Carnegie Mellon University
Shataka Trayam With Commentary Of Ramachandra Budendra
Front matter
No text on this page.
SUBHASHITA-TRISATÍ
OH
BHARTRIHARI.
With the commentary of
RAMACHANDRA BUDHENDRA.
1
EDITED
BY
WÁSUDEV LAXMAN SHÂSTRÎ PANSIKAR.
Toy
www
Sixth Revised Edition.
க க ப பாட்டின் பகாங்க பலன்
We
PUBLISHED
BY
PÂNDURANG JAWAJI,
I'ROPRIETOR OF THE “NIRNAYA-SAG IR" PRESS,
BOMBAY.
1922,
Price 14 Rupees.
[ All rights reserved by the Publisher. ]
POBLISHER:- Pandurang Jaraji,
PRINTER :-Ramchandra Yesu Shedge,
Nirnaye-sagar Press,
23, Kolbhat Lane, Bombay.
॥ श्री॥
श्रीभर्तृहरियोगीन्द्रविरचिता
सुभाषितत्रिशती।
(अर्थात् श्रीभर्तृहरिकृतशतकत्रयम् ।)
श्रीरामचन्द्रबुधेन्द्रविरचितया
सहृदयानन्दिन्याख्यया व्याख्यया समेता ।
पणशीकरोपाहविबबरलक्ष्मणशर्मतनुजनुपा
वासुदेवशर्मणा संशोधिता।
(षष्ठं संस्करणम् ।)
तच
मुम्बयां
पाण्डुरङ्ग जावजी
इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालयेऽङ्कयित्वा प्रकाशिना ।
शाकः १८४४ सन १९२२.
मूल्यं १॥ सपादरूप्यकः
No text on this page.
विषयानुक्रमणी। विषय.। लोकाः पृष्ठे। १. नीतिशतकम् । ... प.. 4.60 ... ... २१- ३० १५-२० .00 :: :: 2. मङ्गलम् १ मूर्खपद्धति विद्वत्पद्धति ३. मानशौर्यपद्धति. १ अर्थपद्धति ... * दुर्जनपद्धति . सुजनपद्धति- - परोपकारपद्धतिः ८ वैर्यपद्धति दैवपद्धति. कर्मपद्धति o . ६१- ७० ३५-४२ . P ... ४७-५१ 4. ... क .. क ... ram 248 8.. 0. HD ०७. 0. -- .. २. श्टङ्गारशतकम् । - स्त्रीप्रशसा ५६-६७ २. सभोगवर्णनम् ६७-७१ : कामिनीगर्हणम् ८ सुविरक्तदुर्विरक्तपद्धति ६१- ८० ५. ऋतुवर्णनम् ...८१-१००१००-११० ३. वैराग्यशतकम् । .. तृष्णादपणम् १. १०१११-११७ विपयपरित्यागविडम्बना ११- २०११७-१२३ ३. यानादैन्यदूषणम् . २१- ३० १२३-१३१ ४. भोगास्थैर्यवर्णनम् . ३१- ४० १३१-१३८ ५. कालम हिमानुवर्णनम् ४१- ५० १३८ १४६ ६. यतिनृपतिसवादवर्णनम् ५१-६० १४६-१७२ ७. मन सबोधननियमनम् ६१-७० १५२-१५८ ८ नित्यानित्यवस्तुविचारः ७१-८० १५८-१६४ ९. शिवार्चनम्... ८१- ९०१६४-१६९ १०. अवधूतचर्या ९१-१०० १६९-१७५ ... .. ... ... .. 06. .. ... 0. .. ...
No text on this page.
॥ श्रीः॥ श्रीभर्तृहरियोगीन्द्रविरचिता सुभाषितत्रिशती। श्रीरामचन्द्रबुधेन्द्रविरचितया सहृदयानन्दिन्याख्यया व्याख्यया समेता। १. नीतिशतकम् । अथ व्याख्यानपीठिका। वन्देऽहं रघुनन्दनाङ्ग्रिसरसीजातद्वयीमद्वया- मन्दानन्दमरन्दबिन्दुलहरीसदोहनिष्यन्दिनीम् । यत्रेन्दिन्दिरजातवन्मुनिमनोवृन्दं कृतवाश्रयं काचित्तुन्दिलतामविन्दत परानन्दावबोधोदयात् ॥ श्रीमस्त्रिलिङ्गदेशे स जयति विवुधश्रेणिकोटीरकोटी- कोटीमाणिक्यभूतागणितगुणगुणोऽखण्डपाण्डित्यशौण्डः । धीरः शाण्डिल्यगोत्रः सकलकविकुलाहादिसूक्तिप्रवीणो वीणोदाहार्य विद्याविवरणनिपुणो रामचन्द्रो बुधेन्द्र. ॥ वेदान्तोदन्तचिन्तामतनुत चतुरेणान्तरेणाकुतर्क तक चातर्कयद्यः फणिपतिवचसां पारमाधत्त योगे। योगे य साख्यसख्यागमसमयविवावायलं तन्त्रविद्या- विद्यायामिन्यवीश. स्फुरति निरुपमावञ्चवंशाम्बुराशौ ॥ विप्रेणाभूतपूर्व फलमधितपसालम्भि सूर्यप्रसादा- छब्ध्वा तस्मात्स्वयं तत्प्रचुरतरजरापञताकुचनान्यम् । हिला मोहं स्वकान्तास्वतिविमलधिया तं निषेव्याप्तभव्यो योगीन्द्रो भर्तृहाह्वय इह कुरुतेऽद्यापि विद्याविलासम् ॥ सोऽहमेतत्प्रणीतायाः सुभाषितकृते. कृती। कुर्व सहृदयानन्दिन्याख्या व्याख्या सता मुदे ।। व्याकुर्वन्ति निबद्धगौरवभयान्नव स्फुटं युक्तिमि- ये तेऽध्येतृजनप्रतारणपराः का नैपुणी वा ततः। वैखर्या वचसां कवीशहृदयं प्रख्यापयन्नन्वय- द्वारैवाहमिहाखिलं प्रविवृणोम्युक्तिव्रजोज्जृम्भितम् ॥
२ सुभाषितत्रिशत्यां 4 अथ मङ्गलमू। इह खल्वत्रभवानशेषविशेषसारपारदृश्वा विश्वातिशायिगुणगरिमावतारो भ- तृहरिनामा महायोगीश्वरो निजयोगमहिमानुसारेण करतलामलकीकृताखिलविरि- श्चिप्रपञ्चस्तृणकणमिव जगज्जालमालोकयन्, परमकारुणिको लोकव्यवहारपरि- ज्ञानखिन्नान्त.करणो लोकानुजिघृक्षया नीति-शृङ्गार-वैराग्यवर्णनप्रख्यं सुभाषि- तत्रिशत्याख्यं कंचित्प्रबन्धं प्रारभमाणः, तत्परिपन्थिनिर्मन्थनद्वारा परिसमाप्ति- प्रचयगमनलक्षणफलमाशासानः, शिष्टाचारपरिप्राप्तविशिष्टपरंज्योतीरूपेष्टदेवता- नमस्काराकार मङ्गलमादौ निबध्नाति- दिकालाधनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥१॥ दिगिति । दिश. प्राच्यादिदिक्प्रदेशा , काला भूतभविष्यद्वर्तमानरूपा, आ- दिशब्दसगृहीतानि वस्तूनि तथा च दिकाला आदयो येषां तानि दिकालादीनि । अतद्गुणसविज्ञानो वहुव्रीहिः । अन्यथा तेपामप्राधान्येन विनाभाने शास्त्रविरोध. स्यात् । तैरनवच्छिन्नापरिक्लप्ता । विभुलानित्यत्वादेकत्वाच देशत कालतो वस्तु- तश्चापरिच्छिन्नेत्यर्थ । अत एव अनन्तापरिमिता । त्रिवि वपरिच्छेदशन्यत्वाद- खण्डदण्डायमानेत्यर्थः । एतेन सजातीयविजातीयवगतभेदत्रयराहित्यमर्थात्सू- चितमिति ज्ञेयम् । 'आनन्द-' इति पाठ आनन्दचिच्छब्दयोर्द्वन्द्वान्ते श्रूयमाणो मात्रशब्द. प्रत्येक संवध्यते। तथा चानन्दमात्रा आनन्दमयी, चिन्मात्रा ज्ञानघना च । चिदेकरसेति यावत् । तादृशी मूर्तिर्यस्य तस्मै । एतद्रूपायेत्यर्थः । 'सत्यं ज्ञानमनन्तं ब्रह्म', 'एकमेवाद्वितीयं ब्रह्म', "विज्ञानमानन्दं ब्रह्म', 'आन- न्दो ब्रह्मेति व्यजानात्', 'आनन्दमयोऽभ्यासात्' 'सत्यं ज्ञानमनन्तं यत्सानन्द ब्रह्म केवलम्' इत्यादि श्रुतिस्मृतिकदम्बकमत्र प्रमाणमिति भावः । अत्र बहु- बीहिराश्रयणीयः । अन्यथा 'इकोऽचि विभक्तौ' इति नुमि 'मूर्तिने' इति स्यात् । न च 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' इति न पुंवद्भाव इति वाच्यम् । मूर्तिशब्दस्य नियतस्त्रीलिङ्गत्वेनाभाषितपुस्कत्वात् । तस्माद्यथाश्रुतमेव साधु मन्तव्यम् । भाषितपुंस्कत्वस्यानित्यत्व विवक्षाया तु बहुव्रीहिर्विधीयते तदा न काप्यनुपपत्तिरिति सर्व सुस्थम् । तथा स्वानुभूतिरात्मानुभव एव एक मुख्यम- द्वितीयं वा मानं खप्रकाशसाधनं यस्य तस्मै । खयंप्रकाशसविद्रूपत्वादन्यप्रदीप- वत्स्वपरप्रकाशकतया स्वसाक्षात्कारस्वानुभव एव प्रमाणं न तु घटादेरिव चक्षुरादिप्रामाणिकत्वमिति भावः । एतेन वृत्तिविषयत्वमेव, न तु फलविष- यत्वमित्यवधेयम् । तदुक्तमायें.-'खबोधेनान्यबोधेच्छा बोधरूपतयात्मनः । न दीपस्यान्यदीपेच्छा यथा खात्मप्रकाशने ॥' इति । तथा शान्ताय अवि- द्यातत्कार्यसबन्धशून्यत्वात्प्रसन्नाय । 'निष्कल निष्क्रिय शान्तम्' इत्यादि- श्रुते । तेजसे ज्योतीरूपाय ब्रह्मणे नमः प्रह्वीभाव. । 'नमःखस्ति-' इत्या- दिना चतुर्थी । अत्र 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्र- धन्ते, वीरपुरुषाण्यायुष्मत्पुरुषकाणि च भवन्ति, अध्येतारश्च प्रवक्तारो भवन्ति' १. नीतिशतकम्। ३ ne इति भगवद्भाष्यकारवचनप्रामाण्यात् 'आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मु- खम्' इत्यादिदण्डिवच नाचादौ नमस्काररूपम्, अन्ते परब्रह्मस्मरणलक्षणम् , मध्ये तदुभयात्मकं च मङ्गलमाचरितमित्यवगन्तव्यम् । 'अथ शब्दानुशासनम्' इत्यादी सर्वत्र शास्त्रारम्भे मङ्गलार्थत्वेनाथशब्दप्रयोगदर्शनात्तस्य तदर्थकत्वं च । 'मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ' इत्यभिधानात्, ‘ओंकारश्वाथशब्दच द्वावेतौ ब्रह्मण पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥' इति स्मरणाच्च । तच्च निर्विघ्नप्रारिसितपरिसमाप्तिकामेनावश्यं कर्तव्यम् । 'परिसमा. प्तिकामो मङ्गलमाचरेत्' इत्यनुमितिश्रुतिबोधितकर्तव्यताकखात्, अनुमानं च- मङ्गलं वेदबोधितकर्तव्यताकम् , अलौकिकाविगीतशिष्टाचारविपयकत्वात, दर्शा द्याचारवदिति । नन्वन्वयव्यतिरेकाभ्यां तस्य कारणत्वानिश्चयात्कथमवश्यकत. व्यताकत्वम् । तथा हि-शाबरभाष्यादौ कृतेऽपि मङ्गले समाप्तेरजातत्वात किरणावल्यादावकृतेऽपि जातत्वादिति चेत्, सत्यम् । क्वचिद्विन्नबाहुल्येन तत्स मसंख्याकमङ्गलाभावात् क्वचित्प्राचीनमङ्गलबाहुल्याच व्यत्यय इत्यलगति- प्रसङ्गेन । अत्र चारुत्वेन यथावद्वस्तुवर्णनात्स्वभावोक्तिरलंकार.---'स्वभावोक्ति. रसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् । श्लोकाख्यमेतदानुष्टुभं वृत्तम्- 'पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः । गुरुषकं च सर्वेपामेतच्छ्लोकस्य लक्षणम् ॥' इति वचनात् ।। अथ मूर्खपद्धतिः। प्रवन्धस्यास्य विविधखरूपपरिज्ञानार्थ तत्तत्पद्धतिनिबन्धनतया चिकीर्षितत्वात्त- त्र मूर्ख-विद्वत्-पद्धत्योावर्तकमावस्यावशिष्टत्वेनोभयनिरूपणे संप्राप्ते प्राथम्ये मु. ख्यप्रसङ्गसंगत्योरन्यतरस्याभावादशोकवनिकान्यायप्रायत्वाचादौ मूर्खपद्धति वर्ण- यितुमारभते । तत्र प्रथमं सहृदयाभावात्सुभाषितस्य वक्तुमनवकाश इत्याह- बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥१॥ बोद्धार इति । बोद्धार. परिज्ञातारः 'बुध अवगमने' इत्यस्माद्धातोस्तृच् । मत्सरेणासूयया परोत्कर्षासहनेन प्रस्ताः समाक्रान्ता. । न तु हृदयालवः, अतो नानुमोदन्त इति भावः। प्रभवो राजानः मयदूषिता गर्वदुर्विनीताः। न तु विनय प्रहाः, अतो न शृण्वन्तीति भावः । अन्ये उत्तोभयव्यतिरिक्तजना अबोधेनाज्ञा- नेनोपहता नष्टात्मानः । ते नाधिकारिण., अतस्तेषामाकर्णनयोग्यतापि नास्तीति भावः । तस्मात्सुभाषितं साधुभाषणम् । प्रियवचन मिति यावत् । भाषते. कर्तरि क्तः । अङ्गेऽन्तरङ्गे जीर्णमन्तर्हितम् । न त्वद्यापि बहि प्रवृ. त्तम् । तथापि वक्ष्यामीति वाक्यशेषः । वृत्तं पूर्ववत् ॥ ननु कीदृशो मूर्खः, यतस्तत्वरूपं निरूप्यते तत्राह- अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥२॥ ।
सुभाषितत्रिशत्यां अज्ञ इति । न जानातीत्यज्ञ अकिंचिज्ज्ञः । मूढ इति यावत् । सुखमक्लेशेन- राध्य. समाधेयः । तस्योपदेशमात्रेणैव विस्रम्भसंभवादिति भावः । विशेषं जा- नातीति विशेषज्ञ तत्त्ववेत्ता सुखतरम् । अत्यन्तानायासेनेत्यर्थः । 'द्विवचन- विभज्य-' इत्यादिना तर प्रत्यय । आराध्यते समाधीयते । तद्बुद्धे. सर्वदा विशेषग्रहणमात्रपर्यवसानादिति भावः । कितु ज्ञानं शास्त्रजन्यसंवित् तस्य लवेन दुर्विदग्वं पण्डितमानिनं नरम् । मूर्खजनमित्यर्थः । ब्रह्मापि कर्तुमकर्तुमन्यथा- कर्तुं समर्थश्चतुर्मुखोऽपि किमुतान्य इति भाव । न रजयति रजयितुं न शक्नोति । तन्मनसः सूक्तिसहस्रैरपि समाधानासंभवादिति भाव । उक्तोभयमभ्यस्थो मूर्ख इति फलितार्थ. । रञ्जनसबन्धेऽप्यसंबन्धामिधानादतिशयोक्तिभेद । अज्ञो विशेषज्ञ इत्यत्र च 'आतोऽनुपसर्ग क.' इति कप्रत्यय , न तु 'इगुपधज्ञा- इत्यादिना कप्रत्ययः । अत एवाह भगवान्कात्यायन 'अकारादनुपसर्गात्कर्मो- पपदो न भवति प्रतिषेधेन' इति वार्तिकव्याख्याने भाष्यकारेणार्थज्ञशब्दमुदा- हत्याप्यर्थत्वस्य समर्थनात् । एतच्चासकृदुक्तं मदीयशृङ्गारशृङ्गाटकेऽपि-रुक्मि- गीरसमयं समयज्ञ' इत्यादिषु । एवमुत्तरत्रापि द्रष्टव्यम् । आयोवृत्तभेदोऽय- मुन्नेयः । उत्तरत्रापि भेदान्तराण्युत्नेयानि ॥ अश्र द्वाभ्यां मूर्खजनचित्तस्य दुराराध्यतामाह- प्रसह्य मणिमुद्धरेन्मकरवत्रदंष्ट्रान्तरा- त्समुद्रमपि संतरेत्प्रचलदुर्मिमालाकुलम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये- न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ३ ॥ प्रसह्येति । मकर शिशुमाराख्यो जलग्राहविशेषस्तस्य वक्रे वदनगरै दंष्ट्राणां निशिताग्रदशनविशेषाणामन्तरादन्तरालात् । अतिसकटादित्यर्थः । प्रसह्य बलात्कारेण मणि रत्नम् । दुरुद्धरमपीति भावः । उद्धरेदुद्धर्तुं शक्नुयात् । जन इति शेष । केनचिदवधानेनानयेदित्यर्थः । तथा प्रचलन्तः दोलायमाना ये ऊर्मयस्तेषां मालामि परम्पराभिराकुलं संकुलम् । उल्लोलकल्लोलोज्जृम्भितमित्यर्थः । समुद्रमपि । दुस्तरमपीति भाव । सतरेत्सम्यक्तरितुं शक्नुयात् । केनचित्लवन- साधनेनेति भाव । 'लवयेत्' इति पाठे हनुमानिव केनचिच्छक्तिविशेषेण लवितुं शक्नुयादित्यर्थः । तथा कोपितं संजातकोपम् । कोपवशात्सफूत्कारं जिह्वया सृक्विप्रान्तौ लेलिहानमित्यर्थः । तदस्य संजात तारकादिभ्य इतच्' इतीतच्प्रत्यय । तारकादिराकृतिगण । भुजङ्गं सर्पमपि । दुर्धरमपीति भावः । शिरसि केशपाशे पुष्पेण तुल्यं पुष्पवत् । पुष्पसजमिवेत्यर्थः । तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । धारयेद्धारयितुं शक्नुयात् । मणिमन्त्रादिसाधनेनेति भावः । किं तु प्रतिनिविष्टमभिनिवेशाक्रान्तम् । दुराग्रहाविष्टमिति यावत् । मूर्खजनस्य दुर्विदग्धस्य चित्तं नाराधयेत् आराधयितुं समाधातुं न शक्नुयात् । उपायाभावादिति भावः । मकरदंष्ट्रान्त स्थमण्युद्धरणादिप्रायं मूर्खजनचित्तसमा. राधनमिति श्लोकार्थः ॥
१. नीतिशतकम्। App एवं दुर्लभवस्तुसाधने दुष्करकार्यकरणे च संभावनया शक्तिरुक्ता, न मूर्ख- चित्तप्रसाधने ॥ इदानीमत्यन्तदुर्लभवस्वपि प्रसधायेत्, न तु तचित्तमित्याह- लभेत सिकतासु तैलमपि यत्नतः पीडय- पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः। कदाचिदपि पर्यटशशविषाणमासादये- न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥४॥ लभेतेति । यत्नतः कुतश्चित्प्रयत्नात् । पञ्चम्यास्त सिः । पीडयन्केनचिद्यन्त्रेण समर्दयन् । सिकतासु वालुकास्वपि । कालत्रयेऽप्यन्त स्नेहानधिकरणभूताख- पीति भावः । तैलं स्नेहं लभेत लब्धुं शक्नुयात् । 'स्नेहे तैलच्' इत्यनुशासना- मात्र तिलसंबन्धवशङ्काकलङ्कावतार इति द्रष्टव्यम् । तथा पातुमिच्छा पिपासा । 'पा पाने' इत्यस्माद्धातोः सन्नन्तास्त्रियामप्रत्यये टाप् । तयादित. पीडित । तृष्णातुरः सनित्यर्थः । मृगतृष्णकासु मरुमरीचिकाखपि वा जलश्रममात्रदा- यिनीष्वपीति भावः । मृगतृष्णाशब्दात्वार्थ कप्रत्यये 'प्रत्ययस्थात्कारपूर्वस्यान इदाप्यसुप' इतीकार. । सलिलं जलं पिबेत्पातुं शक्नुयात् । 'पाघ्रामा-' इत्या- दिना पातेः पिबादेशः । तथा पर्यटन तत्र तत्र वनान्तरे संचरन् । कदाचित्क- स्मिश्चित्समये शशस्य मृगविशेषस्य विषाणं शृङ्गमपि । वाङ्मात्रगोचरमपीति भाव । आसादयेदविगन्तुं शक्नयात् । न तु प्रतिनिविष्टेत्यादि पूर्ववत् । सिक- तातैललाभादिवदत्यन्तदुर्घटं मूर्खचित्तसमाराधनमिति भावः । भृगतृष्णिकाज- ल-शशविषाणयोर्गगनारविन्द-वन्ध्यापुत्रवदत्यन्तासंगतत्वमुक्तं सुरेश्वरवार्तिके- 'मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः । एष वन्ध्यासुतो याति शशक्ष- धनुर्धर ॥' इति । पद्यद्वयेऽप्यस्मिन्मणिमुद्धरेदित्यादौ शक्यार्थे विधिलिड् । तथा अपिशब्द: समुच्चये संभावनाया चेत्तदनुवाद इति विवेकः । उभयथाय- नुशासनसंभवात्, प्रकृतार्थोपपत्तेश्च । यथाहामरसिह.-'गर्दासमुच्चयप्रश्नशङ्का- सभावनास्वपि' इति । अत्र समुद्रं लवयेदित्युदाजहार खामी । अत्र मण्युद्ध- रणाद्यसंबन्धेऽपि तत्संबन्धाभिधानादतिशयोक्तिः । श्लोकद्वयमेतत्पृथ्वीवृत्तम् । तदुक्कं केदारेण वृत्तरत्नाकरे-'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति । अतएव 'सिकतासु तैलम्' इत्यत्र, 'मृगतृष्णिकासु सलिलम्' इत्यत्र, 'मूर्खजनचित्तम्' इत्यत्र च अष्टमवर्णे विहितस्य विच्छेदस्याभावाद्यतिभ्रष्टनामा दोष । इममेव केचिदपदस्थयात वदन्ति । तदुक्तं विद्यानाथेन-'यत्र स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यते' इति 'कुत्रचित्पदमध्ये तु यतिमिच्छन्ति सूरयः। यत्र पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥' इति दर्तिल (१)वचनमपि समाधातुं न शक्नोति । पूर्वापरभागयोरेकवर्णगतत्वात् । 'निरङ्कुशाः खलु कवयो भवन्ति सर्वप- थीना.' इत्यलमतिप्रपञ्चेन ॥ अथ मूर्खानुनयेच्छोरत्यन्ताविवेकितामाह- व्यालं बालमृणालतन्तुमिरसौ रोर्बु समुज्जृम्भते भेत्तुं वज्रमणि शिरीषकुसुमप्रान्तेन सन्नह्यति ।
६ सुभाषितत्रिशत्यां माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते मूर्खान्यः प्रतिनेतुमिच्छति बलात्सूक्तैः सुधास्यन्दिमिः ५ व्यालमिति । असौ पुमान्व्यालं दुष्टगजम् । न तु साधारणजन्तुमित्यर्थः । 'व्यालो दुष्टगजे सर्प' इति विश्व । बालमृणालतन्तुभि कोमलबिसकिसलय- सूत्रैः । ईषन्निरोधस्याप्यनुपयुक्तैरिति भावः । रोर्बु नियन्तुं समुरज्जम्भते कृत- प्रयत्नो भवतीत्यर्थ. । तथा वज्रमणिं हीराख्यमणिविशेषम् । अलोहलेख्यम- पीति भाव । 'हीरो वज्रश्च कथ्यते' इति हलायुधः । शिरीषकुसुमस्यातिकोमल- युप्पविशेषस्य प्रान्तेनाञ्चलेन भेत्तुं विदारयितुं सन्नह्यति । उद्युक्तो भवतीत्यर्थः । तथा क्षाराम्बुधेलवणार्णवस्य, न तु खल्पजलाशयस्य, मधुबिन्दुना क्षौद्रविप्लुषा । न त्वविच्छिन्नमधुधारासपातेनेत्यर्थः । माधुर्यं मधुरगुणं रचयितुं संपादयितु- मीहते काइति । कोऽसावित्यत आह-य. पुमान्बलाद्वाक्पाटवात् सुधास्य- न्दिभिरमृतस्राविमि । अतिमधुरैरित्यर्थः । सूक्तैः प्रियोक्तिमि । कर्तरि क्तः । मूर्खान्प्रतिनेतुं समाधातुमिच्छति सोऽसाविति संबन्धः । मृणालतन्तुभिाल- निरोधनादितत्पर इव मूर्खानुनयपरोऽग्यत्यन्ताविवेकीति भाव । अत्यन्तदुष्कर मूर्खप्रसाधनमिति फलितार्थः । अत्र य प्रतिनेतुमिच्छति वाञ्छति असौ समुजम्भत इत्यादि विशिष्टानुनयेच्छाविजृम्भणादिवाक्यार्थयोनिर्दिष्टैकत्वासंभ- यात्सादृश्यलक्षणायामसंभवद्वस्तुसबन्धो वाक्यार्थ. । वृत्तिनिदर्शनाभेदः । न दृष्टान्त.। वाक्यभेदेन प्रतिबिम्बकरणाक्षेपे तस्योत्थानात् । अत्र तु चाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यताया तदभाव इत्यलंकारसर्वखकारः । दशार्दूलविक्रीडितं वृत्तम्-'सूर्याश्वर्मसजास्तता. सगुरव शार्दूलविक्रीडितम्' इति लक्षणात् ॥ अथैषां गतिमाह- स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः। विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ६॥ लायत्तमिति । विधात्रा ब्रह्मणा का स्वायत्तमात्माधीनम् । न तु परोपदेशसा- पेक्षम् 'अधीनो निम्न आयत्त.' इत्यमरः । एकान्तहितमत्यन्तहितकारि । खाव- गुणाच्छादकत्वादिति भावः। तथा विशेषतो विशेषाकारेण सार्वविभक्तिकस्तसिः। सर्वविदा समाजे सर्वज्ञसभायां विभूषणमुपस्कारहेतुभूतत्वाद्भूषणप्राय मौनं तूष्णीं- भाव. कर्म । 'इगन्ताच लघुपूर्वात्' इत्यण् । अपण्डितानाम विदुषां संवन्धिन्या अज्ञताया मौढ्यस्य छादनमाच्छादकं सत् विनिर्मितं रचितम् । अतोऽपण्डितैनि- जमौट्यसंगोपनार्थ मौनेनैव वर्तितव्यम् । इयमेवैतेषां गति । अन्यथा हास्यास्प- दता स्यादिति भाव । 'एकान्तकृतम्' इति पाठे तु कृतं कर्म । भावे तः। ए- कान्तकृतं रहस्यनुष्ठितं कर्म अज्ञतायाइछादनं सत् विनिर्मितम्, अपण्डितानां मौनं चाय १. नीतिशतकम् । ७ । भूषणं सत् विनिर्मित मिति प्रत्येकमन्वयो द्रष्टव्य । अज्ञताच्छादनार्थमेकान्त एव कर्म कर्तव्यम् , अपण्डितैौनिभिरेव स्थातव्यम् । अन्यथा स्वरूपप्रकाशनेनापहा- सास्पदता स्यादिति भावः । उपजातिवृत्तम् , इन्द्रोपेन्द्रवज्रायुगिति लक्षणात् । तौ कीदग्विधौ । 'स्यादिन्द्रवज्रा यदि तो जगौ गः । उपेन्द्रवज्रा जतजस्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ता. ॥' इति वृत्तरत्नाकरे॥ अथ कस्यचिदनुभविन परान्प्रति खानुभवप्रकारमाह- यदा किंचिज्ज्ञोऽहं गज इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किंचित्किचिदुधजनसकाशाद्वगतं तदामूर्यो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ७ ॥ यदेति । अहं किचिज्ज्ञोऽल्पज्ञ सन् यदा यस्मिन्समये गज इव मदेन दर्पणान्धः कर्तव्याकर्तव्य विवेकशून्यः समभवं जातोऽस्मि, तदा तस्मिन्समये सर्वज्ञोऽशेष- ज्ञोऽस्मीति मम मनोऽवलिप्तं गर्वितमभवत् । 'अल्पविद्यो महागीं' इति न्याया- दल्पज्ञत्वस्यैव गर्वहेतुत्वादिति भाव । 'अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च' इति विश्वप्रकाश । यदा बुधजनसकाशात् । विद्वज्जनमुखादित्यर्थ । 'आख्यातोपयोगे' इत्यपादानत्वात्पञ्चमी । किचित्किचि स्वल्पं स्वल्पम् । शास्त्रबोधिताचारादिकमिति शेषः । अवगतं ज्ञातम् , तदा मूल् मूढोऽस्मीति मे मम मदो ज्वर इव व्यपगतो निर्गत । अभूदिति शेष । ज्वरवद्विकारकारित्वान्मदस्यैतत्साम्यमित्यवगन्तव्यम् । 'आचार्यवान्पुरुषो वेद' इति श्रवणादाचार्यावगत विद्यस्यैव विवेकसंभवादिति भावः । अल्पज्ञोऽपि सन्यः सर्वज्ञमात्मानं मनुते स एव मूर्ख । यस्तु सर्वज्ञोऽपि मूढमानी भवति स एव विद्वानिति विवेकः । मदो गर्वहेतुः, गुरुशुश्रूषा विनय- हेतुरिति फलितोऽर्थ । यद्वा एतावन्तं कालं मदवशान्मूोऽस्मि, इदानी गुरु- शिक्षावशाद्विवेकावगतिरिति वा योजनीयम् । शिखरणी वृत्तम्-'रसै रुदै- श्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणात् ॥ मूर्खस्यातिनैच्यं दृष्टान्तमुखेनाह- कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसप्रीत्या खादन्खरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ८ ॥ कृमिकुलेति । श्वा शुनक. कृमिकुलैरमेध्यमध्योत्पत्तिमदपादजन्तुसंततिभिश्चितं व्याप्तम् । लालाक्लिन्नं वसापूरार्द्रम् । यद्वा लाला सृणिका । दन्तान्तर्जलमिति यावत् । 'सृणिका स्यन्दिनी लाला' इत्यमरः । तया क्लिन्नम् । खादनसमये तस्यास्तत्र सव- णादिति भाव. । विगन्धि दुर्गन्धि । विशब्दस्य पूतिपर्यायत्वविवक्षायां 'गन्धस्य' इत्यादिना इकारान्तादेशः। यद्वा विगन्ध आमगन्धोऽस्सास्तीति विगन्धि। एवं २ सु. त्रि.
८ सुभाषितत्रिशत्यां जुगुप्सितं निन्दितं हेयम् । तदपि निरामिपं मासलेशशून्यं तदपि खरास्थि रासभ- कीकसं। निरुपम उपमानरहितो यो रसः खादस्तत्र या प्रीतिः प्रेम तया खादन्भ- क्षयन् । पार्श्वस्थं अन्तिकस्थम् । 'सुपि स्थ' इति कप्रत्यय । सुरपतिमिन्द्रमपि किमुतान्यमिति भाव । विलोक्य न शङ्कते न लज्जते । तथाहि क्षुद्रो जन्तुर्नीच- जन्तु परिग्रहे खीकृतवरतुनि फल्गुता तुच्छत्वं न गणयति । न मनुत इत्यर्थः । जुगुटि सतकर्माचरणतत्परो मूल्ऽप्येवं न महद्विगर्हणाद्विभतीति भाव । 'पत्नी- परिजनादानमूलशापा. परिग्रहा' इत्यमर । ‘फल्गु तुच्छमसारं च' इति यादवश्च । अत्राप्रस्तुतवृत्तान्तकथनात्प्रस्तुतमूर्खजनप्रतीतेरप्रस्तुतप्रशंसालंकार । 'अप्रस्तु- तस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥' इति लक्षणात् । अयं चोक्तार्थानुप्राणित इति संकर.। हरिणीवृत्तम्---'भवति हरिणी न्सौ नौ स्लौ गो रसाम्बुधिविष्टपै' इति लक्षणात् ॥ अथाविवेकस्यानर्थादिकथनद्वारा विवेकस्यावश्यकत्वं प्रदर्शयति- शिरः शार्व स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अथो गङ्गा सेयं पदमुपगता स्तोकमथवा विवेकभ्रष्टानां भवति विनिपात. शतमुखः॥९॥ शिर इति । अत्रोत्तरवाक्ये तच्छब्दस्य विद्यमानत्वाद्यच्छब्दोऽध्याहर्तव्यः । यत्तदोनित्य सबन्धात् उत्तरवाक्यस्थयच्छब्दस्यैव पूर्ववाक्यतच्छब्दानपेक्षितत्वनि- यमात् । तथाच या गङ्गा वर्गातू खर्लोकात् । शर्वस्येदं शार्व ऐश्वरम् । 'ईश्वर शर्व ईशान.' इत्यमरः । तस्येदम्' इत्यणप्रत्ययः । शिर शीर्ष उपगतेति सर्वत्रानुष- ज्यते । प्रथममिति शेषः । तदनु पशुपते. शिवस्य शिरस्त शीर्षात् । पञ्चम्यास्तसि.। क्षिति धरतीति क्षितिधरस्तं हिमवन्तम् । पचायच् । उपगता। महीं धरतीति महीध्र । मूलविभुजादित्वात्कप्रत्यय । यथाह वामन - 'महीध्रादयो मूलविभु- जादिदर्शनात्' इति । अत एव 'महीने शिखरिश्मामृत्' इत्याद्यमर । उत्तुजादुन्न- तान्महीधाद्धिमवदाख्यक्षितिधरात् अवनिं भुवमुपगता। अवनेश्चापि जलधि समु- द्रमुपगता । 'नदीना सागरो गति' इति, 'गङ्गा सागरपूरणी' इति वचनादिति भाव. । अथो अनन्तरम् । 'मङ्गलाऽन्तरारम्भप्रश्नकात्यैप्वथो अथ' इत्यमर । सेयं परिदृश्यमाना गङ्गा मन्दाकिनी स्तोकं अल्पम् । परिमितमिति यावत् । पदं स्थानमुपगता प्राप्ता । यद्वा अध उक्तप्रकारेणाध प्रदेशे पाताले वा पदमिति योजना । अथवा । तथाहीत्यर्थ । पक्षान्तरे वा । विवेकभ्र- टाना विवेकशून्याना स्थानभ्रष्टाना च शतमुखो बहुप्रकारो विनिपातो भङ्ग अधोऽध पतनं च भवति । विवेकयुक्ताना तु नैवम् । अतो विवेकान भ्रंशित- व्यमिति भावः । यत सकललोकमहिताया अपि गङ्गाया भ्रंशवशादी- गवस्थापत्ति, किमुतान्येषामिति विवेकस्यात्यन्तावश्यकत्वमित्यवगन्तव्यम् । तत्रभवान्भगीरथोऽश्वमेधीयाश्वान्वेषणतत्परतया पातालमुपग-
१. नीतिशतकम् ।
तानां कपिलविलोचनानलभस्मीकृताना सगरकुमाराणां ऊलोकप्राप्यर्थ खर्लो.
कात्सुरसरितमवतारयामासेति पौराणिकी कथात्रानुसंधेया । अत्रानेकस्मिन्नाधारे
क्रमेणैकस्या आधेयभूताया गङ्गाया स्थितिकथनात्पर्यायाख्योऽलंकार । तदुक्तं
विद्यानाथेन'--'क्रमेणैकमने कस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथवानेक पर्या-
यालंकृतिस्तथा ॥' इति । शिखरिणीवृत्तम् । लक्षणं तूक्तम् ॥
अथान्यादीना निवारणे शास्त्रप्रतिपादितजलादिरूपहेतून्प्रतिपाद्य मौख्यस्य
निवारणे शास्त्राभावं हेत्वभावं च स्फुटीकुर्वन्नाह-
शक्यो वारयितुं जलेन हुतभुक्शूर्पण सूर्यातपो
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गौर्गर्दभः।
व्याधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रैः प्रयोगैविष
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥१०॥
शक्य इति । हुतभुक् हुतं होमद्रव्यं हवि पुरोडाशवपादि भुनक्तीति हुतभुक
वैदिकानि । अत्र तु गृहादिदाहकृत् लौकिकाग्निरिति मन्तव्यम् । जलेनोदकेन
वारयितुं निवारयितुं शक्य. । एवंरीत्या सूर्यातपः सूर्यस्य रवेरातप. शूर्पण वार-
यितुं शक्य इति पदद्वयस्योत्तरत्राप्यनुपङ्ग इति मन्तव्यम् । समदो मदसहितो
नागेन्द्रो गजश्रेष्ठः । निशिताङ्कुशेन तीक्ष्णाङ्कुशेन । गौवृषभो गर्दभः रासभश्च
दण्डेन । व्याधिः कुष्ठादिरोगो भेषजसंग्रहैरौषधसंग्रहणैश्च । अत्र चकारान्महा-
मन्त्रजप-होम-सुरार्चन-दानादिकमपि गृह्यते । तच्छान्तिरोषधैर्दानै पहोमसुरा-
चनैः' इति स्मरणात् । विषं कालकूटादि विविवर्नानाविधैर्मन्त्र मन्तारं त्रायन्ते
रक्षन्तीति मन्त्रास्तैः प्रणवादिभिर्विविधै. प्रयोगैश्च । निवारयितुं शक्यमित्यर्थः ।
तस्मात्सर्वस्य प्राणि हिंसाकारणीभूतदुष्टजन्तुजातस्य शास्त्रविहितं शास्त्रविधिचो-
दितमौषधमस्ति । मूर्खतानिवारणसमर्थ सुभाषितादिरूपं नास्ति शास्त्रविहितं न
वर्तते । शार्दूलविक्रीडितं वृत्तम् । लक्षणं तूक्तम् ॥
इति नीतिशतकव्याख्याने मूर्खपद्धतिवर्णनं नाम प्रथमं दशकम् ।
:
--
अथ विद्वत्पद्धति.।
अथ मूर्खपद्धतिवैलक्षण्येन विद्वत्पद्धतिं वर्णयति । यद्वा यदुक्तं विवेकस्यात्य-
न्तावश्यकत्वं तस्य शास्त्रपरिज्ञानसा यत्वात्तस्य च विद्वदधीनत्वात्तत्पद्धतिवर्णन-
मिदानीमारभते-
शास्त्रोपस्कृतशब्दसुन्दगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः।
तजाड्यं वसुधाधिपस्य सुधियस्त्वर्थ विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षकैर्न मणयो यैरर्घतः पातिताः ॥११॥
१० सुभापितत्रिशत्यां शास्त्रेति । शास्त्रै काणादगौतमीयादिभिरुपस्कृता अलंकृता तथा शब्देन सुन्दरा मनोहरा गिरो वाचो येषां ते तथोक्ताः । अत्र यद्यपि शास्त्रपदग्रहणेनैव सर्वेषां शास्त्राणां संग्रहात्पार्थक्येन शब्दशास्त्रग्रहणे पौनरुक्त्यदूषणं स्यात् , तथापि गोबलीवर्दन्यायेन समाधेयम् । यद्वा 'सर्वशास्त्रमुखं व्याकरणम्' इति तस्य प्राधान्यात्पार्थक्येन निर्देश. । अथवा इतरेषा शास्त्राणामुपस्कारहेतुभूतत्वमा- त्रमेव, अस्य तु 'वाणी व्याकरणेन' इति खेनैवोत्तरत्र वक्ष्यमाणत्वात्तदेकान्त- सौन्दर्यावहत्वेन पृथग्ग्रहणमिति मन्तव्यम् । तथा शिष्येभ्योऽन्तेवासिभ्यः प्रदेया व्याख्यानरूपेण प्रदातु योग्या आगमा शास्त्राणि येषा ते तथोक्ता. । सम्य- क्शिक्षापाटवात्प्रबुद्धाखिलशास्त्रसिद्धान्तत्वेन शिष्यद्वारा व्याख्यातनिखिलागमा इत्यर्थ । यद्वा शिष्येभ्य प्रदेया विनियोगाहीः । न तु कुहकतया गर्भ एव वि- जीर्णीकृता इत्यर्थ । तथाभूता आगमा येषा ते तथोक्ता । 'आगम शास्त्र आयतौ इति विश्वः। अतएव विख्याता सर्वत्र प्रसिद्धा. कवयो विद्वासः नि- धना धनहीनाः सन्त यस्य प्रभो राज्ञो विषये देशे सनिधो वा वसन्ति तिष्ठन्ति, तन्निरर्थकत्वेनावस्थानं तस्य वसुधाधिपस्य प्रभोरेव जाड्यं मान्धम् । दैन्यमिति यावत् । 'गुणवचनब्राह्मणादिभ्य कर्मणि च' इति व्यञ्प्रत्ययः। सुधियो वि- द्वांसस्तु अर्थ धनं विनापि । 'पृथग्विना-' इत्यादिना विकल्पाद्वितीया । ईश्वराः समर्था । पूज्या इत्यर्थ । विद्याया एव तेषा महाधनत्वादिति भाव. । कितु यै कुपरीक्षक रत्नशास्त्रपरिज्ञानाभावात्कुत्सितपरिज्ञानिभि मणय. । अमूल्या अपीति भावः । अर्घतो मूल्यत पातिता । बहुमूत्या मणयोऽल्पमूल्या कृता इत्यर्थ । कुत्स्या स्यु कि । न स्युरेवेत्यर्थ । अयमर्थ -विद्वद्भि. प्रभुसमाश्र- येणैव स्थातव्यम् । 'सदाश्रयेण शोभन्ते पण्डिता वनिता लता' इति न्यायात् । तत्र न ते यदि विद्वन्मनोरथं पूरयेयुस्तत्तेपामेव कुत्सितत्वम् । विद्वासस्तु कुप- रीक्षकोपहतमणय इव न कुत्या इति । अतः श्रेय कामै. प्रभुभिस्तन्मनोरथपूर- कैरेव भवितव्यमिति तात्पर्यम् । शार्दूलविक्रीडितं वृत्तम् । लक्षणं तूक्तम् ॥ अथ विद्याधनस्य प्रसिद्धधनवैलक्षण्यवर्णनद्वारा विदुषामुत्कर्षमापादयनेतेषु गौरवेण विश्वासोत्पादनार्थ नृपान्सबोधयति- हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा प्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥१२॥ हर्तुरिति । यद्विद्याख्यं धनं हर्तुश्चोरादे । 'हर्तुम्' इति पाठेऽपहर्तुमित्यर्थः । गोचरं न याति विषयता न प्राप्नोतीति भावप्रधानो निर्देश । तस्यात्यन्तदुर्ग्रहत्वा- दिति भाव । तथा सर्वदा कालत्रयेऽपि किमप्यनिर्वाच्यं शं सुखं पुष्णाति प्रवर्ध- यति । 'अर्थानामर्जने दु खम्' इति स्मरणात्प्रसिद्ध तु नैवमिति भाव । अनिशं सर्वदार्थिभ्यो विद्यार्थियो याचकेभ्यश्च । प्रतिपाद्यमानं व्याख्यायमानं दीयमान- - १. नीतिशतकम् । ११ मपि च । परामुत्कृष्टा वृद्धिम-युच्छ्रयं प्राप्नोति । विद्याया व्याख्यानेनाभिवृद्धिसं- भवादिति भाव । तथा कल्पान्तेपु प्रलयेष्वपि निधनं नाशं न प्रयाति न नश्यती- त्यर्थः । कल्पान्तेप्विति बहुवचनग्रहणं विद्याधनस्यात्यन्त विनाशाभावप्रकाशनार्थम्। प्रसिद्ध तूक्तविपरीतमिति भावः । तदुक्तम्-'न भोगहार्या न च बन्धुहार्या न भ्रातृहार्या न च राजहार्या । स्वदेशमित्रं परदेशबन्धुर्विद्यासुधां ये पुरुषा. पिब- न्ति ॥ इति । तद्विद्याख्यं विद्याभिधानम् । यत्तदोर्नित्यसंबन्धात्तच्छब्दस्याध्या- हार । अन्तर्वनमभ्यन्तरस्थ वित्तं येषा पुरुषाणाम् । अस्तीति शेषः । अतस्ता- विद्याधनान्प्रति हे नृपा राजानः, मानं कोपम् । दुराग्रहमिति यावत् । उज्झत त्यजत । तैर्विद्वद्भि सह क पुमान्स्पर्वते विगृह्णाति । न कोऽपीत्यर्थ । ततस्ते सदा गौरवेण वहु माननीया इति भावः । अत्रोपमानात्प्रसिद्धधनादुपमेयस्य विद्याधनस्याधिक्यकथनाध्यतिरेकालंकार.-'उपमानाद्यदन्यस्य व्यतिरेक स एव स' इति काव्यप्रकाशकारलक्षणात् । वृत्तं पूर्ववत् ॥ अथ त्वदीयलक्ष्मीन तेषा प्रतिबन्धिका,अतस्तेषु बहुमानाचरणतत्परेणैव भवितव्यमिति सदृष्टान्तं राजानं संबोधयति- अधिगतपरमार्थान्पण्डितान्मावमंस्था- स्तृणमिव लघु लक्ष्मी व तान्संरुणद्धि । अमिनवमदरेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥ १३ ॥ अधीति । हे नृप, अधिगतपरमार्थान्विज्ञाततत्त्वार्थान् । 'सर्वे गत्यर्थी ज्ञाना- .' इति न्यायात् । अथवा प्राप्तपुरुषार्थान् । पण्डितान्विदुष मा अवमंस्था. मा अवमानय । मन्यतेरवपूर्वा लड् । थासि 'न माड्योगे' इत्यप्रतिषेध । कुतः । तृणमिव लघु नि.सारा लक्ष्मीस्त्वदीयसपत्ति । शोभासपत्ति- पद्मासु लक्ष्मी श्रीरिव गीयते' इति विश्व । तान्पण्डितानैव सरुणद्धि । 'ईषदपि संरोद्धं नैव शक्नोतीत्यर्थ । तत्र दृष्टान्त.-अभिनवमदरेखामिर्दानधारामिः श्यामानि गण्डस्थलानि येषां तेषा वारणाना मत्तेभाना बिसतन्तुर्मृणालसूत्रं वारणं प्रतिबन्धकभूतो न भवति। अत पण्डितेपु वहुमानाचरणतत्परत्वेनैव वर्तितव्य- मित्यर्थ । अत्र दृष्टान्तालंकार -'यत्र वाक्यद्वये विम्वप्रतिबिम्बतयोच्यते । सामान्यधर्मों वाक्यज्ञै. स दृष्टान्तो निगद्यते ॥' इति लक्षणात् । स चोत्तोप- मयाङ्गेन संकीर्यते । मालिनीवृत्तम्-'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ किंबहुना ब्रह्मापि तदीयवैदग्ध्यापहरणे न शक्त इति दृष्टान्तमुखेनाह- अम्भोजिनीवनविहारविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता ।
१२ सुभापितत्रिशत्यां न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १४ ॥ अम्भोजिनीति । विधाता ब्रह्मा कुपित केनचिद्धेतुना क्रुद्ध सन् हंसस्य निजयानमरालस्याम्भोजिनीवने पद्मिनीवने यो विहार क्रीडा स एव विलासस्त- मेव नान्यत् । नितरामतिशयेन हन्ति नाशयति । 'विलासमेकम्' इति पाठे एक केवलं विलास मित्यन्वय । अम्भोजाकरसशोषणेन तत्र विहारभङ्गमात्रमेव कर्तु शन्नोतीत्यर्थ । किं त्वसौ विधाता हसस्य दुग्धजलयो क्षीरनीरयोर्भेदविधी विभागकरणविषये प्रसिद्धा प्रख्याता वैदग्थ्यकीर्ति वैदग्ध्येन । 'कृत्यवस्तुषु चा- तुर्य वैदग्ध्य परिकीर्त्यते' इत्युक्तलक्षणनैपुण्येन प्रयुक्ता या कीर्तिस्तामपहर्तु न शक्नोति । हंसो हि क्षीरमिश्रिते नीरे नीरं विहाय क्षीरं गृह्णातीति प्रसिद्धिः । एवं कुपितो राजा खविषयवासादिभङ्गमात्रमेव कर्तुं शक्नोति । नतु तेषामशेषविद्या- परिशीलनजनितचातुर्यभङ्गम् । अतो निष्कोपेन भवितव्यं विद्वत्सु राज्ञेति तात्य- यम् । अत्राप्रकृतविधातृवृत्तान्तकथनात्प्रस्तुतराजविद्वजनप्रतीतेरप्रस्तुतप्रशंसालं- कार । लक्षणं तूक्तम् । वसन्ततिलका वृत्तम्-'उक्ता वसन्ततिलका तभजा जगौ ग.' इति लक्षणात् ॥ अथ विदुषां तावद्विथैव भूषणरूपसंपदित्याह- केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वला न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः। वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते क्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषणम् ॥ १५ ॥ केयूराणीति । केयूराण्यङ्गदानि । यद्यपि केयूरयोर्भुजनिजशिरोभूषणत्वेन द्वि त्वमेव वक्तव्यम् , तथापि तद्विशेषविवक्षाया बहुवचनप्रयोग इति मन्तव्यम् । पुरुषं जनं ने भूषयन्ति नालंकुर्वन्तीति यथायोगं संबध्यते । चन्द्रवदुज्ज्वला धवलतरा हारा मुक्ताहाराश्च न भूषयन्ति । स्नानमभिषेकोऽपि न भूषयति । विलेपनं घनसारकस्तूरिगन्धसारचर्चापि न भूषयति । कुसुमं मल्लिकामालती. चम्पकादिपुष्पमपि । जातावेकवचनम् । न भूषयति । अलकृता अभ्यजपुप्प- माल्यादिना सम्यक्प्रसाधिता मूर्धजा शिरोरुहा अपि न भूषयन्ति । पुरुषमिति सर्वत्रानुषड्न । कि त्वेका केवला वाणी पुरुष समलंकरोति सम्यग्भूषयति । केयं वाणीत्यत आह-या सस्कृता व्याकरणादिपरिशुद्धा धार्यते वायत्तीक्रियते सेत्य- ध्याहृततच्छब्देन सबन्ध । ननु केयूरादीना भूषणत्वेन प्रसिद्धत्वात्तनिषेधे प्रत्य- क्षापलाप स्यादित्याशय तेषा क्षयिष्णुत्वान्न तथात्वमित्याह-अखिलभूषणानि केयूरायुक्ताशेषभूषणानि क्षीयन्ते कालक्रमेण नश्यन्ति । 'क्षीयन्ते खलु' इति पाठे खलुशब्दो वाक्यालकारे । वाग्भूषणं सस्कृतवाग्रूपभूषणं तु सततं भूषणं १. नीतिशतकम् । नित्यभूषणम् । कदापि न नश्यतीति भाव । व्यतिरेकालंकार । लक्षणं तूक्तम् । एतदादिश्लोकचतुष्टयं शार्दूलविक्रीडितं वृत्तम् ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ १६ ॥ विद्या नामेति । रूपं नाम कुण्ड लहारनूपुराङ्गदादिचतुर्विधभूषणाभावेऽपि विभूषितवद्भासमान आकारविशेष । तदुक्तं भावप्रकाशे-'अवेध्यारोप्य विक्षे- ग्यबन्धनीयैरभूषितम् । यद्भूषितमिवाभाति तद्रूपमिति कथ्यते ॥' इति । विद्या- नाम वेदशास्त्राद्यात्मिका विद्यव नरस्य पुंसोऽधिक भूयिष्ठ रूपमुक्तलक्षणाकारवि- शेष । तल्लोकरञ्जकत्वादिति भाव । तथा प्रच्छन्नं निगूढं यथा तथा गुप्तं रक्षितं धनं विद्यैवेति संबन्ध । तद्वत्कालान्तरेपूपकारकत्वादिति भावः । विद्या भोगान्करोतीति भोगकरी स्रक्चन्दनादिभोग्यवस्तुलाभहेतु । तथा यश समा- ख्या सुखमिन्द्रियतर्पणम् । एतत्करी एतद्धेतुश्च । उभयत्रापि 'कृजो हेतुता- च्छील्यानुलोम्येषु' इति प्रत्यये टित्वान्डीप् । तथा विद्या गृणन्त्युपदिशन्तीति गुरवस्तेषा हिताहितोपदेष्टुणामाचार्याणामपि गुरुरुपदेष्टुभूना । तथा परमार्थ- बोधकत्वादिति भाव । विद्या विदेशगमने प्रवासे बन्धुजन सुहृज्जन । तद्व- द्विशेषोपचारसपादकत्वादिति भाव । तदुक्तम्-'वदेशमित्रं परदेशबन्धु विद्यासुधा ये पुरुषा पिबन्ति ।' विद्या परा देवता परात्मभूता। मोक्षदायक- त्वादिति भाव । यद्वा परा देवता खाभीष्टदेवता । तथा ऐहिकामुष्मिकफलद- स्वादिति भाव । विद्या राजसु राजमध्ये पूज्यते प्रशस्यते । गौरवसपनत्वाद्रा- जपूज्या भवतीत्यर्थ । यद्वा विद्याशब्देन विद्यावाल्लभ्यते, राजशब्देन च तत्मभा लक्ष्यते। तथाच विद्यावान्राजसभासु पूज्यते पुरस्कियते । सभाव्यत इति यावत् । धनं द्रव्यं तु नहि । उक्तप्रकारं न भवतीत्यर्थ । तस्माद्विद्ययोक्तरूपया विहीन शून्यो जन पशु पशुप्राय । कर्तव्याकर्तव्यविवेकराहित्यादिति भाव । अतो बहूपकारित्वाद्विशिष्टविद्यैव प्रधानम्, न त्वन्यदिति तात्पर्यम् । अत्र विद्याया रूपधनाद्याकारेण बहुधा निरूपणान्निरवयवमालारूपकालंकार ॥ अथ लोकहिताहितवर्णनप्रसङ्गात्तस्या एव प्रकृष्टैश्वर्यभावमाह- क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् । किं सर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् १७ क्षान्तिरिति । देहिनां प्राणिनां क्षान्तिस्तितिक्षा । परिभवादिषूत्पद्यमानेषु क्रोध- प्रतिबन्धक इति यावत् । अस्ति चेत् , तर्हि कवचेन वर्मणा किम् । फलमिति सर्वmond १४ सुभाषितत्रिशत्यां त्रानुषज्यते। न किंचिदपीत्यर्थः । तस्या एवारंतुदानामनवकाशप्रदत्वादिति भावः। क्रोधश्चित्तक्षोभोऽस्ति चेत् , अरिमि शत्रुमि किम् । तस्यैवान्त-शत्रुत्वादुपद्रव- हेतुत्वाच्चेति भाव । ज्ञातिर्दायादोऽस्ति चेत् , अनलेनाग्निना किम् । तस्यैव सर्वा- र्थनिर्मूलननिदानत्वादिति भाव । सुहृत्सन्मित्रमस्ति यदि । 'सुहृदुहृदौ मित्रामि- त्रयो.' इति निपातनात्साधु । दिव्यौपधै सिद्धौषधै कि फलम् । न किचिदपि । तस्यैवारोग्यकरत्वादिति भाव । दुर्जना खला सन्ति यदि, सराशी विषै किम् । तेषामेव प्राणापहारित्वादिति भाव । अनवद्या निर्दुष्टा । 'अवधपण्य-' इत्यादिना निपातनात्साधु । ततो नसमास । 'तस्मान्नुचि' इति नुडागम । विद्या वेद- वेदाङ्गाद्यात्मिकास्ति यदि, धनै किमु । तस्या एवाखिलभोगसाधकत्वादिति भाव । ब्रीडा अकार्यप्रवृत्तौ मन सकोचलक्षणलज्जा अस्ति चेत् , भूषणै किमु हारनूपुराद्यलंकरणे किम् । तस्या एव लोकोत्तरभूपणत्वादिति भाव । सुकविता सत्पाण्डित्यम् । 'सख्यावान्पण्डित कवि' इत्यमर । यद्वा कवयति वर्णयति रसोल्लसितशब्दार्थसघटना करोतीति कविस्तस्य भावस्तत्ता यदि राज्येन भूमण्ड- लाधिपत्येन किम् । तस्या एव सकललोकवशीकरत्वादिति भाव । राज्ञो भाव कर्म वा राज्यं प्रजापरिपालनात्मकम् । पुरोहितादित्वाद्यक्प्रत्यय ॥ अथ विदुषां गुणवर्णनपूर्वकं लोकव्यवस्थापकत्वमाह- दाक्षिण्यं स्वजने या परिजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृपजने विद्वजने चार्जवम् । शौर्य शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः॥ १८ ॥ दाक्षिण्यमिति । खजने । बन्धुजनेष्वित्यर्थ । जातावेकवचनम् । एवमुत्तर- त्रापि । दाक्षिण्यं छन्दानुवर्तनम् । अन्यथा विनिन्दयेरनिति भावः । 'दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु ।' परिजने भृत्यजनेषु विषये दया दारिद्र्यादितद्दुः- खप्रहाणेच्छा । अन्यथा विजहुरिति भाव । दुर्जने खलजनेषु विषये सदा शाठयं विप्रियकारित्वम् । अन्यथा अधिक्षिपेरनिति भाव । साधुजने सज्जनेषु विषये प्रीति स्नेह । आदर इति यावत् । अन्यथानुतपेरनिति भाव । नृपजने राजसु विषये नयो नीति । अनुवर्तनतात्पर्यमिति यावत् । अन्यथा दण्डयेरनिति भाव । विद्वज्जने पण्डितजनेषु विपये आर्जवमवक्रता । अन्यथा निषि येरनिति भाव । शत्रुजने शत्रुजनेषु विषये शौर्य विक्रान्तत्वम् । अन्यथा निपातयेरनिति भाव । गुरुजने पित्रादिषु विपये क्षमा सहिष्णुत्वम् । अन्यथा शपेरनिति भाव । कान्ताजने नारीजनेषु विषये धृष्टता प्रागल्भ्यं च । अन्यथा वशीकुर्युरिति भावः । इत्येवमुक्तविधासु कलासु शिल्पेषु । 'कला शिल्पे कालभेदे चन्द्राशे कलना कला' इति वैजयन्ती । ये च पुरुषा कुशला निपुणास्तेषु पुरुषेष्वेव लोकस्थि- तिर्लोकमर्यादा । अस्तीति शेषः । त एव लोकव्यवस्थासंस्थापका । न तूतगु- णरहिता इत्यर्थ । एवंभूतास्तु विद्वास एव न त्वन्य इति हृदयम् ॥
१. नीतिशतकम् । me इत्थं विद्वज्जनाननुवर्ण्य संप्रति सत्संगते श्रेयस्करत्वमाह- जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नति दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्संगतिः कथय किं न करोति पुंसाम् ॥ १९ ॥ जाध्यमिति । धियो बुद्धांज्यं मान्यं हरति निरस्यति । वाचि वचने सत्यं सूनृतभावं सिञ्चत्याप्लावयति । मानोन्नति बहुमानातिशय दिशति प्रयच्छति । पापं किल्बिषमपाकरोति नाशयति । धर्मोपदेशादिनेति भाव । तथा चेत प्रसादयति निर्मलयति । ज्ञानोपदेशादिनेति भावः । दिक्षु दिशासु कीर्ति तनोति विस्तारयति । अत सत्सगति सज्जनसमागमः पुंसा कि श्रेयो न करोति । कथय इति पृथग्ज- नसबोधनम् । सर्वमपि श्रेय करोत्येवेत्यर्थ । अतस्तैरेव सगति कर्तव्या न तु दुर्जनैरिति तात्पर्यम् । अत्र क्रियाणां बहूना समुचितत्वात्समुच्चयालंकार । 'गुण- क्रियायोगपद्यं समुच्चय उदाहृत.' इति लक्षणात् । वसन्ततिलकावृत्तम् । लक्षणं तूक्तम् ॥ अथैतेषामसाधारणमहिमास्पदत्वाल्लोकोत्तरत्वं वर्णयनिगमयति- जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति तेषां यशाकाये जरामरणजं भयम् ॥ २० ॥ जयन्तीति । सुकृतिनो धन्या । 'सुकृती पुण्यवान्धन्य ' इत्यमरः । रससिद्धा सिद्धशृङ्गारादिरसा , सिद्धपारदगुटिकाश्च । 'वाहितान्यादिषु' इति निष्ठाया. पर- निपातः । ते प्रसिद्धाः, पूर्वोपवर्णिता वा । कवीश्वरा कविसार्वभौमा पण्डितो- तमा इति वा । जयन्ति सर्वोत्कर्षेण वर्तन्ते । अद्यापीति शेषः । यद्वा रससिद्धा: सिद्धरसा । ब्रह्मसाक्षात्कारवन्त इत्यर्थ । 'रसो वै स' इति श्रुते । 'शृङ्गारादौ विषे वीर्ये पारदे ब्रह्मवर्चसि । रेतस्यास्वादने हेन्नि निर्यासेऽमृतशब्दयो । रस, इत्यभिधानात् । कवीश्वरा कवय प्रकान्तदर्शिन तेपामीश्वरा कालत्रयाभिज्ञा.। ब्रह्मविद्याविशारदा इत्यर्थ । जयन्ति । कुत । तेषा कवीश्वराणां यश काये कीर्तिशरीरे जरामरणाभ्यां जातमिति तथोक्तं भयं नास्ति । रससिद्धाना भौति- कशरीर एव जरामरणभयं नास्ति । यशःशरीरे तु किं वक्तव्यम् । तस्य कल्पा- न्तस्थायित्वादिति भावः । अत्र रससिद्धपदार्थान्य विशेषगत्या भयाभावपदार्थ प्रति हेतुत्वात्काव्यलिङ्गभेदः। वृत्तमुक्तम् ॥ इति नीतिशतकव्याख्याने विद्वत्पद्धतिवर्णनं नाम द्वितीयं दशकम् । .. अथ मानशौर्यपद्धतिः। अथ विदुषामपि मानशौर्ययोरपेक्षितवाद्विद्वत्पद्धतिनिरूपणानन्तरं मानशौर्य- पद्धति निरूपयति- क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशा- मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि । न १६ सुभापितत्रिशत्यां मत्तेमेन्द्र विभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः किं जीर्ण तृणमत्ति मानमहतामग्रेसरः केसरी ॥ २१ ॥ क्षुत्क्षाम इति । क्षुधा क्षाम क्षीणोऽपि । 'लायो म' इति मत्वम् । जरया विस्रसया कृशोऽपि जीर्णोऽपि । 'विस्रसा जरा' इत्यमर । शिथिलप्राय विश्ल- थागतया बलहीन सन्नपीत्यर्थ । कष्टा दशामाहारालाभादतिकृच्छ्रावस्थामापन. प्राप्तोऽपि । 'दशा वर्ताववस्थायाम्' इति विश्व । अत एव विपनदीधितिर्नष्टका- न्तिरपि । कि बहुना प्राणेषु पञ्चसु नश्यत्सूत्क्रममाणेषु सत्वपि । प्राणप्रयाणे सप्राप्ते सत्यपीयर्थ । मत्तेभेन्द्रस्य मत्तगजपुंगवस्य विभिन्नो विदारितो य कुम्भ कुम्भस्थलं तत्र यत्पिशितं मेदोमास तद्रासे कवलने एकं मुख्यं यथा तथा बद्ध- संदानिता स्पृहा वाञ्छा यस्य स । इति शौर्यातिशयोक्ति । तथा मानमहताम- भिमानोन्नतानामग्रेसरोऽग्रगण्य । 'पुरोऽग्रतोऽग्रेषु राते' इति टप्रत्यय । केसरी सिहः । जीर्ण तृणं शुष्कघासमत्ति क्रिमभ्यवहरति किम् । नात्त्येवेत्यर्थ । इति मानातिशयोक्ति । नीचजन्तुस्तु नैवमिति भाव । अत्र यद्यपि सर्वत्रापिशब्द- स्तावदेकैकविशेषणविशिष्टस्यैवात्यन्तनीचवृत्तिप्रवृत्ति द्योतयति, तया युक्ताखिर- विशेषणविशिष्टोऽपि गजेन्द्र मेद कवलनविहितप्रतिज्ञ केसरी न नीचवस्तुनि प्रव- तत इति महती मानशौर्यपराकाष्टोक्तिरिति मन्तव्यम् । 'प्राणानपि परित्यज्य मानमेवाभिरक्षयेत् । प्राणास्तरङ्गचपला मानस्त्वाचन्द्रतारकम् ॥' इति वचनात्सं- भावनाशौर्यसपन्नेन भवितव्यं यशस्कामेनेति भावः । अत्र प्रकरणे कुत्रचिन्मानस्य कुत्रचिच्छौर्यस्य कुत्रचिदुभयस्य प्राधान्यकथनं द्रष्टव्यम् । कुलक्रमागतोत्तमशील- परिपालनेन सहायमनपेक्ष्य शत्रुसहरणसामर्थ्य शौर्यमिति विवेक । अत्र प्राये- पाप्रस्तुतप्रशंसालंकारोऽनुसधेय. । शार्दूलविक्रिडितं वृत्तम् ॥ क्षुद्रजन्तुस्तु नैवमित्युक्तमेवार्थ भझ्यन्तरेणाह- स्वल्पस्नायुवसावसेकमलिनं निर्मासमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधाशान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥२२॥ खत्पेति । श्वा शुनक स्वल्पयोर्लेशमात्रयो स्नायुवसयो. स्नायु वस्नसाख्यनाडी- भेद , वसा मेद, तयोरवसेकेन मेलनेन मलिनं मलदूषितमपि निर्मासं मांसलेश- शून्यमपि गो । 'स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले। लक्ष्यदृष्टयो. स्त्रियां पुंसि गौः' इत्यमर । अस्थि कीकस लब्ध्वा परितोषमेति संतुष्यति । तच्च गवास्थि तु तस्य शुन, क्षुधा । 'आपं चैव हलन्तानाम्' इति वचनाट्टाप् । तस्याः शान्तये क्षुनिवा- रणाय न । पर्याप्तं न भवतीत्यर्थ । 'अस्तिर्भवन्तीपरोऽप्रयुज्यमानोप्यस्ति' इति भाष्यकारवचनात् भवन्तीति लट. पूर्वाचायाणा संज्ञा । नीचजन्तोरिति भावः । सिंहस्वकं समीपमागतमपि समीपवर्तिनमपीत्यर्थ. । 'अङ्कः समीप उत्सङ्गे चिह्न .
१. नीतिशतकम् । स्थानापवादयो ' इति विश्व । जम्बुकं कोष्टारं त्यक्त्वा । अनाहत्येत्यर्थः । अल- क्षीकृत्येति वा । द्विप गजमेव । दूरस्थमपीति भाव । निहन्ति विदारयति । तथाहि कृच्छ्रगतोऽयतिसकटस्थोऽपि सर्वोऽशेपो जन सत्त्वानुरूपं स्वशक्त्यनु- गुणं फलं लाभं वाञ्छति कासति । न तु दुर्बल प्रकृष्टफल काटी , प्रबलो निक- टलाभकासी च भवति । अतः श्वसिंहदृष्टान्तेन नीचानीचवस्तुपरिग्रहतत्परेण भवितव्यमायुष्मतेति भाव । वृत्तं पूर्ववत् ॥ अथ क्षुद्रजन्तोश्चेष्टाविशेषमाह- लाङ्गूलचालनमधश्चरणावघातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुंगवस्तु धीरं विलोकयति चाटुशतैश्च भुते ॥ २३ ॥ लालेति । श्वा सारमेयो लाजूलचालनं पुच्छविवर्तनम् , अधो भूतले चर- गावघातं पादेन विदारणम् , भूमौनिपत्य स्वयमेव पतित्वा वदनोदरदर्शनं वक्र- कुक्षिप्रदर्शनं च पिण्डदस्य । पुरस्तादिति शेषः । कुरुते । निजनीचचेष्टामावि- प्कुरुत इत्यर्थ । गजपुंगवस्तु । पुमान्गौ पुंगवो वृषभ । विशेषणसमामः 'गोरतद्धितलुकि' इति समासान्तष्टच् । स एव पुंगव । श्रेष्ट इलर्थ । 'श्रेष्ठो- क्षाणौ तु पुंगवौं' इति वैजयन्ती । गजपुंगवो गजेन्द्रस्तु धीर गम्भीर विलोक- यति पश्यति । पिण्डदसनिधाविति भाव । अथ चाटुशतैरनेकप्रियोक्तिमिरतुन- यवाक्यैश्च वा भुलेऽभ्यवहरति । गुडतण्डुलादिकमिति शेष । 'भुजोऽनवने' इत्या- त्मनेपदम् । इमावेव नीचानीचजनयोईष्टान्ताविति भाव । वसन्ततिलकावृत्तम् ।। अथ मानशौर्यसंपन्नतया वंशवर्धनस्यैव जनस्य सत्तालाभः, न त्वन्यस्येत्याह- परिवर्तिनि संसारे मृतः को वा न जायते। स जातो येन जातेन याति वंशः समुन्नतिम् ॥ २४ ॥ परिवर्तिनीति । परिवर्तिनि धर्माधर्मवशात्पौन पुन्येन विवर्तमाने ससारे जरा मरणरूपससारचके को वा पुमान्मृत प्रेतो न जायते न भवति । उत्पन्नो वा न भवतीत्यर्थः । यद्वा को वा न मृत को वा न जायते नोत्पद्यते । सर्वोऽयु- त्पन्नो मृतश्च भवत्येवेत्यर्थ । 'जातस्य हि ध्रुवो मृत्युर्बुवं जन्म मृतस्य च' इति भगवद्वचनादिति भावः । तत. किमत आह-स पुमाआत उत्पन्न । जन्मला- भवानिति यावत् । कोऽसावित्यत आह-येन जातेनोत्पन्नेन पुंसा वंशोऽन्वयः समुन्नति महौनत्य याति प्राप्नोति । वंशोद्धारको य पुमान्स एव जन्मलाभवान् । एवंभूतत्वं च मानशौर्यसंपन्नस्यैव, न त्वन्यस्य । अत. किमन्यैरजागलस्तनवदु- त्पन्नैर्मशकवद्विनष्टैश्चेति भावः । आनुष्टुभं वृत्तम् ॥ इत्थंभूतस्य पुरुषस्य व्यापारमाह- कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ २५ ॥ -- १८ सुभापितत्रिशत्यां कुसुमेति । कुसुमस्तबकस्येव पुष्पगुच्छस्येवेत्येकं पदम् । मनखिनो धीरस्य । मानशौर्यशालिन पुंस इत्यर्थः । द्वयी द्विविधा वृत्तियापार. । 'द्वे गती हि' इति पाठे स्पष्टोऽर्थ । तृतीया तु न सभवतीत्यर्थ. । कि तद्वृत्तिद्वयमित्यत आह- सर्वलोकस्य । सर्वेषा जनानामित्यर्थ । मूर्ध्नि शिरसि, उन्नतस्थाने च । स्थीयत एवेति शेषः । अथवा वन एव शीर्यते जीर्यते वा । भावे लट् । एवमुभयी वृत्तिः शौर्यादुन्नतस्थानस्थिति. । तदलाभे मानादरण्ये जीर्णता इति विवेक. । इयमेव पुंसां श्रेयस्करी वृत्तिरिति भाव । कुसुमस्तबकस्येवेत्यत्र समाना श्रीती पूर्णोप- मालंकार । इवशब्देन सह समासस्य सभवात् । तथाच वार्तिकम् -'इवेन सह नित्यसमासो विभक्त्यलोप पूर्वपदप्रकृतिवरत्वं च' इति । वृत्तं पूर्ववत् ॥ पुनरप्युक्तोभयगुणवैशिष्ट्यस्यैवोत्कृष्टतामाह- सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषा- स्तान्प्रत्येष विशेषविक्रमरुची राहुन वैरायते । द्वावेव असते दिवाकरनिशाप्राणेश्वरौ भास्वरौ भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेपाकृतिः॥ २६ ॥ सन्तीति । अन्ये वक्ष्यमाणसूर्यचन्द्रापेक्षया इतरे बृहस्पतिप्रभृतय । प्रभृति- शब्देन बुधशुक्रादयोऽपि । पञ्च षड्वा पञ्चपा ग्रहा । 'सख्ययाव्यया-'इत्यादिना बहुव्रीहि । 'बहुव्रीहौ सख्येये डजबहुगणात्' इति समासान्तो डच्प्रत्ययः । सभाविता ग्राह्यत्वेनोपस्थिता बहुमता वा । सन्ति वर्तन्ते । तान्प्रति । बृहस्पति- प्रभृतींलक्ष्यीकृत्येत्यर्थ । विशेषेषु विशिष्टेषु । तेजोमहत्स्विति यावत्। विक्रमेण परा- क्रमेण रुचि प्रीतिर्यस्य स तथोक्त । तेजिष्टै सहैव कलहाचरणतत्पर इत्यर्थः । एप उपरागकर्तृत्वेन प्रसिद्धो राहु सैहिकेयो न वैरायते वैर न करोति । अलक्ष्यत्वात्त- स्कवलनतत्परोन भवतीत्यर्थ । 'शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे' इति क्यड्। 'अकृत्सार्वधातुकयोर्दीर्घ ' इति दीर्घः । विक्रमरुची राहुरित्यत्र 'रोरि' इति रेफ- लोपे 'ठूलोपे पूर्वस्य दीर्पोऽण.' इति दीर्घः । कितु भाखरौ तेजस्विनौ । 'स्थेश- भास-' इत्यादिना वरच्प्रत्यय । द्वौ उभौ दिवाकरनिशाप्राणेश्वरौ सूर्याचन्द्रम- सावेव अन्यव्यवच्छेदार्यकोऽयमेवकार । शीर्ष मेवावशेपो यस्या साशीषीवशेषा आकृतिर्यस्य । शिरोमात्रावशिष्टगात्र इत्यर्थ । 'शीर्षावशेषीकृत.' इति पाठे- ऽप्ययमेवार्थः परिणमयितव्य. । दानवपतिर्दानवेश्वर पूर्वोक्तराहु । पर्वणि दर्श- पूर्णमासप्रतिपत्सधौ असति गिलति । हे भ्रातर इत्यादरेण पृथग्जनसंबोधनम् । पश्येति वाक्यार्थ कर्म । यत. शिरोमात्रावशिष्ट एवायमीहकर्माचरणतत्परो- ऽभूत् , सपूर्णाङ्गश्चेत्किं करिष्यति न जानामीति भाव.। एवं मानशौर्यशालिनो हि निजाङ्गवैकल्यं न परिगणयन्ति, कि तु महत्कार्यमेव कर्तुं व्यवस्यन्तीति तात्प- यम् । पुरा किल देवानाममृतप्रदानसमये विष्णुचक्रेण च्छिन्नशीर्षत्वाच्छिरोमा- त्रावशिष्टगात्रोऽभुत्सँहिकेय इति पौराणिकी कथात्रानुसंधेया । शार्दूलवि- क्रीडितं वृत्तम् ॥
१. नीतिशतकम् । १९ - अथ महतां माहात्म्यमाह- वहति भुवनश्रेणि शेषः फणाफलकस्थितां कमठपतिना मध्ये पृष्टं सदा स च धार्यते । तमपि कुरुते क्रोडाधीनं पयोधिरनादरा- दहह महतां निम्सीमानश्चरित्रविभूतयः ॥२७॥ वहतीति। शेषः फणा सहस्रसख्याका• स्फटा फलकानीव तेषु स्थितां भुवनश्रेणिं पातालादिचतुर्दशविष्टपपति वहति धारयति । 'स्फटाया तु फणा द्वयो' इत्यमरः । स च शेष. कमठपतिना आदिकूर्मेण । 'पति. समास एव' इति घिसज्ञाया 'आडो नाऽस्त्रियाम्' इत्याडो नाभाव । पृष्ठस्य मध्ये मध्येपृष्ठम् । निज- कूर्परोपरिप्रदेश इत्यर्थः । 'पारेमध्ये षष्ठ्या वा' इत्यव्ययीभाव. । सदा निरन्तरं धार्यते उह्यते । तमपि कमठपतिमपि पयोधिः प्रलयार्णवोऽनादरादनायासात्को- डाधीनमादिवराहायत्तं कुरुते। प्रलयकाले पातालगतभूमण्डलस्यादिवराहावतारेण विष्णुना निजदंष्ट्रया समुद्धृतत्वादिति भावः । अतो महता मानशौर्यशालिनां महानुभावाना संबन्धिन्यश्चरित्रविभूतयो माहात्म्यसंपदो नि सीमानो निर्मर्यादाः । अवाङ्मनसगोचरा इति यावत् । अहहेत्याश्चर्ये । 'अहहेसद्भुते खेदे' इत्यमरः । अत्र पूर्वपूर्वस्योत्तरोत्तरगुणोत्कर्षावहत्वान्मालादीपकाख्योऽलंकार । तदुक्तं विद्या- नाथेन-'यदा तु पूर्वपूर्वस्य सभवेदुत्तरोत्तरम् । प्रत्युत्कर्षावहत्वं तन्मालादीप- कमुच्यते ॥' इति । हरिणीवृत्तम् ॥ मानशौर्यशालिन एवोक्तविधमहत्त्वम् ,नतु तद्विहीनस्येति मैनाकं दृष्टान्ती- कृत्याह- वरं प्राणोच्छेदः समद्मघवन्मुक्तकुलिश- प्रहारैरुगच्छदहुलदहनोद्वारगुरुभिः । तुगाराद्रेः सूनोरहह पितरि क्लेशविवशे न चासौ संपातः पयसि पयसां पत्युरुचितः ॥२८॥ वरमिति । तुषाराद्रे. सूनोर्हिमवत्पुत्रस्य मैनाकस्य उद्गच्छन्नुज्जृम्भमाणो बहुलो भूयिष्ठश्च यो दहनः शिलासघर्षणजनितवह्निस्तस्योद्गारैर्नि सरणैर्गुरु- भिर्दु सहैः समदेन सदर्पण मववता देवेन्द्रेण मुक्तस्य प्रयुक्तस्य कुलिशस्य वज्रायुधस्य प्रहार्विदारणैः प्राणोच्छेद । मरणमित्यर्थः । वरं मनाविप्रयम् । 'देवाढते वर- श्रेष्ठे त्रिषु क्लीबं मनाप्रिये' इत्यमरः । कुतः । अहहेति खेदा- तिशयद्योतनाथीनुकरणशब्दः । पितरि हिमवति क्लेशेन वज्रप्रहारजनितदु खेन विवशे विह्वले सति । असावद्यायुपलभ्यमानः। पयसा पत्यु. समुद्रस्य । अत्रासमा- नत्वेन घिसज्ञाभावात् ‘ख्यत्यात्परस्य' इति कृतयणादेशपरस्य डसोकारस्योकारा- देश. । पयसि सलिले संपातः प्रवेश । निजप्राणसंरक्षणार्थ निमज्यावस्थानमि- त्यर्थ । उचितो न्याय्यो न भवति हि । अस्यैवेति शेषः । यतो मानशौर्यसंपन्नस्य पुंसः खप्राणमात्रपरित्राणतत्परतया क्वचिनिलीयावस्थानमेवात्यन्तायशस्करम् , किमुत पितरि क्लेशविवशे । अतः प्राणपरित्यागेनापि मानशौर्य एव प्रस्थाप- ३ सु. त्रि.
२०
सुभाषितत्रिशत्यां
-
m
नीये, अन्यथा महानपवादः स्यादिति भाव । अत्रोद्गारशब्दस्य गौणत्वान्न ग्राम्य-
दोष , प्रत्युत सौन्दर्यातिशयमेवापादयति । तदुक्तं दण्ड्याचार्यै.--'निष्ठयूतोद्गीर्ण-
वान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षा व्यगाहते ॥' इति ।
पुरा किल भूमण्डलोपद्रवकारिणा पर्वताना कोपवशात्पक्षच्छेदोद्यते शके भयवि-
ह्वलो मैनाक समुद्रमध्ये निमज्यातिष्ठदिति पौराणिकी कथात्रानुसधेया । शिख-
रिणीवृत्तम् ॥
अथ मानिनां परनिकारासहनं सदृष्टान्तमाह-
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृति कथं सहते ॥ २९ ॥
यदिति । यद्यस्मात्कारणादचेतनश्चेतनरहित , निर्जीवोऽपीति यावत् । पाषाण-
स्वादिति भाव ।इनकान्त सूर्यकान्तमणि सवितु. सूर्यस्य पादै. रश्मिमि अभि-
भिश्च स्पृष्ट सवलित , ताडितश्चेति ध्वन्यते । प्रज्वलति जाज्वल्यमानो भवति,
कोपोद्रिक्तश्चेति गम्यते । तत्तस्मात्कारणात् । तेजस्वी तेज शाली मानशौर्यसपन्नः
पुरुष । सचेतन इति शेप । परै शत्रुभि कृतनिकृति विहितापकार कथं सहते
क्षमते । न कथंचिदित्यर्थ । मैनाकस्तु नैवमिति भाव । पादा रश्म्यजितुर्याशा.'
इत्यमर । आर्यावृत्तभेद ॥
विक्रान्तत्वे वयोऽपि न हेतुरिति निगमयति-
सिंहः शिशुरपि निपतति मद्मलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसां हेतुः॥३०॥
सिह इति । शिशुबालोऽपि । विक्रान्तत्वयोग्यतारहितावस्थोऽपीत्यर्थः । सिंहो
मदमलिना दानपय पड्किलाः कपोला भित्तय इव येषा तेषु गजेषु मत्तमातङ्गेषु
निपतति । कुम्भस्थलविदारणार्थमिति भावः । इयं बाल्येऽपि विक्रान्तता सत्त्व-
वता बलाढ्याना प्रकृति स्वभावः । कुत । वयो बाल्यादि तेजसां प्रतापशा-
लिना मिति तेजस्तद्वतोरभेदाध्यवसायोऽत्यन्ततेजखित्वप्रकाशनार्थको हेतुः कारणं
न भवति खलु । 'तेजसा हि न वय. समीक्ष्यते' इति न्यायादिति भाव । 'वयः
पक्षिणि वाल्यादौ' इत्यमर । आर्यावृत्तभेद ॥
इति नीतिशतकव्याख्याने मानशौर्यपद्धतिवर्णनं नाम तृतीयं दशकम् ।
अथार्थपद्धतिः ।
मानशौर्ययोरप्यर्थमूलत्वादेतन्निरूपणानन्तरमर्थपद्धतिं निरूपयति । तत्र प्रथ-
ममर्थकतत्पराणा मतमभिसधाय तमाह-
जाति_तु रसातलं गुणगणस्तत्राप्यधो गच्छतां
शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना ।
शौर्य वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं
येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ ३१ ॥
१. नीतिशतकम् । जातिरिति । जातिाह्मणत्वादि रसातलं नामाधोलोकं यातु गच्छतु । भ्रश्यत्वित्यर्थः । गुणगणो धैर्यौदार्यगाम्भीर्यादिगुणसमूहस्तत्रापि रसातलापेक्ष- याप्यध पाताललोकं गच्छतां प्राप्नुयात् । शीलं सत्स्वभाव. शैलतटात्पततु । विशीर्ण भवत्वित्यर्थः । अभिजनो वंश । 'अभिजनान्वयौ । वंश.' इत्यमरः । वह्निना संदह्यतां भस्मीक्रियताम् । वैरिणि संक्षोभकारित्वाच्छत्रुभूते शौर्ये । शूर- त्वमूत्यर्थ । आशु शीघ्रं वज्रमशनिर्निपततु । अशनिनिपातेन तदपि विध्वस्तं भवत्वित्यर्थ । एवं पूर्वोक्तजातिकुलोचिताभिमानशौर्यादिनाशेऽप्यस्माकं न किचि- दपि च्छिन्नमिति भावः । तथापि कि युष्मदभिलषितमित्यत आहु:-~-नोऽस्मा- कमर्थ. केवलं वित्तमेवास्तु सभवतु । अयमेवास्माकं परमार्थ इति भाव । ननू- त्कर्षावहत्वेन प्रसिद्धानामुक्तगुणाना वि वंसमझीकृत्यैकेन वित्तेन कि करिष्यथेति नाशङ्कनीयम् । यतस्तद्विना तेषामत्यन्ताकिचित्करत्वमेवेत्याहुः । एकेन केव- लेन । 'एके मुख्यान्यकेवला' इत्यमर । येनार्थेन विना । 'पृथग्विना--' इत्या- दिनां विकरपात्तृतीया । इमे पूर्वोक्ता समस्ता अपि गुणा जातिकुलशीलाभिज- नादयस्तृणलवप्रायास्तृणकल्पाः । तद्वनि सारा इत्यर्थः । अतो गुणमहत्ताया अप्येतन्मूलकत्वादयमेव संपादनीय इति भाव । 'धनमर्जय काकुत्स्थ धनमू- लमिदं जगत् । अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥' इति लक्ष्मणवा- क्यमेव सिद्धान्तीकुर्मः, 'अर्थानामर्जने दु खमर्जिताना च रक्षणे । अर्जिताना व्यये दु.खं घिगर्थ दु.खभाजनम् ॥' इति मनुस्मरणं वशक्तविषयं मन्यामह इति तात्पर्यम् । शार्दूलविक्रीडितम् ॥ ननु तथापि गुणाभावेऽपि केवलवित्तस्याकिंचित्करत्वमेवेत्याशक्य तस्यैवाशे- षगुणावहत्वं तावदाह- यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः। स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ३२ ॥ यस्येति । यस्य नरस्य वित्तमस्ति सभवति स नरः कुले जात कुलीनो महा. कुलप्रसूत । 'कुलात्ख.' इति खप्रत्ययः । स एव पण्डितो विद्वान् । स एव श्रुत- वाशास्त्रज्ञ । यद्वा श्रुतं श्रवणम् । 'नपुंसके भावे क्त । तदस्यास्तीति श्रुतवान् । धर्मशास्त्राद्याकर्णनचतुरोऽपीत्यर्थ । स एव गुणज्ञो गुणग्राही । अत्र 'आतोऽनुप- सर्गे क' इत्यादि व्याख्यातं प्राक् । स एव वक्ता वाग्मी। स एव दर्शनीय सुन्द- रश्च । उक्तगुणराहित्येऽपीति भावः । नन्वेवं चेत्पुरुषस्यैकेन वित्तेनेदृग्गुणसाकल्य- संपन्नत्वं कुत इत्याशङ्कयाह-सर्वे गुणा पूर्वोक्तकुलीनत्वादय काश्चनं वित्तमाश्रय- न्ति । अतोऽनेनैव सकलगुणसंपत्तिसभवे 'किमन्यै प्रत्येकप्रयासाचैरिति भाव. । - .
२२ सुभाषितत्रिशत्यां AND अत्र वित्तस्यैतावद्गुणसंपादकत्वासंबन्धेऽपि तत्संबन्धामिधानादसंबन्धे संवन्ध- रूपातिशयोक्तिः । वृत्तमुपजातिः ॥ अथ द्वाभ्यामर्थस्य विनाशप्रकारमाह- दौर्मव्यानृपतिर्विनश्यति यति. सगात्सुतो लालना- द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । हीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रया- न्मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ॥३३॥ दौर्मन्छ्यादिति । नृपती राजा । दुष्टो न सुलक्षणप्रयुक्तो मन्त्र. षाड्गुण्यचिन्तनं यस्य तस्य दुर्मन्त्रस्य भावो दौर्मभ्यं तस्माद्धेतो नश्यति विनष्टो भवति । मन्त्रवै- कल्ये परेषामवकाशसभवाद्राज्याद्यपहरणादिति भावः । दुष्टमन्त्रणानि प्रधानानि यस्य तस्य भावस्तस्मान्नश्यति । अदण्ड्यदण्डनाद्युपदेशेन लक्ष्म्यादिरहितो भव- तीत्यर्थ । 'सन्मन्त्रिणा वर्धयते नृपाणा लक्ष्मीर्महीधर्मयश समूह । दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीर्महीवर्मयश समूहः ॥' इति वचनादिति भाव । यतिर्योगी सगात्समागमान्नश्यति। सद्गस्य कामकोवादिहेतुत्वात्तदुत्पत्तौ भ्रष्टयोगो भवतीत्यर्थ. 'सङ्गात्सजायते काम. कामाक्रोधोऽभिजायते । क्रोधाद्भवति समोह संमोहात्स्मृ- तिविभ्रम ॥' इति गीतावचनादिति भाव । सुतो लालनानश्यति। गुणहीनो भवती- त्यर्थ । 'लालनाद्बहवो दोषास्ताडनाद्बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत्॥'इति न्यायादिति भाव । विप्रो ब्राह्मणोऽनध्ययनाद्वेदशास्त्राध्ययनाभा- वानश्यति नीचो भवति । 'वेदवेदाङ्गतत्त्वज्ञो विप्र सर्वत्र पूज्यते । अनधीतश्रुति- विप्र सभामध्ये न शोभते ॥' इति । कुलं वंशः कुतनयात्कुपुत्रानश्यति । 'कोटरा- न्तर्भवो वह्निस्तरुमेकं दहिष्यति । कुपुत्रस्तु कुले जातः स्वकुलं नाशयेत्परम् ॥' इति न्यायात् । शीलं सत्खभावः खलोपासनादुर्जनसमागमानश्यति । तेषा- मत्सन्तानर्थमूलकत्वादिति भाव । 'छादयित्वात्मनो भावं चरन्ति शठबुद्धय । प्रहरन्ति च रन्ध्रेषु सोऽनर्थ. सुमहान्भवेत् ॥' इति वाक्यात् । ह्रीर्जुगुप्सि- तकर्माचरणानिवृत्तिर्मद्यान्मद्यपानानश्यति । 'अयुक्तं बहु भाषन्ते यत्रकुत्रापि शेरते । नग्ना विक्षिप्य गात्राणि ते जाल्मा इव मद्यपाः ॥' इत्युक्तत्वात् । कृषि सस्यमनवेक्षणानश्यति नित्यमपरामर्शानश्यति । 'कृषि च पत्नीमनवेक्ष्य य. पुमानन्यानि कार्याणि समाचरेच्च । ते त्वेवमेवं हि समाकुले द्वे तथेति बाधानिचयं च यात. ॥' इति स्मरणात् । स्नेहः पुत्रदारादिपूत्पन्नमोहः प्रवासाश्रयाद्दे- शान्तरसंचारसमाश्रयणान्नश्यति । 'सुताङ्गनाबन्धुषु सोरदेषु नृपेषु भृत्येषु च जातमोहः । प्रवासमात्रेण हि नश्यतेऽखिलं चिरं प्रवासेन हरत्यशेषम् ॥' इति वचनात् । मैत्री मित्रभावोऽप्रणयादननुरागानश्यति । 'मृद्धट इव सुखभेद्यो दु संधानश्च दुर्जनो भवति । सुजनस्तु कनकघट इव दुर्भेद्यश्चाशुसंधेयः ॥' इति वचनात् । समृद्धि सपत्तिरनयानीतिराहित्यानश्यति । 'रक्षायां स्वमति- क्षिपत्यधिकरं शिक्षागुणैर्लभ्यते विद्वेष्टि खजनं त्यजत्यवनतिं मृगाति मार्ग- १. नीतिशतकम् । - स्थितान् । भूति नेच्छति यो जनात्प्रतिभयं दुर्वमना गच्छति क्रूराग्रं विनयाङ्कुशं न सहते भूपालमत्तद्विप ॥' धनं तु त्यागादर्थिसात्करणात् । 'द्यूतात्' इति पाठे द्यूतादक्षक्रीडाया प्रमादात् अनवधानतया वा नश्यति । 'श्रुतिनिष्पीटनाच्चैव चार्थासक्तधिया नृणाम्' इति । प्रमादानाशस्त्वनुभवसिद्ध एव । दानान्नाशः समनन्तर लोक एव वक्ष्यते-'शिष्टाना गर्हणान्नाश. सदाचारविवर्जनात्' । शार्दूलविक्रीडितम् ॥ अथ वित्तस्योत्तमादिभेदेन त्रैविध्यमाह- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ ३४ ॥ दानमिति । दानं सत्पात्रत्याग , भोगः स्रक्चन्दनादिद्वारानुभव , नाशो दा- नधर्माद्यभावे चोरादिना विलयश्च । तदुक्तम्-‘चत्वारो धनदायादा धर्मामिन- पतस्करा । तेषा ज्येष्ठावमानेन त्रय कुप्यन्ति सोदराः ॥' इति । एवमुत्तमम- ध्यमाधमभेदेन वित्तस्य तिस्रो गतयो गमनोपाया भवन्ति । तत्र यः पुमान्न द- दात्यर्थिभ्यो न प्रयच्छति । वित्तमिति शेष । अथवा न भुते नानुभवति, तस्य दानभोगाभ्या वित्तव्ययमकुर्वतः पुरुषस्य सबन्धिनः । वित्तस्येति शेप । तृतीया गति शावस्था भवति । सा त्वत्यन्तकष्टेत्यर्थ । अयमत्र निष्कृष्टोऽर्थः-वित्त- स्य दानेन गतिरुत्तमा, आत्मभोगेन मध्यमा, चोरादिनाशगतिरधमेति । अतो दानशौण्डेनैव भवितव्यं धनाढ्येनेति भाव । आर्याभेद ॥ अथ दानशीलस्य वित्तव्ययजनिततनुत्वमपि शोभावहमेवेत्याह- मणिः शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरिदाश्यानलिना। कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥ ३५ ॥ मणि रिति । शाण शस्त्रोत्तेजनसाधनोपलविशेषस्तेनोल्लीढः संघृष्टो मणिश्च । हेतिदलित. शस्त्रक्षत. समरविजयी रणशूरश्च । 'जिदृक्षि-'इत्यादिना इनि । 'हेतिः शस्त्रे तु नृस्त्रियो.' इति केशवः । मदेन दानवर्षेण क्षीणः कृशो नागश्च 'महाभ्राहिगजा नागा.' इति वैजयन्ती । शरदि शरत्काले आश्यानानीषच्छु- काणि पुलिनानि सैकतानि यस्याः सा सरिनदी च । 'संयोगादेरातो धातोर्यण्वत.' इति निष्ठानत्वम् । कलाशेष. षोडशांशमात्रावशिष्टश्चन्द्रश्च । 'कला तु षोडशो भाग.' इत्यमर । 'प्रथमा पिबते वह्निः' इत्यादीतिहासक्रमेणेतरकलानामग्यादि- देवैर्गिलितत्वादिति भावः । सुरतेन रतिरणेन मृदिता विह्वलीकृता बालवनिता मुग्धाङ्गना च । 'जारवनिता' इति पाठे वेश्या चोच्यते । तथा अर्थिषु विषये गलितविभवा व्यपगतार्थसपदः । निःशेषमर्थिसात्कृतधना इत्यर्थ. । 'अर्थरैविभवा अपि' इत्यमरः । नरा दातृजनाश्च तनिम्ना तनुत्वेनैव । पृथ्वादित्वादिमनिच् । शोभन्ते । एवंभूततनुत्वस्यैव तेषा शोभाहेतुत्वादिति भावः । अत्र प्रस्तुतानां - २४ सुभाषितत्रिशत्यां - . नराणां च सामन्त्यार्थरूपतुल्यधर्मेणौपम्यस्य गम्यमानत्वाद्दीपकालंकार -'प्र. स्तुताना तथान्येषां सामस्त्ये तुल्यधर्मत । औपम्यं गम्यते यत्र दीपकं तन्नि- गद्यते ॥ इति लक्षणात् । शिखरिणीवृत्तम् ॥ अथ पुंसा धनाभावतत्सद्भावसमयावस्थामाह- परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्संपूर्णः कलयति धरित्री तृणसमाम् । अतश्चानेकान्ता गुरुलघुतयार्थेषु धनिना- मवस्था वस्तूनि प्रथयति च संकोचयति च ॥ ३६॥ परिक्षीण इति । कश्चिद्धनिक पुमान्परिक्षीणो दैवाद्दरिद्रः सन् यवाना शितशू- काख्यधान्याना । प्रसृतये स्पृहयति । प्रसूतिमात्रयवान्गुरुतयाकाङ्कत इत्यर्थः । 'स्पृहेरीप्सित' इति सप्रदानत्वाच्चतुर्थी । 'शितशूकयवौ समौ' इत्यमर । स परिक्षीणः पुमान्पश्चादनन्तरम् । कालान्तर इत्यर्थ । सपूर्णो दैववशाद्धनसपन्नः सन् धरित्री भुवं तृणसमा तृणकल्पाम् । तद्वल्लध्वीमित्यर्थ । कलयति मनुते । धनमदेन तथालोकयतीत्यर्थ । अतश्चात एव हेतो । अर्थेषु यवधरिच्यादिषु वस्तुषु विषये गुरुलघुतया महत्त्वाल्पत्वभावेनानेकान्ताप्रतिनियता । सर्वथा गुरुणि गुरुत्वमेव, लघुनि लघुत्वमेवेति नियमाभाववतीत्यर्थः । धनिना संबन्धि व्यवस्था व्यापार वस्तूनि यवधरित्र्याद्यल्पमहत्तरवस्तूनि प्रथयति च । धना- भावदशाया नीचमपि वस्तु गुरूकरोतीत्यर्थ । तथा सकोचयति च । तत्सद्भाव- दशाया महदपि वस्तु निराकरोतीत्यर्थ । निर्धनधनिकयोरित्थंभूतावस्था प्रत्य- क्षसिद्धा । अतो विवेकिना नैवं विपर्यस्तबुद्धिना भवितव्यमिति भाव. । शिख- रिणीवृत्तम् ॥ अथ राजानं संबोधयंस्तस्यार्थसाधनोपायमतिदिशति- राजन्दुधुक्षसि यदि क्षितिधेनुमेनां तेनाद्य वत्समिव लोकममुं पुषाण । तस्मिंश्च सम्यगनिशं परिपुष्यमाणे नानाफलं फलति कल्पलतेव भूमिः ॥ ३७॥ राजनिति । हे राजन् । त्वमिति शेष । अन्यथा शेषे प्रथमपुरुष. स्यात् । एनामेताम् । त्वद्धस्तगतामित्यर्थ । अत्रान्वादेशाभावादेनादेशश्चिन्त्य । क्षिति- धैनुरिवेत्युपमितसमास । न तु क्षितिरेव धेनुरिति रूपकम् । वत्समिवेति स्पष्टोपमालिङ्गात् । ता तिक्षिधेनुं दुधुक्षसि यदि दोग्धुमिच्छसि चेत् । अर्थमिति शेषः । दुहेः सन्नन्तात्सिपू । दुह्यादेर्द्विकर्मकत्वनियमात् । तर्हि तेन दुधुक्षा- हेतुना अद्येदानीममुमुपलभ्यमानं लोकं जनं वत्सं तर्णकमिव । 'वत्सो ना कुलजे वर्षे तर्णके तनयादिके' इति वैजयन्ती। पुषाण पोषय । 'लोकस्तु भुवने जने' इत्यमरः । वत्सनाशे क्षीरस्येव लोकनाशेऽर्थस्यासंभवादिति भावः । पोषणफल- १. नीतिशतकम् । २५ - भाह-तस्मिल्लोके चानिशं सर्वदा सम्यगसंबाधं परिपुष्यमाणे परिपाल्यमाने सति भूमिः क्षिति. कल्पलतेव कल्पवृक्षशाखेव । 'समे शाखालते' इत्यमरः । यद्वा कल्पयत्यभीप्सितानीति कल्पा सा च सा लता च । 'स्त्रिया. पुंवत्-' इत्यादिना पुंवद्भावः । सैव कल्पवल्लीव नानाफलं धनधान्यादिबहुरूपफल फलति निष्पाद- यति । ‘फल निष्पत्तौ' इति धातोर्लट् । यतो लोकपरिपालनव्यतिरेकेण न तेऽर्थ सभविष्यति । भूमेरखिलफलदोग्धृत्वात् । तस्मादशेषलाभार्थ तत्परिपोषणमावश्यकमिति भाव । अत्र पूर्ववाक्यस्थोपमया निव्यूढोत्तरवाक्य- स्थोपमेयनयोरङ्गाङ्गिभावेन संकर । वसन्ततिलकावृत्तम् ।। यतो राजानं सवोधितवानपि तनीतिः कीदृशीत्याशङ्कायां तस्या बहुविधल- मित्याह- सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥ ३८ ॥ सत्येति । सत्या यथार्थभाषिणी, अमृता असत्यवादिनी च। तथा परुषा कठोर- भाषिणी, प्रियवादिनी मधुरालापिनी च । तथा हिंस्रा घातुका । 'शरारुर्घातुको हिंस्र' इत्यमर । 'नमिकम्पि-' इत्यादिना रप्रत्ययः। दयालुरपि कारुणिका च । 'स्यायालु कारुणिक.' इत्यमरः । 'स्पृहिगृहि-' इत्यादिनालुच्प्रत्ययः। तथा अर्थपरा धनलुब्धा, वदान्या दानशौण्डा च । कुत्रचिद्विषय इति सर्वत्रा- प्यध्याहार्यम् । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्यमरः । तथा नित्यं व्ययो धनत्यागो यस्याः सा तथोक्ता, प्रचुरनित्यधनागमा प्रचुरं प्रभूतं यथा तथा नित्यं धनस्यागम प्राप्तिर्यस्या. सा तथोक्ता च । अतो वाराङ्गनेव वेश्येव । 'वारस्त्री गणिका वेश्या' इत्यमर । नृपनीती राजवृत्तिरनेकरूपा बहुप्रकारा । न त्वैकान्तिकीत्यर्थः । वाराङ्गनायामपि विशेषणानि समानि । अत्र सत्यानृ- तेत्यादिपदश्रवणमात्रेण झटिति विरोधः स्फुरति । तस्य खाभावेनाभासीकरणा- दलंकारः सन्वाराङ्गनेवेत्युपमयाजाभिभावेन संकीर्यते । वसन्ततिलकावृत्तम् ॥ सोऽपि गुणाढ्य एव समाश्रयणीयः, न तु निर्गुण इति राजानमेव संबोधयति- आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च । येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ ३९॥ आज्ञेति । आज्ञा मर्यादापरिपालनात्मकशासनम् , कीर्तिः दानक्षात्रोद्भवा सत्समाख्या, ब्राह्मणानां पालनं निरुपद्रवं ब्राह्मणसतर्पणम् , दानं सत्पात्रे त्यागः, भोगः स्रक्चन्दनादिजनितसुखानुभवः, मित्रसंरक्षणं सुहृत्समुद्धरणं चेत्येते - २६ सुभाषितत्रिशत्यां -- षड्गुणा येषा राज्ञा न प्रवृत्ता न प्रवर्तन्ते । कर्तरि त , पृथिव्या ईश्वर पार्थि- वस्तस्य सबुद्धि: पार्थिव राजन् । 'तस्येश्वर', 'सर्वभूमिपृथिवीभ्यामणजी' इत्यण्प्रत्ययः । तेषामुपाश्रयेण समाश्रयेण कोऽर्थ को लाभ । न कोऽपीत्यर्थः । तस्मादुक्तगुणसंपन्न एव राजा समाश्रयणीय । नतु कुक्षिभरिरिति भावः । शालि- नीवृत्तम्-'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकै ' इति लक्षणात् ॥ अथाप्तिकार्पण्यं मा कुरु लाभालाभयोर्दैवायत्तमूलकखादित्याह- यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ ४० ॥ यदिति । धात्रा ब्रह्मणा स्तोकमल्प महद्बहुलं वा यद्धनं निजभालं निजनिटि- लतटमेव पहुं तत्र लिखितं लेखनेन निर्दिष्टं तद्ब्रह्मलिखित धनं मरुस्थल ऊपर- देशेऽपि । किमुतान्यत्रेति भाव । नितरामतिशयेन प्राप्नोति लभते । अन्यून- मिति शेष । 'समानौ मरुधन्वानौ' इत्यमरः । मेरौ कनकाचलेऽपि अतो ब्रह्म- लिखितादविकं न प्राप्नोति । तत्तस्मात्कारणाद्धीर स्थिरचित्तो भव । वित्तवत्सु धनाढ्येषु विषये कृपणां दीनां वृत्तिं व्यापार वृथा व्यर्थ मा कृथा मा कार्षी । तेन कार्पण्यजनितनिन्दामात्राश्रयत्वमेव, न त्वधिकधनप्राप्तिरिति भावः । कृयो लुडि थास् । तनादित्वेऽपि सिचो नित्यलोपविधानान सिच् । 'न माडयोगे' इत्यप्रतिषेधः । तत्र दृष्टान्तमाह-कूपेऽल्पजलाधारे गर्तेऽपि पयोनिधौ समुद्रेऽपि घट कलशस्तुल्यमात्मपरिमितं जलं गृह्णाति खीकुरुते । पश्येति कृपणसबोधनम् । न तु कूपेऽल्पम् , पयोनिधावधिकम् । अत एव दृष्टान्तेन समाहितचित्तेन भवित- व्यम् , न तु कार्पण्यपर्याकुलेनेति तात्पर्यम् । शार्दूलविक्रीडितम् ॥ इति नीतिशतकव्याख्यानेऽर्थपद्धतिवर्णनं नाम चतुर्थ दशकम् । अथ दुर्जनपद्धति । अथार्थादिसंपन्नोऽपि दुर्जनोऽनुपादेय एवेत्याशयेनार्थपद्धतिनिरूपणानन्तरं दुर्जनपद्धतिं निरूपयति । तत्र तेषामवगुणं गणयति- अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा। सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ ४१ ॥ अकरुणखमिति। परदु खप्रहाणेच्छा करुणा तद्राहित्यमकरुणत्वं दयाहीनत्वं च, अकारणविग्रहो निष्कारणकलहश्च । 'अस्त्रियां समरानीकरणा: कलहविग्रही' इत्य- मरः । परधने परद्रव्ये परयोषिति परदारेषु स्पृहा च । एकत्रापहरणेच्छा, अन्यत्र १. नीतिशतकम् । संभोगाभिलाषश्च । सुजनेषु बन्धुजनेषु च असहिष्णुता असहनशीलत्वं च । इतीदं सर्व । 'नपुंसकमनपुंसकेन-' इत्यादिना नपुंसकैकशेष । दुरात्मनां दुर्ज- नाना प्रकृतिसिद्धं खभावसिद्धं हि । अतस्ते नोपादेया इति भाव । 'प्रकृतिः प्रपञ्चभूते प्रधाने मूलकारणे । खभावे' इति विश्वः । द्रुतविलम्बितं वृत्तम्- 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥ आस्तां तावदुर्जनमात्रस्य परित्याज्यत्वकथनम् । अशेपविद्यादिगुणसंपन्नोऽपि दुर्जन परित्याज्य एवेति सदृष्टान्तमाह- दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयंकरः॥४२॥ दुर्जन इति । दुर्जनो विद्यया वेदवेदाङ्गाध्यात्मिकयालंकृतो भूषितः सनपि । सकलविद्यापारीणः सनपीत्यर्थ । परिहर्तव्यस्त्याज्य । कुत इत्यत आह -सर्प आशीविष. मणिना फलकस्थमाणिक्येन भूषितोऽलंकृतः सन्नपि । असौ सर्पो न भयंकरः किम् । भयंकर एवेत्यर्थः । असौ मणिभूषितसर्पप्रायो विद्यावानपि दुर्ज- नो दूरतस्त्याज्य एव । 'दुर्जनं दूरतस्त्यजेत्' इति न्यायादिति भावः । 'मेघर्तिभ- येषु कृनः' इति कृञ् । खशि 'अरुषिद्-' इत्यादिना मुमागमः । अत्र बिम्बप्र- तिबिम्बन्यायेन धर्मधर्मिणोर्वाक्यद्वये पृथनिर्देशादृष्टान्तालंकार । 'बिम्बानुबि. म्बन्यायेन निर्देशो धर्म धर्मिणो । दृष्टान्तालंकृतिया भिन्नवाक्यार्थसश्रया ॥' इति लक्षणात् । वृत्तमानुष्टुभम् ॥ अथास्य सर्वदूषकत्वमाह- जाड्यं हीमति गण्यते व्रतशुचौ दम्भः शुचौ कैतवं शूरे निघृणता मुनौ विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तव्यशक्ति स्थिरे तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः॥४३॥ जाड्यमिति । ह्रीमति लज्जावति पुंसि जाड्यं मान्यम् । 'गुणवचनब्राह्मणा- दिभ्य कर्मणि च' इति ष्यञ्प्रत्ययः । गण्यते संख्यायते । दुर्जनैरिति शेष. । न तु जुगुसितकर्माचरणपराङ्मुखत्वम् । व्रतैस्तपश्चान्द्रायणादिनियमैः शुचौ शुद्ध दम्भो धर्मध्वजित्व गण्यते, न त्वनुष्टातृत्वम् । शुचौ खभावादेव बाह्यान्तरशुद्धे कैतव कपटं गण्यते, न तु पारमार्थिकत्वम् । शूरे निघृणता दयाराहित्यं गण्यते, न तु विक्रान्तत्वम् । मुनौ मननशीले विमतिता बुद्धिदैन्यं गण्यते, न त्वात्मैक्यानुसंधान- तत्परत्वम् । प्रियालापिनि मधुरवादिनि दैन्यं गण्यते, न तु श्रवणानन्दकरत्वम् । तेजःप्रागल्भ्यं प्रभाविशेषो वा तद्वति अवलिप्तता गर्वग्रस्तत्वं गण्यते, न तु खभाव । 'अपलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च' इति विश्व । वक्तव्येष्वर्थेषु शक्ति. प्रतिभापरपर्यायः सामर्थ्य विशेषः तया स्थिरे। मुखमस्याम्तीति मुखरो दुर्मुखः । 'दुर्मुखे मुखराबद्धमुखौ' इत्यमरः । 'खमुखकुञ्जेभ्यः' इति रप्रत्ययः । तस्य भाव- स्तत्ता । असबद्धप्रलापित्वमित्यर्थः । गण्यते, न तु वाग्मित्वम् । तत्तस्मात्कारणा- - सुभाषितत्रिशत्यां me गुणिनां गुणसंपन्नानां स को नाम गुणो भवेत् , यो गुणो दुर्जनैर्नाङ्कितो न दूषि- तः। दुर्जनादूषितो गुणः सुगुणिनां न कोऽप्यस्तीत्यर्थः । 'यो दुर्जनाना मत.' इति पाठे यो गुणो दुर्जनाना मत इष्ट. स्यात् , स को नाम भवेदिति संबन्ध । दुर्जनाभिमतः सुगुणिनां न कोऽपि गुणोऽस्तीत्यर्थः । शार्दूलविक्रीडितम् ॥ अथ गुणावगुणप्रणालिकामाह- लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं बलेन महिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥४४॥ लोभ इति । लोभो धनादिवाञ्छास्ति चेत् , अवगुणेन दुर्गुणेन किम् । न किं- चिदपीत्यर्थ । तस्यैवात्यन्तनिन्दावहत्वादिति भावः । पिशुनता परोक्षे परदोष- सूचकतास्ति यदि, पातकैब्रह्महत्यादिभिः किम् । तस्या एव निरयपातनदक्ष- स्वादिति भाव । सत्यं यथार्थभाषणं समदर्शित्वं वास्ति चेत्, तपसा चान्द्राय- णादिना किम् । तस्यैव परिशोवकत्वादिति भाव । शुचि द्रोहचिन्तादिराहित्येन शुद्धं मनोऽस्ति यदि, तीर्थेन प्रयागादिना किम् । तस्यैवापवर्गमूलकत्वादिति भावः । 'यः स्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित्सर्वगतोऽमृतो भवेत्' इति स्मरणमात्रमूलम् । सौजन्यं सुजनभावोऽस्ति यदि, बलेन परिजनेन किम् । तस्यै- वाशेषकार्यनिर्वाहकत्वादिति भाव । महिमा माहात्म्यमस्ति यदि मण्डनै कुण्ड- लहाराद्यलकरणे किम् । तस्यैवोपस्करहेतुभूतत्वादिति भावः । सद्विद्या अस्ति यदि, धनै किम् । अपयशोऽपकीर्तिरस्ति यदि, मृत्युना मरणेन किम् । तद्वन्मू- तप्रायत्वादिति भावः । एवं विचार्य सद्गुणार्जनतत्परेण भवितव्यं पुरुषेण । अ- न्यथा दौर्जन्यमनायाससाध्यमिति वाक्यशेषत्वेनोन्नेयम् । शार्दूलविक्रीडितम् ॥ कस्यचिदनुभविनो निजकष्टामिवेदनमभिनीयाह- शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः। प्रभुर्धनपरायणः सततदुर्गतिः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ ४५ ॥ शशीति । दिवसेऽह्नि धूसरो निस्तेजस्क. शशी चन्द्रश्च, गलितयौवना भ्रष्ट- नूतनवयस्का कामिनी कान्ता च, विगतवारिजं पुण्डरीकषण्डहीनं सरः कासा- रश्च, सु शोभनाकृतिर्यस्य सुन्दरपुरुषस्य अनक्षरं शास्त्रविभ्रष्टं मुखं च, धनपरा- यणो धनलुब्ध प्रभू राजा च, सततदुर्गतिर्निरन्तरदारिद्यवान्सज्जनश्च, नृपाङ्गण- गतो राजगृहान्तर्वर्ती खलो दुर्जनश्च । तस्य विघातकत्वादिति भाव । इत्येवं सप्त मे मम शल्यानि शूलानि । तथा दु सहदु खजनकत्वादिति भावः । इदमे- वात्यन्तकष्टनिवेदनवचन मिति तात्पर्यम् । तत्राप्रकृताना प्रकृतस्य खलस्य च दुःखहेतुत्वसाम्येनौपम्यस्य गम्यमानत्वाद्दीपकालंकार । पृथ्वीवृत्तम् ॥
१. नीतिशतकम् । २९ - अथ दुष्टराजलक्षणं सदृष्टान्तमाह- न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् । होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ ४६॥ नेति । चण्डकोपानामुग्राणा भूभुजां राज्ञा कश्चिदपि पुमान् न आत्मीयो नाम आत्मीयत्वेन प्रसिद्धो न भवति । कि तु सर्वोऽयनात्मीय एवेत्यर्थः । ननु यथाकथंचिद्धितमाचरन्भविष्यत्येवात्मीय इत्याशङ्कय दृष्टान्तमुखेन निराकुर्वन्नाह- जुह्वानं आज्यपुरोडाशादिदानेनोपचरन्तमपि । 'हु दानादनयो.' इति धातोः कर्तरि शानच् । होतारं यजमानं पावकोऽमि स्पृष्टः सन् दहति । संतापय- तीत्यर्थः । अतोऽग्निदृष्टान्तेनेदृशो राजा न समाश्रयणीय इति भावः । वृत्त- मानुष्टुभम् ॥ कथं न समाश्रयणीय इत्याशङ्कय तत्सेवाया दुष्करखादित्याह- मौनान्मूकः प्रवचनपटुर्वाचको जल्पको वा धृष्टः पार्श्वे भवति च वसन्दूरतोऽप्यप्रगल्भः। क्षान्त्या भीर्यदि न सहते प्रायशो नामिजातः सेवाधर्मः परमगहनोयोगिनामप्यगम्यः॥४७॥ मौनादिति । मौनातूष्णीभावान्मूको निर्वचो भवति । सेवक इति शेष. । प्रवचनपटु प्रगत्भश्चातिवक्ता वाचको बहुभाषी, जल्पतीति जल्पकोऽसंबद्धप्र- लापी वा भवति । उभयत्रापि ‘ण्वुत्तृचौ' इति कर्तरि ण्वुल्प्रत्ययः । णित्त्वा- द्वृद्धि । 'जल्पक.' इति पाठे जापतीति जल्पक । पचाद्यचू । खार्थे कप्रत्यय. । अन्यथा 'जल्पमिक्ष-' इत्यादिना कन्प्रत्यये जल्पाक इति स्यात् । यथाहामर- सिंह 'स्याज्जल्पाकस्तु वाचालः' इति । पार्श्वे समीपे च वसन्धृष्टो निर्भीको भवति । दूरतो विप्रकृष्टे देशे वसन्नप्रगल्भोऽप्रौढो भवति । क्षान्त्या परिभवादि- धूपपद्यमानेषु उत्पद्यमानेषु क्रोधप्रतिबद्धलक्षणयोपलक्षितश्चेद्भीरुभयशीलो भव- ति । 'मिय कुक्लुकनौ' इति क्रुप्रत्यय । न सहते परिभवादिकं न क्षमते यदि, तर्हि प्रायशो बाहुल्येनाभिजात सत्कुलीनो न भवति । अत परमगहनोऽत्यन्त- दुरवगाह सेवाधर्म परिचर्यात्मकं कर्म योगिनामपि कालत्रयाभिज्ञानामपि । अतीन्द्रियवस्तुपरिज्ञानवतामित्यर्थः । किमुतान्येषामिति भाव मशक्य । सर्वे गत्यर्था ज्ञानार्थाः । यत परब्रह्मापि ध्यानादिना साक्षास्क्रियते, न त्वयमिति भावः । मौनादिव्यतिरिक्तवर्मस्य गगनारविन्दप्रायत्वात्तस्य ब्रह्म- णोऽपि दुर्विज्ञेयतयात्यन्तदुष्करत्वमिति तात्पर्यम् । अत्र सेवाधर्मस्य योगिग- म्यत्वेऽयगम्यत्वोक्ते संबन्धे असबन्वरूपातिशयोक्तिः । वृत्तं मन्दाक्रान्ता- 'मन्दाक्रान्ता जलधिषडगम्भी नतौ ताद्गुरू चेत्' इति लक्षणात् ॥ किं बहुनास्य पुरस्तात्स्थातुमप्यशक्यमित्याह- उद्भासिताखिलखलस्य विश्लङ्घस्य प्रोद्दाढविस्मृतनिजाधमकर्मवृत्तः। - । अगम्यो ज्ञातु- सुभाषितत्रिशत्यां - दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमास्यते कैः॥४८॥ उद्भासितेति । उद्भासिताः प्रकाशिता अखिला. खला येन तस्य । अधि- कारप्रदानेन पुरस्कृताशेषदुर्जनस्येत्यर्थ । तस्य सुजनविद्वेपित्वादिति भाव. । तथा विशृङ्खलस्य । विधिनिषेवातीततया स्वच्छन्दगतेरित्यर्थ । तथा प्रोद्गाढ- मतितरा विस्मृता स्मरणाविषयीकृता निजा खकीया अधमकर्मवृत्ति. प्राक्तन- नीचकर्मव्यापारो येन तस्य । 'प्रागेव विस्तृत-' इति पाठे प्राक्प्रथमम् । आ- चरणसमय एवेत्यर्थ । एतेन लज्जाहैन्यमुक्तम् । तथा दैवाददृष्टवशादिदानीम- वाप्तो विभव ऐश्वर्य सपत्तिर्यस्य । गुणद्विषः सुगुणनिन्दकस्य । अस्य पूर्वोक्तस्य नीचस्य राज्ञो गोचरगतैर्विषयवासिमि कैर्जनै सुखमक्लेशेनास्यते स्थीयते । न कैरपीत्यर्थ । अतो न नीचाश्रय कर्तव्य इति भावः । 'आस उपवेशने' । भावे लट् । अत्रोद्भासितेत्यादिपदार्थस्य विशेषणगत्या सुखस्थित्यभावपदार्थहेतुकत्वा- त्पदार्थहेतुकं काव्यलिङ्गमलकार । वसन्ततिलकावृत्तम् ॥ अथ दुर्जनसुजनमैत्रीप्रकारमाह- आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमुपैति पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसजनानाम् ॥ ४९ ॥ आरम्मेति । पूर्वार्धपरार्धाभ्या पूर्वाह्नापराह्नभेदेन मिन्ना पृथग्विधा छाया अनातप इव । 'छाया त्वनातपे कान्तौ प्रतिविम्बार्कजाययो' इति वैजयन्ती । आरम्भे प्रारम्भसमये गुर्वी गुरुः । वर्धिष्णुरित्यर्थः । 'वोतो गुणवचनात्' इति विकल्पान्डीम् । क्रमेण कालक्रमेण क्षयिणी क्षयिष्णुश्च । 'जिदृक्षि-' इत्यादिना इनिः । तथा पुरा प्रारम्भे लघ्वी । ह्रस्वेत्यर्थ. । पूर्ववन्डीषू । पश्चादनन्तरं वृद्धिमुपैति प्राप्नोति । अयमर्थ -दुर्जनमैत्री पूर्वाह्नच्छायेव प्रारम्भगुर्वी क्रमेण क्षयिणी च भवति, सुर्जनमैत्री तावदपराह्नच्छायेवादी लघ्वी ततो वर्विष्णुश्च भवतीति । अतोऽत्र यदुक्तं तत्कर्तव्यं कुशलिनेति भाव । अत्र यथासख्यास- कीपमालंकार। उपजातिवृत्तम् ॥ यदुक्तम् 'अकरुणस्वमकारणविग्रहः' इति तदेव प्रकटयन्नुपसंहरति- मृगमीनसजननां तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणमेव वैरिणो जगति ॥ ५० ॥ मृगेति । संतोषो दैववशालब्धेन मन संतुष्टिः । तृणजलसंतोषैर्विहिता कल्पिता वृत्तिजीवनं येषा तेषाम् । नतु परोपतापोपजीविनामित्यर्थ. । 'वृत्तिर्वर्तनजीवने' इत्यमरः । मृगाणां हरिणादीनां मीनाना मत्स्यानां सज्जनानां साधूनां च लुब्धको व्याधः। धीवरो दाशः।जालिक इत्यर्थः । पिशुनःसूचकश्च । 'व्याधो मृगवधाजीवो , १. नीतिशतकम् । । . . मृगयुर्लुब्धकश्च स. ।' कैवर्ते दाशधीवरौ' इति चामरः । एते जगति भुवि नि- कारणं निर्हेतुकमेव वैरिणो विद्वेषिण । धातुका इत्यर्थः । तृणेन विहितवृत्तीनां मृगाणां लुब्धका निष्कारणवैरिण इत्यादि यथाक्रममन्वयात्क्रमापरनामा यथा- संख्यालंकार । तदुक्तं विद्यानाथेन-'उद्दिष्टानां पदार्थानां पूर्व पश्चाद्यथाक्रमम् । अनुद्देशो भवेद्यत्र तद्यथासंख्यमुच्यते ॥' इति । आर्यावृत्तम् ॥ इति नीतिशतकव्याख्याने दुर्जनपद्धतिवर्णनं नाम पञ्चमं दशकम् । अथ सुजनपद्धति । अथैतद्वैलक्षण्येन सुजनपद्धतिं निरूपयति । तत्रादावादरातिशयात्तानमस्करोति- वाञ्छा सजनसंगतौ परगुणे प्रीतिगुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् । भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खलै- रेते येषु वसन्ति निर्मलगुणास्तेभ्यो महद्भ्यो नमः ॥५१॥ वाञ्छति । सज्जनसंगती साधुसमागमे वाञ्छामिलाषः, न तु जिहासा। तस्या मोक्षसाधकत्वादिति भावः। तदुक्तं ज्ञानवासिष्ठे-'मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिता । शमो विचार सतोषश्चतुर्थ साधुसगम ॥' इति। तथा चोक्तं श्रीम- द्भागवते-'महत्सेवा द्वारमाहुर्विमुक्ते' इति । स्वेनाप्युक्तम्-'चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्सगतिः कथय कि न करोति पुंसाम्' इति । परेषां गुणे प्रीतिः सतोषः, न तु दोषापादनम् । 'परगुणपरमाणून्पर्वतीकृत्य नित्यं निज हृदि विकसन्त. सन्ति सन्तः कियन्त.' इति वक्ष्यमाणत्वादपीति भावः । गुरौ विद्योपदे- ष्टरि नम्रता भक्तिश्रद्धाभरेण प्रह्वीभाव , न तु गर्वोद्रिक्तता । 'यस्य देवे पराभ- क्तिर्यथा देवे तथा गुरौ । तस्यैते निखिला ह्या प्रकाशन्ते महात्मन. ॥' इति । 'गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरु साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः॥' इति श्रुतिस्मृती । विद्यायां वेदान्तादिविद्याभ्यासे व्यसनमासक्तिः, न तु द्यूतके ल्यादौ । तस्य मोक्षसाधनब्रह्मज्ञानकत्वादिति भावः। स्वयोषिति निजदारेषु रति. संभोग , न तु परदारेषु । 'रम्यं कुलस्त्रीरतम्'इति वचनादिति भावः । लोकाप- वादालोकनिन्दायाः। 'भीत्रार्थाना भयहेतु.' इत्यपादानत्वात्पञ्चमी । भयम् , निर्लज्जत्वम् । 'लोकापवादो बलवानिति सत्यवती श्रुतिः' इत्यादिवचनात्तस्य बलि- ठत्वादिति भाव. । शूलिनि परदेवताया शिवे भक्तिरनुराग , न तु क्षुद्रदेवता- याम् । 'शिवे भक्ति शिवे भक्ति 'इत्यादिवचनेष्वावृत्त्या तस्या. प्राशस्त्यश्रवणा- दिति भाव. । आत्मदमने स्वपरिभवे सति शक्ति. सामर्थ्यम् । पराक्रम इति यावत् । न तूपशमेनौदासीन्यम् । 'अन्यदा भूषण पुंसां शमो लज्जेव योषि- ताम् । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥' इति वचनादिति भावः । खलैः दुर्जनै. सह ससर्गमुक्ति सङ्गत्याग , न तु तत्सहवासाभिलाष । 'दुर्जनं दूरतस्यजेत्' इति, 'दुर्जनः परिहर्तव्य'इत्यादिवचनादिति भाव. । इत्येते निर्मला निष्कलङ्का गुणाः ४ सु. त्रि. । नतु सुभाषितत्रिशत्यां . सजनसंगतिवाञ्छादयो गुणा येषु पुरुषेषु वसन्ति तेभ्यो महद्भ्यो नमः । इत्थंभू- तगुणविशिष्टानामेव नमस्कारार्हत्वादिति भाव. । 'नम खस्ति-' इत्यादिना च- तुर्थी । 'तैरेव भूर्भूषिता' इति पाठे तैर्निर्मलगुणसपत्नैरेव भूरलंकृता, न त्वन्यैः । तेषामेव चारुत्वाद्यतिशयत्वादिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ अथैषा निसर्गसिद्धगुणं गणयति-- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः। यशसि चाभिरतिय॑सनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ५२ ॥ विपदीति । विपद्यापत्काले धैर्य निर्विकारचित्तत्वम्, न तु दैन्यम् । 'मनसो निर्विकारत्वं धैर्य सत्खपि हेतुषु' इति । अथानन्तरं वाक्यारम्भे वा । अभ्युदये संपदि क्षमा सहिष्णुत्वम्, न तूचण्डता । सदसि राजविद्वत्सभायां वाक्पटुता वाग्मित्वं सरसवचनं च । वाक्चातुर्यमिति यावत् , न तु मूकीभाव । युधि रण- रङ्गे विक्रम पराक्रमः, न तु पलायनम् । यशस्यमिरति. साहेच्छा, न त्वनादरः। श्रुतौ वेदशास्त्राभ्यसने व्यसनमासक्ति , न तु निर्वेदः । इतीदं सर्वम् । 'नपुंस- कमनपुंसकेन-' इत्यादिना नपुंसकैकशेषः । महात्मना महानुभावानां प्रकृतिसिद्धं खभावसिद्ध हि । 'ससिद्धिप्रकृती विमे । स्वरूपं च खभावश्च निसर्गश्च' इत्यमरः । द्रुतविलम्बितवृत्तम् ॥ अथैषां प्रसिद्धविलक्षणमण्डनसंपत्तिमाह- करे श्लाध्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् । हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयो- विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ ५३॥ कर इति । करे हस्ते श्लाध्य. सकललोकप्रशस्तस्त्यागः दानं मण्डनम् , न तु कङ्कणम् । 'दानेन पाणिर्न तु कङ्कणेन' इति स्वेनैवाग्रे वक्ष्यमाणत्वात् । शिरसि गुरु- पादयोः प्रणयिताभिवादनतात्पर्य मण्डनम् , न तु मणिहिरण्मयकोटीरादि । मुखे वके सत्या वाणी सूनृतभाषणं मण्डनम् , न तु ताम्बूलचर्वणादि । भुजयोस्तुलं निरुपमानं विजयि जयशील च । 'जिदृक्षि-' इत्यादिना इनि । वीर्य बलं मण्डनम्, न तु केयूरादि । हृद्यन्तरङ्गे स्वच्छा वृत्तिः निष्कलङ्कव्यापारो मण्डनम् , न तु हाररुचकादि । हृच्छब्दस्य वक्ष स्थलवाचकत्वमपि सभवतीति कृत्वाभेदेन निर्देशः। श्रवणयोः कर्णयोरधिगतं श्रुतं शास्त्रमेव । 'श्रुतं शास्त्रावधृतयो.' इति विश्वः । मण्डनम् , न तु कुण्डले । 'श्रोत्रं श्रुतेनैव न कुण्डलेन' इति वक्ष्यति । इदं पूर्वोक्त- दानादिकं सर्वमैश्वर्येण धनरत्नसंपत्त्या विनापि । 'पृथग्विना-' इत्यादिना विक- ल्पात्तृतीया। प्रकृत्या स्वभावेन महतां महात्मनाम् । सौजन्यसंपन्नानामित्यर्थ. । . । ।
१. नीतिशतकम् । 'प्रकृत्यादिभ्यः' इति तृतीयासमासः । मण्डनं भूषणम् । तस्यैव लोकोत्तर- रामणीयकहेतुत्वादिति भावः । शिखरिणीवृत्तम् ॥ गुणाढ्यत्वे को लाभ इत्याशङ्कय तेषां श्रेयोहेतुत्वमाह- प्राणाघातानिवृत्तिः परधनहरणे संयमः सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्रोतोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा- सामान्यं सर्वशास्त्रेष्वनुपहतविधिःश्रेयसामेष पन्थाः॥५४॥ प्राणेति । प्राणाघातात्प्राणहिसाया निवृत्तिनिवर्तनं च । 'मा हिस्यात्सर्वा- भूतानि', 'अहिंसा परमो धर्मस्त्वधर्मः प्राणिना वधः' इत्यादिनानिषोमीयपश्वा- लम्भनवृत्त्यतिरिक्तहिंसाया निषेधश्रवणात् । परधनहरणे सयमो मनोरोधश्च । 'परद्रव्याणि लोष्ठवत्' इति न्यायादिति भाव. । काले समये सत्यवाक्यं यथार्थ- भाषणं च । धर्मोपदेशश्रवणादिति भावः । अत्र 'ब्राह्मणार्थे गवामर्थे' इत्यादिष्वस- त्यवचनस्यापि निषेधाभावश्रवणात्काल इत्युक्तम् । शक्त्या प्रदानं वित्तानुसारेण त्यागश्च । 'वित्तशाठ्यं न कारयेत्' इति वचनादिति भाव ! युवतिजनकथायां परस्त्रीवृत्तान्तकथने मूकभावस्तूष्णींभावशीलत्वं च । 'स्वप्नेऽप्यन्यवधूकथाम्' इति वचनात् । परेषां अन्येषाम् । याचकानामित्यर्थ । तृष्णा धनलिप्सा तस्या एव स्रोतस. प्रवाहस्य विभङ्गो निरोध । अभीप्सितदानेन मनोरथपरिपूरणं चेत्यर्थः । 'याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं न द्रुमैन गिरिमिन समुद्रैः ॥' इति श्रवणादिति भावः । गुरुषु च विनयो नम्रत्वं च । 'गुरौ नम्रता' इत्युक्तत्वादिति भावः । सर्वभूतेष्वशेषप्राणिध्वनुकम्पया दयया सामान्य समदर्शित्वं च । सर्वशास्त्रेषु वेदवेदान्तादिसकलागमेष्वनुपह- तोऽविच्छिन्नो विधिरध्ययनविधानं च । यद्वा सर्वभूतानुकम्पेति पृथक्पदम् । तथा सर्वशास्त्रेषु सामान्यमवैषम्येण तत्तत्सिद्धान्तानुवर्तित्वम् , अनुपहतविधिर- लुप्तकर्मानुष्ठानं चेति अनुगुणसमुदाय. । एष. श्रेयसां पन्था अखण्डितैश्वर्यादि- श्रेय प्राप्तिमार्ग.। न त्वेतव्यतिरिक्तोऽन्योऽस्तीत्यर्थः । एतादृशगुणसंपत्तिः सुज- नानामेवेति कृत्वा त एव श्लाघ्या इति भावः । अथवा श्रेयसा प्रशस्याना सुज- नानां सबन्धी पन्थाः तत्प्रवृत्तिमार्ग इत्यर्थ । प्रशस्यशब्दादीयसुनि 'प्रशस्यस्य श्र.' इति श्रादेश । अत्र 'वाञ्छा सज्जनसगतौ' इत्यादिश्लोकेषूक्तगुणाः प्रायेण दैवसंपदभिजातानामेव सभवन्ति, न त्वन्येषाम् । तदुक्तं भगवद्गीतासु- 'अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च खाध्यायस्तप आर्जवम् ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । द्या भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥' इति । स्रग्धरावृत्तम्-'मनैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् ॥ . THANI ४ सुभाषितत्रिशत्यां अथापत्संपदोः सुजनमनोवृत्तिमाह- संपत्सु महतां चित्तं भवेदुत्पलकोमलम् । आपत्सु च महाशैलशिलासंघातकर्कशम् ॥ ५५ ॥ संपत्खिति । संपत्सु धनधान्यवस्तुवाहनादिसमृद्धिषु महतां महात्मना सज- नाना चित्तमुत्पलवत्कोमलं मृदुलं भवेत् । न तु कठिनमित्यर्थः । आपत्सु दारि- द्याद्यनर्थसकटेषु महाशैलशिलासघात. पाषाणकूटस्तद्वत्कर्कशं कठोर च भवेत् । नत्वधैर्य विश्लथमित्यर्थ । न कदाप्युक्तवैपरीत्यम् । अन्यथा माहात्म्यभङ्गप्रस- शादिति भावः । विवे किनामविवेकिना चायमेव पन्था आदरणीय इति तात्प- यम् । अत्र शैलस्य महत्त्वविशेषणं तच्छिलासघातस्यात्यन्तदुर्भेद्यत्वद्योतनार्थम् । उक्तं चैतदन्यत्रापि-सौजन्यामृतसिन्धवः परहितप्रारब्धवीरव्रता वाचाला: परवर्णने निजगुणालापे तु मौनव्रता । आपत्खप्यविलुप्तधैर्यनिलया संपत्खनु- सेकिनो मा भूवन्खलवनिर्गत विषम्लानानना सजना. ॥' इति । उपमालं. कार । आनुष्टुभं वृत्तम् ॥ अथ द्वाभ्यामेव तद्वृत्तस्यासाधारण्यमाह- प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरं त्वसन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः। विपद्युच्चैधैर्य पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ५६ ॥ प्रियेति । न्यायादनपेतान्याय्या नीतिप्रवणा वृत्तिर्जीवनम् । 'वृत्तिर्वर्तनजीवने' इत्यमरः । प्रीणातीति प्रिया इष्टा, न त्वन्या। तस्या एव श्रेयस्करत्वादिति भावः। 'इगुपधज्ञाप्री किर. क.' इति कप्रत्यय । असुभङ्गे प्राणप्रयासेऽपि । किमुतान्यदेति भावः । मलिनं दुष्कर्म असुकरमकर्तव्यम् , न तु 'आपत्काले नास्ति मर्यादा' इति न्यायात्सुकरम् । तस्यैवैहिकामुष्मिकफलदत्वादिति भावः । 'ईषदु -' इत्यादिना खल्प्रत्ययः । ततो नसमासः । असन्त कुहका नाभ्यर्थ्या' कस्मिंश्चिद्विषयेऽपि न प्रार्थनीया । कितु सन्त एव । तेषामुपेक्ष्यत्वादिति भाव । यद्यपि 'न पादादौ खल्वादय ' इत्याह वामन , तथापि कविप्रौढ्या तुशब्दस्य पादादौ प्रयोग । सुहृ- दपि प्राणप्रियबन्धुरपि । किमुतान्य इति भाव । 'सुहृदुहृदौ मित्रामित्रयो ' इति निपातनात्साधुः । कृशधनो धनहीनश्चेत् न याच्यो याचितुं न योग्य । धनादिक- मिति शेष । किंतु धनपरिपूर्ण एव । तथाविधयानाया अनुचितत्वादिति भाव । विपद्यनर्थसकटेऽपि उच्चैधैर्यम् , न तु भयविह्वलत्वम् । 'आपत्तप्यविलुप्तधैर्यनि- लया', 'विपदि धैर्यमथाभ्युदये क्षमा' इति चोक्तत्वादिति भाव । महता पूज्या- नामनुविधेयमनुकूलं पदं व्यवसितम् , न त्वननुकूलं पदम् , तथाभूतस्यैव श्लाघ्य- त्वादिति भाव । 'पदं व्यवसितत्राणस्थानलक्ष्माधिवस्तुषु' इत्यभिधानात् । इतीद- मेतत् विषममसाधारणतया दुष्करमसिधाराव्रतमस्यभिचरितव्रतं सतां सत्पुरु- षाणा केनोद्दिष्टमुपदिष्टम् । न केनापीत्यर्थ । खत सिद्धत्वादिति भाव । अत्रासि- ७ १. नीतिशतकम् । . घारावन्निशितत्वादसिधारासंचारवत्सावधानेनैकाग्रतया विधेयत्वाद्वा असिधाराव- तम् । यद्वा असिधारया व्यवहरता व्रतम् । वीरव्रतमित्यर्थ । अथवा 'युवा युवत्या सार्ध यन्मुग्धभर्तृवदाचरेत् । अन्तर्निवृत्तसङ्ग स्यादसिधाराव्रतं स्मृतम् ॥' इत्यु- तमित्यवधेयम् । शिखरिणी वृत्तम् ॥ प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्यां निरमिभवसाराः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ५७॥ प्रदानमिति । प्रच्छन्नं प्रदानं गुप्तदानम्, न तु प्रकाशम् । तथाभूतस्य दा- नस्य महाफलश्रवणादिति भाव । गृहं निजमन्दिर प्रत्युपगते सति । अर्थिनीति शेष । संभ्रमविधि प्रत्युत्थानाभिवादनादिसत्वरव्यापारविधानं च, न तु वैमु- ख्यम् । तस्यैव शास्त्रोदिताचारत्वादिति भाव. । प्रियं तदभीष्टं कृत्वा मौनं तूष्णी- भावश्च । अपरिकीर्तन मिति यावत् । न तु प्रकटनं कृतस्य परिकीर्तनम् । 'न दत्त्वा परिकीर्तयेत्' इति मनुस्मरणादिति भाव. । सदसि राजविद्वत्सभायामुपकृतेः कथनं परोपकारप्रख्यापनं च, न तु तत्र तूष्णीशीलत्वम् । अन्यथा कृतघ्नत्व- प्रसङ्गादिति भाव । लक्ष्म्या संपत्त्यामनुत्सेको गर्वरा हित्यम्, न तु मदान्धत्वम् । 'सपत्स्वनुत्से किन ' इत्युक्तत्वादिति भाव । निरभिभवसारा अनिन्दापरा. पर- कथा पुरुषान्तरप्रसङ्गाश्च, न तु गर्हणपरा. । 'आत्मप्रशंसां परगहामपि च वर्ज- येत्' इत्यादिस्मरणात् । सतामित्यादि, वृत्तं च पूर्ववत् ॥ अथाधममध्यमोत्तमवृत्तिमाह- संततायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं दृश्यते । अन्तःसागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमजुषामेवंविधा वृत्तयः ॥ ५८ ॥ संतप्तायसीति । संतप्तायसि सम्यगग्नितप्ताय.पिण्डे संस्थितस्य । निक्षिप्तस्ये- त्यर्थः । पयसो जलस्य नामापि नामधेयमात्रमपि न श्रूयते । मूलतो ध्वस्तमेव भवतीत्यर्थ । स्वरूपदर्शनं तु किमु वक्तव्यमिति भाव. । तदेव पयो नलिनी. पत्रस्थितं पद्मपत्रगतं सत् मुक्ताकारतया मौक्तिकरूपेण दृश्यते । न तु मौ- क्तिकत्वेनेत्यर्थ । तदेव पयोऽन्त सागरे सागरान्तराले। अन्तरित्यव्ययम् । या शुक्तिर्मुक्तास्फोटस्तस्या मध्य उदरे पतितं सत् मौक्तिकं जायते । मौक्तिकत्वेन परिणमतीत्यर्थ. । 'ज्ञाजनोजी-'इति जादेश । मुक्तैव मौक्तिकमिति विग्रह । विनया- दित्वात्खार्थे ठक् । अत. प्रायेण भूना अधममध्यमोत्तमजुषा निकृष्टसाधारणो- त्कृष्टाश्रयाणां श्रितवतामेवंविधा नामाश्रवणादयो वृत्तयो व्यापारा भवन्तीति यथाक्रममन्वयाद्यथासंख्यालंकारः। अत. महदाश्रय एव कर्तव्यः। 'नीचाश्रयो न - सुभाषितत्रिशत्यां कर्तव्य कर्तव्यो महादाश्रयः' इति वचनात् । अत्रोत्तममध्यमाधमा इति लोकप्र- सिद्धोद्देशक्रम कविना न वीक्षित इति ज्ञेयम् । शार्दूलविक्रीडितम् ॥ अथ सत्पुत्रकलत्रमित्रसंपत्ति पुण्यकृदधीनेत्याह- यःप्रीणयेत्सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं य- देतत्रयं जगति पुण्यकृतो लभन्ते ॥ ५९ ॥ य इति । य पुत्र सुचरितैर्वाक्यकरणादिसदाचारै पितरं प्रीणयेत्संतोषयेत् । 'प्रीञ् तर्पणे' इत्यस्माद्धातोश्चौरादिकाण्णिचि लिड् । 'धूप्रीजोर्नुग्वक्तव्यः' इति नुगागमः । स पुत्र. पुन्नानो नरकात्रायत इति व्युत्पन्न इति पुत्रशब्दवाच्यः, न तूत्पन्नमात्र । 'जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदा- नाच त्रिमि पुत्रस्य पुत्रता॥'इति स्मरणात् । यद्भर्तु पत्युर्हितमिच्छति भयभक्ति- भ्या हिताचरणतत्परं भवति तदेव कलत्रं भार्या, न तु यादृच्छिकम् । 'पति- भक्तिपरा साध्वी शान्ता सानतिभाषिणी' इति पतिव्रताधर्मसात् । 'कलत्रं श्रो- णिभार्ययो' इत्यमरः । यदापद्यनर्थसंकटे सुखे संपदि च समक्रियम् । अविषमा- चारमित्यर्थः। तुल्यवृत्ति तदेव मित्रं सुहृत् , न त्वापत्संपदोस्त्यागानुवर्तनतत्परम्। 'आपदतं च न जहाति ददाति काले सन्मित्रलक्षणमिद प्रवदन्ति सन्त.' इति वक्ष्यमाणत्वात्। एतत्रयमुक्तसत्पुत्रादित्रितयं जगति भुवि पुण्यकृतो धन्या लभन्ते प्राप्नुवन्ति । न त्वकृतसुकृता इत्यर्थ । एवंविधत्रितयलाभस्य महापुण्यफलत्वा- दिति भाव । वसन्ततिलकावृत्तम् ॥ अथ सता तावदसाधारणगरिमास्पदत्वेनाशेषोपादेयत्वमाह- नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्यापयन्तः स्वार्थान्संपादयन्तो विततपृथुतरारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्जनान्दुःखयन्तः सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥६०॥ नम्रत्वेनेति।नम्रत्वेन प्रहृत्वेनैवोन्नमन्त औन्नत्यं प्राप्नुवन्त । तथाभावस्यैवौनत्य- हेतुत्वादिति भाव. । परेषा गुणकथनै सगुणवर्णनै खान्गुणान्वकीयान्सौजन्यादी. ख्यापयन्त प्रकटयन्त । न खात्मप्रशंसया। तादृग्भावस्यैव निजगुणप्रकटनहेतु- त्वादिति भाव । परार्थे परप्रयोजननिर्वहणे विततौ विस्तृतौ पृथुतरौ महत्तरी चार- म्भयत्नौ प्रारम्भोत्साहौ च येषा ते तथोक्ता सन्त एव स्वार्थान्वप्रयोजनानि संपा- दयन्तो निष्पादयन्त. परकार्यसाधनपुरस्कारेणैवात्मीयकार्यसाधनतत्परा । नत्वे- कान्तत इत्यर्थः । तथाभूतस्यैवात्मार्थकत्वादिति भाव ।क्षान्त्या सहनशीलत्वेनैव । आक्षेपेण निन्दया रूक्षाक्षराणि परुषवाक्यानि तेषा मुखराणि वाचालानि मुखानि येषा तान् । परुषभाषिण इत्यर्थ । दुर्जनान्खलान्दु खयन्त. संतापयन्तः । न तू- - १. नीतिशतकम् । ३७ चण्डतया तथाविधत्वस्यैव तेषा हृच्छल्यप्रायत्वादिति भाव । अत एव साश्चर्य- चर्या अत्यन्ताश्चर्यकरचरित्रा सन्त' सत्पुरुषा जगति लोके बहुमता बहुमा- निता. सन्त. कस्य वा पुंसो नाभ्यार्चनीया न पूजनीया इति काकु । सर्वेषा- मप्यभ्यर्चनीया एवेत्यर्थः । स्रग्धरावृत्तम्-'म्रन्नैर्याना त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् ॥ इति नीतिशतकव्याख्याने सुजनपद्धतिवर्णनं नाम षष्टं दशकम् । - अथ परोपकारपद्धतिः। अथ सौजन्यस्य परोपकारफलकत्वात्तनिरूपणानन्तरं परोपकारपद्धति वर्ण- यति- भवन्ति नम्रास्तरवः फलोद्गमै- नवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ ६१ ॥ भवन्तीति । तरव• पनसरसालादिवृक्षा फलोद्गमै फलभारैर्नम्रा अवनता भव- न्ति। घना मेघा नवाम्बुभिर्नूतनोदकैरुपलक्षिता सन्तो दूरविलम्बिन. सर्वत्र प्रवर्ष- णार्थमन्तरिक्षसंचारिणो भवन्ति । सत्पुरुषाः समृद्धिभिरुपलक्षिता अप्यनुद्धता अ- नुच्चण्डा भवन्ति । तीक्ष्णखभावा न भवन्ति । 'अनर्थिता' इति पाठेऽयाचिता । यात्रा विनैव परहितमाचरन्तीत्यर्थ. । तथा एष उक्तनिजनम्रत्वादिव्यवहार परोपकारिणां परहिताचरणतत्पराणा खभाव निसर्गसिद्ध एव । न त्वाहार्यक इत्यर्थ. । महान्तो हि परोपकारार्थ क्लेशं क्लेशत्वेन न गणयन्ति । तेषा खाभाव्या- दिति भावः । तदुक्तं—'परोपकाराय फलन्ति वृक्षा. परोपकाराय वहन्ति नद्यः। परोपकाराय चरन्ति गाव. परोपकारार्थमिदं शरीरम् ॥' इति । अर्थान्तरन्यासो. ऽलंकारः । वंशस्थवृत्तम्-'जतौ तु वंशस्थमुदीरित जरौ' इति लक्षणात् ॥ अथैषा मुख्यमण्डनसंपत्तिमाह- श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुणाकुलानां परोपकारेण न चन्दनेन ॥ ६२॥ श्रोत्रमिति । करुणाकुलाना दयालूनाम् । परोपकारिणामित्यर्थ । श्रोत्रं कर्णः । 'कर्णशब्दग्रहौ श्रोत्रम्' इत्यमर । श्रुतेन धर्मशास्त्रश्रवणेनैव विभाति प्रकाशते, कुण्डलेनसुवर्णमणिमयकर्णभूपणेन न तु विभाति । पाणिहस्तो दानेन सत्पात्र- त्यागेन विभाति, कङ्कणेन कनकवलयेन न तु विभाति । कायो देह परोपका- रेण परेषा हिताचरणेन विभाति, चन्दनेन कस्तूरीघनसारविमिश्रितपाटीरपङ्क- लेपेन तु न विभाति । महात्मनां श्रवणादिकमेव स्वाभाविकं मण्डनं नलन्यत् । तस्य नश्वरत्वादिति भावः । वृत्तमुपजाति. ॥ MOR ३८ सुभाषितत्रिशत्यां यदुक्तं 'अनथिता. सत्पुरुषा' इति तदेव प्रपञ्चयति- पद्माकरं दिनकरो विकचं करोति चन्द्रो विकासयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिते विहिताभियोगाः॥६३॥ पद्माकरमिति । दिनं दिवसं करोतीति दिनकर सूर्यः । 'कृजो हेतु-' इत्या- दिना प्रत्यय । अभ्यर्थितो न भवतीति नाभ्यर्थित न याचित सन्नित्यर्थः । नशब्दस्य सुप्सुपेति समास । पद्माकरं पद्मवनं विकचं विकसितं करोति । 'प्रफुल्लो. त्फुल्लसफुल्लव्याकोशविकचस्फुटा । फुल्लचैते विकसिते'इत्यमरः । तथा चन्द्रोऽपि कैरवचक्रवालं कुमुदषण्डम् । 'सिते कुमुदकैरवे' इत्यमरः । विकासयति व्याको- चयति । तथा जलधरो वारिवाहोऽपि पचाद्यच् । नाम्यर्थित. सन्नेव जलं ददाति प्रवर्षति । तथा हि सन्त सत्पुरुषा. खयम् । अयाचिता एवेत्यर्थ । परेषां हिते हिताचरणे विहिताभियोगा कृताभिनिवेशाः न त्ववबोधिता इत्यर्थः । अतो युक्तमेव हिताचरणमेतेषामिति भाव । सामान्येन विशेषसमर्थनरूपोऽ- र्थान्तरन्यास 'सामान्यविशेषकार्यकारणभावाभ्या सदृष्टप्रकृतकार्यसमर्थनमर्था- न्तरन्यास' इति सर्वखसूत्रम् । वसन्ततिलकावृत्तम् ॥ अथ व्यापारतारतम्येन पुरुषाणामुत्तमादिभेदमाह- एते सत्पुरुषाः परार्थघटकाः स्वार्थान्परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तुघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ६४॥ एते इति । ये पुमांस. खार्थान्खप्रयोजनानि । 'अर्थोऽभिधेयरैवस्तुप्रयो- जननिवृत्तिषु' इत्यभिधानात् । परित्यज्य त्यक्त्वा परार्थघटका परप्रयोजनसंघ- टनशीला । एते सत्पुरुषा पुरुषोत्तमा । सर्वस्य तैरेवाभिव्यक्तत्वादिति भावः । ये तु खार्थस्याविरोधेनावैषम्येण । खार्थनिर्वाहतत्परत्वेनैवेत्यर्थ । परार्थ परप्रयोजननिर्वाहार्थमुद्यमभृत उद्योगभाजस्ते सामान्या. साधारणा । मध्यम- पुरुषा इत्यर्थ । ये तु खार्थाय स्वार्थनिष्पत्त्यर्थ परहितं निम्नन्ति नाशयन्ति तेऽमी मानुषराक्षसा मानुषशब्दवाच्या राक्षसा । तथा क्रूराचारतत्परत्वात्पुरु- षाधमा इत्यर्थ । ये तु निरर्थक निष्फलम् । प्रयोजननिष्पत्तिराहित्येनापीति यावत् । परहितं नन्ति ते पुमास के वा कथंभूता वा न जानीमहे । उक्तत्रि- विधपुरुषविलक्षणत्वात्ताज्ञातुं न शक्नुम इत्यर्थ । अत एव परमनीचा इत्यर्थः । उक्तपक्षेषु यः श्रेयांस्तत्पक्षाश्रयणं कर्तव्यमायुष्मतेति भावः । शार्दूलविक्री- डितम् ॥ ma १. नीतिशतकम् । AMERARA अथ सन्मित्रलक्षणमाह- पापानिवारयति योजयते हिताय गुह्यं निगृहति गुणान्प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥६५॥ पापादिति । पापात्पापाचरणानिवारयति निवर्तयति । धर्मोपदेशेन दुष्कर्मप्र. वृत्तर्विरमयतीत्यर्थः । 'जुगुप्साविराम-' इत्यादिना पञ्चमी । हिताय योजयते । सत्कर्माचरणाय प्रवर्तयतीत्यर्थः । यद्वा श्रेयःसंग्रहार्थ प्रोत्साहयतीत्यर्थः । गुह्यं गोप्यं निगृहत्याच्छादयति न कुत्रापि प्रकटयतीत्यर्थः । गुणान्सौशील्यादिसद्गुणा. प्रकटीकरोति प्रख्यापयति । न तु निगूहतीत्यर्थः । आपद्गतमतिसंकटस्थमपि न जहाति न त्यजति । तन्मित्रमापदि सुखे च समक्रियं यत्' इत्युक्तत्वादिति भावः । काले व्यसनादिसमये ददाति वाञ्छितं दिशति । तदिदं पापनिवारणा- दिकं सर्व सन्तः सत्पुरुषाः सन्मित्रस्याकैतवसुहृदो लक्षणं स्वरूपं प्रवदन्ति । वसन्ततिलकावृत्तम् ॥ पुनस्तदेव क्षीरनीरदृष्टान्तेन वर्णयति- क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिला: क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः। गन्तुं पावकमुन्मनस्तद्भवदृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ ६६ ॥ क्षीरेणेति । क्षीरेण (का) आत्मानमुपगतं प्राप्तं यदुदकं जलं तस्मै । खा. त्ममिश्रितजलायेत्यर्थः । पुरा पूर्व ते प्रसिद्धा अखिलाः समस्ताश्च गुणा निजमा- धुर्यधावल्यादिगुणा दत्ता हि वितीर्णाः खलु। स्वगुणप्रदानद्वारा मैत्री संपादिते- त्यर्थः । अतः क्षीरोत्तापं क्षीरस्य श्रपणार्थ अग्नौ निक्षिप्तस्य दुग्धस्योत्तापं संताप- मवेक्ष्य तेन क्षीरमिश्रितेन पयसोदकेन । ‘पयः क्षीरं पयोऽम्बु च' इत्यमरः । खात्मा स्वशरीरं कृशानौ वह्नौ हुतः । मित्रसंतापासहनात्संशोषित इत्यर्थः । ततस्तत्क्षीरं (कर्तृ) मित्रस्य जलस्यापदं संशोषरूपां विपत्ति दृष्ट्वा पावकं वह्नि ग- न्तुमुन्मन उद्युक्तमभवत् । 'उत्क उन्मनाः' इति निपातनात्साधुः । जलसंशोषणे क्षीराणां बहिर्निर्गमनसंभवादिति भावः । तदनन्तरं तेन जलेन युक्तामात शा- म्यति प्रशान्तं भवति । 'शमामष्टानां-' इति दीर्घः । तथा हि सतां मैत्री सौहा- दम् । मैत्री व्याख्याता । ईदृशी पुनः परस्परव्यसनासहनशीला खलु । अत एत- द्युक्तमिति भाव. । अत्र स्वभावसिद्धस्य क्षीरनीरव्यवहारस्य परस्परसंतापदर्शन- हेतुकत्वेनोत्प्रेक्षणाक्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा । सा चोक्तार्थान्तरन्यासनिव्यूं- ढेत्यनयोर्विजातीयसंकरः । शार्दूलविक्रीडितम् ॥ अथैतन्माहात्म्यमाह- इतः स्वपिति केशवः कुलमितस्तदीयद्विषां इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
सुभापितत्रिशत्यां इतोऽपि वडवानलः सह समस्तसंवर्तकै- रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ १७ ॥ इत इति । इतोऽस्मिन्प्रदेशे केशवो विष्णुः । कुक्षिस्थाखिलभुवन इति भावः । खपिति योगानुसंधानेन निद्राति । 'रुदादिभ्य सार्वधातुके' इतीडागमः । इतो- ऽस्मिन्प्रदेशे तस्य केशवस्येमे तदीया । त्यदादित्वादृद्धाच्छ । ये द्विषो हिरण्या- क्षरावणादयस्तेषा कुल समूह तिष्ठतीति शेषः । इतस्ततोऽन्यस्मिन्प्रदेशेऽपि शरणार्थिनां रक्षणामिलाषिणाम् । 'शरण गृहरक्षित्रो' इत्यभिधानात् । शिखरि- णां मैनाकादिपर्वताना गणाश्च शेरते स्वपन्ति । 'शीडो रुट्र' इति रुडागम । इतस्तस्मादप्यन्यस्मिन्प्रदेशे समस्ता ये सवर्तका. प्रलयकालप्रवर्षिमेघविशेषा अत एव पुष्करावर्तकसज्ञया च व्यवह्रियन्ते । तैः सह वडवानलोऽपि वसति । तस्मात्सिन्धो समुद्रस्य वपु शरीरं विततं केशवावतारत्वेन विस्तृतं ऊर्जित वडवानलाश्रयत्वेऽप्यतिवर्धिष्णु भरसह पर्वतभरणेन भारोद्वहनक्षमं च । अहो । अप्रमेयानुभावत्वेनात्यन्ताश्चर्यमित्यर्थ । अत्र लक्षयोजनपरिच्छिन्नस्य समुद्रस्याप- रिच्छिन्नकेशवाद्यवतारत्वकथनादधिकप्रभेदोऽलंकारः-'आधाराधेययोरानुरूपया- भावोऽधिको मत' इति लक्षणात् । पृथ्वीवृत्तम् ॥ अथ परहिताचरणपराकाष्ठया द्वयोरेव जन्म सफलम् , न त्वन्येषामित्याह- जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं श्लाध्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् । संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ ६८ ॥ जात इति । किं बहुना । अवतारेष्वपीत्यध्याहार्यम् । एक केवलः स कूर्म आदिकूर्मावतार एव जात जन्मलाभवानित्यर्थ. । कुतः। येन कूर्मेण पृथुर्महान्यो भुवनभरश्चतुर्दशविष्टपभारस्तस्मै । तद्वहनार्थमित्यर्थः । पृथु विपुलमिति पृथक्पद- वा। पृष्ठं निजकूर्परतलमर्पितं दत्तम् । निरन्तरमध प्रदेशस्थित्यादुर्भरभुवनभारजनि- तक्लेश सोढ इत्यर्थ । तथा ध्रुवस्यौत्तानपादस्य जन्म श्लाघ्यं सकललोकप्रशस्तम् । कुतः । यत्र यस्मिन्ध्रुवे तेजस्विना ग्रहनक्षत्रादीना चक्रं शिशुमाराख्यं ग्रहनक्षत्र- मण्डलं वा नियमितं नियुक्तं सद्भमति पर्यावर्तते । तत्रभवान्भगवदनुग्रहवशात्सक- ललोकोनतमेरुशिखरशिखामणिध्रुवः स्वायत्तत्वेन तेजखिचक्र प्रवर्तयतीति श्रीवि- ष्णुपुराणभागवतादिकथानुसंधेया। तत किमत आह-परहितकरणे परोपकाराच- रणविषये । व्यर्थो निरर्थोऽसमर्थ । अप्रयोजक इति यावत् । पक्ष संजातो येषा ते संजातव्यर्थपक्षाः । न तु सजातपरहितकरणसमर्थपक्षा इत्यर्थ । सापेक्षत्वेऽपि गमकत्वात्समास । अपरे उक्तोभयादन्ये जन्तव प्राणिन । नैच्योद्भावनार्थकोऽयं जन्तुशब्दप्रयोग । उपरिष्टान्न । ध्रुववदुपरिभागेऽपि वर्तमाना न भवन्तीत्यर्थ. । अधश्च न । कूर्मवधस्ताद्वर्तमाना अपि न भवन्तीत्यर्थ. । कि तु उदुम्बरो जन्तु- १. नीतिशतकम् । फलाख्यवृक्षविशेषस्तस्य फलमुदुम्बरम् । 'उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदु- ग्धकः' इत्यमरः । 'फले लुक्' इति लुक् । ब्रह्माण्डमुदुम्बर तस्यान्तरन्तराले । अव्ययमेतत् । ये मशकास्तैस्तुल्यं तद्वत् । 'तेन तुल्यं क्रिया चेद्वति.' इति वति- प्रत्ययः । जाता उत्पन्नाश्च ते नष्टाश्च जातनष्टाश्च । भवन्तीति शेषः । स्नातानु- लिप्तवत्पूर्वकालसमासः । यतो न तै. किमपि साधितम् , अतो मशकवन्निष्फ- लजन्ममि. किमन्यैरिति भाव । रूपकोपमयो. संकरः । स्रग्धरावृत्तम् ॥ अथ विधेयलोकं संबोधयन्सदाचारं शिक्षयति- तृष्णां छिन्धि भज क्षमा जहि मदं पापे रतिं मा कृथाः सत्यं ब्रूनुयाहि साधुपदवीं सेवस्व विद्वजनम् । मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं कीर्ति पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥६९॥ तृष्णामिति । हे जनेत्यत्राध्याहार्य सर्वत्रापि मध्यमपुरुषप्रयोगसंभवात् । अल- भ्येषु परधनेषु लाभामिलाषस्तृष्णा तां छिन्धि वैराग्यशस्त्रेण विदारय अन्यथा अ- नेकाशापाशनिबद्धत्वेन क्लेशभागित्वं स्यादिति भाव । परिभवादिपूत्पद्यमानेषु को- धप्रतिबन्धः क्षमा तां भज सेवख । अन्यथा उग्रभावेन कार्यहानि. स्यादिति भाव.। मदं विद्याजनितदर्प जहि विज्ञानेन विनाशय । अन्यथा विवेकशून्यतया अकार्यक- रणप्रवृत्तावनर्थप्राप्ति स्यादिति भाव । पापे पापकर्माचरणे रतिं प्रीति मा कृथा अज्ञानेन मा कार्षी । किंतु 'धर्म चर' इत्याद्युपदेशवचनेन सत्कर्माचरण एव मतिं कुर्वित्यर्थः । अन्यथा निरयपात: स्यादिति भावः । करोते डि थाम् । 'न माड्- योगे' इत्सदप्रतिषेधः । सत्यं सूनृतं ब्रूहि । 'सत्यं वद' इति वचनेन यथार्थमेव वचनं वदेत्यर्थ । अन्यथा 'नानृतात्पातकं परम्' इति न्यायादविवेकित्व प्रसक्ति स्यादिति भावः । साधुपदवी सन्मार्गमनुयाहि धर्मशास्त्रानुरोधेनानुसर । अन्य- थोत्पथप्रतिपनत्वे दोषापत्ति स्यादिति भावः । विद्वज्जनोपदेशेन कृतार्थीकरणशीलं विद्वज्जनं पण्डितमण्डलं सेवख । 'यस्तु पर्यटते देशान्यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलविन्दुरिवाम्भसि ॥' इति वचनाद्बुद्धिवैशद्यार्थ शुश्रूपख । अन्यथा बुद्ध्यवैशद्याशिक्षिताद्यमियोगः स्यादिति भाव । मान्यान्पूज्यान्मानय यथार्ह पूजय । अन्यथा 'समासमाभ्यां विषमसमे पूजे' इति गौतमसूत्रात् 'अपू- ज्या यत्र पूज्यन्ते पूज्याश्चैवावमानिता । अयशो महदाप्नोति धनाद्धर्माच्च हीयते॥' इत्यादि स्मरणाच, अन्यथा अकीर्ति सुकृतवनहीयमानत्वरूपा श्रेय प्राप्ति. स्या- दिति भावः। कि बहुना विद्विषः शत्रूनपि किमुतान्याननुनय ‘सम. शत्रौ च मित्रे च' इति भगवद्वचनात्प्रसादय । अन्यथा रन्ध्रेपु पातयिष्यन्तीति भाव । प्रश्रय गुर्वाचार्यादिषु नम्रत्वम् । विनयमिति यावत् । प्रख्यापय । 'गुरौ नम्रता' इत्युक्त- त्वात् । प्रकटय । अन्यथा दुर्विनीतत्वापवादप्रसङ्गः स्यादिति भावः। कीर्ति पालय। जन्मसाफल्यार्थ कीर्तिनिर्वहणे प्रयत्नं कुर्वित्यर्थः । अन्यथा 'क्षितितले किं जन्म . .
४२ सुभाषितत्रिशत्यां - कीर्ति विना' इति वचनान्जीवन्मृतत्वापत्ति. स्यादिति भावः । दु खिते । संजा- तदु खेषु भूतेवित्यर्थः । तारकादित्वादितच् । जातावेकवचनम् । दयां दुःख- प्रहाणेच्छालक्षणा कुरु । 'दु खिषु करुणा' इति शास्त्रानुरोधात्। विधेहि । अन्यथा चित्तशुद्ध्यसंभवादिति भावः । एतत्सर्व तृष्णाच्छेदादिकं सता सज्जनाना चेष्टितं व्यापारः यदि सौजन्ययश कामी तदैवं प्रवर्तख । अन्यथा पुरुषार्थलाभासंभ- वादित्यर्थ । शार्दूलविक्रीडितम् ॥ ईदृशा विरला एवेति निगमयति- मनसि वचसि काये पुण्यपीयूषपूर्णा- स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तःसन्ति सन्तःकियन्तः॥७०॥ मनसीति । मनसि वचसि काये मनोवाकायेषु पुण्यमेव पीयूषममृतं तेन पूर्णा । करणत्रितयेनापि सत्कर्माचरणतत्परा इत्यर्थ । 'पीयूषममृतं सुधा' इत्य- मर. । त्रयाणां भुवनाना समाहारस्त्रिभुवनम् । लक्षणया त्रिभुवनस्थजनानि- त्यर्थः । 'तद्धितार्थ-' इत्यादिना समास । पात्रादित्वान स्त्रीत्वम् । उपकार- श्रेणिभिर्हिताचरणपरम्पराभि. प्रीणयन्त. संतोषयन्तः । 'प्रीञ् प्रीणने' इति धातोश्चरादिकाणिचि शतृप्रत्यय । 'धूप्रीमोग्वक्तव्यः' इति नुगागम । परेषा गुणपरमाणून् । अत्यल्पगुणानपीत्यर्थ । यतोऽणुर्नास्ति स परमाणुरित्याहुः । पर्वतीकृत्य महत्तरान्कृत्वा । अभूततद्भावे चिः 'ऊर्यादिच्चिडाचश्च' इति गति- सज्ञायाम् 'कुगतिप्रादय.' इति समास । नित्यं ख्यापयन्त प्रशंसन्तः । तथा निजहृदि स्वान्त करणे विकसन्तः सतुष्यन्त सन्तः सत्पुरुषा. 'कियन्तः कति- पये । विरला एवेत्यर्थ । सन्ति । न तु सान्द्राः । एतादृशगुणसंपत्तेरसाधार- ग्यादिति भावः । 'निजहृदि विकसन्तः सन्ति सन्त. कियन्त' इत्येव पाठ. । तथा चोक्तम्-'सौजन्यामृतसिन्धव.-' इत्यादि । मालिनीवृत्तम् ॥ इति नीतिशतकव्याख्याने परोपकारपद्धतिवर्णन नाम सप्तमं दशकम् । . अय धैर्यपद्धतिः। रत्नैर्महाब्धेस्तुतुषुन देवा न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः॥ ७१ ॥ रत्नैरिति । देवा अमरा महाब्धे. क्षीरार्णवस्य सबन्धिभी रत्नै. कौस्तुभादि. मणिभिः । 'रत्न श्रेष्ठे मणावपि' इति विश्व । यद्वा रत्नैः। 'जातौ जातौ यदु- स्कृष्टं तद्रत्नमिति कथ्यते' इति वचनात् ऐरावतौच्चैःश्रव.कल्पवृक्षादिश्रेष्ठजाती- यवस्तुभिर्हेतुभि । न तुतुपुस्तुष्टि न प्रापु । मयनसमय इति शेष । तथा बिश्य- ।
१. नीतिशतकम् । me त्यस्मादिति भीमम् । 'भीमादयोऽपादाने' इत्यपादानार्थे मिय मप्रत्यय औणा. दिक । तथाभूतं यद्विषं कालकूटाख्यं तेन हेतुना । तस्मादित्यर्थः । न भीर्ति भेजिरे न प्रापु । इति धैर्यातिशयोक्ति । विषेणेत्यत्र 'भीत्रार्थाना भयहेतु.' इत्यपादाने पञ्चम्या भाव्यम् । तथापि हेतुत्वमात्रविवक्षायां निर्देश इति मन्त- व्यम् । कि तु सुधाममृतं विना । 'पृथग्विना-' इत्यादिना द्वितीया । विरामम- वसानं न प्रययु । मथनादिति शेष । सुधोत्पत्तिं विना न विरता इत्यर्थः । अनेन शीलसपत्तिरुक्ता । तथा हि धीरा मनखिनो निश्चितार्थात्प्रतिज्ञातार्थान्न विरमन्ति विरामं न प्राप्नुवन्ति । कि त्वाफलोदयं प्रयतन्त एवेत्यर्थ । अतो धैर्यशीलसपनाना देवानामपीदं युक्तमेवेति भाव । 'जुगुप्सा विराम-' इत्यादिना पञ्चमी । 'व्याड्परिभ्यो रम' इति परम्मैपदम् । अर्थान्तरन्यासोऽलंकार. । वृत्तमुपजाति ॥ उक्तमेवार्थ नीचादिवृत्तिकथनद्वारा द्रढयति- प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्ननिहता विरमन्ति मध्याः। विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ ७२ ॥ प्रारभ्यत इति । नीचैरधमैर्विनेभ्योऽन्तरायेभ्यो यद्भयं तेन हेतुना न प्रार- भ्यते खलु नोपक्रम्यते । कार्यमिति शेषः। 'विघ्नोऽन्तराय प्रत्यूह.' इत्यमरः। मध्या मध्यमास्तु कार्य प्रारभ्योपक्रम्य विप्ननिहता विह्वलीकृता सन्तो विरम- न्ति । विरता भवन्तीत्यर्थ । उत्तमा उत्कृष्टा गुणा धैर्यशीलादयो येषां ते त- थोक्ता पुरुषश्रेष्ठास्तु विनैर्मुहुर्मुहु. पौन पुन्येन प्रतिहन्यमाना बंभज्यमाना अपि प्राब्धमुपक्रान्तं कर्म न परित्यजन्ति न विसृजन्ति । अत कालकूटवडवानला- दिविनाद्युपहतत्वेऽयुक्तगुणसपन्नतया देवाना सुधोत्पत्तिपर्यन्तं मथन युक्तमिति श्लोकद्वयस्यापि तात्पर्यम् । अत्र प्रकरणे कुत्रचि?यस्य कुत्रचिद्भयस्यापि प्राधा- न्यनिर्देश इति द्रष्टव्यम् । 'मनसो निर्विकारत्वं धैर्य सत्खपि हेतुषु' इत्युक्तल- क्षणं धैर्यम् । शीलं नियतकुलोचितसत्वभाव इति विवेक । 'शीलं खभावे सदृत्ते' इत्यभिधानात् । वसन्ततिलकावृत्तम् ॥ अथोक्तगुणसपन्नस्य कृच्छ्राकृच्छ्योर्दु खसुखापरिगणनया कार्यसाधनत्वमाह- क्वचित्पृथ्वीशय्यः क्वचिदपि च पर्यशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ ७३ ॥ क्वचिदिति । क्वचित्कुत्रचिद्देशे काले वा । पृथ्वी शय्या यस्य स तथोक्तः । कठिनतरस्थण्डिलशयनोऽपीत्यर्थ । कचिच्च पर्यके हंसतूलिकातल्पे शयनं खापो यस्य स तथोक्तः । मृदुलतरशय्योऽपीत्यर्थः । शयनं मञ्चपर्यपल्यङ्काः खट्या समा', सु.नि. ५ ४४ सुभाषितत्रिशत्यां - 'स्यान्निद्रा शयनं खाप' इत्युभयत्राप्यमर । क्वचिच्छाक एवाहारो यस्य । नीरसाहारोऽपीत्यर्थ । क्वचिच शाल्योदने शाल्यन्ने रुचि खादो यस्य स तथो- क्त । षड्रसोपेतमृष्टान्नभोजनसतुष्टोऽपीत्यर्थ । क्वचित्कन्था जीर्णवस्त्रशकलनि- मिताच्छादनं धारयति कन्यावार्यपि । क्वचिच्च दिव्याम्बरधर कनत्कनकपीता- म्बरधरोऽपि कार्यार्थी कार्यनिष्पत्त्यभिलाषी। अर्थः अभिलाष तद्वानर्थीति वि- ग्रह । 'कृढुत्तेस्तद्धितवृत्तिबलीयसी' इति महाभाष्ये । मनखी महामना धीरः। प्रशंसायामिनि । पृथ्वीशय्यादिना दु खं च न गणयति । पर्यशय्यादिना सुखं च न गणयति । कि तु सुखदु खयो समानावस्थयैव कार्यसाधनतत्परो भव- तीत्यर्थ । शिखरिणीवृत्तम् ॥ अथ धीरा लोकनिन्दास्तुतिप्राप्ता अपि न्यायमार्गान्न भ्रश्यन्तीत्याह- निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः॥ ७४ ॥ निन्दन्त्विति । नीतिनिपुणा नयविशारदा निन्दन्तु कथंचिद्देषयन्तु वा, यदि अथवा स्तुवन्तु भूषयन्तु वा । लक्ष्मी. संपत्समाविशतु प्राप्नोतु वा, उत यथेष्टं निरर्गलं गच्छतु वा। अद्यैवेदानीमेव मरणं निधनमस्तु वा, उत युगान्तरे कल्पा- न्तरे वास्तु । तथापि धीरा धैर्यशालिनो न्याय्यान्न्यायादनपेतात्पथो मार्गात्पद- मेकपादविन्यासमात्रमपि न प्रविचलन्ति न भ्रश्यन्ति । तेषां न्यायमार्गापरि- त्याग एव परमार्थो न निन्दास्तुत्यादिरिति भाव । वसन्ततिलकावृत्तम् ॥ ननु को धीर , स वा कि साधयतीत्याशङ्कयाह- कान्ताकटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः । तर्षन्ति भूरिविषयाश्च न लोभपाशा लोकत्रयं जयति कृत्स्नमिदं स धीरः॥ ७५ ॥ कान्तेति । यस्य चित्तं कान्ताकटाक्षा 'यद्गतागतविश्रान्तिवैचित्र्येण विवर्त- नम् । तारकाया कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥' इति भावप्रकाशोक्तलक्षण- लक्षितकामिन्यपाङ्गालोकितानि त एव गिशिखा बाणा न लुनन्ति न मिन्दन्ति । न समोयन्तीति यावत् । तथा कोपकृशानुताप क्रोधाग्निसतापश्च न निर्दहति न व्याकुलयति । तथा भूरयो बलवत्तरा विषयाः शब्दादीन्द्रियार्थाश्च लोभः परखापहरणे प्रयत्न । एतेन कामादयोऽप्युपलक्ष्यन्ते। तथा च लोभा एवं पाशा रज्जव । बन्धनहेतुत्वात्तेषा पाशत्वारोपणम् । न तर्षन्ति तृष्णायुक्तं न कुर्वन्ति । 'कर्षन्ति' इति पाठे न स्वायत्तीकुर्वन्तीत्यर्थ । स धीर कृत्समशेषं लोकत्रयं स्वर्गादिलोकत्रितयमपि जयति । आत्माधीनं करोतीत्यर्थः । तस्य न किंचिदप्यसाध्यमिति भाव. । वृत्तं पूर्ववत् ॥ - १. नीतिशतकम् । धैर्यगुणन्यकार कथंचिदपि न युज्यत इति सदृष्टान्तमाह- कथितस्यापि हि धैर्यवृत्ते- न शक्यते धैर्यगुणः प्रमाटुंम् । अधोमुखस्यापि कृतस्य वढे- र्नाधः शिखा यान्ति कदाचिदेव ॥ ७६ ॥ कदर्थितस्येति । कुत्सितोऽर्थ कदर्थ । 'को कत्तत्पुरुषेऽचि' इति कुशब्द- स्य कदादेश । कदर्थीकृत कदर्थितस्तस्य नीच कृतस्यापि सतो धैर्येण वृत्तिर्व- तनं यस्य तस्य सबन्धि धैर्यमेव गुण प्रमा मध कर्तुं न शक्यते । तत्र दृष्टा- न्त -अधोमुखस्य कृतस्य अवाड्मुखीकृतस्यापि वढे शिखा ज्वाला कदाचिदेव कदाचिदपि अवो न यान्ति । कि तूर्वमेव प्रसरन्तीत्यर्थ । तद्वद्धीरस्यापि धैर्य- गुण इति विवेक । उपजातिवृत्तम् ॥ मरणोद्योगो वा वरम् , न तु शीलविलय इत्याह- वरं शृङ्गोत्सङ्गाहुरुशिखरिणः क्वापि विषमे पतित्वायं कायः कठिनदृपदन्ते विगलितः। वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने वरं वह्नौ पातस्तदपि न कृतः शीलविलयः॥ ७७ ॥ वरमिति । अयं कायो देहो गुरुशिखरिणोऽत्युन्नतपर्वतस्य शृङ्गोत्सङ्गाच्छृझोप- रिभागाक्वापि कस्मिश्चिद्विषमे विकटे कठिनदृषदन्ते कर्कशपाषाणान्तराले पति- त्वा विगलितः शकलितश्चेत् , वरं मनाविप्रयम् । तथा हस्तस्तीक्ष्णदशने विषा- नलोग्रदंष्ट्रे फणिपतेर्मुखे वके न्यस्तश्चेत् , वरम् । तथा वह्नौ पातोऽग्निप्रवेशोऽपि वरम् । कितु शीलविलय. सत्खभावत्याग कृतश्चेत् , न वरम् । मनाविषयम- पि न भवतीत्यर्थ । प्राणप्रयासेऽपि शीलं न त्याज्य मिति तात्पर्यम् । 'दैवाट्टते वरः श्रेष्ठे त्रिपु क्लीव मनाविप्रये' इत्यमर । शिखरिणीवृत्तम् ।। नन्वेवं शीलस्यात्यन्तावश्यकत्वमुक्तम् , तद्भावे को लाभ इत्याशङ्कायामाह- वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा- न्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगुणायते विषरसः पीयूषवीयते यस्याङ्गेऽखिललोकवल्लभतरं शीलं समुन्मीलति ॥ ७८ ॥ वह्निरिति । तस्य पुंसो वह्निः । दाहकोऽपीति भाव । जलायते जलमिवाच- रति । तद्वच्छीतलो भवतीत्यर्थ. । 'वर्तुं क्यड् सलोपश्च' इति क्यड । 'अकृ- त्सार्वधातुकयोः-' इति दीर्घ । एवं सर्वत्र प्रयोज्यम् । जलनिधिः । दुस्तरोऽपीति भाव । कुल्यायते अल्पनदीवाचरति । तस्येति सर्वत्रान्वयोऽवगन्तव्यः । तत्क्ष- णात्तस्मिन्नेव क्षणे । न तु विलम्बेनेत्यर्थ । मेरु. स्वल्पशिलायतेऽल्पपदिवा- ..
सुभाषितत्रिशत्यां - चरति । मृगपति सिंहः । हिंस्रोऽपीति भाव । सद्य कुरजायते हरिण इवाचर• ति । व्याल सर्प । विषरोगभीषणोऽपीति भाव । माल्यगुणायते पुष्पस्रगिवा- चरति । विषमेव रसो द्रव । प्राणप्रयाणहेतुरिति भाव । पीयूषवर्षायते अमृत- ष्टिरिवाचरति । कस्येत्याकासायामाह-यस्य पुसोऽङ्गेऽखिललोकानामशेषजनानां वल्लभतरमत्यन्तमनोहरं शीलं सत्स्वभाव समुन्मीलति समुल्लसति तस्येति स- बन्ध । शीलसपन्नस्य दुखहेतवोऽपि सुखहेतव एव भवन्ति । अयमेव परम- लाभ इति भाव । अत्र कृअर्थादौपम्यप्रतीतेरुपमाभेदः । 'इवादिलोपे द्विविधे णमुलि ख्याति चिड्यपि । तथा वाक्ये समाप्ते च सप्तवैषा प्रकीर्तिता ॥' इति । एषा । उपमेत्यर्थ । शार्दूलविक्रीडितम् ॥ अथैषा कदापि संतापो न प्रवर्तत इत्याह- छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः। इति विमृशन्तः सन्तः संतप्यन्ते न लोकेषु ॥ ७९ ॥ छिन्न इति । तरुश्छिन्न सन्नपि पुना रोहत्युद्गच्छति । चन्द्र क्षीण कृष्णपक्षे दिनक्रमेण कृश सन्नपि पुनरुपचीयते प्रवर्धते । इत्येवं विमृशन्तो मनस्यनुसदधा- ना सन्त शीलसपन्ना लोकेषु बन्धुजनेषु विश्लथेषु (2) विह्वलेषु सत्खपि न सत- प्यन्ते । कि तु तरुचन्द्रदृष्टान्तेनाभिवृद्धिमाशंसन्त एव सन्तीत्यर्थः । आर्याभेद ॥ शीलमेवाशेषभूषणमित्याह- ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो झानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः। अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ ८०॥ ऐश्वर्यस्येति । ऐश्वर्यस्य स्वाम्यस्य सुजनता विभूषणम् , न तु दौर्जन्यम् । शौर्यस्य विक्रान्तवस्य वाक्संयमः वानियमो विभूषणम्, न खसंबद्धप्रलापित्वम् । ज्ञानस्य कर्तव्यावर्तव्यविवेकस्यात्मविषयकस्य वा उपशमो विषयोपरतिर्विभूपणम्, न तु लोलुपत्वम् । श्रुतस्य शास्त्रस्य विनयो विभूषणम् , न तु गर्वोद्रिक्तता । वित्तस्य पात्रे व्यय सत्पात्रे प्रतिपत्तिर्विभूपणम् , न तु विटनटादिषु । तपसश्चान्द्रायणादेरक्रोध क्रोधराहित्यम् । क्वचित्प्रसज्यप्रतिषेधेऽपि नसमास इष्यते । विभूषणम् , न तु कोपशीलत्वम् । प्रभवितु समर्थस्य क्षमा सहिष्णुत्वं विभूपणम् , न तूचण्डता । धर्मस्य सत्पात्रदानस्य नियाजता व्याजरा- हित्य विभूषणम् , न तु द्रव्यनाशदुःखम् । तथा सर्वकारणमैश्वर्यादि समस्त- निदानं इदं पूर्वोपवर्णितमेकमेव शीलं सर्वेषामपि सर्वपुंसा परं सौजन्याद्यपे- क्षयाप्युत्कृष्टं भूषणमलकार । अतः सर्वथापि शीलमेवाश्रयणीयमिति तात्पर्यम् । शार्दूलविक्रीडितम् ॥ इति नीतिशतकव्याख्याने धैर्यपद्धतिवर्णनं नामाष्टमं दशकम् ।
१. नीतिशतकम् । ४७ - अथ दैवपद्धति । अथ धैर्यशीलयोरपि दैवायत्तत्वात्तनिरूपणानन्तर दैवपद्धति निरूपयति- नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गौ दुर्गमनुग्रहः खलु हरेरैरावतो वारणः । इत्याश्चर्यबलान्वितोऽपि वलमिद्भग्नः परैः संगरे तयक्तं ननु दैवमेव शरणं धिग्धिवृथा पौरुषम् ॥ ८१ ॥ नेतेति । यस्य बलभिदो नेता शिक्षको हिताहितोपदेशकर्ता बृहता वाचा पतिवृहस्पति , न तु य कश्चित् । 'तबृहतो. करपत्योश्चोरदेवतयो सुट तलो- पश्च' इति गुडागमतलोपौ प्रहरणमायुवं प्रहारसाधनं तु वज्र वज्रायुधम् । पर्वतपक्षच्छेदनेऽ'यकुण्ठितमिति भाव , न तु यत्किचिदयोमयम् । सैनिकाः सुरा , न तु दुर्बललौकिका । दुर्ग गुप्तिस्थानं स्वर्ग स्वर्गलोक न तु मृत्पाषा- णादिनिर्मितम् । अनुग्रहः परिपालनतात्पर्य हरे खलु सकललोकाधीश्वरस्य विष्णो. । तस्यावरजभावेनावतीर्णत्वादिति भाव । न तु क्षुद्रदेवताया । वारणो गज ऐरावत , न तु य कश्चित्कलभ । इत्यनेन प्रकारेण स बलभिदिन्द्र आश्चर्यबलान्वितोऽसाधारणत्वादद्भुतकरशक्तिसहितोऽपि सगरे रणे परैर्दानवैर्भ- नो विदारित । तत्तस्मात्कारणात व्यक्तं स्फुटं यथा तथा दैवमेव शरण रक्षकम् । नतु पुरुपस्य कर्म पौरुपम् । 'हायनान्तयुवादिभ्योऽण्' इति युवादित्वादण् । 'पौ. रुषं पुरुपयोक्ते भावे कर्मणि तेजसि' इति विश्व । पौरुषं पुरुषकार धिक् विक् । पौन पुन्येन निन्द्य मिति भाव । वृथा व्यर्थम् । अप्रयोजकलादिति भाव.। धि- ग्धिक् इति 'नित्यवीप्सयो' इत्याभीक्ष्ण्ये द्विरुक्तिः । तद्योगात्पौरुषमिति द्वितीया। अत. पौरुषस्याकिचित्करत्वमेवाश्रयणीय मिति भाव । 'उद्योगिनं पुरुषसिहमुपैति लक्ष्मीदव प्रधानमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोन ॥' इत्येवं वचनस्यायमेव दत्तो जला- अलिरिति वेदितव्यम् । अत्र साभिप्रायविशेषणत्वात्परिकरालंकार । तदुक्तम्- 'सामिप्राय विशेषण परिकर ' इति । शार्दूलविक्रीडितम् ।। अथ बन्धमोक्षयोर्हानिवृद्ध्योश्चापि दैवमेव कारणमित्याह- भग्नाशस्य करण्डपिण्डिततनोर्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव हि परं वृद्धौ क्षये कारणम् ॥ ८२॥ भन्नेति । आखुर्मूषक ( कर्ता ) नक्तं रात्रौ विवर बिलम् । करण्डस्यैवेति भाव । कृला भन्नाशस्य भुमवाद्भग्नमनोरथस्य करण्डे पिण्डिकाया पिण्डिता पुञ्जीकृता तनुर्यस्य तथोक्तस्य । विहारप्रसारशून्यतया कृच्छ्रदशामापनस्येत्यर्थः । क्षुधा बुभुक्षाव्यसनेन म्लानेन्द्रियस्य विनष्टेन्द्रियपाटवस्य भोगिनः सर्पस्य मुखे । - सुभाषितत्रिशत्यां स्वयमेव दैववशानिपतित । ततोऽसौ भोगी तत्पिशितेन मूषकमासेन तृप्त सन् तेनैव पथा विवरेण सत्वरं शीघ्रं यातो बहिर्निर्गत्य पलायित । अतो हे जना इति शेषः । स्वस्था स्थिरचित्ता सन्तस्तिष्ठत । कुत । वृद्धौ क्षये च दैवमेव परमुत्कृष्टं कारण हि, न बन्यत् । अतो मूपकभोगिदृष्टान्तेन स्वस्थैर्भाव्यम् । न तु वृथापौरुषैरिति भाव । शार्दूलविक्रीडितम् ॥ अथ दैवायतिकतदन्ययोरवस्थामाह- यथा कन्दुकपातेनोत्पतत्यार्यः पतन्नपि । तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ ८३ ॥ यथेति । आर्यो दैवायतिक पतन्नपि कुतश्चित्कारणानीचैर्भवन्नपि कन्दुक- पातेन दृष्टान्तेन यथोत्पतत्युच्छ्रयं प्राप्नोति, तथा तद्वदेवानार्यो मृत्पिण्डपतनं यथा सान्द्रमृत्कवलमिव । 'इववद्वायथाशब्दौ' इति दण्ड्याचार्यानुशासनात् । पतति । निलोनो भवतीत्यर्थ । वृतमानुष्टुभम् ॥ दैवोपहतस्य न कुत्रापि सुखप्राप्तिरित्याह- खल्वाटो दिवसेश्वरस्य किरणः संतापिते मस्तके गच्छन्देशमनातप द्रुतगतिस्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥ ८४ ॥ खल्वाट इति । खल्वाट स्वभावलुप्तलोमशिरस्को मस्तके निजशिरसि दिवसे- श्वरस्य सूर्यस्य किरणे सतापिते सति । अनातपमातपशून्यं देशं प्रति द्रुतगतिः शीघ्रगमनो गच्छन्सन् तालस्य तालवृक्षस्य मूलं गतस्तालाधस्तात्तिष्ठति । तत्रापि तालमूले पतता वृन्ताद्गलता महाफलेन पृथुलतरफलेनास्य खल्लाटस्य शिरः खशिर शब्देन पटपटायमानेन सहितं सशब्दं यथा तथा भग्नं विदलितम् । ननु कुत एतदित्याशय दैवप्रातिकूल्यादित्याह-दैवहतको दैवोपहतः । दैवानुग्र- हशून्य इत्यर्थ । यत्र यस्मिन्देशे गच्छति यं देशमुद्दिश्य गच्छति, तत्र तमुद्दि- श्यैवापद उपद्रवा अपि प्रायो भूम्ना यान्ति । तदेतन्मशकभयाद्रामं विहाय गच्छतोऽरण्ये व्याघ्रग्रहणमभूदित्यर्थ । शार्दूलविक्रीडितम् ॥ अतो दैवमेव बलीय इति मम बुद्धि. प्रवर्तत इत्याह- गजभुजंगविहंगमबन्धनं शशिदिवाकरयोग्रहपीडनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ ८५ ।। गजेति । अयं स्पष्टार्थ. । यतोऽत्यन्तदुर्ग्रहाणा गजादीना बन्धनम्, जग- त्प्रकाशकयो सूर्याचन्द्रमसो राहुग्रहपीडनम् , मतिमता प्राज्ञाना दरिद्रताम- किचनख च विलोक्य दृष्ट्वा । अहो आश्चर्यम् । अत सर्वस्यापि दैवबली यस्त्वं मन्ये । दैवमेव मूलमिति तात्पर्यम् । द्रुतविलम्बितम् ॥ - १. नीतिशतकम् । एवं चेद्विधेरप्यज्ञता स्यादित्याशयेनाह- सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः। तदपि तत्क्षणभङ्गि करोति चे. दहह कष्टमपण्डितता विधेः ॥ ८६॥ सृजतीति । विविरशेषगुणाकर सकलसद्गुणाश्रयं भुवोऽलंकरणं मण्डनं पुरुष- रत्नं पुरुपश्रेष्ठं सृजति तावत् निर्माति खलु । तत किमत आह-तदपि तथापि । सृजन्नपीत्यर्थ । तत्पुरुषरत्नं क्षणभङ्गि क्षणमात्रेण मङ्गुरम् । नश्वरमित्यर्थः । क- रोति चेत् विधेरपण्डितता मौढ्यम् । अहह कष्टम् । अतिकृच्छ्रमिति विपादाति- शयाभिद्योतकमहहेति । वृत्तं पूर्ववत् ॥ कथंचिदपि देवयोगो न लङ्घय इत्याह- अयममृतनिधानं नायकोऽप्योषधीनां शतभिषगनुयातः शंभुमूर्भोऽवतंसः। विरहयति न चैनं राजयक्ष्मा शशाङ्क हतविधिपरिपाकः केन वा लङ्घनीयः॥ ८७॥ अयमिति । अय परिदृश्यमानश्चन्द्रोऽमृतस्य निधानं स्थानमपि, ओषधीनां लजीविन्यादीना नायको नेतापि, शतभिपजा नक्षत्रेण शतेन भिषग्भिवैद्यैश्च अनु- यातोऽनुसृतोऽपि, कि बहुना शंभो सकललोकक्षेमंकरस्य शंकरस्य मूर्भोऽवतंसः शिरोभूपणमपि, एनमुक्त विशेषणविशिष्टं शशाङ्कं राजयक्ष्मा क्षयरोगो नच विरहयति न त्यजति खलु । अतो हत विधेर्नष्टदैवस्य परिपाको नियोगः केन वा पुंसा लव- नीय । न केनापीत्यर्थ । हतेति निर्वेदानुसवानार्थक । राजयक्ष्मेत्यत्र राज्ञश्च- न्द्रस्य यक्ष्मा, राजा चासौ यक्ष्मेति वा विग्रह । यथा बाहट --~-'अनेकरोगानु- गतो बहुरोगपुरोगमः। राजयक्ष्मा क्षयोऽशेषरोगराडिति च स्मृत ॥' इति । मालिनीवृत्तम् ॥ मनोनियन्ताप्ययमेवेति सखायं सबोधयति- प्रियसख विपदण्डाघातप्रवातपरम्परा- परिचयबले चिन्ताचक्रे निधाय विधिः खलः । मृदमिव वलात्पिण्डीकृत्य प्रगल्भकुलालव- श्रमयति मनो नो जानीमः किमत्र विधास्यति ॥ ८८ ॥ प्रियति । प्रियश्चासौ सखा च प्रियसखस्तस्य सबुद्धिर्हे प्रियसख 'राजाह.सखि- भ्यष्टच्' । खल शठोऽय विधि प्रगल्भकुलालेन तुल्यं प्रगल्भकुलालवत् । प्रौढकु- म्भकार इवेत्यर्थः । तेन तुल्यं क्रिया चेद्वति' इति वति ।मनो मदीयचित्तं मृदं मृत्तिकामिव बलात्सामर्थ्यात्पिण्डीकृत्य कपालीकृत्य । विपद आपदो दण्डाघाता मुद्रघटनानीव तेषा प्रवाताना च या परम्परा पौनःपुन्येनावृत्ति. तस्या यः - सुभाषितत्रिशत्यां - परिचय सस्तरो निबिडावयवपरस्परसंनिवेशश्च स एव बलं दान्य यस्य तस्मि- श्चिन्ताचके चिन्ता चक्रमिव तस्मिन्निधाय भ्रमयति । अत्र भ्रमणे किं विधा- स्यति कि करिष्यति वा नो जानीम । कुलालस्तु घटं करिष्यति, अयं तु किं विधास्यति न जानीम इत्यर्थ । हरिणीवृत्तम् ॥ एवमापत्परम्पराचरणे महद्धैर्य वसो भविष्यतीति न मन्तव्यमिति विविमल- क्षीकृत्योपालभते- विरम विरमायासादस्मादुरध्यवसायतो विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे । अयि जड विधे कल्पापायेऽप्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ ८९ ॥ विरमेति । अयीति प्रश्ने । 'अयि प्रश्नानुनययो' इति विश्व । जडेति मान्छे । विधे हे दैवेति सबोवनत्रयम् । अस्मादुरध्यवसायतो दुराग्रहाद्य आयासस्तस्मा- द्विरम विरम आभीक्ष्ण्येन विरतो भव । 'नित्यवीसयो' इत्याभीक्ष्ण्ये द्विरुक्ति । कोऽसावायास इत्याशङ्कायामाह-विपदि वत्कृतापदि महता महात्मना वैर्य- वंसमीक्षितुमीहसे काङ्क्षसे यत्त्वमस्मादायासादिति सबन्ध । तस्यात्यन्तासभा- वितत्वात्त्वदायासस्यैवावशिष्टवादिति भाव । कुतो वासभावितत्वमित्याशय दृष्टा- न्तमुखेन द्रढयति-कल्यापाये कल्पान्तेऽप्यतिसकटेऽपि । किमुतान्यदेति भाव । अपेता विनष्टा निजक्रमा स्वमर्यादा येपा ते तथोक्ता सन्त । एते कुलशिख- रिणो महेन्द्रादिसप्तकुलाचला वा जलराशय सप्तसमुद्रा वा क्षुद्रा नीचा न खलु । कित्वत्यक्तमर्यादा एव वर्तन्ते । अतो दृष्टान्तेन धीरवैर्यध्वंसनस्यातिदुष्करत्वा- त्वदायास एवावशिष्ट , न तु फललाभ इति भाव । 'महेन्द्रो मलय सह्य सा- नुमानृक्षपर्वत । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वता ॥', 'लवणेक्षुसुरासर्पि- दधिक्षीरजलार्णवा' इति । वृत्तं पूर्ववत् ॥ तथापि दैवमेव शरणमित्याह- दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं तत्तस्योपनमेन्मनागपि महान्नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः॥९० ॥ दैवेनेति । प्रभुणा समर्थन दैवेन जगति लोके यस्य पुसो यद्वस्तु प्रमाणीकृतं निर्दिष्टम् , तद्वस्तु तस्योपनमेत्सगच्छेत् । महानाश्रयो मनागीषदपि नैव कारणं न साधनं हि । बहुफलप्राप्ताविति शेष । तत्र दृष्टान्त -सर्वाशापरिपूरके सक- ललोकमनोरथपरिपूरके सकल दिगन्तव्याप्तफलके वा जलधरेऽम्बुवाहे । पचा- यच् । अहन्यहनि प्रत्यहम् । 'अव्ययं विभक्ति-' इत्यादिनाव्ययीभाव.। अह्नश्च 'नपुंसकादन्यतरस्याम्' इति समासान्त । वर्षति सत्यपि चातकस्य स्तोकक- १. नीतिशतकम् । पक्षिणो मुखे चञ्चपटे सूक्ष्मा अणव एव तथापि द्वौ वा त्रयो वा द्वित्रा एव । 'संख्ययाव्ययासन्न-' इत्यादिना बहुव्रीहि । 'बहुव्रीही सख्येये डजबहुगणात्' इति डचूप्रत्यय । पयोबिन्दवो जलकणा पतन्ति । नत्वाश्रयमहत्तया बहुजल. लाभ , तत्रापि दैवस्यैव नियन्तृत्वादिति भाव । तस्मात्सर्वदा दैवमेव शरण- मिति तात्पर्यम् । 'स्तोककश्चातक समा.' इत्यमर । शार्दूलविक्रीडितम् ॥ इति नीतिशतकव्याख्याने दैवपद्धतिवर्णनं नाम नवमं दशकम् । अथ कर्मपद्धति.। यदुक्तं 'दैवेन प्रभुणा-' इत्यादिसदर्भण दैवस्यैवात्यन्तावश्यकत्वम् , तस्यापि कर्मनियम्यत्वेनास्वातन्त्र्यातिशयेन दैवपद्धतिनिरूपणानन्तर्येण कर्मपद्धति निरू- पयिष्यस्तत्रापि सर्वदेवनियामकत्वेन विधेस्तनियामकत्वेन कर्मण प्राबल्यमिति परम्परामनुविदधाति- नमस्यामो देवाननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः। फलं कर्मायत्तं यदि किमपरैः किंच विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ९१ ॥ नमस्याम इति । देवानिन्द्रादीन्नमस्यामोऽभिवादयाम । न त्वेकान्ततयैते- षामेवाभिवाद्यत्वम् , तन्नियामकस्य कस्यचिद्विधेर्विद्यमानत्वात्सोऽप्यभिवाद्य एवे- त्याशयेनाह-ते देवा अपि हतो यो विधिब्रह्मा तस्य वशगा ननु नियम्या. खलु । अतो विधिरपि वन्द्यः । न वस्यापि खातव्यमित्याह-सोऽपि विधि- रपि प्रतिनियतं यत्कर्मण एकं फलं तद्ददातीति तथोक्तो यत्फलं कर्मण प्रति- नियतं तत्प्रद । न तु स्वतन्त्र इत्यर्थ । तया च फलं कर्मायत्तं यदि कर्मावीन चेत् अपरैर्देवै कि विविना च किम् । न किचिदपीत्यर्थ । तस्य न फलदानस्वाम्या- दिति भाव । तत्तस्मात्कारणात्कर्मभ्यो ज्योतिष्टोमतपोदानादिरूपेभ्यो नम यतो विधिरपि येभ्य कर्मभ्यो न प्रभवति न समर्यो भवति । स्वातन्त्र्येण प्रवृत्तेर- भावादिति भाव । अत्र पूर्वपूर्वस्योत्तरोत्तरं प्रत्युत्कविहखान्मालादीपकाख्योऽ- लंकारः । लक्षणं तूक्तम् । शिखरिणीवृत्तम् ॥ १ एतदनन्तरम्- 'येनेवाम्बरखण्डेन संबीतो निशि चन्द्रमा । तेनैव च दिवा भानुरहो दौगत्यभेतयो..॥ येनेति। निशि रात्रौ चन्द्रमा येनैव यावताम्बरखण्डेन वस्त्रशकलेन सबीत आच्छा- दित । भवतीति शेप । दिवा अहनि तेनैव तावता चाम्बरखण्डेन भानु सूर्य: संवीतो भवति । अत एतयोश्चन्द्रसूर्ययोदौर्गत्य दुर्गतित्वम् । प्रकाशत्वेऽप्यम्बरखण्डमात्रसंछादि- तत्वादित्यर्थ. । अहो इत्याश्चर्य । एतच्चापि दैवकृत चोद्यमेवेत्यर्थः ॥' इत्यधिक क्वचित.
५२ सुभाषितत्रिशत्यां - यदुक्तं 'विविरपि न येभ्यः प्रभवति' इति, तत्प्रपश्चयति- ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डमाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे। रुद्रो येन कपालपाणिपुट के भिक्षाटनं सेवते सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९२ ॥ ब्रह्मेति । येन कर्मणा कर्ता ब्रह्मा चतुर्मुखो ब्रह्माण्डमेव भाण्डं तस्योदरे कुलालेन कुम्भकारेण तुल्यं कुलालवनियमितो विविधवस्तु निर्माणकर्मत्वेन निय- मितो नियोजित । येन विष्णु कुक्षिस्थाखिलभुवनोऽपि महासकटेऽतिकृच्छ्रतरे दशावतारा एव गहनमरण्यानी तत्र क्षिप्तो निक्षिप्त । येन कर्मणा रुद्र । मृत्युं- जयोऽपीति भाव । कपालं ब्रह्मशिर एव पाणिपुटकं करतलस्थभिक्षाहरणोचित- भाजनं भिक्षाटनं सेवते । कपालस्थभिक्षानं भुते इत्यर्थ । किच येन सूर्योऽपि सकललोकप्रकाशकोऽपीति भावः । नियमित इति शेष । गगनेन्तरिक्ष नित्यमेव । न तु क्षणमात्रमपि विश्रमावकाश इति भाव । भ्राम्यति परिवर्तते । 'वा भ्राश-' इत्यादिना विकल्पात् श्यन्प्रत्यय । तस्मै सकल नियन्त्रे कर्मणे नम । तशा- भूतस्यैवाभिवादनौचित्यादिति भाव । शार्दूलविक्रीडितम् ॥ एवं श्लोकद्वयेन सकलनियामकत्वकथनपूर्वकमभिवादनत्वोपयोगात्स्वयमभि- वाद्य संप्रति बहुश्रेयोहेतुत्वात्तस्योपादेयतामाह- या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् । तामाराधय सक्रियां भगवतीं भोक्तुं फलं वाञ्छितं हे साधो व्यसनैर्गुणेषु विपुलेवास्थां वृथा मा कृथाः ॥१३॥ येति । या सत्क्रिया खलाश्च दुर्जनानपि साधून्करोति । मूर्खानज्ञानिनोऽपि विदुष पण्डितान्करोति । द्वेषिणोऽपि हितान्सुहृद करोति । परोक्षं अतीन्द्रियमपि वस्तु प्रत्यक्ष मिन्द्रियगोचर कुरुते । तथा हालाहलं विषमपि तत्क्षणात्सद्य एवामृत करोति। तादृक्सामर्थ्यसंभवादिति भाव । अत हे सायो सज्जन निपुणेति वा । 'साधु समर्थों निपुणो वा' इति काशिकायाम् । वाञ्छितमभिलषितं फलं भोक्तुमि- च्छसि चेदिति शेषः । भगवती ता सलिया सत्कर्म आराधय । तस्या अशेषफल- दायकत्वादिति भाव । कितु व्यसनैविपुलेष्वापद्भूयिष्ठेषु गुणेषु रजस्तम प्रभृतिषु वृथा व्यर्थमास्थामासक्ति मा विधेहि । तस्या क्लेशैकफलकवादिति भावः । करोते- लड् । 'न माडयोगे' इत्यप्रतिषेध । अत्र खलादीना साधुत्वादिकरणाद- शक्यवस्तुकरणरूपो विशेषालंकार । वृत्त पूर्ववत् ॥ वृद्धिहान्योरप्येतन्मूलकत्वमेवेत्याह- शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोजवला लक्ष्मीरित्यनुभूयते चिरमनुस्यूते शुभे कर्मणि । -- १. नीतिशतकम् । स्येति भाव । झटिति द्राक् - विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं मुक्ताजालमिव प्रयाति झटिति भ्रश्यदिशो दृश्यताम् ॥१४॥ शुभ्रमिति । चिर चिरकालमारभ्यानुस्यूतेऽनुवर्तमानेऽपि । 'षिवु तन्तुसता- ने' इति धातो कर्तरि क्तः । 'च्छोः शूडनुनासिके च' इत्यूठि यणादेश । शुभे कर्मणि । पुराकृतविशेषे संभवति सतीत्यर्थः । शुभ्रं सद्म सौधादिकं सविभ्रमाः सविलासा युवतयस्तरुण्य श्वेतातपत्रेण एकश्वेतच्छत्रेणोज्ज्वला लक्ष्मी राज्यश्री- रिति । एतदखिलमित्यर्थ । अनुभूयतेऽनुभुज्यते । जन्मान्तरीयफलहेतुत्वात्त- । विच्छिन्ने शुभकर्मणि नष्टे सति नितरामतिशयेनानङ्गकलहो रति- रण स एव क्रीडा केलिस्तया हेतुना त्रुटन्भिदुरस्तन्तुर्यस्य तत्तथोक्तम् । शेषे कप्प्रत्यय । मुक्ताजालमिव भ्रश्यत्सत् । सद्मादिकमिति शेष दिश प्रयाति । 'यत्र यत्र सितं गेहं तत्र तत्र विनश्यति' इति न्यायादिति भाव । दृश्यताम् । विलोक्यतामित्यर्थ । वृद्धिहान्योरस्यैव कारणत्वं द्रष्टव्यमिति भाव । शार्दूलविक्रीडितम् ॥ अयैषामाचरणप्रकारमाह- गुणवद्गुणवद्वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते- र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥९५ ॥ गुगवदिति । गुणवद्गुणयुक्तम् , अगुणवद्गुणरहितं वा, यत्कार्यजातं तत्कुर्वता- नुष्ठीयमानेन पण्डितेन परिज्ञात्रा परिणति. परिपाकावस्था यत्नतोऽतिप्रयत्नेन । सावधानेनेति यावत् । अवधार्या अनुसधेया। यत्नत एव कर्मजातमारब्धव्यम् । समालोच्य परिणतिपर्यन्तमित्यर्थ । अन्ययानर्यमाह-अतिरभसकृताना सह- सानुष्ठिताना कर्मणाम् । गुणवता वेति शेप । आविपत्तेर्निष्पत्तिपर्यन्तम् । विक- त्पादाडोऽसमास । विपूर्वात्पद्यतेर्निष्पत्त्यर्थत्वमुपसर्गवशाद्धातूनामनेकार्थत्वा- दित्यवगन्तव्यम् । हृदयदाही मन संतापकारी । कुतः । शल्यतुल्य शल्यप्रायो विपाक परिपाकदशा भवति । अत सावधानेनैव कार्यजातमारम्भणीयम् । तथाभूतस्यैव चित्तसमाधायकत्वादिति भाव । मालिनीवृत्तम् ॥ अत सत्कर्माननुष्ठातुर्दुर्मेधस्कतामाह- स्थाल्यां वैदूर्यमय्यां पचति तिलखलं चान्दनैरिन्धनौधैः सौवर्णैर्लाङ्गलागैर्विलिखति वसुधामर्कतूलस्य हेतोः । छित्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्ता- त्प्राप्येमा कर्मभूमि न भजति मनुजो यस्तपो मन्दभाग्यः ॥१६॥ स्थाल्यामिति । स मनुज इह लोके । विदूरात्प्रभवति वैदूर्य वालवायजमणिः 'वैदूर्य वालवायजम्' इत्यमरः । 'विदूराज्यः' इति ध्यप्रत्यय । अत्र विदूरशब्दो सुभाषितत्रिशत्यां वालवायस्यादेशः पर्यायो वा तत्रोपचरितो वा तेन वालवायाद्विरेरसौ प्रभवति स विदूरान्नगरात् तत्र संस्कृत इत्याक्षेप. प्रत्युक्त । 'वालवायो विदूरं च प्रदे- शान्तरमेव वा । न चेत्तत्रेति चेद्र्याज्जत्वरीवदुपाचरेत् ॥' वैदूर्यमय्या वैडूर्यम- णिविकारायाम् । विकारार्थे मयट् । स्थाल्या पात्रे चान्दनैश्चन्दनतरुसबन्धिभि- रिन्धनौधै काष्ठभारैस्तिलखल तिलपिष्टं पचति । तथा सौवणे सुवर्णविकारली. झलाहलमुखरकतूलस्य हेतो । अर्कवृक्षनूलार्थमित्यर्थ । 'षष्ठी हेतुप्रयोगे' इति षष्ठी । वसुधा भुवं विलिखति कर्षति । तथा कर्पूरखण्डान्कर्पूरकदलीकाण्डा- शिछत्त्वा कोद्रवाणा कोरदूषकाख्यसस्य विशेषाणाम् । 'कोरदूषस्तु कोद्रव' इत्य. मर । समन्तात् । सर्वतोऽधिकमित्यर्थ । वृतिमावरणं कुरुते । कोऽसावीदृशो दुर्भग इत्याशङ्कायामाह-इमा कर्मभूमि कर्माचरणयोग्यभूमिं प्राप्य यो मन्द- भाग्यो निर्भाग्यो मनुजस्तपश्चान्द्रायणादिकर्म न भजति न सेवत इति संबन्धः। वैदूर्यपात्रे तिलपिष्टपचनादिप्राय कर्मभुव्यस्या तपोऽननुष्ठानमित्यर्थः । अत सर्वथा सत्कर्मानुष्ठेयं श्रेयस्कामेनेति तात्पर्यम् । अत्र यस्तपो न भजति स तिल. खलं पचतीत्यादिविशिष्टभजनपचनाद्योक्यिार्थयोर्निर्दिष्टैकत्वासभवात्सादृश्यल- क्षणायामसभवद्वस्तुसबन्धवाक्यार्थवृत्तिर्निदर्शनाभेद इत्येतत्सर्व मूर्खपद्धतौ व्याख्यातमिती होपरम्यते । स्रग्वरावृत्तम् ॥ पुण्यविशेष एव फलं न त्वन्यदित्याह- नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव नच यत्नकृतापि सेवा। भाग्यानि पूर्वतपसा खलु संचितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥९७ ॥ नेति । आकृतिराकारसंपत्ति व फलति । फलकारणं न भवतीत्यर्थ । कुलं सद्वंशो वा नैव फलति । शीलं सत्स्वभावो वा न फलति । विद्यापि वेदवेदाङ्गा- त्मिकापि नैव फलति । यत्नकृता प्रयत्नानुष्ठिता सेवा राजादिपरिचर्या च न फलति । कितु पूर्वतपसा पुराकृतसुकृतेन सचितानि सपादितानि पुरुषस्य सबन्धीनि भाग्यानि वृक्षा यथा । वृक्षा इवेत्यर्थ । 'इववद्वायथाशब्दो' इति दण्ड्याचार्यानुशासनात् । काले परिपाकसमय एव फलन्ति खलु । तपोजनित- भाग्यविशेषव्यतिकरण फलजनकं न किचिदस्तीत्यर्थ. । वसन्ततिलकावृत्तम् ॥ सर्वथापि भाव्यभाविनोरावश्यकत्वं कर्मवशादेवेत्याह- मजत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षतु । आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः॥९८॥ मजत्विति । अम्भसि मज्जतु मन्नो भवतु । जलस्तम्भादिनेति भाव. । मेरु- १. नीतिशतकम् । - शिखरं यातु गच्छतु । योगानुसंधानादिनेति भाव । आहवे युद्धे शत्रूञ्जयतु । वा. णिज्यं क्रयविक्रयादि, कृषि. कर्षणं, सेवन परिचर्या । दौत्यादिनेति भाव । ते कृषिसेवने च तथा सकला. समस्ता विद्या वेदवेदाङ्गादय । 'अङ्गानि वेदाश्च. खरो मीमांसा न्यायविस्तर । पुराण धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥' इत्येता- श्चतुर्दशविद्या , कला इतिहासागमप्रभृति चतु षष्टिकलाश्च शिक्षत्वभ्यस्यतु। तथा परमुत्कृष्टं प्रयत्नं पादुका सिद्ध्यात्मक कृत्वा खगवत्खगेन तुल्यं विपुलमाकाशं प्र- यातु । तथापि कर्मवशतो धर्माधर्मात्मककर्मवशादिहास्मिलोकेऽभाव्यमभावि फलं न भवति । तथा भाव्यस्यावश्यभाविन. फलस्य नाशः कुत. तस्य ब्रह्मणापि नि- वारयितुमशक्यत्वात् । 'यद्भावि तद्भवत्येव यदभावि न तद्भवेत्' इति न्याया- दिति भाव । अत्राम्भोमज्जनादीना चतु षष्टिकलास्वेवान्तर्भूतत्वमवगन्तव्यम् । ताश्च कला मदीयशृङ्गारशृङ्गाटके सख्यातास्तत्रैव द्रष्टव्या इतीहोपरम्यते । शार्दू. लविक्रीडितम् ॥ अतिसकटस्थस्यापि प्राचीनपुण्यसद्भावे न क्षतिरित्याहः वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ ९९ ॥ वने इति । अयं तु स्पष्टोऽर्थ । उपजातिवृत्तम् ।। कि बहुना सुकृतिनस्तावत्सर्वमप्यानुकूल्यमेव प्रयातीति निगमयति- भीमं वनं भवति यस्य पुरं प्रधानं सर्वो जनः स्वजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति संनिधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ १०० ॥ भीममिति । यस्य पुंसो भीमं हिस्रादिप्राचुर्येण भयंकरं वनमरण्यानी (कर्तृ) प्रधानं नियतं पुरं भवति । तद्वदशेषभोगसाधनं भवतीत्यर्थः । तस्य सर्वोऽशेषो- ऽपि जन खजनता किंकरतामुपयाति । तस्य कृत्स्ना चतु:समुद्रान्ता भू संनि- घिमि. समीचीनः रत्नैर्महापद्मादिनवनिधिभिर्निक्षेपैर्वा रत्नै श्रेष्ठवस्तुमिश्च पूर्णा भवति । समस्तफलानि प्रसूत इत्यर्थ. । कस्येत्यत आह—यस्य नरस्य विपुलं बहुलं पूर्वसुकृतं पुराकृतसत्कर्मसंजातं पुण्यमस्ति वर्तते तस्येति सबन्धः । अतः सत्कर्माचरणतत्परेणैव भवितव्यं श्रेयस्कामेनेति सदर्भामिप्रायः । वसन्ततिलका- वृत्तम् ॥ इति नीतिशतकव्याख्याने कर्मपद्धतिवर्णनं नाम दशमं दशकम् । - इति सुभाषितत्रिशत्यां नीतिशतकं संपूर्णम् । ६ सु. नि.
सुभाषितत्रिशत्यां २. शृङ्गारशतकम्। अथ स्त्रीप्रशसा। शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकुम्भदासाः। वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते मकरध्वजाय ॥ १॥ शस्विति । अत्र स्वयंभुशब्दस्य शंभुशब्दवदौणादिकडुप्रत्ययान्तत्वमवगन्त- व्यम् । न तु 'भुव संज्ञान्तरयो.' इति विप्प्रत्ययान्तत्वम् । अन्यथा स्वयंभू- देवोऽसावयमित्येव दीर्घप्रसङ्गात् । तथा च येन मकरध्वजेन शंभुखयंभुहरयो हरविरिञ्चिमुरारय । संहारसृष्टिस्थितिकर्तृत्वेन सकलभुवनाधीश्वरा अपीति भावः। हरिणेक्षणाना हरिणवन्मनोहरलोचनानां पार्वतीसरखतीश्रीदेवीनां सततम् । 'समो वा हितततयो' इति वचनात्समो मकारस्य लोप । गृहे कुम्भदासा जलकुम्भ- भारवाहकभृत्या अक्रियन्त तासु तादृङ्मोहमुत्पाद्य तथा विधेयीकृता इत्यर्थः । किमुतान्य इति भावः । कृज कर्मणि लड्। अर्धनारीश्वरत्वाच्छंभो , स्वयंभुवश्च सरस्वतीनिकेतनीकृतमुखत्वात् , हरेर्वक्ष स्थलस्थापितलक्ष्मीकत्वाच्चैवमुक्तमित्यव- गन्तव्यम् । अत एव वाचामगोचर अवाङ्मनसगोचर यच्चरित्रं माहात्म्यं तेन वि चित्रवत्कृतो विचित्रितस्तस्मै । अत्यन्ताश्चर्यकारकायेत्यर्थ । 'विस्मयोऽद्भुतमाश्चर्य चित्रम्' इत्यमर । विचित्रशब्दात् 'तत्करोति-' इति ण्यन्तात्कर्मणिक्त । णावि- ष्टवद्भावे विन्मतोलुक् । भगवते सकललोकाराध्याय । यद्वा चतुर्दूहम यप्रविष्ट- त्वात्प्रद्युम्नरूपेण भगवत्पुत्रत्वाद्वा तद्रूपायत्यर्थ. । 'आत्मा वै पुत्रनामासि', 'पति- जर्जीयां प्रविशति गर्भो भूत्वा खमातरम् । तस्या पुनर्नवो भूत्वा दशमे मासि जा- यते ॥' इति श्रुतेः । तस्मै मकरध्वजाय मकरकेतनाय कामदेवसार्वभौमाय नमः। 'नम स्वति' इत्यादिना चतुर्थी । वसन्ततिलकावृत्तम् ॥ तत्रालम्बनविभावयो स्त्रीपुरुषयो स्त्रीणां प्रशस्तत्त्वादेकोनविंशतिश्लोकै प्रथम स्त्रीप्रशंसा चिकीर्षुस्तत्रादौ तावत्तासा बन्धन हेतुत्वमाह- स्मितेन भावेन च लज्जया मिया पराङ्मुखैरर्धकटाक्षवीक्षणैः । वचोभिरीाकलहेन लीलया खलु बन्धनं स्त्रियः॥२॥ स्मितेनेति । स्मितेन यौवनादिमदविकारजनिताकस्मिकमन्दहासेन । 'आक- स्मिकं तु हसितं यौवनादिविकारजम्' इति वचनात् । बाल्ययौवनसधावुत्पन्नः शृङ्गारविषयः प्रथमान्त करण विकारो भावस्तेन च। तदुक्तं-'चित्तस्य विकृते समस्तभावैः २. शृङ्गारशतकम्। ५७ , कारणे सति-ततोऽर्वाड्विकृतिर्भावो बीजस्यादिविकारवत्' इति । 'हावेन' इति पाठे 'ईषदृष्टविकारः स्याद्भावो हाव प्रकीर्तित' इत्युक्तलक्षणेन चेष्टावि- शेषेण च । लज्जया कुचकुम्भदोर्मूलाच्छादनवदनविनमनदरनिमीलितनयनलानु- भावकमन.सकोचनरूपव्रीडया च । 'चेत सकोचनं ब्रीडासङ्गरागस्तनादिमि इति लक्षणात् । भिया । आकस्मिकभयजनितत्रासेनेत्यर्थ । तदुक्तम्-'आक- स्मिकभयाञ्चित्तक्षोभत्रास प्रकीर्तित ' इति । 'लज्जया गुणै' इति पाठे आसा- मेवालम्बनभूतरूपयौवनादिगुणैरित्यर्थ । 'आलम्बनगुणो रूपयौवनादिरुदाहृत इत्युक्तवात् । परामुखै । ह्रियार्धास्फुटप्रसारिभित्यर्थ । अर्धकटाक्षवीक्षण असमग्रापागावलोकनैश्च । कटाक्षलक्षण तु सगीतरत्नाकरे-'यद्गतागतविश्रा न्तवैचित्र्येण विवर्तनम् । तारकाया. कलाभिज्ञास्तं कटाक्ष प्रचक्षते ॥' इति । वचोभि शुककोकिलमधुरतरमृदुलालापैश्च । ईय॑या परोत्कर्षासहनरूपासूयया य कलहस्तेन च । 'परोत्कर्षासहिष्णुत्वमा प्राहुर्मनीषिण' इति लक्षणात् । यद्वा ईय॑या कलहेन प्रणयकलहेन चेति द्वन्द्वैकवद्भाव । 'सर्वो द्वन्द्वो विभाषे- कवद्भवति' इत्यनुशासनात् । लीलया वागादिभि प्रियानुकरणरूपविलास विशे- षेण च । 'लीला प्रियानुकरणं वाग्भिर्गत्याथ चेष्टया' इति लक्षणात् । कि बहुना समस्तभावै स्तम्भरोमाञ्चस्वेदादिसात्त्विकभावै , हौत्सुक्यावहित्थादिसचारि- भावैश्चेत्यर्थ । स्त्रियो बन्धनं खलु । पुंसा संसारबन्धहेतव खल्वित्यर्थ । लि- गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभिप्रायेण च 'वेदा प्रमाणम्' इतिवद्ग- ष्टव्यः । अत्र स्मितकटाक्षालापा अनुभाव.--'कार्यभूतोऽनुभाव. स्यात्कटाक्षादि. शरीरज' इत्युक्तत्वात् । लज्जाभयेा सचारिभाव. । भावलीले शृङ्गारचेष्टा- विशेषा इति द्रष्टव्यम् । तदुक्तम्-'भावो हावश्च हेला च माधुर्य धैर्य मित्यपि । लीलाविलासो विच्छित्तेर्विभ्रमः किलकिञ्चितम् ॥ मोडायितं कुट्टमितं विब्बोको ललितं तथा । कुतूहलं च चकितं विहतं हास इत्यपि । एवं शृङ्गारचेष्टा स्युर- ष्टादश विधा मता ॥' इति । ईक्साधनसपनाना स्त्रीणा बन्धहेतुत्वं कि वक्त- व्यमिति भाव । तथा चैतासां शृङ्गारनायिकाना मध्ये भावलज्जाभयवत्यो म- ध्यमा', ईर्ष्याकलहलीलावत्य प्रौढाश्चेति विवेक. । तदुक्तम्-'उदयद्यौवना मुग्धा लज्जाविजितमन्मथा । लज्जामन्मथमध्यस्था मध्यमोदितयौवना ॥ स्मर- मन्दीकृतव्रीडा प्रौढा सपूर्णयौवना ॥' इति । वंशस्थवृत्तम् ॥ उक्तमर्थ प्रकारान्तरेणाह- भूचातुर्यात्कुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जितान्ताश्च हासाः। लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भूषणं चायुधं च ॥३॥ भ्रूचातुर्येति । भ्रुवोश्चातुर्याललिताक्षेपवैचित्र्यात्कुञ्चितानि कुणीकृतानि अक्षीणि येषा ते तथोक्ता. । 'बहुव्रीहौ सक्थ्यक्ष्णो खाशात्षच्' इति षच् । कटाक्षा अ- सुभाषितत्रिशत्यां पाझेक्षणानि च । एतेन रेचितभ्रुकुव्याख्यौ व्यापारावुक्तौ । तदुक्तम्-'स्या- अ॒वोर्ललिताक्षेप एकस्या एकरेचितम् । द्वयोर्मूलसमक्षेपकौटिल्याद्भुकुटिं विदुः ॥' इति । स्निग्धा. स्नेहपरिप्लुता वाचश्च । स्नेहलक्षणं तु—“विनम्मे परमां काष्ठा- मारूढे दर्शनादिभिः । येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥ इति । लज्जि- तमन्तं येषा ते लजितान्ता लज्जावसाना हासाश्च । तथाभूतहासानामेव मोह- नखात् । अन्यथा हास्यरसापर्यवसानादिति भावः । लीलामन्दं लीलामधुरं प्रस्थितं प्रस्थानम् । गमनमिति यावत् । स्थितं अवस्थानं चेत्युभयत्रापि भावे त । इत्येतत्सर्व स्त्रीणा भूषणं च चातुर्यातिशयहेतुत्वात् । आयुधं शस्त्रं च युवजनविषयसाधनत्वादिति भाव । अत्र कटाक्षादीना लक्षणानि प्रागेवोक्तानि । संचारिलीलाशृङ्गारचेष्टा भृकुट्यादयोऽन्ये अनुभावा इति ज्ञेयम् । तथा लीला- मन्थरगमनस्य पद्मिनीनियतलक्षणात्प्रायेणैतासा लज्जातिशयत्व सूच्यते । तदा क्तं रतिरहस्य-व्रजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिललितमध्या हंस- वाणी सुवेषा । मृदु शुचि लघु भुले मानिनी गाढलज्जा धवलकुसुमवासोवल्लभा पद्मिनी स्यात् ॥' इति । अत्र भृकुट्यादिसमुदाये भूषणत्वायुवत्वरूपणाद्रूपकालं- कार । शालिनीवृत्तम् ॥ अथ शृङ्गारानुभावदृग्विलासान्सपरिकरं वर्णयति- क्वचित्सभूभङ्गैः क्वचिदपि च लजापरिगतैः क्वचिद्भरित्रस्तैः क्वचिदपि च लीलाविलसितैः। कुमारीणामेतैर्मदनसुभगैर्नेत्रवलितः स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ ४॥ क्वचिदिति। क्वचित्कुत्रचित्सभ्रूभज्ञैर्द्धकुटिरेचिताख्यभ्रूव्यापारसहितै. । क्वचिदपि च लज्जया परिगतै प्रत्यावृत्तैश्च । खानुकूल्यप्रकाशकैरित्यर्थः । तदुक्तम्-'सव्रीडा- लोकनेनैव खानुकूल्यप्रकाशनम्' इति । क्वचिद्भरित्रस्तैर्बहुलभयसभ्रान्तै । क्वचि- दपि च लीलाभिर्गतप्रत्यागतविलासविशेषैर्हेतुना विलसितै कमनीय उज्ज्वलैर्वा तथा मदनेन' सुभगै मनोहरै । विरक्तस्यापि चित्तक्षोभकरैरित्यर्थ । 'यद्दर्शना- द्विरक्तोऽपि क्षुभ्यते तत्समन्मथम्' इति लक्षणात् । एतै उक्तप्रकार कुमारीण- तरुणीनाम् । उत्पलाक्षीणामिति भाव । 'वयसि प्रथमे' इति डीपू । नेत्रवलितैर्नय- नविलासैर्दिश स्फुरता विकसता नीलाब्जाना नीलोत्पलाना प्रकरैर्निकुरुम्बैः परि- कीर्णा इव व्याक्षिप्ता इव लक्ष्यन्त इति शेष । प्रसिद्धक्रियाध्याहारदोष इत्याह वामन -लिङ्गाध्याहार इत्यत्र । अत्र नयनविलासाना प्रियजनादिवस्तुदर्शनचापल विना आलम्बनात्कुतूहलं नाम शृङ्गारचेष्टितं सूच्यते-'कुतूहलं रम्यदृष्टौ चापलं परिकीर्तितम्' इति लक्षणात् । भ्रुकुठ्यादीना लक्षणं प्रागेवोक्तम् । तथा नयनव- लनक्रियया विकीर्णत्वक्रियोत्प्रेक्षणाद्गुणक्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा । 'यत्रान्य- दपि संबन्धादन्यत्वेनोपकीर्तितम् । प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षा प्रचक्षते ॥'
२. शृङ्गारशतकम् ।
इति लक्षणात् । तया च नयनानां नीलोत्पलसाम्यं गम्यते । तेन चोपमा व्य-
ज्यत इत्यलकारेणालंकारध्वनि । शिखरिणीवृत्तम् ।।
अथ यदुक्तमुद्दीपनविभावश्चतुर्विध इति, तत्र प्रथमोद्दिष्टालम्बनगुणकथनमुत्त-
रत्र करिष्यत इत्युपेक्ष्य 'स्मितेन-'इत्यादिश्लोकत्रयेण काश्चिच्छृङ्गारचेष्टा केचि.
दनुभावा संचारिणश्च वर्णिता । इदानी तु तदलंकरणं विवक्षुस्तस्य नैसर्गिकाहार्य-
भेदेन द्वैविध्यादाहार्यकमनुपदमेव लक्ष्यत इति मनसिकृत्वा संप्रति नैसर्गिक
मण्डनमाह-
वकं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः।
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्वस्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥५॥
वक्रमिति । चन्द्रवद्विकसति ताच्छील्येनेति चन्द्रविकासि । सुन्दरमित्यर्थः । ता-
च्छील्ये णिनि. । वकं वदनं च । पङ्कजानां परिहासक्षमे अवहेलनसमर्थे । तत्स-
दृशी इति यावत् । लोचने नयने । परिहासेत्यत्र 'उपसर्गस्य घञ्यमनुष्ये बहुलम्'
इति दीर्घ । स्वर्णमपाकरिष्णु । स्वर्णम् 'पुष्पमूलेषु बहुलम्' इति लुक् । तदपा-
करिष्णु । तत्सदृश इत्यर्थः । एतेन पद्मिनीत्वं सूच्यते-'कापि चाम्पेयगौरी'
इति लक्षणात् । वर्णो देहकान्तिश्च । तथा अलिनीना भृङ्गागनानां जिष्णुर्जयशी-
ल । तत्संनिभ इत्यर्थः । 'ग्लाजिस्थश्च रस्नु' इति रस्नुप्रत्ययः। कचानां चय -
केशपाशश्च । इभकुम्भयोर्विभ्रमहरौ विलासहारिणौ । करिवरशिर पिण्डकल्पा-
वित्यर्थ । 'कुम्भौ तु शिरस पिण्डौ' इत्यमरः । वक्षोजौ कुचकुम्भौ च । गुर्वी
दुर्भरा । 'वोतो गुणवचनात्' इति डीप् । नितम्बस्थली । कटिपश्चाद्भागश्च । 'प..
श्वानितम्ब स्त्रीकट्या' इत्यमर । 'जानपद-' इत्यादिना आकृतिमात्रे डीपू ।
हरतीति हारि मनोहरम् । पूर्ववणिनि । वाचां मार्दवं वाङमाधुर्यम् । मधुरकोम.
लालापश्वेत्यर्थ । एतत्सर्व युवतिषु स्वाभाविकं स्वभावसिद्धम् । 'तत आगतः'
ठक् । मण्डनम् । तरुणीनामेतन्नैसर्गिकालंकरणमित्यर्थः । अत्र चन्द्रविका-
सीत्यादिशब्दाः प्रायश• सादृश्यवाचकाः । अत एवोपमालंकारः। तदुक्तमाचा-
यंदण्डिना-'स्पर्धते जयति द्वेष्टि हसतीर्ण्यत्यसूयति । तदन्वेत्यनुबध्नाति तच्छी-
लति निषेधति । तचैवानुकरोतीति शब्दाः सादृश्यवाचकाः ॥' इति । शार्दूल.
विक्रीडितम् ।।
अथालम्बनगुणयौवनमाह-
स्मितं किंचिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः।
गतानामारम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिव न हि रम्यं मृगदृशः ॥६॥
६० सुभाषितत्रिशत्यां स्मितमिति । स्मितं मन्दहास किंचिदीषन्मुग्धं सुन्दरं भवतीति यथायोग- म याहार्यम् । 'मुग्ध. सुन्दरमूढयोः' इत्यमरः । बाल्ययौवनमध्यस्थत्वेन तरुण्याः प्रागल्भ्याभावात्स्मितस्येषन्मुग्धवमुक्तमित्यवगन्तव्यम् । दृष्टिविभवो विलोकनसं- पत्ति सरलं अकुटिलं यथा तथा तरलश्चञ्चलो भवति । वाचा परिस्पन्दो वाग्व्या- पारोऽपि अभिनवा नूतना विलासा यारा ता या उक्तयो वचनानि तामि सरसो रसयुक्त । रुचिर इति यावत् । भवति । गताना गतीनाम् । कर्तरिक्त । आरम्भ उपक्रम । किसलयित पल्लवित । तारकादित्वादितच् । लीलापरिकरो विलासस- मृद्धिर्यस्य तथोक्त । विलाससवन्धबन्धुरो भवतीत्यर्थ । अतस्तारुण्यं यौवनं स्पृ- शन्त्या मृगदृशस्तरुण्या. सबन्धि किमिव किवा रम्यं मनोहर न हि भवति । सर्वमपि रम्यमेव भवतीत्यर्थ । इयं मुग्वा नायिका-'उदयद्यौवना मुग्धा लज्जाविजितम- न्मथा' इति लक्षणात् । अत्र श्लोकद्वयेऽपि श्लाघ्यविशेषणयोगादुदात्तता नाम गुण:--'लाध्यैर्विशेषणैर्योगो यस्याश्च स्यादुदात्तता' इति लक्षणात् । शिखरिणी- वृत्तम् ॥ D अथ चक्षु प्रभृतिषडिन्द्रियाणामत्रैव लोकोत्तरप्रतिनियतविषयान्वर्णयति- द्रष्टव्येषु किमुत्तमं मृगहशः प्रेमप्रसन्नं मुखं घ्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु किं तद्वचः। किं स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपु- ध्येयं किं नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमः ॥ ७ ॥ द्रष्टव्येष्विति । अत्र प्रश्नोत्तरमालिकयान्वय कार्य । द्रष्टुं योग्यानि द्रष्टव्यानि तेषु दर्शनीयेषु वस्तुषु । योग्यार्थे तव्यप्रत्यय । उत्तमं श्रेष्ठं वस्तु किमिति प्रश्नः। प्रेमप्रसन्नं अनुरागविकसितम् । प्रेमदायीत्यर्थ । 'द्रवीभूतं मनो यत्र दर्शने प्रेम- दायिनि' इति लक्षणात् । मृगदृशस्तरुण्या मुखम् । वदनमित्यर्थ । एवमुत्तर. त्रापि । चक्षु प्रीतिकरत्वादिति भाव । घ्रातव्येषु आघ्रातव्येषु किमुत्तम मिति प्रश्न.। तदास्यपवनस्तस्या. तरुण्या आस्यपवनो मुखमारुत । तस्यैव घ्राणतर्पणत्वादि- ति भावः । यद्यपि घ्राणेन्द्रियविषयो गन्ध., न तु पवनः तथापि तस्या पद्मिनी- जातित्वात्तदास्यपवनस्य तस्य सक्रमणात् वीणा श्रूयन्ते, भेर्य श्रूयन्ते, पुष्पाण्याघ्रा- यन्ते' इत्यादिवद्गन्धसंबन्धिनि पवने तद्धर्मस्योपचरितत्वान्न विरोध ।श्राव्येषु श्रो- तव्येषु । अत्र योग्यार्थे यत्प्रत्ययः । एवमुत्तरत्रापि । उत्तमं किम् । तद्वचस्तस्या- स्तरुण्या वच मृदुमधुरभाषणम् । तस्यैव श्रवणानन्दकरत्वादिति भाव.। वाद्येषु अनुभवयोग्येषु उत्तमं किम् । तस्या ओष्ठ. पल्लव इव तस्य रस । अधरामृतमि- त्यर्थ । तस्यैव रसनेन्द्रियतृप्तिहेतुत्वादिति भावः । स्पृश्येषु स्पर्शनयोग्येषु वस्तुषु उत्तमं किम् । तस्या वपु । कुसुमसुकुमारशरीरमित्यर्थः । तस्यैव निरुपमख- मिन्द्रियसौख्यावहत्वादिति भाव । उत्तमंध्येयं ध्यानाह किम् । ध्यातव्येष्वित्यर्थ ।
२. शृङ्गारशतकम्।
-
नवयौवनं तरुणीनवतारुण्यमेव । तस्यैवात्यन्तमनोरञ्जकत्वादिति भावः । अथ
सर्वथा मुख्य ध्येयमाह-सहृदयहृदयालुभिः । रसिकजनैरित्यर्थ । सर्वत्र सर्व-
देशेषु सकलकालेषु वा तस्यास्तरुण्या विभ्रमा विलासा । ध्येया इति शेपः । अत्र
तत्तत्प्रसिद्धविषयाणामेकत्र समष्टिवर्णनान्महाशृङ्गारपरितोषातिशय उक्त । एते-
नास्या लोकोत्तरमाभिरूप्यं सूच्यते । तया चोत्तमविषयाकादिभिर्विशिष्टतरुणीसं-
भोग एव कर्तव्य इति फलितार्थ. । तत्र प्रश्नोत्तरयोश्चातुर्यातिशयार्थमसकृन्निब-
न्धनादुदात्तालंकारभेद -'उत्तरात्प्रश्न उन्नयो यत्र प्रश्नोत्तरे तथा । बहुधा च
निबध्येते तदुत्तरमुदीर्यते ॥' इति । शार्दूलविक्रीडितम् ॥
अथासा मुखाद्यलंकरणवर्णनद्वारा सकललोकसमोहमखमाह-
एताश्चलद्वलयसंहतिमेखलोत्थ-
झंकारनूपुरपराजितराजहंस्यः।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षः॥ ८॥
एता इति । चलन्त्यो गतिवैचित्र्याद्वलमाने ये वलयसंहतिमेखले वलयसहतिः
कङ्कणश्रेणि । मेखलाशब्देन काञ्चीवाचिना तन्निबद्धा किकिण्यो लक्ष्यन्ते । तदु-
त्थस्तदुत्पन्नो यो झंकारो झणझणस्तेन नूपुराभ्या मजुलनिनादमजीराम्या च
पराजिता. तिरस्कृता राजहंस्य कलहंसाङ्गना याभिस्ता । कलनादसुन्दरमन्द-
गमनराजहसरमणीया इत्यर्थ । 'राजहंसो नृपश्रेष्ठे कादम्बकलहंसयो.' इति
विश्व । 'जातेरस्त्रीविषयादयोपधात्' इति डीप् । शैषिकस्य कपो वैभाषिकत्वान्न
प्रयोग । एताः पूर्वोक्तास्तरुण्य. किचिदूनविंशतिवार्षिकाः स्त्रिय इत्यर्थ ।
वित्रता चकिता मुग्धा प्रौढा च या हरिणी कुरङ्गी तत्सदृशै । तद्विलोकननि-
भैरित्यर्थ । कटाक्षरपाझवीक्षणे । एतेनैतासा पद्मिनीत्वं सूच्यते-'चकितमृ-
गहगामे प्रान्तरक्त च नेत्रे' इति लक्षणात् । कस्य मनो विवशं समोहितं न कुर्व-
न्ति । सर्वस्यापि कुर्वन्त्येवेत्यर्थ. । तरुणीलक्षणमुक्तं रतिरहस्ये-'बाला स्यात्षोड-
शाब्दा तदुपरि तरुणी विशतेर्यावर्दूर्ध्व प्रौढा स्यात्पञ्चपञ्चाशदवधि परतो वृद्धता-
मेति नारी ।' वयोलक्षणमुक्तम्-'निदाघशरदोर्बाला पथ्या विषयिणो भवेत् ।
हेमन्ते तरुणी योग्या प्रौढा वर्षावसन्तयो । संततं सेव्यमानापि बाला प्रथयते
बलम् ॥' इति । अत्र राजहंसीपराजयस्य सादृश्यपर्यवसानादेका उपमा। हरिणी-
सदृशैरित्यत्र चान्या । अनयो. परस्परनैरपेक्ष्यात्सजातीयससृष्टि । एताश्च
मन्यमा नायिका:-'लज्जामन्मथमध्यस्था मध्यमोदितयौवना' इति लक्षणात् ।
वसन्ततिलकावृत्तम् ॥
कुङ्कुमपङ्ककलङ्कितदेहा
गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पदपद्मा
के न वशीकुरुते भुवि रामा ॥९॥
६२ सुभाषितत्रिशत्यां कुड्डमेति । कुङ्कुमपङ्केन काश्मीरजकर्दमेन । 'अथ कुङ्कुमम् । काश्मीरजन्मा- मिशिखम्', 'पकोऽस्त्री शादकर्दमौ' इति चोभयत्राग्यमरः । अथवा घुसृणापर- पर्यायकुङ्कुमकुसुमरजितचन्दनपङ्केन 'कुङ्कुमं घुसृणम्' इत्यभिधानरत्नमालायाम् । यद्वा कुङ्कुमेन चम्पकेन सिन्दूरापरनामशृङ्गारभूषणाख्यद्रवद्रव्यविशेषेण च । 'सि- न्दूर नागसभवम् । चीनपिष्टं च गान्धार पकं शृङ्गारभूषणम् ॥' इत्यमरः । कल- कितश्चिह्नितो देहो यस्या सा। कुङ्कुमसिन्दूरादिरञ्जकद्रव्यशृङ्गारिताकारेत्यर्थः । अत एव गौरयोररुणयो । यद्वा पद्मिनीत्वाच्छ्रीफलसच्छाययो-स्तनयुगलम- निन्द्यश्रीफलश्रीविडम्बि' इति लक्षणात् । पयोधरयो कुचकुम्भयो. कम्पिताश्च- लिता हारा मुक्तावलयो यस्या सा तथोक्ता । नूपुरौ मञ्जीरावेव हंसौ हंसावित्र नृपुरौ वा तान्या रणती शब्दायमाने पदे एव पद्मे पद्मे इव पदे वा यस्या सा। अत एव रूपकोपमयो साधकबाधकप्रमाणाभावात्संदेहसंकर. । रामा सुन्दरी भुवि कं पुरुष न वशीकुरुते न स्वायत्तीकुरुते । जितेन्द्रियमपि स्वायत्तीकुरुत इत्यर्थः । 'वश आयत्तताया च' इति विश्व । अभूततद्भावे च्चि । 'ऊर्यादिच्चि- डाचश्च' इति गतिसज्ञायाम् 'कुगतिप्रादय' इति समास । अत्र सुरसुपेत्यननु- वृत्ते । अत्र हाराणा कम्पितत्व विशेषणेन पयोधरयोरत्यन्तपटुत्वं सूच्यते अन्यथा कम्पनायोगात् । तेन चात्युत्कटयौवनसंपत्तिश्च गम्यते । पयोधरयोश्च गौरत्व- विशेषणेन रूपसमृद्धिय॑ज्यते । एतेनालम्बनगुणलाभ उक्त । एवं कुकुमपङ्केत्य- नेन तटस्थाद्दीपनभाव कथित । तथा हारनूपुरात्मकालम्बनालंकरणमभ्युट्टकि- तम् ,रणत्पदप त्यनेन सूचितो लीलागतिविशेषरूपानुभावश्च । तथा चैवंविध- सामग्रीसमुल्लसितेन 'आमिरूप्यमकाठिन्यमझाना चातिमार्दवम् । एवमादिगुणा- वस्था प्रथमे यौवने भवेत् ॥' इत्युक्त्वा 'कृताधराङ्गसस्कारा सखीकेलिषु लालसा' इत्युक्तचेष्टाविशिष्टयौवनपरिपूर्णेन रमयतीति रामेति व्युत्पत्त्या लोकोत्तरलावण्य- संपन्नेनालम्बन विभावेनोदिते शृङ्गाररसाणवे को वा न निमजतीति भावः । अन श्लाघ्य विशेषणयोगादुदात्ततानामा गुण. । लक्षणं तूक्तम् । तथात्यन्तसुकुमारार्थ- संदर्भितत्वात्कैशिकी वृत्तिः- 'अत्यन्तसुकुमारार्थसंदर्भा कैशिकी मता' इति लक्षणात् । दोधकवृत्तम् -'दोधकवृत्तमिदं भभभा गौ' इति लक्षणात् ॥ अथैतासां प्रागल्भ्यं वर्णयति- नूनं हि ते कविवरा विपरीतवाचो ये नित्यमाहुरबला इति कामिनीस्ताः। याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः॥ १० ॥ नूनमिति । ते कविवरा कवीश्वरा विपरीतवाचो व्यत्यस्तवचनाः नूनं सत्यं हि । ते क इत्याशङ्कायामाह-ये कविवरास्ताः प्रसिद्धा कामिनीः अबलाः दुर्बला इति नित्यमाहुःब्रुवते। वर्णयन्तीत्यर्थ ! त इति संबन्धः। 'ब्रुव. पश्चनामादित आहो २. शृङ्गारशतकम् । ब्रुवः' इति उसादेश । ब्रुव आहादेशश्च । कथं विपरीतवाच इत्याशक्य तासां प्रागल्भ्यं साधयति । याभिः कामिनीभिर्विलोलतरा अतितरलास्तारका कनी- निका येषु ते तथोक्ता ये दृष्टिपाता लोचनप्रसारास्तैदृक्प्रेरणै । 'कर्तृकरणयोस्तृ- तीया' इति तृतीया। 'तारकाक्ष्ण कनीनिका' इत्यमरः । शकादय इन्द्रादयोऽ. पि। किमुतान्य इति भाव । विजिता निर्जिता । वायत्तीकृता इत्यर्थ । तास्तु कामिन्य कथमबला कुतो दुर्बला । कितु प्रबला एवेत्यर्थः । वीक्षणमात्रेणैवे- न्द्राद्युजयिनीनां बलिष्ठत्वं कि वक्तव्यम् । अत एतासा दौर्बत्यप्रतिपादका कवय एव दुर्बलवाचो न तु ता इति भाव । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्या- र्थसमर्थकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकार -'हेतोाक्यपदार्थत्वे काव्य- लिङ्गमुदाहृतम्' इति लक्षणात् । वसन्ततिलकावृत्तम् ॥ अथ कामदेवस्य कामिनीकिकरत्वमुत्प्रेक्षते- नूनमाज्ञाकरस्तस्याः सुझुवो मकरध्वजः। यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ ११ ॥ नूनमिति । मकरध्वज कामदेवस्तस्या प्रसिद्धाया• पूर्वोक्ताया वा सुश्रुव कामिन्याः। जातावेकवचनम् । सुवामित्यर्थ । आज्ञा करोतीत्याज्ञाकर किकर । 'कृलो हेतु'- इत्यादिना टप्रत्यय । नूनमित्युत्प्रेक्षायाम् । कुतः । यत कारणा- त्तस्या सुभ्रुवो नेत्रसचारेण दृष्टिप्रसारेण सूचितेषु सज्ञापितेषु प्रवर्तते । यथा लोके स्वामिदृष्टिसूचिते भृत्यः प्रवर्तते तद्वदित्यर्थ । अतः कामिनीना नूनमयं किंकर इति भावः। कामिनीकटाक्षमात्रेणैव जनस्य मन्मथावेशसंभवादियमु- त्प्रेक्षा । सा च नूनमिति व्यञ्जकसद्भावाद्वाच्या। तदुक्तम्-'मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभि । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृश ॥' इति । एतेन तासामप्रतिहतजगद्वशीकरणसामर्थ्य व्यज्यते । अनुष्टुप् ॥ अथ रागिण. श्लेषवैचित्र्यात्कामिनीप्रशंसापर वचनं संबोधनमभिधायाह द्वाभ्याम्- केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने अन्तर्वक्रमपि स्वभावशुचिभिः कीर्ण द्विजानां गणैः। मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमा- वित्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥१२॥ केशा इति । केशा शिरोरुहा. संयमिन संयताः सम्यडियमवन्तश्च । लोचने अपि श्रुते. परं पार कर्णान्तविश्रान्तत्वं वेदान्तपरिशीलनतात्पर्य च गते । अन्त- र्वकं वाभ्यन्तरमपि स्वभावतः निसर्गाच्छुचिभि शुभैः पवित्रैश्च द्विजाना दन्तानां विप्राणां च । 'दन्तविप्राण्डजा द्विजा.' इत्यमरः । गणै कीर्ण व्याप्तम् । इमौ एतौ इति हस्तनिर्देशः । वक्षोजकुम्भौ कुचकुम्भौ मुक्ताना मौक्तिकहाराणा जीवन्मुक्तानां च सतताधिवासेन निरन्तरावस्थानेन संततनिवासेन च रुचिरौ सुभाषितत्रिशत्यां .. 'मुक्ता तु मौक्तिके मुक्त 'प्राप्तमुक्तौ तु मोचित ' इत्युभयत्रापि विश्व । अत. हे तन्वि, इत्थमुक्तप्रकारेण ते वपु. शरीरं प्रशान्तं प्रसन्नम् । वैराग्यसाधनसंप- त्तिमदपीति यावत्। 'वा दान्त-'इत्यादिना निपात । नोऽस्माकं रागमनुरक्तिम् । संभोगाभिलाषमेवेति यावत् । करोति उत्पादयति । न तु वैराग्यमिति विरोध । स चोक्तरीत्या आभासितत्वाद्विरोधाभासोऽलंकार --'आभासत्वे विरोधस्य विरो- धाभास इष्यते' इति लक्षणात् । स च श्लेपप्रतिभोत्थापित इति तयोरङ्गाङ्गि- भावेन सकर । लोचने अन्तर्वक्रमित्यत्र प्रगृह्यत्वात्प्रकृतिभाव.। 'ईदूदेधि- वचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञा । शार्दूलविक्रीडितम् ॥ मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते । यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ १३ ॥ मुग्व इति । धनु प्रहरणमस्य धानुष्कः धन्वी । 'प्रहरणम्' इति ठक् । 'इमु. सुक्तान्तात्क' । 'धन्वी धनुप्मान्धानुष्क ' इत्यमरः । तस्य भावस्तत्ता। हे मुग्धे सुन्दरि । 'मुग्ध सुन्दरमूढयो.' इत्यमर । यद्वा हे उदयद्यौवनभावे, त्वय्यपूर्वी अदृष्टचरा । असावारणीति यावत् । वानुष्कता दृश्यते । इयं धानुष्कता का की- दृशी । न ज्ञायत इत्यर्थ । कुत । यया धानुष्कतया हेतुना चेतासि युवजनम- नांसि । दुर्लक्ष्याणीति भाव । गुणा मौर्यो रूपयौवनादयश्च । तैरेव विध्यसि संप्रहरसि । सायकै बाणैस्तु न विभ्यसि । यत लोके धानुष्काः प्रौढा एवं सुल क्ष्याण्येव लक्ष्याणि बाणैरेव विध्यन्ति, त्वं तु मुग्धापि दुर्लक्ष्याण्यपि लक्ष्याणि मौर्वीभिरेव विध्यसीति कृत्वा त्वदीयधानुष्कताया अपूर्वत्वादशेयत्वमिति भाव । स्त्रीणां रूपयौवनगुणसपत्तिरेव परप्रहरणसाधनमिति फलितार्थ । अत्र पूर्ववाक्या- र्थस्योत्तरवाक्यार्यसमर्थितत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । तच्च गुणयो श्लेषभि- त्तिकाभेदाध्यवसायमूलातिशयोक्तिनियूंढमित्यनयोरङ्गाङ्गिभावेन सकर । तेन च प्रसिद्धाद्धानुष्कादुपमानादुपमेयभूतमुग्धाया आधिक्यप्रतीतेर्व्यतिरेको व्यज्यत इत्यलंकारेणालंकारध्वनि । अनुष्टुप् ॥ अथाविशतिसमाप्ति कामिन्युद्देशेनोक्तान्यत्सन्तानुरागिणा प्रशंसावचना- न्याह- सति प्रदीपे सत्यग्नौ सत्सु तारामणीन्दुषु । विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ १४ ॥ सतीति । प्रदीपे अर्थप्रकाशदीप्तार्चिषि सति विद्यमानेऽपि । अग्नौ तथाभूते वह्नौ च सत्यपि । 'सत्य' इति पाठे त्रिलोकप्रकाशके सूर्ये सत्यपि तथा तारा- मणीन्दुषु तिमिरनिरासकत्वेन प्रसिद्धेषु नक्षत्रपद्मरागादिमाणिक्यचन्द्रेयु सत्स्वपि तया प्रसिद्धया पूर्वानुभूतथा वा मृगशावस्य बालहरिणस्येवाक्षिणी यस्यास्तया प्रियतमया विना । 'बहुव्रीहौ सक्थ्यक्ष्णोः खाशात्षच्' ।' षिगौरादिभ्यश्च' इति डीप । इदं जगन्मे मम तमोभूतमन्धकारमयम् । लक्ष्यत इति शेषः । तस्या एव मम नयनज्योतिष्ट्वादिति भाव । अत्रान्धकारनिराकरणसमर्थत्वेन प्रसिद्ध प्रदीपा- २.शृङ्गारशतकम् । ६५ दिकारणसमुदाये सत्यपि तन्निरासरूपकार्यानुत्थानाद्विशेषोक्तिरलंकारः-'तत्सा- मय्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् । तथा प्रदीपादिसद्भावेऽपि तमोभूतत्वमिति विरोधश्च व्यज्यते । तेन चास्य महामोहान्धत्वं वस्तु गम्यत इत्यलंकारेण वस्तुध्वनिः । वृत्तं पूर्ववत् ॥ उदृत्तः स्तनभार एष तरले नेत्रे चले भूलते रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावलिः केन वा ॥ १५ ॥ उद्वृत्त इति । उद्धृत्तोऽत्यन्तवर्तुल उत्पथगतश्च । एप इति पुरोवर्तिनो हस्त- निर्देश । स्तनभारश्च । तरले लीलाविलोले चपले चेति गम्यते । नेत्रे । चले रेचितादिविलासचञ्चले स्थैर्यविहीने च भूलते च । रागेन लौहित्येन मात्सर्येण चाधिष्ठितम् । तद्भूयिष्ठमित्यर्थः । 'रागश्च रक्ते मात्सर्ये क्लेशादौ लोहितेषु च' इत्यु- भयत्रापि विश्वः शाश्वतश्च । इदमिति निर्देशः । ओष्ठपल्लवं अधरकिसलयं चेत्ये- तानीति शेष । व्यथा मन पीडा कुर्वन्तु । नामेति कुत्सायाम् । खलाना परपी- डाकरणस्य खाभाविकत्वादिति भाव । कितु पुष्पायुधेन कामदेवेन स्वयं स्वहस्तेन लिखिता सौभाग्याक्षरमालिका सौभाग्यव्यञ्जकपुण्यवर्णपतिरिव स्थितेत्युत्प्रेक्षा । तथा मध्यस्था अवलमप्रदेशविलम्मा तटस्थापि सा रोमावलि रोमराजि- केन वा हेतुना अविकं तापं करोति मन सतापयति । विशिष्टतटस्थस्य परसतापकरणा- नौचित्यादिति भावः । अत्र पूर्वाधं उद्धृत्तत्वादिपदार्थानां श्लेषभझ्या खाभाव्येन च विशेषणगत्या पीडाकरणं पदार्थ प्रति हेतुत्वकथनात्पदार्थहेतुकमेकं काव्य लि- गम् । उत्तरार्धे तु तटस्थपदार्थस्य श्लेषभङ्यैव केन संतापयतीत्याक्षेपपदार्य प्रति हेतुत्वकथनादपरं च । तच्चोक्तोत्प्रेक्षया सापेक्षितत्वात्सकीर्णम् । तत्पूर्ववाक्यकाव्य- लिङ्गेन नैरपेक्ष्यात्ससृज्यत इत्यनयो सजातीयससृष्टि । एतेन स्तनभारादेर्लोको- त्तरलावण्यसंपन्नत्वमत्यन्तजनसंमोहकत्वेन सूच्यते । शार्दूलविक्रीडितं वृत्तम् ॥ मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहै। कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ १६ ॥ मुखेनेति । चन्द्रकान्तेन इन्दुसुन्दरेण चन्द्रकान्तमणिरूपेण चेति गम्यते। मुखे- न च महानीलैरतिमेचकै सिंहलद्वीपसंभवेन्द्रनीलैश्च शिरोरुहै. कुन्तलैश्च । 'सिं- हलस्याकरोद्भूता महानीलास्तु ते स्मृता' इति भगवानगस्त्य । तथा पद्मस्य राग इच रागो ययोस्तौ ताम्या पद्मरागरूपाभ्या च कराभ्याम् । सा सुन्दरी रत्नमयीव रत्नरूपेव रेजे । 'तत्प्रकृतवचने मयद' 'टिड्डाणञ्-' इत्यादिना डीप् । अनुष्टुप् ॥ गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ १७ ॥ गुरुणेति । गुरुणा दुर्भरेण गीष्पतिरूपेण च । 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पिनरि ६६ सुभाषितत्रिशत्यां दुर्भरे' इत्युभयत्रापि शब्दार्णवे । स्तनभारेण च भाखता प्रकाशवता भास्करेण च । 'भावान् भास्करसूर्ययोः' इति विश्वः । मुखमेव चन्द्रस्तेन च । शनैश्चराभ्यां मन्दगमनाभ्यां शनैश्चराख्यग्रहाभ्यां पादाभ्यां च सा ग्रहमयीव रेजे । प्रक्रि- या तु पूर्ववत् । अत्र श्लोकद्वयेऽपि श्लेषमहिन्ना रत्नमयत्वग्रहमयत्वोत्प्रेक्षणात श्लेपसंकीर्णेयमुत्प्रेक्षा तया चास्या लोकोत्तराकाररूपलावण्यसौन्दर्यकान्तिविशेष- भाग्यसौभाग्यादिसकलकल्याणगुणाभिरामत्वं गम्यते । एतच्च मदीयशृङ्गारशृङ्गा- टके रुक्मिणीवल्लभव्याख्याने 'निधिमयी ग्रहमयी' इत्यत्र विस्तरेण प्रपञ्चितमि- तीहोपरम्यते । अनुष्टुपू॥ तस्याः स्तनौ यदि घनौ जघनं च हारि वत्रं च चारु तव चित्त किमाकुलत्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना न हि भवन्ति समीहितार्थाः॥ १८ ॥ तस्या इति । तस्यास्तरुण्याः स्तनौ धनौ निबिडौ यद्यपि । जघनं कटिपुरोभा- गश्च हारि मनोहारि यद्यपि । 'स्त्रीकट्याः क्लीबे तु जघनं पुरः इत्यमरः । वक्र च चारु मनोज्ञ यद्यपि । हे चित्त, तव आकुलत्वं लोलुपत्वं किं किमर्थम् । मास्त्वि- त्यर्थः । तावन्मात्रेणासंभवादिति भावः । तर्हि किं कर्तव्यमित्यत आह-तेपु स्तनादिषु तव वाञ्छा संभोगाभिलाषोऽस्ति यदि वर्तते चेत्, तर्हि पुण्यं सत्कर्म कुरुष्व समाचर । कुत । पुण्यविना समीहितार्था वाञ्छितार्था न भवन्ति हि खलु । ज्योतिष्टोमादिसत्कर्माचरणेन रम्भासंभोगवत्केनचित्पुण्य विशेषेण तवापि तत्सं- भोगः संभविष्यतीति भावः । अर्थान्तरन्यासालंकारः । वसन्ततिलका ॥ अथ विलासवर्णनं निगमयति- इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत- प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः । चिरं चेतश्चोरा अभिनव विकारैकगुरवो विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ १९॥ इमे इति । तारुण्यत्रियो यौवनसंपदो नवपरिमला नूतनपरिमलप्राया. । तद्वद- मिव्यञ्जका इत्यर्थः । यद्वा तारुण्यश्रियो नवोऽपूर्व परिमलः सौभाग्यविशेषो येषां ते तथोक्ताः । प्रौढसुरतं प्रचण्डरतिस्तत्र यः प्रतापः सामर्थ्य तस्य प्रारम्भा उप- क्रमाः स्मरस्य जगज्जित्वरस्य मन्मथस्य विजयदाने प्रतिभुवः लग्नकाः। 'स्युलग्नकाः प्रतिभुवः' इत्यमरः । यथा प्रतिभुवः अधमर्णात् धनमुद्धृत्य उत्तमर्णाय दातुं सम- स्तिथा इमेऽपि दिग्विजयमाकृष्य स्मराय दातुं समर्था इत्यर्थः । चिरं चिर. कालमारभ्य चेतश्चोराः चित्ताकर्षकाः । मनोहरा इति यावत् । अभिनवविकारै- राकस्मिकभय कम्पानुकरणादिप्रत्यग्रयौवनविकारैरेकगुरवोऽत्यन्तभूयिष्ठा मृगदृशां तरुणीनां संबन्धिन इमे पूर्वोपवर्णिता विलासव्यापाराः शृङ्गारचेष्टाविशेषाः किमपि - २. शृङ्गारशतकम् । : ब्रुवः' इति उसादेशः । ब्रुव आहादेशश्च । कथं विपरीतवाच इत्याशङ्कय तासां प्रागल्भ्यं साधयति । यामिः कामिनीभिर्विलोलतरा अतितरलास्तारकाः कनी- निका येषु ते तथोक्ता ये दृष्टिपाता लोचनप्रसारास्तैदृक्प्रेरणैः । 'कर्तृकरणयोस्तृ- तीया' इति तृतीया। 'तारकाक्ष्ण. कनीनिका' इत्यमरः । शकादय इन्द्रादयोऽ- पि। किमुतान्य इति भावः । विजिता निर्जिताः । वायत्तीकृता इत्यर्थः । तास्तु कामिन्यः कथमवलाः कुतो दुर्बलाः । किंतु प्रवला एवेत्यर्थः । वीक्षणमात्रेणैवे- न्द्रायुज्जयिनीनां बलिष्ठत्वं किं वक्तव्यम् । अत एतासां दौर्बल्यप्रतिपादकाः कवय एव दुर्बलवाचो न तु ता इति भावः। अत्रोत्तरवाक्यार्थस्य पूर्ववाक्या- र्थसमर्थकत्वाद्वाक्यार्थहेतुकं काव्यलिजमलंकारः-'हेतोर्वाक्यपदार्थत्वे काव्य- लिङ्गमुदाहृतम्' इति लक्षणात् । वसन्ततिलकावृत्तम् ॥ अथ कामदेवस्य कामिनीकिंकरत्वमुत्प्रेक्षते- नूनमाज्ञाकरस्तस्याः सुभुवो मकरध्वजः। यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ ११॥ नूनमिति । मकरध्वजः कामदेवस्तस्याः प्रसिद्धायाः पूर्वोक्ताया वा सुभ्रवः कामिन्याः । जातावेकवचनम् । सुभ्रवामित्यर्थः । आज्ञां करोतीत्याज्ञाकरः किंकरः । 'कृतो हेतु'- इत्यादिना टप्रत्ययः । नूनमित्युत्प्रेक्षायाम् । कुतः । यतः कारणा- तस्याः सुश्रुवो नेत्रसंचारेण दृष्टिप्रसारेण सूचितेषु संज्ञापितेषु प्रवर्तते । यथा लोके स्वामिदृष्टिसूचिते भृत्यः प्रवर्तते तद्वदित्यर्थः । अतः कामिनीनां नूनमयं किंकर इति भावः। कामिनीकटाक्षमात्रेणैव जनस्य मन्मथावेशसंभवादियमु- त्प्रेक्षा । सा च नून मिति व्यञ्जकसद्भावाद्वाच्या। तदुक्तम्-'मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥' इति । एतेन तासामप्रतिहतजगद्वशीकरणसामर्थ्य व्यज्यते । अनुष्टुप् ॥ अथ रागिणः श्लेषवैचित्र्यात्कामिनीप्रशंसापरं वचनं संबोधनमभिधायाह द्वाभ्याम्- केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने अन्तर्वक्रमपि स्वभावशुचिभिः कीर्ण द्विजानां गणैः। मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमा- वित्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः॥१२॥ केशा इति । केशाः शिरोरुहाः संयमिनः संयताः सम्यनियमवन्तश्च । लोचने अपि श्रुतेः परं पारं कर्णान्तविश्रान्तत्वं वेदान्तपरिशीलनतात्पर्य च गते । अन्त- र्वकं वक्राभ्यन्तरमपि खभावतः निसर्गाच्छुचिभिः शुभैः पवित्रैश्च द्विजानां दन्तानां विप्राणां च । 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । गणैः कीर्ण व्याप्तम् । इमौ एतौ इति हस्तनिर्देशः । वक्षोजकुम्भौ कुचकुम्भौ मुक्तानां मौक्तिकहाराणां जीवन्मुक्तानां च सतताधिवासेन निरन्तरावस्थानेन संततनिवासेन च रुचिरौ सुभाषितत्रिशत्यां son कान्तौ' इति विश्व । विचचार सचवार । केलीवनसचारस्य विरहिजन विनोदो- पायत्वादिति भाव । कथंभूता सती। करोद्धृतेन हस्तोत्क्षिप्तेन स्तनोत्तरियेण कुचकुम्भाच्छादनपटाञ्चलेन शशिनश्चन्द्रस्य मयूखान्किरणान् । आतपानिति यावत् । निवारयन्ती निराकुर्वन्ती । ग्रीष्मोन्मणो व्यजनेनेवेति भाव । चन्द्र- किरणाना विरहिणीजनसतापकरत्वात्तनिवारणोक्ति । एतेन दशावस्थापक्षे षष्ठी म- न्मथावस्था । तथा च चतुर्थी जागारावस्था । तथा उत्तरीयेण शशिमयूखानामनि- वारणीयत्वविवेकाभावाञ्चित्तविभ्रमप्रतीते कामशास्त्रोक्तद्वादशावस्थापक्षे दशमी उन्मादावस्था सूच्यते । तन्वीत्यनेन कार्यावस्था च कथिता । तदुक्तमू- 'दृङ्मन सगसकल्पो जागर. कृशता रति । ह्रीत्यागोन्मादमूर्छान्ता इत्यनङ्ग- दशा दश ॥' इति । कामशास्त्रोक्तास्तु-चक्षु प्रीतिर्मन सङ्ग. संकल्पोऽथ प्रला- पिता । जागर कार्यमरतिर्लज्जास्यागोऽथ सज्वर । उन्मादो मूर्च्छनं चैव मरणं चरमं विदु ॥' इति । इयं च विरहोत्कण्ठिता--'चिरयत्यधिकं कान्ते विरहो- त्कण्ठितोन्मना' इति लक्षणात् । उपजातिवृत्तम् ॥ अथ संभोगशृङ्गारः । स च बाह्याभ्यन्तरभेदेन द्विविध.। वात्स्यायनेनाप्यस्य द्विविधस्यापि प्रकारान्तरेण द्विविधत्वमुक्तम्- 'बाह्यमाभ्यन्तरं चेति सुरतं द्वि- विधं स्मृतम् । तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम् । द्वितीयं सुरतं साक्षान्ना- नाकरणकल्पितम् ॥' इति । तत्र प्रथमालिङ्गनरूपं सोपस्करमाह द्वाभ्याम्- अदर्शने दर्शनमात्रकामा दृष्टा परिष्वङ्गसुखैकलोला। आलिङ्गितायां पुनरायताया- माशास्महे विग्रहयोरभेदम् ॥ २२ ॥ अदर्शन इति । अत्र यत्तच्छन्दाध्याहारेणान्वय कार्य. । अदर्शने प्रियतम- विषयकदर्शनाभावे सति । क्वचित्प्रसज्यप्रतिषेधेऽपि नसमास इष्यते । यथा अद- र्शनमश्रवणमभाषणमनुच्चारणमित्याद्यभियुक्तोक्ते । दर्शनमात्र एव कामोऽभिलाषो यस्या सा तथोक्ता । तावन्मात्राभिलाषिणीत्यर्थ । ततो दृष्ट्वा । प्रियतममिति शेष । परिष्वङ्गसुखे आलिङ्गनजनितसुखे एकं मुख्यं यथा तथा लोला सतृष्णा। 'लोलश्चलसतृष्णयो' इत्यमर । या । आयताक्षीति शेष । तस्या आयताक्ष्यां कर्णान्तविश्रान्तलोचनाया प्रियतमायां पुनरालिहितायां संपरिष्वक्तायां सत्याम् । विग्रहयो शरीरयो । 'शरीरं वम विग्रह ' इत्यमर । अभेदं ऐक्यं आशास्महे। तादृग्गाढालिङ्गनसुखमनुभवितुमभिलषामहे इत्यर्थ । 'तद्यथा प्रियया स्त्रिया सप- रिष्वक्तो न बाह्यं किचन वेद नान्तरमेवमेवाय पुरुष' इत्यादिश्रुते । प्रियतमगाढा- लिङ्गनपरिष्वङ्गविगलितवेद्यान्तरत्वेन ब्रह्मानन्दसब्रह्मचारिसुखविशेषसभवात्तथा- विधालिङ्गनाशंसनं युक्तमेवेति भाव । तदुक्तं रतिहरस्ये 'तत्सौख्यं परतत्त्ववेदन- २. शृङ्गारशतकम् । महानन्दोपमं मूढधी को वा निन्दति सूक्ष्ममन्मथकलावैचित्र्यमूढो जनः' इति । अन्यत्राप्युक्तम्-'प्रौढालिङ्गनचुम्बनामितसुखं प्रच्छन्नवेद्यान्तरम्' इति । वृत्तं पूर्ववत् ॥ एवं परमानन्दानुसंधायकत्वेन परिष्वङ्गस्यापवर्गत्वमुक्त्वा संप्रति वर्गरूप- स्वमाह- मालती शिरसि जृम्भणं मुखे चन्दनं वपुषि कुङ्कुमाविलम् । वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः॥२३॥ मालतीति । शिरसि मालती। जातीकुसुममालिकेत्यर्थ. । 'सुमना मालती जाति.', 'पुष्पे जातीप्रभृतयः' इत्युभयत्रा'यमर । 'पुष्पमूलेषु बहुलम्' इति लुक । मुखे जृम्भणं मदनमदजनितजृम्भश्च । 'जृम्भस्तु त्रिषु जृम्भणम्' इत्य- मरः । यद्वा संभोगौत्सुक्यसूचकरागविलासस्फूर्तिश्च । वपुषि कुड्डुमाविलं काश्मी- रजमिश्रितं घुसृणरसमसृणितं वा चन्दनं पाटीरपङ्कं च । वक्षसि मदालसा मदेन मन्थरा प्रियतमा गाढालिङ्गितमत्तकाशिनी च । इत्येषोऽयं समुदाय वर्गः खर्गशब्दवाच्य आगम । एतयतिरिक्तस्वर्गाभिधायकशास्त्रं तु परिशिष्टः सदा- नभिज्ञत्वादमुख्य । स्वर्गपदवाच्यमुख्यार्थबोधशून्य इत्यर्थः । अन्यथैतत्स्वर्गत्वे- नैव वदेदिति भावः । स्वर्गसमानसौख्यप्रदोऽयमेवेति परमार्थ. । रथोद्धताव- त्तम्-‘रानराविह रथोद्धता लगौं' इति लक्षणात् ॥ अथाभ्यन्तरसंभोगं वर्णयितुमुपक्रमते- प्राडया मेति मनागनागतरसं जाताभिलाषं ततः सबीडं तदनु श्लथोद्यममथ प्रध्वस्तधैर्य पुनः । प्रेमाई स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो निःसङ्गाङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ २४ ॥ प्रागिति । प्राक् प्रारम्भे मनाक् अल्पं मा मेति मास्तु मास्त्विति निषेधवचनेन अनागत अनुत्पन्न. रसोऽनुरागविशेषो यस्मिंस्तत् । मौग्ध्यादिति भाव । ततो निषेधानन्तरं जातोऽङ्कुरितोऽभिलाषो वाञ्छा यस्मिस्तत्तथोक्तम् । तदन्वभिलाषा- नन्तरम् । 'अनुर्लक्षणे' इति कर्मप्रवचनीयवाद्वितीया। नीवी विस्रंसनादिषु मन्दों- द्यमनभावो ब्रीडा तया सह सव्रीडम् । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । 'वोपसर्जनस्य' इति सहशब्दस्य सलम् । अथ व्रीडानन्तरं श्लथोद्यम निराकरणे शिथिलप्रयत्नम् । पुनरुधमनाभावानन्तरम् । पुन शब्दोऽत्रानन्तर्यार्थक । प्रध्वस्तं विगलित धैर्य प्रातिलोम्यलक्षणं यस्मिस्तत्तथोक्तम् । अङ्गीकृताभिमुख्यमित्यर्थ । तत प्रेमाई प्रणयरसपरिप्लुतम् । तत स्पृहणीया अन्योन्यममिलषणीया निर्भरा उद्वेलाश्च या रह क्रीडा एकान्तकेलय.। विस्तम्भ विहारा इत्यर्थ. । ताभिः प्रगल्भं प्रौढम् । ततो नि सङ्गे वा प्रतिवन्धेन अङ्गावकर्षणेन कुचाद्यवयवमर्दनेन अधिक ।
सुभाषितत्रिशत्यां सुखं परमानन्दो यस्मिस्तत्तथोक्तम् । कुलस्त्रीरतं खस्त्रीसंभोगः रम्यं सुन्दरम् । अत्यन्तमनोहरमिति यावत् । एतच्च प्रथमसमागमपरत्वेन द्रष्टव्यम् । अन्यथोक्त- व्यवहारासभवादिति भावः । कुलशब्दव्यावृत्तिसभोगत्वादित्यारभ्य (१) प्राग- भ्यघटितत्वेनोक्तविलक्षणत्वादन्यादृशो द्रष्टव्य । नायिका तु मुग्धा । नायकस्तू- त्तमोऽनुकूल. कामतन्त्रेषु निपुण । अन्यथोक्तक्रमसभोगासभवादिति मन्तव्यम् । सभोगलक्षणमुक्तं रतिरहस्ये-'अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्श- नस्पर्शनादीनि स सभोग उदाहृत ॥ इति । अत्र मा मेति वागारम्भसूचितैरनु- भावैर्जाताभिलाषमित्युक्तेन रत्याख्यस्थायिभावेन सव्रीडमित्यनेनोपलक्षित सचा- रिभावैः अविशिष्टैर्विशेषणैर्यथायथ मानैरनुभावादिविशेषैः कुलस्त्री इत्युक्तेनाल- म्बनविभावेन प्रतीयमानो रससार्वभौम. शृङ्गारो नि सङ्गाङ्गविकर्षणाधिकसुख- मित्यनेन परितोषातिशयं प्राप्नोतीति वेदितव्यम् । शार्दूलविक्रीडितम् ॥ अथ यदुक्तम् 'नानाकरणकल्पितम्' इति, तत्र नानाकरणानि धैनुकादिव- न्धविशेषा । तेषा मध्ये एकं बन्धविशेषं विवक्षुस्तदनुकूलमुपरिसुरतमाह- उरसि निपतितानां सस्तधम्मिल्लकानां मुकुलितनयनानां किंचिदुन्मीलितानाम् । उपरिसुरतखेदस्विन्नगण्डस्थलाना- मधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ २५॥ उरसीति । उरसि निपतितानां पुरुषायितबन्धवशाद्वक्षःस्थलमधिष्ठितानाम् । अतएव स्रस्तधम्मिल्लकाना रतिरभस विश्लथकचप्रचयानाम् । 'धम्मिल्ल संयताः कचा' इत्यमर । मुकुलितनयनाना सुखपारवश्यालज्जानुभावानुकरणाद्वा विनि- मीलितलोचनानाम् । तथापि किचिदुन्मीलिताना ईषन्मुकुलितलोचनानाम् । अन्यथा अनौचित्यादिति भावः । अतएव उपरिसुरते य. खेद. श्रमस्तेन खि- नानि खेदाणि गण्डस्थलानि यासा तासाम् । 'श्रम खेदो हि रत्यादेर्जातः खेदादिभूमिकृत्' इति लक्षणात् । वधूना प्रियतमानां संबन्धि अधरमधु अध- रामृतं भाग्यवन्त भाग्यशालिन. पिबन्ति । स्त्रीमुखस्य निजमुखसामुख्यादक्ले- शेनाधरं चुम्बन्तीत्यर्थ । एतच्च पुण्यकृतामेव सभवति, न त्वन्येषामत एव भाग्यवन्त इत्युक्तम् । तथा बाह्यसुरतविशेषरूपमपि चुम्बनमारभ्याभ्यन्तरा- गतया कथितमित्यवगन्तव्यम् । पुरुषायितलक्षणमुक्तं रतिरहस्ये-'स्वेच्छया श्रमिणि वल्लभे तथा योषिदाचरति पूरुषायितम्' इति । नायिकास्तु प्रगल्भा 'स्मरमन्दीकृतव्रीडा प्रौढा सपूर्णयौवना' इति लक्षणात् । नायिका. कामतत्त्व- कुशला अनुकूलाश्च । स्वभावोक्तिरलंकार --'स्वभावोक्तिरसौ चारु यथावद्वस्तु- वर्णनम्' इति लक्षणात् । मालिनी वृत्तम् ॥ अथ ज्ञानपूर्वक एव सुरतानुभवः सार्थकः, न त्वन्य इत्याह- आमीलितनयनानां यः सुरतरसोऽनु संविदं भाति । मिथुनैमिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥ २६ ॥ - .
२. शृङ्गारशतकम् । ७१ - - आमीलितेति । आमीलितनयनानां सुखपारवश्याद्दरमुकुलितनयनानां यूनां य सुरतरस सुरतास्वाद संविदं अनु ज्ञानमनुसृत्य भाति । अयमेतादृश इति ज्ञानगोचरतया प्रतिभातीत्यर्थ । इदमेव ज्ञानपूर्वकसुरतानुभवप्रतिभानमेव अवि- तथं अव्यर्थम् । सार्थकमित्यर्थ । कामस्य मन्मथस्य कामपुरुषार्थस्य वा निर्वहणं प्रतिष्ठापनम् । उज्जीवनमिति यावत् । न त्वन्यदाभासत्वादिति भाव । मिथुनै. रसह स्त्रीपुरुषै । 'स्त्रीपुंसौ मिथुनं द्वन्द्वम्' इत्यमर । मिथोऽन्योन्यं अवधारितं निश्चितम् । अनुभविनामेवार्थनिश्चयसभवादिति भाव । ज्ञानपूर्वकसुरतानुभव एव कामपुरुषार्थ इति फलितार्थ । अत इत्थंभूतसुरतमेव कर्तव्यम्, न त्वन्या- दृशम् । तस्य क्लेशमात्रफलकत्वादिति तात्पर्यम् । आर्यावृत्तभेद ॥ अथ सुरतावधि कथयनिगमयति- इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः। तदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ २७ ॥ इदमिति । इहास्मिल्लोके पुंसामिदमनुचितं अन्याय्यं अक्रमो निर्मर्यादा च । किमिदमित्याशङ्कायामाह-जरासु । वार्यकावस्थास्वपीत्यर्थ । मान्मथा विकाराः सुरतव्यासङ्गा कृता इति यत् । इदमिति संबन्ध । कितु यौवनावधिकसुरत- मेव न्याय्य मर्यादागोचरं चेत्यर्थः । तदुपरिवर्तिसुरतस्याभासत्वादिति भाव । तथा नितम्बिनीनां स्त्रीणां च तदनुचितम् । किं तदित्यत आह-स्तनपतनं अवधिः मर्यादा यस्य तत्तथोक्तं जीवितं जीवनं वा रतं वा सुरतं वा न कृतमिति यत् । ब्रह्मणेति शेष । तदिति सबन्ध । स्त्रीणा तावत्स्तनपतनावधिकमेव जीवनं कर्तव्यं, सुरतमपि तदवधिकमेव, अन्यथा 'तारुण्यं पञ्चपञ्चाशदवधि परतो वृद्धतामेति नारी' इति कामशास्त्रोक्तेर्वृद्धानां संभोगानहत्वात् , 'त्यजेद- न्यकुलोद्भूतां वृद्धस्त्री कन्यका त्यजेत्' इति निषेधस्मरणात् , 'आलिङ्गनं लम्ब- पयोधराणा स्त्रीणा च दु खं त्रयमेव भूमौ' इति लम्बस्तननितम्बिनीसंभोगस्य दुःखरूपत्वाचेति भाव । यथाह माघ 'अयमतिजरठाः प्रकामगुर्वीरलघुविल- म्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपा परिणतिदिकरिकास्तटीर्बिभर्ति ॥' इति । अत्र स्त्रीणा पुरुषाणां च यौवनकृतसुरतमेव रमणीयमिति तात्पर्यम् । पुष्पिताग्रावृत्तम्-'अयुजि न युगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताना' इति लक्षणात् ॥ यदुक्तं सुरतानुगुण्येन यौवनस्यात्यन्तावश्यकत्वं तत्रिभिर्वर्णयति । तत्रादौ चिरप्रवासनिर्विण्णाना राजसेवातत्पराणा यूना वचनमेतत्- राजस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं को वार्थोऽथैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे। - सुभापितत्रिशत्यां गच्छामः सम तावद्विकसितकुमुदेन्दीवरालोकिनीना- माक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम्॥२८॥ राजनिति । हे राजन् , जगति अस्मिल्लोके कश्चिदेव कश्चिदपि पुमान् । तृष्णा धनलिप्सा सा एवाम्बुराशि. समुद्रस्तस्य अवसानं पारं न गतो हि न प्राप्त खलु । कितु मग्न एवेत्यर्थं । तृष्णाया अपरिच्छिन्नत्वादम्बुराशित्वरूप- णम् । अथ यावत्कासितार्थलामेऽपि न तै. प्रयोजनसिद्धिरित्याहु । प्रभूत. प्रचुरै । 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमर । अथर्धनैः को वार्थ कि प्रयोजनम् । न किमपीत्यर्थ । अकिचित्करत्वादिति भाव । 'अर्थोऽभिधेयरैवस्तुप्रयोजन- निवृत्तिषु' इत्यमर । कस्सिन्कथंभूते सति । स्ववपुषि निजशरीरे ( अधिकरणे ) सानुरागे सभोगेच्छाजनके अनुरागसहिते वा यौवने गलिते सति कोऽर्थ इति सबन्ध । धनलाभादपि यौवनमेवास्माक बलीय इत्यर्थ । अतस्तावत्तत्पूर्वमेव सद्म स्वगृहं प्रति गच्छामो यास्याम । यावत् यदवधि विकसितानि उत्फुल्लानि कुमुदानि कैरवाणि इन्दीवराणि नीलोत्पलानि च तत्सदृशान्यालोकानि नेत्राणि आसा सन्तीति तथोक्तानाम् । सितासिताब्जदलमनोहरनयनानामित्यर्थ । 'सिते कुमुदकैरवे । इन्दीवरं च नीलेऽस्मिन्' इत्युभयत्राप्यमर । प्रेयसीना प्रियत- माना सबन्धि रूपं यौवनप्रयुक्तसौन्दर्य जरया आक्रम्याक्रम्य झटिति अञ्जसा । 'स्याज्झटित्यजसाहाय' इत्यमर । न लुप्यते न ह्रियते । तावदिति संबन्ध । अन्यथा शशकापाये बिलखननवद्गमननैष्फल्यादृद्धस्त्रीगमननिषेधाच्चेति भावः । यावत्तावच साकल्येऽवधौ मानेऽवधारणे' इत्यमर । स्रग्धरावृत्तम् ॥ अथानर्थमूलमाह- रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतु- र्मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य । कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥२९॥ रागस्येति । रागस्य मात्सर्यस्य एकं अगार मुख्यायतनं अनुरागैकस्थानमिति वा। तथा नरकशतेषु निरयपरम्परासु यानि महादु खानि तीव्रयातनास्तेपासप्रा- प्तिहेतु प्राप्तिसाधनम्। अगम्यागमनादिदुष्कर्मप्रवर्तकत्वादिति भाव ।मोहस्य ख्य- न्तरासक्तिरूपस्य उत्पत्तिबीजं जन्मकारणम् । 'हेतुर्ना कारणं बीजम्' इत्यमरः । ज्ञानताराधिपस्य प्रबोधचन्द्रस्य जलधरपटलं अभ्रवृन्दम् । ज्ञानप्रकाशप्रतिबन्धक- मित्यर्थ । कन्दर्पस्य कामदेवस्य एकं मित्रं मुख्यबन्धु । तदुद्रेककमित्यर्थ ।प्रकटितो विविधो नानाविधः स्पष्ट. प्रकाशश्च दोषप्रबन्ध पातकसबधो यस्य तत्तथोक्तम् । यद्यौवनमिति शेष. । अतोऽस्मिंल्लोके तस्माद्यौवनादन्यत् इतरत् अनर्थानामुक्तवि- धानां ब्रजस्य समूहस्य कुलभवनं उत्पत्तिनिकेतनं नास्ति हि । इदमेवात्यन्तान- .
२. शृङ्गारशतकम् । man र्थमूलमित्यर्थ । तदुक्तम्-'यौवनं धनसंपत्ति. प्रभुत्वमविवे किता । एकैक्रमप्य्- नर्थाय किमु यत्र चतुष्टयम् ॥' इति । वृत्तं पूर्ववत् ॥ इत्थभूते यौवने कश्चिदेव निर्विक्रिय इत्याह- शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि प्रद्युम्नप्रियवान्धवे चतुरवामुक्ताफलोदन्वति । तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयते प्राप्ते नवे यौवने ॥ ३० ॥ शृङ्गारेति । शृङ्गार' सभोगविप्रलम्भरूपशृङ्गाररस एव द्रुमो वृक्षस्तस्य नीरदे अम्बुवाहे । अङ्कुरितखकन्दलितत्वपल्लवितत्वपुग्पितत्वरूपावस्थाभि परिपोपावह इत्यर्थ. । प्रसृमरो व्यापनशीलो य. क्रीडारसो मन्मथकेलिरसस्तस्य स्रोतसि प्र- वाहे । अविच्छेदेन प्रवर्तक इत्यर्थ । अथवा प्रसृमरक्रीडाना रसस्रोतसि रसन वाहे । यथेच्छाविहारान्वव्र इत्यर्थ (१)। प्रसृमरेत्यत्र सृघस्यद क्मरचू' । प्रद्यु- नस्य कन्दर्पस्य प्रियबान्धवे आप्तबन्धौ । खार्थेऽणू प्रत्यय । 'प्रद्युम्नो मीनके- तन । कन्दो दर्पकोऽनङ्ग.' इत्यमरः । चतुरवाचो निपुणवाक्यान्येव मुक्ताफ- लानि मौक्तिकमणय तेषामुदन्वति समुद्रे । सरससंल्लापोत्पत्तिनिकेतनभूत इत्यर्थ । 'उदन्वानुदधौ च' इति निपातनात्साधु । समुद्रस्य मुक्ताकरत्वमुक्तं रत्नशास्त्रे--- 'करीक्षुजीमूतवराहशङ्खमत्स्याहिशुक्त्यर्णववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषा तु शुक्तयुद्भवमेव भूरि ॥' इति । तन्वीनां विलासिनीना नेत्राण्येव च- कोरा चन्द्रिकापायिपक्षिविशेषास्तेषा पार्वण विधौ पूर्णचन्द्रे । तद्वदुल्लासक इत्यर्थ । पर्वणि भव पार्वण इति विग्रह । “विधुर्विष्णौ चन्द्रमसि' इत्यमर. । सौभाग्य- लक्ष्म्या सौन्दर्यसपदो निधौ निधाने । कदाचिदपि स्वावस्थानन्ददशाया सौ- न्दर्यलक्ष्मी क्षीयत इत्यर्थ । नवे यौवने नूतने वयसि प्राप्ते सति कोऽपि धन्य कश्चिदेव सुकृती विक्रिया मन्मथविकारं न कलयते न प्राप्नोति । ईदृशस्तु विरल इति भाव । श्लोकद्वयेऽपि निरवयवरूपकालंकारः । शार्दूलविक्रीडितम् ॥ यदुक्तं यौवनस्यानर्थमूलत्वं तत्कामिनीपरित्यागेऽत्यन्तदूरापास्त मित्याशक्य तासामपरित्याज्यतां त्रिभिर्वर्णयति- संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्क- व्यासङ्गव्यस्तधैर्य कथममलधियो मानसं संविदध्युः। यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः प्रेत्काञ्चीकलापा स्तनभर विनमन्मध्यभाजस्तरुण्यः॥३१॥ संसार इति । अमलधियो निर्मलमतयो महान्त मानस निजं मन असारे निस्सारे अस्मिन्परिवर्तमाने संसारे कलत्रादिपोषणव्यासगरूपे कुनृपतिभवनद्वार- स्य कुत्सितराजमन्दिरस्य प्रतिहारस्य सेवा अनुवर्तनमेव कलङ्कोऽपवाद तत्र यो व्यासज अत्यासक्तिस्तेन व्यस्तं धैर्य धीरत्वं यस्य तत्तथोक्तम् । ईदृकष्टकर्मासक्तpm- सुभाषितत्रिशत्यां । त्वान्मलिनमित्यर्थ । कथं संविदध्यु कुर्युः । न कथंचिदपीत्यर्थ । किं न स्याचे- दित्यत आह-प्रोद्यन् उदित्वरो य इन्दुः तस्य द्युतिरिव द्युतिर्येषां तानि चन्द्र- धवलानि माजिष्ठानि वा । उद्यद्विशेषणसामर्थ्यात् । तानि निचयानि अड्डशानि बिभ्रतीति तथोक्ता । अम्भोजे इव नेत्रे यासा ताः। पद्मपलाश विशाललोचना इत्यर्थ । प्रेसत्काञ्चय क्वणद्रशना एव कलापा भूषणानि यासा ताः । यद्वा काश्थ्यो भूषणानि यासां ता । 'कलापो भूपणे बहे' इत्यमर । स्तनभरेण कुच- कुम्भगौरवेण विनमन्ति अवनतानि मध्यानि वलग्नानि भजन्तीति तथोक्ता पीवरकुचा. कृशोदर्यश्चेत्यर्थ । एतेन सौन्दर्यातिशय उक्त । एताः प्रसिद्धास्त- रुण्यो युवतय न स्युर्यदि न भवेयुर्यदि तर्हि कथं सविदध्युरिति सबन्ध अतो विशिष्टतरुणीनां विद्यमानत्वादेव सुधियोऽप्येवंभूता भवन्तीत्यर्थः । तस्मा- तरुण्यो दुष्परिहरा इति भाव । तदुक्तम्-'असाधाविह ससारे दुर्वारे मक- रध्वजे । कुले च कामिनीमूले का वा स्यात्परिकल्पना ॥' इति । अत्रोत्तरवा- क्यार्थस्य पूर्ववाक्यार्थसमर्थकहेतुत्वात्काव्य लिङ्गभेद । स्रग्धरा ॥ सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि । का कुर्वीत शिरःप्रणाममलिनं म्लानं मनस्वी जनो यद्वित्रस्तकुरङ्गशावनयना न स्युः सरास्त्रं स्त्रियः ॥ ३२ ॥ सिद्धेति । सिद्धोगिमि अध्यासिता अधिष्ठिता कन्दरा गुहा यस्मिस्तत्तथो- के । एतेन तप.सिद्धिहेतुत्वं सूच्यते । हरस्य नित्यसनिहितस्य यो वृषो वाहन- भूतो महोक्षस्तस्य स्कन्धेन असपीठेन । ककुदेति यावत् । अवरुग्णा भन्मा द्रुमा यस्मिन् तत्तथोक्तम् । 'रुजो भङ्गे' कर्मणि क्तः। 'ओदितश्च' इति निष्ठानत्वे णत्वम् । एतेनाखिलश्रेय प्रदशिवसानिध्यमुक्तम्।गङ्गाधौतानि गङ्गाप्रक्षालितानि शिलातला- नि यस्मिन् तत्तथोक्ते । एतेनात्यन्तपवित्रत्वमुक्तम् । अतएव श्रेयसि श्रेष्ठे श्रेय- स्करे वा हिमवतो गिरे सबन्धिनि स्थाने प्रदेशे स्थिते सति । को वा मनस्वी सुमे- धा धीरो जन । प्रशंसाया विनि । शिरो निजोत्तमाझं प्रणामेन कुनृपतिपादवन्द- नेन मलिनं कलङ्कितम् । अतएव म्लानं उत्कर्षहीनं कुर्वीत । 'मलिनं मानम्' इति पाठे मानं निजाभिमानं (कर्म) शिर प्रणामेन निजोत्तमान विनमनेन मलिनं प्रतिष्ठाहीनं कुर्वीत । न कोऽपीत्यर्थः । कुत । यद्यस्मात्कारणात् वित्रस्तकुर- अशावनयना पद्मिनीजातित्वाच्चकितबालहरिणेक्षणाः अतएव स्मरास्त्रं महावीरस्य स्मरस्य जगद्विजयसाधनभूतबाण इत्यर्थः । लिङ्गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभिप्रायेण वा 'वेदा प्रमाणम्' इत्यादिवद्रष्टव्य । इत्युक्तं प्राक् । स्त्रियः न स्युश्चेत् । अत अमोघमदनशस्त्रभूतस्त्रीणामपरित्याज्यतया विद्यमानत्वादेव मनखिनामपीदृग्दुरवस्थापत्तिरिति भाव. । वृत्तमुक्तम् ॥
२. शृङ्गारशतकम्। संसार तव पर्यन्तपदवी न दवीयसी। अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाः॥ ३३ ॥ संसारेति । हे संसार, तव पर्यन्तपदवी अवसानसीमा न दवीयसी न दविष्ठा मवति । न दूरतरेति यावत् । किंतु नेदीयस्येवेत्यर्थ । दूरशब्दादीयसुनि 'उगि- तश्च' इति डीप् , 'स्थूलदूर-' इत्यादिना पूर्वयणादिपरलोप । कुत । ते तव अन्तरा मध्ये दुस्तरा महानद्य इव तरितुमशक्या । 'ईषद्दु-' इत्यादिना खल्प्रत्यय । मदिरेक्षणा स्त्रिय न स्युर्यदि न सभाविताश्चेत् । न दवीयसीति संबन्ध । सभावितलादेव दवीयसीत्यर्थ । एतेन संसारपारगमनप्रतिबन्धिन्यः त्रिय इत्युक्तम् । तत्परित्यागे तु श्रेय सभव इति भाव । पूर्वलोकेऽप्यत्रापि च पूर्वतरश्लोकवत्कार्यमुग्नेयम् । अनुष्टुप् ॥ इत्थं स्त्रीणां परिहर्तुमशक्यत्वे तदासक्तस्य कुतः श्रेय प्राप्तिरित्याशङ्काया तदत्यन्तात्याज्ययोरप्यैहिकामुष्मिकफलसाधनखमेवेति मनसि कृत्वा तदुभय- मिदानी तावनिरूपयितुं प्रतिजानीते-अथ पक्षद्वयनिरूपणमिति । अथ स्त्रीणां परित्याज्यवकथनानन्तरं पक्षयोः विरक्त्यनुरक्तिरूपपक्षयोः द्वयस्य निरूपणं क्रियते तत्प्रकारमाविंशतिसमाप्तेर्वर्णयति- दिश वनहरिणेभ्यो वंशकाण्डच्छवीनां कवलमुपलकोटिच्छिन्नमूलं कुशानाम् । शकयुवतिकपोलापाण्डुताम्बूलवल्ली- दलमरुणनखात्रैः पाटितं वा वधूभ्यः ॥ ३४ ॥ दिशेति । हे जनेत्यध्याहार्यम् । वने पुण्यारण्ये हरिणेभ्य कुरगेभ्य । तप - प्रसक्त्या निर्भीकत्वेन तेषा समीपवर्तिवादिति भाव. । उपलकोट्या निशित- पाषाणप्रान्तेन च्छिन्नानि लूनानि मूलानि यस्य तथोक्तम् । तत्र लवित्रादि- साधनान्तरासंभवान्मूलानामुपलकोटिच्छिन्नत्वमुक्तम् । वंशकाण्डस्य वंशकरी- रस्य छविरिव छविर्येषा तेषाम् । सरसानामित्यर्थ. । कुशानां कवलनं ग्रास वा दिश । तपश्चरणानुसमय इति शेष । अथवा वधूभ्य प्रियतमाभ्योऽरुणनखा- नामप्रै पाटितं शकलितं शकयुवतीनां शकाख्यदेशीयतरुणीनां कपोलवदापाण्डु आ समन्ताद्धवलं यत्ताम्बूलवल्लीदलं नागवल्लीपत्रं तद्वा दिश । ससरणसमय इति शेषः । उक्तोभयमेव परमसौख्यनिदानं उभयत्र नान्यदिति भाव । एवमुत्तरत्रापि यथायोगमूहनीयम् । अत्र नखानामारुण्यग्रहणं महाभाग्यलक्षणत्वेन मुखिख- द्योतनार्थम् । तदुक्तं सामुद्रिकैः -'पाणी पादतले रक्ते नेत्रान्तश्च नखस्तथा । तालुजिहाधरोष्ठं च सप्तरक्तः सुखी भवेत् ॥' इति । मालिनी ।। असाराः सर्वे ते विरतिविरसाः पापविषया जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति ।
। सुभाषितत्रिशत्यां तथाप्येतद्भूमौ नहि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ ३५॥ असारा इति । ते प्रसिद्धा सर्वे पापहेतुत्वात्पापा विषया शब्दादयः, स्रक्चन्दनवनितादयो वा । असारा अस्थिरा , नि सारा वा इति । 'सारो बले स्थिराशे च' इत्यभिधानात् । तथा विरतौ परिणतिसमये विरसा. अनर्थकरा इति वा । यद्वा सकलदोषास्पदम्, रागद्वेषमोहाद्यशेषदोषा इति वा । 'आस्पद प्रतिछायाम्' इति निपातनात्सुडागम । लिङ्गवचनव्यत्ययस्तु पूर्ववद्रष्टव्य । जुगुप्स्यन्तां परित्यज्यन्ताम् । परित्यागे परमसुखलाभादिति भाव । तथा च वक्ष्यति-स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति' इति । 'गुपेनिन्दायाम्' इति सन्नन्तात्कर्मणि यकि विधौ लोटि तड् । तथाप्युक्तप्रकारे विषयाणा जुगु- प्स्यत्वेऽप्येतद्भूमौ अस्या भुवि परहितात् परोपकारकरणात् अधिकं अतिरिक्त पुण्यं नहि नास्ति खलु । 'लोकार्वेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभि. । परोप- कार पुण्याय पापाय परपीडनम् ॥' इाते वचनादिदमेवात्यन्तपुण्यमित्यर्थ । अथास्मिन्ससारे च कुवलयदृश उत्पलाक्ष्या । 'अन्यारादितरर्ते-' इत्यादिना पञ्चमी । अपरं अन्यत् रम्यं वस्तु नास्ति । इयमेवात्यन्तं मनोहरेत्यर्थ. । अतो दोषदृष्ट्या विषयान्परित्यज्य शमसुखानुभवतात्पर्येण वा स्थातव्यम्, अन्यथा परहिताचरणतत्परेण सांसारिकतया वा वर्तितव्यम्, न तु प्रकारान्तरेणेति- भाव । शिखरिणी ॥ मात्सर्यमुत्सार्य विचार्य कार्य- मार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किमु भूधराणा- मुत स्मरस्मेरविलासिनीनाम् ॥ ३६॥ मात्सर्यमिति । आर्या पण्डिता मात्सर्य असूयाम् । पक्षपातमिति यावत् । उत्सायं निराकृत्य । तस्य यथार्थकथनप्रतिबन्धकलादिति भाव । कार्य कर्तु योग्यम् । विधेय- मित्यर्थ । विचार्य ऊहापोहान्या सम्यगालोच्य तत समर्यादं मर्यादया सन्मार्गान- तिक्रमणेन सहितं यथा भवति तथा । इदं एतत् वदन्तु कथयन्तु । किमिदमित्यत आह-धरन्तीति धरा । पचाद्यच् । भुवो धरा भूवरास्तेपा भूवराणा नितम्बा क- टिप्रदेशा सेव्या किमु आश्रयणीया वा । उत अथवा स्मरस्मेरा स्मरोल्लसिता.। मदनमदोत्कटा इत्यर्थ । यद्वा स्मरेण मन्मथावेशेन हेतुना स्मेरा. संभोगौत्सुक्यसू- चकमन्दस्मितसुन्दरवदनारविन्दा इत्यर्थ । 'मिड् ईषद्धसने' इति धातो 'नमिक- म्पि-' इत्यादिना रप्रत्यय । अथवा विषयमात्र विश्रान्तिविरहेण विशङ्खलवृत्तिल- मदमन्दादिगुणविशिष्टकटाक्षवीक्षणानि स्मेरशब्दविवक्षितानि । तदुक्तं भावप्रकाशे 'अपरिच्छिन्नविपयं मदमन्थरमीलितम् । स्फुरद्रूपक्षतायुक्तं तत्स्मेरमिति कथ्यते॥' इति । तानि च स्मरप्रधानानि यासा ता. स्मरस्मेराणा विलासिनीना विलसनशी- २. शृङ्गारशतकम् । लानां तरुणीनाम् । 'चौ कषलस-' इत्यादिना घिनुण्प्रत्यय । नितम्बा कटि- प्रदेशा आश्रयणीया वा । इदं वदन्विति संबन्ध । यदि वैराग्यं स्यात्तर्हि गिरिनितम्बाः सेव्या , अन्यथा विलासिनी नितम्बा इति लदीयप्रश्नस्येदमुत्तर वन्यदस्तीति भाव । 'कटकोऽस्त्री नितम्बोऽद्रे.', 'पश्चानितम्ब. स्त्रीकट्या इति चोभयत्राप्यमर । अत्र पूर्वार्वे एकवर्णस्य पुनःपुनरावृत्तवृत्त्यनुप्रास शब्दा- लंकारभेद -'एकद्विप्रभृतीना तु व्यञ्जनाना यदा भवेत् । पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते ॥' इति लक्षणात् । अयं च नितम्बा इत्यत्र द्वयानामपि नि- तम्बाना प्रकृतत्वात्केवलप्रकृतत्वगोचरेण एकनालावलम्बिफलद्वयवदेकशब्दार्थ- द्वयप्रतीते केवलार्थप्रवणेन विजातीयेनोत्तरवाक्यस्थेन ग्लेषेण तिलतण्डुलवत्पर- स्परनैरपेक्ष्यात्संसृष्टि कंचिच्चमत्कारातिशयमावहतीति काव्यस्य महानुत्कर्ष प्रतिपादित इति रहस्यम् । वृत्तमुपजातिः ॥ संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां तत्त्वज्ञानामृताम्भ:प्लवललितधियां यातु कालः कथंचित् । नो चेन्मुग्धाङ्गनानां स्तनधनजघनाभोगसंभोगिनीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥३७॥ संसार इति । स्वप्नस्य सार इव सारो यस्मिन्स । मिथ्याभूत इत्यर्थ । 'सप्तम्युप- माने' इत्यादिना बहुव्रीहिः । तथा परिणत्या परिणामावस्थाया तरले अस्थिरे अ- शाश्वत इत्यर्थः । ससारे ससृतौ पण्डिताना परिज्ञातॄणा द्वे गती अवस्थे। विद्यते इति शेष । के द्वे इत्याशङ्कायामाह-तत्त्वज्ञानमेव अमृताम्भ: अमृतप्रायजलं तत्र प्लव इव ललिता रुचिरा । यद्वा तत्त्वज्ञानामृताम्भसि प्लव प्लवनम् । क्रीडेति यावत् । तत्र ललिता उल्लासवती धीर्येपाम् । तत्त्वज्ञानोल्लसितबुद्धीना सतामित्यर्थ । कथं- चिदतिप्रयत्नेन कालो यातु गच्छतु । अतिकामलित्यर्थ । 'कथमादि तथाप्यन्तै- यत्नगौरवबाढयो' इत्यमर । 'काल कदाचित्' इत्यपपाठ । इयमेकावस्था । नो चेदेवं न स्याचेत्तर्हि स्तनयोर्घनजधने विपुलकटिपुरोभागे च आभोगसभोगिनीना विस्तृतसंभोगेच्छावतीनाम् । यद्वा स्तनयोर्घनजघनस्य निबिडतरजघनस्य च य आभोगो विस्तारस्तत्र सभोगिनीनाम् । कुचमर्दननिधुवनरूपबाह्याभ्यन्तरसभोगा- काविणीनामित्यर्थ । एतेन समानुरागित्वमुक्तम् । अन्यथा आभासप्रसङ्गात् । तदु- क्तम्--‘एकत्रैवानुरागश्चेत्तिर्यड्म्लेच्छगतोऽपि वा। योषितो बहुसक्तिश्च रसाभास- स्त्रिधा मत. ॥ इति । मुग्धाङ्गनाना सुन्दरस्त्रीणा नवयौवनाना वा 'उदयद्यौवना मुग्धा' इति लक्षणात् । स्थूलोपस्थस्थलीषु वर्तुलोच्छूनमदनसदनप्रदेशेषु । जान- पद' इत्यादिना अकृत्रिमार्थे डीप् । स्थगितमाच्छादितं यत्करतलं तस्य स्पर्श. स- पर्क. स एव लीला तत्र उद्यम उद्योगोयषा तेषा सताम् । कामिनीमेहनोपस्थस्पर्श- सुखमनुभवता सतामेवेत्यर्थ । कालो यातु । इयं चैकावस्था । इमे द्वे एवोत्तमे गती । न लेतद्यतिरिक्तं गत्यन्तरमस्तीत्यर्थ. । सर्वदा ज्ञाननिष्ठया वा कामगोष्ठ्य
सुभाषितत्रिशत्यां
वा पण्डितानां कालो यापयितव्य । न वन्यथेति भाव । स्थूलोपस्थेत्यनेन आसा
चित्रिणीजातिवं सूचितम् । तदुक्तं रतिरहस्ये-'मदनसदनमस्या वर्तुलोच्छून-
मन्तम॒दु मदनजलाढ्यं रोममि तिसान्दै । प्रकृतिचपलदृष्टिर्बाह्यसंभोगसक्ता
रसयति मधुराल्प चित्रिणी चित्ररक्ता ॥' इति । एतज्जात्यनुकूलसुरतनियतया-
मोऽपि तत्रैवोक्त -'ब्रजति रतिसुखार्थी चित्रिणीमग्रयामे भजति दिनरजन्यो-
हस्तिनी च द्वितीये । गमयति च तृतीये शलिनीमार्द्रभावा रमयति रमणीयां
पद्मिनी तुर्ययामे ॥' इति । मतान्तरे तु द्वितीययाम इत्युक्तम् --'घनकुचनख-
भेदैर्मुष्टिघातैश्च मध्ये रतिनियतकरैश्च प्रीतियुक्तैर्वचोमि । अनृततरकथामिस्तत्र
यामे द्वितीये सुगुणसहितमन्तश्चित्रिणीं सलभेत ॥' इति स्रग्धरा ॥
आवासः क्रियतां गाङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ ३८॥
आवास इति । पापानि हरत्यमीक्ष्णमिति पापहारि । 'गाझं वारि मनोहारि
मुरारिचरणच्युतम् । त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥ पापापहारि दुरि-
तारि तरङ्गधारि दूरप्रसारि गिरिराजगुहाविहारि । झङ्कारकारि हरिपादरजोपहारि
गाङ्गं पुनातु परित. शुभकारि वारि ॥' इत्यादिना समस्तपापक्षयकर इत्यर्थः ।
'बहुलमामीक्ष्ण्ये' इति णिनिः । गाङ्गे गङ्गासबन्धिनि । 'तस्येदम्' इत्यण्प्रत्ययः ।
वारिणि आवास क्रियताम् । स्नानपानादिना बाह्याभ्यन्तरशुद्धिसंपादनद्वारा ख--
र्गापवर्गप्राप्त्यर्थ तत्र निवासो विधीयतामित्यर्थ । तथा च श्रुति --'सितासिते
सरिते यत्र सगते तत्राप्लुतासो दिवमुत्पतन्ति । ये वै तन्वं १ विसृजन्ति धीरा-
स्ते जनासो अमृतत्वं भजन्ते ॥' इति । स्मृतिश्च-'गङ्गा तुङ्गतरङ्गिणी भवभय-
क्लेशापहा सर्वदा म.नामवगाहनात्सकृदपि खर्गेऽपि सस्थापिनी' इत्यादि ।
अथवा मनोहारिणि अत्यन्तमनोहरे पूर्ववण्णि निः । कुत हारिणि मुक्ताहारवति ।
अत्र मत्वर्थीय इनिप्रत्ययः । तरुण्या नवयौवनायाः स्तनद्रये आवासः परिशील.
नतात्पर्य क्रियताम् । तरुणीस्तनाश्रयस्यैव निरतिशयसुखहेतुलादिति भाव ।
अत्र तरुणीग्रहणं स्तनद्वयस्य पतनाभावेन पाटवातिशयद्योतनार्थम् । अन्यथाभा-
सप्रसङ्गात् । एतेन मणिहिरण्मयकङ्कणयोरिव स्तनद्वयहारयोरप्यन्योन्यरामणीय-
कप्रकाशपरिपोषावहवेन विशिष्टस्तनद्वयस्याश्रयणयोग्यलं सूचितमित्यवगन्त-
व्यम् । यथाह श्रीहर्ष -'तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम्'
इति । अत्र पूर्वोत्तरवाक्यस्थयोरनुप्रासयमकयो शब्दालंकारयो. ससृष्टि. स्पष्टा ।
अथ द्वाम्या निगमयति--
किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापै-
यमिह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं या ॥ ३९ ॥
२. शृङ्गारशतकम्। AR किमिति । इहास्मिन्नर्थे बहुमिरपरिमितैयुक्तिशून्यैनि सारैरुक्तैरुदितै प्रलापैरन- र्थकवचनै । कि फलमिति शेषः । वाचो विग्लापनं विना न किचित्फलमस्ती- त्यर्थ । 'प्रलापोऽनर्थकं वच' इत्यमरः । कि विहास्मिल्लोके पुरुषाणा द्वयं सर्व- द्रा निरन्तरम् । 'सर्वथा' इति वा पाठ । सेवनीयम् । कि तद्वयमत आह- अभिनवा नूतना या मदलीला मन्मथावेशजनितविलासास्तासु लालसं लोलुप- म् । अत्यासक्तमित्यर्थ । स्तनभरेण कुचकलशभारेण परिखिन्नं परिक्रान्तम् । उभयत्रापि यौवनवतीधर्मो यौवन उपचर्यते । सुन्दरीणा यौवन वा । न वसु- न्दरीणामिति भाव उत वनं पुण्यारण्यं वा । सेवनीयमिति संबन्ध । एतयो- रेव परमसुखनिदानखादिति भाव । मालिनी ॥ इदानी निष्कृष्टमर्थमाह- सत्यं जना वच्मि न पक्षपाता. ल्लोकेषु सप्तस्वपि तथ्यमेतत् । नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥ ४० ॥ सत्यमिति । कि बहुना हे जना , सत्यं वच्मि यथार्थ ब्रवीमि । पक्षपातात् वैषम्यात् न वच्मि । सप्तसु लोकेष्वग्येतदेव तथ्यम् । सत्यमित्यर्थः । किमेतदि. त्यत आह-नितम्बिनीभ्यस्तरुणीभ्यो मनोहारि मनोहर वस्तु अन्यन्नास्ति । तथा ताभ्योऽन्य इतरो दुःखानामेकहेतुर्मुख्यकारणं कश्चित् नास्ति । 'को भोगो रमणीं विना-' इत्यादिना भोगैकसाधकत्वात् , 'बद्धमूलस्य मूलं हि महद्वैरतरो. स्त्रिय' इत्यनर्थमूलकत्वाच्च नितम्विनीनामेव परमसुखदु खैकनिदानत्वादिति भाव । अत्र सप्तश्लोकाना पक्षद्वयनिरूपणस्यायमभिप्राय -अखण्डनिरतिश- यानन्दावाप्तिलक्षणत्वेनाभ्यर्हितत्वान्मुख्यो मोक्ष पुरुषार्थ इति सकलमतसि- द्धान्त । प्रसूतिभाजो विश्वस्य स्त्रीपुंसाभ्यामेव निष्पन्नत्वात्कामस्य पितृऋणवि- मोचनहेतुभूततया सततं महापुरुषपरिग्रहात्पुरुषार्थत्वमिति नन्दिकेश्वर-श्वेतके- तु-पाञ्चल-वात्स्यायनादिपूर्वसिद्धान्त । एवं च सति 'पूर्वालाभे परः पर' इति न्यायान्मुख्यकल्पालामेऽनुकल्पस्यापि विहितवान्मोक्षपुरुषार्थसाधनप्रवृत्त्यलाभे कामपुरुषार्थसाधनेषु वा अवश्यं प्रवृत्ति कर्तव्येत्यनुसंधायैवमुपन्यस्तमिति तत्र नितम्बिन्यतिरिक्तरम्यवस्वनर्थहेलो. सत्यपि सबन्धेऽसबन्धोक्तेरतिशयोक्ति- भेद. । इन्द्रवज्रा-'स्यादिन्द्रवज्रा यदि तौ जगौ ग' इति लक्षणात् ॥ इति शृङ्गारशतकव्याख्याने सभोगवर्णनं नाम द्वितीया विंशति । अथ कामिनीगहणम् । यदुक्तम् 'दु खैकहेतुर्न च कश्चिदन्यः' इति, तदेव प्रपञ्चयितुमिदानी कामिनी- गहणमारभते-अथ कामिनीगर्हणमिति । अथ सभोगनिरूपणानन्तरं कामिन्या ८ सु. त्रि.
सुभापितत्रिशत्यां mein- गहणं निन्दा। आविशतिसमाप्ति कियत इति शेष । ननु शृङ्गारालम्बनत्वेन प्रसि- द्धाना कामिनीना गर्हणे शृङ्गारवर्णनप्रतिज्ञाभन प्रसज्येतेति चेन, शिशुपालादि- कृतभगवद्गहणस्य पुरुषार्थपर्यवसानवत्कामिनीगहणम्यापि यथाकथंचिच्छृङ्गारवर्ण- न एव पर्यवसानान कोऽपि विरोव इति मन्तव्यम् । तत्प्रकारमेव विवृणोति- कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नम- त्पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभूरिति । दृष्ट्वा माद्यति मोदतेऽमिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ ४१ ॥ कान्तेति । वेत्तीति विद्वान् सारासारविचारचतुर । ज्ञानवानपीत्यर्थ । किमु- तान्य इति भाव । 'विदे शतुर्वसु' इति वस्वादेश । प्रत्यक्षेणाशुचिभस्त्रिका अपवित्रचर्मपुटम् । स्वार्थे क । 'प्रत्ययस्थात्कारपूर्वस्य-' इत्यादिना इकारादेश 'भस्त्रैषाजाज्ञा-' इत्यादिना वैकल्पिक । 'पुत्रिकाम्' इति पाठे अशुचिपाञ्चालि- काम् । अत्यन्तजुगुप्सितस्वरूपामित्यर्थ । तटुक्तम्-'हासोऽस्थिसदर्शनमक्षियु- ग्ममत्युज्वलं तत्कलुपावसाया । स्तनौ च पीनौ पिशितास्रपिण्डौ स्थानान्तरे कि नरकेण योषित् ॥ इति इत्थंभूता स्त्रियम्। 'वाम्शो' इति विकल्पादिय- डादेश । दृष्ट्वा । कान्ता कमनीया इति, मनोहरेति वा । 'कान्तं मनोहरं रु- च्यम्' इत्यमर । उत्पले इन्दीवरे इव लोचने यस्या सा तथोक्तेति । विपुलश्रो- णीभरा पृथुलनितम्बविम्बा इति । उनमन्तौ ऊर्वमुत्पतन्तौ इव स्थितौ । कुतः। पीनौ पीवरौ उत्तुङ्गौ उन्नतौ च पयोधरौ स्तनौ यस्या सा तथोक्तेति । 'स्त्रीस्त- नाब्दौ पयोवरौं' इत्यमर । सुमुखाम्भोजा सुन्दरवदनारविन्दा इति । शोभने मदनकार्मुकरुचिरे ध्रुवौ यस्याः सा तथोक्तेति च । माद्यति मत्तो भवति । मोदते हृष्यति । अमिरमते क्रीडति । अमिपूर्वाद्रमतेलटि तड्। व्याइपरिपूर्वस्यैव पर- स्मैपदवनियमात् । प्रस्तौति उक्तप्रकारेण प्रकारान्तरेण वा अमिष्टौति । अत मोहस्य अविद्याया दुश्चेष्टितं दुर्विलसितम् । अहो विद्वासमपीदृगवस्थापन्नं करो- तीत्याश्चर्यमित्यर्थः । एतत्सर्व व्यामोहमूलमेव । तस्य दुरवच्छेदलादिति भाव । यद्यपि 'अमेध्यपूर्ण कृमिजन्तुसकुलं स्वभावदुर्गन्धमशौचमधुषम् । कलेवर मूत्रपु- रीपभाजनं रमेत मूढो न रमेत पण्डित ॥' इति वचनात्पण्डितस्ोत्थं जुगुम्सि- तकामिनीकलेवरे रमणमेव नास्ति, तथापि मोहस्यात्यन्तप्राबल्यप्रकटनार्थमि- स्थमुक्तमित्यवगन्तव्यम् । अत्र क्रियाणा बह्वींना समुचितत्वात्क्रियासमुच्चयालं. कार एकविपय.---'गुणक्रियायोगपद्यमलंकारसमुच्चय' इति लक्षणात् । शाई- लविक्रीडितम् ॥ अथ त्रिभिरानुष्टुभैः खरूपं दूषयति- स्मृता भवति तापाय दृष्टा चोन्मादकारिणी। स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ ४२ ॥ - २. शृङ्गारशतकम् । . भाव स्मृतेति । या स्मृता सदृशादृष्टचिन्तादिस्मृतिबीजोद्बोधकसद्भाववशात्प्रवासे कदाचित्स्मरण विषयीकृता सती तापाय भवतीत्यर्थ । ततः दृष्टा सती उन्माद- कारिणी चित्तविभ्रमकरी भवति । स्पृष्टा आलिङ्गिता सती मोहाय भवति बहि प्रपञ्च विस्मरणकारिणी भवति । अत सा वधू कथं नाम कुतो वा दयिता प्रियतमा । न कथंचिदपीत्यर्थ । कितु उक्तबबनर्थकहेतुभूतत्वादप्रियतमैवेति । अत्र 'स्मृता भवति तापाय' इति पदार्थाना विशेषणगत्या तुरीयपाद- स्थपदार्थ प्रति हेतुत्वाकाव्य लिङ्गभेद. ॥ तावदेवामृतमयी यावल्लोचनगोचरा। चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥ ४३॥ तावदिति । तावत् एतावत्पर्यन्तमेव अमृतमयी । अमृतोपमानात्तद्वन्मपुर- तरेत्यर्थ । वधूरिति शेष. । 'तत्प्रकृतवचने मयट्' । 'टिड्डाणज्-' इत्यादिना डीप् । कि यत्पर्यन्तमित्यत आह-यावत् यावत्पर्यन्तं लोचनगोचरा चक्षुर्विषया भवति, तावदिति सवन्ध । व्यतिरेके तु नैवमित्याह-चक्षु पथात् लोचन- मार्गात् । 'ऋक्पू -' इत्यादिना समासान्तः । अतीता तु अतिक्रान्ता चेत् विषादपि कालकूटादपि अतिरिच्यते अतिरिक्ता भवति । तद्वत्प्राणप्रयाणका- रिणी भवतीत्यर्थ । अत्र ववा अमृतमयखविषातिरिच्यमानत्वासबन्धेऽपि तत्संवन्धाभिधानादसबन्धे सबन्धरूपातिशयोक्ति. ॥ उक्तमेवार्य भङ्ग्यन्तरेणाह- नामृतं न विषं किंचिदेकां मुक्त्वा नितम्बिनीम् । सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥४४॥ नेति । एका नितम्बिनी मुक्त्वा विहाय अमृतं अमृतशब्दवाच्यं किचिद्वस्तु नास्ति । विपं विषशब्दवाच्यमपि किचिन्नास्ति । इयमेवामृतप्राया विपप्राया चेत्यर्थ । कुत एतदित्याशय तत्त्वं साधयति-रक्ता अनुरागवती चेत्सव नितम्बिन्येव अमृतलता सजीविनी भवतीत्यर्थ । विरक्ता अनुरागरहिता चेत् विषवल्लरी विषलतामञ्जरी । 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः । प्राणापहारिणी भवतीत्यर्थ । अत्र नितम्बिनीव्यतिरेकेणामृतविषयोरस्तिलसबन्धेऽप्यसबन्धा- संबन्धे असंबन्धरूपातिशयोक्ति । तथोत्तरार्ध तस्या अमृतलतात्वविषवल्लरीत्व. रूपणाद्रूपकालंकार । स च रक्तत्व विरक्तत्वपदार्थहेतुककाव्यलिङ्गोत्थित सन् पूर्वातिशयोक्तिमुज्जीवयतीति सकर' । प्रायेणैकार्थमप्यनेक 'लोकमुक्तिविशेषलो- भाल्लिखन्ति कवय । यथा नैपधे-'आदावेव निपीय-' इत्यादि लोकद्वयम् । यथा च माघे-'प्रसाधितस्य' इत्यादिश्लोकद्वयमित्यादि । अथ स्त्रीयन्त्रस्तष्टारं दूषयति- आवर्तः संशयानामविनयभुवनं पट्टणं साहसानां दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । - me- ८२ सुभाषितत्रिशत्यां स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्ड स्त्रीयन्त्र केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः॥४५॥ आवर्त इति । सशयाना सदेहानामावर्त परिपाक । सकलसदेहास्पदीभूत- मित्यर्थ । अविनयाना भुवनं लोक । साहसाना पट्टण नगरम् । दोषाणा रागद्वेपादीना सनिवानं अक्षयनिधि । कदाचिदन्यत्र दोषा नक्षीयन्त इति भाव. । कपटशतमयं अनेककैतवप्रचुरम् । बहुविधकैतवान्यत्रैव प्राचुर्येण वर्तन्त इति भाव । प्राचुर्ये मयट् । अप्रत्ययाना अविश्वासानाम् । 'प्रत्ययोऽ- धीनशपथज्ञान विश्वासहेतुषु' इत्यमर । क्षेत्रं उत्पत्तिभूमि । अनेकाप्रत्ययोत्पाद- कमित्यर्थ । स्वर्गद्वारस्य स्वर्गलोकप्राप्तिसाधनस्य विन्न प्रतिवन्ध । नरकपुरमुखं यमलोकद्वारम् । तत्प्रापकमित्यर्थ. । 'मुखं तु वदने मुख्ये ताने द्वाराभ्युपा. ययो' इति यादव । सर्वमायाकरण्डम् । अशेषशाम्बरीविद्येन्द्रजालमहेन्द्रजाल- पेटिकेत्यर्थ । अमृतमयं सुधारूप विषम् । बहिरमृतवत्प्रतीयमानम् , विचार्यमाणे विषप्रायमित्यर्थ । प्राणिलोकस्य जनसमुदायस्य पाशो बन्धनसाधनम् । स्त्रीयन्त्रं स्त्रीरूपकीलकं केन सृष्टं निर्मितम् । ईदृगनाशययन्त्रनिर्मातृत्वेनास्य कुत्सितत्व- मेवेत्यर्थ । अतएव केनेत्युक्तम् । यद्वा यद्यपि ब्रह्मणैव सृष्टम् , तथापि ई- ग्दुर्यन्त्रनिर्मातृत्वेन तस्य नामोच्चारणमपि कर्तुं न युज्यत इति केनेत्युक्तम् । अत्र स्त्रीयन्त्रे पट्टणादिनिरूपणानिरवयवरूपकालंकार । तदुक्तम्-'आरोप- विषयस्य स्यादतिरोहितरूपिण । उपरजकमारोग्यमाण तद्रूपकं मतम् इति । स्रग्धरा वृत्तम् ॥ इत्थमनथैकतन्त्रमपि स्त्रीयन्त्रं कविवाक्प्रपञ्चवञ्चितो मूढोऽनुवर्तत इत्याह- नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर- द्वन्द्व लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविमिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मुगदृशां मन्दो जनः सेवते ॥ ४६॥ नो इति । एष परिदृश्यमानो मृगाङ्कश्चन्द्र सत्येन यथार्थेन अवदनो वदनं सप- द्यमानो वदनीभूतः । वदनत्वेन परिणत इत्यर्थ । नो न भवतीति शेष । अभू- ततद्भावे वि ।'ऊर्यादिच्चिडाचश्च' इति गतिसज्ञायाम् 'कुगतिप्रादय' इति समास । तथा इन्दीवरद्वन्द्व नीलोत्पलयुगलम् । 'द्वन्द्वं रहस्य-' इत्यादिना नि- पातः । लोचनतां लोचनभावं च न गतम् । तस्य भावस्त्वतलौ' इति तत्प्रत्यय । तथा कनकै सुवर्णदलै । यथा चाम्पेयप्रसूनैरित्यर्थ । 'कापि चाम्पेयगौरी' इति पद्मिनीस्वरूपनिरूपणात् । 'अथ चाम्पेयश्चम्पको हेमपुष्पक' इत्यमर । 'पुष्पमू- लेषु बहुलम्' इति लुकू । अङ्गयष्टिात्रयष्टिरपि न कृता न निर्मिता । कित्वेवं । उक्तप्रकारेण । वदनं चन्द्र इत्याद्याकारेणेत्यर्थ । कविमि. प्रगल्भवचन. कवीश्वरै प्रतारितमना वञ्चितचित्त । विमोहित सन्निति यावत् । मन्दो मूढो जन. तत्त्वं विजानन्नपि । न त्वयं चन्द्र , कितु तत्साम्येन तथा व्यपदिश्यत इति विदन्नपी- .
२. शृङ्गारशतकम्। ८३ त्यर्थ । त्वमांसास्थिमयम् । अत्यन्तजुगुप्सितमसपीत्यर्थ । मृगदृशां स्त्रीणा वपु कलेवरं सेवते संभोगार्थमाश्रयते । विद्वास्तु नैव मिति भाव । अत्र प्रतारित- मन पदार्थस्य विशेषणगत्या जुगुग्सितवपुराश्रयणपदार्थ प्रति हेतुत्वात्काव्यलि- ङ्गभेद । शार्दूलविक्रीडितम् ॥ अथ पुरुषाणा भ्रान्ति सदृष्टान्तमाह--- लीलावतीनां सहजा विलासा- स्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्ध- स्तत्र भ्रमत्येव वृथा पडङ्घिः ॥ ४७ ॥ लीलावतीनामिति । लीलावतीना विलासिनीना विलासा विभ्रमा सहजा नैसर्गिका अतएव ते विलासा मूढस्य अज्ञस्य हृदि स्फुरन्ति । आत्मगोचरा इमे विलासा इति बुद्ध्या सर्वदा हृदयपरिस्फुरिता भवन्तीत्यर्थः । एतच्च वृथैवेति भाव । तथाहि-नलिन्या रागो रक्तिमा अनुरागश्च निसर्गसिद्ध । कि षडभि पट्पद विटश्च ध्वन्यते । वृथा व्यर्थमेव तत्र नलिन्या भ्रमति रागोऽयं मद्गोचर इति भ्रान्त्या पर्यटति । वस्तुतस्तु न तथा । अतो व्यर्थमस्य भ्रमणमिति भाव. । अत्र वाक्यद्वयेऽपि विम्बप्रतिबिम्वभावेन साम्यनिर्देशादृष्टान्तालकार ---'यत्र वाक्यद्वये बिम्बप्रतिविम्बतयोच्यते । सामान्यधर्मो वाक्यज्ञै स दृष्टान्तो निग- यते ॥' इति लक्षणात् । अयं च रागयोयो देऽपि लेषभित्तिकाभेदाध्यवसा- यमूलातिशयोक्तिनियूंढभ्रान्तिमदुज्जीवितया प्रस्तुतनलिनीषट्पदविशेषणसा- म्यादप्रस्तुतका मिनीविटप्रतीतिगोचरसमासोक्त्यानेंन सकीर्यते । वृत्तमुपजाति ॥ अथापातरमणीयमुखावलोकनेन न विमोहितव्य मित्याह- यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृति परं मुखाजं तन्वङ्गयाः किल वसति यत्राधरमधु । इदं तकिपाकद्रुमफलमिदानीमतिरसं व्यतीतेऽस्मिन्काले विषमिव भविष्यत्यसुखदम् ॥ ४८ ॥ यदिति । यदेतद्वर्णनीयं तन्वझ्यास्तरुण्या मुखं अब्ज मिव मुखाब्जं वक्रपञ ( कर्तृ ) पूर्णेन्दो पूर्णचन्द्रस्य द्युतिहरं कान्तिचोरम् । तत्कल्पमित्यर्थ । अब्जस्य पूर्णेन्दुद्युतिहरत्वविरुद्धमिति ध्वनि । तथा पर अत्यन्तं उदारा रम्या आकृतिरा- कारो यस्य तत्तथोक्तम् । किच यत्र मुखाब्जे अधर अधरौष्ठसबन्धि मधु मकरन्दः अमृतं वा वसति अस्ति किल । 'किलेति वार्तायाम् । न तु कदाप्यनुभूतमित्यर्थः । प्रसिद्धाब्जे मकरन्दो वर्तते, मुखाब्जे तु वार्तामात्रमेव, न तु वस्तुतस्तद- स्तीति भाव । तदिदं वक्रपद्ममिदानीमस्मिन्समये । प्रारम्भकाल इत्यर्थ । अतिरसं अतिशयितमाधुर्यगुणयुक्तम् । रुचिरतरमिति यावत् । कि किमपि । अनिर्वाच्यमि- त्यर्थ । पाकद्रुमस्य बालरसालादिवृक्षस्य फलम् । अतिरसबालवृक्षफलस्यैवेत्येत- सुभाषितत्रिशत्यां मन निर्देश । 'पोत पाकोऽर्भको डिम्भः' इत्यमरः । यद्वा पाकट्ठमफलन् । पचे. लिमवृक्षविशेषफलमित्यर्थ । तथाभूतस्यैवात्यन्तरसवत्त्वादिति भाव । यद्वा किपाकं ईषत्पक्कं ठुमफलम् । तथाभूतस्यैवात्यन्तरुचिविशेपास्पदत्वादिति भावः। अथवा किपाकाख्यो द्रुमो यस्य फलमापातमधुर परिणाम विषमं च तस्य किपा- कट्ठमस्य फलम् । तत्कत्पमित्यर्थः । किपाकशब्दो निघण्वन्तरेषु मृग्य । तस्य सालादिवृक्षविशेषवाचकत्वे तु कविरेव प्रमाणम् । अस्मिन् प्रवर्तमाने काले व्यतीते अतिक्रान्ते सति विषमिव गरलमिव असुखदम् । स्खलावण्यदर्शनजनि- तसमोहेन विवेकभ्रशे विहिताकरणात्प्रत्यवायेनात्यन्तदु खप्रदमित्यर्थ । भवि- ध्यति । तथा च कालान्तरेऽवश्यं दु खजनकत्वात्तादात्मिकसुखलोभेन तरुणीव- दनपमं न विश्वसनीय मिति भाव । शिखरिणीवृत्तम् ॥ अथास्या अनर्थहेतुभूतनदीत्वनिरूपणेन परित्याज्यत्वमाह -- उन्मीलत्रिवलीतरंगनिलया प्रोत्तुङ्गपीनस्तन- द्वंढेनोद्गतचक्रवाकयुगला वाम्बुजोद्भासिनी । कान्ताकारधरा नदीयमभितः क्रूरात्र नापेक्षते संसारार्णवमजनं यदि तदा दूरेण संत्यज्यताम् ॥ ४९ ॥ उन्मीलदिति । तिस्रश्च ताः वल्यश्च त्रिवल्यः इति द्विगुसमास । यथाह वा- -'त्रिवलीशब्दसंज्ञा च' इति सूत्रेण सप्तर्षय इतिवत् । 'दिक्सख्ये सज्ञा- याम्' इति सज्ञाया द्विगु । उन्मीलन्य उत्पद्यमानास्त्रिवल्यो वलित्रयमेव त- रंगाः। यद्वा त्रित्वसख्या वल्य. त्रिवल्य । उत्तरपदलोपी समास । ता एव तरगा ऊर्मयस्तेषा निलया । प्रोत्तुङ्गौ अत्युन्नतौ पीनौ पीवरौ च यौ स्तनौ तयो द्वन्द्वेन युगलेन हेतुना उद्गतं उच्चलत् चक्रवाकयुगलं चक्रवाकाख्यपक्षिविशेष- युग्मं यस्या । स्तनरूपचक्रवाकयुगलेत्यर्थ. । वक्रमेवाम्बुजं तेनोद्भासते अभी क्षणमिति तदुद्भासिनी । 'बहुलमाभीक्ष्ण्ये' इति णिनि । अमित समन्तात् । क्रूरा कुटिलहृदया । नदीपक्षे क्रूरा वक्रगतिप्रवाहा । अथवा अमित सर्वत प्रव- र्तमाना क्रूरा नक्रादिक्रूरजन्तवो यस्या सा । कान्ताकारधरा कान्तारूपधारिणी इयं परिदृश्यमाना नदी अत्र अस्मिन् लोके ससार एवार्णव तत्र मन्जनं नापे- क्षते नाभिलष्यते यदि तदा अनपेक्षापक्षे दूरेण सत्यज्यता दूरतर एव विसृज्य- ताम् । 'दूरान्तिकार्येभ्यो द्वितीया च' इति विकल्पात्तृतीया । अन्यथा तत्समा- श्रयेण अर्णवमजनमेव सिई स्यादिति भाव । अत्र समस्तवस्तुवर्तिसावयवरूप- कालंकार । शार्दूलविक्रीडितम् ॥ इतोऽपि न विश्वासार्हा स्त्रिय इत्याह द्वाभ्याम्- जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः। हृद्तं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ ५० ॥ १. किपाकशब्दश्च ‘विपमुष्टौ निरर्थके च' इति शब्दरत्न कोशे वर्तते, तस्मात् रसा- लादिवृक्षान्त,पातित्व न संभवतीति मन्तव्यम्. - २. शृङ्गारशतकम् । ८५ जल्पन्तीति । अन्येन मार्च एकेन पुरुषेण सह जल्पन्ति संलपन्ति । सविभ्रमा. सविलासा: सत्य अन्यं पुरुषं पश्यन्ति । हृदतं हृदयस्थं अन्य चिन्तयन्ति । अतो योषितां स्त्रीणा प्रिय प्रियतम । नियत इति शेषः । को नाम । न कोऽपीत्यर्थ । अनुष्टुप् ॥ अथ योषित. सर्पवरूपेण सखायं भीषयन्दूरादपसर्पणमुपदिशति- अपसर सखे दूरादस्मात्कटाक्षविषानला. प्रकृतिविपमाद्योषित्साद्विलासफणाभृतः । इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै- श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ५१ ॥ अपसरेति । हे सखे बन्धो, कटाक्षा अपाङ्गवीक्षणान्येव विषानलो विषाग्नि. ज्वाला यस्य तस्मात्प्रकृत्या विपमात् स्वभावत एव कुटिलात् । 'प्रकृत्यादिभ्यस्तृ- तीया च' इति तृतीयासमास.। विलासा विनमा एव फणा स्फटास्ता बिभर्तीति तथोक्तात् । 'स्फटायां तु फणा द्वयो' इत्यमर । अस्माद्योषित्सात्कामिनीरूपव्या- लात् दूरादपसर दूरं गच्छ । योषित्सर्पसमागमं मा कुर्वित्यर्थ । अन्यथा तत्समा- गमेन दंशनप्रसङ्गे चिकित्साया दुष्करत्वादिति भाव । 'दूरान्तिकार्येभ्यो द्वितीया च' इति चकारात्पञ्चमी । तदेव प्रकटयति-इतरेति । इतरफणिना प्रसिद्धसर्पण दष्ट पुमान् औपधै । मूलिकामणिमन्त्रादिभिरित्यर्थ । चिकित्सितुं विषावरोप- गेनोज्जीवयितुं शक्य । चतुरवनिताभोगिना निपुणतरुणीसपेण प्रस्तं दष्टं समा- क्रान्तं च पुरुष तु मन्त्रिण मात्रिका विषवैद्या. त्यजन्ति विसृजन्ति हि । तद्वास- जनितोन्मादस्य दुरवरोपणत्वादिति भाव । अत्रापि समस्तवस्तुवर्तिसावयवरूप- कालंकार । तेन चोपमानात्प्रसिद्धसदुपमेयस्य योषित्सर्पस्याधिक्यप्रतीतेव्य- तिरेको व्यज्यत इत्यलंकारेणालकार वनि । हरिणीवृत्तम् ॥ पुन प्रकारान्तरेण भीपयति- विस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ । येनाचिरात्तद्धरामिषलोलमर्त्य- मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ ५२ ॥ विस्तारितमिति । मकरकेतनो मदन एव धीवर कैवर्त. तेन (का) । 'कैवर्ते दाशधीवरौ' इत्यमर । अत्रास्मिन् भवाम्वुराशौ ससारसागरे । स्त्री संज्ञास्य सजाता स्त्रीसज्ञितम्। योषिद्रूपमित्यर्थ । तारकादित्वादितच । बडिश मत्स्य वेध- नम् । मत्स्यगलग्राहकसामिषवक्रायोयन्त्रमित्यर्थ । 'बडिशं मत्स्यवेधनम्' इत्य- मर । विस्तारितं प्रवर्तितं । येन स्त्रीबडिशेन तस्य स्त्रीबडिशस्य अधरमेवामिषं मासखण्डं तत्र लोला सतृष्णा ये मा. मनुजा त एव मत्स्या मीनास्तान् अचिरा- द्विकृष्य आकृष्य अनुराग एव वह्नि तत्र विपचति विशेषेण पक्वान्करोति । अत्यन्तं ।
सुभाषितत्रिशत्यां - संतापयतीत्यर्थ । मन्मथधीवर एवेति शेष । सोऽप्येतद्वारैव मनुजानपरिपी व्यतीति भाव । अत्रापि पूर्ववद्रूपकालंकार । वसन्ततिलका ॥ अथ मानस भीषयति- कामिनीकायकान्तारे कुचपर्वतदुर्गमे । मा संचर मनापान्थ तत्रास्ते स्मरतस्करः ॥५३॥ कामिनीति । पन्थान गच्छति नित्यमिति पान्थ मन एव पान्थस्तस्य स- बुद्धि हे मन पान्थ, कुचावेव पर्वतौ ताभ्या दुर्गमे गन्तुमशक्ये कामिन्या कायो देह. स एव कान्तार अरण्य तत्र मा सचर सचार मा कुरु । मा प्रवर्तव इत्यर्थ । कुत । तत्र कान्तारे स्मर एव तस्करश्चोर आस्ते वर्तते । स च मान- सर्वस्वमपहरिष्यतीति भाव । 'चौरैकागारिकस्तेनदस्युतस्करमोषकाः' इत्यमर । 'तद्हतो करपत्योश्चोरदेवतयो. सुट तलोपश्च' इति सुडागमतलोपौ । अलका- रस्तु पूर्ववत् । अनुष्टुप् ॥ अथ त्रिभि. कस्य चिदनुभवमालक्ष्याह- व्यादीभ्रुण चलेन वक्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाहिना परमहं दष्टो न तच्चक्षुषा । दष्टः सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधम् ॥४५॥ व्यादीर्घेणेति । व्यादीण अत्यायतेन, अन्यत्र कर्णान्तविश्रान्तेन । चलेन चञ्च- लप्रकृतिना। वक्रगतिना निसर्गकुटिलसचारेण । समानमेतद्विशेषणद्वयम् । तेज- विना बलवता, अत्युज्वलेन च । प्रशंसायामिनि । भोगिना फणवता । 'भोग सुखे स्यादिभृतावहेश्व फणकाययो' इत्यमरः । अन्यत्र 'आभोगिना' इति च्छेद । विशालेनेत्यर्थ । नीलाब्जस्य नीलोत्पलस्य द्युतिरिव द्युतिर्यस्य तेन । एकत्र त- वर्णेन, अन्यत्र तत्सदृशेनेत्यर्थ । अहिना सर्पण परमत्यन्तं अहं दष्ट किंतु तच्च- क्षुषा तस्या कामिन्या चक्षुषा उक्तविशेषणेन न दष्ट इत्यर्थः । चिकित्सका वैद्या धर्मार्थिन परोपकार एव प्रयोजनमेषामस्ति तथाभूता सन्त । दिशि दिशि प्रतिदिशम् ‘नित्यवीप्सयो.' इति द्विर्भाव । प्रायेण भूम्ना सन्ति सर्वत्र सन्ती- त्यर्थ । कितु मुग्धाया मुग्धाङ्गनाया यदक्षि, यद्वा मुग्धाक्षिसुन्दरावलोकनम् , तेन सर्परूपेण क्षणं क्षणमात्रेण वीक्षितस्य दृष्टस्य । प्रस्तस्येत्यर्थ । मे मम तु वैद्यो न हि चिकित्सको नास्ति हि । औषवं विषहरभेषजमपि च नास्तीत्यर्थः । अतो महामोहार्णवनिमजनमेव, न तु तत्पारगमन मिति भाव । अत्र प्रसिद्धाह्य- पेक्षया चक्षुरूपाहेराधिक्यकथनायतिरेकालंकार । 'उपमानाद्यदन्यस्य व्यतिरेकः स एव स.' इति लक्षणात् । शार्दूलविक्रीडितम् ॥ इह हि मधुरगीतं नृत्तमेतद्रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् । । ।
२. शृङ्गारशतकम् । रणे' इत्यमर women इति हतपरमार्थैरिन्द्रियीम्यमाणः स्वहितकरणधूतैः पञ्चभिर्वञ्चितोऽस्मि ॥ ५५ ॥ इहेति । इह हि । तरुणीष्वेवेत्यर्थ । हिरत्रावधारणार्थक । 'हिहेताववधा- । मधुरं सतापहरम् । श्रोत्रसुखावहामित्यर्थ । 'शीतलीक्रियते तापो येन तन्मधुर स्मृतम्' इति वचनात् । तद्गीतं गानं स्फुरति । एवं नयना- नन्दकर नृत्तं नाट्य स्फुरति । अयं रसनेन्द्रियखादातिशयप्रदो रस अधरामृतं स्फुरति । असौ घ्राणतर्पण परिमल. पद्मिनीजातिनिमित्तगन्धविशेष घनसार- गन्वसारादिलेपनप्रयुक्तामोदविशेषो वा स्फुरति । एष लगिन्द्रियसौख्यावह स्तनाना स्पर्श स्फुरति । स्तनादीना द्विखविशिष्टा जाति प्रायेण' इति वामन- सूत्रं प्रायग्रहणाद्बहुवचनप्रयोग. । इत्येवप्रकारेण हतो विनष्ट परमार्थस्तत्त्वार्थ येषा तै । विपयपरतन्त्ररित्यर्थः । अतएव स्वहितकरणे धूत. कितवै । आत्म- हिताचरणतत्परैरिव स्थितरित्यर्थः । पञ्चभिरिन्द्रियै श्रोत्रादिमि भ्राम्यमाणस्त- त्तद्विषयेष्वासज्यमान सन् । वञ्चित प्रतारितोऽस्मि । न चैतत्कैतवं प्रागेवाज्ञा- सिषमित्यर्थ । मालिनी । अथ व्यामोहजनकं मन्मथं दूषयति- न गम्यो मन्त्राणां नच भवति भैषज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः। भ्रमावेशादङ्गे कमपि विद्धद्भङ्गमसक- स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ ५६ ॥ नेति । मन्त्राणां गम्यो मन्त्रसाध्यो न भवति । भैषज्य विषय औपधाद्यपने- यश्च न भवति । भेषजमेव भैषज्यं इति विग्रह. । खार्थे व्यप्रत्यय । भेषजौप- धभैषज्यानि' इत्यमर । तथा विविधैनीनाप्रकार शान्तिकशतैरनेकशान्तिकर्ममि प्रध्वंस विनाशं चापि न व्रजति न गच्छति । 'पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते । तच्छान्तिरौषधैर्दानपहोमार्चनादिभि ॥' इति स्मरणात् । प्रसिद्धस्तु जपादिभि शाम्यति न त्वयमिति भावः । कितु भ्रमावेशात् मोहोत्पादनात् अङ्गे शरीरे कमायनिर्वाच्यं भझं जाड्यम् , यद्वा भ्रमावेशात् मतिभ्रंशापादनात् अङ्गे । करचरणाद्यवयवेष्वित्यर्थ । कमपि भङ्गं विक्षेपादिविकारं असकृत् बहुवारं विद- धत् कुर्वन् । दधातेर्विपूर्वाच्छतृप्रत्ययः । 'नाम्यस्ताच्छतु' इति नुमभावः । स्मरापस्मार स्मरप्रयुक्ताङ्गनाव्यामोहरूपापस्माररोग दृशं मदीयदृष्टिं भ्रमयति व्यत्यासयति । अतस्मिस्तज्ज्ञानं करोतीत्यर्थः । तथा घूर्णयति चक्रवद्भामयति च। किमत्र करोमि, कथमयं चिकित्स्य इति भावः । यथाहुनैदानिका --'क्रुद्धैर्धातु- मिराहते च मनसि प्राणी तमः सविशन्दन्तान्खादति फेनमुद्वमति दो पादौ क्षिपन्मूढधीः । पश्यन्रूपमसत्क्षितौ निपतति प्राय. करोति क्रिया बीभत्स्याः स्वयमेव शाम्यति तथा वेगे लपस्माररुक् ॥' अतएव व्यतिरेकालंकार. । शिखरिणी ॥ ।
८८ सुभापितत्रिशत्यां अथ त्रिमि पण्याङ्गनागर्हण कुर्वनिगमयति- जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च । यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्वया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ ५७ ॥ जात्यन्धायेति । जात्यन्धाय जन्मप्रभृत्ययसन्नदृशे पुरुषाय च दुष्कुलाय च दुर्मुखाय मुखराय । बहुगीभाषणदूपितवदनायेत्यर्थ । 'दुर्मुखे मुखराबद्धमुखी' इत्यमर । यद्वा दुष्टं व्याध्यादिना जुगुग्सितं दुर्गन्धयुक्त वा मुखं यस्य तस्मै । जरया विख्सया जीर्णानि शिथिलानि कृशानि विश्लथसंबन्धानि च अखिलाङ्गानि करचरणाद्यशेपावयवा यस्य तस्मै च । ग्रामीणाय ग्रामान्तरादागताय अज्ञात- कुलगोत्राय पान्थाय चेत्यर्थः । किबहुना गलत्त्रंसमानं कुष्ठं कुष्ठजनितपूयर- कादि तेनाभिभूताय गर्हिताय च । लक्ष्मीलवश्रद्धया संपल्लेशप्राप्त्याशया मनो- हरं अतिसुन्दर निजवपुः स्वशरीर यच्छन्तीपु अर्पयन्तीषु । चुम्बना श्लेषणदन्त- नखवणादिसभोगार्थं तदधीनं कुर्वतीप्वित्यर्थः । ददाते 'दाणू दाने' इत्यस्मा- द्धातो शतरि ‘उगितश्च इति डीप् । 'पाघ्राध्मा-' इत्यादिना दाणो यच्छादेश. । तथा विवेक । कर्तव्याकर्तव्यविचार स एव कल्पलतिका तस्या शस्त्रीपु छुरि- कासु । विवेकच्छेदकरीष्वित्यर्थ । विवेकस्याग्यखिलार्थसंघटकत्वात्कल्पलतिका- रूपणमवगन्तव्यम् । 'स्याच्छस्त्री चासिपुत्री च छुरिका चा सिधेनुका' इत्यमरः । 'बह्वादिभ्यश्च' इति डीप् । पण्यत्रीषु वेश्याजनासु क पुमान् । विवेकरहितो- ऽपीत्यर्थः । रज्येत अनुरक्तो भवेत् । न कोऽपीत्यर्थ । 'वारस्त्री गणिका वेश्या सुलावण्याङ्गनापि च' इति वैजयन्ती । शार्दूलविक्रीडितम् ॥ वेश्यासौ मदनज्वाला रूपेन्धनविवर्धिता। कामिमियंत्र हूयन्ते यौवनानि धनानि च ॥५८ ॥ वेश्येति । असौ वेश्या । रूप सौन्दर्यमेवेन्धनानि तै समिद्भिर्विवर्धिता प्रव- धिता मदनज्वाला मन्मथाग्निज्वाला 'इन्धनं त्वेध इध्ममेध. समिस्त्रियाम्' इत्यमर । यत्र मदनज्वालारूपवेश्याया कामिभि कामुकै यौवनानि नूतन- वयांसि । युवादित्वादण्प्रत्यय । धनानि च हूयन्ते । हव्यरूपेण तत्साक्रियन्ते विलुप्यन्त इत्यर्थ । वर्गादिफलकादिभिराहवनीयाग्निज्वालाया हवीपीवेति भाव. । अत्र वेश्यायामारोप्यमाणस्य ज्वालात्वस्य प्रकृतहवनोपयोगित्वात्परि- णामालंकार । 'आरोग्यमाणस्य प्रकृतोपयोगित्वे परिणाम.' इति लक्षणात् । स च रूपेन्धनेति रूपकेण सकीर्यते रूपकत्वारोपणस्यौपरञ्जकमात्रमेवेति विवेक. । अनुष्टुप् ॥ कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि । चारभटचोरचेटकविटनटनिष्ठीवनशरावम् ॥ ५९॥ क इति । मनोज्ञं सुन्दरमपि वेश्याया अधर पल्लवमिवेत्युपमितसमासः । न
२. शृङ्गारशतकम् ।
८९
-
त्वधर पल्लवमिति रूपकम् । रूपके तूत्तरपदप्रधान्येन तत्र चुम्बनायोगात् । क
कुलपुरुष सत्कुलसभव पुमान् । जातिनीतिकुलाचार वर्मज्ञ इत्यर्थः । चुम्बति ।
न कोऽपीत्यर्थ । कुत एतदित्याशङ्कायामचुम्बनहेतुभूत विशेषणमाह-चारा गूढ.
पुरुषा , भटा योधा , चोरास्तस्करा , चेटका. स्त्रीपुरुषसधानकुशला दौत्यकर्मनि.
रताः, विटा जाराः, नटा भूमिकाधरा , तेषा पुरुषापसदानां निष्ठीवशरावं उच्छि-
ष्टपात्रम् । परमापवित्रमित्यर्थ । चुम्बनसमये तदुच्छिष्टस्य तत्र संक्रमणादिति
भावः । अत्र यद्यपि रितिकाले मुखं स्त्रीणा शुद्धमाखेटके शुनाम्' इति स्मरणात्सु-
रतसमये पवित्रमेव स्त्रीमुखम् , तथा'युक्तरीत्या कश्मलसंपर्कात् हेयतया
चुम्बनानहत्वान्न चुम्बनीयमिति तात्पर्यम् । 'शरावो वर्धमानक.' इत्यमरः । अत्र
रूपकोपमानुप्रासाना ससृष्टि । आर्याभेद ॥
स्त्रिय. बाह्यमधुरा अन्तर्विषा , अतएव सर्वथा त्याज्या एव, न तु ग्रात्या
इत्यभिप्रायेणाह-
मधु तिष्ठति वाचि योषितां
हृदि हालाहलमेव केवलम् ।
अतएव निपीयतेऽधरो
हृदयं मुष्टिभिरेव ताड्यते ॥ ६० ॥
मश्चिति । योषितां स्त्रीणां वाचि मधु क्षौद्रं तिष्ठति । हृदि हृदये केवलं प्राधा-
न्येन हालाहलमेव कालकूटविषमेव । अतएव अस्मात्कारणादेव अधरः अध-
रोष्ठः निपीयते । अत्र मधु वर्तत इति मत्वैव सर्वजनैराहत्य नितरा पीयते ।
हृदयं मुष्टिभि ताज्यते । अत्र विषं वर्तत इति मत्वैव सर्वजनैस्ताडनं क्रियते
अत स्त्रिय स्ववचनेषु केवलं मधुधारास्त्राविण्य , हृदये विषतुल्याभिप्रायपत्यश्च
इति पूर्वार्धे प्रदर्शितम् । उत्तरार्वे तु प्रथमपादे मधुग्रहणं च द्वितीयपादे हालाह-
लस्थानहृदयताडनं चेति प्रदर्शितमित्यभिप्राय.। अत्रोत्प्रेक्षातिशयोक्तिकाव्यलि-
ङ्ग वनिभेदानां ससृष्टि । वियोगिनीवृत्तम्-'विषमे ससजा गुरु समे सभरा
लोऽथगुरुर्वियोगिनी' इति लक्षणात् ॥
इति शृङ्गारशतकव्याख्याने कामिनीगर्हणं नाम तृतीया विशतिः ।
अथ सुविरक्तदुर्विरक्तपद्धति ।
एवं तावत्कामिनीगर्हणं कृतम् । कि विरका सन्ति वा न वेत्याशङ्काया
मन्त्येवेति मनसि निधाय तत्रापि सुविरक्तदुर्विरक्तभेदेन द्वैविध्यं प्रतिपादयिप्य-
नादौ सुविरक्तपद्धतिं वर्णयितुमुपक्रमते-'धन्याः' इत्यादिभिर्नवमि.-
धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसचिवलीलतानां
दृष्ट्वाकृति विकृतिमेति मनो न येषाम् ॥ ६१ ॥
९० सुभापितत्रिशत्यां धन्या इति । त एव पुरुषा धन्या सुकृतशालिन । सुविरक्ता इति यावत् । 'सुकृती पुण्यवान्धन्य' इत्यमर । ते क इत्याकाङ्क्षायामाह-धवले पुण्डरीकद- लसदृशे आयते कर्णान्तविश्रान्ते च लोचने यासा तासा तारुण्यदर्पण यौवनमदो- द्रेकेण धनौ निबिडौ पीनौ पीवरौ पयोधरौ स्तनौ यासा तासा क्षामोदरस्य अतिक- शमध्यस्य उपर्युपरिष्टात् लसन्त्य प्रकाशमाना या त्रिवल्य तिस्रश्च ता वल्यश्च त्रिवल्य । 'दिक्सख्ये सनायाम्' इति समास । सख्यापूर्वत्वेऽपि सप्तर्षय इत्या- दिवज्ज्ञेयमित्युक्तं प्राक् । ता लता इव यासा तासाम् । एतेनैतासा पद्मिनीत्वं सू च्यते । तदुक्तं रतिहरस्ये-'त्रिवलिललितमध्या हंसवाणी सुवेपा' इति । क्षामे- त्यत्र 'क्षायो म' इति मत्वम् । तथा चेत्थभूतरूपसपनाना कामिनीना आकृति आकारविशेषं दृष्ट्वा । 'इङ्गितं हृद्तो भावो बहिराकारमाकृति ' इति । येषां पुरुषाणा मनो विकृति विकारम् । तत्परतन्त्रत्वमिति यावत् । नैति न प्राप्नोति । अतएव धन्या इति सबन्ध । एवं निर्विकारचित्तत्वं शमसंपन्नानामेव न त्वन्येषामिति भाव । तदुक्तम्-'शमो वैराग्यानिर्विकारचित्तत्वम्' इति । वसन्ततिलका ॥ अथ पूर्वोपभुक्तकामिनीधनव्यञ्जनसुविरक्तता प्रकट यति- - बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते । संप्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते क्षीणो मोहस्तृणमिव जगजालमालोकयामः ॥ ६२ ॥ बाल इति । हे बाले मुग्धे, लीलया विलासवैचित्र्या मुकुलितानि अवनिमील- नानि यस्मिन्कर्मणि तद्यथा । मन्थरा अलसप्राया अमी दृष्टिपाता विलोक- नप्रसारा. कि किमर्थ क्षिप्यन्ते विकीर्यन्ते । न विक्षेप्या इत्यर्थः। किंतु विरम- विरम अभीक्ष्णं विरम । दृष्टिपातादिति शेष। अभीक्ष्ण्ये द्विर्भाव । 'व्यापरिभ्यो रम 'इति परस्मैपदम् । कुत एपोऽय तेश्रम कटाक्षविक्षेपजनितायासो व्यर्थो निर- र्थक । अभिमतफलानिष्पत्तेरिति भाव । नन्वेतावत्पर्यन्तं मदायत्तचित्तेषु युष्मा- सु कथ फलासिद्विरित्यत आहु -संप्रति इदानी वयं अन्ये परे । त्वद्विलासलाल- सत्वेन समोहितास्तदानीतना । इदानी न भवाम इत्यर्थ । कुतः। बाल्यं उपरत नष्टम् । बाल्यशब्देन यौवन लक्ष्यते । त्वत्पारतन्त्र्यकारि यौवनमुपरतमित्यर्थ. । यहा बाल्यं अविवेकित्वमुपरतम् । कितु आस्था परिशीलनादर वनान्ते अरण्य- मध्ये । वर्तते इति शेष । कितु त्वयि रागं परित्यज्य वैराग्येण वनवासमपेक्षामह इत्यर्थ । तत्कुतः। मोह अज्ञानं क्षीणो ध्वस्त । त्वदासङ्गजननहेतुर्निर्मूलोऽभूदित्य- र्थः । अतो जगजालमशेषप्रपञ्चं तृणमिव नि सारमालोकयाम । 'निस्पृहस्य तृण जगत्' इत्युक्तत्वात्तथा पश्याम । इदानी ज्ञानोदयवशाच्च मन सुखातिरिक्त सर्व तुच्छमनुसंदधाम इत्यर्थ । अतस्त्वया न प्रेक्षणीयमिति भाव । मन्दाक्रान्ता ॥
२. शृङ्गारशतकम् । उक्तमेवार्थ भङ्गयन्तरेणाह- इयं बाला मां प्रत्यनवरतमिन्दीवरदल- प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया । गतो मोहोऽस्माकं स्मरशवरबाणव्यतिकर- ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥६३॥ इयमिति । इयं एषा वाला मुग्वा मा प्रति मामुद्दिश्य अनवरतमविच्छिन्नं यथा तथा। इन्दीवरदलप्रभाचोरमिन्दीवरकान्तिमोषकम् । तत्कल्पमित्यर्थ । चक्षु क्षिपति प्रसारयति । अनया बालया किमभिप्रेतमपेक्षितं तन जानामी- त्यर्थ । ननु तया त्वत्सङ्ग एवापेक्षित , तत्कुतो न जानासीत्याशङ्कायामाह- अस्माकं मोहो गत उपरतः । इदानी मिति शेष । ननु पूर्व मामित्येकवचनं प्रयुज्यास्माकमितीदानी बहुवचनप्रयोगात्कथं सामानाविकरण्यमुपपद्यत इति चेत्तथापि निवृत्तिमार्गोत्सुकत्वप्रयुक्तात्मसभावनया बहूकरणं न दोषायेति समा. धेयम् । यद्वा मामिति समुदायनिर्देशेन वा न दोष । तथा स्मर एव शबर किरातस्तस्य बाणव्यतिकरेण शरसंपर्केण यो ज्वर संतापस्तस्य ज्वाला शान्ता । विरतेत्यर्थ । तदपि तथापि वराकी न विरमति विरतिं न प्राप्नोति । पूर्व प्राण- प्रियतया गरीयस्या बालायां वराकीशब्दप्रयोगेणास्यात्यन्तवैराग्यं सूच्यते । 'जल्पभिक्षकुलुण्ट-' इत्यादिना पाकन्प्रत्यये षित्वान्टीष्प्रत्यये च वराकीति सिद्धम् । शिखरिणीवृत्तम् ॥ सप्रति साटोपपरिवारकंदर्प निराकरणवचनमाह- किं कन्दर्प शरं कदर्थयसि रे कोदण्डटङ्कारितं रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि । मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षरलं चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ६४ ॥ किमिति । रे कन्दर्प हे मदन । रे इति नीचसंबोधने । 'नीचसंबोधने तु रे' इत्यमरः। एवमुत्तरत्रापि । कोदण्डटङ्कारितं कोदण्डटङ्कारवत्कृतम् । धनुर्गुणटङ्कार- पूर्वकमित्यर्थः । 'तत्करोति-' इति णिचि णाविष्ठवद्भावे 'विन्मतोलक्' । शर त्वदी- यबाण कि किमर्थम् । कुत्सितोऽर्थ कदर्थ. । 'को कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेश । कदर्थ करोषि कदर्थयसि । व्यर्थयसीत्यर्थ । धात्वर्थे णिचि सिपू । तथा रे रे कोकिल हे कलकण्ठ, अत्र 'असूयासमतिकोपकुत्सनभर्सनेषु' इत्यसूयार्थे कोपाद्यर्थे च द्विरुक्ति । 'खरितमानेडिते-' इत्यादिना प्राप्तस्य प्लुत साहसमनिच्छ- ता विभाषा वक्तव्य इति पाक्षिक प्रतिषेध । शास्त्रत्याग.साहसम्' इति हरदत्त । कोमल रुचिर क्लरवं मधुरखरम् । 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे। कल' इत्यमर । कि किमर्थं वा। वृथा व्यर्थ । जल्पसि कूज सि । व्याहरसीति यावत्। न व्याहर्तव्यमित्यर्थ । प्रयोजनाभावादिति भावः । तथा हे मुग्धे हे सुन्दरि, स्नि- । । ९ सु. त्रि.
९२ सुभाषितत्रिशत्यां ग्धा सान्द्रा । 'स्निग्धं तु मसृणे सान्द्रे' इत्यमर.। विदग्धा विविधविलासवि- शेषविवरणनिपुणाः, चारव. इन्दीवरारविन्दादिवत्स्वभावरमणीया , मधुरा सुधाधारावन्मनोहराश्च । विशेषणमपि मिथोविशेषणविशेष्यभावविवक्षायाम् 'विशेषणं विशेष्येण बहुलम्' इति समासः । तै । तथा लोलैनिसर्गचञ्चलै कटा- क्षैरपागावलोकनैरलम्' । यद्वा स्निग्धै ‘विखम्भे परमा काष्टामारूढे दर्शनादिमि । येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥' इत्युक्तलक्षणात्स्नेहपरिष्कृतै । तथा विदग्धै । विरक्तस्यापि मन्मयविकारोद्दीपनकरित्यर्थ । 'यदर्शने विरक्तोऽपि क्षुभ्यते तत्समन्मथम्' इति लक्षणात् । तथा चारुभिर्विषयमात्र विश्रान्तिविर- हिणि शृङ्खलवृत्तिलमदमन्थरलादिगुणशीलवस्य विवक्षितलास्मिताकाररित्यर्थ. । तदुक्तं भावप्रकाशे-'अपरिच्छिन्नविषयं मदमन्थर मीलितम् । स्फुरब्रूपक्षता- युक्तं तत्स्मेरमिति कथ्यते ॥' इति । तथा मधुरैः सतापहरैः । 'शीतलीक्रियते तापो येन तन्मधुर स्मृतम्' इति लक्षणात् । लोलै सतृष्णैः । सभोगौत्सुक्य. भावनातत्परैरित्यर्थः । तदुक्तम्-'कटाक्षीसगभ॑स्तु सभोगौत्सुक्यभावना' इति । कटाक्षे 'यद्गतागतविनान्तिवैचित्र्येण प्रवर्तनम् । तारकाया कलाभि- ज्ञास्तं कटाक्षं प्रचक्षते ॥' इत्युक्तलक्षणैरलम् । इत्थभूताः कटाक्षा न प्रवर्तनीया इत्यर्थः । अत्र वारणार्थयोगात्पक्षे तृतीया। ननु कुत एवं निराक्रियत इति चेत्तत्राह-चेत. मदीयचित्तं (कर्तृ) चुम्बितमास्वाद्यमानं चन्द्रचूडस्य चन्द्र- शेखरस्य चरणध्यानमेवामृतं येन तत्तथोक्तं सत् वर्तते तिष्ठति । स्मरहरचरण- प्यानावधानसत्वरसजातपरमवैराग्योल्लसितचित्तं मामेते क्षुद्राः कि करिष्यन्ती- त्येको भाव । अमृतपानपरितृप्तस्य किमारनालेनेत्यपरो भाव. । ब्रह्मानन्दभरि- तस्य कि वैषयिकक्षुद्रानन्देनेत्यपरतरो भाव । नाहमिदानी पूर्ववद्युष्मत्किकरः, किंतु शकरकिकर. । अतोऽसाध्य. सिसाधयिषता युष्माकं कोऽयमपस्मार इत्य- परतमो भावः । सर्वथा नास्माकं कामिन्यपेक्षास्तीति परमो भाव. । शार्दूलवि- क्रीडितम् ॥ अथ पञ्च विषयविरक्तिप्रकारमाह- विरहेऽपि संगमः खलु परस्परं संगतं मनो येषाम् । हृदयं विघट्टितं चेत्सगो विरहं विशेषयति ॥ ६५ ॥ विरह इति । येषा स्त्रीपुरुषाणा मन परस्पर अन्योन्यं सगतम् । अन्योन्यानु- रागबद्धमित्यर्थः । तेषा विरहेऽपि वियोगावस्थायामपि संगम खलु समागमएव खलु । 'हृदयसगम एव सुसगमो न तनुसंगम एव सुसंगम' इति वचनात् । अ- न्तरङ्गबलीयस्त्वन्यायाचेति भावः । मनोनियमने तु सङ्गो विरहहेतुक एव भवतीत्याह-हृदयं मन. विघट्टितं सम्यक्क्षतं वैराग्यप्रवणीकृतं चेदित्यर्थ. । सङ्ग समागमोऽपि विरहं वियोगमेव विशेषयति विशिष्टं करोति । तमेवापेक्षा- विषयं करोतीत्यर्थ. । तदानीं तस्येवाक्षतखादिति भावः । अत. सर्वथा मनोनि- २. शृङ्गारशतकम् । - यमनमावश्यकम् । तेन चेन्द्रियप्रभृत्युपरमे विषयाणामेकान्तत. पराहतिरिति कृत्वा पञ्चविषय विरक्तिर्नामेयमेवेति निगूढामिसंधिः । परस्परेत्यत्र 'कर्मव्यति- हारे सर्वनाम्नो द्वे भवत.' इति वक्तव्यात्परशब्दस्य द्विर्भाव । 'समासवच्च बहुलं' यथा न समासवत्प्रथमैकवचनं तथा पूर्वपदस्येति वक्तव्यं प्रथमैकवचनं द्विती. यायेकवचनान्तत्वमवरपदस्येति । आर्याभेद ॥ अथ कस्यचित्प्रवासिनो विरक्तस्य विचाररूपेण वैराग्यं प्रकटयन्नाह- किं गतेन यदि सान जीवति प्राणिति प्रियतमा तथापि किम् । इत्युदीक्ष्य नवमेघमालिका न प्रयाति पथिकः स्वमन्दिरम् ॥ ६६ ॥ किमिति । सा मदीया प्रियतमा प्रेयसी यदि न जीवति विरहवेदनया प्रा- णान्न धारयति तदा गतेन गमनेन । भावे क्त । किम् । न किचिदपीत्यर्थ । यद्वा गतेन गृहमुपगतेन । मयेति शेष । किम् । अथ प्राणिति केनचिद्विनोदो- पायेन जीवति यदि तथापि प्राणनेऽपि गतेन किम् । उभयथापि गमनं व्यर्थमे- वेत्यर्थः । इति विचार्येति शेषः । इहैव गम्यमानार्थवादप्रयोगः, प्रयोगे वा पौनरुक्त्यमित्यालंकारिकाः । पन्थानं गच्छतीति पथिक कश्चित्पान्थः । “पथ कन्' इति कन्प्रत्यय । नवमेघमालिका नवीन कादम्बिनीम् । विरहि निवहसं- हारकारिणीमित्यर्थ । उदीक्ष्य खमन्दिरं निजगृहं न प्रयाति । वैराग्य निश्चल- चित्तत्वादिति भाव । तदुक्तम्-'यद्भावि तद्भवत्येव यदभावि न तद्भवेत् । इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित् ॥' इति । रथोद्धता ॥ अथ बुधाना तत्र वैराग्यमुपदिशति- विरमत वुधा योपित्सङ्गात्सुखात्क्षणभङ्गुरा. त्कुरुत करुणामैत्रीप्रशावधूजनसंगमम् । न खलु नरके हाराकान्तं घनस्तनमण्डलं शरणमथ वा श्रोणीबिम्ब रणन्मणिमेखलम् ॥ ६७ ॥ विरमतेति । हे बुधा विद्वासः, योषित्सङ्गायुवतिसमागमाद्यत्सुखं तस्मात् । कीदग्विधात् । क्षणभड्डरात्क्षणिकात् । क्षणिकसुखप्रदयोषित्सङ्गादित्यर्थ । 'भञ्ज- भासमिदो घुरच्' इति घुरच्प्रत्यय । 'जुगुप्साविराम-' इत्यादिना पञ्चमी । विरमत उपरता भवत।तुच्छसुखदयोषित्समागमं त्यजतेत्यर्थः । 'व्याडपरिभ्यो रमः' इति परस्मैपदम् । कितु करुणा दु खिष्वनुकम्पा, मैत्री पुण्यकृत्सु मित्रता, प्रज्ञा बुद्धि- विशेष ।एतेन पापिषूपेक्षा च लक्ष्यते । एतासामेवान्त करणमलशोधकत्वाञ्चित्त- परिकर्माणीति वदन्ति साख्या: । ता एव वधूजनस्तस्य संगमं परिशीलनतात्पर्य कुरुत । एतेनात्यूर्जसुखं संभवति । कि क्षणिकसुखावलम्बनेनेति भाव । विपक्षे - ९४ सुभाषितत्रिशत्यां - बाधकमाह-नरके निरये हाराकान्तं मुक्ताहारोपशोभितं धनस्तनमण्डलं पटु- तरकुचकलशभारो वा । अथेति वाक्यारम्भे । रणन्ती मणिमेखला मणिखचित- रशना यस्य तत्तथोक्तम् । काञ्चीकलापरमणीयमित्यर्थ । श्रोणीबिम्बं नितम्बम. ण्डलं वा । शरण रक्षकं न खलु न भवति हि । करुणादिसमागमस्तु नैवं भवति । अत. स एवावश्यं स्वीकर्तव्य इति भाव । हरिणीवृत्तम् ॥ एवं साख्यरीत्या वैराग्यमुक्त्वा सप्रति योगमतानुसारेणाह- यदा योगाभ्यासव्यसनकृशयोरात्ममनसो. रविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः । प्रियाणामालापैरधरमधुभिर्वक्रविधुभिः सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ ६८ ॥ यदेति । यदा यस्मिन्समये । यस्येत्यध्याहार उत्तरत्र तच्छब्दसद्भावात् । तथा च यस्य सबन्धिन , योगाभ्यासे अष्टाङ्गपरिशीलने यद्यसनमासक्तिस्तेन कृशयो । तत्परतन्त्रयोरित्यर्थ । आत्ममनसो प्रत्यगात्मान्त करणयोमैत्री मित्रत्वं स्फुरति प्रकाशयति । योगाभ्यासवशेनाशेषबाह्यविषयान्परित्यज्य यदात्माराम- मेव मनो भवतीत्यर्थः । तदा तस्य कृतिनो धन्यस्य । 'इष्टादिभ्यश्च' इति इनि. प्रत्यय । तै. किमु । न किमपीत्यर्थ । ते क इत्याशङ्कायामाह-प्रियाणा प्रिय- तमाना संवन्धिमिरालापै श्रोत्रसुखावहमृदुमधुरव्याहारैश्च, अधरमधुमि. रस- नेन्द्रियप्रीतिजनकाधरामृतेश्व, तथा निश्वासामोदेन सह सनिश्वासामोदै । पद्मि- नीजातित्वानिश्वासकघ्राणतर्पणगन्धसबन्धबन्धुरैरित्यर्थ. । वक्रविधुभिनयनान- न्दकरमुखचन्द्रश्च । अत्र चन्द्रस्यैकत्वेऽपि मुखबाहुल्यात् बहुलत्वसिद्धि । तथा सकुचकलशाश्लेषाणि कुचकुम्भालिङ्गनसहितानि यानि सुरतानि त्वगुपस्थेन्द्रिया- मन्दानन्दकरबाह्याभ्यन्तरसंभोगविशेषास्तैश्च । एवमशेषेन्द्रियग्रामसंतर्पणैरपि तै. किमिति सबन्ध । आत्मानन्दानुभववेलाया तेषामतितुच्छतया प्रतीयमा- नत्वादिति भावः । शिखरिणीवृत्तम् ॥ अथ वेदान्तसिद्धान्तरीत्या वैराग्यवर्णनं निगमयति- यदासीदज्ञानं स्मरतिमिरसंचारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदिति । इदानीमस्माकं पटुतरविवेकाअनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ ६९ ॥ यदेति । यदा यस्मिन्काले स्मर काम एव तिमिरं तिमिराख्यनेत्ररोग , अन्ध- कारश्च गम्यते । 'तिमिर नेत्ररोगे स्यादन्धकारेऽपि च स्मृतम्' इत्यभिधानात् । तस्य संचारेण व्याप्त्या जनितमुत्पादितमनानमविवेक आसीत् , तदा तस्मिन्काले अशेषं सर्वमिदं जगत् । नारीमयं योषिद्रूमिति दृष्टमाकलितम् । अज्ञानवशात्तथाव- - २. शृङ्गारशतकम् । । अतो A बुद्धमित्यर्थः । इदानीमस्मिन्काले तु पटुतरोऽज्ञाननिरसनदक्ष , अन्यत्र नेत्ररो- गनिराकरणसमर्थश्च यो विवेक तत्त्वज्ञानमेवाननं नेत्रकल्याणाख्यसिद्धाजनं तज्जुषा प्राप्तवता अस्माकं सबन्धिनी दृष्टिर्मति , दृक् च । असमा समा सप- द्यमाना समीभूता । अभूततद्भावे चि । निजप्रकृतिमापन्ना सतीत्यर्थ. । त्रया- णा भुवनाना समाहारस्त्रिभुवनम् । 'तद्धितार्थ-' इत्यादिना समासः । पात्राद्य- न्तलान स्त्रीलम् । ब्रह्म ब्रह्ममयं मनुते । ज्ञानोदयवशाब्रह्मखरूपमवबुध्यते । यथाजनेन नेत्ररोगनिवृत्ती घटाद्यर्थतत्त्वज्ञान जायते, तथा तत्त्वज्ञानेन कामा- न्धकारप्रयुक्ताज्ञानावरणापाये परवस्तुसाक्षात्कारो भवति । ततः सम्यग्दृष्ट्या सर्वमिदं ब्रह्माकारतया पश्यति । अयमेव वेदान्त सिद्धान्त इति भाव विवेकस्य परयोहेतुखात्तदधिगमार्थमेव यत्न कर्तव्य इति तात्पर्यम् । रूपका- लंकार । वृत्तं पूर्ववत् ॥ अयैतद्वैलक्षण्येन दुर्विरक्तपद्धतिमाह । तत्रादौ यदुक्तं कृतिनो विवेकस्फुरण- मिति तदेतनिगमयति- तावदेव कृतिनामपि स्फुर- त्येष निर्मलविवेकदीपकः । यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः ॥ ७० ॥ तावदिति । कृतमेमि कृतिनस्तेषा कुशलानामपि । 'इष्टादिभ्यश्च'इतीनिप्रत्ययः। एष पूर्वोक्तो निर्मलो निष्कलको विवेकस्तत्त्वावबोध एव दीप । स्वार्थे क तावत् तावत्पर्यन्तमेव स्फुरति दीप्यते। कियत्पर्यन्तमित्याकाङ्क्षायामाह-कुरड्नच- क्षुषा हरिणलोचनानां चटुलानि चञ्चलानि लोचनाञ्चलानि कटाक्षवीक्षणानि तैः।क- लाप्रायैरिति भाव । यावत् यावत्पर्यन्तमेव न ताज्यते न निहन्यते । नावलोक्यत इत्यर्थ । तावदेवेति सबन्ध । विवेककुशलोऽपि जन कामिनीकटाक्षवीक्षित को वा विवेकनिर्वहणदक्ष इति भाव । यद्यपि 'अञ्चल बशुकान्ते स्यात्' इत्यमरः, तथापि अन्तिमत्वसाम्यादौपचारिकोऽयं निर्देश इति मन्तव्यम् । रथोद्धता ॥ अथैतेषां दुर्विरक्तत्वाभिद्योतकानीदृशान्येव वचनान्याह- वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पण्डितानाम् । जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलयनयनानां को विहातुं समर्थः॥ ७१ ॥ पचसीति । श्रुतिमुखराण्यश्रान्तश्रुतिपाठतत्तराणि मुखानि येषा तेषाम् । नि- रन्तरवेदाभ्यसनव्यसनरसनाना वेदवेदान्तपारगाणामपीत्यर्थः। पण्डिताना विवे- किना वचसि केवलं वाङ्मात्र एव सङ्गत्यागं वधूससर्गत्यागमुद्दिश्य वार्ता गाढा भवति । न त्वन्तःकरण इति भाव.। कुतः । अरुणरत्नग्रन्थि पद्मरागमणिखचितः काञ्चयेव कलापो भूषणं यस्य तत्तथोक्तम् । 'शोणरत्नं लोहितकं पद्मरागोऽथ मौ- क्तिकम्', 'कलापोभूषणे बहे' इत्युभयत्राप्यमरः। कुवलयनयनानामिन्दीवराक्षीणां ।
सुभाषितत्रिशत्यां जधनं कटिपुरोभागं विहातुं त्यक्तुं क समर्थः । न कोऽपीत्यर्थ. । प्रायश ईदृशा- न्येव दुर्विरक्ताना वचनानीति भाव । मालिनी ॥ स परप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः । यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ ७२ ॥ स इति । सोऽसावलीकपण्डितोऽनृतभाषी । 'अलीकं लप्रियेऽन्ते' इत्यमरः । परप्रतारको लोकवञ्चक । कोऽसावित्यत आह-योऽलीकपण्डितो युवतीस्तरु- णी । 'यूनस्ति ' इति तिप्रत्यय । निन्दति गर्हयति । स इति संबन्धः । ननु नि:सङ्गलाद्युवतिनिन्दाकरणे कथं प्रतारकखमत आह-यस्मात्कारणात्तपसश्चा- न्द्रायणादेव्रतोपवासादिरूपस्य वा फलं खर्गः, तत्र खर्गेऽपि चा"सरस उर्वशीप्र- भृतयः । तत्रापि तत्सगम एवेत्यर्थः । अत परप्रतारक इति भावः । 'स्त्रिया बहुष्वप्सरस स्वर्वेश्या उर्वशीमुखा' इत्यमर । 'स्वपरप्रतारक ' इति पाठेऽप्य- यमेवार्थः । योऽलीकण्डित. पण्डितमानी। रहस्यानभिज्ञ इत्यर्थः । युवतीनिन्दति असौ स्वस्य परेषा च प्रतारक । आत्मवञ्चक परवञ्चकश्चेत्यर्थः । कुत । यस्मा- द्विशेपं समानं स्वपरफलवेदनबोधनयो. परिज्ञानाभावादुभयवञ्चक इत्यर्थः । आर्यामेद.॥ अथ मन्मथस्यात्यन्तदुर्जयत्वमाह- मत्तेभकुम्भदलने भुवि सन्ति धीराः केचित्प्रचण्डमृगराजवधेऽपि दक्षाः। किंतु ब्रवीमि बलिनां पुरतः प्रसह्य कन्दर्पदर्पदलने विरला मनुष्याः॥ ७३ ॥ मत्तेमेति । भुवि भूलोके मत्तेभानां मत्तमातङ्गाना कुम्भदलने कुम्भस्थलवि- दारणे समर्था इति शेष । धीरा शूरा. सन्ति । तथा केचित्पुरुषा प्रचण्डो- ऽत्यन्तकोपनो यो मृगराज सिंहस्तस्य वधे हिंसायां दक्षाः समर्था सन्ति । गजघातिभ्योऽप्युत्तमा शूरा सभवन्तीत्यर्थ । किंतु बलिना बलाढ्याना शूरा- णाम् । ज्ञानबलशालिनामिति च गम्यते । पुरतोऽग्रे ब्रवीमि नि शई करमुद्धृत्य सडिण्डिमघोषमुद्घोषयामीत्यर्थ । किमुद्घोषयसीत्यत आह-प्रसह्य बलात् । भुजबलाद्बुद्धिबलाचेत्यर्थ । कन्दर्पदर्पदलने मदनमदविदारणे समर्था मनुष्या विरला मृग्या । प्रायशो न सन्तीत्यर्थ । शंभुं तद्भक्ताश्च विना मदनविजयिनो न संभवन्त्येवेति शिवभक्ताग्रेसरस्य कवेर्निगूढतराभिसधि । अत्र कन्दर्पदप॑ति सकृयजनद्वयावृत्तेवृत्त्यनुप्रासाख्य. शब्दालंकारः । वसन्ततिलका ॥ अथ च पुनर्वचनवैचित्रीमेवाह- सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां लजां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥७॥ ।
२. शृङ्गारशतकम्। O सदिति । नर । विद्वानपीति भाव । सन्मार्गे श्रुतिस्मृतिबोधिताचारे तावत् तावत्पर्यन्तमेवास्ते वर्तते । इन्द्रियाणा चक्षुरादीनां च तावदेव प्रभवति समर्थों भवति । नियमन इति शेष । लज्जां जुगुप्सितकर्माचरणाचेत संकोचनलक्षणां व्रीडा च तावदेव विधत्तेऽनुवर्तते । विनयं नम्रत्वं च तावदेव समालम्बते खीकुरुते । कियत्पर्यन्तमित्याशङ्कायामाह-भूरेव चापं कार्मुकं तेनाकृष्टाश्च ते मुक्ताश्चेति विशेषणसमास । एकत्र भ्रूभङ्गपूर्वकम् , अपरत्र चापनमनपूर्वकं च प्रयुक्ता इत्यर्थ । श्रवणपथगता श्रोत्रमार्गगताः । एकत्र कर्णान्तविश्रान्तत्वात् , अन्यत्र तत्पर्यन्तमाकर्षणाच्चेति भाव । नीलानि पक्ष्माणि लोमानि, अन्यत्र गरुतश्च येषा ते तथोक्ताः । धृति मुष्णन्तीति वृतिमुषो धैर्यभेदिन एते प्रसिद्धा लीलावतीना विलासिनीना दृष्टय एव बाणा यावत् यावत्पर्यन्तं हृदि मानसे वक्षसि न पतन्ति न प्रविशन्ति तावदिति सबन्ध । तदनन्तर सन्मार्गप्रवर्त- नादिकं निर्वोढ क समर्थ इति भाव. । उक्तं च प्रबोवचन्द्रोदये-'तावद्विवेक- विभवस्तावत्सन्मार्गवर्तनं पुंसि । निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥' इति । अत्र द्वितीयाधं समस्तवस्तुवर्तिसावयवरूपकालंकारः । स्रग्धरावृत्तम् ॥ कि बहुना ब्रह्माप्यगनोद्योगप्रत्यूहाचरणे न प्रभवतीत्याह- उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः । तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ ७५ ॥ उन्मत्तेति । अड्गना. स्त्रिय उन्मत्तोऽत्युत्कटो य. प्रेमा अनुरागस्तस्य सर- म्भात्संभ्रमात् । 'संरम्भ सभ्रमे कोपे' इति विश्व । यत्कर्म आरभन्ते विहितम- विहितं वा कर्तुमुद्युजत इत्यर्थः । तत्र कर्मणि प्रत्यूहं विघ्नम् । 'विन्नोऽन्तराय. प्रत्यूह.' इत्यमर । आधातु कर्तुं ब्रह्मापि । किमुतान्य इति भाव सभय । असमर्थ खल्वित्यर्थ । अनिवार्य निश्चयानामनावृतानामङ्गनाना को वा निवारयितेति भाव । अनुष्टुप् ॥ तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता। यावजवलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ ७६ ॥ तावदिति । महत्त्वं महानुभावत्वम् , पाण्डित्य प्राज्ञत्वम्, कुलीनत्वं महाकु- लप्रसूतत्वम् । 'कुलात्ख.' इति खप्रत्ययः । विवेकिता कर्तव्याकर्तव्यविचारचतु- रत्वं च, तावत् , तावत्पर्यन्तमेव भवतीति शेष । यावत् हतो नीच अलाध्य. तापादकत्वानिकृष्ट. । पञ्च अरविन्दादय इषवो बाणा यस्य स पञ्चेषुभंदन. स एव पावकोऽग्नि अङ्गेषु न ज्वलति नाविर्भवति । न सतापयतीत्यर्थ । तावदि- ति संवन्धः । तदनन्तरं को वा महत्त्वादिगुणविशिष्ट इति भावः । 'अरविन्दम- शोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायका' इत्य- मरः । अत्र मदने अग्नित्वरूपणादेकदेशवर्तिरूपकम् । अनुष्टुप् ॥ कातर ९८ सुभाषितत्रिशत्यां अथ सासारिकस्य सद्गतिर्दुर्लभेति सहेतुकमाह-- शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्तबोधोऽपि बाढं संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् । येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भूलता कुश्चिकेत्र ॥ ७७ ॥ शास्त्रज्ञ इति । शास्त्रज्ञः सकलशास्त्ररहस्याभिज्ञोऽपि । 'आतोऽनुपसर्गे कः' इति कप्रत्यय । तत्रापि प्रगुणित प्रकर्षणावृत्तिविषयीकृतो नयो नीतिशास्त्रं येन स तथोक्तोऽपि । फलवदर्यावबोवनपर्यन्तं सम्यक्परिशीलितनीतिशास्त्रोऽपीत्य- र्थ । गुणशब्दात् 'तत्करोति-' इति ण्यन्तात्कर्मणि क्त ।णाविष्ठवद्भावे विन्म- तोलृक् । 'गुण स्यावृत्तिशब्दाख्ये ज्येन्द्रिये मुख्यतन्तुषु' इति वैजयन्ती । तथा बाढं दृढ आत्तबोध उत्पन्नज्ञानोऽपि पुमान् अस्मिन्परिवर्तमाने ससारे सद्गतीना भाजनं पात्रम् । योग्य इति यावत् । विरलो मृग्यो भवति । स्वर्गादिसद्गतिगामी य कश्चिदेव भवति । नतु बहुल इत्यर्थ । कुत । येन कारणेन एतस्मिन्संमारे वामाक्षीणा मनोहरनयनानाम् । 'बहुव्रीहौ' इत्यादिना पचि षित्त्वात् डीपू । कुटिला वक्रा भूलतेव भ्रूलता भ्रूवल्ली कुञ्चिकेव विष्कम्भविघटनसाधनवक्राग्रायो- मयशलाकेव निरयनगरस्य यमपुरस्य द्वारम् । लक्षणया द्वारपिधानकवाटविष्फ- म्भमित्यर्थ । द्वारशब्देन कवाटस्य तेन च तद्विष्कम्भस्य लक्षितत्वात् उद्घाटयन्ती विघयन्ती । व्यामोहोत्पादनेन दुर्गतौ प्रवेशयन्तीत्यर्थ. । भवति खलु । अतो विरल इति सबन्धः । स्त्रीसङ्गिना कुत सद्गतिरिति भाव । उपमालकार मन्दाक्रान्तावृत्तम् ॥ अथ द्वाभ्या मन्मथस्य चरित्रवैचित्र्यमाह- कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो वणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः । क्षुधाक्षामो जीर्णः पिठरककसालार्पितगलः शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ ७८ ॥ कृश इति । कृश पिण्डालाभादस्थिचर्मावशिष्टदेहः । काणोऽन्ध , यद्वा एका- क्ष । खा. पादविकल.। अकार्यकरणेन लगुडप्रहाराद्भग्नपाद इत्यर्थः । तथा श्रव- णरहित समूलं छिन्नकर्ण । पुच्छेन विकलश्छिन्नलाशूल । 'येनाङ्ग विकारः' इति समास । व्रणी सर्वाङ्गक्षतवान् । अत पूयेन क्लिन्न आई. । कृमीणां व्रणोत्प- नापादतुच्छजन्तूना कुलशतै । अनेककृमिपरम्पराभिरित्यर्थ ।आवृता व्याप्ता तनुर्यस्य स तथोक्त । क्षुधा बुभुक्षया क्षाम. परिक्षीण । 'क्षायो म' इति मखम्। जीर्णो जरया शिथिलावयव.। पिठरककसाले घटमुखवलयेऽर्पितगल असजि- तकण्ठनाल. । शुनको हि घटमुखे वशिरो निक्षिप्यान्नं भक्षयति, ततस्तावतैव परिपुष्टत्वेनाकष्टुमशक्यवाद्भुवि विघटनेनाध कपालापाये तन्मुखकपालेनासन्जित- .
२. शृङ्गारशतकम्। ९९ .. कण्ठो भवतीति प्रसिद्धि । अत एवंभूत इत्यर्थ । यद्वा चौर्येणान्नादिभक्षणे तद्दण्ड- नार्थ भ्राष्ट्र मध्ये छिद्रं कृत्वा गले आसन्जयति । तस्मादित्थंभूत इत्यर्थ । एवं जु- गुप्सितोऽपि श्वा शुनक शुनी सारमेयीमन्वेत्यनुसरति । निधुवनार्थमिति भावः । तथा हि हतं विनष्टमपि च मदनो हन्त्येव मनोविकारोत्पादनेन पीडयत्येव । नतु हतहननमन्याय्यमिति विचारयतीत्यर्थ । शठोऽयं मदन कं वा कथंभूतावस्थापन न करोतीति भाव । अत्रैवकारोऽत्यन्तायोगव्यवच्छेदार्थ । 'पार्थों धतुरो भव- त्येव'इत्युदाहृत्य क्रियागतैवकारस्य तथाभूतार्थकवानुशासनात्। शिखरिणीवृत्तम् ॥ स्त्रीमुद्रां कुसुमायुधस्य जयिनी सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः। ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ७९॥ स्त्रीमुद्रामिति । सर्वार्थानां सपदं करोतीति सर्वार्थसपत्करीम् । धर्मार्थकामपु- रुषार्थसमृद्धिहेतुभूतामित्यर्थ । 'कृलो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययः। टित्त्वान्डीपू । कुसुमायुधस्य जगज्जैत्रस्य मन्मथस्य जयिनीम् । जयावहामित्यर्थः । 'जिदृक्षि-' इत्यादिना इनिप्रत्यय । स्त्रीमुद्रा स्त्रीरूपचिह्नां प्रविहाय त्यक्त्वा कुवि- यो दुर्बुद्धयः अतएव मूढा कर्तव्याकर्तव्य विचारशून्याः। मिथ्याफलान्वेषिणः अ- भूतचरत्वादसत्यप्रायमोक्षफलकाङ्क्षिण सन्तो यान्ति । प्रव्रजन्तीत्यर्थ । ते मूढा- स्तेन निजमुद्राह्रास जनितकोपेन कुसुमेषुणैव निर्दयतरं दयाहीनं यथा तथा अ- हत्य नीचैः कृत्वा केचिनग्मीकृता दिगम्बरीकृता । नमोऽवासा दिगम्बर' इ. त्यमर. । अभूततद्भावे वि । 'अस्य च्वौ' इति दीर्घ । 'ऊर्यादिच्चिडाच- श्च' इति गतिसज्ञाया 'कुगतिप्रादयः' इति समास । केचिन्मुण्डिता परमहंसी- कृता..। न तु सौभाग्यसपन्नीकृता इत्यर्थ । अत कुसुमेषुमुद्रारूपा स्त्रियोन परिह- तव्या इति भावः । यथा लोके राजानस्तीक्ष्णदण्डा निजाज्ञोल्लङ्घनापराधिजना- काश्चित्सर्वखापहारेण वस्त्रहीनान्कुर्वन्ति, काश्चित्सर्वतो मुण्डितशिरस्कान् , कां- श्चिदर्धमुण्डितमुण्डान् , काश्चिजटाधारिण , काश्चित्कपालमिक्षुकाश्च कुर्वन्ति, त- द्वदत्रापि ध्वनि. । अत्र वैराग्य कृतनग्नत्वादे. कुसुमेषुकृतत्वोत्प्रेक्षणादुत्प्रेक्षालं. कारः । सा च नूनमित्यादि व्यञ्जकाप्रयोगात् गम्या । शार्दूलविक्रीडितम् ॥ किबहुना महर्षयोऽपीन्द्रियनिग्रहसमर्था न जाता इत्युपसंहरति- विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशना- स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्व मोहं गताः। शाल्यन्नं सघृतं पयो दधियुतं ये भुञ्जते मानवा- स्तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥ ८० ॥ विश्वामित्रेति । वाताम्बुपर्णान्येवाशनं येषा ते तथोक्ता. शरीरयात्रामात्रोपयो . - सुभाषितत्रिशत्यां गिवायूदकपरिणतपर्णाहारा एव । न लिन्द्रियपुष्टिकरमृष्टान्नभोजना इत्यर्थ । विश्वामित्रपराशरप्रभृतयो विश्वस्य मित्रं विश्वामित्रो गाधिनन्दनः। "मित्रे च- षौं' इति दीर्घः । पराशरो व्यासपिता तौ प्रभृती येपा ते तथोक्ता ।प्रभृतिश- ब्देन शाण्डिल्यादयोऽपि सगृह्यन्ते । ये महर्षय सन्तीति शेष । तेऽपि सुललि तमतिसुन्दरम् । ललितं त्रिषु सुन्दरम्' इति शब्दार्णवे । स्त्रीणां मेनका रम्भा-सत्य- वती-धान्यमालिन्यादियोषिता मुखपङ्कजं दृष्ट्वैवावलोक्यैव मोहं गतास्तत्परतन्त्रा जाता । न त्विन्द्रियनिग्रहसमर्था इत्यर्थः । कितु ये मानवा साधारणमाः स. घृतं आज्यप्लुतं तदपि पयसा क्षीरेण दना च युतं मिश्रितं शाल्यनं कलमाख्यत्री- ह्यन्नम् । अत्यन्तवीर्यवृद्धिकर मृष्टान्नमित्यर्थ । भुजतेऽभ्यवहरन्ति । 'भुजोऽनवने' इत्यात्मनेपदम् । तेषां मानवानां इन्द्रियनिग्रह इन्द्रियनियम सभवेद्यदि, तदा विन्ध्य. पर्वत सागरे प्लवेदुन्मज्जेत् । न तु कदाचिदपि विन्ध्य सागरे प्लवति । ग्रावप्लवनस्याश्रुतचरत्वात् । तथा च विन्ध्यप्लवनस्य यथा असभावितत्वं तथा इन्द्रियनिग्रहस्यापीत्यर्थ । वाताद्यशनानां ऋषीणामेवैतादृशावस्थापनत्वम् , किमुत मृष्टानभोजिना मानवानामिति भाव । अत्रेन्द्रियाणा निग्रहसबन्धेऽपि विन्ध्यप्ल- वनदृष्टान्तेनासबन्धोक्ते संबन्धेऽसंबन्धरूपातिशयोक्ति । शार्दूलविक्रीडितम् ॥ इति शृङ्गारशतकव्याख्याने सुविरक्तदुर्विरक्तपद्धतिर्नाम चतुर्थी विंशति । - अथ ऋतुवर्णनम् । प्रासनिकं परिसमाप्य प्रस्तुतशृङ्गारोपयोगितया ऋतुवर्णनं प्रारिप्सुस्तदादौ लोकवेदयो प्राथम्येन व्यवहाराद्वसन्तं वर्णयति पनि परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो मधुरविधुरोत्कण्ठाभाजः प्रियाः पिकपक्षिणाम् । विरलविरलस्वेदोद्गारा वधूवचनेन्दवः प्रसरति मधौ धाच्यां जातो न कस्य गुणोदयः ॥ ८१ ॥ परिमलेति । वाता उपवनपवना परिमलं बिभ्रतीति परिमलभृतो विविधकुसु- मसमर्दजनितगन्धविशेषबन्धुरा ।जाता इति शेषः । 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमर । शाखा रसालादितरुस्कन्धाः नवाङ्कुराणि नूतनकिसल- यानि कोटिषु अग्रेषु यासा तास्तथोक्ता । पल्लविता जाता इत्यर्थ । पिकपक्षिणा पिकाख्यपक्षि विशेषाणा प्रिया । कोकिलाङ्गना इत्यर्थः। 'कोकिल पिक इत्यपि' इ- त्यमर । मधुरा सहकाराङ्कुरकषायावादलाभादगुणा विधुरा काककृतोपद्रववशाद्धि- गुणा च । कष्टेति यावत् । या उत्कण्ठा कूजितौत्सुक्यं ता भजतीति तथोक्ता जाता। 'भजो वि' इति विप्रत्यय । 'विधुरः स्यात्कष्टविश्लिष्टयोरपि' इति विश्व. । वधू- ना वदनेन्दवो वक्रचन्द्रा विरलविरला ग्रीष्मातिरेकाभावान्मन्दप्रकारा ।'प्रकारे २. शृङ्गारशतकम् । १०१ गुणवचनस्य' इति सादृश्यार्थे द्विर्भाव । स्वेदोद्गार श्रमजलनिष्यन्दो येपा ते त- थोक्ता जाता. । अत्रोद्गारशब्दस्य गौणवृत्तिसमाश्रयणान्न ग्राम्यकक्ष्यामध्यपतित- खमित्युक्तं प्राक् । तथा हि धात्र्या भुवि मधौ वसन्ते प्रसरति व्याप्रियमाणे सति कस्य वस्तुनो गुणोदयो गुणोत्कर्षों न जात । सर्वस्यापि जायत एवेत्यर्थ । 'गत्यर्थाकर्मक-' इत्यादिना वर्तमाने कर्तरिक्त प्रत्यय । 'मतिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्वर्तमानता । 'अथ पुष्परसे मधु । दैत्ये वसन्ते चैत्रे च' इति विश्व- प्रकाश. । हरिणीवृत्तम् ॥ मधुरयं मधुरैरपि कोकिला- कलरवैर्मलयस्य च वायुभिः । विरहिणः प्रहिणस्ति शरीरिणो विपदि हन्त सुधापि विषायते ॥ ८२ ॥ मधुरिति । अयं पूर्वोक्तो मधुर्वसन्त । सकलचराचरोल्लासकारीति भावः । मधुरैः श्राव्य. संतापहरैा । 'शीतलीक्रियते तापो येन तन्मधुर स्मृतम्' इति लक्षणात् । कोकिलाना पिकसुन्दरीणां कलरवैरव्यक्तमनोहरै स्वर विशेषैः । 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कल.' इत्यमर । कोकिलेल्यत्र जातिग्रहणेऽपि 'कोकिला जातावपि' इति न डीप् । तथा मलयस्य वायुभि श्रीखण्डशैलानिलैश्च । अत्यन्तसुखावहैरपीति भाव । विरहिण- शरीरिण वियो- गिजनान्प्रहिणस्ति विनाशयति । तथा हि-विपदि आपत्काले सुधा अमृतमपि विषायते विषमिवाचरति । तद्वत्प्राणप्रयाणकारी भवतीत्यर्थः । 'उपमानादाचारे' इति क्यच् । अकृत्सार्वधातुकयोर्दीर्घ इति दीर्घः । हन्तेति विषादे । 'हन्त हर्षेऽनुकम्पाया वाक्यारम्भविषादयोः' इत्यमर । सामान्य विशेषणसमर्थनरूपो- ऽर्थान्तरन्यास । सच विषायते इत्यत्र उपमया अ न सकीर्यते । अनुप्रास शाब्द । द्रुतविलम्बितवृत्तम् ॥ विरहिणामेव कृच्छं, न खन्येषामित्याह- आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः कर्ण कोकिलकामिनीकलरवः स्मेरो लतामण्डपः। गोष्टी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः सजः ॥ ८३ ॥ आवास इति । पार्श्व परिसरे किलकिञ्चितस्य ‘रोषाश्रुहर्षभीत्यादेः सकर किलकिञ्चितम्' इत्युपलक्षणशृङ्गारचेष्टाविशेपस्यावासो निवासभूत । अत्राधारमा- विवक्षयैकवचनग्रहणमिति विवेक । तथा विलासालसा लीलामन्थरा । कटाक्षभु जाक्षेपादिविविधविभ्रमाचरणतत्परा इत्यर्थ । एतेनैतासा स्मरमन्दीकृतवीडवात्प्रा- गल्भ्यं सूच्यते । दयिता. प्रियतमाश्च । कर्णे । कर्णयोरित्यर्थ.। 'स्तनादीना द्विखवि- शिष्टा जाति प्रायेण' इति वामनसूत्रे प्रायग्रहणादेकवचनप्रयोग.। कोकिलकामिनी- - सुभाषितत्रिशत्यां ना कलकण्ठागनाना कलरवोऽव्यक्तमधुरखरश्च । स्मेर. । ईषद्विकसितकुसुम इत्यर्थ । अत्र कुसुमधर्म. कुसुमिते उपचर्यते । 'मिड् ईषद्धसने' इति धातो 'नमिकम्पि-' इत्यादिना रप्रत्यय । लतामण्डपो लतागृहं च । कतिपयै कैश्चि- देव अन्यया रसाभासात् सत्क विभि सरसविचित्रचारुप्रबन्धप्रणयनचतुरतरक- वीश्वरै समं गोष्ठीप्रसङ्गश्च । मुग्धा मनोहरा सिताशो कराश्चन्द्रकिरणाश्च । विचित्रा नानाविधा सज पुष्पमालिकाश्च । अत्रास्मिन् चैत्रे वसन्ते केषाचित् । अन्येषामेवेत्यर्थ । हृदयं सुखयन्ति रजयन्ति । न तु सर्वेषामित्यर्थ । ईदृक्सौ- भाग्यसपनाना विरललादिति भाव । अत्र खलेकपोतन्यायाद्दयितादिबहुकार- णाना हृदयरञ्जनरूपैककार्यसाधनसमुद्योगकथनाद्वितीय. समुच्चयालंकार । तदु- तं विद्यानाथेन-'खलेकपोतन्यायेन बहूना कार्यसाधने । कारणाना समुद्योग स द्वितीय समुच्चय ॥' इति । शार्दूलविक्रीडितम् ।। पान्थस्त्रीविरहानलाहुतिकलामातन्वती मञ्जरी माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते । अल्पास्ते नवपाटलापरिमलप्राग्भारपाटच्चरा वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥en पान्थस्त्रीति । अधुना इदानीम् । वसन्तसमय इत्यर्थ । पान्थस्त्रीणा प्रोषि- तभर्तृकाणा विरहानलस्य वियोगाने आहुतिकलामाहुतिकलनाम् । तत्साम्य- मित्यर्थ । 'कलाशिल्पे कालभेदे चन्द्राशे कलना कला' इति वैजयन्ती। आत. न्वती आदधाना । तद्वदुद्दीपिकेत्यर्थ । तनोते शतरि 'उगितश्च' इति डीप् । माकन्देषु रसालविशेषेषु । विद्यमानेति शेष । मजरी पुष्पमञ्जरी । पिकाङ्गना- मि कोकिलामि सोत्कण्ठमालोक्यते सानन्दमुवीक्ष्यते । इष्टवादिति भावः । तथा पाटला फलेरुहाख्यवृक्षविशेष. । 'पाटलि. पाटलामाघा काचस्थाली फले. रुहा' इत्यमर । 'पुष्पमूलेषु बहुलम्' इति 'लुपि युक्तवयक्तिवचने' भवत. । नवपाटलापरिमलप्राग्भारस्य नूतनपाटलीकुसुमगन्धसपत्ते पाटचरा मलिम्लु- चा । तद्न्धापहारिण इत्यर्थः । तथा क्लान्तिवितानस्य क्लान्तिसमूहस्य तानवं तनुलं कुर्वन्तीति क्लान्तिवितानतानवकृतः । करोते क्विपू। अल्पा मन्दास्ते प्रसिद्धा. शैल्यमान्द्यसौरभ्ययुक्ता श्रीखण्डशैलानिला मलयमारुता वान्ति प्रम- रन्ति । 'वा गतिगन्धनयो' इति धातोर्लटू । एतेन विरहिणा दुरन्तदु खजनक- वसयुक्ताना परमानन्दकलं चास्योक्तमित्यवगन्तव्यम् । अत्र वियोगाग्निरित्यत्र रूपकम् । आहुतिकलामित्यत्रोपमया सापेक्षितत्वात्संकीर्ण सच्छाब्देनानुप्रासेन संकीर्यते । वृत्तं पूर्ववत् ॥ प्रथितः प्रणयवतीनां तावत्पदमातनोतु हृदि मानः। भवति न यावच्चन्दनतरुसुरभिर्मलयपवमानः ॥ ८५ ॥ प्रथित इति । प्रथित प्रसिद्धः । दृढतर इति यावत् । मान. प्रियतमस्यान्य- २. शृङ्गारशतकम् । १०३ स्त्रीसङ्गिबजनितेाकृतकोप । 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासझिनि प्रिये । श्रुते वानुमिते दृष्टे' इति दशरूपके । प्रणयवतीना प्रियतमाना हृदि तावत् ताव- त्पर्यन्तं पदं स्थानं आतनोतु करोतु । तिष्ठवित्यर्थ. । संभावनायां लोट् । 'पदं व्यवसितत्राणस्थानलक्ष्माभिवस्तुषु' इत्यमर. । कियत्पर्यन्तमित्यत आह-चन्द- नतरुसुरमिः श्रीखण्डद्रुमपरिशीलनसुगन्धिः । 'सुगन्धौ च मनोज्ञे च सुरमिर्वा- च्यलिङ्गवत्' इति विश्व: । मलयपवमानो मलयमारुत.। यावत्पर्यन्तं न भवति न प्रसरति तावदिति संबन्ध । सामान्यस्य विशेषपर्यवसानात्प्रसरणार्थत्वं भुवो द्रष्टव्यम् । ‘यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमर । अस्यात्य- न्तोद्दीपकवान्मानिन्योऽतिदृढमपि निजमानं विहाय प्रियतमपरतन्त्रा. खयमेव भवन्तीत्यर्थ । आर्यामेद ॥ सहकारकुसुमकेसरनिकरभरामोदमूच्छितदिगन्ते । मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥८६॥ सहकारेति । सहकारकुसुमाना रसालविशेषप्रसूनानाम् । 'आम्रचूतो रसा- लोऽसौ सहकारोऽतिसौरभ.' इत्यमर । ये केसरनिकराः किञ्जल्कपुजास्तेषा ये भरा समृद्धयस्तेषामामोदेन परिमल विशेषेण मूञ्छिता व्याप्ता दिगन्ता यस्मिस्त- स्मिन्मधुरेण माधुर्यगुणयुक्तेन मधुना मकरन्देन विधुरा विह्वला । उन्मत्ता इति यावत् । मधुपा भृगा यस्मिन् । इत्थमस्योक्तमुद्दीपकत्वमित्यर्थः। मधौ वसन्ते कस्य जनस्य । स्त्रिया वा पुरुषस्य वेत्यर्थः । उत्कण्ठा संभोगौत्सुक्यं न भवेनो- त्पद्येत । अत. सर्वस्यापि उत्पद्यत एवेत्यर्थः । अतो मानत्यागो युज्यत एवेति भाव । अनुप्रास शब्दालंकार । वृत्तं पूर्ववत् ॥ अथ त्रिमिीष्मं वर्णयति- अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो धारागृहाणि कुसुमानि च कौमुदी च। मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ८७ ॥ अच्छाच्छेति । अच्छाच्छोऽतिखच्छो यश्चन्दनरसः पाटीरद्रव । 'गुणे रागे द्रवे रस' इत्यमर । तेन आर्द्रतरा अत्यन्तार्दा । संतापशान्त्यर्थं सान्द्रचन्दनपङ्क- चर्चिताङ्गा इत्यर्थः । मृगाक्ष्यस्तरुण्यश्च, धारागृहाणि जलयन्त्र वेश्मानि, कुसुमानि मल्लिकादीनि, कौमुदी चन्द्रिका च। सुमनसो जात्या सबन्धी ग्रीष्मकालेऽतिविका- ससभवात् । तत्कुसुमपरिशीलनजनितामोदभरित इत्यर्थ । 'सुमना मालती जातिः' इत्यमरः । मन्दो मरुत् मन्यरगन्यवाहश्च, शुचि शुभ्रम् । सुधालेपनेनेति भाव । हर्म्यपृष्टं सौधोपरिप्रदेशश्चेति ग्रीष्म ऋतौ मदं हर्षव्यतिकरं मदनं च विवर्वयन्ति उद्दीपयन्ति । अत्रापि द्वितीयः समुच्चयालंकार उन्नेयः । वसन्ततिलका ॥ स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः परागः कासारो मलयजरजः शीधु विशम् । १० सु. त्रि. - १०४ सुभाषितत्रिशत्यां पङ्कजहशो शुचिः सौधोत्सङ्गः प्रतनु वसनं निदाघर्तीवेतद्विलसति लभन्ते सुकृतिनः ॥ ८८ ॥ स्रज इति । हृद्यामोदा मनोहरगन्धाः सजः पुष्पमालिकाश्च, व्यजनपवन- स्तालवृन्तसमीरणश्च । 'व्यजनं तालवृन्तकम्' इत्यमर । चन्द्रकिरणाच, परागः सुमनोरजश्व, कासार क्रीडासरश्च, मलयजरज चन्दनक्षोदश्च, विशदं निर्मलं शेरते अनेनेति शीधु मद्यं च । 'शीडो धुक्' इत्यौणादिको धुक्प्रत्ययः । शुचिः शुभ्र. विहारयोग्य इत्यर्थ. । सौधोत्सङ्ग प्रासादप्रदेशश्च, प्रतनु वसनं सूक्ष्मा- म्बरम् , पङ्कजदृश पद्मपलाशलोचनाश्चेत्येतत्सर्व भोगसाधनम् । 'नपुंसक- इत्यादिना नपुंसकैकशेषः । निदाघों ग्रीष्मौ । 'आद्गुण.' इति रपरो गुणः । विलसति विजृम्भमाणे सति सुकृतिन पुण्यशालिनः लभन्ते प्राप्नुवन्ति । कथम- सुकृतिनामीहग्भोगसाधनलाभ इति भाव । शिखरिणी ॥ सुधाशुनं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्राम्भोज मलयजरजश्चातिसुरभि । रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तः क्षोभ नतु विषयसंसर्गविमुखे ।। ८९ ॥ सुधेति । सुधया लेपनद्रव्येण शुभ्रम् , यद्वा सुधा अमृतं तद्वच्छभ्रम् । 'सुधा स्याल्लेपनद्रव्येऽमृते च' इति विश्वः । अतिसुरमि अत्यन्तसुगन्धि । रागिणि विषयासक्ते । विपयसंसर्गविमुखे विरक्ते । विरक्तस्य तेषामकिंचित्करलादिति भाव. । निगदितव्याख्यानमन्यत् । वृत्तं पूर्ववत् ॥ अथ वर्षासमयवर्णनमारभते- तरुणी वेषोद्दीपितकामा विकसजातीपुष्पसुगन्धिः। उन्नतपीनपयोधरभारा प्रावृट् तनुते कस्य न हर्षम् ॥ ९० ॥ तरुणीति । उद्दीपित उत्पादितः कामो मन्मथ सुरताभिलाषो वा यया सा तथोक्ता । विकसन्ति विकखराणि यानि जातीपुष्पाणि तैः शोभनो गन्धो यस्याः सा तथोक्ता । एकत्र जातीकुसुमविकाससंभवात्, अन्यत्र तत्कुसुमालंकृतला- चेति भाव । 'गन्धस्येदुत्पूतिसुसुरभिभ्य ' इति गन्धशब्दस्य इकारान्तादेशः । यद्यपि 'गन्धशब्दस्यत्वे तदेकान्तग्रहणम्' इत्युक्तम् , तथापि कवीना निरङ्कु- शखात्पर्यनुयोग । उन्नत उत्तुङ्ग पीन पीवरश्च पयोधरभारोऽम्भोधरवृन्दं च, अन्यत्र स्तनभारश्च यस्या. सा तथोक्ता । 'स्तनाम्भोदौ पयोधरौं' इति वैजय- न्ती । अत एव तरुण्या वेष इव वेषो यस्याः सा । कामिनीव मोहनकारिणी- त्यर्थ । प्रावृड् वर्षाः कस्य पुंसो हर्ष सभोगौत्सुक्यं न तनुते। सर्वस्यापि तनुत एवेत्यर्थ । श्लेषानुप्राणितेयमुपमा ॥ वियदुपचितमेचं नवकुटजकदम्बामोदिनो गन्धवाहा। भूमयः कन्दलिन्यो २. शृङ्गारशतकम्। शिखिकुलकलकेकारावरम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ९१॥ वियदिति । उपचिताः परिचिता मेघा यस्मिस्तत्तथोक्तम् । धनाधनसंचारवदि- त्यर्थ । वियत् आकाशं च । कन्दलानि अड्डुराणि आसां सन्तीति कन्दलिन्यो भूमयोभूप्रदेशाश्च । नवो नूतन कुटजाना गिरिमल्लिकानां कदम्बाना नीपकुसुमाना च आमोदो गन्धविशेष एषामस्तीति तथोक्ता गन्धवाहा उद्यानपवनाश्च। 'कुटजो गिरिमल्लिका' इत्यमर । के मूर्ध्नि कायन्ति ध्वनयन्ति केका मयूरवाण्य. 'केका वाणी मयूरस्य' इत्यमरः । शिखिकुलानां मयूरनिकराणां ये कलकैकारावा अव्यक्तमधु. रकेकाखरास्तै रम्या मनोहरा वनान्ताश्च केलीवनमध्यप्रदेशाश्च । सुखिनं दुखिन वा । सर्व अशेषं जनं उत्कण्ठयन्ति । संभोगौत्सुक्यवन्तं कुर्वन्तीत्यर्थ । उद्दीपक- त्वादिति भाव । उत्कण्ठाशब्दात् 'तत्करोति-' इति ण्यन्ताल्लन। मालिनी ॥ उपरि धनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः । क्षितिरपि कन्दलधवला दृष्टिं पथिकः क पातयति ॥ ९२ ॥ उपरीति । उपरी उपरिष्टाद्धनं सान्द्रं धनपटलं मेघवृन्दम् । वर्तत इति शेष । 'घना. कठिनसंघातमेधकाठिन्यमुद्रा 'इति वैजयन्ती । तिर्यग् । दिक्षु इत्यर्थ । मह्यामतिशयेन रमन्तीति मयूरा । पृषोदरादित्वात्साधु । नर्तिता नृत्यन्त । स्वार्थे णिचि 'गत्यर्थाकर्मक-'इत्यादिना वर्तमाने कर्तरिक्त । मतिबुद्धी-'इति वर्तमानता। यद्वा । नर्तिता मेघवृन्देन नाटिता. । मेघोदये तेषां उल्लासवशेन नाट्यसंभवात् तथाभूता मयूरा येषु ते तथोक्ता गिरयोऽपि । वर्तन्त इति शेषः । क्षितिरपि भू- मिरपि कन्दलै नाविधाकुरैर्धवला स्वच्छा । अतः पन्थानं गच्छतीति पथिक' पान्थः । 'पथः कन्' इति कन्प्रत्यय । दृष्टि व कुत्र पातयति प्रसारयति । न कुत्रापीत्यर्थ । सर्वत्राप्युद्दीपनसभवादिति भावः । महत्कष्टमत्र विरहिणामिति परमार्थ. । आर्याभेद ॥ इतो विद्युदल्लीविलसितमितः केतकितरोः स्फुरन्गन्धः प्रोद्यजलदनिनदस्फूर्जितमितः। इतः केकीक्रीडाकलकलरवः पक्षमलदृशां कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ॥९३ ॥ इत इति।इतोऽस्मिन्प्रदेशे विद्युलीना तडिल्लताना विलसितं स्फुरणम् । भवतीति शेषः । इत. प्रदेशे केतकितरो केतक्याख्यवृक्षस्य । तत्कुसुमस्येत्यर्थः । 'डयापो संज्ञाच्छन्दसोर्बहुलम्' इति ह्रख.। कालिदास इतिवत्। स्फुरन्व्याप्नुवानो गन्ध. श्व । वर्तत इति शेष. । इतःप्रोद्यत्प्रबुद्धं जलदनिनदस्य मेघगर्जितस्य स्फूर्जितं स्फुरण च। भवतीति शेषः । इतश्च के किना शिखावलाना क्रीडासु केलिषु य. कलकलरव. कोलाहलध्वनि । 'शिखावल शिखी केकी', 'कोलाहल. कलकल' इति चामरः । यद्वा कलकलरव अत्यन्ताव्यक्तमधुरप्रकारखरश्च । समुज्जृम्भत इति शेष. ।
सुभाषितत्रिशल्यां पक्ष्माण्यासां सन्तीति पक्ष्मलाः। सिध्मादित्वालच्प्रत्यय । तथाभूतादृशो यासां तासा पारिप्लवलोचनानां एते प्रसिद्धा. सभृतरसा सपूर्णशृङ्गारा । उद्दीपका इ- त्यर्थः। विरहदिवसा वियुक्तवासरा. कथं यास्यन्ति अतिक्रमिष्यन्ति । न कथं- चिदपीत्यर्थ । दुरन्तत्वादिनमेकं युग भविष्यतीति भाव । शिखरिणी ॥ असूचीसंचारे तमसि न भसि प्रौढजलद- ध्वनिप्राशंमन्ये पतति पृषतानां च निचये। इदं सौदामन्याः कनककमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि खैरसुदृशाम् ॥ ९४ ॥ असूचीति। तमसि अन्धकारे न विद्यते सूचीसंचारो यसिस्तस्मिन्सूच्यग्रमा त्रस्याप्यनवकाशप्रदे। गाढतमे सतीति यावत् । तथा नभसि अन्तरिक्षे च प्रौढ प्रगल्भ. । गम्भीर इति यावत् । यो जलदध्वनिमेंघगर्जितं तेन प्राज्ञं वाचालमा- त्मानं मन्यत इति प्राशंमन्ये । बहुतरमेघनिर्हादवति सतीत्यर्थ । 'आत्ममाने खश्च' इति खशि मुमागमः। तथा पृषतानां बिन्दूना च विचये संदोहे पतति सति। 'पृषन्ति बिन्दुपृषतौ इत्यमर । कनककमनीयं कनकनिकषणरेखासुन्दरमिदं प्रवर्तमान सौदामन्या विद्युतः । 'तडित्सौदामनी विद्युत्' इत्यमरः । विलसितं स्फु- रणं (कर्तृ) खैरसुदृशां अभिसारिकाणांपथि प्रियगृहमार्गे मुदं मार्गप्रदर्शकलात्सं. तोष म्लानि आत्मप्रकाशकहेतुत्वात् म्लानि च । 'ग्लै म्लै हर्षक्षये' इत्यस्माद्धातोः 'जुरेभ्यो नि' इत्यौणादिको निप्रत्ययः। प्रथयति प्रकटयति। करोतीत्यर्थः । 'कान्ताभिसरणोद्युक्ता मरार्ता साभिसारिका' इति लक्षणात् । कान्तमुद्दिश्य नि- गूढमभिसरणशीलानां स्त्रीणामुपयोगानुपयोगाभ्या हर्षाहर्षे हेतुलादिति भावः । 'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इत्यमरः । वृत्तं पूर्ववत् ॥ आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतशा गाढं समालिङ्गयते। जाताः शीकरशीतलाश्च मरुतो रत्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ ९५॥ आसारेणेति । प्रियतमैर्वल्लभैरासारेण धारासपातेन हेतुना । धारासंपात आसार.' इत्यमरः। हयंत प्रासादात् । 'धामत' इति पाठे गृहात् । उभयत्रापि पञ्चम्यास्तसिल । 'अपपरि-' इत्यादिना समासविधानज्ञापकात् बहियोगे पञ्चमी । बहिर्यातुं न शक्यते न समर्थ्यते । 'शक्ल शक्तौ' । भावे लट् । 'शकधृष-' इत्यादिना तुमुन्प्रत्ययः । तथा आयतदृशा दीर्घदृशा तरुण्या शीतेन यदुत्कम्पो गात्रवेपथुस्तन्निमित्तम् । तनिवारणार्थमित्यर्थ । गाढं अतिदृढ समालिजयते परिरभ्यते । पूर्ववलद् । तथा शी करैरम्बुकणे शीतला. शिशिरा । 'शीकरोऽम्बुकणा' स्मृता' इत्यमरः । रत्यन्ते सुरतावसाने यः खेदा श्रमस्तं छिन्दन्तीति तथोक्ताः । सुरतसंरम्भजनितश्रमापहारिण इत्यर्थः । श्रमः खेदो- ॥ - २. शृङ्गारशतकम् । १०७ ऽथ रत्यादेर्जातः खेदातिभूमिकृत्' इति लक्षणात् । मरुतश्च जाताः प्रसृताः। अतः धन्याना पुण्यशालिना प्रियासंगमे प्रियासंभोगे सति दुर्दिनं दुष्टदिनमपि मेघच्छन्नदिनं च । 'मेघच्छन्नेऽह्नि दुर्दिनम्' इत्यमरः । सुदिनतां सुदिवसत्वं याति । अन्येषां तु तदेव भवतीत्यर्थः । बतेति विस्मये । 'बत खेदानुकम्पाम- त्रणसंतोषविस्मये' इत्यभिधानात् अत्र दुर्दिनमपि सुदिनतां यातीति स्फुरतो विरोधस्योक्तसमाधानाद्विरोधाभासोऽलंकार । 'आभासत्वे विरोधस्य विरोधाभास इष्यते' इति लक्षगात् । शार्दूलविक्रीडितम् ॥ A A अथैकेन शरदं वर्णयति- अर्ध सुस्त्वा निशायाः सरभससुरतायाससन्नश्लथागः प्रोद्भूतासातृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते। संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दपुण्यः९६ अर्धमिति । निशाया. रात्रे अर्धम् । यामद्वयमित्यर्थः । 'पुंस्योऽर्ध समेऽश- के' इत्यमरः । अत्यन्तसयोगे द्वितीया । सुप्त्वा शयित्वा । निद्रया यामद्वयं गमयित्वे- त्यर्थ । ततः। मध्ये इति शेषः । सरभसं सोद्वेगं यत्सुरतं अभ्यन्तरसंभोगस्तेन य आयास. श्रमस्तेन सन्नानि परिभिन्नानि अत एव श्लथानि शिथिलानि अङ्गानि अ. वयवा यस्य स तथोक्त.। 'मध्यं नक्तमुदाहृतं शरदि च प्रत्यूषकाले हिमम्' इति भोजवचनादर्वरात्रकृतसुरतपरिश्रान्त इत्यर्थः। एतेनैतस्य नायकस्य कामतन्त्रकुश- लवम् , नायिकाया शहिनीत्वं च सूच्यते । तृतीययामस्य तत्सुरतयोग्यकालखा- त् । तदुक्तं रतिरहस्ये-रमयति च तृतीये शहिनीमाभावा रमयति रमणीया प. मिनी तुर्ययामे'इति । अन्यत्राप्युक्तम्-'कुसुमितवनमव्ये कूचिमारस्तृतीये तिमिर- निबिडयामे शतिनी संलभेत' इति । अत एव प्रोद्भूता प्रकर्षणोत्पन्ना अत एवासह्या खतः शमयितुमशक्या तृष्णा पिपासा यस्य स तथोक्तः। तथा मधुना संभोगप्रा. कालीनमद्यपानेन यो मदो मोहस्तेन निरतः । परवश इत्यर्थः। 'मदिरादिकृतो मो- हो हर्षव्यतिकरो मद' इति लक्षणात् । विविक्ते विजने । विविक्तौ पूत विजनौ' इत्यमरः । अन्यथा विस्रम्भविरहानुभवादिति भाव. । हर्म्यपृष्ठे प्रासादोपरिप्रदे- शे कर्करीत. गलन्तिकाख्यसच्छिद्रकुण्डिकाया । पञ्चम्यास्तसि । 'कर्कर्यालुर्गल- न्तिका' इत्यमर । सभोगक्लान्तायाः। सुरतायासपरिश्रान्तायाः कान्तायाः स्वप्रिय- तमायाः शिथिलया नि सहायया भुजलतया आवर्जितं धाराकारेण दत्तमिति वा- दातिशयोक्ति शारदं शरत्कालसंबन्धि सलिलम्।हंसोदकमित्यर्थ. । ज्योत्स्नया च- न्द्रिकया भिन्ना मिलिता अतएव अच्छा धारा यस्मिन्कर्मणि तद्यथा तथा मन्दपुण्यो भाग्यहीनो न पिबति । भाग्यसपन्नस्तु पिबतीत्यर्थः । हंसोदकलक्षणमुक्तं द्रव्यरत्न- सालायाम्-'वह्नितप्तमहिमांशुरश्मिभिः शीतमम्बु शशिरश्मिभिर्निशिाएवमेव त- सुभाषितत्रिशत्यां दहर्निशं स्थितं तच हंसजलनामकं स्मृतम्॥' इति । एतत्पानेन गुणसंपत्तिरपि तत्रै- वोक्ता-'प्रसादकं त्रिदोषघ्नं हृद्यं लघु च शीतलम् । वृष्यं मनोहर स्वादु विषघ्नं का- न्तिकृत्परम्॥इति । शरद्येतत्पाने नियमश्चाप्युक्तोऽन्यत्र-'कर्पूरागरुजं सिताद्यभि- रसैहसोदकं वासितं पाथश्चातिमनोहरं शिशिरतो मुग्धागनालिङ्गनम्' । स्रग्धरा ॥ अथ द्वाभ्या हेमन्तं वर्णयति- हेमन्ते दद्धिदुग्धसर्पिरशना मञ्जिष्ठवासोभृतः काश्मीरदवसान्द्रदिग्धवपुषश्छिन्ना विचित्र रतैः । वृत्तोरुस्तनकामिनीजनकृताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥९७ ॥ हेमन्त ऋतौ दधि प्रसिद्धम् , दुग्धसर्पिषी क्षीरघृते, तान्यशनं येषां ते तथोक्ताः। ननु दुग्धाज्यादीना शैत्यावसादकत्वेन सेवनं भवतु । दधिसेवनस्य तदतिरेककरत्वात्तत्सेवनं कथं युक्तमिति चेन्न । तस्याप्यायुष्कामस्य हेमन्ते सेव- नोपयोगात् । तदुक्तं चारुचर्यायामृतुचर्याप्रस्तावे सर्वज्ञभोजराजेन-'त्रिषु च दधि निषेव्यं ग्रीष्मकाले वसन्ते शरदि च परिवर्ज वाञ्छता दीर्घमायुः । यदि खलु परिवाञ्छा सेव्यता सर्वकालं सह गुडमधुपात्रे शर्करामुद्गयूषै ॥' इति मञ्जिष्ठया रञ्जकद्रव्येण रक्तानि माजिष्ठानि वासांसि सुरक्तवसनानि बिभ्रतीति तथोक्ता । तेन रक्तं रागात्' इत्यण्प्रत्यय । यद्यपि 'निर्वातं भवनं सुरक्तवसनं वहेः पर सेवनम्' इति वसन्तसमययोग्यत्वेन सुरक्तवसनधारणं अभिहितम् । तथापि मतान्तरे एवमुक्तमिति न विरोध । काश्मीरद्रवेण कुङ्कुमपङ्केन सान्द्रं यथा तथा दिग्धानि रूषितानि वपूंषि येषां तथोक्ताः । विचित्रैर्बाह्याभ्यन्तर. निरूपणेन नानाविधै रतैश्छिन्नाः श्रान्ता । वृत्तौ वर्तुलौ ऊरू पीनौ च स्तनौ यासां ता तथोक्ताः या कामिन्यस्ता एव जन तेन कृताश्लेषाः विहितपरिरम्भा । तदुक्तम्-'कस्तूर्यागरुकुङ्कुमैरतिकृतं पानं तटाकस्थितं शीतं नैव विदीर्यते प्रिय- तमैरालिङ्गनं कम्बलम्' इति । तथा ताम्बूलीदलै गवल्लीदलैः पूगै क्रमुकैश्च पूरितानि सुखानि वकान्तरालानि येषा ते तथोक्ता ताम्बूलचर्वणरता । तत्प- रा इत्यर्थ । 'घोण्टा तु पूगः क्रमुक' इत्यमर । इत्थंभूता धन्या सुकृतिनः गृहाभ्यन्तरे मन्दिरान्तराले सुखं यथा तथा शेरते स्वपन्ति । 'शीडो रुट्र' इति रुडागम । ताम्बूलस्य मानसोल्लासादिबहुगुणहेतुखात्तचर्वणोक्ति । तदुक्तं चारु- चर्यायाम्-'मनसो हर्षणं श्रेष्ठं रतिद मदकारणम् । मुखरोगहरं हृद्यं दीपनं बस्तिशोधनम् । मुखाशुद्धिक्लमहरं ताम्बूलं श्रीकर परम् ॥' इति । तत्कालानु- गुणोपचारत्वेन च वीर्यवृद्धिकरत्वेन च प्रथमं दधिक्षीराज्यप्राज्यमृष्टानं भुक्त्वा- नन्तर कुङ्कुमकस्तूर्यादिमिश्रितचन्दनलेपनपूर्वक विविधसुरतसंरम्भसंभोगपरि- श्रान्ताः कान्तासमालिङ्गितगात्राश्च सन्तस्ताम्बूलचर्वणरताः सुकृतशालिनः सुखेन निवातगृहाभ्यन्तरे वपन्तीति समुदायार्थः । शार्दूलविक्रीडितम् ॥
२. शृङ्गारशतकम् । १०९ प्रोद्यत्प्रौढप्रियङ्गुातिभृति विकसत्कुन्दमाद्यविरेफे काले प्रालेयवातप्रचलविलसितोदारमन्दारधानि । येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥९८॥ प्रोद्यदिति । प्रोद्यन्त उदित्वरा. प्रौढा प्रवृद्धाश्च याः प्रियङ्गव फलिन्यस्तामि- चतिमुपचयजनितशोभां बिभर्तीति तथोक्ते । 'प्रियङ्गु फलिनी फली' इत्यमरः । द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफोनमरशब्दः । उपचारात्तदर्थोऽपि द्विरेफ उ. च्यते । यथाह कैयट.-'शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्द- स्य' । द्विरेफो भ्रमर विकसद्धि कुन्दै माध्यकुसुमैः माद्यन्तो द्विरेफा यस्मिन् तस्मिन् । 'माध्यं कुन्दम्' इत्यमरः । “पुष्पमूलेषु बहुलम्' इति लुक् । यद्यपि कुन्दविकसनं शिशिरतुलक्षणम्, तथापि तत्प्रत्यासत्त्योक्तमिति न विरोधः। प्रलयादागतं प्रालेयं हिमम् । 'तत आगत' इत्यण् । 'केकयमित्रयुप्रलयानां यादेरिय.' इति यशब्दस्य इयादेशः । प्रालेयवातैस्तुषारवायुभिः प्रचलं चञ्चलं अत एव विलसितं प्रकाशमानमुदारं रम्यं च मन्दाराणां संतानकतरूणां धाम स्थानं यस्य तस्मिन् । यद्वा मन्दाराणां पारिभद्रतरूणां धामेति उभयत्राप्युप- चयहेतुखादिति भावः । 'पारिभद्रो निम्बतरुमन्दार. पारिजातक' इत्यमर । एवंभूते काले हेमन्तसमये येषां यूना तरुणाना तुहिनक्षोदे शीतनिवारणे दक्षा। कुचकुम्भयोरोष्ण्यसभवेन तदालिङ्गनानिवारणसमर्थेत्यर्थ. । मृगाक्षी तरुणी क्षणं अल्पकालमपि । अत्यन्तसयोगे द्वितीया । कण्ठलग्ना कण्ठावसक्ता । कण्ठा- लिङ्गनतत्परेति यावत् । नो । न भवतीत्यर्थ । तेषा यूनामायामा अत्यन्तदीर्घा यामा. प्रहरा. यस्या. सा विरहवेदनावशात्तथाप्रतीयमानयामेत्यर्थः । यामिनी रजनी । यमसदनसमा यमलोककल्पा । दुरन्तदु खावहेत्यर्थ । याति गच्छति । तदानीमङ्गनाप्लवालिङ्गनमन्तरेण दुरन्त विरहवेदनामहानद्यास्तरितुमशक्यलादिति भावः । द्वौ यामप्रहरी समो', 'रजनी यामिनी तमी' इति चामरः । अनुप्रा- सोपमयो शब्दार्थालंकारयो संसृष्टिः । स्रग्धरावृत्तम् ॥ अथ द्वाभ्यां शिशिरतु वर्णयनिगमयति- चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः । ऊरूनाकम्पयन्तः पृथुजघनतटात्त्रंसयन्तोऽशुकानि व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरावान्ति वाताः ॥९९॥ चुम्बन्त इति । कान्ताजनना गण्डा भित्तय इव ता गण्डभित्ती कपोलस्थलीः चुम्बन्तः । 'स्तननयनकपोलाश्चुम्बनस्थानमाहु' इति रतिरहस्योक्तेरिति भाव ।अ- तएव अलकवति विश्लेषणवशाचूर्णकुन्तलालंकृते मुखे। 'अलकाचूर्णकुन्तला.' इत्य- मर । सीत्कृतानि सीत्कारा ।सीदित्यनुकरणशब्दः । आदधाना. कुर्वाणा. । उ- त्पादयन्त इत्यर्थ । वक्षःसु उर स्थलीषु उत्कञ्चकेषु उद्गन्थिकूर्पा सकेषु सत्वपि ।
सुभाषितत्रिशत्यां स्तनभरेषु पुलकोद्भेदं रोमाञ्चप्रादुर्भावं आपादयन्त इति सात्त्विकोक्ति । ऊरू- न्सक्थीनि आकम्पयन्तः प्रचालयन्तः । पृथु विशालं यजघनतटं जघनप्रदेशस्त. स्मादंशुकानि । परिधानांशुकग्रन्थीनीत्यर्थ । संसयन्तो विश्वथयन्तः । अत एव व्यक्तं स्फुटं विटानां पल्लविकानामिव चरितानि कृत्यानि बिभ्रतीति तथोक्ता शिशि- रस्यैते शैशिरा. शिशिरर्तुसंबन्धिन 'तस्येदम्' इत्यण् । वाता वान्ति सचरन्ति । विटसाधारणविशेषणविशिष्टवाद्वाताना तचरितभरणं युक्तमिति भावः । तदुक्तं रतिरहस्ये-'अलकचुबुकगण्डं नासिकाग्रं च चुम्बन्पुनरुपहितसीत्कं तालु जिह्वां च भूयः । भरितलिखितनाभीमूलवक्षोरुहोरु श्लथयति धृतधैर्य श्लाथयित्वाथ नी. वीम् ॥' इति । अत्र विटचरितभृत इत्युपमालंकार । स च व्यक्तमित्यनेनाभिव्य- जितोत्प्रेक्षयाझेन संकीर्यत इति सक्षेप. । वृत्तं पूर्ववत् ॥ केशानाकुलयन्दशो मुकुलयन्वासो बलादाक्षिप- नातन्वन्पुलकोगमं प्रकटयन्नावेगकम्पं शनैः। वारंवारमुदारसीत्कृतकृतो दन्तच्छदान्पीडय- प्रायः शैशिर एष संप्रति मरुत्कान्तासु कान्तायते ॥१०॥ केशानिति । केशाशिरोरुहानाकुलयन्व्याकुलीकुर्वन् । एकत्र विश्लेषणात् अ- न्यत्र केलिसंरम्भाच्चेति भावः। दृशो मुकुलयन्निमीलयन् । एकत्र पुरुषस्पर्शवशात् , अपरत्र सुखपारवश्याचेति । वासो जघनांशुकं बलात् प्रसह्य आक्षिपन् आकर्षन् । एकत्र वेगवशात् , अपरत्र सभोगेच्छया चेति भाव. । पुलकोद्गमं रोमाञ्च आतन्वन् उत्पादयन् । एकत्र शीतलस्पर्शात् , अन्यत्र शृङ्गारोद्बोधकाचेति भाव. । आवेगेनोद्वेगेन य कम्पो गात्रवेपथुस्तं शनै प्रकटयन मन्दं अभिव्यञ्ज- यन् इति विशेषणद्वयेन सात्त्विकोक्तिः । उदाराणि मनोज्ञानि सीत्कृतानि कुर्वन्तीति तथोक्तान्। छाधन्ते एभिरिति छदाः । 'पुंसि सज्ञाया घ प्रायेण' इति घप्रत्ययः । 'छादेर्थेऽयुपसर्गस्य' इति ह्रखः । दन्तानां छदास्तानधरोष्ठान् वारवारं पुनः पुनः पीडयन् । एकत्र शैत्यातिशयेन, अन्यत्र दन्तक्षतेन च व्यथयन्नित्यर्थः । एषोऽयं शैशिरो मरुत् शिशिरमारुत । सप्रति इदानी शिशिरतौं प्राय. भूना कान्तासु का- मिनीषु विषये कान्तायते । 'कथामि कमनीयाभिः काम्यैर्भोगैश्च सर्वदा । उपचा- रैश्च रमयेद्यः स कान्त इतीरित ॥' इत्युक्तलक्षण. कान्त इवाचरति । उक्तविशे- पणै कान्तसादृश्यलाभात्स इव वर्तत इत्यर्थ । 'उपमानादाचारे' इति क्यड् । 'अकृत्सार्वधातुकयोर्दीर्घ.' अत एवोपमा । सा च प्राय शब्दामिव्यजितोत्प्रेक्षया सकीर्यते । तदुक्तमाचार्यदण्डिना-'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभि । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इति । शार्दूलविक्रीडितम् ॥ इति शृङ्गारशतकव्याख्याने ऋतुवर्णनं नाम पञ्चमी विंशतिः । इति सुभाषितत्रिशत्यां शृङ्गारशतकं संपूर्णम् ।
३. वैराग्यशतकम्। १११ .. . अथ तृष्णादूषणम्। चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो लीलादग्धविलोलकामशलभःश्रेयोदशाग्रे स्फुरन् । अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुञ्चाटयं- श्वेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥१॥ चूडेति । चूडोत्तंसितस्य शिरोभूषणीकृतस्य चन्द्रस्य चारुकलिकया मनोहर- कोरकयेव चञ्चच्छिखया प्रकाशमानाग्रेण भाखर. प्रकाशमान । विलोलश्चञ्चलः काम एव शलभः स लीलया विलासेन दग्वो येन । श्रेयसा शुभानां दशासु अव- स्थासु अग्रे पुर. स्फुरन् प्रकाशमान । अन्तः अन्तर्मनसि स्फूर्जत: विजृम्भ- माणस्य अपारस्य अनन्तस्य मोहति मिरस्य प्राग्भारं गुरुं प्राक्प्रदेशं उच्चाटयन निरस्यन् । ज्ञानप्रदीपः ज्ञानप्रकाशकः हरः भक्तानां ज्ञानाज्ञानकृतमानसिकवा चिककायिकपापहारी भगवान् साम्बशिवः योगिनां सनकादीनां चेतःसद्मनि मनस्येव गृहे विजयते सर्वोत्कर्षेण वर्तते । प्रथमतः चूडोत्तंसितेतिवाक्ये चन्द्र- पदग्रहणाद्भक्ताना तापहारीत्यर्थों लभ्यते । लीलादग्धेतिवाक्ये कामशलभपद- ग्रहणान्महाशत्रुसहारीति लभ्यते । अन्त स्फूर्जदितिवाक्ये मोहतिमिरपदग्रहणात् यथा उदित सूर्यः सर्वतिमिराणि नाशयति, तथा अयमपि अज्ञाननाशं करोतीति चेतःस नीतिवाक्ये ज्ञानदीपपदग्रहणात्कामक्रोधादिपङ्करहितनिर्मलचित्तानां नि.सङ्गानां योगिनां चेतसि यथा वर्तते तथा भक्तानां सर्वाज्ञाननाशनं कुर्वन ज्ञानप्रदीपो हरो विजयत इत्यभिप्रायः । शार्दूलविक्रीडितम् ॥ अथ रागस्य तृष्णामूलकलात् तद्गहणं विना न वैराग्यसिद्धिरित्यभिप्रेत्य तत्सि- यर्थमादौ तावत्तत्परिपन्थिभूता तृष्णां दूषयति 'भ्रान्तं-' इत्यादिनवभिः श्लोकैः । तत्र प्रथमं वकर्मकष्टनिवेदनपूर्वकं तृष्णां संबोध्य त्रिमिषयति- भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किंचित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला। भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकव- तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि संतुष्यसि ॥२॥ प्रान्तमिति । अनेकैः बहुभि दुगै पार्वतवाक्षजलदुर्गादिमि. विषमं विकटम् । दुःसंचारमित्यर्थः । देशं भ्रान्तं सचरितम् । तथापि किचिदल्पमपि फलं धनं न प्राप्तं न लब्धम् । बहुफलापेक्षयैव दुर्गमेऽपि देशे सचार कृतः, फलं त्वीष- दपि न प्राप्तमित्यर्थः । अत्र देशशब्दस्य नपुंसकत्वं निघण्वन्तरेषु मृग्यम् । यद्वा देशमुद्दिश्य भ्रान्तम् । भावे क्तः। अथवा 'नीवृजनपदौ देशविषयौ' इत्यभिधानात् ११२ सुभाषितत्रिशत्यां , पुंलिङ्गस्यापि देशशब्दस्य नपुंसकलसंबन्ध(१)मनुवर्तते इति भाष्यकारप्रयोगा- दिष्यते । तथा उचितं अनुरूपं जातिकुलयो जाति ब्राह्मणत्वादि , कुलं सद्वंश तयो अभिमानम् । इति सापेक्षत्वेऽपि गमकत्वात्समासः । त्यक्त्वापि विसृज्य निष्फला फलशून्या सेवा परिचर्या कृता । धनाढ्यानामिति शेषः । उभयत्रापि कष्टमेवावशिष्टम् । न त्वन्यत्किचिदपीत्यर्थ । 'लाभनिष्पत्तियोगेषु बले शल्ये फले धनम्' इति वैजयन्ती । तथा मानविवर्जितं अभिमानशून्यं यथा तथा । बहुमानविहीनमिति वा । आशङ्कया आकासया । लोलुपत्वेनेति यावत् । परगृ- हेषु काकेन बलिभुजा तुल्यं काकवत् । 'तेन तुल्यं क्रिया चद्वतिः' इति वतिप्र- लयः। भुक्तम् । अभिमानत्यागेऽपि न बहुमानपूर्वकम् , कितु सावमानमेव दत्तं परानपिण्ड अभ्यवहृतमित्यर्थः । तथापि पापकर्मणा पापात्मना पिशुने सूचके येषां तृष्णां । अतएव पापिष्ठा इति भाव । यद्वा पापकर्मणा दुष्कर्मणां पिशुने प्रवर्तके इत्यर्थः । एतब्यतिरेकेण दुष्कर्मप्रवर्तकान्तराभावादिति भाव । हे तृष्णे विषयस्पृहे, जृम्भसि प्रवृद्धा भवसि । कि खद्यापि । ईदृकष्टकर्मप्रवर्तनदशाया- मपीति भावः । न सतुष्यसि सतुष्टा न भवसि । विरति न प्राप्नोषीत्यर्थः । इत परमपि किंचिद्दुष्टकर्म कारयितुं अपेक्षास्तीवेति प्रतिभातीति भाव. । शार्दूल- विक्रीडितम् ॥ उत्खातं निधिशङ्कया क्षितितलं माता गिरेर्धातवो निस्तीर्णः सरितां पतिर्नृपतयो यत्तेन संतोषिताः। मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशा: प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥३॥ उत्खातमिति । निधिशङ्कया निक्षेपोऽत्र तिष्ठतीति भ्रान्त्या क्षितितलं किचि- दिष्टकादिनिचितभूतलं उत्खातं अवदारितम् । तत्र न किचिल्लब्धमित्यर्थः । तथा गिरेर्धातवः मन.शिलाद्या. ध्माता. । सुवर्णभावं प्राप्स्यतीति धिया अग्नौ मूषाया समूलि काविशेषं निक्षिप्य यावत्प्राणलवोत्करै संतापिता इत्यर्थः । तदपि न किं- चिजातमिति भाव. । 'ध्मा शब्दाग्निवक्रसयोगयो.' इत्यस्माद्धातो कर्मणि क्त । 'धातुर्मन शिलाद्यद्रे 'इत्यमरः । अत्राप्युक्तम्-'सुवर्णरूप्यताम्राइमहरितालमन - शिला ।गैरिकाजनकाश्मीरलोहसीसाश्च हिङ्गला. । गन्धकाभ्रकमित्याद्या धातवो गिरिसभवा' इति । अत्र सुवर्णरूयव्यतिरेकेणैव योज्यम् । अन्यथा प्रकृता- संगतेरिति । तथा सरिता पति. समुद्र निस्तीर्ण । द्वीपान्तरेषु वाणिज्येन बहु- धनं सपादयिष्यामीति सायात्रिकभावेन विलवित इत्यर्थ । नृपतयो राजानश्च यत्नेन छन्दानुवर्तनरूपयत्नेन सतोषिता । तथा मन्त्राराधनतत्परेण मन्त्रजपता- त्पर्यवता मनसा हेतुना श्मशाने प्रेतभूमौ निशा रात्रयो नीता. । भूतप्रेतपिशा- चादिभ्यो भयमविगणस्य निध्यादिप्रदर्शकदेवताभिमुखीकरणसाधनमन्त्रजप- तात्पर्येण निशासु श्मशाने स्थितमित्यर्थः । तथापि मया काणवराटक अन्ध- ३. वैराग्यशतकम्। कपर्दो न प्राप्तः । धनं तु दूरापास्तमिति भावः । 'कपर्दश्च वराटकः' इति ह- लायुधः।अत तृष्णे, सकामा सफलमनोरथा भव । खत्प्रतिज्ञातार्थनिष्पत्ते सिद्ध- संकल्पा भवेत्यर्थः । इत्थमनर्थहेतुभूतया तृष्णया वृथाव्यापारजनितश्रम एवावशि- टो न वाञ्छितलाभ इत्यतस्तदुन्मूलने यत्नः कर्तव्य इति भावः । वृत्तं पूर्ववत् ॥ खलालापाः सोढाः कथमपि तदाराधनपरै- निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा । कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ ४ ॥ खलालापा इति । खलानां दुर्जनानां आलापा दुर्भाषितानि तदाराधनपरैः तत्सेवातत्परै । अस्माभिरिति शेषः । कथमपि अतिकृच्छ्रेण सोढा क्षान्ता. । अ- न्यथाभावे कार्यभङ्गो भवेदिति भावः । तथा अन्तः अभ्यन्तर एव बाष्पं तदाला- पश्रवणजनिताश्रु निगृह्य निगम्य शून्येन निरुत्सुकेन मनसा उपलक्षितैः । निर्मि- नान्त करणैरित्यर्थः । हसितम् । हासोऽपि कृत इति शेष । कर्तरि क्त। दुराला- पैराक्षिप्ता अपि ते संतोषवन्त एव, नतु निर्विण्णा अतो विश्वसनीया इति बुद्ध त्पादनार्थ निर्विषयमिथ्याहासोऽपि विरचित इत्यर्थः । तथा वित्तेन धनेन यः स्तम्भो जडीभाव तेन प्रतिहता मूढा । विवेकशून्येति यावत् । धीर्येषा तेषाम् । धनदुर्मदान्धानामित्यर्थ । 'स्तम्भौ स्थूणाजडीभावौ' इत्यमरः । अञ्जलिरपि कृतः प्रवीभावोऽपि विहितः । तथापि न किचिल्लब्धमिति भावः । अत मोघागे व्यर्थ- मनोरथे आशे तृष्णे । 'आशा तृष्णादिशो प्रोक्ता' इति विश्व । त्वं मामतोऽ. स्मात् खलालापसहनादिकृत्यात् अपरं इतरत् किं कार्य नर्तयसि नाटयसि । मया कि कार्य कारयसीति यावत् । न किमपीत्यर्थः । नाटयितव्यार्थस्य वैय- र्थ्यादिति भावः । ननु पूर्वश्लोके मयेत्येकवचनं प्रयुक्तम् । अत्र तु तदाराधन- परैरिति बहुखम् । कथमेतत्समन्जसमिति चेत्, सत्यम् । तृष्णोपहताना बहुला. तत्प्रयुक्ततत्तत्कर्मकर्तृभेदेन क्वचिदेकवचनं वचिद्बहुवचनं च विवक्षितमित्यव- धेयम् । एवमुत्तरत्रापि योज्यम् । शिखरिणीवृतम् ॥ अथ तृष्णादुर्विलसितेनैव महदनुचितमप्याचरितमित्याह अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् । यदाढ्यानामग्रे द्रविणमनिःसंज्ञमनसा कृतं मानवीडैनिजगुणकथापातकमपि ॥५॥ अमीषामिति । किच तुलितानि समीकृतानि बिसिनीपत्रपयासि येषा तेषा नलिनीदलगतजललवतरलानाम् । अतिभङ्गुराणामित्यर्थः । अमीषां अविश्वसनी- यानां प्राणानां कृते । एतत्प्राणत्राणार्थमित्यर्थः । 'अर्थकृतेशब्दौ द्वौ तादर्से - सुभाषितत्रिशत्यां - ऽव्ययसंज्ञितौ' इति वचनात् । विगलित. भ्रष्ट विवेकः कर्तव्याकर्तव्यविचारो येषा तैरस्माभिः दुष्कर्म न व्यवसितं नोद्युक्तम् । सर्वमपि व्यवसितमेवेत्यर्थः । कुतः। यत् यस्मात्कारणात् द्रविणमदेन धनमदेन नि सज्ञानि स्तब्धानि मनासि येषा तेषा विमर्शशून्यान्त करणाना आढ्याना धनिकानाम् । 'इभ्य आन्यो धनी खामी' इत्यमर । अग्रे पुरस्तात् मानव्रीडै. निर्लज्जै अस्माभिः निजगुणकथा- पातकं खकीय विद्याविनयादिगुणप्रशंसारूपपापमपि कृतम्, तच्च निषिद्धम् । 'आत्मप्रशंसा परगर्हणमिव वर्जयेत्' इत्यापस्तम्बस्मरणात् । 'आत्मप्रशंसा मरणं परनिन्दा तथैव च' इति वचनादात्मगुणप्रशंसैवात्मोपघात । तस्य च निरय- प्रापकलेन पातकलं च । निजगुणप्रख्यापनेन धनं सपाद्य तेन प्राणान्सतर्प- यिष्याम इत्याशयेनेदृशानुचितमाचरितम् । तथापि न तल्लब्धमित्यपिशब्दार्थः । वृत्तं पूर्ववत् ॥ अथ यद्यप्युचितमेवाचरितम् , तथापि तस्यायथातथ्यान फलोपधायकम- भूदित्याह- क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः। ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ ६॥ क्षान्तमिति । सत्येवमपि परिभवहेतौ मनसोऽनुद्वेग. क्षमा तया न क्षान्तं न सोढम् । अवमानादिकमिति शेषः । कित्वशक्ततयैवेति भावः । तथा गृहे उचितं युक्तं यत्सुखं मृष्टान्नभोजनकलत्रसंभोगादिजनितानन्दादि तच्च सतोषत. किमनेन तुच्छेनेति परितोषान्न त्यक्तम् । किवसभावितब्रह्मचर्येणैवेति भाव सहा. सोढुमशक्या ये शीतवाततपनै क्लेशा दु खानि ते सोढा. क्षान्ता । देह- यात्रार्थ देशान्तरसंचारे तेषामनुभूतत्वादिति भावः । तपश्चान्द्रायणादिकं तु न तप्तं न चरितम् । तथा नियमितप्राणै अन्त प्रत्याहृतप्राणै. अस्माभिः अहश्च नि- शा च अहर्निशं अहोरात्रम् । 'अचतुर-' इत्यादिना निपातनात्साधु । वित्तं भ्यातं चिन्तितम् । शंभो पदं न ध्यातम् । अतो मुनिभिर्यद्यत्कर्म कृतं अवमान- सहनादिकमाचरितं तत्तदेव कर्म अस्माभिश्च कृतम् । कितु तैस्तै तत्तत्कर्मनियतै फलैर्वञ्चिता वर्जिता । तेषामयथाचरणेन वैगुण्यात्फलभाजो न जाता इत्यर्थ । क्षान्त्यादिनैव यद्यपमानादिकं क्षान्तं स्यात्तर्हि फललाभो भवेदेव, नतु तदाचरितम् । अयं चानर्थस्तृष्णादुर्विलसितमूल एवेति फलितार्थ. । शार्दूलविक्रीडितं वृत्तम् ॥ अथ त्रिभिर्जरादूषणद्वारा तृष्णा निन्दति- भोगा न भुक्ता वयमेव भुक्ता- स्तपो न तप्तं वयमेव तप्ताः। कालो न यातो वयमेव याता- स्तृष्णा न जीर्णा वयमेव जीर्णाः॥७॥ । तथा दु.
३. वैराग्यशतकम् । ११५ भोगा इति । भुज्यन्त इति भोगा स्रक्चन्दनादिविषया न भुक्ताः नानुभूताः, किंतु वयमेव भुक्ता. तत्प्राप्त्यर्थ दुरन्तचिन्तया ग्रस्ता । तथा तप. व्रतोपवासादि- पुण्यं न तप्तं नाचरितम् , कितु वयमेव तप्ता आध्यात्मिकादितापत्रयेण संता- पिता । तथा कालो न यातः न गत तस्याखण्डदण्डायमानत्वेन यानासंभवा- दिति भाव । किंतु वयमेव याता । जीवितावधिकालमुल्लच्यावसानं प्राप्ता इत्यर्थः । अथवा कालो न यात. सदाचारसज्जनसहवासादिना न गतः । तथा चेच्छ्रेयो भवेदेवेति भाव. । कितु वयमेव याता । देहगेहादियोगक्षेमानुसधानलम्प- टत्वेन कालमतिक्रम्य गता इत्यर्थ । तथा तृष्णा न जीर्णा न शिथिला । तच्छैथिल्य- हेतोरनुपस्थितत्वादिति भावः । किंतु वयमेव जीर्णा । तृष्णासहकृतजरया शिथि- लाझा जाता इत्यर्थ । अत इत पर वा क्षिप्रं खट्वाङ्गेनेव तृष्णोन्मूलन हेतुः संपादनीय इति भावः । इन्द्रोपेन्द्रवज्रालक्षणश्रवणादुपजातिवृत्तम् ॥ वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः। गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ८॥ वलीभिरिति । वलीमिर्जरा विश्लथचर्मरेखाभिः मुखं वक्त्रं आक्रान्तम् । वैरूप्यं प्रापितमित्यर्थ । पलितेन जरसा शौक्लयेन शिर मस्तकं अङ्कितं चिह्नितम् । शिर केशादयो धवला जाता इत्यर्थ । तथा गात्राणि करचरणाद्यवयवाः । अव- यविवाचिनो गात्रशब्दस्यावयवार्थकत्वं लक्षणया वेदितव्यम् । अवयवावयविनोर- भेदविवक्षया वा । न च गात्रबाहुल्यविवक्षायां यथाश्रुतमेव समञ्जसम् । मुखं शिर इत्येकवचनप्रयोगविरोधात् । ननु तत्रापि जात्येकवचनग्रहणे न कोऽपि विरोध इति चेकिमनेन बकबन्धप्रयासेनेत्यलमतिप्रसङ्गेन । शिथिलायन्ते शिथिलानीवा- चरन्ति । जराजर्जरभावविश्लिष्टसधिबन्धतया कार्यकरणसमर्था न जायन्त इत्यर्थ । कितु एका तृष्णा तरुणायते तरुणेवाचरति । बलिष्ठा जातेत्यर्थ । जरया सर्वमप्येवं विशकलितं न तृष्णेति महदेतदाश्चर्य मिति भाव. । उभयत्रापि 'कर्तुः क्यड् सलोपश्च' इति क्यड् । 'अकृत्सार्वधातुकयोर्दीर्घ.' इति दीर्घ. । श्लोकाख्यमेतदानुष्टुभं वृत्तम् । लक्षणं तूक्तम् ॥ निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः। शनैर्यष्टयुत्थानं घनतिमिररुद्धे च नयने अहो मूढः कायस्तदपि मरणापायचकितः ॥९॥ निवृत्तेति । भोगेच्छा विषयानुस्पृहा निवृत्ता निगता । अत्र जरादूषणाभिनि- वेशपारवश्येनेत्थमुक्तम् । तेन 'तृष्णैका तरुणायते' इत्याविरोधः । पुरुष इति यो बहुमानः सन्मान सोऽपि गलित. अपगतः । तत्प्रयोजकपौरुषाद्यपायादिति भाव. । यद्वा पुरुषाणा बहुमान तत्कर्तृकसन्मान. सोऽपि गलितः । पूर्ववत्पुरुषा- ११ सु. त्रि.
११६ सुभाषितत्रिशत्यां । दिना न वहु मन्यत इत्यर्थ । इदानी तादृशगौरवालाभादिति भाव । अथ परेत- वान्धवशोचनापदेशेन खस्यापसदता सूचयन्नाह-जीवितसमा. प्राणतुल्याः सुहृदो बन्धवश्च समाना• सबहुमानाः सन्त सपदि सद्य एव । जराव- स्थाया. प्रागेवेत्यर्थ, । खर्याता स्वर्ग गता । निजसुकृतपान पुण्यलोकं गता इत्यर्थः । जरादुर्दशापत्त्या बहुमानरहितोऽहं न यातो हीनजीवन इति भाव. । यद्वा समाना सवयस जीवितसमा बन्धवश्च सपदि सद्य एव । दुरवस्थापत्तेः पूर्वमेवेति भाव । स्वर्याताः लोकान्तरगता ।न त्वहमित्यर्थ । 'खरव्ययं खर्गनाकत्रिदिवत्रिदशालया' इत्यमर । ननु कंचित्कालं स्थीयताम् , किमनेना- मङ्गलाशंसनेनेत्यत आह-शनैः मन्दं यष्ट्युत्थानं यष्ट्यवष्टम्भनेनोत्थानम् । प्राप्तमिति शेष. । पादपाटल (व?) विघटनात्स्वयमुत्थाने सचारे वा शक्ति - स्तीत्यर्थ । नत्वेतावन्मात्रमेव, कितु नयने चक्षुषी च । प्रगृह्यत्वादस्य अहो इत्यनेन सध्यभाव. । घनं निबिडं यत्तिमिरं पाटलाख्यनेत्ररोगविशेषो वैद्यशास्त्र- प्रसिद्ध । 'तिमिर ध्वान्ते नेत्रामयेऽपि च' इति विश्वप्रकाशश्च । तेन रुद्ध निरुद्धशुद्धप्रसारे । अर्थग्रहणासमर्थे जाते इत्यर्थ । अन्धकपमुजीवनावरं मरण- मेवेति भाव । एतत्सर्वमनर्थजात जराकृतमेवेति हृदयम् । तदपि तथापि मूढ ज्ञानहीन. कायो देह. मरणेन योऽपायो विश्लेषः । नाश इति यावत् । तस्मात् चकितः भीतः । भवतीति शेष । अत्र देहिधर्म. तदुपाधौ देहे उपचर्यते । अहो ईदृकष्टदशायामपि जीविताशैव बलीयसी, न विज्ञानोदय इत्याश्चर्यमित्यर्थः । एतदपि तृष्णाविलसितमेवेति भावः । शिखरिणी ॥ नन्वेतादृशतृष्णामुल्लङ्घय स्वात्मसुखानुभवतत्पराः केचन महान्त. सन्ति कि- मित्याशक्य सन्त्येवेति निगमयन् तस्याः पृथग्जनदुस्तरत्वद्योतनार्थ महानदीत्वं रूपयति- आशा नाम नदी मनोरथजला तृष्णातरंगाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी। मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः॥१०॥ आशेति । मृष्टान्नपानभोजनविचित्राम्बरभूषणधारणषोडशवार्षिककामिनीसं- भोगादिगोचरमानसव्यापारा मनोरथाःत एव जलानि यस्या. सा तथोक्ता । अप्रा- प्येष्वप्यर्थेषु प्राप्त्यमिलापविशेषा तृष्णा तामिरेव तरंगैः कल्लोलै. आकुला सं- कुला । अभिमतवस्तुषु स्नहो राग. । उपलक्षणमेतद्वेषादीनाम् । तथा च रागद्वे- षादय एव ग्राहा नकादय यस्यां सन्तीति तथोक्ता । तत्तत्पदार्थलाभालाभगोचराः विवाः त. एव विहगा. कारण्डवादिपक्षिणो यस्यां सा तथोक्ता । 'मनसो नि- विकारत्वं धैर्य सत्खपि हेतुषु' इत्युक्तलक्षणं धैर्य तदेव द्वमः तं ध्वंसयति उन्मूल- यतीति तथोक्ता । अज्ञानं मोहमेव तद्वृत्तयो दम्भददियो लक्ष्यन्ते । तथा च ३. वैराग्यशतकम् । मोहा अज्ञानवृत्तय एवावर्ता जलभ्रमा तै सुदुस्तरा सुष्ठ तरितुमशक्या अति- गहना । एकत्र दुर्विभाव्यखाभाव्यात्, अन्यत्र दुरवगाहवाच इत्थमिति निर्णेतुं न शक्यत इत्यर्थः । इष्टाधिगमजनितध्यानं चिन्ता । बहुविधवेऽपि चिन्तानां तट- द्वयरूपणोपयोगार्थ द्विवं वक्ष्यते । तथा प्रोत्तुङ्गे अत्युनते चिन्ते एव तटे यस्याः सा तथोक्ता । आशा नाम नैकविधात्यायता तृष्णा । 'दशावस्था नैकविधात्या- शा तृष्णापि चायता' इत्यमर । नामेति प्रसिद्धौ । आशेति प्रसिद्धत्यर्थ । या नदी । वर्तत इति शेषः । यत्तदोर्नित्यसबन्धात् तस्या आशानद्या. पारं गता । ज्ञानप्लवेनेति भावः । अतएव विशुद्धमनसो निर्मलान्त करणा योगीश्वरा. महा- योगिन नन्दन्ति । ब्रह्मानन्दमनुभवन्तीत्यर्थ । अत. सर्वदा तृष्णातरणोपायो- ऽन्वेषणीय श्रेयस्कामेनेति भाव । अत्र प्रवाहरूपेणाविच्छिन्नत्वसाम्यदशायां नदीत्वम्, प्रतिकृतिस्वरूपनिरूप्यत्वसर्वतोमुखसभ्रमत्वादिसादृश्यान्मनोरथेषु ज- लवम्, मज्जनोन्मज्जनपारम्पर्येण विरामाभावसाधर्म्यात्तृष्णासु तरङ्गत्वम्, दुष्ट- खाभाव्येन अहिष्णुत्वसाम्याद्रागादिषु पाहत्वम्, नानाविधगतिमत्त्वसादृश्याद्वि- तर्केषु विहगत्वम्, स्थिरतरत्वस्वाभाव्याद्धैर्य दुमत्वम्, निरन्तरं दुरन्तभ्रामकत्व- साधर्म्यान्मोहेषु आवर्तत्वम्, अगाधभावद्योतकलसारूप्याच्चिन्तासु तटवं च रूपितमित्यवगन्तव्यम् । अतएव समस्तवस्तुवर्तिसावयवरूपकालंकार । वृत्त- मुक्तम् ॥ इति वैराग्यशतकव्याख्याने तृष्णादूपणं नाम प्रथमं दशकम् । अथ विषयपरित्यागविडम्बना यदुक्तं योगिनस्तृष्णानदी तीर्खा नन्दन्ति, तत्र विषयपरित्यागमन्तरा तद- संभवादथ विषयपरित्यागविडम्बनोच्यते-अथेति । अथ तृष्णादूषणानन्तर विषयाणा रूपादीनाम् । 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इत्यमर । यद्वा स्रक्चन्दनवनितादिभोग्यवस्तूनां परित्यागः सन्यास तस्य विडम्बना अनु- करणम् । अभिनय इति यावत् । उद्यत इति शेष । तत्प्रकारमेवाह दशभि न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौधैश्चिरपरिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ११ ॥ न संसारेति । संसारे अनादिभवपरम्परायां उत्पन्नं उदितम् । फलोद्देशे- नानुष्ठितमिति यावत् । चरितं पुण्याचरणम् । 'आदिकर्मणि क्त कर्तरि च' इति कर्तरि क्तः । कुशलं क्षेमकरं नानुपश्यामि । नानुसंदधामीत्यर्थ । कुत एतद्वैपरी- त्यमित्याशय तत्राह-विपाक इति । पुण्यानां पुराकृतसुकृताना विपाक. सपद्रूप- परिपाक विमृशतः तत्फलं परामृशत मे मम भयं जनयति उत्पादयति । तत्प- र्यालोचने सपदां पुण्यव्ययलभ्यत्वेन विपद्रूपत्वाद्भयजनकमित्यर्थः । अत एवोक्तं कविकुलसार्वभौमेन श्रीहर्षेण -'पूर्वपुण्यविभवव्ययलब्धाः संपदो विपद एव वि- ११८ सुभापितत्रिशत्यां . INDIA मृष्टा' इति । अथवा पुण्यानां ज्योतिष्टोमादिसत्कर्मणां विपाकः स्वर्गादिरूपफल. परिणाम विमृशत पूर्वोत्तरं पर्यालोचयतों मे भयं जनयति । 'क्षीणे पुण्ये मर्त्य- लोकं विशन्ति' इति भगवद्वचनात् । यावनियतकालं खर्गसुखमनुभूय पुण्यक्षये सति पुनर्मर्त्यलोकप्रवेशे महाविषादगर्भनिरयवासजन्मपरम्परादु खप्रभवत्वाद्भयं- करत्वमित्यर्थ । अत. कुशलं न पश्यामीत्यर्थ । एवं तत्फलभूताना भोगानामप्य- नर्थहेतुत्वमेवेत्याह-महद्भि भूयिष्ठैः पुण्यौघै. पुण्यसंचयैर्हेतुभिः चिरपरिगृहीता. चिरकालमारभ्य सग्रहीता विषयाश्च भोगा अपि विषयिणा विषयासक्ताना व्यसनं विपत्तिम् । दुः खमिति यावत् । दातुमिव दातुमेव । इवशब्दोऽत्रावधारणार्थकः । नतूत्प्रेक्षामिव्यञ्जक । अन्यथार्थान्तरन्यासादिति वेदितव्यम् । महान्त प्रवृद्धा जायन्ते भवन्ति । व्यसनप्रदानप्रवणैव एतद्वृद्धिः नान्यदानप्रवणेत्यर्थः । एवमैहि- कामुष्मिकभोगानामनिष्टानुबन्धित्वात्तत्त्याग एव श्रेयानिति भाव । शिखरिणी ।। अथ सर्वथा विषया परित्याज्या इति वक्तुं तेषा व्यवस्थितिमाह- अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १२॥ अवश्यमिति । विषया भोगा. चिरतर बहुकाल उषित्वापि स्थित्वापि । 'वसति- क्षुधोरिद' इति इडागम. 'वचिखपि-' इत्यादिना संप्रसारणम् । अवश्यं नियतम् । सिद्धमिति यावत् । यातारो गन्तार. आगमापायित्वेनास्थिरत्वात्परिचयानाद- रेण पुरुषं त्यक्त्वा यातार एव । न तु परिचयवशायावज्जीवं स्थातार इत्यर्थ । तदुक्तं भगवता---'मानास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदा.। आगमापा- यिनोऽनित्यास्तास्तितिक्षख भारत ॥' यातेलुंटू । अत: वियोगे विषयविरहे को भेदः को वा विशेष. । न कोऽपीत्यर्थ । स्वकर्तृकत्यागे वा पुरुषकर्तृकल्यागे वा तस्य जायमानत्वादिति भाव । तथाहि यत् यस्मात्कारणात् जनो विषयासक्त पुमान् अमून विषयान् स्वयं न त्यजति गुणान् गृहीत्वा न विसृजति । स्वयमेव त्यजति चेत्तर्हि तेन कृतार्थों भवतीति भावः। एतेन विषयकर्तृकत्यागे तु न कृता- र्थत्वमिति सूच्यते । ननु कुत एतद्वैषम्यमित्याशक्य तत्र व्यवस्थामाह-खातच्यात् कर्तृवात् । स्वाच्छन्द्यादिति यावत् । 'स्वतन्त्रः कर्ता' इत्यनुशासनात् । वजन्त. पुरुषं विसृजन्त सन्त । विषया इति शेष । मनसः अतुलपरितापाय दुरन्त- सतापाय । भवन्तीति शेषः । अत्यन्तदु खकारिणो भवन्तीत्यर्थः । वयं खेन कर्ता पुरुषेण त्यक्ता तुच्छवभावनया विसृष्टाश्चेत् तर्हि एते विषयाः अनन्तं अप- रिच्छिन्नं शमसुखं तृष्णोपशान्तिसुखम् । परमानन्दमिति यावत् । विदधति कुर्वन्ति हिरवधारणे । तदुक्तम्-'यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णा- .
३. वैराग्यशतकम् । ११९ शमसुखस्यैते नाहत षोडशी कलाम् ॥' इत्यतोऽनर्थापादकविषयकर्तृकत्यागा- त्पूर्वमेव स्वयं तत्त्यागतत्परेण भवितव्यं श्रेयस्कामेनेति भाव. । वृत्तं पूर्ववत् ॥ ननु कीदृग्विधा. पुरुषा विषयत्यागसमर्था इत्याकालाया ज्ञानिन एव समर्था न तु मादृशा इत्याह- ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं यन्मुञ्चन्त्युपभोगभाअयपि धनान्येकान्ततो निःस्पृहाः। संप्राप्तान पुरा न संप्रति न च प्राप्तौ दृढप्रत्यया- न्वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ १३ ॥ ब्रह्मेति । ब्रह्मज्ञानेन यो विवेक तत्त्वविचार तेन निर्मला निष्कलङ्का । अस- भावनादिरहितेति यावत् । सा धी येपा ते । ज्ञानवन्त इत्यर्थ । दुष्कर कर्तु- मशक्यं कुर्वन्ति । अहो इत्याश्चर्ये । कि तदुष्करमित्याह-यद्यस्मात् उपभोगं भजन्तीत्युपभोगभाञ्जि । स्रक्चन्दनादिभोगसाधनत्वेनानुभूयमानान्यपीत्यर्थः । धनानि वित्तानि नि स्पृहा निरीहा. सन्त एकान्तत नितान्तम् । निरवशेष- मिति यावत् । मुञ्चन्ति विसृजन्ति । इदमेवातिदुष्करमत्यन्ताश्चर्य चेत्यर्थ । वयं अस्मद्विधा अज्ञानिनस्तु पुरा पुरातनकाले न सप्राप्तान नाधिगतान सप्रति इदानी वर्तमानकालेऽपि प्राप्तौ वा भविष्यत्काललामेऽपि वा न दृढप्रत्ययान् न दृढवि. श्वासान् । अविश्वसनीयानिति यावत् । कालत्रयेऽप्यसभाव्यमानानित्यर्थ. । 'प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुषु' इत्यमर । कितु वाञ्छामात्रपरिग्रहान् । मनोरथमात्रसगृहीतान् । मनोव्यापारमात्रगोचरीकृतानपीत्यर्थः । अनुभूयमानास्तु किमुतेति भाव । विषयानिति शेषः । त्यक्तुं पर अत्यन्तं न शक्ता असमर्थाः । अतस्त एव धन्या इति भावः । 'शकवृष-' इत्यादिना तुमुन् । विषयपरित्यागे ब्रह्मज्ञानमेव मुख्यसाधनम् , अतस्तत्सपादनेन तत्परित्यागोऽवश्यं कर्तव्य इति फलितार्थ । शार्दूलविक्रीडितम् ॥ उक्तमेवार्थ भझ्यन्तरेणाह- धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायता. मानन्दाश्रुकणान्पिबन्ति शकुना निःशङ्कमङ्केशयाः। अस्माकं तु मनोरथोपरचितप्रासाद्वापीतट- क्रीडाकाननकेलिकौतुकजुपामायुः परं क्षीयते ॥ १४ ॥ धन्यानामिति । गिरिकन्दरेषु गिरिगह्वरेषु । 'दरी तु कन्दरो वा स्त्री' इत्य- मर । वसता विविक्ततया वर्तमानानाम् । 'विविक्तसेवी लघ्वाशी' इति वचनादिति भावः । तथा परं ज्योतिः परं ब्रह्म ध्यायतां धन्यानां पुण्यशालिनाम् । 'सुकृती पुण्यवान्धन्यः' इत्यमरः । आनन्देन ये अश्रुकणा. बाष्पविन्दव तान् निःशङ्क तेषा तप प्रशान्तलानिर्भयं यथा तथा । अङ्के शेरत इत्यङ्केशयाः उत्सङ्गवर्तिनः । 'अधिकरणे शेते.' इत्यच्प्रत्यय. । शकुना. पक्षिण. पिबन्ति । कितु मनोरथेन १२० सुभाषितत्रिशत्यां वाञ्छामात्रेण उपरचिताः या प्रासादेषु हर्येषु वापीतटेषु अल्पसरस्तीरेषु क्रीडा- काननेषु उद्यानेषु च केलयो विहारा तासु कौतुकजुषां औत्सुक्यभाजां अस्माकं आयु पर आयुरेव क्षीयते नश्यति । दुर्लभविषयचिन्तातत्परै वृथा कालो यापितः, न तु तद्ब्रह्मज्ञानं सपादितम् , अतो वयमपि तथा न धन्या इति भाव ॥ अथ कस्यचिद्विषयाभिभूतस्य निर्वेदनवचनमभिनीयाह- मिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं विशीर्णशतखण्डमयी च कन्था हा हा तथापि विषया न परित्यजन्ति ॥ १५॥ मिक्षाशन मिति । मिक्षा । भैक्षमित्यर्थः । अशनं आहार । तदपि भिक्षान्ना- शनमपि नीरस मधुराम्लादिरसहीनम् । तदप्येकवारम् । न तु द्वित्रिवारमित्यर्थः । शय्या शयनीयं च भू । साप्यास्तरणादिरहितेति भाव । परिजन सेवकजनः निजदेहमानं स्वस्य स्वयमेव परिजन । नतु कश्चिदन्योऽस्तीत्यर्थ. । वस्त्रं आच्छा- दनं च विशीर्णा शतखण्डमयी विशेषेण जीर्णा एकचीवरशकलनिर्मिता कन्था । तथापि ईदृक्कष्टदशायामपि विषया. भोगवाञ्छाः न परित्यजन्ति न विसृजन्ति । मामिति शेष । हा हेति विषाद विस्मयातिशयाभिनिवेदनार्था द्विरुक्ति । पापिष्ठा इमे विषया हतमेव नन्तीति भाव । अत्र विषयपरित्यागकारणसामय्यां सत्यां कार्यानुदयाद्विशेषोक्तिरलंकार -'तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति. लक्षणात् । वसन्ततिलका ॥ अथ विपयाणा कामिनीप्राधान्यात्तदूषणाभावे तत्परित्यागो न सुकर इति मनसि निधाय ता दूषयति- स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् । स्रवन्मूत्रक्लिन्नं करिवरशिरःस्पर्धि जघनं मुहुनिन्धं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १६ ॥ स्तनाविति । स्तनौ कुचौ मासग्रन्थी मासपिण्डौ, तथापि कनककलशाविति अनर्घ्यहीरमयकुम्भाविति उपमितौ । उपमाविषयीकृतकनककलशकल्पत्वेनोपव- र्णिता वित्यर्थः । मुखं वक्रं तु श्लेष्मागारं कफलालादन्तमलादिस्थानम् , तदपि शशा- केन सुधारसमयेन चन्द्रेण तुलितं समीकृतम् । तत्तुल्यत्वेनोपवर्णितमित्यर्थः । अत्र तुलितशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि न 'तुल्याथै रतुलोपमाभ्याम्-' इति तृतीयाप्रतिषेध । अत्र सूत्रे सदृशवाचिन एव ग्रहणादिति । जघनं कटिपुरोभागस्तु । 'पश्चानितम्ब स्त्रीकट्या क्लीबे तु जघनं पुर' इत्यमरः । स्रवता मदनसदनदा. १ ३. वैराग्यशतकम् । १२१ । अतः ाभावागवता मूत्रेण क्लिन्नं आर्द्रम् । अपवित्रमित्यर्थ । तदपि करिवरशिर स्पर्धि मदजलपरिष्ठतिश्लाघ्यगजेन्द्रकुम्भस्थलसदृशमित्युपवर्णितमिति भाव मुहुः पौन पुन्येन निन्धं ग्रन्थ्याद्याकारेण जुगुप्स्यं रूपं स्तनाद्यवयवखरूपम् । कामिन्या इति शेष । कविजनविशेष तत्तद्विशेषकल्पनाचतुरकवीश्वरैः गुरु कृतं कनककलशादिसादृश्यवर्णनेन श्रेष्ठीकृतम् । कविजनवाड्यात्रसारमेवैतद्रूपम्, न तु खतःसिद्धसारवदिति भाव. । अत्र मासग्रन्थित्वेन स्तनयो मर्दनानह- श्लेष्मागारत्वेन मुखस्य चुम्बनाद्ययोग्यत्वम्, खवन्मूत्रक्लिन्नत्वेन जघनस्य हेयतया सभोगापात्रत्वं च सूचितम् । एतत्कृत एव कामिनीना संभोगास्पद- त्वेनाभिमतम् । इदमेवेत्थं जुगुप्सितत्वेन दूषित चेत्तर्हि किमन्यत्कामिन्या भो- गयोग्यमस्तीति लोकतात्पर्यम् । तदुक्तम्----'हासोऽस्थिसदर्शनमक्षियुग्ममत्यु- ज्वलं तत्कलुपं वसाया । स्तनौ च पीनौ पिशितास्रपिण्डौ स्थानान्तरे कि नर- को न योषित् ॥' इति शिखरिणी ॥ लम्, अथैक. परमेश्वर एवैकान्ततोऽनुरको विरक्तश्च । अन्यस्तु तथाननुरक्तत्वाद- विरक्तत्वाच्च परिक्लिष्ट एवेत्याह- -- एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः। दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमाः ॥१७॥ एक इति । प्रियतमायाः पार्वत्या देहस्य शरीरस्य अर्ध अर्धभागम् । 'अर्ध नपुंसकम्' इति समास । तद्धरतीति तथोक्त । महाकामुकतया क्षणमात्रमपि विश्लेषस्यासहिष्णुत्वानिजदेहवामार्वपरिक्लप्तप्रियतम इत्यर्थः । 'वामाधारी' इति पाठ । एक एव हरो रागिषु अनुरक्तेपु । कामुकेष्वित्यर्थ । राजते अप्रतिनिधि- खेन प्रकाशते । तादृशकामुकान्तरस्यानुपलभ्यमानत्वादिति भावः । तथा नीरा- गेषु विरक्तेषु अपि विमुक्त त्यक्त ललनासङ्गो योषिदासक्तिर्येन स तथोक्ता जन वैराग्यपुरुषो यस्माद्धरात् परोऽन्यो नास्ति । तपश्चरणसमये मदनदहना दिना तादृग्वैराग्यप्रकटनात्तथाविधविरक्तो न कश्चिदस्तीत्यर्थः । कितु दुर्वारा निवार- यितुमशक्या स्मरबाणा एव पन्नगा सा तेषा विषेण गरलेन तत्सदृशेन व्या- मोहेन च व्याविद्ध व्याक्षिप्त अतएव मुग्धो मूढो निश्चेष्टश्च शेषः अवशिष्ट जन कामेन मन्मथेन हेतुना विडम्बितान अनुकृतान् । स्वीकृतानिति यावत् । विषयान् स्त्रीसंभोगादीन भोक्तुं अनुभवितुं वा मोक्तुं त्यक्तुं वा न क्षमः । तादृगनुरागवि- रागोत्कर्षाभावात्तथाविधभोगत्यागयोरसमर्थ इत्यर्थ. । कर्तुमकर्तुमन्यथाकर्तु सम- र्थ परमेश्वर एक एवानुरक्तेषु विरक्तेषु च परा काष्ठां प्राप्त । तदन्यः सर्वोऽप्यु- भयभ्रष्ट एवेति भावः । स्मरबाणपन्नगेत्यत्र रूपकालंकार । शार्दूलविक्रीडितम् ॥
१२२ सुभाषितत्रिशत्यां अथ विषयदोषपरिज्ञानेऽप्यत्यागे कारणमाह- अजानन्दाहात्म्य पततु शलभस्तीवदहने स मीनोऽप्यज्ञानाद्वडिशयुतमश्नातु पिशितम् । विजानन्तोऽप्येते वयमिह विपजालजटिला- न मुश्चामः कामानहह गहनो मोहमहिमा ॥ १८ ॥ अजाननिति । शलभः पतङ्ग दह्यतेऽनेनेति दाह तस्य आत्मन. खभा- वस्य भावः दाहात्म्यम् । भस्मीकरणखाभाव्यमित्यर्थ । 'आत्मा देहे धृतौ जीवे खभावे परमात्मनि' इति विश्वः । अजानन् अनववुध्यन् तीव्रदहने जाज्वल्य. मानानौ पततु प्रविशतु । तत्र भस्मीभवलित्यर्थ । सभावनाया लोट् । तया स प्रसिद्धो मीनो मत्स्योऽपि अज्ञानात् आत्मविनाशकारणमेतदित्यविवेकात् बडि- शयुत मत्स्यवेवनसदानितम् । अयोमयवक्रकण्टकाग्रस्यूतमित्यर्थ. । पिशितं मास अश्नातु भक्षयतु । आमिषलोभात्कण्टकलगनेन गलनिरोधात् सोऽपि म्रियतामित्यर्थः । नात्रानयोरपराध । नाज्ञानमपराध्यति । 'पतङ्गमातङ्गकुरङ्ग- भृङ्गमीना हता. पञ्चभिरेव पञ्च' इति च न्यायादिति भावः। 'बडिशं मत्स्यवे- धनम्', 'पिशितं तरसं मासम्' इति चामर । किविहास्मिन् लोके विजान- न्तोऽपि विनिपातहेतव इति विवेकवन्तोऽप्येते वयं विपज्जालै आपत्परम्प- राभि जटिलान्प्रथितान् । उपद्रवहेतूनपीत्यर्थ । पचादित्वान्मत्वर्थीय. अच्प्र- त्ययः । कामान् विषयान् न मुञ्चाम न त्यजामः । विषयस्वरूपपरिज्ञानेऽय- मुञ्चतामस्माकं एवापराध इति भाव । 'शे मुचादीनाम्' इति नुमागम । वि- चार्यमाणे नास्माकमप्यपराधः प्रबलतरकारणसद्भावादित्याह--मोहस्य अज्ञान- स्य महिमा माहात्म्यं गइनो दुर्विज्ञेय अघटितघटनापटुतराविद्याविलासमहिना लोको जनः अविहितमपि करोति, अतो नामाकमपराध इति भावः । शिखरिणी। अज्ञानमहिम्नैव सुखाभावेष्वप्यन्नपानादिविषये सुखबुद्धिं करोतीत्याह- तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् । प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधू प्रतीकारं व्याधे सुखमिति विपर्यस्यति जनः ॥ १९ ॥ तृषेति । तृषा तृष्णया आस्ये वक्र शुष्यति शोषं प्राप्नोति सति । शीतं च तन्मधुरं चेति विशेषणयोरपि मिथो विशेषणविशे यभावाविवक्षायाम् 'विशेषणं विशेष्येण बहुलम्' इति समास । शैत्यगुणयुक्तं संतापहर चेत्यर्थः । 'शीतली कि यते तापो येन तन्मधुरं स्मृतम्' इति लक्षणात् । यद्वा मधुरं शर्करापानकवन्मा- धुर्यसंयुक्त सलिलं उदकं पिबति । तथा क्षुधात बुभुक्षापीडितः सन् मासादिना। मांसघृतपयोदध्यादिव्यञ्जनद्रव्येणेत्यर्थः । कलितं रुचिरम् । खादूकृतमित्यर्थः । शाल्यन्नं कवलयति भुढे। तथा कामानौ मदनदहने प्रदीप्ते प्रज्वलिते सति । मन्मथो .
३. वैराग्यशतकम् । १२३ -- द्रेके सतीत्यर्थ । सुदृढतर अतिगाढ वधूं स्त्रियं आलिङ्गति आश्लिष्यति । अतः व्याधे क्षुत्तृष्णादिरूपामयस्य प्रतीकारम् । तदुपशान्तिकरानपानालिङ्गनरूपौषध- सेवनरूपप्रतिक्रियामित्यर्थ । सुखं भोग इति जन विपर्यस्यति विपर्यस्तबुद्धिं प्राप्नोति न तु तत्त्वं जानातीत्यर्थ । अतस्मिस्तद्रहो विपर्यासः । अयंच अज्ञान- दुर्विलास एवेति भाव । वृत्तं पूर्ववत् ॥ एवं तावदज्ञो जन ससारविषयासक्त्या बद्धो भवति, ज्ञानी तु सर्वसझं परित्यज्य कृतकृत्यो भवतीति निगमयति- तुझं वेश्म सुतः सताममिमताः संख्यातिगाः संपदः कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः। मत्वा विश्वमनश्वरं निविशते संसारकारागृहे संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु संन्यस्यति ॥ २० ॥ तुङ्गमिति । वेश्म प्रासादादि तुझं उन्नतम् । सुताः पुत्राः सता साधूना विदुषा अमिमता इष्टाः । संप्राप्तविद्याविनयादिगुणा इत्यर्थः । 'मतिबुद्धि- इत्यादिना वर्तमानार्थे क्त । अत एव 'क्तस्य च वर्तमाने' इति षष्ठीविधानात् षष्ठी न समस्यते इति वक्तव्यमिति समासनिषेध. । संपद धनधान्यादिद्रव्यसमृद्धय संख्यातिगा असख्येया । अपरिमिता इत्यर्थः । दयिता प्रियतमा कल्याणी आनुकूल्यादिगुणसपना । तदुक्तम्-'अनुकूला विमलागी कुलजां कुशला सुशी- लसंपन्नाम् । पञ्चलकारा भार्या पुरुष पुण्योदयाल्लभते ॥' वयश्च नवम् । नूतनं यौवनमित्यर्थः । 'वय पक्षिणि बाल्यादौ' इत्यमरः । इत्येवमज्ञानेन मोहेन मूढो विवेकशून्यो जन विश्वं गृहापत्यवित्तदारादिप्रपञ्चं अनश्वरं शाश्वतं मला आलोच्य ससार एव कारागृहं बन्दिगृहं तत्र निविशते प्रविशति । तदासक्तो भवतीत्यर्थ । नतु तस्यानर्थमूलत्वं जानातीति भाव । 'नेर्विश.' इत्यात्मनेपदम् । अतिसंक- टतया परमनिर्बन्धहेतुवात्संसारस्य कारागृहवरूपणम् । 'कारा स्याद्वन्धनालयः' इत्यमर । धन्यस्तु ज्ञानी । तुशब्द पूर्वस्माद्वैलक्षण्यं द्योतयति । तदेवाह- तदखिलं वेश्माद्यशेषप्रपञ्चं क्षणभङ्गुरं अशाश्वतं संदृश्य सम्यगालोक्य । संपूर्वा- दृशे क्त्वा ल्यबादेश । सन्यस्यति न तत्रासक्तो भवति । किंतु विरक्तो भव- तीति भावः । अत ज्ञानेन सर्वानर्थमूलमज्ञानं निरस्य कृतकृत्येन भवितव्यमिति तात्पर्यम् । शार्दूलविक्रीडितम् ॥ इति वैराग्यशतकव्याख्याने विषयपरित्यागविडम्बना नाम द्वितीयं दशकम् । - अथ याचादैन्यदूषणम् । अथ यात्रादैन्यदूषणमारभते -अत्रायमभिप्राय -विषयाणा यानादैन्यप्र- योजनलाद्विपयपरित्यागविडम्बनानन्तर्येणैतत्प्रयोज्य यात्राजनितदैन्यमपि दूष- णीयमेवेति । अतस्तत्प्रसङ्गानन्तरमेतद्दूषयितुमारभते दीनेत्यादिश्लोकदशकेन- सुभाषितत्रिशत्यां दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेन्नेहिनी । याच्आभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ २१ ॥ दीनेति । दीना दरिद्रा अतएव दीनानि शोभाहीनानि मुखानि येषां तैः । कुतः । कोशद्भि रुदद्भिः । तत्कुतः । क्षुधितैः संजातक्षुधैः । बुभुक्षितरित्यर्थः । क्षुधाशब्दोऽप्यावन्तः तस्मात् । 'तदस्य संजातं तारकादिभ्य इतचू' इतीत- प्रत्ययः । तारकादिराकृतिगणः । क्षुदिति दकारान्तपक्षे तु क्षुधं प्राप्तैः क्षुधितैः क्षुधातुरैः। कर्तरि क्तः । 'वसतिक्षुधोरिट्' इतीडागमः । शिशुकैः अत्यन्तबा- लकै. । अल्पार्थे कप्रत्ययः । सदा सर्वदैव आकृष्टं अन्नपानादियानापूर्वकं आक्षिप्तं जीर्णाम्बरं विशीर्णवस्त्रं यस्याः सा तथा। निरन्ना अन्नपानरहिता अतएव विधुरा विह्वला । निरन्ना च सा विधुरा चेति विशेषणसमासः। अन्नाभावात्क- टजीवनेत्यर्थः । 'विधुरः प्रत्यवेते स्यात्कष्टविश्लिष्टयोरपि' इति विश्वः । गहिनी गृहिणी दृश्या दृष्टिगोचरा न चेत् न स्याद्यदि तर्हि मनखी सुमेधाः धैर्यशाली। प्रशंसायां विनिः । कः पुमान यात्राभङ्गायद्भयं तेन गद्गदो दीनखरः । अनुकर- णशब्दोऽयम् । यो गलः कण्ठः तत्र त्रुट्यन्ति शकलीभवन्ति अतएव विलीनानि अनुच्चारितप्रायाणि अक्षराणि वर्णाः यस्मिन्कर्मणि तद्यथा तथा खस्य दग्धः प्लुटो यो जठरः उदरं तस्यार्थे । तत्पूरणार्थमित्यर्थः । 'अर्थे कृते च शब्दौ द्वौ तादर्थेऽव्ययसंज्ञितौ' इत्यमरः । दग्धशब्दोऽत्र निर्वेदाभिद्योतकः । यथोक्तं सुरे- श्वरवार्तिके-'अस्य दग्धोदरस्यार्थे किं न कुर्वन्त्यसांप्रतम्' इति । देहीति वदे- त् ब्रूयात् । न कोऽपीत्यर्थः । तस्याः दृश्यत्वादीइंगवस्थापन्नो भवति, अतोऽन र्थमूलत्वात्तत्परित्यागोऽवश्यं कर्तव्य इति भावः । शार्दूलविक्रीडितम् ॥ इदानी दैन्यार्थमूलं जठरं निन्दति- अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका । विपुलविलसल्लजावल्लीवितानकुठारिका जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ २२ ॥ अभिमतेति । अभिमत. कीर्तिप्रतिष्ठावहत्वादिष्टः यो महामानग्रन्थिः गरिष्ठा- भिमानग्रन्थिः तस्य प्रभेदे विश्लेषणे पटीयसी समर्थतरा । पटुशब्दादीयसुनि 'उगि- तश्च' इति डीपू । गुरुतरा अतिशयेन वर्तमाना ये गुणग्रामा गाम्भीर्यधैर्यादिगुण- गणाः त एवाम्भोजानि तेषां स्फुटं यथा तथा उज्ज्वल चन्द्रिका पूर्णिमाकौमुदी । तत्संकोचहेतुभूतेत्यर्थः । विस्तृतं यथा तथा विलसत्प्रकाशमानं यल्लज्जावल्ली- वितानं ब्रीडालताविततिः तस्य कुठारिका परशुः । तदुच्छेदनसाधनभूतेत्यर्थः । दुप्पू- ..
३. वैराग्यशतकम् । रा पूरयितुमशक्या । प्रत्यहमनपानादिपूरितापि पर्याप्यभावादिति भावः । 'ईषदु -' इत्यादिना खल्प्रत्ययः । इयं जठरं उदरमेव पिठरी कुण्डी । 'पिठरः स्थात्युखा कुण्डम्' इत्यमर । गौरादित्वात् डीप् । तथा च कृष्णामृतस्तवे- 'जठरपिठरीपूर्तये नर्तितासि' इति । विडम्बनं यानाकरणं करोति । यानादै- यमस्मासिरभिनाटयतीति भाव । एतद्यतिरेकेण दैन्यकारिणी न काप्यस्तीति भाव: । 'वल्लीकठोरकुठारिका' इति पाठे निशिततरपरशुरित्यर्थ । रूपकालंका- रः। हरिणीवृत्तम्-'भवति हरिणी न्सौ नौ स्लौ गो रसाम्बुधिविष्टपै' इति लक्षणात् ॥ अथ मानिनस्तावद्वन्धुयाजायाः परमन्यत्र मिक्षाशनतात्पर्येण प्राणधारण- मित्याह- पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालिं कपालिं ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे । द्वारं द्वारं प्रविष्टो वरमुदरदीपूरणाय क्षुधा” मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥२३॥ पुण्य इति । न्यायगर्भ मीमासाशास्त्रोक्तप्रकारगर्भितं यथा तथा । यद्वा नीयन्ते ज्ञाप्यन्ते बुभुत्सितार्था एभिरिति न्याया वेदशास्त्रपुराणादय ते गर्भ कुक्षौ येषां ते न्यायगर्भा । अधीताखिलविद्या इत्यर्थ । 'कुक्षिभ्रूणार्भका गर्भा.' इत्यमर । तथाभूता द्विजा ब्राह्मणाः तै. हुता आज्यादिहविर्भिः सुतर्पिता ये हुतभुजोऽग्नयः तेषा धूमेन धूम्राणि कृष्णलोहितवर्णानि उपकण्ठानि अन्तिकप्रदेशा यस्य तस्मिन्। 'धूम्रधूमलौ कृष्णलोहिते', 'उपकण्ठान्तिकाभ्याभ्यग्रा अप्यभितोऽव्ययम्' इति चामर । अतएव पुण्ये पवित्रे महति विपुले च । विशेषणद्वयेन नि सकोच. संचारार्हत्वं सूच्यते । ग्रामे अग्रहारे वने अरण्ये वा । तत्रापि वानप्रस्थादीनां विद्यमानत्वादिति भाव । सितपटेन श्वेतवस्त्रेण छन्ना परेषा दृष्टिगोचरत्वाभावार्थ- माच्छादिता । तथा विशिष्टाचारात् । पालि अश्रि. यस्यास्ताम् । पालिख्यथ्यङ्क- पतिषु' इति वैजयन्ती । कपालि भिक्षाहरणोचितशरावं आदाय गृहीत्वा क्षुधार्तः क्षुत्पीडित. मानी अभिमानवान् । पुरुष इति शेष । उदरमेव दरी गिरिगह्वर तस्या. पूरणाय । पूर्त्यर्थमित्यर्थ । तादर्थ्य चतुर्थी । अथवा उदरं पूरयितुमित्यर्थः । 'तुमर्याच भाववचनात्' इति चतुर्थी । द्वार द्वार प्रतिद्वारम् । गृहमेधिनामिति शेप । 'नित्यवीप्सयो' इति वीप्साया द्विरुक्ति । प्रविष्ट । भिक्षार्थमित्यर्थ । प्राणै सनाथः सहितश्चेत् । भिक्षाशनेन प्राणधारणतत्पर स्यान्चेदित्यर्थ मनाक्प्रियम् । 'दैवाढते वर श्रेष्ठ त्रिषु क्लीबं मनाविप्रये' इत्यमर । दिने दिने अनुदिनम् । प्रत्यहमित्यर्थ । यथार्थेऽव्ययीभाव । तुल्यकुल्येषु समानकुलेषु समा- नकुलोद्भवेपु । तन्मध्य इत्यर्थः । दीन. पुन. दैन्यवाश्चेत् । न वरम् । बन्धुमध्ये या- जादैन्यनीचजीवनाद्वरं मिक्षानेन प्राणधारणम् । 'न बन्धुमध्ये धनहीनजीवनम्' । वरं १२६ सुभाषितत्रिशत्यां इति वचनादिति भावः । अत्र यद्यपि 'त्यजन्त्यसून शर्म च मानिनो वर त्यज- न्ति न त्वेकमयाचितव्रतम्' इति वचनान्मानिन. सर्वदायाचितत्वमेव मुख्य- व्रतम्, तथापि यदि क्षुधातुरत्वेन याञाप्रवृत्ति स्यात्तदा कुत्रचिदपरिज्ञातदेशे श्रोत्रियगृहेषु कपालभिक्षानभक्षणेनोदरपूरणं कर्तव्यम् । नतु बन्धुजनयात्रा- प्राणसकटेऽपि तस्य परमनच्यावहत्वादिति गूढाभिसधि. । स्रग्धरा ॥ अथ विशिष्टगत्यन्तराभाववितर्कद्वारा दूषयति- गङ्गातरंगकणशीकरशीतलानि विद्याधराध्युषितचारुशिलातलानि । स्थानानि कि हिमवतः प्रलयं गतानि यत्सावमानपरपिण्डरता मनुष्याः॥२४॥ गङ्गेति । गङ्गातरंगाणां भागीरथीकल्लोलाना ये कणा बिन्दवः तेषा शीकरै. प्रालेयप्रायलेशैः । अथवा कणा. स्थूलबिन्दवः, शीकरा. सूक्ष्मा', तै• शीतलानि शिशिराणि । 'घनशीकर-' इति वा पाठ । तथा सान्द्रा इत्यर्थ. । विद्याधरैः देवयोनिविशेषैः अध्युषितानि अधिष्ठितानि । 'गत्यर्थाकर्मक-' इत्यादिना वसे कर्मणि क्त । 'वचिखपि-' इत्यादिना संप्रसारणम् । अतएव चारूणि मनोह- राणि शिलातलानि येषु तानि तथोक्तानि । विशेषणद्वयेनतेन परमपवित्रत्वं च सूच्यते । हिमवत हिमाद्रे सबन्धीनि स्थानानि प्रान्तप्रदेशा प्रलयं गतानि. कि नष्टानि किम् । किशब्दोऽत्र वितर्के । 'कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इध्यते' इति शाश्वत । ननु कुत एवं विद्यमानेष्ववस्थानेषु विनाशो वितयंत इत्याशय तत्र कारणमाह-यद्यस्मात्कारणात् मनुष्या जना सावमानेषु यानया तिरस्काराचरणपूर्वकं दत्तेषु परपिण्डेषु परान्नेषु रता आसक्ता । ताह- क्परपिण्डाशनेन प्राणत्राणतत्परा जाता इत्यर्थ । यदि स्थानानि न नश्येरन् तर्हि जना ईदृक्कष्टयानातत्परा न भवेरन् । तेषां नष्टत्वादेवेदृग्दुरवस्थापन्ना इति कृत्वा एव वितयंत इति वाक्यार्थ । यद्वा गत्यन्तराभावं प्रश्नद्वारा दूष- यति-गङ्गेति । किंशब्दोऽत्र प्रश्ने । नन्वेवं कुत पृच्छयत इत्यत आह-य- स्मात्कारणात् हे मनुष्या., सावमानपरपिण्डरता यूयम् । जाता इति शेषः । अत. प्रश्नस्यावकाश इति भाव । अन्यत्समानम् । एतेन दुर्भगयाञापिशाचि- कामूर्धन्यशनि पातयित्वा गिरिपरिसरेषु सुखेन वर्तितव्यमिति सूचितम् । वस- न्ततिलकावृत्तम् ॥ इदानी पुनर्जीवनोपायान्तराभावं वितर्कद्वारा दूषयति- किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः। वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभूलतानि ॥ २५ ॥ - ३. वैराग्यशतकम् । १२७ किमिति । कन्दरेभ्य गुहाभ्य सकाशात् कन्दाः कन्दमूलादिपदार्थाः । क्षुन्निवारणक्षमा इति भावः । प्रलयं विनाशम् । विराममिति यावत् । उपगताः प्राप्ताः किम् । 'जुगुप्साविराम-' इत्यादिना पञ्चमी । एवमुत्तरत्रापि। किशब्दो वितर्के । तथा गिरिभ्यः सकाशात् निर्झरा वा प्रवाहाश्च वा उपशमकरा इति भाव.। प्रलयमुपगता किमिति संबन्ध. । 'प्रवाहो निझरो झर.' इत्यमरः। 'वा स्या- द्विकल्पोपमयोरेवार्थे च समुच्चये' इति चामर । तथा तरुभ्य वृक्षेभ्यः सकाशात् सरसानि माधुर्यरसयुक्तानि फलानि बिभ्रतीति तथोक्ताः वल्कलिन्यः वल्कलवत्यः । एतेन विशेषणद्वयेन सुभोज्यवस्तुसमृद्धत्वाच्छादनयोग्यते सूचिते इत्यवगन्त- व्यम् । शाखाश्च प्रध्वस्ता वा विनष्टा किम् । अव्ययानामनेकार्थत्वात् । ननु विद्यमान- कन्दमूलादिष्वविद्यमानत्वं कुतो वितर्कात इति तत्राह-यत् यस्मात् प्रसभं अ- त्यन्तं अपगतप्रश्रयाणा विनयशून्याना खलानां दुरीशाना दुःखाप्तं अतिक्लेशेन प्राप्तं तदपि स्वल्पं यद्वित्तं धनं तेन यः स्मयो गर्व. स एव पवनः स्मयः पवन इव तद्वशादानर्तिता चालिताः ध्रुव एव लताः ध्रुवो लता इव च येषां तानि सविकाराणीत्यर्थः । स्मयपवनेत्यत्र भ्रूलता इत्यत्र च उपमारूपकयो. साध- कबाधकप्रमाणाभावात्संदेहसंकरः । मुखानि वीक्ष्यन्ते दृश्यन्ते । याचकजनै- रिति शेष । कन्दमूलादीनां विनष्टवादिव जनैर्दुरीश्वरपरिचर्यातत्परैर्भूयते जीव- नोपायार्थमतस्तदभाववितर्कस्यावकाश इति भावः । यद्वा जीवनोपायान्तराभावप्र. नद्वारा निन्दति-कि कन्दा इति । किवाशब्दौ प्रश्ने । अत एवं प्रश्न. क्रियत इत्यत आह-यस्मात्कारणाद्दुर्विनीतदुरीश्वरमुखान्यवलोक्यन्ते युष्मामिस्तस्माद- भावप्रश्नो युज्यत इति भावः । शेषं समानम् । अत्रायमभिसंधिः । परमनैच्या- वहं शास्त्रनिषिद्ध च दुर्विनीतसेवनोपजीवनं परित्यक्तव्यम् । स्रग्धरा ॥ अथ खलानां मुखानि दृश्यन्त इत्यनेन सूचितनिन्दा प्रकटयितुं चिरकाल- दुरीशसेवापरिच्छिन्नस्य कस्यचिनिर्वेदवचनमभिनीयाह- पुण्यैर्मूलफलैस्तथा प्रणयिनी वृत्तिं कुरुष्वाधुना भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् । क्षुद्राणामविवेकगूढमनसां यत्रेश्वराणां सदा वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ २६ ॥ पुण्यैरिति । अधुना इदानी पुण्यैः पवित्रै मूलफलैः मूलै कन्दमूलै. फलैः कद. लीरसालपनसादिफलैश्च । अपवित्ररक्तमूलककलिङ्गफलादिभक्षणनिषेधस्मरणात्पु- ण्यरित्युक्तम् । तथा अनिर्वाच्यतया । 'प्रिय प्रणयिनीम्' इति पाठे हे प्रिय सखे इत्यर्थः। प्रणयिनी परमसुखावहतया प्रियतमाम्। विशिष्टकन्दमूलाद्यदनस्यानशन- प्रायवात्तस्यापि तपोनाशनात् परमिति तपःपर्यवसानलात्तस्य च तपसा कल्मषं हन्तीति सकलकर्मनिवर्तनद्वारा परसुखावहत्वादिति भावः। वृत्तिं जीविकाम् । वृत्ति- वर्तनजीवने' इत्यमरः । कुरुष्व विधेहि । तथा अकृपणैः अम्लानैः नवपल्लवैः भुवि १२ सु. त्रि. ।
१२८ सुभाषितत्रिशत्यां शय्यां च कुरुष्व । अतः उत्तिष्ठ उत्थितो भव । विलम्ब मा कुर्वित्यर्थः। वनं प्रति यावः गच्छावः । यास्याव इत्यर्थः । क्रिमनेन नीचसेवनेनेति शेषः । वर्तमानसा- मीप्ये वर्तमानप्रत्ययः । 'यामो वनम्' इति न साधीयान्पाठः । गमने अभ्युच्चय- फलमाह-यत्र वने क्षुद्राणां दीनानाम् । कुतः । अविवेकेन अज्ञानेन मूढानि कर्तव्याकर्तव्यविचारशून्यानि मनांसि येषां तेषां तथा सदा सर्वदा वित्तमेव व्याधिः सनिपातादिरोगः तेन यो विकारः विपरीतभावः तेन विह्वला विकला । अवि- स्पष्टा इति यावत् । तथाभूता गिरः येषां तेषामीश्वराणां राज्ञां नामापि नामधेय- मपि न श्रूयते नाकर्ण्यते । किमुत दर्शनसेवनादिकथेति भावः । तस्मादैहिकामु- मिकफललेशसंबन्धशून्यं नीचसेवनं परित्यज्य सकलश्रेयःसंपादकं वनं ब्रज। वनवास एवावश्यं कर्तव्य इति तात्पर्यम् । शार्दूलविक्रीडितम् ॥ अथ च पुनः सत्यामपि निरवधिकनिरातङ्कजीवसाधनसामय्यां कृपणा: खकार्पण्यमत्यजन्तः परयात्रादैन्येन क्लिश्यन्ति, किं कर्तव्यमित्याह- फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां पयः स्थानेस्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते संतापं तदपि धनिनां द्वारि कृपणाः ॥ २७ ॥ फलमिति । वनेवने प्रतिवनम् । नत्वेकत्रैव लप्तमित्यर्थः । 'अव्ययं विभ- क्ति-' इत्यादिना यथार्थेऽव्ययीभावः । न विद्यते खेदो यस्मिन्कर्मणि तद्यथा तथा अखेदं अक्लेशं खेच्छया स्वच्छन्देन लभ्यं प्राप्यम् । न तु परप्रेप्य मिति भावः । क्षियां रोहन्तीति क्षितिरुहः । विपू । तेषां कदलीरसालपनसादितरूणां फलमस्तीति शेषः । उदरपूरणपर्याप्तमिति भावः । तथा स्थानेस्थाने प्रतिस्थानम् । वीप्सायां द्विरुक्तिः । शिशिरमधुरम् । व्याख्यातमेतत् 'पिवति सलिलं शीत- मधुरम्' इत्यत्र । पुण्यसरितां गङ्गागोदावर्यादिपुण्यनदीनां पयः तीर्थम् । अस्ती- ति शेषः । स्नानपानाभ्यां बाह्याभ्यन्तरपङ्कप्रक्षालनद्वारा तृष्णोपशान्तिकरमिति भावः । एतेनोभयेषामपि शास्त्रसिद्धं परोपकारकत्वं सूचितम् । तदुक्तम्-- 'परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः' इति । तथा मृदुः अकठिनः । कोमल इति यावत् । स्पर्शो यस्याः सा । हंसतूलिकातल्पकल्पेत्यर्थः । कुतः । सुललितानि अतिकोमलानि यानि लतापल्लवानि तन्मयी तत्प्रचुरा । तैर्निर्मितेत्यर्थः । अथवा तन्मयी तद्विकारा । 'विकारार्थ मयद' ततो डीप् । शय्या चास्तीति शेषः। सुखखापोचितेति भावः । तदपि तथापि धनिनां धनाढ्यानां द्वारि प्रतीहारप्रदेशे । 'स्त्री द्वार प्रतीहारः' इत्यमरः । कृपण धनलिप्सापरतन्त्राः संतापं तदनुवर्तनायायासपरितापं सहन्ते मृष्यन्ति । श्रेयो- थिनां किं तत्रास्माकं कर्तव्यमित्यर्थः । अतः फललाअसंबन्धशून्यां प्रत्युत बल- वदनिष्टानुबन्धिनी दुरन्तसंतापकारिणीं परमकार्पण्यकर्णेजपामिहामुत्र च कीर्ति- RE- ३. वैराग्यशतकम्। १२९ प्रतिष्ठाभञ्जनी याञादैन्यपरमनीचखाषणी पापिष्ठामिमां दुरीश्वरद्वारा बहुवित- दिकादुराकारडाकिनी विवेकोच्चाटनमन्त्रेणोत्सार्यानेकश्रेय संपादिका वनवासजी. विका श्रियमेव समाश्रयेद्विद्वानिति तात्पर्यम् । तदुक्तं श्रीभागवते-'चीराणि कि पथि न सन्ति दिशन्ति मिक्षा नो वाद्भिपा. परभृत सरितोऽप्यशुष्यन् । शुद्धा गुहा किमु न सन्ति महानुभावा यस्माद्भजन्ति यतयो धनदुर्मदान्धान इति । शिखरिणी ॥ इदानी दुरीश्वरसेवनयाजादैन्यतत्परविषयाक्षिप्तचित्तनिन्दावशेन खस्य सिद्ध- वद्भाविश्रेयोदशा सूचयन्नाह- ये वर्तन्ते धनपतिपुरःप्रार्थनादुःखभाजो ये चाल्पत्वं दद्धति विषयाक्षेपपर्याप्तबुद्धेः। तेषामन्तः स्फुरितहसितं वासराणि स्मरेयं ध्यानच्छेदे शिखरिकुहरनावशय्यानिषण्णः ॥ २८ ॥ य इति । धनगते. धनाढ्यस्य पुर• अग्रे प्रार्थनादु खं यानादैन्यं भजन्तीति तथोक्ताः सन्त । 'भजो वि.' । ये पुरुषा वर्तन्ते । तथा ये च पुरुषा विषया. क्षेपे भोगसग्रहे पर्याप्ता तावन्मात्र एव पर्यवसिता न तु तत्त्वविचार इत्यर्थ । तादृशी या बुद्धिः तस्या । 'पर्यस्त-' इति पाठे विषयाक्षेपेण भोगसक्तया पर्यस्ता बिपरीता। यद्वा विषयाक्षेपेण विषयकृतोपप्लवेन पर्यस्ता विक्षिप्ता या बुद्धि तस्या हेतो अल्पत्वं नीचत्वं दधति तेषा पुरुषाणा वासराणि दिवसान् । तदनुभूतदुर्दिनानीत्यर्थ. । 'वा तु क्लीबे दिवसवासरौ' इत्यमर. । अभिमतदेव- तायां चित्तस्थिरीकरणं ध्यानं तस्य च्छेदे अवसाने । ब्रह्मध्यानव्युत्थानसमय इत्यर्थ. । शिखरिकुहरे गिरिगहरे यो ग्रावा पाषाणः स एव शय्या तस्या निषण्ण । विश्रमार्थ शयित. सनित्यर्थः । अन्तः अन्त करण एव स्फुरितं समुत्पन्नं हसितं हासो यस्मिन् कर्मणि तद्यथा तथा तदानी तेषामपहास्यत्वात्त- दनुभावत्वेनोत्पनहासगर्भितमित्यर्थ । स्मरेयम् । 'सदृशा दृष्टिचिन्ताद्या. स्मृतिबीजस्य बोधका.' इति वचनात्कुतश्चिच्चिन्तावशादृष्टिवशाद्वा समुद्बुद्धसस्का- रस्तदीयदुर्दिनानि स्मृतिविषयाणि कुर्यामित्यर्थ । 'वासराणा स्मरेयम्' इति पाठः। तथा, 'अधीगर्थदयेशा कर्मणि' इति कर्मणि षष्ठी । अवीगर्थाना च शेषाधिकारात् । अशेषत्वविवक्षाया तु द्वितीयैव स्मयते । संभावनायामुत्तमपु- रुषैकवचनम् । यथाहं याजादु खामिसतप्तविषयाक्षिप्तचित्तजनदुर्दशादर्शनात्सं. जातनिर्वेद केनचिद्भाग्योदयेन परमेश्वरानुगृहीत. तध्यानव्युत्थाने तदीयदुर्दिन- स्मरणतत्परो भवेयं तथा विवेकिमि श्रेयोऽर्थिमि. भवितव्यम् । न तु तद्वद्दुर्दशा- भाग्भिरिति गूढोपदेशस्तात्पर्यार्थविषयीकृत इत्यवधेयम् । मन्दाक्रान्तावृत्तम् ॥ अथ तृष्णाया यावताप्युपसंहाराभावात्किं याञादैन्येनेत्याह- ये संतोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदो ये त्वन्ये धनलुब्धसंकुलधियस्तेषां न तृष्णा हता।
१३० सुभाषितत्रिशत्यां इत्थं कस्य कृतेः कृतः स विधिना कीहक्पदं संपदां स्वात्मन्येव समाप्तहेममहिमा मेरुन मे रोचते ॥ २९ ॥ य इति । ये पुमांसः दैवाल्लब्धेन वस्तुना जनितो मनोविलासः संतोष तेन निरन्तरं सततं प्रमुदिताः परितुष्टाः। तृप्ता इति यावत् । तेषां मुदः आनन्दा न भिन्ना. । किंतु प्रवृद्धा एवेत्यर्थः । तथा अन्ये इतरे ये पुमास धने लुब्धा गार्थ्य- वती अत एव संकुला धी येषा ते तथोक्ता तेषा तृष्णा वस्तुस्पृहा न हता । न विरतेत्यर्थ । धनलोभस्येयत्ताभावादित्यर्थ । इत्थम् । एवं व्यवस्थिते सतीति शेष. । स प्रसिद्धः संपदा रत्नादिसमृद्धीना तादृगित्थमिति वक्तुमशक्यं पदं स्थानम् । अनिर्वाच्यधनसपदास्पदमित्यर्थ. । तथा स्वात्मन्येव खस्मिन्नेव समाप्त. पर्यवसित. । नतु परोपकारपर्याप्त इत्यर्थः । तादृशो हेममहिमा काञ्च- नसपत्तिर्यस्य तथोक्तो मेरु विधिना ब्रह्मणा कस्य कृते कस्य पुंस प्रयोजनार्थ कृतो निर्मित. । नित्यसतोषसपन्नानामनपेक्षितलादर्थलुब्धानामपर्याप्तत्वाचानु- पयोगादिति भाव । अतो निरर्थकत्वादेव मह्यं न रोचते रुचिगोचरो न भवति । न संमत इत्यर्थ. । 'रुच्यांना प्रीयमाण ' इति चतुर्थी । तस्मात्स मेरुतुल्यध- नलामेऽपि तृष्णाधनपिशाच्या. संतोषाभावात्तत्प्रयुक्तयाजादैन्यविभ्रान्ति तत्त्व- विचारेण निरस्य संतुष्टान्तःकरणैर्भवितव्यमायुष्मद्भिरिति तात्पर्यम् । शार्दूल- विक्रीडितम् ॥ तर्हि कथं जीवनमित्याशक्य तदुपायं सपरिकरं निवेदयन्निगमयति- मिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् । सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं शंभोः सत्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ ३० ॥ भिक्षेति । योगीश्वरा परमार्थतत्त्वज्ञा महायोगिन मिक्षाहार भैक्षाशनं(कर्म)न विद्यते याना दैन्यं यस्मिस्तत्तथोक्तम् । देहीत्युच्चारणानन्तरमेव सद्गृहस्थैर्बहुमानपू. र्वकं दीयमानत्वादिति भावः । यद्वा व्यावहारिकदैन्यसभवेऽपि पारमार्थिकदैन्याभा- वादिति भावः । न विद्यते प्रतिसुखं यस्य तत्तथोक्तं खयमेव निरतिशयसुखम् । न तु खस्य प्रतिभटभूतं सुखान्तरमस्तीत्यर्थः । सर्वतः सर्वत्रापि भीतिच्छिदं भयविना. शकम् । मिक्षाशनतत्परस्याकुतोभयत्वादिति भाव । दुष्टानां दु स्वभावाना मात्स- यमदाभिमानानां असहिष्णुत्वदाहंकाराणा मथनं निरासक दु खौघविध्वंसनं सांसारिकाशेषबाधानिवर्तकम् । यद्वा दु खौघस्य एकविशतिमहादुःखसमुदायस्य विध्वंसनं विच्छेदकम् । एकविंशतिमहादु.खध्वंसरूपमोक्षनिदानमित्यर्थः । 'आत्य- न्तिकदुःखध्वंसो मोक्ष ' इति वैशेषिकास्तार्किकाश्च । अत्र यत्किचिद्वक्तव्यमस्ति विस्तरभयानोच्यते । सर्वत्र सर्वेष्वपि देशेष्वित्यर्थ । तत्रापि अन्वहं प्रतिदिनं तत्रापि चाप्रयत्नं यत्नं विनैव सुलभम् । सुखलभ्यमित्यर्थ. । साधूनां अनहंका- - ३. वैराग्यरशतकम् । १३१ मिति भाव - रिणां प्रियं इष्टं पावनं पवित्रं शंभो. शिवस्य सत्रम् । तृप्तिसाधनमित्यर्थः । 'रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते' इत्यनेनैवोक्तत्वात् । यद्वा शंभोः सत्रम् । शंभुभक्तिनिरतानसत्रमित्यर्थः । खण्डमण्डलादिपतिसत्रं तु नश्वरम् । इदं तु सकलभुवनाधीश्वरप्रवर्तितत्वाच्छाश्वतमिति भावः । अत एवावार्य न केनापि निवारयितुं शक्यम् । अक्षयनिधि अविनाशिनिधानं च । नित्योपयोगेऽप्यक्षय- । शंसन्ति कथयन्ति । अनुभवसिद्धवादित्थं वर्णयन्तीत्यर्थ । अतोऽनर्थपरम्पराजनितदैन्यं यानादैन्यं विहायोक्तरीत्या समस्तसद्गुणविचित्रं शंभुसत्रं समाश्रयणीय मिति भाव । वृत्तं पूर्ववत् ॥ इति वैराग्यशतकव्याख्याने यानादैन्यदूषणं नाम तृतीयं दशकम् । अथ भोगास्थैर्यवर्णनम् । अथ भोगानामस्थैर्याकथने यानादैन्यमदूषितप्रायमेवेति मनसि निधाय तझ्ष- णानन्तरं भोगास्थैर्यमाह- भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं सर्व वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ ३१ ॥ भोग इति । भोगे स्रक्चन्दनवनितासंभोगसुखानुभवे । 'भोग सुखे ख्यादिभू- तावहेश्च फणकाययो.' इत्यमरः । रोगात् वातपित्ताद्यामयाद्भयम् । अस्तीति शेषः । तस्य तदन्तरायलादिति भाव । कुले सद्वंशे च्युते. आचारभ्रंशात् भयम् । तस्यास्तदप्रतिष्ठावहत्वादिति भावः । अथवा च्युते संतानविच्छेदात् भयम् । तस्याः सप्रदायोपहतिहेतुत्वादिति भावः । वित्ते द्रव्यसमृद्धौ नृपालात् राज्ञो भयम् । तस्य तदपहर्तृत्वादिति भाव.। माने अमिमाने दैन्यात् कार्पण्यात् भयम् । तस्य तद्भङ्गहेतुत्वादिति भावः । बले सामर्थ्य रिपोः शत्रोः भयम् । तस्य तद्दमनशील- त्वादिति भावः । रूपे सौन्दर्ये जराया वार्धकावस्थाया भयम् । तस्यास्तद्विलोपि- त्वादिति भावः । शास्त्रे वेदान्तादिशास्त्रकलापे वादिभ्य शुष्कतर्ककलहकण्टकेभ्यो भयम् । तेषा तदपरोक्षकत्वादिति भावः । गुणे विद्याविनयादिगुणगणे खलात् । दुर्जनात् भयम् । तस्य तद्दषकत्वादिति भावः । काये देहे कृतान्तात् यमात् भयम् । तदन्तकरत्वादिति भावः । 'कायो देह. क्लीबपुंसो', 'कृतान्तौ यमसिद्धान्तौ' इत्यमर । सर्वत्र 'भीत्रार्थानां भयहेतु.' इत्यपादानत्वात् पञ्चमी । अत भुवि नृणां संबन्धि सर्व वस्तु भोगाद्यशेषार्थजातं भयान्वितं उक्तरीत्या भयसहितम् । सान्तक- त्वात्सापायमित्यर्थः । कितु विरागो विषयानभिलाषो येषां ते विरागाः तेषां भावो वैराग्यम् , तदेकमेव न विद्यते भयं यस्य तदभयं भयहेतुत्वाभावान्निर्भयम् । निरातङ्कत्वान्निरपायमित्यर्थ. । अत. विरागा अस्थिरभोगाः तेषां भावो वैराग्यम् ।
सुभाषितत्रिशत्यां
तदेकमेव न विद्यते भयं यस्य तत् अभयम् । भयहेतुत्वाद्यभिनिवेशं परित्यज्य
सुस्थिरवैराग्यमेवाश्रयणीयं श्रेयस्कामेनेति भाव. । इत्थं भोग इत्यादिष्वधिकर-
णसप्तम्याश्रयणेन व्याख्यातम् । सतिसप्तम्याश्रयेण त्वेवं व्याख्येयम्-अत
सर्व भुवि नृणां भयान्वितम् कितु वैराग्यमेव न विद्यते भयं यस्मात्तत् अभ-
यम् । भय निवारणमित्यर्थ. । सति वैराग्ये सर्वस्य मिथ्यात्वेन प्रतीयमानतया
द्वितीयाभावात् । अत भयावहं भोगादिकं परित्यज्य भयापहं वैराग्यमेवाश्रय-
णीयमिति तात्पर्यम् । शेष समानम् । शार्दूलविक्रीडितम् ॥
उपक्रान्तं भोगास्थैर्य तत्तद्भद्यन्तरेण नवभिर्वर्णयति-
आक्रान्तं मरणेन जन्म जरसा चात्युज्वलं यौवनं
संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिमिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनै-
रस्थैर्येण विभूतयोऽप्युपहता प्रस्तं न कि केन वा ॥ ३२ ॥
आक्रान्तमिति । जन्म उत्पत्ति. मरणेन स्वरूपनाशकेन मृत्युना आक्रान्तं
अस्तम् । 'जातस्य हि ध्रुवो मृत्युर्घव जन्म मृतस्य च', 'अद्य वाब्दशतान्ते वा
मृत्युर्वै प्राणिनां ध्रुवः' इत्यादिवचनैरिति भावः । अत्युज्वलं अतिशयेन भा-
स्वर यौवनं नूतनवय. । तारुण्यमिति यावत् । जरसा जरया अपायहेतुभूतया
आक्रान्तम् । 'जराया जरसन्यतरस्याम्' इति जरसादेश । संतोष दैववशा-
लव्ववस्तुजनितपरितोषो धनलिप्सया तदुपद्रवकारिण्या धनवाञ्छया आक्रा-
न्त । लभे. सन्नन्तास्त्रियामप्रत्यये टाप् । शमसुखं इन्द्रियव्यापारोपरमापादि-
तानन्द प्रौढागनाना प्रगल्भविलासिनीना विभ्रमै तदुपमर्दकैः कक्षविक्षेपक-
र्णकण्डूयनेन कोमलकुचमर्दनादिविलासै. आक्रान्तम् । गुणाः विद्याविनयादय-
मत्सरिमि. परोत्कर्षासहिष्णुभिर्लो कैः जनै । तदपवादकैरित्यर्थः । उपहता. ।
अस्ता इति यावत् । वनभुव पुण्यारण्यप्रदेशाः व्याले दुष्टगजै सर्वा । तत्प्र-
वेशानवकाशप्रदैरिति भाव. । उपहता ग्रस्ता । नृपा राजानदुर्जनै दुर्मन्त्रोप-
देशेन तद्बुद्धिविपर्यासकारिभि पिशुनै उपहता । समाक्रान्ता इत्यर्थ । विभू-
तयः सपदोऽपि अस्थैर्येण तदप्रतिष्ठावहेन अस्थिरत्वेन उपहता दूषिता । अत.
कि वस्तु केन वा उपद्रवेण न प्रस्तम् । उक्तरीत्या सर्वमपि ग्रस्तमेवेत्यर्थ ।
अत• सर्वस्याप्यस्थिरत्वान कुत्रापि विस्रम्भ. कर्तव्य इति भाव. । वृत्तं पूर्ववत् ॥
पुन श्रोतृजनस्य विश्वासदाार्थमुक्तमेवार्थ भक्त्यन्तरेणाह-
आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।
जातंजातमवश्यमाशु विवशं मृत्युः करोत्यात्मसा-
त्तत्कि तेन निरङ्कुशेन विधिना यनिर्मितं सुस्थिरम् ॥ ३३ ॥
३. वैराग्यशतकम् । आधीति । विविधै. नानाप्रकारे आधीनां मनोव्यथानां व्याधीनां पित्तादिश- रीररोगाणां च शतैः । अनेकैराधिव्याविभिरित्यर्थ. । 'पुंस्याधिर्मानसीव्यथा', 'रोग- व्याधिगदामया' इति चामर । जनस्य आरोग्यं देहस्यास्थ्यं उन्मूल्यते निर्मूली- क्रियते । तथा यत्र यस्मिन्पुरुषे लक्ष्मी ऐश्वर्यसमृद्धि. । तिष्ठतीति शेषः । तत्र तस्मिन्पुरुषे व्यापद महोपद्रवाः विवृतानि उद्घाटितानि द्वाराणि कवाटानि यासां तास्तथोक्ता इव पतन्ति । तद्विघटनार्थमप्रतिबन्धं प्रविशन्तीत्यर्थः । तथा मृत्युः अन्तक जातंजातं प्रारब्धकर्मवशात्पुन पुनरुत्पन्नम् । वीप्साया द्विर्भावः । अत एव विवशं विह्वलम् । जन्तुमिति शेप । अवश्यं नियतं आशु शीघ्रमेव आत्मसातू आत्माधीनं करोति । मारयतीत्यर्थ । 'तदधीनवचने' इति सातिप्रत्ययः । अतः तेन प्रसिद्धन निरङ्कुशेन निरर्गलेन । अप्रतिहतव्यापारेणेत्यर्थ । विधिना ब्रह्मणा यद्वस्तु निर्मितं तत्कि वा सुस्थिरम् । न किमपीत्यर्थः । अतोऽस्थिरभोगाशंसनं न कर्तव्यमिति भावः । शार्दूलविक्रीडितम् ॥ तर्हि किं कर्तव्य मित्याशङ्कायां तेषामस्थैर्यकथनपूर्वकं कर्तव्यं तावत्रिनिरुप- दिशति- भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता। तत्संसारमसारमेव निखिलं बुवा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ ३४ ॥ भोगा इति । भोगा. स्रक्चन्दनादिविषया तुगतरङ्गा. कल्लोलाः भगा अल्प- तरङ्गाः त इव तरला. चपला. । अतिसूक्ष्मा इत्यर्थः । न तु कतिपयेष्वपि दि- वसेषु स्थायिन इत्यर्थः । प्राणा क्षणध्वंसिन क्षणे क्षणकाल एव ध्वंसो विनाशो एषामस्तीति तथोक्ता । अस्थिरा इति यावत् । यौवने या सुखस्फूर्ति वैषयि . कसुखाभिव्यक्तिः सा स्तोकान्येव दिनानि । अल्पेष्वेव दिवसेप्चित्यर्थ । अत्य- न्तसयोगे द्वितीया । प्रियासु वनितासु स्थिता स्थायिनी । कर्तरि क्त । न तु यावज्जीवभाविनी, वार्धकदशायां तदपायादिति भावः । तस्मात । तस्मात्कारणातू वोधका हितोपदेष्टार हे बुधाः विद्वास', निखिलं संसारं भोगादिरूपं असारं असिद्धमेव बुद्धा आलोच्य लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् । परमदयालुखप्रयुक्तानुग्रहतया युष्माभिर्ज्ञानोपदेशादिना संसारार्णवनिमग्नाइज- नास्तारयितव्याः, न तूपेक्ष्या. । तथाविधजनोद्धरणे महाफलश्रवणादिति भावः । यद्वा लोकानुग्रहे लोकसग्रहे पेशलेन अनुरक्तेन मनसा यत्न कर्तव्यः। यत युष्म- स्कृतप्रयत्नतात्पर्य जना अपि कृतार्था भविष्यन्ति । 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥' इति भगवद्वचनादिति भावः । 'समाधीयताम्' इति विध्यर्थे विहितोऽयं लोट्प्रयोगः । परमपुरुषार्थसाधकब्रह्म- ध्यानप्रयत्नस्यावश्यविधेयताविवक्षया विपक्षे अनर्थप्राप्तिं च ज्ञापयतीत्यवधेयम् । शार्दूलविक्रीडितम् ॥ .
सुभाषितत्रिशत्यां पुनः प्रत्ययदाार्थ युक्त्यन्तरलाभाच्च उक्तमेवार्थ भझ्यन्तरेणाह- भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्यसमाधिसिद्धसुलभे बुद्धिं विधवं बुधाः ॥ ३५॥ भोगा इति । तनुभृता शरीरिणा भोगाः पूर्वाक्ता मेघवितानस्य अभ्रवृन्दस्य मध्ये विलसन्त्यः परिस्फुरन्त्यः याः सौदामिन्य तडितः ता इव चञ्चला. । क्षणिका इत्यर्थः । तडित्सौदामिनी विद्युत्' इत्यमरः । सुदाम्ना अद्रिणा एक- दिक् सौदामिनी इति विग्रहः । तेनैकदिक् इत्यण् । तथा आयुः जीवितं च वायुना विघटितं तरलितं यदब्जपटलीलीनाम्बु पद्मपत्रप्रान्तसंश्लिष्टजलबिन्दुः तद्वद्भगुरम् । भङ्गलीलावतू नश्वरं इत्यर्थः । तथा यौवनलालसाः महाभोगाभि- लाषा । 'कामोऽभिलाषस्तर्षश्च सोऽत्यर्थ लालसाः द्वयो.' इत्यमर. । लोला अस्थिरा इत्येव आकलय्य आलोच्य हे बुधाः, द्रुतं शीघ्रमेव । विलम्बस्यानव- काशादिति भावः । धैर्य धीरजम् , समाधिः चित्तस्थैर्यम् , तयोः सिध्या निष्पत्त्या सुलमे सुखलभ्ये योगे ब्रह्मध्याने बुद्धि निश्चयात्मिका मनीषा विधव कुरुत । ब्रह्मज्ञाननिष्ठा भवतेत्यर्थ । शार्दूलविक्रीडितम् ॥ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्री. रर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम्॥३६॥ आयुरिति । आयुः कल्लोललोलं कल्लोलवल्लोलं अतिभडरम् । नखाचन्द्रार्कस्था- यीत्यर्थः । यौवनश्रीः यौवनसंपत् कतिपयेषु अल्पेषु दिवसेषु तिष्ठतीति तथोक्ता। नतु यावजीवं वर्तिनीत्यर्थः । अर्था. धनधान्यग्रामपश्वादिवस्तुविभवा सकल्प- कल्पाः । मनोरथतुल्या इत्यर्थ । तेऽपि न चिरस्थायिन इति भावः । 'ईषद- समाप्तौ कल्पब्देश्यदेशीयरः' इति कल्पप्प्रत्ययः। भोगपूगा विषयपरम्परा घनस- मये वर्षाकाले यास्तडितस्तासामिव विभ्रमा स्फुरणानि येषां तथोक्ता । क्षणभ- गुरा इत्यर्थः । तथा प्रियाभिः प्रौढाइनाभि यत्कण्ठाश्लेषेण कण्ठग्रहेण उपगूढम् । आलिङ्गनमिति यावत् । भावे क्तः। प्रणीतं रचितं तदपि प्रौढाङ्गनालिङ्गनमपि न चिरम् । चिरकालावस्थायि न भवतीत्यर्थः । अतः हे मनुष्याः, भवात्ससारात् यद्भयं तदेवाम्भोधिः तस्य पार तरीतुम् । संसारसागरमुल्लवितुमित्यर्थः । ब्रह्मण्या- सक्तचित्ता भवत। ब्रह्मध्यानैकतत्परा भवतेत्यर्थः । नह्येतद्यतिरेकेण तरणोपाय कंचिदपि पश्यामीति भावः। त्रिवारशुद्ध्या दृढतरविश्वासोत्पादनार्थ त्रिभिः श्लोकैः परमार्थपर्यवसायिनी ब्रह्मध्याननिष्ठोपदिष्टा नवनर्थपर्यवसायिनी संसारासक्तिः । यदत्र युक्तं तद्बाह्यं तत्त्वविचारपारावारपारीणै. इति श्लोकत्रयतात्पर्यम् । स्रग्ध- रावृत्तम् ॥ ।
३. वैराग्यशतकम् । १३५ तिकर दु ननु लोके प्रायशः संसारसुखतत्परा एव दृश्यन्ते । अतः कथमयं निषि- ध्यत इत्याशझ्यादित आरभ्य विचार्यमाणे न तत्र सुखलेशोऽप्यस्तीत्याह- कृच्छ्रेणामध्यमध्ये नियमिततनुमिः स्थीयते गर्भवासे कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः । वामाक्षीणामवज्ञाविहसितवसतिवृद्धभावोऽप्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित्॥ कृच्छ्रेणेति । गर्भवासे गर्भावस्थादशायां अमेध्यमध्ये मूत्रपुरीषमध्ये निय- मिततनुभि. सकुचितगात्रै प्राणिभिरिति शेषः । कृच्छ्रेण अतिकष्टेन स्थीयते । तथा यौवने उपभोगः संभोगश्च कान्ताविश्लेषेण प्रियतमावियोगेन यो दु खव्य- खसंपर्कः तेन विषम. विकलः । भवतीति शेष । तथा वामाक्षीणां मनोहरनयनाना अवज्ञाविहसितानां अवमानपूर्वकपरिहासानां वसतिः स्थानम् । तासा तस्य हेतुत्वापरिहासास्पदमित्यर्थः । वृद्धभावः वृद्धत्वमपि असाधुः अस- मीचीनः । अपहासास्पदीभूतस्य कुतः साधुत्वमिति भावः । अतः रे मनुष्याः । रे इति नीचसंबोधने । नीचत्वं च सांसारिकत्वादिति द्रष्टव्यम् । 'नीचसंबोधने रे इत्यमरः । संसारे गर्भवासजन्मजरादिरूपे खल्पं किचित् ईषदपि सुख- मस्ति यदि वर्तते चेत् तत् वदत ब्रूत, अत किमर्थ क्लिश्यत, गर्भनिरयवासादि- सांसारिकदु खैः पुनरावृत्तिरहितनित्यनिरतिशयानन्दबन्धुरब्रह्मानन्दप्राप्त्यर्थमेव प्रयतध्वमित्यर्थ । स्रग्धरावृत्तम् ॥ अथ खविनिपातहेतौ संनिहिते लोका न कुशला भवन्ति । महदेतदाश्चर्य- मित्याह- व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ३८ ॥ व्याघ्रीति । जरा वार्धकावस्था व्याघ्री व्याघ्राङ्गनेव । 'जातेरस्त्रीविषयादयो. पधात्' इति डीप् । परितर्जयन्ती भीषयन्ती सती तिष्ठति । कलेवरकवलनाभि- निवेशेन वर्तमाना मृत्यो प्रत्यासत्तिमभिनिवेदयतीत्यर्थः । रोगाः वातपित्तश्ले. ष्मादिव्याधयश्च शत्रवो वैरिण इव देहं प्रहरन्ति ताडयन्ति । परिपीडयन्तीत्यर्थ.। आयुश्च भिन्नघटात् सच्छिद्रकलशात् अम्भ इव परिस्रवति । प्रतिक्षणं नश्यतीत्यर्थः। तथापि लोको जन. अहितं परापकार आचरतीति चित्रं आश्चर्यम् । परापकारा- दन्यत्कर्म कुशलमिति भाव । यद्वा अहितं वस्यानिष्टं आचरति खविनिपातहेतु- भूतमेव कर्म करोति । नत्वात्मोद्धरणार्थ ब्रह्मध्यानादि करोतीत्यर्थः । चित्रं आश्च- यम् । तदुक्तम्-'उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ इत्यादि । तर्जयन्तीयत्र तर्जयते. परस्मैपदम् तर्जयनिव सुभाषितत्रिशत्यां URNAL केतुभि.' इत्यादिमहाकविप्रयोगात्सिद्धम् । तर्जयतेरनुदात्तत्वेऽपि चलिडो डिक. रणेनानुदात्तत्वनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात्परस्मैपदमिति । उपमा । वसन्ततिलका॥ अथ सर्वथा यद्यस्मदुपदेशे विश्वासस्तात्मन्येव मन समाधेयम्, नत्वन्य- त्रेत्याह- भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भव- स्तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः। आशापाशशतोपशान्तिविशदं चेतः समाधीयतां कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ ३९ ॥ भोगा इति । भोगा विषयाः भगुरा भङ्गशीला वृत्तिर्येषा ते तथोक्ताः। आग- मापायित्वादस्थिरा इत्यर्थः । बहुविधा नानाप्रकाराश्च । कारणवैचित्र्यपूर्वकत्वात्का- यवैचित्र्या इति भाव । अस्तु । तत कि तत्राह-तै भोगैरेवायं परिवर्तमानो भव शरीरधारणादिससार. । कल्पित इति शेष. । जन्मान्तरीयकत्वात्तस्येति भाव । 'भोगायतनं शरीरम्' इति वैशेषिका. । तत् तस्मात्कारणात् । रे लोका' जना , इह अत्र भवे कस्य कृते । कस्य भोगस्य प्राप्त्यर्थमित्यर्थ । 'अर्थे कृतेऽथशब्दो द्वौ तादये॒ऽव्ययसंज्ञितौ' इति वचनात् । परिभ्रमत सचरत । परिभ्रमितव्यमिक त्यर्थ । सचितकर्मवशात्खत एव तेषा संभाव्यमानत्वादिति भाव । अतः चेष्टितैः भोगसंग्रहव्यापारै. कृतम् । तत्संग्रहव्यापारा न कर्तव्या इत्यर्थ । कृतमिति निषेधार्थकमव्ययं चादिषु पठ्यते । 'कृतमिति निवारणातिनिषेधयो.' इति गणव्याख्याने । तर्हि किमत. परं कर्तव्यं उपदिश्यत इत्यत आह-अस्मद्वच अस्मदीयमुपदेशवचनं श्रद्धेयं यदि विश्वसनीयं चेत् । युष्माभिरिति शेष.। आशा अतितृष्णा तस्या पाशा रजव इव बन्धहेतुत्वात् । 'आशा दिगतितृष्णयो.' इति वैजयन्ती । तेषा शतानि । अनेक आशापाशा इत्यर्थ । तेषा उपशान्त्या उपशम- नेन विशदं निर्मलं चेत चित्तं कामोत्पत्तिवगात् अनुरागोपवशात् । अनुराग- मुत्पाद्येत्यर्थ. । खरूपं आत्मा तद्रूपं धाम स्थानं तस्मिन् । 'खो ज्ञातावात्मनि खम्' इत्यमर । समाधीयता स्थिरीक्रियताम् । अन्तरात्मप्रवणमेव क्रियताम् , न बाह्यविषयासक्तमित्यर्थ । अन्यथा तु महाननर्थ स्यादिति भाव । यद्वा वश- ब्देन जीव उच्यते । तस्य धामनि निलयस्थाने परब्रह्मणि । अथवा स्वधामनि खयंज्योतिषि स्वरूपभूततेजसीति वा । इहात्यन्तविकृष्टार्या बहव परिस्फुरन्ति विस्तरभयात् न लिख्यन्ते । समाधीयताम् । समाहितं क्रियतामित्यर्थः । अय- मेव हितोपदेष्तृत्वान्मुख्यगुरूणामस्माकं परमोपदेश । एतद्विश्वासेनान्यासङ्गं परि- त्यज्य मनो ब्रह्मणि कृत्वा तदाज्ञया श्रेय सपादनीयम्। 'सत्सप्रदायसयुक्तब्रह्मविद्या- विशारद । एवमादिगुणोपेतो देशिकोऽशेषवन्दित ॥' इत्युक्तलक्षणदेशिकाचार्यो- ३. वैराग्यशतकम् । OS- पदेशवचनश्रद्धाभक्तियुक्तस्य श्रेयोलाभावश्यंभावात् 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थी प्रकाशन्ते महात्मनः ॥ मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भिषजे गुरौ । यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥' इत्यादि श्रुतिस्मृतिसहस्रेभ्योऽयमों निश्चीयत इत्यलमतिप्रसङ्गेन । शार्दूलविक्रीडितम् ॥ ननु यदि ते सर्वथा भोग एव स्पृहा, तब स्मदुपदिष्ट एवाभिरति कुरु नान्य- नेत्युपसहरति- ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः। भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते भो साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥ ४० ॥ ब्रह्मेति । यत्र यस्मिन् निरतिशयैकनित्यभोगसाम्राज्ये स्थितो वर्तमानः सन् पुरुष इति शेष. । ब्रह्मेन्द्रादी येषां ते तथोक्ता ये मरुद्गणाः सुरसंघा ता- नपि । किमुतान्यानिति भावः । 'मरुतौ पवनामरौ' इति वैजयन्ती । तृणकणान तृणलेशान् । अत्यन्तनि सारान् परमनीचानिति यावत् । मन्यते अवबुध्यते। पार- मेष्ट्यस्वाराज्ययोरप्येतादृशभोगसाम्राज्यसहस्राशसादृश्यस्यायनहलादिति भावः । 'मन्यकर्मण्यनादरे विभाषाप्राणिषु' इति विकल्पावितीया । तथा यस्य विशिष्टभोग- साम्राज्यस्य वादात् रुच्यनुभवात् । यो लोका- त्रैलोक्यम् । ब्राह्मणादिलातू प्यञ्। तत्र यद्राज्यं आधिपत्यं तदादिर्येषां ते तथोक्ताः विभवा. संपदो विरसा अ- नमिमताः। हेया इति यावत् । भवन्ति । तेषु तथाविधरुच्यतिशयाभावादिति भावः। यद्वा यस्य ब्रह्मानन्दरूपभोगवादात् त्रैलोक्यराज्यं आदि कारणं येषा ते तथोक्ताः। सकलभुवनाविपत्यसभवा इत्यर्थ । विभवा सुखसपद विरसा रसहीना । निकृष्टा इति यावत् ।भवन्ति ब्रह्मानन्दे क्षुद्रानन्दानामन्तर्भूतत्वात् । एतस्यैवानन्द- स्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेरिति भाव । कोऽप्यनिर्वाच्य । कुतः। परम । सर्वोत्कृष्टो निरतिशय इति यावत् । तत्कुत.। नित्योदित.। नित्याभ्यु- दयसंपन्न इत्यर्थः । स एक एव भोगो ब्रह्मानन्दरूपो जृम्भते । महाराजश्रोत्रिया- द्यानन्दानामुत्तरोत्तरतारतम्यमुक्त्वास्य सर्वोत्कृष्टत्वस्य श्रुत्युक्तत्वादिति भाव. । अतःभो साधो सज्जन । इत्युपदेशश्रवणाभिमुखीकरणार्थस्तुत्या। अत्रैकवचनं समु- दायाभिप्रायम् । अत एव रे लोका इति पूर्वश्लोकोक्तबहुवचनविरोध । तदुपदेशं के न शृण्वन्ति त एव नीचा , यस्तु शृणोति स एव साधुरिति सबोधनद्वयतात्पर्यम् । क्षणभङ्गुरे अनित्ये । उपलक्षणमेतत् । परमनीच इत्यर्थः । तदितरे अस्माद्विशिष्ट- भोगात् इतरस्मिन् । अत्र स्मिन्नादेशाभावश्चिन्य.। भोगे सासारिकसुखानुभवे रति रागम् । प्रीतिमिति यावत् । 'रतिः स्मरप्रियायां च रागेऽपि सुरतेऽपि च' इति विश्वः । मा कृथा. मा कार्षीः । कितु पूर्वोक्त एव तस्मिन्भोगे रतिं कुरु । तस्यैव १३८ सुभाषितत्रिशत्यां परमश्रेयस्करत्वादिति भावः । कृञो लुडि 'न माड्योगे' इत्यडागमप्रतिषेधः वृत्तं पूर्ववत् ॥ इति वैराग्यशतकव्याख्याने भोगास्थैर्यवर्णनं नाम चतुर्थ दशकम् । अथ कालमहिमानुवर्णनम् । अथ सर्वस्यापि कालनियम्यत्वात्तन्महिमानं दशभिर्वर्णयति । तत्रादौ तस्य नियामकत्वं प्रकटयनमस्करोति- सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च त- त्पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः । उद्धृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः सर्व यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः॥४१॥ सेति । अत्र सर्वत्रापि तच्छब्द पूर्वानुभूतविषयः । अतएव न यच्छब्दा- पेक्षा । तदुक्तं काव्यप्रकाशे-'प्रक्रान्तप्रसिद्धानुभूतार्थगोचरस्तच्छब्दो न य- च्छब्दमपेक्षते' इति । तथा च सा पूर्वानुभूता । रन्तुं योग्या रम्या मनोहरा नगरी राजधानी च तत्र स महान् साम्राज्यभारधौरेयतया पूज्यो नृपति. राजा च । तस्येति संबन्धसामान्ये षष्ठी सर्वत्र संबध्यते । तस्य नृपतेस्तत् सामन्त- चक्रं प्रत्यर्थिराजमण्डलम् । यद्वा सेवार्थ समागताखण्डमण्डालाधिपतिपरिवारश्च तस्य पार्श्वे स्थितमिति शेषः । सा विदग्धपरिषत् विद्वत्सभा । अथवा विद्- ग्धाना कर्तव्यार्थचतुराणां परिषत् समुदायश्च । 'कृत्यवस्तुषु चातुर्य वैदग्ध्यं परिकीर्त्यते' इति लक्षणात् । तस्य ता. चन्द्रबिम्बमिव आननं यासा ता. सुन्द- यश्च यस्य स उदृत्तः उत्पथगतः । उद्दण्ड इति यावत् । राजपुत्रनिवहः राज- कुमारवर्गश्च । तस्य ते बन्दिन. स्तुतिपाठकाश्च । 'बन्दिन. स्तुतिपाठका' इत्य- मर । यस्य ता. कथाश्च श्राव्यवाचश्च । इति सर्व अशेषमपि यस्य कालस्य वशात् आयत्तत्वात् । 'वश आयत्तताया च' इत्यमरः । स्मृतिपथं स्मरणमा- गम् । 'ऋक्पू:-' इत्यादिना समासान्तोऽच्प्रत्ययः । अगात् प्रापत् । कालम- हिम्ना सर्वमपि नष्टमभूदित्यर्थः । सर्वसंहतु कालस्य महिमा वर्ण्यत इति भाव । 'इणो गा लुडि' इति गादेशः । तस्मै कालाय नमः प्रह्वीभाव 'कालः कलय- तामहम्' इति भगवद्वचनात्कालो भगवानेव तथा च तन्नमस्काररूपमङ्गलाच. रणं युज्यत इति भावः । 'नम खस्ति-' इत्यादिना चतुर्थी । शार्दूलविक्रीडितम् ।। अथास्याक्षधूर्तसाम्येन सर्वप्राणिनियन्तृत्वमाह- यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । - .. .. ३. वैराग्यशतकम् । १३९ इत्थं नेयै रजनिदिवसौ लोलयन्द्राविवाक्षौ कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ ४२ ॥ यत्रेति । यत्र यस्मिन् गृहे वेश्मनि कोष्ठे च क्वचिदपि कदाचित् । यद्वा यत्र क्वचिदपि यस्मिन् कस्मिश्चिद्गृहे । अनेकः बहुलः प्राणी शारश्च तिष्ठति । अथान- न्तरं तत्र तस्मिन्नेव गृहे कदाचित् एकस्तिष्ठति । एकत्र कालभेदवशात् , अन्यत्र परिणामवशाच्चेति भावः । तथा यत्र यस्मिन्गृहे कदाचिदेकस्तिष्ठति, तदनु तद- नन्तरं बहवश्च । तिष्ठन्तीति शेषः । तत्र तस्मिन् गृहे अन्ते अवसानकाले द्यूत- समाप्तौ च एकोऽपि न तिष्ठति । इत्थं उक्तरीत्या भुवनं फलकमिव शारप्रव- तनोचितकोष्ठयन्त्रमिव तस्मिन् नेयैः । प्रवर्तनीयैरिति यावत् । प्राणिनः शाराः द्यूतगूढा इव । अक्षोपकरणानीवेति यावत् । तैः साधनैः । ‘पल्याणेऽस्त्री विहंगे ना शारे ( द्यूत ) गूढो नपुंसकम्' इति वैजयन्ती । कल्यः कलनासमर्थः देवन- चतुरश्च कालः (कर्ता) अक्षधूर्तश्च गम्यते । रजनिदिवसौ रात्र्यहनी (कर्म ) द्वौ अक्षौ पाशकाविव । 'पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते' इत्यमरः । लोलयन् पौनःपुन्येन गृह्णन् सृजश्चेत्यर्थः । क्रीडति दीव्यति । प्राणिसंयोगवियो- गयोः वृद्धिक्षयादीना च काल एव कर्तेति भावः । अत्राक्षाविवेति स्पष्टोपमालि- जात्सर्वत्रोपमितसमासः । अतएवोपमालंकारः। यदि चक्रक्रीडनोपयोगित्वात् रूपकमेवाश्रयणीयमित्यभिमानस्तदैकदेशवर्तिरूपकं उपमा त्वङ्गमिति संक्षेपः । मन्दाक्रान्तावृत्तम् ॥ अथ नित्यप्रमत्तोऽयं लोको नैतन्महिमानं ज्ञातुं शक्नोतीत्याह- आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते। दृष्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमाद्मदिरामुन्मत्तभूतं जगत् ॥४३॥ आदित्यस्येति । आदित्यस्य सूर्यस्य गतागतैः । उदयास्तमयैरिति यावत्। अहरहः प्रत्यहम् । अहन्यहनीति भावः । वीप्सायां द्विरुक्तिः । अत्यन्तसंयोगे द्वितीया । जीवितं आयुः संक्षीयते विनश्यति । कामक्रमेणायुःक्षयो भवतीत्यर्थः । 'क्षि क्षये' इत्यस्माद्धातोः कर्तरि लटू । तथापि सोऽयं न ज्ञायत इत्याह-बहवः अनेके ये कार्यभाराः देहगेहादिनिमित्तकर्तव्यार्थपरम्पराः तैः गुरुभिः गरिष्ठैः व्यापारैः जीवनोपायोद्योगैः कालोऽपि जीवितक्षयकरसमयोऽपि न ज्ञायते । कार्यशतपर्याकुलव्यापारपारवश्यान्नावबुध्यत इत्यर्थः । तथा जन्मजरा विपत्तिम- रणम् । उत्पत्तिजरावस्थाविपनिधनानीत्यर्थः। 'सर्वो द्वन्द्वो विभाषैकवद्भवति' इत्ये- कवद्भावः । दृष्ट्वा त्रासो भीतिश्च नोत्पद्यते नोदेति । किंतु जगत् सर्वोऽपि लोकः। मोहमयीं अज्ञानप्रचुराम् । बुद्धिविपर्यासकारिणीमिति यावत् । प्राचुर्ये मयट् । टित्त्वात् डीप् । प्रमादोऽनवधानता । 'प्रमादोऽनवधानता' इत्यमरः । मदिरा मई १३ सु. त्रि. .
१४० सुभाषितत्रिशत्यां तां पीत्वा निषेव्य उन्मत्तभूतं क्षीबकल्पम् । विवेकशून्यमिति यावत् । भवतीति शेष । कालेनैव प्रमादं प्रापितोऽय लोक कर्यकारमेतन्म हिमानं ज्ञास्यतीति भाव । एतदादिश्लोकपञ्चकं शार्दूलविक्रीडितम् ॥ उक्तमेवार्थ भङ्ग्यन्तरेणाह- रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तक्रियाः। व्यापारैः पुनरुक्तभूतविपयैरित्थंविधेनामुना संसारेण कर्थिता वयमहों मोहान्न लज्जामहे ॥४४॥ रात्रिरिति । रात्रि इयं प्रवर्तमाना रजनी सैव पुन । गतरात्रिसदृश्येवेत्यर्थः । पुन शब्दो वाक्यालकारे । अथवा रात्रि पुन भूयोऽपि सैव गतरात्रिरेव नैत- द्भेदो विज्ञायत इति भाव । तथा दिवस अह पुन स एव । गतदिवससदृश एवेत्यर्थ । पूर्ववद्विकल्पोऽत्राप्युग्नेयः । इति मत्वा वुवापि जन्तव. प्राणिनः उद्यमिनः तत्तदर्थसाधनोद्योगवन्तः तयैव निभृतं निगूढम् । परेषामप्रकाशमिति यावत् । प्रारब्धा उपक्रान्ता तत्तक्रिया. तत्तदर्थसाधककर्माणि येषा ते तथो- ताश्च सन्त पुनरुक्तभूता पुनरनुभूतकल्पा । चर्वितचर्वणप्राया इति यावत् । तथाभूता विषया जग्धियब्ध्यादिभोगा येषु तै व्यापारैः चेष्टाभि मुधा व्यर्थ धावन्ति । वृथा प्रयासमन्तरेण फलान्तरासभवादिति भाव । किलित्थंविधेन एवंप्रकारेण अमुना परिवर्तमानेन ससारेण । कुत्सितोऽर्थ. कदर्थ 'को कत्त- त्पुरुषेऽचि' इति कुशब्दस्य कदादेश । कदर्थवन्त कृताः कदर्थिताः निरर्थीकृता अपि । कदर्थशब्दात् 'तत्करोति-' इति ण्यन्तात् कर्मणि क्तः । णाविष्ठवद्भावे विन्मतोलुक् । वयं मोहात् अज्ञानात् न लज्जामहे न जिह्रीम । अहो एवं कालमहिना नि.सारतिरस्कृता अपि लज्जा न प्राप्नुम इत्याश्चर्यमित्यर्थ ॥ अथ लोके तावत्पुरुषाणा धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसपादनसाधनी- भूततया परमेश्वरपदध्यानेज्याध्ययनयशोवित्तार्जनगुरुशुश्रूषागनालिगनादयो यथायोगं विवेयाः । अस्माभिस्तु तेषा मध्ये न कश्चिदपि विरचित ऽस्मजन्म निरर्थकमिव जात मिति वारंवार शोचता वचनममिनीयाह- न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगुलं स्वप्नेऽपि नालिङ्गितं मातुः केवलभेव चौवनवनच्छेदे कुठारा वयम् ॥ ४५ ॥ न ध्यातमिति । संसारविच्छित्तये ससारोच्छेदार्थम् । मोक्षप्राप्त्यर्थमित्यर्थः । ईश्वरस्य शंभो । 'स्थेशभास-' इत्यादिना वरच् । पदम् । पादारविन्दयुगल- मित्यर्थः । विधिवत् विध्यहम् । यथाशास्त्रमित्यर्थः । तदहम्' इति वतिप्रत्ययः । । अतो. .
३. वैराग्यशतकम् ।
१४१
न ध्यातं एकाग्रचित्ततया न ध्यानविषयीकृतम् । यत. 'शंभुपादाम्बुजध्यानं सा-
क्षान्मोक्षैकसाधनम्' इत्यनेकपुराणेतिहाससंहितावचनै साक्षान्मोक्षसाधनतया
विधेयमित्यभिहितं शंभुपद यानं न विहितम्, अतस्तत्साध्यमोक्षपुरुषार्थो न संपा.
दित इति भाव । तथा धर्मार्थासंपादनानुशोचनं कथयन्ति । अत्र 'अथातो
धर्मजिज्ञासा' इत्युपक्रममाण सूत्रकृन्महर्षि धर्मस्य प्राधान्येन खत सिद्धं पुरु-
षार्थत्वं मन्यते । फलं लानुषङ्गिकम् । अस्य पुन साक्षात्परम्परया च स्वर्गापव-
गैपुरुषार्थद्वयसाधनतया सुखहेतौ चन्दने सुखखवदौपचारिकं मन्यते । तत्र च द्वि-
तीयं पक्षमाश्रित्याह-खर्गेति । अत्र वर्गशब्दोऽपवर्गस्याप्युपलक्षक । तथा च
खर्गापवर्गद्वारयो कचाटयोः पाटने विदलने पटुः समर्थः । स्वर्गापवर्गसाधक
इत्यर्थ । धर्मः ज्योतिष्टोमादिरपि नोपार्जित न संपादितः । यत 'ज्योतिष्टोमेन
खर्गकामो यजेत' 'धर्मात्सुखं च' 'ज्ञानान्मोक्षमवाप्नुयात्' इत्यादिश्रुतिस्मृतिभि
पुरुषार्थद्वयसाधकत्वेन अवश्यमनुष्ठेय इति बोधितो धर्मोऽपि नानुष्ठितः । अतस्त-
त्साध्यपुरुषार्थद्वयमपि न सिद्धमिति भावः । अत्र देहलीदीपन्यायेन स्वर्गापवर्गसा-
धकलकथनं धर्मस्य किचिदतिशय द्योतयति । ततो न पौनरुक्त्यमित्यनुसंधेयम् ।
तथा नारीणां पीनौ पीवरौ पयोधरौ स्तनौ तयो उरु दुर्भरं यद्युगलम् । पीवर-
दुर्भरकुचकुम्भयुगमित्यर्थः । यद्वा पयोधरयोरूर्वोश्च युगलम् । पयोधरयुगुलमूरु-
युगुलं चेत्यर्थ । तत्स्वप्नेऽपि स्वप्नावस्थायामपि । किमुत जाग्रदाद्यवस्थायामिति
भाव । नालिङ्गितं नालिष्टम् । 'ससारे पटलान्ततोयतरले सारं यदेकं परं य-
स्यायं च समग्र एष विषयग्रामप्रपन्नो जनः । तत्सौख्यं परतत्त्ववेदनमहानन्दो-
पमं मन्दधी को वा निन्दति सूक्ष्ममन्मथकलावैचित्र्यमूढो जनः ॥ इत्यादिकाम-
शास्त्रोक्त्या कामपुरुषार्थस्याप्युपादेयखात्तनिष्पादकत्वेनामिमतमझनाकुचकुम्भा-
लिङ्गनाधरचुम्बनादि किमपि न कृतम् । अतस्तनिष्पाद्यकामपुरुषार्थोऽपि न समर्थित
इति भावः । अयमेव भाव उत्तरपद्यद्वयेऽप्यनुसधेय । अत्र वाह्यसुरते पयोधरालि-
गनं सुरतप्रयोज्यग्राम्यकरणे डोलायितमन्धे (2) ऊरुयुगलालिङ्गनमिति विवेक ।
अत्र वात्स्यायनीया ---'बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते । तत्राद्यं चुम्ब-
नाश्लेषनखदन्तक्षतादिकम् । द्वितीयं सुरतं साक्षान्नानाकरणकल्पितम् ॥' इति । कि-
तु केवलं अत्यन्तं मातु जनन्या यौवनं तारुण्यं एव वनं पुष्पितोद्यान तस्य छेदे
विदारणे वयं कुठारा परशव एव । यौवनस्य पुत्रोत्पत्त्यवधिकलात्तदुच्छे-
दनसाधनभूता एव, नत्वर्थान्तरसाधकाः । अतो निरर्थकमेवास्मजन्मेति
भाव ॥
नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता
खड्गाप्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ ४६ ॥
सुभाषितत्रिशत्यां . नेति । दम्यते भज्यतेऽनयेति दमनी भजनी । प्रतिवादिवृन्दानां प्रतिभटनि- वहाना दमनी । अथवा प्रतिवादिना वृन्दानि दमयतीति तथोक्ता । सप्रदायशुद्ध- देशिकाचार्यशिक्षानिबन्धनिष्कृष्टकर्तृप्रयुक्तवीर्यातिशयवर्तमानप्रतिवादिपाण्डित्य- गर्वनिर्वाणसमर्थेत्यर्थ । 'कृत्यल्युटो बहुलम्' इति उभयत्रापि कर्मकर्तरि ल्युट । टित्त्वात् डीप् । तथा विनीताना साधूना उचिता । सहृदयहृदयाह्लादिनी- त्यर्थः । यद्वा विनीताना विनयविधेयत्वादिगुणोपेतानाम् । शिक्षितानामिति या- वत् । उचिता अभ्यासाहीं । 'अभ्यासेऽप्युचितं न्याय्यम्' इत्यमर । विद्या वेद- शास्त्रपुराणादिरूपा । नाभ्यस्ता नाभ्यासविषयीकृता । सम्यक् न परिशीलितेति यावत् । अवीतापि विद्या सम्यक्परिशीलनाभावे फलवदर्थावबोधापर्यवसायित्वाद- नधीतप्रायैव भवतीति भयात् । 'आवृत्तिरसकृदुपदेशात्' इति न्यायेनैतत्परिशील- नस्य कल्पोक्तेश्च सर्वथा परिशीलनयैव प्रथमत अनधीतैव चेत् न तत्र प्रत्युत्तराव- काश । एवं व्यवस्थायां सत्याम् 'विद्या नाम नरस्य रूपमधिकं-' इत्यादिवचनेन कीर्तिप्रतिष्ठाविज्ञानादिफलसाधनतया अभ्ययनपूर्वकमभ्यसनीयेति बोविता विद्या- नाभ्यस्ता नावीता च । तत तत्साध्यफलजातमपि न सगृहीत मिति भाव तथा करिकुम्भाः पीठानीव तेषां दलनै विदारकै । अथवा करिकुम्भपीठानि दलय. न्तीति तथोक्तानि तैः । शत्रुसेनासंरम्भविजृम्भमाणकरिकुम्भस्थलपाटननिराघाट- पाटवैरित्यर्थ । 'दल विदलने' इति धातोः पूर्ववल्युट्। खानै । यश कीर्तिः। नार्क. खर्गम् । 'स्वर्गान्तरिक्षयोर्नाक.' इत्यमर । न नीतं न प्रापितम् । क्षत्रधर्मेण लो- कान्तरश्लाघनीयकीर्तिरपि न सपादितेत्यर्थः । यथा लोके प्रासादाद्युन्नतस्थानं प्राप- णीयं वस्तु वेणुदण्डाग्रादिना प्रापयन्ति तद्वदिति ध्वनिः। अथवा खड्गाप्रै. खड्ग- धारामिः । साधनै. यानि करिकुम्भपीठानां दलनानि विदारणानि तैहेतुमि । शत्रु- सेनादन्तिनिवहारतुदखड्गप्रहारैरित्यर्थ. । यशः नाकं न नीतम् । 'कीर्ति स्वर्गफ- लं प्राहुराससारं विपश्चित.' इत्यादिवचनै स्वसाधनत्वेन निवेदितापि कीर्तिन सं- पादिता । ततस्तत्साव्यफललाभो न जात इति भावः । अत्र क्षितितले 'कि जन्म कीर्ति विना' इति वचनाजन्मसाफल्यार्थम् । कीर्ति. पृथमुख्यत्वेन सपादनीयवादा- नुषङ्गिकफलत्वात्साधनान्तरत्वात्स्वर्गमात्रसाधकत्वाच 'वर्गद्वारकवाटपाटनपटुर्घ- र्मोऽपि नोपार्जितः' इत्यनेन न पौनरुक्त्यमित्यवगन्तव्यम् । 'नाकं न नीतं यशः' इत्यत्र 'नीवह्योन' इति वचनाद्धिकर्मकानयतेः कर्मणि क्त । अतएव यशस प्रथ- मान्तस्य प्रधानकर्मत्वं अन्यत्र 'अकथितं च' इति । 'प्रधानकर्मण्याख्येये लादी- नाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥ इति वचनात् । तथा चन्द्रोदये चन्द्रोदयसमये कान्ताया. प्रियतमाया कोमलो मृदुलो य पल्लवाधरः किसलयकल्पाघरोष्ठः तस्य रसः । अधरामृतमित्यर्थ । न पीत नाखादितः । 'तिक्तादौ चामृते चैव निर्यासे पारदे ध्वनौ । रसः' इति शब्दार्णव । 'पल्लवाधर- सुधा पीता' इति पाठे स्पष्टोऽर्थ । अतोन तृतीयपुरुषार्थोऽपि संपादित इति भाव ।
३. वैराग्यशतकम् । १४३ तटस्थोद्दीपनविभावश्च चन्द्रस्य शृङ्गाररसनिमित्तकारणत्वात्तदुदयोक्तिः । तदुक्तं शृङ्गारतिलके-'मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः' इति । अतः तारु- ण्यं यौवनं शून्यालये निर्जनगेहे दीपेन तुल्यं दीपवत् । 'तेन तुल्यं क्रिया चेद्व- ति' इति वतिप्रत्ययः । निष्फलं निरर्थकमेव गतम् । यथा शून्यगृहदीपस्य कस्यचिदप्यनुपयोगानिरर्थकत्वं तथा तारुण्यस्यापि कस्यचिदग्यर्थस्यासाधकत्वा- निरर्थकत्वमित्यर्थः । अहो इत्याश्चर्ये विषादे वा । तद्धितगतेयमुपमा । विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं शुश्रूषापि समाहितेन मनसा पित्रोन संपादिता। आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥ ४७ ॥ विद्येति । कलङ्करहिता निष्कलङ्का । सप्रमाणेत्यर्थ । विद्या नाधिगता नाभ्यस्ता। नाधीतेति यावत् । 'नाभ्यस्ता प्रतिवादिवृन्ददमनी-' इत्यत्र उक्तभाव एवात्रानुसं- धेयः। वित्तं त्यागभोगपर्याप्तं धनं च नोपार्जितम् । 'यस्यास्ति वित्तं स नर कुलीनः स पण्डित स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीय. सर्वे गुणा. काञ्च- नमाश्रयन्ते ॥' इत्युक्ते', 'धनमार्जय काकुत्स्थ धनमूलमिदं जगत् । अन्तरं नामिजानामि निर्धनस्य मृतस्य च ॥' इत्यादिवचनेन च बहुफलसाधनतया अर्ज- नीयमित्युपदिष्टं वित्त नार्जितम् । तत. तत्साध्यफलमपि न साधितमिति भावः । ननु 'अर्थानामजने दु खमर्जिताना च रक्षणे । रक्षिताना व्यये दु खं धिगर्या दु खभाजनम् ॥' इति निषेधोक्तेः कथ तदुपार्जनाभावानुशोचनमिति चेत् , सत्यम् । तस्याप्यवहिताविसवाद्यैहिकामुष्मिकफलजनकत्वेनाभ्यर्हितत्वात्पुरुषार्थपर्यवसा- नाच न दोष इति मन्तव्यम्।तथा समाहितेन सावधानेन। प्रसन्नेनेति यावत्। मनसा । अन्त करणशुद्धिपूर्वकं नियमादिति भाव । पित्रो । मातापित्रोरित्यर्थः । 'माता- पितरौ पितरौ' इत्यमर । 'पिता मात्रा' इत्येकशेष । शुश्रूषा परिचर्या। सेवेति यावत्। 'शुश्रूषा श्रोतुमिच्छाया परिचर्याप्रधानयोः' इति विश्व । न संपादिता न कृता । 'मातापितृसमं दैव सर्वेषा नहि विद्यते । तस्मात्समर्चयेन्नित्यं पितरौ देवरू- पिणौ ॥' इत्यादिवचनै परमेश्वराराधनकल्पतया बहुफलदायकत्वेन कर्तव्येति बोधिता पितृसेवा न कृता, ततस्तत्साभ्यफलमपि न संपादितमिति भाव. । आलोके चञ्चले तरले आयते कर्णान्तविश्रान्ते च लोचने यासा ता. । जगन्मो- हननयनविलासवत्य इत्यर्थ । प्रियतमा अत्यन्तमनोविनोदकारिण्यः। संभोग- योग्या समानुरागिण्य स्तरुण्य इत्यर्थ. । अन्यथा रसाभासप्रसङ्गात् । खप्नेऽपि नालिङ्गिता । एतेनात्यन्तमिथ्याभूतखप्नालिङ्गनाद्यभावानुशोचनेन जाग्रद्दशाया त- स्यात्यन्तासंभावितत्वं सूच्यते । ननु कामनिष्पत्त्यर्थमङ्गनालिङ्गनाधरचुम्बनादि- कमावश्यकम् । तत्र पूर्वश्लोकेऽधरचुम्बनमुक्तम् । कितु पूर्वतरश्लोकोक्त- मेवालिङ्गनं पुनरत्राप्युक्तम् , अत पौनरुक्त्यदोष· प्रसक्त इति चेत् न ।
सुभाषितत्रिशत्यां तत्र कतिपयालिङ्गनाभावमात्रानुशोचनम् । अत्र तु सर्वाङ्गनालिङ्गनाभावानुशो- चनमिति न दोषप्रसक्तिरिति वेदितव्यम् । कित्वयं परिवर्तमान. काल काकै बलिभुग्भिरिव । अस्माभिरिति शेषः । परपिण्डेषु परान्नेषु लोलुपतया लालस- तया। सावमानपरपिण्डादनकुक्षिभरितयेत्यर्थ । प्रेर्यते याप्यते । न बर्थसा- धकतयेति भाव । 'परानः परपिण्डाद.' इत्यमर । 'प्रपूर्वादीरयते कर्मणि लट्र' । एतत्सर्व कालविलसितमेवेति तात्पर्यम् । यद्यप्यत्र वैराग्यप्रकरणे धर्मा- र्थपितृशुश्रूषाविद्यायशोधिगमाना यथाकथंचित्पुरुषार्थोपयोगितया तदभावानु शोचनं वक्तुं युक्तं नत्वङ्गनालिङ्गनादिसभोगाभावानुशोचनम् , तदपि श्लोकत्र- येण त्रिवारशुद्ध्यर्थ कथयितुमत्यन्तायुक्तम् । ननु विद्याध्ययनाभावे द्विवारानु- शोचनं न युक्त मिति चेत्, न । तस्या उपादेयत्वेन शतकृत्वस्तदभावानुशोच- नेऽप्यनौचित्याभावात् । अन्यस्य त्वनुपादेयत्वादेतदनुशोचनमनुचितमिव प्रति- भाति । तथापि तस्यापि पुरुषार्थमध्यपरिगणनया सपातापातत्वात् , प्रसूति- भाजो विश्वस्य स्त्रीपुंसाभ्यामेव निष्पन्नवात् , कामस्य पुरुषार्थत्वेन च पित्रर्ण- विमोचनहेतुभूततया चेदृशशास्त्रस्य महापुरुषप्रणीतत्वात् ‘धर्माविरुद्धो भूतेषु कामोऽस्मि भतरर्षभ' इति भगवचनात्तद्विरुद्धस्यैवानुपादेयत्वात् , अत्र तु तदविरुद्धस्यैतत्कामस्य विवक्षितत्वेनोपादेयलाच तदेवानुशोचितुमुचितम् । यद्वा लोके तावदुत्तमवस्वलामे अवमवस्त्वपेक्षा तस्याप्यलाभे तदनुशोचनं प्रायश प्रसिद्ध यथा पिपासितस्यालब्धशर्करापानकस्यारनालापेक्षाया तदला- मेऽनुशोचनं उद्यत्कालविप्रलब्धस्याधिगतपरमार्थानामपेक्षाया तदलाभेऽनुशो- चनमुचितमेव । अत एव श्लोकत्रयेऽपि प्रतिश्लोकं पूर्वार्वे उत्तममध्यमभेदेन पक्षद्वयाभावानुशोचनमुक्त्वा अधमत्वातिशयेन तृतीयपक्षे तदभावानुशोचन- मुक्तमित्यवगन्तव्यम् ॥ ते अथ कालकलनाविपाकवचनमाह- वयं येभ्यो जाताश्चिरपरिचिता एव खलु समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः। इदानीमेते स्मः प्रतिदिवसमासन्नपतना गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः॥४८॥ वयमिति । वयं येभ्यो मातापितृभ्यो जाता उत्पन्ना. ते चिरपरिचिता एव चिरकालपरिचयवन्त एव नष्टा एवेत्यर्थ। खलुशब्दोऽत्र निश्चये वाक्यालंकारे वा। तथा यैर्जनै समं सवृद्धा सम्यग्वृद्धि गता. । 'सवृत्ताः' इति पाठे प्रावृता इत्यर्थ । तेऽपि स्मृति विषयता स्मरणगोचरत्वं गमिता प्रापिता । कालेनेति शेष । तेऽपि नष्टा इत्यर्थः । गमेय॑न्तात्कर्मणि क । गतिबुद्धि-' इत्यादिना अणिकर्तुं कर्मणि 'ण्यन्ते कर्तुश्च कर्मण' इति वचनात् । अथवा गमिता गता इत्यर्थ । खार्थे णिचि रामो राज्यमकारयत्' इतिवत् । इदानी वार्धकावस्थायामेते वयं प्रतिदिवसं , ३. वैराग्यशतकम् । १४५ . प्रत्यहम् । यथार्थेऽव्ययीभावः । आसन्नं समीपवर्ति पतनं निधनं येषां ते तथोक्ताः। अतएव सिकतास्मिन्नस्तीति सिकतिलं सैकतप्रायम् । 'देशे लुबिलचौ च' इत्यनेन ततस्तस्मिन्नित्यर्थे इलच्प्रत्ययः । यनदीतीर नदीतटप्रदेशः तत्र ये तरव वृक्षाः तै तुल्यावस्था गता समदशां प्राप्ता स्म । क्षिप्रमेव यास्याम इत्यर्थः । एतत्सर्व कालकृतमेव, अन्यथा कथमन्यस्येहक्सामर्थ्य मिति भाव । अत्र तरङ्गभङ्ग्या- घातै सिकतापनयेऽविलम्बेन तरूणा निर्मूलोन्मूल । तद्द्योतनार्थ नदीतीरस्य सिकतिलविशेषणम् । 'स्त्री शर्करा शर्करिल शार्कर शर्करावति । देश एवादि- मावेवमुन्नेया सिकतावति ॥' इत्यमर । शिखरिणी ॥ अथ प्राणिनां विचार्यमाणे लेशस्याप्युवकाशो नास्तीत्याह- आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्ध गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः। तेषां व्याधिवियोगदुःखसहितं लेवादिमिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ४९ ॥ आयुरिति । नृणा मर्त्यांना आयु जीवितावधिकालो वर्षशत शतसवत्सरा- त्मकं परिमितं क्लुप्तम् । ब्रह्मणेति शेष । 'विशत्याद्या सदैकत्वे सर्वाः सख्येय- संख्ययो' इत्यमरः । तदर्थ तस्य वर्षशतस्यार्थ पञ्चाशद्वत्सरात्मकं रात्रौ गतम् । इन्द्रियव्यापारोपरमरूपनिद्रावस्थया गलितं भवतीत्यर्थ. । परस्य तस्य जागरूकेण वर्तमानस्य अर्धस्य पञ्चाशद्वत्सरात्मकस्य अपर अन्यदर्ध पञ्चविशतिसंवत्सरात्मक बालत्ववृद्धत्वयोः गतम् । अज्ञानाशक्तत्वावस्थाविषयतया नष्टमित्यर्थ । द्वादश- संवत्सरात्मकमेकमध बालत्वे, अन्यदृद्धत्व इति विवेक । शेषं पञ्चविंशतिसंव- त्सरात्मकमेतदवशिष्टार्ध व्याधिभि रोगैः वियोगदु.खै. पुत्रकलत्रादिविरहप्रयु- क्तदु.खै सहितं सत् सेवादिभि स्वजीवनार्थ वित्तवत्परिचर्यादिकष्टकर्मभि नीयते अतिवाह्यते । अत वारितरगचञ्चलतरे अतिचञ्चले । क्षणिक इत्यर्थ । जीवे जीवने प्राणिना सौख्यं सुखं कुत । न कुतोऽपीत्यर्थ । उक्तरीत्या विचा- र्यमाणे सुखलेशस्याप्यनवकाशादिति भावः । शार्दूलविक्रीडितम् ॥ अथ कालत्रययुक्तबाल्याद्यवस्थाक्रमेण मर्त्यः सर्वोऽपि म्रियत इत्युप- संहरति- क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तहीनः क्षणमपि च संपूर्णविभवः । जराजीणैरङ्गैनट इव वलीमण्डिततनु- नरः संसारान्ते विशति यमधानीयवनिकाम् ॥५०॥ क्षणमिति । क्षणं क्षणमात्रम् । ईषत्कालमित्यर्थः । अत्यन्तसयोगे द्वितीया । ..ल शिशु भूत्वा तथा क्षणमपि कामेन मन्मथेन रसिक शृङ्गाररसाभिनिविष्टः । यद्वा काम्यन्ते अभिलष्यन्त इति कामा कामिनीसभोगादिविषया तेषु रसिकः अनुरागवान्, युवा तरुणश्च भूत्वा । तथा क्षणं वित्तहीन निर्धनो भूत्वा । क्षणमपि ..
१४६ सुभाषितत्रिशत्यां च संपूर्णविभवः परिपूर्णधनश्च भूत्वा । 'अर्थरैविभवा अपि' इति धनपर्यायेव- मरः । तथा क्षणं जरया जीर्णैः शिथिलैः । विश्लिष्टसंधिबन्धैरिति यावत् । अझैरुपलक्षितः अतएव वलीभिः विश्लथचर्मभङ्गीभिः मण्डिता भूषिता । चिह्नि- तेति यावत् । 'मडि भूषणे' इति धातोः कर्मणि क्तः। तनुः गात्रं यस्य तथोक्तो भूत्वा । नरः । सर्वोऽपीत्यर्थ. । नट. तत्तद्वेषधारी नर्तक इव । संसारस्य बाल्य- यौवनाद्यवस्थानुभवरूपसंसारकपटनाटकस्य नाट्यप्रवर्तकाडम्बरस्य च अन्ते अवसाने । यमो धीयतेऽत्रेति यमधानी संयमिनीनान्नी यमपुरी । 'करणाधिक- रणयोश्च' इति ल्युट् । टित्त्वात् डीप् । सा यवनिका प्रतिसीरा तिरस्करिणीव तां विशति मृतो भवति । अन्यत्र प्रविष्टो भवतीत्यर्थः । 'प्रतिसीरा यवनिका' इत्यमरः । नवविशेषणानि योज्यानि । उपमालंकारः । शिखरिणीवृत्तम् ॥ इति वैराग्यशतकव्याख्याने कालमहिमानुवर्णनं नाम पञ्चमं दशकम् । अथ यतिनृपतिसंवादवर्णनम् । अथ इह कश्चित्कुतश्चिद्भाग्योदयादित्थंभूतकालवैषम्यं ज्ञात्वा वैराग्याद्यदि यतिर्भवेत् तदा नैरपेक्ष्यस्तृणमिव जगज्जालमालोकयन्नवधीरितानुवर्तनेच्छुः राज्ञा सह संवादं कर्तुं शक्नुयात् नान्यथा । अतो निरङ्कुशत्वयतिभावोऽवश्यं संभाव- नीय इति विवेकिनां ज्ञापयितुं तत्संवादप्रकारमाह- त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः। इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं यद्यमासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥५१॥ त्वमिति। त्वम् । रजयतीति राजा।महोन्नत इत्यर्थः। वयमपि उपासिताः सेविता गुरवः आचार्याः यया सा तथोक्ता । 'आचार्यवान्पुरुषो वेद' इति श्रुतेः । निरन्त- रगुरुसेवातत्परेत्यर्थः । यद्वा उपासिता गुरूपासनावशात् संपादिता गुरुः श्रेष्ठा च या प्रज्ञा त्रैकाल्यगोचरबुद्धिविशेषप्रवृत्ति. तया योऽभिमानः आग्रह. तेन उन्नताः उत्कृष्टाः । त्वं विभवैः धनसंपद्भिः ख्यातः सर्वत्र प्रसिद्धः। तथा कवयः विद्वांसः।यद्वा विचित्रप्रबन्धवचनरचनाचातुरीधुरीणप्रतिभासंपन्नाः कवयितारः नः अस्माकं - शांसि कीर्ती दिक्षु दिगन्तरालेषु प्रतन्वन्ति विस्तारयन्ति । एते महान्तः संततपरि- चर्याभिनन्दिताचार्यकृपाकटाक्षलब्धप्रज्ञाभिमानमानसमहोत्सवशालिनः ज्ञानविज्ञा- नसंपन्ना मोक्षसाम्राज्यपट्टबद्धास्तृणीकृतब्रह्मपुरंदरा इत्यस्मानपि कीर्तयन्तीत्यर्थः तस्माद्वयमपि ख्याता एवेति भावः। अतः इत्थं अनेन प्रकारेण त्वं च अहं च आवां तयोः । 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषः । उभयोरपि अन्तरं तारतम्यं मानध- नाभ्यां अतिदूर अत्यन्तविप्रकृष्टम् । त्वं केवलं धनवान्, वयं तु प्रज्ञाप्रयुक्ताभिमान- ३. वैराग्यशतकम् । धनवन्त , अतस्तव चास्माकं च सुमेरुसर्षपयोरिव महदन्तरमित्यर्थः । अत- स्त्वमस्मासु विषये पराङ्मुख अनादरपरोसि यदि, तर्हि वयमप्येकान्ततो नि:- स्पृहा निरपेक्षा । अनादरपरा इत्यर्थ । त्वयीति शेषः। अनादरे व्यवस्थाने संसारे नास्माकमत्र प्रयोजनमस्ति । तवास्माखादरश्चेत् अस्माकमपि त्वय्या- दर. । तद्वशादत्र स्थास्याम । अन्यथान्यत्र गमिष्याम इति भाव । अत्र 'त्वं- राजा वयं-' इत्युपक्रमे 'वयमप्येकान्ततो नि स्पृहा' इत्युपसंहारे बहुवचनं प्रयुज्य आवयोरिति द्विवचनप्रयोग. कथमुपयुज्यत इति चेत्, सर्वेषां समुदा- यविवक्षया आत्मसभावनाया बहुवचनप्रयोगेण वा युक्तत्वान्न कोऽपि विरोध । एवमुत्तरत्रापि द्रष्टव्यम् । शार्दूलविक्रीडितम् ॥ उक्तमेवार्थ भझ्यन्तरेणाह- अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थ शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः। सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रोतुकामा मय्यप्यास्थान ते चेत्त्वयि मम नितरामेवराजन्ननास्था॥५२॥ अर्थानामिति । त्वं अर्थानां धनानां ईशिषे ईश्वरो भवसि । तथा वयमपि च यावानर्थों यावदर्थ यावदभिधेयं । यथा तथेत्यर्थ । 'यावदवधारणे' इत्यव्य- यीभावः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । गिरा शास्त्रवचनानां ईश्महे । अशेषशास्त्रविभवार्थानां प्रभवाम इत्यर्थ । 'विद्महे' इति पाठे गिरा या. वदर्थम् । अशेष विशेषार्थमित्यर्थः । विद्महे जानीमहे । तथा त्वं शूरः शौर्यवान् । रिपुदलन इति शेष । तथा न अस्माकं वादिदर्पव्युपशम विधौ प्रतिवादिगर्वनि- वापणविधाने । 'विधिविधाने दैवे च' इत्यमर. । अक्षयं अविनाशि पाटवं सा- मर्थ्यम् । अस्तीति शेषः । त्वा धनाढ्या धनस्वामिन. । 'इभ्य आढ्यो धनी खामी' इत्यमर. । सेवन्ते भजन्ते । तदविनाशार्थ तदमिवृद्ध्यर्थं चेति भाव । यद्वा धनान्या धनाढ्यत्वामिलाषिणः। राजसेवया धनसंपादनेच्छव इत्यर्थः । त्वां सेवन्ते। मामपि । अस्मानपीत्यर्थ ।मतिमलहतये बुद्धिजाड्यनिवृत्त्यर्थम् । 'यस्तु पर्यटते देशान्यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥' इति वचनादिति भाव । यद्वा मतिमलानि रागद्वेषादय तेषां हतये प्रक्षालनार्थम् । बुद्धिशुद्धिद्वारा ज्ञानावाप्त्यर्थमित्यर्थ । श्रोतुं कामोऽमिलाषो येषा ते श्रोतुकामा शुश्रूषव. । 'गुरुमुखाच्छ्रोतव्यम्'इति न्यायेनास्मन्मुखाच्छास्त्रार्थश्रवणेच्छव । 'गु- रुशुश्रूषया विद्या' इत्युपदेशवचनविश्वासवन्त. शिष्या इत्यर्थः । सेवन्त इति सं- बन्ध । 'तुं काममनसोरपि'इति तुमुनो मकारलोप । अत हे राजन्, ते मय्यपि आस्था न चेत् अनादरो यदि, तदा मम खय्यपि नितरा अत्यन्तम् । अव्ययादा- म्प्रत्यय । अनास्था। निरपेक्षत्वादिति भाव । किंत्वेषोऽहं गतोऽस्मि । अन्यत्र ग- सुभाषितत्रिशत्यां मिष्यामीत्यर्थ । वर्तमानसामीप्ये वर्तमानप्रत्यय । स्वस्य निरङ्कुशत्वद्योतनार्थ एतच्छब्दप्रयोगः । पूर्वश्लोकोक्तभाव एवात्राप्यनुसधेय । स्रग्धरा ॥ अथ कथमन्यत्र गमिष्यसीत्याशङ्कायामस्माकं नित्यसंतुष्टान्तःकरणत्वान्न किं- चिदपि कृच्छ्रमित्याह- वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इव परितोषो निर्विशेषो विशेषः। स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ ५३ ॥ वामिति । हे राजन् , वयमिहेदानी वल्कले. दारुत्वनिर्मितचीवरै परि- तुष्टा सतुष्टा । त्वं दुकूलैः क्षोमैः। विचित्रचीनाम्बरैरित्यर्थ. । परितुष्ट इति वचन विपरिणामेन सबन्ध । परितोष सतोष अस्माकं तव सम इव तुल्य एव । इवशब्दोऽत्रावधारणार्थक । विशेष अन्यतरोत्कर्षस्तु निर्विशेषो विशेष- रहित । मःमकतावकपरितोषयोरन्तर न किचिदप्यस्तीत्यर्थ । 'सम इव परि- तोपो जायते को विशेष ' इति वा पाठ । कि तु यस्य पुंस. तृष्णा धनलिप्सा विशाला अत्यायता स पुमान् दरिद्रोऽकिचनो भवतु। नान्य इत्यर्थ । संभा- बनाया लोट् । कथमेतदित्याशङ्कयोक्तमर्थमर्थान्तरन्यासेन द्रढयति-मनसि च परितुष्टे येनकेनचित्सतुष्टे सति क पुमानर्थवान् द्रव्यसंपन्नः, कश्च वा दरिद्रः द्रव्यहीन. । न कोऽपीत्यर्थ । मनःपरितोषे लाभालाभयोरकिचित्करत्वादिति भावः । अतो न किचिदप्यस्माकं कृच्छ्रमिति वेदितव्यम् । मालिनीवृत्तम् ॥ तथापि शरीरयात्राया अन्यथासभाव्यमानत्वान्न दुर्जनाविनयं सोढुं शक्नो- मीत्याह- फलमलमशनाय स्वादु पानाय तोयं क्षितिरपि शयनार्थ वाससे वल्कलं च। नवधनमधुपानभ्रान्तसर्वेन्द्रियाणा- मविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥५४॥ फलमिति । फलं अशनाय भोजनाय । क्षुन्निवारणार्थमित्यर्थः । अलं पर्या- प्तम् । अलमिति पर्याप्त्यर्थग्रहणात् 'नम स्वस्ति-' इत्यादिना चतुर्थी । एवमु- त्तरत्रापि द्रष्टव्यम् । तथा खादु मधुरम् । 'त्रिविष्टे खादु मधुरे' इत्यमरः । तोयं उदक पानाय । तृष्णोपशान्यर्थमित्यर्थ । अलम् । तथा क्षितिरपि शयनार्थ सवेशनाय अलम् । तथा वल्कलं च वाससे आच्छादनार्थ अलम् । अत नवं सद्य सभावित यद्धनं तदेव मधुपानं मद्यपानं तेन भ्रान्तानि अमार्गवर्तीनि सर्वाणीन्द्रियाणि येषां तेषां धनमधुपानस्य चित्तविकाराविवेका- दिकारित्वेन यथाकथंचिद्विवेकलेशसभवे तनिवृत्तिर्धनविशेषणम् । अतस्तस्य दुर्जनाना दुर्मार्गशालिना अविनय दुर्विनयम् । अनादरमिति यावत् , ३ वैराग्यशतकम् । १४९ अनुगन्तुं अङ्गीकर्तु नोत्सहे न मृष्यामि । सति गत्यन्तरे किमर्थ सोढव्य मिति भावः । वृत्तं पूर्ववत् ॥ एनमेवार्थ भङ्गयन्तरेणाह- अशीमहि वयं मिक्षामाशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः॥ ५५ ॥ अशीमहीति । वयं भिक्षा भिक्षानमशीमहि भोक्ष्याम । 'अश भोजने' इत्यस्मा- द्धातोलिड् । आत्मनेपदोत्तमपुरुषवहुवचनम् । एवमुत्तरत्रापि द्रष्टव्यम् । तथा आशा दिश एव वासो वसीमहि आच्छादयिष्याम । दिगम्बरा भविष्याम इत्यर्थ । महीपृष्ठे भूतले शयीमहि स्वप्स्याम । अत ईश्वरै राजमि कि कुर्वी- महि कि करिष्याम । न किमपीत्यर्थ । शरीरयात्राया अन्यथैव मभाव्यमान- लादिति भाव । इत्थं स्थितित्वमेव ब्रह्मनिष्ठयतिलक्षणम् । तदुक्तं महाभारते उद्योगपर्वणि धृतराष्ट्र प्रति सनत्सुजातेन-'येन केनचिदाच्छन्नो येन केनचिदा- शितः । यत्र वचनशायी स्यात्तं देवा ब्राह्मणं विदु ॥' इति । उक्तं च श्रीमद्भा- गवते-'चीराणि कि पथि न सन्ति दिशन्ति भिक्षां नो वाभिपा. परभृतः सरितोऽप्यशुष्यन् । रुद्धा गुहा किमजितोऽवति नोपपन्नान्कस्माद्भजन्ति यतयो धनदुर्मदान्धान ॥ इति । तथा चोक्तं शिवगीतायाम्-'सवीतो येन केलाश्नन्मक्ष्यं वाभक्ष्यमेव वा । शयानो यत्र कुत्रापि सर्वात्मा मुच्यतेऽत्र स.॥' इति । अनुष्टुप् ॥ अथ खस्य राजदर्शनायोग्यताया प्रकटनापदेशेन तं निन्दति- न नटा न विटा न गायका न च सभ्येतरवादचुञ्चवः । नृपमीक्षितुमत्र के वयं स्तनभारानमिता न योषितः॥५६॥ नेति । वयं नटा विविधवेषधारिणो विचित्र नाट्य निपुणा न । न भवाम इत्यर्थ । येन नयनानन्दो भवेदिति भाव.। विटा एकविद्या नायकानुकूलनचतुरा न भ. पाम.। येन तत्तनायिकानुकूल्यप्रयोजनं सिद्ध्येदिति भावः । तदुक्तमलंकारशास्त्रे- 'नायकानां नायिकानुकूलने सहाया. पीठमर्दविटचेट विदूपकादय' इति । तल्ल- क्षणं च तत्रैव-'किचिदून पीठमर्द एकविद्यो विट स्मृत । सधान कुशलश्चेटो हास्यप्रायो विदूषक ॥ इति । गायन्तीति गायका सगीतकुशला तेन भवाम । येन श्रवणानन्दो भवेदिति भाव । सभाया साधवः सम्याः। तत्र साधु' इति यत्प्रत्ययः। तेभ्य इतरे यं वा अशिष्टगालापा साधारणजनमनोविनोदमात्रपर्यव. सायिन । न तु शास्त्रसवादिन इत्यर्थ । यद्वा सभ्या विद्वास , तदितरे साधारणजना: तेषा वादास्तद्वदनयोग्यवाक्यानि तैर्वित्ता चुञ्चव । हास्यकारिण इत्यर्थः । न भवाम इत्यर्थ । येन मनोविनोदो भवतीति भाव । तेन वित्तश्चुचुपचणपो' इति । चुचप्प्रत्ययः । तथा स्तनभारै कुचकुम्भभरैः आनमिता ईषनम्राग्य योषितो- Mon - १५० सुभापितत्रिशत्यां -- ऽपि न भवामः येन संरम्भसंभोगौत्सुक्यं भवेदिति भावः । अतो नृपं राजानं ई- क्षितुं द्रष्टुम् अत्र नटादिषु वयं के । न केचिदित्यर्थः । एतेषामन्यतरत्वे योग्यता स्यादिति भावः। एतेनासभ्यानामेवावकाशप्रदः, नतु सभ्यानामिति नृपस्य निन्दा गम्यते । 'नृप वीक्षितुम्' इति पाठे हे नृपेत्यामन्त्रणम् । त्वामिति शेषः । अन्यदुक्ता- र्थम् । वैतालीयाख्यमर्धसमवृत्तम् -'षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्ना निर- न्तरः । न समात्रपराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥' इति लक्षणात् ॥ निन्दामेव चतुर्भिः प्रपञ्चयति- विपुलहृदयशैरेतजगजनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा। इह हि भुवनान्यन्ये धीराश्चतुर्दश भुजते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ५७ ॥ विपुलेति । पुरा पूर्वकाले विपुलहृदयैः महामानसै । उदारबुद्धिभिरित्यर्थः । ईशैः हरिश्चन्द्रादिसार्वभौमै एतत् परिदृश्यमानं जगत् भूमण्डलं जनितं उत्पादि- तम् । समग्रधर्माचरणेन संस्थापितमित्यर्थः । तथापरैः ययातिप्रभृतिभिरीश्वरैः विधृतं विशेषेण धृतम् । सम्यक्परिपालितमित्यर्थः । तथान्यैः बलिप्रभृतिभिः विजित्य शत्रुचयेन ववशं कृला तृणं यथा तृणमिव दत्तं अर्थिसात्कृतम् । एते. नैतेषां महौदार्य सूच्यते । इह हि इदानीमपि अन्ये धीराः धैर्यशालिनः । चतुर्द- शभुवनानि भूरादिचतुर्दशविष्टपानि भुजते अनुभवन्ति । ताइक्सामर्थ्यसंपन्ना- स्तिष्ठन्तीत्यर्थः । 'भुज पालनाभ्यवहारयोः' इति धातोः लट् । 'भुजोऽनवने' इत्यात्मनेपदम् । अतः कतिपयानि च तानि पुराणि च तेषाम् । द्वित्राणां पञ्च- पाणां वा पुराणामित्यर्थः । खाम्ये आधिपत्ये सति पुंसामेष परिदृश्यमानो मदो दर्प एव ज्वरः संनिपातज्वरः बुद्धिभ्रंशहेतुत्वात् कः । किमर्थमित्यर्थः । अतः पुरातनमहाराजचरितानुस्मरणालज्जितव्यम्, नतून्मत्तेन भवितव्यमिति भावः । हरिणीवृत्तम् ॥ अभुक्तायां यस्यां क्षणमपि न जातं नृपशतै- र्भुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् । तदंशस्याप्यंशे तवयवलेशेऽपि पतयो विषादे कर्तव्ये विद्धति जडाः प्रत्युत मुदम् ॥५८॥ अभुक्तायामिति । नृपंशतैरनेकभूपालकैर्यस्यां भुवि अभुक्तायां अननुभूतायां सत्यां क्षणं क्षणमात्रमपि न जातम् । किंतु क्षणमात्रव्यवधानरहितमेवानुभूयते इत्यर्थः । तस्या भुवो लाभ प्राप्ती क्षितिभृतां राज्ञां क इव । इवशब्दो वाक्यालंकारे। 'इवेतीष- दर्थोपमावाक्यालंकारेषु' इति गणव्याख्याने । बहुमानः उत्कर्षः। न कोऽपीत्यर्थः । सर्वसाधारण्यादिति भावः । किंतु तस्या भुवोंऽशस्यापि अंशे भागे च तथा तस्य ३. वैराग्यशतकम् । १५१ - अंशस्य योऽवयव एकदेश तस्य लेशे । अत्यल्पकोणेऽपि चेत्यर्थः । पतयः ई. श्वरा जडा मन्दा विषादे स्वल्पतमभूखण्डाधिपतयो वयं जाता इति विषादे दु खे कर्तव्ये सति प्रत्युत वैपरीत्येन मुद संतोषं विदधति कुर्वन्ति । मोदन्त इत्यर्थः । अहो महानयमेतेषामविवेक इत्यर्थ । 'प्रत्युतेत्युक्ते वैपरीत्ये' इति गणव्या- ख्याने । शिखरिणी॥ आस्ता तावत्क्षुद्रनृपवार्ता । तद्याञापरास्तु ततोऽप्यत्यन्तक्षुद्रा इत्याह- मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः स्वांशीकृत्य तमेव संगरशतै राज्ञां गणा भुञ्जते । ते दद्युर्ददतोऽथवा किमपरं क्षुद्रा दरिद्रा भृशं धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये ५९ मृत्पिण्ड इति । जलरेखया समुद्राकारजलरेखया जलधारया वलयित. वेष्टित पुजीकृतश्च योऽयं परिदृश्यमान. सर्व अशेषोऽपि मृत्पिण्डश्च अणुननु तं तादृशं मृत्पिण्डमेव सगरशतैयुद्धशतैः खाशीकृत्य स्वभागीकृत्य ये राज्ञां गणाः भुञ्जते अनुभवन्ति ते राजगणाः दार्हि अर्थ वितरेयुा । ददातेभविष्यति लिड्। अथ- वेति पक्षान्तरे । ददत वितरन्तो वा । ददाते. वर्तमाने शतृप्रत्ययः । 'नाभ्य- स्ताच्छतु' इति नुमभाव । अपर अन्यदुष्करं किमस्ति । किमपि नास्त्येवेत्यर्थः । भृशं अत्यर्थ क्षुद्रा हीना दरिद्रा दीनाश्च । अनेकसयुगक्लेशार्जितमृत्पिण्डभोक्तृत्वात् क्षुद्रत्वं तत्राप्यशभागिलाद्दरिद्रत्वं चावगन्तव्यम् । ततस्तेभ्य क्षुद्रदरिद्रेभ्यो राज- गणेभ्यो ये पुरुषाधमा. धनकणान् धनलेशान् वाञ्छन्ति अभिलषन्ति, तान्पुरुषा- धमान्मानुषपाशान् धिक विक् । कूपराध प्रसृतजलपातवत् तथाविधक्षुद्रयानाया. परमनैच्यावहत्वात्तद्याचितारस्ततोऽपि नीचास्ते नराधमा । पौन पुन्येन निन्द्या इत्यर्थः । 'धिनिर्भर्त्सननिन्दयोः' इत्यमरः । 'उभसर्वतसो. कार्या धिगुपर्यादिषु त्रिषु । द्वितीयानेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥' इति वचनात्पुरुषाधमानिति द्वितीया । वीप्साया द्विर्भावः। खदग्वकुक्षिकुण्डपूरणैकप्रयोजनाया पुरुषाधमत्व- जनन्याः क्षुद्रयाञाया धिकार विधाय खत सिद्धानन्दनिर्व्याकुलस्य पुरुषोत्तमत्व- जनकस्य यतिभावस्यैव जीवातुमार्गणं विधेयमिति तात्पर्यम् । शार्दूलविक्रीडितम् ॥ कि बहुना स एव सफलजन्मेति निगमयति- स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितमलंकारविधये। नृभिः प्राणत्राणप्रवणमतिमिः कैश्चिधुना नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः॥ ६० ॥ स इति । स पुमान्कोऽपि कश्चिदेव जातः सफलजन्मासीत् । न सर्व इत्यर्थ.। को- ऽसावित्यत आह-यस्य पुंसः धवलं शुभं कपालं शिरोऽस्थि मदनरिपुणा शंभुना उच्चै- उन्नते। सर्वोपरि वर्तमाने इत्यर्थः । मूर्ध्नि निजमस्तके अलंकारविधये भूषण- सु० त्रि. १४ - १५२ सुभाषिजत्रिशत्यां विधानाय विनिहितं निक्षिप्तम् । स एक एवेति संबन्धः । सकलसुरासुरमौलिख- चितमणिप्रभादीपितपादारविन्दस्य कैलासमेरुगिरीश्वरस्य भगवत. शंभो कपाल- शेखरखादिति भावः । कि त्वधुना इदानी प्राणत्राणे तुच्छप्राणसंरक्षणे प्रवणा सक्ता मतिर्येषां तै तथोक्त अतएव नमद्भि नमस्कुर्वाणै कैश्चित् कतिपयैः एक नृमि मनुष्यैः । हेतौ तृतीया । अथवा नमद्भि पुसा नरवरमन्याना राना अयं परिदृश्यमान अतुलो नि.सीमा यो दर्प मद स एव ज्वरभर ज्वरोद्रेक । अप- भ्रंशहेतुलात् । क । किमर्थमित्यर्थ । मरणानन्तरमपि यस्य शिर आदरपूर्वकं महदुपादेय भवति, स एव सफलजन्मा पुरुषोत्तमश्च । अन्य. सर्वोऽपि निष्फल- जन्मा पुरुषाधमश्चेति भाव । शिखरिणी ॥ इति वैराग्यशतकव्याख्याने यतिनृपतिसवादवर्णनं नाम षष्ठं दशकम् । अथ मन.संबोधननियमनम् । अथ मनोनियमनदक्षस्यैव यतित्वात्तत्प्रसङ्गानन्तर मन सबोधनपूर्वकं तन्नि- यमनप्रकारमाह- परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा प्रसादं किं नेतुं विशसि हृदयक्लेशकलितम् । प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगणो विनिकः संकल्पः किमभिलषितं पुष्यति न ते ॥ ६१ ॥ परेषामिति । हे हदय, प्रतिदिवस अनुदिनं बहुधा बहुप्रकारैः। 'प्रकारवचने थाल' । परेषां चेतांसि आराध्य प्रसाद्य । तत्कालोचितानुवर्तनैरुन्मुखीकृत्ये. त्यर्थ । केशेन अतिप्रयासेन कलितं सपादितं प्रसादं अनुग्रहं नेतुं प्रापयितुम् । मनास्येवेत्यर्थः । नयतद्विधर्मकात्तुमुन्प्रत्ययः । विशसि किम् । प्रवर्तसे किमि- त्यर्थ । अथ यथाकथंचित्परचित्तप्रसादनेनाभिलषितं साधयिष्यामि, अत. किमर्थमेवं निषिध्यत इत्याह-प्रसन्न इति । वयि अन्तः अभ्यन्तरे प्रसन्ने समाहिते सति । बहिर्मुखलवैमुख्येन स्वस्थान एव स्थिते सतीत्यर्थ. । स्वयं खप्रयत्नं विनैवेत्यर्थः । उदितः आविर्भूत. चिन्तामणिगण । चिन्तारत्ननिचय- रूप इत्यर्थः । एवमेव चिन्तामणिरशेषाभिलषितदानसमर्थ , तद्गुणश्च कि वक्तव्य इति भावः । विविक्तो निष्कलङ्क । सकल्प इच्छाविशेषः । ते तव अभिलषितं वाञ्छितं न पुष्यति कि न पूरयति किम् । पूरयत्येवेत्यर्थ. । अथवा कि वाभिलषितं न पुष्यति । सर्वमपि पुष्यत्येवेत्यर्थः । अतः आत्मप्रसत्त्यैवामिल- षितप्राप्तौ किमन्यप्रसादनायासेनेत्यर्थः । अन्यथा सर्वक्षेत्रं विहायारण्यकर्षण- न्याय प्रसज्यतेति तात्पर्यम् । शिखरिणी ॥ - ३. वैराग्यरशतकम् । १५३ mages .. एवं मनःप्रसादे गुणमुक्वा तस्यागुणलमाह- परिभ्रमसि किं मुधा वचन चित्त विश्राम्यतां स्वयं भवति यद्यथा भवति तत्तथा नान्यथा । अतीतमननुस्मरन्नपि च भाव्यसंकल्पय- नतर्कितसमागमाननुभवामि भोगानहम् ॥ ६२॥ परिभ्रमसीति । हे चित्त, मुधा व्यर्थ कि किमर्थ परिभ्रमसि संचरसि । न सं- चरितव्यमित्यर्थ. । प्रयोजनाभावादिति भाव. । तर्हि कि कर्तव्यमत आह- कचन कुत्रचित्स्थले विश्राम्यता स्थीयताम् । स्वस्थान एव खैर वर्तता मित्यर्थः । नन्वेव चेत्कथ कार्य सिद्धिरित्यत आह-यत्कार्य यथा येन प्रकारेण भवति, तत्तथा स्वयं अप्रयत्नेनैव भवति । अन्यथा वैपरीत्येन न भवति । 'यद्भावि तद्भवत्येव' इत्यादिवचनात्सर्वमेतद्देवायत्तमेवेति भावः । अतो विश्राम्यतामिति सबन्ध । विश्रमे कि फलमित्यत आह–अहं अतीतं अतिक्रान्तं अर्थ अननु- स्मरन् अचिन्तयन् । अननुशोचयनित्यर्थः । तथा भावि चापि भविष्यदर्थमपि च । वस्तुसामस्त्ये नपुंसकलनिर्देशः। असंकल्पयन् अनाकावन् अतर्कितः अनभ्यूहितः समागम येषा तान् अचिन्तितोपनतान् भोगान् विषयान् अनु- भवामि । दैववशात्सभावितार्थान्भोक्ष्यामि । वर्तमानसामीप्ये वर्तमानप्रत्ययः । यद्वा अनुभवामि भुजे । अतो मदर्थ न परिभ्रमितव्यमिति भावः । एवं चेत्पर- मेश्वरस्याप्यवश्यं प्रियो भवेयमिति तात्पर्यम् । तदुक्तं भगवता--'यो न हृष्यति न द्वेष्टि न शोचिति न काङ्गुति । शुभाशुभपरित्यागी भक्तिमान्य स मे प्रिय.॥" अन्यत्राप्युक्तम्-'गतार्थान्नानुशोचन्ति नार्थयन्ते मनोरथान् । वर्तमानेन वर्तन्ते तेन मे पाण्डवा. प्रिया ॥' इति । पृथ्वीवृत्तम् ॥ अथ विशिष्य सबोवनप्रकारमेवाह- एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय श्रेयोमार्गमशेषदुःखशमनव्यापारपक्षं क्षणात् । स्वात्मीभावमुपैहि संत्यज निजां कल्लोललोलां गतिं मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ६३ ॥ एतस्मादिति । हे चेतः, एतस्मात् परिदृश्यमानात् आयासयतीत्यायासकात दुःखजनकात् इन्द्रियार्थाः शब्दादिविषया एव गहनं अरण्यं तस्मात् ।दुर्विगाहत्वा- देतद्रूपणम् । विरम विरामं प्रामुहि । अत्यन्तदु.खविषयासक्ति मा कुर्वित्यर्थः । 'जुगुप्साविराम-' इत्यादिना पञ्चमी । 'व्याडपरिभ्यो रमः' इति परस्मैपदम्। कितु क्षणात् क्षणमात्रेणैव अशेषदुःखशमनं एकविशतिमहादु खविध्वंसनं एव व्यापारः तत्र दक्षं समर्थ श्रेयोमार्ग ज्ञानमार्ग आश्रय अनुसर । तत्र प्रवर्तवेत्यर्थः । तथा खात्मीभावं स्वरूपानुसधानतत्परत्वं उपैहि प्राप्नुहि । तथा निजां खकीयाम् ।
सुभाषितत्रिशत्यां 'चञ्चलं हि मनः कृष्ण' इत्यादौ प्रसिद्धामित्यर्थ । कल्लोलवत् लोला अतिचपला गति व्यापार सत्यज । सम्यक् विसृज्य सुस्थिर भवेत्यर्थ । भूय पुनरपि भडुरा भङ्गशीलां अशाश्वती भवरति ससारासक्ति मा भज मा सेवख । कि वधुनेदानी प्रसीद प्रसन्न भव । चित्तप्रसादमन्तरा पुण्यशतैरपि श्रेयःप्राप्यसभवादिति भाव. । शार्दूलविक्रीडितम् ॥ अथ विश्वसनीयेष्वेव विश्वास कुरु नान्यत्रेत्याह- मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ चेतः स्वर्गतरंगिणीतटभुवामासङ्गमङ्गीकुरु । को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च ज्वालाग्रेषु च पन्नगेषु च सुहृद्वर्गेषु च प्रत्ययः ॥ १४ ॥ मोहमिति । हे चेत , मोहं पुत्र मित्राद्यासक्तिजनकाज्ञानं माय शोधय । त्य- जेति यावत् । तत्र विश्वास मा कुर्वित्यर्थ । कितु चन्द्रार्ध चूडामणिर्यस्य तस्मिन् चन्द्रशेखरे शभौ ता तथाभूताम् । अनिर्वाच्यामित्यर्थ । रति अनुरति उपार्जय सपादय । तथा खर्गतरंगिण्या मन्दाकिन्या यास्तटभुव तीरप्रदेशा तासा आ- सङ्ग तत्र निवासासक्तिमजीकुरु अनुमन्यव । उभयत्रैव विश्वास कुर्वित्यर्थ । एत. स्यैव श्रेयस्करलादिति भावः । कुत एतदित्याशङ्कयान्यत्राविश्वासोत्पादनार्थमवर- समुद्भावयति-वीचिषु वारितरंगेषु च, बुद्रुटेषु जलस्फोटेषु च, तडितो लेखा इव तासु च विद्युल्लतासु च, श्रीषु सपत्सु च । तडिल्लेखामतल्लीषु च' इति पाठे प्रश- स्तास्तडिल्लेखा तडिल्लेखामतल्लय तासु च । 'प्रशंसावचनैश्च' इति नित्यसमास । 'मतल्लिकामचर्चिकाप्रकाण्डमुद्धतल्लजौ' इत्यमर । ज्वालाग्रेषु अग्निशिखामुखेषु च, पन्नगेषु सर्पेषु च, सुहृद्वर्गेषु बन्धुजनसमुदायेषु च, को वा प्रत्ययः । उत्तरोत्तरं तारतम्येन नश्वरतया प्रत्यक्षसिद्धेषु विचित्रसस्थितिषु गृहदीप इति 'चुम्बनकरणे श्मश्रुदाह' इति लोकन्यायेन च प्रत्यक्षेण च दाहहेतुतया प्रसिद्धेषु ज्वालाग्रेषु च स्पृष्टतया प्राणहर्तृषु पन्नगेषु च विपत्सु परित्यागशीलेषु बन्धुजनेषु च को वा वि- श्वास । न कोऽपीत्यर्थः । उत्तरोत्तर अविश्वसनीयत्वादिति भावः । 'प्रत्ययोऽधी- नशपथज्ञान विश्वास हेतुषु' इत्यमर । अत्र प्रस्तुतानां स्वबन्धुजनाना अप्रस्तुताना वीचीप्रभृतीना च यथाकथंचिदौपम्यस्य गम्यवाद्दीपकालंकारभेद । तदुक्तं विद्या- नाथेन-'प्रस्तुताप्रस्तुताना च सामस्त्ये तुल्यधर्मत । औपम्यं गम्यते यत्र दीपकं तनिगद्यते ॥ इति । वृत्तं पूर्ववत् ॥ अथ प्रकारान्तरेण सबोधयति- चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया भूपालभुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् । कन्थाकथुकिनः प्रविश्य भवनद्वाराणि वाराणसी- रथ्यापतिषु पाणिपात्रपतितां मिक्षामपेक्षामहे ॥६५॥ - ३. वैराग्यशतकम् । चेत इति । हे चेत , अस्थायिनी अस्थिराम् । कुतः। भूपालानां राज्ञा श्रु- कुटी भ्रूभङ्ग एव कुटी कुटीर तत्र विहरण विहारो यस्य तथोक्तो यो व्यापारः तेन पण्याङ्गनाम् । व्यभिचारिणीमिति यावत् । भ्रूसंज्ञया नरवरणशीलामित्यर्थ । तदायत्तत्वात्तस्या इति भाव । यद्वा भूपाल कुटीकुटीरे विहरणमेव व्यापारी यस्या सा तथोक्ता सा च पण्याङ्गना वारविलासिनी ता तथाभूताम् । तदधी- नत्वात्तत्प्रत्युक्तप्रवृत्तिनिवृत्तिकामित्यर्थ । अत्र पण्याङ्गनारूपणं विहारे विशृङ्खलत्व- द्योतनार्थम् , नैयत्येन व्यभिचरणशीलत्वप्रकटनार्थ च । यथा वारवनिता कुत्र- चित् कंचित्कालं विहृत्यानन्तरमन्यत्र गच्छति तद्वदिति ध्वनि । इह कानिचि- दर्थान्तराणि स्फुरन्ति बुद्धिमद्भिरुनेयानि ग्रन्थगौरवभयान लिख्यन्ते । तामिमां परिदृश्यमाना रमा सपत्ति आस्थय आदरेण सकृत् कदाचिदपि मा चिन्तय मा काड्डय । तत्सपादनप्रयत्नं मा कुर्वित्यर्थ । तर्हि कथं जीविकेत्याशङ्काया- माह-कन्यैव कचकमेषामस्तीति कन्थाकञ्चुकिन कन्थावर्भितगात्राः सन्त । अत्र यद्यपि बहुव्रीहिणैव विवक्षितार्थलाभात्पुन प्रत्ययान्तरग्रहणे प्रक्रियागौरवम् 'न कर्मधारयान्मत्वर्थीय.' इति निषेधात् , तथापि त्वगुत्तरासगवतीम्', 'कोक- प्रीतिचकोरपारणपटुज्योतिष्मती लोचने' इत्यादि महाकविप्रयोगश्च वर्तत इति वैयाकरणा कथयन्ति । यद्वा कन्यया कञ्चुकिन कञ्चकवन्त । कन्थाच्छादित- गात्रा सन्त इत्यर्थ । वयमिति शेष । वाराणस्या काशीपट्टणस्य । 'काशी वा- राणस्यवन्ती' इत्यमर । रथ्यापतिषु राजमार्गश्रेणिषु । 'रथ्या प्रतोली विशिखा' इति मार्गपर्यायेष्वमर । भवनद्वाराणि गृहप्रतिहारप्रदेशान् प्रविश्य पाणिरेव पात्रं तत्र पतिता निक्षिप्ताम् । एतेन याञापूर्वकत्वं सूच्यते । भिक्षामपेक्षामहे स्पृहयामहे । 'पाणिपात्र उदरमात्रपात्रे पतितमश्नीयात्' इत्यादिश्रुतेरनायास- सिद्धभिक्षाहारेण शरीरयात्रा निवर्तयन्त पुण्यक्षेत्रेषु सुग्वेन निवसिष्याम इ- त्यर्थः । तदुक्तम्-'मिक्षाहारो निराहारो भिक्षानेन प्रतिग्रह । असतो वा सतो वापि सोमपानं दिने दिने ॥' इति । वृत्तं पूर्ववत् ॥ अथ तव यदि सर्वदा ससाररसानुभवेऽभिनिवेश , तावदित्थंभूतसामग्र्यां तत्राभिरति कुरु । अन्यथा व्याननिष्ठो भवेत्याह- अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् । यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेञ्चेतः प्रविश सहसा निर्विकल्प समाधौ ॥६६॥ अग्र इति । अत्र गीतशब्देन गायकजनो लक्षते । तथा च हे चेत इत्यध्या- हार्यम् । अग्रे पुरस्तात् गीतं वीणावादनप्रवीणगायकसमुदायश्च । तथा पार्श्वयोः दाक्षिणात्या दक्षिणदेशोद्भवा । तेषामेव विचित्रप्रबन्धनिर्माणकौशलसंभवादिति भाव । 'दक्षिणापश्चात्पुरसस्त्यक्' इति त्यक्प्रत्ययः । सरसा रसोलसितशब्दार्थ- -I सुभाषितत्रिशत्यां संघटनाचतुरा ये फवयः कवयितारः ते च । तथा पश्चात् पृष्टभागे चामराणि प्रकीर्णकानि गृह्णन्तीति चामरग्राहिण्यः तासां वालव्यजनवीजनतत्पराणां रम- गीनाम् । 'चामरं तु प्रकीर्णकम्' इत्यमरः । लीलया वीजनवैचित्र्यविलासेन यद्वलयरणितं मणिकङ्कणझणत्कारः । तच्चेत्येतत्सर्वम् । 'नपुंसकमनपुंसक-' इत्यादिना नपुंसकैकशेषः । एवमुक्तप्रकारेण अस्ति यदि वर्तते चेत् । तर्हि भवे संसारे यो रसः तस्याखादने अनुभवे लम्पटत्वं लोलुपत्वं कुरु । तदासक्तं भवे- त्यर्थः । 'लोलुपो लोलुभो लोलो लालसो लम्पटश्च सः' इति यादवः। नो चेदेवं नास्ति चेत् सहसा अविलम्बेनैव । 'स्वरादिपाठादव्ययत्वम्' इति शाकटायनः । निर्विकल्पे निरातङ्के समाधौ ध्याने प्रविश । ब्रह्मध्याननिष्ठं भवेत्यर्थः । किमन्य- थोभयभ्रंशहेतुना वृथादैन्येनेति भावः । मन्दाक्रान्ता । अथ विचार्यमाणे संपत्तिलाभशत्रुजयादीनामप्यकिंचित्करखमेवेत्याह- प्राप्ताः श्रियः सकलकामदुधास्ततः किं न्यस्तं पदं शिरसि विद्विषतां ततः किम् । संपादिताः प्रणयिनो विभवैस्ततः किं कल्पस्थितास्तनुभृतां तनवस्ततः किम् ॥ ६७ ॥ प्राप्ता इति । चेतः, तनुभृतां शरीरिणां सकलकामान् दुहन्तीति सकल- कामदुधाः । अशेषमनोरथपरिपूरका इत्यर्थः । श्रियः प्राप्ताः ततः किम् । तथा विद्विषतां अमित्राणाम् । 'द्विषोऽमित्रे' इति शतृप्रत्ययः । शिरसि पदं न्यस्तं निक्षिप्तम् । पराक्रमातिशयेन सर्वे शत्रव. पादाक्रान्तीकृता इत्यर्थः । ततः किम् । विभवैः धनै. प्रणयिनः सुहृदः संपादिताः संगृहीताः । वशंवदीकृता इत्यर्थः । 'संमानिताः' इति पाठे बहुमानिताः । ततः किम् । तथा कल्प- स्थिताः । कल्पान्तरस्थायिन्य इत्यर्थः । तनवः शरीराणि संपादिता इति सं- बन्धः । केनचिद्योगेन संगृहीताः । ततः किम् । तेषां श्रेयःसाधनलनिषेधादिति भावः । एतदादिश्लोकचतुष्टयं वसन्ततिलकावृत्तम् ॥ नन्वेवं श्रेय साधनत्वेन व्यवहतानां एतेषां निषेधे किमन्यच्छ्रेयःसाधनमि- त्यत आह- भक्तिर्भवे मरणजन्मभयं हृदिस्थं स्नेहो न बन्धुषु न मन्मथजा विकाराः । संसर्गदोषरहिता विजना वनान्ता वैराग्यमस्ति किमितः परमर्थनीयम् ॥ ६८ ॥ भक्तिरिति । हे चेतः, भवे शंभौ भक्तिः भजनानुरागः । कार्य इति शेषः। किं च मरणजन्मभ्यां महोपद्रवकारिभ्यां निधनोत्पत्तिभ्या भयम्ाहृदि तिष्ठतीति हृदि- स्थम् । कर्तव्यमिति शेषः। नतु विस्मर्तव्यमिति भावः । वन्धुषु पुत्रमित्रकलत्रादिषु विषये स्नेहः अनुरागः न कार्यः। तथा मन्मथानायन्त इति तथोक्ता विकाराः स्त्री- - .
३. वैराग्यशतकम्। परतन्त्रलादय. न कार्याः । श्रेयोन्तरायलादिति भावः । इत्थं श्रेयःसाधनत्वेन कर्तव्यद्वयम् । तदसाध्यत्वेनाकर्तव्यद्वयं चोपदिश्येदानी पुनर्मुख्यं कर्तव्यान्तरमुप- दिशति-ससर्गदोषै सङ्गदोषैः रहिताः। कामक्रोवादिप्रसङ्गवर्जिता इत्यर्थः । 'स- झात्सजायते काम.' इत्यादि भगवद्वचनेन सङ्गजनितकामादिदोषपरम्पराया अन- र्थहेतुलादिति भावः । कुत. । विजना विविक्ता वनान्ताः वनप्रदेशा । सेव्या इति शेषः । तत्र किमस्तीत्याशङ्कायामाह-वैराग्यं अस्ति । संभवतीत्यर्थः । इतो वैराग्यात्परं अन्यत् कि अर्थनीयं अभिलषणीयम् । न किमपीत्यर्थः । तस्यैव पर- मश्रेय साधनत्वादिति भाव. ॥ अथ ब्रह्मविचारतत्परस्य ते सर्वेऽपि भुवनाविपत्यादयस्तुच्छा एव प्रतिभा- न्तीत्युपसहरति-- तस्मादनन्तमजरं परमं विकासि तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्य- भोगादयः कृपणलोकमता भवन्ति ॥ ६९ ॥ तस्मादिति । तस्मात् । यस्माद्वैराग्यमेवार्थनीयं तस्मादित्यर्थ । हे चेत , अन- न्तं अपरिच्छिन्नं त्रिविधपरिच्छेदशून्यम् । तथा अजरं जन्मजरामरणवर्जितम् । अतएव परमं सर्वोत्कृष्टम् । तथा विकासि विकखरम् । सर्वव्यापीत्यर्थः । यद्वा विकासि भास्वरम् । तत् ब्रह्म चिन्तय विचारय । एमि क्रियमाणैः असद्विकल्पैः असद्भिः असाधुभि अनित्यैर्वा विकल्पै. तत्तद्भोगप्राप्त्यप्राप्तिगोचरविचारैः किम् । विकल्पसाध्यं नास्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीया । न केवलं श्रूयमाणैव क्रिया निमित्तं कारकभावस्य, अपि तु 'गम्यमानापि' इति वच- नात् । यत्तदोर्नित्यसबन्धात्तच्छब्दस्य यच्छब्दाकाहायामाह-यस्य ब्रह्मण अनुष- गिणःसबन्धवन्त ।यद्ब्रह्मविचार इत्यर्थः । तवेति शेषः। इमे काम्यमाना भुवनाधि- पत्य लोकाधिपत्यं भोग स्वर्गादिसत्यान्तलोकसमुदायस्थः तावादी रेषा ते तदादयो भोगा कृपणलोकाना ब्रह्मविचारहीनजनानां मता इष्टा । योग्या इति यावत् । भवन्ति प्रतिभान्ति । तेषामेव योग्या. ते न मादृशानामिति प्रतीयन्त इत्यर्थः । भुवनाविपत्यादीनां एवं प्रतीयमानत्वम्, किमुतान्येषामिति भावः । तदानी तव तृणीकृतब्रह्मपुरंदरत्वात्सर्वेऽपि तुच्छा एवं प्रतिभान्तीति परमार्थः । यद्वा ननु स- र्वदा भोगजातमेव ममाभिलषितं नान्यदिति यदि मन्यसे, तदा इत्थंभूतस्य तव सर्वेभुवनाधिपत्यादिभोगा अनुषड्गात्स्वयमेव संभवन्तीति समाधानमभिप्रेत्याह- हे चेतः, तत् सकलवेदान्तप्रसिद्धम् । यद्वा तच्छन्दलक्ष्यार्थभूतमित्यर्थः । 'तत्त्व- मसि' इति महावाक्ये तथा व्याख्यानादिति भावः । ब्रह्म चिन्तय । चिन्तनफल- माह-यस्य ब्रह्मचिन्तनतत्परस्य ते कृपणलोकमता इमे भुवनाधिपत्यभोगादय: अनुषङ्गिणः भवन्ति अनुषड्ात्खयमेव संभवन्ति । ब्रह्मध्याननिष्ठासाम्राज्यलक्ष्मी- an
१५८
सुभाषितत्रिशत्यां
पतेः किं ते दुर्लभमिति भाव । शेषं समानम् । यद्वा यस्य ब्रह्मचिन्तनस्य मे भुव-
नाविपत्यादय अनुषङ्गिण अनुबन्धिन भवन्ति । तथा च सति ब्रह्मचिन्तने तद-
नुबन्धवशात्सर्वेऽपि खयमेव सभवन्तीति भाव । 'अत्र शिखा ते वर्धते नूनं गु-
डूची पिब शावक' इति शास्त्रवचनमनुसृत्य तात्पर्यान्तरेणैवं समाहितमित्यनुसधे-
यम् । कृपणलोकमता इत्यत्र यद्यपि 'मतिबुद्धि-' इत्यादिना वर्तमानार्थे क्तप्रत्यये
'क्तस्य च वर्तमाने' इति षष्ठीसमासनिषेधः, तथापि निरङ्कुशा कवय इत्यलम् ॥
एनमेवार्थ पुन प्रकारान्तरेणोपदिशनिगमयति-
पातालमाविशसि यासि नभो विलङ्घय
दिङमण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथमात्मनीनं
न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ ७० ॥
पातालमिति । हे मानस, चापलेन तत्तद्विषयासक्तिजनितचापल्येन । युवा-
दित्वादण् । हेतौ तृतीया । पातालमाविशसि । अत्यन्ताध प्रदेशमपि गच्छ-
सीत्यर्थ । तथा नभ अन्तरिक्षं विलक्ष्य यासि । अत्यूर्वप्रदेशमपि गच्छ-
सीत्यर्थः । तथा दिङ्मण्डल दिक्चक्रवालं भ्रमसि । अतिदूरदेशमपि धाव-
सीत्यर्थः । सर्वत्रापि मनोगतेर्निरगलत्वादिति भावः । कितु भ्रान्या भ्रमवशे-
नापि । मास्तु विवेकेनेत्यपिशब्दार्थ । तथापि जातु कदाचिदपि विमलं निर्म-
लम् । अचिन्त्याकार्यसबन्वशून्य मित्यर्थः । आत्मने हितं आत्मनीनं सुखस्वरूप-
त्वात् । 'आत्मन्विश्वजनभोगोत्तरपदात्ख' इति खप्रत्यय । 'आत्मलीनम्' इति
पाठे आत्मनि अन्तरात्मनि लीनं निलीय स्थितम् । सर्वान्तर्यामित्वात् । ब्रह्म
कथं न संस्मरसि न व्यायसे । सर्वथा स्मर्तव्यमित्यर्थ । कुतः। येन सस्मरणेन
निवृतिं आनन्दं एषि प्राप्नोषि, अतः यथाकथंचित्स्मरणेऽयानन्दजनकत्वाद-
वश्यं स्मर्तव्यमेव । 'हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि
सस्पृष्टो दहत्येव हि पावक ॥' इत्यादिवचनादिति भाव ॥
इति वैराग्यशतकव्याख्याने मन सबोधननियमनं नाम सप्तमं दशकम् ।
अथ नित्यानित्यवस्तुविचार ।
अथ वेदाध्ययनस्मृतिपर्यालोचनशास्त्रपठनपुराणश्रवणादिभिर्न कोऽपि लाभ ।
किंतु विचाराच्छ्रवणमनननिदिध्यासनादिमिरात्मानुभव एव लाभ इति मत्वा
जनानुद्दिश्य बोधयति-
किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ ७१॥
३: वैराग्यशतकम् । १५९ किं वेदैरिति । वेदै ऋग्यजु सामाथर्वणसज्ञकै चतुर्भिः वेदैः कि प्रयोजनम्। न किमपि प्रयोजनमित्यर्थः । स्मृतिभि मन्वाद्यष्टादशस्मृतिभि उपस्मृतिभिश्च कि प्रयोजनम् । न किमपीत्यर्थ. । पुराणपठनै ब्रह्माण्डपुराणाद्यष्टादशपुराणोप- पुराणपठनैश्च कि । न किमपीत्यर्थः। महाविस्तरै अतिविस्तृत शास्त्रै तर्कव्याक- रणादिषड्दर्शनैः । न किमपीत्यर्थ । खर्गे सर्वपुण्यकृनिवासे नाकलो के च ग्रामेषु ब्राह्मणप्रधानवर्णाना निवासेषु कुटीषु पर्णगृहेषु य निवास तेन फलदै फलप्रदैः कर्मणा स्नानसध्यावन्दनौपासनयज्ञादीना क्रियाभि व्यापार विभ्रमैश्च न किमपि प्रयोजनम् । भवात् जननमरणरूपससारात् यदु ख दारिद्यभायापुत्रादिनाश तस्य भार असह्यातिशय तस्य रचना तस्या विध्वसे कालानलं प्रलयाग्निरूप खस्य आत्मानन्द आत्मसुखानुभव तस्य पदं स्थानं तस्मिन् प्रवेश तस्य कलनं एकम् । 'एके मुख्यान्यकेवला.' इत्यमर । मुक्वा विहाय शेषे उक्तेभ्य अन्यै. वणि- वृत्तिमि वर्तकव्यापारसदृशै न किमपि प्रयोजनम् । आत्मज्ञानं विना उक्ताना वेदादीनामध्ययनादिभिरपि फलं नास्तीत्यर्थ । सर्वेषा वेदान्तवाक्याना अद्वैते ब्रह्मणि तात्पर्यमित्युक्तरीत्या ब्रह्मज्ञानमेव संपादनीयम् । न वितरदित्याशयः। शार्दूलविक्रीडितम् ॥ अथातिरिक्तस्यानित्यत्वमेव प्रपञ्चयति- यतो मेरुः श्रीमानिपतति युगान्ताग्निवलितः समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः। धरा गच्छत्यन्तं धरणिधरपादैरपि धृता शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ७२ ॥ यत इति । यत• यस्मात्कारणात् श्रीमान् मणिहिरण्यादिसकलवस्तुसमृद्धि- मान् मेरु मेरुगिरिरपि युगान्ताग्निना प्रलयकालानलेन वलित संवेष्टित सन् निपतति । विशिष्टाग्निसपर्कानिलीनो भवतीत्यर्थ । तथा प्रचुरा प्रभूता मकरा नक्राः प्राहा जलग्राहाश्च तेषा निलया समाश्रया समुद्रा- सप्तसागराश्च शुष्यन्ति शोपं प्राप्नुवन्ति । तथा धरन्तीति धराः । पचाद्यच् । धरण्या धराः महेन्द्रादिस- प्सकुलाचला तेषा पादै प्रत्यन्तपर्वते । “पादाः प्रत्यन्तपर्वताः' इत्यमरः । वृता सम्यगवष्टब्धा धरा भूमिश्च अन्तं नाशं पातालं वा गच्छति प्राप्नोति । उभ- यत्रापि प्रलयाग्निमेलनादेवेति भावः । तस्मात् कारणात् । यत्तदोर्नित्यसबन्धात् । करिकलभस्य करिपोतकस्य कर्णाग्र कर्णाञ्चलं तद्वत् चपले चञ्चले । शीर्यते इति शरीरे का वार्ता का कथा । न कापीत्यर्थ । यतोऽत्यन्तस्थिरतराणामपि ई- श्यवस्था, किमुत क्षणभङ्गुराणा शरीराणाम् । 'गजा यत्र न गण्यन्ते मशकानां तु का कथा' इति न्यायादिति भावः । सर्वेऽपि नश्वरा एव, ततोऽप्यतिनश्वरं शरीरमिति तात्पर्यम् । करिकलभेत्यत्र करिशब्दस्य विशेषप्रतिपत्तिहेतोवैशेष्यप्र- तीत्यर्थवादपौनरुक्त्यम् । अतएवैकार्थपदमप्रयोज्यमित्युक्त्वा करिकलभकर्णाव- तंसादिषु प्रातपत्तिविशेषकरेषु न दोष इत्याह वामनः । शिखरिणी ॥
१६० सुभाषितत्रिशत्यां D अथ शरीरिणो जरया दुरवस्थामाह द्वाभ्याम्- गात्रं संकुचितं गतिविगलिता भ्रष्टा च दन्तावलि. दृष्टिनश्यति वर्धते बधिरता वक्रं च लालायते । वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ ७३ ॥ गात्रमिति । गात्रं शरीर सकुचितं भुग्नम् । अभूदिति शेषः । गति. संचारो- ऽपि गलिता। सचारशक्तिरपि नष्टेत्यर्थ । दन्तावलि• दन्तपङ्गिश्च भ्रष्टा पतिता। दृष्टि चक्षुरिन्द्रियं च नश्यति । अर्थग्रहणापटुर्भवतीत्यर्थ । बधिरता श्रोत्रेन्द्रिया- पाटवं वर्धते वृद्धि प्राप्नोति । वक्र च लाला दन्तान्तर्गतजलं लालेवाचरति लाला- यते । लालामयं भवतीत्यर्थः । 'सृणिका स्यन्दिनी लाला' इत्यमर । तथा बन्धव- एव बान्धवा । खार्थेऽण्प्रत्यय । त एव जनो बन्धुवर्गश्च वाक्यं वचन नाद्रियते । न रोचयत इत्यर्थ । कि बहुना भार्यापि न शुश्रूषते न सेवते । यद्वा सेवितुं नेच्छति सेवा दुरापास्तेति भावः । अत जीर्णवयस. जरावस्थासंपन्नस्य पुरुषस्य । हेति विषादे । कष्ट कृच्छ्रम् । कुत । पुत्रोऽपि आत्मसभवोऽपि अमित्रायते अमित्रः शत्रुरिवाचरति । प्रतिकूलाचरणतत्परो भवतीत्यर्थः । लालायत इत्यत्र 'कर्तु. क्यड् सलोपश्च' इति क्यङ् । अत्र तु 'उपमानादाचारे' इति उभयत्रापि 'अकृत्सार्वधा- तुकयोर्दीर्घ.' इति दीर्घः । शार्दूलविक्रीडितम् ॥ वर्ण सितं झटिति वीक्ष्य शिरोरुहाणां स्थानं जरापरिभवस्य तदा पुमांसम् । आरोपितास्थिशतकं परिहत्य यान्ति चण्डालकूपमिव दूरतरं तरुण्यः॥ ७४ ॥ वर्णमिति । तरुण्य युवतय. (कर्व्यः) । 'वयसि प्रथमे' इति डीप शिरसि रोहन्तीति शिरोरुहा चिकुरा । इगुपधलक्षण• कप्रत्ययः । मित वर्ण धावल्य- गुणम् । पलितत्वमिति यावत् । झटिति अञ्जसा वीक्ष्य दृष्ट्वा । द्राग्झटित्यञ्जसाहाय' इत्यमरः । तदा तस्मिन् समये । दर्शनसमनन्तरकाल एवेत्यर्थः । जरया वार्ध- कावस्थया यः परिभव अवमान. तस्य स्थानं आस्पदम् । तथा आरोपितं बहिः- स्फुटलक्ष्यत्वात् आरोपितप्रायं अस्थिशतकं यस्य तं तथोक्तम् । अन्यत्र आरोपितं निक्षिप्तं अस्थिशतकं यस्मिन् तम् । 'आरोपितास्थिशकलम्' इति पाठे एकत्रारो- पितप्रायकीकसखण्डम् । अन्यत्र निक्षिप्तकीकसखण्ड मित्यर्थः । पुमांसं पुरुष चण्डालकूपं चण्डालसंबन्धि जलाशयमिव परिहत्य परित्यज्य दूरतरं अतिविप्रकृष्टं यान्ति । हेयत्वाद्विहायान्यत्र गच्छन्तीत्यर्थः । अतः कष्टं जीर्णवयसोऽपि जीवन- मिति भावः । वसन्ततिलकम् ॥ अतः दुरवस्थानान्ते. पूर्वमेव श्रेय संपादनार्थ यत्नः कर्तव्य नान्यदेति सदृष्टान्तमाह- . - ३. वैराग्यशतकम् । १६१ यावत्स्वस्थमिदं शरीरमरुजं यावजरा दूरतो यावच्चेन्द्रियशकिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा- न्संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ७५ ॥ । यावदिति । यावत् यावत्पर्यन्तं इदं एतत् शरीर स्वस्थं पीडारहितम् । भव. तीति शेष । एवमुत्तरत्रापि तथा । यावत् न विद्यते रुजा रुक् यस्य तत्तथोक्तं । आरोग्ययुक्तं भवति । 'स्त्री रुग्रुजा चोपताप-' इत्यमर । यद्वा अरुजं सत् वस्थं अविकलं भवति । तथा यावत् जरा दूरत दूरे भवति । वार्धकदशा याव- त्पर्यन्तं नाक्रमतीत्यर्थः । तथा यावदिन्द्रियशक्तिश्चक्षुरादीन्द्रियपाटवं च अप्र- तिहता अखण्डिता भवति । यावदायुषः क्षयो नाशो न भवति । तावत् ताव- त्पर्यन्तमेव । तन्मध्यकाल एवेत्यर्थः । वेत्तीति विद्वान् तेन विदुषा अभिज्ञेन । 'विदे शतर्वसु.' इति वसुप्रत्ययः । आत्मनः श्रेयसि विषये । मोक्षप्राप्तावित्यर्थः । महान् फलजननपर्याप्तत्वेन पूज्यः प्रयत्नः ज्ञानवैराग्यतप.संपादनोद्योग. कार्यः। ननु कोऽयं नियमः अवसानेऽपि प्रयत्नस्य कर्तु युक्तवादित्याशयावकाशाभावान्न युक्त इति व्यतिरेकदृष्टान्तमाह-भवने गृहे संदीप्ते अग्निना दह्यमाने सति कूप- खनन प्रति कूपनिर्माणं प्रति उद्यमः प्रयत्न कीदृश कीदग्विध.। न युक्त इत्यर्थः । अवकाशाभावादिति भावः । गृहदाहवेलाया कूपखननप्रयत्न इव अवमानकाले श्रेय प्राप्त्यर्थोद्यमोऽपि न युज्यत इति भाव । तस्मात्स्वस्थावस्थायामेव श्रेयः- साधनसंपादनपरेण भवितव्यमवश्यं बुद्धिमतेति तात्पर्यम् । शार्दूलविक्रीडितम् ॥ अथ तपश्चरणादीन् बहून् कर्तव्यतया विकल्प्यानन्तरं अवश्यं तप एवं सपादनीयमिति केषांचिनिश्चयमनुसंधायाह द्वाभ्याम्-- तपस्यन्तः सन्तः किमधिनिवसामः सुरनदी गुणोदारान्दारानुत परिचरामः सविनयम् । पिबामः शास्त्रोधानुत विविधकाव्यामृतरसा- न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ७६ ॥ तपस्यन्त इति । तपस्यन्त तपश्चरन्त. सन्त केवलमिति शेष. । 'कर्मणो रोमन्थतपोभ्या वर्तिचरो.' इति क्यप्प्रत्यय । सुरनदी मन्दाकिनी अधिनिवसामः कि अधितिष्ठामो वा । वैराग्येणेति भाव । किशब्द उत्तरत्राप्यनुवर्तनीयः । 'उपान्वव्याड्वसः' इति सुरनद्या कर्मत्वम् । उत अथवा विनयेन आनुकूत्येन सहितं यस्मिन्कर्मणि तद्यथा तथा गुणै सौभाग्यसौशील्यादिमि उदारान् रम्यान् दारान् जायाः परिचरामः कि अनुसरामो वा । सासारिकधर्मेणति भावः । 'भार्या जायाथ 'भूम्नि दारा.' इत्यभिधानात् दारशब्दस्य पुंस्त्वं बहुत्वं च । तथा शास्त्रौघानू शास्त्रकलापान पिबाम । अद्यैव कीर्तिप्रतिष्ठाविज्ञानार्थमित्यर्थः । ..
सुभाषितत्रिशत्यां 'पाघ्राध्मा-' इत्यादिना पातेः पिबादेशः । उत यद्वा विविधानि काव्यानि काव्यना- टकालंकारा एव अमृतरसाः सुधाद्रवाः । अथवा विविधेषु काव्येषु ये अमृतरसाः नान् पिबाम. । सकलकलाकौशलार्थमिति भाव । जनशब्देनात्र तत्समुदायो विव- क्षितः । तथा च जने जनसमुदाये कतिपये कियन्तः ये निमेषाः तावन्मात्रकाल- परिच्छिन्नमायुर्यस्य तस्मिन् सतीत्यर्थः । जात्येकवचनविवक्षायां तु जनेप्वस्मासु कतिपयनिमेपायु-घु सत्खित्यर्थः । किं उक्ततपश्चरणादिपु किं वा कुर्मः । सर्व- षामाचरणे अवकाशाभावादिति भावः । न विद्मः न जानीमः । निश्चयाभावादिति भावः । शिखरिणी॥ ततः किमित्याशक्य ततो निश्चयमाह- दुराराध्याश्वामी तुरगचलचित्ताः क्षितिभुजो वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः। जरा देहं मृत्युहरति दयितं जीवितमिदं सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ ७७ ।। दुराराध्या इति । तुरगाः उत्तमाश्वाः तद्वचलानि चित्तानि येषां ते । अस्थिर हृदय इत्यर्थः । अभी परिदृश्यमानाः क्षितिभुजः राजानः दुराराध्याः आराधयितुं प्रसादयितुं अशक्याः। प्रसादोन्मुखीकरणाशक्या इत्यर्थः । तथा स्थूलेच्छाः अ- धिकाशातत्परा वयं च सुमहति बहुले फले धने बद्धं मनो येषां ते तथोक्ताः । बहुधनाकाङ्गिण इत्यर्थः । आकावामात्रमेवास्माकं न तु ते दास्यन्तीति भावः । तथा जरा वार्धकदशा देहं हरति क्षिणोति । मृत्युः अन्तकश्च दयितं प्रियतम- मपि इदं जीवितम् । इमान् प्राणानित्यर्थः । हरति । अतः हे सखे, जगत्यस्मिन् लोके विदुषः तत्त्वज्ञस्य पुंसः तपसोऽन्यत्र । अन्यत् । इतरदित्यर्थः । अन्यदसा- धारणं उत्तमं श्रेयः मोक्षसाधनं नास्ति । ततोऽन्यत् परमं श्रेयोन्तरं नास्ति । अतः सर्वथा तदेव संपादनीयमिति भावः । शिखरिणी ॥ अथ तपसः श्रेयोहेतुत्वे तदाचरणस्य कि वा योग्यस्थानमित्याशङ्कायामाह- माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि क्षीणे बन्धुजने गते परिजने नष्टे शनैयौवने । युक्तं केवलमेतदेव सुधियां यजझुकन्यापयः- पूतग्रावगिरीन्द्रकन्दरनटीकुले निवासः क्वचित् ॥ ७८ ॥ मान इति । माने अमिमाने म्लायिनि भन्ने सति । तथा वसुनि धने च ख- ण्डिते विनष्टे सति । 'देवभेदेऽनले रश्मौ वसू रत्ने धने वसु' इति विश्वः । अत एव अर्थिनि याचके व्यर्थे अलब्धमनोरथखानिरर्थके प्रयाते सति । वाञ्छितार्थी- लाभाद्वैमुख्यं गते सतीत्यर्थः । बन्धुजने पुत्रमित्रादिबन्धुजनसमूहे क्षीणे अन्नाद्य- लाभात् कृशे सति । परिजने भृत्यवर्गे गते वेतनदानाभावादन्यत्र गते सति । तथा ३. वैराग्यशतकम् । शनैः मन्दं यौवने तारुण्ये नष्टे गलिते सति । अनित्यस्वाभाव्यात् सर्वस्मिन्विपन्ने सतीत्यर्थः । सुविया बुद्धि सपनाना एत देव इदमेवैक केवल अत्यन्तं युक्तं उचि. तम् । किमेतदित्यत आह-क्वचित् कस्मिश्चित जळुकन्यापय पूताः गगाजलप- वित्रा ग्रावाण पाषाणा यस्मिन्स तथोक्तो यो गिरीन्द्र तस्य कन्दरतव्या हिमव- द्विरेः विहारस्थल्यां कुञ्जो लतामण्डप. तस्मिनिवास इति यत् तदेतद्युक्त मिति संबन्धः । तस्यैव श्रेय साधनभूततपोयोग्यस्थललादिति भावः । 'निकुञ्जकुजौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । शार्दूलविक्रीडितम् ॥ अथ चित्तस्य नित्यानित्यवस्तुविवेके सति रम्यमपि सर्वमरम्यमेव प्रतिभाती- त्साह द्वाभ्याम्- रम्याश्चन्द्रमरीचयस्तृणवती रम्या बनान्तस्थली रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः । कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं सर्व रम्यमनित्यतामुपगते चित्ते न किंचित्पुनः ॥ ७९ ॥ रम्या इति । चन्द्रमरीचय चन्द्रकिरणा रम्या. रमणीया । उद्दीपकलादिति भावः । तथा तृणवती शाहलप्राया वनान्तस्थली वनमध्यभूमि- रम्या रन्तुं योग्या। 'जानपद-' इत्यादिना अकृत्रिमार्थे डीप् । तथा साधुसमागमात् सज्जनसहवासा- दागतं प्राप्तं यत्सुखं तदपि रम्यम् । कवयते वर्णयतीति कवि तस्य कर्म काव्यम् । ब्राह्मणादित्वात् ष्यञ् । तस्य पङ्कजादिवद्रूढित्वाद्रसोल्लसितशब्दार्थसघटनार्थ. । कर्ममात्रम् । तथा च काव्येषु उक्तप्रकारेषु काव्यनाटकादिषु कथा श्रव्यवाचः उपाख्यानानि वा । रम्या मनोहराः । तथा कोपोपाहिताः प्रणयकलहादिषु क्रोधवशात् उत्पन्ना ये बाप्पबिन्दव अश्रुकणा तै तरलं आविलं प्रियाया मुखं रम्यम् । अत सर्वमपि रम्यमुक्तरीत्या सकलमपि मनोहरमेव । कितु चित्ते मनसि अनित्यताम् । नित्यानित्यवस्तुविचारतत्परतामित्यर्थ । उपगते सति किंचित्पुनः किचिदपि रम्यं न भवति । ब्रह्मानन्दं विनेति शेष । वृत्तं पूर्ववत् ॥ उक्तमेवार्थ विवृण्वनिगमयति- रम्यं हऱ्यातलं न किं वसतये श्रव्यं न गेयादिकं किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये । किंतु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाकुर- च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः॥८॥ रम्यमिति । हऱ्यातलं प्रासादोपरिप्रदेशः वसतये निवासाय न रम्यं किम् । रम्यमेवेत्यर्थः । तथा गेयं गानम् । 'भव्यगेय-' इत्यादिना कर्तरि निपातः । त- दादि यस्य तत्तथोक्तम् । आदिशब्देन वीणावादादिकमपि संगृह्यते । 'शेषाद्विभा- षा' इति कप्प्रत्ययः । न श्रव्यं कि श्रोत्रसुखावहं न किम् । श्रव्यमेवेत्यर्थः । तथा सु० त्रि. १५ - सुभाषितत्रिशत्यां प्राणसमायाः प्राणप्रियनायिकायाः समागमेन संभोगेन यत्सुखं तच्च अधिकप्रीतये अत्यन्तसंतोषायैव भवति न किम् । भवत्येवेत्यर्थः । किंतु सन्तः वस्तुविचारत. त्परपुरुषा. सकलं अशेषं हर्म्यतलनिवासादिकमपि भ्रान्तः पतनेच्छया परिभ्रमन् यः पतङ्गः शलभः । 'पतन शलभे भानौ' इति विश्वः। तस्य पक्षयो. पवनेन गरतो वायुना व्यालोल. अतिचञ्चल. यो दीपाङ्कुरः दीपकलिका तस्य च्छाया कान्ति तद्वच्चञ्चलं तरलम् । नश्वरमित्यर्थ. । आकलय्य आलोच्य । वनान्तं वन- मध्यं गता । शाश्वतब्रह्मानन्दसाधनतपश्चर्यार्थमित्यर्थः । वृत्तं पूर्ववत् ॥ इति वैराग्यशतकव्याख्याने नित्यानित्यवस्तुविचारो नामाष्टमं दशकम् । अथ शिवार्चनम् । ननु वस्तुविचारप्रसक्तानुप्रसक्त्या तपसोऽत्यन्तावश्यकत्वमुक्तम् । तत्किंविध- मित्याशङ्कायां शिवार्चनव्यतिरेकेणान्यन्न किचिदप्यस्तीति मनसि कृत्वेदानीं ताव- च्छिवार्चनं वर्णयति । तच्चार्चनं द्विविधम्-बाह्यमाभ्यन्तरं चेति । तत्राचं बहूप- करणसाध्य बहिर्मुखविषयत्वादमुख्य चेत्यभिप्रेत्यादौ तदुपेक्ष्य मुख्याभ्यन्तरपूज. नप्रकारमेवानुभवमभिनीयाह- आसंसारात्रिभुवनमिदं चिन्वतां तात ताह- ड्रैवासाकं नयनपदवीं श्रोत्रमार्ग गतो वा। योऽयं धत्ते विषयकरिणीगाढगूढाभिमान- क्षीवस्यान्तःकरणकरिणः संयमानायलीलाम् ॥ ८१ ॥ आसंसारादिति । अत्र तातेत्याश्चर्यश्रवणाभिमुखीकरणार्थमादरातिशयद्योतकं पृथग्जनं प्रति संबोधनवचनम् । हे तात जनक ।'तातस्तु जनक. पिता' इत्यमरः। आ ससारात् । अनादिससारादारभ्येत्यर्थः । पदद्वयमेतत् । विकल्पादसमासः । इदं प्रसिद्ध त्रयाणां भुवनाना समाहारः त्रिभुवनं भुवनत्रयमपि । 'तद्धितार्थ- इत्यादिना समाहारसमासे पात्राद्यदन्तत्वान्न स्त्रीत्वम् । चिन्वतां मार्गमाणानाम् । कर्मवशात्तत्र प्रवेशलाभाभावादिति भावः । अथवा चिन्वता परामृशताम् अस्मा- के नयनपदवी लोचनमार्ग वा श्रोत्रमार्ग श्रवणपथं वा तादृक् तथाविधः पुमान न गतो न प्राप्त एव । तादृक् पुमान् न श्रुतो न दृष्टश्चेत्यर्थः । कोऽसावित्यत आह- योऽयं पुमान् प्रतीयमानतया भोगसाधनानि सक्चन्दनवनितादीनि विषयाः त एव करिण्यः : इभ्य. तासु गाढोऽतिदृढः : गूढ अप्रकाशश्च योऽभिमानः अत्यन्ता. सक्तिवाग्रहः तेन क्षीबस्य मत्तस्य । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । 'क्षी मदे' इत्यस्य धातोः 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघा' इति निष्ठान्तो निपातः । अन्तःकरणमेव करी तस्य चित्तमत्तेभस्य सयमे सम्यनियमने आनायस्य रजु- निर्मितजालस्य लीलाम् । 'आनाय. पुंसि जालं त्यात्' इत्यमरः । 'भालान-' ३. वैराग्यशतकम् । १६५ । . इति पाठे आलानस्य बन्धनस्तम्भस्य लीलां धत्ते । दुर्दममनोनियमनसमर्थो भव- तीत्यर्थः । तादृगिति सबन्ध । अत्रेहक्पुरुषस्य नयनश्रोत्रपथविषयसंबन्धेऽप्यसं. बन्धोक्त्या संबन्धे असंबन्धरूपातिशयोक्ति । तया च मनोनियमनस्यात्यन्ताश- क्यवरूपं वस्तु व्यज्यत इत्यलंकारेण वस्तुध्वनि । तथा च केनचिद्योगेन मनो नियम्य तत्र ब्रह्मानन्दसाधनभूतान्तरङ्गशिवार्चनतपोऽवश्यं कर्तव्यमिति गूढो. ऽयममिप्राय । तथा अन्यधर्मस्यान्यत्र संबन्धासंभवादानायलीलामिव लीलामित्यौ- पम्यपर्यवसानसंभवद्वस्तुसंबन्धरूपो निदर्शनालंकारः । स चोक्तरूपकेणाङ्गाङ्गिभा- बेन संकीर्यते । मन्दाक्रान्ता वृत्तम् ॥ अथ तप प्रवृत्तिप्रकारमेवाह- यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं सहायः संवासः श्रुतमुपशमैकवतफलम् । मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृश- न जाने कस्यैषा परिणतिरुदारस्य तपसः॥ ८२ ॥ यदिति । खच्छन्दं यथेच्छम् । अपराधीन मिति यावत् । विहरणं विहारश्च । न विद्यते कार्पण्य दैन्यं यस्मिस्तत्तथोक्तं अशनं भिक्षानभोजनं कन्दमूलाद्याहारो वा। तथा आय. विज्ञानसंपन्नैः सह सवास समागमश्च । तथा उपशमो विषयभोग- विरतिरेव एक मुख्यं व्रतफलं यस्मिस्तत्तथोक्तम् । शान्तिफलकतपश्चरणबोधकमि- त्यर्थ । श्रुतं वेदान्तशास्त्रश्रवणम् । 'श्रुतं शास्त्रावधृतयोः' इति विश्वः । तथा बहिर्बाह्यदेशे मन्दस्पन्दं मन्दप्रसारम् । अन्तर्मुखलादिति भावः । मनोऽपि अन्तःकरणं चेति यदेतत् सर्व वर्तत इति शेष । 'नपुंसकमनपुंसकेन-' इत्येक- शेषः । एषेति विधेयप्राधान्यात्स्त्रीलिङ्गता। 'शैत्यं हि यत्सा प्रकृतिलस्य' इति- वत् । कस्य उदारस्य महत तपसः परिणतिः परिपाको वा न जाने । न वेभी- त्यर्थ । यद्वा परिणति परिणामो वा न जाने । कि वा तप एवंरूपेण परिणतम्, तन्न जानामीत्यर्थ.।भूत सन्नपि। चिरस्य चिरकालमित्यर्थः। विमृशन् परामृशन्नपि । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यमरः । विभक्तिप्रतिरूपकमव्ययम् । तच तपः शिवपूजनमेव कथमन्यथास्येदृक्फलसाधने एवंविधपरिणामे वा सामर्थ्य संभवेदिति भावः । शिखरिणी ।। अथ शिवचरणमेव शरणमिति स्मरणममिनीयाह- जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना। किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी हा ज्ञातं मदनान्तकाझियुगलं मुक्त्वास्ति नान्या गतिः॥८३॥ जीर्णा इति मनोरथा विषयामिलाषाश्च हृदये अन्तरङ्ग एव जीर्णा नष्टाः । बाञ्छामात्रमेव न त्वनुभूता इत्यर्थ । तथा अङ्गेषु अवयवेषु तत् तथाभूतम् । का- - सुभाषितत्रिशत्यां - मिनीसभोगोपयुक्तमित्यर्थ । यौवनं यातं गलितम् । हन्तेति विषादे। तथा गुण- ज्ञाः गुणग्राहिणश्च । सहृदया इति यावत् । तैर्विना । 'पृथग्विना-' इत्यादिना तृ. तीया । गुणा विद्याविनयादयश्च वन्ध्यफलता निष्फलता याता गता । अनु- भावकाभावानिरर्थका जाता इत्यर्थ । तथा बलवान् बलिष्ठ । दुर्जय इत्यर्थः । कालः कालस्वरूप । अपरावर्त्य इति यावत् । अक्षमी असहनश्च कृतान्तो यमः सहसा अभ्युपैति अभियुद्धे । प्राणापहरणार्थमित्यर्थ । 'कृतान्तौ यमसिद्धान्तौ' इत्यमर । अत कि युक्तं उचितम् । ईदृग्दशाया कि कर्तव्यमिति भावः । हा कष्टम् । तथापीदमेकं तरणसाधनमस्तीति स्मरणमभिनीयाह-ज्ञातं अवगतम् । कि ज्ञातमित्यत आह-मदनान्तकस्य शभो अतियुगलं पादयुग्मं मुक्त्वा विहाय अन्या गति शरणं नास्ति । अतस्तदेव शरणमिति भावः । शार्दूलविक्रीडितम् ।। ननु 'यत्पादनि सृतसरित्प्रवरोदकेन तीर्थन मूल्यधिकृतेन शिवः शिवोऽ- भूत् । ध्यातुर्मन शमलशैलनिसृष्टवक्रं ध्यायेच्चिरं 'भगवतश्चरणारविन्दम् ॥' इत्यादिना शिवाद्यशेष देवताकल्याणप्रदे अखिललोकाराध्ये ससारार्णवतरणयान- पात्रे भगवतश्चरणारविन्दे जाग्रति कथं शिवाधियुगलं विनान्या गतिर्नास्तीति प्रलपस इत्याशझ्याह- महेश्वरे वा जगतामधीश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति में तथापि भक्तिस्तरुणेन्दुशेखरे ॥ ८४ ॥ महेश्वर इति । जगता चतुर्दशभुवनाना अधीश्वरे स्वामिनि महेश्वरे शिवे वा। तथा जगता अन्तरात्मनि अन्त करणसाक्षिणि अन्तर्यामिणीति वा । अथवा अ- न्तर्भूतात्मनि जीवात्मस्वरूपे । अविद्याप्रतिबिम्बितचैतन्यत्वेन तथाभूतखादिति भावः । यद्वा जगन्त्यन्तरात्मनि यस्य तस्मिन् तथोक्ते । कुक्षिस्थाखिलभुवन इत्य- र्थ. । जनानर्दयतीति जनार्दने विष्णौ वा । मे मम वस्तुभेदप्रतिपत्ति । अयं महे- श्वरोऽयं जनार्दन इति वस्तुगोचरभेदबुद्धि नास्ति । 'शिवाय विष्णुरूपाय' इत्या- दिना तयोर्वस्तुतो भेदाभावादिति भाव । तथापि भेदप्रतिपत्त्यभावेऽपि तरुणेन्दुः शेखर. शिरोभूषणं यस्य तस्मिन् शिव भक्ति भजनानुराग । अस्तीति शेषः । अतएव नान्या गतिरित्युक्त मिति भाव । इदं च 'स्वभावो दुरतिक्रम' इति न्यायादित्यवगन्तव्यम् । वंशस्थवृत्तम् ॥ अथ स्थायिन शमस्योदयवशाच्छान्तरसाभिव्यञ्जकवाक्यान्याह पञ्चमि स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने सुखासीनाः शान्तध्वनिषु रजनीषु धुसरितः। भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम् ॥ ८५ ॥ स्फुरदिति । शान्ताः उपरता ध्वनय पक्षिमृगादिरुतानि यासु तासु तथो- । - ३. वैराग्यशतकम् । १६७ बहुलबाष्पाः तै. कासु । एतेन चित्तविक्षेपहेतुराहित्यं सूच्यते । रजनीषु रात्रिषु स्फुरन्ती प्रकाश- माना स्फारा प्रवृद्धा च या ज्योत्स्ना चन्द्रिका तया धवलित पाण्डुरीकृतं तलं प्रदे- श यस्य तस्मिन् वापि कस्मिंश्चित् द्युसरितो गङ्गाया सबन्धिनि पुलिने सैकते सुखं यथा तथा आसीना उपविष्टाः सन्तः। भवाभोगात् संसारविस्तारादुद्विग्नाः विह्वलाः । दुखजनकत्वादिति भावः । वयमिति शेष । अत. शिवेत्यादित्रिवारं उच्चानि ताराणि वचासि आक्रन्दवचनानि येषां ते तथोक्ता । 'आर्तवचस.' इति पाठे दैन्यवचना सन्त कदा कस्मिन्वा समये अन्त अभ्यन्तरे गताः । निय- मनवशादन्तीना इति यावत् । बहुलाश्च ये बाष्पा आनन्दाश्रूणि तै. आकुला व्याकुला या दशा अवस्था तां यास्यामः । अन्तर्नियमितानन्दबाष्पपर्याकुलावस्था कदा गमिष्याम इत्यर्थ । 'दृशम्' इति पाठे बाष्पाकुला या दृग्दृष्टि ता यास्याम इत्यन्वय । 'कदा स्यामानन्दोद्तबहुलबाष्पाकुलदृश' इति पाठे आनन्दादुद्गता उत्पन्ना ये आकुला दृशो येषा ते तयोक्ता । कदा स्याम भवेभ । तदानी खलु वयं कृतकृत्या इति भाव. । शिखरिणी ॥ वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः सरन्तः संसारे विगुणपरिणामां विधिगतिम् । वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणा- स्त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः॥ ८६ ॥ वितीर्ण इति । सर्वस्वे निखिलधने वितीर्णे दत्ते अर्थिसात्कृते सति । 'स्वो ज्ञाता- वात्मनि स्वं त्रिष्वात्मीये खोऽस्त्रिया बने' इत्यमर । तत तरुणा प्रत्यग्रा या करु- णा भूतदया तया पूर्णानि पूरितानि हृदयानि येषा ते तथोक्ता । तथा ससारे वि- धिगतिं दैवप्रवृत्ति विगुणपरिणामा विषमपरिपाकाम् । अकुशलपर्यवसायिनीमिति यावत् । स्मरन्त. सन्त. मनस्यनुसदधाना सन्त वयं पुण्यारण्ये तपोवने हरचर- णचिन्ता शिवपादारविन्दध्यानमेव एकं मुख्यं शरण रक्षणं येषा ते तथोक्ताः सन्तः परिणता. परितो व्याप्ता. शरच्चन्द्रकिरणा शारदेन्दुमयूखा यासु तास्तथोक्ताः त्रि- यामा रात्री. नेष्याम. गमयिष्यामः । कदेति शेषः । द्वयोः प्रथमचरमयामा- धयो. दिनव्यवहारात्रयो यामा यस्या. सा त्रियामेति विग्रह । वृत्तं पूर्ववत् ॥ कदा वाराणस्याममरतटिनीरोधसि वस- न्वसानः कौपीनं शिरसि निद्धानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेत्याक्रोशनिमिषमिव नेष्यामि दिवसान् ॥ ८७॥ कदेति । कदा कस्मिन्वा काले वाराणस्या काश्यां अमरतटिनीरोधसि गङ्गातीरे वसन् तिष्ठन् । तथा कौपीनं गुह्याच्छादनचेलखण्डं वसान आच्छादयन् । लोक- विरोधपरिहारार्थ तावन्मात्रपरिग्रहो नतु परिग्रहान्तरापेक्ष इत्यर्थः । 'वस आच्छा- सुभाषितत्रिशत्यां दने' इति धातोः शानच् । शिरसि अञ्जलिपुटं करसंपुटं निदधानः सन् । अये भोः गौरीनाथ पार्वतीपते । त्रयाणां पुराणां समाहारः त्रिपुरम् । पात्रादित्वान डीप् । तस्य । हरतीति हर । हे त्रिपुरहर त्रिपुरान्तक । शं सुखं अस्माद्भव- तीति शंभो । त्रिनयन हे त्र्यम्बक । शुभ्रादित्वान्न णत्वम् । एतदामन्त्रणचतुष्टयं परमेश्वरस्य लोकसंग्रहकारणत्वाशक्यकार्यकरणसामर्थ्य भक्तजनसुखसंधायकत्वा- साधारणमहिमास्पदत्वद्योतनार्थमित्यवगन्तव्यम् । प्रसीद प्रसन्नो भवेति आक्रो- शनू उच्चै रटन् दिवसान् अनेकान् निमिषमिव क्षणमिव नेष्यामि । अत्र भावितीवनरकयातनानुचिन्तनादिभिर्विभावैजनितः कौपीनधारणशिरोञ्जलिपुट- संघटनादिभिरनुभावैरभिव्यक्त कदेतिपदसूचितेन चिन्ताख्येन संचारिभावेन च परिपुष्टः खात्मावमाननलक्षणो निर्वेदस्थायी शान्तरस परिस्फुरतीत्यवगन्त- न्यम् । एवमुत्तरत्रापि योज्यम् । वृत्तं पूर्ववत् ॥ खात्वा गाङ्गैः पयोमिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रामपर्यङ्कमूले । आत्मारामं फलाशी गुरुवचनरतस्त्वत्प्रसादात्मरारे दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ ८८ ॥ स्नात्वेति । गङ्गाया इमानि गाङ्गानि । 'तस्येदम्' इत्यण । तै पयोमि । गङ्गा- जलैरित्यर्थः । स्नात्वा शुद्धो भूत्वा । हे विभो शंभो, शुचिभिः शुद्धैः । शास्त्रसंम- तैरिति यावत् । कुसुमै. फलैश्च त्वां अर्चयित्वा समाराध्य । एतेन बाह्यपूजाया अप्यंशतः प्राधान्यमस्तीति सूचितम् । ध्येये ध्यातुं योग्ये वस्तुनि । त्वचरणार- विन्द एवेत्यर्थ. । ध्यानं निवेश्य । एकाग्रचित्तो भूत्वेत्यर्थः । तथा क्षितिधरकुहरे यो प्रावा पाषाणः स एव पर्यङ्कः सुखशय्या तस्य मूले । निषण्ण सनिति शेषः । समाधिव्युत्थानानन्तरं सुखसंवेशयोग्यताद्योतनार्थ प्राणि पर्यत्वरूपणम् । आ- स्मन्येवारमत इत्यात्माराम. । विषयान्तरासक्तिशून्यः सनित्यर्थः । 'रमन्ते यो. गिनोऽनन्ते सत्यानन्दे चिदात्मनि' इति स्मृतेः । तथा फलाशी फलाहारः । शरी- रधारणार्थमिति भाव । गुरुवचनरत आचार्योपदिष्टकर्माचरणतत्पर सन्। अहम् । इत्थंभूतताया एव श्रेयोहेतुत्वादिति भाव । हे स्मरारे मदनान्तक शंभो, त्वत्प्र- सादात् त्वदनुग्रहात् मकरेण मकराकाररेखया सह वर्तत इति समकरश्चरणो यस्य तस्मिन् तथोक्ते पुंसि महाभाग्यसंपन्ने पुरुषे विषये । राज्ञीत्यर्थः । सेवास- मुत्थं परिचर्यासमुत्पन्नं दु.खं कदा मोक्ष्ये । परमेश्वरानुग्रहं विना श्रेयोलाभाभा- वादिति भावः । समकरचरणस्य महाभाग्यसंपन्नत्वमुक्तं सामुद्रिके-'मकरो मत्स्यरेखा च पद्मशङ्खाकृति पदे । महाधनी महाभोगी दाता दीर्घायुरेव च ॥' इति स्रग्धरा॥ एकाकी नि:स्पृहः शान्तः पाणिपात्रो दिगम्बरः। कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ८९ ॥ ..
३. वैराग्यशतकम् । mote एकाकीति । एकाकी असहाय । सगरहित इति यावत् । 'सङ्गात्संजायते काम.' इत्यादिसगजनितकामादिपरम्पराया. अनर्थहेतुत्वादिति भावः । 'एकादा- किनिन्चासहाये' इत्याकिनिच्प्रत्यय । कुतः। नि स्पृह विषयाभिलाषशून्यः । अतएव शान्तः रागाद्यनुपहतचित्त. । 'शान्तो दान्त उपरतस्तितिक्षु. समाहितो भूत्वा' इति श्रुते । अत. पाणिरेव पात्रं भिक्षापात्रं यस्य स तथोक्तः । तथा दिश एवाम्बराणि यस्य स तथोक्त सन् । अहमिति शेषः। हे शंभो, कर्मणां संचितप्रारब्धाना निर्मूलने समूलविध्वंसने क्षम समर्थः कदा भविष्यामि । कर्म- बन्धात्कदा मोक्ष्य इत्यर्थः । 'भिद्यते हृदयग्रन्थिश्छिद्यते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥' इतीश्वरसाक्षात्कारमन्तरा कर्मक्षयाभावात्तदर्थ लं प्रत्यक्षो भवेति भाव । अनुष्टुप् ॥ अथैवंभूतानां शिवप्रसादान्मोक्षमार्गोऽविलम्बेनैव सुलभो भवतीति निगमयति- पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां यत्र कापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् । अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा- मध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् ॥१०॥ पाणिमिति । पाणि करतलमेव पात्र भोजनभाजनं कुर्वता पात्रयताम् । पात्र- शब्दात् 'तत्करोति-' इति ण्यन्ताल्लट. शत्रादेश । निसर्गशुचिना खभावपरिपूतेन मैक्षेण भिक्षाकदम्बकेन संतुष्यता सतोषं प्राप्नुवताम् । 'भिक्षादिभ्योऽण् । 'भैक्षं भिक्षाकदम्बकम्' इत्यमर । यत्र कापि यस्मिन्कस्मिन्प्रदेशे। श्मशाने वने वेत्यर्थ. । निषीदताम् । उपविशतामित्यर्थ । मुहुः पौन पुन्येन विश्वं प्रपञ्चं बहुतृणं ईषदस- माप्तं तृणम् । तृणकल्पमित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्तु' इति बहुच्प्रत्ययः प्रकृते पूर्व भवति । 'स्यादीषदसमाप्तौ तु बहुच्प्रकृतिलिङ्गक ' इति वचनात्प्रक- तिलिङ्गता । पश्यतां आकलयताम् । तथा तनोरत्यागेऽपि देहसंबन्धशून्यत्वा- भावेऽपि अखण्डोऽपरिच्छिन्नो यः परमानन्दो ब्रह्मानन्द. तस्य अवबोध स्पृशन्ति अनुभवन्तीति तथोकानाम् । जीवन्मुक्तत्वादिति भाव. । 'स्पृशोऽनुदके किनू' इति विन्प्रत्ययः । योगिनां ध्याननिष्ठानां शिवप्रसादेन सुलभः सुलभ्यः कोऽपि अनिर्वाच्योवा । मोक्षमार्ग इत्यर्थः । सपत्स्यते संपन्नो भवति । शार्दूलविक्रीडितम् । इति वैराग्यशतकव्याख्याने शिवार्चनं नाम नवमं दशकम् । .. अथावधूतचर्या । शिवार्चनस्य मोक्षोपयोग्यावधूतभावफलकवादत्यागेऽपि तनोरखण्डपरमानन्द- बोधस्पृशामित्युपकान्तबाच्चेदानीं तावदवधूतचर्यामाह-अथावधूतचर्येति। अव- धूतो नाम ब्रह्मात्मैक्यानुसधानतत्पर. विस्मृतबहिःप्रपञ्चः जीवन्मुकशब्दवाच्यो १७० सुभाषितत्रिशत्यां - मलिनो योगपुरुष तस्य चर्या आचारः । उच्यत इति शेषः । उपक्रान्तामवधू- तचर्या दशमिवर्णयति- कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने। स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा स्थैर्य योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥९॥ कौपीनमिति । शतखण्डै अनेकशकलैः जर्जरतरं अतिविशीर्ण कौपीनं गुह्या- च्छादनचीरखण्डं यदि । अस्ती चेदित्यर्थ । एवमुत्तरत्रापि । 'कौपीनं स्यादकार्य च गुह्यचीरप्रदेशयो' इति विश्व । तादृशी तथाभूतशतखण्डजर्जरतरैवेत्यर्थः । कन्था पुनकन्था चास्ति यदि । नैश्चिन्यं विषयचिन्ताराहित्यं च यदि । तथा निरपेक्ष- मन्नानुवर्तनापेक्षारहित भैक्षं अशनं भोजनं यदि । श्मशाने प्रेतभूमौ वने महारण्ये वा निद्रा च यदि । स्वातन्त्र्येण स्वाच्छन्येन निरङ्कुशं अप्रतिबन्ध विहरणं विहा- रश्च यदि । सदा प्रशान्तं प्रसन्नम् । 'वा दान्त-' इत्यादिना निपात । खान्तं चित्तं यदि । योगमहोत्सवे योग समाधिरेव महोत्सव तस्मिन् स्थैर्य च यदि अस्ति चेत्, तर्हि त्रैलोक्यराज्येन त्रिलोकाधिपत्येन किम् । न किमपीत्यर्थः । तस्यैव परमसौख्यावहलादिति भावः । त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्या दिवा- खार्थे घ्यञ्प्रत्यय । शार्दूलविक्रीडितम् ॥ नन्वत्यन्तसौख्यावहत्वेन प्रसिद्धं त्रैलोक्यराज्यं निषिध्य कौपीनादिसंपत्तेरे- वोत्तमत्वं प्रतिपादितम्, तदसत् । यतस्तस्यैवात्यन्तप्रलोभकलादित्याशङ्कय मनखिनस्तावदेतावदेवाप्रलोभकं कि ब्रह्माण्डमपि तत्राकिचित्करमेवेति सदृष्टा- न्तमाह- ब्रह्माण्ड मण्डलीमात्रं किं लोभाय मनस्विनः । शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥९२ ॥ ब्रह्माण्डमिति । मण्डलीमात्रं बिम्बमात्रम् । घटादिवादियत्तया परिच्छिन्नमि- त्यर्थ. । 'मण्डलीभूतम्' इति वा पाठ. । तथा अमण्डलं मण्डल सपद्यमानं मण्ड- लीभूतम् । अभूततद्भावे चि. । 'ऊर्यादिच्चिडाचश्च' इति गतिसज्ञायाम् 'कुगति- प्रादयः' इति समासः । 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमर । ब्रह्माण्डं चतुर्दशभु- वनगर्भितब्रह्माण्डकटाह मनस्विनों धीरस्य । योगिन इत्यर्थः । प्रशंसायामिनि । लोभाय चित्तप्रलोभनाय किम् । भवतीति शेषः । न भवत्येव किमुत तदेककोणे निलीनं त्रैलोक्यराज्यामिति भावः । तत्र दृष्टान्तमाह-अब्धि समुद्र शफरीस्फु- रितेन मत्स्यविशेषोल्लुण्ठनेन क्षुब्ध क्षोभित । 'क्षुब्धखान्त-' इत्यादिना निपातः । न जायते खलु न भवति खलु । 'प्रोष्ठी तु शफरी द्वयो.' इत्यमर । मत्स्योलण्ठ- - ३. वैराग्यशतकम् । RANDU । नेनाधिक्षोभणमिव त्रैलोक्यराज्येन मनस्विमन प्रलोभन मित्यर्थः । अतस्तदेवा- तिसौख्यावह मिति भावः । अनुष्टुप् ॥ अथ वैराग्यप्रकारमाह- मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्किणी मा म भू- भॊगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि । सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै- भिक्षावस्तुभिरेव संप्रति वयं वृत्ति समीहामहे ॥१३॥ मातरिति । मात जननि हे लक्ष्मि । 'अम्बार्थनद्योहव' इति ह्रखः । अत्र मातृग्रहणमेतावन्तं काल त्वया रक्षिता वयमिति भक्त्यतिशयसूचनार्थमित्यवग- न्तव्यम् । अपरं अन्यं कंचिद्भाग्यवन्तं पुरुपं भजस्व सेवख । मत्काङ्क्षिणी मद्विष- याभिलाषिणी मा स्म भू । मा भवेत्यर्थ । 'स्मोत्तरे लड् च' इति चकागदाशी- रर्थे लुड्। 'न माइयोगे' इत्यडागमप्रतिषेध । नन्विदानी कुत एतद्वैराग्यमित्यत आहु --भोगेषु स्रक्चन्दनादिविषयानुभवेषु स्पृहयालव स्पृहावन्तः पुमासः । 'स्पृहि-'इत्यादिना चुरादीदन्ताण्ण्यन्तादालुच्प्रत्यय । तव वशे त्वदायत्ततायाम् । वर्तन्त इति शेष । त्वदधीना भवन्तीत्यर्थ. । 'वश आयत्ततायां च' इत्यमरः । तर्हि यूयं क इत्याशङ्कायामाहु -नि स्पृहाणा भोगाभिलाषशून्याना कासि कीह- विधासि । न काप्यसीत्यर्थः । वयं च नि स्पृहा इति भावः । अतोऽस्मान्विहा- यान्यत्र गच्छेति संबन्ध । नन्वेवं चेयुष्माकं कथं जीविकेत्याशङ्कायामाहु.-वयं संप्रति इदानी सद्य तत्काल एव । 'सद्य परुत्परारि-' इत्यादिना निपातनात्साधुः। स्यूता विरचिता। कर्मणि क्त । 'च्छो शूडनुनासिके च' इति ऊठि यणादेश । पलाशपत्रपुटिका किशुकपर्णपुटिकैव पात्रं भिक्षाहरणोचितभाजनं तस्मिन्पवित्री- कृतै । पावनीभूतैरित्यर्थ । अभूततद्भाचे च्चि । 'अस्य च्वौ' इतीकार । भिक्षा- वस्तुभि अन्नकवलशाकादिमिक्षाद्रव्यैरेव । 'भिक्षासक्तुभि ' इति पाठे भिक्षासक्तु- विशेषैरित्यर्थ । वृत्तिजीविका समीहामहे अभिलषामहे । विरक्ता भवाम इत्यर्थ । अतः किमर्थ त्वमस्माकमिति भाव । अत्र पलाशपत्रपुटिकायाः सद्य स्यूतत्वक- थनं अविशदत्वद्योतनार्थम् । अन्यथा भिक्षाहरणानुपयुक्ता स्यादिति वेदितव्यम् । तथा 'पलाशं पद्मपत्रं च' इत्यादिवचनात्पवित्रीकरणयोग्येषु पलाशपत्रेषु निक्षिप्त- साधारणानादीनामपि पवित्रत्वम् , किमुत निसर्गशुचिमिक्षावस्तूनामिति चावग- न्तव्यम् । शार्दूलविक्रीडितम् ॥ अथ योगिन सार्वभौमसाम्यमाह- महाशय्या पृथ्वी विपुलमुपधानं भुजलता वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । शरश्चन्द्रो दीपो विरतिवनितासङ्गमुदितः सुखी शान्तः शेते मुनिरतनुभूातर्नृप इव ॥ ९४ ॥ महाशय्येति । पृथ्वी भूमि महाशय्या विशङ्कटपर्यङ्क. । पृथुरेव पृथ्वी । 'वोतो गुणवचनात्' इति डीपू । मही शय्या । 'गोत्रा कु. पृथिवी पृथ्वी मावनिर्मेदिनी - १७२ सुभाषितत्रिशत्यां मही' इत्यमरः । भुजलता वाहुवल्ली विपुलं विस्तीर्ण उपधानम् । 'उपधानं तूप- बहः' इत्यमरः । आकाशं च वितानं उल्लोचः । 'अस्त्री वितानमुल्लोच.' इत्यमरः। अय प्रवर्तमान । अनुकूलः अनिल पवन व्यजनम् । तालवृन्तकमित्यर्थ. । 'व्यजनं तालवृन्तकम्' इत्यमर । शरच्चन्द्रो दीप. । शरद्रहणं चन्द्रस्य प्रकाशाति- शयद्योतनार्थम् । इत्येतत्सर्वमयत्नसिद्धम् , अपरिच्छिन्न चेत्यर्थः । प्रसिद्धं तु नैवं- भूतमिति भावः । वयं विरतिः विरक्तिरेव वनिता तस्याः सङ्गेन मुदितः संतुष्टः अत एव सुखी आनन्दपूर्ण शान्त शमशीलो मुनि. । 'निवृत्त सर्वतत्त्वज्ञः कामक्रोधविवर्जित. । ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनि ॥' इत्यु- कलक्षण कश्चिद्योगीश्वर । अतनुभूति अखण्डितैश्वर्यसपनो नृपः सार्वभौम इव शेते खपिति । निरातङ्क निद्रातीत्यर्थः । रूपकसंकीर्णोऽयमुपमालंकारः । तथा उपमानान्नृपादुपमेयस्य मुनेरपरिच्छिन्नशय्यादिसंपन्नत्वेनाधिक्यप्रतीतेर्व्यतिरेको व्यज्यत इत्यलंकारेणालंकारध्वनिः । शिखरिणी ॥ अथ योगिस्वरूपं निरूपयति-- ७ मिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः। रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकन्थासनो निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ९५ ॥ भिक्षेति । भिक्षामनातीति भिक्षाशी । भिक्षान्नमात्रभोजनेन शरीरधारणत- त्पर इत्यर्थः । जनमध्ये सगरहित आसक्तिविहीन । 'सगात्संजायते काम.-' इत्यादिस्मृतेः । तस्य निधानत्वादिति भाव.। किंतु सदा सर्वदा खायत्ता खाधीना चेय व्यापारो यस्य स तथोक्तः। खच्छन्दविहारनिरत इत्यर्थः । खाधीनात्मीय- व्यापारो वा। अधीनो निन्न आयत्त' इत्यमर । तथा हानादानयो. त्यागखीका- रयोर्विरक्त असंकीर्ण. यो मार्ग तत्र निरत. आसक्त । नियमेन हेयवस्तुहानो- पादेयवस्तूपादानतत्पर इत्यर्थः । यद्वा हानं इदं हेयमिति त्याग , आदानं इदमु- पादेयमिति स्वीकार । हेयोपादेयबुद्धिशून्य इत्यर्थः । 'निस्त्रैगुण्ये पथि विहरतां को विधि को निषेध' इत्यादिवचनात्तस्य विधिनिषेधातीतत्वादिति भाव । तथा रथ्यायां वीथ्यां कीर्ण अनुपयुक्तत्वाजनैर्विक्षिप्तम् । कुत । विशीर्ण विशकलि- तम् । तत्कुत । जीणं पुरातनं तथाभूत वसनं आच्छादनं यस्य रथ्याकीर्णविशी- जीर्णवसन. । 'चीराणि कि पथि न सन्ति दिशन्ति भिक्षाम्' इत्यादिना तस्य तथाविधवसनधारणस्वाभाव्यादिति भाव: अर्शआदित्वान्मत्वर्थीयोऽच्प्रत्यय ।अ- शआदिराकृतिगणः । यद्वारथ्यायां कीर्णं अनादरेण विक्षिप्तं विशीर्ण जीर्णं च वसनं निजाच्छादनं येन स तथोक्तः । संप्राप्तं समधिष्टितं कन्थैवासनं येन स तथोक्तः।
३ वैराग्यशतकम् । १७३ RASTRI चतुर्गुणितकन्थोपर्युपविष्ट इत्यर्थ । अतएव निर्मानोऽभिमानशून्यः निरहंकृतिः अहंकारशून्यः । तदात्माध्यासरहित इत्यर्थः । शमो नाम वैराग्येण निर्विकारचि- त्तत्वं तेन य सुखाभोगः आनन्दातिशय. तत्र एकं मुख्यं यथातथा बद्धा स्पृहा येन स तथोकः । ब्रह्मध्याननिष्ठ इत्यर्थ. । कश्चित् कोऽपि तपस्वी महातपा. योगीश्वरः प्रशंसायामिनि । स्थित । निरातकं वर्तत इति भावः । रथ्याकीर्णेति संप्राप्तेति च विशेषणद्वयेन बाह्यवैराग्यमित्यवगन्तव्यम् । स्वभावोक्तिरलंकार.- 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् । शार्दूलविक्रीडितम् ॥ अथ योगिनां मानावमानतुल्यतामाह- चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनै- न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः॥१६॥ चण्डाल इति । अयं परिदृश्यमान. चण्डालः किं अन्यजो वा । अथवेति पक्षा- न्तरे । द्वे जाती शूदत्वब्राह्मणरूपे यस्य स तथोक्तः किं ब्राह्मणो वा । 'जन्मना जायते शूदः कर्मणा जायते द्विज' इति वचनादिति भावः । यद्वा द्वे जाती जन्म- नी गर्भनिर्गमनसंस्काराभ्या यस्य स द्विजाति किम् । अथ यद्वा शूद्र. कि वृषलो वा किम् । वा यद्वा तापस. किं तपोनिष्ठो वा किम् । वा तत्त्वविवेकपेशला परमा- थपर्यालोचनतत्परा मतिर्यस्य स तथोक्त कश्चित्कोऽपि योगीश्वर कि ध्याननिष्ठो वा। इत्यनेन प्रकारेण उत्पन्नै उदितै. विकल्पजल्पैक्यै मुखरा वाचालाः तैः । इत्थंभूतवाक्यानि वदद्भिरित्यर्थ. । जनैः पथि मार्गे आभाष्यमाणा अधिक्षिप्यमा- णा अपि न क्रुद्धा' न कोपिता. । चण्डालत्वाद्याक्षेपेणेति भाव । नैव तुष्टमनसः न संतुष्टान्त.करणाश्च द्विजातित्वाद्याक्षेपेणेति भाव । योगिनो योगारूढा. खयं यान्ति तूष्णीं गच्छन्ति । ब्रह्मनिष्ठत्वादिति भावः । तथा च गीतावचनम् -'न प्रहृष्येत्वियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थित.। शीतोष्णसुखदु खेषु तथा मानापमानयोः॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चन ॥ इत्यादि । वृत्तं पूर्ववत् ॥ अथ हिंसादिराहित्यवृत्तिमाह- हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं व्यालानां पशवस्तृणाकुरभुजस्तुष्टाः स्थलीशायिनः। संसारार्णवलञ्चनक्षमधियां वृत्तिः कृता सा नृणां तामन्वेषयतां प्रयान्ति सततं सर्वे समाप्ति गुणाः ॥९७ ॥ हिंसेति । हिंसया अन्योपतापकवधादिभि शून्यं रहितम् । अयत्नेन यत्न विना लभ्यं प्राप्यं अशनं अन्नम् । 'मिस्सा स्त्री भक्कमन्धोऽन्नम्' इत्यमरः । धात्रा चित्र- विचित्रसृष्टिकर्ता ब्रह्मणा व्यालानां सर्पाणाम् । 'व्यालो दुष्टगजे सर्प' इति विश्वः।
सुभाषितत्रिशत्यां - मरुता वायुना कत्पितं निर्मितम् । पशव गोप्रभृतय तृणाङ्कुरान् वालतृणानि भुञ्जन्त सन्त स्थलीशायिन अकृत्रिमप्रदेशे शयनवन्त· तुष्टाः संतुष्टा । संसार. पुत्रमित्रकलत्रादिधारावाहिरूपा समृति स एवार्णव तस्य लङ्घने अतिक्रमणे क्षमा धी येषा तेपा नृणा जनानाम् । यथा तरणिद्वारा समुद्र तरन्ति तथा ज्ञानद्वारा ससारं तरन्तीत्यर्थ । सा वृत्ति पूर्वोक्तप्रसिद्धजीवनं कृता निर्मितम् । ब्रह्मणेति शेष । ता वृत्ति अन्वेषयता मार्गमाणाना निरस्तरज- स्तमोजनितदोषाणा सर्वे गुणा सततं सर्वदा समाप्ति नाशं प्रयान्ति प्राप्नुवन्ति । 'यो मे गर्भगतस्यापि वृत्ति कत्पितवान्प्रभु । शेषवृत्तिविधानाय सुप्त कि नु मृतोऽपि वा ॥' इति वचनरीत्या वृत्तिकल्पने जागरूकः सन् भगवान् वर्तत इति मत्वा हिसादिराहित्येन वृत्ति कुर्वन् यदृच्छया संप्राप्तद्रव्येण तुष्ट सन् यत्र कुत्र वा वसन् रजस्तमोदोषै अलिप्त सन् योगी सर्वदात्मानुसंधानं कुर्वन् स्थातव्य इत्याशयः । वृत्तं पूर्ववत् ॥ अथ निवृत्तिप्रकारमाह- गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८ ॥ गजेति । गङ्गाया सुरनद्या तीरे कूले । 'कूलं रोधश्च तीरं च प्रतीरं च तट त्रिषु' इत्यमर । तीरग्रहणं तद्गतशीतत्वपावित्र्यादिसिद्ध्यर्थम्। हिमगिरे शीतन- गस्य शिलाया पाषाणस्य उपरि बद्धं पद्मासन येन तस्य । किच ब्रह्मण. ध्यानं उपासनं तस्य अभ्यसनं अभ्यास तस्य विधि विधानं तेन । 'विधिविधाने दैवे- ऽपि' इत्यमर । योगनिद्रा गतस्य प्राप्तस्य योगिन मम तै सुदिवसै. पुण्यदिनैः भाव्यं किम् । यत्र ते जरठहरिणा वृद्धकुरजा निर्विशङ्का निर्भीकाः सन्त खाङ्गं खशरीरं मदीये अङ्गे शरीरे कण्डूयन्ते । तै व्यमित्यभिप्राय । एवं च ग्रामनि- वास त्यक्त्वा गङ्गातीरे हिमवत्पर्वतपाषाणोपरि पद्मासनासनवर्ती ब्रह्मध्यानाभ्यास- विधानेन योगनिद्रा गत सन्नहं निर्विशङ्कः जरठहरीण साकं यदा स्थास्ये तदा मे सुदिवसा जायन्त इत्यभिप्राय । मन्दाक्रान्तावृत्तम् ॥ अथ केवलं सर्वसङ्गपरित्यागमाह- पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं विस्तीर्ण वस्त्रमाशादशकमचपलं तल्पमस्वल्पमुर्वी । येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसंतोषिणस्ते धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ९९ ॥ पाणिरिति । पाणिः हस्त एव पवित्रं परिशुद्धं पात्रं भाजनम् । 'योग्यभाजनयो:
३. वैराग्यशतकम् । पात्रम्' इत्यमरः । श्रमणेन संचारेण परिगतं प्राप्तं भैक्षं भिक्षाकदम्बकं अक्षय्यं नाशरहितं अन्नं अशनम् । आशाना दिशा दशकं दश विस्तीर्ण विशालं वस्त्र वासः । उर्वी भूमिः अस्वल्पं महत् अचपलं अचञ्चलं तल्प शय्या येषा नि सङ्ग- ताया सङ्गरहितस्य अङ्गीकरणेन परिणतं परिपक्वं गतं यत् खान्तं तेन संतोषिणः सतुष्टा ते धन्या संन्यस्ता त्यक्ता. दैन्यस्य व्यतिकरनिकराः यैस्ते तथोक्ताः सन्तः कर्म निर्मूलयन्ति नाशयन्ति । एवं च यत्र कुत्र वा वसन् पाणिपात्रेण भैक्षानं भुक्ता दिगम्बर उर्वीशयनः नि.सङ्गपरिणतचित्तेन सतुष्टः सन् त्यक्तदैन्यव्यति- करनिकर. धन्य. धारावाहिकजन्मपरम्पराप्रदं कर्म निर्मूलयतीत्यभिप्रायः । खरधरा॥ अथ पञ्चभूतानि सबोव्याह- मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल भ्रातयोम निबद्ध एव भवतामन्त्यः प्रणामाञ्जलिः। युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरनिर्मल- ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ १०॥ मातरिति । हे मातः जननि मेदिनि वसुमिति, हे तात जनक मारुत वायो, हे सखे सुहृत् तेज , हे सुबन्धो शोभनबन्धो जल उदक, हे भ्रातः सहोदर व्योम अम्बर, भवता युष्माकं अन्त्य. चरमः प्रणामाञ्जलिः नमस्कारपूर्वकाञ्जलिः निबद्ध एव । 'पाणिनिकुब्ज प्रतिस्तौ युतावञ्जलिः पुमान्' इत्यमर. । युष्माकं सङ्गस्य योगस्य वशेन अधीनेन उपजातं यत्सुकृतं तेन स्फारं विस्तार स्फुरत् नि- मैलं च यत् ज्ञानं तेन अपास्त दूरतत्त्यक्त , समस्तमोहमहिमा पुत्रमित्रकलत्राद्य- भिनिवेशाज्ञानातिशय सन् अहं परे ब्रह्मणि सच्चिदानन्दरूपिणि निर्विकारे नि- कलङ्के निरजने ब्रह्मणि लीये । एवं च दारैषणावितैषणापुत्रैषणादिरहितः सन् चिदानन्दवरूपः सन् विदेहकैवल्यं जीवन्मुक्तः सन् अहं वर्त इत्याशयः। शार्दूलविक्रीडितम् ॥ इति वैराग्यशतकव्याख्यानेऽवधूतचर्या नाम दशमं दशकम् । इति सुभाषितत्रिशत्यां वैराग्यशतकं संपूर्णम् । इति श्रीपरमयोगीन्द्रवृन्दमानसमिलिन्दसंदोहामन्दानन्दलाभाभिनन्दितरघुनन्द- नचरणारविन्दमकरन्दावादनकन्दलितसारसारखतेन, अखण्डतपःप्रचण्डमुनि- प्रकाण्डमण्डलेश्वरशाण्डिल्यमहामुनिगोत्रावतंसस्य पञ्चान्वयसुधापारावारपारधु- रीणसकलकविकुलसार्वभौमस्य कोण्डोपण्डितवर्यस्य तनूजेन, गङ्गाम्बिकागर्भरना- करसुधाकरेण, रामचन्द्रबुधेन्द्रेण विरचितया सहृदयानन्दिन्याख्यया व्याख्यया समेता श्रीभर्तृहरियोगीन्द्रविरचिता सुभाषितत्रिशती संपूर्णा ॥ सु० त्रि. १६
No text on this page.
सुभाषितत्रिशतीश्लोकानां सूची। श्लोकारम्भः। शतके। श्लोकः। पृष्ठे । ... नीति ... वैराग्य० २६ १५५ १०३ १२२ ०. ... १८ शृङ्गार वैराग्य. नीति शृङ्गार० नीति. ३ -- २२ १३ ... . शृङ्गार० वैराग्य० ... २२ १२४ १५० ११३ वैराग्य० वैराग्य. नीति नीति १४ ... ४९ ... वैराग्य ५२ १४७ १०७ अकरुणत्वमकारणविग्रहः अग्रे गीतं सरसकवयः अच्छाच्छचन्दनरसाई-~- अजानन्माहात्म्यं पततु अज्ञ. सुखमाराव्यः अदर्शने दर्शनमात्र- अधिगतपरमार्थान्प- अपसर सखे दूरादस्मात् अमिमतमहामानग्रन्थि- अभुक्ताया यस्यां क्षणमपि अमीषा प्राणाना तुलित- अम्भोजिनीवन विहार- अयममृतनिधानं नायको अर्थानामीशिषे त्वं वयमपि अर्थ सुप्त्वा निशायाः... अवश्यं यातारश्चिरतर- अशीमहि वयं भिक्षा असाराः सर्वे ते विरति असूचीसंचारे तमसि आक्रान्तं मरणेन जन्म आज्ञा कीर्ति. पालन आदित्यस्य गतागतै- आधिव्याधिशतैर्जनस्य आमीलितनयनाना य आयु कल्लोललोलं आयुर्वर्षशतं नृणां परि- आरम्भगुर्वी क्षयिणी आवर्त. संशयानामविनय- आवास किलकिञ्चितस्य आवास क्रियता गाङ्गे आशा नाम नदी मनोरथ ११८ ... १४९ ... शृङ्गार वैराग्य० वैराग्य. शृङ्गार० गृङ्गार० वैराग्य० नीति० वैराग्य. वैराग्य ३५ १४ ३२ १३२ २५ १३९ १३० ... ... ... ... ... ... १३४ १४५ . . ४९ ... ७.. ... ४९ शृङ्गार वैराग्य. वैराग्य नीति शृङ्गार० पृङ्गार शृङ्गार वैराग्य - ८३ १०१ ११६ ... ...
(२) श्लोकः। पृष्ठे। 0 शतके। वैराग्य शृङ्गार० नीति ८१ ... १६४ १०६ ... ... ९५ ६७ ९३ ... २७ १०५ ६७ १६ - शृङ्गार० शृङ्गार० शङ्गार० शृङ्गार० शृङ्गार वैराग्य० नीति . ... .. ५५ ... ... ३ ११२ .. ... ४८ २९ शृङ्गार. ६५ - - ... ४९ ... १०५ शृङ्गार० शृङ्गार० शृङ्गार० शृङ्गार० वैराग्य वैराग्य वैराग्य . श्लोकारम्भ । आससारात्रिभुवनमिदं आसारेण न हर्म्यत इतः खपिति केशव इतो विद्युदल्लीविलसित इदमनुचितमक्रमश्च पुंसा इमे तारुण्यश्रीनवपरिमला इयं बाला मां प्रत्यनव- इह हि मधुरगीतं उत्खातं निविशङ्कया उद्भासिताखिलखलस्य उद्वृत्त स्तनभार एष उन्मत्तप्रेमसरम्भा- उन्मीलत्रिवलीतरंग- उपरि घनं घनपटलं उरसि निपतिताना एकाकी नि.स्पृह शान्त. एको रागिषु राजते एतस्माद्विरमेन्द्रियार्थ- एताश्चलद्वलयसंहति- एते सत्पुरुषा परार्थ- ऐश्वर्यस्य विभूषणं कर्थितस्यापि हि धैर्य- कदा वाराणस्याममरतटिनी- करे श्लाघ्यस्त्याग शिरसि कश्चुम्बति कुलपुरुषो कान्ताकटाक्षविशिखा कान्तेत्युत्पललोचनेति. कामिनीकायकान्तारे कि वेदैः स्मृतिभिः कि कन्दर्प शर कदर्थ- कि कन्दाः कन्दरेभ्य प्रलय- कि गतेन यदि सान किमिह बहुभिरुक्कै- कुकुमपङ्ककलङ्कितदेहा १६८ ० . १७ ६३ DAN ... . १५३ शृङ्गार० नीति. - ६४ ३८ ४६ .. ... ० ... १६७ ५९ .. ... ... ४४ ... ... नीति नीति वैराग्य. नीति शृङ्गार नीति० शृङ्गार. शृङ्गार० वैराग्य शृङ्गार. वैराग्य. शृङ्गार. शृङ्गार० ४१ ८० . .. ... ५३ ... ... . १५८ ६४ ... ... २५ १२६ .. .. शृङ्गार० (३) शतके। श्लोकः। पृछे। नीति० २५ 3.. वैराग्य० १३५ 0 ... १२ ६३ ११० १०० 0 नीति शृङ्गार० नीति शृङ्गार शृङ्गार० वैराग्य. नीति जार० वैराग्य. वैराग्य० नीति. नीति० नीति० नीति ૭૨ m" ... १४५ ... ६ ११४ १३ ... ... ०.. ... ३९ २१ ... ... ... o श्लोकारम्भः। कुसुमस्तबकस्येव द्वयी कृच्छ्रेणामध्यमध्ये नियमित-... कृमिकुलचितं लालाक्लिनं कृश.काण खजः श्रवण केयूराणि न भूषयन्ति केशा सयमिन श्रुते- केशानाकुलयन्टेशो कौपीनं शतखण्डजर्जरतरं कचित्पृथ्वीशय्य कचिदपि क्वचित्सभ्रूभङ्गै कचिदपि क्षणं बालो भूखा क्षणमपि.. क्षान्तं न क्षमया गृहोचित- क्षान्तिश्चेत्कवचेन कि क्षीरेणात्मगतोदकाय क्षुत्क्षामोऽपि जराकृशोऽपि खाटो दिवसेश्वरस्य खलालापाः सोढा कथमपि गङ्गातरगकणशीकर... गङ्गातीरे हिमगिरिशिला गजभुजंगविहंगम- गात्रं सकुचितं गतिर्विगलिता... गुणवदगुणवद्वा कुर्वता गुरुणा स्तनभारेण चण्डाल. किमय द्विजाति- चुम्बन्तो गण्डभित्ती- चूडोत्तसितचन्द्रचार- चेतश्चिन्तय मा रमा सकृदि- छिन्नोऽपि रोहति तरु ... जयन्ति ते सुकृतिनो जल्पन्ति सार्वमन्येन जाड्यं ह्रीमति गण्यते जाड्यं धियो हरति जातः कूर्मः स एकः पृथु- जातियातु रसातलं :: वैराग्य. ... ... ... ११३ १२६ १७४ ... ... m ... ४८ ० . ... ... . .. - १७३ ... A ९९ ... वैराग्यः वैराग्य. नीति वैराग्य. नीति गृङ्गार० वैराग्य. नार० वैराग्य. वैराग्य. नीति. नीति. नार० नीति नीति नीति नीति० - ... 8. १५४ ४६ ... ... ... २० ... ... ... . १९ १५ 0 ... ... ३१ ...
(४) शतके।। श्लोकः। पृष्ठे ५७ ८३ ० शृङ्गार० वैराग्य वैराग्य. शृङ्गार. ... ९० १०४ ... ... वैराग्य. ... १८ ६६ ७० ... ... ४३ ... ... १२३ १९ १२२ .. .. शृङ्गार० शृङ्गार० शृङ्गार० शृङ्गार० वैराग्य० वैराग्य नीति० वैराग्य नीति नीति नीति. शृङ्गार. ४१ ... . १४६ - . १४ . २ . ... श्लोकारम्भः। जात्यन्धाय च दुर्मुखाय जीर्णा एव मनोरथाश्च हृदये तपस्यन्त सन्तः तरुणीवेषोद्दीपित- तस्मादनन्तमजरं तस्या स्तनौ यदि घनौ तावदेव कृतिनामपि तावदेवामृतमयी तावन्महत्त्वं पाण्डित्यं... तुझं वेश्म सुता. सतामभि-... तृषा शुष्यत्यास्ये पिबति तृष्णा छिन्वि भज क्षमा त्व राजा वयमप्युपासित- दाक्षिण्य खजने दया दानं भोगो नाशस्तिस्रो दिक्कालाधनवच्छिन्ना- दिश वनहरिणेभ्यो दीना दीनमुखै सदैव दुराराध्याश्चामी तुरग- दुर्जन. परिहर्तव्यो दैवेन प्रभुणा स्वयं दौर्मच्यान्नृपतिविनश्यति द्रष्टव्येषु किमुत्तमं धन्याना गिरिकन्दरेषु धन्यास्त एव धवला- न ससारोत्पन्नं चरित- न कश्चिच्चण्डकोपाना- न गम्यो मन्त्राणा न च न ध्यातं पदमीश्वरस्य.. न नटा न विटा न गायका नमस्यामो देवाननु नम्रत्वेनोन्नमन्तः पर- नाभ्यस्ता प्रतिवादिवृन्द- नामृतं न विषं विचि- ... ... ... .. वैराग्य. ३४ २१ १२४ ७७ १६२ २७ ... ... ... . . २२ ७ .. 0 १४ ११९ ६१ ८९ ... ११७ ... वैराग्य नीति० नीति० नीति० शृङ्गार वैराग्य श्ङ्गार वैराग्य. नीति भार० वैराग्य वैराग्य. नीति० नीति० वैराग्य शृङ्गार. - ... 0 १४० ... १४९ .. ... ३६ १४१ . ४६ 62 ... ...
(५) शतके। श्लोकः। पृष्ठे। नीति० ७४ ४४ वैराग्य. and ... १ ११ ६३ .. ... शृङ्गार शृङ्गार० नीति नीति० . ... .. ... ८२ शृङ्गार० नीति० नीति ३८ ... . ... वैराग्य. २४ १५३ ६२ ८१ शृङ्गार. नीति० ... AAMSAR १५२ 0 वैराग्य० वैराग्य. वैराग्य० .. ... ... ... श्लोकारम्भ.। निन्दन्तु नीतिनिपुणा यदि निवृत्ता भोगेच्छा पुरुष नूनं हि ते कविवरा विपरीत नूनमाज्ञाकरस्तस्या नेता यस्य बृहस्पति नैवाकृतिः फलति नैव... नो सत्येन मृगाङ्क एष पद्माकर दिनकरो विकच परिक्षीण कश्चित्स्पृहयति परिभ्रमसि कि मुधा वचन परिमलभृतो वाता शाखा परिवर्तिनि ससारे मृत. परेषा चेतासि प्रतिदिवस- पाणि पात्रं पवित्रं भ्रमण- पाणि पात्रयता निसर्ग- पातालमाविशसि यासि पान्थस्त्रीविरहानला- पापानिवारयति योजयते पुण्ये ग्रामे वने वा महति पुण्यमूलफलैस्तथा प्रणयिनी प्रणयमधुरा. प्रेमोदारा. प्रथितः प्रणयवतीनां प्रदानं प्रच्छन्नं गृहमुपगते प्रसह्य मणिमुद्धरेत् प्राड्यामेति मनागनागत- प्राणाघातानिवृत्तिः पर- प्राप्ताः श्रियः सकलकाम- प्रारभ्यते न खलु विघ्नभयेन प्रियसख विपद्दण्डाघात- प्रिया न्याय्या वृत्तिमलिन- प्रोद्यत्प्रौढप्रियड्डद्युति- फलं स्वेच्छालभ्यं प्रतिवन- कलमलमशनाय खादु बाले लीलामुकुलित- ८४ -- १७८ १०२ ३९ १२७ ... १२७ .. वैराग्यः शुशार नीति वैराग्य. वैराग्य. गृङ्गार० शृङ्गार० नीति. नीति शृङ्गार नीति ... १०२ ... ५७ ३ ... २४ ... ... ५४ RO AU वैराग्य. ... ૭૨ ४३ ... ... नीति नीति नीति० शङ्गार० वैराग्य० वैराग्य. शृङ्गार - ९८ ... १२८ १४८ ६२ (६) शतके। लोक । पृष्ठे। १ ३ ... १३ ११९ . १७१ ... ९२ . ... . ४० १३७ ... ६८ G ० ... ... १२० १७२ ० . ३ १३० ... . ... ११४ ... . ... . .. श्लोकारम्भः। बोद्धारो मत्सरग्रस्ताः ब्रह्मज्ञान विवेकनिर्मलधियः ब्रह्माण्ड मण्डलीमात्र ब्रह्मा येन कुलालव- ब्रह्मेन्द्रादिमरुद्गणां- भक्तिर्भवे मरणजन्मभय भमाशस्य करण्डपिण्डित- भवन्ति नम्रास्तरव. भिक्षाशनं तदपि नीरस- भिक्षाशी जनमध्यसगरहितः भिक्षाहारमदैन्यमप्रति- भीम वनं भवति यस्य भोगा न भुक्ता वयमेव भोगा भड्डरवृत्तयो बहु- भोगा मेघवितानमध्य- भोगास्तुगतरङ्गभङ्ग भोगे रोगभय कुले भ्रान्तं देशमनेकदुर्गविषमं भ्रूचातुर्यात्कुञ्चिताक्षा.... मणि शाणोल्लीढ समर- मजलम्भसि यातु मेरुशिखरं मत्तेभकुम्भदलने मुवि... मधु तिष्ठति वाचि योषिता-... मधुरय मधुरैरपि मनसि वचसि काये पुण्य- महाशय्या पृथ्वी विपुल- महेश्वरे वा जगता- मातर्मेदिनि तात मारुत मातर्लक्ष्मि भजख कंचि- मात्सर्यमुत्सार्य विचार्य माने म्लायिनि खण्डिते मालती शिरसि जृम्भणं मुखेन चन्द्रकान्तेन मुग्धे धानुष्कता केयं नीति. वैराग्य. वैराग्य. नीति० वैराग्य वैराग्य. नीति० नीति वैराग्य. वैराग्य वैराग्य० नीति० वैराग्य० वैराग्य वैराग्य. वैराग्य वैराग्य० वैराग्य. शृङ्गार नीति नीति० शृङ्गार. शृङ्गार. शृङ्गार० नीति वैराग्य० वैराग्य० वैराग्य वैराग्य. रागार० वैराम्य० शृङ्गार० राङ्गार. शृङ्गार. ३९ ३५ ३४ ३१ २ ३ १३३ १३१ १११ . . ... 0 २३ ... ३५ ९८ ... ७३ ६. ८२ ... . ... ० ९४ १७१ ... ... ... १७१ ३६ ... १६२ २३ १६ ur rur ६५ ६४ سم (७) शतके। श्लोकः । पृष्ठे नीति ... वैराग्य ५९ .. ० ६४ ... .. . वैराग्य नीति नीति० वैराग्य वैराग्य. नीति नीति० १९ ३६ १५९ १३८ ४२ .. . ४८ ... नीतिक ... ... ९४ ६८ ... ... ४८ ... १६५ ... ... ३२ २१ श्लोकारम्भः। मृगमीनसज्जनानां तृण- मृत्पिण्डो जलरेखया वलयितः मोहं माजय तामुपार्जय मौनान्मूकः प्रवचनपटु- यः प्रीणयेत्सुचरिते. यतो मेरुः श्रीमानिपतति यत्रानेक क्वचिदपि गृहे यथा कन्दुकपातेनोत्पतत्यायः यदचेतनोऽपि पादै. स्पृष्टः यदा किचिज्ज्ञोऽहं यदासीदज्ञानं स्मरतिमिर- यदा योगाभ्यासव्यसन- यदेतत्पूर्णेन्दुद्युतिहर- यदेतत्स्वच्छन्दं यद्धात्रा निजभालपट्ट- यस्यास्ति वित्तं स नरः यावत्वस्थमिदं शरीरमरुज या साधूंश्च खलान्करोति ये वर्तन्ते धनपतिपुरः ये संतोषनिरन्तरप्रमुदिता- रत्नैर्महाब्धेस्तुतुषुर्न रम्यं हर्म्यतलं न कि वसतये... रम्याश्चन्द्रमरीचयस्तृणवती रागस्यागारमेकं नरक- राजस्तृष्णाम्बुराशेर्न हि राजन्दुधुक्षसि यदि क्षिति- रात्रि सैव पुन. स एव लभेत सिकतासु तैल- लाडूलचालनमधश्चरणाव- लीलावतीना सहजा लोभश्चेदगुणेन कि वक्र चन्द्रविकासि पङ्कज वचसि भवति सङ्गत्याग- वने रणे शत्रुजलाग्नि- १६१ ... २८ १२९ शृङ्गार शृङ्गार. शृङ्गार० वैराग्य. नीति नीति वैराग्य नीति वैराग्य वैराग्य नीति वैराग्य. वैराग्य शृङ्गार० शृङ्गार. नीति. वैराग्य- नीति नीति २९ १२९ ... ... ७९ १६५ ... २९ २८ ४४ ... १४४ ... - १३ ४७ ... २८ शृङ्गार नीति रङ्गार० शृङ्गार० नीति - 4.. ... : : ९९ (८) श्लोक। पृष्ठे ० ४८ १४४ .. १४८ .. २८ - ... शतके। वैराग्य वैराग्य नीति नीति वैराग्य वैराग्य नीति नीति नीति० वैराग्य • १६० ११५ ... १९ ... . ७८ ... ... ... 0 ८६ ७.. वैराग्य ४७ १४३ . . १६ ७.. ० . . ... HI ... नीति नीति वैराग्य० शृङ्गार० शृङ्गार० नीति १०४ ... ... ९१ ६७ - ... श्लोकारम्भ । वय येम्यो जाताश्चिर- वयमिह परितुष्टा वल्कलै- वरं शृङ्गोत्सङ्गाद्गुरु वरं प्राणोच्छेद समद- वर्ण सित झटिति वलीमिर्मुखमाक्रान्तं वहति भुवनश्रेणि शेष. वहिस्तस्य जलायते वाञ्छा सज्जनसगतौ वितीर्णे सर्वस्वे तरुण- विद्या नाधिगता कलत्र विद्या नाम नरस्य रूप विपदि धैर्यमथाभ्युदये विपुलहृदयैरीशैरेतज्जग-- वियदुपचितमेघं भूमय. विरमत बुधा योषित्सङ्गा- विरम विरमायासाद- विरहेऽपि संगम खलु विश्रम्य विश्रम्य वन- विश्वामित्रपराशरप्रभृतयो विस्तारितं मकरकेतन- वेश्यासौ मदनज्वाला... व्याघ्रीव तिष्ठति जरा व्यादी'ण चलेन व्याल बालमृणाल- शक्यो वारयितुं जलेन शंभुखयंभुहरयो शशी दिवसधूसरो शास्त्रज्ञोऽपि प्रगुणित-- शास्त्रोपस्कृतशब्दसुन्दरगिर शिर शार्व वर्गात्पशु- शुभ्रं सम सविभ्रमा युवतयः । शृङ्गारट्ठमनीरदे श्रोत्रं श्रुतेनैव न कुण्ड- ... DA ... ... ... ... ९२ ६५ २१ - ८० ६७ ९९ ८५ .. ... ... शृङ्गार० रागार शृङ्गार. शृङ्गार० शृङ्गार वैराग्य. शृङ्गार नीति ८८ १३५ ... नीति 0 ९ ... ... १ ४५ ... ९८ ... ११ . . ९ शृङ्गार० नीति० शृङ्गार० नीति नीति नीति० शृङ्गार० नीति० ८ ९४ ३० ... ...
(९) श्लोकारम्भः। शतके। श्लोकः । ... शृङ्गार० झार० झार० ... ३१ Rani वैराग्य. my ur . ... शृङ्गार० गृङ्गार० नीति० नीति नीति ३८ ... ... ... ० गृङ्गार श्ङ्गार० नीति० ९६ ४ ... ... ... १०३ ... ४१ २० ससार तव पर्यन्त-.. ससारेऽस्मिन्नसारे ससारे स्वप्नसारे परिणति- स जातः कोऽप्यासीन्मदन सति प्रदीपे सत्यग्नौ सत्यं जना वच्मि सत्यानृता च परुषा प्रिय सतप्तायसि सस्थितस्य... सन्त्यन्येऽपि बृहस्पतिप्रभू- सन्मार्गे तावदास्ते प्रभवति स परप्रतारकोऽसौ निन्दति संपत्सु महता चित्तं सहकारकुसुमसर- सा रम्या नगरी महान्स सिह. शिशुरपि निपतति सिद्धाध्यासितकन्दरे सुधाशुभ्र धाम स्फुरद- सृजति तावदशेष- स्तनौ मासग्रन्थी कनक- बीमुद्रा कुसुमायुधस्य .. स्थाल्या वैदूर्यमय्यां पचति स्वाला गाङ्गै पयोभिः. स्फुरत्स्फारज्योत्स्नाधवलिततले स्मित किंचिन्मुग्धं सरल - स्मितेन भावेन च लज्जया म्मृता भवति तापाय सजो हृद्यामोदा व्यजन- खल्पस्नायुवसावसेकमलिनं वायत्तमेकान्तहितं हर्तुर्याति न गोचर किमपि हिंसाशून्यमयत्नलभ्यमशनं हेमन्ते दधिदुग्धसर्पि- - १०४ वैराग्य. नीति० शृङ्गार० गृङ्गार० नीति. वैराग्य. शृङ्गार नीति वैराग्य० ३२ ८९ ८६ १६ m ... ... ... ... १२० 0 ... ... वैराग्य० १६८ १६६ - ... ... शृङ्गार० शृङ्गार. ६ २ ४२ ... १०३ ... झार० शृङ्गार नीति. नीति नीतिक २२ ... ६ १२ वैराग्य० andee शृङ्गार.
No text on this page.
No text on this page.