Bharti Bhawan Library Allahabad

Pramannayatoovalo Kalankarah

PDF Proofread

Front matter

জলমহা সংখশান্ত। (২)
৯.L
श्रीवादिदेवग्विरचित
হাত্মা
E
Cat 2
:
Registered under Sections 18 and 19 of Ac XXV - 1867
--=........ .......ass pনা
খাস্তু খাস্বামঃ শঙ্কালঙ্কাব্যথা
সামাজিৰ লস নি সুনান লক
জুন বৃহঙ্গা প্রান
4
.
काश्यां
শাশাই খুঙ্গি
শ্ৰীয় ০ ৫ ০ - ৫০'

No text on this page.

पायं पायं प्रवचनमुधां श्रीयन या प्रकामं
स्वरं स्वरं चरति कृतिना कीर्तिवल्लीवनेषु
दोग्ध्री कामानवनवरसः सा भृशं पीणयन्ती
माग् वत्सान जयति जगनि श्रीगवीदेवमरेः
"श्रीरनप्रभाचार्य:

अहम् স্বাম अथास्यां संसृतिसरण्यां समागत्य सर्वे शरीरिणः शा- न्तिशकलमप्यनासादयन्तः समयसरीसृपशीर्णाः संसारापार- पारावारपारमुपसमपारयन्तः परमपारमार्थिकपदमपि पुण्यप- द्यया प्राप्तुमपारमार्थिक मन्वानाः क्षोदिष्टप्रज्ञया सर्वाऽवज्ञया च पाञ्चभौतिकपिण्डप्रेप्ठाः कलिकल्मषकालिमकलकदाधिष्ठा विषमविषविषयाशीविपदप्पविशर्णिविपरफेप्टाः किंवा विपकीटा इव विषयविपभुजो ऽनादिदुर्वासनावासितबुद्धयश्चाहमहमि- कामेव परमपुरुषार्थ साधिष्ठमाकलयन्तोवलिताश्च गरिष्ठा- होपुरुपिकया प्रत्यहं पितृवने दीबनिद्रासुखमनुभवन्तः क्रिया- सममिहारेण इसिष्ठजननीजठरे बसन्तः सांसारिकानेकवं. हिप्ठकटुक्लेशपाशिताः सुप्तप्रबुद्धा इव प्रबुद्धसुप्ता इव तिष्ठन्ति। तदत्र किं कारणं को हेतुः किं प्रयोजनं कस्नादित्यमिति साम्रडितप्रश्नावसरे सर्वमेतदविद्याविलाससाम्राज्येनेति वारं वारं वयमुत्तरयामः।

( २ ) हंहो विलक्षणशेमुपीका विचक्षणाः ! शुभवन्तोभवन्तः सहृदयहृदयसन्तोषप्रदन्तोपितरसज्ञ रसज्ञा रस ज्ञापितं कश्य- तांवहकिमपि श्वःश्रेयसमिदमाकर्ण्य नीरक्षीरविवेचनविलक्ष- णचेतनाचातुरीचमत्कारचमत्कृताः सकृदप्योमिति व्युः । अविद्यानिरासार्थमेव प्रयतमानरस्माभिः श्रीजनयशाविजय- ग्रन्थमाला ऽनयमणिगणगुम्फिता हारभूतेव भवतां श्रीमता- मुपहारीयते । तस्यामेकेयं मणीरामायिता प्रमाणनयतत्वालोकालङ्कार- रूपा सर्वोपरि सुमेरुभूतेव विलसति । अमुं ग्रन्थं श्री १०८ सुगृहीतनाम्नीवादिप्रवरदेवमरेर्मु- खाम्भोजनिर्गलितामृतधाराऽऽसारभिव प्रमाणनयतत्वालोका- लङ्कारमदृष्टपूर्व जैनमतमन्तव्यप्रमाणविचारकर दुर्वादिवाद- वासनानिर्यातनपरं विलक्षणभङ्गीकं सप्तभङ्गीतरङ्गरिङ्गितं निबन्धं निरीक्ष्य किमिदं कथमिदं कस्येदं कीदृक्षमिदमिति स्वभावेनैव जिज्ञासवः संपत्स्यन्ते तत्त्वग्रहाग्रहपहिलाः शास्त्र- प्रियाग्रियास्तदत्रावश्यकं किञ्चनोपन्यस्तुम् । तत्र प्रथममवधेयं धीमधारयैस्तत्रभवद्भिः, यत्कस्यापि मतस्य तत्त्वमनाकलय्य खण्डनमण्डनबद्धपरिकरा ये यथा- ..

न
जाताः सलमा इव परिपतन्ति ते लभन्ते न स्वात्मविना
शाहते किञ्चिदपि भावुकम् ।
श्रीवादिदेवमूरिभगवतोऽन्तेवासी श्रीरत्नप्रभसूरिवसुलोका-
के १२३८ मिते विक्रमान्दे निजानिर्मितोपदेशमालाटीकाया-
मेवं व्यलेखीत्।
शिष्यः श्रीमुनिचन्द्रमूरिमुनिभिगीतार्थचूडामणिः
पट्टे स्व विनिवेशितस्तदनुस श्रीदेवमूरिप्रमुः।
अस्थाने जयसिंहदेवनृपतेर्यनास्तदिग्वाससा
स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ।।
तत्पप्रभवोभवनथ गुणग्रामाभिरामोदयाः
श्रीभद्रेश्वरमूरयः शुचिधियस्तन्मानसपीतये।
श्रीरत्नमभमरिभिः शुभकने श्रीदेवमुरिप्रभोः
शिष्यैः सेयमकारि संमदकृते वृत्तिविशेषार्थिनाम् ।।
विक्रमाद वमुलोका १२३८ वर्ष माघे समर्थिता
एकादशसहस्राणि मान सार्ध शतं तथा॥१११५०
अस्माद् श्रीरत्नप्रभसूरः समयः स्फुटमेवावभाति-
..

( ४ )
किञ्च किञ्चिन्न्यूनाधिकः सएव समयस्तदीयगुरोर्देव
सूरेरपि चास्मादेवनिर्णेतुं शक्यस्तथापि दुर्बद्धं सुबद्धमिति
न्यायेन पुनःप्रमाणान्तरं प्रदश्यते ।
श्रीमुनिसुन्दरमरिणा रसर्तुमनुमिते १४६६ ऽब्दे *गुवा-
वल्यामेवं व्यलेखि ।
अष्टहयेशमितेऽब्दे १७८विक्रमकालादिवंगतोभगवान
श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि संघाय ॥ ७१ ।।
तस्मादभूदाजितदेवगुरुगरीयान्
पाच्यस्तपः श्रुतिनिधिजलधिर्गुणानाम् ।
श्रीदेवमूरिरपरश्च जगत्प्रसिद्धो
वादीश्वरोऽस्तगुणचन्द्रमदोपि बाल्ये ॥ ७२ ॥
येनादितश्चतुरसीतिसुवादिलीला-
लब्धोल्लसज्जयरमामदकेलिशाली।
वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः
श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥ ७३ ।।
वेदमुनीशमिते १ १७४ऽब्देदेवगुरुर्जगदनुत्तरोभ्युदितः।
श्रीमुनिचन्द्रगुरोरिति शिष्या बहवोभवन् विदिता:७४॥
* रसरसमनु मितवर्षे १४६६ मुनिमुन्दर सूरिणा कृतापूर्वम् ।
मध्यस्थैरवधार्या गर्वावलीयं जयश्रीद्धा ॥ ८॥

अस्मादपि स्फुटतरःसमयोदी पवदेदीप्यते । श्रीपूज्यपाददेवसूरिरेव प्रमाणनयतत्वालोकालङ्कारस्य रत्नाकरनाम्नी महाव्याख्यां रचितवान् । तद् विषयेऽपि गुर्वावल्या लिखितमस्ति- स्याद्वादरत्नाकरतर्कवेधा मुदे स केषां नहि देवमूरिः। यतश्चतुर्विंशतिमूरिशाखे यस्यैव नाम्ना विदितंबभूव ७४ देवमूरिशिष्यैः श्रीरत्नप्रभसूरिभिनीतिलवीयसी रत्नाकरा- वतारिका नाम्नी टीका विनिर्मितास्ति । या मूलटिप्पणपजि- काभिः सहिता मुद्रणालये मुद्रयितुमारब्धा तस्यामेव लिलेख श्रीरत्नप्रभः। यैरत्र स्वप्रभया दिगम्बरस्यार्पिता परा भूतिः। प्रत्यक्षं विबुधानां जयन्तु ते देवसूरयोनव्याः॥३॥ अस्मादपि स्फुटतमः समयो श्रीधर्मसागरोपाध्याय- स्तपगच्छपट्टावल्यां प्राकाश्यमानीतः। तथा श्रीमुनि- चन्द्रसूरिशिष्याः॥ श्रीअजितदेवनारिवादिश्रीदेवरिप्रभृ- तयः। तत्र वादिश्रीदेवसूरिभिःश्रीमदणाहल्लपुरपत्तनेजय- सिंहदेवराजस्याऽनेकविद्वज्जनकालतायां सभायां चतुर- शीतिवादलब्धजययशसं दिगम्बरचक्रवर्तिनं वादलिपसुं .. ..

कुमुदचन्द्राचार्य वादे निर्जित्य श्रीपत्तने दिगम्बरप्रवेशो निवारितोऽद्यापि प्रतीतः । तथा वि० चतुरधिकद्वादशशत १२०४ वर्षे फलवर्द्धिग्राम चैत्यबिम्बयो प्रतिष्ठाकृता तत्ती- र्थन्तु सम्प्रत्यपि प्रसिद्ध । तथा आरासण च श्रीनेमिनाथ- प्रतिष्ठाकृता। चतुरशीति सहस्र ८४००० प्रमाणः स्याद्वा- दरत्नाकरनामा प्रमाणग्रन्थः कृतः । येभ्यश्च यन्नाव ख्यातिमत् चतुर्विंशतिसूरिशाख बभूव । एषां च पिर चतुस्त्रिशदधिके एकादशशत ११३४ वर्षे जन्म द्विपञ्चा शदधिके ११५२ दीक्षा । चतुःसप्तत्यधिके ११७४ सूरिपदं । षड्विंशत्यधिकद्वादशशत १२२६ वर्षे श्रावण- वदिसप्तम्यां ७ गुरौ स्वर्गः । प्रभावकचारेऽप्येवं श्रीप्रद्युम्नसूरिभिः समयनिर्णयः कृतः । वेदशिखिशिवे जन्म दीक्षा युग्मशरेश्वरे। वेदाश्वशंकरे वर्षे सूरित्वमभ. वत्प्रभोः ॥ रसयुग्मरवौ वर्षे श्रावणे मासि संगते । कृष्णपक्षस्य सप्त. म्यामपराओं गुरोदिने ॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरन्दरवो. धका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥ Similarly, the following passage occurs in "Extracts from the Historical Records of the Jains by Johannes Klatt Ph. D. of Berlin" published in the Indian Antiquary of September 1882:- A pupil of Munichandra was Dévasuri, who conquered the Digambara Kumudachandracharya in a dispute before Jayasimhadeva, king of Anahillapurapattana, and thereby hindered the entrance ( ७ ) of the Digambaras into that town. In Sam. 1204 Dêvasúri founded a chaitya and raised a bimba at Phalavarddhigrama (तत्ती) संप्रत्यपि प्रसिद्धं ), and made a Nêminâthapratishịhâ at Ârâsana. He composed Syâdvâdaratná karâ, a pramânagrantha, from whence sprang the Chaturvinnsatisúrisâ khứ. Dévasûri was born Sam. 1134; dikshå 1152; súripada 1174; svarga 1226 Śrâvana vadi 7 Gurau. श्रीमलधारिराजशेखरसूरिणा पञ्जिकाकारेणापि लिखित- मस्ति । स्याद्वादरत्नाकर इत्यस्ति ग्रन्थोमहत्तमः । वादिवृन्दारकश्रीमदेवस्यूरिविनिर्मितः॥४॥ न्यायशास्त्रस्यायमद्वितीयोग्रन्थः अत्राष्टौ परिच्छेदाः सन्ति । तत्र प्रथमपरिच्छेदे-प्रमाणस्वरूपनिर्णयः । द्वितीये परिच्छेदे-प्रत्यक्षस्वरूपनिर्णयः । तृतीयपरिच्छेदे-स्मरणप्रत्यभिज्ञानतीनुमानस्वरूपनिर्णयः चतुर्थपरिच्छेदे-आगमाख्यप्रमाणस्वरूपनिर्णयः । पञ्चमपरिच्छेद-विषयस्वरूपनिर्णयः । षष्ठपरिच्छदे-फलप्रमाणस्वरूपाद्याभासनिर्णयः । सप्तमपरिच्छेदे-नयात्मस्वरूपनिर्णयः ।

( ८ )
अष्टमपरिच्छेदे-वादिप्रवादिन्यायनिर्णयः।
एतद्ग्रन्थमुद्रणावसरे पञ्चपाणि पुस्तकानि प्राप्तानि, तेषांमध्ये
१ श्री महामान्यधन्यतम धर्मविजयमुनीन्द्रतो लब्धमेकं
पुस्तकम् ।
२ श्री मुनिराज वीरविजयेन दत्तमेकं पुस्तकम् ।
३ श्रीमुनिना अमिविजयेन महाशयेनापिपुस्तकमेकंसमर्पितम्।
४ श्रीकेशरविजयमुनितोपि पुस्तकमेकं समासादितम् ।
५ भावनगरस्वश्राद्धवर्य कुंवरजी आनन्दजी इत्यनेन
श्रावकेनात्र महती सहायता दत्ता ।
६ श्रीपं. अम्बादत्तशास्त्रिणां समीपेपुस्तमेकमाप्तम् ।
पूर्वोक्तमहाशयानां भूयांसं परिश्रमं चोपकृतिं च तेषां
सप्रश्रयमशीकरोतीयं पाठशाला।
यद्यपि पूर्वोक्तानि पुस्तकानि दृष्ट्वा शोधितोयं ग्रन्थस्तथापि
मनुष्यसहभान्तिदुर्वारा तत्र दृष्टिदोषात् शीशकाक्षरयो-
जनदोषावा या काचना ऽशुद्धिर्भवेत् तत्स्वपुस्तके परिमृज्य
कृपया पाठशालामपि सूचयेयुः सज्जनाः इतिमार्थयते
काशीस्थजैनयशोविजयसंस्कृतपाठशाला।

॥ श्रीः ॥ श्रीवादिदेवसूरिविरचित प्रमाणनयतत्त्वालो- कालङ्कारः। प्रथमः परिच्छेदः। रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः । शक्रपूज्यं गिरामीशंतीर्थेशं स्मृतिमानये॥१॥ प्रमाणनयतत्तव्यवस्थापनार्थमिदमुपक्रम्यते१॥ स्वपरव्यवसायिज्ञानं प्रमाणम् ॥२॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कार- क्षमं हि प्रमाणमतोज्ञानमेवेदम् ॥ ३ ॥ नवैसन्निकर्षादेरज्ञानस्यप्रामाण्यमुपपन्नत-

प्रमाणनयतत्त्वालोकालङ्कारः।
स्यार्थान्तरस्येव सार्थव्यवसितौ साधकतम-
खानुपपत्तेः ॥ ४॥
नखल्लस्य स्वनिर्णीतौ करणत्वं स्तंभादरि-
वाचेतनत्वात् नाप्यर्थनिश्चिता स्वनिश्चि-
तावकरणस्य कुंभादवितत्राप्यकरणत्वात्५॥
तव्यवसायस्वभावं समारोपपरिपन्थित्वात्-
प्रमाणत्वाद्वा ॥६॥
अतस्मिँस्तदध्यवसायः समारोपः ॥७॥
सविपर्ययसंशयानध्यवसायभेदात्रेधा ॥८॥
विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥ ९॥
यथा शुक्तिकायामिदं रजतमिति ॥१०॥
साधकबाधकप्रमाणाभावादनवस्थिता-
नेककोटिसंस्पर्शिज्ञानं संशयः ॥ ११ ॥
यथाऽयं स्थाणुर्वा पुरुषोवेति ॥ १२ ॥
किमित्यालोचनमात्रमनध्यवसायः ॥१३॥

प्रमाणनयनत्त्वालोकालङ्कारः यथागच्छतस्तृणस्पर्शज्ञानम् ॥१४॥ ज्ञानादन्योऽयः परः ॥१५॥ स्वस्य व्यवसायःस्वाभिमुख्यन प्रकाशन बाह्यस्येवतदाभिमुख्यन करिकलभकमहमा- त्मनाजानामीति ॥१६॥ कः खलुज्ञानस्यालम्बनं बाह्यं प्रतिभातमभि- मन्यमानस्तदपितत्प्रकारं नाभिमन्येत मि- हिरालोकवत् ॥१७॥ ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् १८॥ तदितरत्वप्रामाण्यम् ॥ १९॥ तदुभयमुत्पत्तो परतएव ज्ञप्तौ तु सतः परतश्चेति ॥२०॥ श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्त्वालोका- लङ्कारे प्रमाणस्वरूपनिर्णयो नाम प्रथमः परिच्छेदः ॥ १॥ ..

प्रमाणनयतच्वालोकालङ्कारः अथ द्वितीयः परिच्छेदः तविभेदं प्रत्यक्ष च परोक्षं च ॥ १ ॥ स्पष्टं प्रत्यक्षम् ॥ २॥ अनुमानाद्याधिक्येन विशेषप्रकाशनं स्प- ष्टत्वम् ॥ ३॥ तद्विप्रकारं सांव्यवहारिकं पारमार्थिकंचा॥४॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रिय- निवन्धनं च ॥५॥ एतद्वितयमवग्रहेहावायधारणाभेदादेकश- श्चतुर्विकल्पकम् ॥ ६ ॥ विषयविषयिसन्निपातानन्तरसमुद्भूतसत्ता- मात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामा- न्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥७॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥८॥ १ 'एकैकश" इत्यपिपाठान्तरम् ।

। प्रमाण मयतत्वालोकालङ्कारः ईहितहिशेषनिर्णयोऽवायः ॥९॥ सवदृढतमावस्थापन्नोधारणा ॥१०॥ संशयपूर्वकत्वादीहायाः संशयाभदः ॥११॥ कथञ्चिदभेदपिपरिणामविशेषादेषां व्यपद- शभेदः ॥१२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्व- भावतया ऽनुभूयमानवादपूर्वापूर्ववस्तुपर्या- यप्रकाशकत्वात् क्रमभावित्वाचैते व्यतिरि- च्यन्ते ॥१३॥ क्रमोष्यमीषामयमेव तथैवसंवेदनात् ॥१४॥ एवंक्रमाविभूतनिकम्मक्षयोपशमजन्य- त्वाच्च ॥१५॥ अन्यथाप्रमेयानवगतिप्रसङ्गः ॥१६॥ तथाहि नखल्वदृष्टमवगृह्यत नचानवगृहीतं- प्रमाणलयतत्त्वालोकालङ्कारः। सन्दिह्यते नचामन्दिग्धमीह्यते नचानीहि- तमवेयते नाप्यनवेतं धार्यते ॥१७॥ कचित् क्रमस्यानुपलक्षणमेषामाशूत्पादादुत्प- लपत्रशतव्यतिभदक्रमवत् ॥ १८॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् १९॥ तदुविकलं सकलं च ॥२०॥ तत्र विकलमवधिमनःपर्यायज्ञानरूपतया- देधा ॥२१॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भव- गुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम्॥२२॥ संयमविशुद्धिनिबन्धनादिशिष्टावरणविच्छे- दाजातं मनोद्रव्यपर्यायालम्बनं मनः पर्याय- ज्ञानम् ॥ २३ ॥ सकलंतुसामग्रीविशेषतः समुद्भूतसमस्ताव- A प्रमाणनयसवालोकालङ्कारः । रणक्षयापेक्षं निखिलद्रव्यपयायसाक्षात्कारि- स्वरूप केवलज्ञानम् ॥२४॥ तद्वानहन्निर्दोषत्वात् ॥२५॥ निर्दोषोसौ प्रमाणाविरोधिवाक्वात्॥२६॥ तदिष्टस्यप्रमाणेनाबाध्यमानत्वात् तदा- चतेनाविराधसिद्धिः ॥२७॥ नच कवलाहारवत्वेन तस्यासर्वज्ञत्वं कवला- हारसर्वज्ञत्वयोरविरोधात् ॥२८॥ इतिप्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥२॥ अथ तृतीयः परिच्छेदः अस्पष्टं परोक्ष स्मरणप्रत्यभिज्ञानतर्वानुमा- नागमभेदतस्तत्पञ्चप्रकारं तत्रसंस्कारप्र-

प्रमाणनयतत्त्वालोकालङ्कारः
बोधसंभूतमनुभूतार्थविषयं तदित्याकार सं-
वदनं स्मरणम् ॥१॥
ततीर्थकरबिम्बमिति यथा ॥२॥
अनुभवस्मृतिहेतुकं तिर्यगूर्द्धतासामान्या-
दिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम्३
यथातजातीयएवायं गोपिण्डोगोसदृशो-
गवयः स एवायं जिनदत्त इत्यादि ॥४॥
उपलम्भानुपलम्भसम्भवं त्रिकालीकलित-
साध्यसाधनसंबन्धाद्यालम्बनमिदमस्मिन्
सत्येवभवतीत्याद्याकारं संवेदनमूहापरना-
मा तर्कः ॥५॥
यथा यावान कश्चितधूमःस सर्वोवहौसत्ये-
वभवतीति तस्मिन्नसत्यमो नभवत्येवेति ६॥
अनुमानं द्विप्रकार स्वार्थ परार्थं च ॥७॥

प्रमाणानयतत्त्वालाकालङ्कारः।
तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्य-
विज्ञानं स्वार्थम् ॥ ८॥
निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः॥९॥
नतु विलक्षणकादिः ॥१०॥
तस्य हेत्वाभासस्यापिसम्भवात् ॥११॥
अप्रतीतमनिराकृतमभीप्सितं साध्यम्॥१२॥
शङ्कितविपरीतानध्यवसितवस्तूनां साध्य-
ताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥१३॥
प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यता
मित्यनिराकृतग्रहणम् ॥ १४ ॥
अनभिमतस्यासाध्यत्वप्रतिपत्तयेभीप्सित-
पदोपादानम् ॥१५॥
व्याप्तिग्रहणसमयापेक्षया साध्यं धर्मएवान्य-
था तदनुपपत्तेः ॥१६॥

१० प्रमागनयतत्त्वालोकालङ्कारः । नहि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिख धरित्रीधरस्याप्यनुवृत्तिरस्ति ॥१७॥ आनुमानिकप्रतिपत्त्यबसरापेक्षया तु पक्षाप- रपर्यायस्तीद्वशिष्टः प्रसिद्धोधर्मी ॥१८॥ धमिणः प्रसिद्धिः क्वचिद्रिकल्पतः कुत्र- चित्प्रमाणत क्यापि विकल्पप्रमाणाभ्याम१९ यथा समस्तिसमस्तवस्तुवेदी क्षितिधरकन्धरे- यंधूमधजवती धनिः परिणतिमानिति२०॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारा- त् ॥२१॥ साध्यस्य प्रतिनियतमिसंबन्धिता प्रसिद्ध- ये हेतोरुपसंहारवचनवत्पक्षप्रयोगोप्यवश्य- माश्रयितव्यः ॥२२॥ त्रिविध साधनमभिधायैव तत्समर्थनं विद- प्रमाणनयतत्त्वालोकालङ्कारः धानःकः खलु न पक्षप्रयोगमङ्गीकुरुते।।२३॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायिवचनं परार्थ प्रत्यक्षं परप्रत्यक्षहेतुत्वात् ॥ २४ ॥ यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डि. ताभरणभारिणी जिनपतिप्रतिमामिति२५॥ पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रति- पत्तेरङ्गन दृष्टान्तादिवचनम् ॥ २६ ॥ हेतुप्रयोगस्तथापपत्त्यन्यथानुपपत्तिभ्यां द्वि- प्रकारः ॥२७॥ सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः। अस- तिसाध्ये हेतोग्नुपपत्तिवान्यथानुपपत्तिः२८ यथा कृशानुमानयंपाकप्रदेशः सत्येव कृशा- नुमत्त्वे धूमवत्त्वस्यापपत्तेरसत्यनुपपत्तति२९ १२ प्रमाणनयतत्त्वालोकालङ्कारः । अनयोरन्यतरप्रयागणैव साध्यप्रतिपत्ती दि- तीयप्रयोगस्यैकत्रानुपयोगः ॥३०॥ नदृष्टान्तवचनं परप्रतिपत्तये प्रभवति त. स्यां पक्षहेतुवचनयोरेव व्यापारोपलब्धेः३१ नच हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्तत- कंप्रमाणादेव तदुपपत्तेः ॥३२॥ नियत कविशेषस्वभावे च दृष्टान्त साकल्यन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापेक्षा- यामनवस्थितेनिवारः समवतारः ॥ ३३ ॥ नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य- व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः अन्तर्व्याप्त्या हेतोःसाध्यप्रत्यायने शक्तावश क्तौ च बहिप्प्तेरुद्भावनं व्यर्थम् ॥ ३५॥ पक्षीकृतएवविषये साधनस्य साध्येन व्याप्ति-

प्रमाणनयतत्त्वालोकालङ्कारः।
रन्तर्व्याप्तिरन्यत्रतुबहिर्व्याप्तिः यथाऽनका
न्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः। अग्नि-
मानयं देशो धूमवत्त्वात् य एवं स एवं
यथा पाकस्थानम् ।। ३६ ॥
नोपनयनिगमनयोरपि परप्रतिपत्तौसामर्थ्य-
पक्षहेतुप्रयोगादेव तस्याः सद्भावात् ।।३७॥
समर्थनमेवपरंपरप्रतिपत्त्यङ्गमास्तां तदन्तरेण
दृष्टान्तादिप्रयोगेऽपि तदसंभवात् ।।३८॥
मन्दमतीस्तुव्युत्पादयितुं दृष्टान्तोएनयनि-
गमनान्यपि प्रयोज्यानि ॥३९॥
प्रतिबन्धप्रतिपत्तरास्पदं दृष्टान्तः ॥४०॥
स वा साधर्म्यतो वैधयंतश्च ॥४१॥
यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता
प्रकाश्यते स साधर्म्यदृष्टान्तः॥ ४२ ॥

प्रमाण प्रयतत्त्वालांकालङ्कारः ।
यथा यत्र धूमस्तत्र वह्निर्यथा महानसः॥॥४३॥
यत्र तु साध्याभावे सावनस्यावश्यमभावःप्र-
दीत सवैधर्म्यदृष्टान्तः ॥ ४४॥
यथाग्न्यभावे नभवत्येवधूमो यथा जलाशये४५
हेतोःसाध्यमिण्युपसंहरणमुपनयः ।।४६।।
यथा धूमश्चात्र प्रदेशे ॥४७॥
साध्यधर्मस्य पुनर्निगमनम् ॥ ४८॥
यथा तस्मादग्निरत्र ॥४९॥
एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया की-
त्यन्ते ॥५०॥
उक्तलक्षणो हेतुर्दिप्रकार उपलब्ध्यनुपल-
ब्धिभ्यां भिद्यमानत्वात् ॥५१॥
उपलब्धिर्विधिनिषेधयोःसिद्धिनिबन्धनम-
नुपलब्धिश्च ॥५२॥

--
प्रमाणनयतत्त्वालोकालङ्कारः
विविः सदंशः प्रतिषेधोऽसदशः ।।५३ ॥
सचतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतरा-
भावोत्यन्ताभावश्च ॥५४॥
यन्निवृत्तावेव कार्यस्यसमुत्पत्तिः सोस्यमा-
गमावः ॥५५॥
यथा मृत्पिण्डनिवृत्ताव समुत्पद्यमानस्य
घटस्य मृत्पिण्डः ॥५६॥
यदुत्पत्तो कार्यस्यावश्यं विपत्तिः सोस्य प्र-
साभावः ॥ ५७॥
यथा कपालकदम्बकोत्पत्तौ नियमतोविपद्य-
मानस्य कलशस्य कपालकदम्बकम् ॥५८॥
खरूपान्तरात स्वरूपव्यावृत्तिरितरतराभावः
यथा स्तंभस्वभावात् कुंभस्वभावव्यावृत्तिः६०
कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्ति-
रत्यन्ताभावः ॥६१॥

प्रमाणनयतत्वालोकालङ्कारः । यथा चेतनाऽचेतनयोः॥२॥ उपलब्धेरपि दैविध्यमाविरुद्धोपलब्धिर्विरु- दोपलब्धिश्च ॥६३॥ तत्राविरुद्धोपलब्धिर्विधिमिद्धौ षोढा ६४॥ साध्येनाविरुद्धानां व्याष्यकार्यकारणपूर्वच- रोत्तरचरसहचराणामुपलब्धिरिति॥६५॥ तमविन्यामाखाद्यमानादाम्रादिफलरसा- देकसामग्यनुमित्या रूपाद्यनुमितिमभिम- न्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्रशक्तरप्रतिस्खलनमपरकारणसाकल्यञ्च६६ पूर्वचरोत्तरचरयोर्नस्वभावकार्यकारणभावी- तयोः कालव्यवहितावनुपलम्भात्।। ६७॥ नचातिकान्तानागतयोर्जाग्रहशासंवेदनम- रणयोःप्रबोधोत्पातौ प्रति कारणत्वं व्यवहि- प्रमाणनयतत्त्वालोकालङ्कारः । तत्त्वेन नियापारत्वात् ॥६॥ स्वव्यापागपेक्षिणी हि कार्य प्रति पदार्थ- स्य कारणत्वव्यवस्था कुलालस्येव कलश प्रति ॥ ६९॥ नव व्यवहितयोस्तयोापारपरिकल्पनंन्य व्यमतिप्रसक्तेः ॥ ७॥ परंपराव्यवहितानांपरेषामपि तत्कल्पनस्य निवारयितुमशक्यतात् ॥७१॥ सहचारिणोः परस्परस्वरूपपरित्यागेन ता- दाम्यानुपपत्तेः सहोत्पादेनतदुत्पत्तिविप- त्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेश:७१ धनिःपरिणतिमान प्रयत्नानन्तरीयकत्व त् यः प्रयत्नानन्तरीयकास परिणतिमान यथा स्तम्भो योवा न परिगतिमान् सन प्रयत्नान . १८ प्रमाणन्यतत्त्वालोकालङ्कारः । न्तरीयको यथा वान्ध्ययः प्रयत्नानन्तरीयक- श्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्येण वै. धर्येणच ॥ ७३ ॥ अस्त्यत्र गिरिनिकुञ्ज धनञ्जयो धूमसमुप- लम्भादिति कार्यस्य ॥ ७४ ।। भविष्यति वर्ष तथाविधवारिवाहविलोक- नादिति कारणस्य ॥७५॥ उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूद- यदर्शनादितिपूर्वचरस्य ॥ ७६ ॥ उदगुर्मुहूर्त्तात्पूर्वपूर्वफल्गुन्यउत्तरफल्गुनीना- मुद्रमोपलब्धेरित्युत्तरचरस्य ॥ ७७.।। अस्तीह सहकारफले रूपविशेषः समास्वाद्य. मानरमविशेषादिति सहचरस्य ॥ ७८ ।

प्रमाणनयतत्वालोकालङ्कारः ।
विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्त-
प्रकारा॥ ७९ ॥
तत्राद्या स्वभावविरुद्धोपलब्धियथा ॥८॥
नास्त्येव सर्वथैकानोनेकान्तस्योपलम्भात्८१
प्रतिषेध्यविरुद्धव्यातादीनामुपलब्धयः ष८२
विरुद्धव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्त
स्वेषु निश्चयस्तत्रसन्देहात् ॥ ८३ ।।
विरुद्वकार्योपलब्धिर्यथा न विद्यते ऽस्य को
धागुपशान्तिर्वदनविकारादः ॥ ८४ ॥
विरुद्धकारणापलब्धियथा नास्य महर्षेरसत्यं
वचः समस्तिरागद्वेषकालुष्याकलङ्कितज्ञा-
नसंपन्नत्वात् ॥ ८५॥
विरुद्रपूर्वचरोपलब्धियथा नोद्गमिष्यति
महन्ते पुष्यताग रोहिण्यदमात ॥८६॥

२० प्रमाणनयतत्त्वालोकालङ्कारः।
विरुद्वात्तरचगेपलब्धियथा नांदगान मुह-
त्पूिर्व मृगशिरः पूर्वफल्गुन्युदयात् ।।८७||
रुिद्रसहचपलब्धियथा नास्त्यस्य मिथ्या
ज्ञानं सम्यग्दर्शनात् ॥ ८॥
अनुपलब्धेरपिदैरूप्यमविरुद्धानुपलब्धिर्वि-
रुद्धानुपलब्धिश्च ।। ८९॥
तत्रासिरुद्रानुपलब्धिःमतिषेधावबोधे सम-
प्रकारा॥९॥
प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्य-
कारणपूर्वचरोत्तरचरसहचराणामनुपलब्धि-
रिति ।।९१॥
स्वभावानुपलब्धियथा नास्त्यत्र भूतले कुम्भ
उपलब्धिलक्षणप्राप्तस्य सभावस्थानुप-
लम्भात् ॥ ९२॥

प्रमाणनयतत्त्वालोकालङ्कारः। व्यापकानुपलब्धिर्यथा नास्त्यनादेशे प- नमः पादपानुपलब्धः ॥१३॥ कार्यानुपलब्धियथा नास्त्यत्रापतिहतशक्ति के बीजमङ्कुरानवलोकनात् ॥९४॥ कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्र-- भृतयोमावास्तत्त्वार्थश्रद्धानाभावात् ।।९.५४॥ पूर्वचरानुपलब्धियथानोदमिष्यति मुहूर्ता- न्ते स्वातिनक्षत्रं चित्रोदयादर्शनात् ॥१६॥ उत्तरचगनुपलब्धिर्यथा नोदगमत् पूर्वम- द्रपदामुहूतिपूर्वमुत्तरभद्रपदोडमानाग- मात् ।।९७॥ सहचरानुपलब्धियथा नास्त्यस्य सम्यग्ज्ञा- नं सम्यग्दर्शनानुपलब्धः ॥ ९८॥ विरुद्वानुपलब्धिस्तु विविप्रतीतौ पञ्चधार

ience
प्रमाणनयतत्त्वालांफालङ्कारः।
विरुद्ध कार्यकारणस्वभावव्यापकसहचरा--
नुपलम्भभेदात् ॥१०॥
विरुद्ध कार्यानुपलब्धिर्यथाऽत्रशरीरिणि रो-
गातिशयः समस्ति निरोगव्यापागनुपल-
ब्बेः॥१०॥
विरुद्धकारणानुपलब्धिर्यथा विद्यते ऽत्र प्रा-
णिनि कष्टमिष्टसंयोगाभावात् ॥१०२॥
विरुद्वस्वभावानुपलब्धियथावस्तुजातमने-
कान्तात्मकमेकान्तस्वभावानुपलम्भात१०३
विरुद्रव्यापकानुपलबिर्यया ऽस्त्यत्र च्छा-
या औष्ण्यानुपलब्धेः ॥१०४॥
विरुद्धसहचरानुपलब्धिर्यथा ऽस्त्यस्य मि-
थ्याज्ञानं सम्यग्दर्शनानुपलब्धेः ॥१०॥
इतिस्मरणप्रत्यभिज्ञानतानमानस्वरूप-
निर्णयानामतृतीयः परिच्छेदः ॥ ३ ॥

प्रमाणक्यतत्त्वालोकालङ्कारः ।
आप्तवचनादाविर्भूतमर्थसंवेदनमागमः॥१॥
उपचारादाप्तवचनञ्च ॥२॥
यथा समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्न-
सानुप्रभतयः॥३॥
अभिधयं वस्तु यथास्थितं योजानीते यथा-
ज्ञातवाभिधत्तं स आप्तः ॥ ४॥
तस्य हि वचनमविसंवादि भवति ॥ ५॥
सब देवा लौकिकोलोकोत्तरश्च ॥६॥
लौकिको जनकादिर्लोकोत्तरस्तु तीर्थक-
रादिः ॥७॥
वर्णपदवाक्यात्मकं वचनम् ॥ ८॥
अकारादिः पौगलिको वर्णः ॥९॥
वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः
पदं पदानान्तु वाक्यम् ॥१०॥

प्रमाणन यतत्त्वालोकालङ्कारः।
खभाविकसामर्थ्य समयाभ्यामर्थबोधनिब-
न्धनं शब्दः ॥११॥
अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवत
यथार्थत्वायथार्थवे पुनः पुरुषगुणदोषावनु-
सरतः ॥ १२॥
सर्वत्रायं धनिर्विधिप्रतिषेधाम्यां स्वार्थम-
भिदधानः सप्तमङ्गीमनुगच्छति ॥१३॥
एकत्र वस्तुन्यकैकधर्मपर्यनुयोगवशादवि-
रोधेन व्यस्तयो समस्तयोश्च विधिनिषेधयोः
कानया स्यात्कागङ्कितःसप्तधावाकप्रयो-
गः सप्तभङ्गी ॥१४॥
तद्यथा स्यादस्त्येव सर्वमिति विधिकल्पन-
या प्रथमोभङ्गः ॥१५॥
स्यानास्त्येव समितिनिषेधकल्पनया द्वि-
तीयः ॥१६॥

- - प्रमाणनयतस्वालोकालङ्कारः स्यादस्त्येव स्यान्नास्त्योति कमतोविधिनि षधकल्पनया तृतीयः॥१७॥ स्यादवक्तव्य मेवेति यूगपद्विधिनिषेधकल्प- नया चतुर्थः ॥१८॥ स्थादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पन या युगपदिधिनिषेधकल्पनया च पञ्चमः१९ स्यान्नास्त्येव स्यादवक्तव्यमवेति निषेधक- ल्पनया यूगपद्विधिनिषेधकल्पनया च षष्ठः२० स्थादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवे- ति क्रमताविधिनिषेधकल्पनया युगपद्रि- धिनिषेधकलानया च सप्तमइति ॥२१॥ विधिप्रधानएव ध्वनिरिति न साधु॥२२॥ निवधस्य तस्मादप्रतिपत्तिप्रमत्तः ॥२३॥ अप्राधान्यनैव ध्वनिस्तमभिधत्तइत्ययसारमः

प्रमाणायतत्त्वालोकालङ्कारः।
चित्कदायिकथञ्चित्प्राधान्येनाप्रतिप-
त्रस्य तस्याप्राधान्याऽनुपपत्तः ॥२५॥
निषेधप्रधानएवशब्द इत्यपिप्रागुक्तन्याया-
दपास्तम् ॥२६॥
क्रमादुभयप्रधानएवायमित्यपि नसाधीयः२७
अस्य विधिनिषेधाऽन्यतरप्रधानत्वानुभव-
स्याप्यबाध्यमानत्वात् ॥२८॥
युगपद्विधिनेषेधात्मनोऽर्थस्यावाचक ए-
वासौ इतिवचो न चतुरस्रम् ॥२९॥
तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ३०
विध्यात्मनोऽर्थस्य वाचकमन्नुभयात्मनोयु
गपदवाचकएव स इत्येकान्तोपिनकान्तः३१
निवेधात्मनःसहद्वयात्मनश्चार्थस्य वाचक-
खावाचकत्वाभ्यामपिशब्दस्य प्रतीयमान-
त्वात् ॥ ३२॥

मयागायतवाल कालङ्कारः । निषवात्मनो ऽर्थस्य वाचकःसन्नुभयात्म- नोयुगपदवाचकएवायमित्यष्यवधारणं न रमणीयम् ॥ ३३॥ इतग्थापि संवेदनात् ॥३४॥ क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्यवाच- कश्चावाचकश्च ध्वनि न्यथा इत्यपि गिथ्या ।। ३५॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः३६ एकत्र वस्तुनि विधीयमाननिषिध्यमानान- नधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतै- व सप्तभङ्गीतिन चेतसि निधेयम्॥३७॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्याय वस्तू- न्यनन्तानामपि सप्तभङ्गीनामेव संभवात् ३८ प्रतिपर्याय प्रतिपाद्यपर्यनुयोगानां सप्ता- २८ प्रमाणनयतत्वालोकालङ्कारः । नामेव संभवात् ॥३९॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानिया मात्॥४०॥ तस्याऽपि सप्तविधत्वं सप्तधैव तत्सन्देहस-- मुत्पादात्॥४१॥ तस्याऽपिसप्तप्रकारत्वनियमः स्वगोचरव- स्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥४२॥ इयंसप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा- विकलादशस्वभावा च ॥४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनःका- लादिभिरभेदवृत्तिप्राधान्यादभेदोपचारा- द्रा योगपद्येन प्रतिपादकवचासकलादेशः४४ तद्धिपरीतस्तु विकलादेशः॥ ४५ ॥ तविभेदमपिप्रमाणनात्मीयप्रतिबन्ध काप-

प्रमाणनयतत्त्वालोकालङ्कारः ।
गमविशेषस्वरूपसामर्थ्यतः प्रतिनियतम-
र्थमवद्योतयति ।। ४६॥
नतदुत्पत्तितदाकारताभ्यां तयोपार्सेक्ये-
न सामस्त्यन च व्यभिचारोपलम्भात्॥४७॥
इति आगमाख्यप्रमाणस्वरूपनिर्ण
योनामचतुर्थः परिच्छेदः ४
तस्य विषयः सामान्यविशेषाद्यनेकान्तात्म-
कं वस्तु ॥१॥
अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्रा.
चीनोत्तराकारपरित्यागोपादानावस्थान-
स्वरूपपरिणत्यार्थकियामामर्थ्यघटनाच २
सामान्य द्विप्रकारं तिर्यसामान्यमूर्खता-
सामान्यच ॥३॥

प्रमाणन यतत्त्वालोकालङ्कारः ।
प्रतिव्यक्तितुल्यापरिणतिस्तियक्मामान्य
शबलशाबलेयादिपिण्डेषु गोत्वं यथा॥४॥
पूर्वापरपरिणामसाधारणद्रव्यमूर्द्रतासामा-
न्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् । ५।।
विशेषोपि द्विरूपो गुणः पर्यायश्च ॥ ६॥
गुणः सहभावीधर्मो यथात्मनि विज्ञाव्य-
क्तिशक्तगदिः ॥७॥
पर्यायस्तूक्रमभावी यथातत्रैवसुखदुःखादिः८
इतिविषयस्वरूपनिर्णयोनामपञ्चमः
परिच्छेदः।
यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥१॥
तद्विविधमानन्तर्येण पारम्पर्येग च ॥२॥
तत्राऽनन्तर्ये ग सर्वप्रमाणानामज्ञाननि-
वृत्तिः फलम् ॥ ३॥

प्रमाणनयतत्त्वालाकालङ्कारः पारम्पर्यग केवलज्ञानस्य तावत्कलमौदा- सीन्यम् ॥ ४॥ शेषप्रमाणानां पुनरुपादानहानोपक्षाबु- छयः॥ ५॥ तत्प्रमाणतः स्याद्भिन्नमभिन्नं चप्रमाणफ- लत्वान्यथानुपपत्तेः ॥६॥ उपादानबुध्यादिना प्रमाणाद्भिन्नन व्यव- हितफलेन हेताळभिचारइति न विभाव- नीयम् ॥७॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेद- व्यवस्थितेः॥८॥ प्रमाणतया परिणतस्यैवात्मनः फलतया प- रिणतिप्रतीतेः ॥ ९॥ यःप्रमिपीते मएवोपादत्तं परित्यजत्युपेक्ष-

प्रमाणनयतवालोंकालङ्कारः
ते चेति सर्वसंव्यवहारिभिरस्खलितमनुभ-
वात् ॥ १०॥
इतरथा वपरयो प्रमाणफलव्यवस्थाविप्लवः
प्रसज्येत ॥ ११ ॥
अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नन
साक्षात्फलेन साधनस्यानेकान्तइति नाश-
ङ्कनीयम् ॥१२॥
कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात्१३
साध्यसाधनभावन प्रमाणफलयो प्रतीयमा-
नत्वात् ॥ १४ ॥
प्रमाणहि करणाख्यं साधनं स्वपरव्यवसितो
साधकतमत्वात् ॥१५॥
खारव्यवासतिक्रियारूपाऽज्ञाननिवृत्यार
फलंतु साध्यं प्रमागनिष्पाद्यत्वात् ॥१६॥

प्रमाणनयतत्त्वालोकालङ्कारः । प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथ- ञ्चिद्भेदः॥ १७॥ कर्तृक्रिययोःसाध्यसाधकभावेनोफ्लम्भात् ॥ का हिसाधकः स्वतन्त्रत्वात् क्रियातु सा- ध्या कर्तृनिवर्त्यत्वात् ॥१९॥ न च क्रियाक्रियावतः सकाशादभिन्नैव मिन्नैव वा प्रतिनियतक्रियाक्रियावद्धावभङ्ग- प्रसङ्गात् ॥ २०॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिक- प्रलापः परमार्थतः खाभिमतसिद्धिविरो• धात् ॥ २१॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः॥२२॥ प्रमाणस्य स्वरूपादिचतुष्याद्विपरीतं तदा- ३४ प्रमाणनयतत्त्वालोकालङ्कारः । भासम् ॥ २३॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभा- सकनिर्विकल्पकसमारोपाप्रमाणस्य स्व- रूपाभासाः॥२४॥ यथा सन्निकर्षाद्यस्वसंविदितपरानवमास- कज्ञानदर्शनविपर्ययसंशयानध्यवसायाः। तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥२६॥ सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदा- भासम् ॥ २७॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानंदुःखे सुख- ज्ञानञ्च ॥ २८॥ पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदा- भासम्॥ २९॥ यथाशिवाख्यस्य राजर्षेरसंख्यातद्वीपसमु-

प्रमाणन यतत्त्वालोकालङ्कारः ।
द्वेषु सप्तद्वीपसमुद्रज्ञानम् ॥ ३० ॥
अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभा-
सम् ॥ ३१॥
अननुभूते मुनिमण्डले तन्मुनिमण्डलमितियथा
तुल्ये पदार्थ स एवायमित्येकस्मिंश्च तेन
तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाभासम्॥३३॥
यमलकजातवत् ॥३४॥
असत्यामपिव्याप्तौतदवमास्तर्कामासः३५
सश्यामोमैत्रतनयत्वात् इत्यत्र यावान् मैत्र-
तनयः सश्यामः इति यथा ॥३६॥
पक्षामासादिसमुत्थं ज्ञानमनुमानाभासम-
वसेयम् ॥३७॥
तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्म-
विशेषणास्त्रयः पक्षाभासाः॥३८॥

३
प्रमाणनयतत्त्वालोकालङ्कारः।
प्रतीतसाध्यधर्मविशेषणो यथार्हातान् प्र-
त्यवधारणवर्ज परेण प्रयुज्यमानः सम-
स्तिजीव इत्यादि ॥३९॥
निराकृतसाध्यधर्मविशेषणः प्रत्याक्षानुमा-
नागमलोकवचनादिभिः साध्यधर्मस्य
निराकरणादनेकप्रकारः ॥ ४० ॥
प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा
नास्तिभूतीवलक्षणआत्मा ॥४१॥
अनुमाननिराकृत्साध्यधर्मविशेषणो यथा
नास्ति सर्वज्ञो वीतरगो वा ॥४२॥
आगमनिराकृतसाध्यधर्मविशेषणो यथा
जैनै रजनिभोजनं भजनीयम् ॥४३॥
लोकनिराकृतसाध्यधर्मविशेषणो यथा ना.
पारमार्थिकः प्रमाणप्रमेयव्यवहारः॥४४॥

३७ प्रमाणनयतत्त्वालोकालङ्कारः। खवचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम्॥४५॥ अनभीप्सितसाध्यधर्मविशेषणो यथा स्या- दादिनः शाशतिकएव कलशादिरशास- तिक एववेति वदतः ॥४६॥ असिद्धविरुद्धानकान्तिकास्त्रयोहेत्वाभा- साः॥४७॥ यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते- सोऽसिद्धः ॥४८॥ सद्विविध उभयासिद्धोऽन्यतरासिद्धश्च ४९ उभयासिद्धो यथा परिणामीशाब्दश्चाक्षु. पत्वात् ॥५०॥ अन्यतरासिद्धोयथा अचेतनास्तरबोविज्ञा. नेन्द्रियायुनिरोधलक्षणमरणरहितत्वात्।५१॥

३८ प्रमाणनयतत्त्वालोकालङ्कारः । साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यव- सीयते स विरुद्धः॥५२॥ यथा नित्यएव पुरुषोऽनित्यएव वा प्रत्यभि ज्ञानादिमत्वात् ॥५३॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैका. न्तिकः ॥ ५४॥ सहेवा निर्णीतविपक्षवृत्तिकः सन्दिग्ध- विपक्षवृत्तिकश्च ॥५५॥ निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वात् ॥५६॥ सन्दिग्धविपक्षवृत्तिको यथा विवादापन: पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥५७।। साधर्म्यण दृष्टान्ताभासोनवप्रकारः ॥५८|| साध्यधर्मविकलः साधनधर्मविकलः उभ- प्रमाणनयतत्त्वालाकालङ्कारः। ३९ ययमविकलः सन्दिग्धसाध्यधर्मा सन्दि- ग्धसाधनधर्मा सन्दिग्धोभयधर्मानन्व- योऽप्रदर्शितान्वया विपरीतान्वयश्चेति५९। तत्रापौरुषेयः शब्दोऽमूर्त्तत्वादुःखवदिति साध्यधर्मविकलः ॥ १ ॥ ६० ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हतौ परमा- णुवदिति साधनधर्मीवकलः ॥ १॥६१॥ कलशवदित्युभयधर्मविकलः॥ १॥६२॥ रागादिमानयं वक्तृत्वाद्देवदत्तवदिति स- न्दिग्धसाध्यधर्मा ॥ ३ ॥६३॥ मरणधर्माय रागादिमत्तान मैत्रवदिति सं- दिग्धसाधनधर्मा ॥ ५ ॥६४॥ नायं सर्वदर्शीरागादिमत्वान्मुनिविशेष- वदिति सन्दिग्धोमयधर्मा। ६। ६५ ॥ M . प्रमाणनयतत्त्वालोकालङ्कारः। रागादिमान विवक्षितः पुरुषोवक्तृत्वादिष्ट- पुरुषवदित्यनन्धयः । ७ । ६६ ॥ अनित्यः शब्दः कृतकत्वात् घटवादित्य प्रदर्शितान्वयः । ८।६७ ॥ अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः।९।६८॥ वैधयेणापि दृष्टान्ताभासोनवधा ॥६९॥ असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यति- रकोऽसिद्धोभयव्यतिरेकः सन्दिग्धसाध्य- व्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दि- ग्धोभयव्यतिरेकोऽव्यतिरेको प्रदर्शितव्य- तिरेको विपरीतव्यतिरेकश्च ॥ ७० ॥ तेषुभ्रान्तमनुमानंप्रमाणत्वात्यत्पुनधान्तं न भवतिन तत् प्रमाणं यथास्वप्नज्ञानमिति प्रमाणनयतत्त्वालोकालङ्कारः । असिद्धसाध्यव्यतिरेकः स्वप्न ज्ञानात् भ्रान्त त्वस्यानिवृत्तेः । १ । ७१ ॥ निर्विकल्पकं प्रत्यक्ष प्रमागत्वायत्तु सवि- कल्पकंन तत्प्रमाणं यथा लैङ्गिकमित्यसिद्ध- साधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्या- निवृत्तेः । २ । ७२ ॥ नित्यानित्यःशब्दः सत्वात् यस्तु न नित्या- निताः सनसंस्तद्यथा स्तम्भ इत्यसिद्धो. भयव्यतिरेकः स्तम्भान्नित्यान्नित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः । ३ । ७३ ॥ असर्वज्ञोऽनाप्तोवा कपिलोऽक्षीणकैकान्त- वादिलाद्यः सर्वज्ञ आप्तोवा सक्षणिकैका- न्तवादी यथासुगत इति सन्दिग्धमाध्यव्य- तिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्य-

--
प्रमाणनयतस्वालोकालङ्कारः
धर्मयायावृत्तेः सन्दहात् । ४ । ७४ ॥
अनादेयवचनः कश्चिद्विवक्षितः पुरुषोरागा-
दिमत्वाद्यः पुनरादेयवचनः स वीतराग-
स्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधन-
व्यतिरेकः शौद्धांदनी रागादिमत्वस्य
निवृत्तः संशयात् । ७५॥५॥
नवीतरागः कपिलः करुणास्पदेष्वपि परम-
कृपयाऽनपितनिपिशितशकलत्वात् य-
स्तुवीतरागः सकरुणास्पदेषुपरमकृपया स-
मपितनिजपिशितशकलस्तद्यथातपनवन्धु-
रितिसन्दिग्धोभयव्यतिरेकः तपनबन्धौवीत-
रागत्वाभावस्य करुणास्पदेष्वपि परमकृपया-
नर्पितनिजपिशितशकलत्वस्य च व्यावृत्तः
सन्देहात् । ६॥७६ ॥

-
-
प्रमाणनयतत्त्वालोकालङ्कारः ।
न वीतरागः कश्चिद्विवक्षितः पुरुषोवक्तृ-
वात् यः पुनर्वीतरागोनस वक्ता यथोपल-
खण्डइत्यव्यतिरेकः । ७७ ॥ ७॥
अनित्यः शब्दः कृतकवादाकाशवदित्य-
प्रदर्शितव्यतिरेकः । ७८ ॥७॥
अनित्यःशब्दः कृतकत्वाद्यदकृतकंतन्नित्यं
यथाकाशमिति विपरीतन्यतिरेकः॥७९॥२॥
उक्तलक्षणोल्लङ्घननोपनयनिगमनयोर्वचने
तदाभासौ ॥ ८०॥
यथापरिणामीशब्दः कृतकवाद्यः कृतकः
स परिणामी यथा कुम्भ इत्यत्र परिणामी
च शब्द इति कृतकश्च कुम्भ इति च ८१॥
तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द-
इति तस्मात्परिणामी कुम्भ इति वा ॥२॥

४४ प्रमाणनयतवालोकालङ्कारः । अनाप्तवचनप्रभवं ज्ञानमागमामासम्।८३॥ यथा मेकलकन्यकायाः कूले तालहिताल. योर्मूलेसुलभाः पिण्डखजूराः सन्तित्वरितं गच्छत २ शावकाः॥ ८४॥ प्रत्यक्षमकं प्रमाणमित्यादि संख्यानं तस्य संख्याभासम् ॥ ८५॥ सामान्यमेव विशेषएव तद्वयं वा स्वतन्त्र- मित्यादिस्तस्य विषयामासः ।। ८६ ॥ अभिन्नमेव मिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ ८७॥ इति फलप्रमाणस्वरूपाद्याभासनिर्णयोनाम षष्ठः परिच्छेदः ॥ ६॥ --

प्रमाणनयतत्त्वालोकालङ्कारः।
नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थ-
स्यांशस्तदितरांशौदासीन्यतः सप्रतिपत्तुर-
भिप्रायविशेषोनयः॥१॥
स्वाभिप्रेतादशादितरांशापलापी पुनर्नया.
भासः॥२॥
सव्याससमासाभ्यान्दिप्रकारः ॥ ३ ॥
व्यासतोऽनेकविकल्पः ॥ ४ ॥
समासतस्तुदिभेदो द्रव्यार्थिकः पर्यायार्थि.
कश्च ॥ ५॥
आद्यो नैगमसंग्रहव्यवहारभेदात्त्रेधा ॥६॥
धर्मयोधम्मिणोधर्ममिणोश्चप्रधानोप-
सर्जनभावेन यद्विवक्षणं सनैकगमोनै-
गमः॥७॥
सचैतन्यमात्मनीतिधर्मयोः ॥ ८॥

प्रमाग नयतत्त्वालाकालङ्कारः
वस्तुपर्यायवद्र्व्यं इति धम्मिणोः ॥९॥
क्षणमेकं सुखीविषयासक्तजीवइति धर्म-
धम्मिणोः ॥१०॥
धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि.
नँगमाभासः ॥ ११ ॥
यथात्मनि सत्वचैतन्ये परस्परमत्यन्तं पृथग
भूते इत्यादि ॥ १२॥
सामान्यमात्रग्राही परामर्शः संग्रहः ॥१३॥
अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥
अशेषविशेषेष्वौदासीन्यम्भजमानः शुद्ध-
द्रव्यं सन्मात्रमभिमन्यमानः परः संग्रहः१५
विश्वमेकं सदविशेषादिति यथा ॥१६॥
सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषानिरा.
चक्षगस्तदाभासः॥ १७॥

।
प्रमाणनयतत्वालोकालङ्कारः ।
यथासत्तैव तत्त्वन्ततः पृथग्भूतानां विशेष.
णामदर्शनात् ॥ १८॥
द्रव्य वादीन्यवान्तरसामान्यानि मन्वा.
नतद्देदेषु गजनिमीलिकामवलम्बमानः
पुनरपरसंग्रहः ॥ १९ ॥
धर्माधर्माकाशकालपुद्गलजीवद्रव्याणा.
भैक्यं द्रव्यत्वामेदादित्यादिर्यथा ॥ २० ॥
द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिलु-
वानस्तदाभासः॥२१॥
यथा द्रव्यत्वमेव तत्त्वं ततोर्थान्तरभूतानां
द्रव्याणामनुपलब्धेः ॥ २२ ॥
संग्रहेण गोचरीकृतानामर्थानां विधिपूर्व-
कमवहरणं येनाभिसन्धिना कियते स व्य.
वहारः॥२३॥

४८ प्रमाणनयतत्त्वालोकालङ्कारः। यथा यत्सत्तद्रव्यं पर्यायावेत्यादि ॥२४॥ यः पुनरपारमार्थिकद्रव्यपर्यायविभागम- भिप्रेति स व्यवहाराभासः ॥ २५॥ यथा चार्वाकदर्शनम् ॥२६॥ पर्यायार्थिकश्चतुर्दा ऋजुसूत्रः शब्दः सम- मिरूढ एवंभूतश्च ॥ २७॥ ऋजुवर्तमानक्षणस्थायिपर्यायमात्रप्राधान्यतः सूत्रयन्नभिप्राय विशेष ऋजुसूत्रः ॥ २८ ॥ यथासुखविवत्तः सम्प्रत्यस्तीत्यादि ॥२९॥ सर्वथाद्रव्यापलापीतदाभासः ॥ ३० ॥ यथा तथागतमतम् ॥ ३१ ॥ कालादिभेदेन ध्वनरर्थभेदं प्रतिपद्यमानः शब्दः॥३२॥ यथाबभूव भवति भविष्यति सुमेरुरित्यादिः

प्रमाणनयतत्त्वालोकालङ्कारः।
तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः३४
यथा बभूव भवति भविष्यति सुमेरुरित्याद-
योभिन्नकालः शब्दाभिन्नमेवार्थमभिदध-
ति भिन्नकालशब्दत्वात्ताहसिद्धान्यश-
ब्दवदित्यादिः ॥ ३५॥
पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ सम-
भिरोहन्समभिरूढः ॥ ३६॥
इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात
पुरन्दर इत्यादिषु यथा ॥ ३६॥
पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकु-
णिस्तदाभासः ॥३७॥
यथेन्द्रः शक्रः पुरन्दर इत्यादयःशब्दाभि-
नाभिधेयाएव भिन्नशब्दत्वात् करिकुरङ्ग-
तुरङ्गशब्दवदित्यादिः ॥ ३८॥

५० प्रमाणनयतत्त्वालोकालङ्कारः ।
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियावि-
टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥३९॥
यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः
शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते।४०।
क्रियानाविष्टं वस्तुशब्दवाच्यतया प्रतिक्षिपं.
स्तुतदाभासः॥४२॥
यथाविशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घट.
शब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रि-
याशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥
एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थ
नयाःशेषास्तुत्रयः शब्दवाच्यार्थगोचरतया
शब्दनयाः॥४४॥
पूर्वः पूर्वोनयः प्रचुरगोचरः परः परस्तु परि.
मितविषयः ॥ ४५॥

प्रमाणनयतत्त्वालोकालङ्कारः। ५१
सन्मात्रगोचरात्संग्रहान्नैगमोभावाभावभू-
मिकत्वात् भूमविषयः ॥ ४६ ॥
सद्विशेषप्रकाशकाद्वयवहारतः संग्रहः समस्त-
सत्समूहोपदर्शकले
कत्वात्बहुविषयः ॥ ४७॥
वर्तमानविषयादृजुसूत्रादयवहारस्त्रिकाल-
विषयावलम्बित्वादनल्पार्थः ॥ ४८॥
कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाह.
जुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः ॥४९॥
प्रतिपयर्यायशब्दमर्थभेदमभीप्सतः समभि-
रूढाच्छब्दस्ताविपर्ययानुयायित्वात् प्रभूत-
विषयः ॥ ५॥
प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवभू-
तात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महा-
गोचरः ॥५१॥

प्रमाणनयतत्त्वालोकालङ्कारः।
नयवाक्यमपिस्वविषये प्रवर्त्तमानं विधि-
प्रतिषेधाभ्यां सप्तमङ्गीमनुव्रजति ॥५२॥
प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥५३॥
प्रमाताप्रत्यक्षादिप्रसिद्धआत्मा ॥ ५४॥
चैतन्यस्वरूपः परिणामीकर्ता साक्षाभोक्ता-
स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलि.
कादृष्टवांश्वायम् ॥ ५५॥
तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां
कृत्स्नकर्मक्षयस्वरूपासिद्धिः ॥ ५६ ॥
इति श्रीदेवाचार्यनिर्मिते प्रमाणनयनत्वा-
लोकालङ्कारेनयात्मस्वरूपनिर्णयो नाम
सप्तमः परिच्छेदः ॥७॥

प्रमाणनयतत्त्वालोकालङ्कारः अष्टमः परिच्छेदः । विरुद्वयोधर्मयोरेकधर्मव्यवच्छेदेनस्वीक- ततदन्यधर्मव्यवस्थापनार्थ साधनदूषण- वचनं वादः॥१॥ प्रारम्भकश्चात्र विजिगीषुस्तत्वनिर्णिनीषुश्च स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः॥ ३॥ तथैव तत्त्वप्रतितिष्ठापयिषुस्तत्वनिर्णिनीषुः४ अयं च द्वेधा स्वात्मनि परत्र च ॥५॥ आद्यः शिष्यादिः ॥६॥ द्वितीयोगुर्वादिः ॥७॥ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥८॥ एतेन प्रत्यारम्भकोपि व्याख्यातः॥ ९ ॥ तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्गए-

प्रमाणनयतत्त्वालोकालङ्कारः ।
वान्यतमस्याप्यङ्गस्यापायेजयपराजयव्यव-
स्थादिदौस्थ्यापत्तेः ॥१०॥
द्वितीयेतृतीस्य कदाचिद्वयङ्गः कदाचित्त्यङ्गः
तत्रैव द्वयङ्गस्तुरीयस्य ॥१२॥
तृतीयप्रथमादीनां यथायोगं पूर्ववत् ॥१३॥
तुरीयेप्रथमादीनामेवम् ॥१४॥
वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि
पारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्ल-
न्यायेन वादिप्रतिवादिनौ ॥ १६॥
प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपाव-
नयोः कर्म ॥१७॥
वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधार-
णाबाहुश्रुत्यप्रतिभातान्तिमाध्यस्थैरुभयाभि
मताःसभ्याः॥१८॥

प्रमाणनयतत्त्वालोकालङ्कारः ।
वादिप्रतिवादिनोर्यथायोगं वादस्थानक-
कथाविशेषाङ्गीकारेणाग्रवादोत्तरवादनिर्देशः
साधकबाधकोक्तिगुणदोषावधारणं यथा-
वसरन्तत्त्वप्रकाशनेन कथाविरमणं यथासंभ-
वं सभायांकथाफलकथनं चैषांकर्माणि ॥१९॥
प्रज्ञाश्चर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः।
वादिसम्याभिहितावधारणकलहव्यपोहादिकं
चास्य कर्म ॥२१॥
सजिगीषुकेऽस्मिन्यावत्सभ्यापेक्षं स्फूविक्त-
व्यम् ॥२२॥
उभयोस्तत्त्वनिर्णिनीषुत्वेयावत्तत्त्वनिर्णय
यावत्स्फूर्ति च वाच्यम् ॥ २३ ॥
इतिश्रीदेवाचार्यनिर्मितेप्रमाणन यतत्त्वालोका-
लङ्कारेवादिप्रतिवादिन्यायनिर्णयोनामाष्टमः
परिच्छेदः॥८॥

No text on this page.

इदं पुस्तक काश्यां चन्द्रप्रभामुद्रणालये मुद्रितम् ।

Pramannayatoovalo Kalankarah

Title
Pramannayatoovalo Kalankarah
File name
Pramannayatoovalo Kalankarah
Text
OCR done
Citation
1904
Language
Sanskrit
Pages
68
Library
Bharti Bhawan Library Allahabad
DLI number
272950
Barcode
5990010894277.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
jhwDnzgtbCW
Download PDF

Pramannayatoovalo Kalankarah