Bharti Bhawan Library Allahabad
Ayurvediya Granthamala No-4
Front matter
आयुर्वेदीयग्रन्थमाला।
चतुर्थ पुष्पम् ।
१००२१
श्रीभोजमहाराजविरचितो
राजमार्तण्डः ।
आचार्योपाहेन त्रिविक्रमात्मजेन यादवशर्मणा
संशोधितः प्रकाशितश्च ।
द्वितीय संस्करणम् ।
सन १९२४.
AYURVEDIYA GRANTHAMALA.
No. 4.
RAJAMARTANDA
BY
MAHARAAJA BHOJA.
EDITED AND PUBLISHED
BY
VAIDYA JADAVJI TRICUMJI ACHARYS,
Nc. 18, BORA BAZAR STREET, Fonr, BOMRAY.
1924 A. D.
No text on this page.
Printed by Vaidya Bhagyanlal Tribhuvan, at Subodhini P. Prese,
51, Bazar Gato, Fort, Bombay,
and
Published by Vaidya Jadavji Tricumji Acharya,
18, Bora Bazar Street, Fort, Bombay.
All Rights Reserved by the publisher.
भूमिका. 'राजमार्तण्ड' इति नाम्ना प्रसिद्धो नानारोगोन्मूलनक्षमविविधयोगसंग्रहात्मकोऽयं ग्रन्थः श्रीभोजनृपविरचित इति एतद्ग्रन्थस्यान्तिमपद्यात् प्रतीयते । सोऽयं भोजनृपो मालवदेशाधिपतिरनेकविद्वद्रत्नमण्डितसभामण्डपो विवेकविलासीतिहासप्रसिद्धो भोज- महाराज एवेति स्वेनैव द्वितीये श्लोके कथितात् 'नृपतिशतशिरोधिष्ठिताज्ञेन' इति पदात् , तथा अन्तिमलोकस्थात् 'समस्तपाथोनिधिवीचिसंचयप्रवर्तितान्दोलनकोलि- कीर्तिना' इति पदात् , तथा अस्मिन् ग्रन्थे समुपलभ्यमानात् काव्यरचनाचातुर्याचा- नुमीयते । प्रभारवंशोद्भूता भोजनामानस्त्रयो राजानो भिन्नभिन्नसमये मालवदेशलंचक्रुः । तत्र प्रथमः त्रिंशत्यधिकषट्शततमे विक्रमाब्दे, द्वितीयो विंशत्यधिकसप्तशततमे विक्रमाब्दे, तृतीयश्च एकादशशततमे विक्रमाब्दे, राज्यारूढ आसीदितीतिवृत्तविदा मतम् । त्रयोऽपि प्रसिद्धाः पराक्रमशालिनो विद्याविलासिनश्च । तेषु कतमोऽयं राज- मार्तण्डप्रणेता भोज इति निर्णेतुं न किञ्चिदपि साधनमुपलभे। अस्मिन् ग्रन्थे चतुस्त्रिं- शदधिकारा अष्टादशाधिकचतुःशतश्लोकेषूपनिबद्धाः सन्ति । तत्र चाल्पैरौषधैरल्पे- नायासेन साध्या भूरिगुणाश्च योगा उक्ताः । ग्रन्थश्चायं ललितविविधवृत्तोपनिद्धत्वात् भिषजां कण्ठोपस्थितिकरणयोग्यः। ग्रन्थस्यास्य संशोधनार्थ आदर्शपुस्तकद्वयमुपलब्धम्। एकं मदीयपरमसुहृदां बुन्दीनगरीनिवासिनां राजवैद्यश्रीप्रसादशमणां, अपरं च मदीयसुहृदां वटोदर (वडोदरा-बडोदा) पत्तननिवासिनां स्वर्गवासिनां "वैद्य विनायक सदाशिव जाम्बेकर' इत्येतेषाम् । पाठान्तरदाने चैतयोरा- द्यस्य क. इति द्वितीयस्य च ख. इति संज्ञा स्थापिता। ग्रन्थस्यास्य संशोधने यथामत्यनुष्ठितो यत्नः। तथाऽपि मानवस्वभावसहनिबद्धाश्रमप्रमादादिवशाजात स्खलनं क्वाप्युपलभ्येत चेद्गुणैकपक्षपातिभिर्विद्वद्भिः संशोधनीय संवेदनीयश्चाहं, सफल- यितव्यश्च ममायं प्रयासो ग्रन्थस्यास्य पठनपाठनप्रयोगादिनेति सविनयमभ्यर्थयते मिषजामनुवाद्य- यादवशर्मा.
राजमार्तण्डान्तर्गतविषयानुक्रमणिका। पृ. १२ विषयाः विषयाः पृ १ शिरोरोगाधिकारः १९ अशोधिकारः २८-२९ २ कर्णरोगाधिकारः २० छर्दितृष्णाधिकारः ३० ३. नेत्ररोगाधिकारः २१ ज्वराधिकारः ४. नासारोगाधिकारः २३ वातरोगाधिकारः ३३-३४ ५ मुखरोगाधिकारः १२-१७ | २३ पादरोगाधिकारः ३४. ६ स्तनरोगाधिकारः २४ चमकीलाधिकारः ७ उदरोगाधिकारः १८-१९ २५ अग्निदग्धाधिकारः ८ कुष्ठरोगाधिकारः २६ व्रणाधिकारः ९ रक्तपित्ताधिकारः २७ ग्रन्ध्यर्बुदाधिकारः ३८-३९ १० पीनसस्वरभङ्गाधिकारः २२-१३ २८ अपस्मारोन्मादाधिकारः ३९-४० ११ कासवासहिकाधिकारः २४ २९ विषरोगाधिकारः ४०-४६ १२ राजयक्ष्माधिकारः ३० क्षुद्ररोगाधिकारः १३ शूलाधिकारः ३१ स्त्रीरोगाधिकारः ४७--५५ १४. अतिसाराधिकारः ३२ बालरोगाधिकारः १५ प्रमेहाधिकारः २५-२६/३३ रसायनवाजीकरणा- १६ अश्मरीमूत्रकृच्छ्राधिकारः २६ धिकारः १५ वृद्धथुपदंशाधिकारः ३४ पशुरोगाधिकारः १८ भगन्दराधिकारः 2 राजमार्तण्डस्य पाठसंशोधनम् । २७ १० १ pu? पपाठः UIO.Iना: Ter भिधाम् संघातिका० अग्निदग्दाधिकारः हातकोत्थ० O चविंशतितमः लजालु कालजवाब আu सुपाठः घनाः भिधानम् संघातिका० आमिदग्धाधिकारः भल्लातकोत्थ० पड्विंशतितमः लज्जालु० काकजना आईण १ " " " " २००२१ ६ श्री भोजराजविरचितो राजमार्तण्डाख्यो योगसंग्रहः। अथ शिरोरोगाधिकारः प्रथमः । मङ्गलाचरणम्। नीलस्निग्धगिरीन्द्रजालकलतासंबन्धवद्धस्पृह- श्चन्द्रांशुद्युतिशुभ्रदंष्ट्रवदनः प्रोत्सर्पदुग्रध्वनिः। लीलोदस्तकरप्रहारदलितोद्दामद्विपेन्द्रः श्रियं दिश्याद्वोऽग्निशिखापिशङ्गनयनश्चण्डीशपञ्चाननः ॥२॥ दृष्ट्वा रोगैः समग्रैर्जनमवशमिमं सर्वतः पीड्यमानं योगानां संग्रहोऽयं नृपतिशतशिरोधिष्ठिताशेन राज्ञा । कारुण्यात्सन्निबद्धः स्फुटपदपदवीसुन्दरोदामबन्दै- वृत्तैरुद्वृत्तशत्रुप्रमथनपटुना राजमार्तण्डनामा ॥२॥ खालित्ये भृङ्गराजादितैलम् । भृङ्गरजपकतैलं द्विपदशनामलककृतमषीमिश्रम् । खलतेरपि चिकुरचयं जनयत्यभ्यङ्गयोगेन ।। ३ ।। खालित्ये हस्तिदन्ताद्यो लेपः। द्विपदशनः पुटदग्धः साजशीरो रसाअनोपेतः। दिनसप्तकप्रलेपात् खलतेरी केशसंजननः ॥ ४॥ १. वृत्तसैद्धृत्य शत्रुप्रमथनपटुना' २६ । २ 'भृङ्गारकपकतैलं' खः ।
राजमार्तण्डः। खालित्ये गुञ्जाद्यं तैलम् । मार्कवस्वरसभावितगुजाबीजचूर्णपरिपाचिततैलम् । मिश्रितं त्रुटिजटामरकुष्ठैः केशभारजननं वनितायोः ॥५॥ इन्द्रलुप्ते भल्लातकाद्यो लेपः । भल्लातकैर्वा बृहतीफलैर्वा सुश्लल्णपिष्टै रुबुतैलयुक्तैः। संमिश्रितै, मधुना मलितमल्पैदिनैः शाम्यति शकलुसम् ॥६॥ इन्द्रलुप्ते जपाकुसुमलेपः। कृष्णगवीमूत्रयुतैः पिष्टैरालेपितैर्जपाकुसुमैः । शतमखलुप्तं नश्यति भवन्ति केशाश्च तत्र धनाः॥७॥ इन्द्रलुते गुञ्जाद्यो लेपः। बृहतीफलरसपिष्टं गुआयाः फलमथापि वा मूलम् । हेमनि घृष्टं संस्थितमपहरति सुराधिपतिलुखम् ॥ ८॥ खालित्ये नीलोत्पलाद्यो लेपः। नीलोत्पलाक्षफलमज्जतिलाजगन्धाः साध प्रियङ्गकुसुमैः समागवल्कैः । संपिष्य यः प्रकुरुते बहुशः प्रले खालित्यमस्य न पदं विदधाति मूनि ॥ ९ ॥ केशशाते मास्याद्यो लेपः । मांसीवलाकुवलयामलकैः सकुष्ठैः पुंसः प्रलिप्तशिरसो न पतन्ति केशाः। स्निग्धायताश्च कुटिलाकृतयो भवन्ति ते प्रत्युतास्य तरुणालिकुलप्रकाशाः॥१०॥ केशवृध्द्यर्थ माकन्दबीजादिलेपः। माकन्दबीजसहितामलकमलिप्त- मूत्रः शिरोरुहभरः समुपैति वृद्धिम् । १ 'जनतायाः खः । २ 'सार्धं प्रियङ्गुलतिकैः समधूकवाकैः ख.। ए 97 purn UIO.I 7 :08 ..
A शिरोरोगाधिकारः प्रथमः। दारुणके नीलाब्जकेशरादिलेपः। नीलाब्जकेशरतिलामलकैः सुपिष्टै- यष्टयन्वितेजति दारुणकः प्रणाशम् ॥ ११ ॥ खालित्यादौ माषमस्यादिलेपः । अन्तधूमविदग्धमाधमुमसीमध्येऽर्कदुग्धं क्षिपे- तैल सर्षपसंभवं च विमलं तेन प्रलिम्पेच्छिरः। रोगान्मूनि समुद्भवान्वहुविधांस्तद्वच वनोद्भवान खालित्य पलितानि चोपशमयत्येतत्मयुक्तं नृणाम् ।।१२।। इन्द्रलुप्ते गुञ्जा'फललेपः। अच्छानपूर्व परिपिष्टगुजाफलैः समालेपितमिन्द्रलुप्तम् । प्रणाशमायात्यंचिरेण पुंसां पापं यथा जहुमुताभिषेकात् ॥१३॥ दारुणके मरिचाचं तेलम् । भागेन युक्तं मरिचस्य यत्स्यात्काश्मीरजेन द्विगुणेन तैलम् । अभ्यञ्जनात्तद्विनिहन्ति पुंसामल्पैदिनैर्दारुणकं सुधोरम् ॥१४॥ दारुणकादौ लोहकिटाद्यं तैलम् । यल्लोहकिट्टोत्पलसारिवाभ्यां समार्कवाभ्यांत्रिफलान्विताभ्याम् । विपच्यते तैलमपास्यति द्राक् शीर्षामयान्दारूणकादिकांस्तव।।१५।। दारुणके कोद्रवमसीलेपः । कोद्रवपलालसिद्धा मसी प्रलेपे प्रयोजिता शिरसः । अपहरति रोगमचिरादारुणमपि दारुणाभिख्यम् ॥ १६॥ दारुणके धात्रीफलाद्यो लेपः । धात्रीफलारग्वधवालपत्रलाक्षाविमित्रैः प्रपुनाटवीजैः। प्रलेपितो नाशमुपैति पुंसां मुदारुणो दारुणकः क्षणेन ॥१७॥ दारुणकादौ चण्ड्यादिलेपः। चण्डीमुरानतविषाणदलैहरिद्रा- मुस्तान्वितैः शिरसि यः कुरुते प्रलेपम् । १ 'प्रस्नानपूर्वक.।
राजमार्तण्डः। तस्योत्तमाङ्गमपहाय भजन्ति दूरं केशद्गुहः सपदि दारुणकादिरोगाः ॥ १८ ॥ धौतः श्रीफलसारेण यदि वा गुडवारिणा । व्यूढोऽपि केशनिचयः सुसंस्थानं च गच्छति ॥ १९ ॥ यूकायां पारदलेपः। ताम्बूलपत्ररसमर्दितस्तकेन श्लक्ष्णीकृतेन विधिवत्पविलिप्य चीरम् । बनाति यः शिरसि तस्य पतन्ति सद्यो यूका भवन्ति न पुनश्च कदाचिदेव ॥२०॥ यूकायां विडङ्गाद्यं तेलम् । विडङ्गगोमूत्रमनःशिलाभिः सगन्धकाभिः परिपाचितं यत् । तैलं भवेत्सर्षपसंभव तल्लिक्षाश्च यूकाश्च निहन्ति सद्यः ॥२१॥ पलिते शङ्खचूर्णादिलेपः। शङ्खस्य दग्धस्य पुटानलेन चूर्ण निघृष्टं सह सीसकेन । प्रलेपमात्रेण करोति केशान् शशिप्रकाशानपि षड्पदाभान् ॥२२॥ पलिते पथ्यादिलेपः। पथ्याक्षधात्रीफललोहचूर्णैस्तुरङ्गमारासनमार्कवैश्च । तुल्यैर्गुडेनापि मसीकृतैश्च लिप्तानि काण्यै पलितानि यान्ति||२३|| शिरोरोगे निर्गुण्ड्यादितैलम् । UP निर्गुण्डीलाङ्गलिकार्कसाधितं हन्ति तैलमभ्यङ्गात् । शिरसो रुजः समग्रा यदि वाऽपामार्गबीजसंसिद्धम् ॥ २४ ॥ शिरःकण्ड्वादौ कुष्टादिलेपः। तैलेन मृत्कपरभृष्टकुष्ठचूर्णान्वितेन प्रविलिप्तमूर्ध्नः । कण्डूश्च दाहश्च विनाशमेति शिरोवणं शुष्यति दृषिका च ॥२५॥ १ 'गूढोपि' खः । २ 'लिख्या ' ख. । pu. ITIO . .
शिरोरोगाधिकारः प्रथमः । पलिते लोहादिलेपः। लोहाम्रवीजत्रिफलाब्जमूलैः शुप्कैः प्रपिष्टैः सह मार्कवेन । काष्ण्यं लभन्ते पलितानि लेपानील्यं ससौवीरकभागयुक्तैः॥ पलिते शिलापुष्पादिलेपः। शिलाकुसुमक—रनिशाश्यामानतः समः। पलितानां भवेत्काण्य बहुशो गुंडयोजितैः ॥ २७ ॥ पलिते श्लेष्मान्तकादितैलम् । श्लेष्मान्तकाक्षपिचुमन्दककामिनीनां काश्मर्यकस्य यदि वाऽपि हरीतकीनाम् । तैलं निहन्ति पलितान्युपयुक्तनस्यं गोक्षीरभोज्यनिरतस्य सदैव पुंसः ॥२८॥ केश कृष्णीकरणार्थ तैलम् । यः काकिनीबीजसमानभागैस्तिलैः समुत्थेन करोति नस्यम् । तैलेन तस्यालिकुलप्रकाशाः केशा भवन्ति स्थिरता च देहे।।२९ शिरोरोगे मुखरोगे च नस्यार्थं तैलम् । अन्तःसारं शेलुबीजोत्थमादा साधु श्लक्ष्णं पेषयेत्कालिकेन । पश्चाल्लौहे भाजने मूर्यतप्तं कुर्यात्तस्माज्जायते तैलमयम ॥३०॥ आदातव्यं भाजने पच्युतं तत्तेनाभ्यङ्ग नस्यकार्यं च कुर्यात् । ये स्युः केचिद्वनजा मूर्धजा वा रोगाः सर्वे ते प्रणश्यन्ति तेन जायन्ते च स्निग्धमुग्धालिनीला वृद्धस्याप्याकुञ्चिताना धनाश्च । केशाः सर्वे दन्तपतिः समग्रा वर्षापूर्वं नूतनोत्पद्यते च ॥३२॥ पलिते नस्यार्थ घृतम् । सिद्धं घृतं मार्कववर्हिचूडारसेन गव्यं कृतनावनस्य । करोति पुंसः पलितप्रणाशमासप्तरात्रानियताशनस्य ॥ ३३ ॥ शिरोरोगे कुष्टादिलेपनी कुष्ठं समीरणरिपोर्जटया समेत- मत्यम्लकाधिकयुत परिपेष्य तेन । १ 'गुडधूपितैः ' ख.। , i राजमार्तण्डः लिम्पेच्छिरोतिशमनाय शिरोऽथ वाऽऽर- नालमपिष्टतरुणै रुबुकस्य मूलैः ॥ ३४॥ अथ कर्णरोगाधिकारो द्वितीयः। कर्णशूले देवदारुतैलम् । तैलाक्तवस्त्रशकलातदेवदारू- काष्ठाद्विनिस्सरति यज्वलनप्रततात् । तत्तैलमाशु हरति श्रुतिरन्ध्रपीड़ा श्रीक्षकाष्ठशकलेऽप्ययमेव कल्पः ॥ ३५॥ कर्णरोगे सैन्धवाद्यं तैलम् । सिन्धूत्थहिङ्गुसुरदारुवचाः सकुष्ठ- विश्वौषधाः समधृता विनिधाय पक्कम् । तैलं सगोमयरसं श्रुतिपूरणेन हन्ति प्रसह्य सकलानपि कर्णरोगान् ॥ ३६॥ कर्णरोगे अर्कपत्ररसः। अर्कस्य पत्रं परिणामपीतं घृतेन लिप्तं शिखिना च तप्तम् । आलोड्य तोयं श्रवणे निषिक्तं कर्णामयो नश्यति पूरणेन॥३७॥ कर्णरोगे रसोनरस: स्नुहीरसश्च । आवेष्टय मूर्यतरुपत्रचयेन बला- वातापितात्स्रवति यत्सलिलं रसोनात् । यद्वा स्नुहीशकलतो गलितं तदाशु कर्णव्यथां हरति पूरणतः प्रभाते ॥ ३८॥ कर्णपाके कर्णपूरणम् । बस्तमूत्रयुतसैन्धवचूर्णं कर्णपूरणविधौ विनियुक्तम् । नाडिकाद्वयमवस्थितमाति श्रोत्रयोहरति पाकसमुत्थाम् ॥३९॥ प्रतिकणे कर्णपूरणम्। जातीदलप्रसवपीडनजेन पूर्णः कर्णो रसेन सुरभीसलिलेन वापि । PI TIC : कर्णरोगाधिकारो द्वितीयः । पूत्यामयं त्यजति तत्क्षणसंभणष्ट- तीव्रव्यथः परिचयपतिपन्नसौख्यः॥ ४०॥ कर्णपालीवर्धनार्थमभ्यङ्गः। मुशलीकन्दक्षोदो माहिषनवनीतमिश्रितोऽभ्यङ्गात्। वर्धयति कर्णपाली सप्ताहं धान्यराशिस्थः ॥ ४१॥ कर्णपालीविवर्धनार्थ गुञ्जाफलवृतम् । गुनाफलैर्विदलितैः कथितान्महिष्याः क्षीरात्क्रमेण जनितं घृतमादृतानाम् । अभ्यञ्जनादनुदिनं कुरुते मृदुत्वं विस्तीर्णतां च परमामिह कर्णपाल्याः॥ ४२ ॥ कर्णपालीवर्धनार्थ तैलम् । कटुकतुम्बकबीजसमुद्भवं खरजलेऽष्टगुणे सविषं शृतम् । भवति तैलमलंकरणोचितं श्रवणपाशविद्धिविधायकम् ।। ४३॥ कर्णपाल्यादिवर्धनार्थमभ्यङ्गः। बृहतीफलसितसर्षपरोहिततिमिपित्तरोहिणीमांसः। युक्तं श्रुतिकुचद्धयै माहिषनवनीतमुद्दिष्टम् ॥ ४४ ॥ श्रोण्यादिवर्धनार्थमभ्यङ्गः। क्षौद्रक्षुद्रातगरमरिचैः पिप्पलीसैन्धवाभ्यां प्रत्यक्पुष्पीयवतिलगदैः श्वेतसिद्धार्थमाषैः । श्लक्ष्णीभूतैर्भवति मलनं वाजिगन्धासनाथैः श्रोणिश्रोत्रस्तनभुजशिरःशेफसां वृद्धिकारि ॥ ४५ ॥ लिङ्गवृध्द्यर्थ दाडिमाद्यं तैलम् । संसाधितं दाडिमवल्कलैर्यत्क्षुद्राफलारुष्करचूर्णयुक्तैः । अभ्यञ्जनात्सर्षपसंभवं तत्तैलं नृणां लिङ्गविवर्धनं स्यात् ॥४६॥ १ 'गुलाफलैर्द्विदलितैः 'ख.। २ अत्र कर्णरोगाधिकारे लिङ्गवर्धन- प्रयोगाभिधानं कर्णपालीवर्धनेन सह वर्धनत्वसाम्यात्, लिङ्गवर्धनप्रयोगाणां प्रायः कर्णपालीवर्धकरवाच । ..
राजमार्तण्डः। लिङ्गवर्धनार्थमुद्वर्तनम् । भल्लातकं बालकमम्बुजिन्याः पत्राणि कृष्णं लवणं च तुल्यम्। दग्ध्वापुटान्तः स्वरसं निदध्यात्पङ्गल्य तस्मिन्बृहतीफलस्य ॥४७॥ लिङ्गं पुरीषैर्महिषस्य पश्चादुर्तितं तेन विलिप्तमात्रम् । पुंसो भवत्युन्मदवाजिमेदूसंकाशमातालमभिप्रमाणम् ॥ ४८ ॥ लिङ्गवृद्धयर्थ सेवालाद्यो लेपः । सेवालगोपिशितचूर्णयुतेन लिप्त- माज्येन यत्पतिमुहुर्मुदितं महिष्याः। तल्लिङ्गमुन्मदमुनिष्टुरदाक्षिणाय- कान्तारतोत्सवसहस्त्रसहत्वमेति ।। ४९ ॥ लिङ्गवृद्धयर्थ द्वितीयो सेवालाद्यो लेपः । सेवालसैन्धवसरोरुहिणीदलानि भल्लातकानि च फलानि च कण्टकार्याः । हैयङ्गवीनमपि माहिषमश्वगन्धा- कन्दे सुधीः प्रणिदधीत दिनानि सप्त ॥ ५० ॥ तैरुद्धृतस्तदनु यन्महिषीपुरीपे- णोद्वर्स लिङ्गमुपलेपितमाहतेन । तस्याग्रतः खरतुरङ्गमतङ्गजानां लिङ्गानि लाघवपदं परमं प्रयान्ति ॥५१॥ लिङ्गवृद्धयर्थमुद्वर्तनम् । उन्मत्तकखरसपेषितवाजिगन्धा- कन्दोपगूढमहिषीनवनीतमादौ । धार्य फले वृषभवाहनवल्लभस्य निष्पेष्य बीजरहिते कतिचिदिनानि ॥५२॥ १ 'निःशेषबीजरहिते' ख.। UC 12 7 नेत्ररोगाधिकारस्तृतीयः । उद्वर्तितं तदनु यन्महीपीपुरीषै- धतूरकाम्बुनवनीतविलेपितं च। तत्साधन निधुवनभवनोद्धरान्ध- नारीवराङ्गदलनक्षमतां दधाति ।। ५३ ॥ সথ মহামায়া। नेत्रप्रकोपे अक्षिपूरणम् । श्वेतकरवीरकिसलयविच्छेदरसेन पूरिताक्षस्य । तत्कालसमुत्पन्नो नयनत्रकोपः शमं याति ॥ ५४ ॥ अक्षिप्रकोपे अपामार्गमूलाद्यसनम् । प्रत्यक्पुष्पीमूलं तात्रये भाजने ससिन्धूत्थम् । मधुसहितं निघृष्ट नयनभकोपं हरसाशु ॥ ५५ ॥ नेत्ररोगे कणे सहदेवीमूलबन्धनम् । कर्णे निबद्धं नयनामय दण्डोत्पलायाः वदन्ति मूलम् । नेत्ररोगे शिग्रुपत्ररसाश्चयोतनम् । क्षौद्रान्वितः शिदलोद्भवो वा रसोऽक्षिण दत्तोऽक्षिरुजं क्षिणोति ।। नेत्ररोगे शीतजलासिञ्चनम् । शीताम्बुपूरितमुखः प्रतिवासरं यः कालत्रयेऽपि नयनाद्वितयं जलेन । आसिञ्चति ध्रुवमसौ न कदाचिदक्षि- रोगव्यथाविधुरतां भजते मनुष्यः॥ ५७ ॥ नीलीरोगे कारवेल्लीमूलाच्योतनम् । मूलेन कारवेल्यास्तुरङ्गमूत्रान्वितेन पिष्टेन । परिपूरितनयनानां नीलीदोषः शमं याति ॥ ५८॥ १ 'स्यात् । ख..।
राजमाण्डः । पक्ष्मशाते देवदाथियोतनम् । त्रिदशदारुरजः परिभावित महणमाजजलेन पुनः पुनः। हरति पूरणतः सकला नृणां नयनपक्ष्मविनाशकृतो रुजः॥१९॥ नेत्ररोगे रक्तचन्दनाद्या वतिः । अरुणचन्दनमागधिकानिशाः करकवीजयुता गगनाम्भसा । समभिपेष्य कृता नयनामयान् हरति वर्तिरुदीर्णतरानपि ॥६॥ नेत्ररोगे हरिद्राद्यञ्जनम् । निशाह्वयाभयामांसीकुष्टकृष्णावचूर्णिता । सर्वनेत्राययान् हन्यादेतत्सौगतमञ्जनम् ॥ ६१ ।। नागरं निम्बपत्रं च पिष्टं तोयेन पूरणात् । चक्राङ्कामूलचूर्णाद्वा चक्षुःशूलं प्रशाम्यति ।। ६२ ।। नेत्ररोगे धात्रीफलरसाक्ष्योतनम् । वृक्षस्थिताद्विगलितो नखभेदनेन धात्रीफलाद्विदलितात् परिपूर्णरूपात् । रोगान् रसो हरति लोचनयोः प्रभूतान् दोषैः कृतान् पवनपित्तकफैः प्रदुष्टैः ॥ ६३ ।। वातोत्थनेत्रशूले आसेचनम् । तोरुबूकद्रुमपत्रमूलैराज पयः साधितमम्बुयुक्तम् । आसेचनादीक्षणयोः समीरसंभूतशूलोपशमं करोति ॥ ६४ ॥ नील्यादौ चन्दनाद्यञ्जनम् । क्रमसंवृद्धमलयजसैन्धवपथ्यापलाशरसविहितम् | अञ्जनमपहर्तुमलं नीलीपटलार्मपुष्पाणि ॥६५॥ शुक्ररोगे गिरिकाद्यक्षिपूरणम् । श्वेताद्रिकाः सपुनर्नवाया मूलैः प्रपिष्टैर्यवचूर्णयुक्तैः । विलोचनं पूरितमम्बुयुक्तैर्विमुच्यते पुष्पकृतोपसर्गात् ।। ६६ ।। शुक्ररोगे करञ्जबीजवर्तिः। किंशुकस्य रसभावितं मुहुर्नक्तमालतरुवीजज रजः। वर्तियोगविधिना विनाशयत्याशु नेत्रगतपुष्पपाण्डुताम् ॥६७॥ १ पूर्वश्लोकोक्ता अरुणचन्दनाद्या वर्जिरित्यर्थः । छ नेत्ररोगाधिकारस्तृतीयः । नेत्रपुष्प बिभीतफलमज्जाजनम् । कलितरुफलमज्जा ग्रावणि श्लक्ष्णपिष्टा हरति नयनपुष्पं प्रातरेवाअनेन । नैशान्ध्येऽजनम् । श्रवणमलसमेतं मध्वथ क्षुद्रमत्स्यो हुतवहपुटदग्धो नैशमान्ध्यं क्षिणोति ॥ ६८॥ आन्ध्यादौ गुञ्जामूलाञ्जनम् । गुञ्जामूलं वस्तमूत्रेण घृष्टं निघृष्टा वा वारिणा भद्रमुस्ता। आन्ध्यं सद्यस्तैमिरं हन्ति पुंसामत्युगाढं नेत्रयोरअनेन ॥६९।। पटलादौ द्रोणपुष्पीनस्यम् । हरति पटलपक्षणोस्तण्डुलाम्बुमापिष्टा सिचयगलितसारा नावनाहोणपुष्पी । शमयति च रसोऽस्या नेत्रयोरञ्जनेन प्रसभमतिचिरोत्थं कामलारोगपाशु ॥७० ।। अञ्जनगुलिका निहन्ति सूर्याहुन पुनः पुनर्वृष्टा । रजतेन वाथ हेम्ना कणाक्षकेनाथवा शैला ॥ ७१ ।। कामलायामकोलमूलादिनस्यम् । अकोलमूलमथवाऽर्कजटा पिष्टा स्वच्छेन तण्डुलजलेन समं प्रयत्नात् । स्यात्कामलामयहरी कृतनावनाना- माघ्रातमात्रमपि जालनिकाफलं वा ।। ७२।। जीमूतकेन सहितं निशिस्थितं वारि कामलां हन्ति । शिशिरजलपिष्टमथवा नस्येन कुमारिकामूलम् ॥ ७३ ॥ कामलायां हिब्वाद्यञ्जनम् । हिङ्गुना द्रोणपुष्प्या वा रसेनाभितलोचनः । अचिरात्कामलाव्याधि नरो विजयते ध्रुवम् ॥ ७४ ॥ १ नेत्ररोगाधिकारे नस्याञ्जनप्रकरणवशात् कामलाचिकित्साभिधाम् ।
१२
राजमार्तण्डः।
अथ नासारोगाधिकारश्चतुर्थः ।
नासारक्तस्रावे हरीतक्यादिनस्यम् ।
हरीतकीदाडिमपुष्पदूर्वालाक्षारसो नस्यविधानयोगात् ।
निवारयत्येव चिरमवृत्तमप्याशु नासान्तरशोणितौघम् ।। ७५ ॥
नासार्शसि कटुतुम्बीमूलनस्यम् ।
संपेषितः पर्युषितोदकेन पटान्तनिश्चोतननिर्मलश्च ।
घ्राणोद्भवार्तासि निहन्ति सबो नस्येन कन्दः कटुतुम्बिकायाः॥
नासारक्ते पक्कोदुम्बरफलप्रयोगः ।
उदुम्बराणि पक्कानि गुडेन मधुनाऽपि वा।
उपयुक्तानि निघ्नन्ति नासारक्तं नृणां ध्रुवम् ॥ ७७ ।।
पीनसादौ लाङ्गल्यादिनस्यम्
लाङ्गलीकन्दमुरसाव्योषकुष्ठैः सकट्फलैः ।
नस्यं तु पीनसं हन्यात्पूतिनासं च दारुणम् ॥ ७८ ।।
अथ मुखरोगाधिकारः पञ्चमः ।
ओष्टस्फुटने जीवन्त्यादिक्षीरम् ।
जीवन्तिकामदनतुत्थकचित्रवल्ली-
दार्वीयुतं कलमशालिसमन्वितं च ।
दुग्धं शृतं शमयति स्फुटनोपसर्ग-
मालेपनादधरसंश्रयमाशु पुंसाम् ॥ ७९ ॥
ओष्टस्फुटने लेपः।
सघृतफाणिततैलविमिश्रितं कनकगैरिकसर्जरसान्वितम् ।
सलवणं मदनं विनिवारयत्यधरजान् स्फुटनोचटिकावणान्।।८०
मुखागक्तप्रवृत्तौ काकोदुम्बरिकामूलप्रयोगः ।
काकोदुम्बरिकामूलं पिष्टं तण्डुलवारिणा ।
पानानिवारयत्याशु प्रवृत्तं वदनादसूक् ॥ ८१॥
मुखरोगाधिकारः पञ्चमः। मुखरोगे जातिपत्रधारणम् । संचर्वितैर्वधृतैः प्रशान्ति वक्रामयो गच्छति जातिपत्रैः। दन्तचलने बकुलबीजचर्वणम् । दन्तास्तु बीजैर्वकुलट्ठमस्य स्थानच्युता अप्यचला भवन्ति ॥८२॥ मुखदौर्गन्ध्ये मुस्ताद्या वटी। मुस्तैलवालुमधुकैर्गदधान्यकाभ्यां त्रुट्या वटी विनिहिता वदनान्तराले । स्वाभाविकोऽपि मुखमुज्झति पूतिगन्धो वार्ता तु मधलशुनादिभवस्य कैव ।। ८३ ॥ मुखदौर्गन्ध्ये हरीतकीयोगः। गोमूत्रमध्ये कथिता प्रगाढं मांस्यन्विता बालककुष्ठयुक्ता। हरेच पथ्या निहिता मुखान्ते दौर्गन्थ्यमन्यानपि वक्ररोगान् ।८४ मुखदोर्गन्ध्ये कुष्ठाद्या वटिका। गदकुवलयजातीकोशजातीफलत्व- विरचितगुटिकाभिर्वकमध्ये धृताभिः । ब्रजति झटिति नाशं पृतिरास्यस्य गन्धः सविधगतनितान्तोद्वेजिताशेषलोकः ॥ ८॥ मुखदौर्गन्ध्ये दन्तधावनम् । दौर्गन्ध्यमुखरोगघ्नं कटुतिक्तकषायकम् । अभ्यस्यमानं तैलाक्तमन्वहं दन्तधावनम् ॥८६॥ मुखदाहे गण्डूषः। ताम्बूलमध्यस्थितचूर्णकेन दग्धं मुखं यस्य भवेत् कथांचत् । लेन गण्डूपमसौ विदध्यादम्लारनालेन पुनः पुनर्वा ॥८॥ स्वरवृध्द्यर्थ जातीपत्राद्योऽवलेहः । जातीदलैलामधुमातुलुङ्गपत्रैः सलाजैः खलु पिप्पलीभिः । कृतोऽवलेहः कुरुते नराणां कण्ठध्वनि किन्नरनादतुल्यम् ॥८॥ १ मष्यन्विता' ख.।
राजमार्तण्डः । कण्ठशालूकोपजिहिकयोर्निर्गुण्डोमूलचर्वणम् । शेफालिकामूलमुशन्ति कण्ठशालूकहन्त प्रतिचर्वितं सत् । रोग निहन्यादुपजिह्निकाख्यं नासान्तरप्रस्तुतरक्तधाराम् ॥ ८९ ॥ कण्ठरोगे देवदारुतैलनस्यम् । अग्नौ सिद्धं देवदारोः फलानां मिश्रीभूतं वाजिनो वर्चसा यत् । तैलं तत्स्याच्छीर्षकण्ठामयानां नाशायालं नस्यकर्मप्रयोगात् ९० कृमिदन्तके गुञ्जादिमूलप्रयोगः । गुआवराहकोरन्यतरस्याः समुद्धतं मूलम् । दन्तैश्चर्वितमाति दशनयुणोत्या विनाशयति ॥११॥ मूलानि दुग्धिकाया कमलिन्या वा वराहका वा। स्नुह्या वाघ्नन्ति घुणं दन्तैः संचय॑माणानि ।। १२ ।। कृमिदन्तके लाङ्गलीलेपः। यस्याङ्गुष्ठस्य नखो भवति समुत्पिष्टलाङ्गलीलिप्तः । तदितरदिग्भवदशनकृमिरचिरात् पतति निर्जीवः।।९३॥ कुलीरपादान्वितदुग्धसिद्धघृतावसिक्ता दशना न शब्दम् । कुर्वन्ति मुप्तस्य विलेपिता वा भवन्ति चेत्कर्कटिकाङ्किणैते ॥९॥ व्यते शशरक्तलेपः। तत्कालशस्त्रप्रहतः शशो यस्तस्यासजा नश्यति लिप्यमानम् । व्यङ्गं मुखे जातिफलस्य बाह्यत्वचाऽथवा सन्ततमेव लिप्तम् ९५ व्यङ्गे इङ्गुदीफलमज्जालेपः । इङ्गुदीफलसमुद्भवमज्जा पेषिताऽतिशिशिरेण जलेन । - एकविंशतिदिनपविलिप्ता व्यङ्गमाननभवं परिमाष्टिं ॥ ९६ ॥ व्यङ्गे कृष्णतिलादिलेपः। कृष्णैस्तिलैसितजीरकजीरकाभ्यां सिद्धार्थकैश्च विहितैर्भस्टणमपिष्टैः । दुग्धान्वितो वदनचन्द्रमसः प्रलेपो व्यङ्गं विलुम्पति मुहुः परिशील्यमानः ।। ९७ ॥
मुखरोगाधिकारः पञ्चमः । हैयङ्गवीनगुडमाक्षिककोलमध्य- सारैः प्रणश्यति मुखस्य कलङ्कवर्णम् । तंद्वारुणीत्वगथवा छगलीस्तनोत्थ- क्षीरान्विता क्षपयति प्रसभं प्रलेपात् ।। ९८ ॥ मुखश्रीवृध्द्यर्थ क्षौद्रादिलेपः । क्षौद्ररोधमधुकैः ससपैनिस्तुषीकृतयवैश्च पेषितैः । लेपितं भवति तप्तकाञ्चनप्रेक्ष्यमाननमतीव सुन्दरम् ।। ९९ ॥ मुख श्रीवृध्द्यर्थ वटपत्रादिलेपः । परिणतवटपत्रं स्वर्णगन्धा प्रियङ्गु- मधुकमथ सरोज रोधकाश्मीरलाक्षाः । सलिलयुतमितीदं चित्रवल्लीपपिष्ट जनयति बदनानां कान्तिमत्त्वं प्रलेपात् ॥ १० ॥ मुखश्रीवृध्दार्थ प्रियङ्ग्वादिलेपः। प्रियङ्गुकाश्मीरजकोलमज्जाहीबेरकैश्चन्दनभागयुक्तैः। पिष्टैः प्रलेपो विहितो मुखस्य द्युतिं शशाङ्कादधिकां विधत्ते ॥ मुख श्रीवृध्द्यर्थ पत्राङ्गादिलेपः। यः पत्राङ्गमृणालपाकगदैः कोलास्थिमज्जान्वितैः स्वर्णत्वङ्कलयोत्थकुङ्कमनिशायुग्मैः सकालीयकैः । श्यामासावररोचनामधुजपायुक्तैर्ममूरैरपि लक्ष्णैः साम्बुभिराहितः प्रकुरुते लेपो मुखे गौरताम् ॥१०२॥ मुखश्रीवृध्द्यर्थ मधूकसारादिवृतम् । यत्पर्क मधुसारपद्मकनिशारोधैः सकालीयकैः कङ्सर्षपसंयुतैस्तदमलीकुर्याद्धत वाससा । पश्चात् सिन्धुकचूरकुङ्कुमयुतं शीताम्भसि स्थापितं पर्क मृद्वनले मुखस्य शिशिरे कान्तिं विधत्ते पराम् ॥ १०३ ॥ १ तत् व्यङ्गं, वारुणीत्वक् वरुणवृक्षत्वक् । , १६ राजमार्तण्डः। वक्रश्रीवृद्धयर्थं मञ्जिष्ठादितैलम् । मअिष्टामधुकसुचन्दनैः सलाक्षः काश्मीरमभवयुतैश्च कर्षमानैः। तैलस्य प्रमितपलाष्टकं विपर्क यत्क्षीरे द्विगुणमिते भवत्यजायाः॥१०४॥ अभ्यङ्गादनुदिवसं विधीयमानं नारीणां वितरति सप्तभिर्दिनैस्तत् । वक्काब्जेष्वतनुकपोलभित्तिभागं प्रस्फूर्जद्रुचिमुभगत्वमत्युदारम् ॥ १०५ ॥ व्यङ्गादौ ताम्रादितैलम् । अम्भाक्षालितटङ्कणेन ममृणोपिष्टेन यल्लेपितं वानं तत्परिताप्य सूक्ष्मकणिकाभाव क्रमात्मापयेत् । तैलं तत्र चतुर्गुणं विनिहित तैलाव सुरभ्याः पयो विन्यस्याष्टगुणं पचेत्सुनिपुणो नात्यन्ततीऽनले ॥ १०६ ॥ कर्ष तैलपले क्षिपेदथ मधूच्छिष्टस्य काश्मीरज- स्याष्टांशं विनिधाय तेन शिशिरे वत्रं समालेपयेत् । एवं व्यङ्ककलङ्कविन्दुवलिभिनिर्मुक्तमत्युज्वलं तत्स्यात् पार्वणचन्द्रबिम्बविजयि प्रस्फारचारुद्युति ॥१०७॥ गण्डमालायामिन्द्रवारुण्यादिप्रयोगः । मूलं सुरवारुण्या गोमूत्रयुतं महीध्रका वा। अपहरति गण्डमालां पीतं सुश्लक्ष्णपरिपिष्टम् ॥ १०८ ।। कण्ठमालायां लेपः। अर्कक्षीरजपापुष्पतैललाक्षारसैः समः । कण्ठमाला शमं याति प्रलिप्ता सप्तभिर्दिनैः ॥ १०९ ॥ १ 'वक्राब्जे प्रतनुकपोलभित्तिभासः कः। क स्तनरोगाधिकारः षष्ठः। अपच्या श्वेतापराजितामूलप्रयोगः । पुष्ये गृहीतं गिरिकणिकाया मूलं सिताया गलके निबद्धम् । गव्येन लीढं यदि वा घृतेन निहन्ति बोरामपची तदेव ॥११०॥ गण्डमालायां छुच्छुन्दरीतैलम् । छुच्छुन्दरीसाधिततैललिप्ता स्वल्पैर्दिननश्यति गण्डमाला। श्लेष्मान्तककाथरसेन यद्वा सतैलनिष्पावकृताशनस्य ॥ १११ ॥ ग्रीवादिरोगे नस्यप्रयोगः । नस्यप्रयोगात्कपिकच्छुमूलमिश्रो रसो झिझिणिकाट्ठमोत्थः । ग्रीवाभुजस्कन्धभवानशेषानिहन्ति रोगानपि बद्धमूलान् ।।११२॥ अवयाहुके नस्ययोगः। उदुम्बरक्षीरयुतं खगुप्तामूलं समं झिझिणिकारसेन । सरामठं हन्त्यवबाहुकाख्यं नस्यप्रयोगात्पुरुषस्य रोगम् ॥११३॥ अथ स्तनरोगाधिकारः षष्ठः । कुचवृद्धयर्थं लेपः। महिषशूकरकुञ्जरमेदसा विलनिवासिवसासहितेन या। कुचयुग पविलिम्पति कामिनी भवति पीनपयोधरशालिनी ११४ कुचादिवृद्धयर्थमश्वगन्धादिलेपः । तुरङ्गगन्धेभकणावचाभिः कुष्ठान्विताभिर्मसृणीकृताभिः । युतं महिष्या नवनीतमृद्धिं करोति कर्णस्तनमेहनानाम् ॥११॥ कुचवृद्धयर्थ नस्यप्रयोगः। स्रोबोअन तण्डुलधावनेन नस्यक्रियायामुपयुज्यमानम् । स्त्रीणां मृदुस्पर्शमलब्धसन्धि कुचद्वयं पीवरमातनोति ॥ ११६ । कुचवृद्धयर्थमभ्यङ्गः। कुष्ठं वचा गजबलेति समं विचूर्ण्य सर्व विधाय महिषीनवनीतयुक्तम् । अभ्यायेत्कुचयुगं युवतिर्यदीच्छे- न्मत्तेभकुम्भविभवमतिभं विधातुम् ॥ ११७॥ 'श्लेष्मान्तककाथरतस्य' इति ख.।
राजमार्तण्डः
कुचवृद्धयर्थं दाडिमादितैलम् ।
विपाचितं दाडिमकल्कयुक्तं तैलं भवेत्सर्षपसंभवं यत् ।
अभ्यञ्जनात्तत्कुरुते नितान्तमुच्चैः स्तनौ वृद्धियुतौ च कर्णौ ११८
कुचवृद्धयर्थं वचादितैलम् ।
वचाहरिद्राकटुकाप्रियङ्गुकृताञ्जलीभिः सहितं विपकम् ।
तैलं घृतं गोमहिषीभवं च नस्येन वृद्धि स्तनयोबिंधते ॥११॥
कुचवृद्धयर्थमलम्बुषातैलम् ।
अलम्बुषाकल्ककषायसिद्धं पानेन नस्येन च कामिनीनाम् ।
तैलं विधत्ते स्तनयुग्ममाशु मत्तेभकुम्भद्वितयानुकारि ॥ १२० ॥
अथोदररोगाधिकारः सप्तमः।
प्लीहवृद्धौ शरपुवामूलचर्वणम् ।
या विशालविटपा शरपुङ्खा मूलमात्मदशनैर्मुहुरस्याः।
चर्वितं निगिरतो विनिहन्ति प्लीहदिमकठोरभुजश्च ।। १२१ ॥
प्लोहोदरे इन्द्रवारुणीमूलप्रयोगः।
मूलं विदार्य सुरनायकवारुणीज
नामाभिधाय यदि रोगवतो नरस्य ।
प्रक्षिप्यते वियति दूरतरं तदानीं
प्लीहोदरं क्षयमुपैत्यचिरेण तस्य ॥ १२२ ।।
प्लीहोदरेऽर्कपत्रलवणम्।
विधाय पूर्व लवणेन युक्तान्यर्कस्य पत्राणि पुटेन दग्ध्वा ।
यो मस्तुयुक्तानि पिबत्यभीक्ष्णं प्लीहोदरं गच्छति तस्य नाशम् ॥
उदरे पिप्पलीचूर्णयोगः।
यः सप्तरात्रत्रितयं सुधायाः क्षीरेण चूर्ण मृदितं कणायाः।
लेढि प्रकामं मधुरं च भुते तस्योदरव्याधिरुपैति नाशम् ॥१२४॥
प्लीहोदरे श्वेतपुनर्नवादिमूल्योगः ।
मूलं समं तण्डुलधावनेन प्रपेषितं श्वेतपुनर्नवायाः।
पीतं भवेत्प्लीहविनाशहेतुः पाठाजटा छिन्नरुहाजटा वा ॥ १२५ ॥
कुष्ठरोगाधिकारोऽष्टमः। उदरे विलेपीयोगः। विश्राव्य रम्भादलभस्ममध्यात्तोयं ततस्तेन कृता विलेपी । स्यादक्षिता सत्युदरामयानां नाशाय नूनं दिवसत्रयेण ॥१.२६।। क्रिमिरोगे कन्दलीकन्दयोगः। सपिगुंडाभ्यां सह पाचयित्वा यः कन्दलीकन्दमिहात्ति तस्य । पतन्ति सद्यः कृमयः समना येऽप्युग्रदत्तोदरकुक्षिरोगाः॥१२७॥ अथ कुष्ठरोगाधिकारोऽष्टमः। कुष्टे आमलकादिचूर्णम् । यः प्रातरामलकनिम्बदलानि लेढि चूर्णीकृतान्यनुदिनं प्रविमुक्ततन्द्रः। शीर्णाड्डिपाणिरवगाढतमोऽपि कुष्ठ- रोगेण कैरपि दिनैः प्रविमुच्यतेऽसौ ॥ १२८॥ कुष्ठे हरीतक्यादिलेपः। हरीतकीसैन्धवसोमराजीविडङ्गसिद्धार्थकरजवीजैः । करोति गोमूत्रयुतैः प्रपिष्टः कुष्ठमणाशं विहितः प्रलेपः ॥१२९॥ द्रुकुष्टे सोमराजीप्रयोगः । भागं तिलानां सह सोमराज्या भागद्वयेन प्रतिवासरं यः। अनाति तस्य द्रुतमशिददूश्चिरमरूढाऽपि विनाशमेति ॥ १३०॥ रकसे गोमूत्रादिलपः। आरण्यगोमयनिघृष्टमभिप्रलिप्त गोमूत्रतक्रलवणैः कथितैः प्रयत्नात् । नाशं प्रयाति रकसं चिरसंगरूढ- मप्याशु पापमिव संस्मरणेन शम्भोः ।।१३१ ।। कुष्ठे गुञ्जादिलेपः। अपगततुषगुआचूर्णहैयङ्गवीन- प्रमृदितमुपशान्ति कुष्ठिनो याति कुष्ठम् । ..
राजमार्तण्डः। यदि तु भवति लिसं सर्वतस्तानपात्रे पिहितमथितकिट्टैस्तन्न भूयो भवेत्तत् ।। १३२॥ दद्रुपामासु हरितालादिलेपः। गोमूत्रपिष्टैर्हरिताल,सिन्धूद्वैलेंपितमादरेण । प्रयाति नाशं नियंत नराणां दद्रुश्च पामा सुचिरप्ररूढा ।। १३३॥ श्वित्रे बाकुचिकाप्रयोगः । चूर्णेन भाण्डमुपलिप्य शशाङ्कराज्या- स्तत्र स्थितेन पयसा दधि संविदध्यात् । स्नेहं तदीयमसकृन्मधुनोपयुज्य श्वित्रं नरो जयति तन्मथितानुपानात् ।। १३४ ॥ श्चित्रे गिरिकर्णीमूललेपः। मूलेन पिष्टेन सिताद्रिका शीताम्बुयुक्तेन विलिप्य गाढम् । पक्षात्मणाशं सितमेति कुष्ठं चिरप्ररूढं द्विगुणैदिनैस्तु ॥ १३५ ।। श्वित्र द्विपत्वगादिलेपः। दग्धे द्विपदीपिशरीरकृती तैलेन मिश्रे तिलसंभवेन । सवर्णतामानयतः प्रलेपादनं नृणां पाण्डुरकुष्ठजुष्टम् ॥ १३६ ।। पामायां सिन्दूराद्यं तैलम् । सिन्दूरतुत्थमदनाअनगुग्गुलूनां चूर्णेन मध्यनिहितेन समं विपकम् । सिद्धार्थकप्रभवमाशु निहन्ति तैल- मभ्यञ्जनेन बहुशो विहितेन पामाम् ॥ १३७ ॥ पामायां सिन्दूगद्यभ्यञ्जनम् । सिन्दुरमरिचक्षोदयुक्तेनाभ्यङ्गयोगतः । माहिषेणाचिरात्पामा नवनीतेन नश्यति ।। १३८ ॥ १. रकस' ख.
कुष्टरोगाधिकारोऽष्टमः।
शीतपित्ते काश्मरीफलप्रयोगः ।
कालेन पार्क प्रतिपद्य शुष्कं गव्येन सिद्धं पयसोपयुक्तम् ।
काश्मर्यमाशु प्रतिहन्ति शीतपित्तं हिताक्षाररतेन लीढम् ॥१३९॥
सिध्मे श्यामाद्युद्वर्तनम् ।
श्यामात्मगुप्तामलयोद्भवानि कुष्ठं च बीजानि च मूलकस्य ।
समान्युपादाय कृतं नराणामुद्वर्तनं सिध्महरं वदन्ति ॥ १४० ।।
सिध्मे कार्यासिकापत्रादिलेपः ।
कासिकापत्रविमिश्रकाकजङ्घाकृतो मूलकबीजयुक्तः।
तक्रेण लेपः क्षितिपुत्रवारे सिध्मानि सद्यो नयति प्रणाशम् ।।
सिमे मूलकबीजादिलेपः।
पिष्टैर्मूलकबीजैः प्रत्यक्पुप्पीरसान्वैितर्लेपः ।
सिध्मानि हरति यदि वा रम्भाक्षारेण संयुताऽथ निशा॥१४२॥
त्वच्यान्युद्वर्तनानि ।
पिष्टा जलेन रजनी महिषीपुरीष-
मध्ये निधाय मृदुना दहनेन पका ।
उद्वर्तनेन विदधाति शरीरमुद्य-
च्छीतांशुविम्बरुचिरुत्तमचारुकान्ति ॥ १४३ ॥
यः कुष्ठसर्षपतिलैनिशया सदाऱ्या
गात्र प्रलिप्य सलिलैः कुरुतेऽभिषेकम् ।
तस्य प्रतप्तवरकाञ्चनकान्तिगौर-
मुद्दामसौरभमतीव विराजते तत् ॥ १४४ ॥
जम्बूदलार्जुनतरुमसवैः सकुष्ठै-
रुद्वर्तनं प्रकुरुते प्रतिवासरं यः।
प्रस्वेदबिन्दुकणिकानिकरानुपङ्ग-
दुर्गन्धता वपुषि तस्य पदं न धत्ते ॥ १४५ ॥
राजमार्तण्डः। शरीरदौर्गन्ध्ये शिरीषायुद्वर्तनम् । शिरीषपद्मकोशीररोधोद्वर्तितविग्रहः । ग्रीष्मोष्मणाऽपि नामोति दौर्गन्ध्यं जातु मानवः ॥ १४६ ॥ शरीरदोर्गन्ध्ये हीवेरादिलेपः। हीबेरोशीरदलमलयजकाश्मीरकाजिकैलेंपात् । अपगच्छति दौर्गन्ध्यं मुण्डीचूर्णस्य पानाद्वा ॥ १४७ ॥ श्यामारग्वधरो-लोहरजनीमुस्तैः शिरीषत्वचा युक्तैर्दाडिमवल्कलेन च कृतः स्यादङ्गरागः शुभः । यद्वा दाडिमचूर्णवल्कलरसैनिम्बस्य पत्रैश्च यः स स्त्रीणां द्युतिकन्नृणां तु कथितो जम्ब्वाः कषायोद्भवः॥१४८॥ अथ रक्तपित्ताधिकारो नवमः। रक्तपित्ते अटरूषकरसादियोगः। मध्वाटरूपकरसैः सितशर्करांच चूर्णीकृतां समधुकां कृततुल्यभागाम् । यो वै नरः पिबति पथ्यरतः प्रभाते तद्रक्तपित्तमतिदारुणमेति नाशम् ॥ १४९ ॥ अथ पीनसस्वरभङ्गाधिकारो दशमः। पीनसे दधिप्रयोगः। गुडमरिचविमिश्रं पीतमाशु प्रकामं हरति दधि नराणां पीनसं दुर्निवारम् । यदि तु सघृतमत्ति क्षुण्णगोधूमवल्लैः कृतमुपहितमन्नं तत्कुतोऽस्यावकाशः॥ १५॥ पीनसे शिशिरजलप्रयोगः। पिबति शिशिरमम्भो यः प्रभाते निशायां तदनु च शयनीयाधिष्ठितो याति निद्राम् ।
. कासश्वासहिकाधिकार एकादशः। ध्रुवमतिविषमोऽपि क्षीयतेऽस्य त्रिरात्रा- दधिगतपरिपाकः पीनसः स्निग्धभोक्तुः॥१५१॥ स्वरभने बिभीतकादिलेहः । विहितममृणचूर्णान्यारनालेन साध कलितरुफलकृष्णासैन्धवानि प्रलिह्यात् । अभिलपति विजेतुं यः स्वरस्य प्रणाशं स पिबतु सह दुग्धेनामलक्या फलं वा ।। १५२ ॥ अथ कासश्वासहिक्काधिकार एकादशः। कासे जात्यादिधूमपानम् । जातीषाकोलजटां सपत्रामादाय तद्वन्महिषाक्षभागम् । दत्त्वा ततो नागवलामुयुग्मं कासप्रशान्त्यै विदधीत धूमम् ।। जातीजवाकिसलयैदरीदलैश्च लाजामयूरकफलैः समनःशिलैश्च । स्यामवतिरिह गुग्गुलुना समेतैः कासच्छिदे बदरिकाग्निविदह्यमानैः॥१५४ ॥ श्वासे पिप्पल्यादिचूर्णम् । मागधिकात्रिफलाकृतचूण यो मधुना सह भोजनकाले। खादति तस्य विनश्यति शोषश्वासकफज्वरपीनसपीडा॥१५॥ हिकायां पिप्पल्यादिलेहः। कृष्णा मयूरच्छदभस्मयुक्ता क्षौद्रेण लीढा विनिहन्ति हिक्काम् । श्वासं च सापूरमपि प्रवृद्धं सुसूत्रतामानयति असह्य ॥ १५६॥ श्वासे बिभीतकफलचूर्णम् । मध्याक्तमक्षफलकल्पितचूर्णकर्ष- मुंद्रसिकां हरति भुक्तवताऽवलीढम् । १ उद्धंसिका शुष्ककासः।
।
२४
राजमार्तण्डः
श्वासंबसन्ततविकाशविकारभावं
दुःस्थीकृतोदरमिदं सततं नियुक्तम् ॥ १५७ ॥
अथ राजयक्ष्माधिकारी द्वादशः।
क्षये नागबलाचूर्णम् ।
लीदं नागवलाचूर्णं घृतमाक्षिकमिश्रितम् ।
साजक्षीरमथैणाजमांसचूर्ण क्षयापहम् ॥ १५८ ॥
क्षये वानरमांसोपयोगः।
घृतेन गव्येन सहोपयुक्तं क्षयापहं वानरमांसमाहुः ।
क्षये नीलीमूलयोगः।
गोक्षीरयुक्तं प्रशमाय तस्य स्यानीलिनीमूलमथामयस्य ॥१५९॥
शोषे श्वदंष्ट्रादिचूर्णम् ।
चूर्ण श्वदंष्ट्राफलवाजिगन्धाविनिर्मितं माक्षिकसंप्रयुक्तम् ।
क्षीरेण साधं परिपीयमानं शोषं च कासंच निहन्ति पुंसाम् १६०
शोषे काकजवानीलपुष्प्योः प्रयोगः ।
गव्येन पिष्टा पयसा निपीता निहन्ति शोषं खलु काकजङ्घा ।
संपेष्य पीताऽथ रसाजनेनस्यानीलपुष्पी ह्यथ शोषशान्त्यै १६१
कार्ये यष्टयादि चूर्णम् ।
यष्टयश्वगन्धासहिताऽर्कपुष्पी चूर्णीकृता क्षीरयुता प्रदत्ता ।
कृशोऽप्यसौ पीवरतां दधाति पयःकृताहारतयैव मासात् ॥१६२॥
बलवृद्धयर्थ यवादिचूर्णम् ।
खादन्ति ये सयवनागवलातुरङ्ग-
गन्धातिलान् गुडविमिश्रितमाषयुक्तान् ।
पीत्वा पयोऽपि न चिरेण भवन्ति वन्य-
मातङ्गभङ्गपटवः स्ववलातिरेकात् ॥ १६३ ॥
शूलाधिकारस्त्रयोदशः । २५ अथ शूलाधिकारस्त्रयोदशः। परिणामशूले त्रिफलालौहम् । परिणामशूलमपहन्ति हठान्मधुलोहचूर्णसहिता त्रिफला । परिणामशूले शङ्खभस्मयोगः । कथितोदकेन गलितं विधिना लघुशङ्खभस्म यदि वा बहुशः॥ शूले हरिणशृङ्गभस्मप्रयोगः। पुटपदग्धं हरिणस्य शृङ्गं घृतेन गव्येन निपीयमानम् । हृत्पृष्टशूलार्तिमपोहति द्राङ्गणां हिताहारविहारभाजाम् ॥ १६५॥ कव्यादिशूले रुचकादिकाथः। रुचकहिङ्गमहौषधमिश्रितं पिबति यः कथितं सलिलं नरः । अभिभवन्ति न तं कटिपृष्ठहत्प्रभवशूलरुजो विषमा अपि।१६६। अथातिसाराधिकारश्चतुर्दशः। नवातिसारे 'वटजटाप्रयोगः । गव्येन तक्रेण सह प्रपिष्य न्यग्रोधपादः परिपीयमाणाः। नवोद्गतं नन्त्यतिसारमाशु यथा तमिस्राणि हिमांशुमाली १६७ अतिसारे बब्बूलपल्लुवयोगः। बब्बूलपल्लवचयं सलिलेन सार्ध- मापिष्य यः पिबति तस्य कुतोऽतिसारः । रक्तातिसारे तण्डुलीयमूलप्रयोगः । घृष्टोदकेन घननादजटा तु हन्ति तं रक्तयुक्तमपि माक्षिकशर्कराळ्या ॥ १६८ ॥ अथ प्रमेहाधिकारःपञ्चदशः। प्रमेहे लोहादियोगः। चूर्णानि लोहत्रिफलाशिवानां क्षौद्रेण लीढानि पृथक समं वा।
राजमार्तण्डः ।
मेहान् समस्तानपि नाशयन्ति,
पीतः कदाचित्स्वरसो गुडूच्याः॥ १६९ ॥
प्रमेहे धात्रीफलस्वरसादियोगः ।
चूर्ण निशाया मधुना समेतं
धात्रीफलानां स्वरसेन मिश्रम् ।
प्रलीढमल्पैश्च दिननिहन्ति
प्रमेहसंज्ञानखिलान् विकारान् ॥ १७०॥
अथाश्मरीमूत्रकृच्छ्राधिकारः षोडशः।
मूत्रकन्छे हंसपदीमूलादियोगः।
गोधापदीमूलमनल्पसपिस्तैलान्वितं गोक्षुरसंयुतं च ।
निहन्ति सम्यक् कथितं निपीतमप्युत्कटां मूत्रनिरोधपीडाम् १७१
अश्मयां तिलक्षारप्रयोगः ।
क्षारो निपीतस्तिलमूलजातः
समाक्षिकः क्षीरयुतस्त्रिरात्रात् ।
इन्त्यश्मरी सिन्धुविमिश्रितं वा
निपीयमानं रुचकं प्रयत्नात् ॥ १७२॥
अश्मयी गोपालकर्कटीमूलयोगः ।
गोपालकर्कटीमूलं पिष्टं पर्युषिताम्भसा ।
पीयमानं त्रिरात्रेण पातयत्यश्मरी हठात् ॥ १७३ ।।
अश्मर्यामर्कपुष्पीयोगः।
गव्येन पिष्टा पयसार्कपुष्पी निपीयमानाऽनुदिनं प्रभाते ।
विदार्य वीर्येण निजेन तीव्रामप्यश्मरीं नाशयते दशाहात् ॥१७४।।
अश्मयों मूत्रकृच्छ्रे च मालतीमूलयोगः ।
ग्रीष्मोत्खातं मालतीमूलमाजे क्षीरे सिद्ध शर्कराचूर्णमिश्रम् ।
पीतं सद्यो मूत्रसंरोधजातां हन्यात्पीडां पातयेदश्मरी च ॥१७॥
वृद्धयुपदंशाधिकारः सप्तदशः।
'२७
अथ वृद्धधुपदंशाधिकारः सप्तदशः।
कुरण्डादौ भार्गीमूलादिलेपः।
संपेषितं ब्राह्मणयष्टिकाया मूलं समं तण्डुलधावनेन ।
निहन्ति लेपागलगण्डमालांकुरण्डमुख्यानखिलान् विकारन् १७६
चर्मकीले इन्द्रवारुणीमूललेपः।
सुरेन्द्रवारुणीमूलं वृषमूत्रेण पेषितम् ।
चर्मकीलानिहन्त्याशु प्रलेपात्साधनोद्भवान् ।। १७७ ॥
उपदंशे त्रिफलामसीप्रयोगः ।
पुटप्रदग्धत्रिफलारजोभिरुद्गुण्ड्यमानः सततं नराणाम् ।
लिङ्गामयः शाम्यति लेपितो वा हरीतकीयुक्तरसाअनेन १७८
उपदंशे मनुष्यास्थ्यादिलेपः ।
नारं कपालं करवीरमूलं पूगीफलं वा कटिनं निघृष्टम् ।
लेपान्निहन्ति प्रसभं नराणामप्युद्गतां साधनरोगपीडाम् ॥१७९॥
कुरण्डे इन्द्रवारुणीमूलप्रयोगः।
वातारितैलमृदितं मुरवारुणीजं
मूलं नरः पिबति यो मसणं विचूर्ण्य ।
गव्ये निधाय पयसि त्रिदिनावसाने
तस्य प्रणश्यति कुरण्डभवो विकारः ।। १८० ॥
कुरण्डे ईश्वरीमूलयोगः।
तरुमूषकचर्मणा निबदः प्रविलिप्तो जटयेश्वरीभुवा च ।
उपशान्तिमुपैति मानवानामचिरेणैव कुरण्डसंज्ञरोगः ।। १८१ ।।
पैत्तिककुरण्डे कर्णवेधः।
यः पित्तदोषेण कुरण्डरोगो भवेच्छिशोर्दक्षिणमुष्कभागे ।
तत्रोप्रभागं श्रवणस्य विध्येद्वामस्य वामप्रभवेऽपरस्य ॥१८२॥
२८ राजमार्तण्डः। अथ भगन्दराधिकारोऽष्टादशः। भगन्दरे दन्त्यादिलेपः । दन्तीनिशामलकलेपितमाशु नाशं पुंसां भगन्दरमुपैत्यपि दुर्निवारम् । भगन्दरे गुग्गुलुयोगः। काथोदकेन मिलितत्रिफलोद्भवेन पीतः प्रणाशयति तत्खलु गुग्गुलुर्वा ॥ १८३ ॥ भगन्दरे खररुधिरादिलेपः। खररुविरसमेतं भूलतायाः शरीरं दृषदि सहितमस्ना सारमेयस्य घृष्टम् । भवति समुपलेपादाशु भाङ्गदरीणा- मपि विषमतराणामापदां नाशहेतुः॥ १८४ ॥ भगन्दरे बिडालास्थिलेपः। आकृष्य रक्तं जलसर्पिणीभिर्भगन्दरं भूरिकृतमलेपम् । आखुद्विषोऽस्या त्रिफलाकषायधृष्टेन नाशं सहसाऽभ्युपैति १८५ अथाशधिकार ऊनविंशतितमः। असि सूरणादिकल्क। अर्शासि नाशयति सूरणचूर्णमिश्रं तक्रं नृणां कुटजवल्कयुतं निपीतम् । अर्शसि जीमूतफलवर्तिः। यनेन वतिरथवा गमिता गुदेन । या जालिनीफलरजोगुडसंप्रयुक्ता ।। १८६ ॥ असि कटुलाब्वाद्यावर्तिः। कट्टलाबुसुरनाथवारुणीजालिनीफलरजोगुडैः कृता । वतिराशु विनिहन्ति देहिनां पायुमध्यनिहिताऽर्शसांचयम् १८७ .. अर्शोधिकार ऊनविंशतितमः । २९ असि कटुतुम्बीबीजलेपः। आर्द्रस्य बीजैः कटुतुम्बकस्य संपेषितैः काजिकबीजयुक्तैः । प्रयान्ति पायुप्रभवाः प्रणाशं कीलाः प्रलेपेन कृतेन सद्यः १८८ अर्शसि पलाशादिवृतम् । त्रिगुणेन पलाशभस्मनः सलिलेनोषणकत्रयेण वा । परिपाचितमाज्यमश्नुते ध्रुवमाशु प्रशमोऽर्शसां भवेत् ॥ १८९॥ असि हरिद्रादिलेपः। हरति कुलिशवृक्षप्रसुतक्षीरसिक्तं प्रमृदितमुपलेपाशमीसि चूर्णम् । अथ भवति रजश्वेदेवदालीफलानां तदपि खलु विधत्ते सैन्धवोपेतमेतत् ॥ १९॥ अर्शसि विवफलकृष्णतिलयोयोंगी। यः संततं बिल्वशलाटुभोजी रक्तार्शसां नाशमसौ करोति । कृष्णैस्तिलैमिश्रितमत्ति यो वा हैयङ्गवीनं सतताभियुक्तः॥१९॥ अर्शसि चित्रकमूलादियोगः । यश्चित्रकोत्थमथवा मुशलीसमुत्थ- मादाय कृष्णचिरबिल्वसमुद्भवं वा। गोमूत्रयुक्तमभिपिष्य पिबत्यभीक्ष्णं मूलं न तस्य गुदकीलकृताऽस्ति भीतिः ॥ १९२ ॥ क्षुद्वोधार्थ यवक्षारादिचूर्णम् । पातर्यवक्षारमहौषधाभ्यां चूर्णेन तुल्येन विमिश्रितं यः। लिह्याद्धृतं तस्य न शाम्यति क्षुद्यो वा पिवत्युष्णजलेन शुण्ठीम् ॥ क्षुद्बोधार्थे सैन्धवादिचूर्णम् । यः सैन्धवं मागधिकां शिवां च संचूर्ण्य वह्निं च समानभागम् । प्रातः पिबत्युष्णजलेन तस्य क्षुत्कोडमांसैरपि नैति शान्तिम् ॥
राजमार्तण्डः।
अथ छर्दिवृषाधिकारो विशतितमः।
या कतिपययोगाः।
काथं गुडूच्याः शृतशीतल यो
मध्वन्वितं श्रीतरुसाधितं. वा।
दूर्वा पिवेत्तण्डुलवारिणा वा
तस्य प्रशान्ति समुपैति वान्तिः ॥ १९५ ॥
तृषायां रक्तचन्दनादिशिरोलेपः ।
अरुणचन्दनचन्दनवालकै-
नलदपाकतुल्यकृतांशकैः।
शिरसि लेपनमाचरतां नृणां
तृडपयात्युपशान्तिमसंशयम् ।। १९६॥
तषायां नीलोत्पलादिवटिका।
नीलाब्जकुष्ठमधुलाजवटप्ररोहैः
श्लक्ष्णीकृतैविरचिता गुटिका मुखस्था ।
तृष्णां निवारयति तत्क्षणमेव तीब्रा-
मर्थस्पृहामिव यतेः परमात्मचिन्ता ।। १९७।।
अथ ज्वराधिकार एकविंशतितमः।
ज्वरे औषधग्रहणयोग्यावस्था ।
निर्वातसेवाकथिताम्बुपानस्वेदोपवासैः क्षपितावशेषे ।
आमे समस्तज्वरपीडितानां योगान् प्रयुञ्जीत न पूर्वमेव ।।१९८॥
वातज्जरे गुडूच्यादिकषायः।
वातज्वरोपशमनाय पिबेगुडूची-
दुःस्पर्शनागरघनकथितं कषायम् ।
पित्तज्वरे नलदादिकषायः।
पित्तोद्भवे नलदपर्पटकाब्दशुण्ठी-
श्रीखण्डनिष्कथितमेतदुशन्ति वैद्याः॥ १९९ ॥
ज्वराधिकार एकविंशतितमः।
कफज्वरे इ.ण्ञ्यादिकषायः।
शुण्ठीयवासकपाब्दवृतः कपाय:
श्लेष्मोद्भवं शमयति ज्वरमाशु पीतः ।
सर्वज्वरे शुण्ठ्यादिकषायः ।
सर्वज्वरप्रशमनार्थमुदाहरन्ति
विश्वौषधेन सह पर्पटकं मुनीन्द्राः ॥ २००॥
सर्वज्वरे मुस्तादिकाथः।
पिबति योऽब्दयवासकवालकैः
सकटुकैश्च महौषधसंयुतैः।
गृतकषायवरान् ज्वरमस्य ते
व्यपनयन्त्यनलं च वितन्वते॥ २०१॥
सर्वज्वरे द्वितीयः शुण्ठ्यादिक्काथः ।
विश्वौषधच्छिन्नरुहाकिराततिक्तैः समुस्तैः कथितं जलं यः।
पिबत्यसौ न ज्वरसंभवानामाधारतामेति रुजां कदाचित् २०२
सर्वज्वरे निदिग्धिकादिक्काथः ।
निदिग्धिकावारिददेवदारुश्रुतं जलं हन्ति रुजो ज्वरोत्थाः।
सर्वज्वरे मृणालादिक्वाथः।
मृणालमुस्तासहितं कदाचित्तदेव हन्ति कथितं ज्वरातिम् २०३
सर्वज्वरे गुडूच्यादिक्वाथः।
छिन्नोद्भवानिम्बपटोलमुस्ताफलत्रयैर्धान्यकसंयुतैर्वा ।
कृतं कषायं मधुशर्कराढ्यं पिवेज्वरस्तस्य शमं प्रयाति ।। २०४ ।।
हरितक्यादिचूर्णम् ।
चूर्ण शिवामलकचित्रकपिप्पलीनां
श्लक्ष्णीकृतं पिबति यः शिशिरोदकेन ।
दीप्तिं करोति च परां जठरानलस्य
क्षीणेन्द्रियस्य कुरुते रतिशक्तिमेतत् ॥ २०५ ॥
: राजमार्तण्डः। सर्वज्वरे मृणालादिकषायः । मृणालधात्रीफलचन्दनैर्यः शृतं गुडूचीवनपर्पटैश्च । सधान्यकैरम्बु पिवेत्सिताढ्यं मध्वन्वितं तस्य कुतो ज्वरातिः ॥ सन्निपातज्वरे द्राक्षादिकषायः । द्राक्षाटरूपकृतमालयवासभूमि- निम्बैः शतं मलयजेन युतैः पयो यः। दोषत्रयेण जनितेऽपि पिबेज्ज्वरेऽसौ तत्कालमाशु लभते बलमत्युदारम् ॥ २०७॥ सर्वज्वरे व्याघ्यादिकषायः। व्याघ्रीपटोलत्रिफलानिशाब्दैः सरोहिणीकैः पिचुमर्दयुक्तैः । सदेवकाष्ठैश्च जलं नराणां सर्वज्वरान् हन्ति निपीयमानम् २०८ सन्निपातज्वरे पुष्करमूलादिक्वाथः । पुष्करमूलगुडूचीनिदिग्धिकानागरैः कृतः काथः । कासश्वासान् सबलान् ज्वरं च हन्ति त्रिदोषभवम् ॥ २०९ ॥ ज्वरे निदिग्धिकादिकाथः । निदिग्धिकाच्छिन्नरुहोपकुल्याविश्वौषधैः साधितमम्बु पीतम् । हन्ति ज्वरं श्वासबलासकासशूलानि मान्द्यं जठरानलस्य ॥२१० पित्तज्वरे पिप्पलीमूलादिक्काथः। यः पिप्पलीमूलशिवाम्बुवाहव्याधिनशुण्ठीकटुरोहिणीनाम् । यः पर्पटोशीरविमिश्रितानां काथं पिबेत्पित्तसमुद्भवोऽस्य । ज्वरः शमं याति सतृट् समूईस्तिक्तास्यतादाहयुतः क्षणेन २११ पितज्वरे हीरादिकषायः। हीबेरपर्पटचन्दनशुण्ठयुशीर- मुस्तैः कृतं पिबति यः पुरुषः कषायम् । तृड्दाहस्वेदजननं जयति ज्वरं स पित्तोत्थमुग्रमपि दत्तदुरन्तमूर्च्छम् ॥ २१२ ।।
३
वातरोगाधिकारी द्वाविंशतितमः ।
३३
विषमज्वर क्षारप्रयोगाः।
यः पिप्पलीचूर्णविमिश्रमाजं मध्वन्वितं सुकथितं च गव्यम् ।
पयः पिवत्याशु विनश्यतोऽस्य हृद्रोगकालौ विषमज्वरश्च ।२१३॥
गव्यं पयो गोमयसारिवादिमिश्रं प्रदेयं विषमज्वरातौं ।
आज कदाचिन्मसृणप्रपिष्टविश्वौषधोपेतमिमां निहन्ति ।।२१४||
ज्वरे तन्द्रायां नस्यप्रयोगः।
सिन्धूत्थमुस्तबृहतीफलयष्टिचूर्ण-
नस्येन नश्यति नृणां विषमाऽपि तन्द्रा।
शाम्यत्यसौ मरिचमाक्षिकवाजिलाला-
पूर्णेक्षणस्य यदि वा पुरुषस्य सद्यः ॥ २१५ ॥
ज्वरे निद्रायां काकजङ्घामूलबन्धनम् ।
यः सततमेव निद्रापरिघूर्णितलोचनो दिवारात्रौ ।
वायसजङ्घामूलं मूनि तदीये निवनीयात् ॥ २१६ ॥
ज्वरसंतापे सर्जरसाद्यं तेलम् ।
सकालिकं सर्जरसेन युक्तं तैलं विपकं मृदितं जलेन ।
अभ्यजनान्मारुतरक्तदाहज्वरार्तिसन्तापमपोहति द्राक् ॥२१७॥
दाहज्वरे इन्द्रयवार्य तैलम् ।
इन्द्रयवचूर्णकुडवं मजिष्ठायाः पलार्धमादाय ।
तैलमस्थं तेन प्रस्थशते कालिके विपचेत् ॥ २१८ ॥
उपयुक्तं तदारुणदाहज्वरनाशनं भवति पुंसाम् ।
अङ्गानां च करोति प्रहर्षमभ्यङ्गयोगेन । २१९ ।।
अथ वातरोगाधिकारी द्वाविंशतितमः।
ऊरुस्तम्भे भल्लातकादिकषायः ।
भल्लातकोपकुल्यातन्मूलैः साधितं पिबन्नम्भः ।
ऊरुस्तम्भादचिराधोरादपि मुच्यते नियतम् ॥ २२० ॥
- राजमार्तण्डः। ऊरुस्तम्भे बल्मीकमृत्तिकादिलेपः । वल्मीकमन्मूलकबीजयुक्ता तुरङ्गगन्धासहिता प्रलेपात् । उन्मदनेनापि च घोरमूरुस्तम्भ विनाशं नयति प्रसह्य ॥ २२॥ सन्धिवाते निम्बमूलप्रयोगः । जरटपिचुमन्दमूलं पिष्ट शीतेन वारिणा पीतम् । अपहरति वातदोष संधिकसंज्ञं प्रकर्षण ।। २२२ ॥ सन्धिकवाते तगरमूलादियोगः । तक्रेण पिष्ट तगरस्य {लमा निपीत विनिहन्ति शीघ्रम् । शेफालिकामूलविनिर्मितो वा काथो नृणां सन्धिकवातरोगम् ॥ वातरोगेऽस्थिसंधातिकायोगः । साध मांसैरस्थिसङ्घातिका यो भुडे यदा व्यञ्जनेनापरेण । क्षिप्रं शाम्यत्यस्थिभङ्गोऽस्य नूनं वातव्याधिश्वातितीवोऽपि यः स्यात् ।। २२४॥ अथ पादरोगाधिकारस्त्रविशतितमः । पाददाहे लेपौ । साज्यैः सक्तुभिरभ्यक्तौ वज्रीक्षीरसमन्वितैः । शाल्मलित्वग्विलिप्तौ वा पादौ संतापमुज्झतः ॥ २२५ ॥ पादस्फुटने गुडादिलेपः । गुडगुग्गुलुसर्जरसँगैरिकसिन्धूत्थसिक्थकक्षौद्रेः। सिद्धार्थकमधुकघृतैर्न स्फुटतो लेपितावडी ॥ २२६ ।। अथ चर्मकीलाधिकारश्चतुर्विशतितमः। चर्मकीले कुमारिकायोगः। हरति गृहकुमारीपत्रमावेष्टनेन ग्रथनविधिविशेषाचर्मकीलांस्तृतीये। १ 'मूलं साध' ख.। :
अग्निदग्दाधिकारः पञ्चविंशतितमः। अहनि गुरुतरानप्यङ्गलब्धप्रतिष्ठान विधिरिव विपरीतः पौरुषस्य प्रकारान् ॥ २२७॥ चर्मकीले गोष्टीवल्लीमूलयोगः । गोष्ठीवल्लीमूलनिर्दृष्टवक्कास्तस्याः पत्रैरेव वा घृष्यमाणाः । नाशं पुंसां चर्मकीलाः प्रयान्ति द्यूतासक्त्या दुर्मतीनामिवार्थाः ।। मषके चूर्णवर्षणम् । वातारिपत्रवृन्तप्रान्तेनादाय चूर्णकं बहुशः। तेन निघृष्टस्तु मषः प्रसुतरुधिरः क्षयं याति ॥ २२९ ॥ मषके शङ्खभस्मयोगः। निशोषितसुवर्चिकासहिततोयनिर्वापितं समुद्रभवकम्बुजं भवति भस्म लेपानृणाम् । मषस्य शमहेतवे भुजगकञ्चुकी वा दृढं प्रघर्षणविधानत (स्तदनु कोरिते कञ्चुके ?) २३०॥ तीवानले मोपितकोटिभागकासिकाकाण्डवितीर्णदाहः । मषः प्रयाति प्रशमं नराणां चिरमरूढोऽप्यचिरेण नूनम् ॥२३॥ अथाग्निदग्धाधिकारः पञ्चविंशतितमः। अग्निदग्धे जीरकाद्यं घृतम् । प्राग्जीरकेण सहितं परिपाच्य सपि- स्तत्रावपेन्मदनसर्जरसौ ततोऽनु । अभ्यञ्जनं वपुषि तेन हुताशदग्धे कुर्वस्तदार्तिमचिरेण जयत्ययत्नात् ॥ २३२ ॥ अग्निदग्धे यवमस्याद्यभ्यङ्गः । यवान् प्रत विनिधाय तैले तिलोद्भवे श्लक्ष्णमसी विधाय। तल्लिसमनिप्रविदग्धमङ्गं तत्तैललितं च रुजं जहाति ॥ २३३॥ १ 'घृष्टो मषकः सद्यः' खः । :
gror ३६ राजमार्तण्डः। मल्लातकोत्थश्वयथावभ्यङ्गः। हैयङ्गवीनं महिषीसमुत्थं पयःपिष्टैः सहितं तिलैर्यत् । अभ्यङ्गयोगेन तदामनन्ति भल्लातकोत्थश्वयथोनिहन्त ॥२३४॥ अथ व्रणाधिकारः पञ्चविशतितमः। शस्त्रप्रहारे कर्पूरसर्पिःपूरणम् । सद्यः कर्पूरसपिभ्यां पूरितो वस्त्रयन्त्रितः। शस्त्रप्रहारः संरोहत्यपूयः पाकवर्जितः॥२३५॥ शस्त्रक्षते शरपुङ्खारसपूरणम् । शस्त्रक्षते दशनचर्वितवाणपुडा- मूलोद्भवं विनिदधीत रसं प्रयत्नात् । तस्मिन् पुरीषमथवा महिषीमुतस्य प्राङ्कितं मसूणचूर्णितमाशु दद्यात् ॥२३६ ॥ शस्त्रक्षते दण्डोत्पलास्वरसपूरणम् । दण्डोत्पलायाः स्वरसेन पूर्णो रिक्तीकृतो यः परिपूरितश्च । पश्चानिबद्धो मृदुपट्टकेन क्षिप्रं स संरोहति शस्त्रघातः॥२३७॥ शस्त्रक्षते लजालुकादिमूलप्रलेपः। लालुकेषुपुङ्खामाङ्गीणां मध्यतः प्रलेपेन । एकस्या जलपिष्टं मूलं शस्त्रक्षतेषु हितम् ॥ २३८ ॥ शस्त्रक्षते काळजवाप्रलेपः। दिनत्रयं वायसजविकायाः शस्त्रप्रहारे कुरुते प्रलेपम् । अजातपूयो व्यथया विहीनःसंरोहमभ्येति स तस्य शीघ्रम् २३९ शस्त्रक्षते लजालुमूलतलम् । आदेण लज्जालुसमुद्भवेन मूलेन तैलं परिपाचितं यत् । तत्स्वेदितः पाकविवजितो द्राक् संरोहमागच्छति शस्त्रघातः॥
अथ व्रणाधिकारः षविंशतितमः । शस्त्रघातेऽपामार्गमूलतैलम् । तिलतैलमपामार्गमूलेनाम्भोन्वितेन यत् । सिद्धं तत्स्वेदितः शस्त्रघातो न कुरुते व्यथाम् ॥ २४१ ॥ शस्त्रक्षते गोष्टाम्लिकादिचूर्णम् । गोष्ठाम्लिकाऽरण्यकुमारिकायाः कन्दस्तथा वेश्मकुमारिकायाः गोपालपीठं च मयूरकश्चे- त्यतैविपाच्यं धृतमंशतुल्यैः ॥२४२ ॥ स्वेदेन तच्छस्त्रनिपातजातामाति नृणां तामचिरानिहन्ति । पुत्रः पितॄणां नरके स्थितानां यथा तृडादीनुदकादिदानैः २४३ शस्त्रघाते रक्तस्तम्भनार्थमपामार्गपत्ररसः। निष्पीडितैः करपुटेन मयूरकस्य पत्रैर्विनिःसरति यः स्वरसोऽतिसान्द्रः। तत्पूरिते सततनिर्यदापि क्षणेन रक्तं निरुद्ध व तिष्ठति शस्त्रघाते ।। २४४ ॥ शल्यनिर्गमनार्थ ब्रणमुखे लाङ्गलीकन्दलेपः । पिष्टेन लाङ्गलक्याः कन्देन विलेपिते व्रणस्य मुखे । सद्यो निर्याति क्षताच्छल्यं चिरकालनष्टमपि ॥ २४५ ॥ प्रणष्टशल्यापहरणार्थ इन्द्रवारुणीमूललेपः । व्रणपर्यन्तालेपान्मूलं जलपिष्टशनवारुण्याः। कर्षति नष्टं शल्यं कदाचिदजशृषिकामूलम् ॥ २४६ ।। नाडीव्रणे आवल्लिकामूलतेलम् । आवल्लिकामूलयुतैविपकं तैलं तिलोत्थं शकलैनिशायाः। नाडी चिरोत्थामपि पूर्यमाणामभ्यञ्जनाद्रोहयति प्रसह्य ॥२४॥ १ 'शस्त्रवणो' ख.। २ 'घृतमस्तुतुल्यैः व.। ३ 'वृत्चेन' क.। है ३८ राजमार्तण्डः । नाडीव्रणे कोद्रवान्नोपयोगः । यो माहिषेण दना भुतेऽनं कोद्रवोद्भवं सततम् । नाडीव्रणो विरोहति तस्य भृश पूर्यमाणोऽपि ।। २४८ ॥ नाडीव्रणे कङ्गुणीमूलप्रयोगः। यः कङ्गुणीमूलसमांशखण्डमश्नाति नित्यं पुरुषोऽभियुक्तः । नाडीव्रणो रोहति तस्य शीघ्रमनारतप्रसुतसान्द्रपूयः ।। २४१ ॥ दुष्टवणे तालकादिमपीप्रयोगः । दहेत्पुटे तालकतण्डुलीयौ तुल्यांशको तत्र भवेन्मसी या। तत्पूरिता रोहति दुष्टनाडी दुष्टवणो वा चिरकालजातः॥२५॥ समुद्रफेनघर्षणजनितशोफे लेपः । अम्भोधिफेनकषणाकुपितागुत्थं यमण्डलं भवति तच्छिशिराम्बुपिष्टैः। बीजैः प्रणश्यति पलाशतरोः प्रलिप्त सान्ध्यं यथा तिमिरमिन्दुकरोपगूढम् ।। २५१ ॥ अथ ग्रन्थ्यर्बुदाधिकारः षडविंशतितमः । अर्बुदे यवक्षारादिलेपः । लिसं यवक्षारविडङ्गवीजगन्धोपलः स्यान्ममृणीकृतैर्यत् । रक्तेन मित्रैः सरटस्य सद्यस्तदर्बुद शाम्यति नान्यथैतत् ।२५२। ग्रन्थ्यादौ उत्तिण्डीमूललेपः । यः सौम्यदिशस्त उक्त विधानपूर्व- मुत्पादितः शिशिरपर्युषिताम्बुपिष्टः । उत्तिण्डिकाशिरुपलेपनतः स आशु प्रन्थीविनाशयति सार्बुदगण्डमालान् ॥ २५३ ॥ ग्रन्थ्यादावतस्यादिलेपः। उमाशमीसर्षपशिबीजै पान्वितैर्मूलकबीजयुक्तः । तक्रेण पिष्टविहितः प्रलेपो ग्रन्थीनिहन्त्याशु सगण्डमालान २५४ अपस्मारोन्मादाधिकारोऽष्टाविंशतितमः । ग्रन्थावर्कशलभयोगः । यो भवत्यतिकठोरतरोऽपि प्रामुयाच न कदाचन पाकम् । सोऽर्कगुल्मशलभस्य रसेन ग्रन्थिराशु शममेति विलिप्सः ॥२५॥ अथापस्मारोन्मादाधिकारोऽष्टाविंशतितमः। अपस्मृतौ योगः। उद्धमानवगलव्यतिषक्तमनौ रज्जु विदा निपुणेन कृता मषी या । सा शीतलेन सलिलेन समं निपीता पुंसामपस्मृतिविनाशकरी प्रदिष्टा ॥ २५६ ॥ भूतग्रहोपशान्त्यर्थ गिरिकर्णीमूलयोगः । संपिष्य तण्डुलजलेन सिताद्रिकी- मूलं घृतेन सह नस्यविधौ प्रयुक्तम् । भूतग्रहोपशमनं, मुनिक्षपुष्प- जातो रसः समरिचश्च तथैव दृष्टः ॥२७॥ ग्रहोपशान्त्यर्थ धूपः। सिद्धार्थनिम्बदलपन्नगकृत्तिहिङ्गु- संयोजितो निगदितः सहसैव पुंसाम् । डाकिन्युपद्रवमयोपशमाय धूप- स्तद्रूपनाद्भवति तद्विधृतस्य मोक्षः ।। २५८ ॥ ग्रहोपशमार्थ नस्यम् । गोमूत्रेण तु सहितं सम्यक्पकं फलं विशालायाः नस्येन हन्ति भूतान् रक्षांसि ब्रह्मपूर्वाणि ॥ २५९ ॥ ग्रहोपशमनार्थमञ्जनम् । गोपित्तसिन्धुभवमागधिकामसूत- चूर्णैः कृतं समरिचैनयनाजनं यत् ।
राजमार्तण्डः भूतग्रहमशमनं तदुदाहरन्ति संत्रासनं च रजनीचरसंहतानाम् ॥ २६० ।। ग्रहोपशमार्थमञ्जनयोगः। कूष्माण्डीफलसलिलेन पुष्यसंज्ञे नक्षत्रे महणतरां प्रपिष्य दाीम् । कर्तव्यं नयनयुगेऽञ्जनं प्रशस्तं निश्शेषग्रहरजनीचरोपशान्त्यै ॥ २६१ ॥ चातुर्थकञ्चरे धूपः। कृष्णाम्बरग्रथितगुग्गुलुघूकपक्ष- मिश्रीकृतो हरति तत्क्षणमेव धूपः । चातुर्थिकज्वरमनल्पदिनोपगूढ- सर्वाङ्गमप्यहिमरश्मिरिवान्धकारम् ॥ २६२ ।। अथ विषरोगाधिकार एकोनत्रिंशत्तमः । वृश्चिकादिविषे पुनर्नवायोगः। यः पिबति पुष्यदिवसे जलपिष्टं सितपुनर्नवामूलम् । तत्सन्निधौ न वर्ष वृश्चिकभुजगाः प्रसर्पन्ति ॥२६३ ॥ सर्पविषनिवारणार्थ गरुडप्रतिमाधारणम् । तरक्षुदन्तेन विनिर्मितां यः पतत्रिराजप्रतिमा विमति । न बीक्षितुं तस्य मुखं क्षमन्ते येऽपि स्वयं वासुकितक्षकाद्याः२६४ विषोपशमार्थ गरुडीमूलयोगः । पुष्ये निपीतं गरुडीसमुत्थं मूलं नृणां पन्नगदंशभीतिम् । संवत्सरार्धं हरति असह्य का वृश्चिकाधैर्गणनैव तेषाम् ॥ २६५ ॥ १ 'घूकपुच्छपक्षैः कृतो' ख.। :
विषरोगाधिकार एकोनत्रिंशत्तमः । नस्याअनालेपनपानयोगैर्भुजङ्गदष्टस्य विषं निहन्ति । मूलं गरुड्याः परिघृष्यमाणं न श्यामलत्वं प्रतिपद्यते चेत् २६६ विषोपशमार्थ लज्जालुमूलयोगः । लज्जावतीमूलविलिप्तपाणिद्धाऽथवा तत्र तदीयमूलम् । गृहाति सान भ्रमतोऽतियोरान् पुमान् सुपर्णप्रतिमप्रभावः २६७ गोनाशविषेऽमूलादिप्रयोगः । अर्कमूलत्वचश्चूर्णं पीतं शीतेन वारिणा। धत्तूरकाश्वमाराभ्यां गोनाशविषनाशनम् ॥ २६८॥ मण्डलिविषे काकादनीमूलयोगः । अपहरति मण्डलिविषं पानेनालेपनेन वा सद्यः। काकादन्या मूलं काशिकपरिपेपित {साम् ॥ २६९ ।। कृत्रिमविषोपशमार्थ तण्डुलीययोगः। तण्डुलोदकयुतं परिपिष्टं मूलमम्बुदरवस्य वृतान्यम् । पीयमानमतिदारुणवेगं कृत्रिम गरलमाशु, निहन्ति ।। २७० ।। मण्डलिविषे नीलिनीमूलयोगः । तण्डुलजलेन पिष्ट नीलिन्या मूलमाशु नाशयति । पानेन मण्डलिविषं यदि वा लज्जावतीमूलम् ॥ २७१ ।। कोद्रवोत्थभ्रमे कूष्माण्डस्वरसोपयोगः । गुडेन कूष्माण्डफलाम्बु पीतं स्यात्कोद्रवोत्थभ्रमनाशहेतुः। धत्तूरमदप्रतीकारः। मोहे तु धत्तूरकखादनोत्थे सशर्करं क्षीरमुशन्ति वैद्याः॥२७२।। पूगफलजनितमदप्रतीकारः। शान्ति द्रुतं व्रजति पूगफलोपयोग- जातो जलेन चुलुकैरुपयोजितेन । १ 'गुडूच्या:' ख..
राजमार्तण्डः।
शुकेण वा बनसमाहतगोमयेन
घातेन तस्य सहसैव भवेत्लणाशः ॥२७३॥
मद्यमदप्रतीकार
लीडा घृतं शर्करया समेत निषेवले यो मदिरां प्रकामम् ।
उद्दामदऽपि न तस्य सा स्यान्मदस्य हेतुः परिपीयमाणा ।।
कृत्रिमविषे कृष्णादिचूर्णम् ॥
कृष्णाङ्कोल्लकाथस्तचूर्णं वा दिनत्रयं पीतम् ।
पुंसां निहन्ति नूनं दारुणमपि कृत्रिम गरलम् ॥ २७५ ॥
वृश्चिकविष मनःशिलादिगुटिका ।
मनःशिलाकुष्ठकरञ्जवीजशिरीषकाश्मीरभवैः समांशैः।
विनिर्मिता वृश्चिकसंभवस्य संहारिणी स्याहुलिका विषस्य ।।
अवतारयत्यधो नीतमूर्ध्वमारोपित तु वर्धयति ।
दशादृश्चिकगरलं विधिवद्धं मुजकान्मूलम् ॥ २७७ ॥
वृश्चिकविषेऽङ्गुलिकाधारणम् ।
द्विरदपुरीषसमुत्थच्छत्रकबहुकरकृताऽङ्गुलिका ।
वृश्चिकविषस्य कुरुते संक्रामणमाशु करविधृता ॥ २७८ ॥
वृश्चिकविषसंक्रामणी गुटिका ।
रविशलभवेश्मगोधापुरीषकुङ्कुमकुसुम्भहरितालैः ।
समनःशिलैः सकर्कटमांसार्करसैः कृता गुटिका ॥ २७९ ॥
वृश्चिकदंशस्थाने सकृदपि संश्लेषणं विधायादौ ।
अपरस्याङ्गे क्षिप्ता तद्विषसंक्रामणी भवति ।। २८०॥
वृश्चिकदंशे घृतसैन्धवयोगः।
उष्णं घृतं सैन्धवचूर्णयुक्तं निपीतमाशु प्रशमं करोति ।
निश्वासकम्पश्रमवारितापरुजां जयेदृश्चिकदंशजाताम् ॥ २८१॥
विषरोगाधिकार एकोनत्रिंशत्तमः । खर्जूरकदंशे दीपतैलाभ्यङ्गः। अभ्यङ्गं दीपतैलेन दंशे खजूरकस्य यः। करोति न करोत्याति तस्य तत्संभवं विषम् ॥ २८२ ॥ रक्तकीटदंशे गुग्गुलुधूपनम् । दष्टं नरं रक्तककीटकेन प्रधूपयेद्गुग्गुलुना प्रकामम् । प्रस्वेदनाशे सघृताऽर्कपत्रपिण्डी च दंशे विधिवत्पदेया ॥२८३॥ मूपकविषे सुरसादियोगः। बहुशः सुरसाभाविततालककुवलयमनःशिलाचूणैः । मूषकविषयपि घोरं नश्यति पीतैर्न संदेहः ॥२८४ ॥ मूषकविषे मार्गरजोनिक्षेपणम् । यस्याङ्गमाखोर्गरलेन पुंसः प्रदूषितं तस्य निगद्य नाम । रजः समादाय करेण मार्गाद्विनिक्षिपेत्तद्विषवेगशान्त्यै ॥२८॥ मत्स्यदंशेऽङ्कोलपत्रधूपः। अङ्कोलक्षदलधूपविधानयोगा- नाशं प्रयाति विषमाशु नरस्य मात्स्यम् । मत्स्यदंशे कटुतैलादिधूपः । धूपः पुनः कटुकतैलनृकेशसक्तु- युक्तोऽस्य दंशपदके सुतरां प्रशस्तः ॥ २८६ ।। गोधेरकविषे कन्थारिकामूलनस्यम् । उष्णोदकेन मसृणं दृषदि प्रवृष्टा कन्थारिकातरुजटा कृतनावनानाम् । गोधेरकस्य गरलं नयति प्रशान्ति- मांशुतापभरमम्बुदमालिकेव ।। २८७ ॥
राजमार्तण्डः। सृङ्गिमत्स्यविषप्रतीकारः। शृङ्गिमत्स्यदशनत्रणाश्रितं सनिहन्ति गरलं सुदुःसहम् । साज्यचिक्कणयवस्य पिण्डिका वेष्टनेन यदि वेन्दुरश्मयः ।।२८८॥ बस्टीविषप्रतीकारः। शस्त्रेण दंशे परिघृष्यमाणे समुद्धते तद्गतकण्टके च । कणिजनिर्यासभृतेऽथ देशे मवेलणाशो बरटीविषस्य ॥२८९।। मक्षिकादशे मरिचादिलेपः ।। मरिचतगरशुण्ठीकेसरैस्तोयपिये- यदि भवति विलिप्तं मक्षिकादष्टमङ्गम् । विषमुपशममेति द्राक् तदानीं तदीयं घृतयुतशतपुष्पासैन्धवालेपनाद्वा ॥ २९० ॥ मण्डूकविष शिरीषपुष्पनस्यम् । शिरीषपुष्पं कुलिशद्रुमस्य क्षीरेण पिष्टं कृतनावनानाम् । विषं विनाश नयति क्षणेन मण्डूकदंशमभवं नराणाम् ॥२९१॥ अलर्कविषे धत्तूरयोगः । उन्मत्तकस्य स्वरसं पयश्च सर्पिर्गुडश्चेति विमिश्रितानि । पिबेत्पलद्वन्द्वमितानि यत्नादुन्मत्तकौलेयकदष्टगात्रः॥ २९२ ॥ अलकविषे काकोदुम्बरिकायोगः । काकोदुम्बरिकामूलं धत्तूरकफलान्वितम् । पीतं तण्डुलतोयेन सारमेयविपापहम् ॥ २९३ ॥ अलर्कविषे धत्तूरफलयोगः। असनजटाजलपिष्टं यः खादति मातुलस्य फलमेकम् । उन्मत्तसारमेयमभवं विषमस्य शममेति ।। २९४ ।।
विषरोगाधिकार एकोनत्रिंशत्तमः । सर्वदन्तनखविषे गोजिह्वायोगः । पिष्टा जलेन मधुना मिलिता ततोऽनु गोजिहिका हरति लेपविधौ प्रयुक्ता। सर्वाणि दन्तनखजानि विषाणि पुंसा- मभ्युद्गमो दिनकरस्य यथा तमांसि ।। २९५ ।। सर्वविधनखदन्तविषे निम्बादिलेपः । पिचुमन्दशमीवटकल्कयुतं इथितं जलमाशु विलेपनतः। नखदन्तविपाणि निहन्ति नृणां विषमाण्यखिलान्यपि सत्यमिदम् ॥ २९६ ॥ लूताविषे मञ्जिष्ठादिलेपः। मनिष्ठागजकेसरपत्रकरजनीपलेपिता लूता। नश्यति गण्डस्तु नृणां कृतेङ्गुदीत्वमलेपानाम् ।। २९७ ॥ विषसंपर्कजपिडकायां नलिनीयोगः । मूलानि वीजान्यथवा प्रपिष्टा- न्यम्लारनालेन समं नलिन्याः। हरन्ति लेपेन तु बिन्दुकोट- संपर्कजाताः पिटिकाः क्षणेन || २९८॥ सविषपिटिकायां देवदाल्यादियोगः । सुरदालीकटुतुम्ब्योरन्यतरस्याः प्रपेपितं मूलम् । बीजं वा शुक्रहरं कीटकपिटिकोपसर्गहरम् ।। २९९ ॥ दुष्टपिटिकायां करजादिलेपः । नक्तमालतरुबीजविमित्रैः सर्पपैस्तिलयुतैश्च पेषितैः । यान्ति दुष्टपिटिकाः प्रतिक्षणं लेपिता विलयमाशु देहिनाम् ||३००॥ १ 'प्रलेपितं ख.।
। राजमार्तण्डः। पिटिकायां दन्त्यादिलेपः । निकुम्भवातारिफलैर्जलेन संपेषितैर्यः कुरुते प्रलेपम् । तस्योपशान्ति पिटिकाः प्रयान्ति समस्वदोषणभवाः क्षणेन । अथ क्षुद्ररोगाधिकारत्रिंशत्तमः । जालगर्दभे लेपः। पयोदरवनीलिन्योर्मूलैः पिष्टैघृतान्वितैः । जालगर्दभनाशाय प्रलेप सकृदाचरेत् ॥ ३०२।। शीतलायां उत्तुङ्गकमूलादियोगः । उत्तुङ्गकस्य मूलं पिबन्ति तण्डुलजलेन ये पिष्टम् । गोजिह्निकाजटां वा तेषां न भवन्ति शीतलिकाः ॥२०॥ शीतलायां चिचापत्रादिलेपः। चिञ्चादलेन सहितां रजनी प्रपिष्य ये शीतलेन सलिलेन सकृत्पिबन्ति । तेषां भवन्ति न हि शीतलिकाः शरीरे कार्य विदं प्रथममेव तदुद्भवेऽपि ।। ३०४ ॥ शीतलायां श्लेष्मातकपत्रच्छेदः । यावन्त्यः शीतलिका गात्रे यस्योत्थिताः प्रथममेव । श्लेष्मातकपत्राणि छिन्द्यात्तावन्ति तन्नाम्ना ॥ ३०५ ॥ शीतलिकोपसर्गे मधूदकयोगः । विज्ञाय यः शीतलिकोपसर्ग प्रवृत्तमादौ मधुना विमिश्रम् । पिबेज्जलं पर्युषितं नरोऽस्य नो संभवन्ति ज्वरदर्शनेऽपि॥३०६|| १ 'उत्तुण्डिकस्य' ख.।
स्त्रीरोगाधिकार एकत्रिंशत्तमः । अथ स्त्रीरोगाधिकार एकत्रिंशत्तमः। रक्तप्रदरे सुदर्शनामूलयोगः। स्त्रीणामजस्र प्रदरामयस्य प्रवृत्तिरुग्रा शममेति सद्यः। मुश्लक्ष्णपिष्टेन पयोन्वितेन पीतेन मूलेन सुदर्शनायाः ॥ ३०७ ।। असुग्दरे मूर्ध्नि शीतजलकुम्भधारणम् । आरोपिते मूर्धनि शीतवारि- कुम्भे शमं गच्छति तत्क्षणेन । असृक्प्रवाहः पदरामयोत्थः स्त्रीणां नदीस्रोत इवावरोधात् ॥ ३०८ ॥ अमृग्दरे बलादिमूल योगः। मूलानि तण्डुलजलेन सर्म बलायाः पिष्ट्वा कुशस्य च समानि पिबेत्प्रयत्नात् । असृग्दरे कदलीफलयोगः । योपिद्रजस्य नितरां समभिप्रवृत्ती सपिर्युतानि यदि वा कदलीफलानि ॥ ३०९ ॥ असृग्दरे बदरचूर्णयोगः । समघृतगुडभागं श्लक्ष्णकर्कन्धुचूर्ण प्रदरशमनमुक्तं खाद्यमानं वधूनाम् । असृग्दरे बलामूळयोगा। यदि तु भवति पिष्टं वारिणा तण्डुलानां तदुपशमयति द्राङ्मूलमेनं बलायाः ।। ३१० ॥
राजमार्तण्डः । मूलं बलायाः पयसा भपिष्टं जीमूतजं तण्डुलवारिणा वा। सौदेण मिश्र परिपीयमाणं स्त्रीणां वदन्ति प्रदरामयन्नम् ॥३१॥ रक्तप्रदरे रक्तशालिपिष्टयोगः। क्षीरे स्थित लोहितशालिपिष्टं सुशीतलं माक्षिकसंयुतं च । पीतं निहन्ति प्रदरामयोत्थामतिमवृत्तामजः प्रकृतिम् ॥ ३१२॥ रक्तप्रदरे लाक्षायोगः। लाक्षा घृतेन कथिता निपीता निहन्ति सबः प्रदरं सदुग्धा। अन्यैरथाख्यायि कदाचिदेव मूर्धन्यपामार्गरसो निषिक्तः ॥३१३॥ रजस उपरोधे कटुत्रिकादिचूर्णम् । काथे तिलानां विनिधाय पीतं कटुत्रिकब्राह्मणयष्टिचूर्णम् । निहन्ति सद्यः कुसुमभरोधं स्त्रीणामस्टग्गुल्ममभिमद्धम् ॥३१४॥ रजोनिरोधे किण्वाद्या वर्तिः । किण्वकणागुडदन्तिमदनफलैः कट्टलाबुफलबीजैः । यवक्षारयुतैः स्तुहीक्षीरभावितैश्च कल्पयेद्वर्तिम् ॥ ३१५ ॥ सा योनिकुहरनिहिता स्त्रीणामत्यन्तनष्टकुसुमानाम् । कुसुमप्रवृत्तिजननी निर्दिष्टा वृद्धभावेऽपि ॥ ३१६ ॥ पुत्रप्रसवार्थ नागकेशरयोगः । गोघृतेन सह नागकेसरं लक्ष्णचूर्णितमृतौ नितम्बिनी। गव्यदुग्धनिरता पिबेद्यदि स्याचदा नियतमेव वीरमः॥३१७॥ पुत्रसन्तानार्थ लक्ष्मणामूलनस्यम् । गृह्णाति लिङ्गाङ्कितलक्ष्मणाया मूलेन नस्यं सघृतेन या स्त्री। अवामनासाविवरे ऋतुस्था सा पुत्रिणी स्यात्पतिसंप्रयोगात् ३१८ १ 'लोनेण' ख. २ 'क्षीरोत्थितं' ख.।
४९ .. स्त्रीरोगाधिकार एकत्रिंशत्तमः । सन्तानार्थ मयूरशिखामूलयोगः । मूलं भुजङ्गारिशिखासमुत्थं दुग्धेन संयुक्तमृतौ निपीतम् । गर्भस्य हेतुः प्रमदाजनस्य स्यालक्ष्मणामूलमपीत्थमेव ॥ ३१९ ॥ गर्भवृध्द्यर्थं सहचरमूलयोगः । यदि सहचरमूलं वारिणाऽतिमपिष्ट पिबति यदि च गोधामांसमश्नाति योषित् । प्रतिदिनमभिवृद्धिं याति गर्भस्तदानीं क्रमवशपरिपुष्टैर्धातुभिः पूर्यमाणः ।। ३२० ॥ गर्भस्तम्भनार्थमुदुम्बरपर्णीमूल्योगः । स्तम्भयति गर्भमुदुम्बरपर्णीमूलं जलेन परिपीतम् । ज्येष्ठजलपिष्टमेतत्तत्कुरुते योनिमध्यगतम् ॥ ३२१ ॥ गर्भनिरोधार्थ पलाशबीजलेपः। ऋतौ घृतक्षौद्रयुतैः पलाशबीजैः प्रलेपं मटण पिष्टैः । करोति या स्त्री भगरन्ध्रमध्ये न सा भवेद्गर्भवती कदाचित् ३२२ गर्भनिरोधार्थ सैन्धवयोगः । तैलाविलं सैन्धवखण्डमादौ निधाय रण्डा निजयोनिमध्ये । नरेण साधू रतमातनोति या सा न गर्भ लभते कदाचित् ३२३ गर्भनिरोधार्थ धत्तूरमूलबन्धनम् । उत्पाठ्य पुष्येण हरप्रियस्य मूलं स्वकटयां विनिबध्य गाडम् । रमेत नारीमविशङ्कितस्तां विद्वेष्टि गर्भस्य समुद्भवं या॥ ३२४ ॥ गर्भपाते शर्करादियोगः। शर्कराविशतिलैः समांशकैर्माक्षिकेण सह भक्षितैः स्त्रियः। नास्ति गर्भपतनोद्भवं भयं पापभीतिरिव तीर्थसेवया ॥ ३२५ ॥ गर्भपाते बजावत्यादियोगः। लज्जावतीशाल्मलिधातकीमिनीलाम्बुजक्षौद्रपयोन्विताभिः । १'उदुम्बरकर्णीमूल ख.।२'नारी' ख.। ३ "सावरधातकीभिः ख.।
राजमार्तण्डः। पीताभिरन्तर्जलमास्थितायाः स्त्रियो न गर्भस्य भवेनिपातः ॥ ३२६ ॥ गर्भपाते शालिपिष्टयोगः । उदुम्बरकाशयुतं सिताब्यं मुगन्धिशालिमभवं सिहं च । या पिष्टमश्नाति न गर्भपातपीडामसौ विन्दति जातु नारी ३२७ गर्भपातेऽपर योगद्वयम् । कुम्भकारकरकर्दमपांसुः क्षीरपुष्परससनियोजितः । गर्भपातमपहन्ति पानतो धारिताऽथ गिरिकणिकाजटा ॥३२८|| गर्भवत्याः पुष्पदर्शने पारावतपुरीषयोगः । योषितः सततं यस्या गर्भवत्याः स्रवत्यसक् । पारावतपुरी तां पाययेत्तण्डुलाम्भसा ॥३२९ ।। गर्भपातव्यथायां नीलाब्जकन्दयोगः। सशर्करं नीलसरोजकन्दचूर्ण निपीतं सह माक्षिकेण । गर्भस्य पाते शमनं व्यथायाः शीतैश्च तोयैः परिषेचनानि ३३० सुखप्रसवाथै कालिकादियोगः। कथितकाञ्जिकसंयुतमाहता सुरभिहिङ्गु विचूर्णितमङ्गना। पिबति या सितसैन्धवसंयुतं मुखयुतं प्रसवं लभते ध्रुवम् ॥३३॥ सुखप्रसबाथै अपामार्गादिभूकबन्धनम् । प्रत्यक्पुष्प्याः पारिभद्रस्य यद्वा या मूलं काकजसासमुत्थम् । कट्या पद्धं योषितां सत्पतिं कुर्यान्मूलं निम्बलोद्भवं वा ३३२ स्त्रीणां दुःप्रसवे योनावपामार्गमूलधारणम् । मूलं प्रत्यक्पुष्प्याः पाठाया वा निवेशितं गुह्ये। स्त्रीणां दुष्णसवानां प्रसवं कुरुते सुखेन खलु ।। ३३३ ।। यदि प्रत्यक्पुष्प्यानुध्यति मूलं तदर्थमुद्धरताम् । दुहितुर्जन्म तदानीं जानीयादन्यथा सूनोः ।। ३३४ ॥ १ 'सुखमसौ' ख.।
स्त्रीरोगाधिकार एकत्रिंशत्तमः । मूढगर्भे सर्पकञ्चुकीयोगः । पुटदग्धभुजगकञ्चककज्जलमधुपूरिते क्षणद्वन्द्वात् । सद्यो भवति विशल्या विमूढगर्भाऽपि गर्भवती ॥३३॥ मूढगर्भे स्नुहीक्षीरयोगः। न्यस्तेन मूर्धनि सुधापयसाऽल्पकेन स्त्रीणामुपैति सहसैव हि गर्भशल्यम् । मूढगर्भ शरपुङ्खामूलयोगः। मूलेन वा चिकुरमध्यगतेन बाण- पुलोद्भवेन सुखमेव भवेत्प्रसूतिः ।। ३३६ ॥ गर्भपातार्थ श्वेतगिरिकर्णिकामूलयोगः । मूलेन शुक्लाचलकर्णिकाया गुह्यस्य मध्ये निहितेन सद्यः। गर्भस्य पातः क्रियते प्रसह्य कुर्यादिदं काकणिकाजटा वा ।३३७ मृतगर्भपातार्थ उत्तरिणीमूलयोगः । गर्भ विपन्नमपि पातयति क्षणेन स्त्रीणां जरायुपटलं च पृथक्करोति । पादे स्थितं वलयरूपतयोत्तरिण्या मूलं व्यथातिशयविक्लवमानसानाम् ॥ ३३८ ।। सूतिकाशूले तुलसीस्वरसयोगः। सुरसादलनिष्यन्दः पुराणगुडमद्यखण्डसंमिश्रः। पीतः प्रसूतिसमयादनन्तरं शूलमपहरति ।। ३३९ ॥ मूढगर्भे योनौ पुनर्नवामूलधारणम् । मूलं पुनर्नवायाः सतैलमिषत्कृतं गुह्ये । गर्भ प्रवेपमानं सहसा स्त्रीणां बहिष्कुरुते ॥ ३४०॥ १ "भगे' इति शेषः। THANE राजमार्तण्डः योनिशूले अपामार्गपुनर्नवायोगौ । अपामार्गपत्रद्वयं योनिमध्ये निविष्टं क्षणायोनिशूलं निहन्ति । सुदुर्वारमप्येवमेव प्रयुक्तो विदध्याद्रसस्तत्र पौनर्नवोऽपि ॥ ३४१ ॥ योनिशूले एरण्डतैलयोगः। एरण्डतैलेन परिलता स्याकार्षासपिण्डी यदि योनिमध्ये । शूलं तदानीं शमयेत्तदीय संयावको मुण्डिकया कृतो वा ३४२ मकले यवक्षारयोगः। मक्कल प्रशममुपैति कामिनीनां पीतेन कथितजलोपयोजितेन । अभ्युद्यन्नवयवशूकसंभवेन क्षारेण ध्रुवमथवा घृतान्वितेन ३४३ क्षीरवृद्धयर्थ कलमशालिविदारीकन्दयोोगी। दुग्धान्वितं कलमतण्डुलसूक्ष्मचूर्ण पीतं प्रस्तयुक्तेः पयसोऽभिवृद्धयै । स्थाद्दुग्धभोजनरतेरथवा विदारी- कन्दोऽपि दुग्धसहितो दिनसप्तकेन ॥ ३४४ ।। स्तन्यवृध्यर्थं बदरीमूलयोगः । स्यान्मूलमारामशृगालिकायाः संचय॑ दन्तैर्घतमास्यमध्ये । स्तन्यावह वासरसप्तकेन स्तन्योत्थकीटक्षयकारणं च ।। ३४५ ।। स्तनव्यथायां कुमारीमूलयोगः । अपत्यनाशप्रभवां निहन्ति स्तनव्यथामाशु कृते प्रलेपे। स्त्रीणां हरिद्रासहितं कुमारीमूलं विशालांप्रभवं कदाचित्।।३४६।। स्त्रीणां मध्यदेहस्य तनुत्वापादनार्थं योगद्वयम् । अतिमुक्तस्य मूलं तक्रेण समं निपीतमबलानाम् । प्रतनु विधत्ते मध्यं कसेरुरथवा समध्वाज्यः ॥ ३४७ ॥ १ 'विशल्याप्रभवं' ख।
स्त्रीरोगाधिकार एकत्रिंशत्तमः । किकिसनाशार्थं वरुणपत्रोद्वर्तनम् । घृष्टानि गव्यशकृता प्रथमं ततश्च पिष्टैर्जले वरुणकस्य दलैः प्रकामम् । उर्तितानि सहसैव नितम्बिनीनां नाशं प्रयान्ति सुमहान्त्यपि किक्किसानि ॥३४८॥ योनिशूले कापीसिकायोगः। कार्यासास्थिविपकमाहिषघृताभ्यक्ता पुनश्चूर्णितैः कार्पासास्थिभिरेव च प्रमृदिता कार्पासमूलोद्भवा । वर्तिोनिसमुत्थशूलशमनी सद्यो भवेद्योषितां योनिभ्रंशे आखुमांसतैलम् । योनिभ्रंशहरं तथाऽऽखुपिशितैस्तैलं भवेत्साधितम् ॥ ३४९ ।। निर्गतयोनिप्रवेशार्थ कारवेल्लोजटायोगः । योनिः स्त्रीणां निर्गताऽपि प्रवेशं प्रामोत्यन्तः कारवेल्लीजटाभिः । संपिष्टाभिर्लेपनागाढतां तु मामोत्येषा शक्रगोपाज्यसिक्ता ॥ ३५०॥ योनिदाथि मायाफलादियोगः । मायाफलैर्यधनसारपुष्पसारान्वितैर्लपितमादरेण । तद्वृद्धभावेऽपि वलीविमुक्तं स्त्रीणां वराङ्गं श्लथतां न याति ॥ योनिशैथिल्ये मदयन्तिकादिप्रक्षालनम् । मदयन्तिकाश्वगन्धामोचरसैः साधितं जलं स्त्रीणाम् । प्रक्षालनेन योनेः सद्यः शैथिल्यमपहरति ।। ३५२ ॥ योनिशैथिल्ये वार्ताकरसादियोगः । सूर्याशुतप्तवार्ताकरसो भेकवसान्वितः । वन्याखुवसया युक्तो योनिलेपाच्छ्थत्वहृत् ॥ ३५३ ॥ १ गर्भवत्याः सप्तमे मासे उदरे नाभेरधोभागे जायमानया कण्ड्वा यचर्मविदरणं भवति तत् 'किक्किसं' इत्युच्यते ।
राजमार्तण्डः। योनिदोर्गन्ध्यहरणार्थ जात्यादिवृतम् । संयोजितं पल्लवपञ्चकेन जातीमधूनैर्मधुकान्वितैश्च । सूर्याशुतसं घृतमङ्गनानामभ्यङ्गतो हन्ति वराङ्गगन्धम् ॥३५४!! योनिपैच्छिल्यादौ मृणालादितैलम् । मृणालपोत्पलबीजयुक्तं तैलं तथोशीरयुतं विपकम् । पैच्छिल्यशैथिल्यविगन्धतादिनाशं करोति स्मरमन्दिरस्य ।३५५॥ योनिदोर्गन्ध्यादिहरणार्थ निम्बतोयप्रक्षालनादिविधिः । प्रक्षालितं सुबहुशः पिचुमन्दतोयै- निम्बत्वचा तदतु निर्मितधूपकार्यम् । स्त्रीणां नितम्बकुहरं प्रविमुक्तगन्धं शैथिल्यदोषरहित च भवेत्प्रगाढम् ।। ३५६ ॥ योनिदौर्गन्ध्यादौ कस्तूरीकादिधूपनम् । कस्तूरीधनसारकुङ्कमनखैलाक्षातुरुष्कान्वितैः श्रीखण्डागुरुकुष्ठमाक्षिकयुतैयूंपो वराङ्गे कृतः। स्त्रीणां हन्ति विगन्धतां वितनुते सौगन्ध्यमत्युत्तमं सौभाग्यं कुरुते मृदुत्वमसमं धत्ते तनोति श्रियम् ॥३५७|| योनिलोमहरणार्थ हरितालादियोगः। हरितालभागपञ्चकमेको भागः पलाशभूतेश्च । भागश्च यवक्षारात्स्याल्लेपो योनिरोमहरः ॥३५८॥ योनिलोमहरणार्थ कोशातकीतैलाभ्यङ्गः। उत्पाव्य गुह्यमभवाणि रोमाण्यभ्यञ्जनं तत्र ततो विधेयम् । कोशातकीवीजसमुद्भवेन तैलेन लोम्नामपुनर्भवाय ॥ ३५९ ।। योनिलोमहरणार्थ हालाहलपुच्छयोगः । चूर्णेन हालाहलपुच्छजेन विमिश्रितं सर्पपसंभवं यत् तैलं स्थितं सप्तदिनानि तत्स्यादभ्यञ्जनाल्लोमविनाशकारी ३६० :
स्त्रीरोगाधिकार एकत्रिंशत्तमः । दुर्गन्धाधोवायुनिवृत्यर्थं मातुलुङ्गत्वक्चूर्णम् । या प्रदोषसमये मधुमिश्रं बीजपूरकदलोद्भवचूर्णम् । खादयत्युपहता न भवेत्सा पूत्यधःपवननिर्गमवेगैः।। ३६१ ॥ अथ बालरोगाधिकारी द्वात्रिंशत्तमः । बालानां ग्रहादिभयनिवारणार्थ धूपः । यस्ताम्रचूडविहगोभयपार्थपक्ष- पिच्छैर्गवाज्यसहितैः कृतधूपनोऽङ्गे। आरभ्य जन्मदिवसादिनसप्तकं स्याद्रालस्य तस्य न कुतश्चन भीतिरस्ति ॥३६२।। बालानां राक्षसादिमयनिवारणार्थ कुष्ठयोगः । उत्पन्नमात्रस्य शिशोक्तिीर्ण गवाज्यमिश्र सितकुष्ठचूर्णम् । रक्षोविषव्याधिभयापहं स्यात्तथाऽङ्गलावण्यविधायकं च ॥३६॥ बालग्रहोपशमार्थ मयूरशिखामूलबन्धनम् । शिशोः शिखिशिखाजटा दिनकरोपरागोदृता गले प्रतनुमूत्रकग्रथनतः समायोजिता । निवारयति दूरतो ग्रहपिशाचरक्षोगणान् ददाति बलमुत्तमं हरति सर्वरोगानपि ॥ ३६४ ॥ बालानां रक्षोभयनिवृत्त्यर्थ वचादिधूपः । वचाकुष्टशङ्खाब्जलोहै। शरीरे शिशूनां धृतैर्यान्ति रक्षांसि नाशम् । कुनव्यर्कदुग्धमित्रैः सकुष्टैः प्रलेपोऽथवा नियमेषां विधेयः ।। बालानां दन्तोद्भवरोगे गले निर्गुण्डीमूलबन्धनम् । प्राचीगतं पाण्डुरसिन्दुवारमूलं शिशूनां गलके निबद्धम् । करोति दन्तोद्भववेदनाया निःसंशयं नाशमकाण्डमेव ।। ३६६॥
राजमार्तण्डः। बालानां दन्तरोगे शङ्खपुष्ष्यादिमूलबन्धनम् । शङ्खपुष्प्या यवासस्य बाह्वोधृतं क्षीरिकायाः कदाचिच्छुभे वासरे। कट्ठालाब्बाः समादाय मूलं गले योजितं दन्तरोगापहं स्याच्छिशोः।। ३६७।। बालानां दन्तोद्भवरोगे कुररमांसाधवलेहः । कुररकपिअलपिशितं शुष्कं चूर्णीकृतं कुमाराणाम् माक्षिकयुतमवलेहाद्दन्तोत्यां च व्यथां हरति ॥ ३६८ ॥ बालानां सर्वातिसारे गजपिप्पल्यादिकाथः । मातङ्गपिप्पलीमूलरोधसावरनिर्मितः । सर्वातीसारहत्काथः शिशोस्तचूर्णमेव वा ॥ ३६९ ॥ बालानां तृद्यतिसारेषु प्रियङ्ग्वादिचूर्णम् । प्रियङ्गुसौवीरकमुस्तचूर्ण समाक्षिकं तण्डुलवारियुक्तम् । तृट्च्छर्यतीसारहरं वदन्ति दत्तं शिशूनां भिषजां वरिष्ठाः ॥३७०॥ बालानां शिरःक्रिमिषु बलामूलचूर्णप्रक्षेपः । शिर समुत्थेषु भवन्त्यरूंषु ये बालकस्य क्रिमयोऽतितीवाः । स्नातस्य तच्छान्तिकृदस्य मूनि भद्रौदनीमूलरजो निदध्यात् ॥ बालानां सकलनेत्ररोगेषु केशराद्यञ्जनम् । केशरदाऊलाक्षानुवर्णगैरिकशिलाकृमिनकृतम् । सकलनयनामयन्नं बालानामञ्जनं कथितम् ॥ ३७२ ॥ बालानां पुष्टयर्थ बचादिसूर्यपाकतैलम् । वचावलामूलकृतेन चूर्णेनोन्मिश्रितं सूर्यकरमतप्तम् । पाहुः शिशूनां सकलामयनमभ्यञ्जनात्पुष्टिकरं च तैलम् ॥३७॥ अभ्यक्तमेतेन यवोत्थचूर्णबलाजटोद्वतितविग्रहं च । स्नातं बलामूलजलैश्च कोष्णैः पुष्टिः कुमारं स्वयमभ्युपैति ३७४ १'मातङ्गपिप्पलीवारिलोध्रधातकीश्रीफलैः खः । .
बालरोगाधिकारी द्वात्रिंशत्तमः । बालानां नित्यकर्तव्या उपचाराः । सप्तच्छदार्कच्छदनत्तमालमूलैस्तुरङ्गारिजटासमेतैः । उत्सादिताङ्गः पशुमूत्रपिष्टैहीवेरमुण्डीसलिलाभिषिक्तः ॥३७॥ समूलपिष्टैः सहदेविकायास्तोयैश्च सम्यग्विहिताभिषेकः । प्रधूपितो गुग्गुलुहिङ्गुकेकिपिच्छैर्वचानिम्बदलैश्च नित्यम् ॥३७६।। अङ्गारमध्याहितजातधूमनिर्गुण्डिकापत्रविधूपितश्च मध्वाज्ययुक्तैः ककुभप्रसूनैर्विमिश्रितै रोचनया च वेणोः ॥३७७॥ कृतावलेहो पवारणेन्द्रविषाणमृत्कल्पितभालबिन्दुः । गोरोचनाबिन्दुविशेषकश्च विषनमन्त्रागदरक्षितश्च ॥ ३७८ ॥ प्रशस्तरबैश्च सुवर्णवबैर्मुक्ताफलाथैः कृतजीवरक्षः । महौषधीभिश्च तथाविधाभिीवानिवद्धाभिरलङ्कतश्च ।। ३७९ ।। मातृमभृत्याशजनेन सम्यक् स्निग्धेन नित्यं परिपाल्यमानः । संपूर्णिताशेषमनोभिलाषो दूरीकृतक्षुद्रजनः समन्तात् ॥ ३८० ।। वयम्बुविद्युत्स्तनयिनुशत्रुदंष्ट्रिप्रपातादिषु चाममत्तैः । संरक्ष्यमाणः स्वजनैमनोज्ञैः शुचिप्रदेशे विधृतश्च नित्यम् ३८५ दिने दिने याति शिशुः प्रवृद्धिं पतिर्नदीनामिव शुक्लपक्षे ।। ३८२ ।। इति कुलकम् । अथ रसायनवाजीकरणाधिकारस्त्रयस्त्रिंशत्तमः । सौभाग्यप्राप्त्यर्थ कुष्ठादिचूर्णम् । कुष्ठं मुरा केसरमित्यमूनि श्लक्ष्णानि संचूर्ण्य घृतान्वितानि । यो लेहि निसं मधुसंयुतानि स स्यात्सुगन्धिः सुभगश्च लोके ।। सौभाग्य प्राप्त्यर्थं द्वितीयं कुष्ठादिचूर्णम् । विशुद्धकुष्टाम्बुजकेसरेभ्यः शतं पलानां विधिवत्मगृह्य । करम्वितं गव्यघृतान्वितेन क्षौद्रेण धान्ये निदधीत गुप्तम् ।।
राजमार्तण्डः। संवत्सरापोषितमल्पमल्पं निखाद्यमानं दिनपूर्वभागे । सौभाग्यमयं कुरुते नराणामामोदमप्यातलोलभृङ्गम् ।३८५॥ मेधावृध्द्यर्थ कोशातक्यादिचूर्णम् । कोशातकीमामलकं वचां च संचूर्ण्य मध्वाज्ययुतानि योऽत्ति । पथ्याशिनस्तस्य दिनत्रयेण श्रुतं गृहीतुं भवतीह शक्तिः ॥३८६॥ पलाशबीजादिरसायनयोगः। पलाशबीजानि विडङ्गयुक्तान्युन्मिश्रितान्यामलकीफलानाम् । रसेन मध्वाज्ययुतानि पीत्वा वृद्धोऽपि मासात्तरुणत्वमेति ।। रसायनार्थमामलकयोगाः। मासमामलकचूर्णमश्नतः साज्यमाक्षिकतिलैर्विमिश्रितम् । वाक्पत्तिरचिरात्मजायते कान्तिमच्च नवयौवनं वपुः ॥ ३८८ ॥ घृतामलकशर्करातिलपलाशबीजानि यः समानि शयनस्थितो मधुयुतानि खादेनिशि । बलीपलितवर्जितस्तरुणनागतुल्यो बले बृहस्पतिसमः पुमान् भवति सोऽचिरेण ध्रुवम् ॥ ३८९ ।। चूर्णमामलकजातमम्भसा सर्पिषाऽथ मधुनाऽथवा निशि । पीयमानमुदराग्निनासिकाश्रोत्रनेत्रबलयौवनप्रदम् ॥ ३९० ॥ आयुर्वधनार्थ अङ्कोलबीजादितलम् । अङ्कोलबीजसितसर्षपसम्भवं य- निष्पीडनोक्तविधिना निपुणैर्गृहीतम् । तन्नस्यकर्मनिरतस्य करोति नूनं विंशत्समाभ्यधिकवर्षशतान्तमायुः ।। ३९१ ॥ कुष्ठाद्यं रसायनचूर्णम् । यः कुष्ठचूर्ण रजनीविरामे मध्वाज्यसंमिश्रितमत्ति नित्यम् । स मत्तमातङ्गबलः सुगन्धिर्वाग्मी चिरायुश्च भवेन्मनुष्यः।३९२॥
रसायनवाजीकरणाधिकारस्त्रयस्त्रिंशत्तमः । ५९
रसायनार्थमश्वगन्धायोगः।
शिशिरे योऽश्वगन्धायाः कन्दचूर्ण पयोन्वितम् ।
मासमत्ति समध्वाज्यं स वृद्धोऽपि भवेयुवा ।। ३९३ ॥
लोहाद्यो रसायनो योगः।
लोहाभ्रसूतकशिलाजतुकान्तलोह-
चक्राङ्गन्चूर्णसहितं विपचूर्णमत्ति ।
यः सन्ततं घृतमधूपहितं मनुष्यः
स स्याजरामरणरोगमयैविमुक्तः ॥ ३९४ ॥
वाजीकरो माषपायसः।
माद्विधा विदलितैघृतसंप्लुतैर्यः
संसाध्य पायसमतुच्छघृतं सिताव्यम् ।
अनाखसावविरतं रतमातनोति
योषिच्छतेन सममप्रतिरुद्धवेगः ॥ ३९५ ॥
बानर्याचं वाजीकरं चूर्णम् ।
वानरीक्षुरमयूरकवीजैनिस्तुपीकृतयवैश्च समापैः ।
गव्यदुग्धसहितैः परिपीतैः स्त्रीशतेन कुरुते रतिलीलाम् ॥३९६॥
माषाद्यो वाजीकरो योगः।
ये मारैः सह शालयः परिणताः संगृह्य तत्तण्डुलान्
गोधूमांश्च याश्च मागधिकया युक्तान समांश्चूर्णयन् ।
तत्पूतं घृतपाचितं तदनु यः खादन्पिबेच्छर्करा-
युक्तं गव्यपयः शतं स रमते स्त्रीणां विमुक्तक्लमः ॥ ३९७ ॥
नरनारीमतिबद्धं चिकित्सितं गदितमिदमिहास्माभिः ।
गोमहिषीमभृतीनामतः परं किमपि वक्ष्यामः॥ ३९८.॥
६० राजमार्तण्डः। अथ पशुरोगाधिकारश्चतुस्त्रिंशत्तमः। गवां गर्भकरो लक्ष्मणादियोगः । संचयं लक्ष्मणामूलं गोर्योनायनुलेपनम् । प्रकुर्यात्तेन सा गर्भ लभेताऽपि विहायनी ॥ ३९९ ॥ गवां जरायुपातनाथै योगः।। शृङ्गद्वये शाल्मलिवृक्षजातं गोदर्भखण्ड (१) सरसं निबद्धम् । अन्तर्निगद प्रसवावसाने बहिष्करोत्येव जरायुजालम् ॥ ४००॥ गवां जरायुपतनाथ रक्तिकादियोगः । रक्तिकायाः फलं खण्डयित्वा शुभ खण्डमेकं ततो गोर्मुखे निक्षिपेत् । तहितीयं तु योनावथैवं कृते स्याज्जरायुः क्षणाद्वहिनिश्चितं हि ॥ ४०१॥ गवां स्तन्यवर्धनार्थं गोजिबिकादियोगः । गोजिहिकापल्लवजीरकाभ्यां तक्रान्विताभ्यां परिपेषिताभ्याम् । वत्सं परस्या अपि संप्रलिहा था लेडि गौः प्रसवपीवरोधाः॥ दृषदमपि पुरस्तादेतदालेपितां गौ- यदि कथमपि पश्येजिह्वया तं लिहन्ति । क्षरति बहुविध सा क्षीरमिन्दोमयूखै- जलमुडुपतिकान्तः (क्षीरिता पुत्रिकेव?) ॥४०३।। गबां ब्रणात क्रिमिपतनार्थं ब्रह्मदण्डीस्वरसयोगः । लिसे करेणोतलेन शृङ्गयुग्मे व्रणागोः कृमयः पतन्ति । अधोमुखेन द्विजसंश्रितास्तु ते ब्रह्मदण्डीस्वरसेन तस्याः॥४०४॥ गवां व्रणात क्रिमिपतनार्थ गवाद्यस्थिबन्धनम् । अस्था शुनो गोरथवा महिप्याः कटौ निबद्धन पतन्ति सद्यः चिरोषिता अप्यतितीव्रमुण्डा व्रणान्तरालात्कृमयः समग्राः॥
पशुरोगाधिकारश्चतुविंशत्तमः ।
६१
गवां व्रणात् क्रिमिपतनार्थ इन्द्रवारुणीयोगः ।
करद्वयमपीडितात्सुरेन्द्रवारुणीफलात् ।
च्युतेन वारिणा भृतं व्रणं त्यजन्ति जन्तवः ॥ ४०६ ॥
गवां मुखरोगचिकित्सा ।
उष्णाम्बुना क्षालितमात्रमन्तः सिद्धार्थतैलेन विलेपितं यत् ।
वामया गोमुखमुत्सृजन्ति रालादलैर्वा प्रविलिप्तमन्तः ॥४०७॥
गवां नवनीतनाशनिवारणार्थं योगाः।
शाम्यसकस्मात्सुरभीसुताया यद्वा महिष्या नवनीतनाशः।
भाण्डे प्रलिप्ते च चिरान्तरालः शम्बूकपुष्पीकृतभस्मलेपैः४०८
गोनासदाहोद्भवभस्मपङ्कमलेपिते दोहनकृत्यभाण्डे ।
प्रशाम्यति म्रक्षणनाशदोषः क्षणेन गोर्वा यदि वा महिष्याः॥
गोबजाना मरणोपसर्गनाशार्थ योगः ।
प्रशाम्यति द्रामरणोपसर्गो निःसंशयं गोमहिषीव्रजानाम् ।
अस्था निखातेन गजस्य गोष्ठे तन्मूत्रसंमोक्षणमात्रतो वा ४१०
गवां ज्वरनाशार्थ तगरादिधूपः ।
नतगुग्गुलुकोशकृदाज्ययुतैर्य उशीरमयूरकसिन्धुभवैः ।
सममांस्युपकल्पितधूपविधिः स गवां ज्वरनाशकरोऽभिहितः॥
गवां नवनीतरक्षार्थ मूर्ध्नि भूलिकाबन्धनम् ।
वत्सादन्या मूलं मूलं भूकुरुवकस्य वा मूनि ।
गोमहिषीणां बद्धं प्रभवति नवनीतरक्षायै ॥ ४१२ ॥
बाजिनां नेत्ररोगप्रतिकारः।
अन्धोऽपि वाजी नवनीतपूर्णकोष्णाम्बुसंसिक्तगीक्षते द्राक् ।
गुनाफलैर्वा ममृणमपिष्टैः क्षणं समापूरितनेत्रयुग्मः॥ ४१३ ॥
राजमार्तण्डः। मुश्लक्ष्णचूर्णीकृतवाणपुङ्खापत्रैः कृतः सैन्धवसंयुतो यः। स वेसराणां विनिहन्ति पिण्डः सद्यो जलस्फोटभय हयानाम ।। अनेन तेषां बलमुज्ज्वलत्वं संजायते शीघ्रतरा गतिश्च । पशूनां कण्डुनिवारणार्थ गृहकुमारीपत्रलेपः । पत्रं प्रलेपाल्लवणेन कण्डु निवारयेद्वेश्मकुमारिकायाः ।। ४१५ ।। वडवायाः शिशौ स्नेहवर्धनार्थं योगः । विधायादौ कुष्ठं पदि महणं तत्र लवणं क्षिपेत्सिन्धूद्भूतं सह कुसुमसारेण मतिमान् । सदालिप्तं सबस्तुरगशिशुमने विनिहितं समालेढि प्रेम्णा यदि विषमशीलाऽपि बडबा ॥४१॥ विभिन्नवर्णपारावतोत्पत्तिकरणम् । पारावतेभ्यः क्रमशः कुसुम्भममुरमुरैः परिपोषितेभ्यः । भवन्यपत्यानि सितारुणानि नीलच्छवीनि च वधुप्रसङ्गात् ।। अन्धोपसंहारः। समस्तपायोनिधिवीचिसंचयप्रवर्तितान्दोलनकेलिकीर्तिना। प्रकाशितो भोजनृपेण देहिनां हिताय नानाविधयोगसङ्कहा ४१८ इति श्रीमहाराजभोजराजविरचितो राजमार्तण्डनामा योगसारसंग्रहः संपूर्णः ॥ समासोऽयं ग्रन्थः॥
आयुर्वेदीयग्रन्थमाला।
पञ्चमं पुष्पम् ।
श्रीरावणकृता
नाडीपरीक्षा।
ज्योतिर्वित्पद्माकरतनूजविनायकशर्मणा
संशोधिता।
आचार्योपाहेन त्रिविक्रमात्मजेन यादवशर्मणा
प्रकाशिता।
अस्याः सर्वेऽधिकाराः संशोधकप्रकाशकाभ्यां स्वायत्तीकृताः।
सन १९२४.
No text on this page.
प्रस्तावना।
विदितचरमैवैतवैद्यविद्याविदो यत्किल सत्स्वपि बहुषु नाडीनिबन्नेछु
रावणकृतेयं नाडीपरीक्षा रधुरपि मूर्धन्येति । रावणश्चार्य लापतिरेवेति
जनश्रुतिः । एवं चाळिखत्सद्वैद्यकौस्तुभे जनार्दन:-
"नार्याः सव्यकरे परीक्षणविधिः पुंसः शये दक्षिणे
लङ्केशादिविपश्चितां मतमिदं लब्धं स्वभावाद्भवेत्"
[स० बै० कौ० १.१५]
रावणविरचिततया प्रथिता वैद्यकमन्था एते चत्वार:-
१ अर्कप्रकाशः (दशशतकात्मकः),
२ उड्डीशतन्त्रम् (दशपटलात्मकम् ),
३ कुमारतन्त्रम्,
४ नाडीपरीक्षा चेति।
एतेवियं नाढीपरीक्षा सुदुभत्यामाद्यपि केनापि मुद्रिता । एतस्या
एकमेव पुरातनं हस्तलिखित पुस्तकमस्माभिर्विविधयशसादितम् ।
अशुद्धं तद्यावच्छक्यं संशोध्येदानों वैद्यश्रीयादवशर्मणां कृपयोपाहियत
मायुर्वेदीयग्रन्थमाकायाः प्रियपाठकगणेभ्य इति शिवम् ।
ज्येष्ठ सुदि १,
शके १८३४.
विनायक पद्माकर जोशी,
दहिसात अमरावती.
No text on this page.
श्रीरावणकृता नाडीपरीक्षा। अगणितमहिमायै साधकानन्ददायै सकलविभवसिद्धथै दुर्गतिध्वान्तहन्ध्यै । अमृतजलधिजायै जातरूपात्ममूत्यें मधुरिपुवनितायै चेन्दिरायै नमोऽस्तु ॥१॥ गदाक्रान्तस्य देहस्य स्थानान्यष्टौ परीक्षयेत् । नाडी मूत्रं मलं जिह्वां शब्दस्पर्शगाकृतीः॥२॥ रुग्णस्य मुग्धस्य विमोहितस्य दीपः पदार्थानिव जीवनाडी प्रदर्शयेद्दोपजनिस्वरूपं व्यस्त समस्तं युगलीकृतं च ॥ ३ ॥ अस्ति प्रकोष्ठगा नांडी मध्ये काऽपि समाश्रिता। जीवनाडीति सा मोक्ता नन्दैिना. तत्त्ववेदिना ॥ ४ ॥ अङ्गुष्ठमूलसंस्था तु विशेषेण परीक्ष्यते। सा हि सर्वाङ्गगा नाडी पूर्वाचायः सुभाषिता ॥५॥ एकाङ्गुलं परित्यज्याधस्तादङ्गुष्टमूलतः । यत्नवान् ता परीक्षेत ह्यभ्यासादेव लक्ष्यते ॥६॥ अङ्गुष्ठमूलभागे या धमनी जीवसाक्षिणी। तच्चेष्टया सुख दुःखं ज्ञेयं कायस्य पण्डितैः ॥७॥ स्त्रीणां भिषग्वामहस्ते वामपादे च यत्नतः। (पुंसां दक्षिणभागे च नाडी विद्याद्विशेषतः।) गुल्फस्याधोऽङ्गुष्ठभागे पादे, त्वङ्गुष्ठमूलतः॥८॥ एकाङ्गुलं परित्यज्य मणिबन्धे परीक्षयेत् । अधः करेण निष्पीड्य त्रिभिरङ्गुलिभिर्मुहुः ॥९॥ १ हस्तप्रकोष्ठबाह्यस्य' इति पा० । २ एतदवगमयति स्यात्कोऽपि नन्दिकृतो नाडीपरीक्षाप्रन्थ इति ।
है नाडीपरीक्षा। लघु वामेन हस्तेन चालम्ब्यातुरकुर्परम् । स्फुरणं नाडिकायास्तु शास्त्रेणानुभवैनिजैः ॥ १० ॥ समदायेन वा यनारपरीक्षेत भिषक्तमः। आदौ वातवहा नाडी मध्ये वहति पित्तला ॥११॥ अन्ते श्लेष्मविकारेण नाडिकेति त्रिया मता। वातेऽधिके भवेन्नाडी अव्यक्ता तर्जनीतले ॥ १२ ॥ पित्ते व्यक्ताऽथ मध्यायां तृतीयाङ्गुलिगा कफे। तर्जनीमध्यमामध्ये वातपित्ताधिके स्फुटा ॥ १३ ॥ तर्जन्यनामिकामध्ये व्यक्ता वातकफे भवेत् । मध्यमानामिकामध्ये स्फुटा पित्तकफे भवेत् ॥ १४ ॥ अङ्गुलित्रितयेऽपि स्यात्मव्यक्ता सन्निपाततः। वाते वक्रगतिर्नाडी, चपला पित्तवाहिनी ॥ १५ ॥ स्थिरा श्लेष्मवती प्रोक्ता, सर्वलिङ्गा च सर्वगा। श्लेष्मणा स्तिमिता स्तब्धा, मिश्रा मित्रैस्तु लक्षयेत् ॥१६॥ बातोद्रेके गतिं कुर्याजलौकासर्पयोरिव । पित्तोद्रेके तु सा नाडी काकमण्डूकयोर्गतिम् ।। १७ ॥ हंसस्येव कफोद्रेके गति परावतस्य वा। नाडी धत्ते त्रिदोषे तु गति तित्तिरलावयोः॥१८॥ कदाचिन्मन्दगा नाडी कदाचिद्वेगवाहिनी। दोषद्वयोद्भवे रोगे विज्ञेया सा भिषग्वरैः ॥ १९ ॥ कचिन्मन्दा कचित्तीनां त्रुटितां वहते कचित् । कचित्सूक्ष्मां कचित्स्यूलां नाड्यसाध्यगदे गतिम् ॥२०॥ त्वगूबै दृश्यते नाडी अवहेदतिचञ्चला। असाध्यलक्षणा प्रोक्ता पिच्छिला चातिचञ्चला ॥२१॥ अङ्गुष्ठादू संलमा समा च वहते यदि। निर्दोषा सा च विज्ञेया नाडी लक्षणकोविदः ॥२२॥ स्थित्वा स्थित्वा वहति या सा नाडी मृत्युदायिनी।
नाडीपरीक्षा। । अतिशीता च या नाडी रोगिणः प्राणहारिणी ॥२३॥ उष्णा वेगवती नाडी ज्वरकोपे प्रजायते। उद्वेगक्रोधकामेषु, भयचिन्तोदये तथा ॥ २४ ॥ भवेत्क्षीणगतिर्नाडी ज्ञातव्या वैद्यसत्तमैः। क्षीणधातोश्च मन्दाग्नेर्भवेन्मन्दतरा ध्रुवम् ॥ २५ ॥ गुर्वी सोष्णा च रक्तेन पूर्णा नाडी प्रजायते। सामा गुर्वी भवेन्नाडी मन्दाऽमृक्पूर्णिताऽपि च ॥२६॥ लघ्वी वहति दीमाग्नेस्तथा वेगवती मता। सुखिनस्तु भवेन्नाडी स्थिरा बलवती तथा ॥२७॥ चपला क्षुधितस्य स्यात्स्थिरा तृप्तस्य सा भवेत् । स्थिरा श्लेष्मवती नाडी वहती प्रदरे तथा ।। २८॥ अजीर्णे तु भवेन्नाडी कठिना पूरिता जडा। चपला रसजे दीर्घा पित्ते वेगवती तथा ॥ २९ ॥ प्रसन्ना च द्रुता शीघ्रों क्षुद्भिर्नाडी प्रवर्तते । ज्वरे तीवा प्रसन्ना च नाडी वहति पित्ततः॥३०॥ स्निग्धा रसवती प्रोक्ता रसे मूर्छाविधायिनी । भाविरोगप्रबोधाय स्वस्थे नाडीपरीक्षणम् ॥ ३१ ॥ भारमहारमूर्छाभयशोकविसंचिकाभवा नाडी। संमूच्छिताऽपि गाढं पुनरपि सा जीवितं भजते ॥ ३२ ॥ मेहेऽर्शसि मलाजीणे शीघ्रं तु स्पन्दते धरा। गुर्वी वातवहां नाडी गर्भेण सह लक्षयेत् ॥ ३३ ॥ पित्तवायोस्तत्र वाच्या लघुना गौरवेण च (?)। आमपकविभागश्च दिनमासादिकं बुधैः ॥ ३४ ॥ १ 'परितो' इति पा । २ 'शुद्धा' इति पा०। 'प्रमुखकारणा- नाडी' इति पा० । ४ 'स्पन्दते शीघ्रमागत्य मलाजीर्ण प्रवर्तते' इति पा०1 ५ 'गुर्वी वातवहा नाडी गर्भिण्या वहते क्वचित' इति पा०।
नाडीपरीक्षा । सैव पित्तवहा लध्वी नष्टगर्भा वदेच्च ताम् । दोप्पीडावक्रतायां च प्रहारे उसनेन च ॥ ३५ ॥ व्यायामेऽहाट्टहासे च नैति स्फुरणतां धरा। गम्भीरा या भवेन्नाडी सा भवेन्मांसवाहिनी ॥ ३६॥ दीर्घा कशा वातगतिविषमा वेपते धरा । जीवनी वाऽसमैश्चिह्नाकुलाऽजीर्णसंचया ॥ ३७॥ शीतार्तस्यागात्रस्य चिरात्सूक्ष्माऽथ मन्थरा । शयानस्य बलोपेता नाडी स्फुरणमअति ॥ ३८ ॥ किञ्चिदामुग्मगतिका स्वस्थाने वहतीरणे। मुक्ष्मरूपा स्फुटा शीता स्वस्थानस्थे कफे तथा ।। ३९ ।। पित्ते स्वस्थानगे तद्वत्मवला सरला चला। अनृजुर्वातकोपेन चण्डा पित्तप्रकोपतः॥४०॥ सरला श्लेष्मकोपेन नाडी दोषैः पृथक् स्मृता। कफे हीनेऽधिकं वातगतिं वहति नाडिका ॥४१॥ हीने वाते कफे चातिस्वल्पे पित्ते चिरात्स्फुटा। सौम्या सूक्ष्मा स्थिरा मन्दा नाडी सहजवातजा ॥४२॥ ईषच्चपलवक्रा च कठिना वातपित्तजा। स्थूला च चञ्चला शीता भन्दा स्याच्लेष्मवातजा ॥ ४३ ॥ सूक्ष्मा शीता स्थिरा नाडी पित्तश्लेष्मसमुद्भवा । पित्ताधिक्ये च चपला कटुकादेश्च भक्षणात् ॥ ४४ ॥ निरन्तरं खरं रुक्षमन्नमश्नाति वातलम् । रूक्षा वातोल्बणा तस्य नाडी स्यात्पित्तसंनिभा॥ ४५ ॥ नाडी तन्तुसमा मन्दा शीतला सर्वदोषजा। रिसोरुज्झितरतेश्चलतोऽपि च वातवत् ।। ४६ ॥ रुद्धवेगस्य बालस्य शल्यविद्धस्य पित्तवत् । निद्रालोमेंदुरस्यापि कफवत्तृप्तदृप्तयोः ।। ४७ ।। समा सूक्ष्मा ह्यणुस्पन्दा मलाजीर्णे प्रकीर्तिता। विषमा कठिना स्थूला मलशेषात्मकीर्तिता ॥४८॥ १ 'सूक्ष्मरूक्षा' इति पा०।
नाडीपरीक्षा। रक्तादजीर्णाद्वमनाद्विरेकाबीजक्षयाद्रक्तसृतेर्निबन्धात् । संमूर्च्छनाधैर्जठराग्निमान्यानाडी वहेत्तन्तुचला च जन्तोः॥ निरामा मूक्ष्मगा ज्ञेया कफेन परिपूरिता । नाडी तन्तुसमा मन्दा शीतला सर्वदोषजा ॥ ५० ॥ मन्द मन्दं मिताहारे कफपित्तसमन्विता । बहुदाहकरे रक्ते प्लावयन्ती विशेषतः ।। ५१ ॥ मध्ये करे वहेन्नाडी यदि दीर्घा पुनर्द्रता । तदा नूनं मनुष्यस्य रुधिरापूरिता मलाः ॥५२॥ वक्रा च चपला शीतस्पर्शा वातज्वरे भवेत् । द्रुता च सरला दीर्घा शीघ्रा पित्तज्वरे भवेत् ॥५३॥ मन्दा च मुस्थिरा शीता पिच्छिला श्लेष्मके भवेत् । मृणालसरला दीर्घा नाडी पित्तज्वरे बहेत् ॥५४॥ शीघ्रमावहते मन्दं मलाजीत्प्रकीर्तिता। स्थूला च कठिना शीघ्र स्पन्दतेऽतीव शान्तये ॥ ५५ ॥ पुरा मन्दा च शनकैश्चण्डतां याति नाडिका। ज्वरं शैत्यं वेपथोर्वा संभवं ब्रजति द्रुतम् ॥५६॥ इयमैकाहिकादीनां व्याधीनां जननी मता। भूतग्रहे सिराऽलक्ष्या भाविन्यैकाहिके ज्वरे ।। ५७ ॥ कदाचिन्मन्दगमना कदाचिद्वेगवाहिनी। द्विदोषकोपतो ज्ञेया इन्ति च स्थानविच्युता ॥५८॥ रक्तपित्ते वहेन्नाडी मन्दा च कठिना ऋजुः । श्लेष्मकासे स्थिरा भन्दा श्वासे तीव्रगतिर्भवेत् ॥ ५९ ॥ नाडी नागगतिश्चैव रोगराजे प्रकीर्तिता। मदात्यये च सूक्ष्मा स्यात्कठिना परितो जडा ॥६०॥ १ 'शीतदोषजा' इति पा०।२ 'स्पन्दति चाहारे कफवातसमन्विता' इति पा० ॥ ३ 'ज्वरं' इति पा० ॥ ४ 'पुनर्धना' इति पा०१५ सादयेत्' इति पा० । ६ वरः शैत्याद्वेपथुमान्' इति पा०1७ 'नानागतिश्चैव' इति पा०।
नाडीपरीक्षा। अशोरोगे स्थिरा मन्दा कचिद्का कचिजुः। अतिसारे तु मन्दा स्याद्धिमकाले जलौकवत् ।। ६१ ॥ मांसद्धा तु सा धत्ते ज्वरातीसारयोर्गतिम् । मृतसर्पसमा नाडी ग्रहणीरोगमादिशेत् ॥ ६२ ॥ मूत्राघाते मुहुर्भेदस्फुरणे संप्लुता भवेत् । प्रमेहे च जडा सूक्ष्मा मुहुराप्यायते सिरा ॥ ६३ ॥ पाण्डुरोगे चला तीत्रा दृष्टादृष्टविहारिणी। कुष्ठे तु कठिना नाडी स्थिरा स्यादप्रवृत्तिका ।। ६४ ॥ वातरोगे स्थिरा च स्यादाते सर्वलक्षणा। बलासे स्फुरणोपेता सूक्ष्मा द्रुतगतिर्भवेत् ॥ ६५ ॥ ऊर्ध्वजत्रुविकारेषु यथादोषवलेषु च । विज्ञाय लक्षणं तेषां भिषग्ब्रूयाद्धरागतिम् ।। ६६ ।। अर्केन्दुकठिना सोष्णा स रोगी शोणिताश्रितः । सन्निपातघरा नाडी शीतोष्णाभ्यां गतौ स्फुटा॥ ६७ ॥ अतितन्वी सुवेगा च सन्निपाते प्रशाम्यति । शीतला स्निग्धवेगा च रोगिणस्तस्य मारिका ॥ ६८ ।। स्थित्वा स्थित्वा चलन्ती या सा स्मृता प्राणनाशिनी। अतितीक्ष्णा च शीता च जीवितं हन्त्यसंशयम् ॥ ६९ ॥ शीघ्रा नाडी प्रलापान्ते दिनार्थेऽग्निसमो ज्वरः। दिनकं जीवितं तस्य द्वितीये मरणं ध्रुवम् ॥ ७० ॥ मृत्युकाले भवेन्नाडी जीर्णा डमरुकोपमा। तन्तुमन्दोपरिष्टात्तु बधस्ताद्वक्रतां गता ॥ ७१॥ यात्युच्चकाऽस्थिरा या च या चेयं मांसवाहिनी ॥ ७२ ॥ याऽतिसूक्ष्मा च चक्रा च तामसाध्यां विनिर्दिशेत् । स्थिरा नाडी मुखे यस्य विद्युद्दयुतिरिवेक्ष्यते ॥ ७३ ॥ १ 'मलोपेता' इति पा० । २ 'शीर्णा' इति पा० ।
नाडीपरीक्षा। दिनक जीवितं तस्य द्वितीये भरणं ध्रुवम् । मन्द मन्दं कुटिलकुटिलं व्याकुलव्याकुलं वा स्थित्वा स्थित्वा वहति धमनी याति नाशं च सूक्ष्मा । नित्यस्थानात्स्खलंति पुनरप्यङ्गुलिं संस्पृशेत्सा भावैरेवं बहुतरविषैः सन्निपातादसाध्या । ७४ ॥ पूर्व पित्तगतिं प्रमअनगति श्लेष्माणयाविभूती स्वस्थानभ्रमणं मुहुर्विदधतीं चक्राधिरूढेव या। तीवत्वं दवती कलापिगतिका सूक्ष्मत्वमातन्वती नो साध्या धमनी बदन्ति विविधा नाडीगतिज्ञानिनः । काष्ठकुट्टो यथा काष्ठं कुव्यत्यतिवेगतः। स्थित्वा स्थित्वा चलति या सन्निपातेन जायते ॥ ७६.॥ कम्पते स्पन्दते लन्तुबत्युनश्चाङ्गुलिं स्पृशेत् । तामसाध्यां विजानीयानाडी दूरेण वर्जयेत् ॥ ७७ ॥ मुखे नाडी बहेतीबा कदाचिच्छीतला बहेद । आयाति पिच्छिलः स्वेदः ससराज न जीवति ।। ७८ ॥ देहे शैत्य मुखे श्वासो नाडी दीवाऽतिदाहिका। मासाधैं जीवितं तस्य नाडीविज्ञानभाषितम् ॥ ७९ ॥ मुखे नाडी यदा नास्ति मध्ये शैत्यं बहिः क्लमः । तन्तुमन्दा बहेनाडी त्रिरात्रं न स जीवति ॥ ८॥ पूर्व नाडी तु वेगोत्था ततः परदिने यदि । शीता विहतवेगा स्यात्सनिपाताचदा भयम् ॥८॥ ज्वरो वह्निसमोऽत्यर्थं भवेत्पूर्वदिने यदि । निरन्तरं यदा नाडी लवेनैकेन संचरेत् ॥ ८॥ १ 'नित्यं कण्ठे स्फुरति इति पा०।२ तथा नाडी' इति पा० ३ नित्यं पुनः स्पृशति चाङ्गुलिम्' इति पा० ।
१२ नाडीपरीक्षा। मुखस्थाने तु रुग्णस्य चतुर्थे मरणं दिने । मुखे त्रुटत्यकस्माच न किश्चिदृश्यते यदा ।। ८३ ।। तदा विद्यात्स रुग्णानां द्वितीये मरणं ध्रुवम् । यदा नाडी हतावेगा स्पन्दते नैव लभ्यते ॥ ८४ ॥ तदा दिनस्य मध्ये तु मरणं रोगिणो भवेत् । निरन्तरं मुखस्थाने भ्राम्येड्डमरुकोपमा ।। ८५ ॥ चला नाडी तु रुग्णस्य दिनकान्मरणं भवेत् । अतिसूक्ष्मा पृथक्शीघ्रा सवेगामरिताऽऽद्रिका ।। ८६ भूत्वा भूत्वा नियेतैव तदा विद्यादसाध्यताम् । स्वस्थस्य तलगा पूर्व नाडी स्यादप्रपञ्चनात् ।। ८७ ।। भूयः प्रपञ्चनात्सूक्ष्मा त्रिदिनैम्रियते नरः। ऊर्ध्वहस्तं तडिद्वेगा सप्ताहैम्रियते नरः।। ८८॥ शान्ते नाडीवि (भ) ताने शमनमुपगते चेन्द्रियाणांप्रचारे सूक्ष्मे वाऽनुष्णरूपां विकृतिमुपगते सर्वथा शीतभारे। शून्ये चित्तात्मगार्गे स्फुरणविरहिते नष्टसंज्ञामचारे मूर्ये चन्द्रात्मसंस्थेऽवगतगुणगणे पञ्चतेयं प्रवाच्या(१)८९ नाड्याधिश्वरं प्रयाति विकृति शान्ति परां सूक्ष्मतां शान्तिर्याति विपर्ययं च यदि वा हित्वा स्वमार्गानिलम् । अज्ञानेऽपि हि शून्यतामुपगते ज्ञानेन्द्रिये शाम्यति सूर्याचन्द्रमसौ तथा च पिहिते पञ्चत्वमेति स्फुटम्(?)९० शुष्कोष्ठः श्यावकोष्ठोऽप्यसितरदनखः शीतनासाप्रदेशः शोणाक्षश्चैकनेत्रो लुलितकरपदः श्रोत्रपातित्ययुक्तः। शीतः श्वासोऽथवोष्णः श्वसनसमुदयीशीतगात्रः सकम्पः सोद्वेगो निष्प्रपञ्चः प्रभवति मनुजः सर्वथा मृत्युकाले ९१ १ 'ऽप्यतिकशा' इति पा० ॥ .
नाडीपरीक्षा । पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रिय पञ्चसु भावयन्ति । पञ्चेन्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले॥ बातावर्तितमानुषेऽतिविषम संस्पन्दते नाडिका पित्तस्यैव समागमं न कुरुते मन्दा च मन्दोदये । प्राचुर्यं भजते रसाश्रयवसाक्षीणा रसेनोज्झिता नीत्वा श्वासमुपैति शान्तिमचलैः स्वैरन्तकाले नृणाम् ९३ स्पन्दते चैकमानेन त्रिंशद्वारं यदा धरा। स्वस्थाने हि तदा नूनं रोगी जीवति नान्यथा ॥९४ ॥ शरीरं शीतलं नाडी नूनं चोष्णतरा भवेत् । ज्वरमन्तर्गतं तस्य जानीयाद्भिपगुत्तमः ॥ ९५ ॥ मृत्यून्मुखां धरां ज्ञात्वा न चिकित्सेददातुरम् । (रामनामौषधं तत्र कारयेत्पारलौकिकम् ॥९६॥) ॥ इति श्रीरावणकृता नाडीपरीक्षा संपूर्णा ।। P.inted by Vaidya Bhagvanlal Tribhuvan, at Subodhini P. Press, 51, Bazar Gate, Fort, Bombay, and Published by Vaidya Jadavji Tricumji Acharya, 18, Boar Bazar Street, Fort, Bombay.
No text on this page.
आयुर्वेदीयग्रन्थमाला।
अष्टम नवमं च पुष्पम् ।
वैद्यवरश्रीकालिदासविरचिता
वैद्यमनोरमा।
धाराकल्पः।
संशोधकः
ब्रह्मश्री ते. नीलकण्ठशर्मा
तथा
आचार्योपास्त्रिविक्रमात्मजो यादवशर्मा।
द्वितीयं संस्करणम् ।
AYURVEDIYA-GRANTHAMALA.
Nos.89.
VAIDYA MANORAMA
BY
KALIDAS
AND
DHARAKALPA.
EDITED BY
BRAHAMASHRI T. NILKANTH SHARMA
AND
VAIDYA JADAVJI TRICUMJI ACHARYA,
SECOND EDITION.
18, BORA BAZAR STREET, FORT, BOMBAY.
19240
Printed by Vaidya Bhagvanlal Tribhuvan, at Subodhini P. Press..
51, Bazar Gate, Fort, Bombay,
and
Published by Vaidya Jadavji Tricumji Acharya,
18, Bora Bazar Street, Fort, Bombay.
DRVO
All Rights Reserved by the publisher.
भूमिका. . वैद्यमनोरमा इति प्रसिद्धोऽयं ग्रन्थो भिषग्वर कालिदासविरचितः । सोऽयं कालिदासः केरलदेशोत्पन्न इति ज्ञायते, वैद्यमनोरमायां केरलदेशे एव प्रसिद्धानां बहूनां भेषजद्रव्याणामुपादानात् । अस्मिन् अन्थे विंश- तिपटलेषु ज्वरादिरोगाणां चिकित्सा अन्यग्रन्थेषु प्रायोऽनुक्तैः स्वल्पाया- ससाध्यैर्भूरिगुणैर्दष्टप्रत्ययैश्च प्रयोगैरुक्ता । ग्रन्थस्यास्यैकं पुस्तकं केरल- लिपिलिखितानेकपुस्तकान्यवलम्ब्य देवाक्षरैलिखित्वा मदीयपरमसुहृद्भिः स्यानन्दूर (Travancore ) राष्ट्रान्तर्वर्तिव्याघ्रपुर ( Vaikam) समी- पस्थविन्यासपुरी ( Vetchure ) वास्तव्यैरायुर्वेदभिषग्भिः ब्रह्मश्री ते. (तेवलक्काट्ट मूत्तूतु ) नीलकण्ठशर्मभिः प्रेषितम् । तैरेव बहुषु स्थलेषु टिपण्या सनाथीकतं च । सेयं वैद्यमनोरमा मया भूयः संशोध्य आयु- र्वेदीयग्रन्थमालायां प्रसिद्धिं नीता। ग्रन्थस्यास्य संशोधने यथामति कृतेऽपि यत्ने भ्रमप्रमादादिवशानातं स्खलनं क्वाप्युपलभ्येत चेद्गुणैकपक्षपातिभिः सुधीभिः संशोधनीयं क्षन्तव्यश्चाहमिति शम् । यादवशर्मा. धाराकल्प अयं ग्रन्थोऽपि मदीयपरमसुहृद्भिः ब्रह्मश्री ते. नीलकण्ठशर्म- भिरेव केरललिपिस्थप्राचीनपुस्तकमवलम्ब्य देवाक्षरैलिखित्वा प्रेषितः । एतद्ग्रन्थकर्तुर्नामादिकं न ज्ञायते । अस्मिन् ग्रन्थे धारापरिषेकविधिरतीव सरलतया विशदतया चोपवर्णितोऽस्ति । यद्यप्ययं विषयश्चरकसुश्रुत- वाग्भटेषु स्वेदाध्याये उक्तस्तथाऽप्यत्र तदपेक्षयाऽपि सम्यक्तया कथितोऽस्ति अतोऽयं ग्रन्थो लघुरपि भिषजामतीवोपादेयः । वैद्यमनोरमायाः धाराक- ल्पस्य च आयुर्वेदीयग्रन्थमालायां मुद्रापणार्थ दानेन बहूपकतमस्या ग्रन्थ. मालायाः ब्रह्मश्री ते. नीलकण्ठशर्मभिः । यादवशर्मा.
:: ;
वैद्यचत्रीकालिदासविरचिता वैवमनोरमा ক্লখ ভগ্নিহি লাল গণঃ । वन्दे मन्दणजन्टन्दानन्दकरं मदैः । हन्तारमन्तरायाणामिन्द्रशेखरलन्दनम् ।।१।। इमा मनोरमा पाणौ गृहीत्वा रोगपीडितान् । चिकित्सयन्तो लोकेऽस्मिान् कीर्तिमन्तो भवन्ति हि ॥२॥ मुलमसुभगभेषजानि सिद्धा- न्यकृतसमानफलानि यानि चानि । सकलगदहराणि मानवाना- मिह कथितानि भवन्ति तानि तानि ॥३॥ अत्यध्वश्रमशोकनीमायक्रोधादिजे ज्वरे । लङ्घन न हितं तत्र पयः पथ्यं यथाऽमृतम् ॥ ४॥ दोषजामु बलं रक्षन् लयेज्जूतिषु क्रमात् । पेयाकाथरसानाः पथ्यः साध्यानुपक्रमेत् ॥५॥ गृतशीतं गृतोष्णं वा जलं दोपाद्यपेक्षया । पेय पंडङ्गसिद्ध वा तौ वा भृष्टलोष्टकैः ॥ ६ ॥ शुण्ठीमलयजोशीरघनपर्पटवारिभिः । षडङ्ग इति विख्यातो योगोऽयं सूरिभिः स्मृतः ॥"
तृड्दाहजूतिशमनाय च दीपनाय ॥ ११ ॥ वैद्यमनोरमा । समानभागधान्याकनागराभ्यां शृतं जलम् । पेयं प्रागपि सप्ताहाज्वरितेनाग्निद्धये ॥ ७ ॥ पाठोशीरजलैः सिद्धः काथः स्यात् पाचनं ज्वरे। नागराम्बुयवासैश्च पृथक् सिद्धः सपर्पटैः॥८॥ अमृताकणमूलनागराणा- ममृतानागरदुस्स्मृगम्बुदानाम् । अनिलज्वरनाशना कपायौ कथितौ वागमकोविदैभिपग्भिः ॥९॥ गोपाङ्गनाकमलचन्दनसेव्यमुस्ता- यष्टीजलोत्पलमधूकशतावरीभिः । सिद्धं सुशीतमनु माक्षिकशर्कराव्यं पित्तज्वरं जयति दाहतृषाध्यमम्बु ॥ १० ॥ पक्केन दाडिमफलस्वरसेन वाऽपि सक्तून् पिवेत् प्रबलपित्तभवज्वरातः। तद्वत् षडङ्गशतमम्बु पिवेत् सिताढ्यं पथ्याकट्फलनागराम्बुदवचाभूनिम्बधान्यद्रुमै- र्भार्गीपर्पटकान्वितैः शृतमिदं तोयं सुशीत पुनः। मध्वाड्यं परमाणुरामठयुतं श्लेष्मज्वरं नाशयेत् कोष्टार्तिश्वसनाग्निसादकसनारुच्यास्यशोषान्वितम् ॥१२॥ कूष्माण्डपुष्पस्वरसेन नस्य सविश्वसारेण कृतं ज्वरन्नम् । वातात्मजेनाहृतमौषधं यद्रामानुजस्येव नयेत्प्रबोधम् ॥ १३ ॥ प्रलापमूर्छाभ्रमदाहयुक्त तृषान्विते दोषसमूहजूतौ । पयोऽङ्गनानां पिबतां नराणां द्रागेव जूतिः प्रशमं प्रयाति ।। सुनिषण्णवेणुपत्रशुण्ठीमुस्तागृतः काथः । हन्याज्ज्वरमतिवेगं दोषसमूहोद्भवं त्रिदिनात् ॥ १५ ॥ १ 'विश्व-' इति पाठान्तरम् ।
द्वितीयः पटलः । कल्कितामारनालेन स्वच्छन्द रजनी पियेत् । नतु देशान्तरगतो बाध्यते शीतिकादिभिः ॥ १६ ॥ तुङ्गट्ठमस्य तरुणानि फलानि चर्म चत्वारि किञ्चिदपनीय जलस्य कुम्भे । पक्त्वा गते तदुदके निशि पीलमेक संसाधयेज्वरमतीय चिरन्तनं द्राक् ॥ १७ ॥ पाठाशिफापयः पीत पातरेव दिनसिभिः । शीतिका कम्पसंयुक्तां नाशयेल्लशुनं तथा ॥ १८ ॥ वन्दाको चिल्वभवस्तकेण प्रतेन वा प्रगे पीतः। विषमज्वरस्य विकृति जयनिःशेषमतिविषमाम् ॥ १९ ॥ जीवन्तीमूलनियूहः सव्रतो दाहजूतिजित् । तद्वन्यग्रोधपादस्य बदरीपल्लवस्य वा ॥ २० ॥ सहदेवीशिफा बद्धा घेतमूत्रेण कन्यया। निहन्ति दक्षिणे पाणौ ज्वरभूतग्रहादिकान् ॥ २१ ॥ चूर्णेन कटुरोहिण्याः पत्रैर्वा मृताभः । स्वरसैः सहदेच्या वा सिद्ध तैलं ज्वरं जयेत् ॥ २२॥ ज्वरेण मुच्यमानस्य त्रियमाणस्य चोभयोः। दृश्यन्ते यानि लिङ्गानि तानि तुल्यानि निदिशेत् ॥२३॥ इति श्रीवैद्यवरकालिदासविरचितायां वैद्यमनोरमायां ज्वराधिकारो नाम प्रथमः पटलः । अथ रक्तपित्तामृग्दरास्थिस्रावसोमरोगाधि- कारो नाम द्वितीयः पटलः । मेघनादाभयापाकिजल्कैः साधितं जलम् । सक्षौद्रं रक्तपित्तनं बीजं वा वास्तुकोद्भवम् ॥ १ ॥ १ 'आरनालं तु गोधूमैरामैः स्यान्निस्तुषोकतैः । पक्कैर्वा सन्धितैस्तत्तु सौवीरसदृशं गुणैः।
वैद्यमनोरमा । ভুবানাস্বামীদুল্বনা स्वरसालिकेराम्बुपयोयुतः सुकल्कितैः ॥ २॥ चातुर्जातपयोवृक्षमुकुलाम्बुपयोधरैः । सारियोशीरयष्यासितोपलाहिमामयः ॥ ३॥ सिद्धं वृतं नवं तूर्ण रक्तपिलहरं परम् । अस्थिभावंच नारीणां सृड्दाहौ च महाबलौ।।४।। उभयायनसच्याशु रक्तपित्तं हिताशिनाम् । हन्ति पित्तालयातू चान्यान्न पाननावनलेपनैः॥५॥ ৰূমৰঘৰীত্বনা লিঃ হাফ শ্যাম্প। सत्यं समर्था जगता सावित्री यथैव संसारजयार मौरी ॥७॥ तत्क्षणं क्षुण्णमाघातं शुष्कगोमयस्यति । नासालुतमसकलावं चन्दनस्योत्पलस्य वा॥७॥ दाडिमकुखमस्वरसः स्तन्यं वा चूतकुसुमसलिलंबा। दुर्वाम्भो वा नस्याबासारसुति जयति ॥ ८ ॥ याम्यस्थि तण्डुलाम्मोभिः पीतं इन्यादग्दरम् । पीता शीताम्बुना विष्टा धात्री चोदुम्बराम्बुना ॥ ९ ॥ जीर्णचेलमसितं पिबेद्वधूः युष्पजातरूधिरेण पीडिता। तक्रतैलतरुणोष्णवारिभिः पासपुष्पसुभगा भविष्यति १० उत्पलपाखरस: किश्चिलेन सहापीतः। अस्थिस्त्रावं स्त्रीणां नाशयति नरस्य सोमरोगं च ॥११॥ अनन्तया साक्षतया कृता तैलेन शष्कुली। अस्थिवावहरी तद्वत् कार्पासाक्षतजा च सा॥१२॥ १ वगेलापत्रकैस्तुत्यैत्रिसुगन्धि त्रिजातकम् । नागकेशरसंयुक्तैश्चातु- र्जातकमुच्यते' १२ तिलजीरकसंयुक्तैः पिष्टैर्या तण्डुलादिभिः । कता तु हस्तयन्त्राभ्यां सुभृष्टा च तिलोद्भवे । पाशमण्डलसंकाशा शब्कुली सा प्रकीर्तिता। .
ARSANTARVASNA PARDASTHAN तृतीयः पटलः । पूर्व तोये वासरं वासितानां चिश्चास्थीनां दुग्धकल्कीकृतानाम् । पीत्वा स्यातां सुन्दरीपूरुषौ द्रा- गस्थित्रावात्सोमरोगाच मुक्तौ ॥ १३ ॥ डाते वैद्यवरश्रीकालिदासविरचितायां वैद्यमनोरमायां रक्तपित्तामुग्दरा- स्थिस्त्रावसोमरोगाधिकारो नाम द्वितीयः पटलः । : अथ कासन्चासहिकाधिकारो नाम तृतीयः पटलः । इन्द्रयवपल्लयवयुतं मरिचं खादेदिनत्रितयम् । कासान् जयति समूलान नाकुल्याः पादवल्कमिव ।। १ ॥ पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली। सैन्धर्व सयवक्षारं हिङ्गु सौवर्चलं तथा ॥ २ ॥ मरिचं नागरं चैव पलाशैस्तैर्विपाचयेत् । क्षीरे चतुर्गुणे सम्यक् सर्पिः सिद्धं पिवेन्नरः ॥ ३ ॥ शूलगुल्मोदरातिनं हृद्रोगोरक्षतापहम् । आनाहपाण्डुताप्लीहकासवासविकारनुत् ॥ ४ ॥ पिप्पल्यायमिदं सर्पिः पित्तगुल्महरं परम् । नकुञ्जिके रसे पीतं सैन्धवं शूलशान्तये ॥ ५ ॥ त्रिकटुकमजमोदा चित्रको हिङ्गु भार्गी विडमपि सहचव्यं सैन्धवं यावशूकम् । । अमृतमिति भिषग्भिः पूजितश्शूर्णराजः कफपवनहन्ता शूलहा श्व ॥६॥ अमृताविडङ्गरास्नादारुवराव्योषचूर्णसमतुलितम् । सहसा सर्वान् कासान् सितारजः परिहरेत्समधु ॥७॥ १ अयमर्धश्लोको न दृश्यते केषुचिद्धस्तलिखितपुस्तकेषु ।
वैद्यमनोरमा। ब्राह्मीवासासिंहलीभिः कुण्डल्या मूलकेन च । अमृतालककैः सपिः साधितं श्वासकासजित् ॥ ८॥ हिङ्गवचाग्निमहौषधदीप्यकपथ्याकणात्रिताम् । क्रमद्धया जनितरजः कासं श्वासं जयेत्सवृतम् ॥ ९ ॥ विदुलीदलहरितालव्योपशिलाः केशराजरसपिष्टाः । गुटिकीकृता निहन्युः कासरुजं धूमपानेन ॥ १० ॥ निर्गुण्डीकुण्डलीपथ्यामरिचैः समभागिकैः । काथो लवणसंयुक्तः कासश्वासविकारनुत् ॥ ११ ॥ चिश्चात्वगेका द्विनिशा त्रिस कपुनर्नवा । नवजातिदला वतिः कासजित् बाबधूपिता ॥ १२ ॥ शिलाकृष्णे समे स्यातां तस्या विश्वभेषजम् । तस्या मरिचं चैव तस्यार्धा तु हरीतकी॥ १३ ॥ भृङ्गसारेण संपिष्य वर्ति कुर्यात् पटोदरे। तया धूमं पिबेदा” भुक्त्वा ताम्बूलचर्वणम् ॥ १४ ॥ कृत्वा त्रिवारं मतिमान कासश्वासान्निवर्तयेत् । तथा सौद्रयुतं नूनं नवनीतं सितायुतम् ।। १५ ॥ पलाशोदुम्बरफलं मरिचैः सह भक्षितम् । कासं हरेबिभिर्वारैः कायक्लेशकरं निशि ॥ १६ ॥ श्वासायासविनाशार्थमाशयेत् कदलीफलम् । ऋतं मूत्रेऽथवा भृष्टमथवाऽङ्गारपाचितम् ॥ १७ ॥ कणोषणनिशापथ्यागुडगोस्तनिकारजः। लीढं तैलेन कासानां श्वासानां च निवृत्तये॥१८॥ निर्गुण्डीस्वरसे शृतं तिलभवं भृङ्गादिचूर्णान्विते पात्रे निःशृतमन्वहं दिनमुखे तन्मात्रया यः पिवेत् । १ अयमश्लोको न दृश्यते केषुचिस्तलिखितपुस्तकेषु ।
तृतीयः पटलः । कासन्चासमशेषमग्नितनुतां शीघ्रं जयेन्मासतो यक्ष्माणं च समस्तरोगनिलयं रामो यथा रावणम् ||१९|| कुण्डल्युत्तमकन्यकामधुकरव्याध्यनिर्गुण्डिका- कालनीपकण्टकीदलरसे क्षीरे क्रमाद्भाविता। कृष्णा क्षौद्रसमन्विता दिनमुखे लीढा जयेदुःस्थितं कासवासमरोचकं क्षयमपि प्राज्ञो यथा किल्बिषम् ॥२०॥ परिणतकैडर्याच्छकलीकृत्वाऽऽज्यकुम्भपरिदग्धात् । तेलं निःमृतमस्यति कासं श्वासं प्रमेहं च ॥ २१ ॥ काकोदुम्बरपल्लवं शकलितं दुग्धे गवां पाचित किञ्चिन्मिश्रितमाग, दिनमुखे पीत्वा पयस्तादृशम् । कासश्वासमशेषमाशु शम्पयद्राहमसनान्वित क्षीरं तदिदं द्वयं च भिषजां कीर्तिप्रदं कीर्तितम् ॥२२॥ मधुकररसकंसे माणिमन्थाष्टबिल्वं मरिचतिलजशुण्ठीसर्पिषामअलि । शुभवरदिनलग्ने साधु संयोज्य पक्कं श्वसनकसनशान्त्यै भक्षयेद्ोजनेन ।। २३ ।। साध्ये श्वासे दोषकालाग्निसत्त्वान् सम्यग्वीक्ष्य मातरेव प्रपीतम् । कृष्णाशुण्ठीसैन्धवक्षौद्रयुक्तं राहच्छिष्टोद्भूतसारं प्रशस्तम् ॥ २४ ॥ शुण्ठीकणासिताधात्रीरेणुः क्षौद्रेण मिश्रितः । हिक्कां हन्ति समालीढः, सक्षौद्र पिच्छभस्म वा ॥२५॥ पित्थपत्राणि विमर्दितानि हिकामु जिदथवाऽर्कतप्तम् । मृत्पिण्डमत्यन्तसुशीततोयैः सिक्तं तु हीबेरकवारिणाक्तम् ।। १ राहूच्छिष्टं लशुनं, तस्य स्वरस इत्यर्थः । २ मयूरपिच्छभस्मेत्यर्थः । ३ 'त्रुटीवालकवारिणाऽऽक्तम्' इति पा० । , ..
वैद्यमनोरमा। हिहायामतिवृद्धायां अवोर्मध्ये निषेचयेत् । शीतलेनाम्बुना स्नानं धूमं वा गुग्गुलोः पिबेत् ।। २७ ।। इति वैद्यवरश्रीकालिदासविरचितायां वैद्यमनोरमायां कासश्वासहि- काधिकारो नाम तृतीयः पटलः ॥ ३ ॥ খাতাহ্মান্তৰিকাশিক্ষাজী লাল चतुर्थः पटलः। आज मांसरसक्षीरं गण्डीरं शोषिणां हितम् । अश्वगन्धादिलाक्षाचं तैलमभ्यअने हितम् ॥ १॥ अश्वगन्धारजो लिगाइडेन हविषाऽथवा । पयसा वा पिवेच्छस्त्रक्षतक्षीणो रसायनम् ॥ २॥ गुडेन पिप्पलीभिर्वा परिचेनान्विता नृता। काकमाची भवेदल्या तद्रसेन हविः शृतम् ॥३॥ एक्त्वा संस्कारसंपृष्टो बृहतीफलसंचयः । दनि प्रकथिते पश्चात् क्षिप्तः पथ्योऽप्यरोचके ॥४॥ प्रसेकशमनी पथ्या भुक्तस्योपरि चर्विता । प्रारभक्तं निम्बकुसुमं पटोली झरसी च वा ॥५॥ द्रोणीत्वकागकुसुमगुडशुण्ठ्यः क्रमाधिकाः । भक्षितास्तु कृमि शूलं प्रसेकं नन्ति तत्क्षणात् ॥ ६॥ प्रयान्ति तद्भक्षयतां प्रभाते कुबेरनेत्राभिनव प्रवालम् । नृणां शर्म छर्यरुचिपसेकाः ससैन्धवं नागररामटं वा ॥ किञ्चिदृष्ट्वा मृत्तिकां ग्रीष्मतप्तः शीते तोये मर्दयित्वा प्रसाद्य । शीते क्षौद्रं तुल्यमालोड्य पीत्वा तृष्णां छदि चाशु तन्यक्करोति मुद्गविदलैविपकैः कैरीशीरेण भक्षितैर्वहुशः । छदिर्नश्यति सहसा तयोस्तुल्याम्बुभिः पीतैः ॥९॥ १ अयमश्लिोकोऽधिको दृग्गोचरीभवति केचिद्धस्तलिखितपुस्तकेषु । 'ग्रीष्मतता' इति पाठान्तरम् । ३ नारिकेलक्षीरणेत्यर्थः । ॥
'पञ्चमः पटलः । एलालवङ्गवल्कलतमालदलज रजो मधुविमिश्रम् । लीडें वमिं निहन्याद्धिल्यवराव्योपचूर्ण वा ॥ १० ॥ दग्ध्वा वराटिकागेहमङ्गारामं तदम्भसि । निर्वापितं ततः पीतं तज्जलं नाशयेद्वमिम् ॥ ११ ॥ अतीव भृष्टं लवणं तिलोत्थे प्रक्षिप्य तेनोत्थितमाशु तैलम् । आदाय लिया हृदये तव गुजादलान्यर्पय हद्दनम् ।। १२ । स्तनयोरपि मुले च रुग्भवेद्यदि वेगिनी। निशाशम्बूकसंयुक्तचूर्णलेपो जयेद्रुजम् ॥ १३ ॥ न्यग्रोधशुङ्गोत्पलकन्दकोलमाषैः शृतं तोयमतीव शीतम् । क्षौद्रान्वितं पीतमपाकरोति तृष्णां च पर्याप्तमतीव शीघ्रम् ॥ आईपुगफलचर्वणोत्सुकं स्वेन वल्कशकलेन चर्वयेत् । तन्मदं हरति तत्तथाकृतं स्वाभिमानमिव वेदविश्रुतिः।। १५ ॥ ताम्बूले सति भक्षिते भवति चेत्कासान्वितं विस्वरं निष्ठीवेन सहैव तच्छिशिरमम्ब्बाघ्राय शीघ्रं पिबेत् । आहोस्विद्विवृतास्यवान पवनमाश्वेवोद्विरनासिका रुद्धा पार्श्वगतो जनः प्रबलढत्क्षोभं न(त)कुर्यातम् ॥ १६ ॥ पित्तहत्कम्पतृणमूर्छाभ्रमादीन् नन्ति दारुणान् । नालिकेराम्बुना पीताः सक्तवः समशर्कराः। इति बैद्यवरश्रीकालिदासविरचितायां वैद्यमनोरमायामरोचकशूल- छदितृष्णाधिकारो नाम चतुर्थः पटलः । अथार्थोदावर्ताधिकारो नाम पञ्चमः पटलः । सितासिताविश्वभवौ चूर्णी पथ्यारज समौ । गुडावलीढौ गुदजान हतः श्लेष्ममरुद्भवान् ॥१॥ १॥ पथ्याबिभीतधात्रीणां फलैः स्यात्रिफला समैः । फलत्रिक च त्रिफला सावरा च प्रकीर्तिता" ॥ ..
वैद्यमनारमा ।
भासमेकमनन्नाशी सूरणं भक्षयेत्सुखम् ।
तक्रानुपानमाश्वर्णीनिर्मूलोन्मूलनोत्सुकः ॥ २॥
खिन्नं निष्पीडितं स्नुह्याः पत्रं पायौ निधापयेत् ।
दुर्णामकृमिकण्डूतिशोफरुक्शान्तिकृत् परम् ॥ ३ ॥
किंशुकबीजपरागैर्लशुनपुनर्भूप्रवालसंयुक्तैः ।
पोट्टलिका तिलजाक्ता स्वेदादाति नाशयति ॥ ४ ॥
कालशाकमरिचाम्लसैन्धवैभृष्टपष्टिकहितोष्णभोजनम् ।
तैलयुक्तमिह कीलनाशनं रुच्यमग्निजननं सरं परम् ॥ ५॥
हठस्य कैडर्यदलस्य चापि रजः मुमुक्ष्म मधुनाऽवलीडम् ।
गुदाकुरोन्मूलविनाशनाय पर्याप्तविल्याइ भिषग्वरिष्ठः ॥ ६॥
पथ्यारसोनयोर्भाग निष्क, द्वौ वनवाल्लिजी।
ईपल्लवणतैलाक्तमेतदर्शासि नाशयेत् ॥ ७ ॥
मयूरवल्ककिअल्कवरीवासाशृतं जलम् ।
रक्तार्शसा प्रशान्त्यर्थं स्यात्पलाण्डरिवाशितः॥८॥
अभयात्रिवृत्कुलस्थैः शृतमुदकं पिप्पलीरजोयुक्तम् ।
चित्रातैलविमिश्रं पीतमुदावर्तमस्यति त्रिदिनात् ॥ ९ ॥
इति वैद्यवर श्रीकालिदासविरचितायां वैद्यमनोरमायामोंदावधि-
कारो नाम पञ्चमः पटलः ।
अथातिसारग्रहणीविसूचिकाधिकारो नाम
षष्ठः पटलः
पाठानागरदुःस्पृम्बिल्वामिषाब्दसंशृतः काथः ।
आमाविसारमस्येत् सावं सकर्फ समूलं च ॥१॥
पल्लचं चविकायाश्च श्वेतमूलाहसंभवम् ।
पल्लवं क्षीरिवृक्षस्य पिष्ट्वा तैलेन पाययेत् ॥२॥
षष्ठः पटलः। शीचं सर्वातिसारान् वै जयेदन्यैः किमौषधैः । तथाऽहिफेनं सक्षौद्रं तुल्यकारस्करत्वचम् ॥३॥ ऐरावतीपत्रसुशल्लकानि क्षुण्णानि निष्पीड्य रसः प्रपीतः। बलासरक्तप्रबलातिसारं विनाशयेवित्रिदिनप्रयोगात् ॥ ४ ॥ चिश्चाबीजत्वचं विश्वं सैन्धवं दीप्यकं तथा। पिवेदामेन तक्रेण सोऽतिसारं जयेक्षणात् ॥५॥ यज्ञलोचनमज्जानं काचिकेन पिबेत्यगे ! श्ले भरतातिसारं च कोष्ठशूलं जयेद्रुतम् ॥ ६ ॥ रसो निहन्त्यतीसारमानत्वक्पुटपाकजः। युक्तस्तैलेन रक्ताब्यं सबलासं सनिलवम् ॥ ७ ॥ बदरीपल्लवरसं पिबेद्रक्तातिसारवान् । कार्य कदम्बशुण्ठीभ्यां पिवेद्रात्रौ दिनत्रयम् ॥ ८॥ मुस्तां संक्षुध शुद्धां समपयसि दृढं मर्दयित्वा सुपूतां पक्त्वा पादावशिष्टां मृदुतरशिखिना शीतलीकृत्य पश्चात् । लीडा औद्रान्वितां तां जयति सकर्फ रक्तयुक्तातिसारं विष्णोः पूजेव सद्यः शमयति दुरितं पूर्वजन्मार्जितं तु ॥२॥ जम्बूक्षीरीक्षारलुककुभकरअपल्लवस्वरसम् । लकुचफलस्वरसपलं छागं पयः पलमपि प्रगे पीत्वा ॥१०॥ जयति सरक्तश्लेष्मं प्रवाहणं गुदेषु जातं च ॥ ११ ॥ पूर्वेधुरानीतसुरक्षितं जलं प्रभातकाले प्रपिबेत् सतैलम् । चिरन्तने द्राक् शमयेत् सुघोरं प्रवाहणं रक्तकफान्वितं तु ।।१२।। आजे पयसि पाकान्ते पथ्याचूर्ण क्षिपेत् पुनः । दषि जातं पिबेत् प्रातस्तत्मवाहणपीडितः ।। १३ ।। १ अर्धश्लोकोऽयं नोपलभ्यते केषुचिद्धस्तलिखितपुस्तकेषु । २ 'जय- त्यलं' इति पाठान्तरम् ।
१२ वैद्यमनोरमा । तथा पकानवाष्पेण स्विन्ना तेनैव भक्षिता। सरक्तां विम्बिसी हन्यात् सतैला क्षुद्रदुग्धिका ।। १४ ॥ माणिमन्थमरिचामयाजटा यक्षनेत्रसमभागसंमिताः। सकतल वृतमात्रयाऽन्विता नाशयन्ति सहसा प्रवाहणम् ।। १.५॥ कृष्णाशुण्ठीशमीवीरतरूणां पत्रकल्पितः। विलेप्यपूपकल्कैश्च सतैलैः शोणितं जयेत् ॥ १६ ॥ केदारसीमोद्भवमूपिकस्य मांसं गतान्त्रं पयसा प्रपिष्य । तैलं पचेत्तद्विधिना पलिम्पेत् पिबद्वदभ्रंशविनाशनाय ॥१७॥ गोकर्णत्वङ्मुस्तानमस्करीधातकीकुटजसिद्धम् । ज्नरातिसारं जयति जलं चतुःपञ्चपैर्दिवसः ॥१८॥ पय यस्ये सम्यनवमुदकमासिच्य जलदान शतद्वन्द्वान् क्षुण्णानपि सपदि निक्षिप्य विपचेत् । पयःशिष्टे त्यक्त्वा जलदशकलानि प्रतिवपे- दुदश्वित्तज्जातं दधि जठररोगानपनयेत् ।। १९ ।। तदाथोऽस्मिन् दुःस्पृक्तृतमुदकमासिच्य शनकै- मथित्वा तत्स्नेहं मथितमपि पथ्यौषधयुतम् । सदा पाने चान्ने करचरणयोर्योजितमिद- मतीसारं हन्यादपि बहुविधाकारमचिरात् ॥ २० ॥ तक्रद्रोणे सशुक्ते लवणदशपलैविश्वपथ्यासमांशै- श्चत्वारिंशत्मकुञ्चं घृततिलजपलान्यष्ट संयोज्य पश्चात् । पक्त्वा पाकऽष्टचूर्णात्रिपलयपि समायोज्य धान्ये स्थितं तत् खादेदग्नेः प्रदीप्तिं जनयति जयति प्लीहगुल्मोदरादीन् ॥२१॥ पुराणशाल्यभावे तु शालीन सप्ताचिषा सह । पचेदोपधिभिर्वाऽन्यैर्लघिमानं भजन्ति ते ॥ २२ ॥ १ " ऊष्णत्रयसिन्धूत्यैः साजमोदद्विजीरकैः । हिङ्गुतुल्यैरेभिराहुरष्ट- चूर्ण मनीषिणः ॥"२ चित्रकेणेत्यर्थः । १ बैद्यमनोरमा । अविरुद्धोपदंशेन पकमन्नेन मात्रया। भक्षितं परिवं पूर्व भृष्टं दुर्जरतां जयेत् ॥ २३ ।। कालशाकविजयामहौषधैः साधितं रसयुगाविभागशः । वारि वारयति शूलतृड्ज्वरान विम्बिशीमपि विसूचिका क्रमात् ॥ तण्डुलोदकपिष्टेन तालमूलेन लेपनम् । नाभौ प्रकल्पितं सद्यो जयत्येव विसूचिकाम् ॥ २५ ॥ आमे विदग्धे विष्टब्धे विमूच्यां च वमेहतम् । अशक्तश्चेत्पियेत् कोष्णसलिलैः सर्पगन्धिकाम् ॥२६॥ माणिमन्थजीरकाजमोदमागधौषधै- वधितैः क्रमेण तैः समं हरीतकीरजः । पाचन विरेचन प्रदीपनं प्ररोचनं पायुकीलनाशनं हुताशनाह्वयं तु तत् ॥ २७ ॥ निष्कं पौनर्नवं. पत्रं तस्या स्यात् सिकासिका (2) सिन्धूत्थं लशुनं रक्त शुण्ठी हरितमञ्जरीम् ॥२८॥ मरिचांश्च पृथक् पादान चूर्णमेतत्तु मस्तुना। पिष्वा प्रारभक्तमश्नीयादिच्छन् बढेर्बलं महत् ॥ २९ ॥ श्वेतपर्णासमूलेन सविश्वेन शृतं जलम् । अजीर्ण शमयेचूर्ण कर्णः कार्यमिवार्थिनाम् ।। ३०॥ 'याक्षाक्ष्यास्तरुणानकाण्डमणुशश्छित्वा जले पाचये- तस्यास्तद्विगुणे तदम्भसि गते प्रस्थेन युक्तं पटोः। दुग्धप्रस्थमजस्य तेन विपचेत्तस्मिन् रसोनोपणं लाज्यं च पलद्रयं प्रतिवपेत्तद्दीपनं स्यात्परम् ॥३२॥ अलर्ककुसुमाञ्जलिलशुनाग्निकासैन्धवात् पलाष्टकमथोषणैलपुनर्नवाद्वै पलम् । यक्षपशुरसनापिचुयुतं च विश्वं तथा तैलवृतषट्पलं पयसि पाचितं मान्यहृत् ।। ३२ ।। १ · श्वेतपूलासमूलेन' इति पा० ।
पञ्चमः पटलः । पररुपूगतैलपेपिता पृथगाधैरपि चूर्णितैः सह । परिलोड्य पिबेत्तु मात्रया दिवसादौ प्रबलानिमान भवीन् । किमु कुष्ठभगन्दरानिलैरपि बाधा न भवेत्सुनिश्चितम् ।। ३३ ॥ कालशाकविजयामहौषधैः साधितं जलमजीर्णनाशनम् । पुण्डरीकनयनाङ्ग्रिपङ्कजलालनोदकमिवाशु किल्विषम् ॥ ३४ ॥ अर्धावशिष्ट जलमाढका महौषधैः केवलमेव पीतम् । प्रदीपयजाठरपावकं द्राक् तद्दीप्तिद्भिः किमुतान्यभेषजैः ॥३५॥ पर्युषितान्नं भुक्त्वा माहिषदना तु शीतलाम्बु पिबेत् । अत्यग्निं जयति नरो लक्ष्मीरससिद्धमन्नं वा ।। ३६ | इति वैद्यवर श्रीकालिदासविरचितायां वैद्यमनोरमायामग्निमान्दामहणी- विसूचिकाधिकारो नाम षष्ठः पटलः । अथ मूत्रकृच्छ्रप्रमेहसोमरोगाधिकारो नाम ससमः पटलः। चिरजलधरभाण्डोद्भूतपकं गृहीत्वा जठरपणनाभौ निक्षिपेन्मूत्रकृच्छी। तपनकिरणतापोद्भूतमूत्रोष्णवाते- ऽप्यतिहिमसिकतानां राशिमत्र प्रदद्यात् ॥१॥ यष्टयाहैलो रुबीजेक्षुकाण्डैः शीतः काथो नालिकेराम्बुजन्मा। पैत्तं कृच्छ दाहतृष्णोष्णवातं रक्तस्राव मूत्रसादं हिनस्ति ॥ २॥ स्थलशृङ्गाटफलैर्वा कल्कः केरीफलाम्बुना पीतः । कृच्छे मूत्रस्य जयेत्क्लेशमिवैशो नमस्कारः।।३।। मूत्रकृच्छू जयेत् पीता क्षीरेण शिखरीशिफा। अजाक्षीरेण संपेष्य पीता नीलीजटा तथा ।। ४ ।। १ ऊस्थूगतैलं एरण्डतैलम् । २ लक्ष्मीः केरलेषु 'तिरुताळी' इति प्रसिद्धा ।
सप्तमः पटलः । केतकीस्वरसे सिद्धं तत्परोहायकल्कितम् । सपिः पीतं दिनस्यादौ मूत्रकृच्छं जयेद्रुतम् ॥ ५ ॥ जलेन नालिकेरस्य पिवेत् प्रातः सारणीम् । मूत्रकृच्छविनाशाय शर्करापातनाय च ॥ ६॥ प्रभाते पयसा पीतं क्षुद्रपप्फणपल्लवम् । सूत्रकृच्छ्र जयेद्यत् पापं भारतकीर्तनम् ॥ ७॥ युष्यदलस्य स्वरसः सशर्करः भातरेव परिपीतः । कृच्छं मूत्रस्य जयेस्त्रावमसझं च सहसैव ॥ ८ ॥ क्षुद्रकरवन्द(मर्द)मूलं पयसा पीतं प्रभातकालेषु । निरुणद्धि मूत्रकृच्छू संतमसं भानुबिम्बनिच ॥ ९ ॥ चरेषु मूत्रकृच्छं चेत् कुमारीस्वरसं पिबेत् । कनीयः पञ्चमूलं वा गुह्यमेतचिकित्सितम् ॥ १० ॥ कायो वरुणमूलस्य तत्कल्केन समन्वितः। पीतो निपातयेत्सद्यः शर्करामश्मरीमपि ॥ ११ ॥ थीमूलकुलत्थाभ्यां शृतः काथो जयखलम् । शर्करां मूत्रकृच्छं च गुह्यमेतच्चिकित्सितम् ॥ १२ ॥ नाभेरवस्तु धान्याम्लसेको जयति निश्चितम् । मुत्रकृच्छ, शरीरेषु सेकस्तेनाङ्गदाहा।। १३ ।। चम्पकशिफाकषायः पीतो निरुणद्धि मूत्रमवशगतम् । नीचतलपतितमम्भश्चतुरजनोत्पादितो यथा सेतुः ॥ १४ ॥ प्रातरेव रजनी सुभक्षिता मेहविंशतिविनाशिनि ध्रुवम् । आंकुलीमुकुलपादसंयुता किं पुनर्मधुमती सुचूर्णिता ॥ १५ ॥ १ “पप्पणः' केरलदेशे 'पावुट्टः' इति प्रसिद्ध ओषधिविशेषः । २ पुष्यदलस्य कुष्माण्डदलस्य । ३ शालिपर्णी पृश्निपर्णी बृहती कण्ट- कारिका । गोक्षुरः पञ्चभिश्चैतैः पञ्चमूलमिदं लघु । ४ आकुलीः केरल- भाषायां 'आवीरे' इति प्रसिद्धा वनस्पतिः । :
वैद्य मनोरमा । अश्वत्वबीजं हरिणस्य शृङ्गं तक्रेण पीतं मधुना सहैव । अमेहजात सकलं निहन्ति दशाननं दाशरथिर्यथैव ॥ १६ ।। पुष्पयोधिजलवैरिशाकिनीननजिजनितबीजमम्बुदम् । भूसरीपयुतं सुचूर्णित मेहविंशतिहरं ह्युदश्विता ।। १७ ॥ कृष्णारिमेदपूलास(?) जम्बूदम्बरकिंशुकम् । विदुलधातकीलोध्रमेषशृङ्गचब्धिकोठकाः ॥ १८ ॥ आकुल्यश्वाङ्ग्रिपङ्कानि पाठा रात्रिश्च चूर्णितम् । मधुना मात्रया लीढं प्रमेहान्नाशयेद्रुतम् ॥ १९ ॥ ग्राहान् विष्णोः प्रसादेन गजेन्द्रो नाशयेद्यथा। तद्वत् क्षौद्रान्विता दार्वी पा(पी)तश्चामलकीरसः॥२०॥ सागराडोलपूलासवेणुपत्रगृतं जलम् । रात्रौ पिवेत् प्रमेहाणां प्रणाशायात्मवान् नरः॥ २५ ॥ आकुलीनलदकिकिस(?)बीजोद्भूतचूर्णमथ तक्रमधुभ्याम् । पीतमाशु मधुमेहनिहन्त किं पुनः कफसमुद्भवमेहान् ॥२२॥ निशाद्वयारग्वधकिंशुकैश्च कैडर्यजम्बूकतकारिमेदैः । वराब्धिकोठेः नृतमम्बु शीतं क्षौद्रान्वितं मेहगणं निहन्यात २३ नन्द्यावर्तदलैः पिष्टैरीपत्तण्डुलसंयुतः। तैले विपाचितोऽपूपो मेहविंशतिनाशनः ।। २४ ।। उदुम्बरक्षीरसुपिष्टचिञ्चाविनिर्मितो निष्कसमानपिण्डः । सशुक्लगुजामधुतक्रपीतः प्रमेहमातङ्गविनाशसिंहः॥ २५ ॥ यस्य यस्य प्रमेहस्य शमनं भाशयेद्भिपक । तस्य तस्य जलात्कल्कस्तं तं मेहं निरस्यति ॥ २६ ॥ कमलरजश्चिञ्चाफलवल्कमेहार्यम्भोधिवीजानाम्। द्विगुणयथोत्तरमानं चूर्ण मेहापहं समधु ॥ २७ ॥ १ पुष्पबोधिः अर्कः, जलं होवेर, वैरि ‘एकनायक' इति केरलेषु प्रसिद्धं, शाकिनी 'चीर' इति केरलेषु, नग्नजित निघण्टुषु मृग्या । २ अंब्धिकोठकः 'समुद्रफेन' इति प्रसिद्धः । ३ सागरा 'समुद्रपञ्च इति केरलेषु प्रसिद्धा। ४ 'बीजत्वचा निर्मितनिष्कपिण्डः' इति पा० । ,
अष्टमः पटलः ।
अष्टाभिर्वासरैर्वारिवासितै/हिभिः कृतान्
पृथुकान भक्षयेत् सायं सद्यो मेहनिवृत्तये ॥ २८ ॥
अङ्कोलाम्लाश्वकर्णामलकमुनितरुक्षीरिक्षभियङ्गु-
जम्बूकालारिमेदत्वचलुलितजले साधितं तैलमेतत् ।
तद्गुआबिल्वमुजातकरजनियुक्कल्कितं मेहजालं
हन्याद्गङ्गाधराशिस्मरणमिव महापातक सद्य एव ॥ २९ ॥
मुपककृष्णरम्भायाः फलं भक्षयतां नृणाम् ।
न भवेत्सोमरोगश्च मूत्रकृच्छं च पित्तजम् ॥ ३० ॥
इति श्रीकालिदासवैद्यविरचितायां वैद्यमनोरमायां मूत्रकृच्छ्रप्रमेह-
सोमरोगाधिकारो नाम सप्तमः पटलः ।
अथ विधिशूलाधिकारी नामाष्टमः पटलः ।
करजवीजविश्वोग्राः करजकाथपेषिताः ।
पीताः प्रभाले निःशेष वन्त्वाभ्यन्तरचिद्रधिम् ।। १॥
करआस्थीनि संपेष्य वितुषीकृत्य चूर्णयेत् ।
स्नुग्दलस्वरसेनैव मृदिला रविसन्निधौ ॥२॥
तैलमादाय तत्तैलं बाह्यान्तरुपयोजयेत् ।
अन्तर्विद्रधिमाश्वेव नाशयेदाह्मजं तथा ।।३।।
आरया श्रवसि रन्ध्रमाचरेदन्यपार्श्वमवलोक्य बुद्धिमान् ।
अन्त्रवृद्धिशमनाय किंशुकत्वकषायमपि पाययेच्छिशुम् ॥ ४॥
सैन्धवेन्द्रलतापत्रं यक्षग्वीजपप्फणम् ।
तक्रेण सहसा पीतं वृद्धिं शूलं च नाशयेत् ॥ ५॥
ऊषणेन्द्रलताशुण्ठीरसोनैरण्डजं तथा ।
तुङ्गतैलविलिप्तेन रविपत्रेण बन्धनम् ॥ ६ ॥
अन्त्रद्धिजनितं विनाशयेच्छूलमिन्द्रयवपत्रजो रसः।
तैलमिन्दुसहितं यथा तथा काममीशनयनाशुशुक्षणिः ॥७॥
वैद्यमनोरमा । पीतवर्बरनियांसः पीतो वृद्धिं विनाशयेत् । ब्राधिन पीतदारूणां कल्कं मूत्रेण पाययेत् ॥८॥ झुद्रकरवन्दवरुणानलसुवर्ण दुग्धसहितं पिबति यो जयति शूलम् । अन्नजनितं लशुननागरकुबेरा- क्षीन्द्रलतिकागृतजलं च निशि पीतम् ॥ ९ ॥ वर्षाभूकणमूलवह्निचविकाव्योषोत्तमानां रजः प्रत्येकं कुडवं भवेदथ पटो: स्यात्कुण्डलीपल्लवाद । प्रातरछागजलान्वितं च सहितं पकं पुनस्तत्पयः कंसाभ्यां च समस्तगुल्महरणं स्यादब्धिहिङ्वन्वितम् ॥१०॥ सैन्धवामलकक्षोदनवनीतगुटी जयेत् । पित्तगुल्मविकाराणां दोषाणां संहति भृशम् ॥ ११ ॥ पिण्याकसैन्धवपुनर्नवचूर्णभास्व- साराजमूत्रपयसां समभागभाजाम् । हिषणाज्यसहिता गुटिकाऽग्नितप्ता गुल्मोदराग्निसदनारुचिशूलहन्त्री ॥ १२ ॥ अभ्रकगन्धकतुत्थैल्यूषणकान्तयुतैः कृतचूर्णम् । पाचनदीपनरोचनमेतद्गुल्मविकारमपहरति सद्यः ॥ १३ ॥ पष्टिकं छागमूत्रेण द्विगुणेन पचेत्ततः । गृहीतान् तण्डुलाञ्जग्ध्वा गुल्मी छागपयः पिबेत् ॥ १४ ॥ वैश्वानरं तिलजगोघृतदुग्धभक्ता- न्यस्मिन् पचेन्मृगदृशां करलालिताङ्गम् । तद्देशसंभवमतीव च नीलधूपं गोसर्पिषा सह पिबेत्कफवातगुल्मी ॥ १५ ॥ यक्षदग्विश्वलशुनैदगृतुभागिकैः । काथो गुल्मोदरानाहशूलोदावर्तद्धिहा ॥ १६ ॥ १ 'गन्धकटङ्कणतुत्थैः' इति पा० ।
नवमः पटलः । गुल्मशमनाय न स्याद्रेषजमत्र रससलिलाहते सहमा । हाम्लस्य स्वरसः सैन्धवयुक्तस्तथैव नियतं स्यात् ॥ १७ ॥ सैन्धवपादेन युतं नागरचूर्णमोदनं घृतं चापि । भुभानः पञ्चदिन ग्रहरति गुल्यं क्षणेनैव ॥ १८ ॥ कालवाकालवणौषधान्वितं भक्तपकमथ सर्पिषाऽन्वितम् । मूलमस्यति पुनर्नवोद्भवं गुल्मतोदमचिरेण निश्चितम् ॥ १९ ॥ सैन्धवं स्तुहिमध्यस्थं दग्धमङ्गारवहिना । सलिलेन कवोष्णेन पिवेच्छलनिपीडितः।।२०।। नागरशोभाअनयोः काथः शूलं विनाशयेत्रिदिनात् । अनितरुवल्ककाथस्तद्वत् पटुरामठप्रतीवापः ॥ २१ ॥ केवलानिलसमुत्थे शूले महति प्रलेपयेन्मतिमान् । तुझुमतरुणजलै रसोनकरकं वयो बलं वीक्ष्य ॥ २२ ॥ शूलं तदाशु शमयेद्विण्मूत्रे च्यावयेनियतम् । स्तन्यनिधृष्ट मरिचं नसि निहितं नाशयेच्छूलम् ।।२३।। शुइमरिचविहितकल्क: कोष्णजलैः पीत आशु नाशयति । इति श्रीकालिदासवैद्यविरचितायां वैधमनोरमायां विद्रधिगुल्मशूलाधिकारो नामाष्टमः पटलः । अथोदरपाण्डुचिकित्साधिकारो नाम नवमः पटलः । दुग्धे स्नुक्क्षीरपक्के दधिजनितमहोरात्रतस्तन्मथित्वा सारं हत्वा पिवेत्तन्मथितमुदररोगी विरेकाय मर्त्यः । तत्सपिर्दुग्धमूत्रच्छगणरसदधिस्वर्णदुग्धैश्च युक्तं एक्त्वा पाके मुजाते गलितमुदरशान्त्यै पिबेदल्पमल्पम् ।। पीत्वा धारोष्णं प्रातरेवाग्निमध्ये क्षीरं तोयान्यं साधु पक्त्वा मुखोष्णम् म २० वैद्यमनोरमा । सायं पथ्यायाः काथपः पक्षमित्थं कृत्वा रिक्तश्चोदरी स्याच्छतायुः॥२॥ भेकराजरसैः मुभावितलोहयुक्तवरारज- स्तुल्यभागवटच्छदोद्भवभस्म चाप्यभया पुनः । षट्पदोत्थरसेन पेपितमक्षमात्रविनिर्मितं पिण्डमस्यति पाण्डुरोगमुदश्चिता सह सेवितम् ।।३।। नवायसपतीवापं लिहन्मूत्रशृतं गुडम् । पाण्डुरोगातुरो मर्त्यः सुखी स्यान्मधुमिश्रितम् ।। ४ ॥ अयोमलरजापथ्ये गृष्यग्रेण सुपेपिते । तैलयुक्त पिवेत् प्रातः पाण्डुरोगी सुखी भवेत् ॥ ५ ॥ इति श्रीकालिदासवैद्यविरचितायां वैद्यमनोरमाया- मुदरपाण्डुरोगाधिकारो नाम नवमः पटलः । अथ कामलाधिकारो नाम दशमः पटलः। शङ्ख विघृष्य सहसा प्रातः पीतं च सप्ताहात् । अपहरति कामलाति वाणो रामस्य ताटकां भीमाम् ॥ १॥ मधुना निशया धान्या क्षीरेण वा मिश्रितः भगे पीतः। स्यान्मण्डूकीस्वरसः कामलिनां हितकरो नृणाम् ।। २॥ व्योषं धात्री रजनी लोहं च सिताज्यमधुसमेत हि । उपयुज्य कामलातः सुखी भवेद्वासरारम्भे ॥३॥ अज्झटासहितस्तककल्को जयति कामलाम् । रसो वा भृङ्गराजस्य निषिक्तो भूरि मूर्धनि ॥४॥ तरुणीं कामलार्तस्तु भुजीत त्रिदिन प्रगे। कामलायाः प्रशान्त्यर्थं वैकुण्ठं पाययेन्नरः ॥ ५॥ किमौषधगणैः कृतैः सकलमन्त्रवादैश्च किं चिरेण बत जीवितुं यदि महाभिलापोऽस्ति वः।
एकादशः पटलः । सुवर्णवलयेन वा रजतकेन तात्रेण वा दहेत मणिवन्धने सपदि कामलारोगिणः॥६॥ मुवहापत्रस्वरसः किञ्चिलेन सह पीतः । कामलामाशु हन्याद्रावणमिव पुण्डरीकाक्षः ॥७॥ श्रेष्ठागुडूचीपिचुमन्ददावीत्वगज्झटाभिर्विधिना कृतं यत् । थ्याकषाये घृतमाशु हन्यात्तत्कामलां कालनिशासमानाम् ॥ इति श्रीकालिदासवैद्यविरचितायां वैद्यमनोरमायां कामलाधिकारो नाम दशमः पटलः । अथ शोफविसर्पवित्रकुष्ठाधिकारी नामैकादशः पटलः। पथ्यापुनर्नवनिशाकणमूलवह्नि- विश्वाम्बुजीरकसुरद्रुममागधीनाम् । काथं पिबेच्छ्वयथुदण्डधरात्तजीवोs- प्युत्तिष्ठते शिवसमाश्रितवालतुल्यः॥१॥ समूलतूलसंशुष्कं कार्पासं भस्मसात्कृतम् । तद्भस्मद्विगुणं शालितण्डुलं पयसौदनम् ॥ २॥ घृतेन सह भुञ्जीत सर्वश्वयथुनाशनम् । परिणततुम्बीलतया विहिते काथे शृता विलेपी या ॥३॥ रात्रौ तया च सिद्धः काथश्च श्वयथुशत्रुनौ। पुनर्नवाभयाशुण्ठीकालशाकैः समैः शृतम् । जलं शोफ जयेत् पीतं प्रातः सायं च मात्रया ॥४॥ दशाझिकूष्माण्डलताकाणां चूर्ण मधौ शोफजयाय लिह्यात् । - १ ' श्रेष्ठा' त्रिफला | २' चित्राब्द' इति पाठान्तरम् ।
वैद्यमनोरमा । आदित्यरुद्रवमुभिश्च समानभाग चूर्णात् पलालरजसो गृहधूमतश्च ॥५॥ दग्भस्य शङ्खरजसश्च विमिथ्य चूर्ण श्रीरेण शोफशमनाय पिवेदतन्द्रः॥६॥ हरीतकीत्रिसन्मूलकुलत्थैः साधु साधितः । काथस्तु रुबुतेलाव्यः शोफदाहोदरापहः ॥ ७॥ अलर्केक्षुरकासमुर्वरी(?)क्षारजं जलम् । आपादमस्तकप्राप्तमप्याशु श्वयधुं जयेत् ॥ ८॥ इक्षुरक्षारतोयेन पक्कं भक्तं विनाशयेत् शो सर्वाङ्गसंभूतं गोमूत्रेण घृतान्वितम् ।। ९ ।। हरीतकीनागररात्रिसिद्धं जलं ज्वरोत्थश्वय) निहन्यात् । पीतं प्रभाते गुडगोक्षुराङ्किव्याघ्रीवलाविश्वशृतं पयश्च ।। १० ॥ नीलीदूर्वावायसीकाकमाचीनिष्पावाख्यास्वस्तिकानां रसेषु । दुर्वासपिर्येन कल्कैन तेन सिद्धं तैलं सर्ववीसर्पजित्स्यात् ॥११॥ प्रातः पयसा पीता लिप्ता च विसर्पकं जयेन्नीली। तत्क्षीरं च तथाऽस्याच्छुम्भनिशुम्भौ यथा दुर्गा ॥ १२ ॥ रसे कर्पूरवल्यास्तु वासाचिञ्चाभवेऽपि च । अश्वगन्धासुगन्धाह्वावायसीसर्पगन्धिका- ॥१३॥ नीलीभूमिकदम्बानां मूले सिद्धं तिलोद्भवम् । कक्षाविद्रधिवीसर्पहरं स्याल्लेपनेन तत् ॥ १४ ॥ शतधौतघृतं लिम्पेत् क्षीरीक्षन्वगम्बुना। विसर्पकविनाशाय दातृट्शमनाय च ॥ १५ ॥ तत्क्षणपतितः करकैः सिक्ता संरक्षिता मृत्स्ना। धान्याम्लेन विलिप्सा नाशयति विसर्पकान् कृच्छ्रान् ॥१६॥ विसर्पकनन्थिविषादिरोगान् लेपादिना तैलघृतापहारात् । विनाशयेदुग्धयुताऽऽशु शुभ्रा दुर्वा मसूरीमपि पित्तजाताम् ।।
२ एकादशः पटलः। क्षीरिद्रुमाङ्करहिमोत्पलसेव्यकुष्ठ- गोपाङ्गनामधुकनाभिजलैः मुसिद्धम् । यद्वायसीस्वरसकल्कितदूर्वया च तैलाज्ययोर्यमकमाशु विसर्पकतम् ॥ १८ ॥ जम्बीरनीरपरिपीतगुडो नराणा- मारम्भकालसमयेषु ममूरिकार्तिम् । सद्यः शमं नयति गोपयसा प्रभाते रुद्राक्षमप्यलमतीव रहस्यमेतत् ॥ १९ ॥ शिग्रुपत्ररसैः सर्जरसं पिष्ट्वा ममूरिकाम् । लिम्पदुत्पन्नमात्रां तु सा तदैव विनश्यति ॥ २० ॥ अश्वगन्धारस: स्वल्पपारदेन विमिश्रितः। लिलो ममूरिकार्तानां भवेद्रक्षाकरो नृणाम् ।। २१ ॥ विश्वचूर्णसहितोष्णभस्मना गात्रमाशु परिपालयेन्मुहुः । शीतपित्तशमनाय चन्दनं छिन्नरोहरसपेषितं तथा ॥ २२ ॥ तैलं दारुरुजासर्जयष्टीपाठावचूर्णितम् । शीतपित्तेऽमृताराजीकल्कस्याभ्यङ्गलेपने ॥ २३ ॥ उशीरं बहुशो लिम्पन्नश्येत्स्वेदमसूरिका । चन्दनं च तथा स्नानं शमयेन्मन्दमारुतः ॥२४॥ गुडेन राजद्रुमशोधितेन लिहन मुसूक्ष्माणि रजांसि कुष्ठी। राजद्रुमत्वङ्मुसलीन्दुलेखापथ्यानिशानामपरेन्दुतुल्यः ।। २५ ॥ नीलीमरीच्योः स्वरसस्य कसे पलाष्टभल्लातककल्कसिद्धम् । प्रस्थं जयेत्तैलमुदग्रकुष्ठं विपादिकामप्यतितोदभेदाम् ॥ २६ ॥ नीलीमूलत्वगसितसुमनोत्सर्शिणी(?)मूलवल्कं भानुक्षीरोषणलशुननिशासिन्धुदा-विंचूर्ण्य । एतैः सर्वेद्विगुणिततिलजैः क्षिप्रमाईप्रयोगं लेपात् कुष्ठं प्रबलमपि वा सप्तरात्रानिहन्यात् ॥ २७ ॥ १ " पञ्चाष्ट ' इति पा!
वैद्यमनोरमा । तिलभल्लातकपथ्याचूर्णगुडमिश्रितं जयेत् कुष्ठम् । चूर्ण शशिलेखायाः सकृष्णतिलाब्दमुपयुक्तम् ॥ २८ ॥ स्नुहिजातिपूतिकैश्च शभ्याकदिनेशपल्लवैर्जयति । उद्वर्तनमष्टादशकुष्ठान गोमूत्रसंपिष्टैः ।। २१ ॥ जलशैवालमादाय कण्डक्लेदान्विते तनौ । परिपेष्य जलं सिञ्चेत्तत्तस्य परमौषधम् ॥ ३०॥ नीलीमूलत्वक्तिलकमरिचैखिम्येकभागिकैलेंपात् । गोमूत्रेण मुपिष्टैः कण्डयुक्तं जयेत् कुष्ठम् ॥ ३१॥ सर्पत्वचा समरिचांतिलतैलभृष्टां यो लेपयेन्मुनिदिनं जलमस्पृशन् सः। कण्डूतिकुष्ठकिटिभान चिररूढमूलान् जित्वा सुखी भवति कामसमानकान्तिः ॥ ३२॥ कृष्णारिमेदपूलासपथ्यारग्वधमेहह-। रैरावतवराव्योपैस्सिद्धं कुष्ठकुलं जयेत् ।। ३३ ।। वातस्य मूलीस्वरसे विपकं धूमालकम्पिल्लरुजानिशाभिः । मुगन्धकाश्वघ्नशिलाकरजैर्मधूकतैलं विनिहन्ति कुष्ठम् ॥ ३४ ॥ हठं समूलं संचूर्ण्य प्रभाते मधुना लिहेत् । अष्टादशविधं कुष्ठं षण्मासाज्जयति ध्रुवम् ॥ ३५ ॥ प्रातरासुतमग्निसमीपे स्थापितं च वसुभागशृतं यत् । नाडिकाष्टसमये निशि पीतं काथमुत्तममशेषगदन्नम् ।। ३६ ॥ चूर्ण कर्पूरवल्या वा निम्बतैलेन सेवयेत् । विशीर्णनखमांसोऽपि पुनरेव युवा भवेत् ।। ३७ ॥ बाणदलस्य स्वरसं लिकुचस्वरसं च तैलं च । संमिश्रित प्रलिम्पेद्धन्यात् कुष्ठानि दुष्टानि ।। ३८ ॥ १ वातमूली 'वातंकोल्ली' इति कैरलेषु प्रसिद्धा ।
एकादशः पटलः। दशनफलमवन्तिसोमके किश्चिदुत्कथितशोधिते शृतम् । तीक्ष्णकल्कसहितं विनाशयेतैलमर्भककालजान् गदान ।। ३९ ॥ भास्करकाण्डक्षारं स्वरसेनेत्वाकुजेन संलिप्तम् । हन्यात कपालकुष्ठं क्रौञ्च गिरि तारकारिरिव ॥ ४० ॥ मूलत्वक्षत्रपुष्पाणां कार्पासस्य रसे शृतम् । तैलं कपालजान कुष्ठान जयेत्तकाम्लसाधितम् ॥ ४१ ॥ अर्कपत्ररसमाढमिश्रितान्नालिकेरपयसोऽर्कविमिश्रात् । तैलमुत्थितमपोहति व्रणान् राक्षसानिव मुरारिमार्गणः ॥ ४२ ॥ वायसजङ्घामूलं वाकुचिना ननजिद्दलं नक्तम् । धान्याम्लेन सुपिष्ट त्रिदिनादुद्वर्तनेन कुटन्नम् ॥ ४३ ।। गौरीमेरण्डपत्रस्थां धान्यस्विनी अपीडयेत् । तद्रसस्तैलसंयुक्तो लेपात् कापालकुष्टहा ॥ ४४ ।। रक्तकरवीरमुकुलान्यादाय शतं शतेन मरिचेन । पिष्ट्वा शून तिलोत्थं कुडवं पामा हरेल्लेपात् ।। ४५ ॥ बहुशोऽर्कदुग्धभावितगोजिहारजोन्मिश्रितं तैलम् । भास्करतप्तं हन्यात् पाप्मानं पापसंभूतम् ॥ ४६ ।। निम्बच्छदस्वरससाधितमर्कदुग्ध- रक्ताश्वमारमुकुलोषणकल्कसिद्धम् । तैलं निहन्ति सहसैव समस्तपामां छागप्रियस्वरससाधितमेवमेव ॥४७॥ भगवन् ! भास्करक्षीर ! पामाऽहमभिवादये । यत्र देशे भवान प्राप्तस्तद्देशं न बजाम्यहम् ।। ४८॥ अभिनवगोघृतेन मरिचस्य रजः पिबतां हुतवहदेशकालबलदोपसात्म्यमवताम् । जघनकराङ्गुलिविवरकूपरजानुभवाः कररुहबान्धवाः सपदि यान्ति रुजः शमनम् ॥ ४९ ।।
२६ वैद्यमनोरमा । तुद्रुमस्य परिपतफलं वितोयं कृत्वाऽनलार्कपयसोदिपिचुं पिचुं च । प्रक्षिप्य पूर्वमपरेण सुपेष्य तैल- भागो गृहीत इह हन्ति समस्तपामाः ॥ ५० ॥ महिपविषाणमषी सहतीक्ष्णा किटिभमपोहति तैलसुपिष्टा । करजमलोत्यमषी च तथाऽस्यान्महिषमहामुरमाविव दुर्गा ५१ क्षारो महाक्षज आशु हन्यादेरण्डतैलेन सहानुलिप्तः। कण्डूतिमन्तं किटिभं पुराणं सर्प कठोरो गरुडो यथैव ॥५२॥ निशामरिचसिन्धूत्यैः साध नृजलपेषिता। लेपात किटिभसंहन्त्री कुलत्थशरपुखिका ॥ ५३ ॥ जम्बीरस्वरसे पिष्टकासमाझिलेपनम् । विचचिकानां सर्वापां परमौषधमुच्यते ॥५४॥ त्रिफलां किश्चिदृष्ट्वा तैलेनालेपयेबहुशः । पादे विपादिकायां पादं पद्मोपमं कुरुते ॥५५॥ कारस्करास्थिनियूहे तत्कल्केन हविः शृतम् । गव्यं वा माहिषं प्रेवं लिप्तं हन्ति विपादिकाम् ॥ ५६।। क्षीरपलसंसिद्धतैलसैन्धवलेपनात् । रोहेत् सहस्रधा भिन्नमपि पादतलं क्षणात् ॥ ५७॥ सिध्मा शाम्यति सहसा चूर्णालनिशाप्रलेपेन । गोमूत्रसंयुतेन द्वित्रिदिनैमर्दनानियतम् ।। ५८ ॥ निषिञ्चेत्सावधानः सन् मूत्रस्याधन्तयोः स्रवे। तस्य सिध्मा प्रयात्यस्तं विचित्रमिदमौषधम् ।। ५९ ॥ प्रलेपासिध्म याखस्तमपामार्गस्य भस्मना । केवलेन यथा पापं चन्द्रशेखरभस्मना ।। ६०॥ १ 'हरीतक्यास्त्रयो भागाश्शिवा द्वादशभागिका । षट् भागाः स्युर्बि- भीतस्य त्रिफलेयं प्रकीर्तिता ।।' २ प्रत्नं पुराणम् ।
द्वादशः पटलः ।
सिम्मा शीघ्रं नाशमायाति तोये
लिप्ते लानं यत्र कुर्वन्ति काकाः ।
शस्त्रं हस्ते गृहीत्वा ये चरन्ति
स्पृष्टस्तेषां पाणिना सोऽपि सिध्मा ।। ६१ ॥
दद्रौ गुड प्रलिम्पेत्तत्स्थाः कृमयो विनश्यन्ति ।
चिञ्चापत्ररसं वा कण्डूतिनाशमन्विच्छन् ।। ६२ ।।
कलित्वक्साधिते तोये वासिता निशि बाकुची।
पिष्वा तैलेन पीता च श्वित्रशत्रुविनाशिनी ॥ ६३ ॥
तुपाम्भसा तालशिफां सशुण्ठी
नाभौ कवोष्णां प्रदिहेत् कृमिनाम् ।
प्रातः पिबेद्वा सुरसस्य मूलं
सनागरं कोष्णजलेन वापि ॥ ६४ ॥
जठरोपरि परिलिशं शरपुङ्ख पातयेद्धि कमीन ॥३॥
सकुलत्थैः शकलितः जठराशुष्कपल्लवैः (?)।
नालिकेरस्य नियूहः कृमिहा स्यात्सरामठः ।। ६५॥
रोमशानां भृशं देहे क्षुरकर्म न कुर्वताम् ।
अन्वर्थमूचकाः मूक्ष्मा जायन्तेऽष्टपदा नृणाम् ॥६६॥
चित्रापत्ररसैर्वा रसैर्वा लिकुचपत्रसंभूतैः ।
उर्तिते शरीरे नाष्टपदाः संभवन्ति पापिष्ठाः॥ ६७ ॥
इति श्रीकालिदासवैद्यविरचितायां वैद्यमनोरमायां शोफविसर्पवित्र-
कुष्ठाधिकारो नामैकादशः पटलः ।
अथ वातशोणितवातव्याधिस्थूलकृशाधिकारी
नाम द्वादशः पटलः ।
चंद्ररससंमितानां सैन्धवपिण्याकतैलानाम् ।
अम्लारनालकुडवे पकानां लेपनाज्जयेद्वातम् ॥ १॥
२८
वैद्यमनोरमा ।
तैलं लिया वातरोगोपशान्त्यै यामाझं शर्वरीसूक्ष्मचूर्णम् ।
लिस्बोद्वयोद्वर्त्य तैलं हरेद्राग्यामादूई तत् पुनर्हन्ति वातम् ॥२॥
वातः सर्वाङ्गसंभूतस्तैलाभ्यक्तस्य देहिनः ।
खेदेन शमभायाति दहनो वारिभिर्यथा ॥३॥
धतूरवरसे शृतं तिलभवं द्विपस्थमात्माधिणा
कसे निष्कचतुष्टयद्विगुणितेनाक्षक्षपेणान्वितम् ।
अभ्यङ्गादनिलामयानपहरत्येरण्डशुण्ठीवला-
कोरण्टैः
: शृतमम्बु चासुरगणान् रामो यथा सानुजः॥४॥
स्नुहीस्वरसपिष्टेन तैलेनाप्लावितेन च ।
छागगूढेन कोष्णेन लिम्पदातरुजातुरम् ॥ ५ ॥
प्रमानातिनाशाय मातुलुङ्गफलत्वचाम् ।
लेपः कोष्णजले पिश्वा स्याल्लवङ्गत्वचां तथा ॥ ६॥
काथेन कल्केन भूनागयुक्तं कोरण्डमूलस्य तैलं विपकम् ।
दुग्धेन चाशीतिवातामयन्नं पानाङ्गलेपादिभिः शीघ्रमेतत् ॥ ७ ॥
एरण्डतैलं निर्गुण्डीस्वरसं च पृथक् समस् ।
पीत्वा कटीप्रदेशस्थं वातं जित्वा सुखी भवेत् ॥ ८॥
लवणारनालमित्रै प्रै ढवस्त्रखण्डपुटदिग्धैः ।
तण्डुलशकलैः स्वेदो वाताति नाशयेत् सहसा ॥ ९॥
मुपकनीहिवाष्पाणां कटेनान्तरितात्मनाम् ।
शयनं चोपरिष्टात्तु पृष्ठवातातिनुत् परम् ॥ १० ॥
क्रोष्टुशीर्षण शूनाङ्गस्ताडयेत् क्रोष्टुशीर्षकम् ।
तेनैव शान्तिमायाति दुष्टः कोष्टुकशीर्षकः॥ ११॥
धत्तूरपत्रस्वरसे सुतीक्ष्णं परिलोडितम् ।
भानुतप्तं मुहुलिम्पज्जेतुं क्रोष्ठकशीर्षकम् ॥ १२ ॥
सनालान्युरुपूगस्य पत्राण्यन्योन्यबन्धनम् ।
कृत्वा छित्त्वा द्विधा ताभ्यां स्वेदस्तैलेन वातहा ॥ १३ ॥
२९
द्वादशः पटलः ।
कार्पासबीजाक्षतमाषसिन्धुकुलत्थकोरण्डनिशार्कमूलैः ।
धान्याम्लपिष्टैरसकृत प्रलिम्पेन्नात्युष्णशीतैरवबाहुकन्नम्॥१४॥
परिणतकेरीक्षीरे जम्बीरफलोदकेन समतुलिते ।
क्षणदासुरधूपयुतं तैलं ह्यववाहुकं जयति ॥ १५ ॥
लिकुचरसस्नुक्क्षीरे धीरे तैलं समेतभूनागम् ।
सिद्धं हिनस्ति लेपाहुस्तरमववाहुकं क्षणतः ।। १६ ॥
सीमन्तिनीनां पयसा प्रलिम्पेच्छुण्ठीं शताहां लिकुचोदकेन ।
ते जानुबाहुप्रभवानिलने स्यातां क्रमव्युत्क्रमलेपिते वै ॥ १७ ॥
सुप्तिर्भवति चेदौ पुंसामासनसेवया ।
तदन्यपार्यकर्णस्य मर्दनैरुपशाम्यति ॥ १८ ॥
दीर्घमार्गगमनेन पादयोस्तोदमस्यति च तैलमर्दनम् ।
कोणतोयपरिषेचनं निशि प्रोन्नताङ्गिशयनं च शस्यते॥१९॥
आत्मक्षवयौ सहसा प्रणव संकीर्तयेद्बहुशः।
क्षवथौ 'आयुष्मान् भव' जृम्भायां स्फोटयेत्तथाऽङ्गुल्यौ।॥२०॥
केदारसीम्नि संभूतं गोमयं तु प्रलेपयेत् ।
सशब्दयानः पादस्य चापल्येन स गच्छति ॥ २१ ॥
स्तब्धगात्रमनिलान्महाबलाद्भष्टयान्यतिलवातहास्थिभिः ।
लिप्तमाशु वशमानयेच्छनैस्तिन्तिणीत्वगनलेन तापितैः ॥ २२ ॥
लशुनबर्बरगुग्गुलुनागविबुधदारुयुतैः शृतमम्बु यत् ।
ज्वलयति ज्वलन कफकोपहृत् पवनमाशु जयत्यतिगवितम्॥२३॥
क्षुण्णे प्रसारणीपत्रे निर्गुण्ड्याः सिकता भृशम् ।
भृष्ट्या निधाय बद्धा च स्वेदनादनिलान् जयेत् ॥ २४ ॥
जानुप्रदेशजनितानिलनाशनाय
तैलं निशामिशिसुरद्रुमदेवधूपैः ।
सिद्धं जले लिकुचजन्मनि शस्तमेत-
छोफोग्रतोदसहिते रुधिर तौ च ॥ २५ ॥
वैद्यमनोरमा । जानुशोकानिलातिनं धतूरोदरपाचितम् । पुनर्वान्याम्लसपिष्ट लवणं चर्चितं मुहुः ।। २६ ॥ कारस्करस्याङ्गिचतुष्पलेन क्षीराडके कल्कितलोडितेन । प्रस्थं पचेलमपाकरोति तद्वातरक्तंन तु तुल्यमस्य २७॥ धान्याम्लमिचिञ्चालं पटु लैलानि वृतम् । लिम्पदातासनाशाय मृगनाभिमथापि वा।।२८।। करजवन्दाककुलीरमन्दिरैः प्रशस्तमुलेखनमालकालिकः । कदुगमा वेब विनाश्येदं प्रयजना पवनो यथाऽम्हुदा २९ अतिस्थूलशरीरो यस्तिलतैलं मग पिवेत् । पिवेदसमसारस्य कार्य बा. मधुसंयुतम् ।।३।। भासदयं भकुर्यादशमरिचोपेतकताम्बूलम् । जग्ध्वा मुशीतमम्भः पिवेत् कुशः स्यादतिस्थुलः॥३१॥ भुक्त्वा तदाण करेण देह परामचन्न पञ्चदिनैः कृशोऽपि । पुष्टिं लभेत्नीजनमोहनाङ्गः सिध्यच मात्रस्थितमाशु इन्ति ३२ इति श्रीकालिदासबैद्यविरचितायां वैद्यमनोरमायां वातशोणितात- व्याधिस्थूल कृशाधिकारो नाम द्वादशः पटलः । এ লিখালিকিলাশিক্ষা লাল त्रयोदशः पटलः। देशमूलानि च नलिनं कुष्टमुशीर नतस्पृक्के । एरण्ड शिफां च पिबेगर्भाशयशोधनाय गोपयसा ॥१॥ कटुकालाबुसंसिद्ध तैलमभ्यअनाद्भवेत् । योनिदोपहर नार्या गर्भमुत्पादयेदपि ॥ २ ॥ १ बिल्वोऽग्निमन्थः श्योनाकः काश्मरी पाटला स्थिरा । त्रिकण्टकः पृश्निपर्णी बृहती कण्टकारिका ॥ दशमूलमिदं श्वाससन्निपातज्वरापहम् ।'
त्रयोदशः पटलः । पुत्रार्थ दम्पती रात्रौ शयीयातां मुदान्वितौ । पुष्पचन्दनताम्बूलयौवनैः समलङ्कतौ ॥ ३ ॥ कणामूलकणादारुद्राक्षापुरगुडैः कृतात् । योनेरुद्वर्तनातूर्णं सौभाग्यं जायते स्त्रियाः ॥ ४ ॥ ब्राझीवासामृतानिम्बशाष्टादलज रसम् । भातनिधीय तैलेन बन्ध्याऽपि लभते सुतम् ॥ ५॥ बीजानि वीजपूरस्य क्षीरपकानि या पिवेत् । नारी, घृतेन सह सा भीरभुक् गर्भधृग्भवेत् ॥ ६ ॥ সাSংখস্তাক লস গুলিস্তু। गृहीतमन्धगन्धाया मूलं ध्ये पिबेतौ ॥७॥ क्षीरेण क्षीरभुरभूत्वा पुत्रसंपदि मज्जति । शैवेन तपसा सिन्धौ ब्रह्मरूपे यथा तथा ॥ ८ ॥ कासशलाटूनां कल्क क्षीरे पिवेत्तु सहाहम् । बन्ध्या ग्रुनोत्पति वाग्छन्ती घुध्यदिवलेषु ॥ ९ ॥ वज्रबल्लीरसे तुल्यं तैलं तत्कल्कमिश्रितन् । ध्वजारोहणकल्याणदिवसे पार्वतीपतेः ॥ १० ॥ ऋतुस्नाता वधूः पिण्डं मायेव पुत्रकाशिणी ॥३॥ वन्दाकमौदुम्बरमादरेण बन्ध्याऽङ्गना पुष्पविशुद्धिवारे । पूर्व विरिक्ता लभते कुमारं छागस्य दुग्धेन सह प्रपीय ॥११॥ काकमाचीशिफां पुष्ये कामं निष्पीड्य कन्यया । रसं स्नात्वा पिबेन्नारी लभेदर्भमनुत्तमम् ।। १२ ॥ स्नात्वा चतुर्थदिवसे स्वमर्तृसंपर्कमाप्य निशि वनिता। पुत्रं लभेत सुभगं वामेतरपार्श्वसंयुक्ता ॥ १३ ॥ बीजपूरस्य बीजानि मूलं वा गर्भसंभवे । पिवेदाज्येन मूलं वा लक्ष्मणाहयगन्धयोः ॥ १४ ।। १ 'मातुलुङ्गस्य' इति पाठान्तरम् ।
३२ वैद्यमनोरमा। गिरिकाः शिफा श्वेता कुमुदायाः कटीतटे । धार्यमाणा स्त्रिया गर्भस्थापनाय भवेत् प्रभुः ॥ १५ ॥ उदुम्बरशिफाकाथे क्षीरं समधुशर्करम् । शालिं पिष्ट्वा पिवेद्गर्भविनिपातनिवर्तनम् ॥ १६ ॥ तरुणैर्नालिकेरस्य पुष्पैरौदुम्बरैः फलैः । अब्दैश्च कल्पितः काथो गर्भद्रावं निवर्तयेत् ॥ १७ ॥ लाक्षा यष्टीमधुकं क्षौद्रोपेतं सशर्करं लीढम् । पीता क्षौद्रोपेता मृदीका गर्भशूलहरा ॥ १८ ॥ पारावतशकृत्कल्को निपीतस्तण्डुलाम्बुना। गर्भिणीनामसृक्स्रावं निरुणद्धि सवेदनम् ॥ १९ ॥ मार्कवस्वरसं गव्यं क्षीरं चापि समं पिवेत् । अन्तर्वन्या भवेत्तस्या नैव गर्भपरिच्युतिः ॥ २० ॥ समङ्गापातकीपुष्पक्षीरलोध्रमहोत्पलैः। न गर्भो निपतेत् पीतै तिमात्रजलस्थितैः ॥२१॥ पीता क्षीरेण सक्षौद्रा कुलालकरमर्दमृत् । सहसा प्रतिबनीयादर्भध्वंसं न संशयः ॥ २२ कर्कटीमूलसंसिद्धं क्षीरं शूलहरं परम् । गर्भिणी तु वलाकाथसिद्धं सायं प्रगेऽपि वा ॥ २३ ॥ क्षीरपिष्टमवलाऽक्षकं पिवेदेवदालिकुसुममोद्भवं रजः । शीघ्रमेव सुखमूतिमावहेन्नास्त्यतः परतरं तदौषधम् ॥२४॥ गर्भिण्याः सुखमूत्यर्थं किमन्यैर्मन्त्रभेषजैः। सहस्रप्रस्थमम्ब्बाशु मेयं पुत्रस्य मातुलैः ॥ २५ ॥ कारस्करास्थि सलिलेन विघृष्य लिम्पे- नाभौ मुखप्रसवकाङ्कितसुन्दरीणाम् । १ 'गर्भभ्रंश' इति पाठान्तरम् ।
त्रयोदशः पटलः। तद्विपं च करपादतलेषु वाले जाते तमाशु सलिलैः परिशोधयेच ॥ २६ ॥ वारिघृष्टं विशालाया मूलमाज्येन संयुतम् । अधोमुखमधो नाभौ लिम्पेत्सद्यः प्रसूतिकृत् ॥ २७॥ परूपफलिनीवासाकाकमाचीशिफार पृथक् । पिष्टा नाभेरधो लिप्सा गर्भनिष्कामणदाः॥ २८ ॥ पकं तिलोद्भवं नार्या विशल्यास्वरसेन च । हन्ति गर्भापरासङ्गं गुह्यनाभिकरागिम् ॥ २१ ॥ प्रपुन्नाटशिफा गाढं क्षुण्णा योनौ धृता भवेत् । क्षुण्णा सतैलवर्षाभूशिफा च मुखमूत्तिदा ॥३०॥ तद्वन्मूर्धनि विन्यस्ता द्वित्रा स्नुक्क्षीरबिन्दवः । वचोग्रातिविपासर्पनिर्मोकै—पनं भगे ॥ ३१ ॥ करजतैलसंयुक्तैर्गर्भमाश्चेव पातयेत् । करवन्द प्रयत्नेन गोमूत्रोपरि वेश्मनः ॥ ३२॥ स्थापयेतेन जायेत गर्भशल्यविनिष्क्रमः । स्वरसेनेषुपुङ्खाया कृतान्मधुकरस्य वा ।। ३३ ।। नस्यान स्याद्यं स्त्रीणां मूढगर्भसमुद्भवम् । पुटदग्धाऽहिनिर्मोकमषीक्षौद्रेण चाक्तदृक् ॥ ३४॥ सहसैव विशल्या स्यान्मूढगर्भाऽपि गर्भिणी ॥ ३ ।। सिद्धार्थार्जुनपुष्पगुग्गुलुवचालाक्षामयूरछदैः केशोशीरभुजङ्गशुक्तिसहितैषूपो गृहे निर्मितः । स्त्रीणां संगति मूढगर्भजनितां बाधामहिश्चिका- नाखून् भूतगणान् पिशाचनिकरान गेहानिरस्यत्यलम् ।। पीतं पुष्पलतापत्रं पिष्टं तण्डुलवारिणा । अपरां पातयेच्छालीमूलं मूत्रेण वाऽथवा ।। ३६॥ १ 'गर्भाशयवराङ्गगम्' इति पाठान्तरम् ।।
वैद्यमनोरमा:। चर्म पूतिकरञ्जस्य वायसोदुम्बरस्य वा। ! पिष्टं तुषाम्बुना पीतमपरां पातयेत् क्षणात् ।। ३७॥ अपथ्यादैवयोगाद्वा जातं मूढं भिषग्वरः। तत्तल्लक्षणमालोच्य क्षणानिधिमाहरेत् ॥ ३८ ॥ कुक्षौ वातेन धृतो गर्भो वर्षाद्रिकारकारी स्यात् । तत्र क्षीरं प्रपिवेत् सघृत कोष्णं करोति सुखसूतिम्।।३९॥ पिष्ट्वा लिप्ते योनौ मूले खरमअरीपुनर्नवयोः । नवस्तायाः शूलं योनिगतं सकलमपनयतः ॥ ४०॥ सूतायाः कृशमुदरं पीतं तक्रेण मालतीमूलम् । मधुघृतपिष्टं व्योषं करोति धात्रीरसो निशया ।। ४१॥ प्रमूतिसमये यस्या न स्रवेद्रुधिरं ततः। शूलं स्यालशुनं गन्धलक्ष्मी च भक्षयेत् सुखम् ॥ ४२ ॥ मृतायाः पृष्ठकट्यादौ शोफः स्याद्यदि पाययेत् । मयूरमूलपथ्याभ्यां सिद्धमम्बु दिनत्रयम् ॥ ४३ ॥ कृसरां सघृतक्षीरां शर्करामधुसंयुताम् । स्तन्याभिवृद्धये धात्र्या भोजनं परिकल्पयेत् ॥४४॥ यष्टीमधुकसंयुक्तं गव्यं क्षीरं सशर्करम् । पीत्वा धात्री भवेद्भरिस्तन्यापूर्णपयोधरा ॥ ४५ ॥ दुग्धेन मूतया पीतं शालितण्डुल रजः। बिदारीकन्दचूर्ण वा प्रभवेत् स्तन्यद्धये ॥ ४६॥ कुमारीरात्रिकन्दाभ्यां विशालाशिफयाऽथवा । स्तन्यदोष समुत्पन्नं हन्याल्लेपेन तत्क्षणात् ॥ ४७॥ कुर्वते यदि सूताया व्याधयो वेदनां भिषक् । कुर्यात्तत्तत्पतीकारैश्चिकित्सां शास्त्रकोविदः ॥ ४८ ॥ एकादश्यां प्रभाते शिशिरतरजलैमिश्रितैरुष्णतोयैः स्नातो वालश्च मात्रा सह हितमचिरादेहशौचं च कुर्यात् । .
चतुर्दशः पटलः । ३५ शङ्ख ववेऽथ सूत्र कटितटनिकटे नेत्रयोरञ्जनं च द्वादश्यां सन्मुहूर्ते शकटनिरसनं नामधेयं च कुर्यात् ॥४९॥ दैवज्ञस्याज्ञया यत्र. बालो जातो. निकेतने । शकुनं तस्य निक्षिप्तं तस्य रोगहरं विदुः ॥ ५० ॥ अन्नप्राशनकालात् प्राङ्मुण्डनानि न कारयेत् । भस्मसिद्धार्थको तस्य मस्तके निक्षिपेत् सदा ॥५॥ इति श्रीवैद्यकालिदासविरचितायां वैद्यमनोरमायां गर्भिणीचिकि- त्साधिकारो नाम त्रयोदशः पटलः । अथ बालचिकित्साधिकारो नाम चतुर्दशः पटलः । जाताः केचिच्छिशवः क्लान्ताः स्युओर्गसङ्कटतः । शीतसलिलसंयुक्तैस्ताम्बूलैर्वीजयेद्वदने ॥ १ ॥ जातस्य पञ्चमदिने शुभदे मुहूर्ते पञ्चायुधाभरणधारणमिष्टमाहुः। श्रीगोकुले मुररिपोरिव नन्दगोपो रक्षां च बालजनको भसितेन कुर्यात् ॥ २ ॥ विधाय वेधाः प्रथमं नवानि द्वाराणि गर्भे सति किल्विषेण । पूर्वेण पश्चात पिदधाति पश्चादग्रेण शस्त्रस्य भिषक् प्रकुर्याद(?)३ निष्ठीवे जृम्भायां दृक्स्पर्श शौचं च सन्ध्ययोः कुर्यात् । लवणारिष्टच्छदनैः परिस्तरेदुपरि बालस्य ॥ ४ ॥ तुषमपीतिलजोदनपत्रकैः सहितपात्रयुतोदकदर्शनम् । सपदि दृष्टिविषं विनिहन्ति तत्रिनयनाभरणं भसितं यथा ॥६॥ यो गजेन्द्रविषाणाग्रलग्नमृत्समुपेतया । पुण्ड्रो रोचनया क्लप्सः सर्वग्रहविमोक्षणः॥६॥ छदिर्भवेद्यदि पयः पिवतोऽर्भकस्य वक्के मुहुर्वदनमारुतफूत्कृतेन ।
वैद्यमनोरमा ।
शीतोदकेन तु जयेज्जननी तु गण्डे
तं पाययेद्विपममङ्गुलिताडनेन ॥ ७ ॥
हायनत्रितयादृर्व स्तन्यं पिबति यः शिशुः ।
निवर्तयेत् क्रमान्निम्बपत्रलिसात् पयोधरात् ॥ ८॥
शूलानाहातिसारात साटोपं जठरं शिशो।
बिन्दुभिर्बहुभिर्व्याप्तं दहेत् सूक्ष्मशलाकया ॥ ९ ॥
क्षुतः संजायतें यस्य मध्ये भुक्तस्य यस्य वा।
गात्रे कम्पप्रभो वातस्तावुभौ प्रोक्षयेज्जलैः ॥१०॥
रात्रौ जल्पति यो बालो दन्तान् संघट्टयेत्तथा।
तावुभौ भवतां शम्भोः प्रदक्षिणपरौ निशि ॥ ११ ॥
यो मेहति कटे मूत्रं रात्रौ स्वमे दिने दिने ।
बालः कृष्णावतारस्य विष्णोः पादोदकं पिबेत् ॥१२॥
क्षीरे वा सर्पिषि वा मूनि गते सति शिशोः प्रमादेन ।
मूर्धनि रोमावर्ते धमयेन्मुखवायुना जननी ॥ १३ ॥
प्रमादात् पतितं बालं पालयेत् पादपांसुभिः ।
मृत्पिण्डेन ततो मूनि त्रिः परिमृज्य प्रोक्षयेत् ॥ १४ ॥
वालगात्रे प्रमादेन क्षुतोद्भूतजलाणवः ।
पतन्ति चेत् क्षणादेव त्यजामीति वदेत् क्षुतम् ॥ १५ ॥
अनवधानतया गृहमार्जनी स्पृशति यद्यपि गात्रमथ क्षणात् ।
शिरसि दीपशिखा च शिशोः क्षणात् कनकपात्रजलेन विशोधयेत्
भीहेतुकस्य च निरीक्षणमात्रभीत-
बालस्य फालनिहित भसितं शिवाय ।
धाराधरस्य परुषध्वनिनाऽतिभीत-
बालस्य चार्जुनकथाश्रवणं सुखाय ॥ १७ ॥
घण्टां कटीपदेशे च कण्ठे मूनि करे क्रमात् ।
वचानिम्बेन्द्रवल्लीनां मणीन् बालः सदा धरेत् ॥ १८ ॥
पञ्चदशः पटलः । नोद्वेगमस्य जनयेन्नैनं कचिदप्यपास्य गच्छेद्वा । अन्यस्तनहस्तासनशयनादपि परिहरेदेनम् ॥ १९ ॥ पूतीकशुक्तिकापागमुस्ताकाथे शृतं घृतम् । पञ्चकोलयवक्षारैरामातीसारनुच्छिशोः ॥ २० ॥ स्तनन्धयस्य बालस्य हिक्का स्याधदि वेगिनी। मूनि वक्षसि चाभ्यङ्गं कृत्वा तृणकणं क्षिपेत् ॥ २१ ॥ प्रसारणीकल्ककपायसिद्धं तिलोद्वं नाचनपानलेपैः। हिक्कां निजां नाशयति त्रिमासात् पौलस्त्यलक्ष्मीमिव रामभद्रः ।। सव्यापसव्ययोगेन जिह्वां दन्तायोबहिः । प्रवर्तयेदयत्नेन सायं प्रातस्तु वाग्भवेत् ॥ २३ ॥ महोशशृङ्गसंलग्नमृगोरोचननिर्मितम् । तिलकं भूतवेतालकूष्माण्डादीजयेच्छिशोः ॥ २४ ॥ रात्र्युग्राफणिनिर्मोकहिङ्गुनिम्बच्छदैः कृतः । स्यात्सिद्धोऽयं महाधूपो डाकिन्यादिप्रतिक्रिया ॥ २५ ॥ मजिष्टाद्विनिशाकुचन्दनव चाहिङ्गुभियमुद्रुम- व्योपारम्बधजीरकारविवराभार्गीकरआस्थिभिः। पिष्टैराजजलेन हन्ति रचिता वतिः समस्तान् ग्रहान् स्नानोदर्तनपानलेपनविधौ धूमे च संयोजिता ॥ २६ ॥ ग्रहपीडितवालस्य ष्टीवनं च क्षणाद्भवेत् । कुर्यात्तत्पार्श्वयोः शीघ्र भेदं वै कसभाण्डयोः॥२७॥ इति श्रीकालिदासबैद्यविरचितायां वैद्यमनोरमायां बालचिकित्साधिकारो नाम चतुर्दशः पटलः । अथ भूतग्रहाधिकारो नाम पञ्चदशः पटलः । उपसि पयसि पीतं पुण्डरीकस्य मांसं जयति मनसिजातोपद्रवोन्मादतापान् ।
३८ वैद्यमनोरमा । जनयति तनुपुष्टिं तद्धि मांसादमांस किमुत बलकरत्वं तस्य सद्योहतस्य ॥१॥ मधुमधुकमागधीनां खजूरशतावरीकशेरूणाम् । सविदारीणां कल्कः पानादुन्मादमणहरति ॥ २ ॥ पुण्ड्रेक्षुकाण्डरेणुस्तु सस्तन्यस्तुल्यशर्करः । न्यस्तो प्राणमुखे सद्यः सर्वोन्मादविनाशनः ॥३॥ रेणुः क्षीरेण संयुक्तः कर्णिकारप्रसूनजः । उन्मादपीडिते नस्य मात्रया रचितो हितः ।। ४ ।। द्राक्षाब्दयष्टीमधुकरवरहिमकणाम्भोभिः । स्तन्यमधुघृतसितेनुस्वरसेनोन्मादनाशः स्यात् ।। ५ ॥ षोडशगुणकृष्याडस्वरसे साधितं घृतम् । यष्टिकल्कं प्रगे पीतमुन्मादापस्मृती जयेत् ॥ ६ ॥ पानाभ्यअननस्यायैः पीतमत्युल्वर्ण जयेत् । धात्रीस्वरससंयुक्तमाज्यं हैव्यङ्गवीनवत् ॥ ७ ॥ ब्राह्मीस्वरसे सिद्धं कुष्टवचाशङ्खपुष्पिकागर्भे । आज पीतं सपिः सर्वापस्मारदोपत्रम् ॥ ८ ॥ श्रीवासागरुदारुप्रियङ्गुवंशत्वंगोतुविट्कुष्टम् । साज्यं पिष्टमजाया सूत्रेण च्छायया शुष्कम् ॥९॥ तैपो ब्रह्मासहो नाम्नाऽपस्मारराक्षसपिशाचान् । भूतग्रहांश्च सर्पान ज्वरं च चातुर्थकं हन्यात् ।। १० ।। सौभाग्यविहीना या पुष्पपीडिता च या भवेनारी। यासां मेहो भवति तासां च हितो भवेद्धपः ॥ ११ ॥ एतद्धपविधानमन्त्री मन्त्र जपेदेतम् । मन्त्रोऽत्र द्वितरणये स्वाहेति प्रणवयुक् पूर्वम् ॥ १२ ॥ सह्यं यावद्भवति बहुशस्तापयित्वा सुतापं स्तन्यं प्रातः सुनिपुणभिषक् पाययेद्धान्तचित्तम् ।
षोडषः पटलः । साज्यक्षीरं दशदिनमपि क्षीरमेवं प्रपीतं स्तन्ये घृष्टं कतकतरुणं पाययेत् स्यात्सुखाय ॥ १३ ॥ द्वन्दं बलांशुमत्योश्च बृहतीगोक्षुरस्य च । द्वात्रिंशनिष्कमेतेषां क्षुण्णं प्रत्येकमाहरेत् ॥ १४ ॥ द्रोणार्क सलिले विस्वा पादशेषे विपाचिते। अमृतास्वस्तिकवरीसूर्वाकन्यारसं पृथक् ।। १५ ।। कुडवं कुडवं दत्त्वा बिसात्तौङ्गमात् फलात् । कदलीकन्द साराच प्रत्येकं कुडवार्धकम् ॥ १६॥ दत्त्वा कल्याणकाख्यस्य घृतल्यौषधकल्ककम् । तस्मिन्द विशालां हित्वा च हयगन्धा समावपेत् ॥ १७ ॥ शीराढके यथाशास्त्रं घृतप्रस्थं विपाचयेत् । उन्मादापस्मृती हल्यात पित्तमत्युल्वणं तथा ॥ १८॥ धीमेधास्पतिकञ्चव दाहतपणाहरं परम् ।। इति श्रीकालिदासवैद्यविरचितायां वैद्यमनोरमायां भूतग्रहाधिकारो नाम पञ्चदशः पटलः খারাকাল্পনিখার্জিাম্বিন্দা नामः षोडशः पटलः । तुत्थस्यातपपकस्य गोमूत्रे च रसक्रिया। कुणकादिवत्मोत्थरोगराजिविनाशिनी ॥१॥ अक्षिकूटे कफाकारं छित्त्वा मेदः समुद्धरेत् । वर्मरोगविनाशाय पिल्लादिशमनाय च॥२॥ विष्य करभौ प्रायः स्वेदयेन्नयने मुद्दुः । पिडका वर्मसंजाता नाशमायान्त्यसंशयम् ॥ ३ ॥ १ वराविशालावृद्धैलादेवदावेलवालुकैः । द्विसारिवाद्विरजनीद्विस्थिरा- फलिनीनतैः ।। बृहतीकुष्ठमञ्जिष्टानागकेशरदाडिमैः । वल्लतालीसपत्रला- मालती मुकुलोत्पलैः ॥ सदन्तीपझकहिभैः कर्षांशः' इति कल्याणघृतक- कद्रव्याणि । ..
बैद्यमनोरमा । चूर्ण नरास्थिजं स्तन्यैः कास्ये धृष्ट प्रलेपयेत् । नयने बहिरन्तश्च कुकूणादिहरं परम् ॥ ४॥ तुत्थाभयाफेनशिरकपालैर्जम्बीरसारे मसणं अपिष्टैः। पतिः कृता स्तन्यविधर्षिता स्यात् पिल्लामपूयालसपोथकिता! त्रिफलाकल्कमध्यस्थं परिदग्ध तुपानले । तुत्थं तुषाम्भसा पिष्टं वर्मरोगविनाशनम् ॥ ६॥ पलाशक्षक्षतजं ससैन्धवं गौडीपिशाचीस्वरसेन पिष्टम् । सौद्रेण चन्द्रेण च संयुतं द्राग्विनाशयेद्वर्त्मरुजं च तीब्राम् ।। ७ ॥ असितपललचूर्ण प्रश्नचिञ्चामयाभ्यां समधरणधृताभ्यामल्पतीक्ष्णान्विताभ्याम् । नरसलिलयुताभ्यां मातुलाभ्यां मुरारे- महणतरमपि पिष्टं वर्त्मरुङ्गाशनाय ।।८।। वेतपूलासमूलत्वकल्कैश्चिञ्चाम्लकेन च । वणेषु तापरागौ च चिञ्चापुष्पोद्भवर्जयेत् ॥ ९ ॥ पिष्टं कंसद्वयाघुष्टं स्तन्ययुक्तं दृगतिनुत् ॥३॥ कानिकायससंपिष्टं कंसाभ्यां घर्षितं वहिलिप्तम् । चिञ्चास्थ्यङ्कुरमचिराद्धालस्य कुकूणकं जयति ॥ १० ॥ अन्तर्बहिनयनयोगिरिकर्णिकायाः पुष्पं गवां पयसि पेपितमर्भकाणाम् । संयोजयेशनजन्मनिदानभूतं रोग कुकूणकमपोहति शीघ्रमेव ।। ११ ॥ मस्तुना सह ताम्रस्थं मधुकं स्यात् कुकूणके। सैन्धवं च तथा पथ्यातण्डुलं मस्तुघर्षितम् ॥ १२ ॥ असन्तपककदलीफलमार्जनेन दाहानरागशमनं भवति क्षणेन। 'कंसाभ्याम्' इति लक्षणया ग्राह्यम् । २. 'भवतीक्षणानाम् । इति पाठान्तरम् । .. १ षोडशः पटलः । सीमन्तिनीपयसि मेघरवस्य मूलं संघृष्य तेन परिषेचनमुत्तमं च ॥ १३ ॥ इक्षुमूलमधुकाअनदाीलोघ्रगैरिकपटुत्रिफलानाम् । लेपनं बहिरिदं नयनानां क्षीरपिष्टमपहन्ति विकारम् ॥१४॥ आतपालोकपीतानां सबाप्पाणां सहोष्मणाम् । समेघनादयष्टयाहू स्तन्यं सिञ्चेदिनत्रयम् ॥ १५ ॥ सविसं सविदारि सोत्पलं ससिताकंसकशेरुचन्दनम् । मधुकेन समं त्वजापयः परिषेकेण हगामयाञ्जयेत् ॥ १६॥ रोहिणीतुत्थकलारोत्पलकेसरनिर्मिता। वटी दाशितेनापि पित्तामवणनाशिनी ॥ १७ ॥ त्रिफला मधुकेन संयुता कतकेनापि सदारुरात्रिणा। नयनामयजित् , सुसेकतः सलिलं तुङ्गतरोविपाचितम् ॥१८॥ प्रस्थे पयसि संपकं गवां पथ्याचतुष्टयम् । आपनं लेन संपिष्टं बहिलिप्तं दृगतिनुत् ।। १९ ।। बाष्पस्वेदेन दुग्धस्य गवां नेत्रातिनाशनम् । स्यादेरण्डशिफासिद्धपयसाऽऽश्योतनं तथा ॥ २० ॥ मेघनादशिफासमानतडागशुक्तिशतं पयः । सेचितं च निहन्ति तोदमसामक्षिभवं नृणाम् ॥ २१ ॥ तत्फलं घृतभर्जितं परिपेषितं निशि क्षिपेत् । सत्रणेऽक्षिण निर्बणं भवति क्षणात्रिचतुर्दिनैः ॥ २२ ॥ चिचापत्रस्वरसं पयसा संयोज्य घर्षितं कस । लिसं बहिर्नयनयोः शमयति रागाश्रुतोदसंरम्भान् ॥ २३॥ कन्यास्वरससंपिष्टा त्रिफला सप्तवारकम् । पुनस्तस्याः पुटे स्विन्ना सक्षौद्रा नेत्ररोगहा ॥२४॥ १ आपनं मरिचम् । २ तस्य पूर्वश्लोकस्थस्य मेघनादस्य फलं तत्फलम्। ११
.
वैद्यमनोरमा ।
ম্মিাক্সাস্ফিীলিঙ্কাকান।
तुन्थमथै भिरियं गुटिका द्राक्षेत्रगतामयहा जलपिष्टा ।। २५ ।।
दा-वल्कलसैन्धवाजनकणातुत्याधिफेनोषणे-
यष्टीताम्रसमन्वितैः सुमणं क्षौद्रेण पिष्टैः कृता ।
हाथा इन्ति रसक्रिया नयनयोः पिल्लादिवमियान
मोदलावनिशान्ध्यशुकतिमिराज्यन्यांश्च नेत्रामयान् ॥२६॥
दुग्धपात्रपकमर्कबीजमाशु नाशये-
दन्धकारमक्षिसंभवं नृणां सुनिश्चितम् ।
तद्रदेव शुक्लपुष्पमुष्टिमूलमप्यलं
ताम्रपात्रघृष्टमम्लकालिकाच्छचारिणा ॥२७॥
परिणतनक्तमालतरुवल्करजः कुडव
कुडवमथोषणस्य लिकुचस्य फलस्वरसम् ।
द्रिकुडवमाढकेन पयसा च गवां सहित
दिवसमुखे विशुद्धकलशेऽथ मुसंस्क्रियताम् ॥२८॥
अन्येधुबहुशः खजेन मथितातस्माद्गृहीत्या रस
प्रक्षाल्य प्रबलेन कंसयुगलेनाकाष्र्ण्य भावं शनैः।
संवृष्येन्दुविमिश्रितं तिमिरजित् स्यादञ्जितं स्वल्पशः
सायंसीसशलाकया प्रतिदिनं नाम्ना विदं भास्करम् ।
पिण्यलदलकुवलयदलमास्येन चर्वणं चिरं कृत्वा ।
दृढधवलाम्वरनिहितं सिञ्चेशि तिमरनाशाय ॥ ३० ॥
अश्वथपत्रकुवलयदलचन्द्रैः कृता गुटिका ।
तिमिरापहा प्रसिद्धा भास्करकिरणादलीय दिवसमुखे ॥३१॥
सितगिरि कर्णिकापुष्पानन्द्यावर्तस्य पुष्पाच्च ।
स्वरसेन तालवृन्तात् स्त्रीस्तन्येनापि मुमत्रणम् ॥ ३२॥
दृषदि पिष्ट केशक्षारं मधुना निशया च संयुक्तम् ।
नेत्रे निषिच्य नचिरात्तिमिरातों भवेद्भावान् ॥ ३३ ॥
षोडशः पटलः ।
१३
चिञ्चास्वरसनिघृष्टं मरिचं सायन्तने तथा साज्यम् ।
अक्षिनिषितं शमयति कण्डू तिमिरं च शवोत्यम् ॥ ३४ ॥
यन्मातुलुङ्गपिचुमन्दवराकरज-
जम्बीरशिगुफलबीजरजा प्रगृह्म ।
चिञ्चाफलाम्लरसमर्दितमातपातं
तैलं जयेत्तिमिरमिन्दुविमिश्रितं द्राक् ॥ ३५ ॥
मूल पालंक्यायाः कृष्णामडौ च तुरगगन्धायाः।
मूलं पृथक् पृथक् स्याभिक तुत्थं चतुनिष्क्रम् ॥ ३६ ।।
जम्बीरसारपिष्टा गुटिकेर नेत्ररोगतिमिरहरी।
दिनावसाने रुधिरं पलाशादादाय नेने सहसव दद्यात
नक्तान्थ्यमाश्वेव विजित्य जीवेचन्द्रात चाक्षरवाचक: स्यात् ।।
खद्योतैः सह भलितं दिनमुखे रम्भाफलं नाशय-
अक्तान्ध्यं तिलजोषणाक्षतयुतैः कोशातकीपाल्नैः ।
सिद्धं तद्वदपूपमन्यदपि तज्जम्बृपवालान्वित
स्विना छागशकृत्कणोषणहविःसिद्धा बरिष्ठा तथा ३८
लूतस्य वृत्तधवलं गृहमाशु किञ्चि-
द्रष्ट रसेन तलपोटभवेन(?) पिष्ट्वा ।
कंसदयेन महिपीनवनीतयुक्तं
पिल्लापह बहलवायविलेपनेन ।। ९ ।।
पथ्यातुङ्गजलेनैव पिष्ट्वा स्फटिकजं रजः ।
महिषीनवनीतेन कंसवृष्टं तु पिल्लजित् ।। ४० ॥
धर्माध्वगतसुजातं लवणं संगृह्य पाणिनाऽऽक्तना।
लिकुचरसक्षौद्राभ्यां कंसे संघृष्य योजयेत् पिल्ले ।।४१।।
मधुपिष्टो लवणमलो माहिपहव्यङ्गवीनसमभागः ।
पिल्लजिदाजविषाणं तद्वत्तेनैव लेपितं दृषदि ॥ ४२ ॥
वैद्यमनोरमा । वाऽर्कतूलकृतया शशविट्चूर्णन पूरितोदरया। दीसादीपादाप्ता मुष्णाति मपी च पिल्लगदम् ।। ४३ ।। पटुकुनटीवरटीगृहमागधिकाजातिकुमुमरजनिरजः । पिल्लं हरेनिघृष्टं क्षौद्रयुतं कांस्यताम्राभ्याम् ।। ४४ ॥ पोत्रीकरभयोर्दन्तं हृदयास्थि च कुकुटात् । कपाल कूर्मजं स्तन्यैः पिष्टं समधु पुष्पहा ॥ ४५ ॥ नयनजनितपुष्पं यक्षपल्लवस्य स्वरसमपनयेगाग्वासरान्ते निषितम् । सिकततृणकणादीन् पातयत्यक्षिगान द्राक सपदि सुपरिजग्धं तत्र पत्तूरमूलम् ।। ४६ ॥ तृणादि कीटानि तथैव वालुका यदृच्छया नेत्रगतानि चेत्तताः । क्षणेन निष्ठीवनमुत्तमं विदुः किमौषधैः स्तन्यनिषेचनादिभिः ।। अनलेन सुतप्तमृत्सुपिण्डात्स्तनजाक्ताजनितः स बाष्पयोगः । अभिघातसमुद्भवं विकारं नयनस्याशु विनाशयेदवश्यम् ॥४८॥ निरुक्छोफो भवेन्नेत्रे दहेत्सपदि माक्षिकैः नवं कपाल कापित्थं मुहुलिम्पेल्सनागरम् ।। ४९ ।। तामलकी नेत्ररुज पिष्टा स्तन्येन ताम्राक्ता। सैवाक्षिरोगमभिनवमपनयति विलेपनान्मृति ॥ ५० ॥ संचूर्णित तैलसमन्वितं च विघट्टितं माधवमातुलाभ्याम् । निष्पीड्य वस्त्रेण निषेचनेन पटुः पटु स्यान्नवनेत्ररोगे ।। ५१ ।। नवनवनीतसनाथं कल्कं कृष्णारिमेदपत्रोत्थम् । बहिरालेपेन जयेदर्मादीनश्रुतोदशोफाढ्यान् ।। ५२ ।। वासादलकाधिकया वासः पीतो दृशि स्पर्शात् । अर्माश्रुतोदकण्डरागोच्छूनादिजित्सहसा ॥ ५३ ॥ १ 'पटुः समर्थम्।
षोडशः पटलः।
मरिचतैलमहौषधदुग्धमित्युभयमर्पितमक्षिण पृथक् पृथक् ।
कफमरुद्भवनेत्रविकारान्मदनवाणविकारमिवात्मवान् ॥५४॥
निशास्वरससंसिक्तचेलपवणपाणिना।
परामशेदभिष्यन्दजातमझु मुहुर्मुहुः ॥ ५५ ॥
तुत्थमामलकफलत्वमरिचं श्रुतिसागरेन्दुसमभागम् ।
जम्बीरसेन पिष्टं सक्षौद्रं चक्षुषोर्जयेद्रोगम् ।। ५६ ॥
मरिचं श्वेतपूलासं हंसपादी च तुत्थकम् ।
एकद्वित्रिचतुर्भाग निमिना गुप्तभाषितम् ॥ ५७ ॥
चिञ्चापत्ररसे पिष्टा साक्ष्यक्ष्यामयापहा ॥३॥
कदलीमूलगृजनयुगलाईकलशुनकन्दसंभूतम् ।
अम्बु निहन्ति कदुष्णं कर्णरुजं कर्णपूरणतः ॥ ५८ ॥
बर्बरीमूलनि!हे छागमूत्राम्भसाऽपि च ।
त्रिसिन्धुरादिभिर्दना तैलं सिद्धं युतिं जयेत् ।। ५९ ॥
कृतमालफलत्रिशूलिपादैः स्वरसे तस्य च दुग्धसार्वसिद्धम् ।
तिलजं श्रुतिशूलपूयकण्डूक्रिमिजालं विनिहन्ति शीघ्रमेव ॥६०॥
चिञ्चाफलस्वरससाधिततैलमय
जम्बीरनीरशृततैलमपि प्रशस्तम् ।
भूनागसर्जशृततैलमतीव शस्तं
कर्णे सशूलिनि रहस्यपराङ्मुखे च ॥ ६१ ॥
वामे पाणौ गृहीत्वा सतिलजलवणान्यर्कपत्राणि वैद्यः
सोपानोत्सेधरूपं हुतवहहतया लोहयष्टया च दीर्घम् ।
कर्णे नीत्वा तदुत्थैर्जलकणनिकरैः पूरयेत्कर्णशूले
हा हेत्युक्त्वा प्रधावन्त्यहमहमिकया शेषरोगाश्च तत्स्थाः ।।
तैलं दुग्धं पयो वापि संशृतं श्रवणे क्षिपेत् ।
सपूयपूतीन जन्त्वादीन जयेदामथापि वा ॥ १३ ॥
. वैद्यमनोरमा । लिकुचफलेऽल्पं लवणं निक्षिप्य विघृष्य तत्स्वरसम् । त्रिदिनं अवसि विदध्याच्छल पूयं च नाशयति ।। ६४ ॥ महिषीनवनीतेन जलौकाहयगन्धयोः । चूर्ण संमिश्य संपर्क पीतं कर्ण विवर्षयेत् ॥ ६५ ॥ महिषीनवनीतयुतं गोशृङ्गवचाश्वगन्धबहुमूलम् । दिनकरतप्तं कुर्यादंसस्थललम्बिनो कर्णौ ॥ १६ ॥ कबरीशुष्कलाङ्गूलवासितं तिलगं शिशोः । कर्णावं जयेत्तूर्णं कुलीरवसया यथा ॥ ६७ ।। कत्रयसमानांशा व्रणनी पीनसापहा । कषायचूर्णलेहाथैः सेविता निशि लादरम् ।। १८ ।। मण्डूकपर्णीमरिचकुलत्थैः साधु साधितः । कपायः पीनसार्तिनः कोष्णाम्बुपिवतां नृणाम् ॥ ६९ ।। दुग्धार्कपत्रभूतिर्महिषीनवनीतमिश्रिता लिया । दन्तच्छदजातानां रोगाणां नाशने शस्ता ।। ७०॥ हिमाम्बुपरिपातेन संजातमधरत्रणम् । निशि प्रशमयेन्नाभिस्तैलेन परिपृरिता ॥ ७१ ॥ चूर्ण हरितमार्याः सविश्वं श्लक्ष्णमर्दितम् । अन्तर्बहिश्च नद्वक्त्रं लिम्पेद्दन्तरुजापहम् ।। ७२ ॥ बकुलजटाभवकल्कः पयसा पीतः प्रगे त्रिदिनम् । दृढतरमूलान कुरुते दन्तान् वृद्धस्य किमुत बालानाम् ॥७३॥ बाणपुङ्खशिफा क्षुण्णा दन्तमूले श्रिता जयेत् । दन्तरोगांस्तु यावत् प्राक् दन्तधावनमन्वहम् ।। ७४ ।। गाढताडनविलुप्ततण्डुलैस्तुल्यभागलवणं मुखोदरे । धारयेहिनमुखे मुखामयं वासरत्रितयसेवितं जयेत् ।। ७५ ॥ १ 'शुण्ठीमरिचकृष्णाभिस्तुल्याभिः साधु योजितम् । समीरितं भिष- श्रेष्ठेख्यूषणं च कटुत्रयम् ॥'
षोडशः पटलः । निष्ठीवेद्विष्टिते मोहात्तच कण्ठरुजापहम् । गोमयेष्ठीवनं कुर्यात्तत्र मुस्तां च भक्षयेत् ।। ७६ ॥ मूलमपराजितायाः समरिचमास्यस्थमाशु शूलहरम् । तद्दलमपि दिवसमुखे कुवलयपपि बोधिपत्राख्यम् ॥ ७७॥ सह शुण्ठीपूगफलैर्वा मरिचगोमूत्रनालिकेरजलैः । कथितैरधिजिहादीन कवलो विहितः प्रणाशयति ।। ७८ ॥ नेत्रप्रक्षालनात् पूर्व प्रातर्गण्डूषधारणम् । आस्थलूताविनाशाय केतकं ष्टीवयेध्यहम् ॥ ७९ ॥ आस्यपृष्टं ग्रासमाज्येन मिश्र रात्रौ दद्यान्मद्यपायी त्रिरात्रम् । लूतं हन्यादास्यजं यत्र यत्र प्रादुर्भूतं तत्र तत्रैव तद्वत् ॥ ८०॥ गण्डीराख्यज्वलनहपुषावाणपुङ्खाशिवाण- शौण्डीमूलैः सममिति समविश्वमेषां कषाये। सिद्धं तैलं वदननिहितं वक्करोगानशेषा- नेलाशुण्ठीमगधमरिचोद्भतकल्कं निहन्ति ॥ ८१ ॥ सर्पिस्तु नसि विन्यस्तं मधुकेन समायुतम् । शिरोति हन्ति स्वेदो वा पायसान्नेन मूर्धनि ॥ ८२॥ मरिचस्य हरिद्रायाः शुण्ठ्या वा रेणुभिः कृता गुलिका। तैलाक्ता संलिप्ता ललाटपट्टे शिरोरुजं हन्यात् ।। ८३ ॥ वातपित्तजनितं शिरोरुजं नाशयेन्मधुककल्कसाधितम् । नालिकेम्पयसा शृतं त्विदं तैलमर्दितहरं च नावनात् ।। सकृज्जिघ्रति विश्वोग्राभस्मजातरजांसि यः। शिरस्तोदभवं दुःखं न जानायव निश्चितम् ॥ ८५ ॥ मर्यावर्ते नस्यं कुर्यात्स्तन्येन विश्वयुक्तेन । अथवा तस्यागमने मुजीत षड्सोपेतम् ।। ८६ ॥ १ 'अर्धावशिष्टे क्वथनात् क्षीरेऽष्टांशांश्च तण्डुलान् । पन्नातिद्रवधनं पायसाम्नमिदं स्मृतम् ॥
वैद्यमनोरमा । डिममधुकमधूकसेव्यगर्भ भुजगलतारससाधितं तिलोत्थम् । शिरसि रूजमपाकरोति कण्डूं कचशतनं च करोति हस्तकेशम् ।। वगया कायसंसिद्धक्षीरोत्थदविसाधितम् । सर्पिमेधुकसंसिद्धं नस्यादै मूर्घरोगजित् ॥ ८८ ॥ कर्दमे निखनेत् केशान तत्क्षणं शिरसि च्युतालू डुण्डुकीकृस (?) मुस्निग्धकेशभारभरो भवेत् ॥ ८९ ॥ रोमाणि जनयेङ्गरसो जित्वेन्द्रलुप्सकम् । चिञ्चामलकयोश्चापि काललोहसमन्वितः॥ १० ॥ अकोलवीजं द्वात्रिंशत्पलं सम्यक् पचेजले । द्विद्रोणे पादशेषे तु तैले तत्पतितं क्षिपेत् ।। ९१ ॥ प्रस्थोन्मितं वराकाथे काललोहसमन्वितम् । कालारिमेदसंभूतकाथप्रस्थेन योजयेत् ॥ १२ ॥ बकुलस्येन्द्रवल्याश्च कुमारीभृङ्गराजयोः । चिञ्चामलकयोश्चापि मालतीनालिकेरयोः ।। १३ ।। स्वरसं केतकाच्चैव, कल्कं दत्वा पचेत् पुनः । बिभीतकास्थिसंभूतं कुडवं, कुडवं तथा ॥ २४ ॥ गंणादेलादिकाचैव, तदभ्यङ्गे सुयोजितम् । केशानां दीर्घकृष्णत्वं करोति च निहन्ति च ॥ ९५ ॥ पीतत्वं पिअरत्वं च पलितं चेन्द्रलुप्तकम् । अश्विभ्यां निर्मित श्रेष्टकेशजन्मनि पूजितम् ।।१६।। पुराणभित्तौ सलिल मुहुः क्षिपन प्रमई मृवीं परिगृह्य तन्मृदम् । प्रलेपयेदरकामुके अणे ह्युपोदकीं वा सघृतां जंटी वा ।। २७ ।। १ एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकं स्पृक्काचोरकचोचपत्रत- गरस्थोणेयजातीफलम् । शुक्तियाघनखोऽमराह्वमगरुः श्रीवासकं कुङ्कुम चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम् ॥' इत्येलादिगणः ।। २-शर्टी' इति पाठान्तरम् । :
षोडशः पटलः अल्पद्यमानेषु कालां सिंञ्चेन्मुहुर्मुहुः । कुष्टेष्वपि जगत्यस्माद्रियते न महौषधम् ॥ १८ ॥ बाटीगेहसंयुक्तं चुगन्धासर्पगन्धयोः। मूलं तैले विपकं स्यादुत्पिन्मुद्रणनाशनम् ।। ९९ ॥ गुलजातमतिसुकटिनं नाशयति व्रणं चिरन्तनं चापि । स्वियं विमृश्य लिप्तं स्नुकपर्व पञ्चपैर्दिवसः ।। १०० ।। तिवारनालसंपका कुमारी पाचयेगुणान् । केवलाऽथ कुमारी वा पक्कापकविशङ्कितात ।। १०१ ।। आमेवाणच्यमाने वा पके वा कन्यकांत्रणे। स्विन्नां विनिर्गतात्रच निक्षिपेत्संप्रणश्यति ।। १०२ ।। कैडर्यस्वरसे सिद्धं तन्मूलच्छदरात्रिभिः । विगतैलं निहन्त्याधु ऋणान् दुर्गन्धदुर्जयान् ।। १०३ ।। तहहः पतितः पत्नैरश्वत्थोत्रशोषितैः। संचूर्णितनिपिष्टैश्च लेपेनाशु जयेद्णम् ॥ १०४ ॥ परिणतपरिशुद्धं पत्रसङ्घ कदल्याः प्रहरति परिकोयोद्भुतपूर्य व्रणानाम् । उपनहन विधानाल्लेपयेद्दोषहीनं तिलजमपि विपर्क क्षुद्रनाथस्य(?)पत्रैः ॥ १०५ ।। स्वरसे मवे च भृतं लिकुचनिशाभ्यां च मुरभिपुरुषाभ्याम् । लैलं लवणांशयुतं व्रणशुद्धिं विरोपणं च तत् कुरुते ।। १०६ ॥ लिन्तिण्यकोलवत्तरपुनर्नवशिफान्वितैः । भान्याम्लकथितैः पूर्व स्वेदयेत्तिलजैर्ऋणम् ।। १०७ ।। हरिद्राघातकीमूलवकृष्णामरिचोद्भवैः। चूर्णैर्युक्तं भवेत्ती व्रणे तान्तवसंयुतम् ॥ १०८ ।। १ 'लिम्पेत्' इति पाठान्तरम् । २ श्लोकद्वयमेतन्न दृश्यते केषुचित् पुस्तकेषु।
वैद्यमनोरमा निक्षिपेद्धहुशस्तैलं व्रणा रोहन्ति निश्चितम् । जीर्णं च नालिकेरस्य तैलं हन्यापूर्ण द्रुतम् ॥ १०९ ।। तत्क्षणपतितं कोष्णं गवां करीष व्रणं हन्यात् । मुनिषण्णकल्कलेपस्तद्वत् स्याच्छाकिनी च पटुयुक्ता १.१.० भूधात्रीमूलसिद्धं पयसि तिलभवं लेपनेनाशु हन्या- दुष्टं लावाड्यमुग्रं व्रणमणुसुपिरं दीर्घकालानुषक्तम् । दुग्धं न्यग्रोधवक्षोद्भवमपि निहितं जन्तुजालं व्रणेषु प्रातमध्यंगतेऽर्के दिवसपरिणतौ चाप्तशास्त्रोक्तमेतत् ॥१११॥ त्रणहानक्तमरिचैरेकार्धचरणांशकः। क्षुण्णैर्भास्करसंतप्तं तैलं सर्वत्रणप्रणुत् ॥ ११२ ।। स्तन्येन ममृणं पिष्ट पुष्पकुड्मलपल्लवम् । दुष्टत्रणेषु सर्वेषु युझ्यादेरण्डसभवम् ।। ११३ ॥ प्रणाशयेत् समं चैलं तैलाभ्यक्तं व्रणेऽपितमा । यामादभ्यक्तमुद्धृत्य भित्तौ लग्नं तु रोपयेत् ।। ११४ ॥ कुष्टोद्भवं व्रणमपोहति शीघ्रमेव कर्पूरतैलमसकृत् पिचुना निषिक्तम् । सारुष्करं तिलमहर्मुखभक्षितं च भक्तिर्यथा तिमिरवैरिपदार्पिता तम ॥ २१५ ।। प्रतप्य संचूर्ण्य तिलोद्भवान्विता पुराणकुष्ठवणहा हरीतकी । तथैव शाखोटकसंभवं पयः पुराकृतं पापमिवेश्वरस्मृतिः॥१.१६।। सद्योव्रणेषु सहसा विदधीत धीमा- नक्षीवपत्रतिलकल्कमथाज्यमिश्रम् । अत्रीत(?)भूमिरुहबल्कलकल्कमीप- दाज्येन युक्तमपि रोपयतीति सिद्धम् ।। ५.१७ ॥ चाङ्गेरीसहशैः पत्रैः सुनिषण्णश्चतुर्दलः । शाको जलान्विते देशे चतुष्पत्रीति कथ्यते ॥
जोडशः पटलः क्षुण्णं मुदितं लवणं सिञ्चेनिष्पोज्य तदनु बन्नीयात् । सोनणे त्रिदिवसं कुट्टितनिष्पावपल्लवं व्रणजित् ॥ ११८ ॥ दुर्वायाः खरमार्याः सोमराज्याश्च पल्लवैः । बनाति बन्धनं क्षुण्णैर्ऋणे शोणितनिःसृतिम् ।। १.१९ ।। अपामार्गदलालेपः सद्यो बन्नाति शोणितम् । अतिप्रवृत्तमप्याशु सेतुवन्ध इवोदकम् ॥ १२० ॥ अकिञ्चनानामधिपस्य पत्रं स्तन्येन संपेष्य समर्पयहाकू। सद्योत्रणे रोपणमाशु वाञ्छन् कल्कं च दद्यादथ किक्सिस्य ।। कुण्डलीकिसलयं ससैन्धवं नाशयेत्सपदिसंभवं व्रणम् । नाशयेदथ तिलोद्भवं तथा तेन सिद्धमपि नात्र कौतुकम् १२२ जीवन्तीवल्कस्य सारं संपेष्य लेपयेत्रिदिनम् । पिच्छिलभावाद्गूढं संपीड्य शमयेगुणं नियतम् ।। १२३ ॥ भृष्टतण्डुलमपी मुपेषिता स्विन्नपीडितसुधाफलाम्बुना । भित्रयस्थि पिशितं च वेदनां सा सुखं नयति लेपनाद्बुवम् ॥ भने पूर्वमतीव शीतलजलैः सिञ्चेत्तदाऽऽर्द्राम्बरं संपेष्य त्रिदिनं पुनः पटुयुतं तैलं प्रलिम्पेन्मुहुः । चिञ्चामुष्णजलेन तैलसहितां पीत्वैकरात्रं पुन- लाक्षाचूर्णकृताब्यमौष्ण्यरहितं गृष्टेश्च दुग्धं पिबेत् ॥१२॥ भने नने जाठरे वाऽस्थि सम्यक् स्थाने स्थाने सनिवेश्याम्बरेण । तैलाक्तेनोद्भध्य तैलैः सुखोष्णैः सिञ्चेच्छेषं वातभैषज्यवञ्च १२६ कोरदूषाक्षतान् भृष्ट्वा पिष्ट्वा भङ्गे प्रलेपयेत् । चिञ्चास्थिमृत्कपालाम्रत्वकल्कं वा प्रलेपयेत् ॥ १२७ ॥ साक्ष्य द्विनिशां दन्ती श्वेतां ज्योतिष्यतीमरिष्टदलम् । मञ्जिष्ठां चालिम्पेद्गन्दरे मूत्रपिष्टानि ॥ १२८ ॥ १ श्वेता सिता.
वैद्यमनोरमा ।
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः।
विडङ्गेन्द्रयवैः पाठाहिङ्गभार्गीवासितैः ॥ १२२ ।।
सर्षपातिविपाजाजीजीरकैः कुष्ठसंयुतः ।
गजकृष्णाजमोदाभ्यां कटुकीचूर्णमिश्रितः ।। १
समभागान्वितैरेतैत्रिफला संमिता भवेत् ।
त्रिफलासहितरेतैः समभागश्च गुग्गुलुः ।। १३२ ।।
एतत्संचूर्णितं सम्यङ्मधुना सुपरिप्लुतम् ।
नाना तु योगराजोऽयं भगन्दरहरः परः ।। १३२ ।।
अर्शीसि वातगुल्मं च पाण्डुरोगमरोचकम् ।
नाभिशूलमुदावर्त प्रमेहें वातशोणितम् ॥ १३ ॥
महान्तमग्निसादं च कासश्वासं च कामलाम् ।
रेतोदोषोत्थितान रोगान् योनिदोषोत्थितान गढ़ान
निहन्यादाशु तान् सर्वान् दुर्वारानप्यसंशयम् ।
एतन्निष्परिहारं च पानभोजनमैथुने ॥ १३५ ॥
सन्तताभ्यासयोगेन वलीपलितनाशनम् ।।३।।
हरीतकीशिग्रुकरअभास्वत्पुनर्नवासैन्धवविश्वमूत्रः ।
पिष्टैः प्रशस्तः पिटकासु लेपो ग्रन्थ्यामपच्यामथ विद्रधौ च ।।
पाकोन्मुखानि बृहतीकुसुमोद्भवानि
सूत्रावृतानि सुकरीपपुटे निधाय ।
दग्ध्वा कुकूलदहनेन च तानि हन्यु-
मैदोविकारजनितानचिरेण कोठान् ॥ १३७॥
गुडगृहधूमचूर्णसमुदायविलेपनकं
कफपवनोद्भवग्रथितशोफरुजाबहुलम् ।
व्रणमथ हन्त्यनवं जनयेत् मुखमाशुतरं
त्रुटिघृतलेपनं च विपरीतगुणं त्रिदिनात् ॥१३८॥
सप्तदशः पटलः।
परिणतरणकन्दं सनागरं तोयसंपिष्टम् ।
मेदोग्रन्थिहरं वै लिम्पेबहुशश्च सप्ताहम् ।। १.३९ ।।
स्वरसेन काकमाच्याः पिष्टा शुण्ठी जयेत् कोठान् ।
सुनितकदलरसपिष्टा सा च करीपस्य वा स्वरसे ॥१४॥
कैसे तैलेन संघृष्ट कृष्णातण्डुलकण्डनम् ।
उत्पित्सुमनिलाल्लेपान्थिमन्तर्दधेब्रुवम् ॥ १४१ ।।
झाते श्रीवैद्यकालिदासविरचितायां वैद्यमनोरमायामक्षिकर्णवणा-
थिचिकित्साधिकारो नाम षोडशः पटलः ।
अपच्यर्बुदचिकित्साधिकारो नाम
ससदशः पटलः।
अपयर्बुदयोः पूर्वं रक्तं कृत्वा जलौकसा ।
शरपुङ्खाशिफा लिम्पेज्येष्ठाम्भोभिः सुपेषिताम् ॥ १ ॥
चिचापत्ररसैश्चिञ्चाशलाका परिपेषिताम् ।
कंसद्वयेन संघृष्टां गतिनाशाय योजयेत् ॥२॥
ताम्बूलनाण(?)परिचवचाधात्रीरसोनकैः।
दुग्धे क्षीरिशिफातुल्यैः सिद्धं तैलं गतिवणुत् ॥ ३ ॥
अजापुरीपवल्मीकपदश्वत्थजलैः कृतः।
प्रलेपः पातयत्याशु चर्मकीलं दशाहतः ॥ ४ ॥
अजापुरीपवल्मीके फल्गुपुष्पोद्भवस्तथा ।
विकत्येक क्षिपञ्चमकीलनुत् शूलरूपक: (१) ॥५॥
रन्धं कृत्वा लोष्टमध्ये कर्णे कमलतन्तुना ।
बद्धं हरेद्राक्लिका(?)मथवा कर्णकर्णिकाम् ॥ ६ ॥
वारिमजनमृतस्य विग्रह तिन्तिणीदलरसेन सेचितम् ।
आतपे धृतमथास्य चेन्द्रियेप्वाशुजीवितमवामुयाद्भुवम्॥७॥
वैद्यमनोरमा। कृष्णाष्टमीनिशायां पङ्कजमूलात्तमृत्तिकान्तःस्थम् । कल्दं तमसि सुपिष्टं निद्रां कुरुतेऽञ्जनात् सायम् ॥ ८॥ महान्धकार स्मृत्वा तु यः शेते भुवि मानवः । कुम्भकर्णोऽपि तस्याशु भ्रष्टाङ्गुलिरभूब्रुवम् ॥ ९ ॥ निद्रां करोत्यनिद्राणां प्रदोषे शिरसा वृता। उपोदिका कपोतायाः शिफा वाऽथ धृता तथा ॥ १० ॥ हरितालवचाकुष्ठचूर्ण पीतवटच्छदम् । अद्भिः पिष्टवा मुखे लिम्पेबङ्गलोएनलोलुपः ॥ ११ ॥ आजेन पयसा पिष्टामारण्यतुलसीशिफाम् । आलिप्योर्तियेक व्यङ्गालोपमना नरः ।। १२ ॥ तैलं कषायकल्काभ्यां मुण्डिन्याः साधितं नसि । कुचयोः पतनं दत्तं पीतं च विनिवर्तयेत् ॥ १३ ॥ सिद्धेन तिलजेनाक्ता स्वरसे जातिलम्बयो। धृता योनिमुखे वर्तिनष्टाबुद्वर्धयेत् कुचौ ॥ १४ ॥ उद्धृत्याकरिसेकं प्रकुर्यात् पादे विद्धं कण्टकं कण्टकेन । रात्रौ कन्यामग्मिततां घृताक्तां बनीयाद्राक् स्वास्थ्यमिच्छन्मनुप्यः। तदनु कण्टकवेधसमुद्भवां विकृतिमाशु निहन्ति निशाग्रतः। तपनतमतिलोद्भवबिन्दुना लवणभामयदेशसमर्पितम् ॥ १६ ॥ अङ्कोलजातानि बीजानि पिष्ट्वा यः काकमाचीरसेनैव लिम्पेत् । कण्डूतिमिच्छन् विजेतुं मनुष्यस्तां चापि जित्वा मुवर्ण लभेत १७ तिलसंभवसंमिश्रा वर्णमपी कुमुदजम्बूचिञ्चानाम् । एकैकमग्निजनितंत्रणमचिरेणैव नाशयति ।। १८ ।। निष्पावस्य च रागो महिषीक्षीरस्य तिमिरसंकाशम् । व्रणमाशुशुक्षणिभवं रोययति विदरविकिरणाञ्च (१)॥ १९ ॥ इति. श्रीकालिदासबैद्यविचितायां वैद्यमनोरमायामपच्यर्बुदचिकित्सा- धिकारो नाम सप्तदशः पटलः । :
अष्टादशः पटलः।
अथ शुहरोगचिकित्साधिकारो नामा-
टादशः पटलः।
वृषणभवशोफशान्त्यै बृहतीपुष्पोद्भवस्वेदम् ।
कृत्वा विस्त्राव्य जलं तिलकल्कं घृतयुत लिम्पेत् ॥ १ ॥
लिप्तं साज्यं वराभस्म लिङ्गलूताविनाशनम् ।
करवीरस्य मूलं वा लिप्समाज्येन कल्कितम् ॥२॥
कार्यासस्यास्थिभिः पिष्टः साधितं तिलसंभवम् ।
लिङ्गलूताविकाराणां प्रतीकारो विलेपनात् ॥ ३ ॥
सेव्याब्देन्दीवराम्भोजफलविश्वौषधैः शृतम् ।
तैलं योनेहरेत्तांस्ता रोगान् कामुकगहितान् ॥ ४॥
तैलं प्रियङ्गुजातीपुष्पैः सिद्ध स्मरालये लिम्पेत् ।
तेन विनिहत्तगर्भदोषं मुभगं भगं भवेत्सद्यः ॥ ५ ॥
क्षौद्रेण पौष्करं रेणुमेकविंशतिवासरान् ।
लिह्याच देहदौर्गन्ध्यं नश्यनिःशेषमङ्गिनाम् ॥ ६ ॥
द्विनिशातिलरुमाजीकल्कोद्वतितविग्रहः।
यः नाति तस्य देहः स्यात् सुगन्धिर्भास्करच्छविः ॥७॥
तण्डुलकण्डनलुलितैलशुनवरासर्पपैः कृतो धूपः।
कन्दर्पराजधान्यारतोदं द्रागेव जयति रमणीनाम् ॥ ८ ॥
तप्ते द्विनिष्कभुजगे पारदनिष्कं निधाय समिलितम् ।
पिष्टं क्षौद्रेण जयेद्योनिफलं लिप्तमबुंदादींश्च ।। ९ ॥
लोध्रामलकहरिद्राहरीतकीखदिरसारसंभूतः ।
काथः शौचेन रवेारे स्यायोनिरोगहरः ॥१०॥
ब्रह्मदण्डीदलैः क्षौद्रसहितैः स्मरमन्दिरम् ।
लिप्तमात्यन्तिकं नृणां मुस्नेहमावहेद्रतौ ।। ११ ॥
भूमिकदम्बस्वरसः सक्षौद्रः शर्करासमायुक्तः ।
योनौ नाभ्यां लिमः प्रियमचिरादासवत् कुरुते ॥ १२ ॥
बैद्यमनोरमा। मालतीपुष्पसंलिद्धतैलाभ्यक्तवराङ्गया। किडरीक्रियते नार्या संभोगसमये पतिः ॥ १३ ॥ रोचनालक्ष्मणामूलकल्कलितनुर्वधूः। रतो मानोति सौभाग्य दायितमियतामपि ॥१४॥ निधाय सातवे योनौ रुग्यष्टी दिवसत्रयम् । ततः स्वमूत्रैः संपिष्य बश्यायानादिषु क्षिपेत् ॥ १५ ॥ चूर्णेनाअनमलयजसरसिजदलरोचनाभियतनाम् । अजितदृष्टिस्तरुणीं यां पश्येत् सा भवेश्या ॥ १६ ।। यैः कश्चिद्रक्तपुष्पैस्तु पञ्चभिः सभिङ्गुभिः । लिसलिङ्गो वशे कुर्याभारी सौभाग्यगर्विताम् || १७ पारावतस्य विष्ठाभिर्मधुना सैन्धवेन च । आलिससाधनः कान्तां स्वबश्यां कुरुते रतौ ॥ १८ ॥ तुरङ्गन्धामजिष्टापत्रजातीभसूनकैः। मकरध्वज एन स्यात समालिसनिजध्वजः।।१९।। मण्डूकपर्णीरसमूच्छितं तुलितं ध्वजे पारदमातनोति । ध्वजोद्धति योनिनिवेशमात्रे रामामनमीणनमोहन च ॥२०॥ युक्तं रसं पारदशर्कराभ्यां भुवः कदम्बस्य विलेप्य लिने । रतेन नारी स्वदशां करोति नारी चयान्यं नरमिच्छलीह।। मुखमवजलयुक्तं भूमिसर्पोत्थितं य- न्मरणतरसुचूर्ण पिच्छनाले स्थितं तत् । सुरतिसमयकाले नाभियुक्तं निरुन्ध्या- द्विविधमधुररगैः मेरितं चाशु बीजम् ॥ २२ ॥ सितेषुपुलिकामूलं केवलं बदने धृतम् । तुषाम्बुषिष्टं लिप्तं च शुक्रं संस्तम्भयेद्रतौ ॥ २३ ॥ मधुपिटलजलेपो राजतरूमरिचकपित्थवटनिर्यासैः। रम्भाफलाम्बुकलितैर्वशयेच द्रावयेच्च वनितां वै ।। २४ ॥
एकोनविंशः पटलः ।
धारदसितेपुवामूलाभ्यां नक्तमालफलकाभ्याम् ।
बदनगताभ्यां बीजं भवति नृणां स्तम्भितं दीर्घम् ।। २५॥
नील्मा दीपेण पत्रेण चक्रगेण निरुध्यते।
रतः श्वेतस्य मूलेन नाभिलिन वा चिरम् ।। २६ ॥
सितपायसजाया मूलं मध्वजकेसरम ।
शिष्टानि नाभिलिमानि रेतःस्तम्भ वितन्वते ।। २७॥
दुश्पर्शोषणकुष्ठजीरकवला दग्ध्वा पुटे वारिणा
पिछा कोलमिता सुगुटिकां कृत्वाऽध तां शोपयेत् ।
नामों सा मधुकल्किता विनिहिता रत्युत्सवाडम्बर-
भारम्भेष्ववसानकालविकलं कुर्यानरं निश्चितम् ॥ २८ ॥
इति श्रीकालिदासवैद्यविरचितायां वैद्यमनोरमायां गुह्यरोगचिकित्सा-
धिकारो नामाष्टादशः पटलः ।
अथ विषचिकित्साधिकारो नामकोनविंश-
तितमः पटलः।
दृतमुखोस्थितवर्णान् द्विगुणीकृत्य त्रिभिहरेद्भागम् ।
एकद्वयेन जीवेद्दष्टो म्रियतेऽथ शून्येन ॥ १ ॥
चन्द्रमार्गगतो वायुभूतस्तन्मुखमागतः।
तदा जानीहि दष्टस्य जीवितं मृतिरन्यथा ॥ २॥
अशिनिप्रतिदिक्स्थः पृच्छति दूतो भुजङ्गदष्टस्य ।
अन्तकनिवासवासः प्रत्यासन्नो भवेत्तस्य ॥३॥
विद्धि महादिशि दृते स्थितवति दर्वीकरण दष्ट इति ।
विदिशितु मण्डलिनाऽदशिदिशोमध्ये तु राजिलेनैव ॥४॥
प्रथा यदि बामाङ्गे स्थितः स्त्रिया दष्टकं तमवगच्छेत् ।
अन्यतरेण तु घुसा द्वितयेन नपुंसकेन सर्पण ।। ५॥
दृतस्य मन्त्रिणो वा बहेदिडापिङ्गलाद्वयं वायुः।
स्त्रीपुनपुंसकैस्तैः क्रमेण दष्टं विजानीयात् ॥ ६॥
वैद्यमनोरमा । जीर्णदेवकुलक्षकोटरे वंशमूलमृतकाननेऽहयः । ये बसन्ति विविधा हि गहरे ते भवन्ति जनमृत्युकारणम् ।। सिन्धुसङ्गतिषु पादपे बिले द्वीपकूपकुलिशेषु शिग्रुषु । वेत्रपत्रगहने चतुष्पथे व्यापदे भवति पन्नगो दशन् ।॥ ८ ॥ गुलिकस्योदयकाले(?)यो यो वारेषु मन्त्रिभिः कथितः । तस्मिन् फणिदष्टस्य प्रतिकारविधिन भवेज्जातु ॥ ९ ॥ पूर्वस्मिन् दक्षिणे वामे पृष्ठे स्ववपुषः क्रमात् । भागे दशन्ति भुजगा द्विजात्याद्यन्वयोद्भवाः ॥ १० ॥ एकोऽथवा त्रयो वा दंशा बहुवेदनाः स्रवद्रुधिराः । काकाङ्खिचक्रकूर्माकाराश्च नयन्ति यमसदनम् ॥ ११ ॥ भ्रूमध्ये त्रिकवक्षस्स्तनोष्टतालुहृदयनाभिगले । शङ्खयुगचिबुककुक्षिस्कन्धशिरस्तालुमूलफलगुदेषु ॥ १२ ॥ कक्षे सन्धिषु नृणां स्याद्यदि दंशा भुजङ्गदशनकृताः । तमसाध्यविषं प्राहुर्मन्त्रध्यानौषधादीनाम् ।। १३ ।। नखेष्वधरयोहस्ततलयोरपि नीलिमा । दृश्यते यत्र तं मन्त्री मृतमेवाध्यवस्यतु ।। १४॥ देहेऽप्यसाधनस्पर्शे कृतेऽप्यङ्गं न कम्पते । यस्य जीवयितुं तं न प्रभवेदपि पक्षिराट् ।। १५ ।। प्रतिमां स्वामादर्श सलिले वा नावलोकेत । घ्राणाग्रं भ्रूमध्यं दष्टो यः स क्षणाम्रियते ॥ १६ ॥ नखाग्रभागेषु नखान्तरे वा प्रपीडनं वेत्ति न योऽहिदष्टः । यो हस्तरुद्धश्रुतियुग्मरन्ध्रो नादं नितान्तं श्रुणुयान्महान्तम् ।। ज्वलनदीपशिखेन्दुदिवाकरान् यदि न पश्यति भोगिविषादितः। स्वकरमूर्धजसंचयलुञ्चनः स च यमालयमाविशति ध्रुवम् ॥१८॥ स्वरैः षोडशभिर्जप्त (?) वार्यन्तर्यदि गच्छति । दष्टस्य यस्य तस्य स्याज्जीवितं मृतिरन्यथा ।। १९ ।।
एकोनविंशतितमः पटलः। दंशस्योपरि सहसा ज्वलनं चतुरङ्गुले प्रयुजीत । तस्याचूषणमथवा प्लोतान्तरितस्य विदधीत ॥ २०॥ विष जयेत् स्थावरजङ्गमानां छा विरेकेण च शोधितस्य। नस्याञ्जनालेपनपानयोगैः सेव्यादिना रात्रियुगादिना च ॥२१॥ दन्ताद्राणादक्ष्णोदेहाद्वा दंशदेशमात्रेण । लिम्पेन्मलेन च ततो नातिक्रामेद्विषं दंशात् ॥ २२ ॥ आस्याम्बुसमुपेतेन मलेन श्रोत्रजन्मना । सद्यो लेपाद्विषं दंशानातिकामति जातुचित् ॥ २३ ॥ तत्रणे नखाग्रेण दंशे दन्तमलेन वा। विशाखां मर्दयेत् सर्वविषनामथ भक्षयेत् ।। २४ ॥ सद्यो लोहादिभिस्तप्पैचलनज्वालयाऽथवा । दंशदेशे तु दष्टस्य दाहो विषविकारजित् ॥ २५ ॥ क्षांक्षी हुँ क्षैः क्षौः क्षः संजप्य वारिभिर्मुहुः सेकात् । दष्टमनुष्यस्य स्यानिर्विषता तु क्षणेनैव ।। २६ ॥ ओं सुवर्णरेखे कुक्कुटविहगरूपि स्वाहा । विद्या सुवर्णरेखेयमेतजपितवारिणा ॥ २७ ॥ दष्टस्याङ्गसमासेकः कृतः स्याद्विषवेगजित् । वामहस्ते स्वरश्चन्द्रमण्डलेन च वेष्टितम् ॥ २८ ॥ अमलं शङ्करं ध्यायेत् स्रवन्तममृतं मुहुः । तेन हस्तेन संस्पृष्टं भस्मवायॊपधादिकम् ।। २९ ।। विकीर्ण द्रागपाकुर्याद्विपरोगग्रहादिकान् ॥ ३॥ न्यस्य वकारं शीर्षे वर्षन्तं श्वेतममृतधाराभिः। स्वपयन्तं सकलतनुं संपूर्ण शशधरं पुनर्हृदये ॥ ३० ॥ चिन्तयति पूर्णमेवं विषनिर्णाशं समुपयाति । क्षणमात्रादपि लोके भूतग्रहडाकिनीदोषाः ।। ३१ ॥ लवणार्धपलोपेतश्चिञ्चापल्लवजो रसः ।
वैद्यमनोरमा।
कुडवामितः पीतो विष हन्ति फणाभृताम् ।। ३२ ॥
अनैहिपेतैः सुरदाल्याश्थूणितैः शकलैः ।
दत्तं नस्यं त्रिदिनात् सर्पविषध्वान्तमार्तण्डः ॥ ३३ ॥
अपनयति घातकहस्तः परिभावितो बहून् वारान् ।
फणिवल्लीदलसलिलैः सकलं गरल न सन्देहः ॥ ३४॥
तदहर्जवत्सशकृता तगरेणापि प्रवर्तिता वतिः ।
नृजलेन कल्किता स्याद्विषन्नस्यादिषु विकीर्णा ॥ ३५ ॥
व्योपनवनीतदधिमधुसिन्धूत्थमधूकदृक्षसाराणाम् ।
उपयोगाद्वासुकिना दष्टोऽपि भवेत् क्षणादविषः ॥ ३६ ।।
भूनागं मरिचं हिगु लवणं केसरास्थि च ।
नृजलेनैव नस्यायैः सादिविषनाशनम् ।। ३७ ॥
काकमाचीरसेनैव रसोनमरिचौ भिषक् ।
पिष्ट्वा नस्याजनालेपैरहेविषमपोहति ॥ ३८ ॥
विश्वेन स्फोतमूलं तु श्वेतार्कक्षीरभावितम् ।
नृजले नस्ययोगेन बोधयेदेहिनं मृतम् ॥ ३९ ॥
अग्निमन्थमधूकसारहरितमारीमूलरु-
आणिमन्थमथाशु गोपयसा विलिप्य तमापिवेत् ।
नासिकानिककाटिकाहृदयोरुचूतपालिकान (2)
बिन्दुषट्कविडालमूपिकजं विषं विनिवारयेत् ॥ ४० ॥
संचूर्ण्य वस्त्रबद्धं केसरपुष्पं च त्रिकटुं च ।
वृश्चिकविद्धे देशे तिलजयुतं स्वेदितं जयेत्तोदम् ॥ ४१ ।।
दिवसकरदुग्धतुल्यं तीक्ष्णतरचूर्णमाशु संलिप्तम् ।
घनरव इव नागकुलं वृश्चिकविषमाशु नाशयति ॥ ४२ ॥
हरति दृश्चिकजं विषमजसा लवणनागबलान्वितलेपनम् ।
मदनमाशु यथा रतिवल्लभं हरललाटहगुत्थितपावकः ॥ ४३ ॥
एकोनविंशतितमः पटलः । त्वाम्बूलं गोमयोपेतं भक्षयेदृश्चिकातुरः। सहसैया तु तव्याधि शं याति न संशयः ॥ ४४ ॥ মিত্রশালবন স্কুল কাহাৰীৰিক্ষ। दूलहन तत्पर्यो दंश इश्चिकर्ज जयेत् ।। ४० ॥ शीता वृश्चिकविद्धस्य स्विद्यते कम्पते तनुः । सदा पान्छति रौद्रं च रेतश्च सवति क्षणात् ॥ ४६ ।। निर्गुण्ड्यदलैः क्षुण्णैः सकरीपैविषाचितैः । अम्मस्वेदो हितस्तस्य बबालगणनामरैः ॥ ४७ ।। साहिगन्धैः सतश्च सुपिष्टः स्वेदयेत् पुनः । संपाययेद्भिपक तं च मईयेत् कोष्याभल्मना ॥ ४८ ॥ मुखीभवेद्विपनैश्च भोजनैखिदिनान्तरम् ॥ ३ ॥ अपानमहारो मयूरभलेपो विषं हन्त्यलोद्भवं सद्य एव । तथा सर्पिणा चाशु कोष्णेन सेकस्वलकारिपन्नोपनाहश्च रात्रौ।। बननादशिफा पिष्टा पीता खण्डलारिणा । अणाशयेतोपेता निखिलं कृत्रिम विषम् ॥५०॥ बरागृढकृतः स्वेदो देशे ग्यविषनाशनः॥॥ आबकार्यवसभागपेषितं नालिकेरफलवल्कलोदकम् । ক্যামগি লিকােলিন্দিগি ব্যাপ্ল্যি ৭২ अलर्कस्वरसं प्रातस्तैलयुक्तं दिनत्रयम् । अः पिवेगौषिकी बाधा तस्य जन्मान्तरेऽपि न ॥५२॥ बहलं पलिप्य सर्पिः क्षणमभितः सपदि दष्टनत्याखौ। मार्जारेण त्रिदिनं त्रिसन्ध्यमवलेहयेन्मतिमान् ॥ ५३ ॥ मलेपः स्यात् यातारिशाल्मलीकथितै लैः । गैरिकदिनिशाभिर्वा नखदन्तविषे हितः ॥५४॥ रक्तपुच्छफलालिकानिशितिन्तिणीसहितोदन- स्पर्शमापदमाशु निर्विधम भवेदथवाक्षतम् (?)।
:
वैद्यमनोरमा ।
भुक्तवानध ऊर्ध्वमप्यतिसार्यते इतसंज्ञक-
स्तं भिषग्घननादवारिजलेपनैः परिपालयेत् ।। ५५ ॥
लीढः क्षौद्रसितायुक्तश्चूर्णस्ताम्रसुवर्णयोः ।
स्यात् स्थावरविषध्वान्तसन्तानकदिवाकरः ॥५६॥
तिलमद्यदिवास्वमव्यायामातपमैथुनम् ।
कोपं तैलं कुलत्यांश्च विषा” वर्जयेत्सदा ।। ५७ ।।
इति श्रीवैद्यकालिदासविरचितायां वैद्यमनोरमायां विषचिकित्साधिकारो
नामैकोनविंशतितमः पटलः ।
अथ रसायनवाजीकरणाधिकारो नाम
विंशतितमः पटलः।
मम सत्यप्रतिज्ञेयं यूयं शृणुत पण्डिताः।
पथ्यायाः सदृशं किञ्चित कुत्रचिन्नैव विद्यते ॥ १ ॥
पथ्याशी व्यायामी स्त्रीषु जितात्मा नरो न रोगी स्यात् ।
यदि मनसा वचसा वा ट्रह्मति नित्यं न भूतेभ्यः ॥२॥
त्रिफलाभोजिनः पुंसः पथ्यानमितभोजिनः।
रोगा भवन्ति निर्वीर्या विमा इव निरग्नयः ॥ ३ ॥
वृक्षे शाल्मलिजे रन्धं कृत्वा दत्त्वा हरीतकीम् ।
आदाय भक्षयेन्मासात् क्षीराशी विजरो भवेत् ॥ ४ ॥
आमलकीफलचूर्ण क्षौद्रेणाज्येन वा सायम् ।
लीढं नासादृक्श्रुतियौवनबुद्धयग्निसंजननम् ॥ ५ ॥
चूर्ण धान्यभयाक्षाणां नीली वा नलदानपि ।
लीडा कालेषु नीरोगी हविर्गुडमधुक्रमात् ॥ ६ ॥
पथ्याधात्रीमुस्तकविडङ्गलोहाग्नयः क्रमादृद्धाः ।
चूर्णीभूता लीढाः क्षाद्रेण समस्तरोगहराः ॥ ७॥
प्रातःकाले धात्री भुक्त्वा पथ्या रात्रौ चाक्षं नित्यम् ।
खादन् सर्वान् व्याधीन जित्वा जीवेत्सूर्यो यावच्चेन्दुः॥८॥
एकोनविंशतितमः पटलः ।
६३
लौहे पाने लिप्तां पथ्यां लीद्वाऽन्येयुः सर्पिःक्षौद्रम् ।
व्याधीन जित्वा स्थायीकुर्यानित्यं देह निःसन्देहम् ॥ ९ ॥
माधवमधुगुडसैन्धवसितोपलानागरैः पृथक् पथ्या।
शिशिरादिप्वभ्यस्ता व्याधिचयं विजयते नृणाम् ॥ १० ॥
कुछचूर्ण समयाज्यं प्रत्यूषे प्रपिबेन्नरः ।
मुगन्धो रूपसंपन्नश्चिरं जीवेदनामयः ॥ ११ ॥
मुस्ताहपुषयोश्चूर्ण पयसा सह यः पिबेत् ।
सघृतं तस्य देहः स्याधुवभावमनोहरः ॥ १२ ॥
पथ्याशुण्ठ्योश्च यचूर्ण प्रभाते मधुसर्पिपा ।
ली रसायनं श्रेष्ठं चलीपलितनाशनम् ॥१३॥
शुण्ठीसितोपलासिन्धुगुडक्षौद्रकणायुता।
हिमादिषु पृथक् पथ्या सेविता स्याद्रसायनी ॥ १४ ॥
लिलधात्रीफलचूर्ण समधुघृतं प्रतिदिनं प्रगे लीढम् ।
जनयेन्मासेन मतिं महतीं हन्याज्जरां च पराम् ॥ १५ ॥
प्रातः भातर्नसा पीतं वारि हन्ति जरागमम् ।
कासं श्वास वलिं व्यङ्ग पालित्यं तिमिरं तथा ॥ १६ ॥
उदकं शाल्मलीमूलाद्रणितागलितं घटे ।
शोपितं सतिलं खादेत केवलं वा वृषायते ॥ १७ ॥
स्वप्याद्वामेन पावेन रात्रौ वाञ्छन् मुखायुषी।
उचिष्ठेत्तु ततः प्रातः शयनादक्षिणेन च ॥ १८ ॥
पिप्पलस्य ऋतं मूलफलपल्लववल्कलैः ।
क्षीरं घृतसितोपेतं पीतं रेतोविवर्धनम् ॥ १९ ॥
श्वेतगिरिकर्णिकायाः पत्रं पयसा विपकमनीयात् ।
प्रातनरोऽङ्गनानाई शतमपि गच्छेदपूर्ववरात्रौ ॥ २० ॥
मापाक्षताश्वगल्यातिलमुरुलीनां क्रमेण भागाः
सप्त नवैकैकं सपि: पाचिताः परं वृष्याः॥ २१ ॥
वैद्यमनोरमा। दशगुणदुग्धे सिद्धं शतावरीरसे घृतं प्राश्नन् । मधुमागधिकासहितं सशर्करं भवति रतिमल्लः ॥ २२ ॥ कुम्भे निधाय शकलीकृतभूरुपूर्ण तत्रैव शाल्मलिजटागलितोदकेन । संभावितं दिनमुखे च रतौ च खादन वृद्धो भवेत् सुरतनाटकचक्रवर्ती ।। २३ ।। अधुना शिवपादसेवकेन पृथगेषा सकलागमार्थरूपा। रचिता भिषजां मनोरमा जनुषा रोगसमासये समाता ॥२४॥ इति श्रीवैद्यकालिदासविरचितायां समस्तायुर्वेदार्थरूपायां वैद्यमनोरमायां रसायनवाजीकरणाधिकारो नाम विंशतितमः पटलः ॥ इति वैद्यमनोरमा समाप्ता। १ शिवपादशेखरेण' इति पाठान्तरम् ।
धाराकल्पः। मङ्गलाचरणम्। अनन्तकल्याणगुणकभाजनं निरन्तरानन्दचिदेकविग्रहम् । अनन्तरायेप्सितसिद्धये वयं तमेकैदन्तं सततं भजामहे ॥ १॥ स्नेहधारागुणाः । धातनां दृढतां करोति वृषतां देहाग्निवौजसां स्थैर्य पाटवमिन्द्रियस्य जरसो मान्य चिरञ्जीवितम् । अम्नां भङ्गमपाकरोति नितरां दोषान् समीरादिकानू सर्वस्नेहकृता मुखोष्णमुभगा सर्वाङ्गधारा नृणाम् ॥ २॥ सेचनविधी द्रोणीकरणयोग्या वृक्षाः। प्लक्षोदुम्बरगन्यसारवरुणन्यग्रोधदेवद्रुमाः पुन्नागाह्वकपित्थचोचवकुलाशोकासनाम्रास्तथा । डोलाचम्पकविल्वनिम्बखदिरामोधाग्निमन्थार्जुना इत्याद्यन्यतमेन सेचनविधौ द्रोणी प्रकुर्याद्बुधः ॥३॥ द्रोणीप्रमाणम् । द्रोणी हस्तचतुष्कदीर्घकरमात्रव्यासतत्पादमा- त्रोद्यद्भित्तियुता दृढा सबबला पादान्तरन्ध्रा बहिः । शीर्षस्थान इहोन्नतैककरात्रोत्तानविस्तारका निम्ना किश्चन मध्यतश्च चरणैर्हस्तैश्च युक्ता दृढः॥४॥ 'कल्याणं मङ्गलं शुभम् इत्यमरः। २'अप्येकदन्तहेरम्बलम्बो- दरमजाननाः' इत्यमरः ।३ गन्धसारश्चन्दनः । गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियां' इत्यमरः । १ 'मत्रायाम' इति पा०।
धाराकल्पः। धारासेचन विधिः। एवं मारुतहारिभिश्च तरुभिद्रोणी विधायादरा- देवं चेभमुखं द्विजानपि भिषग्वृद्धान् प्रपूज्यातिथीन् । पूर्वाहे दिवसे शुभेऽतिमहिते लग्ने शयानस्य त- द्रोण्यां सेचनमाचरेत् पटुमतिद्रव्यैर्यथोक्तैभिषक् ॥ ५ ॥ सेचनार्थ कलशविधानम् । स्वर्णाद्युत्तमलोहजस्तु कैरको मृत्संभवो वाऽत्र त- नालाग्रं तु कनिष्ठिकाङ्गुलिपरीणाहोन्मितं रोगिणः । दिप्रस्थममितो विधेय इति. वा मध्यस्थरन्ध्रादधो गच्छद्रतिरथो लम्ब्यपि घटः कार्यः शिरःसेचने ॥३॥ सेचनविधी योग्याः परिचारकाः सेचन विधिश्च । ग्राह्यास्ते परिचारकाः स्युरनुरक्ताः सावधानाः शुभा ये, तद्धस्तदृढावलम्बनवशात्तत्पात्रपातादितः । भीतिर्जातुचिदातुरस्य तु यथा न स्यात्तथा कारये- द्धारां मूर्धनि हस्तयोरपि पृथग्वक्षःस्थले पादयोः ।।१७ 32 यद्वा हस्ततलप्रपूर्णपिचुना सेकं कचित्कारये- दोपविशेष योज्या: नेहाः । योज्यं स्नेहचतुष्टयं च तिलजं वा तत्र शुद्धेऽनिले । पित्तेऽस्ले च घृतं. कफे तु तिलजं. वातेऽस्रपितान्विते तैलाज्यं तु सम, कफेन सहिते तैलार्धभागं घृतम् ॥ ८॥ अथ तक्रधारां विवक्षुः पूर्व चतुर्धा मूर्धनि तेलं निर्दिशति- अभ्यङ्गः परिथेचनं पिचुशिरोबस्ती च विद्याच्चतु- आंदं मूर्धनि तैलमप्यतिगुणं चैतत्क्रमेणोत्तरम् । १ - इभमुखं' गजाननम् । २ करकः कमण्डलुः । 'करकस्तु घुमान पक्षिविशेषे दाडिमेऽपि च । द्वयोमेधे जले न स्त्री करकश्च कमण्डको।' इति मेदिनी । ३ 'सपिजा वसा तैलं स्नेहेषु प्रवरं मतम्' इति वाग्भटः !
: धाराकल्पः। अन्यको विनिहन्ति रौक्ष्यमपि कण्डूं. दाहशोफत्रण- केदादीन परिषेचन. पिचु कचस्फोटादि, चान्सोऽनिलम् ।। तक्रधाराविधानम् । धारावारत्येकवर्षातपहिमपरियोषाविशुद्धप्रकीर्ण धात्रीप्रस्थं सपादं भिषगथ पटुधीः संत्यजेदीजमस्याः । उनकाथ्याष्टादशाख्यामितकुडवजले षष्ठभागावशिष्टं तत्तुल्यं चाऽम्लतनं विधिरिति मुनिभिः प्रोक्त आत्रेयमुख्यैः।। धारायोग्यपात्राणि। धारायां स्फटिकप्रवर्णरजतलक्षादिपूर्वोक्त- क्षायस्ताम्रवराटिकामथितमृत्पात्रं त्वतीवोत्तमम् । केचिद्रोगिकनिष्ठिकान्तविवरं शंसन्ति केचित्तु वा सम्पर्बोपमविस्तृतं तु सुपिरं पात्रस्य मध्ये कृतम् ।। ११ ।। सेचन विधेः पश्चात्कर्म । बारायाश्चावसाने निजगदशमनप्रोक्तसर्पिश्च सेव्यं तत्काले चावसंस्थः कथमपि वसतु प्रीतिमानेप रोगी। कायक्लेशानशेषान्मनसि मुखहरान्वऋजितासुखादी- सत्यक्त्वा पाटीरशुद्धाम्बरविधृतवपुर्ब्रह्मविज्ञानितुल्यः ॥१२॥ तक्रधारासेवनगुणाः। केशादीनां च शौक्लचं क्लममपि तनुतां दोषको शिरोरु- ग्वाधामोजाभयं तत्करचरणपरिस्फोटनं मृत्रदोषम् । सन्धीनां विश्लथत्वं हृदयरुगरुची जाठराग्नेश्च मान्चं धात्रीतकोत्थधारा हरति शिरसि वा कर्णनेत्रामयौवम् ॥१३॥ वृततैलधारासेचनगुणाः। स्थैर्य वाङ्मनसोः शरीरबलमप्याहारकाङ्क्षा धृति- माधुर्यं वचसस्त्वचोऽपि मृदुता नेत्रे प्रकाशोऽगदः । १ 'द्विगुणिते वारिणि शृतात्क्षीराज्जातं तक्र' इति क्रमः केरळेछु ।
धाराकल्पः। शुक्रामुपरिपोषणं रतरतिर्दीर्घायुरल्पोष्णता सुस्वभं घृततैलसेचनगुणेनाऽस्तीह जाग्रत्मुखम् ।। १४ ।। अथ स्नेहस्वेदः । तत्तयाधिशमोदितौषधिगणैः सिद्धं च वा योजयेत् स्वस्थेऽभ्यअन्नसेचनादिषु सदा तैलाज्यसमिश्रितम् । एकाहान्तरमेव वा प्रतिदिनं पूर्ण वले मध्यमे त्यत्का द्वित्रिदिनं चतुर्दिनमपोहाल्पेऽत्र षट् पञ्च वा ॥१५॥ पित्ते कोष्णमथोष्णमेव विहितं शुद्धे समीरामये तत्स्नेहं द्रवमात्रमेव कफयुक्ते रक्तपित्तेऽपि च । ऊर्ध्वा तु मुशीतभेव विहितं सिञ्चेदविच्छन्नमे- वात्यर्थोचविलम्बितद्रुतनतं कुत्रापि नैवाचरेत् ॥ १६ ।। सेचनकालप्रमाणम्। रुक्षे पित्तयुतेऽनिले च परमः कालो मुहूर्तद्वयं साधं तत्र, तदर्धमात्र उदितः स्निग्धे कफोन्मिश्रिते। यावत्स्वेदसमुद्भवो भवति तत्तावनिवर्तेत वा, स्नेहोऽत्र त्रिभिरेति रोमविवर मात्राशतेन क्रमात् ॥१७॥ सप्तापि त्वच एति सप्तभिरथो पइभिस्तथाऽसादिकान् पक्षातृनिषुसिन्धुदिग्ग्रहमिता मात्रा मुहूर्तो भवेत् । सेचन विधौ धारोच्चतायाः प्रमाणम् । धारोचं चतुरङ्गुलं तु शिरसः सेके तदन्यत्र त- प्रोक्तं तत्रिगुणं च मन्दपतनात्ततोगद्धिर्भवेत् ॥ १८ ॥ अविधिधाराकरणदोषास्तचिकित्सा च । अत्युच्चद्रुतभूरिकालपरिषेकादाहवीसर्परु- मूर्छाङ्गस्वरसादसन्धिदलनच्छद्यापित्तज्वराः। १ केरळेषु 'मुक्किपियिचित्' इति प्रथितचरः कोऽपि परित्यक्तोत्तमाङ्ग- चिकित्साविशेषः।
धाराकल्पः ।
कोठायाश्च भवन्यतः परदिने गण्डूपनस्यादिकं
कृत्वा शुद्धमहौषधेन सुशृतं तोय पुनः पाययेत् ।। १९ ॥
सायाह्ने लघु भोजयेत्कटुतरं यूषान्वितं वाऽप्यथो
वस्ति स्नेहकृतं च सैन्धवकृतं कुर्यात्तृतीयेऽहनि ।
न्नेहव्यापदि चोक्तकर्म निखिलं कुर्याचतुर्थेऽयतः
प्राग्वत्स्नेहनिषेवणं च विधिवत्कुर्यादिने पञ्चमे ।।।२०।।
सेचनविधौ क्षीरादिपरिवर्तनकालः ।
एकाहादपरं च सेचनविधौ क्षीरादिकं गृह्यते
धान्याम्लं त्रिदिनात्परं विधिरयं स्नेहस्य तु प्रायशः।
एकेन त्रिदिनं परेण च तथा सिञ्चेत्र्यहं तवयं
मिश्रीकृत्य च सप्तमेऽहनि पुनस्त्यक्त्वैनमेचरेत् ॥२१॥
सेचनद्रव्याणां नूनादिभेदेन गुणदोषाः ।
यन्नूबेन निषेचनं प्रतिदिनं तत्तूत्तम, मध्यम
तेनैव त्रिदिनं, ततोऽपि च परं मिश्रीकृतं चाधमम् ।
सेवनविधाययोग्यः कालः।
अत्युष्णेऽपि च मन्दकोपसमये मन्दातपे शीतले
कुर्यान त्वपराह्नकेऽपि च भिषग्रात्रौ तथा सेचनम् ॥२२॥
सेचन विधेः पश्चात्कर्म।
सेकानन्तरमातुरस्तु शिशिराम्बुप्रोक्षणैः ष्ठीवन-
वोत्क्षेपैर्मृदुमारुतैरनुगुणं विश्राम्य तत्रोत्थितः ।
मन्दं किञ्चन मर्दितोऽनु च रसैः स्नेहं कषायैस्त्यजे-
स्नात्वा कोष्णजलैः सुगन्धसुभगो धान्यौषधाम्भः पिबेत् ।।
पेयं वा लघु सोषणाज्यकटु तकं यूपयुक्त मित
भक्तं कोष्णमथाचरेद्विधिमतः स्नेहोक्तमत्राखिलम् ।
एवं सप्तदिनं व्यतीस पुनरन्याविरेकं ततो
बस्ति तत्र तु कारयेदिति विधिर्नासत्यसंभाषितः ॥२४॥
६ धाराकल्प। सेचनविधौ परिहारकालः। यांवन्यौपधयोजितानि दिवसान्येतानि तावन्त्यहा- न्यन्यान्यप्यथ सर्वकर्मसु बुधो नित्य जितात्मा नयेत् । सेचनविधौ परिहार्याणि। स्त्रीणां स्पर्शनदर्शनस्मृतिवशाच्छुके सुते सन्ति त- संपर्केण विनाऽपि तद्भवगदास्तस्मात्यजेत्सर्वदा ॥ २५ ॥ व्यायामातपवेगरोधहिमधूमात्युच्चनीचोपधा- नाहःस्वमरजःप्रवातचिरकालासीनताः संस्थितिम् । शोक जागरपादयानगमनक्रोधातिमाध्यादिका- स्त्यक्त्वाऽथोष्णजलोपचार्यनतिमुक स्याइह्मचारी सदा ॥२६. रोगविशेषे परिषेचन विधिविशेषः । गुल्मानाहभगन्दरब्रणतुनीशूलाभिघातासवा- तोदावर्तककोठमूढमरुदष्ठीलाविसर्यादिषु । प्लीहाध्मानकविद्रधिप्रतितुनीवेकागसेकं तथा कुर्याद्धस्ततलप पूर्णपिचुना मन्दं मुखोणं भिषक् ॥२७॥ इति धाराकल्पः समाप्तः ।
वैशमनोरमातन्तर्गतविषयानुक्रमणिका । पृ. पं. " ur " . २ " .. ११ " ९ " १ " " " विषयाः पृ. पं. विषयाः प्रथमः पटलः। रक्तप्रदरे जीर्णवन भस्मयोगः ४ मङ्गलाचरणम् ४ अस्थित्रावे उत्पलपत्रस्वरसः ग्रन्थप्रशंसा शष्कुलीयोगः ज्वरे लवनविचारः १२ चिञ्चास्थियोग: ज्वरे षडङ्गादिपानीयदानम् तृतीयः पटलः। ज्वरे पाठादिपाचनकषायः कासे मरिचादियोगः . नागरादिपाचनकषायः कासादौ पिम्पल्यादिवृतम् वातज्वरेऽमृतादिकषायो पित्तज्वरे सारिवादिकषायः शुले त्रिकटुकाचं चूर्णम् सक्तुयोगः कासेऽमृतादिचूर्णम् १३ " षडङ्गपानीयम् १५ कासवासे ब्राह्मयादिवृतम् कफज्वरे पथ्यादिकपायः , हिड्पवादिचूर्णम् ज्वरे प्रबोधार्थ कूष्माण्डादिनस्य, २१ कासे विदुलीदलादिवटिका त्रिदोषज्वरे नारीक्षारोपयोगः २३ कासवासे निर्गुण्ड्यादिकषायः ,, सुनिषष्णादिकषायः २५ कासे चिञ्चात्वगादिधूमवर्तिः शीतज्वरे हरिद्रायोगः... शिलादिधूमवातः जीर्णज्वरे तुङ्गट्ठमफलोपयोगः ३ कासे पलाशफलादियोगः शीतज्वरे पाठामूलक्षीरम् ७ श्वासे कदलीफलयोगः विषमज्वरे बन्दाकयोगः ९ कासश्वासयोः कणादियोगः दाहज्वरे जीवन्तीमूलादीनां कासादिषु निर्गुण्ड्यादितैलम् कषाययोगाः पिप्पलीयोगः ज्वरे सहदेवीमूलबन्धनम् कैडर्यतैलयोगः कटुरोहिण्यादितैलम् काकोदुम्बरयोगः मुच्यमानज्वरलिझानि मधुकरादिघृतम् इतीयः पटलः। वासे लशुनादियोगः ... रक्तपित्ते मेघनादादिकषायः ३ २३ हिकायां शुण्ठ्यादियोगः इक्ष्वादिधृतम् मयूरपिच्छभस्मयोगः वासायोगः कपित्थपत्रयोगः नासारते शुष्कगोमयादियोगः शीतलजलसेकादिविधिः ८ दाडिमपुष्पस्वरसादियोगा, चतुर्थः पटलः । रक्तप्रदरे धात्रीयोगाः... १५ शोषे आजमांसयोगः. ११ . १७. " १ २३ 1" ७ . " CN " " " " २१ " १ " " ११ १३ " पृ. पं. ८ ९ " २३ २ । १ " " " " " " ९ " " १ १ विषयाः ८ सर्वातिसारे चविकापल्लवा- दियोगः अहिफेनादियोगः अतिसारे ऐरावतीपत्रयोगः चिञ्चाबीजत्वचादियोगः लष्मरक्तातिसारे कुबेरा- क्षयोगः आप्रत्वक्पुटपाकरसः १९ रक्तातिसारे बदरीपल्लवरसः कदम्बादियोगः नुस्तायोगः , जम्वुपल्लवादियोगः प्रवाहिकायां जलतैलयोगः पथ्यादधियोगः ,, क्षुद्रदुग्धिकायोगः ... सैन्धवादियोगः रक्तातिसारे कृष्णादियोगः ११ गुदभ्रंशे मूषिकतैलम् ज्वरातिसारे गोकर्णत्वगा- दियोगः १२ " ” " " . 7 " ... " १ विषय शोषे अभ्यङ्गार्थ तैलयोगौ क्षतक्षीणेऽश्वगन्धायोगः शोषे काकमाचीयोगाः अरोचके बृहतोफलयोगः लालाप्रसेके पथ्यायोगः ... निम्बकुसुमादियोगः द्रोण्यादियोगः छादौ कुवेराक्षपत्रादियोगः तृष्णाच्छयोमजलोपयोगः छयों मुद्दालियोगः एलादिचूर्णम् विल्वादिचूर्णम् वराटिकायोगः होगे सैन्धवतैलयोगः निशादियोगः तृष्णायां वटशुङ्गादियोगः आर्द्रपूगमदप्रतीकारः ताम्बूलभक्षणव्यापत्ति- प्रतीकारः तृषादौ सक्तुयोगः पञ्चमः पटलः। अर्शसि सितादियोगः सूरणयोगः गुदे स्नुहिपत्रधारणयोगः, किंशुकवीजादिस्वेदः कालशाकादियोगः हादियोगः पथ्यादियोगः रक्तार्शसि अपामार्गादियोगः उदावर्ते अभयादियोगः... षष्ठः पटलः। आमातिसारे पाठादिक्वाथ " " " " . " " ९ " १७ उदररोगे मुस्तायोगः " १९ " १ ។ " ” ७ " " प्लीहादिषु तकादियोगः पुराणशाल्यभावे कृत्रिमो- पायेन शालीनां लघुत्वापादन,, ३ अजीर्ण मरिचोपयोगः १३ शूलादौ कालशाकादियोगः विसूचिकायां नाभौ तालमूललेपनम् आमाद्यजीणे वमनम् सर्पगन्धिकायोगः १५ अजीर्ण हुताशनं चूर्णम् पुनर्नवादि २१ श्वेतपूलासादियोगः " " " " " " घ. E " १४ " ३ : " " : १८ २२ " " १ " " : " विषयाः अनाणे कुबेराक्षादियोगः ,, अर्कपुष्पादिशेगः कालशाकादियोगः शुण्ठीजलम् भस्मकानी लक्ष्मीरस- सिद्धानयोगः सप्तमः पटलः। उष्णवाते जठरादौ पङ्कलेपः मृत्रकृच्छ्रादौ यष्ट्यादि- शीतकपाय: सूत्रले शुझाटकयोगः अपामार्गमूलयोगः केतकीवृतम नूत्रकृच्छादौ प्रसारणीयोगः क्षेत्रफफणयोगः कृष्माण्डस्वरसः क्षुद्रकरवन्दसूलयोगः ज्वरे मूत्रकृच्छ्रोपदवे कुमारीस्वरसः लथुपञ्चमूलयोगः शर्कराइमोवझणमूलयोगः शर्करादी यूथीमूलादिकाथः । मूत्रकृच्छ्रे धान्याम्लसेकः निद्रायां मूत्रत्यागे चम्पक- मूलयोगः... सर्वमेहे हरिद्रायोगः अधत्थबीजादियोगः अर्कादिचूर्णम् कृष्णादिचूर्णम् आमलकीस्वरसः सागरादिकषायः 7. आकुल्यादिचूर्णम् विषयाः १९ सबमेहे निशादिकमायः अनुप्रयोगः ,, उदुम्वरक्षीरादियोगः कमलादिचूर्णम् . पृथुकयोगः अकोलादितैलम्.. सोमरोगादो कदलीफलयोगः अष्टमः पटलः। १४ विधौ करञ्जवीजादियोगः करञ्जतैलयोगः .. वृद्धिशमनाय कर्णवेधविधान वृद्धिशुले सैन्धवादियोगः ऊपणादियोगः कुटजपत्ररसः वृद्धौ पीतबर्बरयोगः वृद्धौ पीतदाख्योगः ७ अन्त्राले क्षुद्रकरवन्दादियोगः लशुनादियोगः सर्वगुल्मे वर्षा वादियोगः ११ पित्तगुल्मे सैन्धवादियोगः १२ गुल्मादौ पिण्याकादिवाटिका १३ गुल्म अनचादिचूर्णम् पटिकयोगः १७ कफवातगुल्मे चित्रकादियोगः गुल्मादौ कुवेराक्षादिकषायः गुल्मे वृक्षाम्लस्वरसः सैन्धवादियोगः , पुनर्नवामूलयोगः शले सैन्धवयोगः , नागरादिकाथः अगस्तिवल्कलक्काथः १३ वातशले रसोनकल्कः... : " १ ७ : " " ३ १ " ११ " " ७ " १० ९ : " पृ. पं. विषयाः शले मरिचनस्यम् गुडादिकल्कः " " " " " १७ २३ " " " ३ ७ १ " , " " १३ " " " " " " " " पं. विषयाः १४ सर्वविसपें नीलीयोगः अश्वगन्धादितैलम् शृतधौतवृतयोगः मृत्तिकायोगः दुवायोगः यमकस्नेहयोगः मसूरिकायां गुडयोगः रुद्राक्षयोगः सर्जरसलेपः अश्वगन्धादिलेपः १६ शीतपित्त शुण्ठ्यादियोगः चन्दनयोगः देवदाादितैलम् अमृतादिलेपः २२ स्वेदपिडकायां उशीरादियोगाः,, २३ कुष्टे आरग्वधादियोगः २४ नील्यादितैलम् नील्यादिलेपः बाकुचीचूर्णयोगः स्नुह्याद्युद्वर्तनम् । कण्डादौ जलशैवालयोगः ११ कण्डूकुष्ठ नील्यादिलेपः १५ कण्ड्वादौ सर्पत्वगादिलेपः १८ कुष्ठे कृष्णारिमेदादितैलम् , वातमूल्यादितैलम् हठयोगः कर्पूरवल्लीचूर्णम् बाणदलादियोगः कपालकुष्ठे दशनफलादितैलं २५ अर्कक्षारयोगः कासितैलम् १३ बणे अर्कपत्रादितैलम् 5 " ७ ." " उदरे स्नुक्क्षीरघृतं क्षीरहरीतकीयांगः पाण्डुरोगे लोहादियोगः २० नवायसगुडः मण्डरादियोगः दशमः पटलः । कामलायां शङ्खयोगः मण्डूकीस्वरसः व्योषादियोगः अज्झटाकल्कः भृङ्गराजरसयोगः. तरुणीयोगः अश्वत्थयोगः मणिवन्ये दाविधानम् सुवहापत्ररसः त्रिफलादिकषायः एकादशः पटलः । श्वयथौ पुनर्नवादिकषायः कापासभस्मादियोगः विलेपीयोगः पुनर्नवाकषायः दशमूलादिचूर्णम् पलालादिचूर्णम् हरीतक्यादिकषायः अलकांदिपानीयक्षारः भक्तयोगः हरीतक्यादिकषायः गोक्षुरादिषयः सर्वविसर्प नील्यादिधृतम् ११ " " " " . " . " १ " " " २० " " " " २२ " " " . " ७ " " " " " . १ " S पं.. " १५ " . " " " " " २१. " ७ " " 2 " " " ए . विषयाः कुछ काकजङ्गायुद्वर्तनम् कपालकुष्ठे गौर्यादियोगः मामायां करवीरादिलेपः कुरो अर्कदुग्यादितलम् पामायां निम्बादितैलम् पामायामकक्षीरयोगः पामायां मरिचयोगः पुन्नागफलादियोगः किटिभे महिषविषाणमषीयोगः स्नुहिक्षारादियोगः हरिद्रादियोगः विचर्चिकायां कासमर्द- मूलयोगः... विपादिकायां त्रिफलायोग: " कास्करवृतम् स्नुहितैलम् सिध्मकुष्ठ चूर्णादिलपः मूत्रधारायोगः... अपामार्गभस्मयोगः कतिपययोगा: दद्रौ गुडयोगः चिञ्चापत्ररसः चित्र बाकुचीयोगः कृमिरोगे तालमूलादियोग: मुरसादियोगः शरपुयायोगः नालिकरयोगः अष्टपदालक्षणम अष्टपदाप्रतीकारः द्वादशः पटलः । वानरोगे सैन्धवादिलपः तैलहरिद्रायोगः " पं. विषयाः पृ. ९ वातरोगे अभ्यशस्वेदयोयोग: २८ वत्तरादितैलम् १. मातुलुङ्गत्वग्लपः . कोरण्डमूलादितैलम एरण्डतैलादियोगः लवणादिस्वेदः २३ पृष्ठवाते स्वदयोगः १ कोयुकशीर्षप्रतीकारः ५ वातरोगे एरण्डपन्नयोगः अवबाहुके कापासवी- जादिलेपः नालिकरक्षीरादितैलम् लिकुजादितैलम् १३ जान्वादिवाते शुण्ठ्यादिलेप' १५ पादमृप्तिप्रतीकारः १७ पादतांदप्रतीकारः १९ क्षवथौ जृम्भायां चोपचाराः २१. गात्रस्तम्भप्रतीकारः २३ वातरोगे लशुनादिकपाय: सिकतास्वेदयोगः जानुवाते हरिद्रादितैलम् सैन्धवयोगः ७ वातरक्ते कारस्करादितैलम् कानिकादितैलम करनाद्वर्तनम् १३ स्थौल्यप्रतीकारः १५ काश्यप्रतीकारः त्रयोदशः पटलः । १८ गर्भाशयशोधनार्ग दशमू- लादियोगः योनिरोगेऽलाबुतैलम पुंसवनयोगः १ मौभाग्यजननं योन्युद्वर्तनं ” ११ १० " १ " " १९ " १ " " :" ." " १ " " " " ९ " " " " ७. " . " : " " " 22 " " " Maa विषयाः गर्भदाः कतिपययोगाः गर्भपातहरो योगः गर्भद्रावे नालिकरपुष्पा- दियोगः गर्भशूले लाक्षादियोगः गर्भिणीनां रक्तस्त्रावे पारावत- शद्योगः गर्भपातरोधार्थ कतिपययोगाः सुखप्रसवाथै कतिपययोगाः भकले खरमचर्यादियोगः सूताया उदरशैथिल्यप्रतीकारः मकले लशुनादियोगः सूतिकाश्यची अपामार्गादि- .१ " ३ . " ९ " " विषयाः प्र. रात्रौ शव्यायां नृत्रयता बालानां चिकित्सा प्रमादात्पततो बालस्य रक्षाविधान बालानां गृह्माजनीस्पर्श शिर्रास दोप- शिखागमने च रक्षाविधानं., ११ भीतवालचिकित्र १९ बालानां रक्षार्थ कट्यादौ घण्टादिधारणम ९ बालानामतिसारे पूतीकादि- घृतम् बालानां हिक्काप्रतीकारः वारजननोपायः १५ भूतादिनिवारणार्थ तिलक- विधान डाकिन्यादिनिवारणार्थ धूपः ग्रहबाधानिवारणार्थ मनिष्ठाद्या वतिः पञ्चदशः पटलः । उन्मादे पुण्डरीक्षमांसयोगः मध्वादिकल्कः ३८ २२ पुण्डवादिनस्यम् आरग्वधपुष्पनस्यम द्राक्षादियोगः उन्मादापस्मारयाः कृष्मा- ण्डादिवृतं धात्रीस्वरसयोगः... १३ अपस्मारे ब्रामीवृतम ७ अपस्मारादौ ब्रह्मसहो धूपः भ्रमेनीरयोगः ९ उन्मादादी बलादिधृतम् " " " ." स्तन्यवर्धकाः कतिपययोगाः स्तन्यदोषप्रतीकारः बालपरिचय चतुर्दशः शिशुनां प्रसवक्तान्ति- निवारणम् बालानां भस्मादिना रक्षा- करणम् दृष्टिविषनिवारणम् सर्वग्रहनिवारणम् छर्दिप्रतीकारः त्रिवर्षाव पयः पिबतो बालस्य तनिवारणोपायः बालानामानाहादौ जटरे दाहविधान बालानां क्षुत्कम्पयोः प्रतीकारः रात्रौ जल्पतां दन्तांश्च संघ- ध्यतां बालानां चिकित्सा " " 15 .
११ विपयाः आये अकंवीजयोगः १८ तिमिरे भास्करमानम् पिम्पलदलादियोगः নায়িকা वतगिरि कर्णिकापुष्पा- " " १ R -- ." १५ " . " " " " 98 " ." " , " " . विषया: घोडाः पटलः । बमरोगे तुत्थरसक्रिया बमरोगे शस्त्रचिकित्सा वत्मपिडकायां करमस्वेदः कुकृणादौ नरास्थिलेपः पिलादी तुत्थाद्या वर्तिः धमरोगे तुत्थयोगः पलाशनियासादिनाम: असितपललादियोगः अणेषु तापरागयोः शान्त्यथ वेतपूलासादियोगः नेत्ररोगे पिट्योग: कुणके चिश्वास्थ्यादियोगः गिरिकर्णिकापुष्पयोगः मधुकयोगः मन्त्रवादियोगः नेत्रदाहादा कदलीफलमाननं मेघनादमूलयोग; नेत्ररोग इचप्लादिलपः स्तन्यसेचनम् बिसादिपरिषक: पित्तामंत्रणयो रोहिण्या- दिगुटिका नेत्ररोगे त्रिफलादियोगः पथ्यादियोगः बाष्पस्वेदः एरण्डसूलक्षीराश्चोतनम नत्रतोदे मेघनादादियोगः नेत्रत्रणे मेघनादफलयोगः नेत्ररोगादौ चिचापत्रस्वरसा- दियोगः नत्रराग त्रिफलायोगः विल्बादिगुटिका पिथदिरोगे दाादिरक्रिया ,, १ १ " " 10 " . " मारवयोगः मातुलशादियोगः पालाचादिगुटिका नकाये पलागनिया- मयोगः रम्भाफलादियोगः १८ पिट ट्रतगृहयोगः स्फटिकयोगः लवणयोगः आजीवाणयोगः अकलादिमधी बन्धवादियोगः पुम्पे पोत्रीदन्तादियोगः कुबेराक्षपलवस्वरसः नने तृणादिपतनचिकित्सा ११ नेत्राभिधाते बापस्वेदः बेदनारहितनेत्रशोफ- चिकित्सा... १५. नेत्ररोग भूम्यामलकोयोगः सैन्धवयोगः अर्मादौ कृष्णारिमदपत्रकल्क: नेत्ररांग अरिचादियोग: तुत्थादियोगः मरिचादियोगः सपक्षिीयोगः कर्णरोभ कदल्यादिकायः . " ९ । 99 " " ." " " ७ " १ .
पृ. ini २६ १ . , २० " " " १ ३ " . १ १ " " ७ " २१ . " " " २ " ... m " . " . .. विषयाः कर्णवावे बर्बरीमूलादितैलम ४५ कर्णशलादो आरग्वधादितैलम ,, कर्णशुले त्रयस्तैलयोगाः अर्कपत्रयोगः पतिकर्णादौ चैतनैलादियोगः , कर्णशूलादौ लिकुचरसयोगः ४६ कर्णवर्धनार्थ जलौकादिधृतम् गोशृङ्गादियोगः कर्णलावे कवरीलाइगुलयोगः पीनसे कटुत्रयादियोगः... भण्डूकपादिकषायः ओष्ठरोगचिकित्सा अधरव्रणचिकित्सा दन्तरुजायां हरितमन्ना- दिचूर्णम् दन्तदात्याथ बकुलमूलकल्कः , दन्तरोगे शरपुडखामूलयोगः मुखरोगे तण्डुलादियोगः दन्तशुले अपराजितादियोग:४७ अधिजिबादौ शुण्ठ्यादिकवल: मुखलूताप्रतीकारः मुखरोगे गण्डीराचं तैलम् शिरोरोग मधुकतनस्य मरिचाद्यागुटिका मधुकादितैलम् विधादिनस्यम् सूर्यावर्तचिकित्सा शिरोरोगे कपूरादितलम् त्रिफलाघृतम् इन्द्रलुप्ते भृङ्गराजरसादियोगः पलितादौ अकोलादितैलम् पं. विषयाः व्रण मृदादियोगाः लालासेचनम् बराटिकाहादितलम् स्नुपयोगः कुमारीयोगः कैडयादितलम् अश्वत्थपत्रलपः कदलोपत्रयोगः लिकुचादितलम् तिन्तिण्यादिस्वदः. हरिद्रादितलम जोणनालिकरतैलयोगः १३ गोकरोषयोगः सुनिषण्णकल्कलपः भूम्यामलकोतलम्... १९ वटदुग्धयोग: वणहादितैलम् एरण्डयोगः तैलाक्तचैलयोग: कपूरतैलयोग: तिलमलातकयोगः. तैलहरीतकीयोगः १५ सद्योवणे अक्षावपत्रादिकल्क: लवणयोगः दादिपल्लवयोगः अपामार्गपत्रलेपः २१ सोमपत्रयोगः गुडूचोपल्लवयोग: जीवन्तीयोग: ३ भने तण्डुलमषीयोगः ७ भग्नोपचारः भन्ने कोरदूषयोगः १७ " ७ .१ " ५ १३ । १ " " " " १ " " . " " " १ " " १३ . " " १५ aid Nared To NOT " 45 सा fəs १५ of " TAL Jon . १७ प . BA १ O IE . " M विषयाः भरे विश्वास्थ्यादिलेपः भगन्दर रसाजनादियोगः योगराजगुग्गुलुः पिडकामु हरितक्यादिलेपः मंदोजकोटे बृहतीफलयोगः पुराणवणे गुडादियोगः भेदोग्रन्यौ सूरणादिलेपः कोठे शुण्ठीयोग: बातमन्यौ तण्डलकण्डनयोगः सप्तदशः पटलः। अपच्यर्बुदयोः शरपुस्खायोगः, नाडोत्रणे चिञ्चाशलाकायोगः ताम्बूलादितैलम् चर्मकीले अजापुरीपादियोगः जले निमन्नस्य चिकित्सा अनिद्रायां कमलकन्दयोगः ५४ उपोदिकायोगः व्या हरितालादिलेपः... अरण्यतुलसीयोगः कुचपतने मुण्डिनीतैलनस्य जात्यादितैलम् कण्टकविद्धपादप्रतिकारः कण्डल्यामकोलबीजयोगः दग्धत्रणप्रतिकारः अष्टादशः पटलः । वृषणशोथचिकित्सा लिङ्गलूताचिकित्सा योनिरोगे सेव्यादितैलम् प्रियङ्ग्यादितैलम् देहदौर्गन्ध्ये पौष्करचूर्णम् द्विनिशाशुद्वर्तनम् योनितोदे तण्डुलकण्डनादिधूपः, योनिफले पारदादियोगः विषयाः पं. २.२ योनिरोगे शौचा लोधादिवाथः १ योनिसौभाग्यकराः कति पाययोगा: १८ स्त्रीवशीकरणयोगा: २२ शुक्रस्तम्भकराः कतिपययोगाः। एकोनविंशतितमः पटलः । ३ संपादिदष्टस्यायुःपरीक्षा दवाकरादिदष्टज्ञानम् ख्यादिसंपदष्टज्ञानम १५ असाध्यसपविषलक्षणानि १३ सपादिदष्टस्य सामान्य- चिकित्सा .. ५९ १७ दशाद्विपक्रामणनिवारणम् २३ सर्पदंश विशाखायोगः १ सपदिदंशे दाहयोगः... अभिमन्त्रितजलादिरोकः सर्पदंशे चिचापवयोगः सर्पविष कतिपययोगाः ११ वृश्चिकादिविष अग्निमन्था- दियोगः १५ वृश्चिकविष कतिपययोगाः उमस्वेदयोगः २१ अलकविषप्रतिकारः कृत्रिमविष तण्डुलोयमूलयोगः मूषिकविषचिकित्सा नखदन्तविषे एरण्डादिलेपः स्थावरविषे ताम्रसुवर्णयोगः ६१ वेषातस्यापथ्यानि विशतितमः पटलः । १५ / रसायनार्थ कतिपययोगाः १७ वाजीकरणाथै कतिपययोगाः ६३ १९ ग्रन्थोपसंहारः L 17 09 " " O , " M ११ " " " " 10 १२ . " HO.I ३ U ap " प! " " प प १ is
No text on this page.
आयुर्वेदीय ग्रन्थमालायां प्रसिद्धीभूता ग्रन्थाः। रसमकाशमुधाकर:-श्रीयशोधरविरचितः, तथा रससंकेत- कलिका-कायस्थाचामुण्डवैद्यविरचिता, एतद्ग्रन्थद्वयमेकत्र बदमेवोप- लभ्यते । द्वितीयं संस्करणम, मूल्य २ रूप्यको. गदनिग्रहः---श्रीशोढलवेद्यविरचितः। अस्य प्रयोगखण्डात्मकः प्रथमो भागः । अस्मिन् खण्डे वृततैलचूर्णगुटिकासवावलेहारव्याः षड- विकाराः सन्ति । द्वितीय संस्करणम् । मूल्यं २ रूप्यको. गदनिग्रहस्य द्वितीयो भाग:-कायचिकित्सा-शल्य-शालाक्य- भूततन्त्र-कौमारभृत्यागदतन्त्र-रसायन-बाजीकरण-पञ्चकर्मविध्याख्य- नवखण्डात्मकः । मूल्यं ४॥ रूप्यकाः। आयुर्वेदप्रकाश:---उपाध्याय श्रीमाधवविरचितः । द्वितीयं संस्करणं, मूल्यं २ रूप्यको। क्षेमकुतुहला--श्रीक्षेमशविरचितः पाकशास्त्रग्रन्धः । मूल्यं १२ आणकाः॥ रसरत्नाकरान्तर्गतश्चतुर्थो रसायनखण्ड:-श्रीनित्यनाथ सिद्धविरचितः । मूल्यं ८ आणकाः । राजमार्तण्ड:-श्रीभोजमहाराजविरचितः, नाडीपरीक्षा श्री रावणकृता, वैधमनोरमा-श्रीकालिदासवैद्यविरचिता, धाराकल्पः, एतद्ग्रन्थचतुष्टयमेकत्र बद्धमेवोपलभ्यते। द्वितीय संस्क- रणम् । मूल्यं ॥ रूप्यकः । रसपद्धतिः-श्रीविन्दुविरचिता, श्रीमहादेवविरचितटीकया सहिता, तथा लोहसर्वस्व-श्रीसुरेश्वरविरचितम् । एतद्ग्रन्थद्वयमेकात्र बद्धमेवोपलभ्यते । मूल्यं ।। रूप्यकः । प्रापणभृतिस्तु सर्वेषां ग्राहकैरेव देया भवेत् । प्राप्तिस्थानम् वैद्य जादवजी त्रिकमजी आचार्य होलीचकला, फोर्ट--मुंबई. १००२२ L द 19/