Scl

A Vedic Word Concordance Vol 5 Part 2

Visva Bhandu

PDF Proofread

Front matter

No text on this page.

श्रीराजस्थान-संस्कृत-कालेज-प्रन्थमालायाः ३५ रत्नम्
अनुभूतिस्वरूपाचार्यविरचितम्-
सारस्वतं व्याकरणम्
(पूर्वार्द्धम् )
श्रीगुरुप्रसादशास्त्रिसङ्कलितया प्रसाद-चन्द्रकीयां-
दिसारभूतया अत्युत्तमया सरलाख्यटीकया विराजितम् ।
[ अत्युत्तमं सटीक संस्करणम् ]
प्रकाशका
भार्गवपुस्तकालयः,
गायघाट, काशी।
द्वितीयं संस्करणम्
२०००
--
१९४२
मूल्य 12)

मुद्रक
पं० कैलासनाथ भार्गव,
भार्गव भूषण प्रेस, गायघाट, बनारस सिटी।

ॐ सरलाटीकाऽलतं सारस्वतव्याकरणम् । अथ संज्ञाप्रकरणम् । प्रणम्य परमात्मानं बालधीवृद्धिसिद्धये। सारस्वतीमृजु कुर्व प्रक्रियां नातिविस्तराम् ॥ १ ॥ श्रीगुरुप्रसादशास्त्रिसङ्कलिता सरला चन्द्रकीर्त्यादिटीकाभ्यः सारमाकृष्य सारवित् । गुरुप्रसादस्तनुत सरलां प्रक्रियानुगाम् ॥ १॥ प्रणम्येति । अहमनुभूतिस्वरूपाचार्यः सारस्वती सरस्वतीप्रणीतसूत्र- सम्बन्धिनीम्-प्रक्रियामृजु सरलां कुर्व विदधे | लोकप्रसिद्धशब्दव्युत्पादनार्थ- मीषद चयामीत्यर्थः । किं कृत्वा ? । परमात्मानं परमेश्वरम् । प्रणम्य-प्रकर्षण मनोवाकायैर्नत्वा-इत्यर्थः । ननु 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायो जागर्चि, अतो- ऽत्र प्रक्रियाया ऋजुकरणे किं प्रयोजनमित्यत आह-बालधीवृद्धिसिद्धये इति । सत्स्वपि महाभाष्यादिषु तेषां गहनत्वेन बालानां सम्यगप्रबोधात् , स्वल्पबुद्धीन् जनांस्तेषु ग्रन्थेषु चानादरान् सम्भाव्येमा प्रक्रियामवैयाकरण- बालबुद्धिवर्धननिष्पत्त्यर्थं कुर्वे इत्यर्थः । चिकीर्षितायामपि प्रक्रियायां वक्रत्व- करणेऽस्यां भूयांसो जना निरादरा स्युरतस्तन्निरासार्थमाह-ऋजुमिति ।

सारस्वतव्याकरणम् [संज्ञा- ? इन्द्रायोऽपि यस्याऽन्तं न ययुः शब्दद्वारिधः । प्रक्रियां तस्य कृत्स्नस्य क्षमो वक्तं नरः कथम् ? ॥ २ ॥ तत्र तावत्सज्ञा संव्यवहाराय सङ्गृह्यते । सरलामित्यर्थः । सरस्वतीदत्तसूत्राणां क्रममुत्सृज्य प्रयोगसाधनार्थ यत्र तत्र स्थितानां सूत्राणामनुक्रममेलनेन ऋजु सरला कुर्वे इत्यर्थः । पुनः कथम्भूतां- नातिीवस्तराम् । विस्तरः-शब्दबाहुल्यं, तेन रहितां, स्वल्पग्रन्यां प्रचु- रामिथः एतावता सर्वाण्यपि सूत्राण्यादायोदोहरणसाधनार्थ बालव्युत्पत्त्यर्थं च दीपिकाकल्यामिमां प्रक्रियां कुर्वे इति भावः । अत्र बालधीवृद्धिः प्रयोज- जम् । शब्दा विषयाः । बालाश्चाधिकारिणः । प्रतिपाद्यप्रतिपादकमावश्च सम्बन्ध इत्यवधेयम् ।। १ ।। 'ननु विस्तरः कथं निरस्तः' इत्याशङ्कानिवारकं, किञ्च स्वगर्वापहार सुचकं द्वितीयश्लोकमाह-इन्द्रादयोऽपीति । इन्द्रादयो देवाः। अपिशब्दाद्वधासवाल्मीक्यादय ऋषयोऽपि । यद्वा- इन्द्रादयोऽष्टौ प्राचीना व्याकरणकर्तारोऽपि । यस्य शब्दवारिधे: शब्दसमु- दस्य व्याकरणस्य-अन्तं पारं, न ययुः= न प्रापुः, तस्य कृत्स्नस्य-समग्रस्थ शब्दवारिधेः, प्रक्रियां शब्दव्युत्पादनविद्यां वक्तु नर: मल्लक्षणो मनुष्यः कथं क्षमः कथं समर्थो भवति ? । न भवतीत्यर्थः । अतः कारणात् संक्षेपत: कथयामीत्यर्थः । इन्द्र आदियेषां ते इन्द्रादयः । इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ हि शाब्दिकाः ।। इति ।।' तत्रेति । तत्र-तस्यां सारस्वतीप्रक्रियायां, तावत् आदी प्रथममेव । समानस्वरादीनां संज्ञानाम मया संगृह्यते । कस्मै प्रयोजनाय ? । संव्यव- हाराय-सम्यक्शास्त्र व्यवहाराय । शास्त्रं हि संज्ञां विना न सम्यगवबुध्यते । यथा किल लोकेऽपि श्रूयते-'अयं राजा' 'अयममात्यः' 'अयं यज्ञदत्तः' अयं देवदत्तः' इत्यादि, तथाचारि समानादिसंज्ञा शास्त्रव्यवहाराय संगृह्यते इति भावः ।

प्रकरणम् ] सरलाटीकाविराजितम् अ इ उ ल समानाः। १ । अनेन प्रत्याहारग्रहणाय वर्णाः परिगण्यन्ते, तेषां समानसंज्ञा च विधीयते । नैतेषु सूत्रेषु सन्धिरनुसन्धेयोऽविवक्षितत्वात् । 'विवक्षितस्तु सन्धिर्भवतीति नियमात् । लौकिकप्रयोगनिष्पत्तये समयमात्रसत्वाच्च ।। १ ।। ? , 'अ इ उ' इत्येतत्सूत्रं कार्यद्वयविधायक, वर्णपरिगणननिरूपकं समान- संज्ञानिरूपकं चेयर्थः । तदेवाह-अनेनेति । अनेन-उक्तवक्ष्यमाणसूत्र - समुच्चयेन प्रत्याहारग्रहणाय वर्णा अक्षराणि परि सामस्त्येन गण्यन्ते संख्या- यन्ते परिपाट्या प्रकाश्यन्ते, च-पुनस्तेषां पूर्वोक्तानाम् अइउल अक्षराणा समानसंज्ञा-समान इति नाम विधीयते क्रियते इत्यर्थः । ननु 'अइउलु' इत्यादिषु सूत्रेषु सन्धिः कथं न कृतस्तत्राह-नते- विति । एतेषु-उक्तवक्ष्यमाणेषु सूत्रेषु । सन्धिर्नानुसन्धेयः न कर्तव्यः । कस्मात् ? । 'अविवक्षितत्वात्' । वस्तुमिष्टो-विवक्षित: । यद्वा वक्तुमिच्छा विवक्षा, विवक्षा जाता अस्येति विविक्षतः, न विवक्षितोऽविवक्षितः, तस्य भावो-विवक्षितत्वं, तस्मात्-अविवक्षितत्वात् वक्तुमवाञ्छितत्वात् । हेत्वन्तरमाह-विवक्षितस्त्विति। तु-पुनर्विवक्षित एव सन्धि- भवति नाविवक्षित इति, नियमात्-गुर्वाम्नायनिश्चयात् । यत्र सन्धौ कृते कार्यशो भवति सोऽविवक्षितः मन्धिः । यथा---'अ इ उ ऋ लु' इत्यस्य 'लु' इति । यत्र न सन्धौ कृते कार्यसिद्धिर्भवति स विवक्षितः सन्धिः । यथा-~ई च ऊ च ए च 'वे' इत्यादिषु न निषेधः । तत्र हेतुमाह-लौकिकेति । लोक्यन्ते विलोक्यन्ते शब्दापशब्दा अनेनेति लोको व्याकरणं, लोके भवा लौकिका अनादिसिद्धास्ते च ते प्रयोगाश्च लौकिकप्रयोगास्तेषां निष्पत्तिः सिद्धिः-लौकिकप्रयोगनिष्पत्तिस्त- स्यै-लौकिकप्रयोगनिष्पचये । समयमात्रत्वात् सूचनामात्रकृत्वात् । विभ- क्त्यादिसङ्केतरूपत्वाच्छास्त्रस्येति, सन्धिर्न कृतः । अस्य व्याकरणस्य सङ्केत- ,

uy
सारस्वतव्याकरणम्
[संज्ञा-
हस्वदीर्घप्लुलभेदाः सवर्णाः । २।
एतेषां ह्रस्वदीर्घप्लुतभेदाः परस्परं सवर्णा भण्यन्ते । 'लोका-
च्छेषस्य सिद्धि'रिति वक्ष्यति, ततो लोकत एव ह्रस्वादिसंज्ञा ज्ञात-
व्याः । एकमात्रो ह्रस्वः, द्विमात्रो दीर्घः, त्रिमात्रः प्लुतः ।
व्यसनचार्धमात्रकम् । एषामन्येऽप्युदात्तादिभेदाः सन्ति । उच्चै-
रूपत्वाद्विभक्त्यनुपलम्भेऽपि अर्थानुसारेण साङ्केतिकं पदं व्यवहर्तव्यम् ।।
चशब्दो हेत्वन्तरसूचकः । अत्र के प्याहुः-लोके भवा लौकिका बाला-
स्तेषां प्रयोगनिष्पतिस्तस्यै सूचनमेवोक्तमत्रास्तीति भावः । अस्य व्याकरणस्य
सङ्केतरूपत्वाद्विभक्त्यनुपलम्भेऽप्यर्थानुसारेण साङ्केतिकं पदं व्यवहर्त्तव्यम् ।
कृते हि सन्धिकायें 'अटल' इति पदं भवति, तथापाठे च मन्दबुद्धयो जनाः
सायासाः संजायन्ते, यकागदीनां च स्वरसंज्ञाप्रसक्तिर्भवति, अतोत्र
सन्धिन कृतः ॥
हस्वेति । एतेषां समानानां हस्वदीर्घप्लुतभेदाः परस्परमन्योन्यं
स्वजातीयेन सवर्णा भण्यन्ते कथ्यन्ते । लोकादित्यादि । शेषस्य सर-
स्वतीव्याकरणेऽनुक्तस्य सिद्धिनिष्पत्तिोंकात् अन्यव्याकरणात् ज्ञेया ।
लोकात्-गुरुपारम्मर्याद्वा | "अवगन्तव्ये ति शेपः । अस्य ग्रन्थस्यान्ते
"लोकात्---' इति पदं वक्ष्यति-कथयिष्यति । ततस्तस्मात्कारणाल्लोकतो.
ऽन्यव्याकरणादेव हस्वादिसज्ञा ज्ञातव्याः ।
लोकोक्तमेव ह्रस्वादीनां लक्षणमाह-एकति । एका मात्रा
उच्चारणकाले यस्य स एकमात्रो हस्त्र उच्यते । अक्षिस्पन्दन-
१ 'एकमात्रा भवेद्धस्वो द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जञ्चाद्धमात्रकम् ॥ १ ॥
चाषस्तु वदते मात्र द्विमात्रन्त्येव वायसः ।
शिखी रौति त्रिमात्रन्तु नकुलस्त्वर्द्धमात्रकम् ॥ २ ॥

७ प्रकरणम् ] सरलाटीकाविराजितम् रुपलभ्यमान उदात्तः। नीचैरनुदात्तः । समवृत्त्या स्वरितः । सानुनासिको निरनुनासिकश्च ॥ २ ॥ ए ऐ ओ औ सन्ध्यक्षराणि । ३ ३। एषां ह्रस्वा न सन्ति ॥ ३॥ उभये स्वराः । ४। प्रमाणः कालो मात्रा । द्वे मात्रे उच्चारणकालो यस्य स द्विमात्रो दीर्घः । तिस्रो मात्रा उच्चारणकालो यस्य स त्रिमात्र: प्लुतः। अर्धमात्रायां भवमार्ध- मात्रिक व्यञ्जनमुच्यते। एवं मुखनासिकाभ्यां कृत्वोच्चार्यमाणो वर्णः सानुनासिकः। तद्वि- परीतो निरनुनासिकः। निर्गता नासिका उच्चार्यमाणकाले यस्मात्स निर- नुनासिकः । किन्तु केवलं मुखेनोच्चार्यमाणो वर्ण इत्यर्थः । उभये इति । उभौ प्रकारावयवौ येषां ते उभये । अकारादयः पञ्च- अ इ उ ऋल । चत्वार एकारादयश्च ए ऐ ओ औ। एते उभये मिलिताः नवसङ्ख्याः स्वरा उच्यन्ते कथ्यन्ते । चकारात्समानानां इस्वदीर्घभेदमेलनेन चतुर्दश स्वरा भवन्ति । यथा-अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ इति । अचामष्टादश भेदास्तद्वोधकं कोष्ठकम्- अइउल अ इ उ ए ओ ऐ औ अ इ उलए ऐ ओ औ हस्वभदाः। दीर्घभदाः । प्लुतभदाः । हस्व- दीर्घ- प्लुन- १ उदात्तानुनासिकः ७ उदात्तानुनासिकः १३ उदात्तानुनासिकः २ उदात्ताननुनासिकः ८ उदात्ताननुनासिकः १४ उदात्ताननुनासिकः ३ अनुदात्तानुनासिकः ९ अनुदात्तानुनासिकः १५ अनुदात्तानुनातिक: ४ अनुदात्ताननुनामिकः १० अनुदात्ताननुनासिकः १६ अनुदात्ताननुनासिकः ५ स्वरितानुनासिकः ११ स्वरितानुनासिकः १७ स्वरितानुनासिकः ६ स्वरिनाननुनासिकः १२ स्वरिताननुनामिकः १८ स्वरिनाननुनासिकः सारस्वतव्याकरणम् [संज्ञा- अकारादयः पञ्च, एकारादयश्चत्वार इत्युभये स्वरा उच्यन्ते ॥४॥ 'अ' वर्जा नामिनः । ५ । अवर्णवर्जाः स्वरा नामिन उच्यन्ते । अनुक्रान्तास्तावत्स्वराः।। प्रत्याहारजिग्राहयिषया व्यञ्जनान्यनुक्रामति, हयवरल, अणनङम, झढवधभ, जडदगब, छठयखफ, चटतकप, शषसेति ॥ ५ ॥ आचन्ताभ्याम् । ६। प्रत्याहारं जिघृक्षता आद्यन्ताभ्यामते वर्णा ग्राह्याः । आदि- वर्णोऽन्त्येन सह गृह्यमाणस्तन्नामा प्रत्याहारः । तथाहि-अकारो अवर्जा इति । अम् अवर्ण वर्जयन्तीत्यवर्जा: अवर्णवर्जाः । अवर्ण- वर्जा: अकाराकाररहिताः । स्वरा:-इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ एते द्वादश 'नामिन' उच्यन्ते इत्यर्थः । अनुक्रान्ता इति । तावदादी स्वरा अनुक्रान्ताः अनुक्रमेण कथिताः। व्यञ्जनानीति। व्यञ्ज्यन्ते प्रकटीक्रियन्तेऽर्थाः प्रत्याहारा वा एभिरिति व्यसनानि-अनुक्रामति । इदानी कथयति । कया? । ग्राहयितुमिच्छा जिग्रा- हयिषा । प्रति-कार्य कार्यमाहियन्ते आनीयन्ते इति प्रत्याहारा:-अनादय- स्तेषां प्रत्याहाराणां जिग्राहयिषा प्रत्याहारजिग्राहयिषा, तया-प्रत्याहारजि- ग्राहयिषया । व्यञ्जनान्यनुकामतिः अनुक्रमेण कथयति । प्रत्याहारमिति । प्रत्याहियन्ते-सक्षिप्यन्ते वर्णा यत्रेति प्रत्या- हारः, तं प्रत्याहारं जिघृक्षता-ग्रहीतुमिच्छता छात्रेण पुरुषेण वा आद्य- न्ताभ्यां कृत्वा आद्यन्तवर्णाभ्यां सह एते हकारादयः सकारपर्यन्ता: वर्णा- स्त्रयस्त्रिंशद्धसा ग्राह्याः । प्रत्याहारं व्यञ्जयन्नाह-आदिवर्ण इति। आदो वर्णः-आदिवर्णः, सोऽन्तस्थेन वर्णेन अक्षरेण सह गृह्यमाण: उच्चार्यमाणो वा अबप्रत्याहारादिस्तन्नामा प्रत्याहार उच्यते । तदेव-ओद्यन्तवर्णात्मकमेव । नाम यस्य स तन्नामा ।

९ प्रकरणम्] सरलाटीका विराजितम् बकारेण सह गृह्य माणोऽप्रत्याहारः । स च अइउऋलु, एरे ओऔ, हयवरल, अणनङम, झढवधम, जडदगब,-इ त्सङ्ख्याकः सम्पद्यते । चटतकप इति चपात्याहारः । झढधघम इति झअप्रत्याहारः । जढदगब इति जबप्रत्याहारः । अणनङम इति अमप्रत्याहारः । एवं यत्र यत्र येन येन प्रत्याहारेण कृत्यं स तत्र तत्र ग्राह्यः । सङ्ख्या(ऽ)नियमस्तु नास्ति ॥ ६ ॥ स च-अबप्रत्याहारश्च । इति एतावत्संख्याक इत्यमुना प्रकारेण । एता- वता एकोनत्रिंशद्वर्णप्रमाणा संख्या यावत्संपद्यते भवति । आकारादिसवर्ण- ग्रहणात्त चतुस्त्रिंशद्वर्णप्रमाणसंख्या भवति । चटतकप इति पञ्चभिरक्षरैः चपप्रत्याहारो भवति । आद्यन्तयोश्च कारपकारग्रहणेन चपः । एवं झढधघम इत्याद्यन्तयोझकारभकारयोग्रहणेन झभः । जडदगब इत्यत्र जकारबकारया- ग्रहणेन जबः । एवमिति । एवम् अमुना प्रकारेण । यत्र यत्रोदाहरणे येन प्रत्या- हारेण सह कृत्यं कार्य भवति स स प्रत्याहारस्तत्र तत्रोदाहरणे ग्राह्यः । प्रत्याहाराणां सङ्ख्यानियस्तु नास्ति, यत् इयन्त एव प्रत्याहाराः सन्तीति । परेतु---'सङ्ख्याऽनियमस्तु नास्ती'ति च्छित्वा पुत्र सङ्ख्यानियममेवेच्छन्ति । तथाहि तेषां प्रत्याहारसग्रहश्लोकाः 'हसो झबो जबरचैव यपो अब इलश्चपः । अमो झभः खसः प्रोक्तो झसश्च छत ईरितः ।। यभो हबः खपश्चोक्तो डबश्च ढम इष्यते । रसो वसः शसः ख्याती झपो अब उदाहृतः ।। ओ उच्यते तत: प्राज्ञैः प्रत्याहारा उदाहताः। सौत्रा एते स्फुटं ज्ञेयास्तथा चान्ये यथामति ।। १ मझ्याऽनियमस्तु नास्तीति तु चन्द्रकीतिकृत्समतः पाठः ।

१० सारस्वतव्याकरणम् [संज्ञा- AN हसा व्यञ्जनानि । ७। हकारादयः सकारान्ता वर्णा हसा व्यञ्जनानि भवन्ति । स्वर- हीनं व्यञ्जनम् । तेष्वकारः सुखोच्चारणार्थत्वादित्संज्ञको भवति ॥७॥ कार्यायेत् । ८। प्रत्ययाद्यतिरिक्तः कस्मैचित्कार्यायोचार्यमाणो वर्ण इत्संज्ञको भवति । यस्येत्संज्ञा तस्य लोपः। प्रत्ययादर्शनं लुक् । वर्णादर्शनं । तथा च प्रत्याहारसङ्ख्याबोधकं कोष्टकम्- ७चप १२ छत २मत्र ३ जव ४ यप । ५ अब ९झम १० खस ११ झस १३ यम १४ हब १५ खप १६ डब १७ ढभ १८ रस १९ वस २० शय २१ छप । २२ अब २३ ओ १४ भव व्यञ्जनलक्षणमाह-स्वरहीनमिति । तद्व्यञ्जनं नाम यत्स्वरेभ्यो हीनं रहितम् । यद्वा स्वरेभ्यो हीनं व्यतिरिक्तम् । यद्वा स्वरविहीनमपरं यदक्षरं तद्व्यञ्जनसंज्ञं कथ्यते । सुखेनोच्चारणमेव अर्थः प्रयोजनं यस्य स सुखोच्चार- गार्थस्तस्य भावः सुखोच्चारणार्थत्वं, तस्मात् इत्संज्ञकः । प्रत्ययाति । आदिशब्दात् प्रत्ययागमादेशोपदेशेभ्योऽतिरि- तोऽधिकः । प्रत्ययादतिरिक्तः-अप्प्रत्ययादिः । आगमातिरिक्त:-नुडाग- मादिः । उपदेशः शिष्याख्यारूपः-हयवरलेत्यादिः । आदेश: 'पुंसोऽमुङ् इत्यादिरूपः । एषु कस्मैचित्कार्यायोच्चार्यमाणो वर्ण इत्संज्ञकोऽनुबन्धसंज्ञको भवतीति || कृत्यमाह-यस्येत्संज्ञा तस्य लोपः क्रियते । उच्चरितप्रध्वंसिनो ह्यनुबन्धा इति ॥ लोपलक्षणमाह-वर्णादेति। वर्णानामक्षराणामदर्शनमविलोकनं प्रध्वंसा- भावो लोप उच्यते ।। वर्णानां विरोधः सन्धिकार्यवर्जनं यस्मिन् स लोप ।

११ प्रकरणम् ] सरलाटीकाविराजितम् लोपः । वर्णविरोधो लोपश् । मित्रबदागमः । शत्रुवदादेशः । स्वरानन्तरिता हसाः संयोगः । कु चु टु तु पु वर्गाः। उकारः पञ्चवर्णपरिग्रहणार्थः ॥ ८ ॥ अरदोन्नामिनो गुणः । ९। नामिनः स्थानिका अर् ए ओ एते गुणसंज्ञका भवन्ति ॥९॥ आर औ वृद्धिः । १०॥ आ आर् ऐ औ एते वृद्धिसंज्ञका भवन्ति ॥ १० ॥ अन्त्यस्वरादिष्टिः। ११। अन्त्यो यः स्वरस्तदादिवर्णः स टिसंज्ञको भवति ॥ ११ ॥ अन्त्यात्पूर्व उपधा । १२ । अन्त्याद्वर्णमात्रात्पूर्वो यो वर्णः स उपधासंज्ञको भवति । असं- एव लोपश कथ्यते । एक वर्ण विनाशयत्यन्यस्योत्पत्ति प्रतिबध्नातीति लोप- श् । तत्कार्य-'लोपशि पुनर्न सन्धिः' इति । यथा-त आगता इत्यादि ।। आगमो मित्रवत् । मित्रं मित्रस्य समीपे आगत्योपविशति तथागमो- ऽप्यायाति । यथा 'नः सक् छते' इति सगादिः ।। आदेशः शत्रुवत् । यथा शत्रु:शत्रु विनाश्य तत्स्थाने तिष्ठति तथा आदेशोऽप्यादेशिनं विनाश्य तस्य स्थाने भवति । शसः सकारस्य नकारादेशवत् । नामिस्थानिका:--नामिनां स्थाने जाता:-कारस्य ऋकारस्य च अर, इकारस्य ईकारस्य च ए, उकारस्य ऊकारस्य ओ, एते च त्रयो- गुणसंज्ञका भवन्ति । लुकारस्तु सावात् ग्राह्यः । तेन लुकारस्य अल गुणः । अकारस्य आ वृद्धिः । ऋकारस्य आर वृद्धिः । इवर्णस्य एकारस्य ऐ वृद्धिः, उवर्णस्य आकारस्य च औ वृद्धिः । एते चत्वारः वृद्धिसंज्ञका उच्यन्ते । ऋकारलकारयोः सावर्णादेव लकारस्याऽऽल वृद्धिः ।

१२ सारस्वतव्याकरणम् [संज्ञा- योगादिपरो हरवो लघुः, विसर्गानुस्वारसंयोगादिपरो दीर्घश्च गुरुः ॥ १२ ॥ मुखनासिकावचनोऽजुनासिकः । १३ । मुखनासिकाभ्यामुच्चार्यमाणो वर्णोऽनुनासिकः । द्विबिन्दु- लिगः । शिरोबिन्दुरनुस्वारः। अकुहक्सिजनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां भूधी । लतुलसानां दन्ताः । उपूपध्मानीयानामोष्टी । ञमङणनानां नासिका च । एदैतौः कण्ठतालु । ओदौतोः कण्ठोष्टम् । वकारस्य दन्तोष्ठन् । क इति जिह्वामूलीयः। प इत्युपध्मानीयः । अं इत्यनुस्वारः । अः इति विसर्गः। वर्णग्रहणे सवर्णग्रहणम् । 'कार' ग्रहणे केवल- प्रणम् । तपरकरणं तावन्मात्रार्थम् । अनुक्का अपि ज्ञेयाः ॥ १३ ॥ इति लारस्वत संज्ञाप्रक्रिया । - संयोगविसर्गानुस्वागः परे अग्रस्था यस्मात्स संयोगादिपरः, न संयो- गादिपरः असंयोगादिपरः एवंभूतो हस्त्रो वर्णो लघुरुच्यते । विसर्गानुस्वारेति। विसर्गानुस्वारसंयोगाः परे अग्रे वर्तमाना यस्मात्स विसर्गानुस्वारसंयोगपरः । विसर्गपरो यथा-अः । अनुस्वारपर:- अं। संयोगपरो यथा-अस्य । एवंभूतो ह्रस्वो.पि गुरुः पुनर्दीर्घश्च । तदेवं चतुर्दश स्वराः, त्रयस्त्रिद्वयजैनौनि, अनुस्वारः, विसर्गः, जि- हामूलीयः, उपध्मानीयः, प्लुतश्चै । एवं द्विपञ्चाशदक्षराणि । एतेपामष्टी स्थानानि सन्ति । तान्याह-अकुहेति । 'वर्णग्रहणे सवर्णग्रहणं', कारग्रहणे केवलग्रहण', 'तपरग्रहणे तावन्मा- ग्रहण'मिति शिष्टसङ्केतः । " स्थिते दध् प्रकरणम् ] सरलाटीकाविराजितम् १३ अधना स्वरसन्धिर्विधीयते । इयं स्वरे । १। इवर्णो यात्वमापद्यते स्वरे परे । दवि आनय इति य् आनय इति तावद्भवति ॥ १ ॥ हसेऽहहसः । २। स्वरात्परो रेफहकारवर्जितो हसो हसे परे द्विर्भवति । इति अक्षराणामन्योन्यं सन्धानं-मेलनं-सन्धिः । तत्राप्यादौ स्वरसन्धिः। स्वराणां सन्धिः स्वरसन्धिः । ननु सति अकारे इकारसन्धिरादावेव कथं प्रतिपादितः । तत्राच्यते-- ईकारः सावित्रीरूपः शक्तिरूपः । सा च सर्वजगत्सृष्टिकर्ती । तस्मात्पूर्व स प्रतिपादितः। 'वर्णग्रहणे सवर्णग्रहणम्' इति वचनात् इवर्ण इकाररूप ईकार- रूपश्च यत्वं यकारमापद्यते-प्राप्नोति स्वरे परे । 'हस्वदीर्घप्लुतभेदा' इति अकारस्य स्वरत्वं आकारस्थापि स्वरत्वं सिद्धमेव । दधि अग्रे आनाय । 'इ यं स्वरे' अनेन सूत्रेण इकारस्य यकारः । दधय आनय इति जातम् । ननु दधि आनयेत्यत्र 'नामिनः स्वरे' इति नुमागमः कथं न क्रियते ? । तत्राइ- 'नामिनः स्वरे' इति तु स्यादिविभक्तिसप्तकस्वरे परे भवति न त्वन्यत्र । तहि 'यस्य लोप:' कथं न क्रियते ? । तत्राह-'यस्य लोपः' इति तु ईपि तद्धिते कृते स्वरे यकारे च परे सति भवति न त्वन्यत्र । दध्य आनयेत्यत्र 'संयोगान्तस्य लोपः' इत्यस्य प्राप्तौ 'असिद्ध बहिरङ्गम्' इति यलोपनिपेधः। यद्वा-'संयोगान्तस्य लोपः' इत्यस्य प्राप्तौ 'असिद्धं बहिरङ्गम्' इति यलोप- निषेधः। यद्वा--'संयोगान्तस्य लोपः' इति स्वाभाविकसंयोगान्तविषयः । प्रक्रियायां तु 'संयोगान्तस्य'ति लोपे प्राप्ते 'यणः प्रतिषेधो वाच्यः । स्वरादिति । स्वरात् हस्वस्वरात्सरो में वर्तमानो रेफहकारवजितो न्यो १ गई' इति पाठान्तरम् ।

सारस्वतव्याकरणम् [स्वर- धकारस्य द्वित्वम् । पुनर्द्वित्वे प्राप्त न द्विरुक्तस्य द्विरुक्तिः। द्वित्व- विधानसामर्थ्यावावेव शिष्येते, अन्ये हसा लुप्यन्ते ॥ झमे जबाः ।। झसानां झमे परे जबा भवन्ति । इति पूर्वधकारस्य दकारः, सवर्णत्वात् । बिग्र्यो वर्येण सवर्णः' इति वचनात् । यथासंख्य वा वक्तव्यम् । *स्वरहीनं परेण संयोज्यम् । दद्ध्यानय इति । हसो हसप्रत्याहारसम्बन्धी वर्णो हसे परे सति द्विर्भवति । द्वयोर्भावो द्वित्वम् । एकस्य द्वौ भवत इत्यर्थः । द्वित्वमिति । द्वित्वे कृते पुनर्द्वित्वं न भवति, अनवस्थादोषप्रस- ङ्गात् । द्वित्वविधानात् द्वावेव शिष्येते इति दध्य आनयेति जातम् । ननु झसास्त्रयोविंशतिः जबाः पञ्चैव तेन न यथासंख्यमिति धकारस्य दकार एव कथं क्रियते ? । तबाह-सवर्णत्वादिति ह-सवर्णत्वादिति । सवर्णत्वात् धकारस्य दकारो भवति । ननु धकारदकारयोः सावर्ण्य कथमित्याह-वर्यो चर्येण सवर्ण इति । वर्गे भवो वो वर्णः वयेण-स्ववर्गान्तवर्तिना अक्षरेण सह सवर्णो भवतीति सवर्णत्वात् धस्य दः । यथासङ्ख्यामिति । यथासङ्खथं झढध जडदेत्यनेनापि धस्य दः। अत्र तु सवर्णत्वात् यथासङ्खयमित्युभय- थापि धस्य दकारो भवति । परमग्निमभ्यामित्यत्र सवर्णत्वादेव थकारस्य दकारो भवति न तु यथासङ्ख्यम् । स्वरहीनमिति । स्वरेण हीनं रहितं १ 'तकं न रोचतेऽस्माकं दुग्धं च मधुरायते । अन्नप्ररोचनार्थाय दध्यानय वरानने ! ॥ दधि न श्रूयते कर्णे घृतं स्वप्ने न दृश्यते । मुग्धे ! दुग्धस्य का वार्ता तक शक्रस्य दुर्लभम् ॥ कृतस्य करणं नास्ति मृतस्य मरणं न हि । पिष्टस्य पेषणं नास्ति द्वितीये त्रितयं न हि ॥

१५ सन्धिः ] सरलाटीका विराजितम् सिद्धम् । गौरी अत्र । अति विशेषणान्न रेफस्य द्वित्वम् , किन्तु॥३॥ राद्यपो द्विः। ४। स्वरपूर्वाद्रेफात्परो यपो द्विर्भवति । जलतुम्बिकान्यायेन रेफ- स्योर्ध्वगमनम् । गौयंत्र | स्वर इत्यनुवर्तते । एवमन्यत्रापि यत्र ने सूत्राक्षरैः कार्यसिद्धिस्तत्र सर्वत्र सूत्रान्तरात्पदानुवृत्तिर्ज्ञातव्या । प्रन्थभूयस्त्वभयानास्माभिलिख्यते ॥ ४ ॥ यदक्षरं तत्परेण अग्रस्थितेन स्वरेण वर्णेन सह संयोज्यम् । तेन दच्यानयेति सिद्धम् । स्वरेति । स्वरः पूर्व आदौ यस्य स स्वरपूर्वः, तस्मात् स्वरात्परस्मा- द्रेफात्परोऽप्रस्थो यपो द्विर्भवति इत्यर्थः । यकारस्य द्वित्वम् ।। जलतुम्बिकेति । यथा तुम्धी जलस्योपरि तिष्ठति तथा रेफोऽपि वर्णस्योपरि गच्छति नल्वधः । स्वर इति । इतोऽ स्वरसन्धि यावत् सर्वेष्वपि सूत्रेषु 'स्वरे' इति पदमनुवर्तते-अन्वागच्छति । अनुक्तमपि ज्ञेयमित्यर्थः । यथा 'इ यं स्वरे' इत्यत्र 'स्वरे' इति पदम् । तथा तत्र 'उ वम्' इत्यादिष्वपि ज्ञेयम् । एव- ममुना प्रकारेण, अन्यत्र योगेष्वपि यत्र केवलसूत्राक्षरैः कार्यसिद्धिर्न भवति - १ जलतुम्बिान्यायस्त्वित्थमुच्यत- 'तुम्बिका तृणकाष्ठं च तैलं जलसमागमे । ऊर्ध्वस्थानं समायान्ति रेफाणामीदृशी गतिः ॥ रेफः स्वरपरं वर्ण नाऽऽरोहति तच्छिरः । पुरः स्थितं यदा पश्येदधः संक्रमते वरम् ।

सारस्वतन्याकरणम् [स्वर- उवम् । ५। उवर्णों वत्वमापद्यते स्वरे परे । मधु अत्र-मध्वत्र ॥ ५ ॥ रम् ।। ऋवर्णो रत्वमापद्यते स्वर परे । पितृ अर्थः-पित्रर्थः ॥ ६ ॥ ललम्।७। लवर्णो लत्वमापद्यते स्वरे परे । ल अनुबन्धः-लनुबन्धः ॥७॥ ए अय् ।८। एकारो अय् भवति स्वरे परे । ने अनं-नयनम् ॥ ८ ॥ ओ अव ।९। ओकारो अय् भवति स्वरे परे । लो अनं लवनम् । भो अति, भवति । *गवादेरवर्णागमोऽक्षादौ वक्तव्यः । गो अक्षः गवाक्षः । गो इन्द्रः गवेन्द्रः। गो अजिन-गवाजिनम् । प्र ऊढः प्रौढः । स्व ईरिणी स्वैरिणी । अक्ष ऊहिनी-अक्षौहिणी सेना । । तत्र योगे सूत्रान्तरादन्यसूत्रात्पदान्तस्य-अन्यपदस्थानुवृत्तिज्ञेया । ग्रन्थस्य शास्त्रस्य भूयस्त्वभयात्-प्राचुर्यभयात् सूत्रे तत्तत्पदमस्माभिन लिख्यते इत्यर्थः उवर्ण इति । तपकरणं विना कारग्रहणं च विना वर्ण एव गृह्यते ।। तेन 'उ' इत्युक्त उवर्णः-उकाररूप ऊकाररूपश्च वत्वं वकारं प्राप्नोति खरे परे इत्यर्थः। ऋवर्ण इति | ऋवर्णस्य रकारो भवति स्वरे परे इत्यर्थः । लुवर्ण इति । लुवर्णस्य लकारो भवति स्वरे परे इत्यर्थः ।। एकार इति । एकारस्य अय् भवति स्वरे परे इत्यर्थः । १ 'अक्षौहिण्यामित्यधिकः सप्तत्या ह्यष्टभिः शतैः । संयुक्तानि सहस्राणि गजानामकविंशतिः ॥ १ ॥ ..

१७ । इह, सन्धि] सरलार्टीकाविराजितम् कचित् स्वरवद्यकारः । यथा *अध्वपरिमाणे*। गव्यूतिः । अन्यत्र-गवां मिश्रीभावे ग यूतिः । न व्यञ्जने स्वराः सन्धेयाः । देवीगृहम् ॥ ९॥ ऐ आय । १०। ऐकार आय् भवति स्वरे परे । नै अकः, नायकः ॥ १० ॥ औ आव् । ११ । औकार आव् भवति स्त्ररे परे । तौ ताविह ॥ ११ ॥ बोलॊपश् वा पदान्ते । १२ । पदान्ते स्थितानामयादीनां यकारवकारयोर्लोपश् वा भवति स्वरे परे । तौ इह, ताविह । ता इह । ते आगताः, तयागताः, कचिदिति । क्वचित्प्रयोगान्तरे यकारः स्वरवदवसेय इत्यर्थः । स्वरेण तुल्य: स्वरवत् । स्वरे सति यत्कार्यं भवति तद्यकारे परेऽपि भवती- त्यर्थः । यथा अध्वपरिमाणे-मार्गपरिमाणे वाच्ये सति गो अग्रे यूति:- अत्र यकारस्य स्वरत्वात् 'ओ अव' इत्यवादेशो भवति । गव्यूति:-~~-क्रोश- द्वयम् । अन्यत्र तु-~मार्गप्रमाणाभावे गवा मिश्रीभावे-एकीभावे समू- हीभवने गोयूतिरित्येव भवतीत्यर्थः । एकार इति। एकारस्य स्थाने अयादेशो भवति स्वरे परे इत्यर्थः । एवमेव रथानां तु सङ्ख्यानं कीर्तितं वुद्वैः । पञ्चषष्टिसहस्राणि पशतानि दशैव तु ॥ २ ॥ सङ्ख्यातास्तुरगास्तविना रथतुरङ्गमैः ॥ ३ ॥ शतानि त्रीणि चान्यानि पञ्चाशत्तु पदातयः ।। अर्थात्-गजाः २१८७० । रथा: २१८७० । अश्वाः ६६१० । पदातयः १०९३५० । सर्वयोगः २,१८,७०० इति ॥ १ 'गव्यूतिः स्त्री कोशयुगम्' इत्यमरः । २ १८ ते तेऽत्र। 5 सारस्वतव्याकरणम् [ स्वर- त आगताः । पटो इह, पटविह, पट इह । तस्मै एतत् , तस्माये- तत् , तस्मा एतत् । लोपशि पुनर्न सन्धिः । छन्दसि तु भवति । हे सखे इति । हे सखयिति । हे सखेति ॥ १२ ॥ एदोतोऽतः । १३ । पदान्ते स्थितादेकारादोकाराच परस्या कारस्य लोपो भवति । अत्र, पटो अत्र, पटोऽत्र ।। १३ ।। सवणे दीर्घः सह । १४ । सवर्णस्य सवर्णे परे सह दीर्वो भवति । श्रद्धा अत्र, ऽत्र । दधि इइ, दधीह । भानु उदयः, भानुदयः । पितृ ऋणं, पितृणम् । दण्ड अग्रं, दण्डानम् । 'अदी? दीर्घतां याति नास्ति दीर्घस्य दीर्घता । पूर्वदायस्वर दृष्ट्वा परलोपो विधीयते ॥१॥ ननु 'त आगता' अत्र 'सवणे' इति तथा 'पट इहे त्यत्र 'अ इ ए' इति च सन्धिः कथं न क्रियते ?, तत्राह-लोपशीति । लोपशि कृते पुनः पूर्वापरवर्णयोमिथो घटनस्वरूपः सन्धिः कार्यान्तरसाधनं च न भवति । यथा त आगताः । राजभ्याम् । अत्र 'अद्भि' इति 'आ' न भवति । 'नञ्यु- तमनित्यमिति क्वापि लोपशि कृतेऽपि सन्धिर्भवति । यद्वा 'छन्दसि तु भवतीति तुशब्ददर्शनात् कुत्रचिल्लौकिकोदाहरणेऽपि लोपशि कृते सन्धि- भवति । तद्यथा--दामोदरः', 'राजाश्वः,' 'दण्डीशः' इत्यादिषु कार्यान्त- रसवातरूपश्च सन्धिर्भवति । हे सखेतीति । यलोपे सन्धौ च कृते रूप- मिदम् । हे सखयितांति तु लोपाभावे रूपमिति बोध्यम् । पुनर्विशेषमाह--छन्दसि वेदे लोपशि कृतेऽपि सन्धिर्भवति । यथा हे सन्धिः सरलाटीकाविराजितम् 'लामान्यशाचतो नूनं विशेष बलवान्भवत् । परेण पूर्ववाघो वा प्रायशो दृश्यतामिह ॥ २॥ अइए। १५ । अवर्ण इवणे परे सह ए भवति । तब इदं, तवेदम् । मम इदं, ममेदम् । प्रहलादेरीपादौ टेलोपो वक्तव्याः । इषा-हलीषा । लाङ्गल-ईषा-लागलीषा । मनस ईपा मनीषा । शक- अन्धुः शकन्धुः । कर्क-अन्धुः कर्कन्धुः । कुल अटा कुलटा । सीमन्-अन्तः सीमन्तः । पतत्-अञ्जलिः पतञ्जलिः । सार-अङ्गः- सारङ्गः पशुपक्षिणो:*साराङ्गोऽन्यः। शिव आइहि शिवहि१५ सखे अग्ने इति-अत्र 'ऐ अय्' इत्ययादेशे 'य्यार्लोपश वा' इति यकारलोपः । छान्दसिकत्वाच्च न सन्धिनिषेधः । तेन 'अ इ ए' इत्येकारादेशो भवति । ननु दधि इहेत्यत्र 'इ यं स्वरे' इति यत्वं कस्मान्न भवतीत्यत आह- सामान्येति । नूनं निश्चितं सामान्यशास्त्रत:-सामान्यसूत्रात् विशेषो-- विशेषशास्त्रं विशेषसूत्रं बलवान् भवेत् । तत्र बहुव्यापकं सामान्यम् । अल्पव्यापको विशेषः । दधि इह इत्यत्र 'इ यं स्वरे' इति सामान्य सूत्र, स्वराणां बहुत्वात् । 'सवण दोघः' इति तु विशेषसूत्रं, तस्य सवर्णस्यैक- त्वात् । पक्षान्तरमाह-परणेत्यादि । वा अथवा व्याकरणे इह प्रायशो बाहुल्येन बहुषु स्थानेषु परेण अग्रेतनसूत्रेण पूर्वसू त्रस्य बाधा निषेधो दृश्यताम् । यथा 'इ यं रवरे' इति सूत्रं प्राक् प्रतिपादितं तस्य हि 'सवण दोघः' इति सूत्रेण बाधो भवति । अनेनोत्सगांपवादावुक्तौ । तत: 'उत्सर्गा- पवादयोरपवादविधिल्या'निति न्यायो दर्शित: । एकस्मिन्न वोदाहरणे सूत्र- १ 'हलीषा लालीपा च मनीषाऽद्यों तथव च शकन्धुरथ कर्कन्धु. सीमन्तः कुलटा तथा ॥ पतञ्जलिश्च सारङ्ग एते प्रोक्का हलादयः ॥'

२० सारस्वतव्याकरणम् [स्वर- ओमि च । १६ । ओमि परे नित्यं टेलोपो भवति । अद्य-ओम् , अधोम् ।।१६।। उ ओ। १७। अवर्ण उवर्णे परे सह ओ भवति । गङ्गा-उदकं गङ्गोदकम् । तीर्थ-उदकं तीर्थोदकम् ।। १७ ।। ऋ अर् । १८ ॥ अवर्ण ऋवर्णे परे सह अर् भवति । तव-ऋद्धिः तवर्द्धिः||१८।। क्वचिदार् । १० । अवर्ण ऋवणे परे सह समासे क्वचिदार् भवति । ऋण ऋणम् ऋणार्णम् । *तृतीयासमासे च* । सुखेन ऋतः सुखार्तः । शीतातः । दुःखातः । तृतीयेति किम् ? । परमतः॥१९॥ ल अल । २० । अवर्ण लवर्णे परे सह अल भवति । तव-लकार: द्वयसंभवे सामान्यविशेषयोर्यद्विशेषसूत्रं तत्प्रवर्तते । पूर्वोक्तपरोक्तयोश्च सूत्रयो- यत्परोक्तं सूत्रं तद्भवति न तु पूर्वोक्तमिति भावः । एवं भानु-उदय इत्यत्र 'उ वम्' इति सामान्यम् , 'सवणे दीर्घः' इति विशेषः । तथा च विशेष- शास्त्रेण दीर्घ एव भवतीति सिद्धम् । सहति । उभयोोंगेन पूर्वपरयोः स्थाने एकादेश ओकारो भवतीत्यर्थः । तर्वार्द्धरिति-तव अग्रे ऋद्धिः । 'ऋ अर्' इत्यरादेशे 'जलतुम्बिका' न्यायेन रेफस्योर्ध्वगमने तद्धिरिति सिद्धम् । तृतीयेति । तृतीयासमासान्ते परे इत्यर्थः । कचिदिति । क्वचित्प्र- योगान्तरे अवर्ण ऋवण परे सति सह उभयोोगेन आर् भवतीत्यर्थः । नन्वत्र लकारोऽस्ति रेफो नास्ति अत: 'राद्यपो द्विः' इति कथं लगति, सन्धिः] सरलाटीकाविराजितम् २१ तबल्कारः । * ऋलवर्णयोमिथः सावर्ण्य वा वक्तव्यम्। होत लकारः होतृकारः. होल्लकारः । अलयोः सावर्ण्य वा वक्त- व्यम् । परि-अङ्कः पर्यङ्कः, पल्यङ्कः ॥ २० ॥ ए ऐऐ। २१॥ अवर्ण ९कारे ऐकारे च परे सह एकारो भवति । तव एषा तैवषा । तब ऐश्वर्य तवैश्वयम् || २१ ।। ओ औ औ। २२॥ अवर्ण ओकारे औकारे च परे सह औकारो भवति । तब ओदने तबौदनम् । तव-औन्नत्यं तवोन्नत्यम् ।। २२ ।। ओष्ठोत्वोवौं समासे । २३ । अवर्णस्य ओष्ठोत्वोः परयोर्वा सह ओत्वं भवति समासे सति । बिम्ब-ओष्ठः बिम्बोष्ठः । बिम्बौष्ठः। स्थूल-ओतुः स्थूलोतुः, स्थूलौतुः । समासे किम् ? । तवौष्ठः ।। २३ ।। इति स्वरसन्धिः ॥ ४ ॥ -रलयोरिति । रेफलकारयोः सावर्ण्य-सदृशत्वं वक्तव्यम् । तेन 'गद्यपी द्विः' इति क्कारस्थ द्वित्वे तवल्कार इति सिद्धम् । अवर्णस्येति । अवर्णस्य ओष्ठात्योः शब्दयोः परयोः औष्ठौल्यो- रोकारेण सह वा विकल्पेन अकारस्य ओकारा भवति समासे सति ।। १ 'रलयोर्डलयोश्चेव शसयोवयोस्तथा । वदत्येषाञ्च सावर्ण्यमलङ्कारविदो जनाः'

सारत्वतव्याकरणन
[प्रकृतिभाव-
अथ प्रकृतिभाव उच्यते।
नामी । ।
अदसोऽमीशब्दः सन्धि न प्राप्नोति । अमी आदित्याः । अमी
उष्ट्राः । अमी एडकाः । अदस इति किम् ? । अमो रोगस्तद्वान्
अमी-अत्र अम्यत्र ।। १।।
वे द्वित्वे । २
इच ऊ च ए च-चे। इकारान्त ऊकारान्त एकारान्तश्च
शब्दो द्वित्वे वर्तमानः सन्धि न प्राप्नोति । श्मणीवादिवर्जम् ।
अग्नी अत्र । पटू अत्र । माले आनय । मणीवादीति किम् ?। मणी
इव मणीव । रोदसी इव रोदसीव । दम्पती इव दम्पतीव । जम्पती
इव जम्पतीव ।। २ ॥
प्रकृतीति । प्रकृतेर्भावः भवनं सत्ता-प्रकृतिभावः । प्रकृतययावस्थित-
स्वरूपस्य भावोऽवस्थिति प्रकृतिभावः । सन्धियोग्या अपि स्वरा: केचित्त-
कृतिस्था एव तिष्ठन्ति । तस्मात्प्रकृतिरुच्यते । अदस इति । अदस
शब्दस्य जसि यः अमीशब्दो निष्पन्नः स सन्धि न प्राप्नोति । 'अमी'
शब्देन रोगवानप्युच्यते तन्निरासार्थम् 'अदसः' इति पदं प्रयुक्तम् । अर्मा
आदित्या इति । अत्र इ यं स्वरे' इति सूत्रप्राप्तावपि सन्धिप्रतिषेधः ।
मीवादीति । मण्यादयो न निषिद्धा किन्तु 'मणी इव' इत्या-
दीन् शब्दान् वर्जयित्वा प्रकृतिभावो भवति । तथा च मण्यादीनां तु द्विव-
चने इकारान्तत्वेऽपि सन्धिर्भवत्येव ।
--
१ 'मणीवोष्ट्रस्य लम्बेते प्रियौ वल्पतरौ मम ।
ह्रियमाणौ तु तौ दम्यौ मकिस्तत्रेदमब्रवीत् ॥ २ ॥

प्रकरणम् सरलाटीकाविराजितम् औ निपातः । ३ । आकार ओकारो निपात एकस्वरश्च सन्धि न प्राप्नोति । 'ओत्तमरीक्ष्यसे न त्वामामृतादेन्द्रतोऽखिलैः । आ एवं सर्ववेदार्थ आ एवं सद्धचो हरेः ॥ १ ॥ ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं डितं विद्याद्वाक्यस्मरणयोरङित् ॥ २ ॥ आ एवं किल मन्यसे नो अत्र स्थातव्यम् । उ उत्तिष्ठ अपेहि । इ इन्द्रं पश्य । अ अपेहि ।। ३ ।। हैहयोऽपि प्लुतः । ४। प्लुतश्च सन्धि न प्राप्नोति । देवदत्त ३ एहि । हे ३ राम । राम है ३ ॥ ४ ॥ एकस्वरश्चेति । ननु एकस्वरश्चेति पदं सूत्र नास्ति वृत्तौ कुतो लभ्यते इतिचेच्छणु । तदर्थमाकारादारभ्य ओकारं यावत् 'औ' इति प्र- स्याहारोऽङ्गीकार्य इति केचित् । प्लुत इति । यत्र प्लुतस्तत्र सन्धिर्न भवति । यथा भो देवदत्त ३ एहि । एवमन्यत्रापि । तद्यथा-'का ३ एषा प्रस्तुताङ्गी प्रचलितनयना हंसलीला वजन्ती, द्वौ पादौ कुङ्कुमा कनकविरचितौ नू पुरं शब्दयन्ती । इत्थं मार्गे गता सा बहुकुसुमलताबद्धवेणी स्वनन्ती ताम्बूलं वामहस्ते मदननिवसिता गुह्यशालां विवेश ॥' अत्रहि विचारे टे: प्लुतत्वं तेन सन्धिर्न क्वचित्तु सन्धिः । १ 'अहो याहो उताहो च नो हो हंहो अथो इमे ॥ मिथोयुक्ताश्च ओदन्ता निपाता अष्टधा मता:' ॥ आकारस्तु निपातो यो डिदहितेंदतो द्विधा । तत्रापि च डिदाकारः सन्धि प्राप्नोति न त्वडित् ।।

सारस्स्तव्याकरणम् [ व्यञ्जनसन्धि- दूरादाबाने टेः प्लुतः । ५। दूरादाबाने गाने रोदने विचारे च टेः प्लुतो भवति ॥ ५ ॥ इति प्रकृतिभावः ॥५॥ अथ व्यञ्जनसन्धिः । अथ व्यञ्जनकार्यमुच्यते । चपा अबे जवाः ।। पदान्ते वर्तमानाश्चपा जबा भवन्त्यबे परे । षट्-अत्र षडत्र । वाक् यथा वाग्यथा ॥ १ ॥ अमे मा वा।। पदान्ते वर्तमानाश्चपा अमे परे अमा वा भवन्ति । वाक्-मात्रं वाग्मानं वाल्मात्रम् । षट् मम । षड्मम । षण्मम || ३ ॥ केचित्तु 'प्लुतोऽनितो' इति सूत्रं पठन्ति । तेन प्लुतोऽपि इतिशब्दे परे सन्धि प्राप्नोति । यथा हा तात इति, हा तातेति । देवदत्तेत्यादौ न सन्धिर्भवति ॥ ।। इति प्रकृतिभावः ।। अथेति । अथ-प्रकृतिभावकथनानन्तरं व्यञ्जनकार्यमुच्यते । व्य- अनानां सन्धिः कथ्यत इत्यर्थः । पदान्ते इति । पदान्ते स्थिताश्चपा जबा भवन्ति । अर्थात् चटत- कपानां स्थाने क्रमेण जडदगमा भवन्ति अबे परे इत्यर्थः । बमे इति । चपानां अमप्रत्याहारे परे विकल्पेन अमा भवन्ति । अर्थात् चटतकपाना स्थाने क्रमेण अणनङमा भवन्तीत्यर्थः । वाग्रहणासक्षे जबा अपि भवन्ति । वाङमात्रं वागमात्रम् । एकत्र ङः । अन्यत्र गः ।

प्रकरणम् ] सरलाटीकाविराजितम् चपाच्छ: शः । ३ ॥ चपादुत्तरस्य शकारस्य छो वा भवति अमे परे । वाक् शूरः वाक्टरः ॥ ३ ॥ हो झमाः।४। चपादुत्तरस्य हकारस्य झभा वा भवन्ति । यद्वर्गगश्चपस्तद्वर्ग- गश्चतुर्थो भवति । तत् हविः । तद्धविः । तद्हविः । वाक् हरिः । वाग्घरिः । वाम्हरिः ॥ ४॥ स्तोः श्चुभिः श्चुः । ५। स्तोः सकारस्य तवर्गस्य च शकारेण चवर्गेण च योगे शकारचवर्गों यथासंख्येन भवतः । सकारस्य शकारः । तवर्गस्य चवर्गः । कस् चरति । कश्चरति । कस् शूरः । कश्शूरः । तत् चित्र। तच्चित्रम् । तत् शास्त्रं । तच्छास्त्रम् ॥ ५ ॥ चपादिति । चपादुत्तरस्य शकारम्य छः छकारो भवति विकल्प- नेत्यर्थः । वाक् अग्रे शूरः । अनेन शकारस्य च्छकारः । वाक्छूरः । पक्षे वाक्यूर इति सिद्धम् । 'छ: शः' इति विपरीतग्रहणात् वाक्श्चीततीत्यादी छत्वं न । ह इति । यस्य वर्गस्य सम्बन्धी चपो हकारात्पूर्व भवति तस्य वर्गस्य चतुर्थाक्षरो हकारस्थाने भवति । यथा ककारात्परस्य हस्य घः । चकारात्प. रस्य इस्य झः । टकारात्परस्य हस्य ढः । तकारात्परस्य हस्य धः । पकारा- परस्य हस्य भः । 'यद्वर्गस्य चपः पूर्व हकाराकिल दृश्यते । हस्य स्थाने भवेद्वर्णस्तद्वर्गस्य चतुर्थकः ॥' इति । वाक् अग्रे हरिः । अत्र हस्य यः । 'चपा अबे जबा:' इति कस्य गः। वाग्धरिः । वाचा कृत्वा हरिः सिंह इत्यर्थः ।। स्तोरिति । स च तुश्च स्तुः, तस्य स्तोः । षष्ठयेकवचनान्तम् ।

ર૬ सारस्वतव्याकरणम् [ व्यञ्जनसन्धि- न शात् । ६। शकारादुत्तरस्य तवर्गस्य चुवं न भवति । विश् नः विश्नः । प्रा नः प्रश्नः ॥ ६॥ ष्टुभिः ष्टुः । ७॥ सकारतवर्गयोः षकारटवर्गाभ्यां योगे 'टुर्भवति । सकारस्य षकारः । तवर्गस्य टवर्गः । कस् षष्ठः कष्षष्ठः । कस् टीकते कष्टी- कते । तत् टीकते तट्टीकते ॥ ७ ॥ तोर्लिं लः । ८। तवर्गस्य लकारे परे लकारो भवति । तत् लुनाति तल्लु- नाति । भवान् लिखति भवॉल्लिखति । अन्तःस्था द्विप्रभेदा रेफ- वर्जिता यवलाः सानुनासिका, निरनुनासिकाश्च। तत्र सानुनासिक एवं नकारस्य लकारो भवति ॥८॥ नषि।९। षकारे परे तवर्गस्य ष्टुत्वं न भवति । भवान् षष्ठः भवान् षष्ठः ॥ ९॥ श् च चुश्च श्ववस्तै : श्चुभिः । तृतीयाबहुवचनान्तम् । श् च चुश्च श्चुः । प्रथमैकवचनान्तम् । तेन सकारस्य शकारचवर्गयोगे पूर्वतः परत उभयत्रापि सम्बन्धे सति शकारः स्यात् , तवर्गस्य शकारचवर्गयोगे चवर्गः स्यादि- त्यर्थो लभ्यते । नशादिति । शकारादुत्तरस्य तवर्गस्य चुत्वं चवर्गो न भवति । प्रन् अग्रे नः, विश् अग्रे नः, अत्र रूपद्वये:पि चवर्गस्य निषेधः । प्रच्छनं प्रग्नः । विशतीति विश्नः । 'विच्छ गतौ । विच्छनं वा विश्नः । स्तोरिति । स्तोः सकारतवर्गयौः षकारटवर्गयोगे षकारटवर्गों यथा- संख्यं भवत इत्यर्थः । सकारस्य प्रकारः, तवर्गस्य टवर्गः । न षीति । षकारे परे तवर्गस्य टवर्गो न भवतीत्यर्थः ।

२७ प्रकरणम् सरलारीकाविराजितम् टोरन्त्यात् । १० । पदान्ते वर्तमानावर्गात्परस्य स्तोः ष्टुर्न भवति । षट् नरः पण्नरः । षट् सीदन्ति षट् सीदन्ति !॥ १० ॥ नः सक्छन् । ११ । नान्तस्य पदस्य छते परे समागमो भवति । टिकिता- वाद्यन्तयोर्वक्तव्यो। *टित्त्वादादौ कित्त्वादन्ते । राजन् चित्र गचित्रम् । भवान् तनोति भवांस्तनोति ॥ ११ ॥ शे चम्चा । १२ । नान्तस्य पदस्य शे परे वा चगागमो भवति । भवान् शूरः। भवाञ्छूरः भवाञ्च्छूरः भवाञ्च्शूरः भवाशूरः ॥ १२ ॥ झ्नो हृस्वादिः स्वर । १३ । ङकारणकारनकारा ह्रस्वादुत्तरा विर्भवन्ति स्वरे परे पदान्ते। टोरिति । पदान्ते वर्तमानो यष्टवर्गस्तस्मादुतरयोः परयोः सकार- तकारयोः धकारटवर्गों न भवतः, परं नाम्नवतिनगरीवर्जमित्यर्थः । नाम्न- पतिनगरीवर्जनात्-षण्णाम् । घण्णवतिः। पण्णगर्यः-इत्यत्र 'टोरन्ल्यात्' इदं सूत्रं न प्रवर्त्तते, किन्तु 'टुभिः ष्टुः' इति ष्टुत्वं भवति । न इति । नान्तस्य नकारान्तस्य पदस्य छते छठथचटतलक्षणे प्रत्या- हारे परे सक् इत्यागमो भवतीत्यर्थः । टित्किताविति । ट इत् यस्यासौ टित् , क इत् यस्यासी कित् । टिच्च किच्च टिकिती, टिकितावागमो क्रमेण आद्यन्तयोर्विपये भवत: । एवञ्च टित् आदौ, कित् अन्ते इत्यर्थः । अत्र कित्वादन्ते भवति । श इति । नकारान्तस्य पदस्य शं शकारे परे वा विकल्पेन चगा- गमः स्यादित्यर्थः । उण्न इति । हस्वादुचराः परा ये ङकारणकारनका- रास्ते द्विर्भावमापद्यन्ते, द्वौ भवतः, स्वरे परे पदान्ते विषये इत्यर्थः ।

२८ मारस्वतम्याकरणम् [ व्यञ्जनसन्धिः- प्रत्यङ् इदं प्रत्यङिदम् । सुगण इह सुगण्णिह । राजन् इह राजनिह ॥ १३ ॥ छः। १४ । हृस्वादुत्तरश्छकारो विर्भवति ॥ १४ ॥ खसे चपा झसानाम् । १५ । झसानां खसे परे चपा भवन्ति । तत्र छत्रं तबच्छत्रम् । * क्वचिद्दी_दपि वक्तव्यः * । ह्री-छः ह्रीच्छः । म्ले-छ: म्लेच्छः ।। १५ ॥ मोऽनुस्वारः । १६ । मकारस्यानुस्वारो भवति हसे परे पदान्ते च । तम् हसति तं हसति । पटुम् वृथा पटुं वृथा ॥ १६ ॥ नश्वाऽपदान्ते झसे । १७ । नकारस्य मकारस्य चाऽपदान्ते वर्तमानस्यानुस्वारो भवति झसे परे । यशान् सिं यशांसि । पुम् भ्यां पुभ्याम् ॥ १७ ॥ आमा यपेऽस्य वा । १८ । खसे इति । झसानां स्थाने चपा भवन्ति स्वसे परे । अत्र यथा- संख्यगणनाच्छस्य तकारः संभवति । परं 'बर्यो बग्ण सवर्ण:' इति वच- नात् चकार एव क्रियते । पक्षान्तरमाह-दीर्घादित्यादि।क्वचित्कस्मिंश्चित्स्याने दीर्घादुत्तरी-पि 'छकारो द्विर्भचति । यथा म्ले अग्रे छ:, ही अग्ने छः । रूपद्वये प्यनेन द्वित्व विहिते 'खसे चपा झसानाम' इति चपादेशे म्लेच्छः होच्छ इति भवति । मोऽनुस्वारः । पदान्ते इति किम् ? । गम्यते । इानुस्वारो न । -- प्रकरणम् ] सरलाटीकाविराजितम् अनुस्वारस्य ञमा वा भवन्ति यपे परे । अस्य-यपस्य सवर्णाः । शां तः, शान्तः। तं करोति तङ्करोति । तं तनोति तन्तनोति । स यन्ता सँय्यन्ता ॥ १९ ॥ यवलपरे यवला धा! १९ । अनुस्वारस्य यवलपरे यवला वा भवन्ति । संवत्सरः सव्वत्सरः । य लोकं यल्लोकम् ॥ १९ ॥ छन्दसि । २० । छन्दस्यनुस्वारो कारमापद्यते राषसहरेफेषु परतः । हंसः * सः ।। २० ॥ इति व्यञ्जनसन्धिः । अथ विसर्गसन्धिनिंगद्यते । विसर्जनीयस्य सः । १ । विसर्जनीयस्य सकारो भवति खसे परे । कः तनोति । कस्तनोति ॥ १ ॥ छन्दसीति । अनुस्वारः कारमापद्यते शपसहरेफेषु परतः छन्दसि वैदे इत्यर्थः । हंसः, हस: । शुची पत् । शुची षत् । वयं स्याम, वय स्याम । संहिता, सहिता । तं रविः तविः । * इति व्यञ्जनसन्धिः * विसर्जनीयस्यति । विसर्जनीयस्य सकाररेफोत्पन्नस्य कृष्णसर्पचक्षु- राकारबिन्दुद्वयस्य स्थाने खसे परे सकारो भवतीत्यर्थः । १ 'शृङ्गवद्वालवत्सस्य कुमारीस्तनयुग्मवत् । नेत्रवत्कृष्णसर्पस्य स विसर्ग इति स्मृतः ॥

सारस्वतव्याकरणम् [विसर्गमन्धि- शाषसे था।२। विसर्जनीयस्य शषसे परे वा सकारो भवति । कः शते कश्शेते । कः षण्टः कपण्ढः । कः साधु: कस्साधुः ।। २ ।। कुप्वोः क पा वा । ३ । विसर्जनीयस्य कवर्गपवर्गसम्बन्धिनि खसे परे ५ क पौ वा भवतः । कपावुच्चारणार्थो । कः करोति क - करोति, । कः पचति, क पचति । कः पठति कः पठति । *वाचस्पत्या- दयः संज्ञाशब्दा निपातात्साधवः* । यल्लक्षणैर्नानुत्पन्नं तत्सर्व निपातात्सिद्धम् । तबृहतोः. करपत्योश्चोरदेवतयोः सुट तलोपश्च। तत् करः तस्करः । बृहत् पतिः बृहस्पतिः । वाचः पतिः वाचस्पतिः ॥ ३ ॥ शपसे इति । विसर्जनीयस्य शषसेषु परेषु शषसा एव वा भवन्ति । पक्षे विसर्जनीय एव तिष्ठतीत्यर्थः । कुप्वोरिति । विसर्जनीयस्य कवर्गपवर्गसम्बन्धिनि कखपफरूपे खसे परे -क पौ जिह्वामूलोयोपध्मानीयसंज्ञौ यथासंख्यं वा भवतः । पक्षे विसर्ज- नीय एव तिष्ठति । अयमर्थ:- कखयोः परयोः कः । पफयो परया: पः । कपौ-ककारपकायबुच्चारणार्थों, अन्यथोच्चरितुमशक्यत्वात् । अतो वज्राकारगजकुम्भाकारौ तिष्ठतः । सझेति । वाचस्पत्यादयः संज्ञाशब्दाः संज्ञावाचकाः कस्यापि नाम प्रतिपादकाः शब्दास्तेऽपि निपातात्साधवः, निपातसिद्धा एव ज्ञेयाः । यथा वाचस्पतिः । अत्र 'कुप्योः क पौ वा' इत्यस्य प्राप्तावपि विसर्जनीयस्य सकार एव निपात्यते । एवमग्रेऽपि ।

३१ प्रकरणम् ] सरलाटीकाविराजिलम् अहो रोऽरात्रिषु । ४ । अहो विसर्जनीयस्य पदान्ते रो भवति रात्र्यादिगणवर्जितेषु परतः । अहः पतिः अहपतिः । अहः गणः अहर्गणः । अरात्रि- ष्विति विशेषणात् , अहः रात्रं अहोरात्रम् । अहः रूपम् , अहोरूपम् । अहः रथन्तरम् , अहोरथन्तरम् ॥ ४ ॥ अतोऽत्युः । ५। अकारात्परस्य विसर्जनीयस्य उकारो भवति अति परतः । कः-अर्थः कोऽर्थः ॥ ५ ॥ हवे । ६। अकारात्परस्य विसर्जनीयस्य उकारो भवति हवे परे । कः गतः को गतः । देवः याति, देवो याति । मनः रथः मनोरथः ॥ ६ ॥ आदबे लोपश् । ७। अवर्णात्परस्य विसर्जनीयस्य लोपश्भवति अबे परे। देवाः अत्र, देवा अत्र । वाताः वान्ति, वाता बान्ति ॥ ७॥ स्वरे यत्यं वा ।८। अवर्णात्परस्य विसर्जनीयस्य स्वरे परे यत्वं वा भवति । देवा अह इति । अहन्शब्दसम्बन्धिनो विसर्जनीयस्य पदान्ते रो भवति राज्यादिवर्जितेपुराव्यादिभिन्नेषु शब्देषु परेषु सत्तु । रकारादिरात्रिरूप- रथन्तरादिवर्जितेप्वित्यर्थः । उदाहरणम्-अहन् पतिः । अहन अग्रे गणः । 'अह्नः' इति सूत्रेण उभयत्रापि नस्य सः । 'स्रोविसर्गः' अनेन सूत्रेण विसर्गस्य रः । 'राद्यपो द्विः'। अह्नो दिवसस्य पति: अहपतिः। अह्रां गणः- अहर्गणः । अत्रान्तवर्तिनी विभक्तिमाश्रित्य पदान्तत्वं ग्राह्यम् । -- सारस्वतव्याकरणम् [विसर्गसन्धि- अत्र देवायत्र ॥ ८ ॥ भोसः ।। भोस् भगोस् अघोस् इत्येतस्मात्परस्य विसर्जनीयस्य लोपश् भवन्यबे परे । भोः एहि भो एहि । भगोः नमस्ते भगो नमस्ते । अघोः याहि अघो याहि ।। ९ ।। नामिनो रः। १०। नामिनः परस्य विसर्जनीयस्य रेफो भवति अबे परे । अग्निः अत्र अग्निरत्र । पटुः यजते पटुर्यजते ॥ १० ॥ उषसो रो बुधे । ११ । उषसो विसर्जनीयस्य रेफो भवति बुधे परे । उषः बुधः उषर्बुधः ।। ११ ॥ रेफप्रकृतिकस्य खपे वा । १२ । रेफप्रकृतिकस्य विसर्जनीयस्य खपे परे वा रेफो भवति । गी: पतिः गीपतिः गीपतिः । धू:पतिः धूपतिः धूर्पतिः ॥ १२ ॥ २ रेफसम्बन्धिनो विसर्जनीयस्य रेफो भवत्यवे परे । प्रातः अत्र प्रातरत्र । अन्तः गतः अन्तर्गतः ॥ १३ ॥ नामिन इति । अवर्णवर्जस्वरात्परत्य विसर्जनीयस्य अबे परे रेफो भवति । । रेफेति । रेफप्रकृतिकस्य विसर्जनीयस्य वा रेफो भवति खपे परे इत्यर्थः र इति । रेफसंबन्धिनो रेफाजातस्य विसर्जनीयस्य रेफो भवति अब. प्रत्याहारे परे इत्यर्थः।

३३ प्रकरणम् सरलाटीकाविराजितम् रि लोपो दीर्घश्च । १४ । रेफस्य रेफे परे लोपो भवति पूर्वस्य च दीर्घः । पुनः रमते पुना रमते । शुक्तिः रूप्यात्मना भाति, शुक्ती रूप्यात्मना भाति ॥ १४ ॥ सैषाद्धसे । १५। सशब्दादेषशब्दाच्च परस्थ विसर्जनीयस्य लोपश् भवति हसे परे । सः चरति स चरति । एषः हसति एष हसति । सैषादिति संहिता-- 'सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष को महात्यागी सैष भीमो महाबलः ।' -इत्यादौ पादपूरणे सन्ध्यर्था ज्ञेया । 'यदुक्तं लौकिकायेह तदेदे बहुलं भवेत् । सेमा भूम्याददे सोषामित्यादीनामदुष्टता ॥ शुक्तीरूप्यात्मनाभातीति । शुक्तिः रजताकारेण भासते इत्यर्थः । नन्वत्र लोपशि कृते सन्धिः कथं कृते इत्यग्रे वक्ष्यति सैषादिति । संहितेति । उभयत्रापि 'सैषाद्धसे' इति सूत्रे ऋजुतया कर्तव्ये सेषादिति सूत्रमध्ये या अघटमाना आकारैकारयोः 'ए ऐ ऐ' इति संहिता सन्धिदर्शिता सा सएषशब्दयो:-'सैघ दाशरथी रामः' इत्यादि अष्टाक्षरात्मकपादपूरणार्थम् लोपशि कृतेऽपि यः ए ऐ ऐ इति सन्धिर्भवति तज्ज्ञापनार्थमित्यर्थः । पुनवैदिकप्रयोगविश्लेषमाह-यदुक्त मिति । यत्सूत्रभिहास्मिन् शास्त्रे लौकिकाय प्रयोगाय व्याकरणप्रसिद्धोदाहरणायोक्तं सूत्रादि तद्वेदे छन्दसि बहुलमन्यथा भवति, अनिश्चितं भवेत् । क्वचिद्भवति क्वचिन्न भवतीत्यर्थः ।

सारस्वतव्याकरणम् [विसर्गसन्धि- कचिन्नामिनो लोपा ॥१६॥ नामिनः परस्य विसर्जनीयस्य क्वचिल्लोपश् भवत्यबे परे । भूमिः आददे, भूम्याददे । कचित्प्रवृत्तिः कचिदप्रवृत्तिः कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥१॥ वर्णागमो वर्णविपर्ययश्च नौ चापरी वर्णविकारनाशौ । धानोस्तदातिशयेन योगस्तदुच्यते पञ्चविध निरुक्तम् ॥२॥ बाहुलकं कतिविमित्याह-वचिदिति । क्वचित्प्रयोग अनुक्तस्यापि प्रवृत्तिः । अप्राप्तस्यासंभवतः सूत्रस्य प्रापणं प्रवृत्तिः । यथा 'लोपशि पुनर्न सन्धिः' इति निषिद्धत्वेऽपि 'अइए' इति सन्धेः प्राप्तिः । क्वचित्प्रयोगेऽप्रवृत्तिः । कथितस्यापि सूत्रस्य निषेधः । यथा भूमिः अग्रे आददे इत्यत्र 'नामिनो र:' इत्यस्याप्राप्तिः । क्वचिद्विभाषा विकल्पः । यथा वेदे देवैः देवेभिः । गवेशः गवीशः । क्वचिदन्यदेव-उक्तमन्यदेव भवति । यथा-भूमिः आददे । अत्र विसर्गलोपरूपं कार्यम् अन्यदेव भवति । एवममुना प्रकारेण विधेयाकरण - सूत्रस्य विधानं करणं बहुधा बहुप्रकारं समीक्ष्य दृष्ट्वा बाहुलक वैदिकप्रयोग चतुर्विध वदन्ति कथयन्ति । बुधा इत्यध्याहारः । वैदिकं चतुर्थोक्तम् ।। अथ लौकिकप्रयोगः कतिधा भवतीत्याह-वर्णागम इत्यादि । एको वर्णागमः । च पुनर्वर्णविपर्ययः । पूर्वोच्चरितस्य स्थाने परवर्णोच्चारणं परवर्णस्य स्थानें पूर्वववोच्चारणं वर्णविपर्ययः । पुनावपरौं भेदौ । को तो ? वर्णविकारनाशौ । पूर्वावस्थापरित्यागेन अवस्थान्तरग्रहणं विकारः । सर्वथा लोपो नाशः । वर्णानामक्षराणां विकारनाशौ वर्णविकारनाशौ । पञ्चमश्च भेदः-धातोस्ताभ्यां वर्णविकावर्णनाशाभ्यां कृत्वा धातोर्योऽर्थातिशयः अधिकतारूपः कश्चिद्विशेषो यः स अर्थातिशयः) तेन च यो भवति स ३५ - प्रकरणम् ] मरलार्टीकाविराजितम वागमो गवेन्द्रादौ, सिंह वर्णविपर्ययः । षोडशादी विकारः, स्थावर्णनाशः पृषोदरे ॥ ३॥ वर्णनाशविकाराभ्यां धातोरतिशयेन यः । योगः स उच्यते प्राजर्मयूरभ्रमरादिषु ॥ ४ ॥ इति विसर्गसन्धिः॥ योग इति नाम्ना पञ्चमा भेदः । तत्तस्मानिरुक्तं-निश्चयेन उक्तोऽर्थो यस्य । तन्निरुक्तं व्याकरणोदाहरणम् । अथ लौकिकः प्रयोगः कतिधा भवतीत्याह-वर्णागम इत्यादि । गवे-' न्द्रादौ वर्णागमः। 'गवादेरवणागमोऽक्षादौ' इति । एवं हन् हिसागत्योः। हन् अप्रत्ययः । सकारागमः हंस इति । सिंहे वर्णविपर्ययो भवति । यथा हिस हिंसायाम् । 'मूर्ती घनः' इति अप्रत्ययः । हिंस इति स्थिते,-हिनस्तीति विग्रहे तत : हिस इति शब्दे हस्य स्थाने सः, सस्य स्थाने हः । एवं वर्ण- विपर्यये सिंह इति सिद्धम् । पोडशादौ यथा । षट् च दश च इति विग्रहे ष दश अत्र 'षष उर्दो ड:' । षस्य उः दस्य ड:-इति वर्णविकार: । तत: 'उ ओ' षोडश इति विकारोदाहरणम् । पृषोदरे वर्णनाशः । यथा पृषत् अग्रे उदरः। तकारस्य नाशो लोपः। 'उओ' । पृषादरः । पृषन्ति बिन्दव उदरे यस्य स पृषोदरः मृगः । अथवा पृषन्मृगस्तस्योदरमिवोदरं यस्य यस्य स पृषोदरः ।। वर्णनाशेति । वर्णस्याक्षरस्य नाशविकाराभ्यां कृत्वा धातोरतिशयेन अर्थयिशेषेण कृत्वा य उत्पद्यते स: प्राज्ञैः पण्डितैः योग इत्युच्यते । क्व ?। मयूरभ्रमरादिषु । मयूरः भ्रमर इत्यायुदाहरणेष्वित्यर्थः । यथा रु शब्दे । एकत्र महीपूर्वः। अन्यत्र भ्रमन्पूर्वः । मद्यामतिशयेन रौति जल्पतीति मयूरः। भ्रमन् सन् अतिशयेन रौतीति भ्रमरः । 'नाम्नि च' इति ड: प्रत्ययः । डिवाहिलोपः । एकत्र विकारः हीस्थाने यू, वर्णनाशः नकारस्थ नाशः लोपः । एवञ्च मयूरः । भ्रमर इति सिद्धम् । अन्येषा मते तु एते पञ्चापि पृषोदरादिभेदा एव । इति विसर्गसन्धिप्रक्रिया ॥५॥ - अन्यत्र सारस्वतव्याकरणम् [षड् लिङ्ग- अथ षड्लिंगाः। तत्रादौ स्वरान्ताः पुंल्लिङ्गाः । अथ विभक्तिर्विभाव्यते । सा द्विधा, स्यादिस्त्यादिश्च ।। विभक्त्यन्तं पदम् । १ । तत्र स्यादिविभक्तिनाम्नो योज्यते ॥ १॥ अविभक्ति नाम । २॥ विभक्तिरहितं धातुवर्जित चार्थवच्छब्दरूपं नामोच्यते । 'कृत्त- द्वितसमासाश्च प्रातिपदिकसंज्ञा' इति केचित् ।। २ ।। * अथ स्वरान्ताः पुंल्लिङ्गाः * अथेति । पञ्चसन्धिकथनान्तरं विभक्तिर्विभाव्यते कथ्यते । विभज्यन्ते पृथक् क्रियन्ते कर्तृकर्मादयो यथा सा विभक्तिः। सा विभक्तिर्द्विधा- द्विप्रकारा । एका स्यादिः, सि औ जस् इत्यादिका | अपरा त्यादिः, तिप तस अन्ति इत्यादिका ॥ विभक्तेः प्रयोजनमाह-विभक्त्यन्त मिति। विभक्तिरन्ते यस्य तद्विभक्त्यन्तं । यस्यान्ते विभक्तिस्तत्पदमुच्यते । तत्र विभक्तिद्वयमध्ये स्यादिविभक्तिर्नाम्ना.ग्रे योज्यते स्थाप्यते दीयते । त्यादिविभक्तिर्धातोरग्रे योज्यते स्थाप्यते दीयते ।। विभक्तीति। विभक्त्या रहितं धातोर्वादेः पृथग्भूतमर्थयुक्तं शब्द- रूपमकारादिवर्णरूपं तन्नाम उच्यते । शब्दरूपं नामेत्युक्ते पदत्यापि नामसंज्ञा स्याचन्निवारणार्थमविभत्तीति । तथा. सति धातावतिव्यातिस्तनिवारणार्थ थातुवर्जितमिति । तथा सति निरर्थकस्य टस् इत्यादि ध्वने मत्वं स्यात् तन्निवारणार्थमर्थवदिति । इग्लक्षणं नामोच्यते ।। च पुनः कृतद्धितसमासाः सविभक्तिका अपि नामसंज्ञाः स्युरिति केचिदित्याहुः । कृतस्तृतीयवृत्तिप्रत्ययाः। तदन्ताः शब्दा:-धातवस्तद्धितान्ता समासाश्च नामसंज्ञका भवन्ति इति कचिदिति पाणिन्याचार्या वदन्ति । एते सर्वेऽपि प्रातिपदिकसंज्ञका नाम- प्रकरणम् ] सरलाटीकाविराजितम् तस्मात् सि औ जस, अम् ओ शस्, टा भ्यां भिस, के भ्यां भ्यस, उसि भ्यां भ्यस्, उस ओस् आम्, ङि ओस सुए। ३ । तस्मान्नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति । तत्रा- ऽप्यर्थमात्रैकत्वविवक्षायां प्रथमैकवचनं सि । अकारान्तः पुंलिङ्गो देवशब्दः । देव सि इति स्थिते । इकार उच्चारणार्थः, सेरिति विशे- षणार्थश्च ॥ ३ ॥ स्रोविसर्गः। ४। सकाररेफयोविसर्जनीयादेशो भवति, अधातो रसे पदान्ते च । देवः । द्वित्वविवक्षायाम् 'ओ औ औ' सूत्रण देवौ । बहुत्ववि- वक्षायां प्रथमावहुवचने जस् । जसो जकारस्येत्संज्ञायां तस्य लोपः । प्रयोजनं च 'जसी'ति विशेषणार्थः । देव अस् इति स्थिते दीर्घ- संज्ञका उच्यन्ते । तन्मते प्रातिपदिकमिति नामपर्यायः ।। कृदन्ता धातवः समासतद्धितयो: पदान्यपि नामसंज्ञकानीत्यर्थः । स्रोरिति । स् च र् च स्रो, तयोःस्रोः । सकारस्य रेफस्य च विसगो भवति अधातोः नाम्नः शब्दस्य रसे परे। चकारासदान्ते तु धातुनाम्नी- रुभयोरपि ।। नाम्नः सकाररेफयोः रसे परे पदान्त च विसर्गादेशः । चका- रावदान्ते धातोरपि सकाररेफयोर्विसर्गादेश:-यथा अचका: ।। रसे परे धातोर्न-यथा आस्ते बिभर्तीत्यादौ । अनेन विसर्गः । देव इति सिद्धम् ।। द्वित्वविवक्षायामिति । द्वयोर्वक्तुमिच्छा यत्र क्रियते तत्र औ, प्रथमा द्विवचनम् । यथा देवश्च देवश्चेत्येकशेषे 'सरूपाणामेकशेष एक- विभक्तौ' इति । देव औ इति स्थिते । 'ओ औं औ' । देवौ ।।

२८ सारस्वतच्याकरणम् [ बलिङ्ग- विसर्गों देवाः । * अकाराज्जसो सुकत्यांचद्रक्तव्या*। देवासः । ब्राह्मणासः । द्वितीयकवचने देव-अस् इति स्थिते-- अम्शसोरस्य । ५। समानादुत्तयोरम्शयोरकारस्य लोणे भवत्यधातोः । देवम् । देवौ । बहुवचने-देव शम् इति स्थिते शकारः 'शसि' इति विशे- षणार्थः ॥ ५ ॥ सो नः पुंसः।६। पुल्लिङ्गात् समानादुत्तरस्य शसः सकारस्य नकारादेशो भवति ॥६॥ शरिन । ७॥ शसि परे पूर्वस्य स्वरस्य दीर्घो भवति । 'यदादेशस्तद्वद्भवति न तु वर्णमात्रविधौ । देवान् । तृतीयैकव वने देव टा इति स्थिते । टकारोऽनुबन्धः 'टेन' इति विशेषणार्थः ॥ ७ ॥ क्वचिदिति । क्वचित्प्रयोगान्तरे अकारात्वरस्य जसः असुक् आ- गमो भवति छन्दसि वेदविषये । देव जस् । अनेन असुगागमः । कित्त्वा- दन्ते । 'स्वरहीन' 'स्रोर्विसर्गः' 'सवणे दीर्घः' । देवास इति सिद्धम् ।। समानादिति । समानात्परस्य अम्शस्सम्बन्धिनोऽकारस्य लोपो भवत्यधातो:। अश्विबन्ताच्छब्दादित्यर्थः । अनेन अकारलापः । 'मो.नु- स्वारः' । देवम् ।। देवौ । पूर्ववत् । सो न इति। पुलिङ्गे वर्तमानात्समानादुत्तरस्याग्रतः शस: सका- रस्य नकारादेशी भवतीत्यर्थः ।। शांति । पूर्वहस्वस्य दीर्घो भवति शसि परे । 'यदादेशस्तद्व- द्भवति न तु वर्णमात्रविधौ' इति न्यायात् पूर्वस्य दीर्घः । देवान् ।।

प्रकरणम् ] सरलाटाका विराजितम् ३ ९ टेन।८। अकारात्परष्टा इनो भवति । देवेन ॥ ८ ॥ आद्भि।९। अकारस्य आकारादेशो भवति भकारे परे । देवाभ्याम् ॥९॥ भ्यः। १०॥ अकारात् परस्य भिसो भकारस्याकारादेशो भवति । “अइ इ ए" । देव एस् इति स्थिते–'ए ऐ ऐ' । वृद्धिविसर्जनीयौ । देवैः । *अकारस्य भिसि छन्दस्यकारो वा वक्तव्यः । देवेभिः । कर्णेभिः । चतुर्येकवचने देव ' इति स्थिते । डकारो डि कार्यार्थः सर्वत्र ॥ १०॥ डेरक । ११ । अकारात् परस्य डे इत्येतस्याऽगागमो भवति । कित्त्वादन्ते । 'ए अय्' । दीर्घः । देवाय । देवाभ्याम् । पूर्ववत् । चतुर्थी बहुवचने देव भ्यस् इति स्थिते----॥ ११ ॥ एस्मि बहुत्वे । १२ । अद्भीति। केचित्तु 'आद्भि' इति पटन्ति । तन्मते आ अत् भि इति त्रीणि पदानि । अकारस्थ स्यादिविभक्तिसम्बन्धिमकारे परे आकारो भवति । 'देवाभ्या'मिति सिद्धम् ।। अकारस्येति । अकारस्य भिसि परे छन्दसि वैदिकोदाहरणविषये एकारो वक्तव्यः । दवेभिः। कर्णेभिरिति वैदिकप्रयोगौ । ङगिति । अकारात्परस्य इत्यस्य अगागमो भवति । सच कित्त्वादन्ते । एस्भि इति । अकारस्यैत्वमेकारो भवति बहुवचने स्मि सकारभकारादौ ४० सारस्वतव्याकरणम् - [ष लिङ्ग- अकारस्य एत्वं भवति सकारे भकारे च परे बहुत्वे सति । देवेभ्यः । पञ्चम्येकवचने देव ङसि इति स्थिते ॥ १२ ॥ ङसिरत् । १३॥ अकारात्परो उसिरद्भवति । दीर्घः । देवात् । देवाभ्याम् । देवेभ्यः । षष्ठये कवचने देव डस् इति स्थिते-॥ १३ ॥ उस स्य। १४।. अकारात्परो ङस् स्य भवति । देवस्य । षष्ठीद्विवचने देव ओस् इति स्थिते--॥ १४ ॥ ओसि । १५। अकारस्य ओसि परे एत्वं भवति । 'ए अय्' । देवयोः ॥१५॥ नुडामः। १६ । समानात्परस्यामो नुडागमो भवति । टित्त्वादादौ । उकार उच्चारणार्थः ॥ १६॥ विभक्तावित्यर्थः । देवेभ्यः ।। ओसीति । ओसीति ओस् शब्दस्य सप्तम्येकवचनान्तम् । अका- रस्य ओसि परे एत्वमेकारो भवतीत्यर्थः । नुडिति । समानात्परस्य आमः षष्ठीबहुचनस्येति व्याख्येयम् । अन्यथा 'आम् ' इत्याम् । 'स्त्रियां खोः' इत्याम् । 'आमौ' इत्यप्याम् । 'किमोऽव्ययात्' इत्याम् । 'कासादिप्रत्ययान्तात्' इत्याम् च वर्तते, तत्राति- व्याप्तिः स्यात् । तेन षष्ठीबहुवचनस्याऽऽमो नुडागमो भवति । अधातोरेवे- त्यनुवर्तितव्यम् । तेन अधातोरक्विबन्ताच्छन्दात् । टित्त्वादादौ । उकार उच्चारणार्थः । इति न इत्यागमः । आमो नुडिति कर्तव्ये नुडाम इति विप- ४१ । प्रकरणम् ] सरलाटीकाविराजितम नामि । २७। नामिपरे पूर्वस्य दीर्घो भवति । देवानाम् । सप्तम्येकवचने देव डि इति स्थिते । 'अ इ ए' । देवे । देवयोः पूर्ववत् । सप्तमी- बहुवचने देव सुप् इति स्थिते पकारस्येत्संज्ञायां लोपः । 'एस्भि बहुत्वे' इत्यत्वे कृते ॥ १७ ॥ क्विलात् षः सः कृतस्य । १८ । कवर्गादिलाञ्च प्रत्याहारादुत्तरस्य केनचित् सूत्रेण कृतस्य सकारस्य षकारादेशो भवति । देवेषु ॥ १८ ॥ आमन्त्रणे सिधिः । १९ । आमन्त्रणमाभिमुखीकरणं तस्मिन्नर्थे विहितः सिर्धिसंज्ञो भवति ॥ १९ ॥ रीतकरणे नुटोऽनित्यत्वसूचकम् । तेन स्त्रीणां वारीणामित्यत्र 'नुडामः' इत्येव स्यात् । 'नामिनः स्वरे' इति भवति ।। 'क्विलात्पः सः कृतस्य' । कुश्च इलश्च विलं, तस्मात् । पञ्च- म्येकवचनम् । केनचित्सूत्रेण कृतस्यैव सकारस्य षकारो भवति न त्वकृतस्य =स्वाभाविकस्य । अन्ते स्थितस्यापि सस्य षत्वं न भवति । यथा 'हरिस्तत्र'- त्यादौ न षत्वम् । तथा नुम्विसर्गान्तरेऽपि षत्वं, यथा हवींषि हविःधु इत्यादि । पूर्वं हविस्शब्दोऽस्तीत्यर्थः । आमन्त्रण इति । आमन्त्र्यते आहूयते पुरुषोऽनेनेत्यामन्त्रणं, तस्मिन् , सप्तम्येकवचनान्तम् । आमन्त्रणमिति । कोऽर्थ : ? । आभि- मुखीकरणम् । अनभिमुख आसमन्तात् प्रकारेण अभिमुखः क्रियतेऽनेनेति आभिमुखीकरणम् । तस्मिन्नर्थे विहितः कृतो यः सिः प्रथमैकवचनरूपः स घिसंज्ञो भवति ।

४२ सारस्वतव्याकरणम् -- [षड्लिङ्ग- समानाद्धोपोऽधातोः । २० । समानादुत्तरस्य धेर्लोपो भवत्यधातोः । आभिमुख्याभिव्यक्तये हेशब्दस्य प्राक् प्रयोगः । हे देव । हे देवौ। हे देवाः । एवं घटपट- स्तम्भकुम्भादयोऽप्यकारान्ताः पुंल्लिङ्गाः। अकारान्तानामपि सर्वादीनां तु विशेषः। 'सर्व, विश्व, उभ, उभय, अन्य, अन्यतर, इतर, डतर, डतम, कतर, कतम, सम, सिम, नेम, एक, पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्त्र, अन्तर, त्यद्, तद्, यद्, एतद्, इदम् , समानादिति। समानादुत्तरस्य धेर्लोपो भवति । अत्र समानादिति हस्वसमानात्परस्येति व्याख्येयम् । अन्यथा हे हाहाः, हे हूहू:, हे वातप्रमीः, इत्यादौ विरुध्यति । अधातो:-अक्विबन्ताच्छब्दात् । अक्विबन्तोऽधातु- रुच्यते क्विबन्तश्च शब्दो धातुरित्यभिप्रायः । प्रागिति । पूर्व हे शब्दः । एतद्धेतुः । अभिमुखस्य भाव आभि- मुख्यं संमुखत्वं वा, तस्याभिव्यक्तये प्रकटीकरणाय हेशब्दः प्राक्-आदी प्रयुज्यते इत्यर्थः। सर्वासां विभक्तीनामेकत्र प्रयोगो यथा- 'वृक्षस्तिष्ठति कानने कुसुमिते, वृक्षं लताः संश्रिता, वृक्षणाभिहता गजा निपतिता, वृक्षाय देयं जलम् । वृक्षादानय मञ्जरी कुसुमितां, वृक्षस्य शाखोन्नता, वृक्षे नीडमिदं कृतं शकुनिना, हे वृक्ष ! किं पश्यति ॥' अकारान्तानामिति । यद्यपि सर्वादयोऽकारान्तास्तथापि सर्वादीनां विशेषो देवशब्दात्कश्चिभेदोऽस्ति । के ते सर्वादय इत्याह-सर्वेति । विश्वशब्दस्य सकलार्थवाचकरवे सर्वादित्वं, न तु जगद्वाचकत्वे । जगद्वाच- कत्वे तु कुलशब्दवत् । समः-अतुल्यार्थ:-सर्वार्थवाचकः । तुल्यार्थत्वे तु 'राज्ञा समाय' इत्यत्र न सर्वादित्वम् । सिम:-समग्रार्थवाचकः । नमः - प्रकरणम् ] सरलाटीकाविराजितम् अदस्, द्वि, किम् , युष्मद्, अस्मद् , भवतु' एते सर्वादयस्त्रिलिङ्गाः । तत्र पुंल्लिङ्गत्वेन रूपं ज्ञेयम् । सर्वः । सर्वौ । बहुवचने सर्व जस् इति स्थिते ।। २० ।। जसी । २१। सर्वादेरकारान्तात्परो जस ई भवति । 'अ इ ए'। सर्वे। सर्वम् सौं सर्वान् । 'अम्शसोरस्य' । सो नः पुंसः'। 'शसि' । पूर्वस्य दीर्घः । तृतीयैकवचने सर्व इन इति स्थिते ॥ २१ ॥ रखण्डवाचकः । पूर्वादीनां तु व्यवस्थायामेव सर्वादित्वम् । दक्षिणशब्दस्य प्रावीण्ये शृङ्गरनायकवाचकत्वे च न सर्वादिकार्यम् । अन्यत्र दक्षिणदेशवा- ज्यत्वे सर्वादिखम् । उत्तरशब्दस्य उत्तरदिग्देशवाच्यत्वे सर्वादित्वं, प्रति- वाक्ये तु न सर्वादि कार्यम् । अधरस्य हीनार्थत्वे सर्वादित्वं, न त्वोष्ठवाच- कत्वे । त्वशब्दस्य ज्ञातिधनान्यवाचित्वे-ज्ञातिधनार्दवर्जे किन्तु आत्मात्मी- याथे वाच्थे सर्वादिलम् । 'ज्ञातावात्मनि चात्मीये धने स्वाख्या प्रवर्तते' इति । स्वा ज्ञातयः, स्वानि द्रव्याणि इत्यत्र सर्वादित्वं न । अन्यत्र तु स्वत्मै रोचते, स्वे पुत्राः स्वस्मै पुत्राय देहि । अत्र सर्वशब्दवत् । अन्तरशब्दस्य बहियोंगे उपसंव्याने च सर्वादित्वं नान्यत्र । 'मध्ये छिद्रे विशेपे च व्यत्र- धाने बहियुजि । उपसंव्यानने प्राज्ञाः, घडर्थमन्तरं विदुः ॥' अन्तरस्मै गृहाय | नगरबाह्याय चाण्डालादिगृहायेत्यर्थः । पुरि तु न भवति-अन्त - रायै पुरे कुप्यति । चाण्डालादिबाह्यपुर्यै इत्यर्थः । वस्त्रान्तरेण पिहितं वस्त्रमुपसंव्यानम् । 'अन्तरीय निवसनमुपसंव्यानमित्यपि।' तत्रार्थ अन्तरे अन्तरा वा शाटकाः । अन्तरस्मे शाटकाय । वस्त्रान्तरेण वृताय शाट- कायेत्यर्थः । उभशब्दस्य त्वच्छब्दस्य भवच्छन्दस्य द्विशब्दत्य च तृतीयासमासे तथा हेत्वर्थे सर्वा विभक्तयो भवन्ति तदर्थम् । अव्ययात्सर्वनाम्नष्टेः प्रागकच्' इत्यकक्प्रत्ययार्थ च सर्वादिमध्ये ग्रहणम् । यथा-उभौ हेतृ । उभाभ्यां हेतु- . .

४४ सारस्वतव्याकरणम् [षलिङ्ग- पू! णोऽनन्त । २२। षकाररेफऋवणेभ्यः परस्य नकारस्य णकारादेशो भवति । अन्ते स्थितस्य न भवति-सर्वानित्यादौ ॥ २२ ॥ अवकुप्वन्तरेऽपि । २३ । अवप्रत्याहारेण कवर्गेण पवर्गेण च मध्ये व्यवधाने ऽपि नस्य णो भवति नान्येन । सर्वेण । सर्वाभ्याम् । 'आद्धि' इत्यात्वम् । सः । चतुर्थंकवचने सर्व ए इति स्थिते ।। २३ ।। सर्वादः स्मट् । २४ । सर्वादेरकारान्तात्परस्य चतुर्युकवचनस्य स्मडागमो भवति । 'ए ऐ ऐ । सर्वस्मै । सर्वाभ्याम् । सर्वेभ्यः । पञ्चम्येकवचने सर्व अत् इति स्थिते ॥ २४॥ । भ्याम् । उभयोः हेत्वोः । त्वत् हेतुः । त्वतं हेतुम् । त्वता हेतुना । स्वतं हेतवे । द्वौं हेतू । द्वाभ्यां हेतुभ्याम् । द्वयोर्हेत्वोः । भवान् हेतुः । भवन्तं हेतुम् । भवता हेतुनेत्यादि । तथा अज्ञातौ उभौ उभको । एवं द्वको । भवकान् । भवकन्तौ । भवकन्तः । त्वकत् इत्यादि । त्यच्छब्दः प्रायश्छ- न्दस्येव । एते सर्वोदय उच्यन्ते कथ्यन्ते । त्रिलिङ्गा:-लिङ्गत्रयधारिणः । पुंलिङ्गस्त्रीलिङ्गनपुंसकलिङ्गा इति यावत् । सर्व इति । सरति प्रसरतीति सर्वः । पकारेति । अन्ते पदान्ते स्थितस्य व्यञ्जनस्य नकारस्य णकारो न भवतीत्यर्थः। नन्वत्र रेफस्याग्रं नकारो नास्ति किंतु मध्ये वकारेकारौ स्त: तत्कथं नकारस्य णकार: स्यादि- त्याह-'अवकुप्वन्तरेऽपीति । अवश्च कुश्च पुश्च अवकुपवः, तैरन्तरमं - वकुप्वन्तरं तस्मिन् । अवप्रत्याहारस्यान्तरे कवर्गस्यान्तरे पवर्गस्यान्तरे पवर्ग- स्यान्तरे, अपिशब्दातू जिह्वामूलीयोपध्मानीयानुस्वारयुम्विसर्गाणामपि व्यव- घाने अन्तरे णत्वं वक्तव्यमित्यर्थः । सर्वण || प्रकरणम् । सरलाटीकाबिराजितम् ४५ । । %3- अतः सवादः । २५ । सर्वादेरकारान्तात्परस्याऽतः स्मडागमो भवति । सर्वस्मात् । सर्वाभ्याम् । सर्वेभ्यः । षष्ठ्येकवचने सर्व अस् इति स्थिते । 'ङस् स्य' । सर्वस्य । 'ए अय्' । सर्वयोः । सर्व आम् इति स्थिते ॥२५॥ सुडामः । २६ । सर्वादेः परस्यामः सुडागमो भवति । सर्वेषाम् । सप्तम्येक- वचने सर्व कि इति स्थिते || २६ ।। डिस्मिन् । २७। मर्वादेरकारात्परो ङि: स्मिन् भवति । सर्वस्मिन् । सर्वयोः । सर्वेषु । हे सर्व । हे सौ । हे सर्वे । एवं विश्वादीनामेकशब्दपर्यन्तानां रूर ज्ञेयम् , डतरडतमौ विहाय । तौ प्रत्ययौ । ततस्तदन्ताः शब्दा ग्राह्याः । पूर्वादीनान्तु विशेषः । पूर्वः । पूर्वी । पूर्वादीनां तु नवानां जसि इकारो वा वक्तव्या* | पूर्वे पूर्वाः । परे पराः । अत इति । अकारान्तात्सर्वादेः शब्दात्वरस्य ङसिस्थाने जातस्य अत् इन्यस्य स्मडागमो भवति । एवं सर्वशब्दरीत्या डतरडतमौ विहाय तदर्जाना विश्वादीनामेक- शब्दपर्यन्तानां शब्दानां रूपमवसेयम् । परं इतरडतमौ विहाय वर्जयित्वा । यतस्तो प्रत्ययो तद्धि तोद्भवौं । अतस्तदन्ताः कतरकतमादिशब्दा ग्राह्याः । अन्यतरस्य पृथग्ग्रहणेन अन्यतमस्य प्रतिषेधः । अन्यत्सर्ववत्। विशेषमाह-पूर्वादीनामिति । तु पुनः पूर्वादीनां नवानां शब्दानां जस ईकारो वा वक्तव्यः । वा सर्ववजसीत्यर्थः । अन्यत्र पक्षे देववत् । पूर्व पूर्वाः । परे पराः । इत्यादि । पूर्वादिभ्य इति । पुनः पूर्वादीनां नवानां ङसिश्च डिश्च ङसिङी तयोः ङसिङ्याविषये स्मास्मिना- वादेशौ वा वक्तव्यौ । पञ्चभ्या एकवचने एकत्र सर्ववत् । एकत्र देवत्रत् ।

४६ सारस्वतव्याकरणम् । [ पलिङ्ग- इत्यादि । *डसिड्योः स्मात्स्मिनो वा वक्तव्यो । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । इत्यादि । *प्रथमचरमतयाऽयडल्पाई- कतिपयनेमानां जसीकारो वा वक्तव्यः। प्रथमे प्रथमाः । चरमे चश्माः । शेष देववत् । तयाऽयडौ प्रत्ययौ । *लीयस्य सर्वशब्दवद्रूपं डित्सु वा वक्तव्यम् । द्वितीयस्मै । द्वितीयाय । द्वितीयस्मात् । द्वितीयात् । द्वितीयस्मिन् । द्वितीये। एवं तृतीयः । उभशब्दो नित्यं द्विवचनान्तः । उभौ । उभौ। उभा- भ्याम् । उभाभ्याम् । उभाभ्याम् । उभयोः । उभयोः । हे उभौ । उभयशब्दस्य द्विवचनाऽभावादेकवचनबहुवचने भवतः । उभयः । उभये । उभयम् । उभयान् । उभयेन । उभयैः । उभयस्मै । उभयेभ्यः । इत्यादि । अकारान्तः पुंल्लिङ्गो मासशब्दः ॥ २७ ।। मासस्याऽल्लोपो वा । २८। मासशब्दस्या कारस्य लोपो वा भवति सर्वासु विभक्तिपु परतः ॥ २८ ॥ पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् पूर्वे । अन्यत्र सर्ववत् । प्रथमति । प्रथमचरमाल्पार्धकतिपयानां केवलं जसि विकल्पः । शेषं देववत् ।। तयाऽयटौ प्रत्ययौ ततस्तदन्ताः शब्दा ग्राह्या: । द्वितये द्वितयाः । द्वये द्वयाः । शेषं देवशब्दवत् । तीयस्येति ।। तीयप्रत्ययान्तस्य द्वितीयतृतीयशब्दयुग्मस्य असर्वा- दित्वेऽपि ङित्सु वचनेषु विकल्पेन सर्वद्रूपम् । कित्सु-डेङसिङिघु वा सर्व- वत्त्वमित्यर्थः। मासति । मासशब्दस्याऽकारस्य लोपो भवति वा विकल्पेन शसादी स्वरे परे इत्यर्थः । सर्वविभक्तिपु परत इत्यर्थ इत्येके ।

४७ ॥ प्रकरणम् ] सरलाटीकाविराजितम् हसेपः सेलोपः । २० । हसन्तादीबन्ताच्च परस्य सेर्लोपो भवति । माः-मासः । मासौ मासौ । मासः-मासाः । मास-मासं । मासौ-मासौ । मासः. मासान् । मासा-मासेन । माभ्यां मासाभ्यां । माभिः मासैः । मासे मासाय | माभ्यां । मासाभ्यां-माभ्यः मासेभ्यः । मास: मासात् । माभ्यां मासाभ्यां। माभ्यः मासेभ्यः । मासः मासस्य । मासोः मासयोः । मासाम् मासानाम् । मासि मासे । मासोः मासयोः । मास्सु मासेपु । हे माः हे मास। हे मासौ हे मासौ। हे मासः हे मासाः । आकारान्तः पुंल्लिङ्गः सोमपाशब्दः । सोमाः । सोमपौ ।। सोमपाः । अधातोरिति विशेषणाद्धेलोपो नास्ति । हे सोमपाः । सोमपाम् । सोमपौ । बहुवचने सोमपा अस् इति स्थिते ।। २९ ।। आतो धातोर्लोपः । ३० । धातुसम्बन्धिन आकारस्य लोपो भवति शसादौ स्वरे परे । सोमपः ।। सोमपा । सोमपाभ्याम् । सोमपाभिः । सोमपे । सोमपाभ्याम् । सोमपाभ्यः । सोमपः । सोमपाभ्याम् । सोमपाभ्यः । सोमयः। सोमपोः । सोमपाम् । सोमपि । सोमपोः । सोमपासु । एवं कीलालपाशङ्खध्मा- प्रभृतयः । इकारान्तः पुंल्लिङ्गो हरिशब्दस्तस्य प्रथमैकवचने-हरिः३० आकारान्तो हाहाशब्दस्तस्य च अक्विबन्तत्वान्न धातुसंज्ञा । इकारान्तसाधनमाह-इकारान्त इति। इकारान्तो हरिशब्दः दशार्थवाचकः । तथाहि-'अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसि- हशीतांशुयमाश्च हरयो दश' इति ।

४८ सारस्वतव्याकरणम् [ षड्लिङ्ग- औ यू । ३१ । इकारान्तादुकारान्ताच्च पर औकारौ यूत्वमापद्यते। इ ऊ भवतः । हरी ॥ ३१ ॥ ए ओ जसि । ३२॥ इकारान्तस्य उकारान्तस्य च जसि परे एकार ओकारश्च भवति । हरयः ।। ३२ ।। धौ । ३३ । इकारान्तस्य उकारान्तस्य च धिविषये एकार ओकारश्च भवति । हे हरे । हे हरी । हे हरयः । हरिम् । हरी । हरीन्।।३३॥ दा नास्त्रियाम् । ३४ । इकारान्तादुकारान्ताच्च परष्टा ना भवत्यस्त्रियाम् । हरिणा । हरिभ्यां । हरिभिः । हरि-डे - इति स्थिते ॥ ३४ ।। डिति। ३५॥ इकारान्तस्य उकारान्तस्य च ङिति परे एकार ओकारश्च भवति । हरये । हरिभ्याम् । हरि सि इति स्थिते ।। ३५ ॥ यू इति । इश्च उश्च यू । इकारान्तात्वरस्य 'औं' इत्यस्य 'ई' भवति । उकागन्तात्परस्य 'औ' इत्यस्य च 'ॐ' आदेशो भवतीत्यर्थः । ए ओ इति । इकारस्य जसि परे एकारो भवति उकारस्य च ओकारो भवतीत्यर्थः । टानेति । इकारान्तादुकारान्ताच शब्दात्परो यः टा इति तृतीया- विभक्त्येकवचनन्तस्य स्थाने 'ना' इत्यादेशो भवति पुंलिङ्ग नपुंसकलिङ्ग चेत्यर्थः । एवञ्च स्त्रीलिङ्ग न भवति ।

प्रकरणम् ] सरलाटीकाविराजितम् असिङसोरस्य । ३६ एदोद्भयां परस्य ङसिङसोरकारस्य लोपो भवति । हरेः । हयोः । हरीणाम् । हरि-ङि इति स्थिते ॥ ३६॥ डेरी डित् । ७। इदुभ्यामुत्तरस्य डेरौ भवति स च डित् ॥ ३७ ॥ डितिरे। ३८॥ डिति परे टेोपो भवति । हरौ । योंः । हरिषु । एवमग्नि- गिरिरविकविप्रभृतयः पुल्लिङ्गा एतैरेव सूत्रः सिध्यन्ति । उकारान्ताश्च विष्णुवायुभानुप्रभृतय एतैरेव सूत्रैः सिध्यन्ति । भानुः । भानू । भानवः । भानुम् । भानू । भानून् । भानुना । भानुभ्यां । भानुभिः । भानवे । भानुभ्यां । भानुभ्यः । भानोः । भानुभ्यां । भानुभ्यः । भानोः । भान्वोः । भानूनाम् । भानौ । भान्वोः । भानुषु । हे भानो । हे भानू । हे भानवः । इत्यादि । सखिशब्दस्य भेदः । सखि सि इति स्थिते ॥ ३८ ॥ सेडीऽधेः । ३९। सखिशब्दात्परस्य सेरधेडा भवति स च डित् । डिवाटि- लोपः । सखा । अधेरिति विशेषणादेकारो धिविषये । हे सखे ।। ३९ ॥ उसीति। एकारौकाराभ्यां परस्य पञ्चमीषष्ठयेकवचनसम्बन्धिना- कारस्य लोपो भवतीत्यर्थः । भेद इति । इकारान्तस्यापि सखिशब्दस्य हरिशब्दापेक्षया भेदो विशेषोऽस्तीत्यथः । तमाह-सेति ।

५० सारस्वतव्याकरणम् [पडलिङ्ग- ऐ सख्युः। ४० । सखिशब्दस्यैकारो भवति पञ्चसु परेषु । पष्टीनिर्दिष्टस्यादेश- स्तदन्तस्य ज्ञेयः शिवचनस्या वा छन्दति । ४१ । द्विवचनस्य औ आ भवति वेदे। सखायौ। सखाया। सखायः। सखायम् । सखायौ । सखीन् । सखि टा इति स्थिते ॥ ४१ ॥ सखिपत्योरीक् । ४२ । सखिपतिशब्दयोरीगागमो भवति टाङिषु परतः । दीर्घत्वान्न ना । सख्या । 'आगमजमनित्यम्' इति न्यायात् , आगम कार्य- मनित्यं स्यात् वा छन्दसि इत्यर्थः । सखिना। सखिभ्यां । सखिभिः । सख्ये सखिभ्याम् सखिभ्यः । सखि ङसि इति स्थिते ।। ४२ ॥ ङ् । ४३ । सखिपतिशब्दयो ऋगागमो भवति ङसिङसोरकारे परे । सख्य अस् इति स्थिते ॥ ४३ ॥ ऋतौ ङउः। ४४। ए इति। सखिशब्दस्य घिवर्जितेषु पञ्चसु स्यादिषु वचनेषु परेषु ऐकारादेशो भवति । 'शत्रुवदादेश' इति वचनात्सर्वस्यापि न कशमैकारः । तत्रोच्यते-षष्ठीनिर्दिष्टेति । षष्टया विभक्त्या निर्दिष्टः कथितः उच्चरितः सूत्रमध्ये यः शब्दस्तस्य प्राप्त आदेशस्तस्यान्तस्य भवति न तु सर्वस्व । यथा 'ऐ सख्युः' इत्यत्र सखिशब्दस्य पष्टया निर्दिष्टत्वात्सखिशब्दस्य प्राप्त एकारादेशः सखिशब्दस्यान्तो य इकारस्तस्य भवति ।। द्विवचनस्येति । द्विवचनस्य प्रथमाद्विवचनस्य औ इत्यस्य छन्दसि देदे वा आ भवति । सखाया ।। ।

५१ प्रकरणम् सरलाटीकाविराजितम् ऋकारान्तात्परस्य ङसिङसोरकारस्य उकारो भवति सच डित् । डिवाडिलोपः । सख्युः । सखिभ्यां । सखिभ्यः । सख्युः । सख्योः । सखीनाम् । सप्तम्येकवचने । 'डेरौ डित्' इत्यौकारे कृते सखिपतिशब्दयोरीगागमो भवति । सख्यौ सख्योः सखिषु । पतिशब्दस्य प्रथमाद्वितीययोहरिशब्दवत्प्रक्रिया ; तृतीयादौ तु सखिशब्दवत्प्रक्रिया । पतिः पती पतय इत्यादि पतिरसमास एवं ब्लखिशाब्दबद्रक्तव्यः । ततः समासान्तस्य नादयो भव- न्ति । प्रजापतिना । प्रजापतये इत्यादि । द्विशब्दो नित्यं द्विवचनान्तः । द्वि-औ इति स्थिते ॥ ४४ ॥ त्यदादेष्टेरः स्यादौ । ४५ । त्यदादेष्टेरेकारो भवति स्यादौ परे । द्वौ। द्वौ। द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । त्यदादीनां धेरभावः । त्रिशब्दो नित्यं बहुवचनान्त: त्रि जस् इति स्थिते 'ए ओ जसि' इत्येकारे कृते अयादेशः । त्रयः । श्रीन् । त्रिभिः । त्रिभ्यः । त्रिभ्यः ॥४५॥ ओरयङ् । ४६। त्रिशब्दस्याऽयङादेशो भवति नामि परे । ऋडिदन्त्यस्य सखिशब्दवदिति । पत्या, पत्ये, पत्युः, पत्युः, पत्यौ इति ।। त्यदादेरिति । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि किम युष्मद् अस्मद् एते त्यदादयः । त्यदादेः शब्दस्य 'अन्त्यस्वरादिष्टिः' इति संज्ञाप्रक्रियोक्तलक्षणायाः टे: स्यादौ विभक्तो परतोऽकारो भवतीत्यर्थः।

सारस्वतव्याकरणम् [ घडलिङ्ग- वक्तव्यः * । त्रयाणाम् । त्रिषु ।। कतिशब्दो नित्यं बहुवचनान्तः । कति जस् इति स्थिते । “कतिशब्दाजुश्शलोलुंग्वक्तव्या* ! इति जश्शसोलृक् । लुकि न तन्निमित्तम् । कति । कति । कतिभिः । कतिभ्यः २ । कतीनाम् । कतिषु । त्रिषु लिङ्गेषु चायं सरूपः । ईकारान्तः पुंल्लिङ्गः सुश्रीशब्दः । सुश्रीः। सुश्री-औ इति स्थिते ॥ ४६ ॥ बोर्धातोरियुवौ स्वरे । ४७। धातोरिकारोकारयोरियुधौ भवतः स्वरे परे । सुश्रियौ सुश्रियः । हे सुश्रीः । हे सुश्रियौ हे सुश्रियः । सुश्रियम् सुश्रियौ सुश्रियः । सुश्रिया सुश्रीभ्याम् सुश्रीभिः । सुश्रिये सुश्रीभ्याम् सुश्रीभ्यः । सुश्रियः सुश्रीभ्याम् सुश्रीभ्यः । सुश्रियः सुश्रियोः मुश्रियाम् । सुश्रियि सुश्रियोः सुश्रीषु ॥ तथैव सुधीशब्दः । सुधीः मुधियौ इत्यादि । एवमुकारान्तः पुंल्लिङ्गः स्वयम्भूशब्दः । स्वयम्भूः स्वय- म्भुवौ स्वयम्भुवः । हे स्वयम्भूः । हे स्वयम्भुवौ। हे स्वयम्भुवः । स्वय- म्भुवं स्वयम्भुवौ स्वयम्भुवः । स्वयम्भुवा स्वयम्भूभ्यां स्वयम्भूभिः । स्वयम्भुवे स्वयम्भूभ्यां स्वयम्भूभ्यः । स्वयम्भुवः । स्वयम्भूभ्याम् । स्वयम्भूभ्यः । स्वयम्भुवः स्वयम्भुवोः स्वयम्भुवाम् । स्वयम्भुवि स्वय- कतीति । का संख्या येषां ते कति । किंशब्दात् डतिप्रत्ययः । 'शेषा निपात्याः कत्यादयः' इति सिद्धस्य कतिशब्दस्य बहुवचनान्तस्यापि जश्शसो विशेषमाह-कतिशब्दादिति । इकारान्तानुक्त्वा ईकारान्तानाह ईकारान्तः पुंलिङ्गः सुश्रीशब्द इति । श्रिज सेवायाम्। सुपूर्वः। विष्प्रत्ययः । 'प्रच्छादेर्दीर्घता' इति दीर्घः ।

-U V~~.. ran प्रकरणम् सरलाटीकाविराजितम् म्भुवोः स्वयम्भूषु ॥ सेनानीशब्दस्याऽविशेषो हसादौ । स्वरादौ तु विशेषः । सेनानीः । सेनानी औ इति स्थिते ।। ४७ ॥ यौवा। ४८। धातोरवयवसयोगः पूर्वो यस्मादीकारादूकाराच्च नास्ति तदन्तस्या- नेवास्वरस्य कारकाव्ययपूर्वस्यैकस्वरस्य च धातोरीकारस्य ऊकारस्य च यकारयकारौ भवतः स्वरे परे, वर्षाभूपुन व्यतिरिक्तभूशब्दसुधीशब्दो वर्जयित्वा । वाग्रहणादियं विवक्षा । सेनान्यो सेनान्यः । हे सेनानी: है सेनान्यो हे सेनान्यः । सेनान्यं सेनान्यो सेनान्यः । सेनान्या सेनानीभ्यां सेनानीभिः । सेनान्ये सेनानीभ्यां सेनानीभ्यः । सेनान्यः सेनानीभ्यां सेनानीभ्यः । सेनान्यः सेनान्योः । क्विपः सर्वापहारी लोप: । सुष्टु श्रयन्त्येनमिति सुश्रीः । 'विवचन्ता धातुत्वं न जहति शब्दत्वं च प्रतिपद्यन्ते' इति स्यादयः । यस्मादीकारादूकाराच्च पूर्वमादा वर्तमानी धातोरवयवसंयोगः- सुश्रीयवक्रीवत् द्वयक्षगदिसंयोगो नास्ति तदन्तस्य स एव धात्ववयवसयो- गपूर्वकत्वरहित ईकार ऊकारो वा अन्ते यस्य स तदन्तस्तस्य पुनरनेक- स्वरस्य द्वयादिद्वित्रिस्वरपूर्वस्य शब्दस्य सम्बन्धिन ईकारस्य यकारः । ऊकारस्य च वकारः ।। ननु णीज प्रापणे' अयं धातुरेकस्वरः । कथमनेक- स्वरत्वम् । उच्यते-कारकपूर्वस्यापि क्विबन्तग्रहणेन ग्रहणादनेकस्वरत्वम् । अत्र वाशब्दो व्यवस्थावाचको न तु विकल्पार्थस्तेन वर्षाभूपुनर्भूदृन्भूकारभू- करभू-एभ्योतिरिक्तोऽन्यो यो भूशब्दः स्वयम्भू-दृन्भू–कमलभू-नाभिभू- अङ्गभू-आत्मभू-मनोभू-प्रभृतिकस्तस्य सम्भवे सत्यपि 'वौ वा' इति न भवति । किं तु बोधातोरियुवौ स्वरे' इत्येव भवति । तथा सुधीशब्द- स्यापि सम्भवे सत्यरि 'चौ वा' इति न भवति । किं तु 'प्योर्धातोरियुवी सारस्वतव्याकरणम् [ षड्लिङ्ग- * सेनान्यादीनां वाऽऽमो नुट वक्तव्यः * । सेनान्यां सेना- नीनाम् । सेनानी ङि इति स्थिते ॥ ४८ ।। आम् डेनियश्च । ४९। आबन्तादीबन्ता नीशब्दाचोत्तरस्य डेरामादेशो भवति । सेनान्यां सेनान्योः सेनानीषु । वातग्रमीशब्दस्य भेदः । वातममीः वातप्रम्यौ वातप्रभ्यः । हे वातप्रमीः हे वातप्रम्यौ हे वातप्रम्यः । वातप्रमी वातप्रम्यौ वातप्रमीन् । वातप्रम्या वातप्रमीभ्याम् वातप्रभीमिः । वात- प्रम्ये वातप्रमीभ्यां वातप्रमीभ्यः । वातप्रम्यः वातप्रमीभ्यां वातप्रमी- भ्यः । वातप्रम्यः वातप्रम्योः । आमि नुट्-वातप्रमीनाम् । ङौ तु सवर्णदीर्घः । वातप्रमी वातप्रम्योः वातप्रमीषु । एवं ग्रामणीप्रभृतयः सेनानीवत् । एवमूकारान्ताश्च यवलूप्रभृतयः । स्वरे' इत्येव भवति । अत एतौ वर्जयित्वा अपर ईकारोकारयोः पूर्वोक्तलक्ष- णयोर्यकारवकारौं भवतः । वाग्रहणादियं विवक्षा ज्ञेया । कुतः? ! निपाताना- मनेकार्थत्वात् । धातोः संयोगपूर्वकल्वे सुश्रियौ यवक्रियो कटप्रवौ इत्यादौ न यकारवकारौ । किंतु इयुवावेव । एकस्वरे तु-नीः नियो। धीः धियो । लू: लुवो। भूः भुवो भुवः-इत्यादौ न यकारवकारी । बहुव्रीहिसमासे अनेक स्वरस्यापि इयुवौ भवतः। यथा-सुधीः सुधियो सुधियः। परमधिय इत्यादि । धात्ववयवसंयोगपूर्वकत्वे एव यकारवकारौ न भवतः । तेन उन्नीः उन्न्यो उन्न्यः-इत्यादौ स्वाभाविकधात्ववयवसंयोगपूर्वकत्वाभावात् यत्वं न भवति । वर्षाभू-पुनर्भू-इन्भू-कारभूशब्दानां भूशब्दस्य वत्वम् । अन्यत्र च उवेव । वाशब्दस्य व्यवस्थावाचकत्वाच इयं विवक्षा लभ्यते । अकारान्ता हि यवलूखलपूदृन्भूकरभूकारभूवर्षाभूपुनर्भूप्रभृतबोऽप्येवम् ।

प्रकरणम् ] मरलाटीकाविराजितम् ऋकारान्तः पुंल्लिङ्गः पितृशब्दः ।। ४९॥ सेरा । ५०। ऋकारान्तात्परस्य सेरा भत्रति, स च डित् । डिवाढेलोपः । पिता ॥ ५०॥ अर पासु। ५१। ऋकारस्याऽभवति पञ्चमु स्यादिषु परेषु स च डित् । पितरौ पितरः ॥ ५१ ॥ धेरर् । ५२॥ ऋकारान्तात्परस्य धेरर् भवति स च डित् । हे पितः हे पितरौ हे पितरः । पितरं पितरौ पितॄन् । पित्रा पितृभ्यां पितृभिः । पित्रे पितृभ्यां पितृभ्यः । पितुः पितृभ्यां पितृभ्यः । पितुः पित्रोः पितॄणाम् ।। ५२ ॥ ऋकारस्याऽभवति ङौ परे। पितरि पित्रोः पितृषु । एवं जामातृभ्रात्रादयः । एवं नृशंब्दः । परं सप्तम्येकवचने नीशब्दाभावात् राम् न भवति । तेन यवलि पुनधि वर्षाभ्वि इति रूपम् । वर्षामु भवतीति वर्षाभूमण्डूकः । यवान् लुनातीति यवलू: कृषीवल: । एते क्विप्प्रत्ययान्ताः । एवम् अकारान्तो हूहूशब्दो गन्धर्वविशेषवाचकः । पा रक्षणे । पाति रक्षतीति पिता । पितृशब्दो निपातसिद्धो न तृप्रत्ययान्तः । एवमिति । नृशब्दोऽपि पितृशब्दवत् ।

सारस्वतव्याकरणम् [पालिङ्ग- ना नरौ नरः । नरं नरौ नृन् । ब्रा नृभ्यां नृभिः । ने नृभ्यां नृभ्यः । नुः नृभ्यां नृभ्यः । नुः ब्रोः ॥ ५३ ॥ नुर्वा नामि दीर्घः। ५४। नृशब्दस्य नामि परे वा दीर्घो भवति । नृणाम् नृणाम् । नरि ब्रोः नृषु । हे नः हे नरौ हे नरः । कर्तृशब्दस्य पञ्चसु विशेषः ।। ५४ ॥ स्तुरार् । ५५। सकारतृप्रत्ययसम्बन्धिन ऋकारस्याऽऽर्भवति पञ्चसु परेषु । कर्तार् सि इति स्थिते । यदादेशस्तद्वद्भवति । 'सेरा । डित्त्वार्लोपः । कर्ता कर्तारौ कर्तारः । हे कर्तः हे कर्तारौ हे कर्तारः । कर्तारं कर्तारी कर्तृन् । का कर्तृभ्यां कर्तृभिः । कर्ने कर्तृभ्यां कर्तृभ्यः । कर्तुः कर्तृभ्यां कर्तृभ्यः । कर्तुः कोंः कर्तृणाम् । कर्तरि कोंः कर्तृषु । एवं नप्तृहोतृशास्तृप्रभृतयः ।। उकारान्तस्य क्रोष्टुंशब्दस्य भेदः । *उकारान्तस्यापि क्रोष्टुशब्दस्य पञ्चस्वधिषु तृप्रत्ययान्त- स्येव रूपं वक्तव्यम् । क्रोष्टा क्रोष्टारौ क्रोष्टारः । क्रोष्टारं क्रोष्टारौ । शसि तृप्रत्ययवद्भावाऽभावात् । क्रोष्टून् । *तृतीयादी तृप्रत्ययान्तता वा वक्तव्या*। क्रोष्टा, क्रोष्टुना। क्रोष्टुभ्यां आमि तु विशेषमाइ-नुरिति । क्रुश आह्वाने । तुन्प्रत्ययः । 'गुणः' 'छशषराजादेः षः' 'ष्टुभिः घटुः' 'क्रोष्टु' इति जातम् । ।

प्रकरणम् ] सरलाटीकाविराजितम् क्रोष्टुभिः । क्रोष्टे, क्रोष्टवे । क्रोष्टुभ्यां क्रोष्टुभ्यः । क्रोष्टुः, क्रोष्टोः । क्रोष्टुभ्यां क्रोष्टुभ्यः । क्रोष्टुः--क्रोष्टोः । क्रोष्ट्रो:-क्रोष्ट्वोः । क्रोष्टूनाम् । नुडागमे कृते हसादित्वात्तुज्वद्भावो नास्ति । कृता- प्रकृतप्रसङ्गो यो विधिः स नित्यः । नित्यानित्ययोर्मध्ये नित्यविधिबलवान् । क्रोष्टरि-क्रोष्टौ । क्रोष्टोः। क्रोष्ट्वोः । क्रोष्टुषु। ऋकारान्ता लकारान्ता एकारान्ताश्चाऽप्रसिद्धाः । ऐकारान्तः पुल्लिङ्गः सुरैशब्दः ॥ ५५ ॥ 'स्भि । ५६॥ रैशब्दस्याऽऽकारादेशो भवति सकारभकारादौ विभक्तो परतः । सुराः । स्वरादौ सर्वत्राऽऽयादेशः । सुरायो सुरायः । हे सुराः हे सुरायौ हे सुरायः । सुरायं सुरायौ सुरायः । सुराया सुराभ्यां सुराभिः । इत्यादि । ओकारान्तः पुंल्लिङ्गो गोशब्दः ॥५६॥ १ रै षष्ठयेकवचनान्तम् । स्च भूच स्म , तस्मिन् स्भि-सप्तम्येक- वचनान्तम् । रैशब्दस्य विभक्तिसम्बन्धिनि सकारे भकारे च परे आकारा भवति । षष्टीनिर्दिष्टत्येत्यन्तस्येत्यवधेयम् । २ शोभनो रा:-सुराः । शोभना रा:-धनं यस्यासौ वा सुराः । रा:- घनम् । .३ ओकारान्तः-पुलिङ्गो गोशब्दः । दशार्थवाचक: । यत:--'दिग्ह- ष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भर्दशधा मतः' । दशस्वप्यर्थेषु गोशब्दः पुंस्त्रीलिङ्गे ज्ञेयः--इति हेमाचार्या आहुः । व्याडिरप्येवमाह । गौडस्तु-~-'स्वर्ग रश्मौ च वज्र च बलीवर्दे च गौ: पुमान् । स्त्री सौरभेयीदिग्बाणग्वारभूष्वप्सु भूम्नि च' || इति विशेषमाह । १ ५८ सारस्वतव्याकरणम् । [ षड्लिङ्ग- ओरी । ५७। ओकारस्यौकारादेशो भवति पश्चसु परेषु । गौः गावो गावः । हे गौः हे गावौ हे गावः ॥ ५७ ।। आऽम्शसि । ५८ ओकारस्याऽऽत्वं भवति अमि शसि च परे । गां गात्री गाः । गवा गोभ्यां गोभिः । गवे गोम्यां गोभ्यः। उस्ये'त्यकार- लोपः । गोः गोभ्यां गोभ्यः । गोः गवोः गवाम् ॥ ५८ ॥ शुतो गोरामः । ५९। श्रुती गोशब्दास्परस्यामो नुडागमो भवति । गोनाम् । गवि गवोः गोषु । एवं सुघोशब्दः । औकारान्तः पुंल्लिङ्गो ग्लौशब्द- स्तस्य हसादावविशेषः, स्वरादाबावादेशः । ग्लोः ग्लावौ ग्लावः । ग्ला ग्लावी ग्लावः । ग्लावा ग्लौभ्यामित्यादि ॥ ५९ ।। इति स्वरान्ताः पुंल्लिङ्गाः । १ औकारान्तः पुंलिङ्गो ग्लौशब्दश्चन्द्रार्थः । ग्लै हर्षक्षये । ग्लायति कृष्णपक्षे इति ग्लौः । आणादिको डोप्रत्ययः । 'डिति टेः' इति टिलोपे च ग्लोरिति जातम् । इति चन्द्र कीर्तिसङ्क्षिप्तसारभूतायां सरलायां स्वरान्तपुंलिङ्गप्रकरणम् ।

५९ ra- करणम् ] सरलाटाकाविराजितम् अथ स्वरान्ताः स्त्रीलिंगाःप्रदर्श्यन्ते। तत्राऽऽबन्तो गङ्गाशब्दः । आबलः स्त्रियाम् ।। अकारान्तानाम्नः स्त्रियां वर्तमानादाप्रत्ययो भवति ॥ १ ॥ आबन्तात्परस्य सेलोपो भवति । गङ्गा ॥ २ ॥ औरी।३। आबन्तात्पर औ इकारमापद्यते । “अइए" । गङ्गे गङ्गाः ॥३॥ धिरिः। ४। आबन्तात्परो धिरिभवति । हे गङ्गे हे गङ्गे है गङ्गाः ॥ ४ ॥ अम्बादीनां धौ हस्वः । ५॥ अम्बादीनां धौ परे हस्यो भवति । हे अम्ब । हे अक्क । हे अल्लै । *असंयुक्तानां डलवता प्रतिषेधो वाच्यः । हे अम्बाडे । हे अम्बाले । है अम्बिके इत्यादौ ह्रस्वो न भवति । गङ्गां गङ्गे । पुंस इति विशेषणात् स्त्रियां शसि सकारस्य १ धिः प्रथमैकवचनान्तम् । इः प्रथमैकवचनान्तम् । केचित्तु-धिरी' इति दीर्घमीकारं पठन्ति । ततः औ' इत्यस्मिन् सूत्रे दीर्षकारानुवृत्ति गृह्णन्ति ततो 'जरसी' इति रूपं साधयन्ति । २ अत्र अकादिशब्दानां हे अक्क हे अल्ल हे अम्बेति रूपाणि । एते त्रय एकार्था गृहमध्यस्थवृद्धस्त्रीवाचकाः । अम्बादीनां द्विस्वराणामेव धौ इवता । तेन हे अम्बाले हे अम्बिके इत्यादौ न हवः ।

सारस्वतव्याकरणम् [षडलिङ्ग- नकारा न भवति । गङ्गाः ।। ५ ।। टोसोरे।६। आबन्तस्य टोसोः परयोरेत्वं भवति । अयादेश: । गङ्गया गङ्गाभ्या गङ्गाभिः ।।६॥ डिन्तो यट् । ७१ आबन्तात्परेषां डे, ङसि, ङस् , डि इत्येतेषां यडागमो भवति । एकारः स्थाननियमार्थः । गङ्गायै गङ्गाभ्यां गङ्गाभ्यः । गङ्गायाः गङ्गाभ्यां गङ्गाभ्यः । गङ्गायाः गङ्गयोः । आचन्ता- दीवन्तादामो नुन वक्तव्यः * | गङ्गानाम् । 'आम् ' इत्याम् । गङ्गायां गङ्गयोः गङ्गासु । एवं श्रद्धामेधाशालामाला- हेलादोलाप्रभृतयः । सर्वा सर्वे सर्वाः । हे सर्वे । सर्वां सर्वे सत्राः । सर्वया सर्वाभ्यां सर्वाभिः । सर्वादीनां ङित्सु विशेषः ॥७॥ १ सर्वाशब्दवदेव आवन्ताः सर्वादयोऽन्येऽपि विश्वा, उभा, अन्या, अन्यतरा, इतरा, कतरा. कतमा, समा, सिमा, नेमा, एका, पूर्वा परा, दक्षिणा, उत्तरा, अपरा, अधरा, स्या, अन्तरा शब्दा ज्ञेयाः । उमयशब्दस्य तु ईपप्रत्ययः उभयी उभव्यों उभय्यः । नदीवत् । द्वितीयातृतीशब्दयोर्डिनु वा सर्वादित्वम् । द्वितीयस्यै द्वितीयाय द्वितीयस्याः द्वितीयाया: । द्विती- यस्यां द्वितीयायाम् । तृतीयस्य तृतीयाय तृतीयस्याः, नृतीयायाः तृतीयस्यां तृतीयायामित्यप्यवधेयम् । सोमपाक्षीरपादयस्त्वापप्रत्ययान्ता न, किन्तु आकारान्ताः क्वि- बन्तास्तेषां साधना रूपाणि च पुंलिङ्गवत् । द्विशब्दस्य-वे द्वे द्वाभ्यां द्वाभ्यां द्वाभ्यां द्वयोः दयाः। एवम् उभे उमे। ।

- प्रकरणम् ] सरलाटीकाविराजितम् यटोऽच । ८। आबन्तात्सर्वादः परस्य यटः सुडागमो भवति पूर्वस्य चापोऽकारो भवति । सर्वस्यै सर्वाभ्यां सर्वाभ्यः । सर्वस्याः सर्वाभ्यां सर्वाभ्यः । सर्वस्याः सर्वयोः सर्वासाम् । सर्वस्यां सर्वयोः सर्वासु । आकारान्तो जराशब्दः। *जरायाः स्वरादी जरस वा वक्तव्या* | जरा, जरसौ जरे, जरस: जराः । जरसं जरा, जरसौ जरे, जरसः जराः । जरसा जरया, जरा न्या जराभिः । जरसे जरायै, जराभ्यां जराभ्यः । जरसः जरायाः, जराभ्यां जराभ्यः । जरसः जरायाः, जरसोः जरयोः, जरसां जराणाम् । जरासे जरायां, जरसोः जरयोः, जरासु । हे जेर हे जरसौ हे जरे हे जरसः हे जराः । इकारान्तः स्त्रीलिङ्गो बुद्धिशब्दः । तस्य च प्रथमाहिलीग्योः हरिशब्दवत् प्रक्रिया । बुद्धिः बुद्धी बुद्धयः । बु िबुद्धी बुद्धीः । स्त्रीत्वाच्छसो नत्वाऽभावः । बुद्ध्या बुद्विभ्यां बुद्धिभिः ॥ ८ ॥ इदुद्भ्याम् । स्त्रियां वर्तमानाभ्यामिकारोकाराभ्यां परेषां ङितां वचनानां वा अडागमो भवति । बुद्धयै बुद्धये, बुद्धिभ्यां बुद्धिभ्यः । बुद्धयाः सुद्धेः, बुद्धिभ्यां बुद्धिभ्यः । बुद्वयाः बुद्धेः, बुद्धयोः, बुद्धीनाम् ॥ ९॥ स्त्रियां वाः । १०। इश्च उश्च यू तस्मादिवर्णान्तादुवर्णान्ताच्च परस्य डेरामादेशो ६२ । सारस्वतव्याकरणम् [ प लिङ्ग-- भवति । बुद्ध याम् । अडागमाभाव आमो.प्यभावः । बुद्धी बुड्योः बुद्धिषु । एवं मतिभूतिविभूतिधृतिरुचिकृतिसिद्धि- शान्तिक्षान्तिभ्रान्त्यालिशक्तिप्रभृतयः । एवं धेनुतनुरज्जुरभृतयः स्त्रीलिङ्गा उकारान्ता एतरेव सूत्रैः सिदयन्ति । धेनुः धेनू, धेनवः । हे धेनो हे धेनू हे धेनवः । धेनुं धेनू धेनूः । धेन्वा धेनुभ्यां धेनुभिः । धेन्वै धेनवे, धेनुभ्यां धेनुभ्यः । धेन्वाः धेनोः, धेनुभ्यां धनुभ्यः । धेन्वाः धेनोः, धेन्वोः धेनूनाम् । धेन्वां धेनौ, धेन्वोः धेनुषु । ईकारान्तः स्त्रीलिङ्गो नदीशब्दः ॥ १० ॥ हसेपः सेलोपः । ११ । हसान्तादीवन्ताच्च परस्य सेर्लोपो भवति । नदी नद्यौ नद्यः ।। धौ हस्वः । १२। इवर्णोवर्णयोरधातोः स्त्रियां धौ परे हस्वो भवति । हे नेदि हे नद्यौ हे नद्यः । नदी नद्यौ नदीः । नद्या नदीभ्यां नदीभिः ।। १ धेनुः । धेनू । धेनवः । धेनुम् । धेनू । वेनूः । स्त्रीलिङ्गत्वान्नत्वा- भावः । धेन्वा । धेनुभ्याम् । धेनुभिः । धेन्वै-धेनवे । धेनुभ्याम् । धेनुभ्यः । धेन्वाः धेनोः । धेनुभ्याम् । धेनुभ्यः । धेन्वाः-धेनोः । धेन्वोः । धेनूनाम् । धेन्वाम्-धेनौ । धेन्वोः । धेनुषु । हे धेनो। हे धेनू । हे धेनवः । २ हस्वविधिसामर्थ्यान्न गुणः ॥ एवं गौरीसरस्वतीब्रह्माणीकुमारी- नारीसुन्दरीरमणीप्रभृतयः ।

प्रकरणम् । सरलाटीकाविराजितम् डिन्तामट । १३ । स्त्रियामीकारान्तादूकारान्ताच्च परेषां डितां वचनानामडागमो भवति । नद्यै नदीभ्यां नदीभ्यः । नद्याः नदीभ्यां नदीभ्यः । नद्याः नद्योः नदीनाम् । नद्यां नद्योः नदीषु । एवं गौरीसरस्वतीब्राह्मणी- कुमारीकिशोरीकलभीपार्वतीभवानीप्रभृतयः । लक्ष्मीशब्दस्येबन्तत्वा- भावात् सलोपो नास्ति । लक्ष्मीः लक्ष्म्यौः लक्ष्भ्यः । हे लक्ष्मि । शेषं नदीवत् । स्त्रीशब्दस्य ईबन्तत्वात्सलोपोऽस्ति । स्त्री ॥ १३ ॥ स्त्रीभ्रुवोः । १४ । स्त्रीशब्दस्य भ्रशब्दस्य च इयुवौ भवतः स्वरे परे । स्त्रियो स्त्रियः । हे स्त्रि हे स्त्रियौ हे स्त्रियः ॥१४॥ वाऽम्शसि । १५ । स्त्रीशब्दस्य अमि शसि च परे वा इयादेशो भवति । स्त्रियं स्त्रीम् । स्त्रियौ । स्त्रियः-स्त्रीः । स्त्रिया स्त्रीभ्यां स्त्रीभिः । स्त्रीषु । शेष नदीवत् । श्रीः श्रियो श्रियः । हे श्रीः । श्रियं श्रियौ श्रियः । श्रिया श्रीभ्यां श्रीभिः ॥ १५ ॥ वेयुवः । १६ । । १ 'अवी लक्ष्मी तरी तन्त्री तन्द्री धी ही श्रियां पुरः । भोशब्दाच्च न सेर्लोपः स्त्रीलिङ्गे स्यात्कदाचन ।। इति ।

सारस्वतव्याकरणम् । . [घड्लिङ्ग- इयुबन्तात् स्त्रियां वर्तमानात् ङितां वचनानां वाऽडागमो भवति । स्त्रियास्तु नित्यम् । श्रिय श्रिये श्रीभ्यां श्रीभ्यः । श्रियाः श्रियः । श्रीभ्यां श्रीभ्यः । श्रियाः श्रियः । श्रियोः । यादीनां वामो नुड् वक्तव्या । श्रियां श्रीणाम् । ङौ परेऽडागमा ऽभावे आमोऽध्यभावः । शियां श्रियि । श्रियोः श्रीषु । एवं धीहीप्रभृतयो- उप्यनीबन्ताः । एवं भूशब्दो भ्रशब्दश्च । वधू करभोरू-कच्छू-कण्डू- जम्ब्बादीनां नदीशब्दवत् रूपं ज्ञेयम् । वधूः बधौ वधः । हे वधु । वधू वध्वौ वधूः । जम्बूः जम्ब्यौ जम्ब्यः । हे जम्बु हे जम्ब्बों हे जम्ब्धः । ऋकारान्तो मातृशन्दः । माता मातरौ मातरः। मातरं मातरौ मातृः । 'शसि' इति दीर्घत्वम् । शेष पितृवत् । स्वसृशब्दैः कर्तृवत् । नत्वाऽभावो विशेषः । रैशब्दः सुरैशब्दवत् । नौशब्दो ग्लौशब्दवत् । गोशब्दस्तु पूर्ववत् ।। १६ ॥ इति स्वरान्तास्त्रीलिङ्गाः। । १ भ्रूः भ्रवौ ध्रुवः ध्रुवं भ्रुधौ भ्रवः । ध्रुवा भ्रूभ्यां भ्रूभिः । इत्यादि । २ एवं चमू--तनू-जम्बू-कण्डू-कच्छ्--यवागू-दिधी)-कद्रू-चञ्चू- कर्कन्धू-करभोरू-प्रभृतयः । ३ एवं पितृष्वसमातृष्वसशब्दो। इति स्वरान्तस्त्रीलिङ्गसाधनम् ।

६५ प्रकरणम् ] सरलाठीकाविराजितम् अथ स्वरान्ता नपुंसकलिंगाः प्रदर्श्यन्ते । अकारान्तो नपुंसकलिङ्गः कुलशब्दैः । तस्य प्रथमाद्वितीयैकवचने- अतोऽम् । १। अकारान्तान्नपुंसकलिङ्गात्परयोः स्यमोरम् भवति अधौ । अमो- ग्रहणं लुम्च्यावृत्यर्थम् । “अम्शसोरस्य" इत्यकारलोपः । कुलम्।।१।। ईमौ । २। नपुंसकलिङ्गात्पर औ ईकारमापद्यते । कुले ॥ २ ॥ जश्शसोः शिः। ३। नपुंसकलिङ्गात्पश्योजश्शसोः शिर्भवति । शकारः सर्वादेशार्थः । *गुरु: शिच सर्वस्य वक्तव्यः ॥ ३ ॥ नुमयमः।४। नपुंसकस्य नुमागमो भवति शौ परे । यमप्रत्याहारान्तस्य न भवति । *मिदन्त्यात्स्वरात्परो वक्तव्या* ॥ ४ ॥ १ एवं मूलफलपत्रपुष्पकुण्डकुटुम्बज्ञानधनवनरत्नादयः शब्दाः । २ शिरिति शकारः सर्वा देशार्थः । तेन सर्वस्य जसः शसश्च इभवति न त्वन्तस्य । तमेवाह-गुरुः शिच्चेति । शकार इद्यस्य स शित्-आ- देशः । गुरुः शिश्च सर्वस्य वक्तव्यः । गुरुरनेकाक्षर: 'भरेया इत्यादिकः । तथा शकारेच्च य आदेशः स सर्वस्यादेशिनः स्थाने भवति न खन्तस्य । ५ सारस्वतव्याकरणम् [ पलिङ्ग- नोपधायाः ।५। नान्तरयोषघाया दीर्घो भवति शौ परे विवर्जितेषु पञ्चसु नामि च । कुलानि । हे कुल हे कुले हे कुलानि । पुनरपि कुलं कुले कुलानि । शेष देववत् । एवं मलफलपत्रपुष्णकुण्डलकुटुम्बादयः । सर्वादीनां यकारान्तानामन्यादिपञ्चशब्दव्यतिरिक्तानां प्रथमाद्वितीययोः कुलशब्दवत्प्रक्रिया । सर्व सर्वे सर्वाणि । शेषं पूर्ववत् । अन्यादे- विशेषमाह ॥ ५ ॥ श्त्वन्यादेः । ६। अन्यादेर्गणापरयोः स्यमोः इतुर्भवति । शकारः शिस्कार्यार्थः । उकार उच्चारणार्थः ॥ ६ ॥ वाऽवसाने । ७। अवसाने वर्तमानानां शसानां जया भवन्ति चपा वा । अन्यत् अन्यद अन्ये अन्यानि । पुनरपि-अन्यत् अन्यद् अन्ये अन्यानि । अन्यतरत् अन्यतरद् अन्यतरे अन्यतराणि २ । इतरत् इतरद् इतरे इतराणि २। कतरत् कतर कतरे कतराणि २ । कतमत् कतमद् कतमे कतमानि २ । शेष संवशब्दवत् । एते ह्यन्यादयः । इकारान्तोऽस्थिशब्दः ।। ७ ।। नपुंसकात्स्यमोलक।८। नपुंसकलिङ्गात्परयोः स्यमोलुंग्भवति । अस्थि ।। ८ ।। यवृणां नपुंसके धौ या गुणो वक्तव्यः । ९ । १ धौ विशेषमाह - 'वृणा (धौ गुणे वा' ) । इश्न उच्च ऋश्य य्वरः तेषां वृणाम् । इकारउकारऋकाराणां स्थाने नपुंसकलिङ्गविधये धौ वा गुणो वक्तव्यः । 'नपुंसकात्स्यमोलक्' इति धिलोपे विहिते इकारस्य एकारो गुणः ।

प्रकरणम् ]] सरलाटीकाविराजितम् इश्च उश्च ऋश्च नः । तेषां य्व॒णाम् । हे अस्थि हे अस्थे हे अस्थिनी हे अस्थीनि । उक्तं हिं- 'सम्बोधने तूशासनिस्पं सान्तं तथा नान्तभवाप्यन्तम् । माध्यन्दिनिवष्टि गुणं त्विगन्ते नपुंश्लके व्याघ्रपद वरिष्टः ॥ नामिना स्वरे । १०॥ नाम्यन्तस्य नपुंसकलिङ्गस्य नुमागमो भवति स्वरे परे । 'इसौ” "! अस्थिनी अस्थीनि २॥ १० ॥ अचास्ना टादी । ११ । अस्थ्यादीनां नुमागमो भवति, इकारस्य चाकारो भवति टादौ स्वरे परे ।। ११ ॥ हेशन्दस्य प्राक्प्रयोगः । १ अत्र 'टवृणा'मित्येव सूत्रम् , 'नपुंसके वो वा गुणो वक्तव्य' इति तु वार्तिकमित्यन्ये मन्यन्ते । अत्र सम्प्रदायविदः प्रमाणम् । २ अत्र शिष्टसंमतिमाह-उक्तंहति । वृद्धैरिति शेषः । सम्बोधने इति । 'तु' इत्यवधारणे । माध्यंदिनिराचार्यः उशनसः उशनसशब्दस्य संबोधने आमन्त्रणे त्रिरूपं रूपत्रयं वष्टि अभिलपति वाञ्छति कथयति वा । किं तत् त्रिरूपं ? । सान्तं सकारान्तं । यथा उशनस् । 'हे उशनः' तथा नान्तं नकारान्तम् 'हे उशनन् । तथा अदन्तमकारान्तं 'हे उशन' इति । तु पुनः इगन्ते इकारोकारऋकारान्ते नपुंसके धिविषये विकल्पेन गुणं कथयति । यतः प्रक्रिया कौमुद्याम् - इउण ऋलक् एते इक्संज्ञकाः । यथा हे अस्थि हे अस्थे । हे वारि हे वारे। हे मघो हे मधु। हे कर्तृ हे कर्तः । कथंभूतो माध्यन्दिनिः?। व्याघ्रपदा व्याघ्रपदगोत्रीयविप्राणां मध्ये वरिष्टो गरिष्ठः श्रेष्ठः । ३ 'शसादा'विति केचित्पठन्ति ।

६८ सारस्वतव्याकरणम् [पंडलिङ्ग- अल्लोपः स्वरेऽस्वसुक्ताच्छसादौ । १२ । नान्तस्योपधाया अकारस्य लोपो भवति शसादौ स्वरे परे, मकारवकारान्तसंयोगादुत्तरस्य न भवति । अस्थ्ना अस्थिभ्याम् अस्थिभिः । अध्ने अस्थिभ्याम् अस्थिभ्यः । अस्थनः अस्थियाम् अस्थिन्यः । अथ्नः अस्थ्नोः अध्नाम ॥ १२ ।। वेड्यो। १३ । नान्तस्य नाम्न उपधाया ईडयोः परयोर्वा अकारस्य लोपो भवति । अस्टिन-अस्थनि अस्थ्नोः अस्थिपु । एवं दधि-अक्थि-अक्षि- शब्दाः । दना दधिभ्याम् दधिभिः । सक्थि सक्थिनी सक्थीनि २ । सक्थ्ना सक्थिभ्यां सक्थिभिः । अक्ष्णा अक्षिभ्याम् अक्षिभिः । वारि वारिणी वारीणि । इति पूर्ववत् प्रक्रिया ।। १३ ।। नपुंसकस्य हस्तः । १४ । नपुंसकस्य हस्वो भवति । नपुंसकात् त्यमोलक्' । ग्रामणि । "नामिनः स्वरे" इति नुम् । "इमौ" । ग्रामिणिनी ग्रामणीनि २ । हे ग्रामणे हे प्रामणि, हे प्रामणिनी हे ग्रामणीनि । "नामिनः स्वरे"। "नोपधायाः" इति दीर्घः ।। १४ ।। दादाचुक्तस्क पुंबछा । १५ । १ मञ्च वश्च म्बी, ताभ्यां युक्तः संयोगः ग्वयुक्तः, न म्बयुक्तः अम्ब- युक्तः, तस्मात् अम्वयुक्तात् । ६ उक्तः पुमान् पुंलिङ्गो येन तदुक्तस्कम् । अर्थरूपाभ्यां तुल्याकारी यः शब्दः पुंसि नपुंसके वर्तमानः स उक्तपुंस्कः । तथावस्थितमपि निर्दिष्ट - लिङ्गमेवंभूतं नाम्यन्तं नपुंसकं टादौ स्वरादी विभक्तो परत: पुंवद्वा भवति- नपुंसकलिङ्गे वा पुंलिङ्गवस्थादित्यर्थः । अनेन तृतीयादौ वा हृस्वः ।

। सन्धिः सरलाटीकाविराजिता उक्तपुंस्कं नाम्यन्तं नपुंसकलिङ्ग टादो स्वरे परे पुंवद्वा भवति । "नामिनः स्वरे" | ग्रामण्या ग्रामणिना । ग्रामणिभ्यां ग्रामणिभिः । ग्रामण्ये प्रामणिने । ग्रामणिभ्यां ग्रामणिभ्यः । ग्रामण्यः ग्रामणिनः । ग्रामणिभ्यां ग्रामणिभ्यः । श्रामण्यः ग्रामणिनः । ग्रामण्योः प्रामणिनोः । ग्रामण्याम् । 'नुमन्तस्यामि दीर्घः' । 'नामिनः स्वरे" । ग्रामणीनाम् । 'आम् ..' ग्रामण्यां ग्रामणिनि ग्रामण्योः ग्रामणिनोः ग्रामणिषु । 'अतो म्' । सोमपं सोमप सोमपानि २ । सोमपेन सोमपाभ्यां सोमपैः । सोमपाय सोमपाभ्यां सोमपाभ्यः । इति पूर्ववत् । उकारान्तो मधुंशब्दः । "नपुंसकात्स्यमोलक्' । मधु । "नामिनः स्वरे" इति नुमागमः । मधुनी । “जश्शसोः शिः" । "नोपधायाः" इति दीर्घः । मधूनि । पुनरपि-मधु व १उक्तञ्च- एक एव हि यः शत्रिषु लिङ्गपु वर्तते । एकमेवार्थमाख्याति उक्त पुस्कं तदुच्यते ॥ इति ॥ २ मधुशब्दश्च चैत्रमासवाची वसन्तवाची मधुदैत्यवाची च पुंलिङ्ग भवति । क्षौद्र मद्य मकरन्दवाची तु नपुंसकलिङ्ग भवति । अत एवार्थभेदा- दुक्तपुंस्त्वं न, किंतु तस्य बारिशब्दवत्साधना ।। एवम् उकारान्तो वस्तु- शब्दः । वस्तु वस्तुनी वस्तूनि । एवं वास्तु वास्तुनी वास्तृनि । अम्बु अम्बु- नी अम्वूनि । सानु सानुनी सानूनि | इत्यादि ।।

७० सारस्वतव्याकरणम् [लिङ्ग- मधुनी मधूनि । 'नामिनः स्वरे" । मधुना मधुभ्यां मधुभिः । पीलु पीलुनी पीलूनि २ । पीलने । ऋकारान्तः कर्तृशब्दः । 'नपुंसकात् स्यमोलुक् । कर्तृ । "नामिनः स्वरे" "प्रुनों णोऽनन्ते' । कर्तृणी कर्तृणि !। 'ऋ रम्' । की कर्तृणा कर्तृभ्यां कर्तृभिः । क कर्तृणे कर्तृभ्यां कर्तृभ्यः । 'ऋतो ङउ'। स च डित् । 'डिति टेः' । कर्तुः कर्तृणः । कर्तृभ्यां 'कर्तृभ्यः । कर्तुः कर्तृणः । कोः कर्तृणोः । कर्तृणाम् । कर्तरि । कर्तृणि कोः कर्तृणोः । कर्तृषु । हे कर्तः हे कर्तृ हे कर्तृणी हे कणि । ऐकारान्तः अतिरैशब्दः । रायमतिकान्तमतिरि कुलम् । ओकारान्त उपगु- शब्दः । उपगता गावो यस्य तदुपगु उपगुनी उपगूनि २ । नावमतिकान्तमतिनु जलम् । अतिनुनी अतिनूनि २ ॥ १५ ॥ । इति स्वरान्ता गपुंसकलिङ्गाः। १ "हत्वादेशे सन्ध्यक्षरा णामिकारोकारौ च वक्तव्यो" इति वार्ति- कमत्र प्रवर्तते । एवमैकारान्तः सुरैशब्दः । 'नपुंसकस्य' इति हस्वे कृते वारिशब्दवत् । हस्वादेशे सन्ध्यक्षराणामिकारोकारौ वक्तव्यौ । सुष्ठु राः धनं यस्य तत् सुरि सुरिणी । सुरीणि । सुरिणा सुराया सुराभ्यां सुराभिः-इत्यादि । एवं सुष्टु नौर्यस्य तत् सुनु सुनुनी सुनूनि । सुनुना सुनावा, सुनुने सुनावे इत्यादि ।

प्रकरणम् । सरलाटकाविजितम् હશે अथ हसान्ताःपुल्लिंगाः प्रदर्श्यन्ते । तत्र हकारान्तः पुंल्लिङ्गोऽनडुहंशब्दः । नामसंज्ञायां स्यादयः । স্বল জ্বালী অংক 'सावनडहः । २। अनुडुशब्दस्य सौ परे नुमागमो भवति ॥ १ ॥ संयोगान्तस्य लोपः । २॥ संयोगान्तस्य लोपो भवति रसे पदान्ते च। रेफादुत्तरस्य सकारस्यैव लोपो नान्यस्य ॥ २ ॥ हसेप: सेलोपः । २ । हसान्तादीबन्ताच्च परस्य सेलोपो भवति । "उ वम्" इति वस्वम् । लोपविधिसामर्थ्यान दत्वम् । अनड्डान् अनडाही अन- डाहः । अनडाहम् अनडाहौ अनडुहः । अनडुहा ॥ ३ ॥ वसां रसे। ४ । वसु, संसु, बसु, भंसु, अनडुङ्-इत्येतेषां रसे पदान्ते च दत्वं भवति । अनडुद्भयाम् अनडुद्भिः । अनडुहे अनडुद्भयाम् १ हकारान्तोनडुहशब्दः । तस्य नामसंज्ञाया सत्या स्यादयो विभ- क्तयो भवन्ति । तत:-'पञ्चस्वनडुह आमागमो वक्तव्यः शौच' ।। अन- इशब्दश्य स्यादिषु पञ्चसु वचनेषु आमागमो भवति ।। केचित्तु 'अनडुहश्च' इति सूत्रेण 'चतुरनबुहोराम् शो च' इति सूत्रेण वा आमागममिच्छन्ति । स्त्रीलिङ्गे च विकल्पेनामागमिच्छन्ति-अनड्वाही अनड्डही इति ।। अनेन पञ्चमु आम् ।। 'मिदन्त्यावरात्परो वक्तव्यः' इति-हु अग्रे -आ ।

७२ सारस्वतव्याकरणम् 'खसे चपा [ पलिङ्ग- अनडुद्भयः । अन्नडुहः अनडुद्रयाम् अनडुद्रथः । अनडुहः । अनडुहोः अनडुहाम् । अनडुहि अनडुहोः । शसानाम्" । अनडुत्सु ॥ ४ ॥ धावम् ।। अनडुड्शब्दस्य धौ परे अमागमो भवति । "सावनडुहः" "उ वम्" । स्वरहीनं परेण संयोज्यम् । हे अनड्यन् हे अनड्वाही हे अनड्वाह:-इत्यादि । गोदुईशब्दस्य भेदः ॥ ५ ॥ दादेघः ।। दादेर्धातोर्हकारस्य घत्वं भवति धातोझसे परे नाम्नश्च रसे पदान्ते च । गोदुध् सि इति स्थिते ॥ ६ ॥ आदिजवानां झभान्तस्य झभाः स्ध्वोः । ७। धातो_भान्तस्यादौ वर्तमानानां जबानां झभा भवन्ति सकारे ध्वशब्दे च परे नाम्नश्च रसे पदान्ते च ॥७॥ . १ हकारान्तत्वेऽपि अनडुशब्दापेक्षया गोदुशब्दस्य भेदः कश्चिद्वि- शेषोऽस्ति । गां दोग्धीति गोधुक् । 'दुह प्रपूरणे गोपूर्वः विवप्प्रत्ययान्तः । २ दः दकार आदिर्यस्य स दादिस्तस्य दादेः षष्ठयेकवचनान्तम् । ३ घः प्रथमैकवचनान्तम् । ४ दादेरिति । दकारादेर्धातोर्हकारस्य धत्वं भवति झसे परे नाम्नस्तद्विकारस्य रसे परे अथवा पदान्तविषये। अनेन भकारादौ सुपि च हस्य धः ||५|| झमान्तस्य धातोरादौ वर्तमानानां जबानां झभा भवन्ति । जडदगबानां क्रमेण झढधवमा भवन्ति सकारे ध्वे च परे आख्याते आत्मनेपदे से ध्वे ध्वं सम्बन्धिनि परे, नाम्नश्च रसे पदान्ते चेत्यर्थः ।। केचित्तु जमतीति जभौ जभः इत्यादी प्रयोगे जकारस्य जप प्रकरणम् सरलाटीकाविराजितम् वाऽवसाने । ८॥ अवसान वर्तमानानां झसानां जबा भवन्ति चपा वा । गोधुक् गोधुग् गोदुहौ गोदुहः । हे गोधुक् हे गोधुग् हे गोदुहौ हे गोदुहः । गोदुहं गोदुहौ गोदुहः । गोदुहा । भकारादौ 'दादेवः' इति घत्वे आदिजवस्य दकारस्य झभे धकारे च कृते "झबे जबाः" । गोधुग्भ्यां गोधुग्भिः । “खसे चपा झसानाम् । "क्विलात् षः सः कृतस्य” इति षत्वम् । संयोगे क्षः । गोधुक्षु । मधुलिशब्दस्य विशेषः ॥ ८ ॥ हो ढः।१ । धातोर्हकारस्य ढत्वं भवति झसे परे नाम्नश्च रसे पदान्ते च । "वाऽवसाने” । मधुलिट् मधुलिड् मधुलिहौ मधुलिहः । हे मधुलिट् हे मधुलिड् हे मधुलिही हे मधुलिहः । मधुलिहं मधुलिही मधुलिहः । मधुलिहा मधुलिड्भ्यां मधुलिभिः । इत्यादि । तुरासाहशब्दस्य भेदः ॥ ९ ॥ सहे व सादि । १० । साढिरूपे सति सहेर्धातोरसकारस्य षकारादेशो भवति । तुरापाट तुरापाड् इत्यादि । द्रुशब्दस्य भेदः ॥११ । द्रुहादीनां घत्वढत्वे वा । ११ ॥ झकारासम्भवात् - 'आदिडबानां ढभान्तत्य ढमा:-स्योः' इत्येवं सूत्रं पठन्ति ।। अनेन यत्र रसप्रत्याहारस्तत्र दस्य धः ॥ १ मधु मकरन्दं पुष्परसं लेढीति मधुलिट भ्रमरः । मलिहाब्दस्य रसे पदान्ते च विशेषः । २ दुहादीनामिति । आदिशब्दान्मुहस्नुनिहो त सारस्वतव्याकरणम् । पडलिङ्ग- द्रुहादीनां धातूनां घत्वढरवे वा भवतो रसे पदान्त च । मित्रध्रुफ मित्रध्रुग् मित्रध्रुट् मित्रध्रुड् मित्रद्रुह्रौ मित्रद्रुहः । धावप्येवम् । मित्रगुहम् मित्रगुही मित्रद्रुहः । मित्रQहा । 'झमे जत्राः । मित्रध्रुग्भ्यां मित्रध्रुड्भ्याम् । मित्रध्रुक्षु मित्रफुट्सु इत्यादि । एवं तत्त्वमुइनुहादयः ।। रफान्तश्चतुर् शब्दो नित्यं बहुवचनान्तः ।। १३ ॥ चतुराम् शौ च । १२ ।। चनुशब्दस्यामागमो भवति पञ्चसु परेषु शौ च । चत्वारः । चतुरः । चतुर्भिः । चतुर्यः २ ॥ १२ ॥ रः सङ्ख्यायाः । १३ । रेफान्तसख्यायाः परस्यामो नुडागमो भवति । णत्वं द्वित्वं च । चतुर्णाम् चतुर्दा । नकारान्तो राजन्शब्दः । 'नोपधायाः' इति पञ्चसु दीर्घः ॥ १३ ॥ गृह्यन्ते । अत्रापि-चार्थो 'वा'शब्दः । अन्यथा घवढत्वाऽभाव तृतीयं रूप स्यात् । क्वचित्तु 'घत्वं ढत्वे वेति पाठः । तदा ढत्वे सति घत्वं वा भवती- त्यर्थः । तत्र दुहेादित्वेऽप्यस्मादेव वाक्यभेदेन ढल्वम् । क्वचिच्च सूत्रपा- ठादौ 'द्रुहां चेति सूत्रं, बश्व पूर्वतः । ततश्च दुहादीनां घत्वं वा भवति । घत्वाभावे चोत्सर्गतः ढत्वमिति सूत्रार्थो दर्शितः ।। १ चतुरामिति । विसर्गलोपे छान्दस: सन्धिः । चतुर इति षष्ठयन्तं वा । पञ्चस्वित्वनुवृत्तिसामाप्रियचत्वा इत्यादौ गौणत्वेऽपि । 'र: सङ्खयाया' इत्येन सङ्ख्यावाचित्वे । एवं गौणत्वे तु 'प्रियचतुराम् । प्राधान्ये तु-'परमचतुर्णाम् । 'स्रोविसर्ग' इत्यत्र वाऽनुकषर्णाल्लोकाद्वा चतु- नित्यादौ विसर्गा भाषः । 'यक चतुर्वि'ति ज्ञापकाच ।।

प्रकरणम् सरलाटीकाविराजितम् नानो नो लोगशधौ । १४ । नाम्नो नकारस्यानागमजस्य लोपश् भवति रस पदान्ते चाऽधौ । राजा राजानौ राजानः। हे राजन् हे राजानी है राजानः । राजानं राजानौ । "अल्लोपः स्वरेऽम्वयुक्ताच्छसादी" । "स्तोः श्चुभिः श्चुः” इति चुत्वे नकारस्य अकारः ॥ १४ ॥ जजोजः । १५ । जकारणकारयोोंगे ज्ञो भवति । राज्ञः । राज्ञा राजभ्या राजभिः । राज्ञे राजभ्यां राजभ्यः । 'वेड्योः' । राज्ञि राजनि राज्ञो: राजसु इत्यादि । एवं यज्वन्-आत्मन्-सुधर्मन्-प्रभृतयः । यज्वा यज्मानौ यज्वानः । यज्वानं यज्यानौ । 'अम्बयुक्तात्' इति विशेषणादलोपो नास्ति । यवनः । यज्वना इत्यादि । श्वन्- युवन्-मघवन्-शब्दानां पञ्चसु राजनशब्दवत् प्रक्रिया । सादौ तु विशेषः ॥ १५ ॥ बादेव उः।१६। १ नाग्नो न इति- समानाधिकरधि पाठ्यौ। नकारान्तस्य नाम्न इत्यर्थः । नकारान्तत्वं चोपदेशावस्थायामेव । लोपस्या देशविशेषत्वात्पष्ठीनि- र्दिष्टस्यैत्यन्त्यस्य । अन्यथा नरनारायणादिष्वादिभूतस्यापि नस्य लोपप्रसङ्गः । तथा 'सुहिन्' 'प्रशान्' इत्यादावुपदेशकाले नान्तत्वाऽभावान्न लोपप्रसङ्गः । 'मो नो धातो रित्यादिना मस्य नकारादेशात् । 'अधा' वित्यस्य डेरप्युपल- क्षणाद्वैदिकत्वाद्वा परमे व्योमन् इत्यादौ ङावपि नलोना भावः । २ जञोई इति । अत्र जकारात्परेण ञकारेण योगे' 'ज्ञ' इत्यर्थाद्भवाञ्जानातीत्यादी न, वक्तव्याद्वा । ३ श्वादः। 'वसोर्व उ'मित्यतो 'व' 'उ'मित्यनुवर्तते । तत्र च सारस्वतव्याकरणम् । [पड्लिङ्ग-- वादेर्वकारस्य उत्वं भवति शसादौ स्वर परेऽतद्धिते पि ईकारे च । शुनः । शुना श्वभ्यां श्वभिरित्यादि । युवन्शब्दस्य वकार- स्थोत्ते कृते-सवर्ण दीर्घः सह' । यूनः। यूना युवभ्यां युवभिरि- त्यादि । मघोनः । मघोना मघवम्यामित्यादि । पथिन्शब्दस्य भेदः ॥ १६ ॥ इतोऽत् पञ्चसु । १७ । पथ्यादीनामिकारस्याऽकारादेशो भवति पञ्चसु स्यादिपु- परेषु ॥ १७ ॥ थो नुट । १८॥ पथ्यादीनां थकारस्य नुडागमो भवति पञ्चसु स्यादिषु परेषु । पन्थन् सि इति स्थिते ॥ १८ ॥ आ सौ। ११ । पथ्यादीनां टेरात्वं भवति सौ परे । पन्थाः पन्थानौ पन्यानः । वकारेण युक्तः अः व इत्यर्थावधारणासस्वरस्योत्वम् । बकारमात्रोत्वे तु अकारश्रवणं स्यात् । न चाकारस्याल्लोप: स्वरे इति लोप: स्यादिति वाच्यम् । सप्तम्येकवचनेलोपविकल्पासक्षे श्रवणप्रसङ्गात् । शसादावित्यादिशब्दादोनी- कारे वेत्युक्तम् । क्वचिदीपि इति सूत्रम् । तत्र च ईश्च ईच तयोः समाहार ईप् । 'तस्मि'नित्यधिकारः । शुनी मघोनी युवतीत्यादौ निपातनान्न । ईकारे च-शोभना युवानो ययोः कुलयोस्ते सुयूनी इत्यादि । १ मघ कौटिल्ये । मघनं मघः । मधोऽस्यास्तीति मघवान् । मधवन्तौ इत्यादि । वत्प्रत्ययान्तो मघवच्छब्दोऽन्य एवेति प्रसादकृतः ।। २ इतोऽदिति । 'पथा टेरित्यत: 'पथा'मित्यनुवर्तते । तत्र 'पन्था' 155 प्रकरणम् ] सरलाटीकाविराजितम आवविधानान्न सेलोपः । हे पन्याः । पन्थानं पन्थानौ ॥ १९ ॥ पथां । २० । पथ्यादीनां टेलोपो भवति शसादौ स्वरे परे । पथः । पथा पधिभ्यां पथिभिरित्यादि । एवं मथिन्-ऋभुक्षिन्-शब्दो। दण्डिन्-शब्दस्य भेदः ॥२०॥ इनां शौ सौ । २१ । इन्-हन्-पूषन्-अर्यमन्-इत्येतेषां शौ सौ चाऽधौ परे उप- धाया दीर्घो भवति । नलोपसिलोपो। दण्डी दण्डिनौ दण्डिनः । हे दण्डिन् । दण्डिन दण्डिनौ दण्डिनः । दण्डिना दण्डियां दण्डिमिरित्यादि । ब्रह्महा ब्रह्मणो ब्रह्महणः । हे ब्रह्महन् है ब्रह्महणौ हे ब्रह्महणः । ब्रह्मणं ब्रह्महणौ । शसाढी त्वका- रलोपः ॥ २१ ॥ हनो घ्ने । २३ । हन्तेीलोहंकारस्य धकारो भवति नकारे णिति च परे । मिति बहुवचनेन मथिन्त्रभुक्षिन्शब्दावप्युपादीयेते। १ इनां शौ। अत्रापि बहुवचनस्य बहूपस्थापकतामभिप्रेत्याह-~-. इन्हन्नित्यादि। इनः प्रत्ययत्वादिन्नन्तस्य नोपधाया इत्यनेन मिद्धे पि नियमार्थः । 'सिद्धे सत्यारम्भो नियमायेति न्यायादिति प्रसादतः ।। २ हन इति । हनः घ ने इति छेदः । 'हनो' धत् इत्यतो हन इत्यनु- वर्तनीयं, ततश्च हन्तेर्नकारे परे हन्तेईस्य घत्वं भवतीत्यर्थः । अन्यथा वृत्रहन्न- मस्ते जुहावेत्यत्रापि प्रसङ्गात् । तत्र हकाराव्यवहितपरत्वसंभवानस्य हाव्य- .

७८ [ षडलिङ्ग--- सारस्वतव्याकरणम् धसंयोगो णत्वनिषेधार्थः । ब्रह्मनः । ब्रह्मना ब्रह्महभ्यां ब्रह्महभिरि- त्यादि । पूपा पूषणौ पूषणः । हे पूषन् हे पूपणौ . हे गूषणः । पुषणं पूषणौ ।। २२ ॥ घणो णः । २३ । पकारणकारसंयोगे ष्णो भवति शसादौ स्वरे परे । 'पूषन्- शब्दस्य शसादौ स्वरे परे वा टेर्लोपः' । पूष्णः । पूष्णा पूषभ्यां पूषभिः । पूष्णः । डॉ टिलोपो वेति केचित् । पूष्णि पूषणि पूषि, पूष्णोः पूषसु । अर्यग्णः । अर्यम्णा अर्यमभ्याम् । इत्यादि । संख्याशब्दाः पञ्चनप्रभृतयो बहुवचनान्तास्त्रिषु लिङ्गेषु सरूपाः। पञ्चन् जम् इति स्थिते ।। २३ ।। जश्शंसोल ! २४॥ पकारनकारान्तसंख्यायाः परयोजर्शसोलुक् भवति । 'प्रत्यय- लोपे प्रत्ययलक्षणम्', 'लुकि नै तन्निमित्तम्' । लुकि सति तन्नि- भित्तमङ्गकार्य न स्यात् । तेन 'नोपधाया' इति दीर्घत्वं न । पञ्च । पश्च । पञ्चभिः । पञ्चभ्यः ।। २४ ।। वधानपरत्वम् । णिवरत्वं तु धातोरिति विवेकः । एवं च वृत्रणावित्या- दावप्रसङ्गः । १ घसंयोग इति । 'क्वचिदैकपद्यं णत्वहेतु'रिति क्वचिच्छब्दावन्ते- रकारपूर्वस्यैवेत्यर्थाद्धसंयोगे च तदभावाग्णत्वन्नेत्यर्थः ।। २ जश्शतोरिति । 'ण' इत्यनुवर्तते । तत्र च उपदेशकाल एब ष्णा- न्तत्वविवक्षणाच्छतानीत्यादी लोपाऽप्रसङ्गः । ३ 'प्रत्ययलोपे प्रत्ययलक्षण' मिति जसोर्लोपे.पि तन्निमित्तोपधाया दीर्घाकारलोपादिप्राप्तावाह-लुकीति। लुकशब्देन वर्णा दर्शने सति तन्निमित्तमङ्गकार्य न भवतीत्यर्थः ।

प्रकरणम् ] सरलाटीकादिराजिनम रण: पकारनकारान्तसंख्याया: परस्यामो नुडागमो भवति : नोप- घायाः' इति दीर्घः । 'नाम्नो जो लोपशधौ' । पञ्चानाम् । पञ्चसु ! एवं सप्तन् नबन्- दशन्--प्रभृतयः । अष्टनशब्दस्य भेदः ॥ २५ ॥ अष्टनो वा ।। अष्टन्शब्दात्परयोजश्शसोर्वा डौ भवति । डिवाहिलोपः । अष्टौ अष्टौ । अष्ट । अष्ट ।। २३ ।। वाऽऽसु। वा - आ-आसु इति छेदः । अष्टन आसु विभक्तिषु परातु वा टेरात्वं भवति । अष्टभिः अष्टाभि । अष्टभ्य: अष्टाभ्य: । अष्टा- नाम् । अष्टसु अष्टासु । मकारान्त इदम्शब्दः ॥ २७ ॥ इदमोऽयं पुंसि । २८। इदम्शब्दस्य पुसि विपये अयमादेशो भवति सिाहितस्य । अयम् । द्विवचनादौ प्रत्यदादेष्टरः स्यादौ" इत्यकारः । इद आ इति स्थिते ॥ २८ ॥ १। न च प्ण , तस्मात् । अत्रापि सङ्ख्यायाः प्राधान्ये परमप- जानामियादी भवत्येव । गौणत्वे तु प्रियपञ्चान मित्यादौ न । अनि इति। अत्र आकार प्रश्लेषात् 'वातु' इत्यनेन आत्रपक्षे एव डीविधिः । अत्रापि सङ्याया इत्यनुवृत्ते गौणत्वे नात्वम् । न पा डौ । वस्तुला 'वासु' इत्यत्र आ इति तृतीयेकवचनेन 'मु' इति सप्तमीबहुवचनेन च प्रत्याहारग्रहणादत्रावा- भाव एव । यद्याप्यत्रात्वं स्यादडाविति डिकरणं व्यर्थ स्यात् , गौणत्वे यात्वं सारस्वतव्याकरणम् [पलिङ्ग- दस्य मः । २९ । त्यदादीनां दकारस्य मत्वं भवति स्यादौ परे । इमो इमे। सर्वा- दित्वाज्जसीति इकारः । त्यदादीनां धेरभावः । इमम् इमो इमान् ।।२९।। अनटोसः । १० इदमोनादेशो भवति टौसोः परयोः । अनेन ।। ३ ।। स्यः । ३१। इदमः सकार भकारे च परे अकारो भवति कृस्नस्य । 'अद्धि' इत्यात्वम् । आभ्याम् ।। ३१ ।। मिस मिस । ३२ । इदमदसोर्मिस् भिसेव भवति नतु भकारस्या कारः । “एस्मि बहुत्के' । एभिः । अस्मै आभ्याम् एभ्यः । अस्मात् आभ्याम् एभ्यः । अस्य अनयोः एषाम् । अस्मिन् अनयोः एषु । किंशब्दस्य "त्यदादेष्टेरः स्यादौ" इत्यकारे कृते सर्वशब्दवद्रूपम् । कः को के। कं को कान् इत्यादि । धकारान्तस्तत्वबुध्शब्दः । तस्य रसे पदान्ते च 'आदिजबानाम्' इति भकारः । 'वाऽवसाने । जश्शसोरौत्वं वेत्येके इत्यस्य चानादर एव । अष्टानामित्यत्र नुष्टि सत्यात्वम् । आत्वे वा उपदेशकाले नकारान्तत्वान्नु । आत्वाभावेऽपि नुटि उपधादी च रसादिपरत्वेन नलोप इति समानरूपत्वादेकमेव रूपम् ।। १ इदम इति । अनेकवर्णत्वात्सर्वस्य । मकारान्तत्वाद्धसेपः सेोपः । 'हे असको ब्राह्मणी'त्यादौ सम्बोधनसम्भवेऽपि प्रचुरप्रयोगाभावादभावोक्तिः । २ स्भ्यः । स्मि अः । त्यदादेष्टेरः स्यात्स्मीत्यकारे सिद्धेऽपि पुनर्बिधान- प्रकरणम् ] सरलाटीकाविराजितम् तत्त्वभुत् तत्वभुद् तत्त्वबुधौ तत्त्वबुधः । हे तत्वभुत् हे तत्वभुद् हे तत्त्वबुधौ हे तत्त्वबुधः । तत्त्वबुधं तत्त्वबुधौ तत्त्वबुधः । तत्वबुधा तत्त्वभुभ्यां तत्त्वभुद्भिरित्यादि । एवं मर्मावित् । जकारान्तः सम्राजशब्दः ॥ ३२ ॥ छशषराजादेः । ३३ । छकारान्तस्य शकारान्तस्य षकारान्तस्य च राज यज् सूज् मृज् भ्राजादेश्च षकारो भवति धातोईसे परे नाम्नश्च रसे पदान्ते च ॥३३॥ षोडः। ३४। षकारस्य डत्वं भवति धातोझसे परे नाम्नश्च रसे पदान्ते च । 'वाऽवसाने' इति टकारो डकारश्च । सम्राट् सम्राट् सम्राजौ सम्राजः । सम्राजं सम्राजौ सम्राजः । सम्राजा सम्राड्भ्यां सम्राड्- भिरित्यादि । एवं विराजादयः । दकारान्तास्त्यद् , तद् , यद् , एतच्छब्दाः। तेषां 'त्यदादेष्टरः स्यादौ' इति सर्वत्राकारे कृते सर्व- शब्दवदूपं ज्ञेयम् ॥ ३४ ॥ स्तः । ३। त्यदादेस्तकारस्य सौ परे सत्वं भवति । स्यः त्यो त्ये । त्य त्यौ त्यान् । सः तौ ते । तं तौ तान् । यः यौ ये । यं यो यान् । एषः । सामर्थ्यात्सर्वस्येत्येके । तदसत् । त्यदादेष्टेरिति टेरकारविधानात् । अनेन चेदमः षष्ठीनिर्दिष्टत्वेनान्त्यस्येति वैयर्थ्याभावात् । १ छशषेति । आदिशब्दात् ब्रश्चभ्रत्सृज्मृज्यभ्राजादीनां ग्रहणम् । ६ ८२ सारस्वतव्याकरणम् [षड्लिन- एतौ एते । एतदोऽन्वादेशे द्वितीयाटौस्वनो वा वक्तव्यः । उक्तस्य पुनरुक्तिरन्बादेशः । यथाऽनेन बालेन व्याकरणमधीतमेनं छन्दोऽध्यापय । एतम् एतम् एनौ एतौ एनान् एतान् । एनेन एतेन एताभ्याम् एतैः । एनयोः एतयोः एतेषाम् । एतस्मिन् एनयोः एतयोः एतेषु । छकारान्तस्तरवप्राछ शब्दः । तत्त्वप्राट तत्त्वप्राड् तत्वप्राछौ तत्वप्राछः- इत्यादि । यकारान्तोऽग्निमथ् शब्दः । तस्य 'वाऽवसाने' । अग्निमत् अग्निमद् अग्निमयौ अग्नि- मथः । अग्निमथा अग्निमभ्याम् अग्निमद्भिरित्यादि ॥ ३६॥ नो लोपः । ६६ । धातोईसान्तस्योपधाभूतस्य नस्य लोपो भवति । *अंः पञ्चसु नुम् वक्तव्यः * । प्रत्यन् च इति स्थिते 'स्तोः श्चुभिः इचुः" इति चुवेनाऽत्र अकारः । संयोगान्तस्य लोपः ॥ ३६॥ -- १ एतद इति । समनन्तरस्येदमाऽप्युपलक्षणात्तस्यापि किञ्चिस्क्रिया- विशिष्ट त्वेनोक्तस्य पुनस्तेनान्येन वा क्रियान्तर विशिष्टत्वेनोक्तिरन्वादेश इत्यर्थः । अत एव 'ईषदर्थ क्रियायोगे मर्यादाभिविघौ च यः । एतमातं ङितं विद्यात्' इत्यादौ स्वरूपेण निर्दिष्टस्याप्यातः क्रियाविशिष्टत्वेनोक्न्यभावादन्वादेशला- sमावः । नपुंसके द्वितीयकवचने 'श्त्वन्यादे'रित्यत्र स्तु' इति योगविभा- गादम: रतुआदेशे 'एन'दित्यादिसिद्धिः। "इमं छात्रं छन्दोऽध्यापय । अयो एनं च्याकरणमध्यापय ! अनेन रात्रिरधीता । अतो एनेनाहन्यप्यधीयते । अन- योः शोभनं कुलमयो एनयोः प्रभूतं स्व"मित्याअ॒हम् । एवमेतदोऽपि ।। २ अञ्चेरिति । अनुगतिपूजनयोग्तस्य 'ना लोप' इत्येनेनैव गत्यर्थ- तायामेव नलोपे पञ्चसु नुम्विधीयते । यद्यपि परत्वान्नश्चापदान्त इत्यनुस्वारः प्रकरणम् सरलाटीकाविराजितम् चोः कुः । ३७। चवर्गस्य कवर्गादेशो भवति धातोइसे परे नाम्नश्च रसे पदान्ते च यथासंख्येन । प्रत्यड् प्रत्यञ्चौ प्रत्यञ्चः । प्रत्य प्रत्यञ्चौ ॥ ३७ ॥ अश्वेरलोपो दीर्घश्च । ३८ । अञ्चेर्धातोरेकारस्य लोपो भवति पूर्वस्य च दीर्घः शसादौ स्वरे परे तद्धिते प्रत्यये ईपि ईकारे च । 'निमित्ताऽभावे नैमित्तिक- स्याप्यभावः' । प्रतीचः । प्रतीचा प्रत्यग्भ्यां प्रत्यग्भिः । प्रत्यक्षु । प्राप्नोति तथापि परत्येष्टवाचित्वात्पूर्वविप्रतिषेधेन अनुस्वारे वा परसवर्णत्वे विशेषाभावाच 'स्तोः श्वभिःश्चरित्यायुक्तिः। यत्तु कृताकृतप्रसङ्गित्वेन नित्य- त्वात्संयोगान्तलोपे श्श्रुत्वा भावात्कुत्वप्रसङ्गः । कृते वा चत्वे संयोगान्तलोपे 'निमिचाभावे' इति न्यायेन तदभावात्कुत्वमसङ्गतमेव । तस्मा दिशामिति बहु- वचनेन बहूनामुपादानादस्यापि तेनैव कुत्वमिति । तदसत् । सख्यावित्यादौ निमिचाभावन्यायस्या-नित्यत्वप्रतिपादनात् । वागित्यादावपि दिशामित्यनेनैव कुत्वसम्भवे चो: कुरित्यस्यानर्थक्यापाताच्च । असिद्ध बहिरङ्गमन्तरङ्गे इति बहिरङ्गसंयोगान्तलापस्यान्तरङ्गे श्रुत्वे सिद्धत्वाचेति प्रसादकृतः ।। १अञ्चेरिति। ईपीति सूत्रानुवृत्तरीपि ईकारे चेत्युक्तम्। चकाराच्चानुक्त- समुच्चयार्थाचद्धिते इति । 'वेङयो रित्यतो वानुवृत्तेस्तस्य च व्यवस्थया पूजा स्थाञ्चतेः अचेरिति लुसनकारनिर्देशे तु पूजार्थस्य नलोपाभादेव न । अकारस्य लुप्तत्वाच्चाकारस्य चाचश्चेति नियमाद्दीर्घासम्मवाद्विधानसाना- पूर्वस्येति । स चाप्यवहित एव ग्राह्यः । ततश्च प्रतीच' इत्यत्र प्र इत्यस्या- ऽकारस्याप्रसङ्गः । तद्धिते प्रतीचीन:-प्रतीच्यः । ईपि-प्रतीची दिक । ईकारे- प्रतीची कुले । पञ्चस्विति निर्देशेन यत्कार्य यत्स्त्रीपुंसयो वेति नपुंसके नुमभावः । पूजार्थस्य तु पञ्चस्वविशेषः । शसादौ-प्रत्यञ्चः । प्रत्यञ्च - याम सारस्वतव्याकरणम् [ षड्लिङ्ग- एवं तिर्यप्रभृतयः । तिर्यङ् तिर्यश्चौ तिर्यञ्चः । तियश्चं तिर्यचौ ॥ ३८॥ तिरश्चादयः । ३९ । तिरश्चादयो निपात्यन्ते शसादौ स्वरे परे तद्धिते ईपि ईकारे च। तिरश्चः । तिरश्चा तिर्यग्भ्यां तिर्यग्भिः । तियक्षु । * उदचशब्दस्य उदीच इति निपात्यते शसादौ स्वरे परे * । उदीचः । उदीचा इत्यादि । सम्यङ् । समीचः । समीचा। सध्या , सधीचः, सध्रीचा । अदयडित्यादि । तकारान्तो मरुत्- शब्दः । 'वाऽवसाने' । मरुत् मरुद् मरुतो मरुतः । मरुतं मरुतौ मरुतः । मरुता मरुभ्यां मरुद्भिरित्यादि । एवमग्निचित् । तकारान्त- उ(ऋ)कारानुबन्धो महच्छब्दः ॥ ३९ ॥ वृतो नुम् । ४०। उकारानुबन्धस्य ऋकारानुबन्धस्य च नुमागमो भवति पुंसि पश्चसु परेषु ॥ ४० ॥ स्थिते संयोगान्तलोपे कुत्वे च प्रत्यङ्भ्यामित्यादि । सुपि णोः कुक्टुगिति कुकि षत्वे आदेशे च-प्रत्यक्षु ।। १वित इति । उश्च ऋश्च वृ, वृ इत् यस्य स बित् , तस्य वृतः । इत्यभिप्रे- त्याह-उकारानुबन्धस्येत्यादि। नन्वञ्चतेरप्युकारानुबन्धित्वादनेनैव नुम्- सिद्धावञ्चते-गागम इति न वक्तव्यमिति चेत्सत्यम् । सिद्ध सत्यारम्भा नियमाये- ति 'धातुपूकारानुबन्धेष्वञ्चतेरेवेति नियमो भवति । अतः 'उखासत्' 'पर्णध्वत्, इत्यादौ नुमभावः । 'नुमयम' इत्यत्र नुमिति योगविभागादश्चेरित्यस्य युजेरु- पलक्षणत्वाद्वा युजेरसमासे नुम् । युङ । युञ्जौ इत्यादि । समासे तु अश्वयुक् ।

प्रकरणम्] सरलाटीकाविराजितम् सम्महतोऽधौ दीर्घः शौ च । ४१ । न्सन्तस्याशब्दस्य महच्छब्दस्य च उपधाया दीर्थो भवति पञ्चसु विवर्जितेषु शौ च परे । महान् महान्तौ महान्तः । महान्तम् महान्तौ महतः। महता महाद्धयां महद्भिरित्यादि । उकारानुबन्धो भवच्छब्दः ॥ ४१ ।। अत्वसोः सौ । ४२ ॥ अत्वन्तस्याऽसन्तस्य च दीर्घो भवति धिवर्जितेषु, सौ च परे । भवान् भवन्तौ भवन्तः । भवन्तं भवन्तौ भवतः । भवता भवद्भ्या- मित्यादि । ऋकारानुबन्धस्य भवतृशब्दस्य नुमागम एव, न दीर्घः । भवन् भवन्तौ भवन्तः । भवन्तं भवन्तौ भवत इत्यादि । पठन् पठन्तौ पठन्तः । पठन्तं पठन्तौ-इत्यादि । पचन् पचन्तौ पचन्तः-इत्यादि । शकारान्तो विशशब्दः । 'छशषराजादेः षः' इति षत्वम् । "घोड:" इति षकारस्य डत्वं च । 'चाऽवसाने"। चपा जबाश्च । विट विड् विशौ विशः । इत्यादि । षकारान्तः षपशब्दो नित्यं बहु- अश्वयुजावित्यादि । पञ्चस्वित्यस्य नपुंसकव्यक्तिविषयत्वेऽपि स्त्रियां बित ईबिधेः पुंसीत्युक्तम् । पुंसोऽमुङित्यतो विभक्तिविपरिणामेन पुंमोत्यनुवृत्ति- । ततश्च कियत् कियती इत्यादौ न नुम् ।। १ सम्महत इति । स च अप च महत् च एषां समाहारः सम्म- तस्य-न्सम्महतः । अत्र 'वादीपोः शतु'रित्यतो वानुवृत्तेः महच्छन्द- साहचर्याच्च "अंस विभाजने" इत्यस्य क्विपि अन् अंसावित्यादौ सन्तत्वे. ऽपि न दीर्घ इति प्रमादकृतः॥ २ अत्वसोरिति । अतुश्च अस् च अत्वसौ तयोः, अलसोः । हत्, सारस्वतव्याकरणम् [ षडलिङ्ग- वचनान्तस्त्रिषु सरूपः । 'जश्शसोलुक्' । 'षो ड" । षट् षड् । अभिः । षड्भ्यः २ । ष्णः" इति नुडागमः । षड्-नाम् इति स्थिते ॥ ४२ ॥ इणः। ४३॥ षान्तसंख्यासम्बन्धिनो डकारस्य णत्वं भवति नामि परे । "टुभिः ष्टुः" षष्णाम् । षट् । 'क्वचिदपदान्ते पदान्तताऽऽ- श्रयणीया ॥ ४३ ॥ दोषां रः। ४४। दोसजुष्आशिष्ह विष्प्रभृतीनां पकारस्य रेफो भवति रसे पदान्ते च । दोः दोषौ दोषः । दोषं दोषौ । दोषशब्दस्य शसादौ स्वरे परे नान्तता वा वक्तव्या* । दोषः दोष्णः । दोषा दोष्णा, दोा दोषभ्यां, दोभिरित्यादि । सजूः सजुषो सजुषः । सजूषाशिषो रसे पदान्ते च दीर्घा वक्तव्या* । सा- मित्यादि । सकारान्तः पुंस्शब्दः ॥ ४४ ॥ अत्रापि वानुवृत्तेः सुष्ठु वस्ते 'सुवः पिण्ड'मित्यादौ न नुमागमः । 'एवे- स्येवकारेण अत्वन्तत्वभावान्न दीर्घ इत्यर्थः । ननु 'षट्स्' इत्यादौ ष्टुत्वं कुतो नेत्यन्त आह-क्वचित्पदान्तति। अपदान्तेऽपि पदान्तताश्रय- माहोरन्यादिति ष्टुबनिषेधान्न भवतीति भावः ।। दोषामिति । 'अह्रो रो रात्रि'ष्वित्यतो र इत्यनुवर्तते । बहुवचनं बहूनां ग्राहकमित्यभिप्रेत्याह---दोसजुपित्यादि । यद्यपि दाम्यतीति दभे?सि दोरिति, ततश्च परत्वासोर्विसर्ग इत्यनेनैव सिद्धिस्तथापि जुषी प्रीतौ जोषणं जुट तेन सह वर्तत इति सजूर्मिमिति षप्रकृतिकस्य विसर्गा- प्रकरणम् ] सरलाटोकाविराज्ञितम् पुंसोऽसुङ । ४५ । पुंस्शब्दस्य पश्चसु परेषु अमुडादेशो भवति । उकारोऽन्त्या- देशार्थः । उकारो नुम्विधानार्थः ॥ १५ ॥ स्वरे मः । ४३। अनुस्वारस्य मकारो भवति स्वरे परे । पुम्स् सि इति स्थिते । “वृतो नुम्"। "न्सम्महतोऽधी दीर्घः शौ च" । "संयोगान्तस्य लोपः" । पुमान् पुमांसौ पुमांसः । हे पुमन् । पुमांसं पुमांसौ पुंसः । पुंसा पुंभ्यां पुभिः ॥ ४६ ॥ असम्भवे पुंसः कक् सौ । ४७ । वेदान्तकवेधस्यात्मनो बहुत्वाऽसम्भवेऽर्थे वाच्ये सति पुंस्- शब्दस्य सुपि परे कगागमो भवति ॥ ४७ ॥ प्रास्तदर्थ क्रियमाणमेषामप्युपकारकम् , अव्युत्पन्नपक्षाश्रयेण वा । नचाशी- भ्यतीत्यादी रेफप्रकृतिकस्य खपे वेत्यनेन पक्षे रेफादेशप्रसङ्गः स्यादिति वा- च्यम् । वक्तव्यत्वाद्वाशन्दव्यवस्थया वा तदभावात् , शसादावन्नन्तता वा वक्तव्येत्यत्र अकारापादानं भ्यामित्यादौ को च पक्षे श्रवणार्थम् । सजुषा- शिषोरिति । 'वोर्विहस' इति सूत्रेणेत्यर्थः । आपूर्वस्य शसे: क्विपि उपधाया इकारे धानुसंबन्धित्वादिवर्णोवर्णयोः, अथवा वक्तव्यारम्भसामर्थ्यात् 'वाविहस' इति दीर्घविधेरसार्वत्रिकत्वद्योतनात्-'कुर्व' इत्यादौ दीर्घाभावः। अव्युत्पचिपक्षाश्रयेऽपि दीर्घविध्यर्थं वा सप्तमीबहुवचने धातोरपि रेफस्य वि- सर्गः। धातोर्नेति नियमात् । ततश्च वा शरीति विसर्जनीयसकारौ ।। १ असम्भवे इति । असम्भवे-वैदिकप्रयोगे । वेदान्तैकवेद्यस्या- स्मनः “एकमेवाद्वितीयं, नेह नानास्ति किंचन" इत्यादिभिरेकत्वेन प्राति- पादितस्य पुंस: 'बहुषु बहुवचन मिति बह्वर्थवाचित्वे विहितबहुवचना सम्भव ८८ सारस्वतव्याकरणम् [ षड्लिङ्ग- स्कोराद्योश्च । ४८॥ संयोगायोः सकारककारयोर्कोपो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च। पुंक्षु । एवं विद्वच्छब्दः। विद्वान् विद्वांसौ विद्वांसः । विद्वांस विद्वांसौ॥ ४८ ।। वसोर्व उः । ४९ । वसोः सम्बन्धिनो वकार उत्वं प्राप्नोति शसादौ स्वरे परे, तद्धिते ईपि ईकारे च । विदुषः । विदुषा । 'वसां रसे' । विद्वद्भ्यां विद्वद्भिः । विद्वत्सु इत्यादि । सुवचस्शब्दस्य "अत्यसोः सौ” इति दीर्वः। सुवचाः सुवचसौ सुवचसः । हे सुवचः । सुवचसं सुव- चसौ सुवचसः । सुवचसा । 'सोर्विसर्गः' । 'हवे'। उत्वम् । 'उ इत्यर्थः । अथवा संयोगान्तलोपेन घुखिति सर्वत्र सम्भवे एवमुक्तिः । अथवा नास्ति सम्भवो बुद्धः सूत्रादेश्च यत्राऽसावसम्भवः, तत्र वाक्ये सौ परत: कगागमो भवतीत्यर्थः । पुंक्षु बहुवपीत्यादिप्रयोगस्यासंभवे उद्भाविते कग्वि- धानेन सम्भवतीत्यर्थः । तत्र संयोगान्तलोपे एकदेशविकृतस्यानन्यत्वेन कगा- गमे षत्वे क्षादेशे मस्यानुस्वारः। यत्तु मध्यवर्तिनोऽपि सकारस्यादित्वविव- क्षया स्कोरायोश्चेति सलोप इति । तदसत् । एवंविधादित्वविवक्षाया अप्रा- माणिकत्वात् । उक्तयुक्त्यैव सम्भवे क्लिष्टकरणे प्रमाणाभावात् , अतिप्रसङ्गा- च्चेति प्रसादकृतः । १ वसोरिति । अत्रापि पूर्ववद्वकारसहिताकारस्य उत्वम् । वसो- रेकानुबन्धकस्य द्वयनुबन्धकस्यापि क्वसोरप्युपलक्षणत्वात्-तस्थिवान् । त- स्थुषः । वस्यात्वे 'निमित्तभावादिति न्यायेनेनिवृत्तावातोऽनपीत्यालोपः । तथा जगन्वान् जग्मुष इत्यत्रापि मो नो धातोरित्यस्या भावः, निमित्ताभा- वात् । तद्धिते-वैदुष्यं विदुष्मान् । ईपि-विदुषी । ईकारे-विदुषी कुले।

प्रकरणम् ] सरलाटीकाविराजितम् ओ' । सुवचोभ्यां सुवचोभिः । एवं चन्द्रमस्शब्दः । उशनस्- शब्दस्य भेदः ॥ ४९ ॥ उशनसाम् । ५०। उशनस् पुरुदंसस् अनेहस् इत्येतेषां सेरधेट भवति । डकारष्टिलोपार्थः । उशनाः उशनसौ उसनसः । *उशनसोधी सान्तता नान्तता अदन्तता वा वक्तव्या* | हे उशनः हे उशनन् हे उशन । हे उशनसौ हे उशनसः । अदस्शब्दस्य विशेषः 'त्यदादेष्टेरः' इति सर्वत्राकारः । अदस् सि इति स्थिते ॥५०॥ सौ सः । ५१। अदसो दकारस्य सौ परे सत्वं भवति ।। ५१ ॥ सेरौ । ५२। अदसः सेरौ भवति । असौ। द्विवचने अदस् औ इति स्थिते 'दस्य म.' ॥ ५२॥ मार्दू । ५६ । उश्च ऊश्च ऊ । अदसो मकारात्परस्य हस्वस्य हस्व उकारो भवति दीर्घस्य च दीर्घ ऊकारो भवति । अमू । बहुवचने सर्वा- उशनसो धाविति । सकारान्तस्योशनश्शब्दस्य सकारस्थाने नका- रेण नान्तता, सकारलोपेन चादन्ततापीत्यर्थः । नान्तादन्तयोर्विकल्पे पक्षे सान्तप्रकृतिरपीति त्रैरूप्यम् । सौ इति । अत्र त्यदादेरित्यनुवृत्तावपीदमो दस्य सावसम्भवाददस इत्युक्तम् । मादू उ इति विगृह्य व्याचष्टे-उश्च ऊरचेति । आदेशयो- रेकमात्रद्विमात्रत्वान्मापरावादेशिनावपि एकमात्रद्विमात्री ग्राह्यौ। ततश्चा- न्तरतमत्वादेकमात्रस्यैकमात्र उ: । द्विमात्रस्य च द्विमात्र इत्यर्थः ।।

सारस्वतव्याकरणम् [ षडलिङ्ग- दित्वात् 'जसी' इति ई । “अइ ए" । अमे इति स्थिते ॥ ५३ ॥ ऐरी बहुत्वे । ५४ । बहुत्वे सत्यदस एकारस्य ईकारौ भवति । अमी। अमुम् अम् अमून् । मत्वे उत्वे च कृते "टा ना स्त्रियाम्" । अमुना । द्विवचने 'अद्धि' इत्यात्वं पश्चादूकारः ॥ अमूभ्याम् ॥ ५१ ।। भिस् भिम् । १५ इदमंदसोर्भिस् भिसेव भवति, न तु भकारस्याकारः । अमीभिः । अमुष्मै अमूभ्याम् अमीभ्यः । अमुष्मात् अमूभ्याम् अमीभ्यः । अमुष्य । ओसि एवे अयादेशे च कृते पश्चादुकारः । अमुयोः अमीषाम् । अमुष्मिन् अमुयोः अमीषु ॥ ५५ ॥ सामान्ये अदसः कः स्यादिवच्च । ५६ । अमुकः अमुको अमुके इत्यादि सर्ववत् ॥ ५६ ।। इति हसान्ताः पुंल्लिङ्गाः। १ एरीति । अत्रापि मादित्मनुवृत्तेर मुके इत्यत्र मत्वे च कृते हाते वक्तव्यमेतत् , अन्यथा एवं विनियामका भावात् । २ सामान्ये इति । सामान्ये-विशेषाऽप्रकाशने थे अदस्शब्दात्कप्रत्ययो भवति स च स्यादि- वत् । से: सिप्रत्ययस्यादिः प्रकृतिः अदम्शब्दस्तद्वत् । तत्सहितस्याप्यदसो- ऽदसकार्य भवतीत्यपि तन्त्रेणार्थः । अथवा 'सि' शब्देन सकार उपलक्ष्यते । सतश्व से: सकारस्य आदिवदिति त्यादिवत् सकारात्पूर्व भवतीत्यर्थः । ततश्च 'तन्मध्ये पतितस्तद्ग्रहणेन ग्राह्य' इति कप्रत्ययसहितस्य 'सेरौ' 'सौ स' इत्यादिकाएँ । वस्तुतः 'स्यादिव'दित्येव पाठः। 'असकौ' इति स्त्रीपुंसयोः। नपुंसके 'अदक' इति । 'सेरौ' इत्यत्र हस्खो वेत्यतो मण्डूकप्लुत्या वानुवृत्तेः कप्रत्ययसहितस्य वा औत्वाभावपक्षे च स्यादिवच्चेति चकारादधिकार्था- सासरस्यौत्वे अमुक इति । इति हसान्ताः पुंलिङ्गाः। .

प्रकरणम् ]
বহতাছাকামিমিন
अव हसान्ताः स्त्रीलिंगाः।
तत्र हकारान्त उपानशब्दः ।
नहो घः।१।
नहो हकारस्य धकारादेशो भवति रसे पदान्तै च।
"धाऽवसाने" । धस्य तत्वं दत्वं च । उपानत् उपानद् उपानही
उपानहः । हे उपानत् हे उपानद् । उपानहम् उपानही उपानहः ।
उपानहा उपानद्भयाम् उपानद्भिः । 'खसे चपा असानाम् । उपा-
नासु । वकारान्तो दिवशब्दः । १।
दिव औ सौ । २॥
दिवो वकारस्य औकारादेशो भवति सौ परे। छौः दिवौः
दिवः । हे यौः । दिव् अम इति स्थिते । २।
चामि। ३ ।
दिवो वकारस्य अमि परे वा आस्वं भवति । धां-दिवं दियौ
दिवः । दिवा । ३।
उ रसे। ४।
दियो वकारस्य रसे परे उकारो भवति । युभ्यां धुभिः धुषु
इत्यादि । रेफान्तश्चतुर्शब्दो नित्यं बहुवचनान्त: ।। ४ ।।
त्रिचतुरोः स्त्रियां तिसृचतलवत् । ५।
स्त्रियां वर्तमानयोः त्रिचतुशब्दयोः तिहुँ चतसृ इत्येतावादेशौ
१ 'दिव औ' इत्येव क्वचित्सूत्रम् ।
२ उ रस इति । उश्च रसच उरस, तस्मिन् । 'वसोर्वा उ'मित्यत
उमित्यनुवर्तते । ततश्च द्यूषित इत्यादि । केचित्तु 'ऊ रसे' इति पठन्ति ।
सूत्रे उ उरसे इति छेदः । रहस्य हसोपलक्षणात् उ उ इति योगविभागाद्वा
ग्रुहय इत्यादौ हकारे ऽपि उत्वम् । ३ त्रिचतुरोः स्त्रियां तिसृचतम् ।
ऋ-ऋवदिति छेदः। 'स्त्रिया'मिति त्रिचतुरोविशेषणम् । स्त्रीवाचकयोरित्यर्थः।

९२ सारस्वतव्याकरणम् [प्रलिङ्ग- भवतो विभत्कौ परतः । ऋकारस्य ऋकारवत् । ततः स्तुरार" तिसः । तिसः । तिसृभिः । तिसृभ्यः ॥ ५॥ न नामि दीर्घः । ६। तिसृ चतसृ इत्येतयो? न भवति नामि परे । तिसृणाम् । छन्दसि तु वा भवति । तिसृणाम् तिसृणाम् । तिसृषु । एवं चतसृशब्दः । गिर्शब्दस्य भेदः ॥ ६ ॥ प्योर्विहसे । ७। धातोरिकारोकारयोदी? भवति रेफवकारयोर्हसपरयोः पदान्ते च । गीः गिरौ गिरः। हे गीः । गिरं गिरौ गिरः । गिरा गीाम् गीर्भिः । गीर्षु । एवं धूः धुरौ धुरः । हे धूः। पू: पुरी पुरः । हे पूः । पुरा पूर्ध्याम् पूभिः । पूर्षु । धकारान्तः समिध्- शब्दः । 'वाऽवसाने । समित् समिद् समिधौ समिधः । ततश्च प्रियास्तिलो वा यस्यासौ प्रियतिमा प्रियचतसेत्यादी पुंस्यपि स्त्रीवाचकत्वाद्भवत एवादेशौ । प्रियास्त्र यस्त्रीणि चा, प्रियाश्चत्वारश्चत्वारि वा यस्याः सा प्रियत्रिः, प्रियचत्या इत्यादौ त्रिचतुरोः स्त्रीवाचकत्वाऽभावा- स्त्रियामपि नादेशो। १ स्तुरार इत्यार न भवतीति । 'तो ड उ'रित्यत: 'ऋत' इत्यनुवृत्तस्तस्य च तात्वरत्वेन तावन्मात्रग्राहकल्लादस्य च ऋकारातिदेशात् स्तुरार् इति सूत्रेण आर् न भवतीत्यर्थः । २ प्योरिति । इश्च उश्व यू , तया: व्योः । र च व् च ब, तस्मिन् वि । सिलोपेऽपि प्रत्ययलोपे प्रत्ययलक्षणमिति दीर्घः । 'खो'रिति योगविभागात्सुपी: सुपिसो इत्यादौ सेर्लोपे सत्यविसगऽपि इकारस्य दीर्घः । 'दोषा'मिति रेफादेशो वा।।

प्रकरणम् ] सरलाटीकाबिराजितम् हे समित् हे समिद् । समिद्भयां समिद्भिः । समित्सु । भकारान्तः ककुभशब्दः । ककुप् ककुव् ककुभौ ककुभः । हे ककुप् हे ककुब् इत्यादि । दकारान्तास्त्यद्तद्यद्एतत् शब्दाः । 'स्तः' स्यादा- देस्तकारस्य सत्वं भवति सौ परे । इति सकारः । दकारान्तास्त्यदा- दयस्तेषां 'त्यदादेष्टेरः स्यादौ इति सर्वत्राकारः । 'आवतः स्त्रियाम्" इत्याप् । स्या त्ये त्याः । सा ते ताः । या ये याः । अन्वादेशे-एताम् एनान् एते एने एताः एनाः । एवं किम् । का के काः ॥ ७ ॥ इयं स्त्रियाम् । ८। इदंशब्दस्य स्त्रियामियं भवति सौ परे सिसहितस्य । इयम् इमे इमाः। इमाम इमे इमाः । अनया आभ्याम् आभिः । अस्यै आभ्यां आभ्य इत्यादि । चकारान्तस्त्वशब्दः । “चोः कुः' इति कुत्वम् । त्वक् त्वग् त्वचौ स्वचः । हे त्वक् । त्वाभ्याम् । वक्षु । एवं ऋच्वाचप्रभृतयः । अपशब्दो नित्यं बहुवचनान्तः । अप-जस् इति स्थिते । सिम्महतः” इति दीर्घः । अपः ॥ ८॥ भि दपाम् । ९॥ अबादीनां भकारे परे दत्वं भवति । अद्भिः अद्भ्यः । १ इयमिति । आदेशविधानसामर्थ्यात्यदाद्यत्वा ऽभावः । हसा- न्तत्वासिलोपः । २भिदपामिति । अपामिति बहुवचनान्तनिर्देशान्नित्यबहुवच- नान्तस्यैव दत्वं स्यान्न गौणत्वे । अत उक्तम् अबादीनामिति । 'तस्य ।

सारस्वतव्याकरणम् [पलिन- अपाम् । अप्सु । शकारान्तो दिइशब्दः ॥ ९॥ दिशों कः । १०। दिश् दृश् स्पृश् मृश् इत्यादीनां रसे पदान्ते च कत्वं भवति । दिक् दिग् दिशौ दिशः । हे दिक् हे दिग् । दिशं दिशौ दिशः । दिशा दिग्भ्यां दिग्भिरित्यादि । षकारान्तस्त्विष्- शब्दः । षोडः" इति दृत्वम् । “वाऽवसाने" इति टकारः । त्विट् स्विड् विषौ त्विषः । त्विषं त्विषौ स्विषः। विड्भ्यां त्विड्- भिरित्यादि । आशिष्शब्दस्य सजुष्शब्दवद्रूपं ज्ञेयम् । आशी: आशिषौ भाशिषः । हे आशीः । आशीर्थ्याम् । आशीष्पु । स्त्रीलिङ्गस्याऽदस्शब्दस्य सौ न विशेषः । द्विवचनादौ टेरत्वे च कृते अनन्तरम् "आवतः स्त्रियाम्" इत्याप् । दीर्घत्वं विभक्तिकार्यश्च पश्चात् 'मादृ' इति हस्वरय दीर्घस्य च उकार ऊकारश्च । असौ अमू अमः । अमुम् अमू अमू: । अमुया अमूभ्याम् अमूभिः । अमुष्य अमूभ्याम् अमुभ्यः । अमुष्याः अमूभ्याम् अमूभ्यः । अमुष्याः अमुयोः अमूषाम् । अमुष्याम् अमुयोः अमूषु । *सामान्ये अद्- सः का*। सामान्येऽर्थे वाच्ये सति अदसः कप्रत्ययो भवति । अमुका अमुके अमुकाः । इत्यादि । स्त्रीलिङ्गे सर्वाशब्दवद्रूपं ज्ञेयम् ।। १० ॥ इति इसान्ताः स्त्रीलिङ्गाः। तदुत्तरपदस्य चे' ति तदुत्तरभृतीनामपि भवतीति भावः । पष्ठीनिर्दिष्टत्वा- दन्तस्य । । १ दिशामिति । 'चोः कुरित्यत: 'कुरित्यनुवर्तते । इति हसान्ताः स्त्रीलिङ्गाः ।

प्रकरणम् ] सरलाटीकाविराज्ञितम् हसान्ता नपुंसकलिंगाः प्रदर्श्यन्ते । रेफान्तो वार्शब्दः। नपुंसकात्स्यमोलक् । १। चाः वारि धारि २ । 'अयम' इति विशेषणान्नुम् न भवति । वारा वार्ष्याम् वाभिः । वार्षु इत्यादि । चतुशब्दस्य 'चतुराम् शौ च' इत्याम् । चत्वारि । चत्वारि । चतुर्भिः । चतुर्थ्यः । च. तुर्यः । चतुर्णाम् । चतुषु । नकारान्तोऽहन्शब्दः ॥ १ ॥ अन्हः सः ।। अहन्शब्दस्य नकारस्य सकारो भवति रसे पदान्ते च । 'सोविसंगः' । अहः । "इमौ" । वेड्योः" । अही अहनी अहानि२। अहा अहोभ्याम् अहोभिः । अहः अहोभ्याम् अहोभ्यः । अह्नः अहोभ्याम् अहोभ्यः । अह्नः अहोः अहाम् ।। अहि-अहनि अहोः अहःसु । ब्रह्मन् शब्दस्य रस पदान्ते च नस्य लोपो वक्तव्यः । ब्रह्म ब्रह्मणी ब्रह्माणि २ । सम्बोधने धौ नपुंसके नलोपो वा वक्तव्यः* । हे ब्रह्म हे ब्रह्मन् । ब्रह्मणा । ब्रह्मभ्यां ब्रह्मभिरित्यादि । एवं चर्मन् वर्मन् शर्मन् कर्मन् व्योमन् दामन् । १ अयम इति । 'नुमनम' इत्यत्र 'नपुसकस्ये'त्यस्य 'अयम'इति विशेषणादित्यर्यः । २ अन्हः । 'सस्ता वित्यत: 'स' इति । ब्रह्मन्शब्द- स्यति । 'नाम्नो नो लोपशधा वित्यनेनेत्यर्थः । अन्यथा ब्रह्मभ्यां ब्रह्मभिरि- त्यादावगीत्यादिप्रसङ्गः। अधाविति निषेधस्य नोक्तमनित्यमिति नाम्मो लोपशिति योगविभागाद्वा सम्बुद्धौ नपुंसकानां नलोपो वेति । हे ब्रह्म- हे ब्रह्मन् ।

९६ सारस्वतव्याकरणम् [ षड्लिङ्ग- नामन् प्रभृतयः । *नान्ताददन्ताच्छन्दसि डिश्यो लोपो वक्तव्यः । छन्दस्यागमजानागमजयोलापोलोपौ च वक्तव्यो । परमे व्योमन् । सर्वा भूतानि । त्यदादीनां स्यमो- लुकि कृते टेरस्वं न भवति, स्यादाविति विशेषणात् । द्विवचनादौ तु टेरत्वे कृते सर्वशब्दवद्रूपं ज्ञेयम् । त्यत् त्यद् त्ये त्यानि । पुनः-त्यत् त्यद् स्ये त्यानि । त्येन त्याभ्यां त्यैरित्यादि । एवं तत् ते तानि २ । यत् ये यानि २ । एतत् एते एतानि २ । किम् के कानि २ । इदम् इमे इमानि २ । तृतीयादौ सर्वत्र पुंवत् । प्रत्यचशब्दः प्रत्यक् प्रत्यग् 'अञ्चरलोपो दीर्घश्च" । प्रतीची । "नुमयमः" । प्रत्ययश्चि । तकारान्तो जगच्छब्दः । जगत् जगती जगन्ति जगता जगद्भयां जगद्धिरित्यादि । महच्छब्दे तु सम्महतः" इति विशेषणात् सिविषये दीर्घो न । महत् महती महान्ति २ । चकारान्तः २ १ छन्दसीति । सर्वत्यत्र सिलोपे आगमजस्यापि नस्य छान्दसो लुक् । निमित्ताऽभावन्यायस्य वाऽनित्वाद्दीर्घस्याऽनिवृत्तिः । अथवा वा अ आ इति च्छेदः । ततश्च शिलोपे निमित्ताभावन्यायेन नुपुपधादीर्घयोनिवृत्ती अकारस्य आकारः । अथवा 'वा आ' इति च्छेदः । एव च टेर्लोपः । शेश्च आ भवतीत्यर्थः । ततश्च शिपरत्वाभावादागमनमनित्यमनित्यत्वाद्वा नुमभावे सवर्णदीर्घः । अधाबित्यत्र रुपलक्षणत्वाच्छन्दस्त्वाल्लापश् । संज्ञा- पूर्वकत्वेनाः नित्यत्वाद्वा । 'व्यामन्' इत्यत्र नलोपाऽभावः । परमे भूतानीति- डिस्यन्तत्वद्योतनार्थम् । २ त्यदादानामिति । 'लुकि न तन्निमित्च' मिति प्रकरणम् ] सरलार्टीकाविराजितम् इत्यादि । षकारान्तो हविष्शब्दः सजुष् च । हविः हविषी हवींषि २ । इत्यादि । सजू: सजुषी सजूघि २ । एवं सका- रान्ताः पयस् तेजस् वचस् प्रभृतयः । पयः पयसी पयांसि २ । पयसा पयोभ्यामित्यादि । अदस्शब्दस्य स्यमो कि · कृत "सोर्वि- सर्ग:"। द्विवचनादौ टेरत्वे कृते मत्वोत्वे-अदः अम् अमूनि २ । अमुना अमूभ्याम् अमीभिः । अमुष्य अमुभ्याम् अमीभ्यः । अमुष्मात् अमूभ्याम् अमीभ्यः । अमुष्य अमुयोः अमीषाम् । अमुष्मिन् अमुयोः अमीषु ॥ २ ॥ P इति हसान्ता नपुंसकलिङ्गाः । अथ युष्मदस्मत्प्रक्रिया । अथ युष्मदस्मदोः स्वरूपं निरूप्यते। तयोश्च वाच्यलिङ्गत्वात् त्रिष्वपि लिङ्गषु समान रूपम् । त्वमहं सिना। १ । युष्मदस्मदोः सिसहितयोस्त्वमहमित्येतावादशौ भवतो यथा- संख्येन । त्वम् । अहम् ।। १ ।। प्रतिषेधादित्यर्थः ।। इति हसान्ता नंपुसकलिङ्गाः । १ अथेति । संज्ञासंधिस्वरान्तलिङ्गत्रयसाधनानन्तरं युष्मदस्मदोः- युष्मच अस्मच्च युष्मदस्मदौ वयोः-स्वरूप मुख्यस्वरूपमेव निरूप्यते-कथ्यते।

सारस्वतव्याकरणम् [ युष्मदस्मत्- युवावौ द्विवचनं । २। युष्मदस्मदोद्विवचने परे युव आव इत्येतावादेशौ भवतः ॥२॥ आमौ। ३॥ युष्मदस्मदोः परे औ आम् भवति । युवाम् । आवाम् ।।३।। युयंवयं जसा ।४। जसा सहितयोर्युष्मदरूदोयूयं वयं इत्येतावादशौ भवतः । यूयम् । वयम् ॥ ४ ॥ त्वन्मेदकत्वे । ५। न तु गौणत्वविशेषादिकमित्यर्थः । अत्राह परः-ननु यथा सर्वांदयो लिङ्ग- त्रये साधितास्तथा एतावपि कथं न साधितौ । तत्रोचरमाह-तयोश्चति । तयोर्युष्मदस्मच्छब्दयोवांचि--वचने वाग्व्यवहारेऽलिङ्गत्वात् स्वविषये लिङ्गद्योतकाऽभावात् त्रिष्वनि -पुंस्त्रीवपुंसकलिङ्गेधु सामानं सदृशमेव रूपम् । यथा त्रिघु लिङ्गेषु सर्वो जनः, सर्वा जगती, सर्व जगत् इत्यादिरू- पभेदो दृश्यते, न तथैतयोः । यथा त्वं देवः, त्वं देवी, त्वं ब्रह्म इत्यादौ न कोऽपि रूपमेदः । अतः प्राग न सावितावित्यर्थः । अथ वा वाच्यमितिनाम- शब्दरूपम् , अभिधेयं विशेष्यपदमित्यर्थः । तस्यैव लिङ्गं विद्यते ययोस्ती वाच्यलिङ्गौ । यदि वा वाच्यस्य पुरुषस्त्रीकुलादेलिङ्गमेव लिङ्गं ययोरिति बहुव्रीहिः । यदुक्तम्-'वाच्यमित्युच्यते भेद्य तलिङ्गं भजते तु यः । विशेष- गत्वमापन्नो वाच्यमित्युच्यते इति ।।' वाच्यलिङ्गत्वादिति । वचनं वाक , तस्यां वाचि-अलिङ्गत्वात्- स्वविषये लिङ्गद्योतका-भावादित्यर्थः । यूयमिति । यूयं च वयं च यूयंवयं-प्रथमाद्विवचनान्तं । 'जसा' इति जसशब्दस्य तृतीयैकवचनान्तम् ।

प्रकरणम् ] सरलाटीकाविराजितम् युष्मदस्मदोः त्वत् मत् इत्येतावादेशौ भवत एकत्वे गम्य. माने । एकत्वं नाम एकार्थवाचित्वं न त्वेकवचनम् । तेन त्वत्पुत्रो मत्पुत्र इत्यादौ त्वन्मदोदशौ भवत एव ॥ ५॥ आऽरभौ । ६। युष्मदस्मदोष्टेरात्वं भवति अमि सकारे भिसि च परे । त्वाम् । माम् । युवाम् । आवाम् । त्वदादेष्टरत्वे कृते 'शसि' इति दीर्घत्वम् । *शसो नो वक्तव्यः । युष्मान् । अस्मान् । स्वन्मदादेशे कृते ॥ ६॥ ऐ टाड्योः। ७। युष्मदस्मदोष्टेरेत्वं भवति टा डि इत्येतयोः परयोः । अया- देशः । त्वया । मया । युवाभ्याम् । आवाभ्याम् । युष्माभिः । भस्माभिः ॥ ७॥ तुभ्यं मह्यं ड्या।८। डेसहितयोर्युष्मदस्मदोस्तुभ्यं मह्यमित्येतावादशौ भवतः तुभ्यम् । मह्यम् । युवाभ्याम् । आवाभ्याम् ।। ८ ।। १ त्वदिति । त्वच्च मञ्च त्वन्मत् प्रथमाद्विवचनान्तम् । एकस्य भाव एकत्वं, तस्मिन्नेकत्वे- सप्तम्येकवचनान्तम् | एकवचने एकार्थवाचित्वे वा युष्मदस्त्वत् अस्मदश्च मत् आदेश इत्यर्थः। २ टाड्योरिति । टा च ङिश्च टाङी, तयोः बाड्योः -सप्तमी- द्विवचनान्तम् । ३ तुभ्यं मयं डयेति । तुभ्यं च मह्यं च तुभ्यमह्यं प्रथमा- द्विवचनान्तं । ड्या इति शब्दस्य तृतीयैकवचनान्तम् ।

सारस्वतव्याकरणम् [ युष्मदस्मत्- भ्यसः एभ्यम् ।९। युष्मदस्मद्भ्यां परस्य भ्यसः इभ्यं भवति । सकारो भकारा- दित्वव्यावृत्त्यर्थः, तेनाऽऽत्वैत्वे न भवतः । युष्मभ्यम् । अस्मभ्यम् ॥९॥ उसिभ्यसोः श्तुः ॥१०॥ पञ्चम्या इसिभ्यसोः इतुर्भवति । शकारः सर्वादेशार्थः । उकारः सुखोच्चारणार्थः । त्वत् । मत् । युवाभ्याम् । आवाभ्याम् । युष्मत् । अस्मत् ।। १० ।। तवनम डसा । ११। ङसा सहितयोर्युष्मदस्मदोस्तव मम इत्येतावादेशौ भवतः । तव । मम । युवयोः । आवयोः सर्वादित्वात्सुट् ॥ ११॥ सामाकम् । १२ । युष्मदस्मद्भ्यां परः साम् आकं भवति । युष्माकम् । । १ भ्यमादेशस्य गुरुत्यात्सर्वस्य प्राप्तौ शकारग्रहणं किमर्थमित्याह- शकारो भकारादित्वव्यावृत्त्यर्थ इति । उच्चारणमात्रः शकारो मकारादिवव्यावृत्त्यर्थः । भकार एव आदिर्यस्य स भकारादिस्तस्य भावो भकारादित्वं तस्य व्यावृत्यर्थो निषेधार्थः । भ्यम् इत्येव चेत् क्रियते, तदा 'अद्भि' 'एस्भि बहुत्वे' एतयोः सूत्रयोः प्राप्तिर्भवति भकारपरत्वात् । अत- स्तन्निवारणार्थ इभ्यभिति क्रियते इत्यारायः । २ तव मम डसेति। तव च मम तवमम प्रथमाद्विवचनान्तं । इसेति सशब्दस्य तृतीयैकवचनान्तम् । 'सामाकम् । साम् प्रथमैकवचनान्तम् । आकन्~-प्रथमैकवन- ते मे भवतः, प्रकरणम् ] मरलाटीकाविराजितम् अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु॥ १२ ॥ अर्थाऽनयोरादेशविशेषविधिः प्रदर्श्यते- युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयामिस्ते मेवां नौ वस्नसौ। १३ ॥ तत्रैकवचनेन सह ते मे द्विवचनेन सह वां नौ, बहुवचनेन सह वस्नसौ । उक्तश्च--- 'स्वामी ते स समायातः स्वामी मे साम्प्रतं गतः । नमस्ते भगवन् ! भूयो देहि मे भोतमव्ययम् ॥ १॥ नान्तम् । युष्मदस्मद्भधां परस्य सामः-सुटसहितस्य आम आकम् इत्या- देशो भवतीत्यर्थः । १ पुनर्विशेषमाह-अथति । युष्मदस्मच्छब्दयोः साधनानन्तरं कश्चित् आदेशस्य विशेष आदेशविशेषस्तस्य विधिः । आदेशा: पूर्व कथिताः । अय आदेशिविशेषविधिः । कथ्यते इत्यध्याहारः । २ युष्मदस्मदोरिति । अयं भावः -षष्ठीचतुर्येकवचनेन सह युष्दस्ते अस्मदश्च मे आदेशः । द्वितीयैकवचनस्य त्वा मा इति विशेषविधा- नात् ते मेन भवतः । षष्ठीचतुर्थीद्वितीयाद्विवचने युष्मदो वाम् अस्मदश्च नौ आदेश: । षष्ठीचतुर्थीद्वितीयाबहुवचने युष्मदो वस् अस्मदश्च नस् आदेशः ! द्वितीयाचतुर्थीषष्ठीति वक्तव्ये ब्युत्क्रमेण षष्ठीचतुर्थीद्वितीयामित्युक्तत्वात् क्वचित्त्वया मयेत्यस्मिन्नर्थ तेमे भवत इत्यपि सूचितम् । यथा 'श्रुतं ते निखिलं पार्थ' इत्यादि प्रयोगेषु । तथा च-'कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् । तथा च रघुकाव्ये'ज्ञेये केन विनीतौ वामित्यादि प्रथमाद्विवचनेऽपि वामित्यादेशार्थम् । केचित्तु 'वा'मित्यव्ययं मन्यन्ते ।। यथा स्वामीति । स ते तव स्वामी समायातः ! मे मम स्वामी -- १०२ सारस्वतव्याकरणम् [अन्धय--- स्वामी वां स जहासाचैदृष्ट्वा नौ दानयाचनाम् । राजा क दास्यते दानं, ज्ञानं नो मधुसूदनः ॥ २ ॥ देवो वामवताद्विष्णुर्नरकान्नौ जनार्दनः । स्वामी वो बलवान् राजा स्वामी नोऽसौ जनार्दनः ॥३॥ नमो वो ब्रह्मविज्ञेभ्यो ज्ञान नो दीयतां धनम् । सानन्दान्वः प्रपश्यामः पश्यामो नः सुदुःखिनः' ॥ ४ ॥ त्वा माऽमा। १४ । अमा सहितयोयुष्मदस्मदोस्त्वामादेशौ भवतः । सांप्रतं गतः । अत्र स्वामित्वे षष्ठी तस्या एकत्वे ते मे इत्यादेशौ दर्शितौ। चतुर्थ्येकवचने दर्शयति-नम इति । भगो ज्ञानमस्यास्तीति भगवान् तत्सम्बुद्धौ हे भगवन् । भूयः पुनरपि वारंवार ते तुभ्यं नमः । अत्र नमः--शब्दयोगे चतुर्थी । तत्र युष्मदस्ते आदेशः । मे मह्यम् अभयं मोक्षं देहि प्रयच्छ । अत्र दानायें चतुर्थी । अस्मदो मे आदेशः, एकवचनत्वात् ।। द्विवचनादेशं दर्शयति-स्वामीति । स वां युवयोः स्वामी उच्चै- रतिशयेन जहास-अहसत् । किं कृत्वा ?, नौ आवयोः दीनयाचनां पीडां दृष्ट्वा । अत्र षष्ठीद्विवचने युष्मदो वाम् अस्मदो नौं । यां युवाभ्यां राजा भूपतिर्दानं दास्यते । मधुसूदनः--कृष्णः आवाभ्यां ज्ञानं तत्त्वा- बबोघं दास्यते । अत्र चतुर्थी द्विवचनम् ।। वां युवां विष्णुदेवोऽवतात् पातु । जनार्दनः कृष्णो नौ आवां नरकाद्रक्षतु । अत्र द्वितीयाद्विवचनम् ।। बहुत्वे दर्शयति--स्वामीति । वो युष्माकं स्वामी राजा बलवान् बलयुक्तः । नोऽस्माकम् असी जनार्दनः कृष्णः स्वामी । षष्ठीबहुल्वे रूप- मिदम् । युष्मदो वस् अस्मदो नस् । १त्वामेति । युष्मदः अमसहितस्य वा अस्मदः मा आदेश इत्यर्थः।

१०३. प्रकरणम् ] सरलाटीकाविराजितम् 'पश्यामि त्वा मदालीदं पश्य मा मदभेदकम् । पश्यामि त्वा जगत्पूज्य पश्य मा जगतां पते ॥१४॥ नाऽऽदौ । १५। पादादौ वर्तमानयोयुष्मदस्मदो ते आदेशा भवन्ति ! 'तव ये शत्रवो राजन् मम तेऽप्यनिशत्रवः । तव मित्राणि यानि स्युर्मम मित्राणि तान्यपि ॥१॥ रुद्रो विश्वेश्वरी देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥ २॥ पादादाविति किम् । 'पान्तु वो नरसिंहस्य नखलाङ्गलकोटयः । हिरण्यकशिपोर्वक्षाक्षेत्रामुकदमारुणाः ॥ १५ ॥ चादिभिश्च । १६॥ चादिभिरपि योगे नेते आदेशा भवन्ति । 'तव चायं प्रभुवि- स्णुर्मम चायं तथैव च ॥ १६ ॥ इति षडलिङ्गप्रकरणम् । १ अत्रोदाहरणम्-~-पश्यामीति ॥ त्या त्वाम् अहं मदालीढं- मदव्याप्तं गर्वयुक्तं पश्यामि । मा मा मदभेदकं मदोचारकं पश्येत्यर्थः । २ पादः श्लोकचतुर्थीशः, तस्यादौ ते मे वां नौ वस् नस् इत्येते आदेशा न भवन्ति । अत्रोदाहरणं-तवेत्यादि । हे राजन् ये तव शत्रवः ते ममापि अतिशत्रवः । तव यानि मित्राणि तानि ममापि मित्रा- णीत्यर्थः । ३ चादिमिरपि सहयोगे च वा ह अह एव एतेषां पश्चानामव्ययाना' सारस्वतव्याकरणम् [ अव्यय--- अथाऽव्ययानि । चादिनिपातः । १। चादिगणो निपातसंज्ञको भवति । च वा ह अह एव एवं नूनं पृथक् विना नाना स्वस्ति अस्ति दोपा मृषा मिथ्या मिथस् योगेऽपि समीपवर्तित्वे सति एते ते मे वा नौ वस नसरूपा आदेशाः प्रायो न भवन्ति । यथा- 'तव ममच समागमस्तदासीत्तव मम वान किमप्यसाध्यमस्ति। 'तव मम च महश्चकास्ति सख्यं न तव ममेह क्वचिद्भवेद्वियोगः"। 'सदा तवैव भक्तोस्मि' इत्यादि || द्विवचनादावपि प्रयोगवशाच्च जेयम् ॥ इति युप्मदस्मत्प्रक्रिया । अथ चादीन् निपातानाह-'चादिनिपात इति' । चादिः प्रथमैं- कवचनान्तम् । निपतत्यनेकेष्वर्थष्विति निपातः । च वा ह इत्यादि यावत् 'स्वराच' इत्येवमादिगणो निपातसंज्ञो भवति इत्यर्थः । एते निपाता उच्यन्ते इति यावत् । अथैतेषां किञ्चिद्विवरणं लिख्यते । च-पुनरथे समुच्चयादिषु च । वा-विकल्पार्थे उपमोनार्थं च | ह अह इति द्वौ खेदार्थों पादपूरणार्थों च । अहह इत्यपि खेदे आश्चर्य च । एव-निश्चयाथे अवधारणे औपम्ये वा । एवम्-अमुना प्रकारेण अङ्गीकारे च पूर्वोक्तस्मरणे च उपमायां च । नूनं-निश्चये पृथक् मिन्नार्थे । विनाऽभावार्थो वर्जनार्थश्च । नाना-बहु- प्रकारवाची । स्वस्ति-कल्याणार्थे । अस्ति सत्तार्थ । दोषा राव्यर्थे । मृषा मिथ्या-एतौ दावसत्यार्थ । मिथस्-परस्परार्थः । अथ अयो एतौ आनन्त- थै मङ्गलारम्भयोश्च अर्थान्तरकथने च । ह्यस्शब्दो गतदिनायें । श्वस- आगामिदिनायें। उच्चैस-उच्चत्ववाचः अतिशयार्थवाचकश्च । एवम्----- वै । प्रकरणम् सरलाटीकाविराजित १०५ अथो अथ ह्यस्.श्वस् उच्चैस् नीचेस् शनैस् स्वर् अन्तर् प्रातर् पुनर् भूयस् आहोस्वित् उत सह ऋते अन्तरेण अन्तरा नमस् अलम् कृतम् । 'आ-मा नो-नाः प्रतिषेधे' । ईषत् किल खल आरात् भृशं यत् तत् स्वराश्च । इत्येवमादिगणो निपातसंज्ञको भवति । उच्चकैरपि । एवं नीचैः नीचकैः नीचत्वार्थः हीनत्वार्थश्च । स्वर स्वर्गार्थः । अन्तर्-मध्ये । प्रात:-प्रभाते। पुनर्भूयस्-एतौ द्वौ पौनःपुन्ये । आहोत्वि- त्-वितर्के । कुतश्चित्-इत्यपि वितर्के । उत-अथवार्थ । ऋते-विनार्थे । सह-सहाथें । अन्तरेण–विनार्थे । अन्तरा--मध्यार्थः । नमस्-नमस्कारे । अलं-भूषायां निवारणे च पर्याप्त सामथ्यं च । कृत-निवारणे पूरणार्थे च । अ मा नो न-एते चत्वारः प्रतिषेधार्थे । ईषत्-स्तोकायें इत्यर्थः। किल खलु वै-एते त्रयो निश्चयार्थे स्मरणार्थे च । आरात्-निकटार्थे दूरार्थे च । दूरात्-दूरार्थे च । भृशम्-अत्यर्थे । यत्-यस्मात्कारणात् । तत्-तस्मात्का. रणात् । स्वराश्च-अं आ इ ई उ ऊ ऋऋ ए ऐ ओ औ एतेऽपि निपाताः । तत्र अ-सम्बोधने निर्भसने च । आ-वाक्यस्मरणे च । इ-संबोधने । ई- दु:खचिन्तने च । उ-रोषोक्तौ निवारणे च । ऊ-प्रश्ने निश्चये रोषे च । ऋकारलकारौ क्षोभवाचको लोभवाचकौ च । लोभो-दोषवृद्धिः । विश्राम- वाचको वा । ए-संबोधने । ऐ--आश्चयें । ओ-अनुनये । औ-भवत्यर्थ । अं-अङ्गीकारे । अ:-मये आश्चर्य च । इत्यादिर्गणो निपातसंज्ञा भवति । आदिशब्दादन्ये पि ज्ञेयाः-सह साकं साधं सत्रा अमा-एते सहार्थे । कच्चित्-इष्टपरिप्रश्ने । अये--कोमलामन्त्रणे । ननु-निश्चये वितकं च । नु- वितर्के । नक्तं-रात्रिवाचकं स्यात् । इति-समाप्त्यर्थे । नाम-ति कोमला- मन्त्रणे । मन्ये-इति वितकें विचारणे च । एतेषु च केचिद्वाचकाः केचिद्- द्योतकाः । तत्र वाचका:-पृथगादयः । ते ह्यर्थ वदन्ति । द्योतकाश्चादयः । ते किल द्योतयन्त्यतो द्योतका उच्यन्ते । तदुक्तम्- 'केऽप्येषां द्योतकाः, केऽपि वाचकाः केऽप्यनर्थकाः । आगमा इव केऽपि स्युः सम्भूयार्थस्य वाचकाः ॥ इति ।

सारस्वतव्याकरणम् [अव्यय- द्रव्यवचनो नेति ज्ञेयम् । तत्रादिगणो विभक्त्यर्थं निपात्यते । तस्मि- निति तत्र । यस्मिन्निति यत्र । कस्मिन्निति कुत्र । क्व कुह । “अ- स्मिन्निति अत्र । कस्मिन् काले कदा । तस्मिन् काले तदा । यस्मिन् काले यदा । सर्वस्मिन् काले सर्वदा । एकस्मिन् काले एकदा । तेन प्रकारेण तथा । येन प्रकारेण यथा । केन प्रकारेण कथम् । अनेन प्रकारेण इत्थम् । तत्मादिति ततः । एवं कुतः अतः इतः । सार्व- विभक्तिकस्तसित्येके । पूर्वस्मिन्निति पुरस्तात् । परस्मिन्निति परेण । *आहि च दूरे* । दक्षिणा हि वसन्ति चाण्डाला *किमः सामान्ये चिदादि* । सर्वविभक्तयन्तात् किंशब्दा. । तत्रेति । तत्रादिगणा विभक्त्यर्थे निपात्यते । तत्र सप्तम्यर्थे यथा सप्तम्येकवचने तस्मिन्नित्यर्थे तत्र निपातः । एवं तयोः तेषु तस्यां तयोः तासु एतेष्वपि तत्रेति निपातः । एवं सप्तम्यर्थे। वर्तमानात्तच्छब्दात् प्रत्ययः दलोपश्च । एवं सप्तम्यर्थ वर्तमानाद्यच्छन्दात् प्रत्ययो दलोपः । यस्मिन्नि- त्यस्य यत्र । किम्शब्दात् प्रत्ययः, किमः कुआदेशश्च । एवं सप्तम्यर्थे किम्शब्दात् अप्रत्ययः, कुआदेशे क्व । कस्मिन्नित्यस्य कुत्र कुह क्व।। एवं द्विभवद्युष्मदस्मदी च वर्जयित्वा सर्वादिगणात् सप्तम्या अर्थे 'त्र' इति भवति । सर्वत्र उभयत्र अन्यत्र एकत्र पूर्वत्र पर त्रेत्यादि । तस्मिन् काले तदा । यस्मिन्काले यदा | कस्मिन् काले कदा । एकस्मिन् काले एकदा । एवं-सदा सर्वदा अन्यथा । येन प्रकारेण यया । केन प्रकारेण कथम् । अनेन प्रकारेण इत्थं । सर्वेण प्रकारेण सर्वथा । एवम् अन्यथा इतरथा अपरथा । तस्प्रत्ययान्तानाह-तस्मादितिं । पञ्चम्यर्थे तस् । तस्मादिति लतः । यस्मादिति यतः। कस्मादित्यर्थे कुतः । अस्मात्यर्थे इतः । अतः।

प्रकरणम् ] सरलाटीकाविराजितम् १०७ दज्ञातानिर्धारणार्थकसामान्येऽर्थे चिच्चनौ भवतः । कश्चित् कौचित् केचित् । कश्चन । क्वचन । *तदधीनकात्स्न्ययोी सात् । राजाधीनं राजसात् । सर्वं भस्म करोति इति भस्मसात् । *ऊयुरर्य- शीकरणे* ऊरीकृत्य। उररीकृत्य । *सयादिः काले निपात्यते* एवं ग्रामतः लोकतः सर्वतः ।। सर्वेति । एते आचार्या इत्याहु:-तस्प्रत्ययः सर्वविभक्तिषु भवति । सर्वासां विभक्तीनामर्थे भवतीत्यर्थः । स्वमते तु पञ्चभ्यर्थे एव । कस्मादिति कुतः । पाश्य इति पार्श्वतः । पूर्वस्याभिति पूर्वतः । एवं सर्वतः इत इत्यादयो बसेयाः। पूर्वस्मिन्निति पुरस्तात् । पूर्वस्मिन् काले देशे च पूर्वस्यां दिशि वेत्यर्थः । तथा च कालापके- 'पूर्वशब्दात् दिग्देशकालार्थात्सप्तमीपञ्चमीप्रथमान्तादस्तातिः पूर्वस्य पुर्- निपात: अनद्यतने काले । एवम अधस्तात् अघ इति । एवमुपरिष्टात् उपरि इति । परस्मिन्निति परस्मिन् देशे काले परस्यां दिशि वेति परेण । दक्षिणस्यां दिशि दूरे इति-दक्षिणाहि चाण्डाला वसन्ति । दक्षिणस्या दिशि दूरे वसन्तीत्यर्थः । एवम्----उत्तराहि वसन्ति कौरवाः । उत्तरस्यां दिशि दूरे वसन्तीत्यर्थः ॥ १ तदधीनेति । यद्यस्याधीनमायत्तं तत्तदधीनं । मृत्स्नस्य समग्रस्य भावः कास्य समग्रत्वं, तदधीनं च कायं च तदधीनकान्ये तयोः । तत एतयोरथं नाम्नः पुरतः सात् प्रत्ययो निपाल्यते । राशोऽधीनं राज- सात् । सर्व भस्म भवति इति भस्मसात् । तदधीनकाययोः' इति सात्मत्ययः । सात्प्रत्ययस्य पत्वं नेच्छन्ति । यथा-अग्निसात् । २ 'अयुरर्यङ्गीकरणे'। अङ्गीकरणेऽथे जरी उसी शब्दौ निपात्येते । अरीकृत्य उररीकृत्य । अङ्गीकृत्येत्यर्थः । उरीकृतम् । उररीकृतम् । उररीकरोति । ३ सम इति । आदिकाले अर्थे कालविशेषे सद्यादिर्निपात्यते । सद्यस्तत्कालम् । अग्र- साम्प्रतदिने । सपदि-शीघ्रम् । अधुना इदानीम्-एतौ वर्तमानक्षणार्थे ।

सारस्वतव्याकरणम् - १०८ [अव्यय- सद्यः अद्य सपदि अधुना सम्प्रति साम्प्रतम् आशु शीघ्रं झटिति तूर्ण पूर्वेद्युः अन्येयुः परे: उभयेयुः । यहि तर्हि जोषम् मौनम्-- इत्यादि चादिगणः ॥ १ ॥ प्रोदिरुपसर्गः ।। प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् अक्षिपक्ष्मावच्छिन्नकाल: क्षणः । एवं सम्प्रति साम्प्रतमपि । झटिति शीघ्रम् तूर्णम्--एते त्रय औत्सुक्यार्थाः । पूर्वेद्युरिति गतदिवसार्थवाचकम् । परेद्यर्दिवसान्तरवाचकम् ।। यहि यदा यदि तर्हि तदा कर्हि कदा । आदिशब्दात्-परुत् पगरि एषमः अपरेद्यवि अपरेछु: उत्तरेयु: उभयेयुः इत्यादयो ज्ञेयाः ।। १ प्रादिरिति । 'प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिःप्रतिपर्यपयः । उप आङिति विशतिरेष सखे ! उपसर्गगणः कथित: कविना ।' अर्य प्रादिः आविः पर्यवसानो गण उपसर्गसंज्ञकः । तत्र प्रशब्दः प्रकथि: । 'यथा 'प्रणम्य' 'प्रवादः' । प्रादिकमणि दीर्घ च सामर्थ्य भूदासम्भव । वियोगशुद्धिशक्तीच्छाशान्तिपूजाप्रदर्शने ॥ आदिकर्मणि-प्रारब्धं प्रकृतम् । आयाभे--प्रलम्बः । सामर्थे-प्रभुः । भृशार्थ-प्रतपति । संभव-- प्रभवति । प्रीणने-प्रतुष्यति । गमने-प्रयाति । इच्छायां--प्रार्थयते शान्ती-प्रशान्तः । मुख्य-प्रवरः । अवलोकने-प्रपश्यति । शुद्धौ-- प्रसन्ना आपः । प्रसन्नेन्द्रियः । प्रीतौ-प्रसीदति राजा । पूजा-प्राञ्जलि: प्रहः । तत्परः-पितामहात्परः प्रपितामहः । एवं प्रपौत्रः प्रशिष्य इत्या- धर्थेषु उपसगों ज्ञेयः । परा इति विपरीतार्थे पराजयायें विमुखायें दूरीकरणे च । यया परा- जितः पराभूतः पराकृतः पराङ्मुखः । परावृतः परानामः परामर्शः । अप असत्यार्थविकारवर्जनरतेनकर्षणादौ । यथा-अपकर्षति अपचरति । अपकृतः ।

प्रकरणम् . सरलाटोकाविराजितम् नि अधि अपि अति सु उत् अभि प्रति परि उप अन्तर् अविर् । अयं गण उपसर्गसंज्ञकः ॥ २ ॥ अपहरति । सम्-सम्भवसम्यक्प्रकारादौ। यथा-सम्भवति । मिलने सङ्ग- छति । समवाये-मङ्करः । एवं-सन्धिः सङ्केतः संस्कृत: संशयः संरम्भः संवृतम् । अनु-अनुज्ञापश्चाद्भावसादृश्याभिमुखहीनसामीप्यादीप्सादौ । अनुजानाति अनुवदति अनुगच्छति अनुकरोति अनुहरति । वत्सो मातर- मनुधावति । अन्वर्जुनं योद्धारः । अनुमेघम् । अनुगृहम् ॥ अव-अवज्ञा- लम्त्रज्ञानशुद्धिव्याप्त्यादौ । अवगणयति । अवजानाति । यष्टिमवष्टभ्य तिष्ठति । अवगतोऽर्थः । अवदानम् अवकीर्णः । निर्-निश्चयनिगमनातिशय- निषेधनिर्णयादौ । निर्णयति निर्गतः निरुपमः निष्पन्नः निश्चयः निर्मक्षिकम् । दुरिति दुष्टे दुःखकष्टाद्यर्थे । दुर्जनः। दुष्करम् । वि इति नानार्थवियोगविदीर्ण- वैषम्यवैमनस्यविशेषणाद्यर्थे । विविधं विदारितः विकटः विमनाः विराजते। विशेषणादौ यथा-विशिनष्टि विरूपः विलोमः विस्मितः विष्पन्नः विप्रकृष्टः विमुखः विनयः । आङ इति मर्यादाभिविधीषत्समन्तादाशंसनोपदेशाग. मादौ । यथा---'आसमुद्रक्षितीशानाम्' 'आजन्मशुद्धानाम्' आगञ्छति आरोहति आशास्ते आलभते आलिङ्गति आरभते आदत्ते आसन्नः आशयः। नि-नितरां निक्षेपणादौ। निपीय निहितं निक्षिपति ।। अघि इति अध्ययनाधीनाधिपत्याधिकाधिष्ठानादौ । यथा-अघीते अधिगुण: अधितिष्ठति अपि-आच्छादनादौ । अपिदधाति । यत:---'अपि सम्भावना प्रश्नशङ्का- गर्दासमुच्चये ॥ अति-अतिशयादौ । 'अतिशब्दः प्रशंसायां प्रकषे- लंघनेऽप्यति । यथा अतिरथः अतितसम् अतिक्रामति अतिशेते ।। मु इति प्रशंसनातिशयसुखशोभनशुभादौ । सुकरः ।। उत्-प्राबल्ये ऊर्ध्व- क्रियोत्कर्षादौ । 'उत् प्राबल्ये वियोगे च प्रकाशे चोर्ध्वकर्मणि' । उत्कर्षति । अभि-अभिवादनेच्छारूपेसन्मुखपराभवादो। यथा अभिवदति अभिगच्छ- ति ॥ प्रति-प्रतिष्ठाप्रतिज्ञासादृश्यग्रहणाभिमुख्यसमीपहिंसाप्रतिषेधादो ।

सारस्वतव्याकरम् [ अव्यय- प्राग्धातोः। ३ उपसर्गा धातोः प्राक् प्रयोक्तव्याः ॥ ३॥ तदव्ययम् ।४। तदिदं चादिरूपमव्ययसंगं भवति ।। ४ ।। क्त्वाद्यन्तं च ।। क्त्वा क्यप् तुम् णम् चि डा धा वतु आम् कृत्वस् शस् तस् इत्येतदन्तमव्ययं स्यात् ।। ५ ।। अव्ययाविभक्तलक । ६। अव्ययात्परस्या विभक्तेलृक् भवति न तु शब्दनिर्देशे । अव्ययानाञ्च न लिङ्गादिनियमः । उकं हि-"सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तव्ययम् । उक्तान्यव्ययान्यलिङ्गानि ।। ६ ।। इत्यव्ययानि । यथा प्रतितिष्ठति । परि-सामस्त्यदोषकथालिङ्गनपरिभवादौ। परिभवति । उप-इति समीपव्यातोपरमप्रतिक्रियाध्ययनपुष्टयादौ । उपतिष्ठते ।। श्रत्- श्रद्धायामास्तिक्यबुद्धौ च । अन्तर्मध्ये । आविः-प्राकटये । आविः करोति । अयं प्रादिर्गण उपसर्गसंज्ञकः । एतेऽपि बाधकानुवर्तकविशेषनिरर्थ- कभेदाच्चतुर्धा । यत:- 'धात्वर्थ बाधते कश्चित्कश्चित्तमनुवर्तते । तमेव विशिनष्ट यन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ बाधते यथा-पराजयते । 'उपसर्गेण धात्वर्थः' इति वचनात् ।। तं धात्वर्थमनुवर्तते । यथा-विजयते ।। विशिनष्टि-विशेषयति । यथा--प्रभव- ति | निरर्थकस्तु अशोममानार्थकः । यथा-प्रलोकते ।। - प्रकरणम् सरलाटीकाविराजितम् ... अथ स्त्रीप्रत्ययाः। अधुना लिङ्गविशेषविजिज्ञापयिषया स्त्रीप्रत्ययाः प्रस्तूयन्ते । आवतः स्त्रियाम् । १। अकारान्तान्नाम्नः स्त्रियां वर्तमानादाप्प्रत्ययो भवति। जाया माया मधा श्रद्धा धारेत्यादि । *अंजादेचाप वक्तव्या । अजा एडका कोकिला बाला वत्सा शूद्रा गणिका ॥ १ ॥ १ लिङ्गेषु स्त्रीपुंसनपुंसकेषु विशेषस्यस्त्रीलिङ्गस्य । विशेषणेन ज्ञापयितुमिच्छया स्च्यधिकारविहिताः प्रत्ययाः स्त्रीप्रत्ययाः। यद शेन लोके 'स्त्रीय' मिति प्रत्ययः स धर्मः स्त्रीत्वम् । स च योवादिवत्सामान्यविशेष: स्तनकेशाद्यभिव्यङ्गथः । तदुक्तम् । स्तनकेशादिसम्बन्धो विशिष्टा वा स्तनादयः । तदुपव्यञ्जना जातिगुणावस्था गुणास्तथा ॥ शब्दोपजनितोऽर्थात्मा शब्दसस्कार इत्यपि । लिङ्गानां लिङ्गतत्त्व विकल्पाः सप्त दर्शिताः ॥' इति । तथा 'इयमयमिद'मिति येषु व्यपदेशो दृश्यते लोके । स्त्रीपुनपुंसकानि प्रोच्यन्ते तानि लोकेन ॥ गोत्वाश्चत्वाश्रयैर्यद्वसामान्यमुपलक्ष्यते। त्र्यसकैरनुवृत्तत्वात्स्त्रीत्वं पुंस्त्वादिकं तथा । ततो व्यञ्जकवैचित्र्याधनात्र स्त्रीत्वमेव हि । व्यज्यते न तु पुंस्त्वादिः सोऽर्थः स्त्रीत्यभिधीयते॥"इत्यादि। १ अजादेरिति । जातेरयोपधादित्यादिविशेषविधानादीपि प्राप्ते बाला वत्सा कन्यकेस्यादौ च प्रथमवयोवाचिवादीपि प्राते वचनम् ।

११२ सारवतव्याकरणम् [घड् लिङ्ग- काप्यतः । २। कापि परे पूर्वस्याकारस्य इकारो भवति । कारिका पाठिका कालिका तालिका । वष्टि भागरिरल्लोपमवाप्योरुपसर्गयोः । आपञ्चैव हसान्तानां यथा वाचा निशा दिशा ॥१॥ अवगाहः वगाहः । अपिधानं पिधानम् ॥ २ ॥ ह्रस्वो वा । ३। स्त्रियां कोपि परे तकारादौ च पूर्वस्य ह्रस्वो वा भवति । वेणिका वेणीका । नदिका नदीका । श्रेयसितरा श्रेयसीतरा । श्रेयसितमा श्रेयसीतमा । नौकादौ ह्रस्वो न भवति । वाग्रहणादियं विवक्षा । निश्चयेन पतन्त्यनेकेष्वर्थेष्विति व्युत्पत्तनिपातानामनेका- र्थत्वात् ॥ ३ ॥ १ कापीति । ककारेणाव्यवहित आप काप, तस्मिन् कापि । ततश्च बहवः परिबाजका यस्यां सा बहुपरिव्राजकेत्यत्राप: स्यादिपरत्वेन तेन ब्यव- धागाच्च । आप्प्रत्यये साहचर्याककारी-पि प्रत्ययसम्बन्थ्येव बोध्यः । एवं च शक्नोतीति शक्लृशक्ता वित्यादेः पचाद्यचि आप्प्रत्यये च 'शके' त्यादौ न । 'हत्वो वे'त्यतो वाऽनुकर्षणान्ममेयं मामिकेत्यत्रेतदर्थे ममकादेशे आपि च प्रत्ययकारामावेऽपि मवति । तथा नरान्कायति शब्दायते नरिकेत्यत्रापि । २ कापीति । 'पूर्वतः तरादा विति वाशब्दव्यवस्थयोक्तम् । ते च तरतमरूपकम्पादयः । बहुव्रीही कप्रत्यये वा । सुसोमपाकः-सुसोमपकः । नौका। रैका । ग्लौकेत्यादौ च नावि द्वयक्षरेत्यादौ पुंवद्भावोऽपीत्यादि वाशब्दादवसेयम् । वाशब्दस्य विकल्यार्थत्वेऽपि निपातसंज्ञा बदर्थवाद- नेकार्थत्वमित्याहुः ।

. - प्रकरणम् ] सरलाटीका विराजितम् व्रण ईप । ४। नकारान्ताहकारान्तादण्णन्ताच्च स्त्रियामीप् प्रत्ययो भवति । दण्डिनी, दन्तिनी, करिणी, मालिनी। * ईपि राज्ञोल्लोपो वक्तव्यः * । राज्ञी, शुनी, की, ही, औषगवी ॥ ४ ॥ यस्य लोपः।४। इश्च अश्च यस्तस्य लोपो भवति खरे यकारे च परे ॥ ५ ॥ नितः । ६। पकारटकारउकाऋकारानुबन्धात् स्त्रियामीप् प्रत्ययो भवति । प्-वराकी । ट्-कुरुचरी । उ-गोमती ॥ ६ ॥ व्रणः १ व्रण इति । न च ट च अण च एतेषां समाहार. व्रग , नस्मात् । अत्र 'नो चे'त्यता मण्डूकालुर । नुवृत्तेः स्वस्त्रादिभ्य. संख्यावा- चीकारान्तेभ्यश्च न । 'आवत: स्त्रिया'मित्यत्रालिन एवानुवृत्तः । पञ्च- स्त्रिय' इत्यादौ नलोपे कामतत्वेनापि प्राप्त नि नकारान्तसङ्ख्यावाचिवा- न्नेत्यादि व्यवस्थापनीयम् । ईपि राज्ञ इति । राज्ञाति राजन्ाब्दस्य नान्तस्य वकारमकारान्तसं योगादुत्तरस्य चेत्यर्थी विवक्षित: । द्विदाम्नी भूरिदाम्नीत्यादिसिद्धिः ।। २ औपगवीत्यत्राकारलेोपार्थमाह- यस्येति । इश्च अश्व यं, "णितो वे'- त्यतो वा नुवृत्त्या स्त्रीप्रर यसमासान्ततद्धितप्रत्ययसम्बन्धियकारस्वरेप्वेव, न विभक्त्यादिस्वरे । अता वायुः दध्यनेत्यादान -सङ्ग इति व्यवस्था। नितः । धू च ट च उश्च आ च वृ, तदित् यस्य तस्मात् । अत्रापि पूर्ववद्वानुवृत्ते- ११४ सारस्वतव्याकरणम् -- [स्त्रीप्रत्यय-- अध्ययोरान्नित्यम् । ७। अप्प्रत्यययप्रत्ययसम्बन्धिनोऽवर्णात् परस्य शतुर्नित्यं नुम् इकारे इपि च परे । ऋ-पचन्ती पठन्ती इत्यादि ॥ ७ ॥ नदादेः । ८। नदादेर्गणान् स्त्रियामाप् प्रत्ययो भवति । नदी। गौरी । गौतमी ॥ ८॥ इन्द्रादेरानीप् । ९। इन्द्रादेर्गणादानीप् प्रत्ययो भवति । इन्द्राणी । भवानी शर्वाणी ॥९॥ ईए समाहारे गुणश्च । १० । समाहारार्थ ईम् प्रत्ययो भवति गुणश्च । त्रयी। पञ्चकुली ॥१०॥ पुंयोगे च । ११ । अकारान्तात् घुयोगे इम्प्रत्ययो भवति । शूद्रस्य स्त्री शूद्री । गणकी ॥ ११ ॥ जातेश्योपधात् । १२ । जातिवोचिनोऽयकारोपधादकारान्तात् स्त्रियामीप् प्रत्ययो भवति । मेषी । सूकरी । हंसी । कुक्कुटी। ब्राह्मणी । अयकारो- स्त्रपूप लजायामित्यादेः पचाद्यचित्रपे'त्यादी वित्त्वे.पि न । 'रतनन्धी'त्यत्र घटस्तु स्यादित्यादि व्यवस्थापनीयम् ।। १ जातिवाचिन इति। जातिलक्षणं चोक्तम्-"आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्माह्या गोत्रं च चरणःसह ।। इति । गृह्यतेऽनेनेति ग्रहणम् । आकृतिः -संस्थानं ग्रहणं ग्राहकं यस्याः प्रकरणम् ] सरलाटीका विराजितन. पधादिति किम् । क्षत्रिया । वैश्या । प्रथमवयोवाचिनोत्र ईपू वक्तव्यः । कुमारी । किशोरी । कलभी । प्रथमग्रहणात् वृद्धा, स्थविरा इत्यादौ न ईम् । । अद्ग्रहणात् शिशुरित्यत्रापि न १२ सा अवयव विशेषव्यायेत्यर्थः । एतेन गोवादिजातिरक्ता । ब्राह्मणायाकृते: क्षत्रियादिपु सम्भवात्तत्सङ्ग्रहायाह-लिङ्गानां चति । या सर्वलिङ्गानि न भजतीत्यर्थः । ब्राह्मण: ब्राह्मणीत्यादेखि लिङ्गत्वात् । एतच्चाधिकसङ्ग्रहार्थ- मिति । तटादेः सर्वलिङ्गत्वे नि पूर्वणैवाऽत्य जातित्वम् । देवदत्तादेरसर्वलि- ङ्गत्वेनातिव्यासावाह--सकृदाख्यातेति । सकृदुपदेशनिश्चयेत्यर्थः । एतेन निश्चयत्वमेकत्वं प्रत्येकारिसमातत्वं चोक्तम् । ततश्चैकस्मिन् पिण्डे उपदिष्टा तस्मिन्नष्टे ऽपि पिण्डान्तरे उपलम्भात् । देवदचादेश्व संज्ञाशब्दत्वेना.तथा- भावान्नातिव्याप्तिरिति भावः । नन्वेवमपत्यप्रत्ययान्तस्य सर्वलिङ्गे प्याकृति- ग्रहणाऽभावादव्याप्तिः स्यादत आह गोत्रं च चरणैः सहेति । 'गोत्र'- मिति पूर्वाचार्याणामपत्यसंज्ञा । चरणानां वेदशाखाध्ययनक्रियासम्बन्धात् क्रियाशब्दानां जातित्वार्थमुक्तिः । अत्र जातेरिति योगविभागात् गवयय - मुकयमत्स्यमनुष्येभ्यो योपधेभ्यो निषेधो न । गवयोत्यादि । 'नो वे'त्यतो मण्डूकप्लुत्या वानुवृत्तेमक्षिका बलाकेत्यादौ स्त्रीमात्रविषयत्वाजातिवाचिनो न।। १ प्रथमवयोवाचिन इति। कालकृता शरीरावस्था यौवनादि- वयः । तत्र यद्यपि केचित्कौमारयौवनमध्यत्ववृद्धत्वानि चत्वार्याहुः । अन्ये तु कौमारयौवनस्थाविरत्वानि त्रीणीच्छन्ति । अपरे "आषोडशाद्भवेद्बालो यावत्क्षीरानवर्तकः मध्यमः सप्ततिर्यावत्यरतो वृद्ध उच्यते ।।" इत्य- न्यथा त्रीण्याहुः । तथापि यावत्यो वृद्धि मत्यो ऽवस्थास्ताः सर्वा एकीकृत्य प्रथमं वयः । याश्चापचयवत्यस्ता राशीकृत्य द्वितायमिति । द्विवयःपक्षा- ऽनाभिप्रेतः । स चोक्तः । "वर्द्धतां यावदनेन वर्धित य पश्चादपायेन युज्य- ताम् ।" इति । एतदेवाभिप्रेत्याह ----वृद्धति ।

सारस्वतव्याकरणम् [स्त्रीप्रत्यय- - स्वाङ्गाहा । १३ । स्वाङ्गवाचिनो वा स्त्रियामीप् प्रत्ययो भवति । सुमुखी । मृगाक्षी । तन्वङ्गी । वाग्रहणात् पद्मवदना, कमलनयना इत्यादौ ईप् न भवति । कृदिकारादक्तेरी वा वक्तव्याः । अङ्गुलिः अङ्गुली । धूलिः धूली । आजिः आजी । अक्वेरिति विशेषणात् कृतिः भूतिरित्यादौ न ॥ १३ ॥ १ स्वाङ्गादिति । स्वागस्वरूपं चोक्तम्-"अहवं मूर्तिमत्स्वाझं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथा युतम् ।।" इति । शरीराभ्यन्तरचारी वायु: प्राणः, सो-स्यास्तीति प्राणी । तत्र तिटतीति प्राणिस्थं-तस्वाङ्गम् । एवं स्वेदस्यापि प्राणिस्थत्वात्स्वाङ्गता स्यात्त- आह - अदवमिति ! तस्य तु द्रवत्वान्न । एवमपि ज्ञानस्य प्राणिस्थत्वाद- द्रवत्याच स्वागता स्यादत आह-मूर्तिमदिति । असर्वगतद्रव्यपरिमाणं काटिन्यादि वर्गविशेषो वा मूर्तिर्यस्यास्तीति मूर्तिमत् । ज्ञानस्यात्मगुणत्वेन परिमाणलक्षणस्य गुणस्पर्शलक्षस्य वा तत्रानङ्गाकारादमूर्तिमत्वं ज्ञानस्ये- त्यर्थः । एवमपि शोफादेश्वोक्तलक्षणवत्स्वाङ्गता स्यादत आह-अविकार- जमिति । विकारो वातादिवैषम्यं ततो न जातम् । शोफादिस्तु विकारजः । रथ्यादितितकेशादेः स्वाङ्गतासङ्ग्रहार्थमाह-अतत्स्थं तत्र दृष्ट चेति । तत्र प्राणिनि न दृष्टम् । अन्यदा तत्राऽवर्तमानमति स्वाङ्गम् । एवमपि- प्रतिमाद्यवयवानां मुखादीनां प्राणिस्थेनाऽविशेषादिना सम्बन्धः । तथा यद्य- त्याणिनायि सम्बद्ध स्यात्तदपि तथेत्यर्थ: । प्राणिमुखादिसदृशमपाणिमुखा- अपि स्वाङ्गमिति भावः । उदाहरणं तु सुकेशी-सुकेशा वा रथ्या। सुस्तनी-- सुस्तना वा प्रतिमा । प्रत्युदाहरणं तु क्रमेण सुमुखा शाला । बहुस्वेदा । सुज्ञाना । सुशोफेत्यादि ।कृदिकारादिति। अक्तरित्यत्र क्तिशब्देन क्त्यर्थों गृह्यते । अक्त्यर्थादित्यर्थः । ततश्च अकरणिः । अहरणिरित्यादौ न ।

प्रकरणम् ] सरलाटीका विराजितम् ऐ च मन्वादेः । १४ मन्वादेर्गणात् स्त्रियामीप् प्रत्ययो भवति ऐकारादेशश्च । मनायी। वृषाकपायी । चकारात् "मनोरौ वा' । मनावी मनुः॥१४॥ पत्न्यादयः । १५ । पत्न्यादय ईष्प्रयान्ता निपात्यन्ते । *समानकवीरपिण्ड- पुत्रनातृदासेभ्यो बहुवीही पत्यु देश इए च । सपनी। एक पत्नी । वीरपत्नी। पिण्डपत्नीत्यादि । अन्तर्वनी । सखी । अशिश्वी । अर्धजरती। युवती । प्राची। प्रतीची। उदीची । समीची । दारशब्दो नित्यं बहुवचनान्तः पुंल्लिङ्गः । दाराः । हे दाराः । दारान् । दौरैः । दोरेभ्यः २ । दाराणाम् । दारेषु ।।१५।। १ पत्न्यादय इति । 'स्वाङ्गाद्वे'त्यतो वानुवृत्तेर्व्यवस्थितविभाषा- श्रयणात् क्वचिदर्थविशेषे क्वचिच वेति व्यवस्थापनाया यम् । तत्र पत्नीति यज्ञसंयोग एव । अन्यत्र गवां पतिः स्त्री वृपलपत्नीत्युपमानात् । विद्यमान- पूर्वस्य तु वा । दृढपत्नी-दृढपतिः । सपल्यादिषु नित्यम्-सपत्नी । एक. पत्नी । अन्तर्वत्नी गर्भयोगे एव । अन्यत्राऽन्तर्वती शाला। तथा भर्तृयागे- पतिपत्नी । अन्यत्र पतिमती नगरी । तथा-सखी सवयस्था, सख्युर्भार्यापि । न शिशुर्यस्याः सा अशिश्वी । अर्द्धजरती । युवती । प्राची । मत्ती । मानुषी । सूरी । अगस्ती । असितपलितयोरसिकी । पलिक्नी । एता- एनी । जानपदी । कुण्डी अमत्रं चेत् । कुण्डा अन्या । गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलान्या । भाजी पक्या चेत् । भाजा-न्या । नागी स्थूला चेत् । नागाऽन्या । काली वी चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीला-न्या । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छावती चेत् । कामुका अन्या । कबरी केशवे. ।

११८ सारस्वतव्याकरणम् [स्त्रीप्रत्यय- बोर्गुणात् । १६। ऊकारान्ताद् गुणवाचिनो वा स्त्रियामी प्रत्ययो भवति । पदवी पटुः । मृद्वी मृदुः । तन्वी तनुः । ऋज्वी ऋजुः ।। १६ ।। उत ऊः । १७ । उकारान्तान्मनुष्यजातेः स्त्रियामप्रत्ययो वा भवति । पशः पङ्गुः । बामोरूः वामोरुः ॥ १७ ।। युनस्तिः । १८। 'धौ' युवतिः । एभ्यो नामत्वात् स्यादयः । आबन्ताद् 'आप' इति ईबन्तात् हसे .प से.पः' इति सिलोपः । ईबन्तात् हसे पः सर्लोपः' । पूर्ववत प्रक्रिया ।। १८ ।। इति स्त्रीप्रत्ययाः। युवन्शब्दात् स्त्रियां तिप्रत्ययो भवति । 'नाम्नो नो लोप- शश्चेत् । कचराया । ओषयों प्राणिनि च नीली । संज्ञायां वा । नीली- नीला । शोणा-शाणेत्यादयो विहितलक्षणा: पल्यादौ द्रष्टव्याः ।। १ वौरिति । वा-ओ:-चौः । गुणगब्देन मतुप उपादानादभेदो- पचाराद्वागुणवद्वानको गृह्यते । वाशब्देन व्यवस्थैव । स्वरुसयागापधान्न । खरुः पर्तिवरा कन्या । पाण्डुः । गुण-रक्षणं चोक्तम्-'सावे निविशतेपैति पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्च सोऽसत्वप्रकृतिगुणः ।" इति । सत्त्वं द्रव्यम् । उत इति । अत्रापि पूर्वतो वाऽनुवृत्त्यैव,-धेनु: रज्जुरित्यादौ न । यद्यपि हवोकार विधाने पि दीधेकादेशादीर्घश्रवणमुपपद्यते तथापि दीर्घ- विधानसामर्थ्यात्-ब्रह्मबन्धः । जीवबन्धरित्यादौ समासान्तकप्रत्ययाऽभा- वार्थमित्यनुसन्धेयम् ॥ ३ युनस्तिरिति । युवनशब्दात्तिप्रत्ययो भवति । ईपोऽपवादः । नलोपः । युवतिः ।। इति स्त्रीप्रत्ययाः।

प्रकरणम् ] सरलाटीकाविराजितम् अर्थ विभक्त्यों निरूप्यन्ते । लिङ्गार्थे प्रथमा । १। धातुप्रत्ययातिरिक्तमर्थवच्छब्दरूपं लिङ्गम्, तस्यैवार्थ सन्मात्र प्रथमा विभक्तिर्भवति । लिङ्गादयोऽपि प्रथमार्था इति केचित् । आदिशब्दात् लिङ्गवचनपरिमाणमात्रेऽपि प्रथमा । तत्सब्रह्म । १ लिङ्गविशेष प्रतिपादकपत्ययान्निरूप्य पूर्वोक्तस्यादिप्रत्ययनियामकप्रक- रणमवसरसङ्गत्या प्रारिप्सुः प्रतिजानीते-अथेति। विभक्तीनां द्योत्यो वाच्यो वा.थी: विभक्त्यर्थः । स च प्रातिपदिकार्थक्षे छ त्यस्त्रिकपक्षे वाच्यः । येषु येध्वर्थेषु या या विमक्तयो भवन्ति ते विमाल्यथी उच्यन्ते इति वः । एकवचनं जात्यभिप्रायेण । तत्र प्रथमोद्दिष्टप्रथमार्थमाह-लिङ्गार्थ इति । धातुविभक्तिवर्जमर्थवल्लिङ्गमिति कोशादिषु लिङ्गशब्देन नामाभिधानान्नाम- लक्षणेनैव लिङ्गलक्षणमाह-धातुप्रत्ययवर्जमित्यादि। प्रत्ययशब्देनात्र प्रत्ययविशेषा विभक्तिरूपो लक्ष्यते । नामलक्षणे लिङ्गलक्षणे च विभक्तिवर्ज- नत्वाभिधानात् । धातुवर्जमिति तु सम्भवदभिप्राय । विचारविशेषश्च नाम- लक्षणोक्तोऽवसेयः । सन्मात्र इति । शब्दप्रवृत्त्युपलक्षणम् । यत्रार्थान्तरा- नपेक्षया शब्दप्रवृत्तिः स सर्वो पि लिङ्गमित्यधः । पुंस्त्रीनपुंसकलिङ्गादि तु तत्र नान्तरीयकत्वाल्लिनाथ एवाभिहितकारकार्थः प्रातिपदिकार्थ: संपद्यत इति । तत्रापि लिङ्गाथे प्रथमा । लिङ्गार्थस्य सर्वत्रानुस्यूतत्वे रि तत्र तत्र कर्मार्थविशेषविवक्षायां द्वितीयादिविशेषविधानात्सामान्यविहितप्रथमाया बाधान्नातिप्रसङ्गः ।। लिङ्गादयोऽिित। केचित्-पाणिनीयाः । लिङ्गं स्त्रीपुन्नपुंसक- शब्दवाच्यम् । क्रमादपचयोपचयसाम्येध्विति रूपो बस्तुधर्मः । परिमाणं-खारी द्रोण आढकमित्यादि शब्दवाच्यम् । परितः सर्वतो मानं दारुलोहादिमयं पात्रम् | उन्मानं प्रमाणवचनं एकत्वद्वित्वबहुत्वानि । एते प्रथमाया अर्थाः । एवर्थेष्वपि प्रथमा भवतीत्यर्थः । उदाहरति - १२० सारस्वतव्याकरणम् ... ... ४. [विभक्तयर्थ- 'रविरिव राजले राजा समाकुमाी रोख्यते । घो. ज्यते शुवं भूपालः प्रागानां रामलक्ष्मणौ ॥१॥ प्रथमान्तो यद, कर्ता कर्मणि द्वितीया तदा । घदा की तृत यान्त कर्माण प्रथमा तदा ।। २ । मन सि बसि काये पुण्यपीयूषपूर्णा- निः वनमुपकारश्रेणिमा प्रीणयन्तः । परतुणपरमाणून् पर्वतीचन्य नित्यं निजहद विकसन्तः सलिलन्तःकियन्तः ॥३॥ कुमाराः शेरते स्वैरं रारूपन्त च नारकाः । जेगीयन्ते च गीतहा ममियन्त रुजार्दिताः' । ४ ॥ आमन्त्रणे च ।। आमन्त्रणमभिमुखीकरणम् , तपन्न प्रथमा विभक्तिर्भवति । "मां समुदर गोन्द प्रसी . परमेश्वर । कुमारौ स्वैरमासाथां क्षमवं भो तपस्विनः " २ ॥ भोलः ।। भोस् भगोस् अधोस् एते शब्दा निपात्यन्ते विश्ििवषये । "क्षमस्व मो दुराध्य भगौस्तुभ्यं नमः सदा । अधीष्व भो महाप्राज्ञ घातयाऽघोः स्वघस्मरम् ॥३॥ इति प्रथमा तदित्यादि। ५ भगो इति । भगास्तुभ्यं नमो स्तु ते इत्यत्र 'अस्तुते' इति च्छेदः । न स्तौतीत्यस्तुत् , तस्मै अस्तुते । परस्य स्तव्यस्या-मावाद विद्यमानस्तव्या येत्यर्थः । अथवा-- असद्गुणारोपणं गुणवत्तया ज्ञापनं बा स्तुतिः । तत्र --------- .

प्रकरणम् ] सरलाटीकाविसजितम् १२१ शक्षा कार्य। ४। कतमाधनयोर्दानपात्र विश्लेषावधौ सम्बन्धाऽऽधारभावयोः शेषा विभक्तयो द्वितीयाद्या एप्वर्थेषु भवन्ति . ( कार्य कर्मकारके उत्पाद्य आप्ये लहकार्य विकाच द्वितीया विभक्तियति)। "का कर्म च करणं सम्प्रदान तथैव च । अपानानाधिकरणमित्याहः कारकाणि घट् ॥ १ ॥ कटं करोति कारको रूपं पश्यति चानुषः । भगवद्गुणानामनन्तत्वात्तेपामज्ञानातहिशिष्ट वचनाऽसम्भवादविद्यमाना स्तु- तिर्यस्य तत्संबोधनं हे अस्तुत् ! स्तुतावसामर्थ्याल्केवलं तुभ्यं नम इत्यर्थः । यद्वा-"अः केशवे विरिञ्चे च" इत्यभिधानात् एन ब्रह्मणा स्तुतिर्यस्य स तथा । सर्वसेव्यविरिञ्चिस्तव्य इत्यथः । हे अधो--- अघवन् । स्त्रस्य घस्मरं-नाशकं पा घातयेत्यर्थः ।। १ उत्पाद्य इत्यादि । तत्र यदसजायते तदुत्पाद्यम् । यत्र चोत्याद्य- विकार्यसम्बन्धिनो विशेषाः प्रत्यक्षेणानुमानेन वा न प्रतीयन्ते केवलं प्राप्यते तदाप्यम् । गुणान्तराधानेन व्यपदेशान्तरनिमित्तं संस्कार्यम् । प्रकृत्युच्छेदे- नावस्थान्तरत्वमापाद्यं विकार्यम् । प्रकृ.त्यनुच्छेदतदुच्छेदाभ्यां संस्कार्य- विकार्ययोर्भेदो न वास्तवः । अत एव त्रैविध्यमुक्तं भर्तृहरिणा- "निर्वत्यै च विकार्य च प्राप्यं चेति त्रिधा मतम् । तप्सिततमं कर्म चतुर्द्धाऽन्यत्तु कल्पितम् ॥ तथा सजायते पूर्वजन्मना यत्प्रकाशते । तन्निर्वयं विकार्य व कर्म द्वेधा व्यवस्थिनम् ॥ प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्टादिभस्मवत् । किंचिहणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥

सारस्वतच्याकरणम् [विभक्त पर्थ- राज्यं प्राप्नोति धर्मिष्ठः सोनं सुनोति सोमपाः ॥ २ ॥ अभिसर्वतसोः कार्या घिनुपर्यादिषु त्रिषु । द्वितीयाऽऽनेडिनान्तेषु ततोऽन्यत्रापि दृश्यते ॥ ३॥" अमितो ग्राम नदी वहति । सर्वतो ग्राम वनानि सन्ति । धिग्देवदत्तम् । उपर्युपरि ग्राम मेघाः पतन्ति । अघोऽधो ग्राम शलभाः पतन्ति । अध्यधि ग्रामं मृगाश्चरन्ति । समया- निकषा-हा-प्रति-योगेऽपि* । समया प्रामम् । निकपा ग्रामम् । अनु ग्रामम् । प्रति ग्रामम् ॥४॥ कालाध्वनोनरन्तयेऽपि । ५ । कालाध्वनोनरन्तर्ये द्वितीया विभक्तिभवति । मासधीते । क्रोश पर्वतः । नैरन्तर्याभावे-मासस्य बिरधीते । क्रोशस्यैकदेशे पर्वतः ॥ ५॥ इति द्वितीया ॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥" अनीप्सितं च द्विधोक्तम्--- "औदासीन्येन यत्प्राप्ये यद्यत्कर्तुरनीप्सितम् । संशान्तरैरनाख्यातं यद्यश्चाप्यन्यपूर्वकम् ॥' इति । संज्ञान्तरैरनाख्यातम्-~-अपादानादिकारकविशेधैरकथितमित्यर्थः । अन्यपूर्वकम् - "दिवः कर्म च" इत्यादिलक्षणम् । तदेवं सप्तविध कर्म । १ कालावनोरिति । कालाध्वार्थनैरन्तये अत्यन्तसंयोगेऽर्थे द्वितीयेत्यर्थः । नरन्तये किम् ? । मासस्य द्विरधीते । कोशस्यैकदेशे पर्वतः -- ।

ग्रकरणम् ] सरलाटोकाविराजितम् कतरि प्रयाने क्रियाश्रये साधके च।६। क्रियासिद्धयुपकारक करणेथे च तृतीया विभक्तिभवति । "भिन्नः शरेण रामण राधणी लोकरावणः । कराग्रेण विदीर्णोऽपि वानरयुयते पुनः" ॥१॥ इति तृतीया । दानपात्रे चतुओं । ७॥ दानपात्रे सम्प्रदानकारके चतुर्थी वति । सम्यक्श्रेयोबुद्रया १ 'कर्तृसाधनयोः' इति पदं व्याचष्टे -- कर्तरीत्यादि । तत्र तावत्कत । द्विविधः-स्वतन्त्रः प्रयोजकश्च । स्वतन्त्रोऽभिहितानभिहितभेदात द्विविधः । प्रयोजको .पि प्रेपको ध्येधक आनुकूल्यभागी चेति त्रिविधः । तत्र प्रभुत्वेन प्रयोजयन्प्रेषकः । यथा-शिष्येण कारयति । हीनः प्रयोजयन्नध्येषकः । यथा-गुरुं भोजयति । यस्तु प्रभुत्वहीनत्वा मावेनानुकूल्यमात्रेण योजयति स आनुकूल्यभागी । यथा-आनन्दयति पितरं सत्पुत्रः । एवं पञ्चविधः कर्ता । तत्राभिहिते प्रथमा भिधानादनभिहित कर्तरि तृतीया । तत्र कर्तृ- लक्षणमाह-प्रधाने क्रियाश्रय इति । क्रियाश्रयः कतॆत्युक्त कर्मादीना- मधि तथात्वादलिप्रसङ्ग स्यादत उक्त-प्रधान इति । प्रधानत्वं चेतरकारका- ऽप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वम् । यथा 'देवदत्तः काष्ठः स्थाल्यामोदनं पचति । एतच देवदत्त आस्ते शेते इत्यादौ तत्प्रयोज्यमानां कर्मादीनाम- भावादव्याप्तमिति धातूक्तक्रियात्वं प्रधानत्वमबसेयम् । यदीयो व्यापारो धातुनोच्यते स कर्तेत्यर्थः । इति प्रसादकृतः । २ दानपात्र इत्येतद्वयाख्यां कुरुते-सम्पदानकारके इति । दानं नाम पूजानुग्रहकामनया स्वस्वत्वपरित्यागेन परस्यत्वायादानं तस्य पात्रम् । न विद्यया केवलया तपसा वापि पात्रता। यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रवक्षते ।।

१२४ सारत्यतव्याकरणम् [विभक्तयर्थ- यत् प्रदीयते तत् सम्प्रदानम् । ददाति दण्ड पुगो महीपतेर्न चातिभक्त्या न च दानकाम्यया यद् दीयले वासनया सुपाने लत्संघदानं कथितं मुनीन्द्रः॥१॥ वेद विदे गां ददाति । अन्यत्र-राज्ञो दण्डं ददाति । रजकस्य वस्त्रं ददाति ॥ ७॥ इति चतुर्थी । विश्लेषाऽवधौ पञ्चमी । ८ । विश्लेषो विभागस्तत्र योऽवधिश्चन्टतयाऽचलतया या विवक्षित- स्तत्रापादाने पञ्चमी । धावतोश्वादपतत् । भूभृतोऽवतरति गङ्गा ॥८॥ इति पञ्चमी। इत्याद्युक्तं तत्सम्प्रदानकारकमित्यर्थः । तथा चोक्तम्- "सम्प्रदानं तदैव स्यात्पूजानुग्रहकाम्यया । दीयमानन संयोगात्स्वामित्वं लभते यदि ॥” इति । तञ्च त्रिविधम्-अनिराकर्तृ प्रेरकम् अनुमन्तृ चेति । तत्राऽनिराकर्तृ- यथा--आदित्याया ददाति । प्रेरकम्-विप्राय गां ददाति । मां गां देहीति प्रेरितो ददातीत्यर्थः । अनुमन्तृ-गुरवे गां ददाति । गुरुर्हि न प्रार्थयते दीयमानां च तामनुमन्यते भद्रं कृतमिति । तदुक्तं भर्तृहरिणा- "अनिराकरणाकर्तुराद्यं यत्कर्मणसितम् । प्रेरणानुमतिभ्यां च लभते सम्प्रदानताम् ॥” इति । १ विश्लेपो विभाग इति । अपादानं च द्विविधम् - "अपाये यदुदासीनं चलं वा यदि वाऽचलम्। धुवमेव तदावेशातदपादानमुच्यते ॥” इति । तच त्रिविधोक्तम्--- निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा । अपेक्षितक्रियाकं च त्रिधाआदानमुच्यते ॥ इति । - प्रकरणम्] सरलाटीकाविरात्रिनम् सम्बन्धे षष्टी ॥१॥ सम्बन्धिनोर्मध्ये योऽप्रधानस्तत्र षष्ठी। भेधकभेदकयोः श्लिष्टः सम्बन्धोऽन्योन्यत्रुच्यते । द्विष्ठो यपि सम्बन्धः षष्ट्युत्पत्तिस्तु भेदात् ॥ १ ॥ भेद्यं विशेष्यमित्याहु दकं च विशेषणम् । प्रधानं च विशेष्यं स्यादप्रधान विशेषणम् ॥२।।' क्रियातः परस्परापेक्षारूपः सम्बन्धः । ''राज्ञः स पुरुषो ज्ञयः पित्रोरेनत् प्रपूजनम् । गुरूणां वचनं पथ्यं कवीनां रसबछचः ॥३॥" ॥९॥ इति पष्ठी। यत्र साक्षादपायभून क्रिया निर्दिश्यतं तदाद्यम्। यथा--ग्रामादायाती- त्यादि । यत्र धात्वन्तगथर्ग स्वार्थमाह तदद्वितीयम् । यथा--- बलाहकात् विद्योतते विद्युत् । बलाहकात् निमृत्य विद्योतत इत्यर्थः । प्रमाणान्तरप्रतीत- क्रियाकं तृतीयम् । यथा 'गच्छन्तं पश्यन्नाह-~~कस्मारव'मिति । १ सम्बन्धे पष्ठीति । सम्बन्धश्च स्वस्वामिभावावयवावयवि- भावादिभेदादनन्त: कारकेभ्यश्चान्यः । नियासम्बन्धाभावात् । तदुक्तम्-- "सम्बन्ध कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुनाशं च क्रियायां सोऽभिधीयत ।।'' इति । तत्र श्रुतायां यथा--न माषाणामन्नीयात् । अश्रुतायां यथा- मज्ञः पुरुष इति । तत्र नद्यपि सम्बन्धस्योभयाश्रितत्वादुभयोरपि पर्यायण वा पष्ठी प्राप्ता तथाप्यप्रधानादेव विशेषणादेव । तदुक्तम्- "पराणे स्वार्थनिःक्षपादप्रधान विशेषणम् । विशेष्यं तत्प्रधानं स्यात्स्वार्थस्यैव प्रकाशनात् ।। भेद्यभेदकयोः ग्लिष्टिः सम्वन्धोऽन्योन्यमुच्यते । द्विष्ठो यद्यपि सम्बन्धः पष्ठयुत्पत्तिस्तु भेदकात् ॥' इति ।

सारस्वतव्याकरणम् [विभक्त यर्थी- आधारे सप्तमी । १०। आधारोऽधिकरणम् । तत् षड्विधम् । औपश्लेषिकम् १, सामीप्यकम् २, अभिव्यापकम् ३, वैषयिकम् ४, नैमित्तिकम् ५, औपचारिकं ६ चेति । "कटे शते कुमारोऽसौ वडे गावः सुशेरते । तिलघु विद्या तेलं दि ब्रह्मामृतं परम् । १ । युद्धे सन्नह्यते धीरोऽङ्गुल्यो करिणां शतम्" ॥१०॥ भाव नतमी। ११ । प्रसिद्ध क्रियया प्रसिद्रक्रियाया लक्षणं बोधनं भावस्तन सप्तमी। वर्षति देवे चौर आयातः । पतत्यंशुमालिनि पतितो- रातिः । काले शरदि पुष्यन्ति सप्तच्छदाः ॥ ११ ॥ इति सप्तमी । १ सप्तमीति । अधिक्रियते-- यस्मिन्नित्याधारः । स च क्रिया- श्रयककर्मणोरेव । नभोक्तं भर्तहरिणा- कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम् । उपकुत्मिायानिही शानेऽधिकरणं स्मृतम् ॥” इति । आधारस्यैवाधिकरणसंज्ञात्वमभिप्रेत्याधिकरणभेदानाह-षविध- मित्यादि । तत्रान्यत्र सिद्धयोगधाराधेययोः प्रादेशिकः सम्बन्ध उप- श्लेषः । सामीप्य सान्निध्यम् । तत्र भवं, समीपं मर्व सामीपिकमिति वा । अपृथग्देशयोराधेययोः सकलावयवसम्बन्धेन व्यापक्रमभिव्यापकम् । विषयो- ऽन्यत्र भावस्तत्र भवं वैषयिकम् । निमित्तं कारणम् । उपचारो लक्षणा । तत्र भवम् । कमणोदाहरति -कटे शेते इत्यादि । भावपदव्याचिढ्यासुस्त- स्वरूपमाह-क्रियायालक्षणामिति । क्रिया--धात्वर्थः । सा च प्रसिद्धा अप्रसिद्धा चेति द्विविधा । तत्रा प्रसिद्धायास्तस्या लक्षणत्वाऽसम्भवात्प्रसिद्धया क्रियया अप्रसिद्धायाश्चौरागमनक्रियाया लक्षणं भाव इति भावः । सर्ववि- १२७ प्रकरणम् ] सरलाटीका विराजितम् अयोपपदविभक्त्यों निरूप्यते ॥ विनासहनममृतेनिरिणस्वास्यादिभिश्च । १२ । एतैरपि योगे द्वितीयाद्या विभक्तयो भवन्ति । विना पापं सर्व फलति । । "विना वातं विना वर्ष विद्युतः पलनं विना । विना हस्तिकृतं दोषं घनमी पालिनी दुमौ ॥ १॥ अन्तरेणाक्षिणी किं जीवितेन । अनन्तरा त्वां मां हरिरित्या- दिपदात् ग्राह्यम् ॥ १२ ॥ सहादियोगे तृतीयाऽप्रशने । १३ । सह सदृशं साकं सार्द्ध सममित्यादियोगेऽपि तृतीया भवति । सह शिष्येणागतो गुरुः । मदृशश्चैत्रो मैत्रेण । साकं नयनाभ्यां श्लक्ष्णा दन्नाः । सार्व धनिमिभृतः साधुः । समं चन्द्रेणोदितो गुरुः ॥१३॥ नमःस्वस्तिस्वाहास्वधाऽलंघषल्योगे चतुर्थी । १४ । नमो नारायणाय । स्वस्ति राज्ञे । सोमाय स्वाहा । पितृभ्यः स्वधा । अलं मल्लाय । बडिन्द्राय ॥ १४ ॥ दितत्वात्प्रसिद्धया वर्पणक्रियया अप्रसिद्धा चौगगमनक्रिया लश्यन्ते। अंशु- माली सूर्यस्तत्वतनं प्रसिद्धम् । अरानिः शत्रुस्तत्पतनं चाऽप्रसिद्धम् ।। १ विनासहति । द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमभिसम्बध्यते इति न्यायादादिशब्दस्य प्रत्येक सम्बन्धः । तथा च विनादिभियोगे द्वितीया । सहादियोगे तृतीया । नमादिभिर्योगे चतुर्थी। ऋतेआदिभिर्योगे पञ्चमी। निरिणादेरर्थवान्निर्धारणार्थादौ । स्वाम्यादिभिः सप्तमीति । २ नमःस्वस्तीत्यादि । अलं मल्लो मल्लायेत्यत्रालंशब्दः पर्याप्त्यर्थः । शक्त इत्यर्थः । वारणार्थस्य तु योगे तृतीयैव । ।

१२८ सारस्वतव्याकरणम् [विभक्तयर्थ- तेआदियोगे पञ्चमी । १५ । ऋने ज्ञानान्न मुक्तिः । अन्यो गृहाद्विहारः । आरादनात । इतरो ग्रामात् ।। १५ ।। मृतेयोगे द्वितीया च । १६ ॥ ज्ञानमृते । चकारात् विनादियोगेऽपि तृतीयापञ्चम्यौ स्तः । ज्ञानेन विना । ज्ञानात् विना ।। १६ ॥ दिग्योगे भी। १७॥ पूर्वो ग्रीष्माद्वसन्तः ।। १७ ॥ निद्धारणे षष्टीसप्तम्यौ । १८ । निद्धारणम्-द्रव्यगुण जातिभिः समुदायात् पृथक्करणं, तत्र षष्ठीसप्तम्यौ भवतः । क्रियापराणां भगवदाराधकः श्रेष्ठः, क्रियापरेपु वा । गवां कृष्णा गौः सम्पन्नक्षीरा, गोषु वा । एतेषां क्षत्रियः शूरतमः, एतेषु वा ।। १८ ।। १ निद्धार मित्यादि । त्रियया गुणेन जात्या वा धर्मविशेपेण निर्धार्थमाणस्य समुदायाद्भिन्नीकर णं निर्धारणमित्यर्थः । तत्र पठी । चका- रात्सप्तम्यपि । सा चा प्रधानात्समुदायादेव न निर्झर्यात् । ननु निर्यिमाणो- ऽवयवः समुदायाद्भिन्न इति यदा आधारत्वेन विवक्ष्यते तदा आधारत्वादेव वृक्षे शाखेतिवत्सप्तमी स्यात् । यदा त्ववयवसम्बन्धमानं विवक्ष्यते तदा वृक्षस्य शाखेतिवत्सम्बन्ध इत्येव पठी स्यादिति चेत्सत्यम् । तस्यैव प्रपञ्चार्थत्वात् निर्धारणार्थकपाटया समासनिषेधार्थत्वाच्च । त्रियागुण जातिभिरित्यस्य सम्भव दुक्तिकत्वात् अमोषां छात्राणां देवदत्तः पटुरित्यादौ संज्ञादिभिरपि व्यवच्छेदे भक्त्येव । क्रमेणोदाहरति-क्रियापराणामित्यादि । आराधनक्रियया कृष्णगुणेन क्षत्रियत्वनात्या च भगवदाराधकादयो विशेष्यन्ते ।

प्रकरणम्] मरलाटीका विराजिता १९३९ स्वास्यादिभिश्च । १९॥ स्वाम्यादियोगे षष्ठीसप्तम्यौ भवतः । गवां स्वामी, गोपु स्वामी। गवामधिपतिः, गोवधिपतिः ॥ १९ ॥ कर्तृकार्ययोरक्तादौ कृति षष्ठी । २० । कर्तरि च कार्ये च षष्ठी विभक्तिर्भवति, कादिवर्जिते कृदन्ते शब्द प्रयुज्यमाने । व्यासस्य कृतिः । भारतस्य श्रवणम् ॥ २० ॥ स्मरती च कार्ये । २१॥ स्मरतौ धातौ प्रयुज्यमाने कार्य कर्मणि विपये षष्ठी । १ स्वाम्यादीति । आदिशब्दादीश्वरदायादसाक्षिप्रतिभूप्रसूत- योगे षष्ठीसप्तम्यौ । गवामीश्वरः । गोष्वीश्वर इत्यादि । अक्तादाविति । आदिशब्दात् क्त क्तयनु कि उ: इष्णु उकः क्त्वाद्यन्ताव्ययं शतृ शान क्वसु कान खलर्थशीलार्थतचभविष्यदर्थकाऽकमवि- घ्यदाघमण्येन इत्यादयो गृह्यन्ते । क्रमेण प्रत्युदाहरणम्-त्वया कृतम् । ग्राम प्राप्ताः सर्वे । कृतवान् विश्वं चक्री। हरि दिक्षुः । अलंकरिष्णुहरिम् । दैत्यान् घातुकः । जगत्सृष्ट वा । सुखं कर्तुम् । हरिं प्रणम्य । लक्ष्मीमिच्छन् । मालां बिभ्राणः । अन्न पेचिवान् । शुभं चक्राणः । ईपत्करः प्रपञ्चो हरिणा। विश्वं कर्ता। सत: पालकोवतरति । ग्राम गामी । सुखमृणं दायी। ३ स्मरताविति । स्मरतावित्यर्थग्रहणम् । ततश्च स्मरणार्थधातुप्रयोगे कर्मणि षष्ठीत्यर्थः । चकाराद्दयेशोरपि । सर्पिषो दयते । जगतामीष्टे । कर्म- स्वविवक्षायां तु-मातरं स्मरति । ननु कर्माद्यविवक्षायां सम्बन्धमात्रविवक्षायां षष्ठीसिद्धावानर्थक्यमेतस्येति चेत्सत्यम् । एतदारम्भसामर्थ्यादुपपदविधान- षष्ठया न समास इति सूचनात् । ततश्च मातुः स्मरणमित्यादौ समासाऽभावः । । ९ १३० सारस्वतव्याकरणम् [कारक- मातुः स्मरति । मातरं स्मरति । *हेतो तृतीया पश्चमी च वक्तव्या* । अनित्यः शब्दः कृतकत्वेन कृतकत्वाद्वा ।। २१ ॥ भयहेतौ पञ्चमी । २२ । चोराबिभेति । व्याघ्रात् त्रस्यति । विद्युत्पाताच्चकितः ॥२२॥ षष्ठीहेतुप्रयोगे च । २३ । कस्य हेतोरियं कन्या । अन्नस्य हेतोर्वसति ॥ २३ ॥ इत्थम्भावे तृतीया ।२४। शिष्यं पुत्रेण पश्यति । संसारमसारण पश्यति । पुष्करिणी नद्या पश्यति ।। २४ ॥ येनाङ्गविकारः। २५। येनाङ्गेन विकृतेनाङ्गिनोऽङ्गत्रिकारो लक्ष्यते तस्मादङ्गवाचका- १ हेताविति । साध्यसाधक इत्यर्थः । शब्दे अनित्यत्वं माध्यम । कृतकस्वं हेतुः । अनित्य इति प्रथमप्रयोगश्च माध्यत्वद्योतनायेत्यदोपः । भय. ताविति । भयस्य हेतु : करणं तत्र पञ्चमीत्यर्थः । अयेत्युपलक्षणं जुगुप्सा- विगभप्रमादार्थाना । ततश्च पापाजुगुप्मने । पापाद्विरमति | धर्मात्प्रमाद्यति ।। २ हेतुप्रयोगे इति । प्रयोगस्य शब्दधर्मत्वाद्धेतुशब्द एव गृह्यने न दत्वर्थः । चकागत्सर्वादियोगे तृतीयापि । कस्मै हेतो: केन हेतुनेत्यादि । सर्वनाम्नो हेतुप्रयोगे द्वितीयान्यतिरिक्ताः सर्वा विभक्तयो निमित्तकारण- हेतुत्वार्थे भवन्तीति भाष्यकारादयः । को हेतुः । केन निमित्तेन । कस्मै कारणायेत्यादि । सर्वनामाप्रयोगे पि प्रातिपदिकमात्रात्तृतीयादय इति के- चित् । ज्ञानेन निमित्तेन हरिः सेव्यः । ३ इत्थमिति । इत्थम् अनेन प्रकारेण भवनम् इत्थंभावः, तस्मिन्नर्थे तृतीया भवतीत्यर्थः । शिष्यं पुत्रत्वेन संसार- मसारत्वेन पश्यतीत्यर्थः ।। ४ येनेति । अङ्गानि सन्त्यस्येत्यङ्गं शरीरं । येनेति तदवयवो हेतुत्वेन । पादेन भवति । प्रकरणम् ] सरलाटीकाबिरा जितम् च्छब्दात्तृतीया विभक्तिर्भवति । देवदत्तोऽश्णा काणः खाः । कर्णेन बधिरः । शिरसा खल्वाट: ।। २५ ॥ जनिकर्तुः प्रकृतिः । २६। जायमानस्य कार्यस्योपादानमपादानसंज्ञं भवति । तत्रापादाने पञ्चमी । “यस्मात्प्रजाः प्रजायन्ते तद् ब्रह्मेति विदुर्बुधाः" ।।२६।। आदियोगे पञ्चमी । २७ । आङादियोगे लिङ्गात्पश्चमी आ पाटलिपुत्रा- वृष्टो देवः ।। २७ ।। तौदर्थं चतुर्थी । २८ । 'सयमाय श्रुतं धत्ते, नरो धर्माय संयमम् । धर्म मोक्षाय मेधावी, धनं दानाय भुक्तये । ॥२८॥ निर्दिश्यते स च विकृते एव विकारहेतुरिति येन विकृतेनाऽङ्गिनी विकारो लक्ष्यते तस्मादङ्गात्तृतीयेत्यर्थः ।। १ जनिकतुरिति। जननं जनिः, जन्यर्थस्य कर्ता जनिकर्ता, सच जायमान एवेत्यभिप्रेत्याह-जायमानस्य कार्यस्येत्यादि । उपादानमत्र कारणमात्रं गृह्यते, न समवायिकारणम् । पुत्रात्प्रमोदो जायते इत्यादौ तद- भावादप्रसङ्गात् । २ आदियोगे चेति । मर्यादाभिविध्यर्थकायोगे पञ्चमी । आदिना वर्जनार्थकाऽपपर्योोगेऽपि । अप हरेः परि हरे: संसारः । हरि ब- जयित्वा संसार इत्यर्थः । तथा भूकतः प्रभवादपि । हिमवतो गङ्गा प्रभवति । तत्र प्रथम दृश्यत इत्यर्थः । तथा पराजेः प्रयोगेऽसह्यार्थादपि । पापात्पराज- यते । इत्यादि शेयम् । ३ तादर्थ्य इति । तच्छब्देन कार्य निर्दिश्यते । तस्मै इदं तदर्थं । तदर्थशब्द: कारणसम्बन्धमाह । ततश्च षष्ठीप्राप्तौ वचनमिति- प्रसादकृतः।

सारस्वतव्याकरणम् [ कारक- क्रुध्यादियोगे चतुर्थी । २९ । क्रूराय क्रुध्यति । मित्राय द्रुह्यति । पुत्राय कुप्यति । गुणवते असूयति । *क्यब्लोपे कर्मण्यधिकरणे च पञ्चमी वक्तव्या* हात् प्रेक्षते । हर्नामारुह्येत्यर्थः । आसनात् प्रेक्षते । आसने उपविश्येत्यर्थः । *निमित्ताकर्मयोग सप्तमी च वक्तव्या । चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । कशेषु चमरौं हन्ति सीम्नि पुष्कलको हतः ॥१॥ २९॥ विषये च । ३०॥ विषयेथे सप्तमी भवति । तर्क चतुरः ॥ ३० ।। १ क्रुधादियोगे चेति । क्रुधद्गुहेासूयार्थाः धादयस्तद्योग यं प्रति कोपस्ततश्चतुर्थी वाच्येत्यर्थः । ततश्च भार्यामीप्यतीत्यादौ तां प्रति कोपा- ऽभावाच्चतुर्थ्यभावः । सोपसर्गयोस्तु क्रुधQहोर्द्वितीयैव । रमभिक्रुध्यति । अभिगृह्यति । २ निमित्तादिति । निमित्तात्प्रयोजनवाचिशब्दात्कर्मणो योगे सप्तमी वक्तव्येत्यर्थः । चर्मणीत्यादौ हनननिमित्ताच्चादेः द्वीप्यादिकर्मयोगे सातमी समभूत् | सीमनिमित्तं पुष्कलक: पाषाणो हतो निहितः । केचित्तु- "गुदमेढान्तरालं वा सीमेति प्रोच्यते बुधैः । पुष्कलो वृषभेदः स्यादन्यः सौगन्ध्यहेतुकः ॥” सीम्नि गुदमेटान्तरालावयवनिमित्तं पुष्कलो मूषकविशेषः हतो धृत इत्याहुः । विषये चेति। क्रियापदाऽप्रयोगे कर्तृकर्माद्यसम्भवे तदाधारत्वासम्भवादारम्भः। तर्के चतुर इति । तर्कविषयं चातुर्यमस्येत्यर्थः ।

१३३ प्रकरणम् ] सरलाटीकाविराजितम् षष्टीसेप्सम्यौ चानादरे । ३१ । बहूनां क्रोशतां गतश्चौरः । बहुष्यसाधुषु निवारयत्स्वपि स्वयमार्यो याति साधुमार्गेण । बहुषु साधुषु वसत्स्वपि स्वयमनार्या यात्यसाधुमार्गेण । मातापित्रो रुदतोः प्रव्रजति पुत्रः ।। ३१ ॥ अन्योक्ते प्रथमा । ३२ । यदिदं कार्थत्वादन्येनाख्यातेन कृता चोक्तं भवति तदा प्रथमा प्रयोकव्या । घटः क्रियते । पटः कार्यः ॥ ३२॥ छन्दसि स्यादिः सर्वत्र । ३४। दधना जुहोति । पुनन्तु ब्रह्मणस्पतिः । व्रजयतीवि रेजुः ।। ३४ ॥ इति कारकादिविभक्त्यर्थाः ।। १ षष्ठीसप्तम्यो चानादर इति । अनादरे षष्ठी सप्तमी च वक्तव्येत्यर्थः । अनादरस्तु बलहठविवेकाऽविवेक जत्वाच्चतुर्वा इति चेतसि कृत्वोदाहरणचतुष्टयमाह-बहूनामित्यादि। बहून् क्रोशतो पुनाहत्य गत इत्यर्थः । आर्यो विवेकी विवेकादसन्मार्गमनाहत्य सन्मार्गेण यातीत्यर्थः । अनार्य इत्यत्राविवेकादनादरः सन्मार्गस्य । प्रत्र जति-संन्यरंयति । हठाद्विवेकाद्वा । २ अन्योक्त इति । अन्यैरुक्तमन्योक्तम् । तदेव विवृणोति- यदिदमितिकृता चेति चकाराचद्धितेन समासेन च । तद्धितोक्ते कुङ्कुमेन रक्तं कौकुमम् । समासोक्ते--प्राप्तमदकं यं ग्रामं प्रासोदको ग्राम: । छन्द- सीति । क्वचित्प्रवृत्तिरिति बाहुलकात् दधि जुहोतीति द्वितीयार्थ तृतीया । 'ब्रह्मणस्पति' मित्यर्थे प्रथमा । व्रजत्य इत्यर्थे द्वितीया इत्यादि । "कर्ता कर्म च करणं सम्प्रदान तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥" इतिप्रसादकृती वासुदेवभट्टाः प्रादुः ।। इति सारस्वतटीकायां कारकप्रकरणम् । .

सारस्वतव्यांकरणम् [ समास- अथ समासप्रकरणम् । अथाऽर्थवद्विभक्तिविशिष्टानां पदानां समासो निरूप्यते ॥ समासश्चान्वये नाम्नाम् । १। नाम्नामन्वययोग्यत्वे सत्येव समासो भवति । चशब्दात्तद्धि- तेऽपि भवति । ततो भार्या पुरुषस्येत्यादौ न भवति, परस्परम- सम्बन्धात् । स च पड्विधः-- अव्ययीभावस्तत्पुरुषो द्वन्द्वो बहुव्रीहिः कर्मधारयो द्विगुश्चति । तत्र पूर्वपदार्थप्रधानोऽव्ययीभावः । द्विगुतत्पुरुषौ परपदार्थप्रधानौ । द्वन्द्वकर्मधारयौ चोभयपदार्थ- प्रधानौ । बहुव्रीहिरन्यपदार्थप्रधानः । तस्य क्रियामिसम्बन्धात् उभय- पदप्रधानो बलवान् । यत्रानेकसमासप्राप्तिस्तत्र उभयपदप्रधानो बलवान् । ऐकपद्यमैकस्वर्यमेकविभक्तिकत्वञ्च समासप्रयोजनम् । अधि स्त्री इति स्थिते स्त्रीशब्दाद् द्वितीयैकवचनम् अम् । स्त्रीभ्रुवोः । स्त्रियमधिकृत्य भवतीति विग्रहे । अन्वययोग्यार्थसमर्थकः पदसमु- दायो विग्रहः । वाक्यमिति यावत् । स्वपदैरन्यपदैर्वा विविच्य कथनं १ अर्थार्थवदित्यादि। अयमाशयः-'समासश्चान्वये नाम्ना'- मिति सूत्रे चेदविभक्ति नामेति परिभाषितं नाम गृह्यते तदा विभक्तिरहि- तत्वादसाधुल्वमनन्वितत्वं समासान्तपर्तिविभक्तिलोपविधायकवे व्यर्थ्य स्यादती नामाख्यातेत्यादो प्रसिद्धं सुबन्तापरपर्यायं नाम गृह्यते । अत उक्त-पदानामिति । पदत्वं चानीकाना निपातानामपीति अर्थवद्विभक्ति- विशिष्टानामित्युक्तम् । २ समासप्रयोजनमइ-ऐकपद्यमित्यादि । अनेकेर्षा पदानां भाव ऐकपद्यम् । समासे आधुदात्तादिस्वरेक्यं च । ।

प्रकरणम् । सरलाटीकाविराजितम् कथनं विग्रहः । * कृते समासे अव्ययस्य पूर्वनिपातो वक्तव्यः* ॥१॥ पूर्वेऽव्ययऽव्ययीभावः । २ । अव्यये पूर्वपदे सति योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति । इति समाससंज्ञायां सत्याम् ॥ २॥ समासप्रत्यययोलक ।। सगासे वर्तमानायाः विभक्तेः प्रत्यये च परे लुग् मवाल । इत्यमो लुक् । 'निमित्ताऽभाव नैमित्तिकस्याप्यभावः । नागसंज्ञाया स्यादिर्विभक्तिः । अधि स्त्री सि इति स्थिते ॥ ३ ॥ स नपुंसकम् । ४। सोऽव्ययीभावो नपुंसकलिङ्गो भवति । नपुंसकत्वाद्भस्वत्वम् । अधिस्त्रि ॥ ४ ॥ अव्ययीभावात् । ५। अव्ययीभावात्परस्या विभक्तेढुंग् भवति । अधिनि गृहका- र्यम् । रायमतिकान्तमतिरि कुलम् | नावमतिकान्तमतिनु जलम् । समासेति । अव्ययीभावाद्विभक्ते गित्यतो विभक्ते गित्यनुवर्तते । समासप्रत्यययोरित्येकापि सप्तमी भेदेनान्वेति सामांदित्यभिप्रेत्याह- समासे वर्तमानायाः विभक्तेः प्रत्यये च परे इति । समासावयव- भूताया इत्यर्थः । नामसंज्ञायां विभक्तिलुकि विभक्तिरहितत्वेना र्थवत्त्वेन चा- ऽविभक्ति नामेति नामसंज्ञायामित्यर्थः । हस्वत्वं-'नपुंसकस्येति सूत्रेणे. त्यर्थः । अव्ययपूर्वत्वेऽपि पूर्वपदार्थप्राधान्याभावादव्ययीभावा भावं दर्शय- नत्यादयः क्रान्ताद्यर्थे द्वितीययेति तत्पुरुषोदाहरणं हत्वप्रसङ्गत आहे- सारस्वतव्याकरम् [ समास- हस्वादेशे सन्ध्यतराणामिकारोकारी च वक्तव्यौ । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । यथार्थाः । रूपस्य योग्यमनुरूपम् । पदार्थान् व्याप्तुमिच्छा वीप्सा । विष्णु विष्णुं प्रति प्रतिविष्णु । सादृश्ये तु-यथा हरिस्तथा हरः ॥ ५॥ यथाऽसादृश्ये।६। यथाशब्दोऽसादृश्ये वर्तमानः समस्यते । शक्तिमनतिक्रम्य करोतीति यथाशक्ति ॥ ६ ॥ अतोऽमनतः । ७। अकारान्तादव्ययीभावात्परस्या विभक्तरम् भवति अतं वर्ज- यित्वा । कुम्भस्य समीपमुपकुम्भं वर्तते । उपकुम्भं पश्य । अनत इति विशेषणात् पञ्चम्या अम् न भवति ।। ७॥ वा टाडयोः। ८॥ टा ङि इत्येतयोवी अम् भवति । उपकुम्भेन कृतम् उपकुम्भ कृतम् । उपकुम्भं निधेहि । उपकुम्भे निधेहि । उपकुम्भादानय॥८॥ रायमतिकान्तमित्यादि । कृते समासेऽव्ययस्येति सामान्यनिर्देशा- त्पूर्वनिपातः । कुलविशेषणत्वाल्लीवत्वम् ।। यथेति । योग्यतावीप्सापदार्थाननिवृत्तिसादृश्यानि यथार्थाः । तत्र सादृश्यव्यतिरिक्तऽथे वर्तमानो यथाशब्दः समस्यत इत्यर्थः । तत्र पदार्थानतिक्रम उदाहरति--शक्तिमनतिकम्येत्यादि । सादृश्ये तु यथा हरिस्तथा हरः ।

प्रकरणम् सरलाटोकाविराजितम् अवधारणार्थ यावति च ।। अवधारणार्थे यावच्छन्दे पूर्वपदे सति अव्ययीभावसंज्ञकः समासो भवति । यावन्त्यमत्राणि सम्भवन्ति तावतो ब्राह्मणान् निम- न्त्रयस्वेति यावदमत्रम् । मक्षिकाणामभावो निमक्षिकं वर्तते ॥ ९॥ इत्यव्ययीभावसमासः॥ अथ तत्पुरुषः। अमादी तत्पुरुषः । १। द्वितीयाद्यन्ते पूर्वपदे सति योऽन्वयस्स तत्पुरुषसंज्ञकः समासो भवति । ग्राम प्राप्तो ग्रामप्राप्तः । दात्रेण छिन्नं दात्रच्छिन्नम् । यूपाय दारु यूपदारु । वृकेभ्यो भयं वृकभयम् । राज्ञः पुरुषो अवधारणार्थ इति । अवधारणं निश्चयस्तदर्थक यावच्छब्दे पूर्व- पदे सति योऽन्वयः सोऽव्ययीभाव इत्यर्थः। अन्यत्र यावद्दत्तं तावद्भुक्तम् । नावधारयामि कियन्मया भुक्तमिति । निर्मक्षिकमिथि। मक्षिकाणामभाव, इति विग्रहः । अर्थाभावार्थकाव्ययसमासे क्लीनत्वात् ह स्वत्वे अमादेशे च निर्मक्षिकमिति निर्देश: । अमादाविति । अम् आदिोषां ते अमादयः । द्वितीयाद्याः सप्त- भ्यन्ता विभक्तयः । तासां च प्रत्ययत्वात्प्रत्ययग्रहणेन तदन्तस्य । जातावेक- वचनम् ) पूर्वेऽव्ययेऽव्ययीभाव इत्यतः पूर्वे इत्यनुवर्तत इन्येतत्सर्वं चेतसि कृत्वाह-द्वितीयाद्यन्ते पूर्वपदे सतीति । वोर्गुणादित्यता वानुवृने- क्यिमपि । वाशब्दादमादाविति सामान्योक्तेलकाद्वा स्वयंकृतं सामिवृत- मित्यादावपि प्रयोगतस्तत्पुरुषोऽवसेयः । तथा अर्थेन नित्यसमासो विशेष्य- लिङ्गता च । द्विजायायं द्विजार्थः पट: । द्विजार्था पटी। द्विआर्थ बस्त्रम् । तथा इवेन नित्यसमासो विभक्त्यलोपश्च । वागर्थाविव ! तथा निर्धारणार्थ- षष्ठथा न समासः । गवा कृष्णा संपन्नक्षीरा । एवं प्रतिपदविधानाऽपि षष्ठी सारस्वतव्याकरणम् -- १३८ [ तत्पुरुषसमास- राजपुरुषः । अक्षेषु शौण्डः अक्षशौण्डः । *क्वचिदमाद्यन्तस्य परत्वम् । आहिताग्नि । पूर्व, भूतो भूतपूर्वः । *समास क्वचिदैकपद्यं णत्वहेतुः * । शराणां वनं शरवणम् । आम्राणां वनमाम्रवणम् । पानस्य वा* । सुरापानं । सुरापागम् ॥ १ ॥ नमि ।। नजि पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः समासो भवति । न ब्राह्मणः अत्राह्मणः ॥ २ ॥ , न समस्यते । सर्पियो ज्ञानम् । सर्मियोपायेन प्रवर्तन मित्यर्थः । तया पूरणा- तृप्त्यर्थसव्ययतव्यसमानाधिकरणाङ्कन पठी न ममस्यने । मता पध: । पटम्य शौक्लयम् । चन्दनगन्ध इत्यादौ सदा गुणवाचिनस्तु भवत्येव । फलाना तृमः । द्विजस्य कुर्वन् । सता कुर्वाण:। सतां कृत्वा । सता कर्तव्यम् । राज्ञो नलस्य | एवं मतबुद्धपूजितयोगेऽपि न । सता मत्तो बुद्धः पूजितो वा। अधिकरण- साचिक्तयोगेऽपि न । इदमेषामासितं गतं भुक्तं वा । उभयप्राप्ती कर्मपष्ठया अपि न । आश्चर्या गवां दोहोऽगोपेन | तथा भवतः शायिकेत्यादौ अक- योगे कर्तृषष्ठया: न समासः । अपा स्रष्टा । वज्रस्य भर्ता । सतामक इत्यादी कर्तरि तृजकाभ्या योगे न । भूमर्ता । उद्दाल कपुरमजिका । दन्त- लेखक इत्यादौ च भवत्येवेत्यादिप्रयोगवशाद्वयवस्था वसेयेति प्रसाद- टीकाकृतः । क्वचिदमाद्यन्तस्येति । अमादौ पूर्वपदे सतीत्युक्तेरमाद्यन्तस्य तत्पुरुषे पूर्वनिपातत्वमुक्तम् । तत्र प्रयोगतः क्वचित्परत्वं वक्तव्यमित्यर्थः । क्वचिदित्युक्तेरग्न्याहित इत्यादौ । 'गु णोऽनन्ते' इत्यत्र रेफात्परस्याऽपि नस्य णवा भावनिर्देशाज्ज्ञापकाद्भिन्नपदस्थनिमित्ते णत्वा भावात्समासे चैक- पद्याण्णत्वं भवति न वेत्याकांक्षायामाह-समासे क्वचिदैकपद्यमिति ।

प्रकरणम् ] सरलाटीकाविराजितम् नाड।३। समासे सति नञोऽकारादेशो भवति नाकादिवर्जम् । नाकः । नपुंसकम् ॥ ३ ॥ अन् स्वर । ४॥ समासे सति नञोऽनादेशो भवति स्वरे परे । अस्वादन्यो- उनश्यः । धर्माद्विरुद्धोऽधर्मः । ग्रहणाऽभावोऽग्रहणमित्यादि । तद- न्यतविरुद्धतदभावेषु नञ् वर्तते ॥ ४ ॥ इति तत्पुरुषः। चार्थे इन्दः । १ । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्रेश्वरं गुरुं च भजस्वेति प्रत्येकमेकक्रियाभिसम्बन्ध समुच्चये समासो नास्ति । नेति । न-अ इति च्छेदः । नाकादिवजमिति । पुंवद्वत्यतोऽनन्तरसूत्राद्वानुवृत्तेर्व्यवस्थया नाकादौ नेत्यर्थः । नाकादयश्च नाकनकुलनखनमुचिनपुंसकनक्षत्रादयः । 'झ्नो हस्वादिः स्वरे' इत्तत्र शे चग्वेत्यनन्तरसूत्रतो वानुत्तेर्व्यवस्थया अनश्व इत्यादौ तदभावः । तदन्येत्यादि । तस्मादन्यः, तेन विरुद्धः, तत्याभाव इति विग्रहः । चार्थ इति । चस्यार्थश्वार्थः, तस्मिन् चायें। जात्यभिप्रायेणैकवच- नम् । चार्थानाह-समुच्चयेत्यादि । समुच्चयान्वाचययोः स्वरूपं निरूप- यन्नन्वययोग्यत्वाऽभावस्तत्र समासाभाव इन्याह--तत्रति। ईश्वरं भजस्व गुरुं च भजस्वेति चस्य एकस्या एव भजनक्रियाया ईश्वरशुरुभ्यां प्रत्येक सम्बन्धात्समुच्चयः। यदा त्वेकस्य प्रधानस्यानुरोधेनतरदन्याचीयते तदन्वा- १४० सारस्वतव्याकरणम् [ द्वन्द्वसमास- बटो! भिक्षामट गाश्चानयेति क्रमेण क्रियाद्वयसम्बन्धे अन्धाचये च समासो नास्ति, परस्परमसम्बन्धात् । इतरेतरयोगे समाहारे चार्थ द्वन्द्वः समासो भवति । *छन्देऽल्पस्वरप्रज्ञाने इकारोकारा- न्तानां पूर्वनिपातो वक्तव्यः । अग्निश्च मारुतश्च अग्निमा- रुतौ। पटुश्च गुप्तश्च पटुगुप्तौ । स्त्री च पुरुषश्च स्त्रीपुरुषौ । भोक्ता च भोग्यश्च भोक्तृभोग्यौ । धवश्च खदिरश्च धवखदिरौ । *देवताइन्दै पूर्वपदस्य दीर्घा वक्तव्या* : अग्निश्च सोमश्च अग्नीयोमौ । इन्द्रश्च बृहस्पतिश्च इन्द्राबृहस्पती । *अग्न्यादेः सोमादीनां पर्व वक्तव्यम् । इतरेतरयोगे द्विवचनम् । अग्नी- षोमौ ! * एकवद्भावो वा समाहारे वक्तव्यः * । शशाश्च चयः । तदाह-बटो भिक्षामटेत्यादि। अत्र भिक्षाटनं मुख्यं, गवामा- नयनं तु प्रासनिकम् । एकस्य बटो: क्रभेगाटनवियया गवानयनक्रियया च सम्बन्धादन्याचयः । जनयोश्चार्ययोः समासाऽभावे हेतु:-परस्परम- सम्बन्धादिति। समुच्चये तावत्परस्परानभिसंबद्धा एवेश्वरादयो भजना- दिभिः संबध्यमानाः समुच्चीयन्ते । एवमन्वाचये पि अन्योन्यसंबन्धावयव- प्राधान्येन क्रियान्वध इतरेतरयोगः । स एव तिरोहितावयवप्राधान्यः । संह- तिप्राधान्यः समाहारः ।। द्वन्द्वे पूर्वभावनियममाह----द्वन्द्वेऽल्पस्वरेत्यादि । अलस्वरस्य प्रधानस्याभ्यर्हितस्य इकारान्तस्य उकारान्तस्य च पूर्वनिपात इत्यर्थः । अल्प- स्वरत्वं च समस्यमानपदापेक्षया । अनेकपागावेकस्य नियमः । हरिहरगु- रखः । हरिगुरुहराः । तथा शङ्खदुन्दुभिवीणाः । वीणाशङ्खदुन्दुभावः । इतरेतरयोगे द्विवचनमिति । द्वयोः समासे द्वयोरप्यवयवयाः प्राधान्याद्विवचनम् । बहुवचनाना बहुवचनमूह्यम् । समाहारस्थ समुदाय- प्रकरणम् ] सरलाटीकाविराजित कुशाश्च पलाशाश्च शशकुशपलाशाः । तेषां समाहारे शशकुश- पलाशम् ॥ १॥ स नपुंसकम् । २ । यस्यैकवद्भावः स नपुंसकं भवति । *अन्यादीनां विभक्ति- लोपे कृते पूर्वस्य सगागमो वक्तव्यः । अन्यश्च अन्यश्च अन्योन्यम् । परश्च परश्च परस्परम् ॥ २ ॥ इति द्वन्द्वसमासः। एकत्वे डिगुन्हा।। एकत्वे वर्तमानौ द्विगुद्वन्द्वौ नपुंसकलिङ्गौ भवतः ॥ १ ॥ संख्यापूर्वी द्विगुः । २। संख्यापूर्वः समासो द्विगुनिगद्यले ॥ २ ॥ समाहारेऽन ईप द्विगुः । ३ । समाहारेऽर्थे द्विगुः समासो भवति नतोऽकारान्तादीप् प्रत्ययो भवति । दशानां ग्रामाणां समाहारो दशनामी । अकारान्तो छिगुः त्रियां भाष्यते । पञ्चाग्नयः समाहृता इति पञ्चाग्नि । पञ्चानां गवां समाहारः पञ्चगु । नपुंसकत्वात् ह्रस्वत्वम् । त्रिफलेति रूढिः। अपात्रा- दीनामीपप्रतिषेधो वक्तव्यः । पञ्चपात्रम् । त्रिभुवनम् ॥ ३ ॥ इति द्विगुसमासः ॥ प्रधानत्वात्तस्य चैकत्वादेकवचने प्राप्ते विकल्पमाह-एकवद्भाबो वेति । केचित्तु सर्वो द्वन्द्वो विभाषयैकवद्भवतीति इतरेतरयोगे प्येकवद्भाव इत्याहुः । शशकुशपलाशमित्यादौ नपुंसकत्वार्थामाह-एकत्वे इति । एकत्वे द्विगुद्वन्द्वावित्यत्र द्विगोः स्मृतत्वात्प्रसङ्गतो द्विगुं निरूपयिष्यं- -संख्यापूर्व इति । वाच्यवाचकयोरभेदोपचारात्सङ्ख्या- शब्देन तद्वाचकं पदमुपादीयते । तत्पूर्वकोऽन्वयो द्विगुसंशो भवतीत्यर्थः । स्तलक्षणमाह १४२ सारस्वतव्याकरणम् [ बहुव्रीहिसमास- बहुव्रीहिरन्यार्थे । १। अन्यपदार्थे प्रधाने य: समासः स बहुव्रीहिसंज्ञकः समासो भवति । बहु धनं यस्य स बहुधनः । अस्ति धनं यस्य स अस्ति- धनः । यस्य प्रधानस्यैकदेशो विशेषणतया यत्र ज्ञायते स तद्गुण- संविज्ञानो बहुव्रीहिः । यथा लग्बौ कर्णी यस्य स लम्बकर्णः । * बहुव्रीही विशेषणसप्तम्यन्तयोः पूर्वनिपातो व- क्तव्या* | कण्ठे कालो यस्यासौ कण्ठे कालः । करे धनं यस्य सः करधनः ॥ १ ॥ नेन्द्रादिभ्यः । २। इन्द्वादिभ्यः परेभ्यः सप्तम्यन्तस्य पूर्वनिपातो न भवति । इन्दुशेखरः । चक्रपाणिः । पद्मनाभः । कपिध्वजः ॥ २ ॥ प्रजामेधयोरसुक् । ३ । सुप्रजाः । सुमेधाः । दुर्मेधाः 'अत्वसोः सौ' इति दीर्वः ॥३॥ बहुव्रीहिरिति । अन्यस्य-समस्यमानपदातिरिक्त पदत्या : अन्या- र्थस्तस्मिन् अन्यार्थे । अस्तिधनमित्यत्र अस्तीति तिङन्तप्रतिरूपकमव्ययं सत्तार्थम् । अन्यपदार्थस्य प्रधानत्वे समस्यमानपदार्थस्य विशेषणत्वोपलक्षण- स्वाभ्यां द्वैविध्याहिशेषणत्वेन तद्गुणसंविज्ञान इत्याह--तस्य प्रधान- स्येति । यस्य प्रधानस्यान्यपदार्थस्य एकदेशः समस्यमानपदार्थविशेषणतया सद्व्यावर्तकत्वेन यत्र समासे ज्ञायते स तद्गुणसंविज्ञान इत्यर्थः । पूर्वनिपातनियममाह-बहुव्रोहाविति । अस्योपलक्षणत्वाद्रक्तलते- त्यादौ कर्मधारये.पि विशेषणस्य पूर्वनिपातः । प्रजामेधयोरिति । प्रजा मेधा इत्येतयोः समासेऽतुगागमो वक्तव्य इत्यर्थः । सुष्टु प्रजा यस्य इति, दुष्टा प्रजा यस्येति च विग्रहः। अमुकि प्रकरणम् ] सरलाटीका विराजितम् धर्मादन् । ४ । सुष्ठु धर्मो यस्य सः सुधर्मा ॥ ४ ॥ अन्यार्थे । ५ स्त्रीलिङ्गस्यान्याथै वर्तमानस्य ह्रस्वो भवति ॥ ५ ॥ पुंवटा । । समासे सति समानाधिकरणे पूर्वस्य स्त्रीशब्दस्य पुंवद्भावो वा भवति । पुंबद्भावादीपो निवृत्तिः । रूपवती भार्या यस्य स रूपवार्यः । वाग्रहणात् कल्याणीप्रिय इत्यादौ न भवति ॥ ६ ॥ गोः । ७॥ गोशब्दस्या ऽन्यार्थ वर्तमानस्य हस्त्रो भवति । पञ्च गायो यस्य सः पञ्चगुः। संख्यासुव्याघ्रादिपूर्वस्य पादशब्दस्याऽहोपो वक्तव्यः । सहस्रं पादा यस्य स सहमपात् । शोमनी पादौ यस्य स सुपात् । व्याघ्रस्य पाद!वित्र पादौ यस्य स व्याघ्रपात् । द्वौ पादौ यस्य स द्विपात् , द्विपादौ, द्विपाद: । द्विपादं, द्विपादों। याय लोप इति आकारलोपे अवसोः सानिनि दीर्वः । यद्यायमुक उका- रानुबन्धित्वाद्वितो नुमिति नुम्प्राप्नोति तथापि तत्र वा दीपो: शतुरित्यतो वानुकर्षणान्न । १ स्त्रीशब्दस्य-स्त्रीप्रत्ययान्तशब्दस्येत्यर्थः । वाग्रहणादिति । निपातानामनेकार्थत्वादित्यर्थः । अतश्च उक्त- पुंस्कस्यैवात्र । रूढं पुंवत्त्वं नेत्याह-गङ्गाभार्यः । वार्मोरूभार्यः । सङ्ख्यासुव्याघ्रादिपूर्वस्येति । व्याघ्रादय उपमानवाचिन एने पूर्व यस्य तस्येत्यर्थः । , १४४ नोचा। सारस्वतव्याकरणम् [बहुव्रीहि- *शसादौ स्वरे परे पादशब्दस्य पदादेशश्च वक्तव्यः । द्विपदः । द्विपदा । द्विपा-यां । द्विपाद्भिरित्यादि ।॥ ७॥ दाऽडकाः। ८॥ समासे सति ट अ ड क इत्येते प्रत्यया भवन्ति । अचि- न्त्यो गहिमा यस्य स अचिन्त्यमहिमः । टकारस्तत्पुरुषे च अकारो इन्द्र एव च । डकारश्च बहुव्रीही ककारोऽनियमो मतः ॥ ८ ॥ ।९। नान्तस्य पदस्य टेलोपो वा भवति यकारे स्वरे च परे । वाग्रहणात् क्वचिन्न भवत्युपधालोपश्च । अहो मध्यं मध्याह्नः । कवीनां राजा कविराजः । टकारानुबन्ध ईबर्थः । कविराजी । राज्ञां पू: राजपुरम् । वाक्च मनश्च वाङ्मनसम् । दक्षिणस्यां दिशि पन्था दक्षिणापथः । अहश्च रात्रिश्च अहोरात्रम् । द्वौ च त्रयश्च परिमाणं येषां ते द्वित्राः । पञ्च षट् च परिमाणं येषां ते १ शसादाविति । चकारादनुक्तसमुच्चयार्थादीकारे ईपि आपि तद्धितेऽपि-द्विपदी कुले । द्विपदी-द्विपदा ऋक् नदादित्यादापि हसा- न्तत्वादापि च पुंवद्भावः । द्विपदोऽपत्यं द्वैपदः । वैयाघ्रपद्यः ॥ २ टाडका इति । टश्च अश्च उश्च कञ्च ते टाडकाः । एते प्रत्ययाः समासान्ता अव्ययीभावादिभ्यो यथायोग्य भवन्तीत्यर्थः । ३ मध्याह्न इति । अहो मध्ममिति विग्रहे तत्पुरुषे क्वचिदमा- अन्तस्य परत्वमिति परत्वे सवर्णदीर्घत्वे मध्याह्न इति स्थिते अप्रत्ययेनान्तत्वा- प्राप्तटिलोपनिवृत्तो उपधाकारलोपे-मध्याह्न इति । अत्र पुंस्त्वं लोकात् ।।

प्रकरणम् ! सरलाटीकाविराजितम् पञ्चषाः । बहवो राजानो यस्यां नगर्या सा बहुराजा नगरी । अत्र टिलोपे कृते "आवतः स्त्रियाम्" इत्याप् । बहवः कर्तारो यस्य स बहुकर्तृकः ॥ ९ ॥ कर्मधारयस्तुल्यार्थे । १०। पदद्वये तुल्यार्थे एकार्थनिष्ट सति कर्मधारयः समासो भवति । नीलं च तदुत्पलं च नीलोत्पलम् । रक्ता चासौ लता च रक्तलता। पुमांश्चासौ कोकिलश्चेति पुंस्कोकिलः । *पुंसः खपे संयोगान्तस्थाऽलोपो वक्तव्या* | पुंक्षीरम् ॥ १० ॥ नान्नश्च कृता समासः । ११ । प्रादेरुपसर्गस्य नाम्नश्च कृदन्तेन समासस्तत्पुरुषो भवति । प्रकृष्टो वादः प्रवादः । कुम्भं करोतीति कुम्भकारः । अपकृष्टो वादः अपवादः ॥ ११ ॥ सहादेः सादि । १२ । समासे सति सहादीनां सादिभवति । पुत्रेण सह वर्तते इति १ कर्मधारयस्तुल्यार्थे इति । तुल्यार्थत्वं-समानार्थत्वं । तच्च प्रायशः पदयोदृष्टमिति 'पदद्वये' इत्युक्तम् । तेन नोलाऽचलबट इत्यादौ बहु- पदेऽन्यदोषः । २ एकार्थनिष्ट सतीति । भिन्नप्रवृत्तिनिमित्तत्वे प्यर्थ- समासमहिम्ना एकस्मिन्नथ निष्ठा वृत्तियस्येत्यर्थः । अतश्च कुम्भकलशादा- वनतिप्रसङ्गः । नीलपदं नालबादिभ्यो व्यावृन्य उत्पलमदं च तामरसादि- भ्यो व्यावृत्त्य इकस्मिन्नसितसराजे वर्तत इति एकार्थनिष्ठत्वम् । नीलपदस्य विशेषणत्वात्पूर्वनिपातः । रक्तलतेत्यत्र समानाधिकरणे लतापदे परे पुंवद्वेति धुंस्त्वातिदेशादापो निवृत्तिः । ३ सहादेरिति । आदिना-समानस्य ज्योतिर्जनपदरात्रिनाभिनाम- १० । सारस्वतव्याकरणम् [ समास- सपुत्रः । सह-स-तिरसां-सध्रि-समि-तिरयः । सह अञ्चतीति सध्यङ् । सम् अञ्चतीति सन्यङ् । तिरः अश्चतीति तिर्यङ् ॥१२॥ कोः कदादिः । १३ । कुशव्दस्य कुत्सितेषदर्थयोस्तत्पुरुष कत् कव का आदेशा भवन्ति । कुत्सितमन्नं कदन्नम् । ईषदर्थे कोः का-कव-दुष्णे । ईषदुष्णं-कोष्णं, कवोष्णं, कदुष्णम् । कालवणम् । कोर्मन्दादेशश्च । मन्दोष्णम् । रथवयोश्च । कद्रथः । कद्वदः ॥ १३ ॥ पुरुषे वा । १४ । कुपुरुषः कापुरुषः ॥ १४ ॥ गोत्ररूपस्थानवर्णवयोवचनबन्धुपु पिण्डगन्धलोहितकुक्षिवेणीपत्नीपक्षेषु तथा व्रताचरणार्थे ब्रह्मचारिणि परे यत्प्रत्ययान्ते तीथेच सो भवति । समानं ज्योतिर्यस्य स सज्योतिः । सपिण्डः । सब्रह्मचारी । सतीर्थ्य इत्यादि । १ सहति । सह अञ्चतीत्यत्र सहस्य सध्यादशः । सम् अञ्चती- त्यत्र समिरादेशः । तिर: अञ्चतीत्यत्र तिरसस्तिर्यादेशः । एवं देवानञ्चति विष्वगञ्चति अमुमश्चतीत्यादिविग्रहे-देवद्रि-विष्वद्रि-अदद्याद्यादेशाः । देवव्यङ् । विष्वयङ् । अदयङ् ।। २ कोरिति । तत्पुरुषे समासे कुशब्दस्य कुत्सार्थे ईषदर्थ च वाच्ये कत् कब का इत्यादेशाः स्युः । अन्नत्रिरथवदाक्षेषु कोः कन्नित्यम् । गवाक्षे पुरुष पथि ईषदर्थे च वाच्ये म्बुन्यग्नावृष्णे काकत्कवाः । कुत्सि- तमन्नं कदनम् । कत्ययः । कद्थः । कद्वदः। काक्षः । कापुरुषः । का- पथः । कुपथः । ईजलं काजलम् । काग्निः । कवाग्निः । कोष्णम् । कदु- ष्णम् । तृणे च जातौ । कनृणम् । तत्पुरुषादन्यत्र-कूष्ट्रो राजा ।

बरणम् सरलाटीकाविराजितम् पथ्यक्षयोः । १५। कोः कादशः स्यात् । कुपथः कापथः । कु-अक्षः काक्षः ॥१५॥ इषदर्थे च । १६ । ईषज्जलं काजलम् । दधोर्डढौ स्याताम् । षड्भिरधिक दश षोडश । षट् प्रकार: षोढा । षड्धा । संख्यायाः प्रकारे धा ! धस्य ढः । *वष उत्वं दतृदशधास्त्तरपदादः ष्टुत्वं च भ- वतीति वक्तव्यम् ।* षट् दन्ता यस्य स षोडन् । षप् दन्त इनि स्थिते दन्तस्य दत् । ऋ इत् । षस्य उत्वम् । दस्य डः । "वृ तो नुम्" षोडन् ।। *वृहच्छब्दस्य सुडागमस्तलोपश्च । बृहत पति:-बृहस्पतिः ।। १६ ॥ महच्छब्दस्य टेराकारः समानाधिकारणे । १७ । महादेव । महेश्वरः । द्योश्च भूमिश्च द्यावाभूमी । द्यौशब्दस्थ द्यावादेशः । जायाया जम्भावो दम्भावश्च निपात्यते । दम्पती । जम्पती । कचिज्जायापती । आकृतिगणोऽयम् ।। १७ ।। अलुक् क्वचित् । १८। क्वचित्तमासे कृदन्ते तद्धितेऽपि विभक्तरलुक् भवति । १ छौश्च भूमिश्चेति विग्रहे द्योशब्दस्य दिवशब्दस्य वा द्यावादेशः । एवं बाया च पतिश्चेति विग्रहे जायाया जम्भावदम्भावौ वा । जपतो। दम्पती। जादापती। १ अलुगिति । समासप्रत्यययोरिति प्राप्तस्याऽपवादत्वात् , कृद- न्ते च तत्प्राप्त्यभावात्सरसिजमित्यादी नाम्नश्च कृतासमासे इति समासे एच १४८ सारस्वतव्याकरणम् समास- कृच्छ्रान्मुक्तः । अप्सु योनिरस्येत्यप्सुयोनिः । उरसि लोम यस्यासो उरसिलोमा । हृदिस्पृशतीति हृदिस्पृक् । कण्ठे कालो यस्यासौ कण्ठेकालः । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः । वनेचरः । खेचरः । *समानाधिकारण शाकपार्थिवादीनां मध्यमपद- लोपो वक्तव्या* । शाकः प्रियो यस्य स शाकप्रियः । शाकप्रिय- श्वासौ पार्थिवश्च शाकपार्थिवः । देवपूजको ब्राह्मणो देवब्राह्मणः।।१.८॥ आदेश्च इन्वे । १०। द्वन्द्वसमासे पूर्वपदस्य लोपो भवति । चकारग्रहणाद्विकल्पेन । माता च पिता च पितरौ । शिष्यमाणो लुप्यमानार्थाभिधायी । स्व- श्रूश्च श्वशुरश्च श्वशुरौ । दुहिता च पुत्रश्च पुत्रौ ।। १९ ।। मृतां दन्छे । २० । द्वन्द्व समासे पूर्वपदस्य ऋकारस्य वा-आकारो भवति । माता च पिता च मातापितरौ ।। २० ॥ प्राप्तलुक्प्रतिषेधाकृदन्त इत्यपपाट इत्यन्ये । तद्धिते अमुध्यापत्यम् आ- मुष्यायण: ॥ १ शाकपार्थिवादीनामिति । पार्थिवादौ समानाधिकरण पूर्व- पदस्य यदुत्तरपदं तस्य लोप इत्यर्थः । शाक: प्रियो यस्य स शाकानि यः । देवान् पूजयतीति देवपूजक इत्यत्रोत्तरपदयोः प्रियपूजकपदयोर्लोपः । २ ऋता द्वन्द्वे इति । विद्यायोनिशम्बन्धवाचिनामृकारान्ताना पुत्रे च परे पूर्वपदान्तस्याकारा वक्तव्य इत्यर्थः । माता च पिता चति विग्रह समासे 'एभ्यो माता गरीयसी'त्यादिवचनान्मातुः प्रधानत्वात्पूर्व- निपाते आकारादेशः ।

प्रकरणम सरलाटीकाविराजितम इन्छे सादित्वं वा । २१ । द्वन्द्व समासे सर्वादित्वं वा भवति । वर्णाश्च आश्रमाश्च इतर च वर्णाश्रमेतरे । वर्णाश्रमेतराः । *यधिकरणे बहुव्रीही मध्यमपदलोपो वक्तव्यः । कुमुदस्य गन्ध इब गन्धो थस्य स कुमुदगन्धिः ।। २१ ॥ उपमानाच्च । २२ । उपमानात्परस्य गन्धशब्दस्यकारो भवति । हंसस्य गमनमिव गामनं यस्याः सा हंसगमना ।। २२।। दिकसंख्ये संज्ञायाम् । २३ । दिग्याचकसङ्ख्यावाचकशब्दो संज्ञायां विषये परपदतुल्यार्थे समस्यते स समासस्तत्पुरुषो भवति । संज्ञायामित्यनेन नित्यसमासो दर्शितः । अविग्रहो नित्यसमासः, अस्वपदविग्रहोऽपि । दक्षिणाग्निः । सप्तग्रामः ।। २३ ।। इति समासाः। १ च्याति । वैयधिकरण्य इति क्वचित्पाठः । भिन्नविभक्त्यन्तपद- वाध्यत्व वैयधिकरण्यम् । गन्धपदस्य मध्यवर्तिनो लोपे इवेत्यस्योक्तार्थवाद- प्रयोगः । चकाराद्गन्धशब्दस्यकारान्तादेशः । २ दिक्सङ्खये इति । दिग्वाचकसङ्ख्यावाचकशब्दावित्यर्थः । संज्ञायामित्यनेन नित्यसमाससूचनात्तलक्षणमाह-अविग्रह इति ।

मारस्वतव्याकरणम् [ तद्वितः- अथ तद्धितो निरूप्यते । अपत्येऽण । १ । नाम्नो ऽपत्येऽर्थे अण् प्रत्ययो भवति । उपगोरपत्यमिति वाक्ये उपगु अण् इति स्थिते 'समासप्रत्ययोः' इति षष्टीलोपः । णकारो अद्ध्यर्थः ॥ १॥ आदिस्वरस्य णिति च वृद्धिः। २ । स्वराणां मध्ये य आदिस्वरस्तस्य वृद्धिर्भवति निति णि नद्भिते च परतः । उकारस्य औकारो वृद्धिः ।। २ ।। वोऽव्यस्वरे। ३। उकारस्यौकारस्य च अव् भवति यकारे स्वरे च परे । औपगः । वासिष्ठः । गौतमः । *शिवादिभ्यश्वाण वक्तव्यः । शेवः । वैदेहः । १ अथेति । तद्धिते इति जात्यभिप्रायेणैकवचनम् । तेभ्यः-पूर्वा- तेभ्यो नामपदेभ्योऽर्थान्तरप्रतिपादनशक्तिप्रदत्वेन हितोऽनुकूलस्तद्धित इत्यन्वर्थसंज्ञाविज्ञानात्तद्धितसंज्ञाऽणादीनामिति भावः । २ आदिस्वरस्य इति । आदौ स्वर:-आदिस्वरः । आदिल च स्वरापेक्षयेत्यभिप्रेत्योक्तं-स्वराणां मध्ये इत्यादि । ततश्च वासिन्न इत्यादी वृद्धि: । तदपि सम्भवदभिप्रायम् । ततश्च ए: कामस्यापत्यमाय इत्यादावाद्यन्तवदेकस्मिन्निति आदिलाद्भवत्येव वृद्धिः । ३ अ च ण च णौ । >णावितौ यस्य स णित् , तस्मिन् ञ्चिति । नद्धिते परत इति । तद्धितप्रकरणत्वात् । उकारौकारयोः स्थानादिना- उन्तरतमत्वादोकारो वृद्धिरित्यर्थः ।। ४ वोऽव्यस्वरे इति । उश्च ओश्च वो इति षष्ठीद्विवचनान्तम् । वश्व स्वरश्चेति समाहारः।

प्रकरणम् ] सरलाटीकाविराजितम १५१ में उरणि । ४। ऋकारस्य उर्भवति अणि परे ॥ ४ ॥ षषो णो मातरि । ५। षषः पकारस्य नकारादेशो भवति मातृशब्दे परे। शामातुरः । इयोर्मात्रोरपत्यं द्वैमातुरः ॥ ५ ॥ अत इअनुषः।। अकारान्तात् नाम्नोऽवृषिशब्दादपत्ये ऽर्थ इञ् प्रत्ययो भवति। "यस्य लोपः" । देवदत्तस्यापत्यं दैवदत्तिः । श्रीधरस्यापत्यं त्रैधरिः । दशरथस्यापत्यं दाशरथिः । पुरन्दरस्यापत्यं पौरन्दरिः ॥ ६ ॥ बह्वादिभ्यश्च । ७। बह्वादिभ्यः परे इञ् प्रत्ययो भवत्यपत्य ऽर्थे । बहोरपत्य बाहविः । औपगविः । काणिः । औडुलोमिः । अग्निशमिः ।। ७ ॥ १ ऋ उरिति । षण्णां मातॄणामपत्यमिति विग्रहे अणि सङ्घयापूर्वक- त्वात्तद्धितार्थविषयत्वाच्च द्विगुसमासे विभक्तिलोपे पटान्तत्वमाश्रित्य घोड- इति डत्वे मृन्मयं दृषन्मयमित्यादाविव अमे जमा वेत्यत्र चपा अबे जबा इत्यता जत्रा इत्यनुवृत्तः । क्वचिज्जना अमे परे अमा भवन्तीति जवस्य ड- कारस्य सवर्णत्वात् अमे अमो गकारः । अन्ये तु हसेहंस इति षस्य द्वित्वे खसपरत्वेन पूर्वषत्य घोड इति डवे खसे चपा इति चपे टकारे संयोगान्तलोपे च निमित्ताभावन्यायत्यानित्य- वात् अमे मा वेति टस्य ण इत्याहुः ।।

मारस्वतव्याकरणम् [ तद्धित- ण्यायनणेयएणीया गर्गनडावित्रीपितृ- ध्वस्त्रादेश्च । ८॥ गर्गादेर्नडादेच्यादेः स्त्रीलिङ्गात् पितृष्वनादेश्च ण्य अयनण् एयण णीय इत्येते प्रत्यया भवन्ति अपत्ये ऽर्थे । गर्ग यापत्यं गार्ग्यः । वत्सस्यापत्यं वात्स्यः । नडस्यापत्य नाडायनः। चरस्यापत्यं चारा- यणः । अत्ररपत्थमात्रेयः । गङ्गाया अपत्य गाङ्गेयः । मह्या अपत्यं माहेयः । कपरपत्यं कापयः । *मातृपितृभ्यां स्वसुः सस्य षत्वं वक्तव्यम् । मातृष्वतीयः । पैतृष्वनीयः । अलुक्क्वचित् ।। क्वचित् समासनिमित्तकविभक्तेलड्न । अमुष्य अपत्यम् अमु- ध्यायणः ॥ ९॥ पितृमातृभ्यां व्यडुलौ । १० । पितुर्माता पितृव्यः । मातुर्लीता मातुलः ।। १० ।। पितु महन् । ११ । पितुः पिता पितामहः । पितुर्माता पितामही ।। ११ ।। १ ण्यायनणिति । ण्यश्च आयनण च एयण णीयश्च ते तथा । गर्गश्च नडश्च अत्रिश्च स्लो च पितृष्वसा च ता आदौ यस्य स तथा । द्वन्द्वान्तत्वा- दादिशब्दस्य प्रत्येकं सम्बन्ध इत्यभिप्रेत्याह-गर्गादेरित्यादि । गर्गादे- गणापण्यः 1 नडादेर्गणादायनण् । अत्र्यादेर्गणास्त्रीलिङ्गाच्च एयण । पितृष्व- सादेर्गणाण्णीयः, एयण च । 1 प्रकरणम् ] सरलाटीकाविराजितम् टुंग्यत्वे क्वचित् । १२ । अपत्येऽर्थ उत्पन्नस्य प्रत्ययस्य बहुत्वे सति क्वचिदृष्यनृषि-. विषय लुग् भवति । गर्गाः । वसिष्ठाः । अत्रयः । विवेहाः ।।१२।। देवतेदमर्थे । १३ । देवतार्थ इदमर्थ चोक्ताः प्रत्यया भवन्ति । इन्द्रो देवता अस्यति ऐन्द्रं हविः । सोमो देवता अस्येति सौग्यम् । देवदत्तस्य इदं देवदत्तं स्त्रम् ।। १३ ॥ क्वचिद्वयोः । १४ । पूर्वपदोत्तरपदयोः क्वचिद्वृद्धिर्भवति । अग्निमस्तौ देवते अ- स्येति आग्निमारुतं कर्म ! सुहृदो भावः सौहार्दम् । अत्र भावे अण वक्तव्या* | १ लुग्वहुत्वे क्वचिदिति । गर्गयस्कविदादिभृग्वत्रिकुत्साङ्गिरो- वसिष्ठगौतमदेशतुल्यक्षत्रियेभ्यः परस्य प्रत्यस्य बहुत्वविषये लुग्भवतीत्यर्थः । देवत इति । देवता च इदं च देवतेदमौ, देवतेदमारर्थः देवतेदमर्थस्त- स्मिन् उक्ता अणादयो यथायोग्या भवन्तीत्यर्थः ।। २ क्वचिदिति । आदिस्वरस्येत्यत्र पदापेक्षया आदित्वःविशेषाद- द्गयोः पूर्वपदादेरुत्तरपदादेश्च वृद्धिर्भवतीत्यर्थः । अग्निमस्तो देवते अस्य तत् आग्निमारुतम् । कति विशेष्यपदम् । सुहृदो भावः, मुभगस्य भाव इति विग्रहे भावार्थे प्रत्ययानभिधानादत्र मावेऽण वक्तव्य इति वक्तव्यत्वात्स्वा- थेंऽपीत्यपिशब्दादनुक्तसमुच्चयार्थादा विकारामावसमूहादावणि सिद्धरत्रापि तेनैव वक्तव्या व्याख्येयः ।

१५४ सारस्वतव्याकरणम् तिद्धित- णितो वा । १५ । उक्ता प्रत्यया विषयान्तरे णितो वा भवन्ति । अजो गौर्यस्य सः अजगुः शिवस्तस्येदं धनुः आजगवम् , अजगव वा। कुमुदस्य गन्ध इव गन्धो यस्य स कुमुदगन्धिस्तस्यापत्यं स्त्री कौमुद्गन्ध्या । 'आवतः स्त्रियाम्' इत्याप् प्रत्ययः । श्वशुरस्यायं ग्रामः श्वाशुर्यः । विष्णोरिदं वैष्णवम् । गोरिदं गव्यम् । कुलस्येदं कुल्यम् ॥ १५ ॥ त्वन्मदेकत्वे । १६ । तब इदं त्वदीयम् । मम इदं मदीयम् ॥ १६ ॥ चतुरंश्चलोपः। १७ । चतुरशब्दस्य चकारस्य लोपो भवति ण्यणीययोः परतः । तुर्यः, तुरीयः ॥ १७ ॥ अन्यस्य दक । १८। अन्यशब्दस्य दगागमो भवति णीयप्रत्यये परे । अन्यस्य इदं अन्यदीयम् । अर्द्धजरत्या इदं अर्धजरतीयम् ॥ १८ ॥ १ णित इति। प्रागुक्ता अणादयः प्रत्यया विषयान्तरे मुख्यविध- यादपत्यादिरूपादन्यस्मिन् विषये इदमर्थादों णिती णित्कार्यकृता वा भव- न्तीत्यर्थः । २ चतुरश्चलोप इति । चतुर्शब्दस्य यश्चकारस्तस्येत्यर्थः। "य- णीययोः परतो लोपो वक्तव्य इत्यर्थः । चतुर्णी सङ्ख्यापूरण इति विग्रहे स्वार्थेऽपीत्यपिशब्दात्पूरणार्थे ण्यणीयौ, तयोश्च णित्वाऽभावादादिवृद्धथभावः । ३ अन्यस्य दगिति । अन्यशब्दाण्णीये दगागमो वक्तव्यः । श्री- त्वादन्ते । अन्यस्येदमिति विग्रहः ।।

१५५ प्रकरणम् ] सरलाटीकाविराजितम् कारकाक्रियायुक्ते । १९ । कारकादप्येते प्रत्यया भवन्ति क्रियायुक्त कर्तरि कर्मणि चाभिधेये । कुङ्कुमेन रक्तं वस्त्रं कौङ्कुमम् । मथुराया आगतो माथुरः । मामे भवः ग्राम्यः । धुरं वहतीति धुर्यः, धौरेयः ॥ १९ ॥ केनेयेकाः । २०॥ कः इन, इय, इक, इत्येते प्रत्यया भवन्ति भवाद्यर्थेषु । णित्वं चैषां वैकल्पिकम् । कर्णाटे भवः कार्णाटकः, कर्णाटको वा। ग्रामादागतस्तत्र जातो वा ग्रामीणः, ग्राम्यः । सधीचि भवः सध्रीचीन: समीचि भवः समीचीनः । तिरश्चि भवः तिरश्चीनः ॥ २० ॥ १ कारकादिति । क्रिया--धात्वर्थस्तद्युक्तस्तदाश्रयः । स च क्वचि- स्कर्ता। क्वचिच्च कर्म । यथा देवदत्तो ग्राम गच्छतीत्यत्र गमनक्रियाश्रयों देवदत्तः । देवदत्त ओटनं पचतीत्यादौ च विक्लित्तिरूपायाः पचनक्रियाया आश्रयः कर्मभृतौदन इत्यभिप्रेत्य कर्तरि कर्मणि चाभिधेये इत्युक्तम् । यत्कि- यायुक्त कर्तृकर्मणी तकियाकारकादणादयो भवन्ति । तद्धितान्तस्य चैते एव वाच्ये भवेतामित्यर्थः ! कौनुमभित्यत्र रञ्जनक्रियायाः करणकारणात् कुङ्कुमा- रजन क्रियायुक्त वस्त्रेऽभिधेयेण । धुमिति कर्मकारकाद्वह्नक्रियायुक्त कर्तर्यनडुहि वाच्ये ण्य एयण । णितो वेति व्यवस्थितो णित्यामावादादि वृद्धयभावः । १ केनेति । कश्च इनश्च इयश्च इकश्च ते केनेयकाः । णित्वं चैषां वैकल्पिकमिति । णितो वेत्यस्यात्रावृनुत्तेरिति भावः । सध्या व सत्री- चीनः । सम्यगेव समीचीनः। स्वार्थे ईनप्रत्यये तद्धिते परे अश्वेदीर्घश्वे- त्यकारलोपपूर्वकारदोर्यो । तिरश्चीन इत्यत्र तिरश्चादय इति तिरश्च निपातः ।।

१५६ सारस्वतव्याकरणम् [ तद्धित- - यलोपश्च । २१ । कन्यादीनामुपधायाः क्वचिधकारस्य लोपो भवति । कन्याया जातः कानीनः । ॐनक्षत्रादण वक्तव्यः । पुष्येण युक्ता पौर्णमासी पौषी । पोध्यां भवः पौषीणः ॥ २१ ॥ इयो वा । २२ । क्षत्रशब्दादा इय प्रत्ययो भवति । क्षतात् त्रायते इति क्षत्रम् । क्षत्रात् भवः क्षत्रियः, क्षात्रः । शुक्रात् जातं शुक्रियम् । इन्द्राज्जा- तमिन्द्रियम् । अक्षर्दीव्यतीति आक्षिकः । शब्दं करोतीति शाब्दिकः । तर्क करोतीति तार्किकः । वेदे जाता वैदिकी स्तुति- ऋग्वा ॥ २२ ॥ किमादेस्त्यतनौ । २३ । किमादेरद्यादेर्भवाद्यर्थेषु त्यतनौ प्रत्ययौ भमतः । कुत्र भवः कुत्रत्यः । कुतस्त्यः । ततस्त्यः । अद्य भवः अद्यतनः। यो भवः ह्यस्तनः । श्वो भवः स्वस्तनः । सदा भवः सदातनः । १ यलोपश्चेति । क्वचित्तद्धिते परे यकारस्य लोपो वक्तव्य इत्यर्थ: । कन्यायां भव इति विग्रहे ईनः । यस्य लोप इत्यकारलाप: । आदिवृद्धिः । पुष्ये भव: पौषीणः । इयो वेति । क्षत्रशब्दाजातावेवेयः । क्षत्रं जाति: । क्षत्रियः । क्षात्रोऽन्यः । २ अर्दीव्यति शब्दान् करोति तर्कमधीत वेदं वेत्यादि विग्रहाः । वैदिकीत्यत्र तदादित्वादीप् ।। ३ किमादेस्त्यतनाविति । किमादेरिति किम्शब्द आदि: आद्य- क्यवो यस्य तत्प्रकारकाद्गणात् स्यः । स च अभाइहक्वतसिकुत्रेभ्य एव । अमात्यः । इहत्य: । कनत्यः । कुतस्यः । कुत्रत्य :-इत्यादि ।

१५० - प्रकरणम् ] सरलाटीकाविराजितम् *दक्षिणापश्चात्पुरसस्त्यणा वक्तव्या* । दाक्षिणात्यः पाश्चात्यः । पौरस्त्यः ॥ २३ ॥ स्वार्थेऽपि । २४। उक्काः प्रत्ययाः स्वार्थेऽपि भवन्ति । देवदत्त एव देवदत्तकः । चत्वार एव वर्णाः चातुवर्ण्यम् । चोर एव चौरः । * भागरूप- नामभ्यो धेयः स्वार्थेऽपि * । भागधेयम् । नामधेयम् ॥ २४ ॥ अणीनयोर्युष्मदस्मदोस्लवकादिः । २५ । अणीनयोयुष्मदस्मदोस्तवकादय आदेशा भवन्ति । तव इदं तावकम् । मम इदं मामकम् । तावकीनः । मामकीनः । यौष्माकः । आस्माकः । यौष्माकीणः । आस्माकीनः ॥ २५ ॥ वत्तुल्ये। २६ । सादृश्ये ऽर्थे वत् प्रत्ययो भवति । चन्द्रेण तुल्यं चन्द्रवत् मुखम् । घटेन तुल्यं घटवत् उदरम् । पटवत् कम्बलम् ॥ २६ ॥ भाव तत्त्वयणः । २७ । शब्दस्य प्रवृत्तिनिमित्तं भावस्तस्मिन् भावे त, त्वं, यण् इत्येते प्रत्यया भवन्ति । ब्राह्मणस्य भावो ब्राह्मणता । त्वयणौ नपुंसकलिङ्गो १ अणीययोरिति । अण च ईनश्च अगीनी तयोः परतो युष्मदस्म- दोस्तवकादिः । एकत्वे तवकममको । द्वित्वबहुत्वयोयुष्माकास्माकी च वक्त- व्यावित्यर्थः । २ वदिति । तृतीयान्तात् क्रियातुल्य इति व्याख्येयम् । तेन पुत्रेण तुल्यः स्थूल; गोमान्वा इत्यादी गुणद्रव्यतुल्ये ३ भाव इति । तश्च त्वञ्च यण च ते तत्त्वणः । भवत्यस्माच्छन्दप्रवृत्ति- रिति भावशब्दस्यान्यर्थतामभिप्रेत्याह-शब्दस्य प्रवृत्तिनिमित्तं भाव इति । तच्च द्रव्यगुणक्रियाजातिरूपम् ।

सारस्वतव्याकरणम् १५८ [तद्धित- भवतः । ब्राह्मणत्वं । ब्राह्मण्यम् । सुमनसो भावः सौमनस्यम् । सुभगस्य भावः सौभाग्यम ! विदुषो भावो वैदप्यम || २७ ॥ समाहारे ता च गुणश्च । २८ । त्रयाणां समाहारः त्रेता । जनानां समूहो जनता । देवता । कम्र्मण्यपि यण वक्तव्या । ब्राह्मणस्य कर्म ब्राह्मण्यम् । राज्ञ इदं कर्म राज्यम् । राजन्यम् ।। २८ ॥ लोहितादेर्डिनम् । २९ । लोहितादेभीवेऽर्थे इमन् प्रत्ययो भवति, स च डित् । डित्वाहिलोपः । लोहितिमा । अणोर्भावः अणिमा । लधो वो लधिमा । महतो भावो महिमा ।। २९ ॥ १ समाहारे ता चेति । चकारादनुक्तसमुच्चयार्थात्-हस्तिनां समूहो हास्तिकम् । धैनुकमित्यादौ समूह कः । तस्य च णितो वेति णित्त्वादादि- वृद्धिः । तथा अपूयानां समूह आपूपिकम् । शाकुलिकमित्यादावन्नवाच- केभ्यः कण । एव कवचिनां समूहः कावचिकम् । कंदाराणा समूहः केदा- रिकम्-केदारकम् । कैदार्यमित्यत्र इककण्याः । तथा भिक्षादिभ्योऽण् । भिक्षाणां समूहो भैक्षम् । यौवनम् । तथा पाशादिभ्यो यत् । पाशानां समूहः पाश्या । वात्या । खल्या । गव्या । रथ्या। वातादूलः । वातूलः । तथा खलिनी गोत्ररथेभ्य इनित्रकटयेत्यादयः । खलानां समूहः खलिनी । गोत्रा । रथकटयेत्यादयः प्रयोगतो ज्ञेयाः । स्त्रीत्वादिकं लोकात् । गुणश्चेति विशेषार्थाच्चाकारात्रिशब्दस्यैव गुणः ।। २ कर्मण्यपीति । अपिशब्दात्साध्वर्थेऽपि । सामसु साधुः सामन्यः । कर्मण्यः । ३ लोहितादेरिति । 'भाव तत्त्वयण' इत्यनुवृत्तेस्ते ऽपि । ततश्च लोहितता-लोहितत्वम्--लौहित्यमित्याद्यपि ।।

१५९ प्रकरणम् सरलाटोका विराजितम् ऋ र इभनि । ३० । कारस्य रेफो भवति इमनि परे । प्रथिमा । द्रढिमा । बहोर्भाव इति विद्महे -॥ ३० ॥ यहोर्लोपो भृ च यहोः । ३१ । वहोरुत्तरेषामिमनादीनामिकारस्य लोपो भवति । बहोः स्थान भू चादेशः । बहोर्यो भूमा ॥ ३१ ॥ अस्त्यर्थे मतुः । ३२ । नाम्नो मतुः प्रत्ययो भवति, अस्यास्मिन् वास्तीत्येततस्मिन्नर्थे । उकारो नुम्विधानार्थः । ब्रितो नुम् । गोमान् । श्रीमान् । गोमती । श्रीमती । आयुष्मान् ॥ ३२ ॥ अइकौ च मत्वर्थे ॥ ३३ ॥ मत्वर्थ अइको प्रत्ययौ भवतः । वैजयन्ती पताका अस्य अस्मिन् वा वैजयन्तः प्रासादः । माया विद्यते अस्यास्मिन् वा मायिकः :: ॥३३ ॥ १ ऋ र इति। वक्तव्यत्वेन प्रयोगानुसारित्वाद्धसादेर्लधारित्येव । नेह-ऋजिमा । कृष्णिमा ।। अस्त्यर्थे इति । अस्तेरर्थोऽस्त्यर्थो विद्यमानार्थस्तस्मिन्-अस्त्यर्थे । ततश्च प्रथमान्तानाम्नोऽस्त्युपाधिकान्मतुः अस्याऽत्मिन्यास्तीत्यर्थे । "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवादयः ॥" ब्राह्मणवान् ग्रामः । उदरिणी कन्या । रूपवान्नट: । क्षीरिणो वृक्षाः । विद्यावान्नर: । दण्डीति क्रमेणोदाहरणानि । ३ अइकाविति । अश्व इकश्च अइकौ । सन्ध्यभावोऽसन्देहार्थः । एवं प्रज्ञास्यास्ति प्राज्ञः । श्राद्धः । आर्थः । वृत्तिरस्यास्ति वार्त्त इत्यादौ णितो वेति व्यवस्थया णित्त्वम् । चकारादनुक्तसमुच्चयात्प्रयोगानुसारेणान्ये- सारस्वतव्याकरणम् [तद्धित- मान्तोपधादत्विन्नी।४। मकारान्तान्मकारोपधादकारान्तादकरोपधाच्च वन्विनौ प्रत्ययो भवतो-स्त्यथें । किंवान् । लक्ष्मीवान् । भगवान् । धनी । छत्री । दण्डी । दृषद्वती भूमिः । शमी । कामी ॥ ३४ ॥ तडिदादिभ्यश्च । ३५ । तडिदाभ्यिः शब्देभ्यो वतुप्रत्ययो भवति । तडित्वान् । विद्यत्वान् । मरुत्वान् ।। ३५ ।। एतत्कियत्तयः परिमाण चतुः । ३६ एतत्कियत्तच्छब्देभ्यः परिमाणेऽर्थे वतुप्रत्ययो भवति ।। ३५ ॥ यत्तदोरा । ३७। यत्तदोष्टेरात्वं भवति वतौ परे । यत्परिमाणमस्यास्तीति यावान् । तावान् ।। ३७ ॥ किमः किर्यश्च । ३८। किम्शब्दस्य किरादेशो भवति वतौ परे । चकारान्मस्य वाकरस्य च यकारो भवति । कियान् ॥ ३८ ॥ भ्योऽपि । यथा फलबहरथेभ्य इनः । फलमस्यास्तीति फलिनः । बहिणः । रथिन इत्यादीति प्रसादकृतः । १ मान्तोपधादिति । मश्च अश्च मौ, मो अन्ते उपधाया च यस्येति व्यधिकरणबहुव्रीहिः । वतुप्रत्यय: सामान्येन भवति, इन्प्रत्ययस्त्वका- रान्तादेबेति विवेकः । दृपद्वानित्यवर्णो धोदाहरणम् । बतोरुकारानुबन्धि- वादी । किंवान् लक्ष्मीवानिति मकारान्तमकारोपधयोरुदाहरणे । २ एतस्विंयत्तद्धय इति । एभ्यः परिमाणेऽर्थ वतुप्रत्ययो वक्त- व्यः । मान्तापधादित्यनेनैव सिद्धे परिमाणार्थं वचनम् ॥ ३ किम इति । किम: किरादेशो वक्तव्यः । चकाराद्वतोर्वस्य यादे- शश्चेत्यर्थः । यत्तत्कि वा परिमाणमस्येति विग्रहे इयानित्यत्र चकारायः ।।

------ प्रकरणम् ] सरलाठीका विराजितम् आ इश्चैतदोवा । ३९। वतुप्रत्यये पर एतच्छब्दस्य आ इश् इत्येतावादेशौ वा भवतः । "गुरुः शिच" इति शित्वात्कृत्स्नस्य आ इति प्राप्तस्तथापि चकारादन्त्यस्यैव टेराकारादेशो भवति न कृत्स्नस्य । यस्मिन् पक्षे आ इशादेशस्तस्मिन् पक्षे प्रत्ययस्य यकारादेशो भवति। एतावान् । इयान् ॥ ३९॥ तुन्दादेरिलः । ४०। तुन्दादेरिलप्रत्ययो भवति अस्यर्थ तुन्दमस्यातीति तुन्दिलः ॥ ४० ॥ औन्नत्ये दन्तादुरः । ४१ । औनत्येऽर्थे वाच्ये सति दन्तशब्दादुरः प्रत्ययो भवति । उन्नता दन्ता यस्य सः दन्तुरः । (ऐश्वर्येऽर्थे स्वादामिन् ) । स्वामी । (गन्धादेरिः)। सुगन्धिः । आमगन्धिः ॥४१॥ श्रद्धादेलः । ४२ । श्रद्धादेर्गणाल्लुप्रत्ययो भवति । श्रद्धाऽस्यास्तीति श्रद्धालुः । दयालुः । कृपालुः । * अस्मायामेधास्त्रग्भ्योऽस्त्यर्थे चिन्- वक्तव्यः *। तपोऽस्यास्तीति तपस्वी । यशस्वी । मायावी । स्नग्वी ॥ ४२ ॥ १ अस्मायेति । 'अस्माये'त्यत्राऽसः प्रत्ययत्वात्प्रत्ययग्रहणेन तदन्तस्येति अस्प्रत्ययान्तान्मायादेश्वेत्यर्थः ॥

१६२ सारस्वतव्याकरणम् [तद्धित- वाचो ग्मिनिः । ४३। वाशब्दात् मिनिः प्रत्ययो भवति अस्त्यर्थे । प्रशस्ता वाग् विद्यते यस्यासौ वाग्मी ।। ४४ ॥ आलाटौ कुत्सितभाषिणि । ४४ । कुत्सितभाषिण्यर्थे वाच्ये सति आलाटौ प्रत्ययौ भवतः । कुत्सिता वाग् विद्यते यस्यासी वाचालः । वाचाटः ।। ४४ ॥ ईषदपरिसमाप्तौ कल्पदेश्यदेशीयाः । ४५ । ईषदपरिसमाप्तः सर्वज्ञः सर्वज्ञकल्पः । पटुदेश्यः । कवि- देशीयः ।। ४५ ॥ प्रशंसायां रूपः । ४६। श्लाघायां वाच्यायां रूपः प्रत्ययो भवति । प्रशस्तो वैयाकरणो वैयाकरणरूपः ॥ ४६॥ पाशः कुत्सायाम् । ४७ । कुत्सितो वैयाकरणो वैयाकरणपाशः ।। ४७ ।। भूतपूर्व चरट् । ४८। भूतपूर्वेऽर्थे वाच्ये सति चरट् प्रत्ययो भवति । दृष्टचरः । दृष्टचरी | ॥४८॥ १ वाच इति । वाक्शब्दादस्त्यर्थे ग्मिनिः प्रत्ययो वक्तव्यः । ग्मिनेर्ग- कारो जमादित्वव्यावृत्यर्थः । अथवा वाचो ग्मिनिरिति च्छेदे वाचो मिनि- प्रत्ययः वाचश्च गकारोन्तादेशश्चेति वक्तव्यः । एवं च वाच इत्यस्योपल- क्षणाद्गोमीत्यादावपि । आलाटाविति । कुत्सितमनन्वितं भाषितुं शीलमस्य कुत्सितभाषी, तस्मिंस्तद्धितान्तवाच्ये विवक्षित इत्यर्थः । ईषद- परिसमाप्ति:-किचिन्न्यूनत्वम् । प्रशंसा–प्राशस्त्यं । स्तुतिरिति यावत् । पूर्व भूत: प्राचो ज्ञात इति यावत् । ।

प्रकरणम् ] मरलाटीकाविराजितम् प्राचुर्यविकारप्राधान्यादिषु मयट । ४०. ! अन्न प्रचुर यस्मिन् सः अन्नमयो यज्ञः । मृण्मयो घटः । स्त्रीमयो जाल्मः । अमृतमयश्चन्द्रः । तदधीते वेद वेत्यत्राण वक्तव्यः । व्याकरणमधीते बंद वा वैयाकरणः । शोभनः अश्वः स्वश्वः । तं वेदेति वा ।। ४९ ।। न सन्धिय्वोर्युट् च । ५०॥ सन्धिजौ चौ सन्धिबौ, तयोः सन्धिजयोर्यकारवकारयोः सम्बन्धिनः स्वरस्य वृद्धिर्न भवति, किन्तु तयोर्युडागमो भवति । इट् उट् इत्येतावागमौ भवतः । वर्णविश्लेषं कृत्वा यकारात्पूर्वमिकारः । वकारात्पूर्वमुकारः । *स्वरहीनं परेण संयोज्यम् । आदि- स्वरस्य णिति च वृद्धिः । वैयाकरणः । सौवश्वः ।। ५० ।। १ प्राचुर्येति । प्राचुर्य च विकारश्च प्राधान्यादिश्च ते तथा तेषु वाच्येषु मयटप्रत्ययो वक्तव्य इत्यर्थः । प्रचुरस्य भावः प्राचुर्य, बाहुल्पमित्यर्थः । अन्नप्रचुरोऽन्नमय: । मृदो विकारः मृन्मयः । स्त्रीप्रधानो जाल्मोऽस- मीक्ष्यकारी । २ अमृतमयश्चन्द्र इति । अमृतरूप इत्यर्थः । ३ तदिति । अधीते पठति तद्वेद जानाति वा इत्यर्थे अण् वक्तव्य इत्यर्थः । व्याकरणाऽश्वशब्दाभ्यामणि णिचात् वृद्धिप्राप्तावस्वादमाह- न सन्धिय्वोरिति । सन्धेः संबन्धिनौ य्वौ सन्धिय्बौ । संवन्धश्च जन्यज- नकभाव एवेति विगृह्य व्याच? –सन्धिजौ वावित्यादि। इश्व उश्च । टकारो द्वन्द्वान्तत्वादुभाभ्यामन्वेति । अत एवेट उट् इत्यतावागमौ भवत इति । तो च सन्धिबोरेव यथासंख्येन । ततश्च व्याकरण इत्यत्र वकारस्य सन्धिजत्वाद्य कारवकारयोविश्लेषं कृत्वा सन्धिजाद्यकारात्पूर्वमिकारः । एवं सकारवकारयोविश्लेषं कृत्वा वकारात्पूर्वमुकार इत्यर्थः ।

- । सारस्वतव्याकरणम् [ तद्धित- इतो जातार्थे । ५१ । जातार्थे इतः प्रत्ययो भवति । लज्जा साता यस्यासौ लज्जितः । पण्डितः । तृषितः ।। ५१ ॥ तरतमेयस्विष्ठाः प्रकर्षे । ५२ । अतिशयेऽर्थे तर तम ईयसु इष्ठ इत्येते प्रत्यया भवन्ति । अतिशयेन कृष्णः कृष्णतरः । अतिशयेन शुक्ल: शुक्लतमः । *ईयस्विष्टौ डिताविति वक्तव्या* । डितिटेर्लोपः। उकारो नुम् विधानार्थः । 'न्सम्महत' इति दीर्घः । अतिशयेन लघुः लधिष्ठः । लघीयसी । लघीयान् । अतिशयेन पाप: पापिष्ठः । पापीयान् । पापीयसी ।। ५३ ।। गुर्वादोरष्ठेमेयस्सु गरादिष्टिलोपश्च । ५३ । इष्टमेयस्सु परतो गुर्वादेर्गरादिरादेशो भवति टेर्लोपश्च । १ गुरु २ प्रिय ३ स्थिर ४ स्फिर ५ उरु ६ बहुल ७ वृद्ध ८ दीर्घ ९ प्रशस्य १० बाढ ११ युवन् १२ अल्प १३ स्थूल १४ दूर १५ अन्तिकानां-क्रमेण १ गर २ नं ३ स्थ ४ स्फ १ इत इति । अस्य जातमित्यर्थे इतप्रत्ययो वक्तव्य इत्यर्थः । लजा जाताऽस्य लजितः । एवं तारकितं नमः । पल्लवितो वृक्ष इत्यादि ज्ञेयम् । २ गुर्वादरिति । अतिशयेन प्रियः प्रेष्ठः । प्रियस्य भावः प्रेमा ! प्रियस्य प्रादेशः स्थूलस्य स्थवादेशः । अतिदायेन स्थिरः-स्थेयान्-स्थेष्ठ:- स्थेमा । स्फिरः-स्फेष्ठः-स्फेयान् । उरुः-वरिष्ठ:-वरीयान्-वरिमा । बहुल:- बंहिष्ठः-बहीयान्-बंहिमा । वृद्ध :--वर्षिष्ठः-वरीयान् । तृप्त:-त्रपिष्टः-त्रपी- यान् । वृन्दारकः-वृन्दिष्ट:-वृन्दीयान् । दूरः-दविष्ठः-दवीयान् । युवा- प्रकरणम् ] सरलाटीका विराजितम् ५ वर ६ बंहि ७ ज्या ८ द्राघ ९ श्र १० साध ११ यव १२ कन १३ स्थव १४ दव १५ नेद एते आदेशा भवन्ति । अतिशयेन गुरुः गरीयान् । गरिष्ठः । गुरो यो गरिमा । अतिशयेन प्रियः प्रेयान् ग्रेष्ठः प्रेमा । अतिशयेन स्थिरः स्थेयान् स्थेष्टः स्थेमा । अतिशयेन उरुः वरीयान् वरिष्ठः । अतिशयेन स्थिरः स्फेयान् । अतिशयेन बहुल: बंहीयान् बंहिष्टः । अतिशयेन वृद्धः । (इलोपो ज्याशब्दादीयसः ) । ज्यायान् ज्येष्ठः । अतिशयेन दीर्घः द्राधीयान् द्राघिष्टः, द्राधीयसी द्राधिमा । प्रशस्यस्य श्रादेशः । श्रेयान् श्रेष्टः । अतिशयेन बहु: भूयिष्ठः । दूरस्य दवादेशः, दविष्ठः दवीयान् दवीयसी । क्षिप्रशब्दस्य क्षेपादेशः । क्षेपिष्टः क्षेपीयान् । क्षुद्रशब्दस्य क्षोदादेशः । क्षोदीयान् ॥ ५३ ॥ बहोरिष्ठे यिः । ५४। बहोरुत्तरस्येष्ठप्रत्ययस्येकारस्य यिर्भवति बहोः स्थाने भूश्चा- देशः, ईयसश्च ईलोपः । अतिशयेन बहुः भूयिष्ठः भूयान् । भूयसी भूमा । किमोऽव्ययादाख्याताच तरनमयोराम् वक्तव्यः । कुतस्तरां परमाणवः । कुतस्तमां तेषामारम्भकत्वम्। उच्चस्तरां गायति। पठतितमाम् । पचतितमाम् ॥ ५४ ॥ । यविष्ठः-यवीयान् ' ह्रस्वः हसिष्ठः ह्रसीयान् हसिमा ! क्षिप्रः क्षेपिष्ठः क्षेपीयान्- क्षेपिमा । क्षुद्रः-क्षोदिष्ठः-क्षोदीयान्-क्षोदिमा । अन्तिकः-नेदीयान्-नेदिष्टः । गढः-साधीयान्- साधिष्ठः । युवाल्पयोः कन् वा । कनिष्ठः-कनीयान् । इत्यादयो यथाप्रयोगं ज्ञेयाः । १ इलोप इति। प्रशस्यवृद्धयोादेशः, तस्मा- उज्याशब्दादीयस ईकारस्य लोपो वक्तव्य इत्यर्थ: । प्रशस्यस्य ज्यादेशः । ।

सारस्वतव्याकरणम् [तद्धित- अव्ययसर्वनाम्नामकच्याक्टेः । ५५ ! उच्चकैः । यकः । सकः । सर्वकः ॥ ५५ ॥ परिमाणे दनादयः । ५६ । परिमाणेऽर्थे दध्नच द्वयसच मात्रच् इत्येते प्रत्यया भवन्ति । जानुदध्वं जलम् । शिरोद्वयसम् । पुरुषमात्रम् । *छयोबहनां चैकस्य निधारणे किमादिभ्यो डतरडतमौ वक्तव्यौ । कतरो भवतां काण्वः । कतमो भवतां तान्त्रिकः । भवतोर्यतरस्तार्कि- कस्ततर उद्गृह्णातु ।। ५६ ।। संख्येयविशेषावधारणे द्वित्रिभ्यां नीयः । ५७ । द्वयोः संख्यापूरकः द्वितीयः। *सम्प्रसारणम् । त्रयाणां संख्यापूरकः तृतीयः ।।५७|| षटचतुरोस्थट । ५८। षष्ठः । चतुर्थः ।। ५८ ।। पश्चादेमंट । ५७॥ पश्चमः । सप्तमः । अष्टमः । नवमः ॥ ५९ ।। १ परिमाण इति । दनद्वयसमात्रादयः । तत्र दनद्वयसावूज़ माने, मात्रस्त्वविशेषेण । २ सङ्ख्येयविशेषेति । सङ्ख्यातुमर्ह-सङ्ख्येयम् । तस्य विशेष:- तत्पूरकस्तस्या ऽवधारण इत्यर्थः । द्वयोः सङ्खथयोः पूरकः । संप्रसारणम् । सस्वरस्य रेफस्य ऋकारः । पट्चतुरोरिति । षट्चतुशब्दाभ्यां सङ्खयेय- विशेषावधारणे थटप्रत्ययो वक्तव्यः । ३ पञ्चादेरिति । सङ्खयेयविशेषावधारणे इति सर्वत्रानुवर्तते । पञ्चादेर्दशपर्यन्तात्मप्रत्ययः । सप्तमः । अष्टमः । नवमः । दशमः ।

प्रकरणम् ] सरलाटीकाविराजितम्
विंशत्यादेवी तमद । ६० ।
विंशतितमः । विंशतिः ।। ६० ।।
विशतेस्तिलोपो डिति । ६१ ।
विशः । विंशतमः ।। ६१ ॥
शतादेर्नित्यम् । ६२।
शततमः ।। ६२ ।।
एकादशादेर्डः । ६३ ।
एकादशः । दिव्यष्टानां दात्रयोऽष्टाः । द्वादशः । त्रयो-
दशः । अष्टादशः ।। ६३ ।।
कतिकतिपयाभ्यां थः। ६४ ।
कतिथः । कतिपयथः ।। ६४।।
संख्यायाः प्रकारे घा । ६५ ।
द्विप्रकार द्विधा । चतुर्धा । गुणोऽण च । द्वेधा । त्रेधा ।
णित्त्रावृद्धिः । यस्य लोपः ।। ६५ ।।
अतोऽम् । ६६ ।
द्वैधम् । त्रैधम् ।। ६६ ।।
क्रियायौ आवृत्तौ कृत्वस् । ६७ ।
पञ्चकृत्वः । सप्तकृत्वः ।। ६७ ।।
१ एकादशादेरिति । निपातनादेकशब्दस्य दशशब्दे परे
आत्वम् । एवं द्वादशेत्यादी।
२ गुणोऽण चेति । धाप्रत्यये परे गुणो भवति । गुणविधिसा-
मांचकाराद्वा गुणाऽभावपक्षे धाप्रत्ययान्तादाण चकारो विकल्पार्थः ।
३ क्रियाया आवृत्ती कियाभ्यावृत्तिगणने सङ्ख्यावाचकाकृत्वस्वक्तव्य इत्यर्थः ।

१६८ सारस्वतव्याकरणम् [तद्धित- द्वित्रिभ्यां सुः । ६८। द्विः, त्रिरुक्तम् ॥ ६८ ॥ बहादः शस् । ६०। बहुशः । शतशः ।। ६९ ॥ तयायटौ संख्यायाम् । ७० । द्वितयम् । द्वयम् । त्रितयम् । त्रयम् ।। ७० ।। शेषा निपाताः कत्यादयः । ७१ । का संख्या येषां ते कति ।। ७१ ।। ॐ इति तद्धितप्रकरणम् * इति श्रीमदनुभूतिस्वरूपाचार्यविरचिते सारस्वतव्याकरणे पूर्वार्ध सम्पूर्णम्। पञ्च वारानिति पञ्चकृत्वः । द्वित्रिभ्यां सुरित्यत्रापि क्रियावृत्तावित्येव बहादेरिति । बहादेः कारकादित्यर्थस्तेन बहूना स्वामीत्यादौ न । अत्रापि क्रियाभ्यावृत्तिगणन एव । भूरिश: । गणशः । स्तोकशः | अल्पशः । अने- कश इत्यादि। २ तयायडाविति । तयश्च अयट् च तयाऽयडौ, सङ्खथाया अवयवत्वविवक्षायां भवत इत्यर्थः । द्वाववयवौ त्रयो वावयवा इति विग्रहः । द्वितयी । त्रितयीत्यत्र नदादित्वादीप । शेषा इति । निपातात् साधवो निपात्याः । किमः सङ्ख्यापरि- प्रश्ने डतिः । का संख्यैषा कति । एवं यति । तति इत्यादि शिष्टप्रयोगा- दूह्यमिति प्रसादकृतो वासुदेवभट्टाः । गुणाश्चेत्पूर्वविदुषां, दोषाश्चेन्मन्मतिभ्रमात् । निरस्य दूषणग्राम, गुणान् गृहन्तु सूरयः ! ॥ १॥ चन्द्रकीर्तिप्रसादादिटीकाभ्यः सारमादरात् । उद्धृत्य रचिता टीका बालधीवृद्धिसिद्धये ॥२॥ इति श्रीगुरुप्रसादशास्त्रिसङ्कलिता चन्द्रकीर्त्यादिसक्षेपभूता सरलाख्या विवृत्तिः ।

No text on this page.

श्रीगुरुप्रसादशास्त्रिकृत पुस्तके कमीशन २५) मैकड़ा लघुशब्देन्दुशेखर--(अव्ययीभावान्त ) परीक्षोपयोगी ६ टीका मूल्य २०) वैयाकरणभूषणसार--काशिका' और 'दर्पणा टीका १०) स्वप्नवासवदत्तानाटक-'अभिनवराजलक्ष्मी भा०टी० पञ्चतन्त्र-(सम्पूर्ण ) अभिनवराजलक्ष्मी टी. व प्रश्नपत्रसहित तर्कसंग्रह-अभिनवराजलक्ष्मी 'परिमलदीपिका टीका लकसंग्रह--(प्रथमापरीक्षा) 'बालमनोरमा' 'परीक्षा ४ टीका ११) छन्दोमन्दाकिनी-(परीक्षोपयोगी ) १६ छन्दों का हितोपदंश-(मित्रलाम) संस्कृतटीका परीक्षोपयोगी ) भष्टाध्यायीसूत्रपाठ-अत्युत्तम 'सरला' टीका सहित वेणीसंहारनाटक-(सचित्र) संस्कृत तथा भा० टी० अमरकोश-'अभिनवराजलक्ष्मी' तीनों काण्ड (३२ पेजी) ॥) अमरकोश-प्रथमकांड (१६ पेजी)॥) सटिप्पणी ३२ पेजी अमरकोश-प्रथमकांड ३२ पंजी मूल ३) द्वितीयकांड सोत्तरा तद्धितप्रयोगसूची-अत्युत्तम परीक्षोपयोगी अभिज्ञानशकुन्तला-'अभिनवराजलक्ष्मी टीका तथा भाषा टीका हितोपदेश-'अभिनवराजलक्ष्मो' एवं भापाटीकासहित संपूर्ण मध्यसिद्धान्तकौमुदी-अद्भुत सरला टी० २ रा सं. किरातार्जुनीय--'अभिनवराजलक्ष्मी' टीका (१-२-३) रघुवंशमहाकाव्य-~~-'अभिनवराजलक्ष्मी' टीका (१-२-३-४ ) (२-३) २-३-४-५ सर्ग २॥) ५ वाँ सर्ग ) पञ्चतन्त्र--(प्र० परीक्षोप०) अपरी० का. 'अभिनवराजलक्ष्मी' टी. पञ्चतन्त्र---प्रथमतन्त्र मूलरामायण-नागेशभट्टी 'अभिनवराजलक्ष्मी टीका विदुरनीति (सचित्र)m) नीतिशतक ( सचित्र) सारस्वतच्याकरणम्-(सरला टीका सहित) लघुसिद्धान्तकौमुदी-सरलाटीका व भाषाटीका नया सं० शब्दरूपावलि-३२ पेजी धातुरूपावलि- माघ ( शिशुपाल वध) २रा) रूपकौमुदी वाल्मीकि सुन्दरकाण्ड गुटका-मूलमात्र सटिप्पणी स्ववंश-५ सर्ग मल्लिनाथ पञ्चतन्त्र मा० टी० नागानन्द.३) रामवनगमन ॥) विदुलोपाख्यान अनुवाद कौमुदी प्रथम ॥) अनुवाद कौमुदी दूसरा ॥) पाणिनीय शिक्षा - पता-भागवपुस्तकालय, गायघाट, (ब्राश्च-कचौड़ीगली), बनारस १. । २) 11) ॥) A --

No text on this page.

A Vedic Word Concordance Vol 5 Part 2

Author
Visva Bhandu
Other authors
Ccl
Title
A Vedic Word Concordance Vol 5 Part 2
File name
A Vedic Word Concordance Vol 5 Part 2
Text
OCR done
Citation
1942
Publisher
The V V R Insitute
Language
Sanskrit
Pages
172
Library
Scl
DLI number
326153
Barcode
2020010004266.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
jgIed7LowRP
Download PDF

A Vedic Word Concordance Vol 5 Part 2