Sringeri Sharada Peetham

Sutra Vrittihi

Swami Sri Krasnavallabhacarya Sastri · 2005/03/10

PDF Proofread

Front matter

|| श्रीः ।। ॥ शिवाभ्यां नमः ॥ श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कर. भगवत्पादशिष्यविरचिता सूत्रवृत्तिः मुमुक्षूणां मन्दाधिकारिणामपि सङ्ग्रहेण अतिगम्भीरब्रह्ममीमांसा- शास्त्रार्थप्रदर्शिका श्रीमच्चम्पकारण्यवास्तव्यश्चीमहामहोपाध्यायबिरुदाङ्कित- श्रीराजुशास्त्र्यपरनामकश्रीमत्त्यागराजमखि- राजचरणाम्बुजसेवासमासादितबह्मविद्या- वैशयेन श्रीगोष्ठीपुरामिजनेन हरिहरशास्त्रिणा संशोधिता कोनेरिराजपुरप्रामवास्तव्यसहृदयसमुदायदासेन वि. साम्ब शिवाये ण कुम्मघोणस्थस्वकीय. श्रीविद्यामुद्राक्षरशालायां मुद्राक्षरैरयित्वा प्राकाश्यं प्रापिता समुशसतितमाम् । . -:(*):- मूर रू. साधैकम्. प्रेषणव्ययः अ. २. PRICE Rs. 17. POSTAGE AS. 2.

॥ श्री:॥ शिवाभ्यां नमः विज्ञापनपत्रिका स्य आर्यमिश्रास्सहृदयशिखामणयो विद्वन्मणयः ? विदितमेव खलु भवताम् आनन्दनशरत्तुलामासादाख्यातेयमद्वैतमञ्जरी आसादयन्ती च परां वृद्धि- माचार्यवर्यश्रीमच्छङ्करभगवत्पादमतानुबन्धिप्रबन्धगुच्छेः आभूषयन्ती च आ. शावनिताचिकुरबन्धम् आवारयन्ती च द्वैतदुर्गन्धम् आपूरयन्ती च अद्वितीय- ब्रह्मानन्दमकरन्दम् आह्लादयन्ती च सुननमानसमधुकरबृन्दं विजेजीयत इति । तत्र चान्तभूतोऽयं सूत्रवृत्त्याख्यो ग्रन्थः ,यस्य च प्रणेतारः श्रीमच्छङ्करभगवत्पाद- साक्षाच्छिष्याः वार्तिककाराः इत्यामनन्ति वृद्धाः । अतिविरलप्रचारत्वाच्चास्य ग्रन्थ अवबोधकत्वाच्चातिसंग्रहेणातिगम्भीरस्यापि ब्रह्ममीमांसाशास्त्रार्थतत्त्वस्य अत्युपकारकत्वाच्च मन्दमनीषाणामपि मुमुक्षूणां प्रचिकाशयिषवः प्रावर्तन्तास्य मुद्रणे मुद्रयितारस्साम्बशिवार्याः । मुद्रणार्थमतिप्रयत्नादन्विष्टेष्वपि कोशेषु अत्र म- ण्डले द्वित्राण्यपि पुस्तकानि दुर्लभान्येवासन् । अथापि श्रीमत्परमहंसपरि- व्राजकाचार्यश्रीमचन्द्रमौलीश्वरचरणनलिनचञ्चरीकायमाणमानसजगद्गुरुमणिकुम्भको- णस्थमठाधिपतिश्रीचन्द्रशेखरेन्द्रसरस्वतीस्वामिनां कोशानुपलब्धमेकं पुस्तकं , श्री- वाराणसीक्षेत्रागतकृष्णानन्दयतिवरसमधिगतपुस्तकमूलकमपरं च पुस्तकमवलो- क्य यथामति संशोध्य प्रवृत्ते मुद्रणे मध्ये दैववशाबटारण्यक्षेत्रामिजनपण्डितवे. कोपाशास्त्रिपुत्र शिवरामकृष्णशास्त्रिणां कोशादुपनतमतिसमीचीनपाठं पुस्त- कान्तरं सहकारीकृत्य आदौ मुद्रितमपि मागं सम्यगवलोक्य शुद्धांशुद्धप्रदर्श- नपूर्वकं तत्रत्यपाठान्तराणि तत्तत्पुटसूत्रसङ्ख्याङ्कनपूर्वकं मुद्रितानि विलोक- यन्तु विपश्चिद्वरा इति प्रार्थये । यद्यपि नैतावता यावदद्वैतमञ्जरी परिचि. न्वन्तस्सहृदयाः पण्डिताः न्यूनतां मन्येरन् , प्रत्युत गुणत्वेनैवैतदुपाददीरन्, तथा- पि तत्त्वं दिदर्शयिषुरित्थं व्यजिज्ञपम् । समग्रयिष्यते चाचिरादेव ब्रह्मविद्या- मरणम् । आरप्स्यते च रत्नतूलिकाख्यव्याख्यासंवलितं. सिद्धान्तसिद्धाञ्जन- मिति शिवम् । इत्थं गोष्ठीपुराभिजनः हरिहरशास्त्री.

१५. ? ॥ पाठान्तराणि ॥ पुटसलथा. सूत्रसङ्खचा. ५. अवतारिकायां-ब्रह्मणः शास्त्रप्रमाणकत्वं प्रसाध्य प्र. धानादेस्वातन्त्र्येण शास्त्रप्रमाणकत्वं निराकरोति ईक्षते - शब्दमित्यादिनाध्यायपरिसमाप्तिपर्यन्तेन सूत्रसन्दर्भण। २२. उच्यते इत्यनन्तर-न सूर्यचन्द्रादिव्यतिरिक्तं लौकिकं तेज इत्यर्थः । १६. २५. आदौ-हत्पुण्डरीकस्याल्पत्वात् पुण्डरीकावच्छिन्नब्रह्मणः अ- ङ्गुष्ठपरिमाणवत्त्वमुपपन्नमित्यर्थः । कुतः ? मनुष्याधिकारत्वात्. ३४. ११. हूवाभ्यां परिमण्डलाभ्यां महत् परमाण्वपेक्षया अधिकप. रिमाणविशिष्टं दीर्घ च व्यणुकं यथा जायते, एवं ज्ञानानन्दरू- पात् ब्रह्मणः जडं दुःखात्मकं च जगदुत्पद्यत इत्यर्थः । १३. स परमेश्वर एव तदभिध्यानात् तत्तदाकाशात्मनावतिष्ठमानः एवं करवाणीत्यमिध्यानात् आलोचनात् वाय्वादिविकारं सृजति। कुतः तल्लिङ्गात् तस्य ब्रह्मणः आकाशाद्याकारत्वलिङ्गादित्यर्थः। २०. खात्मना जीवेन सह उत्तरयोः खर्गनरकयोस्सम्बन्धो वक्तव्यः। अन्यथा स्वर्गनरकभोगासम्भवादित्यर्थः । ५२. अवतारिकायां- वायुर्वी वायुनिष्ठचलनक्रियावा प्राण इति केचनवदन्ति, तन्मतं निराकरोति- १६. तस्य जीवस्य नित्यत्वात् इन्द्रियव्यापारजन्यसुखादिफलमोक्तृ. त्वाच्च जीवस्य इन्द्रियप्रेरणे स्वातन्त्र्यं, सूर्यादिदेवतानां तु जी- वकृतपुण्यपापानुसारेण समीचीनविषयेषु दुष्टविषयेषु वा इन्द्रि- यप्रेरकत्वमिति न स्वातव्यमित्यर्थः । ५५ १. उभाभ्यामित्यर्थ इत्यनन्तरं-वेदान्तिमते सूक्ष्मावस्थापन्नद- धिक्षीरादिद्रव्याणामेवादृष्टशब्दवाच्यत्वेनादृष्टानामपि द्रव्य- त्वात् देवशरीराकारेण परिणामस्सम्भवतीति भावः । ६३. अन्ते-- अनिष्टानां दुस्स्वप्नानामपि दर्शनादिति भावः । भेदध्वंसोत्पत्तिरिति वाच्यमित्यनन्तरम् - अन्योन्याश्र- यात् । तथा हि अत्यन्ताभेदो नाम भेदध्वंससहरूताभेदः। तथा च भेदध्वंसे उत्पन्ने भेदध्वंसविशिष्टाभेदविषयकप्रमोत्पत्तिः भेद. ध्वंसविशिष्टाभेदविषयकप्रमोत्पत्त्यनन्तरं भेदध्वंसोत्पत्तिरिति । २२. आदौ- तैत्तिरीयकशाखायां श्रूयमाणानां प्रियशिरस्त्वा- दिगुणानां शाखान्तरेष्वप्राप्तिः अनुपसंहार एव । कुतः ? उपचयापचयौ हि भेदे. ९ . ५३. . ३. ७१, ७८.

शिवाभ्यां नमः ॥ शुद्धाशुद्धपत्रिका ॥ अशुद्धम् श्रुतौ षत पुष मन्त्रेण कतः यस्त्वे षय ० पुटसङ्ख्या पतिसङ्ख्या १२ ८ १२ ११ १३ १२ १७ ९ १० १४ १६ ३ १७ २० २१ १२ १९ २२ १६ २५ ११ १७ २१ २० एषत अङ्गुष्ठपर्व विव ऊर्ध्वबुध्नश्चमस छाग ङ्गादि योवा स्मृति णिक योगा उत्प णेऽपि शुद्धम् श्रुतेः षम पुरुष मन्त्रे कुतः यःपुनरे षयत्व एष अङ्गुष्ठ प्वेव श्चमसऊर्ध्वबुधन छागा गाच्चे योवै श्रुति णिकत्व योगि उपप णोऽपि मिनव . ३ ८ भिन्न . ३४ प्रपञ्चाका प्रका ४ १३ २२ १२ गुणः स्यसु नरक ज्योतिरादिवत् तेजोह गुणाः स्यसतस्सु वर्गनरक ४७ ५० २ . ५१ १६. hun (२) ५२ २ २२ aur ६० १४ . २० १९ २४ २७ ८ ० १२ २८ ० so दशे एकादशे व्यावग व्यग सदे तद्दे पर्यन्ता पर्वता भूत्वा भवती जनुषान्ध पान्थ, उत्पात उत्पातानां नम नाम भावे भावेऽपि चन्द्र चन्द्रप्रतिविम्ब त्मनः त्मानं मायाविशिष्टजीवस्य मायाविशिष्टस्य नाभिः नादिमिः समिधो समिदादि विजा सजा सजा विजा. सत्त्व साध्यत्व विना विनाब्रह्मस्वरूपनिश्चयासम्भवात् तत्तु तत्र मिति मस्ति सत स्यात् गुणे गुण यसा यका यवा यवनामादि १२ १४ ३ . ७८ १५ . २२ २३ १९. ७ ". २५ ७ ८१ (२ २१ যান शत्रु । २ पुण्य वाक्यव ८६ ६ १७ .. पुण्यपाप वत्त्वा साक होत्रं दृष्टित्वादि काला शाक होत्रस्य . २० ८८ our दृष्टि २९ क्लप्तकाला अथ सूत्रवृत्तिः Twom जिज्ञासाधिकरणम् ॥ १॥ अथातो ब्रह्मजिज्ञासा ॥१॥ शान्तो दान्त' इत्यादिश्रुतेः 'आत्मा वा अरे द्रष्टव्य' इत्यादिश्रुतेश्च अथ साधनचतुष्टयसम्पत्त्यनन्तरम् अतः अधिकारस्य सम्पूर्णत्वात् ब्रह्मजिज्ञासा कर्तव्या ब्रह्मविचारः कर्तव्य इत्यर्थः ॥ १॥ जन्माद्यधिकरणम् ॥२॥ जिज्ञास्यस्य ब्रह्मणो लक्षणमाह- जन्माद्यस्य यतः ॥२॥ 'यतो वा इमानि भूतानि जायन्त' इत्यादिश्रुतौ अस्य प्रपञ्चस्य जन्मादि यतः कारणात् भवति , तत् ब्रह्मेत्यर्थः । जगजन्मस्थितिलयकारणत्वं ब्रह्मणो लक्ष- णमुक्तं भवति ॥२॥ स्त्रयोनित्वाधिकरणम् ॥ ३ ॥ लक्षणमुक्त्वा प्रमाणमाह- शास्त्रयोनित्वात् ॥३॥ 'तं त्वौपनिषदं पुरुषं पृच्छामी' त्यादिश्रुत्या शास्त्रप्रमाणकत्वात् ब्रह्म- णः अप्रामाणिकत्वं नास्तीत्यर्थः ॥ ३ ॥ समन्वयाधिकरणम् ॥ ४ ॥ शास्त्रप्रमाणकत्वे हेतुं वदन्नेव अनुमानादिप्रमाणकत्वं निराकरोति- तत्तु समन्वयात् ॥४॥ तत् ब्रह्म शास्त्रप्रमाणकं, कुतः ? समन्वयात् 'सर्वे वेदा यत्पदमामनन्तीति श्रुत्या उपक्रमोपसंहारादिलिङ्गैश्च सर्वेषां वेदान्तानां ब्रह्मण्येव तात्पर्यनिर्णयादित्यर्थः । * Dubindias ? ....

२ अद्वैतमञ्जरी। म् तुशब्देन अनुमानादिप्रमाणकत्वं निरस्यति । 'नावेदविन्मनुते तं बृहन्त. । नैषा तर्केण मतिरापनेया' इत्यादिश्रुत्या अनुमानादिप्रमाणकत्वस्य निरस्त. त्वात् । 'न चक्षुषा गृह्यते' इत्यादिश्रुत्या प्रत्यक्षादिप्रमाणकत्वस्य च निरस्तत्वेन परिशेषात् शास्त्रप्रमाणकत्वं ब्रह्मणो निश्चीयत इत्यर्थः ॥ ४ ॥ ब्रह्मणः शास्त्रप्रमाणकत्वं प्रसाध्य प्रधानस्य वातन्त्र्येण जगत्कारणत्वं निराकरोति ईक्षते शब्द'मित्यादिना 'श्रुतत्वाचे' त्येवमन्तेन सूत्रसन्दर्भण- ? - ईक्षत्यधिकरणम् ॥ ५॥ ईक्षते शब्दम् ॥५॥ अशब्दं शब्दाप्रतिपाद्यं प्रधानं जगत्कारणं न भवति । कुतः? ईक्षतेः 'तदै- क्षते'ति श्रुतौ जगत्कारणस्य ईक्षितृत्वश्रवणात् जडस्य प्रधानस्य ईक्षितृत्वासम्भवा- दित्यर्थः ।। ५॥ अप्तेजसोरिव प्रधानस्यापि गौणमीक्षणं सम्भवतीत्याशङ्कय निराकरोति- गौणश्चेन्नात्मशब्दात् ॥६॥ ईक्षतिशब्दो गौण इति चेन्न । आत्मशब्दात् 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मेति श्रुतौ जगत्कारणे आत्मशब्दप्रयोगात् मुख्यमेवेक्षणं न गौणमित्यर्थः । । । ब्रह्मैव जगत्कारणमित्यत्र हेत्वन्तरमाह- तनिष्ठस्य मोक्षोपदेशात् ॥७॥ 'तस्य तावदेव चिर'मिति श्रुतौ जगत्कारणध्याननिष्ठस्य मोक्षोपदेशात् ज. डप्रधानध्यानेन मोक्षासम्भवादित्यर्थः ॥ ७ ॥ स्थूलारुन्धतीन्यायेन प्रथम प्रधानध्यानं कृत्वा पश्चात ब्रह्मध्यानं कुर्वतो मोक्षो मविष्यतीत्याशङ्कय निराकरोति- हेयत्वावचनाच ॥८॥ हेयत्वस्य निषेधस्य अवचनात् अनुक्तेरित्यर्थः । न प्रधानध्यानान्मोक्ष इति निषेधाकथनात् स्थूलारुन्धतीन्यायेनापि न प्रधानस्यावकाश इत्यर्थः ॥८॥ - - प्र०ये प्रथमः पादः] सूत्रवृत्तिः । ब्रह्मणो जगत्कारणत्वे हेत्वन्तरमाह- - खाप्ययात् ॥९॥ सता सोम्य तदा सम्पन्नो भवती'ति श्रुतौ सुषुप्तिकाले सर्वेषामन्तःकरण- विशिष्टानां जीवानां स्वाधिष्ठाने ल य श्रवणाजडप्रधान चेतनानां जीवानां लयासम्भ वात् ब्रह्मैव जगत्कारणमित्यर्थः ॥ ९ ॥ हेत्वन्तरमाह- गतिसामान्यात् ॥१०॥ गतिः तात्पर्य, सर्वेषां वेदान्तानां ब्रह्मणि तात्पर्यसाम्यादित्यर्थः ॥ १० ॥ श्रुतत्वाच ॥११॥ 'यम्सर्वज्ञस्सर्ववित्' इत्यादिश्रुतौ जगत्कारणम्य सर्वज्ञत्व श्रवणाञ्च ब्रह्मैव जगत्कारणमित्यर्थः ॥ ११ ॥ आनन्दमयाधिकरणम् ॥ ६ ॥ आनन्दमयोऽभ्यासात् ॥१२॥ 'अन्योऽन्तर आत्मानन्दमय' इति श्रुतौ आनन्दमयः परमात्मैव, न जीवः । कुतः ? अभ्यासात् आनन्दशब्दस्य बहुश्रुतिषु ब्रह्मण्येव प्रयोगदर्शनादित्यर्थः ॥१२॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥१३ ॥ मयट्प्रत्ययस्य मृण्मयो घट इत्यादौ विकारवाचकत्वान्निर्विकारस्य ब्रह्म- णः आनन्दविकारत्वासम्भवात् आनन्दमयः न परमात्मेति चेन्न । प्राचुर्यार्थेऽ. पि 'अन्नमयो यज्ञ' इत्यादौ मयट्प्रत्ययविधानात् आनन्दप्रचुरत्वस्य ब्रह्मण्यपि सम्भवादित्यर्थः ॥ १३ ॥ तद्धेतुव्यपदेशाच्च ॥१४॥ 'को ह्येवान्यात् कः प्राण्यात्' इति श्रुतौ सकलजीवानन्दहेतुत्त्वस्य व्यपदेशा- दपि आनन्दमयः परमात्मेत्यर्थः ॥ १४ ॥ मानवर्णिकमेव च गीयते ॥१५॥ 'सत्यं ज्ञानमनन्तं ब्रह्म ति मन्त्रे ब्रह्मण उपक्रान्तत्वादपि आनन्दमयो ब्रह्मेत्यर्थः १५ अद्वैतमञ्जरी । -- सिन्हान्तमुक्त्वा पूर्वपक्षं निराकरोति- नेतरोऽनुपपत्तेः ॥१६॥ आनन्दमयः इतरः जीवो न भवति । कुतः ? अनुपपत्तेः आनन्दप्रचुरत्वा. दिधर्माणां जीवेऽनुपपत्तेरित्यर्थः ॥ १६ ॥ भेदव्यपदेशाच्च ॥१७॥ 'अन्योऽन्तर आत्मानन्दमय' इति श्रुतौ आनन्दमयस्य जीवाझेदव्यपदे- शाच आनन्दमयो न जीव इत्यर्थः । ननु, 'अन्योऽन्तर आत्मा प्राणमयः । अन्योऽन्तर आत्मा मनोमयः । अन्योऽन्तर आत्मा विज्ञानमयः' इत्यादिवाक्ये. षु विद्यमानानाम् अन्यशब्दानां जीवान्यत्वप्रतिपादकत्वाभावात् 'अन्योऽन्तर आ- त्मानन्दमय' इति वाक्यस्थस्य अन्यशब्दस्य कथं जीवान्यत्वप्रतिपादकत्वमिति चेन्न । आनन्दमयादन्यस्य ब्रह्मवल्लयामनुक्तत्वेन . आनन्दमयशब्दस्य 'ब्रह्म- विदाप्नोति पर मिति उपक्रान्तब्रह्मप्रतिपादकत्वे निश्चिते सति अत्रत्यान्यशब्द- स्य जीवान्यत्वप्रतिपादकत्वनिश्चयादिति भावः ॥ १७ ॥ आनन्दमयः प्रधानमस्त्वित्याशङ्कयाह- कामाच नानुमानापेक्षा ॥१८॥ 'सोऽकामयते 'ति श्रुतौ आनन्दमयस्य कामयितृत्वश्रवणाजडस्य प्र. धानस्थेच्छासम्मवात् अनुमानस्य अनुमानप्रतिपाद्यस्य प्रधानस्यापेक्षा आशा न कर्तव्येत्यर्थः ॥१८॥ आनन्दमयः प्रधानं न भवतीत्यत्र हेत्वन्तरमाह अस्मिन्नस्य च तद्योगं शास्ति ॥१९॥ अस्मिन्नानन्दमये आसक्तचित्तस्यास्य मुमुक्षोः तद्योगं तदभेदं शास्ति प्र. तिपादयति यदा ह्येवैष एतस्मिन्नदृश्य' इत्यादिश्रुतिः । ततश्चेतनस्य जीवस्य जडप्रधानाभेदासम्भवादानन्दमयः परमात्मेत्यर्थः ॥ १९॥ अन्तरधिकरणम् ॥७॥ अन्तस्तद्धमोपदेशात् ॥२०॥ 'अथ य एषोऽन्तरादित्य' इति श्रुतौ अन्तः आदित्यमण्डलान्तर्वर्ती हिरण्मयः - - प्र०ये प्रथमः पादः] सूत्रवृत्तिः । ५ पुरुषः परमात्मा , न सूर्यः । कुतः ? तन्हर्मोपदेशात् अपहतपाप्मत्वादिब्रह्मधर्मो- पदेशादित्यर्थः ॥ २० ॥ भेदव्यपदेशाच्चान्यः ॥ २१ ॥ 'य आदित्ये तिष्ठन्निति श्रुतौ आदित्यपरमात्मनोः नियम्यनियामकभावश्रव. णानियामकः परमात्मैव आदित्यमण्डले अभिव्यक्तः अस्मिन् वाक्ये प्रतिपा यत इत्यर्थः ॥२१॥ आकाशाधिकरणम् ॥८॥ आकाशस्तलिङ्गात् ॥२२॥ 'अस्य लोकस्य का गति'रिति श्रुतौ आकाशः परमात्मा, न भूताकाशः । कुतः ? तल्लिङ्गात सर्वभूतोत्पत्तिलयहेतुत्वादिब्रह्मलिङ्गादित्यर्थः ॥ २२ ॥ प्राणाधिकरणम् ॥९॥ अत एव प्राणः ॥२३॥ 'प्रस्तोतर्या देवते 'ति श्रुतौ प्राणः परमात्मा , न प्राणवायुः । कुतः ! अत एव सर्वभूतोत्पत्तिलयहेतुत्वादिब्रह्मलिङ्गादेवेत्यर्थः ॥ २३ ॥ ज्योतिरधिकरणम् ॥१०॥ ज्योतिश्चरणाभिधानात् ॥२४॥ 'अथ यदतः परो दिवो ज्योतिर्दीप्यत' इति श्रुतौ ज्योतिः परमात्मा, न सू- र्यादिज्योतिः । कुतः? चरणाभिधानात् 'पादोऽम्य विश्वा भूतानी' ति पूर्ववाक्ये ब्रह्मणः पादत्रयाभिधानात् तस्यैव ब्रह्मणः घलोकसम्बन्धेन ज्योतिवाक्ये प्र- त्यभिज्ञायमानत्वादित्यर्थः ॥ २४ ॥ पूर्ववाक्ये पादत्रयतत्त्वं गायत्र्या एटोक्तं, न ब्रह्मण इत्याशङ्कय निरा. करोति-- छन्दोभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथाहि दर्शनम् ॥२५॥ 'गायत्री वा इदं सर्वं भूत'मिति श्रुतौ गायव्याख्यच्छन्दसः उपक्रान्तत्वात् पादत्रयवत्त्वमपि गायच्या एवोक्तं, न तु ब्रह्मण इति चेन्न । तथा गायत्र्य. वच्छिन्ने ब्रह्मणि चेतोऽर्पणस्य चित्तप्रक्षेपस्य निगदात् कथनात् पादत्रयवत्त्वं ब्र- अद्वैतमञ्जरी। उपपन्न- ह्मण एवोक्तम् । तथा हि दर्शनम् आदित्यमण्डलादिशुद्धस्थलेषु परमात्मनः अ. भिव्यक्तिः अन्यत्राप्युक्ता । तद्वत् गायत्र्यभिव्यक्तं ब्रह्म उपास्यमित्यर्थः ॥२५॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥ भूतादीनां पादानाम् अवयवानां व्यपदेशस्य ब्रह्मण्येवोपपत्तेः त्वाच्च एवं गायत्रीशब्देन गायव्यवच्छिन्नं ब्रह्मैवोच्यत इत्यर्थः । 'गायत्री वा इदं सर्वमिति वाक्ये गायत्र्याः पञ्चमहाभूतादिसकलप्रपञ्चात्मकत्त्वमुक्तम् । तच्च गायव्यवच्छिन्नस्य ब्रह्मण एव सम्भवति, न केवलगायच्या इति भावः ॥२१॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥२७॥ 'त्रिपादस्यामृतं दिवी ति गायत्रीवाक्ये त्रिपाब्रह्मणः ब्रह्माण्डान्तवर्ति- त्वमुक्तम् । अथ यदतः परो दिवो ज्योतिर्दीप्यत' इति ज्योतिर्वाक्ये तु त्रिपा. ब्रह्मणः ब्रह्माण्डादुपरि अवस्थानमुक्तम् । तथाचोपदेशभेदात् उपदेशयोः गाय. श्रीवाक्यज्योतिर्वाक्ययोः मेदान् परस्परविरुद्धार्थकत्वात् नेति चेन्न प्रामाण्यं ना- स्तीति चेन्न । उभयस्मिन्वाक्यद्वयेऽपि अविरोधात् विरोधाभावात् । दिवीति सप्त- मीविभक्तेः लक्षणया पञ्चमीविभक्त्यर्थबोधकत्वादिति भावः ॥ २७ ॥ इन्द्रप्राणाधिकरणम् ॥११॥ प्राणस्तथानुगमात् ॥२८॥ 'प्राणोऽस्मि प्रज्ञात्म' ति श्रुतौ प्राणः परमात्मा , न प्राणवायुः । कुतः ? तथानुगमात 'प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृत' इति वाक्ये ब्रह्मलिङ्गामि- धानादित्यर्थः ॥ २८ ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥२९॥ वक्तुरिन्द्रस्यात्मोपदेशात् शरीरोपदेशादिन्द्रशरीरमेव उपास्यमिति चेन्न । अध्यात्लसम्बन्धमा आनन्दामृतत्वाद्यध्यात्मलिङ्गबाहुल्यमस्मिन् वाक्ये उपलभ्य- ते, न तु वजहस्तत्वादिकमिन्द्रशरीरलिङ्गम् । अत इन्द्रशरीरमध्यवर्ती परमात्मैव उपास्य इत्यर्थः ॥ २९॥ इन्द्रस्य देहातिरिक्तात्मज्ञानाभावात् नोपदेष्टुत्वमित्याशङ्कयाह- -

प्र०ये प्रथमः पादः]
सूत्रवृत्तिः ।
७
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥३०॥
इन्द्रस्यापि शुकवामदेवादिवत् शास्त्रजन्यब्रह्मसाक्षात्कारवत्त्वात उपदेश
उपपद्यत इत्यर्थः ॥ ३०॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नो-
पासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥३१॥
'न वाचं विजिज्ञासीत । वक्तारं विद्यात् प्राण एव प्रज्ञात्मा इदं शरीरं
परिगृह्योत्थापयती' ति श्रुतौ जीवमुख्यप्राणलिङ्गानामपि विद्यमानत्वान्न ब्रह्मो-
पासनामात्रपरमिति चेन्न । इष्टापत्तेः । कुतः ? उपासात्रैविध्यात् प्राणजीवन
यविषयकोपासनात्रयस्याङ्गीकृतत्वात् इह तद्योगात् अस्मिन् वाक्ये उपासना-
त्रयस्य स्थूलारुन्धतीन्यायेन निर्गुणब्रह्मज्ञानसाधनत्वेन उपयुक्तत्वादित्यर्थः ॥३१॥
इति सूत्रवृत्तौ प्रथमाध्यायस्य
प्रथमः पादः ॥
अथ
प्रथमाध्यायस्य
द्वितीयः पादः ।
सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥
सर्वत्र प्रसिद्धोपदेशात् ॥१॥
'मनोमयः प्राणशरीर' इति वाक्ये परमात्मा उपास्यः । कुतः ? 'सर्व
खल्विदं ब्रह्मे तिवाक्ये सर्वत्र प्रसिद्धस्य ब्रह्मणः उपक्रान्तत्वादित्यर्थः ॥१॥
विवक्षितगुणोपपत्तेश्च ॥२॥
विवक्षितानां सत्यसङ्कल्पादीनां गुणानां ब्रह्मण्येवोपपत्तेरित्यर्थः ॥२॥

८ अद्वैतमञ्जरी । अनुपपत्तेस्तु न शारीरः ॥३॥ शारीरः जीवः नोपास्यः । कुतः ? अनुपपत्तेः सत्यसङ्कल्पादिधर्माणां जीवे अनुपपत्तेरित्यर्थः ॥३॥ कर्मकर्तृव्यपदेशाच ॥४॥ उपास्योपासकभावव्यपदेशाच्च न जीव उपास्य इत्यर्थः ॥ ४ ॥ शब्दविशेषात् ॥५॥ ब्रह्मशब्दप्रयोगादित्यर्थः ॥५॥ स्मृतेश्च ॥६॥ 'यं यं वापि स्मरन् भाव मिति स्मृतेरित्यर्थः ॥ ६ ॥ अर्भकौकस्त्वात् तद्यपदेशाच नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥७॥ 'एष त आत्मान्तर्हृदय' इति श्रुतौ अल्पपुण्डरीकस्थानकत्वात् तथ्यपदेशादणुत्व- व्यपदेशाच्च न परमात्मा उपास्य इति चेन्न । निचाय्यत्वादणुत्वेन ध्यातुं शक्यत्वात् व्यापकस्य ब्रह्मणो ध्यातुमशक्यत्वाच्च । व्योमवत् यथा व्यापकस्याकाशस्य सूचीर- न्ध्रादौ अणुत्वम्, एवं ब्रह्मणोऽपि हृत्पुण्डरीके अणुत्वं ध्यानार्थमुक्तमित्यर्थः ॥ ७ ॥ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥८॥ ब्रह्मणोऽपि हृत्पुण्डरीकावस्थानाङ्गीकारे जीववत् सुखदुःखभोगप्रसङ्ग इ. ति चेन्न । वैशेष्यात् जीवस्य पुण्यपापकर्तृत्वात् सुखदुःखभोगः, ईश्वरस्य तु पुण्यपापकर्तृत्वाभावात् न भोग इत्यर्थः ॥ ८॥ अवधिकरणम् ॥२॥ अत्ता चराचरग्रहणात् ॥९॥ 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन' इत्यादिश्रुतौ अत्ता संहर्ता प रमात्मा, न जीवः । कुतः ? चराचरग्रहणात् चराचरसंहर्तृत्वादित्यर्थः ॥९॥ प्रकरणाच ॥१०॥ अन्यत्र धर्मादन्यत्राधर्मादिति श्रुतौ ब्रह्मणः पृष्टत्वादित्यर्थः ॥ १० ॥ ?

प्र०ये द्वितीयः पादः] सूत्रवृत्तिः । ९ ? गुहाधिकरणम् ॥ ३॥ गुहां प्रविष्टावात्मानौ हि तदर्शनात् ॥११॥ 'ऋतं पिबन्ताविति श्रुतौ गुहां प्रविष्टौ जीवपरमात्मानौ न बुद्धिजीवौ । कुतः तद्दर्शनात् 'द्वा सुपर्णे 'त्यादिश्रुतौ जीवपरमात्मप्रतिपादनदर्शनादित्यर्थः ११॥ विशेषणाच ॥१२॥ 'ब्रह्मविदो वदन्ती 'त्युत्तरवाक्ये परमात्मप्रतिपादनादित्यर्थः ॥१२॥ अन्तराधिकरणम् ॥४॥ अन्तर उपपत्तेः ॥१३॥ अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यत' इत्यादिश्रुतौ अन्तरः अक्षिम. ध्यवर्ती परमात्मा, न जीवः । कुतः ? उपपत्तेः अमृतत्वादिधर्माणां ब्रह्मण्येवोपप- त्तेरित्यर्थः ॥ १३॥ स्थानादिव्यपदेशाच ॥१४॥ आदित्यमण्डलहृत्पुण्डरीकादिशुद्धस्थानेषु ब्रह्मोपासनस्य आदिपदात् तद्ध- मस्य च अन्यत्र उपदिष्टत्वादक्षिमण्डलस्यापि शुद्धस्थानत्वात्तत्र ब्रह्मोपासनं युक्त- मित्यर्थः ॥ १४ ॥ सुखविशिष्टाभिधानादेव च ॥१५॥ 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति पूर्ववाक्ये सुखस्वरूपस्य ब्रह्मणः अभि- धानात् अक्षिमण्डलमध्यवर्त्यपि ब्रह्मवेत्यर्थः ॥ १५ ॥ श्रुतोपनिषत्कगत्यभिधानाच ॥१६॥ श्रुतोपनिषत्कानां श्रुतवेदान्तशास्त्राणामुपासकानां या गतिः देवयानमार्गः, तस्याः 'तेऽर्चिषमभिसम्भवन्ती'त्युत्तरवाक्ये अभिधानाच्च अक्षिमध्यवर्ती परमात्मेत्यर्थः ॥ सिद्धान्तमुक्त्वा पूर्वपक्षं दूषयति- अनवस्थितेरसम्भवाच नेतरः ॥१७॥ अनवस्थितेः प्रतिबिम्बस्य सर्वथा अक्षिण्यनवस्थितत्वात् असम्भवाच अमृ. तस्वादिधर्माणां प्रतिबिम्बे असम्मवाच्च नेतरः प्रतिबिम्बो न भवतीत्यर्थः ॥ १७ ॥ , - २ १० अद्वैतमञ्जरी । 1 ? अन्तर्याम्यधिकरणम् ॥ ५ ॥ अन्तर्याम्याधिदेवादिषु तद्धर्मव्यपदेशात् ॥१८॥ 'यः पृथिव्यां तिष्ठ' न्नित्यादिश्रुतौ अधिदेवादिषु पृथिव्यादिषु य अन्तर्यामी उ- क्तः,स परमात्मा । कुतः ? तद्धर्मव्यपदेशात् 'एष त आत्मान्तर्याम्यमृत' इत्युत्तरवाक्ये ब्रह्मधर्मव्यपदेशादित्यर्थः ॥ १८ ॥ न च स्मार्तमतद्धर्माभिलापात् ॥ १९॥ स्मात प्रधानम् अन्तर्यामी न भवति । कुतः ? अतद्धर्माभिलापात् त्रिगुणत्वादीनां प्रधानधर्माणाम् अभिलापाभावादित्यर्थः ॥ १९ ।। शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥२०॥ शारीरः जीवोऽपि अन्तर्यामी न भवति । कुतः? उभयेऽपि काण्वा माध्यन्दिना- श्व एनं जीवं भेदेन अन्तर्यामिभिन्नतया अधीयते अध्ययनं कुर्वन्तीत्यर्थः । 'य आ- त्मनि तिष्ठनात्मानमन्तरो यमयती'ति श्रुतौ जीवस्य परमात्मनियम्यत्वप्रतिपादनात् जीवानां सर्वेषां नियन्ता परमात्मैव , न जीव इत्यर्थः ॥ २० ॥ अदृश्यत्वाधिकरणम् ॥ ६॥ अदृश्यत्वादिगुणको धोक्तेः ॥२१॥ 'यत्तदद्वेश्य मित्यादिश्रुतौ यः अदृश्यत्वादिगुणकः उक्तः , स परमात्मा । कुतः ? धर्मोक्तेः धर्माणां सर्वज्ञत्वादीनाम् उक्तत्वादित्यर्थः ॥ २१ ॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ 'दिव्यो ह्यमूर्तः पुरुष' इति श्रुतौ अप्राणत्वादिविशेषणात् 'अक्षरात् परतः पर' इति अक्षरात् प्रधानात् भेदव्यपदेशाच्च अदृश्यत्वादिगुणकः परमात्मैव, नेतरौ प्रधाननीवा न भवत इत्यर्थः ॥ २२ ॥ रूपोपन्यासाच ॥२६॥ 'अग्निर्मू/ चक्षवी चन्द्रसूर्यो' इत्यत्र श्रुतौ मूर्धादिरूपोपन्यासाच परमात्मैवेत्य- थः ॥२३॥ वैश्वानराधिकरणम् ॥ ७ ॥ वैश्वानरस्साधारणशब्दविशेषात् ॥ २४ ॥ .

प्र०ये द्वितीयः पादः ] सूत्रवृत्तिः । ११ . वैश्वानरः परमात्मा । साधारणशब्दानां मध्ये विशेषशब्दात् 'को न आत्मा किं ब्रह्मेति श्रुतौ ब्रह्मशब्दप्रयोगादित्यर्थः ।। २४ ।। स्मर्यमाणमनुमानं स्यादिति ॥२५॥ 'यस्याग्निराम्य'मित्यादिश्रुतौ प्रतिपाद्यमानं विश्वरूपत्वम् अनुमानं परब- मलिङ्गमित्यर्थः ॥ २५ ॥ शब्दादिभ्योऽन्तःप्रतिष्ठानाच नेति चेन्न तथा दृष्टयु- पदेशादसम्भवात्पुषमपि चैनमधीयते ॥२६॥ वैश्वानरशब्दादिभ्यः अन्तः प्रतिष्ठानाच्च ‘स यो हैतमग्नि वैश्वानरं पुरुषं पु- रुषेऽन्तः प्रतिष्ठितं वेदेति श्रुतौ शरीरान्तःप्रतिष्ठितत्वव्यपदेशाच्च वैश्वानरः परमा- त्मा न भवति, किं तु जाठराग्निरिति चेत्, न । तथा जाठराग्न्यवच्छिन्नब्रह्मणि - ष्टयुपदेशात् ध्यानोपदेशात् असम्भवात् घुमूर्धत्वादीनां केवलजाठराग्नौ असम्भवात् । पुरुषमपि चैनमधीयते वाजसनेयिनः एनं वैश्वानरं पुरुषमधीयते पुरुषं वदन्ति ‘स यो हैतमग्नि मिति श्रुताववेत्यर्थः ॥ २६ ॥ अत एव न देवता भूतं च ॥ २७ ॥ अत एव द्युमूर्धत्वादिधर्माणाम् असम्भवादेव भूतं, बाह्याग्निदेवता अग्न्यभि- मानिनी देवता च वैश्वानरशब्दार्थो न भवति, किं तु जाठराग्न्यवच्छिन्नः परमात्मै- व वैश्वानरशब्दार्थ इत्यर्थः ॥ २७ ॥ साक्षादप्यविरोधं जैमिनिः ॥ २८॥ साक्षात् जाठराग्न्यवच्छिन्नात्मलक्षणां विनैव जाठराग्न्यनवच्छिन्ने केवल ब्रह्मण्यपि वैश्वानरशब्दस्य अविरोधं विरोधाभावं जैमिनिमन्यते । विश्वश्चासौ नरश्च विश्वनरः, विश्वामिन्नः नरः परमात्मा। विश्वनर एव वैश्वानरः । स्वार्थ तद्धितप्रत्ययः राक्षसवाय. सादिशब्दवत् । तथा च प्रपञ्चाभिन्ने ब्रह्मणि वैश्वानरशब्दस्य योगव्युत्पत्त्या प्र. वृत्तिसम्भवात् वैश्वानरशब्देन व्यापकः परमात्मैवोच्यत इति भावः । अग्निशब्दोऽ. पि अग्रं नयतीति व्युत्पत्त्या श्रेष्ठत्ववाचक इति भावः ॥ २८ ॥ व्यापकस्य परमात्मनः प्रादेशमात्रपरिमाणवत्त्वमसङ्गतमित्याशङ्कयाह- अभिव्यक्तरित्याश्मरथ्यः ॥२९॥ ' -

१२
अद्वैतमञ्जरी ।
व्यापकोऽपि परमात्मा प्रादेशमात्रं शरीरं धृत्वा उपासकानां प्रत्यायको
भवतीत्यर्थः ॥ २५॥
अनुस्मृतेर्वादरिः॥३०॥
व्यापकस्य परमात्मनो ध्यातुमशक्यत्वात् प्रादेशमात्रशरीरविशिष्टतया ध्या-
तव्य इत्यर्थः ।। ३०॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥३१॥
सम्पत्तेः मूर्धपादाद्यवयवसम्पन्नत्वात् प्रादेशमात्रत्वमित्यर्थः ॥ ३१ ॥
आमनन्ति चैनमस्मिन् ॥ ३२॥
एनं परमात्मानम् अस्मिन् भ्रमध्ये जाबाला उपास्यमामनन्ति । अतः प्रादे.
शमात्रपरिमाणवत्त्वमुपपन्नमित्यर्थः ॥ ३२ ॥
इति सूत्रवृत्तौ प्रथमाध्यायस्य
द्वितीयः पादः।
अथ
॥ प्रथमाध्यायस्य तृतीयः पादः॥
?
शुभ्वायधिकरणम् ॥ १॥
द्युभवाद्यायतनं खशब्दात् ॥१॥
'यस्मिन् द्यौः पृथिवी ति श्रुतौ द्यभ्वादिप्रपञ्चस्य आयतनम् अधिष्ठान
ब्रह्मैव । कुतः ? स्वशब्दात् आत्मशब्दप्रयोगादित्यर्थः ॥१॥
मुक्तोपसृप्यव्यपदेशात् ॥२॥
यदा सर्वे प्रमुच्यन्त' इति श्रुतौ ' तथा विद्वान्नामरूपाद्विमुक्त' इत्यादि-
श्रुतौ च मुक्तैः रागद्वेषादिविनिर्मुक्तैः उपसृप्यत्वव्यपदेशात् प्राप्यत्वव्यपदे-
शाच धुम्वाद्यायतनं ब्रह्मैवेत्यर्थः ॥२॥

प्र०ये तृतीयः पादः ]
सूत्रवृत्तिः ।
१३
नानुमानमतच्छब्दात् ॥३॥
अनुमान प्रधानं द्युम्वाद्यायतनं न भवति । अतच्छब्दात् प्रधानप्रतिपा-
दकत्रिगुणादिशब्दाभावादित्यर्थः ॥३॥
प्राणभृच ॥४॥
प्राणभृज्जीवोऽपि द्युभवाद्यायतनं न भवति । जीवस्य प्रपञ्चाधिष्ठानत्वा-
सम्भवादित्यर्थः ॥ ४॥
भेदव्यपदेशाच्च ॥५॥
तमेवैकं जानथ' इति श्रुतौ ज्ञातृज्ञेयभावव्यपदेशादित्यर्थः ॥ ५॥
प्रकरणात् ॥६॥
'स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामि 'ति ब्रह्मप्रकरणादित्यर्थः ॥६॥
स्थित्यदनाभ्यां च ॥७॥
'द्वा सुपर्णे' ति मन्त्रेण ब्रह्मणः साक्षितया अवस्थानं, जीवस्य कर्मफल-
मोक्तृत्वं च श्रूयते । अतः द्युम्वाद्यायतनं ब्रह्मेत्यर्थः ॥७॥
भूमाधिकरणम् ॥२॥
भूमा सम्प्रसादादध्युपदेशात् ॥८॥
'भूमा त्वेव विनिज्ञासितव्यो, भूमानं भगवो विजिज्ञास' इत्यादिश्रुतौ
भूमा परमात्मा । कतः ? संप्रसादात् जीवात् अधि उपरि उपदेशादित्यर्थः ॥ ८॥
धर्मोपपत्तेश्च ॥९॥
सुखरूपत्वामृतत्वादिधर्मोपपत्तेश्च भूमा ब्रह्मैव, न भूताकाश इत्यर्थः ॥९॥
अक्षराधिकरणम् ॥३॥
अक्षरमम्बरान्तधृतेः ॥१०॥
'कस्मिन् खल्वाकाश ओतः प्रोत' इत्यादिश्रुतौ अक्षरं ब्रह्म । कुतः ? अम्ब
रान्तधृतेः अम्बरान्तस्य प्रपञ्चस्य धृतेः धारणादित्यर्थः । ओंकारस्य तु प्रपञ्चधार-
कत्वं न सम्भवतीत्यर्थः ॥ १० ॥
सा च प्रशासनात् ॥११॥

१४ अद्वैतमञ्जरी । ? ? सा च परा देवता । कुतः ? प्रशासनात् 'एतस्य वा अक्षरस्य प्रशासन' इतिश्रुतौ आज्ञाग्रहणात् । न च जडस्य ओंकारस्याज्ञा सम्भवतीत्यर्थः ॥११॥ तर्हि अक्षरं प्रधानम् आस्त्वित्याशङ्कयाह- अन्यभावव्यावृत्तेश्च ॥१२॥ प्रधानभावव्यावृत्तेश्च प्रधानम् अक्षरं न भवति । जडस्य प्रधानस्य प्रशा- सनासम्भवादित्यर्थः ॥१२॥ ईक्षतिकर्माधिकरणम् ॥४॥ ईक्षतिकर्मव्यपदेशात् सः ॥१३॥ 'यस्त्वेतमि'त्यादिश्रुतौ ‘परं पुरुषमभिध्यायीते'त्यत्र परः परमात्मैव, न हिरण्य- गर्भः । कुतः ? 'पुरुषमीक्षत' इति वाक्यशेषे साक्षात्कारविषयव्यपेदशादित्यर्थः ॥१३॥ दहराधिकरणम् ॥५॥ दहर उत्तरेभ्यः॥१४॥ अथ यदिदमस्मिन्नि' ति श्रुतौ दहराकाशः परमात्मैव , न भूताकाशः । कुतः ? उत्तरेभ्यः 'एष त आत्मा अपहतपाप्मे ' ति श्रुतौ सत्य सङ्कल्पादिलि- ङ्गानां विद्यमानत्वादित्यर्थः ॥ १४ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥१५॥ 'इमाः प्रजा अहरहर्गच्छन्त्य' इति श्रुतौ सर्वेषां जीवानां सुषुप्तिकाले दहराकाशे लयश्रवणात् ब्रह्मैव लोको ब्रह्मलोक इति योगव्युत्पत्त्या ब्रह्मलोक- शब्दस्य परब्रह्मवाचकत्वाच्च दहराकाशः परमात्मेत्यर्थः । तथा हि दृष्टं लिङ्गं च ‘सता सोम्य तदा सम्पन्नो भवती ' ति श्रुतौ सर्वेषां जीवानां सुषुप्तिकाले ब्र. मणि अवस्थानं दृष्टम् । तदपि लिङ्गं ज्ञापकमित्यर्थः ॥ १५ ॥ धृतेश्च महिनोऽस्यास्मिन्नपलब्धेः ॥ १६ ॥ 'एष सेतुर्विधरण' इति श्रुतौ धृतिरूपमहिम्नः अस्मिन् वाक्ये अस्य दहराकाशस्थ उपलब्धेश्च दहराकाशः परमात्मैव , न भूताकाशः । जडस्य वर्णा- श्रममर्यादाविधारकत्वासम्भवादित्यर्थः ॥ १६ ॥ प्रसिद्धेश्च ॥१७॥ . - प्र०ले तृतीयः पादः] सूत्रवृत्तिः । १५ - , Daman 'यदेष आकाश आनन्दो न स्यादि ' त्यादिश्रुतौ आकाशशब्दस्य ब- मणि प्रसिद्धत्वादित्यर्थः ॥ १७ ॥ इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥ इतरपरामर्शात् 'अथ यदिदमस्मिन् ब्रह्मपुर' इति श्रूतौ ब्रह्मशब्देन इ- तरस्य जीवस्य लक्षणया परामर्शात् प्रतिपादनात् दहराकाशोऽपि जीव इति चेत् , न । असम्भवात् सत्यसङ्कल्पादिधर्माणां जीवे असम्भवादित्यर्थः ॥ १८ ॥ उत्तराधिकरणम् ॥६॥ उत्तराञ्जेदाविर्भूतस्वरूपस्तु ॥ १९॥ उत्तराच्चेत् ' स एष सम्प्रसाद' इत्युत्तरवाक्ये सम्प्रसादशब्देन जीवप्रति पादनात् दहराकाशशब्देनापि जीव एव प्रतिपाद्यत इति चेत् , न । आविर्भूत- स्वरूपः मुक्तजीवः प्रतिपाद्यते । मुक्तजीवश्च परमात्मैवेत्यर्थः ॥ १९ ॥ मुक्तजीवस्य ब्रह्मत्वेन जीवत्वाभावात् सम्प्रसादशब्दप्रयोगोऽनुपपन्न इ. त्याशङ्कयाह अन्यार्थश्च परामर्शः ॥२०॥ जीवपरामर्शः अन्यार्थः ब्रह्माभेदप्रतिपादनार्थ इत्यर्थः ॥ २० ॥ अल्पश्रुतिरिति चेत्तदुक्तम् ॥२१॥ दहरशब्देन अल्पपरिमाणवत्त्वश्रवणात् व्यापकस्य ब्रह्मणः अल्पपरिमा- णासम्भवाद्दहराकाशो जीव इति चेत् , तदुक्तम् उपासनार्थम् अल्पपरिमाणमुक्त- मिति पूर्वमेवोक्तमित्यर्थः ॥ २१ ॥ अनुकत्यधिकरणम् ॥७॥ अनुकृतेस्तस्य च ॥ २२॥ 'न तत्र सूर्यो भाति न चन्द्रतारकमि' ति श्रुतौ तस्य सूर्यचन्द्रादिप्रपञ्चस्य अनुकृतेः परमात्मानमनुसृत्य भानात् 'तस्य भासा सर्वमिदं विभाती' ति श्रुतौ त- च्छब्देन परमात्मैवोच्यते सूर्यचन्द्रादिव्यतिरिक्तमलौकिकं तेज इत्यर्थः ॥२२॥ अपि च स्मर्यते ॥२३॥ 'न तद्भासयते सूर्य' इति स्मृतौ च सूर्यचन्द्राद्यप्रकाश्यत्वं परमात्मनः प्रति- पाद्यत इत्यर्थः ॥२३॥ 8 अद्वैतमारी । प्रमिताधिकरणम् ॥८॥ शब्दादेव प्रमितः ॥२४॥ 'ईशानो भूतभव्यस्ये' ति श्रुतौ ईशानशब्दप्रयोगादेव अङ्गुष्ठपर्वमात्रः परमात्मा प्रमितः निश्चितः, न जीव इत्यर्थः ॥२४॥ व्यापकस्य ब्रह्मणः अङ्गुष्ठपरिमाणवत्त्वमसङ्गतमित्याशङ्कयाह- हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥२५॥ शास्त्रस्य उपासनाकाण्डस्य ज्ञानकाण्डस्य च मनुष्याधिकारित्वात् मनुष्या. णां च मन्दबुद्धितया व्यापकब्रह्मोपासनायाम् अधिकारासम्भवादित्यर्थः ॥२५॥ देवताधिकरणम् ॥९॥ मनुष्याधिकारत्वकथनात् देवानामधिकारो नास्तीति शङ्कां निराकरोति- तदुपर्यपि बादरायणस्संभवात् ॥२६॥ 'तद्योयो देवानामि त्यादिश्रुतेः तदुपरि तेषां मनुष्याणामुपरि स्वर्गलोके स्थितानां देवानामधिकारोऽस्तीति बादरायणो मन्यते । कुतः सम्भवात् तेषामपि ब्रह्मलोककामनावत्त्वेन मुमुक्षुत्वेन च ब्रह्मविद्यायामधिकारसम्मवादित्यर्थः। ननु, चतु- यन्तशब्दानामेव देवतात्वात् शब्दानामचेतनत्वात् कथं ब्रह्मविद्यायामधिकार इति चेत्, न । चतुर्थ्यन्तशब्दवाच्यानां विग्रहवतीनां देवतानां पुराणादिषु प्रतिपा- दितत्वेन ब्रह्मविद्यायामधिकारसम्भवादित्यर्थः ॥२६॥ विग्रहवदेवताङ्गीकारे बाधकमाशङ्कय निराकरोति- विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥२७॥ एकस्मिन् दिने क्रियमाणेषु अनेकेषु यागेषु एकस्येन्द्रस्य गमनासम्भवात् कर्मानुष्ठानविरोध इति चेत्, न । अनेकप्रतिपत्तेः योगिनामिव देवतानामपि योगप्र. भावात् अनेकशरीरधारणस्य पुराणादिषु प्रतिपादितत्वादित्यर्थः ॥२७॥ इन्द्रादिदेवानां विग्रहवत्त्वाङ्गीकारे विग्रहाणामनित्यत्वात् तत्प्रतिपादकवेद- स्याप्यनित्यत्वं स्यादिति शङ्कतेः- शब्द इति चेन्नात प्रभवात् प्रत्यक्षा- नुमानाभ्याम् ॥२८॥ शब्दे वेदे नित्यत्वविरोध इति चेत्, न । अतः प्रभवात् अतः वेदात - प्र०ये तृतीयः पादः] सूत्रवृत्तिः । १७ देवादिप्रपञ्चस्य प्रभवादुत्पत्तेरित्यर्थः । प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्य- .. र्थः ॥२८॥ - अत एव च नित्यत्वम् ॥२९॥ अत एव देवतादिप्रपञ्चं प्रति कारणत्वादेव वेदस्य नित्यत्वमित्यर्थः ॥२९॥ इन्द्राणां प्रतिकल्पं विभिन्ननामरूपवत्त्वाद्वेदस्य कथं तत्प्रतिपादकत्वमित्याश- कां परिहरति- समाननामरूपत्वाचावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥३०॥ समाननामरूपत्वात् सर्वेषामिन्द्राणां सर्वेषु कल्पेषु समाननामरूपत्वात् आ- वृत्तावपि इन्द्रपरम्परायामङ्गोक्रियमाणायामपि अविरोधः वेदस्य इन्द्रप्रतिपादक- त्वविरोधो नास्ति । कुतः ? दर्शनात् श्रुतेः स्मृतेश्चेत्यर्थः । एवम् अग्निवायुवरु- णादिषु द्रष्टव्यम् ॥३०॥ मध्वादिष्वसम्भवादनधिकार जैमिनिः॥३१॥ 'असौ वा आदित्यो देवमधु' इत्यादिश्रुतौ मध्वादिषु आदित्यमण्डलप्रा. प्तिफलकेषु मधुविद्यादिषु देवानामधिकारासम्भवात् ब्रह्मविद्यायामप्यनधिकारं जैमिनिमन्यत इत्यर्थः ॥ ३१॥ ज्योतिषि भावाच ॥३२॥ नक्षत्रमण्डलेष्विव लोके इन्द्रादिशब्दप्रयोगान्मण्डलानामचेतनत्वाच्च ना. धिकार इत्यर्थः ॥३२॥ भावं तु बादरायणोऽस्ति हि ॥३३॥ मधुविद्यादिषु अधिकाराभावेऽपि ब्रह्मविद्यायामधिकारं बादरायणो मन्य- ते । अस्ति हि मण्डलाभिमानिनी मण्डलातिरिक्ता विग्रहवती नानादेवता अ- स्ति, पुराणेषु प्रतिपाद्यत इत्यर्थः ॥ ३३॥ अपशूद्राधिकरणम् ॥ १०॥ 'अहहारे त्वा शूद्र तवैव सह गोभिरस्त्वि'ति श्रुतौ शूद्रशब्दप्रयोगात् 1-

१८
अद्वैतमञ्जरी ।
शूद्राणामणि ब्रह्मविद्यायामधिकारोऽस्तीति शङ्कां परिहरति-
शुगस्य तदनादरश्रवणातदाद्रवणा-
त् सूच्यते हि ॥३४॥
अस्थ जानश्रुतेः तदनादरश्रवणात्तेषां हंसानाम् अनादरवचन श्रवणात
शुगुत्पन्ना । तदाद्रवणात् तया शुचा रैक्वसमीपं प्रति आगमनात् सूच्यते
शूद्रशब्देन जानश्रुतिः प्रतिपाद्यत इत्यर्थः ॥ ३४ ॥
क्षत्रियत्वगतेश्वोत्तरत्र चैत्ररथेन लिङ्गात् ॥३५॥
उत्तरत्र उत्तरवाक्ये चैत्ररथाख्येन क्षत्रियेण सहपाठात् लिङ्गात् जान-
श्रुतेरपि क्षत्रियत्वगतेः क्षत्रियत्वनिश्चयादित्यर्थः ॥.३५ ॥
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥
ब्रह्मक्षत्रियवैश्यानामेव श्रुतिषु उपनयनाध्ययनादिसंस्कारविधानात् शू-
द्राणां च तदमावामिलापाच शूद्रस्य न ब्रह्मविद्यायामधिकार इत्यर्थः ॥३६॥
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७॥
शूद्रत्वाभावनिश्चये सति ज्ञानिनां ब्रह्मविद्योपदेशे प्रवृत्तिदर्शनाच न शूद्र-
स्याधिकार इत्यर्थः ॥३७॥
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ ३८॥
वेदश्रवणवेदाध्ययनवेदार्थज्ञानप्रतिषेधाच्च शूद्राणां न ब्रह्मविद्याधिकार इ.
त्यर्थः ॥ ३८॥
कम्पनाधिकरणम् ॥ ११॥
कम्पनात् ॥ ३९॥
'यदिदं किं च जगत्सर्वमिति वाक्ये प्राणशब्देन ब्रह्मोच्यते, न प्राण-
वायुः । कुतः ? सर्वस्य प्रपञ्चस्य ब्रह्माज्ञया कम्पनादित्यर्थः ॥ ३९ ॥
ज्योतिर्दर्शनाधिकरणम् ॥ १२ ॥
ज्योतिर्दर्शनात् ॥४॥

प्र०ये तृतीयः पादः]
सूत्रवृत्तिः ।
१९
?
म
एष सम्प्रसादोऽस्माच्छरीरादिति श्रुतौ ज्योतिश्शब्देन ब्रह्मोच्यते , न
तु सूर्यादिज्योतिः । कुतः ? दर्शनात् 'तं देवा ज्योतिषां ज्योतिरिति श्रुतौ
ज्योतिश्शब्दस्य ब्रह्मणि प्रयोगदर्शनादित्यर्थः ।। ४० ॥
अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १३ ॥
आकाशोऽर्थान्तरवादिव्यपदेशात् ॥४१॥
'आकाशो ह वै नामरूपयोनिहिते' ति श्रुतौ आकाशः परमात्मा,
तु भूताकाशः ! कुतः ? अर्थानां पदार्थानाम् अन्तरत्वव्यपदेशात् नामरूपात्म-
कसकलप्रपञ्चान्तर्यामित्वव्यपदेशादित्यर्थः ॥ ४१ ॥
सुषुप्त्युत्क्रान्त्यधिकरणम् ॥ १४ ॥
सुषुप्युत्कान्त्यो देन ॥४२॥
'कतम आत्मेति योऽयं विज्ञानमय' इति श्रुतौ मुक्तजीवः प्रतिपाद्यते ,
न तु बद्धजीवः । कुतः ? सुषुप्त्यवस्थायाम् उत्क्रान्त्यवस्थायां च जीवब्रह्माभेदस्य
द्विवारं प्रतिपादितत्वादित्यर्थः ॥ ४२ ॥
पत्यादिशब्देभ्यः ॥४३॥
'सर्वस्य वशी सर्वस्येशान' इत्युत्तरश्रुतौ ईशानादिशब्दप्रयोगादपि
मुक्तजीवपरमिदं वाक्यमित्यर्थः ॥ ४३ ॥
इति सूत्रवृत्ती
प्रथमाध्यायस्य तृतीयः पादः ।
?
अथ
॥ प्रथमाध्यायस्य चतुर्थः पादः ॥
आनुमानिकाधिकरणम् ॥ १ ॥
आनुमानिकमप्येकेषामिति चेन्न शरीररूपक-
विन्यस्तगृहीतेर्दर्शयति च ॥१॥

२.
अद्वैतमञ्जरी ।
'इन्द्रियेभ्यः परा यर्था' इत्यादिश्रुतौ एकेषां शाखायाम् आनुमानिकमपि प्र.
धानमपि अव्यक्तशब्देन प्रतिपाद्यत इति चेत्, न । शरीरमेव रूपकविन्यस्तं र.
थत्वेन निरूपितं, तस्य गृहीतेः ग्रहणादित्यर्थः ॥१॥
स्थूलशरीरस्य व्यक्तत्वात् कथम् अव्यक्तशब्देन ग्रहणमित्याशङ्कयाह-
सूक्ष्मं तु तदर्हत्वात् ॥२॥
सूक्ष्म लिङ्गशरीरम् अव्यक्त शब्देन गृह्यते । कुतः ? तदर्हत्वात् लिङ्ग-
शरीरस्य अव्यक्तशब्दार्थत्वादित्यर्थः ॥२॥
तदधीनत्वादर्थवत् ॥३॥
तदधीनत्वात् स्थूलशरीरस्य लिङ्गशरीराधीनत्वात् स्थूलशरीरमपि अर्थ-
वत् अव्यक्तशब्देन अर्थागृह्यत इत्यर्थः ॥ ३ ॥
ज्ञेयत्वावचनाच ॥४॥
ज्ञेयत्वस्य अवचनात् अनुक्तेश्च न प्रधानमव्यक्तशब्दवाच्यमित्यर्थः ।। ४ ।।
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥५॥
वदतीति चेन्न 'अशब्दमस्पर्शमिति वाक्यं प्रधानस्य ज्ञेयत्वं वदतीति
चेत्, न । प्राज्ञः परमात्मा अस्मिन्वाक्ये प्रतिपाद्यते । कुतः ? प्रकरणात् ब्रह्मप्र-
करणादित्यर्थः ॥५॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥६॥
'स त्वमग्निमि'त्यादिश्रुतेः 'तं दुर्दर्श गुहाहितमि 'त्यादिश्रुतेश्च 'येय प्रेते
विचिकित्से 'ति श्रुतेश्च त्रयाणामग्निजीवपरमात्मनाम् उपन्यासः प्रतिवचनं, त्र-
याणामेव प्रश्नश्च । प्रधानस्य प्रश्नप्रतिवचने न स्त इत्यर्थः ॥६॥
महद्रच्च ॥७॥
महच्छब्दस्य जीववाचकत्ववदव्यक्तशब्दस्यापि शरीरवाचकत्वमित्यर्थः ।।७।।
चमसाधिकरणम् ॥२॥
चमसवदविशेषात् ॥८॥
चमसवत्
'अग्बिल ऊर्ध्वबुध्नश्चमस' इति वाक्यवत् अविशेषात् सन्दि-
ग्धार्थकत्वात् 'अजामेकामिति वाक्यं न प्रधाननिश्चायकमित्यर्थः ॥ ८॥

तृ.ये तृतीयः पादः] सूत्रवृत्तिः । २१ - इदं तच्छरीरमिति वाक्यं यथा चमसवाक्यस्यार्थस्य निश्चायकम्, एवं 'यदग्ने रो- हितं रूप'मिति छान्दोग्यवाक्यम् अनावाक्यस्यार्थनिश्चायकमित्याह- ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९॥ 'यदग्ने रोहितं रूप'मित्यादिश्रुतौ ज्योतिरुपक्रमा तेजोऽबन्नात्मिका अवा- न्तरप्रकृतिः अनाशब्देन प्रतिपाद्यते । एके शाखिनः तथा लोहितशुक्लकृष्णरूपव. त्वं तेजोऽबन्नानामधीयत इत्यर्थः ॥९॥ अजाशब्दस्य जन्मरहितवस्तुवाचकत्वात् तेजोऽबन्नात्मिकायाः अवान्तरप्रकृतेः जन्मवत्त्वात् कथमजाशब्देन तेनोऽबन्नग्रहणमित्याशङ्कयाह- कल्पनोपदेशाच्च मध्वादिवदविरोधः॥१०॥ कल्पनोपदेशात् सादृश्योपदेशात् अविरोधः अजाशब्दस्य विरोधो नास्तीत्य. थः। मध्वादिवत् 'असौ वा आदित्यो देवमधु' इत्यत्र यथा आदित्यस्य मधुसादृश्यमु- च्यते, एवमवान्तरप्रकृतेरपि छागसादृश्यमुच्यते । छागाया अपि कस्याश्चिल्लोहित- शुक्लकृष्णरूपवत्त्वात् स्वसदृशप्रजावत्त्वाच्चेत्यर्थः ॥ १०॥ संख्योपसंग्रहाधिकरणम् ॥४॥ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच ॥११॥ सङ्ख्योपसङ्ग्रहात् पञ्चविंशतिसङ्ख्याश्रवणात् पञ्चविंशतितत्त्वानि श्रुतिप्रति- पाद्यानीति चेत् , न । कुतः ? नानाभावात् लोके पश्चविंशतिसङ्ख्याविशिष्टानां पदार्थानां बहूनां सत्त्वात् अतिरेकाच्च आकाशस्य पञ्चविंशतिसङ्ख्याबहिर्भूतत्वेन पइिंशतितत्त्वप्रसङ्गादित्यर्थः ॥ ११ ॥ 'यस्मिन् पञ्च पञ्चजना' इति वाक्यार्थविशेषनिर्णायक 'प्राणस्य प्रा. णमिति वाक्यशेषमाह- प्राणादयो वाक्यशेषात् ॥ १२ ॥ स्युः पुमांसः पञ्चजना' इति निखण्डुवचनेन पञ्चजनशब्दस्य पुरुषवा- चकत्वात् पुरुषसम्बन्धिनः 'प्राणस्य प्राणमुत चक्षुषश्चक्षुरि'ति वाक्यस्थाः ल- क्षणया पञ्चजनशब्देन प्रतिपाद्यन्त इत्यर्थः ॥ १२ ॥ ज्योतिषकेषामसत्यन्ने ॥ १३ ॥ ?

२२ अद्वैतमञ्जरी। एकेषां काण्वादीनाम् अन्ने अन्नशब्दे असति सति ज्योतिषा सह पञ्च- प्राणाइयो ग्रहीतव्या इत्यर्थः । 'तं देवा ज्योतिषां ज्योतिरिति श्रुतौ सूर्यादि- ज्योतिषः कथितत्वादित्यर्थः ।। १३ ॥ कारणत्वाधिकरणम् ॥५॥ 'आत्मन आकाशस्सम्भूत' इति श्रुतौ आकाशमात्रस्यैव ब्रह्मजन्यत्वप्रतिपाद- नात् ब्रह्मणः पञ्चमहाभूतकारणत्वमनुपपन्नमित्याशङ्कयाह- कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तः ॥१४॥ 'एतस्माज्जायते प्राण' इत्यादिश्रुतिषु आकाशादिषु पञ्चमहाभूतेषु ब्रह्म- णः साक्षात्कारणत्वेन प्रतिपादितत्वात् 'आकाशाद्वायुरि'त्यत्रापि आकाशादिश ब्दैः आकाशाद्यवच्छिन्नब्रह्मण एव कारणत्वमुच्यत इति न विरोध इत्यर्थः ॥१४॥ . समाकर्षात् ॥१५॥ आकाशादिशब्दैरपि आकाशावच्छिन्नब्रह्मण एव लक्षणया प्रतिपादनात् न विरोध इत्यर्थः ॥१५॥ जगद्वाचित्वाधिकरणम् ॥ ६ ॥ जगदाचित्वात् ॥१६॥ 'यो वा बालाके' इति श्रुतौ एतच्छब्दस्य जगद्वाचकत्वात् जगत्कारण. त्वेन ब्रह्मैवास्मिन् वाक्ये प्रतिपाद्यते, न हिरण्यगर्भ इत्यर्थः ॥१६॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तयाख्यातम् ॥१७॥ तद्यथा स्वैः श्रेष्ठी भुङ्क्ते' इत्यादिश्रुतौ जीवमुख्यप्राणलिङ्गानामपि वि. द्यमानत्वात् न ब्रह्मोपासनामात्रपरमिति चेत्, तद्व्याख्यातं जीवमुख्यप्राणब्रह्मविष- यकमुपासनात्रयं भविष्यतीति 'प्राणस्तथानुगमादि'त्यधिकरणे व्याख्यातमि- त्यर्थः ॥ १७॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम- पि चैवमेके ॥१८॥ अन्यार्थं ब्रह्मप्रतिपादनार्थ स्थूलारुन्धतीन्यायेन प्रश्नप्रतिवचनाभ्यां जीव- .

प्र०ये चतुर्थः पादः] सूत्रवृत्तिः । २ ३ - मुख्यप्राणौ प्रतिपादितावपीति जैमिनिः, अन्ये वृद्धाश्च वदन्तीत्यर्थः ॥१८॥ वाक्यान्वयाधिकरणम् ।।७।। वाक्यान्वयात् ॥१९॥ 'आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन इदं सर्व विदितं भव. ती ति आत्मज्ञानेन सर्वविज्ञानप्रतिपादकवाक्यस्य ब्रह्मण्येव अन्वयादुपपन्नत्वात् आत्मा वा अरे द्रष्टव्य' इति वाक्यं ब्रह्मपरमेव , न जीवपरमित्यर्थः ॥१९॥ जीवानामनादित्वेन ब्रह्मजन्यत्वाभावात् ब्रह्मज्ञानेन जीवज्ञानमनुपपन्नमि. ति आशङ्कय मतत्रयमाह- प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥२०॥ प्रतिज्ञा ब्रह्मज्ञानेन सर्वविज्ञानप्रतिज्ञैव सिद्धेः जीवानामुत्पत्तेर्लिङ्गं ज्ञाप- कमित्यर्थः । जीवानामपि पञ्चमहाभूतवत् ब्रह्मजन्यत्वात् कार्यकारणयोर्भेदाभे. दाङ्गीकारात् ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिपादकवाक्यमुपपन्नमिति भेदाभेदवादी आश्मरथ्यो मन्यत इत्यर्थः ॥ २० ॥ संसारदशायां जीवब्रह्मणोर्मेदः, मोक्षदशायाममेदः कालेभेदेन इति मेदामेदवादिनो मतमाह उत्क्रमिष्यत एवम्भावादित्यौडलोमिः ॥२१॥ उत्क्रमिष्यतः देहाद्यभिमानं त्यजतः मुक्तजीवस्य एवम्भावात् ब्रह्मामि- नस्वात ब्रह्मज्ञानेन सर्वविज्ञानम् उपपद्यत इति औडुलोमिर्मन्यत इत्यर्थः ॥२१॥ सर्वदा अत्यन्ताभेदवादिमतमाह अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥ अवस्थितेः सर्वदा बिम्बप्रतिबिम्बमावेन जीवब्रह्मणोरत्यन्तामेदावस्थानात् भेदस्य च मिथ्यात्वात् ब्रह्मज्ञानेन सर्वविज्ञानमुपपन्नमिति मुख्यसिद्धान्ती काश- कृत्स्नो मन्यत इत्यर्थः ॥२२॥ परमाण्वादयः प्रपञ्चस्य उपादानकारणम् , ईश्वरस्तु निमित्तकारणमात्र मिति नैयायिकादयो वदन्ति । तन्मतं निराकरोति- प्रकृत्यधिकरणम् ॥८॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ - - ar- अद्वैतमञ्जरी । ब्रह्म प्रकृतिः उपादानकारणं, चकारानिमित्तकारणं च । कुतः ? प्रतिज्ञाह- ष्टान्तयोरनुपरोधात् प्रामाण्यादित्यर्थः । 'उत तमादेशमप्राक्ष्य' इति प्रतिज्ञाश्रुतिः । 'मृत्तिकेत्येव सत्यमिति दृष्टान्त श्रुतिः। उभयप्रामाण्यनिर्वाहार्थं निमित्तत्वमुपादा- नत्वं च ब्रह्मणो वक्तव्यमित्यर्थः ॥ २३ ॥ अभिध्योपदेशाच्च ॥२४॥ 'सोऽकामयते'ति श्रुतौ इच्छोपदेशात् ब्रह्मणः स्वविषयकसङ्कल्पोपदेशा- दुपादानकारणत्वं निमित्तकारणत्वं च वक्तव्यमित्यर्थः ॥ २४ ॥ साक्षाचोभयानानात् ॥ २५ ॥ 'यतो वा इमानि भूतानि जायन्त' इत्यादिश्रुतौ ब्रह्मण्येव सृष्टिप्रलया- नानात् निमित्तत्वमुपादानत्वं च वक्तव्यमित्यर्थः ॥२५॥ आत्मकृतेः परिणामात् ॥२६॥ 'तदात्मानं स्वयमकुरुत' इत्यादिश्रुतौ आत्मकृतेः परमात्मविषयकप्रयत्नात् प्रपञ्चस्य परिणामात् निमित्तकारणत्वमुपादानकारणत्वं च वक्तव्यमित्यर्थः ॥२६॥ योनिश्च हि गीयते ॥२७॥ यद्भूतयोनि परिपश्यन्ति धीरा' इति श्रुतौ योनिशब्दश्रवणानुपादान- कारणत्वमपि ब्रह्मणो वक्तव्यमित्यर्थः ॥ २७ ॥ एतेन सर्वे व्याख्याताव्याख्याताः ॥ २८॥ एतेन प्रपञ्चस्याभिन्ननिमित्तोपादानकत्वव्यवस्थापनेन सर्वभेदवादा व्या- ख्याताः निराकता इत्यर्थः ॥ २८ ॥ इति सूत्रवृत्तौ प्रथमाध्यायस्य चतुर्थः पादः ॥ अध्यायश्च सम्पूर्णः ॥

॥ श्रीः ॥ अथ ॥ द्वितीयाध्यायः प्रारभ्यते ॥ स्मृत्यधिकरणम् ।। १॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवका- शदोषप्रसङ्गात् ॥ १॥ प्रधानस्य जगत्कारणत्वानङ्गीकारे स्मृत्यनवकाशदोषप्रसङ्गः साङ्ख्या- दिस्मृतीनाम् अप्रामाण्यदोषप्रसङ्ग इति चेत्, न । ब्रह्मणो जगत्कारणत्वान- ङ्गीकारे अन्यस्मृतीनां मन्वादिस्मृतीनाम् अप्रामाण्यदोषप्रसङ्गात् । न च विनिग- मकाभावः । श्रुतिमूलकत्वेन मन्वादिस्मृतीनां प्रबलत्वात् साङ्ख्यादिस्मृतीनां तु स्मृतिविरुद्धार्थत्वेन दुर्बलत्वात् अप्रामाण्यमित्यर्थः ॥ १॥ अस्तु वा प्रधानं जगत्कारणम् । वेदान्तिमिरपि मायायाः जगत्कारणत्वा- ङ्गीकारात् । स्वातन्त्र्याखातन्त्र्यमात्र एव वादिनां विवादात् । महदहङ्कारप- ञ्चतन्मात्रादिकं तु अप्रामाणिकमित्याह- इतरेषां चानुपलब्धेः ॥२॥ इतरेषां महदहङ्कारादीनाम् अनुपलब्धेः श्रुतौ अप्रतिपादितत्वादप्रामाणि- कमित्यर्थः ॥२॥ योगप्रत्युक्त्यधिकरणम् ॥२॥ ईश्वराप्रेरितस्य जडस्य प्रधानस्य खातन्त्र्येण जगदुपादानकारणत्ववादिनां साङ्ख्यानां मतं निराकृत्य ईश्वरप्रेरितस्य जडस्य प्रधानस्य जगदुपादानकार- णत्ववादिनां योगानां मतं निराकरोति-- एतेन योगः प्रत्युक्तः ॥३॥ एतेन साङ्ख्यस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्ता निरस्तेत्यर्थः ॥३॥ नविलक्षणत्वाधिकरणम् ॥३॥ पूर्वपक्ष:- न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४॥ अस्य ब्रह्मणः विलक्षणत्वात् ज्ञानात्मकतया जडप्रपञ्चविलक्षणत्वात् जग- स्कारणत्वं न सम्मवति । तथात्वं च विलक्षणत्वं च 'नित्यं विज्ञानमानन्दं ब्रह्मेति शब्दान्निश्चीयत इत्यर्थः ॥ ४ ॥ -- --

२६
भद्वैतमञ्जरी ।
'तत्तेज ऐक्षत ता आप ऐक्षन्ते त्यादिश्रुतिषु पञ्चमहाभूतानामपि चेतनत्वं प्रती-
यते । तथा च प्रपञ्चब्रह्मणोः विलक्षणत्वमसिद्धमित्याशङ्कयाह-
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥५॥
विशेषानुगतिभ्यां श्रुतिस्मृतिभ्यां पञ्चमहाभूताभिमानिदेवतानामेव ईक्षणादि-
व्यापार उच्यते, न जडानां च महाभूतानामित्यर्थः ॥ ५ ॥
सिद्धान्तः-
दृश्यते तु ॥६॥
अचेतनस्य गोमयस्य चेतनवृश्चिकोत्पत्तिहेतुत्वं लोके दृश्यते । चेतनस्य ऊ.
र्णनाभेः अचेतनतन्तुकाणत्वं दृश्यते । तद्वचेतनस्य ब्रह्मणः अचेतनप्रपञ्चं प्रति कार-
णत्वमुपपद्यत इत्यर्थः ॥६॥
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥७॥
'असद्वा इदमग्र आसीदि' ति श्रुतौ सृष्टेः पूर्व प्रपञ्चस्य अत्यन्तासत्त्वप्रति-
पादनात् शशशृङ्गतुल्यस्य प्रपञ्चस्य ब्रह्मजन्यत्वं न सम्भवतीति चेत्, न । प्रतिषेध-
मात्रत्वात् स्थूलावस्थाप्रतिषेधमात्रत्वात् प्रलयसमयेऽपि सूक्ष्मरूपेण प्रपञ्चस्य ब्रह्मणि
सत्त्वात् उत्पत्तिरुपपद्यत इत्यर्थः ॥७॥
पूर्वपक्ष:--
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥८॥
अपीतौ प्रलयकाले तद्वत्प्रसङ्गात् प्रपञ्चस्य ब्रह्मणि एकीभूतत्वादसमञ्जसं
पुनरुत्पत्तिः न सम्भवतीत्यर्थः ॥८॥
सिद्धान्तः
न तु दृष्टान्तभावात् ॥९॥
मण्डूकशरीराणां पृथिव्यामेकीभूतानां यथा वर्षाकाले पुनरुत्पत्तिः, तद्वत्
ब्रह्मणि एकीभूतस्य संस्काररूपेण विद्यमानस्य प्रपञ्चस्योत्पत्तिः सम्भवतीत्यर्थः ॥९॥
खपक्षदोषाच ॥१०॥
प्रधानं जगत्कारणमिति मतेऽपि अयं दोषः तुल्यः । प्रलयकाले प्रपञ्चस्य
प्रधान एकीभूतत्वादित्यर्थः ॥१०॥

द्वि० ये प्रथमः पादः] सूत्रवृत्तिः । २७ . तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः११ तर्काणामनुमानानाम् अप्रतिष्ठानात् व्यभिचारादिदोषदुष्टत्वेन अप्रमाणत्वात् असदनुमानसिद्धं प्रधानं जगत्कारणं न भवति । पूर्वपक्षी मध्ये शङ्कते--अन्य- थानुमेयमिति अन्यथा व्यभिचारादिदोषरहितत्वेन सावधानरस्माभिः धानमनुमेयमिति चेत् , सिद्धान्ती दूषयति-एवमप्यविमोक्षप्रसङ्गः नैयायिकादिभिः परमाणूनां जगत्कारणत्वव्यवस्थापनात् प्रधानमेव जगत्कारणमिति निश्चयासम्भवात् प्रकृतिपुरुषविवेकाभावात् मोक्षो न स्यादित्यर्थः ॥११॥ शिष्टापरिग्रहाधिकरणम् ॥ ४ ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ एनेन जडप्रधानकारणवादिनिराकरणेन शिष्टैमन्वादिभिः अपरिगृहीताः जइपरमाण्वादिकारणवादिनोऽपि व्याख्याता निराकृता इत्यर्थः ।। १२ ।। भोक्त्रापत्त्यधिकरणम् ॥ ५ ॥ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॥ १३ ॥ वेदान्तिमते ब्रह्मणः भोक्त्रापत्तेः भोक्त्रभेदाङ्गीकारात् अविभागश्चेत ब्र. ह्मणो नित्यमुक्तत्वं, जीवानां बद्धत्वमिति विभागो न स्यादिति चेत् , न । स्या- लोकवत् यथा लोके मलिनदर्पणादौ प्रतिबिम्बितमुखस्य मलिनत्वं , बिम्बमुखस्य खच्छत्वम् , एवं मलिनान्तःकरणेषु प्रतिबिम्बितानां जीवानां बद्धत्वं, बिम्बभू तस्य ब्रह्मणः मुक्तत्वं च उपपद्यत इत्यर्थः ॥ १३ ॥ आरम्भणाधिकरणम् ॥ ६ ॥ जीवब्रह्मणोरभेदेऽपि प्रपञ्चबह्मणोः परस्परं भिन्नत्वात् ब्रह्मणः अद्वि- तीयत्वं न स्यादित्याशङ्कां निराकरोति- तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४॥ तदनन्यत्वं तयोः प्रपञ्चब्रह्मणोः अनन्यत्वम् अङ्गीकर्तव्यम् । कुतः ? आरम्भणशब्दादिभ्यः ‘वाचारम्भणं विकारो नामधेयमि' त्यादिश्रुतौ सर्वस्य प्र- पञ्चस्य ब्रह्मणि अध्यस्तत्वप्रतिपादन दधिष्ठानाध्यस्तयोर्भदाभावादित्यर्थः ।।१४।। भावे चोपलब्धेः॥१५॥ ब्रह्मणः भावे सति प्रपञ्चस्य उपलब्धेः ब्रह्मचैतन्येनैव प्रपञ्चस्य प्रकाश . .. --

अद्वैतमञ्जरी ।
मानत्वात् दृग्दृश्ययोः सम्बन्धानिरूपणात् ब्रह्माभिन्नत्वं प्रपञ्चस्य स्खीकर्तव्यमि-
त्यर्थः ॥१५॥
सत्त्वाच्चावरस्य ॥१६॥
अवरस्य प्रपञ्चस्य ब्रह्मण्येव सर्वदा सत्त्वाच्च ब्रह्माभिन्नत्वं प्रपञ्चस्या.
ङ्गीकर्तव्यमित्यर्थः ॥ १६ ॥
असद्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥१७॥
असद्व्यपदेशात् 'असद्वा इदमग्र आसी'दिति श्रुतौ सृष्टेः पूर्वं प्रपञ्चस्य
असत्त्वव्यपदेशात् नेति चेत् प्रपञ्चस्य सर्वदा सत्त्वं नास्तीति चेत् , न । ध.
मन्तिरेण सूक्ष्मत्वरूपधर्मान्तरविशिष्टत्वमात्रेण असत्त्वव्यपदेशः । कुतः ? वाक्यशे-
पात् 'ततो वै सदजायते' ति श्रुतौ सृष्टयनन्तरं स्थूलावस्थाभिधानादित्यर्थः ।
'असद्वा इदमग्र आसीदि 'ति श्रुतेरयमर्थः -अग्रे सृष्टेः प्राक् इदं जगदसदासीत
सूक्ष्मावस्थापन्नम् आसीत् । ततः सृष्टयनन्तरं सदजायत स्थूलावस्थाविशिष्टमा-
सीदित्यर्थः ॥१७॥
युक्तेश्शब्दान्तराच्च ॥१८॥
अत्यन्तासतः शशशृङ्गतुल्यस्य प्रपश्चस्य उत्पत्तिः न सम्भवतीति युक्तेः
शब्दान्तरात् 'सदेव सोम्येदमग्र आसीदि'तिश्रुत्यन्तराच्च प्रपञ्चस्य प्रलयसमये-
ऽपि सूक्ष्मरूपेण सत्त्वमङ्गीकर्तव्यमित्यर्थः ॥ १८॥
पटवच्च ॥१९॥
यथा पटस्य कदाचित् सङ्कुचितावस्था, कदाचिद्विकासावस्था च, एवं प्र-
पञ्चस्यापि प्रलयकाले सूक्ष्मावस्था, सृष्टिकाले स्थूलावस्था चाङ्गीकर्तव्येत्यर्थः ॥१९॥
यथा च प्राणादिः ॥२०॥
यथा योगीश्वराणां प्राणायामादिना वायुनिरोधकाले वायोस्सङ्कुचितत्वम् ,
इतरकालेषु नवद्वारेषु वायोः सञ्चारः, तद्वत् प्रपञ्चस्यापि कालभेदेन सङ्कोच-
विकासौ अङ्गीकर्तव्यावित्यर्थः ॥२०॥
इतरव्यपदेशाधिकरणम् ॥७॥
पूर्वपक्षः- इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥२१॥

द्वि०ये प्रथमः पादः ]
सूत्रवृत्तिः ।
२९
इतरस्य ब्रह्मणः व्यपदेशात् जीवाभेदव्यपदेशात् हिताकरणादिदोषप्रसक्तिः हि-
तानामिष्टसाधनानां स्त्रक्चन्दनादीनामकरणम् असम्पादनम् आदिशब्देनानिष्टसाध-
नानां व्याघ्रसादीनां सम्पादनमुच्यते , एतादृशदोषप्रसक्तिः वेदान्तिमते स्या
दित्यर्थः । अयं भावः-'तत्त्वमसि अहं ब्रह्मास्मी'त्यादिश्रुतिभिः सकलजीवानां ब-
नाभिन्नत्वप्रतिपादनात् जीवानां यदिष्टसाधनमनिष्टसाधनं च, तत्सर्वं ब्रह्मण एव
इष्टानिष्टसाधनमङ्गीकर्तव्यम् । तथा च इष्टप्रपञ्चमात्रनिर्मातृत्वमेव स्वतन्त्रस्य ब-
ह्मणः उपपन्नम्, अनिष्टप्रपञ्चनिर्मातृत्वमनुपपन्नमित्यर्थः ॥ २१ ॥
सिद्धान्तः
अधिकं तु भेदनिर्देशात् ॥२२॥
ब्रह्मस्वरूपं जीवेभ्यः अधिक भिन्नमेव ब्रह्मसाक्षात्कारेण देहाभिमान-
निवृत्तिपर्यन्तम् । 'द्वा सुपर्णे'त्यादिश्रुतिषु जीवब्रह्मणोर्मेदव्यपदेशादित्यर्थः । तथा च
जीवानामेव इष्टानिष्टसाधनं जगत् , न तु ब्रह्मण इति इष्टानिष्टप्रपञ्चनिर्मातृत्वं
ब्रह्मण उपपन्नमित्यर्थः ॥ २२ ॥
ज्ञानानन्दखभावस्य एकरूपस्य ब्रह्मणः इष्टानिष्टरूपविचित्रप्रपञ्चनिर्मात-
त्वमनुपपन्नमित्याशङ्कयाह-
अश्मादिवच तदनुपपत्तिः ॥२३॥
अश्मादिदृष्टान्तेन तदनुपपत्तिः पूर्वोक्तदूषणानुपपत्तिरित्यर्थः । यथा मृदू-
पायां पृथिव्यां वजवैडूर्येन्द्रनीलादयो मणयः, व्यर्थपाषाणाश्च जायन्ते , तथा आ-
नन्दरूपात् ब्रह्मणः इष्टानिष्टात्मकविचित्रप्रपञ्चो जायत इत्यर्थः ॥ २३ ॥
उपसंहाराधिकरणम् ॥८॥
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥२४॥
उपादानकारणस्य मृदादेः दण्डचक्रकुलालादिनिमित्तकारणानाम् उपसंहारे
मेलने सति घटादिजनकत्वदर्शनानिमित्तकारणरहितस्य केवलस्य ब्रह्मणः प्रपन्नो.
पादानकारणत्वं न सम्भवतीति चेन्न । क्षीरवत् यथा क्षीरस्य निमित्तकारणरहि-
तस्यापि दधिजनकत्वम् , एवं ब्रह्मणोऽपि प्रपञ्चजनकत्वमुपपन्नमित्यर्थः । न च त-
क्रादिसम्पर्कात् क्षीरस्य दधिरूपेण परिणाम इति वाच्यम् । अत्रापि मायासं.
पर्कात् ब्रह्मणः प्रपञ्चरूपेण परिणामसम्भवादिति भावः ॥ २४ ॥
देवादिवदपि लोके ॥२५॥

३० अद्वैतमञ्जरी । लोके देवासुरादीनामपि युद्धकालेषु मायाबलात् गजतुरगादिचतुरङ्गबलनि- मातृत्वं दृष्टं , किमु वक्तव्यम् अनन्तमायाविशिष्टस्य ब्रह्मण इत्यर्थः ॥२५॥ पूर्वपक्षः- कृत्स्नप्रसक्त्यधिकरणम् ॥९॥ कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा ॥२६॥ वेदान्तिमते ब्रह्म निरवयवं , सावयवं वा, निरवयवं चेत् कृत्स्नप्रसक्तिः कृ. स्नस्य सकलस्य ब्रह्मणः प्रसक्तिः प्रपञ्चरूपेण परिणामप्रसङ्गः। तथा च प्रपञ्चका- ले ब्रह्मणः अभावात् प्रपञ्चाधिष्ठानत्वं प्रपञ्चभासकत्वं च ब्रह्मणो न स्यादित्यर्थः । सावयवं चेत् , निरवयवत्वशब्दकोपः निरवयवत्वप्रतिपादकानां 'निष्कलं निष्क्रिय शान्तमि' त्यादिशब्दाना कोपः अप्रामाण्यं स्यादित्यर्थः ॥ २६ ॥ सिद्धान्तः- श्रुतेस्तु शब्दमूलत्वात् ॥ २७॥ ब्रह्मणः शब्दमूलत्वात् शब्दप्रमाणकत्वात् श्रुतेः श्रुतिबलात् ब्रह्मणः निरवय. वत्वं, कृत्स्नस्य ब्रह्मणप्रपञ्चरूपेण परिणामित्वं, प्रपञ्चाधिष्ठानत्वं, प्रपञ्चभासकत्वं च, सर्वमङ्गीकर्तव्यमित्यर्थः । अस्मिन्मते मायाशबालितस्य ब्रह्मणः प्रपञ्चं प्रति विवर्ती- पादानत्वाङ्गीकारात् न कोऽपि विरोध इत्यर्थः ॥ २७ ॥ आत्मनि चैवं विचित्राश्च हि ॥२८॥ निरवयवे जीवात्मनि मायावशादेवंविधाः जाग्रत्प्रपञ्चतुल्याः स्वप्नकाले वि. चित्राः प्रपञ्चा दृष्टाः, एवं निरवयवेऽपि परमात्मनि मायांवशात् विचित्राः प्रपञ्चाः उत्पन्ना इत्यर्थः ॥ २८॥ स्वपक्षदोषाच्च ॥२९॥ प्रधानं जगत्कारणमिति मतेऽपि प्रधानस्य ब्रह्मवन्निरवयवत्वात् ब्रह्मपक्षोक्त- दोषाः प्रधानपक्षेऽपि समाना इत्यर्थः ॥ ९२ ॥ सर्वोपेताधिकरणम् ॥१०॥ ब्रह्मणः मायाविशिष्टत्वे प्रमाणमाह-- सर्वोपेता च तदर्शनात् ॥३०॥ पर। देवता सर्वोपेता सर्वमायावीशष्टा। कुतः तदर्शनात् 'इन्द्रो मायाभिः परुरूप ईयते' इति श्रुतौ ब्रह्मणः मायाविशिष्टत्वदर्शनादित्यर्थः ॥ ३० ॥ 2 द्वि० ये प्रथमः पादः] सूत्रवृत्तिः । ? विकरणत्वान्नेति चेत्तदुक्तम् ॥३१॥ मायाविशिष्टत्वेऽपि विकरणत्वात् शरीरेन्द्रियादिसाधनरहितत्वात् नेति चेत् प्रपञ्चकारणत्वं न सम्भवतीति चेन्न । तदुक्तं साधनरहितस्यापि क्षीरस्य यथा तक्रस. मर्कात् दधिरूपेण परिणामः, एवं साधनरहितस्यापि ब्रह्मणः मायासम्पर्कात् प्रप- ञ्चाकारेण परिणामः सम्भवतीति पूर्वमेव परिहार उक्त इत्यर्थः ॥ ३१ ॥ प्रयोजनवत्त्वाधिकरणम् ॥११॥ पूर्वपक्षः-न प्रयोजनवत्त्वात् ॥३२॥ ब्रह्मणः प्रपञ्चकारणत्वं न सम्भवति । कुतः ? प्रयोजनवत्त्वात् घटादिकर्तृ- णां कुलालादीनां लोके प्रयोजनबत्त्वदर्शनात अवाप्तसकलकामस्य आनन्दघनस्य ब्रह्मणः 'प्रपञ्चनिर्माणेन प्रयोजनाभावान 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत' इति न्यायात् न ब्रह्मणः प्रपञ्चकारणत्वमिति भावः ॥ १२ ॥. सिद्धान्तः- लोकवत्तु लीला कैवल्यम् ॥३३॥ अवाप्तसकलकामस्य आनन्दघनस्यापि ब्रह्मणः कदाचित् प्रपञ्चनिर्माणे लीला कुतूहलं , कदाचित् कैवल्यं केवलस्वरूपेणावस्थानं च उपपद्यते । लोकवत् यथा लो- के राज्ञां सकलैश्वर्यसम्पन्नानामपि कदाचित कुतूहलवशात् किञ्चित्कार्यनिर्मा- णं, कदाचित् तूष्णीमवस्थानं, तद्वदित्यर्थः । तथा च अवाप्तसकलकामस्य ब्रह्मणः कु- तूहलवशात् सृष्टिकाले प्रपञ्चनिर्माणे प्रवृत्तिः, प्रलयसमये तूष्णीमवस्थानं च उपप- द्यत इति भावः । वैषम्यनघण्याधिकरणम् ॥१२॥ ईश्वरः कांश्चिद्दरिद्रान सृजति, कांश्चिदैश्वर्ययुक्तान् सृजति । तथा च पक्ष. पातनिर्दयत्वादिदोषप्रसङ्ग इत्याशङ्कय निराकरोति- वैषम्यनैघण्ये न सापेक्षत्वात् तथा हि दर्शयति ॥३४॥ ईश्वरस्य वैषम्यनैधुण्ये पक्षपातनिर्दयत्वे उभे अपि न स्तः । कुतः ? सापेक्षत्वात् ईश्वरस्य जीवकृतपुण्यपापसापेक्षत्वात् । तथा हि दर्शयति-'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन ति श्रुतिः ऐश्वर्यादेः पुण्यपापाधीनत्वं प्रतिपादयतीत्यर्थः । मध्यकालीनसृष्टौ ईश्वरस्य पुण्यपापसापेक्षत्वमस्तु नाम । आद्यकालीनसृष्टी तु पुण्यपापापेक्षत्वं नोपपद्यते । सृष्टेः पूर्व पुण्यपापयोरभावादित्याशङ्कय निराकरोति - ?

३२ अद्वैतमञ्जरी । न कर्माविभागादिति चेन्नानादित्वात् ॥३५॥ सृष्टेः पुर्व कर्म नास्ति । कुतः? अविभागात् सर्वस्यापि प्रपञ्चस्य प्रलयकाले नष्टत्वेन कर्मणेऽपि नष्टत्वादिति चेन्न । अनादित्वात् सृष्टिप्रलयपरम्पराया अना. दित्वात् पूर्वसृष्टौ कतानां कर्मणां प्रलयकालेऽपि संस्कारात्मना विद्यमानत्वादाद्यस- ष्टावपि ईश्वरस्य पुण्यपापसापेक्षत्वमुपपन्नमिति भावः ॥ ३५ ॥ उपपद्यते चाप्युपलभ्यते च ॥३६॥ सृष्टिप्रलयपरम्पराया अनादित्वमुपपद्यते युक्तियुक्तं भवति । संस्काररूपे- णाविद्यमानस्य अत्यन्तासतः अभिन्नप्रपञ्चस्य उत्पत्त्ययोगात् । तथा श्रुतावपि अ- नादित्वमुपलभ्यते-'धाता यथापूर्वमकल्पयदिति श्रुतौ पूर्वशब्देन प्रलयात्पूर्वमपि सृष्टिसद्भावस्य सूचितत्वादित्यर्थः । तथा च आद्यसृष्टौ मध्यसृष्टौ अन्तसृष्टौ च ई- श्वरः विवर्तोपादानम् । पूर्वावस्थानाशेन अवस्थान्तरं परिणामः । यथा दुग्धस्य दधि- भावः ! पूर्वरूपानुपमर्दनेन अवस्थान्तरं विवर्तः । यथा शुक्ते रजतमावः । तस्य जीवकृतपुण्यपापानुसारेण विचित्रप्रजानिर्मातृत्वमुपपन्नमिति भावः ॥३६॥ सर्वधर्मोपपत्त्यधिकरणम् ॥१३॥ ब्रह्मणो निर्गुणत्वेन सर्वज्ञत्वसत्यसङ्कल्पत्वसर्वनियन्तृत्वादिधर्माणामसम्मवात् कथं जगत्कारणत्वमित्याशङ्कयाह- सर्वधर्मोपपत्तेश्च ॥३७॥ मायाविशिष्टस्य ब्रह्मणः मिथ्याभूतानां सर्वज्ञत्वादिधर्माणां सम्मवाजगत्का. रणत्वं ब्रह्मणः उपपन्न मिति भावः ॥३७॥ इति द्वितीयाध्यायस्य प्रथमः पादः ॥ - अथ ॥ द्वितीयाध्यायस्य द्वितीयः पादः ॥ रचनानुपपत्त्यधिकरणम् ॥१॥ रचनानुपपत्तेश्च नानुमानम् ॥१॥ अनुमानम् अनुमानवेद्यं प्रधानं जगत्कारणं न भवति । कुतः ? रचना.

द्वि०ये द्वितीयः पादः ] सूत्रवृत्तिः । नुपपत्तेः सृष्टयनुकूलज्ञानरहितस्य जडस्य प्रवानस्य प्रपञ्चनिर्मातृत्वानुपपत्तेरि- त्यर्थः ॥ १॥ प्रवृत्तेश्च ॥२॥ जडस्य प्रधानस्य प्रवृत्तेः प्रयत्नस्य अनुपपत्तश्च प्रधानं जगत्कारणं न भवतीत्यर्थः । इदमुपलक्षणं जडत्य प्रधानस्य इच्छानुपपत्तेरिति द्रष्टव्यम् ॥ २॥ पयोऽम्बुवच्चेत्तत्रापि ॥३॥ पयसः क्षीरस्य स्तनेषु विद्यमानस्य यथा स्वातन्त्र्येण बहिनिर्गमनं, यथा अम्बुनः जलस्य नद्यां स्वातन्त्र्येण चलनं, तद्वत् जडस्यापि प्रधानस्य स्वातन्त्र्ये- ण महदहङ्कारादिप्रपञ्चकारणत्वमुपपन्नमिति चेत्, न । तत्रापि क्षीरजलयोरपि ईश्व. रस्य प्रेरकत्वेन स्वातन्त्र्याभावादित्यर्थः ॥ ३ ॥ व्यतिरेकानवस्थितेचानपेक्षत्वात् ॥४॥ साङ्खयमते व्यतिरेकानवस्थितेः प्रधानव्यतिरिक्तस्य प्रेरकस्य ब्रह्मणः अनव. स्थितेः अविद्यमानत्वात् अनपेक्षत्वात् प्रधानस्य स्वातन्त्र्यात् सर्वकालेष्वपि प्रपञ्च- सृष्टिस्स्यात् । तथाच कदापि प्रलयो न स्यादिति भावः । ब्रह्मणस्तु कालज्ञानवत्त्वा- त् कदाचित प्रपञ्चसृष्टिहेतुत्वं, कदाचित् तृष्णीमवस्थानं च उपपद्यते । ज- डप्रधानस्य तु कालज्ञानाभावात् अन्धसन्ध्यावन्दनन्यायेन सर्वदा प्रपञ्च- जनकत्वं स्यादिति भावः ॥ ४ ॥ अन्यत्राभावाच न तृणादिवत् ॥५॥ यथा गवामुदरे विद्यमानं तृणं क्षीराकारेण खयमेव परिणमते, एवं प्र. धानमपि महदहङ्कारादिप्रपञ्चरूपेण परिणमत इति चेत्, न । तृणस्यापि स्वात- त्र्येण परिणामो नास्ति । कुतः? अन्यत्राभावात् अनडुहामुदरे विद्यमानतृणस्य क्षी. राकारेण परिणामाभावात् । यदि तृणस्य स्वातन्त्र्येण क्षीरपरिणामः, तर्हि सर्वप- शूनाम् उदरेऽपि विद्यमानं तृणं क्षीराकारेण परिणमेत । तस्मादीश्वरप्रेरणेनैव तृणस्य क्षीरपरिणाम इति भावः ॥५॥ जडस्य स्वातन्त्र्येण परिणाममभ्युपेत्य दूषणान्तरमाह- अभ्युपगमेऽप्यर्थाभावात् ॥६॥ अभ्युपगमेऽपि जडत्य स्वातन्त्र्येण परिणामाङ्गीकारेऽपि जडस्य प्रधानस्य प्रपञ्चनिर्माणे अर्थाभावात् भोगमोक्षादिप्रयोजनाभावात् प्रपञ्चजनकत्वमनुपपन्नमित्य- थः : । प्रयोजनरहितस्यापि ब्रह्मणः लीलया प्रपञ्चनिर्मातृत्वमुपपन्नं , न जडस्य - . ५ ३४ अद्वैतमञ्जरी। -- प्रधानस्य । लीलासम्भवादिति भावः ॥ ॥ पुरुषाश्मवदिति चेत्तथापि ॥७॥ यथा पुरुषाणां जीवानां सन्निधानादिन्द्रियाणां विषयेषु व्यापारः, यथा वा अश्मनाम् अयस्कान्तमणीनां सन्निधानात् शरीरे विद्यमानानां कफानां बहिनिर्गम- नम्, एवं ब्रह्मसन्निधानात् प्रधानस्यापि महदादिप्रपञ्चाकारेण परिणामो भविष्यती- ति चेत्, न । तथाप्यस्मन्मतप्रवेशापत्तिः साङ्ख्यमते अपसिद्धान्तस्यादित्यर्थः ॥७॥ अङ्गित्वानुपपत्तेश्च ॥८॥ प्रलयकाले समप्राधान्येन विद्यमानानां सत्त्वरजस्तमोगुणानाम् ईश्वरप्रेरणं विना परस्परम् अङ्गाङ्गिभावानुपपत्तेश्च सात्त्विकराजसतामसप्रपञ्चसृष्टिः न सम्भ- वतीत्यर्थः ॥८॥ गुणत्रयमपि समप्रधानतया नानुमीयते, किं तु सात्त्विकसृष्टौ सत्त्वगुणस्य प्राधान्यम्, इतरयोरुपसर्जनत्वम् , एवं राजससृष्टौ रजोगुणस्य प्राधान्यम् , इतरयो. रुपसर्जनत्वं, एवं तमस्सृष्टौ तमोगुणस्याङ्गित्वम्, इतरयोरङ्गत्वमिति, एवं प्रपञ्चा- कारेण कालभेदेन नानाविधस्वभावविशिष्टमेव प्रधानमनुमीयत इत्याशङ्कय निराक- रोति अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥९॥ अन्यथा नानास्वभावविशिष्टतया प्रधानस्यानुमितौ अङ्गीकृतायामपि जडस्य शक्तिवियोगात् ज्ञानशक्त्यभावात् कालविशेषपरिज्ञानाभावात् सर्वदा प्रपञ्चजन- कत्वं स्यादिति पूर्वोक्तदोषस्तदवस्थ इति भावः ॥९॥ विप्रतिषेधाचासमञ्जसम् ॥१०॥ विप्रतिषेधात् सकलवेदान्तविरुद्धत्वादपि साङ्ख्यमतमसमञ्जसम् अनुपप. नमित्यर्थः ॥ १०॥ महद्दीर्घाधिकरणम् ॥२॥ साङ्खयमतं निराकृत्य वैशेषिकनैयायिकमतं निराकरोति- महद्दर्घिवद्धा हूंखपरिमण्डलाभ्याम् ॥११॥ 'कारणगुणा हि कार्यगुणानारभन्त' इति न्यायात् ज्ञानानन्दात्मकब्रह्मजन्यस्य प्रपञ्चस्यापि ज्ञानानन्दरूपत्वं स्यादिति चेन्न । हूस्वपरिमण्डलाभ्यां अणुकपरमाणुभ्यां महत् परमाण्वपेक्षया अधिकपरिमाणविशिष्टं व्यणुकं यथा,यथा वा हस्वपरिमाणोपे. तत्वाद्दीर्घपरिमाणरहितेभ्यः द्वयणुकेभ्यः दीर्घपरिमाणोपेताणुपरिमाणरहितं त्र्यणुकं

द्वि०ये द्वितीयः पादः]
सूत्रवृत्तिः ।
३५
.
जायते, एवं ज्ञानानन्दरूपात् ब्रह्मणः जडं दुःखात्मकं च जगदुत्पद्यत इत्यर्थः । ११।
अतस्तदभावाधिकरणम् ॥ ३॥
परमाणुप्रतिबन्धा स्वमतदूषणं परिहत्य परमतं खण्डयति
उभयथापि न कर्मातस्तदभावः ॥१२॥
ईश्वरस्य वा जीवानां वा परमाणुप्रेरकत्वम् उभयथापि पक्षद्वयेऽपि परमाणूनां
कर्म चलनं न सम्भवति । जीवेश्वरयोरुभयोरपि निरवयवत्वेन निरवयवानां निरवयवैः प-
रमाणुभिः सह संयोगसम्बन्धाभावादसम्बन्धयोर्जीवेश्वरयोः प्रेरकत्वासम्भवात् । अत.
स्तदभावः अतः चलनासम्भवात् तदभावः परमाणूनां परस्परसंयोगाभावः । तथा च
यणुकव्यणुकादिफलोत्पत्तिर्न सम्भवतीति भावः ॥ १२ ॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः॥१३॥
किं च नैयायिकमते तन्तुपटयोः समवायाङ्गीकारात् साम्यात् समवायसम्बन्ध-
स्यापि संयोगसम्बन्धतुल्यत्वात् घटपटसंयोगस्य यथा सम्बन्धान्तरमङ्गीकृतम्, एवं
तन्तुपटसमवायस्यापि द्वितीय सम्बन्धान्तरं वक्तव्यम् । द्वितीयसम्बन्धस्यापि तृती.
यसम्बन्धान्तरं वक्तव्यम्, एवं तृतीयस्यापि चतुर्थ सम्बन्धान्तरं वक्तव्यम् । तथाच
अनवस्थितः अनवस्थाप्रसङ्गात् नैयायिकमतमसङ्गतमित्यर्थः ॥ १३ ॥
नित्यमेव च भावात् ॥१४॥
किं च परमाणूनां नित्यं सर्वदा भावात् विद्यमानत्वात् प्रलयकालेऽपि सृष्टि-
प्रसङ्गः। न च ईश्वरप्रेरणवशात् कदाचिदेव सृष्टिः, न सर्वदेति वाच्यम् । निरवयव-
स्येश्वरस्य निरवयवैः परमाणुभिः सह संयोगसम्बन्धाभावेन प्रेरकत्वमेव न सम्भव-
तीति पूर्वमेवोक्तत्वादिति भावः ॥ १४ ॥
रूपादिमत्त्वाच विपर्ययो दर्शनात् ॥१५॥
किं च नैयायिकमते पृथिव्यप्तेजोवायुपरमाणूनों रूपरसगन्धस्पर्शविशिष्टत्वाङ्गी-.
कारात् विपर्ययः अनित्यत्वसावयवत्वादिदोषप्रसङ्गस्स्यात् । कुतः ? दर्शनात् रूपादिम-
तो घटादीनाम् अनित्यत्वसावयवत्वदर्शनादित्यर्थः । तथा च परमाणूनामनित्यत्वात्
द्वयणुकादिप्रपञ्चकारणत्वं न सम्भवतीति भावः ।। १५ ॥
उभयथा च दोषात् ॥१६॥
किं च परमाणूनां सावयवत्वमङ्गीक्रियते वा, निरवयवत्वमङ्गीक्रियते वा ।
उभयथापि पक्षद्वयेऽपि दोषात् सावयवत्वपक्षे अनित्यत्वादिदोषप्रसङ्गात् नि-
रवयवत्वे परमाणूनां परस्परं संयोगासम्भवेन छ्यणुकादिप्रपञ्चोत्पत्त्यसम्भवान्नै-
यायिकमतमसातमित्यर्थः ॥ १६ ॥

३६ अद्वैतमञ्जरी । - अपरिग्रहाचात्यन्तमनपेक्षा ॥१६॥ किं च मन्वादिभिः शिष्टैः अपरिगृहीतत्वाच्च नैयायिकमते अत्यन्तमनपे- क्षा उपेक्षा कर्तव्येत्यर्थः ॥ १७ ॥ समुदायाधिकरणम् ॥४॥ वैशेषिकादिमतं निराकृत्य बौद्धमतं निराकरोति- समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥१८॥ तत्र बौद्धास्त्रिविधाः केचिज्ज्ञानार्थोभयास्तित्ववादिनः , केचित् ज्ञानमात्रा- स्तित्ववादिनः, केचित् ज्ञानार्थोमयशून्यत्ववादिनः । तत्र प्रथमं उभयास्तित्ववादिनां मतं निराक्रियते। तेषां मत मित्थं-गन्धपरमाणुपुञ्ज एव पृथिवीति व्यवहियते, रसपर- माणुपुञ्ज एव जलं, रूपपरमाणुपुञ्ज एव तेजः , स्पर्शपरमाणुपुञ्ज एव वायुः, भौतिका- दिचराचरशरीरादिघटपटादयश्च परमाणुपुञ्ज एव, आकाशस्तु शशशृङ्गतुल्यः शून्यः, जीवाः सोपद्रवज्ञानसन्तानरूपाः, ईश्वरः निरुपद्रवज्ञानसन्तानरूप इति । तेषां मते प्रथमं भूतचतुष्टयं दूषयति-उभयहेतुके भूतभौतिकरूपे परमाणुसमुदाये अ- ङ्गीक्रियमाणे तदप्राप्तिः तस्य समुदायस्य अप्राप्तिः अनुपपत्तिः । तन्मते जी- वानाम् ईश्वरस्य च क्षणिकज्ञानसन्तानरूपत्वेन अनित्यतया क्षणिकपरमाणुमेलनक- र्तृत्वासम्भवादिति भावः ॥ १८ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥१९॥ मेलनकर्तारं विनापि क्षणिकपरमाणूनां स्वत एव इतरेतरप्रत्ययत्वात् पर- स्परमिलितत्वात् मेलनकर्तीपेक्षा नास्तीति चेन्न । उत्पत्तिमात्रनिमित्तत्वात् पूर्वपूर्व घटपरमाणूनां उत्तरोत्तरघटपरमाणूत्पत्तिमात्रं प्रति कारणत्वात् । मेलनकर्ता नित्यः ईश्वरः कश्चिदङ्गीकर्तव्यः । जडानां क्षणिकपरमाणूनां स्वातन्त्र्येण मेलनासम्भ- वात् । तथा चापसिद्धान्तः स्यादित्यर्थः ॥ १९ ॥ इदानी पूर्वपूर्वपरमाणूनां उत्तरोत्तरपरमाणूत्पत्तिहेतुत्वमपि तन्मते अनुपप- न्नमित्याह- उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ उत्तरोत्पादे उत्तरपरमाणूत्पत्तिकाले पूर्वनिरोधात् पूर्वपरमाणूनां नष्टत्वात् उत्त रपरमाणूत्पत्तिहेतुत्वं न सम्भवतीत्यर्थः ॥ २० ।। असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥२१॥ किं च बौद्धमते सर्व कार्य अकारणकं वा, सकारणकं वा । आद्यपक्ष .

द्वि० ये द्वितीयः पादः] मूत्रवृत्तिः । ७ - दूषयति-~-असति प्रतिज्ञोपरोधः कारणे असति सति कार्यमुत्पद्यते चेत्, प्रतिज्ञो- परोधः सर्व कार्य सकारणकमिति बौद्धप्रतिज्ञायाः उपरोधः अप्रामाण्यं स्यात् । द्वितीयं पक्षं दूषयति-योगपधमन्यथा । अन्यथा सर्व कार्य सकारणकं चेत्, यौ- गपा कार्यकारणयोरेककालीनत्वं स्यात् । तथा च सर्व क्षणिकमिति प्रतिज्ञा. याः अप्रामाण्यं स्यादित्यर्थः ॥ २१॥ . बौद्धमते पदार्थानामुत्पत्ति खण्डयित्वा पदार्थानां नाशमपि खण्डयति- प्रतिसङ्ख्यापतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ॥२२॥ प्रतिसङ्ख्यानिरोधो नाम पाषाणप्रक्षेपादिना बुद्धिपूर्वकः घटपटादिभौति. कपदार्थनाशः, अप्रतिसङ्ख्यानिरोधो नाम कालवशात् स्वत एव पृथिव्यादिम- हाभूतानां नाशः । तयोः प्रतिसङ्ख्या प्रतिसङ्ख्यानिरोधयोः अप्राप्तिः अनुपप. त्तिः । कुतः? अविच्छेदात् बौद्धमते पूर्वपूर्वपरमाणूनामुत्तरोत्तरपरमाणून् प्रति खातन्त्र्येण कारणत्वाङ्गीकारात् जडानां परमाणूनां कालविशेषपरिज्ञानाभावात् परमाणुसन्तानानां कदापि विच्छेदानुपपत्तिरित्यर्थः । तथा च बौद्धमते सृष्टिप्र- लयौ उभावप्यनुपपन्नावित्यर्थः ॥२२॥ उभयथा च दोषात् ॥२३॥ किं च घटपटादिपरमाणुसन्तानानां कश्चित् कालं स्थिरत्वं वा, क्षणिकत्वं वा, उभयथापि पक्षद्वयेऽपि दोषात् स्थिरत्वपक्षे अपसिद्धान्तः । बौद्धमते स्थिर- पदार्थानङ्गीकारात् । क्षणिकत्वपक्षे तु घटादीनां जलाहरणादिकार्यकारित्वं न स्या- त् । तस्मादुभयथापि दोषात् बौद्धमनमसङ्गतमित्यर्थः । ननु बौद्धमते परमाणूनामे- व क्षणिकत्वं, परमाणुसन्तानरूपाणां घटपटादीनां तु स्थिरत्वमेव । तथा च जलाह- रणादिकार्यकारित्वं घटादीनामुपपन्नमिति चेत् , तर्हि परमाण्वपेक्षया परमाणुसन्ताना- नां भिन्नत्वाङ्गीकारे घटपटादिपदार्थानां छणुकादिक्रमेण परमाणुजन्यत्वमेवाङ्गीक- तव्यम् । तथा च नैयायिकमतप्रवेशापत्तिः बौद्धानाम् अपसिद्धान्तस्स्यादिति भावः ॥२३॥ बौद्धाभिमतं भूतचतुष्टयस्य परमाणुपुञ्जरूपत्वं निराकृत्य आकाशस्य शू- न्यत्वं बौद्धाभिमतं निराकरोति- आकाशे चाविशेषात् ॥२४॥ आकाशेऽपि सर्वेषां जीवानाम् अस्तित्वप्रतीतेः अविशेषात् तुल्यत्वात् भूत- चतुष्टयस्य प्रत्यक्षपरमाणुपुञ्जरूपत्ववत् आकाशस्यापि अतीन्द्रियपरमाणुपुञ्जरूप- त्वमेवाङ्गीकर्तव्यम् । तथा च शन्यत्वाङ्गीकारः अनुपपन्न इति भावः ॥२४॥ ms- अद्वैतमञ्जरी । . पराभिमतानि पञ्चमहाभूतानि खण्डयित्वा इदानी क्षणिकज्ञानसन्तानरूपत्वं जीवानां खण्डयति- अनुस्मृतेश्च ॥२५॥ पूर्वदिनेषु अनुभूतानां पदार्थानामुत्तरदिनेषु अनुस्मृतेः जीवानां नित्यत्वम- ङ्गीकर्तव्यम् । ज्ञानसन्तानरूपत्वाङ्गीकारे पूर्वदिनज्ञानीयसन्तानानां सुषुप्तिकाले नष्टत्वेन स्मर्तृत्वासम्भवात् । न चोत्तरदिनेषु उत्पन्नानां ज्ञानसन्तानानां स्मर्तृत्व भविष्यतीति वाच्यम् । अन्येनानुभूतपदार्थानां अन्येन स्मरणासम्भवादिति भावः॥२५॥ बौद्धमते उत्तरदिनीयज्ञानसन्तानानाम् उत्पत्तिरपि न सम्भवतीत्याह- नासतोऽदृष्टत्वात् ॥२६॥ असतः सुषुप्तिकालेषु नष्टत्वात् पूर्वपूर्वज्ञानसन्तानात् उत्तरोत्तरज्ञानस- न्तानानाम् उत्पत्तिर्न सम्भवति । कुतः ? अदृष्टत्वात् नष्टमृत्पिण्डादीनां घटादि- जनकत्वदर्शनाभावादित्यर्थः ॥२६॥ नष्टपदार्थस्यापि कार्यजनकत्वाङ्गीकारे बाधकमाह- उदासीनानामपि चैवं सिद्धिः ॥२७॥ एवंसति नष्टस्यापि कार्यजनकत्वे सति उदासीनानां निर्व्यापाराणामपि जीवानां सकलकार्यसिद्धिस्स्यादित्यर्थः ॥२७॥ उपलब्ध्यधिकरणम् ॥ ५ ॥ विज्ञानवादी बौद्धः ज्ञानान्येव सत्यानि , पञ्चमहाभूतप्रभृतयस्तु अर्थाः अ. सन्त एवेति वदति । तन्मतं निराकरोति-- नाभाव उपलब्धेः ॥२८॥ पञ्चमहाभूतात्मकस्य अर्थप्रपञ्चस्य असत्त्वं नाम शशशृङ्गवत् शून्यत्वं वा , स्वप्नप्रपञ्चवत् मिथ्यात्वं वा । आद्यपक्षं निराकरोति-नाभावः पञ्चमहाभूता- त्मकस्य अर्थप्रपञ्चस्य अभावः शून्यत्वं न सम्भवति । कुतः ? उपलब्धेः प्रत्यक्ष- प्रमाणेनार्थप्रपञ्चस्योपलभ्यमानत्वात् । शशशृङ्गवत् शून्यत्वाङ्गीकारे प्रत्यक्षोप- लब्धिर्न स्यादित्यर्थः ॥ २८॥ द्वितीयपक्षं निराकरोति- वैधाच न स्वमादिवत् ॥२८॥ वप्नादिवत् स्वप्नप्रपञ्चदृष्टान्तेन जाग्रत्प्रपञ्चस्य मिथ्यात्वं वक्तुं न शक्य- ते । कुतः ? वैधात् स्वप्नप्रपञ्चजाग्रत्पश्चयोः वैलक्षण्यस्य विद्यमानत्वात् । स्व. - द्वि०ये द्वितीयः पादः] सूत्रवृत्तिः । .0/- - - भप्रपञ्चस्य उत्थानानन्तरं प्रत्यक्षेण बाध्यमानत्वात् मिथ्यात्वमुपपन्नम् । जाग्रत्प्र. पञ्चस्य तु बाधादर्शनात् मिथ्यात्वं नोपपद्यत इत्यर्थः । न च 'यत्र त्वस्य सर्वमा- स्मैवाभूदिति श्रुत्या जाग्रत्प्रपञ्चस्यापि ब्रह्मज्ञानेन बाध्यत्वं प्रतिपाद्यत इति वाच्य- म् । बौद्धमते श्रुतीनां प्रामाण्यानङ्गीकारात्, अङ्गीकारे वा अस्मन्मतप्रवेशापत्ति- रिति भावः ॥ २९॥ न केवलं बाध्यत्वाभावादेव प्रपञ्चस्य मिथ्यात्वाभावः, किं तु अधिष्ठानाभा. वादपि प्रपञ्चस्य मिथ्यात्वाभाव इत्याह- न भावोऽनुपलब्धेः॥३०॥ बौद्धमते पारमार्थिकस्य प्रपञ्चाधिष्ठानस्य भावः विद्यमानत्वं नास्ति । कुतः ? अनुपलब्धेः पारमार्थिकाधिष्ठानबोधकप्रमाणाभावादित्यर्थः । न च वेदान्ता एव पा. रमार्थिकाधिष्ठानबोधका इति वाच्यम् । बौद्धमते वेदान्तानां प्रामाण्यानङ्गीकारादि- ति भावः ॥ ३०॥ बौद्धमतेऽपि तत्तदर्थविषयकज्ञानान्येव तत्तदर्थानामधिष्ठानं भविष्यतीत्याशङ्कयाह- क्षणिकत्वाच ॥३१॥ बौद्धमते ज्ञानानां प्रतिक्षणं विनाश्यत्वात् अनेकत्वाच्च प्रपञ्चाधिष्ठानत्वं नो. पपद्यते । यदि सर्वेषां ज्ञानानाम् एकत्वं नित्यत्वं वाङ्गीक्रियते, तर्हि तदेव ब्रह्मस्व. रूपम् । तथा चास्मन्मतप्रवेशापत्तिरित्यर्थः ॥ ३१ ॥ विज्ञानवादिमतं निराकृत्य ज्ञानानामर्थानां च सर्वेषामपि शून्यत्वमिति ज्ञा. नार्थोभयात्मकस्य प्रपञ्चस्य शून्यत्ववादिनो मत निराकरोति- सर्वथानुपपत्तेश्च ॥३२॥ सर्वशून्यत्ववादिमतस्य प्रत्यक्षानुमानश्रुतिस्मृत्यादिसकलप्रमाणविरुद्धत्वात्तन्म- तमत्यन्तमसङ्गतमित्यर्थः ॥ ३२ ॥ एकस्मिन्नसम्भवाधिकरणम् ॥६॥ बौद्धमतं निराकृत्य क्षपणकमतं निराकरोति- नैकस्मिन्नसम्भवात् ॥३३॥ क्षपणकाः प्रपञ्चस्य सत्त्वमसत्त्वं सदसदात्मकत्वं सदसद्भिन्नत्वं च अङ्गीकु. र्वन्ति । तन्न युक्तम् । कुतः ? एकस्मिन् प्रपञ्चे सदसत्त्वादीनां वास्तवानां विरुद्धध. र्माणामसम्भवादित्यर्थः । मिथ्याभूतधर्माङ्गीकारे इष्टापत्तिरिति भावः ॥ ३३ ॥ क्षपणकाः जीवानां शरीरतुल्यपरिमाणवत्त्वम् अङ्गीकुर्वन्ति । तदपि निराकरोति--- एवं चात्माऽकात्य॑म् ॥३४॥ - ?

अद्वैतमञ्जरी। एवंसति जीवानां शरीरसमानपरिमाणवत्त्वे सति आत्माऽकाय॑म् आत्मनां जीवानाम् अकात्न्यं कृत्स्नशरीरव्यापित्वं न स्यात् । मशकादिशरीरवर्तिनां सूक्ष्म- जीवानां कर्मवशात् गजादिशरीरप्राप्तौ सत्यां गजादिशरीरव्यापित्वं न स्यात् । जी. वस्य स्वल्पत्वात् । तथा गजादिशरीरवर्तिनां स्थूलजीवानां कर्मवशात् मशकादिश- रीरप्राप्तौ सत्यां मशकादिशरीरव्यापित्वं न स्यात् । मशकादिशरीरस्य स्वल्पत्वे- न अवकाशाभावादिति भावः ॥ ३४ ॥ तूलपिण्डवत् जीवानामपि सावयवत्वाङ्गीकारात् मशकादिशरीरेषु सङ्कुचितत्वं, गजादिशरीरेषु विकासावस्था च भविष्यतीत्याशङ्कय निराकरोति-- न च पर्यायादप्यविरोधो विकारादिभ्यः ॥३५॥ पर्यायात् शरीरक्रमेण सङ्कोचविकासाङ्गीकारात् अविरोधः गजतुरगमश. कादिशरीरेषु प्रवेशविरोधो नास्तीति चेत् , न । तथापि जीवनां सावयवत्वेन वि. कारित्वविनाशित्वादिदोषप्रसङ्गादित्यर्थः ॥३५॥ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥३६॥ अन्त्यावस्थितेः अन्त्यकाले मोक्षकाले अवस्थितेः सङ्कोचविकासरहितत- या एकरूपेणावस्थानात् तदृष्टान्तेन उमयनित्यत्वादाद्यमध्यमकालयोरपि नित्य . त्वात् सङ्कोचविकासरहितत्वात् अनित्यत्वादिदोषप्रसक्तिर्नास्ति चेत्, तर्हि अविशे- षः अस्मन्मताद्विशेषो नास्ति । तथा च अस्मन्मतप्रवेशापत्तिरित्यर्थः ॥ ३६ पाशुपताधिकरणम् ॥७॥ नैयायिकमतवैशेषिकमतानुसारिणः तटस्थेश्वरवादिनः जीवभिन्नेश्वरसद्भावे अनुमानं प्रमाणं वदन्ति, तन्मतं निराकरोति- पत्युरसामञ्जस्यात् ॥ ३७॥ पत्युर्जीवभिन्नेश्वरस्य असामञ्जस्यात् अप्रामाणिकत्वादित्यर्थः । न च अ- ङ्कुरादिकं सकर्तृकं, कार्यत्वात्, घटवदित्यनुमानमेव प्रमाणमिति वाच्यम् । एत- स्यानुमानस्य कर्तृमात्रसाधकत्वेन सर्वज्ञेश्वरसाधकत्वाभावादिति भावः ॥३७॥ सम्बन्धानुपपत्तेश्च ॥३८॥ नैयायिकमते परमाणूनां निरवयवत्वादीश्वरस्यापि निरवयवत्वात् परमा- णूनां ईश्वरस्य च संयोगसम्बन्धानुपपत्तेः परमाणुप्रेरकत्वमीश्वरस्य न सम्भवति । तथा च ईश्वराप्रेरितानां जडानां परमाणूनां व्यणकत्र्यणुकादिप्रपञ्चोत्पादकत्वं न सम्भवतीति भावः ॥३८॥ D.

द्वि० ये द्वितीयः पादः] सूत्रवृत्तिः । अधिष्ठानानुपपत्तेश्च ॥३९॥ किं च तन्मते परमाणूनामतीन्द्रियत्वेन ईश्वरस्य परमाणुविषयकसाक्षात्कारा- सम्भवात् अधिष्ठानानुपपत्तेः परमाणुप्रेरकत्वानुपपत्तेश्च ब्यणुकादिप्रपञ्चोत्पत्तिः न सम्भवतीति भावः । न च परमाणवः जीवानामेवाप्रत्यक्षाः, ईश्वरस्य तु प्रत्यक्षा इति वाच्यम् । अयोग्यपदार्थस्य सर्वान् प्रत्यप्ययोग्यत्वादिति भावः । ब्रह्मणस्तु श्रु. तिमूलकत्वात् सर्वप्रपञ्चविषयकापरोक्षज्ञानवत्त्वमुपपन्नमिति भावः ॥ ३९॥ करणवच्चेन्न भोगादिभ्यः ॥४०॥ यथा जीवाः अप्रत्यक्षाण्यपि इन्द्रियाणि प्रेरयन्ति, एवमीश्वरोऽपि अप्रत्य- क्षान् परमाणून् प्रेरयिष्यतीति चेन्न । भोगादिभ्यः तथापि विषयभोगार्थ जीवा- नामिन्द्रियप्रेरकत्वमुपपन्नम् । अशरीरस्य ईश्वरस्य तु परमाणुजन्यप्रपञ्चेन भोगा- भावात् परमाणुप्रेरकत्वं न सम्भवतीत्यर्थः ॥४०॥ अन्तवत्त्वमसर्वज्ञता वा ॥४१|| किं च तन्मते ईश्वरः सावयवो वा, निरवयवो वा । सावयवत्वे अन्तवत्त्वं नाशवत्वं स्यात् , निरवयवत्वे प्रपञ्चेश्वरयोः संयोगसम्बन्धाभावात् असर्वज्ञता स. वैज्ञत्वाभावप्रसङ्ग इत्यर्थः ॥४१॥ पाञ्चरात्राधिकरणम् ॥८॥ पाञ्चरात्रमतानुसारिणः जीवानां ब्रह्मणः सकाशात् उत्पत्ति जीवेभ्यः अ- न्तःकरणानामुत्पत्तिं च वदन्ति । तन्मतं निराकरोति- उत्पत्त्यसम्भवात् ॥४२॥ जीवानां ब्रह्मणः सकाशात उत्पत्त्यसम्भवादित्यर्थः ।. जीवानां ब्रह्मजन्यत्वे पञ्चमहाभूतवत् विनाशप्रसङ्गात् मोक्षो न स्यादिति भावः ॥ ४२ ॥ न च कर्तुः करणम् ॥४३॥ कर्तुः जीवात् करणम् अन्तःकरणं च नोत्पद्यते । किञ्चिज्ज्ञस्य जीवस्य अ- न्तःकरणनिर्माणसामर्थ्याभावात् । 'एतस्माज्जायते प्राण' इति श्रुतौ अन्तःकरणादी. नां ब्रह्मजन्यत्वप्रतिपादनाच्चेति भावः ॥ ४ ३ ॥ विज्ञानादिभावे वा तदप्रतिषेधः॥४४॥ जीवानां विज्ञानानन्दरूपत्वं नित्यत्वं ब्रह्माभिन्नत्वं च अङ्गीक्रियत इति चेत्, तर्हि तदप्रतिषेधः तस्य मतस्य प्रतिषेधः निरासः अस्माभिर्न क्रियते । अस्मन्मतप्र. वेशापत्तरित्यर्थः ।। ४ ४ ॥

४२ अद्वैतमञ्जरी । क विप्रतिषेधाच्च ॥४५॥ सकलवेदान्तविरुद्धत्वाञ्च जीवानामुत्पत्तिरङ्गीकर्तुं न शक्यते। 'तत्त्वमसि अ- हं ब्रह्मास्मि' इत्यादिश्रुतिभिः जीवब्रह्मणोरभेदप्रतिपादनादिति भावः ॥ ४५ ॥ इति सूत्रवृत्तौ द्वितीयाध्यायस्य द्वितीयः पादः । अथ ॥ द्वितीयाध्यायस्य तृतीयः पादः ॥ - वियदधिकरणम् ॥ १॥ पूर्वपक्षसूत्राणि । न वियदश्रुतेः ॥१॥ वियत् आकाशः नोत्पद्यते। अश्रुतेः छान्दोग्ये उत्पत्त्यश्रवणादित्यर्थः ॥१॥ अस्ति तु ॥२॥ तैत्तिरीयकश्रुतौ उत्पत्तिरस्तीति चेत् , श्रुत्योर्विरोधः ॥२॥ पूर्वपक्षी स्वमते विरोधं परिहरति- गौण्यसम्भवात् ॥३॥ उत्पत्तिश्रुतिौणी । असम्भवात् निरवयवस्य उत्पत्त्यसम्भवादित्यर्थः ॥३॥ शब्दाच ॥४॥ 'आकाशवत् सर्वगतश्च नित्य ' इति श्रुतौ नित्यशब्दाच्च आकाशस्य उ- त्पत्तिर्न सम्भवतीत्यर्थः ॥ ४ ॥ स्याच्चैकस्यापि ब्रह्मशब्दवत् ॥५॥ आत्मन आकाशस्सम्भूत' इति श्रुतौ एकस्य सम्भूतशब्दस्य गौणत्वं स्यात् । ब्रह्मशब्दवत् 'अन्नं ब्रह्मेति श्रुतौ ब्रह्मशब्दवदित्यर्थः ॥ ५ ॥ सिद्धान्तसूत्रे- प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥६॥ आकाशादिप्रपञ्चस्य सर्वस्य अव्यतिरेकात् ब्रह्माभिन्नत्वात् प्रतिज्ञाहानिः येनाश्रुतं श्रुतं भवति' इति प्रतिज्ञायाः अहानिर्भवति । आकाशस्य नित्यत्वे द्वि० ये तृतीय पादः] सूत्रवृत्तिः । तु ब्रह्मभिन्नत्वात् प्रतिज्ञायाः हानिः स्यादित्यर्थः ॥ ६ ॥ यावद्विकारं तु विभागो लोकवत् ॥७॥ विभागः विभक्तः ब्रह्मप्रतियोगिकमिथ्याभूतभेदवान् प्रपञ्चः सर्वोऽपि वि. कारः ब्रह्मजन्य एव । लोकवत् फेनतरङ्गादीनां समुद्रजन्यत्ववदित्यर्थः ॥ ७ ॥ मातरिश्वाधिकरणम् ॥२॥ एतेन मातरिश्वा व्याख्यातः ॥८॥ एतेनाकाशस्योत्पत्तिप्रतिपादनेन मातरिश्वा वायुयाख्यातः ब्रह्मजन्यत्वेन व्याख्यात इत्यर्थः ॥८॥ असम्भवाधिकरणम् ॥३॥ आकाशवत् ब्रह्मणोऽपि केनचित् कारणेन उत्पत्तिरस्त्वित्याशङ्कयाह- असम्भवस्तु सतोऽनुपपत्तेः ॥९॥ सतः ब्रह्मणः असम्भवः उत्पत्तिर्न सम्भवति । कुतः ? अनुपपत्तेः । ब्रह्म- णः कारणान्तराभावेन उत्पत्त्यसम्भवादित्यर्थः ॥९॥ तेजोऽधिकरणम् ॥४॥ तेजोऽतस्तथा ह्याह ॥१०॥ अतः वाय्ववच्छिन्नब्रह्मणः तेज उत्पद्यते । तथाह्याह 'वायोरग्नि' रिति श्रु- तिरित्यर्थः ॥१०॥ अबधिकरणम् ॥५॥ आपः ॥११॥ तेजोऽवच्छिन्नब्रह्मणः आपो जायन्त इत्यर्थः ॥११॥ एथिव्यधिकरणम् ॥६॥ पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥१२॥ 'ता अन्नमसृजन्ते'ति श्रुतौ अन्नशब्देन पृथिवी प्रतिपाद्यते । अधिकारात महाभूतप्रकरणात् रूपात् 'यत्कृष्णं तदन्नस्येति श्रुतौ कृष्णरूपश्रवणात् शब्दान्त- रात् 'अभ्यः पृथिवी'ति श्रुतौ पृथिवीशब्दश्रवणादित्यर्थः ॥ १२ ॥ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥१३॥ स ईश्वरः साक्षादेव सर्वकार्यकर्ता । कुतः ? तल्लिङ्गान् तस्येश्वरस्यान्तर्यामि- त्वलिङ्गात तदभिध्यानात् ईश्वरेक्षणादेव भूतेषु श्रुतेक्षणोपपत्तरित्यर्थः ॥ १३॥ ?

४
अद्वैतमञ्जरी ।
विपर्ययाधिकरणम् ॥८॥
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥१४॥
अतः सृष्टिक्रमात् विपर्ययेण व्यत्यासेन क्रमः प्रलयक्रमः उपपद्यत इत्यर्थः ।। १४॥
अन्तराविज्ञानाधिकरणम् ॥ ९ ॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गा-
दिति चेन्नाविशेषात् ॥१५॥
अन्तरा ब्रह्माकाशयोर्मध्ये विज्ञानमनसी इन्द्रियान्तःकरणे उत्पद्यते क्र.
मेण । तल्लिङ्गात् एतस्माज्जायते प्राण' इति श्रुतौ प्राणादिसृष्टयनन्तरं पञ्चमहा-
भूतसृष्टिप्रतिपादनादिति चेन्न । अविशेषात् तस्याश्श्रुतेः उत्पत्तिमात्रप्रतिपादक-
वेन क्रमप्रतिपादकत्वाभावात् । तथा च प्राणेन्द्रियान्तःकरणानां भौतिकत्वात
पञ्चमहाभूतोत्पत्त्यनन्तरमेवोत्पत्तिरित्यर्थः ॥३५॥
चराचरव्यपाश्रयाधिकरणम् ॥१०॥
'जातो देवदत्तो, मृतो देवदत्त' इति लोकव्यवहारात् जीवस्यापि उत्पत्तिरस्ती-
ति शङ्कां निराकरोति-
चराचरव्यपाश्रयस्तु स्यात्तद्यपदेशो भाक्त-
स्तद्भावभावित्वात् ॥१६॥
तव्यपदेशः जातो देवदत्त इति व्यवहारः भाक्तः गौणः चराचरशरीरविषयकः ।
तद्भावमावित्वात् तप्तायःपिण्डवत् शरीरजीवयोः ऐक्याध्यासापन्नत्वादित्यर्थः ११६॥
आत्माधिकरणम् ॥ ११ ॥
पञ्चमहाभूतानामिव जीवानामपि सृष्टयादौ उत्पत्तिरस्तीति शङ्कां निराकरोति-
नात्माऽश्रुतेनित्यत्वाच्च ताभ्यः ॥१८॥
आत्मा जीवः नोत्पद्यते । अश्रुतेः सृष्टि श्रुतिषु जीवानामुत्पत्तेरश्रवणात् , प्रत्यु.
त 'आकाशवत् सर्वगतःश्च नित्य ' इत्यादिभ्यः ताभ्यः श्रुतिभ्यः नित्यत्वश्रवणाच्चे-
त्यर्थः ॥१७॥
ज्ञाधिकरणम् ॥ १२॥
ज्ञोऽत एव ॥१८॥
अत एव नित्यत्वादेव ज्ञः सत्यज्ञानस्वरूप इत्यर्थः ॥१८॥
उत्क्रान्त्यधिकरणम् ॥ १३ ॥

द्वि० ये तृतीयः पादः ] सूत्रवृत्तिः । पूर्वपक्षसूत्राणि-- उत्क्रान्तिगत्यागतीनाम् ॥१९॥ उत्क्रान्तिदेहात् बहिर्गमनं, गतिः स्वर्गनरकलोकगमनं, आगतिः पुण्यपा- पफलभोगानन्तरं भूलोकं प्रत्यागमनम् । एतासां श्रवणात् जीवः अणुरेव, वि. भुत्वे गमनासम्भवादित्यर्थः ॥१९॥ उत्क्रान्तिदेहान्निर्गमो न भवति, किं तु शरीरस्वामित्वनिवृत्तिरिति केचित् । तदङ्गीकृत्याप्यणुत्वमाह-- स्वात्मना चोत्तरयोः ॥२०॥ उत्तरयोर्गत्यागत्योः स्वात्मना कर्ता सम्बन्धात् अणुत्वमावश्यकमित्यर्थः । नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥२१॥ जोवः अणुर्न भवति । अतच्छ्रुतेः 'आकाशवत् सर्वगतश्च नित्य ' इति श्रुतौ विभुत्वश्रवणादिति चेन्न । इतराधिकारात् तस्याश्श्रुतेः परमात्मप्रकरणस्थत्वादि- त्यर्थः : ॥२१॥ स्वशब्दोन्मानाभ्यां च ॥ २२ ॥ खशब्दात् अणुशब्दात् उन्मानात् वालाग्रसमानपरिमाणवत्त्वाच्च जीवः अणुरित्यर्थः ॥ २३ ॥ अविरोधश्चन्दनवत् ॥२३॥ यथा चन्दनस्यैकस्मिन् प्रदेशे स्थितस्य सकलदेहव्यापिशैत्यजनकत्व. म् , एवं जीवस्य एकस्मिन् प्रदेशे स्थितस्यापि सर्वाङ्गव्यापिसुखदुःखजनकत्वमुप. पद्यत इत्यर्थः ॥२३॥ चन्दनस्य एकस्मिन् प्रदेशे अवस्थानं प्रत्यक्षदृष्टं, जीवस्य कस्मिन्प्रदेशे अवस्था- नमित्यपेक्षायां स्थानविशेषमाह- अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥२४॥ अवस्थितिवैशेष्यात् चन्दनस्य प्रदेशविशेषे अवस्थानस्य प्रत्यक्षसिद्धत्वादि- ति चेन्न । हृदि हृत्पुण्डरीके अभ्युपगमात् 'एष आत्मा हृदी'ति श्रुतौ प्रतिपादित वादित्यर्थः ॥२४॥ गुणादा लोकवत् ॥२५॥ यथा लोके दीपस्य गृहप्रदेशवर्तित्वेऽपि दीपगुणस्य प्रमायाः सकलगृह- व्यापित्वम् , एवं जीवस्य हृत्पुण्डरीकप्रदेशेऽवस्थानेऽपि जीवगुणस्य सुखदुःखादेः सकलशरीरव्यापित्वमुपपद्यत इत्यर्थः ॥ २५ ॥ - ४६ अद्वैतमञ्जरी । . - व्यतिरेको गन्धवत् ॥२६॥ यथा गन्धस्य वृक्षपुष्पं विनापि वायुवशादन्यत्र गमनम् , एवं सुखादेः जीवं विनापि सकलदेहव्यापित्वमुपपद्यत इत्यर्थः ॥ २६ ॥ तथा च दर्शयति ॥२७॥ हृदयायतनत्वमात्मनो विधाय तस्यैव 'आलोमभ्य आनखाग्रेभ्य ' इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयतीत्यर्थः ॥ २७ ॥ जीवब्रह्मणोरभेदात् ब्रह्मणो विभुत्वात् जीवस्यापि विभुत्वमित्याशङ्कां नि- राकरोति- पृथगुपदेशात् ॥२८॥ द्वा सुपर्णे' त्यादिश्रुतौ जीवब्रह्मणोः भेदव्यपदेशात् अभेदो नास्ती- त्यर्थः ॥२८॥ सिद्धान्तसूत्राणि- तद्गुणसारत्वात्तु तद्यपदेशः प्राज्ञवत् ॥२९॥ तस्य अन्तःकरणस्य गुणः अणुपरिमाणकर्तृत्वभोक्तृत्वादयः, तत्सारत्वात् तद्विशिष्टत्वात जीवस्य तद्वयपदेशः अणुत्वव्यपदेशः । प्राज्ञवत् परमात्मवत् यथा परमात्मनः उपासनार्थमणुत्वव्यपदेशः, तद्वदित्यर्थः ॥ २९ ॥ यावदात्मभावित्वाच न दोषस्तदर्शनात् ॥३०॥ यावदात्मभावित्वात् आत्मसाक्षात्कारपर्यन्तमन्तःकरणस्य सुषुप्तिकालेष्व- पि सूक्ष्मरूपेण विद्यमानत्वात् न दोषः सुषुप्त्यनन्तरमपि पुनरुत्थानमुपपद्यत इत्यर्थः । अन्तःकरणस्य ब्रह्मसाक्षात्कारपर्यन्तमवस्थानाङ्गीकारोऽसङ्गतः । प्रतिदिन- मपि सुषुप्तिकालेऽन्तःकरणस्य श्रुतिषु विनाशप्रतिपादनादित्याशङ्कयाह- पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥३१॥ अस्यान्तःकरणस्य सुषुप्त्यादिकालेष्वपि सूक्ष्मरूपेण विद्यमानस्य जायदा- दिकालेषु अभिव्यक्तियोगात् स्थूलावस्थाङ्गीकारात् । तथा च सुषुप्त्यादिकालेषु अ. न्तःकरणस्य सूक्ष्मावस्थाविशिष्टत्वेन घटपटादिविषयकज्ञानजननाक्षमत्वमात्रेण अति- षु विनाशित्वप्रतिपादनम् । पुंस्त्ववत् यथा पुंस्त्वस्य प्रजननेन्द्रियस्य बाल्यावस्थायां सूक्ष्मरूपेण विद्यमानस्य यौवनावस्थायामभिव्यक्तिः पुत्रोत्पादनसामर्थ्य, तद्व- दित्यर्थः ॥३१॥ -

द्वि० ये तृतीयः पादः ]
सूत्रवृत्तिः ।
सर्वदा अन्तःकरणस्य सूक्ष्मावस्था वा, स्थूलावस्था वा भवत्वित्याशङ्कयाह-
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतर-
नियमो वान्यथा ॥३२॥
अन्यथा अन्तःकरणस्य सर्वदा स्थूलत्वे नित्योपलब्धिप्रसङ्गः सर्वदा घटप-
टाग्रुपलब्धिप्रसङ्गः । सर्वदा सूक्ष्मत्वे नित्यानुपलब्धिप्रसङ्गः कदाचित् घटपटाा.
पलब्धिर्न स्यात् । तस्मादन्यतरनियमः कदाचित् स्थूलावस्था, कदाचित् सूक्ष्माव-
स्था च अङ्गीकर्तव्येत्यर्थः ॥ ३२ ॥
कत्रधिकरणम् ॥ १४॥
बुद्धिः की, पुरुषः पुण्यपापफलभोक्तेति साङ्ख्यमतं निराकरोति-
कर्ता शास्त्रार्थवत्त्वात् ॥३३॥
जीव एवं कर्ता 'ज्योतिष्टोमेन स्वर्गकामो य नेते'ति शास्त्रस्यार्थवत्त्वात् प्र.
माणत्वात् बुद्धेः कर्मकर्तृत्वे जीवस्य नरकभोगासम्भवादित्यर्थः ॥ ३३ ॥
विहारोपदेशात् ॥३४॥
जीवस्य खर्गनरकसञ्चारोपदेशाच्च पुण्यपापकर्तृत्वमङ्गीकर्तव्यमित्यर्थः।।३४॥
उपादानात् ॥३५॥
मरणानन्तरं देवशरीरनारकशरीरपरिग्रहाच्च जीवस्य पुण्यपापकर्तृत्वमङ्गी-
कर्तव्यमित्यर्थः ॥ ३५॥
व्यपदेशाच क्रियायां न चेन्निर्देशविपर्ययः ॥३६॥
'अनुमन्ता बोद्धा विज्ञाते'ति श्रुतौ क्रियायां कर्तृत्वव्यपदेशाच्च जीवस्य क-
तृत्वमङ्गीकर्तव्यम् । न चेत् जीवस्य कर्तृत्वं नास्ति चेत् , निर्देशस्य विपर्ययः स्यात्
कर्तृत्वप्रतिपादकवाक्यस्याप्रामाण्यं स्यादित्यर्थः ॥ ३६ ।।
जीवस्य कर्तृत्वाङ्गीकारे सुषुप्त्यादिकालेष्वपि कर्तृत्वं स्यादित्याशङ्कां निराक-
रोति-
उपलब्धिवदनियमः॥ ३७ ॥
साङ्ख्यमते जीवस्य ज्ञानस्वरूपत्वेऽपि यथा सुषुप्तिकाले घटपटाद्युपलब्धृत्वं
नास्ति, तद्वज्जीवस्य कर्तृत्वमिति मतेऽपि कदाचिदेव कर्तृत्वं, न सर्वदैवेत्यर्थः ॥ ३७॥
शक्तिविपर्ययात् ॥३८॥
बुद्धेः कर्तृत्वाङ्गीकारे शक्तिविपर्ययात् करणशक्त्यभावप्रसङ्गाच्च न बुद्धेः कर्तृ-
त्वमित्यर्थः ॥३८॥

अद्वैतमञ्जरी । समाध्यभावाच ॥३९॥ जीवस्य पुण्यपापकर्तृत्वाभावे समाध्यभावात् श्रवणमनननिदिध्यासनकर्तृत्व- स्याप्यभावात् जीवस्य मोक्षो न स्यादित्यर्थः । न च बुद्धेरेव मोक्ष इति वाच्यम् । बुद्धेर्मोक्षकाले नष्टत्वेन मोक्षासम्भवादिति भावः ॥ ३९॥ तक्षाधिकरणम् ॥१५॥ साङ्ख्यमतं निराकृत्य स्वाभाविककर्तृत्ववादिनां नैयायिकानां मतं निराकरोति- यथा च तक्षोभयथा ॥४०॥ यथा तक्षणव्यापारकर्ता उभयथा उभयरूपेण तिष्ठति, कदाचिद्वासीटङ्कादि- साधनविशिष्टस्सन् दारूणि तक्षन् क्लेशमनुभवति, टङ्कादिरहितस्सन् निर्व्यापारः सु- खमनुभवति, एवं जीवोऽपि जाग्रत्स्वप्नकालयोः देहाद्यभिमानविशिष्टस्सन् लौकिकवै- दिकव्यापारान् कुर्वन् दुःखमनुभवति, सुषुप्तिकाले तु देहायभिमानाभावात् देहेन्द्रिय- व्यापाररहितस्सन् सुखमनुभवति । तस्माज्जीवस्य औपाधिकमेव कर्तृत्वं, न स्वाभावि. कमित्यर्थः ॥ ४०॥ पराधिकरणम् ॥११॥ परानु तच्छ्रुतेः ॥४॥ तत् जीवस्य पुण्यपापकर्तृत्वं परान् परमात्मप्रेरणात् भवति । कुतः ? श्रुतेः 'एष ह्येव साधु कर्म कारयती'त्यादिश्रुतेरित्यर्थः ॥४१॥ ईश्वरस्य स्वतन्त्रत्वात् कर्मानपेक्ष्यापि फलदातृत्वमस्तीति शङ्कां निराकरोति- कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयादिभ्यः ॥४२॥ ईश्वरः जीवकृतकर्मापेक्षस्सन् जीवानां सुखं दुःखं च ददाति विहितानां प्रतिषिद्धानां च कर्मणाम् अवैयादिभ्यः अवैयार्थमित्यर्थः । अन्यथा विधिनि- षेधशास्त्रस्याप्रामाण्यं स्यादित्यर्थः ॥४२॥ अंशाधिकरणम् ॥१७॥ नैयायिकादयः जीवब्रह्मणोः भेदं वदन्ति, तन्मतं निराकरोति-- अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥१३॥ नानाव्यपदेशात् 'द्वा सुपर्णे'त्यादिश्रुतौ जीवब्रह्मणोर्भेदव्यपदेशात् अन्यथा चापि 'तत्त्वमसी'त्यादिश्रुतौ अभेदस्यापि व्यपदेशात् जीवाः ब्रह्मणः अंशाः । भेदप्रतिपा- दकश्रुतेः स्पष्टत्वात् तामुपेक्ष्य अमेदप्रतिपादिकां श्रुतिमाह-दाशकितवादित्वम- -

द्वि०ये तृतीयः पादः]
सूत्रवृत्तिः ।
धीयत एके,एके शाखिनः ब्रह्मणः दाशकितवादित्वं जीवाभेदम् अधीयते वदन्ति-'ब्रह्म
दाशा ब्रह्म दासा ब्रह्मैवेमे कितवा' इत्यादिश्रुतिष्वित्यर्थः । न च भेदाभेदयोः विरोध
इति वाच्यम् । बिम्बप्रतिबिम्बयोरिव भेदस्य मिथ्यात्वात्। ननु, 'द्वा सुपर्णे' त्यादिश्रुति-
प्रतिपादितस्य भेदस्य मिथ्यात्वमनुपपन्नमिति चेन्न । फलवदज्ञातेऽर्थे श्रुतेस्तात्पर्यम्।
न च जीवब्रह्मभेदानुभवात् किञ्चित्फलमनुभूयते । भेदज्ञानिनां तापत्रयस्यैव सर्वानु-
भवसिद्धत्वात् । नापि भेदस्याज्ञातत्वम् । पामराणामपि जीवब्रह्मभेदस्यानुभूयमानत्वात्
जीवब्रह्माभेदज्ञानात् तापत्रयनिवृत्तिरूपफलस्यानुभूयमानत्वात् अभेदस्य पामरैरज्ञा-
तत्वाच्च अभेद एव श्रुतीनां तात्पर्यमिति भेदस्य मिथ्यात्वात् अभेदस्य सत्यत्वाच्च
विरोधाभावादिति भावः ॥४३॥
मन्त्रवर्णाच ॥४४॥
'एतावानस्य महिमा । अतो ज्यायांश्च पुरुषः पादोऽस्य विश्वा भूतानी'ति
मन्त्रात् विश्वा भूतानि अस्य पादः अंश इत्यर्थः ॥ ४४॥ .
अपि च स्मयते ॥४५॥
'ममैवांशो जीवलोक' इति स्मृतौ जीवानां ब्रह्मांशत्वं स्मर्यत इत्यर्थः ॥ ४५ ॥
तन्तूनां पङ्कादिस्पर्शे सति पटस्यापि पङ्कस्पर्शवत् अंशानां जीवानां सुखदुः-
खभयशोकादिसंस्पर्शे सति अंशिनः परमात्मनोऽपि सुखदुःखादिसंस्पर्शः स्या-
दित्याशङ्कयाह-
प्रकाशादिवन्नैवं परः॥४६॥
परः परमात्मा एवं न भवति जीववत् सुखदुःखादिमान्न भवति । प्रकाशा-
दिवत् यथा गृहान्तर्वर्ती सूर्यप्रकाशः जालकाशुपाधिवशात् हूस्वत्वदीर्घत्ववर्तुलत्वा-
दिविचित्रधर्मवान् भवति , गृहात् बहिःप्रदेशे विद्यमानस्तु सूर्यप्रकाशः स्वच्छ-
एव तिष्ठति, यथा वा घटादिपदार्थान्तर्वर्ती आकाशः हूवत्वदीर्घत्वादिधर्मवान्
भवति, घटाद्वहिःप्रदेशे विद्यमानस्तु आकाशः स्वच्छ एव, एवं देहान्तर्वति
जीवचैतन्यं देहाभिमानवशात् सुखदुःखादिविशिष्टं भवति , देहात् बहिर्विद्यमानं
तु ब्रह्मचैतन्यं देहाभिमानरहितत्वात् भयशोकरहितं सत् स्वच्छं तिष्ठती.
ति भावः ॥४६॥
स्मरन्ति च ॥४७॥.
'यथा सर्वगतं सौक्षम्यादाकाशं नोपलिप्यते' इति स्मृतौ ब्रह्मणः भयशोका-
दिरहितत्वं स्मरन्तीत्यर्थः ॥ १७ ॥

अद्वैतमञ्जरी। अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥४८॥ अनुज्ञापरिहारौ विधिनिषेधावपि देहसम्बन्धात् ज्योतिरादिवत् देहाभिमा- नदशात् जीवानामेव, न तु देहाभिमानरहितब्रह्मणः । ज्योतिरादिवत् सूर्यप्रका- शादिपूर्वोक्तदृष्टान्तरित्यर्थः ॥ ४८॥ वेदान्तिमते जीवानां परस्परमभिन्नत्वात् एकस्य जीवस्य सुखे सति सर्वेषां जीवानां सुखं स्यात् , एकस्य जीवस्य दुःखे सति सर्वेषां जीवानां दुःखं स्यात् । तथा च के- पांचिद्दारिद्रयं, केषांचिदैश्वर्यं न स्यादित्याशङ्कयाह- असन्ततेश्चाव्यतिकरः ॥४९॥ असन्ततः अविभुत्त्वात् ब्रह्मज्ञानपर्यन्तं देहोपाधिभेदेन जीवानां परिच्छि- नत्वात् भिन्नत्वाच्च अव्यतिकरः सुखदुःखादीनामसाङ्कर्यमित्यर्थः ॥ ४९॥ आभास एव च ॥५०॥ वेदान्तिमते जीवंः आभासः ब्रह्मणः प्रतिबिम्बः । तथा च जीवानामन्तःक- रणेषु प्रतिविम्बितचैतन्यरूपाणामन्तःकरणभेदेन भिन्नत्वात् परिच्छिन्नत्वाच्च सुख- दुःखादिसाङ्कयं नास्तीत्यर्थः ॥ ५० ॥ स्वमतं प्रसाध्य परमतं दूषयति-- अदृष्टानियमात् ॥५१॥ नैयायिकमते जीवानां विभुत्वेन सर्वेषां जीवानां सर्वशरीरेषु विद्यमानत्वा- त् अदृष्टानियमात् अदृष्टानां पुण्यपापानाम अनियमात् नियमाभावात् केषांचित् दारिद्रयं, केषांचिदैश्वर्यमिति व्यवस्था न स्यादित्यर्थः ॥ ११ ॥ अभिसन्ध्यादिष्वपि चैवम् ॥५२॥ अभिसन्ध्यादिषु रागद्वेषादिष्वपि एवमनियमः । तथा च केषांचित् जी. वानां रागवत्त्वं, केषांचिद्वेषवत्त्वमिति व्यवस्था न स्यादित्यर्थः ॥ १२ ॥ प्रदेशादिति चेन्नान्तर्भावात् ॥५३॥ प्रदेशाध्हाद्युपाधिवशेन परिच्छिन्नत्वाज्जीवानां सुखदुःखादिव्यवस्था उ. पपद्यत इति चेन्न । अन्तर्भावादस्मन्मतप्रवेशापत्तेः । नैयायिकानामपसिद्धान्तप्र. सङ्ग इत्यथः ॥ ५३॥ इति सूत्रवृत्तौ द्वितीयाध्यायस्य तृतीयः पादः ।

अथ ॥ द्वितीयाध्यायस्य चतुर्थः पादः ॥ प्राणोत्पत्त्यधिकरणम् ॥१॥ तथा प्राणाः ॥१॥ तथा पञ्चमहाभूतवत् प्राणाः इन्द्रियाण्यपि ब्रह्मणः उत्पद्यन्ते । एत- स्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे' तिश्रुतौ इन्द्रियाणामुत्पत्तिश्रवणादित्यर्थः॥१॥ गौण्यसम्भवात् ॥२॥ इन्द्रियाणां नित्यत्वात् उत्पत्तिश्रुतिौणीति चेन्न । असम्भवात् गौणत्वा- सम्भवात् । ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्ध्यर्थं मुख्यमेव इन्द्रियाणामपि ब्रह्मजन्यत्वं वक्तव्यमित्यर्थः ॥ २ ॥ तत्माक्छ्रुतेश्च ॥३॥ तेषां पञ्चमहाभूतानां प्राक् आदौ इन्द्रियाणामुत्पत्तिश्रवणाच्च इन्द्रियाणामु- त्पत्तिः मुख्यैव । अन्यथा पञ्चमहाभूतानामपि उत्पत्तिर्गौणी स्यादित्यर्थः ॥३॥ तत्पूर्वकत्वादाचः ॥४॥ अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागि ' ति श्रुतौ वा- चः वागिन्द्रियस्य तत्पूर्वकत्वात् तेजोजन्यत्वाभिधानात् तेजोदृष्टान्तेन सर्वेषामिन्द्रि- याणां यथायोग्यं महाभूतजन्यत्वं वक्तव्यमिति अनित्यत्वमिन्द्रियाणामित्यर्थः ॥ ४ ॥ इन्द्रियाणां सङ्ख्यानिर्णयं करोति- पूर्वपक्षः- सप्तगतेर्विशेषितत्वाच ॥५॥ इन्द्रियाणि सप्त । कुतः ? 'सप्त प्राणाः प्रभवन्ति तस्मादिति श्रुतौ स- प्तानामिन्द्रियाणां गतः परलोकगमनस्य विशेषितत्वादुक्तत्वादित्यर्थः । चक्षुश्श्रोत्रत्व- ग्जिह्वाघ्राणज्ञानेन्द्रियाणि पञ्च । वागिन्द्रियमेकम्, अन्तःकरणमेकम्, एतानि सप्ते- न्द्रियाणि ॥६॥ सिन्हान्तः-- हस्तादयस्तु स्थितेऽतो नैवम ॥६॥ हस्तादयः पाणिपादपायूपस्थान्यपि जीवे स्थिते सति जीवेन सह शरीरे तिष्ठन्ति । जीवे लोकान्तरं गते सति जीवेन सह लोकान्तरं गच्छन्ति । 'तमुत्क्राम . न्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती'ति श्रुतौ सर्वे. . - -- ५२ अद्वैतमञ्जरी । - पामिन्द्रियाणां जीवेन सह परलोकगमनश्रवणात् । अतः अस्मात् कारणात् नै- वं सप्तेन्द्रियाणि, किं तु दशेन्द्रियाणीत्यर्थः । एकमेवान्तःकरणं संशयात्मकत्वा न्मन इत्युच्यते , निश्चयात्मकत्वात् बुद्धिः, अभिमानात्मकत्वादहङ्कार इत्युच्यते, स्मरणात्मकत्वाञ्चित्तमित्युच्यते । तथा च न सङ्ख्याधिक्यमिति भावः ॥६॥ अणवच ॥७॥ इन्द्रियाणि अणवः सूक्ष्माणि अप्रत्यक्षाणीत्यर्थः ॥ ७ ॥ श्रेष्ठश्च ॥८॥ श्रेष्ठः मुख्यः प्राणश्च ब्रह्मजन्यः । एतस्माज्जायते प्राण' इतिश्रुतौ तस्यापि जन्यत्वादित्यर्थः ॥८॥ वायुर्वा, वागादिकरणक्रिया वा प्राण इति केचन वदन्ति, तन्मतं निराकरोति--- न वायुक्रिये पृथगुपदेशात् ॥९॥ वायुक्रिये प्राणो न भवतः । कुतः ? पृथ गुपदेशात् "एतस्माज्जायते प्रा. ण" इति श्रुतौ वायुप्राणयोः पृथगुत्पत्तिव्यपदेशादित्यर्थः ॥९॥ वायुप्राणयोर्भेदाङ्गीकारे प्राणः केनोत्पन्न इत्याकाङ्क्षायामाह- चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः ॥१०॥ चक्षुरादि चक्षुरादीन्द्रियाणि यथा महाभूतजन्यानि, तद्वत् प्राणः मुख्यवायु: जन्यः कश्चन पदार्थः । कुतः ? तत्सहशिष्टयादिभ्यः तैश्चक्षुरादिभिः प्राणम्य संहशिष्टिः सहपाठः, : सहपाठः, तदादिभ्यः हेतुभ्य इत्यर्थः । सर्वासु श्रुतिषु चक्षुरादीनामि- न्द्रियाण, सन्निधौ प्राणस्य पठितत्वात् इन्द्रियसाहचर्यात् चक्षुरादिवत् प्राणो- ऽपि भौतिक इति भावः ॥ १० ॥ यथा ज्ञानेन्द्रियाणां रूपरसगन्धस्पर्शादयः पञ्च विषयाः, यथा कर्मेन्द्रिया- णां वक्तव्यादातव्यावगन्तव्यविसर्जयितव्यानन्दयितव्याः पञ्च विषयाः, एवं प्राण- स्यापि इन्द्रियत्वात् कश्चन विषयो वक्तव्य इत्याशङ्कय निराकरोति-- अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥११॥ प्राणस्याकरणत्वात् अनिन्द्रियत्वात् न दोषः सिषयाभावप्रयुक्तदोषो ना- स्ति । तर्हि प्राणस्य व्यर्थत्वमेव स्थादित्याशङ्कयाह~-तथा हि दर्शयति । 'प्राण ए- व प्रज्ञात्मा इदं शरीरं परिगृह्योत्थापयती'ति श्रुतिः प्राणस्यः शरीरोत्थापकत्वरूपं कार्यान्तरं दर्शयति । तथा च न व्यर्थत्वं प्राणस्येत्यर्थः ॥ २१ ॥ इदानी प्राणस्य निर्णयं करोति- पञ्चवृत्तिर्मनोवद्यपदिश्यते ॥ १२ ॥ .

द्वि० ये चतुर्थः पादः] सूत्रवृत्तिः । . ? एक एव प्राणः पञ्चवृत्तिः पञ्चव्यापारवान् सन् व्यपदिश्यते प्राणापानादिशब्दैः पञ्चधा व्यवह्रियते । मनोवत् यथा एकमेव मनः मनोबुद्ध्यहङ्कारचित्तभेदेन चतुर्थी व्यवहियते, तद्वदित्यर्थः ॥ १२ ॥ श्रेष्ठाणुत्वाधिकरणम् ॥६॥ अणुश्च ॥१३॥ अयं मुख्यप्राणोऽपि अणुः सौक्ष्म्य परिमाणवान् । इन्द्रियवदित्यर्थः ॥ १३॥ ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ७ ॥ ज्योतिराद्यधिष्ठानं तु तदामननात् ॥१४॥ तानि दागादीनीन्द्रियाणि ज्योतिरादीनामग्न्यादीनामाधिष्ठानं निवासस्थानानि । कुतः ? तदामननात् 'अग्निर्वाग्भूत्वा मुखं प्राविश' दिति श्रुतौ तासां सूर्यादिदेवता. नाम् आमननात् मुखादिस्थानेषु प्रवेशकथनादित्यर्थः ॥ १४ ॥ प्राणवता शब्दात् ॥१५॥ प्राणवता जीवेन सह सूर्यादिदेवतानामिन्द्रियप्रेरकत्वं, न स्वातन्त्र्येण । कुतः शब्दात् इन्द्रियामिमानिदेवतानां जीवकृतकर्मानुसारेणैव इन्द्रियप्रेरकत्वश्रुतिबलादि. त्यर्थः ।। १५॥ तस्य च नित्यत्वात् ॥१६॥ तस्य जीवस्य नित्यत्वात् प्राणैनित्यसम्बन्धत्वात् जीव एव भोक्तेत्यर्थः ॥१६॥ इन्द्रियाधिकरणम् ॥ ८॥ सर्वदा इन्द्रियव्यापारजन्यसुखदुःखात्मकफलभोक्तृत्वात् जविस्यैव इन्द्रियप्रेर- णा । तत्र केचित् प्राणात्पृथक् इन्द्रियाण्येव न सन्ति । कथं जीवस्य इन्द्रियप्रेरणे- ति वदन्ति । तन्मतं निराकरोति- त इन्द्रियाणि तद्यपदेशादन्यत्र श्रेष्ठात् ॥१७॥ श्रेष्ठादन्यत्र मुख्य प्राणं वर्जयित्वा ते चक्षुरादय. एव इन्द्रियाणि । कुतः ? तव्यपदेशात् चक्षुरादीनामेव सर्वासु श्रुतिषु इन्द्रियत्वेन व्यपदेशादित्यर्थः ॥ १७ ॥ भेदश्रुतेः॥१८॥ 'एतस्माज्जायते प्राण' इति श्रुतौ इन्द्रियाणां प्राणस्य च पृथगुत्पत्तिश्रवणाच प्राणस्य नेन्द्रियेष्वन्तर्भाव इत्यर्थः ॥ १८ ॥ - ལ ४ अद्वैतमञ्जरी । वैलक्षण्याच ॥ १९॥ अनेकेषु मन्त्रवर्णेषु प्राणेन्द्रिययोर्भेदव्यपदेशात् न प्राणस्येन्द्रियत्वमित्यर्थः ।१९। संज्ञामूर्तिक्लप्त्यधिकरणम् ॥९॥ पञ्चमहाभूतमात्रकर्तृत्वं परमात्मनः, चराचरशरीरकर्तृत्वं तु हिरण्यगर्भस्यैवेति केचन वदन्ति । तन्मतं निराकरोति- संज्ञामूर्तिक्लूप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥२०॥ त्रिवृत्कुर्वतः त्रिवृत्करणकर्तुः परमात्मनः सकाशादेव संज्ञामूर्तिक्लप्तिः नाम- रूपात्मकचराचरशरीरसृष्टिर्भवति । कुतः ? उपदेशात् 'सेयं देवतैक्षतेति श्रुतौ पर- मात्मन एव नामरूपात्मकशरीरसृष्टिकर्तृत्वोपदेशादित्यर्थः । सूत्रधार इव परमात्मैव हिरण्यगर्मशरीरे स्थित्वा चराचरशरीरनिर्माणं करोतीति भावः ॥ २० ॥ त्रिवृत्करणप्रकारमुपपादयति- मांसादिभौमं यथाशब्दमितरयोश्च ॥ २१॥ मांसादिकं भौमं भूमिजन्यम् इतरयोः अप्तेजसोरपि कार्य यथाशब्दं शब्दा- नुसारेण ज्ञातव्यमित्यर्थः । अपां कार्य लोहितादिकं, तेजसः कार्यमस्थ्यादिकमिति भावः । केचिद्वायुकार्यस्य प्राणस्य विद्यमानत्वात् आकाशकार्यस्य अवकाशप्रदा- नादेश्च सत्त्वात् पाञ्चभौतिकत्वं शरीराणां वदन्ति । तदप्यर्थादुक्तमिति भावः ॥२१॥ शरीराणां पाञ्चभौतिकत्वाङ्गीकारे लोके पार्थिवत्वव्यवहारः कथमित्याशङ्कयाह- वैशेष्यात्तु तद्वादस्तद्वादः ॥२२॥ वैशेष्यात् पृथ्वीकार्यस्य मांसादेः आधिक्यात् तद्वादः पामराणां पार्थिवत्व व्यवहार इत्यर्थः । तद्वादस्तद्वाद इति द्विरुक्तिः अध्यायपरिसमाप्तिद्योतनार्था ।२२॥ इति सूत्रवृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः । ॥ अध्यायश्च समाप्तः ॥ - ॐ

अथ
॥ तृतीयाध्यायस्य प्रथपः पादः॥
तदन्तरप्रतिपत्त्यधिकरणम् ॥ १॥
सुकृतिनां दुष्कृतिनां च स्वर्गनरकगमनागमनजन्यबहुक्लेशवत्त्वात् स्वर्गा-
दिलोकेभ्यो विरज्य मोक्षार्थं ब्रह्मज्ञानमेव सम्पादनीयमिति वक्तुं प्रथमं सुकृतिनां
स्वर्गलोकगमनागमनप्रकारं दर्शयति----
तदन्तरपतिपत्तौ रंहति सम्परिष्वक्तःप्र-
ननिरूपणाभ्याम् ॥१॥
तदन्तरप्रतिपत्तौ लोकान्तरप्राप्तिसमये लिङ्गशरीरपरिवेष्टितो जीवः अ-
स्मिन् लोके अग्नौ हुतैः अदृष्टशब्दवाच्यैः समित्पुरोडाशदधिक्षीरसोमरसचरुद-
ज्यप्रभृतिभिः द्रव्यैः सूक्ष्मरूपैः सम्परिष्वक्तः परिवेष्टितस्सन् धूमादिमार्गेण
स्वर्गलोकं रंहति गच्छति । कुतः ? प्रश्नप्रतिवचनाभ्यां 'वेत्थ यथा पञ्चम्यामा-
हुतावापः पुरुषवचसो भवन्ती 'ति प्रभः, 'इति तु पञ्चम्यामाहुतावापः पुरुषवसो
भवन्तीति प्रतिवचनम्, उभाभ्यामित्यर्थः । अस्याः श्रुतेरयमर्थः----पञ्चम्यामाहुतौ
योषिद्रूपे पञ्चमे अग्नौ हुता आपः दधिक्षीराज्यप्रभृतयः होमद्रव्यरूपाः पुरुषव-
चसः गर्भस्थपिण्डाकारेण परिणताः यथा भवन्ति , तथा वेत्थ जानासि किम् इति
केनचित् प्रश्ने कते, 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती' ति प्र.
त्युत्तरम् । अस्यायमर्थः-~~-अस्मिन् लोके यजमानेन अग्नौ हुतानि समित्पुरोडाशा-
ज्यदधिक्षीरप्रभृतीनि द्रव्याणि सूक्ष्मरूपाणि भूत्वा लिङ्गशरीरविशिष्टेन यजमानेन
सह धूमादिमार्गेण आतिवाहिकैः धुलोकाख्येऽग्नौ हूयन्ते हुतानि । तानि देवशरी-
ररूपेण परिणमन्ते । तच्च देवशरीरं कञ्चित् कालं स्वर्गलोके भोगान् भुक्त्वा पु-
ण्यपापक्षयानन्तरं नवनीतवत् द्रवीभूतं भवति । तच्च द्रवीभूतं शरीरम् आति-
वाहिकैः देवैः पर्जन्याख्ये अग्नौ हूयते । तच्च जलरूपेण परिणमते ।
तच्च जलं पृथिव्याख्ये अग्नौ आतिवाहिकैः हूयते । तच्च ओषधिद्वारा ब्रीहि-
यवादिधान्यरूपेण परिणमते । तच्च धान्यम् अन्नद्वारा पुरुषरूपे अग्नौ हूयते । त-
ञ्चान्नं रेतोरूपेण परिणमते । तच्च रेतः योषिद्रूपेऽग्नौ हूयते । तच्च रेतः गर्भस्थश-
रीराकारेण परिणमत इति द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्निक्रमेण गर्भोत्पत्तिरि-
त्यर्थः ॥ १ ॥

५६ अद्वैतमञ्जरी। स त्र्यात्मकत्वात्तु भूयस्त्वात् ॥२॥ समित्पुरोडाशादीनां पार्थिवत्वं, दधिक्षीरादीनामाप्यत्वं, घृतस्य तैनसत्वमि. त्येवंरूपेण होमद्रव्याणांव्यात्मकत्वात् त्रिपदार्थत्वात् 'आपः पुरुषवचसो भवन्ती'त्ये- तदनुपपन्नमिति चेन्न । भूयस्त्वात् होमद्रव्याणां मध्ये अपां बाहुल्यमात्रेण अप्छ- ब्दप्रयोगः । तथा चाप्छब्दस्य पार्थिवाप्यतैजसद्रव्याणामुपलक्षणत्वान्न विरोध- इति भावः ॥२॥ प्राणगतेश्च॥३॥ 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती'- ति श्रुतौ प्राणानामिन्द्रियाणां जीवेन सह धूमादिमार्गेण स्वर्गलोकगमनश्रवणाच्च होमद्रव्याणामपि जीवेन सह गमनमङ्गीकर्तव्यमित्यर्थः ॥ ३ ॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४॥ 'अग्नि वागप्येति सूर्यं चक्षुरप्येति मनश्चन्द्रमप्येती'त्यादिश्रुतौ मरणकाले इ. न्द्रियाणां तदभिमानिदेवतासु लयश्रवणात् इन्द्रियाणां जीवेन सह स्वर्गलोकप्राप्ति रनुपपन्नेति चेन्न । 'तमुत्क्रामन्तं प्राणोऽभूत्क्रामती' त्यादिबहुश्रुतिविरोधेन अग्न्याद्यभि- मानिदेवतासु लयप्रतिपादक श्रुतेः भाक्तत्वात् गौणत्वात् अप्रमाणत्वादित्यर्थः।। ४ ॥ प्रथम श्रवणादिति चेन्न ता एव हयुपपत्तेः॥५॥ 'अस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वती' ति श्रुतौ धुलोकाख्ये प्रथमेऽग्नौ श्रद्धाया एव हूयमानत्वश्रवणात् दधिक्षीरादीनां द्युलोकाख्येऽनौ हूयमानत्वमसङ्ग- तमिति चेन्न । ता एव श्रद्धापूर्वकं हुताः दधिक्षीरादिरूपाः आप एव श्रद्धाशब्देन लक्षणया प्रतिपाद्यन्ते । कुतः ? दधिक्षीरादीनामेव होतव्यत्वस्य उपपन्नत्वात् श्र- द्वायाः निराकारायाः होतव्यत्वानुपपत्तेरित्यर्थः ॥५॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥६॥ कर्मिणामेव स्वर्गलोकगमनस्य अश्रुतत्वात् तैस्सह होतव्यद्रव्याणां गमनं सु- तरामनुपपन्नमिति चेन्न । इष्टादिकारिणां धूमादिमार्गेण स्वर्गलोकगमनस्य ‘ते धूमम- भिप्सम्भवन्ति धूमाद्रात्रि रात्र्या अपरपक्षम् अपरपक्षाद्दक्षिणायनम्' इत्यादिषु श्रु. तिषु प्रतीतेः प्रतिपाद्यमानत्वादित्यर्थः ॥६॥ अस्तु कर्मिणां स्वर्गलोकगमनं , तेषां स्वर्गलोके भोगो न सम्भवति । 'तं देवा भक्षयन्ती' ति श्रुतौ स्वर्गलोकगमनानन्तरमेव कर्मिणां देवभक्ष्यत्वश्रवणात व्याघ्रादिभिरिव देवैभक्षितानां कर्मिणां भोगासम्भवादित्याशङ्काह- तृ.ये प्रथमः पादः] सूत्रवृत्तिः । भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥७॥ 'तद्देवानामन्नमि' त्यादिश्रुतौ कर्मिणां देवभृत्यत्वमात्रेण देवभक्ष्यत्वं भाक्तं गौणम् । कुतः ? अनात्मवित्त्वात् कर्मिणाम् आत्मज्ञानरहितत्वात् । तथा हि दर्शयति आत्मज्ञानरहितानां देवभृत्यत्वम् ' अथ योऽन्यां देवतामुपास्त' इति श्रुतिः दर्शयतीत्यर्थः । 'अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः एवं स देवानामि ' ति श्रुतेरयमर्थः----यः अन्याम् आत्म- व्यतिरिक्तेन्द्रादिदेवतां यज्ञादिकर्मभिः उपास्ते पूजयति , असौ इन्द्रादिः मत्तो. ऽन्यः अहं च इन्द्रादेरन्य इति भेदबुद्ध्या यः इन्द्रादीन् पूजयति , सः तत्त्वं न वेद । यथा पशुः कर्षन् कर्षकाणां कृष्यादिनोपकरोति , एवं कर्मठोऽपि इह- लोके इन्द्रादीनां हविःप्रदानं कुर्वन परलोकेऽपि परिचर्यां कुर्वन् पशुवदुपकरो. ति । तथा च देवपशुत्वमात्रेण कर्मिणां देवभक्ष्यत्वं , न व्याघ्रादिवत् कर्मि- णां मांसरुधिरादिकं देवाः भक्षयन्तीति । तेषाम् अमृतभक्षकत्वेन मांसभक्षकत्वाभा- वादिति भावः ॥ ७ ॥ कृतात्ययाधिकरणम् ॥२॥ एवं सुकृतिनां स्वर्गलोकगमनं, तत्र भोगं च प्रतिपाद्य पुनरागमनप्र. कारं दर्शयति- कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥ कृतात्यये स्वर्गोदेशेन कृतस्य पुण्यस्य अत्यये नाशे सति यथा येन मा. गेंण स्वर्गलोकं प्रति इतं गमनं, तेन मार्गेण वा, अनेवं मार्गान्तरेण वा । मार्गान्त- रेणेत्येतदनास्थया उक्तम् । तेनैव मार्गेणेति सिद्धान्तः । अनुशयवान् भुक्ता- वशिष्टसञ्चितकर्मवान् भूलोकमागच्छति । आगत्य च सञ्चितकर्मानुसारेण रमणी- यां योनि वा , कुत्सितयोनि वा प्राप्नोति । कुतः? दृष्टस्मृतिभ्यां श्रुतिस्मृतिभ्या. मित्यर्थः । 'यथेतमाकाशम् आकाशाद्वायुं वायुभूत्या धूमो भवति धूमो भूत्वा अभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति' अत्राकाशवायुधूमादिश- ब्दाः लोकपरा इत्यर्थः । त इह व्रीहियवा ओषधिवनस्पतयः तिलमाषा इति जायन्ते ततो दुप्प्रपतरं ततो रमणीयचरणा रमणीयां योनिमापद्यन्ते ब्राह्मणयो- नि वा क्षत्रिययोनि वा कपूयचरणाः कपूयां योनिमापद्यन्ते श्वयोनि सूकरयो. नि वा चण्डालयोनि वा' इति श्रुतिः, क्षीणे पुण्ये मर्त्यलोकं विशन्तीति स्मृतिः , ताभ्यामित्यर्थः ॥ -- . . ८ अद्वैतमञ्जरी । चरणादिति चेन्नोपलक्षणार्थेति कार्णाजिनिः ॥९॥ 'रमणीयचरणा' इति श्रुतौः चरणात् शौचाचमनस्नानसन्ध्यानपौपासनादि- रूपात स्मृत्युक्ताचारात् स्वर्गात् पुनरागतानां कर्मिणां योनिप्राप्तिः प्रतीयते, न तु वेदोक्ताग्निहोत्रादिकर्मिणः । तथा च सञ्चितकर्मवशाद्योनिप्राप्तिरित्येतदयुक्तमि ति चेन्न । 'रमणीयचरणा' इति श्रुतिः आचाराङ्गकवैदिककर्मोपलक्षणार्था इति कार्णाजिनिर्मन्यत इत्यर्थः । आचारवाचकेन चरणशब्देन अजहल्लक्षणया आचारा. ङ्गक कर्म प्रतिपाद्यत इति भावः ॥ ९ ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥१०॥ वैदिककर्मण एव रमणीययोनिप्राप्तिहेतुत्वसम्भवात् स्मृत्युक्तस्याचारस्य आनर्थक्यं वैयर्थ्यम् । तथा च चरणशब्दस्य जहल्लक्षणैवाङ्गीकर्तव्येति चेन्न । तदपेक्षत्वात् आचारापेक्षत्वात् कर्मणः आचारस्य वैयर्थं नास्तीत्यर्थः । 'आचा. रहीनं न पुनन्ति वेदा' इति श्रुतौ आचारस्थ कर्माङ्गत्वबोधनात् अङ्गरहितस्या- ङ्गिनः फलजनकत्वाभावात् आचारसहितमेव वैदिकं कर्म फल जनकम् । तथाच च. रणशब्दस्य अजहल्लक्षणैवाङ्गीकर्तव्येति भावः ॥११॥ सुकृतदुष्कृते एवेति तु बादरिः ॥११॥ रमणीयचरणशब्देन अरमणीयचरणशब्देन च सुस्तदुष्कृते एव शक्त्या प्रतिपाद्यते इति बादरिर्मन्यते । तथा च अङ्गिना कर्मणा अङ्गस्याचारस्य अर्थादा- क्षिप्तत्वाच्च चरणशब्दस्य लक्षणा न वक्तव्येति भावः ॥११॥ अनिष्टाधिकार्यधिकरणम् ॥३॥ इयता सूत्रसन्दर्भेण सुळतिनां स्वर्गलोकगमनागमने प्रतिपाद्य इदानी दुष्कृतिनां नरकलोकगमनागमनेप्रतिपादयितुं प्रथमं पूर्वपक्षमाह- पूर्वपक्षः- अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥ 'ये वै केचित् अस्माल्लोकात् प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्ती'ति श्रुतौ इष्टादिकारिणामनिष्टादिकारिणां सर्वेषामपि अविशेषेण स्वर्गादिलोकगमनं श्रुतं प्र- तिपादितमित्यर्थः । इष्टादिकारिणो न भवन्तीति ह्यनिष्टादिकारिणः दुष्कृतिन इत्यर्थः । श्रुतेरयमर्थः-ये केचन अस्मात् भूलोकात् प्रयान्ति मरणानन्तरं भूलोकं परित्यज्य ये गच्छन्ति, ते सर्वे सुकृतिनो वा दुष्कृतिनो वा चन्द्रमसा स्वर्गलोकं गच्छन्ती त्यर्थः ॥१२॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥१३॥ इतरेषां पापिनां संयमने नरकलोके अनुभूय दुःखमनुभूय आरोहावरोही सिद्धान्तः - तृ० ये प्रथमः पादः] सूत्रवृत्तिः । ५९ - - प्रथमं नरकं प्रति गमनं कश्चित्कालं नरकलोके दुःखानुभवानन्तरं पुनरागमनं चे. त्येवंविधारोहावरोहौ अङ्गीकर्तव्यौ । कुतः १ तद्गतिदर्शनात् 'वैवस्वतं सङ्गमनं ज- नानामि' त्यादिश्रुतौ पापिनां यमलोकगमनश्रवणादित्यर्थः । तथाच पापिनां नरक लोकगमनश्रवणात् स्वर्गलोकगमनप्रसक्तेरेवाभावात् 'चन्द्रमसमेव ते सर्वे गच्छन्तीति श्रुतौ सर्वशब्दस्य सुकृतिमात्रे सङ्कोचः कर्तव्य इति भावः । संयमने स्वनुभूयेत्यत्र तु ल्यप्प्रत्ययेन क्रमो न विवक्षित इति द्रष्टव्यम् ॥१३॥ स्मरन्ति च ॥१४॥ स्मृतिकारा अपि दुष्कृतिनां नरकलोकप्राप्तिं प्रतिपादयन्तीत्यर्थः ॥ १४ ॥ अपि च सप्त ॥१५॥ किञ्च सप्त प्रधाननरकाणि पापिनां निवासस्थलानि स्मृतिषु प्रतिपाद्यन्त इ. त्यर्थः ॥१५॥ एकस्य यमस्य कथं सप्तनरकाधिपत्यमित्याशङ्कयाह- तत्रापि च तदयापारादविरोधः ॥१६॥ तत्रापि सप्तनरकेष्वपि तद्व्यापारात्तस्य यमस्य व्यापारादधिकारिपुरुषद्वा- रा आज्ञाया अप्रतिहतत्वादविरोधः। यमस्य सप्तनरकाधिपत्ये विरोधो नास्तीत्यर्थः ।। इदं तु प्रसङ्गादुक्तं , म प्रकृतोपयुक्तमिति द्रष्टव्यम् ॥ १६ ॥ पापिनां देवयानपितृयाणमार्गेण गमनप्रतिषेधादपि न स्वर्गलोकप्राप्तिरित्याह- विद्याकर्मणोरिति तु प्रकृतत्वात् ॥१७॥ विद्याकर्मणोरुपासनाकर्मसम्बन्धिनोः देवयानपितृयाणमार्गयोरेव ब्रह्मलोक- स्वर्गलोकप्राप्तिसाधनत्वेन प्रकृतत्वात् सर्वासु श्रुतिषु प्रतिपादितत्वात् तयोश्च मा- गयोः 'अर्थतयोः पथोर्न कतरेण च' इति श्रुत्या पापिनां प्रतिषेधादपि न पापिनां स्वर्गलोकप्राप्तिप्रसक्तिरित्यर्थः । एतयोर्देवयानपितृयाणयोर्मध्ये कतरेणान्यतरेणा- पि मार्गेण पापिनां गमनं नास्तीत्यर्थः ॥ १७ ॥ पापिनां मार्गान्तरश्रवणादपि न धूमादिमार्गेण स्वर्गलोकगमनमित्याह- न तृतीये तथोपलब्धेः॥१८॥ देवयानपितृयाणमार्गापेक्षया तृतीयमार्गे गच्छतां पापिनां स्वर्गलोकप्रा- प्तिः नास्ति । कुतः ? तथोपलब्धेः ‘जायस्व म्रियस्वेति तृतीय स्थानमि' ति श्रुतौ पापिनां तृतीयमार्गस्य प्रतिपादितत्वादित्यर्थः । श्रुतेरयमर्थः-मार्गमध्येऽ. पि यमदूतानां बाधाभिः जायस्व म्रियस्व पुनर्जन्ममरणभुयिष्ठं तृतीयं स्थानं तृ- - - :

६० अद्वैतमञ्जरी । तीयो मार्गः पापिनामित्यर्थः । मार्गमध्येऽपि यातनाशरीरधारिणं पापिनं पुरुष यमदूताः बाधन्ते , तथा बावया पुनःपुनः मरणं, पुनःपुनः जन्म च पापिनां पुराणेषु प्रसिद्धमिति भावः । 'जायस्व म्रियखे' त्यत्र क्रियासमभिहारे लोट- प्रत्ययः ॥१८॥ स्मयतेऽपि च लोके ॥१९॥ लोकेऽपि पापिनां नरकलोकप्राप्तिः स्मयते , पामरैरपि व्यवहियते इ. यर्थः । तथा च लोकव्यवहारबलादपि पापिनां न स्वर्गलोकप्राप्तिरित्यर्थः ॥ १९ ॥ दर्शनाच ॥२०॥ केषाञ्चित् पापिनां इहैव लोके उद्भिजस्वेदजादिनिकृष्ट जन्मदर्शनादपि न पापिनां स्वर्गलोकप्राप्तिरिति भावः ॥ २० ॥ ननु स्वेदजान्येव न सन्ति । तेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जरायुजमुद्भिजं चेति त्रिविधानामेव भूतानां प्रतिपादितत्वादित्याशङ्कयाह- तृतीयशब्दावरोधस्संशोकजस्य ॥२१॥ संशोकजस्य स्वेदजस्यापि तृतीयशब्दावरोधः वृक्षलतापर्यन्तादि. वाचकेन तृतीयशब्देन उद्भिजशब्देन अवरोधः अजहल्लक्षणया सङ्ग्रह इ. त्यर्थः । भूतानां चातुर्विध्यमपि प्रसङ्गादुक्तं, न प्रकृतोपयुक्तमिति द्रष्टव्यम् ॥२१॥ तत्साभाव्यापत्त्यधिकरणम् ॥४॥ इयता सूत्रसन्दर्भेण केषाञ्चित् पापिनां तृतीयमार्गेण नरकलोकगमन केषां चिदिहैव लोके स्थावरादिरूपेण उत्पत्तिं च प्रातिपाद्य इदानी स्वर्गलोकात् पुनरा. गमनप्रकारं प्रपञ्चयति । 'यथेतमाकाशमाकाशाद्वायुं वायुभूत्वा धूमो भूत्वे'- त्यादिश्रुतेः स्वर्गलोकात् पुनरागतानामिष्टादिकारिणां आकाशवायुधूमाभ्रमेघादि- लोकेषु पान्थानामिव अवस्थानमात्रं वा , तेषु लोकेषु भोगोऽप्यस्ति वा इति संशये सति निर्णयमाह- तत्साभाव्यापत्तिरुपपत्तेः ॥२२॥ आगच्छतां कर्मिणां तत्साभाव्यापत्तिः तेषु आकाशलोकवायुलोकादिषु साभाव्यापत्तिः सम्बन्धप्राप्तिरेव , न भोगः । कुतः ? उपपत्तेः क्षीणसुकृतानां तेषां सम्बन्धमात्रस्यैव उपपन्नत्वात् भोगस्यानुपपन्नत्वादित्यर्थः । इदमुपलक्षणं तेषां योनिप्राप्तिपर्यन्तं स्थूलशरीराभावादपि लिङ्गशरीरमात्रविशिष्टानां तेषां मा- गंमध्ये न भोगसामर्थ्यमिति द्रष्टव्यम् ॥२२॥ .

तृ० ये प्रथमः पादः ]
सूत्रवृत्तिः ।
-
-
नातिचिराधिकरणम् ॥५॥
आकाशादिलोकेष्ववस्थानमपि एकैकस्मिन् लोके एकैकदिनमात्रमेव , न ब.
हुसंवत्सरकालमित्याह-
नातिचिरेण विशेषात् ॥२३॥
नातिचिरेण शीघ्रकालेनैव आकाशादिलोकेभ्यो भूलोकं प्रत्यागमनम् ।
कुतः ? विशेषात् 'ततो वै खलु दुनिष्प्रपतरमि'ति श्रुतौ व्रीहियवाद्योषधिसम्ब-
न्धानन्तरं कालविलम्बश्रवणेन आकाशादिलोकेषु अविलम्बस्य अर्थात् गम्यमा-
नत्वादित्यर्थः । श्रुतेरयमर्थः-- ततः व्रीहियवाद्योषधिसम्बन्धानन्तरं कर्मिणां दुनि.
प्रपतरं दुःखेन निर्गमनं कालविलम्बेन अन्नद्वारा पुरुषसंबन्ध इत्यर्थः । अङ्कु-
रमारभ्य धान्यनिष्पत्तिपर्यन्तं विलम्बः , धान्यनिष्पत्त्यनन्तरमपि कुसूलादिप्रक्षेपे-
ण किञ्चित्कालविलम्ब इति भावः ॥२३॥
अन्याधिष्ठिताधिकरणम् ॥६॥
व्रीहियवादिष्वपि बहुकालमवस्थानमात्रमेव कर्मिणां , न भोग इत्याह-
अन्याधिष्ठित पूर्ववदभिलापात् ॥ २९॥
अन्यैः व्रीहियवाद्यौषध्यमिमानिभिर्जीवान्तरैरधिष्ठिते सहकते व्रीहियवादौ कर्मि-
णां बहुकालमवस्थानमात्रमेव , न भोगः । कुतः ? पूर्ववदमिलापात् पूर्वेष्वाकाशा.
दिलोकेष्विव ब्रीहियवादिष्वपि सम्बन्धमात्रस्यैव ‘त इह व्रीहियवा' इति श्रुतौ
कथितत्वात् । तथा च व्रीहियवादिस्थावरदेहाभिमानिनां जीवानामेव वातातपव-
र्षादिजन्यसुखदुःखानुभवः, न तु जनुषान्धतुल्यानां कर्मिणामिति भावः ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥२५॥
ज्योतिष्टोमादिकं वैदिककर्माशुद्धं पशुहिंसामांसभक्षणादिजन्यपापसंमिश्रम् ।
तथाच पुण्यपापमेलनरूपत्वात् यज्ञादिकर्मणां पुण्यांशफलस्य स्वर्गलोके भुक्तत्वेऽ-
पि पापांशफलस्य स्वर्गलोके अभुक्तत्वात् स्वर्गात् पुनरागमनकाले व्रीहियवादिस्था-
वरशरीरेषु पशुहिंसादिजन्यपापफलभोगानन्तरं सञ्चितकर्मान्तरवशेन कर्मिणां यो-
निप्राप्तिरिति चेन्न । शब्दात् 'वायव्यं श्वेतमालभेते' त्यादिश्रुतिचोदितत्वेन प-
शुहिंसादीनां पापजनकत्वाभावात् । तथाच जीवान्तराधिष्ठितेषु व्रीहियवादिषु क-
मिणां सम्बन्धमात्रमेव, न भोग इति भावः ॥२५॥
रेतस्सिग्योगोऽथ ॥२६॥
अथ व्रीहियवादिसम्बन्धानन्तरं धान्यसम्बन्धिनां कर्मिणां अन्नद्वारेण रेत.
स्सिग्योगः रेतस्सिचा पुरुषेण योगस्सम्बन्धः पुरुषस्य कुक्षौ प्रवेश इत्यर्थः ॥२६॥

६२ अद्वैतमञ्जरी । योनेशरीरम् ॥२७॥ पुरुषकुक्षिस्थानां कर्मिणां रेतोद्वारा योनेः सम्बन्धात् योषित्कुक्षौ शरीर- मुत्पद्यते गर्मो भवतीत्यर्थः । कर्मिणां गमनागमनादिबहुक्केशवत्वात् स्वर्गनरकसाध- नानि पुण्यपापानि परित्यज्य निरन्तरं ब्रह्मविचार एव कर्तव्य इति सर्वस्यास्य पा- दस्य तात्पर्यमिति भावः ॥ २७ ॥ इति सूत्रवृत्तौ तृतीयाध्यायस्य प्रथमः पादः ॥ अथ ॥ तृतीयाध्यायस्य द्वितीयः पादः॥ सन्ध्याधिकरणम् ॥ १॥ निष्प्रपञ्चस्य निर्धर्मकस्य निर्गुणस्य जीवस्य निप्प्रपञ्चनिधर्मकनिर्गुणब्रह्मा- भेदकथनाय जीवसम्बन्धिनीनां स्वप्नसुषुप्तिजाग्रन्मूर्छावस्थानां चतसृणामपि मिथ्या- त्वं साधयितुं प्रथमं पूर्वपक्षमाह- पूर्वपक्षः- सन्ध्ये सृष्टिराह हि ॥१॥ सन्ध्ये स्वप्नावस्थायां सृष्टिः स्वप्नप्रपञ्चसृष्टिः पारमार्थिकी । कुतः? आह हि 'न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पथस्सृजत' इति श्रुतिः स्वप्नप्रपञ्चसृष्टिम् आह हि प्रतिपादयति खलु। तथा च श्रुतिप्रतिपादितत्वात् स्वप्नप्रपञ्चस्य सत्यत्वं वक्तव्यम् । तथा च स्वप्नप्रपञ्चदृष्टान्तेन जाग्रत्मपञ्चस्य मि- ध्यात्वानुमानं वेदान्तिनामनुपपन्नमिति भावः ॥ १ ॥ स्वप्नप्रपञ्चस्य सत्यत्वे हेत्वन्तरमाह- निर्मातारं चैके पुत्रादयश्च ॥२॥ एके शाखिनः 'यत्रतत्स्वप्नया चरति कामं कामं पुरुषो निर्मिमाण' इति श्रुतौ तृ०ये द्वितीयः पादः) सूत्रवृत्तिः । 1 जीवं स्वेच्छानुसारेण स्वप्नप्रपञ्चस्य निर्मातारं प्रतिपादयन्ति । तथा च कर्तुरिच्छा- नुसारेण उत्पाद्यमानत्वादपि स्वप्नकालीनाः पुत्रमित्रकलत्रादयः पदार्थाः सत्या ए- वाङ्गीकर्तव्याः। मिथ्यात्वाङ्गीकारे कत्रिच्छाधीनत्वानुपपत्तेः । न हि मिथ्याभूतस्य शुक्तिरजतरज्जुसदेः कच्छिाधीनत्वं लोके दृष्टमित्यर्थः । तथा च जीव- स्य स्वप्नप्रपञ्चकर्तृत्वेन स्वप्नप्रपञ्चं प्रति उपादानकारणत्वेन च सप्रपञ्चत्वात् नि- प्रपञ्चब्रह्माभिन्नत्वमप्यनुपपन्नमिति भावः ॥ २ ॥ सिद्धान्तः-मायामात्रं तु कात्न्येनानभिव्यक्तखरूपत्वात् ॥३॥ स्वप्नकालीनं जगत् मायामानं मिथ्याभूतम् । कुतः ? कात्स्न्येन उपादाननिमि- त्तकारणमेलनेन अनभिव्यक्तस्वरूपत्वात् अनुत्पन्नस्वरूपत्वात् वासीटङ्कतक्षकदारु प्रभृतिसामग्री विनाप्युत्पाद्यमानत्वात् स्वप्नकालीनस्य स्थादिप्रपञ्चस्य शुक्तिर- जतादिवत् मिथ्यात्वमेव वक्तव्यमित्यर्थः । यच्चोक्तं 'अथ रथान् रथयोगान् प. थस्सृजत' इति श्रुतिप्रतिपाद्यत्वात् स्वप्नप्रपञ्चस्य सत्यत्वमिति, तन्न । न हि श्रु- तिप्रतिपाद्यत्वमात्रेण सत्यत्वम् । ग्रावप्लवनादेरपि सत्यत्वप्रसङ्गात् । किं तु ता- त्पर्येण श्रुतिप्रतिपाद्यस्यैव सत्यत्वम् । न च स्वप्नप्रपञ्चस्य. तात्पर्येण प्रतिपाद्य त्वमस्ति । 'न तत्र रथा' इति पूर्ववाक्ये पारमार्थिकरथादीनां प्रतिषिद्धत्वात् । यञ्चोक्तं 'कामं कामं पुरुषो निर्मिमाण' इति श्रुत्या कत्रिच्छाधीनत्वप्रतिपादनात् स्वप्नप्रपञ्चस्य सत्यत्वमिति , तदपि. अनुपपन्नम् । लोकानुभवविरोधेन कस्या अपि श्रुतेः स्वार्थतात्पर्याभावात् । न हि लोके जीवेच्छानुसारेण स्वप्नप्रपञ्चा जायन्ते ॥३॥ सूचकश्च हि श्रुतेराचक्षते च तदिदः॥४॥ खप्नः सूचकः भविष्यदिष्टानिष्टयोः । कुतः? श्रुतेः 'पुरुषं कृष्णं कृष्ण- दन्तं पश्यति स एनं हन्ती' त्यादिश्रुतिबलात् । तद्विदः स्वप्नाध्यायविदश्च ख- नप्रपञ्चं भविष्यदिष्टानिष्टसूचकम् आचक्षते वदन्ति । तथा च भविष्यदिष्टानिष्ट. सूचकत्वादपि खनप्रपञ्चस्य मिथ्यात्वमङ्गीकर्तव्यम् । भविष्यदिष्टानिष्टसूचकानां गन्धर्वनगरादीनां उत्पातप्रायेण मिथ्यात्वस्य लोकप्रसिद्धत्वादिति भावः । तथा च स्वप्नप्रपञ्चदृष्टान्तेन जाग्रत्प्रपञ्चस्य मिथ्यात्वानुमानं निष्प्रपञ्चस्य जीवस्य निष्प्रपञ्चब्रह्मामिन्नत्वं च उभयमप्युपपन्नमिति भावः । स्वप्नावस्थायाः मिथ्या- त्वसमर्थनेन सुषुप्तिजाग्रन्मूर्छावस्थानमपि खप्नावस्थादृष्टान्तेन मिथ्यात्वमर्थात् सिद्धमिति द्रष्टव्यम् ॥ ४॥ जीवब्रह्मणोरभेदाङ्गीकारे जीवस्य आनन्दादिरूपत्वं सर्वदा किमर्थं न भासत इत्याशङ्कयाह + - अद्वैतमञ्जरी । - तच्छ्रुतेरात्मनि च ॥७॥ पराभिध्यानानु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥ पराभिध्यानात् परेषां देहेन्द्रियान्तःकरणानां अभिध्यानादैक्याध्यासादस्य जी- वस्य शुद्धबुन्दज्ञानानन्दादिस्वरूपत्वं तिरोहितं आवृतम् । ततः आवृतत्वाद्धेतोः अ. स्य जीवस्य बन्धविपर्ययौ कर्तृत्वभोक्तृत्वादिबन्धः , नाहमीश्वर इति भ्रमश्च उभाव- प्युपपन्नावित्यर्थः ॥५॥ एवं जीवत्वमपि देहैक्याध्यासाधीनमित्याह- देहयोगादा सोऽपि ॥६॥ परमार्थतो ज्ञानानन्दस्वभावस्य जीवस्य सोऽपि जीवभावोऽपि देहयोगात् दे- हैक्याध्यासादित्यर्थः । सूत्रद्वयमपि प्रसङ्गादागतं, न प्रकृतोपयुक्तमिति द्रष्टव्यम् ॥ तदभावाधिकरणम् ॥२॥ एवं जीवस्य स्वप्नावस्थां विचार्य सुषुप्त्यवस्था विचारयति-- तदभावो नाडीषु जाग्रदवस्थायां स्वप्नावस्थायां च देहाद्यमिमानविशिष्टो जीवः सुषुप्त्यव- स्थायां तदभावस्सन् तस्य देहाधभिमानस्य अभावो यस्य सः देहायभिमानरहित- स्सन् नाडीषु च आत्मनि च पर तात्मनि च चकारात् हृत्पुण्डरीके च शेते नाडीह- त्पुण्डरीकादिप्राकारप्रवेशनद्वारा हृत्पुण्डरीकावच्छिन्नब्रह्मरूपे . प्रासादे जीवाख्यो राना शेत इत्यर्थः । कुतः ? तच्छ्रुतेः 'आसु तदा नाडीषु सुप्तो भवति नाडीभ्यः प्रत्यवसृप्य पुरीतति शेते पुरीततः प्रत्यवसृप्य सति शेते सति सम्पद्य न विदुः सति सम्पत्स्यामह' इति श्रुतौ नाडीपुरीतद्वारा जीवस्य पुरीतदवच्छिन्ने ब्रह्मणि सुषुप्तिद- शायां शयनश्रवणादित्यर्थः । 'आसु तदा नाडीषु सुप्तो भवतीति श्रुतेरयमर्थः-जी- वाख्यो राजा जाग्रदवस्थायां स्वप्नावस्थायां जाग्रत्तपञ्चस्वप्नप्रपञ्चाख्ययोः स्वराष्ट्रयो सञ्चारं कृत्वा शरीराख्यं स्वपुरं प्रविश्य तदनन्तरं नाडीः प्रविशति। नाडीभ्यो नि- त्य हृत्पुण्डरीकं प्रविशति । हृत्पुण्डरीकान्निर्गत्य हृत्पुण्डरीकावच्छिन्नब्रह्मरूपे प्रासादे शेत इत्यर्थः ॥ ॥ सुषुप्त्यवस्थां निरूप्य जाग्रदवस्थां निरूपयति- अतः प्रबोधोऽस्मात् ॥८॥ अतस्सुषुप्त्यवस्थासमाप्त्यनन्तरं हत्पुण्डरीकावच्छिन्ने ब्रह्मणि शयानो जी- वः प्रबोधः प्रकृष्टो बोधः अभिमानो यस्य सः , शरीराद्यभिमानविशिष्टस्सन् अ. स्मात् हृत्पुण्डरीकावच्छिन्नब्रह्मलक्षणात् प्रासादादुत्थाय जाग्रत्प्रपञ्चाख्यराष्ट्रदर्शना- ? - - तृ०ये द्वितीयः पादः] मूत्रवृत्तिः । वा, य हृत्पुण्डरीकनाडीप्राकारद्वारा शरीराख्यात् पुरात् बहिनिर्गच्छतीत्यर्थः । 'स यदा प्रतिबुध्यते यथाग्नेज्वलतः सर्वा दिशो विष्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मा. दात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका' इति श्रुतिरेवास्मिन्नर्थे प्रमाणमिति भावः ॥ ८॥ कर्मानुस्मृत्यधिकरणम् ॥३॥ पूर्वदिनीया एव जीवाः सुषुप्तिदशायां सूक्ष्मावस्थापन्नान्तःकरणविशिष्टतया ढत्पुण्डरीकावच्छिन्ने ब्रह्मणि विलीनास्सन्तः उत्तरदिनेषु स्थूलावस्थापन्नान्तःकर- णविशिष्टतया अभिव्यक्ता भवन्ति उत पूर्वदिनीयान्तःकरणविशिष्टानां जी- वानां सर्वात्मना सुषुप्त्यवस्थायां ब्रह्मण्या त्यन्तिकलये सति अभिनवान्तःकरण- विशिष्टा अभिनषा जीवाः उत्पद्यन्ते वा इति संशये सति निर्णयमाह- स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥९॥ यस्तु पूर्वदिनीयो जीवः सुषुप्त्यवस्थायां हृत्पुण्डरीकावच्छिन्नब्रह्मणि लीनः, स एव उत्तरदिने स्थूलान्तःकरणविशिष्टतया अभिव्यक्तो भवति । कुतः? कर्मानुस्मृ. तिशब्दविधिभ्यः पूर्वदिने कृतस्य लौकिकस्य वैदिकस्य च कर्मणः अस्मिन्दिने स्मरणात् 'त इह व्याघ्रो वा सिंहो वा' इतिशब्दात् 'ज्योतिष्टोमेन वर्गकामो यजेत' इत्यादिविधिवाक्याच्च एतेभ्यो हेतुभ्य इत्यर्थः । प्रतिदिनं भिन्नभिन्नजीवाङ्गीकारे अन्यस्य ज्योतिष्टोमे कर्तृत्वम् , अन्यस्य स्वर्गभोक्तृत्वमिति स्वर्गकामस्य ज्योतिष्टो- मविधायकं वाक्यमप्रमाणं स्यादित्यर्थः । 'त इह व्याघ्रो वा सिंहो वे' त्यारभ्य य- द्यद्भवन्तीति वाक्यमप्यप्रमाणं स्यात् । तस्य वाक्यस्य पूर्वदिनीयानामेव जीवानां सुषु- प्तिकाले · सूक्ष्मरूपान्तःकरणविशिष्टानामुत्तरदिनेषु स्थूलावस्थान्तःकरणविशिष्टतया अभिव्यक्तिप्रतिपादकत्वादिति भावः । पूर्वदिने अनुभूतस्य कर्मणः अस्मिन्दिने स्मरणं न स्यात् । अन्येनानुभूतस्य अन्येन स्मरणासम्भवादिति भावः ॥९॥ मुग्धाधिकरणम् ॥ ४ ॥ जाग्रदवस्थां निरूप्य मूर्छावस्थां निरूपयति- मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥१०॥ मुग्धे मूर्छावस्थायां हृत्पुण्डरीकावच्छिन्ने ब्रह्मणि देहायभिमानविशिष्टस्य जीवस्य अर्धसम्पत्तिः अर्धलयः, न तु सुषुप्त्यवस्थायामिव सर्वात्मना अभिमानलयः । मूर्छितस्य बाह्यपदार्थज्ञानाभावेऽपि आन्तरदुःखानुसन्धानस्य विद्यमानत्वेन देहाद्यमि- मानस्यापि लेशतोऽङ्गीकार्यत्वात् । तथा च परिशेषात् जाग्रत्स्वप्नसुषुप्त्यवस्थासु अ- न्तर्भावासम्भवात् मूर्छावस्था अवस्थात्रयात् भिन्नैवाङ्गीकर्तव्येत्यर्थः ॥ १० ॥ - ९ अद्वैतमञ्जरी । -p- उभयलिङ्गाधिकरणम् ॥५॥ इयता सूत्रसन्दर्भण त्वंपदार्थस्थ निष्प्रपञ्चत्वं प्रसाध्य इदानी तत्पदार्थस्य निष्प्रपञ्चत्वं साधयति न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥११॥ केचित् ब्रह्मणः निर्गुणत्वं सगुणत्वं च उभयमपि स्वाभाविकं वास्तवं चेति वदन्ति । अन्ये तु निर्गुणत्वं स्वाभाविकं वास्तवं च, सगुणत्वं तु औपाधिकमपि वा- स्तवमेव । उपाधीनां पथिव्यादीनां सत्यत्वादिति वदन्ति । आद्यमतं निराकरोति- परस्य परमात्मनः उभयलिङ्गं भावप्रधानो निर्देशः, उभयलिङ्गत्वम् उभयस्वभाव- कत्वं स्वाभाविकसगुणत्वं स्वाभाविकनिर्गुणत्वं च न सम्भवति । नकारस्य अत्राप्य. न्वयः । स्वाभाविकसगुणत्वनिर्गुणत्वयोरेकत्र विरोधादिति भावः । द्वितीयमतं निरा. करोति-न स्थानत इति । स्थानतः पृथिव्याधुपाधितोऽपि पृथिव्यादिपञ्चमहाभूता- वच्छिन्नस्य परमात्मनः वास्तवं सगुणत्वं न सम्भवति । पृथिव्याधुपाधीनां मिथ्या- त्वेन पृथिव्यभिन्ने ब्रह्मणि तत्प्रयुक्तसगुणत्वस्यापि मिथ्यात्वादिति भावः । पृथिव्या- धुपाधीनां मिथ्यात्वे प्रमाणमाह-~-सर्वत्र हि सर्वेष्वपि वेदान्तेषु 'नेह नानास्ती'त्या- दिश्रुतिभिः पृथिव्यादिप्रपञ्चस्य मिथ्यात्वं प्रतिपाद्यत इत्यर्थः ॥ ११ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥१२॥ भेदात् सगुणत्वप्रतिपादनात् 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरस' इत्यादि- वाक्यात ब्रह्मणः सगुणत्वमेव वास्तवं, न निर्गुणत्वमिति चेन्न । प्रत्येकं सर्वास्खपि शाखासु अतद्वचनात् 'अशब्दमस्पर्शमरूपमव्ययमि' त्यादिवाक्यैः निर्गुणत्वस्य प्रति. पादितत्वात निर्गुणत्वमेव वास्तवं, सगुणत्वं तु मिथ्याभूतमित्यर्थः ॥ १२ ॥ अपि चैवमेके ॥१३॥ किं च एके शाखिनः 'अस्थूलमनण्वहूस्वमदीर्घमलोहित'मित्यादिश्रतिषु एवं निर्गुणत्वमेव प्रतिपादयन्तीत्यर्थः ॥ १३ ॥ सगुणत्वप्रतिपादकनिर्गुणत्वप्रतिपादकवाक्ययोर्मध्ये कस्य प्राबल्यं, कस्य दौ- बल्यमित्याशङ्कायामाह- अरूपवदेव हि तत्प्रधानत्वात् ॥१४॥ ब्रह्म अरू पवदेव निर्गुणमेव । कुतः ? तत्प्रधानत्वात् सर्वेषां वेदान्तानां उपक्रमोपसंहारादिलिङ्गैः निर्गुणब्रह्मण्येव तात्पर्यवत्त्वादित्यर्थः । तथाच निर्गुणत्वप्र- तिपादकवाक्यानामेव स्वार्थे तात्पर्यवत्त्वात् प्राबल्यं , सगुणत्वप्रतिपादकवाक्यानां - ? , तृ० ये द्वितीयः पादः] सूत्रवृत्तिः । - तु खार्थे तात्पर्याभावात् दुर्बलत्वमित्यर्थः ॥१४॥ यदि सगुणत्वं मिथ्याभूतं, तर्हि ब्रह्मलोकप्राप्त्यादिफलोद्देशेन सत्यसङ्क- ल्पत्वादिगुणविशिष्टब्रह्मविषयकोपासनाविधायकानां दहरशाण्डिल्योपकोसलवैश्वा- नरादिवाक्यसन्दर्भाणामप्रामाण्यं स्यात् । मिथ्याभूतगुणविशिष्टब्रह्मोपासनया ब्रह्म- लोकप्राप्त्यादिफलजनकत्वासम्भवादित्याशङ्कयाह- प्रकाशवचावैयर्थ्यम् ॥१५॥ यथा गवाक्षमध्यगतस्य सूर्यप्रकाशस्य औपाधिकहूखत्वदीर्घत्ववर्तुलत्वादिमि- थ्याभूतधर्मविशिष्टस्यापि अन्धकारशीतादिनिवर्तनसामर्थ्यम् , एवं पृथिव्याद्युपाधि- प्रयुक्तमिथ्याभूतसर्वगन्धत्वसर्वरसत्वगुणविशिष्टब्रह्मविषयकोपासनाया अपि 'याह- शो यक्षः, तादृशो बलिरि' ति न्यायेन मिथ्याभूतब्रह्मलोकावाप्त्यादिफलजननसाम- र्थ्यसम्भवात अवैयर्थं सगुणोपासनाविधायकवाक्यानामप्रामाण्यं नास्तीत्यर्थः ॥१५॥ एवं सगुणोपासनावाक्यानामप्रामाण्यं परिहत्य निर्गुणत्वे प्रमाणान्तरमाह- आह च तन्मात्रम् ॥१३॥ तन्मात्रं चैतन्यमानं चैतन्यैकस्वभावम् आह च 'कृत्स्नः प्रज्ञानधन एवे'- ति श्रुतिः ॥ १६ ॥ दर्शयति चाथो अपि स्मर्यते ॥१७॥ 'निष्कलं निष्क्रिय शान्तमि' त्यादिश्रुतिर्ब्रह्मणो निर्गुणत्वं दर्शयति प्र. तिपादयति । अथो तथा स्मयते- 'अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते' इत्यादिस्मृतिष्वपि निर्गुणत्वमेव प्रतिपाद्यत इत्यर्थः ॥ १७ ॥ सगुणत्वस्य मिथ्यात्वे प्रमाणान्तरमाह- अत एव चोपमा सूर्यकादिवत् ॥१८॥ यतः कारणात् ब्रह्मणः पृथिव्यायपाधिप्रयुक्तं मिथ्याभूतं सगुणत्वम् । अ. त एव 'यथा ह्ययं ज्योतिरात्मा विवस्वान्' 'एकधा बहुधा चैव दृश्यते जलचन्द्र- वदित्यादिश्रुतिस्मृतिषु सूर्यकादिवत् मूर्यचन्द्रप्रतिविम्बवदित्युपमा दृष्टान्त उ. पपन्न इत्यर्थः । यथा जलादौ प्रतिबिम्बचन्द्रे सूर्ये च जलनिष्ठाः हूस्वत्वदीर्घ- त्वचलत्वाधोदेशस्थत्वादयः धर्माः आरोप्यन्ते, एवं पृथिव्यादिपञ्चमहाभूतलक्ष- णोपाधिषु प्रतिबिम्बिते परमात्मनि पृथिव्यादिधर्माः सर्वगन्धत्वसर्वरसत्वसर्वरूपत्व- सर्वस्पर्शत्वसर्वशब्दत्वादयः परमात्मन्यारोप्यन्ते । ततश्चारोपितत्वात् सर्वगन्धत्वा- दिधर्माः मिथ्याभूता एव , न वास्तवा इत्यर्थः ॥१८॥ - अद्वैतमञ्जरी । घटत -- , दृष्टान्त. rnwwman- - दृष्टान्तदान्तिकयोधर्म्य शङ्कते- पूर्वपक्ष:- अम्बुवदग्रहणातु न तथात्वम् ॥१९॥ अम्बुवत् जलवत् पृथिव्याधुपाधीनां स्वच्छतया अधिकस्वच्छत्वेन प्रतीय- मानत्वाभावात् तथात्वं पृथिव्याद्युपाधिषु प्रतिबिम्बितत्वं ब्रह्मणो न इत्यर्थः ॥ १९ ॥ सिद्धान्त:- वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥२९॥ परमात्मनः अस्वच्छेषु पृथिव्याधुपाधिषु प्रतिबिम्बितत्वाभावे पृथिव्याधु पाधीनाम् अन्तः मध्ये भावात् अधिष्ठानत्वेन भासकत्वेन च विद्यमानत्वात् पृथि- व्याद्युपाधिप्रयुक्तमिथ्याभूतदीर्घत्वहस्खत्वसर्वगन्धत्वसर्वरसत्वादिधर्मभाक्त्वं धर्माश्र- यत्वं पृथिव्याधुपाध्यवच्छिन्ने परमात्मन्यारोप्यते , एवंसति एतावन्मात्रेण उ. भयसामञ्जस्यात् उभयोस्सूर्यचन्द्रदृष्टान्तयोः सामञ्जस्यात् उपपन्नत्वान्न दान्तिकवैषम्यमित्यर्थः ॥ २० ॥ तथा च गौणप्रतिबिम्बत्वमेव ब्रह्मणः , न मुख्यप्रतिबिम्बत्वमिति भावः । अन्तःकरणाद्युपाधिषु मुख्यप्रतिबिम्बत्वमपि सम्भवतीत्याह--- दर्शनाच ॥२१॥ ब्रह्मादिपिपीलिकान्तसकलजीवान्तःकरणानाम् अतिस्वच्छत्वस्य लोके दर्शनात् अन्तःकरणेषु प्रतिबिम्बिते ब्रह्मणि सत्यकामत्वसत्यसङ्कल्पत्वादिमिथ्याभूतधर्मारोप सम्भवाच्च सूर्यचन्द्रयोरिव मुख्यप्रतिबिम्बत्वमपि ब्रह्मणः सम्भवतीति भावः ॥२१॥ प्रकृतैतावत्त्वाधिकरणम् ॥ ६॥ 'अथातें आदेशो नेति नेती'ति श्रुतावविशेषेण प्रपञ्चब्रह्मणोरुभयोरपि प्रतिषे- ध्यमानत्वात मपञ्चब्रह्मणोरुभयोरपि मिथ्यात्वमङ्गीकर्तव्यम् । तथा च मिथ्याभूतस्य ब्रह्मणः मिथ्याभूतप्रपञ्चाधिष्ठानत्वमनुपपन्नमिति शून्यवादिनो वदन्ति, तन्मतं निरा. करोति- प्रकृततात्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥ 'अथात आदेशो नेतिनेती' ति श्रुतिः प्रकृतैतावत्त्वं 'द्वे वाव ब्रह्मणो रूपे' इति पूर्ववाक्ये प्रतं प्रतिपादितं एतावत्त्वम् एताव-मात्रे मूर्तामृतीत्मकप्रपञ्चमात्रं प्रतिषेधति न परमात्मनः । कुतः ? ततः प्रपञ्चप्रतिषेधानन्तरं भूयः 'सत्यस्य सत्य'मित्युत्तरवाक्यं सद्रूपपञ्चमहाभूतात्मकप्रपञ्चाधिष्ठानस्य ब्रह्मणः सत्यत्वं पारमार्थिकत्वं ब्रवीतिप्रति ?

तृ०ये द्वितीयः पादः] सूत्रवृत्तिः । . . पादयतीत्यर्थः पः । तथा च पारमार्थिकस्य ब्रह्मणः मिथ्याभूतप्रपञ्चाधिष्ठानत्वमुपपन्नमि- त्यर्थः। द्वे वाव ब्रह्मणो रूपे' इति श्रुतेरयमर्थः-परमार्थतः अरूपस्य ब्रह्मणः मिथ्याभूते द्वे रूपे स्तः । मूर्त एथिव्यप्तेजांसि, अमूर्त वाय्वाकाशौ । अथात आदेशो नेति नेति अथ मूर्तामूर्तात्मकप्रपञ्चस्वरूपकथनानन्तरं प्रपञ्चाधिष्ठानस्य ब्रह्मणः आदे. शः उपदेशः क्रियते । उपदेशमेवाह-नेति नेति इदं सत्यं न भवति इदं सत्यं न भवतीत्येवंरूपेण सर्वस्य प्रपञ्चस्य सत्यत्वनिषेधे सति मिथ्याभूतप्रपञ्चस्य सत्यमधिष्ठानमङ्गीकर्तव्यम् । तदेव ब्रह्मेत्यर्थः । तदेव स्पष्टयति-सत्यस्य सत्यं सत् पृथिव्यप्तेजांसि, त्यत् वाय्वाकाशौ । सत्त्यद्रूपस्य प्रपञ्चस्य अधिष्ठानभूतं वस्तु सत्यं पारमार्थिकमित्यर्थः ॥२२॥ यदि प्रपञ्चाधिष्ठानं सत्यं ब्रह्माङ्गीक्रियते तर्हि सत्यब्रह्मणः विभुत्वेन स र्वत्र विद्यमानत्वात् सर्वेषां जीवानां मनसा गृह्यतेत्याशङ्कयाह- तदव्यक्तमाह हि ॥२३॥ तत् ब्रह्म अव्यक्तम् अविद्यावृतत्वात् सर्वेषां जीवानां मनसा अग्राह्यम् । कुतः ? आह हि 'नीहारेण प्रावृता' इत्यादिश्रुतिः ब्रह्मणः अविद्यावृति प्रतिपादय- तीत्यर्थः ॥२३॥ तार्ह केषां मनसा ब्रह्म गृह्यत इत्याशङ्कायामाह- अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४॥ ब्रह्मसाक्षात्कारेण अविद्यावरणे नष्टे सति अनावृतं ब्रह्मस्वरूपं शुद्धान्तः- करणेन ज्ञानिनः संराधने ध्यानकाले साक्षात्कुर्वन्ति । कुतः ? प्रत्यक्षानुमाना. भ्यां श्रुतिस्मृतिभ्यामित्यर्थः । 'ततस्तु तं पश्यते निष्कलं ध्यायमानः दृश्यते त्व- ग्रयया बुद्ध्या' इत्यादिश्रुतिः , 'यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानाः तस्मै योगात्मने नमः ॥' इति स्मृतिः, ताभ्यामित्यर्थः । 'यन्मनसा न मनुत' इत्यादिश्रुतिषु अविशुद्धान्तःकरणग्राह्यत्वं ब्रह्मणः प्रति. विध्यते 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः । दृश्यते त्वग्रयया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि'रित्यादिश्रुतिषु विशुद्धान्तःकरण- ग्राह्यत्वं प्रतिपाद्यत इति नानयोः श्रुत्योः विरोध इति भावः ॥२४॥ एवं जीवब्रह्मणोः त्वंपदार्थतत्पदार्थ योः निष्प्रपञ्चत्वं प्रतिपाद्य इदानीमुभयो रभेदं प्रतिपादयति- प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥२५॥ प्रकाशादिवत् गवाक्षद्वयावच्छिन्नसूर्यप्रकाशयोरिव जीवब्रह्मणोरपि परमा. ?

अद्वैतमञ्जरी । ७० - र्थतः अवैशेप्यम् अभेद एवाङ्गीकर्तव्यः । प्रकाशश्च नाहमीश्वर इति भेद. प्रतिभासश्च कर्मणि उपाधौ सति मायालिङ्गशरीरस्थूलशरीरलक्षणोपाधित्रयप्रयु. कमिथ्याभूतविभेदविषयक इत्यर्थः । कुतः ? अभ्यासात् 'तत्त्वमसि अहं ब्र. ह्मास्मी' त्यभेदबोधकबहुश्रुतिबलादित्यर्थः ॥२५॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥२६॥ अतः जीवब्रह्माभेदसाक्षात्कारेण जीवेश्वरोपाधिभूतयोः लिङ्गशरीरमाययोः निवृत्त्यनन्तरं शुद्धो जीवः शुद्धेनानन्तेन ब्रह्मणा अभिन्नो भवति । मिथ्याभूतमपि भेदं परित्यज्यात्यन्ताभेदं प्राप्नोतीत्यर्थः । तत्र प्रमाणमाह-तथाहि लिङ्ग तथा ब्रह्म- साक्षात्कारानन्तरं जीवब्रह्मणोरत्यन्ताभेदे 'ब्रह्म वेद ब्रह्मैव भवतीति 'ब्रह्मविदाप्नोति परं यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति एवं मुनेर्विजानतं आत्मा भवति गौतम' इत्यादिवाक्यमेव लिङ्गं ज्ञापकमित्यर्थः ॥२६॥ मोक्षपर्यन्तं जीवब्रह्मणोर्वास्तवौ भेदाभेदौ, जीवब्रह्माभेदसाक्षात्कारेण वास्त- वभेदे नष्टे सति मोक्षकाले जीवब्रह्मणोरत्यन्ताभेद इति केचन वर्णयन्ति, तन्मतं नि- राकर्तुं प्रथमं पूर्वपक्षमाह- पूर्वपक्षसूत्रम्- उभयव्यपदेशात्त्वाहिकुण्डलवत् ॥२७॥ उभयव्यपदेशात् 'द्वा सुपर्णे' त्यादिश्रुतिषु भेदव्यपदेशात् तत्त्व- मसीत्यादिश्रुतिषु अभेदव्यपदेशात् जीवब्रह्मणोर्भेदाभेदावङ्गीकर्तव्यौ । अहिकुण्डल- वत् । यथा कुण्डलीभूतसर्पस्य दीर्घाभूतसर्पस्य च सर्पत्वेन एकत्वेऽपि यथा हूस्वत्वदी- त्वरूपविरुद्धपरिमाणवत्त्वात् भेदाभेदावङ्गीक्रियेते , एवं जीवब्रह्मणोरपि चित्त्वेन एकत्वेऽपि अणुत्वविभुत्वरूपविरुद्धपरिमाणवत्त्वात् भेदाभेदावङ्गीकर्तव्यावित्यर्थः।२७। पर्वपक्षे दृष्टान्तान्तरमाह प्रकाशाश्रयवदा तेजस्त्वात् ॥२८॥ यथा सूर्यप्रभायाः प्रभाश्रयसूर्यमण्डलस्य च तेजस्त्वात् तेजस्त्वेन अविशेषेऽ- पि व्यापकत्वपरिच्छिन्नत्वरूपविरुद्वपरिमाणवत्त्वात् भेदाभेदावङ्गीकृतौ, एवं जीव- ब्रह्मणोरपि विरुद्धपरिमाणवत्त्वात् भेदाभेदावङ्गीकर्तव्यावित्यर्थः । इदमुपलक्षणम् । संकुचितविस्तृतपटादिबहुदृष्टान्तानुरोधेनापि जीवब्रह्मणोर्भेदाभेदावङ्गीकर्तव्यावित्यर्थः। सिद्धान्तसूत्रम्-- पूर्ववदा ॥ २९॥ पूर्वसूत्रोक्तगवाक्षद्वयावच्छिन्नसूर्यप्रकाशदृष्टान्तेन जीवब्रह्मणोरभेद एव वा- स्तवः, भेदस्तु मिथ्याभूत एव । अणुत्वविभुत्वपरिमाणयोरुभयोरपि लिङ्गशरीरमा- योपाधिप्राक्तत्वेना मथ्याभूतत्वेन वास्तवभेदप्रयोजकाभावादित्यर्थः । कुण्डलीभूतदी- - तृ ० ये द्वितीयः पादः] सूत्रवृत्तिः । अतः परमात्मनः अ. mp- भूतसादिदृष्टान्तेषु सर्वेप्वपि अभेद एव वास्तवः, भेदस्तु मिथ्याभूत एव । वास्तव- योर्भेदाभेदयोस्सहावस्थानस्य विरुद्धत्वादिति भावः ॥२९ ॥ प्रतिषेधाच्च ॥३०॥ 'नान्योऽतोऽस्ति द्रष्टे' त्यादिषु श्रुतिषु जीवब्रह्मणोर्भेदस्य प्रतिषिद्धत्वादपि मिथ्याभूत एव जीवब्रह्मणोर्भेदः, न वास्तव इत्यर्थः न्यो भिन्नः द्रष्टा जीवो नास्ति । जीवब्रह्मणोवीस्तव पन्यलं नास्तीत्यर्थः । इदमु- पलक्षणम् । पारमार्थिकभेदाभेदवादिमते भेदज्ञानस्यापि प्रमात्वात् अभेदप्रमायाः प्र- मितवास्तवभेदनिवर्तकत्वं न सम्भवति । प्रमायाः भ्रमविषयीभूतपदार्थमात्रनिवर्तकत्वे न प्रमाविषयीभूतपदार्थनिवर्तकत्वस्य लोके अदर्शनात् । किं च भेदाभेदयोः औपाधि- कत्वन परस्परविरोधाभावादपि अभेदज्ञानस्य भेदज्ञाननिवर्तकत्वमनुपपन्नम् । न च जीवब्रह्मणोरत्यन्ताभेदविषयकप्रमोत्पत्त्या भेदध्वंसोत्पत्तिरिति वाच्यम् । भेदविरोधि. त्वविशिष्टाभेदविषयकप्रमोत्पत्त्यनन्तरं भेदध्वंसोत्पत्तेरिति ॥ ३० ॥ एवं भेदाभेदवादिनो भट्टभास्करस्य मतं निराकृत्य अत्यन्तभेदवादिनां नैया- यिकानां मतं निराकरोति- सेतून्मानाधिकरणम् ॥७॥ पूर्वपक्षः-परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥३१॥ ब्रह्म अतः जीवात् परं भिन्नम् । कुतः ? सेतून्मानसम्बन्धभेदव्यपदेशे. भ्यः हेतुभ्यः । एष सेतुर्विधरण एषां लोकानामसम्भेदाये'ति श्रुतौ जीवब्रह्मणोनिय- म्यनियामकभावरूपसेतुत्वस्य व्यपदेशात् । उन्मानव्यपदेशात् 'वालाग्रशतभागस्य शतधा कल्पितस्य च । आकाशवत्सर्वगतश्च नित्य' इत्यादिश्रुतिषु जीवब्रह्मणोः अ- णुत्वविभुत्वरूपविरुद्ध परिमाणश्रवणात् सम्बन्धव्यपदेशात् ‘सता सोम्य तदा स. म्पन्नो भवती ति सद्रूपे ब्रह्मणि सम्बन्धश्रवणात् भेदश्रवणात् 'द्वा सुपर्णे'त्यादिश्रु- तिषु भेदव्यपदेशाच्च जीवेश्वरयोर्भेद एवाङ्गीकर्तव्य इत्यर्थः ॥ ३१ ॥ सेतुव्यपदेशस्य परिहारमाह-- सामान्यातु ॥३२॥ यथा लोके सेतूनां केदारमर्यादाव्यवस्थापकत्वम्, एवं ब्रह्मणोऽपि वर्णाश्रम- मर्यादाव्यवस्थापकत्वेन सामान्यात् सेतुसादृश्यात् सेतुत्वमुक्तं, तच्च ब्रह्मसाक्षा- त्कारपर्यन्तं जीवब्रह्मणोमिथ्याभूतभेदाङ्गीकारात् तमादाय उपपन्नमिति भावः॥३२॥ उन्मानव्यपदेशस्य परिहारमाह- बुद्धयर्थः पादवत् ॥३३॥ - m

अद्वैतमञ्जरी ।
जीवब्रह्मणोरणुत्वविभुत्वव्यपदेशः बुद्ध्यर्थः तत्पदार्थत्वंपदार्थविवेकार्थः ।
पादवत् यथा ‘पादोऽस्य विश्वा भूतानी' ति श्रुतौ ब्रह्माण्डमध्यवर्तिनो जीवचैत.
न्यस्य एकपादत्वं, ब्रह्माण्डात् बहिः विद्यमानस्य ब्रह्मचैतन्यस्य त्रिपादत्वं च त्वं-
पदार्थतत्पदार्थविवेकार्थमुक्तं, तद्वदित्यर्थः । तत्त्वंपदार्थयोरभेदज्ञानस्य तत्त्वंपदार्थ-
ज्ञानं विना असम्भवात् । तत्त्वंपदार्थज्ञानार्थं स्थूलारुन्धतीन्यायेन अन्तःकरणवि-
शिष्टस्य जीवस्याणुत्वं, मायाविशिष्टनीवस्य ब्रह्मणः विभुत्वं चोक्तं, न तु तत्र श्रु.
तेस्तात्पर्यम् । अणुपरिमाणविभुपरिमाणयोः मिथ्यात्वेन तत्र श्रुतस्तात्पर्यानुपपत्ते-
रिति भावः ॥ ३३ ॥
सम्बन्धभेदव्यपदेशयोरुभयोः परिहारमाह-
स्थानविशेषात् प्रकाशादिवत् ।।३४॥
स्थानविशेषात् ब्रह्मणः मायोपाधिविशिष्टत्वात् जीवस्य सुषुप्तिकालेऽपि
सूक्ष्मान्तःकरणविशिष्टत्वात् विशिष्टयोमिथ्याभेदस्य ब्रह्मसाक्षात्कारपर्यन्तं विद्य-
मानत्वात् 'सता सोम्य तदा सम्पन्नो भवति' इति सम्बन्धव्यपदेशः, द्वा सुपर्णेत्यादि-
भेदव्यपदेशश्च उपपद्यते इत्यर्थः । प्रकाशादिवत् यथा गवाक्षद्वये अन्तर्वतिसूर्यप्र.
काशयोः औपाधिकभेदः, कदाचित् परस्परसम्बन्धश्च, तद्वदित्यर्थः । आत्मा एकः,
विभुत्वात् । कालवदाकाशादिवदित्यनुमानाच्च आत्मन एकत्वम् । तथा च जीवा-
त्मपरमात्मनोरभेद इत्यर्थः ॥ ३४ ॥
उपपत्तेश्च ॥३५॥
वस्तुद्वयासत्त्वात् एकत्वश्रुतेश्च मिथ्यासम्बन्धमिथ्यामेदयोरुपपन्नत्वादि-
त्यर्थः ॥ ३५॥
मुख्यावेव सम्बन्धमेदौ किं न स्यातामित्यत आह-
तथान्यप्रतिषेधात् ॥३६॥
नान्योऽतोऽस्ति द्रष्टे ' त्यादिश्रुतौ जीवब्रह्मणोरन्यत्वप्रतिषेधात् भेदप्रति-
षेधादपि जीवब्रह्मणोरभेद इत्यर्थः ॥ ३६ ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥३७॥
अनेन जीवब्रह्मणोः भेदनिषेधेन प्रपञ्चस्य मिथ्यात्वप्रतिपादनेन आयामश-
व्दादिभ्यः आयामो नाम सर्वात्मकत्वं, तत्प्रतिपादकेभ्यः 'सर्वं खल्विदं ब्रह्म ए.
कमेवाद्वितीयम् ऐतदात्म्यमिदं सर्वमि' त्यादिशब्देभ्यश्च ब्रह्मणः सर्वगतत्वं सर्वा:
त्मकत्वम् अद्वितीयत्वं च सिद्धमित्यर्थः ॥ ३७॥

तृ०ये द्वितीयः पादः] सूत्रवृत्तिः । - फलाधिकरणम् ॥८॥ इयता सूत्रसन्दर्भेण ब्रह्मस्वरूपं विचार्य इदानी कर्मण एव फलप्रदातृत्वं, नेश्वरस्येति निरीश्वरवादिनो मीमांसका वदन्ति । तन्मतं निराकरोति- फलमत उपपत्तेः ॥३८॥ अतः कर्मभिराराधितादीश्वरादेवं जीवानां फलमुत्पद्यते । न तु केवलकर्मणः । कुतः ? उपपत्तेः चैतन्यस्यैव ईश्वरस्य फलजनकत्वस्य उपपन्नत्वात् जडस्य क- मणः स्वातन्त्र्येण फलजनकत्वानुपपत्तेरित्यर्थः ॥ ३८ ॥ श्रुतत्वाच ॥३९॥ 'कर्माध्यक्षस्सर्वभूताधिवास' इति श्रुतौ ईश्वरस्य फलदातृत्वश्रवणाच्च कर्म- सहकृत ईश्वर एव फलप्रदातेत्यर्थः ॥३९॥ पूर्वपक्षः- धर्म जैमिनिरत एव ॥४०॥ जैमिनिस्तु धर्ममेव स्वातन्त्र्येण फलप्रदातारं मन्यते । कुतः ? अत एव 'ज्योतिष्टोमेन स्वर्गकामो यजेते' त्यादिश्रुतिषु कर्मणां स्वातन्त्र्येण फलसाध. नत्वश्रवणादेवेत्यर्थः ॥ ४०॥ सिद्धान्तः- पूर्व तु बादरायणो हेतुव्यपदेशात् ॥४१॥ बादरायणस्तु पूर्वं पूर्वसूत्रोक्तं कर्मसहकृतमीश्वरमेव फलप्रदातारं मन्यते । कुतः ? हेतुव्यपदेशात् 'एष एव साधुकर्म कारयति । एष एव असाधुकर्म का रयती'त्यादिश्रुतिषु ईश्वरस्यैव सत्कर्मणि दुष्कर्मणि च जीवान् प्रति प्रेरकत्व- व्यपदेशादित्यर्थः । तथा च जीवानामीश्वरप्रेरणानुसारेणैव सुस्तदुष्कृतयोः प्रवृ. त्तिः, न स्वातन्त्र्येण । तथा च ईश्वरस्यैव तत्तत्कर्मानुसारेण फलप्रदातृत्वं, न तु केवलकर्मणामित्यर्थः ॥ ४ १ ।। इति सूत्रवृत्तौ तृतीयाध्यायस्य द्वितीयः पादः ॥ ॥ %D mutam १० अथ ॥ तृतीयाध्यायस्य तृतीयः पादः ॥ - ? सर्ववेदान्तप्रत्ययाधिकरणम् ॥१॥ सगुणब्रह्मोपासनानामपि चित्तशुद्धिद्वारा वा ब्रह्मलोकप्राप्तिद्वारा वा नि- गुणब्रह्मसाक्षात्कारं प्रति साधनत्वात् अस्मिन् पादे सगुणब्रह्मोपासनास्वरूपं वि- चारयति- सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥ सर्ववेदान्तप्रत्ययं सर्वशाखाप्रतिपाद्यं दहरोपासनमेकमेव । एवं सर्वशाखा. प्रतिपाद्यं वैश्वानरोपासनमपि एकमेव । एवं शाण्डिल्योपासनमप्येकमेव । एवमु- पकोसलोपासनमप्येकमेव । कुतः ? चोदनाद्यविशेषात् चोद्यन्ते विधीयन्त इति व्युत्पत्त्या चोदनाशब्देन अग्निहोत्रादीनि कर्माण्युच्यन्ते । तथा च चोदनाद्यवि. शेषात् सगुणब्रह्मोपासनानामपि चोदनाभिः अग्निहोत्रादिकर्मभिः सह अविशेषा- त तुल्यत्वादित्यर्थः । तथा च सर्वशाखाप्रतिपाद्यम् अग्निहोत्राख्यं कर्म यथा एक- मेव , यथा ज्योतिष्टोमाख्यं कर्म एकमेव , यथा वाजपेयाख्यं कर्म सकलशाखाप्र. तिपाद्यमेकमेव , एवं सर्वशाखाप्रतिपाद्यं सजातीयोपासनमे कमेवेत्यर्थः ॥ १ ॥ शाखाभेदेन गुणभेदस्य श्रूयमाणत्वात् नानाशाखागतानां सजातीयोपासनानां ऐक्यमनुपपन्नमित्याशङ्कय निराकरोति- भेदान्नेति चेन्नैकस्यामपि ॥२॥ मेदात् शाखाभेदेन गुणभेदस्य श्रूयमाणत्वात् नेति चेत् नानाशाखागतानां सजातीयोपासनानाम् ऐक्यं नास्ति , किं तु भिन्नत्वमेवेति चेन्न । एकस्यामपि शा- खायाम् एकस्या एवोपासनायाः अध्यायभेदेन गुणभेदश्रवणेऽपि यथाध्यायद्वयगता- याः सजातीयोपासनायाः ऐक्यमेवाङ्गीक्रियते , एवं नानाशाखागतानां सजाती- योपासनानाम् ऐक्यमङ्गीक्रियते ॥ २ ॥ तर्हि 'उपसंहारोऽर्थाभेदादि ति वक्ष्यमाणसूत्रोक्तन्यायेन सकलशाखागतस- जातीयोपासनाप्रकरणप्रतिपाद्यानां सत्यसङ्कल्पत्वसर्वज्ञत्वसर्वेश्वरत्वादिगुणानां मेल- नरूपः उपसंहारः उपासनानां निर्णेतव्यः । एवं स्थितेसति एकैकस्य पुरुषस्य सकलशाखाध्ययनस्याशक्यत्वात् कथं सकलप्रतिपाद्यगुणमेलननिर्णय इत्याशङ्कां निराकरोति- - तृ ०ये तृतीयः पादः ] सूत्रवृत्तिः । स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥३॥ वस्य अध्यायः स्वाध्यायः इति व्युत्पत्त्या स्वाध्यायशब्देन स्वशाखा उ. च्यते । तथा च स्वाध्यायस्य स्वशाखाया एव तथात्वेन अध्येतव्यत्वेन समाचार 'स्वाध्यायोऽध्येतव्य' इति अध्ययनविधिप्रकरणे अधिकारात् प्रतिपादितत्वात् एकै. कस्य पुरुषस्य सकलशाखाध्ययनाभावेऽपि न दोष इत्यर्थः । तर्हि सकलशाखा- गतसजातीयोपासनाप्रकरणप्रतिपाद्यगुणमेलननिश्चयः कथमित्याशङ्कयाह-सववच्च तन्नियमः सववत् यज्ञाङ्गवत् तन्नियमः तेषां नानाशाखाप्रतिपाद्यानां सत्यसङ्कल्पा- दिगुणानां नियमः निश्चयः उपपद्यत इत्यर्थः । यथा कर्मानुष्ठातॄणां सकलशाखा- ध्ययनाभावेऽपि सकलशाखाध्येतृभिः महर्षिभिः कृतात् 'कल्पसूत्रादिग्रन्थात् नाना- शाखागतानाम् अग्निहोत्रादिकर्माङ्गानां मेलननिश्चयः, एव मुपासकानां सकलशाखा. ध्ययनाभावेऽपि सकलशाखाध्येतृभिः शङ्कराचार्यादिभिर्महात्मभिः कृतात् भाष्या- दिग्रन्थात् सकलशाखागतानां सत्यसङ्कल्पत्वादिगुणानां मेलननिश्चयः उपपन्न इति भावः ॥३॥ दर्शयति च ॥४॥ मन्वादिस्मृतिरपि स्वशाखाध्ययनमेव आवश्यकं दर्शयति प्रतिपादयति , न तु सकलशाखाध्ययनमित्यर्थः ॥४॥ उपसंहाराधिकरणम् ॥२॥ नानाशाखागतानां सजातीयोपासनानाम् ऐक्यप्रतिपादनफलमाह- उपसंहारोऽर्थाभेदादिधिशेषवत् समाने च ॥५॥ नानाशाखाप्रतिपाद्यसजातीयोपासनाप्रकरणप्रतिपाद्यानां सत्यसङ्कल्पत्वादिगु. णानां समाने नानाशाखाप्रतिपाद्यसजातीयोपासने उपसंहारः कर्तव्यः मेलनं क- तव्यमित्यर्थः । कुतः ? अर्थाभेदात् नानाशाखागतसकलगुणविशिष्टसजातीयोपा- सनायाः अर्थस्य ब्रह्मलोकप्राप्तिलक्षणस्य फलस्य अभेदात् एकत्वादित्यर्थः । तथा च ब्रह्मलोकप्राप्तिलक्षणैकफलस्य साधनीभूतानां नानाशाखाप्रतिपाद्यसजाती- योपासनासम्बन्धिनां सत्य सङ्कल्पत्वादिगुणानां मेलनरूपः उपसंहारः कर्तव्यः । वि- धिशेषवत् यथा विधिशेषाणामग्निहोत्रादिधर्माणां तदेवैकमग्निहोत्रादिकं कर्म सर्व- त्रेत्यर्थाभेदात् उपसंहारः , एवमन्यत्रापीति भावः । यद्यप्यस्मिन् सूत्रे गुणोपसं- हारकथनान्तरम् एकैकस्य पुरुषस्य नानाशाखाध्ययनासम्भवात् कथं नानाशाखा-

अद्वैतमञ्जरी ।
गुणोपसंहार इति शङ्का पश्चात् परिहर्तव्या, तथाप्युत्तरसूत्रे वक्ष्यमाणं गुणोपसंहारं
सिद्धवत्कृत्य सकलशाखाध्ययनाभावात् गुणोपसंहारो न सम्भवतीति शङ्का पूर्वमे-
व परिहतेति न कोऽपि दोष इति भावः ॥ ५ ॥
अन्यथात्वाधिकरणम् ॥३
'भेदान्नेति चेन्नैकस्यामपी' ति सूत्रे गुणभेदात् सजातीयोपासनानां भिन्न-
शाखागतानां भेद आशय निराकृतः । इदानीमुपासीतेति शब्दानां प्रति-
शाखं भिन्नत्वात् भिन्नशाखागतानां सनातीयोपासनानां भेदः अङ्गीकर्तव्य इत्या-
-
शङ्कय निराकरोति-
.
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥
शब्दात् उपासीतेति शब्दानां प्रतिशाखं भिन्नत्वात् अन्यथात्वं भिन्न-
शाखागतानां सजातीयोपासनानां भिन्नत्वमेवाङ्गीकर्तव्यम् । 'समिधो यजति तनूनपातं
यजती त्यादिषु पञ्चप्रयाजविधायकवाक्येषु यजतिशब्दानां भिन्नत्वेन यागभेदा-
ङ्गीकारादिति चेन्न । अविशेषात् शब्दभेदे विद्यमानेऽपि गुणाविशेषात् समिधो
यजतीत्यादिषु वाक्येष्वपि समिधो देवताभेदादेव यागभेदः, न तु यजतिशब्दानां
मिन्नत्वमात्रेण । तथा च सजातीयोपासनासु पूर्वोक्तरीत्या गुणमेदाभावात् भि.
नशाखागतानां सजातीयोपासनानां न भेद इत्यर्थः ॥ ६ ॥
तर्हि एकशाखागतानां भिन्नशाखागतानां च ब्रह्मलोकप्राप्तिरूपैकफलसा-
धनानां दहरशाण्डिल्योपकोसलवैश्वानरप्रभृतीनां विजातीयोपासनानामप्यैक्यमङ्गी-
क्रियतामित्याशङ्कयाह-
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥७॥
न वा विजातीयोपासनानां ऐक्यं नास्त्येव। कुतः ? 'अथ यदतः परो दिवो ज्यो-
तिर्दीप्यते अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते अथ यदिदमस्मिन् ब्रह्मपुरे
दहरं पुण्डरीकं वेश्म' इत्यादिश्रुतिषु प्रकरणभेदद्योतकैरथशब्दादिभिर्विजातीयोपा.
सनानाम् अन्योन्यनिरपेक्षतया प्रत्येकं ब्रह्मलोकप्राप्तिसाधनत्वबोधकत्वात् विनाती.
योपासनानाम् एकशाखागतानां भिन्नशाखागतानां च भेद एवाङ्गीकर्तव्य इत्यर्थः ।
तत्र दृष्टान्तमाह-परोवरीयस्त्वादिवत् यथा अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमवाज-
पेयादीनां पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कृष्टानामेकस्वर्गफलसाधनानामपि प्रकरणभेद-
द्योतकेन अथशब्दादिना अन्योन्यनिरपेक्षतया प्रत्येकं स्वर्गलोकप्राप्तिसाधनत्वबोधः
नात् भेदः अङ्गीक्रियते, एवमेकफलसाधनानामपि विजातीयोपासनानां भेद एवा-
ङ्गीकर्तव्य इति भावः ॥ ७॥

तृ०ये तृतीयः पादः] सूत्रवृत्तिः । - संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥८॥ संज्ञातः भिन्नभिन्नसंज्ञाबलात् तदुक्तम् अग्निहोत्रादिकर्मणां परस्परभिन्नत्व. मिति चेत् , तर्हि दहरशाण्डिल्यादिविजातीयोपासनानां तदपि भिन्नभिन्नसंज्ञकत्व- मपि अस्त्येव । तथा च नामभेदात् अग्निहोत्रादीनां विजातीयकर्मणां भेदस्याङ्गी. कारात् विजातीयोपासनानामपि नामभेदात् भेदः अङ्गीकर्तव्य इति भावः ॥ ८॥ व्याप्त्यधिकरणम् ॥४॥ अस्तु मिन्नशाखागतानां सजातीयोपासनानाम् ऐक्यं, तथापि नानाशाखागता- नां गुणानामुपसंहारो न कर्तव्यः । यथाशक्त्यङ्गानुष्ठानेन सन्ध्यावन्दनादिनित्यक- मर्मानुष्ठातॄणां ब्रह्मलोकप्राप्तिवत् उपासकानामपि स्वस्वशाखागतगुणविशिष्टब्रह्मोपास- नामात्रेण ब्रह्मलोकप्राप्तिसम्भवादित्याशङ्कयाह- व्याप्तेश्च समञ्जसम् ॥९॥ व्याप्तेः नानाशाखागतगुणमेलनात् उपासनं समञ्जसं ब्रह्मलोके अधिकभोगसम्पा- दकं भवति । स्वस्वशाखागतगुणविशिष्टब्रह्मोपासकानां तु स्वल्पभोग इति भावः ॥९॥ सर्वाभेदाधिकरणम् ॥५॥ 'उपसंहारोऽर्थाभेदादिति सूत्रे उपक्रान्तं गुणोपसंहारमुपसंहरति- सर्वाभेदादन्यत्मे ॥१०॥ सर्वाभेदात् सजातीयोपासनानां सर्वासु शाखासु अभिन्नत्वात् एकस्यां शा- खायां श्रूयमाणाः इमे गुणाः अन्यत्र शाखान्तरेऽप्युपसंहर्तव्या इत्यर्थः ॥१०॥ आनन्दाद्यधिकरणम् ॥६॥ एवं सगुणब्रह्मोपासनासु भिन्नशाखागतगुणोपसंहारमुक्त्वा निर्गुणविद्याया- मपि गुणोपसंहारमाह- आनन्दादयः प्रधानस्य ॥११॥ एकैकशाखायां श्रूयमाणानन्दत्वशुद्धत्वबुद्धत्वमुक्तत्वादयः ब्रह्मस्वरूपभूताः गुणाः सर्वासु शाखासु निर्गुणविद्यायामुपसंहर्तव्याः । कुतः ? प्रधानस्य ज्ञेयस्य निर्गुण- ब्रह्मणः सर्वास्वपि शाखासु एकत्वादित्यर्थः । अत्र सर्वशाखागतानां निर्गुणब्रह्मवि- द्यानां विजातीयत्वेन सजातीयनिर्गुणविद्यायाः प्रतक्त्यभावात् निर्गुणब्रह्मविद्यायां भेदाभेदचिन्ता न कृतेति द्रष्टव्यम् ॥११॥ 'तस्य प्रियमेव शिरः मोदो दक्षिणः पक्ष' इत्यादिश्रुतौ तैत्तिरीयशाखायां श्रुताः प्रियशिरस्त्वादयो गुणाः शाखान्तरस्थायां निर्गुणविद्ययाम् उपसंहर्तव्या वा, उत नोपसंहतव्या वा इति संशये सति निर्णयं करोति- - - अद्वैतमञ्जरी । " प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥१२॥ गुणवाहुल्यार्थं खलु गुणोपसंहारः कर्तव्यः । तथा च गुणानामुपचयः बा- हुल्यं, गुणानामपचयः अल्पत्वम्, एवंविधौ गुणोपचयापचयौ हि भेद उपास्ये सगुणे ब्रह्मण्येव सम्भवतः, न तु निर्गणे ब्रह्मणि। गुणानामेवासम्भवेन गुणबाहुल्यस्य सुतरा- मसम्भवादित्यर्थः । तथा चानन्दमयस्य परमात्मनः ज्ञानार्य स्थूलारुन्धतन्यिायेन आ- नन्दमयकोशधर्माः प्रियशिरस्त्वादयः प्रतिपादिताः, न तु ब्रह्मधर्मतया प्रतिपादिता इति भावः । न च निर्गुणे ब्रह्मणि आनन्दत्वादिगुणानामप्य भावात् पूर्वसूत्रे आन- न्दत्वादिगुणोपसंहारकथनमप्यसङ्गतमिति वाच्यम् । ब्रह्मस्वरूपभूतेषु आनन्दत्वा- दिषु गुणत्वस्य उपचरितत्वादिति भावः ॥ १२ ॥ ननु, ब्रह्मस्वरूपभूताः आनन्दत्वादिगुणा अपि सर्वासु शाखासु नोपसंहर्त- व्याः। एकैकशाखाप्रतिपादितब्रह्मस्वरूपज्ञानमात्रेणैव मोक्षसम्भवादित्याशङ्कयाह इतरे त्वर्थसामान्यात् ॥१३॥ इतरेऽपि प्रियशिरस्त्वादिगुणेभ्यो व्यक्तिरिक्ताः आनन्दत्वादयो गुणाः ब्र- मस्वरूपभूताः सर्वासु शाखासु उपसंहर्तव्याः । कुतः ? अर्थसामान्यात् अर्थस्य मोक्षरूपप्रयोजनस्य सामान्यात् सर्वास्वपि शाखामु ब्रह्मस्वरूपनिश्चयसत्त्वप्रतिपाद- नस्य तुल्यत्वादित्यर्थः । तथाचानन्दत्वशुद्धत्वबुद्धत्वादिविषयकसकलसंशयनिवृत्तिं विना ब्रह्मस्वरूपनिश्चयार्थम् आनन्दत्वादिगुणजातमुपसंहर्तव्यमिति भावः ॥१३॥ आध्यानाधिकरणम् ॥७॥ 'इन्द्रियेभ्यः परा ह्यर्थी अर्थम्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः । महतः परमव्यक्तं अव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः' इति श्रुतौ अर्थमनोबुद्धिजीवशरीराणामुत्तरोत्तरमुत्कृष्टत्वप्रति- पादनपूर्वकं पुरुषशब्दवाच्यस्य परमात्मनः सर्वोत्कृष्टत्वमुक्तम् । तत्तु अर्थादीनाम् उत्तरोत्तरमुत्कृष्टत्वे श्रुतेस्तात्पर्यमिति वा, न वेति संशये. सति निर्णयं करोति- आध्यानाय प्रयोजनाभावात् ॥१४॥ आध्यानाय सर्वोत्कृष्टपरमात्मनः निश्चयाय अर्थादीनामुत्तरोत्तरमुत्कृष्टत्व- मुच्यते, न तु तत्र तात्पर्यम् । कुतः ? प्रयोजनाभावात् अर्थादीनाम् उत्कृष्टत्वज्ञानेन फलाभावात्। तथा च मोक्षसाधनीभूतज्ञानविषयस्य परमात्मनः निश्चयार्थमेव स्थूला- रुन्धतीन्यायेन अर्थादीनामुल्लष्टत्वमुक्तं, न तु तत्र तात्पर्यमित्यर्थः ॥१४॥ आत्मशब्दाच ॥१५॥ 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशत' इत्युत्तरवाक्ये परमात्मनः दुर्विज्ञेयत्व- तृ० ये तृतीयः पादः] सूत्रवृत्तिः । प्रतिपादनादपि परमात्मन्येव 'इन्द्रियेभ्यः परा ह्यर्था' इति श्रुतेस्तात्पर्यमिति भावः। आत्मगृहीत्यधिकरणम् ॥८॥ 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमि'ति छान्दोग्यश्रुतौ सच्छब्देन सत्ताजातिः प्रतिपाद्यते,उत परमात्मा प्रतिपाद्यत इति संशये सति निर्णयं करोति- आत्मगृहीतिरितवदुत्तरात् ॥१६॥ इतरवत् यथा आत्मा वा इदमेक एवाग्र आसीदि' ति ऋग्वेदश्रुतौ आ- त्मशब्देन परमात्मा प्रतिपाद्यते , तथा 'सदेव सोम्येदमग्र आसीदि' ति छा- न्दोग्यश्रुतौ सच्छब्देन आत्मनः परमात्मनः गृहीतिः प्रतिपादनमङ्गीकर्तव्यम् । कुतः ? उत्तरात् - 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमि' ति उत्तरवाक्ये प्रलयसमये सर्वप्रपञ्चाभिन्नत्वस्य अद्वितीयत्वस्य प्रतिपादितत्वात् । न हि सत्ता- जातेः सर्वप्रपञ्चामिन्नत्वम् अद्वितीयत्वं वा सम्भवति । तस्याः प्रपञ्चं प्रति उपादान- कारणत्वाभावात् । तथा च प्रपञ्चोपादानकारणं ब्रह्मैव सच्छब्देन प्रतिपाद्यत इति भावः ॥ १६ ॥ सच्छन्दस्य सत्ताजातिप्रतिपादकत्वासम्भवेऽपि प्रधानप्रतिपादकत्वमस्त्वि- त्याशङ्कय निराकरोति- अन्वयादिति चेत् स्यादवधारणात् ॥१५॥ प्रधानस्यापि प्रपञ्च प्रति उपादानकारणत्वेन अन्वयात प्रपञ्चाभिन्नत्वाद्वि- तीयत्वयोः प्रधानेऽप्युपपन्नत्वात् सच्छब्देन प्रधानमेवोच्यत इति चेन्न । ब्र. दैव सच्छब्दप्रतिपाद्यं सत् । कुतः ? अवधारणात् 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इति श्रुतौ सच्छब्दवाच्यस्य परमात्मत्वप्रतिपाद. नपूर्वकं सकलजीवाभिन्नत्वप्रतिपादनेन सच्छब्दवाच्यस्य चेतनत्वनिश्चयादित्यर्थः । न हि जडस्य प्रधानस्य परमात्मत्वं जीवाभिन्नत्वं वा सम्भवतीति भावः ॥१७॥ कार्याख्यानाधिकरणम् ॥९॥ उपकोसलविद्याप्रकरणे विद्यमानं आहवनीयगार्हपत्यदक्षिणानिविषयकं उ- पासनात्रयं हिरण्यगर्भोपासनं चेत्युपासनचतुष्टयमपि चित्तशुद्विद्वारा सगुणब्रह्मो- पासनाङ्गं वा, स्वातन्त्र्येण फलान्तरसाधनं वा । एवं सर्वास्वपि उपनिषत्सु सगुण- ब्रह्मोपासनासन्निधौ विद्यमानानि ब्रह्मव्यतिरिक्तपदार्थविषयकाणि प्राणाद्युपास- नानि सगुणब्रह्मोपासनाङ्गानि , स्वातन्त्र्येण फलान्तरसाधनानि वा । एवं भूमवि. द्याप्रकरणे विद्यमानानि नामाद्युपासनानि भूमाख्यसगुणब्रह्मोपासनाङ्गानि वा, ?

अद्वैतमञ्जरी । स्वातन्त्र्येण फलान्तरसाधनानि वा । एवं वैश्वानरप्रकरणे विद्यमानानि वैश्वानर- स्यैकैकावयवविषयकोपासनानि वैश्वानरोपासनाङ्गानि वा, न वा । एवं तत्तदुपा. सनाप्रकरणेषु विद्यमानानि ब्रह्मव्यतिरिक्तपदार्थविषयकाणि उपासनानि तत्तत्स- गुणब्रह्मोपासनाङ्गानि वा, स्वातन्त्र्येण फलान्तरसाधनानि वा इति संशये सति तन्निर्णयं करोति- कार्याख्यानादपूर्वम् ॥१८॥ तत्तत्सगुणे ब्रह्मोपासनासन्निधौ विहितानि अग्नित्रयजीवमुख्यप्राणनामा- दिविषयकाणि उपासनानि प्रकरणबलात् तत्तत्सगुणब्रह्मोपासनाङ्गान्येव , न तु स्वातन्त्र्येण फलान्तरसाधनानि । तथा च कार्याख्यानात् कार्याणां कर्तव्यानां जीवमुख्यप्राणादिविषयकाणाम् अङ्गोपासनानाम् आख्यानादनुष्ठानादेव साङ्गात् स- गुणब्रह्मोपासनात् अपूर्वमदृष्टम् उत्पद्यते, न तु अङ्गोपासनारहितात् केवलसगुण- ब्रह्मोपासनादित्यर्थः । सगुणब्रह्मोपासनाङ्गत्वेन अनुष्ठितात् प्राणाद्युपासनात् क्षु. द्रफलमपि अर्थादुत्पद्यते । तथा चाङ्गोपासनासन्निधौ विद्यमानानां फलश्रुतीनां ब्रह्मलोकप्राप्तावेव महातात्पर्य, शुद्रफलेषु तु अवान्तरतात्पर्यमिति भावः ॥ १८ ॥ समानाधिकरणम् ॥ १० ॥ समान एवं चाभेदात् ॥१९॥ एवञ्चसति साङ्गस्यैव सगुणब्रह्मोपासनस्य अदृष्टजनकत्वे सति बृहदार- ण्यकशाखाविहिते समाने सजातीये उपकोसलनामके सगुणब्रह्मोपासने च्छान्दोग्य- शाखागतम् उपकोसलविद्याङ्गभूतम् उपासनाचतुष्टयं उपसंहर्तव्यम् । कुतः ? अ. भेदात् शाखाद्वयेऽपि उपकोसलविद्यायाः एकत्वादित्यर्थः ॥१९॥ सम्बन्धाधिकरणम् ॥ ११ ॥ उपकोसलविद्यायामुक्तन्यायं वैश्वानरादिविद्यास्वप्यतिदिशति- सम्बन्धादेवमन्यत्रापि ॥॥ अन्यत्र प्रतर्दनवैश्वानरभूमविद्यादिष्वपि एवं जीवमुख्यवैश्वानरावयवनामादि- विषयसाङ्गोपासनासहकृतात् सगुणब्रह्मोपासनात् अदृष्टोत्पत्तिः, न तु केवलसगुण- ब्रह्मोपासनात् । कुतः ? सम्बन्धात् अङ्गाङ्गिनोरविनाभावस्सम्बन्धः । अङ्गं विना अङ्गिमात्रस्य अदृष्टजनकत्वासम्भवादित्यर्थः । तथा च छान्दोग्यशाखायां श्रूयमाणा- नि अङ्गोपासनानि बृहदारण्यकशाखान्तर्गतासु सजातीयोपासनासु उपसंहर्तव्यानी. ति भावः ॥२०॥ - तृ ०ये तृतीयः पादः] सूत्रवृत्तिः । ८१ - - उपकोसलसन्निधौ विहितमुपासनाचतुष्टयं विजातीयेषु वैश्वानराग्रुपासनेषु नोपसंहर्तव्यमित्याह- न वा विशेषात् ॥२१॥ अग्नित्रयहिरण्यगर्भविषयम् उपासनाचतुष्टयं विजातीयेषु वैश्वानरायुपास- नेषु नोपसंहर्तव्यम् । कुतः? विशेषात् उपासनाचतुष्टयस्य प्रकरणबलेन उपको- सलोपासनाङ्गत्वेन भिन्नप्रकरणस्थवैश्वानराधुपासनाङ्गत्वाभावादित्यर्थः ॥२१॥ एवं जीवमुख्यप्राणवैश्वानरैकावयवाविषयकाणि अङ्गोपासनानि विजातीयोपा- सनेषु नोपसंहर्तव्यानी त्याह- दर्शयति च ॥२२॥ 'अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । अथ य एषोऽन्तर- क्षिणि पुरुषो दृश्यते । अथ यदतः परो दिवो ज्योतिर्दीप्यते । अथ यदिदम- स्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म' इत्यादिषु श्रुतिषु अथशब्द एव प्रकरण- भेदं सूचयति । तथा च तदुपासनाप्रकरणे विहितानि उपासनानि सन्निहितसगु- णब्रह्मोपासनामात्रं प्रत्यङ्गानि, न तु व्यवहितविजातीयोपासनाङ्गानीति भावः ।२२१ सम्भृत्यधिकरणम् ॥ १२॥ 'ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान ब्रह्मा भूतानां प्र- थमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं क' इत्यस्यां खिलसंहितायां वीर्यसम्भृतिधु- लोकव्यापकत्वसकलभूतकारणत्वादयो बहवो गुणाः प्रतिपादिताः । उपासीतेति विधिवाक्यं , फलं च न श्रुतं, एवंस्थितेसति खिलसंहिताप्रतिपादितानां सर्वेषां गुणानां दहरशाण्डिल्यादिषु सर्वेषु सगुणोपासनेषु उपसंहारः कर्तव्यो वा, उत- उपासीतेति विधिं ब्रह्मलोकप्राप्तिरूपं फलञ्चाध्याहृत्य खिलसंहिताप्रतिपादितसकलगु. णविशिष्टब्रह्मोपासनं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनमित्यङ्गीकर्तव्यं वा इति संश- ये सति निर्णयं करोति- सम्भृतिाव्याप्यपि चातः ॥२३॥ अत एव भिन्नप्रकरणस्थत्वात् व्यवहितत्वाच्च सम्भृतिधुव्याप्त्यादिगुणवि- शिष्टब्रह्मोपासनमपि स्वातन्त्र्येण. ब्रह्मलोकप्राप्तिसाधनम् । तथा च सम्भृतिाव्या- प्त्यादिगुणानां भिन्नप्रकरणस्थव्यवहितदहरवैश्वानराद्युपासनासु उपसंहारो न क- तव्य इत्यर्थः ॥२३॥ पुरुषविद्याधिकरणम् ॥१३॥ 'तस्यैवं विदुषो यज्ञस्मात्मा यजमानः श्रद्धा पत्नी' त्यादिश्रुतौ उपासकस्य क. - अद्वैतमञ्जरी । रचरणाद्यवयवेषु प्रसिद्धज्योतिष्टोमाङ्गदृष्टिरूपो मानसज्योतिष्टोमो विहितः । किं मानसज्योतिष्टोमस्य कर्मकाण्डज्योतिष्टोमाङ्गत्वम् , उत स्वातन्त्र्येण ब्रह्मलोकप्रा- प्तिसाधनत्वमिति संशये निर्णयं करोति- पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥ इतरेषामुपासकानां करचरणाद्यवयवेषु कल्पितानां समित्कुशपुरोडाशादी- नां मानसानामङ्गानां पुरुषविद्यायामिव मानसज्योतिष्टोम इव कर्मकाण्डस्थक्रियाम- ये ज्योतिष्टोमे अनाम्नानादविहितत्वादित्यर्थः । तथा च मानसज्योतिष्टोमक्रि- यामयज्योतिष्टोमयोः परस्परविलक्षणाङ्गविशिष्टत्वात् मनःकल्पिताङ्गविशिष्टस्य मानसज्योतिष्टोमस्य वास्तवाङ्गविशिष्टक्रियामयज्योतिष्टोमाङ्गत्वमनुपपन्नम् । किं तु स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनत्वमित्यर्थः ॥ २४ ॥ वेधाधिकरणम् ॥१४॥ हे आभिचारिकदेवते मच्छत्रोस्सर्वमङ्ग प्रविध्य विदारय, विशेषतश्च हृत्पुण्डरीकं प्रविध्य पीडय, धमनीः नाडीश्च प्रवृज्य पीडय, शिरश्च अभिप्रवृज्य छेदय, मच्छ- त्रुदेहस्त्रिधा भनो भवत्विति श्रुत्यर्थः । 'सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽमिप्रवृज्य त्रेधा त्रिपृक्त' इत्यादीनां उपनिषन्मध्यपठितानां शत्रुमरणो. देशेन आभिचारिकदेवताप्रार्थनपराणां मन्त्राणां सगुणब्रह्मोपास्नाङ्गत्वं वा, कर्मका- ण्डस्थश्येनयागाद्याभिचारिककाङ्गत्वं वेति सन्देहे सति निर्णय करोति- वेधाद्यर्थभेदात् ॥२५॥ वेधादीनां शत्रुपीडादीनाम् अर्थानां फलानां मेदात् सगुणब्रह्मोपासने अस- बन्धात् एतेषां मन्त्राणां सगुणब्रह्मोपासनाङ्गत्वं नास्तीत्यर्थः । सर्वं खल्विदं ब्रह्मे'. ति श्रुतौ शान्तस्यैव सगुणब्रह्मोपासनायामधिकारस्य प्रतिपादितत्वेन शत्रमरणका मस्य ब्रह्मविद्यायामधिकारासम्भवात् शत्रुमरणफलकस्य अस्य मन्त्रस्य सगुणब्रह्मो. पासनाङ्गत्वासम्भवात् कर्मकाण्डश्येनयागाङ्गत्वमङ्गीकर्तव्यमिति भावः ॥२५॥ हान्यधिकरणम् ॥१५॥ उपास्यसम्बन्धिगुणोपसंहारमुक्त्वा उपासकानाम् अवान्तरफलोपसंहारमप्याह- हानी तूपायनशब्दशेषत्वात्कुशाच्छन्द- स्स्तुत्युपगानवत्तदुक्तम् ॥२६॥ 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीर- मळतं कृतात्मा ब्रह्मलोकमभिसम्भवामी' ति सामशाखायां श्रुतौ सगुणब्रह्मोपासकानां तु० ये तृतीयः पादः ] सूत्रवृत्तिः । मरणानन्तरं सुकृतदुष्कृतत्यागमात्रमुक्तम् । 'सुकृतदुष्कृते विधूनुते तस्य पुत्रा दाय- मुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापळत्यामि' ति शाखान्तरीयश्रुतौ तु उपा: सकानां सुकृतदुष्कृतत्यागानन्तरम् उपासकमित्राणाम् उपासकद्वेषिणाञ्च सुकृतदु- प्कृतस्वीकार उक्तः । एवस्थितेसति हानौ सुकृतदुष्कृतत्यागरूपहानमात्रप्रतिपादक- श्रुतौ उपासकसुद्धदाम् उपासकद्वेषिणां च सुकृतदुष्कृतस्वीकाररूपम् उपायनम् उ- पसंहर्तव्यम् । कुतः ? उपायनशब्दशेषत्वात् 'तत् सुकृतदुष्कृते विधूनुत' इति श्रु- तौ हानप्रतिपादकस्य विधूननशब्दस्य उपायनप्रतिपादकशब्दसाहचर्यादित्यर्थः । तत्र दृष्टान्तमाह-कुशाच्छन्दस्स्तुत्युपगानवत्। यथा हि एकस्यां शाखायां सहपठि- तानां कर्माङ्गानां कुशाच्छन्दस्स्तुत्युपगानानां मध्ये अन्यस्यां शाखायाम् एकैकस्या- ङ्गस्य श्रवणे सति अन्येषामङ्गानामुपसंहारः, तद्वदित्यर्थः । तदुक्तम् एकैकाङ्गश्र- वणे सति अन्येषामङ्गानाम् उपसंहरणं पूर्वमीमांसायामुक्तमित्यर्थः ॥२६॥ साम्परायाधिकरणम् ॥ १६ ॥ उपासकानां सुकृतदुष्कृतक्षयस्य कालनिर्णयं करोति- साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥२७॥ साम्पराये ब्रह्मलोकप्राप्तिहेतुभूतदेवयानमार्गमध्ये विरजानद्यतिक्रमानन्तरम् उपासकानां सुकृतदुष्कृतक्षयो भवति । कुतः? तर्तव्याभावात् विरजानदीतरणा- नन्तरं तर्तव्यस्य नद्यन्तरस्याभावादित्यर्थः । विरजानदीतरणानन्तरं सुकृतदुष्कृत. क्षय इत्यत्र प्रमाणमाह-तथा ह्यन्ये । अन्ये शाखिनः ‘स आगच्छति विरजां नदी तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुत' इति श्रुतौ विरजानदीतरणानन्तरं सुक- तदुष्कृतक्षयं प्रतिपादयन्तीत्यर्थः ॥ २७ ॥ 'अश्व इव रोमाणि विधूय पाप'मिति श्रुतौ पापस्यैव क्षय उक्तः, न तु पु- ण्यस्येत्याशङ्कयाहः छन्दत उभयाविरोधात् ॥२८॥ छन्दतः इच्छातः विवक्षाबलादित्यर्थः । अजहलक्षणया पापशब्देन पुण्यम. पि प्रतिपाद्यते । कुतः ? उभयाविरोधात् पुण्यपापोभयविनाशप्रतिपादकश्रुत्यन्तर- विरोधपरिहारार्थमित्यर्थः ॥२८॥ गत्यर्थवत्त्वाधिकरणम् ॥ १७ ॥ पुण्यमात्रस्य क्षयानङ्गीकारे बाधकमप्याह- गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः॥२९॥ उभयथा उभयोः पुण्यपापयोः विनाशाङ्गीकारे सति गतेः चिरादिमार्गेण - - अद्वैतमञ्जरी । ? . - ब्रह्मलोकगमनस्य अर्थवत्त्वं सफलत्वं भवति । अन्यथा पुण्यस्य क्षयानङ्गीकारे ब्रह्मलोके कञ्चित्कालमुपासनाफलभोगानन्तरं पुण्यपापफलभोगार्थ स्वर्गलोकं प्रति पुनरावृत्तेरवश्यमङ्गीकर्तव्यत्वात् विरोधस्स्यात् एतेन प्रतिपद्यमानाः इमं मा- नवमावत नावर्तन्त' इति श्रुतेरप्रामाण्यं स्यादित्यर्थः ।। २९॥ पुण्यस्यापि क्षयाङ्गीकारे ब्रह्मलोकं गतानामुपासकानां भोगो न स्यादित्या- शङ्कयाह- उपपन्नस्तल्लक्षणार्थोपलब्धौंकवत् ॥३०॥ ब्रह्मलोकं गतानां भोग उपपन्नः । कुतः ? तल्लक्षणार्थोपलब्धेः तल्लक्षणानां तजन्यानां सगुणब्रह्मोपासनाजन्यानामर्थानां भोगानामुपलब्धेः अतिषु प्रतिपादित- त्वादित्यर्थः । लोकवत् लोकेऽपि देवतोपास्ति कुर्वतां पुरुषाणाम् ऐश्वर्यादिप्राप्तिई. श्यते । तद्वत् ब्रह्मलोकगतानां सगुणब्रह्मोपासकानां भोगप्राप्तिरुपपद्यत इत्यर्थः ।३ । अनियमाधिकरणम् ॥ १८॥ सगुणब्रह्मोपासकानां मध्ये केषांचित् ब्रह्मलोकप्राप्तिरस्ति , केषांचित् नास्तीत्येवंविधः नियमः अङ्गीक्रियते , उत सर्वेषामपि सगुणब्रह्मोपासकानां ब्रह्म- लोकप्राप्तिरित्येवंविधः अनियमोऽङ्गीक्रियते वा इति संशये सति निर्णय करोति- अनियमस्सर्वेषामविरोधः शब्दानुमानाभ्याम् ॥३१॥ सर्वेषामहंग्रहोपासकानां ब्रह्मलोकप्राप्तौ अनियमः । अहंग्रहोपासका. नां मध्ये केषांचित् ब्रह्मलोकप्राप्तिः, केषांचित् नास्तीत्येवंविधस्य नियमस्यामाव एव अविरोधः विरोधरहितः प्रामाणिक इत्यर्थः । कुतः ? शब्दानुमानाभ्यां बहु- श्रुतिस्मृतिभ्यां दहरशाण्डिल्योपकोसलवैश्वानराद्यहंग्रहोपासनापराणां सर्वेषामपि ब्रह्मलोकप्राप्तेः प्रतिपादितत्वादित्यर्थः ॥ ३१॥ आधिकारिकाधिकरणम् ॥१९॥ आदित्यचन्द्रनक्षत्रादीनां ग्रहाणां वरुणकुबेरेन्द्रप्रभृतीनामष्टदिक्पालकानां च वर्तमानदेहपातानन्तरं मुक्तिर्वा, उत देहान्तरप्राप्तिरस्ति वा इति संशये सति निर्णय करोति- यावदधिकारमवास्थितिराधिकारिकाणाम् ॥३२॥ आधिकारिकाणां परब्रह्मणा आमहाप्रलयमधिकारं कुर्वतां पूर्वस्मिन् जन्म. नि सगुणब्रह्मोपासकानामस्मिन् जन्मनि निर्गुणब्रह्मसाक्षात्कारवतां जीवन्मुक्तानां सूर्यचन्द्रनक्षत्रादीनां यावदधिकारमधिकारसमाप्तिपर्यन्तमेव अवस्थितिः देहधा- रणं, स्वस्खाधिकारपरिसमाप्त्यनन्तरं लिङ्गशरीरनाशपूर्वकं ब्रह्मण्येकरूपभावं वि- - तृव्ये तृतीयः पादः] मूत्रवृत्तिः । देहकैवल्यमेव , न तु देहान्तरप्राप्तिरित्यर्थः ॥ ३२ ॥ अक्षरध्यधिकरणम् ॥२०॥ प्रसङ्गादाधिकारिकपुरुषाणां वर्तमानदेहपतनानन्तरं विदेहकैवल्यं प्रसाध्ये. दानी प्रस्तुतामेव चिन्तां करोति- अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौ- पसदवत्तदुक्तम् ॥३३॥ 'अनियमः सर्वेषामिति सूत्रे सगुणब्रह्मोपासकानां सर्वेषामपि ब्रह्मलोक प्रा- प्तिरित्युक्तम् । अक्षरधियां निर्गुणब्रह्मसाक्षात्कारवतां तु अवरोधः परलोकगमनप्र- तिबन्धः । परलोकगमनाभाव एवाङ्गीकर्तव्यः । कुतः ? सामान्यतद्भावाभ्यां नि- गुणब्रह्मसाक्षात्कारवतां सर्वेषामपि लिङ्गशरीरनाशस्य समानत्वात् तद्भावात् ब- ह्मण्येकीभावाच्चेत्यर्थः । औपसदवत् यथा चौपसदानां यज्ञादिकर्तृणां सर्वेषां स्वर्ग- लोकप्राप्तिः तद्वत् , निर्गुणब्रह्मसाक्षात्कारवतां सर्वेषामपि लिङ्गशरीरनाशस्य व्या- पकब्रह्मण्येकीभावस्य च तुल्यत्वात् परलोकगमनमनुपपन्नमित्यर्थः । तत्र प्रमाण- माह-तदुक्तं ' न तस्य प्राणा उत्क्रामन्ति अत्रैव समवलीयन्ते ब्रह्म वेद ब्रह्मैव भवती 'त्यादिषु श्रुतिषु निर्गुणब्रह्मसाक्षात्कारवतां लिङ्गशरीरनाशपूर्वकं ब्रह्मैक्यं प्रतिपादितामित्यर्थः ॥३३॥ इयदामननाधिकरणम् ॥२१॥ 'द्वा सुपर्णा सयुजा सखाये'ति श्रुतौ सुपर्णशब्देन पक्षिणौ उच्यते वा, उत जीवपरमात्मनौ उच्यते वा इति संशये सति निर्णयं करोति- इयदामननात् ॥६४॥ सुपर्णशब्देन जीवपरमात्मानौ उच्यते । कुतः ? इयदामननात् । इय- त्तायाः द्वित्वसङ्ख्यायाः आमननात् कथितत्त्वादित्यर्थः । प्रायेण उपनिषत्सु जी. वब्रह्मणोरेव द्वित्वसङ्ख्या निर्देशात् 'तयोरन्यः पिप्पलं स्वाद्वत्ती 'ति वाक्यशेषे भो. क्तृत्वामोक्तृत्वरूपविरुद्धधर्मनिर्देशाच्च सुपर्णशब्देन लक्षणया जीवपरमात्मानौ प्रतिपाद्यते इति भावः ॥ ३४ ॥ अन्तराधिकरणम् ॥ २२ ॥ बृहदारण्यके 'यत्साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरम्तन्मे व्याचक्ष्व' इति उ- पस्तिना प्रश्नः कृतः । तदनन्तरं 'यत्साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरस्तन्मे याचक्ष्व' इति कहोलकेन प्रश्नः कृतः । तत्र वाक्यद्वयेऽपि ब्रह्मशब्दात्मशब्दा. - अद्वैतमञ्जरी । - ? भ्यां जीवभिन्नपरमात्मा प्रतिपाद्यते उत जीवामिन्नः परमात्मा प्रतिपाद्यते इति संशये सति निर्णयं करोति- अन्तरा भूतग्रामवत् खात्मनः ॥३५॥ स्वात्मनः स्वाभिन्नस्य सकलजीवाभिन्नस्य परमात्मनः अन्तरा सकलभूता. नां हृदयमध्ये अवस्थितत्वमुच्यते, न तु जीवभिन्नस्य परमात्मनः । कुतः ? भूतग्रामवत् भूतग्रामवत्त्वादित्यर्थः । 'एको देवसर्वभूतेषु गूढः' इति श्रुतौ सकलजीवामिन्नस्य परमा त्मनः सकलभूतहृदयान्तर्वतित्वप्रतिपादनात् तदनुसारेण यत् साक्षादपरोक्षात् ब्रह्मेति प्रश्नद्वयेऽपि जीवाभिन्नस्यैव परमात्मनस्सकलभूतहृदयान्तर्वतित्वमुच्यत इत्यर्थः ॥३१ ननु ब्रह्मसाक्षात्कारवतामुषस्तिकहोलकादीनामृषीणां लोकोपकारार्थं खलु प्रश्नः । तथा च एकेनैव प्रश्नेन लोकोपकारस्य सिद्धत्वात् प्रश्नद्वयं व्यर्थमिति प्रासङ्गि- किं शङ्कामाशङ्कय निराकरोति- अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तखत् ॥३६॥ अन्यथा प्रष्टव्यभेदं विना भेदानुपपत्तिः प्रश्नमेदानुपपत्तिः लोके दृष्टा । तथा च प्रकतेऽपि प्रष्टव्यस्य जीवब्रह्माभेदस्य प्रश्नद्वयेऽपि एकत्वात् प्रश्नद्वयं व्यर्थमिति चेत् , उपदेशान्तरवदुपपत्तेः । यथा श्वेतकेतुना 'भूय एव मा भगवान् विज्ञापयत्वि'ति नववारं प्रश्ने कृते उद्दालकेन तत्त्वमसीति नववारमुत्तरं दत्तम् , एवमत्रापि उपस्तिकहोलकाभ्यां प्रश्नद्वये कृत साकल्येन उत्तरद्वयं दत्तमिति न विरोधः । जीवब्रह्माभेदस्य अत्यन्तं दुर्विज्ञेयत्वेन बुद्धिशोधनार्थं बहुप्रश्नानां बहुवचनानां च सफलत्वादिति भावः ॥ ३६ ।। व्यतिहाराधिकरणम् ॥ २३ ॥ अहमहोपासकानां सत्यसङ्कल्पादिगुणविशिष्टं ब्रह्मास्मीत्येवंरूपेण जीवस्य ब्रह्मामेदमात्रं ध्यातव्यं वा, उत अहं ब्रह्मास्मि ब्रह्माहमस्मीत्येवंरूपेण सगुणब्रह्मजी- क्योः परस्पराभेदो ध्यातव्यो ना इति संशये सति निर्णयं करोति- व्यतिहारो विशिंषन्ति हीतरवत् ॥३७॥ सगुणब्रह्मजीवयोः व्यतिहारः परस्पराभेद एव ध्यातव्यः । कुतः ? विशिषन्ति 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसी' त्यादिश्रुतयः परस्परमभेदं ध्यातव्यं विशिषन्ति प्रतिपादयन्ति खलु । तत्र दृष्टान्तमाह-इतरवत् त्वं ब्रह्मासि अहं ब्र. मास्मीत्यादिवाक्यवदित्यर्थः । यथा त्वं ब्रह्मासि 'अहंब्रह्मास्मी' तिवाक्यं निर्गुणब्रह्म जीवयोः परस्परामेदं ध्यातव्यं प्रतिपादयति , एवं 'वं वा अहमस्मी' त्यादिवाक्यं स. गुणब्रह्मनीवयोः परस्पराभेदमेव ध्यातव्यं प्रतिपादयतीत्यर्थः ॥३७॥ - तृ०ये तृतीयः पादः] सूत्रवृत्तिः । : . सत्यायधिकरणम् ॥ २४ ॥ 'उपसंहारोऽर्थीभेदादिति सूत्रे सामान्यतः सजातीयोपासनानां भिन्नशाखाग- तानां गुणानामुपसंहार उक्तः । इदानीं तु तमेव गुणोपसंहारं सूत्रद्वयेन उपासना- द्वये विशिष्य प्रतिपादयति- सैव हि सत्यादयः ॥३८॥ छान्दोग्यशाखायां बृहदारण्यकशाखायां च विहिता शाण्डिल्यविद्या सैव एकैव । तथा च सत्यादयः सत्यसङ्कल्पत्वादयः गुणाः एकैकस्यां शाखायां श्रूयमा. णाः शाखाद्वयेऽप्युपसंहर्तव्या इत्यर्थः ॥३८॥ कामाद्यधिकरणम् ॥२५॥ कामादीतरत्र तत्र चायतनादिभ्यः॥३९॥ इतरत्र छान्दोग्यशाखायां तत्र च बृहदारण्यकशाखायां च श्रूयमाणा दहर- विद्यापि एकैव । कुतः? आयतनादिभ्यः उपास्यस्य दहराकाशस्य हृत्पुण्डरीकस्था- नसत्यसङ्कल्पादिलिङ्गानां शाखाद्वयेऽपि तुल्यत्वादित्यर्थः । तथा च कामादि एकै. कस्यां शाखायां श्रूयमाणं सत्यकामत्वादिगुणजातं शाखाद्वयेऽप्युपसंहर्तव्यमित्यर्थः। अलोपाधिकरणम् ॥ २६ ॥ 'हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन' इति श्रुतौ वैश्वानरोपासकानां प्राणा- ग्निहोत्रं एकादशीप्रभृतिषु उपवासदिनेष्वपि कर्तव्यं वा, उत भोजनदिनेष्वेव कर्तव्यं वा इति संशये सति निर्णय कर्तुं प्रथमं पूर्वपक्षमाह- आदरादलोपः॥४०॥ वैश्वानरोपासकानां प्राणाग्निहोत्रं एकादशीप्रभृतिषु दिनेषु अलोपः अनुष्ठानलोपो न कर्तव्यः । कुतः? आदरात् आदरार्थं वैश्वानरोपासनायाः साङ्गत्व- सिद्ध्यर्थमित्यर्थः । तथा च एकादश्यादिदिनेष्वपि किश्चिदन्नं पक्त्वा वैश्वानरोपास- केन पञ्चप्राणाहुतिमात्रं कर्तव्यमित्यर्थः ॥ ४० ॥ सिद्धान्तः- उपस्थितेऽतस्तद्वचनात् ॥४१॥ उपस्थिते भोजने प्रसक्ते सति अतः भोजनार्थ पक्वादन्नात् तत् प्राणाग्नि- होत्रं कर्तव्यम् । कुतः ? वचनात् 'तद्यद्भक्तं प्रथममागच्छेत्तहोमीय मिति भोजनार्थ पक्वस्यैवान्नस्य प्राणाग्निहोत्रसाधनत्वप्रतिपादनादित्यर्थः । तथा च उपवासदिनेषु प्राणाग्निहोत्रार्थ पाको न कर्तव्य इति भावः । न च वैश्वानरोपासकानाम् अन्येषां च विशेषो न स्यादिति वाच्यम्। हृदयादिषु गार्हपत्यादिदृष्टेरेव विशेषत्वादिति भावः।४ १॥ - ? ? MAN अद्वैतमञ्जरी । ? . तन्निर्धारणानियमाधिकरणम् ॥ २७ ।। प्रसङ्गात् प्राणाग्निहोत्रं विचार्य इदानीमङ्गावबद्धोपासनानामाज्यसमित्पुरोडा- शादीनामिव कर्माङ्गत्वम्, उत स्वातन्त्र्येण फलान्तरसाधनत्वमिति संशये सति निर्णयं करोति- तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्यप्रतिवन्धः फलम् ॥४२॥ तेषु कर्माङ्गेष उद्गीथाहवनीययूपादिषु यानि निर्धारणानि ब्रह्मदृष्टित्वादि. रूपाणि अङ्गावबद्धोपासनाज्ञानानि, तेषामनियमः कर्मानुष्ठानकाले अनुष्ठाननियमा. भावः । अङ्गत्वाद्यभाव एवाङ्गीकर्तव्यः । कुतः ? तदृष्टेः तेषामङ्गावबद्धोपासनाज्ञा- नरहितानामपि ऋत्विजां कर्मानुष्ठानदर्शनादित्यर्थः । अङ्गावबद्धोपासनानां कर्माङ्ग- त्वाभावे स्वातन्त्र्येण फलान्तरसाधनत्वं वक्तव्यम् । किं तत् फलमित्याकाङ्क्षायामा. ह-पृथग्व्यप्रतिबन्धः फलं पृथक् कर्मफलात् स्वर्गाद्भिन्नः अप्रतिबन्धः स्वर्गादिफल- प्रतिबन्धकपापनिवृत्तिरेव अङ्गावबद्धोपासनानां फलमङ्गीक्रियत इत्यर्थः । न चात्र प्रमाणामावः । 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती'. ति श्रुतौ अङ्गावबद्दोपासनादिविशिष्टस्य कर्मणः वीर्यवत्तरत्वप्रतिपादनात् । अङ्गाव- बदोपासनाविशिष्टस्य कर्मणः वीर्यवत्तरत्वं नाम प्रतिबन्धकपापानां नष्टत्वादव्यवहि- तमविष्यजन्मन्येव स्वर्गप्राप्तिसम्पादकत्वम् । अङ्गावबद्धोपासनारहितस्य तु कर्मणः फलप्रतिबन्धकभूतानां प्रबलपापानां विद्यमानत्वात् प्रबलपापानां भोगेन क्षयानन्तरं द्वित्रजन्मावसाने स्वर्गप्राप्तिसम्पादकत्वमिति विलम्बेन स्वर्गप्राप्तिहेतुत्वादवी- यवत्तरत्वमिति भावः ॥४२॥ प्रदानाधिकरणम् ॥२८॥ यस्य स्वादिफलप्राप्तिप्रतिबन्धकपापमेव नास्ति, तस्य पुरुषस्य अङ्गाव- बद्धोपासनं व्यर्थ स्यादित्याशङ्कयाह- प्रदानवदेवं तदुक्तम् ॥ ४३॥ प्रकृष्टं दानं यस्य तत् प्रदानम् । यथा यथोक्तदक्षिणापेक्षया अधिकद- क्षिणाविशिष्टस्य कर्मणः बहुकालं स्वर्गलोकभोगसम्पादकत्वम्, एवम् अङ्गावबद्धो. पासनासहितस्य पूर्वमेव फलप्रतिबन्धकपापरहितस्य कर्मणः बहुकालं वर्गभोग- फलसाधनत्वं युक्त्या निश्चीयत इत्यर्थः । तदुक्तम् अधिकदक्षिणाविशिष्टस्य यागस्य बहुकालं स्वर्गलोकसम्पादकत्वं पूर्वमीमांसायामुक्तमित्यर्थः । कालस्य बहुत्वं नाम कालापेक्षया द्विगुणत्वमिति भावः ॥ ४३ ॥ - तृ० ये तृतीयः पादः] सूत्रवृत्तिः । ८९ -- लिङ्गभूयस्त्वाधिकरणम् ॥ २९॥ 'षट्त्रिंशत्सहस्राण्यात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितान्वेद' इत्याद्यग्निचयन- प्रकरणस्थायां श्रुतावुपासकस्य शतसंवत्सरपरिमितायुषः संवत्सरावयवभूतेषु षट्ति- शत्सहस्त्रपरिमितेषु दिनेषु मध्ये एकैकस्मिन् दिने उत्पद्यमानासु मनोवृत्तिरूपासु इष्टकासु एकैकाग्निचयनदृष्टौ मरणपर्यन्तं कृतायां सत्या उपासकस्य ब्रह्मलोकप्रा. प्तिर्भवतीत्युक्तम् । तत्र इदं मानसाग्निचयनं कर्मकाण्डविहितस्य इष्टकामयस्याग्नि- चयनस्य अङ्गं वा, उत स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनं वा इति संशये सति निर्णयं करोति- लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥ इदं मानसाग्निचयनं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनमेव । कुतः ? लि- ङ्गभूयस्त्वात् ब्रह्मलोकप्राप्तिफलकत्वेन मरणपर्यन्तानुष्ठेयत्वादिरूपाणां लिङ्गानां बहूनां विद्यमानत्वात् । तल्लिङ्गं बलीयः प्रकरणापेक्षया बलवत्तरं खलु । तदपि बलवत्तरत्वमपि पूर्वमीमांसायामेव प्रतिपादितमित्यर्थः । षट्त्रिंशत्सहस्राण्यात्मनो- ऽग्नीनन्मिनोमयान् मनश्चितान्वेदे' त्यादिश्रुतेरयमर्थः----मनुष्याणां शतसंवत्सरपरि- मितमायुः । तत्र एकैकसंवत्सरस्य षष्टयुत्तरशतत्रयपरिमितानि दिनानि । एवंप्र. कारेण संवत्सरशतस्यापि षट्त्रिंशत्सहस्त्रदिनानि भवन्ति । तथा च षट्त्रिंशत्सह- स्त्रदिनानां मध्ये एकैकस्मिन् दिने अहोरात्राभ्यामुत्पद्यमानासु मनोवृत्तिषु एकै. काग्निचयनदृष्टिः कर्तव्या । तथा च षट्त्रिंशत्सहस्त्रसङ्ख्याविशिष्टानात्मनः स्वस्य मनश्चितान् मनोवृत्तिभिः सम्पादितान् अर्कान् सूर्यसदृशान् सूर्यवत् शीघ्रफलप्र- दान् मनोमयान् मानसान् अग्नीन् अग्निचयनप्रकारान् यः वेद मरणपर्यन्तं उ. पासीत, स ब्रह्मलोकं प्राप्नोतीत्यर्थः ॥ ४४ ।। पूर्वपक्षसूत्रम्- पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत् ॥४५॥ मानसाग्निचयनस्य पूर्वविकल्पः पूर्वस्मिन् कर्मकाण्डविहिते इष्टकामया. निचयने विकल्पः अनुष्ठाननियमोऽङ्गीकर्तव्यः । इष्टकामयाग्निचयनाङ्गत्वमङ्गी- कर्तव्यमित्यर्थः । कुतः ? प्रकरणात मानसाग्निचयनस्य इष्टकामयाग्निचयनप्रकरण- पठिनत्वादित्यर्थः । तत्र दृष्टान्तमाह-क्रियामानसवत् द्वादशाहरूपक्रियाङ्गभूत- मानससोमग्रहवदित्यर्थः । द्वादशाहप्रकरणस्थया 'अनया त्वा पात्रेण समुद्रं रसया सोमं संगृह्णाभी' तिश्रुत्या विहितस्य मानससोमग्रहस्य प्रकरणबलात् यथा द्वादशा- गत्वमङ्गीकृतम्, एवं मानसाग्निचयनस्य प्रकरणबलादग्निचयनाङ्गत्वमङ्गीकर्तव्यमि- १२ ९० अद्वैतमञ्जरी । - त्यर्थः । तथा च अङ्गाङ्गिनोरेकफलत्वात् अङ्गिनः अग्निचयनस्य यत् फलं स्वर्ग- लोकप्राप्तिरूपं, तदेवाङ्गस्य मानसाग्निचयनस्यापि फलमित्यङ्गीकर्तव्यम् । न तु स्वातन्येण ब्रह्मलोकप्राप्तिरिति भावः ॥४९॥ अतिदेशाच ॥४६॥ अग्निचयनमिति नाम्नः उभयत्रापि तुल्यत्वेन अतिदेशात् नामसाम्यादपि मानसाग्निचयनस्य इष्टकामयाग्निचयनाङ्गत्वमङ्गीकर्तव्यमित्यर्थः ॥ ४६॥ सूत्रद्वयेन पूर्वपक्षमुक्त्वा सिद्धान्तमाह- विद्यैव तु निर्धारणात् ॥ ४७ ॥ मानसाग्निचयनं क्यैिव ब्रह्मलोकप्राप्तिहेतुभूता स्वतन्त्रोपासनैव । कुतः ? निर्धारणात् 'विद्यया हैवं विपश्चितो भवन्ती' ति श्रुतौ विद्याशब्देन स्वतन्त्रो- पासनात्वनिश्चयादित्यर्थः ॥ ४ ॥ दर्शनाच ॥४८॥ इष्टकामयाग्निचयनानुष्ठानमकुर्वतोऽपि ब्रह्मलोकप्राप्त्युद्देशेन मानसाग्निच- यनानुष्ठानदर्शनादपि मानसाग्निचयनस्य न प्रसिद्धाग्निचयनाङ्गत्वम् । किं तु वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनत्वमित्यर्थः ॥ ४ ॥ यच्चोक्तं प्रकरणबलात् मानसाग्निचयनस्य इष्टकाग्निचयनाङ्गत्वमिति , त- स्य परिहारमाह- श्रुत्यादिबलीयस्त्वाच न बाधः॥४९॥ श्रुतिलिङ्गवाक्यानां प्रकरणापेक्षया बलीयस्त्वात् अधिकबलवत्त्वात् प्रक- रणेन श्रुतिलिङ्गयो धो नास्ति । किं तु श्रुतिलिङ्गाभ्योमेव प्रकरणस्य बाध इत्यर्थः ॥ ४९॥ अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ॥५०॥ इष्टकाग्निचयनाङ्गसदृशानां मानसानां समित्कुशपुरोडाशाज्यप्रभृतीनां अ. नुबन्धानामङ्गानामुपदेशादिभ्यः हेतुभ्यः मानसाग्निचयनाख्यः कर्मविशेषो दृष्टः स्वातन्त्र्येण ब्रह्मलोकप्राप्तिलक्षणफलसाधनतया निश्चितः । साङ्गस्य मानसस्य कर्म. णः स्वातन्त्र्येण फलसाधनत्वे दृष्टान्तमाह-प्रज्ञान्तरपृथक्त्ववत् प्रज्ञान्तरस्य 'त- स्यैवं विदुषो यज्ञस्यात्मा यजमानश्श्रद्धा पत्नी' त्यादिश्रुतिप्रतिपादितस्य साङ्गस्य मा. नसज्योतिष्टोमस्य यथा पृथक्त्वं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिासाधनत्वं,तद्वन्मानसस्या- ग्निचयनस्यापि वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनत्वमुपपन्नमित्यर्थः । तदुक्तं तत् मान- .

तृ ये तृतीयः पादः] सूत्रवृत्तिः । - .. सज्योतिष्टोमस्य स्वातन्त्र्येण फल साधनत्वं 'पुरुषविद्यायामिव चेतरेषामनाम्ना. नादि' तिसूत्रे उक्तं प्रतिपादितमित्यर्थः ॥ ५० ॥ यच्चोक्तमिष्टकाग्निचयनमानसाग्निचयनयाग्निचय नमिति नामसाम्यादुभयोः सादृश्यं प्रतीयते । तच्च सादृश्यमुभयोरङ्गाङ्गिभावेन मिलित्वा एकस्वर्गजनकत्वरूप- मेव वक्तव्यम् । अन्यस्य सादृश्यस्य प्रकतेऽसम्भवादिति, तस्य परिहारमाह न सामान्यादप्युपलब्धZलुवन्न हि लोकापत्तिः॥५१॥ सामान्यात् नामसाम्यादपि इष्टकाग्निचयनमानसाग्निचयनयोः सादृश्यं नाङ्गी- कर्तव्यम् । कुतः ? उपलब्धेः सादृश्यं विनापि नामसामान्यस्य लोके उपलभ्यमान- त्वात् । तत्र दृष्टान्तमाह--मृत्युवत् यथा मृत्युसादृश्यं विनापि कस्यचित् पुरुषस्य मृत्युरयमिति नामसादृश्यं दृश्यते, तथा कृष्णोऽयं रामोऽयमित्यादिकमपि द्रष्टव्यम् । लौकिकदृष्टान्तमुक्त्वा वैदिकदृष्टान्तमप्याह-न हि लोकापत्तिः लोकस्य स्वर्गलो- कस्यापत्तिः अग्निसादृश्यप्राप्तिर्नास्ति खलु । 'असौ वाव लोको गौतमाग्नि'रिति श्रुतौ स्वर्गलोकस्य अग्निरिति नामधेयं श्रुत्या प्रतिपादितम् । तत्र यथा अग्निस्वर्ग- लोकयोः सादृश्याभावेऽपि नामसाम्यं श्रुत्या प्रतिपादितम्, एवम् इष्टकाग्निचयनमा- नसाग्निचयनयोः सादृश्याभावेऽपि नामसाम्यमुपपद्यत इत्यर्थः । वस्तुतस्तु इष्टका- ग्निचयनमानसाग्निचयनयोरङ्गाङ्गिभावेन एकफलसाधनत्वरूपसादृश्याभावेऽपि स- मानाङ्गवत्त्वरूपसादृश्यमादायापि नामसाम्यमुपपन्नमिति द्रष्टव्यम् ॥५१॥ ननु यदि मानसाग्निचयनं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनं स्वतन्त्रोपासनं, तर्हि मानसाग्निचयनं मानसज्योतिष्टोमवत् उपनिषत्स्वेव पठितव्यम् । तथा च कर्मकाण्डस्थेष्टकाग्निचयनसन्निधौ पठितत्वमसङ्गतमित्याशङ्कायामाह- परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२॥ इष्टकाग्निचयनमानसाग्निचयनयोरुभयोरपि शब्दस्य नाम्ना ताद्विध्यं सा- म्यमस्ति । तथा च उभयोः नामसामान्यात् भूयस्त्वात् परस्परसदृशाङ्गबाहुल्या- च्च मानसाग्निचयनस्य परेण कर्मकाण्डस्थेन इष्ट कामयेनाग्निचयनेनानुबन्धः इष्ट- काग्निचयनसन्निधौ पठितत्वमुपपन्नमित्यर्थः ॥५२॥ शरीरेभावाधिकरणम् ॥ एवमुपासनास्वरूपं विचार्य प्रसङ्गात् सगुणोपासनासु कतारं देहादिव्यतिरि क्तजीवात्मानम् इदानीं विचारायितुं प्रथमं पूर्वपक्षमाह- एक आत्मनश्शरीरे भावात् ॥५३॥ एके लोकायतिकादयः आत्मनः जीवस्य शरीरे अन्तर्भावं वदन्ति । जीवस्य - ९२ अद्वैतमञ्जरी । शरीरामिन्नत्वं वदन्तीत्यर्थः । कुतः ? भावात् शरीरधर्माणां स्थूलत्वकृशत्वादीनां जीवात्मनि प्रतीतेरित्यर्थः ॥ ५३॥ सिद्धान्तः- व्यतिरेकस्तद्धावाभावित्वान्न तूपलब्धिवत् ॥५४॥ उपलब्धिवत् उपलब्धेः आत्मनश्च यथा परस्परमभेदः, एवं शरीरात्मनोरभे- दः न तु नास्त्येव, किं तु व्यतिरेकः भेद एवाङ्गीकर्तव्यः । कुतः ? तद्भावाभावित्वा- त् तस्य शरीरस्य मरणानन्तरम् इह लोके भावेऽपि जीवस्य अभावित्वात् भवि- द्यमानत्वात् स्वर्गलोकनरकलोकादिपरलोकगमनादित्यर्थः । न च मरणानन्तरं जीवस्य स्वर्गलोकगमने प्रमाणं नास्तीति वाच्यम् । श्रुतिस्मृतीतिहासपुराणाना- मेव प्रमाणत्वादिति भावः ॥ १४ ॥ अङ्गाववहाधिकरणम् । एवं प्रासङ्गिकी चिन्तां सुत्रद्वयेन परिसमाप्य प्रस्तुतामेव चिन्तां करोति- अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥ नानाशाखासु विहिता अङ्गावबद्धोपासनाः प्रतिवेदं प्रतिशाखं व्यवस्थि- ताः न भवन्ति । स्वशाखाविहितासु उपासनासु स्वेषामेवाधिकार इति नियमो नास्ति । किं तु सर्वशाखाविहितासु अङ्गावरोपासनासु सर्वेषामपि शाखिनाम- धिकारोऽस्तीत्यर्थः । इदमुपलक्षणम् । अहङ्ग्रहोपासनासु प्रतीकोपासनासु च सर्वशा- खाविहितासु सर्वेषामपि शाखिनामधिकारोऽस्तीति द्रष्टव्यम् ॥ १६ ॥ तत्र दृष्टान्तमाह- मन्त्रादिवद्धाविरोधः॥५६॥ यथा शाखान्तरविहितेषु मन्त्रसमित्कुशपुरोडाशप्रभूतिषु कर्माङ्गेषु शाखा न्तरस्थानामपि कर्मिणामधिकारः, एवं शाखान्तरविहितासु उपासनासु शाखान्तर- स्थानामप्यधिकाराङ्गीकारे अविरोधः विरोधो नास्तीत्यर्थः ॥५६॥ भूमज्यायस्त्वाधिकरणम् ॥ छान्दोग्ये 'नाम ब्रह्मेत्युपासीत, नाचं ब्रह्मेत्युपासीत, मनो ब्रह्मेत्युपासीते' त्या- दीनि बहूनि प्रतीकोपासनानि विधाय तदनन्तरं 'भूमा त्वेव विजिज्ञासितव्यो भूमानं भगवो विजिज्ञासे यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा अथ यत्रान्यत् पश्यत्यन्यच्छृणोति अन्यद्विजानाति तदल्पमि'ति श्रुतौ भूमाख्यव. झोपासना च विहिता । तत्र किं सर्वासामुपासनानां समप्राधान्यम्, उत भूमोपा सनाया एव प्राधान्यम्, इतरासां तु तदङ्गत्वं वा इतिसंशये सति निर्णय करोति- भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥५७॥ , तृ०ये तृतीयः पादः] सूत्रवृत्तिः । os - भूम्नः भूमाख्यब्रह्मोपासनस्यैव ज्यायस्त्वं प्रधानत्वं भूमोपासनायामेव वाक्यस्य महातात्पर्य, नामाद्युपासनानां तु ब्रह्मोपासनां प्रति अङ्गत्वेन उपसर्जनत्वम्। तथा च नामाधुपासनासु अवान्तरतात्पर्यम् । क्रतुवत् यथा अङ्गिनः ज्योतिष्टोमादिक्रतोः प्रधानत्वं, अङ्गानां तु समित्कुशादीनाम् उपसर्जनत्वं,तद्वदित्यर्थः । तत्र प्रमाणमाह- तथाहि दर्शयति 'अथ यत्रान्यत् पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्प- मिति श्रुतिः नामाद्युपासनानां अल्पत्वमुपसर्जनत्वं प्रतिपादयतत्यिर्थः ॥ १७ ॥ ननु नामाद्युपासनासु वाक्यस्य अवान्तरतात्पर्यमपि नास्ति । 'नाम ब्रह्मेत्यु. पासीते'ति वाक्यसन्दर्भस्य सर्वस्यापि स्थूलारुन्धतीन्यायेन ब्रह्मोपासनायामेव तात्पर्यात् । तथा च नामाद्युपासनानां कथं ब्रह्मोपासनाङ्गत्वमित्याशङ्कयाह- नानाशब्दादिभेदात् ॥५८॥ नानाविधानि अनेकानि नामाद्युपासनान्यपि अङ्गीकर्तव्यानि । कुतः ? श- ब्दादिभेदात् 'नाम ब्रह्मे' त्युपासीत, वाचं ब्रह्मेत्युपासीत, मनो ब्रह्मेत्युपासीते' त्या- दिवाक्येषु उपास्तिशब्दानां बहूनां श्रूयमाणत्वात् नामाद्युपास्तीनां फलभेदश्र- वणाच्च नामाद्युपासनास्वपि अवान्तरतात्पर्यमङ्गीकर्तव्यमित्यर्थः ॥५८॥ विकल्पाधिकरणम् ॥ ३४ ॥ विकल्पोऽविशिष्टफलत्वात् ॥५९॥ दहरशाण्डिल्योपकोसलवैश्वानरप्रभृतीनां ब्रह्मलोकप्राप्तिफलकानां अहङ्ग- होपासनानां विकल्पः अनुष्ठानविकल्पः अङ्गीकर्तव्यः, न तु समुच्चयः । एतासु उपासनासु मध्ये एकेन पुरुषेणैकैवोपासना मरणपर्यन्तं कर्तव्या, न तु द्वे, तिस्त्रः, चत- स्रो वा, उपासनाः कर्तव्या इत्यर्थः । कुतः ? अविशिष्टफलत्वात् अहङ्ग्रहोपासनानां सर्वासामपि तुल्यफलकावादित्यर्थः ॥१९॥ काम्याधिकरणम् ॥३५॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६॥ काम्याः आदित्यमण्डलनाममनःप्रभृतिषु जडपदार्थेषु ब्रह्मदृष्टिरूपाः ऐ. श्वर्यादिभिन्नभिन्नफलसाधनीभूताः प्रतीकोपासनाः यथाकामं यथेच्छं समुच्चीयेरन्न वा, एतासां प्रतीकोपासनानां समुच्चयो वा, विकल्पो वेति अनियम एवाङ्गीकर्तव्य इत्यर्थः। कृतः ? पूर्वोक्तहेत्वभावात् पूर्वोक्तस्य तुल्यफलकत्वरूपस्य हेतोः अत्राभावादित्यर्थः । यथाश्रयमावाधिकरणम् ॥ ३३ ।। अङ्गावबद्धोपासनानामपि प्रतोकोपासनानामिव अनियमं वक्तुं प्रथमं सूत्रचतुष्टये न पूर्वपक्षमाह- ?

अद्वैतमञ्जरी । पूर्वपक्षः-अङ्गेषु यथाश्रयभावः ॥६१॥ अङ्गेषु उद्गीथाहवनीययूपवेदिप्रभृतिषु ब्रह्मदृष्टिरूपेषु अङ्गावबद्धोपासनेषु यथाश्रयभावः यथाश्रयणां ब्रह्मत्वारोपं प्रति अधिष्ठानभूतानामुद्गीथादीनामङ्गानां समुच्चयः, एवं तद श्रितानाम् अङ्गावबद्दोपासनानामपि समुच्चय इत्यर्थः ॥६॥ अङ्गानां वा कथं समुच्चयः, समुच्चयबोधकप्रमाणाभावादित्याशङ्कयाह- शिष्टेश्च ॥ ६२॥ कर्मकाण्डश्रुतिषु अङ्गानां समुच्चयस्य शिष्टेः शासनादित्यर्थः ॥ १२॥ समुच्चये लिङ्गमाह-समाहारात् ॥ ६३ ॥ 'वेदान्तरोदितस्य वेदान्तरे समाहारादङ्गानां समुच्चयः ॥ ६३ ।। अस्त्वङ्गानां समुच्चयः तथापि अङ्गाश्रितानामुपासनानां कथं समुच्चय इत्याशङ्कयाह- गुणसाधारण्यश्रुतेश्च ॥६४॥ अङ्गावबद्धोपासनानामपि 'यदेव विद्यवा करोती' ति श्रुत्या कङ्गित्वस्य प्रतिपादितत्वेन गुणसाधारण्यश्रवणादङ्गसाम्यप्रतिपादनादङ्गानामिव अङ्गावव- होपासनानामपि समुच्चय इत्यर्थः ॥ ६४ ॥ सिद्धान्तः--न वा तत्सहभावाश्रुतेः ॥६५॥ न वा अङ्गावबहोपासनानां समुच्चयनियमो नास्त्येव । कुतः? तत्सह भावाश्रुतेः तासाम् अङ्गावबद्धोपासनानां सहभावस्य समुच्चयस्य अश्रवणादि- त्यर्थः । 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति श्रुतौ अङ्गावबद्दोपासनानां कर्माङ्गत्वं न प्रतिपाद्यते । 'तन्निर्धारणानियमस्तदृ- ष्टेः पृथग्ध्यप्रतिबन्धः फलमि' ति सूत्रे कर्माङ्गत्वस्य निरस्तत्वात् । किं तु अङ्गा- वबद्धोपासनापूर्वकं कर्मानुष्ठाने कृते सति स्वर्गादिफलोत्पत्तिप्रतिबन्धकपापानां नि. वृत्त्या शीघ्रमेव फलोत्पत्तिर्भवतीत्येतावन्मात्रमेव 'यदेव विद्यया करोती' ति श्रु. त्या प्रतिपाद्यते । तथा च अङ्गावबद्धोपासनानामपि प्रतीकोपासनानामिव समुच्चयो वा, विकल्पो वेत्यनियम इति भावः ॥ ६५ ॥ दर्शनाच ॥६६॥ एकदा व्यङ्गावबद्धोपासनापरिज्ञानवतां सर्वात्मना अङ्गावबद्धोपासनापरिज्ञानर हितानां च ऋत्विजां कर्मानुष्ठातृत्वदर्शनादपि अङ्गावबद्धोपासनानां कर्माङ्गत्वं, न वा समुच्चय इत्यर्थः । न च अङ्गावबद्धोपासनानां कर्माङ्गत्वाभावे फलप्रतिबन्धकपापर- १. 'कल्पसूत्रादिग्रन्थेष्वपि अङ्गानां मेलनरूपस्य समाहारस्य प्रतिपादितत्वादित्यर्थः ॥६३॥' इति पुस्तकान्तरपाठः ।

तुं ये चतुर्थः पादः ]
सूत्रवृत्तिः ।
९६
हितानां पुरुषाणाम् अङ्गावबद्धोपासनानुष्ठानवैयर्थ्यं स्यादिति वाच्यम् । अङ्गावबद्धो.
पासनासहकतकर्मानुष्ठानवतां बहुकालस्वर्गभोगस्य 'प्रदानवदेव तदुक्तमिति सूत्रे
प्रतिपादितत्वादिति भावः ॥६६॥
इति सूत्रवृत्तौ तृतीयाध्यायस्य तृतीयः पादः ॥.
अथ
-
तृतीयाध्यायस्य चतुर्थः पादः ॥
पुरुषार्थाधिकरणम् ॥ १॥
कालान्तरभाविपारलौकिकस्वर्गादि फलभोगयोग्यस्य देहेन्द्रियान्तःकरण-
व्यतिरिक्तस्य नित्यस्यात्मनो ज्ञानं विना · कालान्तरभाविलोकान्तरभाविस्वर्गा-
दिफलभोगसाधनेषु बहुवित्तव्ययायाससाध्येषु कर्मसु प्रेक्षावतां प्रवृत्त्यसम्भ-
वात् देहादिव्यतिरिक्तात्मज्ञानस्य ज्योतिष्टोमादिसकलकर्मानुष्ठानाङ्गत्वं वक्तव्यम् ।
तथा च अङ्गाङ्गिनोरेकफलसाधनत्वात् अङ्गिनां कर्मणां यत् फलं स्वर्गादिकं, त.
देव अङ्गस्य देहादिव्यतिरिक्तात्मज्ञानस्यापि फलमित्यङ्गीकर्तव्यम् । तथा च क-
मानुष्ठानाङ्गस्य देहादिव्यतिरिक्तात्मज्ञानस्य स्वातन्त्र्येण मोक्षलक्षणफलान्तरसाध.
नत्वासम्भवात् उत्तरमीमांसारम्भो व्यर्थ इति पूर्वमीमांसका वदन्ति । तन्मतं नि.
राकर्तुं प्रथमं सिद्धान्तमाह-
पुरुषार्थोऽतश्शब्दादिति बादरायणः ॥१॥
अतः ब्रह्मसाक्षात्कारात् पुरुषार्थः मोक्षोऽस्तीति बादरायणो मन्यते । कु-
तः ? शब्दात् 'तरति शोकमात्मवि'दित्यादिश्रुतेरित्यर्थः ॥ १ ॥
पूर्वपक्षः-
शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः॥२॥
शेषत्वादेहादिव्यतिरिक्तात्मविषयकज्ञानस्य कर्माङ्गत्वेन ज्ञानविष..
यीभूतस्यात्मनोऽपि कर्माङ्गत्वात् 'तरति शोकमात्मवि'दित्यादिवाक्यं पुरुषार्थवादः
पुरुषस्य देहादिव्यतिरिक्तस्य आत्मनः अर्थवादः स्तावकः आत्मज्ञानस्तुतिद्वारा आत्म-
स्तुतिपरमित्यर्थः । तत्र दृष्टान्तमाह-यथा अन्येषु अन्येषां द्रव्यदेवताकर्मरूपा-
णामङ्गानां 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति, वायु क्षेपिष्ठा
देवता यत् प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते' इत्यादिवाक्यं यथा
स्तुतिपरं, तद्वदित्यर्थः ॥२॥

अद्वैतमञ्जरी ।
॥४॥
..
आत्मज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वाभावे हेत्वन्तरमाह-
आचारदर्शनात् ॥३॥
आत्मसाक्षात्कारवतां जनकादीनामपि आचारदर्शनात् कर्मानुष्ठानदर्शनात्
आत्मज्ञानस्य कर्माङ्गत्वमेव, न स्वातन्त्र्येण मोक्षसाधनत्वमित्यर्थः ॥३॥
तच्छ्रुतेः
'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वर्यिवत्तरं भवतीति श्रुतौ वि-
द्याशब्दवाच्यस्य आत्मज्ञानस्य कर्मानुष्ठानाङ्गत्वश्रवणादपि आत्मज्ञानस्य न वा.
तन्व्येण मोक्षसाधनत्वमित्यर्थः । यत् कर्म विद्यया देहातिरिक्तात्मज्ञानेन श्रद्धया
आस्तिक्येन च उपनिषदा इन्द्रादिध्यानेन सहकृतस्सन् करोति, तदेव कर्म
वीर्यवत्तरम् अविलम्बेन स्वर्गादिफलजनकमित्यर्थः ॥४॥
समन्वारम्भणात् ॥५॥
'तं विद्याकर्मणी समन्वारमेते पूर्वप्रज्ञा चेति श्रुतौ आत्मज्ञानकर्मणोः सम-
न्वारम्भणात् जीवेन सह परलोकगमनश्रवणादपि आत्मज्ञानस्य स्वातन्व्येण मोक्ष-
साधनत्वं न सम्भवति । मोक्षसाधनत्वाङ्गीकारे इहैव लोके मोक्षजननसमर्थत्वेन पर.
लोकगमनस्य व्यर्थत्वादित्यर्थः । तं परलोकं गच्छन्तं कर्मिणं विद्याकर्मणी आत्मज्ञा.
नकर्मणी, समन्वारभेते सम्यगनुसृत्य गच्छतः, पूर्वप्रज्ञा पूर्वजन्मन्यभ्यस्ता स्त्रक्च-
न्दनादिविषयभोगवासना च गच्छतीति श्रुत्यर्थः ॥५॥
तद्धतो विधानात् ॥६॥
'य एवं विद्वान् यजत' इति श्रुतौ आत्मज्ञानवतः कर्मविधानादपि आ.
स्मज्ञानं कर्माङ्गमेव, न खातन्त्र्येण मोक्षसाधनमित्यर्थः । यः पुरुषः विद्वान् दे-
हादिव्यतिरिक्तात्मज्ञानवान् सन् यजते यागं करोति, तस्य कर्म शीघ्रमेव फलजनक-
मिति श्रुत्यर्थः ॥ ६ ॥
नियमाच ॥७॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा' इति श्रुतौ मरणपर्यन्तं ज्ञानिना-
मज्ञानिनां च कर्मानुष्ठानस्य आवश्यकत्वश्रवणादपि आत्मज्ञानस्य स्वातन्त्र्येण
मोक्षसाधनत्वं न सम्भवति । मोक्षसाधनत्वाङ्गीकारे आत्मज्ञानोत्पत्त्यनन्तरं कर्मा-
नुष्ठानस्य व्यर्थत्वादित्यर्थः ॥ ७ ॥
सिद्धान्तसूत्रम्-
अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात् ॥८॥

तृव्ये चतुर्थः पादः सूत्रवृत्तिः । देहेन्द्रियान्तःकरणव्यतिरिक्तस्यात्मनः 'तत्त्वमसि अहं ब्रह्मास्मीति वाक्यैः अधिकोपदेशात् अधिकस्य ब्रह्माभेदस्योपदेशात् तत्त्वमस्यादिवाक्यजन्यं जीवन- माभेदविषयकं ज्ञानं बादरायणस्य मते एवं मोक्षसाधनं , न तु देहादिव्यतिरि- क्तात्मज्ञानमात्रम् । कुतः ? तद्दर्शनात् 'ब्रह्म वेद ब्रह्मैव भवति ब्रह्मविदाप्नोति पर'मि. त्यादिश्रुतिषु जीवब्रह्माभेदज्ञानस्य मोक्षसाधनत्वश्रवणादित्यर्थः । ब्रह्म वेद ब्रह्मैव भव- ती' त्यादिबहुवाक्यानुसारेण 'तरति शोकमात्मविदिति वाक्येऽपि आत्मशब्देन ब्र. माभिन्नो जीव एवोच्यते । तथा च देहादिव्यतिरिक्तात्मज्ञानमात्रस्य कर्मानुष्ठाना- ङ्गत्वेऽपि जीवब्रह्माभदेज्ञानस्य कर्मानुष्ठानाङ्गत्वाभावात् स्वातन्त्र्येण मोक्षरूपफलान्त- रसाधनत्वमुपपन्नमिति भावः ॥ ८ ॥ यञ्चोक्तं ज्ञानिनां जनकादीनामपि कर्मानुष्ठानदर्शनात् आत्मज्ञानं न मोक्षसाधनमिति, तत्र परिहारमाह- तुल्यं तु दर्शनम् ॥९॥ ज्ञानिनां शुकादीनां सकलकर्मानुष्ठानपरित्यागेन तूष्णीमवस्थानमपि दृष्ट- म् । तथा च लिङ्गदर्शनं मतद्वयेऽपि तुल्यम् । एवंस्थितेसति बहूनां ज्ञानिनां क. र्मानुष्ठानपरित्यागस्य दृष्टत्वात जनकाद्यनुसारेण केषाञ्चित् ज्ञानिनां कर्मानुष्ठानं कु- तूहलार्थं वा, लोकशिक्षार्थ वा, भविष्यतीति न तावन्मात्रेण जीवब्रह्माभेदज्ञानस्य कर्माङ्गत्वमिति भावः ॥९॥ यच्चोक्तं 'यदेव विद्यया करोती' ति श्रुत्या ज्ञानस्य कर्माङ्गत्वं प्रतिपा- द्यत इति , तस्य परिहारमाह- असार्वत्रिकी ॥१०॥ ब्रह्मलोकप्राप्तिहेतुभूतदहरशाण्डिल्यवैश्वानरोपकोसलादिसगुणब्रह्मवि - द्या मोक्षसाधनीभूतनिर्गुणब्रह्मविद्या च सार्वत्रिकी सकला इयं विद्याश- ब्देन नोच्यते , किं तूगीथादिषु कर्माङ्गेषु ब्रह्मदृष्टिरूपा या अङ्गावबद्धोपासना सा 'यदेव विद्यया करोती'ति श्रुतौ विद्याशब्देनोच्यते । तथा चाङ्गावबद्घोपास- नाया एव कर्माङ्गत्वं, न सगुणब्रह्मोपासनायाः, न वा निर्गुणब्रह्मज्ञानस्येत्यर्थः ॥१०॥ यच्चोक्तं तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चे' ति श्रुतौ आत्मज्ञानकर्मणोरङ्गा निमावेन मिलितयोः स्वर्गलोकप्राप्तिसाधनत्वप्रतिपादनात् आत्मज्ञानस्य स्वात व्येण मोक्षसाधनत्वं न सम्भवतीति, तस्य परिहारमाह- विभागश्शतवत् ॥ ११॥ 'तं विद्याकर्मणी ' इति श्रुतौ विद्याशब्देन निर्गुणब्रह्मज्ञानं नोच्यते । नि- १३ ... .

अद्वैतमञ्जरी । गुणब्रह्मज्ञानिनाम् इहैव लिङ्गशरीरनाशपूर्वकम् इहैव ब्रह्मण्येकीभावस्य श्रुतिषु प्रति- पादितत्वेन परलोकगमनप्रसक्तेरभावात् । किं तु विद्याशब्देन सगुणब्रह्मोपास- नैवोच्यते । एवस्थितेसति · तं विद्याकर्मणी समन्वारभेते' इति श्रुतौ विभागो निश्चीयते । कथं ? तं देवयानमार्गेण ब्रह्मलोकं गच्छन्तं सगुणब्रह्मोपासकं विद्या सगुणब्रह्मोपासना समन्वारभते अनुसृत्य गच्छति, तं धूमादिमार्गेण स्वर्गलोकं ग. च्छन्तं कर्मिणं ज्योतिष्टोमादिरूपं कर्म समन्वारभते अनुसृत्य गच्छनी, त्येवंवि. भागो निश्चीयते । शतवत् द्वयोः ब्राह्मणयोः शतं पणा दातव्या इ. लौकिकवाक्ये एकस्य ब्राह्मणस्य पञ्चाशत्पणा दातव्याः, , अन्यस्य ब्राह्मणस्य पञ्चाशत्पणा दातव्या इति विभागो यथा निश्चीयते, तद्वदित्यर्थः । सगुणब्रह्मोपासनाकर्मणोः स्वातन्त्र्येण प्रत्येकं ब्रह्मलोकवर्गलोकप्राप्तिसाधनत्वेन क्लप्तत्वात् उभयोमिलित्वा स्वर्गलोकप्राप्ति प्रति, ब्रह्मलोकप्राप्ति प्रति वा सांधनत्वासम्भवात् विभाग एव श्रुत्यर्थ इति निश्चीयत इति भावः । ननु, 'तं विद्याकर्मणी समन्वारभेते' तं स्वर्गलोकं गच्छन्तं कर्मिणं विद्याकर्मणी विद्याशब्देन कर्माङ्गभूत देहादिव्यतिरिक्तात्मज्ञानमुच्यते । कर्मशब्देन तदङ्गकम् अग्निहोत्रादिकमुच्यते । उभे अपि समन्वारभेते अनुसृत्य ग. च्छत इत्येवं श्रुत्यर्थोऽस्त्विति चेत्, इष्टापत्तेः । देहादिव्यतिरिक्तात्मज्ञानमात्रस्य अस्माभिरपि कर्माङ्गत्वाङ्गीकारात् जीवब्रह्माभेदज्ञानस्य कर्माङ्गत्वनिराकरण एवास्माकमाग्रहः । तथा चास्माकमविरोधिनः अर्थाः अस्याश्श्रुतेः शतमुच्यन्तां, तथापि नास्माकमनिष्टमिति भावः ॥ ११ ॥ यच्चोक्तं य एवं विद्वान् यजत' इति श्रुतौ देहादिव्यतिरिक्तात्मज्ञानवतः कर्माधिकारश्रवणात् आत्मज्ञानं कर्मानुष्ठानाङ्गमिति, तस्य परिहारमाह- अध्ययनमात्रवतः ॥१२॥ इदमुपलक्षणम् । साङ्गवेदाध्ययनवतः कर्मकाण्डप्रतिपाद्यसाङ्गकर्मज्ञानवतः तर्क शास्त्रप्रतिपाद्यदेहादिव्यतिरिक्तात्मज्ञानवतश्च कर्मानुष्ठाने अधिकारः, न तु उ. पनिषत्प्रतिपाद्यजीवब्रह्माभेदज्ञानवत इत्यर्थः । तथा च 'य एवं विद्वान् यजत' इतिश्रु. तौ विद्वच्छब्देन कर्मकाण्डप्रतिपाद्यार्थज्ञानवान् तर्कशास्त्रप्रतिपाद्यदेहादिव्यति. रिक्तात्मज्ञानवांश्च कर्मानुष्ठानाधिकारीत्युच्यते । न तु ज्ञानकाण्डप्रतिपाद्यजीवन मामेदज्ञानवान् । जीवब्रह्माभेदज्ञानस्य कर्मानुष्ठानानुपयोगित्वादिति भावः ॥१२॥ यञ्चोक्तं 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति श्रुतौ ब्रह्मज्ञानवतां ब्रह्मज्ञानरहितानां च सर्वेषामपि मरणपर्यन्तं कर्मानुष्ठानस्यावश्यकत्वप्रतिपादनात् ब्रह्मज्ञानं वातन्त्र्येण मोक्षसाधनं नास्तीति, तस्य परिहारमाह .. नाविशेषात् ॥१३॥ Act तृ ० ये चतुर्थः पादः] सूत्रवृत्तिः । ९९ ? 'कुर्वन्नेवेह कर्माणी' ति वाक्यं जीवब्रह्माभेदज्ञानरहितदेहाभिमानपुरुषविष - यकम् । कुतः ? अविशेषात् एतस्य वाक्यस्य सामान्यवचनत्वादित्यर्थः । अयं भावः-कुर्वन्नेवेह कर्माणीति वाक्यं ज्ञानिविषयकं वा, अज्ञानिविषयकं वा इति स- न्देहे प्राप्ते सति इदं वाक्यम् अज्ञानिविषयकमेवेति निश्चीयते । ज्ञानिनां ज्ञानोत्पत्त्यु. त्तरक्षण एव मोक्षप्रतिपादकबहुश्रुत्यनुसारेण ज्ञानोत्तरकालं कर्मानुष्ठानम्य व्यर्थत्वेन मरणपर्यन्तं कर्मानुष्ठानप्रतिपादकस्य अस्य वाक्यस्य अज्ञानिविषयकत्वस्यैव उचि- तत्वात् 'कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यनं यथे' ति स्मृतौ ब्रह्मज्ञानरहितानां कर्मा- 'नुष्ठानपरित्यागे सति पातित्यश्रवणादिति भावः ॥१३॥ कुर्वन्नेवेह कर्माणीति वाक्यस्य ज्ञानिविषयकत्वमङ्गीकृत्यापि परिहारान्तरमाह-- स्तुतयेऽनुमतिर्वा ॥१४॥ ज्ञानिनामपि मरणपर्यन्तं कर्मानुष्ठानमावश्यकं, किमु वक्तव्यमज्ञानिना- मित्येवंरूपेण कर्मप्रशंप्तार्थमनुमतिः ज्ञानिनां कर्मानुष्ठानस्य आवश्यकत्वप्रतिपादनं, न तु स्वार्थे तात्पर्यमित्यर्थः ॥१४॥ अम्य वाक्यस्य परिहारान्तरमाह- कामकारेण चैके ॥१५॥ एके शाखिनः किमर्था वयमध्येष्यामः किमर्था वयं यक्ष्यामः किं प्रजया करिष्यामो येषान्नोऽयमात्मे' त श्रुतौ आत्मज्ञानवतां सकलकर्मानुष्ठानं परित्यज्य कामकारेण स्वेच्छया तूष्णीमवस्थानं प्रतिपादयन्ति । तथा च 'किमर्था वयमध्येष्याम' इति श्रुत्यन्तरविरोधादपि 'कुर्वन्नेवेह कर्माणी' ति वाक्यं अज्ञानिविषयकं वा, कर्मप्र- शंसापरं वा अङ्गीकर्तव्यमिति भावः ॥१५॥ जीवब्रह्मामेदज्ञानस्य कर्मानुष्ठानानुपयोगित्वात् कर्माङ्गत्वं नास्तीत्युक्तम् । इदानीं तु जीवब्रह्माभेदविषयक साक्षात्कारस्य सकलकर्मनाशकत्वादपि जीवब्रह्मा- भेदविषयकमपरोक्षज्ञानं न कर्माङ्गमित्याह- उपमर्द च ॥१६॥ जीवब्रह्माभेदविषयकमपरोक्षज्ञानं सकलकर्मणामुपमर्द नाशकम् । 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे । ज्ञानाग्निम्सर्वकर्माणि भस्मसात्कुरुते तथे' त्यादिश्रुतिस्मृतिषु ब्रह्मसाक्षात्कारस्य सक- लकर्मनाशकत्वप्रतिपादनादित्यर्थः । तथा च ब्रह्मसाक्षात्कारस्य कर्मनाशकत्वादपि न कर्माङ्गत्वमिति भावः । न च ब्रह्मसाक्षात्कारस्य सकलकर्मनाशकत्वेन कर्मानु- ष्ठानाङ्गत्वाभावेऽपि श्रवणोत्तरकालीनम्य श्रुतवेदान्तशब्दजन्यस्य जीवब्रह्माभेदवि. - अद्वैतमञ्जरी । . षयकस्य परोक्षज्ञानस्य कर्मानुष्ठानाङ्गत्वं भविष्यतीति वाच्यम् । जीवब्रह्माभेदविष यकशाब्दज्ञाने सति जीवनिष्ठानां कर्तृत्वभोक्तृत्वकिञ्चिज्ज्ञत्वादिधर्माणां जीवेन कि यमाणानाम् अग्निहोत्रादिकर्मणां जीवेन भुज्यमानानां वर्गादिफलानां च मिथ्या त्वनिश्चयात् ईश्वरगतानामपि सर्वज्ञत्वसर्वेश्वरत्वसनियन्तृत्वसर्वजगत्कारणत्व सर्वकर्मफलप्रदातृत्वादिधर्माणां च मिथ्यात्वनिश्चयात् जीवब्रह्माभेदविषयकस्य शाब्द परोक्षज्ञानस्यापि कर्मानुष्ठानविरोधित्वेन कर्मानुष्ठानाङ्गत्वमनुपपन्नमिति भावः ॥१६। जीवब्रह्माभेदविषयकस्य ज्ञानस्य कर्मानुष्ठानाङ्गत्वाभावे हेत्वन्तरमाह- ऊर्ध्वरेतस्सु च शब्दे हि ॥१७॥ शब्दे वेदे 'इमं लोकममुं च लोकं परित्यज्यात्मानमन्विच्छेत् । त्रय ए पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्वमेति सन्न्यस्य श्रवणं कुर्यादि' त्यादि श्रुतौ ऊर्ध्वरेतस्सु च ऊर्ध्वरेतसां सन्न्यासिनां श्रवणमनननिदिध्यासनरूपा ब्रह्मविद्य विहिता । तथा च सन्न्यासिनां अग्निहोत्रादिकर्मानुष्ठानासम्भवात् सन्न्यास्य धिकारिकस्य ब्रह्मज्ञानस्य कर्मानुष्ठानाङ्गत्वमनुपपन्नमिति भावः ॥ १७ ॥ परामर्शाधिकरणम् ॥२॥ सन्यासाश्रमस्यैवाप्रामाणिकत्वात् सन्न्यासिनां श्रवणमनननिदिध्यासनरूपा यां ब्रह्मविद्यायामधिकार इत्येतदनुपपन्नमिति पूर्वपक्षमाह - परामर्श जैमिनिरचोदना चापवदति हि ॥ १८ ॥ 'ब्रह्मचार्याचार्यकुलेवासी प्रथमः, यज्ञो दानमध्ययनमिति द्वितीयः, तप इ ति तृतीयः त्रय एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेती'ति । ब्रह्मचारीत्यने न ब्रह्मचर्याश्रम उच्यते । यज्ञदानाध्ययनशब्दैः त्रितयप्रधानको गृहस्थाश्रम उ च्यते । तपश्शब्देन तपःप्रधानको वानप्रस्थाश्रम उच्यते । एते त्रयो ब्रह्मचारिगृ हस्थवानप्रस्थाः पुण्यलोकभाजो भवन्ति । ब्रह्मसंस्थः निरन्तरं ब्रह्मविचारपर सन्यासी तु श्रवणमननाद्यनुष्ठानद्वारा अमृतत्वं मोक्षं प्राप्नोतीति श्रुत्यर्थः । एवं स्थितेसति 'ब्रह्मसंस्थोऽमृतत्वमेती'ति वाक्यं परामर्शम् अन्धपरम्परान्यायप्राप्तभ्रमसि हसन्न्यासस्य अनुवादकं जैमिनिर्मन्यते । कुतः ? अचोदना खलु विधायकलिङ् लोट्तव्यप्रत्ययादिकं अस्मिन् वाक्ये नास्ति खलु । न केवलमस्मिन् वाक्ये लिङा द्यभावमात्रं, किं तु 'वीरहा वा एष देवानां योऽग्निमुद्रासयत' इति वाक्यान्तरम ग्निहोत्रादिकर्मत्यागात्मकं सन्न्यासं अपवदति प्रतिषेधतीत्यर्थः ॥ १८ ॥ सिद्धान्तसूत्रम्-- अनुष्ठेयं बादरायणस्साम्यश्रुतेः ॥१९॥ बादरायणस्तु सन्न्यासाश्रममनुष्ठेयं प्रामाणिक मन्यते । कुतः ? साम्य ww , तृ०ये चतुर्थः पादः] सूत्रवृत्तिः । १०१ श्रुतेः 'ब्रह्मचार्याचार्यकुलेवासी प्रथम' इत्यादिषु आश्रमचतुष्टयविधायकेषु च- तुर्वपि वाक्येषु लिङादिप्रत्ययाभावस्य तुल्यत्वादित्यर्थः । तथा च सन्न्यासाश्रम- स्याप्रामाणिकत्वाङ्गीकारे ब्रह्मचर्यादीनां त्रयाणामप्याश्रमाणामप्रामाणिकत्वं स्यादिति भावः । तथा चानुवादरूपवाक्यप्रतिपादितानामपि चतुर्णामप्याश्रमाणां प्रामाणिक- त्वमङ्गीकर्तव्यमिति भावः ॥ १९ ॥ परिहारान्तरमाह-विधिर्वा धारणवत् ॥२०॥ धारणवत् 'पित्र्येऽग्निहोत्रे अधस्तात् समिधं धारयन्ननुद्रवेत् । दैवेऽग्नि होत्रे उपरि हि देवेभ्यः समिधं धारयती ' ति वाक्ये यथा लिङ्प्रत्ययः अध्या. हियते , एवं 'ब्रह्मचार्याचार्यकुलेवासी प्रथम' इत्यादिषु चतुर्वपि वाक्येषु विधिः तव्यप्रत्ययः अध्याहर्तव्य इत्यर्थः ॥ २० ॥ स्तुतिमात्राधिकरणम् ॥३॥ ब्रह्मविद्यास्तावकतया अर्थवादत्वेनापि 'ब्रह्मसंस्थोऽमृतत्वमेती' ति वाक्य- स्य प्रामाण्यसम्भवात् अस्मिन् वाक्ये तव्यप्रत्ययाध्याहारो व्यर्थ इत्याशङ्कय निराकरोति-- स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥२१॥ उपादानात् ब्रह्मविद्याप्रकरणे अस्य वाक्यस्य पठितत्वात् 'ब्रह्मसंस्थो- ऽमृतत्वमेती' ति वाक्यं स्तुतिमात्रं श्रवणमननाभ्यासशीलानाम् अग्निहोत्रादिस- कलकर्मत्यागेऽपि न दोष इत्येवंरूपेण ब्रह्मविद्याप्रशंसार्थमिदं वाक्यं , न सन्न्या- सतात्पर्यकमिति चेन्न । अपूर्वत्वात् सन्न्यासस्य प्रमाणान्तरेण अज्ञातत्वात् नि- त्यनैमित्तिककाम्यकर्मानुष्ठानविक्षेपराहित्यसम्पादकतया श्रवणाद्यनुकूलत्वेन सफ- लत्वाच्च फलवत्यज्ञातेऽर्थे श्रुतेस्तात्पर्यमङ्गीकर्तव्यमित्यर्थः ॥ २१ ॥ भावशब्दाच ॥२२॥ 'यदहरेव विरजेत्तदहरव प्रव्रनेत् सन्न्यस्य श्रवणं कुर्यात् इमं लोकम- मुं च लोकं परित्यज्यात्मानमन्विच्छे' दित्यादिबहुश्रुतिषु भावशब्दात् विधायक- लिङादिशब्दस्य विद्यमानत्वादपि सन्न्यासस्य प्रामाणिकत्वमित्यर्थः ॥२२॥ पारिप्लवाधिकरणम् ॥४॥ इतया सूत्रसन्दर्भेण सन्न्यासस्य ब्रह्मविद्यानुकूलत्वं प्रसाध्य इदानी उप- निषन्मध्यगताना याज्ञवल्क्यमैत्रेयीसंवादशाकल्यगार्गीसंवादप्रतर्दनेन्द्र संवादरू- पाणाम् उपाख्यानानामपि ब्रह्मविद्यानुकूलत्वं वक्तुं पूर्वपक्षमाशङ्कय निराकरोति- पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥ - अद्वैतमञ्जरी । पारिप्लवो नाम अश्वमेघाङ्गभूतकर्मविशेषः । तस्मिन् कर्मणि ज्योतिष्टोमा- दिसकलकर्माङ्गभूताः मन्त्राः पठनीयाः । एवंस्थितेसति याज्ञवल्क्यमैत्रेय्यादि- संवादरूपाः कथाप्रबन्धा अपि पारिष्ठवार्थाः कर्मकाण्डस्थपारिप्लवाख्यकर्माङ्ग- भूता इति चेन्न । विशेषितत्वात् कर्मकाण्डस्थाः सकलकर्माङ्गभूता मन्त्राः पारि प्लवे पठितव्या इति विशिष्योक्तत्वादित्यर्थः । तथा च ज्ञानकाण्डस्थानाम् उपा- ख्यानानां कर्मकाण्डस्थपारिप्लवकर्माङ्गत्वप्रसक्तिनास्तीति भावः ॥ २३ ॥ तर्हि उपाख्यानानां वैयर्थमेव स्यादित्याशङ्कयाह- तथा चैकवाक्यतोपबन्धात् ॥२४॥ तथासति उपाख्यानानां पारिप्लवाङ्गत्वाभावे सति एकवाक्यतोपबन्धात् ब्रह्मविद्याप्रकरणफठितानाम् उपाख्यानानां ब्रह्मप्रतिपादकवाक्यैस्सह एकवाक्यतया उपबन्धात् सम्बन्धात् ब्रह्मविद्याङ्गत्वमित्यर्थः । उपाख्यानपूर्वकं ब्रह्मप्रतिपादने कृते सति मन्दबुद्धीनामपि सुलभतया ब्रह्मज्ञानमुत्पद्यत इति तदर्थं ब्रह्मप्रतिपादकेषु वेदान्तेषु उपाख्यानान्युक्तानीति भावः ॥ २४ ॥ अग्नीन्धनाधिकरणम् ॥५॥ सूत्रद्वयेन प्राप्तङ्गिकी चिन्तां कृत्वा प्रस्तुतामेव चिन्तां करोति- अत एव चामीन्धनाद्यनपेक्षा ॥२५॥ यतः श्रवणमनननिदिध्यासनरूपा ब्रह्मविद्या सन्यास्यधिकारिका, एवाग्नीन्धनाद्यनपेक्षा अग्न्याधानाग्निहोत्रादि कर्मणां ब्रह्मसाक्षात्कारं प्रति साक्षा- दपेक्षा नास्ति । ब्रह्मसाक्षात्करं प्रति साक्षात् साधनत्वं नास्तीत्यर्थः ॥२५॥ सर्वापेक्षाधिकरणम् ॥ ६ ॥ 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाश- केने' त्यादिश्रुतेः यज्ञादीनां ब्रह्मसाक्षात्कार प्रति साधनत्वबोधिकायाः अप्रामाण्यं स्यादित्याशङ्कयाह-- सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥२६॥ यज्ञादिश्रुतेः 'यज्ञेन दानेन तपसानाशकेने ' तिश्रुतिबलात् सर्वापेक्षा स. र्वेषां कर्मणां ब्रह्मसाक्षात्कारं प्रति अपेक्षा परम्परया साधनत्वमङ्गीक्रियते । अश्व- वत् अश्वस्य यथा गमनक्रियापरम्परया ग्रामप्राप्ति प्रति साधनत्वं, तद्वदित्यर्थः । तथा च 'तमेतं वेदानुवचनेने ' त्यादिश्रुतेः चित्तशुद्धिवैराग्यसन्न्यासश्रवणमनननि- दिध्यासनादिपरम्परया यज्ञादिकर्मणां ब्रह्मसाक्षात्कार प्रति साधनत्वबोधकत्वात् अप्रामाण्यं नास्तीति भावः ॥२६ ॥ अत तृ.ये चतुर्थः पादः] सूत्रवृत्तिः । एवं ब्रह्मसाक्षात्कार प्रति बहिरङ्गसाधनानि यज्ञादिकर्माणि प्रतिपाद्य इदानी ततोऽप्यन्तरङ्गसाधनानि शमदमादीनि प्रतिपादयति- शमदमाद्युपेतः स्यात्तथापि तु तदिधस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७॥ तथापि सन्न्यासिनां ब्रह्मसाक्षात्कारं प्रति बहिरङ्गसाधनभूताग्निहोत्रादि- कर्मानुष्ठानप्रसक्त्यभावेऽपि सन्न्यासी शमदमाद्युपेतस्स्यात् शमदमादिविशिष्टो भवेत् । कुतः ? तदङ्गतया ब्रह्मसाक्षात्कारं प्रति साक्षात्साधननया तद्विधस्तेषां शमदमादीनां 'शान्तो दान्त उपरतस्तितिक्षुश्श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्ये- दिति वाक्येन विहितत्वाद्धेतोः तेषां शमदमादीनां ब्रह्मसाक्षात्कारं प्रति अन्तरङ्ग- साधनानामवश्यमनुष्ठेयत्वात् सन्न्यासिनामप्यवश्यं संपादनीयत्वादित्यर्थः ॥२७॥ सर्वान्नानुमत्यधिकरणम् ॥ ७ ॥ अथ परिव्राडेकशाटीपरिहितो मुण्डोदरपाव्यरण्यनित्यो भिक्षार्थ ग्रामं प्रविशेत् आसायम्प्रदक्षिणेनाविचिकित्सन् सार्ववणिकं भैक्षचर्यमभिशस्तपतितवर्जमयज्ञोपवीती शौचकामनिष्ठमेकं वैणवं दण्डमादत्ते सखे मा गोपाये ति श्रुतौ निष्कम्पं सन्न्यासिनां ब्रह्मक्षत्रियवैश्यशूद्रगृहेषु भिक्षाचरणमुक्तं, तच्चापत्कालविषयकमित्याह--- सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् ॥२८॥ सार्ववणिकं भैक्षचर्यमिति श्रुतौ सर्वान्नानुमतिः सर्ववर्णानां गृहेषु अन्नम. क्षणानुज्ञा अस्मिन् युगे प्राणात्यये प्राणसङ्कटकाल एव, न तु स्वस्थावस्थायाम् । कुतः ? तदर्शनात् महात्मनां प्राणसङ्कटसमय एव अभक्ष्यमक्षणदर्शनादित्यर्थः ॥ २८ ॥ अबाधाच ॥२९॥ भक्ष्याभक्ष्यविभागबोधकश्रुतीनामबाधात् अबाधार्थमपि प्राणसङ्कटसमय एव अभक्ष्यभक्षणमिति भावः ॥ २९ ॥ अपि च स्मर्यते ॥३०॥ अपि च स्मृतिष्वपि भक्ष्याभक्ष्यविभागः प्रतिपाद्या इत्यर्थः ॥३०॥ शब्दश्रातोऽकामकारे ॥३१॥ यतस्सर्वान्नानुमतिः प्राणसङ्कटविषया, अत एव शब्दः उपस्तिश्चाक्रायणः इभ्ये. न सामि खादितान् कुल्माषांश्चखाद, जलपानं तु उच्छिष्टदोषान्न कृतवान्, कारणं चा- त्रोवाच-'न वा अहमजीविष्यमिमानखादन् कामो म उदपान'मिति श्रुतिः अकाम कारे अस्वस्थावस्थायामेव उपस्तिनामकऋषेः अभक्ष्यभक्षणे प्रवृत्ति दर्शयति । तथा १०४ अद्वैतमञ्जरी । . च चतुर्णामप्याश्रमिणां प्राणसङ्कटसमय एव अभक्ष्यभक्षणम्, अभोज्यगृहभोजनं च न स्वस्थावस्थायामिति भावः । इदं कलियुगविषयकं, युगान्तरेषु तु सन्न्यासिनां च. तुषु वर्णेषु गृहस्थादीनां त्रिषु वर्णेषु च भोजनकरणेऽपि न दोषः । तथाविधाचारस्य विद्यमानत्वादिति द्रष्टव्यम् ॥ ३॥ आश्रमकर्माधिकरणम् ॥ ८ ॥ सन्न्यासिनां ब्रह्मसाक्षात्कारं प्रति अन्तरङ्गसाधनं शमदमादिकमनुष्ठेयमित्यु- क्त्वा बहिरङ्गसाधनमपि किञ्चिदनुष्ठेयमस्तीत्याह- विहितत्वाचाश्रमकर्मापि ॥३२॥ आश्रमकर्मापि स्त्रानशौचभिक्षाटनादिरूपं बहिरङ्गसाधनमपि सन्न्यासिनां कर्तव्यम् । कुतः ? विहितत्वात् ‘विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षान्नो ब्रह्मभूयाय भवति । पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भि. क्षाचर्य चरन्ति । अथ परिव्राडेकशाटीपरिहित' इत्यादिश्रुतिषु सन्न्यासिनामपि भि- क्षाटनादीनाम् आश्रमधर्माणां विहितत्वादित्यर्थः ॥३२॥ न केवलं विहितत्वमात्रेण सन्यासिनामाश्रमधर्मानुष्ठानं, किं तु चित्तशुद्धि. द्वारा ब्रह्मसाक्षात्कार प्रति साधनत्वादपीत्याह- सहकारित्वेन च ॥३३॥ भिक्षाटनाद्याश्रमकर्मानुष्ठानस्य चित्तशुद्धिद्वारा ब्रह्मसाक्षात्कारं प्रति सहका. रित्वेन साधनत्वेन हेतुनापि सन्न्यासिनां भिक्षाटनादिकर्म अवश्य कर्तव्यमित्यर्थः ॥ इयता सूत्रसन्दर्भेण सन्यासिनां धर्मान् प्रतिपाद्य इदानी मूर्ध्वरेतस्सु च श- ब्दे ही ति सूत्रे उपक्रान्तमूर्ध्वरेतसां ब्रह्मविद्याधिकारित्वमुपसंहरति- सर्वथापि त एवोभयलिङ्गात् ॥३४॥ सर्वथापि सर्वश्रुतिस्मृतिपर्यालोचनयापि त एव ऊर्ध्वरेतस एव श्रवणमनननिदि- ध्यासनरूपायां ब्रह्मविद्यायामधिकारिणः । सर्वथापयितत्पदं स्वयमेव व्याचष्टे-- उभयलिङ्गादिति । उभयलिङ्गात् श्रुतिस्मृतिरूपात् ज्ञापकादित्यर्थः ॥ ३४ ॥ सन्यासिनामेव ब्रह्मविद्याधिकार इत्यत्र हेत्वन्तरमाह- अनभिभवं च दर्शयति ॥३५॥ 'यन्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुवृत्तं वेद कश्चन स द्विजः । तुल्यनिन्दास्तुतिौनी सन्तुष्टो येनकेनचित्' इत्यादिस्मृतिः अनभिभवं -- - तृ०ये चतुर्थः पादः] सूत्रवृत्तिः । ' - मानावमानादिराहित्यं ब्रह्मसाक्षात्कारसाधनं दर्शयति । तच्च मानावमानादिराहित्यं प्रा. येण सन्न्यासिनामेव सम्भवति, न गृहस्थानां पुत्रदाराधभिमानवताम् । तस्मादपि सन्यासिनामेव ब्रह्मविद्याधिकार इति भावः॥ ३५॥ तदृष्टयधिकरणम् ॥९॥ एवं सन्न्यासिनामेव ब्रह्मविद्याधिकारं प्रसाध्य इदानी विधुराणामपि अ. ग्निहोत्रादिकर्मानुष्ठाने विक्षेपाभावात् ब्रह्मचर्यवत्त्वाच्च सन्न्यासितुल्यत्वात् तेषामपि ब्रह्मविद्यायामधिकारमाह- अन्तरा चापि तु तदृष्टेः ॥ ३६॥ दैवात् पत्नीवियोगे सति अन्तरा गृहस्थाश्रमसन्न्यासाश्रमयोः मध्ये विद्यमानानामना. श्रमिणां विधुराणामपि श्रवणमनननिदिध्यासनरूपायां ब्रह्मविद्यायामधिकारोऽस्ति । कुतः तदृष्टेः अनाश्रमिणामपि बहूनां लोके ब्रह्मसाक्षात्कारवत्त्वदर्शनादित्यर्थः ॥३६॥ अपि च स्मर्यते ॥३७॥ अपि च अनाश्रमिणामपि बहूनां ब्रह्मसाक्षात्कारवत्त्वं मन्वादिस्मृतिषु प्रति. पाद्यत इत्यर्थः ॥३७॥ अनाश्रमिणां ज्ञानसाधनीभूतकर्मानुष्ठानाभावात् कथं ज्ञानोत्पत्तिरित्याशङ्कयाह- विशेषानुग्रहश्च ॥३॥ अनाश्रमिभिरनुष्ठितानां विशेषाणां स्नानसन्ध्याजपादीनामनुग्रहः ज्ञानानु- ग्राहकत्वमुपपन्नमित्यर्थः ॥३८॥ अनाश्रमिकर्मापेक्षया आश्रमिकर्मणामाधिक्यमाह- अतस्त्वितरज्ज्यायो लिङ्गाच ॥३९॥ अतः अनामिळतकर्मापेक्षया इतरत् आश्रमिकृतं कर्म ज्यायः श्रेष्ठम् । अविलम्बेन ज्ञानसाधकमित्यर्थः ।।३९।। तद्भूताधिकरणम् ॥१०॥ अनाश्रमिणां विधुराणां श्रवणमनननिदिध्यासनरूपायां ब्रह्मविद्यायाम् अ. धिकारं प्रतिपाद्य इदानीं सन्न्यासाश्रमं प्राप्य तं परित्यज्य पुनर्गृहस्थाश्रमं प्राप्ता- नाम् आश्रमभ्रंशजन्योल्लष्टपापविशिष्टानामाश्रमभ्रष्टानां ब्रह्मविद्यायामधिकारो ना- स्तीति वक्तुम् आश्रमभ्रंशस्य शास्त्रप्रतिषिद्धत्वेन पापजनकत्वमाह तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः १४० तद्भूतस्य सन्न्यासाश्रमं प्राप्तस्य अतद्भावः सन्यासाश्रमात् भ्रंशः शास्त्र. १४ -- - १०६ अद्वैतमञ्जरी । - विहितो न भवति । प्रत्युत शास्त्रप्रतिषिद्ध एव । कुतः ? नियमातद्रूपाभावेभ्यः नियमेभ्यः सन्न्यासाश्रमप्राप्त्यनन्तरं मरणपर्यन्तं सन्न्यासाश्रमेणैव स्थातव्यं , पुनः न निवर्तितव्यमिति नियमप्रतिपादकेभ्यो मन्वादिवचनेभ्यः, अतद्रूपाभावेभ्यः अतद्रू- पाणां नियमाप्रतिपादकानां वचनानाम् अभावेभ्यश्च हेतुभ्यः आश्रमभ्रंशः शास्त्रप्र. तिषिद्ध इत्यर्थः । सन्न्यासाश्रमं प्राप्तस्य सन्यासाश्रम एव मरणपर्यन्तममिरुचि. यस्योत्पन्ना , तस्य सन्न्यासाश्रमेणैव अवस्थानम् । यस्य तु गृहस्थाश्रमेऽभिरुचि- रुत्पन्ना , तस्य सन्न्यासाश्रमं परित्यज्य पुनर्गृहस्थाश्रमेणावस्थानमित्येवंविधानि यमप्रतिपादकानि वचनानि मन्वादिस्मृतिषु कुत्रापि न सन्तीति भावः ॥४०॥ आधिकारिकाधिकरणम् ।।११।। सन्न्यासाश्रमात् भ्रष्टानां कञ्चित् कालं गृहस्थाश्रमे स्थितानां पश्चात्तापे सति आश्रमभ्रंशजन्यपापस्य प्रायश्चित्तमस्ति वा, न वेति संशये सति प्रायश्चित्तमस्तीति वक्तुं प्रथमं पूर्वपक्षमाह- न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥ आधिकारिकाणां सन्न्यासाश्रम एव तिष्ठतां सन्न्यासाश्रमविहितकर्मानुष्ठान कुर्वतां प्रमादात् सकृब्रह्मचर्यादिभ्रंशवतां यत् प्रायश्चित्तम् अनेकमृत्तिकास्नानं अ- नेकसहस्त्रप्रणवजपप्राणायामादिरूपं मन्वादिस्मृतिषु विहितं, तदपि प्रायश्चित्तमन- धिकारिणाम् आश्रमभ्रष्टानां नास्ति । कुतः ? पतनानुमानात् । 'प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महे' तिस्मृतावाश्रमभ्रष्टानां पतितत्वप्रतिपादनात् पति- तानां तदयोगात् तस्य प्रायश्चित्तस्यायोगात् अनुपपन्नत्वादित्यर्थः ॥४१॥ सिद्धान्तसूत्रम् - उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥४२॥ अशनवत् ब्राह्मणानां शूद्रादिगृहेषु बहुकालं भोजनजन्यपापवदाश्रमभ्रंश- जन्यं पापमपि उपपूर्वमेव उपपातकमेव । तथा च एके मन्वादयः आश्रमभ्रंशजन्य- पापस्य भावं प्रायश्चित्त सद्भावं वदन्ति । तदुक्तं तच्च प्रायश्चित्तं भूप्रदक्षिणसकल. तीर्थस्नानादिरूपं मन्वादिस्मृतिष्वेवोक्तमित्यर्थः ॥४२॥ बहिरधिकरणम् ॥१२॥ आश्रमभ्रष्टानां प्रायश्चित्तेन आश्रमभ्रंशजन्यपापस्य नष्टत्वेन परिशुद्धानां परलोकप्राप्त्यमावेऽपि ब्रह्मविद्यायामधिकारो नास्तीत्याह- बहिस्तुभयथापि स्मृतेराचाराच्च ॥४३॥ आश्रमभ्रष्टानां कृतप्रायश्चित्तानाम् अकृतप्रायश्चित्तानां च उभयविधानाम.

तृ ये चतुर्थः पादः] सूत्रवृत्तिः । १०७ ? - पि बहिष्कारः कर्तव्यः ।प्रायश्चित्तकरणानन्तरमपि तेषां वेदान्तशास्त्रं गुरुभिर्न पाठनीयं, शिष्टैरपि तेषां निकटे वेदान्तश्रवणं न कर्तव्यं, सहश्रोतृभिरपि तैस्सह एकगुरुनिकटे वेदान्तश्रवणं न कर्तव्यम्।तस्सह पतिभोजनादिकमपि न कर्तव्यमित्यर्थः । कुतः ? स्मृतेः बहुस्मृतीनां विद्यमानत्वात्, आचारात् शिष्टाचाराच्चेत्यर्थः । कृतप्रायश्रित्तानां तु मर- णपर्यन्तं सन्न्यासाश्रमधर्ममनुतिष्ठतां जन्मान्तरे श्रवणाद्यनुष्ठानेन ब्रह्मसाक्षात्कार इति भावः ।इदं सर्वं विविदिषासन्न्यासविषयकम् । विद्वत्सन्न्यासिनां तु ब्रह्मसाक्षात्कारवह्नि- ना मबहत्यादिमहापातकानामपि दग्धत्वात् प्रायश्चित्तापेक्षा नास्तीति द्रष्टव्यम्।।४ वाम्यधिकरणम् ।। १३ ॥ उद्गीथाहवनीययूपादिषु कर्माङ्गेषु ब्रह्मदृष्टिरूपाणि अङ्गावबद्धोपासनानि यजमानस्य वा अनुष्ठेयानि, उत ऋत्विजां वा अनुष्ठेयानीति संदेहे सति निर्णयं क- तु प्रथमं पूर्वपक्षमाह- खामिनः फलश्रुतेरित्यात्रेयः॥४४॥ अङ्गावबद्धोपासनानि स्वामिनः यजमानस्य अनुष्ठेयानीति आत्रेयो मन्यते । कुतः ? फलश्रुतेः यजमानम्य फलश्रवणादित्यर्थः । तथा च यजमानस्य अङ्गा. वबद्धोपासनाजन्यकलभोक्तृत्वात् अङ्गावबद्धोपासनानि यजमानेनैव कर्तव्यानीत्यर्थः ।। सिद्धान्तः आत्विज्यमित्यौडलोमिस्तस्मै हि परिक्रीयते ॥४५॥ अङ्गावबद्दोपासनम् आत्विज्यम् ऋत्विजामनुष्ठेयमित्यौडुलोमिर्मन्यते । कुतः ? तस्मै साङ्गकर्मानुष्ठानाच दक्षिणादिना ऋत्विक्परिक्रीयते खलु । तथा च परिक्रीतः ऋत्विग्भिः कृतानि कर्माणि यथा यजमानस्य फलजनकानि, एवमङ्गा- वबद्धोपासनान्यपि ऋत्विग्भिरनुष्ठितानि यजमानस्य फलजनकानीत्यर्थः ॥ ४५ ॥ भङ्गावबद्धोपासनायां ऋत्विजामपि फलश्रवणाच अङ्गावबद्धो- पासनानि ऋत्विगनुष्ठेयानीत्याह- श्रुतेश्च ॥४६॥ 'आत्मने वा यजमानाय वा यं कामं कामयते, तं काममागायतीति श्रुतौ ऋत्विग्यजमानयोरुभयोरपि अङ्गावबहोपासनाजन्यफलश्रवणादपि ऋत्विजामनुष्ठे. यानि अङ्गावबद्धोपासनानीत्यर्थः । आत्मने स्वस्मै यजमानाय वा यं कामं का. मयते ऋत्विक, तं काममुद्दिश्य आगायति उद्गीथे ब्रह्मदृष्टिपूर्वक उद्गीथगानं क- रोतीति श्रुत्यर्थः। सूत्रत्रयमपि प्रसङ्गादागतं न प्रकृतोपयुक्तमिति द्रष्टव्यम् ॥४६।। - - .

१०८ अद्वैतमञ्जरी। l सहकार्यन्तरविध्यधिकरणम् ॥ १४ ॥ 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति सूत्रे सन्न्यासाश्रमात् पूर्वमनुष्ठेयानि ब्रह्मसाक्षात्कारं प्रति परम्परया साधनत्वेन बहिरङ्गसाधनानि यज्ञादिकर्माणि प्र. तिपाद्य सन्न्यासाश्रमानन्तरमनुष्ठेयानि ब्रह्मसाक्षात्कारं प्रति साक्षात्साधनत्वेन अन्तरङ्गसाधनानि शमदमादीन्यपि 'शमदमाद्युपेतस्स्यादि ' तिसूत्रे प्रतिपाद्य इदा- नी ततोऽप्यन्तरङ्गसाधनानि श्रवणमनननिदिध्यासनानि प्रतिपादयति-- सहकार्यन्तरविधिः पक्षण तृतीयं तद्वतो विध्यादिवत् ॥४७॥ विध्यादिवत् विध्यादौ कर्मकाण्डे यथा गृहस्थाश्रमवतः अग्रिहोत्रादीनि ब. हूनि कर्माणि स्वर्गादिफलोद्देशेन विहितानि, एवं तद्वतः सन्न्यासाश्रमवतः पुरुषस्य 'तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्येति ज्ञानकाण्डस्थश्रुतौ सहकार्यन्तरविधिः शमद- माद्यपेक्षया सहकार्यन्तराणां श्रवणमनननिदिध्यासनानां ब्रह्मसाक्षात्कारोदेशेन वि धिरङ्गीकर्तव्यः । तत्र त्रयाणां मध्ये श्रवणमनने सर्वेषामपि ब्रह्मसाक्षात्कारकामानां बहुकालमनुष्ठातव्ये । तृतीयं निदिध्यासनं तु पक्षेण कालविकल्पेन अनुष्ठेयम् । ये. पां श्रवणमननानन्तरमपि ब्राह्मणत्वक्षत्रियत्वादिवर्णाभिमानः , ब्रह्मचारित्वगृहस्थ- त्वाद्याश्रमाभिमानः, जातिकुलाद्यभिमानः, स्थूलोऽहं कृशोऽहं कर्ताहं भोक्ताहमित्ये- वंविधो देहाद्यभिमानो दृढो वर्तते, तेषां बहुकालं निदिध्यासनं कर्तव्यम् । येषां तु अतिशुद्धान्तःकरणानां देहाभिमानः श्रवणमननाभ्यामेव शिथिलीभूतः, तेषां स्वल्प- कालनिदिध्यासनेनैव साक्षात्कारोत्पत्तेः बहुकालं निदिध्यासनं न कर्तव्यमित्यर्थः । इदमुपलक्षणम् । अत्यन्तविशुद्धान्तःकरणानामत्यन्तेश्वरानुग्रहवतां श्रवणमनने अपि खल्पकालमेव अनुष्ठातव्ये , अन्येषां तु बहुकालमनुष्ठातव्ये इति श्रवणमनननिदि. ध्यासनानां त्रयाणामपि पुरुषभेदेन कालविकल्प इति द्रष्टव्यम् । 'तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य'ति श्रुतेरयमर्थः-तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्यबाल्येन तिष्ठासेत्, बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण' इति । सर्व कर्माणि सन्न्यस्य साधनचतुष्टयानन्तरं पाण्डित्यं श्रवणं निर्विद्य कृत्वा बाल्येन श्रवणज- न्यज्ञानस्य बलसम्पादकेन दायसम्पादकेन मननेन तिष्ठासेत् मननं कुर्वन् स्थातुमि- च्छेत् , बाल्यं च पाण्डित्यं च निर्विद्य मननं श्रवणं च कृत्वा अथ मुनिः मौनशीलः नि- दिध्यासनशीलो भवेत, एवम् अमौनं मौनात् निदिध्यासनादन्यत् श्रवणमननद्वयं, मौनं निदिध्यासनं च लब्ध्वा अथ ब्राह्मणः ब्रह्मसाक्षात्कारवान् मुख्य ब्राह्मणो भवेदित्य- थः ॥४७॥ 'अमिसमावृत्य कुडुम्बे शुचौ देशे यावजीवं स्वाध्यायमधीयीते ति श्रुती तु ये चतुर्थः पादः] सूत्रवृत्तिः । १०९ -- ब्रह्मचर्याश्रममुपक्रम्य गृहस्थाश्रमस्य उपसंहतत्वात् ब्रह्मचर्यगृहस्थाश्रमौ द्वावेव प्रामाणिकौ, सन्न्यासाश्रमस्त्वप्रामाणिकः । तथा च गृहस्थानामेव अग्निहोत्रादिक- मसु श्रवणमननादिषु च अधिकारः न सन्न्यासिनामित्याशङ्कयाह- कृत्स्नभावानु गृहिणोपसंहारः ॥४८॥ कृत्स्नभावात् कृत्स्नानां सकलाश्रमधर्माणाम् इन्द्रियनिग्रहतपोब्रह्मचर्यादीनां भावात् गृहस्थाश्रमे विद्यमानत्वात् तावन्मात्रेण गृहिणा गृहस्थाश्रमिणा उपसंहारः कृतः न तु सन्न्यासाश्रमव्यवच्छेदाभिप्रायेण । सन्न्यासाश्रमविधायकानां बहुश्रुतिवाक्या- नां विद्यमानत्वात् । तथा च गृहस्थानां नित्यनैमित्तिककाम्यकर्मानुष्ठानपूर्वकत्वेन श्रवणमनननिदिध्यासनानुष्ठानेऽवकाशाभावात् सन्न्यासिनामेव श्रवणादावधिकारः। तथा च कर्मकाण्डविहितेषु अग्निहोत्रादिकर्मसु ज्ञानकाण्डविहितेषु श्रवणमनना- दिषु च अधिकारभेद एवाङ्गीकर्तव्य इति भावः । यद्यपि 'अनुष्ठेयं बादरायणस्सा- म्यश्रुते' रिति सूत्र एव सन्न्यासाश्रमः स्थापितः, तथापि श्रवणादौ अधिकारिचिन्ता- प्रसङ्गात् ' कृत्स्नभावात्तु गृहिणोपसंहार' इति सूत्रे सन्न्यासाश्रमो दृढीकृत इति न पौनरुक्त्यमिति द्रष्टव्यम् । अभिसमावृत्य स्वाध्यायाध्ययनपरिसमाप्त्यनन्तरं गुरुगृहान्निर्गत्य स्वगृहं गत्वा कुटुम्बे गृहस्थाश्रमे स्थित्वा अविरक्तश्चेत् शुद्धस्थले यावज्जीवं ब्रह्मयज्ञस्वाध्यायाध्ययनं कुर्यात् , विरक्तश्चेत् कञ्चित्कालं गृहस्थाश्रमे स्थित्वा पश्चात् सन्न्यासाश्रमं स्वीकृत्य श्रवणमननादिकं कुर्यादित्यर्थः । तथा च या- वज्जीवमित्यतेदविरक्तविषयकमिति द्रष्टव्यम् ।।४।। तहिं ब्रह्मचर्यगार्हस्थ्यसन्न्यासाश्रमास्त्रयोऽपि प्रामाणिका भवन्तु नाम । वानप्रस्थाश्रमस्तु अप्रमाणिक एव । वानप्रस्थाश्रमासाधारणस्य कस्यचिदनु- ष्ठेयस्याभावादित्याशङ्कयाह- मौनवदितरेषामप्युपदेशात् ॥४९॥ मौनवत् मौनप्रधानकानां सन्न्यासिनामसाधारणश्रवणमननादिविधानवत् इ. तरेषां वानप्रस्थानामप्युपदेशात् उपवासप्रधानस्य कायक्लेशहेतुभूतस्य आश्रमा. न्तरासाधारणस्य तपसः श्रुतिस्मृत्यादिषु विहितत्वादित्यर्थः । तथा च ब्रह्मचारिणां यथेष्टभोजनपूर्वकं स्वाध्यायाध्ययनमसाधारणो धर्मः । गृहस्थानामपि यथोचित- भोजनपूर्वकमग्निहोत्रादिकर्मानुष्ठानमसाधारणो 'वर्मः । सन्यासिनामपि यथोचि तभोजनपूर्वकं श्रवणमननाद्यनुष्ठानमसाधारणो धर्मः । वानप्रस्थानां तु प्रायशः उपवासप्रधानकं शरीरशोषणहेतुभूतं पञ्चाग्निमध्यावस्थानरूपं तपश्चरणमसाधार- णो धर्मः । तथा च स्वाध्यायाध्ययनाग्निहोत्रादिकर्मानुष्ठानकृच्छ्चान्द्रायणादि- -

११.
अद्वैतमञ्जरी ।
-
?
तपश्चरणवेदान्तश्रवणरूपेषु चतुर्पु असाधारणधर्मेषु चतुर्णामाश्रमिणाम् अधिकार
इति भावः ।। ४९॥
अनाविष्कुर्वदधिकरणम् ॥ १५॥
'बाल्येन तिष्ठासे दिति श्रुतौ बाल्यशब्देन ब्रह्मज्ञानस्य दाळरूपबलसम्पा.
कं मननमुच्यत इति 'सहकार्यन्तरविधि' रिति पूर्वसूत्रे उक्तम् । इदानी बालसादृश्यं
बाल्यमिति बाल्यशब्दस्यार्थान्तरमप्याह-
अनाविष्कुर्वन्नन्वयात् ॥५०॥
कृतसन्न्यासो ब्राह्मणः पाण्डित्यं श्रवणमननोमयरूपं पाण्डित्यं निर्विद्य स-
म्पाद्य बाल्येन बालसदृशतया तिष्ठेदिति श्रुतेरर्थः । अस्मिन्नर्थे बाल्यशब्दस्यार्थमा-
ह-अनाविष्कुर्वन् बालकवत् स्वस्य ज्ञानवैराग्यादिकं लोकानामप्रकटयन् डम्भ-
दीहङ्कारादिरहितस्सन् कृतश्रवणमननः सन्न्यासी सर्वदा ब्रह्मध्यानं कुर्वन् तिष्ठे-
दित्यर्थः । कुतः १ अन्वयात् डम्भदपहिङ्कारादिराहित्यस्य ध्यानं प्रति साधनत्वे.
नान्वितत्वादित्यर्थः ॥१०॥
ऐहिकमप्यप्रस्तुतप्रतिबन्ध इत्यधिकरणम् ॥१६॥
एवं ब्रह्मसाक्षात्कारस्य अन्तरङ्गसाधनानि बहिरङ्गसाधनानि च निरूप्य इ.
दानीमस्मिन् जन्मनि कृतश्रवणमनननिदिध्यासनस्य पुरुषस्य अस्मिन्नेव जन्मनि
ब्रह्मसाक्षात्कारोत्पत्तिर्वा जन्मान्तरे वेति संशये सति निर्णयं करोति-
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तदर्शनात् ॥५१॥
अप्रस्तुतप्रतिबन्धे प्रस्तुतानां श्रवणमनननिदिध्यासनानां दृढदेहाद्यभिमान-
लक्षणे प्रतिबन्धके असति सति ऐहिकं ज्ञानमस्मिन्नेव जन्मनि ब्रह्मसाक्षात्कार उ.
त्पद्यते । दृढदेहामिमानलक्षणप्रतिबन्धके सति तु जन्मान्तरे पुनरपि श्रवणमनन-
निदिध्यासनानुष्ठानानन्तरं ब्रह्मसाक्षात्कार उत्पद्यत इत्यर्थः । कुतः ? तद्दर्शनात्
'अनेकजन्मसंसिद्धस्ततो याति परां गति'मित्यादिस्मृतिवाक्येषु प्रबलदेहाभिमानवताम-
नेकजन्मसु श्रवणमननाद्यनुष्ठानेन साक्षात्कारवत्त्वप्रतिपादनादित्यर्थः । तथा च वि-
शुद्धान्तःकरणानां स्वल्पदेहाभिमानवतामीश्वरानुग्रहवताम् एकजन्मानुष्ठितश्रवणमन-
नादिभिरेव ब्रह्मसाक्षात्कारोदयः, अन्येषां तु बहुजन्मानुष्ठितश्रवणमननादिभिः
साक्षात्कारोत्पत्तिरिति भावः ॥५१॥
मुक्तिफलानियमाधिकरणम् ।।१७॥
ब्रह्मसाक्षात्कारे उक्तन्यायं मोक्षेऽप्यतिदिशति-
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥५२॥

चये प्रथमः पादः] सूत्रवृत्तिः । ब्रह्मसाक्षात्कारवत् मुक्तिफलस्यापि मोक्षरूपफलस्याप्यनियमः अस्मिन्नेव जन्मनि मोक्षोदय इति नियमो नास्त्येव । किं तु ईश्वरानुग्रहवतां कृतश्रवणमनन- निदिध्यासनानां पुरुषाणामस्मिन्नेव जन्मनि मोक्षोदयः, अन्येषां तु जन्मान्तरे मो- क्षोदय इत्येवंविधो नियमोऽङ्गीकर्तव्यः । कुतः ? तदवस्थावधृतेः तदवस्थाया मोक्षा- वस्थायाः अवधृतेः 'ब्रह्म वेद ब्रह्मैव भवती' त्यादिश्रुतिषु मोक्षावस्थायाः ब्रह्मसा- क्षात्कारोत्तरकालीनत्वनिश्चयादित्यर्थः । तथाच यस्मिन् जन्मनि ब्रह्मसाक्षात्कारो. त्पत्तिः, तस्मिन् जन्मनि ब्रह्मभावलक्षणस्य मोक्षस्योत्पत्तिरिति भावः । ब्रह्मभावस्य उत्पत्तिर्नाम विस्मृतकण्ठाभरणस्येव अविद्यावृतस्य ब्रह्मभावस्य जीवब्रह्माभेदविषय- कसाक्षात्कारेण अविद्यानिवृत्तौ सत्यामभिव्यक्तिरिति भावः ॥१२॥ इति सूत्रवृत्तौ तृतीयाध्यायस्य चतुर्थः पादः॥ अथ क ॥ चतुर्थाध्यायस्य प्रथमः पादः॥ आवृत्त्यधिकरणम् ॥१॥ आवृत्तिरसकृदुपदेशात् ॥१॥ ब्रह्मविषयकश्रवणमनननिदिध्यासनानामसकृत् अनेकवारम् आवृत्तिः कर्त- व्या अभ्यासः कर्तव्यः । कुतः ? उपदेशात् 'आसुप्तेरामृतेः कालं नयेद्वेदान्त- चिन्तया । तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । तद्बुद्धयस्तदात्मानस्तन्नि- ष्ठास्तत्परायणाः । दिनदिने च वेदान्तश्रवणात् भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात कृच्छ्राशीतिफलं लभेत् ।' इत्यादिस्मृतिषु निरन्तरं ब्रह्मविचारस्य क. तव्यत्वोपदेशादित्यर्थः ॥ १॥ लिङ्गाच ॥२॥ सुवर्णरत्नमुक्काविद्रुमादितारतम्यपरिज्ञान स्यबहुकालं विचारसाध्यत्वदर्शनात् तदृष्टान्तेन ब्रह्मज्ञानस्यापि बहुकालविचारसाध्यत्वमङ्गीकर्तव्यमित्यर्थः ॥२॥ आत्मेत्यधिकरणम् ॥२॥ निर्गुणश्रवणाद्यावृत्तिं निरूप्य सगुणध्यानस्वरूपं निरूपयति- आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥ उपासनानि त्रिविधानि-अहंग्रहोपासनानि, प्रतीकोपासनानि, अङ्गा. वबद्धोपासनानि च । तत्राहंग्रहोपासनानि दहरशाण्डिल्यवैश्वानरोपकोसलविद्या. - अद्वैतमञ्जरी । दीनि । तत्र जीवस्य सगुणब्रह्मणश्चाभेदानुसन्धानम् अहंग्रहोपासनेत्युच्यते । जडेषु कर्मानङ्गेषु नामादिपदार्थेषु ब्रह्मादिपदार्थदृष्टिः प्रतीकोपासना । जडेषु क- मङ्गेिषु उद्गीथादिपदार्थेषु ब्रह्मादिपदार्थदृष्टिः अङ्गावबद्धोपासना । एवंस्थितेस. ति दहरवैश्वानरायपासनेषु परमात्मा आत्मेति ध्यातव्यः जीवाभिन्न इत्येव ध्यातव्य इति वृद्धाः उपगच्छन्ति अङ्गीकुर्वन्ति, ग्राहयन्ति च 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसी' त्यादिश्रुतयः. जीवानां सगुणब्रह्मणश्च अभेदध्यानमेव प्रतिपादयन्तीत्यर्थः । तथा च 'वैश्वानरोऽहं, दहराकाशोऽहं, अक्षिपुरुषोऽहं, भा. रूपोऽह'मित्येवंरूपेणैव सगुणब्रह्मोपासनानि कर्तव्यानीति भावः ॥३॥ न प्रतीकाधिकरणम् ॥३॥ न प्रतीकेन हि सः ॥४॥ प्रतीके 'नाम ब्रह्मेत्युपासीत, मनो ब्रह्मेत्युपासीत, आदित्यं ब्रह्मेत्युपासी'ते' त्यादिषु प्रतीकोपासनेषु न जीवब्रह्माभेदध्यानं कर्तव्यम् । कुतः ? न हि सः जी- वब्रह्माभेदध्यानोपदेशः तत्र न हि नास्ति खलु, नामादिब्रह्मणोरेवामेदध्यानस्य तत्रोपदिष्टत्वात् नामब्रह्मामेदध्यानमेव तत्र कर्तव्यं, न जीक्ब्रह्माभेदध्यानमित्य- र्थः । न च ब्रह्माभिन्ननामाहमस्मि, ब्रह्माभिन्नादित्यमण्डलमहमस्मि, ब्रह्माभिन्नमनोऽ. हमस्मीत्येवं ध्यान कर्तव्यम् । तथाविधविधेरप्यभावात् अविहितकरणस्य निष्फ- लत्वात् । तस्माद्विध्यनुसारेण जडानां नामादीनां ब्रह्मणश्चाभेदानुसन्धानमेव क. तव्यमिति भावः ॥ ४॥ ब्रह्मदृष्टयधिकरणम् ॥ ४॥ आदित्यमण्डलनाममनआदिषु अधिष्ठानेषु ब्रह्मत्वमारोप्य ध्यानं कर्त व्यं वा, ब्रह्मणि अधिष्ठाने नामत्वादित्यमण्डलत्वमनस्त्वादीनि आरोप्य ध्यानं कर्त. व्यं वा इति संशये सति निर्णयं करोति- ब्रह्मदृष्टिरुत्कर्षात् ॥५॥ निकृष्टेषु आदित्यमण्डलनामादिषु उत्कृष्टब्रह्मदृष्टिः कर्तव्या । कुतः ? उ- कर्षात् फलाधिक्यादित्यर्थः । लोकेऽपि निकृष्टेषु उत्कृष्ट दृष्टिः फलाधिक्याय भवति, उत्कृष्टे निकृष्टदृष्टिस्तु फलाधिक्याय न भवति, प्रत्युत अनर्थायैव भवतीति भावः । आदित्यादिमत्यधिकरणम् ॥५॥ आदित्यादिमतयश्चाङ्ग उपपत्तेः॥६॥ 'उद्गीथं ब्रह्मेत्युपासीत, आहवनीयं ब्रह्मेत्युपासीत, वेदि ब्रह्मेत्युपासीत, आदित्यं यूपमित्युपासीते' त्यादिषु अङ्गावबद्धोपासनेषु आदित्यादिमतयश्च आदित्य- ।

चये प्रथमः पादः] सूत्रवृत्तिः । - ११३. ब्रह्मादिदृष्टयोऽपि अङ्गे वचनव्यत्ययः छान्दसः अङ्गेष्वित्यर्थः । तथा च अङ्गेषु आहवनीयादिषु कर्तव्याः । कुतः ? उपपत्तेः निकृष्टेषत्कृष्टबुद्धिः फलाधिक्याय भ- वतीति पूर्वोक्तयुक्तरित्यर्थः ॥६॥ आसीनाधिकरणम् ॥६॥ इदानी ध्यानसाधनानि आसनादीनि निरूपयति- आसीनस्सम्भवात् ॥७॥ मुखासने आसीनस्सन् ध्यानं कुर्यात् । कुतः ? सम्भवात् आसीनस्यैव चि. तैकाग्न्यसम्भवादित्यर्थः ॥७॥ ध्यानाच ॥८॥ ध्यानशब्दार्थपर्यालोचनादपि आसीनेनैव ध्यानं कर्तव्यम् । प्रपञ्चविषयक प्र- त्ययतिरस्कारेण ब्रह्मविषयकप्रत्ययप्रवाहीकरणं हि ध्यानशब्दार्थः । एवंविधध्यान शयानस्य न सम्मवति । निद्रया पीडितत्वात् । तिष्ठतोऽपि न सम्भवति । पादवेन दनया पीडितत्वात् । गच्छतोऽपि न सम्भवति । कण्टकादिना पीडितत्वात् । तस्मात् आसीनस्यैव ध्यानमित्यर्थः ॥८॥ अचलत्वं चापेक्ष्य ॥९॥ अचलत्वं निश्चलत्वं च अपेक्ष्य उद्दिश्य आसीन एव ध्यानं कुर्यादित्यर्थः ॥९॥ स्मरन्ति च ॥१०॥ 'शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन' इत्यादिस्मृतयोऽपि आसीनस्यैव ध्यानं प्रतिपादयन्तीत्यर्थः ॥१०॥ यत्रैकाग्रताधिकरणम् ॥७॥ कस्मिन् देशे ध्यानं कर्तव्यमित्याकाङ्क्षायामाह- यत्रैकाग्रता तत्राविशेषात् ॥११॥ नदीतीरदेवालय पुण्यक्षेत्रामाणां मध्ये यत्र यस्मिन् देशे मनस एकाग्रता प्रसन्नता, तत्र ध्यानं कर्तव्यम् । कुतः ? अविशेषात् शुद्धान्तःकरणस्य सर्वत्रापि मनः- प्रसादस्य तुल्यत्वादित्यर्थः ॥११॥ आप्रायणाधिकरणम् ॥८॥ कति संवत्सराणि ध्यानं कर्तव्यमित्याकाङ्क्षायामाह- आप्रायणात्तत्रापि हि दृष्टम् ॥१२॥ आप्रायणात् मरणपर्यन्तं ध्यानं कर्तव्यम् । कुतः ? तत्रापि मरणकालेऽपि - ष्टं 'यं यं वापि स्मरन् भाव'मित्यादिस्मृति ध्यानं प्रतिपादितमित्यर्थः ॥ १२ ॥ - N अद्वैतमञ्जरी। तदधिगमाधिकरणम् ॥९॥ सगुणध्यानखरूपं विचार्य पुनरपि निर्गुणस्वरूपं विचारयति । कर्माणि च. तुर्विधानि-सञ्चितानि, प्रारब्धानि, अतीतानि, आगामीनि च । तत्र पूर्वजन्मसु क- तानि भविष्यदेहजननयोग्यानि स्वर्गादिफलोद्देशेन कृतानि कर्माणि सञ्चितानि, म- हता प्रयासेन श्रवणमनननिदिध्यासनसाक्षात्कारादिसकलमोक्षसाधनसम्पादकवर्त- मानशरीरारम्भकाणि पूर्वजन्मकृतानि कर्माणि प्रारब्धानि, ब्रह्मसाक्षात्कारोत्पत्तेः पूर्वमस्मिन् जन्मनि जन्मान्तरे वा ब्रह्मसाक्षात्कारोदेशेन कृतानि कर्माणि अतीतानि, ब्रह्मसाक्षात्कारोत्पत्त्यनन्तरमस्मिन् जन्मनि कृतानि आगामीनि । तत्र चतुर्विधेषु कः मसु मध्ये सञ्चितानां भविष्यद्देहपरम्परारूपफलमनुत्पाद्यैव नाशम्, आगामिनां च देहाभिमानरहितेन कृतत्वात् फलजननासामर्थ्य च प्रथमं प्रतिपादयति- तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्यपदेशात् ॥१३॥ तदधिगमे तस्य ब्रह्मणः अधिगमे साक्षात्कारे सति उत्तरपूर्वाघयोः आगा- मिसञ्चितपापयोरश्लेषविनाशौ भवतः। आगामिपापस्यासंस्पर्शः, सञ्चितपापस्य विना- शंश्च मवति । कुतः ? तद्व्यपदेशात् 'तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते, तद्यथे- पीकातूलमग्नौ प्रोतं प्रदूयेत' 'यथैधांसि समिद्धोऽग्निभस्मसात्कुरुतेऽर्जुन ।' इत्या. दिश्रुतिस्मृतिषु आगामिसञ्चितकर्मणोरश्लेषविनाशव्यपदेशादित्यर्थः ॥ १३ ॥ इतराश्लेषाधिकरणम् ॥ १०॥ पापस्याश्लेषविनाशौ प्रतिपाद्य पुण्यस्याश्लेषविनाशौ प्रतिपादयति- इतरस्याप्येवमसंश्लेषः पाते तु ॥१४॥ पाते ब्रह्मसाक्षात्कारेण देहाभिमाननाशे सति इतरस्य ब्रह्मज्ञानोत्तरकालीन- पुण्यस्यासंश्लेषः असंस्पर्शो भवति । इदमुपलक्षणम् । सञ्चितपुण्यस्य नाश इत्यपि द्रष्टव्यम् ॥१४॥ अनारब्धकार्याधिकरणम् ॥ ११ ॥ वर्तमानदेहजनकयोः प्रारब्धपुण्यपापयोस्तु ज्ञानान्नाशो नास्तीत्याह- अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥१५॥ अनारब्धकार्ये अनुत्पादितवर्तमानशरीरे एव पुण्यपापे नश्यतः , न तु वर्त- मानशरीरारम्भके । कुतः ? तदवधेः ब्रह्मसाक्षात्कारानन्तरमपि प्रारब्धकर्मनाशपर्य- न्तं शरीरावस्थानस्य तस्य तावदेव चिर'मित्यादिनुतिषु प्रतिपादितत्वादित्यर्थः । तस्य तावदेव चिरमित्यादिश्रुतेरयमर्थः-तस्य ब्रह्मसाक्षात्कारवतो जीवन्मुक्तस्य ता- वदेव चिरं तावानेव विदेहकैवल्यस्य विलम्बः, यावन्न विमोक्ष्ये यावत् प्रारब्धकर्म--

च ये प्रथमः पादः]
सूत्रवृत्तिः ।
मिन विमुच्यते अथ सम्पत्स्ये अथ प्रारब्धकर्मनाशानन्तरं सम्पत्स्ये विदेहकैवल्यं
प्राप्नोतीत्यर्थः ॥ १५॥
अग्निहोत्राधिकरणम् ॥१२॥
एवमतीतस्य ज्ञानसाधनाग्निहोत्रादेरपि ब्रह्मज्ञानेन नाशो नास्तीत्याह-
अमिहोत्रादि तु तत्कार्यायैव तदर्शनात् ॥१६॥
ज्ञानोद्देशेन कृतम् अग्निहोत्रादिकं तत्कार्याय ज्ञानरूपकार्याय भवति । कु-
तः ? तदर्शनात् 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती'त्यादिश्रुतिषु अग्निहोत्रा-
दीनां परम्परया ज्ञानसाधनत्वप्रतिपादनात् । तथा चाग्निहोत्रादीनां ब्रह्मज्ञानसाध-
नत्वेन ब्रह्मज्ञानं प्रत्युपजीव्यत्वात् ब्रह्मज्ञाननाश्यत्वं नास्तीति भावः । यद्यपि क-
मणां फलनाश्यत्वात् फलभूतेन ब्रह्मज्ञानेन नाशोऽस्त्येव, तथापि फलत्वेन रूपेणैव
ब्रह्मज्ञानस्य कर्मनाशकत्वं, न तु ज्ञानत्वेन रूपेणेति भावः ॥ १६ ॥
ज्ञानसाधनाग्निहोत्रादेः ज्ञानेन नाशाभावे कस्य कर्मणः ज्ञाननाश्यत्वमित्या;
काङ्क्षायां सञ्चितकर्मण एव नाश इति पूर्वोक्तं स्मारयात---
अतोऽन्यापि ह्येकेषामुभयोः ॥१७॥
अतः ज्ञानसाधनानिहोत्रादेः अन्या स्वर्गादिफलोद्देशेन पूर्वजन्मसु कता या
अग्निहोत्रादिक्रिया, सा ब्रह्मज्ञानेन नश्यति । एकेषामाचार्याणां मते उभयोर्जेमिनि-
बादरायणयोश्च मत इत्यर्थः ॥ १७ ।।
अथवा 'तमेतं वेदानुवचनेने'ति श्रुत्या सर्वेषां कर्मणां ज्ञानसाधनत्वेन बोधि-
तत्वात् ज्ञानासाधनीभूतं कर्मैनाप्रसिद्धम् । तथा च तदधिगम' इति सूत्रं निर्विषयक-
मित्याशङ्कयाह---
अतोऽन्यापि ह्येकेषामुभयोः॥१७॥
एकेषां काण्वानां शाखायां ज्ञानसाधनत्वेन विहितात् अतः अग्निहोत्रादेः अन्या
वर्गसाधनीभूता अग्निहोत्रादिक्रिया उभयोः जैमिनिबादरायणयोस्सम्मतास्ति , सा
ब्रह्मज्ञानेन नश्यतीति तदधिगम' इति सूत्रे प्रतिपाद्यते । तथा च सूत्रस्य निर्विषय.
त्वं. नास्तीत्यर्थः । यद्यपि ज्ञानसाधनीभूताग्निहोत्रादिकं स्वर्गादिसाधनीभूताग्निहोत्रा-
दिकं च एकमेव, तथापि ज्ञानोद्देशेन कृतं सत् ज्ञानसाधनं, स्वर्गोद्देशेन कृतं सत्
स्वर्गसाधनं च भवति। तथा च ज्ञानसाधनत्वस्वर्गसाधनत्वरूपविशेषणभेदात् विशि-
कर्मभेदमङ्गीकृत्य ज्ञानसाधनीभूताग्निहोत्रादेः स्वर्गसाधनीभूताग्निहोत्रादेश्च भेदव्य-
पदेश उपपन्न इति भावः ॥ १७ ।।
यदेवाशिकरणम् ॥ १३॥

अद्वैतमञ्जरी । यदेव विद्ययेति हि ॥१८॥ यत् कर्म विद्यया अङ्गावबद्रोपासनया सहकृतं , तदेव कर्म अस्मिन् जन्मनि ब्रह्मज्ञानसाधनम् । 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वी- यवत्तरं भवती' ति उपासनासहरूतस्यैव कर्मणः अविलम्बेन ब्रह्मज्ञानसाधनत्वप्र. तिपादनादित्यर्थः । उद्गीथाहवनीयादिकर्माङ्गेषु ब्रह्मदृष्टिपूर्वकम् अनुष्ठितानि अ- ग्निहोत्रादिकर्माणि अस्मिन्नेव जन्मनि ब्रह्मज्ञानं जनयन्ति । उपासनारहितानि तु कणि कालविलम्बेन जन्मपरम्परया ब्रह्मज्ञानजनकानीत्यर्थः ।।१८।। भोगाधिकरणम् ॥ १४ ॥ प्रारब्धयोः पुण्यपापयोः कदा नाश इत्याकाङ्क्षायामाह- भोगेन वितरे क्षपयित्वा सम्पद्यते ॥१९॥ भोगेन सुखदुःखानुभवेन इतरे वर्तमानशरीरजनके प्रारब्धे पुण्यपापे क्षपयि- त्वा नाशयित्वा सम्पद्यते विदेहकैवल्यं प्राप्नोतीत्यर्थः ॥१९॥ इति सूत्रवृत्तौ चतुर्थाध्यायस्य प्रथमः पादः । अथ ॥ चतुर्थाध्यायस्य द्वितीयः पादः ॥ वाक्सम्पत्त्यधिकरणम् ॥१॥ मुमूर्पूणामवस्था द्विविधा-मरणावस्था, उत्क्रान्त्यवस्था छ । तत्र मरणान- न्तरं सगुणब्रह्मोपासकानाम् अचिरादिमार्गेण ब्रह्मलोकप्राप्तिः , सुकृतिनां तु धूमा- दिमार्गेण स्वर्गलोकप्राप्तिः , पापात्मनां तु तृतीयमार्गेण नरकलोकप्राप्तिः , निर्गु- णब्रह्मसाक्षात्कारवतां तु अत्रैव ब्रह्मणि लय इति वक्तुं प्रथम सर्वसाधारणां मरणा- वस्थां निरूपयति- वाङ्मनसि दर्शनाच्छब्दाच ॥१॥ वाक् वागिन्द्रियं मनसि सम्बध्यते । कुतः ? दर्शनात् लोके मुमूर्षणां वा- व्यापारनाशानन्तरमपि मनोव्यापारस्य दर्शनात, शब्दाच्च 'अस्य प्रयतो जीवस्य वाड्मनसि सम्पद्यते मनः प्राणे प्राणोऽध्यक्षे अध्यक्षस्तेजसि तेजः परस्यां देवताया- मिति श्रुतौ वागिन्द्रियस्य मनसि सम्बन्धप्रतिपादनाच्चेत्यर्थः ॥ १ ॥ अत एव च सर्वाण्यनु ॥२॥ १. 'अस्य सोम्यपुरुषस्य प्रयतो वाड्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामिति भाष्योदाहृतच्छान्दोग्यश्रुतिपाठः दृश्यते.

च०ये द्वितीयः पादः] सूत्रवृत्तिः । ? अत एव वाक्छब्दस्य सर्वेन्द्रियोपलक्षकत्वेन शब्दाद्दर्शनाच सर्वाणीन्द्रिया. णि वाचमनुसृत्य मनसि सम्बध्यन्त इत्यर्थः ॥ २ ॥ मनस्सम्पत्त्यधिकरणम् ॥२॥ तन्मनःप्राण उत्तरात् ॥३॥ तन्मनः प्राणे सम्बध्यते । कुतः ? उत्तरात्मनः प्राण'इत्युत्तरवाक्यादित्यर्थः॥३॥ प्राणसम्पत्त्यधिकरणम् ॥३॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥४॥ स प्राणः अध्यक्ष जीवे सम्बध्यते । कुतः ? तदुपगमादिभ्यः हेतुभ्यः 'तमु. क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती'ति श्रुतौ प्रा. णादीनां जीवानुगामित्वप्रतिपादनात् जीवेन सह परलोकगमनश्रवणादित्यर्थः ॥४॥ भूतेषु तच्छ्रुतैः ॥५॥ स चाध्यक्षः भूतेषु पञ्चमहाभूतेषु सम्बध्यते । कुतः ? तच्छ्रुतेः 'अध्यक्षस्ते- जसी'ति श्रुतेस्तेजश्शब्दस्य पञ्चमहाभूतोपलक्षकत्वादिति भावः ॥ ९॥ तेजश्शब्दस्य पञ्चमहाभूतोपलक्षकत्वं कथमित्याशङ्कयाह- नैकस्मिन् दर्शयतो हि ॥६॥ एकस्मिन्नेव तेजसि जीवस्य सम्बन्धं श्रुतिस्मृती न दर्शयतः न प्रतिपादयतः, किं तु पञ्चमहाभूतेषु । तथा च बहुश्रुतिस्मृत्यनुरोधेन तेनःपदं पञ्चमहाभूतोपलक्षणा- A- र्थमित्यर्थः ॥६॥ आमृत्युपक्रमाधिकरणम् ॥ ४ ॥ समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य ॥७॥ लिङ्गशरीरान्तर्गतानां भूतेन्द्रियमनःप्राणजीवानां हृत्पुण्डरीके परस्परमेलन- रूपा इयं मरणावस्था आसृत्युपक्रमात् मृत्युपक्रमं वर्जयित्वा समाना निर्गुणब्रह्म साक्षात्कारवतां सगुणब्रह्मोपासकानां कर्मिणां च तुल्या । मृत्युपक्रमो नाम हत्पु- ण्डरीकस्थस्य पञ्चमहाभूतप्राणेन्द्रियमनःप्रभृतिचतुरङ्गबलपरिवृतस्य जीवाख्यस्य रा. ज्ञः स्वर्गनरकब्रह्मलोकादिराष्ट्रदर्शनार्थं नाडीद्वारा देहाख्यान्तःपुरात् बहिर्निर्गमन- रूपा उत्क्रान्तिः । एतामुत्क्रान्ति विना जीवस्य इन्द्रियादिसकलपरिवारमेलनरूपा मरणावस्था ज्ञानिनामपि तुल्येत्यर्थः । हृत्पुण्डरी के मिलितं ज्ञानिनां लिङ्गशरीरं कु- त्र गच्छतीत्याकाङ्क्षायामाह--अमृतत्वं चानुपोष्य ज्ञानिनां लिङ्गशरीरमनुपोष्य लोकान्तरमगत्वा हृत्पुण्डरीकावच्छिन्ने ब्रह्मण्येव अमृतत्वं मोक्षमात्यन्तिकनाशं प्रा-

११८
अद्वैतमञ्जरी।
मोतीत्यर्थः । जीवस्तु ब्रह्मामेदं प्राप्नोतीति भावः । तथा च 'तेजः परस्यां देवताया-
मिति श्रुतिः ज्ञानिमात्रविषया , ततः पूर्वा श्रुतिस्तूपासककर्मिज्ञानिसाधारणेति भावः।
तदापीत्यधिकरणम् ॥५॥
ननु,
'तेनः परस्यां देवताया मिति श्रुतिरपि पूर्वश्रुतिवत् सर्वसाधारणा
भवतु, बाधकाभावादित्याशङ्कयाह--
तदापीतेस्संसारख्यपदेशात् ॥ ८॥
तत् लिङ्गशरीरम् आपीतेः आमोक्षात् ब्रह्मसाक्षात्कारपर्यन्तं तिष्ठति ।
कुतः ? संसारव्यपदेशात् उपासकानां कर्मिणां च स्वर्गनरकब्रह्मलोकादिसञ्चारोप-
देशादित्यर्थः । तथा च तेजः परस्यां देवतायामिति श्रुतेन्यिज्ञानिसाधारणत्वे क
मकाण्डोपसनाकाण्डयोरप्रामाण्यप्रसङ्गात् 'तेजः परस्यां देवतायामि'ति श्रुतेर्जीनि-
मात्रविषयत्वमेवाङ्गीकर्तव्यमिति भावः ॥ ८॥
यदि लिङ्गशरीरं मरणकाले शरीराबहिनिर्गच्छति, तर्हि मृतशरीरसमीप-
वर्तिनां सर्वेषां कथं न दृश्यत इत्याशङ्कयाह-
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥९॥
लिङ्गशरीरं सूक्ष्मम् इन्द्रियाग्राह्यं प्रमाणतः परिमाणतोऽपि सूक्ष्मम् ।
कुतः ? तथोपलब्धेः श्रुतिषु लिङ्गशरीरस्य अतीन्द्रियत्वप्रतिपादनादित्यर्थः ॥९॥
लिङ्गशरीरस्य स्थूलशरीरात् बहिनिर्गमने लिङ्गमाह-
नोपमर्दैनातः ॥१०॥
अतः लिङ्गशरीरस्य मरणानन्तरं स्थूलशरीरात् बहिनिर्गमनादेव उपमर्दैन
पीडासाधनेन दहनादिना स्थूलशरीरस्य पीडा नास्तीत्यर्थः ॥१०॥
लिङ्गान्तरमाह--- अस्यैव चोपपत्तरेष ऊष्मा ॥११॥
अस्य लिङ्गशरीरस्य उपपत्तेः सम्बन्धादेव जीवनावस्थायां स्थूलशरीरस्य
एष ऊष्मा उष्णस्पर्शः सर्वेषामुपलभ्यते । मरणानन्तरं तु शैत्योपलम्भात् लिङ्गश.
रीरनिर्गमनमनुमीयत इत्यर्थः ॥ ११ ॥
उत्क्रान्तिप्रतिषेधाधिकरणम् ॥६॥
एतावत्पर्यन्तं निर्गुणब्रह्मज्ञानरहितानां जीवानां लिङ्गशरीरनिर्गमनं प्रसाध्य
इदानीं निर्गुणब्रह्मसाक्षात्कारवतां लिङ्गशरीरनिर्गमनाभावं वक्तुं प्रथमं पूर्वपक्ष-
माह-
प्रतिषेधादिति चेन शारीरात् ॥१२॥

चये द्वितीयः पादः] सूत्रवृत्तिः । ११९ 'न तस्मात् प्राणा उत्क्रामन्ती ति श्रुत्या उत्क्रमणप्रतिषेधात् ज्ञानिनां लि- ङ्गशरीरानिर्गमनं नास्तीति चेन्न । शारीरात् तस्याश्श्रुतेश्शारीराज्जीवाद्विना इन्द्रि- याणां खातन्त्र्येण गमननिषेधप्रतिपादकतया सर्वात्मना गमननिषेधपरत्वाभावादि- त्यर्थः । अयं भावः-'न तस्मात् प्राणा उत्क्रामन्तीति श्रुतेरयमर्थः-तस्माद्र- मसाक्षात्कारविशिष्टात् जीवाद्विना प्राणाः इन्द्रियाणि नोत्क्रामन्ति, किं तु जीवेन सहैव उत्क्रामन्ति । तथाचास्याः श्रुतेः स्वातन्त्र्येण निर्गमनाभावप्रतिपादकत्वेन जीवविशिष्टलिङ्गशरीरनिर्गमनाभावप्रतिपादकत्वाभावादनया श्रुत्या ज्ञानिनां लिङ्ग- शरीरनिर्गमनाभावो न सिध्यतीति पूर्वपक्ष्याशयः ॥ सिद्धान्तः-- स्पष्टो ह्येकेषाम् ॥१३॥ एकेषां काण्वानां शाखायां 'न तस्य प्राणा उत्क्रामन्ति अत्रैव समवलीयन्त' इति श्रुतौ स्वातन्त्र्येण पारतन्व्येण च सर्वथापि ज्ञानिनां लिङ्गशरीरनिर्गमनामावः स्पष्टः । तथा च 'न तस्मात् प्राणा उत्क्रामन्तीति माध्यंदिनशाखायामपि तस्मा- दिति पञ्चम्यन्तपदस्य लक्षणया षष्ठयर्थप्रतिपादकत्वमेव वक्तव्यम् । अन्यथा अज्ञा- निनामपि जीव विना स्वातन्त्र्येण लिङ्गशरीरनिर्गमनाभावेन अप्रसक्तप्रतिषेधादिति भावः ॥ १३ ॥ स्मयते च ॥१४॥ भगवद्गीतादिस्मृतिष्वपि ज्ञानिनां लिङ्गशरीरनिर्गमनामावः प्रतिपाद्यत इत्यर्थः ॥२४॥ ॥ लयाधिकरणम् ॥ ७॥ तर्हि ज्ञानिनां लिङ्गशरीरं कुत्र गच्छतीत्याकाङ्क्षायामाह- तानि परे तथाह्याह ॥१५॥ तानि ज्ञानिनां भूतेन्द्रियप्राणान्तःकरणानि परे परमात्मनि लीयन्ते । कुतः? तथाह्याह "इमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति' 'मिद्य- ते हृदयग्रन्थिः तथा विद्वान्नामरूपाद्विमुक्तः यदा सर्वे प्रमुच्यन्त' इत्यादिश्रुतयः ब्रह्मज्ञानिसम्बन्धिनां दशेन्द्रियाणां पञ्चप्राणानां मनसश्च परमात्मनि लयं प्र- तिपादयन्तीत्यर्थः । यद्यपि 'समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य' इति सूत्रे ज्ञानिनां लिङ्गशरीरस्य ब्रह्माणि लय उक्तः, तथापि 'तानि परे तथाह्याहे'ति सूत्रे वक्ष्यमाण एवार्थः सुखबोधार्थम् आकृष्य पूर्वमुक्त इति न पौनरुक्त्यमिति भावः ॥१५॥ अविभागाधिकरणम् ॥८॥ स च लिङ्गशरीरनाशः सुषुप्त्युत्क्रान्तिप्रलयादिकालेष्विव स्थूलावस्थानाशमा. - १२० औद्वतमञ्जरी। ? त्रं न भवति, किं तु आत्यन्तिकनाश इत्याह- अविभागो वचनात् ॥१६॥ अविभागः ज्ञानिनां लिङ्गशरीरस्य आत्यन्तिकनाशः अङ्गीकर्तव्यः । कु- तः ? वचनात् 'अविद्यायाः परं पारं तारयसी' ति श्रुतौ ब्रह्मसाक्षात्कारेण अवि. द्यानिवृत्तिश्रवणात् अविद्यानन्यस्य लिङ्गशरीरस्य आत्यन्तिकनाश एवाङ्गीकर्त- व्य इत्यर्थः ॥१६॥ तदोकोऽग्राधिकरणम् ॥९॥ इतया सूत्रसन्दर्भेण ज्ञानिनां लिङ्गशरीरनिर्गमनाभावमुक्त्वा सगुणोपासकानां लिङ्गशरीरनिर्गमनप्रकारं दर्शयति- तदोको प्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेष- गत्यनुस्मृतियोगाच हार्दानुगृहीतश्शताधिकया॥१७॥ तदोकोऽग्रज्वलनं तस्य जीवस्य प्राणेन्द्रियादिपरिवृतस्य ओकः स्थानं ह. त्पुण्डरीकं तस्य अग्रज्वलनं भवति अग्रस्य ऊर्श्वभागस्य विकासो मवति, तत्प्र. काशितद्वारः तेन विकासेन प्रदर्शितदेवयानमार्गस्सन्नुपासकः सुषुम्नानाडीद्वा- रा देहात् बहिनिर्गच्छतीति उत्तरेण सम्बन्धः । हृत्पुण्डरीकस्य उर्ध्वप्रदेशविकासे हेतुद्वयमाह-विद्यासामर्थ्यात् सगुणब्रह्मोपासनासामर्थ्यात् तच्छेषगत्यनुस्मृतियो- गात् तस्याः सगुणब्रह्मोपासनायाः शेषभूतयाङ्गभूतया गत्यनुस्मृत्या देवयानमार्ग- चिन्तया योगात् सम्बन्धाच्च तदोकोऽग्रज्वलनं भवतीति पूर्वेणान्वयः । तत्प्रकाशि. तद्वारस्सन् उपासकः हार्दानुगृहीतः हृत्पुण्डरीकस्थेन सगुणब्रह्मणा अनुगृहीतः प्रेरितस्सन् शताधिकया शतसङ्ख्याकाभ्यः प्रधाननाडीभ्यः अधिकया अतिरि- कया एकशततम्या सुषुम्ना नाड्या देहात बहिनिर्गच्छतीत्यर्थः । 'शतं चैका च हृदयस्य . नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्व- न्या उत्क्रमणे भवन्तीति श्रुतिबलादिति भावः । अस्याश्श्रुतेरयमर्थः- हृत्पु. ण्डरीकसम्बन्धिन्यो नाड्य एकोत्तरशतं भवन्ति । तासां मध्ये एका सुषुम्नाख्या नाडी मूर्धानममिनिस्सता ब्रह्मरन्ध्रपर्यन्तं व्याप्ता । तया द्वारा उर्ध्वमायन् देहात् बहिर्निगच्छन् उपासकः अमृतत्वं ब्रह्मलोकाख्यं गौणममृतत्वं प्राप्नोति, विष्वक् ढत्पुण्डरीकस्य चतसृषु दिक्षु विद्यमानाः अन्या नाड्यः कर्मिणामुत्क्रमणे द्वारा णि भवन्तीत्यर्थः । सुलतिनां दुष्कृतिनां च धूमादिमार्गेण तृतीयमार्गेण च स्वर्ग- नरकादिप्राप्तिः रंहतिपाद एवोक्तेति नात्रोच्यत इति भावः ॥ १७ ॥ :- च० ये द्वितीयः पादः] सूत्रवृत्तिः । १२१ अत एवं , रश्म्यधिकरणम् ॥ १०॥ रश्म्यनुसारी ॥१८॥ सुषुम्नानाड्या देहात् बहिर्निर्गतः उपासकः रश्म्यनुसारी नाडीसंसृष्ट- सूर्यकिरणावलम्बी सन् किरणद्वारेण ब्रह्मलोकं गच्छतीत्यर्थः ॥१८॥ निशिनेति चेन्न सम्बन्धस्य यावदेहभाविवादर्शयति च ॥१९॥ दिवा मृतस्य उपासकस्य रश्मिद्वारा सूर्यलोकप्राप्तिरस्तु । रात्रौ मृतस्य उपासकस्य नाडीसंसृष्टरश्म्यभावात् राश्मिद्वारेण ब्रह्मलोकसम्बन्धो न सम्भवतीति चेन्न । सम्बन्धस्य रश्मिनाडीसम्बन्धस्य यावद्देहभावित्वात् दिवा च रात्रौ च र- श्मिनाडीसम्बन्धस्य विद्यमानत्वात् । दर्शयति च 'आसु नाडीषु रश्मयः सन्तता' इति श्रुतिः सर्वकालेष्वपि रश्मिनाडीसम्बन्धं प्रतिपादयतीत्यर्थः । सूर्यमण्डलस्य मेरुव्यवधानेन प्रत्यक्षयोग्यस्थूलकिरणाभावेऽपि अतीन्द्रियाः सूक्ष्मकिरणाः रात्राव- पि सन्त्येव । अन्यथा ग्रीष्मकाले रात्रिषु तापस्वेदादिकं न स्यादिति भावः । १९॥ ॥ अयनाधिकरणम् ॥ ११ ॥ अतश्चायनेऽपि हि दक्षिणे ॥२०॥ यतः कारणाद्रात्रौ मृतस्य उपासकस्य ब्रह्मलोकसम्बन्धः उक्तः दक्षिणे अयने । इदमुपलक्षणं कृष्णपक्षे च मृतस्य उपासकस्य सूर्यकिरणद्वारा अ. चिरादिमार्गेण ब्रह्मलोकप्राप्तिरस्तीत्यर्थः ॥ २० ॥ ननु , अग्निज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति, ब्रह्म ब्रह्मविदो जनाः । धूमो रात्रिस्तथा कृष्णष्षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवर्तत' इति भगवद्गीतास्मृतिः उत्तरायणदक्षिणा- यनयोः मृतानामेव उपासकानां कर्मिणां च ब्रह्मलोकस्वर्गलोकादिप्राप्ति दर्शयति । तथा च कथं दक्षिणायनकृष्णपक्षराव्यादिकालेषु मृतानामुपासकानां ब्रह्मलोक- प्राप्तिरुच्यत इत्याशङ्कयाह- योगिनः प्रति च स्मयते स्माते चैते ॥२१॥ स्मार्ते स्मृत्युक्ते एते उत्तरायणदक्षिणायने इत्येतदुभयं योगिनः प्रति प्राणा- यामादियोगाभ्यासतत्परान् प्रति उच्यत इति स्मयते प्रतिपाद्यते , न तु सगुणब- मोपासकान् कर्मठांश्च प्रति । तथा च योगाभ्यासपराणां दक्षिणायने मृतिश्चेत, स्व- गलोकप्राप्तिः, उत्तरायणे मृतिश्चेत्, ब्रह्मलोकप्राप्तिः , नान्यथा । उपासकानां क- मिणां च यदाकदाचिन्मृतानामपि ब्रह्मलोकप्राप्तिः स्वर्गलोकप्राप्तिश्च सम्भवती- ति भावः । वस्तुतस्तु भगवद्गीतास्मृतौ विद्यमानानां अहश्शब्दरात्रिशब्दशुक्लकृष्ण- १६ १२२ अद्वैतमञ्जरी । दक्षिणायनोत्तरायणशब्दानां श्रुतिस्थाहरादिशब्दानामिव लोकपरत्वेन कालपरत्वा- भावात् अस्यास्स्मृतेः उपासककर्मिपरत्वेऽपि न कोऽपि विरोध इति भावः ॥२१॥ इति सूत्रवृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः अथ - ॥ चतुर्थाध्यायस्य तृतीयः पादः ॥ आर्चराद्यधिकरणम् ॥ १॥ उपासकाना उत्क्रान्तिप्रकारं कालानियमं च प्रतिपाद्य इदानीमचिरादिमार्ग- स्वरूपं निरूपयति- अर्चिरादिना तत्प्रथितेः ॥१॥ उपासकः अचिरादिना मार्गेण ब्रह्मलोकं गच्छति । कुतः? तत्प्रथितेः तस्य चिरादिमार्गस्य 'तेऽर्चिषममिसम्भवन्ती ' ति छान्दोग्यश्रुतौ प्रसिद्धत्वा- दित्यर्थः ॥१॥ वाय्वधिकरणम् ॥ २॥ बृहदारण्यकश्रुतौ ‘स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोक- मि' ति वायुलोकवरुणलोकादयश्चत्वारः उक्ताः । तेषां कुत्र प्रवेश इत्याकाङ्क्षा- यामाह- वायुमब्दादविशेषविशेषाभ्याम् ॥२॥ अब्दात् संवत्सरलोकादुपरि वायुलोकं प्रवेशयेत् । कुतः ? अविशेषवि. शेषाभ्यां ‘स वायुलोकमि'त्यविशेषवचनात् सामान्यवचनात् वायुलोकस्य कुत्र चित् प्रवेशः कर्तव्यः । तत्र वाय्वादित्ययोः परस्परं सम्बन्धरूपविशेषात् संव. त्सरादित्ययोर्मध्ये वायोनिवेश इति निश्चीयत इत्यर्थः । ‘स वायुलोक ' मिति श्रुतेर्लोकमात्रप्रतिपादकत्वेन क्रमप्रतिपादकत्वाभावात् अविशेषवचनत्वमिति द्रष्ट- व्यम् ॥ २॥ तटिदधिकरणम् ॥ ३॥ तटितोऽधिवरुणस्सम्बन्धात् ॥३॥ तटितः विद्युल्लोकात् उपरि वरुणलोकः प्रवेशनीयः । कुतः ? सम्बन्धा- - च० ये तृतीयः पादः] सूत्रवृत्तिः । १२३ ? त् विद्युबरुणयोः परस्परं सम्बन्धादित्यर्थः । इन्द्रप्रजापतिलोकयोस्तु 'अवशि- ष्टानामन्ते निवेश' इति न्यायेन वरुणलोकानन्तरमिन्द्रलोकः, तदनन्तरं प्रजापति- लोक इति भावः ॥३॥ आतिवाहिकाधिकरणम् ॥ ४ ॥ आतिवाहिकास्तल्लिङ्गात् ॥४॥ एनेषु आर्चिरादिलोकेषु पूर्वपूर्वलोकस्थाः देवाः उत्तरोत्तरलोकप्राप्तिपर्यन्त- मुपासकानाम् आतिवाहिकाः सहायभूताः नेतारः अङ्गीकर्तव्याः । कुतः ? त- लिङ्गात् ‘स एनान् ब्रह्म गमयती'ति श्रुतौ विद्युल्लोकप्राप्त्यनन्तरम् अमानवपुरु- षस्य नेतृत्वप्रतिपादनरूपाल्लिङ्गात् तदृष्टान्तेन । पूर्वलोकेष्वपि नेतार अङ्गीक- तव्या इत्यर्थः ॥ ४ ॥ उभयव्यामोहात्तत्सिद्धेः ॥ ५॥ उपासकसम्बन्धिनाम् उभयेषां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च व्यामोहा. त् ब्रह्मलोकप्राप्तिपर्यन्तं स्थूलशरीराभावेन ज्ञानेन्द्रियाणां मार्गपरिज्ञानसामा- भावात् कर्मेन्द्रियाणां चलनसामर्थ्याभावाच्च तत्सिद्धेः तैरातिवाहिकैर्देवैरेव सि. द्धेः गमनस्यावश्यं वक्तव्यत्वादित्यर्थः ॥ १॥ वैद्युतेनैव ततस्तच्छ्रुतेः ॥६॥ ततः विद्युल्लोकप्राप्त्यनन्तरं वैद्युतेनैव ब्रह्मलोकात् विद्युलोकं प्रत्यागतेन अमानवपुरुषेणैव नीयमानाः उपासकाः ब्रह्मलोकं गच्छन्ति । कुतः ? तच्छ्रुतेः 'ततस्तत्पुरुषोऽमानव एत्येति श्रुतौ विद्युल्लोकप्राप्त्यनन्तरम् अमानवपुरुषस्य ने- तृत्वश्रवणात् उपासकानां वरुणेन्द्रप्रजापतिलोकेषु नेत्रन्तरापेक्षाया अभावादि- त्यर्थः ॥६॥ कार्याधिकरणम् ॥५॥ इयता सूत्रसन्दर्भण अचिरादिमार्गस्वरूपं विचार्य इदानी ‘स एनान् ब्रह्म गमयतीति वाक्यस्थब्रह्मशब्दार्थ विचारयति- प्रथमं सिद्धान्तमाह चतुर्मि- स्सूत्रैः- कार्य वादरिरस्य गत्युपपत्तेः ॥७॥ कार्य 'यो ब्रह्माणं विदधाति पूर्वमिति श्रुतौ परब्रह्मजन्यत्वेन प्रतिपाद्य- मानं हिरण्यगर्भाख्य ब्रह्मलोकस्थलीलाशरीरविशिष्टं कार्यं ब्रह्म सगुणब्रह्मोपास कानां प्राप्यमिति बादरिमन्यते । कुतः ? अस्य उपासकस्य गत्युपपत्तेः परि- - F १२४ अद्वैतमञ्जरी। च्छिन्नहिरण्यगर्भप्राप्त्यर्थं अचिरादिमार्गेण गमनस्य उपपन्नत्वात् । परब्रह्मणस्तु आकाशवत् सर्वत्र परिपूर्णत्वेन परब्रह्मप्राप्त्यर्थ अचिरादिमार्गेण गमनस्य व्य- र्थत्वादित्यर्थः ॥ ७॥ विशेषितत्वाच ॥८॥ स एनान् ब्रह्मलोकान् गमयति यस्मिन् सरण्यौ द्वौ समुद्रौ यस्मिन्नैरं- मदीयं सरः यस्मिन्नश्वत्थः सोमसवनः यस्मिन्नपराजिता पू: ब्रह्मणः प्रभुविमितं हि- रण्मयं वेश्म तन्ते प्राप्नुवन्ती' त्यादिश्रुत्यन्तरेषु उपासकानां ब्रह्मलोकप्राप्तेः वि. शिष्योक्तत्वात् ‘स एनान् ब्रह्म गमयती' ति श्रुतावपि ब्रह्मशब्देन ब्रह्मलोकस्थं हि- रण्यगर्भाख्य कार्य ब्रह्मैव उपासकानां प्राप्यमित्यर्थः। हिरण्यगर्भप्राप्ति म हिरण्यग- भमोगसशसकलभोगानुभवविशिष्टतया हिरण्यगर्भसन्निधौ अवस्थानम् ॥ ८ ॥ परब्रह्मणि मुख्यस्य ब्रह्मशब्दस्य हिरण्यगर्भे कथं प्रयोग इत्याशङ्कयाह- सामीप्यात्तु तद्यपदेशः ॥९॥ सामीप्यात् हिरण्यगर्भस्य प्रथमं परब्रह्मजन्यत्वेन असाधारणसम्बन्धात् त- द्यपदेशः लक्षणया ब्रह्मशब्दप्रयोगः ॥९॥ ब्रह्मलोकं प्राप्तानाम् उपासकानां कदा मुक्तिरित्याकाङ्क्षायामाह- कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥१०॥ कार्यात्यये महाप्रलयसमये कार्यस्य ब्रह्मलोकस्य अत्यये नाशे सति तद- ध्यक्षेण ब्रह्मलोकाध्यक्षेण हिरण्यगर्मेण सह अतः परं हिरण्यगर्भादपि उत्कृष्टं पर- ब्रह्म उपासकाः प्राप्नुवन्ति । कुतः ? अभिधानात् 'ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ती'ति श्रुतेः ॥ १० ॥ स्मृतेश्च ॥११॥ ब्रह्मणा सह ते सर्व सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति स्मृतेश्चेत्यर्थः ॥ ११ ॥ चतुर्भिः सूत्रैः प्रथमं सिद्धान्तमुक्त्वा पश्चात् सूत्रत्रयेण पूर्वपक्षमाह- परं जैमिनिमुख्यत्वात् ॥१२॥ 'स एनान् ब्रह्म गमयती' त्यत्र ब्रह्मशब्देन परब्रह्मैवोच्यते इति जैमिनिर्म- न्यते । कुतः ? मुख्यत्वात् ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वात् मुख्ये सम्भवति गौणस्यान्याय्यत्वादित्यर्थः ॥ १२ ॥ दर्शनाच्च ॥१३॥ . ?

च०ये तृतीयः पादः] सूत्रवृत्तिः । १२५ . m- - 'ब्रह्मविदाप्नोति परमि' त्यादिश्रुतिषु ब्रह्मशब्दस्य परब्रह्मणि प्रयोगदर्श नाच्चेत्यर्थः ॥ १३॥ पूर्वपक्षी खपक्षं प्रसाध्य सिद्धान्तं दूषयति- न च कार्ये प्रतिपत्त्यभिसन्धिः ॥१४॥ 'स एनान् ब्रह्मलोकान् गमयती ' ति श्रुत्यन्तरबलादपि कार्ये हिरगर्भे प्र. तिपत्त्यभिसन्धिः प्राप्त्याशा न. कर्तव्या । ब्रह्मलोकादिशब्दानां सर्वेषामपि ल. क्षणया परब्रह्मप्रतिपादकत्वसम्भवादिति भावः ॥ १४ ॥ अनेकेषाम् । ऐरंमदीयाश्वत्थहिरण्मयवेश्मब्रह्मलोकादिशब्दानां परब्रह्मणि लक्षणा- कल्पनापेक्षया एकस्यैव ब्रह्मशब्दस्य हिरण्यगर्भलक्षकत्वाङ्गीकारे लाघवात् व्या- पकस्य ब्रह्मणः अत्रैव प्राप्तुं शक्यत्वेन तत्प्राप्त्यर्थमुपासकानामचिरादिमार्गेण ग- मनवैयर्थ्यात् बादरिमतमेव समीचीनं, न तु जैमिनिमतमिति भावः ॥ १४ ॥ अप्रतीकालम्बनाधिकरणम् ॥ ६ ॥ अहंग्रहोपासकानां प्रतीकोपासकानां च सर्वेषामपि ब्रह्मलोकप्राप्तिरिति के. चिद्वदन्ति । तन्मतं निराकरोति- अप्रतीकालम्बनान्नयतीति बादरायण उभयथा दोषात्तनतुश्च ॥१५॥ अप्रतीकालम्बनान् प्रतीकोपासकभिन्नान् अहंग्रहोपासकानेव अमानवपु- रुषः ब्रह्मलोकं नयतीति बादरायणो मन्यते । कुतः ? उभयथा अहंग्रहोपासकान् प्रतीकोपासकांश्च उभयविधानपि ब्रह्मलोकं प्रापयतीत्यङ्गीकारे दोषात् बहुप्रया- ससाध्याहङ्ग्रहोपासनानुष्ठानवैयर्थ्यरूपात् दोषादित्यर्थः । किं च तत्क्रतुश्च ‘य- था क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवतीति तत्क्रतुश्रुतिरपि अहंय- होपासकस्यैव ब्रह्मलोकप्राप्तिं दर्शयति । इदमुपलक्षणं 'ययं वापि स्मरन् भा- व त्यनत्यन्ते कलेबरमिति स्मृतिरपि द्रष्टव्या । अयं भावः-मनोमयत्वभारूप- त्वसत्यसङ्कल्पत्वाद्यनेकगुणविशिष्टं ब्रह्मैवाहमस्मीत्येवंविधानि जीवब्रह्माभेदध्यान- रूपाणिं दहरशाण्डिल्योपकोसलवैश्वानरविद्यादीनि अहंग्रहोपासनानि सत्यसङ्क- पत्वादिबहुगुणज्ञानसाध्यत्वात् बहुप्रयाससाध्यानि । 'नाम ब्रह्मेत्युपासीत मनो ब- ह्मेत्युपासीत आदित्यं ब्रह्मेत्युपासीत ' इत्येवंविधानि जडेषु नामादिषु ब्रह्मट्ट- ष्टिरूपाणि प्रतीकोपासनानि तु बहुगुणज्ञानाधीनत्वाभावात् स्वल्पायाससाध्यानि । तस्मात् अहंग्रहोपासकानामेव ब्रह्मलोकप्राप्तिः, प्रतीकोपासकानां तु ब्रह्मलोका- दधस्तनमहर्लोकादिप्राप्तिरेवेति भावः । किञ्च 'यथाक्रतुरस्मिन् लोके पुरुषो भ.

१२६ अद्वैतमञ्जरी। वती'ति तत्क्रतुश्रुतिरपि भ्रमरकीटन्यायेन सत्यसङ्कल्पत्वादिविशिष्टं सगुणब्रह्मैवाह मस्मीति ब्रह्माभेदध्यानवताम् अहंग्रहोपासकानामेव सगुणब्रह्मप्राप्तिं दर्शयति न तु जडेषु नामादिषु ब्रह्मदृष्टिमतां प्रतीकोपासकानामिति भावः ॥ १५ ॥ विशेषं च दर्शयति ॥१६॥ 'ये चारण्ये श्रद्धां सत्यमित्युपासते ते ब्रह्मलोकमभिसम्पद्यन्त' इति श्रुतिर- पि सत्यब्रह्मोपासकानामेव ब्रह्मलोकप्राप्ति दर्शयति, न तु मिथ्याभूतनामादिषु ब्रह्मदृष्टि कुर्वतां प्रतीकोपासकानामित्यर्थः ॥ १६ ॥ इति सूत्रवृत्तौ चतुर्थाध्यायस्य तृतीयः पादः ॥ अथ - ॥ चतुर्थाध्यायस्य चतुर्थः पादः ॥ सम्पद्याविर्भावाधिकरणम् ॥ १ ॥ सगुणब्रह्मोपासकानामचिरादिमार्गेण हिरण्यगर्भप्राप्तिमुक्त्वा इदानी नि. गुणब्रह्मज्ञानिनामत्रैव परब्रह्मप्राप्तिमाह- सम्पद्याविर्भावस्स्वेन शब्दात् ॥१॥ हृत्पुण्डरीके भूतेन्द्रियान्तःकरणादिमिलितः जीवः लिङ्गशरीरनाशानन्तरं ह्र- त्पुण्डरीके सर्वत्र च परिपूर्ण ब्रह्म सम्पद्य प्राप्य स्वेन रूपेण नित्यशुद्धबुद्धमुक्तस- त्यज्ञानानन्दादिस्वरूपेण आविर्भावः अविर्भूतो भावः स्वरूपं यस्य सः अ- भिव्यक्तस्वरूपवान् भवति । कुतः ? शब्दात् एष सम्प्रसादोऽस्माच्छरी- रात् समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत' इति श्रुतेरित्यर्थः ॥१॥ 'अस्माच्छरीरात् समुत्थायेति वाक्ये ज्ञानिनामपि शरीरात् बहिर्निर्गमनस्य प्रतीयमानत्वात् कथं लिङ्गशरीरनाशपूर्वकं हृत्पुण्डरीकावच्छिन्नब्रह्मप्राप्तिरित्या- शङ्कयाह मुक्तः प्रतिज्ञानात् ॥२॥ अस्माच्छरीरात् समुत्थायेत्यत्र शरीरे विद्यमानेऽपि शरीराभिमानविनिर्मू- क्तः शुद्धजीवः उच्यते । कुतः ? प्रतिज्ञानात् 'स्वेन रूपेणाभिनिष्पद्यत' इति उत्तरवाक्ये स्वरूपाभिव्यक्तिकथनादित्यर्थः ॥ २ ॥ ननु, ‘परं ज्योतिरुपसम्पद्येति वाक्ये ज्योतिश्शब्देन आदित्यमण्डलमु - ?

च ये चतुर्थः पादः ] सूत्रवृत्तिः । १२७ - ? ? च्यते । तथा च ज्ञानिनामपि उपासकानामिव सूर्यलोकद्वारा ब्रह्मलोकप्राप्तिरेव न त्वत्रैव लिङ्गशरीरनाशपूर्वकं व्यापकब्रह्मप्राप्तिरित्याशङ्कयाह- आत्मा प्रकरणात् ॥३॥ ज्योतिश्शब्देन परमात्मैवोच्यते, न त्वादित्यमण्डलम् । कुतः ? प्रकरणात् 'य आत्मा अपहतपाप्मा तमावां विविदिषावहै' इति पूर्ववाक्ये इन्द्रविरोचनाभ्यां हिरण्यगर्भ प्रति परमात्मनः पृष्टत्वादित्यर्थः ॥ ३ ॥ अविभागाधिकरणम् ॥२॥ 'ज्योतिरूपसम्पद्येति वाक्ये ज्ञानिनां ब्रह्मसम्बन्ध एव प्रतिपाद्यते , न ब्र- लैक्यमित्याशङ्कयाह- अविभागेन दृष्टत्वात् ॥ ४॥ अविभागेन ब्रह्माभिन्नतयैव ज्ञानिनामवस्थानं, न तु तु ब्रह्मसम्बन्धितया कुतः ? दृष्टत्वात् 'ब्रह्म वेद ब्रह्मैव भवती'त्यादिश्रुतिषु ज्ञानिनां ब्रह्माभेदप्रतिपा दनादित्यर्थः ॥ ४ ॥ ज्योतिश्शब्दस्य प्रकरणबलात् ब्रह्मप्रतिपादकत्वेऽपि वक्ष्यमाणयुक्त्या ल. क्षणया लीलाशरीरविशिष्टहिरण्यगर्भाख्यसगुणब्रह्मप्रतिपादकत्वमेव वक्तव्यम् । तथा च ज्ञानिनामपि ब्रह्मलोकहिरण्यगर्भप्राप्तिरेव , न तु व्यापकब्रह्मप्राप्तिरिति पूर्वपक्षमाह- बाह्माधिकरणम् ॥ ३॥ ब्राह्मण जैमिनिरुपन्यासादिभ्यः॥५॥ निर्गुणब्रह्मज्ञानिनोऽपि सगुणब्रह्मोपासकवत् ब्राह्मं निर्गुणब्रह्मसम्बन्धिनं हिरण्यगर्भाख्यं सत्यलोकस्थं प्राप्नुवन्तीति जैमिनिमन्यते । पूर्वस्मिन् पादे सगु- णब्रह्मोपासकानामपि व्यापकब्रह्मप्राप्तिः शङ्किता । अस्मिन् पादे ज्ञानिनामपि हिरण्यगर्भप्राप्तिः शङ्कयत इति भेदः । कुतः ? उपन्यासादिभ्यः 'नक्षन् कीडन् र- ममाण ' इत्यादिवाक्येभ्यः ज्ञानिनाममि जक्षणादिव्यापारप्रतिपादनात् । निर्गु. णब्रह्माभेदाङ्गीकारे जक्षणादिव्यापारासम्मवात् निर्गुणब्रह्मज्ञानजन्यसगुणहिरण्य- गर्भावाप्तिरेव परं ज्योतिरुपसम्पद्येति वाक्ये लक्षणया प्रतिपाद्येत्यङ्गीकर्तव्य- मिति भावः । न च हिरण्यगर्मप्राप्तिपक्षे स्वेन रूपेणाभिनिष्पद्यत इति वाक्यमस- गतमिति वाच्यम् । स्वेन स्वकीयेन रूपेण शरीरेण हिरण्यगर्मशरीरसदृशशरी- रेण विशिष्टस्सन् हिरण्यगर्भसमीपे अमिनिष्पद्यते प्रकाशत इत्येवंरूपेण हिरण्य- गर्मसारूप्यप्रतिपादकतया 'स्वेन रूपेणामिनिष्पद्यत' इति वाक्यस्य प्रामाण्योपners १२८ अद्वैतमञ्जरी । पत्तेः । तथा च ज्ञानिनामुपासकानां च सर्वेषामपि ब्रह्मलोकप्राप्तिरेव मुक्तिः, न परब्रह्मामेदरूपेति भावः ॥ ५ ॥ सिद्धान्तमाह-चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः॥६॥ निर्गुणब्रह्माभेदध्यानपराणां ज्ञानिनां चितितन्मात्रेण शुद्धचैतन्यमात्रख- रूपनिर्गुणब्रह्मरूपेणावस्थानमित्यौडुलोमिर्मन्यते । कुतः ? तदात्मकत्वात् तस्मि- नेव आत्मा अन्तःकरणं येषां ते तदात्मकत्वात् सर्वदा शुद्धचैतन्यध्यानपरत्वादि- त्यर्थः। तथा च ' यथाक्रतुरस्मिन् लोके पुरुषो भवति' । 'ययं वापि स्मरन् भा- वमि'त्यादिश्रुतिस्मृत्यनुसारेण व्यापकशुद्धचैतन्यध्यानपराणां शुद्धचैतन्यात्मकव्याप- कनिर्गुणब्रह्मरूपेणैवावस्थानमङ्गीकर्तव्यं, न ब्रह्मलोकप्राप्तिरिति भावः ॥ ६ ॥ ज्ञानिनां शुद्धचैतन्यरूपनिर्गुणब्रह्मैक्याङ्गीकारे जक्षणादिव्यापारप्रतिपादकवा- क्यस्य का गतिरित्याशङ्कयाह एवमप्युपन्यासात् पूर्वभावादविरोध बादरायणः ॥७॥ एवमप्युपन्यासान् “ यत्र त्वस्य सर्वमात्मैवाभूत् आत्मानं चेद्विजानीयादयम- स्मीति पूरुषः, आत्मक्रीड आत्मरतिरात्मकामः आत्मलाभान्न परं विद्यत' इ. त्यादिश्रुतिषु ब्रह्मसाक्षात्कारानन्तरं जक्षणादिसकलव्यापारामावस्यापि प्रतिपा- दितत्वात् मोक्षकाले जक्षणादिव्यापारप्रतिपादकानां बहूनां वाक्यानां जक्षणादि- व्यापाराभावप्रतिपादकानां बहूनां वाक्यानां च परस्परविरोधात् अप्रामाण्ये प्राप्ते अविरोधं विरोधाभावं बादरायणो मन्यते । कुतः ? पूर्वभावात् ब्रह्मसाक्षात्कारात् पूर्वमुपासकानां मानुषदेवगन्धर्वेन्द्रप्रभृतीनां जक्षणादिव्यापारजन्यानां सकल- विषयानन्दानां नित्ये ब्रह्मानन्दे भावात् अन्तर्भावात् तावन्मात्रेण जक्षणादिव्या- पारस्य मोक्षकाले उक्तत्वेन स्वार्थे तात्पर्याभावादित्यर्थः । न च जन्यानां विषया- नन्दानां नित्ये ब्रह्मानन्दे अन्तर्भाव एवानुपपन्न इति वाच्यम् । स्वरूपानन्दस्यै- व स्वक्चन्दनादिविषयसम्पर्कजन्यान्तःकरणवृत्तिषु प्रतिबिम्बितस्य विषयानन्द- शब्देन व्यवाहियमाणत्वेन स्वरूपानन्दविषयानन्दयोर्भेदाभावात् अन्तःकरण. त्तिनिष्ठनन्यत्वविनाशित्वधर्मयोः वृत्तिप्रतिबिम्बेत स्वरूपानन्दे आरोप्यमाणत्वात् वि. षयतारतम्येन वृत्तितारतम्यात् वृत्तितारतम्येन वृत्तिप्रतिबिम्बितस्वरूपानन्दे तार- तम्यप्रतीतरन्यथासिद्धत्वादिति भावः ॥७॥ सङ्कल्पाधिकरणम् ॥ ४॥ इयता सूत्रसन्दर्भेण निर्गुणब्रह्मसाक्षात्कारवतां शुद्धचैतन्यात्मकव्यापकब्रह्म- रूपेणावस्थानं प्रतिपाद्य इदानी सगुणब्रह्मोपासकानां ब्रह्मलोकं गतानां भोगप्रका- रं दर्शयनि- ? च०ये चतुर्थः पादः ] सूत्रवृत्तिः । १२९ सङ्कल्पादेव तु तच्छ्रुतेः ॥८॥ उपासकानां सङ्कल्पादेव स्वक्चन्दनवनितादिसकलविषयप्राप्तिर्भवति । कुतः ? तच्छुतः ‘सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति सङ्कल्पादेवास्य सर्वे देवा गन्ध- र्वा विद्याधराश्च समुत्तिष्ठन्ती'ति श्रुतौ पितृदेवगन्धर्वादीनां भृत्यवत् परिचारकत्व- श्रवमादित्यर्थः ॥ ८॥ अत एव चानन्याधिपतिः ॥९॥ अत एव सङ्कल्पमात्राधीनसकलविषयभोगवत्त्वादेव उपासकः अनन्याधिप- तिः न विद्यते अन्यः अधिपतिर्यस्य, सः अनन्याधिपतिः अन्यनियम्यो न भवति, किं तु स्वतन्त्र इत्यर्थः ॥९॥ बादर्यधिकरणम् ॥ ५ ॥ अभावं बादरिंराह ह्येवम् ॥१०॥ लिङ्गशरीरमात्र विशिष्टानामुपासकानां स्थूलशरीरस्याभावं बादरिमन्यते । कुतः ? आह ह्येवं 'मनसैवैतान कामान् पश्यन् रमत' इति श्रुतिः स्थूलशरी- राभावमुपासकानां प्रतिपादयतीत्यर्थः ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ जैमिनिस्तु स्थूलशरीरस्य भावं मन्यते । कुतः ? विकल्पामननात् ब्रह्मलो- कं गतानामुपासकानां बहुश्रुतिषु विकल्पस्य भोगस्य आमननात् स्थूलशरीररहि- तानां लिङ्गशरीरमात्र विशिष्टानां भोगासम्भवादित्यर्थः । 'मनसैवैतान् कामानि'- ति वाक्यस्थस्य एनकारस्य अयोगव्यवच्छेदकत्वेन अन्ययोगव्यवच्छेदप्रतिपाद- कत्वाभावादिति भावः ॥ ११ ॥ एवकारस्य अन्ययोगव्यवच्छेदकत्वमङ्गीकृत्यापि परिहारमाह- द्वादशाहवदुभयविधं बादरायणोऽतः ॥१२॥ अतः ‘मनसैवैतानि ' ति श्रुतिस्थैवकारबलात् भोगान्यथानुपपत्तिरूपार्थाप- त्तिप्रमाणाच उभयविधत्वं कदाचिल्लिङ्गशरीरमात्रविशिष्टत्वं, कदाचित् स्थूलशरी- रविशिष्टत्वमिति कालभेदेन उमयविधत्वं उपासकानां अमोघसङ्कल्पानां सङ्कल्पा- नुसारेण उपपन्नमिति बादरायणो मन्यते । द्वादशाहवत् यथा द्वादशाहस्य प्रमा- णबलात् सत्रत्वं आहीनत्वं च प्रयोगभेदेनाङ्गीक्रियते, तद्वदित्यर्थः ॥२१॥ स्थूलशरीराभावकाले कथं भोग इत्याशङ्कयाह- १७ अद्वैतमञ्जरी। - तन्वभावे सन्ध्यवदुपपत्तेः ॥१३॥ तन्वभावे स्थूलशरीरामावकाले सन्ध्यवत् स्वप्नावस्थायामिव उपपनेः प्रा. तिभासिकभीगोपपत्तरित्यर्थः ॥ १३॥ भावे जाग्रदत् ॥१४॥ भावे म्थूलशरीरस्य सद्भावे जाग्रद्वत् जाग्रदवस्थायामिव व्यावहारिकमो- गोपपत्तरित्यर्थः ॥१४॥ प्रदीपाधिकरणम् ॥ ६॥ उपमकानामुपासनासामर्थ्यात् योगिनामिव कायव्यूहनिर्माणेन अनेकशरी- रेप युगपत् भोगमाह- प्रदीपवदावेशस्तथा हि दर्शयति ॥१५॥ उपासकम्य ब्रह्मलोकस्थस्य स्वेच्छया निर्मितेषु अनेकशरीरेषु युगपदेव आवेशः प्रवेशः अभिमानः अङ्गीकर्त यः । प्रदीपवत् यथा एकस्य प्रदीपस्य तै- लमिक्तामु सहवसङ्ख्याकासु वर्तिषु युगपत् प्रवेशस्तद्वदित्यर्थः । तथा हि दर्श- यति - * स एकथा भवति द्विधा भवति त्रिधा भवतीत्यादिश्रुतिः उपासकानां सङ्कल्पमात्रेणैव अनेकशरीरनिर्मातृत्वं दर्शयतीत्यर्थः ॥ १५ ॥ सगुणवोपासकानामचिरादिमार्गेण ब्रह्मलोकप्राप्त्यनन्तरक्षण एवं व्यापकनि- गुणब्रह्माभेदं प्राप्तानां कथं कायव्यूहनिर्माणं, कथं वा भोग इत्याशङ्कयाह-- खाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥१६॥ स्वाप्ययः सुषुप्त्यवस्था, सम्पत्तिः मोक्षावस्था, सुषुप्त्यवस्थामोक्षावस्थयोम- ध्ये अन्यतरापेक्षम् अन्यतरावस्थासम्बन्ध्येव जीवानां ब्रह्माभिन्नत्वं अतिषु आवि. कृतं प्रतिपादितमित्यर्थः । तथा च उपासकानां ब्रह्मलोकप्राप्त्यनन्तरमेव न व्याप- करीत्यम् । अनिषु तथा अप्रतिपादनात् देहाद्यमिमाननिवृत्तिकालेष्वेव जीवानां बामदप्रतिपादनात् ब्रह्मलोकप्राप्तिमात्रेण देहाद्यमिमाननिवृत्तेरभावाच्च । किं तु कंचित्कालं ब्रह्मलोकस्थमोगानन्तरं क्रमेण ब्रह्मसाक्षात्कारानन्तरं हिरण्यगर्मेण सह व्यापकनौक्यरूपा मुक्तिरिति भावः ॥ १६ ॥ जगद्व्यापाराधिकरणम् ॥७॥ उपासकानां स्वेच्छया कायव्यूहनिर्मातृत्वाङ्गीकारे देवगन्धर्वमनुष्यपशुप- क्ष्यादिशरीरस्त्रष्कृत्वमप्युपासकानां स्यादित्याशङ्कयाह च०ये चतुर्थः पादः] सूत्रवृत्तिः । १३१ ? जगद्यापारवर्ज प्रकरणादसन्निहितत्वाच ॥१७॥ जगब्यापारवर्ज देवगन्धर्वा दिशरीरजगत्स्सृष्टिव्यापार वर्जयित्वा वमोगसा. धनीभूतकायव्यूहादिनिर्माणसामर्थ्यमात्रमेव उपासकानाम् । देवगन्धर्वादिशरीरसृ- ष्टिव्यापारस्तु हिरण्यगर्भस्यैव । कुतः ? प्रकरणात् हिरण्यगर्भप्रकरणेष्वेव हिरण्य- गर्भस्य देवादिशरीरस्त्रष्तृत्वप्रतिपादनात् कुत्राप्युपासनाप्रकरणेषु उपासकानां स्वश- रीरव्यतिरिक्तदेवादिशरीरस्तष्कृत्वाप्रतिपादनादित्यर्थः । किं च असन्निहितत्वाच 'हिरण्यगर्भस्समवर्तताने भूतस्य जातः पतिरेक आसीत' 'यो ब्रह्माणं विदधाति पूर्वमित्यादिश्रुतिषु देवासुरादिसकलभूतोत्पत्तेः पूर्वमेव हिरण्यगर्भस्य साक्षात्पर- ब्रह्मजन्यत्वप्रतिपादनेन परब्रह्म प्रति सन्निहितत्वात् अन्तरङ्गत्वात् देवासुरभूतप्रे- तपिशाचादिसकलभूतनिर्माणसामर्थ्य मस्ति । उपासकानां तु मन्वाधनेकभूतपरम्पर- थो हिरण्यगर्भजन्य त्वेन साक्षात्परब्रह्मजन्यत्वाभावेन असन्निहितत्वात् परमात्मानं प्रति अन्तरङ्गत्वाभावाच्च देवादिभूतनिर्माणसामर्थ्य नास्तीत्यर्थः ॥१७॥ उपासकानामिव हिरण्यगर्भस्यापि देवादिभूतस्रष्टत्वं नास्ति । पुरुषसूक्ते प. रमात्गन एव देवादिभूतस्रष्टुत्वप्रतिपादनादित्याशङ्कय निराकरोति- प्रत्यक्षोपदेशान्नेति चेन्नाधिकारिकमण्डलस्थोक्तः ॥१८॥ प्रत्यक्षोपदेशात् 'तेन देवा अयजन्त साध्या ऋषयश्च ये' इत्यादिश्रुतिषु परमात्मन एव देवादिसकलस्रष्टुत्वस्य साक्षादुपदिष्टत्वात् नेति चेत् हिरण्यगर्भ- स्य देवादिभूतस्त्रष्टुत्वं नास्तीति चेत्, न । आधिकारिकमण्डलस्थोक्तेः आधिकारि- कम्प परब्रह्माज्ञावशवर्तिनः मण्डलस्थस्य ब्रह्माण्डमण्डलाभिमानिनः विराटपुरुषना- मकस्य ब्रह्मलोकेऽपि चतुर्मुखलीलाविग्रहं धृत्वा विद्यमानस्य हिरण्यगर्भस्य उक्तः पुरुषसूक्ते देवादिभूतस्रष्तृत्वप्रतिपादनात् न परमात्मनः साक्षात् देवासुरादिभूतस्त्र- ष्टत्वं, किंतु हिरण्यगर्मद्वारैवेत्यर्थः ॥ १८ ॥ तर्हि पुरुषसूक्त प्रतिपाद्यस्य हिरण्यगर्भस्यैव देवासुरादिभौतिकसकलशरी- रस्रष्टुत्ववत् पञ्चमहाभूतस्त्रष्टुत्वस्यापि सम्भवात् हिरण्यगर्भ एव परब्रह्मस्थानाभि- पिक्तो भवतु, तदतिरिक्तं परं ब्रह्म किमर्थमङ्गीकर्तव्यमित्याशङ्कयाह- विकारावर्ति च तथा हि स्थितिमाह ॥१९॥ विकारावर्ति विकारासंस्पृष्टं ब्रह्माण्डमध्ये विद्यमानमपि ब्रह्माण्डाभिमानर- हितं हिरण्यगर्भातिरिक्तं परं ब्रह्माङ्गीकर्तव्यम् । कुतः ? तथा हि स्थितिमाह- अद्वैतमञ्जरी । पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि' इति पुरुषसूक्तस्थश्रुतिरेव हिर• ण्यगर्भातिरिक्तस्य परब्रह्मणः अवस्थानं प्रतिपादयतीत्यर्थः । ‘पादोऽस्य . विश्वा भूतानी'ति श्रुतेरयमर्थः----अस्य परब्रह्मणः सर्वाणि भूतानि चतुर्मुखादिपिपीलिका. न्तसकलशरीराणि प्रविश्य सकलशरीरेषु विद्यमानं सकलशरीराभिमानविशिष्टं स- कलभूतसम्बन्धि सुखदुःखहर्षशोकमयादिसमन्वितं विराट्पुरुषचैतन्यमेकः पादः ए. कोऽशः, दिवि ब्रह्माण्डमध्ये विद्यमानमपि ब्रह्माण्डान्तर्वतिसकलशरीराभिमानरहि. तम् अमृतं मरणभयशोकादिरहितं शुद्धचैतन्यं त्रिपात् अंशत्रयवदित्यर्थः ॥१९॥ हिरण्यगर्भातिरिक्तपरब्रह्मसद्भावे पुरुषसूक्तातिरिक्त प्रमाणान्तरमप्याह- दर्शयतश्चैवं प्रत्यक्षानुमाने ॥२०॥ प्रत्यक्षानुमाने 'द्वे ब्रह्मणी वेदितव्ये परश्चापरञ्च' 'द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ' इति श्रुतिस्मृती हिरण्यगर्भातिरिक्तं परब्रह्म दर्शयतः प्रतिपा- दयत इत्यर्थः । तथा च परब्रह्मण एव पञ्चमहाभूतस्त्रष्टुत्वं, हिरण्यगर्भस्य तु पर. ब्रह्मणः आज्ञया चराचरसकलभौतिकशरीरस्त्रष्टुत्वमिति भावः ॥ २० ॥ एवं प्रसङ्गादागतं परब्रह्महिरण्यगर्भयोर्भेदविचारं परिसमाप्य प्रस्तुते उपासका. नां देवासुरादिशरीरस्त्रष्टुत्वाभावे हेत्वन्तरमाह- भोगमात्रसाम्यलिङ्गाच ॥२१॥ हिरण्यगर्भस्य यादृशो भोगः, तादृशो भोगः उपासकानामप्यस्तीति भोग- मात्रसादृश्यस्यैव श्रुतिषु प्रतिपादितत्वात् सर्वात्मना हिरण्यगर्भसादृश्यस्य अप्रति- पादितत्वाच्च अस्मादपि लिङ्गात् ज्ञापकात् नोपासकानां देवादिशरीरस्त्रष्टुत्वमित्य- थः। इदमुपलक्षणं उपासकानां स्वातन्त्र्येण देवासुरादिभौतिकशरीरस्त्रष्टुत्वाङ्गीकारे परस्परकलहप्रसङ्गात् हिरण्यगर्भाज्ञावशवर्तित्वेनैव उपासकानां स्त्रष्टुत्वं वक्तव्यम् । तथा च आवश्यकत्वात् लाघवाच्च एकस्यैव हिरण्यगर्भस्य भौतिकशरीरस्वष्टुत्व- मङ्गीकर्तव्यं, नानेकेषामुपासकानामिति भावः ॥२१॥ ब्रह्मलोकं गतानां सर्वेषामपि ब्रह्मणा सह मुक्तिर्वा, उत केषाञ्चित् ब्रह्मणा सह मुक्तिः, केषांचित् कञ्चित्कालं भोगानन्तरं भूलोकादिषु पुनरावृत्तिर्वा इति संशये प्राप्त निर्णयं करोति- अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥२२॥ ब्रह्मलोकं गतानां सर्वेषामुपासकानाम् अनावृत्तिः भूलोकादिषु पुनरावृत्त्य m- AMARCH च० ये चतुर्थः पादः] सूत्रवृत्तिः । १३३ भाव एवाङ्गीकर्तव्यः । कुतः ? शब्दात् एतेन प्रतिपद्यमाना इमं मानवमावर्ते ना. वर्तन्त इति श्रुतेरित्यर्थः । अनावृत्तिशब्दस्य द्विरुक्तिरध्यायपरिसमाप्तिद्योतनार्था । न च गङ्गाशन्तनुचक्रवर्तिप्रभृतीनां ब्रह्मलोकवासिनामपि हिरण्यगर्भशापवशात् भूलोकं प्रत्यावृत्तिः पुराणादिषु प्रतिपाद्यत इति वाच्यम् । ब्रह्मलोकवासिभिः कै. श्चिदपि रागद्वेषादिकं न कर्तव्यमिति ब्रह्मलोकवासिनां शिक्षार्थं हिरण्यगर्मेण शापे कृते सति तं शापं कञ्चित्कालं भूलोके अनुभूय पुनः ब्रह्मलोकं गतानां शन्तनुचक्र- वर्तिप्रभृतीनां ब्रह्मणा सह मुक्तेः तेष्वेव पुराणेषु प्रतिपादितत्वेन विरोधाभावा- दिति भावः ॥२२॥ इति सूत्रवृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ॥ अध्यायश्च सम्पूर्णः ॥ ॥ श्रीः ॥ सूत्रवृत्तिः ॥ समाप्ता॥

Sutra Vrittihi

Author
Swami Sri Krasnavallabhacarya Sastri
Title
Sutra Vrittihi
File name
Sutra Vrittihi
Text
OCR done
Published
2005/03/10
Publisher
Chowkhamba Sanskrit Series Office Varanasi
Language
Sanskrit
Pages
138
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495701
Barcode
1990030070618.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
jagyW7RJiXN
Download PDF

Sutra Vrittihi