Prakrit Bharati Academy, Jaipur

Marganusaripnchya Trishadgunvivranam

Gani, Shri Jinmandan · 2010/07

PDF Proofread

Front matter

प्रस्तावना
विवरणम्
मा० गु०
प्रस्तावना
॥२॥
विशिष्टधर्मयोग्यताप्रतिपादकस्यास्य ग्रन्थस्य प्रणेतारो महोपाध्यायजिनमण्डनगणिवराः श्रीतपागच्छाधीशपूज्यपादसोमसुन्दर-
सूरीश्वरशिष्याः, पूज्यपादैः श्राद्धगुणविवरणाख्ये ग्रन्थे मार्गानुसारिगुणानां सविस्तरं वर्णनं कृतं अस्मिन्ग्रन्थे संक्षिप्ततया कृतमिति
मन्येऽल्पमेधसामुपकाराय, न शायतेऽयं ग्रन्थो प्राय विरचितो वा श्राद्धगुणविवरणाख्यः ? यद् द्वयोर्ग्रन्थयोर्मध्ये गुणव्याख्याप्रति-
पादिकाः पंक्तयस्सदृश्यो वर्तन्ते दृष्टान्तादिष्वपि वहुधा समानता भवति परं के चित्स्थलेपु भिन्नतापि विलोक्यते, पतद्ग्रन्थरत्नस्य
प्राचीनाऽतीवजीर्णा चतुर्दशपत्रात्मिका शुद्धा प्रतिः पूज्यपादाचार्यविजयकुमुदसूरीश्वराणां पुस्तकभाण्डागाराल्लब्धा, अनुमीयते च प्रायः
चतुःवर्षशतप्राक्कालभाविनी, अन्यपुस्तकभाण्डागारेपु विद्यते न वेति न ज्ञायते; एतत्प्रान्ते "श्रीजिनमण्डनोपाध्यायकृतं न्यायसम्पन्न-
विभव इत्यादि ३५ गुणविवरणम्" इत्येवं लिखितमस्ति तेन कदा दुर्लभोऽयं ग्रन्थो विरचित इति स्पष्टं न शायते, तथापि श्राद्धगुण-
विवरणाख्ये ग्रन्थे तत्प्रशस्त्यां पूज्यपादैरेव "मनुनन्दाष्टकवर्षे ग्रन्थोऽयं निर्मितश्विरं नन्द्यात्-" इत्युक्तत्वात्-अपनवत्यधिकचतुर्दशशत-
वर्षात् किञ्चिन्न्यूनाधिककालः सम्भाव्यते । अपूर्वेऽस्मिन्ग्रंथे कृतं विषयप्रतिपादनमनुकमणिकातो विलोकनीय, प्रयत्ने कृतेऽपि या
काचिदशुद्धिर्भवेद सा संशोधनीया सज्जनैरिति विशपयत्याचार्यश्रीविजयकुमुदसुरिचरणकिंकरो
मेरुविजयः
॥२॥

अनुक्रमणिका मा० गु० विवरणम् अनुक्र- मणिका पृष्ठ पृष्ठ ॥३॥ or २ १० ૨૨ १२ १२ १३ १४ ૨૨ २३ २७ ३ ४ विषयः पृष्ठ धर्मदाने योग्यतानिरूपणम् प्रथमं धर्मरसिकेभ्यो मार्गानु- सारिसामान्यधर्मो दातव्यः न्यायसंपन्नविभवनिरूपणम् तदुपरि चतुर्भगीनिरूपणम् वञ्चकश्रेष्ठिकथा देवद्रव्यादिभिर्व्यापारकरणे. महादोष- निरूपणम् देवद्रव्यरक्षणे महत्फलम् देवद्रव्यविनाशे संकाशकथा नरकादिदुःखनिरूपणम् पुण्यानुसारिलक्ष्मीनिरूपणे धनश्रेष्ठिकथा २८ विषयः सदाचारदर्शनम् तत्प्रशंसायां चोरोदाहरणम् समानकुलशीलनिरूपणम् विवाहस्याष्टप्रकारत्वम् वधूवरगुणनिरूपणम् असमानलग्ने सुभद्रोदाहरणम् पापभीरुगुणनिरूपणम् तदुपरि विमलदृष्टान्तः प्रसिद्धदेशाचाराचरणम् अवर्णवादत्यागनिरूपणम् परनिन्दाकारिजरतीदृष्टान्तः अभ्याख्याने वेगवतीकथा अनेकद्वारजितगृहनिरूपणम् विषयः कुप्रतिवेश्मिके अम्बाकथा सदाचारिसंगकरणम् सुसंगोपदेशे प्रभाकरकथा मातापितृपूजाफलनिरूपणम् विघ्नभूतस्थानत्यागे गुणप्रातिः गर्हितकर्मनिरूपणम् तत्त्यागे आरोग्यद्विजज्ञातम् आयोचितव्ययकरणम् विभवानुसारिवेषकरणम् बुद्धिगुणनिरूपणम् सम्यग्वोधावोधपरीक्षायां नारदपर्वतरूपदृष्टान्तः प्रत्यहं धर्मश्रवणप्रतिपादनम् १७ ३० ३१ ३२ ७ ८ १८ ॥३॥ २० SONE मा० गु० विवरणम् शुद्धिपत्रकम् ४४ ४४ ॥४॥ ४४ विषयः पृष्ठ सततं धर्मश्रवणाभावे मणिकारश्रेष्ठि- दृष्टान्तः ३६ अजीणे भोजनत्यागकथनम् ३६ कालभोक्तनिरूपणम् त्रिवर्गबाधात्यजनम् ३७ अतिथ्यादिभक्तिनिरूपणम् ३८ अतिथिभक्तौ सुधनश्रेष्ठिज्ञातम् ३९ अभ्यागतप्रतिपत्ती शालिवाहनप्रवन्धः ४० विषयः पृष्ठ विपयः पृष्ठ कदाग्रहत्यजनं गुणपक्षपातनिरूपणं लोकवल्लभस्वरूपम् अदेशकालचर्यात्यागश्च ४१ सलज्जस्य गुणप्राप्तिः बलावलपरिज्ञानम् ४२ सदयस्य धर्मयोग्यता वृत्तस्थवृद्धपुरुषपूजनम् ४१ सौम्यगुणनिरूपणम् पोष्यपोपकनिरूपणम् परोपकारे द्रव्यभावविभागः दीर्घदर्शिस्वरूपम् ४३ विशेपशप्रतिपादनम् अंतरंगारिपड्वर्गनिरूपणम् कृतज्ञगुणप्रकाशा इन्द्रियसमूहवशीकरणे गुणाः शुद्धिपत्रकम् पृ. अशुद्धम् पृ. अशुद्धम् ६ विश्वासा तस्यत् विश्वासात् तस्य १६ जीण जीर्ण- ८ तिति निति १६ जालाथ जालार्थ ८ सर्वसंपदः सर्वसंपदः १२ कन्यादा कन्यादानं २२ त्यक्तु त्यक्तुं १३ तत्व: तत्त्व । ४१ तत्वतत्वा तत्त्वातवा- पृ. अशुद्धम् २ कुंवन् ३व्यय ३ तत्रोपद्यते ५क ५ वखे शुद्धम् कुर्वन् व्ययं तत्रोपपद्यते कथं क्खे । १६ सूत्र सूत्रं ॥४॥ ।

अहम्
महोपाध्यायश्रीजिनमण्डनगणिविरचितं
मार्गानुसारिपंचत्रिंशद्गुणविवरणम् ।
॥१॥
सिवसुहहेऊ कमेणं सावयधम्मोवि कप्पतरुतुल्लों । तम्हा जुग्गजियाणं दायव्वो धम्मरसियाणं ॥१॥
इह श्रावकधर्मोऽपि क्रमेण मुक्तिहेतुतः कल्पद्रुमादितुल्यः, तस्मात् योग्यजीवेभ्यो धर्मरसिकेभ्यो दातव्यः, न चान्येभ्यो, वि.
शेपगुणप्रायऽयोगात् । यतः-चूताङ्कुरकवलनतः, कोकिलकः खनति चारु नतु काकः। योग्यस्य जायते खलु, हेतोरपि नेतरस्य
गुणः ॥१॥ इह धर्मोपदेशदानार्हा अनेकधा, यथा-आने निम्बे सुतीर्थे कचवरनिचये शुक्तिमध्येऽहिवक्त्रे, ओषध्यादौ विषद्रौ
गुरुसरसि गिरी पाण्डुभूकृष्णभूम्योः । इक्षुक्षेत्रे कषायद्रुमवनगहने मेघमुक्तं यथाम्भः, तद्वत्पात्रेषु दत्तं गुरुवदनभवं वाक्यमायाति
पाकम् ॥३॥ यथा च-शुभाशुभद्रव्यसुभाविता घटा, वाम्या अवाम्याश्च तथायवासिताः । सद्धर्मवासस्य तथैव योग्यतां श्रयन्ति
जीवाः कतिचित् सुयोगतः ॥४॥ तैलोदका १ ऽयोऽनल २ वारिदुग्धं ३ लोहोल्लसत् सिद्धरसाः ४ क्रमेण । सद्धर्मरङ्गे भविनां
बहूनां दृष्टान्तभावं विभरांबभूवुः ॥५॥ अथ योग्येभ्योऽपि पूर्व सामान्यधर्मो दातव्यः, पश्चाविशेषधर्मो द्वादशवतादिरूपः, नहि
॥१॥

जन
मार्गानु-
-विव०
सारि गुण-
गु० १
॥२॥
भित्तौ धवलनादिरचनां विना चित्रं शोभाकारि, वस्त्रे वा पाशमन्तरेण रङ्गयोग्यता, क्षेत्रे वा खेटननिन्दसमारादिदानं विना वीज.
वापः, एवं सामान्यधर्मपूर्वक एव विशेषधर्मः शोभाभासुरः। अतः श्रीकुमारपालभूपालाय परमाहेत-विचारचतुर्मुख-राजर्पि-महा-
श्रावक-परनारीसहोदर-रुदतीवित्तपरिहरण-प्राप्तराजपितामहादिरूपविरुद-परम्परोजीवितत्रिभुवनातिशायिजनराजेन्द्रप्रतिष्ठागरिष्ठाय
कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्यः प्रथमं सामान्यमेव धर्ममाह । तथाहि-
न्यायसंपन्नविभवः शिष्टाचारप्रशंसकः । कुलशीलसमैः साधं, कृतोद्वाहोऽन्यगोत्रजैः ॥१॥
पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न क्वापि राजादिषु विशेषतः ॥२॥
अनतिव्यक्तगुप्ते च, स्थाने सुपातिवेशिमके । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥३॥
कृतसङ्गासदाचारैः, मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गैहिते ॥४॥
व्ययमायोचितं कुर्वन् , वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः, शृण्वानो धर्ममन्वहनं ॥५॥
अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः। अन्योऽन्याप्रतिवन्धेन, त्रिवर्गमपि सार्धंयन् ॥६॥
यथावदतिथौ साधौ, दीने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्च, पक्षपाती गुणेषु च ॥७॥
अदेशाकालयोश्चर्या, त्यजेन् जानन वलावलं । वृत्तस्थज्ञानवृद्धानां, पूर्जकः पोष्यपोषकः ।।८॥
दीर्धदर्शी विशेषः, कृतज्ञो, लोकैवल्लभः। सलैंज: सैदया सौम्यः, परोपकृतिकर्मठः ॥९॥
अन्तरङ्गारिषड्वर्गपरिहाररायणः। वशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते ॥१०॥ दशभिःकुलकम्।
॥२॥

मा०गुण- -विव० गु० १ - ॥३॥ इह खामिद्रोह-मित्रद्रोह-विश्वसितवश्चन-चौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारोन्यायः तैन सम्पन्न उत्पनः विभवः संपद् यस्य स तथा । न्यायसम्पन्नो हि विभव इहलोकसुखाय अशङ्कनीयतया स्वशरीरेण तत्फल- परिभोगामित्रस्वजनादौ संविभागकरणाच । यदाह- सर्वत्र शुचयो धीराः स्वकर्मबलगर्विताः । कुकर्मनिहतात्मानः पापाः सर्वत्र शङ्किता॥१॥ न्यायार्जितवित्तव्यय कुर्वाणः सर्वत्र प्रशंसापात्रं यशोविभागी च गृहस्थो भवेत् । परलोकहिताय च सत्पात्रादिषु विनियोगात् , दीनादौ कृपया वितरणाच्च । लक्ष्मीरपि गृहस्थानामनेकधा, यदाह- काचिद्बालकवन्महीतलगता मूलच्छिदाकारणं, द्रव्योपार्जनपुष्पितापि विफला काचिच जातिप्रभा। काचित् श्री. कदलीव भोगसुभगा सत्पुण्यबीजच्युता, सर्वाङ्गं सुभगा रसाललतिकावत् पुण्यबीजाञ्चिता ॥१॥ इह च न्यायोपार्जितवित्त-सत्पात्रविनियोगाभ्यां चतुभेगी, तथाहि- न्यायागत (द्रव्य) सत्पात्रविनियोगः अयं चाक्षेपेण पुण्यानुवन्धिपुण्यहेतुत्वात् । सुदेवत्वभोगभूमिमनुष्यत्वादिप्राप्त्यासनसि- द्धिलाभफलः पूर्वभववाह्मणत्वयुक् क्रियापात्रंकियबाह्मणभोजनावसरप्राप्तमासक्षपणिमहाव्रतिपारणकदानदायकनन्दिषेणवत् । धन- सार्थवाहशालिभद्रधन्यतीर्थकराद्यपारणकारकादिवद् वा ॥१॥ न्यायायातद्रव्य-यत्तत्पात्रविनियोगरूपः २ भोगफलादिहेतुरपि यत्तद्भवप्राप्त्या प्रान्ते विरसफलो लक्षत्राह्मणभोजीसेचनक- हस्तीभूतबासंगंवत् । यदाह-'दानेन भोगानाप्नोति यत्र तत्रोपद्यते ॥२॥ - ॥३॥ ,

...
.
-विव०
गु० १
-
मा०गुण-
न
॥४॥
अन्यायार्जितविचः सत्पात्रविनियोगः तृतीयः-सुक्षेत्रोप्तसामान्यवीजफलप्राप्तिवत् , आयतौ सुखानुवन्धित्वेन गृहस्थानामनु-
ज्ञातः । यतः-
खलोऽपि गवि दुग्धं स्यात् , दुग्धमप्युरगे विषम् । पात्रापात्र विशेषेण, तत्पात्र दानमुत्तमम् ॥१२॥ अन्यथाहि वह्वारम्भानुचित-
वृत्तमेलितं द्रव्यं सत्पात्रादिविनियोगादि विना नरकफलमेव स्यात् मम्मणादिवत् ॥३॥
अन्यायार्जितद्रव्यः असत्पात्रदानरूपः चतुर्थः इह साधुजननिन्दितत्वात्. परत्र कुगतिनिबन्धनत्वाच त्याज्य एव विवेकवतां,यत:-
अन्यायोपात्तवित्तस्य दानमत्यन्तदोषकृत् । धेनुं निहत्य तन्मांस ाक्षाणामिव तर्पणम् ॥१॥ अन्यायवृत्त्यार्जितं वित्तं
लोकद्वयेऽप्यहितायैव, यता-
इह हि लोकविरुद्धकारिणो ववन्धादयो दोपाः, परत्र. नरकपतनादयश्च, उक्तं च-अन्यायोपात्तवित्तेन, यो हितं हि समीहते।
भक्षणात् कालकुटस्य, सोऽभिवाञ्छति जीवितुम् ॥१॥ तथा अन्यायोपार्जितवित वर्षादिप्रान्ते राजचोराग्निजलादिभिरपहियमाण
त्वात् न चिरस्थायि, नापि भोगपुण्यव्ययादिकृदपि, उक्तं च-अन्यायोपार्जित विर्त, दशवर्षाणि तिष्ठति । प्राप्ते त्वेकादशे वर्षे, स-
मूलं च विनश्यति ॥१॥ अत्र वञ्चकवेष्ठिकथा-क्यापि ग्रामे धनः श्रेष्ठी, धनश्रीः भार्या, धनसारः सुतः, श्रेष्ठी मधुरालापकूटतुला-
माननवपुराणादिमीलनरसभेदादिकुव्यापारप्रकारैर्मुग्धग्रामटलोकवञ्चनवृत्या धनार्जकः, सहि लोकवश्वनया परमार्थेन खात्मवञ्चक
एव, यतः-कौटिल्यपटवः पापाः मायया बकवृत्तयः। भुवनं वञ्चयमाना वञ्चयन्ते खमेव हि ॥१॥ मिलितमपि द्रव्यं वन्तेिऽन्या-
यायातत्वाचौरामिराजादिभिरपहियते, गृहे किमपि न तिष्ठति, क्रमेण सुतो गामान्तरवासिसुश्रावकश्रेष्ठितां परिणायितः, वधूहे
॥४॥

-विव०
मा०गुण-
गु०१
समायाता.श्राविका शातधर्मा श्रेष्ठिनोऽदं गृहासन, श्रेष्ठी ग्रहणदानादिसमये पूर्व संकेतितपश्चपोकरत्रिपोकरमानकसम्बन्धेन सुतस्यापि
पश्चपोकर त्रिपोकररूपापनाम्ना आह्वानं कथयति, क्रमेण लोकैतिवृत्तान्तैर्वश्चकश्रेष्ठीति नाम दत्तं श्रेष्ठिनः, एकदा वध्वा भर्ता पृष्टः,
कस्मात्तातों युष्माकमपनानाऽऽकारयति; तेन सर्वोऽपि व्यतिकरः कथितः, वध्वा धर्मयासितया श्रेष्टिनोऽग्रे विज्ञप्त, एवमन्यायवृत्याः
द्रव्यं न तिष्ठति, युष्मद्गृहे स्थास्सत्यपि न कदापि, श्रेष्ठिनोक्तं, निर्वाहः स्यात् । तयोक्तं, न्यायार्जितं चिरस्थायि, · सुपात्रसु.
क्षेत्रविनियोगेन पृद्धिमपि लभते, यदि न प्रत्ययो भवतां, तदा षण्मासीं. यावत् कूटमानतुलादिपरिहारेण न्यायमार्गेण व्यवसायं
कुरुत, ततो वधूवचसा श्रेष्ठी तथा चक्रे, षण्मास्या पश्चसेरमितं वर्णमर्जितं, सत्यवादित्वसत्यकारित्वात् ग्राहकाः सर्वेऽपि तस्यैवाट्टे
गृह्णन्ति ददति च, लोके कीर्तिः, स्वर्णमानीय बद्धाः समर्पित, वधूः माह, परीक्षां कुरुत, ततः सुतपार्थात् पञ्चसेरी चर्मवेष्टितां
स्वनामाङ्कितं कारयित्वा त्रिदिनी राजपथे मुक्ता, केनाप्यदृष्टां गृहित्वा पश्चात क्वापि बने जलाशये क्षिप्ता, मत्स्येन' गलिता मत्स्यो
जाले पतितः पाटितश्च निर्गता पश्चसेरी, नाम्नोपलक्षिता श्रेष्ठिनोऽहे. मासिकेनानीता किंचिद्दचा गृहीता, वधूवचसि प्रत्ययो
जातः, ततो न्यायमार्गशुद्धव्यवहारादिना वित्तान्युपार्जयन् सप्तक्षेत्र्यामनेकधा व्ययं कुर्वन् प्रौढव्यवहारी सुखी च सम्पन्नः, तस्मा-
न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् , तथा अन्यायोपलक्षणात् देवद्रव्यपाखण्डिपार्श्वस्थादिधनेन व्यवसायाद्यपि महादोष-
कृत् । यदाह-
अन्यायदेवपापण्डितद्धनानां धनेन यः। द्धिमिच्छति मुग्धोऽसौ, विषमत्ति जिजीविषुः ॥१॥ तथा-भवखेइ जो उवक्खेइ
जिणदव्वं तु सावओ । पनाहीणो भवे जो उलिप्पइ. पावकम्मुणा ॥१॥ प्रज्ञाहीनः खल्पेन वा बहुना वा कार्यसिद्धिमजानानो मन्द-
॥५॥

-विव०
मा०गुण-
गु० -१
॥६॥
मतितया यथाकथञ्चिदेवद्रव्यव्ययकारी कूटलेख्यश्च यो भवेत् । यत्तदोनित्याभिसम्बन्धात स लिप्यते पापकर्मणा। तथा-आयाणं
जो भंजद, पडिवन्नधणं न देइ देवस्स । नस्संतं समुविक्खइ, सोविहु परिभमइ संसारे। २॥ चेइयदव्वं साहारणं च दुइई मोहियमईओ।
धम्मं च सो न याणइ, अहव बद्धाउओ नरए ॥३॥ चेइयदव्वविणासे तद्दव्यविणासणे दुविहभेए । साहू उविक्खमाणो, अणंतसंसा-
रिओ भणिओ ॥४॥ सव्वत्थामेण तहिं संघेण य होइ लगियध्वं तु । अचरित्तचरित्तीण य सव्वेसि होइ कजं तु ॥५॥ जिणपवयण-
'बुड्डिकरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदच्वं परित्तसंसारिओ होई ॥६॥ जिण० वटुंतोजिणदव्वं, तित्थयरत्तं लहइ जीवो
॥७॥ जिण० भक्खतो जिणदव्वं । अणंतसंसारिओ होई ॥८॥ चेहयदन्वं मिण्डित्तु, भुंजए जो उ देइ साहूणं । सो आणाअणवत्थं,
पाचइ लिंतोवि दिंतोवि ॥९॥ एवं जो जिणदव्वं तु, सड्डो भक्खे उविक्खए । विसं सो भक्खए बालो, जीविअट्ठी न संसओ॥१०॥
भक्खणे देवदव्वस्स, परत्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराओ गोयमा ! ॥११॥ तथा लौकिकेपि-देवद्रव्येण या वृद्धिगु.
रुद्रव्येण यद्धनं । तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् ॥१॥ प्रभास्वे मा मतिं कुर्यात् , प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति,
प्रभादग्धो न रोहति ॥२॥ प्रभास्वे लोकप्रतीते साधारणद्रव्ये । प्रभास्वं ब्रह्महत्या च, दरिद्रस्य च यद्धनं । गुरुपत्नी - देवद्रव्यं,
खर्गस्थमपि पातयेत् ॥३॥ अत्रार्थे संकाशश्राद्धो दृष्टान्तः । यथा-गन्धिलावतीपुर्या-सम्यग्दर्शनशुद्धात्मा, गृहीतद्वादशवतः। सर्वज्ञो-
तक्रियासक्तो, जीवाजीवादितत्ववित् ॥१।। सन्ध्याद्वये प्रतिक्रामन्नर्हन् सन्ध्यात्रयेऽर्हतः । विधिना वितरन् दानं, तपः कुर्वश्च पर्वसु
॥२॥ अजातशत्रुः सन्तोषी विश्वासस्यं विलासभूः। संकांशनामा तत्रासीत् श्रावकः श्रावकात्मजः ॥३॥ विशेषकम् । तत्र पुरे शका.
वतारचैत्यं, तद्व्यचिन्तां संकाश एवं करोति कलान्तरैर्वर्द्धयत्यपि । लेख्यका अपि सर्वाणि स्वयमेव करोति सः । विश्वासा तस्यत्
॥६॥

-विव०
गु० -१
मा०गुण
॥७॥
नधित्ते कोऽप्यन्यः परिपन्थिर्ताम् ॥४॥ अन्यदा तेन कुकर्मोदयवशाद्देवद्रव्यं भक्षितं ततो गृद्धश्च लुब्धश्च, नानुतापमपि व्यधात् ।
नात्मनिन्दा नं वा गहीं, न तदातुं मनोऽपि च ॥५॥ आयुः क्षये मृत्वा चातुर्गतिकसंसारेऽसंख्यान् भवान् भ्रान्तः, तत्र नरकगतौ
तेन दुःखान्येवं सोहानि । तथाहि-दसविह वेयण निरए, सी १ ओसीण २ खु ३ स्पिवास ४ कंडुअं ५। भय ६ सोग ७ पारवस्सं,
८ जरोअ ९ वाही १० दसमोअ ॥६॥ पणकोडी अडसही लक्खा नवनवइ सहस्सपञ्चसया । चुलसी अहिया नरए अपइट्ठाणंमि
वाहीओ ॥२i गर्भवासायितध्वान्तवसासृग्मांसकर्दमे । कपिकच्छ्समस्पर्शे, विलपद्दीननारके ॥३॥ प्रदीप्ताङ्गारकल्पेषु, वजकुण्डेघ-
सन्धिषु । कूजन्तः करुणं केचिद् दद्यन्ते नरकाग्निना ॥२॥ अग्निभीताः प्रधावन्तो, गत्वा वैतरणी नदीम् । शीततोयामिमां ज्ञात्वा,
क्षाराम्भसि पतन्ति ते ॥५॥ क्षारदग्धशरीरास्ते, मृगवेगोस्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः ॥६॥ शक्त्यष्टि-
प्रासकुन्तैश्च, खड्गतोमरपट्टिशैः। छियन्ते कृपणास्तत्र, पतभिर्वातकम्पितैः ॥७॥ निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः ।
नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥८॥ श्रवणलवनं नेत्रोद्धार करक्रमपाटनं । हृदयदहनं नाशाच्छेदं प्रतिक्षणदारुणम् ॥९॥
कटिविदहनं तीक्ष्णापातत्रिशूलविभेदनम् । दहनवदनैः कोरी समंततो विभक्षणम् ॥१०॥ भृज्यन्ते ज्वलदम्बरीषहुतभुक् ज्या.
लाभिराराविणो, दीप्ताङ्गारनिभेषु व्रजभवनेष्वङ्गारकेत्थिताः । दह्यन्ते विकृतोर्ध्ववाहुवदनाः क्रन्दन्त आतखनाः, पश्यन्तः कृपणा
दिशो विशरणास्त्राणाय को नो भवेत् ॥११॥ तिर्यग्गतौ तु ।। कर्णादिछेदनं भारवाहनं रज्जुबन्धनम् । कशाङ्कुशप्राजनादिप्रहारा
दमनाङ्कने ॥१२॥ नाशावेधस्सृषाक्षुच, शीतवातातपस्थितिः । एवं तियक्षु दुःखानि, तेन सोढान्यनेकशः॥१३॥ मनुष्यगतावपि ॥
शिरःपाण्यहिनाशौष्टरसज्ञाश्रवणच्छिदा । कारावासः प्रवासश्च, दासत्वं वधवन्धने ॥१४॥ आतङ्कशोकदारियापमानादीनि भूरिशः ।
॥७॥

-विव० मा०गुण- गु० १ ॥८॥ मनुष्यत्वेऽपि संप्राप्ते, दुःखाण्यनुबभूव सः॥१५॥ एवमसंख्यातभवभ्रमणान्ते तंगरापुर्यामिभ्यपुत्रत्वेन जातः,पितुर्लक्ष्मीहानिः, माता- पितृमरणं, लोकनिन्धत्वभोजनसंदेहादिभूरिदुःखं सेहे तत्र, अन्यदा तत्र केवल्यागमने वन्दनार्थ गतः संकाशजीवः, प्रस्तावे प्राग्भ- चमश्नः कृतः, केवलिना प्राग्भवादिदुःखं देवद्रव्यभक्षणसमुद्भवं सर्वमाथि । तच्छुत्वा आत्मनिन्दा एवं-हा हा कुधीरनार्योऽहं, परमात्मा पापकर्मकृत । निस्त्रयो गतमर्यादा, क्लीवः स्वकुलपांसनः ॥१॥ लब्ध्याऽपि मानुपं जन्म, धर्म विज्ञाय चाहतम् । श्रुत्वा सिद्धान्तसाराणि, सुसाधुवरिवस्यया ॥२।। योऽहं लोभाभिभूतात्मा, मूदचित्तो नराधमः । ईदृग्दुःखविपाकं यद्देवद्रव्यमभक्षयम् ।।३।। ततः साधुवचसाभिग्रहग्रहणम् ॥ वित्तं संपत्स्यते यन्मे, भोजनाच्छादनाधिकम् । अहं संयोजयिष्यामि सर्व चैत्येषु तत् प्रभो ॥४॥ यदैवाभिग्रहस्तेन, जगृहे शुद्धचेतसा । तदैवाभिमुखं तस्य, विचनाऽपि विलोकितम् ॥५।। तदनु जीर्णोद्धारकलशारात्रिकनवीनप्रासाद- प्रतिमाऽष्टादिकाविधिनाप्रत्रिपूजादिपुण्यादि कृत्वा देवद्रव्यभक्षणोत्थपापंःक्षपयित्वा यावजीवमभिग्रहं प्रपाल्य निःशेषचैत्यानां वि. तानि वर्धयित्वा देवभूयं जगाम । देवद्रव्यभक्षणविषये संकाशकथा । एवं जे जिणदव्वं, वुड्डि, निति सुसावगा। ताणं रिद्धी पबड़ेइ, कित्ती सुक्ख पलं तहा ॥१॥ अथ यद्यपि कस्यचित्पापानुवन्धिपुण्यकर्मवशादैहिकी विपन्न दृश्यते तथाप्यायत्यामवश्यं भाविन्येव । यदाह-पांपेनैवार्थरागान्धा, फलमाप्नोति यत्.क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति ॥१॥ कदाचिल्लोभाकुलिततया वहारम्भानुचितव्यवसायधर्मकर्मादिव्ययसंक्षेपकरणादिप्रकारैः क्रियमाणैर्न लक्ष्मीवृद्धिर्जायते पुण्यानुसारित्वात् तस्याः, यता-यत्ना- नुसारिणीविद्या, लक्ष्मीः पुण्यानुसारिणी । दानानुसारिणी कीर्तिबुद्धिः कर्मानुसारिणी ॥१॥.यद्वा-निपानमिव मण्डुकाः, सरःपूर्ण- मिवाण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वसंपदः ॥२॥ अत्र धनाश्रेष्ठिज्ञातम् ।. यथा-काञ्चनपुरे सुन्दरश्रेष्ठिभूः धनः श्रेष्ठी ९९ દ્રા *

L
भा० गु°
विवरणम्
गु०१
॥९॥
लक्षधनस्वामी । तत् पित्रा ४४ अर्जिताः ५५ लक्षाः पुराप्यभूवन् , पितरि स्वर्गगते तेन धनेन कोटिमर्जयितुं गृहादिव्यये लक्षमेक
न्यूनं कृतं, तथापि कियत्कालेन लेख्यके विलोकिते परवस्तुत्रुटयादिना तावदेव द्रव्य, नाधिक, ततो धनार्जनाय देशान्तरे गतः
समधिककोटिमुपायं पश्चात् वलमानो धनश्रेष्ठी मार्गे भिल्लैलुण्टितः किंचिदाभरणादिकं गुप्तीकृतं लात्वा गृहे समागतः, पुनर्लेख्यके
तावदेव द्रव्यं, दिनानि यान्ति, एकदा जिनदत्तनामा मित्रं पृष्टः, तेनोक्तं, गृहादिव्ययं तावन्तमेव कुरु, ततस्तथा कृत्वा पुनर्लोभाद्
देशान्तरात्सपादकोटिमुपायं पश्चादागच्छन् कापि ग्रामे दग्धसर्वस्वो गृहेऽगात् , लेख्यके पुनस्तावदेव, ततो मित्रणोक्तं, भवतः कर्म-
वशादेतावदेव द्रव्यं भावि, किमर्थ क्लिश्यसे इत्यादि, ततः स्वनिन्दापरः स गृहे तस्थौ, एकदा कोटिध्वजवतां लक्षेश्वरभ्युत्थाना-
दिप्रतिपत्तिं क्रियमाणां दृष्ट्वा साहणवाइणपाहणेति द्रव्यार्जनप्रकारत्रयं श्रुत्वा पोते चटितः, मित्रेण वार्यमाणोऽपि बहूपाय कोटि-
मूल्यं रत्नं जचाया प्रक्षिप्य पश्चादागच्छन् भग्नपोतो फलक लब्ध्वा उत्तीर्य गृहमागतः,लेख्य के पुनः तावदेव ९९ लक्षाः कोटिमूल्यस्य
रत्नस्य जवायां गुप्तस्य वपुस्तापादिना अल्पमूल्यभवनात् , ततः श्रान्तः पुण्यपरः समधिकगृहधर्मव्ययादिपरोऽभवत् । तथाकरणे
च गृहवस्तुनो महर्घताया जातायां कतिभिर्दिनैः कोटिरपि जाता, ततः शनैः शनैः समधिका च, ततोऽनेकप्रासादपतिमादिसप्तक्षेत्र्यां
स्वधनं व्ययित्वा प्रव्रज्य पश्चात्तपसा केवली जातः, शिवं गतः । एवमन्यायातिक्लेशादिपरिहारेण पुण्यगृहादिव्ययमनुशीलयतामेव
प्रायोऽर्थवृद्धिः, विभवत्वं च गार्हस्थ्ये प्रधानं कारणमित्यादौ न्यायसम्पन्न विभव इत्युक्तम् ॥१॥ (प्रथमो गुणः)
तथा-शिष्टाचारप्रशंसकः, शिष्यन्ते स्म शिष्टाः वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षाः पुरुषाः तेषामाचारश्चरितं सदाचरण-
रूपं तस्य प्रशंसाकद , तदुपबृंहणोत्साहवर्धनबहुजनसमक्षतदुत्कीर्तनसाहाय्यादिप्रदानादिप्रकारैः श्लाघाविधायकः, एवं हि क्रियमाणे
॥९॥

मा० गु० विवरणम् गु०२ ॥१०॥ पुण्यमार्गवृद्धि, गुणज्ञजनमानना गुणवत्प्रवृत्तिदर्शनं उत्तमपंथानुयानं सर्वदा सर्वेषां महोत्साहोत्सर्पणमित्यादि । अथ कोऽयं सदा- चारः, तत्राह-लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ॥१॥ सर्वत्र निन्दासंत्यागो, वर्णवादः सुसाधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्सम्पदि नम्रता ॥२॥ प्रस्तावे . मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥३॥ असद्व्ययपरित्यागः स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विसर्जनम् ॥४॥ लोका- चारानुवृत्तिा, सर्वत्रौचित्यपालनम् । प्रवृत्तिगर्हिते नैव, प्राणैः कण्ठगतैरपि ॥५॥ इत्यादि । एवं वा-विषाच्चैःस्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाऽभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः, सतां केनोद्दिष्टं विपम- मंसिधाराव्रतमिदम् ॥१॥ इयं च शिष्टाचारमशंसा धर्मबीजाधानतया प्रेत्यधर्मप्राप्तिहेतुतया परमपदहेतुर्भवति चौरोदाहरणेन,तद्यथा- कौशाम्ब्यां पुरि राजाऽस्ति, जितारि म विश्रुतः । जिनधर्मरसोल्लासः, सद्भुतगुणसन्निधिः ॥१॥ श्रेष्ठिनो धनयक्षाही, तत्राभूतां महद्धिको । धनस्य धर्मपालोऽभूत् नन्दनः कुलनन्दनः॥२॥ यक्षस्य वसुपालश्च वसुवृद्धिविधायकः । क्रमेण यौवनं प्राप्तौ, तौ द्वावपि मनोहरम् ॥३॥ जन्मान्तरसंस्कारादाबालत्वात्तयोरभूत् । क्षीरनीरवदत्यन्तं, मैत्री विस्मयकारिणी ॥४|| रोचते च यदेकस्य, तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेकचित्ताविमाविति ॥५॥ ततः कुलोचित कर्म, कुर्वतोर्यान्ति वासराः। अन्यदा श्रीमहावीरस्तत्रागाद् विश्ववत्सलः ॥६॥ देवैः समवसरणं कृतं, कौशाम्बीशोऽपि वन्दनाथ समागतः सपौरजनः । तावपि श्रेष्ठिनोः सूनू कुतूहलपरायणौ वन्दनार्थ गती, प्रारब्धा धर्मदेशना, श्रीजिनेन । ततो मध्ये तयोर्धर्मपालस्य तद् जिनोदितम् । श्रद्धानमार्गमा- याति, भाव्यते च खमानसे ॥७॥ स्फाराक्षो. मस्तकं धुन्वन् , कर्णपर्णपुटार्पितम् । रोमाञ्चितः पिबत्युच्चर्जिनवाक्यं यथाऽमृतम् ।। PHESERS ॥१०॥ मा

विवरणम्
मा० गु०
गु० २
॥११॥
॥८॥ तदन्यस्य तदा भाति, वालुकाकवलोपमम् । अन्योन्यस्य च तौ भावं, लक्षयामासतुस्तराम् ।।९॥ व्याख्याभुवः समुत्थाय,
जग्मतुर्भवनं निजम् । ततो वसुर्जगादैवं, भ्रातः त्वं भावितः किल ॥१०॥ जैनवाचा न चाऽहं भोस्तदन किमु कारणम् । एकचित्ततया
ख्याताचावां लोके इयचिरम् ॥११॥ इदानीमत्र संजातं, विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः॥
॥१२॥ सत्यमेव ममाप्यत्र, विकल्पः संप्रवर्तते । केवलं केवली. नूनं, निर्णय नौ करिष्यति ॥१३॥ स एव प्रश्नितोऽत्रार्थे, तद्याता-
स्वस्तदन्तिके । एवं तौ निश्चयं कृत्वा, पातर्यातौ तदन्तिके ।।१४।। पप्रच्छतुस्तमाराध्य विनयेन खसंशयम् । सोऽप्युवाच पुरैकेन
लाधितो युवयोर्मुनिः ॥१५॥ तथाहि-आस्तां युवा क्वचिद् ग्रामे, द्रङ्गिकस्य तनूभवौ । कालक्रमेण तारुण्यं, लावण्यपदमा-
गतौ ॥१६॥ संजाततद्विकारौ च, जातौ भूतेरभावतः। तथा मनोरथाः किश्चित् , न पूर्यन्ते कथश्चन ॥१७॥ अनार्यकार्यमारब्धौ,
कर्तुं चौर्य ततोऽन्यदा । नामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ॥१८॥ दण्डपासिकलोकेन, भवन्तौ त्रासितौ ततः। प्रारब्धौ
नंष्टुमेकोऽथ, साधुः शैलगुहागतः ॥१९॥ ध्यानमौनक्रियालग्नो, युवाभ्यां समदृश्यत । ततश्च धर्मपालस्य जीवेनेदं व्यचिन्त्यत
॥२०॥ अहो सुलब्धं जन्मास्य, प्रशस्याचारसमनः। यदित्थं निर्भयः शान्तः, त्यक्तसंगोऽवतिष्ठते ॥२१॥ वयं पुनरधन्यानामधन्या
धनकाक्षया। विदधाना विरुद्धानि पराभवपदं गताः ॥२२॥ धिक्कारोपहतात्मानौ, यास्यामः कां गति मृताः। ही जाता दुःस्वभावेन,
लोकद्वयविराधकाः ॥२३॥ तदेवं निर्मलं साधोवृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात्कल्याणकं कुतः ॥२४॥ अन्यः पुन-
रुदासीनः समभूतं मुनि प्रति । गुणरागादवापैको बोधियीज न चापरः ॥२५॥ ततस्तनुकषायत्वाद् भवन्तौ दानतत्परौ । नरजन्मो-
चितं कर्म बद्धवन्तावनिन्दित्तम् ॥२६॥ मृत्वा युवा समुत्पन्नावेतावत्र वणिकसुतौ । जातावनिन्दिताचारौ वणिग्धर्मपरायणौ ॥२७॥
॥११॥

मा० गु०
विवरणम्
गु०३
॥१२॥
एकस्य तदेतस्य जातं बीजस्य तत्फलम् । सद्बोधरूपमन्यस्य निर्वीजत्वेन नाभवत् ॥२८॥ एवं पूर्वभवादि श्रुत्वा जातिस्मरणं प्राप्तो
धर्मपालः संजातप्रत्ययश्च, भावतो जिनोद्दिष्टधर्मपरः सिद्धिं यास्यति । अपरस्य च बोधिवीजभूतशिष्टाचारमाध्यस्थ्यादपि संसार एव,
इति परिभाव्य सम्यक् शिष्टाचारगुणादिप्रशंसावता भाव्यं सुश्रावकेनेति । यतः-
अकुर्वन्नपि सत्पुण्यं शिष्टाचारप्रशंसया । दम्भसंरम्भमुक्तात्मा प्राणी प्राप्नोति तत्फलम् ॥१॥ विभ्राणोऽपि गुणश्रेणीरन्येषु
गुणमत्सरी । निमजत्येव संसारे मुग्यो दुःखाकुलाशयः ॥२॥ अतो विवेकज्ञजनेन शिष्टाचारप्रशंसाप्रवणेन भाव्यम् । विशुद्धधर्मो-
ज्ज्वलकीर्तिलाभाभिलापिणाऽत्रोचितवृत्तियुक्त्या ॥१२॥ (इति द्वितीयो गुणः)
तथा कुलं-पितृपितामहादिपूर्वपुरुषवंशः, शीलं-मद्यमांसनिशाभोजनानन्तकायादिभोगपरिहाररूपः समाचारः, यद्वा-समान-
देवगुरुक्रियाकलापासेवनादिरूपस्ताभ्यां समास्तुल्याः कुलशीलसमा इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशस्तत्र जाताः
गोत्रजास्तेभ्योऽन्ये ये तैः साधे कृतोद्वाहो विहितविवाहः, अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टधा । तत्रालङ्कत्य
कन्यादा ब्राह्मयो विवाहः १ । विभवंविनियोगेन कन्यादानं प्राजापत्यः २। गोमिथुनदानपूर्वकमार्षः ३ । यत्र यज्ञार्थमृत्विजः क-
न्याप्रदानमेव दक्षिणा स दैवः ४ । एते चत्वारो धाः । मातुः पितुबन्धूनां वाऽप्रामाण्यात् परस्परानुरागेणः मिथः समवायाद्
गान्धर्वः ५ । पणबन्धेन कन्याप्रदानमासुरः ६ । प्रसव कन्याग्रहणाद् राक्षसः ७ । सुप्तप्रमत्तकन्याग्रहणात् पैशाचः ८ । एते चत्वा-
रोऽपि अधाः । यदि वधूवरयोः परस्परं रुचिरस्ति तदा अधा अपि धाः, शुद्धकलत्रादिलाभफलो विवाहः, अशुद्धभार्यादि-
योगे नरक एव, इह सततकलहादिकरणैरयशोदुःखप्राप्तेः, परत्र दुर्गतिकारणं च, दुष्टाभिसन्धिजनितकर्मबन्धापत्तेः । यतः-कुग्रामवासः
॥१२॥

विवरणम् मा०गु० गु० ३ ॥१३॥ कुनरेन्द्रसेवा कुभोजनं क्रोधमुखी च भार्या। कन्याबहुत्वं च दरिद्रता च षड् जीवलोके नरका भवन्ति ॥१॥ शुद्धतादिपरिज्ञानं वरवधूगुणपरीक्षणादिभिः। तत्र-कुलं च शीलं च सनाथता च विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीयास्ततः परं भाग्यवती च कन्या ॥१॥ मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां चापि देया न कन्यका ॥२॥ बन्धुलक्षणला- वण्यकुलजात्याद्यलङ्कृताम् । कन्यकां घृणुयाद्रूपवतीमव्यङ्गविग्रहाम् ॥३॥ अष्टमावर्षतो यावद्वपमेकादर्श भवेत् । तावत् कुमारिका लोके न्याय्यमुद्वाहमर्हति । इत्यादिपरीक्षापूर्वकं समानाचारकुलशालिवधूवरयोगे धर्मशोभायश ऐहिकसुखादिप्राप्तेः । अन्यथा परस्परमस- मानतायां कलहकलङ्कादिप्राप्ते, सुभद्रावत् , तथाहि-वसन्तपुरे पुरे जितशत्रुनृपः, जिनदत्तश्रेष्ठी श्राद्धः सम्यग्विज्ञातजीवाजीवादि- पदार्थः शङ्काकाङ्क्षाविचिकित्सामिथ्यादृक्पशंसासंस्तवरूपातिचाररहितः श्रीसम्यक्त्वाऽलङ्कृतः । कालेन सुभद्रातनयाऽजनि, शुद्धश्रा- विका रूपलावण्यसौभाग्यामृतसिन्धुः । वरणार्थमनेके वराः समायान्ति । परं श्रेष्ठी श्राद्धसुतं विना न दित्सति तां परेभ्यः । यत:- विवेकिना धर्मयशोभिवृद्ध्यै समं कुलाचारमिहावलोक्य । वराय शुद्धाय सुता प्रदेया नेया तथाऽन्यापि सुखोदयाय ॥१॥ अथाऽ- न्यदा तत्र चम्पाया वाणिज्यार्थ बुद्धदासाख्यो वणिग् बौद्धश्राद्धोऽऽगात् । स सुभद्रामिहाद्राक्षीत् , तद्रूपेण च मोहितः । कपट- श्रावको जज्ञे, नित्यं धर्म तथाऽशृणोत् ॥१॥ क्रमाद्विज्ञाततत्वः सन् स भावभावकोऽभवत् । जिनदत्तोऽपि विज्ञाय तद्भावं दत्तवान् सुताम् ॥२॥ करग्रहमहो जज्ञे कालाच कियतोऽपि सः। तामादाय ययौ चम्पां साऽकरोद्धर्ममार्हतम् ॥३॥ श्वश्रूर्ननान्दा बुद्धानां भक्ता निन्दति तामथ । चक्रे भिन्नं गृहं तेन तत्र साध्व्यश्च साधवः ॥४॥ प्रायोग्यार्थमुपायान्ति स्वरसादीनां च मत्सरः । आहुस्ताः साधुरक्यं भर्ती प्रत्येति तन्न तु॥५॥ अन्यदा कोऽपि तत्रागाद् बलरूपगुणान्वितः। जिनकल्पी विचरितुं चारित्रमिव मूर्तिमत्॥६॥ श ॥१३॥ .

मा०गु०
विवरणम्
॥१४॥
वातोद्भूतं तुणं तस्य कथञ्चित्प्राविशद् दृशि। स तु निष्प्रतिकर्मत्वात् तदप्यपनिनाय न ॥७॥ विनश्यन्मा हगेतस्य कुर्वती प्रतिलाभनम् ।
सुभद्रा चापि दक्षत्वाजिह्वथा तदपानयत् ॥८॥ साधुभाले च संक्रान्तस्तद्भालतिलकस्तदा । ज्ञातस्तया न स मुनौ निवृत्ते श्वश्रुका:
दिभिः ॥९॥ तद्भर्तुर्दशितः पश्य प्रियातिलकसंक्रमम् । स दध्यौ परमार्हत्याः किमेतदपि सम्भवेत् ॥१०॥ बलिनो विषया यद्वा
मन्दस्नेहोऽभवत्ततः । सुभद्रया च विज्ञातो वृत्तान्तः कथमप्यसौ ॥११॥ तामपभ्राजनां हां कायोत्सर्गेण सा निशि । तस्थौ शा-
सनदेव्यै साप्यागात्तच्छीलसंविदा ॥१२॥ सोचे किं ते नियं कुर्वे ? सुभद्रोवाच तां प्रति । हत्वाऽपवादं कुर्वीथाः शासनस्य प्रभाव-
नाम् ॥१३॥ देव्युचेऽहं प्रगे कृत्वा नगर्या द्वारबन्धनम् । व्याकुलेष्वथ पौरेषु वक्ष्यामि व्योमनि स्थिता ॥१४॥ त्रिधापि शुद्धशीला
स्त्री चालनी निहितोदका । बिराच्छोटयिता द्वाराण्युद्धटन्ते यथा क्षणात् ॥१५॥ पौरीभिर्वीक्षितेऽन्याभिश्चालन्यामस्थितेऽम्भसि ।
कुर्वीथास्त्वमिदं याताऽपवादो भावि ते यशः ॥१६॥ ततस्तथैव सा कृत्वा त्रिद्वारोद्धाटनं पुरः । निवृत्ताऽन्या सती काऽपि तुर्यमु.
द्घाटयिष्यति ॥१७॥ ततोऽभूत तत्र जैनस्य शासनस्य प्रभावना । तच्छ्वाशुरं च राजा च प्रवुद्धमखिलं पुरम् ॥१८॥ एवंविधा
कियत्यो भवन्ति,तस्मात्परीक्षापूर्वकं विवाहविधौ यतितव्यं, तत्फलं च वधूरक्षणोपायमाचरतः सुजाताऽतिजातसुतसंततिः। यदागमः-
चउविहा पुत्ता पनत्ता तंजहा-अइजाए १ समाणजाए २ नीए ३ कुलंगारे ४ ॥ अनुपहता चित्तवृत्तिगृहकृत्यसुविहितत्वमा.
भिजात्याचारविशुद्धत्वं देवातिथिरान्धवसत्कारानवद्यत्वं चेति वधूगुणाः ।" वधूरक्षणोपायाश्चैते । शय्योत्पाटनगेहमार्जनपयःपाविश्य-
चुल्लीक्रियास्थालीक्षालनधान्यपेषणभिदागोदोहतन्मन्थनैः । पाकैस्तत्परिवेषणैः समुचितैः पात्रादिशौचक्रिया, श्वश्रूभर्तृननान्हदेवृविन-
यैः कष्टं वधूर्जीवति ॥१॥ इत्यादिगृहकर्मविनियोगः परिमितोऽर्थसंयोगोऽस्वातन्त्र्यं सदाचारमाततुल्यस्त्रीलोकावरोधनमिति । यदुक्तम्-
॥१४॥

मा०गु० विवरणम् . निषिद्धं हि कुलस्त्रीणां, गृहद्वारनिषेवणम् । वीक्षणं नाटकादीना, गवाक्षावस्थितिः सदा ॥१॥ अङ्गप्रकटनं क्रीडा, कौतुकं जल्पनं परैः । कार्मणं शीघ्रयानं च, कुलस्त्रीणां न युज्यते ॥२॥ लिङ्गिन्या घेश्यया दास्या स्वैरिण्या कारुकस्त्रिया । युज्यते नैव सम्पर्कः कदाचित् कुलयोषिताम् ॥३॥ यात्राजागरदूरनीरहरणं मातुर्गृहेऽवस्थितिः, वस्त्रार्थ रजकोपसर्पणमपि स्याद् तिकामेलकः । स्थान- भ्रंशसखीविवाहगमनं भर्तृप्रवासादयो ब्यापाराः खलु शीलजीवितहराः प्रायः सतीनामपि ॥४॥ निर्व्याजा दयिते ननान्हपु नता श्वश्रूषु भक्ता सदा, स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि । पत्युमित्रजने सनर्मवचना खिन्ना च तवेषिषु स्त्रीणां संवननं नतभ्र ! तदिदं बीजौपधं भर्तृषु ॥५॥ एवं गृहस्थः सुकलत्रयोगात् , जनेषु शोभा लभते सुखी च । देवाऽतिथिप्रीणनपुण्यकर्माजनैः परत्रापि गतिं विशुद्धाम् ॥६॥ (तृतीयो गुणः) पापभीरुः इति ॥ पापानि दृष्टादृष्टापायकारणानि तेभ्यो भीरुः । तत्र दृष्टापायकारणानि चौर्यपरदारागमनद्यूतरमणादीनि, इहलोकेऽपि सकललोकप्रसिद्धविडम्बनास्थानानि, यदाह-द्यूताद्राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवा, मद्यात्कृष्णनृपश्च राध वपिता पापद्धिंतो दुषितः । मांसाच्छ्रेणिकभूपतिश्च नरके चौर्याद्विनष्टा न के ? वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीरतो रावणः ||१|| अदृष्टापायकारणानि मद्यमांसासेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि । यदागमः-चउहिं ठाणेहिं जीवा नेरइ० तंजहा- महारंभयाए १ महापरिग्गहाए २ कुणिमाहारेणं ३ पञ्चेदियवहेणं ४। इति । पञ्चेन्द्रियवधासक्ता मांसाशनकृतादराः। जायन्ते नरके जीवा बहारम्भपरिग्रहाः ॥१॥ मांसोपलक्षणात् २२ अभक्ष्य ३२ अनंतकायादिप दिपरिभोगक्रयविक्रयादीन्यपि निर्वहमाणेन पापभीरुणा त्याज्यान्येव विमलवत् । तथाहि-भवितव्यं सदा पापभीरुणा गृहमेधिना । पापभीरोर्भवन्त्येव विमलस्येव सिद्धयः॥१॥ कुशस्थले ॥१५॥ IA मा० गु० विवरणम् गु०४ ॥१६॥ पुरे श्रेष्ठिपुत्री विमलसहदेवी, विमलः पापभीरुः, न सहदेवः, द्वाभ्यां ससम्यक्त्व १२ व्रतानि गुरोः पार्थे गृहीतानि । एकदा व्यव- सायार्थ देशान्तरे चलितो, विमलो मार्गपथिकैर्मार्ग पृष्टः, कथयति, न जानामि, अपरे सार्थिनः श्रावस्त्यां प्रति प्रभूतलाभं श्रुत्वा चलिताः, विमलस्तु मार्गे सूक्ष्ममण्डूकिकाः प्रभूताः दृष्ट्वा न गच्छति, कनकपुरं प्रति प्राचलत् । मार्गे एकस्मिन्ग्रामे गुलीमदनमधु- लुणजीणतिलादिपापवस्तूनि समर्यानि लभ्यन्ते, विमल पापभीरुतया न गृह्णाति, लोका नवनीतं तापयित्वा घृतं ददाति, विमलस्तु- नादत्ते, सहदेवः पुनस्तानि पापवस्तूनि गृहीतुं सत्यकारार्पणं करोति,विमलस्तद् भनक्ति, पुनरेकत्र ग्रामे जालिकलोको मत्स्यजालाथ सूत्र मार्गयन्ति, सहदेवोऽर्पयितुमुत्सहते, विमलस्तु नार्पयति, कनकपुरे प्राप्ती, भोजनवेलायां विमलपाधै सार्थोऽग्निं याचते, विमलस्तु नो दत्ते, देवः कोऽपि परीक्षार्थ सार्थीभूय कुपितो राक्षसरूपं करोति, विमलं भापयति, विमलो न विभेति, ततो राक्षसः कथयति, अरे यद्यग्नि ददासि तदा त्वां मुश्चामि, स वक्ति भो राक्षस ! अग्निः सर्वतोमुखं शस्त्रं श्रावकैने दीयते, यतः-महुमजमसभेसज्जमूल- सत्थग्गिजंतमंताई । न कयावि हु दायव्वं सड्ढेहिं पावभीरूहि ॥१॥ तेनाऽहं प्राणान्तेऽप्यग्निं न ददाम्येव, अत्रान्तरे राक्षसस्तत्सत्व- तुष्टः स्वं रूपं प्रकाश्याह-हे विमल ! तव प्रशंसा खर्गे इन्द्रेण कृता विमलसमः पापभीरुर्नास्ति मया मण्डूकीप्रभृति तब क्षोभाय कृतं, त्वं न चलितः, विपहरमणिं दत्त्वा देवः स्वस्थानमगात् , विमलसहदेवौ पुरमध्ये गतौ, अत्रान्तरे पुरान्तः पटहो वाद्यमानोऽस्ति, यः कश्चिद् राजपुत्रं विषधरदटमुजीवयति तस्य राज्याध ददाति, एवमाकर्ण्य विमलेन निषिद्धोऽपि सहदेवस्तं पटई गृहीत्वा राजकु- मारस्य मणिमहिम्ना विषमुत्तारितवान् ; राजा राज्याधं तस्य दत्ते, स कथयति, मम वृद्धभ्राता विमला, तस्मै दीयतां, राजा तथा करोति, विमलस्त्वधिकरणभीरुतया न गृह्णाति राज्य, सहदेवस्यैव दत्त, विमलाय श्रेष्टिपदं दत्तं राज्ञा, विमलः सर्वत्र न्यायमार्गेण ॥१६॥ .. PRE विवरणम् मा० गु० गु० ५ ॥१७॥ संचरन् जिनधर्म विधत्ते, सहदेवस्त्वकराकरलोकपीडनादिपापानि निःशङ्कतया कुरुते, विमलो निषेधति, स तु न विरमति, ततः सहदेवो वैरिणा मारितो नरकं जगाम, विमलस्तु धर्म कृत्वा खर्गतः, एकावतारी शमीभूत्वा मुक्तिगमीति । विमलवदिति यः स्या- त्पापभीरुर्विवेको सततसदयचित्तो धर्मकमैकचित्तः। स सुरनरसुखानि प्राप्य जाग्रद्विवेकः कलयति शिवलक्ष्मीनायकत्वं सुखेन ॥१॥ (चतुर्थी गुणः)। तथा प्रसिद्धस्तथाविधापरशिष्टाचारसंमततया रूढिमागतो देशाचारो महाजनोचितभोजनाच्छादनगृहकार्यादिचित्रक्रियात्मकः सकलमण्डलव्यवहारस्तं सम्यगाचरन् गृही धर्माय कल्पते इत्युत्तरेण योगः, यतः-लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥१।। सल्लोकाचारो हि परिशील्यमानः प्रायेणैहिकयशोमहत्वशोभादिवृद्धयै भवति, लोकाभिगम्यतया चिकिर्पितधर्मकर्मणां सुखेन सिद्धिरपि स्यात् । तदाचारलंघने हि तद्देशवासिजनविरोधसंभवादकल्याणलाभ: स्यात् , यदुक्तम्-व्यलीकमस्तु मा वाऽस्तु लोकोक्तिस्तु सुदुस्सहा । भज्यतां भाजनं मा वा टणत्कारस्तु मारयेत् ॥१॥ समाचरन् शिष्टमतस्वदेशाचारं यथौचित्ययशेन लोके । सर्वाभिगस्यो लभते यशांसि खकार्यसिद्धिं च गृहाश्रमस्थः ॥१॥ (पञ्चमो गुणः) अवर्णोऽश्लाघा तं वदतीत्येवं शीलोऽवर्णवादी न क्वापि, जघन्यमध्यमोत्तमभेदेषु जन्तुषु परावर्णवादो हि बहुदोषः । यदाह- परपरिभवपरिवादादात्मोत्कर्षाच बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुमोचम् ॥१॥ खश्लाघा परनिन्दा च मत्सरो महतां गुणे । असंबद्धमलापित्वमात्मानं पातयन्त्यधः ॥२॥ सन्तोप्यसन्तोऽपि परस्य दोषा नोक्ताः श्रुता वा गुणमावहन्ति । वैराणि वक्तुः परिवर्धयन्ति श्रोतुश्च तन्वन्ति परां कुबुद्धिम् ॥३॥ तथा-दूपर्ण मतिरुपैति नोत्तमी माध्यमी स्पृशति भाषते न च । वीक्ष्य पाश्चमथ - ॥१७॥ ... * मा० गु० विवरणम् गु०६ ॥१८॥ भापतेऽधमो रारटीति सहसाऽधमाधमः ॥४॥ परनिन्दा महापापं परपापान्यहो यतः। अकृतान्यपि लिम्पन्ति तत्की जरती यथा ॥१॥ सुग्रामे सुन्दर श्रेष्ठी दाता लोकप्रियो । यत:- प्रियः प्रजानां दातैव न पुनविणेश्वरः। आगच्छन् वाञ्छ्यते लौ कै रिदो न तु वारिधिः ॥१॥ एका तु तत्प्रातिवेश्मिकी निन्दति-वैदेशिका अस्य समायान्ति, असौ धर्मीति तेऽस्य गृहे खद्रव्यं निक्षिपन्ति, व्याजेनास्याऽर्पयन्ति, ते तु विदेशे नियन्ते, अस्योत्सवः, ज्ञातोऽयं धर्मी। एकदा निशि कार्पटिकः क्षुधात आगात , तदा किंचिद् भोज्यं पेयं चास्य नाऽभूत् , स तु दानव्रती आभीरीगृहाचक्रमानीय तमपीप्यत् सोऽम्रियत, तत्तकमुद्घाटमुखायामामीरीशिरस्थायां स्थाल्यां शकुनिकाधोधृतमहाहिमुखगलितग- रलमिलितमासीत् , प्रातस्तं मृतं दृष्ट्वा वृद्धा जहर्ष, दृष्टं दातुश्चरित, विपदोऽयं ग्रन्थिकालोभात् , अत्रान्तरे सा कार्पटिकहत्या भ्रमति, विचारयति च, कस्याऽऽहं लगामि, दाता विशुद्धात्मा सर्पोप्यज्ञः परवशश्च शकुनिका तु सर्पशनधर्मा, आभीरी अज्ञा, तत्को मया ग्रायः, एवं विमृशन्ती तामेव निन्दाकी वृद्धा जग्राह, सद्यःश्यामा कुब्जा कुष्ठिनी च जाता, हत्यया स्वस्थया लोकान् प्रत्यूचे-कुम्भभिन्नयुगलेन, किल्विपं बालकस्य जननी व्यपोहति । कण्ठतालुरसनाभिरुज्झता, दुर्जनेन जननी व्यपाकृता ॥१॥ तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् , किं पुना राजामात्यदेवगुरुसंघादिपु बहुजनमान्येपु, राजाधवर्णवादाद् वित्ता- दिप्रणाशादिरपि दोपः स्यात् । भवान्तरे च नीचर्गोत्रकलङ्कादिमाः, तथा चोक्तं-नो चेव भासियव्वं हियस्थिणा दुक्खकारणं क्यणं । अलियं अभक्खाणं पेसुन्नं मम्मवेहाई ॥१॥ सन्तो वि हु वत्तव्यो परस्स दोसो न होइ विबुहाणं । किं पुण अविजमाणो. पयडो छनो य लोयस्स ॥२॥ विअरइ अन्भक्खाणं इयरस्सवि जो जणस्स दुब्बुद्वी। सो गरहिजइ. लोए लहइ अ दुक्खाइँ ॥१८॥ 15

विवरणम्
गु०६
मा० गु०
॥१९॥
तिक्खाई ॥३॥ जो पुण जइण समियाणं सुद्धभावाण बंभयारीणं । अब्भवखाणं देइ मच्छरदोसेन दुट्ठमई ॥४॥ नियित्तिउण
तिब्बं पावं पावेइ सो दुहमणतं। सीया इव पुन्वभवे मुणिअभक्खाणदाणाओ ॥५॥ यथा-अत्रैव भरते मिणालकुण्डपुरे
श्रीभूतिः पुरोधा, सरखती भार्या, तयोः पुत्री वेगवती, एकदा तत्रैका साधुः शुद्धव्रत आगात् , उद्याने प्रतिमा स्थितः लोको.
वन्दते भक्त्या, साधुपूजां दृष्ट्वाऽलीकमात्सर्येण वेगवती लोकानाह, एष मुण्डः पाखण्डी किं- पूज्यते ब्राह्मणान्मुक्त्या ? एष मया
रमण्या सह. रममाणो दृष्ट इति कूटमालं साधोदत्तवती, लोका मुग्धास्तदनु साधुपूजनादिभ्यो निवृत्ताः, मुनिनाऽपि लोक-
विरक्या ज्ञातं तदलीककलङ्कादि, ततो मा जिनशासनेऽपभ्राजना मन्निमित्ता भूयादिति मनसि कृत्वा यावतैष कलको नोत्तरति.
तावता मया न भोक्तव्यमिति प्रतिज्ञाय कायोत्सर्गेण स्थितः, ततः शासनदेव्या सांनिध्यात्-तत्तो वेगवइए देहे वियणा समुट्ठिया
तिव्या । पाउन्भूआ अरइ सूर्ण वयणं च सहस्सत्ति ॥१॥ ततस्तया सञ्जातपश्चात्तापया साधोः पार्थं गत्वा सर्वलोकसमक्षं खनिन्दाप-
रया मया मुधेतदालं साधोर्दत्तं मात्सर्येण इति क्षमयित्वा पादयोलग्ना, ततः शासनदेच्या राजीकृता, धर्म श्रुत्वा दीक्षां गृहीत्वा
चिरं पालयित्वा सौधर्मे देवी, ततो जनकसुता सीता जाता, कूटालदानादत्र कलकः, साधुरप्युत्तरितकलङ्को लोकैः पूजितः जिनशा-
सने महती प्रभावना जातेति, यश्च परनिन्दा श्रृणोति सोऽपि पापी यतः-
निवार्यतामालि ! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः। न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पाप-
भाक् ॥१॥ इत्थं सदा निन्यमवर्णवादं त्यजन् परेषां श्रवणं च तस्य । जगजनश्लाध्यतया गृहस्थः सद्धर्मयोग्यो भवतीह सम्यक् ॥२॥
(षष्ठो गुण:)
5
॥१९॥

विवरणम् मा० गु० गु०.७ ॥२०॥ तथा अनेकं बहु यभिर्गमद्वारं तदेव प्रवेशद्वारं तेन विवर्जितं निकेतनं यस्य स तथा । बहुपु हि निर्गमप्रवेशद्वारेश्वऽनुपलक्ष्य- माणनिर्गमप्रवेशानां दुष्टलोकानामापातजः स्त्रीविद्रावणादि विप्लवः स्यात् , अत्र च अनेकद्वारतायाः प्रतिषेधेन विधिराक्षिप्यते, ततः प्रतिनियतद्वारसुरक्षितगृहो गृहस्थः स्यादिति लभ्यते, तथाविधमपि निकेतनं स्थाने एव निवेशयितुं युक्तं नाऽस्थाने । स्थानं तु शल्य- भस्मक्षात्रादिदोषनिपिद्धायादिरहितं बहलदूर्वाप्रवालकुशस्तम्बप्रशस्तवर्णगन्धमृत्तिकासुखादुतोयोद्गमनिधानादिमञ्च-यदुक्तम्-शीत- स्पोंष्णकाले याऽत्युष्णस्पर्शा हिमागमे । वर्षासु चोमयस्पर्शा सा शुभा सर्वदेहिनाम् ॥१।। हस्तमात्रं खनित्वादी, पूरिता तेन पांशुना । श्रेष्ठा समधिके पांशी, हीने हीना समे समा ॥२॥ त्रिपञ्चसप्तदिवसैरुतनीह्यादिरोहणात् । उत्तमा मध्यमा हीना विज्ञेया त्रिविधा मही ॥३॥ अथवा भूरदिग्मुढा चतुरस्रा शुभाकृतिः। व्यह जोगमा धन्या पूर्वेशानोत्तरप्लवा ॥४॥ स्थानगुणदोपपरिज्ञान च शकुनखमोपश्रुतिप्रभृतिनिमित्तादिवलेन। स्थाननिषेधस्त्वेवं-प्रथमान्त्ययामवर्ज द्वित्रिपहरसम्भवा। छाया वृक्षध्वजादीनां सदा दुःखप्रदायिनी ॥१॥ वर्जयेदर्हतः पृष्टं दृष्टिं चण्डीशसूर्ययोः । वामाझं वासुदेवस्य दक्षिणं ब्रह्मणः पुनः ।।२।। स्थानमेव विशिनष्टि- अतिव्यक्तमतिप्रकटं, अतिगुप्तमतिपच्छन्न, तनिषेधादनतिव्यक्तगुप्त । तत्रातिव्यक्ते हि असंनिहितगृहान्तरतया परिपार्श्वनो निरा- वरणतया चौरादयोऽभिभवेयुः । अतिगुप्ते च सर्वतो गृहान्तरनिरुद्धत्वान्न खशोभा लभते, प्रदीपनकायुपद्रवेषु दुःखनिर्गमप्रवेशं गृह भवति । पुनः कथम्भूते ? सुप्रातिवेश्मिके-शोभनाः शीलादिसम्पन्ना प्रातिवेश्मिका यत्र । कुशीलादिप्रातिवेश्मिकत्वे हि तदालाप- श्रवणतचेष्टादर्शनादिवशात्वतः सगुणसापि गुणहानिः स्यात्, साधुदर्शनजनितदयापरिणाममुकरिकगृहासनकृतहस्तिशालास्थगज- वत संगमकवद् या, यथा हि संगमकस्य सुवातिवेश्मिकवलेन दानसामग्रीयोगे प्रेत्य शालिभद्रादित्वप्राप्तिः । दुःप्रातिवेश्मिकास्त्वेते ॥२०॥ द

Marganusaripnchya Trishadgunvivranam

Author
Gani, Shri Jinmandan
Title
Marganusaripnchya Trishadgunvivranam
File name
Marganusaripnchya Trishadgunvivranam
Text
OCR done
Citation
1939
Published
2010/07
Publisher
Nalchandra Linchgyan Mandir Seceratry Thakkar Singh
Language
Sanskrit
Pages
23
Library
Prakrit Bharati Academy, Jaipur
DLI number
327661
Barcode
99999990003246.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
jpS9nTfH1UD
Download PDF

Marganusaripnchya Trishadgunvivranam