॥ प्रयत्नः स्वगुणाधाने येन बुद्धिमता कृतः । भूतये प्रणतास्तस्य मित्रतां यान्ति शत्रवः ॥ ३९ ॥ मित्रसृष्टिर्न भिन्नास्ति शत्रुजातिर्न भिद्यते । गुणेन जायते मित्रं दोषेणोत्पद्यते रिपुः ॥ ४० ॥ हिंसाविरहिता चेष्टा वाणी विनयकोमला । यस्यावरं मनस्तस्य शत्रुशून्या दिशो दश ॥ ४१ ॥ न तु विश्वाकृतेर्विष्णोः कर्तुं शक्या प्रतिक्रिया । यस्योदरदरीकोणे लीना शेते जगत्रयी ॥ ४२ ॥ आशाकाशावकाशप्रविसृतवपुषा व्याप्तनिःशेषविश्वः श्वासोल्लासावहेलातुलतरलतरोत्तालकल्लोलभाग्भिः । शुण्डोच्चण्डाभिघातस्फुटितमपि पुनःस्फुटिकस्फारवार्भि- श्चके मत्स्यावतारस्त्रिभुवनमिव यः कस्य देवः स जेयः ॥ ४३ ॥ यस्याकरोद्विकचनाभिभवाब्जकोषे सामस्वरेण विदधद्भ्रमराभिशङ्काम्। यज्ञोपवीतमुरसा धवलं दधानः संलग्ननालतनुतन्तुरिवाब्जयोनि: ॥ ४४ ॥ दृष्ट्वैवावर्तमानं घनभुवनगणं जातलोकानुकम्पः संपन्ने सर्गबन्धे स्थितिधृतिदलनातङ्कमाशङ्कमानः । पृष्ठे ब्रह्माण्डमन्यत्पृथुतरमकरोत्कूर्मरूपः कवाटं यस्तस्याचिन्त्यशक्तेर्वदति मितमतिः कः स्तुति कश्च निन्दाम् ॥४५॥ १. विद्यते' क-ख-ग-घ. २. 'जायते' ख-ग. ३. 'सप्ताब्धिलोकः' क. ४.स्फा टिकं क-ग, ५. 'वाग्भिः' ग. ६. 'तलतन्तु' क-ग.
४ नरसिंहावतारः] दशावतारचरितम् । १९ परोक्षेऽधोक्षजाक्षेपमधिक्षेपविवक्षया । . राहोर्व्याहरतो देहविरहात्तस्य शोभते ॥ ४६ ॥ न वैरे वाच्यता राहोर्यस्याद्यापि न शाम्यति । कण्ठे कठिनवैकुण्ठचक्रधारोद्धतव्यथा ॥ ४७ ॥ आक्रान्तिभरवक्रेण क्रूरचक्रेऽस्य चक्रिणः । किं दृष्टं नष्टचेष्टेन विश्वरूपं न राहुणा ॥ ४८ ॥ उचितं दैत्यवीरेण तारकेण महात्मना । कथितं यत्स कालेन दलितो मत्पितामहः ॥ ४९ ॥ कालश्च भगवान्विष्णुर्विश्वव्यापी सनातनः । अनाद्यन्तस्य यस्यान्तर्यान्ति कल्पान्तकोटयः ॥ ५० ॥ पूज्यतां विनयाद्विष्णुस्त्यज्यतां मोहदुर्ग्रहः । रक्ष्यतां यक्षिणी (?) लक्ष्मीः स्वहिते धीर्निधीयताम् ॥५१॥ मूर्खमन्त्रः खलप्रीतिः पथ्यद्वेषः प्रमादिता । प्रभविष्णुविरोधश्च विधिवैर्मुख्यलक्षणम् ।। ५२ ।। प्रह्लादगदितं श्रुत्वा निःशश्वासासुरेश्वरः । अङ्कुशाकर्षकषणक्लेशी वन्य इव द्विपः ॥ ५३ ॥ सोऽवदहत दैत्यानां दुर्निमित्तमुपस्थितम् । यदादिशति वृद्धानामुपदेशमयं शिशुः ॥ ५४ ॥ कुलस्यान्तनिमित्तेन स्त्रीणां दुश्चरितेन वा । पापशापेन वा नूनं जायन्ते कुलपांसनाः ॥ ५५ ॥ खकुलत्यागनिःस्नेहाश्चपला मलिनाः खलाः । कोकिला इव कुर्वन्ति परपक्षसमाश्रयम् ।। ५६ ॥ कुलक्रमागतेयं श्रीः प्रह्लादाय न रोचते । यस्य वन्दिपदे शत्रोः स्तोत्राङ्के रमते मतिः ॥ १७ ॥ १. 'परोक्षाधोक्षजा' क-घ. २. 'राहोरतितरां' क-ख. ३. 'धारापथ' ख, 'धारा- यु' गः ४. 'आक्रान्ततरवक्रेण क्रूरचक्रेण चक्रिणा' ग-ध. ५. “विनयी' क-ख-ग. ६. 'वैधुर्य' ग. ७. 'अङ्कुशाकर्षणक्लेशी वने' ग. ८. 'नव इव' ग-घ.. .
२० काव्यमाला ।। तेजोजीवदरिद्राणां दैन्यम्लानयशस्त्विषाम् । जायते शत्रुषु त्रासात्क्लीबानामिव संनतिः ॥ ५८ ॥ वंशक्षयक्षमः कृष्णवर्त्मा भवति दारुणः । दाहाय जनकस्यादौ टांकारमुखर: खलः ॥ ५९ ॥ सेक्तारं जनकं त्यक्त्वा परेषां वेश्मसंश्रयाः । वक्रवृक्षाः कुजन्मानः फलन्ति च नमन्ति च ॥६॥ कुठारिकेण येनैव च्छिन्नमूलः कृतस्तरुः । तस्यैव निर्मीनतया मूढः पतति पादयोः ॥ ११ ॥ कस्य प्रह्लाद मत्स्यादिमहाकारविकारिणः । विष्णोः स्तुत्या करोषि त्वमेताः शिशुविभीषिकाः ।। ६२ ।। भवन्त्येव भवे स्थूलाः सूक्ष्माश्चान्ये किमद्भुतम् । ब्रह्माण्डपरमाणुभ्यां दर्शिता स्थूलसूक्ष्मता ॥ ६३ ॥ अब्धौ धूमसमूहतुच्छतनवस्तोयं पिबन्त्यम्बुदा पीत्वालम्बनशून्यमम्बरतलं व्याप्यातताः शेरते । तद्गर्भाम्भसि विस्फुरन्ति दहनोद्गारोद्गता विद्युतः संसारे किमभित्तिचित्ररुचिरे नालोक्यते कौतुकम् ॥ ६४ ॥ वृत्रे शत्रुहरे मधौ जयनिधौ सुम्भासुरे भासुरे मायाधाम्नि मये रणार्णवयःसंतारके तारके । जम्भे स्तम्भितलोकनाथपृतने रुद्धाम्बरे शम्बरे वातापिन्यपि तापने प्रतपति स्वस्तिच्युतः क्वाच्युतः ।। ६५ ॥ उपदेशस्त्वया प्राप्तः कस्य मूर्खगुरोर्मुखात् । जलशायी जलपतिर्दैवतं यस्य सोऽच्युतः ॥ ६६ ॥ विचार्यमाणस्तस्यास्ति गुणलेशो न कश्चन । एतावदेव जानेऽहं दम्भसिद्धोऽयमच्युतः ॥ ६७ ॥ १. 'शत्रुसंत्रासात्' ग. २. 'संततिः' ख-ग. ३. 'झांकार' ग. ४. 'निर्माणतया :- ख-घ. ५. 'व्याप्य ततः' ख-घ, ६. 'संतानके' घ. ७. 'कोच्युतः' ग-घ. ८. त्वर- वाप्तः' घ. , -- . ४ नरसिंहावतारः] दशावतारचरितम् । २१ ध्यानं नेत्रनिमीलनं विहसनं भ्रूकुञ्चनं घूर्णनं शूत्कारश्वसनं विमूढगणनं शिष्यस्पृहोल्लासनम् । मूर्खत्रासनमुन्नतासनमतिप्रह्वस्यपादार्पणं धूर्तानां स्तुतिभूतिसूतिसदनं दम्भप्रभावादिदम् ॥ ६८ ॥ विश्वव्यापी स चेद्देवः सर्वस्यात्मा हृदि स्थितः । न तद्विरहितं किंचिदचरेपु चरेषु च ॥ ६९ ॥ योऽयं मरकतस्तम्भः सभायां मे पुरःस्थितः । अस्यान्तःस्थं न पश्यामि दुष्पुत्र तव दैवतम् ॥ ७० ॥ इत्युक्ते दितिजेन्द्रेण सहसा महसां निधिः । दीर्णान्मरकतस्तम्भान्निर्ययौ नरकेसरी ॥ ७१ ॥ सुवर्णशुक्तिद्वन्द्वाभं विभ्राणः श्रवणद्वयम् । अन्तःस्फुरत्कोपाग्निनिर्यज्ज्वालायुगोपमम् ॥ ७२ ।। सितः केसरभारोऽस्य वभौ स्कन्धद्वयाश्रयः । मेरुशृङ्गयुगासङ्गिशुभ्राभ्रवलयप्रभः ॥ ७३ ।। जृम्भमाणस्य तस्यास्ये ललास रसना मुहुः । कल्पान्तानललेखेव हेमाचलगुहागृहे ।। ७४ ॥ नखास्तस्य वभुभींतिभग्नैणाङ्ककलोज्ज्वलाः । दैत्यासृक्पानसंनद्धमृत्युस्फटिकशुक्तयः ॥ ७९ ॥ तस्य रौद्रतयोन्निद्ररोमाञ्चोत्कटकण्टकाः । असूचयन्वहिर्घोरक्रौर्यकर्कशतामिव ॥ ७६ ।। दैत्यकल्पान्तकालेन द्वादशार्कोदयविपा । तत्तेजसा व्यदीर्यन्त तेजांसि च तमांसि च ॥ ७७ ।। करालकेसरिमुखं दृष्ट्वा दितिजकुञ्जराः । 'ते भग्नवदनोत्साहा ययुर्मददरिद्रताम् ।। ७८ ॥ १. 'गहन' घ. २. 'दनुजेन्द्रेण' ख, 'दैत्यराजेन' ग. ३. 'द्वयी' क-घ. ४. 'प्रताप' क-ग. ५. 'विलसत्' ग. ६. 'तं' क-घ.
२२ काव्यमाला। तदृर्शनाद्भुताक्रान्तः किमप्यातङ्कशङ्कितः । आसनादुच्चलन्नूचे हिरण्यकशिपुः श्वसन् ॥ ७९ ॥ नायं सिंहो न चायं पुरुषवपुरहो कोऽप्यपूर्वप्रकारः क्षिप्रोपेक्षाक्षमास्मिन्नहि नहि तरसा गृह्यतां गृह्यतां भोः । आस्तां सज्जोऽहमस्य स्वयमिह दमनायेत्युदीर्यासुरेन्द्र- स्तं चक्रे शस्त्रवृष्टया निचितमुपचितोदञ्चिरोमाञ्चपूर्णम् ॥ ८० ॥ व्याप्तः शस्त्रास्त्रवर्षेण हेलोन्मीलितलोचनः । हरिदैंत्येन्द्रमादाय विस्फुरन्तमपीडयत् ।। ८१ ॥ उत्तानमङ्के विन्यस्य पिङ्गभ्रूभङ्गया दृशा। अकालसंध्यामसृजन्नृहरिस्तं विलोकयन् ।। ८२ ॥ दैत्येन्द्रहारररत्नाङ्के स्ववक्रं प्रतिबिम्बितम् । करालकूरमालोक्य सोऽभूदुद्भूतविस्मयः ॥ ८३ ॥ अयं मां योद्धमायात इतीव हसितच्छलात् । दैत्यवक्षसि चिक्षेप हरिर्नखपरम्पराम् ॥ ८४ ॥ तस्योग्रसिंहनखशुक्तिशिखावखात- वक्षःस्थलव्रणगुहाप्रतिशब्दधीरः । भोस्तिष्ठ तिष्ठ चपल क्व गमिष्यसीति कण्ठे स्वनः सह ययावसुभिः समाप्तिम् ।।. ८५ ॥ विदीर्णे दैत्येन्द्रे खरनखरदानैर्नरहरे- श्वकाशे रक्ताक्तत्रुटितततहाराग्रगलितः । शुकीतुण्डाघातव्यतिकरदलद्दाडिमरुचि- र्व्रजद्भिर्जीवांशैश्चित इव लुठन्मौक्तिकभरः ॥ ८६ ॥ वृत्रश्चित्राप्तिाभस्तिमिततमनमत्तारकस्तारकोऽपि ध्वस्तः स्तम्भेन जम्भः प्रणिहितनयनः शम्बरोऽप्यम्बराग्रे । १ 'क्षुद्रोपेक्षा' ग-घ. २. 'इति' ख. ३. 'व्यलोकयत' क-ग-घ. ४. रत्नागे' ख-ग. ५. 'तिमिरमित' ख, 'स्तिमितमितमित घ.
५ वामनावतारः] दशावतारचरितम् । २३ वातापिः सानुतापः शतधृतिरभवन्निर्ममः कालनेमि- र्दैत्येन्द्रे रौद्रवृत्त्या नरहरिदलिते विप्रचित्तिर्विचित्तः ॥ ८७ ॥ हत्वा हिरण्यकशिपुं हरिर्हरिणलीलया । हर्षेण दर्शनायातान्ददर्श त्रिदशान्पुरः ।। ८८ ॥ भीभग्नैरावणाग्रात्सुरपतिरचलद्विद्रुताश्वश्च भानु- स्त्रस्तं तत्याज वाहं महिपमपि यमश्चन्द्रमा निर्मगोऽभूत् । पार्श्वे वक्रं विविग्नं गणपतिरकरोदित्यमोत्तमाना- मग्रे तस्योग्रमूर्तेः स्थगितगतिरभूत्संभ्रमः सप्रहर्ष: ॥ ८९ ॥ इति स भगवान्कृत्वा विष्णुर्जगज्जनितोदयं कुशलमचलं प्रह्लादाय प्रदाय सहायुषा । निजनिजपदे देवान्धृत्वा स्थिरस्थितिपालने दयितमगमत्सौम्यां मूर्ति विधाय सुधाम्बुधिम् ॥ ९० ॥ , इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते नरसिंहावतारश्चतुर्थः । वामनावतारः पञ्चमः। भक्त्याभिषिक्तः प्रहादः स्वयं देवेन विष्णुना । विदधे धर्ममर्यादां दितिजानां विभूतये ॥ १ ॥ विकासहेतुर्गुणिनां मित्राभ्युदयकारिणः । प्रभातस्येव तस्य श्रीनिर्दोषाभिमताभवत् ॥ २ ॥ कालेन दैत्यमातङ्गाः संजातनिजदुर्मदाः । तच्छासनाङ्कुशाकर्पक्लेशलेशं न सेहिरे ॥ ३ ॥ राज्येऽभिषिच्य प्रह्लादः पात्रं पुत्रं विरोचनम् । भेजे संतोपसाम्राज्ये निःसंख्यसुखसंपदम् ॥ ४ ॥ कालेनासुरराज्येऽथ दैत्यदोपासहिष्णुना । त्यक्ते विरोचनेनापि तत्सुतोऽभूद्विभुर्बलि: ॥ ५ ॥ १. 'हारिण' ख. २. 'भीमग्नैरावणाग्र:' ग-घ. ३. 'धृत्वा देवान्' ख-घ.. ४. 'निःसङ्ग' ग.
२४ काव्यमाला। विक्रमप्रभवा संपत्संपन्नाभिनवोदया। सहस्रगुणतामेति धर्मेणाप्यायिता यदि ॥ ६ ॥ मार्गणापूरणासक्तिविस्तीर्णगुणसंततिः । स्वचापतुल्यस्त्रैलोक्यमजयल्लीलया बलिः ॥ ७ ॥ ससत्त्वतातिगाम्भीर्यं तेजः स्फूर्जितमूर्जितम् । तत्तस्य भूषणमभूदृूषणं यन्महोदधेः ॥ ८ ॥ न बाणदानपूर्णेन शत्रुणा याचकेन च । प्रधने मार्गणे तस्य पुनः पाणिः प्रसारितः ॥ ९ ॥ क्षीणदोषस्य तस्याद्यैर्भिविभिर्वा दिनैरिव । न ग्रीष्मान्तदिनाभस्य महत्त्वेऽनुकृतं परैः ॥ १० ॥ शासनोल्लासितस्तस्य भ्रूविलासाभ्रविभ्रमः । चकार सुरहंसानां सहसैव विवासनम् ॥ ११ ॥ विपन्नविभवोत्पन्नदैन्याः शून्यवनाश्रयाः । गुणाप्तजनरागेण तेन विस्मारिताः सुराः ॥ १२ ॥ अतपत्तपनो भूत्वा सोमो भूत्वासृजत्सुधाम् । उवाह हव्यं भूत्वाग्निर्वायुर्भूत्वा ववौ स्वयम् ॥ १३ ॥ स दधार धरां धीरः शेषात्मा सचराचरम् । विधिर्भूत्वासृजद्विश्वं कुर्वन्सर्वामरक्रिया: ॥ १४ ॥ मौलौ कमलजन्यस्तां हेममालामुवाह सः । संध्यामिव जगद्वन्द्यां प्रतापार्कोदयाग्रजाम् ॥ १५ ॥ तस्यातपत्रैर्यात्रासु गन्धर्वगणगीतिभिः । ननृतुः षट्सहस्राणि सुरवारमृगीदृशाम् ॥ १६ ॥ तं सभाम्भोजिनीराजहंसं सिंहासनस्थितम् । सेवाप्ताः सप्तलोकेशमसुरेन्द्राः सिषेविरे ॥ १७ ॥ १. 'वा' ख-ग. २. 'शासनोल्लासनः' ख.. ३. 'विपत्ति' क-घ. ४. 'सधराधराम्' ग-घ. ५. 'सृष्टिं क-घ. ६. 'सर्व' ख.
५ वामनावतारः] दशावतारचरितम् । ૨૬ तारकस्त्रिशिरा वृत्रः शम्बरस्तुरगाननः । विप्रचित्तिर्द्रुम: सुन्दः सुबन्धुबन्धुरन्धक: ॥ १८ ॥ वातापिनमुचिर्नम्भः सुम्भः शंभुर्जलोद्भवः । मायावी महिपः क्रौञ्चः कैटभो मधुरिल्वलः ॥ १९ ॥ .. राहुर्गजासुराद्याश्च तत्सभासभ्यतां ययुः ॥ २० ॥ स बभौ जाह्ववीधूतव्यजनेनोपवीजितः । सेवाप्तेनेव लोलांशुकलापेन हिमत्विपा ॥ २१ ॥ विम्बितानन्तसामन्तलोकमौक्तिकशोभिना । स हारेण हरेश्चक्रे विश्वरूपप्रतिक्रियाम् ॥ २२ ॥ मणिकङ्कणकेयूरकिरणैः सोऽदिशदिशाम् । दारिद्यद्रौवणोन्निद्रां सृष्टिं रत्नमयीमिव ॥ २३ ॥ मौलौ तस्य सितोष्णीपपल्लवश्वपलाञ्चलः । शुशुभे भुवनाक्रान्तिहर्षहास इव श्रियः ॥ २४ ॥ वज्रदन्तः प्रतीहारस्तस्याग्रे विदधे दिशः । हेमवेत्रांशुभिः पिङ्गभ्रूभङ्गैरिव निश्चलाः ॥ २५ ॥ सभां निःस्पन्दनिःशब्दां स कृत्वाङ्गुलिसंज्ञया। प्रसादप्रणयोत्साही दैत्यराजं व्यजिज्ञपत् ॥ २६ ॥ पतति विनयपूते यस्य यस्य त्वदीयः शिरसि नखमयूखोत्केसरः पादपद्मः । उपविशति सहा तत्र तत्रातपत्र- व्यजनतिलकहासा हारझांकारिणी श्रीः ॥ २७ ॥ एते वहिः प्रतीक्षन्ते देव सेवार्थिनस्तव । शकभ्रंशनिरालम्वाः सिद्धगन्धर्वकिंनराः ॥ २८ ॥ दृशं देहि प्रसादा प्रणमत्येष मातलिः । प्रवेशप्रतिषेधोऽस्य नारदेन निवारितः ॥ २९ ॥ १. 'स्कन्दः' ख-ग-घ. २. अत्राश्लिोकबुटितः सर्वेषु पुस्तकेषु. ३. 'दारण' ख. ४. 'शत्रु' ख. - ४ २६ काव्यमाला। एष विज्ञापयत्यग्रे हयग्रीवो हयाधिपः । उच्चैःश्रवाः श्रीसहजः कस्यां धुरि निधीयताम् ॥ ३० ॥ आज्ञामर्थयते देव गजाध्यक्षो गजासुरः । वास्तामैरावणो गन्धं सहते नान्यदन्तिनाम् ॥ ३१ ॥ भार्गवस्य गिरा लब्धतत्तुल्याभ्यर्चनासनः । मान्यतामवधानेन प्रस्तुताशीबृहस्पति:॥ ३२ ॥ विज्ञप्त्यवसराकाङ्क्षी राहुर्बहुमतस्तव । कमलाकेलिसदनं वदनाब्जं निरीक्षते ॥ ३३ ॥ प्रभोरभिमुखः कृत्वा क्षणं विज्ञापनामिति । परिवृत्ताननोऽग्रस्थान्प्रतीहारोऽब्रवीत्पुनः ॥ ३४ ॥ रम्भे स्तम्भय विभ्रमभ्रमकरीं निर्हादिनीं मेखलां गीतं संवृणु चित्रसेन चतुरं स्वैरं पुनर्गास्यसि । आशीर्न प्रतिषिध्यते कुरुत तां संक्षिप्य सप्तर्षयो राहुर्दैत्यमहत्तमः प्रकुरुते विज्ञप्तिमग्रे प्रभोः ॥ ३५ ॥ द्रष्टा स्वर्गपुरे धृतः क्षितितले दत्तोऽधिकारी क्षमः पाताले विहितश्च तत्समुचितास्तत्रैव विज्ञप्तयः । देवः संप्रति निर्वृतिप्रणयिनीं निश्चिन्ततां सेवते पर्याप्तां सुखसुप्तसप्तभवनव्यापारपारंगमः ॥ ३६ ॥ इत्युक्ते वज्रदत्तेन तद्भूनिर्दिष्टवेत्रिभिः । कृते सभाग्रे निःशब्दे भूलेखाङ्गुलिसंज्ञया ॥ ३७ ॥ बलिः स्तोकनमन्मौलिरभिनन्द्य बृहस्पतिम् । तन्मानालोकनोत्साहादुच्चैरुच्चारिताशिषम् ॥ ३८ ॥ कृत्वा दृक्संविभागेन प्रणतानां कृतार्थताम् । विभज्याभिमताज्ञाभिः प्रणयं शासनार्थिनाम् ॥ ३९ ॥ स प्रसादादरस्निग्धस्मितदिग्धाधरद्युतिः । चक्रे श्रवणसंनद्धं राहोरभिमुखं मुखम् ॥ ४० ॥ १. 'द्वारि' क-ग-घ. २. 'विभ्रमभ्रमरकं निर्हादिनीं मेखला' ख, ३. 'निश्चिन्त्यतां सेव्यते' ख. ४. 'प्रसादादरोदारस्मित' ख.
५ वामनावतारः] दशावतारचरितम् । २७ क्षणं कुण्डलयोस्तस्य चण्डरश्मिशशित्विपोः । राहुसंदर्शनत्रासादिवाभूत्कम्पविप्लवः ॥ ४१ ॥ उच्यतामिति तेनोक्तः प्राह राहुरदेहताम् । दंष्ट्रांशुपटलस्पर्शपटेनाच्छादयन्निव ॥ ४२ ॥ जीर्णत्वादतिवृद्धानां क्लेशाय चिरजीवितम् । सर्वभाववियोगेन सदा येपामनिर्वृतिः ॥ ४३ ॥ रम्यं किं त्वेकमेवास्ति विस्तीर्णस्यायुषः फलम् । दृश्यते यत्क्वचित्किंचित्सोत्कर्षचरिताद्भुतम् ॥ ४४ ॥ सर्गारम्भदिने जातैर्नस्माभिर्दृष्टमीदृशम् । तदैश्वर्यं त्वदैश्वर्यप्रभावस्योपमाक्षमम् ॥ ४५ ॥ इयं श्रीरपरिश्रान्ता प्रभावोऽयं भुजोद्भवः । इयं शक्तिर्यशःसिक्ता कस्यान्यस्य यथा तव ।। ४६ ॥ सर्गारम्भान्निसर्गेण नैव दृष्टो न च श्रुतः । अदर्पसंपत्प्रणयी निर्लोभविभवो जनः ॥ ४७ ॥ नतिर्मूर्ध्नि श्रुतं श्रोत्रे हृदये सत्त्वमुज्ज्वलम् । मौलिकुण्डलहारास्ते पुनरुक्तं विभूषणम् ॥ ४८ ।। यशः सप्तसु लोकेषु श्रीराश्रितगृहेषु च । प्रोषितारातिचित्तेषु प्रतापाग्निस्त्वयार्पितः ॥ ४९ ॥ श्रुतमाश्रितवात्सल्यं कस्य वा सदृशं तव । प्रभोः प्रापयतो भृत्यान्भ्रुवैव भुवनेशताम् ॥ ५० ॥ त्वत्पादाब्जप्रणामे नखकिरणमिलन्मौलिपट्टेन बद्धे जम्भेनोत्तम्भिता भूः सुरभवनवती शातकौम्भाद्रिभर्तुः । पातालं तालकेतोः सकलमुपनतं तारकेणाहृता भूः कौबेरः कोष एव प्रविशति नमुचेर्वेश्म युष्मद्विलब्धः ॥५१॥ प्रसादभूमयः सर्वे दैत्यास्ते भुजशालिनः । महोत्साहास्त्वयं राहुरबाहुः क्वोपयुज्यते ॥ ५२ ॥ १. 'प्रभवस्य' ख. २. 'प्रथयतः' ख..
२८ काव्यमाला। अहं हि हितमात्रैकचिन्तालब्धप्रजागरः । त्वत्पितामहमुख्यानां भोगभागी निरर्गलः ॥ १३ ॥ अत्यन्तस्थविरः कायापायसंकुचितोद्यमः । चित्तग्रहं न जानेऽहं तारुण्यतरलस्य ते ॥ ५४ ॥ तुहिनातपतुल्योऽयं वीणापटहसंनिभः । न सङ्गः श्लिष्टतामेति वृद्धस्य तरुणस्य च ॥ ५५ ॥ केशोत्तालनमङ्गभङ्गवलनं भ्रूविभ्रमोल्लासनं यत्तत्कत्थनमप्रसङ्गहसनं दन्तप्रभादर्शनम् । उत्सिक्तै: प्रकटीकृतं विटनटैः कौटिल्यनाट्यायितं यूनां वृद्धमतिद्विषामभिमतं प्रायः प्रभूणामिदम् ॥ ५६ ॥ भवानभिमुखायातैर्भृत्यैरभिमुखीकृतः । उत्सङ्गवर्धितमपि त्वां न जानामि सेवितुम् ॥ १७ ॥ कोषप्रवेशकुशलाः सकलां कमलश्रियम् । मधुपा मधुरालापनिपुणा एव भुञ्जते ॥ १८ ॥ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं मत्स्यः श्रीपरिरम्भनिर्भरतरं व्याकोशकोषोन्मुखैः । आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरै- र्दूरादेष निमेषशून्यनयनः पद्मं समुद्विक्षते ॥ १९ ॥ दैवेन पक्षपातोऽयं कृतः कायव्ययाय मे । त्वत्कृतः पक्षपातस्तु न मयाप्तः शरीरदः ॥६० ॥ ऐन्द्रं वारुणमाग्नेयं याम्यं सौम्यं चै पावनम् । प्राजापत्यं च कुर्वाणः कर्म सर्वं त्वमास्थितः ॥ ६१ ॥ आस्तां शरीरविरहक्लेशप्रशमनं मम । त्वद्विभूतिप्रभावेऽस्मिन्प्रकृतं हारितं मया ॥ ६२ ॥ पीयूषपानपैशुन्यमन्युशल्यानुबन्धिनः । विधिना मम निर्दिष्टौ चन्द्रार्कौ जातु भोजनम् ॥ ६३ ॥ १. 'देहमात्रैक' ख. २. 'आयातैः' क-ग-घ, ३. 'सपावनम्' ख.
५ वामनावतारः] दशावतारचरितम् । २९ भवद्भूभङ्गासिंहेन त्रासितो हरिणाश्रयः । न वेद्मि विद्यते क्वेन्दुर्विद्रुताश्वः क्व भास्करः ॥ ६४ ॥ चिरसेवापरिश्रान्तः क्षीणवृत्तिर्निरुद्यमः । विशेषलाभत्यक्ताशः स्वेनैवार्थेन तुष्यति ॥ ६५ ॥ तस्मान्ममानुरोधेन क्रियतामर्कचन्द्रयोः । त्वदादेशविमुक्तैव निर्विघ्ना गगने गतिः ॥ इत्युक्ते राहुणा नासान्यस्ताङ्गुलितलः क्षणम् । आलुलोके बलि: क्षोणीं वैलक्ष्यक्षामलोचनः ॥ १७ ॥ सोऽवदन्मुखमुद्यम्य शनैर्मुकुलितस्मितम् । दिशन्दिक्षु प्रसादार्द्रो दृष्टिं चन्द्रमयीमिव ॥ १८ ॥ मदाज्ञाप्रतिषिद्धोऽपि स्वाधिकारोऽर्कचन्द्रयोः । अधुना निर्विबन्धेन वज्रदन्त विमुच्यताम् ॥ १९ ॥ इति शासनमम्लानप्रसादप्रभवं विभोः । प्रतीहारः समादाय वेत्रिमण्डलमादिशत् ॥ ७० ॥ अत्रान्तरे समासन्नस्नानावसरसूचकः । उदभूद्भुवनव्याप्तिमुखरः शङ्खनिःस्वनः ॥ ७१ ॥ राहोराश्रितवत्सलः फलवतीं कृत्वार्थनां मानदः सर्वाशापरिपूरकः प्रणयिनामुन्निद्रकल्पद्रुमः । वेत्रिव्रातनिवेद्यमानविनमत्सामन्तचूडामणि- व्याकीर्णोशुविचित्रितादुदचलत्सिंहासनाग्राद्वलिः ॥ ७२ ॥ अथ कीर्तिसुधाधौतसुकृतः स्नपनं विधिम् । विधाय प्रययौ श्रीमान्दानस्थानभुवं बलि: ॥ ७३ ॥ तत्र त्रिवेदीविद्वभ्द्य: काञ्चनप्रचयान्बहून् । मेरुभ्रमोपविष्टाभ्रानदभ्रान्प्रत्यपादयत् ॥ ७४ ॥ १. 'हरिणो यथा' क-ग. २. 'त्यक्तविशेपलाभाशः' क-ख. ३. 'निर्मुखा' ग-घ. ४. 'क्षणात् क-ख. ५. 'व्यापी' ख. ६. 'स्नानसंविधिम्' ख.
३० काव्यमाला। मुहुर्विप्रार्प्यमाणानां हयानां हेममालिनाम् । स्खलत्खलीनफेनौधैर्यशःसिक्तेव भूरभूत् ॥ ७५ ॥ दन्तिदानक्षणे तत्र घटासंघट्टघट्टित: । संश्लिष्टघण्टाटंकारैर्ययुर्मुखरतां दिशः ।। ७६ ॥ रत्नभारानताश्चर्यस्यां यस्यां दिशि द्विजाः । सन्तः संतोषिताश्चक्रुस्तस्यै तस्यै नमो नमः ॥ ७७ ॥ तस्याग्रे रोहणाद्रिः शिरसि धृतमहारत्नसंपूर्णपात्रः कैलासः शक्रशैलः सह बहलतरैः कल्पवृक्षैः सदेहैः । भूमिश्चिन्तामणिः श्रीर्विविधनिधिगणः कामधेनुः सुधाब्धि- र्भ्रूक्षेपाज्ञाविलासे प्रचरणचतुरा दानकाले बभूवुः ॥ ७८ ॥ संपूर्णेष्वर्थिसार्थेषु याचकाभावदुःखिनः । विश्रान्तपाणेश्चिन्तान्तर्मुहूर्तमभवद्वले: ॥ ७९ ॥ दानोद्यमेऽर्थिविरहाद्विपुलां विभूतिं स क्षिप्रमूषरमहीमिव मन्यमानः । दृष्टि मुहुर्दिशि दिशि प्रदिदेश दीर्घा- मस्तोकलोककरुणामृतवृष्टिमिष्टाम् ॥ ८० ॥ सर्वार्थानथिसार्थेभ्यः परिकल्प्याविकल्पधीः । निजजीवितदानेन बलिश्चक्रे मनोरथम् ।। ८१ ॥ अथ त्यक्तजलासङ्गः प्रसन्नगगनद्युतिः । प्रतिबुद्धः शरत्कालः श्रीकान्तः समुपाययौ ॥ ८२ ॥ मयूरा मौनिनोऽरण्ये ययुर्दैन्यनिलीनताम् । शरत्कालेन बलिना सुरा इव हृतश्रियः ॥ ८३ ॥ ववुर्देवकदम्बेषु यातेषु विशरारुताम् । द्युलोकशोकनिःश्वासा इव सप्तच्छदानिलाः ॥ ८४ ॥ १. 'विलासप्रचरण' ख. २. 'अफलां' ख. ३. 'प्रतिबुद्धशरत्कालः' ख..
५ वामनावतारः] दशावतारचरितम् । ३१ तीव्रशूरप्रतापेन नष्टमाना समाययौ । विलुप्तावरणोत्साहा हीनतां सुरवाहिनी॥ ८५ ॥ सदानवप्रभोल्लासं वभौ भ्राजिष्णुतारकम् । शरन्निशासु विपुलं दैत्यैश्वर्यमिवाम्बरम् ॥ ८६ ॥ लोकपालवियोगिन्यः ककुभः काशपाण्डुरा: । फुल्लैः कमलकल्हारै: कृतशय्या इवावभुः ॥ ८७ ॥ शुशुभे शैलशीर्षेषु नक्तं दीप्तौषधिव्रजः । नश्यतामिव मेघानां विद्युल्लेखाचयश्च्युत: ॥ ८ ॥ भग्ने प्रभौ सहस्राक्षे पयोदास्त्यक्तकार्मुका: । ययुस्तीव्रव्रतेनेव तनुतां भस्मपाण्डुराः ॥ ८९ ॥ बलिराज्योपमे तीव्रप्रतापे शरदुद्भवे । नाक्रान्तिः शक्रचापस्य भ्रष्टस्यादृश्यत क्वचित् ॥ ९० ॥ ययुः शुकमृगापाते कलमक्षेत्रपङ्ग्यः । विधवा इव तारुण्ये कृच्छूसंरक्षणीयताम् ॥ ९१॥ काशेन्दुहंसकुमुदैर्महीव्योमसरिद्दिश: । दानोदितैरिव बलेर्यशोभिः शुभ्रतां ययुः ॥ ९२॥ अथास्मिन्समये जग्मुः सुराः शरणमच्युतम् । निवारितार्चाबलिना वलिना बलिना जिताः ॥९३॥ घनावमानसंतप्ता मानलोपाप्तलाघवाः । प्रकाशाशाप्रणयिनः शारदा इव वासराः ॥९४ ।। ते क्षीरोदधिमासाद्य ददृशुः शेषशायिनम् । सप्रसादं सकमलं शरदारम्भसंनिभम् ॥ ९५ ॥ समुच्छ्वसत्फणाग्रस्य फुल्लफेनाम्बुधेरिव । शेषस्योपरि पर्यङ्कबन्धेन सुखमास्थितम् ॥ ९६ ॥ प्रभाभिरामं श्रीकान्तं पीताम्बरमनोहरम् । प्रभातमिव लोकानां कल्याणोदयकारणम् ॥ ९७ ॥ १. विलुप्सरवणो' क, 'विलुप्तरचनों घ. २. विग्रहाः' ग, ३. दानोद्यतैः' ख-ग-घ.
काव्यमाला। तं प्रणम्य सहस्राक्षप्रमुखास्त्रिदिवौकसः । धृतिसंजीवनं प्रापुस्तत्प्रसादावलोकनम् ॥९८॥ प्रवासव्यसनोद्विग्नान्भगवान्भूतभावनः । तान्विभाव्याभवत्क्षिप्रं वैलक्ष्यविनताननः ॥ ९९ ॥ शनैश्चिन्ताविषावेशप्रशमासङ्गिनीं गिरम् । उज्जगारामृतोद्गारगुर्वी गरुडलाञ्छनः ॥ १०० ॥ चिरप्रवासनिःश्रीकशोकशल्यशलाकया । चिन्तया व्यथिता यूयं सततं प्रथमानया ॥ १०१ ॥ दैत्यदौरात्म्यसंजाता सह्या सर्वात्मना विपत् । ते कथं भाजनं भूतेर्ये सहन्ते न दुर्दशाम् ॥ १०२॥ सुखलवदशाहर्षक्लैब्ये खलः खलु खेलते स्खलति भजते लेशक्लेशे विषादविषूचिकाम् । भवति न सतां दर्पोद्दामा न दैन्यमयी मति- र्दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ।। १०३ ।। त्यक्त्वा श्रीर्दुर्जनान्दैत्यान्साधून्युष्मानुपैष्यति । स्थिरा सतां न विपदः खलानामिव संपदः ॥ १०४ ॥ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥ १०६ ।। स्वाभ्येपेशलता गुणे विनतता हर्षे निरुत्सेकता मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता । साधौ सादरता खले विमुखता पापे परं भीरुता दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥ १०६ ॥ उक्ते हिते भगवता पद्मनाभेन भूतये । सुरास्तमूचिरे वाला इव वात्सल्यलालिताः ॥ १०७ ॥ देव त्वय्यपि संनद्धे हितचिन्तासु नः परम् । इयती कर्मवैचिच्याहर्वारा दुःखसंततिः ॥ १०८ ।। १. 'निःशूक' ख. २. 'गतिः' क. ३. 'सुखेषु दुःखेषु च ख. ॥
mi . ५ वामनावतारः] दशावतारचरितम् । जीवामः क्लिष्टसंक्लिष्टा निश्चेष्टा नष्टवृत्तयः । वनान्तविवरालीनाः शिशिरे मधुपा. इव ॥ १०९ ॥ बलिना वयमाक्रान्ताः प्राक्तनेनेव कर्मणा । त्वत्प्रभावोद्भवां भोक्तुं विभूतिं न लभामहे || ११० ॥ बलिप्रभावादस्तोकैस्त्रिलोकी लोककण्टकैः । इयं त्वद्भुजगुप्तापि लुण्ठ्यते दैत्यदस्युभिः ॥ १११ ॥ सा नन्दनोद्यानवती त्द्दता तेनामरावती । वने विनोदयत्यस्मान्मनोरथपथागता ॥ ११२ ॥ वने स्वर्गपुरीमेव चिन्तयन्त्यः सुराङ्गनाः । काङ्क्षन्त्युत्कण्ठया निद्रां स्वप्नसंदर्शनाशया ॥ ११३ ॥ अग्रे समग्रसैन्यानां बलिसंश्रयनिर्भयः । अहो बाहुविहीनोऽपि राहुराहवमीहते ॥ ११४ ॥ दैवेनेवार्पिताक्रान्तिर्बलिनाश्चर्यकारिणा । सहस्राक्षस्य निर्बन्धादन्धकः श्रीविबन्धकः ।। ११५ ॥ जृम्भते तारकः कामं त्रिदशश्रीप्रतारकः । दुःशीलः स बलेः शक्त्या लीलातरलतारकः ॥ ११६ ॥ गजासुरः कथायाते स्पर्धाबन्धे मदान्धधीः । बलेरग्रे गणपतेरेकदन्तस्य लज्जते ॥ ११७ ॥ शोचन्सिंहनखोत्खातं हिरण्यकशिपुं रुरुः । असंनिधानानुशयी हरिणा योद्धुमिच्छति ॥ ११८ ॥ सहस्रदोष्णा बाणेन बालेन बलिसूनुना । गुहवाहमयूरोऽपि नीतः क्रीडाशिखण्डिताम् ॥ ११९ ॥ वहिवाहशुकस्तेन न्यस्तः काञ्चनपञ्जरे । गृहोपवनवापीषु राजहंसाश्च वारुणाः ॥ १२० ॥ १. 'स्थितां पुरीं' ख. २. 'निबन्धकः' घ. ३. ख-पुस्तके पूर्वोत्तरार्धयोर्व्यत्ययः. ४. कनक ख. 1.
काव्यमाला। .. सोऽपि प्रतापशिखिना युगपत्संयुगोन्मुखः । अचिरात्रिपुरप्लोषं रौद्रो बाणः करिष्यति ॥ १२१ ॥ शम्बरोऽम्बरचित्राभं दर्शयत्यद्भुतं रणे । यदस्य शत्रुहृदये शक्तिर्व्रजति शूलताम् ॥ १२२ ।। यान्ति निष्फलतामेव तेषूपायाः प्रकल्पिताः । उपकाराः कृतघ्नेषु सज्जनेष्विव मन्यवः ॥ १२३ ॥ समतां सामविमुखः सामस्वनविधायिनः । स तवाप्यश्वशीर्षस्य हयग्रीवः समीहते ॥ १२४ ॥ सुरसर्वस्वहारिभ्यस्तेभ्यः किं वा प्रदीयते । मेरुरत्नाकरवती कोषो येषां जगत्रयी ॥ १२५ ॥ बलिशासनवश्यानां भेदो नास्ति सुरद्विषाम् । आलिङ्गति हयग्रीवं निर्वैरो महिषासुरः ॥ १२६ ॥ भवद्भूभङ्ग एवैकस्तेषां दण्डः क्षयक्षमः । सोऽप्यस्स्मद्भाग्यलेशेन मन्ये विस्मारितस्तव ॥ १२७ ॥ बलिः करोति भगवँल्लोकपालक्रियाः स्वयम् । लोके द्रष्टासि निःशेषे शेषे शेषे तु केवलम् ॥ १२८ ॥ इत्युक्ते त्रिदशैरूचे विचार्य चिरमच्युतः । सुराणां विभवभ्रंशं बलेश्च गुणगौरवम् ॥ १२९ ॥ बलिः पुण्यप्रवृत्तत्वान्नोच्छेद्यः सत्त्वसागरः । चिरं क्लेशार्दिता यूयमिति दोलायते मनः ॥ १३० ॥ विचार्यमाणस्तु बलेर्नात्मदोषः प्रदृश्यते । दैत्यदुर्जनसङ्गेन स गतश्चिन्तनीयताम् ॥ १३१ ॥ शमयति यशः क्लेशं सूते दिशत्यशिवां दशां जतयति जनोद्वेगाथासं नयत्युपहास्यताम् । भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं गिलति सकलं कल्याणानां कुलं खलसंगमः ॥ १३२ ॥ १. 'तेन मायाः ख. २. 'समत्वं' ख. ३. 'बलेः' ख-ग-घ. ४. 'लोलायते'ख.
५ वामनावतारः] दशावतारचरितम् । ३६ सर्वात्मना गुणनिधिर्न वध्यः सुकृती बलिः । किं त्वस्य विभवभ्रंशं करोमि भवतां हितम् ॥ १३३ ॥ हितक्रियासु युष्माकं न कार्यं गणयाम्यहम् । गम्यतां त्यज्यतां चिन्ता यतिष्ये कुशलाय वः ॥ १३४।। इत्युक्ते विश्वगुरुणा तं प्रणम्य ययुः सुराः । अचिन्तयञ्च तत्कार्यं भगवान्गरुडध्वजः ॥ १३५ ॥ अत्रान्तरे भृगुसुतः षाड्गुण्यज्ञानलोचनः । शुक्रः प्रोवाच वात्सल्यान्निर्जानवासरे बलिम् ॥१३६॥ औचित्याभरणं चित्तं सत्याभरणमाननम् । गुणाभरणमैश्वर्य भुवनाभरणस्य ॥ १३७ ॥ लोके त्वत्सदृशी लक्ष्मीर्न श्रुता न विलोकिता । शाक्यानुकर्तुं लेशेन या न पूर्वैन चापरैः ॥ १३८ । गुणक्षये पलायन्ते धीवराणामिव क्षणात् । एताश्चपलचारिण्यश्चमर्य इव संपदः ॥ १३९ ॥ क्षीयते श्रीः प्रमादेन शरत्कालेन निम्नगा । ग्रीष्मागमेन रजनी कृष्णपक्षेण चन्द्रिका ॥ १४ ॥ नीतेरश्रवणं हिते विहसनं धूर्तव्रजावर्जनं दोषे व्याकरणं गुणेऽप्यगणनं छिद्रच्छलालोकनम् । लोकानां विनिपातलक्षणमिदं श्रीभोगनिर्वासनं साधूनां दलनं खलेषु ललनं मित्रादिसंदूषणम् ॥ १४१ ॥ दोषा अपि न बाधन्ते विचारविमलीकृताः । गुणा अप्यगुणायन्ते गाढग्रहघनीकृताः ॥ १४२ ॥ न शरीरविकाराय स्वल्पमात्राहृतं विषम् । देहं चन्दनलेपोऽपि निविडः पीडयत्यलम् ॥ १४३ ॥ १. 'नीतेरश्रवणं हते विहसनं सत्यच्युताकर्णनं विद्वद्वर्जनमार्जवोपहननं धूर्तव्रजावर्जनम् । दोषे व्याकरणं गुणेऽप्यगणनं छिद्रच्छलालोकनं लोलानां विनिपातलक्षणमिदं श्रीभोगनिर्वासनम् ॥' ख. २. 'विरलीकृताः' ख.
काव्यमाला। गुणरत्नावलीमध्ये सारभूतं गुणद्वयम् । तवैतद्दोषतां यातमतिनिर्बन्धसेवया ॥ १४४ ॥ . श्लाघ्यमाश्रितवात्सल्यं दानं च श्रीविभूषणम् । विभवायासतां नीतं भवतात्यन्तवर्धितम् ॥ १४५॥ कुर्यादाश्रितवात्सल्यात्पक्षपातं न दुर्जने । कृष्णपक्षाश्रयेणैव पक्षे पक्षे क्षयी विधुः ॥ १४६ ।। चित्रं चारित्रचित्रं ते दिग्भित्तिलिखितं महत् । दैत्यदुर्जनवात्सल्यधूमेन मलिनीकृतम् ॥ १४७ ॥ भूतेर्दुर्व्यसनं धृतेरसहनं मानोन्नतेर्याचनं प्रीतेर्विस्मरणं तनोर्निकषणं नीतेरसन्मन्त्रणम् । कीर्तेर्लोभधनं स्थितेः प्रवसनं वृत्तेरसंचिन्तनं शक्तेर्दुर्जनपक्षपातकरणं निःशेषनिर्मूलनम् ।। १४८ ॥ अतिप्रंदाननिर्बन्धः सर्वस्वक्षपणक्षमः । छिनत्त्यन्यार्थिवैफल्याद्धर्मवृक्षं क्रियाफलम् ॥ १४९ ॥ सर्वोपजीव्यं सर्वस्वं सकृद्देन व्ययीकृतम् । पुनः सर्वार्थिदानस्य तेन मूलक्षयः कृतः ॥ १५० ॥ वित्तायत्तः सदा धर्मः कामो वित्तनिबन्धनः । वित्तायत्तानि चित्तानि वित्तं जीवितवर्धनम्॥ १५१ ॥ धनं रूपमवैक्लव्यं धनं कुलमसंकुलम् । धनं यौवनमम्लानं धनमायुर्निरमयम्॥ १५२ ॥ रूपं वेषैर्बलं भृत्यैरुत्तमैर्मानमर्थिभिः । महाकुलविवाहैश्च कुलं क्रीणाति वित्तवान् ॥ १५३ ॥ भिषग्भैषज्याभ्यां तरति धनवानरोगविपदं धनेनान्धश्चक्षुर्युत इव चरत्यर्पितकरः । १. 'प्रधान' ख. २. 'क्रियालतम्' ख. ३. 'वर्तनम्' ख, 'बन्धनम्' ग. ४. 'अ- वैरूप्यं' ख. - ५ वामनावतारः] दशावतारचरितम् । ३७ धनैः सत्कारार्चीं जगति गतजीवोऽपि लभते धनेन प्राप्नोति प्रगुणगुरुमाराध्य सुगतिम् ॥ १५४ ॥ श्राद्धोत्सवलसद्वन्धुर्जीवतीव शवः श्रिया। भोज्योपचारविरहाद्वन्धूनां निर्धनो मृतः ।। १५५ ॥ केशलम्यं धनं येन क्षपितं नातिमात्रया । कुलमानगुणाचारनिधनं तेन रक्षितम् ॥ १५६ ॥ गुणा धनेन लभ्यन्ते न गुणैर्लभ्यते धनम् । धनी गुणवतां सेव्यो गुणी न धनिनां क्वचित् ॥१५७ ॥ सेव्यन्तेऽर्थार्थिभिर्भूपा जयजीवेति वादिभिः । स्याच्चेन्न धनसंवन्धः कः सेव्यः कश्च सेवकः ॥ १५८ ।। सदृशे पुरुपत्वेऽपि तुल्यपादकरोदरे । एकः प्रभुः परो दास इति वित्तविजृम्भितम् ॥१५९ ॥ सर्वे धनमदान्धस्य प्रातःप्रातर्धनाशया । सेवां विधातुं धावन्ति विविधाराधनोद्यमैः ॥१६०।। सिद्धो वेतालवद्यस्य भोग्यस्तस्यैव भूपतिः । शेषा: शीतातपश्रान्ता दिनान्ते यान्ति निप्फलाः ॥ १६१ ।। दिशति कथमप्यन्तस्तारां दृशं मदमन्थरां वदति विरलं देवोऽस्मीति प्रैमूढमदो नृपः । प्रणमति च तं भीत्या भृत्यस्तदुत्तरकातर- स्तदिदमखिलं दानादानं धनोपनिबन्धनम्॥ १६२ ।। क्षीणे धने गुणे ग्लाने म्लाने माने गते जने । कलत्रमपि वैमुख्यमचिराद्याति निश्चितम् ॥ १६३ ॥ धनवैक्लव्यवैराग्यादपक्काः प्रव्रजन्ति ये । धनोपायव्रतं तेपां धने ध्यानं धने जपः ॥ १६४ ॥ १. 'भूपतेः' क-ग-घ. २. 'प्रमपदं ग. ३. 'मानामानं' ख. ४. 'कलत्रमनपैर्या- वत्परोपकरणीकृतम्' क.
काव्यमाला। पुंसां निवृत्तवित्तानां प्रवृत्ते वित्तयाचने । उत्तानपाणिदीनानां मन्ये मरणमुत्तमम् ॥ १६५ ।। जीवत्यर्थक्षये नीचो याच्ञापचयवञ्चनैः । कुलाभिमानमूकानां साधूनां नास्ति जीवितम् ॥ १६६ ॥ अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति खं दारिद्र्यं वदति वसनं दर्शयत्येव जीर्णम् । छायाभूतश्चलति न पुनः पार्श्वयोर्नापि पश्चा- न्नि:स्वः खेदं दिशति धनिनां व्याधिवहुश्चिकित्स्य: ॥ १६७॥ तस्मात्सर्वप्रयत्नेन रक्ष्यं मानार्थिभिर्धनम् । महाव्ययपरिष्कारैर्विशेषेण नरेश्वरैः ।। १६८ ॥ अश्वमेधस्त्वयारब्धः क्रतुः सर्वस्वदक्षिणः । एवमेव त्वमुद्दामवर्षी यज्ञे विशेषतः ॥ १६९ ॥ दृश्यन्ते दुर्निमित्तानि प्रवृत्तानि समन्ततः । दैत्यानां यैः कुवृत्तानां निवृत्तिः सूच्यते श्रियः ॥ १७० ॥ इत्युक्तं कविना श्रुत्वा बभाषे तं शनैर्बलिः । सत्त्वोदधिः सृजन्दन्तकान्त्या चन्द्रकलामिव ॥ १७१ ॥ युक्तं कल्याणसंयुक्तमुक्तमुन्मुक्तसंशयम् । भगवन्भवता सर्वमखर्वप्रतिभोद्भवम् ॥ १७२ ॥ न जातु मे भुजच्छायाविश्रान्तिसुखशायिषु । अपत्येष्विव दैत्येषु पक्षपातो निवर्तते ॥ १७३ ॥ चिराश्रितपरित्यागे मतिर्यस्य प्रवर्तते । भूमिर्भारं वहन्ती तं मन्ये मज्जति लज्जिता ॥ १७४ ॥ स्वजनद्रोहरौद्रस्य चिताग्नेरिव भीषणा । भूतिः सर्वजनोद्वेगकारिणी क्वोपयुज्यते ॥ १७५ ।। १. 'दैन्यानां' ख. २. 'जीवन्त्यर्थक्षये नीचा याच्नोपप्लव' ख. ३. 'इत्युक्ते' क-ग. ४. 'चिराश्रय' क-ग-घ. ५. 'भीतिः' क-ग.
५ वामनावतारः] दशावतारचरितम् । ३९. आशाप्ताश्रितपक्षपातविकला या शक्तिरुज्जृम्भते दीर्घा वेतसवल्लरीव विफला कस्योपकाराय सा । वन्द्यश्चन्दनपादपः पृथुभुजच्छायाश्रया यस्य ते संतापं प्रविहाय शीतलतया सर्पाः सुखं शेरते ॥ १७६ ॥ प्रदानफलशून्याभिः किमेताभिर्विभूतिभिः । दृश्यते यासु भग्नाशाविमुखं मुखमर्थिनाम् ॥१७७॥ आयाति धातुरादेशात्तदादिष्टं पलायते न त्यागेन न भोगेन क्षीयते रक्ष्यते धनम् ॥ १७८ ॥ निर्बन्धादपि लुब्धेन निरुद्ध बद्धमुष्टिना । निर्यात्यलक्षितं क्षिप्रं मत्स्यपुच्छोपमं धनम् ॥१७९ ॥ कुर्वन्ति सुधियो यत्नादेतदर्थं धनार्जनम् । आर्तोपकारसंतोषः कदाचिल्लभ्यते धनात् ॥१८०॥ क्षणेन वृद्धिं व्रजतां क्षणात्क्षयमुपेयुषाम् । घनानां च धनानां च केन विज्ञायते गतिः ॥१८१॥ गुप्तं विनष्टं प्रकटं विनष्टं कीर्ण विनष्टं मिलितं विनष्टम्। स्वयं विनष्टं परतो विनष्टं दीनार्तदत्तं द्रविणं न नष्टम् ॥ १८२ ॥ मृत्पाषाणगुणैः सुवर्णमणिभिःशुक्त्यस्थिभिर्मौक्तिकै- र्लोके मूढतमे धनं धनमिति व्यक्त्या प्रसिद्धिं गतैः । यः कोषः क्रियते न तस्य रुचिरं पश्यामि किंचित्फलं निःशेषाश्रितभृत्यबान्धवसुहृद्दीनार्थिदानं विना ॥ १८३ ॥ त्यक्ता मर्त्यभुवं स्थितस्य विजने मेरोः सुवर्णश्रियं विश्रान्तां स्वशरीर एव वहतः किं निष्फलेनायुषा । एकस्योन्नतिरेव सत्त्ववसतेर्विन्ध्यस्य वन्ध्या न सा दत्त्वा यः किल तामनन्यमहिमा शेते सुखं भूसमः ॥ १८४ ॥ इत्युक्तं बलिना श्रुत्वा चिन्तयन्भवितव्यताम् । किंचिदालक्ष्य वैलक्ष्यः शुक्रश्चक्रे नतं शिरः ॥ १८५ ॥ १. 'अति' ख. २. 'अर्थे' ग. ३. 'मुक्तं' ख. ४. 'शुक्त्यस्थिकैः' घ.
. काव्यमाला। अथाश्वमेधसंभारः प्रावर्तत महान्बलेः । पुनः प्रदानदक्षस्य दक्षस्येवापरिक्षयः ॥ १८६ ॥ ततः प्रजापतिगणे प्राप्ते सप्तर्षिभिः सह । अभूत्सुरषिभिर्जुष्टं ब्रह्मलोकनिभं सदः ॥ १८७ ॥ तस्मिन्क्रतौ महादानपरिपूर्णेऽर्थिमण्डले । बभूव याचकाभावाद्बलेश्चिन्तैव केवलम् ॥ १.८८ ॥ अत्रान्तरे दैत्यजयासहिष्णुर्विष्णुस्त्रिलोकीकुशलप्रवृत्तः । देवस्तनुं स्वां बलिवञ्चनाय विश्वाकृतिवीमनतां निनाय ॥ १८९॥ धृतैव चित्ते लघुतां करोति या धैर्यमानाहरणैकभूमिः । सा दुर्दशेवातिशयेन याच्ञा न कस्य मानक्षतिमातनोति ॥ १९० ॥ श्यामः शिशुः कुञ्चितकृष्णकेशस्त्रिदण्डिकालंकृतपाणिपद्मः । सकङ्कणः कुण्डलवान्किरीटी स ब्रह्मराज्य(?)प्रतिमश्चकाशे ॥ १९१ ॥ स मञ्जुसामस्वरसारणोद्यद्दन्तांशुसूत्रत्रयसंनिवेशम् । यज्ञोपवीतं धवलं दधानः शनैर्बलेर्यज्ञमहीमवाप ॥ १९२ ॥ स वेत्रिभिस्तत्र सुदुर्लभार्थिसंदर्शनात्यादरविस्मयेन । असंनिरुद्धः प्रसभं प्रविश्य वृतं मुनीन्द्रैर्बलिमालुलोके ॥ १९३ ॥ बलिश्च तं पद्मदलायताक्षं विलोक्य लक्ष्मीनिलयं प्रहृष्टः । अदापयत्तस्य सुवर्णपीठं समुन्नतं मानमिवादरेण ॥ १९४ ॥ सामस्वरेणाशिषमभ्युदीर्य क्षणं स विश्रम्य जगाद धीरः । संदर्शयन्दन्तरुचान्तरस्थजगत्रयश्चान्द्रमिव प्रकाशम् ॥ १९५ ॥ इन्द्रस्य चन्द्रस्य चतुर्मुखस्य रुद्रस्य दक्षस्य मनोश्च यज्ञाः । पुरा बभूवुर्न बभूव कश्चिदाश्चर्यकृत्त्वत्सदृशस्तु यज्ञः ॥ १९६ ॥ अहो महात्मा सुकृती जगत्सु जातस्त्वमेवाद्भुतसत्त्वसिन्धुः । यश्चारुरत्नाश्वगजेन्द्रचन्द्रलक्ष्मीप्रदानेष्वपि निष्प्रकम्पः ॥ १९७ ॥ धवस्त्रिलोक्यास्तिलकः कुलस्य सर्वस्वदानेष्वतिमुक्तहस्तः । दत्त्वाप्यशोकः सरलः प्रकृत्या त्वं श्रीफलोऽप्यर्थिषु कल्पवृक्षः॥१९८॥ १. 'पद्मदलायतेक्षणं ख. २. 'सुवर्ण' इति क-पुस्तके टिप्पणम्.
४ ५ वामनावतारः]] दशावतारचरितम् । ४१ इत्युक्तमत्यर्थसुधास्वभावं तेनान्तरस्थामृतसिन्धुनेव । श्रुत्वा बलि: प्रीतिविकासिताक्षस्तमभ्यधादागतपक्षपातः॥१९९ ॥ अल्प्तं वयः स्वल्पशरीरतेयमनल्पकल्पः प्रतिभाविकल्पः । कर्णानुकूलं च वचस्तवैतत्कस्याद्भुतार्थे न मनः करोति ॥ २०० ॥ हर्षं वर्षति दर्शनं नयनयोः सूते श्रुतौ वाक्सुधां चित्तं चन्दनपेशलश्च सहसा स्नेहः परं लिम्पति । बध्नन्त्यन्यमनस्कतामपि गुणा भाग्यैर्भवत्संगमः संजातः सुकृताय मे सुमहते कीर्तिप्ररोहाय च ॥ २०१॥ निरर्गलं संप्रति कथ्यतां तद्यदीप्सितं प्रीतिपदोपयुक्तम् । सर्वत्वमेतन्मम जीवितं वा न नाम किंचिद्भवतेऽस्त्यदेयम् ॥ २०२ ॥ इति प्रयत्नात्प्रथमादरेण सोऽभ्यर्थितः सर्वपरिग्रहाय । दैत्याधिपेन प्रथमानमानमहोदयाय प्रणयात्तमूचे ॥ २०३ ॥ त्वद्दर्शनात्प्रीतिसुधानिधानात्परं किमस्मादुपयुज्यते मे । न नाम वन्ध्यं क्रियते वचस्ते पदत्रयीं देहि वसुंधरायाः ॥ २०४ ।। श्रुत्वैवमाश्चर्यतरं वचस्तद्वलिः सवैलक्ष्यमिवाबभाषे । अहो भवान्संकुचितार्थवादी विडम्बनायैव मम प्रवृत्तः ॥ २० ॥ अहं प्रदाता त्वमुदारशीलः प्रतिग्रहीतात्र प्रतिग्रहे किम् । प्रदीयते यद्यवमानलीला विनिर्मिता नर्ममयी स्मिताय ॥ २०६ ॥ गृहाण सर्वं मम विद्यते यत्त्वदर्शनानन्दसमुद्भवस्य। मनःप्रसादस्य हि सत्यमस्य न तुल्यमूल्या सकला त्रिलोकी ॥ २०७ ॥ इत्यार्थितः पूर्णपरिग्रहाय पुनः प्रयत्नाद्बलिनामपि देवः । यदाग्रहीन्नाभ्यधिकं तदास्मै पदत्रयीमेव बलिदिंदेश॥ २०८ ॥ प्रतिग्रहाग्रावसरेऽथ विष्णोरुत्तानहस्ताम्बुरुहेऽम्बुधाराम् । सुवर्णभृङ्गारमुखात्पतन्तीमस्तम्भयद्दैत्यहिताय शुक्रः ॥ २०९ ॥ १. 'अत्यन्तसुधास्वभावः' ग-घ. २. 'विकासिचक्षुः' घ. ३. वपुपि' क-पुस्तके पाठान्तरलेन धृतः, ४. 'प्रीतिपदप्रयुक्तम्' ख. ५. 'सवैलक्ष्यः' ख. ६. 'प्रतिग्रही तत्र पदवशी' ख. ६ ४२ काव्यमाला। तं शुक्रवक्रक्रममाकलय्य चक्री त्रिलोक्याक्रमणाभिकम: । स्तोकस्मिताङ्कः कुशतूलिकाग्रभेदेन चक्रे कविमेकनेत्रम् ॥ २१०॥ विश्वाकृतिर्दानजलं गृहीत्वा लोकत्रयाक्रान्तिविवर्धमानः । बभौ जगन्मण्डपमानदण्डशोभाभिरामोदितदण्डपादः ॥ २११ ॥ त्रैलोक्याक्रान्तिलीलाप्रविसृतवपुषः श्रीपतेर्दण्डपादः प्रौढोत्क्षेपोग्रवेगोल्लसदतुलबलोद्ब्रान्तकल्पान्तवातः । निःशेषाशाप्रबन्धप्रचलनभुवनाखण्डनाकाण्डकम्प- भ्रश्यद्ब्रह्माण्डरक्षानिहितमरकतस्तम्भशोभां बभार ॥ २१२ ॥ प्रवर्धमानस्य विलम्बिहारपर्यन्तसक्तस्तरणिर्मुहूर्तम् । विष्णोर्बभौ नाभिभवाब्जचुम्बी कुर्वन्र्मुहुर्लोहितरत्नशङ्काम् ।। २१३ ॥ प्राप्तेऽथ विष्णोश्चरणारविन्दे विरञ्चिलोकं त्रिदशाभिनन्द्ये । पादार्घ्यदानावसरेऽब्जजन्मा कमण्डलुं निर्जलमालुलोके ॥ २१४ ॥ धर्मे द्रुते तत्क्षणमम्बुभावं यातेऽथ पाद्ये कमलासनेन । भक्त्या प्रदत्ते बलिकीर्तिशुभ्रा तरङ्गभङ्गैरुदियाय गङ्गा ॥ २१५ ॥ किं विष्णोः पादपद्मस्फुटनखकिरणश्रेणिरच्छोच्छलन्ती विश्वव्याप्तिप्रजातोर्जितविजयलसद्वैजयन्ती सिता किम् । किं स्वर्गश्रीप्रहर्षोचितहसितरुचिः प्रोन्मिषत्संशयाना- मित्युच्चैः खेचराणां चिरममरसरित्संभ्रमेऽभूप्रवादः ॥ २१६ ॥ एकक्रमावृतसमस्तजगत्रयस्य शेषक्रमद्वितयदानविशुद्धिधीरः । निर्व्याजधर्मधवलः स्थिरसत्वसत्य- स्तत्याज दैत्यतिलकः सकलां त्रिलोकीम् ॥ २१७ ॥ तस्याथ सैत्यसमयप्रतिपन्नसर्व- त्यागस्य दीर्घगुणपाशनियन्त्रितस्य । धीरस्य सप्तमतलान्तसुतालनाम्नि पातालधाम्नि भगवान्स्थितिमादिदेश ॥ २१८ ॥ १. 'वेलोल्लसत् क-ग-घ. २. 'चारविशुद्धः' क-ग-घ. ३. 'सत्त्व' ख.
६ परशुरामावतारः] दशावतारचरितम् । जातो जगत्युचितकृद्वलिरेक एव तस्यैव सप्तभुवनाभरणं यशांसि । येनातिदानविततद्रविणावशेष- शुद्धिः कृता स्वतनुबन्धसमर्पणेन ॥ २१९ ॥ अश्रद्धया कुहकदम्भभरेण यद्य- त्पित्र्यक्रतुव्रतजपादि करोति लोकः । तत्तद्बलेर्नियमसंकलितात्मवृत्ते- र्वृत्त्यै विचार्य परिकल्पितमच्युतेन ॥ २२० ॥ साश्चर्यं युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याच्ञोत्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः । ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बले:॥२२१॥ सशरशबरत्रासत्वङ्गन्मृगीतरलाः श्रियः सुखमपि कपिप्रेङ्खद्वल्लिदलाञ्चलचञ्चलम् । प्रतिदिनमियं भुङ्क्ते जन्तोरभावविधायिनी प्रसभपतिता भावं भावं भवे भवितव्यता ॥ २२२ ॥ इति स भगवान्विष्णुः कर्तुं सुराश्रयिणीं श्रियं बलिभुजतरुच्छायाहीनान्विधाय महासुरान् । अपि खलजनासङ्गाद्भूमेर्गतस्य तलं बले: प्रणयरचितां पुण्यैः कीर्ति निनाय समुन्नतिम्।।२२३ ।। इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते वामनावतारः पञ्चमः । परशुरामावतारः षष्ठः। बद्धे बलौ निश्चलधर्मसेतौ भग्नेषु दैत्येषु निराश्रयेषु । बभूव निर्विघ्नमहोत्सवश्रीर्नि:शल्यकल्याणवती त्रिलोकी ॥ १ ॥ १. 'उत्' ख. २. प्राञ्चत् क-ख-ग ३. 'भावे भावे' घ. ४. रचनां ख. ५. 'घनोत्सव' ख.
काव्यमाला। शक्रेण वृत्रे निहते सजम्भे सुम्भे निसुम्भे प्रसभं भवान्या । जीर्णेऽप्यगस्त्येन समस्तलोकशोकेऽथ वातापिनि सेल्वले च ॥२॥ चामुण्डया चण्डपराक्रमे च ग्रस्तेऽथ पातालतताननेन । रुरौ रणप्रच्युतरक्तबिन्दुवृन्दोदरोद्यद्रुरुकोटिलक्ष्ये॥३ ॥ गुहेन भिन्ने युधि तारके च गजासुरे धूर्जटिनान्धके च । दैत्येषु चान्येषु हतेषु देवैर्नि:शङ्कमासीत्सुरराजराज्यम् ॥ ४ ॥ यातेऽथ काले शनकैर्विशाले दैत्येश्वराः क्ष्मामवतीर्य सर्वे । क्रमेण ते दुर्मददस्युरूपाः सपापशापाः क्षितिपा बभूवुः ॥ ५ ॥ शशास तस्मिन्समये महीयान्महीपतिर्हैहयवंशजन्मा । प्राज्योर्जितश्रीजगदर्जुनाख्यः सहस्रबाहुः कृतवीर्यसूनुः ॥ ६ ॥ स्पर्धानुबन्धोद्धतदर्पयुद्धसंनद्धधीरं दशकंधरं यः । गदाग्रहेलाहतिनष्टचेष्टं शय्याङ्कपर्यङ्कतले बबन्ध॥७॥ अत्रान्तरे शौर्यनिधिर्भृगूणां कुले विशाले जमदग्निपुत्रः । हरिस्तमःकुञ्जरपुञ्जभेदी प्रतापदीप्तोऽवततार रामः॥ ८ ॥ तस्योपदेष्टा भगवान्बभूव शार्ङ्गे धनुर्वेदविधौ पिनाकी । आदानसंधानदृढातिदूरलक्ष्येषु दत्ताद्भुतलक्षशिक्षः॥ ९ ॥ शस्त्रास्त्रविद्याविदितप्रकर्षसंघर्षयुद्धे जिततारकारिः। पुत्राधिकां वल्लभतां गुणेन जगाम रामस्त्रिपुरान्तकस्य ॥ १० ॥ मदग्रहोदग्रगजासुरास्थिविसंस्थुलाखण्डनखण्डधारम् । ददौ त्रिशूली परशुं स्वमस्मै क्रूरं कुमारावजयेन तुष्टः ॥ ११ ॥ ततः कदाचिन्मृगयारसेन स कार्तवीर्यः प्रविसारिसैन्यः । वनं विगाह्य क्षयमक्षयेषुश्चक्रे मृगद्वीपिमृगेश्वराणाम् ॥ १२ ॥ मन्त्रद्विषां दुःसहमोहहेतुर्दयादरिद्रं हृदयं सदैव । कर्षत्यलं शोणितमांसलुब्धा धराधराणां मृगयापिशाची ॥ १३ ॥ तुरङ्गसेनामृदितस्थलानि शराहताशेषमृगद्विपानि । विश्वद्रुतोपद्रुततापसानि प्रविश्य चक्रे स तपोवनानि ॥ १४ ॥ १. 'हेहय' क-ग-घ. , २. 'संघट्ट' ख. ३. 'विश्वद्रवोपद्रुत' ख.
६ परशुरामावतारः] दशावतारचरितम् । अथाश्रमाग्रं जमदग्निजुष्टं भग्नद्रुमं रुग्णविविग्नसत्त्वम् । कृत्वा शनैः श्रान्तहयः स तस्थौ विश्रामकामः कुसुमस्थलीषु ॥१५॥ होमावशेषैः सकुशैः पयोभिः संवर्धितानां स कुरङ्गकाणाम् । मुनीन्द्रशिष्यैरपि वार्यमाणः सैन्यैः क्षयं निष्करुणश्चकार ॥ १६ ॥ स कामधेनुं मुनिहोमहव्ययोग्यां सवत्सां गुणगौरवेण । कण्ठे गृहीत्वा जमदग्निनापि रुद्धां मदान्धस्तरसा जहार ॥ १७ ॥ क्रौर्येण कीर्तिर्व्यसनेन लक्ष्मीर्द्वषेण विद्या विनतिर्मदेन । क्षमातिकोपेन धृतिर्भयेन प्रयाति लोभेन च सर्वमेव ॥ १८ ॥ यातः स हृत्वा मुनिहोमधेनुं लोभेन विक्रीतविवेकसत्त्वः । यशांसि लोकत्रयविश्रुतानि चकार धिक्कारकलङ्कितानि ॥ १९ ॥ निरुद्धाशाः सर्वे दधति भृशमुद्वेगकलनां विवेकालोकस्य प्रभवति न लेशः क्वचिदपि । न मित्रस्यालोको भवति परिहारेण वदने (?) घने लोभे जन्तोः स्थितिमुपगते कस्य सुगतिः॥२० ॥ गतेऽथ तस्मिन्नृपतौ स्वदेशं महामुनीनां विहितापकारे । रामः समभ्येत्य गजाश्वभग्नं तपोवनं निर्मृगमालुलेकि ॥ २१ ।। निवृत्तवेदस्मृतियज्ञविद्यापुराणवादं विरताग्निकार्यम् । भग्नाननोद्विग्नजनं विलोक्य तपोवनं प्राप चशोकशङ्कुम् ॥ २२ ॥ विज्ञाय राज्ञा तदशर्म कर्म स कार्तवीर्येण कृतं सकोपः । शुश्राव तेनैव पितुः सवत्सां बलेन नीतामपि होमधेनुम् ॥ २३ ॥ स निःश्वसन्दुःसहकोपकम्पलुठज्जटाभारभृतांसकूटः । क्षत्रक्षयोत्कण्ठमकुण्ठधारं कुठारमादाय जवाजगाम ॥ २४ ॥ स हैहयीं हेममयीमवाप्य प्रतापदीप्तामिव राजधानीम् । युद्धाय संनद्धभुजासहस्रमस्रस्तधैर्योऽर्जुनमाजुहाव ॥ २५ ॥ तयोः प्रवृत्ते भुवनप्रकम्पदीक्षाक्षमे संक्षयधाम्नि युद्धे । क्षोभः प्रभूताद्भुतसंभ्रमोऽभूदभूतभूताभिभवप्रगल्भः ।। २६ ।। १. 'अथावसान्तं' ग-घ. २. 'स' ख. ३. 'पीठः' ख. ४. 'प्रकम्पः' क-ग-ध.
४६ काव्यमाला। तस्याषण्ढप्रतापः कठिनमदभराकुण्ठकण्ठस्य वेगा- न्निक्षिप्य स्कन्धपीठे गिरिदलनसहं घोरंधारं कुठारम् । भूभर्तुर्धेनुचौर्याचरणघनरुषा कार्तवीर्यस्य रामः स्रस्तांसं दोःसहस्रं युधि नवनलिनीनाललावं लुलाव ॥ २७ ॥ प्रतापमित्रे निहते सहस्रकरेऽथ तस्मिन्भुवनैकशूरे । रामस्य निर्यत्ननिपातितारेर्मर्मप्रसारी न शशाम मन्युः ॥ २८ ॥ द्विबाहुना बाहुसहस्रदीप्ते हते नृशके मुनिना प्रसह्य । स शृङ्गभङ्गः क्षितिभृत्कुलस्य तीव्रः परं मानविनाशनोऽभूत् ।। २९ ॥ कालेन तन्मन्युघनानुतापा: पापाय सर्वे मिलिताः क्षितीशाः । वैरप्रतीकारविधानसज्जा जग्मुर्वनं भार्गवकुञ्जरस्य ॥ ३० ॥ रामे फलेध्माहरणाय याते शून्यं प्रविश्याथ तपोवनं ते । निष्कृत्तकण्ठखुतशोणितौघमग्नं निजघ्नुर्जमदग्निमेव ॥ ३१ ॥ रामस्ततः पितृवधोद्धतशोकवन्हे: शान्तिं न बाष्पजलबिन्दुभिरप्यवेत्य । आसीत्क्षणं क्षितिपजीवीतजातलज्ज- स्तद्रक्तसागरनिमज्जनसज्ज एव ॥ ३२ ॥ गत्वा जवेन रणयज्ञविधानदीक्षा- क्षेत्रं क्षणात्क्षितिपवंशवनोग्रवह्निः । कृत्वा समस्तनृपसंहृतिमेकवारं वैरक्षयेण न मनाग्विरराम रामः ॥ ३३ ॥ स स्नात्वा रक्तपूर्णे रणसरसि लसत्कीर्तिधौतोत्तरीयः क्रोधानृण्यं विधातुं कृतसकलजगत्क्षत्रवंशाग्निकार्यः । श्राद्धश्रद्धाविधानं व्यधित शरकुशाकीर्णभूपालमौलि- श्रेणीहेमांशुनिर्यत्तिललवकलितन्यस्ततन्मुण्डपिण्डः ॥ ३४ ॥ १. 'तस्याकुण्ठ' ख. २. 'कर्मभारं' ख, 'कर्मधारं घ. ३. 'संस्रस्त' ख. ४. 'घनाभितापाः' ख. ५. 'निकृत्त' ख. ६. 'जीवन' ख. ७. 'वैरि ख. ८. 'स' ग. ९. 'लुठत्' क. १०. 'तिम्यत्' ख. .
७ श्रीरामावतारः] दशावतारचरितम् । ४७ निक्षत्रां क्षत्रियारिर्जलनिधिपरिखामेखलान्तामखिन्नः कृत्वा त्रिःसप्तकृत्वः पितृवरनिधनक्रोधनः क्ष्मां क्षणेन । यः प्रादादेकविप्रार्पितजलचुलकस्तोकदानातिलज्जा- मज्जन्मानाननाब्ज: स्मितसितयशसस्तस्य किं वर्ण्यतेऽन्यत् ॥३५॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते परशुरामावतारः षष्ठः । श्रीरामावतारः सप्तमः । कालप्रवाहे महति प्रयाते तन्मध्यवेगाभिरते गते च । तरङ्गलोलाद्भूतभाववर्गे रक्षःकुलैर्भारयुताभवद्भू:॥१ ॥ अत्रान्तरे सालकटङ्कटानां वंशे विशाले क्षणदाचराणाम् । पुष्पोत्कटा नाम बभूव कन्या तारुण्यदर्पेऽपि विवाहहीना ॥ २॥ सा मेरुपाधै मणिहेमवल्लीविलासरम्योपवने चरन्ती । सुतं पुलस्त्यस्य तपोनिधानं संध्याक्षणे विश्रवसं ददर्श ॥ ३ ॥ ध्यानावसाने मुनिना सकम्पा प्रीत्याथ सा तेन विलोकितैव । नवाभिलापोद्भवविह्वलेव भावान्विता गर्भवती बभूव ॥ ४ ॥ क्रमेण तेनैव मुनेः सपर्याविधायिनी तस्य तपोवने सा । असूत पुत्रत्रितयं विचित्रकर्मप्रकारेण विभिन्नरूपम् ॥ ५ ॥ दशाननाद्याः परिवर्धमानाश्चश्चिरं घोरतरं तपस्ते । पितामहप्रीतिवरादवापुर्येन त्रिलोकीक्षपणक्षमत्वम् ॥ ६ ॥ महेश्वराराधनहोमवन्हौ छित्त्वा दशास्यः स्वशिरांसि हुत्वा । जम्भारिसाम्राज्यजयी जगाम जगत्रयीलुण्ठनकण्टकत्वम् ॥ ७ ॥ त्रैलोक्यपुण्यैरथ कुम्भकर्णस्तपोवराप्तौ विपरीतवाचा । अक्षीणनिद्रः सततं बभूव प्रबोधनादेकदिनाप्तभोज्यः ॥ ८ ॥ वरप्रदानेऽथ विधिं ययाचे विभीषणो धर्ममतिं मनीषी । तद्वाक्यतुष्टेन पितामहेन नीतः स धीमानमरत्वमेव ॥ ९ ॥ १. 'निःक्षत्रां' क-ग, 'निप्क्षत्रां' घ. २. 'भार्गवावतार' क-ग-घ. ३. 'कटोत्कटानां' ख.
४८ काव्यमाला। भ्रातुर्बलाद्वैश्रवणस्य लङ्कां हत्वा पुरीं रत्नहिरण्यहर्म्याम् । दशाननः पुष्पकमुज्ज्वलं च विमानराजं विजयोद्यतोऽभूत् ॥ १० ॥ जित्वा स विश्वं विगतारिचिन्तः संजातसङ्ग्रामवियोगखेदः । लोकत्रये चित्तविनोदनाय विमानमारुह्य चिरं चचार ॥ ११ ॥ स निर्झरोद्गारतुषारशैलसुवर्णरत्नोज्ज्वलतुङ्गशृङ्गे । क्षणं न्यषीदद्दिवसावसाने तद्भीतिलीनाखिव पद्मिनीषु ॥ १२ ॥ तापं मुहुर्दिक्पतिवल्लभानां करावमर्षै: ककुभां विधाय । कुमुद्वतीबन्धनपापशापाज्जगाम दुःशील इवास्तमर्कः ॥ १३ ॥ सांध्यं प्रकाशं परिपीय रक्तं निजौजसा लोकनिमीलनानि । निशागमोत्साहपदं क्रमेण तमांसि रक्षांसि च तुल्यमापुः ॥ १४ ॥ अथोद्ययावग्रसरप्रकाशभ्रश्यत्तमःस्तोकयुतान्तरिक्षे। सुधातरङ्गाकुलकालकूटकरम्बिते क्षीरनिधाविवेन्दुः ॥ १५ ॥ तमःसमूहस्तरुकुञ्जपुञ्जतलस्थितश्चातश्चान्द्रमसं प्रकाशम् । बभौ दशग्रीव इव प्रयत्नात्कैलासमुल्लासयितुं प्रवृत्तः ॥ १६ ॥ जहार लक्ष्मीं कमलाकराणां चकार भङ्गं सुरचक्रनाम्नाम् । बभार दोषाश्रयवान्कलङ्कं लङ्कापतिर्दिग्विजयीव चन्द्रः ॥ १७ ॥ हृन्मर्मसंलग्नशिलीमुखेषु दीर्णेषु सद्यः कुमुदव्रजेषु । सरःसु चन्द्रप्रतिबिम्बमूर्तिर्दशास्यभीत्येव मुहुश्चकम्पे ॥ १८ ॥ समीराः सोत्कण्ठा इव ललितवल्लीकुलवधू- समाकर्षै: क्रीडानिबिडदशकण्ठानुकृतयः । विचेरुर्वापीनां कुमुदमधुमाद्यन्मधुकरा- कुलश्रेणीवेणीहठहरणहेलातरलिताः ॥ १९ ॥ उन्निद्रचन्द्राभरणे निशीथे तस्मिन्महानन्दघनप्रकाशे। प्रीतिः सुखस्पर्शमयी बभूव वैराग्यभाजामनुरागिणां च ॥ २० ॥ लङ्केश्वरस्तत्र शशाङ्करत्नशिलातले रश्मिविलासहासे । सुखं शयानः पुरतः प्रयान्तीं जितेन्द्रलक्ष्मी ललनां ददर्श ॥ २१ ॥ १. 'हित्वा' ख. २. 'निमीलितानि' ख. ३. 'मुखी' क-ख. ४. 'वनितां' ख. .
७ श्रीरामावतारः] दशावतारचरितम् । दशाननोत्सादितनाकलोकलक्ष्मीमिवैकां विजने भ्रमन्तीम् । मैत्रीमिव प्रेमभराभिरामां तारुण्यलावण्यमनोभवानाम् ॥ २२ ॥ विलोक्य लङ्कापतिरङ्कमुक्तशशाङ्कशङ्कांजननाननां ताम् । स्वप्नेऽप्यदृष्टां मनसाप्यचिन्त्यां हर्षामृतक्षैब्यमिवाससाद ॥ २३ ॥ अचिन्तितापातकिरातभीतां मृगीमिवालम्ब्य बलेन पाणौ । स तां बभाषे विभवाभिमानं तद्भोगशून्यं विफलं विचिन्त्य ॥ २४ ॥ कस्यान्तिकं कुञ्जरगामिनि त्वं प्रयासि धन्यस्य रणोज्झितासोः । आराधितः केन तपोविशेषैः सौभाग्यभूमिर्भगवान्मनोभूः ॥ २५ ॥ न त्यज्यसे सुभ्रु कुरु प्रसादं लब्धां सुधां मुञ्चति मन्दपुण्यः । त्यक्तान्ययत्नोपेनतानि मोहात्पुनर्न लभ्यानि समीहितानि ॥ २६ ॥ इति ब्रुवाणेन दशाननेन तन्वी घनालिङ्गनपीडिताङ्गी । काञ्चीविमुक्तिप्रतिषेधदिग्धं वैलक्ष्यमुग्धाक्षरमाचचक्षे ॥ २७ ॥ बलेन नीवी ननु न प्रमोच्या विमुञ्च मां दुर्व्यसनस्पृहां च । अशीललीलाशकलीकृतां त्वं हियं श्रियं रक्ष यशः कुलं च ॥ २८ ॥ रम्भाभिधानां सुरलोककान्तां त्वद्भातृसूनोर्नडकूबरस्य । प्राणोपमानां धनदात्मजस्य न वेत्सि किं मां सुमते स्नुपां त्वम् ॥२९॥ इति ब्रुवाणामबलां बलेन संदूष्य मातङ्ग इवाब्जिनीं ताम् । म्लाननाब्जामवमानलीनां लज्जानिमज्जद्वदनां मुमोच ॥ ३० ॥ उच्छिष्टाधरपल्लवां नखमुखोल्लेखावखातस्तनीं विस्रस्तांशुककेशपाशकुसुमामुत्कम्पिनीं मन्युना । श्वासायासवतीं सबाष्पनयनां तन्वीं वहन्ती तनुं सा गत्वा नृडकूबरस्य विदितं पौलस्त्यवृत्तं व्यधात् ॥ ३१ ॥ दृष्ट्वाभिभूतां नडकूबरस्तां श्रुत्वा कुवृत्तं च निशाचरस्य । अकामकान्तारतिसंगमान्तं तस्यास्तु दुर्जीवितमित्युवाच ॥ ३२ ॥ १. 'त्याज्यसे' क-ग-घ. २. 'उपगतानि' क, 'उपहितानि' ख. ३. 'धनदात्मजस्य' ख. ४. 'नडकूवरस्य' ख. ५. 'त्वं सुमते स्नुषां माम्' ख.
५० काव्यमाला। नक्तंचरैस्तत्क्षणवर्ण्यमानं तच्छापमाकर्ण्य भृशं दशास्यः । अन्तर्वहन्दुश्चरितानुतापं विमानमारुह्य शनैर्जगाम ॥ ३३ ॥ सुखक्षैब्यक्षामाः प्रकटमवटापातगतयः क्षिपन्तः शीलाख्यं व्यसनमविलक्ष्याः क्षतधियः । स्खलन्तः कुर्वन्ति प्रसभमवलेपेन किल त- द्यदुद्भूतस्तापः प्रचलति न जीवान्तनियतः ॥३४॥ व्योम्ना व्रजन्तं पुरतस्तमेत्य माहेश्वरः प्राह गणः सकोपः । हंहो निवर्तस्व भजस्व नीतिं व्योम्ना गतिर्नेह नभश्चराणाम् ॥ ३५ ॥ सतीसहायः स्फटिकाद्रिशृङ्गे देवो मृडः क्रीडति चन्द्रचूडः । पार्श्वेन यात्यत्र मरीचिमाली भयेन नोच्चैर्मरुतोऽपि वान्ति ॥ ३६ ॥ श्रुत्वा मदोद्गारगिरं गणस्य दुष्टद्विपः कृष्ट इवाङ्कुशेन। दष्टाधरः कोपकषायचक्षुर्नोवाच किंचित्स हरानुरोधात् ॥ ३७ ॥ श्वसन्विमानादवरुह्य सज्ज: स मज्जयन्भूमिमिवाभ्युपेत्य । स्कन्धेन पातालतलान्तमूलात्कैलासमुल्लासितमुज्जहार॥३८॥ विघूर्णमानाद्रिगुहागृहेभ्यः समन्ततः संभ्रमविद्रुतानाम् । संत्रस्तविद्याधरसुन्दरीणां काञ्चीरवैः खं मुखरीबभूव ॥ ३९ ॥ क्ष्मान्तोत्क्षेपातिवेगप्रसरदनलसोल्लासकैलासकम्प- क्षोभे विभ्यद्भवानीनिभृतभुजलतालिङ्गितश्चन्द्रचूडः। दाशास्यैहर्षहासं व्यभजत चरणाकुञ्चिताङ्गुष्ठपीडा- ब्रीडानिर्भुग्नमीलन्नयनगलगलद्गर्गरोद्गाररावैः ॥ ४० ॥ अत्युग्ररावेण दशाननस्य प्रसादवान्रावण इत्यभिख्याम् । चक्रे पिनाकी प्रियतां प्रयान्ति प्रायः प्रभूणां विपरीतचेष्टाः ॥ ४१ ॥ तुष्टात्पुनः प्राप्य वरं त्रिनेत्रात्रैलोक्यलक्ष्मीपरिभोगभव्यम् । व्रजन्विमानेन दशाननः खे सकौतुकः पुष्पकमित्युवाच ॥ ४२ ॥ १. 'तदा' ख. २. जगामेत्यनन्तरं 'इति नडकूबरशापः' इति ख-पुस्तकेऽधिकमस्ति. ३. 'सहसानुरोधात्' क-ग-घ. ४. 'स्कन्देन' सर्वेषु पुस्तकेषु.
७ श्रीरामावतारः] दशावतारचरितम् । ५१ । य एष दूरात्कनकाचलस्य संलक्ष्यते दक्षिणपार्श्वदेशे। शृङ्गाग्रलग्नोज्ज्वलरत्नशैलस्तदङ्कविश्रान्तिसुखे ममेच्छा ॥ ४३ ॥ इति ब्रुवाणः क्षणदाचरेन्द्रः क्षणाद्विमानेन जवेन नीतः । तस्याद्भुतार्द्रेर्विचचार पद्भयां रत्नस्थले कल्पलतावृतान्ते ॥ ४४ ॥ वैदूर्यगारुत्मतपद्मरागवज्रेन्द्रनीलामलशैलशृङ्गम् । पश्यन्नवालोकनहर्षमानी न रावणः कौतुकतृप्तिमाप ॥ ४५ ॥ क्वचित्स्खलन्निर्झरराजवन्तं गुहागृहोद्गीर्णमहाट्टहासम् । भीत्येव नीहारपटावृतानि निमीलयन्तं ककुभां मुखानि ॥ ४६ ॥ समुल्लसन्नीलमणिस्थलोरु स्थूलांशुपुञ्जोन्नतदण्डपादम् । पुनः प्रवृत्तं बलिवञ्चनाय व्याप्ताम्बरं विष्णुमिवाप्रमेयम् ॥ ४७ ।। बलान्वितोद्यद्धनकालनेमिं प्रह्लादसंरब्धजलोद्भवोग्रम् । सतारकाग्रं कटकं वहन्तं यातं हिरण्याक्षमिवाचलत्वम् ॥ ४८ ॥ सविस्मयानन्ददृशा समन्तान्निवर्णयन्नेव मुहुर्महाद्रिम् । तदुच्चशृङ्गाश्रमधाम्नि दिव्यां कन्यामपश्यत्स तपःप्रसक्ताम् ॥४९॥ तन्वीं स्तनाभोगभरादवाप्तसंसक्तकृष्णाजिनगाढबन्धाम्। लतामिवोद्यत्स्तबकाभिलाषनिःस्पन्दलीनालिकुलाभिरामाम् ॥ ५० ॥ पौलस्त्यविध्वस्तसमस्तलोकघनावमानानलतीव्रचिन्ताम् । शक्रश्रियं वर्गवियोगखिन्नां रक्षःक्षयायेव तपःप्रवृत्ताम् ॥ ५१ ॥ तां वीक्ष्य रक्षःपतिरक्षयेन्दुमुखीं सखीनेत्रसुधां निपीय । मेने तदुच्छिष्टरुचापि शिष्टां स्पृष्टां न संक्लिष्टनिकृष्टसृष्टिम् ॥ १२ ॥ पुनः सदाचारपरम्परार्हपाद्यासनादिप्रणयप्रवृत्ताम् । तामब्रवीदद्भुतरूपसंपत्संपन्नपूजः क्षणदाचरेन्द्रः ॥ १३ ॥ का त्वं मनोजन्मविवर्जितेव रतिर्विरागतदुर्ग्रहेण । मदेन विद्या कपटेन मैत्री लोभेन लक्ष्मीरिव लुप्तशोभा ॥ १४ ॥ ध्यानावधानं परमोऽवमानस्त्रपाकरं पात्रमथाक्षसूत्रम् । वने निवासस्तव यौवनेऽस्मिञ्जपश्च शापः कुसुमायुधस्य ॥ ५५ ॥ १. 'सुखी' ग, 'सखी' घ.
६२ काव्यमाला। त्यक्त्वाग्रहं ब्रूहि विचिन्त्य तन्वि त्वमेव सत्यं यदि युक्तमेतत् । बिम्बाधरे चुम्बनकेलियोग्ये जपेन पापार्जनमेव मुग्धे ॥ १६ ॥ निरञ्जनत्वं कुसुमप्रसक्तिश्चित्रं जटाबन्धनकारणं ते । अनङ्गरागं कुरु मा शरीरमनङ्गरागं वह चेतसि त्वम् ॥ १७ ॥ भोगोत्सवं मानय मा नय त्वं क्लेशैरदोषं कृशतां शरीरम् । अहं हि ते तन्वि समीहिते च हिते च संपादनबद्धकक्षः ॥ १८ ॥ शृङ्गारस्य गतैव भाग्यगुरुतानङ्गस्य नाङ्गस्पृहा लावण्यं घनमन्युदैन्यमलिनं का यौवनस्योन्नतिः । नोद्यानं दयितं मधुर्विधिहतः कस्येन्दुरानन्दनः कान्ते ते तपसि स्थिता यदि मतिस्तत्सर्वमस्तं गतम् ॥ १९ ॥ श्रुत्वैतदुक्तं दशकंधरेण सा किंचिदाकुञ्चितचेतनेव । जगाद खेदेन विनिःश्वसन्ती हियावमानेन च मन्युना च ॥६० ॥ व्रते विवादं विमतिं विवेके सत्येऽतिशङ्कां विनये विकारम् । गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥ ६१ ॥ कचस्य वाचस्पतिसंभवस्य स्वाध्यायजा वेदवती सुताहम् । देया मयेयं स्वयमच्युताय मनोरथोऽभूत्पितुरित्ययं मे ॥ ६२ ॥ कालेन दैत्यैः स हतः पिता मे मातानलं शोकमिव प्रविष्टा । वरार्थिनी देवमनन्यचित्ता तपः प्रवृत्ता हरिमर्थयेऽहम् ॥ ६३ ॥ इति ब्रुवाणां दशकंधरस्तां गाढानुबन्धेन घनाभिलाषः । पुनःपुनः क्षीब इव प्रलापी कोपाग्निसंतापवतीं चकार ॥ ६४ ॥ स्मृत्वा स शापं नडकूबरोक्तं संत्यक्तकान्ताहठसङ्गवाञ्छः । नखक्षतोच्छिष्टकुचस्थलीं तां कृत्वा जगाम स्वपुरीं सकामः ॥६८ ॥ सा मानिनी दुर्विषहावमानं रक्षःकरस्पर्शममृष्यमाणा । कुलाभिमानेन्धनमात्मशुद्ध्यै पूर्वं प्रकोपाग्निमिवाविवेश ।। ६६ ॥ चिरं विचिन्त्याच्युतमच्युताशा जन्मास्तु मे राक्षससंक्षयाय । उक्त्वेति दृष्ट्वा रविमद्रिशृङ्गात्तापेन तन्वी तनुमुत्ससर्ज ॥ ६७ ॥ १. 'भिमानं' ख.
७ श्रीरामावतारः]] दशावतारचरितम् । ५३ अम्लानं कुशलं कुलं च विमलं सत्सङ्गगण्या गुणा मान्या मानधनोन्नतिर्विनिधनं धर्मावधानं धनम् । कीर्तिर्मूर्तिरसंक्षयाद्भुतवती शक्तिश्च संरक्ष्यते जन्तोरिन्द्रियसंयमेन सकलं नष्टं न यस्यास्ति सः ॥ ६८ ॥ प्रविश्य लङ्कामलकां विजित्य हृत्वा पुनर्वैश्रवणस्य कोशम् । काले विशालेऽनिलवत्प्रयाते लङ्कापतिः पुष्पकमित्युवाच ॥ ६९ ।। दृष्टः पुराश्चर्यगिरिमया यः पुनस्तदालोकनकौतुकं मे । रम्यं निपीतं बत नेत्रपात्रैर्न विस्सरत्येव मनः कदाचित् ।। ७० ॥ इत्यादराभ्यर्थनयन्त्रितेन नीतः क्षणेनैव स पुष्पकेण । तं देशमेत्यायतकालजिह्वालीढं न तं प्रौढगिरिं ददर्श ॥ ७१ ॥ उत्पत्तिवृद्धिक्षयपाकयुक्त्या क्षणे क्षणे दृष्टविनष्टसर्वः । प्रायः प्रपञ्चप्रणयी भवोऽयमभावसद्भावसमस्तभावः ॥ ७२ ॥ तत्राभ्यपश्यन्नगराण्यगण्यरत्नप्रयत्नक्रयविक्रयाणि । परस्परारब्धविरोधैयुद्धसंधानसंनद्धधराधिपानि ॥ ७३ ॥ दृष्ट्वा तदाश्चर्यमचिन्त्यरूपं चक्रभ्रमारूढ ईवापरूढः । प्रौढोऽपि मूढत्वमिवानुभूय शनैः स संप्राप्तधृतिः प्रदध्यौ ॥ ७४ ॥ अहो नु नानाद्भुतविभ्रमाणां हर्ता च कर्ता च सदैव कालः । येनानिशं दर्शयता विचित्रं निपीतमन्यद्वत वान्तमन्यत् ॥ ७५ ॥ क्षणं विचिन्त्येति ययौ पुरी स्वामनित्यतानष्टधृतिर्दशास्यः । गरेवियोगादचलं द्वितीयमिवोद्वहन्विस्मयभारमन्तः ॥ ७६ ॥ गते निगीर्णाद्भुतचक्रवाले काले विशाले बहुमोहजाले । स्मृत्वा समारुह्य विमानराजं तमेव देशं स पुनर्जगाम ॥ ७७ ॥ स तत्र चित्राणि पुराणि तानि न हेमहाणि न मन्दिराणि । स्वप्नान्तराणीवे कृतभ्रमाणि जन्मान्तराणीवें गतान्यपश्यत् ॥ ७८ ॥ ४. 'एव' क-ग-घ. ५.. १. 'दृब्ध ग. २. 'नियोग' ख. ३. 'इव प्ररूढः' ग-घ. 'एव' क-ग-घ.
६४ काव्यमाला। तत्रालुलोके स तमालतालतालीसहिन्तालनिरन्तरालम् । वनं विशालं विवलत्पियालमालावलीसंततनक्तमालम् ॥७९॥ घोरैर्गुरब्द्याघ्रघनप्रघोषैरिवोच्चरोमाञ्चचयाञ्चितानाम् । विषङ्कटैरुत्कटकण्टकानां व्याप्तं समूहैः खदिरद्रुमाणाम् ॥८० ॥ अन्तःश्वसन्निश्चलदुष्टसत्वैः कम्पप्रदं पिप्पलपल्लवानाम् । तमःपिशाचाचितमर्कभासा भीत्येव दूरात्परिवर्ण्यमानम् ॥८१ ॥ गतेष्वभावं नगरेषु तेषु दृष्ट्वा तदुग्रं गहनं गभीरम् । रक्षःपतिम्रस्तसमस्तलोककुलाय कालाय नमश्चकार ॥ ८२ ॥ सोऽचिन्तयत्कालविहंगमोऽयमलक्ष्यदाक्ष्यक्रमपक्षवेगः । दिवानिशं याति विचित्रशक्तिरहो कदाचिन्न चलत्यखिन्नः ॥८३ ॥ अत्युच्चापातनिम्नोन्नतिकरणपटुः श्लिष्टदूरस्थिताना- मिष्टानिष्टव्रजानां सततमिव घनाश्लेषकेलिप्रसक्तः। पर्यान्ताभावभूमिप्रपतनचतुरानन्यथा सर्वभावा- न्प्रातः प्रातर्विधत्ते नवनवरचनाश्चर्यकृत्कालपाकः ॥ ८४ ॥ इत्यद्भुतामाकलयन्नचिन्त्यां कालस्य शक्तिं स विसंस्थुलोऽभूत् । अनित्यताचिन्तनभङ्गभाजां नाङ्गानि केषां शिथिलीभवन्ति ॥ ८५ ॥ प्राप्तः स लङ्कां विभवोपभोगहर्षोत्सवैर्विस्मृतकाललीलः । मेने सुखक्षीबतयाक्षयाणि संभोगलीलाधनजीवितानि ॥ ८६ ॥ शनैः प्रयातं क्षणसंख्ययापि प्रवर्धमाने युगदीर्घकाले । पुनर्विमानेन तमेव देशं कुतूहलात्तः प्रययौ दशास्यः ॥ ८७ ॥ स तत्र निर्धातघनप्रवाहदीर्णोर्वरीनिष्क्रमणक्रमेण । ददर्श पातालमिवान्तहीनं खातं प्रजातं भुवनव्रणाभम् ॥ ८८ ॥ क्षणं तदालोकनभुग्नकण्ठ: स्थित्वा प्रयातः स पदं स्वमेव । काले प्रयाते पुनरागतोऽथ सरः समुद्रोपममभ्यपश्यत् ॥ ८९ ॥ अनन्तपद्मान्वितमप्रमेयमुदग्रनागेन्द्रसहस्रसेव्यम् । परागपुञ्जेन भुजंगलोकमिवान्तराले कपिलेन जुष्टम् ॥ ९ ॥ १. 'निष्क्रुथण' क-ख, 'निष्कृषण' ग.
७ श्रीरामावतारः] दशावतारचरितम् । ५५ हंसांसकण्डूयनलोलनालफुल्लारविन्दोत्थितषट्पदानाम् । मुहुः समूहैर्विहितान्धकारं क्रोशन्निशाशङ्कितचक्रवाकम् ॥ ९१ ॥ खादूदकं कोमलवीचिवातं पद्मोज्ज्वलं भृङ्गगणोपगीतम् । ससौरभं पुण्यवतामिवैकं सर्वेन्द्रियाणामुपभोगपात्रम् ॥ ९२ ॥ सविभ्रमं श्रीरमणं परागपीताम्बरं नाभिभवाद्भुताब्जम्। नीलोत्पलश्यामलमाकलय्य सरः स निःस्पन्दतनुः प्रदध्यौ ॥ ९३ ॥ अहो नु नेत्रार्पितकौतुकानि वैचित्र्यमैत्रीकृतविस्मयानि । पिबत्ययत्नेन कियन्ति कालः सृजत्यजस्रं च महाद्भुतानि ॥९४॥ क्षणं विचिन्येति लसद्विवेकः स शंकरार्चारससादरोऽभूत् । अनित्यताचिन्तनखेदजन्मा न सद्विचारः कुशलाय कस्य ॥९५॥ अयःपिण्डक्रूरं श्रयति न मनः क्वापि मृदुतां न यावत्संस्पृष्टं सकलभवभावक्षयधिया । मनाक्तस्मिन्याते प्रशमलवपाकप्रणयितां नमत्येतत्कस्य द्विजगुरुहरार्चासु न शिरः ॥ ९६ ॥ सरस्तटे टङ्कितरत्नपीठे लिङ्गं विधाय स्फटिकाद्रिशृङ्गम् । सपुष्पकोपाहृतदिव्यपद्मरर्चां चकारामृतरश्मिमौलेः ॥ ९७ ॥ स त्र्यम्बकस्याम्वरचुम्व्यमानां विधाय पूजां कमलोपचारैः । हृदस्य विष्णोरिव मध्यजातं समादधे(दे) मूर्ध्नि विधातुमब्जम् ॥९८॥ तस्यान्तरे काञ्चनकर्णिकस्य विचित्ररत्नोज्ज्वलपल्लवस्य । स दिव्यपद्मस्य ददर्श कन्यां तद्भीतिलग्नामिव जात(तु) लक्ष्मीम् ॥१९॥ आदाय कन्यां कमलं विधाय तच्चन्द्रचूडस्य किरीटकोटौ प्रीतिं वहन्विस्मयगर्भगुर्वीं लङ्केश्वरः स्वां नगरी जगाम ॥१०० ॥ मन्दोदरी तद्दयिताथ तत्र तेनार्पितां कल्पितपुत्रिकां ताम् । अनन्यलावण्यवतीं विलोक्य कन्यामभूद्विस्मयनिश्चलेव ॥१०१॥ कदाचिदुत्सङ्गगृहीतकन्यां तां नारदोऽभ्येत्य मुनिर्जगाद । पत्युस्तवेयं चपलेन्द्रियस्य कन्या भविष्यत्यभिलाषभूमिः ॥१०२ ॥ १. 'विन्दोदित' क-ग. २. 'भव' क.
५६ काव्यमाला। श्रुत्वैतदाच्छाद्य महार्हपट्टैः सुवर्णमञ्जूषधृतां कुमारीम् । मन्दोदरी भूमितलावखाते तत्याज रत्नाकरपारतीरे ।। १०३ ।। काले प्रयाते जनकेन राज्ञा यज्ञाङ्गने हैमहलेन कृष्टे । लब्धा समृद्धेन्दुमुखी सुता सा सीतेति नाम्ना भुवने प्रसिद्धा॥१०४ ॥ ततः कदाचिन्मणिमन्दिरस्थं दशाननं शूर्पणखाभ्युपेत्य । सद्यःप्रकृत्ताखिलकर्णनासा स्वसा श्वसन्ती विजने जगाद ॥१०५ ॥ अहो प्रमादस्तव दुर्जयस्य जगत्रयीराज्यजयोर्जितस्य । यत्त्वं प्रजातारिनवाङ्कुरोऽपि धत्से सुखी क्षीब इवातिनिद्राम्॥१०६।। मन्त्रद्विषः शक्तिमदेन यस्य निश्चेतनस्येव दिनानि यान्ति । दुर्वृत्तगोष्ठीपतितेव पत्नी न तत्र तिष्ठत्यपरोन्मुखी श्रीः ॥ १०७ ॥ रामः पितुर्निश्चलशासनेन भ्रात्रा जटाभृत्सह लक्ष्मणेन । सीताख्यया चारुशा च पन्या धन्वी वने दाशरथिः स्थितोऽस्ति १०८ यस्याङ्गना सा सुरसिद्धसाध्यगन्धर्वविद्याधरसुन्दरीणाम् । साश्चर्यसौन्दर्यमदं वहन्ती दृष्टा मया त्वद्भवनोचितैव ॥ १०९ ॥ तां त्वत्कृते हर्तुमहं प्रवृत्ता यावन्मनोजन्मजयप्रशान्ति(शस्ति)म् । रामानुजात्तावदयं मयाप्तः पराभवः कर्तितकर्णनास: ॥ ११० ॥ मन्मन्युशल्यव्यथयाभिभूताः सुरासुरश्रीहरणप्रगल्भाः । त्वद्भ्रातरस्तेखरदूषणाद्या रामेण सर्वे निहताः ससैन्याः॥१११॥ सुखोन्मुखः कृष्णभुजङ्गमोऽपि विषोष्मशान्त्यै बिलवेश्मशायी। पिपीलकेनोदररन्ध्रयुक्त्या विदार्यते निश्चलकल्प एव ।। ११२ ॥ आगुप्तचारः स्वपरप्रदेशे जगत्रयीराज्यगृहीतभारः । अहो प्रसिद्धां भुवनत्रयेऽपि त्वं दण्डकारण्यकथां न वेसि ॥११३ ॥ इति स्वसुर्मर्मविदारणोग्रां श्रुत्वा गिरं दुर्विषहां दशास्यः । जवेन पारं जलधेर्जगाम कालेन कामेन च कृष्यमाणः ॥ ११४ ॥ १. 'भूमितले सुखाते' ख. २. 'भूमितले निकृष्टे' ख. ३. 'सुखक्षीब' ख-ध. ४. 'प्रच्युत' ख. ५. 'अनुप्त' क-ग-घ.
७ श्रीरामावतारः] दशावतारचरितम् । ५७ स प्राप्य मारीचममात्यमुख्यमरण्यपर्यन्ततपःप्रसक्तम् । न्यवेदयन्मर्त्यविकारमस्मै सीतापहारव्यसनोद्यमं च ॥११५॥ लक्ष्मीशरीरक्षपणाभियोगे गाढानुबन्धेन मदप्रमूढम् । साचिव्यमन्त्रावधियाच्यमानो विचार्य मारीचमुनिस्तमूचे ॥११६ ॥ अहो बतायं तव मोहमन्त्रः स्वतन्त्रवाचा च्युतनीतितन्त्रः । किं शत्रुणा पुत्रकलत्रमित्रदेहापहारी व्यसनाय दत्तः ॥ ११७ ॥ धूर्तैर्यदुक्तं हृदयग्रहाय निन्द्यं मदोत्तुङ्गमसङ्गतं च । तदीश्वराणां परिणामकष्टं निर्दिष्टदुर्वेदमनिष्टमिष्टम् ॥ ११८ ॥ सर्वापकारः सुकृतप्रहारः क्लेशावतारः कुशलापसारः । शीलापचारः कुपदाभिसारः पापप्रकारः परदारहारः ॥ ११९ ।। पथ्यं न जिघ्रन्त्यथ चर्वयन्ति स्पृशन्ति शृण्वन्ति विलोकयन्ति । विनाशकाले चपलेन्द्रियाणां सर्वेन्द्रियाणीव पुरः प्रयान्ति ॥१२० ॥ रामस्य हर्तुं कथमिच्छसि त्वं पत्नीमयत्नक्षतराक्षसस्य । यद्भीतिनीत्येव तपस्ततं मे क्व रक्षसामस्ति विवेकपाकः ॥१२१॥ जातः कृती तततपश्चयऋष्यशृङ्ग- मन्त्राहुतिप्रसृतयागविधिप्रभावात् । पृथ्वीपतेर्दशरथस्य पितुर्नियोगा- द्यः कौशिकस्य मखरक्षणदीक्षितोऽभूत् ॥ १२२ ॥ शूरः शिशुः कौशिकशासनेन मन्मातरं वर्त्मनि ताटकां यः । हत्वा प्रपेदे मुनिना वितीर्णां सजम्भकामस्वरहस्यविद्याम् ॥१२३ ॥ अस्त्रोद्यत्पक्षपातैः कुशिकसुतमखत्राणसज्जस्य यस्य प्रक्षिप्तो योजनानां शतमुदधितटे मूर्छितः प्रच्युतोऽग्रे । वृक्षेष्वद्यापि बाणासनचकितभिया रामनामादिवर्णे राकारामादिशब्देष्वतिभयसमयान्न क्वचिन्निर्वृतिर्मे ॥ १२४ ॥ १. 'स दिव्यमन्त्रावधियाचमान' ख. २. 'सूतैः' ख, 'दूतैः' घ. ३. 'सर्वापहारः सुकृतापकारः' ख. ४. 'नेत्येव' क, 'निन्येव' ग, 'नीड्येव' घ. ५. 'तपःस्थित' क-ग. ६. 'योग' क-ग. ७. 'प्रत्युताग्रे' ख.
६८ काव्यमाला । यः प्राप यज्ञे जनकस्य पुत्रीं चण्डीशचापाक्रमणेन सीताम् । नीतां त्रिलोकीविजयाशयेव शक्तित्वमेतां कुसुमायुधेन ॥१२५ ॥ आकर्णाकृष्टभङ्गोद्भवरवमुखरोच्चण्डचण्डीशचाप- क्रोधाध्मातस्य सर्वक्षितिपवधविधेर्द्वन्द्वयुद्धातिथिर्यः । चापश्रीकुञ्चनेन व्यधित भूगुपतेः सर्वधर्मस्य गोप्ता पुण्यब्राह्मण्यजन्मापचयपरिचयक्षत्रवृत्तेर्निरोधम् ॥ १२६ ॥ यः सत्यपाशग्रथितस्य मुक्त्यै पितुर्गिरा निर्जनसंश्रयाय । ययावरण्यं सह लक्ष्मणेन भ्रात्रा समानव्रतया च पत्न्या ॥ १२७ ॥ वियोगशोकात्पितरि प्रतप्ते स्वर्गं प्रयाते भरतेन यत्नात् । अभ्यर्थ्यमानोऽपि निजं न राज्यं जग्राह रामः स्थिरसत्यकामः ॥१२८॥ तत्पादुके मूर्ध्नि निधाय धीमान्करोति शत्रुघ्ननिषेव्यमाणः । राज्यं जटाभृद्भरतस्तदीयं वनान्तवासावधि तत्प्रदिष्टम् ॥ १२९ ॥ सहायतां ते कुपदे करोमि कथं शरीरप्रतिकूलकार्यं। अकुर्वतस्त्वद्विशिखैर्विनाशः कृतस्तु रामान्निधनं वरं मे ॥१३० ॥ श्रुत्वेति मारीचवचः प्रहृष्टस्तं राक्षसेन्द्रः प्रथमं विसृज्य । मायानिधानं स्वविनाशसज्जः पश्चाद्ययौ कल्पितभिक्षुवेषः ॥ १३१ ॥ अर्थानर्थक्षयभयजयान्सर्वथा वेत्ति सर्वः श्रेयः प्राप्तुं किमपि यतते वर्जयत्येव दोषान् । तज्ज्ञोऽप्यन्ते पतति विवशः क्लेशशोकार्तिगर्ते देवादिष्टे पतनसमये लङ्घने कस्य शक्तिः ॥ १३२ ॥ अथ कनककुरङ्गं विद्रुमोत्तुङ्गशृङ्गं रुचिरमणिविचित्रं लोचनानन्दमित्रम् । द्युतिमिव विकिरन्तं संनिकर्षे चरन्तं जनकनृपतिपुत्री कौतुकात्तं ददर्श ॥ १३३ ॥ तच्चर्मलोभाप्रणयप्रयत्नैरभ्यर्थितो मैथिलराजपुत्र्या । धृत्वाश्रमे लक्ष्मणमात्तचापः ससार सारङ्गवधाय रामः ॥ १३४ ॥ १. 'शापात्' ख. २. 'विरोधम्' क-ग, 'निषेधम्' ख. ३. 'विधाय' क-ख-ग.
७ श्रीरामावतारः] दशावतारचरितम् । ६९ मायामृगस्तीक्ष्णतराननेन स पत्रिणा रामधनुश्चयुतेन । विद्धः पतन्राक्षसरूप एव हा लक्ष्मणेत्यार्तरवं रुराव ॥ १३५ ॥ श्रुत्वा प्रलापं सहसैव सीता भर्तुर्विरुद्धं परिशङ्कमाना । उत्कम्पिताङ्गी विससर्ज यत्नात्ससंभ्रमं लक्ष्मणमीक्षितं तम्॥१३६ ॥ अभ्येत्य सीतामथ कूटभिक्षुर्दशाननश्चन्द्रमुखीं ददर्श । सुरासुराणां कलहोपशान्त्यै सुधां सदेहामिव निर्जनस्थाम् ॥ १३७ ॥ प्रणामिनीं स्वागतवादिनीं तां पाद्यासनातिथ्यविशेषसज्जाम् । उवाच कौटिल्यनिलीनमायः प्रच्छन्नकायः क्षणदाचरेन्द्रः ॥ १३८ ॥ लावण्यं सकलाङ्गसङ्गसुभगं माधुर्यधुर्यं वच- स्तीक्ष्णान्ता नयनद्वयी च सुतरां प्रान्ते कषायच्छविः । मूर्तिः कान्तिसुधाचिता रसमयी चित्रं चमत्कारिणी यत्नेनाप्यभिलक्ष्यमम्लकटुकं किंचिन्न ते चेष्टितम् ॥ १३९ ।। एकाकिनी निर्जनकाननेऽस्मिन्करोषि किं रत्नविमानयोग्या । घोरं घुरद्व्याघ्रगुहाग्रमेतत्कस्मात्तवेष्टं विषमाश्मकाष्ठम् ॥ १४० ॥ एता निर्भरदर्भसूचिनिचयैर्दुःसंचरा भूमयः क्षुत्क्षुण्णाजगरोग्रकोपविषमश्वासोष्मशुष्यद्य्रुमा: । ग्रीष्मग्लानिनिमग्नमत्तमहिषश्लिष्यत्करीषोन्मिष- त्पङ्कव्याकुलविक्लवत्तॄणकुलक्लेदातितिक्तं पयः ॥ १४१ ॥ दिव्या रत्नहिरण्यहर्म्यरुचिरा रम्या तव श्रीसखी लङ्का स्फाटिकमन्दिरांशुनिवहैः स्वर्गं हसन्ती मुहुः । तस्याः सुभ्र विभात्यशोकवनिकालंकारभूता मरु- त्त्वगत्कल्पलतापरागपटलीसंसर्गरङ्गारतिः ॥ १४२ ॥ जगज्जयोद्योगरणाङ्कितश्रीलङ्काधिनाथः प्रणयी तवाहम् । यं त्रासलोलांशुकपल्लवाङ्गा भ्रूभङ्गभग्नास्त्रिदशा नमन्ति ॥ १४३ ॥ १. विद्धोऽपतत्' ख. २. 'आर्तरवैः' ख-ग. ३. 'तत्' क-ग-ध. ४. 'क्लिश्यत्' क-ग, ५. "विक्लवरण' क-ग-घ. ६. 'श्रीमुखी' ग. ७. 'संसङ्ग काग-घ.
६० काव्यमाला। श्रुत्वैतदुक्तं दशकंधरेण भयेन कोपेन च कम्पमाना । जगाद जिह्मं जनकात्मजा तं समुद्भवद्बाहुशिर:सहस्रम् ॥ १४४ ॥ अहो प्रशान्तव्रतकष्टकूटस्त्वं शष्पसंछन्न इवान्धकूपः । पापाप्लुतं जल्पन जल्पतस्ते किं नाम भूमौ पतिता न जिह्वा ॥ १४५ ॥ इति ब्रुवाणां कपटाकृतिस्तां करेण मातङ्गनिभः प्रमाथी । आकृष्य रम्भामिव वेपमानां जहार मत्तः पिशिताशनेन्द्रः ॥ १४६ ॥ तारप्रलापां शरणैषिणीं तां दयाभिमानी न ररक्ष कश्चित् । प्रायः स्वरक्षाप्रणयी जनोऽयं परार्तिकाले विरलप्रयत्नः ॥१४७ ॥ सीतां हरन्तं रजनीचरेन्द्रं लतामिवोग्रानिलमम्बरेण । धीरः कृपावानरुणस्य सूनुरभ्याद्रवदृध्रपतिर्जटायुः ॥ १४८ ॥ निकृत्तवर्मायुधमौलिवाहं कृत्वा दशास्यं नखचञ्चुपक्षैः । दैवप्रमाणे विजये जटायुर्जुहाव जीवं निजमाजिवह्रौ ॥ १४९ ॥ जायन्ते निधनं प्रयान्ति सततं जन्मभ्रमे जन्तवः कोऽप्येकः किल जायते स सुकृती यः पीतपुण्यामृतः । आर्तत्राणपवित्रितेन तृणवन्नीतेन जातु व्ययं व्याप्ताशेषयशोमयेन वपुषा कल्पस्थितिर्जीवति ॥ १५० ॥ लङ्काधिनाथः समुपेत्य लङ्कामशोकनाम्नीं वनिकां प्रविश्य । न्यवेशयन्मैथिलजां क्षयाय कुलस्य मानस्य च जीवितस्य॥ १५१॥ दिनेषु यातेष्वथ रामवृत्तं ज्ञातुं विसृष्टः प्रणिधिर्निगूढ: । सुकेतुनामा दशकंधरेण विज्ञाय सर्वं स समाजगाम ॥ १५२ ॥ स तापसव्यञ्जनरञ्जितेन वेषेण लङ्कापतिमभ्युपेत्य । स्वैरं बभाषे भुवनत्रयेऽपि समस्तकार्येषु कथान्तरङ्गः ॥ १६३ ॥ न युज्यते वक्तुमसंमतं यन्न चाहितं न प्रकटं न गुप्तम् । प्रायः प्रभूणामतिसंनिकर्षः क्षुरामधारे नवपादचार: ॥ १५४ ॥ श्रुतं च दृष्टं च निवेद्यमानं सत्यं वचः प्रीतिकरं न राज्ञाम् । तुष्यन्ति भूपाः स्तवकस्तवेन शून्येन वेश्याप्रणयोपमेन ॥ १५५ ॥ १. 'जाल्म न' क. २. 'कृत्येषु' ख. ३. 'वन' ग-घ. ४. 'नराणाम्' ख.
७ श्रीरामावतारः] दशावतारचरितम् । ६१ कर्णानुकूलं हृदयग्रहाय यदुच्यते तत्क्षणदृश्यदोषम् । वाल्लभ्यभावप्रभवाय भृत्यैर्द्रोहप्रकारः परमं प्रभूणाम् ॥ १५६ ॥ सहायहीनस्य पदच्युतस्य क्षामस्य कान्ताविरहान्वितस्य । रामस्य वृत्तं शृणु देव सर्वं श्रुत्वा विचार्य क्रियतां हितं यत् ॥१५७॥ हत्वा स मारीचममेयमायं त्यक्त्वाश्रमं लक्ष्मणमाप्तमग्रे । विलोक्य सीताहरणाभिशङ्की ध्यात्वापतत्तन्मुखदत्तदृष्टिः ॥१५८ ॥ दृष्ट्वाश्रमं शून्यमचिन्तितोग्रशोकाभिघाताप्तमुहूर्तमोहः । आसाद्य संज्ञां शनकैः प्रपेदे चक्रभ्रमारूढ इवाकुलत्वम् ॥१५९ ॥ जटायुषस्तत्क्षणमुक्तजीवशेषस्य कृत्वान्त्यविधिं विधिज्ञः । तद्यु:खतापं दयितावियोगे रामः क्षते क्षारमिवाससाद ॥१६०॥ शैले शैले स्थलजलबिलप्रायपुञ्जे निकुञ्जे कृत्वा कृत्वा हृदयमसकृज्जीविताशाविहीनम् । शोकेनान्तर्विहितवसतिः प्रस्खलद्वाष्पवर्षी रामः सीतां धृतिमिव वने हारितां नाससाद ॥ १६१ ॥ सरः फुल्लैाप्तं विकचकुमुदेन्दीवरवनै रजःपुष्पालेख्यं स खलु निखिलेन्दुद्युतिमुखः । वहन्नन्तद्वेषादिव कमलखण्डेषु विमुखः क्षपामन्तश्चक्राह्वयसदृशवृत्तिः समनयत् ।। १६२ ॥ दृष्ट्वा श्रियः पुत्रमवाप्तघोरकबन्धरूपं स विमोच्य शापात् । राकावियोगग्लपितः शशीव ययौ तदुक्तेन पथा हितेन॥ १६३ ॥ शनैरवाप्याचलमृष्यमूकं सुग्रीवनाम्ना प्लवगेश्वरेण । परस्पराबद्धहितप्रतिष्ठं स प्राप विख्यातबलेन सख्यम् ॥ १६४ ॥ तस्याग्रजेनातिबलेन राज्यं हृतं समाकर्ण्य स वालिनाम्ना । चकार मित्रोपकृतिप्रयत्नसंनद्धधीस्तन्निधने प्रतिज्ञाम् ॥ १६५ ॥ किष्किन्धामेत्य रामः प्रथितभुजबलं वालिनं शौर्यशाली सुग्रीवाहूतमुग्राननविशिखहतं कीर्तिशेषं चकार । १. 'परमः' ख. २. 'मुञ्जे ख. ३. 'सखल' ग-घ. ४. 'च तेन' ख. ५. 'किष्किन्दां' क-ख-ग-घ.
काव्यमाला। संनद्धः सप्तसिन्धूद्धतसलिलचयाशान्तिसंतोषवृद्ध्या संध्याध्यानाय धीरः क्षणगमनपटुर्यः सदैवात्र दृष्टः ॥ १६६ ।। सुग्रीवं हनुमन्मुखैः परिवृतं राज्येऽभिषिच्य स्वयं कृत्वा वालिजमङ्गदं तदनुगं तद्यौवराज्योर्जितम् । रामः प्रस्रवणे गिरौ समनयद्विद्युत्मभापिङ्गल- श्मश्रुव्याकुलमेघसंघकलिले कालं वियोगाकुलः ॥ १६७ ॥ संरम्भोर्जितगर्जितं जलधरं क्षिप्रोद्यतां विद्युतं खद्योतस्फुटनं कदम्बपवनं तां सस्मितां केतकीम् । सेहे सर्वममोचमेघचरितं रामः सुहृन्निर्मितां सीतान्वेषणसंविदं धृतिमयीमाशां निवेश्याशये ॥ १६८ ॥ ततः प्रयाते घनमेघकाले प्रशान्तबाष्पेषु दिशां मुखेषु । मित्रोदयश्रीरिव हर्षहेतुः पद्माकराणां शरदाजगाम ॥ १६९ ॥ उद्योगकालेऽपि निरर्गलस्य वक्तुं सुरौघैः(?) सुहृदश्चयुतस्य । क्रुद्धेन सौमित्रिरथाग्रजेन ययौ विसृष्टः कपिराजधानीम् ॥१७० ॥ श्रीभोगसक्तं दयितानुरक्तं हरीश्वरं विस्मृतमित्रकार्यम् । अभ्येत्य लज्जावनतं जगाद रामानुजः कोपकषायनेत्रः ॥१७१ ॥ आश्चर्यं निजकार्यकालविनतः पर्याप्ततात्पर्यवा- न्क्रौर्योदार्यमनार्य वेत्सि न घनक्लेशाश्मशय्याश्रयम् । उच्छिष्टं पिबसि प्रियाधरदलस्यालग्नरागं मधु प्रायेणोपकृतिः कृतघ्नहृदये पाषाणपट्टे कृषिः ॥ १७२ ॥ सोल्लासाः कृकलासकूर्मशफरोत्फालाहिजिह्वालता- संध्यावर्णपलाशपर्णकरिणीकर्णानुकारक्षमाः । विद्युन्नृत्तनरेन्द्रवृत्तवनिताचित्तासवोन्मत्तधी- दुर्नीतोन्नतिचारणस्तुतिकलालोलाः खलप्रीतयः ॥ १७३ ॥ स लक्ष्मणेनेति विडम्ब्यमानः स्वदोषवैलक्ष्यविषण्णचित्तः । प्रसाद्य तं संवरणप्रणामैश्चक्रे स्वसैन्यं विजयाय सज्जम् ॥१७४ ॥ १. 'सोल्लासकृकलास' क-ग-घ.
७ श्रीरामावतारः] दशावतारचरितम् । नम्रः समभ्येत्य ततः कपीन्द्रःप्लवङ्गसङ्घै: परिपूरिताशः । रामं प्रसादाभिमुखं विधाय दिशो विजेतुं बलमादिदेश ॥ १७५ ॥ सीतान्वेषणशासनप्रणयिनां दर्पेण संसर्पतां संपूर्णे भुवने कपिक्षितिभृतां सैन्येन दिग्व्यापिना । मेघग्रस्तमिवाम्बरं घनतमःसंघातपीतं दिनं दिक्चक्रं च बभूव विन्ध्यशिखरप्राकारसंपूरितम् ॥ १७६ ॥ वेगेनाङ्गदमैन्दनीलहनुमन्मुख्याः प्लवङ्गास्ततः प्राप्ता दक्षिणसिन्धुमुद्धततरत्वङ्गत्तरङ्गोत्तरम् । आलिङ्गन्तमिवाम्बरप्रणयिनीं गङ्गां दिगन्तादिभि(?)- र्दृष्ट्वावन्ध्यपरिश्रमाः प्रमुमुचुश्चिन्तानिमन्ना धृतिम् ॥ १७७ ॥ ततोऽब्रवीद्वालिसुतः समुद्रसंदर्शनत्यक्तजवाभिमानः । सीता न लब्धाब्धिरयं न लङ्घयः कपिप्रभोः कः सहते प्रकोपम् १७८ इहैव नस्त्यक्तपरिग्रहाणां युक्तं तपः संगलितग्रहाणाम् । भग्नेऽभिमाने विततेऽवमाने वनं विना भेषजमस्ति नान्यत् ॥ १७९ ॥ मिथ्यापुत्रकलत्रमित्रभरणारम्भाभियोगग्रहै- राशापाशजुषां प्रभुप्रणयिनां सेवाव्रतैः शुष्यताम् । अन्ते हन्त दिशन्ति संततमहामोहप्ररोहावहा वेश्याविभ्रमचञ्चला भ्रममदोन्मत्तक्रमं संपदः ॥ १८० ॥ धन्यो जटायुर्जगति प्रवीरो जीवत्यलोभोज्झितजीवितोऽपि । छिन्नस्य यस्योचितराजकार्ये लोके प्ररूढा किल कीर्तिलक्ष्मीः ॥१८१॥ इत्यङ्गदेनाभिहिते समीपं संपातिनामा शनकैरवाप्तः । प्लवंगमान्गृध्रपतिर्जगाद नवोद्भवत्तत्क्षणलक्ष्यपक्षः ॥ १८२ ॥ भ्राता जटायुर्मम पूर्वमर्कपथे व्रजन्मत्सहितो जवेन । स्पर्धानुबन्धी स मया खपक्षैः संरक्षितः प्रज्वलिताखिलाङ्गः ॥१८३॥ १. 'सेन्द्र' क-ख. २. 'तरङ्गोद्धतम्' क-ग-घ. ३. 'वेशाविभ्रममाशु शोकनिवहं विद्युद्विलोलाः श्रियः' ख. ४. 'जटायुः सफलाततायुः ख. ५. 'व्रजन्सत्त्वहितो मदेन' क..
६४ काव्यमाला। निर्दग्धपक्षं पतितं क्षितौ मां दिवाकराख्यो मुनिरित्युवाच । भविष्यसि प्रौढगतिः सपक्षस्त्वं रामवृत्तामृतपूर्णकर्णः ॥ १८४ ॥ इहाद्य मे रामकथामृतेन पक्षैः प्रजातैर्विगत: स शापः । पश्यामि लङ्कोपवने निरुद्धां सीतां निगद्येति जगाम गृध्रः ॥ १८५॥ महामतेर्जाम्बवतो मतेन प्लवंगमैः सादरमङ्गदाद्यै: । अभ्यर्थितोऽब्धेस्तरणेऽभिमानी समीरसूनुर्ववृधे हनूमान् ॥१८६ ॥ महेन्द्रमारुह्य गिरिं स पादभरेण गुर्वीकृतमुत्पपात । आदातुमिच्छन्निव नाकचुम्बि दिनेशबिम्बं पुनरम्बराग्रात् ॥ १८७ ॥ स्वच्छाम्बुप्रतिबिम्बितेऽस्य वपुषि क्रूरप्रकोपाकुलै- र्दंष्ट्राकोटिविपाटनेन मकरैर्मिथ्याभियोगे कृते । दूरोद्गारितदूरुवातविधुतस्फीतैस्तटाम्बुस्फुट- च्छुक्तिव्यक्तसृतैर्जहास जलधिर्मुक्तासमूहैर्मुहुः ॥ १८८ ॥ व्रजन्स धीरः शतयोजनान्तं क्रमेण तग्द्रासविवर्धितास्याम् । जघान घोरामथ सिंहिकाख्यां क्षपामिवार्कस्तमसो जनित्रीम् ॥१८९॥ मानाय मेनाकमथार्णवेन विश्रान्तये रत्नगिरिं विसृष्टम् । करेण संस्पृश्य स लङ्घिताब्धिर्लङ्काङ्कशैलस्य तटे पपात ॥१९० ।। अथ निशि शशिहासोल्लासशुभ्रासु दिक्षु स्फुटमणिकिरणेषु(ष्वे?)तत्प्रियान्तःपुरेषु । प्रतिपदमतियत्नात्तेन सर्वं विचित्य द्रुततरमभिपत्य खैरमाभाष्य सीताम् ॥ १९१ ॥ सुरतरुवैनिकाया मूलभङ्गं विधाय प्रविधुतकुलशैलान्किकरान्मन्त्रिपुत्रान् । सुरपुरभयदीक्षादक्षमक्षं च हत्वा स्वयमभिसरता तामिन्द्रजिद्युद्धभूमिम् ॥ १९२ ॥ तृणमिव वहता तच्छद्मना ब्राह्ममस्त्रं हुतवहहुतलङ्कातङ्कनिःशङ्कशक्त्या । १. 'तटान्त' ख. २. 'वनिकायां क-ख-ग.
७ श्रीरामावतारः] दशावतारचरितम् । ६५ कृतमिह कपिना यत्तच्च देवेन दृष्टं तदपि कुमतिसृष्टं देवदिष्टं न नष्टम् ॥ १९३ ॥ (तिलकम्) यद्भक्तियुक्तं विनयप्रमुक्तं विज्ञाप्यसे शक्तिलवेन देव । आकुञ्चितभ्रूभ्रमकारि वक्रं न तत्र कार्यं स्वहितं विचार्यम् ॥१९४ ॥ श्रुत्वैतदुक्तं प्रणधिव्रतेन रक्षःपतिः क्ष्मां क्षणमीक्षमाणः । न किंचिदूचे चरणाञ्चलेन समुल्लिखन्स्फाटिकपादपीठम् ॥१९५ ॥ अथ प्रभाते किल मन्त्रिमुख्यनिपेव्यमाणं क्षणदाचरेन्द्रम् । भ्राता सभाग्रस्थितमभ्युपेत्य विभीषण: संप्रति तं बभाषे ॥ १९६ ॥ अत्यल्पकेऽपि व्यसनांशलेशे न संवृतिर्यै: क्रियते प्रयत्नात् । तेषां प्रमादादवमानपूर्णाः सक्तापवादा विपदो भवन्ति ॥ १९७ ॥ न धीमतां धावति धीः कुकार्ये क्षणादकार्याद्विरमन्ति भव्याः । कुर्वन्त्यकार्यं विरमन्ति नैव हितं न शृण्वन्ति च दैवदग्धाः ॥ १९८ ।। पराभवं यत्स कपिस्तवापि चकार सोऽयं कुनयप्रभावः । सीतापहारप्रभवावमाने तत्त्याग एव प्रशमाभ्युपायः ॥ १९९ ॥ अहो नु चारैर्न निवेदितं भो रामः समुद्रस्य तटीमवाप्तः । यद्धृत्यसुग्रीवविधौ विधेयः स मारुतिस्तत्पृतनापदातिः ॥२०० ॥ प्रसाद्यतामात्महिताय रामः सीतार्पणेनैव स शान्तिमेति । अयं प्रमादस्य शरावपातः(?) सीतापरित्यागकरावलम्बः॥ २०१॥ हितं तवैते न वदन्त्यमात्यास्त्वद्भूलताधीनविभूतिभोगाः । चित्तग्रहाय प्रियतामवाप्तुं कर्णानुकूलं कथयन्त्यतथ्यम् ॥२०२ ॥ सत्ये शङ्काचकितमतयो वञ्चकग्रामलीनाः शैलस्थूलोपकृतिविफलाः स्वल्पदोपेऽतिकोपाः। मन्त्रोद्विग्नाः पिशुनवचना धर्मनर्मोक्तिहृष्टा: साधुद्विष्टाः प्रखलसुहृदः सर्वदा भूमिपालाः ॥ २०३ ॥ १. 'विनति' ख. २. 'मुख्यैः' ख. ३. 'संप्रहितं' क-ग. ४. 'दुष्टाः' ख. ५.योगाः' ख. ६. 'दुष्टाः ख. ९ काव्यमाला।
इति ब्रुवाणं कुशलानुबन्धाद्विभीषणं भ्रूभ्रमणप्रकोपः । आकृष्य खड्गं चरणाञ्चलेन न्यपातयन्निर्विकृति दशास्यः ॥ २०४ ॥ स वेत्रिभिस्त्रासितसर्वलोकैनिष्कासितः सज्जनसंश्रयार्थी । गुणाभिसारी गगनं विगाह्य जगाम रामस्य समीपमेव ॥ २०५ ॥ अन्येद्युरन्त:पुरसौधशृङ्गस्थितं समेत्य प्रणिधिर्दशास्यम् । सुग्रीवसैन्यार्णवमध्यचारी जगाद विज्ञातसमस्ततत्त्वः ॥ २०६ ॥ इतः प्रयातस्य विभीषणस्य प्रणामिनः पादनखांशुपट्टम् । रामेण मौलौ प्रविसार्य दत्तो लङ्काधिपत्ये प्रथमाभिषेकः ॥ २०७ ॥ मन्त्रान्तरङ्गत्वमतीव यातः स तस्य निर्व्याजहितोपदेष्टा । न बान्धवत्वं सहजं जनस्य स एव बन्धुः किल योऽनुरक्तः ॥ २०८॥ विभीषणस्यानुमते त्रिरात्रं रामेऽब्धितीरेऽथ कृतव्रतेऽपि । गाम्भीर्यनिःस्पन्दतयाम्बुराशिर्न किंचिदूचे तैरणाभ्युपायम् ॥ २०९ ॥ रामस्य चापाक्रमणेन सिन्धुर्भयादथामन्यत सेतुबन्धम् । मृदोरवज्ञामुखभङ्गकारी लोकः किलायं भयभोज्य एवं ॥ २१० ॥ अथाम्बुधौ मन्दरतुल्यशैलैः सेतुर्निबद्धोऽद्भुतकृत्प्लवंगैः । प्रभावशक्त्या दृढनिश्चयानां शिलाः प्लवन्ते सलिले किमन्यत् ॥२११॥ रक्षःकुले सेतुरभावहेतुर्दैवेन सृष्टः सलिलप्रचारः । नूनं स निर्विघ्नगतागताय लङ्कापदां राघवसंपदां च ॥ २१२ ॥ तीर्त्वार्णवं सेतुपथेन रामस्ततस्त्रिकूटस्य तटे निविष्टः । प्लवंगसैन्येन घनेन यस्य त्रस्ता इव क्वापि दिशः प्रयाताः ॥२१३ ॥ इत्युक्त्वा प्रणिधौ मनागपसृते लङ्कापतिर्भ्रातरं ध्यायन्मानुषसेवकं क्षतकुलं प्रम्लानमानाननः । संकल्पैरपि दुष्करेऽद्भुतनिधौ सेतौ निबद्धेऽम्बुधौ लज्जाद्वेषविमर्शकोपकलनाव्याकीर्णचित्तोऽभवत् ॥ २१४ ॥ अथोच्चचारोद्धतयुद्धशंसी भेरीनिनादः क्षणदाचराणाम् । शिलाहताट्टालपरम्पराणां झांकाररावश्च घनः कपीनाम् ॥ २१५ ॥ १. 'तोयाय' ख. २. 'तरणे' ख. ३. 'भीरी' क-ख-ग-घ.
७ श्रीरामावतारः] दशावतारचरितम् । ७ युद्धे प्रवृत्ते कपिराक्षसानां द्रुमाद्रिशस्त्रास्त्रसमाहता भूः । पुनः प्रजाताखिलदाहशङ्का लङ्का चकम्पे भयविह्वलेव ॥ २१६ ॥ ततः प्रतीहारपतिः प्रविश्य विद्युन्मुखाख्यः क्षणदाचरेन्द्रम् । व्यजिज्ञपत्संगररङ्गभङ्गं प्रत्यक्षमालोक्य निशाचराणाम् ॥ २१७ ॥ देव द्वन्द्वरणे प्रसक्तसुभटे तुल्यत्वमासीत्क्षणं रक्षोवानरसैन्ययोरथ मनाग्लाने बले रक्षसाम् । वीरेणेन्द्रजिताभ्युपेत्य निहतौ भूमौ च्युतौ राघवौ नागास्त्रेण समावृतौ त्रिशिरसा भग्नं कपीनां बलम् ॥ २१८ ॥ दिव्यप्रभावौ गरुडेन साक्षात्स्पृष्टौ विनष्टाखिलपाशबन्धौ । अथोत्थितौ दाशरथी वृथैव किं पौरुषैर्दैवमलङ्घयमेव ॥ २१९ ॥ लब्धाधिकोत्साहबलैः प्लवंगैर्निपीड्यमानेषु निशाचरेषु । प्रहस्तधूम्राक्षमहोदराद्याः प्राप्ता रणे मन्दबलत्वमेव ॥ २२० ॥ भग्नेऽथ सैन्ये क्षणदाचराणां मानानुबन्धादविलुप्तधैर्याः । हताः प्रहस्तप्रमुखाः क्रमेण ते संगरोर्वीकुलभूधरेन्द्राः ॥ २२१ ॥ त्वदाज्ञया देव विबोधनाय प्रमृद्यमानोऽपि गजाश्वसैन्यैः । अत्यन्तनिद्रातरुणीकरालो न कुम्भकर्णो विजहाति निद्राम् ॥ २२२ ॥ श्रुत्वा प्रतीहारगिरं दशास्यः संख्ये तनुत्यागसमुद्यतोऽभूत् । चित्तानुवृत्तान्तसहायहीनं कस्येष्टमैश्चर्यमरण्यतुल्यम् ॥ २२३ ॥ स्नानार्चनादि प्रविधाय तूर्णं कार्यानुरोधादथ कुम्भकर्णः । श्रुत्वाखिलं रामविरोधवृत्तं पौलस्त्यमेत्य प्रणतोऽभ्युवाच ॥ २२४ ॥ अहो महान्दुःसहदुग्रहोऽयं सन्मन्त्रिमन्त्रैर्न निवारितस्ते । क्रोधेन्धने किं भवता स्मराग्नौ हुता विभूतिर्गणिता न नीतिः ॥२२५॥ लीलानिबद्धाम्बुधिमध्यसेतोः शक्तिर्मनुष्यस्य न चिन्तिता किम् । भ्रूभङ्गभीतिस्तिमिताम्बुराशौ यस्याज्ञया भूमिधराः प्लवन्ते ॥ २२६ ॥ १. 'म्लाने क-घ. २. 'च सहसा' ख. ३. 'तथैव' ख. ४. 'मदोद्धतास्ते विविशूरणोवीम्' ख-ग-घ.
६८ काव्यमाला। स दीर्घदर्शी हितकृन्मनीषी विभीषणः किं भवता निरस्तः । मन्त्रागमज्ञं प्रथमं निहत्य पश्चाद्विषं भक्षितमप्रमेयम् ॥ २२७ ॥ व्यसनपतनसक्तिस्तद्विरामेऽप्यसक्ति- र्हितसचिवविरक्तिर्दुर्जनेष्वेव भक्तिः । उचितमतिवियुक्तिर्दुर्ग्रहाणाममुक्तिः क्षितिपरिवृढलक्ष्मीसंक्षये लक्षणानि ॥ २२८ ॥ श्रुत्वानुजोक्तं हितयुक्तमेतन्नक्तंचरेन्द्रो न विवेद युक्तम् । निपातकाले किल नैव बुद्धिर्भवेद्यया मोहरजोविशुद्धिः ।। २२९ ।। स तं जगाद प्रतिबोधितोऽद्य शिक्षाप्रदानाय न पण्डितस्त्वम् । मिथ्या भुजौ भूरिभुजस्तवेमौ भजस्व गत्वा घनमोहनिद्राम् ॥२३०॥ इत्यग्रजेनाभिहितो विचिन्त्य प्रभावशक्तिं भवितव्यतायाः । संनद्धबुद्धिर्निधेन रिपूणां न कुम्भकर्णस्तमुवाच किंचित् ॥२३१ ॥ संप्राप्ते कुम्भकर्णे रणभुवमभवायाससंमन्त्रितानां भग्ने सैन्ये कपीनां दिशि दिशि रजसा भूयसा संवृतायाम् । तत्कायच्छाययाधो जगति गुरुतरैः संनिरुद्धेऽन्धकारै- रर्के साकारराहुग्रहणसमयधीः खेचराणां बभूव ॥ २३२ ॥ ततः प्रविश्याविरलप्रहारो विदीर्णकायः स्त्रुतशोणितौधः । नक्तंचरः कुञ्जरकर्णनामा व्यजिज्ञपत्संसदि राक्षसेन्द्रम् ॥२३३ ॥ देव त्वदाज्ञापरुषाक्षराणि ध्यायन्कपीनां युधि कुम्भकर्णः । चक्रे महन्मन्युमनन्तमन्तः प्रारब्धकल्पान्तकृतान्तलीलः॥२३४ ।। भग्नाशङ्कं दधाने जगति स गगनासङ्गितुङ्गोत्तमाङ्गः पद्भ्यां भूकम्पकारी भयनिबिडमिलद्वारणायूंषि पिंषन्। सुग्रीवं विग्रहोग्रं लघुविहगमिवादाय मुष्टिग्रहेण ग्रीवाकर्षैर्बभञ्ज द्रुमवदवगतिव्याहतानङ्गदाद्यान् ॥ २३५ ॥ क्षिप्रं विभीषणमतेन निकृष्टचाप- स्तं राघवः स्वकटकोपरि भूधराभम् । १. 'संवृतानाम्' ख. २. 'प्रारम्भ' ख. ३. 'त्रिजगति' ग-घ.
७ श्रीरामावतारः] दशावतारचरितम् । ६९ बाणैर्निपात्य घनकायभरावपिष्ट- रक्षःकुलं भुवनविस्मयमाततान ॥ २३६ ॥ हते विकीर्णे युधि कुम्भकर्णे निकुम्भकुम्भादिषु च च्युतेषु । मानानुबन्धादपराङ्मुखानां क्षणं क्षयोऽभूत्क्षणदाचराणाम् ॥२३७ ॥ शोकप्रकोपानललिह्यमानः कुलक्षयादिन्द्रजिदभ्युपेत्य । सैन्यं कपीनां निखिलं क्षणेन स रामसुग्रीवमुखं जघान ॥२३८ ॥ हतेषु सर्वेषु हरीश्वरेपु कण्टावकीर्णक्षणजीवितेन । अभ्यर्थितो जाम्बवता हनूमानेको विसृष्टः कपिजीविताप्त्यै ॥ २३९ ॥ स योजनशतत्रयीं दिवि विलङ्घय भास्वत्प्रभः सपुष्करमपाहरत्सकलमौषधिक्ष्माधरम् । यदग्रसरसौरभैरभवदाप्तजीवं क्षणा- त्सराघवकपीश्वरं हरिसुसैन्यमत्यद्भुतम् ॥ २४० ॥ मानं नेच्छति यच्छति व्यसनितां मुग्धां विधत्ते धियं कीर्तिं हन्ति कलङ्कयत्यपि कुलं सोत्कर्षविद्वेषवान् । यद्यत्कर्म विधीयते सुमतिना कार्यानुवन्धोद्यमै- स्तत्तत्सर्वमलक्षितः क्षपयति क्षिप्रं विरुद्धो विधिः ॥ २४१ ॥ अथेन्द्रजित्सर्वजगज्जयोग्रब्रह्मास्त्रसिध्यै विहितापचारः । वनं समागत्य निकुम्भिलाख्यं यागोग्रवन्हौ रुधिरं जुहाव ॥२४२ ॥ यागार्धविघ्ने युधि वध्य एष नैवान्यथेत्याशु विभीषणेन । उक्ते हिते राघवशासनेन तं लक्ष्मणो योद्भुमथाजगाम ॥ २४३ ॥ अथेन्द्रजिल्लक्ष्मणयोर्मदेन युद्धे प्रवृत्ते कपिराक्षसानाम् । परस्परं दीर्घमहास्त्रदीप्तं सैन्यद्वयं प्रेक्षकतामवाप ॥ २४४ ॥ क्रोधाकुलेनेन्द्रजिता प्रसह्य शक्त्याथ हृन्ममणि दारितोऽपि । तं पत्रिणा कण्ठनिकृत्तवत्रं सौमित्रिराश्चर्यनिधिश्चकार ॥ २४५ ॥ श्रुत्वैतदुग्राशनिपाततुल्यं शोकेन निर्भिन्नधृतिर्दशास्यः । व्याप्तः स्फुटद्भिः कटकाग्ररत्नैः पपात कल्पान्त इवाचलेन्द्रः॥२४६ ॥ १. 'मुखान्' क-ख. २. 'वतीर्ण' ख. ३. 'प्रवरसैन्य' ख. ४. 'सुमतिभिः' ख.
७० काव्यमाला। स लब्धसंज्ञः प्रियपुत्रशोके भ्रातृक्षयस्योपरिमर्मलग्ने । सीताभिलाषं सहसा विहाय बबन्ध चित्ते मरणाभिलाषम् ॥२४७ ॥ भ्रात्रा भुजेन सकलोद्यमदक्षिणेन पुत्रेण सर्वगुणसंगमवल्लभेन । मानेन मौलिमणिना रहितस्य जन्तोः किं जीवितेन शितशल्यशताचि(यि)तेन ॥ २४८ ॥ प्राप्तस्ततः समरभूमिमभग्नमानो भृत्यानुजात्मजनिकृत्तशरीरपूर्णाम् । लकेश्वरः पृथुविषादभरश्रमेण विश्रान्तये निजवपुःक्षयमाचकाङ्क्ष ॥ २४९ ॥ संनद्धे दशकंधरे युधि भयव्याघूर्णदिङ्मण्डले पैशाचाश्वरथस्थिते हरिरथारूढे च रामे पुनः । बाणेषु प्रसरत्सु देहदलनव्यापारपाराप्तये ह्येकस्य स्वतनुक्षये रिपुवधे चान्यस्य लोभोऽभवत् ॥ २९० ॥ अग्रे शरीरनिरपेक्षमरक्षिताङ्गं रक्षःपतिं घनरणक्षयमीक्षमाणः । रामः क्षणं स्थगितनिश्चलचापपाणिः साश्चर्यशौर्यभरविलयवान्प्रदध्यौ ॥ २५१ ।। कायः कैलासमूलोद्धृतिविपुलशिलोल्लेखविख्यातसार- स्तेजः शक्रेभकुम्भस्थिरशरशकलक्लेशनिःश्वासदीप्तम् । मानश्चाशेषलोकेश्वरमुकुटतटीलालिताज्ञाविलासः सर्वं साश्चर्यमस्य त्रिभुवनजयिनः पापशापेन नष्टम् ॥२५२ ॥ ध्यात्वेति निर्विवरमार्गणवर्षिणोऽस्य दष्टौष्ठमाकुलितकुण्डलदीप्तगण्डम् । रामः शरेण दहनाचितदुनिमित्त- क्रूरार्धचन्द्रवदनेन शिरश्चकर्त ॥ २५३ ॥ १. 'तेन रण' ख. २. 'शताश्रितेन' ख, ३. 'लोकस्य' क-ग.
७ श्रीरामावतारः] दशावतारचरितम् । ७१ रोमाञ्चसंचरणपीनकपोलभित्ति यद्यत्पपात वदनं दशकंधरस्य । आजन्मनोऽन्यमुखतत्क्षणदर्शनेन प्रीत्येव विस्मयमयाति तत्तदासीत् ॥ २९४ ॥ दृष्ट्वा च्युतानि वदनानि नव क्रमेण कण्ठस्खलत्कनकपुङ्खशराचितानि । व्याप्तानि दीप्तहरहोमहुताशलेशैः संस्सारितानि दशमं दशकण्ठवक्रम् ॥ २५६ ॥ कृत्ते च मूर्ध्नि दशमे दशशेखरस्य प्रत्यक्षदृष्टवदनच्युतमन्युवह्निः । शान्तोऽपि कण्ठविगलद्धनशोणितौधै- रासीत्सशेष इव कुण्डलरत्नभाभिः ॥ २५६ ॥ हत्वाथ रामः समरे दशास्यं विभीषणं तद्विभवेऽभिषिच्य । लङ्काकलङ्केन परस्थलस्थां सीतामवाप्तामपि नाभ्यनन्दत् ॥२१७ ॥ तीव्रे वियोगदहने तनुतां गतापि भर्त्रार्पिता विषमधाम्न्यनपायवन्हौ । कोपानले निपतिता विपुलेऽथ सीता शुद्ध्यै विवेश हिमसंहतिशीतमग्निम् ॥ २५८ ॥ पतिव्रतां तां स्वयमेव दोर्भ्यामादाय रामाय ददौ हुताशः । स लोकपालस्तुतशीलसत्त्वां तां प्राप्य लक्ष्मीं प्रययावयोध्याम् ॥२५९॥ तत्र प्रणामैर्भरतेन हर्षबाष्पभिषेकार्चितपादपद्मः । सुग्रीवलङ्कापतिसेव्यमानः स प्राप राज्यं त्रिदशाभिषिक्तः ॥२६० ॥ काले प्रयाते प्रणिधिः प्रजानां वृत्तान्तवेदी विजने समेत्य । व्यजिज्ञपद्दूरतरप्रवासे लोकापवादं जनकात्मजायाः ॥ २६१ ॥ जायां स जानन्नपि शुद्धशीलां लोकापवादप्रसरासहिष्णुः । सौमित्रिमादिश्य सगर्भभारां तत्याज वाल्मीकितपोवने ताम् ॥२६२॥ १. 'संतति' ख. २. 'भिषेकाश्चित' क-ग.
७२ काव्यमाला। नित्यार्द्रदु:खे जनजीवितेऽस्मिन्सुखान्यनित्यानि सयौवनानि । धनानि विद्युद्दयुतिचञ्चलानि क्षणक्षयाणि प्रियसंगमानि ॥२६३ ॥ बाल्ये भूमितलेऽर्पिता तदनु च क्लिष्टा वने भीषणे पौलस्त्येन हृता भयक्षतधृतिर्ब(ती रु)द्धाथ लङ्कावने । लब्धाशुध्यनले च्युता पुनरपि त्यक्ता सती जानकी संसारे सततानुपातिनि नृणां धिङ्नित्यदुःखस्थितिम् ॥ २६४ ॥ आश्वास्यमाना जनकोपमेन वाल्मीकिना दीनदयान्वितेन । कालं तनुत्यागमनोरथैः सा नित्याश्रुपातार्द्रकुचा निनाय ॥२६९ ॥ सासूत भर्तृप्रतिबिम्बरूपौ पुत्रौ तनुत्यागविशेषविघ्नौ । वाल्मीकिना क्षत्रियसंस्क्रियाभिः कुशो लवश्चेति-कृतामिधानौ।।२६६॥ प्रवर्धमानौ मुनिना स्वकाव्यमध्यापितौ गीतिविभक्तवर्णम् । पूर्वं भविष्यच्चरितं निबद्धं रामायणं कर्णरसायनं तौ ॥ २६७ ॥ निरास सीताविरहे द्वितीये शशीव रामस्तनुतामवाप्तः । प्रदीप्तदुःखाग्निचितां विवेद श्मशानभूमिप्रतिमां विभूतिम् ॥२६८ ॥ किं भोगरोगैः किमयत्नरत्नैः किं नन्दनैश्चन्दनचन्द्रसौधैः । वियोगशल्यैहृदयेऽवसन्ने किं नित्यशोकेन कुजीवितेन || २६९ ॥ कदाचिदास्थानसभासनस्थं रामं प्रहारक्षतमस्तकः श्वा । व्यजिज्ञपद्देव यतिव्रतेन हतोऽस्मि विप्रेण विनापराधम् ॥ २७० ॥ भिक्षुर्विलक्षः क्षतकारणं तत्पृष्टोऽपि किंचिन्न यदाचचक्षे । तद्दण्डमूकेषु सभास्थितेषु तदा पुनः प्राह स निश्चितं श्वा ॥२७१ ॥ देव द्विजन्मा स्वमठेऽधिकारी पुराहमासं विगतस्पृहोऽपि । केनाक्रमेणोपग(न)ता न जाने तथापि मे निन्द्यतमा श्वजातिः॥२७२॥ कालञ्जरे देवमठाधिकारी विधीयतामेष विवेकहीनः । न यस्य कोपप्रशमेंऽपि शक्तिर्लोभप्रहाणेऽपि स किं समर्थः ॥२७॥ एकोदरा मोहमहीप्रजाता मदस्मरक्रोधविषादलोभाः । एकानुमानेन भवन्ति जन्तोः सर्वे सदा स्थूललघुक्रमेण ॥२७४ ॥ १. 'काव्य' ख.
७ ७ श्रीरामावतारः] दशावतारचरितम् । श्रुत्वैतदुद्दामगजाधिरूढं भिक्षुं नृपः स्फीतमठाधिनाथम् । चक्रे चलच्चामरचारुचञ्चद्विकुञ्चितोष्णीषविलासहासम् ॥ २७५ ॥ धर्मस्य गोप्ता च्यवनेन रामः प्रीत्यार्थितः क्रूरतरासुरस्य । त्रैलोक्यशत्रोर्लवणाभिधस्य वधाय शत्रुघ्नमथादिदेश ॥ २७६ ॥ शूलायुधे तेन हतेऽथ दैत्ये तत्कानने काञ्चनतोरणाङ्का । दिव्येव शत्रुघ्ननिवेशिताभूत्पुरीप्रथार्हा मधुराभिधाना ॥ २७७ ॥ काले प्रयाते सुतमष्टवर्षं स्कन्धे समादाय मृतं द्विजन्मा । उच्चैः प्रचुक्रोश सभाङ्गनागद्वारान्तिके वेत्रिभयानभिज्ञः ॥२७८ ॥ अयं शिशुर्मे स्थविरस्य सूनुर्व्यसुत्वमाप्तस्तिलतोयदाता । नृपापचारेण भवत्यवश्यमकालमृत्युव्यसनं प्रजानाम् ।। २७९ ॥ धर्मद्रोहिणि विद्रुतार्द्रकरुणे क्षुद्रैः प्रजोपद्रवै- धूर्तैर्भुक्तधने प्रधानविमुखे विज्ञप्तिनिद्राजुषि । कायस्थैरजितैर्जिते क्षितिपतौ लब्धोदयैरिन्द्रियै- र्दर्भिक्षानलचौरवारिमकरैर्दीनो जनः पीड्यते ॥ २८० ॥ नाथे दिक्षु भगीरथे शुभकथे पुण्याप्ततीर्थप्रथे कान्तस्वर्गपथे पृथौ दशरथे याते यशःशेषताम् । कष्टं नष्टधृतिः प्रकृष्टविपदामाधारभूताधुना देवी-मज्जति-राजदुष्कृतिभरैर्भाराभिभूतेव भूः ॥ २८१ ॥ विप्रार्तनादेन विचार्यमाणकारुण्यदैन्यव्यसनेऽपि रामे । सभ्येषु मूकेषु मुनीश्वरेषु समभ्यधान्नारद एव वाग्ग्मी ॥ २८२ ॥ शूद्रस्तपस्तीव्रतरं करोति शम्बूकनामा दिशि दक्षिणस्याम् । स एव वर्णाश्रमधर्मलोपः पुत्रक्षये कारणमग्र्यजातेः ॥ २८३ ॥ श्रुत्वोदितं नारदवाक्यमेतस्मृताप्तमारुह्य विमानराजम् । अदक्षिणं धर्मपथस्य राजा गत्वावधीद्दक्षिणदिस्थितं तम् ॥२८४ ॥ रामासिपट्टेन निकृत्तकण्ठे शूद्रे विमानेन दिवं प्रयाते । निजात्मजे तत्क्षणलब्धजीवे ममार्ज निन्दां स्तुतिभिर्द्विजातिः ॥२८४॥ १. 'करणे' क-ग. २. 'धनैः' क-ग-घ. ३. 'दुष्कृत' ख. ४. 'श्रुत्वोचितं' ख. १० ७४ काव्यमाला । हैमी कृता तस्य सुवर्णकारैरभिन्नरूपा रघुराजपत्नी । अभूत्परित्यागघनावमानमन्युव्रता मौनवतीव सीता ॥ २८६ ॥ वाल्मीकिशिष्यानुगतौ कुमारौ रामात्मजौ तत्र लवः कुशश्च । अगायतां श्रोत्रसुखं नृपाग्रे स्वरेण रामायणमादिकाव्यम् ॥२८७ ॥ पुत्रौ परिज्ञाय मुनीन्द्रवाक्यात्तौ तुल्यरूपानुभवेन रामः । करोतु सीता पुनरेव शुद्धिमित्यर्थनां तत्र मुनेश्चकार ॥ २८८ ॥ वाल्मीकिशिष्यैरथ रामपत्नी तां प्रापिता यज्ञभुवं क्षणेन । लज्जावती राजसहस्रमध्ये मन्युप्रगल्भां गिरमुज्जहार॥ २८९ ॥ यद्यार्यपुत्रान्न परः प्रमृष्टश्चित्तेन वाचा मम कर्मणा वा । तत्सत्यसंकल्पगुणेन तेन ददातु माता वसुधावकाशम् ॥ २९० ॥ अथोत्थिता मूर्तिमती क्षितिस्तामङ्के समादाय तलं विवेश । काकुत्स्थहृद्भङ्गभियेव काञ्च्या सुताररावेण निवार्यमाणा ॥२९१ ॥ रामस्ततः प्राप्तवधूनिराशः पातालसंहारविलाससज्जः । निवारितः पद्मभवेन साक्षात्स्नेहार्द्रतां पुत्रयुगे बबन्ध ॥ २९२ ॥ अथाश्वमेधे विधिभाजि पूर्णे कालेन साक्षाद्विजने समेत्यः । संस्मारितो वैष्णवधाम रामः सहानुजैर्दिव्यपदं प्रपेदे ॥ २९३ ॥ अथ स भगवान्विष्णुः कृत्वा जगन्निरुपप्लवं दशमुखभयं हृत्वा हर्षप्रदस्त्रिदशश्रियः । पवनतनयं धृत्वा धीरोन्नतं सविभीषणं भुवनभवने कीर्तिस्तम्भं जगाम सुधाम्बुधिम् ॥ २९४ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते श्रीरामावतारः सप्तमः । श्रीकृष्णावतारोऽष्टमः। अहो कालसमुद्रस्य न लक्ष्यन्तेऽतिसंतताः । मजन्तोऽन्तरनन्तस्य युगान्ताः पर्वता इव ॥ १ ॥ १. 'प्रसृष्टः' क-ग-घ.
८ श्रीकृष्णावतारः] दशावतारचरितम् । युगदीर्घे प्रयातेऽथ काले दिनक्ष(ग)णक्रमैः । कैटभारिं पुनर्भूमिर्भारार्ता शरणं ययौ ॥ २ ॥ सा ददर्श सुधाम्भोधौ प्रबुद्धं शेषशायिनम् । विश्वरूपं फणारत्नसहस्रप्रतिबिम्बितम् ॥ ३ ॥ सुखप्रबोधपृच्छान्ते चतुर्मुखमुखैः सुरैः । मुनिभिर्नारदाद्यैश्च प्रणतै: परिवारितम् ॥ ४ ॥ पादसंवाहनव्यग्रां श्रियं प्रेमामृतह्रदे । वहन्तं हृदये व्यक्तं कौस्तुभप्रतिबिम्बिताम् ॥ ५ ॥ मही मरकतश्यामा व्यक्तमौक्तिकभूषणा । खलक्ष्मीर्लक्ष्यनक्षत्रमालेव प्रणनाम तमू ॥ ६ ॥ सा प्रणामचलत्कर्णोत्पलालिवनसंनिभाम् । विज्ञप्तिं ज्ञातवृत्तस्य चक्रे विश्वान्तरात्मनः ॥ ७ ॥ भगवन्भवतः सर्वलोकचिन्तार्तिहारिणः । वात्सल्यपेशलस्याग्रे पुनरुक्तं निवेद्यते ॥ ८ ॥ हिरण्याक्षबलात्क्षिप्ता निक्षिप्तक्षितिभृत्कुला । समुत्क्षिप्ताक्षयैवाहं वराहवपुषा स्वयम् ॥ ९ ॥ कालनेमिप्रभृतयः पुरा मद्भारशान्तये । ये हता भवता दैत्यास्तेऽवतीर्णाः पुनर्नृपाः ॥ १० ॥ उग्रसेनस्य तनयः क्रूरः क्रूरतरानुगः । वृष्णिवंशे समुत्पन्नः कालनेमिर्महासुरः ॥ ११ ॥ अनन्तदैत्यभूपालबलभारभरार्दिता । अधर्मबहुलं कालं न सहे वोढुमक्षमा ॥ १२ ॥ श्रुत्वैतदुक्तमुर्वर्या भगवान्सस्मिताननः । करिष्याभ्युचितं सर्वमित्युक्त्वा विससर्ज ताम् ॥ १३ ॥ पृथिव्यामथ यातायां विधा(ज्ञा)य हृदयस्थितम् । विष्णोः समीहितं सर्व सुरान्प्राह पितामहः ॥ १४ ॥ १. 'अथोद्गता' ख. २. 'समन्तात् ख.
७६
काव्यमाला । भूमिभारावताराय देवोऽवतरति क्षितिम् । यदुवृष्णिकुले याति वसुदेवस्य पुत्रताम् ॥ १५ ॥ यूयमंशावतरणं कुले कुरुत भारते । इत्युक्ते पद्मगर्भेण तथेत्युक्त्वा ययुः सुराः ॥ १६ ॥ ततः कदाचित्प्रययौ नारदो मथुरां पुरीम् । खच्छन्दवादनिरतः कलिकेलिकुतूहली ॥ १७ ॥ स रहः कंसमभ्येत्य प्राप्तपूजासनोऽवदत् । धर्ममार्गेण वर्तस्व रक्षेमां विद्रुतां श्रियम् ॥ १८ ॥ पितृप्वसुस्ते देवक्या यः समुत्पद्यते सुतः । स सुरैर्निश्चितोऽन्ताय विभूतेर्जीवितस्य ते ॥ १९ ॥ उक्त्वेति याते देवर्षो कंसः पापी पितृष्वसुः । देवक्याः किंकरान्गर्भनिधनाय समादिशत् ॥ २० ॥ हतेषु षट्सु बालेषु वसुदेवसुतेष्वथ । सपत्न्यै सप्तमं गूढं रोहिण्यै देवकी ददौ ॥ २१ ॥ स विष्णोः शयनाभ्यासाद्भूभारभरणक्षमः । अवतीर्णः शिशुः शेषः प्रीतिमन्तर्वहन्निव ॥ २२ ॥ अथाष्टमं सुतं जातं वसुदेवः स्वयं निशि । गोकुले नन्दगोपस्य निदधे वधशङ्कितः ॥ २३ ॥ नन्दपल्या यशोदायाः कन्यां विनिमयेन सः । आदाय गूढसंचारी निजजायान्तिके क्षिपत् ॥ २४ ॥ सा कन्या करुणाहीनैः प्रबुद्धैरथ किंकरैः । शिलायामाहता दीप्ता विद्युल्लेखेव खं ययौ ॥ २५ ॥ साष्टादशभुजा कान्ता प्रदीप्तविविधायुधा । कंसस्यायुः पिबन्तीव भेजे विन्ध्यवसुंधराम् ॥ २६ ॥ रोहिणीभवनाज्ज्येष्ठमपि गूढमतिः सुतम् । वसुदेवः क्षयभयान्नन्दगोपगृहेऽत्यजत् ॥ २७ ॥ १. 'कुर्वन्तु' क. २. 'मथुरां नारदः' ख. ३. 'विदितः' ख. ४. 'शिशुः' क.
< श्रीकृष्णावतारः]] दशावतारचरितम् । ७७ तौ संकर्षणकृष्णाख्यौ यशोदा दधती ययौ । विश्रुता दानसंभोगौ श्रीरिव स्पृहणीयताम् ॥ २८ ॥ संकर्षणः शशिसितः कृष्णो मरकतद्युतिः । बभतु: प्रथमोद्भेदौ गङ्गायमुनयोरिव ॥ २९ ॥ स्वदेहरक्षायत्नेन बालोद्दलनशालिना । कंसेनान्यत्कृतं मोहादन्यद्दैवेन निर्मितम् ॥ ३० ॥ कलयति धिया स्वार्थं सर्वः सदाभ्युदयेच्छया किमपि यतते तावद्यावत्फलं परिदृश्यते । तदनु च विधिः क्रीडोन्मत्तः करोति तदश्मना जलभृतघटं भक्त्वा दूरादिवाशु जलस्थितिम्॥ ३१ ॥ राज्यार्हौ गोकुले बालौ कंसः श्रुत्वा तयोः क्षये । चक्रे गूढोद्यमोपायान्गर्भव्यत्ययशङ्कितः ॥ ३२ ॥ स्तन्यतृप्तः शिशुः कृष्णः कदाचिन्निद्रयान्वितः । पादप्रहारेणाविद्धं बभञ्ज शकटं महत् ॥ ३३ ॥ विसृष्टामथ कंसेन पूतनां निशि राक्षसीम् । विषार्द्रस्तनदां कृष्णश्चक्रे निष्पीतजीविताम् ॥ ३४ ॥ किंचित्संचरणाभ्यासे पाणिमालम्ब्य यत्नवान् । दत्तद्वित्रिक्रमश्चक्रे हर्षं मातुस्त्रिविक्रमः ॥ ३५ ॥ ततः कुमारयोः पातभीत्या हरिणवेगयोः । अविश्रान्तानुसरणे यशोदा श्रममाययौ ॥ ३६ ॥ उद्विग्ना गतिविघ्नाय कृष्णस्य जननी व्यधात् । बलिबन्धनधीरस्य दाम्ना बन्धमुलूखले ॥ ३७ ॥ दामोदरस्ततो नाम्ना समाकर्षन्नुलूखलम् । मध्येन निर्ययौ वेगाद्यमलार्जुनवृक्षयोः ॥ ३८ ॥ संल्लग्नोलूखलाकर्षात्पेततुस्तौ महाद्रुमौ । यमुनाक्षोभसंभूतभयकम्पितगोकुलौ ॥ ३९ ॥ १. 'विनतादान' ख-ग. २. 'दैवविनिर्मितं' ख-ग. ३ 'जन' क-ग.
काव्यमाला।
ततः कृष्णाश्रयेण श्रीर्गोकुले जितनन्दना ।
स्वभावरमणीयेऽपि रमणीयतराभवत् ॥ ४० ॥
स्निग्धश्यामास्तरुतृणभुवः संपतन्निर्झरौघा
मेघप्रेमोन्मुखशिखिमुखस्थायिनो मन्थघोषाः ।
गायद्गोपीस्तिमितहरिणीहारिणः काननान्ताः
कान्तश्चक्रुः प्रमदसमयं(मसमं) यामुनाः कूलकच्छाः ॥ ४ १ ॥
ततः स्तोकपरिम्लाने शैशवे शिशिरोपमे ।
माधवस्याभवत्किंचिदुन्मुखि यौवनद्युतिः ॥ ४२ ॥
ततः कृष्णस्य गोपालडिम्भमण्डलवर्तिनः ।
बभूव कन्दुकोद्दामक्रीडासु निबिडो रसः ॥ ४३ ॥
पतिते यमुनाकूलसलिले केलिकन्दुके ।
ददर्श कालियस्योग्रं नागस्य भवनं हरिः ॥ ४४ ॥
व्याप्तं कल्पान्तरजनी कवलीकारविभ्रमैः ।
कृतान्तमहिषश्यामैर्निस्रंशविमलैर्जलै: ॥ ४५ ॥
कालः कथं वसतीह(त्येष) भयस्यापि भयंकरः ।
स तैराकृष्यमाणोऽपि कृष्णस्तद्दर्शनोद्यतः ॥ ४६ ॥
कदम्बशाखामालम्ब्य भवनोपान्तवर्तिनीम् ।
पपात दुरितोत्पातः सावेगः क्षुभितेऽम्भसि ॥ ४७ ॥
भ्रमद्यमभुजाभेन शौरिभोगेन भोगिनः ।
आलिङ्गितस्तमाधूय वेगेनाचक्रमे शिरः ॥ ४८ ॥
पादाक्रान्तफणस्य फूत्कृतिविषावेगोष्णनिःश्वासिनः
कोपक्लेशविशेषदन्तकषणप्रोद्भूतधूमैर्हरे: ।
कालभ्रूभ्रमभङ्गुरैर्वृतमभूत्पातालमूलोद्गतैः
कालैः कालियबान्धवैरिव जलं साहायकाभ्यागतैः ॥ ४९ ॥
पीड़ितः शरणं शौरिं स यातस्तद्विरा ययौ ।
रौद्रः समुद्रं तत्पादमुद्रया तार्क्ष्यनिर्भय: ॥ ५० ॥
८ श्रीकृष्णावतारः]
दशावतारचरितम् ।
ततस्तालवने दैत्यं धेनुकं खररूपिणम् ।
जघान गोकुले विघ्नं हेलयैव हलायुधः ॥ ५१ ॥
अथ गोपालरूपेण प्रलम्बो नाम दानवः ।
कन्दुकक्रीडया प्रीतिं विदधे रामकृष्णयोः ॥ ५२ ॥
कदाचित्स्कन्धमारूढस्तेन वेगवता हृतः ।
रामस्तस्याकरोन्मुष्टिपातेन शतधा शिरः ॥ ५३ ॥
अथ गोवर्धनगिरौ शक्रयागमहोत्सवे ।
भक्ष्यभोज्यमहारम्भसंभारो गोकुलेऽभवत् ॥ ५४ ॥
पूज्यः पर्वत एवायमित्युक्त्वा शक्रपूजनम् ।
निवार्य कृष्णस्तद्भोज्यं वुभुजे दिव्यरूपभृत् ॥ १५ ॥
ततः प्रम्लानमानेन मन्युना शतमन्युना ।
प्रेरिता घननिर्घोषघोरमेघाः समाययुः ॥ १६ ॥
तैर्गस्तवासरालोकैर्निगीर्णभुवनैर्घनै: ।
आहूतेव महारावैः कालरात्रिरदृश्यत ॥ ५७ ॥
विरावकृतहृद्धट्टमेघसंघट्टविप्लवे ।
खं क्षितौ जलरूपेण भयभग्नमिवापतत् ॥ ५८ ॥
ते शक्रक्रोधसंनद्धाः शक्रचापचिता घनाः ।
सद्यः पीतमिवाम्भोधिं वमन्तः क्ष्मामपूरयन् ॥ ५९ ॥
संरम्भेण घनाघनैर्घनान्तरै: संपीड्यमौनर्मिथ:
प्रोद्भूतेऽथ पृथुव्यथारवनिभे संस्फूर्जिते गर्जिते ।
भीत्या क्वापि ययुः क्षितिच्युतनभः संभावनाकम्पिताः
कल्पान्तागमशङ्किता इव महानीहाररुद्धा दिशः ॥ ६० ॥
धारासाराशनिनिपतनक्लेशसंपीडितानां
सीदद्वत्सप्रणिहितदृशां शीतवादार्तितानाम्।
वेगक्षोभागतगिरिनदीनाददीनाननानां
प्राणत्राणं क्वचिदपि गवां नाभवद्विह्वलानम्॥ ६१ ॥
८० काव्यमाला ॥ अङ्गभङ्गं गवां दृष्ट्वा गोविन्दः करुणाकुलः । त्राणाय गिरिमुद्धृत्य गोवर्धनमधारयत् ॥ ६२ ॥ छत्रीकृते गिरौ तस्मिन्दोर्दण्डधृतिनिश्चले । गोगणानां सगोपानां पुनर्जीवागमोऽभवत् ।। ६३ ॥ उत्क्षिप्तेऽसुरवैरिणा क्षितिधरे क्षीरोदधिः क्षोभवा- न्भेजे भीतिमकाण्डदण्डमथनक्षोभाभिशङ्की पुनः । विन्ध्यस्यासमयोद्गमं विगणयन्मन्ये श्वसन्कम्पवा- न्हस्तन्यस्तसमस्तशापसलिलः क्षोभादगस्त्योऽभवत् ॥ ६४ ॥ अवहदहतधैर्ये दोष्णि कृष्णस्य भार- श्रमशमनधियेव क्ष्माधर: सोपरोधः । अविरतनिपतद्भिर्निर्झराणां सहस्रैः स्फटिकविकटर्जम्भ(?)स्तम्भसंभारशोभाम् ॥ ६५ ॥ गोवर्धनस्य धरणे व्रजसुन्दरीणां साहायकोच्चचरणोचितदोर्लतानाम्। अप्राप्तिलोलकरविभ्रममाकलय्य कृष्णः स्मितांशुधवलाधरपल्लवोऽभूत् ॥ ६६ ॥ कृष्णेनाश्चर्यनिधिना गोगणे परिरक्षिते । लज्जयेव न्यवर्तन्त पवनोच्छ्वासिनो घनाः ॥ १७ ॥ ततः शक्रः समभ्येत्य प्रसाद्य विजने हरिम् । कामधेनुगिरा तस्मै गोपालाधिपतां ददौ ॥ ६८ ॥ अथ प्रपेदे गोविन्दः प्रौढं मदमिव द्विपः । सहकारतरुः कान्तं वसन्तमिव यौवनम् ॥ ६९ ॥ तस्य सानन्दशृङ्गारे वयसि व्यक्ततां गते । बभूवाभिनवोत्साहः प्रतापाभरणेन सः ॥ ७० ॥ तस्य निर्भरतारुण्यलावण्यं नयनामृतम् । पिबन्तीनामभूद्गोपकान्तानां मदविभ्रमः ॥ ७१ ॥ . १. 'करुणालयः' क-ग. २. 'जम्ब' ग; 'जृम्भ' घ.
८ श्रीकृष्णावतारः] दशावतारचरितम् । ८१ व्यामूढस्खलितार्धविक्लवपदा वाणी गतिश्चास्फुटा चित्तं भ्रूयुगलं च वीचिरचनासंवादि दोलायितम् । निद्रा किं च दरिद्रतामुपगता लज्जा च सज्जा स्मरे क्षैव्यं माधवयौवनातिपदे गोपाङ्गनानामभूत् ।। ७२ ॥ स्वैराचारस्मरपरिचये तत्र शौरेः प्रवृत्ते वेषालापोद्धतगतितयान्योन्यसंभाव्यमाने । आसील्लज्जाविनयनिभृता व्यक्तसंसक्तमन्यु- स्तासामन्तः कलुपकलनानल्पसंकल्पजल्पः ॥ ७३ ॥ कर्णाभ्यर्णविकीर्णलोचनरुचः सन्त्येव चन्द्रानना- स्त्वत्तोऽन्या नवयौवनोन्नतिलसल्लावण्यगण्याः परम् । यासामेष हरिर्मनोरथशतैरर्थी क्षणालोकने किं कृष्णेन विलोकिताहमिति ते रूढः प्रमूढे मदः ॥ ७४ ।। अन्तर्लोचनयोर्विशत्यविरतं लग्नश्च पाणौ गतिं निर्बन्धेन रुणद्धि धावति मुहुर्दंशाभिकामोऽधरे । सख्यः किं करवाणि वारणशतैर्नैवापयति क्षणं कृष्णः पट्चरणः प्रयाति चपलः पुष्पोच्चये विघ्नताम् ॥७५॥ कर्पत्यंशुकपल्लवं परिहृतः प्रत्याहृतिं नोज्झति प्रक्षिप्तश्चरणे लगत्यविरतं तिष्ठत्यदृश्यः पथि । अङ्गान्युल्लिखति प्रसह्य यदि वा लब्धावकाशः क्वचि- त्किं शौरिर्घनकुञ्जवञ्जुललताजालान्तरे कण्टकः ॥ ७६ ॥ स्वच्छाम्बुप्रतिविम्बवऋतिलकोल्लेखादरालोकनं यत्नेनोच्चितचूतपल्लवलवे कर्णावतंसस्पृहा । एतस्याः कुसुमेषु बन्धनधिया केशावकाशक्रिया केनायं नवरागयोगगुरुणा वेपोपदेशः कृतः ॥ ७७ ॥ १. 'मूढप्रस्खलि' ख-ग. २. 'लीलायितम्' ख-ग. ३. 'गलति' क-ख. ४. 'वन' ग; 'नग' ख. ११
८२
काव्यमाला।
कोऽयं याति लघुक्रमैरहमहं कस्त्वं सखि श्यामला
श्वासायासवती व यासि तिमिरे तं नष्टमिष्टं मृगम् ।
अन्वेष्टुं यमुनातटीमुपगता भीतास्मि भूतंभ्रमा-
न्मूढे कृष्णभुजंग एष विटपे कौटिल्यलीनः स्थितः ॥ ७८ ॥
संतप्तैव हता करोमि किमहं तां प्रेषयन्त्या मया
लब्धं मौग्ध्यफलं भुजंगनिकटं वक्रां द्विजिह्वां सखीम् ।
धिग्दूतीं तरुणीं करोति किल या स्वीकृत्य दूरे प्रियं
हस्तोत्सृष्टखगः प्रयत्ननिचयैर्नायाति तृप्तोऽन्यतः ॥ ७९ ॥
जानेऽन्यासहितं विलोक्य कुटिलं तं कूटकोषं त्वया
प्रत्यक्षागसि निवासहनया कोपेन दष्टोऽधरः ।
श्वासायासविसंस्थुला न च कुचोत्कम्पं विमुञ्चस्यहो
मोहाद्दुःसहविप्लवे चपलया किं प्रेषिता त्वं मया ॥ ८० ॥
न स सखि यमुनायास्तीरवानीरकुञ्जे
गहनभुवि भवत्या मत्प्रियः क्वापि दृष्टः ।
सुमुखि फलमियत्तु स्नेहमोहात्त्वयाप्तं
कुचमुखलिखितेयं कण्टकोल्लेखरेखा ॥ ८१ ॥
इत्यभून्मदनोद्दामयौवने कालियद्विषः ।
गोपाङ्गनानां संरम्भगर्भोपालम्भविभ्रमः ॥ ८२ ॥
प्रीत्यै बभूव कृष्णस्य श्यामानिचयचुम्बिनः ।
जाती मधुकरस्येव राधैवाधिकवल्लभा ॥ ८३ ॥
लावण्यं नवनीतसारममृतस्येवोद्वहन्त्यो नवं
तन्वाना द्युतिदिग्धदुग्धधवलां मुग्धस्मितांशुच्छटाम् ।
माद्यद्यौवनकुम्भिकुम्भसुभगाभोगस्तनोत्तम्भिता
धैर्यं कस्य न दीर्घनेत्रवलनैर्मश्नन्ति गोपाङ्गनाः ॥ ८४ ॥
कदाचिदथ यातेऽस्तं गभस्तिमति शर्वरी ।
आययौ गोपकान्तेव शनैः कृष्णाभिसारिणी ॥ ८५ ॥
८ श्रीकृष्णावतारः] दशावतारचरितम् । ८३ शशाङ्ककृतसंकेतसमागमविलोकिनी । क्षपा प्रतीक्षमाणेव तमःश्यामाम्बरा बभौ ।। ८६ ॥ अथोद्ययौ सुधास्यन्दस्वेदार्द्रप्रसरत्करः । तुल्यालिङ्गनजामी| दिशन्निव दिशां शशी ॥ ८७ ॥ ततस्तारुण्यवानिन्दुर्मीलत्तरलतारकम् । मुखं चुचुम्ब श्यामायाः कराकृष्टतमःपटः ॥ ८८ ॥ त्यक्त्वा पूर्वी स्पृशन्किचिद्दक्षिणां च तथोत्तराम् । शिश्रिये पश्चिमामाशां सुधांशुवहुवल्लभः ॥ ८९ ॥ अत्रान्तरे समभ्यायादरिष्टो दुष्टचेप्टितः । जङ्गमः शृङ्गवानद्रिरिव दैत्यो वृपाकृतिः ॥ ९० ॥ किंचित्कुञ्चितकण्ठकायकपणक्लेशत्रुटत्पादप- प्रोद्भतोत्कटटांकृतैर्गललुठद्गम्भीरघोरखनैः । सीत्कारश्वसितैः खुराप्रविपमोत्खातावकीर्णक्षिते- स्तस्योद्गारभरेण भग्नमभवत्कम्पाकुलं गोकुलम् ॥ ९१ ॥ तद्धीतिच्युतगर्भासु गोपु गोपगणे गते । कृष्णं गोपाङ्गनाः कण्ठे जगृहुर्भयविह्वलाः ॥ ९२ ॥ शृङ्गप्रहाराभिमुखं दोप्णा कृष्णस्तमुद्धतम् । निपीड्य कण्ठे कुण्ठेच्छं चकार गतजीवितम् ॥ ९३ ॥ निष्पिष्टे शौरिणारिष्टे कंसामात्ये महौजसि । तत्कथा पप्रथे लोके पृथुविस्मयकारिणी ॥ ९४ ॥ ततः प्रभाते कंसस्य सुहृत्केशी महासुरः । आययौ हयरूपेण खुराघातक्षतक्षितिः ॥ ९५ ॥ करालो मांसलः शृङ्गी कृष्णतालुस्त्रिकर्णवान् । लक्षितः ककुदावर्तीजगत्संक्षयलक्षणैः ॥ ९६ ॥ १. 'यामिन्याः' ख. २. 'चेतनः' घ. ३. 'सीत्कारोच्छसितैः' ख, ८४ cc काव्यमाला। तस्य हेषितनि||रैः खुररवेण च । त्रस्तगोगणमुद्विग्नगोपं वनमकम्पत ॥ ९७ ॥ शूत्कारश्वसितेन तर्जितमरुत्कोपात्तमृत्युस्थिति- स्तेजोनिर्जितपावकः श्रमजलैविक्षिप्तपाथःपतिः । निश्चेष्टां वसुधां विधातुमुदितः कल्पान्तकालोपमः सोऽभूदाकुललोकपालविभवावष्टम्भकृदुःसहः ॥ ९८ ॥ दन्ताभिघातसज्जस्य तस्यास्ये द्विगुणीकृतम् । उत्क्षिप्ताग्रखुरस्याशु न्यदधद्भुजमच्युतः ॥ ९९ ॥ तद्दन्तकषणेनापि निर्विघ्नघनविभ्रमः । कृष्णप्रसारितो बाहुः केशिवकं द्विधा व्यधात् ॥ १० ॥ भन्ने निपतिते तस्मिन्कंसस्येव मनोरथे । अभूजम्भारिभवने ताह्मध्वजजयस्वनः ॥ १०१ ॥ अत्रान्तरे वृष्णिवृद्धैः सह खसचिवक्षयम् । चिन्तयन्मन्त्रभवने कंसः प्रोवाच निःश्वसन् ॥ १०२ ॥ इयं जनितलजेव मानम्लानिमहीयसी । यन्मेरुतुल्यैर्युष्माभिः क्रियते तृणचिन्तनम् ॥ १०३ ॥ उद्धवः शनिरक्रूरः शतधन्वा विदूरथः । भोजाद्याश्च ममापूर्व शृण्वन्त्वसमविग्रहम् ॥ १०४ ॥ पितुः स्वसुः पतिर्वृद्धः स्नेहसंमानवृत्तिभिः । वसुदेवः स चास्माभिः पूजितः परिपूरितः ॥ १०५ ॥ स्वसुतौ तेन विन्यस्तौ गोकुले गूढचारिणौ । शोकातङ्काङ्करौ यौ मे विषपादपतां गतौ ॥ १०६ ॥ ज्ञातिभ्यो भयमस्तीति सत्यमाह महामतिः । विभीषणमतोपायैहन्यमानो दशाननः ॥. १०७ ॥ १. 'मन्त्रि' क-घ. २. 'न कृतं' ख. ३. 'शङ्कातङ्काकुलौ' ख. .
८ श्रीकृष्णावतारः] दशावतारचरितम् । ८५ मर्मज्ञः स्वजनः पुंसां क्षये जागर्ति नापरः । शिक्षापक्षिभिराकृष्टाः क्षयं यान्त्येव पक्षिणः ॥ १०८ ॥ सदा दारूणि दह्यन्ते दारुजेन चे वदिना । क्रिमिणा स्वाङ्गजातेन पात्यन्ते प्रौढपादपाः ॥ १०९ ॥ मृज्जातलोहकुद्दालैः खन्यते मृण्मयी मही । स्वजातैर्निरैनीताः कपद्भिर्भूधराः क्षयम् ॥ ११ ज्ञातिप्रहारो निःशर्ममर्मपाती पराधिकः । लोहाधिका व्यथामस्नः करोत्यस्थिमुखः शरः ॥ १११ ॥ सहभोग्यामपि ज्ञातेर्नेच्छन्ति ज्ञातयः श्रियम् । काङ्क्षन्ति भूतिमन्येपां दूरालोकननिष्फलाम् ॥ ११२ ॥ किं कृतं सुकृतं तावद्वसुदेवेन धीमता । बन्धुद्रोहविदग्धेन गोपालौ कुर्वता सुतौ ॥ ११३ ।। उपेक्षितौ वन्धुधिया तत्सुतौ दयया मया । भुजच्छेदप्रवृत्तौ मे प्रयातौ चिन्तनीयताम् ॥ ११४ ॥ कृष्णेन निहतोऽरिष्टः स च केशी सुहृन्मम । तन्द्रात्रा मुष्टिना पिष्टः प्रलम्बः स च धेनुकः ॥ ११५ ॥ अधुना कोपविवलद्भूलतां नीतिमेतयोः । करोम्यहं यथा वालौ पुन वं करिष्यतः ॥ ११६ ॥ इति कंसेन सावज्ञमन्तर्गम्भीरमन्युना । उक्ते तमुद्धवः प्राह पाङ्गुण्यविनयेद्धधीः ॥ ११७ ॥ राजन्न स्वजने कोपं कुपितः कर्तुमर्हसि । खीकार्याः सर्वथा क्रुद्धलुब्धभीतावमानिताः ।। ११८ ।। क्रुद्धान्प्रसादनै व्धान्धीतांश्च सान्त्वनैः । माननैरवमानान्नियेद्भिन्नानभिन्नताम् ॥ ११९ ॥ विभिन्नस्वीकारः शमयति नृपाणां रिपुभयं निजैर्जीवोच्छित्तिर्भवति कुपितैर्धातुभिरिव । १. 'समन्युः' ख. २. “एव' ख. ३. 'चर्म' घ.
८६ काव्यमाला। न वैरं वैरेण प्रशममुपयाति क्वचिदपि प्रदीप्तोऽग्निः शान्ति व्रजति जलपुञ्जन शिखिना ॥ १२० ॥ बान्धवौ पुत्रसदृशौ रामकृष्णौ न ते परौ । लक्ष्मीरक्षा क्षितीशानां राजपुत्राभिरक्षणम् ॥ १२१ ॥ समीपे सर्पाभः परमुपसरन्मेषहननः खलग्रामे मूर्खः (मुख्यः) परपुरगतः शत्रुबलकृत् । हते तस्मिन्पापं किमपि कुलबीजाङ्कुरहति- ने दूरे नादूरे भवति सुखरक्ष्यः क्षितिपजः ॥ १२२ ॥ निरस्तः क्ष्माभुजा बन्धुः क्षीणवृत्तिविपद्गतः । तन्नामविक्रयोत्क्षेपैर्लक्षितो दिक्षु भिक्षते ॥ १२३ ॥ परमं श्रीमतामेतन्माननामविनाशनम् । यद्यात्यपूरितो बन्धुः परस्योत्तानपाणिताम् ॥ १२४ ॥ त्वद्वन्धुसुतयो३व युक्ता गोपकुले स्थितिः । न यावद्विप्रकीर्णौ तौ तावत्स्वीकरणक्षमौ ॥ १२५ ॥ इत्युद्धवेनाभिहिते हिते सुविहिते श्रियः । अच्छिन्नदानव्रतवानक्रूरः कंसमभ्यधात् ॥ १२६ ॥ एकपात्रोचितां यस्य श्रियं नाश्नन्ति बान्धवाः । तस्यात्मपोषतोषस्य कोषक्लेशाय संपदः ॥ १२७ ॥ त्यागभोगभरोद्धृष्टा मानोन्मृष्टा महात्मनाम् । भान्ति भृत्यगृहोत्सृष्टा बन्धूच्छिष्टा विभूतयः ॥ १२८ ।। भूतिमालोक्य विमुखा यस्य निःश्वस्य बान्धवाः । गच्छन्ति न विशेषोऽस्ति श्मशानस्य च तस्य च ॥ १२९ ॥ रत्नाकरसमृद्धश्रीबन्धुर्यस्य त्वमीदृशः । स कृष्णः कानने शष्पशय्यापरिचिताकृतिः ॥ १३० ॥ १. 'त्वद्वन्धु' क-ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । स्वकर्मभागिनः सर्वे निष्फलः खजनोऽर्थवान् । नातरङ्गस्य शङ्खस्य हृता सुपिरताधिना ॥ १३१ ।। ज्ञातिर्नदीनः कृष्णस्तु दयया संविभज्यते । हेलोमिनिर्मितं मन्ये तेनैश्वर्य दिवौकसाम् ॥ १३२ ॥ धेनुत्राणे शिखरिपतिना कृष्णदोष्णि स्थितेन श्रान्ते शके विफलजलदे लजिते शैलशत्रौ । लव्धाकाशप्रसभगतिना निर्झरोद्धातघोपै- हर्पस्पर्शः प्रकटित इव स्फीतफेनाट्टहासः ॥ १३३ ॥ मददलनविधाने कालियस्याहिभर्तु- दमनशमितशक्तेर्देहसंदेहभाजः । शरणगमनदैन्यम्लानमानस्य कृष्णः शिरसि चरणमुद्रां ता_रक्षां चकार ॥ १३४ ॥ नाम्ना मानमहोन्नतिं प्रतनुते वध्नाति शोभा गुणैः पुष्णात्याजिपु जिष्णुना शशिसितं भ्राजिष्णु दोष्णा यशः । हर्ष वर्षति निश्चलेन सहजप्रेम्णा च चित्तस्य यः स श्लाघ्यः सुकृतेन वान्धवमणिर्भाग्योद्भवैलभ्यते ॥ १३५ ॥ अवन्ध्यसंगतिबन्धुः कृष्णतुल्योऽस्ति कस्तव । येन शक्रोऽपि गोपानां गौरवावनतः कृतः ॥ १३६ ॥ उक्तं निःशल्यकल्याणमस्माभिर्यदि मन्यसे । तत्त्वद्रािहं गच्छामि कृष्णाद्वानकृतार्थताम् ॥ १३७ ।। विपुलः प्रस्थितश्चायं धनुर्यागमहोत्सवः । करोम्यहं तमुद्दिश्य केशवस्य निमन्त्रणम् ॥ १३८ । इत्यक्रूरवचः श्रुत्वा कंसः कुटिलचेष्टितः । बजेति निःश्वसन्तुष्णमभ्यभात्तमधोमुखः ॥ १३९ ।। १. 'तद्राि तव ख.
८८ काव्यमाला। अथ सज्जरथे गन्तुमक्रूरे ब्रजमुद्यते। अभूञ्चन्द्रोदयोद्भूत इव वृष्णिकुलाम्बुधिः ॥ १४० ॥ अतिक्रम्याथ मथुरामक्रूरः प्रथितो रथी । अवापाग्रसरत्सैन्यः पर्यन्तग्राममेखलाम् ॥ १४१ ।। प्रत्यग्रपाकविनमत्कलमक्षेत्रपतिभिः । हरितालरजःपुञ्जरञ्जिताभिरिवाचिताम् ॥ १४२ ॥ कदलीश्यामलारामवटवाटलतावृताम् । लम्बमानघनालाबुतुम्बकूष्माण्डमण्डलाम् ॥ १४३ ॥ वलत्कुटिलकल्लोलकुल्याकलकलाकुलाम् । द्राक्षासुशीतलतलस्थलीशय्याश्रयाध्वगाम् ॥ १४४ ॥ अध्वन्यजग्धपूर्वेक्षुशल्कशुक्लीकृतस्थलाम् । पाकपिङ्गलनारङ्गीवनैः संध्यान्वितामिव ॥ १४५ ॥ ययौ स पश्यन्निःशङ्कशुकाशननिवारणे । उदञ्चद्भुजलक्ष्योच्चकुचाग्राः शालिपालिकाः ॥ १४६ ॥ स ब्रजन्गोकुलोपान्तवनमालां व्यलोकयत् । उत्सरन्निर्झरासारस्निग्धश्यामलशालाम् ॥ १४७ ॥ गोरक्षादक्षशबरैः कृतक्षुद्रक्षेसंक्षयाम् । वोरव्याघ्रपथावद्धयन्त्रकूटधैंटावटाम् ॥ १४८ ॥ तालीतालतमालसालकदलीपथ्यामलीश्यामलं खजूरार्जुनसर्जबिल्ववकुलप्लक्षाक्षलक्षाकुलम् । पर्यन्ते स ददर्श हर्षजननं स्फीतोपदेशं गवां निःश्वभ्रस्थलपुष्पशप्पशवलं निःसङ्कुलं गोकुलम् ॥ १४९ ॥ अच्छिन्नोदितमन्थमन्थररवं निर्घोषमेघभ्रम- भ्राम्यन्मत्तमयूरनृत्तरुचिरं गोपाङ्गनागीतिभिः । १. 'पथि तां' ख. २. 'द्रोणीक, ३. 'सर्वेक्षु' क. ४. 'घटापटाम्' ग. ५. 'निः- सङ्गलो ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । ८९ निःस्यन्दस्थितमुक्तशप्पकवलक्लीबाङ्गसारङ्गक प्रीति प्राप स वीक्ष्य यामुनवलद्वीचित्रजं गोकुलम् ॥ १५० ॥ ततस्तत्सैनिकैः कृष्णः प्रथमाप्तैर्निवेदितम् । पितुः पितृव्यमक्रूरं शुश्रावाभ्यय॑मागतम् ॥ १५१ ॥ घृतकुम्भदधिस्थालीसहस्रोपायनैः पुरः । प्रणम्यमानं गोपात्र्यैर्ददर्शाङ्करमच्युतः ॥ १५२ ॥ रथाग्रादवरुह्याथ लोलकुण्डलकङ्कणः(णम्) । दृष्ट्वा दामोदरं दूरादक्रूरः समचिन्तयत् ॥ १५३ ॥ अयं स भगवान्विष्णुरवतीर्णः सनातनः । भुवो भारावताराय मां जगादेति नारदः ॥ १५४ ॥ एष पद्मपलाशाक्षः श्रीमान्मरकतद्युतिः । स्निग्धलावण्यपीयूषैलिम्पतीव मनो मम ॥ १५५ ॥ वृष्णियादववंशस्य कियती स्पृहणीयता । अवतीर्णः स्वयं यस्मिन्भगवानेष केशवः ॥ १५६ ॥ इति ध्यायन्प्रहर्षाश्रुसंरुद्धनयनः स्खलन् । अकुण्ठोत्कण्ठया शौरेरक्रूरोऽन्तिकमाययौ ॥ १५७ ।। पपात पादयोस्तस्य साग्रजः प्रणतोऽच्युतः । गाढालिङ्गनसंगत्या हृदयं प्रविशन्निव ॥ १५८ ॥ प्राप्तपूजासनः कृष्णं सोऽवदत्तन्मुखे दिशन् । प्रमोदविस्मयस्नेहबहुमानमयीं दृशम् ॥ १५९ ॥ कृष्ण त्वदर्शनानन्दसुधासंपूरिते हृदि । त्वत्संभाषणहर्षस्य क्वावकाशो विधीयताम् ॥ १६० ॥ वसुदेवस्य पुण्यानां पूर्णता किं दरिद्रता । यस्त्वां तनयमासाद्य स्वशाद्यापि नेक्षते ।। १६१ ॥ १. 'क्लेवाङ्ग' क-ग-घ. १२ ९० काव्यमाला। २ भवतस्त्रिजगज्जन्मस्थितिसंहृतिकारिणः । गूढजन्मकथा केन कथ्यते सर्ववेदिनः ॥ १६२ ॥ सततं सहते तीनां त्वत्कृते कंसवाच्यताम् । वसुदेवश्चलत्येषा नूनं न भवितव्यता ॥ १६३ ॥ जगद्धरणधीरेयं धन्या देवी वसुंधरा । भारावतारसंनद्धश्चित्ते वहसि यां सदा ॥ १६४ ॥ विस्मृता देवकी किं ते त्वन्नाम्नापि स्रुतस्तनी । त्वां विना या सुतं रामं कौशल्येवावसीदति ॥ १६५ ॥ धनुर्यागे विसृष्टोऽहं कसेन त्वन्निमन्त्रणे । त्वदागमनमानेन धन्या नन्दन्तु यादवाः ॥ १६६ ॥ तत्सर्वं करमादाय प्रातः कंसस्य शासनात् । आयान्तु नन्दगोपाद्याः सर्वे समयवर्तिनः ॥ १६७ ॥ इत्यक्रूरवचः श्रुत्वा तमाभाषत केशवः । प्रातरेवाहमागन्ता त्वदाज्ञा केन लङ्घयते ॥ १६८ ॥ ततः प्रभाते संनद्धं रथमारुह्य सानुगाः । मथुरां ययुरक्रूरसंकर्षणजनार्दनाः ॥ १६९ ॥ कथं राधामनामन्त्र्यागतोऽहमिति माधवः । अरतिं म्लानतां चिन्तां व्रजन्भेजे विनिःश्वसन् ॥ १७० ॥ गच्छन्गोकुलगूढकुञ्जगहनान्यालोकयन्केशवः सोत्कण्ठं वलिताननो वनभुवा सख्येव रुद्धाञ्चलः । राधाया न न नेति नीविहरणे वैक्लव्यलक्ष्याक्षराः सस्मार स्मरसाध्वसाद्भुततनो रावोक्ति(?)रिक्ता गिरः ॥१७१॥ गोविन्दस्य गतस्य कंसनगरी व्याप्ता वियोगाग्निना स्निग्धश्यामलकूललीनहरिणे गोदावरीगहरे (1)। १. 'संहार' ख. २. 'मन्ये' क-ख. ३. 'कुञ्जगूढ' ख. ४ 'हरिणी' ग-घ.
८ श्रीकृष्णावतारः] दशावतारचरितम् । ९१ रोमन्थस्थितगोगणैः परिचयादुत्कर्णमाकर्णितं . गुप्तं गोकुलपल्लवे गुणगणं गोप्यः सरागा जंगुः ॥ १७२ ।। ललितविलासकलासुखखेलनललनालोभनशोभनयौवनमानितनवमदने अलिकुलकोकिलकुवलयकज्जलकालकलिन्दसुताविवलज्जलकालियकुलदमने । केशिकिशोरमहासुरमारणदारुणगोकुलदुरितविदारणगोवर्धनधरणे कस्य न नयनयुगं रतिसजे मजति मनसिजतरलतरङ्गे वररमणीरमणे १७३ उद्गीयमाने गुणसागरस्य गुणे गुणे रागरसेन शौरेः । गोपाङ्गना गूढरसानुरागा मुहुर्मुहुर्मोहहता बभूवुः ॥ १७४ ।। गोविन्दे गुरुसंनिधौ परवशावेशादनुक्त्वा गते सुप्तानां बकुलस्य शीतलतले स्वैरं कुरङ्गीदृशाम् । स्वप्नालिङ्गनसंगतेऽङ्गलतिकाविक्षेपलक्ष्या मुहु- मुग्धा वञ्चक मुञ्च मुञ्च कितवेत्युच्चेरुरुच्चैर्गिरः ॥ १७५ ॥ राधा माधवविप्रयोगविगलज्जीवोपमानैर्मुहु- बर्बाष्पैः पीनपयोधराग्रगलितैः फुल्लत्कदम्बाकुला । अच्छिन्नश्वसनेन वेगगतिना व्याकीर्यमाणैः पुरः सर्वाशाप्रतिबद्धमोहमलिना प्रावृण्नवेवाभवत् ॥ १७६ ॥ ज्ञात्वा कंसः समायान्तौ कुमारौ रामकेशवौ । चाणूरमुष्टिको मल्लौ विदधे तद्वधोद्यतौ ॥ १७७ ॥ अथ राजपथं प्राप्तौ बलात्संकर्षणाच्युतौ । राजाह चक्रतुश्वारुमाल्याम्बरविलेपनम् ॥ १७८ ॥ तौ विचित्राम्बरधरौ स्रग्विणौ चन्दनाचितौ । जनतानन्दजननौ राजद्वारमवापतुः ॥ १७९ ॥ हर्म्यस्था देवकी दृष्ट्वा कृष्णं कमललोचनम् । बाष्पसंरुद्धनयना मुमोह प्रस्तुतस्तनी ॥ १८० ॥ अथ राजाज्ञयोत्सृष्टं महामात्राङ्कुशेरितम् । गजं कुवलयापीडं ददर्शायान्तमच्युतः ॥ १८१ ॥ २ २ ९२ काव्यमाला । क्रोधान्धं मददोषदुःसहतरं भूभारभूताकृति कुर्वाणं करदण्डकृष्टजनताजीवापहारं मुहुः मातङ्गं कुनृपोपमं मुररिपुर्दृष्ट्वा प्रहारोद्यतं हस्तोत्पाटितया जघान निजया निर्दारितं दंष्ट्रया ॥ १८२ ॥ अथ राजाज्ञया मल्लनागौ चाणूरमुष्टिको । कुमारयोरभिमुखौ चक्रतुर्जनसंक्षयम् ॥ १८३ ॥ जानुबन्धभुजाकर्षतलाघातघने रणे । कृष्णश्चाणूरमवधीन्मुष्टिकं च हलायुधः ॥ १८४ ॥ भुजयोरिव कंसस्य मल्लयोश्युतयोस्तयोः । भ्रूभङ्गभीषणस्योचैरुच्चचारोत्कटं वचः ॥ १८५ ॥ वध्यतां वसुदेवोऽयं क्रियतां तत्सुतक्षयः । विधीयतां च गोपानामुचितं राजशासनम् ॥ १८६ ॥ कंसस्येति ब्रुवाणस्य मदोदामस्य गर्जतः । दुष्टद्विपस्येव हरिवेगेनान्तिकमाद्रवत् ॥ १८७ ।। संत्रस्ते वेत्रिसंघे नवभयसमयोद्धान्तसामन्तचक्रे हस्तस्रस्ते तरुण्याः शशिकरधवले चामरे विह्वलायाः । कृष्णः कंसं चकर्ष प्रविलुलितसितोष्णीषविश्लेषकेशैः क्रोधाने—ममालामिव कुसुमचलद्धृङ्गमालां दधानम् ॥ १८८।। आकृष्टस्य सुरारिणारुणमणिव्याकीर्णदीर्घद्युति- मौलिर्वक्षसि मौक्तिकांशुशबलः कंसासुरस्य च्युतः । व्यक्तोऽभून्नरसिंहशुभ्रनखरव्यापारमिश्रः क्षणं दीर्णस्येव पुनर्हिरण्यकशिपोः स्फीतः स्रुतासृग्भरः ॥ १८९ ॥ हत्वा दूरतराकृष्टं मदान्धं कंसकुञ्जरम् । उग्रसेनं प्रैविदधे राज्ये तज्जनकं हरिः ॥ १९० ॥ १. 'मौष्टिकं' क-ख. २. 'पुरो' क-ख. ३. 'च विदधे' क-ख.
< श्रीकृष्णावतारः]]
दशावतारचरितम् ।
९३
पादयोर्वसुदेवस्य देवक्याश्चाच्युतः. पतन् ।
वभूवानन्दनिस्पन्दनिबिडालिङ्गनातिथिः ॥ १९१ ॥
आविर्भूताः स्वयं विद्याः कलाश्च सकलास्ततः ।
निनाय स्पृहणीयत्वमवधानेन माधवः ॥ १९२ ॥
दक्षिणापथनाथस्य भीष्मकस्यात्मजां हरिः ।
जहार रुक्मिणी कन्यां लक्ष्मी जन्मान्तरागताम् ॥ १९३ ॥
रुक्मिण्यामथ कृष्णस्य प्रद्युम्नः प्रथमः सुतः ।
जाम्बवत्यामभूत्साम्बः प्रतिविम्बनिभौ पितुः ॥ १९४ ॥
सुन्दरीणां सहस्राणि पोडशान्तःपुरे हरेः ।
बभूवुस्तासु पुत्राणां लक्षसंख्योऽभवद्गणः ॥ १९५॥
नाडायनीं चन्द्रसेनां प्रद्युम्नः प्राप वल्लभाम् ।
यस्यामजीजनत्पुत्रमनिरुद्धं मनोभवम् ॥ १९६ ॥
ततः शक्रगिरारुह्य गरुडं गरुडध्वजः ।
गगने दैत्यचक्राणां चक्रे चक्रायुधः क्षयम् ॥ १९७ ॥
मुरसुन्दहयग्रीवनरकाद्या महासुराः ।
प्रययुश्चकिचक्राग्नौ क्षिप्रासङ्गपतङ्गताम् ॥ १९८ ॥
जरासंधेन संरुद्धां मागधेन प्रमाथिना ।
मथुरामथ संतज्य सानुगः प्रययौ हरिः ॥ १९९ ॥
द्वारकामथ कंसारिः पश्चिमाब्धितटे व्यधात् ।
जितलङ्कालकानाकनागेन्द्रनगरी पुरीम् ॥ २०० ॥
बलात्क्षीरोदजन्मानं पारिजातं जनार्दनः ।
हृत्वा शक्रपुरोद्यानाद्वारकायां न्यवेशयत् ॥ २०१ ।।
अत्रान्तरे कंससुहृत्करालः कालविग्रहः ।
प्रतिज्ञा कालयवनश्चक्रे वृष्णिकुलक्षये ॥ २०२॥
कृष्णस्तं दुर्जयं मत्वा निःसहायो भुजायुधः ।
बुद्धियुद्धे धियं धृत्वा ययौ यवनमण्डलम् ॥ २०३ ॥
९४ काव्यमाला । हेमरत्नमयं तस्य प्रविश्य भवनं हरिः । भयप्रदं यमस्यापि ददर्श यवनेश्वरम् ॥ २०४ ॥ सोऽपि कृष्णं विलोक्यैव पतितं भुजगोचरे । मनोरथशतावाप्तं जिघृक्षुस्तं समाद्रवत् ॥ २०५ ॥ तस्मिन्नभिद्रुते रौद्रे जवेन प्रययौ हरिः । न च पश्चाच्चचालास्य यवनः पूर्वकर्मवत् ॥ २०६ ॥ चतुःसमुद्ररशनां विगाह्यापि महीं हरिः। दृष्ट्वा तमचलं पश्चाद्विवेश हिमवद्गुहाम् ॥ २०७ ॥ तत्रेन्द्रार्थे हताशेषदैत्यस्य युगविस्तरः । यातः कालः प्रसुप्तस्य मुचकुन्दस्य भूपतेः ॥ २०८॥ अर्धनिद्रादरिद्रं मां शयानं यः करिष्यति । स भस्मसाद्यास्यतीति राजर्षिः समयं व्यधात् ॥ २०९ ॥ तस्य शय्याङ्कपर्यवक्रपादतलान्तरे । तस्थावलक्षितः शौरिः शङ्कासंकोचिताकृतिः ॥ २१० ॥ प्रविश्य कालयवनः शयानं वीक्ष्य भूपतिम् । कृष्णमायेति निश्चित्य निर्निद्रमकरोत्पदा ॥ २११ ॥ प्रबुद्धः कालयवनं पादस्पृष्टवपुर्नृपः । दृशा ददाह निःशेषं निद्राशेषकषायया ॥ २१२ ॥ निर्दग्धे कालयवने पर्यतचरणाञ्चले । कायसंकलनालीनं दृष्ट्वा कृष्णमभाषत ॥ २१३ ॥ कस्त्वं परिमिताकारः कान्ताकर्णोत्पलद्युतिः । बिभर्षि गुणगम्भीरमहो माहात्म्यमुन्नतम् ॥ २१४ ॥ इयतीं ह्रस्वतां याता सृष्टिः कालनिमीलिता । मद्गुल्फपरिमाणं यद्वपुः स्वल्पतरं तव ॥ २१५ ॥ इत्युक्तो मुचकुन्देन प्रश्रयप्रणयी हरिः । स्ववृत्तं लोकवृत्तं च सर्वं तस्मै न्यवेदयत् ॥ २१६ ॥ १. 'उत्तमम्' क.
- श्रीकृष्णावतारः] दशावतारचरितम् । ९५ कालं विशालं विज्ञाय मापालः क्षणवद्गतम् । दीर्घशय्यामिवोत्सृज्य भोगाशां समचिन्तयत् ॥ २१७ ॥ अहो कालगलत्सर्वभावभोगाभिमानभूः । स्वप्नप्रकारः संसारः पर्यन्तासत्यविभ्रमः ॥ २१८ ॥ भूमिः संकुचिता ग्रीष्मातपन्यस्तार्द्रचर्मवत् । वैराग्यं जनयत्येव जराजीणेव कामिनी ॥ २१९ ॥ तानि मित्राण्यतीतानि ते भृत्यास्ते च बान्धवाः । नरेषु रमते नात्मा यूथभ्रष्ट इव द्विपः ॥ २२० ॥ यस्मिन्नित्यमधूपमं तदखिलं कालेन लीढं सुखं यातं हन्त पुरातनं विरसतां क्षुण्णेक्षुशल्कोपमम् । आमाम्रप्रतिमस्य नास्त्यभिनवस्यास्वादने स्वादुता नेदानीं मम कृत्यमस्ति महता राज्येन भोगेन वा ॥ २२१॥ मेलिनाक्षमता(?) भूतिः सा भूतिः शोभतेऽधुना । मुक्तिकान्ताधवलतां करोत्युद्भूलनेन या ॥ २२२ ॥ इति संचित्य राजर्षिः कैलासं तपसे ययौ । गत्वा कृष्णश्च वृष्णिभ्यः स्ववृत्तान्तं न्यवेदयत् ॥ २२३ ॥ बलेर्वाणासुरः सूनुरासीहाहुसहस्रवान् । यस्यास्थानसभासभ्यो भगवानभवद्भवः ॥ २२४ ॥ दीप्तरत्नगृहालोकैः सृजन्संध्यामिवानिशम् । बभूवाकाशगं यस्य नगरं शोणिताभिधम् ॥ २२५ ॥ उषा नामाभवत्तस्य कन्या लावण्यवाहिनी । आललम्बे स्तनतटीं यस्यां मजन्निव स्मरः ॥ २२६ ॥ युद्धं विना मे मिथ्यैव भाराय भुजकाननम् । इति तेनार्थितः शर्वः प्राप्स्यसीति तमभ्यधात् ॥ २२७ ॥ १. 'मनूपम' ख-ग. २. 'मलिनं क्षमता' घ.
९६ काव्यमाला. हरं कदाचिदुद्याने देव्या सह विहारिणम् । दृष्ट्वोषा स्वविवाहाय स्पृहां चक्रे धनस्तनी ॥ २२८ ॥ यः करिष्यति ते स्वप्ने कन्याभावव्यतिक्रमम् । भविष्यति स ते भर्ता तामुवाचेति पार्वती ॥ २२९ ।। अथाययौ यौवनकृद्वल्लीनां कुसुमाकरः । कुर्वाणः सरसां प्रीतिलतां जनमनोवने ॥ २३० ॥ चञ्चचूतरजःपुञ्जपीताम्बरमनोहरः । अतसीकुसुमश्यामः शुशुभे नवमाधवः ॥ २३१ ॥ नम्रानना नवोद्भूतरजसा स्तवकस्तनी । मालती यौवनवती कन्येवोच्छासिनी बभौ ॥ २३२ ॥ ववुर्मलयनिःश्वासा इव चन्दनचुम्बिनः । पवनाः पन्नगीदंशशङ्कयेव शनैः शनैः ॥ २३३ ॥ कूजत्कोकिलकण्ठवंशविरुतैः स्फायिन्यवाप्ते परं चूतामोदमदाकुलालिपटलीवीणास्वनस्वादुताम् । शिक्षाचक्षणदक्षदक्षिणमरुद्दत्तोपदेशकमै- मञ्जर्यो ननृतुर्मधूत्सवलसत्पुप्पायुधाराधने ॥ २३४ ॥ हेमहर्म्यप्रसुप्ताथ नीता खप्ने मनोमुषा । उषा केनापि कान्तेन शीलांशुकदरिद्रताम् ॥ २३५ ॥ तस्या धीधृतिचौरेण विज्ञाय हृदयं हृतम् । हेलाहरणभीत्येव हारस्तरलतां ययौ ॥ २३६ ॥ लज्जामजनविह्वलाननननेत्यल्पप्रलापोदति- नींवीमुक्तिनिरोधनि(तिविधौ पाणिः क्वणत्कङ्कणः । शीतेनेव विकूजिता जवजुषः श्वासस्य शीत्कारिता तस्या भ्रंशभयोच्चलत्कलकला काञ्ची सकम्पाभवत् ॥ २३७ ॥ १. 'घटस्तनी' ख. २. 'दक्षिण' ख-ग. ३. 'धीवृत्ति' क. ४. 'शूत्कारिता' ग:
८ श्रीकृष्णावतारः] दशावतारचरितम् । प्रबुद्धा वृत्तकर्तव्या सा मुग्धा स्वप्नसत्यताम् । मन्यमाना मुहुर्मोहं कुललज्जाकुला ययौ ॥ २३८ ॥ शयनं विप्लवस्थानं भयेनेव विहाय सा । हर्म्यस्था प्रददौ प्रातर्दिक्षु चक्षुर्विलज्जिता ॥ २३९ ॥ सा सोत्कम्पकुचन्यस्तहस्तानभ्यस्तमन्मथा । मुमूर्छाच्छादयन्तीव प्रविष्टं हृदये प्रियम् ॥ २४ ॥ सा निशश्वास बाप्पाम्बुबिन्दुभिर्मौक्तिकैरिव । छिन्नस्य शीलहारस्य कुर्वाणा ग्रथनं पुनः ॥ २४१ ॥ प्रदध्यौ नवविध्वंससाध्वसायासिता चिरम् । क्षितौ सा चिन्तयानेव च्युतं चित्तमधोमुखी ॥ २४२ ॥ किं कस्य कथयाम्येतत्कं पृच्छामि करोमि किम् । का गतिः केन दृष्टाहं कुतस्तत्संगमः पुनः ॥ २४३ ॥ इति संदेहनिःस्पन्दा चिन्ताविक्रीतचेतनाम् । विलोक्य चित्रलेखाख्या सखी प्राणसमावदत् ॥ २४४ ॥ तन्वि कः खेदभारोऽयं भीरु किं भयकारणम् । पुत्री त्रैलोक्यभर्तुस्त्वं वध्यः कस्तेऽपराध्यति ॥ २४५ ॥ किं शय्यावलनाविमर्दगलितैः कर्णोत्पलस्य च्छदै- लीनैः कामकृपाणलेशसदृशैाप्ता तवेयं तनुः । भ्रश्यन्मौक्तिकयोविभर्पि कुचयोभिन्नेभकुम्भभ्रमं स्पष्टोऽयं रतिसंगमव्यतिकरः कस्येति मे संशयः ॥ २४६ ॥ इत्युक्ते सस्मितं सख्या सनिःश्वासाश्रुवर्षिणी । उषा शनैरवोचत्तां लिखन्ती क्ष्मामधोमुखी ॥ २४७ ॥ दृष्टः स्वप्ने मया कोऽपि रमणस्तनुकम्पनः । पीयूपवर्षी संस्पर्शे स्मरणे मरणोपमः ।। २.४ ८ ॥ जाने कम्पतरङ्गिताङ्गलतिका स्वप्नेऽहमालिङ्गिता संस्पर्शे कुचयोनिरर्गलतया हारोऽपि पार्श्वे कृतः । १. 'न लजिता' क-ख-घ. २. 'कन्येति' ख. १३ ९८ काव्यमाला । एतावत्तु सखि स्मरामि यदतो वृत्तं परं तत्परं धैर्यस्योद्दलनं शरीरशमनं ध्यात्वापि नो वेद्मि किम् ॥२४९॥ मूर्छाच्छादितमीक्षते न नयनं. तापे तनुः पच्यते कम्पः सूचयतीव जीवगमनं मोहे मनो मज्जति । प्राग्जन्मार्जितकर्मणा बलवता कामेन कालेन वा नो जानामि स केन मे धृतिहरः कण्ठे भुजंगोऽर्पितः॥२५०॥ त्यज्यते सहजा लज्जा सह्यते गुरुवाच्यता । गण्यते न घना कीर्तिर्यत्कृते सोऽपि दुर्लभः ॥ २५१ ॥ इयं शीलविलुप्तिमें मानम्लानिमहीयसी । दुर्लभे वल्लभे प्रीतिस्तनुत्यागेन शाम्यति ॥ २५२ ॥ इति ब्रुवाणां तामश्रुकणाकीर्णकुचस्थलीम् । संतापपिशुनोच्छ्वासां चित्रलेखावदत्सखीम् ॥ २५३ ॥ किं न स्मरसि मुग्धे त्वमहो विरहकातरा । देव्यादिष्टः स ते स्वप्नदृष्ट एव वरो वरः ।। २.६४ ॥ समाश्वसिहि हे तन्वि तनुस्तापक्षमा न करोमि योगशक्त्याहमुपायं त्वत्समीहिते ॥ २५५ ॥ उल्लिख्य निखिलं चित्रपटे त्रिभुवनं तव । सदृशं दर्शयाम्येव तत्रालोकय वल्लभम् ॥ २५६ ॥ इत्युक्त्वा. चित्रलेखायां गतायां व्योमवर्मना । उषा जीवमिवापेदे प्रियसंदर्शनाशया ॥ २६७ ॥ साभ्येत्य तस्यास्त्रैलोक्यचित्रं पटमदर्शयत् । किं दुष्करमदृश्यं वा योगिनां ज्ञानचक्षुषाम् ॥ २५८ ॥ उषा चित्रपटे दृष्ट्वा सुरासुरनरोरगान् । ददर्श दयितं स्वप्नदृष्टं जितशशिस्मरम् ॥ २५९ ॥ अयं स सखि मे धैर्यहारी हृदयतस्करः । इत्युषावचनं श्रुत्वा चित्रलेखा जगाद ताम् ॥ २६० ॥ १. 'अश्रान्तविपुलोच्छ्वासा' ख. ते < श्रीकृष्णावतारः] दशावतारचरितम् । दिष्टया धन्यासि सुभगे यस्यास्ते नवमन्मथः । लक्ष्मीवल्लभपौत्रोऽयमनिरुद्धाभिधः प्रियः ॥ २६१ ॥ प्रद्युम्नतनयस्यास्य लावण्यामृतदीधितेः । कान्त्या क्षेव्यमिवायान्ति सुरविद्याधराङ्गनाः ॥ २६२ ॥ रूपेणाप्रतिमेन नेत्रसुखदः कंदर्पदर्पच्छिदा शौर्ये वज्रधरोपमां न सहते धीरः सुमेरोरयम् । अस्यामर्त्यमृगेक्षणाभिरनिशं सोत्कण्ठमाकर्णितं चन्द्रोत्सङ्गमृगापहं गुणगणं गायन्ति खे खेचराः ॥ २६३ ॥ पश्चिमाब्धौ हरिपुरी द्वारका वृष्णियादवैः । सिंहैरिव महोत्साहैर्गुप्ता हैमवती गुहा ॥ २६४ ॥ तस्यामन्तःपुरे श्रीमान्वसत्येप प्रियासखः । आनीयते कथं तावदिति दोलायते मनः ॥ २६५ ॥ त्वद्भाग्यानि पुरस्कृत्य गच्छामि गगनेन ताम् । हेलार्पिताद्भुतनिधिविधिः सिद्धिं विधास्यति ॥ २६६ ॥ इत्युक्त्वाकाशमाविश्य सा ययौ द्वारका क्षणात् । कुर्वाणा रशनारत्नैः शक्रचापचिता दिशः ॥ २६७ ॥ सा गूढमायया हृत्वा रत्नपर्यङ्कशायिनम् । आनिनाय मुहूर्तेन व्योम्ना प्रद्युम्ननन्दनम् ॥ २६८ ॥ स्वप्नवृत्तान्तमावेद्य स कन्यान्तःपुरान्तरम् । प्रवेशितस्तयापश्यदुषां रतिमिव स्मरः ॥ २६९ ॥ स तां दृष्ट्वा नवोन्मेषनिर्माणातिशयं विधेः । : . . अचिन्तयत्सुधापूरैरिव पूरितलोचनः ॥ २७० ॥ इन्दोः संक्षयरक्षणाक्षतसुधा किं वेधसा निर्मिता किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः । कि तारुण्यवसन्तकान्तिललिता शृङ्गारंसिक्ता लता किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥ २७१ ॥ १. 'प्रधास्यति' के.
१०० काव्यमाला । कटाक्षः संधत्ते कुवलयकुलक्कैव्यकलनां मुखे दृश्यश्चन्द्रद्युतिहरणहेलापरिचयः । असंरुद्धा बाधाधरदलरुचिविद्रुमतरो- रहो सारङ्गाक्ष्याः प्रसभविजयी रूपविभवः ॥ २७२ ॥ इति सर्वाङ्गनिर्मग्नलोचनस्तां विलोकयन् । अनिरुद्धोऽधरे तस्या बभूवाशापथातिथिः ॥ २७३ ॥ सापि साङ्गमिवानङ्गं तमभ्यस्तं मनोरथैः । विलोक्य प्रत्ययासत्ये पुनः स्वप्नमशङ्कत ॥ २७४ ।। सोत्कम्पा कररोधेन राविणीं मणिमेखलाम् । मुहर्मोनवती चक्रे पैशुन्यचकितेव सा ॥ २७५ ॥ नवे मौनवति प्रेम्णि तयोः प्राह सखी पुरः । दन्तांशुसूत्रैः कुर्वाणा ग्रथनं चित्तयोरिव ॥ २७६ ।। यस्त्वया प्रेमकुसुमैर्देवैश्चित्रपटेऽर्चितः । अहो भक्त्या स ते तुष्टः सखि प्रत्यक्षतां गतः ॥ २७७ ॥ स्वप्नसंपादितप्रीतिर्योऽथितस्तैमनोरथैः प्राक्पूजा कीदृशी तस्य ब्रूहि त्वमुपपद्यते ॥ २७८ ॥ मौनमालम्बसे पृष्टा दृष्टा क्षोणी निरीक्षसे । लतेव कम्पसे कम्पात्कोऽयं ते चित्तविभ्रमः ॥ २७९ ॥ मानस्तत्क्षणशासनागतजने सुभ्र व संभाव्यते स्वप्नाभ्यस्तसमागमेऽपि नववत्कि लज्जया लीयसे । का तस्मिन्परता सदा वसति यश्चित्ते निबद्धो गुणैः प्रारब्धा सखि कस्य तावदियती प्रेम्णि त्वयापह्नुतिः ॥२८०॥ इति सख्यां ब्रुवाणायामनिरुद्धः प्रगल्भताम् । निनाय दयितां प्रौढः प्रणयैः प्रेमपेशलैः ॥ २८१ ॥ तदा प्रीतेर्यदायत्तं चिन्तितं यन्मनोरथैः । . मन्मथेन यदादिष्टं स्वैरं तत्तदभूत्तयोः ॥ २८२ .] १. 'धवः' ख-ग. .
८ श्रीकृष्णावतारः] दशावतारचरितम् । १०१ दिनेष्वथ प्रयातेषु प्रच्छन्नधृतवल्लभा उषाभूदभिमानाक्तव्यक्तसंभोगलक्षणा ॥ २८३ ॥ व्याकीर्णा कबरी मुखं वितिलकं ताम्बूललिप्तेऽक्षिणी कण्ठे कङ्कणलक्ष्म हारविरतिर्दशोऽधरे निव्रणः । प्रातः प्रच्युतचन्दनास्तनतटी सायं स्ववेषक्रिया संभोगाभरणा तनुर्वरतनोः शङ्कास्पदत्वं ययौ ॥ २८४ ॥ किंचिन्मुकुलिते लोके कन्यायाः कामलक्षणे । फुल्ले शनैः कर्णपथं बाणस्यापि कथा ययौ ॥ २८५ ॥ ततस्तद्भूभ्रमादिष्टाः किंकराः क्रूरकारिणः । आययुयुद्धसंनद्धाः कन्यकान्तःपुराङ्गणम् ॥ २८६ ॥ निरुद्धः प्रियया यत्नादनिरुद्धोऽथ सस्मितः । घोरकिंकरसंघाताञ्जघान परिघायुधः ॥ २८७ ॥ हतेऽयुते किंकराणां स्वयं बाणः समाययौ । रथी बाहुसहस्रात्तसमस्तायुधमण्डलः ॥ २८८ ॥ शस्त्रवृष्टिं तदुत्सृष्टां प्राद्युम्निः खगचर्मभृत् । छित्त्वा धैर्यनिधिश्चक्रे रणे बाणस्य विस्मयम् ॥ २८९ ॥ उषा संत्रासतरला पितुः पत्युश्च संगरे । प्राणेशपक्षपातेन भेजे संदेहसाध्वसम् ॥ २९० ॥ बाणेन प्रहितां शक्ति मृत्युदंष्ट्रामिवोत्कटाम् । आदाय तस्मै प्राद्युम्निस्तामेव प्राहिणोद्बली ।। २९१ ॥ परहस्तगता शक्तिः प्रविष्टान्तः कृतव्यथा । निजा सुतेव वाणस्य हृदये शल्यतां ययौ ।। २९२ ॥ वीरं विज्ञाय तं बाणः स्पष्टयुद्धेन दुर्जयम् । आदाय तामसी मायामदृष्टः प्रविवेश खम् ॥ २९३ ॥ १. 'मानात्तु' ख; 'मानार्थ' घ. २. अत्र संधिरनुचितः. ३. 'अपि' ख. ४: चर्म- खड्ग' ख.
१०२ काव्यमाला। निरन्तरैस्तदुत्सृष्टैर्वेष्टिताङ्गं भुजंगमैः । दृष्ट्वानिरुद्धं संरुद्धमुषाभून्मोहमीलिता ॥ २९४ ।। बद्धेऽनिरुद्धे तनयां वाणः स्वैरापचारिणीम् । आकृष्टः स्नेहकोपाभ्यां न तत्याज न चाग्रहीत् ॥ २९५ ॥ असंस्पृष्टं याच्यावचनघनदैन्येन वदनं न कृच्छ्रेऽप्यारूढा गुणमणिततिर्विक्रयतुलाम् । असेवासंतापं वपुरननुभूतप्रभुभयं कुलं कन्याहीनं नहि नयति मानं मलिनताम् ॥ २९६ ॥ अत्रान्तरे द्वारकायामनिरुद्धापहारजः । वृष्णीनामभवत्क्षोभः शोकचिन्तानुबन्धवान् ॥ २९७ ॥ बाणस्य नगरे रुद्धमनिरुद्धं सहोषया। विज्ञाय नारदगिरा ससार गरुडं हरिः ॥ २९८ ॥ हलायुधेन सहितः प्रद्युम्नेन च सूनुना । प्रययौ शोणितपुरं तार्क्ष्यमारुह्य माधवः ॥ २९९ ॥ खे योजनसहस्राणि विलङ्घय गरुडध्वजः । दीप्तं बाणपुरं दूराद्ददर्शार्कशतोपमम् ॥ ३० ॥ अग्निमाहवनीयाख्यं तायः प्राकाररक्षिणम् । पीतोद्वान्तखगङ्गाम्बुनिझरेण न्यवारयत् ॥ ३०१ ॥ पुरद्वारमथोन्मथ्य प्रविष्टं शाङ्गिणं बलात् । निःसंख्याः संख्यसंनद्धा दितिजाः पर्यवारयन् ॥ ३०२ ॥ चकिचक्रनिकृत्तानां शरीराणि सुरद्विषाम् । चक्रुः पक्षक्षयक्षिप्तनिपतत्क्षितिभृतमम् ॥ ३०३ ॥ अत्रान्तरे नागपाशपञ्जरे सिंहविक्रमः । बद्धोऽनिरुद्धः सस्मार दुर्गा स्तुतिपदाचिंताम् ॥ ३०४ ॥ निपिष्टमत्तमहिषासुरमस्तकाग्र- प्रत्यग्रनिर्गतघनस्रुतिशोणिताम् ।
८ श्रीकृष्णावतारः] दशावतारचरितम् । १०३ पादाम्बुजं पुनरलक्तकभक्तिचित्रं वन्दे भवप्रभवतापहरं भवान्याः ॥ ३०५ ॥ शूलप्रहारसृतरक्तभरैकबिन्दु- संजातघोररुरुलक्षगुरुप्रमाथे । पातालमूलगगनान्तविकासितास्य- ग्रस्तोगदानवतनुं प्रणमामि कालीम् ॥ ३०६ ॥ भीमोद्भवद्विभवसुम्भनिसुम्भकाय- निप्पेपदुःसहतराशनिघातघोराम् । कात्यायनी स्वकरकृत्तशिरःशरीर- वीरोपेहारपरितोपवती नमामि ॥ ३०७ ॥ क्षुभ्यत्सप्तार्णवघनरवः पद्मगर्भाण्डखण्डा- काण्डभ्रंशप्रेभसरभसः सप्तपातालभेदी । धैर्योन्माथी जयति चकिताशेपलोकेश्वराणां चण्डश्चण्ड्याः प्रलयसमयोत्साहलीलाट्टहासः ॥ ३०८ ॥ इति स्तुता भगवती दुर्गा दुर्गापहारिणी । स्वकरस्फोटितोग्राहिपञ्जरं तममोचयत् ॥ ३०९ ।। भुजंगपाशनिर्मुक्तः प्राद्युम्निः समराङ्गणम् । प्रययौ युध्यमानस्य समीपं कालियद्विपः ॥ ३१० ॥ अथ कल्पान्तपर्जन्यगर्जितोर्जितविभ्रमः । बाणासुररणारम्भदुन्दुभिध्वनिरुद्ययौ ॥ ३११ ॥ दैत्येन्द्रायुधवृष्टिनष्टगगने सेनारजःस्फूर्जित- ग्रस्ताग्रे() प्रसरत्पिनाकि विशिखबातावकीर्णे रणे । कल्पान्तागमशङ्किते त्रिभुवने चेरुः शरीरच्छिदः शूराणामनिरुद्धराममुरजित्प्रद्युम्नमुक्ताः शराः ॥ ३१२ ॥ १. 'स्ववर' ख; 'स्वशर' ग. २. 'वीरोपहारनमितां प्रणमामि कालीम' ख. ३. 'प्रसर' ख. ४. 'हेला' स.
१०४ काव्यमाला। गरुडादवरुह्याथ बैलेन बलिना रणे । हलेन हलिना कृष्टा दैत्यदेहा द्विधा ययुः ॥ ३१३ ॥ ततस्त्रिनेत्रानुचरः प्रदीप्तस्त्रिंशिखज्वरः । क्षिप्तेन भस्मना रामं भ्रममूर्छाकुलं व्यधात् ॥ ३१४ ॥ संतापमूर्छितं कृष्णस्तं परिष्वज्य विद्रुतम् । कृत्वा जटाभिराकृष्य जग्राह ज्वरमञ्जसा ।। ३१५ ॥ कृष्णोऽप्यथ ज्वराविष्टः श्वसन्रोमाञ्चकैशः । असृजद्वैष्णवं घोरं ज्वरं रौद्रज्वरापहम् ॥ ३१६ ॥ ज्वरयोः संप्रवृत्तेऽथ भुवनाकम्पने रणे । वैष्णवः प्रलयार्काभः शार्वं ज्वरमपातयत् ॥ ३१७ ॥ कण्ठे निपीड्य निष्पिष्टस्तेन रुद्रज्वरः क्षितौ । प्रयातः शरणं कृष्णमवदद्वाष्पगद्गदः ॥ ३१८ ॥ देवेन त्रिपुरारिणा त्रिजगतीजीवापहारक्षमः सृष्टः स्पष्टविनष्टधैर्यसरणिर्देव त्वयाहं कृतः । त्वां यातः शरणं शरीरधृतये त्वन्नाममन्त्राक्षर- क्षिप्ताप्तस्मृतिजापिनां न भविता मत्स्पर्शतापः क्वचित् ॥३१९॥ इति भीत्या ब्रुवाणं तं ररक्ष गरुडध्वजः । शरणाप्ते विरुद्धेऽपि वैरक्रूरा न साधवः ॥ ३२० ॥ ततः श्रीकण्ठवैकुण्ठौ व्याप्तदेही बभूवतुः । पिनाकशार्ङ्गनिर्गच्छदाणजालैर्निरन्तरैः ॥ ३२१ ॥ क्षणं तुल्ये तयोर्युद्धे जगत्संक्षयकारिणि । घनैः शौरिशरासारैर्ययौ विमुखतां हरः ॥ ३२२ ॥ ग्रस्तशक्तेः कुमारस्य जितस्य हरिणा रणे । रक्षायै शंभुना सृष्टा तस्थौ नग्नाङ्गना पुरः ॥ ३२३ ॥ अथ बाणः स्वयं योद्धं मधुसूदनमाययौ क्षिपन्बाहुसहस्रेण दीप्तायुधपरम्पराम् ॥ ३२४ ॥ १. 'बलिना' ख-ग. २. 'त्रिशिराः' ख. ३. 'कञ्चकः' क-घ. ४. 'रुद्र' ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १०५ सहस्राचं रथं तस्य मनोरथमिवायतम् । ससूतं शरवर्पण प्रममाथ मुरान्तकः ॥ ३२५ ।। उपनीतं गणैस्तूर्ण शासनात्रिपुरद्विपः । मयूरमारुरोहाथ बाणः षण्मुखवाहनम् ॥ ३२६ ॥ यत्नेन युध्यमानस्य च्छिन्नास्त्रस्य मुरारिणा । मुक्तकेशी विवस्त्रा स्त्री वाणस्याग्रे व्यदृश्यत ॥ ३२७ ॥ रक्षायै कोटवीं सृष्टां तस्य देवेन शूलिना । वञ्चयित्वाच्युतश्चक्रं पार्थाञ्चितमथासृजत् ॥ ३२८ ॥ चक्रं क्रमेण पतितं स्कन्धयोः कीर्णपावकम् । चकर्त क्रकचक्रूरं वाणस्य भुजकाननम् ॥ ३२९ ॥ चक्रोत्कृत्तभुजद्रुमन्त्रणमुखोद्भूतैर्घनासृग्भरैः प्रोद्यद्विद्रुमपादपानुकृतिभिस्तुल्यप्रमाणैः क्षणम् । अप्राप्तोद्धतयुद्धतृप्तिरधिक श्रद्धः स वीरोऽभव- व्याप्तः संततरक्तचन्दनचितैीतैरिवान्यैर्भुजैः ।। ३३० ॥ वाणश्छिन्नभुजोऽभ्येत्य शंभोर्भगवतश्चिरम् । ननर्त प्रियनृत्तस्य तोषाय प्रणयी पुरः ॥ ३३१ ॥ भक्त्याभवद्भगवतः स भवस्यातिवल्लभः । वरान्नन्दिसमः श्रीमान्महाकालश्चतुर्भुजः ॥ ३३२ ।। कल्याणं तनुते यशःपरिचितां लक्ष्मी ददात्यक्षया- माक्रान्ति विदधाति सप्तभुवनन्यस्तेप्सिताज्ञाक्षराम् । संसारं कुरुते विकारिनिकर निःशेषमेव क्षणा- द्भक्तिः कल्पलता चराचरगुरोः किं किं न सूते फलम् ।।३३३॥ उषासहितमादाय प्रद्युम्नतनयं ततः । द्वारकां विजितारातिर्जगाम गरुडध्वजः ॥ ३३४ ॥ कदाचिदथ देवर्पिरिकामेत्य नारदः । अवाप्य पूजामुचितां कथान्ते कृष्णमभ्यधात् ॥ ३३५ ॥ १. 'निकरां' ख-ग; 'निरतं' घ. २. 'अब्रवीत्' क-घ, १४
१०६
काव्यमाला ।
गङ्गाभिलाषी नृपतिर्ब्रह्मशापान्महाभिषः ।
भरतस्य कुले जातः शंतनुः प्रतिपात्मजः ॥ ३३६ ॥
गङ्गापि धातुः शापेन पतन्ती वसुभिः पथि ।
वसिष्ठशापपतितै)मधेनुनिकारतः ॥ ३३७ ॥
स्वजन्मनेऽर्थिता जाता वधाय च महीं गता।
स्वतीरोपवनोपान्ते विचचार सुलोचना ॥ ३३८ ॥
तत्र शंतनुना गङ्गा संगमं गजगामिनी ।
भेजे यथेष्टकरणप्रत्याख्यानधृतावधिम् ॥ ३३९ ॥
सा जातानवधीत्सप्तवसून्स्वेच्छाविधायिनी ।
जातेऽष्टमे सुते राज्ञा निरुद्धा प्रययौ दिवम् ॥ ३४० ॥
देवव्रताख्यः स शिशुर्दिवि देवैः कृतव्रतः ।
सर्वविद्यापगाम्भोधिर्ववृधे वसुरष्टमः ॥ ३४१ ॥
दृष्ट्वा कदाचित्कालिन्दीकूले कुवलयेक्षणाम् ।
शंतनुर्दाशतनयां तत्पितुर्याचकोऽभवत् ॥ ३४२ ॥
गाङ्गेयस्त्वत्सुतः क्ष्माद्दौहित्रो मे न राज्यभाकू ।
इत्युक्त्वा न ददौ दाशस्तस्मै सत्यवती सुताम् ॥ ३४३ ॥
देवव्रतः पितुर्ज्ञात्वा तीव्रस्मरशरव्यथाम् ।
गत्वा ययाचे दाशेशं तनयां विनयोन्नतः ॥ ३४४ ।।
दौहित्रवंशराज्यार्थी स सुतां न ददौ यदा ।
तदा राज्ये विवाहे च गाङ्गेयः समयं व्यधात् ॥ ३४५ ॥
भीषणीयप्रतिज्ञात्वादीष्मोऽयमिति खे चिरम् ।
विचचारोदिताश्चर्य खेचरोच्चारितं वचः ॥ ३४६ ॥
आनीतामथ भीष्मेण कन्यामासाद्य शंतनुः ।
परितोषाद्ददौ तस्मै स्वच्छन्दनिधनं वरम् ॥ ३४७ ॥
कालेन जनयित्वाथ पुत्रं चित्राङ्गदाभिधम् ।
तस्यां विचित्रवीर्यं च शंतनुस्तनुमत्यजत् ॥ ३४८ ॥
८ श्रीकृष्णावतारः] दशावतारचरितम् । १०७ ततश्चित्राङ्गदो राजा गन्धर्वेण प्रमाथिना। चित्राङ्गदेन समरे नामद्वेषान्निपातितः ॥ ३४९ ॥ शिशोर्विचित्रवीर्यस्य प्राप्तराज्यश्रियः कृते । जहार काशिराजस्य भीष्मः कन्याः स्वयंवरे ॥ ३५० ॥ भ्रात्रे विचित्रवीर्याय हस्तिनापुरमेत्य सः । त्यक्त्वा साल्वोत्सुकामम्बामम्बिकाम्बालिके ददौ ॥ ३५१ ॥ राजचूततरौ तस्मिन्नवयौवनमाधवे ।। कान्तालतावलयिते पातिते कालदेन्तिना ॥ ३५२ ॥ विच्छिन्ने शंतनोवैशे तत्पुत्रक्षेत्रजार्थिना । भीष्मेण प्रेरिता साध्वी प्राह सत्यवती शनैः ॥ ३५३ ॥ कानीनस्तनयो मेऽस्ति तत्तु कामात्पराशरात् । संजातो यमुनाद्वीपे कृष्णद्वैपायनो मुनिः ॥ ३५४ ॥ तं स्मरामि सुतक्षेत्रपुत्रोत्पत्त्यै तपोनिधिम् । उक्त्वेति सा भीष्ममते तं सस्मार स चाययौ ॥ ३५५ ॥ अम्बाश्वश्वा विसृष्टाथ तेजोराशिं विलोक्य तम् । निमीलिताक्षी तदृष्टिस्पष्टा गर्भ समाददे ॥ ३५६ ॥ अन्धोऽतिमीलनात्सूनुर्भावीत्युक्ते महर्षिणा । द्वितीयं जनयापत्यमिति माता जगाद तम् ॥ ३५७ ॥ भयपाण्डुरवक्रान्यालेभे गर्भ मुनेद्देशा। अप्रसूतिः सुतः पाण्डुर्भवितेत्यभ्यधान्मुनिः ॥ ३५८ ॥ तस्यां भयाद्विसृष्टायां शूद्रायां गर्भसंभवे । धर्मावतारमुक्त्वास्याः पुत्रं प्रायान्महामुनिः ॥ ३५९ ॥ जातेऽन्धे धृतराष्ट्रेऽथ पाण्डौ च भुजशालिनि । माण्डव्यशापभूधर्मः शूद्रायां विदुरोऽभवत् ॥ ३६० ॥ ३. 'माता' क.घ. ४. 'उक्ता' ख, १. 'कान्त ख. २. 'हस्तिना' ख-ग. 'जात्यन्धे' ख-ग.
१०८ काव्यमाला । धृतराष्ट्राय गान्धारी सुबलस्तनयां ददौ । कुन्तिभोजैसुतां कुन्ती पाण्डुर्माद्रीमवाप च ॥ ३६१ ॥ युवा दिग्विजयी पाण्डुम॑गयाव्यसनी वने । मृगरूपरतासक्तमवधीत्किन्दमं मुनिम् ॥ ३६२ ॥ भविष्यसि त्वं दयितारतिपर्यन्तजीवितः । तेनेति शप्तस्त्यक्तश्रीर्ययौ पाण्डस्तपोवनम् ॥ ३६३ ॥ ततः पुत्रशतं लेभे गान्धारी तुल्यगर्भजम् । ज्येष्ठो दुर्योधनस्तेषां तस्य दुःशासनोऽनुजः ॥ ३६४ ॥ कुन्ती मुनिवरावाप्तमन्त्रा भर्तुरनुज्ञया । धर्मानिलेन्द्रानाहूय वने पुत्रानजीजनत् ॥ ३६५ ॥ युधिष्ठिर भीमसेनमर्जुनं च सुरोचितान् । सपल्या दत्तमन्त्रा च माद्री प्रापाश्विनौ यमौ ॥ ३६६ ॥ स्नातां पुष्पोच्चये माद्री विलोक्य कुसुमागमे । आलिङ्गयानङ्गसङ्गेऽभूत्पाण्डः शापादजीवितः ॥ ३६७ ॥ प्रयाते त्रिदिवं पाण्डौ पाण्डुपुत्राः पितृव्यः । वृद्धि गता धार्तराष्ट्रः सह दुर्योधनादिभिः ॥ ३६८ ॥ भीष्मः पितामहस्तेषां चापाचार्य कृपं व्यधात् । द्रोणं च शर्वशिष्यस्य शिष्यं रामस्य धन्विनः ॥ ३६९ ॥ अश्वत्थामा प्रियः सूनुयॊणस्य तनयोऽभवत् । यथार्जुनः समस्तास्त्रविद्याविमलदर्पणः ॥ ३७० ॥ कन्यायां गूढजन्मा यः कर्णः कुन्त्यां विवस्वतः । प्रयातः सूतपुत्रत्वमस्त्राणि प्राप भार्गवात् ॥ ३७१ ॥ संस्पर्धयार्जुनरणाद्वानधीरोऽस्त्रदर्शने । नीतस्तत्प्रतिमल्लत्वात्कौरवेणाङ्गराजताम् ॥ ३७२ ॥ ततः कर्णेन संमन्त्र्य भ्रात्रा दुःशासनेन च । दुर्योधनः पाण्डवानां धियं गूढवधे व्यधात् ॥ ३७३ ॥ १. 'सुभद्र' क-ख-ग. २. 'राज' ख-ग. ३. 'किन्दिरं' क-ख-ग. ४. 'तत्र' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् ।
१०९
ते तेन विहिते दीप्ते जतुवेश्मनि निर्गताः ।
विदुरेण रहः स्नेहान्निर्दिष्टविलनिर्गमाः ॥ ३७४ ॥
युधिष्ठिरार्जुनौ कुन्तीं वहन्भीमौ महाबलः ।
नकुलं सहदेवं च विवेश निशि काननम् ॥ ३७५ ॥
तत्रोप्रविग्रहं हत्वा हिडिम्बं राक्षसेश्वरम् ।
भीमस्तदनुजां भेजे हिडिम्बां दिव्यरूपिणीम् ॥ ३७६ ॥
जाते घटोत्कचे तस्याः पुत्रे भीमपराक्रमे ।
एकचक्रां पुरी जग्मुः प्रच्छन्नाः पाण्डुनन्दनाः ॥ ३७७ ॥
प्रजाक्षयक्षमस्तत्र राक्षसोऽभूहकाभिधः ।
यस्मै राजान्नशकटं प्राहिणोत्सनरं सदा ॥ ३७८ ॥
स्थिता विप्रगृहे कुन्ती सह भिक्षाशनैः सुतैः ।
बकवारे द्विजस्याप्ते भीमं तद्दययादिशत् ॥ ३७९ ॥
वजन्भीमोऽन्नशकटं भुञ्जानः क्रोधसंमुखम् ।
बकं हत्वा द्विजगृहं विवेशालक्षितो निशि ॥ ३८० ॥
अथ दूरपथायातैः कथितं पथिकद्विजैः ।
नानाकथाप्रसङ्गेन शुश्रुवुः पाण्डुनन्दनाः ॥ ३८१ ॥
पाञ्चाल्यो द्रुपदः पूर्व द्रोणस्य सुहृदः शिशुः ।
व्यधादास्यामि ते प्राप्तराज्यामिति संविदम् ॥ ३८२ ॥
द्रोणेन प्राप्तराज्योऽथ सोऽर्थितः प्रददौ न तत् ।
भिक्षाभुग्ब्राह्मणो राज्ञः कथं मित्रमिति ब्रुवन् ॥ ३८३ ॥
इति द्रोणः कृतस्तेन राज्ञा भन्नमनोरथः ।
अर्जुनेन रणे बद्धं
राज्याधमदापयत् ॥ ३८४ ॥
ततस्तेनावमानेन पुत्रं द्रोणवधक्षमम् ।
अभिचारोग्रयागेन द्रुपदः समवाप्तवान् ॥ ३८५ ॥
यागाग्निमध्याज्जातोऽस्य धृष्टद्युम्नाभिधः सुतः ।
कृष्णा च कन्यका यस्याः प्रत्यासन्नः स्वयंवरः ॥ ३८६ ॥
११० काव्यमाला। वयं तत्रैव गच्छामः सर्वराजसमागमे । प्राप्तुं प्रतिग्रहाभ्यर्चामित्युक्त्वा प्रययुर्द्विजाः ॥ ३८७ ।। ततः पाञ्चालनगरं वजन्तः पाण्डवा निशि । गन्धर्वरानं ददृशुर्गङ्गाम्भसि विहारिणम् ॥ ३८८ ॥ विवस्त्रान्तःपुरवधूदर्शनक्रुद्धमर्जुनः । व्यधादग्धरथं युद्धे तमाग्नेयास्त्रतेजसा ॥ ३८९ ॥ युधिष्ठिरेण कृपया रणे रक्षितजीवितः । सख्यं किरीटिना कृत्वा जितश्चित्ररथो ययौ ॥ ३९० ॥ ततः प्रभाते प्रच्छन्नाः पाण्डवा विप्ररूपिणः । प्रविश्य पाञ्चालपुरं कुम्भकारगृहे स्थिताः ॥ ३९१ ॥ इत्युक्त्वा नारदे याते संकर्षणजनार्दनौ । जग्मतुर्लक्ष्यभेदात द्रष्टुं कृष्णास्वयंवरम् ॥ ३९२ ॥ तौ पाञ्चालपुरं प्राप्य सर्वराजसमागमे । पूज्यमानौ विविशतुः स्वयंवरसभागृहम् ॥ ३९३ ॥ हेमासनोपविष्टेषु द्रौपदी सर्वराजसु । जगज्जयपताकेव कंदर्पस्य समाययौ ॥ ३९४ ॥ राधावेधपणे तस्मिन्भुजलम्ये स्वयंवरे । अशक्ताः पार्थिवाः सर्वे ययुर्लज्जानिलीनताम् ॥ ३९५ ॥ विलक्षेषु क्षितीशेषु द्विजमध्यादथोत्थितः । विद्धा धनंजयो लक्ष्यं क्षितौ क्षिप्रमपातयत् ॥ ३९६ ॥ हारं कण्ठे विनिक्षिप्य द्रौपद्या फाल्गुने वृते । युद्धोद्धताः समुत्तस्थुः क्रुद्धाः सर्वे क्षितीश्वराः ॥ ३९७ ॥ जित्वाथ शल्यकर्णादीन्वीरान्भीमधनंजयौ । पुरः कृष्णां समादाय ययतुर्भ्रातृभिः सह ॥ ३९८ ॥ भिक्षेवोपनता कृष्णा सहेयं भुज्यतामिति । चक्रुस्ते शासनान्मातुः सह भोगाय संविदम् ॥ ३९९ ॥ १. 'विलीनताम्' ख-ग.
२ श्रीकृष्णावतारः] दशावतारचरितम् । १११ रामकृष्णौ निशि स्वैरं कुम्भकारगृहे स्थितान् । पाण्डवानेत्य सानन्दौ प्रेम्णा संभाष्य जग्मतुः ॥ ४०० ॥ अन्विष्य द्रुपदस्तेषां विज्ञायाधर्मनिश्चयम् । कृष्णाया बहुपत्नीत्वं विरुद्धं नाभ्यमन्यत ॥ ४०१ ॥ ततस्तं भगवान्व्यासः समभ्येत्यावदन्मुनिः । पञ्चेन्द्राः समदाः पूर्व क्रुद्धा बद्धाः पिनाकिना ॥ ४०२ ॥ ते एव पाण्डवा जाताः स्वर्गश्रीस्तव चात्मजा । तेषामेकैव सा पत्नी नैवायं धर्मसंकरः ॥ ४०३ ॥ इत्युक्त्वा मुनिना दत्तदिव्यदृष्टिनरेश्वरः । सत्यं विज्ञाय तत्सर्व तद्विवाहममन्यत ॥ ४०४ ॥ ज्ञात्वा जतुगृहान्मुक्तान्पाण्डवान्प्राप्तसंश्रयान् । हस्तिनापुरमानाय्य धृतराष्ट्रोऽभ्यपूजयत् ॥ ४०५ ॥ इन्द्रप्रस्थेऽभिषिक्तोऽथ तेन राजा युधिष्ठिरः । गुणैः श्रियं श्रिया धर्म धर्मेण प्राप्तवान्यशः ॥ ४०६ ॥ निर्दिष्टां नारदेनाथ मुनिना भेदभीरुणा । भूतये पाण्डवाश्चक्रुर्मर्यादां दृढनिश्चयाः ॥ ४०७ ॥ अन्तःपुरे भ्रातरं यः पश्येत्कृष्णासखं रहः । अविश्रान्तः स तीर्थानि व्रजेवादशवत्सरीम् ॥ ४०८ ॥ चौरात्तं गोगणं विप्राक्रन्दाकृष्टस्ततोऽर्जुनः । आजहार समादाय धर्मजान्तःपुराद्धनुः ।। ४०९ ॥ स्मृत्वाथ संविदं पार्थस्तीर्थार्थी जाह्नवी जले। मज्जन्नुलूपी पाताले नागकन्यामवाप्तवान् ॥ ४१० ॥ जनयित्वा सुतं तस्यामिरावन्तं जगाम सः । नगरं मणिपूराख्यं चित्रवाहनभूपतेः ॥ ४ ११ ॥ प्राप्य तस्य सुतां कन्यां पार्थः पृथुललोचनाम् । चित्राङ्गदां सुतं तस्यां बभ्रुवाहनमाप्तवान् ॥ ४ १२ ॥ १. 'त एव पाण्डवा नाथ' क; 'उवाच पाण्डवा नाथ घ. २. 'लोचनः' क-ख-ग.
११२ काव्यमाला। सर्वतीर्थप्लुतः प्राप्य प्रभासं श्वेतवाहनः । रैवताचलयात्रायां प्राप वृष्णिसमागमम् ॥ ४१३ ॥ अर्जुनोऽथ धृतोत्कण्ठः शैलारोहसमुत्सवे । उत्साहोच्छलितं चेतः सानुगस्य हरेळधात् ॥ ४१४ ॥ तत्र कृष्णानुजां दृष्ट्वा सुभद्रां कामकौमुदीम् । कन्यामनुमते शौरेहार श्वेतवाहनः ॥ ४१५ ॥ युद्धोद्धतान्वृष्णिवीरान्पैरिसान्त्व्य जनार्दनः । निःसंख्यं द्रविणं दातुमर्जुनाय ययौ स्वयम् ॥ ४१६ ॥ इन्द्रप्रस्थमथासाद्य सुभद्रासहितोऽर्जुनः । प्रणम्य धर्मजं भेजे कृष्णेन सहितः सुखम् ।। ४१७ ॥ अभिमन्यु सुभद्रायां पार्थः पुत्रमजीजनत् । द्रौपदी प्रतिविन्ध्याद्यान्पतिभ्यः पञ्च चात्मजान् ॥ ४१८ ॥ ततः कदाचिद्यमुनाजलकेलिविहारिणम् । सकृष्णमर्जुनं विप्ररूपः प्राह हुताशनः ॥ ४१९ ।। उचितं दीयतां मह्यं भवद्भयां भोजनं हितम् । अर्थिनामर्थनावन्ध्या न भवन्ति भवद्विधाः ॥ ४२० ॥ श्वेतकेनृपतेः पूर्व यज्ञे द्वादशवार्षिके । अच्छिन्नाज्यभरेणाहमनलो जडतां गतः ॥ ४२१ ॥ वनं स्वास्थ्याय सत्त्वाढ्यं दग्धुमिच्छामि खाण्डवम् । रक्षतीन्द्रः सुहृन्मेघैस्तक्षकस्यास्पदं हि तत् ॥ ४२२ ॥ व्यस्तमेघौघविघ्नोऽहं भवत्सायकसंचयैः । अखण्डः खाण्डववनं ज्वलाम्येतन्ममाशनम् ॥ ४२३ ॥ इति वह्रिर्वदन्नर्थी ताभ्यामङ्गीकृतेप्सितः । धनुः पार्थाय गाण्डीवं ददौ चक्रं च चक्रिणे ॥ ४२४ ॥ तदत्तं रथमारुह्य तदीयाक्षयसायकः । हरिणा सह संनद्धः किरीटी खाण्डवं ययौ ॥ ४२५ ॥ १. 'दयानन्दः' क-घ. २. 'परिमन्त्र्य' क. ३. महत्' ख.
, श्रीकृष्णावतारः] दशावतारचरितम् । ११३ अग्नौ प्रज्वलिते वराहमहिषव्याघ्रद्विपद्वीपिनां निप्पीतायुपि गाढलीढगगने दैत्याहिदेहद्रुहि । रुद्धे मेघजलेऽर्जुनास्त्रपटलैयुद्धोद्धतं वज्रिणं वि(जि)ष्णुः सायकवर्षिणं विमुखतां वाणैनिनायाक्षयैः ॥४२६॥ सुतमथ भयलोलं तक्षकस्याश्वसेनं जठरमपि जनन्याः संप्रविश्य द्रवन्तम् । अकृत दिवि किरीटी पत्रिणा खण्डपुच्छं मयमपि शरणाप्तं चक्रिभीतं ररक्ष ॥ ४२७ ॥ ततः कृष्णाज्ञया दिव्यां सभां मणिमयीं मयः । विदधे धर्मपुत्रस्य प्राणरक्षाप्रतिक्रियाम् ॥ ४२८ ॥ तस्यां सभायामाश्चर्यनलिनी निर्ममे मयः । नीलरत्नोत्पलवती हेमाजां स्फटिकोदकाम् ॥ ४२९ ॥ सभासीनमथाम्येत्य धर्मजं नारदोऽवदत् । राजन्न लोकपालानां त्वत्सभासदृशी सभा ॥ ४३० ॥ यजस्व राजसूयेन कुरुष्व सफलां श्रियम् । इति त्वामवदत्पाण्डुः पिता शक्रसमास्थितः ॥ ४३१ ॥ इत्युक्त्वा नारदे याते राजसूयमनोरथम् । अकुण्ठोत्कण्ठया राजा वैकुण्ठाय न्यवेदयत् ॥ ४३२ ॥ कृष्णस्तमूचे श्लाघ्यैषा धर्मधीः किं तु मागधे । न जीवति जरासंधे क्रतुः कर्तुं स शक्यते ॥ ४३३ ॥ रुद्रयागोपहाराय तेन रुद्धा गिरिबजे। षडशीतिनृपतयस्तस्य शेषाश्चतुर्दश ॥ ४३४ ॥ शरीरार्धद्वयं जातं जरा निशि निशाचरी । संधाय विदधे वालं जरासंध तमुत्कटम् ॥ ४३५ ॥ तत्संनिरोधविश्वस्ताः संत्यज्य मथुरां वयम् । विधाय द्वारकां दुर्गा पश्चिमाब्धितटे स्थिताः ॥ ४३६ ॥ १. 'चक्र' ख-ग. .
१२४ काव्यमाला। इति स्वरं ब्रुवाणेन नृपः संमन्व्य शौरिणा । व्यादिशन्मागधवधे भीमपार्थों भुजाविव ॥ ४३७ ॥ ततः स्नातकवेषेण प्रच्छन्नक्षत्रवृत्तयः । जरासंधपुरी जग्मुः कृष्णभीमधनंजयाः ॥ ४३८ ॥ तत्र त्रयोदशाहानि युयुधाते भुजायुधौ । वीरौ भीमजरासंधौ श्रान्तोऽभून्मगधस्ततः ।। ४३९ ।। ततः संधि द्विधा कृत्वा हते भीमेन मागधे । मुमोच कृष्णः क्षितिपान्यज्ञागमनसंविदा ॥ ४४० ॥ भीमः किरीटी नकुलः सहदेवश्च दिग्जये । आजहूर्विपुलं वित्तं राज्ञे यज्ञभरक्षमम् ॥ ४४१ ।। कृतेषु शैलतुल्येषु रत्नकाञ्चनराशिषु । राजसूयसमारम्भः प्रावर्तत महीपतेः ॥ ४४२ ॥ प्राप्ता निमन्त्रितास्तस्मिन्भीष्मद्रोणादयः क्रतौ । धृतराष्ट्रः सविदुरः सामात्यश्च सुयोधनः ॥ ४४३ ॥ अशेषदेवर्षिभृते सर्वराजमये मखे । अाचितं हरिं सेहे शिशुपालो न भूपतिः ।। ४४४ ॥ तस्याधिक्षेपदक्षस्य मापतेः क्षयलक्ष्मणा । न्यपातयत्क्षितौ क्षिप्रं चक्रेणाधोक्षजः शिरः ॥ ४४५ ॥ ऋतौ समाप्ते यातेषु महर्षिषु नृपेषु च । तस्थौ दुर्योधनस्तत्र शकुनिश्चास्य मातुलः ॥ ४४६ ॥ पद्मिन्यां विहरन्वारिशङ्कया स्फाटिके जले। चरन्नुत्क्षिप्तवसनः सत्याम्भसि ममज्ज सः ॥ ४४७ ॥ तस्य स्खलितमालोक्य हर्म्यस्था राजवल्लभाः । जहसुीमसेनश्च बभूवाङ्कुरितस्मितः ॥ ४४८ ॥ लज्जावमानमलिनः कौरवः स्वपुरं व्रजन् । पृष्टः शकुनिना प्राह ग्लानिवैवर्ण्यकारणम् ॥ ४४९ ॥ १. 'शान्तो ख-ग. २. 'वृते' ख-ग.
र श्रीकृष्णावतारः] दशावतारचरितम् । ११५. धर्मसूनोर्मखे सा श्रीस्ते भूपालाः करप्रदाः । संख्यातीतं च तद्दानं मर्मशल्यायते मम ॥ ४१० ॥ पद्मिन्यामुपहासो मे पद्मस्येव हिमाशनिः । पतितः क्षीयते जाने न शरीरक्षयं विना ॥ ४५१ ॥ इति प्रलापी शोकोष्णं द्वेषावेशात्सुयोधनः । वार्यमाणः शकुनिना न्यवर्तत न दुर्मतिः ॥ ४५२ ॥ परोत्कर्पद्वेषः खरखदिरचूर्णानलनिभ- ,युतश्चित्ते दाहं दिशति निशितक्लेशमसताम् । परोत्साहे चन्द्रप्रचयसचिवः किं च महता- मनन्तः संतोपश्चरति हृदये चन्दनरसः ॥ ४५३ ॥ ततः स धृतराष्ट्राय विवर्णः पाण्डुरः कृशः । निवेदितः शकुनिना तं द्यूताज्ञामयाचत ॥ ४५४ ॥ कृच्छ्रात्कृताभ्युपगमः स पित्रा द्यूतकैतवे । अकारयन्मणिमयैः कुशलैः शिल्पिभिः सभाम् ॥ ४५५ ॥ स धर्मजं राजसूयसमयादैनिवर्तिनम् । आहूय विदधे छद्मद्यूतं शकुनिमायया ॥ ४५६ ॥ कूटाक्षक्षपिताशेपकोपसैन्यपरिच्छदः । पणं भ्रातॄनथात्मानं कृष्णां च विदधे नृपः ॥ ४५७ ॥ दुःशासनकराकृष्टकेशीमथ रजस्वलाम् । कृष्णां गुंतजितां दासीमानिनाय सुयोधनः ॥ ४५८ ॥ तत्कोपादकरोद्भीमः प्रतिज्ञामूरुभञ्जने । युधि दुर्योधनस्यासृक्पाने दुःशासनस्य च ॥ ४५९ ॥ वने द्वादशवर्षाणि निवासाय पणे कृते । त्रयोदशे तथाज्ञाते विजिताः पाण्डवा ययुः ॥ ४६० ।। हाराहें तनुचीनपट्टपवनत्वङ्गत्तैरङ्गोद्भवे धृत्वाङ्गे हरिचन्दनेन्दुमृगजाभ्यने कुरङ्गत्वचम् । १. 'कूट' क-ख. २. 'अतिवर्तनम्' ग-घ. ३. 'तुरङ्गोद्भवे' ख-ग.
११६ काव्यमाला । कृत्वा रत्नकिरीटाम्नि च जटा जग्मुर्वनं पाण्डवा निःसत्या भ्रमयन्ति पण्यवनिताप्रेमोपमाः संपदः ॥ ४६१ ॥ स्खलद्विद्युल्लेखाङ्कुरमुखमयूखोपमसुखाः श्रियश्चापाकर्षोच्चलितहरिणीवेगगमनाः । विवाहोत्साहाप्ताः क्षणमिव सुहृद्वान्धवजना न संसारे स्वप्नभ्रमपरिचये किंचिदचलम् ॥ ४६२ ॥ ततः स्तुतिप्रसन्नार्कनिर्दिष्टाक्षयभोजनैः । द्विजपूजाजुषस्तस्थुः काम्यके पाण्डवा वने ॥ ४६३ ॥ धृतराष्ट्रं परित्यज्य भ्रातृजच्छद्मखेदवान् । विदुरः काम्यकं यातः प्रार्थितः पुनराययौ ॥ ४६४ ॥ सोऽवदद्भातरं राजन्पुत्रस्नेहवता त्वया । कुललक्ष्मीलतामूले कुठारः कठिनोऽर्पितः ॥ ४६५ ॥ यत्प्राह भगवान्व्यासः पथ्यं तन्न कृतं हितम् । श्वभ्रसुप्ता प्रबुध्यन्ते न निपातव्यथां विना ॥ ४६६ ॥ बन्धुसंध्यर्थनाभङ्गकोपशापः क्षयक्षमः । मैत्रेयमुनिना दत्तः कष्टं न गणितस्त्वया ॥ ४६७ ॥ भीमाद्भीमं भयं शके येन रावणसंनिभः । स क्रूरकर्मा किर्मीरः कानने राक्षसो हतः ।। ४६८ ॥ विदुरेणेत्यभिहितं नामन्यत महीपतिः । देवादिष्टनिपातानां मिथ्यैवालम्बनक्रिया ॥ ४६९ ॥ वने पाण्डुसुतान्दृष्ट्वा क्रुद्धः कौरवदुर्नयात् । अभिमन्युं सुभद्रां च समादाय हरिर्ययौ ॥ ४७० ॥ भीष्मद्रोणास्त्रमाहात्म्यचिन्ताकुलनृपाज्ञया । अथास्त्रार्थी ययौ पार्थस्तपसे तुहिनाचलम् ॥ ४७१ ॥ १. 'धामनि जटा' ख. २. 'भोजनाः' ख. ३. 'पाण्डवाः काम्यके' ख. ४. 'ययौ हरिः ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । ११७ तीनं तपस्यतस्तस्य सत्त्वसारपरीक्षकः। देवः किरातरूपेण त्रिपुरारिः समाययौ ॥ ४७२ ॥ एकसूकरनिर्भेदस्पर्धाबन्धविरुद्धयोः । युद्धमत्युद्धतं कूटकिरातार्जुनयोरभूत् ॥ ४७३ ॥ स्मरारिशवरेणाध ग्रस्तशस्त्रः प्रमाथिना । युयुधे बाहुयुद्धेन धैर्यराशिर्धनंजयः ॥ ४७४ ॥ निपीड्य चण्डीपतिना निश्चेष्टः पातितः क्षितौ । गाण्डीवधन्वा प्रत्यक्ष निरीक्ष्य व्यक्षमब्रवीत् ॥ ४७५ ॥ दर्पोद्धतत्रिपुरकाननपावकाय भक्तार्तितापतुहिनद्युतिमण्डलाय । संसारघोरतिमिरोत्कटभास्कराय तुभ्यं त्रिधामशवलाय नमः शिवाय ॥ ४७६ ॥ इति स्तुतिकृतानन्दसुधासंपूर्णमानसात् । अस्त्रं पाशुपतं तुष्टात्किरीटी प्राप धूर्जटेः ॥ ४७७ ॥ संप्राप्तलोकपालास्त्रः सहस्रतुरगं रथम् । शक्रप्रेषितमारुह्य विजयस्त्रिदिवं ययौ ॥ ४७८ ॥ प्रणम्य तत्र वृत्रारिं तद्गाढालिङ्गनातिथिः । तदासनाधं तत्प्रीतिनिर्दिष्टं प्राप पाण्डवः ॥ ४७९ ॥ पार्थमिन्द्रासनार्धस्थं दृष्ट्वा शक्रगिरा मुनिः । तद्वृत्तान्तं ययौ वक्तुं लोमशः पाण्डवान्वनम् ॥ ४८० ॥ प्राप्तपूजासनस्तेभ्यः स निवेद्यार्जुनोदयम् । तीर्थयात्राधृतोत्साहं विदधे धर्मनन्दनम् ॥ ४८१ ॥ नैमिषायेष्वथ स्नाताः सर्वतीर्थेषु पाण्डवाः । गन्धमादनशैलात वदर्याश्रममाययुः ॥ ४८२ ॥ पवनप्रेरितं तत्र दिव्यपद्म पुरश्च्युतम् । आदाय द्रौपदी भीमं कटाक्षेण निरक्षत ॥ ४८३ ॥ १. 'अत्यद्भुतं' ख-ग. २. 'मानसः' क-घ.
११८. काव्यमाला.॥ अन्यपद्मार्थितां तस्य.धीमान्विज्ञाय मारुतिः । ययौ सौरभमार्गेण धनदाध्युपितां दिशम् ॥ ४८४ ॥ स व्रजन्काञ्चनलतानिचयाचितवम॑ना । दिदेश मददारियं सिंहनादेन दन्तिनाम् ॥ ४८५ ॥ पादन्यासाद्भुतगिरेस्तस्य शब्देन विस्मितः । हनुमान्मार्गमाश्रित्य तस्थौ स्वल्पवपुः पुरः ॥ ४८६ ॥ सोऽल्परूपं कपि दृष्ट्वा जानुसंधिकृताननम् । चकारोत्सारणरवं घनं घट्टितदिक्तटः ॥ ४८७ ॥ शनैरुन्मील्य नयने तं जगाद प्लवंगमः । किमयं मदसंरम्भस्तव मिथ्यैव निर्जने ॥ ४८८ ॥ नादेन मां खेदयता विश्रान्तं रोगदुर्बलम् । दर्शितं कृशशूरेण भवता वत पौरुषम् ॥ ४८९ ॥ इतःपरं न गन्तव्यं देशोऽयं सिद्धसेवितः । सर्वथा यदि गन्तासि पुच्छमुत्सार्य गम्यताम् ॥ ४९० ॥ इत्युक्ते कपिना भीमस्तत्पुच्छोत्सारणाक्षमः । श्रान्तः पतन्मुखेनाधस्तमभाषत विस्मितः ॥ ४९१ ॥ को भवान्किमनन्तात्मा कि मेरुः किं हिमाचलः । मार्ग देहि न लङ्घयो हि देही देहितनुस्थितः ॥.४९२ ॥ यदि न स्यात्तवान्तःस्थः परमात्मा सेनातनः । . साचलं लङ्घयेय त्वां हनुमानिव सागरम् ॥ ४९३ ॥ श्रुत्वैतत्कपिना पृष्टः क एष हनुमानिति । भीमोऽस्मै हनुमद्वृत्तं भ्रातृत्वं च न्यवेदयत् ॥ ४९४ ॥ अहं स हनुमान्भीम तेनेत्युक्ते तदर्थितः । कपिः सूर्यपथावाप्तं दीप्तं वपुरदर्शयत् ॥ ४९५ ॥ संनिधानं करिष्यामि धनंजयरथध्वजे । इत्युक्त्वालिङ्गितस्तेन भीमः प्रायात्सविस्मयः ॥ ४९६ ॥ १. 'आवृत्य' ख-ग. २. 'जनार्दनः' ख-ग. ३. 'भ्रातृव्यं' क-घ.
८ श्रीकृष्णावतारः] दशावतारचरितम् । ११९ कुबेरनलिनीं प्राप्य भीमः कनकपङ्कजम् । जहार हेमपद्मानि हत्वा गुह्यककिंकरान् ॥ ४९७ ॥ सानुगं स्वयमायातं जित्वा वैश्रवणं रणे । मणिमन्तं च तन्मित्रं हत्वा नक्तंचरेश्वरम् ॥ ४९८ ॥ द्रौपद्यै कनकाजानि दत्त्वा पवननन्दनः । मायाप्रच्छन्नमवधीद्यातुधानं जटासुरम् ॥ ४९९ ॥ अथ शक्ररथारूढः पार्थः पूर्णमनोरथः । आयातः पञ्चभिर्वर्षेः प्रणनाम युधिष्ठिरम् ॥ ५०० ॥ हतान्यवेदयत्सोऽस्मै हिरण्यपुरवासिनः । निवातकवचान्दैत्यान्स्वशौर्याख्यानलज्जितः ॥ ५०१ ॥ वने महानजगरः कदाचिदचलोपमः । बवा भुजयुगे भीमं चक्रे निश्चेष्टविग्रहम् ॥ ५०२ ॥ संरुद्धभुजनिःस्पन्दभ्रातृदर्शनदुःखितम् । उवाचाजगरः प्रश्नं दारयेति युधिष्ठिरम् ॥ ५०३ ॥ को विप्रः किं च वेद्यं स्याद्रूहि भीमस्य मुक्तये । भुजगेनेत्यभिहिते तं जगाद युधिष्ठिरः ॥ ५०४ ॥ क्षमा सत्यं शान्तिस्तरुणकरुणं यस्य च मनः स शूद्रो विप्रत्वं प्रगुणगुणसङ्गेन भजते । द्विजोऽपि व्यर्थात्मा गुणविरहितः शूद्रसदृशः कृतैः कण्ठे विप्रस्त्रिगुणगुणसूत्रैर्न भवति ॥ ५०५ ॥ सुखेन दुःखेन च वर्जितं यत्तदेव वेद्यं विदितात्मधाम । शीतोष्णहीनप्रतिमैव यत्र संतोषविश्राममयी प्रशान्तिः॥९०६॥ धर्मजेनेत्यभिहिते मुक्त्वा भीमं भुजंगमः । अगस्त्यादिष्टशापान्तो नहुषस्त्रिदिवं ययुः ॥ ५०७ ॥ अथ पाण्डुसुतान्द्रष्टुं सहितः सत्यभामया । मार्कण्डेयादिभिः सार्धं मुनिभिः शौरिराययौ ॥ ५०८ ॥ १. 'द्विजोऽपि व्यक्तात्मा' ख-ग; 'द्विजोऽप्यव्यक्तात्मा' घ. २. 'त्यक्त्वा' क-ग.
१२० काव्यमाला। नानाकथामृताख्यानैः स्थिते तत्राच्युते चिरम् । सत्यभामावदत्कृष्णामेकान्ते कृष्णवल्लभा ॥ ६०९ ॥ वश्यास्ते पतयः कृष्णे केनाराधनकर्मणा । कैर्द्रव्यमन्त्रसूत्राज्ञातिलकाञ्जनलेपनैः ॥ ५१० ॥ ममोपदिश जानासि यत्किचित्प्रीतिकारणम् । इत्युक्ते कृष्णकामिन्या श्रुत्वा कृष्णा जगाद ताम् ॥ ५११ ॥ अयुक्तमुक्तं सुभगे भवत्या धर्मवर्जितम् । वश्यदोषक्रिया स्त्रीणां भर्तृद्रोहापातकम् ॥ ५१२ ॥ वश्यप्रयोगैर्योषिद्भिः कुष्ठापस्माररोगिणः । भग्नभाग्याश्च पतयो मूकान्धबधिराः कृताः ॥ ५१३ ॥ भक्तिश्चित्तग्रहः शीलं सतीनां भर्तृभेषजम् । इत्युक्ते लज्जया भेजे सत्यभामा निलीनताम् ॥ ६१४ ॥ यातेऽथ द्वारकां कृष्णे घोषयात्रापदेशवान् । पाण्डवानाययौ द्रष्टुं श्रीभ्रष्टान्धृतराष्ट्रजः ॥ ५१५ ॥ वने विहारिणस्तस्य तुल्यावरणकारणे । रणे बभूव संमर्दो गन्धर्वैः सैन्यदारणः ॥ ५१६ ॥ भग्नेषु कर्णमुख्येषु सानुज कौरवेश्वरम् । बबन्ध गन्धर्वपतिश्चित्रसेनः शरादितम् ॥ ५१७ ॥ बद्धं सुयोधनं बन्धुधिया राजा युधिष्ठिरः । भीमपार्थो विसृज्याजौ म्लानमानममोचयत् ।। ५१८ ॥ अपि विस्मृतवैरेषु प्राणदानोपकारिषु । द्वेषदोषं न तत्याज पाण्डवेषु सुयोधनः ॥ ५१९ ॥ दृष्ट्वा चन्द्रं सकलजनतालोचनानन्दहेतं सद्यो वक्रद्युतिरलसतामेति पद्माकरस्य । नान्तःस्यूता चलति रिपुता किं च संकोचभाजः प्रायेणैते स्वजनविमुखाः श्रीमदान्धा भवन्ति ॥ १२० ॥ १. 'बन्धु' क-ग. २. 'स्फीता' क-घ. ३. 'चरति' क-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १२१ तेन तीव्रावमानेन राज्यत्यागनिबद्धधीः । से समाश्वासितोऽभ्येत्य दैत्यैः पातालवासिभिः ॥ ५२१ ॥ अत्रान्तरे पाण्डवेषु यातेषु मृगयारसात् । आययौ वनयात्रायां सिन्धुराजो जयद्रथः ॥ ५२२ ॥ स कृष्णामाश्रमे दृष्ट्वा सीतामिव दशाननः । जहार हारितमतिः करुणाकन्दिनी बलात् ॥ ५२३ ॥ ततः प्रत्यागता दृष्ट्वा पाण्डवाः शून्यमाश्रमम् । ध्वजिनीं च रजोग्रस्तगगनां समुपाद्रवन् ॥ ९२४ ॥ शराशनिविनिप्पिष्टसैन्यानालोक्य पाण्डवान् । रथाजयद्रथः कृष्णां तत्याज ज्वलितामिव ॥ ५२५ ॥ अभिसृत्याथ भीमेन गृहीतं वधकम्पितम् । ररक्ष सिन्धुनृपतिं शरणाप्तं युधिष्ठिरः ॥ ६२६ ॥ पादेनालोडितं ग्र(त्र)स्तमुकुटं तस्य मारुतिः । सुरप्रेण प्रलपतश्चक्रे पञ्चसटं शिरः ॥ ५२७ ॥ रुद्रमाराध्य तपसा सैन्धवः फाल्गुनं विना । वरमेकदिनं प्राप पाण्डवावरणं रणे ॥ ५२८ ॥ अत्रान्तरेऽर्जुनस्नेहात्कर्णमेत्य शतक्रतुः । ययाचे कवचं दिव्यं कुण्डले च शशिप्रभे ॥ ५२९ ॥ पित्रापि वारितोऽर्केण तस्मै वर्म सकुण्डलम् । एकवीरबंधायास्सै शक्ति वैकर्तनो ददौ ॥ ५३० ॥ शूरा भवन्ति विदुषामपि नास्ति संख्या पूर्ण वनं व्रतरतैर्विरलस्तु दाता। म्लानिं प्रयाति सितसत्त्वमयस्य यस्य देहप्रदानसमयेऽपि न चित्तवृत्तिः ॥ ५३१ ॥ अरणी हरिणेनाथ ब्राह्मणस्य हृतां वने । जवेन जग्मुराहतु धन्विनः पाण्डुनन्दनाः ॥ ५३२ ॥ १.'अपमानामितो' क-घ. २. 'वर' ख-ग.३.'फाल्गुणं' ख-ग. ४. वधायात्त'क-घ, १२२ काव्यमाला। निर्जलारण्यतापातैरन्वेष्टुमथ तैः पयः । माद्रीसुतः प्रेषितोऽग्रे ददर्श विपुलं सरः ॥ ५३३ ॥ प्रश्नमुक्तिकृता पेयमन्यथा नेति खाद्वचः । श्रुत्वापि पाण्डवः पीत्वा तोयं तत्याज जीवितम् ॥ ५३४ ॥ क्रमान्माद्रीसुते पार्थे भीमे च प्रच्युते तटे । युधिष्ठिरः प्रश्नगिरं बभञ्ज गगनेरिताम् ॥ ५३५ ।। निर्जीवः कः स जीवोऽपि योऽश्नात्येकोऽर्थिवर्जितः । खक्ष्माधिकौ को पितरौ कि लोलमनिलान्मनः ॥ ५३६ ॥ किमनन्तं नृणां चिन्ता धनं किमधिकं श्रुतम् । लाभात्किमुत्तमं स्वास्थ्यं किं सुखं चित्तनिर्वृतिः ॥ ५३७ ॥ संधिः स्थिरः कैः सुजनैः किं शोककृदहंकृतिः । किमैश्वर्यमलुब्धत्वं किं निःशल्यमकोपता ॥ ५३८ ।। किं विषं याचनं श्राद्धकालः कः श्रोत्रियागमः । उच्यते पुरुषः कश्च भुवनव्यापि यद्यशः ॥ ९३९ ।। इति प्रश्नोत्तरैस्तुष्टः पिता धर्मः क्षमापतेः। जीवयित्वानुजान्गुप्तिमज्ञातसमये व्यधात् ॥ ९४० ॥ अथ वनसमयान्ते गूढवासप्रवृत्ताः प्रययुरजिनखिन्नाः पाण्डवा मत्स्यदेशम् । प्रगुणगुणगणानामापदो दैवदिष्टाः सुरपतिसदृशानामप्यहो दुर्निवाराः ॥ ५४१ ॥ अथाभून्मत्स्यराजस्य राजराजशिरोमणेः । विराटस्य सभास्तारः कङ्कनामा युधिष्ठिरः ॥ ५४२॥ सूदस्तस्याभवद्भीमः क्षमापतेर्वल्लभाभिधः । गायत्यलिकुलैः कीर्ति लोला यस्यालकाजिनी ॥ ५४३ ॥ श्रीकण्ठशबराकुण्ठकण्ठक्रमणकर्मठः । शैण्ठाकृतिरभूजिष्णुर्तृत्तवृत्तिवृहन्नडः ।। ५४४ ॥ १. 'सलिलात्' ख-ग. २. 'षण्ठाकृति' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १२३ मत्स्यपल्याः सुंदोष्णायाः कृष्णा सैरिन्ध्रिकाभवत् । अभूतामश्विपुत्रौ च यमौ गोतुरगाधिपौ ॥ ५४५ ॥ इति ते तुरगाधीशसेव्याः सेवकतां ययुः । विश्वासः श्रीविलासेषु कस्यान्यस्य भविष्यति ॥ ५४६ ॥ अथायातं हतानेकमल्लं भूमिपतेः पुरः । मल्लं जीमूतनामानं मारुतिः क्रीडयावधीत् ॥ ५४७ ।। सुदोष्णायाः प्रियो भ्राता कदाचिदथ कीचकः । विलोक्यान्तःपुरे कृष्णामभवत्काममोहितः ॥ ५४८ ॥ व्याजेन प्रेपितां स्वस्रा भयसंभ्रमविद्रुताम् । कीचकस्तामभिद्रुत्य चकर्ष चरणाहताम् ॥ ५४९ ।। सा सभामेत्य भूभर्तुरग्रे प्राह पराभवम् । राजापि कीचकस्नेहाच्चक्रे गजनिमीलितम् ॥ ५५० ॥ आर्ताक्रन्दश्रवणबधिराः सेवकालोकनान्धाः प्रत्यालापप्रणयिनि जने निश्चलोत्सेकमूकाः । भूपाः प्रायः पिशुनवचनाकर्णने हस्तिकर्णा नीचप्रीतिप्रसृतनयनाश्चञ्चलानेकवाचः ॥ ५५१ ॥ भीमं महानसे सुप्तं सा प्रवोध्य तमभ्यधात् । वाप्पैः करतलस्पृष्टे क्षालयन्तीव वाससी ॥ ५५२ ॥ क्रुद्धेन तेन निर्दिष्टां सा समादाय संविदम् । कीचकस्याकरोत्प्रातः संकेतं नाट्यवेश्मनि ॥ ५५३ ॥ रात्रौ पूर्वप्रविष्टोऽथ भीमः कीचकमागतम् । केसरीव द्विपं मत्तमवधीन्मूढकामुकम् ॥ ५५४ ॥ पतयो मम गन्धर्वाः कृष्णयेत्युदितं पुरा । तैरेव निहतं मेने प्रभाते कीचकं जनः ॥ ५५५ ॥ १. भारते सुदेष्णेति नामास्ति. २. अस्मदीयं घ-पुस्तकं 'की' इति पर्यन्तं वर्तते. ३. निमीलनम्' ख-ग.
१२४ ।
काव्यमाला।
तस्य भ्रातृशतं देहसंस्काराय समुद्यतम् ।
कृष्णां चितानले क्षेप्नुमनयदुःखदायिनीम् ॥ ५५६ ॥
भीमस्तत्करुणाक्रन्दमाकर्ण्य क्रूरकोपवान् ।
शतं वृक्षप्रहारेण कीचकानामपातयत् ॥ ५५७ ।।
प्रेरितः कौरवेन्द्रोऽथ त्रैगर्तेन सुशर्मणा ।
हर्तु कीचकहीनस्य विराटस्याययौ धनम् ॥ १५८ ॥
संरुद्ध नगरे मत्स्यः पूर्वमेव सुशर्मणा ।
कङ्कवल्लभगोवाजिपतिभिः सह निर्ययौ ।। ६५९ ॥
ततः प्रवृत्ते समरे मिथः सुभटसंक्षये ।
जवाद्विराटमहरत्सुशर्मा शरवर्षिणम् ॥ ५६० ॥
भीमोऽभिसृत्य निष्पिष्टरथस्यास्य सुशर्मणः ।
पादेन मौलिमुन्मथ्य मत्स्यराजममोचयत् ॥ ५६१ ॥
त्रिगर्तकटके भन्ने सामात्यः कौरवेश्वरः ।
विराटगोधनं सर्व जहारान्येन वर्मना ॥ ५६२ ॥
शूरशून्येऽथ नगरे विराटसुतमुत्तरम् ।
अभ्येत्य जगदुर्गोपाः कौरवैर्गोधनं हृतम् ॥ ५६३ ॥
सोऽब्रवीच्चौरचरितं कौरवं हन्म्यहं रणे।
गुप्तं भीष्मकृपद्रोणकर्णमुख्यैर्महारथैः ॥ ५६४ ॥
किं तु मे सारथिर्नास्ति रणभारभरक्षमः ।
इत्युक्ते राजपुत्रेण द्रौपदी तमभाषत ॥ ५६५ ॥
उत्तरायाः स्वसुर्यस्ते नृत्ताचार्यो बृहन्नडः ।
स सारथिरभूत्पूर्वं खाण्डवे सव्यसाचिनः ॥ ५६६ ॥
अथोत्तरार्थितः पार्थः प्रतिपन्नरथग्रहः ।
चकार कवचावन्धवैपरीत्यैर्जनस्मितम् ॥ ५६७ ॥
अथोत्तरे रथारूढे जवेनाश्वानचोदयत् ।
क्रीडायै कुरु वस्त्राणि जिष्णुरुत्तरयार्थितः ॥ ५६८ ॥
श्रीकृष्णावतारः] दशावतारचरितम् ।
१२५
दृष्ट्वोत्तरः कौरवेन्द्रसैन्यं शस्त्रजलार्णवम् ।
निवर्तवेति भीभग्नस्त्राणार्थी पार्थमभ्यधात् ॥ ५६९ ॥
तमर्जुनोऽवदन्निन्धं क्षत्रियस्य पलायनम् ।
एकवारक्षये काये मरणं न पुनः पुनः ॥ १७० ॥
श्रुत्वैतत्कातरतया रथमुत्सृज्य विद्रुतम् ।
आनिनायोत्तर केशैः पश्चादाकृष्य फाल्गुनः ॥ ५७१ ॥
योत्स्येऽहं कुरुभिधैर्य भजस्व भव सारथिः ।
अर्जुनोऽहं भवद्गहे कङ्काद्याः पाण्डवाः स्थिताः ॥ ५७२ ॥
श्मशानान्तः शमीवृक्षस्कन्धे सन्त्यायुधानि नः ।
प्रयच्छ मम गाण्डीवमित्युवाच तमर्जुनः ॥ ५७३ ॥
उत्तराहृतमादाय धनुरास्फाल्य पाण्डवः ।
तत्प्रेरितरथस्तूर्ण विवेश कुरुवाहिनीम् ॥ १७४ ॥
एकैकशः समस्तांश्च शराशनिघनागमः ।
भीष्मकर्णकृपद्रोणमुख्यानजयदर्जुनः ॥ ५७५ ॥
प्रस्खापनास्त्रसुप्तानां कुरूणामुत्तराकृते ।
जहार जिष्णुर्वासांसि यशांसीवाभिमानिनाम् ॥ ९७६ ॥
प्रत्याहृते गोधनेऽथ विजयेन जितारिणा ।
चक्रे विराटः पुत्रस्य सभायां विक्रमस्तुतिम् ॥ ५७७ ॥
बृहन्नडप्रभावेण पुत्रस्ते विजयोर्जितः ।
वदन्निति विराटेन प्रहतोऽयुधिष्ठिरः ॥ ५७८ ॥
हेमपात्रे धृते रक्ते द्रौपद्या चक्रवर्तिनः ।
प्रविवेशार्चितः पौरैरवाप्तोन्नतिरुत्तरः ।। ५७९ ॥
अक्षाभिघातरक्ताक्तललाटं वीक्ष्य धर्मजम् ।
स प्रसाद्य प्रयत्नेन निनिन्द कुकृतं पितुः ।। ५८० ।।
अज्ञातवाससमये पूर्णे पाण्डुसुतानथ ।
हृष्टः प्रकटतां यातान्विराटः समपूजयत् ॥ ५८१ ॥
१२६ काव्यमाला। तेषामभ्युदयं ज्ञात्वा प्राप्तेष्वखिलबन्धुषु । विराटस्तनयां प्रादादुत्तरामभिमन्यवे ॥ ५८२ ॥ ते कृष्णसात्यकिहलायुधकुन्तिभोज- पाञ्चालशैब्यमगधेशशिखण्डिमुख्यैः । साधै सभाभुवमुपेत्य विराटजुष्टां प्रापुः श्रियं कनकविष्टरसंनिविष्टाः ॥ ५८३ ॥ अखण्डितान्पाण्डुसुतान्विज्ञाय कुरुभूपतिः । अलङ्घयशासनं दैवं मेने दलितपौरुषम् ॥ ५८४ ॥ तेषामक्षौहिणीः सप्त ज्ञात्वाथ समुपागताः । दुर्योधनः प्रविदधे भूपालबलसंग्रहम् ॥ ५८५ ॥ पाण्डवार्थे समायातं पथि संमानभोजनैः । आराध्य तुष्टमहरत्स शल्यं मद्रभूपतिम् ॥ ५८६ ॥ द्वारकायां ततः कृष्णं सुयोधनधनंजयौ । तुल्यमभ्येत्य साहाय्यं ययाचाते रणोद्यमे ॥ ५८७ ॥ अक्षौहिण्या परिवृतं कृतवर्माणमच्युतः । दत्त्वा कुरुपतर्भागमयोद्धा पाण्डवान्ययौ ॥ ५८८ ॥ वृतः सौबलहार्दिक्यभगदत्तजयद्रथैः । एकादशाक्षौहिणीभिः कौरवः प्रमदं ययौ ॥ ५८९ ॥ अत्रान्तरे रणारम्भसंशयाकुलिताशयम् । धृतराष्ट्रं समभ्येत्य प्रणम्योवाच संजयः ॥ ५९० ॥ अराज्यदानसंधानदूतोऽहं तव शासनात् । गतः पाण्डुसुतान्द्रष्टुं लोभाभ्यासेन लज्जितः ॥ ५९१ ।। मयोक्तं भवतोक्तं यत्प्रत्युक्तं यत्तु पाण्डवैः । देव वक्तास्मि तत्प्रातः सभायां भूभुजां पुरः ॥ ५९२ ॥ धृतराष्ट्रः स्वदुर्नयात् । तद्वाक्यशङ्काकुलितः प्राप निद्रादरिद्रताम् ॥ ५९३ ॥ १. 'संमान्य' क. इत्युक्त्वा संजये याते ८ श्रीकृष्णावतारः] दशावतारचरितम् । १२७ प्रजागरंगदास्वस्थं द्वाःस्थाहूतः सुखोज्झितम् । तमेत्य विदुरः प्राह संजयोक्ताप्तसंशयम् ॥ ५९४ ॥ अयं ते सुमते कस्मान्निद्राद्रोही महाज्वरः । तापं नायान्ति निष्कामा निर्लोभा निर्भया अपि ॥ ५९५ ॥ त्यक्ताभिमानः संतोषी निषेः शीलवान्क्षमी । दुःखैकसारे संसारे पञ्चैते सुखनिवृताः ॥ ५९६ ॥ लोभाभ्यासव्यसनमसमं चिन्तया हन्ति निद्रां स्वस्थः शेते प्रसृतचरणः किं तु निर्लोभ एव । लोभः पुंसामसमविषमः कृष्णवा विधत्ते तीव्र तापं जनधनघनस्नेहसंपूर्यमाणः ॥ ५९७ ॥ असेवाप्ता वृत्तिः खलपरिभवायासरहिता वचः सत्यस्नातं परगुणगणोदीरणपरम् । अनुत्तानः पाणिः परधनकणस्पर्शविमुखः प्रकृत्या निर्वैरं हृदयममलं यस्य स सुखी ॥ ५९८ ॥ राज्याधै भ्रातृपुत्रेभ्यः प्रयच्छ त्यज लुब्धताम् । बन्धुवैररजोदिग्धं प्रक्षालय धिया मनः ।। ५९९ ॥ त्यजैकं कुमतिं पुत्रं संरक्ष सकलं कुलम् । गोनासदष्टमेकाङ्गं त्यज्यते जीविताप्तये ॥६०० ॥ विदुरेणेत्यभिहिते धृतराष्ट्रस्तमब्रवीत् । युक्तमुक्तं त्वया किं तु त्यक्तुं शक्नोमि नात्मजम् ॥ ६०१ ॥ हेलास्थलीकृताम्भोधिस्तृणीकृतहिमाचलः । स्वातन्त्र्यचित्रचरितः केन वा लङ्घयते विधिः ॥ ६०२ ॥ श्रुतं न मृत्युरस्तीति मया किल वचः पुरा । तद्ब्रहीति क्षितीशेन पृष्टस्तं विदुरोऽवदत् ॥ ॥ ६०३ ॥ स्वयं वक्तुं न युक्तं मे राजन्नुपनिषत्पदम् । सनत्सुजातो योगीन्द्रः सर्व ते कथयिष्यति ॥ ६०४ ॥ १. 'गरास्वस्थंक.२.'निर्दोषःक.३. 'च'क. ४. 'तीव्रः क. ५. 'गोनसा' क-ख.
१२८ काव्यमाला। अभिधायेति विदुरस्तं सस्मार स चाययौ । प्राप्तपूजासनः पृष्टः क्ष्माभुजेति तमभ्यधात् ॥ ६०५ ॥ राजन्देहभृतां मृत्युः क्रोधः स्ववेदनोदितः । येनाहतश्च हन्ता च मर्मदाहेन शोचितः ॥ ६०६ ॥ रागद्वेषादयो दोषा जनानां जन्मकारणम् । जन्मैव मृत्युः संसारे नास्ति मृत्युरजन्मनाम् ॥ ६०७ ॥ न मुक्तिर्वेदवादेन देहान्ते स पलायते । वीणावंशेषु भग्नेषु न क्वचित्तिष्ठते ध्वनिः ॥ ६०८ ॥ आत्मप्रत्यवमर्षेण पुनर्जन्म न विद्यते । आत्मप्रकाशं पश्यन्ति योगिनस्तं सनातनम् ॥ ६०९ ॥ इत्युक्त्वान्तर्हिते तस्मिन्योगीन्द्रे तेजसां निधौ । राजा राजसभां प्रातर्भजे भीष्मादिभिः सह ॥ ६१० ॥ आहूतः संजयस्तत्र पाण्डवोक्ति न्यवेदयत् । श्रूयतामविरुद्धैर्वा क्रुद्धैर्वा तैरुदाहृतम् ॥ ६११ ॥ खं राज्यं प्रददाति यद्यवनिपस्तत्कि हतैर्बान्धवै- डूंते किं तु कृतां न विस्मरति तां भीमः प्रतिज्ञां निजाम् । पाणिः किं च पितृव्यपादविनतौ चापे च धावत्ययं तुल्यं चित्तममन्युमन्युशबलं संधौ च युद्धे च नः ॥ ६१२ ॥ श्रुत्वैतद्धृतराष्ट्रेण तनयक्षयभीरुणा । भीष्माद्यैश्वार्थितः संधिं बुबुधे न सुयोधनः ॥ ६१३ ।। अत्रान्तरे लोकगुरुलोकप्रत्यायनोद्यतः । संध्यर्थी कौरवान्कृष्णः स्वयमेव समाययौ ॥ ६१४ ॥ भक्त्या पुरः समायातैर्भीष्मद्रोणकृपादिभिः । सहितः स विवेशाथ धृतराष्ट्रस्य मन्दिरम् ॥ ६१५ ॥ हृष्टेन पूजितस्तेन प्रणयेन निमन्त्रितः । स्नेहे विपदि वा भोक्तुं युक्तमित्याह केशवः ॥ ६१६ ॥ १. "माभुजा च' ख-ग. २. 'वचनो' क. ३. 'अलं' ख-ग. ४. 'पुरा' ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १२९ , विदुरस्य गृहे भुक्त्वा नीत्वा तत्कथया क्षपाम् । प्रभाते राजभिर्जुष्टां प्रविवेश सभा. हरिः ॥ ६१७ ॥. हेमासनोपविष्टेऽथ सामात्ये कौरवेश्वरे । भेजे रत्नासनं शौरिः सहायातैर्महर्षिभिः ॥ ६१८ ॥ अथ प्रथमजीमूतश्यामः सामसुधामयीम् । उज्जगार गिरं स्निग्धगम्भीरां गरुडध्वजः ॥ ६१९ ॥ कौरवेन्द्र स्वपुत्रास्ते भ्रातृपुत्रास्तु पाण्डवाः । सदृशाः किं त्वया तेषां भेदात्कलिरुपेक्षितः ॥ ६२० ॥ भवान्विद्यासिन्धुस्तव सुमतिदाता च विदुरः प्रणेता भीष्मोऽयं गुरुरपि भरद्वाजतनयः । अहो तत्राप्येषा प्रभवति मतिर्दुर्नयमयी न विद्मः कस्यायं कुकृतपरिपाकस्य विभवः ॥ ६२१ ॥ कलङ्क या दत्ते प्रसरदपवादास्पदतया सुहृद्भिर्नैराश्यात्कृतमुखविकारैः परिहृता । अभोग्या बन्धूनां कृशविवशभृत्यार्थिविफला सशापा सा संपद्विपदिव जनोद्वेगजननी ॥ ६२२ ॥ यद्वृत्तं खलकेलिकैतवकलिक्लेशेन कालुष्यकृ- चित्ते तत्किल संकलय्य सकलं लोकक्षयाशङ्किभिः । संधिर्वैररजोविरामविमलैरभ्यर्थ्यते पाण्डवै- ग्रामैः किं च कुशस्थलप्रभृतिभिः प्रीत्यार्पितैः पञ्चभिः॥६२३॥ कौस्तुभाभरणेनेति भरतान्वयभूतये । सभ्यानां भीष्ममुख्यानां भाषितेऽभिमते सताम् ॥ ६२४ ॥ प्रबोधितोऽपि मुनिभिः कण्वभार्गवनारदैः । मदनिद्रालसः प्राह संधिद्वेषी सुयोधनः ।। ६२५ ॥ मया सूच्यग्रमात्रापि न त्याज्या पाण्डवेषु भूः । किं मिथ्यानीतिचिन्ताभिर्दैवाधीना विभूतयः ॥ ६२६ ॥ १. 'श्यामः' क. २. 'भ्रातुः पुत्राश्च' क. ३. 'नारदभार्गवैः' क.
१३० काव्यमाला । भवति भिषगुपायैः पथ्यभुङ्गित्यरोगी धनधरणविनिद्रश्छिद्रगोप्ता दरिद्रः । अनयचयविधायी निश्चलैश्वर्यधैर्यः स्ववशनियंतशक्तेः शासनेनैव धातुः ॥ ६२७ ॥ इत्युक्त्वोत्थाय दन्धिः कर्णेन सह कौरवः । सभान्तराद्विनिर्गत्य बन्धं शौरेरचिन्तयत् ॥ ६२८ ॥ . सह स्थितेन कथितं कर्णे सात्यकिना हरिः । ज्ञात्वा तन्मतमापेदे विश्वात्मा विश्वरूपताम् ॥ ६२९ ॥ विश्वाकारव्यतिकरलसद्ब्रह्मरुद्रेन्द्रचन्द्र- याप्तः सर्वैः सुरमुनिगणैः सिद्धगन्धर्वसाध्यैः । निष्पर्यन्ताकृतिकृतजगगौरवः कौरवाणां निद्रामुद्रामदिशदशिवामच्युतः प्रच्युतानाम् ॥ ६३० ॥ विना भीष्मं सविदुरं मोहलीनेषु राजसु । सभामुत्सृज्य भगवान्प्रतस्थे गरुडध्वजः ॥ ६३१ ॥ पश्चात्कर्णमथायातमारोप्य स्वरथे हरिः । प्रेम्णा प्राहार्कतनयं कौन्तेयस्त्वं न सूतजः ॥ ६३२ ॥ सहोदरान्पाण्डुसुतान्भजस्व त्यज कौरवान् । राज्यं तव क्रमायातं कुरु मद्वचनं हितम् ॥ ६३३ ॥ इत्युक्तं शौरिणा श्रुत्वा कर्णस्तं प्रत्यभाषत । सर्व वेद्मि न निन्धं तु मित्रद्रोहमहं सहे ॥ ६३४ ॥ देव त्वमेव वद कौरवभूमिभर्तु- रुत्सङ्गसक्तशिरसः कथमर्कजोऽहम् । व्यापारयामि सुहृदः परिपीय लक्ष्मी कण्ठे शठः कठिनधारमकुण्ठशस्त्रम् ॥ ६३९ ॥ साम्राज्यं निहतारातिरवाप्स्यति युधिष्ठिरः । स दृष्टः श्वेतवाहस्थः स्वप्ने पायसभुङ्मया ॥ ६३६ ॥ १. 'निशित' क. २. 'शैलस्थः' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १३१ दृष्टाश्च कौरवाः सर्वे तैलाक्ताः खरवाहनाः । रक्तमाल्याम्बरोष्णीषा व्रजन्तो दक्षिणां दिशम् ॥ ६३७ ॥ इति वैकर्तनेनोक्तं विचिन्त्योचितमच्युतः । तं विसृज्य समामन्त्र्य प्रययौ पाण्डवान्तिकम् ॥ ६३८ ॥ प्रातः कुन्ती समभ्येत्य कर्ण सूर्यार्चनोन्मुखम् । मुक्तमौनं तदेवाह नामन्यत स चाचलः ॥ ६३९ ॥ उवाच च विना जिष्णुं ने हन्म्यन्यं तवात्मजम् । मयि तेन मया तस्मिन्हते त्वं पञ्चपुत्रिका ॥ ६४० ॥ श्रुत्वैतत्प्रययौ कुन्ती भन्नार्थितमनोरथा । ससैन्याश्च कुरुक्षेत्रमाजग्मुः कुरुपाण्डवाः ॥ ६४१ ॥ बलद्वये कुरुक्षेत्रे संनिविष्टे सुयोधनः । भीष्मं सेनापतिं चके धृष्टद्युम्नं युधिष्ठिरः ॥ ६४२ ॥ रथसंख्याक्षणे कर्ण भीष्मोऽर्धरथमभ्यधात् । तयुद्धावधि युद्धं च कोपात्तत्याज़ सूतजः ॥ ६४३ ॥ ततः सुयोधनं भीष्मः प्राहोत्साहाहवोन्मुखः । योद्धाहं त्वद्विपक्षाणामेकं मुक्त्वा शिखण्डिनम् ॥ ६४४ ॥ काशिराजसुताः पूर्व बलात्कन्याः स्वयंवरे । अम्बाम्बिकाम्बालिका च भ्रातुरर्थे समाहृताः ॥ ६४५ ॥ साल्वाभिलाषिणी नीता त्वयास्मीत्यार्तवादिनी । संत्यक्ताम्बा ययौ साल्वं सोऽपि तां नाग्रहीद्भिया ॥ ६४६ ॥ पुनः प्राप्ता मया त्यक्ता भग्नमानमनोरथा । सा जगामोभयभ्रंशखिन्ना मुनितपोवनम् ॥ ६४७ ॥ ततस्तदुःखकारुण्याद्गुरुर्मामेत्य भार्गवः । अम्बां गृहाणेत्यवदत्प्रत्याख्यातः पुनः पुनः ॥ ६४८ ॥ आज्ञामङ्गेन कुपितः स मया समरे जितः । ययौ क्षत्रोपदेशात्तनियमः खं तपोवनम् ॥ ६४९ ॥ १ 'उत्तो' ख-ग. २. 'नाहं हन्मि' ख-ग. ३. 'पुत्रएश्चका' क. ४. 'अब्रवीत् ख-ग, १३२ काव्यमाला। मन्मन्युत्यक्तदेहाम्बा जाता मत्क्षयकाङ्किणी। कन्या पाञ्चालराजस्य द्रुपदस्य शिखण्डिनी ॥ ६५० ॥ प्रख्यापिता पुत्रतया सां पित्रा पुत्रकाङ्क्षिणा । लेभे दशार्णराजस्य विवाहविधिना सुताम् ॥ ६५१ ॥ शय्यारूढा दशार्णेशकन्या कन्यां विलोक्य ताम् । दूत्या न्यवेदयत्पित्रे स च क्रुद्धः समाययौ ॥ ६५२ ॥ . दशार्णरुद्ध नगरे दुपदे विद्रवोद्यते । खिन्ना शिखण्डिनी रात्रौ प्रययौ शून्यकाननम् ॥ ६९३ ॥ तत्र स्थूणाख्ययक्षेण कृपयैकदिनार्पितम् । विधातृशक्तिवैचित्र्यात्सा लेभे लक्ष्म पौरुषम् ॥ ६५४ ॥ दर्शितं द्रुपदेनाथ पुरुषव्यञ्जनं सुतम् । दृष्ट्वा विमन्युर्दाशार्णः खां ययौ लज्जितः पुरीम् ॥ ६५५ ॥ वनं वैश्रवणः प्राप्तस्तं समीपमनागतम् । स्थिरस्त्रीलक्षणं यक्ष शापेन विदधे क्रुधा ॥ ६५६ ॥ अगृहीतेऽथ यक्षेण स्खलक्ष्मणि शिखण्डिनी । पुरुषत्वं गता वर्त्यः स्त्रीपूर्वः स मया युधि ॥ ६५७ ॥ न संत्रस्ते न निःशस्त्रे नान्यविद्धे न विद्रुते । न स्त्रीपूर्वे न साक्रन्दे निपतन्ति ममेषवः ॥ ६५८ ॥ उक्त्वेति दिव्यतटिनीतनयस्तरस्वी वृद्धोऽपि शौर्यतरुणस्तरणिप्रतापः । प्रम्लानतां परबले निजकार्मुके ज्यां चित्ते च कौरवपते,तिमावबन्ध ॥ ६५९ ॥ दिव्यं युद्धेक्षणं चक्षुः कृष्णद्वैपायनार्पितम् । अग्रहीतमथ प्राप धृतराष्ट्रेण संजयः ॥ ६६० ॥ कुरुपाण्डवसङ्ग्रामं कुरुक्षेत्रे विलोक्य सः । धृतराष्ट्राय निखिलं दिव्यचक्षुर्यवेदयत् ॥ ६६१ ॥ १. 'देहा सा' ख-ग. २. 'विच्युते' क. ३. 'अपि' क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १३३ अथ युद्धाय संनद्धे भूमिपालबलद्वये । गुरून्भीष्मकृपद्रोणमुखान्संवन्धिबान्धवान् ॥ ६६२ ॥ दृष्ट्वा युद्धोधतानने श्वेताश्वः कृष्णसारथिः । मुमोह करुणाक्रान्तः प्रशान्तसमरोद्यमः ॥ ६६३ ॥ तं समाश्वास्य शोकात जगाद गरुडध्वजः । त्रिजगत्सर्गसंहारक्रीडापरिचितोऽच्युतः ॥ ६६४ ॥ मनुष्यजन्मजनिता केयं ते मोहवासना । क्षयं यदक्षयस्यापि शङ्कसे परमात्मनः ॥ ६६५ ॥ स्फटिकस्येव कुरुते रागयोगाच्चिदात्मनः । मिथ्याकलङ्ककलनां कायाहंकारसंकरः ॥ ६६६ ॥ मेघव्योमसमागमप्रतिनिधि—माग्निसङ्गोपमः श्लेषः कायचिदात्मनोः प्रकुरुते भिन्नोऽप्यभिन्नक्रमम् । छिन्नेच्छाघनमूलनिष्फलतया नित्यप्रवृत्तक्रियैः संमोहः स्वपरावभेदरहितैयुक्तैः स संत्यज्यते ॥ ६६७ ॥ इत्युक्त्वा प्रत्ययोत्पत्त्यै विश्वव्याप्तिनिदर्शनम् । अर्जुनस्योर्जितं विष्णुर्विश्वरूपमदर्शयत् ॥ ६६८ ॥ तत्सर्वदेवमयमद्भुतमच्युतस्य रूपं सहस्रकरकोटिनिभं वभासे । निःशेषभूपतितरङ्गितसैन्यसिन्धु- ग्रासाभिलाषवडवानलतुल्यवक्रम् ॥ ६६९ ॥ वचः श्रुत्वा वपुदृष्ट्वा दिव्यं मोहहरं हरेः। निर्विकल्पमतिर्जिष्णुः सङ्ग्रामाभिमुखोऽभवत् ॥ ६७० ॥ रथायादवरुह्याथ रणारम्भे युधिष्ठिरः । प्रणनाम प्रसादान्भीष्मद्रोणमुखान्गुरून् ॥ ६७१ ॥ ते तमूचुर्गुणोदारं विधाय विजयाशिषम् । परं लज्जामहे राजन्प्रयातास्त्वद्विपक्षताम् ॥ ६७२ ॥ १. 'युद्धोद्धतान्' क. २. 'प्रवृत्ता क्रिया' ख; 'प्रवृत्ता':.' ग. ..
१३४ काव्यमाला। किं कुर्महे परायत्ता वेतनोत्तानपाणयः । कौरवस्य परं याताः सेवाकार्पण्यपण्यताम् ।। ६७३ ॥ अग्रे संकुचिताकृतिर्लधुतया यात्युन्मुखत्वं विभो- राशापाशनिवेशयन्त्रिततनुः संख्याक्षणे लम्बते । अल्पेनापि समर्पितेन सुतरां वित्तेन धत्ते रति साकम्पः किल कायविक्रयतुलारूढः सदा सेवकः ॥ ६७४ ॥ इत्युक्त्वा तैर्विसृष्टेऽथ रथारूढे युधिष्ठिरे । चेरुर्वीरा यशःपुष्पलुब्धा इव शिलीमुखाः ॥ ६७५ ॥ प्रवृत्ते धनसंमर्दे नृत्यत्खड्गशिखण्डिनि । पेतुर्भूभृत्कुले भीष्मशरधारापरम्पराः ॥ ६७६ ॥ . द्वन्द्वसक्तेषु शूरेषु विराटसुतमुत्तरम् । निनाय समरे शल्यः क्षयारम्भोपहारताम् ॥ ६७७ ॥ नवमे युद्धदिवसे नागीतनयमा निम् । इरावन्तं जघानाजौ रक्षःपतिरलम्बुसः ॥ ६७८ ॥ प्रत्यहं युधि भीष्मेण भूभृतामयुते हते । दशमेऽह्नि क्षयाशङ्का पाण्डवानामजायत ॥ ६७९ ॥ भीष्माभिमुखमाप्तस्य रणे गाण्डीवधन्वनः । शिखण्डी पुरतस्तस्थौ मेधस्येव प्रवर्षिणः ।। ६८० ॥ स्त्रीपूर्वदेर्शनोद्वेगशिथिलीकृतकार्मुकः । प्राह दुःशासनं भीष्मः किरीटिशरपूरितः ॥ ६८१ ॥ एते ते त्रिपुरारातिकिरातपतनोन्नताः । शराः खाण्डवशौण्डस्य चण्डा गाण्डीवधन्वनः ॥ ६८२ ॥. एते दुःसहदस्यवः कुरुपतेर्वस्त्रग्रहे गोग्रहे कोपव्याकुलकालखञ्जजयिनः पौलोमनिर्मूलनाः । जिष्णोर्लक्ष्यभिदः स्वयंवरमणे:(हे) क्ष्मापालवैलक्ष्यदा न स्त्रीपूर्वशिखण्डिनस्तनुतृणक्लीबाननाः सायकाः ॥ ६८३ ॥ १ 'मेघस्येवेषु वर्षिणः' ख-ग. २. 'दर्शनोद्योग' ख-ग. ३. 'धन्विनः' ख-ग. .
८ श्रीकृष्णावतारः] दशावतारचरितम् । १३५ इति ब्रुवन्कौरवेशं शरंनिर्विवराकृतिः । स पपात रथादस्तशैलादिव दिवाकरः ॥ ६८४ ॥ पितुर्वरेण स्वच्छन्दमृत्युर्योगपरायणः । उत्तरायणमाकाङ्क्षन्स जीवितमधारयत् ॥ ६८५ ॥ दिव्यास्त्रभिन्नभूजाततोयाप्यायकृदर्जुनः । शिरस्तस्य निराधारमुच्चिक्षेप शरैत्रिभिः ॥ ६८६ ॥ कर्णेन प्रणिपातकीर्णचरणः पूरेण बाष्पाम्भसा- माशापाशविमुक्तिनिश्चलसुखः संसारविस्तारिणम् । सस्मार स्मरणीयमन्तसमये संतोषविश्रान्तधीः शान्तानन्तविकल्पतल्पविमले चित्तेऽच्युतं सोऽच्युतम् ॥६८७॥ अथ भीष्मविहीनस्य धृतिहीनस्य पश्यतः । सैन्यस्याधिपतिं चक्रे द्रोणाचार्य सुयोधनः ॥ ६८८ ॥ प्राप्ताभिषेकः प्रददौ वरं दुर्योधनाय सः । युधिष्ठिरं गृहीत्वा ते दास्यामि समरादिति ॥ ६८९ ॥ ततः प्रवृत्ते सङ्ग्रामे प्रथमेऽति नृपक्षयः । इतोऽभूद्रोणविशिखैधृष्टद्युम्नशरैरितः ॥ ६९० ॥ द्वितीये युद्धदिवसे स्मारितः कुरुभूभृता । गतेऽर्जुने धर्मसुतं ग्रहीष्यामीति सोऽभ्यधात् ॥ ६९१ ॥ ततः संशप्तकाः शूराः शपथादनिवर्तिनः । त्रिगर्ताः समरादूरं निन्युराहूथ फाल्गुनम् ॥ ६९२ ॥ कौरवैः पाण्डवानीके कुरुसैन्ये च पाण्डवैः । त्रिगर्ताव्धौ च पार्थेन दारितेऽभून्नृपक्षयः ॥ ६९३ ॥ सुप्रतीकगजारूढस्ततः प्राग्ज्योतिषेश्वरः । मृद्गन्गजरथानीकं पाण्डुसेनां व्यलोकयत् ॥ ६९४ ॥ ३. 'विश्रान्तये' ख. १. 'निराधारं स चिक्षेप' ख-ग. २. 'विस्तारणम्' ख. ४. 'जल्प' ख. ५. 'इति' क. ६. 'भूभुजा' क.
१३६ काव्यमाला श्रुत्वास्य सैन्यसंमदै त्वरितः श्वेतवाहनः । मुरारिप्रेरितरथः कुञ्जरस्याभवत्पुरः ॥ ६९५ ॥ घोरे प्रवृत्ते समरे किरीटिभगदत्तयोः । ऊर्ध्वाधःपातिनामासीत्संघर्षः पत्रिणामपि ॥ ६९६ ॥ विश्वक्षयक्षमं क्षिप्तं भगदत्तेन वैष्णवम् । जग्राहार्जुनरक्षायै वक्षसास्त्रमधोक्षजः ॥ ६९७ ।। पार्थास्त्रकृत्ते पतिते भगदत्तेऽथ भूभृति । भन्नभूभृत्कुला पृथ्वी चकम्पे कुरुवाहिनी ॥ ६९८ ॥ तृतीये युद्धदिवसे प्रतिज्ञाभङ्गलज्जितः । चक्रव्यूह व्यधात्कुंद्धः संसारगहनं गुरुः ॥ ६९९ ।। पार्थे संशप्तकान्याते व्यूह धर्मसुताज्ञया । सौभद्रः केसरिशिशुर्गजयूथमिवाविशत् ॥ ७०० ॥ प्रवेष्टुमुद्यतान्व्यूहमभिमन्युविदारितम् । अवारयद्भर्गवरात्पाण्डुपुत्राञ्जयद्रथः ॥ ७०१ ॥ अभिमन्युशरोत्कृत्तशिरसां कङ्कटक्षये । भूभृतां ववभिन्नानां शृङ्गभङ्ग इवाभवत् ॥ ७०२ ॥ नृपान्कर्णकृपद्रौणिशल्यहार्दिक्यसौबलान् । एकैकशः समस्तांश्च स शरैर्विमुखान्व्यधात् ॥ ७०३ ॥ कृत्तचापः स कर्णेन हताश्वः कृतवर्मणा । कृपेण हतसूतश्च हतः सर्वैर्महारथैः ॥ ७०४ ॥ हत्वा त्रिगर्तानायातः सव्यसाची दिनक्षये । मुमोह तनयं श्रुत्वा हतमेकं महत्तरैः ॥ ७०५ ॥ व्यूहद्वारनिरोद्धारं ज्ञात्वा हेतुं जयद्रथम् । अनस्तगे रवौ जिष्णुः प्रतिज्ञां तद्वधे व्यधात् ॥ ७०६ ॥ तत्प्रतिज्ञाभयागन्तुं रात्रौ सैन्धवमुद्यतम् । गोप्ता तवाहमित्युक्त्वा दर्पाद्गुरुरवारयत् ॥ ७०७ ।। १. लुब्धः' क, २. 'नपकर्ण' ख-ग. ॥
८ श्रीकृष्णावतारः] दशावतारचरितम् । १३७ स्वप्ने स कृष्णः श्वेताश्वः स्तुत्या देवं पिनाकिनम् । विधि पाशुपतास्त्रस्य तदादिष्टमवाप्तवान् ॥ ७०८ ॥ प्रभाते शकटव्यूहे सूचीपाशे जयद्रथम् । निवेश्य यत्नादाचार्यश्चक्रे दैवजयोद्यमम् ॥ ७०९ ॥ व्यूहद्वारस्थितं द्रोणं प्रणम्याथ धनंजयः । कम्पलोलं विवेशाशु सैन्यं वनमिवानलः ॥ ७१० ॥ मनोजवस्य विशतः शरैर्गाण्डीवधन्वनः । शिरः समूह आच्छिन्नः पपात भुवि भूभृताम् ॥ ७११ ॥ दूरं प्रविष्टे श्वेताश्वे शङ्खशब्दमशृण्वता । विवेश सात्यकियूहं विसृष्टो धर्मसूनुना ॥ ७१२ ।। तस्य निर्दारितारातेर्विशिखाशनिवर्पिणः । भूरिश्रवा धैर्यनिधिगं गिरिरिवाग्रहीत् ।। ७१३ ॥ तो कृत्तकार्मुकरथौ खड्गचर्मधरौ मिथः । युध्यमानौ ददृशतुर्नान्तरं चित्रचारिणौ ॥ ७१४ ॥ सात्यकेः पातितस्याथ शिरश्छेत्तुं समुद्यतम् । जिप्णोरदर्शयदूराद्भूरिश्रवसमच्युतः ॥ ७१५ ॥ पार्थस्तस्यार्धचन्द्रेण सखङ्गं भुजमुद्यतम् । कङ्कणारावसाक्रोशमिव च्छित्त्वा न्यपातयत् ॥ ७१६ ॥ स कृत्तवाहुर्धिकृत्य निन्दनकृष्णकिरीटिनौ । तालुरन्ध्रोद्गतज्योतिर्योगेनात्मानमत्यजत् ॥ ७१७ ॥ अवाप्य संज्ञामज्ञातवृत्तः सात्यकिराकुलः । धिकृतः सर्वभूपालैश्चकर्तास्यासिना शिरः ॥ ७१८ ॥ युधिष्ठिराज्ञया व्यूहं प्रविशन्नथ मारुतिः । द्रोणं सरथमुत्क्षिप्य चिक्षेपाद्भुतविक्रमः ॥ ७१९ ॥ स निप्पिष्टगजानीकः प्रविष्टः कर्णमग्रतः । कृतायुधाश्चं पैट्कृत्वश्चकाराहतकौरवः ॥ ७२० ॥ १. 'प्रकर' क; 'समूह' ख. २. 'पट्कृत्वा' ख-ग. १८.
काव्यमाला । ततः कर्णः समुत्कृत्तकवचायुधवाहनम् । तुदन्भीमं धनुष्कोट्या नावधीज्जननी स्मरन् ॥ ७२१ ॥ दिनस्य शिरसीवार्के लम्बमाने क्षणक्षये । दृष्ट्वा जयद्रथं दूरात्संदधेऽस्त्रं धनंजयः ॥ ७२२ ॥ क्षितौ तस्य शिरः क्षेप्नुः शिरः पूर्व पतेदिति । पित्रा दत्तं वरं कृष्णः फाल्गुनाय न्यवेदयत् ॥ ७२३ ॥ कुरुक्षेत्राबहिर्जिष्णुः संध्यासीनस्य तत्पितुः । चिक्षेपाङ्के शरोत्कृत्तं शिरस्तस्माक्षितिं ययौ ॥ ७२४ ॥ अक्षौहिणीः सप्त हेत्वा जिष्णुना सैन्धवे हते । दैवमेव जनो मेने सर्वथा निष्प्रतिक्रियम् ॥ ७२५ ॥ उक्त्वापि गुरुणा रक्षां रक्षिते न जयद्रथे । लज्जितेन समादिष्टं रात्रियुद्धमवर्तत ।। ७२६ ॥ समुद्धततमःकेशी रणे तरलतारका । ननर्तासिभुजा वीररक्तक्षीबेव सा क्षपा ॥ ७२७ ॥ अर्धरात्रेऽथ निष्पिष्ट कौरवानीकनायकः । शस्त्रानलशिखावर्षी खं विवेश घटोत्कचः ॥.७२८ ॥ तस्याट्टहासविस्पष्टदंष्ट्रांशुपटलैर्मुहुः । पाट्यमानमिवाकृष्टं रुरावाघट्टितं तमः ॥ ७२९ ॥ कुरुसैन्ये रणे भग्ने हैडिम्बस्य प्रमाथिनः । कर्ण एव पुरस्तस्थौ पौलस्त्यस्येव राघवः ॥ ७३० ॥ एकवीरवधव्यक्त्या शक्त्या वैकर्तनोऽथ तम् । जघान घनसंमर्द कुमार इव तारकम् ॥ ७३१ ॥ पञ्चमे युद्धदिवसे प्रातदिव्यास्त्रदुःसहः । प्रजागरगरक्षीबान्क्षितीशानवधीद्गुरुः ॥ ७३२ ॥ १. 'दत्तवरं' क. २. 'जित्वा' क. ३. 'अस्त्राननशरावर्षी ख; 'अस्त्रानलशिलावर्षी' ग. ४. 'रुरावाघटितं' ख-ग. ५. 'क्षपाप्रजागरक्षीबान्' क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १३९ हत्वा विराटं द्रुपदं पाञ्चालं च ससृञ्जयम् । ब्रह्मास्त्रेणाकरोद्रोणः कल्पान्ताविर्भवभ्रमम् ॥ ७३३ ॥ अश्वत्थामा हतः संख्ये स्पष्टमुक्त्वेति धर्मजः । हस्तीत्यसत्यचकितः पश्चात्स्वैरमभाषत ॥ ७३४ ॥ श्रुतपुत्रवधस्याथ त्यक्तशस्त्रधृतेर्गुरोः । उत्क्रान्तधाम्नः खड्नेन धृष्टद्युम्नः शिरोऽहरत् ॥ ७३५ ॥ हते द्रोणे प्रकुपितः कृतान्त इव तत्सुतः । नारायणास्त्रमसृजज्ज्वालालीढजगत्रयम् ॥ ७३६ ॥ अस्त्रानले प्रज्वलिते वीराः सर्वे हरेगिरा। रथेभ्योऽवातरन्यस्तशस्त्राः पवनजं विना ॥ ७३७ ।। एकीभूतास्त्रदहनव्याप्तं भीममथाच्युतः । हृतायुधं समाकृष्य रथापादनयद्भुवम् ॥ ७३८ ॥ शान्तेऽस्त्रे द्रौणिनाग्नेयं घोरमस्त्रमुदीरितम् । ब्रह्मास्त्रेणार्जुनः शान्ति निनाय प्रलयोद्यतम् ॥ ७३९ ॥ अथ मोहविषावेशसमनीलमणिप्रभम् । प्राप्तं दृष्ट्वा मुनि द्रौणिः प्रणम्य व्यासमभ्यधात् ॥ ७४० ॥ कस्मान्मे भगवन्नस्त्रवैकल्यम्लानमानता । मदस्त्रदैहनान्मुक्तौ कस्मात्कृष्णधनंजयौ ॥ ७४१ ॥ तमब्रवीन्मुनिद्रोणे त्वमंशस्त्रिपुरद्विषः । नरनारायणौ देवौ जातौ कृष्णधनंजयौ ॥ ७४२ ॥ मूर्ती त्वयार्चितः शंभुराभ्यां लिङ्गे सुपूजितः । एतौ तेनाधिकौ त्वत्तस्त्यजैतां कोपविक्रियाम् ॥ ७४३ ॥ मुनिमाश्वासितद्रौणि व्रजन्तं फाल्गुनः पुरः । दृष्ट्वा रथादवप्लुत्य प्रणम्य तमभाषत ॥ ७४४ ।। १. 'कल्पान्तविभव' ख-ग. २. 'वैक्लव्य' क. ३. दहनोन्मुक्तौ क. ४. 'द्रौणि' ख, ५. स पूजितः' ख.
काव्यमाला। भगवन्कौरवन्युहं प्रविष्टेन मया पुरः। अस्पृष्टभूमिः पुरुषो दृष्टः शूलकरः स कः ॥ ७४५ ॥ मुनिः प्राहार्जुनं देवः स स्वयं शशिशेखरः । व्यम्बकस्त्रिपुरारातिरूयक्षस्त्रिपथगाधरः ॥ ७४६ ॥ स्मर स्मरारिं तमुमासहायं शिवं जगद्रासविलाससक्तम् । भयापहं भीममनेकरूपमुक्त्वेति पार्थ प्रययौ मुनीन्द्रः ।। ७४७ ॥ हते द्रोणे प्रियं मित्रं कौरवश्चिरचिन्तितम् । कर्ण सेनापति कृत्वा जगजितममन्यत ।। ७४८ ॥ अभ्यर्थ्य सारथिं शल्यं चक्रे तस्य सुयोधनः । रुद्रस्य त्रिपुरारातेः संनद्धस्येव वेधेसम् ॥ ७४९ ।। कीर्णास्त्रकिरणः कर्णस्ततः पाण्डववाहिनीम् । शरत्तीव्र इवोष्णांशुर्निनायाल्पावशेषताम् ॥ ७५० ॥ भीमः कुरुचमूमध्ये क्षपयन्धृतराष्ट्रजान् । कृष्णाकेशाम्बराकर्षकुशलं प्राप कौरवम् ॥ ७५१ ॥ असिकृत्तोरसस्तस्य भीमः शोणितमापपौ । प्रकोपराक्षसावेशविवशः कुरुते न किम् ।। ७५२ ॥ कर्णास्त्रपीडनक्रुद्धयुधिष्ठिरगिरादितः । राधेयनिधनाधानसंनद्धोऽभूद्धनंजयः ॥ ७५३ ॥ प्रवृत्ते संभृतामर्षे रणे कर्णकिरीटिनोः । मृगस्त्वं जिष्णुसिंहाने कर्णमित्याह मद्रपः ॥ ७५४ ॥ खण्डपुच्छाभिधं नागमथ संधाय संचितम् । प्राहिणोत्पाण्डुपुत्राय कर्णः खाण्डवखण्डितम् ॥ ७५५ ॥ हरिगौरवनम्रश्च(स्य) विनतस्य स पन्नगः । जहाराप्राप्तकण्ठाग्रः किरीटांशं किरीटिनः ॥ ७५६ ॥ भूग्रस्तचक्रमुद्धर्तुमथ स्वरथमुद्यतः । क्षणक्षमार्थे राधेयः पार्थस्यातिथितां ययौ ।। ७५७ ॥ १. 'पर' ख-ग. २. 'वेधसा' ख-ग. ३. 'गिरार्पितः' ख-ग. ४. 'कण्ठांशः' ख-ग. ५. 'क्षमार्थी' क.
'श्रीकृष्णावतारः] दशावतारचरितम् । १४१ ४ कृष्णस्तमब्रवीद्रीडाकरशल्योक्तिपीडितम् । धर्मः स्मृतोऽद्य राधेय नाभिमन्युवधे त्वया ॥ ७५८ ॥ यथा तप्तस्यान्ते भवति मृदुता संनतिमयी तथा सा स्यात्पूर्वं यदि जनमता वृत्तिरथ सः (१) । घनाघातोत्कर्षापरपुरुपहुंकारविहिता न तस्यासीत्पीडा निविडजडतावाप्तविकृतेः ॥ ७५९ ॥ इत्युक्ते शौरिणा कर्णः समारुह्य रथं पुनः । संदधे भार्गवादिष्टं महास्त्रं शिथिलस्मृतिः ॥ ७६० ॥ वाणेन कृत्तगलमञ्जलिकाभिधेन तस्यार्जुनस्तरलकुण्डलदीप्तगण्डम् । वक्त्रं जहार पृथुहारविलम्बिशोण- रत्नप्रभानिभनभः प्रसृतप्रकाशम् ॥ ७६१ ।। हते कणे वहन्नन्तःशोकशल्यं सुयोधनः । शल्यं सेनापतिं कृत्वा युयुधे निधनोत्सुकः ॥ ७६२ ॥ शल्येन पीडितं दृष्ट्वा निजसैन्यं युधिष्ठिरः । भ्रूभङ्गकङ्कवकाङ्कस्तं समुद्धर्तुमाद्रवत् ।। ७६३ ॥ तस्येपुवर्पिणश्छित्त्वा रथसारथिकार्मुकान् । प्राहात्पिाण्डवः शक्ति कालदंष्ट्रामिवोत्कटाम् ॥ ७६४ ॥ प्रविश्य शल्यहृदयं शक्तिविलमिवोरगी। वेगशूत्कारनिःश्वासा साविशद्वसुधातलम् ॥ ७६५ ॥ स्वयं राज्ञा हते शल्ये सहदेवेन सौवले । सैन्ये शेपे च भीमेन निःसैन्योऽभूत्सुयोधनः ।। ७६६ ॥ कृतवर्मकृपद्रौणिशेपः कुरुपतिस्ततः । विरथस्तान्समामन्त्र्य विवेशालक्षितो ह्रदम् ॥ ७६७ ॥ हृदस्यान्तर्नुपे तस्मिन्प्रविष्टे शत्रुशङ्किते । भीमं भीमभयेनेव पयश्चिरमकम्पत ॥ ७६८ ॥ १. 'प्राहेषीत्' क. २. 'तले ख-ग. .
१४२ काव्यमाला । यस्याशेषनरेशरत्नमुकुटैः पीडाभवत्पादयो- स्तस्यारातिनिपातशङ्कितमतेरेकाकिनोऽन्तर्जले । क्रोधव्याधुतनक्रचक्रमकरक्रूरान्तदन्ताहति- केशक्लान्तिरभूद्धिगस्थिरपदाः शोकप्रदाः संपदः ॥७६९॥ ऋणशेषमिव ध्यायन्धार्तराष्टुं युधिष्ठिरः । लुब्धकानां गिरा ज्ञात्वा ससैन्यस्तूर्णमाययौ ॥ ७७० ॥ स्तिमितं सलिलस्थं तं जगाद च तटस्थितः । राजन्नुत्तिष्ठ लज्जेयं युक्तं नान्ते पलायनम् ॥ ७७१ ॥ कृत्वा क्षत्रक्षयं शेषां रक्षसि क्षत्रियस्तनुम् । एकेन सह युध्यस्व जिते तस्मिञ्जिता वयम् ॥ ७७२ ॥ श्रुत्वैतत्सहसोत्थाय तमभाषत कौरवः । एष क्षपाक्षपणधीः प्रविष्टोऽहं जलान्तरम् ॥ ७७३ ।। न मे राज्ये शरीरे वा तृणे वापि स्पृहा क्वचित् । इत्युक्त्वा सहितः सर्वैः स कुरुक्षेत्रमाययौ ॥ ७७४ ॥ अत्रान्तरे हलधरः श्रुत्वा कुरुकुलक्षयम् । सारस्वतेषु तीर्थेषु स्नात्वा तं देशमाययौ ॥ ७७६ ।। प्रधानक्षेत्रके तस्मिन्नुपविष्टे सहामरैः । भीमकौरवयोश्चित्रं गदायुद्धमवर्तत ।। ७७६ ॥ वय॑मानेऽथ भीमेन प्रहारे कौरवेण च । तदाघातच्युते भीमे भीमाघातेन चापरे ।। ७७७ ॥ सुचिरं संशयतुलारुढे स्वभटमण्डले । न तयोरन्तरं कश्चिद्ददर्शाश्चर्ययोधिनोः ॥ ७७८ ॥ अथ भीमगदाघातभिन्नोरुः कौरवेश्वरः । पपात कीर्णहाराश्रुधारां कुर्वन्निव क्षितिम् ॥ ७७९ ॥ पदा भीमेन तन्मौलौ स्पृष्टे क्रुद्धं हलायुधम् । शमयामास कंसारिर्वदन्कौरवदुर्नयम् ॥ ७८० ॥ १. 'क्लेशाक्रान्ति' ख-ग. २. 'जलान्तरे' ख-ग.
तं .. ८ श्रीकृष्णावतारः] दशावतारचरितम् । १४३ प्रयातेप्वथ सर्वेषु द्रौणिहार्दिक्यगौतमाः । निशि देशं तमभ्येत्य ददृशुः पतितं नृपम् ॥ ७८१ ।। भिन्नोरुमध्यव्यथया दन्तदष्टमहीतलम् । वारयन्तं गदाग्रेण गृध्रगोमायुवायसान् ॥ ७८२ ॥ दृष्ट्वा द्रौणिरवदत्तीव्रहृन्मर्मवेदैनः किं त्वया निःसहायेन शत्रुवह्नौ हुता तनुः ॥ ७८३ ॥ अकृष्णपाण्डवं लोकं करोमि तव शासनात् । इत्युक्त्वा तद्राि गत्वा प्रविवेश महद्वनम् ।। ७८४ ॥ कृपभोजसखस्तत्र रात्रौ काकान्निपातितान् । उलूकैर्वृक्षमूलस्थः स दृष्ट्वाचिन्तयच्चिरम् ॥ ७८५ ॥ काकान्कालवलेनैते घ्नन्त्येपारिवधे स्थितिः । हन्तुं पाण्डुसुतान्रात्रौ सुप्तानेव व्रजाम्यहम् ।। ७८६ ॥ ध्यायन्निवार्यमाणोऽपि कृपेण कृतवर्मणा । क्रोधादगणयन्पापं स ताभ्यां प्रययौ सह ।। ७८७ ।। पाण्डवेषु गिरा शौरेः सुप्तेप्वन्यत्र शङ्कया । पाञ्चालसेनाशिविरद्वारं द्रौणिरवाप्तवान् ॥ ७८८ ॥ तत्र दृष्ट्वा महद्भूतं सर्पकेयूरकङ्कणम् । प्रादुर्भूतं शिरश्छित्त्वा वह्नौ क्षेप्तुं समुद्यतः ॥ ७८९ ॥ प्रीत्या भगवता तेन रुद्रेण स्वयमर्पितम् । द्रौणिनिस्त्रिंशमादाय विवेशारिक्षयोत्सुकः ॥ ७९० ॥ पद्भयामशस्त्रनिधनं धृष्टद्युम्नं विधाय सः । शिखण्डिनं द्विधा कृत्वा जघानाक्षौहिणी क्षणात् ॥ ७९१ ॥ स सुप्तवधपापेन प्रलिप्तः शोणितेन च । कृतान्तक्रूरचरितः प्रययौ कौरवान्तिकम् ॥ ७९२ ॥ निःशेषशत्रुनिधनं श्रुत्वा द्रौणिनिवेदितम् । स्वर्गेऽस्तु सङ्ग इत्युक्त्वा नृपस्तत्याज जीवितम् ॥ ७९३ ॥ १. 'छिन्नोरु' क. २. 'व्याघ्र' ख-ग. ३. 'वेदनम् ख-ग. ४. 'मथनं' क.
१४४ ४ काव्यमाला। प्रातबन्धुवियोगा? कृष्णाशोकाग्नितापितौ । भीमार्जुनौ प्रययतुः क्रुद्धौ द्रौणिजिघांसया ॥ ७९४ ।। द्रौणिः सरस्वतीतीरे चरन्त्रणघृताप्लुतः । दृष्टा भीमार्जुनावस्त्रं ब्रह्मशीर्षमवासृजत् ।। ७९५ ॥ अर्जुनो ब्राह्ममस्त्रं च संघर्पणास्त्रयोस्तयोः । अकालप्रलयारम्भसंरम्भोऽभूद्दिवौकसाम् ॥ ७९६ ॥ तबौणिमुक्तमपतन्महास्त्रं व्यासशासनात् । अभिमन्युवधूगर्भे द्रौणिचूडामणौ परम् ॥ ७९७ ॥ पाण्डवाः पुत्रशोकात धृतराष्ट्रं प्रलापिनम् । गान्धारीसहितं गत्वा प्रणेमुर्लजिताः शनैः ॥ ७९८ ॥ क्रमादोलिङ्गने भीमः शौरिबुद्ध्यायसः कृतः । चूर्णतामैगमद्गाढं धृतराष्ट्रेण पीडितः ॥ ७९९ ॥ युधिष्ठिरस्य गान्धारी सती प्रणमतः पुरः । तदृष्टिः सानलज्वाला पादाङ्गुष्ठयुगेऽपतत् ॥ ८०० ॥ स्नुषाभिः सह गान्धारी स्वयं गत्वा रणावनिम् । दृष्ट्वा हतान्सुतान्कृष्णं शशाप क्षयकारणम् ॥ ८०१ ॥ षट्त्रिंशवत्सरे कृष्ण तवाप्येवं कुलक्षयः । भविष्यतीति तद्वाक्यं श्रुत्वा तामच्युतोऽवदत् ॥ ८०२ ॥ पुनरुक्तस्त्वयायं मे दत्तः शापः पतिव्रते । अवश्यमेव भविता तस्मिन्वर्षे यदुक्षयः ॥ ८०३ ॥ ततः कृतोदकविधिर्वान्धवक्षयदुःखितः । राज्यं न लेभे मुनिभिर्बोधितोऽपि युधिष्ठिरः ॥ ८०४ ॥ कर्ण कुन्तीगिरा ज्ञात्वा भ्रातरं निहतं रणे । स शुशोच शुचाक्रान्तस्ततस्तं नारदोऽवदत् ॥ ८०५ ॥ क्षत्रियाचार्यके भीष्मनिकारात्कृतसंयमम् । अस्त्रार्थी भार्गवं कर्णः प्रययौ विप्रवेषवान् ॥ ८०६ ॥ १. 'द्रोणेः' क. २. 'आलिङ्गनातू' क. ३ 'प्रययौं' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १४५ रामस्तदङ्कसुप्तोऽर्धनिद्रासंक्षयभीरुणा । क्रूरक्रिमिक्षतेनापि कर्णेन न विवोधितः ॥ ८०७ ॥ तद्रक्ताक्तः प्रबुद्धोऽथ दृष्ट्वा क्लेशेऽपि निश्चलम् । रामः कर्ण न विप्रोऽसीत्युक्त्वास्त्रं विफलं व्यधात् ॥ ८०८ ॥ गुरुशप्तः स शक्रेण हृतसंनाहकुण्डलः । घटोत्कचे नष्टशक्तिः शल्याधिक्षेपशल्यवान् ॥ ८०९ ॥ द्विजवत्सापराधेन भूग्रस्तरथनिष्फलः । हतः कर्णः कुरुपतेः कुमन्त्रकृतसंक्षयः ॥ ८१० ॥ नारदेनेत्यभिहिते व्यासमुख्यैर्महर्षिभिः । कृष्णेन भ्रातृभिः सर्वेः प्रयत्नेन विवोधितः ।। ८११ ॥ राज्यं कथंचिजग्राह शल्यतुल्यं युधिष्ठिरः । कस्य वन्धुवियोगातिनिःश्वासोप्णाः श्रियः प्रियाः ॥ ८१२ ॥ अभिपेकामुकुटं समेत्याथ युधिष्ठिरम् । उवाच ब्राह्मणाकारश्चार्वाको नाम राक्षसः ॥ ८१३ ॥ छत्रं त्रपाकरमहो व्यजनं जनाये .: दुःखप्रदं प्रविसृताश्रुकणानुकारः । हारः परं वजनमित्रवियोगशोक- पीडावतां वत विडम्बनमेव लक्ष्मीः ॥ ८१४ ॥ चार्वाकस्येति वचसा राज्यत्यागोद्यते नृपे । राक्षसः कौरवसुहृद्विप्रकोपात्क्षयं ययौ ॥ ८१५ ॥ ज्ञात्वोत्तरायणं प्राप्तं शरशय्याश्रयस्ततः । मुनिमध्येऽस्मरद्विष्णुं भीष्मः पर्यन्तवान्धवम् ॥ ८१६ ॥ दोपाश्रयाखिलतमःशमसूर्यधाम संसारसर्पविपवारणसिद्धमन्त्रः । शुद्धात्मनां भवति पुण्यपणोपपन्नं पाथेयमन्तसमये स्मरणं मुरारेः ॥ ८१७ ॥ 1. 'स्मरन्' क. १९ ४ काव्यमाला। स्तुतिप्रवृत्तं विज्ञाय भगवान्भीष्ममच्युतः । सहितः पाण्डवैर्द्रष्टुं ययौ प्रीत्या ससात्यकिः ॥ ८१८ ॥ प्रणतं भीष्ममभ्यर्च्य हरिः सुरमुनिस्तुतः । शरशल्यव्यथाहीनं स्निग्धक्सुधया व्यधात् ॥ ८१९ ॥ देहसंन्याससंनद्धं राजा लज्जानतः शनैः । शासनेन हरेर्भीष्मं श्रेयः पप्रच्छ धर्मजः ॥ ८२० ॥ सोऽब्रवीद्भूभुजां राजन्भूषणं जनरञ्जनम् । धर्मः प्रजापरित्राणं कोषः सद्धृत्यसंग्रहः ॥ ८२१ ॥ प्रजाकार्ये सक्तिः श्रवणमभिभूतार्तवचसां स्पृहा कामक्रोधप्रमदमदमानव्युपरमे । क्षितेः कायस्थेभ्यः कृपणपरिरक्षा प्रतिपदं गुणासङ्गः श्रेयानयमुदयलक्ष्म्या क्षितिभृताम् ।। ८२२ ।। विरक्तस्वीकारः कृतकविरतिः कोषभरणं बलाधिक्ये शत्रोः शरणगेमनं पादपतनम् । प्रहारश्छिद्राप्तौ निहतरिपुमिथ्याश्रुपतनं धिया देवादिष्टं शरणमिदमापन्निपतने ॥ ८२३ ।। आशापाशविमुक्तनिश्चलसुखा स्वायत्तचित्तस्थितिः स्नेहद्वेषविषादलोभविरतिः संतोषतृप्तं मनः । चिन्ता नित्यमनित्यतापरिचये सङ्गेऽपि निःसङ्गता संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ।। ८२४ ॥ कारुण्याद्गलितं प्रदानसमये चित्तं प्रसन्नं सदा क्षीणः पुत्रकलत्रदुःखकृपणः पात्रं पवित्रं परम् । सश्रद्धं परवित्तशल्यरहितं वित्तं स्वधर्मार्जितं तदानं दयितं फलप्रियतया वाणिज्यसज्जं न यत् ।। ८२.५ ॥ इत्युक्त्वा विविधं भीष्मः सर्वधर्मार्थसंग्रहम् । विष्णोर्नामसहस्राख्यं मन्त्रराजमुँदीर्य तम् ॥ ८२६ ॥ १. 'क्षितिः' ख-ग. २. 'गमने' क-ख. ३. नृप' ख-ग. ४. 'उदीर्यत' का 'उदीयते' ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १४७ कोदितवलोत्क्षिप्तबिन्दुभेदपथोदितम् । तालुरन्ध्रोच्चलज्योतिर्योगेनात्मानमत्यजत् ॥ ८२७ ॥ अथ भीष्मवियोगातः पापशान्त्यै युधिष्ठिरः। अश्वमेधाभिधे चक्रे यज्ञे व्यासाज्ञया मतिम् ॥ ८२८ ॥ अथैकान्तस्थितः कृष्णः पुनः पृष्टः किरीटिना । यत्प्राह समरारम्भे ज्ञानयोगं तदुक्तवान् ॥ ८२९ ।। कदाचिदथ कंसारिं दृष्ट्वा पथि रथस्थितम् । ऊचे मुनिरुतङ्काख्यः कुरुसंक्षयदुःखितः ॥ ८३० ॥ शक्तेनोपेक्षितः कस्माद्भवता भरतक्षयः । न युक्तं कृतमित्युक्त्वा कोपाच्छापोचतोऽभवत् ॥ ८३१ ॥ ततस्तस्मै सितमुखः शौरिहतमोहरम् । भासुरार्कसहस्राभं विश्वरूपमदर्शयत् ॥ ८३२ ॥ अथाभिमन्युदयिता दिव्यास्त्रहतमुत्तरा । मत्स्यराजसुतासूत भस्मीभूताकृति शिशुम् ॥ ८३३ ॥ सुभद्रयार्थितः स्वस्रा भगवान्भूतभावनः । द्रोणपुत्रास्त्रनिर्दग्धं शौरिः शिशुमजीवयत् ॥ ८३४ ॥ कुरुवंशे परिक्षीणे संजातस्याङ्कुराकृतेः । परीक्षिदिति वालस्य नाम चक्रे त्रिविक्रमः ॥ ८३५ ॥ अथ यज्ञाश्वरक्षायै व्रजञ्जिष्णुजगज्जयी । मणिपूरपुरे प्राप बभ्रुवाहनमात्मजम् ॥ ८३६ ॥ तेनाविज्ञाय समरे सायकैः पातितोऽर्जुनः । उलूप्या नागसुतया रत्नेनार्पितजीवितः ॥ ८३७ ॥ प्रययौ हयमादाय स्वपुरं भ्रातुरन्तिकम् । प्रावर्तत च भूभर्तुर्यज्ञः काञ्चनवर्षिणः ॥ ८३८ ॥ १. 'छन्दोदित' क. २. 'पथोत्थितम्' ख-ग. ३. 'योगज्ञान' ख. ४. 'कोपशापो' क. ५. 'ससुरार्क' ख-ग. ६. 'पुत्र' क. ७. 'परिक्षिदिति' क. ८. 'यज्ञ' ख-ग.
१४८ काव्यमाला। ॥ अथैकपार्श्वे कनकातिभृन्नकुलोऽद्भुतः । विप्रकोटिशतोच्छिष्टभुवं भेजे लुठत्तनुः ।। ८३९ ॥ सोऽब्रवीद्भभुजा पृष्टः शिलोञ्छस्वच्छवृत्तिना । सुचिरावाप्तमशनं प्राप्तायातिथयेऽर्पितम् ॥ ८४० ॥ तदुच्छिष्टजलस्पृष्टं पार्श्व मे हेमतां गतम् । द्वितीयपार्श्ववर्णाप्त्यै प्राप्तोऽहं त्वत्क्रतुक्षितिम् ॥ ८४१ ॥ निःसंख्यब्राह्मणोच्छिष्टस्पृष्टस्यापि न मे द्युतिः । जाता सत्त्वोज्ज्वलं याति दानमल्पमनल्पताम् ॥ ८४२ ॥ इत्युक्त्वा नकुले याते दानमानमहोन्नतिः । सर्वस्वदक्षिणे यज्ञे राजा(ज्ञः) शिथिलतां ययौ ।। ८४३ ॥ अथ दैवतवन्नित्यं पूज्यमानोऽपि भूभुजा । भीमोग्रवचनोद्वेगी धृतराष्ट्रः शनैरभूत् ।। ८४४ ।। स सदा पुत्रशोकेन भूमिशायी फलाशनः । मिथ्याराज्योपभोगाप्तिं धर्मजाय न्यवेदयत् ।। ८४५ ॥ स जातंगाढवैराग्यः पन्या सह वनं ययौ । व्यासाज्ञया संजयेन कुन्त्या च विदुरेण च ॥ ८४६ ॥ दयितजनवियोगोद्वेगरोगातुराणां विभवविरहदैन्यम्लानमानाननानाम् । शमयति शितशल्यं हन्त नैराश्यनश्य- द्भवपरिभवतान्तिः शान्तिरन्ते वनान्ते ॥ ८४७ ॥ यातस्तपःस्थितं द्रष्टुं धृतराष्ट्रं युधिष्ठिरः । ददर्श विदुरं ज्ञानयुक्तित्यक्तकलेवरम् ॥ ८४८ ॥ प्राप्तः स्वनगरं राजा शुश्राव कुरुपुंगवम् । सानुगं दावदहने प्रविष्टं संजयं विना ॥ ८४९ ॥ घट्त्रिंशेऽब्दे सुखक्षीबा वृष्णयः कृष्णनन्दनम् । साम्बं स्त्रीवेषमादाय पप्रच्छुः सस्मिता मुनीन् ॥ ८५० ॥ १. 'वैराग्य' ख-ग. २. 'पट्त्रिंशाव्दे' क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १४९ भावी सुतः सुता वा स्यात्किमिति श्रीविशृङ्खलाः । क्रुद्धास्तान्मुनयः प्राहुर्भविष्यति कुलान्तकः ॥ ८५१ ॥ कालेन लोहमुसलं जातं साम्वस्य वृष्णयः । घृष्ट्वा घृष्ट्वाम्बुधेस्तीरे तत्यजुः क्षयशङ्किताः ।। ८५२ ॥ तचूर्णजातवल्लीभिः क्षीवाः स्पर्धाकथाक्रुधा । निर्बन्धाधुध्यमानास्ते क्षणेन क्षयमाययुः ॥ ८५३ ॥ कृष्णः कुलक्षयोद्विग्नस्तेजः खं धाम्नि वैष्णवे हेम हेम्नीव निक्षिप्य प्रययौ कायशेपताम् ॥ ८१४ ॥ याते प्रविश्य पातालमनन्तत्वं हलायुधे । लुब्धकेन हरिः सुप्तः कृष्णसारधिया हतः ॥ ८५५ ॥ अनल्पं कल्पान्तस्थिरमिव जनः कल्पयति य- न यस्मिन्नाशङ्का सुरगिरिगरिम्णि प्रचलने । तदेवाक्ष्णः पक्ष्माञ्चलतरलविक्षेपतुलया क्षयक्षीवः कालः किल गिलति नैवाभवदिति ॥ ८५६ ॥ अथ वृष्णिक्षयं ज्ञात्वा द्वारकामेत्य फाल्गुनः । शोकार्तस्तद्वधूवृन्दं स्वपुरं नेतुमुद्ययौ ॥ ८५७ ॥ बजतस्तस्य गोपाला बेहल्लगुडपाणयः । जहुराकृष्टचापस्य स्त्रैणमाकीर्णपत्रिणः ॥ ८५८ ॥ ते द्विपत्खण्डनां प्रापुः शरा गाण्डीवधन्वनः । निष्फलत्वं विलक्षस्य याचकस्य गुणा इव ॥ ८५९ ॥ नहि हीनमनाक्रान्त्या फाल्गुनस्य गलद्गुणम् । कलत्रं निर्धनस्येव विधेयं नाभवद्धनुः ।। ८६० ॥ रुद्राभिद्रवमुद्रितादिशिखराः शक्रोन्मुखाः खाण्डवे खेलोत्ताललतायुधोद्यतकृताटोपेषु गोपेष्वहो । १. 'तेजस' ख-ग. २. 'अनन्त' ख-ग. ३. 'प्रदलने' ख. ४. 'लडल्लगुड' क. ५. 'खण्डनाः' ख-ग. ६. 'निर्गुणस्येव' ख-ग.
१५० काव्यमाला। जग्मुजिष्णुशरा मुरारितरुणीत्राणे तृणक्लीवतां यस्यायन्त्रविचित्रपाककलया कालाय तस्मै नमः ॥ ८६१ ।। युधिष्ठिरोऽथ विभवं ज्ञात्वा पर्यन्ततादृशम् । भ्रातृभिः सह पत्न्या च महाप्रस्थानमाविशत् ॥ ८६२ ।। कृष्णायाः पतने प्राह राजा विजयरक्तताम् । प्रियस्य दोषाकलनं वियोगे दुःखमेषजम् ॥ ८६३ ॥ सोऽवदत्प्रच्युतस्याथ सहदेवस्य धीमदम् । नकुलस्यादरं रूपे जिष्णोविजयदृप्तताम् ॥ ८६४ ॥ भीमस्य बबशनतां व्रजन्नेव शुना सह । पर्यन्तेऽचिन्तयन्नन्तः संसारविशरारुताम् ।। ८६५ ॥ अथ व्योमपथायातं विमानं सुकृतोज्ज्वलम् । देवदूतार्पितं राजा नारुरोह शुना विना ।। ८६६ ।। तत्तस्याश्रितवात्सल्यं धर्मस्त्यक्तश्वविग्रहः । तुष्टः खं रूपमौस्थाय प्रशशंस पुनः पुनः ॥ ८६७ ॥ अथ राजा समारुह्य विमानं त्रिदिवं व्रजन् । ददर्श नरकं घोरं देवदूतप्रदर्शितम् ॥ ८६८ ॥ ततस्तद्दर्शनोद्विग्नं देवदूतस्तमब्रवीत् । राजन्द्रोणवधासत्यान्मिथ्यैतत्तव दर्शितम् ॥ ८६९ ॥ प्रजापीडाक्रीडार्जितधनभरैर्भोगसुखिना- मकर्णानां क्लाम्यत्कृपणकरुणाक्रन्दसमये। अवश्यं भूपानां भवति विभवोन्मादकुधियां दुरन्ता पर्यन्ते नरककलुषक्लेशकुगतिः ॥ ८७० ॥ इत्युक्ते देवदूतेन शक्रलोकं युधिष्ठिरः । धर्मधाम निजं भेजे स्वं खं चान्ये सुरांशजाः ॥ ८७१ ॥ लक्ष्मीश्चामरतारहारहसिता मत्तेमकुम्भरतनी त्रैलोक्याक्रमणः पराक्रमभरः संभोगयोग्यं वयः । १. 'विहेयं च' ख-ग. २. 'आदाय' ख-ग.
९ वुद्धावतारः] दशावतारचरितम् । १५१ . पूर्व सर्वमखर्वगर्वसुखदं संचळमाणं पुनः पर्यन्ते परिणाममीलदखिलास्वादं विषादास्पदम् ।। ८७२ ॥ इति स भुवनभूत्यै भूतभर्ता विधाय प्रसभविभवशक्त्या भूमिभारावतारम् । अगमदमरसंधैः कीर्त्यमानप्रभावः सह नरमुनिना स्खं धाम नारायणांशः ।। ८७३ ।। इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते श्रीकृष्णावतारोऽष्टमः । बुद्धावतारो नवमः । काले प्रयाते कलिविप्लवेन रोगग्रहोगे भगवान्भवाब्धौ । मज्जत्सु संमोहजले जनेषु जगन्निवासः करुणान्वितोऽभूत् ॥ १ ॥ स सर्वसत्त्वोपकृतिप्रयत्नः कृपाकुलः शाक्यकुले विशाले । शुद्धोदनाख्यस्य नराधिपेन्दोर्धन्यस्य गर्भेऽवततार पत्न्याः ॥ २ ॥ मायाभिधाना नरनाथपत्नी गर्भे हरिं विश्वगुरुं वहन्ती । आसन्नचन्द्रेव सुधाब्धिवेला निधानधन्येव वसुंधराभूत् ॥ ३ ॥ कुक्षि ततस्तत्क्षणमक्षताया विभिद्य मातुर्भगवान्प्रजातः । गर्भोदकास्पृष्टविशुद्धमूर्तिर्जाम्बूनदेनेव विनिर्मिताङ्गः ॥ ४ ॥ स जातमात्रस्त्रिदशप्रमुक्तनभोनदीवारिभराभिषिक्तः । पदत्रयीं कम्पितसर्वलोकां दत्त्वा दिशन्दिक्षु भृशं जगाम ॥ ५ ॥ पूर्वा स्थितेयं मम निर्वृति, धीः सर्वसत्त्योद्धृतिदक्षिणेयम् । जन्मस्थितिः संप्रति पश्चिमेयं संसारवन्धादियमुत्तरा च ॥ ६ ॥ इति ब्रुवाणं नृपतिस्तमेत्य दृष्ट्वा त्रिलोकीपतिलक्षणाङ्कम् । स जातदिव्यानुभवाभिमानः कुलस्य भूत्यै धृतिमावबन्ध ॥ ७ ॥ तं लक्षणज्ञा जगदुः सहर्षमयं शिशुर्लक्षणलक्ष्यमाणः । प्रभुर्भविष्यत्यवनीश्वराणामनुत्तरज्ञाननिधिसुनिा ॥ ८ ॥ १. 'सङ्गैः क; 'संख्यैः' ख-ग. २. 'रागोरगोग्रे' क. ३. 'लक्ष्मणाङ्कम्' ख-ग. ४. 'भिमानं' क. ५. 'स्म' ख-ग.
. १५२. काव्यमाला। स सर्वविद्याविदितार्थतत्त्वः संप्राप्तशस्त्रास्त्रगजाश्वशिक्षः । सर्वार्थसिद्ध्या पितुराप्तकीर्तिः सर्वार्थसिद्धाभिधतां जगाम ॥ ९ ॥ सर्वखदानाभिमुखोऽथिसाथै स देहदाने तृणवत्कृतेच्छः । लीलाविहारी विचरन्रथेन ददर्श वृद्धं पथि जीर्णकायम् ॥ १० ॥ तं वीक्ष्य विच्छायमशक्तिलुप्तमवाप्तपर्याप्तविरक्तभावः । सोऽचिन्तयन्निश्चितमन्तसक्ता कायस्य निर्वेदमयी दशेयम् ॥ ११ ॥ अहो बतायं जरयाभिभूतः कुरूपतां क्लेशमयी प्रयातः । तारुण्यमाकुञ्चितकृष्णकेशं शोचन्निवान्तः श्वसिति प्रेकामम् ॥ १२ ॥ महीनिविष्टाकृतिरल्पदृष्टिः किं कष्टचारी नगरे करोति । संतोषशीतं श्रयति प्रशान्त्यै किमाश्रमं श्रान्ततनुर्न वृद्धः ॥ १३ ॥ भ्रमः कासश्वासः कफभररवः कण्ठकुहरे श्रुतौ नेत्रे घ्राणे त्वचि सरसनायां विफलता। अहो वृद्धस्यास्मिन्सकलविरहक्लेशसमये प्रमोहस्तृष्णां यत्त्यजति दयितां नैव तरुणीम् ॥ १४॥ क्षणं विचिन्त्येति नरेन्द्रसूनुर्वजन्पुरप्रान्तविलोकनाय । शोकाश्रयं हर्षविषादधाम श्मशानमाकीर्णशवं ददर्श ॥ १५ ॥ स सारथिं प्राह विलोक्य लीनं शरीरिणां कायमपायभूमौ । अनित्यताचिन्तनजातखेदः संसारकैरस्यविचारसक्तः ॥ १६ ॥ क्लेदामोदविविग्नवायसशुनः कुत्सापदस्याशुचे- रन्ते यस्य दशेशी क्षयमयी कायस्य भूशायिनः । मूढास्तस्य कृते परार्थहरणोद्योगं परस्त्रीरति- व्यासक्ति परदेहदारणघनद्रोहं नराः कुर्वते ॥ १७ ॥ नासत्यं न परापवादपिशुनं नो मर्मभिद्धापते नैराश्येन विशेषशीतलतनुः सेवाप्रेवासोज्झितः । १. 'निश्चयं' ख-ग. २. 'प्रकाशम्' ख-ग. ३. 'आश्रयं ख-ग. ४. “अस्य ख-ग. ५. 'प्रवासोज्झितः' क.
९ बुद्धावतारः] दशावतारचरितम् । १५३ पापोपार्जनवर्जितः परगृहे द्वाःस्थैरसंतर्जितः कामद्वेषविषादमोहरहितः पश्यैष शेते शवः ।। १८ ।। क्षितिप्रतिष्ठस्य कलेवरस्य पर्यन्तभूमावियमेव निष्ठा । यत्काष्ठपाषाणसमानचेष्टं प्रयाति मृद्भसशकृत्क्रिमित्वम् ॥ १९ ॥ उक्त्वेति वैराग्यमयी प्रशान्ति श्रयन्विचिन्त्यान्तविनाशि सर्वम् । . अन्तःपुराभ्यन्तरमेत्य सोऽभूद्विभूतिभोगे शिथिलाभिलाषः ॥ २० ॥ अन्तःपुरे तस्य नृपात्मजानां सहस्रषष्टया हरिणेक्षणानाम् । चित्रार्पितानामिव संगमोऽभून्न शान्तिसक्तस्य सुखानुभावः ॥ २१ ॥ ततः क्षितीशं समुपेत्य सर्वे मौहूर्तिकाः संसदि तत्त्वमूचुः । राजन्सुतस्ते भविता त्रिलोकीपतिः प्रभावे भगवाजिनो वा ॥ २२ ॥ श्रुत्वेति राजा भुवनाधिपत्यं पुत्रस्य यत्नेन समीहमानः । वनाभिकामस्य तपो निरोद्धं चक्रे पुरद्वारविशेषगुप्तिम् ॥ २३ ॥ अत्रान्तरे शान्तिपथं प्रवेष्टुमाशापरित्यागधृतावधानः । अस्ताद्रिशृङ्गाश्रमधाम्नि सूर्यः संध्याकषायाम्बरमाललम्बे ॥ २४ ॥ रवौ प्रयाते ककुभां बभूव घनोऽनुरागः क्षणमात्रलक्ष्यः । प्रेमाणि चित्तानि च जीवलोके विद्युद्विलोलानि न कस्य नाम ॥ २५ ॥ रवेर्वियोगे गुणिवल्लभस्य शोकानुकारेण तमोभरेण । स्नेहेन साधोरिव बन्धुवर्गः पद्माकरः क्लेशनिमीलितोऽभूत् ॥ २६ ॥ दिकेशपाशप्रतिमं तमस्तद्दीपावलीचम्पकमालिकाङ्कम् । लेभे वियोगाच्च(त)वधूस्मराग्निस्थानस्फुलिङ्गाकुलधूमलीलाम् ॥ २७ ।। अथोद्ययौ सत्त्वसितप्रकाशः सुधां दधानः करुणामिवान्तः । निवारयन्मोहघनान्धकारं विश्वोपकाराय शशी प्रवृत्तः ॥ २८ ॥ चन्द्रोदयेऽन्तःपुरसुन्दरीणां प्रसाधनव्यग्रपरिग्रहाणाम् । शृङ्गारलीलासमयं विलोक्य क्षणं प्रदध्यौ नरनाथसूनुः ॥ २९ ॥ १. 'दोष' क. २. "विनं' ख-ग. इतः प्रभृति एकोनचत्वारिंशश्लोकस्य प्रथमपादप- र्यन्तं ख-ग-पुस्तकयोस्त्रुटितमस्ति. २० १६४ काव्यमाला। . इमाः संमोहाभ्रप्रसरतडितश्चारुनयना यदक्षिक्षेपोऽन्तर्विशति हृदयं सूचिसचिवः । सुखादिग्धं मुग्धं विषमिव समुत्सृज्य विषयं, श्रयेऽहं पर्यन्तस्थितिपरिचितां शान्तितरुणीम् ॥ ३० ॥ संचिन्तयन्नित्यवनीशसूनद्वारेषु रुद्धेषु निशान्तपालैः । दिव्यप्रभावाप्तगतिर्विचार्य विनिर्ययौ हर्म्यपथेन तूर्णम् ॥ ३१ ॥ स्वच्छन्दकाख्यं प्रविबोध्य सूतं हयं समारुह्य च कन्थकाख्यम् । व्योम्ना जवाबादशयोजनानि गत्वा वनं निर्जनमाससाद ॥ ३२ ॥ तत्रावरुह्याश्ववरात्प्रभाते केयूरहाराङ्गदकुण्डलानि । मुक्त्वा किरीटं च वितीर्य सर्व सूताय सत्त्वाभरणस्तमूचे ॥ ३३ ॥ हंहो निवर्तस्व हयं गृहीत्वा गृहाण सर्वाणि विभूषणानि । एतैर्न किंचिन्मम कृत्यमस्ति भूभृत्कुले श्लिष्टविनष्टशिष्टैः ॥ ३४ ॥ एको वनेऽस्मिन्निति नैव कार्यस्त्वया मयि स्नेहमयोऽनुतापः । संजायते जन्मनि जन्तुरेकः प्रयाति चान्ते परलोकमेकः ॥ ३५ ॥ द्रुमश्छन्नं मित्रं सरलहृदयोऽयं मम मृगः स्थली लीलाशय्या तनुतरतरुत्वडिवसनम् । खकोषः संतोषः कृपणकरुणैव प्रियतमा न संसारः कश्चिद्भवति विभवेऽस्मिन्परिभवः ॥ ३६ ॥ उक्त्वेति सूतं क्षितिपालसूनुः स्वयं कृपाणेन निकृत्तजूटः । तमश्रुधारार्द्रपटं विसृज्य शृङ्गं गिरेरुन्नतमारुरोह ॥ ३७ ॥ पर्यवन्धेन सुखोपविष्टे समाधिसंनद्धविरुद्धचित्ते । तस्मिन्क्षणे विश्वगुरौ गिरीन्द्रः स भग्नशृङ्गः शकलीबभूव ॥ ३८ ॥ गिरीन्द्रभङ्गेन विविग्नवकं दृष्ट्वामरा व्योमचरास्तमूचुः । जगद्गुरुं त्वं गिरिरेष धतु प्रभो प्रसीदात्र शुभं न शक्तः ॥ ३९ ॥ ततः स निष्कम्पमवाप्य देशं वज्रासनाख्यं विकसद्विवेकः । अनुत्तरज्ञाननिधानमाप्तुं धीरः स्थिरध्यानधुरंधरोऽभूत् ॥ ४० ॥ १. 'प्रसीद कुशलं क.
९ बुद्धावतारः] दशावतारचरितम् । १५५ जात्यैव मारः शमनिश्चलानां वैराग्यवैरेण विकारकारी । तस्येन्दुकान्त्येव कृताः समाधिभङ्गाय कान्ताः स समादिदेश ॥ ४१ ॥ कटाक्षैः कुर्वाणाः कुवलयकुलं कान्तिविकलं सृजन्त्यः पादाजैः स्थलकमलमालामलिनताम् । दिशन्त्यः शीतांशोर्मुखरुचिभिरायासमसमं ययुस्तास्तस्याग्रेधृतदृढसमाधेविफलताम् ॥ ४२ ॥ अथागतैर्दुःसहमारसैन्यैः शेखाश्मवदिद्रुमपांसुवर्षैः । क्षिप्तैरनल्पप्रकरैः कुमारः पुप्पैरिवाकीर्णतनुर्वभूव ॥ ४३ ॥ स्वयं समुत्सृष्टशरे स्मरेऽपि याते विलक्षे घनदैन्यसैन्ये । वज्रासनध्यानधृतिः स सम्यक्संबुद्धतां सर्वविदाससाद ॥ ४४ ॥ ब्रह्मप्रधानैस्त्रिदशैः प्रदत्तं पात्रं समादाय स चीवरं च । संसारमुक्त्यै सुरमर्त्यनागसंघस्य सद्धर्ममथादिदेश ॥ ४५ ॥ हयं समादाय चिरेण सूते शून्यासनं शाक्यपुरं प्रविष्टे । जनस्य सान्तःपुरमण्डलस्य समुद्ययौ तीव्रविपादनादः ॥ ४६ ॥ महीपतिः पुत्रवियोगतप्तः प्रसुप्तजीवः क्षणमोहनिद्राम् । निद्रामिवासाद्य घनानुवन्धां निःस्पन्दवृत्तिर्न विवेद किंचित् ॥ ४७ ॥ अवाप्तसंज्ञं सुचिरात्तमूचुर्नभश्वरा मुञ्च विचार्य मोहम् । राजन्सुतस्ते सुगतत्वमाप्तः सुरासुरैर्वन्दितपादपद्मः ॥ ४८ ॥ ततः क्षितीशस्त्रिजगत्प्रसिद्ध ज्ञात्वापि तं जैनवने जिनेन्द्रम् । द्रष्टुं ययौ हर्पसुधानिधानं सामात्यमित्रस्वजनः ससैन्यः ॥ ४९ ।। तदाश्रमोपान्तमहीमवाप्य वनं विलोक्य प्रशमाभिरामम् । शुद्धोदनः स्यन्दनपार्श्वसंस्थमुदायिनं वान्धवमित्युवाच ॥ ५० ॥ क्रव्यादोऽपि न भुञ्जते परतनुद्रोहेण हिंसाशनं क्रूराणामपि वैरवतिविरहान्न क्रोधदिग्धं मनः । व्यालुम्पन्ति न तु स्वयं निपतितादन्यत्फलं वानरा निर्दोपावरणं वनं भगवतः शंभोः प्रसादादिदम् ॥ ५१ ॥ १. 'विकास' क. २. 'शस्त्रास्त्र' ख. ३. 'पुरों' क. .
१५६ काव्यमाला । अक्षोभनिर्भरजलाः सरितो वहन्ति निर्विप्लवा विरजसः सुखयन्ति वाताः । सध्यानमौनमुनितां दधतीव वृक्षा निश्चेतनेष्वपि बत प्रसृता प्रशान्तिः ॥ १२ ॥ उक्त्वेति भूपरिवृढः शमसंनिधानं प्राप्याश्रमाग्र(ग्य)मवरुह्य रथात्प्रहृष्टः । दूराद्ददर्श सुरसिद्धनरोरगाणां रागादिदोषशमने सुगतं प्रवृत्तम् ॥ १३ ॥ भूनिर्गतप्रततकाञ्चनपद्मपृष्ठ- पद्मासनस्थमविसंस्थुलधामधीरम् । मेरं सदेहमिव चन्द्रसहस्रकान्ति- पूरैर्नवामृतचितैः : कृतरूपकायम् ॥ १४ ॥ सद्धर्मकायमुपदेशदिशा दिशन्तं ज्ञानार्करश्मिहृतमोहमहान्धकारम् । सिंहोन्नतांसयुगमुन्नतबाहुनेत्रं बालप्रवालतरुपल्लवलोहितौष्ठम् ॥ १५ ॥ लावण्यराशिवदनं सरलोरुनासं निभूषणश्रवणपाशविशेषशोभम् । तं निर्जितस्सरमुदारगुणं प्रणम्य लेभे प्रतिप्रणतिमानधनप्रमोदम् ॥ १६ ॥ शक्रादिभिः सुरवरैरपि बिम्बसार- मुख्यैश्च भूमिपतिभिर्गुरुंगौरवेण । नांगैश्च नम्रवदनैरभिनन्द्यमानः शुद्धोदनः कनकविष्टरमाससाद ॥ १७ ॥ १. 'निर्झर' ख-ग. २. 'महोरगाणां क. ३. 'दिगन्त' ख. ४. 'लोहिताङ्गम्' ख. ५. 'गिरि' ख. ६. 'नम्रश्च' ख-ग.
९ बुद्धावतारः] दशावतारचरितम् । १५७ आनन्दवन्धुमवलोक्य तथागतेन्दु चित्तप्रसादमसमं समवाप्य भूपः । तं प्राप्य हर्पसहजाश्रुनिरुद्धदृष्टि- स्तद्दर्शनामृतरसे सुतरामतृप्तः ॥ ५८ ॥ देव प्रकामकरुणादृशा सहर्ष- निःशेपदोपरहिता विहिता त्रिलोकी । कस्सादहो निजजनस्य कृतस्त्वयायं संमोहकृद्विरहशोकदशोपदेशः ॥ १९ ॥ नीत्वा क्षपां स्फटिकहर्म्यतले सुखेन शय्यासु चीनवसनद्युतिसस्मितासु । शेपे कथं हरिणसंहतिदन्तदष्ट- शिष्टार्धशप्पपरुपासु वनस्थलीपु ॥ १० ॥ तच्चन्द्रकान्ति मणिशुक्तिषु सक्तशैत्यं पीत्वा पयः कथमहो पिवसि त्वमद्य । ग्रीष्मोप्ममूढमहिपद्विरदावगाह क्लिद्यत्करीपकलुपोदरतिक्तमम्भः ॥ ६१ ॥ कस्सादेप विहारतामुपगतः कण्ठः कठोरेण किं संवीतं मृगचर्मणानिलचलचीनांशुकाह वपुः । किं ते रत्नकिरीटधान्नि च जटाजूटो निवद्धादरः क्रूरक्लेशसखी सुखेपु विमुखी केनोपदिष्टा स्थितिः ॥ ६२ ॥ इत्यार्जवाज्जनपतौ जनकाभिमाना- त्पुत्रोचितं सदसि रागमयं ब्रुवाणे । स्नेहोपलिप्तरजसा मलिनस्वभावं तं तापसंभवभिपग्भगवान्वभापे ॥ ६३ ॥ १. 'देवः' ख-ग. २. 'सकला' क. ३. 'स्वच्छशीतं' ख-ग. ४..'चीनांशुकं ते वपुः' ख-ग. ५. 'जटाजूटेन बद्धो भरः' क. ६. 'जनकाभिधानात्' ख-ग. ७. 'तद्दो- पसंभव' ख-ग.
१५८ काव्यमाला। किं जीवावधिवन्धनैर्गुणगणेनाराधितैर्वन्धुभि- ये यान्त्यन्त्यदिने क्षणाश्रुपतनप्रत्यायनापात्रताम् । सद्धर्माधिगमः क्रियाव्युपरमः सत्संगमः संयमः पर्यन्तेऽप्यचला विरक्तमनसामेते सतां बान्धवाः ॥ ६४ ॥ आकृष्याटविकैः परैरपहृता सामन्तसीमान्तभू- रीव्र्ता मरणोधता प्रियतमा मुख्यस्तुरङ्गो मृतः । मन्त्री द्रोहसमुद्यतोऽतिबलवानित्यात्तचिन्ताशतै- भूपालः किल कोमलेऽपि शयने निद्रादरिद्रः सदा ॥ ६५ ॥ आशापाशनिवेशबन्धनपृथुग्रन्थिव्यथावर्जित- स्तृष्णातापनिवृत्तिशीतलतनुर्मानावमानोज्झितः । रागद्वेषविषप्रशान्तिसखितश्चिन्ताविहीने वने पापाणे घनदर्भसूचिनिचिते शेते सुखं निर्वृतः ॥ ६६ ।। भोगी नित्यमजीर्णभोजनरुजा जिह्वां सदा दर्शय- न्वैद्यं पृच्छति तद्भुयादभिमतं नाश्नाति तृष्णातुरः । भुक्त्वा खल्पकमैप्रयत्नपतितं मूलं फलं वा जलं पीत्वा जातु रुजं जनेश भजते कांचिन्न निष्किञ्चनः ॥ ६७॥ शय्यास्तास्तनुतूलपेशलतलाः सा हेमहर्म्यस्थिति- स्ताः केयूरकिरीटहॉररचनास्ते कुञ्जरास्ते हयाः । भोगास्तेऽभिमता न कस्य सुखदाः किं त्वक्षिपक्ष्माञ्चल- च्छेदे सर्वमनन्त्य(गण्य)मन्यवशगं दृश्यं न किंचित्कचित् ॥६८॥ ग्रीष्मे हारतुषारचन्दनचयश्चीनांशुकं चन्द्रिका शीते राङ्कवकुङ्कमाङ्कतरुणीपीनस्तनालिङ्गनम् । रात्रौ वेणुरवोग्रवाररमणीगीतं दिने सत्सभा यस्यैतत्क्रियते स कस्य नृपते कायः कृतघ्नः स्थिरः ॥ ६९ ।। .. १. गणे: ख-ग.. २. 'आकृष्याटनिकैः परैरपहृता सा सा न' क. ३. 'अल्पयत्नप- तितं' क. ४. 'जातु रुजं जनो न भजते किंचिन' ख-ग. ५. 'भार' ख-ग. ६. 'सर्व- गमन्यगण्यवशगं' ग, ७. 'ते मी' ख-ग. ८, 'रवापरावरमणी' क.
१० कर्यवतारः] दशावतारचरितम् । १५९ नैराश्ये शमशीतचित्तसुखिनां नानन्दनं चन्दनं कारुण्याभरणाभिरामहृदये हारेण भारेण किम् । रत्नालंकरणादिकं गुरुगिरामाकर्णनं कर्णयो- Hष्टं शीलदुकूलशीलनवतां चित्राम्बराडम्वरम् ॥ ७० ॥ राजन्संत्यज मोहदुर्ग्रहमिमं स्नेहव्यथां मा कृथाः संसारस्य विचारय प्रचलतां मा मज जन्माम्बुधौ । नित्यापूर्वजनोद्भवे भवपथे प्रस्थानपान्थभ्रम- क्षिप्रालापसमागमप्रणयिनां को वान्धवः कः परः ॥ ७१ ॥ इत्युक्त्वा भगवान्नृपस्य विदधे प्रबोधिनी वोधनां दीप्तज्ञाननिशातवज्रशिखया कायाभिमानाभिधम् । भित्त्वा विंशतितुङ्गशृङ्गगहनं स्थूलाचलं याकरो- संसारावरणप्रहाणकलनावैमल्यलीनं मनः ॥ ७२ ॥ शाक्यानामथ तत्र मैत्रमनसां सप्ताधिकाः कोटयः सप्त प्राप्तविवेकपूर्वकुशलाश्चित्तप्रसादात्परम् । स्रोतःप्राप्तसकृत्समागमफलान्यागामिकाहत्पदा- न्यापुः सर्वजनाशयक्षयधिया सर्वज्ञसंदर्शनात् ॥ ७३ ।। अथ स भगवान्कृत्वा सर्व जगजिनभास्कर- स्तिमिररहितं ज्ञानालोकैः क्रमाद्गुणिवान्धवः । जनकरुणया सद्धर्माख्यं निधाय परं वपु- स्तरणशरणं संसाराव्यावभूत्पुनरच्युतः ॥ ७४ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते बुद्धावतारो नवमः । कय॑वतारो दशमः। अथ स्खं वैष्णवं.धाम गते सुगतभास्वति । कलौ प्रबलतां याते तमसीव सुदुःसहे ॥ १॥ १. 'नीलदुगूल' ख-ग. २. 'जनूद्भवे' क. ३. 'प्रावेविकी' ख-ग. ४. 'काया- भिधाना ख-ग. ५. 'न्यागामिका तत्पदा' ख-ग. ६.'जनाश्रम' क. ७. 'विधाय' ख ग.
o काव्यमाला। मर्त्यभूमि परित्यज्य सदाचारविवर्जिताम् । जग्मुः कलापियामाख्यं दिव्यदेश महर्षयः ॥ २ ॥ अवदन्मुनयस्तत्र मार्कण्डेयं चिरायुषम् । भगवन्कलिकालोऽयं कलुषः प्रत्युपस्थितः ॥ ३ ॥ अतोऽपि कीहक्पर्यन्ते मलिनत्वं प्रयास्यति । जानीमहि (हे) नहि मही भारातः किं करिष्यति ॥ ४ ॥ विप्रा मद्यघृतक्षीरलाक्षालवणविक्रयैः । जीवन्ति प्रेष्यनिरता निराचारा निरग्नयः ॥ ५ ॥ अश्रोत्रियाः क्रियाहीनाः श्रुतिस्मृतिविवर्जिताः । विप्राः सुखेन मोक्षाप्त्यै याताः पापण्डिशिष्यताम् ॥ ६ ॥ वृषलीपतयः प्राप्ताः क्रीडाहासकतां द्विजाः । नृत्तगीतकलाजालशिल्पिचारणवृत्तयः ॥ ७ ॥ क्रोधलोभपराः क्रूरास्तमोमूढा द्विजातयः । त्यजन्ति जीवितं रज्जुविषशस्त्रानलाश्मभिः ॥ ८ ॥ अक्षत्रिया क्षितिः सर्वा क्षत्रसंज्ञाः क्षितीश्वराः। ये रक्षितारः पौराणां ते प्राणधनहारिणः ॥ ९ ॥ प्रजोपतापशापोष्णैः पापाप्तैर्भूभुजां धनैः । जलैः सलवणैः पीतैरिव तृष्णा प्रवर्धते ॥ १० ॥ कृपणाक्रन्दबधिरा मदान्धा न्यायमौनिनः । भूपालाः कुंजहृदया लोकपीडारताः सदा ॥ ११ ॥ अलक्ष्यं भक्षयन्त्येव क्षितीशानां दिवानिशम् । समुद्रं कोषमखिलं कायस्था वडवाग्नयः ॥ १२ ॥ गायनक्षपिता लक्ष्मीर्दस्युनिर्दलिता दिशः । कायस्थदुःस्था पृथिवी राज्ञामज्ञावृताः सभाः ॥ १३ ॥ १. 'वसु ख-ग. २. 'प्रवर्तते' क. ३. 'मानिनः' ख-ग. ४. 'कुजवृत्तयः शत्रुस- श्रामपुङ्गवाः' क; 'कुञ्जहृदयाः.......' ग. ५. एतत्पूर्वार्धे ख-ग-पुस्तकयोस्रुटितम्.
१. कर्व्यवतारः] दशावतारचरितम् । १६१ मन्त्रिसेनापतिद्वाःस्थसभापतिपुरोहितैः । उत्कोचद्रविणोत्तानपाणिभिः क्षपिताः प्रजाः ॥ १४ ॥ वेश्यस्य क्रौर्यवक्रत्वकार्कश्यैः क्रकचोपमाः। सरलच्छेदिनो वैश्या वैरसरणतत्पराः ॥ १५ ॥ निर्माल्यमलिनां जाति वर्जयन्ति शनैः शनैः । वैश्या विप्रविवाहेन ब्राह्मण्याभिनिवेशिनः ॥ १६ ॥ दृश्यते सरलः शङ्खः फणी च विषवर्जितः । कृतान्तः करुणा” वा न तु वैश्यः कदाचन ॥ १७ ॥ जीव्यते कालकूटेन जीव्यते खदिराग्निना । जीव्यते संनिपातेन न तु वैश्येन वैरिणा ॥ १८ ॥ निशिताः सविषा वैश्या रोपनिर्धपधूमिनः । दृश्यन्ते कलिकालस्य कठिना दशना इव ॥ १९ ॥ शूद्राः क्षत्रियतां याता वैश्यतामपरे श्रिताः । विग्राही गुरुतामन्ये होतारो ब्रह्मवादिनः ॥ २० ॥ श्राद्धेषु शूद्राः शूद्राणां भुञ्जते गुरुतापसाः । ब्रह्मखदारहरणे प्रवृत्ताश्च महीभुजः ॥ २१ ॥ शूद्रस्य ब्राह्मणो दासः शिष्यश्च चरणच्युतः । भूमिश्च ब्रह्मदेयाख्या प्रवृत्तमधरोत्तरम् ॥ २२ ॥ इत्येष चातुर्वर्ण्यस्य जातः कलिविपर्ययः । प्रतिलोमेन दृश्यन्ते प्रजानां वर्णसंकराः ॥ २३ ॥ ब्रह्मचर्यमतिकान्तं गृहिणो वेश्ययोपिताः । वानप्रस्थस्थितिर्नास्ति यतीनां संयतिः कुतः ॥ २४ ॥ उक्तं स्वयं भगवता गिरिशेन शास्त्रं यद्वेदविद्भिरधिगम्यमशेषविद्यैः । १. 'तत्कोश' ख-ग. २ 'वैश्यस्य' ख-ग. ३. एतदुत्तरार्धं ख-ग-पुस्तकयोस्त्रुटितम्, ४. ख-ग पुस्तकयोः सर्वत्र 'जीवते' इति पाठः. ५. 'विप्रार्हगुरुता' ख-ग. ६. 'गृहिणां शेषयोषितः' ख-ग. ७. 'वानप्रस्थातिथि: ख-ग. ८. 'अधीतवेदैः' ख.
१६२ काव्यमाला। तन्मे(?) प्रमूर्खगुरवः प्रविहाय कष्टं कुर्वन्ति कल्यकुरवै(?)रुपदेशचर्चाम् ॥ २५ ॥ चक्रस्थितौ रजकवायकचर्मकार- कापालिकप्रमुखशिल्पिभिरेकपात्रे । पानेन मुक्तिमविकल्परतोत्सवेन वृत्तेन चोत्सववता गुरवो वदन्ति ।। २६ ।। लब्धं निर्मलमोक्षधाम मुंनिभिभृग्वगिरःकश्यपा- गस्त्यात्रेयमुखैयुगैरपि न यत्तत्प्राप्तमेवाबुधाः । मन्यन्ते खलु कौलगोलगुरुभिर्ग्रस्तार्थधाराः क्षणा- दुच्छिष्टार्पणवेदधूननकथामात्रेण नियन्त्रणाः ॥ २७ ॥ दम्भः सर्वस्य लोभान्निरवधिरधिकक्रोधकामस्तपस्वी द्रष्टा मूढः सभायां वणिगतिधनतामल्पकालेन यातः । वैद्यः कायोपजीवी गृहपतिरदयः क्रूरकर्माधिकारी बन्धुरोपहारी नवकलिकलिकाकोमलश्रेणिरेषा ॥ २८ ॥ श्माशानव्रततापसार्पितचिताभस्सास्थिचूर्णादिभिः सूनावद्धपशूपमं निजपति निःशङ्कशून्याशयम् । कृत्वा गर्वगृहीतगेहविभवाः प्रागल्भ्यलब्धोदयाः स्वातन्त्र्येण चरन्ति शीलविरहव्यापारधीराः स्त्रियः ॥ २९ ॥ इत्येष विपुलः कालः कलेः प्रबलतां गतः । भगवन्कीदृशः प्रान्ते भविता भविता जनः ॥ ३० ॥ श्रुत्वैतदुक्तं मुनिभिर्देवर्षिस्तानभाषत । यास्यत्यतोऽपि मालिन्यं सहस्रगुणतां कलेः ॥ ३१ ॥ कलिविषतरोः प्रातः प्रातर्धनप्रसरः परं नवनवभरः पाके पाके प्रमोहकृदुत्कटः । १. 'कुदुरैः' ख; 'कुरैः' ग. २. 'मुक्तिः' ख. ३. 'नृत्तेन चोत्पलवता' ख-ग. ४. 'गुरुभिः' ख. ५. 'मानापहारी' ख-ग. ६. 'स्लाना' ख-ग. ७. 'शूद्राशयं' ख-ग. ८. 'काल' ख-ग. है १० कयैवतारः] दशावतारचरितम् । ६ अतिवहलतां पापामोदः प्रयाति सुदुःसहः पतति जनता येनाधोधः कृतेव पदेपदे ॥ ३२ ॥ सप्तवर्षासु नारीषु पुरुषा दशवत्सराः । तनयाञ्जनयिष्यन्ति हस्वाः स्वल्पवलायुषः ॥ ३३ ॥ दरत्तुरुष्कयवनाव(फ)गानशकनन्दनैः । संकोचमेष्यति मही कुष्ठैरिव विसर्पिभिः ॥ ३४ ॥ म्लेच्छाच्छादितसर्वाशा कृपणाक्रन्दनादिनी । मेदःकर्दमिनी क्लेदं रक्तैर्यास्यति मेदिनी ॥ ३५ ॥ तस्मिन्काले निरालोके लोके पापतमोदये। उत्पत्स्यतेऽर्कसंकाशः शिशुः कर्किकुले द्विजः ॥ ३६ ॥ विष्णु भारशान्त्यर्थी सोऽथ विष्णुयशाः क्षितौ । चरिष्यत्यश्वमारुह्य म्लेच्छसंक्षयदीक्षितः ॥ ३७ ॥ तत्खगाघातकृत्तच्युतभुंजशिरसा म्लेच्छयूथाधिपानां रक्तैः प्रक्षाल्य लीनं कलिकलुपजनासङ्गसंक्रान्तपापम् । कङ्कालाङ्का कपालव्यतिकरशवला व्यावलत्केशकन्था त्यक्ष्यत्यन्तेऽनुतापं व्रतमिव दधती भूतभृद्भूतधात्री ॥ ३८ ॥ निर्लेच्छां वसुधां विधाय सकलां देवः स्वयं माधवः फुल्लाशोकदलोज्ज्वलां कृतयुगाविर्भावभव्यां विभुः । लोकानां कुशलोदयाय दशभिः स्वेच्छावतारक्रमै- 'धर्माधानधिया करिष्यति पुनर्भारावतारं भुवः ॥ ३९ ॥ श्रुत्वेति देवर्षिगिरं यथार्थी तथेति निश्चित्य महर्षयस्ते । विष्णोः क्षितौ कर्किकुलावतारनिवेशिताशाः सुखिनो बभूवुः ॥ ४० ॥ इत्येप विष्णोरवतारमूर्तेः कथामृतास्वादविशेषभक्त्या । श्रीव्यासदांसान्यतमाभिधेर्न क्षेमेन्द्रनाम्ना विहितः स्तवाग्र्यः ॥ ४१ ॥ इति श्रीव्यासदासापराव्यक्षेमेन्द्रविरचिते दशावतारचरिते कळवतारो दशमः । १. 'बालकान्' क. २. 'हस्व' क. ३. 'वन्दनैः' क. ४. 'शापपापतमोमये ख-ग. ५. “ककिकुले द्विजः शिशुः' क. ६. 'उत्खड्गाघात' ख-ग. ७. 'प्रत्यक्षन्ती न ताप' ख-ग. ८. 'धर्मादान' ख-ग. ९. 'भिधानक्षेमेन्द्र' ख-ग.
१६४ काव्यमाला । यो मत्स्यकूर्मादिविचित्ररूपैराश्चर्यकारी हृदयस्थरत्नः । श्रीमाननन्तः स्फुटशङ्खचक्रः श्रियेऽस्तु विष्णुविभवोदधिर्वः ॥ १ ॥ कश्मीरेषु बभूव सिन्दुरधिकः सिन्धोश्च निम्नाशयः प्राप्तस्तस्य गुणप्रकर्षयशसा पुत्रः प्रकाशेन्द्रताम् । विप्रेन्द्रप्रतिपादितान्नधनभूगोसंघकृष्णाजिनः प्रख्यातातिशयस्य तस्य तनयः क्षेमेन्द्रनामाभवत् ॥ २ ॥ तेन श्रीत्रिपुरेशशैलशिखरे विश्रान्तिसंतोषिणा विष्णोः स्वल्पविलोकिताकृतिसुधासंवर्धितोत्कण्ठया । वाक्पुष्पैरमलैर्गुणप्रणिहितैरम्लानशोमैः स्थिरै- भक्तिव्यक्तदशावतारसरसः पूजाप्रबन्धः कृतः ॥ ३ ॥ तुतिसंकीर्तनाद्विष्णोविपुलं यन्मयार्जितम् । तेनास्तु सर्वलोकानां कल्याणकुशलोदयः ॥ ४ ॥ ऎकाधिकेऽब्दे विहितश्चत्वारिंशे सकार्तिके । राज्ये केलशभूभर्तुः कश्मीरेवच्युतस्तवः ॥५॥ समाप्तोऽयं ग्रन्थः। १. 'रत्नैः ख-ग. २. 'शक्ति' ख-ग. ३. 'कृत'ख-ग. ४. एकचत्वारिंशन्मिते लौकिकाब्दे १०६६ मिते ख्रिस्ताब्द इत्यर्थः. ५. अनन्तदेवसूनोहर्षदेवपितुः.
No text on this page.