Bharatiya Jnanpith Delhi
Upadesh Saptatih
Front matter
दि.
No text on this page.
No text on this page.
BाजावाजKJEKETERMER TERJEEKERJEEEEEE पण्डितप्रवर-श्रीमत्सोमधर्मगणिविरचिता २० उपदेशसप्ततिः। , MOBER शाखाविशारद जैनाचार्य-श्रीमद्विजयधर्ममूरीधर-शिष्य-आचार्यश्रीमद्विजयमक्तिमूरीधर-उपदेशात् श्री अमदावाद-शाहपुरनिवासिश्रेष्ठिवर्येण शा. उमेदभाई-रामाई नाम्ना स्वधर्मपल्याः शर्करीनाम्न्याः स्मरणार्ये प्रदत्वेन द्रव्यसाहाय्येन प्रकाशिता मोहनलालात्मज-अमृतलालेन संशोधिता-संपादिता च । एवं पुस्तक-महम्मदावादे जैन-सस्तुं-साहित्य-ग्रन्थमालायाः कार्यवाहकेन भीवीरविजयग्रीन्टीगप्रेस-सलापोल- कोसरोटे सांकलचंद्रात्मज-केशवलालद्वारा मुद्रयित्वा प्रकाशितम् । वीर सम्बत्२४६८ विक्रम सम्बत् १९९८ EARNINEERIENTREER NIERRENERJEEDLESSERIENTERPRESCREEN
I - I I
પ્રસ્તાવના
આ પુસ્તકની પ્રસ્તાવના લખવાની જરૂરત એટલા માટે છે કે આ ગ્રંથના કર્તાએ આ ગ્રંથમાં એટલી બધી વસ્તુઓને સંગ્રહ કરી દીધે
છે કે પ્રસ્તાવના વાંચવા માત્રથી જ આ ગ્રંથની મહત્તારના ગ્રંથ-વાચકને થઈ જાય.
જૂદા જૂદા અનેક સંસ્કૃત-પ્રાકૃત ગ્રંથમાંથી ગ્રંથકર્તાએ ઘ| પરિશ્રમપૂર્વક પૂર્વાચાર્યના બનાવેલા ચિત્તાકર્ષક ચરિત્રોમાંથી પૂર્વ મહાપુરુષોના
ઉદાહરણની કથાઓને સંક્ષેપ કરીને અને મહર્ષિઓની ચમત્કારિક અનેક તીર્થોની ઉત્પત્તિ અને સજ્જન પુરુષોનાં ચરિત્રમાંથી ઝરતું ધાર્મિક
રસઝરણું વગેરે વૃત્તાંનો સંગ્રહ કરી પાંચ અધિકારમાં દેવ-ધર્મ—ગુરુ રૂપ ત્રણ નાની રચના ધાર્મિક-નૈતિક-અનિહાસિક-આદિ વિવિધ
વિષાથી ભરેલ ઉપદેશક સ્થાઓ દ્વારા બતાવેલ છે તે વાંચવાથી અને મનન કરવાથી ભાવિક પુરુષોના મનને વિકસાવવામાં અને શ્રદ્ધાયુક્ત
કરવામાં ઘણું જ કારણભૂત બને છે તેમ જ ચોમાસાના સમયમાં સાધુ-સાધ્વીઓને વ્યાખ્યાન વાંચવામાં ઘણું ઉપયોગી છે
આ ગ્રંથન કર્તા મધર્મગણિ છે જેને પ્રત્યક્ષ પૂરાવા તેના પિતાના જ ગ્રંથમાં પ્રત્યેક અધિકારની પાળ इति श्रीपरम-
गुरुतपागच्छनायकश्रीसोमसुन्दरसूरिक्रमकमलमरालमहोपाध्याय-श्रीचारित्रग्नगणिविनेयपरमाणुपण्डिन-श्रीसोमधर्मगणिविरचितायां
श्रीउपदेशसाततो पूजाचतुर्विशतिकारूपः प्रथमोऽधिकारः ॥
ઉપર પ્રમાણેના શબ્દોમાં ગ્રંથકારે ગુરુપરમ્પરા મુચવવા સાથે પિતે આ ગ્રંથ રચ્યો છે તે બતાવેલ છે અને ગ્રંથની આખરે પ્રશસ્તિમાં
પણ બનાવેલ છે કે –
येषां बुद्धिरनुत्तराऽतिविषमग्रन्यार्थसाक्षात्कृति, चेतःमनि दीपिकेव सृजती प्रोजागरा सर्वदा ।
सर्वेषामुपयोगिनी समभवदानप्रदीपस्तथा, प्रन्यो यद्रिहितश्छिनत्ति कृतिनामद्यापि दुष्ट नमः ॥ १५ ॥
સાજુ રે વાવપુરા કૌત્રિરત્ના ગુણો અહીયા દ્વારા જિલ્લા, દુર્વા રૂપાવટી ૨૬
तदातर सकलकोविधमाननीयाः,पूज्या जयन्त्युदयशेखरपण्डितेन्द्राः।जममापि जडिमाहदयपरूढा,भास्वद्रिरात्मशुचिगोभिरनुत्तरायः॥१७॥
: पाम्मा.हचञ्चराका, शिष्याऽभवत् पाण्डतसामघमः । शास्त्राणि भूयास्याप यो बभाण, मर्माणि तेषां न विवेद किन्तु ॥१८॥ उपदेशसप्ततिरियं रुचिरा गुणबिन्दुबाणचन्द्रमिते १५०३ । वर्षे तेन प्रथिता, कृतार्थनीयाविबुधधुर्यैः ॥ १९ ॥ ઉપરના પાંચ ઍકેથી જાણી શકાય છે કે આ ઉપદેશ સમિતિના રચનાર હત તપાગચ્છનાયક શ્રી સોમસુંદરસસ્પિરન્દરના શિષ્ય અપાધ્યાય શ્રીમદ્દ ચારિત્રરત્નગણિના શિષ્યરત્ન શ્રીમમધર્મ ગણી છે એ વાત તદ્દન સ્પષ્ટ છે. ઉપરની પ્રશસ્તિના ઓગણીશમાં બ્લેકને વાંચવાથી તેમને સમય પણ સમજી શકાય છે કે તેઓ વિક્રમ સં. ૧૫૦૩ માં થઈ ગયા છે. આ સિવાય બીજા ગ્રંથો આ ગ્રંથકર્તાના છે યા નહીં તે સાંભળ્યું પણ નથી તેમ જોવામાં પણ આવેલ નથી એટલે કંઈપણ નિર્ણય કર સંય નથી આ ગ્રંથની અનુક્રમણિકા જૂદી આપી છે એટલે કઈ કઈ બાબતે આ ગ્રંથમાં છે તે અહીં બતાવી ગ્રંથનું કદ વધારવા અને વાચકને બેવડા સમય વ્યય કરાવવાને પરિશ્રમ અહીં કરતું નથી. તેના જિજ્ઞાસુઓએ અનુક્રમણિકા વાંચી લેવી. આ ગ્રંથ છાપવાના પુણ્યકાર્યમાં અમદાવાદ શાહપુરના રહેવાસી શેઠ ઉમેદભાઈ ભુરાભાઈએ પોતાની ધર્મપત્ની ચકરી એનના સ્મરણાર્થે લક્ષ્મીને સદ્વ્યય કર્યો છે અને ભાવિક જનેના ધર્મકાર્યમાં ઉત્સાહ પૂરક કાર્ય કરી લાભ લીધે છે તે માટે તેઓને અનેકશઃ ધન્યવાદ આપું છું, વળી આ ગ્રંથ શોધવામાં આચાર્ય મહારાજ વિજયભક્તિસૂરીશ્વરજી તથા તેમના શિષ્ય પં. સુમતિવિજયજી પણ અમને સહાયક થયા છે તેથી તેમને પણ આભાર માનવામાં આવે છે. આ ગ્રંથ સંપાદન સમયે આત્માનંદ સભા તરફથી છપાયેલી ઉપદેશ-સપ્તતિકાની પ્રતિ ઘણી ઉપયોગી નીવડી છે તથા છપાવવા માટે ૫. ચતુરવિજયના પ્રશિષ્ય મુનિરાજ શ્રી સૌભાગ્યવિજયજીની પ્રતિ મળી છે જેથી તેમને તથા આત્માનંદ સભાને આભાર માનવામાં આવે છે. અગાઉ છપાયેલ કાપીની ધણી ખરી અશુદ્ધિઓ અહીં શુદ્ધ કરવામાં આવી છે છતાં દૃષ્ટિદોષથી યા પ્રેસની ભૂલથી રહી ગઈ હોય યા નવી થઈ હોય તે માટે ક્ષમાને પાત્ર છીએ. લી. સંસેવક ૫. અમૃતલાલ મોહનલાલ સંઘવી માવજ ॥ अहम् ॥ ॥ अथ उपदेशसप्ततिविषयानुक्रमोपक्रमः॥ पृष्ठाकाः पृष्ठाम: :: ४ उपदेशाः विषयाः ॥देवतत्त्वे प्रथमाधिकारपक्रमः ।। १ श्रीजिनातिशयरूपमाङ्गल्योगावनम् २ सम्यक्त्वप्राप्तिविषये हालिकोदाहरणम् ३ सम्यक्त्वोपरि श्रीअम्बिकाख्यानम् ४ जिना करणनिश्चये धनदश्रेष्ठिनिदर्शनम् ५ जिनाष्टविधपूजाविधाने बान्धवाटकथानकम् ६ जिनपादवन्दनाभिसन्धौ दर्दुराकदेवकथा ७ जिनाल्पपूजाविषये श्रीकुमारपालदेवकथा ८ अज्ञानविहितजिनपूजोपरि देवपालकथा ९ जिनप्रतिमावर्शनविषये श्रीशय्यभवोदाहरणम् १० गतानुगतविहितजिना विषये कीरयुग्मकथा " सक्रोधपूजाविषये धामनधेष्ठिरष्टान्तः ... उपदेशाः विषयाः १३ द्रव्यपूजाविषये नमिविनम्योरुदाहरणम् १४ हीनपुष्पैः पूजाकरणे भूवल्लभनृपकथा १५ जिनदीपेन गृहकार्यकरणे करभीकथा १६ सुभावेन पूजाकरणेऽशोकमालिकथा १७ निर्विवेकभक्तिविषये श्रीधरकथा १८ अस्वास्थ्यचित्तेन पूजाकरणे जिणहाप्रबन्धः... १९ देवद्रव्यपरिभोगे भ्राहखयोदाहरणम् २० देवद्रव्यपरिभोगे परसमयोक्तकुक्कुरकथा २१ जिना नियमपालने श्रावककथा २२ समत्सरजिनपूजाकरणे कुन्तलोदाहरणम् २३ जिनपूजाध्यानकरणे दुर्गताकथा २४ भावाभावेन जिनप्रणामकरणे श्रेषित ... ... ... ... २२ ... १२ Gum पृष्ठा ... ...४४ २७ २८ ... उपदेशाः विषयाः पृष्ठाकाः ॥ देवतत्त्वे तीर्यरूपद्वितीयाधिकारप्रक्रमः॥ १ श्रीरैवतदैवतचैत्यजीर्णोद्धारे सजनदण्डनायकप्रबन्धः... २४ २ श्रीशत्रुञ्जयमहातीर्थोद्धारे वाग्भटमन्त्रिप्रबन्धः २५ ३ श्रीशकुनिविहारतीर्थोद्धारे श्रीआम्रदेवमन्त्रिप्रबन्धः ४ श्रीअर्बुदगिगै पुनस्तीर्थस्थापने विमलदण्डना नायकप्रबन्धः ५ श्रीअर्बुदगिरी श्रीनेमिचैत्यकरणे वस्तुपालतेजःपाल- मन्त्रिप्रबन्धः २९ ६ श्रीजीरापलिनीर्थोत्पत्तिप्रबन्धः ३० ७ श्रीफलवधितीर्थोत्पत्तिप्रबन्धः ३२ ८ श्रीरासणतीर्थोत्पत्तौ पासलिश्रावकप्रबन्धः ३३ श्रीकलिकुण्डतीर्थोन्पत्तिप्रबन्धः १. श्रीअन्तरिक्षतीर्थोत्पत्तिप्रबन्धः ३५ ११ श्रीमाणिक्यदेवतीर्थोत्पत्तिप्रवन्धः १२ श्रीस्तम्भनकतीर्थोत्पत्तिप्रबन्धः ३७ १३ श्रीशान्तिजिनजीर्णचेत्योबारे रामशेष्ठिप्रबन्धः उपदेशाः विषयाः १५ श्रीजगइतीर्थयात्राप्रबन्धः ... १६ श्रीभरतचक्रवर्तितीर्थयात्राप्रबन्धः १७ श्रीतीर्थयात्रायां आभूमन्त्रिप्रवन्धः द्वितीयाधिकारसमाप्तिः ॥ गुरुतत्वे तृतीयाधिकारप्रकमः ॥ १ गुरुगुणोत्कीर्तने पद्मशेखरनृपोदादरणम् २ गुरुवन्दनकदाने श्रीकृष्णवासुदेगेदाहरणम् ३ गुरुपादपर्युपासने नागार्जुननिदर्शनम् ४ गुर्वादिभक्तिविषये मन्त्रिपेथडदेवप्रबन्धः जिनशासनप्रभावनायां श्रीजिनप्रभसूरिप्रवन्धः तृतीयाधिकारसमाप्तिः ॥ धर्मतत्वे चतुर्याधिकारप्रक्रमः ।। १ नमस्कारविषये श्रीदेवकुमारोदाहरणम् २ कषायविषये कुम्भकारकथा ३ क्रोधविषये सूरब्राह्मणनिदर्शनम् ... ... ... ... ... ... ...
... 1 उपदेशाः विषयाः पृष्ठाकरः ५ मायायां पापबुद्धिकथानकम् ६ लोभविषये सागरश्रेष्ठिकथा ७ गुणोपार्जने तुरजमोदाहरणम् ८ गुणिमत्सरे पत्तनीयब्राह्मणोदाहरणम् ९ वचनचातुर्ये डामरदूतोदाहरणम् १० न्याये यशोवर्मोदाहरणम् ११ पर्वानुष्ठाननिश्चये सूर्ययशोनरेन्द्रनिदर्शनम् १२ विधिपूर्वकधर्मानुष्ठाने कामधेनुकथा चतुर्थाधिकारसमाप्तिः ॥ धर्मतत्त्वे पश्चमगृहस्थधर्माधिकारप्रक्रमः॥ १ दानविषये धर्मराजनिदर्शनम् २ अनुकम्पायां कपोतदम्पतीकथा ३ धर्मरताविषये कुलानन्दकथा ५ यतनायां मृगसुन्दरीकथा परुषभाषणे जननीतनूजोदाहरणम् उपदेचा विषयाः ६ सत्यमाषणे जगत्सिहप्रवन्धः ७ शपथाऽकरणे मदनसिंहप्रबन्धः ८ अदत्तविषये व्यवहारिचतुष्ककथा ९ अब्रह्मविषये तापसोदाहरणम् १० परिग्रहपरिवर्जने विद्यापतिकथा ११ रात्रिभोजननियमाराधनविराधने मित्रत्रयकथा १२ सामायिकविषये केसरीचौरोदाहरणम् १३ प्रतिक्रमणनियमपालने प्रथिलभीमदेवमन्त्रिसजनो- दाहरणम् १४ पौषधवतपालने सुदत्तकथानकम् १५ सुपात्रदाने भद्रकशेष्ठिनिदर्शनम् १६ साधर्मिकवात्सल्ये दण्डवीर्यकथा १७ ज्ञानसाधारणद्रव्यभक्षणे जिनदत्तजिनदासश्राद्ध- योदाहरणम् पचमाधिकारसमाप्तिः प्रन्थकारप्रशस्तिः ८० ... ८१ ८४ ८७ ...
1: अहम् ॥ ॥ अनंतलब्धिनिधानाय श्रीगौतमस्वामिने नमः॥ ॥ श्रीमत्सोमधर्मगणिविरचिता उपदेशसप्ततिका ॥ श्रीसोममुन्दरगुरूज्ज्वलकीर्तिपूरः, श्रीवर्द्धमानजिन एष शिवाय वः स्तात् । मव्या मवन्ति मुखिनो यदुदाहत श्री-चारित्ररलममलं परिपालयन्तः ॥ १॥ श्रीरनशेखरगुरुप्रवरा जयन्तु, नैकक्षमाधरनिषेव्यपदारविन्दाः । ऐदंयुगीनमुनिषु प्रवरक्रियेषु, श्रीसार्वमौमपदवीं दधतेऽधुना ये ॥ २ ॥ कयामबन्धादिषु भूरिविस्तरे-वनादरं ये दधतेऽल्पमेधसः। हिताय तेषामुपदेशसप्ततिः, प्रारभ्यते सर्वजनोपयोगिनी ॥३॥ सम्यक्त्वमूलं देवादि-तचत्रयमुदाहृतम् । तस्य स्वरूपं ज्ञातव्यं, सम्यग्ध्येयं च तत्रिधा ॥४॥ देवतत्त्वे गुरौ तत्त्वे, धर्मतत्त्वे तृतीयके । द्वावेको द्वौ च वक्ष्यन्ते-ऽधिकारा अत्र पश्च तु ॥ ५॥ पूजाचतुर्विंशतिकात्र वाच्या, प्राच्ये कियत्तीर्यनुतिदितीये । गुरुस्तृतीये द्विविधश्च धर्म-स्तुयें तथा पञ्चमकेऽधिकारे । ६॥ अहंद्गुणस्मृतिध्यान-यात्राचै- त्यस्तवार्चनैः । सद्धर्मगुरुसेवाघैः, सम्यक्त्वस्थिरता मवेत् ॥ ७ ॥ प्रायः कुटुम्बधनधान्यमुवर्णरत-पायेषु वस्तुषु उपदेश- सप्ततिका - नृणां मुलभो विवेकः । सद्देवधर्मगुरुतत्वविवेचने तु, केपाश्चिदेव मतिरुल्लसितं तनोति ॥८॥ विधीयमानं गुणव- जनार्चनं, पुंसामसीमास्तनुते सुसम्पदः । गुणाश्च सम्पूर्णतया जिनं विना, न स्युस्ततोऽयों भविकैजिनेश्वरः ॥९॥ यजन्मावसरे देवा, देव्योऽनाकारिता अपि । आगत्य सर्वे कुर्वन्ति, प्रौढोत्सवपरम्पराः ॥ १० ॥ ज्ञानदर्शनचारित्र- प्रमुखा सद्गुणावली । विलक्षणाऽन्यदेवेभ्यो, येषां जागय॑ऽनुत्तरा ॥ ११ ॥ तथाहि- छत्रत्रयं शिरोदेशे, पार्श्वयोश्वामरावली । नवग्रही च पादान्ते, देवस्याऽन्यस्य नेक्ष्यते ॥१॥ मण्डपाष्टशतं चैत्ये, स्थित्यै वपत्रयी वरा । गत्यै स्वर्णनवाम्भोजी, देवस्याऽन्यस्य नेक्ष्यते ॥२॥ धर्मचक्र पुरो भास्वत् , पृष्ठे भामण्डलं पुनः । उच्चैरिन्द्रध्वजो व्योम्न, देवस्यान्यस्य नेक्ष्यते ॥ ३ ॥ जयत्यतिशयश्रेणी, यदीया जगदद्भुता । लक्षणानां दशशती, येपामष्टाधिका पुनः ॥ १२ ॥ यदुक्तम्- चउरो जम्मप्पमिई, इक्कारस कम्मसंखए जाए । नवदस य देवजणिए, चउतीसं अइसए वंदे ॥१॥ तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च । श्वासोजगन्धो रुधिरामिषं तु, गोक्षीरधाराधवलं पवित्रम् ॥२॥ आहारनीहारविधिस्त्वदृश्य-श्चत्वार एतेऽतिशयाः सहोत्याः । क्षेत्रे स्थिनिर्योजनमात्रकेऽपि, नृदेवतिर्यग्जनकोटिकोटेः ॥३॥ वाणी नृतिर्यक्सुरलोकमाषा-संवादिनी योजनगामिनी च । मामण्डलं चारु च मौलिपृष्ठे, विडम्बिताइपतिमण्डलथि ॥४॥ साग्रे च गव्यूतिशतद्वये रुजा, वैरेतयोमार्यतिवस्यवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भय, स्यात एकादश कर्मघातजाः ॥५॥ खे धर्मचक्रं चमराः सपाद-पीठं मृगेन्द्रासनमुज्ज्वलं च । छन्त्रत्रयं रत्नमयध्वजों हि-न्यासे च चामीकरपङ्कजानि ॥६॥ .. .
वस्त्रयं चारु चतुर्मुखाङ्गता, चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । द्रुपानतिर्दुन्दुमिनाद उचकै- तोऽनुकूलः शकुनाः प्रदक्षिणाः ॥७॥ गन्धाम्बुवर्ष बहुवर्णपुष्प-वृष्टिः कचश्मश्रुनखाऽप्रवृद्धिः । चतुर्विधाऽमर्त्य निकायकोटि-र्जघन्यमावादपि पार्श्वदेशे ॥८॥ ऋतूनामिन्द्रियार्थाना-मनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्या-चतुर्विंशच मीलिताः ॥९॥ येषां पञ्चाधिकत्रिंश-द्वचनातिशयाः पुनः । भ्राजन्तेष्टाङ्गयोगच, येषां तादात्म्यमीयिवान् ॥ १३ ॥ यथाव- स्थितवस्तूनां, व्यवस्थापनतत्परम् । अनेकान्तमतं येषां, जागय॑द्यापि सिंहवन् ॥१४॥ लोकेषु शान्तिकाचं, यच चतुर्विंशिकादिलिखनेन । स जिनातिशयानां खलु, महिमा तत्संख्यया क्षेयः ॥ १५ ॥ इति सदतिशयसमृदि, प्रतिप्रभातं जिनाधिनाथानाम् । ये संस्मरन्ति मनुजा-स्ते स्युः श्रेयोभिराव्यतमाः ॥ १६ ॥ ॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे श्रीजिनातिशयरूपमाङ्गज्योपदेशः प्रथमः ॥१॥ मो भव्या ! यदि वः शिवं जिगमिपा सम्यक्त्वमेकं तदा, स्वस्वान्ते ध्रियतां स्थिरं किमपरैर्वाह्यक्रियाडम्बरैः । अन्तःसागरकोटिकोटिविहितायुर्वर्जकर्मस्थितौ, यल्लभ्यं प्रतिभूश्च मोअविषये तस्मिन् कथं नादरः १ ॥१॥ बलादपि श्राद्धजनस्य दीयते, सद्दर्शनं सर्वमुखैकजन्मभू । व्यदीपद्वीरनिनस्तदुद्यम, श्रीगौतमेनापि न कि कृषीवले १ ॥२॥ एकदा श्रीमहावीरः, कल्पडरिव जङ्गमः। पोचे कुर्वन् तु विहारं मागगें श्रीगौतमं प्रति ॥१॥ यः पुरः प्रेक्ष्यते वत्स 1, वराकोऽयं कृषीवलः । त्वत्तस्तस्य महांल्लाभो, मावी तद्गच्छ सत्वरम् ॥२॥ तत्तथेति प्रतिपद्य, मौतमस्तत्र आगच्छ मित्र ! तद्वित्तं, यथा सम्प्रति गृह्यते ॥ ११ ॥ स्थानद्वयं तदालोक्य, रिक्तं प्राह स पापधीः । आः केनापि हृतं वित्त-मावयोर्जीवितोपमम् ॥ १२ ॥ तं धिगस्तु स पापात्मा, म्रियतां किं करिष्यते । विलापान्कृत्रिमानेवं, स सत्या- निव निर्ममे ॥ १३ ॥ अथाऽब्रवीत्स पापात्मा, धाम्मिकं धर्मबुद्धिकम् । रे धर्मधूर्त! रे दुष्ट !, तवैवैतद्विजृम्मितम् ॥ १४ ॥ धर्मबुद्धिरपि प्राह, भ्रातः ! विमिदमुच्यते । नेदृशं मादृशं कर्म, किन्तु कस्यापि पापिनः ॥ १५ ॥ जातो विवाद उमयो-र्गतौ राजकुले च तौ। पापबुद्धिस्तदा प्राह, चौरोऽयं धर्मबुद्धिकः ॥ १६ ॥ प्राहुनियोगिनः साक्षी, युवयोः कोऽपि विद्यते । पापबुद्धिरभाषिष्ट, साक्षिणो वननाकिनः ॥ १७॥ शुद्धबुद्धिधर्मबुद्धि-स्तदा चेतस्यचिन्तयत् । अहो! धृष्टत्वमेतस्य, अहो ! कपटपाटवम् ॥ १८ ॥ मम श्रीधर्म एवात्र, सखाऽन्यः किं सहायकैः। प्रातः परीक्षा कर्तव्ये-त्यादि भूपादयोऽनुवन् ॥ १९ ॥ पापबुद्धिस्ततः प्राह, रात्रौ स्वजनकं प्रति । प्रारब्धोऽयं मया कूट-कलहो निखि- लोऽपि हि ॥ २० ॥ कथं कर्तासि तातेने-युक्तः स प्राह दुधीः । त्वं तात! विपिने गत्वा, प्रविश क्वापि कोटरे ॥ २१ ॥ राजादीनां पृच्छतां च, त्वया वाच्यमिति प्रगे। निष्कलङ्कः पापबुद्धि-धर्मबुद्धिस्तु तस्करः ॥ २२ ॥ तेनेति शिक्षितस्तात- स्तथैव निखिलं व्यधात् । प्रत्यूषे मिलिते लोके, स ऊचे च तथैव तत् ॥ २३ ॥ इतस्ततो विलोकन्ते, न च पश्यन्ति कञ्चन । लोकाः सर्वेऽपि साश्चर्या-स्तूर्णमुत्कर्णतां दधुः ॥ २४ ॥ सहसोत्पनबुद्धिरतु, धर्मबुद्धिरतदाऽवदत् । राजानं प्रति देवेदं, कोटरं ज्वालयिष्यते ॥ २५ ॥ देवो वा मानवो वापि, यथा प्रत्यक्षतां व्रजेत् । इत्युक्त्वा सहसोत्थाय, यावत्तज्ज्वालयत्यसौ ॥२६॥ तावत्स जनकस्तस्मा-त्कोटरा निर्गतः क्षणात् । कर्मणा प्रेरितो जीवो, जनन्या उदरादिव ॥ २७॥ तदानीं तं नृपोऽपृच्छ- .
उपदेश- सप्ततिका. 4॥५७॥ दरे ! किमिदमद्भुतम् । सोऽपि वृत्तान्तमाचख्यौ, दुःसुतप्रेरणादिकम् ॥ २८ ॥ तं तत्सुतं च ते लोकाः, धिक्कुर्वन्तीति रे ! युवाम् । अकृशाथामिदं किं य-न्मित्रेऽपि द्रोहकारिता ॥ २९ ।। पापवुद्धिस्ततो राज्ञा, मार्यमाणोऽपि वारितः । लगित्वा पादयोधर्म-वुदिना शुद्धबुद्धिना ॥ ३० ॥ धर्मबुद्धेस्तदा श्लाघां, निन्दा पापमतेस्तथा । भूपाद्याश्चक्रिरे माया, कटरेऽत्रैव दुःखदा ॥ ३१ ॥ एवं बभूवाऽशठवक्रमावयुग, तन्मित्रयुग्मं सुखदुःखभाजनम् । मायां भुजङ्गीमिव दूरतस्ततो-ऽवदातचिचा- स्त्यजत हुतं जनाः ! ॥ ३२ ॥ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे पश्चम उपदेशः ॥५॥ यो द्वादशं यावदुपागतो गुण-स्थानं निषेधं स्थिरसंविदः सृजेत् । इहाप्यमुत्रापि विडम्बयेन कं, स लोभवैरी किल सागरं यथा ॥ १ ॥ सागरः सादरो द्रव्यो-पार्जने धर्मवजितः । अभूचठ्ठीमन्दिरे श्रेष्ठी, द्रव्यकोव्यष्टकप्रभुः ॥१॥ परं कदर्यमूर्धन्यो, न भुंक्ते न ददाति च । कपाटपिहितं प्रायो, द्वारं तस्य सदा भवेत् ।।२॥ गृह एव स्थितस्यास्य, दृष्टौ कोऽपि करोति न । भोजन- स्नानदानादि, याचकः कोऽपि नैति च ॥ ३॥ कमला गृहिणी तस्य, देविलस्तनयस्तयोः । विमला तत्त्रिया सर्वे-ऽप्येते तच्चकिताः सदा ॥४॥ तत्र श्वश्रू-वधू द्वौ ते, मन्त्रतन्त्रविशारदे । अनेकाभिः कुविद्याभिः, स्वैराचारे बभूवतुः ॥ ५॥ योगिन्येकाऽन्यदा तस्य, विजने गृहमागता । श्वश्रूवधूभ्यां सा पृष्टा, सादरं नतिपूर्वकम् ॥ ६॥ स्वामिन्यत्र गृहे दत्त-द्वारे XII.
त्वं कथमागता । साप्याह मम विद्यास्ति, साधारा व्योमगामिनी ॥ ७॥ ताभ्यां तस्याश्च सा विद्या, गृहीता बहुमानतः । एकं च शुषिरं दारु, विद्यते तद्गृहे महत् ॥ ८॥ तस्मिन्नारुह्य तद्दत्त-मन्त्रशक्त्या च ते उभे । निशीथसमये यातः, क्रीडार्थ स्वेप्सिते पदे ॥ ९॥ एकदा कायचिन्तार्थ, निशीथे पुत्र उत्थितः । मुप्ताशेषजनेऽद्राक्षी-त्कौतुकं रहसि स्थितः ॥ १० ॥ श्वश्रूवध्वौ तदोत्थाय, सौत्सुक्यं निभृतक्रमम् । त्वर्यतां त्वर्यतामेव-मूचतुश्च मिथो मुदा ॥ ११ ॥ सोऽप्यभूद्यावदुत्कर्णः, श्वश्रूस्तावदुवाच ताम् । अरे! काष्ठमिदं शीघ्रं, सजीकुरु पुरो भव ॥ १२ ॥ आत्मनामस्ति गन्तव्यं, दूरे तन्मा विलम्बय । इत्युक्त्वा ते उभे तत्रा-रूढे तन्मन्त्रपूर्वकम् ॥ १३ ॥ तत उत्पतिते व्योम्नि, व्यन्तर्याविव ते उभे । इत्याश्चर्यं तदालोक्या- ऽचिन्तयद्देवलस्तदा ॥ १४ ॥ अहो ! किमेते शाकिन्यौ, पापिन्यौ पतिवश्चिके । गते कुत्र कदा पश्चा-देते चात्रागमिष्यतः ॥१५॥ इत्यसौ जाग्रदेवास्थात्, तत्र ते यावदागते । ततः क्षणान्तरे जातः, प्रातःकालो विकस्वरः॥ १६ ॥ स तयोस्तादृशं वृत्तं, न कस्यापि न्यवेदयत् । परेषां दूषणानीव, प्रायश्चित्तपदो गुरुः ॥ १७॥ स कौतुकी द्वितीये तु, दिने जाते तमोभरे । मागेव शुषिरे तत्र, प्रौढे काष्ठे प्रविष्टवान् ॥ १८ ॥ तथैवारुह्य ते तत्र, जग्मतुः स्वेप्सितं पदम् । प्रवृत्ते क्रीडितुं मुक्त्वा, तत्काष्ठं क्वापि भूतले ॥१९ ।। अन्या अपि स्त्रियः सन्ति, मिलितास्तत्र भूरिशः । चिरं क्रीडारसस्ताभि-चक्रे तत्राविशङ्कितम् ॥ २० ॥ तत्कोटराद्विनिर्गत्य, तत्कोटराद्विनिर्गत्य, कुमारोऽपि भ्रमन् क्वचित् । स्वणष्टिकाभिराकीर्ण-मिष्टिकापाकमैक्षत ॥ २१॥ उत्फुल्लनयनश्चेत-स्यचिन्तयदयं तदा । स्वर्णद्वीपो ह्ययं नूनं, श्रूयते यो जनोक्तिभिः ॥ २२ ॥ यः प्राप्य क्लेशकोटीमि- निःस्वैः स्वप्नेऽपि नेक्ष्यते । अयत्नेनापि सम्प्राप्तो, मया माग्यं महन्मम ॥ २३॥ द्वित्राः स इष्टिकाः सारा, ..
उपदेश-
सप्ततिका.
सन्तोषी जगृहे ततः। मनस्वी नहि लोमी स्यात् , सति लाभेऽपि भूयसि ॥ २४ ॥ तथैव कोटरे तत्र, स संलीनवपुः
स्थितः। स्वाङ्गोपाङ्गानि सङ्कोच्य, प्रावृषीव महामुनिः ॥ २५॥ क्रीडित्वा सुचिरं ते अ-प्यागते तत्र निर्भये । तथैवोत्पतिते
व्योम्नि, क्रमाच्च गृहमागते ॥२६॥ प्रातःकाले कुमाररत-वृत्तज्ञापनपूर्वकम् । स्वपित्रेऽदर्शयत्स्वर्णं, विस्मितः सोऽपि तं जगौ
॥ २७ ॥ अरे मूर्ख ! त्वया रतोक-मिदमात्तं कथं हहा ! । यत्नं विनापि हस्ताप्तं, धनं को नाम मुञ्चति ॥ २८॥ अद्या
तत्र यास्यामि, तल्लास्यामि यथेपिमतम् । दारिद्रय द्रावयिष्यामि, निश्चिन्ता हि भवादृशाः ॥ २९ ॥ इत्युक्त्वोत्थितवान् श्रेष्ठी,
लोभक्षोमवशंवदः । तद्धधानलीनस्तदह-न्यभूत्तन्दुलमत्स्यवत् ॥ ३०॥ निशीथिन्यां तथैवैष, तत्काष्ठान्तः प्रविष्टवान् ।
प्रस्थितः सह ताभ्यां च, तं प्रदेशमुपागमन् ॥ ३१ ॥ ततो निर्गत्य पुत्रोक्ता-भिज्ञानादि स्मरन् हृदि । इष्टिकापाकमद्राक्षीत् ,
प्रत्यक्षमिव रैगिरिम् ॥ ३२ ॥ हृष्टस्तद्दर्शनाच्छ्रेष्ठी, ह्यसन्तुष्टः स इष्टिकाः । गृहीत्वा तत्तथा बभ्रे, कष्टेनामात्स्वयं यथा ॥३३॥
तथैव चश्रूवध्वौ ते, चलिते स्वपुरीमभि । उदन्वदुपरि प्राप्ते, यावत्तावद्वधरवक् ॥ ३४ ॥ केनापि हेतुना मातः!, काष्ठमद्य
महाभरम् । न चलत्यग्रतः शीघ्रं, श्वश्रूरप्याह तां प्रति ॥ ३५ ॥ अरे ! त्यजैतदत्रैव, यच्चैतत् प्रेक्ष्यते तरत् । गृहाण काष्ठं
तद्यावो, यथा शीघ्रं पुरे निजे ॥ ३६ ॥ अथ भीतोऽवदच्छेष्ठी, मा मां क्षिपतमम्बुधौ । उपलक्ष्य तमन्योऽन्यं, ते ब्रूतस्त्वं क्व
रे
इह
१ ॥३७॥ सुतरां कूपिते तस्मा-द्विगोपनभयादिमे । सकाष्ठं तं परित्यज्य, तत्र ते गृहमागते ॥३८॥ अन्यत्राप्युक्तम्-
अतिलोभो न कर्त्तव्यो, लोभं नैव परित्यजेत् । अतिलोमाभिभूतात्मा, सागरः सागरेऽपतत् ॥१॥
क्रमेण ज्ञातवृत्तान्तो, भीतस्ताभ्यां सुतोऽपि सः । परिव्रज्यामुपादाय, जातः सुखनिकेतनम् ॥ ३९ ॥ लोमस्याप्येवमा-
॥५८॥
कर्ण्य, विपाकं विबुधा जनाः। सन्तोषामृतपूरेणाऽऽत्मानं सिञ्चत सर्वदा ॥४०॥ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे षष्ठ उपदेशः ॥ ६ ॥ श्रीधर्मतत्त्वं गुणिनां नृणां पुरः, प्रोक्तं प्रदत्तं च हितावहं द्वयोः । तदुज्झितानां पुनरेतदुक्तयो, वृथाऽऽमकुम्भस्थपयोमरा यथा ॥१॥ एकलजागुणेनापि, यद्यश्वो बहुमानितः । ये तु भूरिगुणैर्लोक-मियास्तेषां किमुच्यते ॥२॥ अस्ति पृथ्वीपुरं तत्र, राजा श्रीरिपुमर्दनः। अर्थिप्रत्यर्थिनो येन, दानमेव वितीर्यते ॥१॥ तस्यास्ति श्रीमुखी नाम, वडवा लक्षणान्विता । यस्याः किशोरकाः प्रायो, जायन्ते जात्यघोटकाः॥२॥ गर्भ बभार साऽन्येद्यु-रश्वं विश्वगुणान्वितम् । अद- भ्रमभ्रमालेव, स्वाङ्के पङ्कजबान्धवम् ॥ ३॥ सगर्भा तां च स क्ष्मापो-ऽन्यदाध्यारुह्य वेगतः। अश्ववाहनिकाहेतो-जंगाम नगरादहिः॥ ४॥ अहंपूर्विकया तत्रा-ऽश्ववारैरपरैरपि । अश्वेषु प्रेर्यमाणेषु, कृतकोलाहले जने ॥५॥ भारपीडितगात्रत्वात् , गति मन्दां वितन्वतीम् । जघान कशया सद्य-स्तामपि स्पर्द्धया नृपः॥६॥ कालक्रमेण सुषुवे, साऽश्वरत्नमनुत्तरम् । समग्र- गुणयोगेऽपि, काणं दक्षिणचक्षुषा ॥ ७॥ वास्तव्याऽऽगामुका लोका-स्तं किशोरकुमारकम् । दर्श दर्श प्रशंसन्ति, जात्योऽयं भविता हयः ॥ ८॥ परमस्यापि दैवेन, कृतं काणत्वदूषणम् । रत्नदोषी विधिरहो !, यदन्यत्रापि पठ्यते ॥९॥ शशिनि खलु कलङ्कः कण्टकाः पद्मनाले, उपदेश- सप्ततिका. एवं लोककृताः श्रुत्वा, स प्रशंसास्तुरङ्गमः। आगत्य मातुरभ्यर्ण, निजगाद सगद्गदम् ॥ १०॥ मातः ! कथय मे जातं, कथं काणत्वदूषणम् ? । निबन्धे सति साप्याह, तत्स्वरूपं स्वभाषया ॥ ११ ॥ यदा त्वं वत्स ! गर्भेऽभू-स्तदा मह्यमसौ नृपः। कशाघातं ददौ स त्व-चक्षुःस्थाने समागतः ॥१२॥ तेन त्वमक्ष्णा काणोऽभू-नान्यथा भवितव्यता। इति श्रूत्वा स तेजस्वी, भृशं रोषारुणो जगौ ॥१३॥ मातः ! कोऽयं नृपपशु-र्यस्त्वामप्यपराध्यति । सुप्तः प्रबोधितः सिंह-स्तदनेन मुमूर्षुणा ॥१४॥ न चेद्यापादयाम्येन-मचिरेण तदा तव । न भवामि सुतो मातः 1, सस्नेहं साऽप्युवाच तम् ॥ १५॥ मा वादीरिति येनार्य, राजा विश्वोदरंभरिः । आवां पशू अयं त्वात्म-स्वामी निर्वाहकारकः ॥१६॥ मम जातेन केनापि, स्वामिद्रोहो न निर्मितः। कोहमसच्चं कुग्विज्जा, शास्त्रेऽप्येवं यदुच्यते ॥ १७ ॥ तदुक्तिमित्याक]ष, भस्मच्छन्नाग्निवन्मनाक् । अभूच्छान्तो नहि क्रोधो, धीराणामुपयाम्यति ॥१८॥ श्रुतो व्यतिकरश्चाय-मासनस्थेन भूभुजा । तिर्यग्भाषापरिज्ञाने, देवादेशोऽस्ति तस्य यत् ॥१९॥ मम नूनमसौ शत्र-विषमे क्वापि मामयम् । हनिष्यतीति नात्राहं, चटिष्यामि कदाचन ॥२०॥ विमृश्येति कियत्काल, मुखेन व्यत्यलङ्घयत् । भूपः किशोरकोऽप्येष, जातो जात्यतुरङ्गमः ॥ २१ ॥ अन्यदा जलपानार्थ, नीते निखिल साधने । स एवा- योऽभवद्गहे, तदा बुम्बारवोऽमवत् ॥ २२ ॥ भो भोः सुमटकोटीराः !, द्रुतं धावत धावत । जगृहे गोधनं सर्व, परिपन्यिमि- रुद्धतैः ॥ २३ ॥ तदा च व्याकुलत्वेन, स एवाऽश्वः क्षमाभुजा । अधिकारिनरैः सज्जः, कारितो वाहराकृते ॥ २४ ॥ गच्छन्न- योऽब्रवीत् स्वाम्बा, पश्य मातः ! पुरातनम् । वैरं निर्यालयाम्यद्य, सापि सप्रश्रयं जगौ ॥ २५ ॥ वत्स ! गच्छ सुखं तेऽस्तु, जातिस्ते वारयिष्यति । प्रकृताविह जातानां, विकृतिर्नोपजायते ॥ २६ ॥ क्षणात्पर्याणयांचक्रे, भूपस्तं सपरिच्छदः । बहिश्च .
जग्मिवान्यत्र, विद्यन्ते ते रिपुव्रजाः ॥ २७ ॥ भूपेन हकिता योधु, संमुखास्ते डुढौकिरे । एषोऽपि तैः समं युद्ध-क्रीडाको- तुकमन्वभूत् ॥ २८ ॥ अथाश्वश्चिन्तयामास, दुष्टमेनं नृपाधमम् । मारयामि विपक्षेभ्यो, तत्सैन्ये वा नयाम्यहम् ॥ २९ ॥ पातयित्वाऽथवा भूमौ, मथ्नामि चरणैर्निजैः । कुलीनत्वात्पुनर्दथ्यौ, हा ! घिय मे दुष्टचेष्टितम् ॥३०॥ अयं हि पृथिवीपालः, पशोरपि पशुस्त्वहम् । ईदृक्षेऽवसरेऽनथै, यदसौ पात्यते मया ॥३१॥ स्वकार्यकरणे भूयो, भाविनोऽवसरा मम । भूयांसोऽपीति निध्याय, युद्धाय प्रगुणोऽभवत् ॥ ३२॥ तत्सान्निध्यात्ततो भूप-स्तं विजित्य रिपुव्रजम् । गृहीत्वा गोधन प्राप्तः, स्वपुरे निर्मि- तोत्सवैः ॥ ३३ ॥ अस्यैवाश्वस्य साहाय्या-निजिता रिपवो मया । ततोऽयमेव पट्टाश्वो, भवतादपरैरलम् ॥ ३४ ॥ सौवर्णा- मरणश्रेणी, भूपस्तं पर्यधापयत् । तत्याज कुमतिं सोऽपि, तादृशादरवीक्षणात् ॥ ३५ ॥ एवं स काणोऽपि तुरङ्गमो यथा, बभूव मान्यो विनयादिमिर्गुणः । संगृह्यतां भो भविकास्ततो गुण-श्रेणिर्भवद्भिः कृपणैर्यथा धनम् ॥ ३६ ॥ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे सप्तम उपदेशः ॥७॥ गुणान् गुणवतां प्रेक्ष्य, मत्सरस्तेषु नोचितः । कत्तुं विवेकिनामत्र, ब्राह्मणानां निदर्शनम् ॥१॥ कुमारप्रमुखाऽनेक-भूपालप्रतिवोधकाः। चिरं प्रभावितश्रीमजिनेन्द्रवरशासनाः ॥१॥ नवीननिम्मिताऽनेक-ग्रन्थाः श्रीहेमसूरयः । अभूवन्कीर्तिकर्पूर-सुरभीकृतभूतलाः॥२॥ चतुर्युताऽशीतिमितं, स्वायुः सम्पूर्य तेऽन्यदा । दिवं गता महा- न्तोऽपि, देवेन ग्रसिता न के ? ॥३॥ तादृशुरुषरत्नस्य, विनाशेन तदाऽभवत् । नपादीनां महान शोको, मनःसन्तापकारक:
सप्ततिका.
उपदेश-
॥६॥
॥४॥ सृजति तावदशेषगुणालय, पुरुषरत्नमलङ्करणं भुवः। तदपि तत् क्षणभनि करोति चे-दहह ! कष्टमपण्डितता विधेः ॥५॥
विमानोपमितं तेषां, झम्पानं निर्गतं ततः। कृत्वा नगरविश्राम, पुनरुत्पाटितं च तत् ॥ ६ ॥ तीर्थभूता च तत्स्थान-धूलिः
पत्तनवासिभिः । तथा कथश्चिजगृहे, तत्र गर्ता यथाऽभवत् ॥ ७॥ हेमखड्ड इति ख्याति-स्ततोऽभूदखिले जने । प्रत्यनीकै-
जैिस्तच्च, स्थाप्यते पुनरन्यथा ॥ ८॥ हेमचन्द्रगुरुः क्षिप्तो, गर्गयां तत उच्यते। हेमखड्डेति ते मूर्खाः, स्थापयन्ति द्विजा-
धमाः ॥९॥ यत्तत्पलापिनां तेषा-मेवं युक्तिविशारदैः । प्रत्युत्तरं प्रदातव्यं, भो भूदेवाः ! निशम्यताम् ॥ १० ॥ यदा श्री-
हेमसूरीणां, मरणं समजायत । सर्वे विप्रास्तदा हर्ष-प्रकर्ष दधिरे हृदि ॥११॥ यथादित्यो न घूकेभ्यः, सज्जनेभ्यो न दुर्जनः ।
रोचते न तथा तेभ्य-स्तेषामप्युदयो वरः ॥१२॥ देव्या पद्मावतीनाम्न्या, शिरोऽतिर्विकृता तदा । अमन्दं चक्रुरानन्द, ततस्ते
बाढपीडया ॥१३॥ सहस्रसंख्या भूदेवाः, शोकसंतप्तचेतसः । स्वस्वगोत्रजदेव्यादे- गादीनि वितेनिरे ॥ १४ ॥ देव्यो:-
प्यूचुरिहास्माभिः, काऽपि न स्यात् प्रतिक्रिया । किन्तु पद्मावतीदेवी, स्मर्यतां तैस्तथा कृतम् ॥ १५ ॥ ततः पद्मावती प्राह,
प्रत्यक्षीभूय तान् प्रति । रे दुष्टाः ! केयमस्थाने, भवतां हर्षकारिता ॥ १६॥ एषां त्रैलोक्यपूज्यानां, विपत्तौ त्रिदशा अपि ।
बभूवुः शोकसंतप्ता, भवन्तो न तु बालिशाः ॥ १७ ॥ तर्जयित्वेति तान् देवी, वचः पुनरिदं जगौ । स्थानस्यैतस्य चेद्धूलि-
भवद्भिः परिगृह्यते ॥ १८ ॥ तदा नीरोगता च स्या-दित्युक्ते ते तथा व्यधुः। आर्ताः किं किं न कुर्वन्ति, स्वकार्यैक-
परायणाः ॥ १९॥ तया धूल्या च सर्वेषां, शिरोऽतिर्विलयं गता । अन्येऽपि दुष्टकुष्टाधा, निर्विलम्ब क्षयं गताः ॥२०॥ तेषां
तस्याः प्रमावेण, पुत्रपौत्रादिसन्ततिः । लक्ष्मीशान्तिकमाङ्गल्य-प्रमखान्यपि जज्ञिरे ॥ २१ ॥ ततश्च ब्राह्मणाः लोम-लुब्धास्तं
॥६॥
जगृहुस्तथा । यथा गर्तामवत्तत्र, कालेन कियता क्रमात् ॥ २२ ॥ एवं सा हेमगर्ताऽभू-द्विपरीतं कुतो द्विजाः । प्ररूप्यते विचारोऽपि, हृदि किं न विधीयते ॥ २३॥ येषां गुरूणां माहात्म्या-दमावस्यापि पूर्णिमा । अभूत्प्रभूतभाग्यानां, तेषां निन्दा करोति कः ॥ २४ ॥ बाल्येऽपि येषां हस्तस्य, स्पर्शमात्रादपि क्षणात् । व्यवहारिगृहेऽङ्गार-राशिः स्वर्णमयोऽजनि ॥ २५ ॥ तदा च तेषां सञ्जाता, हेमचन्द्राभिधा वराः । कारितं तेन तेषां च, श्रीमरिपदमुत्तमम् ॥२६॥ तस्माद्विचार्य हृदये, विधेयो गुणिनां स्तवः । न तेषु मत्सरः कार्यो, नरैः स्वहिनमिन्छुभिः ॥ २७ ॥ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारेऽष्टम उपदेशः ॥८॥ लोकोत्तरा कापि वचःकला भवे-न्नृणां प्रभूत सति भाग्यवैभवे । वाग्मी कुरूपोऽपि नृपादिभियतो, मान्यो भवेड्डामरदूतवत्पुमान् ॥१॥ पत्तने कुरुते राज्यं, भीमो भूरिपराक्रमः। तस्यास्ति डामरो दुतो, द्विजोऽत्यन्तकुरूपवान् ॥ १॥ परं वचस्वी सर्वत्र, निःक्षोभः समयोचितम् । वेत्ति वक्ति च तेनैप, गर्वमुद्बहते हृदि ॥२॥ तदा च मालवे राजा, मोजोऽमॉरभाग्यवान् । दाता भोक्ता गुणी शूरः, प्रतापी विनयी नयी ॥३॥ तस्य पार्थेऽन्यदा भूप-स्तं दूतं प्रेषयन्नभूत् । तत्र गत्वा त्वया वाच्य- मेवमेवं च भो द्विज! ॥४॥ चिरं तदुक्तमालोचं, श्रुत्वा कृत्वाऽवहीलनम् । तत उत्तिष्ठता तेन, वस्त्रप्रान्ता विधूनिता ॥५॥ किमेतदिति राज्ञोक्ते, सोऽब्रवीत्तव मापितम् । अत्रैव निखिलं मुक्तं, ततो रुष्टो भृशं नृपः ॥६॥ तथा कुर्वे यथा तत्र, . उ. स.११ उपदेश- सप्ततिका. ॥६१॥ गतस्तत्रत्यभूभुजा । असौ विडम्ब्यते पापी, प्रत्यनीको ममोपरि ॥ ७॥ गूढकोपस्ततो भूपो, दुकूलबहुवेष्टनः । रक्षां निबध्य सौवर्णे, निधाय च समुद्के ॥ ८॥ मुद्रां दत्वा च तद्धस्ते-ऽर्पयित्वा तं जगौ नृपः। मत्माभृतमिदं तस्मै, ढौकनीयं नृपाय मोः ! ॥९॥ चचाल दूतः क्षेमेण, श्रीधारानगरे गतः । मिलितो भोजभूपस्य, तद्रूपं वीक्ष्य सोऽप्यवक् ॥ १० ॥ यौष्माका- ऽधिपसन्धिविग्रहपदे दूताः कियन्तो द्विज !, मादृक्षा बहवोऽपि मालवपते ! ते सन्ति तत्र त्रिधा। प्रेष्यन्तेऽधममध्यमोत्तम- धियः मेष्यानुरूपक्रमा-त्तेनान्तःस्मितमुत्तरं विदधता धाराऽधिपो रञ्जितः ॥ ११॥ विस्मितो हृदि भूपाल-स्तं सस्नेहमवाद- यत् । मुक्तं तेनापि तस्याग्रे, प्राभृतं तन्नृपापितम् ॥ १२ ॥ सम्भूय पार्षदाः सर्वे, दृष्ट्वा स्वर्णसमुद्नकम् । किमप्यपूर्वभाव्यत्रे- त्यभूवन दर्शनोत्सुकाः॥ १३ ॥ यावदुद्घाटयामास, पर शतमनोरथैः। रक्षां वीक्ष्य विलक्षास्यो, नृपः किमिदमित्यवक्॥१४॥ दूतोऽपि दध्यौ पापेन, नूनं तेन महीभुजा । ममोजासनमारेभे, वे तत्समयोचितम् ॥ १५॥ देवावधार्यतामस्म-स्वामिना शान्तिहेतवे । अश्वानां मानवानां च, पीडितानां रुजां भरैः ॥ १६ ॥ लक्षहोमकृतो यागो, रक्षा तस्येयमुत्तमा। अपि सौवर्णि- केनाऽस्या, लवोऽपि नहि लभ्यते ॥ १७ ॥ पाण्मासिकोऽपि यो रोगो-ऽनया याति भवेन च । एतस्यास्तिलमात्रं तु, यः प्राप्नोति स भाग्यवान् ॥ १८ ॥ अन्तःपुरीणामश्वानां, पौराणां च क्षणादभूत् । रोगोपशान्तिरेतस्याः, प्रभावात् किं बहूच्यते ॥१९॥ भवतोऽभीष्टमित्रत्वा-देतावत् प्राभृतं ननु । मेपितं तेन भूपेन, तदिमा बहुमानय ॥२०॥ हृष्टेन मूभुजा सर्व-सम्यानां स्त्रीजनस्य च । स्तोका स्तोका पिता सप्र-मावत्वाजगृहे च तैः॥ २१॥ तस्य तस्य राज्ञा तु, स्वर्णपञ्चशती वरा । तुरङ्ग पट्टकूलादि, ददे तन्मुखयाचितम् ॥ २२ ॥ सर्व लात्वा समायातः, पत्तने भीमभपतेः । तत्मा गा - . .
उपदेश- सप्ततिका. जम्मिवान् । आलापितो हली भद्र, समाधिस्तव वर्तते ॥३॥ कस्मात्करोषि पापानि, हलं वाहयसि मुषा। वराको वृषमावेतो, दुर्बलौ मा कदर्यय ॥४॥ कयं पापकुटुम्बार्य-मात्माऽनर्थे निपात्यते १ । तपस्यापोतमादाय, तदुत्तर मवाम्मुषिम् ॥५॥ इति तद्वाक्यपीयूषै-देवदग्ध इव हुमः । सिक्तः समुल्लसत्पीति-रभूदिति च तं जगौ ॥६॥ अहं विप्रो वसाम्यत्रा-ऽऽसम्भग्रामेऽतिनिर्दनः । पापश्रेण्य इवाध्यक्षाः, सन्ति मे सप्त कन्यकाः ॥७॥ वज्राग्रिकल्पा पत्नी मे, तया दग्धः करोमि किम् ? । दुष्परोदरपूर्व्यर्थ, मृदैः किं न विधीयते ॥ ८॥ अतः परं त्वमेवासि, भ्राता माता पिताऽथवा । यदादिशसि तत् कुर्वे, करिष्ये नान्यथा वचः ॥९॥ ततोऽपितः साधुवेषः, स्वीचक्रे सोऽपि तं तदा । चचाल तं सहादाय, गौतमोऽभिजिनं मुदा ॥१०॥ सोऽवादीद्गम्यते कुत्र १, गुरवो यत्र सन्ति मे । भवता- मपि पूज्यानां, ये पूज्यास्ते तु कीदृशाः ॥ ११ ॥ तस्याग्रेऽद्गुणाः प्रोक्ता-स्तेन सम्यक्त्वमर्जितम् । विशिष्य तु जि- नेन्द्रस्य, समृदेरवलोकनात् ॥१२॥ क्रमेण यावदद्राक्षीद, श्रीवीरं सपरिच्छदम् । तावत्तस्य हदि द्वेषः, कोऽप्यमू- दतिदारुणः ॥ १३॥ गौतमः प्राह बन्दस्व, श्रीजिनं सोऽपि तं जगौ। अयं गुरुस्त्वदीयश्चे-चदा मे न प्रयोजनम् ॥ १४ ॥ गृहाण वेषं यास्यामि, शिष्यो नास्मि तवाप्यहम् । इत्युक्त्वा त्यक्तवेषोऽसौ, मुष्टिं बध्ध्वा प्रनष्टवान् ॥ १५ ॥ इसन्ति सर्वेऽपीन्द्राधा-स्तादृक्तश्चेष्टितेक्षणात् । अहो। उपार्जितः शिष्यो, वरीयानिन्द्रभूतिना ॥ १६ ॥ पप्रच्छ गौतमो वीरं, मनाग् लजितमानसः । किमिदं कारितं स्वामिन् !, तत्त्ववात्ता निवेदय ॥ १७॥ अन्यिभेदः कुतो- १ "हलं वाहय मा मुधा इत्यपि ॥
तम् ॥ २३ ॥ अरे ! त्वया तत्र गला, किं किमुक्तं वदाऽधुना । सोऽप्युवाच यथोक्तं स्वं, भूपोऽत्यर्थ विसिष्मये ॥ २४ ॥ पुनरप्येकदा गर्व-परं तं नृपतिर्जगौ । गर्व किं कुरुषे ? मूढ !, मत्प्रसादेन जीवसि ॥२५॥ निजवाकलयैवाऽहं, जीवामि तव किं ? नृप! । एवं विवादे भूयोऽपि, तं तत्र प्रेषयन्नृपः ॥२६॥ अपितो मुद्रितो लेख-स्तदानीं तस्य भूभुजा । क्रमाचत्र गतो दूतो, यत्रास्ते भोजभूपतिः ॥ २७ ॥ तदा च स्नानपीठस्थो, वारिक्लिनशिरा नृपः । तमाललाप भो दूत !, स्वागत तव वर्तते ॥ २८ ॥ हास्येन पृष्टं भूपेन, भीमडो नापितस्तव । स्वामी पत्तनवास्तव्यः, किं कुर्वनस्ति साम्पतम् ॥ २९ ॥ सोऽप्याह राज्ञां शीर्षाणि, बहूनामस्ति मुण्डयन् । तवाप्याद्रीकृतेऽमुष्मिन् , नायात्यद्यापि वारकः ॥ ३० ॥ ध्वनितस्तेन वा- क्येन, स्वर्णजिह्वामदापयत् । यद्वा न रोचते कस्मै, वचनं समयोचितम् ॥ ३१ ॥ अथ लेख तमुन्मुद्रय, यावद्वाचयति स्वयम् । तत्रापश्यदयं तावद् , दूतो व्यापाद्यतामिति ॥ ३२ ॥ क्षणं विमृश्य दूताग्रे, तं तथावृत्तमाह सः। आकारगोपनं कृत्वा, दूतोऽप्येवमुवाच तम् ।। ३३ ॥ श्रूयतामद्य राजेन्द्र !, स्मृता मे जन्मपत्रिका । तस्यां लिखितमित्यस्ति, दैवक्षेन हितैषिणा ॥ ३४ ॥ पञ्चाशत्तमवर्षेऽस्या-चलिकास्ति विपत्करी। यत्र चास्य मृतिस्तत्र, दुर्भिक्षं द्वादशाद्विकम् ॥ ३५ ॥ धूर्तेन तेन भूपेन, प्रेषितोऽहमिह प्रभो ! । अस्तु मे मरणं तेन, तद्रासाऽनृण्य मिच्छतः ।। ३६ ॥ सप्रगल्ममिति पोच्य, शस्त्री कुक्षौ क्षिप- त्ययम् ॥ यावत्तावत्करे राजा, धृत्वा तं निरवारयत् ॥ ३७॥ मरिष्याम्येव देवाऽहं, निषेधः क्रियते कुतः । स्वामिकायें यदि प्राणा, यान्ति तद्यान्तु गत्वराः ।। ३८ ॥ सौवर्णिकसहस्रेण, पश्चशत्या च वाजिनाम् । निषिध्य नियमाणं तं, स्वदेशा- दप्यचीकृषत् ॥ ३९ ॥ महताडम्बरेणैष, भीमभूपं प्रणेमिवान् । यथाजातं च वृत्तान्तं, स्वं जगौ स सविस्तरम ॥ ४० ॥ ततः सप्ततिका. उपदेश- ॥६२॥ यत:- प्रभृत्येष नृपादिकानां, बभूव मान्यो निजवाक्कलातः । तत्रैव तेन क्रियतां मनः स्वं, लोकद्वये वः सुखिता यया स्यात् ।। ४१॥ ॥ इति श्री उपदेशसप्ततिकायां चतुर्थेऽधिकारे नवम उपदेशः ॥९॥ न्यायो नराणां परमं निधानं, न्यायेन विश्वानि सुखीभवन्ति न्यायोपपन्नं पुरुषं श्रयन्ति, श्रियः श्रवन्त्यः सरितामि- वेशम् ॥ १॥ श्रीरामनाम स्मरति प्रतिप्रगे, जनः समग्रो न तु रावणाऽमिधाम् । पूर्वो ददौ किं जगृहे च किं परः, सन्न्याय एवात्र बिमर्ति हेतुताम् ॥२॥ यान्ति न्यायमवृत्तस्य, तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुञ्चति ॥१॥ गया तिदीहा दहवयण, जिहिं सुरसेव करंति। दीहपल्लट्टइं रावणह, पत्थर नीरि तरन्ति ॥२॥ ये मजन्ति निमजयन्ति च परांस्ते प्रस्तरा दुस्तरे, वाद्धौं वीर तरन्ति वानरमटान्संतारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥३॥ पतन्त्यो भित्तयो यस्या-ज्ञया तिष्ठन्ति निश्चलाः । वशीभवन्ति भूताद्या, अपि यन्नामकीर्तनात् ॥ १॥ आस्तां यच्चरितं तस्य, सेवकोऽपि नरेश्वरः । यशोवर्माऽभिधो न्यायी, यथाऽभूनापरस्तथा ॥२॥ कल्याणकटके राम, इव नीतिलताम्बुदः। यशोवर्माऽभिधो भूपो, भुङ्क्ते साम्राज्यमूर्जितम् ॥ ३॥ द्विष्टः पुत्रोऽपि तस्याऽऽसीत् , त्याज्यः स्वाङ्गस्थपङ्कवत् । गुणवान- स्वकीयोऽपि, मान्यः पुष्पमिवाऽभवत् ॥ ४ ॥ निजप्रतोलीद्वारे स, न्यायघण्टामबन्धयत् । यस्य यस्य यदा कार्य, तदा तां स स वादयेत् ॥ ५॥ तच्चिन्तां कुरुते भूपः, प्राणैरपि धनैरपि । एवं पालयतो न्यायं, तस्य गच्छन्ति वासराः ॥६॥ ६२॥
तस्य न्यायपरीक्षार्थ, राज्याऽधिष्ठातृदेवता । विधाय सुरभीरूपं, राजमाग्गेऽन्यदा स्थिता ॥ ७॥ वत्समेकं च सौन्दर्य- सौकुमार्यमनोहरम् । विकुळ सद्यः सञ्जातं, स्वपार्थ सा न्याविशन् ॥ ८॥ अत्रान्तरे राजसौधा-दारुह्य वरवाहिनीम् । तत्रा- गच्छन्नभूत्तस्य, राज्ञः पुत्रोऽतिदुर्दमः ।। ९॥ अतिवेगवशाच्चैप, वाहिनी तामवाहयत् । तस्यैवोपरि वत्सस्य, स बराको मृतः पुनः॥ १० ॥ धेनुः कोकूयतेऽत्यर्थ, मुश्चत्यश्रुणि निर्भरम् । लोको हाहारवं चक्रे, प्रेक्ष्य तादृग्दशां तयोः ॥ ११ ॥ केनाप्यालापिता चैपा, भद्रे ! राजकुलं बज । न्यायघण्टास्ति या तत्र, शृङ्गाभ्यां तां च वादय ॥ १२ ॥ यथा तवैतदन्याय- प्रतीकारं नृपः सृजेत् । पञ्चमो लोकपालोऽयं, सर्वसाधारणो यतः ॥१३॥ श्रुत्वेति सा गता तत्र, घण्टा बाढमताडयत् । तस्मिश्चावसरे भूपो, भोजनायोपविष्यान् ॥ १४ ॥घण्टानिनादमाका-ऽकाले भूपःससम्भ्रमः । इदानी चालिता केन, घण्टे- त्याख्यत्स्वसेवकान् ॥ १५ ॥ विलोक्य तेऽपि तं प्राहु-र्नान्यः कोऽप्यत्र गां विना । अकाले गौः कुतोऽत्रेति, स्वयमेवोत्थितो नृपः ॥१६॥ तत्रागत्य स धेनुं तां, सदुःखं प्राह भूपतिः। भवत्या अपि हा ! पापी, कश्चकार पराभवम् ॥ १७ ॥ पराभू- ताऽसि येन त्वं, तं दर्शय ममाऽधुना । वराकी सा तु नो वेत्ति, वक्तं मानवभाषया ॥१८॥ किन्तु सा पूरतोभूय, पृष्ठिलग्नस्य भूपतेः । तं वत्सं दर्शयामास, जीवितव्यमिवात्मनः ॥ १९ ॥ उवाच भूपो हट्टादौ, सनिविष्टं महाजनम् । क्रूरकर्मेदृशं चक्रे, कः पापीति निवेद्यताम् ॥ २० ॥ तदन्यायविधातारं, सर्वे जानन्ति मानवाः । न कोऽपि भाषते किन्तु, तत्सुताऽनर्थशङ्कया ॥ २१ ॥ अतिप्रश्नऽपि भूपस्य, यावत्कोऽपि न भाषते । तावत् क्रुद्धो नृपः प्राह, सभ्रूक्षेपमिदं वचः ॥ २२ ॥ आः ! पापिनो मवन्तोऽपि, यदीगसमञ्जसम् । दृष्टमप्युच्यते यन्न, धिग्यस्तत्पक्षपातिनः ॥ २३ ॥ तदैव भोक्ष्ये यद्येत-त्पापकारी नराधमः ।
उपदेश-
सप्ततिका.
॥६३॥
ममाग्रे प्रकटो मावी-त्यभिग्रहमयाग्रहीत् ॥ २४ ॥ तस्य न्यायैकनिष्ठस्य, सन्ध्यावधि निषेदुवः। तहिने लानं जात-महो!
न्यायप्रधानता ॥ २५ ॥ सन्ध्यायां मन्दिरे प्राप्त-स्तनयस्तस्य भूपतेः। प्राह स्वकृतमन्याय, मम दण्डं कुरु प्रभो! ॥२६॥ स्व-
पुत्रकृतमन्याय, श्रुत्वा दूनो नराधिपः । स्वर्णेनापि हि किं तेन, कर्णच्छेदो भवेद्यतः॥२७॥ प्रातः पर्षदि भूपेन, पृष्टा नीतिविशा-
रदाः । अस्य पुत्रस्य को दण्डो, विधेय ? इति कथ्यताम् ॥२८॥ उक्तं तैरेक एवाय, राज्याहस्तनयस्तव । एकलोचनसङ्काया,
कोऽस्य दण्डो भवेत्प्रभो ! ॥ २९ ॥ न्याय एवं प्रधानो मे, दुर्नयेन सुनेन किम् ? । अन्येऽप्येवं वितन्वन्ति, शिक्षा चेनाऽस्य
दीयते ॥ ३० ॥ ततोऽस्य यो भवेद्दण्ड-स्तं वदन्तु विशारदाः ! । मनागपि न कार्य मे, दाक्षिण्यमभयं हि वः ॥ ३१ ॥ वैरुक्तं
देव ! यो याक्, कुरुते तस्य तादृशम् । अमनोज्ञ मनोज्ञं वा, क्रियते शास्त्रगीरिति ॥ ३२ ॥ अवाहयद्यया वत्सो-परिष्टादेष
वाहिनीम् । तथाऽस्यापि विधीयेत, दण्डः कोऽप्यस्य नापरः ॥३३॥ आनाय्य वाहिनीं पुत्रं, स्थापयित्वा च वर्त्मनि । जनानु-
वाच भो एषा, पुत्रस्योपरि वाह्यताम् ॥ ३४ ॥ ईदृग्विधं तदादेशं, यदा कोऽपि करोति न । प्रत्यक्षं सर्वलोकानां, तदा भूप
इदं जगौ ॥ ३५॥ अयं मदीयो दुष्पुत्रो, जीविताद्वा विनश्यतु । आत्मीयेनापि किं तेन, न्यायो यस्य न वल्लमः ॥ ३६॥
इत्युक्त्वा सहसोत्याय, स्वयमेवोपविश्य च । यावत्तां वाहयत्येष, तस्योपरि दयोज्झितः॥ ३७॥ तावन्न गां न वत्सं च, ददर्श
स महीपतिः । सा देवी च पुरोभूय, तस्य श्लाघामिति व्यधात् ॥ ३८ ॥ जय सत्वत्रता धुर्य !, जय न्यायपरायण ॥ श्रीराम-
स्येव सौभाग्यं, त्वदीयं स्तुवते न के ? ॥ ३९ ॥ चिरायुस्ते सुतो भूया-त्साम्राज्यं त्वं च पालय । परीक्षेयं मया चक्रे, इत्यु-
क्त्वा सा तिरोऽभवत् ॥ ४० ॥ एवं न्यायः पालनीयो नृपाद्यैर्यस्मात्सर्वाः सम्पदो हस्तगाः म्युः । शस्यानि स्युः किं विना
.
॥६३॥
वारिवाहं, प्रावृट्काले प्राच्यमासद्वयोत्थम् ॥ ४१ ॥ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे दशम उपदेशः ॥ १० ॥ सदाऽपि धर्मः फलदो नृणां मतो, विशेषतः पर्वदिनेषु निर्मितः। प्रावृद्पयः सर्वमपीप्सितप्रदं, स्यात् स्वातिजं वारि तु मौक्ति- कप्रदम् ॥१॥ प्रायेण बन्धं तु भविष्यदायुषो, वदन्ति यत् पर्व दिने जिनादयः । विशिष्य धम्म दृढता विलोक्यते, तस्मि- स्ततः मूर्ययशोनरेन्द्रवत् ॥ २ ॥ अभूदयोध्यापुरि मुख्यचक्रिणः, मुतः कृती मृर्ययशोनरेश्वरः । यदीयनाम्ना प्रथितः क्षमातले, श्रीर्यवंशोऽतिगरिष्ठवि- स्तरः॥१॥ युतः सहस्रर्दशभिः क्षमाभुजां, करोत्यसौ पर्वणि पौषधश्रदम् । नाऽश्नन्ति भक्तं शिशवोऽपि तद्दिने, तदाज्ञया किं पुनरास्तिको जनः ॥२॥ अथैकदा तद्गुणरञ्जितं शिरो, विधुनयन्तं हरिमुर्वशी जगौ । विना निमित्तं किमिदं शिरोधुतं १, सगौरवं तां प्रति वासवोऽप्यवक् ॥ ३॥ करोत्ययोध्यापुरि राज्यमूर्जितं, मुश्रावकः मूर्ययशा नरेश्वरः । दृष्ट्वा तदीयां व्रतनि- श्वलात्मतां, मया शिरोऽकम्प्यत पङ्कजानने ! ॥४॥ श्रुत्वेति सा प्राह मनुष्यमात्रे, स्तुतिं कथं नाथ ! वृथा करोषि १ । यः सप्तधातुप्रतिबद्धमन्न-पिण्डेन पुष्टं च वपुर्विमति ॥ ५ ॥ स चेत् परीक्षा क्षमते मया कृतां, तदा त्वदुक्तं घटते वृथाऽन्यथा । प्रोच्येत्ययोध्यापुरि रम्भया समं, जगाम सा तस्य परीक्षणोत्सुका ॥६॥ विधाय वीणां निजपाणिपङ्कजे, शक्रावताराभिषदेव- मन्दिरे । आगत्य ते द्वे अपि गीतनतना-ऽऽदिकं विधत्तां जनमोहकारकम् ॥ ७॥ तदा समीपट्ठमगा विहङ्गमाः, भुजगोषा- हरिणादयोऽपि च । तन्नादलीना लिखिता इवाऽश्मसु, स्थितास्तदैकाग्र्यरता निरेजनाः ॥८॥ इतश्च तस्मिन् पथि स व्रजन् नृपो-ऽश्रौषीत्तयोर्गीतरवान्मनोहरान् । सघोऽभवत्कीलितवञ्च तच्छ्रुतेः, कस्याऽथवा गीतरवा न मोहकाः॥९॥ किमुच्यतेऽन्यबहु
उपदेश-
॥६४॥
गन्तुमक्षमा, तदाऽश्वपत्तिप्रमुखा चमूरपि । तदाभवत्तन्मयतां गता सती, तत्तादृशं वीक्ष्य चमत्कृतो नृपः ॥१०॥ कार्यद्वयं
सप्ततिका.
मावि ममेति बुद्धथा, तन्मोहितः माविशदेष चैत्यम् । स्तुत्वा युगादीशजिनं च तत्र, बलानकेऽथोपविवेश भूपः॥ ११॥ तयो-
वचःसौधरसं श्रवःपुटैः, पिवन् वपूरूपरमां च लोचनैः । निमालयश्चेतसि बुद्धवान् वरं, पुमर्थमेकं तु तृतीयमेव सः ॥१२॥ कुला-
दिकं ज्ञातुममात्यमादिश-त्तयोर्नुपः सोऽपि ययौ तदन्तिके । एवं च पप्रच्छ कुतः समागते ?, युवां कुलं नाम च किं ? निवे-
द्यताम् ॥ १३ ॥ एका तयोर्मन्त्रिणमित्यवादी-दावां सुते श्रीमणिचूडनाम्नः । विद्याधरेन्द्रस्य सदापि वीणा-विनोदगीतादिषु
बद्धकक्षे ॥ १४ ॥ देये इमे कस्य वरस्य ? नौ पिता, चकार चिन्तामिति यावदात्मना । स्वाभीष्टतादृक्षपतेरभावत-श्चिन्ता-
म्बुधेरेष निवर्तितस्तदा ॥ १५॥ सीमन्तिनीनां स्ववशः पतिर्यदि, स्यात्तत्मुख गाढविडम्बनाऽन्यथा । सत्तीर्थसेवैव ततो
विधीयते, भोगेषु रोगेवित्र नावयोर्मनः ॥१६॥ श्रुत्वेति भूपानुमतेश्च तत्पुरो, वचोऽथ मन्त्री निजगाद सादरम् । अयं हि पौत्रो
वृषभस्य चक्रिणः, सुराः कलावान्बलपांच सद्गुणः॥१७॥ मया निषेध्यो युवयोर्वचोऽन्यथा-कुर्वनयं तक्रियतां पतिर्वरः। चेचेतसो
वां रुचिरीदृशः पतिः, न लप्स्यते क्वापि भवान्तरेष्वपि ॥ १८ ॥ अर्थेऽत्र साक्षी जिन एष एव यः, पुरो निविष्टोऽस्ति जनैः
परैरलम् । इत्यादि गाढाग्रहतः सविस्तरं, तयोरभूत्तेन विवाहमङ्गलम् ॥ १९ ॥ सुखं स ताभ्यां सह मोगजं किय-दिनानि
भुङ्क्ते स्म तदेकमानसः। सहस्रवर्षाऽवधि गङ्गया समं, भोगा न भुक्ता भरतेन किं वा ? ॥२०॥ कल्येऽष्टमीपर्व भविष्यती-
त्यहो', शृण्वन्तु लोकाः ! इति सर्वतः पुरे । प्रवाद्यमानः पटहः स्फुटस्वरं, ताभ्यां श्रुतोऽन्येधुरमन्दखेदकृत् ॥ २१॥ अजान-15६४ ॥
तीव क्षितिनाथमुर्वशी, जगौ किमेतत्पटहप्रवादनम् । विधीयते नाथ! जगाद सोऽपि तां, कृशाङ्गि! पर्वार्थमुपक्रमो ह्ययम् ॥२२॥
त्रयोदशीसप्तमिकाऽऽदिवासरे, मदाज्ञयाऽसौ पटहः प्रवाद्यते । जानन्ति पर्वतरयोविवेचनं, प्रमादपूर्णाः कथमन्यथा जनाः ? ॥२३॥ ममाज्ञया पर्वदिनेऽत्र पौषधं, तुर्यव्रतं ज्ञानतपःक्रियादि च । कुर्वन्ति लोकाः प्रतिषेधयन्ति च, स्नानं शिरोगुम्फनखण्ड- नानि च ॥ २४ ॥ उवाच रम्भाऽपि नरेन्द्र ! यौवनं, सद्भोगयोगः सुखसम्पदादिकम् । हार्यन्त एतानि करस्थितान्यपि, त्वया कथं प्रेत्यफलार्थिना मुधा ? ॥ २५ ॥ जगाद भूपोऽपि जिनेन्द्रभाषितं, व्यधायि तातेन महाफलं च यत् । पर्वव्रत तत्कयमेष सुन्दरि !, त्यजाम्यहं स्तोकमुखस्य हेतवे ॥ २६ ॥ येषां न शीलं न तपो न च क्रिया, विवेकवैराग्यमुखा गुणाश्च न । तेषां पशूनामिव जन्म निष्फलं, मवेदिहामुत्र तु घोरदुर्गतिः॥२७॥ अथोर्वशी प्राह जिनेन्द्रसाक्षिकं, स्वजिह्वया यत्प्रतिपन्नमित्यभूत् । नोल्लङ्घनीयं युवयोर्मया वच-स्तद्विस्मृतं किं भवताऽपि भूपते ! ॥ २८ ॥ यदीयवाक्ये स्थिरता न विद्यते, धिक् सोऽपि मूर्खः पुरुषेषु गण्यते । स्वाधीनभर्तुः कृतये कुलादिकं, त्यक्तं कृतस्त्वं च सुखेप्सया पतिः ॥ २९ ॥ तन्नोमयभ्रष्टतयाऽस्ति मे मुखं, कस्याग्रतो वा परिदेव्यते विमो! । इदं मकृते विहितं परीक्षणं, प्रयातु ते वाग् मम किं प्रयास्यति ? ॥३०॥ तत्सापयिष्ये मरण चिताऽनले, प्रविश्य मानोज्झितजीवितेन किम् ? । इत्यादि तप्तत्रपुतुल्यतद्वचः, श्रुत्वा नरेन्द्रः पुनरप्युवाच ताम् ॥ ३१॥ विद्याभृतस्त्वं तनयाऽसि नाऽधमे !, करालचण्डालकुलोद्भवा पुनः । कस्तूरिकाया भ्रमतो मयाऽञ्जनं, धत्तको वा जगृहे मरुत्तरोः ॥ ३२ ॥ गृहाण कोशं वसुधां गृहाण वा-ऽन्यद्वा यदिष्टं तव तत्करोम्यहम् । पर्वव्रतं त्याजय मा मम प्रिये !, यल्लोपतो दुर्गतिरेव निश्चितम् ॥ ३३ ॥ भूयोऽपि सा प्राह न यस्य विद्यते, वचःप्रतिष्ठा पुरुषाधमो हि सः । तदीयदानेन महीयसाप्यलं, भूयोऽपि भूपं कपटाङ्गना जगौ ॥ ३४ ॥ चेत् पर्वमङ्गो न करिष्यते त्वया, तत्पात्यतां मन्दिरमादिमं प्रभोः।
. उपदेश- सप्ततिका. ॥६५॥ शक्रावतारामिधमेतदुनतं, श्रुत्वेति वजाहतवन्नृपोऽभवत् ॥ ३५ ॥ मुमूर्छ भूमौ सहसा पपात च, क्षणेन चैतन्यमवाप्य सोऽवदत् । आः पापिनि! म्लेच्छकुले सुनिश्चितं, जातासि यत्ते वचनावलीदृशी ॥३६॥ यातां युवां द्वे अपि तन्ममान्तिका- ससान्त्वनं सा पुनरप्युवाच तम् । मद्वाक्यमप्येकमकारि न त्वया, पुनः पुनः किं तव नाथ ! जल्प्यते ॥ ३७॥ शिरः स्व- पुत्रस्य समर्पयाऽथवे-त्युक्ते विना मां न सुतो ममैव तत् । गृहाण जल्पनिति कण्ठमात्मन-श्छिनति यावत्तरवारिणा नृपः ॥ ३८ ॥ बभूवतुस्तावदुभे अपि स्फुटे, तस्य प्रशंसामिति चक्रतुः पुनः । जय क्षमाधीश्वर ! चक्रिनन्दन !, प्रशान्तसन्द्रिय- सङ्गवजित ! ॥ ३९ ॥ मम्बन्धमावेद्य विधाय पुष्पर-रत्नादिवृष्टिं च दिवं गते उभे । नृपोऽपि धर्म सविशेषमातनोद , प्राज्यं च साम्राज्यमपालयच्चिरम् ॥४०॥ प्रान्ते च तातवटुपाजितकेवलश्री-र्मोक्षं जगाम मरताङ्गज एष भूपः । एवं च धर्मविषये दृढता विधेया, स्यात्सौख्यसम्पद खिलस्ववशा यथा वः ॥ ४१ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे एकादश उपदेशः ॥ ११ ॥ आराध्यमानो विधिनैव दत्ते, धर्मः फलं नैव हठे कृतेऽपि । न तं विना कामदुघापि दुग्धं, कृतव्ययस्यापि ददौ नृपस्य ॥१॥ यस्तामलिः षष्टिसहस्रवर्षा-वधि स्वरुच्या विदधे तपांसि । अल्पं फलं सोऽपि विना विवेका-ल्लेभे ततः किं बहुकष्ट- योगैः॥२॥ कूरगडुमुनिनित्य-भुक्तिसक्तोऽपि केवलम् । लेभे विवेकसाहाय्या-च्छ्मणैरपि तेन तु ॥३॥ अय प्रागुक्तदृष्टान्तो, भाव्यते पृथिवीपुरे । बभूव धनदः श्रेष्ठी, स प्रायो गोरसप्रियः ॥ १॥ दधि दुग्धं परानं च, .
एवं गवांशतान्येष, सञ्जग्राह धनैर्घनैः ॥ ३॥ अथैकदा यानपात्रे, सौरभेयीः स पञ्चपाः । सारा आरोग्य वित्तार्थी, रत्नद्वीपे ययौ क्रमात् ॥ ४॥ नियन्त्र्य यानपात्राणि, महोदधितटे ततः । सुस्थाने स्थापयामास, स्वसाथ स वणिग्वरः॥५॥ सुगन्धिसप्पिःसत्खण्ड-क्षोदयोगगरीयसा । परमानन पूर्णानि, स्थालान्यादाय नैकशः ॥ ६॥ अपूर्वत्वेन तत्रत्य-नृपाय प्राभृतं व्यधात् । श्रेष्ठी श्रेष्ठान्यपि त्यक्त्वा, रत्नवृन्दानि लेष्टुवत् ॥ ७॥ कणेहत्य तदास्वाद्य, सर्वेन्द्रियसुखप्रदम् । आकण्ठं विहितोद्गारः, प्रीतो भूपस्तमब्रवीत् ॥ ८॥ किमेतदुच्यते श्रेष्ठिन् !, कथं निष्पत्तिरस्य च । स्वर्गात् पातालतः किं वा, पीयुष- मिदमाहृतम् ॥ ९॥ परमानमिदं देव !, विना भाग्यैर्न लभ्यते । दत्ते प्रसन्ना किन्त्वेका, मम कामगवी सदा ॥१०॥ सन्तुष्टः श्रेष्ठिनः शुल्कं, मुमुचे मेदिनीपतिः। भूयांचाभूत्तस्य लामः, कुर्वतः क्रयविक्रयम् ॥ ११ ॥ स्वपुरं गन्तुकामेना-ऽवसरे स महीपतिः । मापितः म्वपुरं यामि, स्वमनुज्ञां ददासि चेत् ।। १२ । भूपोऽभ्यधात्कामगवी, याऽस्ति ते परमानदा । सा मह्यं देहि येन स्या-निश्चला प्रीतिरावयोः ॥ १३ ॥ प्रसीद गृह्यतां स्वामिन् !, किं वाच्यमियति प्रभोः ? । इत्युक्त्वा तामदात्तस्मै, स्त्रयं तु स्वपुरं ययौ ॥ १४ ॥ अथ कामगवी तेन, स्थापिता वयमन्दिरे । आराधनविधिस्तस्या, एवमेवं च निर्ममे ॥१५॥ क्रियन्ते विविधाः पूजाः, भोगयोगाच-कशः । वीज्यतेचामरश्रेणि-धियते छत्रसन्ततिः ॥१६॥ दीनाराणां पञ्चशत्या-स्तस्या भोगं नराधिपः । करोति कारयत्यन्यै-गीतनृत्यादिकोत्सवान ॥ १७॥ मातम परमानं च, देहि देहीति भाषते । न वेत्ति तदुपायं तु, निविडाऽज्ञानपीडितः ॥ १८ ॥ चारिपानीयशुश्रूषा-विरहेण कियदिनः । सा वराकी मृता राजा, निनिन्द स्वं त पापिनम ॥ १९ ॥ अहो ! अभाग्यमम्माक-टो | Trnar-.
सप्ततिका.
उपदेश-
एवाऽन्येधुरायातः, श्रेष्ठी तत्र तथैव च । नृपाय प्राभृतं चक्रे, तदा भूपस्तमभ्यधात् ॥ २१॥ अपिता कामधेनुर्या, त्वयाऽस्माकं
हितेच्छया । परमानं तया दत्तं, स्वल्पमप्येकदापि न ॥ २२ ॥ भक्तिप्रकारा नैकेपि, कृतास्तस्यास्तदादिभिः । परं प्रत्युत्तरं
किश्चि-त्तया दत्तं न जातुचित् ॥ २३ ॥ दूरेऽस्तु परमानं त-द्वाापि न तया कृता । किं तत्राऽभाग्यमस्माक-मन्यद्वा कारणा-
न्तरम् १॥ २४ ॥ श्रेष्ठी बभाण राजेन्द्र !, तस्याः शुष्कतृणादिकम् । दीयते दुह्यते वार-द्वितयं गृह्यते पयः॥ २५ ॥ तत्पय-
स्तन्दुलैः साई, पच्यते ज्ञायते ततः । परमानमयं तस्य, विधिः किमपरैव्य॑यैः ? ॥२६॥ ज्ञातोपायस्ततो भूपः, परमानमपी-
पचत् । तेनाऽभूत सुखितोऽवादीन् , परेभ्योऽपि विधिं च ताम् ॥ २७ ॥ धर्मो-पि विधिनाराद्धः, एवं सौख्यप्रदो भवेत् ।
विना विधिं कृतोऽप्येष, स्यादल्पफलदो नृणाम् ॥ २८ ॥ यतः-
आराधितः पूर्वभवेषु धर्मो, यैनिर्विवेकैश्च विवेकिभिश्च । यथा क्रमन्ते विहिते द्वयेऽपि, श्रीपत्तयः श्रीपतयश्च तेन ॥१॥
एवं मो मविकाः! निपीय विधिना धर्मामृतं तात्त्विकं, भुक्त्वा मानवदेवसेवितपदाः संमारसौख्यावलीः ।
निष्पत्युहतया प्रयास्यथ शिवं यूयं कुदेवादिकं, मा तत्र क्षिपतोल्वणं तु गरलं चेद्वो विवेको हृदि ॥ २९ ॥
॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे द्वादश उपदेशः ॥ १२ ॥
॥ इति श्रीपरमगुरुतपागच्छनायकश्रीसोमसुन्दरमूरिक्रमकमलमरालमहोपाध्यायश्रीचारित्ररत्नगणिवि-
नेयपरमाणुपण्डितसोमधर्मगणिविरचितायां श्रीउपदेशसप्ततौ सामान्यधर्माधिकारश्चतुर्थः ॥
॥६६॥
ऽनेन, वत्साईगुणचिन्तनः । लाभेस्तवाभूदस्यैष, द्वेषां यन्मयि तत् शृणु ॥ १८॥ पुरा पोतनकग्रामे, प्रजापतिनृपा- गजः। अभूवं वासुदेवोऽहं, त्रिपृष्ठ इति विश्रुतः ॥ १९ ॥ अश्वग्रीवो महाराज-स्तदा प्रत्यर्द्धचक्रयभूत् । त्रिपृष्ठहस्ता- तन्मृत्यु, निमित्तशोऽन्यदाब्रवीत् ॥ २०॥ त्रिपृष्ठस्योपरि (ष्टात्तु) तदा, द्वेषमेष भृशं वहन् । चक्रे तन्मारणोपायान्, विफ- लास्ते तु जज्ञिरे ॥ २१ ॥ शालिक्षेत्रेऽन्यदा तस्य, सिंहः कोऽपि बलोत्कटः। करोत्युपद्रवं हन्तुं, न केनापि स पा- र्यते ॥ २२॥ तद्वारकेण रक्षन्ति, नृपा मुख्यनृपाज्ञया । प्रजापतिक्षितिपते-रन्येधुर्वारकोऽमवत् ॥ २३ ॥ निषिध्य पितरं तत्र, त्रिपृष्ठो रक्षितुं ययौ । वेगवत्तरमारुह्य, रथं सारथिसंयुतः ॥ २४ ॥ तेनालापितमात्रोऽसौ, सिंहस्तं प्रत्य- धावत । क्षमन्ते पौरुषोपेता, रेकारं किमु भूस्पृशाम् १ ॥ २५ ॥ शुक्तिसंपुटबद्वेधा, कृत्वा तस्यौष्ठयामलम् । विदार्या- ईमृतं चक्रे, सिंहं स प्रौढविक्रमः ॥ २६ ॥ कृतो जयजयाराव, आसन्नव्यन्तरामरैः। निनिन्द स्वं पुनः सिंहो, नृ- मात्रेण हतो हहा ! ॥ २७॥ तदा मधुरया वाचा, सारथिस्तमसान्त्वयत् । मविता वासुदेवोऽयं, रङ्कमात्रमिदं नहि ॥ २८ ॥ पुरुषेन्द्रस्य हस्तेन, चेन्मृतः किं विषीदसि । मर्त्यलोके ह्ययं सिंह-स्तिर्यग्योनौ पुनर्मवान् ॥ २९ ॥ इति हृष्टस्तया वाचा, मृतः सिंहः समाधिना। भ्रामं भ्रामं भवाम्भोधौ, ते त्रयोऽप्यमवन्क्रमात् ॥३०॥ त्रिपृष्ठजीवो यः सोऽहं, सिंहजीवः कृषीवलः। मवांश्च सारथे वः, तदिदं भवनाटकम् ॥३१॥ त्वया मधुरया वाचा, यदसौ प्रीणितः पुरा । मया हतो वराकस्तु, स्नेहवैरे ततस्त्वम् ॥ ३२ ॥ १ "लाभस्तथा-"इत्यपि । २ प्रतिवासुदेवः । ३ युग्मम् । .
॥ अथ गृहस्थधर्माऽधिकारः पञ्चमः प्रारभ्यते ॥ श्रीधर्म एव निधिरक्षय एष सौख्य-श्रीणां हितः स्वपरयोश्च भवान्तरेऽपि । श्रीधर्मराजचरितं विनिशम्य सम्यक्, कस्तत्र वा शिथिलमादरमातनोति ॥१॥ अस्त्यत्र भरतक्षेत्रे, नगरी सर्वमङ्गला । तत्र वित्रासिताराति-भूपतिर्भद्रशेखरः ॥ १॥ सभामध्यास्त स मापः, परिवार- युतोऽन्यदा । तदा नैमित्तिकः कोऽपि, प्राप्तस्तत्र त्रिकालवित् ॥ २॥ यथोचितासने राज-दापिते स उपाविशत् । उदस्य हस्तं सर्वेभ्यः, आशीर्वादमुवाच च ॥ ३ ॥ नृपोऽप्राक्षीनिमित्तज्ञ, भविष्यद्वद कीदृशम् ? । स्वरूपं भावि सोऽप्याह, माऽधुना पृच्छयतां प्रभो!॥ ४ ॥ विशेपतो नृपोऽपृच्छ-दुत्पातः कोऽपि दैवतः । किं भावी ? सोऽप्यभाषिष्ट, दुर्भिक्ष द्वादशाब्दिकम् ॥५॥ अकाण्डाऽशनिसम्पात-सन्निभं तद्वचो नृपः । श्रुत्वा सदुःख इत्याख्यत्, रे ! विमृश्य वचो वद ॥६॥ समक्षं सर्व- सभ्यानां, निमित्तज्ञोऽब्रवीत्पुनः । मद्भापितं वृथा स्याच्चे-च्छेद्या जिव मे तदा ॥ ७॥ तत्प्रतिज्ञां दृढामेवं, निशम्य क्ष्मा- भुजाऽपि सः । अस्थापि स्वपुरे क्वापि, गन्तुं नैव ददे तथा ॥ ८॥ सर्बादरात् सबलोकै-श्चक्रे धान्यस्य सङ्ग्रहः । स्वकुटु- म्बानुमानेन, गत्वा देशान्तरेष्वपि ॥ ९ ॥ स्वस्ववित्तान्यनादृत्य, धान्यान्येव तदा जनैः । मील्यन्ते स्म यतः प्राणाः, नृणामन्नेषु निष्ठिताः ॥१०॥ अथोष्णकालेऽतिक्रान्ते, प्रवृत्तेऽपि तपात्यये । उत्पश्ये सर्वलोकेऽपि, वारिदोऽभूदवारिदः ॥११॥ स.१२ .
उपदेश-
सप्ततिका.
॥६७
भृशं विव्यथिरे लोकाः, भाविदुर्भिक्षशङ्कया । धर्मकर्मव्यवस्था हि, स्यान्मुभिक्षाऽनुयायिनी ॥१२ ॥ प्रासे तु श्रावणे मासे,
द्वितीयादिवसेऽसिते । उत्तरस्यामभूदभ्रं, लोकः सम्मुखमैयरुः ॥ १३ ॥ वाद्यानि वादयामामु-र्गीतनृत्यादि तेनिरे । आकृष्ट
इव तद्भाग्यै-ववर्ष जलदस्तदा ॥ १४ ॥ आख्यद्भूपो निमित्तज्ञ, त्वदचोऽद्य वृथाऽभवत् । तत्ते करोमि जिह्वाया-श्छेदं यत्त-
त्पलापिनः ॥ १५ ॥ देव ! किश्चित्प्रतीक्षस्व, यावन्मिलति कोऽपि मे । ज्ञानी मुनिस्तदने य-द्भवेच्छात्रार्थनिर्णयः ॥१६॥
कृषिः कृपीवलैः कर्तृ-मारेभे मुदिताशयैः । क्षेत्रेषु बीजान्युप्तानि, सुपात्रेषिव धार्मिकैः ॥ १७॥ अन्यवर्षीयनिष्पत्ते-निष्पत्ति-
द्विगुणाऽभवन् । तस्मिन्वर्षे नृपोऽप्यासी-त्सपौरो बहुलर्दिकः ॥ १८॥ निवृत्ते कात्तिके मासे, हेमन्तसमयेऽन्यदा । आययुः
केचिदाचार्याः, केवलज्ञानशालिनः॥ १९॥ सदैवज्ञः सपौरस्ता-न्वन्दितुं नृपतिर्गतः । नैमित्तिकोक्त्यलीकत्व-हेतुं पप्रच्छ तं
च सः ॥ २० ॥ अबोचन्मूरयो राजन्!, अत्रैव तव पत्तने । धनदत्त इति श्रेष्ठी, तस्य भार्या धनेश्वरी ॥ २१ ॥ तयोरन्येधु-
रुत्पन्ना, सुतः सर्वसुखावहः । यस्य प्रभावतो वृष्टो, मेघो युष्मादृशां मुदे ॥ २२ ॥ अयं हि प्राग्भवे रङ्को, भिक्षावृत्तिरभूत
क्वचित् । दृष्ट्वाऽन्यदा मुनि कश्चि-द्ववन्दे हर्षपूरितः ॥ २३ ॥ गृहाण नियमान्कांश्चि-दिति तं संयतो जगौ । अन्ययाऽपि
तवेदानी, सम्पत्तिर्नास्ति तादृशी ॥२४॥ ततस्तदन्तिके देवनत्यादीनियमानसौ। प्रतिपेदे क्रमाद्भाग्यः, सोऽपि जातो महर्दिकः
॥२५॥ प्राच्यावस्थां निजां तेन, स्मरता हृदि मण्डिताः । सज्जीकृतानपानाद्याः, सत्रगेहाः पदे पदे ॥२६॥ रङ्कादारभ्य भूपान्तं,
मनुष्यान् लक्षसम्मितान् । तदा सन्तोषयामास, साधूंश्चापि सहस्रशः ॥ २७ ॥ दानपुण्यमखण्डं त-ज्जीवितावधि स व्यधात् ।
मवेत्र तदसौ जातः, आधारः सर्वभूस्पृशाम् ॥२८॥ दुर्भिक्षमभविष्यच्चे-ज्जातो नाऽभूदयं शिशुः । यदैषमोऽन्यदेशेष. स्तोका
.
.
.
.
॥६७॥
.. एवामवन् घनाः ॥ २९ ।। अतो नैमित्तिकः सत्य-स्त्वमेतं माऽवहीलय । श्रुत्वेति विस्मितो राजा, मूरीनत्वा गतो गृहम् ॥ ३० ॥ आनाय्य वालकं चक्रे, तमेव नृपतिं नृपः । औचित्याऽऽचरणे सन्तः, किं मुह्यन्ति कदाचन ? ॥ ३१ ॥ यस्याऽऽ- धारे प्रवर्त्तन्ते, प्रजाः सौख्यसमृद्धिभिः । स एव कीर्णते राजा, इति स्मृतिवचो यतः ॥ ३२ ॥ धर्मराज इति प्रत्त-नामा भूपमुखैर्जनैः । स बालोऽप्यभवद्राजा, बालार्क इव तेजसा ॥ ३३॥ तदाज्ञा यत्र देशेऽभून् , दुर्भिक्षं तत्र नाऽभवत् । विक्रीया- ऽन्येषु देशेषु, धान्यानि द्युम्नमर्जितम् ॥ ३४ ॥ एवं स धर्मप्रवणः प्रभावना, चक्रे चिरं श्रीजिनराजशासने । प्रान्ते परिव्रज्य तपोभिरुत्कटैः, स मोक्षसौख्यं समवाप भूपतिः ॥ ३५ ॥ ॥ इति श्री उपदेशसप्ततिकायां पञ्चमेऽधिकारे प्रथम उपदेशः ॥१॥ साम्राज्यमारोग्यमनेकसम्पदः, प्रधानरूपं शुभमायुरायतम् । जीवाऽनुकम्पा परचेतसां नृणां, मवे भवे स्युः किमिहोच्यते बहु ॥१॥ वेदे पुराणे स्मृतिषु प्ररूप्यते, यस्याः प्रधानत्वमनेककोविदैः । विशिष्य तु श्रेष्ठतमे जिनागमे, कस्को न तां जीवदयां हि मन्यते ? ॥२॥ श्रूयते हि कपोतेन, शत्रुरप्यात्ममन्दिरे । प्राप्तो निमन्त्रितः स्वीय-मांसैः सदयचेतसा ॥३॥ कपोतदम्पती क्वापि, कानने कान्तपादपे । निवासं कुरुतः काम-मन्योऽन्यमनुरागिणौ ॥ १॥ वने तत्राऽन्यदा कोऽपि, ज्ञानी साधुः समाययौ । लाभं ज्ञात्वा तयोरग्रे, स चक्रे धर्मदेशनाम् ॥ २ ॥ श्रुत्वा तस्य मुनेर्वाक्यं, तत्कपोतयुगं तदा । तन्वद्यथोचितं धर्म, समया कुरुते क्रमात् ॥३॥माघमासेऽन्यदा तत्र, लुब्धकः कश्चिदाययौ । कृतान्ततुल्यः क्रूरात्मा, सपाशो
सप्ततिका.
उपदेश-
॥६८॥
हस्तपञ्जरः ॥ ४ ॥ स्थाने स्थाने च कुर्वाणः, स पापी पक्षिबन्धनम् । आयातस्तत्र यत्रास्ति, तत्कपोतयुग मुदा ॥५॥ स्वप्राण-
वृत्ति कुर्वाणा, कपोती तेन पापिना । निबध्य पञ्जरे क्षिप्ता, किमकृत्यं न पापिनाम् ? ॥६॥ इतश्च हिमसंसिक्त-सवातजलवृष्टिभिः ।
वेपमानवपुर्व्याधः, सायं तं वृक्षमाश्रितः॥७॥ असह्यस्फीतशीतेन, व्याप्यमानवपुः क्रमात् । मूर्छामतुच्छां समाप-दहो!
पापफलं महत् ॥ ८॥ कपोती पञ्जरान्तस्था, वृक्षकोटरगं तदा । कपोतं स्वप्रियं प्राह, ममैकं त्वं वचः शृणु ॥९॥ एष शाकु-
निकः शेते, तवाऽऽवासं समाश्रितः । शीतार्तश्च क्षुधार्तश्च, तदस्मै हितमाचर ॥१०॥ मत्प्रियाऽनेन बद्धति, मा चाऽस्मै त्वं रुषं
कृथाः । स्वकृतैरेव बद्धाह, प्राक्तनैः कर्ममर्मभिः॥११॥ दारिद्ररोगदुःखानि, बन्धनव्यसनानि च । आत्माऽपराधवृक्षस्य, फला-
न्येतानि देहिनाम् ॥ १२ ॥ ततस्त्वं द्वेषमुन्सृज्य, मद्धन्धनसमुद्भवम् । धर्मे मनः स्थिरं कृत्वा, जीवयैनं च भोजय ॥ १३ ॥
अग्निस्थाने ततो गत्वा, ज्वलत्काष्ठतृणादिकम् । निजशक्त्यनुमानेन, चञ्च्वाऽऽदाय स सत्वरं ॥१४॥ तत्र प्राप्तः स यत्रास्ति,
लुब्धकः शीतमूच्छितः । ततः शुष्केषु पणेषु, तमाशु समदीपयत् ॥ १५॥ तापयस्वाऽत्र विश्रब्धं, स्वाङ्गानीत्याह लुब्धकम् ।
पक्षिणामप्यहो! लोको-त्तरा काऽप्युपकारधीः ॥ १६ ॥ किश्चिदुत्पन्नचैतन्यं, कपोतो व्याधमब्रवीत् । न मेऽस्ति विमवः
कश्चि-येन ते नाशये क्षुधम् ॥ १७ ॥ सहस्रम्भरयः केचि-त्कश्चिल्लक्षम्भरिनरः। मम त्वकृतपुण्यस्य, क्षुद्रस्याऽऽत्माऽपि
दुर्भरः ॥ १८ ॥ एकस्याऽप्यतिथेर्भोज्यं, प्रदातुं क्षमते न यः । तस्याऽनेकपरिक्लेशे, गृहे किं वसतः फलम् ? ॥१९॥ तत्तथा
साधयाम्येत-च्छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि, नाम्तीत्यर्थिसमागमे ॥ २०॥ गृहाण त्वं मदीयं च, भटि-
त्रीभूतमामिषम् । इत्युक्त्वाऽग्नौ पपातष, भस्मसाच्च क्षणादभूत् ॥ २१ ॥ लुब्धकोऽपि तदा दध्यौ, कोप्ययं करुणापरः । कपोतो
॥६८॥
योऽग्निसाचक्रे, स्वकार्य मत्कृते हहा ! ॥ २२॥ यः करोति नरः पापं, न तस्याऽऽत्मा ध्रुवं प्रियः । आत्मना हि कृतं पाप- मात्मनैव हि भुज्यते ॥ २३ ॥ ममाऽप्यहो ! नृशंसस्य, प्रतिबोधः प्रकाशितः। कपोतेन स्वमांसानि, ददानेन महात्मना ॥ २४ ॥ निष्कारुण्येष्वहं मौलि-रयं च सदयात्मसु । ध्यात्वेति भनवानेष, पञ्जरं पापमन्दिरम् ॥ २५ ॥ कपोतीं तां विमु- च्यैष, वराकीमात्ममन्दिरे। गत्वा कुटुम्बं व्युत्सृज्य, तापसव्रतमग्रहीत् ॥२६॥ तप्यमानस्तपस्तीत्रं, दवादप्यन्यदा वने । अभीत: प्रतिमास्थोऽसौ, तद्दग्धो मृत्युमाप्तवान् ॥२७॥ कपोत्यपि कपोतेन, वियुक्ता विरता भवे । दयाधर्मरता काले, प्राप प्रेतपतेर्गृहम् ॥ २८ ॥ एवं त्रयोऽपि ते जीवाः, दयाधर्मपरायणाः । दिवि देवा अजायन्त, पश्यताऽहो ! दयाफलम् ॥ २९ ॥ इति पौरा- णिकः सोऽयं, सम्बन्धो लिखितो मया । अनुकम्पा ततः कार्या, सर्वैः सर्वेषु जन्तुषु ॥ ३० ॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे द्वितीय उपदेशः ॥ २ ॥ यस्याऽस्ति धम्म दृढता परामवं, न व्यन्तराद्या अपि तेषु कुर्वते । देवी च देवश्च वणिग्वरेण, न वश्चितौ किं निजशुद्धबुद्धया ? ॥१॥ अभूदेवपुरे श्रेष्ठी, कुलानन्दः कुलोत्तमः । जिनधर्मदृढः कोटी-ध्वजोऽक्षोभ्यः सुरैरपि ॥१॥ पुत्राऽभावात् परं किञ्चि- सचिन्तं तं जनाः जगुः । पुराऽधिष्ठायिका सत्य-प्रत्यया वर्तते मुरी ॥२॥ किं नोपयाचितं तस्याः १, मन्यते किं धनैर्घनैः। इत्यादि लोकैरुक्तोऽपि, श्रेष्ठी तु प्रति वक्ति तान् ॥ ३ ॥ भो मूर्खाः ! एकशो भक्ति-र्यक्षादीनां क्रियेत चेत् । पुनः पुनस्तदी- ..
उपदेश-
॥६९॥
प्सायां, तेषां किं सुखमात्मनः ॥ ४॥ यतः-
सप्ततिका.
"वेसाण वंदिआण य, माहणटुंबाण जक्खरक्खाणं । भत्ता भक्खट्ठाणं, विरयाणं जंति दूरेण ॥१॥"
इत्यादि तत्त्ववार्तामि-दृढीकुर्वनिज मनः । जनैः प्रभूतरुक्तोऽपि, सम्यक्त्वे निश्चलोऽभवत् ॥ ५॥ पत्नी तु मुग्धभावेन,
श्रुत्वा तल्लोकभाषितम् । देवीभवनमागत्य, स भक्त्यैवं वचो जगौ ॥ ६ ॥ मातमें त्वत्पमादेन, तनयो मविता यदि । लक्षत्रय-
मयीं पूनां, ढौकयिष्यामि ते तदा ॥ ७॥ क्रमेण तनये जाते, भर्तुस्तदुपयाचितम् । तयोक्तं तद्वचो मेने, सोऽपि तस्याः
कदाग्रहात् ॥८॥श्रेष्ठी त्रिलक्षनिष्पन्न-सौवर्णकुसुमत्रयम् । निर्माप्य रत्ननटितं, सपौरः सकुटुम्बकः ॥९॥ देवीभवनमागत्य,
पूजापूर्व सविस्तरम् । तां भाले मुनयोः पुष्प-त्रयन्यासादपूपुजन् ॥ १०॥ स्वस्य पत्न्याः शिशोश्चैष, शेषार्थ कुसुमत्रयम् ।
दत्त्वा गृहीत्वा स्वं धामा-ऽऽजगाम दृढदर्शनः ॥ ११ ॥ दृष्ट्वा शठचरित्रं तद् , बिलमा व्यन्तरी जगौ। एकान्ते निन मित्रस्य,
सीहडस्य स्वदुःखितम् ॥ १२ ॥ किं करोमि ? शठेनाऽहं, वणिजाऽनेन यश्चिता । पुष्पाणां पूजया युक्ति-पूर्व तद् ग्रहणेन च
॥ १३ ॥ सीहडोऽपि सदुःखां तां, जगौ त्वं छुटिना मुधा । शृणु मुच ! चरित्रं मे, यथाऽनेन कथितः ॥ १४॥ पुरा प्रवह-
णान्यस्य, गतप्रायाणि जज्ञिरे । न शुद्धिः काऽप्यभूत्तेषां, सुबह्वपि गवेपिता (१) ॥ १५ ॥ ततः प्रच्छन्नमेतस्य, बन्धुर्मह्यम-
मानयत् । महान्तं महिषं पोत-क्षेमागमनकासया ॥१६॥ आलोड्य जलधि मर्व, मयाऽपि निनशक्तितः। तान्यानीतानि
हर्षोऽभूत् , सर्वेषामपि चेतसि ॥ १७ ॥ तन्मध्यागतवस्तूनां, कुर्वतः क्रयविक्रयम् । भूयान् यदभवल्लाभो, ममैव स्फुर्जितं हि
तत् ॥ १८ ॥ भ्राताऽप्यवसरे प्राह, श्रेष्ठेनोऽग्रे स्पमानितम् । एष धूर्तस्तनाचट, करिष्ये तव मानिनम् ॥ १९ ॥ आनीय ॥६९ ॥
.. तरुणं चैकं, महिषं मम मन्दिरे । गृहाण भक्ष्यं यक्षेदं, यद्धात्रा ता मानिनम् ॥ २० ॥ उक्तवेति तस्य कण्ठस्थ-रज्जु मे गल- कन्दले । बबन्ध निबिडग्रन्थि-दानपूर्व दुराशयः ॥२१॥ पूजादिविस्तरानै कान् , भक्तिव्याजादचीकरत् । भेरीप्रमुखवायानि, मत्पुरोऽवादयत्तथा ॥ २२॥ तचनि श्रयगात्रस्तो, महिषो मे कदधनाम् । तथा चक्रे यया मेऽभून, सर्वाङ्ग क्षतसन्ततिम् ॥२३॥ एकतो महिषः पापी, मामाकर्षति लेष्ठुरन् । अन्यतः कौ की लोको, दत्त नालं जहास च ॥ २४ ॥ अत्रान्तरे हहाकार-मुखराः शतशो द्विजाः। दधाविरे कुनोऽस्माकं, देवोऽयं तु विडम्यते ॥२५॥ श्रेष्ठिराज! विमुश्चनं, विलम्बः क्षमते नहि । इत्यादि द्विजलोकानां, बहू के सोऽब्रवीत्तदा ॥ २६ ॥ नानन्त्यमक्ष्यं भो लोकाः !, सुरा अमृतभोजिनः। क्रीडामात्र- मिदं तेषां, जीवहिंसाविधापनम् ।। २७ ॥ इत्याख्याय स लोकानां, द्विजानां च कदाग्रहात् । अमोचयद्यममुखा-दिव मां सैर- भात्ततः ॥ २८ ॥ ततो मे मण्डिता मूर्तिः, प्रासादे ब्राह्मणोत्तमः । एवं मे महिमा सर्वो, ध्वस्तोऽनेन दुरात्मना ॥ २९ ॥ मा कार्षीरसमाधि त-मौनमेव समाचर । निःशूके निर्दये पुंसि, देवा अपि हतौजसः ॥३०॥ देवी स्वस्थानकं प्राप्ता, सीह- डव्यन्तरोऽपि सः । तत्कुटुम्बं परित्यज्य, रेमेऽन्यत्र निजेच्छया ॥ ३१ ॥ सम्यक्त्वमेवं चिरमेष पालयन् , प्रबोधयन् भद्र- कजन्तुसन्ततीः । प्रभावयंश्चाईत शासनं क्रमा-ल्लोकद्वयेऽप्यद्भुतसौख्यभागभूत् ॥ ३२ ॥ ॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे तृतीय उपदेशः ॥३॥ . धर्मे प्रधाना यतना मनीषिभिः, प्ररूपिता सा गृहिणस्तु दुर्लमा ।
उपदेश-
सप्ततिका.
.
॥ ७०
.
तथापि तस्यां यतमान आस्तिकः, स्यात्सौख्यमाक् सा मृगसुन्दरी यथा ॥१॥
श्रीषणः श्रीपुरे राजा, राजेव जनवत्सलः । तत्पुत्रो देवराजोऽभूद्, देवराज इवापरः ॥ १॥ जन्मप्रभृति तस्याओं, दुष्टः
कुष्ठामयोऽभवत् । कृताः प्रतिक्रिया नैकाः, अफलाः किन्तु जज्ञिरे ॥२॥ जातानि सप्तवर्षाणि, राज्ञाऽन्येयुः पुरान्तरे ।
पटहोद्घोषणापूर्व-मित्यश्रावि जनोऽखिलः ॥३॥ व्याधि यो मम पुत्रस्य, पण्डितोऽपण्डितोऽपि वा । अपनेष्यत्यसौ मावी,
राज्याईस्थितिमाजनम् ॥ ४ ॥ लक्ष्मीवती यशोदत्त-व्यवहारिसुताऽभवत् । तत्र धर्मरता शीले, विशिष्य तु कृतादरा ॥५॥
निनशीलपरीक्षाय, निवार्य पटहस्तया । स्वहस्तस्पर्शमात्रेण, स कुमारः पटुकृतः॥६॥ कुमारेण समं तस्या-स्ततः पाणि-
ग्रहोत्सवः । समजायत हस्त्यश्व-रथदानादिपूर्वकम् ॥ ७॥ तं कुमारं न्यस्य राज्ये-ऽवसरे स महीपतिः। स्वीचकार परिव्रज्यां,
कालज्ञा उत्तमा यतः ॥ ८॥ देवराजोऽपि साम्राज्यं, स्वराज्यमिव पालयन, अन्यदा पुट्टिलाचार्या-स्तत्र प्राप्तानवन्दत ॥९॥
पप्रच्छ च प्रभो! कस्माद् , व्याधिर्मे सप्तवार्षिकः । कथं चास्याः करस्पर्श-मात्रादप्येष निष्ठितः १ ॥ १० ॥ प्राहुः श्रीगुरवो
राजन् !, प्राग्भवे श्रेष्ठिपुङ्गवः । देवदत्त इति ख्यात-श्चत्वारस्तस्य सूनवः ॥ ११ ॥ गोपा-देपा-सिवा-शूरा-संज्ञा मिथ्यात्व-
वासिताः । चतुर्थेन त्वया तेषु, कपटश्राद्धताजुषा ॥ १२ ॥ परिणीता श्राद्धसुता, या नाम्ना मृगसुन्दरी । आबाल्यादपि
तस्यास्तु, विद्यतेऽयमभिग्रहः ॥ १३ ॥ पूजयित्वा जिनं देवं, संयतान् प्रतिलाभ्य च । भोक्तव्यमेकशी रात्रौ, न मोज्यं च
कदाचन ॥ १४ ॥ सम्भूय तेऽन्यदा प्राहु-स्तां नवोढामिति क्रुधा । अरे! पाखण्डमुत्सृज्य, गृहाचारं समाचर ॥ १५ ॥
नार्चनीयो जिनो दानं, न देयं वतिनां त्वया । रजन्यां भोजनं कार्य-मन्यथाऽस्मद्गृहादूज ॥१६॥ सा विदं जात्वनिच्छन्ती,
.
॥७०॥
. मनसाऽपि महाईती । जातोपवासत्रितया-आक्षीच्छ्रीमद्गुरूनिति ॥ १७ ॥ किं कुर्वे ? धर्ममेतेभ्यः, कत्तुं नाई लभे विभो।। श्रीसिद्धान्तमथाऽऽलोक्य, तेऽपि तामेवमभ्यधुः॥ १८॥ पश्चतीर्थीपञ्चसाधु-प्रणतिपतिलामनैः । यादृशं प्राप्यते पुण्यं, भद्रे! तादृशमाप्यते ॥ १९ ॥ चुल्हकोपरि निश्छिद्र-पृथुवस्त्रस्य बन्धनात् । आकर्ण्यति गता गेहं, तथैव कुरुते स्म सा ॥ २० ॥ युग्मम् ।। अथ चन्द्रोदयं दृट्वा, वधूटी श्वशुरोऽब्रवीत् । किमिदं कार्मणं पापे !, स्वकुलक्षितये कृतम् ? ॥ २१॥ सा प्राह ननु जीवानां, रक्षणार्थोऽयमुद्यमः । तद्वचोऽमन्यमानेन, पत्या प्रज्वालितः स तु ॥ २२॥ पुनस्तया बबन्धेऽसौ, तेनाऽज्वालि तथैव सः। एवं सप्त तया बद्धाः, ज्वालिताश्च दुरात्मना ॥ २३ ॥ अवादीत् श्वशुरः क्रुदो, गच्छ रे ! स्वपितुर्गृहम् । साऽप्यवोचदई प्राप्ता, सकुटुम्बा भवद्गृहे ॥ २४ ॥ तथैव प्रेषणीयाऽहं, नूनं याम्यन्यथा कथम् ? । सजीवभूवुः सर्वेऽपि, तस्याः सम्प्रेषणाय ते ॥२५॥ माग्गे स्वकीयेनैकेन, भुक्त्यर्थं ते निमन्त्रिताः । रात्रौ वध्वा अभुक्तत्वा-म भुक्ताः श्वशुरादयः ॥ २६ ॥ निष्पन्नं रसवत्यादि, बुभुजे तत्कुटुम्बकम् । ममार विषमिश्रत्वा-दाहारस्याखिलं च तत् ॥ २७ ॥ यावत्ससम्भ्रमाः प्रातः, पश्यन्ति श्वशुरादयः। तावत्पतितमैक्षन्त, व्यापन्नं तत्र पनगम् ॥ २८॥ नूनमेष भ्रमन्नूर्व, धूमेन व्याकुलीकृतः । पपात धान्यस्थाल्यन्त-रिति निश्चिक्यिरे च तैः ॥ २९ ॥ हहा ! चन्द्रोदयाभावा-दनर्थोऽयं महानभूत् । वध्वा एव प्रसादेन, पुनरुज्जीविता वयम् ॥३०॥ मेनिरे भक्तिनम्रास्ते, वधूं श्रीदेवतामिव । सम्मान्य स्वं गृहं निन्युः, श्रावकत्वं च भेजिरे ॥३१॥ भद्राः! पञ्चशतव्याधावत् पापं विधीयते । तावच्चन्द्रोदयाऽबन्धे, गृहिणो ज्ञानिनो जगुः ॥ ३२ ॥ इत्यादि तस्याः शिक्षा- या-मायुक्तास्तेऽभवंश्चिरम् । तस्यास्तु यः पतिस्तत्र, स त्वमत्र नृपोऽभवः ॥ ३३ ॥ जीवस्तु मृगसुन्दर्याः, सेयं मार्या .
उपदेश- सप्ततिका. ॥७१ ॥ तवाऽजनि । यस्याः प्रभावतो व्याधि-र्गतस्ते सप्तवार्षिकः ॥ ३४ ॥ सप्तशो ज्वालनाच्चन्द्रो-दयानां सप्तवार्षिकः । कुष्ठरोगोड- भवत्प्राच्यं, नान्यथा यद्यथाकृतम् ॥ ३५ ॥ इति श्रुत्वा जातजाति-स्मृती तौ दम्पती सुते । राज्यं न्यस्य परिव्रज्य, सुगति च क्रमाद्गतौ ॥ ३६ ॥ इति जीवदयाफलं बुधाः, अवधार्य स्वहृदि स्पृहा यदि । शिवशर्मणि तद्विधीयतां, स्वमनस्तत्र कठोरतोज्झिताः!॥ ३७॥ ॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे चतुर्थ उपदेशः ॥ ४ ॥ विचार्य वाच्यं वचनं हितं मितं, न कर्कशं क्वापि निगद्यते बुधैः । अप्येकशः प्रोक्तकठोरवाक्यतो, न कि विगुप्तौ जननी सुतावपि ॥ १ ॥ छिनमि हस्तौ चरणौ च लोचने, निष्काशयामि त्वमरे ! म्रियस्व वा। इत्यादयः कर्कशवापरम्परा-स्त्याज्या बुधैर्दुग्गतिमार्गदीपिकाः ॥ २ ॥ ताम्रलिप्तीपुरी ताम्र-मयवप्रविराजिता । तत्रेभ्यो रतिसाराह्वो, बन्धुला तस्य च प्रिया ॥१॥ तयोर्बन्धुमती पुत्री, प्रकृत्यो- द्भटवेषभाक् । सौवर्णसर्वाभरणा, श्रेष्ठिनोऽत्यन्तवल्लभा ॥२॥ तां प्रत्याह पिता वत्से !, मा काविषमुद्भटम् । नेदृशो वणिजां माति, सा तथाऽपि न तिष्ठति ॥३॥ भृगुकच्छपुरात्तत्र, वाणिज्यार्थमुपेयुषा । बन्धुदत्तेन साऽन्येयुः, परिणीता सदुत्सवः॥४॥ ना जा॥गिता बालिकाले -..-.-Amers
उपदेश-
यास्यत्येष हली तु पुद्गलपरावर्तामध्ये शिवं, त्वत्तो दर्शनमाप्तवान् द्विघटिकं तेनोद्यमः कारितः ।
श्रुत्वेन्द्रप्रमुखा इति व्यतिकरं जाता दृढा दर्शने, तद्भो भव्यजना ! भवद्भिरपि तचित्ते चिरं स्थाप्यताम् ।। ३३ ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे सम्यक्त्वोपरि हालिकोपदेशो द्वितीयः ॥२॥
सप्ततिका.
.
श्रीवीतरागस्मरणैकताना, भवन्ति ये ते सुखमाजनं स्युः । यथाम्बिका रैवलदैवतं श्री-नेमि स्मरन्ती भवति स्म देवी ॥१॥
सुराष्ट्रविषये कोटी-नारनाम्नि पुरेऽभवत् । सोमभट्ट इति ख्यातो, मिथ्यादृग् द्विजपुङ्गवः ॥१॥ देवशर्माख्य-
भूदेव-तनया विनयान्विता । अम्बिका तस्य भार्याऽभू-दमङ्गन्सुमगाकृतिः ॥ २ ॥ परं सा श्राविका शील-सम्पना
परमाईती, तयोर्द्वयोरपि पीति-स्तेन मन्दायते भृशम् ॥ ३ ॥ तथापि तेन साई सा, भुञ्जाना भोगजं सुखम् । तनयो
जनयामास, शुभकरविमङ्करौ ॥४॥ अन्यदा पर्वणि क्वापि, सजीभूते च भोजने । श्वश्वामन्यत्र जग्मुष्यामम्बिकैव गृहेऽभवत्
॥५॥ तत्र चावसरे प्राप्तौ, साधू तैरशनादिभिः । पुण्यवत्या तया स्वैरं, सभक्तिप्रतिलाभितौ ॥ ६॥ यतः-
उत्तमपत्तं साहू, मज्झिमपत्तं तु सावया मणिया । अविरयसम्मद्दिहि, जहन्नपत्तं मुणेयव्वं ॥१॥
गलद्रसं मधूकं दृष्ट्वा भोज प्रति धनपालोक्तिरपि यथा-
यदास्ति पात्रं न तदास्ति वित्तं, यदास्ति वित्तं न तदास्ति पात्रम् । एवं हि चिन्तापतितो मधूको, मन्येऽश्रुपातै रुदनं करोति ॥१॥
महुअदुमोवि हु रोयइ, फलोदएणावि पत्तरहिएण । नणं अभबनीवा, दाणावसरं न पावंति ॥१॥
. तस्य वाहनम् । आहन्यमानं कल्लोले-भङ्गमाप क्षणादपि ॥६॥ अवाप्य फलकं चैक, बन्धुदत्तस्तदाऽम्बुधिम् । लग्नस्तरीतुं वातेन, प्रेरितश्च तटेऽलगत् ॥ ७॥ निमालयति दिक्चक्रं, यावदुद्धान्तलोचनः। तावत्तनगरोद्याने, प्राप्तमात्मानमैक्षत ॥ ८॥ अहो! दैवगतिः केयं ?, लज्यते यत्र मानवैः । ईदृक्षोऽहं कथं गन्ता?, तत्र श्वशुरमन्दिरे ॥९॥ स्त्रीपीहर नरसासरउ, संजमियां सहवास । एत्रिण्हइ अलग्वामणां, जइ को करई तपास ॥१॥ अतर्कितानि सौख्यानि, दुःखान्यपि शरीरिणाम् । भवति तदलं क्लेग-हेतुना चिन्तयाऽनया ॥ १०॥ विचिन्त्येति स्थितो देव-कुले ज्ञापितवानसौ । श्वशुरस्य गृहे स्वस्य, तत्र प्राप्त्यादि केनचिन् ॥ ११ ॥ श्रुत्वा जामातृवार्ता तां, मनःसन्तापका- रिणीम् । आः! किमेतदिति श्रेष्ठी, मोचरन् सहसोत्थितः ॥ १२ ॥ यावत्तदन्तिके याति, तावदस्तङ्गतो रविः । उत्सूरत्वा- त्कुटुम्बेन, वारितः स्वगृहे स्थितः ॥ १३ ॥ ब्राहये मुहूर्त जामातृ-मिलनाय चचाल सः। आदाय वस्त्राभरण-प्रभृत्यवसरो- चितम् ॥ १४ ॥ सौवर्णवलयव्यूहैः, शोभमानभुजालता । म्बपतिं वीक्षितुं वन्धु-मत्यपि प्रस्थिता सह ॥ १५ ॥ श्रेष्टिनः पृष्ठिगामिन्या-स्तस्याः कोऽपि करौ तदा। चिच्छेद तस्करो लुब्धः, प्राक्कृतं कर्म नान्यथा ॥१६॥ सञ्जाते तुमुले तत्र, प्राप्तास्तलवरादयः । ज्ञातस्वरूपास्तचौर-पदैरेव दधाविरे ॥१७॥श्रेप्ठी पश्चातो गेहे, प्रभूतो मिलितो जनः । उच्चर- न्कर्म कर्मेति, विदधे शोकसङ्कथाम् ॥ १८ ॥ इतश्च चौरोऽप्यासन-प्राप्तांस्तान्धीक्ष्य विह्वलः। तद्देवकुलमायातः, सुप्तः प्रागस्ति यत्र सः ॥ १९ ॥ लोत्रं तस्यान्तिके मुक्त्वा, काकनाशं ननाश सः। भटैश्चौरोऽयमेवेति, ज्ञातं तद्वस्तुदर्शनात् ॥२०॥ निविलम्ब निर्विचारं, शूलायामधिरोपितः। स तैरिति विडम्यन्ते, कर्मभिः के न जन्तवः ॥२१॥ अथ श्रेष्ठी सुताशोक, .
सप्ततिका.
उपदेश-
॥७२॥
कृत्वा प्राप्तस्तदन्तिकम् । यावत्तावदयं प्राणै-रुज्झाश्चक्रे खलरिव ॥ २२ ॥ दृष्ट्वा तादृगवस्थं तं, तान् जगाद स दुःखितः।
भवद्भिः किं कृतं ? भो मोः!, जामातैव हतो मम ॥२३॥ तदुःखदुःखितास्तेऽपि, तस्वरूपे निवेदिते । सर्वे स्वस्वगृहं प्राप्ता-
श्चिन्तयन्तो भवस्थितिम् ॥ २४ ॥ जामातुस्तनयायाश्च, तादृक् तत्कर्मवैशसम् । विज्ञाय रतिराारोऽभूद् , धर्मसारस्ततः परं
॥ २५॥ अन्यदा सुयशास्तत्र, चतुर्बानी समागतः । श्रेष्ठी तद्देशनां श्रुत्वा-ऽपृच्छत्प्राच्यभनं तयोः ॥ २६ ॥ ज्ञानी प्राह पुरा
शालिग्रामेऽभूत्काऽपि दुर्गता । महेला बालकसुता, कुटुम्बाद्यैः परिच्युता ॥ २७ ॥ सा महेभ्यगृहे नीच-कर्माण्युदरपूर्तये ।
करोति वत्सरूपाणि, चारयत्यङ्गजः पुनः ॥ २८॥ अन्यदा वत्सरूपाणि, चारयित्वा मुतो गृहे । प्राप्तस्तजननी क्वाऽपि, कार्ये
सक्ता तु नागता ॥ २९ ॥ बभूव महती वेला, स वालः क्षुधितो भृशम् । गृहप्राप्तां च तामूचे, साधिक्षेपमिदं वचः ॥३०॥
शूलायां त्वमरे रण्डे !, क्षिप्ताऽभूः किमियच्चिरम् ? । बुभुक्षापीडितं मां किं, न जानासि ? विचेतने ! ॥३१॥ तथैव साऽपि
प्रत्यूचे, छिन्नौ किं ते कराविमौ ? । यदत्र सिक्कके भोज्यं, त्वदर्थ सज्जितं मया ॥ ३२ ॥ कस्मान्न जगृहे ? मूर्ख !, दोषः को
मेऽवशत्वतः । एवं ताभ्यां चिरं चक्रे, कलहो बहुलस्तदा ॥ ३३॥ अनालोचिततत्पापौ, तौ मातृतनयो तव । सुताजामातरौ
जातो, तदिदं भवनाटकम् ॥ ३४ ॥ येन यादृग्वचः प्रोक्तं, स तादृक् फलमश्नुते । ततस्तत्त्वमिदं श्रेष्ठिन् !, कार्यों वचनसंवरः
॥ ३५ ॥ श्रुत्वेति तस्य सविधे व्रतमाप्य साधोः, श्रेष्ठी बभूव सुखभाग् रतिसारनामा। भ्रान्तौ च तौ मवमनन्तमिति प्रबुध्य,
वाच्यं विचार्य वचनं मधुरं मितं च ॥ ३६॥
॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे पञ्चम उपदेशः ॥५॥
॥७२॥
. . पूजात्रयावश्यकयुग्मरूपा, यो लग्नवन् प्रत्यह पञ्च वेलाः । सत्यापयेत्स प्रवरसन्मान , बुधैर्जगत्सिह इव प्रशस्यः॥१॥ श्रीपीरोजसुरत्राण-सभाशृङ्गारकारणम् । जगत्सिह इति श्रेष्ठी, सञ्जातो योगिनीपुरे ॥ १॥ अखिलेऽपि पुरे ख्यातः, स एकः सत्यवादिनाम् । असत्यवादिना प्रायो, न प्रतिष्ठा वाप्यते ॥ २॥ स्याहावपि शीतत्वं, पवनेऽपि स्थिरात्मता । तथाऽपि प्रेक्ष्यते तत्र, जातु नाऽसत्यवादिता ॥ ३ ॥ तस्येति ख्यातिमाकर्ण्य, परीक्षायै कृतादरः। अपृच्छदुर्जनान् भूपो, रहस्तन्मर्मवेदिनः ॥ ४ ॥ भो भोः ! निगद्यतामस्य, श्रेष्ठिनोऽस्ति कियद्धनम् ? । तेऽपि द्रोहपरा ऊचु-लक्षाः सप्ततिसंख्यया ॥५॥ कियदिनान्तरे भूप-स्तमुवाच कियद्धनम् । विद्यते तव ? सोऽप्याह, विमृश्य कथयिष्यते ॥ ६॥ दिने द्वितीये सम्माल्य, गृहोपस्करमाह सः । अब्ध्यष्ट ८४ लक्षसंख्या मे, सन्ति वित्तस्य भूपते ! ॥७॥ एष प्रागुक्तसंख्यातो-ऽधिकोक्त्या सत्य एव यत् । प्रायः स्वद्रव्यसंख्यायां, स्तोकः स्यात्सत्यवादकः॥८॥ ततस्तुष्टेन भूपेन, लक्षषोडशकार्पणात् । कृतः कोटी- ध्वजः श्रेष्ठी, सत्यस्याहो ! फलं कि.यत् ? ॥९॥ एकदा दर्शयामास, रत्नं तस्यार्कसोदरम् । भूपः स्वकोशादानाय्य, तं प्रत्ये- वमुवाच च ॥ १०॥ एतस्य सदृशं रत्नं, किमन्यद्विद्यते भुवि । सोऽप्याह किं धरामध्ये, पातसाहद्वयं भवेत् १ ॥ ११ ॥ तद्वचोरञ्जितस्तस्या-ऽर्पयत्तद्रत्नमुत्तमम् । न्यासार्थ नहि भेदः स्याद् , द्वयोः प्रीतिः स्थिरान्तरा ॥ १२ ॥ इति प्रीत्या तयोः काले, कियत्यपि गते सति । केनापि हेतुना राजा, रुष्टस्तं प्रत्यथैकदा ॥ १३ ॥ सम्पदो महतामेव, तेषामेव स्युरापदः । नीचास्तादग्विधा एव, चन्द्रधिष्प्यनिदर्शनात् ॥ १४ ॥ शीर्षस्य पुष्पामरणं, मुण्डनं च विधीयते । न चयापचयौ स्यातां, भ्रुवोः केशेषु कहिचित् ॥ १५ ॥ ततस्तं श्रेष्ठिनं भूपो, गुप्तिवेश्मन्यधारयत् । स्वकीयं तस्य रक्षार्थ, सेवकं च न्ययोजयत् स.१३
उपदेश-
सप्ततिका
॥७३॥
.
॥१६॥ तदा च श्रेष्ठिनः पञ्च-वेलाधर्मव्यतिक्रमः । दोद्यान्न तु माप-स्थापनात्परतन्त्रता ॥ १७ ॥ सेवकस्य ततस्तस्य,
रहः सौवर्णटङ्ककम् । दापयित्वा निजाः पुण्य-वेलाः साधितवानसौ ॥१८॥ यतो मवे भवे लक्ष्मीः, प्राप्यते भववृद्धिकत् । न तु
श्रीधर्मसामग्री, क्षयमेति भवो यथा ॥ १९ ॥ इत्येकविंशतिदिनां-स्तावटङ्ककदापनात् । स्वकृत्यान्यकरोद्धा-दरो लोको-
त्तरो ह्यसौ ॥ २० ॥ प्रसन्नोऽथ सुरत्राण-स्तं निजाङ्गविभूषणैः । पञ्चवर्णदुकूलैश्च, पञ्चशः पर्यधापयत् ॥ २१ ।। ततश्चामन्दवा-
धौघै-बहुलोकैश्च संयुतः । श्रेष्ठी स्वगृहमायातो, ददानोऽथि तमर्थिषु ॥ २२ ॥ क्रमेण विजने जाते, रक्षकोऽपि स टङ्ककान् ।
भूपादिमीतः पारेभे-ऽर्पयितुं गृह्यतामिति ॥ २३ ॥ श्रेष्ठयप्युवाच तं भद्र , मया तेऽमी समर्पिताः। तत्वमेतान्यथाकामं,
दत्स्व भुंश्व सुखी भव ॥ २४॥ यत्ते प्रसादतो धर्माऽ नुष्ठानं विदधे मया । एकोऽपि धर्मसम्बन्धी, क्षणः कोटथापि दुर्लभः
॥ २५ ॥ तेषु पञ्च मयैकेन, टङ्ककेन कृतार्थिताः । तत्तेऽधिकमपि द्रव्य, दीयते गृह्यते कथम् ? ॥ २६ ॥ इति पोच्य पुन-
र्दान-पूर्व तं विससर्ज सः। औचित्याचरणे सन्तः, किं मुह्यन्ति कदाचन ? ॥ २७ ॥ सपादलक्षमापालो-ऽन्यदा सेवार्थ-
मागतः । सुरत्राणपुरो वस्तु-द्वयं ढौकितवानिदम् ।। २८ ॥ चान्दनं शकलं मुक्ता-फलद्वन्द्वं च निर्मलम् । दृष्ट्वा तदल्पं भूपस्तु,
क्षणं रुष्ट इवाऽभवत् ॥ २९ ॥ पश्यन्ति सभ्याः सर्वेऽपि, न तु कोऽपि परीक्षयेत् । दध्यौ सपादलक्षीयो-ऽप्यहो! मूर्खा
अमी जनाः ॥ ३० ॥ अथोवाच जगत्मिहो, द्वयमेतदमूल्यकम् । चान्दनस्याऽस्य खण्डस्य, पूर्व माहात्म्यमुच्यते ॥ ३१ ॥
अग्नितप्तं शतमण-प्रमाणमपि जायते । एतत्खण्डेऽपि मध्यस्थे, तैलं हिमकणोपमम् ॥ ३२ ॥ किश्च पाण्मासिकेनापि, ज्वरेण
विधरीकृतः । धृष्टवैतच्छकलं पीत्वा, भवेजन्तुनिरामयः ॥ ३३॥ कौतुकं मौक्तिकद्वन्द्व-स्यापि देवाऽवधार्यताम् । विक्रीयैक-
.
॥७३॥
तरद्वैती-यीकं ग्रन्थौ निबध्यते ॥ ३४ ॥ अवश्यं तच्च सध्यायां, मिलत्युल्मुकमित्रवत् । श्रुत्वेति विस्मितो भूपः, परीक्षा कृतवांस्तयोः ॥ ३५ ॥ कथं वेत्सीति भूपेन, पृष्टः श्रेष्ठी पुनर्जगौ। आवाल्याभ्यासतो वस्तु-परीक्षा शिक्षिता मया ॥ ३६ ।। एवं हि पुण्यविषये, परीक्षा युज्यने सताम् । वाह्यवस्तुपरीक्षासु, मोदते न मनो मम ॥ ३७ ॥ इत्थं तदुक्तितः प्रीतः, प्रसाद स्फीतमातनोत् । तम्मै सपादलक्षीय-क्ष्मापाय च स भूमिराट् ॥ ३८ ॥ एवं पश्चाऽऽराधयन्पुण्यवेलाः, यावज्जीवं सत्यभाषांच जल्पन् । जैनं जाग्रच्छासनं भूरिकालं, चक्रे श्रेष्ठी श्रीजगत्मिहनामा ॥ ३९ ॥ ॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे षष्ठ उपदेशः॥ ६॥ श्लाघ्यस्तदीयतनयोऽपि वणिग्वरेण, रुद्धोऽपि यो निजपितुः शपथं न चक्रे । श्रीदेवतीर्थगुरुराड्जनकादिकानां, कायें महत्यपि यतः शपथो न कार्यः ॥१॥ जगत्सिहमहेभ्यस्य, तनयश्चतुराशयः । नाम्ना मदनसिंहोऽभून, तथैव ख्यातिमान् जने ॥१॥ खुरसाणमहास्थान-वास्तव्यो धनदाभिधः । प्रीतिपात्रमभूद्वम्तु-पतिस्तस्य पितुः पुरा॥२॥ दिवंगते जगत्सिहे, सोऽन्यदा योगिनीपुरे। आगतो व्यवसायार्थ, तद्गृहेऽप्याजगाम च ॥ ३ ॥ कुटुम्बक्षेमनिर्वाह-व्यवसायादिपृच्छया । तद्वत्तस्य मुनेऽप्येष, व्यवहारचिकीरभूत् ॥ ४ ॥ परं तस्य परीक्षार्थ, स उपायमिति व्यधात् । ऐहिकाऽमुष्पिके कार्ये, परीक्षा युज्यते सताम् ॥ ५ ॥ सोनउं चंदन सप्पुरिस, आपण पीड खमंति । कुलकसबट्टई जाणीयइ, जइ उपकार करंति ॥ १ ॥ ध्यात्वेति तं प्रति प्राह, मायया कृत्रिमादरः । मया तव पितुः पार्धा-ल्लभ्यं यत्तत्समर्पय ॥६॥ यतो बहूनि वर्षाणि, .
सप्ततिका. उपदेश- ॥७४॥ त्वत्पित्रा सह निम्मितः । व्यवहारो मया तेन, लभ्यं देयं च बहपि ॥ ७॥ तुरङ्गमशतं दत्त्वा, देयं निर्वालितं पुरा । औत्सु- क्यात्स्वपुरे प्राप्तं, शेष लभ्यं त्विह स्थितम् ॥ ८॥ कियल्लभ्यमिति मोक्ते, सोऽब्रवीजीर्णनाणकैः । लभ्याः सहस्रा द्वात्रिंश- द्यदि युक्तिस्तदाऽर्यतां ॥९॥ सुतोऽप्याह पितुर्देयं, स्तोकमप्यथवा बहु । वहिकायां यथादृष्टा-ऽभिधानं प्रददे मया ॥१०॥ परं तत्र भवन्नाम, काःपि, नाऽऽलोकितं मया । अपि लभ्यं कथं लभ्यं ?, विना लिखितभाषितम् ॥११॥ पुनर्जगाद तं श्रेष्ठी, चित्ते हृष्टोऽपि रुष्टवत् । अरे ! देयं पितुः पुत्रो, दत्ते कात्र विचारणा ॥ १२ ॥ श्रेष्ठिन् ! मुधा प्रयासोऽयं, भवद्भिः क्रियते कुतः । साक्षिणं लिखितं वापि, विना लभ्यं न लप्स्यते ॥ १३ ॥ गतः श्रेष्ठी सुरत्राण-सभायां प्राह तत्पुरः । देव ! विज्ञप्यमस्त्येकं, यद्यत्र विजनं भवेत् ॥ १४ ॥ राज्ञा तथाकृते सोऽवक्, कृत्रिमः कलहो मया । प्रारब्धोऽस्ति परीक्षार्थ, जग- त्सिंहाङ्गजन्मना ॥ १५ ॥ यत्तत्प्रलपने दोषो, न देयो मम कश्चन । इति प्रच्छन्नमाख्याय, सर्वाऽध्यक्षं ततोऽब्रवीत् ॥ १६ ॥ जगत्सिंहान्तिके राजन् !, मया लभ्यमभूत्पुरा । तत्सुतो नापयत्येष, क्रियते किं ? स्वमादिश ॥ १७ ॥ नृपाऽऽहूतः समा- मेत्य, स्वस्वरूपं सुतो जगौ । सोऽप्यात्मीयं ततो जातो, विवाद उभयोरपि ॥ १८ ॥ माह वस्तुपतिर्लभ्यं, न चेत्त्वत्पितुर- न्तिके । सर्वेषां पश्यतां तर्हि, त्वं तातशपथं कुरु ॥ १९ ॥ सधैर्यमवदत् पुत्रो, न तातशपथं सृजे । गृह्णातु लभ्यमात्मीयं, सर्वस्वमथवा भवान् ॥ २० ॥ विक्रीणेऽहं कथं द्वात्रि-शत्सहस्रैः स्ववीजिनम् ? । कोटीभिरुपकाराणा-मपि यो दुष्प्रतिक्रियः ॥ २१ ॥ केचिन्मूर्खाः निउ.पितु-गलस्य रुधिरस्य वा । कुर्वन्ति शपथास्तेषां, गति जानाति केवली ॥ २२ ॥ यतः- -------- i- नो पगे। Mण गोदिबीयं. अणंतमंसारिओ होई॥१॥" । ७४॥
. इत्थं तदुक्तिमाकर्ण्य, सर्वे सभ्याः सविस्मयाः । तत्पशंसां विनन्वन्ति, सोऽपि वस्तुपति गौ ॥ २३ ॥ वत्स! त्वं धन्यमू- ईन्यो, यस्य साहसमीदृशम् । परीक्षेयं मया चक्रे, लभ्यं मेऽस्ति न किञ्चन ॥२४॥ यतः कण्ठीरवापत्य, मवेत्कण्ठीरवोपमम् । न मूर्यात्तामसी वृष्टि-न चाङ्गारमयी विधोः ॥ २५ ॥ इति तं श्लाघयित्वा स, जगत्सिहपदे परे । निवेश्य तद्वत्तत्रापि, व्यव- हारमतन्तनीत् ॥६॥ एवं मदनसिंहोऽपि, वल्लमोऽभून्नृपादिषु । तत्र तत्र प्रतिष्ठा स्यात् , यत्र यत्र गुणादरः ॥२७॥ ग्ला- नीभूतं सुरत्राणं, मेदपाटागतोऽन्यदा । पोलाऽभिधो महावैद्यो, विदधे विगताऽऽमयम् ॥२८॥ ततः प्रभृति राजादे-रपि मान्यो बभूव सः। रसाङ्गवेदी शास्त्रज्ञो, विविधौषधयोगविन ॥ २९॥ स नालिकेरनवकं, भनक्ति युगपद्धली । पूगीफलं च तस्यान्तः, स्वाङगुष्ठेन क्षिपत्यसौ ॥ ३० ॥ जानुक्क्षार फोणीना-मंसयोश्च कि प्रति । निवेश्य चिबुके चैक, चूर्णयत्येवमेव तत् ॥३१॥ महाजनेन साई सो-ऽन्यदा शालामुपागतः, लिङ्गिना क्रियमाणे च, व्याख्याने समुपाविशत् ॥३२ ॥ तत्राधिकारे कुत्रापि, तपोगच्छावहीलनम् । चकारात्मस्तुति चष, पोलाकोष्थावदत्तदा ॥ ३३॥ अरे बोत्कट ! किं ब्रूपे १, न पश्यसि महाजनम् । इत्युक्त्वा सहसोत्थाय, तं जघान चपेटया ॥ ३४ ॥ जातो रोषारुणो लिङ्गी, सुरत्राणसभां ययौ । वैद्योऽपि तत्र प्राप्तव, स्वस्ववृत्तान्तमूचतुः ॥ ३५ ॥ उभयोरपि मान्यत्वाद्-भूपो यावज्जगाद न । तावन्मदनसिंहोऽवग्, देव ! कात्र विचारणा ? ॥ ३६ ॥ जिह्वा व्यापारिकेना-न्यश्च हस्तमवाहयत् । एकस्य दण्डेऽन्यस्यापि, दण्डस्तन्नोभयोरपि ॥ ३७ ॥ श्रुत्वेति हसितः स्वान्ते, सान्त्वयित्वा मृदृक्तिभिः । तावुभावपि राजेन्द्रः, स्वस्वस्थाने व्यस यत् ॥ ३८ ॥ एवं यथा मदनसिंहमहेभ्य एषः, प्राणात्ययेऽपि शपथं स्वपितुन चक्रे । तेनाईदादिविषये शपथो न कार्यः, सत्योऽप्यसत्य इह भव्यजनैर्विधिज्ञैः ॥ ३९ ॥ ॥ इति श्रीउपदेशसप्ततिकायां पश्चमेऽधिकारे सप्तम उपदेशः॥७॥ .
उपदेश- हिंसा बुधैः प्राणवियोग उच्यते, प्रागाश्च बाह्या द्रविणानि देहिनाम् । सप्ततिका. हताश्च ते तेन हृतानि येन चा-ऽन्यस्वानि तक्ष्णोत्र निदर्शनं प्रिया ॥१॥ सूदा-सूरा-मूण्टा-सोना-नामान इह ममहिमानः । अभवनिभ्याश्चतुरा-श्चत्वारस्तामलिप्तपुरे ॥१॥ बृहत्कुटुम्बा द्रव्याढयाः, प्रीतिभाजः परस्परम् । समानवयसो राज-समाशृङ्गारहेतवः॥२॥ भद्रप्रकृतयः सर्व-धर्मकर्मसु लालसाः। अन्यान्यमित्यालो- चन्ते, सृजन्ति स्माऽन्यदा रहः ॥ ३॥ अर्जितं द्रविणं भुक्ताः, भोगा जाताः सुनादयः। प्राप्तो मानो नृपादिभ्यो, नात्मकार्य कृतं परम् ॥ ४ ॥ स्वस्थावस्थे शरीरेऽत्र, धर्मः कार्यो मनीषिभिः । आदीप्ते भवने कप-खननं कः समाचरेत् ? ॥ ५ ॥ विमृश्येति स्वम्बगेह-चिन्तां स्वस्वाङ्गजेष्वमी । आरोप्य तीर्थयात्रायै, चेलुः संन्यासवेषिणः ॥ ६ ॥ पृथक् पृथग् लक्षमूल्य- रत्नगर्भाः विहङ्गिकाः । स्कन्धे दधानास्ते मार्ग-मुल्लङ्घन्ते शनैः शनैः ॥७॥ एकत्र नगरे प्राप्ना-स्तत्र मूत्रभृतो गृहे । भुक्त्वा मलापयित्वा च, तत्वत्न्यास्ता विहङ्गिकाः॥८॥ मध्ये चतुष्पथं प्राप्ता-स्तत्रत्यक्षिनिपाग्रतः। विधीयमानमैक्षन्त, नाटकं नाटय- कोविदैः ॥९॥ तदा च विननं मत्वा, रत्नं वर्द्धकिभार्यया । विहङ्गिकास्थं माम्य, हृनं तज्जीवितोपमम् ॥ १० ॥ अविवाह्य दिन तत्र, नाटके तेऽपि मन्दिरे । तत्रैव सायमायाताः, वामकं चावतस्थिरे ॥११।। प्रातः ममुत्थिताः म्वाः स्वाः, असम्भाल्य विहङ्गिकाः । स्कन्धे कृत्वा पुरश्चलु-गङ्गायां ने क्रमागताः ॥ १२ ॥ तत्र स्मादिपुण्यानि, कृत्वा श्राद्धं चिकीर्षवः । ऋष्टुं प्रत्ताः स्वस्वानि, रत्नानि व्ययनेच्छया ॥ १३ ॥ मूरस्तदानीमात्मीयं, तदपश्यन्नुवाच तान् । बान्धवाः ! मम तद्रत्नं, हृतं नेवालि पारिता ॥७॥ Ta विडिका: प्रायः सर्वदाप्यात्मसन्निधौ । अम्थापयामतत्कम्य, कार्या सम्भावनाऽत्र भोः! G७५॥ ..
. ॥ १५ ॥ मिथो विमृश्य तां तेषा-मेकः प्राह निशम्यताम् । यदा वर्द्धकिगेहान्त-मुक्ता एता विहङ्गिकाः ॥१६॥ तदाऽऽत्मनां तत्र नृत्ये, व्यग्राणां मत्रभृद्गृहे । तद्भार्यवाऽभवत्तेन, तस्याः सम्भाव्यते ह्यदः ॥१७॥ सत्यं सत्यमिति प्रोचु-रपरेऽपि त्रय- स्ततः । सूरोऽवादीदहो ! कीदृक्, तस्याः पातकपाटवम् ? ॥१८॥ हा ! निष्कारणवैरिण्या, महोद्वेगस्तया कियान् । कृतो ममेत्यु- रस्तापा-द्विलापानकरोद्भहून् ॥ १९ ॥ कथं श्राद्धविधिः कार्य-स्त्यागयागादयः कथम् ? । अन्यान्यपि हि पुण्यानि, क्रियन्ते निर्द्धनैः कथम् ? ॥ २० ॥ दध्यौ च स्वगतं यये-तया दुःखं ममेदृशम् । कृतं तदाऽहमप्यस्याः, करिष्ये दुःखमुल्बणम् ॥२१॥ विमृश्येत्याह सूरस्तान्, भो भोः शृणुन वान्धवाः । अहमत्र मरिष्यामि, विमोच्य करपत्रकम् ॥२२॥ निदानेन भविष्यामि, सुतस्तस्याः सुरूपभृत् । मवे तत्रापि मर्ताऽस्मि, भूत्वा द्वादशवार्षिकः ॥२३॥ एवं कृते च तस्याः स्यात् , महदुःखं हि नाऽन्यथा। कृते प्रतिकृतिं कुर्या-दिति शास्त्रेऽपि पठ्यते ।। २४ ॥ परं तत्समये तत्र, युष्माभिरपि बान्धवाः । आगत्याऽयं व्यतिकरः, श्राव्यस्तस्याः सविस्तरम् ॥ २५ ॥ लात्वा तत्पार्थतो रत्नं, व्ययनीयमिहैत्य च । एतदर्थे च युष्माभि-र्दीयतां दक्षिणः करः ॥ २६ ॥ तदुक्तिप्रतिपत्तिं ते-ऽप्यूरीकृत्य गता गृहम् । तथैव साधयामास, मरोऽपि मरणं तदा ॥ २७ ॥ तज्जीवस्तन- यत्वेन, तस्याः कुक्षाववातरन् । व्यभिचारि निदानं नो, कृतकप्टानुमानतः ॥ २८ ॥ काले च तनयो जातः, कृतमाणिक्यना- मकः । लालितः पालितो वृद्धि, प्रापितः पाठितश्च सः॥२९॥ कन्यां रूपवतीं प्रौढ-कुलजां परिणायितः । कुटुम्बभारधौरेयो, जातो द्वादशवार्षिकः ॥३०॥ अथ ते कृतसङ्केता -स्त्रयोऽपि व्यवहारिणः । प्राप्तास्तत्र पुरे प्राग्वद्यात्रायै निर्मितोद्यमाः॥३१॥ तस्य मूत्रभृतो गेहे, तं पश्यन्ति कुमारकम् । वदन्ति च स एवाऽय-मित्यन्योऽन्यं हसन्ति च ॥३२ ॥ अत्रान्तरे शिशोस्तस्य,
उपदेश-
सप्ततिका.
.
॥७६॥
चटितो दारुणज्वरः । आहूता बहवो वैद्याः, कृता नानाप्रतिक्रियाः ॥३३॥ तथाऽपि स मृतो बालः, स्यान्निदानं किमन्यथा।
कृतः समस्तैरुद्वेगो, जनन्या तु विशेषतः ॥ ३४ ॥ तदा ते तामिति पोचु-भद्रे ! स्वकृतकर्मणः। भवेऽत्रैव फलं प्राप्तं,
साऽवदत् किं मया कृतम् ? ॥ ३५ ॥ गृहे तवामुके वर्षे, यात्रिकाः केचिदागताः । तेषामेकस्य किं रत्नं, त्वया वद हृतं न
वा ॥३६ ॥ उक्त सत्ये तया तेभ्यो, भीतया ते ततो जगुः । तस्य जीवन ते दुःख, दत्तं तदुःखदानतः॥ ३७॥ पश्चा-
त्तापपरा साऽपि, तेभ्यस्तद्रलमार्पयत् । तैरपि व्ययितं तीर्थे, गत्वा तस्य शिवेच्छया ॥३८॥ तेऽपि क्रमाद्भवमिमं कृतगेहदेह-
त्यागाः कृशत्वमनयन्त तपोविधानः । तन्माऽन्यमान्यजनवित्तमपाहर त्वं, मंतोषसौधरसमात्मगतं कुरुष्व ॥ ३९ ॥ इयं पौरा-
णिकी वार्ता, मिध्यादृग्जनतोचिता। तत्त्वज्ञानां हि जैनाना-मपराधेऽप्यविक्रिया ॥४०॥
॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारेऽष्टम उपदेशः ॥८॥
विषयामिषलम्पटो जनः, सहतेऽत्रैव भवे विडम्बनाम् । यजमानविगोपितो यथा, लघुतां प्राप स तापसब्रुवः ॥१॥
पुरा श्रीचम्पकपुरे, श्रेष्ठी श्रेष्ठगुणोच्चयः । चकोरनामा सञ्जात-श्वकोर इब कोविदः ॥१॥ धर्मकृत्यरतोऽप्येष, तापसेषु
परं सदा । कुरुतेऽत्यादरं धर्म-परीक्षा खलु दुर्लभा ॥ २ ॥ अन्यदा पर्वणि क्वाऽपि, तेनैकः कोऽपि तापसः। निमन्त्रितो
गृहे भुक्त्यै, भोजयामास तं च सः ॥ ३ ॥ उदरंभरिणा तेन, भुञ्जानेन दुरात्मना । गौरवणं लम्बकर्ण, दृष्टं श्रेष्ठिमुताद्वयम्
॥४॥ आपादमस्तकं रम्यं, तद्रूपं तस्य पश्यतः । मार उज्जागरो जातो, निर्विवेका हि तादृशाः ॥ ५॥ यजमानपुरोऽवादी-
--- ni निरिभ्यः परित्यज्य त्रपामपि ॥६॥ कस्येदं तनयाद्वन्द्वं ?, स प्राह भगवन्मम । तदिदं
..
.
॥७६॥
पत्तसरीरा जे फलई, सहीयते सुंदरचूभ । पत्त विहूणा जे फलई, ते अ महू अमहू अ॥२॥ आगच्छन्त्येव सा श्वश्रू-स्तवृत्तं ज्ञापिता रयात् । कयाचित्प्रातिवेश्मिक्या, रुष्टा चुक्रोश तामिति ॥ ७॥ किम- कारि त्वया पापे !, गृहमभ्याटितं मम । विनाशितानि धान्यानि, तदरे ! याहि मद्गृहात् ॥ ८॥ एवं तयाऽम्बि- काकुष्टा, लात्वा पुत्रौ च तौ लघू । प्रच्छन्नं निर्ययौ गेहा-न्मरणे कृतनिश्चया ॥९॥ उज्जयन्तपतिश्रीम-अमिध्यान- निबदधीः । पिपासिताभ्यां पुत्राभ्या-मियं नीरमयाच्यत ॥१०॥ भूमि विदार्य पादाभ्यां, नीरमाकृष्य निर्मलम् । पुत्रौ पायितवत्येषा, निजशीलानुमावतः ॥११॥ एवं बुभुक्षितावेतौ, शीलस्यैव प्रभावतः । निष्पाद्य फलितं चूतं, सुहिती विदधेतमाम् ॥ १२ ॥ अथ प्राप्तो गृहे सोम-भट्टोऽपि ब्राह्मणाग्रणीः । भार्यामपश्यन्नपाक्षी-न्मातरं सा गता व तु ? ॥१३॥ सदौर्मनस्यं साप्याह, तत्स्वरूपं च मूलतः। उद्घाटयालोकते याव-दनभाण्डानि स द्विजः ॥ १४ ॥ तावत्तान्यन्नपूर्णानि, वीक्ष्य विस्मितमानसः । सानुतापः क्षणादानु-पदिकोऽभूत्तदऽधना ॥ १५ ॥ वेदं कलत्ररत्नं मे, भावीति विमृश- न्मुहुः। त्वरितत्वरितं गच्छं-स्तामपश्यत् मियां पुरः ॥ १६॥ यावदाहयते गाढ-शब्दैर्मा याहि हे मिये ।। न ते किञ्चित्करिष्यामि, विरूपमिति भाषिते ॥१७॥ अम्बिकापि तमायान्तं, वीक्ष्य विश्वासदुष्टधीः। कदर्थयित्वा मा- मेष, मारयिष्यत्यसंशयम् ॥ १८॥ चिन्तयन्तीति निर्माय, शरणं नेमिनं जिनम् । पपात कूपे सौत्सुक्य-मादाय तनयावपि ॥ १९ ॥ भट्टोऽपि किमिदं देवि !, त्वया पामरचेष्टितम् । कृतमित्युच्चरन् भूय-स्तत्रैव पतितः क्षणात् १ सखीयते । २ तगम्" इत्यापि ॥
दीयतां मां, गुरुभक्तो मवान् यतः ॥७॥ आत्मनो वल्लभं यत्त-निर्विचारेण चेतसा। गुरुभ्यो देयमेकान्त-मक्षयं हितमिच्छुना ॥८॥ श्रेष्ठी श्रुत्वेति तं पाह, मगवन् ! भवतामिदम् । नेदृग् युक्तमपि ध्यातुं, किं पुनर्जल्पितुं मुखे १ ॥९॥ रुष्टो गुरुस्तमाचष्ट, रे! मामप्यवमन्यसे । मन्यस्व मद्वचो नोचे-द्विरूपं ते भविष्यति ॥ १० ॥ अन्तःक्रुद्धोऽपि तं श्रेष्ठी, साम्ना पुनरिदं जगौ । किमप्यदेयं मे नास्ति, विशिष्य तु भवादृशाम् ॥ ११॥ परं प्रकटतः कन्या-प्रदानं मे तवापि च । मावि प्रपाकरं तेन, मवन्तो यान्तु सम्प्रति ॥ १२॥ अत्राऽऽस्ते या नदी तस्यां, मञ्जूषोपायतः प्रभो! । इमे द्वे दौकयिष्यामि, कुर्वीया माऽत्र संशयम् ॥ १३ ॥ इति श्रुत्वा जटी कुण्ठ-मतिः प्राप मठं निजम् । तद्ध्यान एव तां रात्रि-मनैषीदेष पापधीः ॥ १४ ॥ यजमानेन तेनाऽथ, मर्कटीद्वितयं वनात् । आनाय्य मध्ये क्षिप्त्वा च, पेटा नद्यां प्रवाहिता ॥१५॥ तदा च तापसोऽप्यात्म-विनेयानित्यभाषत । अद्य मे त्रिदशः कोऽपि, रात्रौ तुष्टोऽब्रवीदिति ॥ १६ ॥ प्रातर्नद्यां वहन्ती या, मञ्जूषाऽभ्येति सा त्वया । नेया मठान्तस्तत्रत्यं, सारं ग्राह्य हितं तव ॥ १७ ॥ श्रुत्वेति जहृषुः शिप्याः, गुरोः श्लाघां वितेनिरे । धन्यस्त्वमेव यस्येत्थं, वशिनस्त्रिदशा अपि ॥ १८ ॥ अथ प्रभाते मन्जूषा, सा प्राप्ता तन्मठान्तिके । आनाय्य तां च शिष्येभ्यो, मठमध्ये व्यमोचयत् ॥ १९ ॥ ददौ च शिक्षा शिष्येभ्यः, प्रच्छन्नं तापसः पुनः । किमप्यस्यां रहस्यं भोः !, भावि तत् श्रूयतां वचः ॥२०॥ एतामुद्घाटयिष्यामि, मठान्तर्विधिपूर्वकम् । कपाटसम्पुटं दत्त्वा, ध्यानमालम्ब्य च स्थिरम् ॥ २१ ॥ विना मदुक्तं नोद्घाटयौ, कपाटौ हि विनेयकाः । असमग्रो विधिर्येन, योगिनामप्यनर्थकृत् ॥२२॥ तथेति प्रतिपन्ने तै-र्मठान्तर्गतवान् गुरुः। मनोरथेन महतो-दाटयामास तामयम् ।। २३॥ तदा .
उपदेश- ससतिका. ॥७७॥ तत्संमुख ते द्वे, निर्गत्योच्छलिते द्रुतम् । मर्कटयौ क्रूरनखरे, क्षुधिते चञ्चले भृशम् ॥२४॥ ताभ्यां तदीया जगृहे, नासिका सरलोनता । कपोलौ विपुलौ छिन्नौ, भालं च शकली कृतम् ॥ २५॥ परान्नपीवरं तस्यो-दरमप्याशु दारितम् । भक्षितो मलितः शिष्याः !, इति कोकूयते ततः ॥ २६ ॥ सोढा स एकः कष्टानां, ते द्वे तु क्षुधिते भृशम् । शिष्यैर्नोद्घाटयते द्वारं, दुःखपारः कथं मवेत् १ ॥ २७ ॥ बहिः स्थितास्तु ते शिष्याः, विमर्शमिति कुर्वते । उपर्म करोत्येष, नूनं कोऽपि गुरोः सुरः ॥ २८ ॥ चिरादुद्घाटिते द्वारे, स ताभ्यां सह निर्गतः। निर्यद्रक्तप्रवाहेण, रक्ताद्रिरिव मूर्तिमान् ॥ २९ ॥ मगवन् ! किमिदं जातं, पूज्यानां भवतामपि । इति पृष्टे गुरुः स्माह, तद्वृत्तं तथ्यमेव सः ॥ ३० ॥ सोपहासं सकारुण्यं, सदैन्यं शैक्षका जगुः। निम्मिता यजमानेन, भक्तिप्र्वनुरूपिणी ॥३१॥ एतस्योचितमेवेदं, स्वाचारं परिमुञ्चतः । भस्मनैव हि रुद्रस्य, पूजा स्यान तु चन्दनैः ॥ ३२ ॥ काले गुरुः पदभूतो, यजमानेन बोधितः । भगवनीदृशं कर्म, न तापसजनोचितम् ॥३३॥ शिक्षयित्वेति तं प्राप्तो, यजमानो निजं गृहम् । तापसोऽपि चिरं दीक्षा, तापसी पर्यपालयत् ॥ ३४ ॥ यदि शिवनगरयियासा, भवे जिहासा च वो भवेद् भव्याः।। तदमी विषमा विषयाः, किम्पाकफलोपमास्त्याज्याः॥३५॥ ॥ इति श्रीउपदेशसप्ततिकायां पश्चमेऽधिकारे नवम उपदेशः॥९॥ परिग्रहप्रौढशिलावलम्बिनः, पतन्ति संसारमहाम्बुधौ जनाः । सन्तोषषज्रेण विमिद्य तां पुन-स्तरन्ति विद्यापतिवत्सुमेधसः ॥१॥ पोतनाख्ये पुरे राजा. शरःशरपराक्रमैः। श्रेष्ठी विद्यापतिस्तस्य, भार्या शृङ्गारसुन्दरी॥१॥ स्वप्ने तमेकदा लक्ष्मी-रुवाच . दशमे दिने । अहं यास्यामि हे वत्स !, चिरात्वं मुत्कलाय्यसे ॥२॥ प्रबुद्धः सोऽपि भार्याय, तं वृत्तान्तं न्यवेदयत् । लक्ष्मी- नाशे कथं कार्य-मिति चिन्तातुरः पुनः ॥ ३॥ विशुद्धबुद्धिः साऽप्याह, यद्येवं सकलापि सा । व्ययनीया सुपात्रादा-वन्य- थाऽपि हि यास्यति ॥४॥ अथ व्ययितुमारेभे, स श्रेष्ठी सकलं धनम् । तथापि वर्द्धते किन्तु, कूपोदकमिवाऽन्वहम् ॥५॥ यथा यथा व्ययस्तस्य, गेहे बुद्धिस्तथा तथा । दीयमानोऽपि भारत्याः, कोशः किं नाम हीयते ॥६॥जिनालये जिनेन्द्रस्य, पुरस्तात्तौ च दम्पती । परिग्रहवते मान-मेवं जगृहतुर्मिथः ॥७॥ त्रिः पूजा द्विः प्रतिक्रान्ति-र्भोजनं दानपूर्वकम् । वेषयो- युग्ममेकैव, भार्या शृङ्गारसुन्दरी ॥ ८॥ मासे च विंशतिदिना-न्यावयोः शीलमुत्तमम् । कच्चोलं माजनं चैक, सौवर्णे ते उभे परम् ॥९॥ वासरे चैकशो भुक्तिः, पौषधः पर्ववासरे। चतुष्प्रकाराहारस्य, त्यागो रात्रौ च सर्वथा ॥ १०॥ एकं च टङ्ककशतं, जीर्णनाणकसम्भवम् । मासयोग्यं गृहे धान्यं, नियमो द्विपदादिषु ॥११॥ सच्चितमेकं मुक्वाऽन्य-सचित्तनियमोऽस्तु नः । पूजोपकरणं सर्व, मुत्कलं परमावयोः ॥१२॥ एवं सम्यक्त्वमूलानि, व्रतानि द्वादशाऽप्यम् । प्रतिपद्य गृहं गत्वा, व्ययतः स्म समां श्रियम् ॥ १३ ॥ स विश्राणितमर्वस्वो, निश्चिन्तो दशमे दिने । रात्रौ सुप्तः श्रिया मोक्तः, स्थिताऽहं वत्स! ते गृहे ॥ १४ ॥ त्वत्पुण्यदाममिवद्धा काऽप्यहं गन्तुमक्षमा । उपस्थितोऽपि विघ्नस्ते, क्षीणः पुण्याऽनुभावतः ॥१५॥ शृङ्खलासदृशं पुण्य, मर्कटीसदृशा रमा । तया नियन्त्रिता सा हि, चञ्चलापि क गच्छति ॥ १६॥ अथाऽन्यदिवसे श्रेष्ठी, कृत्वा तामपि पात्रसात् । त्यक्त्वा गृहमपि ज्ञाति-वर्गीयान्मुत्कलाय्य च ॥ १७॥ मौलौ करण्डिका कृत्वा, जिनार्चायाः स धामिकः । नगराभिर्ययौ पुण्य-समूहो मूर्तिमानिव ॥ १८॥ प्रतोली यावदायात-स्तावत्तत्पुरवासिनः अपुत्रस्य चितिपते- .
सप्ततिका.
उपदेश
॥ ७८॥
.
रासीदाकस्मिकी मृतिः॥ १९ ॥ इतश्च पञ्चदिव्यानि, सन्जितानि नियोगिमिः । साम्राज्यं च प्रदत्तं तै-स्तस्यैव श्रेष्ठिनस्तदा
॥ २० ॥ स प्राह नाहं राज्याो-ऽभिषेकेन सृतं मम । तदा च दैवीवाग जाता, तब भाग्यमहो! महत् ॥२१॥ मा कार्षीः
प्रतिषेधं त-बाऽन्यथा भवितव्यता । श्रेष्ठयपि प्राह यद्येवं, तदा शृणुत मद्वचः ॥ २२ ॥ पूर्व श्रीजिनबिम्बस्य, कुरुध्वममिषे-
चनम् । पश्चान्ममेति तेऽप्येव-मकार्षहर्षपूरिताः ॥ २३ ॥ एवं च प्राप्तसाम्राज्यः, स श्रेष्ठी सपरिच्छदः। नृपसौधमलञ्चक्रे,
पूरस्वीकृतमङ्गलः ॥ २४ ॥ न्यस्य सिंहासने मुख्ये, जिनेन्द्रप्रतिमामसौ । स्वयं तत्पादपीठस्थो, राजकार्याण्यसाधयत् ।। २५॥
रत्नवृष्टिं तदा चक्रुः, सम्यग्दृष्टिसुरा वराः। एकछत्रं जिनस्यैव, स राज्यं सममूत्रयत् ॥२६॥ अकरोदकरं लोकं, धर्मकर्मणि
कर्मठम् । सर्वत्राऽपि जिनाज्ञाऽभूत् , यथा राजा तथा प्रजाः ॥ २७ ॥ स पञ्चशतसंख्यानि, जिनचैत्यान्यचीकरत् । स्वर्ण-
रलमयीस्तेषु, प्रतिमाश्च न्यवीविशत् ॥ २८ ॥ अखण्डितस्वनियमो, जिनाज्ञामप्यखण्डयन् । अखण्डं स चिरं राज्यं, चकार
जिननिश्रया ॥ २९ ॥ इति नियम्य परिग्रहसागरं, स नृपतिः पदमव्ययमाप्तवान् । कुरुत तेन परिग्रहनिग्रहं, सपदि यूयमपी-
च्छय चेत् मुखम् ॥ ३० ॥
॥ इति श्रीउपदेशसप्ततिकायां पश्चमेऽधिकारे दशम उपदेशः ॥१०॥
जिनमतानुगतैः प्रतिषिध्यते, रजनीभोजनमन्त्यजनोचितम् । स्वपरसामयिकोक्तिविवर्जितं, तनुगुणं बहुदोषविशेषितम्
॥१॥ योगशास्त्रोदितां रात्रे-भोजने दोषसन्ततिं । श्रुत्वा कस्तत्त्वविज्जन्तु-स्तत्र भोजनमाचरेत् १ ॥२॥ रात्रिभुक्तनिश्चय-
म्या-गधनेऽथ विगधने । मित्रयत्रस्य दृष्टान्तः. प्रोच्यमानो निशम्यताम॥३॥
काऽपि ग्रामे पुराऽभूवन् , मुहृदो वणिजस्त्रयः। श्रावको मद्रको मिथ्या-दृष्टिश्चेति क्रमादमी ॥१॥ जैनाचार्यान्तिकेऽन्येशु- स्ते गता गुरुमिस्ततः । तत्पुरो देशना चक्रे, सुश्रावकजनोचिता ॥२॥ तेषु श्रादः कन्दमूल-रात्रिभुत्यादिनिश्चयान्। मुखेन जगृहे श्राद्ध-कुलोत्पन्नतया रयात् ॥ ३॥ मद्रकस्तु बहुक्तोऽपि, रात्रिभोजननिश्चयम् । विमृश्य जगृहे नान्यं, मिथ्यादृष्टिर्न किश्चन ॥ ४ ॥ श्राद्धभद्रकयो ते, कुटुम्बे अपि धाम्मिके । गृहव्यवस्था सर्वा हि, स्याद्गृहेशानुसारिणी ॥५॥ क्रमात्प्रमाद- बाहुल्याव, श्रावको निजनिश्चये । तत्तत्कार्यव्यापृतत्वा-त्सञ्जातः शिथिलादरः ॥ ६ ॥ मध्ये त्याज्यघटीयुग्मं, भुङ्क्तेऽस्ते जातुचिद्रवौ । प्रातः सायमसौ जान-अप्यजानन्निवाऽभवत् ॥ ७॥ सम्यगाराधयामास, निश्चयं स्वं तु भद्रकः । कुटुम्बमपि सञ्जातं, श्राद्धस्य शिथिलं पुनः ॥ ८॥ राजकार्यादिवयम्या-दन्यदोत्सूरसम्भवे । भद्रका श्रावकश्चापि, चिरेण गृहमागतो ॥९॥ उत्सूरमवनाझुक्तिं, भद्रको नैव निर्ममे । आस्तिकस्तु तदाऽभुङ्क्त, कुटुम्बमेरणावशात् ॥१०॥ तदा तस्योपासकस्य, सुझानस्याऽशनादिकम् । मस्तकात्पतिता यूकाऽऽहारान्तस्तं च भुक्तवान् ॥ ११ ॥ ततो जलोदरव्याधि- धितोऽत्यन्तमाकुलः। विराध्य नियमं चैष, मृत्वा मार्जारकोऽभवत् ॥ १२ ॥ कदय॑मानो दुष्टेन, शुना तत्र भवेऽपि सः। विपद्य नरके प्राच्ये, प्राप्तो दुःखानि सोढवान् ॥ १३ ॥ रात्रिभुत्तिःप्रसक्तः स, मिथ्यात्व्यपि कदाचन । सविषाहारमुक्क्याभूत , त्रुटदन्त्रः शनैः शनैः ॥ १४ ॥ चिरान्मृतः पीड्यमान-स्तया निविडपीडया । मार्जारो नारकश्चाधे, नरकेऽजनि मित्रवत् ॥ १५॥ मद्रकस्तु स्वनियम, प्रतिपाल्य सुरोऽभवत् । सौधर्मे प्रौढिमांस्तेषां, भिन्न भिन्नमहो ! फलम् ॥१६॥ श्राद्धजीवस्ततःक्वाऽपि, निःस्वद्विजः मुतोऽभवत् । श्रीपुञ्जनामा मिथ्यात्वि-जीवस्तल्लघुबान्धवः ॥१७॥ ले तत्र प्रसक्तो तौ, रात्रिभुयादिकर्मम । न ज्ञातवन्तौ
उपदेश-
सप्ततिका.
॥७९॥
श्रीजैन-धर्मगन्धमपि क्वचित् ॥१८॥ मद्रकत्रिदशोऽन्येशु-रुपयुक्तो रहस्तयोः। स्वस्वरूपप्राच्यमव-ज्ञापनादि वितेनिवान् ॥१९॥
प्रबुद्धाभ्यां ततस्ताभ्यां, रात्रिभोजननिश्चयः । तथैव प्रतिपन्नस्तो, सुरेण च दृढीकृतौ ॥ २० ॥ यदुक्तम्-
पापानिवारयति योजयते हिताय, गुह्यं निगृहति गुणान् प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति धीराः ॥१॥
जनकादिबहूक्तेऽपि, स्वव्रते दृढयोस्तयोः लङ्घनत्रितयं जातं, सर्वैर्भुक्तिनिषेधने ॥२१॥ तयोनिश्चयमाहात्म्य-वृद्धथै तत्रत्य-
भूभुजः । विचक्रे तेन देवेन, महती जठरव्यथा ॥२२॥ यथा यथा प्रतीकारः, क्रियतेऽस्य तथा तया। अधिकं वर्दते व्याधि-
वहिज्वालेव सर्पिषा ॥ २३ ॥ किं कर्त्तव्यतया मूढे, राजवर्गे तदाऽखिले । बभूव दिव्या वागेवं, भो भो लोकाः! निशम्य-
ताम् ॥ २४ ॥ राज्ञोऽस्य निश्चयैकाग्र-श्रीपुञ्जस्य द्विजन्मनः । हस्तस्पर्शनमात्रेण, व्याधिर्यास्यति नान्यथा ॥ २५ ॥ कः पुञ्ज
इति सर्वेषू-कर्णेष्वेकस्तदाऽवदत् । अस्ति निःस्वद्विजसुतः, पुञ्ज एको दृढव्रतः॥ २६ ॥ कुटुम्बकलहाजाते, लखनत्रितयेऽपि
यः। अक्षुब्धः सुव्रते पुञ्जः, स एव खलु सम्भवी ॥ २७ ॥ इति सम्भावनामात्रे-ऽप्यमात्रबहुमानतः । आहूतः सचिवाथैः स,
श्रीपुञ्जः सद्य आगतः ॥ २८ ॥ सोऽब्रवीचेद्दढो मेऽस्ति, रात्रिभोजननिश्चयः । तदेदानीमवे राज्ञः शाम्यतादुदरन्यया ॥२९॥
इत्युक्तिपूर्वमुनीश, स्वहस्तस्पर्शमात्रतः । क्षणादेव पटूचक्रे सर्वपूर्जनसाक्षिकम् ॥ ३० ॥ श्रीपुञ्जाय तदा भूप-स्तुष्टः पञ्चशती-
मितान् । ददौ ग्रामान् सोऽपि चक्रे, नृपादीन् जैनधार्मिकान् ॥ ३१ ॥ इत्थं श्रीपुञ्जविप्रः क्षितिपमुखजनार्यस्तदीयोऽनुजश्चा-5
भृद्यो मिथ्यात्विजीवो जिनमतनिरतौ तौ कृताऽनेकधम्ौं । च्युत्वा काले स देवोऽप्यनुपमसुकतैस्ते त्रयः सिदिमापुः, शर्वयाँ
.
॥७९॥
तेन भोज्यं परिहरत चुधाश्चेज्जिहासा भवस्य ॥ ३२॥ ॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे एकादश उपदेशः॥ ११ ॥ सामायिकं स्यात्समताविहीनं, निरर्थकं भव्यजनास्तदेतत् । आराध्यतां केसरिवद्भवद्भिर्यथा समस्तानि सुखानि वः स्युः ॥१॥ सामाइयं कुणतो, सममावं सावओवि घडियदुगं । आउं सुरेसु बंधइ, इत्तियमेत्ताई पलिआइं ॥१॥ बाणवइकोडीओ, लक्खाँगुणसहि सहसपणवीसं । नवसय पैणवीसाए, सतिहा अडभाग पलिअस्स ॥ २॥ सामायिकं समतया, वियुक्तं यः समाचरेत् । करोति परमाने स, क्षारक्षेपं विमूढधीः ॥३॥ श्रीनिवासपुरे राजा, रिपुमईन इत्यभून् । श्रेष्ठी समरसिंहाख्य-स्तत्र धर्मैककर्मठः॥१॥ तत्पुत्रः केसरीनामा, प्रकृत्ये- यालरुद्धतः । व्यसनी दुविनीतश्च, कुलाङ्गार इवाऽभवत् ॥ २ ॥ अथ निष्काशितो गेहा-त्स पित्रा सर्वसाक्षिकम् । ततो निरङ्कुशश्चक्रे, स चौर्य सर्वसासु ॥३॥ इत्थं पुरान्तस्तन्वाने, स्तैन्ये तस्मिन्नृपोऽन्यदा। समानिविष्टः प्रोवाच, कोऽयं ? कस्य सुतोऽथवा ? ॥ ४ ॥ तदा तत्र निविष्टस्त-त्तातः प्राह कृताञ्जलिः । दुष्पुत्रोऽयं मम स्वामिन् !, मया निर्वासितो गृहात ॥५॥ चौर्य विना न भोक्तव्यं, मयेत्यस्याऽस्त्यभिग्रहः । एतद्विशेषसम्बन्धः, पुनरित्यवधार्यताम् ॥ ६॥ एकदाऽयं सरस्तीरे, स्थितो ध्यायति दुष्टधीः । यावत्तावन्नभोमार्गे, पादुके पदयोर्दधत् ॥ ७॥ योगी को प्यागतस्तत्र, ते मुक्त्वा तत्र यावता । स्वानादि कुरुते ताव-ते लात्वैष खमुद्ययौ ॥ ८॥ तयोः प्रमावादेकोऽपि, नैकतस्करकार्यकृत् । दुष्टरोग इवाऽसाध्यो, पुरस्याऽयं विमोऽ-
सप्ततिका.
उपदेश-
॥८०
मवत् ॥९॥ पुराधिष्ठातृदेव्यग्रे, वक्ति चैवं स्तुतिं सृजन् । चौरिकार्द्धन ते भोग, करिष्येऽदै ममाऽस्तु च ॥१०॥ माषिनी
सफला सा चे-त्प्रसादात्तव देवि ! मे । अनुज्ञातस्तयाऽप्येष, सिद्धचौरस्ततोऽभवत् ।।१।। भूपोऽय लब्धतन्मा, सारैः परिवतो
मटैः । देवीमवनमागत्य, प्रच्छन्नं स्थितवान् कचित् ॥ १२ ॥ तदा च तस्करोऽप्यागात्, तां देवीं जननीमिव । अचिंतुं पादुके
पाणी-कृत्य कस्याऽप्यविश्वसन् ॥ १३ ॥ भूपतिः प्रकटीभूय, तमाक्रोशति यावता । पक्षिवत्तावदुद्दीनः पादुके परिधाय सः
॥ १४ ॥ याति यात्येष भोचौरः, इति भूपतिमाषिताः । कृतकोलहलाः सर्वे, मटास्तमनुधाविताः ॥ १५ ॥ अभिग्रहस्य मे
मझो, नूनमद्य भविष्यति । यतो याति विना चौर्य, दिनमद्यतनं मम ॥ १६ ॥ इत्यादि चिन्तयश्चौरो-ऽप्यग्रे गच्छन्नधो भुवि ।
अपश्यन् झानिनं कश्चि-द्वदन्तमिति पर्षदि ॥ १७॥ भो मोः प्राणिगणाः ! लब्ध्वा, मानुष्यं रत्नयोनिवत् । रत्नमेकं
स्थिरीकार्य, दुर्लभं द्रव्यकोटिमिः ॥ १८ ॥ ईदृग् रत्नं मयाऽद्यापि, चोरितं नास्ति किं कृतम् १ । इत्युत्कर्णोऽ-
मवद्यावत्तावन्मुनिरमाषत ॥ १९ ॥ एक सामायिक रत्नं, दुष्प्रापममरैरपि । रागद्वेषादिदस्युभ्यो, रक्षणीयं प्रयत्नतः ॥२०॥
अन्तर्मुहूर्त चित्तस्य, यत्साम्यं तन्निगद्यते । सामायिकं यत्र हेयाः, कषाया एव केवलम् ॥ २१॥ न बाह्याऽऽडम्बरः कोऽपि,
यस्य दानादिपुण्यवत् । तद्यथाऽवसरं कार्य-महोरात्रमुपासकैः ॥२२॥ श्रुत्वेति केसरी चौर-स्तत्र सस्पृहतां दधत् । मनःसाक्षि-
कमातेने, व्रतं सामायिकाऽभिधम् ॥२३॥ त्यक्तद्वेषो मनःशुद्ध-भावेन गुनिभाषितम् । अनुष्ठानमयं चक्रे, नृपादेरपि निर्भयः२४
वावाराणं गुरुओ, मणवावारो जिणेहिं पन्नतो । जो नेइ ससमीए, अहया मुक्खं पराणेइ ॥१॥
मटा माता-सम्य चलमज्जवलम । बभत्र महिमानं च. चक्रस्तस्य सरेश्वराः ॥ २५ ॥ सहस्रपत्रसौवर्ण-कमले
.
॥८॥
निषसाद सः । तदने देशनां चो, देवतादत्तवेपभृत् ॥ २६ ॥ अथ प्राप्तो नृपस्तत्र, तद्वत्तं तादृशं पुनः। निरीक्ष्य विस्मितोऽ- त्यन्त-महो ! कर्मविचित्रता ॥ २७ ॥ केवली प्राह राजेन्द्र !, पश्य सामायिकवतम् । यस्य जातं क्षणापि, फलं लोकोत्तरं मम ॥ २८ ॥ एवं प्रबोध्य राजादीन् , लोप्नं सर्व निवेद्य च । लोकोपकृतये चक्रे, विहारं वसुधातले ॥२९॥ एवं स केसरिमुनिः प्रतिबोध्य भूरि-कालं जनान् विदलिताऽखिलकर्मजालः। प्राप्तो यदुच्चपदवीं तदिदं फलं हि, मामायिकत्रनभवं विमृशन्तु सन्तः॥ ॥ इति श्रीउपदेशसप्ततिकायां पश्चमेऽधिकारे द्वादश उपदेशः ॥ १२ ॥ मव्यैः प्रतिक्रमणमादरणीयमेत-उत्पश्चधा जिनवरैर्गदितं हितार्थम् । पापानिवृतिरसकृत्सुकृते प्रवृत्ति-रित्थं बुधैर्यदभिधार्थ उदीरितश्च ॥ १ ॥ यदुक्तम्- मिच्छतपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥१॥ संसारपडिक्कमणं, चउबिहं होड आणुपुव्वीए । तीए पञ्चप्पन्ने, अणागए चेव कालंमि ॥ २॥ स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशागतः तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥३॥ एकस्मिन्नपि यद्येते, स्युः प्रकाराः प्रतिक्रमे । पापादीनां तदा भाव-प्रतिक्रमणमुच्यते ॥४॥ प्रतिक्रमणमीक्षं, ये कुर्वन्ति दिने दिने । तेषामिहाऽप्यमुत्रापि, सुखं सज्जनबद्भवेत् ॥ ५॥ बाणवयर्क १२३५ संख्येये, वर्षे श्रीपत्तने पुरे । ग्रथिलो भीमदेवोऽभूत् , भूपतिर्भाग्यमासुरः ॥ १॥ वेश्या सहस्रक- लाख्या, तेन स्वान्तःपुरी कृता । राज्यराष्ट्रादिचिन्तां तु, कुरुते सैव भूपवत् ॥२॥ श्रीमालज्ञातिवांस्तत्र, सज्जनो दण्डनायकः।
उपदेश- सप्ततिका. ॥८१॥ राज्येऽधिकारी सम्यक्त्व-द्वादशवतभूषितः॥३॥ स जिनं पूजयित्वैव, भुङ्क्ते शेते विधाय च । प्रतिक्रान्तिमिदं तस्य, निश्चयद्वितयं दृढम् ॥ ४ ॥ अन्येयुः पत्तने प्राप्ता, यवनानामनीकिनी। सबालवृद्धः सर्वोऽपि, लोकोऽभूद्भयविह्वलः ॥५॥ सज्जनेन समं देवी, सैन्यमादाय सम्मुखम् । गता सज्जीकृता चाशु, रणक्षेत्रस्य भूमिका ॥ ६ ॥ अश्वानां मानवानां च, जिन २४ दन्त ३२ प्रमास्तदा । सहसा अभवत्रष्टा-दशहस्तिशतानि च ॥७॥ गजाऽश्वशस्त्रसंनाहान्, सुभटानां पृथक् पृथक् । देव्यार्पयत्सज्जनं च, सेनानीत्वेऽध्यतिष्ठिपत् ॥ ८॥ ब्राह्मये मुहूर्तेऽध्यारूढः, सज्जनो द्विरदं स्वयम् । युद्धाय प्रगुणीचक्रे, समग्रानपि सैनिकान् ॥९॥ हस्तिकुम्भस्थ एवाऽसौ, स्थापयित्वाऽक्षमालिकाम् । प्रतिक्रमणमातेने-ऽवसरबा हि तादृशाः॥१०॥ पार्थस्थाश्चिन्तयन्त्येव-मेष किं योत्स्यति प्रभुः। धाम्मिको ह्येष युद्धं तु, साध्यं निदयमानसैः ॥ ११ ॥ ततो द्विघटिके जाते, प्रतिक्रम्य समाधिना । सामायिकं पारयित्वा, सैन्यं सर्वमचालयत् ।। १२ ॥ हस्तिस्थेनापि यत्नेन, प्रतिक्रान्तिस्तदा कृता । तत्सैन्यमिलनायैवा-ऽन्यथा तत् शिथिलीभवेत् ॥ १३ ॥ प्रतिक्रमगवेलायाः, व्यतिपातोऽपि सम्भवी। एषोऽपि हेतुः सर्व हि, कार्य काले कृतं शुभम् ॥१४॥ अथ युद्धं महज्जातं सैन्ययोरुभयोरपि । गजाऽश्वरथपत्याद्याः, यथा स्वं स्वं डुढौकिरे ॥१५॥ सजनेन तदा युद्ध, तथा चक्रे यथा क्षणात् । समस्तं यवनानीकं, काकनाशं ननाश तत् ॥ १६ ॥ सज्जनस्य परं घाताः, दश लग्नास्तदा तनौ । उत्पाटय नीतो देव्यग्रे, साऽप्येनं प्रत्यचीकरत् ॥ १७ ॥ दुकूलाञ्चलवातेन, तस्य वातमवीजयत् । आह्वयञ्च महावैद्यान् , कृतास्तैश्च प्रतिक्रियाः ॥१८॥ देव्यग्रे सुभटैरुक्तं, स्वामिन्यस्य किमुच्यते । रात्रौ 'एगिदिया बेइन्दिा' इत्याद्य- मचिवान् ॥ १९ ॥ प्रातर्युदं तथा चक्रे, यथा कोऽपि चकार न । देव्याह सजन चक्रे, विरुद्ध किमिदं भवान् ॥२०॥ S/1८१॥
उपदेश- सप्ततिका. ॥२०॥ श्रीनेमिशासने रक्षा-कारिणी विघ्नवारिणी । अम्बिका व्यन्तरी जाता, मट्टस्तस्यास्तु वाहनम् ॥२१॥ तस्या निदेशतस्तस्मिन्, सिंहरूपविधायिनि । आरूढा क्रीडति स्वैरं, शिरस्थजिनमूर्तियुक् ॥ २२ ॥ बहुश्रुतेभ्य आकर्ण्य, किश्चिद् दृष्ट्वा च किचन । प्रबन्धादौ मयाऽलेखि, सम्बन्धोऽयं प्रबोधकृत् ॥ २३ ॥ एवं जिनध्यानपराय- णायाः, श्रीअम्बिकाया अवधार्य वृत्तं । भो भव्यलोकाः विलसद्विवेकाः !, सदा जिनध्यानपरा मवन्तु ॥ २४ ॥ ॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे सम्यक्त्वोपरि तृतीय उपदेशः ॥ ३॥ . . दुःखिनोऽपि न परित्यजन्ति ये, श्रीजिनार्चनविधावभिग्रहम् । धर्मकर्मणि रताः सुखान्विता-स्ते भवन्ति धनदः पुरा यथा ॥१॥ पुरा शङ्खपुरे श्रेष्ठी, धनदो धनदोपमः । आसीनरपतेर्मान्यः, पात्रमुद्दामसम्पदाम् ॥१॥ क्रमात्तस्याऽभवन्पुत्रा- अवारश्चतुराशयाः । त्रिवर्गाराधनप्राप्त-सर्वाङ्गीणमहोदयाः ॥ २ ॥ न्यायोपात्तानि वित्तानि, सफलीक मुद्यतः। तत्राकारयदुत्तुङ्गं, स श्रेष्ठी जिनमन्दिरम् ॥ ३॥ कुटुम्बमारमारोप्य, सुतेषु वितनोत्ययम् । त्रिःपूजाद्विःप्रतिक्रान्ति- प्रमुखं धर्ममार्हतम् ॥ ४ ॥ अथाभाग्यवशादस्य, वित्तं तुत्रोट मन्दिरे । न पुनर्जिनधर्मास्य, लवोऽपि हृदयान्तरे ॥५॥ तुच्छप्रकृतयः पुत्राः, किन्तु धर्मावहीलनाम् । कुर्वाणाः पितरं प्राहु-र्धादेव धनं गतम् ॥६॥ पिता प्राह न वत्साः ! भो, वचनं वाच्यमीदृशम् । लोकेऽपि श्रूयते येन, यतो धर्मस्ततो जयः ॥७॥ ततो निर्द्रव्यता- सोऽप्याह स्वामिनि ! स्वीयं, रात्री कार्य कृतं मया । प्रातस्त्वदीयं येनेदं, तबाऽऽयतं वपुमम ॥ २१ ॥ ममायत्तं मनस्तेन, स्वकार्य निर्मितं मया । श्रुत्वेति तं प्रशंसन्ति, धर्मे दाढयमहो! कियद् ? ॥२२॥ जगाम पत्तनं देवी, सजनोऽपि पटूकृतः। वैद्यैः क्रमेण श्रीधर्म, राजकार्य च स व्यधात् ॥ २३ ॥ सङ्कटे पतितेऽप्येवं, ये न मुश्चन्ति निश्चयम् । तेषां हस्तगतैव स्यात्, निर्वाणसुखसन्ततिः ॥२४॥ अन्यथा वा प्रतिक्रान्ति, पञ्चधा ब्रुवते बुधाः। दिवारात्रौ तथा पक्षे, चातुर्मास्यां च वत्सरे ॥२५॥ सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिगस्स । मज्झिमगाण जिगाणं, कारणजाए पडिक्कमणं ॥१॥ समणेन सावरण य, अवस्सकायव्वं हवइ जम्हा । अंतो अहो निमस्मा, तम्हा आवस्मयं नाम ॥ २॥ इत्थं प्रतिक्रमणमप्यनणुप्रमाद-मुत्सृज्य भव्यनिवहाः! क्रियतां भवद्भिः। यस्मिन्कृतेऽथ भवमारवियुक् शरीरी, भारप्रमुक्त इव भारवहो लघुः स्यात् ॥ २६ ॥ इति श्रीउपदेशसप्ततिकायां पश्चमेऽधिकारे त्रयोदश उपदेशः ॥ १३ ॥ दानादिधर्मस्य विशेषपोष, धत्ते ततः पौषधमाहुरार्याः । तं केऽपि धन्याः प्रतिपालयन्ति, यथा सुदत्तव्यवहारिधुर्यः ॥१॥ सामाइयपोसहसु-ट्ठियस्स जीवस्स जाइ जो कालो । सो सफलो बोधब्बो, सेसो संसारफलहेऊ ॥२॥ अभूत्सूर्ययशा राजा, पुरे कुसुमपूर्वके। मित्रानन्दस्तस्य मन्त्री, जिनधर्माऽधिवासितः॥१॥ सभायामन्यदा जातो, विवादो नृपमन्त्रिणोः। प्रमाण व्यवसायोऽत्र, किं पुण्यरित्यवम् नृपः॥ २॥ व्यवसायवतः सर्व, फलदायि प्रजायते । नहि सुप्तमुखे कापि, निपतन्ति फलादयः॥३॥मन्त्रीतु प्राह पुण्यानि, प्रमाण किमुपक्रमैः। अन्धक्रियावदफलैर्यतःशास्त्रेऽपि पठ्यते। .
उपदेश- सप्ततिका. ॥८२॥ . नैवाकृतिः फलति नैव कुलं न शीलं, विद्यापि नैव न च यत्नकृताऽपि सेवा । भाग्यानि पूर्वतपसा किल संचितानि, काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥१॥ नृपतिः प्राह यघेवं, व्यापार त्वं तदा त्यज । अधुनैव व्रज कापि, न गन्तव्यं गृहेऽपि च ॥ ५॥ पुण्यं प्रमाणयन्मन्त्री, मुक्तसर्वपरिच्छदः। तदैव तैरेव पदै-निर्गतो नगरादहिः॥६॥ गच्छंश्च सरसि क्वाऽपि, कृतस्नानस्तरोरधः। विश्रान्तः क्षणमैक्षिष्ट, तावदेकं वरं नरम् ॥७॥ नरः मोवाच हे मन्त्रिन ! अमुं वाञ्छितसिद्धिदम् । चिन्तामणि गृहाण त्वं, प्रसीदानुगृहाण माम् ॥ ८ ॥ इत्युक्त्वा तं मणिं तस्य, समर्प्य स तिरोदधे । स्वस्वरूपमनुक्त्वैव, हृष्टोऽमात्यो भृशं ततः ॥९॥ दर्शयामीशितुः पुण्य-प्रभावमिति चिन्तयन् । अभ्यर्च्य तं मणिं सैन्यं, चतुरङ्गमयाचत ॥ १०॥ तत्ममावोपसम्पन्न-चतुरङ्गचमूयुतः। स्वपुरे पाहिणोतं, लेखहस्तं नृपान्तिके ॥ ११ ॥ दूतोऽप्युवाच पुण्याप्त-सैन्यो मन्त्री समागतः। विक्रमी यद्यसि क्ष्माप !, तत्प्रहत्तुं बहिर्भव ॥ १२ ॥ तं तादृशं चमूयोगं, श्रुत्वा दूतनिवेदितम् । भूपः समग्रसभ्यानां, पुरस्तादिदमब्रवीत् ॥१३॥ वरेण्यं पुण्यमेवात्र, मो भोः सभ्याः! निभाल्यताम् । एकाकी निर्गतोऽप्येष, प्राप्तः साम्प्रतमीदृशम् ॥ १४ ॥ नृपोऽथ सम्मुखं गत्वा, मानं मुक्त्वाऽभिषस्वजे । प्रमोदविस्मयोत्फुल्लः, पुरे प्रावेशयच्च तम् ॥ १५ ॥ तावुमावपि लोकानां, धर्मस्थैर्य वितेनतुः । चतु निधरस्तत्र, सूरिरेकोऽन्यदाऽगमत् ॥१६॥ वन्दितुं तं नृपामात्यौ, जग्मतुः सपरिच्छदौ। श्रुता च सावधानाभ्यां, ताम्यां तद्धर्मदेशना ॥ १७ ॥ समये च नृपोमाक्षीत् , भगवनस्य मन्त्रिणः । येन चिन्तामणिदत्तः, सकः ? इत्यभिधीयताम् ॥१८॥ TM पटायां शामलोत्तमः । श्रेणी मदत्तः सम्यक्त्व-दादशव्रतभपितः ॥ १९॥ अहो रात्रिकमन्येयुः, सोऽग्र- , . .. ॥८२॥ 11
हीत्पौषधव्रतम् । सुष्वाप विधिना रात्री, निद्राणो योगनिद्रया ॥ २० ॥ तदा च तद्गृहे चौरः, प्रविष्टः कोऽपि निर्भयः ।
मुषित्वा गृहसर्वस्वं, निर्ययौ नीरपूरवत् ॥ २१ ॥ श्रेष्ठी तु जाग्रदेवाऽभूत् , तं जाननपि नाऽनुदत् । अवद्यमीरुर्धर्मात्मा, व्रताती-
चारशङ्कितः ॥ २२ ॥ अथ पारणकं चक्रे, प्रातः पारितपौषधः । पुत्रादेरपि तं वृत्तं, स गमीरो न चाऽवदत् ॥ २३ ॥ स एवं
तस्करोऽन्येधु-हारं विक्रेतुमागतः । हट्टे काऽपि मुदत्तस्य, पुत्रेण ददृशे तदा ॥ २४ ॥ उपलक्ष्य निजं हार-मारक्षेभ्यस्तमार्प-
यत् । तेऽपि वध्यभुवं निन्यु-स्तं चौरं सर्वसाक्षिकम् ॥२५॥ तं तथाऽवस्थितं श्रेष्ठी, दृष्ट्वा सदयमानसः ।आरक्षानब्रवीदेनं, मो
भो! मुश्चत मुश्चत ॥ २६ ॥ मयैवाऽस्याऽपितो हारो, न विदन्ति सुतादयः । श्रेष्ठी नाऽसत्यवक्तेति, विमुक्तस्तैः स तस्करः
॥ २७ ॥ विजने श्रेष्ठिना शिक्षा, तस्य दत्तेति भोस्त्वया । नाऽकर्त्तव्ये मतिः कार्या, मानुष्यं दुर्लभं खलु ॥ २८ ॥ तस्कर-
स्तस्य सौजन्य-मुपकारं च संस्मरन् । प्रव्रज्याऽनशनं कृत्वा, सौधर्मे त्रिदशोऽभवत् ॥ २९ ॥ सुचिरं निरतीचार-पौषधव्रत-
पालनात् । स श्रेष्ठी सचिवो जातो, धर्मवान् भाग्यमासुरः ॥ ३० ॥ देवेनाऽवधिना ज्ञात्वा, प्राग्भवोपकृतं तव । सङ्कटे
पतितस्याशु, दत्तश्चिन्तामणिस्तदा ॥ ३१ ॥ अत्रान्तरे स देवोऽपि, तत्रैत्योवाच मन्त्रिणम् । किं ते करोमि ? सोऽप्याह,
यात्रां सर्वत्र कारय ॥ ३२ ॥ ततश्च तेन देवेन, सह नन्दीश्वरादिषु । यात्रां कृत्वा वलमान:, प्राप्तः स लवणोपरि ॥३३॥
तावद्विलीनकर्मत्वा-त्तस्य केवलमुज्ज्वलम् । आयुःक्षयाद्विमुक्तिश्च, युगपत्समपद्यत ॥ ३४ ॥ इति पौषधव्रतेऽपि हि, दृष्टान्तः
स्पष्टितो मया प्रकटः । तद्धो भव्या लोकाः !, तत्र रतिः किमिति न क्रियते ॥ ३५ ॥
॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे चतुर्दश उपदेशः ॥ १४ ॥
उपदेश-
सप्ततिका.
॥८३॥
विचानि पात्रेषु वपन्तु हे जनाः!, मवामिलाषो यदि वो न विद्यते ।
ताक्षमणमसारसम्पदां, फलं हि दानादपरं न विद्यते ॥१॥
पुराऽवनिपुरे नाम्ना, प्रकृत्यापि च भद्रकः । अभूच्छष्ठी राजमान्यो, जायाऽप्येतत्सदृग्गुणा ॥१॥ अन्यदा दम्पती तौ श्री-
धर्म श्रुत्वा गुरोर्मुखात् । तत्पार्थेऽभिग्रहान्कांश्चि-स्वीचक्रतुरकृतिमान् ॥ २॥ त्रिः पूजां द्विः प्रतिक्रान्ति, मुक्तिमेकान्तरां च
सः । सुपात्रदानसच्चित्त-त्यागाधं प्रतिपनवान् ॥ ३ ॥ दयिताऽप्याददे सर्व, तन्नमस्कृत्य तो गुरून् । गृहे गतौ कियत्कालं,
ताभ्यां धर्मश्च निर्ममे ॥ ४ ॥ अन्येयुर्द्रविणं क्षीणं, तस्य प्राकर्मयोगतः । ततश्च वानरप्रायं, कोऽपि तं मन्यतेऽपि न
॥५॥ अथ भार्याऽऽह गच्छन्तु, मवन्तो मतितर्गृहे । तत्र च द्रविणैराढ्याः, विद्यन्ते भ्रातरोऽपि मे ॥६॥ ते च
तुभ्यं प्रदास्यन्ति, द्रव्यं कियदपि प्रमो! । तेन त्वं व्यवसायादि, कारं कारं सुखीभव ॥ ७॥ इत्युक्तेऽप्यस्य नोत्साह-स्तत्र
गन्तुं मनागपि । श्वशुरस्य गृहे यानं, सतां लज्जाकर खलु ॥८॥ अतिप्रेरणया तस्याः, उपवासदिनेऽपि सः । चलितः सार्द-
मादाय, सक्तूनामेव शम्बलम् ॥९॥ द्वितीयदिवसे काऽपि, प्रदेशे पारणेच्छया । प्रस्वेद्यपयसा सक्तूं-चक्रे श्रीजिनपूजनम्
॥१०॥ तदा तद्भाग्ययोगेन, प्रेरितः कोऽपि संयतः। आगाद्दत्वा च तस्मै त-च्छेपं च बुभुजे स्वयम् ॥ ११॥ स तेन
पात्रदानेन, प्रमोदं परमं वहन् । चतुर्थदिवसे हीतः, इच तन्मन्दिरे ययौ ॥ १२॥ अथ सत्यापयन्ति स्म, स्वागतादि परं न
ते । अत्यादरं तस्य चक्रुः, पश्यन्तस्तं धनोज्झितम् ॥ १३ ॥ तथापि स्वस्य निर्वाह-योग्यं याचितवान् कियत् । श्वश्राद्या
अपि प्रोच-स्तदा तस्येदृशं वचः ॥ १४ ॥ श्रेष्ठिन साम्प्रतं व्याजो, न वाणिज्यं च तादृशम् । भवादृशामदेयं किं, परं युक्तिन
॥८३॥
तादृशी ॥ १५॥ तथापि कुलदेवी चे-त्कथयिष्यति तद्धनम् । कियत्तवाऽर्पयिष्यामः, सा हि नः कामधेनुवत् ॥ १६॥ तैः पृष्टा साऽप्यवादीत्तान् , यदेष पथि साम्प्रतम् । दानपुण्यं व्यधात्तस्य, षष्ठांश चेद्ददाति वः ॥ १७॥ सौवर्णिकानां षड्लक्षी, तदानीमस्य दीयताम् । श्रुत्वेति देवीवाक्यं तैः, तस्याग्रे तन्निवेदितम् ॥ १८ ॥ सोऽप्याह निजपुण्यस्य, न लेशमपि वो ददे । कोटयंशेऽपि भवद्रव्य, मम दानस्य नार्घति ।। १९ ॥ ततः स सत्त्वमालम्ब्य, चचाल स्वपुरं प्रति । स्वपुराऽऽसमनद्यां च, क्रमादेत्य व्यचिन्तयत् ॥ २० ॥ अहो ! मे जैनधर्मात्प्या, नित्यं तुष्टस्य किं धनैः । परं मदीया गृहिणी, करोत्यात्ति करोमि किम् ? ॥ २१ ॥ तत्र मां प्रेषितवती, या महद्भिर्मनोरथैः । सा दृट्वेगवस्थं मां, मृतकल्पा मविष्यति ॥ २२ ॥ तदेतानु- ज्ज्वलान्वृत्तान् , गृहीत्वा कर्करानपि । ग्रन्थौ निबध्य गच्छामि, गृहे सा प्रीयते यथा ॥ २३ ॥ विमृश्येति महान्तं तत्, पोट्टलं न्यस्य मस्तके । आगतो मन्दिरे श्रेष्ठी, साऽपि संमुखमागमत् ॥२४॥ वित्तेन पूरितो भर्ता, प्राप्त इत्युल्लसन्मुखी । उत्तार्य मस्त- कादन्थि, मुमोच क्वाऽपि कोणके ॥२५॥ पूजासत्पात्रदानादि-धर्ममाहात्म्ययोगतः । अथ ते कर्कराः सर्वे, जात्यरत्नानि जज्ञिरे ॥२६ ॥ तन्मध्यादेकरत्नेन, स्वमर्नुरपरेऽहनि । सम्मील्य शस्यवस्तूनि, प्राज्यं भोज्यं व्यधत्त सा ॥ २७ ॥ रत्नस्वरूपमपाक्षी- दोजनावसरे पतिम् । किमेतदिति सम्भ्रान्तः, स्ववृत्तं सोऽप्यभाषत ॥२८॥ श्रीधर्मस्यैव माहात्म्य, तन्नूनमिदमावयोः। इति तौ दम्पती धर्मे, चक्रतुर्निश्चलं मनः ॥ २९ ॥ इत्यमेष पुनरभ्दुतसम्प-त्प्राप्तितोऽजनि नृपादिषु मान्यः । पात्रदानजिनपूजन- मुख्य, पुण्यमेव भविकाः ! क्रियतां तत् ॥ ३० ॥ ॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे पञ्चदश उपदेशः ॥ १५ ॥ । .
उपदेश- सप्ततिका. ॥ ८४॥ . गुणानुराग गुणवज्जनेषु, साधम्मिकाणां सृजतां विधेयम् । वात्सल्यमुत्फुल्लधियाऽऽस्तिकौघैः, श्रीदण्डवीर्येण यया कृतं तत् ॥१॥ वंशे श्रीमरतस्यासीत्, अयोध्यायां महीपतिः। अष्टमो दण्डवीर्याख्य-स्तेजसां यशसां निधिः ॥१॥ आचारं भरतेशस्य, श्राद्धभोजनलक्षणम् । स सत्यापयति प्रोचै-स्त्रिखण्डावनिमण्डनम् ॥२॥सषोडशसहस्रेषु, राजसु स्फीतभक्तिषु । निषण्णेष्वन्य- दाऽऽस्थान्या-मलश्चक्रे वरासनम् ॥३॥ गतेष्वय च षट्कोटि-पूर्वेषु मरतादनु । सौधर्मेन्द्रः समासीनः, सस्मार भगवद्गु- णान् ॥४॥ तुष्टाव च स तं ताक्, पुंरत्नश्रेयमीशितुः । वंशं शाखाशतैर्युक्तं, जगदाऽऽलम्बनक्षमम् ॥ ५॥ वर्यवीर्य, दण्डवीर्य गृणन्तं धर्ममार्हतम् । सौधर्मेन्द्रः सभासीनो, ददर्श ज्ञानचक्षुषा ॥ ६ ॥ श्राद्धवेषं सुरेशोऽथ, कृत्वाऽयोध्यामुपागमत् । उदस्य पाणिं भूपाय, स आशीर्वचनं जगौ ॥ ७॥ गृणन्तं चतुरो वेदान् , भरतेशेन निर्मितान् । दृष्टिपूते पथि न्यस्त-चरणं ब्रह्मधा- रिणम् ॥ ८॥ द्वादशव्रतधारित्वात् , तावन्ति तिलकान्यपि । बिभ्राणं हृदये हेम-सूत्रत्रयविराजितम् ॥९॥ तं वीक्ष्य दण्डवी- र्योऽभू-तस्मिन् सादरमानसः । क्रियाया डम्बरो यावां-स्तावांल्लोकादरोऽपि यत् ॥ १०॥ कुतः समागतोऽसि त्वं १, यियासा कुत्र वा तब ? । इति भाषिणि भूपाले, मायया सोऽप्युवाच तम् ॥ ११॥ अहं श्रीअमरावत्या, पुरीतः श्राद्धवेषभृत् । तीर्थेषु यात्रा कुर्वाणः, प्राप्तोऽद्याऽत्र नराधिप ! ॥१२॥ अत्र शक्रावताराख्ये, चैत्ये श्रीऋषभमभुम् । स्तुत्वा भवन्तं दृष्ट्वा च, मया- त्माऽयं पवित्रितः॥ १३ ॥ आज्ञापयदथो सूदां-स्तद्भोजनकृते नृपः। अद्य तीर्थोपवासस्य, चिकीर्षास्तीति सोऽप्यवक् ॥१४॥ क्षपणस्य निषेधे तु, भूपालाधैः कृते सति । स प्राप्तो दानशालासु, दृष्टिपूतं चरन् पथि ॥१५॥ पठतस्तत्र शास्त्राणि, वेदा- - Hinाशि ॥ १६॥ त्रिकालदेवपजायै. त्रिशुध्या स्वानिनः परान् । . । ८४॥
क्रमात्संक्रन्दनः श्राद्धान् , वीक्ष्याऽऽप परमां मुदम् ॥ १७ ॥ श्रादाभिवादये तुभ्य-मिति वादिभिरुत्थितः। आचम्य शुचि- भिस्तोयै-स्तैः समं सोऽविशद् गृहम् ॥ १८ ॥ कोटिश्राद्धकृते जात-मनपार्क क्षणादपि । दिव्यप्रमावादेकोऽपि, सोऽमुक्त कपटाऽऽस्तिकः ॥ १९ ॥ परिवेषयतानं रे!, बुभुक्षा व्याकुलस्य मे । कथं सूदाः ! दण्डवीर्यो, ब्रीडापात्रं विधीयते ॥ २०॥ तत्स्वरूपे चरै राज्ञे, ज्ञापिते स्वयमेत्य सः । अपश्यत् क्षामकुक्षि त-मिव मासोपवासिनम् ॥ २१॥ मायाश्राद्धोऽपि राजेन्द्र, दृष्ट्वा श्रद्धासमन्वितम् । जगाद कठिनां वाचं, दीनभावं प्रकाशयन् ॥ २२॥ राजन्नमी त्वया सूदाः, नियुक्ताः श्राद्धवचने । मामप्येकं क्षुधाक्षामं, यदमी प्रीणयन्ति न ॥ २३ ॥ तच्छ्रुत्वा कुपितः किञ्चि-दपाचयदिलापतिः। शतमूढकमानेन, मृदैरनं स्वपुरः ॥ २४ ॥ मायया स क्षणादेव, पश्यतो नृपतेस्तदा । जग्रसेऽनं यथा वहिः, सर्वमिन्धनसश्चयम् ॥२५॥ मायाश्रादः पुनः प्राह, जातेन भवताऽपि किम् ? । पूर्वेषां यः कुलं कीर्ति, पुण्यं नाऽधिकतां नयेत् ॥ २६ ॥ श्राद्धभोजनरूपां त्वं, मायां मुश्च त्रपां त्यज । प्रतार्यन्ते कथं माः, सत्राडम्बरधारिणा ॥ २७॥ तस्येति निष्ठुरां वाचं, श्रुत्वाऽपि न चुकोप सः। स्वपुण्याऽपूर्णतां जानन्, प्रत्युत स्वं निनिन्द सः ॥ २८॥ ज्ञात्वाऽय नृपतेर्भाव, जगौ मन्त्री पवित्रवाक् । स्वामित्रयं श्राद्ध- रूप-च्छलकृत्कोऽपि निर्जरः ।। २९ ॥ श्राद्धवेपेऽस्ति ते मक्ति-यदि तत्तां समाचर । चन्दनागुरुकर्पूर-कस्तूरीप्रमुखां नृप ! ॥ ३० ॥ श्रुत्वेति भूपतिधूपं, चन्दनागुरुमिश्रितम् । ददाह तत्पुरो मक्या, पुण्यं वाक्यं जगाद च ॥ ३१ ॥ कस्त्वं श्रावक- वेषेणे-हागान्मां पावितुं वद । कुर्वन्मयि कृपां देव !, प्रसीद प्रकटीमव ॥ ३२ ॥ पुरुहूतस्ततो रूपं, प्रकटीकृत्य तं जगौ। धन्यस्त्वमेव यस्येदृग्, भक्तिः साधम्मिके जने ॥३३॥ दृश्यन्ते कोटिशो विश्वे, स्वोदरंभरयो नराः। साधम्मिकस्यैकस्यापि, उपदेश- सहतिका न तु वात्मल्यकारकः ।। ३४ ।। निर्माय निर्मायनमा प्रशंपा, शकत्तईयामिति रनकोटिः । प्रवृष्प दिव्यं च धनु: प्रदाय, स्त्रां राजधानी समलञ्चकार ॥ ३५ ॥ श्रीदण्डवीर्योऽपि विधाय यात्रा, शत्रुञ्जये सङ्घयोः पदं च । पाप्यात्मदर्शोदितकेवलश्री, क्रमाञ्च निर्वाणपुरे जगाम ॥ ३६॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे षोडश उपदेशः ॥ १६ ॥ ॥८५॥ . श्रीज्ञानसाधारणवित्तमास्तिकैः, सङ्घानुमत्या न पुनर्निजेच्छया। व्यापार्यमत्राऽपि जिनागमोदितं, श्राद्धद्वयोदाहरणं निगद्यते ॥१॥ भोगपुरे नगरे २४ कनककोटिस्वामी धनावहश्रेष्ठी । तस्य पत्नी धनवती तयोर्युग्मजातौ सुतौ कर्मसारपुण्यसारौ, पित्रा:- न्यदा कीदृशावेतौ माविनाविति नैमित्तिकः पृष्टः, स प्राह, कर्मसारो जडप्रकृतिरतिनिष्प्रज्ञो विपरीतबुद्धितया सुबहूपक्रमेऽपि प्राच्यद्रव्यनिर्गमननव्यद्रव्योपार्जनामावादिना बहुकालं दारिद्रयादिदुःखवान् भावी । पुण्यसारोऽपि प्राच्यद्रव्यस्य नवोपाजि- तस्य च पुनः पुनन्यिा तथैव दुःखी भावी, परं वाणिज्यादिकलाकुशलौ द्वावपि भाविनी, द्वयोश्च वार्द्धके धनसौख्यसन्तत्यादि मावि । क्रमेणोपाध्यायस्य पाठनायाप्तिी । पुण्यसारः सुखेन सर्वा विद्या अधीतवान् । कर्मसारस्य तु अक्षरमपि नायाति । वाचनलिखनाद्यपि कत्तं न शक्नोति पशुपायः । पाठकेनापि पाठनं मुक्तम् । यौवनस्थौ च तो पितृभ्यां महेम्यकन्ये परिणा- .
कर्मसारस्य निजतत्तत्कुबुद्धया स्वजनादिनिषेधनेऽपि वाणिज्यादिविदधतो यत्र तत्र विनाशस्यैव सम्भवात् द्वादशाऽपि स्वर्ण कोटयो गताः। पुण्यसारस्यापि राजदायादतस्करवह्वयाग्रुपद्रवैः स्तोकेनापि कालेन सर्वा अपि स्वर्णकोटयोगताः। जातौ द्वावपि दरिद्रौ। त्यक्ती स्वजनादिभिः । भायें अपि क्षुधार्दिते गते पितगृहे । यतः अलियपि जणो धणवं-तयस्स सयणत्तणं पयासेइ । आसन्नबंधवेणवि, लज्जिज्जइ हीणविहवेण ॥१॥ गुणवंपि निग्गुणच्चिय, गणिज्जए परियणेण गयविहयो । दक्खन्नाइ गुणेहिं, अलिएहिवि गिज्जए सघणो ॥२॥ ततो निर्बुद्धिनिर्भाग्याविति लोकैदत्ताभिधानी पदे पदे प्राप्ताऽपमानौ लज्जिती गतौ देशान्तरम् । स्थितौ च पृथक् पृथक् काऽपि महेभ्यगृहे अन्योपायाभावाभृत्यवृत्त्या । यस्य च गृहे कर्मसारः स्थितः मोऽलीकव्यवहारी कृपणश्चेति उक्तमपि वेतनं न दत्ते अमुकदिने दास्यामीति वचसैव तं विमतारयति । ततो बहुभिरपि दिनैस्तेन किमपि नाजितम् । द्वितीयेन तु कियद- ज्जितमपि प्रयत्नगोपितमपि धूर्तेनापहतम् । एवमन्यान्यस्थानेषु भृत्यवृत्त्या धातु/दसत्यवादसिद्धपुरुषरसायनरोहणाद्रिगमनम- त्रसाधनरुदन्त्यायौषधिग्रहणादिना एकादशकृत्वोऽजितमपि धनं कुबुद्धिपमादादिना निर्भाग्यतया च निर्गमितम् । ततो त्युद्विनौ पोतमारुह्य रत्नद्वीपं गतौ, द्वीपाधिष्ठायिकदेव्यग्रे मृत्युमप्यङ्गीकृत्य निविष्टौ । अष्टमे उपवासे नास्ति भाग्यं युवयोरिति कथने कर्म- सार उत्थितः । पुण्यसारस्य त्वेकविंशत्युपवासर्दत्तं तया चिन्तारत्नं । कर्मसारः पश्चात्तापं कुर्वन् पुण्यसारेणोक्तः । बन्धो! मा विषीद, अनेन चिन्तारत्नेन आवां द्वावपि सुखिनौ भाविनाविति विमृश्य हृष्टौ निवर्तमानौ पोतमारूढौ । रात्रौ च राकाशशा- उपदेश- सप्ततिका. ॥८७॥ क्रमाञ्च सुगतिं गतौ ॥ २९ ॥ एवं देवज्ञानसाधारणादि-द्रव्यं व्यक्त्या स्थापनीयं सुयुक्त्या । व्यापार्य च श्रावकैस्तचविझे, निर्लेपत्वं स्यात्तथा चिन्तनीयम् ॥ ३०॥ ॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे सप्तदश उपदेशः॥१७॥ इति श्रीपरमगुरुतपागच्छनायकश्रीसोमसुन्दरमूरिक्रमकमलपरालमहोपाध्यायश्रीवारित्ररत्नगणितद्विनेयपण्डितश्री- सोमधर्मगणिविरचितायां श्रीउपदेशसप्तौ पञ्चमोऽधिकारः ॥ समाता चेयं श्रीउपदेशसप्ततिका ॥ ॥ अथ प्रशस्तिः ॥ जाग्रद्भाग्यजुषां क्षमारसपुषां संविनचारित्रिणां, चातुर्विद्यविनोदिनां च समभूत् पतिपदीया धुरि । यैश्वाऽहन्मतकानने कलियुगेऽप्युन्मादवादिद्विपा-ऽहङ्कारप्रसरं निरस्य विदधे पश्चाननस्फूजिाम् ॥१॥ तपागच्छाधिराजाः श्रीगोपगुन्दरमरयः। श्रीचन्द्रकुलशृङ्गारा, न केषां ते प्रमोददाः ॥ २॥ युग्मम् ॥ कृतशान्तिकरस्तोत्राः, गदिपतिबोधकाः । निावमादा भान्ति श्री-मुनिसुन्दरसूरयः ॥ ३॥ सम्प्रतिप्रमुखाऽनेक-विषमग्रन्थमाणकाः । श्रेयो दिशन्तु सङ्घाय, जयचन्द्रगुरूत्तमाः ॥ ४ ॥ दक्षिणदेशविहारे, निर्दलितोद्धतकुवादिवृन्दमदाः । श्रीभुवनसुन्दराहाः, मूरित्ररास्ते मुदं ददतु ॥ ५॥ एकादशाङ्गीसूत्रार्यों-दधि- मन्दरभघराः। जिनसुन्दरसूरीन्द्राः, न केषां हर्षहेतवः ॥६॥ जिनकीतिपूरिराजाः, गुरुगच्छहितोद्यता रताः सुकते।
दुःखी, मानम्लानिभिया क्वचित् । ययौ शाखापुरे तत्रा-प्येष धम्मै मुमोच न ॥८॥गतागतं वितन्वानः, स्वप्रा- सादे प्रतिप्रगे। चिन्तां चकार पुत्राणां, चैत्यस्यानिच्छतामपि ॥ ९ ॥ चतुर्मासीदिने-न्येधु-स्तस्य चैत्येऽभ्युपेयुषः । मालिन्या ढौकितं पुष्प-चतुस्सरकमेकया ॥ १० ॥ वित्ताभावात्कयं गृह्णा-म्यहमेतत्तयापि सः । माषितः कि- मिदं वाच्यं, सर्वमेतत्तवैव यत् ॥ ११ ॥ त्वदीयकवलैरेव, वयं वृद्धिमुपागताः। त्वदपत्यसमा देव !, परकीयमिहास्ति किम् ? ॥ १२ ॥ इति मोच्य तया तस्मि-बर्पिते सोऽपि तं मुंदा । गृहीत्वाऽभ्यर्च्य देवं च, तदने समुपाविशत् ॥ १३ ॥ गुरुप्रदत्तश्रीमन्त्र-स्मरणैकाग्रमानसः । यावत्तिष्ठत्ययं श्रेष्ठी, तावहेवः पुरोऽभवत् ॥ १४ ॥ अवादीच कपर्याख्यो, यक्षोऽहं वृषमप्रमोः। सेवको भद्र! याचस्व, सर्व यत्ते विलोक्यते ॥ १५ ॥ श्रेष्ठयप्युवाच मे वित्त-स्पृहा कापि न ताशी । पुत्राणां किन्तु धर्मास्य, स्थैर्यार्थ किश्चिदर्थ्यसे ॥१६॥ या मयाद्य जिनेन्द्रस्य, पूजा निर्व्याजभक्तितः। निर्मिताः तत्फलं देहि, प्रसन्नो मे मवान् यदि ॥ १७॥ सुरः प्राह न देवेन्द्रो-ऽप्यस्या दातुं फलं प्रभुः । अपि त्रैलोक्यराज्य य- दीयमानं तृणायते ॥ १८ ॥ एकापि पूजा जैनेन्द्री, दुर्लमान्यपि लम्पयेत् । कल्पवल्ल्या अदेयं किं ?, किमज्ञेयं च योगि- नाम् १ ॥ १९ ॥ परं चतुर्यु कोणेषु, मन्दिरे तव माविनः । सौवर्णाः कलशा द्रव्य-भृता मदुपदीकृताः ॥ २० ॥ इदं कुमु- ममात्रस्य, फलं जानीहि निश्चितम् । वैतरागी यतः पूजा, दत्ते मोक्षसुखान्यपि ॥ २१ ॥ इत्युक्त्वान्तहिते देवे, श्रेष्ठी स्वं सौधमागतः । उवाच पुत्रान् मो मद्राः !, धर्मः कस्माद्विमुच्यते ॥ २२ ॥ अविधेयाश्रयास्तेऽपि, प्रत्यूचुस्तं इत्यपि । १ तदा न भस्मसाचोलपट्टोऽभूत् ॥ ८॥ नव्यानेकसदुक्तियुक्तिसरसैग्रन्थैर्गरीयस्तरैः, स्वोपज्ञैरमृतहृदैरिव जगत्तापाऽपहारक्षमाः। धौरेया उपकारकर्मणि सदा जाग्रत्प्रतापोदयाः, येऽम्भोदा इव जैनशासनवनं प्रोत्फुल्लमातन्वते ॥९॥ गच्छाधिपत्यपदवीमुपभुञ्जते ते, श्रीरत्नशेखरगुरुप्रवरा इदानीम् । शास्त्रोक्तमूरिगुणसम्पदमादधानाः, सम्यक् स्वशिष्यगणशिक्षणसावधानाः ॥ १०॥ श्रीउदय. नन्दिपादाः, सदा प्रसन्ना भवन्तु सङ्घाय । लोकोत्तरा यदीया, निरीहता दृश्यतेऽद्याऽपि ॥ ११॥ उल्लच्याऽन्यसतीर्थ्या, गुरुमसादोऽधिकोऽभवधेषु । ते श्रीलक्ष्मीसागर-भूरिवराः सन्तु वः सिद्धयै ॥ १२ ॥ तुर्थेऽपि युगे येषां, श्रीवज्रस्वामिवत्सु- सौभाग्यम् । श्रीसोमदेवमूरि-प्रवरास्ते सन्तु वो जयदाः ॥ १३ ॥ अन्येऽपि मूरिवाचक-विबुधाः स्थविरा जयन्तु साधुगणाः। जीवप्रदेशसंख्याः, गुणा यदीया विनयमुख्याः॥१४॥ येषां बुद्धिरनुत्तराऽतिविषमग्रन्थार्थसाक्षात्कृतिम्, चेतःसमनि दीपिकेव सृजती भोज्जागरा सर्वदा । सर्वेषामुपयोगिनी समभवद्दानप्रदीपस्तथा, ग्रन्थो यद्विहितश्छिनत्ति कृतिनामद्याऽपि दुष्टं तमः ॥१५॥ जयन्तु ते वाचकपुङ्गवाः श्री-चारित्ररत्ना गुरवो मदीयाः। यद्भाणिता वर्यविनेयवाराः, कुर्वन्त्यनेका उपकारकोटीः ॥१६॥ तद्भातरः सकलकोविदमाननीयाः, पूज्या जयन्त्युदयशेखरपण्डितेन्द्राः । जई ममाऽपि जडिमा हृदयमरूढा, भास्वद्भिरात्म- शुचिगोभिरनुत्तरा यैः ॥ १७॥ तयोः पदाम्भोरुहचश्चरीकः, शिष्योऽभवत् पण्डितसोमधर्मः । शास्त्राणि भूयास्यपि यो बमाण, मांणि तेषां न विवेद किन्तु ॥ १८ ॥ उपदेशसप्ततिरिय, रुचिरा गुणबिन्दुबाणचन्द्रमिते १५०३ । वर्षे तेन प्रथिता, कृतार्थनीयाsपि बुद्धधुर्यैः ॥ १९ ॥ एषाऽल्पिकापि निजहस्तगपुस्तिकान्तः, स्थाप्याऽन्यपुस्तकगता न कदापि कार्या । सैव - मागाधाना गा गया • शिवति ना गया दिने ॥२०॥ विनियोina. नलिपिका उपदेश- सप्ततिका ॥८८॥ कुशलो विनिर्ममे । सदोषपोषामपि मुक्तक्षणां, सतीमिवैतामुपदेशसप्ततिम् ॥२१॥ यावद्वीरजिनेन्द्रशासनमिदै दुवादिनिनाशनं, यावन्मेरुमहीपरप्रभृतयो मावा अमी शाश्वताः । श्रीसक्य चतुर्विषोऽपि कुरुते यावच्च पुग्योधमम् , तावत् श्रीउपदेशसप्ततिरिय श्रेयस्करी स्वात्सताम् ॥ २२॥ ॥ इति श्रीउपदेशसप्ततिः पण्डितश्रीसोमधर्मगणिकृता अष्टमासीयथावसरव्याख्यानाहाः॥ 12 उपदेशसप्तत्याः शुद्धिपत्रम् । १२ बी पानु पृष्ठ श्लोक अशुद्धम् १८ द्वेषा बी २४ भव्यलोकाः १७ निर्मिताः १२ चखुखहि १२ दिवेहि १७ श्वान्दनः १ शिष्य ३४ पृष्टाः ३५ पुर्जनः १२ पेतहननीचे तयोरवं १२ बी ५ दत्वा १२ बी ५ निर्मत्सयति शुद्धम् द्वेषो नु भव्यलोका निर्मिता चुखखपहि दीवहिं चान्दनै शिष्याः पृष्ठाः पूर्जनः तयोरेवं दत्त्वा निर्भत्सयति पर्जनः ५ निर्मर्सयते २३ पापिष्टा १३ बी १ तीर्थकत्वं १४ बी लीटी ८ श्लोक ३ दत्व १४ बी ३ शकला: २४ दत्वैवं २२ भवद्भयामेपो १५ बी १ स्पष्ट प्रभवन्ति १८ नप १६ बी ६ लोकसवेपि तदौकसि १८ पे १२ गुणदोषा परावृत्य १९ बी १३ दत्वा निर्भर्मयते पापिष्ठा तीर्थकृत्त्वं दत्त्वा सकलाः दत्त्वैवं भवद्भ्यामेषो स्पृष्टं प्रस्रवन्ति नूप लोकःसवेपि तदोकसि गुणदोषा परावर्त्य दत्त्वा २० ५ देवसम्बन्धि देवसम्बन्धि २० ८ प्रमाणपि प्रमाणमपि २१ बी जात जाता २२ वी ४ लीटी पूर्जादिक पूजादिक २१ वी १२ कृष्णसर्पा कृष्णसर्पाः २४ बी १३ तपाच्छ तपागच्छ २४ पे ली.१० विस्मारि विस्तारि २४ पे छेल्लो श्लो. ५ येनेष येनैष २५ पे ५ बो? बौद्ध २५ बी १४ श्लोक तावद्दव्यं तावदव्यं २५ बी १४ समर्पयत् समार्पयत् २५ बी ली.९ कोटी कोटी ५ सपरिवार सपरीवार २६ पे ४ दारु दारू २७ समर्पयत् समार्पयत् १२ पे १२ पे २ ३८ पे २७ पे पे ३२ पुण्डरिकः पुण्डरीका १२ राश्रमम् रश्रमम् ३ जीत्वा जित्वा ताच तांच २३ दुषिनो दुषितो ३० बी २८ तावत्युत्फुल तावदुत्फुल बी २२ दुशिलाः दुशीलाः ३० बी ३२ गीरेः गिरेः ५ चिंतयत् चिंतयन् ८ क्षिरं श्रीरं २८ वीक्षीता वीक्षिता ३२ पे ३८ पूरतः पुरतः ३४ २३ भवता भवतां २३ विधीयिना विधायिनां ३५ बी १४ व्यंतर यंतर ३५ पे ३ त यीयोगात् तद्वयीयोगात् ३५ बी २२ कर्कण्ड करकण्ड भालनानिका शालनादिकं ३६ १ नकृष्ठ नष्टकुष्ठः ३६ बी १३ उक्ते उक्त्वे ३६ वी , १७ भूभागं भूभागः ३६ बी १३ उक्तेति-बाह्ये उक्तवेति-ब्राह्मये ३६ वी २३ किन्विदं किन्त्विदं ३७ पे वी १४-२१ समर्पयत् समार्पयत् ३७ वी २३ किन्विदम् किन्विदम् ३८ पे १ मिद्धं मिद्धां १४ सूरि सुरी ३८ १ प्रभावपुरैः प्रभावपूरैः रूग रग ४० बी १८ मुनेरत्यक्त मुनेस्त्यक्त ४२ २८ शुष्यर्थ शुद्धयर्थ बी ६ तुरगारुढ त्तुरगारुढ ४२ पे २२ अभूत्मधु अभून्मधु R पे ३० कतार्था ३६ चक्रवर्ति चक्रवती शतोमयी शतोभयी ४४ पे १० दृष्टिमार्गग दृष्टिमार्ग पे १२ राजीमति राजीमती विनिय विनय बी १३ भीत्या भीत्या ४६ पे ७ विजृमितं विजमितं १० सुकृति सुगति पे २८ पोतृ पितृ ६ लक्षतया लक्ष्यतया ४९ बी २७ निरमीमयत् निरमीमपत् ५१ पे २१ वज्र ३१ सरावां ५१ बी ४४ तदैनं ५१ बी ४६ विनिर्मिमे विनिर्ममे ५१ बी ५० दुरिता दुरिता ५२ पे लीटोपे धम धर्म ५२ पे ग्लो ४ वैराग्येन वैराग्येण ५२ पे युवा ५२ बी १७ देव देव स रावां ३८ वी तदैनत् कृतार्था ६ युवा ४३ बी दारु सप्त वर्षी २२ षिक्तता षिक्तनां यावन्दगन्त्रि यावद्गन्त्रि ४ धूर्य धुर्य ५३ बी १७ भवे भवेत ५३ बी २४ सप्त-वर्षी २७ चौरे चौरैः ५४ बी ११ वघे वधे ५४ बी १४ सर्यो-ऽभूद् सर्योऽभूद्- ५४ बी १६ वने वटे २६ रंजित रजिता ५५ बी ५५ बी १२ इत्यादि बहु इत्यादिबहु १७ किंतु ५६ बी ११ मनबीत् मब्रवीत् १५ मादृशं मादृशां ५६ बी २९ अकृशाथा अकृषाथा ५७ बी ३२ भावयुग भावयुक श्वक-वध-होने श्वन वैधते ८ दारूं ५९ बी १३ श्रुत्वा बी १८ मुपयाम्यति .९, वी ४ नपादीनां ६० वी ११ हर्ष- ६० बी २० कुष्टाद्या ६० बी २२ लुग्यास्तं वस्त्रप्रान्ता ५ विधुनिता ६१ बी दत्वा ६१ बी १५ बुवे ६२ पे २४ विसिष्मये ६२ पे २६ प्रेषय ३० य्याद्रीकृते ६२ पे ३१ ध्वनित ६२ वी १ श्रवन्त्यः ३ पे १८ वक्तं धृत्वा मुपशाम्यति शत्रु नृपादीनां हर्ष- कुष्ठाद्या लुब्धास्तां वस्त्रप्रान्तो विधुनितः दत्त्वा ब्रुवे विसिष्मिये प्रेषय य्यार्दीकृते मुदित नवन्त्यः वक्तं १९ पूरतो पुरतो ३ शिरोधूत शीरोधून च्छूतेः च्छुतेः ६५ वी ४१ खिल खिला १४ प्रभोः प्रभो ६६ वी २६ ज्ञायते जायते २७ तां तं ६६ बी ८ लीटी यथाक्रमन्ते यथाक्रमं ते ६६ बी ८ विहिते विहिता १६ चामरणि चामरश्रेणि ६७ ४ भावि भवी ६७ दैवतः १ दैवतः ६७ बी १३ लोकः लोकाः ६७ बी १६ च्छात्रार्थ च्छात्रार्थ १ नुकंपा पर नुकंपापर ६८ बी १२ दारिद्र दारिए ३ तस्याः? तस्याः ईत्यादि तत्व ईत्यादितत्व " तयो । ८० ६ स भक्त्येवं समक्त्येवं ७९ पे १२ धितो बाधितो २३ क्षतसन्ततिम् क्षतसन्तति ७९ पे १७ द्विजः द्विज- ३३ गृहिणो गृहिभिः ७९ बी २१ तयो १० भवति भवन्ति २९ मवे मेव १६ श्रेष्टिनः श्रेष्ठिनः बी १५ कोलहलाः कोलाहलाः बी २२ खलरिव खलैरिव बी १७ अपश्यन् अपश्य बी २१ स्ववीजिनं स्वबीजिनं ८१ पे लीटी ८ मिच्छत मिच्छत्त ३ अन्या अन्यो ९ पञ्चपन्न पच्चुप्पन्ने १३ स्नादि स्नानादि ८१ बी १५ जातं जातं, १५ अस्थापयामस्तत् अस्थापयाम तत् ८२ पेलीटी११ पोसहसु पोसहेसु २५ शकली कृतं शकलीकृतं बी १४ मीशं मीदृशः १३ य्यम् य्यमू बी १६ न्यदाऽगमत् न्यदाऽऽगमत् २२ शृणुत श्णुत बी १८ सका बी २४ पूरली पुरस्त्री बी १ मर्पण मक्षण ७८ वी २६ पकछत्रं बी १० प्रस्वेद्यपयसा प्रस्वेद्य पयसा २४ तत्, वी १२ रावत्या, यात्रा रावत्याः यात्राः १७ त्रिशुध्या त्रिशुध्या २१ धर्माच्या धर्माप्त्या ३० रभ्दुत ३५ शक्रतदी शकस्तदी बी ३६ दिकेवल दितकेवल बी ३६ पुरे पुरं वी ली.१३ कोटि कोटी ८६ पे ली. ९ धातुर्वाद धातुवाद पे ली. १० द्यौषधि घोषधि बी प्रलो.४ न्यदास्तिकैः न्यदाऽऽस्तिकैः पे १६ स्वेच्छादिः स्वेच्छातः ८७ बी लो.४ सम्प्रति सम्मति ८८ पे १२ सतीर्थ्या सतीर्थ्यात् १८ किन्तु किंनु " ८८ पे
No text on this page.
. - MATIVE सोलर मापस कर उपदेश- सप्ततिका. फुधाकुलाः । रे! जरन्मूर्ख एवासि, कदर्ययसि किं पुनः १ ॥ २३ ॥ व्यवसायेऽपि नोत्साहः, फलाऽभावे भवेन्नृणाम् । कः सन्दिग्धफले धम्म-अभियोगं कुरुते सुधीः १ ॥ २४ ॥ ततोऽप्युवाच रे मूर्खाः!, कथं शीघ्र फलोदयः । वृक्षोऽपि रो- पितः काले, फलं यच्छति नारतः ॥ २५ ॥ पक्षान्तः स्यात्फलं चेत्त-त्सेव्यो धर्मोऽन्यथा तु नो। श्रुत्वेति तातवाणी ते, किश्चिद्धर्मोद्यम व्यधुः ॥ २६ ॥ तातोऽन्यदाऽवदद्वत्साः !, कोणेष्वेषु चतुर्बपि । खनित्वाऽद्य विलोकध्वं, श्री- धर्मफलमुज्ज्वलम् ॥ २७ ॥ श्रुत्वेति तैस्तथा कृत्वा, स्वर्णरत्नौघपूरिताः। स्वपुण्यानीव मूर्तानि, स्वर्णकुम्मा निरीक्षिताः ॥२८॥ सौवर्णकलशप्राप्ति-प्रीतास्तेऽपि ततो भृशम् । स्थिरचित्ताः प्रसन्नास्याः, श्रीधभ बहु मेनिरे ॥ २९ ॥ अथ पुत्रयुतः श्रेष्ठी, पुनः स्त्र नगरं ययौ । प्रान्ते तु व्रतमादाय, क्रमान्सुगतिमागभूत् ॥ ३० ॥ एवं श्रीवीतरागस्य, पूजां कुरुत भो जनाः!। यथा मोक्षसुग्वश्रीणां, यूयं मवथ भाजनम् ॥ ३१ ॥ ॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे पूजोपदेशश्चतुर्थः ॥ ४ ॥ अष्टप्रकारां मनुजा जिनार्चना, सृजन्तु सिव्यन्ति यथाष्टसिद्धयः । सहोदरा अष्ट यथा महर्द्धय-श्छित्वाष्टकर्माणि शिवश्रियं श्रिताः ॥१॥ विदेहे पुष्कलावत्यां, विजये पुण्डरीकिणी । पुरी पवित्रा तत्राऽस्त, वरसेनाऽभिधो नृपः ॥१॥ षट्खण्डम- १ सबन्धम् । २ न गीघ्रत. ॥
ण्डितां पृथ्वीं, साधयित्वा भुनोजितः । स चक्रवर्ती सञ्जातो, विक्रमी विनयी नयी ॥ २ ॥ अन्यदी सुयशस्तित्र, ताथ- कृत्समवासरत् । चक्रवर्त्यपि तत्रागात् , श्रोतुं तद्देशनामिति ॥३॥ जागत्तिं यावदिह कालभुजङ्गमो न, पञ्चाननः स्वपिति यावदयं च कामः । यावद्विवेकपिहितास्ति च मोहरात्रि-निर्गच्छ संसृतिवनानिभृतोऽङ्ग तावत् ॥ ४ ॥ अत्रान्तरे समायाताः, सर्वाभ्यधिकरोचिषः । अष्टौ केऽपि सुरा भामि-भूषयन्तो भुवस्तलम् ॥५॥ अथ नाव्यवि- धिं धर्म-देशनान्ते जिनाग्रतः। द्वात्रिंशद्भेदभङ्गीभिः, कृत्वा पृच्छन्ति ते जिनम् ॥ ६ ॥ अस्माकं भविता मोक्षः, कदा स्वामिस्तदादिश । किं वा पूर्वभवेऽकारि, पुण्यमेवंविधा यतः ॥७॥ वरसेनोऽपि शुश्रूषु-स्तेषां पूर्वमवादिकम् । स्वामिना कथ्यमानां तत्-कथामाकर्णयेदिति ॥ ८ ॥ पुरा हि धातकीखण्डे, महालयपुरे वरे । इभ्यः सुदत्त इत्यासी-त्पत्नी तस्य तु रुक्मिणी ॥९॥धनो १ ऽथ विमलः २ शङ्ख ३, आरक्षो ४ वरसेनकः ५। शिवश्च ६ वरुणश्चैव, सुयशा ८ थाट तन्मुताः ॥ १०॥ अन्येारष्टभेदायाः, पूजायाः फलमुत्तमम् । व्याख्यायमानं सूरीन्द्रैः, शृण्वन्ति स्मेति ते मुदा ॥ ११ ॥ वरगंध १ धूव २ चक्खू-करवएर्हि ३ कुसुमेहिं ४ पवरदिवेहिं ५ । नेवज ६ फल ७ जलेहिं ८, जिणपूआ अट्टहा भणिआ ॥ १२ ॥ जो पूएइ तिसंज्झं, जिणिंदरायं मयावि गयदोसं । सो तइयमवे सिन्झइ, अहवा सत्तट्ठमे जम्मे ॥ १३ ॥ इत्यादिदेशनां श्रुत्वा, तैरष्टाभिरपि स्फुटम् । संभूयैकैकभेदस्य, नियमः प्रत्यपद्यत ॥ १४ ॥ तेषु प्राच्यः पवित्रात्मा, प्रातरानयते पयः । श्रीजिनस्याभिषेकाय, निर्मलं निजचित्तवत् ॥ १५ ॥ स्वामिन् ! ममादिश" " स्वामिस्त्वमादिश" इत्यपि ॥ १
उपदेश-
मप्ततिका.
चन्दनं स्वर्णकञ्चोले, न्यस्य मर्दितकेसरम् । कर्पूरवासितं कृत्वा, द्वितीयः पुनरानयेत् ॥ १६ ॥ कर्पूरागुरुककोल-
कस्तूरीसिल्हकादिकाम् । समग्रां धूपसामग्री, तृतीयः प्रीतितः सृजेत् ॥ १७ ॥ चतुर्थः शालिगोधूम-प्रमुखानुज्ज्वल-
च्छवीन् । अक्षतानक्षतं सौख्य-मिच्छुर्देवाय ढौकते ॥ १८॥ चम्पकाशोकपुन्नाग-शनपत्राम्बुजादिकैः । गुञ्जविरेफैः
पुष्पौधैः, पूजां पञ्चम आचरेत् ॥ १९ ॥ पष्ठस्तु बान्धवो दीपं, कुरुते घृतपूरितम् । निराकर्तुमिव स्वीयं, तमस्तोमस्य
विस्तरम् ॥ २० ॥ नानाजातीयपक्वान्न-परमान्नादिवौकनैः । नित्यं कृतार्थमात्मानं, निर्मिमीते तु सप्तमः ॥२१॥
बीजपूरकजम्बीर-पूगीफलपुरस्सराम् । नालिकेरफलैरान्यां, फलाली ढौकनेऽष्टमः ॥ २२ ॥ एवमेकैकभेदेन, मध्यावेऽष्टविधा-
ममी । कुर्वन्तोऽर्चा स्वपरयोः, सम्यक्त्वं निश्चलं व्यधुः ॥ २३ ॥ अभिग्रहममुं तेषां, सर्वदाप्यनुतिष्ठताम् । पञ्चविंशतिलक्षाणि,
पूर्वाणां व्यतिचक्रमुः ॥ २४ ॥ अथ मासावधि प्रान्तेऽनशनं प्रतिपाल्य ते । पूर्णायुष्काः सुग यूयं, जाताः शुक्रसुरालये
॥ २५॥ ततश्च्युत्वा विदेहेषु, विजयेऽत्रैव भोः सुराः!। भविष्यथ नृपा यूयं, प्रौढदोःस्थामशालिनः ॥ २६ ॥ तत्राप्यन्ते
परिव्रज्या-मुपादाय गतस्पृहाः । अवाप्य केवलज्ञानं, यूयं यास्यथ निर्वृतिम् ॥ २७ ॥ श्रुत्वेति वरसेनाद्या, अष्टधार्चामवं
फलम् । मुहुर्मुहुः श्लाघमाना, जिनं नत्वा गृहं ययुः ॥ २८ ॥ इत्यष्टभेदपूजा-फलं निशम्य प्रमोदपूर्णहृदः । तत्रैव कुरुत यत्नं,
यदि वो मुक्तिस्पृहा भवति ॥ २९ ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे पञ्चम उपदेशः॥५॥
. भवान्त पुसा जिनपावन्दनान्गमसान्धमात्रादाप साख्यसम्पदः । विवन्दिषुर्वीरजिनं स दर्दुरो-ऽप्यभन्महर्दिस्त्रिदशो यथा दिवि ॥१॥ पुरे राजगृहे नन्दि-मणिकारः समृद्धियुक । श्रीवीराद्धर्ममासाद्य, तमेवं कुरुतेऽन्वहम् ॥१॥सामायिकमतिक्रान्ति-पौषध- ममुखाः क्रियाः। मुमुक्षुरिव कुर्वाणः, समयं गमयत्यऽसौ ॥२॥ गृहीतपौषधो ग्रीष्मे-ऽन्यदा रात्रौ हार्दितः। उपवासत्रय- प्रान्ते, स इत्यं हृद्यचिन्तयत् ।। ३॥ वापीकूपादिकान् वारि-पूरितान् कारयन्ति ये । तेषामेव प्रशस्या श्रीः, सर्वजन्तूपका- रिणी ॥ ४ ॥ पौषधं पारयित्वाथ, प्रातर्निर्मितपारणः । कारयामासिवानेष, वापीमनुपमाकृतिम् ॥५॥ सत्रागारमठान् देव- कुलानि विपिनानि च । तस्यां द्रव्यव्ययेनापि, सर्वतो निरमापयत् ॥ ६॥ तत्रासक्तमना धर्मे, सञ्जातशिथिलादरः । प्रान्ते तु षोडशासाध्य-च्याधिपीडाविसंस्थुलः॥७॥ षोडश रोगाश्चैवमुक्ताः- कासे १ सासे २ जरे ३ दाहे ४, कुच्छिमूले ५ भगंदरे ६ । अरसा ७ अजीरए ८ दिट्ठी ९, पुद्विमूले १० अरोअए ११॥१॥ कह १२ जलोअरे १३ सीस १४, कमवेअण १५ कुट्ठए १६ । सोल एए महारोगा, आगमंमि विआहिआ ॥२॥ वापीविमोहितस्वान्तो, मृत्वा तस्यामभूदयम् । द१रः कर्मभिः को न, विडम्ब्येत सुधीरपि ॥ ८ ॥ वापी दृष्ट्वाऽन्यदा जाति-स्मृति प्राप स दर्दुरः । अवज्ञातस्य धर्मास्य, ही ममाभूदिदं फलम् ॥९॥ ततो विरक्तः षष्ठादि, कुर्वन् पारणके पुनः । वाप्यामति जनस्तानात् , प्रासुकं मृक्तिकोदकम् ॥ १०॥ अन्यदोद्यानमायातं, तत्र वीरजिनेश्वरम् । लोकोच्या दर्दुरः श्रुत्वा, पन्दितुं निर्ययौ ततः ॥ ११ ॥ अथ श्रेणिकपालः, श्रीवीरं नन्तुमुत्सुकः । चलन्परिवृतः सैन्यै-नगरामिरगावहिः ॥ १२॥ उ. स.
उपदेश-
सप्ततिका.
..
दर्दुरोऽपि चलन्मार्गे, नृपाश्वखुरमर्हितः। मृत्वा सौधर्मकल्पेऽभू-दर्दुगद्वामिधः सुरः ॥१३॥ सामानिकानां चत्वारः,
सहस्रास्तस्य जज्ञिरे । सर्व तदनुमानेन, ज्ञातव्यं सम्पदादिकम् ॥ १४ ॥ तत्राप्यवधिना ज्ञात्वा, वीरं वन्दितुमागतः। अतुच्छ-
च्छविसम्भार-च्छादितापरदीधितिः ।। १५ ।। स्वस्वस्थाननिविष्टेषु, शक्रमापादिषु प्रभुः । गिरा योजनगामिन्या, पारेमे
धर्मदेशनाम् ॥ १६ ॥ स्थित्वा जिनान्तिकेऽन्येषां, कुष्ठिरूपं च दर्शयन् । व्यलिम्पत वपुर्जेनं, स दिव्यैश्चान्दनैः रसैः ॥ १७॥
श्रेणिकाद्यास्तु जानन्ति, कुष्ठी कोऽप्येष दुष्टधीः । आः ! करोति स्वदेहोत्य-रसिकामिविलेपनम् ॥ १८॥ इतो बहिर्गतः पापी,
श्रीजिनाशातनाकरः । मारणीयो मया नून-मिति दध्यौ नृपस्तदा ॥ १९ ॥ इतश्च स जिन १क्ष्मापा २-ऽमय ३ शौकरिकान्
४ श्रुतम् । कृतपूबिण उद्दिश्य, क्रमाद्वाक्यान्यमून्यवक् ॥ २० ॥ सद्यो म्रियस्व १ जीव त्वं २, चिरं जीव म्रियस्व वा ३ ।
मा जीव मा प्रियस्वेति ४, ततो रुष्टो भृशं नृपः ॥ २१॥ देशनान्ते क्षणात्तस्मिन्, विद्युदुद्द्योतबगते । अप्राक्षीपतिवीर,
कोऽयं कुष्ठी ? प्रभो ! वद ॥ २२ ॥ तवाप्याशातनामेवं, यश्चकार दुराशयः । एतावत्समुदायेऽपि, शीर्षच्छेद्यः स निश्चितम्
॥ २३ ।। जिनोऽप्युवाच राजेन्द्र !, नाऽयमाशातनाकरः। चान्दनेन रसेनैष, किन्तु चक्रे विलेपनम् ॥ २४ ॥ वाक्यानि यानि
सोऽवादी-त्तद्भावार्थमपि प्रभुः । उवाच श्रेणिकादीनां, तत्सम्बन्धं च मूलतः ॥ २५ ॥ उक्तं च-
केसिं च वरं मरणं, जीवियमन्नेसिमुमयमनसि । दडुरदेविच्छाए, अहियं केसिंवि उभयपि ॥१॥
इतश्च्युत्वा विदेहेषु, मोक्षमेष गमिष्यति । श्रुत्वेति विस्मयोत्फुल्ला, लोकाः स्वस्त्रगृहं ययुः॥२६॥ जिनेशध्यानमात्रस्य,
श्रुत्वेति फलमुत्तमम् । तत्रैव क्रियतां यत्रो, निर्वृतिर्वो मवेद्यथा ॥२७॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे षष्ठ उपदेशः ॥६॥
.
D॥ ७॥
अल्पापि पूजा विहिता जिनेशितुः, फलं महत्कि न तनोति देहिनाम् ? । कूष्माण्डबल्ली तनुकापि यच्छति, स्फारं फलं स्वाश्रितमानवेषु यत् ॥ १॥ गूर्जरत्राभुवि त्राता, कुमारः परमाईतः । अत्र चौलुक्यभूपालो, दृष्टान्तः परिकीर्त्यते ॥२॥ मालवान्तः कचित्पल्लया-मभूज्जैत्र इति श्रुतः । क्षत्रियः परलुण्टाक-चरटैः परिवारितः ॥१॥ मुष्णात्यनेकशः सार्यान् , पुष्णाति व्यसनान्यपि । भद्रप्रकृतिरप्येष, चौरसंसर्गक्षितः ॥ २ ॥ अन्यदा जेसलो नाम, सार्थपः कापि पत्तने । गच्छन् कथञ्चिद्विज्ञात-चरटैस्तैः सुदुर्मदैः ॥ ३ ॥ परःशतवणिक्षुत्र-यवसायार्थिमियुतः । सहस्रैर्दशभिः मौढ-पृष्टौहां च सवस्तुभिः ॥ ४ ॥ जैत्रस्वैश्वरटैः सर्व, सार्थलोकमलुटयन् । सार्थपोऽप्युच्छलन्मन्युः, पुनः स्वं नगरं ययौ ॥ ५॥ तत्र विज्ञप्य राजानं, तस्यादाय बलं बहु । जघान पल्लीमागत्य, चरटानुत्कटानपि ॥ ६ ॥ जैत्रस्य तनयं बाल-मपि हत्वातिनिर्दयः। वालयित्वा निज द्रव्यं, पुनः स्वं नगरं ययौ ॥७॥ बालहत्याविधायित्वा-चत्र राज्ञा स तजितः । वैराग्यात्तापसी दीक्षा-मादाय विवे तपः॥८॥ जैत्रोऽय जीविताकासो, तदानीं सङ्कटात्ततः। नंष्ट्वा कथश्चिदप्यागां-दुरङ्गबलपत्तने ॥ ९ ॥ तत्र निःशम्बलत्वेन, दुःखी दारिद्यपीडितः । तस्थौ कर्मकरत्वेन, ओढरव्यवहारिणः ॥१०॥ श्रीयशोभद्रमूरीणा-मुपदेशमनारतम् । श्रावं श्रावमसौ जज्ञे, सधर्महृदयो मनाक् ॥ ११॥ न इन्मि जन्तूनिमन्तू-त्र जल्पाम्यनृतं तथा । इत्याद्यमिग्रहांस्तस्य, पार्षे जग्राह स क्रमान् ॥१२॥ अन्यदा वार्षिके पर्व-ज्योढरोऽभ्यचिंतुं जिनम् । साई जैत्रेण सदस्खो, जगाम जिनमन्दिरे ॥१३॥ तत्र पूजापरान्वस्त्रा-मरणाबैरलङ्गकृतान् । लोकानालोक्य जैत्रोऽपि,मनस्येवमचिन्तयत् १ ज्ञातः कथश्चित्तु ॥ २ “गाद दूरमचलपत्तने" इत्यपि ॥
उपदेश- सप्ततिका. - ॥१४॥ अहो! प्राक्पुण्ययोगेन, भवेऽत्र मुमगा अमी । आगाम्यपि भवो दोषां, मावी मद्रकरः खलु ॥१५॥ माघेऽप्येवमुच्यते- हरत्यघं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वांचरितैः कृतं शुमैः । शरीरमाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ १॥ विष्णुं प्रति नारदोक्ति:- जिनेन्द्रमहमप्याशु, पूजयामि ततो ध्रुवम् । यतो जिनेन्द्रपूजेव, प्रतिभूः सर्वसम्पदाम् ॥१॥ विमृश्येति पुरा द्यूत-जितैर्नवकपर्दकैः। आत्मीयैरेव पुष्पाणि, गृहीत्वाऽचितवान् जिनान् ॥१६॥ शुमाभिसन्धिपूतात्मो- पवासं चापि तहिने । व्यंधाद्गुरुमुखेनैष, भक्तिरङ्गतरङ्गितः ॥ १७॥ मृत्वा क्रमात्स सञ्जातो, गूर्जरत्रानरेश्वरः । भूपः कुमार- पालाख्यः, श्रावकः परमाईतः ॥ १८ ॥ ओढरोऽभूदुदय(१)नो, जयसिंहस्तु सार्थपः । हेमसूरियशोमद्रः, एवं ते क्रमशोऽमवन् ॥ १९॥ कौङ्कणे च महाराष्ट्र, कीरे जान्धरे पुनः। सपादलक्षे मेवाडे, दीपे कासीतंटे तथा ॥२०॥ कर्णाटे गूर्जरे लाटे, सौराष्ट्रे कच्छसैन्धवे । उच्चायां चैव *मम्मे , मारवे मालवे तथा ॥२१॥ इत्यष्टादशदेशेषु, कलिकालेऽपि कश्मले । प्रावीत- दमारिं यः, पुरा केनाप्यकारिताम् ॥ २२ ॥ यदुक्तम्- पूर्व वीरजिनेश्वरेऽपि मगवत्यास्याति धर्म स्वयं, प्रज्ञावत्यमयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्ता जीवरक्षा व्यधा-द्यस्यास्वाद्य वचः सुधां स जयतु श्रीहेमचन्द्रो गुरुः ॥ १॥ *"संभार्याम्" इत्यपि । १ "sऽसाय" इत्यपि ॥
स्वस्ति श्रामात पत्तन नृपगुरु श्राहमचन्द्र मुदा, स्वःशक्रः प्राणपत्य विज्ञपयात स्वामिस्त्वया सुकृतम् चन्द्रस्याङ्कमृगे यमस्य महिषे यादस्सु यादःपते-विष्णोर्मत्स्यवराहकच्छपकुले देवामयं तन्वता ॥२॥ यावज्जीवमिति श्रीम-धम्मैकच्छत्रतां सृजन् । यो भावी गणभृत्याच्यः, पद्मनाभजिनेशितुः ॥ २३ ॥ इत्यल्पपूजापि जिनेश्वराणां, मवेदमन्दाभ्युदयैकहेतुः । अतः समग्रेऽपि हि धर्मकार्य, सेवानिशं मुख्यतया विधेया ॥ २४॥ ॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे सप्तम उपदेशः ॥ अज्ञानमावादपि पूजितो जिनो, विश्राणयत्यात्मपदं नृणां यतः। अरण्यमध्यस्थितबिम्बपूजकः, स देवपालोऽपि हि मुक्तिमाप्तवान् ॥१॥ कस्यचिच्छ्रेष्ठिनो भृत्यो, देवपालोऽन्यदा बने । चारयन्महिषीरई-द्विम्बमेकं व्यलोकत ॥ १॥ अजाननपि तत्तत्त्वं, समीप- तटिनीजलैः । प्रक्षाल्य पूजयामास, तद्विम्बं कुसुमादिभिः ॥२॥ अपूजिते (मया)ऽस्मिन मया, भोक्तव्यमिति निश्चयम् । कृत्वा समाधिसम्पन्नो, गमयामास वासरान् ॥ ३ ॥ वर्षारम्भेऽन्यदा नद्यां, पूरे जातेऽतिदुस्तरे । तस्थौ गेहे तदेकाग्र-स्तत्र गन्तुम- शक्नुवन् ॥ ४ ॥ अस्मद्गहेऽपि बिम्बानि, सन्ति तान्येव पूजय । श्रेष्ठिनेत्युच्यमानोऽपि, न भुङ्क्ते स्म स कर्मकृत् ॥ ५॥ अथ सप्तदिनप्रान्ते, नदीपूरेऽपसर्पिते । यावद्धिम्बान्तिके याति, तावत्सिहं ददर्श सः॥६॥ तं भयङ्करमप्येषो-ऽवगणय्य शृगाल- उपदेश- सप्ततिका. . . वत् । तं देवं पूजयामास, किं न सिध्यति सचतः ॥ ७॥ तनिश्चयेन सन्तुष्ट-स्तदधिष्ठायकः सुरः । प्राप्तः प्रत्यक्षतां प्राह, वरं वृणु महाशय ! ॥८॥ देवपालोऽभ्यधाद्राज्य, मह्यं देहि सुरोऽब्रवीन् । सप्तमे दिवसे राज्यं, तब मावि न संशयः ॥९॥ तत्रैवानसरे राजा, निष्पुत्रो मृनिमाप्तवान् । प्रधानैः पञ्चदिव्यानि, प्रकट यन्ते स्म तत्क्षणात् ।।१०॥ सुरोक्तदिवसे तस्य, प्रसुप्तस्य, तरोस्तले । आगत्य तानि दिव्यानि, राज्यं प्राज्यमई ददुः ॥ ११ ॥ साम्राज्ये तस्य जातेऽपि, केचनाशां न मन्वते । कुर्वते प्रत्युतावज्ञा, नूनं कर्मकरो ह्यसौ ॥१२॥ देवपालो पितं देव-मुपेत्येति व्यजिज्ञपत् । अलमेतेन राज्येन, वरं भृत्य- त्वमेव मे ॥१३॥ देवोऽभ्यधात्कु(१)म्मकार-पार्थान्मृन्मयहस्तिनम् । कारयित्वा तमारुह्य, ब्रजेस्त्वं राजपाटिकाम् ॥१४॥ एवं कृते तवावज्ञा, भाविनी न मनागपि । देवपालस्तथा चक्रे, सर्वत्राज्ञा ततोऽभवत् ॥ १५ ॥ अस्थापयञ्च तद्धिम्ब, प्रासादे निज- कारिते । प्राचीननृपतेः पुत्री, तस्य भार्या बभूवुषी ॥१६॥ पुरादहिः स्थितं कश्चि-दृद्धं वीक्ष्यान्यदा तु सा । गवासस्था गता मूछौं, पश्यतोऽपि क्षमापतेः ॥१७॥ आलापयत्सचैतन्यां, पुनस्तां मेदिनीश्वरः। सापि तं वृद्धमाकार्य, स्वस्वरूपं जगाविति ॥१८॥ अहमेतस्य वृद्धस्या-मवं प्राच्यभवे प्रिया । एतद्विम्बार्चया देव !, त्वत्प्रियात्र मवेऽभवम् ॥ १९ ॥ बहूक्तेऽपि मया नैष, देवं पूजितवान्विभो ! । तादृश्येवास्य तेनेय-मवस्थाद्यापि दृश्यते ॥ २० ॥ यदुक्तम्- अडविहिं पत्ती नई, जल होइ नहा हत्य । अजो एह कबाडीई, अजवि सा जिअ वत्थ ॥१॥ प्रत्यभिज्ञाय तां तैस्तै रभिज्ञाननिजां पियाम् । वृद्धोऽपि देवपूनादि-धर्मकार्यरतोऽभवत् ॥ २१ ॥ देवपालनरेन्द्रोऽपि, स्वमासादे पुरीजनैः । नित्यं प्रवर्तयामास, धजपूनादिकोत्सवान् ॥ २२ ॥ पालयित्वा चिरं राज्य, प्रान्ते व्रतपवित्रितः। तया . ९॥
च भार्यया युक्तः, स भूपः प्राप निर्वृतिम् ॥ २३ ॥ श्रुत्वेति रकमात्रेऽपि, तादृक् साम्राज्यवैमवम् । श्रीजिनेन्द्रस्य पूजायां, कः स्यान्मन्दादरः पुमान् ? ॥ २४ ॥ ॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारेऽष्टम उपदेशः॥ ८ ॥ . जिनेन्द्रचन्द्रप्रतिमा तरीयते, निमज्जतां प्राणभृतां भवाम्बुधौ । तद्दर्शनादेव यतः प्रपन्नवान्, शय्यंभवः सूरिवरः सुदर्शनम् ॥१॥ श्रीजम्बूस्वामिनः शिष्यः, प्रभवस्वामिनोऽन्यदा । गच्छे सङ्घ च शिष्यार्थ-मुपयोगं वितेनिरे ॥१॥ तथाविधसुपात्रस्य, तस्मिन्ननुपलब्धितः । ददुस्तदुपयोगं ते, परकीयेऽपि दर्शने ॥ २॥ तदा शय्यंभवं मट्टू, यज्ञनिर्मापणोद्यतम् । पुरे राजगृहेऽ- द्राक्षुः, श्रुतज्ञानोपयोगतः ॥ ३॥ सर्व विद्यागुणोपेतं, योग्यं तमवधार्य ते । प्राहिण्वन् शिक्षयित्वा स्वं, साधुयुग्मं तदन्तिके ॥ ४ ॥ ताभ्यां शय्यमवोऽश्रावि, तत्र श्लोकार्द्धमीदृशम् । अहो ! कष्टमहो! कष्टं, तवं न ज्ञायते पुनः ॥५॥ तयोरिति वचः श्रुत्वा, दध्यौ मट्टोऽपि विस्मितः । नूनमेतौ महात्मानौ, जातु नासत्यवादिनौ ॥ ६॥ तत्किमप्यत्र यत्तत्त्वं, तन्न विमो जडा वयम् । ततः पप्रच्छ यज्वानं, सोऽप्येवं तममाषत ॥ ७॥ प्रष्टव्यमत्र किं नाम, यज्ञादेव यदात्मनाम् । रोगशान्तिः प्रजालामो, विघ्नध्वंसश्च निश्चितम् ॥ ८॥ अश्रद्दधानस्तद्वाचं, खङ्गमुत्पाट्य सोऽवदत् । करिष्ये त्वच्छिरश्छेदं, नोचेत्सत्यं वचो बद॥९॥ तत्वं वाच्यं शिरश्छेदे, इति वेदवचः स्मरन् । यज्वा जगाद भो म !, योऽयमध्वरकीलकः ॥ १०॥ तस्यापोभागभूम्यन्त-
उपदेश-
सप्ततिका.
।१०॥
निहिता प्रतिमाईतः । विद्यते तत्प्रमावण, क्षीयते विघ्नसन्ततिः ॥ ११ ॥ वैतालव्यन्तरमेत-शाकिनीराक्षसादयः । अवश्य-
मध्वरं घ्नन्ति, प्रतिमामाईती विना ॥ १२ ॥ बाह्यस्तु विस्तरः शेषः, सर्वोऽप्युदरपूर्तये । आडम्बरं विना लोको, बालिशो
नहि मन्यते ।। १३ ॥ खानयित्वा ततस्तत्र, गृहीत्वाऽचर्चा जिनेशितुः । मट्टो जगाम शालायां, नत्वाऽपृच्छच्च तान् गुरुन्
॥ १४॥ किंलक्षणः किंस्वरूपो, देवोऽयममिधा तु का ? । ईदृक्षाः स्युः कियन्तश्च, सर्वमावेद्यतां प्रभो ! ॥ १५॥ रागादि-
विजयी तेजो-मयो मुक्तिपदस्थितः । देवः श्रीशान्तिनाथोऽयं, जिनानां षोडशः पुनः ॥ १६ ॥ चतुर्विंशतिरीक्षा, मवन्ती-
त्यादिमूरिमिः । निवेद्यमाने तां भट्टो, दर्श दर्श व्यचिन्तयत् ॥ १७ ॥ प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं, वदनकमलमङ्क:
कामिनीसङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं, तदसि जगति देवो वीनरागस्त्वमेव ॥ १८ ॥ सूरयोऽप्यूचिरे वेद-
पुराणादिष्वपीक्ष्यते। जिनस्यैव हि देवत्वं, यजुर्वेदवचो यथा ॥ १९ ॥
जिनप्रमाणागुलादर्वी ॐ त्रैलोक्यश्रीप्रतिष्ठितान् चतुर्विंशतितीर्थकरान् ऋषमाद्यान् वर्द्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे ।
नागपुराणे-
अष्टषष्टिषु तीर्येषु, यात्रया यत्फलं भवेत् । आदिनाथस्य देवस्य, स्मरणेनापि तत्फलम् ॥ १॥
वास्तुविद्यायाम्-
प्रासादमण्डपच्छत्र-पर्यङ्कासनसद्भहैः । निर्दोषदृष्टया मूर्त्या च, देवो नैव जिनात्परः॥१॥
१ अधमा अ-" इत्यपि ॥
॥॥१०॥
तदवात्पभवरा.."
हात वदपूराणाक्ताः, श्रुत्वा युक्तारनकशः । सम्यक्त्व प्राप्त मिथ्यात्व, विषवस्यक्तवानसा ।। २० ।।
संसारासारतां विदन् । साधाना गृहिणी मुक्त्वा, तत्पाचे व्रतमग्रहीत् ॥ २१ ॥ अधीत्य सर्वपूर्वाणि, प्राप्ताचार्यपदः क्रमात् ।
श्रीमान् शय्यमवः मूरि-जिहार महीतले ॥ २२ ॥ मनकं तनुकायुष्क, ज्ञात्वा प्रव्राज्य च प्रभुः। दशवैकालिकग्रन्यं, स्वकृतं
योऽध्यजीगपत् ॥ २३॥ इति भूरितरं कालं, प्रबोध्य मविकवजम् । वीरादष्टाङ्क ९८ संख्येऽब्दे, स स्वःसाम्राज्यमन्वभूत्
॥२४॥ एवं जिनेन्द्रप्रतिमापि शुद्ध-प्रबोधहेतुर्भवतीति विज्ञाः । विज्ञाय तामेव यजन्तु येन, सृजेत् स्पृहां निर्वृतिकामिनी वः ॥२५॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे नवम उपदेशः ॥९॥
गतानुगत्यापि विधीयमाना, पूजा परां सम्पदमादधाति ।
चटत्प्रकर्षां प्रतिजन्म लक्ष्मी, यथाऽऽप्य कीरोऽपि बभूव चक्री ॥१॥
वैताढयपर्वतोद्याने, क्वचिद्देवकुले वरे । अस्ति विद्याधरैः पूज्या, प्रतिमा काचिदाईती ॥१॥ तथाविधां च तां दृष्ट्वा,
कीरयोर्युग्ममन्यदा । आरण्यैः पत्रपुष्पाद्यैः, शुभमावमपूजयत् ।। २॥ इति भूरितरं कालं, सम्यक्त्वं प्राप्य पूजया । अभूतां
प्रथमे कल्पे, सुमगौ सुरदम्पती ॥ ३ ॥ इतश्च रमणीयाख्ये, विजये जनसङ्कुले । श्रीमन्दिरे पुरे राजा, नरशेखरसंज्ञकः॥४॥
प्रिया कीर्तिमती तस्य, कीरजीवस्ततश्च्युतः। अभूत्तदीयस्तनयो, नाम्ना तु मणिकुण्डलः ॥५॥ नगयाँ विजयावत्यां, तत्रैव
विजये तदा । रत्नचूडः क्षमापालो, महादेवी तु तत्प्रिया ॥ ६॥ कीरीजीवस्तयोः पुत्री, पुरन्दरजसेत्यभूत् । चित्रपढेऽन्यदा
तस्याः, कुमारो रूपमैक्षत ॥ ७ ॥ प्राचीनमवसम्बन्धात् , गाढव्यामूढमानसः। तामुत्सवः पितृभ्यां स, प्रेमतः पर्यणाय्यत ॥८॥
उपदेश-
सप्ततिका.
।११॥
.
तो तत्रापि भवे प्रीती, चिरं गार्हस्थ्यधारिणौ । प्रान्ते तु व्रतमादाय, स्वर्ग जग्मतुरश्रमम् ॥ ९॥ मणिकुण्डलजीवस्तु, च्युत्वा
तस्मात्सुरालयात् । विजयेऽय महाकच्छे, विजयादिपुरे बरे ॥ १० ॥ महासेननृपस्यासी-ललिताङ्गामिधः सुतः। तत्रैव
विजया रम्या, पुरी परमभूषणा ॥ ११ ॥ पुरन्दरजसाजीवः, पूर्णकेतुनरेशितुः । तत्र पुत्री समुत्पन्ना, नाम्ना कमललोचना
॥ १२॥ मनोऽभिमतमारं, सा वरीतुं समुत्सुका। प्रतिज्ञामेवमाधत्त, व्यक्तां सर्वसखीपुरः ॥ १३ ॥ ज्योतिर्विद्या नभो
गामि-विमानरचनापि च । राधावेधकला सर्प-विषनिग्रहणं तथा ॥ १४ ॥ एतेष्वेकतमेनापि, प्रकारेणापि योऽधिकः । भर्तारं
तं करिष्येऽह-मन्यथा वहिरस्तु मे ॥ १५॥ अथ प्रतिज्ञामेतस्याः, श्रुत्वा सोत्माहमानसाः।राजन्यास्तनयास्तत्त-कलाभ्यास
वितेनिरे ॥ १६ ॥ अथ स्वयंवरे तस्याः, प्रारब्बे समहोत्सवम् । ललिताङ्गमुखास्तत्र, कुमारा उपतस्थिरे ॥ १७॥ राधावेधे
कुमारेण, साधिते सा नृपाङ्गजा । वरमालां गले तस्य, यावन्न्यस्यति सम्मदात् ॥ १८॥ तावत्केनाप्यपाहारि, कन्यका
खेचरेण सा । ज्योतिर्बलेन केनापि, तन्मार्गोऽथ निरूपितः ॥ १९॥ आकाशगामुकं कश्चि-द्विमानं च विनिर्ममे ।
ललिताङ्गादयस्तेन, तस्याः पृष्ठे दधाविरे ॥ २० ॥ खेचरस्तैरधिक्षिप्तः, कन्यां तां विनने कचित् । विमुच्य योद्धमारेमे,
हतस्तावदयं च तैः ॥ २१ ॥ यावत्कन्यान्तिके गत्वा, विमाने तां क्षिपन्ति ते । तावत्सर्पण सा दटा, वैषम्यं कर्मणां हहा!
॥ २२ ॥ ततः शिक्षितवियेन, तन्मध्यस्थनरेण सा । केनापि जीविता सर्वे, तामादाय ततोऽचलन् ॥ २३ ॥ कुर्वन्ति कलहं
मार्गे, गच्छन्तस्ते पुरं प्रति । इयं ममैव भविते-त्येवं पेमनियन्त्रिताः ॥ २४ ॥ अथ तत्र पुरे प्राप्ताः, विवदन्ते तथैव ते ।
भूपश्चिन्तातुरः प्राह, मन्त्रिणं किं करिष्यते ? ॥ २५ ॥ सोऽपि वुद्धिमतां धुर्यः, पप्रच्छ विनने कनीम् । अमीषां रोचते मध्ये,
॥ ११॥
कस्तुभ्यमिति मे वद ॥ २६ ॥ ललिताङ्गो ममाभीष्टो, मन्त्री श्रुत्वति तद्वचः । अकारयत्पुराबाह्य-प्रदश महता चिताम् ।। २७ ।। आकार्य राजपुत्रांस्तान् , बमापे मन्त्रिपुङ्गवः । मन्यचं किं न भो भद्राः !, ज्वलिष्यत्यन्यथा कनी ॥ २८ ॥ मिथो मात्सर्य- संसक्त-मानसैस्तैरमानिते । चितायामविशत्कन्या, ललिताङ्गोऽपि पृष्ठतः॥ २९ ॥ अपरे तु त्रयस्तुच्छ-स्नेहास्तत्रैव संस्थिताः । हाहाकारपरो लोको, मिथः कोलाहलं व्यधात् ॥ ३० ॥ तावन्मन्त्रिनियुक्तेन !, नरेण प्रकटीकृतम् । चिताधस्तनभूभागे, सुर- नाविवरं स्यात् ॥ ३१ ॥ प्रविश्य तयुगं तत्र, ययौ मन्त्रिगृहे पुनः । प्रच्छन्नं कुरुते तत्र, स्नानपानादिकाः क्रियाः ॥ ३२ ॥ राजपुत्रास्त्रयस्ते तु, किश्चित्सानुशयाशयाः। साहसं ललिताङ्गस्य, प्रशंसन्ति पदे पदे ॥ ३३ ॥ मन्त्रिणा ते पुनः पृष्टाः, युगलं तत्कदाचन । प्रामोति जीवितव्यं चेत्, ततस्तत्परिणाय्यते ॥ ३४ ॥ तेऽप्यूचुरत्र का पृच्छा ?, विवादं न वयं पुनः । करिष्याम इहार्थे तु, साक्षी सर्वोऽपि पुर्जनः ॥ ३५ ॥ प्रादुरासीत्ततो मन्त्रि-वाक्यात्तागलं पुनः । पितृभ्यां च तयोस्तेने, पाणिग्रहमहोत्सवः ॥ ३६ ॥ तां पङ्कजाक्षीमादाय, ललिताङ्गः पुरे निजे । जगाम सुखमक्षाम, बुभुजे च तया समम् ॥ ३७॥ तौ तत्रापि भवे प्रीती, दिवं प्रव्रज्य जग्मतुः । एवं तयोः प्रतिमवं, सुखाद्वैतमजायत ॥ ३८॥ दशमेऽथ मवे कीर-जीवः पीवरपुण्यवान् । विदेहे पुण्डरीकियां, चक्रवर्ती बभूव सः ॥३९।। कीरीजीवः पुनस्तस्य, मन्त्री मैत्रीपवित्रितः।चिरं राज्यसुखा- न्येतो, स्नेहादनुवभूवतुः ॥४०॥ प्रान्ते प्राच्यमवान् ज्ञानि-पार्श्वे विज्ञातपूर्विणौ। प्रव्रज्य केवलज्ञान-मवाप्य च शिवं गतौ॥४१॥ ॥ इति श्रीउपदेशसमतिकायां प्रथमेऽधिकारे दशम उपदेशः ॥१०॥ १ प्रतिभवं तयोरवं।
उपदेश-
सप्ततिका.
॥१२॥
कोषोदयेऽप्यति पूज्यमाने, मवेत्सुनोधिः मुलमो नराणाम् ।
दृष्टान्तमत्र प्रकटं वदन्ति, तं वामनं श्रेष्ठिवरं कवीन्द्राः ॥१॥
नगयाँ वामनस्थल्यां, वामनः श्रेष्ठिपुङ्गवः । अभूत्कोटीध्वजः किन्तु, प्रकृत्येालुरुदतः॥१॥ प्रासादं पुण्यशाला च,
निर्माप्य स्वगृहान्तिके । धर्मकर्म करोत्येष, लक्ष्मीफलमिदं खलु ॥२॥ रत्नस्वर्णप्रवालादि-वस्तूनां तस्य पेटिकाः । अब्धिद्विप
८४ मिताः सन्ति, कुश्चिकातालकैर्युताः ॥३॥ निरुद्यमा निरुत्साहाः, व्यवसायादिकर्मसु । दुर्विनीताः पशुमाया-चत्वार-
स्तस्य नन्दनाः॥४॥ कदाचित्तालकं दत्वा, मूर्खास्तत्रैव कुश्चिकाम् । विस्मारयन्ति श्रेष्ठी तु, निर्मर्स्यति तान् भृशम्
॥५॥ परं किमपि तच्छिक्षा, सुतानां लालगीति न । दुःशिष्याणामिवाप्तस्यो-पदेशः पुण्यपेशलः ॥६॥ संमुखं स्वपितुर्यचन् ,
ते हि जल्पन्ति दुर्धियः । कलहं कुर्वतां तेषा-मेवं गच्छन्ति वासराः ॥ ७॥ गच्छन् देवगृहेऽन्येयुः, श्रेष्ठी पूजयितुं जिनान् ।
ग्रहीतुं चन्दनं यावत् , पेटामेकां विलोकते ॥ ८॥ प्राग्वद्विस्मारितास्ताव-त्कुचिकास्तासु वीक्ष्य सः। अभूत्क्रोधोद्धतः ताम्र-
लोचनः स्फुरदोष्ठकः ॥ ९॥ अहो ! सुतानां मूर्खत्व-महो! हृदयशून्यता । पुनः पुनरिति ध्यायन , क्रमाद्देवगृहं ययौ ॥१०॥
गृहे गत्वाऽद्य दुष्पुत्रां-स्तदहं मूर्खशेखरान् । नूनं निर्वासयिष्यामि, किमेमिः पापहेतुभिः ॥ ११ ॥
गयउं कडेवर देवहरि, मनमेल्हेवि णु हट्टि । दुहलाहां एक नही, मनी हुई ससट्टि ॥१॥
इत्यादि चिन्तयनेब, स देवाऽर्चा वितेनिवान् । परं पुत्रेषु दौरात्म्यं, न तत्याज सुधीरयम् ॥ १२॥ पूजाया
"स्ते तु यत्तत् ज-" "स्तेऽपि यत्तज-" इत्यादि । २ कुधीरयम्" इयादि ।।
अवसाने तु,
॥१२॥
41 कुवाणश्चत्यवन्दनाम् । विधाय प्राणधान त, भूमा मालनलालगत् ।। प्राणितव्यं हि, तरङ्गतरलं यतः ॥ १४ ॥ पुरे तत्रैव मृत्वाऽसौ, श्वपाकोऽभूदमुष्य तु । पूजानुमावा(१)मानुष्यं, दुर्थ्यांनाच कुयो- निता ॥ १५॥ चण्डालस्य कुले सोऽय, शैशवातिक्रमे क्रमात् । सम्प्राप्तयौवनः स्वीयं, कुटुम्बं परिपालयेत् ॥ १६ ॥ चौ- र्यव्यसनवानेष, क्रमाज्जातोऽतिदुष्टधीः । दुष्पूरोदरकार्ये हि, मूढाः किं किं न कुर्वते ॥१७॥ गृहे गृहे स चौर्यार्थ, स्वार्याय विहितोद्यमः । प्रयाति परकीयाणि, द्रव्याणि जरिहत्तिं च ॥ १८ ॥ अन्यदा प्राग्भवावासं, स्तेयार्थ प्रविवेश सः। तादृग्गृह- स्वरूपं च, दृष्ट्वा जातिस्मृतिं ययौ॥ १९॥ अन्तःस्वान्तसमुद्भूत-क्रोधदष्टरदच्छदः। सुतान्वीक्ष्य स तादृक्षा-मनस्येवं विमृ- ष्टवान् ॥ २० ॥ हाहा ! विनाशितं गेहं, वित्तं निर्गमितं मम । आलस्योपहतैरेतैः, साम्राज्यं कुनृपैरिव ॥ २१ ॥ शिक्षामिदा- नीमेतेषां, तथा कुर्वे यथा पुनः। नैवंविधं वितन्वन्ती-त्यादि यावत्स चिन्तयेत् ॥२२॥ तावजागरिताः पुत्राः, दृष्ट्वा चण्डाल- तस्करम् । रे दुष्ट ! किमिदं चक्रे, पापिष्टानिष्टदर्शन ! ॥ २३ ॥ इत्यादि यत्तज्जल्पन्तः, प्रत्येकं ते चपेटया। प्राग्मवाभ्यासत- स्तेन, क्रोधाध्मातेन जनिरे ॥२४॥ निबध्योपनृपं नीत-स्तैः स भूपोऽपि तं जगौ । किमेतदिति सोऽप्याह, स्वस्वरूपं सवि- स्तरम् ॥ २५॥ चमत्कृतो नृपः प्राह, तं निजा भुक्क्ष्व सम्पदम् । सोऽप्याह गृहवासेऽस्मिन् , रमते न मनो मम ॥ २६ ॥ ततो नृपतिपुत्राद्याः, प्रबुद्धास्तच्चरित्रतः। सोऽपि श्रीधर्ममाराध्य, क्रमात् मुमतिभागभूत् ॥ २७॥ अथ ते चिन्तयाश्चनुः, पुत्रा हृदयचक्षुषा । अहो ! कियदुपक्रान्तं, पित्राऽस्माकं हितेच्छुना ॥ २८ ॥ विमृश्येति समस्तास्ते, तातोक्तविहितादराः। ऐहिका- मुग्मिके कार्ये, सोचमं विदधुर्मनः ॥ २९ ॥ इति रोषजुषापि निर्मिता, जिनपूजा विफला बभूव न। तदहो। जिनपूजने जनाः!,
उपदेश-
प्रयतध्वं शिवसौख्यकांक्षिणः॥३०॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे एकादश उपदेशः ॥११॥
सप्ततिका
॥१३॥
नादपूनां वितन्वन्ति ये मानवाः, श्रीजिनेन्दोः स्थिरस्फीतभावोद्यताः ।
तीर्थकृत्वं लभन्तेऽद्भुतं ते यथा, रावणो राक्षसानामधीशः पुरा ॥१॥
अस्ति लङ्कापुरी यत्र, त्रिकुटो नाम पर्वतः । दुग्यते समुद्रस्तु, परिखोपमतां दधौ ॥१॥ आढयमविष्णुर्विद्याभि-स्तत्र
रावणभूपतिः। त्रिखण्ड विजयी विश्व-कण्टको राक्षसाधिपः ॥२॥ तस्य मन्दोदरी भार्या, चतुःषष्टिकलास्पदम् । शीलरूपा-
दयो यस्याः, गुणा वाः सुरैरपि ॥३॥ नया सह विमानेन, प्रस्थितो रागोऽन्यदा । यात्रायै सर्वतीर्थाना-मात्मपावनहेतवे
॥४॥ क्रमेणाष्टापदं प्राप्त-चतुर्विंशतितीर्थपान् । स्वस्ववर्णप्रमाणायै-रुपेतान् पर्यपूपुजन् ॥५॥ दृष्ट्वाऽथ धरणेन्द्रं स, प्राप्त
तत्र महामनाः । अपृच्छन् पर्वतः कोऽयं, चैत्य केन च कारितम् १ ॥ ६ ॥ आदीद्धरणोऽप्येवं, रावणाने सविस्तरम् ।
अष्टापदस्य माहात्म्यं, केवलज्ञानिभाषितम् ॥ ७॥
तथा च श्रीजिनमममूरिपादा:-
यस्मिन्त्रष्टापदभू-दष्टापदमुख्यदोषलक्षहरः। अष्टापदाभ ऋषमः, स जयत्यष्टापदगिरीशः ॥१॥ऋषमसुता नवनवति-
॥१३॥
३३ प्रमा. . र्वाहुबलिमभृतयः प्रवरयतयः । यस्मिनमजन्नमृत, स जयत्यष्टापदागराशः ।। २ ।। अमनानातयाग, वयानमारक समकम् । यत्रर्षिदशसहस्राः, स जयत्यष्टापदगिरीशः ॥ ३॥ रबत्रयमिव मूर्त, स्तूरत्रितयं चितित्रयस्थाने, यत्रास्थापयदिन्द्रः, स जयत्यष्टापदगिरीशः ॥४॥ भरलो रचयञ्चत्यं, योजनदीर्घ तदर्धथुमानम् । क्रोशत्रयोचमुच्चैः, स जयत्यष्टापदगिरीशः॥५॥ स्वस्वाकृतिमितिवर्णा-कवर्णिान् वर्तमानजिनरानान् । भरतो वर्णितवानिह, स जयत्यष्टापदगिरीशः ॥ ६॥ भरतेन मोहसिंह, हन्तुमियाष्टापदः कृतोऽष्टपदः । शुशुभेऽटयोजनो यः, स जयत्य टापदगिरीशः ॥७॥ यस्पिन नेककोट्यो, महर्षयो भरतचक्र- वाद्याः । सिद्धिं साधिनवन्तः, स जयत्यष्टापदगिरीशः ॥ ८॥ क्षालयितुमित्र स्वैनो, जैनो यो गङ्गयाश्रितः परितः। सन्ततमुल्लोलकरैः, स जयत्यष्टापदगिरीशः ॥९॥ यत्र जिनतिलकदाना-दमयन्त्यारे कृतानुरूपकलम् । भाले भास्वत्तिलकं, स जयत्ययापदगिरीशः॥१०॥ चतुरश्चरोष्टादश, द्वौ चापाव्यादिदिक्षु जिनराजान् । यत्र स्तौति शिवार्थी, स जयत्यष्टा- पदगिरीशः॥ ११ ॥ एता एकादशगाथाः श्रीतीर्थकल्पे ॥ श्रुत्वेति गिरिगाहात्म्य, दशग्रीवः प्रमोवान् । गीतृयविधि तत्र, प्रारेभे मार्यमा सनम् ॥ ८॥ नृत्यं मन्दोदरी वीगा- वादनं च दशाननः । जिनाग्रे चक्रतुः प्रीत्या, धरणेन्द्रे पुरस्थिते ॥९॥ अथ नाटयरसोत्कर्षे, जाते प्रीतिपदे नृगाम् । तुत्रोट तन्त्री(तुत्रोट) वीगायाः, सम्पत्तिरिय पापिनः ॥१०॥ रावणो रसमङ्गं तं, विज्ञाय भुनकोटरात् । आचकर्ष नप्तामेकां, प्रलम्बाम- विलम्बतः ॥ ११ ॥ संयोज्य तर तामाशु, वीगां प्राग्वदधीवदत् । तस्योपरि तदा देवाः, पुष्पवर्ष वितेनिरे ॥ १२॥ रावण- स्तीर्थकृत्कर्म, तदोपार्जयदद्भुतम् । किं न दते यतो जैनी, भक्तिः कसलताधिका ॥ १३ ॥ सन्तुष्टो धरणेन्द्रोऽपि, तस्मै
उपदेश-
सप्ततिका.
पुण्यवते ददौ । अमोघविजयां शक्ति, त्रैलोक्यजयकारिणीम् ॥ १४ ॥ एवं तत्र स्नात्रनृत्योत्सवोधैः, सर्वे जन्म स्वं कृतार्य
विधाय । जग्मुः स्वस्वस्थानके माणिवर्गा-स्तस्मादेवं पूजनीया जिनेन्द्राः ॥ १५ ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे द्वादश उपदेशः ॥१२॥
॥१४॥
द्रव्यतोऽपि विहिता जिनपूजा, स्याच्छुभायतिकृते तनुमाजाम् ।
श्रीनमि च विनमि च मुनीन्द्राः, प्राहुरुत्तमनिदर्शनमत्र ॥१॥
अस्त्ययोध्या पुरी तत्र, स्वामी श्रीवृषभध्वजः। ऐहिकामुष्मिका येन, व्यवहाराः प्रवर्तिताः॥१॥ भरतप्रमुखाः जाताः,
शुमोदधियः सुताः । शतशाखतया तस्य, कुटुम्बं ववृधे प्रभोः॥२॥ त्र्यशीतिपूर्वलक्षाणि, प्रकाश्य शकलाः कलाः। विभज्य
राज्यं पुत्रेषु, दत्वा हित्वा परिग्रहम् ॥३॥ प्रभुश्चैत्रासिताष्टम्यां, चातुमौंष्टिकलोचकृत् । प्रवव्राज सुराधीश-कृतोत्सवपरम्परः
॥४॥ ततः कच्छमहाकच्छा-दयः प्रौढकुलोद्भवाः । चतुःसहस्रप्रमिता-स्तमनु प्रावजन् प्रभुम् ॥ ५॥ परं ते स्वामिवत् कष्ट,
पोरं निर्मातुमक्षमाः । जटिलीभूतमूर्द्धानः, क्रमाजाता जटाधराः॥६॥ गङ्गादिसरितां तीरे, कृतसेवालमक्षणाः । कालं
निर्गमयामासु-र्लज्जया वेषधारिणः ॥७॥ स्वामी तु मासुकाहारा-माप्त्या नित्यमुपोषितः । विजहार भुवं मौन-व्रतवान्वीत-
दुषणः॥ ८ ॥ यदा श्रीऋषभो दानं, दत्तवान् वार्षिकं जने । तदा कच्छमहाकच्छ-सुतौ देशान्तरे गतौ ॥९॥ नाना
१ "-त्सवाचः" इत्यपि । २ "अशीति-" इत्यपि ।।
॥१४॥
. नामावनम्याख्या, पासवन्त निज ८९ । पापा मारब्धमेतावपि तत्स्वरूपम् । सर्व यथावृत्तमवोचतां त-द्यातां गृहे श्रीमरतोऽस्ति राज्यदः॥ ११॥ साभिमानतया चक्रु-रवज्ञा मरतेशितुः । स्वाम्येव राज्यदाता नः, सर्वसाधारणो हि सः ॥ १२ ॥ इत्युक्त्वा तौ नमस्कृत्य, ततो यातौ वनान्तरे । यत्रास्ति प्रतिमानिष्ठः, स्वामी श्रीऋषभप्रभुः ॥ १३ ॥ प्रातः पानीयमानीय, प्रक्षाल्य चरणौ प्रभोः। पूजयित्वाम्बुजैः स्वामिन् !, राज्य देहीति वादिनी ॥१४॥ निष्कोशखगहम्तौ तौ, पार्वयोरुभयोरपि । दत्तदृष्टी प्रमोः सेवा-सावधानौ बभूवतुः ॥१७॥ एवं वितन्वतोः सेवां, तयोरन्येधुराययौ । धरणेन्द्रमहाराजो, नमस्कत्तुं जिनेश्वरम् ॥ १६ ॥ तथाविधौ च तौ दृष्ट्वा, सेवाकर्मणि लालसौ । बभाषे भो महाभागौ!, स्वाम्येष खलु निर्ममः॥ १७॥दत्ते न किञ्चित्कस्मैचि-म तुष्यति न रुष्यति । किमर्थ सेव्यते ह्येष, भवद्भयां भवतृष्णया ॥ १८ ॥ सरोषतर्जनं ताव-प्यूचतुर्द्धरणं प्रति । स्वमार्गे गच्छ भोः पान्थ !, चिन्तया किं करोषि नः ॥ १९॥ अवादीत् धरणो नाई, पथिकः किन्तु नागराट् । राज्यादि दावा याचेयां, तद्यवां यद्विलोक्यते ॥२०॥ त्रैलोक्यं यच्छसि त्वं चे-न कार्य तदपि त्वया । यदि दास्यति तद्दाता, स्वाम्येव खलु नापरः ॥२१॥ मक्तिस्थैर्यमिति ज्ञात्वा-ऽवातरत्स्वामिनो मुखे । तुष्टो भवद्भयामेषोऽहं, साम्राज्यं गृह्यतामिदम् ॥ २२ ॥ इति प्रोच्य स वैतात्या-ऽधिपत्यं प्रददे तयोः। अष्टनषद् ४८ सहस्राणि, प्रौढविद्याश्च विश्रुताः ॥ २३ ॥ दत्वैवं राज्यविद्यादि-सम्पदं धरणस्तयोः । निजं स्थानमगात्ताव-प्येवं तुष्टुवतुर्जिनम् ॥ २४ ॥ जय त्रिजगतीजन्तु-जातनिर्वाहकारक !। जय प्रथमतीर्थेश !, जय संसारतारक! ॥ २५ ॥ अथ प्रथमनाथं तो, प्रणत्य गगनाङ्गणे । उत्पत्य यातौ वैताढये, राजधानी च चऋतुः ॥ २६ ॥ क्रमेण पष्टिः पञ्चाश-दक्षिणोत्तरपार्श्वयोः । नग- . .
उपदेश-
सप्ततिका.
राणि पुनस्ताभ्यां, निवेश्यन्ते स्म तद्विरौ ॥२७॥ साधयित्वाखिलान् देशान् , वशीकृत्य चराजकम् । जाती विद्याधराधीत्री,
प्रौढदोःस्थामधारिणौ ॥ २८ ॥ प्रान्ते श्रीजिनपादान्ते, प्रव्रज्यां प्राप्य निवृतौ । साधुकोटिद्वयीयुक्ती, श्रीशत्रुञ्जयपर्वते ॥२९॥
अन्यत्राप्युक्तम्-
मुणिणोवि तुहल्लीणा, नमिविनमी खेयराहिवा जाया । गुरुआण चलगसेवा, न निकला होइ कइआवि ॥१॥
इत्थं कृताप्यहिकभोगतृष्णया, मक्तिजिनेन्दोर्ददते तनूमताम् ।
यदैहिकामुष्मिकसत्फले ततो, यतध्वमत्रैव जनाः ! शिवैषिणः ! ॥ ३० ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे त्रयोदश उपदेशः ॥१३॥
हस्तात् प्रस्खलितं क्षितौ निपतितं लग्नं तथा पादयो-य॑न्मुर्दोर्ध्वगतं धृतं कुत्रमनै मेरयो यद्धृतम् । स्पष्टं दुष्टजनैर्धन-
रभिहतं यदृषितं कीटकै-स्त्याज्यं तत्कुसुमं फलं दलमपि श्राजिनार्चाक्षणे ॥१॥ पुष्पैरेवंविधैः पूजा, ये कुर्वन्ति जिनेशितुः।
तेषां हीनकुले जन्म, भूवल्लभनरेन्द्रवत् ॥ २॥
पत्तने कामरूपाख्ये, चण्डालस्य कुलेऽमवत् । दन्तयुक्तः सुतः प्राच्य-कर्मणामनुभावतः॥१॥ अरिष्टमिति विज्ञाय,
जनन्या त्याजितो बहिः । स वालकः क्रमातत्र, तत्रत्य नृप आययौ ॥२॥ दृष्टश्च रूपवान् बालो, दयार्दीभूतचेतसा । ग्राहितः
परिवारेण, पालितः शिक्षितोऽपि च ॥३॥ भूमौ पवितलम्धत्वात् , स भूवल्लभसंज्ञकः । कलाः समस्ताः शिक्षित्वा, स जातः
॥१५॥
...7
...
सालमा ।। ४ ।। पुत्रिणा टपणा, सस.1
ऽन्यदा स राजर्षि-रुत्पन्नामलकेवलः । पुत्रस्य प्रतिबोधाय, प्राप्तस्तत्रैव पत्तने ॥ ६॥ राजापि सारीवारो, वन्दितुं प्राप्तवान्मु-
निम् । व्याजहार मुनिर्धर्म, संसारासारतामयम् ।। ७॥ सा मातङ्गयपि तत्रागान, नृपं दृष्ट्वा च मोहिता। प्रश्रयन्ती पयः
पुत्र-स्नेहो हि दुरतिक्रमः ॥ ८॥ तथारूपां च तां दृष्ट्वा, नृपः पप्रच्छ तं मुनिम् । केयं कथं च मे मोहः, एतस्यामपि हे
मुने! ॥९॥ मुनिः प्राह कुमारेयं, तब माता यतो मया । त्वं बहिप्पतितो लेभे, राज्यं चाऽपुत्रिणा ददे ॥ १०॥ नृपः
प्राह कुतो हीन-कुले मे तात ! सम्भवः । कथं वा राज्यसम्पाप्तिः, सर्वमेतनिवेदय ॥ ११ ॥ मुनिः प्राह महाराज!, प्राग्भवे
त्वं महर्दिकः । श्रावकः समभूः सर्व-व्यवहारिशिरोमणिः ॥ १२ ॥ दानध्यानतपःपूजा-पौपधावश्यकादिभिः। चिरं प्रभावनां
चक्रे, भवान् श्रीजिनशामने ।। १३ ।। निर्विवेकतया किन्तु, ह्यस्तनैः पतितेरपि । सद्गन्धैरथ दुर्गन्धैः, पुष्पैः श्रीजिनमार्चयत्
॥ १४ ॥ कदाचिनिम्मितस्त्रानो, जातु मानविवर्जितः । दुर्वत्रो वा सुवस्त्रो वा, प्रायो देवमपूजयत् ॥ १५ ॥ जातु प्रमादतः
पूजा, जायते विधिवजिता । भवेत्तदा तु स्वीकार्य, प्रायश्चित्तं गुरूदितम् ॥ १६ ॥ अनालोचिततत्पाप-श्वण्डालस्य कुले
मवान् । जातो बभूव राज्यं तु, श्रीजिनार्चानुभावतः॥१७॥ श्रुत्वेति मुदितस्वान्तो, जातजातिस्मृतिनपः । अवादीदेहि मे तात !,
दीक्षां मोक्षफलपदाम् ॥ १८ ॥ राज्यभार सुते न्यस्य, प्रतिपनवतस्ततः । अतिचारपरीहारात् , क्रमात्सद्गतिमागभूत् ॥ १९ ॥
इत्यल्पधीभिर्विहितापि पूजा, विधि विना श्रीत्रिजगत्प्रभूणाम् । फलं प्रदत्ते खलु तुच्छमेव, ततो यतध्वं विधिमार्ग एव ॥ २० ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे चतुर्दश उपदेशः ॥ १४ ॥
उपदेश- ॥१६॥ . . विधाय दीपं जिनपुङ्गवाना-पग्रेऽथ सर्व निजगेहकृत्यम् । सप्ततिका. तेनैव चेन् मन्दमतिः करोति, पामोति मूर्खः स कुयोनिमावम् ॥१॥ अरविन्दपुरे राजा-ऽजितसेन इति श्रुतः । तत्रैव वसति श्रेष्ठी, देवसेनो वणिग्वरः ॥१॥ कुर्वाणो धर्मकर्माणि, श्रद्दधानो- ऽहतां वचः । दीनादिषु ददद्दानं, समया कुरुते स्म सः ॥ २॥ औरभ्रिकोऽस्ति तत्रैक-स्तद्नेहान्मोहमोहिता। आयाति श्रेष्ठिनो गेहे, काचिदुष्दी प्रतिप्रगे ॥ ३ ।। स तु तां कुट्टयामास, लकुटैः कृपयोज्झितः । न तिष्ठति तथाप्येषा, तद्गुहागमनं विना ॥४॥ ततो जग्राह तां श्रेष्ठी, मूल्येनापि कृपापरः । प्रमोदमेदुरा सापि, सुखेनास्थात्तदौकसि ॥५॥ अन्येास्तत्पुरे प्रापु-राचार्या धर्ममूरयः। राजादिलोकसर्वोऽपि, वन्दितुं तत्र चाययौ ॥६॥ श्रीधर्मदेशना चक्रे, मूरिभिर्धर्मभूरिमिः । पप्रच्छ करभीवृत्तं, श्रेष्ठी धम्मिष्ठमानसः ॥ ७॥ गुरुः प्रोवाच भो वन्स!, तवैपा जननी ह्यऽभूत् । प्राग्भवे मनसोऽभीष्टा, पूज्या स्वजनसन्ततेः ॥८॥ सदापि धर्मानुष्ठान-निष्णातमतिवैभवा । नित्यं स्वगृह विम्बाग्रे, दीपं दीपं करोत्यसौ ॥ ९॥ परं तेनैव दीपेन, गृहकार्याणि चक्रुषी । अनालोचिततत्पापा, सैवेन्थमुदपद्यत ॥ १० ॥ अत्र कः प्रत्ययः श्रेष्ठि-पृष्टः मूरिः पुनर्जगौ । निधिा- सीकृतो योऽभूत , त्वत्पित्रा गृहकोणके ॥ ११ ॥ स प्राप्तो न त्वया भद्र !, बहुशोऽपि विलोकितः। तं चैषा वेत्ति ते माता, प्राग्भवाभ्यासयोगतः ॥ १२ ॥ सापि ज्ञानिवचः श्रुत्वा, जातिस्मरणवत्यभूत् । सोऽपि नत्वा मुनि तां च, लात्वा स्वगृहमागतः ॥१३॥ तां च पप्रच्छ हे मात-निधानं मे प्रदर्शय । सापि प्रमुदिता तस्मै, निधिस्थानमदर्शयत् ॥ १४ ॥ ततो विरक्तः ॥१६॥ संसारात्, स श्रेष्ठी तद्धनं समम् । व्ययीकृत्य सुपात्रादौ, भवस्थितिमचिन्तयत् ॥ १५॥ अहो! मातापि मे जाता, करभी .
कर्मयोगतः । तदलं क्लेशकोटीना, निमित्तेन गृहेण मे ॥ १६ ॥ कृतं परिच्छदेनापि, परमार्थंकशत्रुणा । विमृश्येति प्रववाज, तेषामेवान्तिके कृती ॥ १७ ॥ साप्युष्ट्यपि कियत्कालं, भ्रान्त्वात्र भवकानने । लब्ध्वा प्रौढकुले जन्म, सिद्धि यास्यत्य- संशयम् ॥१८॥ कारंकारं दीपपूजामपीत्थं, सा स्त्री जाता यद्वदुष्ट्री वराकी । भो भो मव्यप्राणमाजस्तदेवं, युक्तो जैनाभ्यर्चने वो विवेकः ॥१९॥ ॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे पञ्चदश उपदेशः ॥ १५॥ चेतः पुनाति घनकर्मवनं लुनाति, स्वर्ग ददाति शिवसम्पदमादधाति । पुण्योदयं वितनुते सुखानि, श्रीजैनपूजनमिदं किल किं न दत्ते ॥१॥ मिथ्याग्भव्यभावेन, पूजां कृत्वा जिनेशितुः । अशोको मालिको लेभे-ऽद्भुतां सौख्यपरम्पराम्॥२॥ महाराष्ट्र महाराष्ट्र, ग्रामे हल्लूरनामनि । मिथ्याग् मद्रकस्वान्तो, बभूवाशोकमालिकः ॥१॥ अन्यदा पर्वणि कापि, श्रादैरेष विनिर्मिताम् । दृष्ट्वा जिनेशितुः पूजा, मनस्येवमचिन्तयत् ॥२॥ वस्त्रं पवित्रं परिधाय ये श्री-जिनं यजन्ते अवि ते प्रशस्याः । न मादृशाः किन्तु सदा दरिद्राः, न धर्मगन्धोऽपि यदीयचित्ते ॥ ३॥ आकर्षिणतोऽपि महितोऽपि निरीक्षितोऽपि, नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मि नेन जनबान्धव ! दुःखपात्रं, यस्माक्रियाः प्रतिफलन्ति न मावशून्याः ॥४॥ निर्माग्यं स्वं ततो निन्दं-स्तदैवोत्पन्नवासनः । विक्रीतोद्धरितैः पुष्पै-नवभिजिनमार्चयत् ॥५॥ एलाभिधपुरे राजा, १“ श्रेयो " इत्यपि ।
उपदेश-
सप्ततिका.
॥१८॥
.
मुपोषितः । दिने तृतीये तेऽप्याहुः, प्रत्यक्षीभूय तत्पुरः ॥१६॥ किमर्थमस्मानस्मार्षी-स्त्वमेवं लश्नोद्यतः। यूयं मम मनोऽभीष्टं,
कुरुष्वमिति सोऽप्यवक् ॥ १७॥ कुलदेवी ततोऽवादी , दुष्टनिष्ठुरमानस!। रे दुष्ट! शीघ्रमुत्तिष्ठ, याहीदानीं ममाग्रतः ॥१८॥
दास्यन्त्येते तवाभीष्टं, देवाः सेवापरेण ये । त्वयानीता गृहे भक्ति-बहुमानपुरस्सरम् ॥ १९॥ स्मितपूर्व मणन्ति स्म, ततो
देवाः परस्परम् । गणेशश्चण्डिकां प्रोचे, भक्तेऽभीष्टप्रदा भव ॥ २० ॥ चण्डयपि प्राह यक्षोऽयं, दाताऽभीष्टानि यः स्वयम् ।
निविष्ट आसने प्रौढे, ममादौ पूज्यतेऽनिशम् ।। २१ ॥ यक्षोऽपि दक्षोऽभाषिष्ट, दात्री शासनदेवता । यया पूर्वमपि दत्तं, रत्नम-
पूर्ववैमवम् ॥ २२ ॥ एवं देवगिरं श्रुत्वा, परिहासपुरस्सरा । विषण्ण श्रीधरं प्राह, जिनगृह्या महासुरी ॥ २३ ॥ पश्य भो
मद्र ! यद्देवै-रमीमिरखिलैरपि । अन्योन्याऽमर्षसम्पृक्त-स्तवोपेक्षा व्यधीयत ॥ २४॥ ततः सर्वानिमांस्त्यक्त्वा, जिनमेका-
ग्रचित्ततः। पूजय त्वं यतोऽमुष्मिन् !, पूजिते सर्वसिद्धयः ॥ २५ ॥ यजिताचरितैः सर्वै-देवैर्देवत्वमाप्यते । ततः समग्रदे-
वाना-मयमेवाऽत्र दैवतम् ॥ २६ ॥ इत्यवेत्य निराकासो, यक्षादीनाह सादरम् । कृत्वा प्रसादं मद्गहात् , यूयं यात निजं पदम्
॥ २७ ॥ ततो निश्चलचित्ताय, श्रीधराय पुनर्ददौ । शासनम्य सुरी हृष्टा, रत्नकोटीरनेकशः ॥ २८ ॥ ततस्त्रिरहत्पदपूजया
दानश्च लक्ष्मीः सफला निजार्जिताः। प्रान्ते परिव्रज्य विमुक्तिसुन्दरी-वक्षस्थले हारतुलामयं दधौ ॥ २९ ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेधिकारे सप्तदश उपदेशः॥ १७॥
नैकाग्रचित्ताः परितवते ये, मुश्रावकाः श्रीजिनराजपूजाम् ।
ते हास्यपात्रं विदुषां भवन्ति, श्राद्धो यथाभूज्जिणहाभिधानः ॥१॥
॥१८॥
धवलकपुरे श्रीश्री-मालज्ञातिशिरोमणिः । जाहापुत्रोऽमवत् श्रेष्ठी, जिणहाख्योऽतिदुर्गतः ॥१॥ घृतकांसवैलाढय, विक्रीयात्मोदरंमरिः । चकाराजीविकां किन्तु, जिनधर्मविवर्जितः ॥ २॥ अन्यदाऽभयदेवाख्य-मरिभ्यो धर्ममाईतम् । श्रुत्वा मक्तामरस्तोत्रं, स पपाठ स्वमक्तितः॥३॥ नित्यं तत्रिः परावृत्त्य, श्रीपाच परिपूज्य च । कृत्वा च धर्मकर्तव्यं, स चक्रेसफलं जनुः॥४॥शाखापुरेऽन्यदा तस्य, प्राप्तस्य स्मरतो निशि। त्रयस्त्रिंशं महावृत्तं, तुष्टा चक्रेश्वरी ततः ॥ ५॥ काव्यं चेदम्- इत्यं यथा तव विभूतिरभूजिनेन्द्र !, धर्मोपदेशनविधौ न तथा परस्य । यारझमा दिनकृतः प्रहतान्धकारा, ताहा कुतो ग्रहगणस्य विकाशिनोऽपि ॥१॥ जयप्रदं वश्यकरं, गृहाण मणिमुत्तमम् । इत्युक्त्वा सा तिरोधत्त, सोऽपि हस्ते बबन्ध तम् ॥ ६॥ प्रातस्तत्रत्यकृत्यानि, विधाय स्वपुरं प्रति । आगच्छन्नेष मार्गे तु, रुरुधे तस्करैत्रिभिः॥७॥ बाणत्रयेण तान् हत्वा, लीलया स्वपुरं ययौ । अचिन्त्यो मणिमन्त्रादि-महिमा यत उच्यते ॥ ८॥ श्रुत्वा तवृत्तमाकार्य, पत्तने भीमभूभुजा । अभाणि जिणहो भद्र !, दुष्करं कृतवानसि ॥ ९॥ तदा च धनवस्त्राद्यैः, स हीनोऽपि समाजनैः । दृष्टः कण्ठीरव इव, प्राज्यशौण्डीर्यमण्डितः॥१०॥ तदा च तस्य निष्कोशे, मण्डलाये महीभुजा। समयॆमाणे सेनानी, शत्रुशल्योऽब्रवीदिति ॥ ११ ॥ खण्डउं तामु समप्पीई, जसु खंडइ अभ्यास । जिणहा इक समप्पीइं, तिलतोलं कप्पास ॥१॥ जिणहः प्राह- असिघर घणुधरकुंतधर सत्तिधराय बहू अ। ससल्ल रणमूर नर विरलति जणणि पम्य ॥१॥ राजा प्राह-साधूक्तम् । यत:- . - -- उ. स.
उपदेश-
सप्ततिका.
॥१९॥
अधः शस्त्रं शास्त्रं, वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्ता, भवन्ति योग्या अयोग्याच ॥१॥
ततो भीमनृपस्तं त्रिः, पर्यधापयदुज्ज्वलैः । पट्टकुलैः सुवर्णाचं, प्रभूतं च ददौ मुदा ॥१२॥ खड्ग विकोशं सैन्यं च, घव-
लकपुरेशिताम् । दत्वा तं व्यसृजद्राजा, सोऽपि स्वं पुरमाययौ ॥ १३ ॥ ततः प्रभृति चौराणां, नामापि खलु निष्ठितम् ।
गूर्जरत्राक्षितौ तस्मिन् , रक्षके दण्डनायके ॥ १४ ॥ अन्यदा चारणः कोऽपि, तत्परीक्षाचिकीर्षया । करमं चोरयामास,
धृतोऽसौ जिणहाजनैः ॥ १५॥ आनीय दर्शितो दण्डे-शाय पूजां वितन्वते । स्वामिन्नेतस्य चौरस्य, दण्डः क इति कथ्यताम्
॥ १६ ॥ अङ्गुलीसंज्ञया सोऽपि, तेभ्यस्तं वध्यमादिशत् । चारणोऽवसरज्ञोऽथ, तं प्रत्येवमभाषत ॥ १७॥ इक जिणहा नई
जिणवरह, न मिलई तारोतार । जेण अमारण पूजीइं, ते किम मारणहार ॥१८॥ श्रुत्वेति विस्मितः स्वान्ते, स्मितपूर्व मुमोच
तम् । चौर्य न जातुकार्य च, त्वयेति तमशिक्षयत् ॥ १९ ॥ चारणोऽप्याह-
इक्का चोरी सा जिकिय, जा खोलडई न माई । बीजी चोरी जे करई, चारण चोर न थाइं ॥१॥
देव! त्वया वणिग्मात्रे-णापि सर्वेऽपि तस्कराः। कथं विनाशिता एषा, परीक्षाद्य मया कृता ॥ २० ॥ ततो दत्वा
बहुद्रव्य, स्वस्थाने प्रेषयत्स तम् । स्वयं त्वेकमनाः पूना, कृत्वा भुक्त्याद्यसाधयत् ॥ २१ ॥ एवं मुमटकोटीषु, प्राप्तः कोटी-
रतामसौ। महीं निष्कण्टका कुर्वन् , श्रावकः परमोऽभवत् ॥ २२ ॥ शुल्कं पोट्टलिकानां च, स मुमोच कृपापरः। ततोऽनु
नगरे तत्र, सा व्यवस्थाग्रतोऽभवत् ॥ २३ ॥ अद्यापि यः समादत्ते, करं तेभ्यो हठादपि । महाजनविरोधित्वात् , स चिरं
१ "ततो-इत्यपि" ॥
॥१९॥
नैव नन्दति ॥ २४ ॥ एवमेष जिणहामिधो वणिक्, स्वान्ययोरुपकृतौ कृतादरः । धर्मकृत्यनिरतश्चिरं क्रमात् , प्राप्तवान् सुग- तिमद्भुतर्दिकः ॥ २५॥ ॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारेऽष्टादश उपदेशः॥१८ ।। कुर्वन्ति देवद्रविणोपभोग, ये ते नरा दुर्गतिगामिनः स्युः । कथानकान्यत्र बहूनि सन्ति, तथापि दिग्मात्रमुदाहियेत ॥१॥ इह खलु एकान्तश्रीदेवगुरुभक्तिकारकेण विशुद्धश्रीसम्यक्त्वमूलद्वादशव्रतधारकेण सुश्रावकेण देवसम्बन्धिद्रव्योपभोगः सर्वथा न कार्यः, स्वपरसमयनिषिद्धत्वाद् बहुदोषसंमवाच । देवद्रव्येण या वृद्धि-गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ॥ १॥ एकमपि कटुकतुम्बीबीनं मारसहस्रप्रमाणपि गुडं विनाशयति । विषस्य लवोऽपि परमानभृतं स्थालं सर्वेषामनुपयोगि किं न विधत्ते । दृश्यन्ते च केऽपि मूर्खा देवद्रव्येण व्यवसायादि कुर्वन्तः, कदाचिनिर्द्धनत्वे जाते देवद्व्यसाराविधायिमिस्त- द्रव्यपश्चान्मार्गणे एवं वदन्तो यथा-न सन्ति सम्प्रत्यस्मत्पाचे द्रम्माः, पितृस्थानीयो वाऽस्माकं जिनः, नहि पितृधनं पुत्राणां किमप्यनादेयम्, इत्यादियत्तत्पलापिनो वराकास्तेऽनन्तानन्तसंसारक्लेशमाजनं भवन्ति । केचित्तु धनवन्तोऽपि महत्त्वस्पृहया- लवः प्रभूतसमुदायमध्ये बहुशुम्नपरिहितेन्द्रमाला लभ्यीकृत्य बहुदेवद्रव्या अपि तन्मार्गणे दीनमेव भाषन्ते, मनसापि तद- प्पणं न वाञ्छन्ति । देवस्य किमपत्यानि क्षुधा म्रियमाणानि सन्ति । देवस्तव किमधिको मम किं न्यूनो, यदा विलोकयिष्यते तदानीमर्पयिष्यामि, इत्यादि कालक्षेपमेव कुर्बाणा उल्लुण्ठवादिनस्तेऽपि तेषामेव पंक्तौ निवेशनीयाः ॥अब भ्राद्धयोदाहरणम्-
उपदेश-
सप्ततिका.
॥२०॥
.
विश्वपुरे क्षेमकरो राजा तस्य युगन्धरः पुत्रः । सोऽन्यदा वने कस्यापि मुनेः केवलज्ञानोत्सवं देवैः क्रियमाणं दृष्ट्वा
सञ्जातजातिस्मृतिस्तदैवोत्पन्नवैराग्यो देवतादत्तवेषः प्रवव्राज । वन्दितो राजाधैः विजहार वसुन्धरावलये । चकार भूयास्यपि
तपांसि । अन्यदा तस्य मुनेः शुक्लध्यानाऽधिरूढस्याऽवधिज्ञानमुत्पेदे । आगतस्तत्रैव पुरे । राजादयो वन्दितुं गताः। प्रारब्धा
तेनापि धर्मदेशना तत्र चावसरे कोऽपि कुष्ठी सर्वरोगराजधानीव, मक्षिकाणां पिवगृहमित्र, पदे पदे बालकाधैरपि कर्करादि-
भिरुपहन्यमानस्तत्र प्राप्तः। राजादयश्च तादृशदुर्दशानिपतितं दृष्ट्वा तस्य प्राच्यभवं मुनेः पार्षे पृच्छन्ति । मुनिः माह-
कुसुमपुरे नन्दनागदेवो द्वौ भ्रातरौ। वृद्धो व्यवहारे शुद्धः, अपरस्तु विपरीतः । अन्यदा तमगराधिपेन स्वकारितजिनमन्दिरे
देवद्रव्यरक्षणाय नियुक्ती, स्वशक्त्या सारां कुरुतः । अन्यदा नागदेवः क्षीणधनोन्तरान्तरा निर्लज्जतया स्वल्पं स्वल्पं तु देव-
द्रव्यं भुक्ते । वृद्धभ्रात्रा तु-
जिणपवयणवुद्धिकरं, पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदव्वं, अणंतसंसारिओ होइ ॥१॥
जिणपवयणवुद्धिकरं, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ ॥२॥
जिणपवयणवुद्धिकरं, पभावगं नाणदंसणगुणाणं । वहुँतो जिणदव्वं, तित्ययरत्तं लहइ जीवो ॥३॥
इत्यादि बहुप्रकारश्रीआगमोक्तवाचोयुक्तिमिनिवारितोऽपि यावता लघुर्न तिष्ठति तावता वृद्धचिन्तयति स्म प्रातपाय
निवेदयिष्यामीति । अत्रान्तरे अकस्माच्छ्लेन रात्रौ मृतः व्यवहारिणः सुतो जातः । तत्र मवे भव्यान् भोगान् भुक्त्वा मान्ते
व्रतं लात्वा प्राणतकल्पे देवो जातः। एवं सप्तमवान् दीक्षामाराध्य अच्युतादिषु देवत्वेन समुत्पद्य च क्रमेण सोऽहं युप्मपुत्रो
॥२०॥
युगन्धरो जातः । नागदेवस्तु तस्मिन्ब मवें विज्ञातस्वरूपः सन् राजादिमिमश गाहतः । माक्षतदवद्रव्यपद् गृहातगृहसवस्वश्च प्रान्ते पोडशवर्षाणि रोगातः शेषद्रव्यार्पणाय सुतानां कथयित्वा मृतः। पूर्वाभ्यासतश्च प्रतिभवं तथैव कुर्वन् सप्तसु नरकेषु तिर्यग्मवान्तरितो भ्रामं भ्रामं एष वराकः कुष्ठी जातः । यदुक्तम्- भक्खणे देवदव्बस्स, परत्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराउ गोअमा! ॥१॥ इति श्रुत्वा स कुष्ठी जातिस्मृतिं प्राप्य आलोचितसकलपापः, प्रान्ते प्रपन्नानशनो मृत्वाऽच्युते देवो जातः । क्रमेण महा- विदेहे मोक्षंगमी । स च युगन्धरराजर्षिरपि क्रमेण सिद्धिसौधमध्यास्त ।। परसमयोक्तमप्युदाहरणं यथा- प्रभास्वे मा मतिं कुर्यात् , प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति, प्रमादग्धाः पुनर्नहि ॥१॥ पुरा जगत्रयाभीष्ट-नामा श्रीरामभूपतिः। यदा पुर्यामयोध्यायां, साम्राज्यं पर्यपालयत् ॥ १॥ तदैकः कुक्कुरः कश्चि- भिविष्टो राजवर्त्मनि । केनचिब्रह्मपुत्रेण, कर्करेण हतः श्रुतौ ॥ २॥ श्वा निर्यल्लोहितो न्याय्य-स्थानं गत्वा निविष्टवान् । भूपेनाहूय पृष्टोऽवम्, निरागाः किमहं हतः १ ॥३॥ तद्धातकं ब्रह्मपुत्रं, तत्रानाय्य नृपोऽब्रवीत् । असौ त्वद्धातको बेहि, कोऽस्य दण्डो विधास्यते ॥ ४ ॥ श्वाऽवोचदस्य रुद्रस्य, माठापत्ये नियोज्यताम् । क एष दण्डो राज्ञेति, भाषितः श्वा पुनर्जगौ ॥५॥ प्रागहं सप्त जन्मभ्यः, पूजयित्वा सदाशिवम् । देवस्वभीत्या प्रक्षाल्य, पाणी भोजनमाचरम् ॥ ६॥स्त्यानाज्यमन्यदा लिङ्ग- पूरणे लोकदौकितम् । विक्रीणानस्य काठिन्या-नखान्तः प्राविशन्मम ॥७॥ विलीनमुष्णमतेना-ऽजानता तन्मयाहृतम् ।
.
उपदेश-
सप्ततिका.
॥२१॥
तेन दुष्कर्मणा सप्त-कृत्वो जातोऽस्मि मण्डलः ॥ ८॥ सप्तमेऽस्मिन् भवे राजन् !, जात जातिस्मृतिर्मम । अधुना त्वत्प्र-
भावेण, जाता वाग्मम मानुषी ॥ ९॥ एवमज्ञानतो भुक्तं, देवस्वं दुःखकारणम् । रक्षणीयमतस्तद्धि, विवेकः स्वशक्तितः
॥ १० ॥ अधिकारात्रिभिर्मासै-र्माठापत्यात्रिमिर्दिनैः । शीघ्रं नरकवाञ्छा चेत्, दिनमेकं पुरोहितः ॥ ११ ॥ विन्ध्याटवीव-
तोयासु, शुष्ककोटरवासिनः । कुष्णसर्पाः प्रजायन्ते, देवदायोपहारिणः ॥ १२ ॥ एवं देवद्रव्यरक्षाविनाशे, श्रुत्वा मव्याः !
स्पष्टदृष्टान्तयुग्मम् । कार्यो यत्नस्तस्य रक्षाविधाने, संसारः स्याद्वो यथा शीघ्रमल्पः ॥ १३ ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे देवद्रव्योपरि (एकोनविंशो विंशतितमश्च) उपदेशः ॥ १९-२० ॥
ये सङ्कटेऽपि नियम न परित्यजन्ति, ते वासवैरपि नराः परिपूजनीयाः ।
प्राप प्रसिद्धिमसमां वणिजो यथैकः, श्रीजैनपूजनविनिश्चयवान् धनाख्यः ॥१॥
मण्डले मालवे नाम्नि, श्रीमङ्गलपुरं पुरम् । तत्पत्यासन्नभूतास्ति, पल्ली भिल्लसमाकुला ॥१॥ चैत्यमेकं च तत्रास्ति, पुरा
केनापि कारितम् । तस्मिश्चतुर्थतीर्थेश-प्रतिमा चातिशायिनी ॥२॥ अन्यदा म्लेच्छसैन्येन, तत्राकस्मादुपेयुषा । तजिनायतनं
भनं, स्वभाग्यमिव पापिभिः ॥३॥अधिष्ठात्प्रमादेन, प्रतिमाया जिनेशितुः । चैत्यालङ्कारभूतायाः,निर्ममे खण्डसप्तकम् ॥ ४ ॥
सञ्जातखेदैस्तैमिल्ल-स्तत्वज्ञानबहिष्कृतैः। सप्तानि तानि खण्डानि, संमील्यैकत्र दधिरे ॥५॥ इतश्च धारलीग्रामा-देकरछेको
वणिग्वरः। नित्यं तत्र समागत्य, क्रयविक्रयमातनोत् ॥६॥स तु श्राद्धो भुक्तिकाले, गृहे गत्वैव भुक्तवान् । अपूजिते जिनाधीशे,
॥२१॥
नियमस्तस्य भोजने ॥ ७॥ पल्लीनिवासिनो मिल्लाः, अन्येास्तं चमापिरे । एहिरेयाहिरा मद्र!, सर्वदा तव दुष्करा ॥ ८॥ अत्रैव भुक्षे त्वं किं न, वसतिं वा करोषि न । सर्वेऽपि वयमेते स्म, किङ्करा इत्र ते यतः॥९॥ अमाणीदणिजो देवे, मुझे नाहमपूजिते । तेन नित्यं गृहे यामि, भुञ्ज तत्पूजनादनु ॥१०॥ भिल्लाः प्रोचुः प्रफुल्लास्याः, एको देव इहापि भोः।। अस्तीति तानि खण्डानि, संयोज्याऽस्मै प्रदर्शितः॥११॥ अखण्डं तं च मन्वानः, ऋजुधीः मोऽप्यन्दत । शुद्धमम्माणिपाषाण-घटितं पुलकाङ्कितः ॥ १२ ॥ पुष्पाचैः पूजयित्वा च, स्तुत्वा स्तोत्रैरनेकशः । नित्यं तत्रैव भुक्त्यादि, चकार सरलाशयः ॥१३॥ अथान्यदा नाहलैस्तै-स्तत्पार्थे किश्चिदर्थितम् । स तु तन्नार्पयतेन, ते फिश्चिक्रोधमादधुः ॥ १४ ॥ तद्विम्बं शकलीकृत्य, कापि गुप्तमधारयत् । पूजनाऽवसरे देव-मदृष्ट्वा म विषेदिवान् ॥ १५ ॥ तदहन्युपत्रासोऽभून् , तस्यैवं दिवसत्रयम् । भिल्लैः सानुशयैः पृष्टः, किमश्नासि न भो वणिक् । ॥ १६ ॥ सोऽप्याह भो ! न जानीथ, यूयं किं मम निश्चयम् । कदाप्यपूजिते देवे, प्राणान्तेऽप्याहरामि किम् १ ॥ १७ ॥ अस्मभ्यं चेद्गुडं दत्से, दर्शयामस्तदैव तम् । ओमिति प्रतिपेदाने, तस्मिस्ते मुदिता हदि ।। १८ ॥ पूर्ववत्तानि खण्डानि, तस्मिन्पश्यति तैः पुनः । यथावयवविन्यासं, बिम्बं संयोज्य दर्शितम् ॥ १९॥ विलोक्यैवं स पुण्यात्मा, भृशमेव विषादवान् । इत्यभिग्रहमाधत्त, साविकानां शिरोमणिः ॥ २० ॥ अखण्डं यावदेतन, तावन्नानामि सर्वथा । ततो रजन्यां तं प्राह, स्वमेधिष्ठायकः सुरः ॥ २१ ॥ चन्दनस्य विलेपेन, खण्डान् सप्तापि मीलय । अखण्डत्वं ततो मावि, प्रातः सोऽपि तथाऽकरोत् ॥ २२ ॥ एवं श्रीअभिनन्दनबिम्ब, कृत्वा व्यक्तमखण्डाकार(क)म् । दत्तकिरातगुडादिद्रव्यः, मुस्थाने कचिदयति स्म ॥ २३ ॥ एवं च तीर्थ तज्जातं, महामहिममासुरम् । चतुर्दिग्भ्यः समायान्ति, तत्र सङ्काश्च भूरयः ॥ २४ ॥ तत्प्रभावाजातपुत्रः, साधुलाभिधः सुवीः । प्राग्वाटवंशलन्य-सत्र चैत्यमचीकरत् ॥ २५ ॥ श्रुत्वा च तस्य
सप्ततिका
माहात्म्य, भूपातमालवश्वरः । चकार प्रत्यह पूजा-ध्वजस्नात्रादिकोत्सवान् ॥ २६ ॥ स श्राद्ध एवं परिपूज्य देवं, प्राप प्रतिष्ठा
॥२२॥दा नियमैकचित्तः । ततोऽन्यकृत्यं जिनपूजनादि, कृत्वैव कार्य मविकढास्थः ॥ २७ ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रयमेऽधिकारे एकविंश उपदेशः ॥ २१॥
नो मत्सरः कापि विवेकिमिर्जिन-प्रासादपूजादिकधर्मकर्मणि ।
कार्यों बनर्थाय मवेदयं यथा, श्रीकुन्तलायाः समजायत स्फुटम् ॥१॥
अवनिपुरमित्यस्ति, पुरं स्वग्गिपुरोपमम् । जितशत्रुरभूत्तत्र, भूपतिर्भूरिविक्रमः॥१॥ कुन्तलाऽभूत्प्रिया तस्य, राज्ञः
पट्टमतिष्ठिता । अपरा अपि संजाता-स्तस्य पत्न्यः परःशताः॥२॥ ताःकारयन्ति चत्यानि, स्वस्वद्रव्यैरनेकशः। विस्तार्यन्ते
पुनस्तासां, कीर्तयो याचकवजैः ॥ ३॥ ततः सा कुन्तलादेवी, मत्सरग्रम्तमानसा । प्रासादं कारयामास, सविशेष पुरान्तरे
॥ ४ ॥ तत्रैव प्रत्यहं पूजा-ध्वजस्नात्रादिकोत्सवान् । करोति कारयत्येपा, स्वयं परिजनैरपि ॥५॥ प्रासादेषु सपत्नीना, दृष्ट्वा
पूजादिकोत्सवान् । सन्तापं तनुतेऽत्यन्तं, धिक् स्पर्द्धा विधुरात्मनाम् ॥ ६॥ स्वभावसरला वीत-मत्सरा अपराः पुनः । प्रेक्ष्य
पुण्यादरं तस्याः, प्रशंसामेव तन्वते ॥७॥ एवं समत्सरं धर्म, कुन्तला कृतपूर्विणी । मृत्वार्त्तरौद्रध्यानाभ्यां, सा शुनी समपद्यत
॥८॥ सा पुनर्निजचैत्यस्य, द्वारे तिष्ठत्यनारतम् । विवेकविकला रौद्र-परिणामातिनिईया ॥९॥ अन्येयुः केवली कश्चित् ,
पुरे तत्र समागतः । सान्तःपुरोऽपि भूपस्तं, वन्दितुं भक्तितो ययौ ॥ १० ॥ केवली देशनां चक्रे, कर्णपीयपसारणिम् । अन्त:-
१ "दानादि-" इत्यपि ॥
॥२२॥
पुर्योऽथ पृच्छन्ति, तं मुनि विनयानताः ॥ ११ ॥ यदीयादरतोऽस्माक-मप्येष सुकृतादरः । मगवन् ! सा गता कुत्र, सपत्नी कुन्तलाभिधा ॥ १२॥ सोऽप्यनवीदियं हन्त, कृत्वा धर्म समत्सरम् । उत्पन्ना कुकुरीत्वेन, मोहाच्चैत्येऽवतिष्ठते ॥ १३ ॥ एवं निशम्य ताः सर्वा-स्तत्रागत्य जिनालये । सोपहासं सकारुण्य, तां पश्यन्ति मुहुर्मुहुः॥१४ ॥ पुरः प्रत्यहमेतस्याः, पूपिकादि क्षिपन्ति ताः । आलापयन्ति सनेह, पुनस्तां कुकुरीमिति ॥ १५ ॥ अपि धर्मपरायास्ते, मद्रे ! मत्सरदोषतः । ईहक्कुयोनि- रापना, बलीयस्त्वं हि कर्मणाम् ॥१६॥ ततो विमुच्य मात्सर्य, रम्यं धर्म समाचर । यतस्ते सुगतिप्राप्ति-र्बोधिश्च मुलभो मवेद ॥ १७ ॥ भूयो भूय इति श्रुत्वा, तासां वाक्यानि सा शुनी । ईहापोहं वितन्वाना, जातिस्मरणवत्यभूत् ॥ १८ ॥ ततः संवेग- मापना, पापमालोच्य पूर्वजम् । समक्षं सर्वसिद्धाना-माहारं त्यक्तवत्यसौ ॥१९॥ क्रमान्मृत्वाऽभवद्देवी, सौधर्मे पुतिमासुरा। ततोऽपि मुगतिं यास्य-त्यसौ धर्माप्रमावतः ॥ २० ॥ श्रुत्वेति वृत्तान्तममुं स्तभावात् , मोः प्राणमाजः प्रथमानमावाः । मात्सर्यमुत्सार्य विवेकवन्तः, कुर्वन्तु पुण्यानि समाधिमन्तः ॥ २१ ॥ ॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे द्वाविंश उपदेशः ॥ २२ ॥ श्रीजिनेन्द्रक्रमाम्भोजपूजाविधि-ध्यानमात्रादपीष्टं लभन्ते सुखम् । सा यथा दुर्गता वीरतीर्थेशितुः, पूजनायोत्सुका देवभूयङ्गता ॥१॥ माकन्दीति पुरी ख्याता, विद्यतेऽत्रैव मारते । नाम्ना धाम्ना च तत्राऽभूत् , जितारिः पृथिवीपतिः ॥१॥ तत्रैकश्रेष्ठिनो गेहे, स्थविरा काचिदक्षमा । अस्ति स्वोदरपूर्व्यर्थ, नीचकर्माणि कुर्चती ॥२॥दासीव सकलं श्रेष्ठि-गृहकार्य करोति सा। इन्धनानयनार्थ उपदेश- सप्ततिका. ॥२३॥ ॥२३॥ च, ययौ क्वापि बनेऽन्यदा ॥३॥ तदा च ग्रीष्मकालोऽभून् , दुष्पापाणींधनान्यपि । तेन ट्रेऽपि गत्वा सा, चिरादारुण्यमीलयत् ॥४॥ वृद्धत्वेन श्लथं किश्चित् , दारुमारं निबध्य सा । मन्दसत्वात्कृतोत्सूरा, ववले स्वपुरं प्रति ।।५॥ आगच्छन्त्याश्च वृद्धाया- स्तस्या मार्गे शनैः शनैः । काष्ठभारादिन्धनानि, द्वित्राणि न्यपतद्भुवि ॥६॥ तान्यादातुं करेणार्द्धा-वनता मारमारिता । क्षुतृड्भ्यां पीडिताबाढ-मक्षमा यावदस्ति सा ॥७॥ तावञ्चरणविन्याः, पावयन् पृथिवीतलम् । समवासरदुद्याने, तत्र श्रीवीर- तीर्यपः ॥८॥क्षणात्समवसरणं, प्रारमन्त दिवौकसः । भूतभाविभवत्तीर्थ-कृतां स्थितिरियं खलु ॥९॥ तथा चोक्तम्- "अम्भितर-मज्झ-बहि, तिवप्प मणि-रयण-कणय-कविसीसा । रयणज्जुणरुप्पमया, वेमाणिअजोइमवणकया ॥१॥ वट्टमि दुतीसंगुल-तित्तीसधणुपिहुल पणसयधणुच्चा। छद्धणुसय इगकोसं-ऽतरा य रयणमयचउदारा॥२॥ चउरंसे इगधणुसय, पिडु वप्पा सड्ढकोसअंतरया। पढमबीआ बीयतइआ, कोसंतर पुचमिव सेसं ॥३॥सोवाणसहसदस कर-पिहुच्च गंतुं भुवो पढमवप्पो । तो पन्नाधणुपयरो, तओ अ सोवाणपणसहसा ॥४॥ तो बीअवप्पो पन्न-धणुपयर सोवाणसहस पण तत्तो। तइओ वप्पो छस्सय-घणु इगकोसेहिंतो पीढं ॥५॥ चउदार तिसोवाणं, मज्झे मणिपीढयं जिणतणुचं । दो घणुमय पिहुदीहं, सड्ढदुकोसेहिं धरणियला ॥६॥ पविसिय पुवाइ पहू, पयाहिणं पुवआसणनिविहो । पयपीढठवियपाओ, पणमिय तित्थं.कहइ धम्मं ॥७॥" धर्मोपदेशमेवं च, कुर्बाणे वीरतीर्थपे । आगात्तत्रत्यभूपोऽपि, देशनाकर्णनोन्मनाः ॥ १० ॥ वृद्धापि दुरवस्थान-स्थिता तां धर्मदेशनाम् । तदैव प्रकृतां हृद्या-माद्यन्तावधि चाशृणोत् ॥ ११॥ जिनेशवासुधामेवं, कणेहत्य निपीय सा । तादृक् शरीरजं कष्टं, न विवेद मनागपि ॥ १२ ॥ यतः- .
सव्वाउअंपि सोआ, खविज जइ इह सयं जिणो कहए । सीउण्हखुप्पिवासा, परिस्सममरवि अगणंतो ॥१॥" सिन्दुवारादिपुष्पैस्तं, यजामीति विचिन्त्य च । यान्ती स्खलितपादाग्रा, प्राणानुज्झांचकार सा ॥ १३॥ सौधर्मकल्पे देवोऽभूत् , स्वस्वरूपमवेत्य च। आगत्य वीरपादान्ते, स देवो नाटयमातनोन् ॥ १४ ॥ अत्यद्भुतं च तद्रूपं, वीक्ष्य पप्रच्छ भूपतिः । किमेष सर्वदेवेष्व-प्यधिकयुतिमान् विभो! ॥१५॥ तत्स्वरूपं यथाजातं, श्रीवीरोऽप्यखिलं जगौ । भूपादयश्चमञ्चकु- स्तत्तादृक्श्रुतवार्तया ॥१६॥ ततः प्रमोदाङ्कुरिताङ्गयष्टयो, भूपादयः स्थानमगुनि निजम् । अन्यत्र वीरोऽपि विहारमातनोत्, भव्यास्तदेवं यजत श्रिये जिनान् ॥१७॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे त्रयोविंश उपदेशः ॥ २३ ॥ विनापि भावं विहितः प्रणामो, जिनेषु न स्यादफलः कदापि । स दुःमुतः श्रेष्ठिवरस्य मीनो-ऽप्यापत् प्रबोधं यत उद्धृतोऽपि ॥ १ ॥ अस्ति प्रशस्तविस्मारि-व्यवहारिगृहोत्करम् । क्षितिप्रतिष्ठितं नाम, पुरं सुरपुरोपमम् ॥१॥ तत्रास्ति नामकर्मभ्यां, जिनदास इति श्रुतः । श्रेष्ठी श्रेष्ठतमानेक-श्रीणां विश्राममन्दिरम् ॥ २ ॥ द्यूतादिव्यसनी विद्या-विहीनः पशुसनिमः । तनयः समभूत्तस्य, कुलकिम्पाकपादपः ॥ ३॥ समयं गमयामास, स तु धर्म विनैव ही। धम्मैकचित्तः श्रेष्ठी तु, चिन्तयामासि- वानिति ॥ ४ ॥ ममापि तनयो भूत्वा, गमिष्यत्येष दुर्गतिम् । उपायं तदहं कुर्वे, येनप सुगतिं व्रजेत् ॥ ५॥ उक्तं च- १ "सर्वदेवेभ्यो-" इत्यपि ॥
उपदेश-
सप्ततिका.
.
॥२४॥
"जो गिहकुटुंबसामी, संतो संमत्तरोवणं कुणइ । तेण सयलोऽवि वंसो, उद्धरिओ भवसमुद्दाओ ॥१॥
जो गिहकुटुंबसामी, संतो मिच्छत्तरोवणं कुणइ । तेण सयलोऽवि वंसो, पक्खित्तो मवसमुईमि ॥२॥"
विमृश्येति गृहद्वारे, जनीं मूर्तिमकारयत् । श्रेष्ठी हिताय पुत्रस्य, सन्तो हि परवत्सलाः ॥ ६ ॥ गतागतिं वितन्वानो,
नीचैर्भूय बलादपि । तस्याः प्रणामं पुत्रोऽसौ, करोति स्मोद्धतोऽपि सन् ॥ ७॥ अथायुषः क्षये मृत्वा, मत्स्यो जातः स
तत्सुतः । स्वयम्भूरमणे हाहा !, प्रमादस्य विजृम्भितम् ॥ ८॥ स्वैराचारपरस्तत्र, भ्रमझम्बुधिपाथसि । मीनं जैनाकृतिं दृष्ट्वा,
जातिस्मरणवानभूत् ॥ ९॥ विमुच्य वलयाकार, समस्ताकारधारिणः। महासमुद्रे विद्यन्ते, मत्स्या इति हि जैनगीः॥१०॥
महामोहविमूढेन, मया ही मानुषो भवः। हारितः स क मे भावी-त्यन्तस्तापं भृशं दधौ ॥ ११॥ तामेव प्रतिमां ध्याय-
माहारमशनादिकम् । परित्यज्य प्रपेदेऽसौ, स्वर्विमानममगुरम् ॥ १२ ॥ ग्रन्थान्तरेऽप्युच्यते-
"तातादेशवशादपीह नृभवे न त्वं मयाराधित-स्तेनाहं भवसागरे निपतितोऽम्भोधौ महापातकी ।
तत्रायस्व जिनेन्द्र! मामशरणं सर्वज्ञविम्बाकृते-मीनो मीनवरानमस्कृतिपरो जातिस्मृतेः स्वर्ययौ ॥१॥"
इत्यमावकृतस्यापि, प्रणामस्य जिनेशितुः । श्रुत्वा फलं यतध्वं तत् , तत्रैव सततं जनाः ॥ १३ ॥
॥ इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे चतुर्विंश उपदेशः ॥ २४ ॥
इति श्रीपरमगुरुतपाच्छनायकश्रीसोमसुन्दरमूरिक्रमकमलमरालमहोपाध्यायश्रीचारित्ररत्नगणिविनेयपरमाणु-
पण्डितसोमधर्मगणिविरचितायां श्रीउपदेशसप्ततौ पूजाचतुर्विंशतिकारूप: प्रथमोऽधिकारः ॥१॥
॥२४॥
॥अथ द्वितीयः श्रीतीर्थाधिकारः प्रारभ्यते॥ समुद्धरन्ति प्रथमानसम्मदाः, केऽपि स्ववित्तैर्जिनमन्दिराण्यपि । यथा कृतार्थद्रविणः स सज्जनः, श्रीनेमिचैत्यं गिरिनारपर्वते ॥१॥ मुराष्ट्राविषये जाम्बा-पुत्रः सज्जनसंशितः। श्रेष्ठी श्रीमालवंशीयः, सदा शुभमनोरथः ॥१॥ नियुक्तः सिद्धराजेन, दण्डनायकतापदे । निवासं वामनस्थल्यां, कुरुते धर्मकर्मठः ॥२॥ अन्यदा सिद्धराजेन्द्रो, गतो मालवनीति । तत्र द्वादश- वर्षाणि, विग्रहं कृतवानसौ ॥३॥ तत्र चावसरे काष्ठ-मयो देवालयः परम् । अस्ति सोऽपि कचिज्जीर्णो, गिरिनारमहीधरे ॥४॥ पुरा दृषन्मयोऽप्येष, रत्नश्राद्धन कारितः । बोटैस्तीर्थमधिष्ठाय, कृतः काष्ठमयः पुनः ॥५॥ तादृशं चैत्यमालोक्य, सज्जनो दण्डनायकः । अम्बिकादेशतो वर्ष-द्विःषट्कोद्राहितैर्धनैः ॥६॥सद्देवकुलिकायुक्त-मुजयन्तस्य मूर्द्धनि । मोत्तुङ्गशिखरं नेमि- प्रासादं निरमापयत् ॥ ७॥ जयसिंहनृपोऽप्याशु, प्रत्यावृत्तोऽथ मालवात् । तत्रत्यं नृपति जित्वा, प्राप्तः श्रीदेवपत्तने ॥ ८॥ तत्र श्रीसोमनाथस्य, कृत्वा पूजादिकोत्सवान् । सर्वांनाकारयामास, सुराष्ट्रीयाऽधिकारिणः ॥९॥ आयातास्तेऽपि तत्रैकः, परं नायाति सज्जनः । तद्वृत्तान्तश्च सर्वोऽपि, विज्ञप्तस्तैर्नृपाग्रतः॥१०॥ तद्वृत्तश्रवणोद्भूत-प्रभूतक्रोधदुर्द्धरः । नृपः सज्जन- माहातुं, प्राहिणोदात्मनो जनान् ॥ ११ ॥प्रीतः प्रासादनिष्पत्त्या, नृपाहानाच्च भीतिमान् । अथाऽसौ सज्जनः सर्वा-नाहयन् व्यवहारिणः ॥ १२॥ उवाच यूयं गृहीध्वं, पुण्यं प्रासादसम्भवम् । यथादेशोत्थितं दण्डं, राज्ञे विश्राणयाम्यहम् ॥१३॥ विमज्य .
उपदेश-
सप्ततिका.
॥२५॥
तऽपि तस्मै तत्, तावद्दव्यं समर्पयन् । स्वस्थीभूतः सजनोऽथ, नृपान्तिकमगाद्रुतम् ॥ १४ ॥ रुष्टो नृपतिराचष्ट, करे ! द्रम्माः
समानय । शीघ्रं तानन्यथा दास्ये, रे दुष्ट ! तव मस्तकम् ॥१५॥ सोऽपि विज्ञपयामास, निर्मीको नृपतिं प्रति । अस्ति न्यासीकृतं
कोशे, द्रव्यं रैवतके मया ॥ १६ ॥ पादावधार्यतां तत्र, यथा तद्दर्शयाम्यहम् । गिरिनारस्य माहात्म्य, यतो लोकेऽपि
पठ्यते ॥ १७ ॥ उज्जयन्तगिरौ रम्ये, मावे कृष्णचतुर्दशी । तस्यां जागरणं कृत्वा, सञ्जातो निमलो हरिः॥१८॥ पद्मासन-
समासीनः, श्याममूर्ति दिगम्बरः । नेमिनाथः शिवेत्याख्यां, नाम चक्रेऽस्य वामनः ॥ १९ ॥
लोकोत्तरेऽपि-
षड्विंशतिविंशतिषो-डशदशद्वियोजनधनुःशवोच्चशराः। अवसप्पिणीषु यः खलु, स जयति गिरिनारगिरिराजः॥१॥
यदतीतचतुर्विंशति-नमीश्वराद्या इहाऽष्ट जिनपतयः । कल्याणकत्रिकमापुः, स जयति गिरिनारगिरिराजः ॥२॥
श्री ब्रह्मेन्द्रकृतेयं, श्रीनेमेतिरमरगणपूज्या । विंशतिसागरकोटी, स जयति गिरिनारगिरिराजः ॥ ३॥"
श्रुत्वेति सपरिवारो, गतो रैवतके नृपः। चैत्यमत्यद्भुतं दृष्टवा, कोऽस्य कारयितेत्यवक् ॥ २० ॥ सज्जनोऽपि जगौ
कर्ण-भूपालकुलचन्द्रमाः। अस्य कारयिता देव !, जयसिंहनरेश्वरः ॥ २१ ॥ इदमुदाहितं देव !, देशस्येत्यवधारय । भूपोऽप्याह
ममादेश, विना कारितवान् कुतः ॥ २२ ॥ उवाच सज्जनः चैत्य-पुण्यैकस्पृहयालवः । अमी तव प्रसादेन, समृद्धा व्यव-
हारिणः ॥२३॥ तव द्रम्मान प्रदास्यन्ति, तन्मह्यं कुप्य मा विभो।। द्रम्मान्वा चैत्यपुण्यं वा, रोचते यद् गृहाण तत् ॥२४॥
इत्युक्ते भूपतिः प्राह, चैत्यपुण्यं तदस्तु मे । मन्नाम्नैव परं वाच्यः, प्रासादः सोऽपि तं जगौ ॥ २५ ॥ प्रासादो देवपादानां,
॥२५॥
सर्वोऽप्येष विज्जृम्भते । मम रङ्कस्य किं नाम, कीर्तनं कीतिकारकम् ॥ २६ ॥ ततो भृशतमां तुष्ट-स्तस्मै पुण्यवते नृपः । पुनः समर्प्य व्यापारं, स्वयं श्रीपत्तने ययौ ॥ २७ ॥ सज्जनोऽपि ततो भक्त्या, पट्टकूलमयं ध्वजम् । आरभ्य रैवतात् शत्रु- अयं यावद्वितीर्णवान् ॥ २८॥ बाणाष्टरुद्रप्रमिते, ११८५ वर्षे विक्रमभूपतेः। अचीकरदिदं चैत्य, सज्जनो दण्डनायकः ॥२९॥ कोटिलक्षैर्द्विसप्तत्या, युक्ता तेन व्ययीकृता । जीर्णनाणकटकाना-मोत्याहुबहुश्रुताः ॥ ३० ॥ सप्तक्षेत्र्यां वित्तमेवं नियोज्य, श्रीमान्धर्मस्थाननिर्मापणेन । भावी नूनं सज्जनः श्रेष्ठिराजा, पुण्यप्राज्योऽनुक्रमान्मोक्षगामी ॥ ३१ ॥ ॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे प्रथम उपदेशः ॥१॥ आत्मीयतातप्रतिपनमर्थ, ये निर्वहन्ते तनयास्त एव । अमात्यमुख्योदयनस्य पुत्री, श्रीवाग्मटश्चाम्रभटो यथैव ॥१॥ मरुमण्डलतो देवा-देशात्कर्णावतीं पुरीम् । प्राप्य जागरिते माग्ये-ऽप्राप्तपूर्वी महानिधिम् ॥१॥ नीतः श्रीसिद्ध- राजेन, सर्वामात्येषु मुख्यताम् । अभूदुदयनो मन्त्री, पुण्यकार्यधुरंधरः ॥२॥ युग्मम् ॥ आदिष्टः सोऽन्यदा तेन, जेतुं सुंसुरभूपतिम् । गच्छन् सुराष्ट्राविषये, प्राप शत्रुञ्जय गिरिम् ॥३॥ तत्र दारुमये चैत्ये, पाण्डवैः कारिते जिनान् । वन्दमानो ददर्शाखु-गृहीतां दीपवर्तिकाम् ॥ ४ ॥ अत्राग्न्युपद्रवो माऽभूत्, इति प्रासादकारणे । भूशय्याब्रह्मचांद्या-ऽभिग्रहानग्रही- करुद्रप्रमिते " इत्यपि ॥ " १
उपदेश-
सप्ततिका.
॥२६॥
दसौ ॥५॥ ततो गतः पुनस्तत्र, सञ्जाते घोरसङ्गरे । प्रहारजर्जरीभूतो, जगाद निजसेवकान् ॥६॥ शत्रुञ्जये भृगुपुरे, गिरिनार-
गिरी तथा । प्रासादपद्यविषया, अभूवन्मे मनोरथाः ॥७॥ अहं तु प्राप्तवान् प्रान्ता-वस्थामस्थिरजीवितः । किं कुर्वे
साम्पतं यद्वा, परतन्त्रा नियोगिनः ॥ ८॥ निवेदनीया युष्माभि-स्तेनामी मे मनोरथाः । पुत्रयोरिति सम्भाष्य, स्वोत्तमार्य-
मसाधयत् ॥ ९॥ अथ तैः पत्तनप्राप्त-स्तत्स्वरूपे निवेदिते । शत्रुञ्जयो(द्धति)द्धारकृत्यं, वाग्भटः प्रतिपन्नवान् ॥ १०॥ ततः
श्रीवाग्मटो मन्त्री, चैत्यनिर्मापणेच्छया । जगाम सपरिवारः, श्रीशत्रुञ्जयपर्वते ॥११॥ तत्र निर्माप्यमाणेऽय, प्रासादे व्यव-
हारिणः । अर्पयन्ति स्म नैकानि, स्वस्वद्रव्याणि मोदतः ॥ १२ ॥ उक्तं च-
"एगपि उदगबिन्दुं, जह पक्खित्तं महासमुइंमि । जायइ अक्खयमेवं, पूआवि हु वीयरागस्स ॥१॥"
मन्त्री तेषां तु नामानि, लिखति क्रमशस्ततः । प्रभूतः समुदायस्तु, मिलितस्तत्र विद्यते ॥ १३ ॥ तत्र चावसरे कश्चिद्,
दुर्गतो नाम कर्मतः । यात्रार्थी मरुदेशीय-स्तं प्रदेशमुपागमत् ॥ १४ ॥ द्रम्मपञ्चकमेतस्य, सर्वस्वं विद्यते पुनः । तेनैव व्य-
वसायादि, कुर्वाणोऽस्त्युदरंभरिः॥ १५॥ तेनाऽऽसन्नजनाः पृष्टाः, किमित्येष महाजनः । तथाभूतं च वृत्तान्तं, तेऽपि तस्मै
न्यवेदयत् ॥ १६ ॥ सोऽपि चिन्तितवानेते, धनिनोऽपि मितंपचाः। यदेवंविधतीर्थेऽत्र, सर्वस्वं न व्ययन्त्यमी ॥१७॥ गत्व-
रेणासुना कि मे, धनेन मयहेतुना। तीर्थकार्य भवत्वेतत् , सफलं द्रम्मपञ्चकम् ॥१८॥ चिन्तयित्वेति सोत्कण्ठं, गत्वा
नत्वा च मन्त्रिणे । निवेद्य स्वस्वरूपं च, तस्मै तद्रव्यमार्पयत् ॥ १९॥ अहो! साहसमेतस्य, सर्वस्वस्य समर्पणात् । अपि भूरि-
तरे द्रव्ये, सर्वस्वं स्वं व्ययेत कः ॥ २० ॥ यतः-
,
॥२६॥
.
.
.
"दानं दरिद्रस्य विभोः प्रशान्ति-यूनां तपो ज्ञानवतांच मौनम् । इच्छानिवृत्तिश्च सुखोचितानां, दया च भूतेषु दिवं नयन्ति ॥१॥"
चिन्तयित्वेति तमाम, समग्रव्यवहारिणाम् । शिरसि न्यस्तवान्मन्त्री, विलक्षास्तेऽभवंस्ततः ॥ २१॥ तान्वैमनस्यमाप-
भान् , बमा मन्त्रिपुङ्गवः । सर्वस्वमर्पयाश्चक्रे, यथाऽयं दुर्गतोऽपि सन् ॥२२॥ यदि क्रियेत युष्मामि-रप्येवं तर्हि बान्धवाः।
भवतामपि तमाम, मुख्यमत्र विधीयते ॥ २३ ॥ इत्युक्ते ते दधुमौनं, दुर्गतोऽप्येष तद्दिने । तीर्थोपवासमाधाय, पादलिप्तपुरे
गतः ॥ २४ ॥ मार्गयित्वा कणानेष, पाकाथं यावदुद्यतः । चरिकां दत्तवान् भूमौ, तावत्प्रादुरभूनिधिः ॥ २५॥. सहस्रांशु-
समज्योतिः, सौवर्णिकसहस्रभृत् । तनिधानं विलोक्यैष, जातः प्रोत्फुल्ललोचनः॥२६॥ नूनं तीर्थप्रभावोऽयं, वराकस्य न मे पुनः।
विमृश्येत्युत्सुको गत्वा, मन्त्रिणे तं समर्पयत् ॥ २७ ॥ मन्त्र्यपि प्राह भो भद्र !, तुष्टस्तव कपर्दिराद । दत्ते स्म तदमुं भुड्का
यथाकामं सुखी भव ॥ २८ ॥ सोऽपि तं सर्वथाऽनिच्छन्, समर्प्य स्वाश्रमं ययौ। एवं पुनः पुनस्तस्या-ऽभवत्पुण्यप्रमावत:
॥ २९ ॥ ततः सप्तमवेलायां, बलादई समर्पितम् । मन्त्रिणा तस्य सञ्जातः, सोऽपि सौख्यकमाजनम् ॥३०॥ क्रमेण पूर्णतां
प्राप्तः, प्रासादोऽपि स मन्त्रिणः । तत्र द्रव्यप्रमाणं तु, वृद्धाः प्राहुरिदं पुनः॥३१॥ लक्षत्रयी विरहिता द्रविणस्य कोटी-स्तिस्रो
विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन्युगादिजिनमन्दिरमुद्दधार, श्रीमानसौ विजयतां गिरिपुण्डरिकः ।। ३२ ॥
इति स्वतातप्रतिपन्नतीर्थ-जीर्णोद्धृति मन्त्रिपतिर्विधाप्य ।
श्रीपत्तनं प्राप्य मतं जिनानां, प्रमावयन् श्रावकपुङ्गवोऽभूत् ॥१॥
॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे द्वितीय उपदेशः ॥२॥
उपदेश-
सप्ततिका.
॥२७॥
.
अथाम्रदेवोऽपि पितुर्निजस्य, श्रेयोनिमित्तं पुनरुदिवीर्षः। शकुन्तिचैत्यं भृगुकच्छ नाम्नि, पुरे गतो भूरिपरिच्छदेन ॥१॥
येन त्रिषष्टिलक्षामि-ष्टङ्ककानां व्यधाप्यत । गिरिनारगिरौ पद्या, स श्लाघ्यो भुवनत्रये ॥२॥ मल्लिकार्जुनराजेन्द्र, जीत्वा प्रौढ-
पराक्रमैः । रत्नाष्टकेन सुप्रीतं, भूपतिं यश्चकार च ॥ ३॥ तच्चेदम्-
शृङ्गारकोटिशाटिका १ गरलहरसिपा २ श्वेतो हस्ती ३ पात्राणामष्टोत्तरं शतं ४ द्वात्रिंशन्मूटका मौक्तिकानाम् ५ घटिशत-
मितः कनककलशः ६ अग्निधौतोत्तरपटः ७ मल्लिकार्जुनशिरश्च ८ ।
अथ श्रीमच्छकुनिका-विहारारम्भहेतवे । भूमिं कर्मकरैस्तत्र, खानयामास धीसखः ॥ ४॥ भूम्यधिष्ठायिका काचिद् ,
व्यन्तयन्येचुरुद्यतान् । रजोभिः स्थगयामास, गर्तायां खनकानरान् ॥ ५॥ असमञ्जसमुद्वीक्ष्य, तदिदं सकृपो हृदि । सह
पुत्रकलत्राभ्यां, मरणे कृतनिश्चयः ॥ ६ ॥ मन्त्री तत्रैव ग यां, दत्ते झम्पां हि यावता। तावत्तत्साहसात्तुष्टा, व्यन्तरी तमभाषत
॥७॥ इयं मदीया भो भूमि-मिसन्तोष्य यत्त्वया । पारम्भः कारितस्तते, विन एस कृतो मया ॥ ८ ॥ अधुना तब सच्चेन,
तुष्टाहं तद्वरं वृणु । मन्त्र्याह तर्हि जीवन्तु, सर्वे कर्मकरा अमी ॥ ९॥ पुनर्जीवितमेतेषां, मार्ट तव मनोरथैः । भावीत्युक्त्वा
गता देवी, मन्त्र्यपि भाप सुस्थताम् ॥१०॥ गतेऽथ तत्र प्रत्यूहे, प्रामादं परिपूर्णताम् । स मन्त्री प्रापयामास, समं सर्वमनोरथैः
॥११॥ ततः प्रतिष्ठाकार्यार्थ, प्रीत्या तेन निमन्त्रितौ । नृपतिहममूरिश्च, तत्र प्रापतुराश्रमम् ॥ १२॥ आजग्मुर्भूरिशस्तत्र,
व्यवहारिपरम्पराः । सोऽपि सन्तोषयामास, तान्वस्त्राभरणादिमिः ॥ १३॥ श्रीहेममूरिभिस्तत्र, प्रतिष्ठा विस्तराः कृताः। मन्त्रि-
राजोऽप्यर्थिवर्ग, महादानैरतूतुषत् ॥ १४ ॥ आरात्रिकाद्यवसरे, सर्वाङ्गाभरणान्यपि । ददानं याचकेभ्यस्तं, स्तुवन्ति स्मेति
सूरयः॥ १५॥
॥२७॥
- "किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ॥१॥" तद्विशेषदानं पुन:- "द्वात्रिंशम्मलक्षा भृगुपुरवसतेः सुव्रतस्याईतो ग्रे, कुर्वन्मङ्गल्यदीपं ससुरनरवरश्रेणिभिः सूयमानः । योध्दादर्थिवजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां, स श्रीमानाम्रदेवो जगति विजयतां दानशौण्डाग्रयायी ॥१॥ पुहविकरंडे बंभंड-संपुडे ममई कुण्डलिजंतु । तुह अंबडदेव जसो, अलद्धपसरो भुअंग व्च ॥ १॥" लक्षदानम् ॥ इत्यादिदानलीलाभिः, केषां श्लाघ्योऽभवन्न सः। औदार्यात्कोऽथवा न स्यात्, ख्यातिपात्रं सुरद्रुवत् ॥ १६ ॥ अन्यदा मन्त्रिराजस्य, दोषो मुदितचेतसा । प्रासादे नृत्यतः क्रूर-व्यन्तरीजनितोऽभवत् ॥ १७ ॥ तेन दूषितसर्वाङ्गो, हसन् गायन पठन् रुदन् । प्राप्तः प्रान्तदशां मन्त्री, कर्मणां हि विचित्रता ॥ १८ ॥ अवधार्य स्वरूपं तत्, प्रभुश्रीहेममूरयः । क्षणात्तत्रा- ऽऽगताः प्रेक्षा-चकुस्तं च तथाविधम् ॥ १९ ॥ योगिन्योऽत्र चतुःषष्टि-संख्यास्तास्वपि सैन्धवा । व्यन्तरी प्रयमा तेन, तस्याः कार्यमिदं खलु ॥ २० ॥ विमाव्येत्यनुनेतुं तां, कायोत्सर्ग वितेनिरे । तत्मासादे यशश्चन्द्र-गणिना सह सूरयः॥२१॥ आकृष्य जिह्वां देवी तु, तान् भापयति सैन्धवा । प्रहारान् मौशलांस्तत्र, यशश्चन्द्रगणिर्ददौ ॥ २२ ॥ प्राच्यमहारे प्रासादे, प्रकम्पः समभून्महान् । दत्ते यावद्वितीयं तु, प्रहारं प्राणघातकम् ॥ २३॥ तावत्सा सैन्धवाऽभ्येत्य, गुरुपादान् व्यजिज्ञपत् । वज्रपातप्रहारेभ्यो, भगवन् ! रक्ष रक्ष माम् ॥ २४ ॥ तर्जिता गुरुमिर्मीता, क्षमयित्वा च तानियम् । स्वस्थानमगमज्जातः,
उपद।-
सप्ततिका.
॥२८॥
साचवाशप निरामयः ॥ २५ ॥ इत्थमुल्लाध्य त मन्त्रि-पुङ्गवं गुरुकुञ्जराः । इति स्तुति व्यधुत्वा, प्रासादे सुव्रतेशितुः॥२६॥
संसारार्णवसेतवः शिवपदप्रस्थानदीपाकुराः, विश्वालम्बनयष्टयः परमतव्यामोहकेतृद्माः ।
किं वाऽऽस्माकमनोमतगजढालानैकलीलाजुष-स्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः ॥१॥
सूरीन्द्राः पत्तनं प्रापु-मन्त्रिणा बहुमानिताः । सचिवोऽपि चिरं धर्म-प्रभावादमवत्सुखी ॥ २७॥
एवं गुणश्रेणिमनोहराणां, प्रभावकश्रावकपुङ्गवानाम् ।
श्रुत्वा कथाः श्रीजिनमन्दिरादि-क्षेत्रेषु वित्तानि वपन्तु भव्याः ! ।। २८ ॥
॥ इति श्री उपदेशसप्ततिकायां द्वितीयेऽधिकारे तृतीय उपदेशः ॥३॥
.
.
धन्याः पुमांसः स्पृहयालवः शिवं, निर्मापयन्त्याईतमन्दिराण्यपि ।
यथा स मन्त्री विमलोऽर्बुदे गिरौ, युगादिचैत्यं निरमापयत्सुधीः ॥१॥
श्रीउज्जयन्ताचुदयोः, स्वैरं कृतनिवासयोः। अम्बाश्रीमातयोरासी-त्सख्यमक्षय्यमन्यदा ॥१॥ श्रीमातयाऽम्बिका
मोक्ता, त्वमत्रागच्छ हे सखि ! । निर्वियोगं यथा क्रीडा, भवत्यनिशमावयोः ॥ २ ॥ अम्बा प्राह विना जैन-प्रासादं मम न
स्थितिः । श्रीमाताप्याह भूरस्ति, चम्पकासन्नवर्तिनी ॥ ३ ॥ सप्तविंशतिलक्षामि-द्रम्माणां परिपूरिता । चैत्यस्या परं तस्य,
कोऽपि कारयिता यदि ॥४॥ इति द्रव्ययुतां भूमि-माकाम्बा प्रमोदतः । चैत्यनिर्मापकं शीघ्र-मानेष्यामीति तां जगौ ॥५॥
॥२८॥
चतुश्चत्वारिंशदा-चतुःशतमिता बभुः । प्रासादा आईता यस्यां, शैवा नवशतीमिताः ॥ ६॥ तस्यां चन्द्रावतीपुर्या, मीमभूपा- पमानितः । आगत्य कुरुते राज्य, विमलो दण्डनायकः ॥७॥ अब्ध्यष्टसंख्य ८४ वरजाङ्गिकढोल्लवृन्दे, यस्याधिकारिपुरुषैः परिताब्यमाने । भुक्तः क्षणे भजति मीमनृपस्य हैम-स्थालं विशालमपि चञ्चलतामतीव ॥८॥यो द्वादश सुरत्राणान् , जित्वा कटकपेटकैः । तेभ्यः छत्राणि तावन्ति, जग्राह स्वैकलीलया ॥९॥ सम्यग्यत्कटके धान्य-व्ययसंख्या न लभ्यते। प्रतिप्रया- णकं त्रिन-सप्तलक्षव्ययः परम् ॥१०॥ तीर्थस्थापनसन्तान-सस्पृहो विमलाऽधिपः। अम्बामाराधयामास, भक्तितोऽवसरे तदा ॥ ११ ॥ ततः प्रत्यक्षतां प्राप्ता, देवी तं माह मन्त्रिणम् । तव नास्ति द्वयी प्राप्ति-स्तत्त्वं वद यथारुचि ॥ १२ ॥ सन्तति पापहेतुत्वा-दनादृत्य स धीसखः। प्रासादं प्रार्थयाश्चक्रे, सात्त्विकानां शिरोमणिः ॥ १३ ॥ भूमि निवेद्य तां द्रव्य-युतां देवी तिरोदधे । प्रासादारम्मसंरम्भ, सचिवोऽपि व्यधापयत् ॥ १४ ॥ मन्त्रिणा कार्यमाणेऽथ, प्रासादेऽर्बुदमूर्द्धनि । श्रीमातापूजकाः किन्तु, न चैत्याऽनुमति ददुः ॥ १५ ॥ पुरा कदापि नाऽत्राभूत् , श्रीजिनायतनं खलु । तत्सम्प्रत्यपि जैनेन्द्रं, चैत्यमत्र कथं मवेत् ॥ १६॥ पुनः स्मृत्वाऽम्बिका मन्त्री, तद्वत्तं प्राह तत्पुरः । साप्याह या मयोक्ता ते, भूमिका द्रव्यसंयुता ॥१७॥ तत्रैव प्रतिमा प्रौढा, श्रीयुगादिजिनेशितुः । अस्ति न्यासीकृता ता च, दृष्ट्वा तैनों निषेत्स्यते ॥ १८ ॥ प्रतिमां तां च केऽप्याहु-स्तत्रैव प्रागभूदियम् । केचित्तदैवानीतेय, देव्येत्याहुबहुश्रुताः ॥ १९॥ भग्नेऽपि तद्विवादेऽथ, चैत्यं निष्पद्यते गिरौ । दिवाजातः परं रात्रौ, कर्मस्थायो विनश्यति ॥ २० ॥ षण्मास्येवं व्यतिक्रान्ता, सचिन्तो विमलस्ततः । पुनः प्रत्यक्षतां निन्ये, देवीमम्बामुपासनैः ॥ २१ ॥ अब्रवीदम्बिका मन्त्रिन् !, अधस्तादस्य भूभृतः । वालिनाहाभिधानोऽस्ति, नागराजोऽतिदुर्मदः
उपदेश-
सप्ततिका.
॥२९॥
॥२९॥
.
।। २२ ।। मिथ्यात्वपिनो जन-प्रासादं स न सासहिः । तदस्याराधनोपायं, सकर्गाऽऽकर्णयाऽऽधुना ॥ २३ ॥ पूजोपहार-
मादायो-पवासत्रितयीयुतः । सन्ध्यायां ध्यानमाधाय, वालीनाहं त्वमाह्वय ॥ २४ ॥ मार्गयत्येष नैवेद्यं, चेत्प्रदातव्यमेव तत् ।
मद्यादि याचते तर्हि, खड्गमुद्यम्य मापयेः॥ २५ ॥ तत्र खड्नेऽवतीर्णाऽहं, करिष्यामि त्वदीप्सितम् । इति मोच्य गता देवी,
सचिवोऽपि तथाऽकरोत् ॥ २६ ॥ एवं कृते स भीतोऽम्बा-वचसा चोपशान्तिमा । सम्यक्त्वं प्राप्य तत्रैव, क्षेत्रपालो बभूव च
॥ २७ ॥ प्रासादः पूर्णतां प्राप्त-स्ततः सह मनोरथैः । अष्टकोव्यः सुवर्णानां, मन्त्रिणाऽत्र व्ययीकृताः ॥ २८ ॥ अष्टाष्टखैक-
संख्येन्दे १०८८ रीरीमूर्तिमतिष्ठिपत् । श्रीयुगादिजिनाधीशं, तत्र श्रीदण्डनायकः ॥ २९ ॥ ततः श्रीभीमदेवोऽपि, बहुमान-
पुरस्सरम् । विमलं सान्त्वयामास, पुण्येनाऽसाध्यमस्ति किम् ? ॥ ३० ॥तदाता वाहिलस्तत्र, मण्डपाचमधीकरत् । व्यवहारि-
वरैर्देव-कुलिकादि च कारितम् ॥ ३१ ॥
एवं प्रासादे सम्पूर्ण जाते केनापि चारणेनोक्तम्-
मांडीमरकीरइ करओ, छंड मंसगाह । विमलहि खंड कढिलं, नहउ वालीनाह ॥१॥
एवं विहाराः परमेश्वराणां, निर्मापणीया निजवित्तमानात् ।
भो भव्यलोकाः ! भवतां यथा जग-रक्रोडे सदा क्रीडति शाश्वतं यशः॥१॥
॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे चतुर्थ उपदेशः ॥४॥
प्रासादं श्रीअईतां कारयन्तो, धन्याः पुण्यां सम्पदं प्राप्नुवन्ति । दृष्टान्तोऽत्र स्पष्टयते कोविदेन्द्र-मन्त्री तेजःपालनामास्ति केन्द्रः॥१॥ श्रीवीरधवलक्ष्माप-राज्ये व्यापारकारिणौ। श्रीवस्तुतेजःपालाख्या-वभूतां गुजराभुवि ॥१॥ श्रुत्वैकदा श्रीविमल-स्फीत- कीर्तनमर्बुदे । उन्मना वस्तुपालोऽभूत् , तत्र तत्कारणेच्छया ॥२॥ ततः श्रीवस्तुपालेन, तेजःपालाय माषितम् । स्वभ्रा- हलूणिगश्रेयः कृते चैत्यं विधाप्यते ॥ ३ ॥ स्वमान्तसमये प्रोक्त-मप्यभूल्लूणिगेन यत् । चेदः सम्पद्यते सम्प-चैत्यमेकं तदा- धुंदे ॥ ४ ॥ निर्मापणीयं मनाना, तदा निर्धनताऽभवत् । इदानी सम्पदोमुष्याः, फलं कस्मान गृह्यते ॥५॥युग्मम् ॥प्रवि- श्रुत्य स तद्वाक्य, विनीतः क्षितिपाज्ञया । समं समग्रसामय्या, ययौ चन्द्रावतीं पुरीम् ॥ ६॥ धारावर्षनृपस्तत्र, वोषितस्तेन मन्त्रिणा । प्रासादकारणाऽदेशं, यथा सद्यः स दत्तवान् ॥७॥ अथा दगिरौ गत्वा, तेजःपालेन याचिताः। श्रीमाताबोटिकाः मौढ-प्रासादाही वसुन्धराम् ॥ ८॥ तेऽप्यूचुर्यावती भूमि-द्रम्मैः पूरयितुं त्वया । शक्यते तावती ब्राह्मा, नान्येत्युल्लष्ठ- वादिनः ॥९॥ अङ्गीकृत्य तदप्येष, द्रम्मैः पूरयितुं भुवम् । समारभत धीराणां, लक्ष्मीर्यच्छुभकर्मणे ॥ १०॥ ततः प्रस्थ- जता तेन, द्रम्मान्मुवि कणानिव । पत्रिंशन्यूटकास्तेषां, तत्र प्रसारिताः क्षणात् ॥ ११॥ द्वौषष्टिलसद्विपकि-सहसाष्टशर्व- प्रमाः। अत्र द्रम्माः स्युराश्रित्य, वीसलप्रियनाणकं ॥१२॥ अथ तेऽप्यूचिरे मन्त्रि-भग्राह्या भूरतः परम् । धनवांस्त्वं हि ग्रहीयाः, शैलमप्यविलम्बितम् ॥ १३ ॥ किश्चायतौ हितमभूत् , यतोऽद्यापि न दृश्यते । प्रासादेऽत्र करः कोऽपि, घुमक्रीतत्वतो भुवः ॥१४॥ इदं च मन्त्रयित्वैव, प्रथम मन्त्रिपुङ्गवः । व्यधच नोचेञ्जायेत, चैत्यं हि करभारितम् ॥ १५॥एवं एवं गृहीत्वाऽ,सौ
उपदेश-
सप्ततिका.
॥३०॥
.
.
श्रीमदारासणे गतः । तत्र चैत्यकृते भूरि-प्रस्तरान् निरकाशयत् ॥ १६ ॥ ततोऽव॒दं यावदसौ, प्रतिगव्यूतमादरात् । सुप्राप-
सर्ववस्तूनि, ग्रामेष्वट्टान्यकारयत् ॥ १७ ॥ क्षुदादिकृच्छू मा भूयात् , पशूनामथवा नृणाम् । विमृश्येति व्यधादेवं, मन्त्री सर्वोप-
कारकृत् ॥ १८ ॥ अथो रथकलैः प्रौढैः, प्रापयत् प्रस्तरानयम् । पद्मयोम्बरिणीग्राम-सत्कयार्बुदमूर्द्धनि॥ १९॥ उदाख्यं च
निजं श्यालं, कर्मस्थाने न्ययोजयत् । अर्थव्यये यदृच्छत्वं, समादीक्षत्स धीसखः ॥ २०॥ शोभनप्रमुखाः सूत्र-धाराः सप्त-
शतीमिताः। घटयन्तीत्यादिमूत्रं, कृत्वा स स्वपुरं गतः॥ २१॥ ततो निष्पद्यते चैत्य, सूत्रधाराः पुनः पुनः । वृत्तं गृहन्ति
दुःशिलाः, कर्मस्थायात्पुरः पुरः ॥२२॥ ततो विज्ञापयामास, श्यालको मन्त्रिणं प्रति । विनाशितास्तव द्रम्माः, सूत्रधारैरशेषतः
॥ २३॥ लेखेन ज्ञापयाश्चक्रे, तेजःपालेन तं प्रति । द्रम्माः किं कुथिता येन, विनष्टा इति भाषसे ॥२४॥ स्वमातृवन्ध्यता-
वाक्य-वदिदं निष्फलं वचः । उपकारकरा द्रम्माः, किन्तु जाता इति वचः॥२५॥ श्रृणु तत्त्वमिदं तस्मा-द्विनीतेन त्वया
सदा । न कार्यः सूत्रधाराणा-मिच्छाच्छेदः कदाचन ॥२६॥ यावदिच्छं ततो दत्ते, चैत्यं गर्भगृहावधि । निष्पन्न नेमिबिम्ब
च, कपोपलमयं तथा ॥ २७ ॥ इदमावेदयाश्चक्रे, मन्त्रिणोरूदिलः पुनः। तावत्युत्फुल्लनेत्रास्यौ, मियः प्रीती बभूवतुः॥२८॥
अथाल्पपरिवारेण, तेजःपालोर्बुदे गिरौ । गतोऽनुपमया सार्द, प्रासादस्य दिदृक्षया ॥ २९॥ प्रतिष्ठाप्रमुखानेक-प्रौढोत्सव-
परम्पराः। व्यधापयत्तत्र मन्त्री, महादानपुरस्सरम् ॥३०॥ अन्यदाऽनुपमा प्राह, शोमनस्थपति प्रति। विलम्बो जायते भूयान् ,
प्रासादे हेतुरत्र कः ॥३१॥शीतकालो गीरेः श्रृङ्ग, दिनोऽल्पो मोजनादिकाः । क्रियास्तत्रापि कर्त्तव्याः, कर्मास्यायस्ततोऽल्पक:
॥३२॥ विलम्बस्य भयं किं चे-न्मन्त्रिपादाश्चिरायुषः। साप्याह नैव वक्तव्यं, दुर्लक्ष्या हायतिः खलु ॥३३॥ श्रियो वा
.
॥३०॥
स्वस्य वा नाशो, येन विश्वं विनश्वरम् । तथापि जन्तवः स्थैर्य-बुद्धिं बध्नन्ति तत्र किम् ॥३४॥ ततो बुद्धया विमज्यैषा, दिनरात्र्योः पृथक् पृथक् । स्थपतीनिखिलास्तत्र, कर्मस्थाये न्ययोजयत् ॥ ३५॥ लक्षत्रियुक्तपञ्चाश-त्ममितेरधिका इह । चैत्ये व्ययीकृतास्ताभ्यां, द्वादशद्रव्यकोटयः ॥ ३६॥ एवं रसष्टिरविसम्मितवत्सरे तं, प्रारभ्य नेत्रनवयुग्मरसामितेऽन्दे। सम्पूर्णतां जिनगृहं नयतः स्म हर्षा-त्तौ मन्त्रिणौ सकलधर्मधुराधुरीणौ ॥१॥ ॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे पश्चम उपदेशः ॥५॥ श्रीजीरिकापल्लिपुरीनितम्बिनी, कण्ठस्थले हारतुलां दधाति यः। प्रणम्य तं पार्श्वजिनं प्रकाश्यते, तत्तीर्थसम्बन्धकथा यथाश्रुतम् ॥ १॥ पुरा नन्दाभ्रेश ११०९ संख्ये, वर्षे ब्रह्माणनामनि । महास्थाने भूरिजन-शैवपासादसुन्दरे ॥१॥ महेभ्यो धान्धलो नामा- ऽभवच्छूावकपुङ्गवः। एका च स्थविरा तत्र, वसति स्म गतस्मया ॥२॥ तदीया सुरभी चैका, क्षीरं क्षरति नित्यशः। सेहिली सिन्धुपार्थस्य-देवीत्रीगिरिगहरे ॥ ३॥ सन्ध्यायां मन्दिरे प्राप्ता, दुग्धं दत्ते न किञ्चन। पारम्पत्तिया ज्ञातं, तञ्च स्थानं कियदिनैः॥४॥ मुख्यानां धान्धलादीनां, तं वृत्तान्तं जगाद सा। तेऽपि सप्रत्ययं स्थान-मिति चेतस्यचिन्तयत् ॥५॥ पवित्रीभूय ते रात्रौ, सम्भूय व्यवहारिणः । पुण्यस्थाने स्वपन्ति स्म, स्मृत्वा पश्चनमस्कृतिम् ॥ ६॥ एको नीलाश्वमारूढो,
उपदेश-
॥३१॥
नरः कोऽपि सुरूपभृत् । तेषां पुरो जगादेति, स्वप्ने शुचित्रवस्तदा ॥ ७॥ यत्र सा क्षरति क्षिरं, धेनुस्तत्रास्ति
सप्ततिका.
संस्थिता । मूर्तिः श्रीपार्श्वनाथस्य, तदधिष्ठायकस्त्वहम् ॥ ८॥ यथा तस्या भवेत् पूजा, मवद्भिः क्रियतां तथा ।
इत्युक्त्वाऽन्तर्दधे देव-स्तेऽपि तत्र गताः प्रगे ॥९॥ भूमि खनित्वा तां मूर्ति, रथे संस्थापयन्ति ते । यावत्तावत्समायाता,
जीरापल्लीपुरीजनाः॥१०॥ तेऽभ्यधुर्भवतां कोऽय-मस्थानेत्र समागमः। अस्मत्सीमस्थितं बिम्, युष्माभिद्यते कुतः ॥११॥
एवं विवादे सञ्जाते, वृद्धास्तत्र बभाषिरे । एको वोऽस्माकमेकश्च, नियोज्येतां वृपावुभौ ॥ १२॥ यत्र तौ नयतस्तत्र, देवो यातु
निजेच्छया । भवतां किं विवादेन, कर्मबन्धैकहेतुना ॥ १३ ॥ तथाकृते च तद्विम्बं, जीरापल्लयां समागतम् । तत्प्रवेशोत्सव-
चक्रे, महानेव महाजनैः ॥ १४ ॥ पुरा चैत्ये स्थितं वीर-बिम्बमुत्थाप्य निर्मितम् । तदेव मुख्य सङ्घन, सर्वानुमतिपूर्वकम्
॥ १५॥ आयान्त्यनेकशः सङ्घाः, विविधाऽभिग्रहैर्युताः। पूर्यन्ते प्रत्ययास्तेषां, तदधिष्ठायकेन च ॥ १६ ॥ एवं च वीर्य
तज्जातं, कुरुते धान्धलः पुनः। देवद्रव्यस्य चिन्तां तु, सर्वेभ्येषु धुरन्धरः ॥ १७॥ जाबालिपुरतस्तत्र, यवनाऽनीकमेकदा ।
आगतं तच्च देवेना-ऽश्ववारीभूय नाशितम् ॥१८॥ मुनिवेशभृतः सप्त, शेखाः कटकमध्यतः । प्राप्तास्तद्गुरवस्तत्र, भृत्वा रुधिर-
कुम्पकान् ॥ १९ ॥ देवस्तुतिमिषाद्देव-गृहे ते वासकं स्थिताः । क्षिप्त्वा रक्तच्छटा रात्रौ, मूर्तिमहं वितेनिरे ॥ २०॥ रक्त-
स्पर्शेऽपि देवानां, प्रभा यातीति शास्त्रगीः । नष्टास्तदैव ते पापाः, स्वस्थता नहि तादृशाम् ॥ २१ ॥ निरीक्ष्य तत्कृतं प्रात-
स्तत्ताहगसमञ्जसम् । विषादो धान्धलादीनां, प्रभूतो हृदयेऽमवत् ॥२२॥ वराकास्ते तु सप्तापि, शेखास्तत्रत्यभूमजा। विनाशिता
मटान्प्रेभ्य, चम्स्तु स्वपुरङ्गता ॥ २३ ॥ अथ देवोऽवदत्क्लप्तो-पवासं स्वाधिकारिणम् । खेदं मा कुरु निःशूके, मयापि न [5॥३१॥
विभूयते ॥ २४ ॥ संयोज्यैतानि खण्डानि, नवापि क्षिप सत्वरम् । नबसेरप्रमाणाया-स्त्वमन्तलपनश्रियः ॥२५॥ कपाटयुगलं
देहि, दिनान् सप्तेति तद्वचः । श्रुत्वा स गौष्टिकः सर्व, तत्तथैव विनिर्ममे ॥ २६ ॥ सप्तमे दिवसे ताव-देकः सङ्घः समागतः।
औत्सुक्योद्घाटितद्वारं, यावत्सार्चा निरीक्ष्यते ॥ २७ ॥ तावत्सा किश्चिदश्लिष्टा-ऽवयवा वीक्षीता जनैः । तदङ्ग नवखण्डी य-
स्फुटाऽद्यापि विलोक्यते ॥ २८ ॥ गृहप्रदीपनद्रव्य-विनाशाद्या उपद्रवाः । साखीनां च तदा तेषां, प्राप्तानां स्वपुरेऽभवन्
॥ २९ ॥ तत्सर्व तत्कृतं ज्ञात्वा, भीतो भूपः स्वमन्त्रिणम् । प्राहिणोत्तत्र देवोऽपि, स्वप्ने तमिति चावदत् ।। ३० ॥ अत्रागत्य
नृपोऽयं चेत् , स्वशिरो मुण्डयिष्यति । तदैव कुशलं मावि, नगरस्य नृपस्य च ॥३१॥ तथैव करणाक-मोगयोगविधापनात् ।
प्राज्यममावनामिच, स भूपोऽभूत्समाधिमान् ॥ ३२ ॥ अन्यैरपि तथारब्धं, स्वशिरोमुण्डनादिकम् । गतानुगतिको लोकः, सर्वो
यस्माभिरीक्ष्यते ॥ ३३ ॥ एवं चटप्रकर्षेऽस्मि-स्तीर्थे माहात्म्यमासुरे । देवोऽन्यदावदत्स्वमे, स्वाधिकारिनरं प्रति ॥ ३४ ॥
मम नाम्नैव देवस्य, मूत्र्तिरन्या निवेश्यताम् । क्षताङ्गा सा यतो मुख्य-स्थाने शोभा विमति न ॥ ३५॥ ततः श्रीपार्श्वनाथस्य,
मूतिर्नव्या निवेशिता । याद्यापि पूज्यते लोकै-र्लोकद्वयफलार्थिभिः ॥ ३६ ॥ प्राचीनप्रतिमा तस्य, सव्यपार्षे निवेशिता ।
यस्याः पूर्व नमस्कार-ध्वजार्चादि विधीयते ॥ ३७॥ एष दादाभिधः पार्थो, जीर्णत्वादुच्यतेऽधुना । अस्यैव पूरतः प्रायो,
मुण्डनादि विधीयते ॥ ३८ ॥ धान्वलस्यैष सन्ताने, सीहडो गौष्ठिकः पुनः । चतुर्दशोऽभवदेव-मैतिवं स्थविरा जगुः॥ ३९ ॥
जीरापल्लीप्रवन्धोऽयं, मया चक्रे यथाश्रुतम् । हृदि माध्यस्थ्यमास्थाया-ऽवधार्यश्च बहुश्रुतैः ॥ ४० ॥
इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे षष्ठ उपदेशः ॥६॥
उपदेश- ॥३२॥ । निम्मापित जनगृह क्रमण, वाथ भवदा यथा प्रसिद्धम् । सप्ततिका. अद्यापि सुश्रावकपारसेन, प्रवर्तितं श्रीफलबर्दितीर्थम् ॥ १॥ विक्रमाकांत वेदसप्त-रुद्र ११७४ प्रमितवत्सरे । भूरिमरिगुणराख्या, अभूवन् देवमूरयः ॥१॥ चतुर्युताऽनीतिमितान्, यो जिगाय प्रवादिनः । वादी कुमुदचन्द्रोऽपि, जितो यैः सोऽपि लीलया ॥२॥ ते चामी- बंम अट्ठ ८ नव बुद्ध १७ भगव अट्ठारस ३५ जित्तय । सैव सोल ५१ दह मट्ट ६१ सत्त गंधच ६८ विजित्तय । जिच- दिगंबरसत्त ७५ च्यारि खत्तिअ ७९ दुइ जोइअ ८१ । इक धीवर ८२ इक मिल्ल ८३ भूमिपाडिअ इकभोइस ८४ । ता कुमुदचंद इय जित्त सवि, अणहिलपुरि जब आविओ। वडगच्छतिलयपहुदेवसरि, कुमुदह मद उत्तारिओ ॥१॥ तदाडम्बरस्त्वयम्- च्यारिजोड नीसाणहय हिंसइ पंचपंच्यासी, इग्यारह सई सुहड सीससई दुनि छियासी, बलदह सई चत्तारि कम्मकर पंच बहुत्तर, अच्छ लक्खपणवीस दम्म दुइ लक्खबहुत्तर, ता चमरछत्त तुडर विरुद सुखासणवाहणलिओ वडगच्छतिलयपहुदेवरि नग्गओ वलि नग्गओ कीओ ॥ १ ॥ अन्यदा हरिपादास्ते, नगरे मेडताऽमिधे। चतुर्मासी स्थिताः पुण्य-पेशलांस्तन्वते जनान् ॥ ३॥ व्याख्यानश्रवणं जिनौकसि गतिर्नित्यं गुरोर्वन्दनं, प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् । कल्पाकर्णनमात्मशक्तितपसा संवत्सरा -॥३२॥ .
राधनं, श्राद्धा जन्मफलं सदेति जगृहुः श्रीमरिपादान्तिके ॥ ४ ॥ अथ श्रीमूरिपादास्ते, चतुर्मास्या अनन्तरम् । फलवदिपुरे प्रापु-सिकल्पचिकीर्षया ॥५॥ तत्रास्ति नैष्ठिकः प्रष्ठः, श्रावकः पारसामिधः । येन जैनमतं ख्याति-मनीयत विशेषतः ॥ ६ ॥ त्रिसन्ध्यमर्चत्ययमहतां ततीः, शुचिदिरावश्यकमातनोति यः । शृणोति तत्वानि गुरोर्मुखाम्बुजा-त्परं दरिद्रो धिगहो! विधेर्विधिः॥ ७॥ बहिर्भूमिगतोऽन्येषुः, पारसः श्रावकोत्तमः । ददर्शाऽम्लानपुष्पौष-मण्डितं लेष्टुसञ्चयम् ॥ ८॥ तथाविध च तं दृष्ट्वा-ऽऽश्वर्य चित्ते चमत्कृतः । आगत्य गुरुपादान्ते, तं वृत्तान्तमुवाच सः ॥९॥ विज्ञाय गुरवोऽ-प्येतत्स्वरूपं तन्मुखादय । तेनैव श्रेष्ठिना साद्ध, तं प्रदेशमुपागताः ॥ १० ॥ आईती प्रतिमा काचि-न्नूनमत्रातिशायिनी । भाविनीति विमृश्यान्तः, खानयामामुराशु ते ॥११॥ प्रादुरास क्षणात्तत्र, श्रीमत्पार्धजिनेशितुः। प्रतिमा प्राक्तनैः पुण्यैः, पीवरेन्दीवरप्रमा ॥ १२॥ दृष्टः श्रेष्ठी पुरान्तस्तां, गृहीत्वा समहोत्सवम् । पूजयामास संस्थाप्य, कापि ताणे कुटीरके ॥१३॥ विम्बाधिष्ठायकाs- न्येधु-य॑न्तरः श्रेष्ठिपुङ्गवम् । स्वने जगाद प्रासाद,स्वामिनस्त्वं विधापय ॥१४॥कारयामि कयं वित्ता-मावादित्याह तत्पुरः । जगाद व्यन्तरोऽप्येने, शृणु वाक्यमिदं मम ।।१५।। प्रतिमायाःपुरो लोकै-ढौंकिता अक्षता अपि । सर्वे स्वर्णीभविष्यन्ति, मत्प्रमा- वात्प्रति प्रगे ॥ १६ ॥ एवं प्रासादयोग्यं ते, मावि वित्तमसंशयम् । सम्बन्धोम्यं न कस्यापि, निवेद्यो भवता परम् ॥ १७ ॥ चेद्वदिष्यसि तत्रैव, स्वर्णप्राप्तिस्ततः परम् । इत्युक्त्वाऽन्तर्दघे देवः, पारसोऽपि तथाऽकरोत् ॥ १८॥ चैत्यमारम्मयाश्चक्रे, शिल्पिमिः शुमवासरे । धीमद्भिर्धर्मकार्य हि, विलम्बो न विधीयते ॥ १९॥ क्रमागर्मगृहोत्तुग-मण्डपत्रितयान्वितम् । नाना- चतुष्किकाकीर्ण, भूरिस्तम्भविमामुरम् ॥ २० ॥ विशालं विशालं बलभीमत्त-धारणैरुपशोभितम् । मेघमण्डपविभ्राजि, उपदेश- सप्ततिका. 4॥३३॥ तोरणश्रेणिसुन्दरम् ॥ २१ ॥ वामदक्षिणयोः २१ ॥ वामदक्षिणयोः शाला-युगलेन च मालितम् । कतिमि सरैश्चैत्यं, स्वर्विमान- मिवाऽजनि ॥ २२ ॥ त्रिमिर्विशेषकम् ॥ एवमेकत्र पार्थेऽभून , चैत्य यादृक् तथाविधम् । तच्चिकारयिषुः शेष-दिनयेऽपि स खल्वभूत् ॥ २३ ॥ परमत्रान्तरे पुत्रे-गैकेनेष कदाग्रहान् । पृष्टं तात ! कुतस्त्यास्ति, वित्तप्राप्तिस्तयती ॥ २४ ॥ श्रेष्ठिना- प्यतिनिबन्धा-दुक्तं तदैवतं वचः । ततः प्रभृति वित्तस्य, प्राप्त्युपायोऽस्य नाऽभवत् ॥२५॥चेत्यं तु तावदेवाऽभून , पारसश्रेष्ठिना ततः। प्रतिष्ठाविस्तरो भूयान्, पारेभे विस्मयप्रदः ॥ २६ ॥ श्रीदेवमूरिप्रभुपट्टपङ्कज-प्रभाकराः श्रीमुनिचन्द्रमूरयः। चक्रुः प्रतिष्ठामिह विम्बचैत्ययोर्वेदाभ्रनेत्रक्षितिसम्मितेऽन्दके ।। २७ ॥ तचैत्यमुत्तुङ्गमनुक्रमेण, बभूव तीर्थ फलपदिसंज्ञम् । अद्यापि यत्रात्मकलङ्कपङ्घ, प्रक्षालयन्त्यास्तिकसङ्घलोकाः ॥ २८ ॥ ॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे सप्तम उपदेशः ॥७॥ . निर्मापितं पासिलसंज्ञकेन, श्रद्धावता श्राद्धवरेण चेत्यम् । आरासणे श्रीगुरुदेवसूरि-प्रतिष्ठितं तीर्यमभूत्क्रमेण ॥१॥ मुनिचन्द्रगुरोः शिष्याः, मूरीन्द्राः देवमूरयः । तस्थिवांसो भृगुपुरे, चतुर्मामकमेकदा ॥१॥ चतुयुताऽशीतिमिताः, क्रूर- सर्पकरण्डिकाः। दधानः कान्हडो नाम, योगी तत्राज्यदा ययौ ॥२॥ अवदचैष मूरीन्द्राः!, मया सह विधीयताम् । विवाद- १ यद्यप्यस्मत्पार्श्ववर्तिममप्रपुस्तकेष्वेतादृश एव पाठ उपलभ्यते, परं ग्रन्थान्तरेऽनन्तरोपदेशे च देवमूग्यो मुनिचन्द्रसूरीगां शिष्यत्वेन प्रोक्ताः सन्ति, फलपर्धिपार्श्वजिनप्रतिष्टाऽप्येभिरेव कृतास्ति । अतः संभाव्यते यल्लेखकदोषेग ग्रंथकृन्प्रमादेन वा विया॑सो जात इति ॥ . ।३३॥
स्त्यज्यतां नो वा, सिंहासनमिदं महत् ॥३॥ अथ प्रोचुरनूचानाः, अरे मूर्ख ! त्वया समम् । को वादः किं मवेशुदं, मृगेन्द्रस्य शुना समम् ॥ ४ ॥ योगी माह सर्पक्रीडामहं वेमि, यामि राजकुलादिषु । सर्वेभ्योऽभ्यधिकं वस्त्वा-मरणादि लभे यतः॥५॥ सूरयोऽप्यूचिरे योगिन्!, वादेच्छा कापि नास्ति नः । मुनयो ज्ञाततत्वाः स्यु-राहतास्तु विशेषतः॥६॥ तथापि कौतुकं चेत्ते, राजाऽध्यक्षं तदावयोः । वादोऽस्तु चतुरङ्गो हि, स कार्यो विजिगीषुभिः ॥७॥ ततस्तेन समं सर्व-श्रीसङ्ग्रेन च संयुताः। प्राप्ता राजसमां तत्र, राज्ञापि बहुमानिताः ॥८॥ तत्र सिंहासने प्रौढे, ते स्थिता राजमण्डिते । दीप्यन्ते स्मोदयाद्रिस्थ-सहस्रकरबिम्बवत् ॥९॥ योगी वभाण राजेन्द्र !, परे वादाः सुखावहाः। एप प्रागान्तिको वादो, मम शक्तिविलोक्यताम् ॥ १० ॥ मूरयोऽपि स्त्रमुत्कर्ष, पोष- यन्तस्तमब्रुवन् । रेवराक! न जानासि, वयं सर्वजमूनवः॥११॥ आत्मनः परितः सप्त, रेखाः श्रीगुरुभिस्ततः। निम्मिताः पत्र- गान्सोऽपि, मुमोच प्रचुरानपि ॥ १२॥ परं केनापि नाक्रान्ता, षष्ठीरेखेव कर्मणाम् । योगी दीनमुखोजातः, उपायान्तरमात- नोत् ॥१३॥ धृत्वाऽग्रे कदलीपत्रं, कटिस्थनलिकास्थितम् । मुमोच पन्नग सद्यः, सञ्जातं तच्च भस्मसात् ॥१४॥ भो लोकाः! एष रक्ताक्षः, सद्योऽन्तकृदिति ब्रुवन् । तं मुमोच स दुष्टान्मा, पश्यत्यपि महाजने॥१५॥ तन्मुक्तोऽन्यःपुनः सर्प-स्तद्वाहनमजा- यत । तत्प्रेरितोऽसावारोदु-मासने समढौकत ॥१६॥ मूरयो ध्यानमालम्ब्य, तस्थुः सुस्थिरचेतसः। लोको हाहारवं चक्रे, योगी स्मेरमुखोऽभवत् ॥१७॥ स दृग्विषोऽपि भोगी श्री-गुरुमाहात्म्यतः परम् । निष्प्रभावोऽभवच्छक्तिः, कटरे कापि तापसी ॥१८॥ इतश्चैका शकुनिका, समागत्याऽतिवेगतः । उत्पाव्य तत्सर्पयुगं, मुमुचे नर्मदातटे॥१९॥ निपत्य पादयोर्योगी, त्यक्त्वा- . .
सप्ततिका.
.
.
उपदेश-
ऽहवारमात्मनः । यथागतमगाहीनः, सोऽपि मुमुदेतमाम् ॥ २० ॥ भूपोऽय सपरीवारः, प्रौढोत्सवपुरस्सरम्। स्वस्थाने
॥३४॥ पापयामास, तान् पूज्यान् श्रीगुरूत्तमान् ॥ २१॥ तस्यामेव निशीथिन्या-मागत्यैका सुरी जगौ । श्रीगुरून् भगवन् ! योऽयं,
सम्मुखो दृश्यते वटः ॥ २२ ॥ अत्रावस्थितया पक्षि-प्यैकया धर्मदेशना । अश्रावि भवता तत्र, ज्येष्ठस्थितिविधायिना ॥२३॥
साहं ततो मृता जाता, कुरुकुल्लामुरी विभोः!। कृत्वा शकुनिकारूपं, मया सप्ी निराकृतौ ॥ २४ ॥ ततः श्रीगुरुभिश्चक्रे, कुरु
कुल्लास्तयो नवः। यमद्यापि पठन् भव्यो, निषेधयति पनगान् ॥ २५॥ ततः श्रीगुरुभिश्चक्रे, विहारः पत्तनोपरि। कियत्कालं
स्थितास्तत्र, श्रीसङ्घस्य दृढाग्रहात् ॥ २६ ॥ इतश्चारासणग्रामे, पासिलः श्रावकोत्तमः । मन्त्रिगोगासुतो वित्त-हीनो वसति
शुद्धधीः ॥२७॥ सोऽन्यदा घृततैलादि-विक्रेतुं पत्तने ययौ । कृत्वा तत्र स्वकार्याणि, श्रीगुरूंस्तानवन्दत ॥ २८ ॥ तत्र राज-
विहारस्य, स प्रमाण निमालयन् । नवघ्नैकादशस्वर्ण-लक्षेट्छाडातनूजया ॥२९॥ हांसीनाम्न्या सोपहासं, भाषितः किमि-
यत्प्रमम् । चैत्यं कारयितुं भ्रात-स्तवापि स्पृहयालुता ॥ ३०॥ सोऽप्याह भगिनि ! प्रायो, दुर्घटं मादृशामिदम् । बालस्य नहि
शक्तिः स्यात् , सुवर्णाचलतोलने ॥३१॥ तथापि यदि कार्येत, प्रासादो जातुचिन्मया । आगन्तव्यं त्वया तत्रे-त्युक्त्वा स्व-
स्थानमागमत् ॥ ३२ ॥ आरराध ततोऽम्बां स, गुरूक्ताम्नायपूर्वकम् । दशोपवासैः प्रत्यक्षा, साप्यऽभूदस्य माग्यतः॥ ३३॥
ममानुमावात्ते मावी, रूप्यकृत्सीसकाकरः । तं वाहय स्वयं जैन-प्रासादं च विधापय ॥ ३४ ॥ इत्यादेशं समासाद्य, चैत्यं
श्रीनेमिनः प्रभोः । स कारयितुमारेमे, ग्रामे तत्राऽन्यदा पुनः ॥ ३५॥ आगता गुरवः केपि, पृष्टः श्रेष्ठी स तैरपि । मद्र।
निर्वहते कर्म-स्थायश्चैत्ये समाधिना ॥ ३६ ॥ देवगुर्वोः प्रसादेन, सोऽवादीदम्बिका ततः। चुकोप यत्कृतघ्नोऽसौ, मत्कृतं नैव
-
॥३४॥
. मन्यते ॥ ३७॥ द्वादशप्रहरव्यूढ-सीसकाकररूप्यतः । शिखरावधि तचैत्यं, जातं तस्याऽग्रतो न तु ॥ ३८॥ आकार्य पत्त- नाचान् श्री-गुरुस्तां भगिनी च सः । श्रीनेमेः कारयामास, प्रतिष्ठाधिस्तरान् बहून् ॥ ३९ ॥ उवाच मगिनी सापि, बम्धो! वखाणि देहि मे। चैत्येऽत्र मण्डपमहं, कारये चेद्भवान्वदेत् ॥४०॥श्रेष्ठी बमाण सुष्टतं, त्वयेत्यथ विधायितः। मण्डपो मेघनादा- ख्यो, नवलक्षव्ययात्तया ॥४१॥ अन्येऽपि तत्र प्रासादाः,कारिता व्यवहारिमिः । एवं च तत्तीर्थमभूत् , प्रसिद्धं पृथिवीतले॥४२॥ ग्रन्थान्तरेऽप्युक्तम्- गोगाकस्य सुतेन मन्दिरमिदं श्रीनेमिनाथप्रभो-स्तुङ्ग पासिलसंज्ञितेन सुधिया श्रद्धावता मन्त्रिणा । शिष्यैः श्रीमुनिचन्द्रमूरिसुगुरोनिग्रन्थचूडामणे- दीन्द्रैः प्रभुदेवसूरिगुरुमिर्नेमेः प्रतिष्ठा कृता ॥१॥ ॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे अष्टम उपदेशः ॥८॥ मोदाममाहात्म्यरमाभिरामं, श्रीपार्श्वविश्वाधिपतिं प्रणम्य । यथाश्रुतं श्रीकलिकुण्डतीर्थो-त्पत्तिं मणिष्यामि गुरूपदेशात् ॥१॥ चम्पानगर्या आसन्ने, श्वापदश्रेणिभीषणा । कादम्बरीति विख्याता, विद्यते विकटाटवी॥१॥कलिनामा महोत्तुङ्ग-स्तस्या मस्ति शिलोचयः। तस्याऽघस्तनभूमागे, कुण्डाख्यं च सरोवरम् ॥२॥ तत्स्थानं त यीयोगात्, कलिकुण्डमिति श्रुतम् । तीर्य तु जातं श्रीपार्श्व-चरणाम्भोजपावनात् ॥३॥ तयाहि वामनः कोऽपि, पुरा कापि पुरेऽभवत् । हस्यते प्रत्यहं चैष, स्थाने
सप्ततिका.
उपदेश-
॥३५॥
स्थाने नृपादिभिः ॥४॥ तदुद्विनो मुमूषुः स-आऽऽत्मान कापि पादप। उल्लम्बायतुमारम, स तु मूखशिरोमणिः ॥५॥
सुप्रतिष्ठेन मित्रेण, श्राद्धैनैष निषेधितः। उक्तं च मो महाभाग!, किमेवं म्रियसे मुधा॥६॥सौमाग्यारोग्यरूपादि, यदीच्छसि
मनोरमम् । तपःप्रभृतिकं जैन, धर्ममेव तदाचर ॥७॥ इत्युक्त्वा स गुरोः पाद्यं, नीतोऽश्रावि च देशनाम् । सम्यक्त्वं ग्राहितः
शुद्ध, कृतश्च श्रावकोत्तमः ॥ ८॥ ततश्च स चिरं तेपे, तपांसि विविधान्यपि । भूयासमुच्चदेहोऽहं, निदानमिति चातनोत्
॥९॥ स वामनः क्रमान्मृत्वा, यूथनाथो महाबलः । वस्यामटव्यां सञ्जातो, महीधर इति द्विपः॥१०॥ अन्यदा श्रीपार्थनाया,
छअस्थो विहरन् भुवि । आयातः पल्लले तत्र, कायोत्सर्गे च तस्थिवान् ॥ ११॥ स गजो जलपानार्थ, तदा तत्र समागतः ।
जगनाथमथालोक्य, जातिस्मरणवानभून् ॥ १२ ॥ अहो ! धर्म विराध्याऽहं, पशुरझानतोऽभवम् । तदैव देवमचिंत्वा, कुर्वे स्त्रं
सफलं जनुः ॥ १३॥ विमृश्येत्यम्बुजवातै-रभ्यर्च्य परमेश्वरम् । कृत्वानशनमुत्पनो, महदिव्यन्तरेष्वसौ ॥ १४ ॥ श्रुतश्च
चम्पानाथेन, करकण्डुमहीभुजा । सर्वो व्यतिकरः सोऽयं, विस्मितश्च स्वचेतसि ॥ १५ ॥ यावत्स भूपतिस्तत्रा-गच्छत्युत्साह-
पूरितः। विजहार प्रभुस्तावत् , स विषादं दधौ भृशम् ॥ १६ ॥ किं स्यानिर्माग्यसत्चाना, श्रीजिनेन्द्रस्य दर्शनम् । आत्मानं
निन्दयामास, श्लाघयामास च द्विपम् ॥ १७॥ स्थाने च तत्र प्रासाद, महान्तं निरपीपदन् । नाहस्तमिताऽस्थापि, तत्र च
प्रतिमा प्रभोः ॥ १८॥ केचित्पुनरिदं प्राहु-धरणेन्द्राऽनुमावतः। नास्त प्रमाणार्चा, तदैवाविरभूत्प्रभोः॥ १९ ॥ वन्दित्वा
पूजयित्वा स, प्रतिमां तां प्रमोदवान् । स्वनिर्मापितचैत्ये च, न्यबीविशदयं द्विपः ॥२०॥ तत्र स व्यन्तरो लोक-प्रत्ययान्
पूरयत्यलम् । ततः प्रभृति सजातं, ततीर्थ भुवि विश्रुतम् ॥ २१॥ प्रभावनामेक्षणकादिकोत्सवा-नव्यानभक्तिः कर्कण्डभू-
॥३५॥
पतिः। निर्मापयंस्तत्र पवित्रचेतसा, प्रभावकश्रावकपुङ्गवोऽमवत् ॥ २२॥ स व्यन्तरोऽपि तामचर्चा, पूजयन् प्रणमन्स्तुवन् ।
क्रमात्सुगतिमाग्भावी, तदेवं यजताईतः ॥ २३ ॥
इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे नवम उपदेशः॥९॥
.
श्रीअन्तरिक्षप्रं पार्थनायः, श्रेयांसि स प्राणभृतां तनोतु ।
यदङ्गसम्पर्कि पयो निपीय, श्रीपालराजाऽजनि नष्टकृष्ठः॥१॥
किलैकदा रावणेन, स्वकार्ये विनियोजितौ। गच्छतः स्म विमानस्थौ, कचिन्मालिसुमालिनौ॥१॥ तदाईत्प्रतिमा ताभ्यां,
व्यस्मारि स्वगृहे पुनः । जिनार्चनं विना भुक्ते-नियमस्तु दृढस्तयोः॥२॥ प्राप्ते मोजनकाले तु, पवित्रैर्वालुकाकणैः । निर्माय
प्रतिमां पार्व-प्रभोः पूजयतः स्म तौ ॥३॥ ततः सा प्रतिमा ताभ्यां, गच्छद्भयमग्रतः पुनः। सरोऽन्तः स्थापिता दिव्या-
नुमावाच्च स्थिराऽभवत् ॥ ४॥ ततः प्रभृति तस्मिश्च, पल्वले विमलं जलम् । न जातु त्रुटितं तस्याः, प्रतिमायाः प्रमावत:
॥५॥ तदा च विनिलपुरे, श्रीपालो नाम भूपतिः। सर्वाङ्गममवद्दुष्टकुष्ठरोगेण पीडितः॥ ६॥ अप्योषधशतैर्वेद्याः, अकार्षुस्त-
त्प्रतिक्रियाः। तथापि न गुणो जात-स्तृषेव क्षारनीरतः॥७॥ क्रीडाकृते गतो भूपोऽन्यदा तस्मिन् सरोवरे । विश्रान्तस्तु-
पितः पीत्वा, जलं स्वस्थोऽभवत् क्षणम् ॥ ८॥ मुखं हस्तौ च पादौ च, प्रक्षाल्य स्वगृहं ययौ । ते चानावयवाः सद्यो, जाताः
काञ्चनरोचिषः॥९॥ प्रातस्तत्कौतुकं दृष्ट्वा, किमेतदिति भूपतिम् । पप्रच्छ राज्ञी वृत्तान्तं, सोऽप्याह क्षालनादिकाम् ॥१०॥
उपदेश-
सप्ततिका.
॥३६॥
कोऽप्यत्रातिशयोऽस्तीति, विस्मितो हृदि भूपतिः। तत्र स्वानं विधत्ते स्म, ततो जातो निरामयः॥११॥ नवद्यपालधूपा त्ला
भूपो जुघोष च । अत्रास्ति दैवतं यत्तत्, प्रकटीभवतादिति॥१२॥ उक्तेति तस्यां यामिन्यां, तत्रैव स्वपिति स्म सः। ब्राहचे मुहूर्ते-
अधिष्ठाता, देवस्तमिति चाऽलपत् ॥ १३ ॥ अत्र श्रीपार्श्वनाथस्य, भाविनः प्रतिमाऽस्ति मोः। यत्ममावात्तवाङ्गोत्या, कुष्ठरोगः
क्षयं ययौ ॥१४ ॥ आरोग्य सकटे चैनां, सप्ताहांततर्णको । नियोज्य सारथीभूय, स्वयं चालयतां द्रुतम् ॥१५॥ द्रक्ष्यस्य-
वाचुख यत्र, तत्र स्थास्यत्यसौ पुनः। इति मोच्य गतो देवो, भूपोऽपि प्रत्यबुध्यत ॥ १६॥ सुरोक्तमखिलोपायं, मातभूपोऽपि
निर्ममे । यावकिश्चिद्धचतिक्रान्त-भूमार्ग संदिदेह सः॥१७॥ आयाति प्रतिमा किंवा, नवेत्युद्वेगमावहन् । वक्रीकृत्य क्षणा-
ग्रीवां, भूपः पवादथलोकत ॥१८॥ तावत्सा प्रतिमा न्योग्नि, स्थिता दिव्यानुभावतः। शकटं त्वग्रतो यातं, भूपोऽत्यर्य विसि-
पिये ॥१९॥ निवेश्य नगरं नव्यं, श्रीपुरं तत्र भूपतिः। अचीकरच प्रोतुर्क, प्रासादं प्रतिमोपरि ॥२०॥ घटौ गर्गेरिकायुक्ती,
न्यस्य नारी स्वमस्तके। तद्विम्याधः प्रयाति स्म, पुरेति स्थविरा जगुः ॥२१॥ एवं स भूपतिर्भूरि-कालं तं जिनमार्चयत् ।
सर्व समीहितं प्राप, क्रमाच्छिवगति गमी ॥२२॥ कियदन्तरमद्यापि, भूमिमतिमयोः खलु । अस्तीति तत्र वास्तव्या, वदन्ति
जनता अपि ॥ २३॥
इत्यन्तरिक्षप्रभुपानार्थ, भूपो यथाऽभ्यर्च्य बभूव नीरुन् ।
तया भवन्तोऽपि जिनेन्द्रचन्द्र-माराध्य मव्याः! सुखिनो भवन्तु ।। २४ ॥
॥ इति उपदेशसमतिकायां द्वितीयेऽधिकारे दशम उपदेशः॥१०॥
॥३६॥
. दुर्वारमारिममुखोपसर्गाः, देवाधिदेवार्चनतः क्षयन्ति । श्रीशङ्कराख्यक्षितिपस्य यद-न्माणिक्यदेवं यजतो जिनेन्द्रम् ॥१॥ मरतेन पुरा चैत्ये, कारितेऽष्टापदे गिरौ । वर्णाद्यैरन्विताः सर्व-जिनार्चा विनिवेशिताः ॥१॥ नीलरत्नमयी चैका, प्रतिमा प्रथमप्रभोः। अंशप्रांशुजटा तेन, तत्रास्ति स्थापिता पृथक्॥२॥अत एव जनस्तस्याः, अर्चायाअभिधीयते । माणिक्यदेव इत्याख्या, सप्रभावा च सा भृशम् ॥३॥ केचिदित्थं पुनः प्राहु-रिय भरतचत्रिणः । मुद्रिकामध्यवर्तिष्णु-पाचिरत्नविनिर्मिता ॥४॥ एवं सा प्रतिमा तत्र, भूरिकालमपूज्यत । अन्येद्युस्तत्र यात्रार्थ, खेचराः केचिदागताः॥५॥ तां चाऽपूर्वतमां प्रेक्ष्य, प्रतिमा प्रीतचेतसः। निन्यिरे दक्षिणश्रेणी, प्रत्यहं पूज्यते च तैः ॥ ६॥ अन्यदा नारदस्तेषा-मतिथिः प्राप्तवानभूत् । निरीक्ष्य सोऽपि पप्रच्छ, प्रतिमेयं कुतो नु वः ॥७॥ तेऽप्यूचुरियमानीता-ऽस्माभिर्वैताट्यपर्वतात् । राज्यराष्ट्रादिमिवृद्धि-रभूचाऽस्याः समा- गमात् ॥ ८॥ श्रुत्वेति नारदः प्राह, तन्माहात्म्यं तु वज्रिणः । मेरौ शाश्वतचैत्यानि, वन्दितुं समुपेयुषः॥९॥ ततः शक्रोऽपि तां देव-रानयामासिवान् दिवि । नहि कल्पलतापाती, भवेन्मन्दादरःसुधीः॥१०॥ इत्थं सा स्वर्गलोकेऽपि, देवैःसन्तुष्टमानसः। सुबहून् सागरान् याव-दचिंता मक्तिभामुरैः ॥११॥ अत्रान्तरेऽत्र भरते, रावणो राक्षसेश्वरः । त्रैलोक्यकण्टको जात-स्तस्य मन्दोदरी प्रिया ॥ १२ ॥ तयापि नारदमुखा-त्तन्माहात्म्ये श्रुते सति । प्रेरितो रावणः शक्र-मारराध धियां निधिः ॥१३॥ तुष्टः शक्रोऽपि तामाँ, मन्दोदर्याः समर्पयत् । त्रिसन्ध्यमतिहर्षेण, सापि पूजयति स्म ताम् ॥१४॥ अथाऽन्यदा दशग्रीवो, रामभार्यामपाहरत् । कलत्रभ्रातपुत्राचैः, प्रोक्तोऽप्येतां मुमोच न ॥ १५॥ बिम्बाधिष्ठायको वादी-लकालङ्काधिपक्षयम् । मन्दो- .
उपदेश-
सप्ततिक्त
॥३७॥
.
दर्या ततः सार्चा, न्यासीचक्रे पयोनिधौ ॥१६॥ इतश्च-
काटदेशे कल्याण-नगरे शङ्करो नृपः। अभूजिनपदाम्भोज-भृङ्गोऽमगुरभाग्यवान् ॥१७॥ मिथ्याग् व्यन्तरोऽन्येा-
स्तत्र मारि वितेनिवान् । तेन चिन्तातुराः सर्वे, नृपामात्यादयोऽभवन् ॥ १८॥ नृपति दुःखितं ज्ञात्वा, स्वप्ने पद्मावती जगौ।
माणिक्यदेवप्रतिमा, यास्त्यन्तःसागरस्थिता ॥१९॥ पुरेऽत्र यदि साऽभ्येति, तदा मारिय॑लीयते । लब्धोपायस्ततो भूप-
स्तयैव निखिलं व्यधात् ॥ २० ॥ तुष्टो लवणनाथोऽपि, भक्तियुक्त्या तदीयया। बिम्ब मन्दोदरीसत्कं, भूपालाय समर्पयत्
॥ २१ ॥ उक्तं चैतत्प्रभावात्ते, मुभिक्षारोग्यसम्पदः। पृष्टौ कृत्वा स्वयं बिम्ब, मार्गे गच्छ यथासुखम् ॥ २२ ॥ सन्देहं यत्र
कासि, तत्र स्थास्यति किन्विदम्। शिक्षां दत्त्वेति देवोऽपि, तिरोऽधत्त क्षणादपि ॥२३॥आरोप्य पृष्टौ तामचर्चा, ससैन्यः क्षितिपोऽ-
चलत् । यावत्तिलिङ्गदेशस्थ-कुल्पपाकपुरेऽगमत् ॥२४॥ तावञ्चकार सन्देई, तद्भाराऽवेदनात् क्वचित् । किमागच्छति नो वेति,
ततस्तत्रैव तत् स्थितम् ॥ २५ ॥ श्रीकुल्पपाकनगरे, रम्यं चैत्यं विधाप्य नरपतिना। नीर्मलमरकतमणिमय-रुचिरं तद्विम्बम-
स्थापि ॥२६ ॥ षदाताशीतिवर्षाणि, तबिम्बं गगने स्थितम् । तत्पूजनाच रोगाणां, शान्तिरासीत् समं ततः ॥ २७ ॥
पूजार्य द्वादशग्रामा-नर्चकेभ्यः स दत्तवान् । भूपालो भरिकालं च, तं जिनेन्द्रमपूजयत् ॥२८॥ स्वर्गादत्र समागतस्य शरदां
लक्षा गिरीशप्रमा, एकाशीतिशरत्सहस्रसहिता यस्य प्रमोः जज्ञिरे। त्रलोक्याऽतिशयालुनाममहिमा माणिक्यदेवामिषः, स श्री-
आदिजिनश्चिराय भवतां सम्पद्यतां श्रेयसे ॥२९॥
इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे एकादश उपदेशः ॥ ११ ॥
॥३७॥
. जयत्यऽसौ स्तम्मनपार्श्वनाथः, प्रभावपुरैः परितः सनाथः। स्फुटीचकाराऽमयदेवमूरि- या भूमिमध्यस्थितमूर्तिमिद्धम् ॥१॥ पुरा श्रीपत्तने राज्य, कुर्वाणे भीमभूपतौ। अभूवन् भूतले ख्याताः, श्रीजिनेश्वरसूरयः॥१॥ सूरयोऽमयदेवाख्या-स्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो, गच्छः खरतराभिधः ॥२॥ तेषामाचार्यवर्याणां, मान्यानां भूभृतामपि । कुष्ठव्याधि- रभूदेहे, प्राच्यकाऽनुभावतः ॥३॥ ततः श्रीगुर्जरत्रायां, शम्माणकपुरं प्रति । शक्त्यल्पत्वेऽपि ते चक्रु-विहारं गुरुपुङ्गवाः ॥४॥ रोगग्रस्ततयाऽत्यन्त, सम्भाव्य स्वायुषः क्षयम्। मिथ्यादुष्कृतदानार्थ, सर्व श्रीसङ्घमाह्वयन् ॥५॥ तस्यामेव निशी- यिन्यां, स्वप्ने शासनदेवता । प्रभो ! स्वपिषि जागर्षि, किं वेत्या गुरुं प्रति ॥ ६॥ रोगिणः क्वास्ति मे निद्रे-त्युक्त देवी गुरु जगौ। उन्मोटयत तोताः, मूत्रस्य नवकुत्कुटीः॥७॥ शक्तेरभावेऽप्युक्ते च, साह मैवं वचो वद । त्वमद्यापि नवाया य- वृत्तीः स्फीताः करिष्यसि॥८॥ श्रीसुधर्मकृतग्रन्थान् , कथमर्थापयाम्यहम् । पङ्गोः प्रत्येति को नाम, मेर्वारोहणकौशलम् ॥९॥ देव्याह यत्र सन्देहः, स्मर्तव्याऽहं त्वया तदा । यथा भिनद्मि तान्सर्वान् , पृष्ट्वा सीमन्धरं जिनम् ॥१०॥ रोगग्रस्तः कथं मातः!, करोमि विवृतीरहम् । मा वादीस्तत्प्रतीकारे, किन्तूपायमिमं शृणु ॥११॥ अस्ति स्तम्भनकग्रामे, सेढीनाममहा- नदी। तस्यां श्रीपार्श्वनाथस्य, प्रतिमास्त्यविशायिनी ॥१२॥ यत्र च क्षरति क्षीरं, प्रत्यहं कपिलेति गौः। तत्खुरोत्खातभूमौ च, द्रक्ष्यसि प्रतिमामुखम् ॥ १३॥ तदेवं सप्रभावं त-द्विम्बं वन्दस्व भावतः। यथा त्वं स्वस्थदेहः स्याः, इति प्रोच्य गता सूरी ॥१४॥ प्रातर्जागरितास्तेऽथ, स्वमार्यमवबुध्य च । समं समग्रसङ्केन, चेलुः स्तम्भन प्रति ॥१५॥ तत्र गत्वा यथास्थाने,
सप्ततिका.
उपदेश-
॥३८॥
प्रेक्ष्य पार्श्वजिनेश्वरम् । उल्लसत्सर्वरोमाश्चाः, एवं ते तुष्टुवुर्मुदा ॥१६॥
जय तिहुयणवरकप्परुवख जय जिनधनंतरि, जय तिहुयणकल्लाणकोस दुरिअक्करिकेसरि ।
तिहुयणजणअविलंघियाण भुवणत्तयसामिय, कुणसु सुहाइं जिणेसपास थंभणपुरहिय ॥१॥
वृत्ते तु षोडशे सार्चा, सर्वाङ्गं प्रकटाऽभवत् । अत एवाग्रवृत्ते तैः, पच्चक्खेति पदं कृतम् ॥१७॥
फणिफणफारफुरंतरयणकररंजियनहयल, फलिणीकंदलदलतमालनीलुप्पलसामल ।
कमठासुरउवसग्गसंवग्गसग्गअगजिय, जय पञ्चवखजिणेसपास थंभणयपुरठिय ॥१॥
एवं द्वात्रिंशता वृत्त-स्तुष्टुवुः पार्थतीर्थपम् । श्रीसङ्कोऽपि महापूजा-धुत्सवास्तत्र निर्ममे ॥१८॥ अन्त्यवृत्तद्वयं तत्र,
त्यक्त्वा देव्युपरोधतः । चक्रिरे त्रिंशता वृत्तः, सप्रभावं स्तवं हि ते ॥१९॥ तत्कालं रोगनिर्मुक्ताः, सूरयस्तेऽपि जज्ञिरे ।
नव्यकारितचैत्ये च, प्रतिमा सा निवेशिता ॥ २०॥ स्थानाङ्गादिनवाङ्गानां, चक्रुस्ते विवृतीः क्रमात् । देवतावचनं न स्यान् ,
कल्पान्तेऽपि हि निष्फलम् ॥ २१ ॥ सौवर्णा नव्यनिष्पन्न-ग्रन्थपुस्तकसञ्चये। दृष्टा उत्तरिका भूपा-दिभिर्दिव्याऽनुमावतः
॥२२॥ पत्तने भीमभूपालो, द्रव्यलक्षत्रयव्ययात् । लेखयामास ताः सर्वा, वृत्तीः स्वपरमरिभिः ॥ २३ ॥ एवं ते मरयो
भूरि-कालं श्रीवीरशासने । चिरं प्रमावनां चक्रुः, प्राप्तसार्वत्रिकोदयाः ॥ २४ ॥ अज्ञायमानादिरमय॑नायक-श्रीरामकृप्णो-
रुगपाम्बुपादिभिः। नानाविधस्थानकृतार्चनश्चिरं, पार्थप्रभुः पातु मवात् स देहिनः ।। २५॥ अथवा-पार्षे श्रीकुन्थु-
नाथस्य, मम्मणव्यवहारिणा । पृष्टं मोक्षः कदा भावी, मम स्वाम्यपि तं जगौ ॥२६॥ तीर्थे श्रीपार्श्वनाथस्य, तव सिद्धि-
.
॥३८॥
मविष्यति । अचीकरदिमामी, ततोऽसाविति केचन ॥ २७ ॥ ॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे द्वादश उपदेशः ॥ १२ ॥ जीर्णोद्धारं नूतनं वा जिनानां, ये प्रासादं कारयन्त्याऽऽस्तिकौघाः। ते स्युः पूज्या रामनामा यथेह, श्रेष्ठी श्रेयः श्रीनिवासो बभूव ॥ १ ॥ श्रीनिवासपुरे श्रेष्ठी, श्रीगुप्तः श्रीनिकेतनम् । स्वामी द्रव्याष्टकोटीनां, प्रकृत्या कृपणः पुनः॥१॥ तत्पुत्रो विजयो नाम, स तु दानमियो भृशम् । पिता निषेधयत्येनं, दानं शूलं हि तादृशाम् ॥२॥ अन्येधुः शूलरोगेण, श्रीगुप्तो मृत्युमाप्तवान् । अथाह जननी पुत्रं, शृणु वत्स ! वचो मम ॥ ३ ॥ त्वदीयजनकेनाऽष्टा-वत्र द्रविणकोटयः। सन्ति न्यासीकृतास्तास्त्वं, गृहाण च कृतार्थय ॥४॥ सोऽपि यावदुपादत्ते, तनिधानमनाकुलः। तावद्ददर्श फूत्कार-भीषणं तत्र पनगम् ॥ ५॥ व्यावृत्त्य सहसोद्यातो, विजयस्तस्य दर्शनात् । एवं द्विस्त्रिरसौ चक्रे, न तथाप्याप्तवानिधिम् ॥ ६॥ अन्यदा केवली कोऽपि, प्राप्तस्तत्र मुरद्रुवत् । समं राजादिलोकेन, विजयो वन्दितुं ययौ ॥ ७॥ तत्कृतां देशनां श्रुत्वा, विजयः पृष्टवानिति । निधिस्थाने कथं सर्प-दर्शनं मेऽभवत्मभो ! ॥ ८॥ ज्ञानी प्राह त्वदीयो यः, पिता स व्यन्तरोऽभवत् । सर्परूपेण तेन त्वं, निधि गृहनिवारितः ॥९॥ व्यन्तरोऽन्येधुरागत्य, राज्ञोऽग्रे प्राह वारय । निधिजिघृक्षु विजयं, करिष्येऽनर्थमन्यथा ॥ १०॥ नृपः प्राह निधानेन, त्वं किं कर्तासि मे वद । पुत्रस्तु कुरुतां दान-पूजादि त्वदनुग्रहात् ॥ ११ ॥ एवं कृते तवापि स्यात् , फलं पुण्यानुमोदनात् । . .
उपदेश-
सप्ततिका.
॥३९॥
इत्याधुवाच राजन्द्रस्तथाप्यष न बुद्धवान् ।। २ ।। निथानच्यन्तरतम-कारक. काग५ काति३. । न्यदा पिपरप.
प्राप्तो लोचनगोचरम् ॥ १३ ॥ तस्य सानिध्यतस्तेन, तमाक्रम्य हठादपि । तनिधानमुपादायि, मूर्त पुण्यमिवात्मनः॥१४॥
तद्र्व्यव्ययतः श्रीम-द्गुरूणामुपदेशतः । श्रीशान्तेर्जीर्णचैत्यस्य, स उद्धारं व्यदीधपत् ॥ १५ ॥ उपदेशस्त्वयम्-
नूतनश्रीजिनागार-विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् ॥१॥
श्रीहेममरिवाक्यं श्रीआम्रमटं प्रति ॥
अचीकरत् प्रतिष्ठादि-विस्तरांश्च मनोहरान् । श्रीसङ्घोऽपि ध्वजस्तात्र-प्रमुख तत्र निममे ॥१६॥ अन्यदा तस्करं कश्चि-
द्वधार्थ राजपुरुषैः। नीयमानं पुरेऽपश्य-द्विजयश्चैत्यसंस्थितः ॥ १७॥ विजयो मोचयत्येनं, भूपं विज्ञाप्य सोऽपि तम् ।
उवाचाऽञ्जनसिद्धो-ऽयमन्तःपुरविनाशकृत् ॥ १८ ॥ स्वविद्यां वक्ति यद्येष, तदा मुश्चामि नान्यथा। तेनाऽनुक्तेऽप्यसौ चौरं,
त्रिदिनावध्यमूमुचत् ॥१९॥ नीतो जिनगृहस्यान्त-चौरस्तञ्चैत्यदर्शनात् । प्राप्तो जातिस्मृतिं प्राइ, तदने प्राग्मवं निजम्
॥२०॥ तथाहि प्रागिह ग्रामे, श्रेष्ठी राम इति श्रुतः । अभूद् भूरिविभूतीना-माश्रयः श्रावकोत्तमः ॥२१॥ तेनेदं चैत्यमारेमे,
निर्मापयितुमादरात् । परं चैत्येऽर्द्धनिष्पन्ने, क्षीगद्रव्यो बभूव सः ॥ २२ ॥ आराध्य सिद्धपुरुष, कोटीवेघरसं ततः । प्राप्य
जातेन वित्तेन, पूर्णचैत्यमकारयत् ॥ २३ ॥ सौवर्णदण्डकलशं, मण्डपश्रेणिसुन्दरम् । सद्देवकुलिकायुक्तं, तचैत्यं क्रमतोजनि
॥ २४ ॥ कारं कारं तत्र भक्त्या, स्तुत्यर्चादि जिनेशितुः । स श्रेष्ठी वाईके प्राप्ते, तपस्यां प्रतिपत्रवान् ॥ २५॥ किश्चिद्वतं
विराध्याऽय, स मृत्वाप कुदेवताम् । ततश्चयुत्वाऽभवत्सोऽहं, तस्करस्तास्करे कुले ॥ २६ ॥ प्रासादमद्य दृष्ट्वाई, जाविस्मरण-
॥३९॥
माप्तवान् । जाणोद्धार विधाप्याऽत्र, त्व में साधाम्मकाऽभवः ॥२७॥ न काल त्वया स्वात्मा, जिणाद्धारावतन्त्रता। समुद्ध- तोऽइमप्युच्चैः, पतन्नरककोटरे ॥ २८ ॥ इत्यालापपरश्चौरो, देवतादत्तवेषभृत् । सञ्जातः संयतो भूप-प्रमुखास्तं ववन्दिरे ॥२९॥ क्रमाच्च स गतो मोक्ष, विजयोऽप्याप्य सद्गतम् । सौधर्मे त्रिदशीभूय, भवेनैकेन निर्वृतः ॥ ३० ॥ इति चैत्यनवीननिर्मितेः, फलमाकर्ण्य तदुद्धृतेस्तथा । भविकाः ! मवमञ्जनेच्छवः, क्रियतां चैत्यविधापने मनः ॥ ३१ ॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे त्रयोदश उपदेशः॥१३॥ . धन्यस्य कस्यापि भवन्ति माग्यतः, श्रीतीर्थयोगाः सकलेटदायिनः । तत्रापि सिद्धाचलभूरियं यया, इत्यादिदोषा अपि दूरतः कृताः॥१॥ श्रावस्त्यामस्ति धात्रीश-त्रिशङ्ककुलदीपकः । त्रिविक्रम इति त्रात-त्रलोक्यः स्वपराक्रमैः ॥१॥ सोऽन्यदा कानने कापि, क्रीडनीडनिवासिनम् । वटे कटुरटन्तं च, पक्षिणं कश्चिदक्षत ॥ २॥ दुष्टः शकुन इत्येष, बाणमाकृष्य तं जवात् । जघान सानुतापश्च, पश्चात्किश्चिदजायत ॥ ३॥ कालान्तरे स भूजानि-वैराग्यभररङ्गितः। अङ्गीकृत्य परिव्रज्यां, क्रमाज्जातो महाऋषिः॥४॥ उत्पन्नतेजोलेश्याकः, स दुस्तपतपोभरैः। प्रबोधयन् मन्यलोकान् , विजहार वसुन्धराम् ॥५॥ स खगोऽपि तदा मृत्वा, भिल्लः पल्लयामभूत् काचित् । कुर्वविविधपापानि, सञ्जातः स्वोदरंभरिः॥६॥ अन्येयुः स ऋषिः क्वापि, विहरंस्तस्य दृक्षथे । पपात तेन यष्टयाध-स्ताडितः कुपितात्मना ॥७॥ कोपाटोपाकुलत्वेन, विस्मृत्याचारमात्मनः । स्वतेजो-
उपदेश-
सप्ततिका.
.
॥४०॥
लेश्यया भिल्लं, तं वराकमदीददत् ॥ ८॥ मिल्लो विपद्य सञ्जातः, केसरी कापि कानने । स तथैव ऋषिः पुच्छा-च्छोटिनं तम-
मारयत् ॥९॥ सञ्जातस्तदनुद्वीपी, मारितश्च तथैव सः। तस्य हि भ्रष्टवृत्तस्य, तेजोलेश्यास्त्रतां ययौ ॥१०॥ ततो राजगृहे
जातः, सण्डः सम्मुखधावनात् । सोऽपि व्यापादितो तेन, पूर्ववन्मत्सरस्पृशा ॥ ११ ॥ ततः फणीफणामार-मारितो मीषणा-
कृतिः। निरीक्ष्य तं मुनि कायो-त्सर्गस्थं सोऽभ्यधावत ॥ १२ ॥ प्राग्वत्तं हतवान्साधुः, सञ्जातो ब्राह्मणस्ततः । निन्दां कुर्वन्
हतः काऽहो !, निर्विवेकस्य संवरः॥ १३॥ हत्यासप्तकमित्येष, निर्ममोऽपि विनिममे । योगिनोऽपीति पापानि, कर्मणां
धिग् विजृम्भितम् ॥ १४ ॥ द्विजो वाणारसीपुर्या, महाबाहुनृपोऽभवत् । यथाप्रवृत्त करणा-न्छुभकम्र्मोदयोन्मुखः ॥१५॥
देवो रासमतां याति, रासभोऽपि नरेन्द्र ताम् । ईश्वरो निःस्वतां चेति, कटरे! भवनाटकम् ॥१६॥ स भूपतिर्गवाक्षस्थो-ऽन्यदा
कञ्चन संयतम् । प्रेक्ष्य जातिस्मृतेः प्राच्य, ज्ञातवान् भवसप्तकम् ॥ १७ ॥ अहो ! तस्य मुनेरत्यक्त-सङ्गस्याप्यघहेतुकः।
एषोऽहमजनीत्यादि-रनर्थो मन्निमित्तजः ॥ १८॥ मवेत्रापि स मां कोपात् , पुनश्चेन्मारयिष्यति । तदैवंविधराज्यस्य, भ्रंशो
मावी हहा! मुधा ॥ १९ ॥ अत्र चेदेत्यसौ साधुः, स्वागस्तत् क्षमयाम्यहम् । विमृश्येति कृतं तेन, श्लोकार्द्ध भीतचेतसा
॥ २० ॥ विहङ्गः शबरः सिंहो, द्वीपी सण्डः फणी द्विजः । अन्त्याई पूरयेत्तस्य, लक्ष्यमित्युदघोषयत् ।।२१॥ तं पपाठ जनः
सर्वः, परं कोऽपि न पूरयेत् । छद्मस्थानां हि दुर्लक्ष्य, परचित्तोपलक्षणम् ॥ २२॥ स एव विहरनागात् , मुनिस्तत्र पुरेऽन्यदा।
उद्गीयमानं गोपेन, श्लोकखण्डं च शुश्रुवे ॥ २३ ॥ क्षणं विमृश्य ज्ञात्वा चो-त्तरार्द्धमिति सोऽवदत् । येनाऽमी निहताः कोपात्,
स कथं मविता हहा ! ॥ २४ ॥ गोपो निशम्य श्लोकं तं, पूर्ण राज्ञे न्यवेदयत् । समस्येयं मयाऽपूरि, स धैर्यमिति सोऽवदत्
.
॥४०॥
॥ २५॥ न मनो विस्मितं राज्ञो, निर्बन्धे सत्यमाह सः। श्रुत्वा तत्तत्र गत्वा तं, क्षमयामास पार्थिवः ॥२६॥ स्वस्वापराचं
निन्दन्तौ, गर्हन्तौ च परस्परम् । तौ क्षमाधिपती वात, चिरं प्रीत्या वितेनतुः ॥ २७ ॥ अत्रान्तरे तयोः पाप-शुध्यर्थ केऽपि
सूरयः । आजग्मुः केवलज्ञाना-ऽवलोकितजगत्रयाः ॥२८॥ स साधुः स च भूपालो, नन्तुं केवलिनं मुनिम् । आजग्मतु-
महानन्द-पूरितौ भक्तिसंयुतौ॥ २९ ॥ समाधिना श्रुता ताभ्यां, तस्कृता धर्मदेशना। सम्यग् निज निजं पाप-मुक्तं तस्य पुरः
पुनः॥ ३०॥ केवली प्राह राजेन्द्र !, गच्छ शत्रुञ्जय गिरिम् । नमस्यबईतस्तत्र, ज्ञानं सिद्धिं च लप्स्यसे ॥ ३१॥ धनं
तवापि कर्मेदं, विना शत्रुञ्जय मुने!। क्षयं न यास्यति प्रौढे-स्तपोमिरपि सेवितैः ॥ ३२ ॥ त्वमेनं पुरतः कृत्वा, गुरुं भूप-
जनैः समम् । शत्रुञ्जयादितीर्थेषु, कुरु यात्रां समाहितः ॥ ३३ ॥ यात्रान्ते सर्वविरतो, निरतो ब्रह्मणि स्थिरे । अनेन
मुनिना सार्द, चारित्रं परिपालय ॥ ३४ ॥ इति श्रुत्वा तथा कृत्वा, द्वावप्येतौ क्षमापती । हत्वा हत्यादिपापानि, सिद्धौ शत्रु-
अयाचले ॥ ३५ ॥ श्रीतीर्थमाहात्म्यमिति श्रवःपुटै-निपीयपीयूषमिवातिहर्षितः । त्यजन्तु भो भव्यजनाः! कुवासना-विषं
मुखं मुक्तिभवं भजन्तु च ॥ ३६ ॥
॥ इति श्री उपदेशसप्ततिकायां द्वितीयेऽधिकारे चतुर्दश उपदेशः ॥१४॥
लक्ष्मीः कृतार्था खलु सैव या जिन-प्रासादपूजाधुपयोगिनी मवेत् ।
सपादकोटीमणिना विभूषितं, हारं यथा श्रीजगडो व्यधापयत् ॥ १॥
उपदेश-
सप्ततिका.
॥४१॥
भूपः कुमारपालाख्यो-ऽन्यदा शकुञ्जयं प्रति । यात्रायै ऋणीभूतो, बहिष्णस्वानमातनोत् ॥१॥ तत्र चाऽवसरे कधि-
ब्रूपमेत्य व्यजिज्ञपत् । आयाति त्वामुपद्रो, को डाइलदेशराट् ॥२॥ श्रुत्वेति स्पतिः सिलो, ध्वस्तयात्रामनोरथः। आगत्य
गुरुपादान्ते, स्वं निनिन्द मुहुर्मुहुः ॥ ३॥ किश्चिद्विचिन्त्य तेऽप्याहुः, खेदं राजेन्द्र ! मा कृथाः। द्वादशप्रहरप्रान्ते, समाधि-
भविता तव ॥४॥ इति स्वस्थीकृते भूपे, निणीतसमये ततः। कोऽप्युपेत्य नृपं प्राइ, कर्णस्तव रिपुर्पतः ॥५॥ रजन्यां
विषमे क्वापि, निद्रामुद्रितलोचनः। उल्ललतुरगारूढः, कण्ठस्थस्वर्णशृङ्खलः ॥ ६॥ अन्तःप्रविष्टन्यग्रोध-शाखायां लम्बित:
क्षणात् । पञ्चत्वं प्राप्त इत्येतद्-दृष्टया दृष्ट्वाऽहमागतः ॥७॥ शोचयित्वा क्षणं भूपो, द्विसप्ततिपैर्युतः । चलितस्तीर्थयात्रायै,
समं श्रीहेमसरिणा ॥८॥ नवनैकादशस्वर्ण-लक्षेछाडादयस्तथा । शतान्यऽष्टादश प्रौढाः, महेभ्याः प्रस्थिताः समम् ॥९॥
शतानि त्रिमर्षदसप्त-सप्तत्या सहितानि च । चेर्देवालयाः स्वग्गि-विमानानीव भास्वराः ॥१०॥ गुरूणां जन्म-
भूमि स, ज्ञात्वा धन्धुकपत्तने । जोलीविहार इत्याख्यं, प्रासादं निरमापयत् ॥ ११ ॥ प्रभावनां च महतीं, कृत्वा
शत्रुञ्जये गतः। तत्राध्विजदानादि, समं सङ्घन निर्ममे ॥ १२॥ तत्र चावसरे कश्चि-च्चारण: समयोचितम् । पपाठ
ताशाः प्रायो-ऽवसरज्ञाः स्वभावतः ॥१३॥
इकह फुल्लह माटि देइ, जे रिदि सुरनरतणी । एन्ही करई कुसहि, बप्प भोलिम जिणवरतणी ॥१॥
नवशः कथनात् नवलक्षीदानम् ॥
कोइ चडावर पांखडी, को वेचइ धनलाल । फलविहरउ तई नवि कीओ, माव मरइ जइ साखि ॥१॥
श्रीसके मिलिते तत्र, मालोनहेतवे । चतुर्लौरयाचिष्ट, वाग्मटः प्रथम स्रजम् ॥ १४ ॥ प्रच्छमपुरुषः कोऽपि,
स्तामष्टमिः पुनः । ततः पोडशमिर्लक्षेग्मिटस्ताममार्गयत् ॥ १५॥ एवं प्रवर्द्धमानेऽय, मूल्ये प्रच्छमपुरुषः। सपादकोखा
तां मालां, मार्गयन् प्रकटोऽभवत् ॥१६॥ सामान्यवेषं तं दृष्ट्वा, नृपो मन्त्रिणमब्रवीत् । द्रम्ममुस्वं त्वया कार्य, ततो मन्यपि
तं जगौ ॥ १७॥ रे कराक! क्व ते द्रव्यं, कथं च परिधास्यति । मालामैन्द्रीमिमां किं वा, तव ब्रीडापि नास्ति भोः ॥१८॥
सोऽपि वं विजने नीत्वा, तस्मै रत्नमदीदृशत् । सपादकोटिमूल्यं तद् , ज्ञात्वा मन्त्र्यपि तं जगौ ॥१९॥ कुतस्तवेदृशं रत्नं, स
प्राहेदृग्विधानि मे । पश्च रत्नानि विद्यन्ते, तत्सम्बन्धोऽवधार्यताम् ॥ २०॥ अभूत्मधुमतीपुर्या, हासाख्यो वणिज करः।
सौराष्ट्रिको मम पिता, माग्वाटज्ञातिमण्डनम् ॥ २१॥ आसमे मरणेऽन्येयुः, पित्राऽहमिति माषितः । मया प्रवहणैर्वत्स !,
प्रभूतं धनमर्जितम् ॥ २२॥ तेन चैतत्सारभूत, गृहीतं रत्नपञ्चकम् । गृहाण तदिदं वत्स!, तमाक्तं च मे शृणु ॥ २३ ॥
शत्रुञ्जये रैवते च, तथा श्रीदेवपत्तने। व्ययनीयं त्वयैकैक, द्वयं चास्तु धनं तव ॥ २४ ॥ इत्युक्त्वा स्वर्णते तस्मिन्, जनन्या
सहितस्त्वहम् । अत्रागां सा तु मुक्तास्ति, कपर्दिभवने मया ॥२५॥ श्रुत्वेति सचिवो हृष्ट-स्तं वृत्तान्त्र नरेशिनुः। न्यवेदयको
भूप-स्तन्मातुः सम्मुखं ययौ ॥ २६ ॥ चैत्ये तत्र समानीय, वां वृद्धां भूरिविस्तरैः । माला मूर्ती गुणश्रेणी-मिव तां पर्यधा-
पयत् ॥ २७॥ स्वामिवक्षस्थले हारं, स्फार निर्माप्य भूपतिः । नायकस्य पदे रत्नं, तदनय॑ न्यवीविशत् ॥ २८॥ व्ययि-
त्वेत्यपरं रत्न-यमप्येष पुण्यवान् । भूपश्च सर्वतीर्थेषु, यात्रां कृत्वा गृहं गतौ ॥ २९ ॥ एवं कतार्या कमला विधाय, क्षेत्रेषु
सप्तस्वपि माग्यमाजः । नृनाकिसौख्यान्यखिलानि भुक्त्वा, ऋण मोमध्वनि सम्बन्ति ॥३०॥
॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे पश्चदश उपदेशः।।१५।।
सप्ततिका.
उपदेश-
.
॥४२॥
यात्रां सृजन्तो विदधत्यमात्रां, भक्तिं जिने ते मुखिनो नराः स्युः।
शत्रुञ्जयादौ कृतपूर्विणस्तां, मुक्तिं ययुः श्रीमरतादयो यत् ॥ १॥
एकदा विहरन् स्वामी, वृषभो जिनपुङ्गवः । विनीतोद्यानमायातो, देववृन्दनिषेवितः ॥ १॥ हस्तिस्कन्धसमारूढ-ऋतुरक-
चमूयुतः । प्राप्तस्तं वन्दितुं तस्य, देशनामशृणोदिति ॥ २॥ सङ्घस्य भक्तिः सुकुलप्रमूतिः, सुपात्रदानं शुमवित्तयोगः ।
सङ्घाधिपत्यं च सुतीर्थसेवा, लभ्यानि माग्यैः प्रचुरैरमूनि ॥ ३॥ पप्रच्छ भरतः स्वामिन् !, किं सङ्घाऽधिपतेः पदम् । को
विधिस्तत्र किं कार्य, कार्य प्राप्तं कथं च तत् १ ॥ ४ ॥ स्वाम्याह-
यच्छन्पश्चविधं दान-मुद्धरन् दीनसञ्चयम् । पुरे पुरे जिनागारे, कुर्वाणो ध्वजरोपणम् ॥५॥ शत्रुञ्जयादितीर्थेषु,
गुर्वादेशवशंवदः । इन्द्रोत्सवादिकं कृत्यं, कुर्वन् सङ्घपतिर्मवेत् ॥ ६ ॥
मरतश्चिन्तयति-
कथं तत्पुरुषेणास्तु, मयि सङ्घपतिश्रुतिः। चेबहुव्रीहिणा सा स्या-द्धन्यंमन्यस्तदाऽस्म्यहम् ॥ ७॥ वन्दित्वा भरतः प्राह,
तर्हि स्वामिभिदं पदम् । मह्यं प्रासादमाधाय, देहि देहिमियङ्करम् ॥ ८॥ इन्द्रादिभिस्ततो देवैः, सङ्घन सहितो विभुः । उत्या-
याक्षतवासांश्च, चिक्षेप मरतोपरि ॥९॥ शक्रस्तदानीमानीय, मालां दिव्यां महीपतेः। तत्पन्याश्च सुभद्रायाः, कण्ठे
-
॥४२॥
निक्षिप्तवान् मुदा ॥१०॥ ततः सकलसामग्र्या, यात्रायै प्रस्थितो नृपः । शक्रोपनीतसौवर्ण-देवालयपुरस्सरम् ॥ ११ ॥ हस्त्य- वरथपादातैः, प्रौढः परिवृद्धैर्युतः। सपादकोटितनयै-रत्नाद्यैश्च विराजितः ॥ १२ ॥ अथ सोमयशा राजा, शतपत्तननायकः । द्वियुक्सप्ततित्रिघ्नाऽष्ट-सहसतनयाङ्गनः॥ १३ ॥ लक्षद्विपेन्द्रपश्चघ्न-सप्तलक्षतुरङ्गराद् । सपादकोटिपादाति-राजसप्तशतीवृतः ॥ १४ ॥ युगघ्नैकादशप्रौढ-रयलक्षसमन्वितः । द्वात्रिंशल्लक्षसुग्राम-स्वामी प्रस्थितवान् सह ॥ १५॥ त्रिभिर्विशेषकम् ॥ वैताढये षष्टिपञ्चाशनगराणामधीश्वरः । अचलद्विनमेः पुत्रो, राजा गगनवल्लमः ॥ १६ ॥ वज्रनाभः पूर्वदिशः, स्वामी पश्चिमनायकः । कल्याणकेतुराजेन्द्र-श्चत्वारोऽमी महीधराः ॥ १७ ॥ प्रत्यहं कुरुते चक्री, प्रयाण योजनाऽवधि । रत्नानुमाव- सम्पन्न-सद्यस्काशेषवाञ्छितः ॥ १८ ॥ यथाकालं यथायोग्य, क्षणादेव यथेप्सितम् । निर्मीयन्ते महोत्तुङ्गा, गृहा वर्द्धकिना पुनः ॥ १९ ॥ मुराष्ट्रासु गते सङ्के, शक्तिसिंहनरेश्वरः । भ्रातृव्यः सम्मुखं प्राप्त-श्चक्रिणः प्रणति व्यधात् ॥ २० ॥ दृष्टे श्रीपुण्डरीकाद्रौ, सर्वेषां हर्षपूरणात् । भरतः स्थापयामास, पुरमानन्दपूर्वकम् ।। २१ ।। यत्र जीवद्युगादीश-प्रासादोऽकारि चक्रिणा। चतुर्युग्यां च चत्वारि, यस्य नामानि जज्ञिरे ।। २२ । पर्वतारोहसमये, तृषाक्रान्तजनार्थितः। लब्धिमांश्चैल्लणः साधु-चक्रे पथि तटाकिकाम् ॥ २३ ॥ नदीकुण्डादिकं तत्त-न्महिमोक्तिपुरस्सरम् । शक्तिसिंहेनोच्यमानं, भरतोऽपि न्यभालयत् ।। २४ ॥ शक्रो- ऽप्यत्रान्तरे प्राप्त-श्चक्री तेन सम तदा । राजादनीं नमश्चक्रे, तीर्थभूता हि सा यतः ॥ २५ ॥ नवनवई पुव्वाई, विहरतो आगओ अ सिजे । उसभी देवेहिं समं, समोसढो पढमतित्थयरो ॥१॥ एकोनससतिकोटा-कोटयोऽशीविध पश्चयुम् । कोटिलक्षातुश्चत्वारिंशरकोटिसहसकाः॥२६ ॥ ६९८५४४००००००० उपदेश- सप्ततिका. ॥४३॥ वाराने तावतः सामी, समागत्यात्र पर्वते । अस्या अधस्ताद्विदधे, सरसां धर्मदेशनाम् ॥ २७॥ शक्रश्चक्रिणमाचष्ट, कालो नातः परं वरः। विना मा गिरावेव, न श्रद्धास्यन्ति मानवाः ॥ २८ ॥ तीर्थ पर्वत एवायं, पवित्रस्तीर्थकुत्क्रमैः। विशेषाद्वा- सनावृद्धथै, प्रासादः स्यातदा वरम् ॥ २९ ॥ ततश्चक्री चतुर्युक्ता-ऽशीतिमण्डपभामुरम् । कोशोचं सागव्यूत-दीर्घ रत्नमणी- मयम् ॥ ३० ॥ धनुःसहस्रविस्तारं, सदेवकुलिकायुतम् । त्रैलोक्यविभ्रमं नाम, प्रासादं निरमापयत् ॥ ३१ ॥ चतुर्दिक्षु चतस्रः श्री-युगादिजिनमूर्तयः । प्रासादे तत्र सद्वर्णाः, स्वर्णमय्यो विरेजिरे ॥ ३२ ॥ श्रीपुण्डरीकगगभृ-च्छिष्याः श्रीनाममूरयः । प्रतिष्ठाविस्तरांश्चक्रु-स्तत्र चक्रयादिहर्षदान् ॥ ३३ ॥ इत्यं तत्र महान् विधाय विविधांश्चक्री गतो रैवते, तत्राप्युच्चमचीकरयुगयु- गैर्विभाजितं मण्डपैः । श्रीशैवेयजिनस्य चैत्यमपरेष्वेवं च तीर्थेष्वपि, प्राज्यं पुण्यमुपाय॑ सङ्घमहितः प्राप्तो विनीतापुरि ॥३४॥ किश्चिन्यूनानि षट्पूर्वलक्षाणि मरतेश्वरे। राज्यं कुर्वति राजानः, एतावन्तोऽत्र सङ्घयाः ॥ ३५॥ नवनवतिकोटिरधिकाः, लक्षरेकोननवतिपरिमाणैः । चतुरधिकाशीतिमितेः, सहस्त्रकैश्चापि भूमिभुजाम् ॥ ३६ ॥ इति भरतचक्राति-विलासमवनेऽप्य- वाप्तवरसंवित् । प्रतिपाल्य पूर्वलक्ष, श्रामण्यं सिद्धिमध्यास्त ॥ ३७ ॥ ॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे षोडश उपदेशः ॥१६॥ . श्रीतीर्थयात्रामतिमात्रमात्या, वितन्त्रते ये मनुनौपयुक्ताः। आभूरिय प्रौढसमृद्धियुक्ता-स्ते पूजनीया जगतां मवन्ति ॥१॥ थारापद्रपुरे आभूः, समत्रसचिवाग्रणीः। जिनधर्मरतः श्रीश्री-मालज्ञातिशिरोमणिः ॥१॥ पश्चिमामण्डलीकेति, बिभ्राणो विरुदं महत् । भूरिद्रविणकोटीश-आभूः श्रीद इवाऽमवत् ॥२॥ शत्रुञ्जयेज्यदा नन्तुं, श्रीयुगादिजिनेश्वरम् । भूरिसङ्घयु- तोऽचालीत्, आभूः सङ्घपतिपुंदा ॥३॥ चेलुर्देवालयाः मज-शतानि स्वर्विपानवत् । सुखासनरयस्फार-वाहिन्यो भूरिशः पुनः ॥ ४ ॥ चत्वारिंशत्सहस्राणि, शकटानां विरेजिरे । दशोत्तरा पश्चशती, तुरगाणां सहाऽचलम् ॥५॥ द्वाविंशतिशतान्युष्ट्राः, शतमेकं कटाहिकाः। ताम्बूलिकाः कान्दविकाः, मूगकाराः शनप्रमाः॥६॥ शतमेकं त्रिषष्टिश्च, तत्राट्टानि स्फुटान्यभुः। प्रपाः सप्त विभान्नि म्म, मालाकारशतोमयी ॥७॥ शतानि सप्त महिषाः, नीरानयनहेनवे । मनुष्याश्वतरादीना-मियत्ता तु न विद्यते ॥८॥ शोषयंस्तटिनाकूप-सरस्यादिजलाशयान् । आभूसङ्घपतिर्मार्ग, कामति स्म शनैः शनैः ॥९॥ दृष्टिर्गिगते शत्रु-जये तीर्थेश्वरे तदा। सङ्घभक्तिं चकाराभू-वस्त्रालङ्करणादिभिः ॥ १० ॥ शत्रुञ्जमाद्रिमारूय, स्नात्रपूजाध्वजादिभिः । आभूश्चकार सफलं, निजं जन्म महोत्सवैः॥११॥ रैवतादौ ततो गत्वा, जिनं राजीमतिपतिम् । समं समग्रमङ्घन, प्राणमत्पणया- श्चितः ॥ १२ ॥ द्वादशस्वर्णकोटीना, व्ययं कृत्वा महोत्सवैः । आभूः प्रथमयात्राया-मागानिनपुरं क्रपात् ॥ १३॥ व्योमच- न्द्रेषुभूसंख्या (१५१०) प्रतिमा यो व्यधापयत् । अतुच्छरुत्मवैः सप्त-शताचार्यपदानि च ॥१४॥ व्ययित्वा द्रव्यकोटीश्व, तिरश्चामीकरस्य सः । एतां हैमाक्षरां सर्व-वत्तमानागमति ॥१५॥ वर्तमानाखिलग्रन्थां, द्वैतीयीकी पुनः प्रतिम् । मष्य- क्षरमयी मन्त्री, लेखयामास भक्तितः ।। १६ ।। प्रासादौ मचित्रः सारू-आरघाटमयौ तथा । कारयामास सूनेत-माहूकग्रामयोः पुनः॥ १७ ॥ चतुर्युताशीतिमित-प्रासादेष्यतां भवेत् । यावान् द्रव्यव्ययस्तावा-नेकस्मिन् सारूआरके ॥१८॥ अन्यान्यपि स चैत्यानि, स्थाने स्थाने च भूरिशः । कारयामाम मन्त्रीशः, सस्वर्गकलशान्यपि ॥ १९॥ श्राद्धान् षटयधिकांस्त्रीणि, शतानि
सप्ततिका.
.
उपदेश-
॥४४॥
निजसभिमान् । अर्पयित्वा रमामाभू-चक्रेऽहन्मतघासितः ॥ २० ॥ अवसाने तु जग्राह, सैष संस्तारकव्रतम् । तत्र व्ययित-
वान् सप्त-कोटीश्चामीकरस्य सः ॥ २१ ॥ संस्तारकव्रतं सम्यक, पालयंस्त्यक्तभोजनः। आभूः सङ्कपतिः शुद्ध-ध्यानवान्
स्वर्गमीयिवान् ॥ २२ ॥ प्रतिवर्ष विधीयन्ते, यात्राः वै.श्चन धार्मिकः । जन्मन्यपि न ये यात्रां, कुर्वते ते महालसाः॥२३॥
या त्रायते भीममवाटवीमयात्, यात्राईती सेति निरुक्तमुच्यते । ज्ञात्वेति मन्यैर्भवमञ्जनेच्छया, कार्य तथा स्यात् मतनुर्भवो
यथा॥२४॥
॥ इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे सप्तदश उपदेशः ॥१७॥
इति श्रीपरमगुरुतपागच्छनायकश्रीसोमसुन्दरसूरिपदकमलमरालमहोपाध्यायश्रीचारित्ररत्नगणिविनेयपं०सोमधर्मगणिविरचितायां
श्रीउपदेशसप्ततिकायां श्रीतीर्थाधिकारो द्वितीयः ॥२॥ इति श्रीदेवतत्त्वं सम्पूर्णम् ॥
॥४४॥
॥अथ श्रीगुरुतत्त्वाधिकारस्तृतीयः प्रारभ्यते॥
तत्र श्रीगुरुलक्षणं चेदम्-
निवर्तयत्यन्यजनं प्रमादतः, स्वयं च निष्पापपये प्रवर्तते ।
गृणाति तत्त्वं हितमिच्छुरङ्गिना, शिवार्थिनां यः स गुरुर्निगद्यते ॥१॥
ततश्च श्रीगुरूणां गुणोत्कीर्तनेन विधिना कृतिकर्मप्रदानैर्विनियमक्तिबहुमानादिमिश्च सम्यग् विवेकवताराधनं कार्य कलियुगे
तदायत्तत्त्वाच्छ्रीजिनधर्मस्य । यदुक्तम्-कइआवि जिणवरिंदा, पत्ता, आयरा, आयरिए० ॥१॥
श्रीगुरुगुणोत्कीर्तने पद्मशेखरनृपोदाहरणम् । यया-
पृथ्वीपुरे पुरे पद्मशेखरो राजाऽतीवधर्मपरोऽन्यानपि धर्मे प्रवर्त्तयति, लोकानां पुरतो गुरुगुणांश्च कीर्तयति। वयाहि-
खंता दंता संता, उवसंता रागरोसपरिचत्ता । परपरिवायविरत्ता, अपमत्ता जे उ ते गुरुणो ॥१॥
बंदिज्जमाणा न समुक्कसंति हीलिज्जमाणा न समुज्जलंति ।
दंतेण चित्तेण चरन्ति धीरा, मुणी समुग्धाइअरागदोसा ॥ २॥
उपदेश-
सततिका.
॥४५॥
दुविहे गुरू पत्ते, तंजहा-तवोउत्ते, नाणोवउत्ते अ। तत्थ तवोउत्ते वडपत्तप्तमाणे, केवलं अप्पाणं तारेइ । नाणोवउत्ते
जाणवत्तसमाणे, अप्पाण परं च तारेइ ।
इत्यादि श्रीगुरुगुणवर्णनैर्भूयान् जनस्तेन स्थापितो धर्मे । परमेको विजयो नाम वणिग् नास्तिकमतानुसारी इति मगति,
दुःशकानि रोधुमिन्द्रियाणि स्वस्वमार्गानुगामुकानि । आत्मशोषणमात्रमेव तपः । केन दृष्टौ स्वर्गापवर्गौ । उक्तं च-
हत्थागया इमे कामा, कालिआ ते अगागया । को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो ॥१॥
ततो न किञ्चिदेतत् । इत्यं तेनापि भूयान् जनो विप्रतारितः। एवं च तस्मिन् नगरे तौ द्वावपि पुण्यपापोपदेशकुशलौ प्रत्य-
क्षाविव सुगतिदुर्गतिमारौँ ममजायेतां । अन्यदा तत्स्वरूपं नृपेण ज्ञात्वा प्रच्छन्नं निजजनपात्तिद्गृहे हारमेकं लक्षमूल्यं
तदीयाभरणकरण्डके प्रक्षेप्य नगरे च पटहो दापितः । 'यो राज्ञो हारं गतं सम्पति कथयिष्यति तस्य न दण्डः, पश्चात्तु यस्य
गृहे लप्स्यते तस्य दण्डो विधास्यते' इत्यादि । यावन्न कोऽपि मन्यते ततः सर्वगृहशोधनपूर्व शोधितं तस्यापि गृहं, लब्धो
हारः। धृतो राजपुरुषैः श्रेष्ठी । आनीतो राजसमीपे । आदिष्टोऽसौ वराको वध्यः । न च कोऽपि तं मोचयति । स्वजना-
दिवहुक्ते राजा वदति-
जइ मम पासाओ ति-ल्लपुनपत्तं गहित्तुं बिदुपि । अचयंतो सयलपुरे, ममिङ पुण ठाइ मह पुरओ ॥१॥
एवं यदि करोति तदैवास्य मोक्षो नान्यथा । तेन तदपि मरणभीच्या प्रतिपन्नम्-
तत्तो निरूविभाई, सयलपुरे पउमसेहरनिवेण । पडपडहवेणुषीणा-ई सदउद्दामहरिसाइं ॥१॥
॥४५॥
अइलडहरूबलवणिम-सुवेसवेसाविलासकलिआई । सधिदिअसुहाई, पए पए पिच्छणसयाइं ॥ २ ॥
स च तेषु विशेषतो रसिकोऽपि तस्मिन्नेव भाजने निहिनदृष्टिरुभयपार्श्वनृपनियुक्तावगव्यग्रकरसुभट क्रियमाणनानाबिमीषि-
काभिर्भाप्यमानः सकलपुरे भ्रामयित्वा आनीतः । नृपोऽपीपद्विहस्य तं प्रति प्राह, भो! अत्यन्तचञ्चलानि मनःकरणानि कथं
मवता रुद्धानि ? । तेनोक्तं, स्वामिन् ! मरणमीरुतया । नृपः प्राह, योकभवार्थ त्वया प्रमादः सेवितः, तीनन्तसंसारमरण-
भीरवः साध्वादयः कथं प्रमादं कुर्युः ? । श्रेष्ठिराज ! आकर्णय हितवचनम्-
यत्करोति विकथाः प्रथावतीर्यत्खलेषु विषयेषु दृष्यति । सुप्तमत्त इव यद्विचेटते, यन्त्र वेत्ति गुणदोषयोर्मिदाम् ॥१॥
क्रुध्यति स्वहितदेशनेऽपि य-द्यच याति नरकादियोनिषु । लोक एष निखिलं दुरात्मन-स्तत्प्रमादकुरिपोर्विज्जृम्भितम् ॥२॥
तेन मा कार्षीः प्रमादम् । यजस्व जिनम् । भनस्व गुरुम् । पालय षडावश्यकविधिम् । मा पत संसारकूमे। इत्यादि-
तदीयशिक्षया प्रतिबुद्धोऽसौ सत्यः श्रावको जातः । पमशेखरनृपोऽपि क्रमेण गुरुगुणवणनपरो बहुलोककृतपुण्यला मः
सुकृति प्राप ॥
श्रुत्वेति कुग्रहविनिग्रहणैकमन्त्रं, श्रीपबशेखरनरेश्वरसच्चरित्रम् ।
सज्ज्ञानदर्शनचरित्रभृतां गुरूणां, भव्या जनाः ! गुरुगुणान् परिकीर्तयन्तु ॥१॥
॥ इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे प्रथम उपदेशः ॥१॥
उपदेश- ॥४६॥ . ददाति यो वन्दनकानि पादयोः, श्रीमद्गुरूणां विनयेन मावितः। सप्ततिका. उच्चैः पदं तस्य न दुर्लम मवे-दर्थेत्र कृष्णः क्रियते निदर्शनम् ॥ १॥ अस्ति द्वारवती नाम, पुरी सुरपुरीसमा । अपसार्य समुद्रं यां, धनदेन विनिर्मिता ॥१॥ कंसकैटमचाणूर-जरासन्धादिवैरि- जित् । वासुदेवोऽन्तिमस्तत्र, भुङ्क्ते साम्राज्यसम्पदम् ॥ २॥ यम्य क्षायिकसम्यक्त्वं, परदोषाऽविकत्यनम् । अपयुद्धनिषेषश्च, गुणा लोकोत्तरा अमी ॥ ३ ॥ दीक्षां जिघृक्षुर्यः कोऽपि, तनयस्तन्निषेधनम् । तेन न क्रियते कन्या-विवाहेऽस्य तु निर्णयः ॥ ४ ॥ यदा विवाहयोग्या स्यात्, पुत्री तज्जननी तदा । विभूष्य प्रेषयत्यन्तः-समं कृष्णोऽपि तां वदेत् ॥५॥ त्वं भविष्यसि किं राज्ञी, दासी वेति वदाऽङ्गजे ! राझी यदि तदा तस्या-स्तपस्यां दापयत्यसौ ॥६॥ करोति कारयत्यन्यै-रतुच्छोत्सवस- न्ततिम् । श्रामण्यं तत्त्वतः शक्र-राज्यादप्यधिकं यतः ॥ ७॥ चेद्दासी तत्तदीयाया-जनन्या एव मन्दिरे। तां प्रेषयति सैवाऽस्याः, विवाहादि करोति च ।। ८ ॥ स्वमातृशिक्षिता काचि-दन्यदा तनयाऽवदत् । अहं दासी भविष्यामि, हृदि दध्यौ हरिस्ततः ॥९॥ कयापि शिक्षिता नून-मिय मुग्धा वदत्यदः । अस्यास्तथा करिष्येऽहं, यथाऽन्याऽपीति वक्ति न ॥१०॥ अस्ति शालापतिस्तस्य, वीरनामा मुसेवकः । आचाल्यादपि तद्वृत्तं, वेत्ति हास्यकरं हरिः ॥११॥ दित्सुस्तां तनयां तस्मै, सभ्यानां पुरतो जगौ । स्तुतिरूपेण तवृत्तं, नीचमप्युञ्चतां नयन् ॥ १२ ॥ भो भो निभाल्यतां सभ्याः !, वीरोऽयं वीरपुङ्गवः। एतत्पराक्रमप्रौढिः, श्रूयतां निगदाम्यहम् ॥ १३ ॥ जेण घोसवई सेणा, वसन्ती कलसीपुरे । झम्पिा वामहत्येण, वेमई नाम 5॥४६॥ खत्तियो॥ १४ ॥ जेण रत्तफणो नागो, वसन्तो पदरीवणे । आहओ पुढविहत्थेण, वेमई नाम खत्तिओ ॥ १५॥ जेण चकुक्खई गंगा, वहन्ती कलुसोदगम् । धारिआ वामपाएण, वीरओ नाम खत्तिओ ॥ १६ ॥ तदेष विक्रमी वर्यः, कन्याया उचितो वरः । ईदृक्षो नेक्ष्यतेऽन्यस्तु, यो मह्यं हृदि रोचते ॥ १७॥ आज्ञाशूरस्य तस्यैत-द्वचोऽतिक्रमभीरवः। ओमिति प्रत्यपद्यन्त, समग्रं ते सभासदः॥ १८ ॥ अरोचमानोऽप्यन्येभ्य-स्तयोः पाणिग्रहो मिथः । कारितो वासुदेवेन, किमसाध्यं हि तादृशाम् ॥ १९ ॥ गता तस्य गृहे सापि, स्फाराऽलङ्कारधारिणी। वर्यपल्यङ्कमारूढा, देवीव भुवमागता ॥ २० ॥ न तस्य गेहकृत्यानि, विनयं चापि नाकरोत् । स एव किन्तु सञ्जात-स्तदादेशवशंवदः ॥ २१॥ वासुदेवाच्छङ्कमान-स्तां मुरीमिव मन्यते । सोऽपि तस्याऽभिसन्धि तु, न वेत्ति हृदि संस्थितम् ॥२२॥ आलापितोऽन्यदा वीरः, कृष्णेन गृहिणी तव । कृत्यानि कुरुते नो वा, विनीतः सोऽपि तं जगौ ॥ २३॥ त्वत्सुत्ता वर्यसौन्दर्या, देवीवाराध्यते मया । इसन्ति सभ्याः सर्वेऽपि, वासुदे- वोऽपि तं जगौ ॥ २४ ॥ तस्याः पार्धात्समस्तानि, गेहकृत्यानि कारयेः । मनागपि ममाशङ्कां, तस्या अपि च मा कृथाः ॥ २५ ॥ गृहागतः स तां गाढं, तर्जयामास पापिनि ! । उपविश्य स्थिता कस्मा-दुत्तिष्ठ कुरु पाचनीम् ॥ २६ ॥ परिकर्मय सूत्राणि, प्रमार्जय गृहाङ्गणम् । निर्व्यापारा मम गृहे, कियत्कालं ललिप्यसि ॥ २७॥ तेनेत्याक्रुश्यमाना सा, रुष्टा पीतगृह गता । सगद्गदं जनन्यादेः, स्वदुःखं प्राह तत्कृतम् ॥ ८॥ हरिरप्याह रे मूर्खे !, त्वदुक्तं विहितं मया । सा तेऽहं भविष्यामि, राझी तर्हि प्रसीद माम् ॥ २९ ॥ हसित्वा हरिरप्याह, त्वद्भर्त्ता चेद्वदत्यथ । राज्ञी त्वं हि तदैव स्याः, ततः सापि तथा व्यधात् ॥३०॥ तस्यानुमत्या सा दीक्षा-मादत्ते स्म सविस्तरम् । श्रीनेमिपाचे दुःखौघ-च्छेदाच मुखिताऽभवत् ॥३१॥ अष्टादश सहस्राणि, स्वामिनः साधवस्तदा । परिवारेऽभवंस्तत्र, श्रीकृष्णः स्वामिनं जगौ ॥ ३२॥ मगवन् ! सर्वसाधूना-मद्य
उपदेश-
सप्ततिका.
भ४७
बन्दनकान्यहम् । अस्मि दित्सुर्यदि भव-त्यादेशो मवां प्रमो। ॥ ३३ ॥ दृष्ट्वा लाममनुज्ञातः, कतिकर्माणि दत्तवान् ।
ऋषीणां षोडशमाप-सहस्रपरिवारितः॥ ३४ ॥ चटत्प्रकर्षहर्षेण, पूरितो मक्तिमामुरः। तदा स शुशुभे शत्रु-मछेदोयतमटो
यया ॥ ३५ ॥ अन्तराले नृपा अन्ये, श्रान्तास्तानि ददुन ते । स्वामिमत्या पुनर्वीरः, प्रान्तं यावद्वितीर्णवान् ॥ ३६ ॥ षष्टि-
युक्तिशतीयुद्ध-ज्वेतावान श्रमोऽभवत् । यावन्ममाऽधुना जातो, भगवन् ! मावि किं फलम् ? ॥ ३७॥ इति कृष्णेन पृष्टः
सन् , प्रभुः प्राह त्वया हरे ! । निरस्तो नरकस्तूर्य-स्तीर्थकृत्कर्म चार्जितम् ॥३८॥ फलप्रश्ने तु वीरस्य, यत्वं तुष्टः प्रदास्यसि ।
अनेन तव भक्त्यैव, दत्तानि न तु भावतः ॥ ३९ ॥ इत्याद्यन्यदपि स्वामि-पार्श्वे पृष्ट्वा प्रणम्य तम् । गोविन्दोऽन्येऽपि
लोकाच, गताः स्वस्वगृहं क्रमात् ॥ ४० ॥
द्रव्यभावकातेकर्मविधाना-दित्यमौच्यत निदर्शनमेतत् । तेन तानि गुणदोषविवेका-द्दीयतां गुरुपदाम्बुजयुग्मे ॥ ११ ॥
॥ इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे द्वितीय उपदेशः ॥ २॥
सम्यग्रहृदयशुद्धया, श्रीगुरुपादा निषेविताः। तुष्यन्त्यत्रोच्यते योगि-नागार्जुननिदर्शनम् ॥१॥
विद्याधराभिधे स्वच्छ-गच्छे विख्यातकीर्तयः । श्रीपादलितनामानो, जज्ञिरे मूरिपुङ्गवाः ॥१॥ येषां श्रीगुरवो बाल्ये,
मुदिता गाथयैकया। पादलेपामियां विद्या, ददुराकाशगामिनीम् ॥ २॥ इयं च गाथा-
अंबं बच्छीए, अपुप्फि पुष्फदंतपंतीए । नवसालिकंजिअं नव-वहूइ चडुएण मे दिमं ॥१॥
॥४७॥
शत्रुञ्जयाष्टापदरैवतार्बुदे, संमेतशैले वरतीर्थपञ्चके । जिनान्नमस्कृत्य मुविद्यया तया, वितेनिरे भोजनमन्यथा न ते ॥३॥ समग्रविकृतित्यागा येषां केवलमोदनम् । गृह्नतामारनालेन, बभूवुनॆकलब्धयः॥४॥ कपटश्रावकीभूय, योगी नागार्जुनोऽन्यदा। विद्यानायं जिघृक्षुस्तं, गुरुपादान्न्यषेवत ॥ ५ ॥ नित्यं वन्दनकान्येष, ददाति गुरुपादयोः । लब्धलक्षतया जिघ्र-नेव वेत्त्यौ- षधान्यपि ॥ ६॥ क्रमात्सप्तोत्तरशतं, ज्ञातवानौषधव्रजम् । अष्टोत्तरशततम-मभ्यासाऽभावतो न तु ॥७॥ सम्मील्य तानि तल्लेपं, येन तेनापि वारिणा । विधाय पादयोर्दत्ते, व्योमोत्पतनकाम्यया ॥ ८॥ पतनोत्पतनान्यस्य, तत्प्रमावाद्वितन्वतः । सत्याम्नायं विना किन्तु, देहे जाता क्षतावली ॥९॥ पप्रच्छुर्गुरवो मद्र !, तव केयं क्षतावली । मूलादारभ्य वृत्तं स्वं, सोऽप्यु- वाच यथाकृतम् ॥ १०॥ तद्बुद्धिरञ्जितास्तस्य, स्वीकार्य द्वादशवतीम् । विधाय श्रावकं सत्यं, तदाम्नायौषधं जगुः॥११॥ अमीषामौषधानां त्वं, षष्टितन्दुलपाथसा । विधेहि लेप चेद् व्योम-न्युत्पित्सा तव वर्तते ॥ १२ ॥ इति श्रुत्वा तथा कृत्वा, सिद्धसर्वमनोरथः । प्रभावयन् जिनमतं, स श्राद्धः परमोऽभवत् ॥१३॥ अत एव निषेव्यन्ते, हार्दभक्त्या विवेकिना । गुरुदेव- पिवृक्ष्माप-प्रमुखाः सत्फलार्थिना ॥ १४ ॥ अन्यदा योगिना तेन, स्वर्णसिद्धिकरो रमः । सहस्रवेधी सम्मील्य, बहुद्रव्याणि साधितः ॥ १५ ॥ आत्मीयजनहस्तेन, भृत्वा काचस्य कुम्पकम् । तं रसं प्राभृतीचक्रे, तेषामेव स्वभक्तितः ॥ १६॥ सूर- योऽप्यूचिवांसस्तं, जनं नामितमस्तकम् । किमिदं प्राभृतं वत्स!, केन वा प्रेषितं वद ॥ १७ ॥ सोऽप्युवाच प्रभो! नागाs- जुनेन प्राभृतीकृतः । स्वर्णसिद्धिकरो ह्येष, रसस्त्रैलोक्यदुर्लभः ॥ १८ ॥ आह तस्यास्मदीयस्य, विनेयस्य कृतज्ञता । येनेत्यं नव्यनिष्पन्नो, रसोऽयमुपदीकृतः ॥ १९ ॥ परं वयं परित्यक्त-बहिरन्तःपरिग्रहाः। नेच्छामो मनसाप्येनं, तृणस्वर्णसमस्पृहाः
उपदेश-
सप्ततिका.
॥४८॥
॥ २० ॥ अनर्थहेतुनाऽनेन, किमित्यालोच्य चेतसि । एष मुग्धोऽथवाऽस्माक-माचारमपि वेत्ति न ॥ २१ ॥ रक्षास्थण्डिल-
मानाय्य, तं रसं तत्र चिक्षिपुः । भृतवन्तः पुनः कुम्पं, निजप्रश्रवणेन ते ॥ २२ ॥ तस्मै तमार्पयंस्तेन, वृत्तज्ञापनपूर्वकम् ।
सोऽपि कोपमनाः प्राप-दुपनागार्जुनं जनः॥२३॥ज्ञापिते तेन तवृत्ते, योगी दध्यौ रुषारुणः । अहो! विवेक एतेषा-महो!
प्रत्यूपकारिता ॥ २४ ॥ अमी मलीमसा लोक-व्यवहारबहिर्मुखाः । पशुप्रायाः स्वपरयो-रपि व्यक्ति न जानते ॥ २५॥
इत्याद्यनल्पसङ्कल्पान् , हृदि ध्यात्वा शिलातले । कापि तं कुम्पकं बाद, स्फोटयामास निर्दयम् ॥ २६ ॥ क्षणान्तरे च सा
जाता, शिला सर्वा हिरण्मयी । सकौतुकं सनिर्वेदं, पुनर्योगीत्यचिन्तयत् ॥२७॥ अहो ! श्रीगुरुपादानां, प्रमावः कोऽपि नूतनः।
यदीयमलमूत्राद्य-मपि स्वर्णस्य कारकम् ॥ २८ ॥ कटरे ! तपसः शक्ति-वपुरे ! भाग्यवैमवम् । स्वर्णपुंवद् यदीयेयं, तनुः
सर्वापि रैमयी ॥ २९ ॥ मया क्लेशसहस्रेण, रससिद्धिविधीयते । अमीषां तु स्वभावेन, सा वपुःस्थैव विद्यते ॥ ३० ॥ इत्य-
वेत्य समागत्य, नत्वा तांश्च युगोत्तमान् । स्वकीयमपराधं स, क्षमयामास योगिराट् ॥ ३१ ॥ ततो नागार्जुनस्तान् श्री-गुरून्
कल्पगुमानिव । चिरमाराधयामास, वन्दनस्तवनादिभिः ॥ ३२ ॥
इति सुरवल्लीमिव ये, मनुजा आराधयन्ति गुरुभक्तिम् । तेषामखिलसमीहित-पदार्थसिद्धिर्भवत्यचिरात् ॥ ३३ ॥
॥ इति श्री उपदेशसप्ततिकायां तृतीयेऽधिकारे तृतीय उपदेशः ॥३॥
साधर्मिकास्था गुरुभक्तितीर्थो-नती नित्तिश्च परिग्रहादेः ।
अमी गुणाः पेथडदेवसाधो-यया बभूवुन तथा परेषाम् ॥१॥
॥४८॥
वणिग् विद्यापुरे पेथा-ऽमियो वसति निर्द्धनः । श्रीधर्म्मघोषसूरिभ्यः, श्रीधर्मप्रतिपत्तिकृत् ॥१॥ परिग्रहप्रमाणे च, तेषामेवाऽन्तिकेऽन्यदा । द्रम्मपञ्चशती स्वार्थे, यावनियमयत्यसौ ॥२॥ तावन्निषिद्धो गुरुमि-त्विा तद्भाग्यमुल्बणम् । तथा कार्य यथा भद्र !, व्रतमङ्गो मवेन ते ॥ ३॥ ममैतावन्ति भाग्यानि, क स्यां यैरहमृद्धिमान् । तथापि पश्चलक्षेभ्योऽभ्यधिक मे न कल्पते ॥ ४ ॥ त्वमिभ्यो मविता वत्स !, तव भाग्यं महद्यतः । इति श्रुत्वा गुरूनत्वा, स प्राप्तो निजमन्दिरम् ॥ ५ ॥ तत्र दुर्मिक्षतोऽन्येद्यु-निर्वाहस्याप्यसम्मवे । मार्याप्रथमिनीयुक्तः, प्रस्थितो मालवं प्रति ॥ ६॥ क्रमान्मण्डपदुर्गस्य, प्रतोली यावदागतः। तावद्वामा स्वरं चक्रे, दुर्गा सर्पशिरःस्थिता ॥ ७॥ स तदाश्चर्यमालोक्य, भीतो यावद्विलम्बते । तावत्तमाह शास्त्रज्ञः, कोऽपि मुग्धोऽसि भो वणिक् ! ॥ ८॥ पूर्व चेदगमिष्यस्त्वं, तद्भूपोऽत्र त्वमेव भोः ।। अमविष्य इदानीं तु, भावी तत्प्रतिस रूपमाक् ॥ ९॥ तेनेत्युत्साहितः प्राप्तः, स पुरान्त कृतस्थितिः । क्रमात्सारङ्गदेवस्य, राज्ञो मन्त्रिपदं दधौ ॥१०॥ ततः प्राप्ताधिकारोऽपि, न मुमोच स्वनिश्चयान् । मर्यादामुज्जिहीते किं, पयःपूरेऽपि सागरः? ॥११॥ नागवल्लीदलान्येष, विना सचि- चमत्यजत् । सर्व भूपसभे तस्य, निःश्रीकं मुखमन्यथा ॥ १२॥ यदा पर्यङ्किकारूढः, समां याति स मन्त्रिराट् । तदोपदेशमा- लायाः, गाथामेकां पठत्यसौ ॥ १३॥ राजकार्यव्यापृतत्वा-त्तस्य वेलाऽन्यदा तु न । आलोचादेरमावेन, निर्व्यापारो ह्यसौ तदा ॥ १४ ॥ इत्थं पपाठ तां पूर्णा, कियद्भिरपि वासरैः । अहो ! ज्ञानोद्यमस्तस्य, कस्य नो विस्मयावहः १ ॥१५॥ इति पेथडदेमन्त्री, प्रतिष्ठा प्राप्य भूपतेः । श्रीधर्मोऽपि प्रतिष्ठायां, तेन प्राप्यत तद्यथा ॥ १६ ॥ सप्तलौर्मनुष्याणां, द्वापश्चाश- जिनालयैः । श्रीतीर्थद्वययात्रायै, चलितः पेथडोऽन्यदा ॥१७॥ स च दैगम्बरश्चापि, सङ्घौ युगपदागतौ। गिरिनारे विवादोऽ-
सप्ततिका.
उपदेश-
॥४९॥
.
भू-त्तीर्थात्मीकरणे तयोः ॥ १८॥ उमयोरिन्द्रमाला यः, परिधास्यति सङ्घपः। तस्य तीर्थमिदं भावि, तदेति स्थविरा जगुः
॥ १९ ॥ तदा च सहसोत्याय, पेथडः पुण्यपेशलः । ऐन्द्री परिदधे माला, तीर्थमात्मीचकार च ॥२० ॥ त्रिनसप्तप्रमास्तेन,
स्वर्णघटयो व्ययीकृताः । अहो! उच्चपदप्राप्त्यै, पुरुषाणामुपक्रमः ॥ २१ ॥ अधः क्षिपन्ति कृपणाः, वित्तं तत्र यियासवः ।
सन्तस्तु गुरुचैत्यादा-बुन्नतं पदमिच्छवः ॥२२॥ इत्येकादशलक्षाणि, व्ययीकृत्य म यात्रया । आगतो मण्डपे दुर्गे, भूभुजा
बहुमानितः ॥ २३ ॥ यः श्रीमण्डपदुर्गस्थ-जिनचैत्यशतत्रये । अस्थापयत् स्वर्णकुम्मान् , स्वप्रतापानियोज्यलान् ॥ २४ ॥
सप्तनद्वादशमितान् , प्रासादाविरमापयत् । शत्रुञ्जयादिस्थानेषु, यश:पिण्डानिवात्मनः ॥२५॥ श्रीधर्मघोषसूरीणां, यः प्रवे-
शमहोत्सवम् । टङ्ककानां द्विसप्तत्यासहनिरमीमयत् ॥ २६ ॥ गव्युतद्विनये साधु-योगे सति तदनिके । उपक्रमेण गत्वापि,
यः प्रतिक्रान्तिमातनोत् ॥ २७॥ चतुर्पु योजनेष्वेवं, सति गीतार्थसम्भवे । विधत्ते पाक्षिकं साधु-घहो ! भक्त्यनुरागिता
॥ २८ ॥ पृष्ठस्थरचनावेदि-पुष्पार्पकनरान्वितः । अन्यदा गृहविम्बाना-मा मन्त्री सृजनभूत् ।।२९ ॥ तावत्तत्रागतो भूपः,
प्रच्छन्नं समुपाविशत् । तं पुष्पार्पकमुत्थाप्य, तत्परीक्षाकृतोद्यमः ॥ ३० ॥ हस्तः पराङ्मुखः पुष्प-ग्रहणायाय मन्त्रिणा । प्रसा-
रितो जिनन्यस्त-दृष्टिना निश्चलात्मना ॥३१॥ तावज्ज्ञातो नृपस्तेना-ऽन्यान्यपुष्पसमर्पणान् । क यूयमिति सम्भ्रान्तो, याव-
दुत्तिष्ठति द्रुतम् ॥ ३२ ॥ तावत् नृपोऽवदन्मा त्वं, त्वरस्व स्वस्थतां भज । ततः पूजां समाप्यैष, नृपेणालापमातनोत् ॥३३॥
धन्यस्त्वमीशी यस्य, दृढता जिनपूजने । इति स्तुत्वा गतो भूपः, सोऽपि भुक्यादिकं व्यधात् ॥३४॥ अन्यदा स्तम्मनतीर्थे,
श्रीधरव्यवहारिणा । सम्यक्त्वशीलवतयोः, प्रतिपत्तिर्व्यवीयत ॥३५।। सम्यक्त्वोद्यापने औपी-प्रतिग्राम स मोदकान् । मुक्ति-
॥४९॥
वल्ल्याः फलानीव, हेमटङ्ककगमितान् ॥ ३६ ॥ तुव्रतोद्यापने तु, तथैव प्रजियाय सः । पञ्चवर्णदुकूलानां, परिधापनिकाः शुभाः ॥ ३७॥ तदा मन्त्रिकृते चैकां, परिधापनिकाममौ । स्वनरैः प्रेषयामास, ते तां लात्वा ममागताः ॥ ३८ ॥ तेऽप्यू- चुर्मन्त्रिण देव !, बहिष्पादावधार्यताम्। परिघवप्रतो यूयं, श्रीधरमहितां मडिं ॥३९॥ मन्त्रिणा भाषिता मार्या, कथं देवि ! विधास्यते । साप्याह तत्समीभूय, स्वामिन् ! सा परिवीयताम् ॥ ४० ॥ ततः श्रीधर्मघोषान्ते, द्वात्रिंशद्वार्षिकोऽप्यसौ । चक्रे शीलवतोचार, पुत्रस्त्वेकोऽस्ति झञ्झणः ॥ ४१ ॥ सहस्रकैः पोडशभि-टङ्ककानां विधाप्य च। मडेस्तस्याः प्रवेशं स, स्वयं परिदधौ च ताम् ॥४२॥ इत्यनेकसुकृतैश्विरमह-च्छासने सकालोल्लसितानि । भानुमानिव विधाय गतोऽस्तं, स क्रमान् शिवपुरेऽपि गमी च ॥ ४३॥ मुख्यां यो विमलाचले परिदधौ मालां व्ययित्वा घटी हेम्नः सप्तगुणाष्टकमतिमिता राज्ञां वदान्यस्तथा । यः कर्पूरकृते च दक्षिगका संयोजयामासिवान् , म श्रीझञ्झगदेस्तदीयतनयः केषां न वर्ण्यः सताम् ॥४४॥ ॥ इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे चतुर्थ उपदेशः ॥४॥ श्रीमूरयः केऽपि कलौ युगेऽमवन् , दीपा इव श्रीजिनशासनौकसि । अत्रोच्यते म्लेच्छपतिप्रबोधकृ-जिनप्रभः मूरिवरो निदर्शनं ॥१॥ दन्त विश्वमिते वर्षे, श्रीजिनप्रभमूरयः। अभूवन् भूभृतां मान्याः, प्राप्तपद्यावतीवराः ॥ १॥ अन्यदा ते चतुर्मासी, स्थिताः श्रीयोगिनीपुरे। श्रीपीरोजमुरत्राणो, राजा यत्र विराजते ॥ २॥ पुरान्तस्तेऽन्यदा म्लेच्छा-नुपद्वविधायिनः ।
सप्तातका.
उपदेश-
॥५०॥
ग्रीवामोटनतत्सज्जी-करणाधेरशिक्षयन् ॥ ३॥ अवदातेन तेनाऽमी, विश्वविस्मयकारिणा । आभूपगोपं सञ्जाताः, जगद्वि-
ख्यातकीर्तयः॥४॥ भूपेनाकारितास्ते तं, श्रीधम्मोक्ति पुरस्सरम् । प्रत्यहं पीणयन्ति स्म, वाक्यैरवसरोचितः॥५॥ पृष्टो
विजययन्त्रस्या-ऽऽम्नायस्तेन महीभुजा । स सरिस्तं जगौ तस्य, तादृशानामगोचरम् ॥ ६॥ देवायं यत्समीपे स्या-त्तस्या-
समपि दैवतम् । न लगेन च बाधेत, वैरी रोषारुणोऽपि सन् ॥७॥ इत्याकर्णितपूर्वी तद्, यन्त्र निर्माप्य भूपतिः। छागस्यै-
कस्य कण्ठे च, परीक्षार्थमबन्धयत् ॥८॥ तरवारिप्रभृत्यत्र-प्रहारास्तेन मोचिताः । तदतें न लगन्ति स्म, सबाहमिव
विभूति ॥९॥ छत्रदण्डे निबध्यैनं, तस्याधः पुनरुन्दरम् । स्थापयित्वा स मार्जारी, प्रेरयामास कौतुकी ॥१०॥ तदृष्टिमात्रादु-
त्पन्न-वैराद्धावति तं प्रति । तच्छायां किन्तु नायाति, पार्थस्थैः प्रेरितापि सा ॥ ११॥ इत्यद्भुतद्वयं दृष्ट्वा, यन्त्रे ताम्र-
मये पुनः । कारयित्वा तयोरेकं, स्वपार्थे स न्यवीविशत् ॥ १२ ॥ एकं च गुरुपादानामुपदीचकृवानयम् । कदाचिदुपकारं हि,
विस्मरन्ति न साधवः ॥ १३ ॥ ततः प्रभृत्यसौ तान् श्री-गुरून् मुश्चति न क्वचित् । स्थाने याने गृहे ग्रामे, सभायां विजने
वने ॥१४॥ एकदा गुर्जरत्रायां, सुरत्राणो यियासया। ग्रामादहिवटस्यैक-स्याऽधः प्रस्थानमादधे॥१५॥ शीतलं शाड्वलच्छायं,
पृथुलं तं पुनः पुनः । निमालयन् सुरत्राणो, गुरून् पप्रच्छ हृद्गतम् ॥ १६ ॥ शोमनोऽयं वटः मरे!, तन्मनोभाववेदिनः ।
तेऽप्यूचुर्यदि वो वाञ्छा, तदाऽयं सह चाल्यते ॥ १७ ॥ ओमिति प्रतिपेदाने, चलिते तत्र भूपतौ । वटोऽपि सेवक इवा-
ऽचलत्मरिप्रभावतः ॥ १८ ॥ चलन्तं तं वटं प्रेक्ष्य, लोका उत्फुल्ललोचनाः । सूरीन्द्रं मनुजेन्द्रं च, प्रशंसन्ति पदे पदे ॥१९॥
कियत्यपि व्यतिक्रान्ते, मार्गे भूपोऽभ्यधाद्गुरून् । वटो विसृज्यतामेष, फेरकोऽस्यामवद्धहुः ॥२०॥ इत्युक्ते सूरिभिः प्रोक्तो,
॥५०॥
, वटो नत्वा नृपं वज्र । स्वस्थानकं तथैवाय-मपि चक्रे मुशिष्यवत् ॥२१॥ मरुस्थल्यामथायाते, भूपे तत्रत्यपूर्जनाः । आयान्ति सम्मुखाः स्थाने, स्थाने प्राभृतपाणयः ॥ २२ ॥ सामान्यवेषांस्तान् दृष्ट्वा, भूपः पप्रच्छ तान गुरून् । किमित्येवं विषा एते, प्रेक्ष्यन्ते लुण्टिता इव ॥ २३ ॥ देशाचारादहुद्रव्या-ऽभावाञ्चैवंविधो जनः । अत्र प्रायो भवेत् स्वामि-मान्यत्किश्चित्तु कारणम् ॥ २४ ॥ ततः प्रतिनरं पश्च-वस्त्रीं दिव्यामदापयत् । स्त्रियं प्रति च सौवर्ण-टङ्कयुग्मं च शाटिकाम् ॥ २५ ॥ इत्य- माशां जनस्यैष, पूरयनब्दवत्क्रमात् । प्राप्तवान् पत्तनासने, जङ्घरालमहापुरे ॥ २६ ॥ पुरा तत्र तपापक्ष-श्रीसोमप्रमसूरयः । सन्ति तन्मिलनार्थ ते, पुरान्तः सूरयो गताः॥ २७ ॥ अभ्युत्थानासनाधैस्तै-स्ते तत्र बहुमानिताः । ऊचुस्तान यूयमाराध्याः, येषामीविधा क्रिया ॥ २८ ॥ प्रत्यूचुस्तेऽपि काऽस्माकं, प्रशंसा क्रियते प्रभो ! । धन्या यूयं यदाधारे, जागतिं जिन- शासनम् ।। २९ ॥ इति प्रीतिपरौ याव-त्तौ वार्ता कुरुतो मिथः । तावच्छालान्तरे जातं, कौतुकं यत्तदुच्यते ॥३०॥ एकस्य सिक्किका साधो-र्मूषकेन विनाशिता । गुरूणां पुरतोऽभ्येत्य, सरावां विदधे मुनिः ॥ ३१ ॥ तदा विद्याभिराकृष्टाः, श्रीजिनप्रभमूरिमिः । शालान्तर्वर्तिनः सर्वे, मूषका उपतस्थिरे ॥ ३२ ॥ उन्नमय्य मुख हस्ती, संयोज्य भयभीरवः । गुरूणां पुरतस्तस्थु-विनीताः शैक्षका इव ॥ ३३ ॥ शृण्वन्तु मूषका भो भो !, यः कश्चिदपराधवान् । स तिष्ठतु परे सर्वे, यान्तु स्वेच्छं चरन्तु च ॥ ३४ ॥ इत्याचार्यवचः श्रुत्वा, सर्वेऽपि त्वरितक्रमम् । उत्प्लुत्य जग्मुरेकस्तु, स्थिरश्चौर इवाग्रतः ॥ ३५ ॥ तमप्युवाच मूरीन्द्रो, मा भैषीर्षीरतां मज । वयं हि साधवः पीडा, न केषामपि कुर्महे ॥ ३६॥ इति प्रोच्य स शालाया, अपि निष्काशितो बहिः । इत्यादिकौतुकैः साधु-वर्गस्तैः प्रीणितश्विरम् ॥ ३७॥ मूरीणामुपदेशेन, सैन्यससमन्वितः। ततो
उपदेश-
सप्ततिका.
॥५१॥
.
गतः सुरत्राणः, श्रीशत्रुञ्जयपर्वते ॥ ३८ ॥ तत्र सङ्घपकृत्यानि, भूपाय कृतपूर्विणे। दुग्धेनावर्षयत् सूरि-स्तरुं राजादनीं तदा
॥ ३९ ॥ यात्रां रैवतकेऽप्येवं, विधाय गुरुमिः समम् । सदुत्सवैः सुरत्राणः, प्राप्तवान् योगिनीपुरे ॥४०॥ अथैकदा मुरत्राणः,
समासीनः सृजन्मभूत् । श्रीमूरिभिः समं प्रीति-गोष्ठीमिष्टार्थसाधिकाम् ॥४१॥ तदा तस्य गुरुः कोऽपि, प्राप्तस्तत्र स्वविद्यया।
शीर्षस्थटोपिकां व्योम्नि, निरालम्बामतिष्ठिपत् ॥ ४२ ॥ आहत्य लकुटेनेव, स्वरजोहरणेन ताम् । मायामपातयत्सूरि-स्तच्च
तत्र न्यवीविशत् ॥ ४३ ॥ आचार्यस्तमुवाचैवं, शक्तिः काप्यस्ति चेत्तव । तदैनं पातय माया-पन्यथा मौनमाचर ॥४४॥
तत्पातने क्षमो नाऽभू-चिरेणापि स्वयं ततः । गृहीतं गुरुभिः सोऽपि, लज्जितो हसितो जनैः ॥४५॥ द्वितीयदिवसेऽप्येष,
घटं पानीयपूरितम् । गगने स्थापयद्गर्व-मखर्व च विनिर्मिमे ॥ ४६ ॥ घटोऽप्याहत्य तेनैव, खण्डशोऽकारि सरिणा। परं
तत्रैव पानीयं, स्तम्मितं निजविद्यया ॥४७॥ तच्चमत्कारमालोक्य, न केषां विस्मयोऽभवत् । मुक्त्वैकं तद्गुरुं सर्वे, ततः स्वं
स्वं गता गृहम् ॥ ४८ ॥ इत्यादिनानाप्रवरप्रमावना-मरैः सुरत्राणमपि व्यवस् । स्तोत्राणि यः सप्तशीमितानि च, ग्रन्यांच
जग्रन्य बहूपकारिणः ॥ ४९ ॥ स श्रीजिनप्रभः सूरि-दुरिताशेषतामसः । मद्रं करोतु सङ्घाय, शासनस्य प्रमावकः ॥५०॥
॥ इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे पञ्चम उपदेशः ॥५॥
इति श्रीपरमगुरुतपागच्छनायकश्रीसोमसुन्दरमरिपदकमलसे विमहोपाध्यायश्रीचारित्ररत्नगणितद्विनेय-
पण्डितसोमधर्मगणिविरचितायां उपदेशसप्ततिकायां श्रीगुरुतत्वाऽधिकारस्तृतीयः ॥३॥
.
॥५१॥
॥सम्प्रति श्रीधमतत्त्वाधिकारश्चतुर्थः प्रारभ्यते॥ - तच्च द्विधा सामान्यविशेषभेदाभ्याम् । तत्र पूर्व सामान्यधर्माधिकारोदाहरणानि प्रातः समुत्थाय विहाय शय्या-मुपासकाः श्रीपरमेष्ठिमन्त्रम् । स्मरन्तु यस्मात्सकलेप्टयोगाः, श्रीदेववत् प्राग् भवतां भवन्ति ॥ १ ॥ श्रीहर्षो नाम राजाभूत , पुरे काम्पिल्यनामनि । श्रीदेवस्तस्य पुत्रोऽस्ति, श्रीदेव इव मूर्तिमान् ॥१॥ दिग्यात्रायै नृपोऽन्येद्यु-जिगीषुः सर्वभूपतीन् । चचाल सैन्यसम्भारे-रचलामपि चालयन् ॥ २॥ कामरूपपुरस्वामी, दुर्जेयः किन्तु भूपतिः । चिरं युद्ध तयोर्जाते, नैकस्यापि परं जयः ॥३॥ देवैर्निवारितो युद्धात् , श्रीहर्षः स्वपुरं ययौ । वैराग्येन मुतं राज्ये, न्यस्य प्रावजदात्मना ॥ ४ ॥ श्रीदेवोऽपि पितुर्वैर, स्मरंस्तं भूपतिं प्रति । मन्त्रिभिर्यमाणोऽपि, विजेतुमचलद्धठात् ॥५॥ चिरं युध्वाप्यसञ्जात-जयो भनपरिच्छदः । नंवैकाकी महाटव्यां, पाप्तः स्वल्पवलो हि सः॥ ६॥ पयः पुलिन्द्रेणैकेन, पायितोऽसौ तृषाकुलः । वने तत्र भ्रमंचैकं, पश्यति स्म महामुनिम् ॥ ७ ॥ तदने धर्ममादिक्षत् , सोऽपि संयतसत्तमः । विशेषतो नमस्कार-महामन्त्रपदानि च ॥८॥ यदुक्तम्- "जो गुणइ लक्खमेगं पूएइ विहीइ जिणनमुकारं । सो तइअभवे सिज्झइ, अहवा सत्तदमे जमे ॥१॥"
उपदेश-
॥५२॥
अस्यैकाण्यालक्षजापे, सति सर्वोत्तमे भवेत् । तीर्थकत्वं मध्यमे तु, पदवी चक्रवर्तिनाम् ।।९॥ सामान्येऽप्यस्य साम्राज्य सप्ततिका.
लक्ष्मीर्भवति देहिनाम् । अतस्त्वमपि तं मन्त्रं, पठ शाव्यविवर्जितः ॥१०॥ श्रीदेवं पुनरप्याह, स मुनिर्भद्र ! पश्यसि । अमुं
पुरस्तात् प्रासाद, नमस्कारफलं ह्यदः॥११॥
तथाहि प्रथमे कल्पे, देवो हेमप्रभामिधः। एकदा प्रश्नयामास, कश्चित्केवलिनं मुनिम् ॥ १२ ॥ भगवन् ! बोधिलामो
मे, सम्मवी वा न सम्भवी । कस्यां योनौ च मे जन्म, सर्वमेतनिवेदय ॥ १३ ॥ केवली प्राह-इतश्युत्वा भवान् भावी,
वानरोऽत्रैव कानने । धर्मप्राप्तिश्च कष्टेन, माविनी तव हे मुर! ॥१४ ।। श्रुत्वेति स्वप्रबोधैक हेतोस्तेन सुपर्वणा । प्रति-
प्रस्तरमुत्कीर्णा, नमस्कारपदावली ॥ १५ ॥ एवं कृत्वा च्युतः काले, स देवो वानरोऽभवत् । पदानि दृष्ट्वा सस्मार, स्वकीयं
दैवतं भवम् ॥ १६ ॥ गृहीतानशनस्तत्र, तं मन्त्रं मनसा स्मरन् । बभूव दैवस्तत्रैव, विमाने पूर्वनामभृत् ॥ १७॥ अग्रतोऽपि
स्वबोधार्थ, स देवः प्रीतमानसः । श्रीशान्तेः कारयामास, चैत्यमेतदिहोन्नतम् ॥ १८॥ श्रीदेवोऽपि निशम्यैवं, नमस्कार
स्वनामवत् । चकारास्खलितं सम्यक्, पाठं पाठं तदन्तिके ॥ १९ ॥ ततश्च चैत्ये तत्रैव, विधिना जिनकपुरः । नमस्कार-
महामन्त्र-लक्षजापं स तेनिवान् ॥ २० ॥ जापे सम्पूर्णतां प्राप्ते, तुष्टो हेमप्रमोऽमरः। अमोघविजयां शक्तिं, तस्मै पुण्यवते
ददौ ॥ २१ ॥ काम्पील्ये च पुरे नीतो, राज्ये च स्थापितो निजे । मूर्द्धाभिषिक्तता प्राप्तः, समस्ते राजमण्डले ॥२२॥
कामरूपपुरेशोऽपि, तस्य किङ्करतां दधौ । वपुरे ! श्रीनमस्कार-महिमा कोऽप्यनुत्तरः ।। २३ ।। यत:-
S५२॥
अहो ! पञ्चनमस्कारः, कोऽप्युदारो जगत्सु यः। सम्पदोऽष्टौ स्वयं धत्ते, दत्तेऽनन्तास्तु ताः सताम् ॥१॥
श्रीनमस्कारमन्त्रैक-परावर्तनतत्परः। कालं कृत्वा स भूजानि-माहेन्द्र त्रिदशोऽभवत् ॥ २४ ॥ इति नमस्कृतिसंस्मृतिजं फलं, श्रुतिपुटै परिपीय शरीरिणः । हृदि जपन्तु तमेव नमन्तु च, प्रणयतः परमेष्ठिपदाम्बुजम् ॥ २५॥ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे प्रथम उपदेशः ॥१॥ . कषो भवः प्राणिगणस्य हिंसना-त्तस्याय एभ्यो भवतीति युक्तितः । उक्ताः कषाया भुजगा इवाङ्गिना-मेते कथं स्युः कुशलाय वद्धिताः ॥१॥ सकारणास्ते गतकारणा वा, विधीयमाना भववृद्धये स्युः । द्विरुक्तिकोद्वेजित एककुम्भकृ-द्यया वृथानर्थततीवितेनिवान् ॥ २ ॥ तथाहि ग्राम एकस्मि-निवसन्ति स्म तस्कराः । प्रायस्ते कर्घकाः सर्वे, परद्रव्यापहारिणः ॥ १॥ यद्ययैवोक्तमेकेन, तथै- वान्ये तु वादिनः। द्विरुक्तिका इति ख्याता-स्तेन ते पश्यतोहराः॥ २ ॥ तत्र ग्रामेऽन्यदा कोऽपि, कुम्भकारः समाययौ । भाण्डैः प्रर्य शकटं, विक्रेतुं लामवाञ्छया ॥ ३ ॥ गन्त्रीमटाटयमानां तां, वृषमाभ्यां निरीक्ष्य ते । अवोचन् पर्षदासीनाः, धूर्यमेकं जिहीर्षवः ॥४॥ चित्रमीक्षध्वमीक्षध्वं, भो भो ग्रामीणमानवाः ! | एकेनानडुहा याति, गन्त्री भाण्डभृतापि हि ॥५॥ एवमेवेति तैः सर्वै-रुच्यमानमिदं वचः । निशम्य कुम्मकारोऽपि, चेतसीदमचिन्तयत् ॥ ६॥ एनमेकं हरिष्यन्ति, वृषमं पश्यतोहराः। यतः समप्यसंश्चक्रे-ऽमीभिधुर्यो दुराशयैः ॥ ७॥ चिन्तयभित्यसौ गत्वा, ग्रामान्तर्भाण्डविक्रयम् ।
उपदेश-
सप्ततिका.
॥५३॥
..
यावश्चक्रे व्यग्रचित्त-स्ताव तैर्वृषभो हृतः॥ ८॥ स्वस्थचित्तः पुनर्गन्तुं, यावन्द्रगन्त्रीमसज्जयन् । तावद्धर्यमदृष्ट्वैक, चुम्बारावं
चकार सः ॥९॥ ग्रामीणेषु समस्तेषु, कि किमित्यादिवादिषु । जगदे कुम्मकारेण, वृषभो मे वरो हृतः ॥ १०॥ अथो-
चुस्ते कुलाल ! त्वं, मृपा मा ब्रूहि सर्वथा । घुर्येणैकेन ते गन्त्री, ह्यायान्ती ददृशेऽखिलैः ॥११॥ वृपो चेवावभूतां ते, तदा-
विष्कुरु साक्षिणम् । श्रुत्वेति कुम्मकृयं यं, वादयेत्स स एकवाक् ॥ १२ ॥ निराशीभूय सोऽगच्छ-न्मत्सरच्छुरितस्ततः ।
तद्वार्तामपि विस्मार्य, ग्रामीणास्तेऽवसन् सुखम् ॥ १३ ॥ कुम्मकारोऽपि कोपेन, प्रज्वलन्वनव'सवत् । उत्तेजितः कुटुम्बेन,
किमकिश्चित्करो भवान् ॥ १४ ॥ शिक्षां तेषां न दस्यूनां, दत्से धत्से नृतां वृथा । कृते प्रतिकृतं कुर्या-दित्यपि त्वं न वेत्सि
किम् ॥ १५॥ ततः स कोपमानाभ्यां, मायया लोभयुक्तया । तदनाय सओऽभूत् , सिंहः प्रक्षरितो यथा १६॥ मवे
कपाय एकैको-ऽप्यनर्थाय भवस्पृशाम् । चत्वारस्ते पुनर्यत्र, तत्रानर्थे किमुच्यते ॥१७॥ तद्धान्यानि खले पुञ्जी-कृतान्यागत्य
निश्यसौ । भस्मीचकार तद्वैरात् , सप्तवर्षाणि कुम्भकृत् ॥ १८ ॥ ततस्ते चिन्तयामासु-निष्फलोपक्रमाः सदा । ग्रामाय कुपितः
कोऽपि, प्रज्वालयति नः कणान् ॥ १९॥ यद्यसौ ज्ञायते क्वापि, सोऽस्माभिः क्षम्यते तदा । अन्यथा कृतमप्येतत् , कर्षणं
मावि निष्फलम् ॥ २० ॥ इति निश्चिन्य तैर्यक्ष-यात्रार्थ मिलिते जने। पटहोद्धोषणाऽकारि, निर्भीदानपुरस्सरम् ॥ २१ ॥
धान्यं दहति योऽस्माक-माविर्भवतु सोऽधुना । क्षमयामो यथा शीघ्रं, स्वमन्तुं यक्षसाक्षिकं ॥ २२ ॥ प्रजापतिनिशम्येति
कृत्वा वेषविपर्ययम् । श्लोकमेनं पपाठोच्चै-_रोपशमहेतवे ॥ २३ ॥ अर्यतां तस्य सोऽनड्वान् , कुलालस्य द्विरुक्तिकाः।
नोवेदन्यामसौ सप्त, वर्षा धान्यानि धक्ष्यति ॥ २४ ॥ पुनर्दाहभयाच्छीघ्र-मननीय प्रजापतिम् । धौरेयमर्पयित्वा च, क्षम-
॥५३॥
. यामासुराशु ते ॥ २५ ॥ अज्ञानवन्तो यदि तेऽपि लोकाः, सर्व सहन्ते स्म कुलालमन्तुम् । विवेकवद्भिस्तदहो! स्वधर्म- रक्षार्थमागः कथमस्त्वसह्यम् ॥ २६ ॥ यथा च चौरेः क्षमितः स कुम्भकृत् , कृतादरैः स्वार्थकृते चिरादपि । तथैव भव्यैर्निज- पुण्यपुष्टये, क्षम्यो लघीयानपि सर्वशक्तितः ॥ २७ ॥ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे द्वितीय उपदेशः ॥ २॥ . तेष्वप्यसौ क्रोधदवानलोऽङ्गिना, प्रज्वालयत्यद्भुतपुण्यकाननम् । आसेवितो यः स्वपरोपतापकृत् , मवेदिहामुत्र च मूरविप्रवन् ॥ १॥ श्रीवसन्तपुरे राजा, बभूव कनकप्रभः। सर्वाधिकारी सर्वेष्टः, सुयशास्तत्पुरोहितः ॥१॥ मूरस्तस्य सुतोऽत्यन्त- कोपनः कलहप्रियः । योऽग्निवत् प्रज्वलन्नेव, नित्यं तिष्ठति दुष्टधीः ॥२॥ पितरि स्वर्गतेऽन्येयुः, कोपनत्वेन तत्सुतम् । मुक्त्वा पुरोहितपदे, भूभुजाऽन्यो निवेशितः ॥३॥ ततः स द्वेषमापन्न-स्तच्छिद्राणि गवेषयन् । नानाव्यापादनोपायां-स्तत्र भूपे व्यचिन्तयत् ॥ ४॥ दोहनावसरेऽन्येा-लत्तया तं जघान गौः । तेन मर्माहता सा तु, वराकी मूच्छिता मृता ॥५॥ आः ! किमेतत्कृतं पाप 1, गौरियं मारिता कुतः । इत्यादि यत्तजल्पन्ती, हतानेन स्वपल्यपि ॥ ६ ॥ जाते कलकले तत्र, प्राप्तैर्नृपभटैरयम् । निबध्योपनृपं नीतः, सोऽपि तं वध्यमादिशत् ।। ७॥ नानाविडम्बनापूर्व, ते नयन्ति पुरादहिः । तावत्त- त्पुण्ययोगेन, तापसः कोऽप्युपाययौ ॥ ८॥ स तानुवाच भो भद्राः !, कोऽयं किमिति मार्यते । ऊचुस्तेऽप्येष पुंरूपो,
उपदेश-
सप्ततिका.
॥५४॥
राक्षसः कोऽपि विद्यते ॥९॥ कृपया मोचितस्तेन, स तेभ्यः सामयुक्तिभिः । सूरोऽपि तापसी दीक्षा-मादत्ते स्म तदन्तिके
॥१०॥ तप्त्वा तपांसि भूयांसि, तस्यैव नृपतेर्वघे । कृत्वा निदानं स मृतो, जातो वायुकुमारकः ॥११॥ वसन्तपुरमागत्य, तं
भूपप्रमुखं जनम् । रजोभिः स्थगयामास, कटरे ! कोपविप्लवः ॥ १२॥ च्युत्वा ततोऽभूचण्डालः, प्रथमं नरकं ततः ।
जगाम कोपकिम्पाक-पादपच्छायमाश्रयन् ॥ १३ ॥ ततो दृग्विषसो-ऽभूद्वितीये नरके ततः । ततोऽप्यनन्तसंसार, भ्रान्तः
कोपविडम्बिवः ॥ १४ ॥ भूयस्यथ गते काले, श्रीपुरे रत्नभूभृतः । सूरजीवोऽभवद्भामा-ध्यक्षो ब्राह्मणनन्दनः ॥ १५ ॥ तथैव
कोपनत्वेन, स नृपेण सहान्यदा । कुर्वाणः कलहं राज-मटैरुल्लम्बितो वने ॥ १६ ॥ चतुर्बानधरं तत्र, प्राप्तं मुनिवरं तदा ।
आगतो वन्दितुं राजाऽशृणोत्तद्देशनामिति ॥१७॥ भो भोः ! भीममवारण्ये, स्थिताः किं ? नश्यत द्रुतम् । यद्बद्धवैरा धावन्ति,
वैरिणो वोऽनुगामिनः ॥ १८ ॥ वैरिणः क इति माप-पृष्टो ज्ञानी पुनर्जगौ । कषायास्तेष्वपि क्रोधो, धत्ते वैरिषु धुर्यताम्
॥ १९ ॥ योऽयमुल्लम्बितो वृक्षे, पुरस्ताद्वीक्ष्यते नरः । इदं क्रोधफलं विद्धि, सर्वानर्थनिबन्धनम् ॥ २० ॥ सूरजन्मप्रभृतिक,
तच्चरितं तदाऽखिलम् । श्रुत्वा ज्ञानिमुनिमोक्तं, प्रतिबुद्धा नृपादयः ॥ २१ ॥ केचित्तस्यान्तिके दीक्षा, श्राद्धधर्म च केचन ।
स्वीकृत्याभिग्रहादींश्च, स्वस्वकार्याण्यसाधयन् ॥ २२ ॥ सूरजीवोऽपि स माप-छोटितः शान्ततां मजन् । दीक्षामादाय
सञ्जातः, सर्वसौख्यैकभाजनम् ॥ २३ ॥ स्त्रीरूपाऽपि क्षमैवैका, क्रोधयोधं जयत्यमुम् । गुणाः परे तु तं जेतुं, पुंरूपा अपि न
क्षमाः ॥ २४ ॥ आक्रुष्टोऽपि हतो वापि, न बालैः कलहायते । मुनिः संसारभीरुत्वा-दन्यथा तत्समो भवेत् ॥ २५॥
श्रूयते हि पुरा साधु-मेकमुग्रतपःपरम् । देवता काचिदभ्येत्यो-पास्ते तद्गुणरजितः ॥ २६ ॥ साधो ! सुखेन चारित्रं, तव
.
॥५४॥
निर्वहते सदा । वपुरस्ति निरावाधं, नाप्यन्यः कोऽप्युपद्रवः ॥ २७ ॥ देवो नरो वा यः कश्चि-द्विरूपं कुरुते तव । तदा वाच्यं ममेत्यादि-वार्ता नित्यं चकार सा ॥ २८ ॥ निःस्पृहो मुनिरप्याह, न मे किश्चन दुष्करम् । यतः सन्तोषिणः सौख्यं, यत्तचक्रभृतोऽपि नो ॥ २९ ॥ पारणाहेऽन्यदा गच्छ-नगरान्तः स संयतः। अमङ्गलधियाभ्याप्त-द्विजेनैकेन कुट्टितः ॥ ३०॥ मुनिरप्युच्छलन्मन्यु-सृष्टिभिस्तमताडयत् । मुष्टामुष्टि तयोरेवं, चिरं युद्धमजायत ॥३१॥ भोजनानन्तरे देवी, पप्रच्छ कुशलादिकम् । रुष्टः सोऽप्याह तत्र त्वं, नागता किं त्वयाऽधुना? ॥३२॥ मुने! तत्राहमायाता, परं त्वं नोपलक्षितः । उभयो- युद्धयमानत्वात्त-दानी समता ह्यभूत् ॥ ३३ ॥ क्षमातपोभ्यां युक्तत्वात् , क्षमाश्रमण उच्यते । तयोरेकतरस्यापि, नाशे नाम्नो निरर्थता ॥ ३४ ॥ इत्थं तया साधुरयं प्रबोधितो, बभूव चारित्रिजनावतंसकः। तरक्रोधयोधो विजिगीषुभिर्भवं, जेतव्य एवोच्चपदस्पृहा यदि ॥ ३५ ॥ ॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे तृतीय उपदेशः॥३॥ मानोऽपि मान्योऽस्तु मनस्विनां कथं, विडम्बयनष्टविधाभिरगिनः । यं प्राप्य स क्ष्मापतिपुत्र उज्झिता-भिधोऽपि जज्ञे निजजीवितोज्झितः॥१॥ अष्टविधमदफलं चेदम्- रज्जाभोगे तिसिआ, अदृवसट्टा पडंति तिरिएमु । जाईमएण मत्ता, किमिजाई चेव पावंति ॥ १॥ कुलमत्त सीआलचे, उपदेश- का. . उट्टाईजोणि जति रूवमए । बलमत्तावि पयंगा, बुद्धिमए बुक्कडा हुँति ॥ २॥ रिद्धिमए साणाई, सोहम्गमएण सप्पकागाई। लाभमएण बइल्ला, हवंति इअ अट्ठमयदुट्ठा ॥३॥ इति श्रीमहापुरुषचरित्र । राजा नन्दिपुरे रत्न-सारो नीतिलतावनम् । सिञ्चन्नम्बुदवत्सर्व-तापनिर्वापकोऽभवत् ॥१॥ तस्य प्रेमलता राज्ञी, साक्षा- मेमलतेव या । कोऽपि जीवोऽन्यदा तस्याः, गर्म समुदपद्यत ॥ २ ॥ अशुभा दोहदास्तस्याः, जातास्तदनुमावतः। नृपव्यापा- दनस्तैन्य-वचनोल्लम्बनादयः ॥३॥ जातमात्रोऽपि बालोऽसौ, प्रच्छन्नं त्याजितस्तया । बहिर्बलिष्ठायुष्कत्वा-द्वराको न मृतः परम् ॥ ४ ॥ एकेन वणिजा दृष्टो, गृहीतश्च दयालुना। अर्पितो निजभार्यायै, पालयामास सापि तम् ॥५॥ कृतोज्झितामिधः पित्रा, लुब्ध उज्झित इत्ययम् । मनोरथेन महता, जातः पञ्चषवार्षिकः ॥ ६ ॥ अहमेव पटुः प्राज्ञो, धनवान् बलवानपि । केऽमी वराका मनुजाः, मत्पुरः किङ्करा इव ॥ ७ ॥ इत्यहङ्कारपूरेण, तृणीकृतजगत्रयः । दिवसानतिचक्राम, स शैलस्तम्म- सनिमः ॥ ८॥ मातृपित्रोर्देवगुर्वो-न प्रणाममसौ व्यधात् । नित्यमुत्तान एरास्ते, दुर्विनीतशिरोमणिः ॥९॥ तमाह जन- कोऽन्येधु-वत्स ! विद्यामठं व्रज । पठ ग्रन्थान्मुश्च शाठ्यं, विनयं कुरु पाठके ॥ १० ॥ अलं मे गलशोपेण, प्राज्ञः प्रागप्यह यतः । वराकः स उपाध्यायः, किं मे कर्ताऽधिकं वद ॥ ११ ॥ वणिजामयमाचारः, इत्यादि बहुचाटुमिः । मेषितो लेख- शालायां, मातृकादि पपाठ च ॥ १२ ॥ अपराधे कचिच्चैष, कलाचार्येण ताडितः । तावत्तमाह रे भिक्षा-चर! त्वं मां न वेत्सि किम् ? ॥ १३ ॥ पाठनेन तवानेन, किमित्यादि वदन्नयम् । रोपेग सहसोत्थाय, तं जघान चपेटया ॥ १४ ॥ धृत्वा केशेषु दुष्टात्मा, तमुच्चासनसंस्थितम् । पातयामास भूमौ स, किमकृत्यं न पापिनाम् ॥१५॥ ज्ञाते व्यतिकरे तत्र, स ाहूतः . ५५॥
क्षमाभुजा । भाषितः किमरे मूर्ख !, पण्डितः कुट्टितस्त्वया ॥ १६ ॥ सभूक्षेपं साभिमानं, भूपं स प्राह दुर्मतिः । स मनाक् शिक्षितो भिक्षा-चरस्तत्किन्तु दूषणम् ॥ १७ ॥ अन्योऽपि यदि कश्चिन्मां, धिकर्ता तादृशं फलम् । स प्राप्स्यतीति सोल्लण्ठ- मुवाच गतभीतिवत् ॥ १८॥ लुढेन क्ष्माभुजा धृत्वा, गलेऽसौ कर्पितः पुरात् । बालहत्याभिया किन्तु, वराको नहि मारितः ॥ १९ ॥ इह लोकेऽप्यहङ्कार-फलमालोक्यतां बुधाः !। वियोगः स्वजनैर्भूमा-ऽपमानो वनवासिता ॥ २० ॥ यथा चक्री मनुष्येषु, त्रिदशेषु : पुरन्दरः। तथा गुणेषु सर्वेषु, धौरेयो विनयः स्मृतः ॥ २१ ॥ तथा गुणेषु सर्वेषु, धौरेयो विनयः स्मृतः ॥ २१ ॥ अथोज्झितकुमारोऽपि, पर्यटन्वि- कटाटवीः ॥ तापसाश्रममायात-स्तपोधनसमाकुलम् ।। २२ ।। असौ पर्यस्तिका बब्वा, तेषामग्रे निविष्टवान् । ननाम न शठ- स्तैर-प्युक्तं मैवमुपाविश ॥ २३ ॥ ततो रुष्टः परित्यज्य, तदाश्रममविश्रमम् । अरण्यानी भ्रमन्नेष, सिंहमेकं व्यलोकत ॥ २४ ॥ पुच्छमुच्छाल्य, सिंहोऽपि, वेडाडम्बरभीषणः। तमभ्यधावत क्रुद्धः, सोऽपि मानी व्यचिन्तयत् ॥ २५ ॥ आः ! क एष पशुः किं वा, नश्यतेऽस्माद्वराकतः । लोका अपि हसिष्यन्ति, मां पशोरपि बिभ्यतम् ॥ २६ ॥ इत्यहङ्ककारतस्तस्मा-दनश्यस्तेन मारितः । शास्त्रेऽपि श्रूयते ह्येवं, मणुआण अहियरो ॥ २७ ॥ स जातो गर्दभस्तस्मात्, करभस्तुरगस्ततः । तत्रैव नगरे भूयः, पुरोहितसुतोऽभवत् ॥ २८ ॥ भूत्वापि सर्वविद्यानां, पारगः स मृतस्ततः । तत्रैव नगरे जातो, डुम्बोऽहङ्कारदोषतः ॥ २९ ॥ यथा यथा पुरोधास्तं, पश्यत्यस्य तथा तथा । स्नेहः स्याद् दुस्त्यजे येन, स्नेहवैरे पुरातने ॥ ३०॥ अन्येास्तत्पुरप्राप्त- केवलज्ञानिनोऽन्तिके । पुरोहितस्तत्स्नेहस्य हेतुं पप्रच्छ सोऽप्यवक् ॥ ३१ ॥ मूलादारभ्य तवृत्त-महङ्कारविपाकजम् । मानेन के न पीड्यन्ते, प्राणिनः पण्डिता अपि ॥ ३२ ॥ श्रुत्वा पुरोहितस्तेन, ज्ञानिना गदितं वचः। मवाद्विरक्तः प्रवज्य, तदन्ते .
सप्ततिका. उपदेश- प्राप निवृतिम् ॥ ३३ ॥ उज्झितोऽपि सुगतिं गतवान् श्री-धर्ममार्हतमवाप्य गुरुभ्यः । तेन मानव ! न मानविपक्षो, मान्य एष भवता मववीजम् ॥ ३४॥ ॥ इति श्री उपदेशसप्ततिकायां चतुर्थेऽधिकारे चतुर्थ उपदेशः॥४॥ . मायापिशाचीविवशा नरा ये, स्वार्थैकनिष्ठाः परवचनानि । सृजन्ति तेऽधोगतयो मवन्ति, निदर्शनं त्वत्र स पापबुद्धिः ॥१॥ पुरे श्रीतिलके द्रव्यो-पार्जनकपरायणौ । धर्मबुद्धिः पापबुद्धि-रभूतां वणिजावुभौ ॥१॥ ऋजुस्वभावस्तत्रायः, सर्वेषां हितचिन्तकः । द्वितीयः कपटी मायी, विश्वस्तस्यापि वश्चकः ॥२॥ तयोरप्यभवनमैत्री, वाणिज्यं तन्वतोमियः। लोको वदत्ययं योगः, काष्टक्रकचसनिमः ॥३॥ तथापिधर्मबुद्धिस्तं, न त्यजत्युत्तमत्वतः । अशोभाकृदपि त्याज्यः, कलङ्कः शशिना किमु ॥४॥ अन्यदा व्यवसायार्थ, तौ गतौ कापि पत्तने । वणिजां क्षीण वित्तानां, व्यवसायो हि कामधुक ॥५॥ पृथग्पृथगुपाती, दीनाराणां सहस्रकम् । प्राग्वद्वक्रेतरस्वान्तौ, वलितौ स्वपुरं प्रति ॥ ६ ॥ आसन्ने स्वपुरे प्राप्ते, शठोऽशठमभाषत । एतावद- खिलं वित्त, पुरान्तर्गृह्यते कुतः ॥७॥ कियनिधीयतेऽवा-ऽवसरे लास्यते पुनः। राजदायाददस्युम्यो, मयं वित्तस्य नेकपा ॥८॥ श्रुत्वेति सरलस्वान्तो, वित्तं पश्चशतीमितम् । न्यास्थत्तत्रैव तच्चतः-प्रत्ययाय परोऽपि च ॥९॥ आगतौ स्वगृहे वर्दा-पनकं च तयोरभूत् । कियद्दिनान्तरे वित्तं, तद्भूस्थं पापधीरलात् ॥ १० ॥ अथावसरमासाद्य, पापबुद्धिस्तमब्रवीत् । .