Archaeological Survey Of India, New Delhi
Kashmir Series Of Texts And Studies The Stava Chintamani Of Bhatta Narayana No.xi
Front matter
स्तव चिन्तामणिः
THE KASHMIR SERIES
OF
TEXTS AND STUDIES.
Library Reg No
490
INDIA
OF THE DRight cliented KASHMIR SERIES 05 TEXTS AND STUDIES, No. X1 THE STAVA-CHINTAMANI OF BHATTA NĀRĀVANA. WITH COMMENTARY BY KSHEMARĀJA. EDITED WITH NOTES BY MAHAMAHOPADHYAYA PANDIT MUKUNDA RĀMA SHASTRI, OFFICER-IN-CHARGE RESEARCH DEPARTMENT, JAMMU AND KASHMIR STATE, SRINAGAR. PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS LIEUT.-GENERAL MAHARAJA SIR PRATAP SINGH SAHIB BAHADUR, G. C. S. I., G. C. I. E., MAHĀRĀJA OF JAMMU AND KASHMIR STATE, SRINAGAR: PRINTED AT THZ “KASHMIR PRATAP STEAM PREBE. 1918. Dz838 S22114 Bha PROY VASTASI HL. VO BIVIS D2834 c 135 136 PARCHEO श्रीमच्छीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गो लब्ध्वा यत्रैव सम्यकपटिमलि घटनामीश्वराद्वैतवादः । कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रजयन्सदेश्यान् देशेऽप्यस्मिन्नदृष्टो घुसृणविसरवत्स्तान्मुदे सज्जनानाम् ॥ १॥ तरत तरसा संसाराब्धि विधत्त परे पदे पदमविचलं नित्यालोकप्रमोदसुनिर्भरे। विमृशत शिवादिष्टाद्वैतावबोधसुधारसं असमविलसत्सास्यान्तःसमुत्प्लवदायिनम् ॥२॥ 23861 19. 56. SazHs/ Bhal that
CA
DEPARTMENT JAMMU
काश्मीर-संस्कृतग्रन्थावलिः।
ग्रन्थाङ्क: १०
स्तवचिन्तामणिः
श्रीमद्भट्टनारायणविरचितः
श्रीमन्महामाहेश्वराचार्य-श्रीक्षेमराजाचार्यकृतविवृत्युपेतः
श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज
श्रीप्रतापसिंहवरप्रतिष्ठापिते प्रत्न विद्याप्रकाश-(रिचर्स) कार्यालये
तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा
उद्दिष्ट कार्यालयस्थेतरपण्डितसहायेन
संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं
पाश्चात्यविद्वत्परिषत्समताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य
काशमीर-श्रीनगरे श्रीप्रताप स्टीमनान्नि मुद्रणालये मुद्रापयित्वा
प्राकाश्यं नीतः
MIR
टे
RTHLA SANS
ELVIS
संवत १९७५
नेस्ताब्दः १९१८
काश्मीर-श्रीनगर
(अस्य अन्धस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः
स्वायत्तीकृताः सन्ति)
Printed by
The Kashmir Pratap Steam " Press, Srinagar, Kashmir ;
and Published by
the Research Department, Srinagar, Kashmir,
७ ३४ ४५ २१ का पन्था येन स्तवचिन्तामणिप्रन्थे मूलपद्यसूची 'लो०सं० श्लोकप्रतीकाः पृ०सं० श्लो०सं० श्लोकप्रतीका: पृ०स० १ सुगिरा चित्त० १ १२४ अज्ञानतिमिर० ३३ २ यः स्फीतः ६ २५ नम ईशाय निःशे० ३३ ३ प्रसरद्विन्दु० २६ मग्नीमे भवा० ४ द्विष्मस्वां खां १०/२७ निरावरणनि० ३५ ५ संहृतस्पर्शयो० १३/२८ निर्गुणोऽपि गु० ३६ ६ भिन्नेष्वपि न १४/२६ श्रीरत्नामृतला० ३७ ७ प्रणवोधि० १५/३० नमो भत्तया नृणां ३८ ८ ब्रह्माण्डगर्भिणी १६/३१ सर्वज्ञः सर्वकृत्० ३६ ही निरुपादानसं० १७/३२ इच्छाया एव ४० १० मायाजलोदरात् १६/३३ ब्रह्मादयोऽपि ११ षट्प्रमाणीपरि० २०/३४ अयं ब्रह्मा महे० ४१ १२ अपि पश्येम २२/३५ भ्रमो न लभ्यते ४३ १३ नमस्तेभ्योऽपि २३/३६ नमः स्तुतौ स्मृतौ ४४ १४ भगवन्भव भाव० २३/३७ किं स्मयेनेति १५ यावज्जीवं जग० २४.३८ चिन्तयित्वापि ४६ १६ शाखासहस्र० २५/३६ सूक्ष्मोऽसि चेत् १७ वाङ्मनःकाय० २६/४० वाच्य एषां त्वमे०४६ १८ जगतां सर्गसंहा० २७/४१ क्रमेण कर्मणां १६ व्यतीतगुणयो० २८४२ नमो निरुपका० ५१ २० नमो नमः शिवा०२६,४३ अहो क्षेत्रज्ञता ५२ ३०/४४ महतीयमहो २२ अर्चितोऽयमयं० ३१/४५ आरम्भे भव ५३ २३ नमो निःशेष० ३२४६ त्रिगुणत्रिप० पृ०संग स्तवचिन्तामणिग्रन्थे मूलपद्यसूची श्लो०सं० श्लोकप्रतीका: पृ०सं० श्लो०सं० श्लोकप्रतीका: ४७ दोषोऽपि देव ५६/७१ नमस्ते भवसं ४८ अहो महदिदं ५७/७२ यस्याःप्राप्येत ८१ ४६ आरम्भः सर्वक० ५८/७३ वैराग्यस्य गति ८२ ५० यारदुत्तरमास्वा० ५६/७४ ब्रह्मणोऽपि भवान् ८ ५१ उपसंहृतकामा० ६० ७५ किमन्यैबन्धुभिः ८५ ५२ किमशक्तः क० ६१७६ जयन्ति मोहमा० ८५ ५३ गुणातीतस्य ६२/७७ गायत्र्या गीयते ८६ ५४ निर्द्वन्द्वे निरुपा० ६३/७८ अष्टमूर्ते किमेक ५५ आणिमादिगुणा०६४/७६ वस्तुतत्त्वं पदार्था० ८८ ५६ या यादिक ६५८० मुहुर्मुहुर्जगचित्र० ८६ ५७ नमः प्रसन्न ६६८१ दुष्करं सुकरी० ५८ हृतोद्धततम० ६७/८२ जयन्ति गीतयो० ११ ५६ विसृष्टानेक ६८८३ भवानिव भवान् ० ६२ ६० नमः सदसतां ७०८४ मन्त्रोऽसि मन्त्र ४२ ६१ त्रैलोक्येऽप्यत्र ७१८५ भारूपः सत्यसं० ६२ अहो ब्रह्मादयो ७२ ८६ तदभङ्गि तदग्रा० 8.५ ६३ निष्कामायापि ७२/८७ नमः कां नाप ६४ स्तुमस्त्रिभुवना० ७३ ८८ मायामयमलान्ध० ६६ ६५ महत्स्वप्यर्थः ७४/८४ निर्भयं यद्यदान ६६ प्रभो भवत ७५/१० अहो निर्सगगम्भी०१८ ६७ कुकर्मापि यमु० ७५ ६१ नमः कृतकृतान्ता० ६६ ६८ एष मुष्टया गृही० ७६ १२ ऐश्वर्यज्ञान ६६ स्तुमस्त्वामृग्य० ७७/६३ त्वय्यनिच्छति १०० ७० विधिरादिस्तथा ७०/६४ हरप्रणतिमाणि० १०१ ७
स्तवचिन्तामाणिग्रन्थे मूलपद्यसूची
श्लो०सं० श्लोकप्रतीकाः पृ०सं० श्लो०सं० श्लोकप्रतीकाः पृ०सं०
६५ सर्व विभ्रमः १०२।१०८ कृत्रिमापि भव० ११४
१६ चित्रं यचित्रदृ० १०३.१०६ तच्चक्षुरीक्ष्यसे ११५
६७ को गुणैरधिक० १०४|११० श्रेयसां श्रेय ११६
१८ कीर्तनेऽप्यमृतौ० १०५१११ अहो सादुतमः ११७
६६ निःशेषप्रार्थनी० १०६/११२ मुहुर्मुहुरविश्रा० ११८
१०० नमस्त्रैलोक्य०
१०६.११३ मलतैलाक्त० ११६
१.१ निःशेषक्लेश
१०७/११४ निमेषमपि यथे०१२०
१०२ सुक्खा भोगान् १०८/११५ धन्योऽस्मि कृ० १२१
१०३ नाथ स्वप्नेऽपि १०६/११६ शुभाशुभस्य
१२२
१०४ ज्योतिषामाथि
११०११७ प्रसन्ने मनसि १२३
१०५ मन्ये न्यस्तपदः १११/११८ निश्चयः पुनर० १२३
१०६ स्थित्युत्पचिल यैः ११२११६ वचश्वेतश्च
१२८
१०७ त्रिलोक्यामिह कः ११३१२० स्तवचिन्तामणि १२६
१
इति स्तवचिन्तामणेः श्लोकपरिपाटी समाप्ता ॥
No text on this page.
ओं नमः स्वात्मामृतवपुषे परमशिवाय ॥ RASHIONSURATRAM स्तवचिन्तामणिः। श्रीभट्टनारायणविरचितः । श्रीक्षेमराजकृतविवृत्युपेतः। प्रकाशमाने परमार्थभानौ नश्यत्यविद्यातिमिरे समस्ते । तदा बुधा निर्मलदृष्टयोऽपि किंचिन्न पश्यन्ति भवप्रपञ्चम् ॥ १ ॥ नमः शिवाय सततं पञ्चकृत्यविधायिने । चिदानन्दधनस्वात्मपरमार्थावभासिने ॥२॥ अन्तः स्पन्दान्दोलनानन्दसंपद- बाह्यस्पन्दामन्दसंदाहिनीभिः । संविद्धाराधोरणीभिः समन्तात् सिञ्चन् विश्वं स्वात्मशंभुनमस्यः ।। ३ ।। पं० १ग० पु. परमार्थमाने इति पाठः । पं. ७ ख ग० पु० नन्दसर्पत् इति पाठः ।
- स्तवचिन्तामणिः नारायणः स्वहृदयाम्बुनिधेर्विवेक- भूभृद्विमदरभसोच्छलितं यदेतत् । श्रीशंकरस्तुतिरसायनमाचकर्ष तचर्वणादिह बुधा विबुधा भवन्तु॥४॥ इह स्तोत्रादौ स्तोत्रकारः सर्वोपनिषत्प्रदर्शि- तसत्संप्रदायोद्धाटनमुखं स्वात्मपरमार्थपरमे- श्वरस्वरूपसमावेशं व्युत्थाने विम्रष्टुमाह सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया। जयत्युल्लासितानन्द- महिमा परमेश्वरः॥१॥ प्रकाशानन्दरूपः परमेश्वरः परमानन्दात्मक- स्वातन्त्र्यशक्तिस्वरूपपरावागालिङ्गितमूर्तिः अ- नयैव शक्त्या शिव-मन्त्रमहेश्वर-मन्त्रेश्वर-मन्त्र- विज्ञानाकलात्मशुद्धावप्रमातृमयीं भारती वाचं पश्यन्ती, मण्डलि-श्रीकण्ठ-क्रोधेश-वीरभद्र-श- तरुद्रानन्त-भुवनेश्वरप्रथात्मिकां मध्यमाम् , एim मसजाचार्यकृतविकृत्युपेतः तदतिरिक्तभुवनेश्वर-विचित्रप्रलयाकल-सकल- निष्ठां तत्तन्नानारूपप्रपञ्चपराभासां पूर्वपूर्ववा- क्छक्तिव्यातां वैखरी च वाचं स्वभित्ताववभास यन् , अवरोहकमेण विश्ववैचित्र्यमारचयति । इत्थं च वैखरीप्रधानसकलप्रमातृपदेऽपि यथो- कव्याप्तिकपर-परापर-मध्यमाख्यवाक्त्रयावियो- ग एव । अत एव अनुजिघृक्षुः भगवान् वैखरी- मध्यमाप्रशमनपुरःसरं पश्यन्तीदशामुन्मज्ज्य यथोक्तानाभितशिवपर्यन्तव्याप्तिकां तां वेद्यत्वे- न आभास्य वेद्यवेदकस्वात्मसत्ताम् आरोहण- क्रमेण आवेशयन् भक्तिभाजः, सर्वोत्कर्षेण व. तले, इत्ययमत्र वाक्यार्थः । पदार्थस्तु-परमः,-चिदात्मरूपः ईश्वरोजय- ति-स्वधरान्ताशेषविश्वोत्कर्षेण वर्तते, कीहक्? वैखरीमध्यमापेक्षया शोभना व्यख्यातपरमा- • या इयम् अविभागाक्रमसततावभासरूपा मध्यमादिवाग्व्यापिनी पश्यन्ती, तया दृश्यमा- नया-स्फुटम् उन्मग्नरूपत्वेन स्फुरन्त्या, अत ..
स्तवचिन्तामणिः एव बुद्ध्युपारूढसक्रमसंकल्पविकल्पकारि म- ध्यमात्मकं चित्तं,तदनुषड़ेण च वर्णव्यञ्जकबैख- श्रियं प्राणमपि ताच्छील्येन हरन्त्या-निःशेष प्रशमयन्त्या, दृश्यमानया च-अनाश्रितपर्यन्ते रूपे वेदकताप्रशमनेन वेद्यात्मनैव अवभासमा- नया हेतुभूतया उल्लासितः,-प्रत्यभिज्ञापदवीं नीतः परावागात्मा आनन्दमहिमा येन, विक- ल्पप्रशमनपुरःसरं पश्यन्तीभूमिमुन्मज्ज्य तद्धा- राधिरूढानाश्रितपदवीमपि वेद्यत्वेन आभास्य परमानन्दात्मकपरमाद्वयपरमप्रमातृतामुन्मील- यन् अनुगृह्णाति परमेश्वर इत्यर्थः । अयमेव च सर्वरहस्येषु सारभूतः समावेशोपाय आम्नातः । यथोक्तं श्रीमालिनीविजये 'अकिञ्चिचिन्तकस्यैव गुरुणा प्रतिबोधतः । उत्पद्यते य आवेशःशांभवोऽसावुदीरितः ॥ इति। अस्मत्परमेष्ठिना श्रीप्रत्यभिज्ञाकृतापि 'विकल्पहानेनैकाग्रयात्क्रमेणेश्वरतापदम् ।' पं० १७ क. पु० हानेनैकात्म्यादिति पाठः ।
५ । क्षेमराजाचार्यकृतविकृत्युपेतः इति । श्रीज्ञानगर्भेऽपि 'विहाय सकलाः क्रिया जननि मानसीः सर्वतो विमुक्तकरणक्रियानुस्मृतिपारतन्त्र्योज्ज्वलम् । स्थितैस्वदनुभावतः सपदि वेद्यते सा परा दशा नृभिरतन्द्रितासमसुखामृतस्यन्दिनी । इति । यथा कयाचित् हृदयहारिण्या तरुण्या प्रियतमानुरञ्जकमधुरगिरा परस्परानुरागवशतः साभिलाषं दृश्यमानया, पश्यन्या च, उदश्चद्रो- माश्चादिसकलसात्विकभावदर्शनोन्नीयमानान- न्दमहिमा कश्चित् ईश्वरोजयति; तथा व्याख्या- तक्रमेणायमपि परमशिवात्मा स्वात्मा,-इत्य- नुरणनशक्त्या श्लेषध्वनिः। पश्यन्त्यादीनां स्व- रूपं तत्रभवता भर्तृहरिणा उक्तम् , यथा 'अविभागा तु पश्यन्ती सर्वतः संहृतकमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ।। केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी। प्राणत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ।। स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक् प्रयोक्तॄणां प्राणत्तिनिवन्धना ॥ EMA स्तवचिन्तामणिः इति ॥१॥ एवं शक्तिमत्प्रधानां शांभवीं भुवं स्तुत्वा शक्तिप्रधानां स्तोतुमाह यः स्फीतः श्रीदयाबोध- परमानन्दसंपदा। विद्योद्दयोतितमाहात्म्यः स जयत्यपराजितः ॥२॥ स-भगवान् , अपराजितो-विश्वातिशायी जयति,-तमेव उत्कृष्टतया परामृशन्तः समा- विशामः । श्रीः-अशेषकारणविभवप्रथाभित्तिः परा चैतन्यलक्ष्मीः, दया-विश्वानुग्रहात्मा परे- च्छाशक्तिः, बोधः-ज्ञानशक्तिः, परमानन्दः- स्वातन्त्र्यशक्तिः, संपत्-स्वप्रथारूपसमृद्धया- स्मा क्रियाशक्तिः, श्रीश्च दया च बोधश्च पर- मानन्दश्च संपच्च तत् श्रीदयाबोधपरमानन्दसं- पत् तेन चिदिच्छा-ज्ञानानन्द क्रियात्म-स्फार- क्षेमराजाचार्यकृतं विद्वत्युपेतः रूपेण शक्तिपञ्चकेन यः स्फीतः- परिपूर्णः, तत एव विश्वानुग्रहप्रवणत्वात् विद्यया-'अह- मेव सर्वम्' इति अहन्तेदन्तासामानाधिकरण्य- प्रथात्मनाशुद्धविद्याशक्त्या, उच्चैोतितं-परा- द्वयमयत्वेन अनुग्राह्याणां प्रकटीकृतं माहा- स्य-ज्ञानक्रियास्फारो येन ॥२॥ एवं शक्तिप्रधानं भगवद्रूपं स्तुत्वा नरप्रधा- नमपि स्तोतुमाह ७ प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने। नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥३॥ शं-पराद्वयप्रथारूपं श्रेयः करोति यः स एव स्वच्छत्व-प्रकाशघनत्व आह्लादकत्वसर्वसं- पदास्पदत्वादिधर्मयोगात् क्षीरसिन्धुरिव, तस्मै नमः-शरीरादिप्रह्वीभावयुक्त्या तदेव तत्वं स्तवचिन्तामणिः , समाविशामः। कीदृशाय शंकरक्षीरसिन्धवे?-प्र- सरहिन्दुनादाय-प्रसरन्तौ नित्यमेव सदाशिवे- श्वरादिना वेद्यपर्यन्तेन पराद्वैतप्रथानुप्रविष्टेन विश्वात्मना रूपेण प्रसरन्तौ बिन्दुनादौ-सामर- स्यात्मिक ज्ञानक्रियाशक्ती यस्य; तथाहि-प्रका- शात्मा परमेश्वरः स्वातन्त्र्यशक्त्यपरपर्यायसा- मरस्यावस्थितज्ञानक्रियाशक्त्यात्मकः स्फुरन्नेव स्वभित्तौ स्वात्मगोपनारूपामनाश्रितशिवदशा- मुल्लास्य, ज्ञानशक्तिप्रधानं सदाशिवं, क्रिया- शक्तिप्रधानम् ईश्वरं, तत्कारणरूपां च शुद्धवि- याम् आभास्य, संकोचाभासरूपां मायाम् , दनु संकुचितज्ञानक्रियाशक्त्यात्मिके विद्याक- ले प्रदर्य, तत्संकोचप्रकर्षात्माबन्दुनादशब्द- वाच्या प्राणापानभूमि, सकलकरणावलीसमा- श्रयभूताम् उदृक्य, पुनरपि ज्ञानक्रियासंकोच- प्रकर्षयोगिनीमन्तःकरणभूमिम् उल्लास्य,क्रमा- क्रम तारतम्यप्राप्तसंकोचज्ञानशक्तिमयानि बु- द्धीन्द्रियाणि बोध्याभासपर्यन्तेन रूपेण प्रथि- , क्षेमराजाचार्यकृतविकृत्युपतः। तानि; तथैव प्रकृष्टसंकोचक्रियाशक्तिमयानि कर्मेन्द्रियाणि, तद्वदेव उच्चारणीयग्राह्यादि-विष- याभासपर्यन्तानि प्रथयन् , बोध्यकार्यादि-सर्व- विषयान् बाह्येन्द्रियप्रकाशैकात्म्यानयनप्रमुखम- न्तःकरणप्रकाशमावेश्य, विद्याकलाभूमिकास्प- शद्वारेण सदाशिवेशपदमावेश्य, स्वस्वात- न्यशक्त्यात्मनैव प्रथयन, ईदृशावरोहारोह- दोलाकलिं कुर्वन् अनवरतमवस्थितः, नियति- कालरागतत्त्वानि विद्याकलाभ्यामेवाक्षिप्तानि, प्राणापानाभ्यां पुंस्तत्त्वमुक्तम् विद्याकलान्त:- प्रविष्टेन किंचिदंशेन प्रधानमाक्षिप्तं विषयैः तन्मात्रभूतानि इति। इत्थमेष भगवान् प्रस- रहिन्दुनादः, तत एव च ज्ञानक्रियामयत्वात् विश्वस्य, गृहीतविश्ववैचित्र्योऽपि परमेश्वरः शुद्धामृतमयात्मा परमानन्दरससार एव; अत एवं अनन्तो-देशकालाकारैरपरिच्छिन्नः प्रका- शो यस्य, तेषामपि प्रकाशात्मकत्वात् , अन्यथा , पं १७ प्रकाशैकात्मकत्वात् इति पाठः ।
१०
स्तवचिन्तामणिः।
तु असत्त्वात् ; एवं च इत्थं नरपर्यन्तेनापि
रूपेण प्रसरन् परिपूर्ण एव शंकरक्षीरसिन्धुः
यः स्थितः तस्मै नमः । क्षीरसमुद्रोऽपि उल्ल-
सहिन्दुः कल्लोलनादयुक्तः शुद्धः-सुसितः, अमृ.
तमयः प्रकाशमाननागराजश्च भवति, इति
श्लेषोपमा । स्तोत्रकारस्य पितामहः परमेश्व-
राख्यः, अपराजितः पिता, श्रीदयाख्या माता,
शंकराभिधानो ज्येष्ठो भ्राता अभवत् , ततः
तेषामपि परमेश्वराभेदभाजाम् इयं स्तुतिः,
इति आख्यायिकाविदः ॥३॥
एवं विश्वात्मिकासु नर-शक्ति-शिवभूमिषु
अद्वयकपरमार्थं परमेश्वरमभेदेन विमृश्य ,
ईदृशीमेव सर्वदशासु स्वात्मप्रतिपत्तिं प्रथयति
आ स्तोत्रपरिसमाप्ति विचित्राभिः सूक्तिभिः
द्विष्मस्त्वां त्वां स्तुमस्तुभ्यं
मन्त्रयामोऽम्बिकापते।
अतिवाल्लभ्यतः साधु
विश्वङ्नो धृतवानसि ॥४॥
, 9 क्षेमराजाचार्यकृतविकृत्युपेतः। ११ हे अम्बिकापते ! विश्वस्य पितः, पितृत्वादेव असि-त्वं, नः-अस्मान् , विश्वक् - समन्तात् सर्वदशासु , साधु-सम्यक् , पराद्वयदृशा धृत- वान् - अनुगृहीतवान् । कथम् ? अतिवाल्लभ्य- तः- यतः त्वम् अस्माकमतिशयेन वल्लभः नित्यमेव त्वदेकपरा वयं, तत एव तवापि वयम् अतिवल्लभाः। यथोक्तं गीतासु 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।' इति । यतश्च इत्थं हृदयैकध्यमस्माकम् अतोऽ तिवाल्लभ्यादेव वयं व्यवहारपदे लोकमध्यगता लोकस्थितिरक्षणार्थं यत् किंचित् रहस्याचारादि गजनिमीलनिकया द्विष्मः तत् त्वामेव द्विष्मः, नहि अस्माकम् अत्वन्मयं किंचिदपि भाति, इति द्वेष्यद्वेष्ट्रादिभूमावपि त्वन्मया एव स्मः, न तु अस्माकं द्वेषादिदोषकालुष्यं जातुचित् । यद्वक्ष्यति 'दोषोऽपि देव को दोषस्त्वामाप्तुं यः समास्थितः ।'
१२ स्तवचिन्तामणिः। इति । यदपि लोकमध्यगताः तथैव वैदिकमि- ष्टापूर्तादि स्तुमः तदपि न त्वदतिरिक्तम् इति त्वामेव स्तुमः। यदपि यज्ञादी इन्द्रादिदेवाम- न्त्रणं कुर्मः तदपि तुभ्यं त्वदर्थमेव मन्त्रयामः-- शिवमयात्मदेवतायै विश्वं जुहुमः । यच्छुतिः 'यज्ञेन यज्ञमयजन्त देवा ........।' इति। अत एवात्र व्यतिरिक्तस्य फलस्थाभावात् न कभिप्रायक्रियाफलविवक्षा इति आत्मनेपदं न कृतम् । किं च लोकोत्तरभवद्भक्तिशालिम- ध्यगता अपि वयं यत् वैदिकाचारादि द्विष्मः, यच्च रहस्याचारादि स्तुमः, तदपि त्वन्मयमेव मन्यामहे । एवं च लोकलोकोत्तरयोः दशयोः वयं यत् द्विष्मः तत् त्वामेव मन्यमाना वस्तुतस्तु त्वां स्तुमः, त्वदद्वयमयद्वयाभासपरामर्शनमेव हि भवत्स्तुतिः, अतश्च इत्थं तत्तद्वेषस्तुत्या- द्यवस्थासु वस्तुतः त्वां स्तुवन्तो वयं तुभ्यं मन्त्र- पं०५ देवतायै जुहुमः इति पाठः ।
क्षेमराजाचार्यकृतविकृत्युपेतः । १३ यामः, त्वां मन्त्रदेवतां विश्वाभेदविमर्शात्मक- महामन्त्रेण मन्त्रयामः। इत्थम् अतिवाल्लभ्यात् अस्मान् असि-त्वं साधु-सम्यक् च अनुग्र- हीतवान् ,त्वदनुग्रहादेव ईदृशी अस्माकं महा- विभूतिराविर्भूता इत्यर्थः ॥ ४॥ ततश्च संहृतस्पर्शयोगाय संपूर्णामृतसूतये। वियन्मायास्वरूपाय विभवे शंभवे नमः॥५॥ शं भवति अस्मात् इति शंभुः तस्मै, विभवे- व्यापकाय चिदात्मने नमः । कीदृशाय ? संह- तो-नाशितः स्पर्शः-विषयैः योगः-अन्तर्नाना- वासनाधिष्ठानसंबन्धो येन तत एव च वियत्- विनश्यत् अख्यात्यात्मनो मायायाः स्वरूपं यतः तस्मै; अतश्च संपूर्ण-पराद्वयप्रथात्म यत् अमृतं तस्य सूतये-अभिव्यक्तिहेतवे । एवं च पाशक्ष- , १४ स्तवचिन्तामणिः। पणपूर्णखरूपदानेन भगवान् स्वात्मैव महेश्वरः अनुग्राह्यान् अनुगृह्णानः स्थितः,इति आन्तरवा- सनाबीजप्नोषयुक्त्यैव अख्यातिप्रशमनपुरःसरं परसत्तामाविशेत् भक्तिभाक् , इति भङया उपदिष्टं भवति। उक्तंच 'उद्धरेदात्मनात्मानम् .............।' इति। वियत्-आकाशम् अस्पर्श पूर्णचन्द्रास्प- दं मायावत् तुच्छस्वरूपं विभु च भवति, इति अनुरणनशक्त्या श्लेषध्वनिः, एवमुत्तरत्रापि॥५॥ किंच भिन्नेष्वपि न भिन्नं य- च्छिन्नेष्वच्छिन्नमेव च । नमामः सर्वसामान्य रूपं तत्पारमेश्वरम् ॥६॥ तत् पारमेश्वरं रूपं नमामः-एतत्स्तोत्रपरा- मर्शनद्वारेण अनुग्राह्यजन्तुचक्राभिन्ना वयं स- माविशामः । इत्थमेव पूर्वोत्तरत्र च बहुवचनं क्षेमराजाचार्यकृतचिवृत्युपेतः। १५ योज्यम् । किं तत् ?-इत्याह भिन्नेषु-विभागेन स्फुरत्स्वपि तत्तत्तत्त्व-तदधिष्ठेयप्रमातृ-तदाश्र- यभुवनभावादिषु वस्तुषु यत् न भिन्नम्-एक- रूपम् , तथा तेष्वेव च्छिन्नेषु-प्रलयाद्यवस्थासु विनष्टेष्वपि अविनष्टम् , अतश्च सर्वसामान्य- म् - पूर्णाहन्तात्मकमहाचैतन्यरूपं सर्वसामा- न्यपदेन वैशोषिकाभ्युपेतपरापरसामान्यव्यति- रेकोऽस्य दर्शितः॥६॥ तदित्यम् , प्रणवोर्धिमात्रातोऽ- प्यणवे महते पुनः। ब्रह्माण्डादपि नैर्गुण्य- गुणाय स्थाणवे नमः॥७॥ स्थाणवे-सततावस्थितरूपाय भगवते नमः, कीदृशाय ? प्रणवस्य या ऊर्ध्वार्धमात्रा तदुपल- क्षितोऽतिसुसूक्ष्मः समनारूपो मात्रा-अंशः स्तवचिन्तामणिः। ततोऽपि यः अणुः- अनुपलभ्यमूर्तित्वात् उप- लब्ध्रकरूपः इत्यर्थः तस्मै । तथा शक्तितत्त्वाव- स्थितब्रह्मबिलाधिष्ठातृब्रह्मोपलक्षितं यत् अण्डं शक्त्यण्डपर्यन्तं जगत् ततोऽपि परिच्छेद्यमूर्तेः महते-तयापकाय अपरिच्छेद्याय इत्यर्थः। तथा नैर्गुण्यं-सत्त्वादिगुणाभाव एव गुण:- चित्प्रकाशात्मा धर्मो यस्य । इत्थं च प्रणवोच्चा- रणकमेण समनान्तभूमिकातिक्रमेण उन्मना- परतत्त्वैकात्मकं व्याप्तसमनान्ताशेषविश्वं चिदे, कघनमेव सततावस्थासु भगवत्स्वरूपं समा. विशामः, इति पिण्डार्थः ॥७॥ ततच ब्रह्माण्डगर्भिणी व्योम- व्यापिनः सर्वतोगतेः परमेश्वरहंसस्य शक्तिं हंसीमिव स्तुमः॥८॥ 'शिवो धर्मेण हंसस्तु ..... ..।'
मराजाचार्यकृतविकृत्युपेतः। १७
इति स्वच्छन्दनिरूपितनीत्या विश्वसृष्टिसंहा-
रात्मकहानसमादानधर्मा परमेश्वर एव सः,
तस्य च तादृशीमेव शक्तिम्-उन्मनाख्यां हंसी-
रूपां स्तुमः- तद्विमावेशपुरःसरं शक्तिम-
स्वरूपं समाविशामः । कीदृशीं? व्याख्यातरूपं
ब्रह्माण्ड गर्भे - अन्तरभेदेन स्थितं यस्याः ।
कीहशस्य परमेश्वरहंसस्य ? व्योमव्यापिन:-
महामन्त्रराजसतत्त्वस्य, व्योम च शून्यातिशु-
न्यपदं व्याप्नुवतः, तथा सर्वतः- सर्वस्मात् ग-
तिः-प्राप्तिः यस्य, सर्वत्र च गतिः-प्रसरद्रूपता
प्रकाशश्च यस्य । हंसस्य च व्योमप्रसरणेन
सर्वत्र गच्छतः अण्डगर्भिणी हंसी नित्यमनु-
चरी भवति इति उपमा ॥८॥
अथातिदुर्घटकारिस्वातन्त्र्यात्मकं माहेश्वरं
रूपं स्तोतुमाह
निरुपादानसंभार-
मभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै
कलाश्लाघ्याय शूलिने ॥६॥
१८ स्तवचिन्तामणिः। स्वातन्त्र्यशक्तिभित्त्युद्दङ्कितेच्छाज्ञानक्रिया- रात्रयोद्भासिशूलभृते नमः, गच्छति तत्तदव- स्थावैचित्र्यम् इति जगत्- अनाश्रितशिवादि- क्षित्यन्तं, चित्रं- नानारूपम् । अथ च तदेव चित्रं चित्रमिव तत्तदनन्तरुद्रक्षेत्रज्ञाद्याभासम- यमपि भित्तिमात्रतत्त्वमेव, तथा भूतमपिच तद- तिरिक्तमिव इति आश्चर्यकारि, 'चित्रम्' इति व्यस्तं समस्तं च, अभित्तौ-निषेधावभासरू- पायां महाशून्यभित्तौ , तन्वते - उदृङ्कितवते, 'अ-मा-नो-नाः प्रतिषेधे' इति स्थित्या अकारः प्रतिषेधवाची, अरूपा शून्यात्मा भित्तिः अभि- त्तिः कथं तन्वते? निरुपादानसंभारम् , उपा- दानं-मायाप्रकृत्यादि, संभारः-कर्मादिः सह- कारिग्रामः, तेन निष्क्रान्तं कृत्वा उपादानस- हकार्यादेरपि तदाभास्यत्वेन जगन्मध्य एव अनुप्रवेशात् अन्यथा शशविषाणतुल्यत्वात् तदित्थं परमेश्वरः कलया-खशक्तिवैदग्ध्येनैव श्लाघ्यः। आश्चर्य च एतत्- अनुपादानादिप्रप- मराजाचार्यकृतविकृत्युपेतः । m MERO श्चम् अभित्तिकं चित्रम् इति, न चैतत् असं- भाव्यं, संकल्पस्वप्नयोरिव निर्माणादौ संविद एव भगवत्याः तत्तदाभासोल्लासकत्वदर्शनात् ॥६॥ एवं यथा भगवत एव अनर्गलात् स्वात- त्र्यात् जगदुदयः, तथा अत एव संसानिवृत्तिः उचिता इति संभावयन् मायातिरोभावकं ज्ञानं लब्धुं परमेश्वरमेव प्रार्थयते मायाजलोदरात्सम्य- गुडत्य विमलीकृतम्। शिवज्ञानं स्वतो दुग्धं देह्येहि हरहंस नः ॥१०॥ हे व्याख्यातसतत्त्व हरहंसा एहि-संमुखी- भव,-शरीरादिभूमिकातिरस्कारेण उन्मज, अ तश्च व्युत्थानदशायामपि 'शिव एव इदं विश्वम्' इति ईदृक श्रेयोरूपं ज्ञानं, नः-अस्मभ्यं देहि- २० বর্ণবাদবি। मनसि प्ररोहय । यच्छुतिः 'तन्मे मनः शिवसंकल्पमस्तु । इति। कीदृशम् ?,-अख्यातिरूपाया मायायाः संबन्धि यत् कलाकलितत्वादिवशेन जई-भेद- प्रतीतिसारम् , उदरं-मध्यं, ततः सम्यक् - मिताहंभावगालनयुक्त्या उन्मील्य, विमलीकृ तं-विगलिताख्यातिसंस्काररूपां शुद्धिमापा- दितम् , अत एव स्वतो दुग्ध- त्वयैव कलाला- ध्येन आकृष्य आनीतम् । हंसः क्षीरनीराभ्यां क्षीरमाहतु विदग्ध इति अनुरणनार्थः ॥१०॥ यतश्च त्वमीहक् शिवज्ञानं नः प्रयच्छसि अतएव षट्प्रमाणीपरिच्छेद- भेदयोगेऽप्यभेदिने। परमार्थंकभावाय बलिं यामो भवाय ते ॥११॥ पं० १४ क. पु. भेदयोगेऽप्ययोगिने इति पाठः।
२१ क्षेमराजाचार्यकृतविवृत्युपतः। भवति-सर्वस्य सत्यप्रकाशात्मना रूपेण वि. यते इति भवः, तत एव परमार्थेन एकस्वरूपः, तस्मै ते बलिं यामः-उन्मीलितशिवज्ञानाय तु- भ्यमेव भैरवाग्नये शरीरप्राणपुर्यष्टकादि जुहुमः। कीदृशाय? षण्णां-प्रत्यक्षानुमानोपमानागा- पत्त्यभावाख्यप्रमाणानां समाहारः षट्प्रमा- णी मीमांसकोक्ता, तया कृतो यः स्वस्य स्वस्य विषयस्य परिच्छेदः, स एव भेदः-प्रत्यक्षाप्रत्य- क्षसादृश्य-यागफल-साध्यसाधनाभावाख्यप्रमे- यव्यवस्थारूपः,प्रमातृप्रमाणप्रमेयापेक्षारूपश्च, तद्योगेऽपि न भिद्यते तच्छीलः तस्मै । एत- दुक्तं भवति-यत्किंचित् प्रमाणैः विभेदेन व्यव- स्थाप्यते तत् व्यवस्थाप्यमानत्वादेव संवि- निष्ठां व्यवस्थाम् आसादयत् संविन्मयमेव, इति भेदव्यवस्थापि अभिन्नमहाप्रकाशात्मक- शिवमय्येव , प्रमाणपरिच्छेदयोगश्च भगवत एव संभाव्यः ततोऽतिरिक्तस्याभावात् , तथा- पं०२० पु. परमार्थकस्वरूप इति पा: ।
स्तवचिन्तामणिः। संभावनायामपि च उक्तशा अभेदित्वमेव ॥ ११ ॥ इत्थं बलिनिवेदनलब्धसमावेशो व्युत्थानेऽ- पि तद्रूपतामाशंसितुमाह अपि पश्येम गम्भीर परेण ज्योतिषाभितः। उन्मृष्टतमसं रम्या- मन्तर्भव भवद्गुहाम् ॥१२॥ हे भव भवद्गुहां-वन्मायाशक्तिं गम्भी. रां-दुरन्तां, परेण ज्योतिषा- त्वदीयेन परमा- द्वयप्रकाशेन, अभितः- अन्तर्बहिश्च उन्मृष्टत- मसं-प्रशमिताख्यातितिमिराम् , अत एवं रम्यां - पारमार्थिकन स्वातन्त्र्यशक्त्यात्मना रूपेण स्फुरन्तीम्, अन्तरिति पूर्णाहन्तात्मनि प्रमात्रैकात्म्ये, पश्येम-समाविशेम किम् ?॥१२॥ एवं तदाशंसावशोन्मिषद्भक्त्युद्रेक आह पं० १९क० पु. प्रमानैकात्म्येन अपि नाम इति पाठः ।
क्षेमराजाचार्यकृतविकृत्युपेतः। नमस्तेभ्योऽपि ये सोम- कलाकलितशेखरम् । नाथं स्वप्नेऽपि पश्यन्ति परमानन्ददायिनम् ॥ १३॥ आस्तां तावत् अद्वयात्मा कतिपयजनहृद- याश्वासप्रदः पारमेश्वरः खभावः। आकृतिम- न्तमपि इन्दुशेखरं ये दर्शनावसर एव परमा- नन्दप्रदं स्वप्नेऽपि पश्यन्ति, तेभ्योऽपि भव- दर्शनपवित्रितेभ्यो नमः ॥१३॥ यतश्च एतेऽपि अस्माकं भवद्भक्त्युद्रेकेण नमस्कार्याः, ततः भगवन्भव भावत्कं भावं भावयितुं रुचिः। पुनर्भवभयोच्छेद- दत्ता कस्मै न रोचते ॥१४॥ भावत्कं भावं-चिदानन्दघनं त्वत्वरूप स्वचिन्तामणिः। भावयितुं-खत्वेन प्रत्यवम्रष्टुं, रुचिः-अभि- लाषः श्रद्धा, कस्मै महाधिये न रोचते, सर्वस्यैत्र प्रतिभासते इत्यर्थः । कीदृशी? पुनर्भवभयोच्छे- दे-जन्मान्तरत्रासोन्मूलने दक्षा-शक्ता॥१४॥ সনগ্ধ यावज्जीवं जगन्नाथ कर्तव्यमिदमस्तु नः। त्वत्प्रसादात्त्वदेकाग्र- मनस्कत्वेन या स्थितिः॥१५॥ स्वदनुग्रहादेव एकमपि क्षणं त्वदभेदभा- वनाशून्यं मा भूत् इत्यर्थः । त्वदेकाग्रेति त्वमेव एकः अग्रे नित्यं खात्मरूपतया विमृश्यो यस्य ॥१५॥ पुनरपि भक्तिप्रकर्षात् सर्वशास्त्रवाक्यैकवा- क्यतां विनशन् भगवत्खरूपं स्तौति २५ मराजाचार्यकृतविश्त्युपेतः। शाखासहस्रविस्तीर्ण- वेदागममयात्मने। नमोऽनन्तफलोत्पाद- कल्पवृक्षाय शंभवे ॥१६॥ तत्तदंशाभिनिविष्टमितहृदयानुसारेण विभि- नशाखाशतैः विततो यः-विन्दन्ति अनेन परं तत्त्वम् इति व्युत्पत्त्या वेदरूपः आगमः-परमे- श्वरप्रणीतं वाक्यैकवाक्यं, तथा एकपरवस्तुत- त्वविश्रान्तिसारं सर्वमेव शास्त्रं तन्मय आत्मा यस्य, परमेश्वर एव हि शब्दराशिशरीरः तत्प्र- पञ्चमयाशेषशास्त्रात्मना स्फुरति, अत एव अ- नन्तम् -अपरिच्छिन्नं स्वरूपप्रथामयं यत् फलं, तदुत्पादे-तदभिव्यक्ती, कल्पवृक्षतुल्याय अवि- लम्बितमेव फलिनाय, मितहृदयविकल्पितवि- भिन्नशाखानुसारेण तु अनन्तस्य-नानारूपस्य फलस्य उत्पादकाय, शाखाभेदेऽपि तु 'सर्वशा- खाप्रत्येयम् एकं कर्म' इति स्थित्या वाक्यैकवा स्तनचिन्तामणिः। क्यतापर्यालोचनया परफलविश्रान्तत्वमेव ना- नाशास्त्रात्मना एकस्यैव महाशास्त्रस्य । यदुक्तं सारखते स्तोत्रे 'प्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्याजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।।' इति ॥ १६॥ यत एवम्, अतः वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो। स्वन्मयीभूय निईन्हाः कञ्चित्स्यामापि कर्हिचित् ॥१७॥ यत्किञ्चित् वदन्तः कल्पयन्तः कुर्वाणा वा वयं वन्मयमेव सर्वं भावयन्तः, अत एव त्वन्म- यीभावात् निन्द्राः-गलितभेदाः, तथा सुखदुः- पं० ११ गपु० विनिवेश्य इति पाठः ।
क्षेमराजाचार्यकृतविकृत्युपेतः। , खादिसर्वद्वन्द्वानभिभूता अपि-नाम, कच्चित् कदाचित् भवेम ॥१७॥ फलितैव इयमस्माकमाशंसा,-यत एवंविधो भगवान् , इत्याशयेन असामान्यतत्प्रकर्षपरा- मात्मिकां स्तुतिमाह जगतां सर्गसंहार- तत्तचितनियुक्तिषु। अनन्यापेक्षसामर्थ्य- शालिने शूलिने नमः ॥१८॥ निर्णीतपरशक्तिस्फारतत्वाय शूलिने,तत एव सदाशिवादिसकलान्तानां सर्वजगतां विविध- जन्मप्रलययोः तत्तदभीष्टप्राप्त्यात्मिकासु च हितनियुक्तिषु भोगापवर्गसंपादनेषु, निरपेक्षनि- जखातन्त्र्यविजृम्भितात्मने नमः-इति प्राग्वत् , एवमुत्तरत्रापि ॥१८॥ कृतं वाभ्याधिकन स्तवचिन्तामणिः। व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटे। नामापि ध्यायतां ध्यानैः किमन्यालम्बनैः फलम् ॥१६॥ धूर्जटेः-महादेवस्य,अर्थानुगमशून्यं वस्तु- तः तत्त्वार्थनिष्टं धूर्जव्यादिनामापि भूयो भूयः चिन्तितं किं किं न सूते, अतः तदेव चिन्त्य- ताम् । यद्वक्ष्यति 'भवतस्वीश नामापि मोतपर्यन्तसिद्धिदम् ।' इति । तथा 'यनान्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः।' इति । एवं यन्नाममात्रचिन्तनमेवाभिलषितं पुष्णाति, तदन्यालम्बनैः-तत्तदाकारविषयः ध्यानान्तरैः किं प्रयोजनम् । उक्तं च श्रीविज्ञा- नभैरव 'भिया सर्व रवयति सर्वदो व्यापकोऽखिले । इति भैरवशब्दस्य सन्ततोचारणाच्छिवः॥' ६ क. पु० तस्वार्थशून्यम् इति पाठः । पं० क्षेमराजाचार्यकृतविकृत्युपतः। २६ इति । शब्दस्यति शब्दमात्रे भरः, वस्तुतो हि भैरवशब्दः प्रोक्तपूर्णार्थवृत्तिः अतो यदि अर्थ- भावनां विनापि यः सन्ततम् उच्चारयति स शिव एव भवति,-परमन्त्रवत् एवमादेर्भगवद्वा- चकस्य वाच्यैकात्म्यात् । कीदृशस्य धूर्जटेः? व्य- तीतगुणयोगस्य -निस्तैगुण्यमहाप्रकाशात्मत- या आकृत्यायुपाधिशून्यस्य, अत एव मुख्य- ध्येयस्य - ब्रह्मादिभिः सर्वकारणैः ध्येयैरपि उपास्यस्य ॥२०॥ पुनरपि भक्तिभरोद्रेकोल्लसितहृदय आह नमो नमः शिवायेति मन्त्रसामर्थ्यमाश्रिताः । श्लाघ्यास्ते शाम्भवीं भूति- मुपभोक्तुं य उद्यताः ॥२०॥ शिवाय-चिदानन्दैकघनश्रेयोरूपाय, नमो पं० १३ ग.पु. भूमिमुपभोक्तुम् इति पाठः।
स्तवचिन्तामणिः। नमः-इति अविच्छेदेनैव पुनः पुनः शरीरप्रा- णपुर्यष्टकशून्यात्मकं तद्वारेण च विश्वं जुहुमः, इत्येवम् अर्थसतत्त्वे सन्मन्त्रमाहात्म्यं ये आ- स्थिताः- अनुप्रविष्टाः, ते शाम्भवीं विभूति महानन्दमयीम् उपभोक्तुं- स्वात्माभेदेन चमत्कर्तुम् उद्यताः श्लाघ्याः ॥२०॥ वयं च तादृशा इति खात्मन्येव अमानाह, अथवा निर्भरभाक्तिभाजामस्माकम् कः पन्था येन न प्राप्यः का च वाङ्नोच्यसे यया। किं ध्यानं येन न ध्येयः किंवा किं नासि यत्प्रभो॥२२॥ किंवा अनेन 'नमो नमः शिवाय' इत्या- दिमन्त्रपरामर्शन, यतो यत् अमितत्वन्महाप्र- . काशरूपं न भवति तत् किं,न किञ्चिदेव । तेन कः तादृशः पन्थाः-कायीयः क्रियाकमोऽस्ति, . क्षेमराजाचार्यकृतविकृत्युपेतः। येन त्वं न प्राप्यो भवति। वागपि सर्वा त्वद्वि- षयैव।सर्व मनःसंकल्पात्मकं ध्यानमपि त्वदा- लम्बनमेव । अतश्च अप्रयासं सर्वदैव त्वन्मया जाताः स्मः ॥२१॥ अत एव सर्वदशासु अचितोऽयमयं ध्यात एष तोषित इत्ययम्। रसः स्रोतःसहस्रेण त्वयि मे भव वर्धताम् ॥ २२॥ शरीरमनोवाग्व्यापारैः सवरेव मामकैः यतो भगवत्येव विश्रभ्यते, तेन अयम् इति एष इति च सर्वदशासु प्रस्फुरन् चित्परमार्थो भगवान् यथाक्रमम् अर्चितो ध्यातः परितोषितश्च इत्ययं रसः- अभिनिवेशः, त्वद्विषये मम यः स्थितः स शतशाखः प्रवर्धताम् ॥ २२ ॥ प्रतश्च ३२ स्तवचिन्तामणि नमो निःशेषधीपत्रि- मालालयमयात्मने। नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने ॥२३॥ तुभ्यं स्थाणवे-अविनाश्यमानकरूपाय , नमः । कीदृशाय?-नागो वासुकिः यज्ञोपवीतं यस्य तस्मै, इत्थम् आकृतिमत्त्वेऽपि 'चित्रं यचित्रदृष्टोस मनोरथगतोऽपि वा। परमार्थफलं नाथ परिपूर्ण प्रयच्छसि ।' इति स्थित्या पूर्ण एव भगवान् इत्याह-निःशे- षाणां-शिवादिकीटान्तानां, निःशेषाश्च या धियः संविदः, ता एव चाञ्चल्यात पत्रिमालाः पक्षिपडूक्तयः, तासां यो लयः-पूर्णाहन्तात्मनि विश्रान्तिः, तन्मय आत्मा यस्य तस्मै, स्थाणुश्च जरवृक्षकल्पः पक्षिवर्गालययुक्तो भवति ॥२३॥ एतन्नमस्कृतिसमुचितां प्रार्थनामाह
क्षेमराजाचार्यकृतविकृत्युपेतः।
अज्ञानतिमिरस्यैक-
मौषधं संस्मृतिस्तव।
भव तत्तत्प्रदानेन
प्रसादः क्रियतां मयि ॥२४॥
अज्ञानं-शिवैक्याख्यातिरेव, तिमिरं-पर-
प्रतिभाचक्षुरावारकत्वेन द्वैतप्रदर्शको दोषः, त-
स्य चिद्धनस्वरूपविमर्शात्मा त्वत्स्मृतिरेव एकम्
औषधं-प्रशमोपायः, तस्मात् तत्प्रदानेन-तदे-
काममयत्वापादनेन, प्रसादः क्रियताम्-अ-
ख्यातिकालुष्यप्रशमनेन नैर्मल्यम् आश्रीयता-
म् ॥२४॥
पुनरपि भक्तिभराविष्ट एतत्प्रसादसंभाव
नोचितां स्तुतिमाह
नम ईशाय निःशेष-
पुरुषार्थप्रसाधकः।
प्रणन्तव्यःप्रणामोऽपि
यदीय इह धीमताम् ॥२५॥
स्तवचिन्तामणिः धीमतां-तत्वविदों, यदीयः-प्राग्व्याकृतस- मावेशात्माप्रणामोऽपि, निःशेषस्य भोगापवर्गा- त्मनः पुरुषार्थस्य संपादकत्वात् तथा अलङ्का- रकत्वात् प्रणन्तव्यः-प्रतया समाश्रयणीयः, भूयोभूयः तस्मै ईशाय-एवंविधालौकिकखा- तन्त्र्याय नमः ॥ २५ ॥ युक्तं च एतत् मग्नीमे भवाम्भोधी निलये दुःखयादसाम्। भक्तिचिन्तामणिं शार्व ततःप्राप्य न किं जितम् ॥२६॥ दुरुत्तरक्लेशमये संसाराब्धौ, दुःखानि-आ- धिभौतिकाद्युपतापा एव यादांसि-मकरा- दयः, तेषाम् आस्पदे मग्नैः-निरवशेष बुडितैः, तत एव तन्मध्यादेव, शार्व-शर्वस्य विश्वश- रणवरणस्य सम्बन्धिनं भक्तिचिन्तामणिं तदि.
मराजाचार्यकृतविकृत्युपेतः। च्छयैव लब्ध्वा-अकस्मादेव प्राप्य, किं यत् क्लेशादि न जितं-न अभिभूतं। किं यच्च भोगाप- वर्गादि न जितं-न प्राप्त, सर्वम् अभीष्टं झगिति लब्धमेव इत्यर्थः । तथा च नन्दिमहाकाला- दीनां तत्तदीष्टावाप्तिः आगमेषु श्रूयते ॥२६॥ भक्तिरेव च भगवत्तत्त्वपरिज्ञाने हेतुः, न अन्यत् इत्याह निरावरणनिईन्छ- निश्चलज्ञानसंपदाम् । ज्ञेयोऽसि किल केऽप्येते ये त्वां जानन्ति धूर्जटे॥२७॥ किल इति आगम-एवं किल आम्नायेषु उच्यते, आवरणात्-अख्यात्यात्मनो निष्क्रान्ता निर्द्वन्द्वा-परमाद्वैतरूपा, निश्चला च अकम्पा ज्ञानसम्पत् येषां तेषामेव, धूर्जटे ज्ञेयो भवसि- खप्रकाशतया स्फुरास, अतः केऽपि एते-लोको.
स्तवचिन्तामणिः तरा एव एते महात्मानः, ये त्वां पश्यन्ति-खा- भेदेन स्फुरन्तं प्रत्यभिजानन्ति ॥२७॥ निर्गुणोऽपि गुणज्ञानां ज्ञेय एको जयत्यजः। निष्कामोऽपि प्रकृत्या यः कामनानां परं फलम् ॥२८॥ प्रोक्तज्ञानात्मकगुणावभासिनाम्, एकः-अ- द्वितीयः, अजः अनादिः, निर्गुणोऽपि सत्त्वा- दिगुणास्पृष्टमूर्तिरपि, ज्ञेयो-ज्ञातुं शक्यः खाभे- देन स्फुरति । तथा परिपूर्णानन्दनिर्भरत्वात् कामेभ्यः- कामनाभ्यो निष्क्रान्तोऽपि, प्रकृ- त्या-वस्तुसौन्दर्येण, सर्वासां कामनानां, परं- पूर्ण फलं । सर्वा हि कामनाः तत्तद्भोगात्मक फलयोगिन्योऽपि भोक्तृचमत्कारप्रमुखं पार्य- न्तिकपरमानन्दाब्धौ पर्यवस्यन्ति । तदुक्तमस्म- ।
क्षेमराजाचार्यकृतविकृत्युपैतः। प्रभुपादैः 'फलं क्रियाणामथ वा विधीनां पर्यन्ततस्त्वन्मयतैव देव । फलेप्सवो ये पुनरत्र तेषां मूढा स्थितिः स्यादनवस्थयैव ॥' इति । अपिशब्दौ विरोधं व्यङ्क्तः ॥ २८ ॥ अयमपि भगवत एव असामान्यः प्रकर्ष इत्याह श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः तत्क्षीरोददमैश्वर्य तवैव सहजं विभो ॥२६॥ यत्र-क्षीरोदे, लक्ष्म्याः कौस्तुभपारिजातादी- नां रत्नानाम् अमृतस्य च लाभाय, उपेन्द्रादिभिः कैःसुरैःन क्लिष्टं-सर्वेरेव कदर्थना अनुभूता।त- स्य तादृशस्य आश्चर्यनिधेःक्षीरोदस्य प्रदायक- मैश्वर्य, हे विभो तवैव सहजम्, अन्यस्य तु आ- ३८ स्तवचिन्तामणिः। राधनासहस्रैरपि न उपार्जनीयं भवति, भवतैव उपमन्युमुनये क्षीरोदस्य वितरणात् ॥ २६ ॥ अतश्च नमो भक्त्या नृणां मुक्त्यै भवते भव तेऽवते। स्मृत्या नुत्या च ददते शंभवे शं भवेऽभवे ॥३०॥ हे भव ते-तुभ्यं, शंभवे नमः कीदृशाय? भ- क्त्या उपलक्षितानां नृणां मुक्त्यै भवते-निज- प्रथैकात्म्यमुक्तिरूपतया स्फुरते । तथा स्मृत्या उपलक्षितानाम् अवते-सर्वभयेभ्यो रक्षां कुर्व- ते । तथा नुत्या-स्तुत्या हेतुना उपमन्युमरु- त्तप्रभृतिभ्य इव भवे संसारे शंभोगसंपद्रपं श्रेयः, अभवे-अभवनिमित्तं ददते, मोक्षपर्य- वसितं भोगं प्रयच्छते इत्यर्थः ॥३०॥ न केवलं मुमुक्षूणाम् आतां बुभुक्षूणां खेमराजाचार्यकृतविवृत्युपेतः। च त्वया अभीष्टं संपाद्यते यावत् जीवन्मुक्ति- कामानामपि इत्याह सर्वज्ञः सर्वकृत्सर्व- मसीति ज्ञानशालिनाम् । वेद्यं किं कर्म वा नाथ नानन्त्याय त्वयाप्यते ॥३१॥ सर्वज्ञः सर्वकर्तृखभावः त्वमेव चिदात्मा सर्वमसि,-इति ईदृशेन ज्ञानेन ये शालन्ते तेषां यत् वेद्य-ज्ञेयं, कर्म-कार्य क्रियारूपं वा, किं ताहगस्ति ? यत् त्वया आनन्त्याय न अर्यते, सर्वमेव एषां वैश्वात्म्येन दर्श्यते इत्यर्थः । एवं च सर्वत्र सर्वात्मकमाहेश्वर्यप्रथा जीव- न्मुक्तिः॥३१॥ अलं वा पारमेश्वरप्रसादानाम् इयत्तया, यतः स्तवचिन्तामणिः। , इच्छाया एव यस्येयत् फलं लोकत्रयात्मकम् । तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः॥३२॥ इच्छामात्रेण यो भवाभवातिभवात्मकं लो. कत्रितयं विधत्ते, तस्य कार्याणां-प्रयत्ननिर्वा- नां वस्तूनां, कियती-कि-परिच्छेदा, गतिः-प्रम- तिः, इति एतत् को वेत्ति, न कश्चित्। अतळमेव एतत्,-इत्यतिशयोक्तिपरमेतत् , न भगवतो य- ननिवर्त्यत्वं किञ्चित्। 'पश्य मृगो धावति' इति- वत् वाक्यार्थस्य अत्र कर्मता ॥ ३२ ॥ न केवलं त्वदीयः कार्यस्फारो ज्ञातुमशक्यः, यावत् तव ऐश्वर्यात्मकज्ञानमहिमापि इत्याह ब्रह्मादयोऽपि तद्यस्य कर्मसोपानमालया। उपर्युपरि धावन्ति लब्धुं धाम नमामि तम्॥३३॥ , , पं०१० पु० यस्येदं फलम् इति पाठः।
क्षेमराजाचार्यकृतविकृत्युपेतः। ब्रह्मविष्णुरुद्रादयोऽपि यस्य तत् अचिन्त्यं धाम-पदं लब्धं, कर्मसोपानमालया-तत्तद- नुध्यानाद्यनुष्ठानपरम्पराभिः, उपर्युपरि-इति उत्तरोत्तरप्रयत्नाधिक्येन अधिकप्रकर्षवाञ्छया धावन्ति, न कामपि विश्रान्ति भजन्ते। नहिस- र्वसामान्ये पारमेश्वरे पदे कश्चित् प्रकर्षापकर्ष- योगः-इति उत्तरोत्तरप्रकर्षाभिलाषुकैः कथं तत् प्राप्यते-इति ज्ञानमाहात्म्यमपि माहेश्वरमप- रिच्छेद्यमेव ॥ ३३ ॥ किं च तच्छक्तरेव इमा भंग्यो,- यदेते ब्र- ह्मादय इत्याह अयं ब्रह्मा महेन्द्रोऽयं सूर्याचन्द्रमसाविमौ । इति शक्तिलता यस्य पुष्पिता पात्वसौ भवः ॥३४॥ अयं ब्रह्मा,-इति विष्णुरुद्रेशसदाशिवशिवान् ४२ स्तवीचन्तामणिः। उपलक्षयति, तेन तत्तत्सृष्टिस्थित्यादिमितका- र्यकारिणो ये ब्रह्मादयः, यश्च महेन्द्रः सुराधि. पत्ये स्थितः, यौ च जगतः प्रकाशाप्यायनादि- व्यापारकारित्वेन स्थितौ सूर्याचन्द्रमसौ, इति- एवंप्रकारम् अन्यदपि यत्किंचित् महाविभूति- युक्तं, तत्सर्व यस्य शक्तिः-सामर्थ्यरूपा लता इव, पुष्पिता-संजातपुष्पमात्रतया स्फुरिता न तु फलिता, सर्वस्य पुष्पकल्पस्य परमेश्वरा- भेदप्राप्तिरेव लोकोत्तरचमत्कारमयी फलम् । य- थोक्तं श्रीपूर्वशास्त्रे समावेशचर्चायाम् 'संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः।' इति । यस्य च एवं शक्तिलता पुष्पिता, स पूर्व- व्याख्यातसतत्त्वो भवः पातु,-अस्मात् मितब- झाद्युपासासंकल्पसंपर्कात् रक्षतु । स्तुतं च मया 'सर्वज्ञाः सर्वकर्तारो ब्रह्माद्या भुवनेश्वराः । यत्रैते बुबुदायन्ते बोधाब्धि तं शिवं स्तुमः ।। इति ॥३४॥ 4०१.क.पु. समावेशचर्यायाम् इति पाठः।
क्षेमराजाचार्यकृतविवृत्युपेतः। तदित्थं महाव्यापकस्य भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैरपि। दूरगैरपि यस्यान्तो दुर्गमस्तं स्तुमो मृडम् ॥३५॥ तं मृडं-परमानन्दमयं महेश्वरं, स्तुमः-समा विशामः कीदृशं?-यस्य भ्रान्तान्तःकरणैः-चि- रकालं परममहत्त्वभावनायोगप्रकर्षेण अन्विष्य- द्भिरपि, भ्रमो-वैपुल्याभोगो न लभ्यते। तथा दूरगैरपि - अतिविप्रकृष्टम् अध्वानं भावनाक- मेण गच्छद्भिरपि यस्य अन्तः-दैर्घ्यपरिस- माप्तिः, कालकृता पूर्वापरकोटिश्च न लभ्यते - निराकृतित्वेन देशकालायोगात्, अत एव आकृ. तिमत्वेन भगवदन्वेषणपरा भ्रान्तान्तःकरण उक्ताः। किं च प्रलयावसरे जलमध्ये स्वेच्छाव- भासितज्वालारूपाकृतिमतोऽपि यस्य ब्रह्मवि- ष्णुप्रभृतिभिः तात्त्विकतदीयमाहात्म्यापर्यालो- स्तवचिन्तामणिः। चनया भ्रान्सचित्तैः अन्विष्यद्भिः परिच्छेदोन लब्धः, - इति पौराणिकोऽप्यर्थः अनेन स्पृष्टः। अपि च यस्य संबन्धी भ्रमोऽपि महामायात्मान लभ्यते-न परिच्छिद्यते।सर्व एव हि ब्रह्मविष्णु- रुद्राद्या मायाविमोहिताः, तत एव भ्रान्तान्तः- करणैरित्युक्तं । यत्र एतदीयमायाशक्तिरपि न लभ्यते-न परिच्छिद्यते, तत्र स कथं परिच्छेद्यः स्यात् इति। दूरगैरपि-धडध्वधाराधिरूढेरपि अ- नाश्रितादिभिः, यस्य अन्तः-परिच्छेदो दुर्ग- मोन लभ्यत एव ॥ ३५ ॥ यस्तु भक्तिशाली स सर्वावस्थासु भगवद- भेदावष्टम्भमय एव इत्याशयेन आह नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा। प्राप्तौ चानन्दवृन्दाय दयिताय कपर्दिने ॥ ३६॥ कपर्दिने - महादेवाय, दयिताय --परमवल्लभा- , , क्षेमराजाचार्यकृतविकृत्युपेतः॥ य नमः, कीदृशाय?स्तुतौ-नामग्रहणे, स्मृतौ- तदर्थभावने, ध्याने- तदेकतानतात्मनि चिन्त- ने, दर्शने-तदनन्तरभाविनि साक्षात्कारे,स्पर्श- ने-तद्विश्रान्ती, प्राप्ती-तदैकात्म्यलाभे; यद्वा सर्वस्य भगवन्मयत्वात् सर्वदा सर्वेन्द्रियवृत्तिषु खरूपविश्रान्त्यात्मिकायां प्राप्तौ च आनन्द- न्दाय-पराह्नादस्फाररूपाय। लौकिकोऽपि दयि- तः स्तुत्यादिषु प्राप्तिपर्यन्तेषु क्रमेण अधिका- धिकं सुखयति, परमेश्वरस्तु सर्वत्र अन्यूनाधि- कपरिपूर्णानन्दमय एव । - इति अर्थशक्तिमूलो व्यतिरेकध्वनिः ॥३६॥ यतश्च सर्वदशासु आनन्दवृन्दात्मकमहे- श्वरमयतैव स्फुरति, ततः किं स्मयेनेति मत्वापि मनसा परमेश्वर। स्मयेन त्वन्मयोऽस्मीति मामि नात्मनि किं मुदा ॥ ३७॥ पं० ३ क० पु. तदन्तरभाविनि इति पाठः ।
,
४६
स्तवचिन्तामणिः।
तत्तत्सृष्टयादिकारिब्रह्मादिपदेऽपि विना-
शिनि, यः स्मयो-गर्वः, तेन किं न किंचित्' इति
मनसा मत्वापि-निश्चित्यापि, हे परमेश्वर,-वि-
श्वातिशायिन्, त्वत्स्वरूपप्रत्यभिज्ञावशोन्मिषि-
तेन त्वन्मयोऽस्मि' इति स्मयेन -- महाभिमाना-
स्मना, या मुत् - हर्षः, तया, किम् अहमस्मिन्नेव
आत्मनि मामि न - अपि तु मामि,- परिपूर्णत-
या स्फुरामि एव इत्यर्थः । यद्वा सर्वाभिमानान्
जहदपि अहं 'वन्मयोऽस्मि' इति स्मयेन जनित-
या मुदा कथमिव ईदृक् कृतो, यत् आत्मन्येव
न मामि-न वर्ते ॥ ३७॥
एवंविधाभिमानेनापि त्वय्येव विश्राम्या
मि इत्याह
चिन्तयित्वापि कर्तव्य-
कोटीश्चित्तस्य चापलात्।
विश्राम्यन्भव भावत्क-
चित्तानन्दे रमे भृशम् ॥३८॥
क्षेमराजाचार्यकृतविकृत्युपेतः। खाभाविकात् चित्तचाञ्चल्यात् 'इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । यक्ष्ये दास्यामि मोदिष्ये इत्यादिका निर्विरामप्रवृत्ताः कर्तव्यपरम्पराः चिन्तयित्वा-संकल्प्यापि, 'अत एव यथाभीष्टसमुल्लेखावभासनात् । ज्ञानक्रिये स्फुटे एवं सिद्धे सर्वस्य जीवतः ॥' इति प्रत्यभिज्ञानिर्णीतवस्तुतत्त्वपरामर्शदिशा, हे भव, भावत्कचित्तानन्दे - त्वचैतन्यमेव परि- पूर्ण आनन्दः, तत्र विश्राम्यन्, अहं भृशं रमे, बाह्यपर्यन्तमपि विश्वं त्वदानन्दरसप्लुतमेव अनुभवन् स्थितः । यथोक्तं प्रत्यभिज्ञायाम् 'सर्वो ममायं विभव इत्येवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ इति। प्रथमश्लोके विकल्पात्मकचित्तप्रशमनक मेणव परतत्त्वप्रवेशीपायो य उक्तः, ततोऽयं सा- तिशय उपायो-व्युत्थानमपि समाधिरसप्लुत- । ENERangasansar स्तवचिन्तामणिः। मेव करोति इति भृशं रमे-इति उक्तेराशयः। केवलं तदुपायक्रमेण अयमुपायः प्ररोहमासा- दयाति - इति तथैव इह स्तोत्रकारेण क्रमेणोक्तः। चितो भावःचित्ता, चिन्ता इति अपपाठः॥३८॥ न च इत्थं विमृश्यमानोऽपि प्रमेयभावमे- ति इत्याह सूक्ष्मोऽसि चेत्रिलोकीयं कलामात्रं कथं तव। स्थूलोऽथ किं सुदर्शो न ब्रह्मादिभिरपि प्रभो ॥३६॥ यत् पूर्व 'प्रणवोर्धिमात्रातः इति श्लोकेन उक्तं,तत्र इदं तत्त्वं-यत् परमेश्वरः परप्रमात्रेकरूपो न कदाचित् प्रमेयतामेति, अ- न्यथा अत्यन्ताणुरूपस्य कथमियं भवाभवाति- भवरूपा त्रिलोकी अस्य कलामात्रं-परिमितां. शरूपा स्यात्, स्थूलत्वे तु ब्रह्मादिशिवान्तःन
ोमराजाचार्यकृतविकृत्युपेतः।
दुर्लक्ष्यः स्यात् ऐन्द्रियकप्रत्यक्षेणैव तं विषयी-
कुर्युः,न तु तदन्वेषणकान्दिशीकाः स्युः, यतः
सर्वथैव अपरिच्छेद्यः सर्वसर्वात्मकचिदेकमूर्तिः
परमेशः ततः सर्वशास्त्राणि तत्रैव परिनिष्ठिता-
नि-इति तद्विचारपरा वयं युक्तकारिण एव
अन्यथा
वाच्य एषां त्वमेवेति
नाभविष्यदिदं यदि।
कः क्लेशं देव वाग्जाले-
प्वकरिष्यत्सुधीस्तदा ॥४०॥
वाग्जालानि-निगृहिततात्त्विकत्वत्खरूपता-
मिव दर्शयन्तः शास्त्रकल्लोलाः, वस्तुतस्तु श-
ब्दराशिशरीरमयत्वात् तात्त्विकत्वत्वरूपवि-
श्रान्तान्येव, अतो यदि एतत् नाभविष्यत्-न
प्रत्यभिज्ञास्यत, तत् क इव सुधीः-प्रामाणिकः,
एतद्विचारे क्लेशैकफले प्रावत्यंत ॥ ४० ॥
५ स्तवचिन्तामणिः। यद्यपि वस्तुतो विश्वमयस्त्वं, तथापि एतत्व- रूपसाक्षात्कारयित्रा उपदेशेन मम प्रसादः क्रि- यता-नैर्मल्यमास्थीयतां, यतः त्वत्प्रसादं वि. ना न केनापि ध्यानधारणादिक्रियाक्रमेण ती- क्ष्णविचाररूपया कयाचिदपि वा बुद्धया त्वं साक्षात्कार्यः, प्रत्युत सर्वक्रियाबुद्विप्रत्यस्तमय एव 'त्वत्स्वरूपं भाति'-इति तत्प्रत्यस्तमयो- ऽयमुक्तपूर्वः प्रसादः क्रियतामित्येतदाह क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो। दृश्योऽसीत्युपदेशेन प्रसादः क्रियतां मम ॥४१॥ स्पष्टम् ॥ ४१॥ एवं प्रार्थनानन्तरमपि लब्धतत्साक्षात्कारो व्युत्थानेऽपि तत्संस्कारारूषिते तत्वरूपं स्तो- तुमाह ५१ क्षेमराजाचार्यकृतविकृत्युपेतः। नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे। सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने ॥४२॥ व्यतिरिक्तस्य उपकर्तुः उपकारस्य वा अ. भावात् निरुपकार्याय -- अनुपकार्याय, अत एव स्पृहणीयाभावात निःस्पृहाय, कपर्दिने-जटिने, एतच्चाभिधानं निःस्पृहत्वौचित्येन उपात्तम्। एवम् अनुपकार्याय अस्पृहायापि च सर्वस्य अभीष्टसंपादनेन त्रैलोक्यैकोपकारिणे, अत एव च स्पृहणीयाय-निष्कारणमेव खखरू- पनिर्मलीभावापादनेन अस्मदनुग्रहीत्रे तुभ्य- मेव, शरीरादि जुडमः-इति अनेन लोकोत्त- रोत्कर्षवत्वं भगवत उक्तम् ॥ ४२॥ इत्थं भक्तिसंपूर्णमात्मानं सामान्योक्त्या श्लाघमान आह ५२ লালাবাঃ। अहो क्षेत्रज्ञता सेयं कार्याय महते सताम्। ययानन्तफलां भक्ति वपन्ति त्वय्यमी प्रभो॥४३॥ हे स्वामिन् सताम्-अनुगृहीतानाम्, अ- हो-आश्चर्य, क्षेत्रज्ञता-पुरुषता। अथ च क्षे- त्रज्ञता-सर्वक्लेशसंसरणत्राणहेतुभूतं त्वां क्षेत्र प्रति ज्ञता-बोद्धृता सा इयम् इति खात्मनि उ- पलब्धप्रभावा, महते - त्वदभेदाय, कार्याय - प्रयोजनाय, यया क्षेत्रज्ञतया हेतुना, अमी स- न्तो भक्ति-सेवां, व्यतिरिक्तफलवाञ्छात्यागेन त्वयि क्षेत्रे वपन्ति-बीजवत् रोहयन्ति। की- हशी भक्तिम् ?-अनन्तम् - अपरिच्छिन्नं त्व- क्षेत्रवापादेव त्वदैक्यावाप्तिरूपं फलं यस्यां ताम् ॥ ४३ ॥ एवम् ईदृश्यां त्वत्स्वरूपनिधानप्रापिण्यां भक्तौ न प्ररोहयन्ति ये, ते त्वन्माययैव व्या-
क्षमेराजाचार्यकृतविकृत्युपेतः।
मोहिता इत्याह
महतीयमहो माया
तव मायिन्ययावृतः।
त्वयाननिधिलाभेऽपि
मुग्धोलोकः श्लथायते ॥४४॥
महती-दुरतिक्रमा, माया- अख्यातिः,
मायिन --स्वरूपगोपनपर,यया खरूपगोपनस-
तत्त्वया आवृत आच्छादिततत्त्वदृष्टिर्मुग्धः-त.
स्वाविवेकी जनः श्लथायते - स्वद्भक्तौ प्राप्ता-
यामपि न तन्मयीभवति ॥ ४४ ॥
तदित्थं सर्वत्र त्वमेव कर्ता इत्याह
प्रारम्भे भव सर्वत्र
कर्म वा करणादि वा।
विश्वमस्तु स्वतन्त्रस्तु
कर्ता तत्रैकको भवान् ॥४५॥
,
स्तवचिन्तामणिः।
हे भव, सर्वत्र-शिवादिकोटान्तप्रमातृसंब-
न्धिनि आरम्भे-व्यापारे, यत्किञ्चित् कर्तृकर-
णादिरूपमिव भाति, तत्सर्व कर्म वा तवैव
खतन्त्रस्य कर्तुःअवभासनात्मना क्रियया तथा
आभासितत्वेन कार्यं भवतु ! यदि वा त्वयैव
मितक्रियासाधकतमत्वादिना अवभासितत्वा.
त् करणादि तदस्तु, सर्वत्र पुनरत्र नानाकार-
कवैचित्र्यात्मना स्फुरत्यपि त्वमेव एकः--अ.
न्यानपेक्षः स्वतन्त्रः कर्ता; अन्यस्तु त्वदाभा-
स्यत्वादेव अस्वतन्त्रः- इति कथं कर्ता स्यात् ।
यत्तु ब्रह्मादीनां सृष्टयादौ कर्तृत्व, तत् तेषां
त्वदुत्थापिततत्तदभिमानमात्रतत्त्वम् । यदुक्तं
श्रीविद्याधिपतिना
'उत्तरोत्तरमवग्रहैः पदं
पश्यतोऽप्यधरमुत्तरस्य यः ।
साधनस्य निजभावनाग्रहो
हेतुरत्र भवतो मरीचयः ॥
इति ॥ ४५ ॥
खेमराजाचार्यकृतविकृत्युपेतः। यत एवम्-अतः, त्रिगुणत्रिपरिस्पन्द- द्वन्द्वग्रस्तं जगत्रयम्। उद्धर्तु भवतोऽन्यस्य कस्य शक्तिः कृपाथ वा ॥४६॥ त्रयाणां सत्त्वादिगुणानां यः प्रकाशप्रवृत्ति- स्थित्यात्मा त्रिविधः परिस्पन्दः, तद्रूपाणि था- नि देहप्राणपुर्यष्टकगतानि शीतोष्णक्षुनृष्णासु- खदुःखरागद्वेषजननमरणानि द्वन्द्वानि, तैः ग्रस्त- म् - आत्मसात्कृतं जगत्त्रयं -जागरस्वप्नसुषु- ताविष्टं जन्तुचक्रं, तदुद्धर्तु-तुर्यतुर्यातीतपदम् अवलम्बयितुं, तवैव आचार्यस्य मन्त्रमन्त्रेश्वरा- दिभूमिषु माहात्म्यव्यञ्जिका शक्तिः- सामर्थ्य कृपापि वा-अनुजिघृक्षात्मा, नान्यस्य कस्या- पि कदापि । तदुक्तम् 'आचार्यदेहमास्थाय शिवः पाशानिकृन्तति ।' इति।
५६ स्तवचिन्तामणिः। शतमष्टादशोत्तरम् । अनुगृह्य शिरः साक्षान्मन्त्रेशत्वे नियुक्तवान् ।' इति ॥ ४६॥ एवं त्वदैक्यभावनाभावाभावावेव गुणदो- षौ इत्याह नु दोषोऽपि देव को दोष- स्त्वामाप्तुं यः समास्थितः। गुणोऽपि च गुणः को त्वां नाप्तुं यः समास्थितः॥४७॥ हे देवा विश्वक्रीडादिपर, विषयतृष्णावानपि यः त्वदैकध्यविमर्शमयः स गुणवानेव; यस्तु पाण्डित्यवैराग्यादिगुणयुक्तोऽपि न त्वद्विमर्श सारः स दोषी शोच्यप्रज्ञ एव, समास्थितः-स- म्यक् अभेदापत्त्या आ समन्तात् स्थितः - अभिनिविष्टः ॥४७॥ पं० ३ ग० पु० इति शब्दात् अनन्तरं 'यतश्च त्वमेव विश्वानुग्रहीता' इत्यंशोऽधिको दृश्यते ।
क्षेमराजाचार्यकृतविवृत्युपेतः।
प्रतध
रागोऽप्यस्तु जगन्नाथ
मम त्वय्येव यः स्थितः।
लोभायापि नमस्तस्मै
वल्लाभालम्बनाय मे॥४७॥
त्वय्येव, न तु त्वयि च फले च ।नम इत्य-
नेन भगवद्भक्त्युद्रेकमेव द्रढयति । राग:-- स्Y-
हा, लोभः-सर्वस्ववत् परिरक्षणं, त्वलाभो-
भवत्समावेशः, आलम्बनं-विषयो यस्य
॥४७॥
ईदृप्रागलोभात्मा त्वद्भावना विश्वमुद्धरति-
इत्याह
अहो महदिदं कर्म
देव त्वद्भावनात्मकम्।
प्राब्रह्मक्रिमि यस्मिन्नो
मुक्तयेऽधिक्रियेत कः॥४८॥
বৰলামাবাঃ। वैदिकज्योतिष्टोमादिभावनात्मके कर्मणि वर्गप्रदे द्विज एव अधिकृतः, त्वद्भावनात्मके कर्मणि तु आ प्रजापतेः क्रिम्यन्तं वदिच्छ- यैव मुक्त्यर्थं विश्वम् अधिकारि कृतम् , इ- ति अर्थशक्त्या व्यतिरेकध्वनिना अप्रतिहतं खातन्त्र्यं भगवता व्यञ्जयता अद्भुतरसो ध्वन्यते ॥ ४८॥ किंच आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणाम् । तदन्तर्वृत्तयश्चित्रा- स्तवैवेश धियः पथि ॥४६॥ हे ईश- स्वतन्त्र, त्वत्संविदेव सर्वेषां भो- गापवर्गादिकार्याणां तद्व्यापाराणां च प्रारम्भ- समाप्तिमध्यानि वेत्ति ॥ ४ ॥ यद्यपि त्वत्संवित् विश्वमाभासयति, तथापि क्षेमराजाचार्यकृतचिवृत्युपेतः। तदाभासिताया भकेः कोऽपि महिमा अस्ति इत्याह यावदुत्तरमास्वाद- सहस्रगुणविस्तरः। त्वद्भक्तिरसपीयूषा- नाथ नान्यत्र दृश्यते ॥५०॥ यद्यत् उत्तरं यावदुत्तरं, हे नाथ-प्रार्थनी- यस्वरूप, समावेशात्मा यः त्वद्भक्तिरसः, स एव परमानन्दमयत्वात् पीयूषं, ततोऽन्यत्र न क्वापि यावदुत्तरं क्रमाक्रमम् आस्वादानां-चमत्का- राणाम् आनन्दसन्दोहानां, सहस्रगुणो-निः संख्यो, विस्तरो-विस्तारो दृश्यते, त्वद्भक्तिरेव उत्तरोत्तरं प्रकृष्टाः परमानन्दसंपदो वितरति। आस्वाद्य इत्यपपाठः। विस्तर इति अशब्द- विषयः शब्दः चिन्त्यः, 'प्रथने वावशब्दें' पं०१० पु. तदाभास्यतया इति पाठः ।
स्तवचिन्तामणिः। इति अशब्दविषये नियमितत्वात् ॥५०॥ यत एवं, तेन उपसंहृतकामाय कामायतिमतन्वते। अवतसितसोमाय सोमाय स्वामिने नमः॥५१॥ सह उमया देव्या-स्वातन्त्र्यशक्त्या वर्त- ते यः स्वामी-चिदात्मा महेश्वरः, परशक्ति- रूपनिजोत्तमाङसंगमितसमस्तमेयचन्द्रः अत एव व्यतिरिक्तार्थनीयार्थाभावात् उप-स- मीपे आत्मन्येव संहतकामः-खानन्दचम- कारनित्यतृप्तः, अत एव परिपूर्णत्वात् सर्वाम आयति मूर्तिक्रियावैचित्र्यविस्तृति तन्व- न् - नित्यं खात्मनि प्रथयन् यः, तस्मै नमः, इति आन्तरेण क्रमेणार्थः। बाह्येन तु दग्धमन्मथाय, आयतिम् आगा- मिनं शुभं कालं, कैलासादिषु नित्यप्रवर्तमान-
,
क्षेमराजाचार्यकृतविकृत्युपेतः।
प्रमोदनिर्भरक्रीडामयं लोकोत्तरप्रभाव विस्ता-
रयित्रे, उमादेहार्धधारिणे, धृतचन्द्रकलाभर-
णाय नम इत्यर्थः। मन्मथदाहिनोऽपि च श्रा-
लम्बनोद्दीपनविभावसंपूर्णासामान्यशृङ्गारनिवि-
ष्टत्वम् इति आकृतिमत्त्वेऽपि अतिदुर्घटमै-
श्वर्यमुक्तम् ।
अथ च उपसंहृताः-भक्तिमतः परिपूर्णख-
रूपप्रथनेन प्रशमिताः, सर्वे कामा-अभिला-
षाः येन, तत एव च काम् आयतिम् अतन्व-
ते- सर्व कालं मोक्षलक्ष्मीसमाश्लेषमयं दर्शयि-
त्रे, खामिने नम इति अयमपि अस्यार्थः ॥ ५१ ॥
एवं तावत् भक्तिद्रविणपरिरक्षाप्रवण एवा-
स्मि, तथापि तु यदि वशिनस्ते मायाशक्तिः
मां विस्मृतस्वरूपं मध्ये करोति, तत्
किमशक्तः करोमीति
सर्वत्रानध्यवस्यतः।
सर्वानुग्राहिका शक्तिः
शाङ्करी शरणं मम ॥५२॥
६२
स्तवचिन्तामणिः।
क्रीडामयमहेश्वरमायाशक्त्या कयाचित्
व्युत्थानदशायां व्यामोहितत्वात् अशक्तः किम्
अहं करोमि, न किंचित् इति सर्वत्र शरीरम-
नोवाग्व्यापारेषु अनध्यवस्थतः-कुत्रापि अध्य-
वसायम् अगृह्णतः परमेश्वरनियोगतः कान्दि-
शीकस्य मम पराद्वयप्रथात्मकश्रेयस्करणात् शं-
करस्य सम्बन्धिनी शक्तिः सर्वानुग्रहैकप्रयो-
जना शरणं, सैव मां. पुनरुबोधयिष्यति
इत्यर्थः ॥ ५२ ॥
न चैवं वक्तव्यं शंकरोऽनुग्रहैकप्रयोजनः,
अन्यस्तु कश्चित् ईश्वरो मोहको भविष्यति
इति, यतः
गुणातीतस्य निर्दिष्ट-
निःशेषातिशयात्मनः।
लभ्यते भव कुत्रांशे
परः प्रतिनिधिस्तव ॥ ५३ ॥
6.
क्षेमराजाचार्यकृतविकृत्युपेतः।
हे भव- प्रकाशैकात्मना रूपेण नित्याव-
स्थित, सत्त्वादिगुणयोगात् मायाप्रमातृणां ना-
नाता भवति, त्वं तु गुणातीतः स्वतन्त्रचिदेक-
मूर्तिरिति, तादृशस्य तब अंशमात्रेऽपि कः प्र-
तिनिधिः-तुल्यः अस्ति, चितो भेदकस्य कस्या.
पि अभावात् । अतः कथं परिपन्थकेश्वराशंका,
अत एव परमेश्वरः
स्वतन्त्रस्तु कर्ता तत्रैकको भवान् ।'
इत्यादिना निर्दिष्टनिःशेषातिशयात्मा प्रतिपा-
दितसकलोत्कर्षस्वभावः। निर्मष्टेति पाठे समु-
पुंसितसर्वातिशयः महासामान्यचिदेकमात्र-
रूप आत्मा यस्य इति योज्यम् ॥ ५३ ॥
अतश्च तवैव वशिनो मायया क्वचित् व्यु-
स्थाने व्यामोह्यमाना त्वत्प्रकाशाय त्वामेव
तारं क्रन्दामः, यदाह
निईन्डे निरुपाधौ च
त्वय्यात्मनि सति प्रभो।
वयं वञ्च्यामहेऽद्यापि
माययामेयया तव ॥५४॥
६४
स्तवचिन्तामणिः।
हे प्रभो-दासवत्सल, निर्द्वन्द्वे-परमाद-
यरूपे, तथा देशकालाकारेभ्यः उपाधिभ्यो
निष्क्रान्ते त्वयि महादेवे, न तु पुर्यष्टकादिरूपे
आत्मनि सति तथात्वेन निश्चित्य निष्टापिते-
ऽपि वयम् अद्यापि ईदृशीं प्रबोधधाराम् अ-
धिरूढा अपि, तव वशिनः अमेयया मायया
वञ्च्यामहे-मनाङ्मात्रं देहप्रमातृतासंस्कारेण
न त्यज्यामहे, अतः स्वामिन् , तवैवैतद्विदितं कृ-
त्यं, त्वं तथा कुरु-यथा अयं मायासंस्कारोऽपि
अस्माकं त्वदासानां शाम्यति। तदुक्तं मया-
पि खस्तोत्रे
'उन्मूलितापि शतशो दलितापि सहस्रशः ।
गोनासेवाप्रथोदेति द्रागत्र शरणं शिवः ।।'
इति ।। ५४॥
न चैतत्प्रशमनं दुरासदम्, यतः
अणिमादिगुणावाप्तिः
सदैश्वर्यं भवतयः।
अमी भव भवद्भक्ति-
कल्पपादपपल्लवाः ॥ ५५॥
क्षेमराजाचार्यकृतविदृत्युपेत ६५
अणिमाद्यवाप्तिः ब्रह्मादीनां, सदैश्वर्यं स-
दाशिवादीनां, भवक्षयः शुद्धात्मनाम्, इत्येते
त्वद्भक्तिकल्पवृक्षस्य पल्लवाः, न तु कुसुमानि फ-
लानि वा, कुसुमं हि अस्य त्वच्छक्तिमयत्वं, फलं
तु त्वन्मयतैव, यतश्च भवक्षयः त्वद्भक्तेः पल्ल-
वः, ततो भवद्भक्तिभाजामस्माकं त्वत्प्रसादात्
मायासंस्कारोऽवश्यं नञ्च्यति इत्याशयशेषः ।
उक्तं च विज्ञानभैरवे
'भक्त्युरेकाद्विरक्तस्य यादृशी जायते मतिः।
सा शक्तिः शाङ्करी नित्यं भावयेत्तां ततः शिवः॥
इति ॥ ५५ ॥
एवं भक्त्युद्रेकेण उत्तेजितो गलितनिःशेष-
देहसंस्कारां महेश्वरतन्मयतामेव आशंसन्
आह
या या दिक्तत्र न कासि
सर्वः कालो भवन्मयः।
इति लब्धोऽपि कर्हि त्वं
लप्स्यसे नाथ कथ्यताम् ॥५६॥
स्तवचिन्तामणिः। , दिश्यते इति दिक् देशः, यः कश्चित् मूर्त्या- स्मा देशः, क्रियात्मा वा कालः, स सर्वः चेत्य मानत्वात् चिदेकात्मैव इत्यनेन न्यायेन लब्धो- ऽपि-आसादितोऽपि विश्वमयः त्वं. कर्हि- कदा, लप्स्यसे- गलितसूक्ष्मतमदेहसंस्कारक- लाविघ्नं त्वदात्मसद्भावं कदा आप्स्यामः- इत्ये- तत् नाथ- स्वामिन्, दासानाम् आदेश्यताम् । इति गाढपरिचयप्रणयनिर्भरोक्तिः ॥५६॥ पुनर्भक्तिभरेण नमस्कर्तुमाह नमः प्रसन्नसवृत्त- मानसैकनिवासिने। भूरिभूतिसिताङ्गाय महाहंसाय शंभवे ॥ ५७॥ शंभवे महाहंसाय नमः, हंसत्वं प्राग्वत, म- हत्त्वं तु सर्वक्षेत्रज्ञरुद्रापेचया, सर्व एव हि प्र- मातारः स्वोचितसर्गसंहाररूपहानसमादानधर्म- त्वात् हंसाः, शंभुस्तु तेषामपि सर्गसंहारकृत् ,
६७
मराजाचार्यकृतविवृत्युपेतः।
इति महाहंसः। अत एव श्रीखच्छन्दे
'शिवो धर्मेण हंसस्तु """"।'
इति उपक्रम्य
'आत्मा वै हंसः
"""
इत्यादि उक्तम् । कीदृशायशंभवे ? प्रसन्नं-भवद्भ-
क्तिभरेण तात्त्विकेऽर्थे निःसंशयं, यत्सद्वृत्तानां-
त्वद्भावनात्मकभव्यचरितानां मानसं-चेतः, तत्र
एकस्मिन् निवसति-अगूहितात्मत्वेन स्फुरति
ताच्छील्यन यः तस्मै, तथा भूरिः-महती वि-
श्ववैचित्र्यात्मा माया भूतिः-विभवः तया सि-
तं-संबद्धम् अङ्गं-ज्ञानक्रियात्मकशविरूपं ख-
रूपं यस्य तस्मै । महाहंसश्च प्रसन्नमानसाख्यस-
रोनिवासी भूरिभूतिवत् सिताङ्गो भवति इति
अनुरणनार्थः ॥७॥
अतश्च
हृतोद्धततमस्तान्तिः
प्लुष्टाशेषभवेन्धना।
त्वबोधदीपिका मेऽस्तु
नाथ त्वद्भक्तिदीपिका ॥ ५८॥
स्तवचिन्तामणिः। हे नाथ, त्वद्भक्तिरेव प्रकाशकत्वात् दीपशि- खा, त्वबोधस्य-भवदीयमहाप्रकाशस्य दीपिका अस्तु-अभिव्याञ्जिका अस्तु, कीदृशी असौ? हृता उद्धता तमस्तान्तिः-अख्यातिकदर्थना यया, तथा प्लुष्टं- दग्धम् अशेषं भवेन्धनं-- संसारदारु यया । दीपशिखा कृतकज्जलात्म- कतमस्तान्तिः अदग्धसमस्तवर्तिः घटादि प्र. काशयति, अतो विलक्षणा इयं त्वबोधदीपिका इति व्यतिरेकालङ्कारः ॥ ५८ ॥ रूपान्तरण विमृशन् आह विसृष्टानेकसीज- गर्भ त्रैलोक्यनाटकम्। प्रस्ताव्य हर संहर्तु त्वत्तः कोऽन्यः कविःक्षमः॥५६॥ हे हर-विश्वसंहरणपर, भवाभवातिभवरूपं त्रै- लोक्यं वागङ्गाहार्यसात्त्विकादिविविधधर्मयोगात् पं० १० ग० पु. रूपणान्तरेण इति पाठः ।
" क्षेमराजाचार्यकृतविकृत्युपेतः। नाटकभिव-अभिनेयकाव्यमिव प्रस्ताव्य- प्रक्रम्य, संहर्तु-प्रशमयितुं त्वत्तः अन्यः कः, कविः- प्रजापतिः क्षमः, न कश्चित् इत्यर्थः। कीदृशं? विसृष्टम् - उत्पादितम् अनेकं सतां सत्त्वेन प्रदर्श्यमानानां भावानां बीजं-मा- याप्रकृत्यादि गर्भ-अन्तः यस्य । नाटकाख्यं च काव्यविशेष प्रस्तावनायां मुखसन्धिना प्र- स्ताव्य-संक्षेपेण उपक्षिप्य, संहर्तु-निर्वहणस- न्धिना निर्वाहयितुं कश्चिदेव धाराधिरूढः क- विः शक्तो भवति न सर्वः। यदाहुः 'नाटकं ख्यातवृत्तं स्यात् इति। कीहक् नाटकं? विस्तृष्टं नि.......... संबन्धबीजादिकम यस्मिन् गर्भावमर्शनिर्व- हण राज्यलाभादेः प्रयोजना दीनि गर्भसन्धौ निक्षिप्यन्ते । यदाह स्म भ- रतमुनिः पं० ७ ग. पु० प्रस्तावनया इति पाठः । P सन्धौ यस्य
स्तवचिन्तामणिः।
'बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ।
अर्थप्रकृतयः पञ्च गर्भसन्धौ व्यवस्थिताः ॥'
इति। एषां च स्वरूपं प्रदर्श्यमानं ग्रन्थवैतत्य-
मानयत्प्रकृतानुपयोगि इति न उक्तम् ॥५६॥
यतो नान्यः कश्चिदेवं कर्तुं क्षमः, ततः
नमः सदसतां कर्तु-
मसत्त्वं सत्त्वमेव वा।
स्वतन्त्रायास्वतन्त्राय
व्ययैश्वयकशालिने ॥६॥
सतां-विद्यमानानां जगतिनाम अर्थाना-
म्, असत्त्वं-संहारम्, असतां-वा संहतत्वात्
प्रख्योपाख्याशून्यानां सत्वं - पुनर्जननं, कर्तुं
स्वतन्त्राय-अनन्यापेक्षसामर्थ्याय, तथा अख-
तन्त्राणां सर्वेषामेव ब्रह्मादीनां यानि आय-
व्ययैश्वर्याणि - उत्पादविनाशविभवाः तैः अ-
खतन्त्रायव्ययैश्वर्यैः स्वाभेदेन स्फुरद्भिः ए-
कः-अद्वितीयः शालते--श्लाघते यः तस्मै ॥६॥
. तेमराजाचार्यकृतविकृत्युपेतः। ७१ भक्त्यतिशयप्रकाशिततात्त्विकस्वरूपं भग- वन्तं पुनरपि स्तोतुमाह त्रैलोक्येऽप्यत्र यो यावा- नानन्दः कश्चिदीक्ष्यते। स बिन्दुर्यस्य तं वन्दे देवमानन्दसागरम् ॥६१ ॥ व्याख्यातस्वरूपे त्रैलोक्ये, यो यावान् इति- यः कश्चित्, आ शिवात् सकलप्रमातृपर्यन्तम् आनन्दः स्फुरति, स सर्व एव यस्य बिन्दुः- विपुण्मानं क्रीडादिपरमानन्दसागरम् अपर्य- न्तानन्दसमुद्रं वन्दे - समाविशामि । इत्थं च तत्तत्परिमितानन्देऽपि एकाग्रीभावितचित्तः प- रमानन्दमाविशति योगिजन इति उपदेशदिक्- दर्शिता । यथोक्तं श्रीविज्ञानभैरवे 'जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् । भावयेद्भरितावस्थां महानन्दस्ततो भवेत् ॥ इति ॥ ६१ ॥ SHAN ।
स्तवचिन्तामणिः। यत ईदृशो देवः, ततः अहो ब्रह्मादयो धन्या ये विमुक्तान्यसंकथम् । नमो नमः शिवायेति जपन्त्यालादविहुलाः॥६२॥ विमुक्तान्यसंकथं कृत्वा, तदेकाग्रीभावेन आह्लादेन-जपवशोन्भिषितेन आनन्देन वि. बलाः-विस्मृतव्यवहाराः ॥ ६२ ॥ किंच निष्कामायापि कामाना- मनन्तानां विधायिने। अनादिवेऽपि विश्वस्य भोक्ते भव नमोऽस्तु ते॥६३॥ परिपूर्णानन्दत्वादेव कामेभ्यः-अभिलाषे- भ्यो निष्कान्तायापि विचित्रभोगापवर्गात्मका- क्षेमराजाचार्यकृतविकृत्युपेतः। नां काम्यमानानाम् अर्थानां संपादकाय, त- था अनादित्वेऽपि-विश्वस्य आदिभूताद्विती- यरूपत्वेपि नित्यं स्वभित्युल्लासितस्य विश्वस्य भोग्यभूतम्य भोले-चमत्कने, यस्य च का- माः न सन्ति स कथं तान् ददाति, यश्च अ- नादी-अनदनशीलः स कथं विश्वस्य भोक्ता स्यात् इति विरोधालंकारः॥३३॥ किंच स्तुमस्त्रिभुवनारम्भ- मूलप्रकृतिमीश्वरम्। लिप्सेरन्नोपकारं के यतः संपूर्णधर्मणः ॥६४॥ त्रिभुवनं प्राग्वत, तदारम्भमूलप्रकृतिम् इति सर्वकारणकारणम्, अत एव ईश्वरं-सर्वत्र अप्र- तिहतसामर्थ्य स्तुमः। यतः संपूर्णः सर्वातिशायी धर्म:- खातन्त्र्यात्मा खभावो यस्य, तस्मात् स्तवचिन्तामणिः। इव उपकारं खोचितैश्वर्यलाभं न लिप्से- रन्-न अर्थयेरन्, सर्वे हि ब्रह्माद्याः महेश्वरेणैव वितीर्णतत्तद्विभूतिविषुषः कृताः ॥ ६॥ BE अपि च महत्स्वप्यर्थकृच्छ्रेषु मोहौघमलिनीकृताः। स्मृते यस्मिन् प्रसीदन्ति मतयस्तं शिवं स्तुमः॥६५॥ पर्यवसाययितुम् अशक्यत्वात् महत्सु गु- रुष्वपि अर्थकृच्छ्रेषु-जगद्विचारादिप्रयोजन- संकटेषु विषयेषु, मोहोघेन-मायास्फारेण म लिनीकृताः-स्थगिततात्त्विकप्रकाशा मतयः- संविदो, यस्मिन् स्मृते-विमृष्टमात्रे सति, प्रसीदन्ति-मायाकालुष्यं उज्झित्वा तत्वज्ञा- नवत्यो जायन्ते, तं शिवं-श्रेयोमयं स्तुमः- अभेदेन विमृशामः॥६५॥ सर्वमेतत् त्वयैव सुकरम् इत्याह क्षेमराजाचार्यकृतविकृत्युपेतः । प्रभो भवत एवेह प्रभुशक्तिरभङ्गुरा। यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ ॥६६॥ इच्छयैव यः त्रैलोक्यलयोदयकृत् तस्य कियत् एतत्, अन्यस्तु त्वदेकायत्तवृत्तिःभंगु. रशक्तिरेव इत्यर्थः ॥-६६ ॥ तव च इयत् निरर्गलं स्वातन्त्र्यम् इत्याह कुकर्मापि यमुद्दिश्य देवं स्यात्सुकृतं परम्। सुकृतस्यापि सौकृत्यं यतोऽन्यत्र न सोऽसि भोः॥६७॥ देवः-क्रीडादिपरः परमेश्वर एव 'अहं सर्वमिदं करोमि' इति धिया क्रियमाणं कुत्सि- तं निषिद्धमपि कर्म सुकृतं, यत्तु अश्वमेधादि स्तवचिन्तामणिः। सुकृतमपि फलाभिलाषमुषितमानसतया कि- यते तत् कुकर्म इति भगवदभेदभावनाभा- वाभावाभ्यां यत् करणं तदेव सुकृतदुष्कृत. योः वास्तवं लक्षणं, सोऽसि भोः इत्यनेन अनुत्तरं पारमेश्वरं स्वरूपं सोल्लसात्माभिमु- खीभावेन विमृशति ॥६७॥ यत ईदृशः त्वम्, अतः एष मुष्टया गृहीतोऽसि दृष्ट एषक यासि नः। इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिम् ॥६॥ एषसर्वदशासु चिन्मयत्वेन स्फुरन्, मु. ष्टया गृहीतोऽसि-स्वात्मीकृत एवासि, एष च दृष्टोऽसि-साक्षात्कृतोऽसि, सर्वदैव चित्प्र- काशरूपतया स्फुटमेव असि स्फुरन् स्थितः, अत एव नः-अस्माकं क यासि न वापि क्षेमराजाचार्यकृतविकृत्युपेतः॥ खरूपं गृहयितुं शक्रोषि, सर्व हि अस्माकं त्व- न्मयमेव चकासत् स्थितम् इति-ईहशेन स- ततोदितत्वत्समावेशात्मना भक्तिरसेन ये आ- माता:-प्रोद्दीपितसंविदः ते धूर्जटिं-महा- देवं धावन्ति-राभस्येन अनुसरन्ति, सर्वद- शासु प्रसर्पन्तम् अननुप्रविष्टाख्यातिव्यव- धानं परामृशन्ति, अत एव धन्याः परमद्र- विणपूर्णा विद्वच्छलाध्याश्च ॥ ६८ ॥ किंच स्तुमस्त्वामृग्यजुःसान्नां शुक्रतः परतः परम् यस्य वेदात्मिकाज्ञेय- महो गम्भीरसुन्दरी ॥६६॥ ऋगादिवेदत्रयस्य यत् परं शुक्रं, तदभेद- विमर्शमयं- बोधादित्यप्रतिभात्मकप्रणवतेजो- रूपं, ततोऽपि परं-बोधादित्यरूपं त्वां स्तुमः, यस्य इयं वेदात्मिका आज्ञा-नियोगः, कर्म-
७.
स्तवचिन्तामणिः।
काण्ड-देवताकाण्ड-ज्ञानकाण्डवाक्यैकवाक्यता-
ज्ञानस्य कैश्चिदेव प्राप्यत्वात् गम्भीरा 'वि-
ज्ञानमानन्दं ब्रह्म' इति वेदान्तेषु प्रतिपादित-
दृष्टया परमानन्दविश्रान्तिप्रदत्वात् सुन्दरी,
एवं च अभिदधतोऽयमाशयः-यत् नियोगरू-
पाज्ञात्मा अयं वेदार्थः स नियोक्तरि-आज्ञातरि
सति उपपद्यते, अन्यथा कथमिव जडस्य श-
ब्दस्य संघटनार्थवत्त्वं नियोक्तृत्वं वा स्यात्,
नियोक्तृत्वं च भगवतो गायत्र्यैव उक्तमपि श्रो-
त्रियैः जाड्यात् न चेत्यते। यद् अभिधास्यति
'गायत्र्या गीयते यस्य धियां तेजः प्रचोदकम् ।'
इति ॥६६॥
एवमाज्ञारूपनियोगविचारलब्धं नियोक्तारं
स्तुत्वा, विधिवाक्यार्थपक्षस्यापि सेश्वरत्वमेव-
इति अभिधत्ते
विधिरादिस्तथान्तोऽसि
विश्वस्य परमेश्वर।
धर्मग्रामः प्रवृत्तो य-
स्त्वत्तो न स कुतो भवेत्॥ ७० ॥
खेमराजाचार्यकृतविकृत्युपेतः। यजेत, न हिंस्यात्, इत्यादिरूपो यो विधिः कर्तव्येतरप्रविभागः, आदि:-इति तस्मिन् वि- धौ विधाता, अन्तो-विहितार्थनिष्पत्त्या तत्त- कलाविर्भावः, सर्वोऽपि त्वमेव स्वतन्त्रचिदा- स्मा, तथा विध्यादिरूपतया भासले इत्यर्थः । अन्यथा विश्वस्य यो धर्मग्रामो-विचित्रस्वभा- वपरिस्पन्दः प्रवृत्तः स यदि न त्वत्तः तत् कु. तो भवेत्, त्वां विना नैव भवेत्, प्रकाशभित्तिं विना कस्यापि अप्रकाशनात् इत्यर्थः । यदाहुः श्रुत्यन्तविदः 'तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभाति' इति। विधिनैव च भावनापक्षोऽपि कृतोत्तर यदि श्रुत्यन्तानुसारेण सर्व भगवन्मयं, तत् कस्मात् कर्मकाण्डेषु ज्ञानमेव न उपदिश्यते, कथं च ज्ञानकाण्डेषु तदेव निषिध्यत?-इति सं. शयं शमयति स्तुतिद्वारेण स्तवचिन्तामणिः। नमस्ते भवसंभ्रान्त- भ्रान्तिमुद्भाव्य भिन्दते। ज्ञानानन्दं च निईन्द्वं देव वृत्वा विवृण्वते ॥७१॥ हे देव-स्वतन्त्रचेष्टित, भवे- संसारे ये सं. भ्रान्ताः-त्वन्मायाशक्तिवशात् व्यामूढाः, तत एव च भेदासक्तत्वात् कर्मनिष्ठाः तेषां पूर्वक- क्ष्यायां तां तां भेदभ्रान्तिम् उद्भाव्य सिद्धा- न्तकक्ष्यायां भिन्दते-ध्वंसकाय, तथा ज्ञाना- नन्द- परमाद्वयरूपं विज्ञानम् आनन्दमयं वृ. त्वा-प्रथमं रहस्यत्वात् अयोग्यान् प्रति आ- च्छाद्य, पश्चात् योग्यान् प्रति विवृण्वते-स्फु- टीकुर्वते तुभ्यं नमः। एवं च यत् पूर्वपक्ष- तया कर्मकाण्डखरूपं भगवता हेयत्वेन दर्शि- तं, तदेव मूढैः उपादेयत्वेन अभ्युपगम्य, ज्ञा- नकाण्डस्य अर्थवादत्वम् उच्यते। अथ वा. भगवतैव सृष्टयादिकृत्यचतुष्टयरक्षायै ते ता- मराजाचार्यकृतविकृत्युपेतः। ८१ दृशाश्वासवन्तो व्यामोहिताः स्थापिताः। सं. भ्रान्तिम् इति अपपाठः ॥ ७१ ।। यथा परमेश्वरः तत्तद्वेदसंहितादिशास्त्रेषु भ्रान्तिमुद्भाव्य भिन्दन, ज्ञानानन्दं विवृणोति, तथा अस्माकमपि मायामुद्भावितां भित्वा ज्ञानानन्दमेव प्रकाशयतु इत्याह यस्याः प्राप्येत पर्यन्त- विशेषः कैर्मनोरथैः। मायामेकनिमेषेण मुष्णस्तां पातु नः शिवः॥७२॥ यस्याः चिदभेदाप्रथात्मनो मायायाः पर्य- न्तस्य विशेषः परकाष्ठाचिदद्वयमयताप्राप्तिल. क्षणः कैः ब्रह्मादिभिः प्रमातृभिः कैः मनोरथैः प्राप्येत, सर्वस्य मनोरथानामपि अविषयः, तां मायाम् एकनिमेषेण मुष्णन -खरूपोन्मेषमा- त्रेणैव अपहरन् , शिवः-श्रेयःप्रदः, नः-अस्मा- " ८२ स्तवचिन्तामणिः। न् पातु-मायासंस्कारगोचरात् रक्षतु; यथा अख्यातिः नानापि नावतिष्ठते ॥७२॥ मायापर्यन्तविशेषो यादृक् भक्तिभाजामेव दर्शनयोग्यः- तत् प्रकटयति वैराग्यस्य गतिं गुर्वी ज्ञानस्य परमां श्रियम्। नैःस्पृह्यस्य परां कोटिं बिभ्रतांत्वं प्रभो प्रभुः॥७३॥ हे प्रभो परमेश्वर, वैराग्यस्य-विषयवैतृष्ण्य- स्य, गुर्वी- काष्ठाप्राप्तां सदाशिवादिपदमपि तृ- णवत् मन्यमानां, गति-प्रतीति, तथा ज्ञान- स्य तत्त्वावबोधस्य, परमां-वैष्णव-ज्ञाकुल-पाशु- पतायुक्तमितज्ञानहान्या विश्वोत्तीर्ण-विश्वम- य-चिदानन्दसुन्दर-खतन्त्र-सततावभावर-पर- माद्वयखात्मप्रथारूपां श्रियं-परां विभूति, पं० १२ ग० पु. वैष्णवनाकुल इति पाठः ।
क्षेमराजाचार्यकृतविकृत्युपेतः। ८३
तथा नःस्पृह्यस्य - यथोक्तज्ञानलक्ष्मीप्राप्त्यु-
पायान्वेषणवैमुख्यस्य च, परां--धाराधिरूढां
कोटिं सकलमुद्रामन्त्रध्यानाद्यपहस्तनरूपाम् ।
यदाह स्म कश्चित्
'अपरोने भवत्तले सर्वतः प्रकटे स्थिते।
यैरुपायाः प्रतन्यन्ते नूनं खां न विदन्ति ते॥'
इति । एवमीहशीं निःस्पृहत्वस्य परां कोटिं-
विश्रान्ति ये बिभ्रति-वहन्ति, तेषां मायापार-
दृश्वानां, त्वं प्रभुः-निरर्गलाःते तव दासाः, अ-
तश्च ईदृशानामस्माकं त्वमुन्मेषमात्रेणैव मायां
मुष्णासि इत्यर्थः ॥७३॥
असामान्यश्च एषां त्वं प्रभुरित्याह
ब्रह्मणोऽपि भवान्ब्रह्म
कस्य नेशस्त्वमीशितुः
जगत्कल्याणकल्याणं
कियत्त्वमिति वेत्तिकः॥७४॥
स्तवचिन्तामणिः। , . जगतो-विश्वस्य मध्ये, यत् कल्याणम्- ईश-सदाशिव-शिवाः, तेषामपि कल्याण-पूर्ण- चिदानन्दघनखात्मप्रथनेन अनुग्राहकं कियत् माहात्म्यम् इति एतत् को वेत्ति, अपरिच्छेद्य- महिमा असि इत्यर्थः, यतो ब्रह्मणोपि-महा- प्रकाशरूपस्य वेदान्तोपास्यस्य, भवान् ब्रह्म- खातन्त्र्यशक्तिमयत्वेन उत्कृष्टोऽसि, विश्वनि- मणिशक्तिदानेन बृंहकश्च । यदुक्तं गीतासु 'मम योनिमहब्रह्म तस्मिन्गर्भ ददाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ।' दति । तथा 'नपुंसकमिदं नाथ परं ब्रह्म फलेत् कियत् । तत्पौरुषनियोकी चेन स्यात्त्वच्छतिसुन्दरी।।' इति । तथा कस्य ब्रह्मादेः शिवान्तस्य ईशितुः त्वं न ईशः अपि तु सर्वस्यैव खामी ॥ ७४ ॥ पं०१३ तत्पौरुषी नियोक्त्री चेन स्यात्वद्भक्तिसुन्दरी इति पाठः ।
मराजाचार्यकृतविकृत्युपेतः।
জন
किमन्यैर्बन्धुभिः किं च
सुहृद्भिः स्वामिभिस्तथा।
सर्वस्थाने ममेश वं
य उद्धर्ता भवार्णवात्॥७५॥
हे ईश-सर्वत्र प्रभवनशील, सर्वेषां-मित्रा-
दिवन्धूनां, स्थाने-प्रसङ्गे, मम त्वं तदुपकर्तव्यं
सर्व करोषि, यतो दुरुत्तरभवार्णवोद्धरणं जग-
तोऽपि अशक्यं त्वं संपादयसि-अतः किमन्यैः
बन्धादिभिः ॥ ७५ ॥
एवं गाढभक्तिभरोन्मिषितपरामृतचर्वणा-
चूर्णित आह
जयन्ति मोहमायादि-
मलसंक्षालनक्षमाः।
शैवयोगबलाकृष्टा
दिव्यपीयूषविग्रुषः॥७६॥
६६ स्तवचिन्तामणि मोहः-अख्यातिः आणवं मलम, माया- मायीयम्, आदिशब्दात् कार्म च; एषां मलानां सम्यक् क्षालने-उत्पुंसने शक्ताः शैवयोगब- लेन-माहेश्वरसमावेशप्रकर्षेण आकृष्टाः-मा- योदरात् हठादेव आनीताः दिव्यपीयूषविषु- पः- परमानन्दकणा अपि जयन्ति-सर्वोत्कर्षण वर्तन्ते ॥७६ ॥ एवमपि व्युत्थानावसरेषु सर्वदा समावेशा- यैव परमेश्वरो मे मतीः उद्योगिनीः कारयेत् इति आशंसन् आह गायच्या गीयते यस्य धियां तेजः प्रचोदकम्। चोदयेदपि कच्चिन्नः स धियः सत्पथे प्रभुः॥७७॥ कच्चित् इष्टप्रश्ने, यस्य-महेशितुः बोधादित्य- पं० १५ ग० पु. कच्चित् अन्ययमिष्टप्रश्ने इति पाठः।
८७ , , क्षेमराजाचार्यकृतविद्वत्युपेतः। स्य संबन्धि तेजो-वरेण्यं ज्योतिः, वाक्शक्ति- रूपया गायत्र्या-वेदमात्रा, धियां- सर्वप्रमातृ- मतीनां, चोदकं -तत्तत्कर्तव्याध्यवसायग्राह- कं, गीयते-स्तूयते , स प्रभुः-सर्वत्र प्रभवन- शीलः कच्चित्, अस्माकं व्युत्थानावसरोन्मग्नाः धियः- सर्वाः बुद्धिवृत्तीः, समावेशात्मनि स- स्पथे, परमेश्वरप्राप्त्युपाये, चोदयेत् -न्य- स्कृतान्यव्यापारतया उद्यम ग्राहयेत। सत्पथे इत्यस्य च अयमाशयः-यदेवं गायत्र्यैव प्रति- पादितं भगवतो विश्वधीप्रचोदकत्वम् अहरहः पठद्भिः अवबुद्ध्यमानैरपि च मूर्खश्रोत्रियैः ना- वबुद्धयते इति तत्कर्तृकैव एषा तेषामसत्पथे चोदना इति ॥ ७७॥ अथवा कृतं समावेशप्रार्थनया, खाभेदम- य्यां पृथिव्यादिमूर्तावपि माम् एकाग्रधियं कु. र्वाणयापि वा प्रार्थनया, त्वं हि मे प्रसन्नः समा- वेशदशासु मायाकालुष्योपशमननिर्मलीभूतस्य तत्सर्वं करिष्यसि - सर्वासु पृथिव्यादिमूर्तिषु स्तवचिन्तामणिः। सर्वमयमेव स्वरूपम् अविलम्बितमेव प्रकटयि- प्यसि इत्येतदाह अष्टमूर्ते किमकस्या- मपि मूर्ती न नः स्थितिम्। शाश्वती कुरुषे यहा तुष्टः सर्व करिष्यसि ॥७८॥ पृथिव्यादियजमानान्ताभिः मूर्तिभिः भग- वानेव स्थित इति द्वैतस्य नामापि नास्ति इति अष्टमूर्तिपदाशयः। करिष्यसि इति 'क्षिप्रवचने लुट् ॥७८॥ युक्ता च इयं संभावना, यतः वस्तुतत्त्वं पदार्थानां प्रायेणार्थक्रियाकरम्। भवतस्त्वीश नामापि मोक्षपर्यन्तसिद्धिदम्॥७९॥ हे ईश, सर्वेषां तत्त्वभुवनतदधिष्ठातृरूपाणां प- , क्षेमराजाचार्यकृतविवृत्युपेतः। दार्थानां, निजनिजोचिततत्तदर्थक्रियाक्षम प्रा- येण लोकस्थित्या वस्तुतत्त्वं-परमार्थः, भवतस्तु 'धूर्जटेः नामापि ध्यायताम्' इत्यत्र निर्णीत- दृष्टया नामापि मोक्षपर्यन्तां महासिद्धिं ददा- ति इति दण्डैरपूपा व्याख्याताः। प्रायेण इत्यु- क्तया लोकस्थित्या एतदुक्तम्, - परमार्थदृष्टया हि विश्वस्य भगवन्मयतैव वस्तुतत्त्वम् इति ध्वनति ॥७९॥ को वा न लोकोत्तरस्तव महिमा इत्याह मुहुर्मुहुर्जगच्चित्र- स्यान्यान्यां स्थितिमूहितुम् । शक्तिर्या ते तया नाथ को मनस्वी न विस्मितः॥८॥ हे नाथ, गच्छति तां तां स्थावरादिदेवयो- न्यन्तां तत्तद्रह्मादिरूपतां च इति जगत्- जीववर्गः, तदेव चित्रं तस्य निःसंख्यस्य, प्र- स्तवचिन्तामणिः! , तिक्षणम् अन्याम् अन्याम् अनन्तशाखां, स्थिति-संवित्सन्ततिवैचित्रीम्, ऊहितुं-तर्क- यितुं निश्चेतुं, या ते-तव सर्वज्ञस्य न तु अ- न्यस्य कस्यचित् , शक्तिः-सामर्थ्य, तया त्वदै. कात्म्यभावनामयेन प्रशस्तेन मनसा युक्तो मनस्वी, को वा न विस्मितः, सर्व एव विस्मय- महामुद्रोदृङ्कितरोमाञ्चादिसात्त्विकधर्माभिव्य- तान्तःप्रस्फुरत्परमानन्दमय एव इति ॥८॥ किंच दुष्करं सुकरीकर्तु दुःखं सुखयितुं तथा। एकवीरा स्मृतिर्यस्य तं स्मरामः स्मरद्विषम् ॥८१॥ स्मरद्विषम् - असामान्योल्लेखकारिणं, तं स्म- रामः-स्वाभेदेन विमृशामः, यस्य संबन्धिनी स्मृतिरपि भगवतः अन्येन कर्तुमशक्यत्वात् दुष्करं-रुद्रशक्तिसमावेशं सुकरीकर्तु-हेलामा- । मराजाचार्यकृतविकृत्युपेतः। त्रेण संपादयितुं, तथा दुःखं- सकलदुःखनि- धानं मायाव्यामोहं सुखयितुं-परमानन्दम- यीकर्तुम् , एकवीरा--अनन्यापेक्षसामर्थ्यमयी अप्रतिहता ॥८१॥ यतश्च एवं-विधानुत्तरसामथ्यों भगवान्, अत एव आह जयन्ति गीतयो यासां सगेयः परमेश्वरः। यन्नाम्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः॥८२॥ महान्-शक्तिपातवशोन्मिघत्समावेशवशात् विकस्वरीकृत आत्मा येषां ते, प्रोक्तनीत्या य- दीयेन नाम्नापि व्युत्थानावस्थायां श्रुतिपथ- गतेन पुलकाङ्कुरैः कीर्यन्ते-पुनरपि समावे- श्यन्ते, तदीयम् अन्यत् आस्तां तावत्, तत्प- रामर्शपराः . गीतयोऽपि - स्तुतिसूक्तयोऽपि
६२
स्तवचिन्तामणि
जयन्ति सर्वोत्कर्षेण वर्तन्ते ॥२॥
न तव उपमानं किमपि अस्तीति अन-
न्वयालंकारेण आह
भवानिव भवानेव
भवेद्यदि परं भव।
स्वशक्तिव्यूहसंव्यूढ-
त्रैलोक्यारम्भसंहतिः॥८३ ॥
भव इति प्राग्वत्, स्वासाम् इच्छादिशक्ती-
नां व्यूहेन-विचित्रगुणप्रधानभावप्रकाशनेन
संव्यूढे-निर्वाहिते प्रोक्तरूपस्य त्रैलोक्यस्य
आरम्भसंहृती येन, स त्वमेव यदि परं-के-
वलम् असाधारणम् इत्यर्थः ॥ ८३॥
अतश्च
मन्त्रोऽसि मन्त्रणीयोऽसि
मन्त्री त्वत्तः कुतोऽपरः।
स मह्यं देहि तं मन्त्रं
त्वन्मन्त्रः स्यां यथा प्रभो॥४॥
,
क्षेमराजाचार्यकृतविकृत्युपेतः।
हे प्रभो, यः कश्चित् चतुष्कलनवात्मादिः
मननत्राणधर्मा पूर्णाहविमर्शपरमार्थो मन्त्रः
स त्वमेव, तन्मन्त्र्यश्च महाप्रकाशात्मा त्वमे-
व, अस्य मन्त्रस्य मन्त्र्यस्य च मन्त्रयिता
परामर्शकः त्वमेव, अन्यस्य कस्यचिदपि चि-
दतिरिक्तस्याभावात्, अतश्च स त्वम् ईदृशः तं
मन्त्रं मन्त्रमन्त्र्यमन्त्रयितृरूपं मह्यं देहि-
प्रयच्छ, येन त्वमेव प्रोक्तत्रैविध्यात्मा मन्त्री
यस्य तथा स्यां-विगलितमन्त्रमन्त्र्यमन्त्रयित-
विभागः स्वदेकमय एव भवेयम्। उक्तं च
श्रीकण्ठसंहितायाम्
'पृथमन्त्रः पृथङ्मन्त्री न सिद्धयति कदाचन ।
ज्ञानमूलमिदं सर्वमज्ञाखा नैव सिद्धयति ॥
इति ॥ ८४॥
यतश्च इदं जातम् इत्याह
भारूपः सत्यसंकल्प-
स्त्वमात्मा यस्य सोऽप्यहम् ।
संसारीति किमीशैष
स्वप्नः सोऽपि कुतस्त्वयि ॥८५॥
६४ स्तवचिन्तामणिः। g यस्य-मम, भारूप:-प्रकाशघनः, सत्य- संकल्पः - तात्त्विकपूर्णाहविमर्शमयः आत्मा- तत्त्वं सोऽपि अहम् ईदृस्फाररूपः, संसारी- संसारावस्थावस्थितिः किम् अहं नैव ईदृक्, अपि तु त्वमेव अयमहं स्फुटमेव स्फुरामि । यत्तु व्युत्थानदशायां समाधिरससंस्कारप्लुता- यां किंचिन्मात्रदेहादिप्राधान्येन मनाक् संसा- रित्वमिव स्फुरति स किं स्वप्नः, स्फुटस्य देहा- दिप्रमातृत्वस्य अभावे किंचिदेव च आभासेन खप्नः संभाव्यते, स च त्वयि चिदेकरूपे न युक्तः, यतः त्वमेव तुर्यतुर्यातीतस्फारमयो मम आत्मा, तत् कस्य स्वप्नो भासतां, तद्भासना- श्रयस्य कस्यापि अभावात् , तत् सर्वथा संसा- रित्वस्य भ्रान्त्यापि स्फुरणं नास्ति, --इति सदैव शिव एवाहम् ॥८५॥ यतश्च त्वमेव अहं सर्वथा स्फुरन् स्थितः, पं० ४ ग० पु० संसारावस्थावस्थित इति पाठः । पं० ग. पु० किञ्चिदेव चाभासने इति पाठः। , क्षेमराजाचार्यकृतविकृत्युपेतः। न तु अहं नाम कश्चिदन्यः किंचित् करोमि भुञ्जे वा, तेन इत्थं मिताहंभावप्रशमनेन सर्व- कर्मतत्फलसंन्यासिनां यत् त्वन्मयमेव ऐश्वर्य तदेव एकं श्लाघ्यम् इति सामान्योक्त्या आह तदभनि तदग्राम्यं तदेकमुपपत्तिमत् । त्वयि कर्मफलन्यास- कृतामैश्वर्यमीश यत् ॥८६॥ अभङि-अनश्वरम् अविभागं च, ग्रामो- रुद्रक्षेत्रज्ञादिसमूहः तत्र भवं ग्राम्यम् - उत्क- पिकर्षवत्त्वात् अश्लाघ्यम् तत् यत्र न तत् अग्राम्यं-सर्वोत्कृष्टम्, अत एव उपपत्ति- मत्-अनन्यमुखप्रेक्षित्वात् सत्यार्थम् ॥८६॥ एवमीदृशवस्तुतत्त्वपरामर्शोच्छलितः खा- त्मानमेव श्लाघमान आह पं० १२ ग० पु० सर्वोत्कर्षम् इति पाठः ।
स्तवचिन्तामणिः।
तमः कां नापदं हन्तुं
कां दातुं संपदं न वा।
योऽसौ स दयितोऽस्माकं
देवदेवो वृषध्वजः॥८७॥
'वृषो धर्मः स देवस्य गुणो वै दृक्रियात्मकः
धत्ते स चिदचिद्यस्माद्धर्मस्तेनोच्यते बुधैः।'
इति श्रीमयोक्तनीत्या वृषो-धर्मो ज्ञानक्रि-
यासामरस्यात्मा ध्वजो-- लक्षणं यस्य सः, अ-
स्माकं दयितो-वल्लभः, कीहक् इत्याह योऽसौ
कां न आपदम् अपि तु सर्वां हन्तुं, कां वा
संपदम् अपि तु सर्वां दातुं क्षमः॥८७ ॥
अतश्च ईदृशस्य सर्वशक्तेः तव संवन्धिनी
भक्तिरेव यथाभीष्टहेतुरित्याह
मायामयमलान्धस्य
दिव्यस्य ज्ञानचक्षुषः।
निर्मलीकरणे नाथ
त्वद्भक्तिः परमाञ्जनम्॥८॥
क्षेमराजाचार्यकृतविकृत्युपेतः। माया एव आमयो-व्याधिः, तत्कृतं म. लम् - आवरणं, तेन अन्धस्य-आवृतप्रकाश- स्य, दिव्यस्य- लोकोत्तरस्य, ज्ञानचक्षुषः-पू- प्रथानयनस्य,त्वद्भक्तिरेव परमम् अञ्जन, नि- र्मलीकरणे-स्वरूपोन्मीलनविषये ॥८॥ নগ্ধ निर्भयं यद्यदानन्द मयमेकं यदव्ययम्। पदं देह्येहि मे देव तूर्णं तत्कि प्रतीक्षसे ॥८६॥ हे देव, एहि-स्वरूपगोपनां निमज्य सं- मुखीभव, ततश्च यत् आनन्दमयम् अद्वि- तीयम् अविनाशि निर्भयं- यस्मिन् सति सं- सारभयं नास्ति, यद्विषयं च अपसरणाशंका- भयमपि न भवति, ईदृशं यत् पदं-विश्रा- न्तिधाम, तत् मह्यं तूर्णं देहि-शीघ्रं मां खा- ६८ বৰাৰনামায। त्मनि आवेशय, किं प्रतीक्षसे- क्षणमात्रम- पि मा विलम्बं कृथाः- इति गाढमुत्कण्ठित- स्य प्रणयनिर्भरोक्तिः ॥८६॥ पुनरपि भक्तिभरोच्छलित आह अहो निसर्गगम्भीरो घोरः संसारसागरः। अहो तत्तरणोपायः परः कोऽपि महेश्वरः॥ १० ॥ ब्रह्मादिभिरपि दुस्तरत्वात् निसर्गगम्भीरः, घोरो-दुःखमयः, अत एव सागर इव । कोऽ- पि इति भक्तिशालिभिरेव लभ्यः चिदेकपर- मार्थों निरुपमः पर उपाय इति अनायासमेव भगिति परपारप्रापकः द्वौ अहोशब्दो अत्या. श्चर्य ध्वनतः ॥१०॥ आकारपरिग्रहेऽपि असामान्यातिशयवत्वं भगवतः स्तोतुमाह
क्षेमराजाचार्यकृतविवृत्युपेतः।
नमः कृतकृतान्तान्त
तुभ्यं मदनमर्दिने।
मस्तकन्यस्तगंगाय
यथायुक्तार्थकारिणे ॥ ६॥
विश्वोपद्रवकरणदुर्मदयोः कालकामयोः नि-
ग्रह एव उचितः, देवीकरस्पर्शनोदितखनयन-
जानन्दानुस्रुतिमयत्वात् पावनत्वेन जगदु-
पकारिण्या गंगाया निजे शिरसि धारणानुग्रह
एव उचित इति यथायुक्तार्थकारित्वम् ॥ ६१ ॥
यत एवमाकृतिमत्त्वेपि त्वमेव विश्वाति-
शायी, ततो विश्वातिशायिफलाभिलाषुकाणां
त्वमेव शरणम् इत्याह
ऐश्वर्यज्ञानवैराग्य-
धर्मेभ्योऽप्युपरि स्थितिम्
नाथ प्रार्थयमानानां
वहते का परा गतिः॥१२॥
स्तवचिन्तामणि HAMARIES ऐश्वर्यम् -ईशितव्यवस्तुसत्तया स्फीतत्वं, ज्ञानं - हेयोपादेयवस्त्वध्यवसायः, वैराग्यं- विषयवैतृष्ण्यं, धर्मः- सत्त्वगुणोत्कर्षकृतव्या- पारदत्तः संस्कारः, तेभ्यो ब्रह्मादिष्वपि कृत- पदेभ्यः, उपरि - शुद्धचिदात्मनि, अवस्थिति प्रार्थयमानानां, त्वमेव गतिः-शरणं, नान्यः अन्येषाम् ऐश्वर्यादिचतुष्टयावृतत्वात् ॥ १२ ॥ तवैव च अनुत्तरम् ईदृक् ऐश्वर्य, यस्मात् त्वय्यनिच्छति कःशंभो शक्तः कुब्जयितुं तृणम् । त्वदिच्छानुगृहीतस्तु वहेबाह्मीं धुरं न कः॥६३॥ आस्तां सृष्ट्यादिक्रिया, तृणमपि कुब्जीक- तु त्वदिच्छां विना न कोऽपि ब्रह्मविष्यादिः शक्तः, त्वच्छत्यनुग्रहात्तु ब्रह्मविष्यादिपदं न को वहेत्, कीटोऽपि यावत् वोढुं शक्तः
..
क्षेमराजाचार्यकृतविवृत्युपेतः।
तदुक्तं श्रीखच्छन्दे
'ब्राह्मी शक्तिः परस्यैव यत्रेच्छा तत्र पातयेत्
इति । तथा
'वैष्णव्यास्तु स्मृतो विष्णुः
इति ॥ ३॥
अतश्च
हरप्रणतिमाणिक्य-
मुकुटोत्कटमस्तकाः।
नमेयुः कं परं कं वा
नमयेयुर्न धीधनाः॥४॥
हरस्य - महेशितुः प्रणतिरेव माणिक्यमु-
कुटम् - ऐश्वर्यव्यञ्जकं रत्नमयं मुकुटं तेन
उत्कटमस्तकाः-उन्नतशिरस्काः, ये धीधना:-
तत्त्वावबोधद्रविणाः, ते के ब्रह्मविष्णुरुद्रादिकं
प्रणमन्ति न कंचित्, अत्यल्पा च इयम् उक्तिः,
कं वा ब्रह्मादिकं न नमयेयु:-सर्वमेव स्वप्रण-
तं संपादयेयुः ॥ ६४॥
१०२ स्तवचिन्तामणिः। यत्प्रणामस्य चायं महिमा, तदावेशमेव आशंसन् आह सर्वविभ्रमनिर्मोक- निष्कम्पममृतहदम् । भवज्ज्ञानाम्बुधेर्मध्य- मध्यासीयापि धूर्जटे ॥६५॥ हे धूर्जटे-महादेव, भवज्ज्ञानाम्बुधेः- त्वत्प्रकाशसमुद्रस्य, मध्यं-सारभूतम् , अमृत- हृदम् --आनन्दमयस्वातन्त्र्यशक्त्यात्मकरूपम् अध्यासीय - कदा तन्मयीभावम् इयाम, कीदृशम् अमृतहदं? सर्वेषां विभ्रमाणाम् - अज्ञानानां निर्मोकेन - त्यागेन यत् निष्कम्पं- प्ररूढतया लब्धं, प्रकाशात्मनश्च भगवतो वि- मर्शमयं स्वातन्त्र्यमेव हृदयभूतम् । यदाह- स्म श्रीप्रत्यभिज्ञाकारः 'चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता। खातन्त्र्यमेतन्मुख्यं तदैश्वर्य परमात्मनः ।। ।
खेमराजाचार्यकृतविकृत्युपेतः। १०३ इति ॥६५॥ चित्रसंकल्पादिगतं त्वदाकृतिमात्रमपि भ. कानां कां संपदं न प्रसूते इत्याह चित्रं यच्चित्रदृष्टोऽपि मनोरथगतोऽपि वा। परमार्थफलं नाथ परिपूर्ण प्रयच्छसि ।। ६६॥ न कश्चिदपि तावत् चित्रसंकल्पाद्युल्लिखितेन अतात्विकेन रूपेण अर्थक्रियां करोति, पर- मेश्वरः पुनः सर्वसंनिधिः केन नाम न रूपे- ण भक्तानां परमानन्दविकासं पूर्ण सूते, एवम् इह चित्रसंकल्पस्थं 'नमस्तेभ्योऽपि ये सोम' इति श्लोके स्वप्नगतम् 'उपसंहतकामाय' इत्यादिना बाह्यनिष्ठं किं नासि यत्प्रभो' इत्यादिप्रदेशेषु विश्वमयम् "भिन्नेष्वपि न भिन्नं यत्' इत्याद्युक्तिषु चिदानन्दघनं भग- १०४ स्तवचिन्तामणिः। वत्स्वरूपम् अस्य काष्ठाप्राप्तभक्तेः भगवदेक- मयस्य सर्वेणैव रूपेण परफलप्रदमेव ॥१६॥ तदित्थम को गुणैरधिकस्त्वत्तः त्वत्तः को निर्गुणोऽधिकः। इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे ॥७॥ त्वत्तो गुणैः-सर्वज्ञत्वादिभिः, कोऽधिको-न कश्चित् 'भवानिव भवानेव भवेद्यदि' इत्या- युक्त्या समोऽपि तव नास्ति इति उक्तम् तत्कथम् अधिकः स्यात्। त्वत्तश्च कोऽन्यो निर्गुणः अधिकः- सत्त्वादिगुणसंस्कारेण अ- स्पृष्टो न कश्चिदन्य इत्यर्थः। इति अनेन उ- क्तिद्वयेन किं त्वयि निन्दा पर्यवसिता, किंवा स्तुतिरिति तत्त्वं न विद्मः, अनधिकगुणेषु स- त्वादिगुणयुक्तेष्वपि या निन्दा सा त्वन्मय- त्वात् विश्वस्य किं त्वय्येव पर्यवसिता, आ.
स्तवचिन्तामणिः। १०५ होखित् गुणाधिक्यनिर्गुणत्वाभ्यां स्तुतिः त्व- यि विश्वात्मनि परिनिष्ठिता इति महाद्वय- मयं त्वाम् उक्तिद्वयं च इदं पर्यालोचयन्तः सन्देहदोलाम् आरूढाः स्मः। वस्तुतो हि त्वयि अपरिच्छेयमूर्ती न काचित् स्तुतिः नि- न्दा वा अस्ति इति परमार्थः ॥१७॥ तदलं तावत् एतदुक्तिद्वयविमर्शनेन कीर्तनेऽप्यमृतौघस्य यत्प्रसत्तेः फलं तव। तत्पातुमपि कोऽन्योऽलं किमु दातुं जगत्पते ॥ ८॥ हे जगत्पते, तव अमृतौघस्य- परमानन्द- रूपस्य, कीर्तने- नाममात्रोच्चारणेऽपि, यत् प्र. सत्तेः तव त्वदीयानैर्मल्यप्रथात्मनः प्रसादात् पूर्ण चमत्कारमयं, फलं तत्पातुम् अविश्रान्त्य- न्तर्मुखत्वेन आखादयितुमपि. न कश्चित् ब्र- मराजाचार्यकृतविदृत्युषतः। मादिरपि पर्याप्तः, किमु दातुं-वितरीतुं, त्वमेव तदातुं क्षम इत्यर्थः ॥ ६ ॥ तदीदृशात् खामिनः परसिद्धिलाभवाञ्छया भक्तिमेव प्रार्थयितुमाह निःशेषप्रार्थनीयार्थ- सार्थसिद्धिनिधानतः। त्वत्तस्त्वद्भक्तिमेवाप्तुं प्रार्थये नाथ सर्वथा।। ६६ ॥ समस्ताभिलषितनिष्पत्तिनिधानात् , नाथ- अर्थनीय, त्वत्तः परमेश्वरात, त्वद्भक्तिमेव सर्व- प्रकारम अर्थये, न तु किमपि फलम् ॥8॥ भक्तः परसिद्धिपर्यवसितृत्वं भगवन्नमस्का- रमुखेन दर्शयति नमस्त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषाम्। त्रिलोकीनाथतादान- निर्विनायकशक्तये॥१०॥ 4.1.क.पु. सर्वप्रकाराम् इति पाठः।
स्तवचिन्तामणिः।
त्रैलोक्यनाथाय-विश्वेश्वराय, तुभ्यं नमः,
यस्त्वं भवज्जुषां-त्वद्भक्तिमतां, पूर्वनिर्णीतत्रि-
लोकीनाथतादाने - विश्वेश्वरस्वात्मैक्यप्रथने,
निर्विनायकशक्तिः-अनर्गलखातन्त्र्यः॥१०॥
अतश्च
निःशेषक्लेशहानस्य
हेतुः क इति संशये।
स्वामिन्सोऽसीति निश्चित्य
कस्त्वां न शरणं गतः॥१०१॥
हे परमेश्वर, अविद्याद्यशेषक्लेशप्रशमकारणं
किं स्यात् इति संशय्य, सोऽसि ईदृक् त्वमे-
व इति निश्चित्य, कः त्वां न आश्रितः, सर्वे
विवेकिनः त्वाम् अशेषक्लेशनाशनं भजन्ते,
इति त्वद्भक्तिरेव त्रिलोकीनाथतादाने इव स-
बकेशप्रशमेऽपि हेतुः॥ १०१॥
क्षेमराजाचार्यकृतविकृत्युपेतः। अत एव भुक्त्वा भोगान्भवभ्रान्ति . हित्वा लप्स्ये परं पदम् । इत्याशंसेह शोभेत शंभौ भक्तिमतः परम् ॥ १०२॥ शंभौ-चिदानन्दघने, भक्तिभाजो दुर्लभस्य कस्यचिदेव, केवलम् इयम् आशंसा शोभेत। का असौ इत्याह भवभ्रान्ति हिवा-नि:- शेषाम् अख्याति परिढत्य, यथोपनतान् यो- गप्रभावाकृष्टान् भोगान् भुक्त्वा, परं पदं ल- प्स्ये-प्राप्स्यामि इति परमाद्वयमये माहेश्वरे नये 'स्थान्युपनिमन्त्रणे संगस्मयाकरणं पुनरनिष्टप्रसंगात' (पा०३-५१) इत्यन्यशास्त्रनीत्या न कदाचिदपि विदिततत्त्व- पं०१ क. पु० अतथ इति पाठः । पं. ग. पु. योगबलाकृष्टान् इति पाठः ।
स्तवचिन्तामणिः। स्य भोगासंगो बन्धाय भवति । यदुक्तं श्रीस्पन्दे 'तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः भोक्लैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥ (३ नि०२का) इति ॥ १०२॥ तेन नाथ स्वप्नेऽपि यत्कुर्या ब्रूयां वा साध्वसाधु वा। त्वदधीनत्वदर्पण सर्वत्रात्रास्मि निर्वृतः॥ १०३॥ हे नाथ, यत्किंचित् अहं मोहनमये ख- नेऽपि मनःकायाभ्यां कुर्या, ब्रूयां वा वाचा, तञ्च साधु-शास्त्रविहितम् इतरद्वा अस्तु, अत्र सर्वत्र अस्मि निर्वृतः-त्वदानन्दमय एव, , केन त्वदधीनत्वदर्पण-त्वमेव चिदात्मा महेश्वरो- ऽहं सर्वास्खेव अवस्थासु सर्वम् इदं करोमि इति ईदृशेन त्वदायत्तत्वोत्साहेन त्वदभेदावष्ट- क्षेमराजाचार्यकृतविकृत्युपेतः। म्भमयस्य मम न कापि कुत्रापि कदाचिद- पिकदर्थना इत्यर्थः ॥ १०३ ॥ नहि मम अज्ञानस्पर्शोऽपि अस्ति इत्याह ज्योतिषामपि यज्ज्योति- स्तत्र त्वद्धान्नि धावतः। चित्तस्येश तमःस्पर्शी मन्ये वन्ध्यात्मजानुजः ॥ १०४॥ हे ईश- स्वतन्त्र, ज्योतिषां- सूर्येन्द्रग्नि- प्रभृतीनामपि वेद्यरूपाणां, ज्योतिः-प्रकाश- कं, यत् तस्मिन् त्वदीये धाम्नि -चित्प्रकाशे, अव्यवधानमेव प्रसर्पतः, चित्तस्य समःस्पर्शः - अज्ञानसङ्गः, वन्ध्यात्मजानुज इति मन्ये, वाक्यार्थस्य अत्र कर्मता, वन्ध्या- याः सुत एव न भवति कथं तु तस्य अनुजः- कनीयान् भ्राता भवेत्, इत्युक्त्या अत्यन्तासत्त्वं मम अख्यातेः इति दर्शयति, प्रकृष्टप्रकाशभू- धावतः MORA स्तवचिन्तामणिः। मौ च तमसो न नामापि भवति इति उचि- तोक्तिः ॥ १०४॥ आस्तां वा त्वत्प्रकाशानुसरणं, त्वद्भको उ. त्साहोऽपि मे वरफलप्रसूरित्याह मन्ये न्यस्तपदः सोऽपि लेम्ये मोक्षस्य वर्त्मनि। मनोरथः स्थितो यस्य सेविष्ये शिवमित्ययम् ॥१०५॥ शिवं-श्रेयोमयं, सेविष्य-तन्मयीभावेन आश्रयिष्य, इति ईगलौकिकोत्साहमयो य- स्य मे संकल्पः, सोऽहं मोक्षस्य-शिवाभेद- प्राप्त्यात्मनः अपवर्गस्य, मार्गे-शाक्त धाम्नि, क्षेम्ये-क्षेमाय परश्रेयसे हिते, न्यस्तपदो- निवेशितनिजज्ञानक्रियाशक्तिचरणः-इति भ- क्तिविषय उत्साह एवास्य अभीष्टप्रदः संपद्यते। पं.क.पु० वरफलप्रसूतिरिति पाठः ।
क्षेमराजाचार्यकृतविकृत्युपेतः। यदुक्तमस्मत्प्रभुपादैः 'उत्तिष्ठ शंकरं स्तौमि पूजयामि महेश्वरम् । इति संरम्भसंभोग धन्या एवोपभुञ्जते ।' इत्यादि ॥ १०५॥ शिवो विश्वोपकरणनित्योदितः खयम् , इत्य- स्माकमभीष्टं घटितमेव इत्याशयेनाह स्थित्युत्पत्तिलयैर्लोक- त्रयस्योपक्रियास्विह। एकैवेश भवच्छक्तिः खतन्त्रं तन्त्रमीतते ॥१०६॥ स्थितिः- नानाभोगसंसङ्गः, उत्पत्तिः-प्र- जयेन व्यामूढीकृतानां यथोचितशरीरभुवना- दिजननं, लयो - भोगपरम्परानुषश्रान्तानां विश्रान्तिदानार्थ कंचित्कालं संहारः, तैः वि. श्वस्य उपकाराय, इह-जगति, हे ईश-वामि- स्तवचिन्तामणिः । न ,एकैव-अद्वितीया त्वच्छक्तिः, खतन्त्रम् - आत्मायत्तं, तन्त्र-तन्त्रणं साधनं पश्यति । उक्तं च मृगेन्द्रायाम् 'खापेऽप्यास्ते बोधयन्बोधयोग्यान् रोध्यानुन्धन्साधयन्कर्मिकर्म । मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् सर्व पश्येद्यद्यथावस्तुजातम् ॥ इति ॥ १०६॥ - यथा च स्वेच्छामात्रेण विश्वसृष्टिस्थितिसं. हारान् दर्शयसि, तथा त्वमेव अनुग्राह्यान् अ- नुगृह्णासि इत्याह त्रिलोक्यामिह कस्त्रात- स्त्रिताप्या नोपतापितः। तस्मै नमोस्तु ते यस्त्वं तन्निर्वाणामृतहदः ॥ १०७॥ हे त्रातः-संसारभयप्रशमन, इह-जगति पं० ४ ० पु० स्वप्नेऽप्यास्ते इति पाठः क्षेमराजाचार्यकृतविकृत्युपेतः। आध्यात्मिकाधिदैविकाधिभौतिकात्मना त्रिता- प्या-तापत्रयेण को न तापितः, सर्व एव सं- तापितः । यदु ष्यते 'आ ब्रह्मणश्च कीटान्तं न कश्चित्तत्त्वतः सुखी। करोति तास्ता विकृतीः सर्व एव जिजीविषुः ।' इति। अतः ते-तुभ्यमेव तस्मै-असामान्याय कस्मैचित् नमः, यस्त्वं तस्य-विश्वोपतापस्य निर्वाणे-प्रशमने अमृतहदः-परमाद्वैतानन्दस- मुद्रः॥ १०७॥ त्वद्भक्तेः निःसीमा महिमा इति तत्प्रार्थना अस्माकम् उचितैव इत्याशयेनाह कृत्रिमापि भवद्भक्ति- स्कृत्रिमफलोदया। निश्छद्मा चेद्भवेदेषा किंफलेति त्वयोच्यताम् ॥१०८॥ कृत्रिमा-बाह्यपूजाध्यानजपादिनिर्वापि स्तवचिन्तामणिः। था त्वयि महादेवे भक्तिः, सापि अकृत्रिमत्व- प्राप्त्यात्मकफलोदयमयी यत्र, तत्र यदि असौ निश्छमा-नियाजा बाह्यसाधनानपेक्षा महानु- रागोच्छलिता स्यात्,तत् किंफला? केन फलेन यु- क्ता इति त्वया उच्यतां, जीवन्मुक्त्यात्मत्व- समावेशमय्याः त्वद्भक्तेः अतिरिक्तं फलं न कि- मपि कलयितुं शक्यमित्यर्थः ॥ १०८ ॥ अत एव भक्तिशालिनाम् तच्चक्षुरीक्ष्यसे येन सा गतिर्गम्यसे यया। फलं तदज जातं य- त्वत्कथाकल्पपादपात् ॥१०६ ।। हे अज, तत् चक्षुः-तदेव प्रकाशकं ज्ञा- नं, येन त्वम् ईक्ष्यसे-साक्षास्क्रियसे, अ- न्यत् तु ज्ञानम् अज्ञानमेव, प्रकाशकत्वधर्म- योगात चक्षुरत्र ज्ञानम् उच्यते; सा गतिः- " क्षेमराजाचार्यकृतविवृत्युपेतः सा सम्यक् प्रवृत्तिः, यया-पूजाजपध्यानात्मना शरीरवाञ्चित्तनिवर्त्यया त्वं गम्यसे, तु संसारावटपातिनी इति अगतिरेव; एवं ज्ञानपूर्वक्रियानुष्ठानलभ्यं तदेव सम्यक् फलं, यत् त्वत्कथायाः-त्वत्वरूपचर्चायाः सर्वसं. पत्प्रदत्वात् कल्पपादपकल्पायाः सकाशात जातं परमानन्दविकासात्मकम् , अन्यत्तु सर्व फलं हेयत्वात् अफलमेव ॥ १०६ ॥ अतश्च श्रेयसा श्रेय एवैत- दुपरि त्वयि या स्थितिः। तदन्तरायहृतये त्वमीश शरणं मम ॥११०॥ सर्वेषाम्-ईश्वर-सदाशिव-शिवप्राप्तिरूपाणां श्रेयसाम् उपरि- उत्कृष्टत्वेन एतदेव श्रेयः- कल्याणम्, या इयं त्वयि-चिदानन्दघने स्थि- , स्तवचिन्तामणिः। ११७ तिः-विश्रान्तिः, ततश्च तस्मिन् श्रेयसि ये. अन्तरायाः-मध्यमध्योस्थिताः खदख्यातिस्प- Mः तेषां हृतये-ध्वंसाय, हे ईश स्वामि- न, मम त्वमेव शरणं, तथा कुरु यथा व्युत्था- नावसरे न कदाचिदपि माम् अख्यातिः स्पृ- शति इत्यर्थः ॥ ११०॥ तदिस्थं भगवत्खरूपचिन्तनोच्छलितस- मावेशरसेन पूर्णमानः सविस्मयमाह अहो स्वादुतमः शर्व- सेवाशंसासुधारसः। कुत्र कालकलामात्रे नयो नवनवायते॥१११॥ शर्वसेवाया-महादेवभक्तेः या इयम् आ- शंसा--"सेवेयं शिवम्' इति प्रार्थना सैव सुधा- अमृतं तस्य रसः- चमत्करणम्, अ. हो-चित्रं स्वादुतमः- परं स्पृहणीयतया क्ष. .
क्षेमराजाचार्यकृतविकृत्युपेतः। णमपि त्यक्तुम् अशक्यः, यः कुत्र-कस्मिंश्चि- कालस्य कलामात्रेऽपि-अंशमात्रेऽपि, न नव- नवायते-अपि तु प्रतिक्षणं नवनवचमत्का. रमय एव, न तु इतररसवत् अनवरताखा- दनेन वेरस्यम् आवहति ॥ १११ ॥ यत्सेवाशंसाया इयान् महिमा, सः मुहुर्मुहुरविश्रान्त- स्त्रैलोक्यं कल्पनाशतैः। कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥ ११२॥ प्रतिक्षणं तत्तत्प्रमातृप्रमेयाभाससंयोजन- वियोजनक्रमेण अविश्रान्तः-अविरत एव 'तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् । भान्तमेवान्तरीधमिच्छया भासयेद्धहिः॥' इति प्रत्यभिज्ञाकारिकानिरूपितार्थस्थित्या रु- द्रक्षेत्रज्ञादिसर्वप्रमातृभूमिकानिष्टं भवाभवा- स्तवचिन्तामणि ११३ तिभवरूपं त्रैलोक्यं कल्पनाशतैः-भङ्गीस- हौः, कल्पयन्- सदा पञ्चविधकृत्यवैचि- त्र्येण आभासयन्नपि यो निर्मलखतन्त्रप्रका- शचिदेकपरमार्थ एव असौ अजो जयति- सर्वोत्कृष्टो वर्तते, कल्पनाशतयुक्तश्च कथं निर्विकल्प इति विस्मयः। कोऽपि एक इति असामान्यः॥११२॥ स्तुत्युचितां प्रार्थनामाह मलतैलाक्तसंसार- वासनावर्तिदाहिना। ज्ञानदीपेन देव त्वां कदा नु स्यामुपस्थितः ॥ ११३। हे देव, त्वां कदा-कस्मिन् काले, उप- स्थितः- त्वदभेदविश्रान्त्यात्मकत्वदर्चापर ए- व भवेयं, केन ज्ञान-तत्त्वावबोध एव दीपः तेन, न तु बाह्यकुसुमादिना। तदुक्तं श्रीवि- १२० क्षेमराजाचार्यकृतविकृत्युपेतः। ज्ञानभैरवे 'पूजा नाम न पुष्पाधैर्या मतिः क्रियते दृढा । निर्विकल्पे महाव्योन्नि सा पूजा ह्यादराल्लयः॥' इति। कीदृशेन ज्ञानदीपेन, मलम् - अख्या- तिः तदेव वासनावर्तीनां स्निग्धताधायकत्वा- त् तैलमिव तेन अक्ताः सिक्ताः या वासना विचित्राः धर्माधर्मादिसंस्काराः त एव वर्त- मानत्वात् वयं वेष्टनाभिः उत्थाप्यमानत्वात् वर्तयःताः दहति अवश्यं यः तेन ॥ ११३॥ एतत्प्रार्थनापूरणं च तव भगवन् हेलामा- Đ प्रमेव इत्याह निमेषमपि यद्येक क्षीणदोषे करिष्यसि पदं चित्ते तदा शंभो किं न संपादयिष्यसि ॥११४॥ हे शंभो, त्वदिच्छयैव क्षीणदोष-निव- स्तबचिन्तामणिः १२१ त्तकुप्राचीनसंस्कारे चित्ते, मादृशाम् अनुग्राह्या- णां यदि क्षणमेकमपि पदम्-अनुग्रहीतृत्वेन अधिष्ठानं करिष्यसि, तदा किं न संपादयि- ध्यसि-सर्वाः प्रार्थनाः तत्क्षणं पूरयस्येव । तदुक्तं श्रीमृत्युजिद्भट्टारके 'निमेषोन्मेषमात्रं तु तत्त्वं यद्युपलभ्यते । ततः प्रभृति मुक्तोऽसौ न पुनर्जन्म चाप्नुयात् ॥ इति ॥ ११४॥ স্পন धन्योऽस्मि कृतकृत्योऽस्मि महानस्मीति भावना। भवेत्सालम्बना तस्य यस्त्वदालम्बनः प्रभो ॥ ११५॥ धनेन- त्वदभेदज्ञानरूपेण समृद्धः धन्यः अहमेव, तथा कृतं-संपादितं कृत्यं-पर- पुरुषार्थप्राप्तिलक्षणं येन ताक अहमेव, तथा
१२२
मराजाचार्यकृतविकृत्युपेतः ।
महान् - सर्वातिशायी अहमेव, न तु भेदे-
श्वरावस्थितः इति एषा भावना-प्रतिपत्तिः,
तस्य-कस्यापि, सालम्बना-सदा भवति।
यः त्वदालम्बनः-वं महेश्वर एव आलम्बनं
शरणं यस्य ॥ ११५ ॥
परमेश्वरादपि तद्भक्तरुत्कर्ष दर्शयति
शुभाशुभस्य सर्वस्य
,
स्वयं कर्ता भवानपि।
भवद्भक्तिस्तु जननी
शुभस्यैवेश केवलम् ॥ ११६ ॥
हे ईश- स्वतन्त्र, न केवलं त्वत्प्रयुक्तो ब्र-
झादिः स्वोचितस्य शुभाशुभस्य कर्ता, यावत्
स्वयं भवानपि सर्वस्य शुभाशुभस्य-विद्यामा-
यात्मनो जगतः, कर्ता-जनयिता, भवद्भक्ति-
स्तु त्वदभेदप्रथात्मनः शुभस्यैव परं जननी
इति भवद्भनियुक्ने खात्मनि बहुमानः ॥११६ ॥
स्तवचिन्तामणिः। १२३ , इदानीं निरपेक्षो भवच्छनिपात एवं चि- दानन्दघनखात्मसमावेशमयभक्तिभाजो जना- न संपादयति, न तु कर्मसाम्यमलपरिपाका- दिहेतुकोऽसौ, नापि भवच्छत्यधिष्ठानात् म- लस्य क्रमेण परिपाक इत्येतत् श्लोकद्वयेन आह प्रसन्ने मनसि स्वामि- कि त्वं निविशसे किमु। त्वत्प्रवेशात्प्रसीदेत्त- दिति दोलायते जनः ॥ ११७॥ निश्चयः पुनरेषोऽत्र त्वदधिष्ठानमेव हि। प्रसादो मनसः स्वामिन् सा सिद्धिस्तत्परं पदम् ॥ ११८॥ (युगलम्) हे खामिन्, मनसि-संवेदने, प्रसन्ने -प- १२४. क्षेमराजाचार्यकृतविवृत्युपेतः। रिपक्कमले संजातकर्मसाम्ये वा सति, किं त्वं निविशसे-वशत्यधिष्टानं करोषि, उत त्वत्प्र- वेशात्-शत्यधिष्ठानात् तत् प्रसादं गच्छेत्- मलपरिपाकादिकम् आसादयेत् इति जनो दो- लायते-संदोग्धि । अत्र पुनरयं निश्चयः, यत् त्व- दधिष्ठानं-स्वरूपगोपनानिमज्जनेन त्वत्वतन्त्र- शक्त्युन्मीलनमेव केवलं मनसः-संवेदनस्य प्र- सादो, न तु मलपरिपाककर्मसाम्यादि किंचित तथा हि यदि मलपरिपाकः शक्तिपातस्य हेतुः कर्मसाम्यवा, तदपितर्हि किंतुक? समधिष्ठात्री भगवच्छक्तिः इति,तद्धेतुकमिति चेत् अलंतेन, भगवच्छक्तिरेव स्वतन्त्रानुग्राहिका भविष्यति, अहेतुकमिति चेत् सर्वस्य युगपत् किं न भवि- प्यति, कर्मिंश्चित्काले भवति, इति चेत् सर्वेषां बन्धकोटेः अनादित्वात् कालनियमः किं न कृ- तः, किं कुर्मः, तत् कदाचित् कस्यचित् कथञ्चित् भवति, इति चेत् मलस्य स्वशक्त्या निरोधकत्वे 14 स्तवचिन्तामणिः। १२५ न अवस्थितस्य जडस्य विजातीयकारणानुप्रवेशं विना परिपाकलक्षणविलक्षणकार्यजननानुपप- त्तिः कश्चिदेव कालोऽत्र सहकारिकारणम् इति चेत्, कोऽसौ इति प्रश्ने नोत्तरं लभ्यते । परिणम. न्मलः परिपाकात्मकं विशेषमेति, इति चेत् अ. त्रापि दुग्धदधिपरिणाम इव उष्णस्पर्शस्य विरो- धिनः कारणस्य अननुप्रवेशे विलक्षणपरिणामा- नुपपत्तिः । यथा स्वतन्त्रशक्तिपातवादिपचे क- मभोगवैचित्र्यं मुक्तिश्च कालनियमेन, भगवदे- ककर्तृके च जगतिमायाकालादीनां क्रमेण कार्य- कारणभावः, तथैव एतद्भविष्यति इति चेत चा- शपञ्चाशन्याय आयातः, यतः तत्पचे भगवाने- व स्वातन्त्र्यात् गृहीतसंकोचाभासो यथा तत्तत्त- त्त्वात्मना भाति, तथा तद्तनियतपौर्वापर्यात्म- ककार्यकारणभावाभासात्मनापि नियतकर्मत- फलवैचित्र्यात्मनापि क्रमाभासमयेन, न तु अत्र कालकर्मादेः कस्यापि निजं तत्वम् अस्ति इ- क्षेमराजाचार्यकृतविवृत्युपेतः। ति यथा असौ इत्थं भोगवैचित्र्यम् आभासय- ति, तथा स्वस्वातन्त्र्यात् अनुग्रहवैचित्र्यम- पि, इति नात्र निग्रहानुग्रहभाक् कश्चित् अ- न्योऽस्ति इति निरवद्य एवायं पक्षः। मलप- रिपाकादिपक्षस्तु उक्तदूषणैः सावद्य एव-इति कथमिव संभावनासाम्यमात्रेणाभ्युपगन्तुं श- क्यम्, क्रमिके च विरुद्ध द्वे समबले कर्मणी कथं युगपत् फलदानेऽपि समबलत्वात् वि- रुद्धत्वाञ्च तयोः प्रतिबन्धात् फलदानाशक्तले जातु शक्तिपातः स्यात् । कथं वा तस्मिन् अ- वसरे कर्मान्तरं फलं न ददाति, तस्य भिन्न- कालार्जितस्य भिन्न एव परिपाककाल इति चेत तयोरपि भिन्नकालार्जितयोः कथम् एक- कालः परिपाकः । ईश्वरेच्छात इति चेत् सैव भगवती स्वतन्त्रानुग्राहिका अस्तु; अलम् अनेन आलजालप्रायेण मलपरिपाकादिना । वितत्य च एतत मयैव श्रीस्वच्छन्दविवृतौ प- श्चमपटलान्ते दीक्षासमर्थनावसरे विचारितम् ।
स्तवचिन्तामणिः। १२७ यथा च आगमेषु मलस्वरूपं, यथा च एत- निवृत्तिः भवति तदपि तत्रैव निर्वाहितम् इति अलम् इह अभ्यधिकेन, तदेतत् गर्भीकृत्य स्तोत्रकारेण उक्तम् । 'निश्चयः पुनरेषोऽत्र' यत् लच्छत्यधिष्ठानमेव, मनसः-संवेदनस्य प्रसादः न तु मलपरिपाकाद्यपि, त्वदधिष्ठानमे- व च सिद्धिः तदेव परं पदमिति। इदमत्र तत्त्वं, यञ्चितिशक्तिरेव भगवती स्वस्वातन्त्र्यात् गृहीतसंकोचा चित्तभूमि संसार्यात्मरूपां ब- हुशाखामाभास्य, पुनः स्वेच्छयैव क्वचित् सं- कोचं प्रशमय्य, पूर्णतया स्फुरति इत्येव त- त्परं पदम् । यदुक्तं केनचिन्महायोगीन्द्रेण 'चैतन्यपूरितमिदं निखिलं हि विश्व चित्तं चिदात्मनि यदास्तमुपैति शश्वत् । एवं चितेरपृथगेव सुसंस्थितखा- दुक्तो निरस्तकरणः परमः समाधिः॥' इति ॥ ११८॥ एवं भगवत्स्वरूपं नानाविधाभिः सूक्ति- १२८ क्षेमराजाचार्यकृतविकृत्युपेतः भङ्गीभिः स्तुत्वा, सर्वदशासु अविचलैव भग- वन्मयता अस्तु इति आशंसन् आह वचश्वेतश्च कार्य च शरीरं मम यत्प्रभो त्वत्प्रसादेन तद्भूया- द्भवद्भावैकभूषणम् ॥ ११६॥ त्वत्स्तुतौ यदि वचो मम त्वद्भावनामयं संपन्नं, तथा सदैव अस्तु, तच्च चित्तसहचारि, चित्तं च शरीराश्रयम् इति तद्वारेण तदपि ते- षां वपुश्चेतःशरीराणां यत्किंचित् अर्थाभिधा- नचिन्तनपरिस्पन्दनादि कार्य तत् सर्वं मम प्रभो-चिदानन्दघन स्वामिन्, त्वत्प्रसादेन- त्वदीयेन स्वरूपगोपनाप्रशमनानैर्मल्यगमनेन नित्यमेव, भवद्भावः - त्वन्मयत्वमेव एकं भू- षणं यस्य तादृशं स्यात् ॥ ११६ ॥ भक्तिमतां शरणादिप्रवृत्त्यर्थं प्रसिद्धप्रभाव-
स्तवचिन्तामणिः।
१२६
श्वनामोदीरणपूर्व स्तोत्रस्य उत्कर्ष दर्शयति
उपसंहारभङ्या
स्तवचिन्तामणिं भूरि-
मनोरथफलप्रदम् ।
भक्तिलक्ष्म्यालयं शंभो-
भट्टनारायणो व्यधात् ॥ १२० ॥
महामाहेश्वरत्वेन प्रसिद्धप्रभावः नाराय-
शाख्यो भहः, शंभो:-चिदानन्दघनस्वात्मप्र-
त्यभिज्ञानात्मकानुग्रहकारिणो भगवतो महादे-
वस्य, स्तवं-स्तोत्रमेव चिन्तामणि विहितवान्,
कीदृशं भूरीणां मनोरथानां यत् फलं-भगवत्स-
मावेशलक्षणं महाफलं तत् प्रददाति यः तं, य-
तो भक्तिरेव महेश्वरैकात्म्यमयत्वात् लक्ष्मीः-
परा संपत् तस्याः आलयं-नित्यं निवास-
भूमिम् । एतत्स्तोत्रश्रवणपठनादिना परा स.
मावेशलक्ष्मीः आलिङति नित्यमेव भक्तिभाज
इति शिवम् ॥ १२० ॥
१३० क्षेमराजाचार्यकृतविकृत्युपेतः। गुणादित्याज्जातो गुणगणगरिष्ठः शिवगुणैः कृतामोदो बाल्यात्प्रभृति गतसंगो जगति यः। स शूरादित्यो मां बहु बहुलभक्त्यार्थयत यत् स्तुतौ तेनाकार्ष वितिमिह नारायणकृतौ ॥१॥ श्रीरामेण कृतात्र सद्वितिरित्येषा किमर्थेति मा सन्तश्चेतसि कृध्वमस्ति विवृतौ कोऽपि प्रकर्षोऽत्र यत् । तेनार्थिप्रणयादिनैत्रिचतुरैर्या क्षेमराजो व्यधात् क्षेत्रे श्रीविजयेश्वरस्य विमले सैषा शिवाराधनीरा शंभोः प्रकाशवपुषः शक्तिरेका जयत्यसौ। या स्फुरन्त्येव तनुते परामृतमयं जगत् ॥३॥ :0:- इति श्रीमहामाहेश्वराचार्ययश्रीभट्टनारायणविरचितः स्तवचिन्तामणि: विकृतिश्चात्र तत्रभवत्स्तुतिसूक्तिकारपशिष्यमहामा- हेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादपश्चमधु- पराजस्य राजानकक्षेमराजस्य स्तवचिन्तामणिः। सद्विद्यानां संश्रये ग्रन्थविद्वद्- व्यूहे ह्रासं कालवृत्त्योपयाते। तत्तत्सद्धर्मोदिधीर्षकतान- सत्तौजःशालिना कर्मवृत्त्यै ॥१॥ श्रीमत्कश्मीराधिराजेन मुख्यै- धर्मोद्युक्तैर्मन्त्रिभिः स्वविवेच्य । मत्यष्ठापि ज्ञानविज्ञानगर्भ- अन्धोत्यै मुख्यकार्यालयो यः ॥२॥ तत्राजीव निर्विशद्भिर्मुकुन्द- रामाध्यतत्वाश्रितैः सद्भिरेषः । पूा शुद्धया व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥३॥ तिलकम् ॥ श्रीशिवार्पणं समावेशनिर्वाणावहं च श्रोतृ-पाठकजनानां भूयात् ॥
अथ प्रन्थः
पंडित विश्वनाथ एंड सन्स
फोटाग्राफर्स प्रोपाइटर्स इत्यादि
इत्येतैः स्वकीये
'कश्मीर प्रताप स्टीम प्रेस श्रीनगर'
इत्याख्याख्याते
मुद्रणायन्ने सम्मुद्रितः
SRINAGAR
Printed by P. VISHI NATH SONS Photographers and Proprietors of
"Kashmir Pratap Steam Presa"!
Publised By THE RESEARCH DEPARTMENT.
Srinagar Kashmir.
अंथ स्तवचिन्तामणौ श्लोकानामकारादिक्रमानुक्रमणिका प्रथमपरिशिष्टम्। पृ०सं० लो०सं ... २४ 8.. 8.. ३३ ६४ २२ . १२ ..' श्लोकप्रतीक अज्ञानतिमिर० अणिमादि० अपि पश्येम अयं ब्रह्मा महे० अचितोऽयमयं अष्टमूर्ते किमेक०... अहो क्षेत्रज्ञता अहो निसर्ग 'अहो ब्रह्मादयो अहो महदिदं .. ३१ २२ a ... ५२ ह .... ६२ ५७ अहो सादुतमः १११ आरम्भः सर्वक० प्रारम्भे भव० ५३ RCRANCCC owlS ... इच्छाया एव उपसंहृतकामाय रूप मृष्टया गृहीतोसि ६० 20. O सवचिन्तामो १६४ मा०सं० लोकप्रतीक. ऐश्वर्यज्ञान पृ.सं. 88 .. 9.4 कः पन्था येन ... ६१ 26 ... किमन्यैर्वन्धुभिः किमशक्त करो किं स्मयेनति कीर्तनेऽप्यमृतौर ... कुकर्मापि यमु० १०५ ७५ १०४ ६७ ६७ ... ... .. ... ... ११४ ६६ ८६ ६३ ७७ .. ... ... A.. 8.. ५३ .. ... को गुणैरधिक. क्रमेण कर्मणां कृत्रिमापि भवद्भ० तमः कां नापदं गायच्या गीयते गुणातीतस्य चित्रं यचित्रह चिन्तयित्वापि जगतां सर्गसंहार० जयन्ति गीतयो जयन्ति मोहमा० ज्योतिषामपि यत् वच्चधुरीच्यसे तदभङ्गिा तदग्रा० 8. ... ३८ १८ ८२ ११० १०४ ८६ ...
প্লাালালঙ্কাঙ্কিলাগিঞ্জ '' a पृ०सं० श्लो०सं० ... 000 ... १०७ ... ११३ ७१ १०० ... ... ... ८१ ... ४ .. ११५ २५ ... श्लोकप्रतीक त्रिगुणात्रिपरि० त्रिलोक्यामिह का त्रैलोक्येऽप्यत्र त्वय्यनिच्छति दुष्कर सुकरी० दोषोऽपि देव द्विष्मस्त्वां त्वां धन्योऽस्मि कृत० नमः इशाय निःशेष नमः कृतकृतान्ताय नमः प्रसन्न नमो भक्त्या नृणां नमो नमः शिवाय नमो निःशेष नमो निरुपका० नमः सदसता० नमः स्तुतौ स्मृती नमस्ते भवसंभ्रान्त नमस्तेभ्योऽपि नमस्त्रैलोक्य. ५६ १० १२१ ३३ 88 ६६ ३८ २४ . sm . २० २३ ४२ ६० ५१ ७० ४४ ७१ २३ नाथ स्वमेपि . ASA A १०६ মজাৱালী 44. ... पृ०सं० १०७ १०६ १२० ३५ श्लो०सं० १०१ 88 ११४ 0.0 .00 ... २७. ... श्लोकप्रतीक निःशेषक्लेश निःशेषप्रार्थनीय० निमेषमपि यद्येक निरावरणनिर्द्वन्द्व० निरुपादान० निर्गुणोऽपि गुण निर्द्वन्द्व निरुपा० निर्भयं यद्यदान 8 २७ .. H ... १०० 38 १० ६७ ह १२३ ११८ निश्चयः पुन० ६३ 8. निष्कामायापि प्रणवोर्धि० .. ... ७५ ... प्रभो भवत ... १२३ ... 20 ... ७४ ८३ १६ 9.. ... ... 9. प्रसन्न मनसि प्रसरद्विन्दु ब्रह्मणोऽपि भवान् ब्रह्माण्डगर्भिणी ब्रह्मादयोऽपि भगवन्भव भाव भवानिव भवान् भारूपः सत्यसं० भिन्नेष्वपिन २३ .. ६३ श्लोकानामकारादिक्रमानुक्रमणिका १३७ पृ०सं० श्लो०सं० १०२ ३५ २६ .. ... 86. ... ८४ ... 9.. ... १०८ ४३ ३४ ६२ ११ ५३ ७४ १११ १६ ... ... 0.0 श्लोकप्रतीक भुक्खा भोगान् भ्रमो न लभ्यते मनीमे भवा० मन्त्रोऽसि मन्त्रणी०... मलतैलात महतीयमहो महत्स्वप्यर्थ मन्ये न्यस्तपदः मायाजलोदरात् मायामयमलान्ध० मुहुर्महुरविश्रान्तः मुहुर्मुहुजंगचित्र यः स्फीतः श्रीदया० यस्याः प्राप्येत या या दिक् 004 ... BON ६५ १०५ १० .७. 0.0 u .. ११२ 28 ... wr w 100 ७२ ... ८१ ६५ २४ यावञ्जीवं जगन्नाथ १५ ५४ यावदुत्तरमास्वा० रागोऽप्यस्तु जग० वचश्वेतश्च० वस्तुतत्त्वं पदार्थानां बाङ्मनाकायकर्मः १२८ ११६ ७६ १७ २६ १६ ... श्लोकप्रतीक पृ०सं० मो०सं० धाच्य एषांखमेक ४६ विधिरादिस्तथा ७८ विसृष्टानेक० ५8 वैराग्यस्य गति ७३ व्यतीतगुणयोग. शाखासहस्र० २५ शुभाशुभस्य १२२ ११६ श्रीरत्रामृतलाभाय ३७ २8 श्रेयसां श्रेय एवै० षट्प्रमाणीपरिः संहृतस्पर्शयो १३ सर्वज्ञः सर्वत् सर्वविभ्रम० सुगिरा चित्तहारि० मूक्ष्मोऽसि चेत् स्तवचिन्तामणि १२४ १२० स्तुमत्रिभुवना० ७३ स्तुमस्त्वामृग्यजुः ६४ स्थित्युत्पत्तिलयैः ११२ हरमणतिमाणि १०१ ६४ हुतोड़ततमस्ता० इति श्रीसवचिन्तामणौ श्लोकानामकाराघवुक्रमणिका समाक्षा॥ mmu १ ... ... Acm स्तवचिन्तामणो द्वितीयपरिशिष्टम् । मूल श्लोकानां संक्षेपेण विषयार्थसंग्रहः । १ विकल्पमयबैखरीमध्यमापशमनपूर्वकं पश्यन्तीद- शामुन्मज्जयतस्तद्याप्तिकामनाश्रितदशामपि वेपत्वे- नाभासयतः परमानन्दात्मकपराद्वयममातृतामुन्मी- लयतः स्वात्मपरमार्थपरमेश्वरस्य स्वरूपसमावेशवि- मर्शनम् । पूर्वोक्तस्वरूपस्यैव परमेश्वरस्य शक्तिमाधान्येन स्तवनम् । सदाशिवेश्वरादिना वेद्यपर्यन्तेन पराद्वैतप्रथानु- प्रविष्टेन विश्वात्मना रूपेण प्रसरज्ज्ञानक्रियाशक्तः प्रकाशात्मनो नरप्रधान भगवत्स्वरूपस्य प्रहीभावेन विमर्शनम् । तत्तद्वेष्यस्तुत्यायवस्थास्वपि भगवदनुग्रहात् तद- भेदप्रथात्मिकाया विभूतेरासादनकथनम् । ३ ४ मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः । ५ ७ वासनासोषयुक्त्यैवाख्यातिप्रशमनपूर्वकं पाशन- पणपूर्णस्वरूपप्रथनेन स्वात्मरूपमहेश्वरस्य अनुग्राह्या. नुग्रहसमावेशार्थनम् । वैशेषिकाभ्युपगतपरापरसामान्यव्यतिरिक्कसर्वसा- मान्यपूर्णाहन्तात्मकमहाचैतन्यरूपपारमेश्वरस्वरूपवि- मर्शनं नमस्करणमुखेन । अनुपलभ्यमूर्तित्वादतिसुसूक्ष्मत्वेऽपि शक्त्यण्डप- यन्तसमस्तजगद्व्यापकस्य चित्प्रकाशधर्मभगवत्स्वरू- पस्याभिवन्दनम् । विश्वसृष्टिसंहारात्मकहानसमादानधर्मत्वेन उपच- रितहंसस्वरूपस्य परमेश्वरस्यैवान्तरभेदेन धृतब्रह्मा- एडग न्मनारूपहंसीशक्तिपरामर्शनम् । उपादानादिकारणासत्वे शून्यभुव्येव जगचित्रर. चनात्मातिदुर्घटकर्मणोऽध्याहतस्वातन्त्र्यपरमेश्वरविष- यस्वात्मसमावेशनम् । १० मायासंपर्करहितखेन स्वच्छशिवज्ञानस्य परमेश्व. 8 रात् प्रार्थनम्। ११ मेयपदे प्रमाणगम्यत्वेऽपि वस्तुतोऽभेदरूपतया प्रमाणव्यापारातीताय परमेश्वराय शरीरमाणपुर्यष्ट- कादिसमर्पणरूपबलिनिवेदनम् ।
स्तवचिन्तामणी १२ गाम्भीर्यादिगुणतया दुर्बोधायाः शुद्धप्रकाश- प्रशमिताख्यातितिमिरायाः पारमेश्वरमायाशक्तदर्श- नाकांक्षणम् । १३ भक्त्युद्रेकवशात् स्वमेऽपि साकारपरमेश्वरम- णामतत्परेभ्यः प्रणमनम् । पारमेश्वरं स्वरूपं मत्यवम्रष्टुं जन्ममरणोन्मूल- नशक्काया रुचेर्बुद्धिमतामत्यभिलषणीयतातिदेशनम् । १५ परमेश्वरप्रसादात् यावज्जीवितावस्थं तदेकान- मनस्कतया स्थितेः प्रार्थनम् । १६ अनन्तशाखाविस्तीर्णवेदागममयत्वेन तत्तत्फ लोत्पादककल्पवृक्षरूपशंभोरभिवन्दनम् । १७ वाङ्मनःकायनिवर्त्य समस्तकर्मणो भगवति स- मर्पणात् तत्तादात्म्येन तद्वनिर्द्वन्द्वताया आशंसनम् । जगद्विषयकसृष्टिसंहारादिनियोगेषु निजस्वात. न्यशालिताप्रशंसितशंभवे प्रणमनोक्तिः। निस्वैगुण्यमहाप्रकाशात्मभगवन्नाममात्रचिन्तने- नाभीष्टावाप्तरेन्यालम्बनानां ध्यानानां निष्प्रयोज- नताकथनम् । २० भगवद्वाचकमहामन्त्रसत्तानुपविष्टानां शांभववि- भूतिचमत्करणोद्युक्तताकथनम् । २१ सर्वस्यैव कायवाङ्मनोविषयस्य भगवन्मय- त्वात् भक्तिमतामप्रयासमेव भगवत्स्वरूपलाभकथनम्।
मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः । २२ भगवद्विषयकस्य शरीरमनोवानिर्वाचन- ध्यानादिरागस्योत्तरोत्तरवर्धनाशंसनम् । २३ आकृतिमत्त्वेऽपि तात्विक स्वरूपापरित्यागात् सर्वसंविदां स्थिरपूर्णाहन्तात्मनि विश्रान्तिप्रदस्य भगवतोऽभिवन्दनम् । अज्ञानरूपतिमिरप्रशमोपायभूतस्वस्मृतिप्रदानो- तरं प्रहविषयनैर्मल्याश्रयणप्रार्थनम् । भोगापवर्गसंसाधकभगवत्प्रणामस्यापि प्रणम्य- तया समाश्रयणीयखकथनपूर्वकं भगवदभिवन्दनम् । २६ दुरुत्तरभवाम्भोधिमनानां तदुत्तरणोपायभूता- याः सर्वाभीष्टप्रदभक्तेर्भगवत एवासादनोचरं भोग- मोक्षात्मसंपूर्णेष्टावाप्तेरनुशासनम् । केषांचिदेव लोकोत्तराणां भगवत्तत्त्वज्ञानाद ख्यात्यपगमोत्तरं निश्चलपरमाद्वैतज्ञानलाभानुशंसनम् निर्गुणस्य निष्कामस्यापि भगवतो ज्ञानात्मक- तद्गुणावभासिनां भक्तानां ज्ञेयतया तत्तद्भोगमोक्षा- त्मपार्यन्तिकफलतया सर्वोत्कृष्टत्वेन परामर्शनम् । श्रीरत्नामृतादिनिदानभूतक्षीरोददानेन भगव- तोऽसामान्यैश्वर्यप्रकर्षकथनम् । ३० नुतिस्मृत्यात्मानुत्तरोपायभक्तिमात्रेण भोगाप- वर्गफलदात्रे परमेश्वराय प्रणमनम् ।
सवचिन्तामणौ ३१ सर्वज्ञः सर्वकृत्सर्वमयश्च परमेश्वर एव इतीदृशज्ञा- नशालिनां सर्व क्षेयं कार्य च भगवता वैश्वात्म्येनानु. भाव्यते इत्यनुशासनम् । विश्वस्य यदीयेच्छामात्रेण निष्पत्तिस्तस्य भ- गवतः कार्यज्ञानं ब्रह्मादीनामपि दुरूहमिति निर्देश- नम्। ३ ३३ तत्चत्मयत्नशतानुष्ठानेनापि ब्रह्मादिकारणानाम- प्यलभ्यधाम्नः परमेश्वरस्य प्रणमनम् । ब्रह्मादयोऽपि यच्छक्तिविकासभडिभूताः तस्मा- परमेश्वरापालनार्थनम् । ३५ परमेश्वरस्य महाव्यापकतया दुर्जेयत्व-दुष्पाप्यत्व- कथनमुखेन स्तवनम् । ३६ भक्तिशालिनां स्तुतिस्मृत्याद्यवस्थासु तदभेदाव- ष्टम्भमयताधिगमात् तत्कालतः परमानन्दस्फारफ- लोद्भावकाय परमेश्वराय नमस्करणम् । सृष्टयादिकारिपरिमितब्रह्मादिपदविषयकस्मय- परित्यागात् भक्तानां भगवत्स्वरूपप्रत्यभिज्ञावशोन्मि- पितसर्वाहंभावरूपमहास्मयग्रहणेन परिपूर्णतया स्फुर- रणानुशासनम् । ३८ भक्तिशालिनां भगवच्चैतन्यानन्दविश्रान्त्या वि- कल्पात्मकव्युत्थानदशाया अपि समाधिरसपरिप्लुत- ताकथनम्। ३७ १४४ ४१ ४२ मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः । ३६ अतिसूक्ष्मरूपत्वे सर्वस्यास्त्रिलोक्यास्तकलामा- त्रत्वेन दर्शनात्, स्थूलरूपत्वे ब्रह्मादिभिरपि दुर्लक्ष्य- त्वात्, सर्वथैव अपरिच्छेद्यमूर्तेर्भगवतस्ताविकरूपवि- षयातय॑ताया भङ्या प्रतिपादनम् । ४० सर्वशास्त्राणां शब्दराशिशरीरतात्विकपरमेश्वर- स्वरूपप्रतिपादनतात्पर्यसत्तया प्रेक्षावतां प्रवृत्तिविष- यत्वानुकीर्तनम् । तात्विकानायासयादृशक्रमकर्मबुद्धयादिना पर- मेश्वरज्ञानविषयोपदेशात्मप्रसादाभ्यर्थनम् । स्वयमनुपकार्यत्वे विश्वोपकारकतया निःस्पृहत्वे सर्वस्पृहणीयतया लोकोत्तरोत्कर्षशालिभगवतोऽभि- वन्दनम्। ४३ अपरिच्छिन्नपारमेश्वरस्वरूपमाप्तिफलकमक्यधि- छानभूतायाः क्षेत्रज्ञतायाः सामान्योक्नया श्लाघनम् । भगवत्स्वरूपनिधिप्रापिकायां भक्तौ विमुखानां दुरतिक्रमभगवन्माययैव व्यामोहितताप्रतिपादनम् । सर्वत्र परमेश्वरस्यैव मुख्यं कर्तृत्वमन्येषां तु तदुत्थापिततचदभिमानमात्रसतत्त्वमिति प्रतिपादन स्तुतिमुखेन । ४६ गुणत्रयकार्यभूतसुखदुःखादिद्वन्द्वमग्नजगदुद्धरणा- य ऋते परमेश्वरमन्यस्य शक्तिः कृपा वा नास्तीति प्रतिपादनम् ।
. स्तवचिन्तामणी ४४ भगवदैक्यभावनाभावाभावयोरेव गुणिनां गु. रणवत्तया दुष्टानां दोषवत्तया निदर्शनम् । ४७ (२) सर्वथान्यविषये त्यागमार्थनोत्तरं भगवद्विषययो- रेव रागलोभयोरप्यभ्यर्थनम् । स्वर्गफलकाग्निष्टोमाद्यधिकारिनियमनवैशिष्टये- न मुक्तिफलके निरायासभगवद्भावनात्मके कमरिण सर्वस्य जन्तुमात्रस्याधिकारानुशासनम् । भोगापवर्गफलकसमस्तकर्मणामादिमध्यावसा- नेषु भगवत्संविल्लग्नत्वादेशनम् । अतिसेवनाद्वैरस्यावहेतरास्वादनीयविषयवैशि- येन भगवद्भक्तिसुधाया एवोत्तरोत्तरसेवनान्नवनव- चमत्कारप्रदत्वादुत्कृष्टमहिमादेशनम् । कामसंहरणादिविश्वातिशायिकार्यवैचित्र्यका- रितया आकृतिमत्त्वेऽपि अतिदुर्घटेश्वर्यशालिपरमे- श्वरविषयप्रणमनम् । मायाव्यामोहेनास्वातन्त्र्यापच्या किंचित्कर्तुमश- वजन्तुवर्गस्य तत्क्षणाच्छक्त्यापादिपारमेशानुग्रहश- केरेव शरणाख्यानम् । ५३ स्वतन्त्रचिदकमूर्तेः परमेश्वरस्य सर्वत्र निष्प- तिद्वन्द्विताकथनम् । ५२ मूलश्लोकाना संक्षेपेण विषयार्थसंग्रहः । भगवदात्मकलानिरस्तसमस्तोपाधीनां जीवा- नां मोहापादितया मायायाः प्रभावातिशयद्योतनम् । अणिमादिसिद्धयवाप्त्यचलैश्वर्याधिगमभववि. रतिफलानां भगवद्भक्तिकल्पपादपस्यैव प्रभवखादे- शनम् । सर्वदेशकालव्यापकतया लब्धेऽपि भगवत्स्वरू- पे सूक्ष्मतमदेहादिसंस्कारगलनाय तदात्मसाद्भावस्य पुनराशंसनम् । सन्मानसनिवासि-भूतिसिताङ्गमहाईसरूपाय शं. भचे पुनरपि भक्तिभरेण नमस्करणम् । अशेषतमोऽपहरणभवकदर्थनेन्धनदाहभगव- त्स्वरूपभूतमहाप्रकाशननिदानभगवद्भक्तिदीपिकाया अभ्यर्थनम् । भगवत एव विश्वसर्जनादिनाटकमस्तावनोत्तर तत्संहरणात्मनिर्वहणकृत्यक्षमकवितानुशासनम् । ६० सदसतोरसत्त्वसत्त्वसंपादनखतन्त्रस्य जगदुत्प- त्तिविनाशनैश्वर्यशालिनो भगवतोऽभिवन्दनम् । ६१ आनन्दसागरात्मभगवतो विश्ववर्तियावन्मात्रा- नन्दस्यैकबिन्दुरूपकथनोत्तरं नमस्करणम् । ६२ भगवद्वाचकमहामन्त्रविमर्शनकतानतया ब्रह्मादी- नां धन्यवानुशासनम् ।
स्तवचिन्तामणी ६७ ६३ स्वयं निरीहस्यापि भक्तेष्टसंपादकतया, अद्वया- त्मलेऽपि भोग्यभूतविश्वचमत्कइँ भगवतेऽभिवन्दनम् । ६४ सर्वकारणकारणाद्भगवत एव ब्रह्मादिकीटान्ता- नां सर्वेष्टसिद्धयाप्त्यावेदनम् । निश्चेतुमशक्यजगद्विचारादिप्रयोजनसंकटेषु मा- यास्फारमलिनीकृताया बुद्धः तत्स्मरणमात्रेण प्रसा- दाधिगमात्तत्त्वज्ञानसामर्थ्यानुशासनम् । इच्छामात्रेणैव विश्वोदयप्रलयकृत्सामर्थ्यस्य भ- गवत एवाभङ्गुरपभुशक्त्यावेदनम् । भगवदभेदभावनासत्तासत्तयोस्तदुद्देशेन विहित. स्य निषिद्धस्यापि सुकृतता, तदनुद्देशेन विहितस्य सु- कर्मणश्च दुष्कृतता-इत्येवमनुशासनम् । सततोदितभगवत्समावेशात्मभक्तिरसास्वादरूप- द्रविणयुतानां भगवत्स्वात्मीकरणसाक्षात्करणादिवि. कल्पैः परामर्शनाद्धन्यखनिर्देशनम् । परमानन्दविश्रान्तिप्रदवेदात्माज्ञानियोक्तुः, तथा तहगादिवेदत्रयपरामर्शनीयतेजोरूपादप्युत्तीर्णस्य पर- मेश्वरस्य स्तवनम् । परमेश्वरस्यैव विश्ववर्तिवेदोदितविधिनिषेधात्म- विचित्रस्वभावपरिस्पन्दप्रवर्तकलप्रतिपादनम् । m ७० मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः । ७१ ज्ञानानन्दाच्छादनोत्तरं भ्रान्त्युद्भूत्या भेदासता. संमोह्य पश्चाच भ्रान्त्यपनयनोत्तरं ज्ञानानन्दाविष्कृ- त्यानुग्राह्येष्वनुग्रहशीलस्य भगवतोऽभिवन्दनम् । ब्रह्मादीनामपि अशक्यपर्यन्तगर्मायायाः स्व- रूपोन्मेषमात्रेणापहर्तुः परश्रेयःस्वरूपपरमेश्वराद- ख्यात्यपाकरणरूपस्वरक्षाभ्यर्थनम् । ७३ विषयवैतृष्ण्यभाजां, विश्वमयविश्वोत्तीर्णतादि- रूपस्वात्माद्वयज्ञानाधिरूढानां च, तथोक्तज्ञानसंपत्मा- प्त्युपायमन्त्रमुद्राध्यानादिवैमुख्यभाजां च भगवत एव तत्तत्कर्मप्रभुतावेदनोत्तरं तत्स्वरूपोन्मेषमात्रेण मायापहृत्याशंसनम् । वेदान्तोपास्यब्रह्मणोऽपि स्वातन्त्र्यशक्तिमयत्वे- न उत्कृष्टस्य, ईश्वराणामपीश्वरस्य, कल्याणानामपि कल्याणस्य परमेश्वरस्यावेद्यत्वकथनम् । बन्धुमित्रादिभ्य उपरतानां भक्तानां भगवत एव दुरुत्तारभवार्णवादुद्धरणोपकर्तृसद्धन्धुत्वनिर्देश नम् । निःशेपमलापहरणसमर्थतया परमेशसमावेशा. कृष्टानां परमानन्दकणानां सर्वोत्कृष्टतापरामर्शनम् । निखिलममातृमतीनां प्रेरकं यस्यैव वरेण्यं ज्योतिर्गायच्या स्तूयते, स प्रभुरस्माकं व्युत्थानमग्ना ७४ ७५ ७६ ७७ स्तवचिन्तामणी धियः स्वस्वरूपमाप्त्युपायात्मसत्पथे उद्यम ग्राहय- त्वित्येवमाशंसनम्। ७८ स्वाभेदमयीषु पृथिव्याधष्टमूर्तिष्वेकस्यामप्येकान- बुद्धयाशंसनसंज्ञया तत्तणात्सर्वमयस्वरूपप्रकटनफ- लकभगवत्प्रसादाभ्यर्थनम् । ७६ तत्त्वभुवनतदधिष्ठातरूपनिखिलपदार्थानां प्रायेण निजनिजक्रियाक्षमत्वमनूद्य भगवन्नामस्मरणमात्रस्य मोक्षपर्यन्तसमस्तसिद्धिप्रदत्वाभिख्यानम् । प्रतिक्षणं ब्रह्मादिकीटान्तनवनवानवच्छिन्नजगच्चि- त्रनिर्माणशक्त्यैव भगवतस्तदैक्यमयभावनामनस्वि- नामतिविस्मयरूपसमावेशकथनम् । ८१ दुष्कररुद्रशक्तिसमावेशस्य सुखेन संपादकं, मा- याव्यामोहस्य परमानन्दमयकई यत्स्मरणमात्रं तस्य भगवतः स्वाभेदेन विमर्शनोत्कृष्टतानुशासनम् । भगवत्स्तुतिसक्तीनां व्युत्थानेऽपि आनन्दातिश- यात्मसमावेशजनकत्वेन सर्वोत्कृष्टखकथनम् । ८३ इच्छादिशक्तिनिवाहितत्रैलोक्यारम्भसंहृत्योर्भगव- तोऽनौपम्यनिर्देशनम्। ८४ मन्त्र-मन्त्र्य-मन्त्रिणां भगवदभिन्नलमनूध तत्स्व- रूपाभेदात्मसत्परामर्शार्थनम् ।
१५० मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः । ८५ खात्मनः प्रकाशैकात्मसत्यसंकल्पभगवत्स्वरूपा- भिन्नतामनुभूय संसारिजस्य स्वमकल्पतयाप्यसंभ- वत्ताकथनम्। ८६ यत्तद्भेदबुद्धयपगमोत्तरं भगवति निखिलकर्मतत्फ- लसंन्यासिनामतिलाध्यैश्वर्यभागिखानुशासनम् । ८७ सर्वापदपहरणसर्वसंपदानसमर्थभगवद्वाल्लभ्याधिग- मे भक्तानां खात्मश्लाधनम् । मायाव्याध्यन्धीकृतज्ञानचक्षुषः पूर्णप्रथानयनात्मा- रोग्यापादिभगवद्भक्तेः परमाञ्जनतया निरूपणम् । ८६ गाढोत्कएठावशात्क्षणमात्रासहनविरावणोचरं नि- भयानन्दाद्वयाध्ययभगवत्पदाधिगमाभ्यर्थनम् । 80 ब्रह्मादिभिरपि दुस्तरस्य गभीरदुःखमयभवसाग- रस्य तात्पर्येण भगवदुपासत्तेस्तरणोपायतयाशंस- नम् । ११ जगद्विघातदुर्मदकालकामयोनिग्रहणेन, पतितपाव- नतया जगदुपका गङ्गायाः शिरोधृत्या च, आकार- धारिजे भगवत एव यथोचितकारिताशंसनम् । ब्रह्मादिवर्यैश्वर्यादिपदचतुष्कोत्कृष्टशुद्धचिदात्म- स्थित्यार्थिनां भगवत एव तदातृतया परायणानुशा- सनम्। १२ तवचिन्तामणी ६३ भगवदनिच्छया ब्रह्मादीनामपि तृणकुब्जीकर- णासामर्थ्यस्य, तथा तदिच्छानुगृहीतकीटादेरपि ब्रा- ह्मपदोद्वइनसामर्थ्यस्य निर्देशनम् । ६४ महेश्वरप्रणामासत्त्यात्मामूल्यरत्नभरितमुकुटोनत- शिरस्कतया तत्त्वावबोधालयद्रविणानां देवेष्वपि ख- प्रणतसंपादनसामर्थ्यसंभूत्यनुशासनम् । १५ सर्वमोहत्यागोत्तरं प्रकाशात्मकभगवद्विमर्शानन्द- खातन्त्र्यशतयासादनामृताशंसनम् । १६. चित्रदृष्टमनोरथोल्लिखितस्यातात्विकऽपि भगव- दाकृतिमात्रस्य भक्तजनसर्वेष्टसंपत्प्रदातृवकथनम् । ६७ परमेश्वरादन्यस्य गुणाधिक्यादर्शनात् तथा नै- गुण्यादर्शनाच पक्षद्वयव्याजस्तुतिनिन्दयोः पर्यवसा- नानिश्चयनाख्यानम् । ६८ भगवत्कीर्तनजन्यामृतास्वादनेऽपि अन्यस्य देवा- देरसामर्थ्य सूचनोत्तरं भगवत एव तदमृतदानसाम- र्थ्यसूचनम् । 88 इतरकामानभीप्सया सर्वेष्टसिद्धिनिर्भगवतः पर- सिद्धिलाभात्मतदेकान्तभक्त्याशंसनम् । १०० स्वभक्तेभ्यः स्वात्मैकमथनात्मत्रैलोक्यस्वाम्यदा- मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः । नेऽनर्गलस्वातन्त्र्यौदार्यभगवतोऽभिवन्दनम् । १०१ सर्वदुःखापहरणहेतुः कः ! इति संदिह्य परमे- श्वर एव तादृगिति निश्चिनुतां तच्छरणताकथनम् । १०२ भगवद्भक्तिमतामेव योगमभावाकृष्टसांसारिकभो- गोपभोगोत्तरमख्यात्यात्मभवभ्रान्ति हिला परप- दावाप्तयाशंसनौचित्यानुशंसनम् । भगवदद्वयात्मतया तदायत्तानां मोहमयीषु स्व- माधवस्थास्वपि कृतस्य यत्तत्पुण्यापुण्यात्मकर्मणः परानन्दफलजनकतावेदनम् । १०४ - परप्रकाशात्मभगवद्धामनिष्ठचित्तस्य तमःसंपर्का- त्यन्ताभावकथनम्। १०५ परमशिवसेवोत्साहाय कृतमनोरथमात्रस्यापि मो- क्षपदे पदन्यासानुशासनम् । १०६ नानाभोगासञ्जनात्मस्थित्या, यथोचितशरीर- भवनजननात्मोत्पत्त्या भोगपरम्परानुषश्रान्तानां विश्रान्तिदानायेषत्कालं संहारात्मलयेन च जगदुप- करणे पारमेशाद्वयशक्तः परमस्वातन्त्र्यावेदनम् । १०७ आध्यात्मिकाधिदैविकाधिभौतिकात्मत्रितापता- पितसमस्तपाणिनां तापशमनामृतदतानिरूपणो- तर भगवतोऽभिवन्दनम्।
स्तवचिन्तामणौ १०८ सव्याजपूजाध्यानजपादिनिर्व-भगवद्भक्तर्मोतफ- लजनकखानुवादोत्तरं निर्व्याजभगवदनुरागोच्छ- लिततत्समावेशोपललितभक्तरनिर्वचनीयफललेना- परिमेयफलवसूचनम्। १०६ चक्षुषो भगवल्लिङ्गादिप्रेक्षणे, गतेश्च भगवत्पूजा- दिस्थानगमने, भगवत्कथात्मसर्वेष्टप्रदकल्पपादपज- न्यफलस्य च शब्दार्थद्वारा साफल्यमावेद्य, ज्ञानस्य भगवत्स्वरूपज्ञापकतया,योगादिगतेश्च भगवत्पदमा- पकतया सर्वसंपत्मदकल्पपादपरूपभगवत्स्वरूपच- र्चायाः समुद्भवत्परानन्दविकासात्मकफलस्य च श्लाध्यसाफल्यावेदनम् । ११० निखिलेश्वर्याप्त्यात्मश्रेयसामुत्कृष्टश्रेयोभूतचिदा- नन्दघनविश्रान्त्यै मध्यत उद्भवद्भगवदख्यात्यात्मा- न्तरायध्वंसाय भगवच्छरणताभ्यर्थनम् । १११ उत्तरोत्तरास्वादने नवनवचमत्कारजनकतया न- णमपि त्यक्तुमशक्यस्य भगवद्भक्त्यमृतरसस्याशं- सनम् । ११२ तत्तत्ममातृप्रमेयाभाससंयोजनवियोजनक्रमेण रु- द्रनेत्रज्ञादित्रैलोक्यं कल्पनाशतैरनवरतं कल्पयतो- ऽपि भगवतो निर्विकल्पावस्थया स्थित्यावेदनम् ।
मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः । ११३ त्रिमलात्मतैलमलिनसंसारवासनावर्तिदाहितत्त्वा- वबोधात्मदीपावलम्बनोत्तरं परमेशसंनिधौ स्वो. पस्थितिक्षणाशंसनम् । ११४ भगवदनुग्रहेणैव प्रक्षीणपूर्वतनकुत्सितसंस्कारे चित्ते क्षणमात्रमपि परमेश्वराधिष्ठानस्य सर्वाभीष्ट- संपादकखानुशासनम् । ११५ भगवदाश्रितजनस्यानुत्तरधन्यखकृतकृत्यखमह- स्वादिगर्वाणां वास्तवशोभिलावेदनम् । ११६ परमेश्वरस्य मिश्रशुभाशुभफलजनकलं, तद्भक्के- स्तु शुद्धोत्कृष्टशुभफलजनकलमनूध भक्तिमतां ब- हुमानमान्यतावेदनम् । ११७-१८ किं मलापगमेन प्रसन्न मनो भगवताधिष्ठी- यते, उत भगवदधिष्ठानेन मलापगमात् प्रसन्नतामा- सादयेत् । इति शङ्कनपूर्वकं भगवदधिष्ठित्यैव मल- हान्या प्रसन्नमनसः सर्वसिद्धयाप्तिपरपदासादनानु- शासनम् । ११४ वामनः कर्मकायानां भगवदनुग्रहासादनोत्तरं भगवद्भक्तिभूषणभूषितखाभ्यर्थनम् । १२० ग्रन्थकृतः प्रसिद्धमभावस्वनामोदीरणोचरं स्व- कृतग्रन्थस्य भगवत्समावेशात्मानुत्तरैश्वर्यफलमस-
স্কুম্বিয়ালী
१५५
धतया चिन्तामण्यभिख्यापनेनात्यन्तोपादेयतानिर्दे-
शनम् ।
इति स्वचिन्तामणौ अन्धप्रकाशक-पं० मुकुन्दराम शास्त्रिणा विरचितः
प्रतिश्लोकं प्रतिपादितार्थसंक्षेपः समाप्तः ॥
द्वितीयपरिशिष्ठभागश्च समासः ॥