The Asiatic Society, Kolkata

Syadwadratnakarah Vol. 3

Debasuri · 2007/12/10

PDF Proofread

Front matter

DATE LABEL
THE ASIATIC SOCIETY
1, Park Street, Calcutta-16
The Book is to be returned on the date last stamped :
Voucher
No.
Date
Voucher
No.
Date
3972724 MAR 1958

JAIN. C.2.

No text on this page.

No text on this page.

No text on this page.

आर्हतमतप्रभाकरस्य
चतुर्थो मयूखः
श्रीमद्वादिदेवसरिविरचितः
प्रमाणनयतत्त्वालोकालङ्कारः
तयाख्या च
स्याद्वादरत्नाकरः
यह ग्रंथ श्री. भावचन्दजी हीराचन्दजी
कालंदरी (मारवाड) वाले तरफ से भेट.
पुण्यपत्तनस्थ
ओसवालवंशजश्रेष्ठिलाधाजीतनूजमोतीलाल इत्येतैः टिप्पणी-
भिरुपोद्धातेन च परिष्कृत्य संशोधितः ।
वीरसंवत् २४५४.
प्रथमेयमकनावृत्तिः।
मूल्यं रुप्यकद्वयम् ।

-
इदं पुस्तकं ' मोतीलाल लाधाजी' इत्येतैः पुण्यपत्तने ( १९६ भवानी
पेठ ) प्रकाशितम् । ( अस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः)
तच,
-
पुण्यपत्तने सदाशिवश्रेण्यां ' लक्ष्मण भाऊराव कोकाटे' इत्यनेन
हनुमान
प्रिंटिंग प्रेस ' मुद्रणालये मुद्रितम् ।
स्वकीये।

homdesi
Vedor
वागड (कच्छ) देशोद्धारक दादा श्री जीतविजयजी महाराजना प्रशिष्य
प्रातःस्मरणीय शान्तमूर्ति परमपूज्य आचार्यदेव
श्री विजयकनकसूरीश्वरजी महाराज

No text on this page.

श्री: प्रास्ताविकं किंचित् । वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः वीरणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्रीधृतिकीर्तिकान्तिनिचयः श्रीवीर ! भद्रं दिश ॥१॥ आर्हतमतप्रभाकरसंस्थायाश्चतुर्थो मयूखः स्याद्वादरत्नाकराभिधः शासनदेवकृपया प्रकाश्यते । सोऽयं ग्रन्थः ( ८४००० ) चतुरशीतिसहस्रन- न्थसंख्यात्मको निरमायि श्रीवादिदेवसूरिभिरिति कर्णपरम्परातः समागता प्रथितिः । बहुशः प्रयतमानैरस्माभिस्तत्तजैनाचार्याणां सूरीणां च कृपया- लम्भि सप्तपरिच्छेदात्मको भागो ग्रन्थराजस्यास्य । अस्मन्मुद्रापितग्रन्था- न्तरक्रमेण संमुद्यते चेदयं तर्हि व्याप्नुयाद् द्वादशशती पृष्ठानामिति संभा- वयामः । संपूर्णो ग्रन्थ एकस्मिन् विभागे संग्रथ्यते चेद्भवेद् वैरस्याय पिप- ठिपूणामतो विभागशः संमुद्य प्रकाशयितुमारब्ध एषः। तत्र प्रथमो भागः प्रथमपरिच्छेदात्मको द्वितीयो द्वितीयपरिच्छेदात्मकश्च मुद्रितः । अयं च तृतीयोविभागः । प्राय इयतैव प्रमाणेन भागान्तराणां प्रत्येक प्रतिमासं मुद्रणं स्यादिति समीहामहे । ग्रन्थराजोऽयं बौद्धयौ- गादिमतानां परामर्शकोऽतोऽवश्यमध्ययनार्हो न केवलं स्याद्वाद- मतानुयायिनां किंतु भिन्नमतस्थानामपि स्याद्वादमतजिज्ञासूनाम् । पूर्वमयूखवदस्यापि मूल्याल्पत्वपरिशिष्टविस्तारग्रन्थान्तर्बहिः- परिचयादिकं सविस्तरमाहतम् । सन्ति चास्य ग्रन्थस्य द्वादशपरि- शिष्टानि । किंतु परिशिष्टादिकमन्तिमे विभाग एव मुद्रयितुमर्हम्। अने- पनपत्राणां मुद्रयिष्यमाणानां निर्देशस्य पूर्व कर्तुमशक्यत्वात् । केवलं टिप्पन्यादिकमर्थावसायोपयोगि तत्तत्स्थलेऽधोभागे निरदोश । प्रतिपत्रं पक्रयङ्का निर्दिष्टा • येषामुपयोगः परिशिष्टदर्शनसोकर्याय । अन्यच्च पुस्तकानां वस्त्रात्मकं बन्धनमस्तु न पत्रात्मकमिति सूचयन्ति केचिन्महा- भागाः परं तद्व्यक्तिशो ग्राहकैः स्वयमनुष्ठेयम् । अस्माभिस्तथा संपादने यै भिमतस्तदर्थं द्रव्याधिक्यव्ययस्ते मुधैव पीडितवेतसो भवेयुरिति. यथापूर्व सरणिराहता । इति विनिवेदकः । आहेतमतप्रभाकरकार्यालयः, पुण्यात्तनम् ।। विद्वद्वशंवदः- वी. सं. २४५४ मौनकादशी। मोतीलाल लाधाजी अतः }

No text on this page.

॥ अथ तृतीयः परिच्छेदः॥ ये त्वां तीर्थयते स्मरन्ति मुदितस्वान्ताः क्षमामण्डनं ये त्वां विष्टपलोचनं प्रतिदिनं पर्यासते सर्वदा ॥ ये त्वां नाथ वितर्कयन्त्यवाहिता ये वाऽनुमिन्वन्ति ते मुच्यन्ते दुरितैस्ततो वयमपि त्वां देव सेवामहे ॥ ४४५ ॥ निर्णीतं प्रत्यक्षप्रमाणम्वरूपम् । अथ परोक्षप्रमाणवरूपनिरूपणायाह- ५ अस्पष्टं परोक्षमिति ॥१॥ स्वपरव्यवसायज्ञानं यदम्पष्टमुक्तलक्षणात्स्पष्टाद्विपरीतमविशदं तत्परो- क्षमित्यवगन्तव्यम् । तथा च प्रयोगः, परोक्षमस्पष्टज्ञानात्मकं परोक्ष- त्वात्, यदस्पष्टज्ञानात्मकं न भवति न तत्परोक्षम्, यथा प्रत्यक्षम्, परोक्षं च वक्ष्यमाणं स्मृत्यादिविज्ञानम् । तस्मादस्पष्टज्ञानात्मकमिति ॥ १॥ १० अथास्य प्रकारान्प्रकटयन्नाह- स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्च- प्रकारमिति ॥२॥ म्मरणं च प्रत्यभिज्ञानं च तर्कश्चानुमानं चागमश्च त एव भेदा- स्तेभ्यस्तान्प्रतीत्येत्यर्थः । तत्परोक्षं पञ्चप्रकारमिति ॥ २ ॥ सम्प्रति स्मरणं कारणगोचरस्वरूपतो निरूपयति- तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्या- कारं वेदनं स्मरणामिति ॥३॥ - १ 'कृतधियः सजानते' इति म. संगृहीतः पाठः । ३१ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ३ तत्र तेषु स्मरणादिषु मध्ये । संस्कारः प्रमातुः शक्तिविशेषस्तस्य प्रबोध उद्बोधः फलदानाभिमुख्यमिति यावत् । तस्माद्धेतुभूतात्संभूत- मुत्पन्नं वेदनमित्युत्तरेण योगः । कीदृशमित्याह । अनुभूतार्थविषयम् । अनुभूतः प्राक्प्रमाणेन प्रतिपन्नोऽर्थो वस्तु विषयो गोचरो यम्य ५ तत्तथा, तदित्याकारं तदित्युल्लेखवत् । तदित्युल्लेखवत्ता चास्य योग्यता- पेक्षयाख्यायि । यावता स्मरसि चैत्र कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामह इत्यादिस्मरणे तच्छब्दोल्लेखो नोपलक्ष्यत एव, किन्त्विदं स्मरणं तेषु कश्मीरेविति तच्छब्दोल्लेखमहत्येवेति । वेदनं स्मरणमिति स्पष्टार्थे पदे । संस्कारप्रबोधसम्भूतमित्यनेनात्र स्मरणस्य कारणमुप- १० दर्शितम् । अनुभूतार्थविषयमित्यनेन गोचरः । तदित्याकारमित्यनेन पुनः स्वरूपमिति ॥ ३॥ अत्रोदाहरणमुपदर्शयन्नाह- तचीर्थकरबिम्बमिति यथेति ॥४॥ यथेत्युदाहरणोपन्यासार्थम्, इत्येवंप्रकारं तच्छब्दपरामृष्टं यद्विज्ञानं १५ तत्सर्वं स्मरणमित्यर्थः । स्मृतिप्रामाण्यमङ्गीकुर्वतो स्वपरव्यवसायित्वात्प्रमाणं चेदमञ्जसा ।। बौद्धस्य पूर्वपक्षमुपपाद्य अप्रामाण्यं पुनबौद्धो ब्रुवन्नम्य न तार्किकः ॥ ४४६॥ तथा हि-अमुप्याप्रामाण्यं कुतोऽयमाविष्कुर्वीत, किं गृहीतार्थग्रा- २० हित्वात्परिच्छित्तिविशेषाभावादसत्यातीतेऽर्थे प्रवर्तमानत्वादर्थादनुत्पद्य- मानत्वाद्विसंवादकत्वात्समारोपाव्यवच्छेदकत्वात्प्रयोजनाप्रसाधकत्वाद्वा । न तावद्गृहीतार्थग्राहित्वात्स्मरणम्याप्रामाण्यम् । अनुमानेनाधिगते वह्नौ तदुत्तरकालभाविनः प्रत्यक्षस्याप्यप्रामाण्यप्रसङ्गात् । अनुमानस्यापि केनचिदंशेनाधिगतार्थाधिगमसम्भवेनाप्रामाण्यानुषङ्गाच्च, व्याप्तिज्ञान- २५ प्रतिपन्ने हि वस्तुन्यनुमानं प्रवर्तत इति । अथाऽधिगताऽर्थाऽधिगमेऽप्यनु- तत्खण्डनम् ।

परि. ३ सू. ४] स्याद्वादरत्नाकरसहितः , मानस्यापूर्वस्याप्यर्थांशंस्याधिगमसम्भवात्प्रामाण्यमिष्यते । हन्त कथमेवं स्मरणस्यापि प्रामाण्यं न स्यात् । तत्रापि वर्तमानकालावच्छेदेनाधि- गतस्यार्थस्यातीतकालांवच्छेदेनाधिगतेरपूर्वांशाधिगमोपपत्तेः । समर्थित चैतत्प्रथमपरिच्छेदे गृहीतार्थग्राहित्वेनापि ज्ञानस्य प्रामाण्यम् । तन्न गृहीतार्थग्राहित्वात्स्मरणस्याप्रामाण्यम् । नापि परिच्छित्तिविशेषाभावात्। ५ निहितमन्त्रिताधीतादौ हानोपादानहेतोः परिच्छित्तिविशेषस्य स्मरणे सद्भावात् । नाप्यसत्यतीतेऽर्थे प्रवर्त्तमानत्वात्तस्याप्रमाणता, यतोऽती- तस्यार्थस्य स्वकालेऽसत्त्वं स्मृतिकाले वा । न तावत्स्वकाले, तदा तस्य विद्यमानत्वात् । स्मृतिकाले तु तस्यासत्त्वं नाप्रामाण्यं प्रत्यङ्गम् । प्रत्यक्षस्याप्यप्रामाण्यप्रसक्तेः । न हि प्रत्यक्षग्राह्योऽर्थः प्रत्यक्षकाले १० सौत्रान्तिकैः सत्त्वेनाभ्युपगम्यते । “भिन्नकालं कथं ग्राह्यमिति चेद्राह्यतां विदुः॥ हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षमम् ॥१॥" इत्यस्य विरोधानुषङ्गात् । एकान्ततोऽसत्यर्थे स्मरणमुत्पद्यत इति न नः पक्षः । अर्थादनुत्पद्यमानत्वं च स्मरणस्यासिद्धम् । स्वविषयभूता- दनुभूतादादुत्पद्यमानत्वात् । विसंवादकत्वमपि स्मरणस्याप्रसिद्धम् । १५ स्वप्रतिपन्ने वस्तुन्यविसंवादकत्वात्तस्य । अविसंवादो हि गृहीतार्थे प्राप्तिः प्रमाणान्तरप्रवृत्तिा स्यात् । स द्विविधोऽपि स्मृतिप्रतिपन्ने स्वयं धृतद्रव्याद्यर्थे समस्त्येव । यत्र तु विसंवादः स स्मरणामासः । प्रत्यक्षाद्याभासवत् । समारोपव्यवच्छेदकत्वमपि स्मरणस्यासिद्धम् । स्व- विषयभूते साध्यसाधनसम्बन्धादौ तस्य समारोपव्यवच्छेदकत्वसम्भवात्। २० अन्यथाऽनुमाने दृष्टान्ताभिधानानर्थक्यापत्ति: । साध्यसाधनसम्बन्ध- स्मरणार्थं हि तत्र दृष्टान्ताभिधानम् । इतरथा हेतुरेव केवलोऽभिधीयेत। ततस्तदभिधानान्यथानुपपत्तेः स्मृतिविषयभूते सम्बन्धादौ विस्मरण- संशयविपर्ययरूपः समारोपोऽस्तीत्यवगम्यते । तव्यवच्छेदकत्वाच्च स्मरणस्य प्रामाण्यम् । प्रयोगः, यत्समारोपव्यवच्छेदकं तत्प्रमाणम्, २५ यथानुमानम्, समारोपव्यवच्छेदकं च स्वप्रतिपन्नेऽर्थे स्मरणमिति ।

४८८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. प्रयोजनाप्रसाधकत्वात्स्मरणस्याप्रामाण्यमित्यप्यनुपपन्नम् । अनुमान- प्रवृत्तिनिहितप्राप्त्यादिलक्षणस्य तत्साध्यप्रयोजनस्य सद्भावात् । अनु- मानं हि साध्यप्रतिबद्धाद्धेतोः प्रवर्तते । साध्यप्रतिबन्धश्च हेतोः सत्तामात्रेणानुमानप्रवृत्तेरङ्गं परिज्ञातो वा स्मृतिकोटीकृतो वा । प्रथम- पक्षे नालिकेरीद्वीपायातस्याप्रतिपन्नामिधूमसम्बन्धस्यापि धूमदर्शनादमि- प्रतिपत्तिः स्यात् । द्वितीयपक्षे तु बालावस्थायां प्रतिपन्नामिधूम- सम्बन्धस्य पुनर्वृद्धावस्थायां विस्मृततत्सम्बन्धस्यापि धूमदर्शनादग्नि- प्रतिपत्तिप्रसङ्गः । तृतीयपक्षे तु कथं स्मरणम्य प्रामाण्यप्रतिषेधः । अनुमानप्रवृत्तरङ्गत्वात् । यज्ज्ञानमनुमानप्रवृत्तेरङ्गं तत्प्रमाणं यथा १. प्रत्यक्षं, तथा च स्मरणम्, तस्मात्प्रमाणमिति । एवं च । अन्यप्रमाणमिव सिद्धमिदं प्रमाणं न्यायोपदेशवशतः स्मरणं यतोऽत्र ।। दत्तो गृहप्रभृतिको व्यवहार एष प्राप्नोति सिद्धिपदवीमनिशं जनानाम् ॥ ४४७ ॥ ४ ॥ अथ क्रमप्राप्तस्य प्रत्यभिज्ञानस्य कारणादिप्ररूपणार्थमाह- अनुभवस्मृतिहेतुकं तिर्यगूर्धतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानामिति ॥५॥ अनुभवश्च प्रमाणेन ग्रहणम् । स्मृतिश्चानन्तराभिहितैव । अनुभव- स्मृती ते हेतुर्यस्य तदनुभवस्मृतिहेतुकं ज्ञानमित्युत्तरेण योगः । अनेन २० प्रत्यभिज्ञानस्य कारणमुक्तम् । सामान्यशब्दस्य प्रत्येकमाभसम्बन्धात्ति- र्यक्सामान्यं च गवादिषु सदृशपरिणामात्मकम् । ऊर्ध्वतासामान्यं च परापरविवर्तव्यापि द्रव्यम् । एतदुभयमादिर्यस्य वैलक्षण्यादेधर्मस्तो- मम्य स तिर्यगूर्खतासामान्यादिगोचरो विषयो यस्य तत्तथा । अनेनास्य विषयो निर्दिष्टः । सङ्कलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवम- २५ र्शनमात्मा स्वभावो यस्य तत्सङ्कलनात्मकमिति । अनेन स्वरूपमभिहितम्। एवंविधविशेषणविशिष्टं यज्ज्ञानं तत्प्रत्यभिज्ञानमिति विज्ञेयम् ॥ ५॥ - ।

४८९ -- परि. ३ सू.६] स्याद्वादरत्नाकरसहितः अस्योदाहरणोपदर्शनायाह- यथा तजातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्त इत्यादीति ॥६॥ अत्र तज्जातीय एवायं गोपिण्डो गोसदृशो गवय इत्याभ्यां तिर्यक्- सामान्यविषयं स एवायं जिनदत्त इत्यनेन पुनरूचंतासामान्यविषयं ५ प्रत्यभिज्ञानमुदाहृतम् । तिर्यक्सामान्यविषयं च गोसदृशो गवय इत्युदा- हरणान्तरमुपमानप्रमाणस्यात्रैवान्तर्भावप्रदर्शनार्थमुपदर्शितम् । आदि- शब्दात्स एवानेनाप्यर्थः कथ्यते गोविलक्षणो महिष इदमस्माद्दरमिद- मस्य समीपमिदमल्पमिदं महदिदमस्मात्प्रांशु हस्वं वेत्यादि । तथा-- शुण्डालदण्डपृथुगण्डतटीकराल- मापिङ्गलस्फुटसटाविकटांसकूटम् । अष्टाभिरधिभिरुपेतमतीव भीष्म- माहुर्बुधाः शरभमद्भुतशौर्यवृत्तिम् ॥ ४४८ ॥ स्कन्धे सटाश्चरणकोटिषु कुञ्जरेन्द्र- कुम्भस्थलीदलनदुर्ललितानि यस्य ॥ क्वापि प्रपश्यति भवान्नखपञ्जराणि जानातु तं जगति केसरिणः किशोरम् ।। ४४९ ॥ गण्डस्थलीप्रविगलन्मदगन्धलुब्ध- मुग्धभ्रमद्भमरभूषितकर्णजाहम् ॥ दुर्वारदन्तमुंशलं वलगण्डशैल- शङ्काकरं द्विरदराजमुदाहरन्ति ॥ ४५० ॥ आलोक्य कज्जलमलीमसमेघमाला- मभ्युन्नतां वियति यो नरिनर्ति हर्षात् ॥ केकायितानि कुरुतेऽश्रुजलप्लुते च धत्ते दृशौ शिखिनमेनमुशन्ति सन्तः ।। ४५१ ॥ १५ २० ४९० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३सू. ६ आताम्रचञ्चुचरणं सवलक्षपक्षं क्षीराम्बुसङ्करविवेककलाप्रगल्भम् ।। . मञ्जीरम परिसिन्जितमन्दनादं जानीहि मन्थरगति बत राजहंसम् ॥ ४५२ ।। यो मञ्जु मञ्जु परिगुञ्जति मञ्जरीणां किञ्जल्कपुञ्जरजसा कपिशीकृताङ्गः ॥ नीलीतमालदलकज्जलकालकान्तिः पद्धिर्भवेन्मधुकरश्चरणैः स नूनम् ॥ ४५३ ॥ या खिद्यते प्रतिपदं स्वनितम्बमारात् त्रस्तकहायनकुरङ्गविलोलनेत्रा ॥ उत्तुङ्गपीनकुचकुम्भनिरङ्कुशां तां सीमन्तिनीं युवतिरित्युपवर्णयन्ति ॥ ४५४ ॥ यद्व्योम संरचयति स्फुरदिन्द्रचाप- रोचिष्णु चित्ररचनारुचिरं समन्तात् ।। विस्तारिणा स्वकिरणप्रसरेण पञ्च- वर्णेन तद्भवति मेचकमत्र रत्नम् ।। ४५५ ।। ताम्राणि यस्य विलसन्ति सुपल्लवानि चुम्बन्ति चारुकुसुमानि च चञ्चरीकाः ॥ वाचालितं विपुलकोकिलकाकलीभि- बुध्यस्व हन्त सहकारमहीरुहं तम् ॥ ४५६ ॥ इत्येवमादिशब्दश्रवणादाहितसंस्कारविशेषः, प्रतिपत्ता तथाविधानेव शरभसिंहादीनवलोक्य तथा सत्यापयति यदा तदा तत्संकलनमपि प्रत्यभिज्ञानोदाहरणमादर्शितं मन्तव्यम् । . २० अत्राह शाक्यः -- परि. ३ सू. ६] स्याद्वादरत्नाकरसहितः ४९९ तत्खण्डनम् । विज्ञानस्य प्रत्यभिज्ञाननाम्नः प्रत्यभिज्ञानमस्वीकुर्वतो बौद्धस्य पूर्वपक्षमुपाध सम्यग्युक्त्या नास्ति सत्तैव तावत् ।। या त्वस्यैषा मानतावर्णना सा वान्ध्येयस्योदग्रशृङ्गारभङ्गिः ॥ ४५७ ॥ तथा हि, विरुद्धधर्माध्यासतः कारणाभावाच्च प्रत्यभिज्ञानस्य ५ स्वरूपमेव न सम्भवति। तत्कथं तस्य प्रामाण्यं प्रतिपादयितुमुचितम् । पूर्व हि ज्ञातस्य पुनः कालान्तरे स एवायमित्यादि ज्ञानं प्रत्यभि- ज्ञानम् । न चाम्यैकत्वमुपपन्नम् । विरुद्धधर्माध्यासात् । यत्र हि विरुद्ध- धर्माध्यासो न तत्रैक्यम् । यथा जलानलादौ । विरुद्धधर्माध्यासश्च प्रत्यभिज्ञान इति । न चायमसिद्धः स्पष्टास्पष्टरूपाक्रान्ततया प्रत्याभि- १० ज्ञाने विरुद्धधर्माध्यासस्य प्रसिद्धेः । तथा हि, स इत्युल्लेखः प्रत्यभिज्ञाने स्मरणरूपत्वेनास्पष्टः । अयमित्युल्लेखश्च प्रत्यक्षरूपत्वेन स्पष्टः । न चास्पष्टेतरलक्षणविरुद्धधर्मलक्षणविरुद्धधर्माध्यासेऽप्यभेदो युक्तः । प्रत्यक्षानुमानयोरप्यभेदप्रसक्तेः । किं च , स एवायमित्याकारद्वयं, तत्र किं परस्परानुप्रवेशेन प्रतिभात्यननुप्रवेशेन वा । प्रथमपक्षेऽ- १५ न्यतराकारस्यैव प्रतिभासः स्यात् । द्वितीयाकारस्य तत्रानु- प्रवेशेन तस्मादविविक्तत्वात् । द्वितीयपक्षे तु परस्परविविक्तप्रति- भासद्वयप्रसङ्गः । अन्योन्याननुप्रवेशेनाकारद्वयस्यावस्थानात् । न च प्रतिभासद्वयम् । एकाधिकरणत्वप्रसक्तेस्तु पुरुषाद्वैतसिद्धिः स्यात् । ततो विरुद्धधर्माध्यासान्नैकमिदं ज्ञानमभ्युपगन्तव्यम् । ततः कथं २० प्रत्यभिज्ञानस्य सम्भवः । कारणाभावाच्च न तत्सम्भवति । तथा हि, प्रत्यभिज्ञानस्य कारणं किमिन्द्रियमुत पूर्वानुभवजनितः संस्कारस्तदु- भयं वा । न तावदिन्द्रियम् । तस्य वर्तमानार्थावभासजनकत्वात्। नापि संस्कारः । तस्य स्मरणकारणत्वात् । नाप्युभयम् । उभयदोषानुषङ्गात् । न च कारणान्तरमस्योपलभ्यते । तन्न प्रत्यभिज्ञानं स्वरूपतः सम्भ- २५ वति । सम्भवतु वा, तथापि न तत्प्रमाणम् । विषयाभावात् । तस्य ४९२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६ हि विषयः पूर्वज्ञाने प्रतिभातमेव वस्तु तदतिरिक्तं वा । तत्राद्यपक्षे न तत्प्रमाणम् । गृहीतग्राहित्वात्, धारावाहिज्ञानवत् । द्वितीयपक्षेऽपि किं कृतस्तस्यातिरेकः किं स्वरूपभेदकृतः कालद्वयसम्बन्धैक्यप्रतिपत्ति- कृतो वा । यदि स्वरूपभेदकृतः, तदा ज्ञानवज्ज्ञेयस्यापि प्रतिक्षणं ५ स्वरूपभेदप्रसिद्धेः शौद्धोदनिमतानुप्रवेशः । अथ कालद्वयसम्बन्धिदेव- दत्तस्यैक्यं प्रतीयते । अतस्तत्प्रत्तिपत्तिकृतोऽतिरेक इति चेत् । तदपि वामात्रम् । यतः किमिदमैक्यं नाम, एकत्वसंख्या स्थायित्वं वा । यद्येकत्वसंख्या, तदाऽस्याः पूर्वमेव प्रतिपन्नत्वात्कथमाधिक्यपरिच्छेदः प्रत्यभिज्ञानेन । अथ स्थायित्वम् । तत्किं देवदत्तस्वरूपाद्भिन्नमभिन्न १० वा । यद्यभिन्नम् , तदा तत्स्वरूपवत्तदपि पूर्वज्ञानेनैव प्रतिपन्नमिति तद्विषयत्वे प्रत्यभिज्ञानस्य तदवस्थ एव गृहीतग्राहित्वेनाप्रामाण्यलक्षणो दोषः । अथ भिन्नं स्थायित्वम् , तत्किं पूर्वमप्युत्पन्नमथ प्रत्यभिज्ञान- समय एवोत्पद्यते । यदि पूर्वमप्युत्पन्नम् , तदा पूर्वज्ञानेनैवास्य परि- च्छेदात्कथं प्रत्यभिज्ञानाधिक्यपरिच्छेदः । अथ प्रत्यभिज्ञानसमय १५ एवोत्पद्यते । तर्हि तम्य पूर्वमप्रतिपन्नत्वात्कथं प्रत्यभिज्ञानविषयत्वम् । पूर्व प्रतिपन्नस्यार्थस्य पुनः कालान्तरे गृह्यमाणस्य प्रत्यभिज्ञानविषयत्वा- भ्युपगमात् । पूर्वज्ञानाप्रतिपन्नार्थान्तरावबोधकज्ञानस्य प्रत्यभिज्ञा- नत्वे च घटज्ञानानन्तराविर्भूतपटज्ञानस्यापि तत्त्वप्रसङ्गः । प्रत्यभिज्ञान- समय एवावस्थायित्वस्योत्पत्तौ च क्षणिकत्वानुषङ्गात्कथं तद्विशिष्टार्था- २० नामक्षणिकत्वं स्यादिति । तस्मादित्थमभावाद्यद्वा सत्त्वेऽपि गोचराभावात् ।। प्रामाण्यधुरन्धरेण न धुरीणं प्रत्यभिज्ञानम् ॥ ४५८ ।। हन्त सौगत यथैव विष्टपे विश्रुतस्त्वमसि पश्यतोहरः ।। अस्ति कश्चन तथैव कोविदस्त्वद्विनिग्रहविनोददुर्धरः ॥१५९।। तथा हि यत्तावदुक्तं विरुद्धधर्माध्यासत इत्यादि । तत्र यदि नाम दर्शनस्मरणलक्षणयोराकारयोर्विरोधः । तथापि धर्मिणः प्रत्य- परि. ३ सू.६] स्याद्वादरत्नाकरसहितः ४९३ ५ मिज्ञानरूपस्य किमायातम् । येनास्य विरुद्धधर्माध्यासाद्भेदः प्रायेंत'। धर्माणां हि परस्परपरिहारस्थितिलक्षणविरोधसम्भवे तेषामेवान्योन्यं भेदो युक्तः । चित्रविज्ञानाकारवत् । किं च विरुद्धाभ्यां दर्शनम्मरणा- काराभ्यां कारणभूताभ्यां स्वभावभूताभ्यां वा प्रत्यभिज्ञानस्य भेदः साध्येत । तत्राद्यपक्षे सिद्धसाध्यता दोषः । न खलु कारणस्वरूपमेव सर्वथा कार्यस्वरूपमित्यनेकान्तवादिनः प्रतिजानते । द्वितीयपक्षेऽपि कथञ्चित्तद्भेदः साध्येत सर्वथा वा । यदि कथञ्चित्, तदा सिद्धा साध्यतैव । आकारतद्वतोः कथञ्चिद्भेदाभ्युपगमा नैः । भेदस्त्वनुपपन्नः, तयोस्तत्स्वभावत्वाभावप्रसङ्गात्। यो यस्य स्वभावो न तस्य तद्वतः सर्वथा भेदः । यथा चित्रज्ञानान्नीलाद्याकाराणाम् । स्वभावश्च प्रत्यभि- १० ज्ञानस्य स एवायमित्याकारद्वयमिति । प्रत्यभिज्ञानं हि दर्शनस्मरण- लक्षणस्वसामग्रीतः समुत्पद्यमानमङ्गीकृताकारद्वयमेव समुपजायते । चित्रपटादिसामग्रीतश्चित्राकारैकज्ञानवत् । अभ्युपगम्य च स्वभाव- भूताकारद्वयस्य स्पष्टत्वास्पष्टत्वाभ्यां विरुद्धधर्माध्यासत्वमेतदुक्तम् । यावता प्रत्यभिज्ञाने स्पष्टत्वास्पष्टत्वे एव न विद्यते । अस्पष्टस्वरूप- १५ स्यैवास्य स्वसामग्रीतः समुत्पादात् । यदप्युक्तं स एवायमित्याकार- द्वयं, तत्र किं परस्परानुप्रवेशेन प्रतिभातीत्यादि, तत्र कोऽयमस्य, पर- स्परानुप्रवेशो नाम । परस्पररूपसाङ्कर्यमेकस्मिन्नाधारे धृतिर्वा । नाद्यः पक्षः श्रेयान् । प्रतीतिविरोधात् । न हि यथोक्तमाकारद्वयमन्योन्य- सङ्कीर्णस्वरूपं स्वप्मेऽपि प्रतीयते । द्वितीयपक्षे पुनर्न किंचिदनिष्टम् । २० एकस्मिन्प्रत्यभिज्ञाने तदाकारद्वयस्य निर्बाधमनुभूयमानत्वात् । कथं चैवंवादिनः सौगतस्य चित्रज्ञानमपि सिध्येत् । नीलादिप्रतिभासानां हि परस्परानुप्रवेशे सर्वेषामेकरूपताप्रसङ्गात्कुतश्चित्रत्वम् , एक- नीलाकारज्ञानवत् । तेषां परस्पराननुप्रवेशे वा भिन्नसन्ततिनीलादिप्रति- भासानामिवात्यन्तभेदसिद्धेर्नितरामचित्रत्वम् । एकज्ञानाधिकरणतया २५ तेषां प्रत्यक्षतः प्रतीतेः प्रतिपादितदोषानवकाशः प्रत्यभिज्ञानेऽप्यवि- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ६ शिष्टः । तन्न विरुद्धधर्माध्यासितत्वात्प्रत्यभिज्ञानस्याभावो युक्तः । नापि कारणाभावतः । दर्शनस्मरणलक्षणस्य तत्कारणस्य सूत्रे प्रति- पादितत्वात् । ननु कथं पृथग्गोचरयोविभिन्नाकारयोश्च दर्शनस्मरणयोः प्रत्यभिज्ञाने कारणतेति चेत् । तेनानुविधीयमानान्वयव्यतिरेकत्वात् । ५ अङ्कुरादिनानुविधीयमानान्वयव्यतिरेकस्य बीजादेरिव । तत्र न खलु बीजादेरकुरादौ कारणतायां तेनान्वयव्यतिरेकानुविधानादन्यन्निबन्धन- मस्ति । तन्न प्रत्यभिज्ञानस्य कारणाभावादप्यभावो युक्तः । अपि चेदं प्रत्यभिज्ञानं कार्यम् । कार्य च प्रतीयमानं कारणसद्भावमवबोध- यति । अतः कथमम्य कारणाभावो ज्यायान् । ततश्च कारणाभावाच्च १० न तत्सम्भवीत्यादि प्रत्यादिष्टम् । यच्चान्यदुपन्यस्तं सम्भवतु वा तथापि न तत्प्रमाणं विषयाभावादिति । तदप्ययुक्तम् । विषयाभावस्या- सिद्धेः । पूर्वोत्तरविवर्त्तवत्येकद्रव्यादेस्तद्विषयम्य सद्भावात् । न च दर्शनस्मरणयोरेवायं विषय इति वाच्यम् । दर्शनम्य हि वर्तमान- कालावछिन्नः स्मरणस्य पुनरतीतकालावच्छिन्नपदार्थो विषयः प्रत्यभि- १५ ज्ञानस्य तूभयकालावच्छिन्नद्रव्यादि । न चाशेषार्थानां क्षणिकत्वतो द्रव्यस्य कस्यचिदप्यसम्भवात्कथं तस्य तद्विषयता प्रार्थ्यत इत्यभिधात- व्यम् । क्षणभङ्गप्रतिषेधेन द्रव्यसिद्धः पुरस्तादुपपादयिष्यमाणत्वात् । न च लूनपुनर्जातनखकेशादिष्विव सर्वत्र निर्विषया प्रत्याभिज्ञा । क्षणक्षयकान्तस्यानुपलम्भात् । तदुपलम्भे हि सा निर्विषया २० स्यात् । एकचन्द्रोपलम्भे द्विचन्द्रप्रतीतिवत् । लूनपुनर्जा- तनखकेशादौ च स एवार्य नखकेशादिरित्येकत्वपरामर्शिप्रत्यभि- ज्ञानं लूननखकेशादिसदृशोऽयं पुनर्जातनखकेशादिरिति सादृश्य- निबन्धनप्रत्यभिज्ञानान्तरेण बाध्यमानत्वादप्रमाणं प्रसिद्धम् । न पुनः सादृश्यप्रत्यवमार्श । तत्त्वस्याऽबाध्यमानतया प्रमाणत्वसिद्धेः । न चैकत्रैकत्वपरामर्शिप्रत्यभिज्ञानस्य मिथ्यात्वदर्शनात्सर्वत्राऽस्य मिथ्या- त्वम् । प्रत्यक्षस्यापि सर्वत्र प्रान्तत्वानुषङ्गान्न किश्चित्कुतश्चित्कस्यचित्म- परि. ३ सू. ६] स्याद्वादरत्नाकरसहितः ४९५: सिध्येत् । ततो यथा शुक्ले शङ्ख पीताभासं प्रत्यक्षं तत्रैव शुक्ला. भासप्रत्यक्षान्तरेण वाध्यमानत्वादप्रमाणं न पुनः पीते कनकादौ । तथा प्रकृतमपीति । तन्न विषयाभावात्प्रत्यभिज्ञानमप्रमाणम् । अथ गृहीतग्राहित्वात्तत्तथेष्यते, तत्र तद्विषयो हि प्रत्यक्षेण गृह्येत स्मरणेन प्रमाणान्तरेण वा । न तावत्प्रत्यक्षेण, तस्य वर्तमानविवर्त्त- ५: मानालिङ्गितद्रव्यगोचरचारित्वात् । नापि स्मरणेन, तस्यातीतपर्याय- मात्रावच्छिन्नद्रव्यविषयत्वात् । नापि प्रमाणा राणान्तरेण, उभयविवर्त्तवार्त- द्रव्यादिग्राहकस्य प्रत्यभिज्ञानात्पूर्वमन्यस्य प्रमाणस्य प्रवृत्तेरननुभवात् । प्रत्यक्षस्मरणजनितकल्पनाज्ञानमस्तीति चेत्, न । तस्यैव प्रत्यभिज्ञान- त्वेनास्माभिरप्यभ्युपगमात् । ननु यदि प्रत्यक्षस्मरणयोरुभयविवर्त्त- १०. वर्तिद्रव्यमविषयः । तर्हि कथं ताभ्यां तत्र प्रत्यभिज्ञानं जायेत । तथा हि, यद्यस्य विषयो न भवति न तत्तत्र विज्ञानमुत्पादयति, यथा चक्षु रसे । न भवति चोभयविवर्त्तवर्ति द्रव्यं विषयः प्रत्यक्ष- स्मरणयोरपीति चेत् । तदप्यनुपपन्नम् । विकल्पोत्पादकाध्यक्षेणाने- कान्तात् । तस्यान्यगोचरस्यापि सामान्ये विकल्पोत्पादकत्वप्रतीतेः । १५: अथ विकल्पवासनासहायमविकल्पकं स्वाविषयेऽपि सामान्ये विकल्प- मुपजनयति । सहकारिणामचिन्त्यशक्तिकत्वात् । अन्यथा कथमसर्व- ज्ञानमभ्यासविशेषसहायं सर्वज्ञज्ञानं जनयदिति चेत् । तर्हि प्रत्यभि- ज्ञानावरणक्षयोपशमसहाये प्रत्यक्षस्मरणे अपि स्वाविषये उभय- विवर्त्तवर्तिनि द्रव्ये प्रत्यभिज्ञानमुपजनयतामविशेषात् । एतेन तस्य हि २०. विषयः पूर्वज्ञाने प्रतिसातमेव वस्तु तदतिरिक्तं चेत्यादि पूर्वपक्षग्रन्थः कदर्थितो द्रष्टव्यः । उक्तनीत्या प्रत्यभिज्ञानविषयस्य व्यवस्थापितत्वात् । तन्न गृहीतग्राहित्वात्प्रत्यभिज्ञानमप्रमाणम् । अथ स्मरणानन्तरभावित्वा- तत्तथाऽनुमन्यते । तदप्यनुपपन्नम् । रूपस्मरणानन्तरं रससन्निपाते समुत्पन्नस्य रसज्ञानस्याप्यप्रामाण्यप्रसङ्गात् । तत्र हि रूपस्मरणस्य २५: पूर्वकालभावित्वात्समनन्तरकारणत्वम् । बोधाद्बोधरूपतेत्यभ्युपगमात् ।

'४९६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६ न चात्र बोधरूपतया समनन्तरकारणत्वं प्रत्यभिज्ञाने तु स्मरणरूपतयेति वाच्यम् । स्मरणबोधरूपतयोस्तादात्म्ये सति क्वचिद्बोधरूपतया समनन्तरकारणत्वं स्मरणस्य कचितु स्मरणरूपतयेति व्यवस्थापयितुम- शक्तेः । यदि च स्मरणानन्तरभावित्वात्प्रत्यभिज्ञानमप्रमाणमिति प्रति- ५ पाद्यते । कथं तर्हि अनुमानमपि प्रमाणं स्यात् । तद्धि साध्यसाधन- सम्बन्धस्मरणानन्तरमेवोपजायते । अन्यथा दृष्टान्तोपन्यासस्तत्र व्यर्थो भवेत् । तन्न स्मरणानन्तरभावित्वादपि प्रत्यभिज्ञानमप्रमाणम् । अथ बाध्यमानत्वात्तत्तथा कथ्यते, तदपि न तथ्यम् । तद्बाधकस्य कस्य- चिदप्यनुपपत्तेः । यन्नैकत्वविषयस्य प्रत्यभिज्ञानस्यापहवः कर्तुमुचितः । १० नापि सादृश्यगोचरस्य, अनुमानानुत्पत्तिप्रसङ्गात् । येनैव हि पूर्व धूमोडमेदृष्टस्तस्यैवोत्तरकाळं पूर्व धूमसदृशधूमदर्शनादम्यनुमानोत्पत्तिर्यु- क्ता नाऽन्यस्याऽन्यदर्शनात् । न च प्रत्यभिज्ञानमन्तरेण तेनेदं सदृश- मिति प्रतिपत्तिर्घटते । पूर्वप्रत्यक्षेणोत्तरस्योत्तरप्रत्यक्षेण च पूर्वस्य धूमादि- वस्तुनोऽप्रतिपत्तेः । न च द्वयाप्रतिपत्तौ द्विष्ठं सादृश्यं प्रतिपत्तुं शक्यम् । १५ अतिप्रसङ्गात् । सादृश्यसार्थाभ्यां भिन्नाभिन्नादिविकल्पैर्विचार्यमाणस्यानु- पपत्तेस्तद्वोचरप्रत्यभिज्ञानस्य कथं प्रमाणत्वमिति च न शङ्कनीयम् । सा- दृश्यस्य सामान्यप्रतिष्ठावसरे व्यवस्थापयिष्यमाणत्वात् । न च तस्मिन्नेव स्वपुत्रादौ भ्रान्त्या तादृशोऽयमिति प्रत्यभिज्ञानं सादृश्यनिबन्धनं स एवाऽ- यमित्येकत्वनिबन्धनप्रत्यभिज्ञानेन बाध्यमानमप्रमाणं प्रतिपद्य स्वपुत्रा- दिना सदृशे पुरुषे तादृशोऽयमित्यपि प्रत्यभिज्ञानमप्रमाणं प्रति- पादयितुं युक्तम् । तस्याबाध्यमानत्वेन प्रमाणत्वात्। एवं वैलक्षण्यादि- विषयाण्यपि प्रत्यभिज्ञानानि समर्थनीयानि । ततश्च- हहो बौद्धाः स्वमतविषयं पक्षपातं विधूय ग्राह्यं प्रौढप्रमितिवशतः प्रत्यभिज्ञाप्रमाणम् ॥ यस्मादेषा भवति सततं लोकयात्रा समया कोऽपि काऽपि स्वपरनियमं नाऽन्यथा हन्त कुर्यात् ॥४६०॥ २० -२५ परि. ३ सू.६] स्याद्वादरत्नाकरसहितः ४९७ अत्राह भाट्टः- सादृश्यज्ञानस्योपमानत्व- सादृश्यगोचरज्ञानमुपमानस्वरूपताम् ।। मेव न प्रत्यभिज्ञानत्वमिति भाहपूर्वपक्षमुपदश्य "अङ्गीकरोति न पुनः प्रत्यभिज्ञानरूपताम् तत्खण्डनम् । ॥ ४६१ ॥ तथा हि, गोदर्शनाहितसंस्कारस्य प्रमातुः पश्चाद्वयदर्शनं गवि ५ स्मरणे सत्यनेन सदृशः स इत्येवमाकारतयोपजायमानस्य ज्ञानस्योप- मानत्वमेव न्याय्यं न प्रत्यभिज्ञानत्वम् । तस्यैकत्वविषयत्वेनैव व्यव- स्थितत्वात् । सादृश्यविशिष्टो विशेषो विशेषविशिष्टं वा सादृश्यमुप- मानस्यैव प्रमेयम् । उक्तं च--- " तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १ ॥ १० प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽ- सिद्धरुपमानप्रमाणता" ॥२॥ इति । एतदपरीक्षकलक्षितम् । सादृश्यप्रतीतेः सङ्कलनाज्ञानरूपतया प्रत्यभिज्ञानताऽनतिक्रमात् । स एवायमिति यथोत्तरपर्यायस्य पूर्वपर्यायेणैकताप्रतीतिः प्रत्यभिज्ञानमेव- मनेन सदृशः स इत्येषापि । सङ्कलनात्मकत्वाविशेषात् । यदि १५ चैकत्वज्ञानमेव प्रत्यभिज्ञानं सादृश्यज्ञानं तूपमानमित्यभ्युपगमः । तर्हि वैलक्षण्यज्ञानं किं नाम प्रमाणं स्यात् । यथैव हि गोदर्शनाहितसंस्कार- स्य गवयदर्शिनोऽनेन सदृशः स इति प्रतिपत्तिः । तथा महिषादि- दर्शिनोऽनेन विलक्षणः स इति वैलक्षण्यप्रतीतिरप्यस्ति सा च न प्रत्यभिज्ञानोपमानयोरन्तर्भवति । एकत्वसादृश्यविषयत्वात् । अतः २० प्रमाणान्तरं प्रमाणसङ्ख्यानियमविघातकृद्भवेद्भवतः । अथ सादृश्या- भावो वैलक्षण्यं तस्याऽभावविषयत्वान्न प्रमाणसङ्ख्या नियमविघातः । तर्हि वैलक्षण्याऽभावः सादृश्यमिति स एव दोपः । नन्वनेकस्य समानधर्मयोगः सादृश्यं तत्कथं वैलक्षण्याभावमात्रं स्यादिति चेत् । तर्हि वैलक्षण्यमपि विसदृशधर्मयोगस्तत्कथं सादृश्याभावमात्रं स्यादिति २५ १ मी. श्लो. वा. उप. प. सू. ५ श्लो. ३७॥३८.

'४९८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६ समानमिति । एतेन गौरिव गवय इत्युपमानवाक्याहितसंस्कारस्य पुन- वने गवयदर्शनेऽयं गवयशब्दवाच्य इति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरुप- मानमिति नैयायिकमतमपि प्रतिहतम् । यथैव ह्येकदा कुम्भमुपलब्ध- वतः पुनः कालान्तरे तस्यैव दर्शने स एवायं कुम्भ इति प्रतिपत्तिः ५ प्रत्यभिज्ञा प्रतिज्ञायते, तथा गोसदृशो गवय इति संकेतकाले गवयतदभिधानयोर्वाच्यवाचकसम्बन्ध प्रतिपद्य पश्चाद्वयदर्शनात्तत्प्रति- पत्तिः प्रत्यभिज्ञा प्रतिज्ञायताम् । किं च गोविलक्षणमहिष्यादिदर्शना- द्रवयशब्दवाच्योऽयं न भवतीति तत्संज्ञासंज्ञिसम्बन्धप्रतिषेधप्रतिपत्तिः किं नाम प्रमाणं स्यात् । अथेयमप्युपमानमिप्यते । तदा “प्रसिद्ध- १० साधर्म्यात्साध्यसाधनमुपमानम् " इति व्याहन्येत । प्रसिद्धवैधा- चेत्युपसङ्ख्यानं वा सूत्रे कर्त्तव्यम् । तथाऽऽमलकदर्शनाहितसंस्कारस्य बिल्वादिदर्शनादतस्तसूक्ष्ममिति प्रतीतिः स्वसमीपवर्तिप्रासादादिदर्श- नोपजनितसंस्कारस्य तत्प्रतियोगिपर्वताद्युपलम्भादिदमस्माद्दरमिति प्रति- पत्तिः, हस्वशिशपादिदर्शनाविर्भूतसंस्कारस्य तद्विपरीतवटवृक्षा- १५ द्यर्थोपलम्भादतोऽयं प्रांशुरिति विनिश्चितं किं प्रमाणं भवेत् । तथा चोक्तम् । उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् ॥ तद्वैध- ात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनम् ॥१॥ इदमल्पं महद्दरमासन्नं प्रांशु नेति वा॥ व्यपेक्षातः समक्षार्थे विकल्पः साधनान्तरम्।।२॥" इति । साधनान्तरं स्यादिति । तथा हंसाधनभिज्ञो यदा कश्चित्क्वचि- २० पृच्छति कीदृशो हंसादिरिति । तदा स तं प्रति “पयोम्बुभेदहिंसः स्यात्षट्पादैर्धमरः स्मृतः॥ सप्तपर्णैः सुतत्त्वज्ञैर्विज्ञेयो विषमच्छदः ॥१॥ पञ्चवर्ण भवेद्रत्नं मेचकाख्यं पृथुस्तनी ॥ युवतिचैकश- ङ्गोऽपि गण्डकः परिकीर्तितः ॥२॥ शरभोऽप्यष्टभिः पादैः सिंहश्चारुसटन्वितः इत्यादिकमाह । ततश्चैतद्वाक्याहित- २५ संस्कारः प्रष्टा यदा पयोम्बुभेदित्वाद्युपलक्षितानान्कालान्तरे समुप- १ गौ. स. १।१।६. २ ' सप्तपर्णैस्तु ' इति प. भ. पुस्तकयोः पाठः ।

परि. ३ म.६] स्याद्वादरत्नाकरसहितः - लभ्यायं स हंसशब्दवाच्य इत्यादिरूपतया तत्संज्ञासंज्ञिसम्बन्धं प्रति- पद्यते । तदा किं नाम तत्प्रमाणं स्यात् । उपमानमित्यसम्भाव्यम् । सर्वोक्तप्रकारेण प्रतिपत्तौ प्रसिद्धार्थसाधासम्भवात् । ततः प्रतिनि- यतप्रमाणव्यवस्थामभ्युपगच्छता न्यायशालिना प्रतिपादितप्रकारं प्रतीति- कदम्बकं प्रत्यभिज्ञानमेवेति स्वीकर्त्तव्यम् । भूयोऽपि भाट्टः प्राह- परोक्षं प्रत्यभिज्ञानमिति क्षमायै नैव नः ॥ यतः प्रत्यक्षतैवास्य न्यायगोचरमञ्चति ॥ ४६२ ॥ तथा हि, प्रत्यभिज्ञानं प्रत्यक्षम् । अक्षान्वयव्यतिरेकानुविधायि- त्वात् । यदित्थं तदित्थं यथा सम्प्रतिपन्नं प्रत्यक्षमिति । न च स्मरणपूर्व- कत्वात्प्रत्यभिज्ञानस्य प्रत्यक्षत्वाभावः । स्मरणात्पश्चाद्भावित्वेऽपि सत्स. १० म्प्रयोगजत्वेन प्रत्यक्षत्वाविरोधात् । यदाह-" न हि स्मरणतो यत्तन्न प्रत्यक्षमितीदृशम् ॥ वचनं राजकीयं वा लौकिक वापि विद्यते ॥१॥न चापि स्मरणात्पश्चादिन्द्रियस्य प्रवर्तनम् ॥ वार्यते केन चिनापि तत्तदानी प्रदुष्यति ॥२॥ तेनेन्द्रियार्थसम्ब- न्धात्यागूज़ चापि यत्स्मृतेः । विज्ञानं जायते सर्व प्रत्यक्षमिति १५ गम्यताम् ॥ ३॥" इति । नैतदपि न्याय्यम् । यतोऽक्षान्वयव्यति- रेकानुविधायित्वं प्रत्यभिज्ञानस्य साक्षाद्विवक्षितं पारम्पर्येण वा । यदि पारम्पर्येण, तदानुमानादिनास्य व्यभिचारः । तस्य प्रत्यक्षलक्षितलिङ्गादि. द्वारेणोपजायमानस्य परम्परयाऽक्षान्वयव्यतिरेकानुविधायिनोऽपि प्रत्यक्ष. त्वाभावात् । साक्षादक्षान्वयव्यतिरेकानुविधायित्वं त्वसिद्धम् । प्रत्य- २० भिज्ञानस्य साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनानुभूय- मानत्वात् । साक्षादक्षान्वयव्यतिरेकानुविधायित्वे पुनरस्य प्रथमव्यक्ति- दर्शनकालेऽप्युत्पत्तिः स्यात् । अथ पुनदर्शने पूर्वदर्शनाहितसंस्कार- प्रबोधोत्पन्नस्मृतिसहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीत्युच्यते । तदनु- चितम् । प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । सापेक्षत्वे तु प्रत्यभिज्ञानस्या- २५ नुमानादिवत्परोक्षतैव ज्यायसी।

५०० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स.७ एवं न प्रत्यभिज्ञानेऽध्यक्षत्वमुपपद्यते । भट्टचट्टाः परोक्षत्वं तदत्राभ्युपगम्यताम् ॥ ४६३ ॥ ततश्च, सुगतगोतमजैमिनिनन्दनैर्यदिह दूषणवृन्दमुदीरितम् । तदखिलं स्खलितं खललोकवसुजनचेष्टितचारुभिरुत्तरैः ॥ ४६४ ॥ सर्व सङ्कलनाज्ञानं दर्शनस्मृतिहेतुकम् । तत्सिद्धं प्रत्यभिज्ञानमेकत्वादिप्रकाशकम् ॥ ४६५॥६॥ इदानीं क्रमप्राप्तस्य तर्कस्य कारणगोचरस्वरूपनिरूपणायाह-- उपलम्भाऽनुपलम्भसम्भवं त्रिकालीकलितसाध्य- १० साधनसम्बन्धाद्यालम्बनमिदमस्मिन्सत्येव भवती- त्याकारं संवेदनमूहापरनामा तर्क इति ॥७॥ उपलम्भानुपलम्भाभ्यां संम्भव उत्पादो यस्य तत्तथा । सवेदनं तर्क इत्युत्तरेण योगः । उपलम्भानुपलम्भौ चेह साध्यसाधनयोः प्रमाणमात्रेण ग्रहणाग्रहणे अभिप्रेते । तेनातीन्द्रियसाधनेप्वागमानु- १५ माननिबन्धनयोरपि ग्रहणाग्रहणयोरुपादानात्तत्सम्बन्धस्यापि तर्कस्य संग्रहान्नाव्याप्तिलक्षणदोषः । यथा तस्य प्राणिनो धर्मविशेषो विशिष्टसुखादिसद्भावान्यथानुपपत्तरित्यादौ । आदित्यस्य गमनशक्ति- रस्ति गमनान्यथानुपपत्तेरित्यादौ वेति । न हि धर्मविशेषः प्रस्तुतानु- मानात्पूर्वं "शुभः पुण्यस्य" इत्यादिप्रवचनादन्यतः प्रतिपत्तुं पार्यते । नापि गमनशक्तिः प्रकृतानुमानात् । प्राग्यत्कार्य तच्छक्तिमत्कारण- पूर्वकं यथा सम्प्रतिपन्नं कार्यं च गमनमित्येवं रूपानुमानान्तरा- दन्यतोऽवगन्तुं शक्यते । तयोर्नित्यमतीन्द्रियत्वात् । अनयोश्चोप- लम्भानुपलम्भयोः क्वचिदानन्तर्येण तक प्रति कारणत्वमवसेयम् । व्याप्तिग्रहणकाले. हि . कचित्क्षयोपशमविशेषवशात्सकृत्साध्यसाधनो- २० १ तत्त्वार्थ. ६।३.

परि. ३ सू...] स्याद्वादरत्नाकरसहितः ५०१ पलम्भानुपलम्माभ्यामनन्तरमेव तर्कः समुत्पद्यते । कचिदसकृत्पूर्व- प्रवृत्ततदुपलम्भानुपलम्माभ्यामनन्तरं पुनः कदाचित्साध्यसाधनावग- मस्ततः प्राग्दृष्टयोस्तयोः स्मृतिः पश्चात्प्रत्यभिज्ञानं तदनु तर्कः समुपजायत इति । उक्तं कारणम् । विषयमाह-त्रिकालीकलित- साध्यसाधनसम्बन्धाद्यालम्बनमिति । त्रिकालीकलितसाध्यसाधनयोः .५ सम्बन्धोऽविनाभावो व्याप्तिरित्यर्थः । स आदिर्यस्य त्रिकालीकलित- वाच्यवाचकसम्बन्धस्य स आलम्बनं गोचरो यस्य तत्तथा । स्वरूपमाह--इदमस्मिन्सत्येव भवतीत्याद्याकारमिति । आदिशब्दादि- दमस्मिन्नसति न भवत्येवेत्याद्याकारं साध्यसाधनसम्बन्धालम्बनमेवं- जातीयः शब्द एवंजातीयस्यार्थस्य वाचकः सोऽपि तथाभूतस्तथाभूतस्य १० तस्य वाच्य इत्याद्याकारं वाच्यवाचकभावालम्बनं च स्वरूपमुपादी- यते । संवेदनं ज्ञानम् । ऊह इत्यपरं नाम यस्य स ऊहापरनामा तर्क इति तर्कज्ञैः कीर्त्यते । ननु वाच्यवाचकभावालम्बनं ज्ञानं कथं तर्कः । उच्यते । नेदं तावत्प्रत्यक्षम्, चक्षुरादिज्ञानस्य शब्दपरिहारेण १५ ज्ञानस्य तर्कत्वम् । आवा-रूपादावेव श्रोत्रज्ञानस्य च रूपादिपरिहारेण पोद्वापाभ्यां तदुत्पत्ति- शब्द एव प्रवर्त्तमानत्वाच्चक्षुरादिज्ञानं श्रोत्रज्ञानं रिति वर्णनम् । च प्रतिनियत एव रूपादौं शब्दे च प्रवर्तते । न च सकलशब्दार्थगोचरमन्यज्ञानमस्तीति तर्क एव तथा युक्तः । अस्य चोत्पत्तिः क्वचित्तावदावापोद्वापाभ्याम् । तथा युत्तमवृद्धे गामान. २० येत्यादिशब्दमुच्चारयितरि तत्र गृहीतसङ्केतस्य मध्यमवृद्धस्यागृहीत- सङ्केतस्य च बालस्य वर्णपदवाक्यविषयसङ्कलनात्मकं प्रत्यभिज्ञान- मुत्पद्यते । तथा हि पूर्वपूर्ववर्णावयवश्रवणाहितसंस्कारस्यान्त्यावयवश्रव- णानन्तरं पूर्वतदवयवस्मरणे हस्वादिविषयसङ्केतस्मरणे च सति हस्वो दीर्घः छुतो वाऽयं वर्ण इति प्रत्यभिज्ञानं भवति । तथा पूर्वपूर्ववर्ण- २५ श्रवणाहितसंस्कारस्यान्त्यवर्णश्रवणानन्तरं पूर्ववर्णानामनुक्रमविशिष्टानां वाच्यवाचकभावालम्बन- ३२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. स. ७ तत्र च स्मरणे पदविषयसङ्केतस्मरणे च सति सुबन्तं तिङन्तं च पदमिति प्रत्यभिज्ञानमुपजायते । तथा पूर्वपूर्वपदश्रवणाहितसंस्कारस्यान्त्यपदश्र- वणानन्तरमनुक्रमविशिष्टपूर्वपदानां वाक्यगोचरसङ्केतस्य च स्मरणे सति वाक्यमिदमिति प्रत्यभिज्ञानमुन्मज्जति । एवं तयोर्वर्णपदवाक्यग्रहणं ५ प्रत्यभिज्ञानात् । ततोऽपि मध्यमवृद्धं चेष्टमानमवलोकयन्बालस्तटस्थ- स्तस्यार्थप्रतीति तावत्कल्पयति । आत्मनि तत्पूर्विकायाश्चेष्टाया दृष्टत्वात् । प्रमाणान्तरासन्निधावेतद्वृद्धप्रयुक्तशब्दसमनन्तरं च प्रवृत्तोऽ- यमित्यत एव शब्दाकिमप्यनेन प्रतिपन्नमिति मन्यते । तमर्थ तेन वृद्धेनानीयमानमेवमवबुध्यतेऽयमर्थोऽमुतः शब्दादनेनावगत इति स १. चार्थोऽनेकगुणक्रियाजातिव्यक्त्यादिरूपसङ्कुल उपलभ्यते । शब्दोऽ- प्यनेकपदकदम्बकात्मा श्रुतः, तत्कतमस्य शब्दांशस्य कतमोऽ- थांशो वाच्य इति सन्दिग्धे कालान्तरे च गां नयेत्या- दिकमाकर्णयति । गोशब्दानुवृत्तिमानयेत्यस्य तु व्यावृत्तिं विभावयति । ततोऽपि कदाचन वाजिनमानयेति शृणोति, १५ तत्रापि गोशब्दस्य व्यावृत्तिमानयेत्यस्य त्वनुवृत्तिं व्यवस्यति । तदनु- सारेण च गवादेरप्यर्थस्यानुवृत्तिव्यावृत्ती समाकलयति । तत इत्थमा- वापोद्वापाभ्यामनन्तरमीग्जातीयोऽर्थ ईदृग्जातीयस्य वाच्यः सोऽपि तस्य वाचक इतीत्थं वाच्यवाचकभावालम्बनसकलविवक्षितवाच्य- वाचकविशेषसमुल्लेखशेखरस्तर्कः समुल्लसति । कचित्तु यदा कश्चित्त- २० केण वाच्यवाचकभावं स्वयमवेत्य परमप्यनेनैव तमवबोधयिष्यंस्तदनु- सारिपरसन्ताने तर्कोत्पत्तिहेतुं वचनं परार्थतर्करूपमुच्चारयति । तदा तस्मादप्यस्योल्लासः। यथा कश्चन पिता परमवत्सलो वत्साय कञ्चन पदार्थ पुरस्कृत्य कथयति, इत्थम्भूतमित्थम्भूतस्य शब्दस्य वाच्यं वत्स जानीहि, तदाऽसावुपलम्भानुपलम्भद्वारेण तथा प्रतिपद्यमानस्तर्कादेव २५ वाच्यवाचकभावं प्रतिपद्यते । इयं च व्याप्त्या वाच्यवाचकभावप्रतीति- रुपदर्शिता । शृङ्गाहिकया तु नियतायां व्यक्तावयं पुरोवती भावोऽस्य परि. ३ सू. ७] स्याद्वादरत्नाकरसहिता शब्दस्य वाच्य इत्यागमादेरपि सा भवति । तदूर्ध्वं तु व्याप्त्या तं प्रति यस्तर्कादेव प्रत्येति, अये इत्थंभूत इत्थम्भूतस्य सर्वः सर्वस्य वाचको वाच्यश्चेति । ननु तर्कः स्वविषयेण सम्बद्धो वाऽसम्बद्धो वा तमव- बोधयति । न तावदसम्बद्धः । अतिप्रसङ्गात् । अथ सम्बद्धः, कुत- स्तत्सम्बन्धप्रतिपत्तिः । प्रत्यक्षादनुमानात्तर्कान्तरात्प्रमाणान्तराद्वा । न .५ तावत्प्रत्यक्षात्, तस्य तदविषयत्वात्। नाप्यनुमानात्, अनवस्थानुषङ्गात् । तदपि ह्यनुमानं तर्कपूर्वकमिति तत्रापि तर्कस्य स्वविषयेण सम्बन्ध- ग्राहकमनुमानान्तरमन्वेषणीयमिति । नापि तर्कान्तरात्, तत एव, तर्कान्तरस्यापि स्वविषयसम्बन्धबोधपूर्वकत्वात्तस्याप्यपरतर्कनिबन्धन- त्वात् । नापि प्रमाणान्तरात्, तस्यापि प्रमाणत्वेऽपि स्वविषयसम्बन्ध- १० बोधपूर्वक प्रवर्त्तमानत्वादनवस्थापत्तेः । अथाप्रतिपन्नसम्बन्ध एव तर्कः स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषात्स्वविषयमेव बोधयति । तर्हि तत एवानुमानमप्यप्रतिपन्नसम्बन्धमेव स्वगोचरमवभासयतु । कृतं तत्प्रतिपत्तिनिमित्ततर्कप्रमाणपरिकल्पनेनेति कश्चित् । सोऽपि यदि प्रामाणिकस्तर्हि तस्यापि प्रत्यक्षं स्वविषयमवबोधयत्सम्बद्धमेवावबोध- १५ येन्नासम्बद्धम् । अतिप्रसङ्गात् । तत्सम्बन्धश्च नानुमानादेः सिद्धयति । अनवस्थानुषङ्गात् । नापि प्रत्यक्षान्तरात्, अनवस्थानुषङ्गादेवेत्यादि सकलं प्रत्यक्षेऽपि समानम् । अथ न प्रत्यक्षं स्वविषयसम्बन्धावबोध- निबन्धनं तत्र प्रवर्तते तस्य स्वविषये स्वयोग्यताबलादेव प्रवृत्तिरिति चेत्, तर्हि तथा तर्कस्यापि स्वयोग्यताविशेषसामर्थ्यादेव स्वविषय- २० प्रत्यायनसिद्धिर्भवतु । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञाना- वरणवीर्यान्तरायक्षयोपशमविशेष एव तर्कस्यापि प्रतिपत्तव्यः । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादयो योग्यतायाः सहकारिणो बहिरङ्गास्तथा तर्कस्यापि समुद्भूतावुपलम्भानुपलम्भावनुमन्येते। तदन्वयव्यतिरेकानु- विधायित्वात्तस्य । यच्च तत एवानुमानमप्यप्रतिपन्नसम्बन्धमेव स्वगो- २५ चरमवभासयात्वित्युक्तम् । तत्र साध्यसाधनसम्बन्धग्रहणनिरपेक्षानुमान- ५०२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. सू. तत्र च स्मरणे पदविषयसङ्केतस्मरणे च सति सुबन्तं तिङन्तं च पदमिति प्रत्यभिज्ञानमुपजायते । तथा पूर्वपूर्वपदश्रवणाहितसंस्कारस्यान्त्यपदश्र- वणानन्तरमनुक्रमविशिष्टपूर्वपदानां वाक्यगोचरसकेतस्य च स्मरणे सति वाक्यमिदमिति प्रत्यभिज्ञानमुन्मजति । एवं तयोर्वर्णपदवाक्यग्रहणं ५ प्रत्यभिज्ञानात् । ततोऽपि मध्यमवृद्धं चेष्टमानमवलोकयन्बालस्तटस्थ- स्तस्यार्थप्रतीति तावत्कल्पयति । आत्मनि तत्पूर्विकायाश्चेष्टाया दृष्टत्वात् । प्रमाणान्तरासन्निधावेतद्वृद्धप्रयुक्तशब्दसमनन्तरं च प्रवृत्तोऽ- यमित्यत एव शब्दाकिमप्यनेन प्रतिपन्नमिति मन्यते । तमर्थ तेन वृद्धेनानीयमानमेवमवबुध्यतेऽयमर्थोऽमुतः शब्दादनेनावगत इति स १. चार्थोऽनेकगुणक्रियाजातिव्यक्त्यादिरूपसङ्कुल उपलभ्यते । शब्दोऽ- प्यनेकपदकदम्बकात्मा श्रुतः, तत्कतमस्य शब्दांशस्य कतमोऽ- शो वाच्य इति सन्दिग्धे कालान्तरे च गां नयेत्या- दिकमाकर्णयति । गोशब्दानुवृत्तिमानयेत्यस्य तु व्यावृत्ति विभावयति । ततोऽपि कदाचन वाजिनमानयेति शृणोति, १५ तत्रापि गोशब्दस्य व्यावृत्तिमानयेत्यस्य त्वनुवृत्तिं व्यवस्यति । तदनु- सारेण च गवादेरप्यर्थस्यानुवृत्तिव्यावृत्ती समाकलयति । तत इत्थमा- वापोद्वापाभ्यामनन्तरमीदृग्जातीयोऽर्थ ईदृग्जातीयस्य वाच्यः सोऽपि तस्य वाचक इतीत्थं वाच्यवाचकभावालम्बनसकलविवक्षितवाच्य- वाचकविशेषसमुल्लेखशेखरस्तर्कः समुल्लसति । कचित्तु यदा कश्चित्त- २० केण वाच्यवाचकभावं स्वयमवेत्य परमप्यनेनैव तमवबोधयिष्यंस्तदनु- सारिपरसन्ताने तर्कोत्पत्तिहेतुं वचनं परार्थतर्करूपमुच्चारयति । तदा तस्मादप्यस्योल्लासः। यथा कश्चन पिता परमवत्सलो वत्साय कञ्चन पदार्थ पुरस्कृत्य कथयति, इत्थम्भूतमित्थम्भूतस्य शब्दस्य वाच्यं वत्स जानीहि, तदाऽसावुपलम्भानुपलम्भद्वारेण तथा प्रतिपद्यमानस्तर्कादेव २५ वाच्यवाचकभावं प्रतिपद्यते । इयं च व्याप्त्या वाच्यवाचकभावप्रतीति- रुपदर्शिता । शृङ्गग्राहिकया तु नियतायां व्यक्तावयं पुरोवर्ती भावोऽस्य परि. ३ सू..] स्याद्वादरत्नाकरसहितः । शब्दस्य वाच्य इत्यागमादेरपि सा भवति । तदूर्ध्वं तु व्याप्त्या तं प्रति यस्तर्कादेव प्रत्येति, अये इत्थंम्भूत इत्थम्भूतस्य सर्वः सर्वस्य वाचको वाच्यश्चेति । ननु तर्कः स्वविषयेण सम्बद्धो वाऽसम्बद्धो वा तमव- बोधयति । न तावदसम्बद्धः। अतिप्रसङ्गात् । अथ सम्बद्धः, कुत- स्तत्सम्बन्धप्रतिपत्तिः । प्रत्यक्षादनुमानात्तर्कान्तरात्प्रमाणान्तराद्वा । न .५ तावत्प्रत्यक्षात्, तस्य तदविषयत्वात्। नाप्यनुमानात्, अनवस्थानुषङ्गात् । तदपि ह्यनुमानं तर्कपूर्वकमिति तत्रापि तर्कस्य स्वविषयेण सम्बन्ध- ग्राहकमनुमानान्तरमन्वेषणीयमिति । नापि तर्कान्तरात्, तत एव, तर्कान्तरस्यापि स्वविषयसम्बन्धबोधपूर्वकत्वात्तस्याप्यपरतर्कनिबन्धन- त्वात् । नापि प्रमाणान्तरात्, तस्यापि प्रमाणत्वेऽपि स्वविषयसम्बन्ध- १० बोधपूर्वक प्रवर्त्तमानत्वादनवस्थापत्तेः । अथाप्रतिपन्नसम्बन्ध एव तर्कः स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषात्स्वविषयमेव बोधयति । तर्हि तत एवानुमानमप्यप्रतिपन्नसम्बन्धमेव स्वगोचरमवभासयतु । कृतं तत्प्रतिपत्तिनिमित्ततर्कप्रमाणपरिकल्पनेनेति कश्चित् । सोऽपि यदि प्रामाणिकस्तर्हि तस्यापि प्रत्यक्षं स्वविषयमवबोधयत्सम्बद्धमेवावबोध- १५ येन्नासम्बद्धम् । अतिप्रसङ्गात् । तत्सम्बन्धश्च नानुमानादेः सिद्धयति । अनवस्थानुषङ्गात् । नापि प्रत्यक्षान्तरात्, अनवस्थानुषङ्गादेवेत्यादि सकलं प्रत्यक्षेऽपि समानम् । अथ न प्रत्यक्षं स्वविषयसम्बन्धावबोध- निबन्धनं तत्र प्रवर्त्तते तस्य स्वविषये स्वयोग्यताबलादेव प्रवृत्तिरिति चेत्, तर्हि तथा तर्कस्यापि स्वयोग्यताविशेषसामर्थ्यादेव स्वविषय- २० प्रत्यायनसिद्धिर्भवतु । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञाना- वरणवीर्यान्तरायक्षयोपशमविशेष एव तर्कस्यापि प्रतिपत्तव्यः । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादयो योग्यतायाः सहकारिणो बहिरङ्गास्तथा तर्कस्यापि समुद्भूतावुपलम्भानुपलम्भावनुमन्येते। तदन्वयव्यतिरेकानु- विधायित्वात्तस्य । यच्च तत एवानुमानमप्यप्रतिपन्नसम्बन्धमेव स्वगो- २५ चरमवभासयात्वित्युक्तम् । तत्र साध्यसाधनसम्बन्धग्रहणनिरपेक्षानुमान- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू." - १० स्योत्पत्तिरेव न सम्भवति । अनवबुद्धसाध्यसाधनसम्बन्धस्य क्वचित्कदा- चिदुत्पत्त्यप्रतीतेः । तर्कस्य तु सम्बन्धग्रहणनिरपेक्षैव प्रत्यक्षवदुत्पत्ति- र्घटत एव । न खलु प्रत्यक्षस्याप्युत्पत्तिः करणार्थसम्बन्धग्रहणापेक्षा प्रतिपन्ना । स्वयमगृहीततत्सम्बन्धस्यापि . प्रतिपत्तिस्तदुत्पत्तिप्रतीतेः, ५ तद्वतर्कस्यापि स्वार्थसम्बन्धग्रहणानपक्षस्याप्युत्पत्तिप्रतिपत्तेर्नोत्पत्ती सम्बन्धग्रहणापेक्षा युक्तिमतीति सर्वं चतुरस्रम् ।। ७ ।। एतच्च तर्कनामधेयं व्याप्तिज्ञानं तथोपपत्त्यन्यथानुपपत्तिभ्यां प्रवर्तत इति निदर्शयन्नाह- यथा यावान्कश्चिद्धमः स सर्वो वह्नौ सत्येव भव- तीति तस्मिन्नसत्यसो न भवत्येवेति॥ ८॥ अतिरोहितार्थमिदम् अत्राह कश्चित्- प्रमाणतायामुपपादितायां तर्कप्रामाण्यमसहमानस्य कस्यचिन्मतस्य तर्कस्य युक्ता ननु लक्षणोक्तिः ॥ १५ एषा तु सधुक्तिपरम्पराभि- विचार्यमाणस्य न तस्य युक्ता ॥४६६॥ तथा हि विषयव्यवस्थापकं प्रमाणं तर्कस्य च विषयो व्याप्ति- लक्षणः प्रतिज्ञायते भवद्भिर्व्याप्तिश्च विचार्यमाणा नावस्थां बध्नाति । यतः साध्यसाधनयोः सम्बन्धो व्याप्तिः सम्बन्धश्चैकदेशत्वमेककालत्वं २० वा तयोर्भवेत् । न तावदेकदेशत्वम् । यतः । प्रबलपवनवेल्लद्वैजयन्तीवितानप्रतिमकलितमूर्तियोम्नि धूमप्रबन्धः ॥ ज्वलति वसुमतीभृद्वप्रनिष्ठे निकुञ्ज क्वचन पुनरनल्पज्वालशाली कृशानुः ॥४६७॥ शैवालजालजटिलं तटिनीस्रोतः समस्त्यधोवर्ति ॥ २५ 'कचन शिलोचयशिखरे वृष्टिः पुनरुद्भुरप्रसरा ॥ ४६८. ॥ खण्डनम् ।

५०५ परि. ३.सू. ८] स्याद्वादरत्नाकरसहितः नाप्येककालत्वम् । यतः-- पूरः स्रोतस्विनीसक्तो वृष्टिकाले न विद्यते ॥ कृत्तिकोदयवेलायां न चास्ति शकटोदयः ॥ ४६९ ।। किंचः कस्य केनायमविनाभावः किं सामान्यस्य सामान्येन, सामा- न्यस्य विशषैः,विशेषाणां सामान्येन, विशेषाणां विशेषैर्वा । न प्रथमपक्षः। ५ यतो न सामान्यस्य सामान्येन व्याप्तिरनुमानाङ्गम् । तदा हि तत्र सामान्यमेव साध्यं स्यात् । तस्य च नित्यत्वविभुत्वाभ्यां सकलदेश- कालसम्बन्धितया सुप्रसिद्धस्य साधने सिद्धसाध्यता स्यात् । द्वितीय- पक्षेऽपि देशकालाभ्यामनवच्छिन्नैर्विशेषैः सामान्यस्याविनाभावोऽवच्छि- नैर्वा । यद्यनवच्छिन्नैः, तदा सिद्धसाध्यतैव । देशकालानवच्छिन्नानां १० वयादिविशेषाणामतिप्रतीतत्वात् । अथ देशकालावच्छिन्नैः, तदानुगमा- भावः । न हि धूमसामान्यस्य पर्वतादिस्थैरनिविशेषैरनुगमोऽस्ति । तस्य तदन्तरेणापि पाकप्रदेशादावुपलम्भात् । तृतीयपक्षेऽपि सिद्ध- साध्यता साधनवैकल्यं च दृष्टान्तस्य । महानसे पर्वतस्थधूमविशेष- स्यासम्भवात् । विशेषाणां विशेषैरिति तुरीयपक्षेऽपि दुःशकमविना- १५ भावग्रहणम् । तेषामानन्त्यात् । अपि चाम्यभावे धूमानुपपत्तिरिति व्यतिरेकव्याप्तौ किमेकस्य कस्यचिदमेरभावे धूमानुपपत्तिर्गृह्यते सर्वस्य वा । न तावदेकस्य । एकस्याभावेऽप्यम्यन्तरे धूमस्य गृह्यमाणत्वात् । नापि सर्वस्यः । उपहितग्रहणस्योपाधिग्रहणमन्तरेणासम्भवात् । धूमानुपपत्तेश्च समस्ताम्यभाव एवोपाधिन चासौ प्रतियोगिषु सर्वामिप्व- २० गृहीतेषु ग्रहीतुं शक्यते । अपि च यत्सद्भाव एव यस्य निवृत्तिस्तेनैव तस्य विरोधः । तदिह धूमाभाव एव सति धूमस्य निवृत्तिदृश्यत इति धूमाभावेनैवास्य विरोधो न त्वम्यभावेन । केवलाङ्गाराद्यवस्थायामम्य- भावाभावेऽपि धूमनिवृत्तेः प्रतीयमानत्वात् । अतो न व्याप्तिर्विचार्य- माणत्वात्कथं तद्राहिणस्तर्कस्य प्रामाण्यम् । किं च व्याप्तौ २५ सत्यामपि न धूमादमिपैङ्गल्यमनुमीयते । वहेरेव धूमेनानुमीयमानत्वात् । .

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३.० तथा धूम एव वर्तेर्गमको न तद्गताः श्यामत्वादय इति . वृथा व्याप्तिकल्पनं तद्गोचरतर्कप्रामाण्यकल्पनं च । तार्किकैस्त_माणोऽयं तर्कः कर्कशया धिया । इत्थं नोपैति मानत्वं विफलस्तदिहाग्रहः ॥ ४७० ॥ तर्कः प्रमा न भवतीति वदन्तु कामं हे तार्किकाः स्वपरिषत्सु सदा भवन्तः ॥ जैनोदिते स्फुरति दूषणडम्बरे तु सर्व भविष्यति न किञ्चिदिदं तथाहि ॥ ४७१ ॥ यत्तावदुक्तं व्याप्तिश्च विचार्यमाणा नावस्थां बध्नाति । तन्नोपपन्नम् । १० स्वरूपप्रयुक्तस्याव्यभिचारस्य व्याप्तित्वप्रतिज्ञानात् । स्वरूपं हि विवक्षि- तसाध्यसाधनयोः स्वकर्मकलापकलितममित्वं धूमत्वं च । तद्धयन्यतो देशकालाकारादेावृत्त्यप्रकर्षण सम्बन्धमात्मन्येव योजयति । ततश्च मदधीनामेव व्याप्तिं बुद्धयस्व बुद्धयस्वेत्यात्मसम्बन्धित्वेन व्याप्ति व्यवस्थापयंस्त्वप्रयुक्तामेव तां बोद्धारं बोधयति । यदप्युक्तं सम्बन्धश्चैक- १५ देशत्वमेककालत्वं वेत्यादि । तदप्येतेन प्रत्युक्तम् । देशकालौ परि. हृत्य स्वरूपमात्रेणैव धूमादेरम्यादिना सहाविनाभावस्य निर्बाधबोध. विरूढत्वात् । यच्चान्यदुक्तं कस्य केनायमविनाभाव इत्यादि । तत्र यस्य येनाव्यभिचारस्तस्य तेनाविनाभावः । सामान्यविशेषवतश्च धूमादेः सामान्यविशेषवताम्यादिना सहाव्यभिचार इति तस्य तेनैवाविनाभावोऽ- २. तश्चोक्तदोषानवकाशः । गम्यं हि व्यापकं गमकं च व्याप्यम् । न च केवलौ सामान्यविशेषौ गम्यगमकरूपतयाऽनुभूयेते । जात्यन्तरस्यैव सामान्यविशेषोभयाऽत्मनस्तद्रूपतयावमासनात् । यदपिः किमेकस्य कस्यचिदमेरभावे धूमानुपपत्तिबते सर्वस्य वेत्याधुपन्यस्तम् । तत्र सर्वस्येति ब्रूमः । यतो धूमानुपपत्तिः सर्वाक्षेपेण प्रतीयते यावान्क- २५ श्चिभ्रूमः स सर्वः सर्वस्यामेरभावेऽनुपपन्न इति । न पुनर्नियतधर्म्यु- लेखेन पर्वते गृहेऽरण्ये या धूमोऽध्यभावेऽनुपपन्न इति । यत्पुनरत्रोक्त ५०७ परि. ३ सू..] स्याद्वादरत्नाकरसहितः न चासौ सर्वामिष्वगृहीतेषु ग्रहीतुं शक्यत इति, तन्न सत्यम् । यतोऽध्यभावस्तदन्यदेशादिस्वभावो भावान्तरस्वभावत्वादभावस्य । तुच्छस्वभावस्य प्रतिक्षेप्स्यमानत्वात् । स चाखिलामिविविक्तो देशादिः प्रतियोगिग्रहणमन्तरेणापि प्रतीयते कथमन्यथा घटादेरपि प्रतिपत्तिः स्यात् । तत्स्वरूपस्यापि त्रैलोक्यविलक्षणतया त्रैलोक्याप्रतिपत्तावप्रति- ५ पत्तिप्रसङ्गात् । यच्च तत्सद्भाव एवेत्याद्यमिहितम् । तदपि नानवद्यम् । एवं हि विरोधव्यवस्थितौ क्रियमाणायां शीतस्पर्शस्यापि वह्निना विरोधो न स्यात्, न खल्वस्य वहिसद्भाव एव निवृत्तिः । अन्यथापि तन्नि- वृत्तेः प्रतीयमानत्वात् । तस्माद्यत्सद्भावे यस्य नियमेन निवृत्तिस्तेन तद्विरुद्धमेव । अम्यभावे च सति धूमस्य नियमेन निवर्तमानत्वाद्भूमा- १५ भावेनेव तेनापि तस्य विरोधः । तथा हि यस्मिन्सति यन्नियमेन निवर्त्तते तेन तद्विरुद्धम् । यथोष्णस्पर्शसद्भावे नियमेन निवर्तमानः शीतस्पर्शः । अग्न्यभावे सति नियमेन निवर्तते च धूम इति । नन्वम्य- भावे धूमस्य नियमेन निवर्तमानत्वमसिद्धं गोपालघुटिकादौ वहय- भावेऽपि धूमसद्भावप्रतीतेरिति चेत् । तदप्यसुन्दरम् । तत्रापि तत्स- १५ द्धावसम्भवात् । धूमस्य हि भाव आत्मलाभः स चामौ सत्येव संवृत्तस्त- कथं गोपालघुटिकादावश्यभावे धमसद्भावाशङ्कापि । तर्हि पर्वतादाविव तत्रापि धूमोऽनिं गमयेदित्यनुपपन्नम् । पर्वतादिधूमादस्य वैलक्षण्यात् । वहिसमानसमयसत्ताको हि पर्वतादिधूमो बहलः पताकायमानस्वरूपोऽनु- भूयते । न च गोपालघुटिकादिधूमस्तथा, ततो नास्याम्यनुमापकत्वम् । २० यदप्युक्तं व्याप्तौ सत्यामपि न धूमादमिपैङ्गल्यमनुमीयत इत्यादि । तदपि न विचारसरणिमनुसरति । यतो व्याप्त्यनुसारेणानुमानं विधी- यते । व्याप्तिश्चामित्वधमत्वद्वारेणैवावसीयते । न पैङ्गल्यादिधर्मद्वारेण । तेषामानन्त्यायाभिचाराच्च । तथा हि- पैङ्गल्यं शातकुम्भे तरलतरतडिन्मण्डले भास्वरत्वं २५ सत्त्वं सर्वार्थसार्थे तरुणरुचितरे भास्करे दाहकत्वम् ।।

०८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू.८ बाल्यादावूर्ध्वगत्वं तुहिनविघटना तप्ततैलादिवस्तु- न्येवं वैश्वानरीयं व्यभिचरति सखे धर्मजातं समस्तम् ॥४७२॥ : तथा- : नीलत्वं गवले विलोचनयुगोद्वाष्पत्वसम्पादनं तैले व्योमतलाधिरोहणविधिर्व्यासपिबाष्पप्लवे ॥ अत्यन्तं कटुभावता त्रिकटुके दृष्टान्यसाधारणी धूमस्येति विशिष्टधर्मनियता न व्याप्तिरत्रोच्यते ॥ ४७३ ।। अतो येनैव रूपेण विश्वविवरवर्तिन्यो वह्निव्यक्तयो धूमव्यक्तयश्च संगृह्यन्ते तदेव रूपं व्याप्तिं नियमेन व्यवस्थापयति । तच्चाग्नित्वधूमत्वे १० मुक्त्वा नान्यद्भवितुमर्हति । न खलु यथा वस्त्वन्तरसाधारणाः पैङ्गल्या- दयस्तथामित्वधूमत्वे । ननु यद्यनयोर्व्याप्तिरस्ति तर्हि प्रथमदर्शन- काले कस्मान्नोल्लिखतीति चेत्, ग्राहकाभावादिति ब्रूमः । तत्काले ग्राहकाभावश्च तदा तत्कारणाभावात्सिद्धः । व्याप्तिज्ञानस्य हि कारण- मुपलम्भानुपलम्भौ । न च प्रथमदर्शनकाले तौ स्तः । न च ग्राहका- १५ भावात्तदा व्याप्तेरप्यभावः। तदा ग्राहकामावस्यान्यथासिद्धत्वात् । अन्यथा दूरे रूपदर्शनकाले रसस्याभावः स्यादविशेषात् । एवं च- सन्नीतिनीरपरिपालनपेशलोऽयं तांकुरः प्रमितिरूपतयाऽभ्युपेयः ।। कर्मादिबोधफलदा समुदेति यस्मात् निर्दूषणाऽनुमितिकल्पलता क्षणेन ४७२ ॥ अत्र योगाः संगिरन्ते- तर्कः सम्यक्तार्किकैस्तर्यमाणो तर्कस्याप्रामाण्यामीत वद- तां नैयायिकानां मत- न प्रामाण्यं जातुचित्स्वीकरोति ॥ निर्देशपूर्वकं खण्ड- स्याद्वादजैस्तत्प्रमाणत्वसिद्धथै नम् । व्यर्थस्तस्मादाश्रितोऽयं प्रयासः ॥ ४७५ ॥ १. दृष्टान्त' इति भ. पुस्तके पाठः। - २० .. - -- परि. ३ सू० स्याद्वादरत्नाकरसहित तथा हि, तर्कः प्रमाणं न भवति निर्विषयत्वात् । यत्पुनः प्रमाणं तन्न निर्विषयं यथा प्रत्यक्षम् , निर्विषयश्च तर्कः । तस्मात्प्रमाणं न भवति । न चात्र निर्विषयत्वमसिद्धम् । तर्कस्य हि विषयः साध्य- साधनयोर्व्याप्तिः परैः प्रतिपाद्यते । सा च प्रत्यक्षस्यैव विषयः प्रथम- प्रत्यक्षेऽप्यग्निसम्बन्धित्वेन धूमस्य प्रतिभासनात् । न चायं धूमवहेरन्य- ५ तोऽप्यन्यस्मादेव वा जलादेर्भवतीति सन्देहविपर्यासौ प्रत्यक्षेसम्भवतः। अग्नेरेवायमिति तत्सम्बन्धित्वेनैव धूमस्य तन्निश्चयात् । इत्थं प्रथम- प्रत्यक्षेण व्याप्तौ प्रतिपन्नायामन्वयव्यतिरेको भूयसोपलभ्यमानौ प्रथम- स्यैव प्रत्यक्षस्य दाढर्यमुत्पादयतः । भूयो दर्शनादर्शनावगतान्वयव्यति- रेकसहकृतेन वा प्रत्यक्षेण व्याप्तिः प्रतीयते । ननु यदि प्रथमप्रत्यक्षे- १० णैव व्याप्तिः प्रतीयते तर्हि किमित्ययं धूमादिरनेन वयादिना नियत इत्येवंरूपा तदानीमेव व्याप्तिप्रतीतिर्नोत्पद्यते, इति चेत् । उच्यते । सामग्र्यभावात् । अन्वयव्यतिरेकाभ्यां हि भूयोदर्शनादर्शनावगताभ्यां व्याप्तिरुल्लिख्यते । न च प्रथमप्रत्यक्षकाले तौ स्तः । अन्वयव्यतिरेको च भूयोदर्शनादर्शनावगतौ प्रयोजकसन्देहव्युदासार्थों युक्तावेव । अनेक- १५ सहचारिदर्शने हि प्रयोजके सन्देहः । किं धूमप्रयुक्तोऽयं नियमः किं वा श्यामत्वादिप्रयुक्त इति । तत्र श्यामत्वादयो धूमापेक्षा न वहिसापेक्षा इति धूमस्यामिसम्बन्धित्वे धूमत्वमेव प्रयोजकं न तु श्यामत्वादयः । धमत्वे हि सति न कदाचिदग्नित्वं व्यभिचरतीति । भूयोदृष्टान्वयव्यतिरेकस्य प्रमातुरपरोक्षाकारतयोपजायमानत्वाद्विशिष्ट. २० दुण्ड्यादिप्रत्ययवत्प्रत्यक्षमैवेदं व्याप्तिज्ञानमिति । इत्थं न सङ्गतिमिहाङ्गति मानभावः सन्न्यायमार्गनिपुणैः परिमृष्यमाणः ।। तर्के कथश्चन ततः.. स्वमताभिमान- मद्यापि मुञ्चत न किं बत जैनचन्द्राः ।। ४७६ ॥

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सु. योगस्य या त्वस्य सुतार्किकत्वकीर्तिः पुरस्तात्परिपुंसनीया ॥ तर्कप्रमाणत्वकदर्थनायामयं विधेयस्तदनु प्रयासः ॥ ४७७ ॥ तथा हि, यत्तावनिर्विषयत्वादिति साधनमुक्तम् । तदसिद्धम् । व्याप्तिलक्षणस्य तद्विषयत्वसम्भवात् । यत्पुनरुक्तं सा च प्रत्यक्षस्यैव ५ विषय इत्यादि । तत्र किमैन्द्रियं मानसं वा प्रत्यक्षं व्याप्तिग्रहणे प्रव- र्तते । न तावदैन्द्रियम् । तद्धि येनार्थेन प्रतिनियतदेशकालादिनेन्द्रिय सम्बध्यते तमेवावभासयति न तु व्याप्तिम् । सा हि सकलदेशकाला- लिङ्गितसाध्यसाधनोपसंहारेण गृह्यते । यतो व्यापनं व्याप्तिः सर्वासां व्याप्यव्यक्तीनां व्यापकव्यक्तीनां च व्याप्यरूपतया व्यापकरूपतया च १० क्रोडीकरणमुच्यते । न च तत्रेन्द्रियस्य ग्रहणसामर्थ्य सम्भवति। सकलन व्याप्यव्यापकव्यक्तिभिः सार्धं तस्य सम्बन्धासम्भवात् । ननु साध्यमग्नि- सामान्यं साधनं च धूमसामान्यं तयोश्चानवयवयोः सन्निकृष्टत्वादेकत्रापि साकल्येनेन्द्रियेण ग्रहणमस्ति विशेषप्रतिपत्तिस्तु सर्वत्र हेतोः पक्षधर्मता- बलादेवेति चेत् । तदयुक्तम् । एवं हि साधनवैफल्यापत्तिः । व्याप्तिग्रह- १५ णकाल एव सामान्यरूपस्य साध्यस्य प्रसिद्धेः । कथमन्यथा सामान्य- रूपयोःसाध्यसाधनधर्मयोः साकल्येन व्याप्तिनिर्णीता स्यात् । विशेषप्रति पत्तिस्तु हेतोः पक्षधर्मताबलादेवेत्यत्रापि पक्षधर्मता धूमविशेषस्य तत्सा, मान्यस्य वा । आद्यपक्षेऽमिविशेषेण धमविशेषस्य व्याप्तेरप्रतिपत्तितो गमकत्वायोगः । द्वितीये त्वमिसामान्यस्यैव धूमसामान्यासिद्धिः स्यात्ते- २० नैव तस्य व्याप्तेः । अथ साधनसामान्यात्साध्यसामान्यप्रतिपत्तेरेवेष्ट- विशेषप्रतिपत्तिः। सामान्यस्य विशेषनिष्ठत्वादिति. चेत् । ननु तत्सामा- न्यमपि विशेषमात्रेण व्याप्तं सत्तदेव गमयेन्नेष्टविशेषम् । यच्चोक्तं प्रथम- प्रत्यक्षेऽप्यमिसम्बन्धित्वेन धूमस्य प्रतिभासनादित्यादि । तदपि न क्षोदवर्तनीयमनुवर्तते । यतः पुरो दृश्यमानामिसम्बन्धित्वेन धूमः प्रथम- २५ प्रत्यक्षे प्रतिभासेत । सकलामिसम्बन्धित्वेन वा । प्रथमपक्षे कर्थ : व्याप्तिप्रतिपत्तिः । प्रतिनियतव्यक्तौ व्याप्तेरेवासम्भवात् । तस्याः सर्वा- परि. ३ सू..] स्यावादरत्नाकरसहितः क्षेपणपर्यवसानात् । द्वितीयपक्षोऽप्ययुक्तः । प्रतिनियतामिसम्बन्धित्वे- नैव प्रथमप्रत्यक्षे धूमस्य प्रतिभासात् । यदप्ययुक्तम् । भूयो दर्शनाव- गतान्वयव्यतिरेकसहकृतेन वा प्रत्यक्षेण व्याप्तिः प्रतीयत इति । तद- प्ययुक्तम् । अन्वयव्यतिरेकसहकृतत्वं हि प्रत्यक्षस्य स्वविषयातिक्रम- णार्थान्तरे प्रवृत्तिः । स्वविषये प्रवर्त्तमानस्यान्वयव्यतिरेकाभ्यामतिशया- ५ धानं वा । प्रथमपक्षे प्रत्यक्षविरोधः । स्वार्थातिक्रमेणार्थान्तरे प्रवृत्ति- लक्षणस्य सहकृतत्वस्य कचिदप्यप्रतीतेः । न खलु प्रदीपसहकृतं लोचनं रसादौ प्रवर्त्तमानं प्रतीयते । तथा- उन्मीलत्कलिकाकलापकवलीकारक्रमव्याकुली- क्रीडत्षट्पदचारुचूतलतिकाकान्ते वसन्तोत्सवे ।। किं पुंस्कोकिलकामिनीव कुरुते काकी वराकी क्वचित् कण्ठान्त ठिताच्छपञ्चमकलासंराजितं कूजितम् ॥४७८॥ द्वितीयपक्षेऽपि स्वविषये प्रवर्त्तमानस्यान्वयव्यतिरेकाभ्यामतिशया- धानमध्यक्षस्य व्याप्तिविषयत्वे सिद्धे सिद्धयेत् , तच्चासिद्धम् । सम्बद्ध- वर्तमानार्थविषयत्वात्तस्य । किंच, इन्द्रियविषये विद्यमानत्वात्तत्प्रभव- १५ प्रत्यक्षेण व्याप्तिः प्रतीयते स्वविषयत्वाद्वा । न तावद्विद्यमानत्वात्, रसादेरपि चाक्षुषत्वानुषङ्गात् । व्याप्तिवद्भूमादौ तस्यापि सत्त्वाविशे- पात् । नापि स्वविषयत्वात्, व्याप्तेः प्रत्यक्षविषयत्वानुपपत्तेः । अनि- यतविषया हि व्याप्तिरिति कथं नियतविषयोन्द्रियप्रभवप्रत्यक्षतां प्रति. पद्येत । एतेनान्वयव्यतिरेकाभ्यां हीत्यादिः पूर्वपक्षग्रन्थः सकलोऽपि २० प्रतिक्षिप्तः। प्रोक्तनीयान्वयव्यतिरेकयोः सहकृतत्वस्य प्रत्यक्षेण व्याप्ती गृह्यमाणायां प्रतिहतत्वात् । तन्नेन्द्रियप्रभवं प्रत्यक्षं व्याप्तिप्रतिपत्तौ समर्थम् । नापि मानसम् । मनसो बाधेन्द्रियनिरपेक्षस्य बहिरर्थसाक्षा- करणे सामर्थ्याभावात् । “अस्वतन्त्र बहिर्मनः" इत्यभिधानात् । व्याप्तिश्च वद्विधूमादिविषया बहिरर्थधर्मत्वाद्वहिरर्थो वर्त्तते । भवदभिमतस्य २५ च मनसोऽणुस्वभावत्वेनाशेषार्थे सकृत्सम्बन्धासम्भवात्कथं तत्प्रभवं प्रत्यक्षं प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू.८ व्याप्तिं निश्चिनुयात् । तथा हि । यदणुस्वभावं तत्सकृदशेषार्थेन न सम्बध्यते । यथा परमाणुः । अणुस्वभावं च भवत्कलितं मन इति । अथ साक्षान्मनसः समस्ताथैः सम्बन्धाभावेऽपि परम्परया सम्बन्धो भविष्यति । मनसा हि साक्षादात्मा संयुज्यते । तेन च संयुक्ताः ५ सर्वेऽम्यादयो धूमादयश्च साध्यसाधनविशेषास्तस्य व्यापकत्वादिति चेत् । तदपि न्यायशून्यम् । एवं सर्वस्य सर्वज्ञताप्रसङ्गात् । साध्य- साधनवन्निखिलार्थानां मनसा सह सम्बद्धसम्बन्धसंभवात् । किं चासौ सम्बद्धसम्बन्धोऽपि मनसः सद्भिरेवाथै सद्भिरतीतानागतैस्त- स्कथं तत्र व्याप्तिप्रतिपत्तिः स्यात् । न चात्मनो व्याप्तत्वं सिद्धम् । १० तम्याग्रे विस्तरतः प्रतिषेत्स्यमानत्वात् । तत्कथं सम्बद्धसम्बन्धगन्धोऽपि स्यात् । ततो दृष्टान्तमात्रे साध्यसाधनयोर्व्याप्तिस्त्वया स्वकिर्त्तव्या न तु समस्तासु वहिधूमव्यक्तिषुः । तथा चानुमानानुत्थानम् । साध्य- धर्मिणि साध्यधर्मेण सह हेतोाप्तेरनिश्चयात् । ततश्योपलम्भानुपलम्भ- सम्भव त्रिकालवर्तिवहिधूमादिविषयमस्पष्टं तर्काख्यं प्रमाणमुररीकर्त- १५ व्यम् । ननु यावान्क्वचिद्रूमः स सर्वोऽप्यग्निजन्मा भवतीत्येवं प्रकारस्येह विकल्पज्ञानस्य सम्बन्धग्राहिप्रत्यक्षफलत्वान्न प्रामाण्यमिति चेत् । एतदप्यसमीचीनम् । प्रत्यक्षस्य सम्बन्धग्राहित्वप्रतिषेधात् । तत्फलत्वेन चास्याप्रामाण्ये विशेषणज्ञानफलत्वाद्विशेष्यज्ञानस्याप्यप्रामाण्यानुषङ्गः । अथ हानोपादानोपेक्षाबुद्धिफलत्वात्तस्य प्रामाण्यमङ्गीक्रियते । तर्हि तर्क- २० ज्ञानस्यापि प्रमाणत्वमस्तु । तस्यापि व्याप्तिप्रतिपत्तिफलत्वात् । अथ प्रमाणविषयपरिशोधकत्वान्न तर्कः प्रमाणमित्युच्यते । तदपि परि- फल्गु । अप्रमाणेन शोधनविरोधात् । मिथ्याज्ञानवत्प्रमेयार्थवञ्च । तस्मादवस्थितमिदं तर्कः प्रमाणमबाध्यमानविषयत्वात्प्रत्यक्षवत् । ततश्च- तर्कः प्रमाणमिति युक्तिबलेन सिद्ध- मर्थं गृहाण परिमुच्य मुधाभिधानम् ।। .

परि. ३ सू..] स्याद्वादरत्नाकरसहितः सन्न्यायदर्शनविवेचनचारुबुद्धे नैयायिकत्वमपि ते कथमन्यथा स्यात् ॥ ४७९ ॥ विकल्पमात्रं ननु तर्क एष विकल्पमात्रत्वात्तों न प्र. माणमिति वदतां बौद्धानां प्रमाणता तत्कथमस्य युक्ता । मतनिर्देशपूर्वक इत्याहुरत्र स्फुरिताभिमानाः खण्डनम् । समन्तभद्रप्रणयैकचित्ताः ॥४८०॥ न तेऽपि सन्न्यायपथानुयायिनः स्वदर्शनोद्भूतकुवासनाहताः ॥ न तर्कमानत्वविघातकारकं यतो निमित्तं बत तैः प्रकाशितम् ॥४८१॥ अथ तर्कस्याप्रमाणतायां विकल्पमात्रत्वाख्यं निमित्तं प्रकाशितमेवे- ति चेत् । ननु विकल्पमात्रत्वमिति कोऽर्थः । किमर्थानालम्बनज्ञानमात्र- १०. त्वमप्रत्यक्षत्वं वा । प्रथमपक्षोऽसिद्धः । साध्यसाधनसम्बन्धालम्बनत्वेन निरालम्बनत्वस्य तर्केऽनुपपत्तेः । द्वितीयपक्षस्तु न नः क्षतिकारी । परो- क्षविशेषत्वेन तर्कस्याप्रत्यक्षतयाऽस्माभिरप्यभ्युपगमात् । न चाप्रत्यक्षज्ञा- नरूपत्वात्तर्कोऽप्रमाणमिति तर्कणीयम् । अप्रत्यक्षज्ञानरूपस्याप्यनुमान- स्य प्रमाणत्वेनोमयसम्प्रतिपन्नत्वात् । अथ सविकल्पकज्ञानस्वरूपत्वंतर्क- १५. स्य विकल्पमात्रत्वशब्दाभिधेयत्वेन विवक्षितम् । तदपि न पीडाकरमस्मा- कम् । सविकल्पकज्ञानरूपत्वेऽप्यनुमानस्येव तर्कस्यापि प्रमाणत्वानति- पातात् । व्यवस्थापितं प्रपञ्चतो निखिलप्रमाणानां कथञ्चित्सविकल्पक- त्वमाद्यपरिच्छेदे । तन्न विकल्पमात्रत्वं तर्कस्याप्रमाणतायां निमित्तमवधा- नाहम् । अथ गृहीतग्राहित्वं तदभिधीयते । तदप्ययुक्तम् । यतः साध्य- २० साधनयोः सामस्त्येन व्याप्तिस्तर्कस्य विषयो न चैतत्प्रतिपत्तौ प्रमाणान्त- रं प्रभवति । अथोच्यते । कार्ये हेतौ तावयाप्तेः प्रतिपत्तिः प्रत्यक्षानुपल- म्भपञ्चकाज्जायते । अग्निधूमव्यतिरिक्तेषु हि परिदृश्यमानेष्वपि भूतलाद्य- र्थेषु प्रथमं धूमस्यानुपलम्भ एकः । तदनन्तरमनेरुपलम्भस्ततो धूमस्ये- त्युपलम्भद्वयम् । पश्चादमेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भ इति २५ द्वावनुपलम्भौ । अनुपलम्भोऽपि . प्रत्यक्षविशेष एव लक्षयितव्यः ।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू... इत्थं प्रत्यक्षानुपलम्भपञ्चकेनैकस्यामपि व्यक्तौ कार्यकारणभावावगमो भवत्यनेः कार्य धूम इति । यश्च यत्कार्यः स तेन नियतः । यदि तु तेन नियतो न स्यात्तदा तन्निरपेक्षत्वान्नित्यं सत्त्वमसत्त्वं वा तस्य स्यात् । ततश्चायमर्थः सम्पन्नः । येयं कार्यहेतौ सार्वत्रिकी विना- ५ भावप्रतीतिरुपजायते । यदाह-"धूमाधीर्वह्निविज्ञानं धूमज्ञानमधी- स्तयोः ॥ प्रत्यक्षानुपलम्भाध्यामिति पञ्चभिरन्वयः॥" धूमाधी- धूमानुपलम्भ इत्यर्थः । स्वभावहेतौ त्वविनामावप्रतीतिर्विपक्षे बाधका- नुमानात् । यथा क्षणिकत्वानुमानं सत्त्वहेतौ व्यापकानुपलम्भात् । तथा ह्यर्थक्रियाकारित्वलक्षणं सत्त्वमर्थक्रिया च क्रमयोगपद्याभ्यां व्याप्ता। १० ते च क्षणिकत्वान्निवर्तमाने स्वव्याप्यां सत्त्वरूपामर्थक्रियामादाय निव- तेते । कस्मात्पुनरक्षणिकाक्रमयोगपद्ययोर्ध्यावृत्तिरिति चेत् । नाना- रूपत्वात् । कालतः पौर्वापर्यं हि क्रमस्तद्विपरीतं तु यौगपद्यमित्थं चैते नानारूपे । अक्षणिकत्वं चैकरूपता । एकरूपतानानारूपत्वे चैकत्र विरुद्धे । ततोऽक्षणिकाक्रमयोगपद्यनिवृत्तौ निवर्तमानं सत्त्वं क्षणिक १५ एवावतिष्ठते । प्रकारान्तरासम्भवात् । न खल क्षणिकाक्षणिकव्यति- रिक्तस्तृतीयः प्रकारोऽस्ति । यतस्तत्रास्य वृत्तिराशङ्कयेत । अनुपलब्धेः पुनः स्वभावहेतावन्तर्भावान्न तत्र पृथगविनाभावग्राहकप्रमाणचिन्तेति। अत्रोच्यते । यत्तावदुक्तं कार्यहेतौ तावद्याप्तेः प्रतिपत्तिः प्रत्यक्षानुप- लम्भपञ्चकाजायत इत्यादि तन्नोपपत्तिक्षमम् । उपलम्भानुपलम्भ- २० स्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयतया देशादिव्यव- हितसमस्तपदार्थगोचरत्वायोगात् । अविचारकतया च प्रत्यक्षं यावान्क- श्चिभ्रूमः स सर्वो देशान्तरे कालान्तरेऽग्निजन्माऽन्यजन्मा वा न भवतीत्येतावतो व्यापारान्कर्तुं समर्थमिति कथं व्याप्तिस्तद्विषयः स्यात् । अथ पुरो व्यवस्थितार्थेषु प्रत्यक्षं व्याप्तिं प्रतिपद्यमानं सर्वोप- २५ संहारेण प्रतिपद्यत इति कीर्त्यते । तदप्यकीर्तिकरम् । स्वाविषये प्रत्यक्षस्य सर्वोपसंहारानुपपत्तेः । प्रत्यक्षपृष्ठभावतो विकल्पस्यापि प्रत्यक्ष- १. भाविनो' इति म. पुस्तके पाठः ।

परि. ३ सू.८] स्याद्वादरत्नाकरसहितः ५ गृहीतमात्राध्यवसायित्वात्सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावः । तथा च कथमनिश्चितप्रतिबन्धत्वाद्देशान्तरादौ साध्यं साधनं गमयेत् । ननु "कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितो” विशिष्टप्रत्यक्षानुपलम्माभ्यां निश्चितः स देशान्तरादौ तदभावेऽभवंस्तत्कार्यतामेवातिवर्तेतेत्याकस्मि- को धूमः पावकनिवृत्तौ न कापि निवर्तेत । नापि वह्निसद्भाव एव स स्यादित्यहेतोस्तुरङ्गशृङ्गस्यैव धूमस्यासत्त्वात्वचिदप्युपलम्भो न भवेत् । तथा च कीर्त्तिना कीर्तितं वार्तिके- “ कार्य धूमो हुतभुजः कार्य- धानुवृत्तितः । स भवंस्तदभावेऽपि हेतुमत्तां विलवयेत् ॥१॥" इति चेत् । तदपि न सुस्थम् । इत्थं व्याप्तिप्रतिपत्तौ तन्निश्चयकालोप- पलब्धे व्यापके न व्याप्तिः स्यात् । तस्यैव तथा निश्चयान्न तादृशस्या- १० पि । असाध्यव्याप्तत्वग्रहणे तद्राहिणो विकल्पस्य कथमगृहीतग्राहित्वं न स्यात् । प्रत्यक्षगृहीतादधिकग्राहित्वात् । तथा च प्रमाणान्तरमसौ स्यात् । तच्च किमन्यत्तर्कप्रमाणादिति । यदपि स्वभावहेतौ त्वविना- भावप्रतीतिर्विपक्षे बाधकानुमानादित्युक्तम् । तदप्युक्तिमात्रम् । यतो विपक्षे बाधकानुमानमपि प्रसिद्धाविनाभावं सत्स्वसाध्यसिद्धये प्रभ- १५ वति । अविनाभावश्च तत्राप्यनुमानान्तरेण सिद्धयेत्तेनैव वा । आधे पक्षेऽनवस्था । द्वितीये वितरेतराश्रयः । तत्प्रत्यक्षं नाविनाभावसिद्धौ धत्ते प्रौढिं लैङ्गिकी नापि बुद्धिः ॥ एकस्तर्कस्तत्र सामर्थ्यमुद्रां निष्प्रत्यूहां हन्त तस्माद्विभार्त ॥४८२॥ एवं च न तर्कस्याप्रमाणतायां गृहीतायां ग्राहित्वमपि निवृत्तं २० सम्भवति । अथ विसंवादित्वं तत्प्रतिपाद्यते । तदपि नोपपन्नम् । स्वगोचरे तर्कस्याविसंवादित्वात् । तर्कस्य हि गोचरः साध्यसाधनयोः साकल्येन व्याप्तिस्तस्यां चास्याविसंवादकत्वं सुप्रसिद्धमेव । अन्यथा- नुमानस्यापि कथमविसंवादकत्वं स्यात् । न खलु तर्कस्यानुमान- निबन्धनसम्बन्धविषये संवादानुपपत्तावनुमानस्यापि संवादः सम्भवति। २५ नन्वस्य निश्चितसंवादो नास्ति विप्रकृष्टार्थविषयत्वादिति चेत् । तदपि प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३.सू.. न तार्किकप्रीतिकरम् । तर्कस्य संवादसंदेहे हि कथं निःसन्देहानु- भानोत्थानस्यापत्तितो निःसन्देहमनुमानमिच्छता साध्यसाधनसम्बन्ध- पाहिप्रमाणं निश्चितसंवादमेव स्वीकर्तव्यम् । तन्न विसंवादित्वमपि । तर्कस्य प्रमाणत्वे तर्हि तस्य किं निमित्तमिति चेत् । समारोपव्यवच्छे- दकत्वमिति ब्रूमः । तथा हि, तर्कः प्रमाणं समारोपव्यवच्छेदकत्वाद्य- दित्थं तदित्थं यथानुमानम् । तथा च तर्कस्तस्मात्प्रमाणमिति । एवं च, तीतानागतवर्तमानसमयश्लिष्टाग्निधूमादिके व्याप्तिं वस्तुनि न ग्रहीतुमिह यत्सर्वोपसंहारतः ॥ प्रत्यक्षप्रमुखं प्रमाणमयते शक्ति ततश्चागतं प्रामाण्यं सुदृढोक्तयुक्तिबलतस्तर्कस्य तन्निश्चये ॥ ४८३॥ प्रथमत इह तावदर्शनं नास्तिकानां विघटितमनु तस्माद्योगपक्षो निरस्तः ।। तदनुसुगतशिष्यैर्जल्पितं दोषजालं यदिह किमपि युक्त्या सर्वथा तच्च भग्नम् ॥ ४८४ ॥८॥ एवं तर्क निर्णीयेदानीमुद्देशक्रमानुसारेणानुमानं व्युत्पादयिष्यंस्त- द्गतां सङ्ख्याविप्रतिपत्तिं तावन्निरस्यति- अनुमानं द्विप्रकारं स्वार्थ परार्थ चेति ॥ ९॥ अनु लिङ्गग्रहणसम्बन्धस्मरणयोः पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनेने- त्यनुमानं वक्ष्यमाणलक्षणम् । द्वौ प्रकारौ भेदौ वक्तुं न शक्यमिति २० लक्षणकथनाङ्गं प्राक्प्रकारभेद उक्तः । तमेव विशेषतो दर्शयति । स्वार्थ परार्थ चेति । स्वस्मै इदं स्वार्थ येन स्वयं प्रतिपद्यते तत्स्वार्थ- मित्यर्थः । परस्मै इदं परार्थं येन परं प्रतिपादयति तत्परार्थमित्यर्थः । चः समुच्चये ॥ ९॥ प्रथमप्रकारं प्रकाशयन्नाह- १ तीतानागतेत्यत्राकारलोपसिद्धिश्चिन्त्या ।

१० परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमिति ॥१०॥ तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये । हिनोति गमयति परोक्ष- मर्थमिति हेतुः साधनं लिङ्गमिति यावत् । तस्य ग्रहणं निश्चयः । सम्बन्धो व्याप्तिरविनाभाव इत्यर्थः । तस्य स्मरणम्, ततो हेतुग्रहण- ५ सम्बन्धस्मरणे कारणं यस्य तत्तथा। किमित्याह । साध्यस्य वक्ष्यमाण- लक्षणस्य विज्ञानं स्वार्थमनुमानमुच्यते। लिङ्गग्रहणसम्बन्धस्मरणयोश्चात्र कारणत्वं समुदितयोरेवावसेयम् । प्रत्येकं हि तत्कारणत्वे विस्मृतसम्बन्ध- स्याप्रतिपन्नसम्बन्धस्य च नालिकरद्वीपवासिनः क्वचिद्भूमादिलिङ्गग्रहणा- देव केवलात्पावकादिसाध्यानुमानमुल्लसेत् । अगृहीतलिङ्गस्यापि च कस्यचित्प्राक्प्रतिपन्नसाध्यसाधनसम्बन्धस्मरणमात्रादनुमानं प्रादु- भवेदिति ॥१०॥ हेतुग्रहणकारणकमित्युक्तमिति हेतोः स्वरूपं निरूपयति- निश्चितान्यथानुपपत्त्येकलक्षणो हेतुरिति॥११॥ निश्चिता निर्णीता, अन्यथा साध्यमन्तरेणानुपपत्तिरघटनाऽन्यथानु- १५ पपत्तिरविनाभाव इत्यर्थः । निश्चिता चासावन्यथानुपपत्तिश्च निश्चिता. न्यथानुपपत्तिः। सैवैका लक्षणं यस्य स निश्चितान्यथानुपपत्त्येकलक्षणो हेतुरिति ॥ ११॥ एतल्लक्षणव्यवच्छेद्यमर्थ व्यक्तीकुर्वन्नाह- न तु त्रिलक्षणकादिरिति ॥ १२ ॥ त्रीणि लक्षणानि रूपाणि पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वाख्यानि यस्यासौ त्रिलक्षणकः स आदिर्यस्य पञ्चलक्षणकादेः स त्रिलक्षणकादिः पुनर्हेतुर्न भवतीति ।। १२ ॥ अत्रैवोपपत्तिमाह-- २० -- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १३ तस्य हेत्वाभासस्यापि सम्भवादिति ॥ १३॥ तस्य त्रिलक्षणकादेः, हेतुवदाभासत इति हेत्वाभासस्तस्यापि । न केवलं सम्यग्घेतोरित्यपि शब्दार्थः । सम्भवाद्धटनात् । इदमत्रै- दम्पर्यम् । यदेव हि लक्ष्यासाधारणं स्वरूपं तदेव लक्षणतया लोके ५ प्रतीतमव्यभिचारित्वात् । यथा भास्वररूपोष्णस्पर्शवत्त्वममेः। न च त्रैरूप्यादेर्लिङ्गासाधारणता । तत्पुत्रत्वादौ हेत्वाभासेऽपि सम्भवादिति । पक्षधर्मत्वादिलक्षणतया-शिष्यः शौद्धोदनेः कश्चिदत्र प्रत्यवतिष्ठते । न्वितस्यैव हेतुत्वं वदतो बौद्धस्य मतमुपपाद्य स्वकीयदर्शनाभीष्टं स्थापयन्हेतुलक्षणम्॥४८५॥ खण्डनम् । तथा हि-हेतौ निश्चितान्यथानुपपत्त्येकलक्षणत्वमनुपपन्नम् । तस्य १० पक्षधर्मत्वादिलक्षणत्रयान्वितत्वेनैव सम्यक्त्वोपपत्तेः । अन्यथाऽसिद्ध- त्वादिदोषानुषङ्गात् । न खलु पक्षधर्मत्वाभावे तस्यासिद्धत्वव्यवच्छेदः। सपक्ष एव सत्त्वाभावे च विरुद्धत्वव्युदासः। विपक्षे चासत्त्वनियमा- भावेऽनेकान्तिकत्वनिषेधश्च कर्तुं शक्यः । उक्तं च- "हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः ॥ असिद्धविपरीतार्थव्यभिचारि- १५ विपक्षतः ॥ १॥" अस्यायमर्थः-- असति तादाम्यतदुत्पत्तिलक्षणे प्रतिबन्धे व्याप्तेरनिश्चयाखेतोरगमकत्वं यतः स्यात्तेन कारणेन हेतो- स्त्रिप्वपि रूपेषु पक्षधर्मान्वयव्यतिरेकरूपेषु निश्चयो वर्णित आचार्य- दिग्नागेन "प्रसिद्धस्तु द्वयोरपि साधनम्" इत्यादिना प्रमाणसमु- चयादिषु । कस्य निरासेनेत्याह-असिद्धेत्यादि । विपक्षत इति, २० आधादित्वात्तृतीयार्थे तसिः । विपक्षेणेत्यर्थः । तदा ह्यसिद्धविपक्षण पक्षधर्मत्वनिश्चयो वर्णितः । विपरीतार्थो विरुद्धस्तस्य विपक्षणान्वयः । व्यभिचार्यनैकान्तिकस्तस्य विपक्षण व्यतिरेकनिश्चयः । प्रसिद्धस्तु द्वयोरपि साधनमित्यत्र च दिग्नागवचश्शकले द्वयोरपीत्यनेनैकस्य १ 'आद्यादिभ्य उपसंख्यानम्' इति का. वा. ५-४-४४ ।

परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः वादिनः प्रतिवादिनो वा यः सिद्धस्तस्य साधनत्वप्रतिषेधः । प्रसिद्ध इत्यनेन च यः सन्दिग्धस्तस्येति । उक्तं ताथागतेनेदं स्वमते हेतुलक्षणम् । प्रक्रियामात्रमेतत्तु न्यायमार्गाक्षमान्वितः ॥ ४८६ ॥ तथा हि-न पक्षधर्मत्वादि रूपत्रयं हेतोर्लक्षणम् । विपक्षेऽप्यस्य ५ वर्तमानत्वात् । यद्यस्य विपक्षेऽपि वर्त्तते न तत्तस्य लक्षणं यथा सत्त्वमग्नेः । विपक्षेऽपि हेत्वाभासलक्षणे वर्तते च पक्षधर्मत्वादिरूपत्र- यम् । तन्न हेतोस्तल्लक्षणमिति । अथान्यथानुपपत्तिनियमवरूप्यं हेतु- लक्षणं न त्रैरूप्यमात्रम् । तथाविधं च तद्विपक्षे हेत्वाभासलक्षणे न सम्भ- वतीत्युच्यते तदसम्बद्धम् । एवं सति त्रैरूप्यकल्पनानर्थक्यप्रसङ्गात् । १० अन्यथानुपपत्तिनियमादेव हेतोर्गमकत्वोपपत्तेः । न खलु कृत्तिकोदयाच्छ- कटोदयाद्यनुमाने पक्षधर्मता सम्भवति । अथ कालाकाशादि भाविष्यच्छ- कटोदयादिमत्कृत्तिकोदयादिमत्त्वात्पूर्वोपलब्धकालाकाशादिवदितीत्थमत्र पक्षधर्मताऽभिधीयते । तर्हि न कश्चिदपक्षधर्मत्वे हेतुः स्यात् । काककाादेरपि प्रासादधावल्यादौ साध्ये जगतो धर्मित्वेन पक्ष- १५ धर्मत्वस्य कर्तुं सुशक्यत्वात् । तथा हि-जगत्प्रासादधावल्ययोगि काककायॆयोगित्वात् । तथा जगज्जलधिजातवेदःसमन्वितं महान- सधूमयोगित्वात्पूर्वोपलब्धजगदिवेति । लोकविरुद्धोऽन्यत्राप्यविशिष्टः । तन्न पक्षधर्मत्वं हेतोर्गमकत्वाङ्गम् । नापि सपक्षे सत्त्वम् । अनित्यः शब्दः श्रवणत्वादित्यादेरसाधारणत्वादनकान्तिकत्वमिति चेत् । तद- २० युक्तम् । असाधारणत्वस्यानैकान्तिकत्वेन व्याप्त्यसिद्धेः । सपक्षविप- क्षयोर्हि श्रावणत्वादिरसत्त्वेन किं निश्चितः संशयितो वा। अस- त्वेन निश्चितश्चेत्, कथमनैकान्तिकः सपक्षविपक्षयोरसत्त्वेन निश्चितो हेतुः पक्षे साध्याविनाभावित्वेन निश्चेतुमशक्य इति शक्यं वक्तुम् । सर्वानित्यत्वे साध्ये सत्त्वादेरहेतुत्वाप्रसङ्गात् । न खलु सत्त्वादिर्विपक्ष २५ १. विश्रावणत्वादि' इति भ. पुस्तके पाठः ।

- १० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ एवासत्त्वेन निश्चितः । सपक्षेऽपि तस्यासत्त्वनिश्चयात् । ननु सपक्षस्या- भावात्तत्र सत्त्वादेरसत्त्वनिश्चयेऽपि स्वसाध्यसाधकत्वं युक्तम् । न पुनः श्रावणत्वादेः । तस्य विद्यमानेऽपि सपक्षे घटाहावसद्भावादिति चेत् । तदप्यसमीचीनम् । सति सपक्षे विद्यमानत्वस्य गमकतायामन- ५ गावात् । अन्तर्व्याप्तेरेव सर्वत्र तदङ्गत्वोपपत्तेः । यदि च सति सपक्षे श्रावणत्वादिरसत्त्वेन निश्चित इति कृत्वा न स्वसाध्यस्य गमकः । तर्हि सति विपक्षे जलाशयादावसत्त्वेन निश्चितो धूमादिरेव स्वसाध्य- गमकः स्यान्न त्वसति तस्मिन्नसत्त्वेन निश्चितः सत्त्वादिः । अथ कथ्यते- असति खलु विपक्षे यस्य नास्त्येव सत्ता स भजति बत सम्यग्घेतुतां सर्वथैव ।। व्यभिचरति कथञ्चिन्नाविनाभावमुद्रा यदिह शुचिमनीषाचक्षुषा वीक्ष्यमाणम् ॥ ४८७ ।। नन्वेवं सम्पूर्णे सपक्षे तदेकदेशे वा यः सन्कृतकत्वप्रयत्नानन्त- १५ रीयकत्वादिकः स कथं हेतुतां स्वीकुर्यादिति चेत् । असन्नेव सपक्षे हेतु- रित्यनवधारणात् । विपक्षेऽपि तदसत्त्वानवधारणमस्त्विति न मन्तव्यम् । साध्याविनाभावित्वव्याघातानुषङ्गात् । तन्न सपक्षविपक्षयोरसत्त्वेन निश्चितोऽसाधारणः कथञ्चिदनैकान्तिकतामास्कन्दति । नापि सपक्ष- विपक्षयोरसत्त्वेन संशयितः श्रावणत्वादिरसाधारण इति द्वितीयः पक्षः। २० तयोस्तस्यासत्त्वेन निश्चितत्वात् । न च सपक्षे सत्त्वाभावे श्रावण- त्वादिहेतोरनन्वयत्वानुषङ्गः । अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्या- न्वयस्य तत्र सद्भावात् । अन्यथानुपपतिरूपव्यतिरेकवत् । तन्न सपक्षे सत्त्वमपि हेतोर्लक्षणम् । नापि विपक्षेऽसत्त्वम् । तत्पुत्रत्वस्यापि गम- कत्वप्रसङ्गात् । श्यामेतरपुरुषलक्षणाद्विपक्षाध्यावृत्तत्वात् । अथ न २५ विपक्षेऽसत्त्वमानं हेतुलक्षणं किन्त्ववधारणगर्भमसत्त्वं विपक्षेऽसत्त्वमेव निश्चितमिति न चात्रावधारणनिश्चितिरस्ति । न हि यत्र श्यामत्वं ।

परिः ३ सू. १३] स्याद्वादरत्नाकरसहितः ५२१ नास्ति तत्पुत्रत्वेनापि न भवितव्यमेवेत्येकान्तः । शाकाद्याहारस्वरूप- स्वकारणासत्त्वेन कदाचन श्यामत्वानुत्पत्तावपि स्वकारणोपढौकितस्य तत्पुत्रत्वस्य सम्भाव्यमानत्वादिति चेत् । तःवस्वभावं विपक्षासत्त्वं निश्चितान्यथानुपपत्तिरेवेति तदेवैकं हेतोः प्रधानं लक्षणमस्तु । पर्याप्त लक्षणान्तरपरिकल्पनया । तदुक्तं पात्रस्वामिना-" अन्यथानुपपन्नत्वं ५ यत्र तत्र त्रयेण किम् । नान्यथानुपपनत्वं यत्र तत्र त्रयेण किम् ॥१॥” इति । यत्पुनरभिहितमन्यथासिद्धत्वादिदोषानुषङ्गादित्यादि । तदपर्यालोचितवचनम् । निश्चितान्यथानुपपत्तिलक्षणत्वादेव हेतोरसिद्ध- त्वादिदोषपरिहारप्रसिद्धेः । न ह्यसिद्धादिषु हेत्वाभासेषु निश्चितान्यथा- नुपपत्तिः कथञ्चित्सम्भवतीति । असिद्धादिस्वरूपसूचकसूत्रस्य व्याख्या- १० नावसरेऽभिधास्यामः । एवमप्यविनाभावप्रपञ्चत्वात्पक्षधर्मत्वादेरसिद्धादि- व्यवच्छेदार्थ हेतुलक्षणत्वेन प्रणयने निश्चितत्वस्यापि रूपान्तरस्याज्ञाता- सिद्धताव्यवच्छेदार्थमबाधितविषयत्वादेश्व लक्षणान्तरस्य बाधितविषय- त्वादिव्यवच्छित्तये हेतुत्वलक्षणत्वेन प्रणयनं स्यात् । एवं च- १५ नैतद्भिक्षो पक्षधर्मत्वमुख्यं त्रैलक्षण्यं लक्षणं लक्षणीयम् ।। यस्मादस्मिन्विद्यमानेऽपि हेतोः शक्ति वात्मीयसाध्यप्रसिद्धौ ॥४८८॥ अत्र योगाः प्रत्यवतिष्ठन्ते- जानासि जल्पितुमनल्पमते यदत्र हेतोः पञ्चरूपत्वमङ्गीकुर्वतां हेतोस्त्रिलक्षणकतां क्षिपसि क्षणेन ॥ नैयायिकानां मतमुपदर्य यस्मादयं प्रभवति प्रकटस्वसाध्य- खण्डनम् । संसाधनाय नियतं ननु पञ्चरूपः॥४८९॥ तथा हि-त्रैरूप्यं हेतोर्लक्षणं मा भूत् । पक्कान्येतानि सहकार- फलान्येकशाखाप्रभवत्वादुपयुक्तसहकारफलवदित्यादौ बाधितविषये मूर्योऽयं देवदत्तस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादौ सत्प्रतिपक्षे च २५ . २० ५२२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ हेत्वाभासेऽप्यस्य सम्भवात् । पञ्चरूपत्वं तु भवत्येव । निर्दोषत्वात् । एकशाखाप्रभवत्वस्य हि त्रैरूप्ये सत्यप्यहेतुत्वम् । अबाधितविषयत्वा- सम्भवात् । तथा हि । इदमनुमानं प्रतिदिनपरिणामोपचीयमानपश्चि- मवयसि वसन्ते कस्यापि ललाटंतपग्रहपतिपातितप्रचण्डमरीचिकाचक्र- ५ सम्पर्ककर्कशसनीरलहरीपरिकाथ्यमानपरिपकफलरसस्य सहकारमही- रहस्य कस्याञ्चिद्विशालशाखायां कानिचित्कुङ्कुमपङ्कपिञ्जराणि परिणति- पेशलानि कान्यपि पुनरपि जरठतमालदलश्यामलकान्तिकान्तानि तदि- तराणि फलानि समुपलभमानस्तदभिलाषबलप्रबलविगलदन्तोदकप्लवप्ल- वमानलोलजिह्वाचलः पुमान्कश्चित्करोति । अथवाऽऽमताग्राहिणा १० तत्प्रत्यक्षेणावबाध्यते । तत्पुत्रत्वस्यापि विद्यमानेऽपि त्रैरूप्ये हेत्वा- भासत्वम् । असत्प्रतिपक्षत्वाभावात् । मूर्योऽयं तत्पुत्रो न भवति विविध- शास्त्रव्याख्यानादिकौशलशालित्वात्प्रतिपन्नप्राज्ञपुरुषवदित्यादेस्तत्प्रतिप- क्षस्य सम्भवात् । इदमपि हि मूर्खत्वानुमानमनेककर्कशतर्कशास्त्रसन्दर्भ- गर्भाविर्भावनाविजृम्भमाणप्रभूततमरोमाञ्चसञ्चयकम्बुकाञ्चितशरीरेण कु- १५ शाग्रीयशेमुषीशालिना शिष्यमण्डलेन समुपास्यमानं कमपि कोविदवृ- न्दारकमवलोकमानस्तदुपरिप्ररूढमत्सरमदिराधिकारपरवशः कश्चिदहंयुः करोति । अथ च तत्प्रतीयमानेनैव मूर्खत्वबाधकेन विविधशास्त्रव्या- ख्यानादिकलाकौशलशालित्वानुमानेन बाध्यते । ततः कालात्यया- पदिष्टस्य हेत्वाभासस्य व्यवच्छेदार्थमबाधितविषयत्वं प्रकरणसमस्य च २० व्युदासार्थमसत्प्रतिपक्षत्वं हेतोलक्षणमभ्युपेयमिति पक्षधर्मत्वादिरूपत्रया- दभ्यधिकयोरबाधितविषयत्वासत्प्रतिपक्षत्वयोरपि रूपयोः सद्भावात्पञ्च- लक्षणकमेवमङ्गीकरणीयम् । यथोक्तं जैयन्तेन-" पञ्चलक्षणकाल्लि- गाद्गृहीतानियमस्मृतेः ॥ परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ॥१॥" इति । स एवैतद्व्याचष्टे-परोक्षोऽर्थो लिङ्गयते गम्य- २५ तेऽनेनेति लिङ्गं तस्माल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानं प्रचक्षत इति १ ललाटंतपः-मध्याह्नस्थः । प्रहपतिः सूर्यः । २ अहंकारवान् । ३ न्यायमजरी. १.९.

परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः ५२३ योगः । कथम्भूताल्लिङ्गात् , पञ्च लक्षणान्यस्येति पञ्चलक्षणकं तस्मात् । कानि पुनः पञ्च लक्षणान्युच्यन्ते , पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षा- घ्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । सिषाधयिषितधर्मविशिष्टो धर्मी पक्षस्तद्धर्मत्वं पक्षधर्मत्वं तदाश्रितत्वमित्यर्थः, साध्यधर्मयोगि- त्वेन निश्चितं धर्म्यन्तरं सपक्षस्तत्रास्तित्वम्, साध्यधर्मसंस्पर्शशून्यो धर्मी ५ विपक्षस्ततो व्यावृत्तिः, अनुमेयस्यार्थस्य प्रत्यक्षेणागमेन वा अनपहरण- मबाधितविषयत्वम्, संशयबीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेना- नुपहतत्वमसत्प्रतिपक्षत्वमिति, एतैः पञ्चभिर्लक्षणैरुपपन्नं लिङ्गं साध्यस्या- नुमापकं भवति । एतेषां च लक्षणानामेकैकापायात्पञ्च हेत्वाभासा भवन्ति। तथा हि-यस्य पक्षधर्मता नास्त्यसावसिद्धो हेत्वाभासः । यथा नित्यः १० शब्दश्चाक्षुषत्वादिति, सपक्षे सत्त्वं यस्य नास्ति स विरुद्धः, यथा नित्यः शब्दः कृतकत्वादिति, यस्य विपक्षाघ्यावृत्तिर्नास्त्यसावनेका- न्तिकः, यथा नित्यः शब्दः प्रमेयत्वादिति, यस्याबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः, यथानुष्णस्तेजोऽवयवी कृतकत्वाद्धटवदिति प्रत्यक्षबाधितविषयः । ब्राह्मणेन सुरा पेया द्रवत्वात्क्षीरवदित्यागम- १५ बाधितविषय इति। यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः, नित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवत् । नित्यः शब्दोऽनित्यधर्मानुप- लब्धेराकाशवदिति । द्वावप्येतौ परस्परं सत्प्रतिपक्षाविति । न च वस्तूनामद्विरूपत्वात्कथमेकत्र धर्मिणि परस्परविरोधधर्मद्वयाक्षेपप्रयो- जकहेतुद्वितयस्य सन्निपातो भवेदिति शङ्कनीयम् । यतः संशयबीजं २० यद्विशेषाग्रहणं तदन्यतरपक्षनिर्णयाय भ्रान्त्या प्रयुज्यमानं सत्प्रतिपक्षतां प्रतिपद्यते । स्थाणुरयं पुरुषधर्मानुपलब्धेः पुरुषोऽयं स्थाणुधर्मानु- पलब्धेरितिवत् । अन्यतरविशेषानुपलम्भ एवायं संशयाधायी पक्षधर्मा- न्वयव्यतिरेकोपपत्तेभ्रमणे हेतुरिति प्रयोज्यमानः सत्प्रतिपक्षो भवति । पुरुषप्रज्ञाप्रमादमूलत्वाच्च वस्तुनो यात्मकत्वमिह प्रतिभासते । इति २५ सुव्यवस्थित एव प्रकरणसमाख्यः पञ्चमो हेत्वाभासः। एतेषु पञ्चसु लिङ्गलक्षणेषु लिङ्गस्याविनामावः परिसमाप्यते, इति पञ्चलक्षणकाल्लिङ्गा- यथाऽ- प्रमाणनयतत्वालोकालङ्कारः [परि. ३ स. १३ दिति व्याख्यातम् । व्याप्तिग्रहणसमयसमधिगतस्वरूपस्यापि लिसस्य पुनर्धर्मिणि क्वचिदनवधृतवपुषो न साध्यावबोधसाधनत्वमिति द्वितीय लिङ्गदर्शनमवश्यमपेक्षणीयमिति गृहीतादित्युक्तम् । लिङ्गं हि ज्ञापकं न च चक्षुरादिवत्कारकम् । ज्ञापकस्य चायं स्वभावो ५ यदज्ञातं सन्न ज्ञापयतीति । व्याप्तिकालगृहीतमेव व्याप्तिवत्स्म- र्यमाणतया लिङ्गं लिङ्गिनं गमयिष्यतीति चेत् । मैवम् । लिङ्गग्रहणमन्तरेण व्याप्तिस्मृतेरप्यभावादिति । अथ नियमस्मृतेरिति व्याख्यायते । नियमो व्याप्तिरविनाभावो नित्यसाहचर्यमित्यर्थः । तस्य स्मृतिनियमस्मृतिस्तस्याश्च सकाशात्परोक्षे लिङ्गिनि १० ज्ञानमनुमानं प्रचक्षते इत्यत्रापि सण्टङ्कः । द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमितिर्नोन्मीलतीति भावः । "नियमो हि गृहीतोऽङ्गमनुमेयप्रमा प्रति ॥ न नालिकेरद्वीपस्थो धूमादनिं प्रपद्यते ॥१॥ साध्यानुमितिवेलायां न चास्ति नियम- ग्रहः ॥ नियमग्रहकाले च न साध्यमनुमीयते ॥२॥ तेन पूर्व १५ गृहीतः सन्निदानीं स्मृतिगोचरः ॥ नियमः प्रतिपत्त्यङ्गं तथावगति- दर्शनात् ॥३॥ यत्रापि विषयेभ्यस्तेनैव संवेद्यते स्मृतिः ॥ तत्राप्यनेन ज्ञानेन बलात्स परिकल्प्यते ॥४॥' अथ परोक्ष लिङ्गि- नीति विवियते । तत्र लिङ्गी तावदुच्यते । धर्मविशिष्टो धर्मी साध्यः स एव लिङ्गीति । न धर्मिमानं साध्यम् । पर्वतादेर्मिणः सिद्धत्वात् । २० न धर्ममात्रम् । अमेरपि यत्र तत्र सिद्धत्वात् । न च द्वयोः साध्य- त्वम् । स्वतन्त्रयोर्वहिपर्वतयोरपि सिद्धत्वादेव । तस्मादेकस्य द्वयोर्वा स्वातन्त्र्येणानुमेयता नावकल्प्यत इत्यवश्यमन्यतरविशिष्टोऽन्यतरः साध्यो वक्तव्यः । तत्रापि तु धर्मविशिष्टो धर्मी। तथा हि-देशविशिष्टे वहौ साध्ये षोडश विकल्पाः सम्भवेयुः । सर्व एव वामिः सर्वदेशवि- २५ शिष्टः, अनिर्धारितदेशविशेषविशिष्टः, पूर्वानुभूतमहानसादिदेशविशिष्टः, सम्प्रत्युपलभ्यमानपर्वतादिदेशविशिष्टो वाऽनुमेयः स्यात्, कश्चिदमिः परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः ५२५ सर्वदेशविशिष्टः, देशविशिष्टो वा अनुमेयः स्यात्, एष सिसाधयिषितो बामिः सर्वदेशविशिष्टः, अनिर्धारितदेशविशिष्टः, पागनुभूतदेशविशिष्टः, इदानीमनुभयमानदेशविशिष्टो वाऽनुमेय इति।तत्रैते पञ्चदश पक्षाः प्रत्य- क्षविरोधसिद्धसाध्यत्वादिदोषोपहता इत्यनादरणीया एव । यस्तु षोडशः पक्ष एतद्देशविशिष्ट एषोऽनिरिति , तत्र देशविशेषावच्छेदमन्तरेणैष वहिरिति परिग्रहीतुमेव न शक्यते । अतो देश एव प्रथममवगम्यते । तस्य च पूर्वप्रतिपन्नत्वादिदानीमनवगतदहनविशिष्टस्त्वस्यानुमातुं योग्यत्वात्स एव साध्यो युक्तः । अपि च । अमेः साध्यतायामतद्धर्मो धूमः कथमनु- मापकः स्यात् । अनुपलब्धे ज्वलने तद्धर्मतया धूमो ग्रहीतुं न पार्यते । उपलब्धे तु हुतभुजि भवदपि विफलमेव धूमस्य तद्धमताग्रहणम् । १० अनुमेयस्य तदानी कस्यचिदभावात् । तस्मादग्निविशिष्टः परिदृश्यमानो देश एव साध्यः । स च स्वरूपतः प्रत्यक्षोऽपि परोक्षधर्मविशिष्टतया- नुमेय इति धूमधर्मयोगादमिधर्मवान्स एवानुमीयते । सोऽनुमानस्य विषयो लिङ्गीत्युच्यते । परोक्षग्रहणं च परोक्षधर्मविशिष्टे धर्मिणि साध्यत्वप्रतिपत्त्यर्थम् । कचित्तु व्याप्तिस्मरणसमनन्तरमेव प्रत्यासीदतः १५ प्रमातुर्झटिति समुन्मिषन्नकस्मादेव प्रत्यक्षीभवति विभावसुरिति न तद्वि- शिष्टतयापि धर्मिणि परोक्षत्वमवकल्प्यत इति तयावृत्तयेऽपि परोक्ष- ग्रहणमिति । ततश्च-- २० रूपपश्चकसमृद्धिबन्धुरं लिङ्गमेतदिति योगजल्पितम् ।। साध्यसिद्धिमनुमानमुद्रया मन्त्रयद्भिरुपगम्यतां बुधैः ॥ ४९० ॥ भारती तव वयस्य शुश्रुवे वर्णमात्रघटनासमुद्भुरा ॥ भासते पुनरसौ मनीषिणां काणदृष्टिरिव रोपिताञ्जना ॥४९१ ॥ तथा हि-हेतोः पश्चरूपत्वमनुपपन्नम् । त्रैरूप्यवत्तस्यापि हेत्वाभा- सेऽपि भावात् । अमिजन्योऽयं धूमः सत्त्वात्पूर्वोपलब्धधूमवदित्यत्र हि २५ हेत्वाभासेऽपि पक्षधर्मत्वं तावदास्त । पक्षीकृते धूमे सत्त्वस्यासन्दिग्ध- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ त्वात् । अन्वयोऽपि नियत एव । पूर्वदृष्टे धमेऽमिजन्यत्वेन व्याप्तस्य' सत्त्वस्य सद्भावात् । व्यतिरेकश्च । खरविषाणादौ साध्याभावे साधनस्य सत्त्वस्याभावनिश्चयात् । अबाधितविषयत्वमप्यत्रास्ति । विवादापन्ने धमेऽमिजन्यत्वस्य बाधकामावात् । एवमसत्प्रतिपक्षत्वमपि । अन- ५ मिजन्यत्वसाधकस्यानुमानस्यात्रासम्भवादिति सिद्धं हेत्वाभासेऽपि सत्त्वे पञ्चरूपत्वम् । सामस्त्येन व्यतिरेकनिश्चयस्यात्राभावादसिद्धमिति चेत् । न । तस्यान्यथानुपपन्नत्वरूपत्वेन तदभावे शेषरूपाणामकिञ्चि- करत्वापत्तेस्तद्विकलस्यैव पञ्चरूपत्वस्यालक्षणत्वेन साध्यत्वात् । यत्पु- नरबाधितविषयत्वासत्प्रतिपक्षत्वयोरभावादेकशाखाप्रभवत्वतत्पुत्रत्वहेत्वो- १० रगमकत्वमगादि तत्राप्यन्यथानुपपत्त्यभाव एव निमित्तम् । न पुनर- बाधितविषयत्वासत्प्रतिप्रक्षत्वयोरभावः । तयोः सतोरप्यगमकत्वस्या- नन्तरमेव दर्शितत्वात् । किं चाबाधितविषयत्वस्य तावन्निश्चितस्यैव हेतुलक्षणाङ्गत्वमङ्गीकृतम् । न च तन्निश्चयः सम्भवति । तन्निश्चय- साध्यनिश्चययोः परस्पराश्रयणात् । सति हि बाधनाभावनिश्चये हेतोः १५ साध्यनिश्चयस्तन्निश्चयाच्च बाधनाभावनिश्चय इति न तयोरन्यतरस्य व्यवस्था । यदि पुनरन्यतः कुतश्चिद्वाधनाभावनिश्चयात्परस्पराश्रय- परिहारः क्रियते । तदाप्यकिञ्चित्करत्वं हेतोः । यथैव हि हेतोविपर्य- यस्य बाधासद्भावनिश्चये तत्साधनासमर्थत्वादकिञ्चित्करत्वम् । तथैव बाधाविरहनिश्चये कुतश्चित्तस्य सद्धावसिद्धेस्तत्साधनाय प्रवर्त्तमानस्य २० सिद्धसाधनादपीति न साधीयस्तस्य तल्लक्षणत्वम् । नन्वेवमविना- भावोऽपि हेतुलक्षणं मा भूत्तन्निश्चयस्यापि साध्यसद्भावनिश्चयायत्ततया तस्य चाविनाभावाधीनत्वादितरेतराश्रयस्य प्रसङ्गादिति चेत् । न । अवि- नाभावनियमस्य हेतौ प्रमाणान्तरान्निश्चयोपगमादितरेतराश्रयानवका- शात् । तर्काख्यं हि प्रमाणमविनाभावनिश्चयनिबन्धनम् । प्रत्यक्षा- २५ देस्तत्राव्यापारात् । तर्हि यत एवाविनाभावनिश्चयो हेतोस्तत एव साध्यस्यापि सिद्धेस्तत्र हेतोरकिश्चित्करत्वमिति चेत् । न । ततो .

परि. ३ सू. १३.] स्याद्वादरत्नाकरसहितः देशादिविशेषावच्छिन्नस्य साध्यस्य साधनात् । तर्कातु सामान्यत एव तत्सिद्धेः । असत्प्रतिपक्षत्वेऽपि प्रतिपक्षस्तुल्यबलोऽतुल्यबलो वा । तुल्य- बलत्वे बाध्यबाधकभावानुपपत्तिः । अतुल्यबलत्वं त्वनयोः किं पक्षधर्म- वादिभावाभावकृतमनुमानबाधजनितं वा । न तावदाद्यः पक्षो. निरवद्यः । पक्षधर्मत्वादेरुभयोरप्यविशेषात् । मूर्खत्वाभावे साध्ये शास्त्रव्याख्यानादिकलाकौशलशालित्वस्येव मूर्खत्वे साध्ये तत्पुत्रत्वस्यापि पक्षधर्मत्वादिसम्भवात् । द्वितीयपक्षोऽप्यसम्भाव्यः । अनुमानबाधाया अद्याप्यसिद्धेः । न हि द्वयोः पक्षधर्मत्वाद्यविशेषे एकस्य बाध्यत्वमपरस्य बाधकत्वं युक्तम् । अविशेषेणैव तत्प्रसङ्गात्परस्प- राश्रयश्च । तथा ह्यतुल्यबलत्वे सत्यनुमानबाधा तस्यां चातुल्य- १० बलत्वमिति । एवं च पञ्चलक्षणलक्षितलिङ्गाग्रहं विहाय हठात् ।। जिनोदितैकलक्षणलक्षितमिह लक्ष्यतां लिङ्गम् ॥ ४९२ ॥ तदुक्तम्-- अन्यथानुपपन्नत्वं रूपैः किं पञ्चभिः कृतम् ॥ १५ नान्यथानुपपन्नत्वं रूपैः किं पञ्चभिः कृतम् ॥ १॥” इति । नैयायिकाः केचिदथात्र लिङ्ग- तत्पूर्वकमित्याद्यक्षपाद- मन्यप्रकार परिकीर्तयन्ति ॥ सूत्रा नुसारिणां मत- मुपदश्य खण्डनम् । तेषामिदानी प्रतिपादयाम- स्तदर्थसंसूचकसूत्रमेकम् ॥ ४९३ ॥ "तत्पूर्वकं त्रिविधमनुमान पूर्ववच्छेषवत्सामान्यतो दृष्टं च" इति । तत्र तदिति सर्वनाम्ना पूर्वप्रक्रान्तं प्रत्यक्ष प्रत्यवमृश्यते । तत्पूर्व कारणं यस्य तत्तत्पूर्वकं त्रिविधमनुमानमिति स्पष्टम् । वादादि- कथात्रये पूर्वमुपादीयमानत्वात्पक्षः पूर्वशब्देनोच्यते । सोऽस्यास्त्याश्रय- वेनेति पूर्ववत् । लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति । २५ १ गौ. सू.१।१५. २०. ।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३:सू. १३ 'पक्षे उपयुक्ते सति शेषः सपक्षो भवति सोऽस्यास्त्याश्रयत्वेनेति शेष- वदित्यनेन सपक्षे वृत्तिरुक्ता भवति । सामान्यतो दृष्टमित्यनेन विपक्षा- व्यावृत्तं लिङ्गमुच्यते । कथम् । अकारप्रश्लेषात्, सामान्यतो दृष्टमिति । तिष्ठतु तावद्विशेषतः सामान्यतोऽपि न दृष्टम् । केति पक्षसपक्षयोवृत्ते- ५ रुक्तत्वात्पारिशेष्याद्विपक्षे सामान्यतोऽपि न दृष्टमित्यवतिष्ठते । एवं च यत्पूर्ववच्छेषवत्तत्केवलान्वय्यनुमानम् । पक्षधर्मत्वसपक्षसत्त्वसमन्वि- तमित्यर्थः । यथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमनेकत्वात्पञ्चाङ्गु- लवत् । अत्र हि पञ्चाङ्गुलव्यतिरिक्तस्य सदसद्वर्गस्य समग्रस्य पक्षीकरणादन्यस्याभावाद्विपक्षाभावः । अत एव व्यतिरेकाभावः । तथा १० पूर्ववत्सामान्यतो दृष्टं केवलव्यतिरेकि । पक्षधर्मत्वविपक्षव्यावृत्तिसम- वितमित्यर्थः । यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वायत्पुनः सात्मकं न भवति तत्प्राणादिमदपि न भवति यथा घटादि प्राणादि- मच्च जीवच्छरीरं तस्मात्सात्मकमिति । अत्र हि जीवच्छरीरस्य पक्षी- कृतत्वेन सपक्षाभावादन्वयाभावः। तथा पूर्ववच्छेषवत्सामान्यतो दृष्ट- १५ मन्वयव्यतिरेकि । पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्त्युपेतमित्यर्थः । यथा क्षित्यादिकं बुद्धिमत्कारणकं कार्यत्वात्कुम्भादिवत् । यत्पुनर्बुद्धि- मत्कारणकं न भवति न तत्कार्यत्वधर्माधारो यथा व्योमादीति । अत्र सपक्षविपक्षयोः कुम्भादिव्योमादिकयोः सद्भावाद्धेतोरन्वयव्यतिरेक- सद्भावः । अन्वयवद्वयतिरेकवदित्यं तद्वयवच्च किलोच्यत लिङ्गम् ॥ एतदपि प्रतिपादितयुक्तिव्यूहवशेन समस्तमपास्तम् ॥ ४९४ ।। सर्वत्र निश्चितान्यथानुपपन्नत्वस्यैव हेतुलक्षणतोपपतेस्तस्मिन्सत्येव हेतोर्गमकत्वप्रतीतेः । केवलान्वयिनो हि यदि प्रमाणनिश्चितमन्यथा- नुपपन्नत्वमस्ति तदा किमन्वयापेक्षया । अथान्वयाभावे हेतोरन्यथा- २५ नुपपन्नत्वस्यैवाभावः स्यादतोऽन्वयापेक्षा म्यादेतद्यद्यन्यथानुपपन्नत्व- : मन्वयेन व्याप्तं भवेत् । न खल्वव्यापकनिवृत्तावव्याप्यनिवृत्तिः १ श्रीछन्दः। । २० परि. ३ सू.१३] स्याद्वादरत्नाकरसहितः सम्भवति।अतिप्रसक्तेः । अथान्वयेन व्याप्तमन्यथानुपपन्नत्वमिष्यते । तर्हि केवलव्यतिरेकिणि प्राणादिमत्त्वादावन्वयस्य निवर्तनात्तद्याप्तस्यान्यथा- नुपपन्नत्वस्यापि निवृत्तेरगमकत्वं स्यात् । न खलु व्यापकाभावे व्याप्यं भवति । वृक्षत्वाभावे शिंशपात्ववत् । गमकत्वे वा प्राणादिमत्त्वादेर्ना- न्वयेनान्यथानुपपन्नत्वं व्याप्तं भवेत् । यस्याभावेऽपि यद्भवति न तत्तेन ५ व्याप्तम् । यथा सलिलाभावेऽपि भवन्धमादिर्न तेन व्याप्तः। भवति चान्वयाभावेऽपि प्राणादिमत्त्वादावन्यथानुपपन्नत्वमिति । अन्यच्च । सदसद्वर्ग इत्याद्यनुमानेऽनेकत्वादित्यस्य हेतोः कुतः केवलान्वयित्वम् । व्यतिरेकाभावाच्चेत्, अयमपि कुतः । तद्विषयस्य विपक्षस्याभावाञ्चेत् । अथ कोऽयं विपक्षाभावः । पक्षसपक्षावेव निवृत्तिमानं वा, प्रथमपक्षे १०. परमतप्रसक्तिः । अभावस्य भावान्तरस्वभावतास्वीकारात् । निवृत्ति- मात्रलक्षणोऽपि विपक्षाभावः प्रतिपन्नो न वा । न प्रतिपन्नश्चेत्तर्हि विप- क्षाभावस्य सन्दिग्धत्वाव्यतिरेकाभावोऽपि सन्दिग्ध इति केवलान्वयोs- पि सन्दिग्ध एव । अथ प्रतिपन्नः । स यदि साध्यसाधननिवृत्त्याधारः प्रतिपन्नस्तर्हि स एव विपक्ष इति कथं विपक्षाभावो यतो व्यतिरे- १५. काभावः स्यात् । साध्यसाधननिवृत्त्याधारतया निश्चितस्यैव विपक्ष- त्वात् । तच्च भाववदभावस्यापि न विरुध्यते । कथमन्यथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमित्यत्रासतः पक्षत्वमपि स्यात् । असत्पक्षो भवति न तु विपक्ष इति च किंकृतो विभागः। अथासद्वर्गशब्देन सामान्यविशेषसमवाया एवोच्यन्ते नाभावाः । तर्हि प्रागभावाद्यभाव- २० विषयं ज्ञानं न कस्यचिदनेनानुमानेन प्रसाधितमिति सुव्यवस्थितं शूलिनः सकलकार्यकारणग्रामपरिज्ञानम् । प्रागभावाद्यज्ञाने कार्यत्वा- देरप्यज्ञानात् । अपि च यद्यभावोऽत्र पक्षसपक्षाभ्यां बहिर्भूतः, तर्पने- नानेकत्वादित्यनैकान्तिको हेतुः । अभावस्यानेकत्वेऽपि कस्यचिदेक- ज्ञानालम्बनत्वानभ्युपगमात् । अभ्युपगमे वा कथमभावो न पक्षः। तथा २५ च विपक्षोऽप्यसावस्तु । नन्वेवं विपक्षाभावोऽप्येकज्ञानालम्बनमिति प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ पक्ष एव स्यात् । तथा च पुनरपि विपक्षाभाव एवेति चेत् । तर्हि पुनरपि तदेव प्रेयं कोऽयं विपक्षाभाव इति । यदि पक्षसपक्षावेव स्तः, तर्हि भावाद्भिन्नस्याभावाजैनमतप्रवेशः । अथ तुच्छा विपक्षनिवृत्ति- स्तदभावः । सोऽपि यद्यप्रतिपन्नः । तर्हि सन्दिग्धः । तत्सन्देहे च ५ व्यतिरेकाभावोऽपि तागेवेति न निश्चितः केवलान्वय इत्यादि तदवस्थं पुनः पुनरावर्त्तत इति । ततः केवलान्वयित्वेनैवाभ्युपगतस्या- नुमानस्य विपक्षाभाव एव तुच्छो विपक्षः। ततः साध्यनिवृत्त्या साधननिवृत्तिश्च सुव्यक्तैवेति कथं न व्यतिरेकः । अथ विपशामावस्या- पादानकारकत्वायोगान्न ततः साध्यसाधनयोावृत्तिरिति चेत् । १० तन्न समीचीनम् । भावः प्रागभावादिभ्यो भिन्नस्ते वा परस्परतो भिन्ना इत्यादावप्यभावस्यापादानकारकत्वाभावप्रसङ्गात्सर्वेषां प्राग- भावादीनां साङ्कय स्यात् । किं चान्वयमात्रेण गमकत्वे द्रव्यं गुणकर्म- सामान्यविशेषसमवायप्रागभावादयः प्रमेयत्वात्पृथिव्यादिवदित्यादेरपि गमकत्वं कथं न स्यात् । धर्मिग्राहकप्रमाणबाधितत्वे कालात्ययापदि- १५ ष्टत्वान्नैतादृशं गमकमिति चेत् । तर्पबाधितविषयत्वमपि लिङ्गस्य लक्षणं पूर्वनैयायिकवद्भवद्भिरपि वक्तव्यम् । तच्चालक्षणमेवेत्युक्तम् । सम्प्रति पक्षत्वान्नेदृशस्य गमकत्वमिति चेत् । तसत्प्रतिपक्षत्वमपि तल्लक्षणं वाच्यम् । तदप्यलक्षणमेवेति निवेदितम् । ततोऽन्यथानुप- पन्नत्वाभावादेवेशस्यागमकत्वमङ्गीकार्यम् । तन्न केवलान्वय्यनुमानं २० परेषां न्याय्यम् । यच्चान्यदुक्तं पूर्ववत्सामान्यतो दृष्टं केवलव्यतिरेकी- त्यादि तदप्ययुक्तम् । यतः प्राणादेरन्वयाभावे कुतो गमकत्वमिति वाच्यम् । व्यतिरेकादिति चेत् । तथा हि यस्माद्धटादेः सात्मकत्व- निवृत्तौ प्राणादयो नियमेन विनिवर्तन्ते तस्मात्सात्मकत्वाभाव: प्राणाद्यभावेन व्याप्तो धूमाभावेनेव पावकाभावः । जीवच्छरीरे च २५ प्राणाद्यभावविरुद्धः प्राणादिसद्भावः प्रतीयमानस्तद्भावं निवर्तयति । स च निवर्तमानः स्वव्याप्यं सात्मकत्वाभावमादाय निवर्त्तत इति सरि. ३ सू. १३] स्याद्वादरत्नाकरसहितः ५३१ सात्मकत्वसिद्धिस्तत्रेति । तदपि नानवद्यम् । नेदं क्षणिकानां सचित्त- शून्यं जीवच्छरीरं प्राणादिमत्त्वादित्यादेरपि गमकत्वप्रसङ्गात् । निगदितप्रकारव्यतिरेकस्यात्रापि सम्भवात् । साध्याभावेऽप्यस्य सद्भाव- सम्भावनयाऽगमकत्वमिति चेत् । तद्दन्यथानुपपत्तिबलादेव गमकत्व- मङ्गीकृतमिति कृतं केवलव्यतिरेकित्वेन । तन्न केवलव्यतिरेक्यप्यनु- ५ मानं परेषामुपपद्यते। एतेन पूर्ववच्छेषवत्सामान्यतो दृष्टमन्वयव्यतिरेक्य- प्यनुमानं तेषां प्रतिक्षिप्तम् । साध्याभावसम्भवनियमनिश्चयमन्तरेणा- स्यापि गमकत्वानुपपत्तेरिति । यदप्येतस्य सूत्रस्य कैश्चिव्याख्यानं क्रियते । यथा कार्यात्पूर्व कारणमुच्यते । पूर्व कारणं लिङ्गतयाऽस्या- स्तीति पूर्ववत्कारणात्कार्यानुमानम् । यथा मेघोन्नत्या भविष्यदृष्टय- १० नुमानम् । शेषः कारणापेक्षया कार्यमुच्यते । शेषो विद्यते यत्र तच्छेषवत्कार्यात्कारणानुमानम् । यथा नदीपूरेणोपरितन- देशेऽतीतवृष्टयनुमानम् । सामान्यतो दृष्टं तु सामान्यतोऽविना- भावमात्रेण यदकार्यकारणभूतालिझाद कार्यकारणभूतस्यैव लिनिनोऽनु- मानम् । यथा कपित्थादौ रूपेण रसानुमानम् । रूपरसयोर्हि सम- १५ वायिकारणमेकं कपित्थादि द्रव्यं न तु तयोरन्योन्यकार्यकारणभाव इति । तत्रापि यदि निश्चितान्यथानुपपत्त्यनुवेधस्तदा न किञ्चिद- निष्टम् । साध्येनाविरुद्धानां व्याप्यकार्यकारणेत्यादिना सूत्रेण कारणा- दिलिङ्गानामभिधास्यमानत्वात् । निश्चितान्यथानुपपत्तिविरहे तु गम- कत्वमेवामीषां नास्तीति किं परिगणनया । एतेन वैशेषिका अपि यत्पाहुः- " अस्येदं कार्य कारणं सम्ब- न्ध्येकार्थसमवायि विरोधि वेति लिङ्गकम्" अ- अस्येदं कार्यमित्यादिसूत्रा- नुसारिणां वैशेषिकाणां स्येदं कार्य यथा विशिष्टो नदीपूरो वृष्टेरिति । मतस्योपदर्थ अस्येदं कारणं यथा मेघोन्नतिवृष्टरेवेति । सम्ब- खण्डनम् । न्धि द्विविधं संयोगि समवायि च । तत्र संयोगि २५ १ प. ३ सू. ६५ । २ वै. द. अ. ९ आ. २ सू. १ २० - प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १३ यथा, धूमोऽमेः । समवायि यथा, विषाणं गोरिति । एकार्थसम- वायि द्विविधम् । कार्य कार्यान्तरस्य । कारण कारणान्तरस्य । तत्र कार्य कार्यान्तरस्य यथा , रूपं स्पर्शस्य। कारणं कारणान्तरस्य यथा, पाणिः पादस्येति । विरोधि चतुर्विधम् । अभूतं भूतस्य, अभूतम- ५ भूतस्य, भूतमभूतस्य, भूतं भूतस्य । तत्राभूतं भूतस्य यथा, अभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । अभूतमभूतस्य यथा, अभूता श्यामता अभूतस्य घटामिसंयोगस्य लिङ्गम् । भूतमभूतस्य यथा, भूतं वर्षकर्म अभूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । भूतं भूतस्य यथा, भूतं स्यन्दनं कर्म भूतस्य सेतुबन्धस्य लिङ्गमिति । तथा १० परमपि लिङ्गमुत्प्रेक्ष्यमनया दिशा । यथा, जलप्रसादोऽगस्त्योदयस्य । चन्द्रोदयः समुद्रवृद्धेरिति लिङ्गोपलक्षणत्वादस्य सूत्रस्येति । तदपि निरूपितप्रायमवसेयम् । समानयोगक्षेमत्वात् । उपनिषत्तदियं तव योग यां गदितवानसि लिङ्गपरंपराम् । इतरथानुपपत्तिमपास्य सा विशति नैव मनस्सु मनस्विनाम् ॥४९३॥ हेतोर्लक्षणमेतदेव तदहो क्षोदक्षम वर्त्तते सूत्रे यत्प्रतिपाद्यतेऽस्य सकलैर्दोषैरदत्तास्पदम् ॥ अन्यत्त्वत्र विचार्यमाणमयते तीर्थान्तरीयोदित नो युक्तिं कथमप्यतः कथमिदं स्वीकुर्वते कोविदाः ॥४९४॥ नन्वन्यथानुपपत्तिरविनाभाव इत्यभिदधानस्य च निमित्तमन्वेषणीय प्रामाणिकैः। तच्च तादात्म्यतदुत्पत्तिरूपम् । तादात्म्यतदुत्पत्ती एवावि- नाभावनिमित्तमिति बौद्ध-तथा हि स्वभावहेतोस्तादात्म्यं स्वसाध्याविना- मतस्याशंकापूर्वकं भावे निबन्धनम् । यो हि यदात्माभावः स कथं तदुत्सृजति । कार्यहेतोस्तु तदुत्पत्तिस्तत्र निबन्धनम् । कार्य हि कारणाधीनात्मलाभमेव भवति तत्कथं तद- न्तरेण कापि स्यात् । न चाभ्यामन्यो हेतुरस्ति । अनुपलब्धेः स्वभाव- २० खण्डनम् । २५ परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः हेतावनुप्रवेशादिति शाक्याः । नाऽमी निवारयितुमशक्याः । यतः किं यत्र तादात्म्यतदुत्पत्ती तत्राविनाभावः । यत्राविनामावस्तत्र तादात्म्य- तदुत्पत्ती वा । न तावत्पौरस्त्यः पक्षः । सत्यपि तादात्म्ये वृक्षत्वस्य शिंशपात्वस्य व्यभिचारात् । सत्यामपि च तदुत्पत्तौ श्यामत्वादिधूम- धर्मस्तोमस्य वह्निव्यभिचारात् । न च शिंशपात्वमेव वृक्षत्वात्मकं न ५ वृक्षत्वं शिंशपात्वात्मकं खदिरोदुम्बरादिसाधारणत्वाद्वक्षत्वस्येति वाच्यम् । तयोरेकान्ताभेदाभावात् । यदि च खदिरोदुम्बरादिसाधारणं वृक्षत्वमेव न शिंशपात्वं तदा नानयोरैक्यम् । स्वभावभेदस्य भेदलक्षणत्वात् । एतेन यत्प्रज्ञाकरेण न तु यथा वृक्षात्मा शिंशपा तथा वृक्षोऽपि शिंशपात्मैव तादात्म्यस्योभयगतत्वमन्तरेणाभावादित्याशङ्कयम् । अवि. १० भागवत्त्वात् । वृक्षो हि शिंशपाव्यतिरेकेणाप्यस्ति पलाशादिर्न तु शिंशपा तथेति । सैवाविभागवती गमिकेत्युक्तम् । तदपि परास्तम् । विभाग- वत्त्वाविभागवत्त्वयोर्विरुद्धत्वेन भेदाविनामावित्वात् । नापि धूम एव वहिना क्रियते न श्यामत्वादयस्तद्धा इति युक्तम् । वस्तुनो निर्भाग- त्वात्। अथ यत्राविनाभावस्तत्र तादात्म्यतदुत्पत्ती । तीविनाभावे सिद्धे १५ तयोर्गमकाङ्गत्वमङ्गीकृतं स्यात् । एवमिति चेत् , तयविनाभाव एवास्तु गमकत्वाङ्गं किं तादात्म्यतदुत्पत्तिभ्याम् । न हि स्वभावः स्वभाव इत्येव कार्य च कार्यमित्येव स्वसाध्यं गमयति । किन्तु तदविनाभावीति । अपि च यदि तादात्म्यं गमकत्वाङ्गमिष्यते तदा साध्यसाधनयोर्भे- दाभावेन सम्बन्धाभावादविनाभावानुपपत्तिः । न च निरंशवस्तुवादि- २० नस्तयोस्तादास्ये सति भेदः कथञ्चिदपि घटते । तादात्म्यं हि तत्स्व- भावता, तेन साध्येन साध साधनस्यैक्यमुच्यते । न चैक्ये भेदगन्धोऽपि सम्भवति । भेदे च नैक्यम् । अतः कथं तदात्मतया शिंशपात्वं वृक्षत्वं गमयेत् । तादाम्येन न गमकत्वे हेतुप्रतिपत्तिवेलायामेव साध्य- स्यापि प्रतिपन्नत्वान्नानुमानस्य साफल्यम् । अथ तत्प्रतिपत्तिवेलायां २५ साध्यमप्रतिपन्नमेव । तदा कथं तयोस्तादात्म्यम् । प्रतिपन्नत्वाप्रति- ३४ ५३४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ पन्नत्वरूपविरुद्धधर्माक्रान्तत्वात् । अथोच्यते, यथावस्थितो धम्र्भी शिंश- पात्वं वृक्षत्वं च त्रयमेकात्मकमेव । तत्र धर्मिणि गृह्यमाणे शिंशपात्व- वद्वक्षत्वमपि गृहीतमेव । यथोक्तम्-" तस्मादृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ॥ भागः कोऽन्यो न दृष्टः स्याद्यः प्रमाणैः परी- ५ क्ष्यते ॥१॥” इति । यदि परं शिंशपाविकल्पो जातो न वृक्ष- विकल्पः । वृक्षशब्दस्मृत्यभावापराधात् । शिशपाशब्दसंस्कारप्रबोधकज- न्मना शिंशपाविकल्पेन वाऽशिंशपाव्यावृत्तिपर्यवसितिना नावृक्षव्यावृ- तिरुपनीयते । सर्वविकल्पानां पर्यायत्वप्रसङ्गात् । गम्यगमकभावश्चा- यावृत्त्योर्न वस्तुनोः । तयोरन्वयाभावात् । अवृक्षव्यावृत्त्यशिंशपा- १० व्यावृत्ती च परस्परं भिन्ने । व्यावर्त्यभेदात् । अतो यथोक्तदोषानुप. पत्तिरिति । एतदपि पूर्वापरानुसन्धानविधुराणामभिधानम् । तादात्म्य ह्यनुमानबीजमभिधीयते साध्यसाधनभूतयोावृत्त्योः । पुनरन्योन्यं भेद इति महतीयं परामर्शशक्तिः शाक्यानाम् । ननु वृक्षशिंशपयोस्तादा- म्यात्तदात्मतया व्यवसितयोरवृक्षव्यावृत्त्यशिंशपाव्यावृत्योरपि , सत्यपि १५ भेदे यथाध्यवसायं तादात्म्यमिति चेत् । तर्हि सिद्धे तादात्म्ये सत्य- शिंशपाव्यावृत्त्या धर्मिण्यवृक्षव्यावृत्तिरध्यवसेया तत्राध्यवसितायां चा- वृक्षव्यावृत्तौ यथाध्यवसायं तादात्म्यसिद्धिरित्यन्योन्याश्रयदोषः । व्याप्तिग्रहणवेलायामेकात्मतयाऽव्यवसितयोावृत्त्योस्तादात्म्य सिद्धमिति चेत् , तर्हि काल्पनिकमेव तद्भवेत् । तथा चानुमानमपि २० कल्पनासमारोपितमेव स्यात् । तथोपगमे च न कश्चिदहेतुर्नाम । प्रमेयत्वानित्यत्वयोरप्येकात्मतयाध्यवसितयोर्यथाध्यवसायं तादात्म्यसम्भ- वात् । विपक्षव्यावृत्त्यभावात्प्रमेयत्वस्यानित्यत्वेन सह तादात्म्याभाव इति चेत् । सत्यम् । वास्तवं तादात्म्यं नास्ति , अस्ति कल्पना- समारोपितं तु तदेव चानुमानोदयबान्धवं समर्थितवन्तो यूयमिति २५ विपक्षव्यावृत्तिरसत्कल्पेति कथं प्रमेयत्वं हेतुर्न स्यात् । एवं च तादा. म्यस्य गमकत्वाङ्गतास्वीकृतौ हेतुग्रहणे साध्यस्यापि ग्रहणाड्यर्थमनु- अथ परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः ५३५ ५ मानम् । विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेत् । न । तत्स्वरूपग्रहणे विपरीतसमारोपानवसरात् । न हि शिरःपाण्यादि- विशेषदर्शने सति पुंसि स्थाणुसमारोपो दृष्टः । तत्र वा तद्भेदादुप- पद्येतापि । न हि शिरःपाण्यादय एव पुरुष इति तद्रहणेऽप्यपुरुषारोपः स्यादपि । इह तु वृक्षत्वशिंशपात्वयोरभेदाच्छिशपात्वग्रहणे सति का कथा वृक्षत्वेतरसमारोपस्य । किं च साध्यसाधनयोस्तादात्म्ये यथा शिंशपात्वेन वृक्षत्वमनुमीयते तथा वृक्षत्वेनापि शिंश- पात्वमनुमीयेत । तादात्म्याविशेषात् । अथान्यः सम्बन्धोऽन्यश्च प्रतिबन्धः । द्विष्ठः सम्बन्धः । प्रतिबन्धस्तु परायत्तत्वलक्षणः । तच्च शिंशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिंशपात्वे । यथा धूम- १० स्याग्नौ प्रतिबन्धो न त्वग्नेधूमे । सत्यमेतत् । किन्त्वेवमुच्य- मानेऽविनाभाव एव स्वीकृतो भवेन्न तादात्म्यम् । तादात्म्ये हि यथा वृक्षत्वं सर्ववृक्षसाधारणं तथा शिंशपात्वमपि स्यात् । यथा वा शिंशपात्वं शिंशपां विना न दृश्यते तथा वृक्षत्वमपि शिंशपारहितं न दृश्येत । दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वम् । अथ खदिरादिवृक्षत्वा- १५ दन्यदेव तद्वृक्षत्वं यच्छिशपात्वाभिन्नमित्युच्यते । तर्हि धर्मिभेदेन च धर्माणां भेदेऽन्वयग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेत् । धूमाम्योस्तु कार्यकारणयोर्भेदाद्युक्तं वक्तुं धूमस्यागौ प्रतिबन्धो न त्वमेधूमे इति । इह तु साध्यसाधनयोरव्यतिरेकान्न तथा शक्यते वक्तुम् । तथाभिधाने वा नाव्यतिरेकः। ततः सर्वथा तादात्म्यं वा त्यज्यतां वृक्षत्वेन शिंश- २० पात्वं वाऽनुमीयतां नान्तरावस्थातुं लभ्यते। तन्न तादात्म्यमविनाभाव- निबन्धनम् । नापि तदुत्पत्तिः । यतो न सामान्ययोः कार्यकारण- भावः । किन्तु विशेषयोः । ययोश्च विशेषयोर्महानसादौ कार्यकारण- भावः प्रतिपन्नस्तयोर्न गम्यगमकभावः। ययोस्तु क्षितिधरकन्धराधि- करणयोधूमधूमध्वजविशेषयोर्गम्यगमकभावो न तयोः कार्यकारण- २५ भावः प्रतिपन्नः। न चाप्रतिपन्ने तस्मिंस्तयोरविनाभावो ग्रहीतुं शक्यः।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १३ १० न चागृहीतोऽसावनुमानाङ्गम् । तदानीं तस्य ग्रहणे तु हेतुप्रतिपत्ति- समय एव साध्यप्रतिपत्तेरुन्मीलितत्वात्किमनुमानेन । यदि च तादात्म्य- तदुत्पत्तिभ्यामविनाभावः प्रतिज्ञायते । तदा कथं कृत्तिकोदयादेः शक- टोदयादिकं प्रति गमकत्वं स्यात् । तत्र तादात्म्यतदुत्पत्त्योरभावात् । ५ ततः सकलसम्यग्घेतुव्यापिता स्वयोग्यतैवाविनाभावे निमित्तमास्थेयम् । स्वयोग्यतयैव हि किञ्चित्केनचिदविनाभूतं न सर्व सर्वेण । एवं च-- न तादात्म्यं हेतोनियमकरणे नैपुणधर तदुत्पत्तिर्नापि श्रयति कथमप्यत्र बलिताम् । विनाऽप्येते यस्माद्बत गमकता हेतुनिवहे भवत्येवाऽन्येषां कथमिह ततो यत्नपरता ॥ ४९७ ॥१३॥ ननु हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमनुमान- मित्युक्तम् । तत्र किंलक्षणकं साध्यमित्याह-- अप्रतीतमनिराकृतमभीप्सितं साध्यमिति॥१४॥ १५ संशयादिव्यवच्छेदेन प्रसिद्धमर्थस्वरूपं प्रतीतमुच्यते तद्विपरीतम- प्रतीतम् । अनिराकृतं प्रत्यक्षादिभिरबाधितम् । अभीप्सितं साधनविषय- त्वेनेष्टम् ॥ १४ ॥ अप्रतीतविशेषणं तावत्समर्थयते- शक्षितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिप- त्यर्थमप्रतीतवचनमिति ॥१५॥ संशयाकलितं शङ्कितं विपर्ययविषयीभूतं विपरीतमनध्यवसायविषयी- कृतमनध्यवासितं वस्तु प्रतिपाद्यते । तेषां साध्यताप्रतिपत्त्यर्थमप्रतीत- वचनं साध्यलक्षणसूत्रे कृतम् । एवंभूतान्येव हि वस्तूनि हेतुना साध्यन्ते न पुनर्निश्चितानि । तत्र हेतोर्वैफल्यात् ॥ १५ ॥ २० - - परि. ३सू.१७] स्याद्वादरत्नाकरसहितः ५३७ अथानिराकृतमिति विशेषणस्य फलमुपदर्शयन्नाह- प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनि- राकृतग्रहणमिति ॥ १६॥ प्रत्यक्षमादिर्येषामनुमानागमादीनां तैर्विरुद्धं प्रत्यक्षादिविरुद्धं प्रत्य- क्षादिनिराकृतमित्यर्थः । तत्र प्रत्यक्षबाधितमश्रावणत्वं शब्दस्य । अनु- ५ मानबाधितमेकान्तनित्यत्वं ध्वनेः । आगमबाधितं प्रेत्यासुखप्रदत्वं धर्म- स्येत्यादि ।। १६॥ इदानीमभीप्सितमिति विशेषणस्य फलमाह- अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादा- नमिति ॥ १७॥ १० अनभिमतस्य साधयितुमनिष्टस्य । एतानि चाप्रतीतादीनि साध्य- विशेषणानि त्रीण्यपि स्वार्थानुमानेऽनुमात्रपेक्षयैव सम्भवन्ति । तत्र वादिप्रतिवादिव्यवस्थानस्यासम्भवात् । परार्थानुमाने तु तत्सम्भवेनाप्र- तीतमिति विशेषणं प्रतिवाद्यपेक्षया । न पुनर्वाद्यपेक्षया । तस्यार्थस्वरूप- प्रतिपादकत्वात् । न चाप्रतिपन्नार्थस्वरूपः प्रतिपादको नाम । अति- प्रसङ्गात् । प्रतिवादिनस्तु प्रतिपाद्यत्वेनाविज्ञानार्थस्वरूपत्वाविरोधात् । ननु शङ्कितविपरीतानध्यवसितानां त्रयाणामप्यर्थानां परार्थानुमाने साध्यत्वमसम्बद्धम् । शङ्कितस्यैवैकस्य साध्यत्व- शङ्कितस्यैव साध्यत्वं न तु विपरीतानध्यवसितयोरितिघटनादिति कश्चित् । सोऽपि न विपश्चित् । कस्यचिन्मतस्य शवितेऽर्थे संशयितस्य संशयापनोदेनेव विपरी- २० तानध्यवसितयोरप्यर्थयोर्विपर्ययानध्यवसायव्यव- च्छेदेन परार्थानुमानस्य निर्णयोत्पादकत्वाविशेषात् । विपर्यस्ताव्युत्पन्नौ पर प्रति नोपसर्पत एव कुतः प्रतिपाद्यौ स्यातामिति चेत् । भैवम् । परपक्षदिदृक्षादिना विपर्यस्तस्य स्वयं तत्त्वबुभुत्सया चाव्युत्पन्नस्य परं- प्रत्युपसर्पणसम्भवात् । कौचित्तौ नोपसर्पत एव परमिति चेत् । २५ खण्डनम् ।

५३८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १७ संशयितोऽपि कश्चित्तथैव । सर्वस्य तस्य निणयाकाङ्क्षाया असम्भवात्। अथ परानुग्रहतत्परान्तःकरणेनोपेक्षानुपपत्तेरनर्थित्वादनुपसर्पन्नपि संशयि- तात्मा प्रतिबोध्य एव । तर्हि तत एव विपर्यस्ताव्युत्पन्नावपि तथा स्ताम् । अविनेयविषयमेवमनुमापयितुर्माध्यस्थ्यं विरुध्यत इति चेत् । मैवम् । ५ माध्यस्थ्यं हि रागद्वेषाश्लेषकालुप्यविषयत्वमुच्यते । तच्च परमकृपापीयू- पूरितान्तःकरणानां विपर्यस्ताव्युत्पन्नयोविनेयत्वसिद्धये गुणदोषोपदेश- नायां वर्तमानानां कथं विरोधमधिरोहति । यदि च विपर्यस्ताव्युत्पन्नौ प्रतिपाद्यौ न स्याताम् । तदा लोकस्य व्यवहारस्यापि विलोपः स्यात् । दृश्यते हि लोके पित्रा विपर्यस्तोऽव्युत्पन्नश्च पुत्रः शिक्ष्यमाणः । कथं १० वाऽयं जिगीषुकथायामनुमानं प्रयुञ्जीत । परस्य विपर्यस्तत्वात् । जिगी- घुवादस्य साभिमानजनारभ्यत्वात् । तथा चोक्तम्-" साभिमानज- नारभ्यश्चतुरङ्गो निवेदितः " इति । ततः स्थितं शङ्कितादयस्त्रयो- प्यर्थाः साध्या इति । अनिराकृतमिति तु विशेषणमुभयापेक्षया । यत्खलु वादिप्रतिवादिनोः प्रमाणेन न बाध्यते तदेव साध्यामिति । १५ अभीप्सितमिति पुनर्वाद्यपेक्षयैव । इच्छया खलु विषयीकृतमभीप्सित- मुच्यते । स्वाभिप्रेतार्थप्रतिपादनाय चेच्छा वक्तुरेव । ततश्च परार्था- श्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यस्य प्रसि- द्धयति । तद्धीच्छया व्याप्तं साङ्यस्य बौद्धं प्रति साध्यमेव । आत्मा हि साङ्येन साधयितुमुपक्रान्तस्ततोऽसावेव साध्यः । अन्यथा २० साधनस्य वैफल्यापत्तेः । संहतपरार्थत्वेन बौदैश्चक्षुरादीनामुपगमात् । एवं चात्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोषः साध्यवैकल्यमिति । एतेन चार्वाकोक्त- सद्वितीयत्वप्रयोगोऽप्यप्रयोगाई एवेति निवेदितम् । यथाऽभिव्यक्तचैतन्य- शरीरलक्षणपुरुषघटान्यतरसद्वितीयो घटोऽनुत्पलत्वात्कुड्यादिवदिति २५ कुडयादौ घटसद्वितीयत्वेन व्याप्तिर्यथोक्तपुरुषसद्वितीयत्वे साध्ये फलतो विश्राम्यतीति पराभिप्रायः । तेन भङ्गया तथाविधपुरुषसिद्धिर्ननु घटे- परि. ३ सू. १७] स्याद्वादरत्नाकरसहितः ५३९ नास्त्यकृतेति । अथ प्रयोगे तथाभूतेन पुरुषेण तथा कुड्यादौ सद्वि- तीयत्वासिद्धेरन्वयदोषः । अथ सामान्येन साध्यमिति न पुरुषद्वितीय- स्वस्याक्षेप इति चेत् । ननु घटो घटेनैव सद्वितीयस्तावन्न भवति तादृक्पुरुषेणान्यथा वा सद्वितीयत्वे तु साध्यवैकल्यं दृष्टान्तस्य । तथा यादृशं केवलेनैव घटेनैव सद्वितीयत्वं दृष्टान्ते सिद्धं तादृशमेव ५ तत्साध्यधर्मिण्यनिष्टं प्राप्नोतीति हेतोविरुद्धत्वम् । अपरत्र तु सिद्ध- साधनम् । येन केनचित्सद्वितीयत्वस्य सिद्धत्वात् । किं च यदि पुरुषविशेषसद्वितीयत्वं हेतुना न स्वव्यापारास्पदीकृतं कथमतस्तत्सिद्धिः। न ह्ययं हेतुस्तदर्थः सिद्धः। सिद्धो वा कथमविषयस्तस्य । विषय- श्चेत्स्वाश्रयां दोषगतिं कथं न स्पृशेत् । सोऽयं वादी पुरुषगत- १० सद्वितीयत्वाश्रयां सिद्धिं साधनादुपजीवति न दूषणमिति व्यक्तमिति राजकुलस्थितिः । युक्तवादिकुले हि यस्यैव साधनेन सिद्धिश्चिकीर्षिता तस्यैवार्थस्य दूषकेण सिद्धिनिराकर्तव्या । तस्माद्यावतीमर्थगति साधनं सामर्थेन व्याप्नोति तावती तद्दषणमपि । किं च कथं सामान्यस्य साधनं सम्भवति । प्रतिवादिनोऽभिव्यक्तचैतन्यस्य पुरुषस्याभावादेव १५ घटादर्थान्तरभावानभ्युपगमेनान्यतरशब्दप्रयोगासंगतः । द्वयोर्हि तथा- भावसम्भवेऽन्यतरोक्तिः समर्था भवति । यथा देवदत्तयज्ञदत्तयोरन्य- तरं भोजयेदिति । अनयोर्द्वयोरपि भोजनविधिसम्भवे ह्यनियत एक- स्मिन्भोजनं विधीयते । ततोऽन्यतरोक्तिः सङ्गतार्था । न पुनरेकतरस्य कुतश्विन्निमित्ताद्भोजनासम्भवे वक्तुरेकतरभोजनस्यानाकाङ्क्षायां वा । २० अपि च न घटाद्धटोऽर्थान्तरम् । यदि हि तस्यैव घटस्य स एव घटो द्वितीयः । तदा घटत्वं च न स्यात्तस्मादेतच्चैकस्मिन्विरुद्धमिति यथोक्तपुरुष एवान्यतरोऽपेयः । तथा च विरुद्धार्थ साध्यवाक्यं कथं चार्वाकस्य न स्यात् । ननु स्वार्थानुमानस्वरूपनिरूपणप्रकरणे परार्थानु- मानोपयोगिनो वादिप्रतिवाद्यपेक्षस्य विशेषणविचारस्य कोऽवसरः । २५ उच्यते । स्वार्थानुमानपुरस्सरतया परार्थानुमानस्यापि प्रवृत्तिः ।

५४०
-
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १७
स्वनिश्चयवदन्येषां निश्चयोत्पादनस्यैव परार्थानुमानत्वादिति परार्थानु-
मानोपयोगिनोऽप्यस्य विचारस्यात्र प्रस्तूयमानस्य न कश्चिद्दोषः ॥१७॥
अथ साध्यस्य व्याप्त्यानुमानिकप्रतिपत्त्यवसरापेक्षया भेदं दर्श-
यन्नाह-
५ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एवान्यथा
तदनुपपवेरिति ॥ १८॥
व्याप्तिग्रहणसमयो यावान्कश्चिद्भूमः स सकलः पावकं न व्यभि-
चरतीति प्रतिपत्तिकालस्तदपेक्षया साध्यं धर्म एव वयादिर्न तु
धरित्रीधरादिधर्मी । अत्र व्यतिरेकिणं हेतुमाह- अन्यथा धर्मस्यैव
१० साध्यत्वमन्तरेण । तस्या व्याप्तेरनुपपत्तेः ॥ १८ ॥
एतदेव भावयन्नाह-
न हि यत्र यत्र धूमस्तत्र चित्रभानोरिव धरित्री-
धरस्याऽप्यनुवृत्तिरस्तीति ॥१९॥
उत्तानार्थमदः ॥ १९॥
१५ आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्या-
यस्तद्विशिष्टः प्रसिद्धा धर्मीति ॥२०॥
अनुमानाजाता आनुमानिकी सा चासौ प्रतिपत्तिश्च तस्या
अवसरः प्रतिनियते धर्मिणि साध्यसाधनसमयः । तदपेक्षया पुनः
पक्षापरपर्यायस्तेन व्याप्तिकालापेक्षया साध्यत्वरभिमतेन धर्मेण विशि-
२० ष्टोऽवच्छिन्नस्तद्विशिष्टः । प्रसिद्धो वादिप्रतिवादिनोः प्रतीतो धर्मी
पर्वतनितम्बादिः । साध्यमिति प्राकरणिकमिह सम्बध्यते ॥ २०॥
प्रसिद्ध इत्युक्तमथ यतोऽस्य प्रसिद्धिस्तदभिदधाति-
कचिद्विकल्पतः कुत्रचित्प्रमाणतः क्वापि विकल्प-
प्रमाणाभ्यामिति ॥ २१ ॥

परि. ३ सू. २२] स्याद्वादरत्नाकरसहितः -- धर्मिणः सर्वज्ञादेः प्रसिद्धिः प्रतीतिः क्वचिद्विकल्पतोऽध्यवसाय- मात्रतो भवति। तथा कुत्रचित्प्रमाणतः सकाशात् । कापि पुनर्विकल्प- प्रमाणाभ्यामिति ॥ २१ ॥ अथैतेषां क्रमेणोदाहरणत्रयमाह- यथा समस्ति समस्तवस्तुवेदी क्षितिधरकन्धरेयं ५ धूमध्वजवती ध्वनिः परिणतिमानिति ॥ २२ ॥ तत्राचे निदर्शने धर्मिणो विकल्पसिद्धत्वम् । न खलु हेतुप्रयोगा- त्पूर्वं सर्वज्ञस्य विकल्पं विहायान्यतः कुतश्चित्सिद्धिरस्ति । द्वितीये प्रमाणसिद्धत्वम् । क्षितिधरकन्धरायाः प्रत्यक्षसिद्धत्वात् । तृतीये विकल्पप्रमाणसिद्धत्वम् । ध्वनिसामान्यं हि धर्मी कृतं तत्र कश्चिव- १० निर्विकल्पसिद्धः कश्चित्प्रमाणसिद्ध इति । अत्राह शाक्यः--ननु प्रथमे सत्ता साध्यमाना न साधिमान- माधत्ते । तथा हि, असौ साध्यमानोपात्तसर्वज्ञ- सत्तायाः साध्यं निराकु- वतो बौद्धस्य खण्डनम् । विशेषणविशिष्टैव साधयितव्या । सत्तामात्रस्य साधने वादिनोऽभीष्टसिद्धयभावस्य प्रतिवादिनः १५ सिद्धसाध्यतावतारस्य च प्रसङ्गात् । अस्ति कश्चिदिति हि साधयतो वादिनः का नामेष्टसिद्धिः स्यात् । करतलतुलितनिस्तलस्थूलमुक्ता- फलायमानाकलितसकलत्रिलोकीवर्तिवस्तुजातत्वादिविशेषणविशिष्टस्य पुरुषस्याप्रसिद्धेः । न च प्रतिवादिनापि तथा नाभिमतम् । अनिर्दिष्ट- स्वभावविशेषस्य कस्यचिस्सत्तामात्रे विरोधाभावात् । तदुक्तम्- २० " भावोपधानमात्रे तु साध्ये सामान्यधर्मिणि ॥ न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् ॥ " अस्यार्थः-भावः सत्ता स उपधानं विशेषणं यस्य तन्मात्रत्वादेव सामान्यरूपे धर्मिणि साध्ये न कश्चिदर्थोऽभिमतः सिद्धः स्यात् । न च केनचित्प्रतिवादिना तथाभूतं वस्तु निषिद्धं येन साध्येतेति । तस्मादुपात्तसर्वज्ञविशेषणविशिष्टैवासौ २५ ५४२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. २२ साधयितव्या । तत्र चानन्वयदोषः । मीमांसकस्य क्वचिदपि सर्वज्ञा- प्रसिद्धेः । तदित्थं न सत्ता साध्यतामहंतीति । तत्रायं महात्मा प्रसिद्ध- धूमानुमानादावपि समानमिदमशेषमाकलयन्नपि सत्तामेव प्रसञ्जयन्न लजत इति निश्चितं नगरवायसः । तथा हि नाग्निमात्रे साध्ये कश्चि- ५ द्विवादो वह्निमात्रस्य सर्वप्रमातृप्रसिद्धत्वात् । महीध्रकटकादिविशिष्टा- धारविशेषणस्य त्वदभिमतस्य तस्यानन्वय इति । अथ नैव कश्चित्तथा- भूतेनार्थेनान्वयं करोति । प्रतिपादयता हि परं धूमोऽग्निनान्तरीयको दर्शनीयो यत्र धूमस्तत्राग्निरिति । स तथानिमात्रेण व्याप्तः सिद्धो यत्रैव स्वयं दृश्यते तत्रैवानिवुद्धिं जनयतीति । तदुक्तम्-" लिङ्गस्या- १० व्यभिचारस्तु धर्मेणान्यत्र दर्यते ॥ तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥१॥" अयमर्थः-लिङ्गस्य धूमादेः साध्यधर्मेणा- व्यभिचारोऽन्यत्र सामान्यवति धर्मिणि दर्शयितव्यः, तथा ज्ञाता- व्यभिचारं लिङ्गं तत्र साध्यधर्मिणि प्रसिद्धं सदव्यभिचारितया निश्चीय- मानं व्यापकधर्मयुक्तं धर्मिणं गमयिष्यति। तदसम्बद्धम् । एवंविधन्या- १५ यस्यान्यत्राप्यन्यूनत्वात् । तथा हि न सर्वज्ञविशिष्टेन सत्त्वेन कश्चि- दन्वयं करोति किन्तु सत्त्वमात्रेण । तेन हि किञ्चित्साधनमविनाभूतं सिद्धं यत्रैव क्वचित्स्वयं दृश्यते तत्रैव साध्यधियमादधातीति को नामात्रापराधः । अथ सर्वज्ञशब्दवाच्यस्यार्थस्यैव कस्यचिदसिद्धत्वात्परं प्रति कथं तत्र सत्तासिद्धिः स्यादन्यत्र तु सिद्ध एवोभयोरपि पर्वत- २० नितम्बादिरिति तत्र वह्रिसाधनं साधीय इति चेत् । कुतः पुनरुभयोः पर्वतनितम्बादिसिद्धिः । प्रत्यक्षादिति चेत् । सर्वज्ञसिद्धिरपि विकल्पा- दिति प्रतीहि । न च विकल्पाद्धर्मिप्रसिद्धिं नाभ्यशंसन् भवन्तः । न सन्ति प्रधानादयोऽनुपलब्धेरित्यादिप्रयोगाणां धर्मकीर्त्तिना स्वयं समर्थनात् । न चासत्तायामेव साध्यायां विकल्पसिद्धेन धर्मिणा भवितव्यं न सत्तायामित्यत्र स्वैरित्वादपरं कारणमीक्षामहे । तस्मादु- भयत्र वा विकल्पसिद्धिं धर्मिणमभ्युपयन्तु मैकत्रापि वाऽभ्युपेयुः । न २५ परि. ३ सू. २२] स्याद्वादरत्नाकरसहितः ५४३ पुनरर्धजरतीयमेतल्लभ्यते । अथ सत्तायां साध्यायां सर्वस्तद्धेतुर्भाव- भावाभावाभावधर्मविकल्पत्रयीं दोषजाति नातिवर्त्तते, असिद्धिं व्यभि- चारं विरोधं च । तत्र यदि भावधर्मों हेतुरुच्यते । स कथमसिद्ध- सत्ताके स्यात् । यो हि भावधर्मं तत्रेच्छति स कथं तद्भावं नेच्छेत् । स्वभाव एव हि धर्मान्तरं प्रतिक्षेपापेक्षया धर्म इति व्यतिरेकी च ५ धर्मिणो निर्दिश्यते । अथ च भावाभावोभयधर्मः। तर्हि व्यभिचारः । न हि बुद्धिरस्त्यमूर्त्तत्वादित्यत्रामूर्तत्वस्य गमकत्वं भवन्तोऽप्यैच्छन् । निरूपाख्येऽप्यमूर्त्तत्वस्य भावात् । अभावधर्म हेतुं वदतोऽस्य विरुद्धो हेतुः स्यात् । तस्य भावे क्वचिदसम्भवात् । तदुक्तम्-" नासिद्धे भाव- धर्मोऽस्ति व्यभिचार्युभयाश्रयः॥धर्मो विरुद्धोऽभावस्य स सत्ता १० साध्यते कथम् ॥ १॥" भिक्षो कथमेवं न सकलानुमानप्रलया- पत्तिः । अनित्यः शब्दः सत्त्वाद्धटवदित्यादिप्वपि तथैव दोषत्रयानु- षङ्गात् । शक्यं हि वक्तुं किमयं सत्त्वादिरनित्यधर्म आहोस्विन्नित्यधर्म उभयधर्मों वेति । अनित्यधर्मश्चासिद्धः । तमनित्यधर्म सिद्धं तत्रेच्छन्न- नित्यमेव शब्दं किन्नेच्छेत् । यावान्कश्चिद्भावः सन्स सर्वोऽप्यनित्य १५ एवेति साकल्येन व्याप्ती प्रसिद्धायां को हि प्रेक्षावान् शब्दमनित्यं न प्रतिपद्यते । यतः संश्च शब्द इति साधनाङ्गवचनं प्रतीक्षेत् । नित्य- धर्मस्तु तत्र विरुद्धः । तद्विपक्ष एव भावात् । उभयधर्मश्चानैकान्तिकः। सपक्षविपक्षवृत्तित्वादिति सर्व समानं पश्यामः । ततो न कश्चित्कस्य- चिद्धेतुः स्यात् । किञ्चैतदखिलमसत्तासिद्धावपि समानम् । तथा हि २० नासिद्धे भावधर्म इत्यादिरेव श्लोकस्तावत्पुनः पठ्यताम् । अयं खल्व- स्यार्थः, असिद्धे प्रधानादेरभावेऽभावधर्मोऽनुपलब्धिरूपो हेतुः कथं सिद्धः स्यात् । सिद्धौ हि तस्य साध्यस्यापि सिद्धत्वाद्यर्थमनुमानं भवेत् । यः खल्वमावधर्मं तत्रेच्छति स कथमभावमेव तस्य नेच्छेत् । अभावभावोभयधर्मः पुनर्व्यभिचारी । भावस्य तु धर्मोऽयं विरुद्धः । २५ तस्याभावे कचिदभावादिति कथमसत्ता साध्यते । अथ सामान्येना- .

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २२ भावधर्मः सिद्धोऽपि प्रस्तुते धर्मिणि दृश्यमानो गमयत्यभावम् । एवं ताहि तथैव भावधर्मोऽपि सत्तां गमयतु को दोषः । ततो न सत्ता- साधनविरोधो बौद्धैरभिधातव्यः । यौगास्तु सङ्गिरन्ते-विकल्पसिद्धो धर्मी न भवत्येव तस्याप्रमाण- त्वात् । तथा ह्ययं विकल्पः पर्वतनितम्बादि- धर्मिणो विकल्पसिद्धत्वम- नङ्गीकुर्वतो नैयायिकस्य विकल्पवत्प्रमाणतया नैव स्वीचक्रे । तत्र मतमुपदर्य खण्डयते। प्रमाणस्यैव प्राधान्यात् । विकल्पसिद्धो धर्मीति कमर्थं पुष्णाति । अप्रमाणेन ननु विकल्पेन कः सुधीः कस्यापि सिद्धिमभिदधीत । यदि हि तथाभूतादपि विकल्पात्साध्यासिद्धिः स्यात् । १० तदा यदेतदाहोपुरुषिकया परीक्षकाणां प्रमाणपरीक्षणं तदायासफलमेव भवेत् । तदिह विकल्पेन सिद्धो धर्मीति किमपि कपटनाटकं सित- पटानाम् । तथा च धर्मिणोऽसिद्धेराश्रयासिद्धो हेतुरिति । निरचायि ततस्तत्त्वं भो योगग्रामणीस्तवेदानीम् ॥ स्वारूढामपि शाखां यत्खण्डयितुं प्रवृत्तोऽसि ॥ ४९८ ॥ १५ यदि हि विकल्पसिद्धो धर्मी न भवत्येव तदा कथं विकल्पसिद्धो धर्मी न भवति तस्याप्रमाणत्वादित्यत्रैवासौ धर्मितयोपादायि । कथं चात्रास्यैव हेतो श्रयासिद्धतोपनिपातः । न खलु भवतोऽत्र धर्मी प्रमाणेन सिद्धः । तथाभूतायां परं प्रत्याश्रयासिद्धतोद्भावनस्य विरो- धापत्तेः । य एव हि परेण सर्वज्ञबान्ध्येयादिर्विकल्पसिद्धो धर्मी स्वानु- माने निरदोश स एव भवताऽप्यत्रानुमाने । अन्यस्य धर्मित्वनिराकृतेः प्रकृतानुपयोगात् । स विकल्पसिद्ध एव भवतोऽपि । तथा च- विकल्पसिद्धं यदि वक्षि धर्मिणं तदा प्रसिद्धं सुधियामभीप्सितम् ॥ अथो निराख्यासि तमत्र धर्मिणं तदापि सिद्धं सुधियामभीप्सितम् ॥ ४९९ ॥ २५ परि. ३ सू. २२] स्याद्वादरत्नाकरसहितः .. न चोभयस्याप्यनभिधानमिति शक्यं वक्तुम् । विधिनिषेधयोर्भावा- भावत्वादेकनिषेधेनापरविधानात् । विधेः प्रतिषेधो हि निषेधः प्रति- षेधनिषेधश्च विधिरिति । अस्तु वा न विधिर्नापि प्रतिषेधस्तत्र क्रियत इत्युभयाभावप्रतिज्ञा । तथाप्येवं वदतैव विकल्पसिद्धे धर्मिणि निषेध व्यवहारः स्वीकृतः । न हि निषेधमवधूय नञोऽन्यदर्थसम्भावना । स ५ च निषेधो यदि न प्रमाणसिद्धः कथमाद्रियते । किं चास्य वचनेनापि प्रमाणसिद्धिस्वीकारे च न तावदध्यक्षमेव तत्र साधनम् । अध्यक्षस्य तद्विषयत्वविरोधात् । अनुमानाश्रयणे चाश्रयासिद्धिरशक्यपरिहारा । ततो वान्ध्येयादिप्रस्तावे मूकतैव प्राप्ता । न च प्रतिज्ञामात्रस्याप्यव- काशः । न चैवं शक्यम् । यावन्न राजदण्डेन तत्प्रस्तावनिवारणम् । १० प्रस्तावे त्ववश्यं सभासम्भविनः प्रवक्तुर्वचनमनुषङ्गि । वचनस्य विधि- निषेधाभ्यां नापरो व्यापारः । अतो न वचनं नोऽवचनमिति महति कष्टसङ्कटे प्रवेशः । किं च वान्ध्येयादौ धर्मिणि हेतोराश्रयासिद्धिः कस्मादुपन्यपतत् । अवस्तुत्वात्तस्येति चेत् । वान्ध्येयस्य नास्तित्वे साध्ये तावदद्यापि सन्दिग्धमवस्तुत्वम् । यत्र त्वेकान्तनित्यमर्थक्रिया- १५ समर्थ न भवति क्रमयोगपद्यविरहादित्यभिधीयते जैनेन तत्रास्य हेतो- राश्रयासिद्धत्वसिद्धये एकान्तनित्यस्यावस्तुत्वादिति साधनं भवताऽमि- धीयमानं भवत एवासिद्धम् । एकान्तनित्यस्य त्वया वस्तुत्वेन स्वी- कारात् । परोपगमापेक्षयेदमुच्यत इति चेत् । तर्हि प्रसङ्गहेतुरयं स्यात् । अवस्तुत्वादेकान्तनित्यस्याश्रयासिद्धस्तत्र हेतुरित्यर्थः । एवं सत्यवस्तुनि २० हेतुराश्रयासिद्धत्वेन व्याप्तो वक्तव्यः । न हि प्रतिबन्धमन्तरेण कश्चि- द्धेतुर्भवति । पक्षधर्मतामात्र एव हि परोपगमापेक्षा यः प्रसङ्गहेतु- रुच्यते । नतु व्याप्तावपि । तदुपगम एव कदाचिदेवमपि स्यादिति चेत् । तथापि न जैनैरवस्तुनि हेतुराश्रयासिद्धत्वेन व्याप्तोऽभ्युपागामि । एकान्तनित्य एवावस्तुभूते हेतुप्रणयनस्वीकारात् । ततश्च यत्रैवावस्तु- २५ । १ 'वक्तुं' इति नास्ति भ. पुस्तके ।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २२ न्यवस्तुत्वाद्धेतोराश्रयासिद्धिरुपादीयते तत्रैव तव नावस्तुनि विधि- प्रतिषेधावित्यस्याः प्रतिज्ञायाः परिक्षयः । यदि च परो- पगमादेव व्याप्तिरपि विवक्षिता, अवस्तुन्यवस्तुत्वादाश्रयासिद्धो हेतु- रिति । तर्हि नेदं तथानुमतमिति तथापि नावस्तुनि विधिनिषेधाविति ५ व्याहतम् । प्रतिषेधस्य स्वयं स्वीक्रियमाणत्वात् । नमोऽन्यार्थाभावात् । किं च सर्वः प्रसङ्गो विपर्ययपर्यवसितव्यापार इति न्यायाद्यद्यद्वस्तु एकान्तनित्यं स्यात्तदाश्रयासिद्धस्तन्नावस्त्वेकान्तनित्यमिति किं विव- क्षितम् । तदापि यदाश्रयासिद्धिदोषः प्रस्तुतो नास्ति प्रकृते । तदा सिद्धमेवास्मदुपन्यस्तमर्थक्रियासामर्थ्याभावस्वभावं साध्यम् । तस्मा- १० स्वतन्त्र एव वस्तुत्वादाश्रयासिद्धिरवस्तुनि हेतोरिति हेतुदूषणप्रवृत्तस्य परस्यावस्तुत्वादिति हेतुः । तथा च नावस्तुनि विधिनिषेधाविति दूरी- कृतमेतत् । व्यापकानुपलम्भश्चायं त्वया प्रयुज्यते । आश्रयत्वस्य वस्तु- वेन व्याप्त्यभिमानात् । स चाभिमानस्तव स्ववचनविरोधमनवबुद्धय- मानस्यैव । न हि नावस्तुनि विधिनिषेधाधारत्वमिति स्ववचनविरोध १५ मन्यमानस्य वस्तुत्वेन धर्मित्वस्य व्याप्त्यभिमानो मानसं स्पृशति । किं त्वपरिभावकतयातिसामान्यजनस्यापि प्रतीतम् । यदापि वन्ध्यासुतो वक्ता न वेत्येवं विधे प्रस्तावे वन्ध्यासुतो वक्ता न भवत्यवस्तुत्वादित्य- भिधीयते । तदाऽत्रोपात्तधर्म्यपेक्षयाऽवस्तुत्वादिति हेतोः कथं नाश्रया- सिद्धता । अथ वान्ध्येयो वक्ता न वेत्येवंविधां यदि कश्चिदाशङ्कां २० कुर्वीत तदा भवतां तत्र वान्ध्येयो वक्ता न भवतीत्युत्तरवितरणावकाशः स्यादिति चेत् । ननु कस्मादीदृशीमाशङ्कां न कश्चित्करोति । तद- वस्तुतायाः सुप्रसिद्धत्वादिति चेत् । पुनस्तदेवायातं वन्ध्यासुतस्य धर्मिणो वक्तृत्वेनाशङ्कनीयताया निषेधः साध्यः सुप्रसिद्धावस्तुत्वादिति हेतुरिति । न चावस्तुत्वेन प्रसिद्धत्वेऽपि सर्वथा शङ्काविरहः । निःसीमो २५ हि मोहमहिमा ततो यथा शब्दे चाक्षुषत्वादानित्यत्वं सम्भावयन्नसिद्धत्वेन निषिध्यते । तथेहापि स्यातां शङ्कानिषेधौ न विरोधः । तस्माद्वस्तुनी- वावस्तुन्यपि कस्यचिद्धर्मस्य विधिनिषेधव्यवहारो दुरि इति ।

परि. ३ सू. २२] . ५४७ स्याद्वादरत्नाकरसहितः मीमांसकः पुनराह-नन्वसिद्धः सर्वज्ञविषयो विकल्प इति न तस्मात्तात्सद्धिस्तथा चाश्रयासिद्धः सर्वज्ञसत्तायां सर्वज्ञविषयो विकल्प एवा- सिद्धः कुतस्तस्माद्धानिस सर्वो हेतुरिति । तदसत् । यथैव ह्यनुन्मीलित- द्धिरिति मीमांसकाधि- लोचनस्य प्राङ्मुखः प्रत्यङ्मुखो वाऽहमिति क्षेपस्य निरासः। मानसी प्रतीतिस्तथा सर्वज्ञ इत्यपि प्रतीतिःप्रत्या- त्मवेद्यैव । सर्वथा सर्वज्ञविकल्पविधुरचेतसः प्रबलनिद्राक्रान्तस्येवाश्रया- सिद्धयुद्भावनानुपपत्तः। “ कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव ॥ य एव स्यादसर्वज्ञः स सर्वज्ञ न बुध्यते ॥ १ ॥” इत्यायनभिधान- प्रसङ्गाच्च । सोऽयं सर्वज्ञविषयं विकल्पवचनं च प्रवर्तयन्नाश्रयासिद्ध- मुद्भावयतीति पश्य श्रोत्रियस्याप्युन्मत्तचेष्टितम् । किं च स्वसंवेदन- १० प्रत्यक्षलक्षणेन प्रमाणेन प्रतीयमानस्य सर्वज्ञविषयविकल्पस्याप- लापे सकलभावापलापप्रसङ्गः । प्रमाणविरोधश्चोभयत्रापि तुल्यः । नन्वस्त्येव सर्वज्ञावभासी मानसो विकल्पः । परं तदेव निरा- लम्बनोऽसाविति नैतद्वशादाश्रयासिद्धिरिति चेत् । हन्त हतोऽसि । मानसज्ञानादभावस्याप्यसिद्धिप्रसक्तेः । एवं च " गृहीत्वा वस्तुस- १५ द्भावम्" इत्याधनवकाशम् । मानसादपि च नास्तिताज्ञानादभाव- स्यापि सिद्धिमुपजीवत्ययं श्रोत्रियो नाश्रयसिद्धिं तत इति स्वातन्त्र्य- विजृम्भितम् । अथ तदेवासौ निरालम्बना किन्तु सर्वज्ञलक्षणविषय- स्यासिद्धेरिति चेत् । कुतस्तदसिद्धिरित्यभिधातव्यम् । तत्र प्रमाणास- म्भवादिति चेत् । तीतरेतराश्रयदोषः । सिद्धे हि तद्विकल्पस्य निरा- २० लम्बनत्वे प्रमाणासम्भवसिद्भिस्तत्सिद्धौ च तद्विकल्पस्य निरालम्बनत्व- सिद्धिरिति । एवं च सिद्धमेतत्-- हेतुं गृहीत्वा सुदृढप्रमाणैः स्मृत्वाऽविनाभावमथोक्तरूपम् ।। यथोक्तसाध्ये समुदेति बुद्धिः स्वार्थानुमानं तदिदं वदन्ति ॥५००॥२२॥ २५ प्ररूपित स्वार्थमनुमानम् । अधुना परार्थं तन्निरूपयन्नाह- ५४८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २३ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारादिति ॥२३॥ पक्षहेतू निरूपितस्वरूपौ तयोर्वचने प्रतिपादकध्वनी ते एवात्मा स्वरूपं यस्य तत्पक्षहेतुवचनात्मकं परार्थमनुमानमुच्यते । पक्षहेतुवच- ५ नात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षयाऽत्रोक्तम् । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवति । यद्ध- क्ष्यन्ति मन्दमतीस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्या- नीति । अतिव्युत्पन्नमतिप्रतिपाद्यापेक्षया पुनधूमोऽत्र दृश्यत इत्यादि हेतुमात्रवचनात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्सा- १० क्षात्तत्र सूत्रितमुपलक्षितं तु द्रष्टव्यम् । ननु ज्ञानं प्रमाणमिति प्रमाण- सूत्रे निर्णीतमतः कथं पक्षादिवचनस्य जडात्मनोऽनुमानप्रमाणत्वमि- त्याशङ्कापनोदार्थमुक्तमुपचारादिति । कारणे कार्योपचारादित्यर्थः । उप- चारश्च मुख्यबाधादौ सति प्रवर्त्तते । तत्र पक्षादिवचनस्य जडस्वरू- पत्वान्मुख्यवृत्यानुमानप्रमाणत्वं न भवति । ज्ञानस्यैव प्रमाणस्वरूप- १५ त्वादिति मुख्यबाधः स्पष्ट एव । प्रयोजनं पुनरन्यकारणवैलक्षण्येन कार्यकारित्वं नाम । यथा खलु पक्षादिवचनं परस्यानुमानजननाय प्रभवति । न तथाऽपरमिति सुप्रतीतम् । सम्बन्धश्चात्र कार्यकारण- भावः । ततश्च प्रतिपाद्यगतमुत्पत्स्यमानं यज्ञानं तत्कारणत्वात्पक्षादि- वचनमप्युपचारेणानुमानं प्रमाणमुच्यते । यथा मद्वचनमात्रादयमवबु- २० ध्यतामित्यभिसन्धिमान्वक्ता न प्रस्तुतं वाक्यमभिधत्ते । किन्त्वनुमान- तोऽयं मयाऽवबोधनीयामेत्यभिप्रायवान् । श्रोताऽप्येतद्वचनमात्रादयमों मयाऽवबुद्ध इति न मन्यते । किन्तु व्याप्तिमतो लिङ्गादमुमर्थमवबुद्ध- वानिति । अतः श्रोतुः प्रतीत्यभ्युपायत्वात्परार्थमिदमुच्यते । यदाह "वक्तुः स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते ॥ परो मद्ध- २५ चनादेव तमर्थ बुद्ध्यतामिति ॥ १॥ किं त्वेतमनुमानेन बोधया- १. कि' इति भ. पुस्तके पाठः ।

परि ३ सु. २३] स्याद्वादरत्नाकरसहितः... मीति मन्यते ॥ सोऽपि तद्वचनान्नैवं तमर्थमवबुध्यते ॥ २॥ किन्तु व्याप्तिमतो लिङ्गात्स्वयं त्वर्थ न पश्यति । तत्प्रतीत्यभ्युपायत्वा- त्परार्थमिदमुच्यते ॥३॥” इति । अतश्चात्र श्रोतुः स्वार्थानुमान- मवदम् । वक्ता तु तथापरं प्रतिपादयन्परार्थमनुमानं प्रयुक्त इत्युच्यते । न चानुवादमात्रं तद्वक्तुरित्युपपद्यते ॥ यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥ ५०१ ।। परेणानधिगतस्यार्थस्योपदेशकत्वान्नानुवादमात्रमनुमानवाक्यम् । स्वावगमापेक्षया त्वनुवादमात्रत्वेनेदानीमाप्तवचनमपि न तथा स्यात् । तस्यापि स्वावगमपूर्वकत्वात् । कार्ये कारणोपचाराद्वा वचनेऽनुमानव्य- पदेशः । प्रतिपादकगतं हि स्वार्थानुमानं तद्वचनस्य निमित्तं, स हि १० स्वयं साध्यं प्रतिपद्य यथा ममैतत्प्रतिपत्तिरुत्पद्यते तथैवैनमपि प्रति- बोधयिष्यामीति । ततो वचनस्य तत्कार्यस्याज्ञानरूपस्यापि तव्यपदेशः सुन्दर एव । वादिनश्च प्रतिपत्तिः साध्यधर्मविशिष्ट- धर्मिरूपा प्रत्यक्षानिश्चितान्यथानुपपत्तिस्वभावाद्धेतोश्च सकाशा- त्समभूत्ततश्च तत्प्रकाशकं वचनं परार्थमनुमानमिति सिद्धम् । एतेन १५ प्रत्यक्षपरामर्शशून्यं यच्चागमात्परेणैव ज्ञातस्यानर्थरूपस्य वा लिङ्गस्य वचनं तन्न भवत्येव परार्थानुमानमित्युक्तं भवति । स्वपक्षपक्षपातीह बौद्धदर्शनवीक्षितः । परार्थ वचनानुपपत्तिारेति समर्थयतो बौद्धस्य पक्षप्रयोगवैयर्थ समर्थयितुमुत्थितः ॥५०२।। पूर्वपक्षमुपपाद्य ननु पक्षस्य विवादादेव गम्यमानत्वा- २० त्परार्थं वचनानुपपत्तिः । तथा हि विरुद्धो वादो विवादः । एकः प्राह नित्यः शब्द इति, अन्यस्त्वाहानित्यः शब्द इति । एवंविधस्य विवा- दस्य प्रकृतत्वादनुमाने पक्षः प्रतीयत एवेति । प्रयोजनाभावाच्च तद्ध- चनमनुचितम् । अथ पक्षवचनस्य साध्यार्थप्रतिपादनलक्षणप्रयोजन- तत्खण्डनम् । . ३५ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २३ सम्भवात्तदभावोऽसिद्धः । तन्न वाच्यम् । पक्षवचनं हि केवलं साध्यमर्थं प्रतिपादयेद्धेतूपन्याससमन्वितं वा । न तावत्केवलम्, हेतू- पन्यासानर्थक्यप्राप्तेः । अथ हेतूपन्याससमन्वितम् । तर्हि हेतोरेव तत्र सामोपपत्तेः किं पक्षवचनेनेति । तन्न सामर्थ्यलब्धस्य पक्षस्यात्र कथञ्चन ।। वचनं युक्तिमायाति पौनरुक्त्यप्रसक्तितः ।। ५०३ ॥ अहो साहसमेतस्य शाक्यभिक्षोर्निरीक्ष्यताम् ।। पश्यन्नपि पुरो दोषद्वीपिनं यत्प्रगल्भते ॥ ५०४ ॥ तथा हि यत्तावदुक्तं पक्षस्य विवादादेव गम्यमानत्वादित्यादि १० तदयुक्तम् । यतो येन केनचिद्वचनेन व्यवहिताद्वा प्रस्तुतानुमानेन वाक्यावयवान्तरैकवाक्यतापन्नाद्वा विवादात्पक्षः प्रतीयते । तत्राद्यपक्षेऽ- तिव्युत्पन्नमतेस्तस्मात्तत्प्रतीतावपि तदितरेषां सा न स्यादिति तान्प्र- त्यवश्यं निर्देशः पक्षः । द्वितीये त्वविवाद एव । पराभ्युपेतपक्षविपरीतं पक्षमुपन्यस्य तत्सिद्धये हेत्वादिकमवयवान्तरमभिदध्यादिति हि वय- १५ मप्यभ्युपगच्छामः । यदप्यवादि प्रयोजनाभावाच्च तद्वचनमनुचित- मिति । तत्र प्रयोजनाभावोऽसिद्धः । प्रतिपाद्यप्रतिपत्तिविशेषस्य तत्प्रसाध्यप्रयोजनस्य सद्भावात् । प्रतिपाद्यो हि कश्चित्कुण्ठमतिः कश्चित्तीक्ष्णमतिः । तत्र कुण्ठमतेर्न प्रकृतार्थप्रतिपत्तिः पक्षप्रयोगमन्त- रेणोपपद्यते । तीक्ष्णमतेस्तु तत्प्रयोगमन्तरेणापि प्रकृतार्थप्रतिपति- २० रुपपद्यत एवेति न तं प्रति वयमपि तत्प्रयोगमङ्गीकुर्मः । यदपि पक्ष- वचनं हि केवलं साध्यमर्थं प्रतिपादयेद्धेतूपन्याससमन्वितं वेति विकल्पद्वयमुक्तम् । तत्राद्योऽनभ्युपगमादेव निरस्तः। द्वितीयस्त्विष्यत एव । तत्र च यद्दषणमुक्तं तर्हि हेतोरेव तत्र सामोपपत्तेः किं पक्षवचनेनेति । तदयुक्तम् । एवं हि हेतोः समर्थनापेक्षस्य साध्यसि- द्धिनिबन्धनत्वोपपत्तेस्तद्वचनमपि न स्यात् । अथ साध्यसिद्धिप्रति- बन्धित्वात्पक्षस्याप्रयोगमजीकुर्वीथाः । एतदप्ययुक्तम् । वादिना समी- २५ 'परि. ३ सू. २३] स्याद्वादरत्नाकरसहितः ५५१ चीनसाधनात्स्वपक्षसाधने क्रियमाणे तद्विपक्षाप्रसाधकत्वतस्तत्प्रयोगस्य तत्प्रतिबन्धकत्वानुपपत्तेः। किंचप्रतिज्ञायाः प्रयोगानर्हत्वे शास्त्रादावप्य- सौ न प्रयुज्येत । विशेषाभावात् । न हि शास्त्रे प्रतिज्ञा न प्रयुज्यत एवानि- यतकथायां वा । अमिरत्र धूमाद्वृक्षोऽयं शिंशपात्नादित्यादिवचनानां शाक्यशास्त्रेऽपि दर्शनात्, विरुद्धोऽयं हेतुरसिद्धोऽयमित्यादिवचनानाम- ५ नियतकथायां प्रयोगात् । परानुग्रहप्रवृत्तानां शास्त्रकाराणां प्रतिपाद्या- वबोधनाधीनधियां शास्त्रे प्रतिज्ञाप्रयोगो युक्तिमानेवोपयोगित्वात्तस्येति चेत् । वादेऽपि सोऽस्तु । तत्रापि तेषां तादृशत्वात् । वादे जिगीषुप्र- तिपादनायाचार्याणां प्रवृत्तेः प्रतिज्ञायाः प्रयोगो न युक्तः । तद्विषयस्या- र्थाद्गम्यमानत्वान्निगमनादिवदिति चेत् । तर्हि तत एव शास्त्रेऽपि १० तस्याः प्रयोगो मा भवतु । न हि तत्र जिगीषवो न प्रतिपाद्याः प्रतिज्ञाविषयो वा सामर्थ्यान्न गम्यते । अजिगीषूणामपि शास्त्रे प्रति- पाद्यत्वात्प्रतिज्ञाया अप्रयोगे केषाञ्चिन्मन्दधियां प्रकृतार्थप्रतिपत्तिर्न स्यादिति तत्प्रतिपत्तये तत्र तस्याः प्रयोगो युक्त एवेति चेत् । वादे जिगीषवः किं मन्दमतयो न सन्ति येन प्रतिज्ञाप्रयोग विना तदर्थ- १५ मप्रतिपद्यमानानां तेषां प्रतिपत्तये प्रयोगो न स्यादिति । शास्त्रे वादे वा प्रतिज्ञाया अभिधानमनभिधानं वाऽभ्युपगन्तव्यमविशेषेणैवेति । हेतुगोचरमतश्च दीपयन्पक्षकीर्तनमुपेयतां बुधैः ॥ अन्यथा हि कथमत्र संशयो मन्दबुद्धिहृदयान्निवर्तते ॥ ५०५ ॥ आगमात्परेणैव ज्ञातस्य लिङ्गस्य वचनमपि न परार्थानुमानम् । २० आगमात्परेणैव ज्ञातस्य यथा साङ्ख्यः ख्यापयामास । साधनस्य सिद्धिः लिङ्गस्य वचनमपि न परा-खलु प्रतिपत्तव्यार्थप्रतिपत्तिनिमित्तम् । न च र्थानुमानमिति वदतः वादिनैव ततः साधनादर्थः प्रतिपत्तव्यः किन्तु साख्यस्य मतमुपदर्य प्रतिवादी प्रतिपादयितव्य इति साधनस्य सिद्धिः प्रतिवादिप्रतिपत्तावुपयुज्यते न वादिप्रतिपत्तौ । २५ तेन प्रतिवादिन एव सा सिद्धिर्यद्यस्ति तावता तत्साधनमेवेति किं वादि- तत्खण्डनम् ।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २३ । .. प्रसिद्धिपरीक्षया साधनस्य । तथा च युक्तमिदमनुमानम् । अचेतना बुद्धिरुत्पत्तिमत्त्वादनित्यत्वाद्वा घटादिवदिति । इहासत उत्पादे उत्पत्ति- मत्त्वं सतश्च नाशोऽनित्यत्वं यो हेतुरुपात्तः स साङ्यस्य स्वयम- सिद्धः । स हि सतं एवाविर्भावतिरोभावावुत्पादविनाशावाह । परस्य ५ तु जैनस्य सिद्धः। पर्यायाणामुत्पादविनाशस्वीकारात् । तदनुपपन्नम् । अनुमानोपन्यासप्रस्तावे, आगमस्य प्रामाण्याङ्गीकरणानुपपत्तेः । विप्रति- पन्नयोर्वादिप्रतिवादिनोः परस्पराधिगमाधिक्षेपेण प्रवृत्तेः । प्रामाण्योप- पत्तौ पुनरनुमानस्य प्रवृत्तिरेव न स्याद्वचनमात्रेणैवार्थसिद्धेः साधनोप- न्यासवैयर्थ्यात् । अथ विप्रतिपन्नस्योत्पत्तिमत्त्वादिर्वनचविशेषः प्रमाण १० न बुद्धयचैतन्यादिवचनमपीति चेत् । ननु कोऽयं वचनस्य विशेषः । संवादित्वमिति चेत् । तर्हि यत्र संवादस्तत्प्रमाणसिद्धमेव । न च प्रमाणसिद्धं परस्यैव सिद्धं नाम । तस्माद्वादिना प्रतिवादिना च प्रथम- मर्थः परीक्षणीयस्ततोऽस्याभ्युपगमः कर्त्तव्यः । तथा च नापरोप- गतेन हेतुना कस्यचिदर्थस्य सिद्धिः । प्रमाणपरीक्षितस्य द्वाभ्यामपि १५ कक्षीकारार्हत्वात् । तदितरस्य तु द्वयोरप्युपेक्षाक्षेत्रत्वात् । स्यादेतत् । न्याय्या प्रवृत्तिरीदृशी यत्परीक्षोत्तरकालमभ्युपगमः किन्तु कश्चिन्मूढोऽ- भिनिवेशपारवश्यात्परीक्षायाः पूर्वमेवागममभ्युपैति तदपेक्षयाऽभ्युपगतसा- धननिमित्ता परीक्षा क्रियते । सत्यमेतत् । परं यदैव चैतन्यस्वरूपनि- राचिकीर्षितधर्माश्रयस्यागमस्य बाधनाय परं प्रति साधनमुच्यते तदैवा- २० स्यागमस्य प्रमाणेन वाध्यमानत्वात्कथमागमत्वं स्यात् । अयमर्थः- अभ्युपगतागमदूषणं परेण क्रियमाणं तितिक्षमाण एव परित्यक्तवांस्त- दभ्युपगम नहि तस्यागमस्य दूषणमाकर्णयन्नसंशयितो नाम । यत्र च संशयस्तस्य प्रामाण्याभ्युपगमत्यागो नियमेनैव । तस्माद्येनापि ग्रहात्प- रीक्षितुकामेन तदभ्युपगमो न परित्यक्तस्तेनापि दूषणश्रवणं सहमानेन २५ परित्यक्तव्यः। ततो यथाऽयं वादिनोऽसिद्धस्तत्प्रतिवादिनोऽप्यसिद्धः । तथा च विद्यमान एवार्थः साध्यनान्तरीयकतया निश्चितोऽर्थान्तरगमको परि ३ सू. २३ ] स्याद्वादरत्नाकरसहितः । उपाया अपि ये .. भवति नाविद्यमानोऽपि प्रतीतिमात्रेण । यतः परोपगमेन सिद्धिः स्यात् । ननु च साधनमर्थप्रतीत्युपायः । उपायश्च हेयः हेयास्तानुपायान्प्रचक्षते " इति वचनादिति । सताऽसता चोपायेन सन्नर्थः प्रतिपत्तव्यः साध्यः । इह च यदि नामोत्पत्तिमत्त्वमनित्यत्वं वाऽ- सदेव तथापि तस्माद्यत्प्रतिपत्तव्यं तत्सदेवेति चेत् । तदसत् । सतोऽपि. ५ ह्यवस्तुकृता प्रतिपत्तिरसत्प्रतिपत्तिं नातिशेते । यथा हि विभ्रमकारणात्प्र- तिपत्तिरुत्पद्यमाना सन्दिग्धविषया तद्वदवस्तुकृताऽपि सा ततोऽप्यर्थस्य सन्दिग्धविषयैवाप्रमाणकत्वेनोभयत्रापि विशेषाभावादिति न परप्रसिद्धया साधनमभिधानीयम् । नन्वेवं कथं भवद्भिः परपरिकल्पितैर्धमर्धर्मान्तर स्य प्रसङ्गः क्रियते । यथा यत्सर्वथैकं तन्नानेकत्र सम्बध्यते । तथा च १० सामान्यमिति कथमनकव्यक्तिवर्ति स्यादनेकव्यक्तिवर्तित्वाभावव्यापकम- न्तरेण सर्वथैक्यम्य व्याप्यस्यानुपपत्तेरिति । अत्र हि वादिनः स्याद्वादिनः सर्वथैक्यमसिद्धमिति कथं धर्मान्तरस्यानेकवर्तित्वाभावस्य गमकं स्या- दिति चेत् । तदसम्बद्धम् । एकधर्मोपगते धर्मान्तरोपगमसन्दर्शनमात्र- तत्परत्वेनास्य वस्तुनिश्चायकत्वाभावात् । प्रसङ्गविपर्ययरूपस्यैव मौल- १५ हेतोस्तन्निश्चायकत्वात् । प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवर्तित्वस्य हि व्यापकमनेकत्वम् । एकान्तिकरूपस्यानेक- व्यक्तिवर्तित्वविरोधात् । तथा हि- यस्मिन्परिच्छिद्यमाने यदवच्छि- यते तयोः परस्परतो विरोधः । मुण्डदेशे यत्खण्डदेशाभावाव्यभिचारि- गोत्वरूपं स्थितं तत्खण्डदेशानाहितत्वात्तद्रूपप्रच्युतिमत्, यच्च खण्डदेशे २० मुण्डदेशाभावाव्यभिचारिगोत्वरूपं तदपि मुण्डदेशानाहितत्वात्तद्रूपप्रच्यु- तिमत्ततस्तस्य मुण्डदेशाधेयत्वेन परिच्छिद्यमाने खण्डदेशाधेयत्वमव- च्छिद्यते तत्र वा परिच्छिद्यमाने यदवच्छिद्यत इति तद्देशान्यदेशयो- स्तद्देशाधेयत्वानाधेयत्वे विरोधिनी । सामान्यस्य हि यत्खण्डदेशस्थितं रूपं तदपेक्षया. तद्देशावस्थितरूपापेक्षया च तस्यैव , तद्देशामाधेयत्वं २५ कथं नाम.. भवेत् । एवमत्यदेशापेक्षयाऽपि भावनीयम् । ततो प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २३ यदुच्यते योगैः-तद्देशत्वमप्रतिषिध्यैवान्यदेशत्वं समुच्चीयते तद्देशश्चाय- मित्यादि, तन्निरस्तम् । एकदेशस्थत्वस्यान्यदेशस्थत्वपरिहारेणावस्था- नादिति। सिद्धमनेकत्र वृत्तेरनेकत्वं व्यापकं तद्विरुद्धं च सर्वथैक्यं सामान्ये त्वयाऽभ्युपगम्यते ततो नाऽनेकवृत्तित्वं स्याद्विरोध्यैक्यसद्भावन व्याप्येन ५ व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्या- तोपलब्धिरूपोऽत्र मौलो हेतुः । यथा यदनेकवृत्ति तदनेकमनेकवृत्ति च सामान्यमिति । एकत्वस्य हि विरुद्धमनेकत्वं तेन व्याप्तमनेकवृत्ति- त्वं तस्योपलब्धिरिह । मौलत्वं चास्यैतदपेक्षयैव प्रसङ्गस्योपन्यासात् । न १० चायमुभयोरपि न सिद्धः । सामान्ये जैनयोगाभ्यां तदभ्युपगमात् । ततोऽयमेव मौलो हेतुरयमेव वस्तुनिश्चायकः । ननु यद्ययमेव वस्तु- निश्चायकः कक्षीक्रियते तर्हि किं प्रसङ्गोपन्यासेन प्रागेवायमेवोपन्यस्य- ताम् । निश्चयानमेव हि ब्रुवाणो वादी वादिनामवधेयवचनो भव- तीति चेत् । तदसत् । मौलहेतुपरिकरत्वादस्य । अवश्यमेव हि प्रसङ्गं १५ कुर्वतोऽर्थः कश्चिन्निश्चाययितुमिष्टः । निश्चयश्च सिद्धहेतुनिमित्त इति यत्सूत्रसिद्धो हेतुरिष्टस्तस्य व्याप्यव्यापकभावसाधने प्रकारान्तरमेतत् । यत्सर्वथैकं तन्नानेकत्र सम्बध्यत इति व्याप्तिदर्शनमपि हि बाधकं विरुद्धधर्माध्यासमाक्षिपतीत्यन्योऽयं साधनप्रकारः । नन्वेवं प्रसङ्गेऽङ्गी- क्रियमाणे बुद्धिरचेतना, उत्पत्तिमत्त्वादित्ययमपि साङ्ख्येन ख्यापितः २. प्रसङ्गहेतुर्भविष्यति । तथा हि यदि बुद्धिरुत्पत्तिमती भवद्भिरभ्युपगम्यते तदानीं तयापकमचैतन्यमपि तस्याः स्यान्न चैवमतो नोत्पत्तिमत्यपीय- मिति चेत् । तदसत् । प्रसङ्गविपर्ययहेतोम्मौलस्य चैतन्याख्यस्य साङ्ख्यानां बुद्धावपि प्रतिषिद्धत्वात् । तैः प्रधानधर्मतया तस्या अचैतन्य- स्वीकारात् । चैतन्यस्वीकारेऽपि नाऽनयोः प्रसङ्गतद्विपर्यययोर्गमकत्वम् । २५ अनेन प्रसनेनात्र प्रसङ्गविपर्ययहेतोाप्तिसिद्धिनिबन्धनस्य विरुद्धधर्मा- ध्यासस्य विपक्षे बाधकप्रमाणस्यानुपस्थानात् । चैतन्योत्पत्तिमत्त्वयो- परि. ३ सू. २३] स्याद्वादरत्नाकरसहितः विरोधाभावात् । एवं ह्यचेतनत्वेनोत्पत्तिमत्त्वं व्याप्तं भवेद्यदि चैतन्येन तस्य विरोधः स्यान्नान्यथा । न चैवमिति । नती प्रसङ्गतद्विपर्ययौ गमको भवतस्तर्हि कथं तौ गमकाविति चेत् । एकान्तैकरूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयस्वभावादपरस्य • स्वभावस्याभावेनान्य. पदार्थाधेयत्वासम्भवात्तद्भावस्य तदभावस्य चान्योऽन्यपरिहारस्थित- ५ लक्षणत्वेन विरोधादिति नागमात्परेणैव ज्ञातस्य लिङ्गस्य वचनं परार्था- नुमानम् ॥ नाप्यनर्थरूपस्य । यथाऽनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद्धटव- दिति । न ह्यत्र शब्दघटयोर्वास्तवी प्रत्यासत्ति- अनर्थरूपलिङ्गवचनं परा- र्थानुमानमित्यस्य रपि तु वक्तृविवक्षामात्रकृता । तदभावे विव- १० खण्डनम् । क्षिते तयोरासत्तिविप्रकर्षाभावात् । तावद्धि घटः प्रत्यासन्नः शब्दस्य शब्दघटरूपसमुदायावयवत्वादिप्रकृष्टं चाकाशतत्स- मुदायाबाह्यत्वाद्यावदनित्यत्वं साधयितुं विवक्षति प्रेक्षते । यदा तु न विवक्षति तदा तयोरासत्तिविप्रकर्षों विवर्त्तते । वस्तुस्वभावत्वे पुनरनयो- विवक्षान्तरेऽपि न परावृत्तिर्भवेत् । भवति च नित्यः शब्दः पक्षसप- १५ क्षयोरन्यतरत्वादाकाशवदित्यत्राकाशस्यासन्नत्वाद्धटस्य तु विप्रकर्षात् । किं च यदा द्वाभ्यां परस्परविरुद्धे नित्यत्वानित्यत्वे साधयितुमिष्यते तदा स एव घटः प्रत्यासन्नो विप्रकृष्टश्चाकाशमपि । न च युगपदे- कत्र वस्तुनि विरुद्धयोधर्मयोरासत्तिविप्रकर्षयोरुपसंहारयोगः । तस्मा- देते कर्तुरिच्छामात्रनिरोधिनो धर्मा न वस्तुस्वभावमनुविदधति । २० इच्छानुसारेण वस्तुनो वृत्त्यभावात् । तथात्वे हि न कश्चिद्दरिद्रः स्यात् । तस्मान्न ततोऽर्थसिद्धिः । वस्तुरूपयोः प्रत्यासत्तिविप्रकर्षयो- रसिद्धेः । सिद्धौ तु स्याद्दोषो यथा यादृशं रूपसाधर्म्य विषाणित्वं न व्यभिचरति तादृशमभिसमीक्ष्याभिधीयते, एष पिण्डो विषाणी गोगव- ययोरन्यतरत्वात् । अत्र हि साधर्म्यविशेषो गोगवयसमुदायैकदेशत्वं २५ वास्तवं प्रत्यक्षमेव तेन सिध्यत्येव विषाणित्वम् । तया नित्यः शब्दो प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स.२३ १० मयैवं विवक्षितत्वादिति यदोच्यते तदा सिद्धयत्यर्थशून्यं विवक्षामात्रम् । न पुनर्वस्तु । तदिच्छाया वस्तुवृत्तिनियमाभावात् । प्रत्यक्षबाधितं ह्येतद्यत्र तदिच्छा तत्र वस्तुभाव इति । तथा च व्याप्त्यसिद्धेर्व्यभिचारः। एतेन मदुपगमादयोऽपि न हेतव इत्युक्तं भवति । ततो नाऽनर्थरूप- ५ लिङ्गवचनमपि परार्थमनुमानमिति सिद्धम् ॥ तत्पक्षहेतोर्वचनस्वरूपं गतं प्रतिष्ठामनुमानमेतत् ॥ परार्थसंज्ञं च सुतर्कविज्ञा वादे यदङ्गं प्रथमं गदन्ति ॥५०६॥२३॥ इदानीं सूत्रत एव पक्षवचनं द्रढयन्नाह- साध्यस्य प्रतिनियतधर्मिधर्महेतोरुपसंहारवचनवत्प- क्षप्रयोगोऽप्यवश्यमाश्रयितव्य इति ॥ २४ ॥ अयमर्थः-यत्र धूमस्तत्र वह्रिरित्यादिना साध्यव्याप्तसाधनप्रदर्श- नेन हेतोः सामान्येनाधारप्रतिपत्तावपि पर्वतादिविशिष्टधर्मिधर्मताधिगतये धूमश्चात्रेत्येवरूपमुपसंहारवचनमवश्यमाश्रीयते यथा ताथागतैः , तथा साध्यधर्मस्य प्रतिनियतधर्मिताप्रतिपत्तये पक्षप्रयोगोऽप्यवश्यमाश्रयितव्य १५ इति ॥ २४ ॥ अमुमेवार्थ परोपालम्भच्छलेन समर्थयमानः प्राह- त्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः ... कः खलु न पक्षप्रयोगमङ्गीकुरुत इति ॥ २५॥ । त्रिविधं कार्यस्वभावानुपलब्धिभेदेन साधनमभिधायैव न तु पक्ष- २० वदनुक्त्वेत्यर्थः । तत्समर्थनं तस्य साधनस्य समर्थनमसिद्धतादोषपरि- हारेण स्वसाध्यसाधनसामर्थ्यप्ररूपणप्रवचनं . विदधानः कः खलु नं पक्षप्रयोगमङ्गीकुरुते किन्तु सर्व एव प्रामाणिकः स्वीकुरुत इत्यर्थः । 2' न ह्यसमर्थितो हेतुः साध्यासिद्धयङ्गम् । अतिप्रसङ्गात् । ततः पक्ष- प्रयोगमनङ्गीकुर्वता सौगतेन हेतुमनुक्त्वैव तत्समर्थनं विधेयम् । समर्थ- 2 -- - परिः ३. सू. २६] स्याद्वादरत्नाकरसहितः नोपन्यासादेव हि हेतोः सामर्थ्यलब्धत्वात्तद्वचनमनर्थकमेवेति । हेतोर- वचने कस्य नाम समर्थन मितिः चेत् । तर्हि पक्षस्याऽप्यप्रयोगे क नाम हेतुः साध्यं साधयत्वित्यनिवार्यः पर्यनुयोगः । अथ विवादादेव गम्यमाने प्रतिज्ञाविषयेऽनुच्यमानेऽपि हेतुः साध्यं साधयिष्यतीत्युच्यते । तर्हि गम्यमानस्य हेतोरपि समर्थनं भविष्यतीत्यप्युच्यतामविशेषात् । ५ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनमिति चेत् । तर्हि तदर्थमेव पक्षवचनमप्यस्तु । समानयोगक्षेमत्वात् । ततः साध्यसिद्धिमभि- वाञ्छता हेतुवचनमिव पक्षवचनमपि स्वीकर्तव्यम् । पक्षहेतुवचनयोरे- वानुमानाङ्गत्वेन वक्ष्यमाणत्वादिति ॥ २५ ॥ इहानुमानस्यैव पारायं परे प्रतिपन्नवन्तो न प्रत्यक्षस्येत्यनुमान- १० पारार्थ्यव्यवस्थापनप्रसङ्गेन तान्प्रति प्रत्यक्षस्यापि पारार्थ्य व्यवस्था- पयन्नाह- प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थं प्रत्यक्षं परप्रत्यक्षहेतुत्वादिति ॥ २६ ॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायि, अध्यक्षवीक्षितवस्तुप्रतिपादकं यद्वचनं १५ तत्परार्थं प्रत्यक्षमुच्यते । ननु वचनं कुतः प्रत्यक्षं जडस्वभावत्वात्तस्ये- त्याशङ्कायामाह-परप्रत्यक्षहेतुत्वात् । प्रतिपाद्यगतप्रत्यक्षप्रकाशनिमित्त- त्वादुपचारेणेत्यर्थः। उपचारस्य चात्र प्रयोजनं परार्थानुमानवदवसेयम् । यत्तु बौद्धनाभिधीयते न प्रत्यक्षविषयः स्वलक्षणात्मा परेभ्यः कथयितुं कथमपि शक्यत इति । तदनुपपन्नम् । निर्विकल्पकप्रत्यक्ष- २० प्रतिक्षेपेण स्थिरस्थूरार्थव्यवसायिनः प्रत्यक्षस्याधस्तात्समर्थितत्वात् । तद्विषयस्य कथञ्चिद्विकल्पगम्यत्वेन शब्दप्रतिपाद्यस्वभावत्वात् । ततो यथानुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनु- मानमुच्यते तथा प्रत्यक्षप्रतीतोऽपि परार्थ प्रत्यक्षमित्युच्यताम् । पर- प्रत्यायनस्योभयत्राप्यविशिष्टत्वात् । वचनव्यापारस्यैव भेदात् । लथा २५ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. २६ हि अनुमानप्रतीतमर्थ प्रत्याययन्ननिरत्र धूमान्यथानुपपत्तेरित्यादिक वचनयति । प्रत्यक्षप्रतीतं पुनरर्थ संदर्शयन् - पश्याऽयं सुसखे विपक्षरमणीवैधव्यदीक्षागुरु- नम्राशेषनरेशशीर्षसरसि प्रेक्षक्रमाम्भोरुहः ।। माद्यत्कुञ्जरकन्धरामधिगंतः श्वेतातपत्राञ्चित- श्वञ्चचामरयुग्मरम्यविभवः कश्चिन्नृपो गच्छति ॥ ५०७ ।। इत्यादि ब्रवीति । ततश्च वचनाविप्रकारादपि प्रतिपाद्यस्य प्रत्यक्षा- नुमेयार्थगोचरा यतः प्रतिपत्तिराविर्भवति ततः प्रत्यक्षानुमानयोरुभयो- रपि परार्थत्वमविरुद्धमेव । यथोक्तम्-"प्रत्यक्षेणानुमानेन प्रसिद्धार्थ- १० प्रकाशनात् ॥ परस्य तदुपायत्वात्परार्थत्वं द्वयोरपि ॥ १॥" इति । परस्येति प्रत्याय्यस्य । तदुपायत्वादिति प्रतिपादकस्थप्रत्यक्षानु- माननिर्णीतार्थप्रकाशनकारणत्वात् । द्वयोरिति प्रत्यक्षानुमानप्रभववच. नयोरिति ॥२६॥ अथ स्पष्टप्रतिपत्त्यर्थ सूत्रत एव परार्थप्रत्यक्षोल्लेखमाह- १५ यथा पश्य पुरः स्फुरत्किरणमाणिखण्डमण्डिता- भरणभारिणी जिनपतिप्रतिमामिति ॥२७॥ व्यक्तार्थमदः । एवं स्मरणादेरपि यथासम्भवं पारायं प्रतिपत्तव्यम्, तथा ह्येवं वक्तारो भवन्ति स्मरसि चैत्र कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामह इति । न्यायदिव्यं समादाय प्रतिष्ठा प्रापर्युत्तमाम् ॥ तस्मात्प्रत्यक्षमानस्य पारार्थ्यमनुमानवत् ॥ ५०८ ॥ २७॥ उक्तं प्रासङ्गिकं परार्थ प्रत्यक्षम् , अथ यदुक्तं पक्षहेतुवचनात्मकं परार्थमनुमानमिति तत्समर्थयते- २० - १ न्यायावतारे श्लो. ११ परि. ३ सू. २९] स्याद्वादरत्नाकरसहितः पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनमिति ॥ २८ ॥ उक्तस्वरूपपक्षहेतुवचनात्मकमवयवद्वयमेव परार्थानुमानवाक्यस्य भागयुग्ममेव । प्रतिपाद्यबोधस्य कारणं न दृष्टान्तादिवचनं, आदि- शब्देनोपनयनिगमनादिग्रहः। एवं च- सव्याप्तिदृष्टान्तवचस्ततो हेतूपसंहृतिः ॥ वैपरीत्येन वेत्येवं यंशं बौद्धैन्यंगादि यत् ॥ ५०९ ॥ व्यवयवमनुमानं कल्पयामासिवांसः कपिलमुनिमतस्था ये तथा जैमिनीयाः ॥ गदितमवयवैर्यत्पञ्चभिर्योगशिष्यै- रपि सुनिपुणनीत्या तन्निरस्तं समस्तम् ॥ ५१० ॥ पक्षहेतुलक्षणावयवद्वयनियमाभ्युपगमश्चायं व्युत्पन्नमतिप्रतिपाद्यापे- क्षया द्रष्टव्यः । यतोऽभिधास्यति-" मन्दमतीस्तु व्युत्पादयितुम् " इत्यादि ॥ २८॥ अथ हेतुप्रयोगस्य द्वैविध्यं दर्शयन्नाह- हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकार इति ॥ २९॥ तथैव साध्यसद्भावप्रकारेणैव हेतोरुपपत्तिः तथोपपत्तिः । “साधनं कृता बहुलम्" इति समासः । अवधारणस्य समासार्थेऽनुभूत- २० त्वादप्रयोगः । यथा दध्योदनादिषूपसिक्तादीनाम् । अन्यथां साध्या- भावप्रकारेण हेतोरनुपपत्तिरन्यथानुपपत्तिः । अत्रापि समासः प्रागुक्त- १ प्रमाणनय. प. ३ स. ४२ । २ ' कर्तृकरणे कृता बहुलम् ' इति पा. स. - २।१।३२।

५६०. प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २९ सूत्रेणैव । ताभ्यामन्वयव्यतिरेकस्वरूपाभ्यां हेतोः प्रयोगो द्विभेदः।।२९।।' तथोपपत्त्यन्यथानुपपत्त्योरेव स्वरूपं सूत्रद्वयेन विस्पष्टीकर्तुमाह--- सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिरिति ॥३०॥ असति साध्ये हेतोरनुपपत्तिरेवान्यथानुपपत्तिरिति ॥३१॥ प्राग्वत् ॥ ३० ॥ ३१॥ अथ तथोपपत्त्यन्यथानुपपत्तिप्रयोगौ व्यक्तीकरोति- यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्त्वस्योपपत्तेरसत्यनुपपत्तेति ॥ ३२ ॥ अदोऽप्युत्तानार्थम् ॥ ३२॥ अथ तथोपपत्त्यन्यथानुपपत्त्योः प्रयोगनियमनार्थमाह- अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय- प्रयोगस्यैकत्रानुपयोग इति ॥ ३३ ॥ अनयोस्तथोपपत्त्यन्यथानुपपत्त्योर्मध्यादन्यतरस्याः प्रयोगेणैव साध्य- ९५ प्रतिपत्तौ सत्यां द्वितीयस्याः प्रयोगस्यैकत्र साध्ये नैरर्थक्यम् । द्वयोरपि परस्पराव्यभिचारित्वात् । इदमत्रैदम्पर्यम् । प्रयोगयुगलेऽपि वाक्यविन्यास एवं विशिष्यते न पुनरर्थः । प्रयोगस्य च साध्यसाधनं फलम् । तच्च यद्यन्यतरप्रयोगेणैव कृतम् । तदा द्वितीयप्रयोगः प्रयो- तुरपाटवमेव प्रकटयति । निष्फलत्वादिति । ननु तथोपपत्त्यन्यथानुप- २० पत्त्योः परस्पराव्यभिचारित्वमसिद्धम् । कचित्तथोपपत्तिनिश्चयेऽप्यन्य- थानुपपत्तेरसिद्धेः । तथा हि प्रयत्नानन्तरीयके शब्दे साध्ये कादाचि- कत्वं हेतुत्वेनोपादीयमानं सपक्षे घटादौ सर्वत्रास्तीति तथोपपन्नम- प्यन्यथानुपपत्तिविकलम् । अप्रयत्नानन्तरीयके विद्युदादौ विपक्षेऽपि ..

परि. ३ सू. ३५] स्याद्वादरत्नाकरसहितः । तस्योपलभ्यमानत्वात् । नैतदस्ति । तत्र तथोपपतेरेवाभावात् । न हि सपक्षे सर्वत्र दर्शनमात्रं तथोपपत्तिरिति सङ्गिरामहे । किं तर्हि सत्येव साध्ये हेतोरुपपद्यमानत्वं तथोपपत्तिरिति । न चेयं प्रकृते हेतौ समस्ति । ततः परस्पराव्यभिचारित्वात्तथोषपत्त्यन्यथानुपपत्त्योरे- कप्रयोगे द्वितीयप्रयोगस्य निरुपयोगित्वं युक्तमिति ॥ ३३ ॥ अथ यदुक्तं न दृष्टान्तादिवचनं परप्रतिपत्तेरङ्गमिति, तत्र दृष्टान्त- वचनं तावन्निराचिकीर्षुस्तद्धि किं परप्रतिपत्त्यर्थं परैरङ्गीक्रियेत उत हेतोरन्यथानुपपत्तिनिर्णीतये, यद्वाऽविनाभावस्मृतय इति विकल्पेषु प्रथमं विकल्पं तावद्दषयन्नाह- न दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, तस्यां पक्ष- १० हेतुवचनयोरेव व्यापारोपलब्धेरिति ॥ ३४ ॥ न खलु वह्निमानयं देशो धूमवत्त्वान्यथानुपपत्तेरित्येतावति प्रयुक्ते प्रतिपन्नाविस्मृतप्रतिबन्धस्य प्रमातुः साध्यप्रतिपत्तिर्न भवतीति तं प्रति निरुपयोग एव दृष्टान्तस्य प्रयोग इति ॥ ३४ ॥ अथ द्वितीयविकल्पं दूषयन्नाह- १५ न च हेतोरन्यथानुपपचिनिर्णीतये, यथोक्ततर्क- प्रमाणादेव तदुपपतेरिति ॥ ३५॥ दृष्टान्तवचनं प्रभवतीति योगः । अपि च । दृष्टान्तः प्रतिनियत- व्यक्तिस्वरूपो भवति । यथाऽनौ साध्ये महानसादिः । तादृशस्य च तस्य वचनं कथमविनाभावनिश्चयार्थं स्यात् । प्रतिनियतव्यक्तौ तन्नि- २० श्चयस्य कर्तुमशक्तेः । ततो व्यक्त्यन्तरेषु व्यात्यर्थं पुनदृष्टान्तान्तरं भृग्यम् । तस्याऽपि व्यक्तिरूपत्वेनापरापरदृष्टान्तापेक्षायामनवस्था स्यात् । ॥ ३५ ॥ १ प्र. न. प. ३ सू. २८.

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ३६ -२० अमुमेवार्थं सूत्रेण व्यक्तीकुर्वन्नाह- नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्या- प्रयोगतो विप्रतिपत्तौ सत्यां तदन्तरापेक्षायामनव- स्थिते१र्निवारः समवतार इति ॥ ३६॥ तदन्तरापेक्षायामिति विप्रतिपत्तौ सत्यां दृष्टान्तान्तरापेक्षायामित्यर्थः ॥ ३६॥ अथ तृतीयविकल्पं दूषयन्नाह- नाप्यविनाभावस्मृतये, प्रतिपन्नप्रतिबन्धस्य व्युत्प- नमतेः पक्षहेतुप्रदर्शनेनैव तत्ससिद्धेरिति ॥ ३७ ॥ अत्रापि दृष्टान्तवचनं प्रभवतीति योज्यम् ॥ ३७ ॥ अभिहितमेवार्थं द्रढयन्नाह- अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्ती च बहिर्व्याप्तेरुद्भावनं व्यर्थमिति ॥३८॥ अन्तर्व्याप्तिबहिर्व्याप्ती अनन्तरमेव निरूपयिष्यमाणे । ततोऽ- १५ यमर्थः-यदि हेतोरन्ताप्त्यैव साध्यप्रत्यायनसामर्थ्यमस्ति तदा बहिर्व्याप्त्युद्भावनं व्यर्थम् । अस्त्यत्रामिः सत्येवानौ धूमोपपत्तेः । मत्पुत्रोऽयं बहिरवस्थितो वक्ति, अन्यथैवम्भूतस्वरानुपपत्तेरिति तथोप- पत्त्यन्यथानुपपत्तिप्रयोगमात्रादेव व्युत्पन्नमतेः प्रतिपत्तुः साध्यसिद्धेः सम्पन्नत्वात् । अथाऽन्तर्व्याप्त्या हेतोः साध्यप्रत्यायनसामर्थ्य नास्ति । २० तदापि बहिर्व्याप्त्युद्भावनं व्यर्थमेव । एतस्याः स्त्रियो गर्भापत्यं पुमाने- तदपत्यत्वात्प्रसिद्धपुंस्त्वेतरापत्यवत्, इत्येवमादौ हेतोर्बहिर्व्याप्तिसद्भावेऽ- प्यन्ताप्तेरभावे गमकत्वादर्शनात् । सत्येव पुंस्त्व एतदपत्यत्वाख्यस्य :

परि. ३ सू. ४१] स्याद्वादरत्नाकरसहितः ५६३ .. - साधनस्योपपत्तिरित्येवंरूपा ह्यन्तर्व्याप्तिरत्र सन्दिह्यते । तत्संदेहतस्तु निश्चितयाऽपि बहिर्व्याप्त्या न किमपि भवतीति ॥ ३८॥ अथ दृष्टान्तदूषणावसरप्राप्तयोरन्तर्व्याप्तिबहियाप्त्योः स्वरूपमाह- पक्षीकृत एव विषये साधनस्य साध्यन व्याप्तिरन्त- ाप्तिः, अन्यत्र तु बहिर्व्याप्तिरिति ॥ ३९॥ अन्तरित्यन्तर एव । पक्षीकृते विषये साधनस्य साध्येन व्याप्तिर- व्यभिचारोऽन्तातिरुच्यते । बहिः पक्षीकृताद्विषयादन्यत्र तु दृष्टा- न्तधर्मिणि तस्य तेन व्याप्तिर्बहिर्व्याप्तिरभिधीयते ॥ ३९ ॥ माभूदृष्टान्तवचनस्य परप्रतिपत्तिं प्रति सामर्थ्यमुपनयनिगमन- योस्तु तन्निवारयितुमशक्यमित्याशङ्कापनोदार्थमाह- नोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य, पक्ष- हेतुप्रयोगादेव तस्याः सद्भावादिति ॥४०॥ उपनयनिगमनयोरभिधास्यमानस्वरूपयोः । अपिः समुच्चये । न केवलं दृष्टान्तवचनस्येत्यर्थः । अपि च प्रयुज्यापि दृष्टान्तादिकं सम- र्थनं हेतोरवश्यं वक्तव्यम् । असमर्थितस्य तस्य परप्रतिपत्त्यङ्गत्वानुपपत्ते- १५ रिति तदेव परं परप्रतिपत्तिकारणतया कक्षीकर्तुं प्रेक्षावतां युक्तं न तु दृष्टान्तवचनादिकम् । सत्यपि तस्मिन्हेतुसमर्थनं विना परप्रतिपत्तेर- भावात् ॥ ४०॥ एतदेवाह- समर्थनमेव परं परप्रतिपत्त्यङमास्तां, तदन्तरेण २० दृष्टान्तादिप्रयोगेऽपि तदसम्भवादिति ॥४१॥ अत्र " यथाऽनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः । " इति, “अग्नि- मानयं देशो धूमवत्त्वाद्य एवं स एवं यथा पाकस्थानम् " इति च सूत्रद्वयं रत्ना. करावतारिकायामुपलभ्यते ।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू.४१ - समर्थनं हेतोरसिद्धत्वादिदोषानिराकृत्य स्वसाध्येनाविनाभावसाघ- नम् । परं केवलम् ।। ४१ ।। इत्थं व्युत्पन्नमतीनाश्रित्य प्रपञ्चितं परार्थमनुमानम् । अथ मन्दमती- नाश्रित्य तत्प्रपञ्चयन्नाह मन्दमतींस्तु व्युत्पादयितुंदृष्टान्तोपनयनिगमनान्य- पि प्रयोज्यानोति ॥४२॥ मन्दमतीनव्युत्पन्नप्रज्ञान् । अपिशब्दोऽनुक्तसमुच्चयार्थः । ततः पक्षहेतू पक्षादिशुद्धयश्च पञ्च ग्राह्याः। ततश्च न केवलं दृष्टान्तोपनयनि- गमनानि प्रयोक्तव्यानि किन्तु पक्षहेतू पक्षादिशुद्धयश्च प्रयोक्तव्या १० इत्यर्थः सिद्धो भवति । इदमिह रहस्यम् । नैकः प्रकारः परार्थानुमानस्य । किं तर्हि यथा यथा परस्य सुखेन साध्यार्थप्रतिपत्तिरुपजायते सूत्ररहस्यप्रकटनम् । तथा तथाऽसौ वक्त्रा प्रतिपादनीयः । तत्र यदा प्रतिपाद्यः क्षयोपशमादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमा- १५ णस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति तदा तमाश्रित्य हेतु- प्रतिपादनमेव क्रियते धूमोऽत्र दृश्यत इति । तं प्रति पक्षाद्यभिधानस्य वैयर्थ्यात् । यदा पुनः प्रतिपाद्यस्य नाद्यापि पक्षनिर्णयस्तदाऽकाण्ड एव हेतूपन्यासोऽदृष्ट मुद्गरपातायमानः स्यादिति पक्षोऽपि तं प्रति प्रयु- ज्यते । अग्निरत्र धूमान्यथानुपपत्तेरिति । तथा यः प्रतिबन्धग्राहि- २० प्रमाणस्य न स्मरति तमाश्रित्य दृष्टान्तोऽप्युपदिश्यते । अग्निरत्र धूमाद्यत्र धूमस्तत्राग्निर्यथा महानस इति । स्मृतेऽपि प्रतिबन्धग्राहिणि प्रमाणे दान्तिके हेतु योजयितुमजानानस्योपनयः प्रदर्श्यते । यथा प्राक्तन एव प्रयोगे धूमश्चात्रेति । एवमपि साकाङ्क्षस्य निगमनमभिधी- यते । तस्मादग्निरत्रेति । अन्यथा निराकुलप्रस्तुतार्थासिद्धेरिति । तथा २५ प्रतिपाद्यविशेषस्य यत्र पक्षादौ स्वरूपविप्रतिपत्तिः । तद्बुद्धिः प्रमाणेन परि. ३ सू. ४२] स्याद्वादरत्नाकरसहितः ५६५ - कर्तव्या । अन्यथा पक्षादीनां स्वसाध्यसाधनात् । तत्र वक्ष्यमाणप्रतीत- साध्यधर्मविशेषणत्वादिपक्षदोषपरिहारादिः पक्षशुद्धिः । अभिधास्य- मानासिद्धादिहेत्वाभासोद्धरणं हेतुशुद्धिः। प्रतिपादयिष्यमाणसाध्य- विकलत्वादिदृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः । 'उपनयनिगमनयोस्तु शुद्धी प्रमादादन्यथा कृतयोस्तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके ५ वाक्ये विज्ञेये । प्रपञ्चतस्तु पक्षादिशुद्धिपञ्चकस्वरूपं परमावसेयम् । सर्वेषां चामीषां पक्षादिवचनानां परार्थानुमानवाक्यावयवत्वम् । प्रति. पाद्यप्रतीत्युपायत्वात् । तदिदं दशावयवं वाक्यमाहुस्तार्किकाः । इय- मेव वचसोत्कृष्टा कथा कथ्यते । तथा ह्यवयवापेक्षया जघन्यमध्यमो- स्कृष्टास्तिस्रः कथा भवन्ति । तद्यथा- लिङ्गं केवलमेव यत्र कथयत्येषा जघन्या कथा व्यादीन्यत्र निवेदयत्यवयवानेषा भवेन्मध्यमा ॥ उत्कृष्टा दशभिर्मवेदवयवैः : सा जल्पितैरित्यमी जैनरेव विलोकिताः कृतधियां वादे त्रयः सत्पथाः ॥५११॥ तत्रेह-"पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात्" इत्यनेन सूत्रे- १५ णानन्तरं मध्यमायाः कथायाः साक्षाद्भणनाजघन्योत्कृष्ट अपि सामर्थ्या- त्सचिते । प्रतिपाद्यविशेषमाश्रित्य तत्सद्धावस्यापि प्रमाणोपपन्नत्वात् । प्रयोगपरिपाट्या प्रतिपाद्यानुसारतो जिनपतिमतानुसारिभिरभिमतत्वात् । तदुक्तम्-" अन्यथानुपपत्त्येकलक्षणं लिङ्गमिष्यते ॥ प्रयोगपरि- पाटी तु प्रतिपाद्यानुसारतः ॥ १॥” इति । ननु च स्वनिश्चयवत्पर- २० निश्चयोत्पादनं परार्थमनुमानमुच्यते। यथोक्तं भवद्वद्धैः-" स्वनिश्चय- वदन्येषां निश्चयोत्पादनं बुधैः॥ परार्थमनुमाख्यातं वाक्यं तदुप- चारतः॥१॥” इति । न च स्वार्थानुमानकाले पक्षादिक्रमोऽय- मनुभूयते । गृहीताविनाभावस्य हेतुदर्शनमात्रात्साध्यप्रतीतिसिद्धेः । १ परम्-अत्रे । २ प्र. न. प. ३ स. २३ । ३ सिद्धसेनदिवाकरपादैः न्या. श्लो. १०।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ४२ न खलु प्रतिपत्ता पक्ष कृत्वा ततो हेतुं निभालयति । नापि दृष्टान्ता- दिकं विरचयति । तथा प्रतीतेरभावात् । अपि चान्वयव्यति- रेकाभ्यां साध्यसिद्धौ हेतोरेव सामर्थ्यमवधार्यते न पक्षादीनाम् । तद्व्यतिरेकेणापि साध्यसिद्धेः सम्भवात् । तथापि पक्षादीनां परार्थानु- ५ मानवाक्यावयवत्वपरिकल्पनायामनवस्थाप्रसक्तिः । यदि च तेषामपि साध्यसिद्धौ सामर्थ स्यातदा पक्षोपन्यासमात्रादेव साध्यावगतेर्हेतुरा- नर्थक्यमभुवीत । उत्तरावयवाश्च । एवं हि तत्सामर्थ्य सिद्धथेन्नान्यथा । तस्माद्य एव परनिरपेक्षं साध्यं बोधयति स एव हेतुः परं प्रतिपादयि- तुमुचितोऽनपेक्षत्वान्न पक्षादय इति । अत्रोच्यते । यदुक्तं न च स्वा- र्थानुमानकाले पक्षादिक्रमोऽयमनुभूयत इत्यादि । तत्र सर्वस्य प्रमातु- स्तथा क्रमानुभवाभावोऽभिधीयते कस्यचिद्वा । आद्यः पक्षोऽसिद्धः । कस्यचित्प्रमातुम्तेनापि क्रमेण साध्यप्रतीतेः सम्भवात् । द्वितीयपक्ष- स्त्वभ्युपगम्यत एव । नन्वेवं परार्थानुमानवाक्यप्रयोगेऽप्रतिपन्नसक्रेतः कश्चित्कश्चित्पुनस्तद्विपरीतः । तत्राद्यं प्रतिपाद्यमाश्रित्य क्रमेणैव परा- १५ र्थानुमानमारभ्यते । अन्यथा रचनायां तस्य सम्मोहसम्भवात् । द्वितीय तु प्रति नास्त्येकान्तः। यथाकथञ्चित्खलु परस्य प्रतिपत्तिरुत्पादनीया । सा च क्रमेण व्युत्क्रमेण च भवतीति तं प्रति द्विधाऽप्यभिधानं साधीय एव । ननु यस्याक्रमेण स्वार्थानुमाने प्रतीतिरुदपादि , तेनाद्यं प्रति- पाचं प्रतीत्य यदि क्रमेणैव परार्थानुमानमुपन्यस्यते , तदा स्वनिश्चय- २० वत्परनिश्चयोत्पादनं विरुध्यते । तन्न । निश्चयापेक्षयैव वतिना तुल्यता- भिधानात् । न पुनः सर्वथा साम्यमभिमतम् । अन्यथा स्वार्थानुमाने शब्दमप्रयुञ्जानः साध्यं जानीत इति तदप्रयोगेण परनिश्चयोत्पा- दनमपि स्यात्। न चैतत्सम्भवति । शब्दाप्रयोगे परप्रतिपादनानुपपत्तेः। तदर्थं शब्दप्रयोगस्वीकारे च येन येन विना परप्रतिपादनासम्भवस्तत्त- २५ दङ्गीकरणीयम् । न्यायस्य समानत्वात् । यदप्युक्तमन्वयव्यति- रेकाभ्यां साध्यसिद्धौ हेतोरेव सामर्थ्यमवधार्यते न पक्षादीनामिति ।

पंरि. ३ सू. ४४] स्याद्वादरत्नाकरसहितः ५६७ तदप्यसुन्दरम् । न हि पक्षादिविरहे. प्रतिपाद्यविशेषः प्रत्याययितुं शक्यः । पक्षादिवचनसाध्यहेतुगोचराद्यर्थप्रतीतिविकलतया तस्य. साकाङ्कत्वात् । तथा च बुभुत्सितार्थबोधाभावादप्रत्यायित एव तिष्ठेत् । ततस्तद्वोधनार्थ पक्षादयः प्रयोज्या इति । तेऽपि परार्थानुमानवाक्या- वयवा भवन्ति । यच्चाभिहितं यदि च तेषामपि साध्यसिद्धौ सामर्थ्य ५ स्यादित्यादि । तदपि परिफल्गु । भवत्पक्षेऽप्यस्य तुल्यत्वात् । तत्रापि धूमोऽत्र दृश्यते , इत्येतावन्मात्रेणैव साध्यसिद्धेर्यत्र धूमस्तत्र वह्निर्यथा महानस इति व्याप्तिप्रतिपादनस्य नैरर्थक्यापत्तेः । अथैवमेवैतत् । अत्यन्ततीक्ष्णमतेस्तावतैव प्रतीतिसद्भावात् । तथा चोक्तम्-"विदुषां वाच्यो हेतुरेव हि केवलः" इति । तदपेक्षयापकृष्टप्रज्ञः पुनस्तावता १० नावबोधयितुं शक्यत इति तं प्रति सार्थकं व्याप्त्युपदर्शनमिति चेत् । तर्हि पक्षादीनपि परित्यज्य प्रतिपाद्यविशेषः प्रत्याययितुं न शक्यत इति तेषामपि सार्थकत्वं न दुर्घटमिति । तस्माद्धेतुवत्पक्षादयोऽपि परार्था- नुमाने प्रतिपाद्यविशेष प्रति योज्याः । हेतोरपि वचित्प्रतिपाये तद- पेक्षितया निरपेक्षत्वासिद्धेरिति । तदेतन्निखिलं परामृश्याभिहितं मन्द- १५ मतीस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानीति । एवं च सिद्धमिदम्- व्युत्पन्नमाश्रित्य परं परार्थं यथोक्तमाख्यात्यनुमानमत्र ।। तदज्ञमाश्रित्य पुनर्नयज्ञास्तच्चित्ररूपं परिकीर्तयन्ति ॥५१२॥४२॥ तत्र दृष्टान्तं तावयाचष्टे- प्रतिबन्धप्रतिपचेरास्पदं दृष्टान्त इति ॥४३॥ प्रतिबन्धो व्याप्तिस्तत्प्रतिपत्तेः स्मृतिरूपाया आस्पदं स्थानं महान- सादि दृष्टान्त इति निरुक्तित्रितयात् ॥४३॥ अथास्य प्रकारकथनायाह-- स द्वेधा साधर्म्यतो वैधयंतश्चेति ॥४४॥ २० - -- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ४४ -- समानो धर्मों यस्यासौ सधा सधर्मणो भावः साधर्म्य तस्मात्ततः । विसदृशो धर्मो यस्य स विधी विधर्मणो भावो वैधयं ततः । चः समुच्चये । साधर्म्यवैवाभ्यामन्वयव्यतिरेकरूपाभ्यां दृष्टान्तस्य द्वैवि- ध्यमिति भावः ॥ ४४ ॥ तत्राद्यं प्रकारमाह- यत्र साधनधर्मसत्तायामवश्यं साध्यधमसचा प्रका- श्यते स साधर्म्यदृष्टान्त इति ॥४५॥ यत्रेत्यभिधेये । साधनधर्मस्य धूमादेः । सत्तायामवश्यं साध्यधर्मस्य वहयादेः सत्ता । प्रकाश्यते वचनेन ख्याप्यते स साधर्म्यदृष्टान्तः । १० अवश्यग्रहणं चात्र साध्यसाधनयोाप्यव्यापकभावं सूचयति । व्यापक हि साध्यं वह्वयादिकमुच्यते । तस्य साधने धूमादावनायत्तत्वात् । धूमाभावेऽप्यनारावस्थायां वहेः सद्भावोपलम्भात् । व्याप्यं पुनः साधनं धूमादिकमभिधीयते । तस्य साध्ये धूमध्वजादावायत्तत्वात् । वहि- सद्भाव एव धूमस्य सद्भावदर्शनात् । तदुक्तम्---" व्यापकं तदतनिष्ठ १५ व्याप्यं तनिष्ठमेव हि ॥" इति । अस्यार्थः-स च व्याप्यसद्भावोऽ- सश्च व्याप्याभावस्तदतौ तदतयोर्निष्ठाऽवस्थानं सद्भावो यस्य तत्तद- तनिष्ठम् । ततश्च यत्तदतन्निष्ठं वयादिकं साध्यभूतं वस्तु तव्यापक- मिति लक्षणीयम् । तथा तस्मिन्व्यापकसद्भावे निष्ठाऽवस्थानं यस्य तत्तनिष्ठम् । एवकारोऽवधारणे । ततोऽयमर्थः–यत्तनिष्ठमेव २० धूमादिकं साधनभूतं वस्तु तद्व्याप्यमिति मन्तव्यम् । अत्रोदाहरणं स्वयमभ्यूह्यम् । तथाहि-~-अमिरत्र धूमस्य तथैवोपपत्तेर्महानसवदिति। ॥ ४५ ॥ अथ द्वितीयं प्रकारमाह- यत्र तु साध्याभावे साधानस्यावश्यमभावः प्रदर्श्यते स वैधHदृष्टान्त इति ॥४६॥ -- २५ परि. ३ सू. ४९] स्याद्वादरत्नाकरसहितः ५६९ यत्रेत्यभिधेये। तुशब्दः साधर्म्यदृष्टान्ताद्वैधर्म्यदृष्टान्तस्य विशेषद्योतकः। साध्याभावे वयादेः साध्यस्यासम्भवे साधनस्य धूमादेरवश्यमभावः प्रदर्श्यते स वैधHदृष्टान्त इत्युच्यते । अत्र पुनरवश्यंग्रहणेन साध्याभाव- साधनाभावयोाप्यव्यापकभावः सूचितः । तथा हि । साधनस्य धूमादेरभावः साध्यस्य वयादेरभावे भावे च भवतीति तदतन्निष्ठत्वा- ५ व्यापकः। साध्यस्य तु वहयादेरभावः साधनस्य धूमादेरभाव एव भवतीति तदेकनिष्ठत्वायाप्यः। अन्वयव्याप्तिस्वरूपापेक्षया व्यतिरेकव्याप्तेर्वि- परीतस्वरूपत्वात् । यदाहुरस्मद्गुरवः श्रीमुनिचन्द्रसूरयः--" साध्य व्यापकमित्याहुः साधनं व्याप्यमुच्यते ॥ प्रयोगेऽन्वयवत्येवं व्यतिरेके विपर्ययः॥१॥” इति । उदाहरणं पुनरत्रापि स्वयमेव १० तार्किकैस्तर्कणीयम् । अनग्निरत्राधूमस्यान्यथानुपपत्तेर्जलाशयब- दिति ।। ४६॥ उपनयं निरूपयन्नाह- हेतोः साध्यमिण्युपसंहरणमुपनय इति ॥४७॥ हेतोषूमादेः । साध्यधर्मिणि पर्वतप्रदेशादौ । उपसंहरणं धूमश्चात्रे- त्यादिनोल्लेखेनोपढौकनम् । उपनयः उच्यते । उपनीयते साध्यावि- नाभावित्वेन विशिष्टो हेतुः साध्यधर्मिण्युपदृश्यते येन स उपनय इति व्युत्पत्तेः ॥४७॥ निगमनं लक्षयति-- साध्यधर्मस्य पुनर्निममनमिति ॥४८॥ अत्र साध्यधर्मिण्युपसंहरणमित्यनुवर्तते ततः साध्यधर्मस्य धूमध्व- जादेः साध्यधर्मिण्युपसंहरणम् । पुनर्निगमनं तस्मादमिरत्रेत्यादिनो- ल्लेखेन निगम्यन्ते प्रतिज्ञाहेतूदाहरणोपनयाः साध्यलक्षणैकार्थनियततया सम्बध्यन्ते तन्निगमनमिति निरुक्तः ॥४८॥ अथ पक्षवचनादीनां पूर्वाचार्यप्रवर्तितां संज्ञां कथयन्नाह- १५ २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ४९ एते पक्षप्रयोगादयः पंचाऽप्यवयवसंज्ञया कीर्त्यन्त इति ॥४९॥ अपिशब्दः पक्षादिशुद्धिपञ्चकोपलक्षणपरः । ततो दशाप्येते वचन- विशेषा अवयवसंज्ञया कीर्त्यन्ते । परार्थानुमानवाक्यस्यावयविनो ५ भागरूपत्वादिति । एवं स्वरूपकलिताः प्रतिपाद्यमेत्य दृष्टान्तवाक्प्रभृतयोऽवयवा अपीह ।। वक्तव्यतामनुसरत्यनुमानकाले सद्वादिनां जिनपतेः समये स्थितानाम् ॥५१३॥४९॥ तदित्थं स्वार्थपरार्थभेदभिन्नमनुमानं सप्रपञ्चमभिधायेदानीं तदु- त्पादकं निश्चितान्यथानुपपत्त्येकलक्षणलक्षितं हेतुं प्रकारप्रकाशनद्वारेण विनेयजनमनीषोन्मीलनार्थ प्रपञ्चयन्नाह- उक्तलक्षणो हेतुर्द्विप्रकारः, उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वादिति ॥ ५० ॥ १५ उपलब्धिश्चोपलम्भोऽनुपलब्धिश्चानुपलम्भ उपलब्ध्यनुपलब्धी ताभ्यां भिंद्यमानत्वाद्विशिष्यमाणत्वाविप्रकारो हेतुरिति ॥ ५१॥ सम्प्रति ये मन्यन्ते उपलब्धिर्विधिसाधिकैवानुपलब्धिस्तु प्रतिषेध- साधिकैव ॥ अत्र द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुः” इति वचनात् । तेषामिदमवधारणं विध्वंसयन्नुपलब्धेरनुपलब्धेश्वाविशेषण २० विधिप्रतिषेधसाधकत्वमाह- उपलब्धिर्विधिप्रतिषेधयोः सिद्धिनिबन्धनमनुपल- ब्धिति ॥५१॥ १ विनेया: शिष्याः।

परि. ३ सू. ५५] स्याद्वादरत्नाकरसहितः -- - अविनाभावनिबन्धनो हि साध्यसाधनयोर्गम्यगमकभावः । यथा चोपलब्धेर्विधौ साध्येऽविनाभावाद्गमकत्वं तथा प्रतिषेधेऽपि । अनु- पलब्धेरपि यथा प्रतिषेधेऽविनाभावाद्मकत्वं तथा विधावपि । एत- चाने व्यक्तीभविष्यत्युदाहरणपरम्परायामिति ॥५१॥ अथ कौ नाम विधिप्रतिषेधौ , यत्सिद्धिनिबन्धनमुपलब्ध्यनुपलब्धी ५ इत्यारेकायां विधिं तावत्प्ररूपयन्नाह- विधिः सदंश इति ॥५२॥ सदसदंशात्मक सर्वस्मिन्वस्तुजाते सदंशो भावांशापरपर्यायो विधिरिति बोद्धव्यः ॥ ५२॥ अथ प्रतिषेधलक्षणमाह- प्रतिषेधोऽसदंश इति ॥ ५३॥ सदसदंशात्मके एव वस्तुन्यसदंशो भावांशापरनामा प्रतिषेधः प्रतिपत्तव्यः ॥ ५३॥ अस्यैव प्रकारानाह- स चतुर्धा प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽ- १५ त्यन्ताभावश्च ॥५४॥ स प्रतिषेधश्चतुर्धा । प्राक् पूर्वमभवनं प्रागभावः । प्रध्वंसश्चासाव- भावश्च प्रध्वंसाभावः । इतरस्येतरस्मिन्नभाव. इतरेतराभावः । अत्य- न्तमभवनमत्यन्ताभावः । चः समुच्चये । विधेस्तु प्रकाराः स्याद्वादैदम्प- यवेदिभिश्चिरन्तनैरपि नैयंत्येन न प्रदर्शिता. इत्यस्माभिरप्युपेक्षितास्त २० इति ।। ५४ ॥ तत्र प्रागभावमाविर्भावयन्नाह- यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभाव इति ॥ ५५॥ - 1.

५७२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ .सू. ५५ .५ यन्निवृत्तावेव यस्य प्रध्वंस एव सति कार्यस्य समुत्पत्तिः स पदार्थोऽस्य कार्यस्य सम्बन्धी, प्रागभाव इत्यभिधीयते ॥ ५५ ॥ अत्रोदाहरणमाह-- यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति ॥५६॥ यथेत्युदाहरणोपक्षेपार्थः । मृत्पिण्डस्य मूद्दव्यपर्यायविशेषस्य निवृत्तिः प्रध्वंसो मृत्पिण्डनिवृत्तिस्तस्यां सत्यामेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः प्रागभाव इत्युच्यते । नन्वतिव्याप्तिदोषदुष्टमिदं प्रागभाव- लक्षणम् । तथा हि यस्य निवृत्तौ सत्यां कार्यस्योत्पत्तिः स पदार्थ- १० स्तस्य यदि प्रागभावतयाऽभिप्रेयते तदा कचिदन्धकारस्य निवृत्तौ सत्यां रूपज्ञानस्योत्पत्तेरन्धकारस्तस्य प्रागभावः प्राप्नोति इति चेत् । मैवं वादीः । यन्निवृत्ताववेत्यवधारणस्य सूत्रे करणात् । न खल्वन्धकारनि- वृत्तावेव रूपज्ञानस्योत्पत्तिरिति नियमः समस्ति । केषाश्चिदन्धकारेऽपि रूपज्ञानस्योत्पत्तेः प्रतीयमानत्वात् । ततो नास्य प्रागभावलक्षणस्याति- १५ व्याप्तिदोषदुष्टतेति । अत्राहुवैशेषिकाः । यस्य भावस्य निवृत्तौ यत्कार्यस्य समुत्पत्ति- यस्य भावस्य निवृत्तौ यत्का- स्तस्यैव तत्प्रागभावत्वाभिधानमशोभनम् । यस्य समुत्पत्तिस्तस्यैव त- सर्वथा भावविलक्षणत्वेन सर्वस्याभावस्य षट्- प्रागभावत्वाभिधानमसंगत- मिति वादिना वैशेषिकाणां पदार्थशेषत्वादिति । न ते यथार्थदर्शिनः । २० मतमुपदश्य तत्खण्डनम्। सर्वथा भावविलक्षणस्याभावस्य ग्राहकप्रमाणा- भावात् । ननु स्वोत्पत्तेः प्रागासीद्धट इति प्रत्ययोऽसद्विषयः, सत्प्रत्यय- विलक्षणत्वात् । यस्तु सद्विषयः स न सत्प्रत्ययविलक्षणः । तस्माद- सद्विषय इत्यनुमानं प्रागभावस्य ग्राहकमस्तीति चेत् । न । प्रागभावादौ नास्ति .प्रध्वंसाभावादिरिति प्रत्ययेन व्यभिचारात् । तस्याप्यस- १. द. अ. ९ आ. १सू. १।

. परि. ३ सू. ५६] स्याद्वादरत्नाकरसहितः ५७३ द्विषयत्वाददोष इति चेत् । मैवम् । अभावानवस्थाप्रसक्तेः । स्यान्मतं भावे भूतलादौ नास्ति कुम्भादिरिति प्रत्ययो मुख्योऽभावविषयः । प्रागभावादौ नास्ति प्रध्वंसादिरिति प्रत्ययस्तूपचरिताभावविषयः । ततो नाभावानवस्थेति । तदप्यपेशलम् । परमार्थतः प्रागभावादीनां सार्य- प्रसङ्गात् । न धुपचरितेनाभावेन परस्परमभावानां भेदः सिद्धयति । सर्वत्र मुख्याभावपरिकल्पनस्य वैयर्थ्यापत्तेः । यदप्युच्यते न भावस्व- भावः प्रागभावादिः सर्वदा भावविशेषणत्वादिति । तदपि न सम्यगनु- मानम् । हेतोः पक्षाव्यापकत्वात् । न प्रागभावः प्रध्वंसादावित्यादेर- भावविशेषणस्याप्यभावस्य प्रसिद्धेः । गुणादिना व्यभिचाराच्च । तस्य सर्वदा भावस्य विशेषणत्वेऽपि भावस्वभावत्वात् । रूपं पश्यामीत्यादि- १० व्यवहारे गुणस्य स्वतन्त्रस्यापि प्रतीतेन सर्वदा भावविशेषणत्वमस्येति चेत् । तर्षभावस्तत्त्वमित्यभावस्यापि स्वातन्त्र्यप्रतीतेः सर्वदा भाववि- शेषणत्वं मासिधत् । सामर्थ्यादभावविशेष्यस्य द्रव्यादेः सम्प्रत्ययात्सदा भावविशेषणमेवाभाव इति चेत् । तथैव गुणादिरपि सततं भावविशेषण- मस्तु । तद्विशेष्यस्य द्रव्यस्य सामागम्यमानत्वात् । अपि च प्रागभावः १५ सादिः सान्तः परिकल्प्यते सादिरनन्तो वाऽनादिरनन्तोऽनादिः सान्तो वेति चत्वारः पक्षाः । प्रथमपक्षे प्रागभावात्पूर्व घटस्योपलब्धिप्रसङ्गः । तद्विरोधिनः प्रागभावस्याभावात् । द्वितीयेऽपि तदुत्पत्तेः पूर्व घटस्योपल- ब्धिप्रसङ्गस्तत एव, उत्पन्नेतु प्रागभावे सर्वदा घटस्यानुपलब्धिः स्यात् । तस्यानन्तत्वात् । तृतीये तु सदा घटस्यानुपलब्धिप्रसक्तिः स्पष्टैव । २० चतुर्थे पुनर्घटोत्पत्तौ प्रागभावस्याभावे घटोपलब्धिवदशेषकार्योपलब्धिः स्यात् । सर्वकार्याणामुत्पत्स्यमानानां प्रागभावस्यैकत्वात् । ननु यावन्ति कार्याणि तावन्तस्तत्प्रागभावाः । तत्रैकस्य प्रागभावस्य विनाशे- ऽपि शेषोत्पत्स्यमानप्रागभावानामविनाशान्न घटोपलब्धौ सर्वकार्योपल- ब्धिरिति चेत् । तर्खनन्ताः प्रागभावास्ते किं स्वतन्त्रा भावतन्त्रा २५ वा । स्वतन्त्राश्चेत्, कथं न भावस्वभावाः । कालादिवत् । भावतन्त्रा- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ५६ श्चेत्, किमुत्पन्नभावतन्त्रा उत्पत्स्यमानभावतन्त्रा वा । न तावदायो विकल्पः । समुत्पन्नभावकाले तत्प्रागभावविनाशात् । न द्वितीय- विकल्पोऽपि श्रेयान् । प्रागभावकाले स्वयमसतामुत्पत्स्यमानभावानां तदाश्रयत्वायोगात् । अन्यथा प्रध्वंसाभावस्यापि प्रध्वस्तपदार्थाश्रयत्वा- ५ पत्तिः । न वाऽनुत्पन्नः प्रध्वस्तो वाऽर्थः कस्यचिदाश्रयो नाम । अति- प्रसङ्गात् । यदि पुनरेक एव प्रागभावः पटादेरिति तथोत्पन्नपदार्थ- विशेषणतया तस्य विनाशेऽप्युत्पत्स्यमानार्थविशेषणत्वेनाविनाशान्नित्य- त्वमपीति मतम् । तदा प्रागभावादिचतुष्टयकल्पनाऽपि माभूत् । सर्व- त्रैकस्याभावस्य विशेषणभेदात्तथा भेदव्यवहारोपपत्तेः । कार्यस्य हि १० पूर्वेण कालेन विशिष्टोऽर्थः प्रागभावः । परेण विशिष्टः प्रध्वंसाभावः । नानार्थविशिष्टः स इतरेतराभावः । कालत्रयेऽप्यत्यन्तनिःस्वभावभाव- विशेषणोऽत्यन्ताभावः स्यात् । प्रत्ययभेदस्यापि तथोपपत्तेः । सत्तैकत्वेऽपि द्रव्यादिविशेषणभेदात्सत्प्रत्ययभेदवत् । यथैव हि सत्प्रत्ययाविशेषा- द्विशेषलिङ्गाभावादेकत्वं सत्ताया इष्टं भवद्भिस्तथैवासत्प्रत्ययाविशेषा- १५ द्विशेषलिङ्गाभावादसत्ताया अप्येकत्वमस्तु । अथ प्रागासीदित्यादि- प्रत्ययविशेषादसत्ता चतुर्भेदेष्यते । तर्हि प्रागासीत्पश्चाद्भविष्यति सम्प्रत्यस्तीति कालभेदेन, पाटलिपुत्रेऽस्ति चित्रकूटेऽस्तीति देशभेदेन, घटोऽस्ति पटोऽस्तीति द्रव्यभेदेन, रूपमस्ति रसोऽस्तीति गुणभेदेन, प्रसारणमस्ति गमनमस्तीति कर्मभेदेन च, प्रत्ययविशेषसद्भावा. २० पाक्सत्तादयः सत्ताभेदाः किं नेष्यन्ते । अथ प्रत्ययविशेषात्तद्वि- शेषणान्येव भिद्यन्ते तस्य तन्निमित्तकत्वात्, न तु सत्ता । ततः सैकैवेति मतम् । तर्हि तत एवाभावभेदोऽपि माभूत् । सर्वथा विशेषाभावात् । अथाभिधीयते, अभावस्य सर्वथैकत्वे विवक्षितकार्योत्पत्तौ प्रागभाव- स्याभावे सर्वस्याभावानुषशात्सर्वकार्यमनाद्यनन्तं सर्वात्मकं च स्यात् । २५ तदप्यभिधानमात्रम् । सत्तैकत्वेऽपि समानत्वात् । विवक्षितकार्य- प्रध्वंसे हि सत्ताया अभावे. सर्वत्राभावप्रसङ्गस्तस्याः । तथा च १० परि. ३ सू. ५६] स्याद्वादरत्नाकरसहितः ५७५ सकलशून्यता स्यात् । अथ विवक्षितकार्यप्रध्वंसेऽपि न सत्तायाः प्रध्वंसो नित्यत्वात् । अन्यथाऽर्थान्तरेषु सत्प्रत्ययोत्पत्तिर्न स्यात् । तदन्यत्रापि तुल्यम् । समुत्पन्नैककार्यविशेषणतया ह्यभावस्याभावेऽपि न सर्वथैवाभावः । भावान्तरेष्वभावप्रतीत्यभावप्रसङ्गात् । यथा चा- भावस्य नित्यैकरूपत्वे कार्यस्योत्पत्तिर्न स्यात्तस्य तत्प्रतिबन्धकत्वात् । ५ तथा सत्ताया नित्यत्वे कार्यप्रध्वंसो न स्यात्तस्यास्तत्प्रतिबन्धकत्वात् । प्रसिद्धं हि प्रध्वंसात्प्राक्प्रध्वंसप्रतिबन्धकत्वं सत्तायाः । अन्यथा सर्वदा प्रध्वंसप्रसङ्गात्कार्यस्य स्थितिरेव न स्यात् । यदि पुनर्बल- वत्प्रध्वंसकारणोपनिपाते सति कार्यस्य सत्ता प्रध्वंसं न प्रतिबध्नाति । ततः पूर्वं बलवद्विनाशकारणोपनिपाताभावात्तं प्रतिबध्नात्येव । अतो न प्रागपि प्रध्वंसप्रसङ्ग इति मतम् । तदितरत्राप्यविशिष्टम् । अभावोऽ- पि हि बलवदुत्पादककारणोपनिपाते सति कार्यस्योत्पादं सन्नपि न प्रतिरुणद्धि । कार्योत्पादात्पूर्वं पुनर्बलवदुत्पादककारणाभावात्तं प्रतिरुणद्धयेव । अतो न प्रागपि कार्योत्पत्तिप्रसङ्गः । येन कार्यस्या- नादित्वानुषङ्गः स्यात् । किं च तुच्छस्वभावत्वे प्रागभाबस्य सव्येत- १५ रगोविषाणादीनां सहोत्पत्तिनियमवतामुपादानसङ्करप्रसङ्गः । प्रागभावा- विशेषात् । यत्र यदा यस्य प्रागभावस्तत्र तदा तस्योत्पत्तिरित्यप्यसङ्ग- तम् । तस्यैवानियमात् । स्वोपादानेतरनियमात्तन्नियमेऽप्यन्योन्याश्रयः । तन्न तुच्छस्वभावः कश्चित्प्रागभावो नाम समस्ति ।। अथ भावस्वभावस्याप्यस्य कुतः प्रसिद्धिरिति चेत् । नयप्रमाणा- २०. दिति ब्रूमः । ऋजुसूत्रनयार्पणाद्धि प्रागभाव- स्य सिद्धिर्नयप्रमाणात् । स्तावत्कार्यस्योपादानपरिणाम एव पूर्वोऽनन्त- रात्मा। न चैवं तस्यानादित्वविरोधः। प्रागमा- वतत्पागभावादेः प्रागभावसन्तानस्यानादित्वोपगमात् । न चात्र सन्तानिभ्यस्तत्त्वान्यत्वपक्षयोः सन्तानो दूषणार्हः । पूर्वपूर्वप्रागभावा- २५ त्मकभावलक्षणानामेवापरामृष्टभेदानां सन्तानत्वाभिप्रायात् । सन्ता- भावस्वभावस्य प्रागभाव- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ५६ निक्षणापेक्षया तुप्रागभावस्यानादित्वाभावेऽपि न दोषः। ऋजुसूत्रनयस्य तथेष्टत्वात् । तथा--अस्मिन्पक्षे पूर्वपर्यायाः सर्वेऽप्यनादिसन्ततितया घटस्य प्रागभाव इति वचनेऽपि न प्रागनन्तरपर्यायनिवृत्ताविव तत्पूर्व- पर्यायनिवृत्तावपि घटम्योत्पत्तिप्रसङ्गः । येन तस्यादित्वे पूर्वपर्याय- ५ निवृत्तिसन्ततेरप्यनादित्वदोषापत्तिः । घटात्पूर्वक्षणानामशेषाणामपि तत्प्रागभावरूपाणामभावे घटोत्पत्त्यभ्युपगमात् । प्रागनन्तरक्षणानिवृत्ती तदन्यतमक्षणनिवृत्ताविव सकलतत्प्रागभावनिवृत्त्यसिद्धेर्घटोत्पत्तिप्रसङ्गा- सम्भवात् । व्यवहारनयार्पणात्तु मृदादिद्रव्यं घटादेः प्रागभावः । न चैवं द्रव्यस्याभावासम्भवात्प्रागभावाभावस्वभावता घटस्य दुर्घटा । १० कार्यरहितस्य पूर्वकालविशिष्टस्य मृदादिद्रव्यस्य घटादिप्रागभावरूपतो- पगमात् । तस्य च कार्योत्पत्तौ विनाशसिद्धेः । कार्यरहिततया विना- शमन्तरेण कार्यसहिततयोत्पत्त्ययोगात् । कार्योत्पत्तेरेवोपादानात्मकप्रा- गभावक्षयस्वभावतया प्रतीयमानत्वात् । तथा प्रमाणार्पणाव्यपर्यायात्मा प्रागभावः। स च स्यादनादिः स्यात्सादिः। अत्राह कश्चित्-द्रव्यरूपतया १५ तावदनादित्वे प्रागभावस्यानन्तत्वप्रसक्तेः सर्वदा कार्यानुत्पत्तिः स्यात् । पर्यायरूपतया च सादित्वे प्रागभावात्पूर्वमप्युत्पत्तिः पश्चादिव कथं कार्यस्य विनिवार्येतति । नायं वैर्यवाग् । अनादेरप्यनन्ततैकान्तत्वा- सम्भवात् । द्रव्यजीवसंसारस्यानादित्वेऽपि सान्तत्वप्रसिद्धः । अन्यथा कस्यचिन्मुक्त्ययोगात् । नापि सान्तस्य सादित्वैकान्तः । कस्यचि- २० संसारस्य सान्तत्वेऽप्यनादित्वप्रसिद्धः । पर्यायरूपतया सादित्वं प्राग- भावस्यैकव्यक्त्यपेक्षयैव । व्यक्तिप्रवाहापेक्षया पुनस्तस्य द्रव्यरूपतयेव पर्यायरूपतयाऽप्यनादित्वमेव । तस्मान्न सर्वदा कार्यस्यानुत्पत्तिः पूर्व- मप्युत्पत्तिर्वा प्रसञ्जयितुं युक्ता । ततो भावस्वभाव एव प्रागभावः । स चैकानेकस्वभावो भावान्तरवदेवेति न तदेकत्वानेकत्वैकान्तपक्षभावी २५ दोषोऽवकाशं लभते । न च भावस्वभावे प्रागभावेऽभ्युपगम्यमाने । १ शोभनभाषी।

परि. ३ स. ५७] स्याद्वादरत्नाकरसहितः प्रामासीत्कार्यमिति नास्तित्वप्रत्ययो विरुध्यते । तदभावस्य भावान्तर- रूपत्वात् । तत्र च नास्तित्वप्रत्ययाविरोधात् । तस्मात्पुष्कलमिदं प्रागभावस्य लक्षणं यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभाव इति ॥ ५६ ।। सम्प्रति प्रध्वंसाभावं लक्षयति-- यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसा- भाव इति ॥ ५७॥ यदुत्पत्तौ यस्य जन्मनि । कार्यस्यावश्यं नियमेन विपत्तिर्विघटनम् । स पदार्थोऽस्य कार्यस्य सम्बन्धी प्रध्वंसाभाव इति कीर्त्यते ॥५॥ उदाहरणमाह- यथा कपालकदम्बकोत्पत्ती नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकमिति ॥५८ ॥ यथेति पूर्ववत् । कपालकदम्बकोत्पत्तौ कर्परपरम्पराप्रादु- भीवे सति । नियमतोऽवश्यम्भावेन । विपद्यमानस्य कलश- स्य घटस्य । कपालकदम्बकं प्रध्वंसाभाव इति । न चैव- १५ मन्धकारोत्पत्तौ विपद्यमानस्य रूपज्ञानस्यान्धकारः प्रध्वंसाभावः प्राप्नोतीत्यतिव्यापकमिदं लक्षणमिति मन्तव्यम् । सूत्रेऽवश्यं ग्रहणात्। न खल्वन्धकारोत्पतौ रूपज्ञानस्य नियमतो विपत्तिः सम्भवति । वृष- दंशकादीनां समुज्जृम्भमाणेऽपि तमालपटलीश्यामले तमस्तम्बे रूपज्ञान- स्योत्पतेः प्रतीयमानत्वात् । ननु चास्तु यथोक्तलक्षणलक्षितः प्रध्वंसा- २० भावस्तथापि कुतोऽस्य प्रसिद्धिरिति चेत् । नयप्रमाणादिति ब्रूमः । तत्र सूत्रनयार्पणातावदुपादेयक्षणा एवोपादानस्य प्रध्वंसः । न चैवं तदुत्तरक्षणेषु प्रध्वंसस्याभावात्पुनरुज्जीवनं घटादेः प्रसज्यते । कार- णस्य कार्योपमर्दनात्मकत्वाभावात् । उपादानोपमर्दनस्यैव कार्योत्पत्त्या- ५७८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ५० स्मकत्वात् । प्रागभावप्रध्वंसयोरुपादानोपादेयरूपतोपगमात्' । प्राग- भावोपमईनेन प्रध्वंसस्यात्मलामात् । कथमभावयोरुपादानोपादेयभाव इति चेत् । भावयोः कथम् । यद्भाव एव यस्यात्मलाभस्तत्तस्योपादान- मितरदुपादेयमिति चेत् । तर्हि प्रागभावे कारणात्मनि पूर्वक्षणवर्तिनि ५ सति प्रध्वंसस्य कार्यात्मनः स्वरूपलाभोपपत्तेस्तयोरप्युपादानोपादेयभा- वोऽस्तु तुच्छयोरेवाभावयोरुपादानोपादेयभावविरोधात् । तथाव्यवहार- नयादेशान्मृदादिस्वद्रव्यं घटोत्तरकालवर्ति घटप्रध्वंसः । स चानन्तः समवतिष्ठते । तेन घटात्पूर्वकालवर्ति घटाकारविशिष्टं च वर्त- मानं मृदादिद्रव्यं घटप्रध्वंसो न भवति । घटोत्तरकालवर्तीति विशे- १० षणात् । नन्वेवं घटोत्तरकालवर्ति सन्तानान्तरमृदादिद्रव्यमपि विव. क्षितघटस्य प्रध्वंसः स्यादिति चेत् । न स्वग्रहणात् । प्रमाणार्पणा- हव्यपर्यायात्मा प्रध्वंसः । तथा हि कपालपालिलक्षणपर्यायपरिकलितं मुद्दव्यं घटपर्यायाविष्टमूहव्यस्य प्रध्वंस इति प्रामाणिकी प्रतीतिः सर्वै- रप्यनुभूयमाना नापह्रोतुं शक्यते । तदित्थं नयार्पणात्प्रमाणार्पणाच्च १५ भावस्वभाव एव प्रध्वंसाभावोऽपि प्रसिद्धिसौधमधितिष्ठति । तुच्छस्व- भावत्वे तु प्रध्वंसस्य मुद्रादिव्यापारवैयर्थं स्यात् । मुद्रादिव्यापारण ह्येवंविधस्वभावोऽसौ कुम्भादेभिन्नः क्रियेताभिन्नो वा । तत्राधविकल्पो कुम्भादेस्तदवस्थत्वप्रसङ्गाद्विनष्ट इति प्रत्ययस्तत्र न स्यात् । विनाश- सम्बन्धाद्विनष्ट इति प्रत्ययोत्पत्तौ तु विनाशतद्वतोः सम्बन्धः कश्चिद- २० भिधानीयः । स ह्यविष्वग्भावः कार्यकारणभावः संयोगः समवायो विशेषणविशेष्यभावो वा तयोर्भवेत् । न तावदविष्वग्भावः । विनाश- तद्वतोभैदानीकारात् । नापि कार्यकारणाभावः कुम्भादेर्विनाशं प्रत्य- कारणत्वात् । मुद्रादिनिमित्तकत्वाद्विनाशस्य । कुम्भादिमुद्गरादिलक्ष- णोभयनिमित्तकत्वादस्यायमदोष इति चेत् । तदप्ययुक्तम् । मुद्रादि- २५ रिव विनाशोत्तरकालं कुम्भादेरप्युपलम्भप्रसतेः । कुम्भादेः स्वविनाश प्रत्युपादानकारणत्वान्न तत्काले उपलम्भप्रसक्तिरित्यशोभनम् ।

परि. ३ स्. ५८] स्याद्वादरत्नाकरसहितः ५७९ १० अभावस्य भावान्तरस्वभावताप्रसङ्गात् । तं प्रत्येवास्योपादानकारणत्व- प्रसिद्धेः । संयोगसमवायावप्यत्र न सम्भवतः । तयोर्भावैकनिष्ठत्वेना- भ्युपगमात् । विशेषणविशेष्यभावः सम्बन्ध इत्यप्यसम्बद्धम् । सम्बन्धा- न्तरेण सम्बद्धयोरेव दण्डपुरुषादिवत्सम्भवात् । न च विनाशतद्वतोः सम्बन्धान्तरेण सम्बद्धत्वमस्तीत्यधुनैवाभिहितम् । अथ भावेष्वेवायं ५ नियमो यत्सम्बन्धान्तरवशादेव विशेषणविशेष्यभाव इति । नैतन्न्या- य्यम् । एवंविधावधारणनिबन्धनप्रमाणानुपदर्शनात् । तन्न मुद्रादि- व्यापारेण कुम्भादेमिनो विनाशः क्रियते । अभिन्नविनाशकरणे पुनः कुम्भादिरेव मुद्रादिव्यापारेण क्रियत इति प्राप्तम् । तच्चानुपपन्नम् । तस्य स्वसामग्रीतः प्रागेवोत्पन्नत्वात् । यच्च कपालपालेः सकाशा- द्विनाशस्यार्थान्तरत्वं विभिन्न कारणप्रभवतया कथ्यते । तथा हि घटवि- नाशो बलवत्पुरुषप्रेरितमुद्गराधभिघातादवयवक्रियोत्पत्तेरवयवविभागतोऽ- वयवसंयोगविनाशादेवोत्पद्यते । कपालपालिस्तु स्वारम्भकावयवादिभ्य एव प्रादुर्भवतीति । तदपि प्रमाणपराङ्मुखम् । विनाशोत्पादकारणप्रक्रियोद्घोषणस्यात्यन्तप्रातीतिकत्वात् । केवल- १५ मन्यप्रतारितेन त्वया परः प्रतार्यते । तस्मादन्धपरम्पराप्रवाद- परित्यागेन बलवत्पुरुषप्रेरितमुद्रादिव्यापारात्कुम्भकारविकलकपालाका- रमृव्यस्यैवोत्पत्तिः स्वीकर्तव्या । अलं प्रतीत्यपलापेन । एवं च न सर्वथा भावविलक्षणः कश्चित्प्रध्वंसः । नापि सर्वथा प्रध्वंसस्याभाव इति सिद्धं भवति । ततश्च यदुक्तं ज्ञानश्रीमित्रेण-" दृष्टस्तावदयं घटोऽत्र च पतन्दृष्टस्तथा मुद्गरो । दृष्टा कर्परसंहतिः दृष्टस्तावदित्यादिज्ञानश्री- मित्रकारिकाया विचारः परमतो नाशो न दृष्टोऽपरः ॥ तेनाभाव इति श्रुतिः क निहिता किं वाऽत्र तत्कारणं स्वाधीना परिघस्य केवलमियं दृष्टा कपालावलिः॥१॥" इति २५ अस्य २० १ 'तत् स्पष्टं ' इति प. भ. पुस्तकयोः पाठः ।

प्रमाणनयतत्त्वालोकालङ्कार [परि. ३ सू. ५० स्वकीयवृत्तं व्याख्यानयता सुनिपुणं निरूपयन्तोऽपि मांसचक्षुषो वयं तावन्नापरमत्र वस्तुजातमीक्षामहे यदभावश्रुत्या विषयीक्रियेत । तदर्शनाभावाच्च तत्कारणमपि किमवधारयामः । यश्च तत्कारणं कल्पितो दण्डस्तस्याप्यन्वयव्यतिरेकानुविधायिनी कपालपंक्तिरेव दृष्टा ५ नान्यत्किञ्चित् । वैधर्म्यदृष्टान्ततयेयमुपन्यस्ता पुनः । यथेग्रमध्यक्षा. नुपलम्माभ्यामन्वयव्यतिरेकावनुविदधती दृश्यतया दण्डस्य कार्यम- वस्थाप्यते तथा यदि नाशाख्यमपि वस्तु दृश्यं स्यादनात्मरूपविवेकेन तस्यापि तदा न तरस्विदण्डकार्यता वार्येत । न चैवम् । तस्मात्क- ल्पनैवेयमिति । तत्र योकान्ततुच्छस्वभावध्वंसनिरसनम् । तदा तेना- १. स्माकं सहायकमेवावरितम् । अथ सर्वथा प्रध्वंसनिरसनायासस्तस्य स न साधीयान् । परिघादिव्यापारप्रसूतायाः कपालावलेरेव घटप्र- ध्वंसात्मकतया निर्विघ्नं प्रत्यक्षे प्रतीयमानत्वात् । ततः सुव्यवस्थित- मिदं लक्षणं यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभाव इति ॥ ५८॥ अथेतरेतराभावलक्षणमाह- स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतराभाव इति ॥ ५९॥ स्वरूपान्तरात्स्वभावान्तरात्स्वरूपव्यावृत्तिः स्वस्वभावव्यवच्छेद इतरेतराभावोऽन्यापोहापरनामक उच्यते । स्वरूपान्तरादिति वचनान्न २० स्वस्वरूपाद्वयावृत्तिरितरेतराभावः । तस्यातस्वभावत्वप्रसङ्गात् । ननु तथापि कार्यद्रव्यात्पूर्वोत्तरपरिणामयोः प्रागभावप्रध्वंसाभावनानोरेवेतरे- तराभावताऽस्तु । स्वरूपान्तरात्स्वरूपव्यावृत्तेस्तयोः सद्भावात् । न पुनस्तदतिरिक्तः कश्चिदितरेतराभावोऽस्तीति चेत् । नैवम् । तयो- रितरेतराभावलक्षणतो विभिन्नलक्षणाक्रान्तत्वात् । यदभावे हि निय- २५ मतः कार्यस्योत्पत्तिः स प्रागभावः । यद्भावे च कार्यस्य नियता परि. ३ सू. ६०] स्याद्वादरत्नाकरसहितः ५ - विपत्तिः स प्रध्वंसः । न चेतरेतराभावस्याभावे भावे च कार्यस्योत्पत्ति- विपत्तिर्वा । जलस्याभावेऽप्यनलस्यानुत्पत्तेः । क्वचिजलभावेऽपि चानलम्याविपत्तेः । ततः प्रागभावप्रध्वंसाभावयोविभिन्नलक्षणोपेतत्वा- नेतरेतराभावत्वं वक्तुं युक्तम् । नाप्यत्यन्ताभावस्य । तस्यापि काल- त्रितयापेक्षस्यैवेतरेतराभावाद्विभिन्नलक्षणत्वेन वक्ष्यमाणत्वात् ॥५९ ।। उदाहरणमाह- यथा स्तम्भस्वभावात्कुम्भस्वभावव्यावृत्तिरिति ॥६॥ स्पष्टमदः । ननु येयं स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतराभावत्वेन भवद्भिर- १० भिधीयते सा भावेभ्यः किं भिन्ना भवेदभिन्ना भावेभ्यः सर्वथा पृथग्भूतः स्येतरतराभावस्य वेति । कथञ्चिदविप्वग्भूतेति ब्रूमः । परपरि- खण्डनम् । कल्पितायाः पदार्थेभ्यः सर्वथा विष्वग्भूताया व्यावृत्तेरवस्तुरूपायाः स्वप्नेऽप्यप्रतीयमानत्वात् । तथा हि स्वकारण- कलापात्स्वस्वभावव्यवस्थितत्वेन व्यावृत्तमूर्तयो भावाः समुत्पन्ना नात्मानं परेण मिश्रयन्ति । तस्यापरत्वप्रसङ्गात् । न चान्यस्मादव्या- वृत्तस्वरूपाणां भावानामभावांशो भिन्नः सम्भवति । भावे वा तस्यापि पररूपत्वात् , भावैस्ततोऽपि व्यावर्तितव्यमित्यपराभावपरिकल्पनयाऽन- वस्थातो न कुतश्चिद्भावैावर्तितव्यमित्येकस्वभावं विश्वं भवेत् । पर- भावाभावाच्च व्यावर्त्तमानस्यार्थस्य पररूपताप्रसङ्गः । यदि चेतरेतराभा- ववशाद्धटः पटादिभ्यो व्यावर्तते तहत्तरेतराभावो भावादभावान्तराच्च प्रागभावादेः किं स्वतो व्यावर्तेताऽन्यतो वा। स्वतश्चेत्, तथैव घटोऽप्य- न्येभ्यः किं न व्यावर्तितः। अन्यतश्चेत्, किमसाधारणधर्मादितरेतराभा- वान्तराद्वा । असाधारणधर्मादित्यभ्युपगमे स एव घटादिष्वपि युक्तः । इतरेतराभावान्तराञ्चेत्, तर्हि बहुत्वमितरेतराभावस्यानवस्थाकारि स्यात् । २५ २० ५८२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६० किं चेतरेतराभावोऽप्यसाधारणधर्मेण व्यावृत्तस्याव्यावृत्तस्य वा भेदको भवेत् । यद्यव्यावृत्तस्य, किं नैकव्यक्तेर्भेदकोऽसौ । अथ व्यावृत्तस्य, तर्हि घटादिष्वपि स एवास्तु पटादिभ्यो भेदकः। किमितरेतराभाव- कल्पनया । अपि चानेन घटे पटः प्रतिषिध्यते पटत्वसामान्यमुभयं .५ वा । प्रथमपक्षे किं पटविशिष्टे घटे पटः प्रतिषिध्यते पटविविक्ते वा । न तावदाद्यः पक्षः । प्रत्यक्षविरोधात् । नापि द्वितीयः । तथा हि किमितरेतराभावादन्या घटस्य पटविविक्तता स एव वा विविक्तता- शब्दाभिधेयः । भेदे तयैव घटे पटाभावव्यवहारसिद्धेः किमितरेतरा- भावेन । अथ स एव तच्छब्दाभिधेयः । तर्हि यस्मादभावात्पटविवि १० घटे पटाभावव्यवहारः सोऽन्यो विविक्तताशब्दाभिधेयश्चान्य इत्ये- कस्मिन्वस्तुनीतरेतराभावद्वयप्रसङ्गः । तन्न घटे पटप्रतिषेधो युक्तः । नापि पटत्वसामान्यप्रतिषेधः । तस्याऽप्येकत्वसम्बन्धाभावादेव प्रतिषेधा- नुपपत्तेः । नाप्युभयप्रतिषेधः । प्रागुक्ताशेषदोषानुषङ्गात् । अपि चेत- रेतराभावप्रतिपत्तिपूर्विका घटप्रतिपत्तिः, घटप्रतिपत्तिपूर्विका वेतरेतरा- १५ भावप्रतिपत्तिः । आद्यपक्षेऽन्योन्याश्रयत्वम् । तथा हीतरेतराभावो घट- सम्बन्धित्वेनोपलभ्यमानो घटस्य विशेषणं न पदार्थान्तरसम्बन्धित्वेन । अन्यथा सर्व सर्वस्य विशेषणं स्यात् । घटसम्बन्धित्वप्रतिपत्तिश्च घटग्रहणे सत्युपपद्यते । सोऽपि व्यावृत्त एव पटादिभ्यः प्रतिपत्तव्यः । ततो यावत्पूर्व घटसम्बन्धित्वेन व्यावृत्तेरुपलम्भो न स्यान्न २० तावद्यावृत्तिविशिष्टतया घटः प्रत्येतुं शक्यो यावच्च न पटादि- व्यावृत्तत्वेन प्रतिपन्नो न तावत्स्वसम्बन्धित्वेन व्यावृत्तिं विशेषयतीति । द्वितीयपक्षे त्वभावो विशेष्यो घटो विशेषणं तद्रहणं च पूर्वमन्वेषणी- यम् । "नागृहीतविशेषणा विशेष्ये बुद्धिः" इत्यभिधानात् । तत्रापि घटो गृह्यमाणः पटादिभ्यो व्यावृत्तो गृह्येताव्यावृत्तो वा । १५ तावत्पटादिभ्योऽव्यावृत्तस्य घटस्य घटरूपता घटते । पटादेरपि तथैव घटादिरूपताप्रसङ्गादभावकल्पनावैयर्थ्यम् । तथा न अन्यथा 'परि. ३ स. ६२] स्याद्वादरत्नाकरसहितः तेभ्यो व्यावृत्तस्य घटरूपताप्रतिपत्तिः प्रार्थ्यते तत्रापि किं कति- पयपटादिव्यक्तिभ्योऽसौ व्यावर्त्तते सकलपटादिव्यक्तिभ्यो वा । प्रथम- पक्षे कुतश्चिदेवासौ व्यावर्तते सकलपटादिव्यक्तिभ्यः । निखिलपटादि- व्यक्तिभ्योऽस्य व्यावृत्तिः पुनरसिद्धा । तासामानन्त्येन ग्रहणा- सम्भवात् । इतरेतराश्रयत्वं च । तथा हि यावत्पटादिभ्यो व्यावृत्तस्य घटस्य घटरूपता न स्यान्न तावद्धटात्पटादयो व्यावर्तन्ते यावच्च घटायावृत्तानां पटादीनां पटादिरूपता न स्यान्न तावत्पटा- दिभ्यो घटो व्यावर्तत इति । अस्तु वा यथा कथञ्चित्पटादिभ्यो घटस्य व्यावृत्तिर्घटान्तरात्तु कथमसौ व्यावर्त्तत इति सम्प्रधारणीयं विचक्षणैः । किं घटरूपतयाऽन्यथा वा । यदि घटरूपतया, तर्हि सकलघटव्यक्तिभ्यो व्यावर्त्तमानो घटो घटरूपतामादाय व्यावर्त्तत इत्यायातमघटत्वमन्यासां घटव्यक्तीनाम् । अथाघटरूपतया, तत्किम- घटरूपता पटादिवद्धटेऽप्यस्ति । तथा चेत्, तर्हि यो व्यावर्त्तते घटान्तरादघटत्वेन घटस्तस्याघटत्वं स्यात् । तच्च विप्रतिषिद्धम् । यद्यघटो घटः कथं, घटश्चेत्तर्यघटः कथमिति । तदित्थमर्थेभ्यः सर्वथा १५ पृथग्भूतस्य परकथितस्यावस्तुरूपस्येतरेतराभावस्य विचार्यमाणस्यानुपप- तेरुपपन्नमिदमितरेतराभावलक्षणं स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतरा- भाव इति ॥६०॥ अथात्यन्ताभावलक्षणमाह कालत्रयापेक्षणी हि तादात्म्यपरिणामनिवृत्तिर- २० त्यन्ताभाव इति ॥ ६१.॥ अतीतानागतवर्तमानलक्षणं कालत्रयमपेक्षत इत्येवं शीला काल- त्रयापेक्षणी । तादात्म्यपरिणामनिवृत्तिरेकत्वपरिणतिव्यावृत्तिरत्य- न्ताभाव इत्यभिधीयते ॥ ६१॥ उदाहरणमाह-- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६२ यथा चेतनाचेतनयोरिति ॥ ६२॥ न खल . चेतनमात्मतत्त्वमचेतनं पुद्गलाद्यात्मकतामगमद्भविष्यति गच्छति वा । चेतनत्वविरोधात् । नाप्यचेतनं पुद्गलादितत्त्वं चेतनजी- वस्वरूपतायामयासीद्यास्यति याति वा । अचेतनत्वविरोधात् । तदित्थं चेतनाचेतनयोः कालत्रयापेक्षिण्यास्तादात्म्यपरिणामनिवृत्तेः सम्भवात्सि- द्धोऽयन्ताभाव इति । नन्वेवमतिव्याप्तिरत्यन्ताभावलक्षणे दुष्परिहारा । घटपटयोरपि तादात्म्यपरिणामनिवृत्तिरूपयोरत्यन्ताभावत्वप्रसक्तेः । न खलु घटः पटात्मकतां कदाचिदास्कन्दति घटत्वविरोधात् । नापि पटो घटात्मकतां स्वीकुरुते पटत्वविरोधादिति चेत् । तदेतत्तरलमतिवि- १० लसितम्। कालत्रयापेक्षणीति विशेषणस्य तादात्म्यपरिणामनिवृत्तेः सूत्रे करणात् । घटपटयोश्च यद्यपीतरेतराभावमाहात्म्यात्तादात्म्यपरि- णामनिवृत्तिरस्ति तथापि न सा सर्वकालम् । कदाचित्पटस्यापि घटत्वपरिणामसम्भवात् । तथापरिणामकारणसाकल्ये तदविरोधात् । पुद्गलपरिणामानियमदर्शनात् । न चैवं चेतनाचेतनयोः कदाचित्तादा- १५ त्म्यपरिणामः, तत्त्वविरोधात् । तदेवमतिव्याप्तेरसम्भवात्सूक्तमिदं लक्षणं कालत्रयापेक्षणी तादाम्यपरिणामनिवृत्तिरत्यन्ताभाव इति ॥ तदमुना प्रबन्धेन प्रागभावप्रध्वंसाभावेतरेतराभावात्यन्ताभावानां प्रमाणतः प्रसिद्धस्वरूपत्वाद्यदेतच्चार्वाकेणोद्यते- प्रागभावाद्यभावचतुष्टयाप- लापिनश्चार्वाकस्य का- न चैकोऽप्यभावः क्षित्यादिविवर्तघटादि- पिलसांख्यानां च व्यतिरेकेण प्रत्यक्षतः प्रतिभासते, केवलं खण्डनम् । गतानुगतिकतया लोकः पृथिव्यादिभूतचतुष्ट- यविषयमेव प्रागभावादिविकल्पमात्रवशात्प्रागभावादिव्यवहारं प्रव- तयति" इति तदपहस्तितं भवति । प्रागभावापलापे हि कार्यद्रव्यं घटादिकमनादि स्यात् । प्रध्वंसाभावनिहवे तदनन्तं भवेत् । न चाना- २५ घनन्तं घटादिकं कार्यद्रव्यं प्रागभावाद्यपहववादिनाऽभ्युपगन्तुं शक्यते । १. उच्यते' इति भ. पुस्तके पाठः । २० परि ३ सू. ६४] स्याद्वादरत्नाकरसहितः स्वमतविरोधात् । लोकायतिकत्वहानिप्रसङ्गात् । तस्य व्यवहारदुर्णय- मतावलम्बित्वेन लोकव्यवहाराह कियत्कालस्थायिघटादिप्रदार्थकदम्बक- वांदित्वात् । इतरेतराभावतिरस्कारे तु नास्तिकस्याभिमतं पृथिव्यादि- तत्त्वं सर्वात्मकं सम्पद्येत । अनभिमतात्मनाऽपि भाषात् । ततश्च पृथि- व्यादीनां परस्परस्वरूपसाङ्कर्यापत्त्या भूतचतुष्टयव्यवस्थापनं दुरुपपादं ५ तस्य स्यात् । अत्यन्ताभावव्यतिक्रमे पुनः पराभिमतचैतन्यतत्त्वात्म- नाऽपि पृथिव्यादितत्वस्य कदाचित्सद्भावः स्यादिति महदनिष्ट चार्वा- कस्यापद्यतेति । कपिलमतानुसारिणामपि प्रागभावानभ्युपगमे ताव- कुम्भादेरनादित्वप्रसङ्गाकुलालादिव्यापारानर्थक्यं स्यात् । न हि तघ्यापारमन्तरेण जातुचित्कुम्भादिकमुपलभ्यते । न च कुम्भाद्यमि- १० व्यक्त्यर्थः कुम्भकारादिव्यापार इति वाच्यम् । अभिव्यक्तेरपि प्रागभा- वाभावे तव्यापारानर्थक्यस्य तादवस्थ्यात् । प्रतिक्षेप्स्यतेऽत्राभिव्यक्तिरग्रे प्रबन्धेनेति कृतं विस्तरेण । एवं प्रध्वंसाभावाद्यनभ्युपगमे साङ्थानां कार्यद्रव्यानन्तत्वापत्त्यादिकं प्राचीनमेव दूषणमुद्धोषणीयम् । एवं च- उपलब्ध्यादिको हेतुर्गोचरीकुरुतेऽत्र यम् । प्रतिषेधश्चतुर्धाऽसौ प्रसिद्धिपदमाययौ ॥ ५१४ ॥ ६२॥ अथोपलब्धेः प्रकारप्रकाशनायाह- उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धि- श्रेति ॥ ६३॥ अविरुद्धोपलब्धिः साध्येनाविरुद्धस्योपलम्भः । विरुद्धोपलब्धिः साध्येन विरुद्धस्योपलम्भ इति ॥ ६३॥ अविरुद्धोपलब्धेर्विधौ साध्ये भेदानाह-- तत्राविरुद्धोपलब्धिर्विधेः सिद्धौ षोदेति ॥ ६४ ॥ १५ २०

प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ३ सू. ६४
तत्रेति निर्धारणे । तयोविरुद्धाविरुद्धोपलब्ध्योर्मध्ये येयमविरुद्धोप-
लब्धिः सा विधिसिद्धौ विधिज्ञप्तौ षोढा षट्प्रकारा भवति ॥ ६४॥
प्रकारानेवाह
साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचर-
सहचराणामुपलब्धिरितीति ॥६५॥
साध्येन परिणतिमत्त्वादिना वक्ष्यमाणेन साध्यधर्मेण सहाविरुद्धानां
विरोधमनागतानाम् । व्याप्यं च कार्य च कारणं च पूर्वचरं चोत्तरचरं
च सहचरं च व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणि प्रयत्नान-
न्तरीयकत्वादीनि वक्ष्यमाणानि लिङ्गभूतानि वस्तूनि तेषामुपलब्धिः ।
१० इतिशब्दः प्रकारपरिसमाप्त्यर्थः । ततश्च व्याप्याविरुद्धोपलब्धिः,
कार्याविरुद्धोपलब्धिः, कारणाविरुद्धोपलब्धिः, पूर्वचराविरुद्धोपलब्धिः
उत्तरचराविरुद्धोपलब्धिः, सहचराविरुद्धोपलब्धिश्चेत्यविरुद्धोपलब्धि-
विधिसिद्धौ षट्प्रकारा विज्ञेया । अत्राह ताथागतः-ननु कारणस्य
कार्याविनाभावाभावान्न साधनत्वं " नाऽवश्यं कारणानि कार्यवन्ति
१५ भवन्ति" इति वचनात् । तथा हि न कारणमात्रस्य हेतुत्वं युक्तम् ।
विनाशप्रतिबन्धादिना तस्य व्यभिचारात् । कारणविशेषश्च न कश्चि-
द्विपश्चिताऽपि निश्चेतुं शक्यः । अकाण्डाडम्बरं प्रचण्डानामपि तडि-
त्वतामकृत्वैव वर्षमुपरमोपलम्भात् । यदि पुनरन्त्यदशावर्ति कारण
लिङ्गत्वेनाङ्गीक्रियते तदा व्याप्तिस्मरणावसर एव कार्य प्रत्यक्ष
२० भवेदिति व्यर्थमनुमानं तत्र स्यात् । ननु सौगतैरपि कारणा-
कार्यानुमानमभ्युपगतमेव " हेतुना यः समग्रेण कार्योत्पादोऽ-
नुमीयते” इति वदद्धिरिति चेत् । तत्र उत्पद्यतेऽस्मादित्युत्पादो
हि योग्यताऽभिधीयते सा चात्रानुमेया । अत एव तस्या वस्तुनः
सकाशादनन्यत्वात्स्वभावानुमानमिदमिष्यते " अर्थान्तरानपेक्षत्वात्स
२५ स्वभावोऽनुवर्णितः" इति वचनादिति ॥ ६५ ॥

स्त्यम् । परि. ३ सू. ६६] स्याद्वादरत्नाकरसहितः तदिदमखिलमपर्यालोचिताभिधानं सौगतस्येत्युपदर्शयन्नाह - तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसा- मयानुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमत- मेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खल- नमपरकारणसाकल्यं चेति ॥ ६६ ॥ ५ शक्तेरप्रतिस्खलनमिति कार्यजननसामर्थ्यस्याप्रतिबन्धः । अपरका- रणसाकल्यमिति विवक्षितकारणादितरसहकारिभूतहेतुकदम्बकसाम- अयमत्राशयः--आस्वाद्यमानात्सहकारादिफलरसात्कार्य- लिङ्गात्वजनिका सामग्र्यनुमीयते । ततस्तस्याः कारणलिङ्गरूपायाः सकाशाद्रूपलक्षणस्य कार्यस्यानुमानमुपजायते । प्राक्तनो हि रूपलक्षणः १० सजातीय रूपलक्षणान्तरलक्षणं कार्य करोतीत्येवं रूपानुमानमिच्छ- द्भिरिष्टमेव किंचित्कारणं लिङ्गतया । प्राक्तनस्य रूपलक्षणस्य सजा. तीयरूपलक्षणान्तराव्यभिचारात् । अन्यथा रससमानकालभाविनो रूपस्य प्रतिपत्त्यनुपपत्तेः । न ह्यनुकूलमात्रमन्त्यक्षणप्राप्तं वा कारणं लिङ्गमस्माभिरिष्यते । येन मणिमन्त्रादिना सामर्थ्यप्रतिबन्धात्कारणा. १५ न्तरवैकल्येन वा कार्यव्यभिचारित्वं द्वितीयक्षणे कार्यप्रत्यक्षीकरणेना- नुमानानर्थक्यं वा भवेत् । वर्षादिकार्याविनाभावितया निश्चितस्य विशिष्टोन्नत्यादिशालिनो मेघादेव लिङ्गत्वेनाङ्गीकरणात् । यत्र हि सामाप्रतिबन्धः कारणान्तरावैकल्यं च निश्चीयते तस्यैव लिङ्गत्वं नान्यस्य । अन्यथा तृप्त्याद्यर्थ भोजनादावप्यप्रवृत्तेः सकलव्यव- २० हारोच्छेदः स्यात् । ततः कार्यवत्कारणमपि व्याप्तिसद्भावाद्धेतुरेव । तदुक्तम्- " समर्थ कारणं तेन नान्त्यक्षणगतं मतम् ।। कार्यवत्कारणमपि हेतुरेवेतितद्वोधे येन वैयर्थ्यमनुमानस्य गद्यते ॥१॥ पक्षस्य संवादः । न वाऽनुकूलतामात्रं कारणस्य विशिष्टता ॥ २५ ॥ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३९.६६ येनाऽस्य प्रतिबन्धादिसम्भवाद्यभिचारिता ॥२॥ वैकल्यप्रति- बन्धाभ्यामनासाद्यस्वभावता विशिष्टतात्र विज्ञातुं शक्या छायादिभेदतः ॥३॥ तद्विलोपेऽखिलख्यातव्यवहार- विलोपनम् ॥ तृप्त्यादिकार्यसिध्द्यर्थमाहारादिष्ववृत्तितः ॥ ४ ॥ ५ तत्परीक्षकलोकानां प्रसिद्धमनुमन्यताम् ॥ कारणं कार्यवद्धतुर- विनाभावसङ्गतम् ॥ ५॥" छायादिभेदत इति विशिष्टस्निग्धत्वश्या- मलत्वादिधर्मकलापभेदतस्तद्विलोपे । यत्तु पातनायामुक्तं कारण- विशेषश्च न कश्चिद्विपश्चिताऽपि निश्चेतुं शक्य इति तदयुक्तम् । सुनिपुणेन प्रमात्रा कारणविशेषस्यावधारयितुं शक्यत्वात् । यथा खलु १० कार्यगतं विशेषमभ्यासादवधार्य कार्यात्कारणमनुमिन्वते निपुणास्तथा कारणगतं ते एवाऽवसायकारणात्कार्यमपि । तदाह-"कारणानुपलम्भेऽ- पि यथा कार्ये विशिष्टता ॥ बोध्याऽभ्यासात्तथा कार्यानुपलम्भोऽपि कारणे ॥ १॥ प्रमातुस्त्वपराधोऽयं विशेष यो न पश्यति ॥ न कारणस्य दोषोऽस्ति स्वकार्याव्यभिचारिणः ॥२॥ अनभ्युपगमे १५ चैवमनुमानस्य जीवितम् ॥ न स्यामविशेषाणामपि बोद्धुम- शक्तितः॥३॥" एवं चाकाण्डाडम्बरेत्याद्यपि परस्य प्रलापमात्रम्। विशिष्टोन्नत्यादिधर्मकलापोपेतपयोदानामदूरकालभाविवृष्टिलक्षणकार्या- व्यभिचारोपलम्भात् । तथा हि--- गर्जन्तस्तारतारं तरलतरतडित्ताण्डवाडम्बरेण प्रोच्चण्डाः सान्द्रसद्यःप्रविकसदसतीश्यामलिनाऽनुलिप्ताः ॥ चश्चन्माहेन्द्रचापाश्चलदचलचयाकारशङ्कां दिशन्तः प्रभ्रश्यन्तीह नैव कचन जलमुचो वृष्टिसृष्टिं विनाऽपि ॥५१५॥ प्रयोगश्चात्र--अनन्तरोत्पादवृष्टयोऽमी जीमूताः सातिशयोन्नत्यादि- २५ धर्मयोगित्वात्पूर्वोपलब्धैवंविधजलधरवदिति । येषां पुनरम्भोमुचा प्रौढ- १'तत एव ' इति प. पुस्तके पाठः । २० परि. ३ सू. ६७ स्याद्वादरत्नाकरसहितः प्रभञ्जनादिना विध्वस्तत्वेन भाविवर्षलक्षणकार्य प्रति व्यभिचारित्वं, न तेषां गमकत्वं वयमपि ब्रूमः । न चैकत्र व्यभिचारोपलम्भे सर्वत्र व्यभिचारः प्रेरयितुं परीक्षकाणामुचितः । सकलानुमानप्रलयप्रसङ्गात् । गोपालघुटिकाघटितधूमस्य धूमध्वज प्रति व्यभिचाशेपलब्धौ धरणीधर- कन्धराधिकरणस्यापि तस्य तम्प्रति व्यभिचारापत्तेः । यच्च हेतुना ५ यः समग्रणेत्यत्र योग्यतानुमानं व्याख्यातम् । तदपि नोपपन्नम् । साध्यसाधनयोरेकान्तं तादात्म्याभ्युपगमे स्वभावानुमानस्य प्रागेव निरवकाशतया दर्शितत्वात् । लोकश्चाविकलकारणात्कार्यमेव कल्पयति न योग्यतामित्यलं कुदर्शिनः कुत्सितकुसुमविमर्दोद्गतदुरामोदास्वादनेन ॥६६॥ ननु पूर्वचरोत्तरचरयोहेतुत्वमसुन्दरम् । दासीरासभयोः पूर्वचरोत्तर- चरत्वसम्भवेऽपि व्यभिचारदर्शनात् । यत्तु कृत्तिकादौ व्यभिचारादर्शनं न तत्र पूर्वचरोत्तरचरत्वं कारणं किं त्वेतदतिरिक्तः प्रतिबन्धविशेषभूतः स्वभावकार्यकारणेप्वेव प्रोक्तेप्वन्तर्भावो भविष्यत्यनयोः किं पृथगुपादा- नेनेत्याशङ्कय दासीरासभादौ पूर्वचरोत्तरचरत्वमेवास्मद्विवक्षितं नास्तीति १५ तदवगमनाय कृत्तिकादौ बौद्धसमतं तादात्म्यादिप्रतिबन्धविशेष निराकुर्वन्नाह- पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ तयोः कालव्यवहितावनुपलम्भादिति ॥ ६७ ॥ पूर्वचरोत्तरचरयोर्हेतुविशेषयोर्न स्वभावकार्यकारणभावौ तादात्म्य- २० तदुत्पत्ती सम्भवतः । कुत इत्याह-तयोः स्वभावकार्यकारणभावयोः । कालव्यवधानेऽनुपलम्भात् । अयमत्राभिप्रायः--साध्यसाधनयोस्ता- दात्म्ये सति स्वभावहेतौ तदुत्पत्तौ तु कार्यकारणे वाऽन्तर्भावो विभाव्येत। न च पूर्वचरोत्तरचरयोस्तदुभयसम्भवः । कालव्यवधाने तदनुपलब्धः । तादात्म्यं हि समसमयस्यैव कृतकत्वानित्यत्वादेः प्रतिपन्नम् । तदु- २५ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६७ त्पत्तिश्चान्योन्यमव्यवहितस्यैव धूमधूमध्वजादेः समधिगता न पुनर्व्य- वहितकालस्य । अतिप्रसक्तेः । प्रयोगः-यवत्काले यस्मादनन्तरं वा यन्नास्ति न तस्य तेन तादात्म्यं तदुत्पत्तिर्वा । यथा भविष्य- च्छङ्खचक्रवर्तिकालेऽसतो रावणादेः । नास्ति च शकटोदयादिकालेड- ५ नन्तरं वा कृत्तिकोदयादिकम् । ननु प्रज्ञाकराभिप्रायेण भाविरोहिण्युदयकार्यतया कृत्तिकोदयस्य गमकत्वात्कथं कार्यहेतौ पूर्वचरस्य नान्तर्भाव इति प्रज्ञाकराभिप्रायेण पूर्वचर: स्य कार्यहेतावन्तभावं चेत् । तर्हि कथमभूद्भरण्युदयः कृत्तिकोदयादि- स्वीकुर्वतः खण्डनम् । त्यनुमानं स्यात् । न खलु भरण्युदयकार्य कृत्ति- १० कोदयः, तस्य भाविरोहिण्युदयकार्यतया भवद्भिः प्रतिज्ञातत्वात् । अथ भरण्युदयोऽपि कृत्तिकोदयस्य कारणं तेन भरण्युदयस्याप्यनुमानं कृत्तिको- दयाद्भविष्यतीत्युच्यते । ननु येन स्वभावेन भरण्युदयात्कृत्तिकोदयस्ते- नैव यदि शकटोदयात्तदा भरण्युदयादिवच्छकटोदयादपि पश्चा- दसौ स्यात् । यथा वा शकटोदयापूर्वकालं कृत्तिकोदयस्तथैव भरण्यु- १५ दयादपि भवेत् । यदि चातीतानागतयोर्भरण्युदयशकटोदययोरेकत्र कृत्तिकोदयलक्षणे कार्ये व्यापारः, तास्वाद्यमानरसस्यातीतो रसो भावि च रूपं कारणं स्यात् । ततो भाविरूपस्यैवास्वायमानाद्रसात्प्र- तीतिः स्यान्न तु स्वसमयभाविनोऽतीतस्य वा रूपस्य इत्ययुक्तमुक्तं वार्तिके " इत्यतीतककालानां गतिर्नानागतानाम्" इति । अथ २० भरण्युदयरोहिण्युदययोरन्यतरस्यैव कार्य कृत्तिकोदयः । त_न्यतरस्यै- वातः प्रतीतिर्भवेत् । ततो न पूर्वचरोसरचरौ कार्यहेतावन्तर्भवत इति ॥ ६७॥ ननु कालव्यवहितौ कार्यकारणभावी नोपलभ्येते इत्यनुपपन्नम् । जाग्रत्प्रस्तुतस्वप्नोत्थितावस्थाभाविबोधयोर्मरणारिष्टयोर्वा कालव्यवधानेऽ- २५ पि तदुपलब्धेरित्येतन्निराकर्तुमाह- १. कार्यहेतौ वर्तेते.' इति प. भ. पुस्तकयोः पाठः ।

परि. ३ सू. ५१] स्याद्वादरत्नाकरसहितः - न चातिक्रान्तानागतयोजाग्रहशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं, व्यवहितत्वेन नि- ापारत्वादिति ॥ ६८॥ अयमर्थः--जाग्रद्दशासंवेदनमतीतं सुप्तावस्थोत्तरकालभावि ज्ञानं वर्तमानं प्रति मरणं चानागतमरुन्धत्यनवलोकनादिकमरिष्टं साम्प्रति- ५ कं प्रति व्यवहितत्वेन व्यापारपराङ्मुखमिति कथं तत्तत्र कारणत्वमव- लम्बेत ॥ ६८॥ एतदेव भावयन्नाह स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारण- स्वव्यवस्था कुलालस्येव कलशं प्रतीति ॥ ६९॥ १० अन्वयव्यतिरेकावसेयो हि सर्वत्र कार्यकारणभावः । अन्वयव्यति- रेकौ च कार्यस्य कारणव्यापारसव्यपेक्षावेव युज्येते कुम्भस्येव कुम्भ- कारव्यापारसव्यपेक्षाविति ॥ ६९॥ ननु चातिक्रान्तानागतयोर्व्यवहितत्वेऽपि व्यापारः कथं न स्यादि- त्यारेकायामाह- न च व्यवहितयोस्तयोापारपरिकल्पनं न्याय्य- मतिप्रसक्तेरिति ॥७॥ तयोरित्यतिक्रान्तानागतयोर्जाग्रदशासंवेदनमरणयोः ॥ ७० ॥ अतिप्रसक्तिमेव भावयन्नाह-- परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य नि- २० वारयितुमशक्यत्वादिति ॥ ७१ ॥ यदि . . ह्यतीतानामतयोर्जाग्रद्दशाभाविज्ञानमरणयोर्व्यवहितयोरपि १५ .

.५९२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स.७१ प्रबोधोत्पातौ प्रति व्यापारः परिकल्प्यते तदाऽतिव्यवहितानामतीताना- गतानामकारणत्वेनाभिमतानामन्येषामपि रावणशङ्खचक्रवादीनां तौ प्रति व्यापारपरिकल्पनमनिवार्य स्यादिति तेषामपि तत्र कारणत्वं प्रस- ज्येतेति भावः । किं चासतस्तुरङ्गशृङ्गस्येव न कस्यचित्कारणत्वमुप- ५ पन्नम् । अथारिष्टादिकार्यकाले मरणादेरसत्त्वेऽपि स्वकाले सत्त्वादय- मदोष इत्युच्यते । ननु भवतु नाम मरणादेः स्वकाले सत्त्वं पश्चाद्भा- विमरणादेरिति निष्पन्नस्य निराकाकस्यारिष्टादेः पश्चादुपजायमानेन मरणादिना कथं करणं कृतस्य करणायोगात् । अन्यथा न कचित्कायें कस्यचित्कारणस्य कदाचिदुपरमः स्यात् । अथ निष्पन्नस्याप्यरिष्टादेरनिष्पन्नं किञ्चिद्रूपमस्ति तत्करणान्मरणादिकं तत्कारणत्वेन कल्प्यते । ननु निष्पन्नादरिष्टादेरनिष्पन्नं रूपं यद्यभिन्न तर्हि तदेव तत्तस्य न करणमित्युक्तम् । भिन्नं चेत्तर्हि तदेव तेन क्रियते नारिष्टादिकमित्यायातम् । अरिष्टादिसम्बद्धस्यानिष्पन्न- रूपम्य मरणादिना करणादरिष्टादिकमपि कृतमिति चेत् । ननु १५ भिन्नयोः कार्यकारणभावान्नान्यः सम्बन्धस्तथागतैरङ्गीक्रियते । तत्र चारिष्टादिना स्वसम्बद्धमनिष्पन्नं रूपं क्रियेत तेन वाऽरिष्टादिकम् । प्रथमपक्षेऽरिष्टादेरेव तच्चेष्यते । मरणादिकमकिञ्चित्कारणमेव क्वचिद- प्यनुपयोगात् । तेनारिष्टादिकरणे पूर्व निष्पन्नस्यास्य पश्चादुपजाय- मानेन तेन किं क्रियत इत्युक्तम् । अथानिष्पन्न किश्चिदस्ति तत्रापि २० पूर्वचर्चानवस्था च । ननु यद्यत्र कार्यकारणभावो न स्यात्कथं तब- न्यदर्शनादन्यानुमानमिति चेत्, अविनाभावादिति ब्रूमः । तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धेऽप्यविनाभावादेव गमकत्वदर्शनात् । तदभावे वक्तृत्वतत्पुत्रत्वादेस्तादात्म्यतदुत्पत्ति- तादात्म्यतदुत्पत्तिलक्षण- प्रतिबन्धेऽप्यविनाभावा- प्रतिबन्धे सत्यप्यसर्वज्ञत्वश्यामत्वादौ साध्ये गम- देव हेतूनां गमकत्वे कत्वाप्रतीतेः । तदभावेऽपि चाविनाभावप्रसादा- जयन्तस्य संवादः। दिनकरास्तमय-चन्द्रोदय- गृहीताण्डपिपीलिको- २५ 'परि. ३ सू. ७२] स्याद्वादरत्नाकरसहितः सर्पणैकाम्रफलोपलभ्यमानमधुररसस्वरूपाणां हेतूनां यथाक्रम भविष्यत्तारकोदय-समानसमयसमुद्रवृद्धि-भाविवृष्टि- समसमयसिन्दू- रारुणरूपस्वभावेषु साध्येषु गमकत्वप्रतीतेः । उक्तं चैतदर्थाविसंवादि जयन्तेनापि-" सूर्यास्तमयमालोक्य कल्प्यने तारकोदयः॥ पूर्णचन्द्रोदयाद्वद्धिरम्बुधेरपि गम्यते ॥ १ ॥ उदितेनाऽनुमीयन्ते ५ सरितः कुम्भयोनिना ॥ शुष्यत्पुलिनपर्यन्ते विश्रान्तखगपतयः ॥ २ ॥ पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः ॥ भवन्ति पथिका- स्तूर्ण कुटीरकरणोद्यताः ॥३॥ अन्येऽपि सौगतोगीतप्रति- बन्धद्वयोज्झिताः ॥ कियन्तो बत गण्यन्ते हेतवः साध्यबो- धकाः॥४॥" इति । ततः शरीरनिवर्तकादृष्टादिकारणकला- १०. पादरिष्टकरतलरेखादयो निष्पन्ना भाविनो मरणराज्यादेरनुमापका इति प्रतिपत्तव्यम् । जाग्रद्दशासंवेदनं तु सुप्तोत्थितसंवेदनस्य हेतुरिति तु स्वगृहमान्यमेव । ज्ञानादभिन्नस्यात्मनः कालत्रयस्थायिनः साध- यिष्यमाणत्वात् । सर्वथा चैतन्यविच्छेदस्य कदाचिदप्यसम्भवादिति । सुप्तप्रबुद्धस्य मतिर्न तस्माज्जाग्रदशाज्ञानमपेक्षतेऽत्र ॥ न वाऽप्यरिष्टप्रमुखं भविष्यत्प्राणप्रहाणप्रभृति स्वभूत्यै ।।५१६॥७॥ सहचरहेतोरपि स्वभावकार्यकारणेषु नाऽन्तर्भाव इति दर्शयन्नाह- सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्या- नुपपतेः सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतो. रपि प्रोक्तेषु नानुप्रवेश इति ॥ ७२ ॥ २०. अयमभिप्रायः--सहचारिणो रूपरसादिकयोः परस्परपरिहारेणा- वस्थानान्न तयोस्तादात्म्यं यथा कुम्भस्तम्भयोः । परस्परपरिहारेणा- वस्थानं च सहचारिणो रूपरसयोरिति । तथा ययोरेककालत्वं न १ न्या. मं. पृ. ११७।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ७२ -- तयोस्तदुत्पत्तिर्यथा सव्येतरगोविषाणयोः । एककालत्वं च सहचारिणो रूपरसयोरिति ।। ७२॥ इदानीं मन्दमतिव्युत्पादनार्थं साधर्म्यवैधाभ्यां पञ्चावयवां व्याप्याविरुद्धोपलन्धि तावदुदाहरन्नाह-- ५ ध्वनिः परिणतिमान्प्रयत्नानन्तरीयकत्वात्, यः प्रयत्नानन्तरीयकः स परिणतिमान्यथा स्तम्भः । यो वा न परिणतिमान्स न प्रयत्नानन्तरीयको यथा वान्ध्येयः। प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मा- त्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योप- लब्धिः साधर्म्यण वैधयेण चेति॥७३॥ अत्र ध्वनिरिति धर्मी । परिणतिमानिति साध्यो धर्मः । इति धर्मिणः साध्यधर्मविशिष्टस्य पक्षापरपर्यायस्य वचनं प्रतिज्ञा । प्रयत्ना- नन्तरीयकत्वादिति प्रयत्नश्चेतनावतो व्यापारस्तस्यानन्तरं प्रयत्नानन्तरं तत्र भवः प्रयत्नानन्तरीयकस्तद्भावस्तत्त्वं तस्मादिति हेतुः । यः प्रयत्ना- १५ नन्तरीयकः स परिणतिमान, यथा स्तम्भ इत्युदाहरणम् । प्रयत्नानन्तरी- यकश्च ध्वनिरित्युपनयः । तस्मात्परिणतिमानिति निगमनम् । अयं सा- धर्येण पञ्चावयवप्रयोगः। अथवा वैध\ण । तत्र च प्रतिज्ञाहेतूपनयनि- गमनलक्षणावयवचतुष्टयं तदेव । दृष्टान्तस्तु यो न परिणतिमान्, प्रयत्नानन्तरीयको यथा वान्ध्येयः । इत्येषा ज्याप्यस्य प्रयत्नानन्तरीय- २० कत्वस्य साध्येन परिणतिमत्त्वेन सहाविरुद्धस्योपलब्धिः । प्रयत्ना- नन्तरीयकत्वं हि परिणतिमत्त्वेन व्याप्तम् । पूर्वोत्तराकारपरिहारावाप्ति- स्थितिलक्षणपरिणतिशून्यस्य सर्वथा नित्यत्वे वा. शब्दस्य प्रयत्ना- नन्तरीयकत्वानुपपत्तेरागमप्रामाण्यसमर्थनप्रक्रमे वक्ष्यमाणत्वात् । ननु व्याप्यत्वं कार्यादिहेतुष्वपि समानम् । तेषामपि स्वसाध्येन व्याप्तत्वात् । सन परि. ३ सू. ७३] स्याद्वादरत्नाकरसहितः अन्यथा तत्साधकत्वानुपपत्तेरिति व्याप्याविरुद्धोपलब्धिरेवैका भवेत् । तथा चाविरुद्धोपऊब्धेविधिसिद्धौ षट्प्रकारत्वकीर्तनमनुपपन्नमेवेति । तदेतदात्मीयमार्गसुकुमारमतीनां प्रेरितम् । यतो न साध्येन हेतोा- तत्वमात्रमत्र व्याप्यत्वेन विवक्षितम् । किं तर्हि कथञ्चित्साध्येन सह तादात्म्यपरिणाममापन्नस्याकार्यकारणादिभूतस्य प्रयत्नानन्तरीयकत्वादेः ५ साधनधर्मस्य स्वरूपम् । अत एवान्यत्र व्याप्याविरुद्धोपलब्धेः स्वभावो- पलब्धिरिति संज्ञया कीर्तनम् । कार्यकारणनिर्मुक्तवस्तुदृष्टि- विधेक्ष्यते ॥ तत्स्वभावोपलब्धिश्चान्योपलब्धिश्च निश्चिता ॥१॥ कथंचित्साध्यतादात्म्यपरिणाममितस्य या॥ स्वभावस्योपलब्धिः स्यात्साविनाभावलक्षणा ॥२॥” इति । तत्स्वभावोपलब्धिरिति १० तस्य साध्यधर्मस्य परिणतिमत्त्वादेः स्वभावः कथंचिदपृथग्भूतं प्रयत्ना- नन्तरीयकत्वादिकं साधनस्वरूपं तस्योपलब्धिरित्यर्थः । अन्योपलब्धि- रिति साध्यधर्माद्रूपादेरन्यस्य स्वभावभूतस्य रसादेरुपलब्धिरित्यर्थः । अविनामावलक्षणेति निश्चितान्यथानुपपत्तिलक्षणेत्यर्थः । ननु यदि व्याप्यशब्देनात्र स्वभावभूत एव धर्मः साधनत्वेनाभिमन्यते तर्हि १५ तन्निश्चये तदपृथग्भूतस्य साध्यधर्मस्यापि निश्चितत्वात्किमनुमानेन कृत्यम् । सिद्धसाध्यतादोषप्रसक्तेः । न चानिश्चित एव साधनधर्मः साध्यधर्मस्य गमक इति वाच्यम् । ज्ञापकस्याज्ञातस्य ज्ञापकत्वायो- गात् । समारोपव्यवच्छेदोऽनुमानेन क्रियत इत्यपि न विचारक्षमम् । निश्चितेऽर्थे समारोपासम्भवादिति । इदमपि नोपपत्तिसहम् । अनेक- २० स्वभावस्य शब्दादिवस्तुनो निश्चितेऽपि प्रयत्नानन्तरीयकत्वादौ स्वभा- वभूते साधनधर्मे परिणतिमत्त्वादिसाध्यधर्मनिश्चयनियमस्याभावात् । निश्चितानिश्चितात्मकत्वं चैकस्य वस्तुनश्चित्राकारकज्ञानवन्न विरुध्यते । तदुक्तम्---" निश्चितानिश्चितात्मत्वं न चैकस्य विरुध्यते ॥ चित्रा- त्मज्ञानवन्नानास्वभावैकार्थवेदनात् ॥१॥” इति । ततो निश्चि- २५ तेऽपि हेतुधर्मे साध्यधर्मानिश्चयात्तत्प्रतिपत्त्यर्थ सफलमेव प्रस्तुत- प्रमाणनयतत्त्वालोकालङ्कारः [परि..३ स. ७३. मनुमानम् । तदित्थं व्याप्याविरुद्धोपलब्धेः कार्याविरुद्धोपलब्ध्या- दिभ्यो भेदेन सिद्धत्वात्षट्प्रकारत्वकीर्तनं विधिसिद्धावविरुद्धोप- लब्धेरुपपन्नमेव । एवं सर्वमुत्पादव्ययध्रौव्याक्रान्तं सत्त्वात्, यत्पुनरुत्पा- दादित्रयाक्रान्तं न भवति तत्सदपि न भवति यथा खरविषाणम् । ५ सच्च सर्वम् । तस्मादुत्पादादित्रयाक्रान्तम् । द्रव्यं गुणपर्यायवद्रव्य- त्वात् । यत्तु गुणपर्यायवन्न भवति न तद्व्यं यथा कूर्मरोमादि । द्रव्यं च द्रव्यम् । तस्माद्गुणपर्यायवदित्यादीन्यप्यत्रोदाहरणानि दृश्यानि ॥७३॥ अथ कार्याविरुद्धोपलब्धेरुदाहरणमाह- १० अस्त्यत्र गिरिनिकुंजे धनंजयो धूमसमुपलम्भादिति कार्यस्येति ॥ ७४ ॥ साध्येनाविरुद्धस्योपलब्धिरिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनीयम् । तत इत्येषा कार्यस्य साध्येनाविरुद्धस्योपलब्धिरिति सिद्धं भवति । एव- मम्त्यत्र शरीरे बुद्धिाहारादेः । वृष्टिमत्पृष्ठदेशसंसृष्टेयं नदी फेनिल- कलुषतादिविशिष्टपूरोपेतत्वादित्याद्यपि दृश्यम् । तत्र व्याहारादेरित्यत्र १५ व्याहारो वचनम् । आदिशब्देन व्यापाराकारविशेषपरिग्रहः । ननु ताल्वा- धन्वयव्यतिरेकानुविधायितया शब्दस्योपलम्भात्कथं बुद्धिसामान्यापर- पर्यायात्मकार्यत्वम् । येन ततस्तदस्तित्वसिद्धिः स्यात् । न खल्वात्मनि विद्यमानेऽपि विवक्षाबुद्धिपरिकरे कफादिदोषदुष्टत्वेन कण्ठादिव्या- पाराभावे वचनं प्रवर्तत इति । तथा फेनिलकलुषतादिविशिष्टपूरोपेत- त्वादित्यप्यनैकान्तिकम् । सेतुभङ्गहिमविलंयनादिनापि तथाविधतरङ्गि- णीपूरस्य सम्भाव्यमानत्वादिति । तदपेशलम् । शब्दोत्पत्तौ ताल्वादि- सहायस्यैवात्मनो व्यापाराभ्युपगमात् । घटाद्युत्पत्तौ चक्रादिसहायस्य कुम्भकारादेरिव । अनैकान्तिकत्वमपि द्वितीयानुमानेऽनुचितम् । निपु- २५ णेन प्रमात्रा वृष्टयनुमापकस्य पयःपूरस्य परिभावयितुं पार्यमाणत्वात् । २० परि० ३. सू. ७६] स्याद्वादरत्नाकरसहितः तदुक्तम्---" आवर्तवर्तनाशालिविशालकलुषोदकः ॥ कल्लोल- विकटास्कालस्फुटकेनच्छटाञ्चितः।।१॥ वहदहल शैवालफलसावल- सङ्कुलः ॥ नदीपूरविशेषोऽपि शक्यते तेन वेदितुम् ॥२॥ इति । कार्यकार्याविरुद्धोपलब्ध्यादेश्व कार्याविरुद्धोपलब्धावेवान्तर्भाव इति न पृथगुपन्यासः ॥ ७४ ॥ अथ कारणाविरुद्धोपलब्धेरुदाहरणमाह- भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्येति ॥ ७५॥ इतीयं कारणस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं वारिवाहस्य गृह्यते । एवमस्त्यत्र च्छाया १० च्छत्रादित्यादीन्यप्युदाहरणानि द्रष्टव्यानि । कारणकारणाविरुद्धोप- लब्ध्यादेश्चात्रैवानुप्रवेशान्नार्थान्तरत्वमिति ॥ ७५ ॥ सम्प्रति पूर्वचराविरुद्धोपलब्धिमुदाहरति- उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्श- नादिति पूर्वचरस्यति ॥ ७६॥ १५ तिष्यतारकेति पुष्यनक्षत्रम् । इत्येषा पूर्वचरस्य साध्येनाविरुद्धस्यो. पलब्धिरित्यर्थः । एवमुदेष्यति शकटं कृत्तिकोदयादित्यादीन्यप्युदाहर- णानि दृश्यानि । ननु कृत्तिकोदयादेर्भविष्यच्छकटोदयाद्यनुमानं कार- णाविरुद्धोपलब्धेर्न भिद्यते । कृत्तिकादीनां पूर्वचारित्वेन शकटोदया- दिकं प्रति कारणत्वात् । तत्कथं पूर्वचराविरुद्धोपलब्धिस्ततः पृथ- २० स्यात् । तदेतदपरिशीलिततार्किककुलस्य प्रलापमात्रम् । न हि यत्कि- ञ्चित्पूर्वचारि तदखिलमुत्तरचारिणः कारणं नियमेन भवति । कार्यस्व- रूपप्रातिहेतूनामेच पूर्वभाविनामन्वयव्यतिरेकाभ्यां कारणत्वप्रसिद्धेः । १ न्या. मं. पृ. १३० । ३८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सु. ७६ न च रोहिण्युदयस्य स्वरूपप्राप्तिः कृत्तिकोदयतः सम्भवति । तदनन्तर- भावित्वाभावात् । कालान्तर एव कृत्तिकोदयापेक्षया रोहिण्युदयस्य दर्शनात् । अथ विशिष्टं कालं प्राप्य कृत्तिका शकटं कुर्वतीत्यभि- धीयते । तर्हि भरपिारपि कालविशेषमासाद्य शकटं किं न करोति । ५ भवन्मते विशेषानुपलम्भात् । अथातिव्यवहितत्वाद्भरणेः शकटं प्रत्य- हेतुत्वम् । तर्हि वासनाऽपि स्मृतिहेतुस्त्वन्मते न भवेत् । अतिव्यवहि- तत्वादेव । अथ कालान्तरापेक्षा कृत्तिकासहकारिणी च भरणिः कारणं शकटोदये तर्हि तथाविधा तत्राश्चिन्यपि कारणं किं न भवेत् । तुल्ययोगक्षेमत्वात् । यदि च यत्किञ्चित्पूर्वभावि तत्सर्वमुत्तरकालभाविनः कारणत्वेन कल्प्यते तर्हि पितामहादयोऽपि पितृत्वेन पुत्रस्य किं न कल्प्यते । पूर्वभावित्वाविशेषात् । ननु पूर्वभावित्वाविशेषेऽपि पुत्रस्वरूप- लाभहेतोरेव पितृत्वं न पुनः पितामहप्रभृतीनाम् । तेषां तत्राहेतुत्वादिति तर्हि शकटस्यापि कथं कृत्तिकोदयः कारणम् । तस्यापि तत्स्वरूपला- भाहेतुत्वाविशेषादिति । तदुक्तम्--" पूर्वचारि न निःशेषं कारणं १५ नियमादपि ॥ कार्यात्मलाभहेतूनां कारणत्वप्रसिद्धितः ॥१॥ न रोहिण्युदयस्यात्मलाभोऽस्मिन् कृत्तिकोदयात् ॥ तदनन्तर- भावित्वाभावात्कालान्तरेक्षणात् ॥ २ ॥ विशिष्ट कालमासाद्य कृत्तिका कुर्वते यदि ॥ शकटं भरणिः किं न करोति च तथैव वः ॥ ३ ॥ व्यवधानादहेतुत्वे तस्यास्तत्र क वासना ॥ स्मृति- हेतुर्विभाव्येत तत एवेत्यवर्त्तनम् ॥ ४ ॥ [ अवनमिति अनि- वृत्तोऽयं पर्यनुयोग इत्यर्थः ] । कारणं भरणिस्तत्र कृत्तिकासह- कारिणी ॥ यदि कालान्तरापेक्षा तथा स्यादश्विनी न किम् ॥ ४ ॥ पितामहः पिता किंन तथैव प्रपितामहः ॥ सर्वो वाऽनादिसन्तान- स्ते नो पूर्वत्वयोगतः ॥ ६ ॥ स्वरूपलाभहेतोश्चेपितृत्वं नेतरस्य २५ तु ॥ प्राजापत्यस्य माभूवन्कृत्तिका हेतवस्तथा ॥७॥” इति । प्राज्यापत्यस्येति रोहिणीनक्षत्रस्य । तदेवं पूर्वचारित्वेऽपि कृत्तिकानां २० परि. ३ सू. ७७] स्याद्वादरत्नाकरसहितः रोहिण्युदयं प्रति कारणत्वानुपपत्तेः कृतिकोदयाद्भविष्यच्छकटोदयानु- मानं कारणाविरुद्धोपलब्धेर्भिद्यत एवेति. ततः पृथक्स्वरूपमुपदर्श- यन्ती पूर्वचराविरुद्धोपलब्धिः कथं न सद्भावमासादयतीति । पूर्व- पूर्वचराविरुद्धोपलब्ध्यादीनामत्रैवानुप्रवेशः । यदुक्तम्-" पूर्वपूर्वचरा- दीनामुपलब्ध्यः प्रदर्शिताः ॥ पूर्वचार्युपलम्भेन ततो नार्थान्तरं ५ मताः ॥१॥” इति ।। ७६ ॥ इदानीमुत्तरचराविरुद्धोपलब्धेरुदाहरणमाह-- उदगुर्मुहूर्तात्पूर्व पूर्वफल्गुन्यः । उत्तरफल्गुनीनामु. द्गमोपलब्धेरित्युत्तरचरस्येति ॥७७॥ इतीयमुत्तरचरस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । एवं मुहूर्ता- १० पूर्वमुदगाद्भरणिः कृत्तिकोदयादित्यादीन्यप्युदाहरणान्यभ्यूह्यानि । न च कार्याविरुद्धोपलब्धिरेवेयमुत्तरचारिणः सर्वस्य कार्यत्वादिति प्रेर्यम् । पूर्वभाविनः सर्वस्य कारणत्वमेवेत्यस्य नियमस्यानन्तरमेव निरस्तत्वेनोत्तरचारिणोऽपि सर्वस्य कार्यत्वासम्भवात् । नानाप्रकारं हि सकलप्राणिसन्दोहसम्बन्धिनमदृष्टं सुखदुःखनिबन्धनमपेक्ष्यान्तरिक्ष- मण्डले क्रमभावित्वान्नक्षत्राण्यजलं पूर्वोत्तचरराणि भवन्ति । ततश्च परस्परं नक्षत्राणां न कारणत्वं कार्यत्वं वा सम्भवति । ज्ञाप्यज्ञापक- भावस्तु भवति निश्चितान्यथानुपपत्तिसद्भावादिति । तदुक्तम्- सर्वमुत्तरचारीह कार्यमित्यज्ञचेष्टितम् ॥ पूर्व कारणमित्यस्य नियमस्य निराकृतेः ॥ १॥ नानाप्राणिगणादृष्टात्सातेतरफलाद्धि नः ॥ पूर्वोत्तरचराणि स्यु नि क्रमभुवः सदा ॥२॥ नाऽन्योन्यं हेतुता तेषां कार्यता वा ततो मता ॥ साध्यसाधनता तु स्याद- विनाभावयोगतः ।। ३॥ इति । उत्तरोत्तरचराविरुद्धोपलब्धि- रप्यनया सङ्ग्रहीता ॥ ७७॥ १ उत्तरस्येति प. भ. पुस्तकयोः पाठः । २ [क्रमभुव इति क्रमाद्भुतेः सकाशा- दित्यर्थः ] इति म. पुस्तकस्थः पाठः प्रक्षिप्त इव भाति । २० ६०० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ७८ - तस्य च अथ सहचराविरुद्धोपलब्धिमुदाहरन्नाह- अस्तीह सहकारफले रूपविशेषः । समास्वाद्यमान- रसविशेषादिति सहचरस्येति ॥ ७८ ॥ इत्येषा सहचरस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । नेयं कार्या- ५ विरुद्धोपलब्धिरभिधानीया । रूपरसयोः समसमयभावित्वेन सव्येतर- विषाणयोरिव स्वातन्त्र्येण व्यवस्थितत्वात् । अथैकसामग्र्यधीनत्वा- द्रूपरसयोः सहभावित्वनियमः । अन्यथा घटपटादीनामिव तयोरपि स न स्यात् । ततश्च रसलक्षणकार्योपलब्ध्या रससमानसमयरूपजन- कैकसामग्र्यनुमानात्कार्याविरुद्धोपलब्धिरेवेयमिति चेत् । नैतत्प्रेर्यम् । १० एकं द्रव्यमधिकरणभूतमनन्तरेण रूपरसयोः सहभावनियमेऽपरस्याः सामग्र्या एवासम्भवात् । तदाधारभूतद्रव्यस्य नानुमानं समास्वायमानरसविशेषात् । किं तर्हि तुल्यकालभाविनो रूपादेरेव । अथ समानकारणत्वाद्रूपरसयोरेका सामग्रीष्यते न पुनरधिकरणभूतं द्रव्यम् । ततश्च रसाद्रूपानुमानमिति कार्यानुमानमेवे- १५ त्यभिधीयते । नन्वेवं सलिलरसास्वादनादम्भोरुहरूपस्यानुमानं किमिति न भवेत् । तुल्यकारणत्वस्याप्यत्राविशिष्टत्वात् । यथा हि सलिलरूपं रससहकारिणा प्राक्तनेन सलिलरूपेण जन्यते तथा सरसिजरूपमपि तेनैवेति व्यक्तं समानकारणत्वं पयःपुण्डरीकरूपयोः सलिलरूपेण सह । अथ सलिलरससरसिजरूपयोः प्रत्यासत्त्यभावात्परस्परं ज्ञाप्यज्ञापकभावो २० नेप्यते । नन्वेवमायातमनिच्छतोऽपि तथागतस्यैकमधिकरणभूतं द्रव्यम् । ज्ञाप्यज्ञापकभावस्थितरूपरसादीनामेकद्रव्यतादात्म्यमन्तरेणापरस्याः प्र- त्यासत्तेस्तेषामभावादिति । तदुक्तम्-- "कार्यहेतुरयं नेष्टः समानसमय- त्वतः ॥ स्वातन्त्र्येण व्यवस्थानाद्वामदक्षिणशृङ्गवत् ॥ १॥ एक- सामग्र्यधीनत्वात्तयोः स्यात्सहभाविता ॥ नाऽन्यथा नियमस्तस्या- १'त्वं रूप' इति प. भ. पुस्तकयोः पाठः ।

परि. ३ सू. ८०] स्याद्वादरत्नाकरसहितः ६०१ स्ततोऽन्येषामिवेति चेत् ॥ २॥ [ तस्या इति सहभावितायाः ] नैकद्रव्याश्रितत्वेन विना तस्या विरोधतः॥ सामग्येका हि तद्व्यं रसरूपादिषु स्फुटम् ॥३॥ न च तस्यानुमा स्वाधमानाद्र- सविशेषतः ।। समानसमयस्यैव रूपादेरनुमानतः ॥४॥ समान- कारणत्वात्तु सामग्येका यदीष्यते ॥ पयोरसात्सरोजन्मरूपस्यानु- ५ मितिर्न किम् ॥ ५॥ यथैव हि पयोरूपं रूपाद्रससहायकात् ॥ तथा रसोद्भवोऽपीति स्यात्समाननिमित्तता ॥ ६ ॥ प्रत्यासत्तेर- भावाचेत्साध्यसाधनताऽनयोः ॥ नैष्टैकद्रव्यतादात्म्यात्प्रत्यासात्तिः परा क सा॥ ७ ॥” इति । एवमस्त्यत्र मातुलिङ्गे रूपं रसात् । सम- स्तीह देहे चैतन्यं विशिष्टस्पर्शोपलम्भादित्यायप्युदाहार्यम् । परोक्त- योश्च संयोगैकार्थसमवायिनोः साध्यसमकालभाविनोर्लिङ्गयोरत्रैवानुप्रवेश इति ॥ विधिसिद्धावविरुद्धोपलब्धिरियमादरेण बोद्धव्या ॥ षोढा सोदाहरणा कौशलमभिलाषुकैस्तकें ॥५१७॥ ७८ ॥ अधुना विरुद्धोपलब्धिमाह--- विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपचौ सप्तप्रकारेति ॥ ७९ ॥ अविरुद्धोपलब्धिः प्रागभिहिता विधिसाधिका षट्प्रकारा, इयं तु विरुद्धोपलब्धिः प्रतिषेधसाधिका सप्तप्रकारा चेत्यनयोर्भेदः ॥ ७९ ॥ प्रथमप्रकारप्रकाशनार्थं तावदाह- तत्राद्या स्वभावविरुद्धोपलब्धिरिति ॥८॥ प्रतिषेध्यार्थस्य यः स्वभावः स्वरूपं तेन सह साक्षाद्यविरुद्धं तस्यो- पलब्धिः स्वभावविरुद्धोपलब्धिः ॥ ८०॥ - २ इदं प्रक्षिसमिव भाति ।

६०२ प्रमाणनयंतत्त्वालोकालङ्कारः- [परि. ३ सू. ८१ अत्रोदाहरणमाह- नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भादिति ॥८१ ॥ प्रतिषेध्यो ह्यत्र सर्वथैकान्तः सदेव सर्वमित्यादिकस्तस्य सम्बन्धिना ५ स्वभावेन सह विरुद्धोऽनेकान्तः कथञ्चित्सदसदात्मकत्वादिस्तस्योपलम्भः स्वभावविरुद्धोपलब्धिरिति । अत्राह सौगतः-यावान्कश्चिन्निषेधः सर्वोऽप्यनुपलम्भादेवेतीयमपि स्वभावविरुद्धोपलब्धिनिषेधावबोधं विदधा- नाऽनुपलब्धावेवाऽन्तर्भावमर्हति तत्कथमुपलब्धिभेदत्वेनासावुदाहृतेति । एतदप्यनुपपन्नम् । अनुपलब्धिशब्दस्यात्राश्रूयमाणत्वात् । अथ विरु- १. द्धयोः सर्वथैकान्तानेकान्तयोर्वह्निशीतस्पर्शयोरिव प्रथम विरोधः स्वभावा- नुपलब्ध्या प्रतिपन्न इत्यनुपलब्धिमूलत्वात्स्वभावविरुद्धोपलब्धेरनुपलब्धि- रूपत्वं युक्तमेवेति चेत् । तदपि न क्षोदक्षमम् । अनुमानस्याप्येवं प्रत्यक्ष- त्वप्रसङ्गात् । यथैव हि स्वभावानुपलब्धिबलाद्विरुद्धयोर्विरोधे क्वचित्प्र- तिपन्ने सति स्वभावविरुद्धोपलब्धिः प्रवर्त्तते तथैव साध्यधामणि भूधरादौ साधने च धूमादावध्यक्षतः समधिगते सति साध्ये धूमध्वजादावनु- मानं प्रवर्तत इति प्रत्यक्षमूलत्वादनुमानमपि कथं प्रत्यक्षं न स्यादिति । तदुक्तम्- "यावान्कश्चिनिषेधोऽत्र स सर्वोऽनुपलम्भनात् ॥ यत्तदेष विरुद्धोपलम्भोऽस्त्वनुपलम्भनम् ॥१॥ इत्ययुक्तं तथाभूतश्रुतेरनुप- लम्भतः॥ तन्मूलत्वात्तथाभावे प्रत्यक्षमनुमाऽस्तु ते ॥ २॥ यथैवा- २० नुपलम्भेन विरोधे-साधिते क्वचित् ॥.स्वात्स्वभावविरुद्धोपलब्धि- वृत्तिस्तथैव च ॥ ३॥ लिङ्गे प्रत्यक्षतः सिद्धे साध्यधर्मिणि वा कचित ।। लिङ्गिज्ञानं प्रवर्तेत नाऽन्यथातिप्रसङ्गतः॥४॥ इति । ततः स्वभावविरुद्धोपलब्धेर्नानुपलब्धावन्तर्भावः कत्तुं युक्तः। एवं नेह शीतं वैश्वानरस्य दर्शनादित्याद्यपि द्रष्टव्यम् ॥ ८१॥ आद्य विरुद्धोपलब्धेः प्रकारं प्रदर्श्य शेषान्प्रदर्शयन्नाह- , परि. ३ सू. ८५] स्याद्वादरत्नाकरसहितः. ६०३ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षडिति।८२॥ प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्धास्तेषां ये व्याप्तादयो व्याप्य- कार्यकारणपूर्वचरोत्तरचरसहचरास्तेषामुपलब्धयः षड्भवन्ति । विरुद्ध- व्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरुद्ध- पूर्वघरोपलब्धिः, विरुद्धोत्तरचरोपलब्धिः,विरुद्धसहचरोपलब्धिः॥८२॥ ५ क्रमेणासामुदाहरणान्याह- विरुद्धव्याप्तोपलब्धियथा नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहादिति ॥ ८३ ॥ अत्र हि जीवादितत्त्वगोचरो निश्चयः प्रतिषेध्यस्तद्विरुद्धश्चानिश्च- यस्तेन व्याप्तस्य सन्देहस्योपलब्धिः । अनिश्चयो हि विपर्ययानध्यव- साययोः सन्देहमन्तरेणापि वर्तते । सन्देहस्त्वनिश्चयं विना न जातुचि- सम्भवतीत्यनयोर्व्याप्यव्यापकभावः सुप्रतीत एव । अत्रोत्तरत्र च यथा- शब्द उदाहरणप्रदर्शनार्थो विज्ञेयः । एवं नास्त्यत्र शीतस्पर्श औष्ण्या- दियादीन्यप्युदाहरणान्यभियुक्तैरवधार्याणि । प्रतिषेध्यो ह्यत्र शीतस्पर्श- स्तन विरुद्धो वहिस्तेन च व्याप्तस्यौष्ण्यस्योपलब्धिरिति ॥ ८३ ।। विरुद्धकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाधु- पशान्तिर्वदनविकारादेरिति ॥ ८४ ॥ वदनविकारस्तानत्वादिः । आदिशब्दादधरस्फुरणविकट कुटि- लोचनारुणिमादिपरिग्रहः । अत्र च प्रतिषेध्यः क्रोधाद्युपशमस्तत्कार्यस्य वदनविकारादेरनुपलब्धिरिति । एवं नास्त्यत्र शीतं धूमादित्यादी- २० न्यप्युदाहर्तव्यानि । प्रतिषेध्यमिह शीतं तद्विरुद्धो वह्निस्तत्कार्यस्य धूमस्योपलब्धिरिति ॥ ८४ ॥ विरुद्धकारणोपलब्धियथा नास्य महर्षेरसत्यं समास्ति रागद्वेषकालुष्याकलडितज्ञानसम्पन्नत्वादिति।८५॥ .

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३.सू. ८५ प्रतिषेध्येन ह्यसत्येन सह विरुद्धं सत्यं, तस्य कारणं रागद्वेषकालु- प्याकलङ्कितज्ञानम् । तत्कुतश्चित्सूक्ताभिधानादेः प्रसिद्धयत्सत्यं साध- यति तच्च सिद्धयंदसत्यं प्रतिषेधतीति । एवं नास्मिन् शरीरिणि सुख- मस्ति हृदयशल्यादित्यादीन्युदाहरणान्यवबोध्यानि । सुखेन हि प्रति- ५ षेध्येन विरुद्धं दुःखं तस्य कारण हृदयशल्यं तत्कुतश्चित्तदुपदेशादेः सिद्धयत्सुखं प्रतिषेधति ॥ ८५॥ विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमादिति ॥८६॥ प्रतिषेध्योऽत्र पुष्पतारोद्गमस्तद्विरुद्धो मृगशीर्षोदयस्तत्पूर्वचरो रोहि- ण्युद्गमस्तस्योपलब्धिरिति । एवं नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदया- दित्यादीनि द्रष्टव्यानि । प्रतिषेध्येन शकटोदयेन हि विरुद्धोऽश्चिन्यु- दयस्तत्पूर्वचरो रेखत्युदयः ।। ८६ ॥ विरुद्धोचरचरोपलब्धिर्यथा नोदगान्मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयादिति ॥ ८७ ॥ १५ प्रतिषेध्योऽत्र मृगशीर्षोदयस्तद्विरुद्धो मघोदयस्तदुत्तरचरः पूर्व- फल्गुन्युदयस्तस्योपलब्धिरिति । एवं मुहूर्तात्प्राङ्नोदगाद्भरणिः पुष्योदयादित्यादीन्यवबोद्धव्यानि । भरण्युदयविरुद्धो हि पुनर्वसूदयस्त- दुत्तरचरः॥८७॥ विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति ॥ ८८॥ प्रतिषेध्येन हि मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानं तत्सहचरं च सम्यग्दर्शनं तच्च प्राण्यनुकम्पादेः कुतश्चिल्लिङ्गात्प्रसिद्धयत्सहचरं सम्य- ज्ञान साधयति तच्च सिद्धयन्मिथ्याज्ञान प्रतिषेधतीति । एवं नास्त्यत्र मित्तौ परभागाभावोऽग्भिागोपलम्मादित्यादीन्यवगन्तव्यानि । प्रतिषे- २० परि. ३ सू. ८८] स्याद्वादरत्नाकरसहितः ६०५ , ध्येन हि परभागाभावेन विरुद्धः परभागसद्भावस्तत्सहचरोऽर्वाग्भागः। तदेवमुदाहृता सप्तप्रकाराऽपि विरुद्धोपलब्धिः । सप्तप्रकारत्वं पुनरस्याः प्रतिषेध्येनार्थेन साक्षाद्विरुद्धमाश्रित्य सूत्रेऽभिहितम् । परम्परया विरो- धाश्रयणेन त्वनेकप्रकारा विरुद्धोपलब्धिः सम्भवन्ती स्वयमभियुक्तैरवग- न्तव्या । तद्यथा-कारणविरुद्धकार्योपलब्धिः,व्यापकविरुद्ध कार्योपलब्धिः, ५ कारणव्यापकविरुद्धकारणोपलब्धिः, व्यापककारणविरुद्धकार्योपलब्धिः, कारणविरुद्धकारणोपलब्धिः,व्यापकविरुद्धकारणोपलब्धिः, कारणव्याप- कविरुद्धकारणोपलब्धिः, व्यापककारणविरुद्धकारणोपलब्धिः, कारण- विरुद्धव्याप्योपलब्धिः, व्यापकविरुद्धव्याप्योपलब्धिः, कारणव्यापक- विरुद्धव्याप्योपलब्धिः, व्यापककारणविरुद्धव्याप्योपलब्धिः, कारण- १० विरुद्धसहचरोपलब्धिः, व्यापकविरुद्धसहचरोपलब्धिः, कारणव्यापक- विरुद्धसहचरोपलब्धिः,व्यापककारणविरुद्धसहचरोपलब्धिश्च, इति पार• म्पर्येण विरुद्धोपलब्धेः षोडश प्रकाराः । तत्र कारणविरुद्धकार्योप- लब्धिर्यथा-नास्त्यस्य हिमजनितरोमहर्षादिविशेषो धूमादिति । प्रति- षेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निस्तत्कार्य धूम १५ इति । व्यापकविरुद्धकार्योपलब्धिर्यथा-नास्त्यत्र शीतसामान्यव्याप्तशीत- स्पर्शविशेषो धूमादिति, शीतस्पर्शविशेषस्य हि निषेध्यस्य व्यापक शीतसामान्यं तद्विरुद्धोऽमिस्तस्य कार्य धूम इति । कारणव्यापकविरुद्ध- कार्योपलब्धिर्यथा-नास्त्यत्र हिमत्वव्याप्तहिमविशेषजनितरोमहर्षादि- विशेषो धूमादिति । रोमहर्षविशेषस्य हि निषेध्यस्य कारणं हिम- २० विशेषस्तस्य व्यापकं हिमत्वं तद्विरुद्धोऽमिस्तत्कार्य धूम इति । व्यापक- कारणविरुद्धकार्योपलब्धियथा-नास्त्यत्र शीतस्पर्शविशेषस्तव्यापकशीत- स्पर्शमात्रकारणहिमविरुद्धानिकार्यधूमादिति सुगममदः । कारण- विरुद्धकारणोपलब्धिर्यथा-नास्त्यस्य मिथ्यावरणं तत्त्वार्थोपदेशग्रहणा- दिति । मिथ्यावरणस्य हि कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं २५ तस्य कारणं तत्त्वार्थोपदेशग्रहणम् । तत्त्वार्थोपदेशश्रवणे सत्यपि कस्य- प्रमाणनयतत्त्वालोकालङ्कारः [परि..३ सू. ८० चित्तत्त्वज्ञानासम्भवाद्हणवचनम् । तत्त्वार्थानां श्रद्धानपूर्वकमवधारणं ग्रहणमिष्टम् । अन्यथाऽस्य ग्रहणाभासत्वात् । मिथ्यावरणस्य चात्र नास्तिता साध्यते न पुनरनाचरणस्य । तत्त्वार्थोपदेशग्रहणात् । उत्पन्न- तत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टेश्चारित्रासम्भवादनाचरणस्य प्रसिद्धेः । ५ न तु मिथ्यावरणमप्यस्य सम्भवति । तत्त्वज्ञानविरोधात् । तेन सह तस्यानवस्थानादिति। व्यापकविरुद्धकारणोपलब्धिर्यथा-नास्त्यस्यात्मनि मिथ्याज्ञानं तत्वार्थोपदेशग्रहणादिति । आत्मनि मिथ्याज्ञानस्य विशि- ष्टस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थो- पदेशग्रहणं यथोपवर्णितमिति । कारणव्यापकविरुद्धकारणोपलब्धिर्यथा १० नास्त्यस्य मिथ्यावरणं तत्त्वार्थोपदेशग्रहणादिति। अत्र मिथ्यावरणस्य कारणं मिथ्याज्ञानविशेषस्तस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्व- ज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणामिति । व्यापककारणविरुद्धकार- णोपलब्धिर्यथा-नास्त्यस्य मिथ्यावरणविशेषस्तत्त्वार्थोपदेशग्रहणादिति। मिथ्यावरणविशेषस्य हि व्यापकं मिथ्यावरणसामान्यं तस्य कारणं १५ मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणमिति । कारणविरुद्धव्याप्योपलब्धियथा, न सन्ति सर्वथैकान्तवादिनः प्रशम- संवेगनिर्वेदानुकम्पास्तिक्यानि वैपर्यासिकमिथ्यादर्शनविशेषादिति । प्रशमादीनां हि कारणं सम्यग्दर्शनं तस्य विरुद्धं मिथ्यादर्शनसामान्य तेन व्याप्तं मिथ्यादर्शनं वैपर्यासिकं विशेषरूपमिति । व्यापकविरुद्ध- व्याप्योपलब्धिर्यथा, न सन्ति स्याद्वादिनो वैपर्यासिकादिमिथ्यादर्शन- विशेषास्तत्त्वज्ञानविशेषादिति । वैपर्यासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तद्विरुद्धं तत्त्वज्ञानसामान्यं तस्य व्याप्यस्तत्त्वज्ञानविशेष इति । कारणव्यापकविरुद्धच्याप्योपलब्धिर्यथा न.सन्त्यस्य प्रशमादीनि मिथ्याज्ञानविशेषादिति । प्रशमादीनां हि कारणं सद्दर्शनविशेषः, तस्य व्यापकं दर्शनसामान्यं तद्विरुद्धं मिथ्या- ज्ञानसामान्यं तेन. व्याप्यो मिथ्याज्ञानविशेष इति । व्यापककारण- परि. ३ सू. ८८] स्याद्वादरत्नाकरसहितः विरुद्धव्याप्योपलब्धियथा-न सन्त्यस्य तत्त्वज्ञान विशेषा मिथ्यार्थोपदेश- ग्रहणविशेषादिति । तत्त्वज्ञानविशेषाणां हि व्यापकं तत्त्वज्ञानसामान्य तस्य कारणं तत्त्वार्थोपदेशग्रहणं तद्विरुद्धं मिथ्यार्थोपदेशग्रहणसामान्य तेन व्याप्यो मिथ्यार्थोपदेशग्रहणविशेष इति । कारणविरुद्धसहचरोपल- ब्धिर्यथा-न सन्त्यस्य प्रशमादीनि मिथ्याज्ञानादिति । प्रशमादीनां हि ५ कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापकविरुद्धसहचरोपलब्धियथा-सन्त्यस्य मिथ्यादर्शनविशेषाः सम्य- रज्ञानादिति । मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्य तद्विरुद्धं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । कारणव्यापकविरुद्धसहचरोपलब्धिर्यथा-न सन्त्यस्य प्रशमादीनि १०. मिथ्याज्ञानादिति । प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषास्तेषां व्यापकं सम्यग्दर्शनसामान्यं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्या- ज्ञानमिति । व्यापककारणविरुद्धसहचरोपलब्धिर्यथा-न सन्त्यस्य मिथ्यादर्शनविशेषाः सत्यज्ञानादिति । मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तस्य कारणं दर्शनमोहोदयस्तद्विरुद्धं सम्यग्दर्शनं १५ तत्सहचरं तत्त्वज्ञानमिति । अत्र च संग्रहश्लोकौ- पारम्पर्येण कार्य स्यात्कारणं व्याप्यमेव च ॥ सहचारि च निर्दिष्टं प्रत्येक तञ्चतुर्विधम् ॥ ५१८ ॥ कारणोद्दिष्टकार्यादिभेदेनोदाहृतं यथा ॥ इत्थं षोडशभेदं तद्विज्ञेयं मतिशालिभिः ॥ ५१९ ॥ तथेदमन्यदपि भेदत्रयं पारम्पर्येण विरुद्धोपलब्धेः सम्भवति । तद्यथा- कार्यविरुद्धोपलब्धिः, व्यापकविरुद्धोपलब्धिः, कारणविरुद्धोपलब्धि- श्चेति । तत्र कार्यविरुद्धोपलब्धियथा-नात्र देहिनि दुःखकारणमस्ति सुखोपलम्भादिति । प्रतिषेध्यमिह दुःखकारणं तस्य कार्य दुःखं तेन २५ विरुद्धं सुखं तच्च कुतोऽपि विशिष्टव्यापारव्यवहारादेः सिध्यद्दःख निवर्त- - २०.

६०८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सु. ८० यति, दुःख च निवर्तमानं दुःखकारणं निषेधति। एवं नेहाप्रतिबद्धसाम- •नि शीतकारणानि सन्ति वहेरित्यादीन्यप्युदाहरणान्यवसेयानि । व्या- पकविरुद्धोपलब्धिर्यथा-न सन्निकर्षादिःप्रमाणमज्ञानत्वादिति प्रतिषेध्य- मिह सन्निकर्षादेः प्रमाणत्वं तस्य व्यापकं ज्ञानत्वं तेन विरुद्धमज्ञानत्वं ५ तच्च सन्निकर्षादावुपलभ्यमानं ज्ञानत्वं निवर्तयति तच्च निवर्तमानं ततः प्रमाणत्वं निवर्त्तयति । ज्ञानत्वं हि प्रमाणाप्रमाणयोरुभयोरपि साधा- रणमिति व्यापकं प्रमाणत्वं तु विना नाऽन्यत्र कापि ज्ञानत्वेनेति व्याप्यं तत् । एवं नात्र तुषारस्पर्श वढेरित्येवमादीन्यस्यामवसेयानि । कारणविरुद्धोपलब्धिर्यथा-नास्य महर्षेमिथ्याचारित्रमस्ति सम्यग्विज्ञा- १० नोपलम्भात् । मिथ्याचारित्रमिह प्रतिषेध्यं तस्य कारणं मिथ्याज्ञानं तद्विरुद्धं सम्यग्ज्ञानं तत्कुतश्चित्सम्यगुपदेशादेलिङ्गात्प्रसिद्धयन्मिथ्या. ज्ञानं निवर्तयति । तच्च निवर्तमानं मिथ्याचारित्रलक्षणं स्वकार्य निवर्त- यति । ननु च सम्यग्विज्ञानान्मिथ्याज्ञाननिवृत्तिन मिथ्याचारित्रस्य निवर्तिका प्रादुर्भूततत्त्वज्ञानस्यापि पुंसोऽचारित्रप्रसिद्धेः “पूर्वद्वर्य- सम्पद्यपि तेषां भजनीयमुत्तरं भवति ॥ पूर्वद्वयलाभः पुनरुत्तरलाभे भवति नियतः॥१॥” इति प्रशमरतौ भगवदुमास्वातिवाचक- मुख्यवचनप्रामाण्यात् । अन्यथा तयाघातादिति चेत् । नैवम् । मिथ्या- चारित्रस्य मिथ्यागमादिज्ञानपूर्वस्य पञ्चामिसाधनादेनिषेध्यत्वाच्चारित्र- मोहोदये सति निवृत्तिपरिणामाभावलक्षणस्याचारित्रम्य तु निषेध्यत्वे- नात्रानिष्टेरिति । एवं नासौ रोमहर्षादिविशेषवानसमीपवर्तिपावक- विशेषत्वादित्यादीन्यप्युदाहरणान्यभ्यूह्यानि । तदित्थं विरुद्धोपलब्धे- भेदाः सप्त सूत्रोक्ताः षोडशभिस्त्रिभिश्चैतै दैः सह षड्विंशतिः सम्पन्नाः । पूर्वोक्ताऽविरुद्धोपलब्धिभेदषट्प्रक्षेपे तु द्वात्रिंशदुपलब्धिलक्षणा हेतु- भेदाः संवृत्ताः । एतदनुसारेण वाऽन्येऽपि प्रज्ञाशालिभिः परामर्शनीयाः । '२० १प्र. र. गा.१ पार. ३ सू. ९१] स्याद्वादरत्नाकरसहितः ६०९ उपलब्धिहेतुरेवं विधिमुखतो विधिनिषेधबोधकरः ॥ द्वात्रिंशतेह भेदैः संयुक्तो व्यक्तमुक्तोऽयम् ॥ ५२० ॥ दोषप्रोषितपक्षनाभिसुभगं व्याप्योपलम्भादिक- द्वात्रिंशत्प्रमितप्रभेदसतरप्रस्तारणापीवरम् ॥ सम्यग्व्याप्तिसुवृत्तिनेमिघटितं साध्यं निजं साधयन् जैनानामुपलब्धिचक्रमसमं जीयात्तदेतद्भुवि ॥ ५२१ ॥ तदेवं कस्यचिदर्थस्य विधौ प्रतिषेधे चोपलब्धिलक्षणहेतुभेदानभि- धाय सम्प्रति कस्यचिदर्थस्य निषेधे विधौ चानुपलब्धिप्रकारप्रपञ्चं निश्चेतुकामस्तयापकं मौलं प्रकारद्वयमाह- अनुपलब्धेरपि द्वैरूप्यमविरुद्धानुपलब्धिर्विरुद्धानु- १० पलब्धिश्चेति ॥ ८९॥ अविरुद्धस्य प्रतिषेध्येनार्थेन सह विरोधमप्राप्तस्य वस्तुनोऽनुप- लब्धिरविरुद्धानुपलब्धिः । विरुद्धस्य प्रतिषेध्येन सह विरोधमागतस्या- नुपलब्धिर्विरुद्धानुपलब्धिश्चेति ॥ ८९॥ सम्प्रत्यविरुद्धानुपलब्धेर्विषयकथनपुरःसरं प्रकारमाह- तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारेति ॥ ९०॥ निगदसिद्धमदः॥ ९०॥ तानेव प्रकारानाह प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारण- पूर्वचरोत्तरचरसहचराणामनुपलब्धिरिति ॥ ९१॥ प्रतिषेध्येन वक्ष्यमाणेन कुम्भादिना सार्धमविरुद्धानां विरोधमन- धिरूढानाम् । स्वभावश्च व्यापकं च कार्यं च कारणं च पूर्वचरं - २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ११ १० चोत्तरचरं च सहचरं च स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसह- चराणि तेषामनुपलब्धिः । इतिशब्दः प्रकारपरिसमाप्त्यर्थः । ततश्च स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणा- नुपलब्धिः, पूर्वचरानुपलब्धिः, उत्तरचरानुपलब्धिः, सहचरानुपलब्धि- ५. श्चेति प्रतिषेधप्रतिपत्तौ सप्तप्रकारत्वमनुपलब्धेः सिद्धं भवति ॥११॥ अथ क्रमेणोदाहरणसप्तकमाह- स्वभावानुपलब्धिर्यथा नास्त्यत्र भूतले कुम्भः । उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भादिति ॥ ९२॥ उपलब्धिलक्षणप्राप्तस्येति, उपलब्धिर्ज्ञानं तस्या लक्षणानि कार- णानि चक्षुरादीनि । तैर्युपलब्धिलक्ष्यते जन्यत इति यावत् । तानि प्राप्तो जनकत्वेनोपलब्धिकारणान्तर्भावादुपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तथाविधस्य तत्स्वभावस्य कुम्भस्वरूपस्यानुपलम्भादनुपलब्धेः । यथाशब्द उदाहरणोपदर्शनार्थ इहोत्तरत्र च मन्तन्यः । इहोपलब्धि- १५ लक्षणप्राप्तस्येति यद्विशेषणं तत्पिशाचादिव्यभिचारपरिहारार्थम् । पिशा- चादीनां हि स्वभावो नोपलभ्यतेऽथ च ते नास्तित्वेनावगन्तुं न शक्यन्ते । कथं पुनर्यो घटादिर्नास्ति स उपलब्धिलक्षणप्राप्तस्तत्प्राप्तत्वे कथं तस्यासत्त्वमिति चेत् । उच्यते । आरोप्यैतद्रूपं निषिध्यते । सर्व- त्रारोपितरूपविषयत्वान्निषेधस्य । यथा नायं गौर इति । न ह्यत्रैतच्छक्यं २० वक्तुं सति गौरत्वे न निषेधो निषेधे न वा. गौरत्वमिति । नन्वेव- मदृश्यमपि पिशाचादिकं दृश्यरूपतयारोप्य प्रतिषिध्यतामिति चेत् । नैवम् । आरोपयोग्यत्वं हि यस्यास्ति तस्यैवारोपः । यश्चार्थो विद्य- मानो नियमेनोपलभ्येत स एवारोपयोग्यो न तु पिशाचादिः । उप- लम्भकारणसाकल्ये हि विद्यमानो घटो नियमेनोपलम्भयोग्यो गम्यते न २५ पुनः पिशाचादिः । घटस्योपलम्भकारणसाकल्यं चैकज्ञानसंसर्गिणि परि. ३ स. ९३] स्याद्वादरत्नाकरसहितः प्रदेशादावुपलभ्यमाने निश्चीयते घटप्रदेशयोरुपलम्भकारणान्यविशिष्टा- नीति कृत्वा । यश्च तद्देशाधेयतया कल्पितो घटः स एव तेनैक- ज्ञानसंसर्गी न देशान्तरस्थः । एकेन्द्रियग्राह्यं हि लोचनादिप्रणिधा- नाभिमुखवस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते । तयोहि सतो - कनियताभावप्रतिपत्तिः । योग्यताया द्वयोरप्यविशिष्टत्वात् । ततश्चैक- ज्ञानसंसर्गिणि प्रदेशादावुपलभ्यमानेऽप्यनुपलम्भात् । तदयुक्तम् । यतः प्रदेशादिनैकज्ञानसंसर्गिण एव घटस्याभावः साध्यते स्वभावानुपलम्भा- नान्यस्य । यस्तु पिशाचादिना प्रतिबन्धबलतोऽन्यत्वमापादितः कुम्भः स नैव निषिध्यते । इह चैकज्ञानसंसर्गी भासमानोऽर्थस्तज्ज्ञानं च पर्युदासवृत्त्या घटस्यासतानुपलब्धिश्चोच्यते । ननु चै केवलभूतलस्य १० पत्यक्षत्वात्तद्रूपः कुम्भामावोऽपि प्रत्यक्षसिद्ध एवेति किं स्वभावानुप- लब्ध्या साध्यम् । सत्यमेवैतत् । तथापि यः सर्व सर्वत्र विद्यत इति कुमतवासितान्तःकरणः कापिलादिः प्रत्यक्षप्रतिपन्नेऽपि कुम्भाधभावे भ्राम्यति । सोऽनुपलम्मं निमित्तीकृत्य प्रतिपाद्यते । अनुपलम्भनिमित्तौ हि सत्त्वरजस्तमःप्रभृतिषु परस्परमसद्व्यवहारस्त्वयाऽपि प्रतिपन्नः । अन्यथा तेषां साङ्कर्यापत्तेः । स चानुपलम्भोऽत्राप्यस्तीति निमित्तप्रद- र्शनेनाभावव्यवहारः प्रसाध्यते । दृश्यते हि गरीयसि गवि सानादि- मत्त्वात्प्रवर्तितगोव्यवहारो मूढमतिर्लघीयसि गवि तत्सादृश्यं पश्य- नपि न गोव्यवहारं प्रवर्तयति । लघीयसि वा गवि प्रवर्तितो गोव्यव- हारो न गरीयसीति । स निमित्तप्रदर्शनेन गोव्यवहारे प्रवर्त्यते । सास्त्रादिमन्मात्रनिमित्तको हि गोव्यवहारस्त्वया प्रवर्तितः पूर्वं न लघी- यस्यादिनिमित्तक इति । तथा महत्यां शिंशपायां प्रवर्तितवृक्षव्यवहारो मूढमतिः स्वल्पायां तस्यां तम्यवहारमप्रवर्तयन् शिंशपात्वलक्षणतन्निमि- तोपदर्शनेन तत्र प्रवर्त्यते । वृक्षोऽयं शिंशपात्वादिति ॥ ९२ ॥ व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पाद- २५ पानुपलब्धेरिति ॥ ९३॥ २० ६१२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सु. ११ पनसत्वं हि पादपत्वेन व्याप्तं तदभावे तद्याप्यस्य पनसत्वस्याप्य- भावः । एवं नास्त्यत्र शिंशपा वृक्षाभावादित्यादीन्यप्यवसेयानि ॥९३॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीज- मंकुरानवलोकनादिति ॥ ९४ ॥ अप्रतिहतशक्तिकत्वं हि कार्य प्रत्यप्रतिबद्धसामर्थ्यत्वं कथ्यते। एतच्च विशेषणं बीजमात्रेण व्यभिचारपरिहारार्थम् । अङ्कुरानुपलम्भेऽपि बीज- मात्रसद्भावस्याविरोधादिति । एवं नास्त्यत्र परासुशरीरे चैतन्यं वाक्क्रि- याकारभेदानामनुपलम्भादित्यादीन्युदाहरणान्यूह्यानि ॥ ९४ ॥ कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धानाभावादिति ॥ ९५॥ प्रशमप्रभृतयो भावा इति, प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणा जीवपरिणामविशेषाः । तत्त्वार्थश्रद्धानाभावादिति, तत्त्वार्थश्रद्धानं सम्य- ग्दर्शनं तस्याभावात् । अत्र तत्त्वार्थश्रद्धानलक्षणस्य कार्यस्याभावः कुतोऽपि देवद्रव्यभक्षणादेः पापकर्मणः सकाशासिद्धयत्सत्तत्त्वार्थ- १५ श्रद्धानकार्यभूतानां प्रशमादीनामभावमवगमयति । एवं नास्त्यत्र धूमो धूमध्वजाभावादित्यादीन्यपि लोकप्रसिद्धान्युदाहरणान्यवसेयानि॥९५॥ पूर्वचरानुपलब्धियथा नोद्गमिष्यति मुहूर्तान्ते स्वा- तिनक्षत्रं चित्रोदयादर्शनादिति ॥ ९६ ॥ व्यक्तमदः । एवं न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुप- २० लब्धेरित्यादीनि ॥ ९६ ॥ उत्तरचरानुपलब्धिर्यथा नोदगमत्पूर्वभद्रपदा मुहूर्ता- त्पूर्वमुत्तरभद्रपदोद्गमानवगमादिति ॥ ९७॥ स्पष्टमेतदपि । एवं नोदगाद्भरणिर्मुहूर्ताप्राकृत्तिकोदयानुपलब्धे- रित्यादीन्यवगन्तव्यानि ॥९७॥ ..

परि. ३ सू. ९८] स्याद्वादरत्नाकरसहितः , सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्य- ग्दर्शनानुपलब्धेरिति ॥ ९८ ॥ सम्यग्ज्ञानसहचरं हि तत्त्वार्थश्रद्धानस्वभावं सम्यग्दर्शनं तच्च प्रशमा- दिकार्यानुपलब्च्या कचित्युसि निवर्तमानं स्वसहचरं सम्यग्ज्ञानं निवर्त्त- यति । एवं नास्त्यत्र प्रशमतुलायामुन्नामानुपलम्भान्न सन्ति जीवादौ रूप- रसगन्धाः स्पर्शानुपलब्धेरित्यादि द्रष्टव्यम् । इतीयमविरुद्धानुपलब्धिः सप्तप्रकारा प्रतिषेधप्रतिपतौ सोदाहरणा सूत्रतः प्रतिषेध्यवस्तुसम्बन्धिनां स्वभावकार्यादीनां साक्षादनुपलम्भद्वारेण प्रदर्शिता । परम्परया पुनरेषाऽपि निपुणैर्निरूप्यमाणैकादशधा सम्पद्यते । तद्यथा-कार्यव्यापकानुपलब्धिः, कार्यव्यापकव्यापकानुपलब्धिः, कारणकारणानुपलब्धिः, कारणव्याप- १० कानुपलब्विः, कारणव्यापकव्यापकानुपलब्धिः, सहचरकारणानुपल- ब्धिः, सहचर कार्यानुपलब्धिः, सहचरव्यापकानुपलब्धिः, सहचरव्याप- ककारणानुपलब्धिः, सहचरव्यापककारणकारणानुपलब्धिः, सहचर- व्यापककारणव्यापकानुपलब्धिश्चेति, तत्र कार्यव्यापकानुपलब्धिर्यथा- नास्त्येकान्तनिरन्वयं तत्त्वं तत्र क्रमाक्रमाभावादिति । अत्र हि सौगता- १५ भिमतमेकान्तनिरन्वयं तत्वं प्रतिषेध्यं तस्य कार्यमर्थक्रियालक्षणं तघ्यापर्क क्रमाक्रमस्वरूपं तच्चान्वितैकान्ततत्त्व इव निरन्वयैकान्ततत्त्वेऽ- नुपलभ्यमानं स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति तदपि निवर्तमानं कारणत्वेन कल्पितं निरन्धयैकान्ततत्त्वं प्रतिषेधति । यथा-चैकान्तनि- रन्वयान्वयपक्षयोरर्थक्रियाकारित्वं नोपपद्यते तथाऽग्रेऽनेकान्तप्रतिष्ठायां २० सविस्तरमभिधास्याम इति । कार्यव्यापकव्यापकानुपलब्धिर्थथा-नास्ति निरन्वयकान्ततत्त्वं, तत्र परिणामविशेषस्याभावादिति । तत्रापि प्रतिषेध्यं निरन्वयैकान्ततत्त्वं तत्कार्यमर्थक्रियाकारित्वं तयापर्क क्रमाक्रमस्वरूप तस्य च व्यापकः परिणामविशेषः " परिणामो ह्यन्तिरगमनं न च सर्वथा व्यवस्थानम् ॥ न च सर्वथा विनाशः परिणामस्तद्विदा- २५ १' तथा '' इति प. पुस्तके पाठः । - ३९ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स.९० मिष्टः ॥१॥" इत्येवं लक्षणलक्षितः, तस्य च निरन्वयैकान्ततत्त्वेऽ. नुपलम्भादभाव इति । कारणकारणानुपलब्धिर्यथा-क्वचिदात्मनि नास्ति संसारो मिथ्यात्वाद्यभावादिति । प्रतिषेध्यस्य हि संसारस्य कारणं कर्म तस्य च कारणं मिथ्यात्वाविरतिप्रमादकषाययोगास्तेषां चात्राभाव इति । ५ कारणव्यापकानुपलब्धिर्यथा-भस्मादिषु प्राणादयो न सन्ति जीवत्व- सामान्याभावादिति । अत्र हि प्रतिषेध्याः प्राणादयस्तेषां कारणं जीव- स्तद्व्यापकं जीवत्वसामान्यं तम्य चात्राभावः । इदं चात्रोदाहरणं, सांख्यादेर्नास्ति निवृत्तिः सम्यग्दर्शनज्ञानचारित्राणामभावादिति । अत्र निषेध्याया निवृत्तेः कारणं मुक्तिमार्गस्तस्य च व्यापकं सम्यग्दर्शना- १० दित्रयं तस्य चाभावः सांख्यादौ। ज्ञानमात्रादेरेव मोक्षकारणतया तेनाभ्युपगमात् । यथा च ज्ञानमात्रादेर्न मोक्षकारणत्वं तथोपरिष्टा- दुपपादयिप्यते । कारणव्यापकव्यापकानुपलब्धिर्यथा-सांख्या- देर्नास्ति निर्वाणं विशिष्टपरिणामाभावादिति । अत्र हि निषेध्यस्य निर्वाणस्य कारणं मुक्तिमार्गस्तव्यापकं सम्यग्दर्शनादित्रयं तव्यापकश्च १५ प्रामिर्णीतो विशिष्टः परिणामस्तस्यात्राभावः । सांख्यादिनात्मनोऽप- रिणामित्वाभ्युपगमात् । सहचरकारणानुपलब्धियथा-~नास्य मत्य- ज्ञानादिकमस्ति दर्शनमोहोदयाभावादिति । मत्यज्ञानादिकस्य हि निषे. ध्यस्य सहचरं मिथ्यादर्शनं तस्य कारणं दर्शनमोहोदयस्तस्यात्राभावः। सहचरकार्यानुपलब्धिर्यथा--मत्यज्ञानादिकं मम नास्ति नास्तिकाध्यव- २० सायाभावादिति । अत्रापि निषेध्यस्य मत्यज्ञानादेः सहचरं मिथ्या- दर्शनं तस्य कार्यं नास्तिकाध्यवसायः, तस्य च स्वसंवेदनसिद्धो मय्यमाव इति । सहचरव्यापकानुपलब्धिर्यथा नास्त्यस्य सम्य- ज्ञानं तत्त्वश्रद्धानाभावादिति । प्रतिषेध्यस्य हि सम्यग्ज्ञानस्य सहचरं सम्यग्दर्शनं तस्य व्यापकं तत्त्वश्रद्धानं तस्याऽत्राभावः । सहचरव्यापक- २५ कारणानुपलब्धियथा-नास्त्यभव्ये सम्यग्ज्ञानं दर्शनमोहोपशमाद्य- भावादिति । अत्र निषेध्यस्य सम्यग्ज्ञानस्य सहचरं सम्यग्दर्शनं तस्य परि. ३ सू. १०.] स्याद्वादरत्नाकरसहितः ६५ व्यापकं तत्त्वार्थश्रद्धानं तस्य कारणं दर्शनमोहोपशमादिकं तस्य चाभव्ये सुप्रतीत एवाभावः समयवेदिनाम् । सहचरव्यापककारण- कारणानुपलब्धिर्यथा-नास्त्यभव्ये सम्यग्ज्ञानं यथाप्रवृत्तादिकरणकाल- भाविलब्ध्याद्यभावादिति । अत्रापि प्रतिषेध्यस्य सम्यग्ज्ञानस्य सहचरं सम्यग्दर्शनं तब्यापकं तत्त्वश्रद्धानं तस्य कारणं दर्शनमोहोपशमादि ५ तस्यापि कारणं यथाप्रवृत्तादिकरणकालभाविलब्ध्यादिकं तस्य चाभव्य. प्राणिन्यभावः प्रकट एव । सहचरव्यापककारणव्यापकानुपलब्धिर्यथा- नास्त्यभव्ये सम्यग्ज्ञानं दर्शनमोहोपशमादिसामान्याभावादिति । सम्यग्ज्ञानमिह प्रतिषेध्यं तत्सहचरं सम्यग्दर्शनं तव्यापकं तत्त्वार्थश्रद्धानं तत्कारणं दर्शनमोहोपशमादि तव्यापकं च दर्शनमोहोपशमादित्व- १० सामान्य तस्याऽभव्ये देहिन्यभावः सुव्यक्त एव । तदित्थं सूत्रोक्तैः सप्त- भिर्भेदैः सहामी मीलिता एकादशभेदा अविरुद्धानुपलब्धेरष्टादश संवृत्ता इति ।। ९८॥ इत्थं भेदप्रभेदपरिकरितामविरुद्धानुपलब्धिमभिधाय सम्प्रति विरुद्धा- नुपलब्धिमभिधातुकामस्तत्प्रकारप्रकटनार्थं तावदाह १५ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधेति ॥९९॥ अविरुद्धानुपलब्धिः पूर्वोक्ता प्रतिषेधसाधिका सप्ताष्टादशप्रकारा वा । विरुद्धानुपलब्धिः पुनरियं विधिसाधिका पञ्चप्रकारा चेत्यन- योर्विशेषः ॥ ९९॥ कुतोऽस्याः पञ्चप्रकारत्वमित्याह- विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भमे- दादिति ॥ १०॥ विधेयेनार्थेन सह विरुद्धानां कार्यकारणस्वभावव्यापकसहचराणां येऽनुपलम्भा अनुपलब्धयस्तैः कृत्वा भेदो विशेषस्तस्मात् । ततश्च १मादिशब्दादपूर्वानिवृत्तिकरणम् । २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १०० - विरुद्धकार्यानुपलब्धिः, विरुद्धकारणानुपलब्धिः, विरुद्धस्वभावानुपल- ब्धिः, विरुद्धमापकानुपलब्धिः, विरुद्धसहचरानुपलब्धिश्व इति विरुद्धा- नुपलब्धिर्विधिसिद्धौ पञ्चधा सिद्धा भवति ।। १०० ॥ अथ क्रमेणोदाहरणान्याह- विरुद्धकार्यानुपलब्धियथा, अत्र शरीरिणि रोगाति- शयः समस्ति नीरोगव्यापारानुपलब्धेरिति॥१०१॥ यथाशब्दोऽत्रोत्तरत्र च पूर्ववत् । विधेयस्य हि रोगातिशयस्य विरु- द्धमारोग्यं तस्य कार्य विशिष्टो व्यापारस्तम्यानुपलब्धिरियम् ॥१०॥ विरुद्ध कारणानुपलब्धियथा विद्यतेऽत्र प्राणिनि क- ष्टमिष्टसंयोगाभावादिति ॥ १०२॥ अत्र विधेयं कष्टं तद्विरुद्धं सुखं तम्य कारणमिष्टसंयोगस्तस्यानुप- लब्धिरेषः ॥ १०२॥ विरुद्धस्वभावानुपलब्धियथा वस्तुजातमनेकान्ता- त्मकमेकान्तस्वभावानुपलम्भादिति ॥ १०३ ॥ वस्तुजातमन्तरङ्गो बहिरङ्गश्च विश्ववर्ती पदार्थसार्थः । अम्यते गम्यत निश्चीयत इत्यन्तो धर्मः । न एकोऽनेकोऽनेकश्वासावन्तश्चाने- कान्तः स आत्मा स्वभावो यस्य वस्तुजातस्य तदनेकान्तात्मकं सद. सदाद्यने धर्मात्मकमित्यर्थः । अत्र हेतुमाह-एकान्तस्वभावस्य सद- सदाद्यन्यतरधर्मावधारणस्वरूपस्यानुपलम्भादनुपलब्धेः । अत्र विधेये- २, नानेकान्तात्मकत्वेन सह विरुद्धः सदायेकान्तस्वभावस्तस्य चानुपलम्भः प्रत्यक्षादिप्रमाणेन ग्रहणाभावात्सुप्रसिद्धः । तथा हि, स्वरूपेण सन्तः पररूपेणासन्तः सामान्यविशेषात्मका नित्यानित्याद्यनेकधाणः पदार्थाः प्रत्यक्षेण प्रतीयन्ते । न खलु भावमात्रमभावमात्रं भावाभावी ..

परि. ३ स. १०५] स्याद्वादरत्नाकरसहितः वा स्वतन्त्रौ कदाचन प्रत्यक्षेण समधिगम्यते । नच सामान्यमानं विशेषमात्रं सामान्यविशेषौ वा स्वतन्त्रौ तेन निश्चीयते । नापि स्थिरैक- रूपं तत्त्वं क्षणिकैकरूपं तदुभयं वा स्वतन्त्रं तेन प्रतीयते । तथा न विज्ञानमेव प्रत्यक्षग्राह्यम् । नाप्युपप्लवमात्रम् । तथाप्रतीतेरभावात् । प्रत्यक्षबाधितविषयत्वेनानुमानमपि सदायेकान्तगोचरं न सम्भवतीति । तेनापि न तत्सिद्धिः। यथाऽत्र प्रत्यक्षादेरेकान्तग्राहकत्वाभावस्तथा प्रमाणविषयविवेकावसरे सविस्तरमभिधास्यते ॥ १०३ ॥ विरुद्धव्यापकानुपलब्धियथा, अस्त्यत्र छाया, औ- ण्यानुपलब्धेरिति ॥ १०४ ॥ विधेयया छायया विरुद्धम्तापस्तद्व्यापकमौष्ण्यं तस्यानुपलब्धि- १० रियम् ॥ १०४॥ विरुद्धसहचरानुपलब्धियथा, अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेरिति ॥ १०५॥ विधयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानं तत्सहचरं सम्यग्दर्शनं तस्यानुपलब्धिरसाविति । एते च पञ्च विरुद्धानुपलब्धिभेदाः पूर्वोक्ता- १२ विरुद्धानुपलब्धिभेदावादशकमध्ये यदा प्रक्षिप्यन्ते तदा जातमनुप- लब्धिलक्षणहेतुचक्रं त्रयोविंशतिभेदस्वभावम् ॥ १०५ ॥ ततश्च- २० हेतुरनुपलव्ध्याख्यो निषेधद्वारतः स्फुटम् ॥ निषेधविधिसंसिद्धिं विदधाति निराकुलम् ।। ५२२ ॥ साध्यज्ञप्तिपताकयाऽतिरुचिरं सद्धेतुचक्रद्वयं पक्षव्याप्तिधुरीणयोर्युगलकेनाकृष्यमाणं बलात् ॥ एनं यद्यनुमानमानसुरथं सद्वादयुद्धावना- वारोहन्ति सुवादिभूमिपतयस्तेषां जयश्रीस्तदा ।। ५२३ ॥

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १०५ निर्णीतं तावदादौ स्मरणमथ कृता प्रत्यभिज्ञाव्यवस्था तर्काख्यं मानमग्रे प्रकटितमखिलैर्दूषणैर्दूरमुक्तम् ॥ अङ्गीकृत्याऽनुमानं तदनु च विहितः सुप्रतीतो विचारः सारासार वितैस्तदिदमिह महातार्किकैस्तकणीयम् ॥५२४ ॥ श्रीमुनिसुव्रतदेवः सुराधीशविहितपदसेवः ।। निधूय विघ्नपटली क्रियादभीष्टार्थसिद्धिं नः ॥ ५२५ ॥ मद्यं सद्यः सुरविपटिनां सौरभोद्गारसारं पायं पायं सह सहचरैः किन्नरीणां कुलानि ॥ येषामद्याप्यनुपमयशांस्यादरेणामराद्रौ गायन्त्यस्मास्वभिमतकृतः सन्तु ते तीर्थनाथाः ॥ ५२६ ।। सद्वृततापरिगताः स्फुटकान्तिभाजः सन्तापतन्तिपरिमर्दनबद्धकक्षाः ।। मुक्ता इवेह हृदयं न हरन्ति कस्य श्रीमन्मुनीन्द्रमुनिचन्द्रगुरोनिरस्ताः ॥ ५२७ ॥ इति कर्मप्रकृतिप्राभूताम्भोजखण्डाविर्भावनकभास्करसमस्तसु- विहितजनोत्तंसश्रीमन्मुनिचन्द्रमरिचरणतामरसोपजीविना श्रीदेवाचा- येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्कारे स्मरण- प्रत्यभिज्ञानतर्वानुमानस्वरूपनिर्णयो नाम तृतीयः परिच्छेदः ॥३॥ १. चित्तैः' इति प. पुस्तके पाठः ।

॥ अथ चतुर्थः परिच्छेदः॥ सम्यक्कोविदकर्णकोटरकुटीकुडयेषु कस्तूरिका- पङ्कस्थासकतामुपैति परमां यः श्रूयमाणः क्षणात् ॥ न्यायन्यासनिरङ्कुशः कथमपि प्राप्तो न चान्यत्कृति तीर्थेभ्यः परमागमः स जयति श्रीवीतरागादितः ॥५२८॥ ५ परोक्षाख्यप्रमाणस्य स्मरणादिप्रकारचतुष्टयं स्पष्टमुपदिश्येदानीमा- गमाख्यं पञ्चमप्रकारं बहुवक्तव्यत्वात्परिच्छेदान्तरेणोपदिशन्निदमाह- आप्तवचनादाविर्भूतमर्थसंवेदनमागम इति ॥ १ ॥ आप्तः प्रतिपादयिष्यमाणस्वरूपः, तेन प्रणीतं वचनमाप्तवचनं तस्मादाविर्भूतमुत्पन्नमर्थसंवेदनम् । आगम्यन्ते मर्यादयाऽबबुद्धयन्तेऽर्था १० अनेनेत्यागम इति ॥ १॥ ननु यद्यर्थसंवेदनमागमस्तार्ह कथमाप्तवचनात्मकोऽसौ सिद्धान्तविदां प्रसिद्ध इत्याशङ्कयाह- उपचारादाप्तवचनं चेति ॥२॥ प्रतिपाद्यज्ञानस्य ह्याप्तवचनं कारणमिति कारणे कार्योपचारात्तद- १५ प्यागम इत्युच्यते । अत्रानुमानप्रमितौ प्रवेशं शाब्दप्रमाणस्य समाश्रयन्तः । शाक्यस्य शिष्याः स्फुरितोरुदर्प युक्तीः स्वपक्षे परिकीर्तयन्ति ॥५२९॥ तथा हि यद्यस्मादभिन्नगोचरमभिन्नजनकसामग्रीसमन्वितं च तत्त- स्मान्न भिद्यते । यथा कुतश्चिद्नुमानादनुमाना- २० शब्दमनुमानेऽन्तर्भावयतां बौद्धानां खण्डनम् । "न्तरम् । अनुमानादभिन्नगोचरोऽभिन्नजनक- सामग्रीसमन्वितश्च शब्द इति । किंच शब्दो १प्र.न. ४।४ ।

६२० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सृ. २ विवक्षायामेव प्रमाणम् । न बाह्ये, व्यभिचारात् । न ह्यङ्गुल्यो हस्तियूथशतमास्त इत्यादिशब्दानां बाह्येऽर्थे प्रामाण्यमुपपद्यते । प्रती. तिविरोधात् । तस्यां चैतस्य लिङ्गतैव युक्ता । तदुक्तम् -" विवक्षायां च गम्यायां विस्पटव त्रिलिङ्गता" इति । त्रिभी रूपैरुपलक्षितं ५ लिङ्गं त्रिलिङ्गं तस्य भावस्तत्ता । इत्येवमेते सुगतस्य शिष्याः शब्दानुमानत्वमुदाहरन्ति ।। मनोरथोऽयं परिपूर्तिमेषां गन्ता न जैनेष्ववधानवत्सु ॥ ५३० ॥ तथा हि यत्तावदभ्यधायि यद्यस्मादभिन्नगोचरमित्यादि तन्नानव- द्यम् । अभिन्नगोचरत्वस्य शब्दानुमानयोरसिद्धेः । अर्थमात्रं हि १० शब्दस्य गोचरोऽनुमानस्य तु साध्यधर्मविशिष्टो धर्मीति । अपि चाऽन- योर्गोचराभेदः सामान्यमात्रविषयतया तद्वन्मात्रगोचरतया वा भवेत् । न तावदाद्यः पक्षः । भवतामभिमतस्यान्यव्यावृत्तिस्वभावस्य सामान्य. मात्रस्य निषेध्यमानत्वात् । नापि द्वितीयः । प्रत्यक्षस्याऽप्यनुमानत्वा- पत्तेः । तथा तदभेदस्य तत्राऽप्यविशेषात् । तन्नाऽभिन्नगोचरत्वाच्छब्द- १५ स्यानुमानत्वमुपपन्नम्। नाप्यभिन्नजनकसामग्रीसमन्वितत्वात् । अनुमान- जनकसामग्र्याः शब्दे सम्भवाभावात् । पक्षधर्मत्वादिरूपत्रयस्वभावा हि सामग्र्यनुमाने भवद्भिरभिमन्यते । सा च शब्दे न सम्भवति । तथा हि न तावच्छब्दस्य पक्षत्वं युज्यते । धर्मिण एवात्र कस्यचिद- सम्भवात् । अत्र हि धर्मी शब्दोऽर्थो वा स्यात् । न तावच्छब्दः । २० यतस्तत्र शब्दः पक्षधर्मोऽभवन्स्वलक्षणस्वरूपतया वा भवेत्सामान्य- रूपतया वा । नायः पक्षः। एकस्यैव शब्दम्यलक्षणस्य धर्मम्मिरूप- परस्परविरुद्धस्वभावद्वयायोगात् । नापि द्वितीयः । शब्दत्वसामान्यस्य भवन्मते परमार्थसतोऽसम्भवात् । कल्पितस्य तु सत्त्वेऽपि न गमकत्वम्। अर्थो ह्यर्थ गमयतीति भवद्भिरेव स्वीकरणात् । भवतु वा यथा कथंचि- २५ च्छब्दः पक्षधर्मः । तथाऽप्येतैः शब्दस्य धर्मिणः किमर्थविशिष्टत्वं साध्यतेऽर्थप्रत्यायनशक्तियुक्तत्वमर्थप्रतीतिविशिष्टत्वं वा । तत्र प्रथम- परि. ४ सू. २] स्याद्वादरत्नाकरसहितः ६२१ पक्षोऽयुक्तः । पर्वतपावकयोरिव शब्दार्थयोर्धम्मैधर्मिभावासम्भवात् । आश्रितो हि धर्मो भवति । न चार्थः शब्दाश्रितः । शब्दानाश्रितस्यै- वाऽर्थस्यागोपालं सुप्रतीतत्वात् । अथाऽर्थप्रत्यायनशक्तियुक्तत्वं शब्दम्य साध्यते तदप्यसाधु । तदर्थं शब्दप्रयोगासम्भवात् ,। न ह्यर्थप्रतिपा- दनशक्तिसिद्धये शब्दः प्रयुज्यते, किन्त्वर्थसिद्धये । अथाऽर्थप्रतीतिवि- ५ शिष्टत्वं शब्दस्य साध्यते । नन्वर्थप्रतीतिः शब्दोत्थाऽन्योत्था वा भवेत् । नाद्यः पक्षः। शब्दादर्थप्रतीतेस्त्वयाऽनभ्युपगमात् । न द्वितीयः । अन्योत्थयाऽर्थप्रतीत्या सह शब्दस्य संबन्धासिद्धितस्तद्वैशिष्टयासम्भ- वात् । तन्न शब्दस्य धर्मित्वं घटते । नाऽप्यर्थस्य । तेन सह शब्दस्य सौगतैः सम्बन्धास्वीकारात् । न हि तादात्म्यस्वरूपस्तदुत्पत्तिस्वरूपो १० वा सम्बन्धः शब्दार्थयोस्ताथागतैः स्वीक्रियते "न ह्यर्थे शब्दाः सन्ति तदात्मानो वा" इत्यादिवचनस्य विरोधानुषक्तेः । न चार्थ- नाप्रतिबद्धा ध्वनिस्तस्य धर्मोऽतिप्रसक्तेः। अथाऽर्थप्रतीतिहेतुत्वात्तद्धर्मोs- सौ । न । इतरेतराश्रयानुषङ्गात् । पक्षधर्मत्वसिद्धौ हि शब्दस्यार्थप्रती- तिहेतुत्वसिद्धिस्तत्सिद्धौ च पक्षधर्मत्वसिद्धिरिति । तत्प्रतीतिहेतुत्वेन १५ चाऽस्य तद्धर्मत्वे चक्षुरादेरपि पक्षधर्मतासिद्धेस्तजन्याऽपि प्रतीतिरानुमा- निक्येव भवेत् । तन्न पक्षधर्मत्वं ध्वनेः सम्भवति । नाप्यन्वयव्यति- रेकौ । देशे काले च शब्दार्थयोरनुगमाभावात् । तथा हि-" क्रीड- केकिकदम्बकण्ठविलुठत्केकायितव्याकुले, कुत्रापि स्कटिकाद्रिकूट- कुहरे सान्द्रद्रुमद्रोणिनि । कस्मीरेष्वधुनाऽपि साऽत्र भवती सान- न्दविद्याधरीवृन्दैवन्द्यपदाम्बुजा विजयते श्रीशारदा देवता ॥१॥" इत्यादि पाठेषु प्रतिदेशं शारदादिशब्दो व्यवहारिभिः श्रूयते । न च तदर्थस्तत्र सत्प्रतीयते। यत्र हि धूमस्तत्राऽवश्यं वह्निरस्तित्वेन प्रसिद्धोऽ- न्वेता भवति धूमस्य । न त्वेवं देशकृतः शब्दस्यार्थेनान्वयोऽस्ति । नापि कालकृतः।न हि यत्र काले शब्दस्तत्र तदर्थोऽवश्यं सम्भवति । यतः, २५ "नम्रस्वर्गिसमूहशेषरजतस्रग्भिः समृद्धांधिभूर्जातस्तीर्थपतिः किला- २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. २ त्र भगवान् श्रीवर्धमानाभिधः॥एतेनैव समानसर्वमहिमा तीर्थाधि- नाथस्तथा, भावी भारतवर्षमस्तकमाणः श्रीपद्मनाभाह्वयः ॥१॥" इत्यादौ वर्धमानपद्मनाभादिशब्दा वर्तमानास्तदर्थस्त्वतीतो भावी चेति कुतोऽर्थानां शब्दान्वेतृत्वम् । अन्वयाभावे च व्यतिरेकस्याऽप्यभावः, ५ तत्पूर्वकत्वात्तस्य । यच्चोक्तं शब्दो विवक्षायामेव प्रमाणमित्यादि । तदपि तर्करहस्यानभिज्ञस्य व्याहृतम् । विवक्षायां शब्दप्रमाणस्यासम्भ- वात् । तन्मात्रविषयत्वे ह्यर्थे प्रवृत्त्यादिहेतुत्वानुपपतिः। तदविषयत्वात् । यद्यद्विषयं न भवति न तत्तत्र प्रवृत्त्यादिहेतुर्यथा रूपज्ञानं रसाविषयं रसे । न भवति च बहिरर्थविषयो भवन्मते शब्द इति । न चैत- १० दुपपन्नम् । प्रतीतिविरोधात् । ततो बहिरर्थगोचरत्वमेव शब्दस्य सङ्गतिमङ्गति । यत्खलु यत्र प्रवृत्त्यादिहेतुस्तत्तद्गोचरं यथा रसज्ञानं रसप्रवृत्त्यादिहेतू रसगोचरम् । बहिरर्थे प्रवृत्त्यादिहेतुश्च शब्दः । न चात्र हेतुरसिद्धः । प्रत्यक्षवच्छब्दाबहिरर्थे प्रवृत्त्यादिप्रतीतेः । यथा हि प्रत्यक्षात्प्रतिपत्तप्रणिधानादिसामग्रीसापेक्षात्प्रत्यक्षेऽर्थे प्रवृत्त्यादि- १५ प्रतीतिः सकललोकप्रसिद्धा तथा सङ्केतादिसामग्रीसापेक्षाच्छब्दाच्छ- ब्दार्थेऽपीति । न चार्थेऽर्थिनामर्थित्वादेवः प्रवृत्तेः शब्दोऽप्रवर्तक इति कीर्तनीयम् । प्रत्यक्षस्याप्येवं प्रसक्तेः । तद्गोचरेऽप्यर्थेऽर्थित्वादेव प्रवृत्ति- प्रतीतेः । परम्परयाऽत्र प्रवर्तकत्वे शब्देऽपि तथास्तु । विशेषाभावात् । का चेयं विवक्षा नाम। यद्गोचरत्वं शब्दस्य शब्द्यते । किं शब्दोच्चारणे- २० च्छामात्रमनेनामुमर्थ प्रतिपादयामीत्यभिप्रायो वा । आद्यकल्पनायां वक्तृश्रोत्रोः शास्त्रश्रवणप्रणयनादौ प्रवृत्तिर्न पामोति । न खलु कश्चि- द्वालिशः शब्दनिमित्तेच्छामात्रप्रतिपत्त्यर्थं शास्त्रं प्रणेतुं श्रोतुं वा प्रवर्तते । दशदाडिमादिवाक्यैः सह सकलवाक्यानामविशेषापत्तिश्च । सर्वेषां स्वप्रभवेच्छामात्रकानुमापकत्वाविशेषात् । अथ द्वितीयकल्पः । २५ तथा हि-"पादपार्थविवक्षावान्पुरुषोऽयं प्रतीयते ॥ वृक्षशब्दप्रयो- १ गच्छति।

परि. ४ सू. ३] स्याद्वादरत्नाकरसहितः ६२३ क्तृत्वात्पूर्वावस्थास्वहं यथा ॥१॥ " इति । तदप्यशोभनम् । व्यभिचारात् । न हि शुकसारिकोन्मत्तप्रभृतयस्तथाभिप्रायेण वाक्यमु- चारयन्तः प्रतीयन्ते । अपि च समयानपेक्षः शब्दस्तादृशमभिप्रायं गम- येत्समयसापेक्षो वा । प्रथमपक्षे न कश्चित्वचिद्भाषानभिज्ञः स्यात् । समयापेक्षस्तु शब्दोऽर्थमेव किं न गमयेत् । न ह्ययं तपस्वी बाह्यार्था- ५ द्विभेति येन तत्र न साक्षात्प्रवर्तेत । अशक्यसमयत्वान्न शब्दोऽर्थ गमयतीत्यपालोचितवचनम् । अभिप्रायेऽपि तदगमकत्वप्रसङ्गात् । तत्रापि तस्याशक्यसमयत्वाविशेषात् । असिद्धं च शब्दस्याशक्यसम- यत्वम् । " स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः" इत्यत्र वक्ष्यमाणसूत्रे तच्छक्यसमयत्वस्य । प्रबन्धेनाभिधास्यमानत्वात् । १० ततश्च सिद्धमिदम् । शब्दो वक्त्रभिप्रायाद्भिन्नार्थविषयः सत्यानृतव्यव- स्थोपेतत्वात् । यदित्थं तदित्थं यथा प्रत्यक्षादि । तथा च शब्दस्त- स्मात्तथेति । एवं च न विवक्षायामव शब्दस्य प्रामाण्यमिति । ततः शब्दो नानुमानं तद्विभिन्न विषयत्वात् , तद्विभिन्नसामग्रीसमन्वितत्वाच्च प्रत्यक्षवत् । तस्मादेतल्लिनिकाद्भिन्नरूपं स्वीकर्तव्य शाक्यसिंहस्य शिप्यैः । शाब्दमानं यद्विना नावगन्तुं शक्यन्तेऽर्थाः स्वर्गमुख्या:परोक्षाः॥५३१॥ ॥२॥ अत्रोदाहरणमाह- समस्त्यत्र प्रदेशे रत्नविधानं सन्ति रत्नसानुप्रभृतय २० इति ॥३॥ रत्नसानुर्मेरुः । अत्र प्रथमोदाहरणं लौकिकजनकाद्याप्तवचनापेक्षयेति ॥३॥ - १७. न. प. ४ स. ११॥

'६२४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू.४ - कीदृशः पुमानाप्तः स्याद्यद्वचननिबन्धनमर्थावबोधनमागमप्रमाण- तया सम्मतमित्याशङ्कथाप्तलक्षणमाह- अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्त इति ॥४॥ अभिधेयं वस्तु रत्ननिधानरत्नसानुप्रभृतिकं यथावस्थितं येन स्वरूप- प्रकारेण व्यवस्थितं यः कश्चिजानीते प्रत्यक्षादिप्रमाणतो निश्चिनोति यथाज्ञानं ज्ञानानतिक्रमणाभिधत्ते स आप्तः । आप्यते उपदिष्टोऽर्थोs- स्मादित्याप्त इति व्युत्पत्तेः ॥४॥ अथ कस्मादेवंविधस्यैवाप्तत्वमित्याशङ्कथाह- तस्य हि वचनमविसंवादि भवतीति ॥५॥ यो हि यथावस्थिताभिधेयवस्तुपरिज्ञाने निपुणः परिज्ञानानुसारेण तदुपदेशकुशलश्च तस्य हि यस्माद्वचनमविसंवादि विप्रलम्भपरिभ्रंशतः संवादिकं भवति नाऽन्यस्य । ततो यथोक्तलक्षणलक्षितस्यैवाप्तत्वम् । यो यस्यावश्चकः स तस्याप्त इति " ऋप्यार्याम्लेच्छ- १५ साधारणं वृद्धप्रणीतमात्मलक्षणमनूदितं भवति ।। ५॥ कतिविधोऽयमाप्त इत्याह- सच द्वेधा लौकिको लोकोत्तरश्चेति ॥६॥ लोके सामान्यजन्यरूपे भवो लौकिकः । लोकादुत्तरः प्रधान मोक्षमार्गोपदेशकत्वाल्लोकोत्तरश्चाप्त इति ॥.६ ।। तावेव निदर्शयन्नाह- लौकिको जनकादिलोंकोत्तरस्तु तीर्थकरादित इति ॥ ७॥ लौकिक आप्तोजनकादिः आदिशब्देनजनन्यादिपरिग्रहः। लोको- एतेन च २० परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः - तरः पुनराप्तस्तीर्थकरादिः। आदिशब्देन गणधरप्रत्येकबुद्धादीनां ग्रहणम्। तत्र येनेह प्रबलयुक्तिकीलिकाकलापाक्रान्तकर्कशानेकप्रमेयरज्जुसहस्रो- पनिबद्धप्रचुरप्रकरणफलककोटिघटनापिशङ्कटेन शिशिरमरीचिमण्डलोद- ञ्चत्प्रचुररुचिसञ्चयसुचारुचारित्रोच्चकूपस्तम्भावष्टम्भमिष्टमहिष्टोपजायमा- ननानाविधोपद्रवप्रबन्धप्रध्वंसाविधानसावधानविशुद्धबुद्धिनिधानसद्गुरुक- ५ र्णधारप्रेरणीयेन प्रबुद्धधीवरसहस्रप्रेर्यमाणानेकप्रकारनयारिनिकुरुम्बन भूरिभङ्गभनिगमग्राममहाकेतुकोटिसङ्कटेन परमार्थोपार्जनोपजायमाना- समानमनोरथजनैकसेवनीयेन नितान्तदुष्टवाचाटतीर्थिककुटुम्बका- कस्मिकक्रियमाणमहाकोलाहलकालिकावातेनाऽप्यक्षोभमाणेन प्रतिक्षण- विचक्षणसभामूर्त्यमाणसूक्ष्मकादिविचारप्रपञ्चप्रचुरगृह्यकवातसन्ताना- १० पूरिततत्त्वार्थमयसितपटेन यानपात्रेनेव जन्मजरामरणक्षारनीरनिरन्तर- मनवरतोपजायमानमनोरथमहोम्भिमालाव्याकुलमाकस्मिकातिदुरिरौद्र- परिणाममहावेलासहस्रहेतुचतु:कषायपातालकलशमलं सविलं सद्वि- पुलप्रियविप्रयोगप्रमुखदुःखनिकरभयङ्करमकरपरम्परापरिचयदुरालोकम- तिविकटमकरकेतुतिमिङ्गिलकरालवक्त्रकुहरान्तमूर्छदतुच्छसत्त्वसन्दोह- १५ मुदग्रमिथ्यात्वकालकूटच्छटलान्छितकुक्षिकुहरमनेककदाग्रहग्राहनिवह- ममन्दप्रवादकादम्बरीस्वादनोन्मत्तम्रमद्भूरिजलजन्तुसन्तानमतिदुरतिक्र- ममहामोहावर्त्तरौद्रं भवसमुद्रं भविनस्तरन्ति तत्तीर्थम् । प्रवचन मिति यावत् । ततश्चाचिन्त्यमाहात्म्यमहापुण्यापराभिधानतीर्थकरनामकर्म- विपाकादेवंविधतीर्थकरणशीलस्तीर्थकरश्रीवर्धमानजिनप्रमुखः पुरुष- २० विशेष इति । अत्राहुजैमिनीया:- रागद्वेषाकलुषितमतिस्तीर्थकृन्नास्ति कश्चित् रागद्वषविनिर्मुक्तं पुरुषवि- शेषमनभ्युपगच्छता वेदा. यः स्यादाप्तो बत कथमहो तद्वचः स्यात्प्रमाणम् । पौरुषेयत्ववादिना मीमांस-चेदस्तस्मात्पुरुषवचनालाञ्छनोन्मुक्तमूर्तिः कानां पूर्वपक्षं सविस्तरमु. प्रामाण्यश्रीविलसदसमप्रेमपात्रं समस्तु॥५३२।। 'पपाथ तत्खण्डनम् । च पुरुषवचनालाञ्छनोन्मुक्तमूर्तित्वं १ प्रत्येकं बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः । न प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू.. चात्र तस्यासिद्धम् । तथाहि वेदोऽपौरुषेयः कर्तृस्मरणयोग्यत्वे सत्यस्म- र्यमाणकर्तृकत्वाद्यदित्थं तदित्थं यथाकाश इति । न हेतोरसिद्धिः । यदि हि वेदे कर्ता भवेत्तदा वेदार्थानुष्ठानकालेऽ- नुष्ठातृणामनिश्चितवेदप्रामाण्यानां तत्प्रमाणताप्रसिद्धये तद्गोचरस्मरण- माविर्भवेत् । ये हि यच्छास्त्रार्थानुष्ठाने प्रवर्त्तन्ते ते तच्छास्त्रकार नियमेन स्मरन्ति यथाऽष्टकाद्यानुष्ठानार्थिनस्तत्प्रणेतारं मनुम् । वेदविहितार्थानुष्ठाने प्रचुरद्रविणव्ययोत्पन्नपरिश्रमनिवर्तनीयाग्निहोत्रादि- कर्मलक्षणे प्रवर्तन्ते च प्रेक्षाशालिनोऽतस्तेषां महती वेदकर्तृस्मरणा- पेक्षा । ते ह्यनुपलब्धफलेषु नानाविधकर्मस्वेवं निःसन्देहाः प्रवर्तेरन्, १० यदि तेषां तद्विषयः सत्यतानिश्चयः सम्पन्नो भवेत् । न चासौ तदुप- देष्टुः स्मरणाभावे युज्यते । पित्राद्युपदेशवत् । यथैव हि पित्रादिक- मुपदेष्टारं स्मृत्वा स्वयमदृष्टफलेप्वपि कर्मसु तदुपदेशात्प्रवर्त्तन्ते पित्रा- दिभिरेतदुपदिष्टं तेनानुष्ठीयत इति । एवं वैदिकेष्वपि कर्मस्वनुष्ठीय- मानेषु कर्तुः स्मरणं स्यात् । न चाभियुक्तानामपि वेदार्थानुष्ठातृणां त्रैवर्णिकानां तत्स्मरणमस्ति, अतोऽसौ तत्र नास्तीति निश्चीयते । कर्तृस्मरणामावश्च छिन्नमूलत्वात् । स्मरणस्य ह्यनुभवो मूलम् । न चासौ वेदकर्तृविषयत्वेन विद्यते । तत्कथं तत्स्मरणसम्भावनाशङ्काऽपि । न च रचनावत्त्वेनात्र भारतादिवत्कर्तृसद्भावप्रसिद्धेर्नास्य छिन्नमूल- त्वमित्यभिधातव्यम् । वेदरचनायाः कर्तृपूर्वकरचनाविलक्षणत्वात् । तथा हि- योः दुस्सवदुर्भणध्वनिगणः सर्वेन्द्रियागोचर- स्यार्थस्य प्रतिपादनं प्रतिपदं भगिर्न वा छन्दसाम् ॥ लोकव्याकरणाप्रयुक्तविविधध्वानप्रबन्धस्तथा मन्त्राणां महिमा स कोऽपि रचना वेदे तदन्या ध्रुवम् ॥५३३॥ ये त्वादशास्तु न पठन्ति न वाश्रयन्ति शृण्वन्ति नापि भुवनाद्भुतभूतमेतम् ॥ - २५ परि. ४ सू..] स्याद्वादरत्नाकरसहितः ६२७ . ५ जानन्ति ते कृशधिया कथमप्रमेयं माहात्म्यमस्य रचनासु कथञ्चनापि ॥ ५३४ ॥ न च रचनमात्रस्योपलम्भाद्वेदे कनुमानमुपपन्नम् । विश्वस्य बुद्धिमत्पूर्वकत्वानुमानप्रसङ्गतोऽनभिमतसिद्धिप्रसक्तेः ।। ततो यादृशी रचना कन्वयव्यतिरेकानुविधायिनी समधिगता तादृश्येव परिदृश्य- माना कर्तारमनुमापयन्तीत्यङ्गीकर्तव्यम् । अतः कथं वेदे ततः कर्बनु- मानशङ्काऽपि सम्भाव्यते । ततः सिद्धमिदम् । वैदिकी रचना पौरुषेयी न भवति दृष्टकर्तृकरचनाविलक्षणत्वादन्तरिक्षवदिति । तथा, " वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् ॥ वेदाध्ययनवाच्यत्वा- दधुनाऽध्ययनं यथा ॥१॥ अतीतानागतौ कालौ वेदकारविवर्जितौ॥ १० कालत्वात्तद्यथा कालो वर्तमानः समीक्ष्यते ॥ २ ॥” इत्या- भ्यामप्यनुमानाभ्यां वेदस्यापौरुषेयत्वं सिद्धिसरणिमनुसरति । नन्वा- सप्रणीतत्वाभावे कथमस्य प्रामाण्यं स्यादिति चेत् । अपौरुषेयत्वा- वचनस्य पुरुषदोषानुप्रवेशेनैवाप्रामाण्यप्रसिद्धेः । यथोक्तम्--" शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितिः । तद- १५ भावः क्वचित्सिद्धो गुणवद्वक्तृकत्वतः ॥ १॥ तद्गुणैरपकृष्टानां शब्दे सक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निरा- श्रयाः ॥२॥" इति । तदभाव इति दोषाभावः । क्वचिदिति लौकिक- वाक्ये । तद्गुणैरिति गुणवद्वक्तृगुणैः । वेदे हि गुणवान्वक्ता दुनिस्तेन दोषाभावोऽप्यशक्यनिश्चयः। कर्तुरभावे तु सुखेनैव निश्चीयते । तथा हि- २० " दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते॥ वेदे कर्तुरभावाद्धि दोषाशकैव नास्ति नः ॥ १॥ नन्वाप्तगुणसंक्रान्त्यैव शब्दस्य प्रामाण्यं वेदे चाप्तप्रणीतत्वाभावतस्तत्संक्रान्त्यसम्भवात्कथं प्रमाणत्व- मिति चेत् । तदयुक्तम् । यतो नाप्तगुणसंक्रान्त्या वेदे प्रमाणत्वम् । देवेति ब्रूमः । १ श्लो. वा. अ. १ पा. १ सू. ७ श्लो. ३६६ । २ श्लो. वा. अ. १पा. १ सू. २ श्लो. ६२।६३॥

६२८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ७ शब्दोच्चारण एवाप्तस्य व्यापारात् । शब्दः पुनरविसंवादिनी वस्तु- प्रतीतिं विदधानः स्वमहिम्नैव प्रमाणम् । न चैवमनाप्तस्यापि तदु- च्चारणमात्रे व्यापाराच्छब्दः स्वमहिम्नैवाऽसत्यार्थप्रतिपत्तिं कुर्वाणोऽ- प्रमाणमित्यभिधानीयम् । अनाप्तप्रणीतत्वादिदोषाणामप्रामाण्योत्पादना- ५ दन्यप्रयोजनाभावात् । आप्तप्रणीतत्वाभावान्न प्रामाण्यमप्रामाण्यं वेत्यु- च्यते । तदप्यनुचितम् । यत्र हि पुरुषकृता पदानुपूर्वी तत्र तदपेक्षं प्रामाण्यमप्रामाण्यं वा भवेत् । वेदानुपूर्व्यास्तु नित्यत्वात्स्वसामर्थेनै- वाऽर्थावबोधकत्वात्पुरुषनिरपेक्षमेव प्रामाण्यम् । न हि तादृशीमानुपूर्वी कश्चित्कर्तुं क्षमः । पूर्वसिद्धानुपूर्वीतोऽपूर्वानुपूर्वीकरणे कस्यचित्स्वा- १० तन्त्र्यासम्भवात् । कुर्वाणो वा ता तदध्येतृभिरन्यैबहुभिर्निवार्यते । तदु- क्तम्-" अन्यथा करणे चास्य बहुभ्यः स्यान्निवारणा" इति । एवं च- यत्राश्रान्तं विशदमनसः पक्षपातं श्रयन्ते यः सर्वेषां शुभफलजुषां कर्मणामेकदीपः । १५ यं चाद्यापि प्रगुणितधियो धीयते सर्वतोऽपि स्वीकर्त्तव्यः स इह विबुधैर्वेद एव प्रमाणम् ।। ५३५ ॥ चित्तेऽस्तु काममुपयातु ततोऽपि कण्ठं हे श्रोत्रिय स्वमतदुर्धरपक्षपातात् ॥ यत्कण्ठतोऽपि पुनरेतदुपैति वक्त्र- मस्मन्मनः किमपि तेन हणीयते स्म ॥ ५३६ ॥ तथा हि यत्तावन्न्यगादि रागद्वेषाकलुषितमतिस्तीर्थकृन्नास्ति कश्चिदित्यादि तद्विस्मरणशीलतां सूचयति देवानांप्रियस्य । सकल- त्रिलोकीसमाकलनाकौशलशालिनः पुरुषधुरीणस्य पूर्व सविस्तरमु- पपादितत्वात् । यदपि कर्तृस्मरणयोग्यत्वे सत्यस्मर्यमाणकर्तृकत्वादि- २० १ मी. श्लो. वा. सू. २ श्लो. १५०.

परि. ४ सू..] स्याद्वादरत्नाकरसहितः त्याद्यबादि तत्रास्मर्यमाणकर्तृकत्वमसिद्धम् । कर्तृस्मरणाभावग्राहक- प्रमाणाभावात् । न खलु प्रत्यक्षं तबाहकम् । प्रतिनियतरूपादिगोच- रचारित्वेनाभावे तस्य प्रवृत्त्यसम्भवात् । सम्भवे वाऽभावप्रमाणकल्पना- वैफल्यम् । तत्साध्यस्याध्यक्षत एव प्रसिद्धेः । अभावप्रमाणात्तसिद्धौ तु कर्तृस्मरणाभावगोचरस्याभावप्रमाणस्योत्पत्तौ कारण वाच्यम् । गृही- ५ त्वा वस्तुसद्भावमित्यादिना सूचितं तत्कारणमस्तीति चेत् । नन्वतः प्रादुर्भूतमभावप्रमाणं तदभावं साश्रयमेव प्रसाधयेत् । गृहीत्वा वस्तु- सद्भावमित्यभिधानात् । अनेन हि निषेध्याधारवस्तुग्रहणमभिदधता भट्टेन निषेध्याभावाश्रयः सूचित एव । अन्यथा प्रतिनियतवृत्तितया कर्तृस्मरणाभावसिद्धिस्ततो दुर्लभा । आश्रयश्चास्य स्वात्मा सर्वे प्रमा- १० तारो वा । यदि स्वात्माऽमुष्मिन्मदीय आत्मनि वेदकर्तृस्मरणं नास्तीति किमेतावता सिद्धम् । पदार्थजातस्यानेकस्यातः स्मरणं नास्ति न चैतावता तस्याभावः सिद्धयति । अथ ममानुष्ठानेऽवश्यं स्मर्तव्योऽसौ यदा स्मृतिपदप्रस्थायी न भवति तदाऽसन्निति निश्चीयत इत्यप्य- सारम् । यतः-- यद्यद्वस्तु समस्ति न स्मृतिपथप्रस्थायि ते भो बटो विस्पष्टं यदि तस्य तस्य सकलस्यासत्त्वमाभाषसे । एवं तर्हि पितामहस्य पितरं मातामहीमात तन्मातापितरौ च न स्मरसि तत्तेषामभावो भवेत् ॥५३७॥ तेषामभावे च भवेदभावः कथं न हि त्वत्कपितामहादेः ॥ तथा सति स्याद्भवतोऽप्यभावः स्वेनामुना कुत्सितशङ्कितेन ॥ ५३८ ॥ २० तथा-- समुत्पन्नेऽप्यर्थे स्वयमपि धृतं वस्तु किमपि कचित्कस्याप्यत्र जति सहसा विस्मृतिपदम् ।। न चेतावन्मात्रादभवनममुष्य प्रवदितुं त्वया शक्यं तस्मायभिचरितमेतत्तव. वचः ॥ ५३९ ॥ २५ । प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू.. अथ सर्वे प्रमातारः । ननु त्रैलोक्योदरविवरवर्तिनः प्रमातारो वेदकर्तारं न स्मरन्तीत्यसर्वविदो वेदनानुपपत्तिः। अपि च सर्वप्रमातृ- देशान्गत्वा तांश्च पृष्ट्वा तत्र कर्तृस्मरणाभावः प्रतीयेताऽन्यथा वा । न तावदन्यथा, सर्वज्ञत्वानुषङ्गादेव । गत्वा चेन्ननु तत्र गत्वा तेषु ५ पृष्टेषु न स्मराम इति प्रतिवचनं ब्रुवाणेष्वपि को नाम विश्रम्भः । न हि तेषु सर्वेष्वसर्वज्ञस्य युगपत्क्रमाभ्यामाप्तताप्रतीतिः सम्भवति । यत. स्तद्गुणसंक्रान्त्या तत्र प्रामाण्यं स्यात् । किंच अभावप्रमाणस्य तत्र प्रवृत्तिर्यत्र वस्तुसद्भावग्राहकं प्रमाणपञ्चकं न प्रवर्तते । प्रमाणपञ्चक यत्रेत्याद्यभिधानात् । न चैवमिहास्ति । वेदस्य पुराणस्य च शाब्द- १० प्रमाणस्य वेदकर्तरि प्रवर्तनात् । वेदवाक्यं हि-" रुद्रं वेदकर्तारं, यो ब्रह्माणं विदधाति पूर्व वेदांश्च प्रहिणोति, तथा-प्रजापतिः सोमं राजानमन्वसृजत्तत्र त्रयो वेदा अन्वसृजन्त" इत्यादिकम् । पुराणं च- प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते" "अनन्तरं तु वस्त्रेभ्यो वेदास्तस्य विनिःसृताः" इत्यादि कर्तृसद्भावावेदकमनेकधा श्रूयते । १५ स्मृतिपुराणादिवच्च काण्वमाध्यन्दिनतैत्तिरीयादयः शाखाभेदास्तत्कर्तृ- त्वादेव तत्तदृषिनामाङ्किता इति कथमस्मर्यमाणकर्तृकाः। अथ तद्दष्ट- त्वात्तत्प्रकाशितत्वाद्वा तन्नामाङ्किता इति चेत् । तन्न । यतो यदि ताव- दुत्सन्नाः शाखाभेदाः कण्वादिना दृष्टाः प्रकाशिता वा । तदा कथमेषां सम्प्रदायाविच्छेदोऽतीन्द्रियार्थदर्शिनः प्रतिक्षेपश्च स्यात् । अथानव- २० च्छिन्ना एवैते सम्प्रदायेन दृष्टाः प्रकाशिता वा । तर्हि यावद्भिरुपा- ध्यायैदृष्टाः प्रकाशिता वा तावन्नामभिरेषां किन्नाङ्कितत्वं स्यात् । अविशेषात् । अपि चाऽन्ये वादिनः स्मरन्ति वेदस्य कर्तारमित्यसिद्ध- मेवाऽस्मर्यमाणकर्तृकत्वम् । अथोच्यते, अस्ति तेषां वेदे कर्तृस्मरण किन्तु सविगानम् । तत्कर्तृविशेषविप्रतिपत्तेः । तथा हि--योगा रुद्र- २५ कर्तृकत्वं तस्याहुः । जैनाः कालासुरकर्तृकत्वम् । सौगतास्त्वष्टककर्तृ- कत्वम् । अतोऽप्रमाणं तदिति । तदप्युक्तिमात्रम् । यतः कर्तृविशेषे परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः ६३१ विप्रतिपत्तेस्तद्विशेषस्मरणमेवाप्रमाणं स्यान्न कर्तृमात्रस्मरणम् । अन्यथा कादम्बर्यादीनामपि कर्तृविप्रतिपत्तेः कर्तृमात्रस्मरणस्या- प्रमाणत्वेनास्मर्यमाणकर्तृकत्वे सत्यकर्तृकत्वं स्यात् । अथ वेदे कर्तृ- विशेषविप्रतिपत्तिवत्कर्तृमात्रेऽपि विप्रतिपत्तेस्तन्मात्रस्मरणमप्यप्रमाणम् । कादम्बर्यादीनां तु कर्तृविशेष एव विप्रतिपत्तेस्तत्प्रमाणमतो नाकर्तृक- त्वम् । ननु वेदे योगादयः कर्तारं स्मरन्ति न मीमांसका इत्येवं कर्तृमात्रे विप्रतिपत्तेर्यदि तदप्रमाणं तर्हि तद्वत्तदस्मरणमप्यप्रमाणं किं न स्यात् । विप्रतिपत्तेरविशेषात् । तथा चायमसिद्धो हेतुः। किंच, अस्मर्य- माणकर्तृत्वं वादिनः प्रतिवादिनः सर्वस्य वा सम्बन्धि हेतुत्वेनाभि- मतं भवेत् । यदि वादिनस्तर्हि तदनैकान्तिकम् । वटे वटे वैश्र- १० वण इत्यादिषु विद्यमानकर्तृकेष्वपि जैमिनीयैरस्मर्यमाणकर्तृकेष्वस्य सद्भावात् । ननु वेदे कञभावपूर्वकमस्मर्यमाणकर्तृकत्वमत्र तु कर्चनुप- लम्भमात्रपूर्वकं तत्कथमनैकान्तिकमित्यपि मनोरथमात्रम् । यतः कुतोऽत्र कर्प्रभावसिद्धिः। प्रमाणान्तरादत एव वा । यदि प्रमाणा- न्तरात् । तदाऽस्यानर्थक्यम् । अत एव चेत्, परस्पराश्रयः । अतो १५ ह्यनुमानात्तदभावसिद्धौ तत्पूर्वकमस्मर्यमाणकर्तृकत्वं सिध्येत्तत्सिद्धौ चानुमानात्तदभावसिद्धिरिति । अथ प्रतिवादिनः सम्बन्धि तद्धेतुत्वेन विवक्षितम् । तदसिद्धम् । तत्र हि प्रतिवादी स्मरत्येव कर्तारम् । एतेन सर्वस्यास्मरणं प्रत्याख्यातम् । यदप्युक्तम् । ये हि यच्छास्त्रार्था- नुष्ठाने प्रवर्तन्ते ते तच्छास्त्रकर्तारं नियमेन स्मरन्तीत्यादि । २० तदप्यनल्पतमोविलसितम् । नियमाभावात् । धर्मशील इत्यादिवाक्येभ्यस्तदर्थानुष्ठाने प्रवर्त्तमानानामनुष्ठातृणां तत्कर्तृस्मरणमस्ति । तदन्तरेणापि धर्मशीलताद्यर्थानुष्ठाने महापुरुषार्थो- पयोगिन्यैहिकपारत्रिकमयाभावहेतौ प्रवृत्तिप्रतीतेः । यच्चान्यदुक्तं छिन्नमूलत्वादित्यादि । तदप्यसुन्दरम् । यतोऽध्यक्षेणानुभवाभावात्तत्र २५ कर्तृस्मरणं छिन्नमूलं प्रमाणान्तरेण वा। अध्यक्षेणेति चेत् । किं न हि यो ६३२ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू.. भवत्सम्बन्धिना सर्वसम्बन्धिना वा । यदि भवत्सम्बन्धिना । ताग- मान्तरेऽपि कर्त्तसद्भावग्राहकत्वेन भवत्प्रत्यक्षस्याप्रवृत्तेस्तत्कर्तृस्मरणस्य च्छिन्नमूलत्वेनास्मर्यमाणकर्तृकत्वस्य भावाव्यभिचारी हेतुः । अथ तत्र तद्राहकत्वेनास्मत्प्रत्यक्षस्याप्रवृत्तावपि परैः कर्तृसद्भावाभ्युपगमान्न ५ व्यभिचारः । तन्न । परकीयाभ्युपगमस्य भवतोऽप्रमाणत्वात् । अन्यथा वेदेऽपि परैस्तत्सद्भावाभ्युपगमादस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः स्यात् । सर्वसम्बन्धिना चेत् । सोऽसिद्धोऽग्दिशा तस्यावसातुम- शक्यत्वात् । अथ प्रमाणान्तरेणानुभवाभावः । तन्न । आगमस्य तत्र कर्तृसद्भावावेदकस्य प्रतिपादितत्वात् । वचनरचनावत्त्वायनुमानस्य १० च तत्प्रसाधकस्य सद्भावात् । तथा हि । पौरुषेयो वेदो वचनरचना- वत्त्वाद्भारतादिवत् । यदप्यवादि । वेदरचनायाः कर्तृपूर्वकरचनावि- लक्षणत्वादित्यादि । तत्र यदेतद्दुःश्रवत्वदुर्भणत्वादि तद्वैलक्षण्यं तत्सकलं पुरुषाणां न दुष्करम् । विज्ञानकरणापटुतापराधीनत्वाद्वाचा प्रवृत्तेः । ननु पौरुषेयत्वे वेदानां मन्त्रत्वानुपपत्तिः । मन्त्रो हि जप्यमानः फल- १५ दायी दृष्टः । न च तथा पौरुषेयो वेद इति । एतदप्यविचारितर- मणीयम् । शैवाद्यागमानामप्यपौरुषेयत्वप्रसत्तेः । तत्र ये हि मन्त्राः फलदायिनः सन्ति तेऽपि वैदिका एवेति न वाच्यम् । शूद्राणामपि फलदायित्वात्तेषाम् । वेदेषु च भवदभिप्रायेण शूद्राणामधिकारो नास्ति । अनधिकारिणां च कथं मन्त्राः फलं प्रयच्छेयुः । अपि च २० प्राकृता अपि मन्त्राः फलदा दृश्यन्ते । न च वेदेषु प्राकृतशब्दगन्धोऽ- प्यन्ति । तस्मात्प्राकृतमन्त्रवद्वैदिका अपि मन्त्रा पौरुषेया एवेत्यभ्युप- गन्तुं युक्तम् । नन्वेवं सर्वे पुरुषाः किं न मन्त्रकारिणो भवन्तीति चेत् । उच्यते । सर्वेषामसमानशक्तिकत्वात् । ये हि सत्यसङ्कल्पास्त एंव मन्त्रान्कर्तुं शक्नुवन्ति । सत्यसङ्कल्पता च सुमुनीनां प्राणांतिपात- १ प्राणातिपातः-प्राणिप्राणवियोजनं तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वक निवर्तनम् । आदिशब्देन मृषावादादत्तादानमैथुनपरिग्रहविरमणानां ग्रहणम् ।

परि. ४ सू. ७ स्याद्वादरत्नाकरसहितः ६३३ विरमणादिपञ्चमहाव्रतषष्ठाष्टमादितपःकरणप्रभावात्सुप्रतीतैव सचेतसाम् । तथा हि- प्राणान्न व्यपरोपयन्ति वितथं जल्पन्ति नो सर्वथा स्तेयं नैव समाचरन्ति वनितां वान्त्या समातन्वते नाऽभ्यस्यन्ति परिग्रहग्रहिलतां नित्यं तपस्यन्ति ये संसिद्धा धिषणावतां सुमुनयस्ते सत्यसङ्कल्पिताः ॥ ५४०॥ निरतिशयप्रभावसमन्वितैर्हि तैरमुष्मान्मन्त्रादस्येदं फलं भवत्वित्यनु- सन्धाय यदा यया कयाचिद्भाषया प्रयुज्यन्ते मन्त्रास्तदा तेषां तत्प्र- भावादेव तथाविधार्थक्रियाकरणसामर्थ्य सम्भाव्यते । दृश्यते हि साम्प्रतमपि महाप्रभावमन्त्रवादिन आज्ञाप्रदानान्निर्विषीकरणादिकम् । १० स चेत्थम्भूतः प्रभावो नेतरपुरुषाणां समस्ति । तेन न सर्वेषां मन्त्र- कर्तृत्वम् । न च वाच्यं शब्दशक्तित एव निर्विषीकरणादिफल- निप्पत्तिर्न पुनः पुरुषशक्तेरिति । मुद्रामण्डलादीनां नैफल्येनाकरण- प्रसङ्गात् । पुरुषाणां विध्यभिसन्धिविशेषानपेक्षित्वप्रसङ्गाच्च । पुरुष- शक्तितः फलनिष्पत्तौ तु नायं दोषः । तेन हि यत्र यथा समयः कृत- १५ स्तत्र तथा समयानुपालनात्फलं निप्पद्यते । यां वा देवतामधिश्रित्य मन्त्रः प्रणीतः सैव तत्समभिव्यापारसामर्थ्यात्समयमनुपालयन्तमनु- गृह्णाति । राजादिवत् । कस्यचित्तत एवानर्थ इत्यादि विकल्पश्च न स्यात् । किंच, समयाभिज्ञेनोच्चारितमेकैकमप्यक्षरं विषापहारादि- कार्यं कुर्वदुपलभ्यते नेतरैः । स्वाभाविकत्वे तु पावकवदतद्वदि २० प्रयोगेऽपि स्वकार्यं कुर्यात् । अपि च काव्यस्यापि पौरु- षेयत्वे सर्वे पुरुषाः काव्यकृतः किं न स्युरिति किं न पर्यनुयुज्यते । ननु काव्यं कुर्वाणः पुरुषो दृश्यते । न मन्त्रं कुर्वन्निति । नैवम् । मन्त्रकृतोऽप्यनुमानागमाभ्यां दर्शनात् । न चासर्वविदर्शनं समस्तवस्तु- विषयं येन तन्निवृत्तावदृष्टस्याभावः स्यात् ।। किंच भारतादी- २५ १ अस्मन्मुद्रापितत . सू. १६ टि. २ ।

६३४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू.. न्कुर्वाणोऽपि कश्चिदिदानी न दृश्यते, इति तेषामप्यपौरुषेयत्वप्रसक्तिः । तस्मान्न मन्त्रोपेतत्वमपि वेदरचनायाः कर्तृपूर्वरचनावैलक्षण्यं गदितु- मनुगुणम् । अपि चात्र विशिष्टा रचना दृश्यमाना तत्करणासमर्थमेव कर्तारं निराकुरुते न पुनः कर्तृमात्रमपि । न खलु पुराणकूपप्रासादादौ ५ विशिष्टा रचना प्रतीयमाना कर्तृमात्र निराकुर्वती प्रसिद्धा । तत्करणा- समर्थस्यैव शिल्पिनस्तया निराकरणात् । न हि कन्वयव्यतिरेकानु- विधायिनो धर्माः कर्तारं विना घटन्ते । ततो वैदिकी रचना पौरुषेयी न भवतीत्याद्यनुमानमयुक्तमुक्तम् । दृष्टकर्तृकरचनाविलक्षणत्वस्य हेतो- रुक्तनीत्या तत्रासिद्धत्वात् । सिद्धत्वे वा कर्तृमात्रानिषेधकत्वात् । १० ततो रचनामात्रात्कनुमाने विश्वस्य बुद्धिमत्पूर्वकत्वानुमानप्रसङ्गत इत्याद्यपि प्रतिक्षिप्तम् । वेदरचनायाः कर्तृपूर्वकरचनातो विलक्षण- त्वाव्यवस्थितेः । जगद्रचनायास्तु तद्विलक्षणत्वेऽव्यवस्थितेः। तस्या- स्तद्वयवस्थितिश्च सविस्तरमीश्वरनिराकरणे विहिता । यदप्य- भिहितं वेदाध्ययनं सर्वं गुर्वध्ययनपूर्वकमित्यादि । तत्र निर्विशेषणं १५ वेदाध्ययनवाच्यत्वमपौरुषेयत्वं प्रतिपादयेत्सविशेषणं वा । प्रथमपक्षेऽ- नैकान्तिकम् । विपक्षेऽप्यस्याविरुद्धतया सद्भावसम्भवात् । न खलु वेदाध्ययनवाच्यत्वं कर्तृपूर्वकत्वलक्षणविपक्षेण विरुद्धम् । भारता- ध्ययनवाच्यत्ववत्तस्याऽपि तेनाविरोधात् । किंच यथाभूतानां पुरुषाणां यथा वेदाध्ययनं गुर्वध्ययनपूर्वकमुपलब्धं तथाभूतानामेव तत्तथा २० साध्यतेऽन्यथाभूतानां वा । यदि तथाभूतानां तदा सिद्धसाध्यता । अथान्यथाभूतानां तर्हि विश्वस्य बुद्धिमत्पूर्वकत्वे साध्ये सन्निवेशादि- वदप्रयोजको हेतुः । अथ तथाभूतानामेवं तत्तथा साध्यते । न च सिद्धसाधनम् । सर्वपुरुषाणामतीन्द्रियार्थदर्शनशक्तिवैकल्येनातीन्द्रियार्थ- प्रतिपादकप्रेरणाप्रणेतृत्वासामर्थेनेदृशत्वादिति चेत् । एतदपि न २५ निरवद्यम् । प्रेरणायास्तथाभूतार्थप्रतिपादने प्रामाण्यप्रसिद्धेः । तद- प्रसिद्धिश्च गुणवतो वक्तरमावे तद्गुणैरनिराकृतैषैिस्तस्यापोदितत्वा.

परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः सुप्रसिद्धा । तथाभूतां च प्रेरणामतीन्द्रियार्थदर्शनशक्तिविरहिणोऽपि कर्तुं समर्था इति कुतस्तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्यनाशेषपुरुषाणामी- दृशत्वसिद्धिः । यतः सिद्धसाधनं न स्यात् । अथ न शब्दे गुणवद्व- क्तकत्वेनैवाप्रामाण्यनिवृत्तिरपौरुषेयत्वेनाप्यस्याः सम्भवात्ततोऽयमदोषः । तदपि न्यायनिराकृतम् । यतोऽपौरुषेयत्वं प्रेरणायाः किमन्यतः प्रमा- णात्प्रसिद्धमत एव वा । यद्यन्यतस्तदाऽस्य वैयर्थ्यम् । अत एव चेत्, परस्पराश्रयः । अतो ह्यनुमानादपौरुषेयत्वसिद्धौ प्रेरणायाः प्रामाण्य- सिद्धिस्तत्सिद्धौ च तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येन सर्वपुरुषाणामीदृश- त्वसिद्धिरिति । तन्न निर्विशेषणं वेदाध्ययनवाच्यत्वमपौरुषेयत्वं प्रति- पादयति । नापि सविशेषणम् । यतः किं तत्र विशेषणं कर्चस्मरणं १० वा सम्प्रदायाव्यवच्छेदो वा। न तावत्कर्चस्मरणम् । तस्यासिद्धत्वाद्यने- कदोषकलङ्कितत्वप्रतिपादनात् । सम्प्रदायाव्यवच्छेदोऽप्यात्मगतः सर्व- लोकगतो वा । न तावदात्मगतः । भारतादिपौरुषेयत्वेऽप्यस्य सम्भ- वात् । नापि सर्वलोकगतः । असर्वविदा तस्य सतोऽपि ज्ञातुमपार्यमाण- त्वात् । वटे वटे वैश्रवण इत्यादिवत्पौरुषेयत्वेऽप्यस्याविरोधाच्च । अपि १५ च, आदिमतोऽपि शास्त्रग्रामस्य सम्प्रदायव्यवच्छेदोऽस्ति वेदस्य पुनर- नादेरसौ नास्तीति कः श्राद्धिको भवतोऽपरः प्रतिपद्येत । यदप्युक्त- मतीतानागतौ कालावित्यादि तदप्यत्यन्तमसम्बद्धम् । आगमान्तरेऽ- प्यस्याविशेषात् । किंचेदानीं यथाभूतो वेदकरणासमर्थपुरुषयुक्तः कालः प्रतीतोऽतीतानागतो वा तथाभूतः कालत्वात्साधयितुमभिप्रेतोऽ- २० न्यथाभूतो वा । यदि तथाभूतः । तदा सिद्धसाधनम् । अथान्यथाभूतस्तदा सन्निवेशादिवदप्रयोजको हेतुः । तथाभूतस्यैव कालस्य तद्रहितत्वं साध- यितुमभिप्रेतम् । न च सिद्धसाधनम् । अन्यथाभूतस्य कालस्यैवाऽसम्भवा- दिति चेत् । उच्यते। अन्यथाभूतकालोऽसम्भवतीत्येतत्कुतःप्रमाणात्प्रति- पन्नम् । अत एवाऽन्यतो वा । यद्यत एवेतरेतराश्रयः । अन्यथाभूतकाला- २५ भावसिद्धौ ह्यतोऽनुमानात्तद्रहितत्वसिद्धिस्तत्सिद्धेश्चान्यथाभूतकाला- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू... भावसिद्धिरिति । अन्यतस्तत्सिद्धौ चास्य वैयर्थ्यम् । अपौरुषेयत्वस्यापि तत एव प्रसिद्धेः । ततो वेदेष्वपौरुषेयत्वसाधकस्य कस्यचित्प्रमाणस्या- सम्भवात्कथमसावपौरुषेयः स्यात् । अस्तु वा तथाऽप्यसौ व्याख्यातोऽ- व्याख्यातो वा स्वार्थे प्रतीर्ति कुर्यात् । न तावदव्याख्यातः । अतिप्रस- ५ ङ्गात् । अथ व्याख्यातः । कुतस्तस्य व्याख्यानं स्वतः पुरुषाद्वा । न तावत्स्वतः । : भो भोः श्रोत्रियपुङ्गवाः समुदितैः सर्वैरपि श्रूयतां सम्प्रत्यस्तमितान्यकृत्यविधिभिधृत्वा समाधौ मनः ।। मद्वाचामिदमेव वाच्यमपरं मा सर्वथा कल्पता- १० मित्येवं विदधाति नात्मवचसां व्याख्यां कदाचिछुतिः ॥ ५४१ ॥ अन्यथा व्याख्याभेदो न स्यात् । पुरुषाच्चेत् , कथं तद्व्याख्याना- पौरुषेयादर्थप्रतिपत्तौ दोषाशङ्कानिवृत्तिभवेत् । पुरुषा हि रागादिमन्तो विपरीतमप्यर्थ व्याचक्षाणाः समुपलभ्यन्ते । संवादेन प्रामाण्याङ्गी- करणे वाऽपौरुषेयत्वकल्पनवैयर्थ्यम् । पौरुषेयत्वेऽपि वेदस्य संवादादेव १५ प्रामाण्योपपत्तेः । न च व्याख्यानानां संवादः समस्ति । परस्परविरुद्ध- भावनानियोगादिव्याख्यानानामन्योन्यं विसंवादोपलम्भात् । अपि चायं वेदव्याख्याताऽतीन्द्रियार्थदर्शी तद्विपरीतो वा। आद्यकल्पेऽती- न्द्रियार्थदर्शिनः प्रतिषेधविरोधः । धर्मादौ वाऽस्य प्रामाण्योपपत्तेधर्मे चोदनैव प्रमाणमित्यवधारणानुपपत्तिश्च । अथ तद्विपरीतः । कथं तर्हि २० तद्व्याख्यानाद्यथार्थप्रतिपत्तिः । अयथार्थाभिधानाशङ्कया तदनुपपत्तेः । न च मन्वादीनां सातिशयप्रज्ञत्वात्तव्याख्यानाद्यथार्थप्रतिपत्तिः । तेषां सातिशयप्रज्ञत्वासिद्धेः । तेषां हि प्रज्ञातिशयः स्वतो वेदार्थाभ्यासाद- दृष्टात् ब्रह्मणो वा स्यात् । स्वतश्चेत्, सर्वस्य स्यात् । आविशेषात् । वेदार्थाभ्यासाच्चेत्, ननु वेदार्थस्य ज्ञातस्याऽज्ञातस्य वाऽभ्यासः स्यात् । २५ न तावदज्ञातस्य । अतिप्रसङ्गात् । अथ ज्ञातस्य, कुतस्तज्ज्ञप्तिः, १. स्तुतिः' इति भ. पुस्तके पाठः ।

परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः ६३७ । स्वतोऽन्यतो वा । स्वतश्चेत्, अन्योन्याश्रयः । विद्यमाने हि वेदार्था- भ्यासे स्वतस्तत्परिज्ञानं तस्मिन्सति तदर्थाभ्यास इति । अथान्यतः, तर्हि तस्यापि तत्परिज्ञानमन्यत इत्यतीन्द्रियार्थदर्शिनोऽनभ्युपगमे परस्परतो यथार्थनिर्णयानुपपत्तिः । अदृष्टमपि न प्रज्ञातिशयप्रसाधकम् । तस्यात्मान्तरेऽपि सद्भावात् । न तथाविधमदृष्टमन्यत्र मन्वादावेवाऽस्य ५ सम्भवादिति चेत् । कुतस्तत्रैवाऽस्य सम्भवः । वेदार्थानुष्ठानविशेषा- चेत्, स तर्हि ज्ञातस्याऽज्ञातस्य वा वेदार्थस्याऽनुष्ठाता स्यात् । अज्ञा- तस्य चेत्, अतिप्रसङ्गः । ज्ञातस्य चेत्, चक्रकप्रसङ्गः । सिद्धे हि वेदार्थज्ञानातिशये तदानुष्ठानविशेषसिद्धिः । तत्सिद्धौ चादृष्टविशेष- सिद्धिः। ततस्तज्ज्ञानातिशयसिद्धिरिति । ब्रह्मणोऽपि वेदार्थज्ञाने १० सिद्धे सत्यतो मन्वादेस्तदर्थपरिज्ञानातिशयः सिध्येत् , तच्चास्य कुतः सिद्धम् । धर्मविशेषाचेत्स एव चक्रकप्रसङ्गः । सिद्धे हि वेदार्थपरि- ज्ञानातिशये तत्पूर्वकानुष्ठानविशेषः सिद्धयेत् । ततस्तजनितधर्मविशेषः सिद्धयेत् । तत्सिद्धौ च वेदार्थपरिज्ञानातिशयः सिध्येदिति । ततोऽ- तीन्द्रियार्थदर्शिनोऽनभ्युपगमे वेदार्थाप्रतिपत्तिरेव । ननु व्याकरणाद्य- १५ भ्यासाल्लौकिकपदवाक्यार्थप्रतिपत्तौ तदविशिष्टवैदिकपदवाक्यार्थप्रति- पत्तेरपि प्रसिद्धिरतो न वेदार्थप्रतिपत्तावतीन्द्रियार्थदर्शिना किंचि- त्प्रयोजनम् । इत्यप्यपेशलम् । लौकिकवैदिकपदानामेकत्वेऽप्यनेकार्थत्व- व्यवस्थितेरन्यपरिहारेण व्याचिख्यासितार्थस्य नियमयितुमशक्तेः । न च प्रकरणदिभ्यस्तन्नियमः । तेषामप्यनेकताप्रवृत्तेस्त्रिसन्निधानादिवत् । २० यदि च लौकिकेनाम्यादिशब्देनाविशिष्टत्वाद्वैदिकस्याम्यादिशब्दस्यार्थ- प्रतिपतिः । तर्हि, पौरुषेयेणापि तेनाविशिष्टत्वात्पौरुषेयोप्यऽसौ कथं न स्यात् । लौकिकस्य ह्यम्यादिशब्दस्यार्थवत्त्वं पौरुषेयत्वेन व्याप्तम् । तत्रायं वैदिकेऽप्यम्यादिशब्दे कथं पौरुषेयत्वं परित्यज्य तदर्थमेव ग्रहीतुं शक्नोति । उभयमपि हि गृह्णीयात्, जह्याद्वा । न च लौकिकवैदिक- २५ शब्दयोः स्वरूपाविशेषे सङ्केतग्रहणसव्यपेक्षत्वेनार्थप्रतिपादकत्वेऽनुच्चार्य- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स्. ७ माणयोश्च पुरुषेणाश्रवणे समानेऽन्यो विशेषोऽस्ति । यतो वैदिक अपौरुषेयाः शब्दा लौकिकास्तु पौरुषेयाः स्युः । एवं च- कथमपि संखे युक्तिं नैव प्रयाति निराकृतं वचनमुदितैर्दोरेतद्यतः कवलीकृतम् ॥ निजमतगतं मिथ्यावादं विहाय तदिष्यतां प्रमितिरमणीक्रीडारामं श्रुतं जिननिर्मितम् ॥५४२॥७॥ आप्तवचनादित्युक्तम् । तत्राप्तः प्ररूपितः । सम्प्रति वचनं प्ररूप- यन्नाह- वर्णपदवाक्यात्मक वचनमिति ॥ ८॥ वर्णश्च पदं च वाक्यं च वर्णपदवाक्यानि वक्ष्यमाणलक्षणानि तान्यात्मा स्वभावो यस्य वचनस्य तत्तथा । वर्णपदवाक्यानि चोपलक्षणं प्रकरणपरिच्छेदादीनामिति ॥ ८ ॥ अथोद्देशानुक्रमेण वर्ण लक्षयितुमाह- अकारादिः पोद्गालको वर्ण इति ॥९॥ पुद्गलैर्भाषापरमाणुद्रव्यलक्षणैरारब्धः पौगलिकः । ननु कुतः प्रमाणा- सौद्गलिकत्वं वर्णस्य प्रतीयत इति चेत् । अनुमानादिति ब्रूमः । तथा हि, वर्णः पौद्गलिको मूर्तिमत्त्वाद्यन्मूर्तिमत्तत्पौद्गलिकम् । यथा पृथि- व्यादि । मूर्तिमांश्च वर्णस्तस्मात्पौद्गलिक इति । न च मूर्तिमत्त्वमस्या- २० सिद्धम् । स्पर्शवत्त्वात् । यत्पुनर्मूर्तिमन्न भवति न तत्स्पर्शवत् । यथा व्योम । स्पर्शवांश्च वर्णः । ततो मूर्तिमान् । न च स्पर्शवत्त्वमप्यस्या- प्रतीतम् । कर्णकुहरं प्रविशति ध्वनौ कर्णशष्कुलिकान्ततः स्पर्शस्याऽनु- भूयमानत्वात् । ततः स्पर्शवत्त्वाद्रूपरसगन्धस्पर्शवत्त्वलक्षणा मूर्ति- छनौ प्रसिद्धिपद्धतिमवतरति । यदि पुनर्वनिरमूर्तिः स्यात्कर्ण- परि. ४ सू. १] स्याद्वादरत्नाकरसहितः ६३९ - . . शष्कुल्यां स्पपिलब्धिर्न स्यात् । उपघातो वा बालकादिकर्णयोः । भवति चाऽयम् । तथा हि- जरन्मुरजासरस्फुरितवाक्रियाकर्कशैः प्रतिध्वनितधोरणीरसितरोदसीकन्दरैः ॥ भवत्यतिसमीपगैगितिझल्लरीझात्कृतैः स्तनन्धयशिशोर्बलाबधिरता ध्रुवं कर्णयोः ॥ ५४३ ॥ विवक्षितशब्दप्रतिपादनविषयप्रयत्नोदीरितकोष्ठयसमीरणोद्गमनप्रति. लब्धप्रादुर्भावस्वप्रचयातिशयवशात्कदम्बगोलकन्यायेन तरङ्गभङ्गाविस- पणन्यायेन वा कर्णशकुल्यवच्छिन्नदेशप्रदेशेषु प्रविशन्तः शब्दाः कटकटायमानाः कर्णोपघाताय कल्पन्त इति सर्व एव हि चेतनाश्चे- १० तयन्ते । तादृशः स्पर्शः शब्दे सति भवन्नसत्यभवन्वर्धमाने वर्धमानः क्षीयमाणे क्षीयमाणः शब्दगुणत्वमात्मनः सूचयन्नमूर्तत्वप्रकृतिं परेषां स्वयमेव प्रत्यस्तमयतीति किन्नस्तत्र प्रयासेन । वायवीयः स स्पर्शो न शाब्द इत्यत्र न प्रत्यक्षम् । नाप्यनुमानादिकं सम्भवति । शक्यं च वक्तुं समीरणप्रेरितमूर्त्तवस्त्वन्तरस्पर्शोऽयं न तु वायवीयोऽपि । गन्धवत् । १५ ततः समीरणस्यापि मूर्तत्वं दुरवगाहं भवेत् । अथान्वयव्यतिरेकाभ्यां वायवीयः स्पर्शोऽयमिष्यते । तर्हि शब्दधर्मित्त्वेऽपि स्पर्शस्य कः प्रद्वेष- हेतुः । बहिरिन्द्रियप्रत्यक्षस्य शब्दस्य पृथिव्यादेरिव स्पर्शवत्त्वे विरोधा- भावात् । ततः स्पर्शवत्त्वान्मूर्तिमान्ध्वनिमूर्तिमत्त्वाच्च पौगलिक इति । अम्बरगुणत्वे पुनः शब्दस्य बहिरिन्द्रियप्रत्यक्षत्वं दुरुपपादं स्यात् । २० यो हि गगनगुणः स न बाह्येन्द्रियप्रत्यक्षः । यथा विभुत्वादिः । गगनगुणश्च परेषामभिमतः शब्द इति । तथा यो बहिरिन्द्रियप्रत्यक्षः स परोक्षगुणो न भवति । यथा रूपादि । बहिरिन्द्रियप्रत्यक्षश्च शब्द इति । न च निष्प्रदेशस्य कस्यचिद्यापिनो गुणः प्रादेशिको युक्ति- मनुगच्छति । व्याघातात् , ततः शब्दोऽपि सर्वगतः स्यात् । न च २५ तथा केनाऽप्यनुभूयते । विस्तरतश्चाम्बरगुणत्वं शब्दस्य षट्पदार्थ- ६४० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ९ प्रसाधनम् । परीक्षायां निराकरिष्यते। ततः स्थितमकारादिः पौगालिको वर्ण इति । ननु वर्णानां केवलानां सर्वत्र निरर्थकत्वात्कथं तल्लक्षणप्रणयनं युक्तमिति न मन्तव्यम् । अनुमानतस्तेषामर्थ- केवलवर्णानामर्थवत्त्वस्य वत्त्वप्रतीतेः । तथा हि वृक्षादिसमुदायस्था वर्णाः प्रत्येकमर्थवन्तो वर्णत्वाद्धातुप्रातिपदिक- प्रत्ययनिपातवर्णवत् । इतश्चार्थवन्तो वर्णास्तव्यत्ययेऽर्थान्तरगमना- द्यस्य व्यत्ययेऽर्थान्तरगमनं च पश्यामस्तस्मादर्थवन्तो वर्णा इति । इतश्चार्थवन्तस्ते वर्णविशेषानुपलब्धौ पूर्वदृष्टार्थासम्प्रत्ययात् । इह यस्यानुपलब्धौ पूर्वदृष्टस्यार्थस्यासम्प्रत्ययो दृष्टः सोऽर्थवान्, यथा प्रति- १० ष्ठत इत्यत्र प्रशब्दानुपलब्धौ प्रस्थानरूपस्यार्थस्यासम्प्रत्यये प्रशब्दः । वर्णविशेषानुपलब्धौ पूर्वदृष्टार्थासम्प्रत्ययश्च वृक्षशब्दस्य ऋक्षशब्दे । तस्मादर्थवन्तस्त इति । इतोप्यर्थवन्तो वर्णास्तत्सङ्घातस्यार्थवत्त्वाद्यत्र यत्सङ्घातोऽर्थवान्, अवयवस्यापि तत्रार्थोऽस्ति । यथा तिलेषु तैलमात्रा काचित् । यत्र त्ववयवानामर्थो न दृष्टस्तत्र तत्सङ्घातोऽपि तेषामन- १५ र्थक एव । यथा सिकतानां खारीसहस्रमपि तैललक्षणार्थशून्यम् । अस्ति च सङ्घातस्यार्थवत्ता वृक्षः प्लक्ष इति । तस्मादर्थवन्तो वर्णा इति ॥९॥ अथ पदवाक्ययोर्लक्षणमाह- वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं, पदानां तु वाक्यमिति ॥ १०॥ वर्णौ च वर्णाश्चेत्येकशेषात् ब्रह्मसम्बोधने क इत्यादौ द्वयोरित्यादौ तु बहूनां वर्णानामक्षराणाम् । अन्योन्यापेक्षाणां पदार्थप्रतिपादने कर्तव्ये सहकारिकारणतया परस्परं व्यवस्थितानाम् । निरपेक्षा पदान्तरवर्तिवर्णनिर्वर्तितोपकारपराङ्मुखी संहतिः पदमभिधीयते । २५ पद्यते गम्यते स्वयोग्योऽर्थोऽनेनेति पदमिति निरुक्तेः । नन्वेवं केशवा- २० परि. ४ सू. १०] स्थाद्वादरत्नाकरसहितः दिसम्बोधनायाम इत्येवमादावेकत्र वर्णे पदत्वेन सम्मते वृत्तेरभावाद- व्यापकमेतल्लक्षणम् । मैवम् । विप्रतिपत्तिप्रत्याख्यानार्थत्वादस्य लक्षण- प्रणयनस्य । मीमांसकाः खल्वेवं विप्रतिपद्यन्ते । एकस्य वर्णस्य पदमिति व्यपदेशेऽपि न तन्निबन्धनं किश्चिदधिकं कैश्चिदपि रूपमभ्युप- गम्यत इत्यस्तु कामं तत्र पदव्यपदेशो वर्णद्वयादेस्तु योऽयं तदतिरिच्य- मानमूर्तिसंहतिं समाश्रित्य तद्यपदेशः प्रवर्त्यते नासौ सम्यक् । व्यापकानां वर्णानामव्यापकत्वेन नियतायास्तस्या असम्भवादिति । ततश्च तन्निरासाय वर्णद्वयादावेव पदत्वप्रतिपादनायेदं सूत्रं सूत्रितम् । एकस्य तु वर्णस्यार्थ प्रतिपादयतः पदत्वं पदान्तरवर्तिवर्णनिर्वर्तितोप- कारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन लक्षयितव्यम् । यद्वा प्रायिकत्वेन १० वर्णद्वयादेव पदत्वं लक्षित यावतैकस्यापि वर्णस्य तद्रष्टव्यम् । यदाहा- कलङ्कसिद्धिर्विनिश्चये-" वर्णसमुदायः पदमिति प्रायिकमेत- प्रत्येकमकारादेः क्वाचिकत्वदर्शनात् " इति । पदानां पुनर्वाक्यार्थ- प्रत्यायने विधेयेऽन्योन्यनिर्मितोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षा- रहिता संहतिर्वाक्यमभिधीयते । उच्यते स्वसमुचितोऽर्थोऽनेनेति वाक्यमिति व्युत्पत्तेः । यथा- २०० आकण्ठं यदि पातुमिच्छसि सखे कर्णाञ्जलिभ्यां सुधां कर्तुं गोपदसोदरं यदि भवाम्भोधिं ध्रुवं वाञ्च्छसि ।। क्षिप्रं मोक्षवधूकटाक्षलहरीलक्ष्यत्वमाकांक्षसि स्वस्य त्वं यदि सादरं शृणु तदा श्रीसर्वविद्भारतीम् ॥५४४॥ इत्यादि । एवं वाक्यसंहतिः प्रकरणम् । प्रकरणसंहतियथासमयं परिच्छेदो वा पादो वाऽऽहिकं वाऽध्यायो वा, तत्संहतिः शास्त्रमिति स्वयमेव प्राज्ञैर्विज्ञेयम् । ननु यदि वाक्यान्तरस्थपदापेक्षारहिता पदानां संहतिर्वाक्यतया स्वीक्रियते तर्हि कथमिदं साधनवाक्यमुपपद्यते २५ यत्सत्तत्सर्वं.परिणामि यथा घटः संश्च शब्द इति तस्मात्परिणामीत्या- .

६४२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० कांक्षणादिति चेत् । तदवद्यम् । यस्य हि प्रतिपत्तुस्तस्मात्परिणामी- त्याकांक्षाक्षयस्तदपेक्षया तद्वाक्यं भवत्येव । प्रोक्तवाक्यलक्षणसम्भवात् । नापरापेक्षया । निराकांक्षत्वं हि प्रतिपत्तुर्धर्मः, वाक्ये तूपचरित एव । तस्याचेतनत्वात् । स चेत्प्रतिपत्तावपि निगमनवचनापेक्षायां निगम- ५ नान्तपश्चावयववाक्यादप्यर्थप्रतिपत्तौ परापेक्षाप्रसङ्गान्न कचिन्निराकांक्षत्व- सिद्धिर्भवेत् । तथा च वाक्याभावान्न कचिद्वाक्यार्थप्रतिपत्तिः कस्य- चित्स्यात् । ततस्तामिच्छता यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षेषु पदेषु समुदितेषु निराकांक्षत्वं स्यात्तावत्सु वाक्यत्वसिद्धिः प्रतिपत्तव्या । एतेन प्रकरणादिगम्येनापि पदान्तरेण श्रूयमाणपदसमुदायस्य निराकां- १० क्षत्वसिद्धेर्वाक्यत्वं प्रतिपादितं प्रतिपत्तव्यम् । अत्र विप्रातेपद्यन्ते परे । तथा हि केचिदाहु:-" आख्यातशब्दो भाख्यातशब्दा वाक्यमि-वाक्यम् ' इति, आल्यातशब्देन हि व्यावहा- ति मतस्योपपाद्य रिकस्य प्रवृत्तिनिवृत्तिलक्षणस्यालौकिकस्य कार- खण्डनम्। कसंभिन्नस्य वाक्यार्थस्याभिधाने सति नामपदानि २५ नियमायानुवादाय वा प्रयुज्यमानाख्यातपदवाच्यस्यैवार्थस्य संस्कार- कारीणि विज्ञायन्त इति । तत्र नियमायानुवादाय वेति वाशब्दः समुच्चये । तेन नियमायानुवादाय चेत्यर्थः । तथा हि नामपदेष्वन्वय- व्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थापोद्धारे प्रातिपदिकं शक्तीनां कारकाप- राभिधानानामाख्यातशब्दैरभिहितानामाश्रयसामान्यावग्रहद्वारेण प्रवृत्ता- २० नामाश्रयविशेषस्य नियामकम् । विभक्तयस्तूपात्तामेव शक्तिं प्रतिपाद- यन्तीत्यनुवादिकाः । एवं च नामपदानि प्रकृत्यंशद्वारेण नियमफलानि प्रत्ययांशद्वारेण त्वनुवादफलानीति । अथवा विकल्पे वाशब्दस्तेन नियमायानुवादाय वेत्यर्थः । तथा हि व्यवहारयोग्याः शक्तय आख्यातै- रुपादीयन्ते न त्वासामाधारविशेषोऽतस्तन्नियमाय नामपदानि । यथा, आश्रयतीति कर्मशक्तिसामान्यावग्रहे सत्याश्रयविशेषोपप्लवे नियमाय माणवकमिति पदमुपादीयते । यद्वा विशिष्टाधारनिविष्टा एव शक्तय परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६४३ आख्यातैरेवोपात्ताः । यथा पश्यतीति श्रोत्रादिभ्यो व्यवच्छिन्नं चक्षु- रेख करणम् । यथा च वर्षतीति देवदत्तादिव्यवच्छिन्नोऽम्भोधर एवं कर्तृविशेषः प्रतीयते । तथा सर्वैव क्रिया विशिष्टसाधनैव प्रक्रान्ता रूपसामान्याहृतबुद्धिस्तु प्रतिपत्ता तथा तां न प्रतिपद्यत इत्यनुवादाय नामपदानीति । संस्कारकारीणीति क्रियाकारकसमुदायस्याख्यातार्थस्य ५ नियमोऽनुवादश्च संस्कारो यत आख्यातपदात्केवलान्नियमानुवादौ न प्रतीताविति । अत्र प्रतिविधीयते । यथा, आख्यातानि क्रियाप्रतिपाद- नादुपातशक्तिसामान्यान्युपात्तशक्तिविशेषाणि वा तथा नामपदान्यपि क्रियासामान्य क्रियाविशेषं वोपाददत इति तेषामपि कुतो न वाक्य- त्वम् । अथ साध्यत्वास्क्रियायास्तादर्थ्याच्च साधनानां क्रिया प्रधा- १० नम् । तथा च प्रधानवशवर्तित्वात्प्रधानाव्यभिचाराच्च गुणानां साधनसामान्यं तदाधारविशेषं चाङ्गीकरोतीति तदेव वाक्यम् । नामपदानां त्वभिधायकत्वेऽपि प्रधानतन्त्रत्वादाख्यातोक्तार्थातिरि- तार्थानभिधानाच्च न वाक्यत्वमिति चेत् । एतदपि विचारपरा- मुखम् । न खलु क्रियेत्येव कृत्वा प्रधानत्वम् । अन्यार्थत्वेनापि १५ क्रियायाः कस्याश्चियवस्थानात् । यथा ऋत्विक्प्रचरणे प्रमाणान्तरा- सिद्धे " लोहितोष्णीषा ऋत्विजः प्रचरन्ति " इत्यत्र लोहितोष्णी- षत्वस्यैव प्राधान्यं विधेयत्वात् । प्रचरणक्रियायास्तु गौणत्व- मनुवाद्यत्वादिति । एवं चाख्यातपदं स्ववाच्यार्थसंस्कारकतयाऽवश्य नामपदान्यपेक्षते । नामपदानि चाख्यातपदवाच्यमर्थ संस्कार्यतयाऽ. पेक्षमाणानि तत्प्रतिपादकमाख्यातपदमपेक्षन्ते तथा नामपदानि स्व- बाच्यार्थसंस्कारतयाख्यातपदमपेक्षन्ते । आख्यातपदं च तवृ- त्याऽर्थसंस्काराय तान्यपेक्षत इत्यन्योन्यापेक्षाणां पदानां समुदाय एव वाक्यत्वमासादयतीति सिद्धम् ॥

६४४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० । अपरे तु पदानां सङ्घातो वाक्यमिति प्रतिपन्नाः। तेऽपि पर्यनु- पदाना संघातो वाक्यं, योज्याः। किं निरपेक्षाणां पदानां सङ्घातो जातिस्फोटं नित्यमनवय- वाक्यं स्यात्सापेक्षाणां वा । प्रथमपक्षे दश व वाक्यमित्यादिवाक्यल- क्षकमतानां खण्डनमू। दाडिमानि षडपूपाः कुण्डमजाजिनमित्यादिपद- ५ सङ्घातस्यापि वाक्यत्वप्रसङ्गः । द्वितीयपक्षे त्वस्मन्मतप्रवेशः । इतरे तु देवदत्त गामभ्याजेति वर्णैर्ध्वनिविशेषैः क्रमभाविभिरनित्यैरयुगपद- वस्थानैरभिव्यज्यमानमनेकमनेकाधारं देवदत्तादिवर्णव्यतिरिक्तं जाति- स्फोटं नित्यमनवयवं वाक्यं प्रतिपेदिरे । यथोत्क्षेपणादिकर्मक्षणे- रुत्क्षेपणत्वाद्यभिव्यज्यते तथैव तस्मिन्दर्शने वर्णैर्वाक्यमपीति । इदमपि न १० पेशलम् । नित्यनिरवयवसामान्यस्य पुरा पराकरिष्यमाणत्वात् । अन्ये तु ॐकारोऽनवयवः शब्दः परिकल्पितवर्णपदविभागो वाक्यमित्याहुः। एत- दपि नन्याय्यम् । स्फोटनिर करणप्रकरणे निराकरिष्यमाणत्वात् । पदानां क्रमो वाक्यमिति कतिपये परिकीर्तयन्ति । तेषां हि मते वर्णानां क्रमः पदं पदानां क्रमो वाक्यमिति । इदमप्यपर्यालोचितवचनम् । शब्दो- १५ च्छेदप्रसङ्गात् । तन्मते हि वर्णाः सर्वदेशकालव्यापिन एकका नित्याः। क्रमश्च नाम कालाव्यापित्वे च पिपीलिकापंक्त्यादीनां स्यात् । उभयमप्येतद्वर्णानां न सम्भवति । सर्वदेशव्यापित्वाभ्युपगमान्नित्यत्वोप- गमाच्च । उपलब्धिस्तु नियतकाला कमवती। न च सा वर्णा । अपि तु वर्णविषया । तस्याश्च क्रमः कालस्य धर्म इष्यते । क्रमयोगपद्य- २० लिङ्गानुमेयं हि कालमिच्छन्ति । ततश्च वर्णोपलब्धिक्रमश्च वाक्य- मित्युपगमः स्यात् । स च न समीचीनः । पदोपलब्धिक्रमस्य काल- धर्मत्वेनाशब्दत्वात् । ततश्च वाक्यार्थोऽशब्दः स्यात् । यदा च वाक्यार्थः शब्दस्याभिधेयो न भवति, अपि तूपलब्धिक्रमस्य कालधर्मस्य सदा पदार्थोऽपि न शब्दार्थः स्यात् । पदस्याप्युपलब्धिकमरूपत्वात् । २५ तस्य च कालधर्मत्वात् । एवं च शब्दस्य योग्यतालक्षणसम्बन्धो योऽय- .

परि. ४ स. १०] स्याद्वादरत्नाकरसहितः तदाह- - मभ्युपगतो मीमांसकैः स एवार्थेन सहास्य हीयते । शब्दस्य कस्य- चित्कालधर्मव्यतिरेकेणानभ्युपगमात् । एवं च मूलनाशः । शब्द एवैषां सर्वज्ञो मातापितृस्थानीय उपकारको भूतभविष्यद्रसूक्ष्माभि- धायी । स एवाभिरूप्यमाणो न दृश्यते। कुतस्तस्यार्थेन सह सम्बन्धः । " शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः ।। क्रमो हि धर्मः कालस्य तेन शब्दो न विद्यते ॥१॥ वर्णानां च पदानां च क्रममात्रनिवेशिनी ॥ पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥ २॥ अशब्दो यदि वाक्यार्थः पदार्थोऽ- पि तथा भवेत् ॥ एवं सति च सम्बन्धः शब्दस्यार्थेन हीयते ॥३॥” इति । किंच प्रत्यभिज्ञानबलादेकत्वन प्रतीयमानाः १० पदेषु त एव वर्णा वाक्येषु चैतान्येव पदानीति न वर्णेभ्यः कथंचि- व्यतिरिक्तो वाक्यपदयोरात्माऽस्तीति यद्युपगमस्तदा वर्णानामपि पूर्व- परोपपरादिभागभेदेन वास्तवो भेदः स्यात् । ततश्च तेषां वर्णभागा- नामपकर्षपर्यन्तभाविनामभिव्यक्ततिरोभूतानां परस्परमुपश्लेषो नास्तीति न वर्णानामपि पदमित्यस्तमयः शब्दव्यवहारः स्यात् । अव्यपदेश- त्वाद्धि तेषु प्रतिभागं व्यवहाराभावात् । किं तदेकमस्ति यदिदं तदिदं तदित्युपाख्यायेत् । तस्मादुच्यते मूलनाशोऽत्र भवतामिति । तदाह- " पैदानि वाक्ये तान्येव वर्णास्ते च पदे यदि ॥ वर्णेषु वर्णभा- गानां भेदः स्यात्परमाणुवत् ॥१॥ भागानामनुपश्लेषान्न वर्णानां पदं भवेत् ।। तेषामव्यपदेशत्वात्किमन्यद्यपदिश्यताम् ॥ २॥ इति । अथ वर्णाः स्वभावेन निरवयवा इति चेत् । एवं तर्हि वैयाकरणप्रतिपादितौ निर्भागौ पदवाक्यस्फो- टावभ्युपगन्तुं प्रसज्यते । तथा देवदत्तादिपदेषु स्फुटो भेदोऽवसीयत इत्यवसायबलादनवयवं पदस्फोटं वाक्यस्फोटं च भवन्तो नेच्छन्ति । "गकारौकारविसर्जनीया इति भगवानुपवर्षः" इति वचनादेकत्राव- १ वा.प. कां. २ श्लो. ५०१५२।१६ । २ वा. प. का. २ श्लो. २८१२९. २० २५ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स... संस्कारस्तत स्थितपरमाणुसंचयन्यायेन वर्णसमुदायमात्रमुपयान्ति । स इदानी भेदावसायोऽकारेऽपि पूर्वपरमध्यभागरूपेणास्तीति कथं निरवयवो वर्णः । उदात्तानुदात्तादयो गुणा अपि सावयवत्वे सत्येवास्य सम्भ- वन्ति । एवं भागवति गुणे च प्रतीयमानेऽकारादौ कथं प्रतीतिप्रमाण- ५ वादिभिरेवानवयवस्य वर्णस्याभ्युपगम इति । बुद्धेरनुपसंहारमन्तस्तत्त्वं वाक्यमन्ये मन्यन्ते । तथा हि सहृतसकलक्रमस्यैकस्यादेशप्रदेशत्वेऽ- प्यन्तरात्माऽन्तर्यामीत्येवमाख्यायमानस्य प्रतिप्राणिवृत्तेः शब्दतत्त्वस्या- क्षरचिहादिभिरिवातथाभूतैः क्रमवद्भिर्भागैर्योऽयं क्रमवद्भिर्भागैर्योऽयं बुद्धेरनुपसंहारः क्रमशः पूर्ववर्णभागग्राहिणीभिर्बुद्धिभिर्जनितो यः १० उत्पन्नस्य स्मरणस्य बलादन्त्यवर्णभागग्रहणतुल्यकालः स वाक्य- मिति । एतदपि न परीक्षाक्षमम् । शब्दब्रह्मणोऽन्तस्तत्त्वापरनामधेयस्य प्रागेव सविस्तरमपास्तत्वात् । आद्यं पदं वाक्यमिति परे समीरयन्ति । यदेव हि पदं प्रथमतः प्रयुज्यते तदेव वाक्यं तेनैवेतराक्षेपात् । यतः प्रथमतः प्रयुज्यमानं पदं क्रियावाचि साधनवाचि वा भवेत् । क्रिया- १५ साधनयोश्च परस्पराविनाभूतत्वातयोर्यदेव पदमादौ प्रयुज्यते तदेव स्वार्थस्य धर्मभूतमर्थान्तरमपि तत्र सन्निधापयति धूम इवानिमित्येवं प्रथममुपादीयमाने पदे सर्वरूपार्थोपग्राहिण्याख्यातशब्द इव निय- मानुवादफलानि पदान्तराण्यभ्यनुज्ञायन्त इति । आख्यातशब्दपक्ष इव एषोऽपि पक्षः प्रतिक्षेप्यः । पृथक्सर्वपदं सापेक्षं वाक्यमिति कतिचिदुप- २० वर्णयन्ति । पृथगिति सङ्घातादवच्छिनत्ति । सर्वमित्याद्यपदादाख्यात- शब्दाचावच्छिनत्ति । तेन सर्वाण्येव पदान्यन्योन्यसापेक्षाणि प्रत्येक वाक्यमित्यर्थः । यतः प्रतिपदं क्रियाकारकलक्षणः कृत्स्नोऽर्थः परिस- माप्यते । इदमपि परिफल्गु । देवदत्त गामभ्याजेति श्रुतेर्वाक्यबहुत्व- प्रत्ययप्रसङ्गात् । अस्मिश्च पक्षे पदानां परस्परसापेक्षत्वमपि दुरुपपादम्। २५ सर्वेषामपि कृत्स्वार्थाभिधायित्वादिति । एवं च आख्यातशब्दः १ वा. प. कां. २ श्लो. १।२।

. परि. ४ सू...] स्याद्वादरत्नाकरसहितः ६४७ सङ्घातो जातिः सङ्घातवर्तिनी ॥ एकोऽनवयवः शब्दः क्रमोबुद्धय- नुसंहतिः ॥१॥ पदमायं पृथक्सर्व पदं सापेक्षमित्यपि ॥ वाक्यं प्रतिमतिर्भिन्ना बहुधा न्यायदर्शिनाम् " ॥२॥ इति कारिका- द्वयसंगृहीता अष्टावपि वाक्यपक्षाः प्रतिक्षिप्ताः। ततः स्थितमेतत्- अन्योन्यापेक्षवर्णानां सङ्घातः पदमुच्यते ॥ निरपेक्षः पदानां तु स वाक्यमिह कथ्यते ॥ ५४५॥ अत्राहुः स्फोटवादिनः- अवयवयुतवर्णाद्याग्रहेणामुना किं स्फोटवादिमतस्य विस्तर- श उपादनपूर्वक स्फुरदनुभवबन्ध्येनात्र ते जैनविद्वन् ॥ खण्डनम् । सति मतिमवतीर्णे तात्त्विकानेकभाग- श्रयणविधुरमूतौ स्फोटसंज्ञे पदार्थे ॥५४६॥ तथा हि-त्रय एते वर्णपदवाक्यविशेषव्यपदेश्याः परस्परमत्यन्तव्या- वृत्तमूर्तयो निरवयवाः श्रवणविवरमाविशन्तः प्रतीयन्ते स्फोटाः । न तु वाक्ये पदानि । पदेषु वर्णाः । वर्णेष्ववयवाः सन्ति । तत्कथं पौगलिको वर्णो वर्णसंहतिः पदं पदसंहतिश्च वाक्यमितीष्यते । यः खल्वयं पूर्वा- परभागात्मकः समुदायो वर्ण इति । यश्च गकारोकारविसर्जनीयरूपवा- क्यावयवात्मकः पदमिति । यश्च देवदत्त गामभ्याजेत्यादिपदरूपावयवा- त्मको वाक्यमिति विख्यातः । सर्वेऽप्येते यथाक्रमं वर्णपदवाक्यव्यप- देश्या निरवयवाः प्रयत्नभेदभिन्नैर्नादैः प्रत्येकं सर्वात्मनाऽभिव्यङ्गया एकैकाः क्रमरहिता नित्या अभिव्यञ्जकधर्मानुविधायिनो निर्बाधमध्य- वसीयन्ते स्फोटाः । पूर्वादिभागक्रमवर्णपदरूपावयवावसायः पुनरभि- व्यञ्जकानां ध्वनीनां धर्मानुविधानात् । क्रमवतां हि ध्वनीनां ये निष्पादकास्ताल्वादयस्तेषां प्रतिध्वनि भिन्ना एव शक्तय इति विभिन्नशक्तिकताल्वादिकारणनिष्पादिता ध्वनयः परमार्थतः परस्पर- २५ ..

६४८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४. सू. १. मत्यन्तं विसदृशा अपि तुल्यस्थानकरणजन्मतया स्वयं सदृशभावं भजन्तः स्वव्यङ्गयानामन्योन्यविलक्षणानां वर्णपदवाक्यस्फोटानामपि तुल्यतामुपकल्पयन्तो भागबहिर्भूतानपि तान्भागसंक्रान्तानिवावभास- यन्ति । मुखमिव मणिकृपाणदर्पणादयो नियतस्थानवर्णपदपरिमाणसं- ५ स्थानमनुपप्लवमेकमनेकमिवानेकविधस्थानवर्णपरिमाणसंस्थानभेदोपप्लव- मिवादर्शयन्ति । तदाह भर्तृहरिः-" पदेन वर्णा विद्यन्ते वर्णेष्व- वयवा न च ॥ वाक्यात्पदानामत्यन्तं प्रविभागो न कश्चन ॥१॥ प्रत्येकं व्यञ्जका भिन्ना वर्णवाक्यपदेषु ये ॥ तेषामत्यन्त- भेदेऽपि संकीर्णा इव शक्तयः ॥२॥" तेषामिति ये व्यञ्जका १० ध्वनयोऽन्योन्यव्यावृत्तास्तेषामत्यन्तविजातीयत्वाद्भेदेऽपि मिश्रीभूता इव भान्ति शक्तय इति । यथा च दूरदेशे समन्धकारे वा विषय प्रतिपद्यते विरलं घनरूपत्वेनाकृष्णं कृष्णरूपतया। तथाऽमूस्फोटा- नपि निर्भागान्नादैरभिव्यज्यमानान्भागावग्रहरूपेणाध्यवस्यति । नैतावता तत्र भागाः सत्याः सन्ति । तदाह- " यथैव दर्शनैः १५ पूर्वे(रात्सन्तमसेऽपि वा ॥ अन्यथाकृत्यविषयमन्यथैव प्रपद्यते ॥१॥ व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः॥ भागावग्रहरू- पेण पूर्व बुद्धिः प्रवर्तते ॥ २ ॥ वाक्य इति वाक्यस्यैव व्यवहा- रोपयोगित्वेन प्राधान्यानिर्देशः । पूर्वमिति प्रथम वर्णपदभागावग्राहिणी बुद्धिः प्रवर्तत इति । अथ यथा विरलवृक्षादयः कदाचित्प्रथममे- २० वावास्तवा विरलत्वादिप्रतीत्युपद्रवविरहिता विरलत्वादिरूपतयैव प्रथापथमुपयान्ति तथा स्फोटः किमिति न कदाचिदप्यामुख एवा- वयवावसायः । पदे वर्णलक्षणस्य वाक्ये. च पदस्वरूपस्य योऽवसायः स स्वभावात्तस्यैवाखण्डस्य शब्दात्मनः प्रतिपत्तावुपायः । तत्प्रतीज्ञावेव तस्य प्रतीतेः । येन च विना यस्य ग्रहणमशक्यं तद्रहणे कथं तस्यैव १ ' संगतान् ' इति भ, पुस्तके पाठः। २ वा. प. कां. १ श्लो. ८९ । ३ वा.प. का.१ श्लो. ९०९।

परि. सू. १० ] स्याद्वादरत्नाकरसहितः ६४९ - त्यागः सङ्गतो भवेत् । यथा शतादिसंख्याग्रहणे एकादिसंख्या । शतादिसंख्या हि प्रकारान्तरेण ग्रहीतुमशक्यत्वाजिघृक्षायामेका- दिसंख्या तद्रहणोपायभूता प्रथमं गृह्यते ततः शतादिसंख्याया अत्यन्त- विलक्षणाया गृहीतिः । यदाह सङ्ग्रहकारः- "यथायसंख्याग्रहण- मुपायः प्रतिपत्तये ॥ संख्यान्तराणां भेदेऽपि तथा शब्दान्तर- ५ श्रुतिः ॥१॥” शब्दति वर्णपदरूपशब्दान्तरश्रुतिर्वाक्यप्रतिपत्ता- वुपाय इत्यर्थः ॥ " असतश्चान्तराले यच्छब्दानस्तीति मन्यते ॥ प्रतिपत्तुरशक्तिः सा तद्ग्रहोपाय एव सः ॥ १॥" अस्यार्थः- शब्दान्वर्णादिमागरूपानुच्चारणान्तराले यदक्रमस्य भागाभावादसत एवास्तीत्यस्तित्वेन सत्तया मन्यते सा प्रतिपत्तुरनंशवर्णावधारणाक्षमता । १० न च भ्रान्तिज्ञानमपि सत्यशब्देनोपयुज्यतेऽपि तु तत्साक्षात्कारोपाय एवैष इति । न च भागावभासिन्यो मिथ्याबुद्धयः कथं सत्यस्फोट- परिच्छित्तिहेतव इति वक्तव्यम् । आराद्वनस्पती हस्तिप्रत्ययप्रवाहस्य सत्यवनस्पतितत्त्वे प्रतीतिहेतुत्वदर्शनात् । तत्सिद्धमन्योन्यमत्यन्त- विलक्षणा एते नानाप्रकाराः पृथक्पृथग्विषयास्त्रयोऽप्यविद्योपदर्शि- १५ तालीकावयवा वर्णपदवाक्यव्यपदेश्याः स्फोटा निरवयवा इति । यत- श्वेयमवयवपरिकल्पना न वास्तवी तस्मादधिकार्योऽयं स्फोटाख्यः शब्दात्मा नित्योऽनवयवो व्योमवदनुत्पाद्य एकरूपोऽवस्थितः । केवल- मात्मनिमित्तैः स्थानाभिघातादिभिः प्राप्तविकारो ध्वनिरस्याभिव्यक्तौ निमित्तभावमुपयाति । यथावस्थितस्य घटादेरभिव्यक्तिः प्रदीपादिभिः २० क्रियते तथाऽस्य ध्वनिभिरिति रहस्यम् । तदाह- " अधिकार्यस्य शब्दस्य निमित्तैर्विकृतैर्ध्वनिः ॥ उपलब्धौ निमित्तत्वमुपयाति प्रकाशवत् ॥ १॥” इति । अथ भवत्वयं निरवयवस्तथापि कथ. मिदमिष्यते प्रत्येकं सर्वात्मना नादैः स्फोटोऽभिव्यज्यत इति । प्रत्येक- - १.वा. प. कां. १ श्लो. ८८. २ वा. प. कां.१ श्लो. ८६. ३ वा.प. कां. १ श्लो. ९५।

६५० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४.सू. १० मंभिव्यञ्जकत्वे हि ध्वनीनां प्रथमादेव ध्वनर्वर्णादिप्रतीतिरुपपत्तेस्तन्मा- त्रानुबन्धित्वाच्चार्थप्रत्ययोत्पादस्य द्वितीयादिध्वनीनामानर्थक्यं भवे. दिति । एतदपि न तर्ककर्कशक्षमम् । नादैरभिव्य- ज्यमाने हि स्फोटे ये ज्ञानविशेषा स्फोटग्रहणानुकूला इदं तदित्यव्य- ५ पदेश्यास्ते स्फोटरूपावसाये हेतुत्वमुपयान्ति । सर्वैरेतैराहितसंस्कार- विशेषायां बुद्धौ ध्वनिनाऽन्त्येन सह स्फोटस्य व्यक्तरूपस्य प्रतीतेः । अतो नादैर्विशिष्टप्रत्ययजननादाहितभावनाबीजायां विशिष्टसम्प्रत्यय- जनने लब्धपरिपाकायां बुद्धौ शब्दोऽवभासमुपयाति न पूर्वमिति वस्तु- स्वभाव एवायम् । तदाह -"प्रत्ययैरनुपाख्ये ग्रहणानुगुणैस्तथा ।। १० ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ १ ॥ नादैराहितबीजाया- मन्त्येन ध्वनिना सह ॥ आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥२॥” इति । यथा हनुवाकः श्लोको वा पुनः पुनरावृत्त्या सुखेनाऽवधारयितुं शक्यते । न च प्रत्यावृत्तिस्तत्रेदृशी बुद्धिरुपजायते यथेदं गृहीतमिदं नेति । अथ चानेकावृत्तौ श्लोकाद्यवभासः स्पष्टः १५ संवेद्यते तथैवायमपि शब्दात्मा पुनः पुनरभिव्यक्तस्फोटरूपोऽवधा- यते । न च प्रत्याभिव्यक्तिस्तत्रेदशी बुद्धिरुपजायत इदं गृहीतमिदं नेति । अथवाऽनेकाभिव्यक्तौ स्फोटावभासः स्पष्टः संवेद्यते । तदुक्तम्- यथानुवाकः श्लोको वा सोढत्वमुपगच्छति ॥ आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्तिनिरूप्यते ॥१॥" अनुवाक इति वैदिकं २० वाक्यम् । सोढत्वमिति सोढुं शक्यत्वं बुद्धयाक्रमणीयतां स्वीकार्यत्वम् । येन स्वेच्छयेवासौ पठनीयो भवति । आवृत्त्येति जातावेकवचनम् । आवृत्तिरेकैकाऽप्युपयुज्यते, उत्तरोत्तरविशेषाधानाय । अन्यथैकावृत्त्यैव सोढता स्यादिति । अथार्थ एव प्रत्येकध्वनिव्यञ्जनीयोऽस्तु किमन्तर्गडु- कल्पस्फोटपरिकल्पनयेति चेत् । न । प्रथमादेव ध्वनेरभिधेयधीसमुत्पादे २५ हि दुर्निवारमानर्थक्यं द्वितीयादीनां ध्वनीनाम् । न चैतत्स्फोटेऽपि १ वा. प. कां. १ श्लो। ८४१८५. २ वा.प. का. श्लो. ८३ ।

परि. ४ सू.१०] स्याद्वादरत्नाकरसहितः ६५१ समानम् । प्रत्यक्षस्य हि तस्य प्रतिध्वनिव्यञ्जनीयस्याभिव्यक्तितारतम्यं नानाध्वनिभिर्जायत इति नानर्थक्यमुत्तरेषाम् । न चेयमप्रत्यक्षेऽभिधेय- विधौ सम्भविनी । प्रत्यक्षगोचरो ह्यर्थोऽभिव्यक्तितारतम्यभाग्भवति । न मानान्तरगोचरः । स खलु गृह्यते न वा पुनरभिव्यक्तोऽनभिव्यक्तश्च । एवं च लब्धास्पदमिदं यदुच्यते प्रत्येकं सर्वात्मना नादाभिव्यङ्ग्यः ५ स्फोट इति । अस्य च स्फोटस्य संव्यवहारक्रमेऽभिव्यञ्जकक्रमोऽ. नुवर्तनादिव यः क्रमरूपावसाय उपप्लवोऽयमनादिभ्रान्तिरूपः । अय- मेव व्यवहारस्य निमित्तम् । अत एवायमतिदायं गतोऽशक्यापनयनः । यथा ज्ञानस्याभिन्नस्यावबोधमात्रात्मकस्य नीरूपस्यानवयवत्वेऽपि सर्व- ज्ञेयरूपोपग्राहित्वाद्भेदरूपेणावभासः पञ्च वृक्षा विंशतिर्गाव इति । यथा १० चेतनं ज्ञेयरूपावग्रहणेनात्मभूतेन विना व्यवहारेऽवतारयितुं न शक्यते तथा स्फोटेनापि नालब्धक्रमेण कश्चिदर्थोऽभिधातुं शक्यः, ततः क्रमावसायः प्रतिपत्तॄणाम् । न त्वत्र निर्भागे वस्तुतः क्रमो नाम कश्चिदस्तीति । निर्विवादमेतत्क्रमरहितः स्फोट इति । नियताश्च पदार्थानां शक्तयः । तेन तेऽन्यथाकरणेऽत्य- १५ न्तमसमर्थाः । यथा हि क्षीरस्य विकारे दध्यादौ बीजस्य पवनालादौ न शक्यते राज्ञापि प्रथमा उत्तरा कारयितुमुत्तरा वा प्रथमा । अपि तु तयोर्विकारे नियतैवानुपूर्वी प्रथममिदमिदमुत्तरं तत इति । तथैव प्रतिपत्तॄणामपि बुद्धिषु सदैव नियतक्रमः । ततो बुद्धिक्रममन्तरेण स्फोटप्रतिपत्तौ प्रतिपत्तॄणामशक्त्या न तस्य शब्दात्मनोरशब्द- तयाऽपि बुद्धिवस्तुनः क्रमिणा भाव्यमित्येवमपराधदण्डव्यवस्था युक्तेति । तदाह यथानुपूर्वीनियमो विकारे क्षीरबीजयोः । तथैव प्रति- पत्तॄणां नियतो बुद्धिषु क्रमः॥१॥ " इति नित्यश्वासावभ्युप- गन्तव्यः । अनित्यत्वे हि सङ्केतकालानुभूतस्य तदैव ध्वस्तत्वा- कालान्तरे देशान्तरे वा गोशब्दस्य श्रवणात्ककुदादिमदर्थप्रतीतिर्न .. २० - १ वा. प का. १ श्लो. ९२ ।

६५२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० स्यात् । असङ्केतितत्वात् । असङ्केतिताच्च शब्दादर्थप्रतीतो सर्वस्य सकलशब्दार्थज्ञताप्रसक्तिः । सङ्केतकरणानर्थक्यं च भवेत् । ननु नि- यमस्तावदभिव्यञ्जकानामभिव्यङ्गयेषु न दृश्यते । घटादयो हि सवरे- वाभिव्यक्तिहेतुभिः प्रकाशमात्रस्वभावैर्मणिप्रदीपौषध्यादिभिर्व्यज्यन्ते । ५ अयं तु स्फोटात्मा नियमादभिव्यङ्गयः । न हि गोशब्दस्य योऽभिव्यञ्ज- कः स एवाश्वशब्दस्यापि ध्वनिरिप्यते । किं तीत्यन्तविलक्षणो गोश- ब्दाभिव्यक्तिसामर्थ्येनासाधारणः । तस्मादत एव नियमाद्यवाङ्कुरादि- वदस्य कार्यत्वमेव युक्तम् । तस्मिंश्च सत्यनित्यत्वमेव सङ्गच्छत इति मैवं बोधः। यथा हि चक्षुरिन्द्रियमेव विषयरूपस्याभिव्यक्तौ निमित्त १० नेन्द्रियान्तरमिति व्यञ्जकनियमेऽपि विषयरूपस्य न कार्यत्वं तथा स्फोटस्यापीति । तदुक्तम्--" ग्रहणग्राह्ययोः सिद्धा नियता योग्यता यथा ॥ व्यङ्गयव्यञ्जकभावोऽपि तथैव स्फोटनादयोः॥१॥ अथैवमुच्यते विषयरूपेन्द्रिययोस्तावन्नास्ति नियमः । रूपमात्रस्यानेक- जातिगुणभेदभिन्नस्य चक्षुषाऽभिव्यक्तेः । न तु स्फोटमात्रस्याभिव्य- १५ क्तिरेकेन नादेनेति । अत्रापि प्रतिविधीयते । तुल्येन्द्रियग्राह्येष्वपि विषयेष्वेष नियमो दृश्यते । यथा गन्धयुक्त्यादिषु । गन्धशैलेयादि- द्रव्यं किञ्चिदेव कस्यचिदेव द्रव्यगन्धादेराभिव्याक्तिनिमित्तं भवति न द्रव्यमानमेवमिहापि नियत एव नादः कस्यचिदेव स्फोटस्याभिव्यक्ति- हेतुरिति न दोषः । तदाह सदृशग्रहणानां प्रकाशकं निमित्तं नियतं २० लोके प्रतिद्रव्यमवस्थितमिति । स्यादेतन्न गन्धादयोऽभिव्यज्यन्तेऽपि तु विशिष्टद्रव्यसंयोगाज्जायन्त इति । विषयमपि रूपं तीन्द्रियालोकाभ्यां क्रियत इति नष्टो व्यक्तिवादः । न हिं नीलादिरूपे प्रमाणम- परमस्ति येन ज्ञायेत प्रागेतस्थितमिति । स्पर्शेन तस्य ग्रहीतुमशक्य- त्वात् । विचित्रास्तु भावशक्तय इति किञ्चिच्च नियतव्यञ्जकव्यङ्गयं २५ किञ्चिचानियतव्यञ्जकव्यङ्गयमिति को दोषः प्रतिनियतव्यञ्जकव्यङ्गधत्व १ वा. प. कां. १ श्लो. ९८ ।

परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६५३ इति । अथैतत्स्यात् । अभिव्यञ्जकधर्मानुविधानमभिव्यङ्गयानां न दृष्टम् । न ह्यल्पे प्रदीपे घटादेरल्पत्वं महति महत्त्वमनेकस्मिन्वाऽने- कत्वमवलोक्यते । स्फोटस्य पुनरल्पनादेऽल्पत्वं महति महत्त्वमनेकस्मि- श्वानेकत्वमतोऽयं कार्य एव न व्यङ्गय इति चेत् । मैवम् । यतोऽभि- व्यङ्गयानामप्यभिव्यञ्जकधर्मानुविधानं केषाञ्चिदुपलभ्यते । खङ्गे हि मुखं प्रतिबिम्बितं दीर्घमुपलभ्यते ह्रस्वमक्षितारकादौ । संख्याभेदोऽप्यादर्शमेदे जलतरङ्गानेकत्वे च तथा तथानुवर्तमान उपलभ्यत एवेत्ययमपि न दोषः । अथ मुखादिभ्यो भावान्तरमादर्शादिषु सन्निवेशमुपलभ्यते न तु त मुखादयस्तत्र बिम्बिता उपलभ्यन्त इति चेत् । अचतुरसमेतत् । अ- त्यल्पप्रमाणेषु हि मण्यादिषु स्वच्छद्रव्यादिषु तदाधाररूपतयाऽवस्थितेषु १० महाप्रमाणानामवनिधरतुल्यरूपाणां तदन्तः सन्निवेशित्वेन भावानामुत्प- तिः । तथाऽभ्युपगमे हि प्रतिबिम्बनिमित्तद्रव्यापनयनेऽपि प्रतिबिम्बरू- पस्य भावान्तरस्य तत्रोत्पन्नम्यादर्शादौ तवोपलब्धिः स्यात् । शास्त्रा- द्यभिघातजनितकलङ्कवत् । अथ तावत्कालिक एवाऽसौ भावस्तत्रोत्पन्नो यावदवस्थानं प्रतिबिम्बनिमित्तस्य द्रव्यस्य तावदुपलभ्यते नोत्तरत्र सुवर्णादिद्रवभाव इवाग्निसंयोगादिति मतिः । विषमोऽयमुपन्यासः । सुवर्णादिद्रव्यभावो हि वहिसंयोगविश्लेषानन्तरं स्तोककालमुपलभ्यते प्रतिबिम्ब पुनस्तन्निमित्तद्रव्यापनयनानन्तरं मुहूर्तमपि तदाधारेषु नोप- लभ्यते । किञ्च, आदर्शादिमण्डलं प्रतिबिम्बोदयकाले नष्टप्रतिबिम्बमेव तत्रोत्पन्नं, प्रतिबिम्बरूपेण वा तदेव परिणतं, पुनश्च तस्मिन्नेव क्षणे प्रतिबिम्बनिमित्तद्रव्यापनयने प्रतिबिम्बभावान्तरमपि सन्नष्टमादर्शमण्डलं च पूर्वरूपसदृशमुत्पन्नं, प्रतिबिम्बमेव वा पुनरादर्शमण्डलरूपेण परि- गतमित्येवमुपगमे प्रतिपक्षं वस्तुविनाशप्रसङ्गः । स च हेतुतोऽभाव. विनाशवादिनामनभिमतः । तस्मात्स्थितमेतन्न पर्वतादिसरूपा भावास्त- त्रोत्पन्नाः किं तर्हि तदेव रूपमभिव्यञ्जकबलात्तथा प्रतीयत इति । यदाह-“विरुद्धपरिणामेषु वज्रादर्शतलादिषु ।। पर्वतादिसरूपाणां २५ १ वा. प. का. १ श्लो. १०१। २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. १. भावानां नास्ति सम्भवः ॥१॥ " इति । एवं च स्थितमेतत् , अभिव्यञ्जकधर्मानुविधायी शब्द इति । यतश्च शब्दात्मनः स्वतो न भेदोऽपि त्वभिव्यञ्जकवशातस्मादभिन्नकालेऽपि कालभेदादेव वर्णपदवा- क्याख्यास्त्रयोऽपि स्फोटा नित्यत्वादत्यन्ताविद्यमानकालभेदाः । यस्त्वेषां ५ ह्रस्वदीर्घप्लुतव्यपदेशयोग्यो मात्रिकादिस्वकालावगमो यश्च द्रुतादिवृत्ति- त्रये त्रिभागाधिकत्वेन भेदः स सर्वो नादानामभिव्यञ्जकानां तथा तथा भेदात् । यदाह-" तस्मादभिन्नकालेषु वर्गवाक्यपदादिषु ॥ वृत्ति- कालः स्वकालश्च नादभेदाद्विभज्यते ॥१॥” इति । तथाकृता हि ध्वनयः शब्देऽध्यस्यमानाः शब्दात्मना स्वकालताव्यवहारहेतवो १० भवन्ति । द्विधा हि ध्वनयः प्राकृता वैकृताश्च । तत्र प्राकृता नाम यैर्विना सामान्यविशेषरूपेण स्फोटात्मा प्रतीतिविषयं न याति । प्रतीतस्तूत्तरकालं यैः स एवायमित्युल्लेखेन चिरकालमुपलभ्यते ते वैकृता इत्युच्यन्ते । यदाह सङ्ग्रहकारः-" शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ॥ स्थितिभेदे निमित्तं चेद्वैकृतः १५ प्रतिपद्यते ॥१॥” इति । यः प्रथमं जातो ध्वनिस्तस्य मात्राका- लत्वात्तदुपचारेण तदभिव्यक्तः स्वतो निरवयवत्वादत्यन्तं पूर्वापरभाग- रहितः स्फोटात्मापि मात्राकाल इति व्यपदिश्यते । तन्निमित्ता च हस्व- संज्ञा शास्त्रे व्यवहाराय क्रियते । तदाह-"एकमात्रो भवेत् हस्वः" इति । यः प्रथमं जातो ध्वनिर्यश्च तज्जस्ताभ्यामभिव्यक्तः स्फोटोऽपि २० तयोर्द्विमात्राकालत्वादुपचारेण मात्राद्वयकाल इत्यपदिश्यते । तन्निमित्ता च दीर्घसंज्ञा क्रियते । यदाह--" द्विमात्रो दीर्घ उच्यते” इति । प्रथमध्वनिजातध्वनेर्जातो यस्तृतीयो ध्वनिस्तेन पूर्वाभ्यां चाभिव्यक्त- स्तेषां त्रिमात्राकालप्रमाणत्वादत्यन्ताप्रमाणोऽपि शब्दस्त्रिमात्र इत्युच्यते । तन्निमित्तां च प्लुतसंज्ञां लभते । तदुक्तम्--" त्रिमावस्तु प्लुतो २५ ज्ञेयः” इति । ततस्तु प्रभृति ये जायन्ते ध्वनयस्ते वैकृतास्तत्कालः B १ वा. प. कां. १ श्लो. १०२. २ वा. प. का. १ श्लो. ७७ ।

परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६५५ स्फोटात्मनि नाध्यस्यते ध्वनिकाल एवासी गण्यते । न शब्दकालः । ध्वनयो हि विशिष्टाभिघातादुपजायमानाः केचिदनारब्धकार्या विली- यन्ते । कतिचिदेकं ध्वान जनयित्वा नश्यन्ति । केचिट्ठी, केचिद्व- हून् । ततोऽन्यः शब्दकालोऽन्यश्च ध्वनिकाल , उच्यते । द्रुतायां वृत्तौ ये वर्णास्ते त्रिभागाधिका मध्यमायां ये च मध्यमायां ते त्रिभा- ५ गाधिका विलम्बितायामिति यो भेदः स ध्वनिभेद एवाभ्युपगम्यते । न शब्दभेदः । शब्दे तस्यानध्यासात् । तदुक्तम् -"सिद्ध ववस्थिता वर्णा वक्तुश्चिराचिरवचनात् वृत्तयो विशेष्यन्ते" इति । तेनातोऽभि- शब्दे सेत्यादौ " तपरस्तकालस्य" इति वचनातपरेण निर्देशेन मात्राकाले प्रत्याय्यमाने परमार्थतः खट्वादिभिरित्यत्राप्येककालत्वाद्यक- १० कारवर्णस्फोटस्य यद्रहणं प्राप्तं तन्न भवति । प्राकृतध्वनिकालेन तत्रोप- चरितेन भेदात् ।द्रुतादिवृत्तिकालस्य तु स्फोटकालत्वेनाऽनाश्रितत्वात् । यस्यां कस्याञ्चिद्वृत्तावकारादेस्तपरत्वेऽभ्युपगते सर्ववृत्तिषु ग्रहणं सिद्ध भवति । तदाह-" स्वभावभेदान्नित्यत्वे हृस्वदीर्घप्लतादिषु ॥ प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥ १॥ शब्दस्योर्ध्व- १५ मभिव्यक्तेर्वृत्तिभेदं तु वैकृताः॥धनयः समुपोहन्ते स्फोटात्मा तैन भिद्यते ॥२॥" वृत्तिमेदमिति कालान्तरावस्थितिभेदं द्रुतादिरूपं शब्दस्य । समुपोहन्ते घटयन्ति । तैरिति विकृतैरिति । ध्वनिग्रहणे च त्रयो वादाः केचिच्छब्दरूपादविभक्तग्रहणं रूपादिवालोकं ध्वनि मन्यन्ते । इन्द्रियवदसंवेद्यमन्ये। स्वतन्त्रमपि कतिपये । तथा हि-ता- २० ल्वादिकरणसन्निपातजनितध्वन्यभिव्यङ्गयस्फोटरूपादविभागेन ध्वनि- रूपप्रतीतिरिति न ध्वनिर्नापि स्फोटः परस्परतो भेदेन ग्रहीतुं शक्यते । यथा प्रभाकरादिकारणजनितालोकाभिव्यङ्गयस्तम्भाम्भोरुहादिरूपाद- विभागेनालोकप्रतिपत्तिरिति नालोको नापि विषयरूपं परस्परतो विभागेन ग्रहीतुं पार्यते । यथा च प्रभाकरादिकारणजन्योऽयमालोकः २५ १ पा. भा. वार्तिके । २ पा. सू. १।११७०. ३ वा. प. का. लो. ७६७८ ।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १. काष्ठादिकारणजन्यस्तु स्तम्भादिरित्यनयोर्भेदो व्यवस्थाप्यते तथेहापि ताल्वादिकारणजन्योऽयं ध्वनिर्नित्यत्वादकार्यश्च स्फोट इत्यनयोभदोऽ- वस्थाप्यते न तु भेदेन ग्रहणम् । केवलमिदमेव सम्भवति, आलोक- परिकल्पिता विषयप्ततिपत्तिर्ध्वनिविनिर्मिता तु स्फोटप्रतिपत्तिरि- ५ त्येके । यथेन्द्रियं विषयप्रतीत्यन्यथानुपपत्त्याऽनुमेयं किमप्यस्तीति कार्यदर्शनादवस्थाप्यते तथा स्फोटोपलव्यन्यथानुपपत्त्या ध्वनिः कश्चिदत्यन्तपरोक्षोऽस्ति करणव्यापारज इत्यनुमीयते । स्फोटस्तु शुद्ध उपलभ्यते इतीतरे । अन्ये पुनः, यदा नाकारादिविशेषावगमः केवल- रुणरुणायितादिकरणे तदा स्वतन्त्रो ध्वनिः प्रतीयते । अकारादि- १० व्यक्तवर्णप्रतीते तु स्फोटरूपेण संसृष्टः प्रतीयत इत्याहुः । यदुक्तम्- स्कोर्टरूपाविभागेन ध्वनेग्रहणमिष्यते ॥ कैश्चित् ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यः प्रकल्पितः॥१॥" इति । स्फोटस्याभिव्यक्ती त्रयो दर्शनभेदाः केचिदाहुः 'स्फोटस्यैव संस्कारो ध्वनिभिर्विधीयते ततोऽसौ प्रतीतिविषयो भवति । यथा तैलादेर्गन्ध आतपेन पृथि- १५ व्याश्चातपशुष्काया उदकेन संस्कृतो ग्रहणयोग्यो भवति घ्राणस्य । तत्र संस्कारोपगमे संस्कृतविषये तुल्यं ग्रहणं भवेन च भवति तस्माद्विषयस्यैव तत्र संस्कारः क्रियते' इति । अन्ये पुनरिन्द्रिय. स्यैव संस्कार इति प्रतिपन्नाः । यथाञ्जनद्रव्यं चक्षुरेकं संस्करोति न विषयं बाह्यमतिप्रसङ्गादतिप्रसिद्धमेतत् । इन्द्रियस्य स्कोटस्य च २० संस्कार इत्यपरे उररीकृतवन्तः । यथा वैशेषिकस्य प्राप्यकारिण चक्षुषि तुल्यजातीयेन तेजसा प्रकाशापरपर्यायेण नयनरम्यनुग्रहः क्रियत विषयस्य च योग्यतेति । तदाह " इन्द्रियस्यैव संस्कारो विषयस्योऽभयस्य वा । क्रियते ध्वनिभिर्वादास्त्रयोभिव्याक्तवादिनाम् ॥१॥” इति ॥ - २५ एवं च- १ वा. प. का. १ श्लो. ८२. २ वा. प.का. १ श्लो. ७९ ।

परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६५७ अर्थावबोधप्रवणस्वभावं बिभात भागोज्झित एव शब्दः ॥ स्फोटाभिधानोऽभिहितस्वरूपः प्रमाणवीथीभ्रमणकपान्थः ॥५४७॥ ततः पौद्गलिको वर्णस्तत्सङ्घातः पदं तथा ।।' तत्संहतिः पुनर्वाक्यं कथं सङ्गतिमङ्गति ॥ ५४८ ।। तावद्दष कलयति करी शब्दकुट्टाकनामा गर्जन्गाढस्वरमिह लसत्तर्कशुण्डाप्रचण्डः ॥ यावन्नायं जिनपतिमतस्फारलालधारी न्यायोत्फालं वितरति हुताद्भिषणो जैनसिंहः ॥ ५४९ ॥ तथा हि-यत्तावदवादि यः खल्वयं पूर्वापरेत्यादिकं निर्बाधमध्य- वसीयते स्फोटा इति पर्यवसानम् । तदनुपपद्यमानम् । यथोपवर्णित- १० स्वरूपस्य वर्णादिस्फोटत्रयस्य स्वप्नदशायामप्यननुभवात् । स्वकीयपूर्वा- परावयववतां वर्णपदवाक्यानामेव सर्वैरबाधितबोधेन प्रतीयमानत्वात् । अवयवाश्चैषां वास्तवा एवेति स्वीकर्त्तव्यम् । अविद्योपकल्पितत्वाङ्गी- कारे हि तेषां परमब्रह्माद्वैतमताश्रयणप्रसङ्गेन लाभमिच्छतो मूलोच्छेद एव भवतः प्रसज्यते । यथैव हि वर्ण एक एव तद्भागानामवास्तव- त्वात्पदमेकमेव तद्वर्णानामतात्विकत्वाद्वाक्यं चैकमेव तत्पदानां सांवृत्त- त्वात् । तथैवांतशः परमब्रह्मैवैकं सकलवाक्यतदर्थं तस्य प्रमाणप्रमेयप्र- पञ्चस्य च प्रतिभासमात्रान्तःप्रविष्टस्याविद्योदयविजृम्भितत्वादिति । तद- निच्छता तात्त्विकानेकभागसङ्गतं वर्णादिवादमादरणीयमायुष्मतेति । ननु वर्णादिकं स्वावयवेभ्योऽर्थान्तरमनान्तरं वा भवेत् । अनन्त- २० रत्वे त्वनेकत्वमेव स्यात् । प्रतिभागं समस्तार्थप्रतीतिप्रसङ्गश्च । अर्था- न्तरत्वे सम्बन्धासिद्धिः । अनुपकारात् । उपकारकल्पनायां वर्णादेर- वयवकार्यत्वप्रसङ्गः । तैरुपकार्यत्वात् । अवयवानां वा वर्णादिकार्यता- पत्तिः । तेनोपक्रियमाणत्वादुपकारस्य ततोऽनन्तरत्वात् । अर्थान्त- रत्वे सम्बन्धासिद्धिरनुपकारात् । तदुपकारान्तरकल्पनायामनवस्था- २५ प्रसङ्ग इति चेत् । सोऽयं वर्णादितदवयवभेदाभेदैकान्तवादिनामुपालम्भो प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० न स्याद्वादिनाम् । तैर्यथाप्रतीति कथञ्चित्तदभेदोपगमात् । एकानेका- कारप्रतीतेरेकानेकाकारस्य जात्यन्तरस्य व्यवस्थितेः। न हि वर्णाद्या- कर्णनसमनन्तरमेफानेकाकारप्रतीतिरनालम्बना युक्ता । सर्वत्र सर्वदा सद्भावप्रसङ्गात् । नाप्यवयवमात्रहतुका । एकत्वांशविरोधापत्तेः । ततो ५ वर्णाद्याकारपरिणतद्रव्यशब्दहेतुकेयं प्रतीतिस्तत्त्वं तथा परिणतशब्द- वाच्यं तात्त्विकानेकप्रतीकाकलिकालवरम् । अत एवैकाने- काकारं सिद्धम् । बाधकाभावात् । बाधकाभावात् । यच्च पूर्वादिभागवर्ण- पदरूपावयवावसायः पुनरभिव्यञ्जकानां ध्वनीनां धर्मानुविधानादि- त्याधुक्तम् । तदप्ययुक्तम् । ध्वनीनां भट्टाभिमतवर्णनित्यत्वैकान्त- १० विकुट्टनावसरे सविस्तरमपाकरिष्यमाणत्वात् । यदपि वर्णाद्यवयवा- वभासासत्यत्वप्रदर्शनार्थ मुखमिव मणिकृपाणेत्यादिनिदर्शनमदर्शि तदपि दार्टान्तिकेन सह वैषम्यास्वसिद्धान्तश्रद्धान्तःकरणस्य भणनमात्रम् । वस्त्वन्तरमेव हि प्रतिबिम्बाख्यं तात्त्विकानेकतथाविध- धर्मोपेतं प्रतिबिम्बकारणबिम्बाख्यमुखविलक्षणं मणिकृपाणदर्पणादि- १५ घूत्पद्यते। न तु तदेव मुख खड्गतैलोदकदर्पणादयस्तथा तथा प्रथयन्ति। प्रतिबिम्बस्य च तात्त्विकत्वमुपरिष्टान्निर्णेष्यामः । यदपि चात्मनःप्रौढि- प्रदर्शनार्थमुदाहरणान्तरं यथा च दूरदेशे समन्धकारे वेत्यादिना प्रकीर्तितम् । तदप्यकीर्तिकरम् । दूरदेशावस्थितस्य हि विरलपदार्थस्य घनरूपताप्रतीतिरुत्तरकालभाविबलिष्ठविरलरूपताप्रत्ययेन इति तत्र घनत्वप्रतीतिवशाब्यवस्थाप्यमानं घनत्वमस्त्ववास्तवं कः किमाह । वर्णाद्यवयवावभासस्य तु नोत्तरकालिकं बाधकं किञ्चिच्चे- तयामः । तत्कथमिव तद्वशासिद्धपद्धतिमनुधावन्तो वर्णाद्यवयवाः । न हि निरवयवं स्फोटं नाम किञ्चित्कचन कदाचनापि प्रतीमो येन तहलेन वर्णाद्यवयवान्प्रत्याचक्ष्महे । अथार्थप्रतीत्यन्यथानुपपत्त्या २५ स्फोटः प्रतीयत एवेति चेत् । एतदपि दुरुत्तरेतरेतराश्रयप्रसङ्गप- राहतम् । न खलु सत्तामात्रेण शब्दोऽभिधेयधियमाधातुमर्हति । बाध्यत २० परि. ४ सू. १.] स्यावादरत्नाकरसहितः ६५९ अतिप्रसङ्गात् । अतो ज्ञातस्तद्धेतुरेषितव्यः । ज्ञानं चास्यार्थप्रत्यय- लक्षणलिङ्गप्रभवमिति यावन्नार्थप्रत्ययस्तावन्न स्फोटज्ञानं यावच्च नेदं न तावदर्थप्रत्यय इति । अर्थप्रतीत्यन्यथानुपपत्त्या 'वा स्फोटस्य कल्पने शब्दत्वं तत्र दुरुपपादम् । शब्दशब्दप्रयोगाभावप्रसङ्गात् श्रोत्रग्राह्ये ह्यर्थे लोके शब्दः प्रयुज्यते । अर्थप्रत्यायकत्वमात्रेण च स्फोटस्य शब्दत्वोपगमे धूमध्वजप्रभृतिकं प्रत्याययतो धूमादेरपि शब्दत्वं भवेत् । अगृहीतगोशब्दसङ्केतस्य च नालिकेरद्वीपनिवासिनो गौरिति शब्दश्रवणसमनन्तरं यावन्न कश्चनार्थविशेषः समुन्मिपति तावदश्रुत- पूर्वोऽयं गोशब्दो न जाने कीदृगस्यार्थ इति वक्तुमपि न पारयेदसाविति हता बत लोकयात्रा । यदप्यथ यथेत्याद्याशङ्कय यतो वर्णपूर्वाद्यवयवे- १० त्यादिना समाहितम् । तदपि नावदातम् । यथा खल्ववयवग्रहमपहाय नेह निरवयवः स्फोटः प्रत्येतुं पार्यत इत्यसन्तोऽपि तद्रहणोपायभूता- स्तस्यावयवाः परिकल्प्यन्ते तथा क्वचित्कदाचित्कैश्चित्परो- क्षोऽर्थो न शब्दप्रतिपत्तिमन्तरेणावसातुं शक्यत इति शब्दोऽप्यसन्ने- वार्थग्रहणहेतुत्वात्परिकल्प्यत इत्यपि प्रसज्यते देवानांप्रियस्य । यदपि न च भागावसायिन्य इत्याद्याशङ्कयाराद्वनस्पतावित्यादिना समाहितं तदपि न चारु । न खलु दूरात्तरौ करिप्रत्ययपरम्परायाः सत्यतरु- प्रतीतौ हेतुत्वम् । तथाविधसन्निधानादिसव्यपेक्षक्षयोपशमविशिष्टस्या- मद्रव्यस्यैव तद्धेतुत्वोपपत्तेः । अपि च, वर्णस्फोटं पदस्फोटं च यथा- क्रमं पदवाक्यस्फोटाभ्यां पृथग्भूतम्, अत एव शुद्धपदव्यपदेश्यं वस्तु- २० सन्तं कचित्प्रतिपद्य पदवाक्यस्फोटयोः काल्पनिकं तमुररीकरोमीति वदन्तं त्वां न कश्चित्प्रतिरुणद्धि न रुणद्धि वा । वर्णस्फोटावयवा- नामवास्तवत्वमुपदिशन्तं पुनः पर्यनुयुज्महे महोपाध्यायम् । यथा किल पदस्फोटात्पृथगेव वर्णस्फोटः पारमार्थिकोऽभ्युपगम्यते तथा कथं वर्णस्फोटाद्विभिन्नोऽवयवस्फोटोऽपि नोपेयत इति । तदुपगमे २५ पूर्वोपपूर्वपरोपपराद्यवयवस्फोटपरम्पराऽनुभवभुवमनवतीर्णा परिकल्पिता ६६० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० स्यात् , स्वमतावमानना च । अथ वर्णस्फोटाद्विभिद्यमानमूर्तीस्तदवय- वान कापि प्रतीमस्तरकथमिव तत्स्फोटाँस्तात्त्विकानुररीकुर्मह इति चेत् । तकिमिदानी प्रतीतिमपि प्रमाणतया प्रतिजानीषे । ओमिति चेत् । हन्त तर्हि पदादौ वर्णादिप्रतीतिरस्तीति किमिति न तत्र ५ वर्णादिस्तिवः स्वीक्रियते । अथोक्तमशक्तास्तादृशं पदादिस्फोटं प्रत्येतुं प्रतिपत्तारो वर्णादिप्रतीतिमन्तरेणेति तत्प्रतीत्युपायोऽसावसन्नेव तत्र वर्णादिह्यतेऽतोऽसत्य एवायमुररीक्रियत इाते चेत् । नन्वेवमपि वक्तुं शक्यते । वर्णावसायमन्तरेणावयवानवसातुमशक्ताः प्रमातार इति वाक्यस्फोटे पदवदुपायभूत एव तत्रासन्नपि वर्णो गृह्यत १० इत्यसत्य एवायमवयवास्तु सत्या इति । यदपि “विचालरूढा हि भवन्ति निश्चलाः" इत्यमुं न्यायं निधाय चेतोधाग्नि, अथ भवत्वयं निरवयव इत्यादि प्रश्नं तदपि न तर्ककर्कशेत्यादिसमाधानं च भवानभ्यधात् । तदपि न सुधियामवधानाहम् । यतः कः खलु विचारमार्गासञ्चरिष्णु- ध्वनिमनभिगम्यमानो मनस्वी स्वप्नेऽपीदृशमाशङ्कते, उत्तरं वा स्वीकुरुते। १५ किंच, निरवयवस्य वर्णादेदृश्यमानस्य न कश्चिद्भागोऽदृश्यमानोऽस्ति यदपेक्षयाऽस्फुटं दर्शनमस्योपपद्यते । यथोभयसम्प्रतिपन्नस्थाण्वादेः । अपि चावृतस्य सतोऽभिव्याक्तिः सम्भवति । नित्यनिरंशस्य चावरणं मीमांसकाभिमतवर्णनित्यत्वपराकरणप्रकरणे पराकरिष्यते । यच्च यथा ह्यनुवाकः श्लोको वेत्यादि निदर्शनमुक्तम् । तदप्ययुक्तम् । यतोऽनु- २० वाकश्लोकौ सावयवौ वा स्यातां निरवयवौ वा । प्रथमपक्षे वैषम्यम् । अनुवाकादौ हि सावयवत्वात्स्फुटोऽस्फुटश्चावभासो युज्यते । स्फोटे तु निरवयवत्वान्न तौ सम्भवत इति । अपसिद्धान्तप्रसङ्गश्चास्मिन्पक्षे वैषम्यम् । श्लोकानुवाकयोरपि स्फोटरूपत्वेनाभ्युपगतयोर्भवच्छास्त्रे निर- वयवत्वेनाभ्युपगतत्वात् । द्वितीयविकल्पे तु देवदत्त गामभ्याजेति वाक्यस्फोटवदेतावपि पूर्वपूर्वध्वनिजनिताभिव्यक्तिकृतसंस्कारविशेषाव- २५ १ स्थूणानिखननन्यायसमानार्थकोऽयं न्यायः ।

परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६६१ न्त्यध्वनिबुद्धौ प्रथमावृत्तावपि स्फुटतरं प्रतिभासेयाताम् । अथाशक्ताः प्रतिपत्तारः पुनः पुनरेव तादृशैर्ध्वनिभिर्व्यक्तौ सन्तावेतौ प्रत्येतुं पार- यन्तीति चेत् । अनुचितमिदम् । यतो यः खलु, इदं दीपशतेनैकेना- भिव्यक्तमालोकितुमशक्तो नासौ तादृशेनापरेणानेकेनापि दीपशतेना- भिव्यक्तं तदवलोकितुं क्षमः । अन्धाभावप्रसक्तेः । निरस्तश्चेदानीमेव ५ निरवयवस्य स्फुटोऽस्फुटश्वावभासः । यश्च यथा ज्ञानस्येत्यादिदृष्टान्तः सोऽपि न पेशलः । सावयवादात्मनः कथंचिदभिन्नत्वेन ज्ञानस्यापि सावयवत्वात् । यदपि नियताश्च पदार्थानामित्याद्यकथि , तदपि न तथ्यम् । इत्थं हि महीरुहादावपि मूलस्कन्धशाखादिक्रमो माऽभ्युपेय- ताम् । तत्रापि बुद्धिक्रममन्तरेण महीरुहादिप्रतिपत्तौ प्रतिपतॄणामश- १० क्त्या क्रमव्यवस्थायाः कर्तुमशक्यत्वात् । यच्चावाचि नित्यश्वासावभ्युप- गन्तव्य इत्यादि तदप्याकाशकुसुमदामोत्तंसाशंसनमिव । नित्यै- कान्तस्यानेकान्तसिद्धौ प्रतिक्षेप्यमाणत्वात् । यच्चोक्तं खड्ने हि मुखं प्रतिबिम्बितमित्यादि तदपि मृगतृष्णापयःपानपाणिपल्लवप्रसारणमिव । खड्गमुखप्रतिबिम्बयोः कार्यकारणरूपत्वेनाभिव्यङ्गयाभिव्यञ्जकमावस्यै- १५ वासम्भवात्तत्राभिव्यङ्ग्याभिव्यञ्जकाभिधानानुपपत्तेः । यदप्यथ मुखा- दिभ्य इत्याद्याशंक्यात्यल्पप्रमाणेत्यादिना निराकृतम् । तदपि न कृत- धियामवधेयम् । अनभ्युपगमात् । मण्यादिषु हि न महाप्रमाणाः पर्वता- दयोऽभ्युपगम्यन्ते किन्त्वल्पप्रमाणा एवेति । यच्चावाचि तथाभ्युपगमे हीत्यादि तदपि न चेतस्विचेतोहरम् । एवं हस्तगते गभस्तिमालिनि २० क्षणमप्यनुपलभ्यमानः प्रतापोऽपि न तस्य कार्य स्यात्, किन्त्वभि- व्यङ्गय एवेति । एवं च प्रतिबिम्बस्य न तावत्कालिकोत्पादे प्रताप एव निदर्शनम् । ततश्चाथ तावत्कालिक इत्याद्याशंक्य सुवर्णादिद्रव्य- भावा हीत्यादिना यत्समाहितं तत्सर्वमनभ्युपगतोपालम्भमात्रमित्यवसे- यम् । यत्पुनरादर्शादिमण्डलं प्रतिबिम्बोदयकाले नष्ट प्रतिबिम्बमेव २५ तत्रोत्पन्नमित्याद्युक्तम् । तदपि नावदातम् । प्रतिबिम्बोत्पत्तेर्निरवद्यतया ६६२. प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० समर्थयिष्यमाणत्वात् । यच्चाभाणि यतश्च शब्दात्मनः स्वतो न भेदोऽपि त्वभिव्यञ्जकवशादित्यारभ्य स्फोटात्मा नैव भिद्यत इत्यवसानं, नैषाऽपि भर्तृहरिग्रथितग्रन्थकन्थाश्रद्धारुद्धान्तःकरणानां वैयाकरणानां भणितिः प्रामाणिकपरिषदं प्रमोदयति । अभिव्यञ्जकनादापनोदस्योप- रिष्टाद्विधाम्यमानत्वात् । एतेन ध्वनिग्रहणे च त्रयो वादा इत्यादि स्फोटस्याभिव्यक्ती त्रयो दर्शनभेदा इत्यादि च स्वदर्शनाभिनिवेश- मदिरोन्मादपराधीनस्य परस्याभिव्यञ्जकधार्यम् । अपि च साऽभिव्यक्तिः स्फोटाव्यतिरिक्ता व्यतिरिक्ता वा ध्वनिभिः क्रियेत । अव्यतिरेके तत्करणे स्फोट एव कृतो भवेत् । तथा चाऽस्यानित्यत्वानुषङ्गादभ्युप- १० गमक्षतिः । व्यतिरेके सम्बन्धानुपपत्तिः । अनुपकारकत्वात्तस्याः । तदुप- कारकत्वे वा तदुपकारकस्यापि ततो व्यतिरिक्ताव्यतिरिक्तविकल्प- प्रसङ्गेनानवस्था प्रसज्यते । न च व्यतिरिक्तधर्मसद्भावेऽपि स्फोट- स्यानभिव्यक्तस्वरूपापरित्यागे पूर्ववदर्थेऽप्रतिपत्तिहेतुत्वं घटते । अति- प्रसङ्गात् । तत्त्यागे चानित्यत्वप्रसक्तिरिति । ततः पौगलिको वर्णस्तत्सङ्घातः पदं तथा ॥ तत्संहतिः पुनर्वाक्यमिति सङ्गतिमङ्गति ॥ ५५० ।। स्फोटस्यात्र प्रकटनविधौ दोहदं मुञ्च साधो तस्माद्वैयाकरणसदृशं व्योमपुप्पाभिसन्धिः ॥ सिद्धं न्यायादवयवचितं शब्दमेतं श्रयस्व स्पृष्टा सा चेत्वचन परिषन्यायमुद्रास्थितानाम् ।। ५५१ ॥ ननु भवन्तु वर्णपदवाक्यानि यथाभिहितानि, एतत्तु निपुणधिषणै. निरूपणीयं कीदृशोऽयं वाक्यार्थः किं चैनं अन्विताभिधानवादिप्रभा- करमतस्योपपाद्य खण्ड- प्रत्याययितुमीष्ट इति । तत्र पदार्थानेव प्रधान- नम् । गुणतया प्राप्तपरस्परव्यतिषङ्गान्वाक्यार्थ प्रति- २५ पादयन्ति प्राभाकराः । तदुक्तं शालिकेन-" प्रधानगुणभावेन १प्र.प.वाक्यार्थमात्रकावृत्तिः पृ. २ पं. ७ । २० परि. ४ सू..१०] स्याद्वादरत्नाकरसहितः ६६३ लब्धान्योन्यसमन्वयान् ॥ पदार्थानेव वाक्यार्थ सङ्गिरन्ते विपश्चितः ॥१॥" तं च पदान्येवाकांक्षासन्निधियोग्यतारूपोप- धानलब्धसुकरव्युत्पत्तीनि प्रत्याययितुमीशते । तथा हि-आकांक्षा प्रति- पत्तुर्जिज्ञासा । सा च प्रकृत्यर्थानतिरिक्तप्रत्ययार्थे पदेऽभिधातृव्यापारा- पर्यवसायाद्भवति । यथा दारा इति । न ह्यत्र प्रकृत्यातिरिक्त प्रत्य- यार्थे प्रतीतिर्येनान्वितः प्रकृत्या स्वार्थोऽभिधीयते । प्रातिपदिकार्थमात्रे प्रत्ययोत्पत्तेः । अन्वितार्थाभिधायिता वृद्धव्यवहारव्युत्पत्तिवशेन पदा- नामवधारितेत्यन्विताभिधानपर्यवसानाय प्रतिपत्तारः पदार्थान्तरं प्रग- ल्भन्त इत्यादिकं च स्मारितदाररूपार्थान्वययोग्यं जिज्ञासते । प्रकृ- त्यतिरिक्तप्रत्ययार्थे तु पदेऽभिहितार्थापर्यवसानाद्भवत्याकांक्षा । यथा १० गामिति गच्छतीति च । अत्र हि प्रकृत्यातिरिक्तेऽर्थे कर्मशकौ वर्त- माने काले च प्रत्यययोर्विधानापर्यवसितमन्विताभिधानं न पर्यवस्यति त्वभिहितार्थक्रियामानयेत्यादिकां कर्तारं च देवदत्त इत्यादिकमन्तरेणे- त्यत्राप्यभिहितार्थपर्यवसानायास्ति तदन्वययोग्यार्थान्तरजिज्ञासा तथा चोक्तम्- 'अन्तिस्याभिधानार्थमुक्तार्थघटनाय च ॥ १५ प्रतियोगिनि जिज्ञासा या साकांक्षेति गीयते ॥१॥ चेयमाकांक्षा प्रतियोगिनि भवन्तीत्युत्पत्तौ निमित्तमाश्रीयते । किमिति पुनः सन्निधियोग्यते एव नाश्रीयते । निराकांक्षाणामन्विताभिधाना- दर्शनात् । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति हि पुत्रसम्बन्धेन निराकांक्षो राजा न पुरुषेणान्वीयते । कस्मात्पुनरनयोः पुत्रपुरुषयोः २० सन्निधियोग्यत्वाविशेषेऽपि पुत्रेणैव राज्ञः सम्बन्धो न पुरुषेणेति । उच्यते। न्यायसापेक्षत्वाद्वाक्यार्थप्रतीतेर्नित्यसापेक्षेण पुत्रेणैव राजा सम्बन्ध्यते । तत्सम्बन्धनिराकांक्षश्च न पुरुषसम्बन्धमनुभवति । आकांक्षाऽपि व्युत्पत्तावुपलक्षणमाश्रीयते । तथा चोक्तम्-" परिपूर्णेन योग्यस्य १ इत्यतः 'अन्विताभिधानदर्शनात् '(पृ. ६६४ ६.१३ ) इत्यन्तं किञ्चित्पा- ठभेदेन प्र. पं. वाक्यार्थमातृकावृत्तौ (पृ. ७ पं. १६) समुपलभ्यते । सा - " तत्क- ६६४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० समीपस्याप्यनन्वयः । व्युत्पत्तौ तेन शब्दानामाकांक्षाऽप्युपलक्षणम्" ॥१॥ परिपूर्णेनेति पुत्रसम्बन्धानिराकांक्षेण राज्ञा । योग्यस्य समी- पस्येति पुरुषस्य । सा चेयमाकांक्षा प्रतियोगिषु सर्वेषु न सहसैव जायते किन्तु कारणोपनिपातक्रमेण । तथा हि, क्रियायाः कर्तारमन्तरे- ५ णासम्भवात्तदवगतौ कर्तारं प्रथममपेक्षते । स च निष्फलो व्यापारेण वर्तत इति फलापेक्षा । व्यापारश्च करणमन्तरेणाशक्यः साधयितुमिति करणापेक्षा । तदुक्तम्-" प्रतियोगिषु सर्वेषु नाकांक्षोदेति तत्क्ष- णात् ॥ कारणोपनिपातानुपूर्वेण तु यथातथम् ॥ १॥ मेण चान्विताभिधानमपि क्रमेणैव । तदाह-" जिज्ञासा जायते बोद्धं १० सम्बन्धिषु यथा यथा ॥ तथा तथैव शब्दानामन्वितार्थाभिधायिता ॥१॥"। कः पुनः सन्निधिः, आकांक्षानन्तरं बुद्धौ विपरिवृत्तिः । स च न शब्दनिवर्तन एवान्विताभिधानव्युत्पत्तावुपलक्षणम् । द्वारमित्यादावध्याहृतेनाप्युद्धाटनाद्यर्थेन लोकेऽन्विताभिधानदर्शनात् । आकांक्षावच्च सन्निधावपि सन्निधायकक्रमेण क्रमो वेदितव्यः । तदन्विता- १५ भिधानमपि तथैवेति । यदाह " सन्निधिः शब्दजन्मैव व्युत्पत्ती नोपलक्षणम् ॥ अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात् ॥ १॥ सहसैव स सर्वेषां सन्निधिः प्रतियोगिनाम् ॥ सन्निधायकसामग्री- क्रमेण क्रमवानसौ ॥२॥ यथा यथा सन्निधानं जायते प्रतियो. गिनाम् ॥ तथा तथा क्रमेणैव शब्दैरन्वितबोधनम् ॥ ३ ॥ इति । किं पुनरिदं योग्यत्वं नाम । यत्सबन्धार्हत्वम् । मुख्यवृत्तीनां च प्रयोगे योऽर्थो यत्र सम्बन्धित्वेनोपपद्यते स तत्र सम्बन्धा) योग्य इत्युच्यत इति वचनात् । सम्बन्धाहमिदमिदमिति कथमवगम्यते । सम्बन्धित्वेन दृष्टत्वात् । तत आकांक्षादित्रितयवशात्प्राप्तव्युत्पत्तीनि १ 'वोढुम्' इति ग. पुस्तके पाठः। २ 'आकांक्षावच ' इत्यतः ' दृष्टत्वात् ' ( पं. २३ ) इत्यन्तं प्र. पं. वाक्यार्थमातृकावृत्तौ (पृ. ९ ५.५) किञ्चित्पाठभेदन समुपलभ्यते।

परि. ४ स. १०] स्यावादरत्नाकरसहितः पदानि स्वार्थमन्वितमभिदधतीति । अथानभिहितेनैवाऽर्थान्तरेणान्वित- मर्थमभिदधीत पदमभिहितेन वा । तत्रानभिहितार्थान्तरान्विताभिधाने पदादेकस्मादेवोच्चरिताद्विवक्षितार्थप्रतीतेर्वैयर्थ्यमितरेषाम् । अभिहितार्था- न्तरान्विताभिधाने तु परस्पराश्रयम् । तथा हि । तावत्पचेदित्यनेना. भिहितार्थान्तरान्वितः स्वार्थो नाभिधानीयो यावदुखायामित्यनेनाधि- ५ करणमुखा नाभिधीयते । एवमुखायामित्यनेनापि तावत्स्वार्थो नाभिधानीयो यावत्पचेदित्यनन स्वार्थो नाभिधीयत इति । न च पदानि प्रथमं स्वार्थमात्रमभिदधति तदनु चान्वितं स्वार्थमिति कुतः परम्पराश्रयप्रसङ्ग इति वाच्यम् । कल्पनागौरवात् । नापि लौकिकाः परीक्षका वा पदेभ्यः पदार्थमात्रं प्रतीत्य पश्चादन्वितमर्थ तेभ्य एवाव- १० बुध्यन्त इति । द्विरभिधानमननुभूयमानं कथं कल्प्यतामिति चेत् । तदखिलमफळमवाचि । परसिद्धान्तानवबोधात् । यथा पूगीफलादिक- मवलोकितं साहचर्यात्पत्रादीन्स्मारयति तथा पदजातमपि श्रुतं सद्यथास्वं स्वाभिधेयान्यभिदधानमेव साहचर्यादर्थरूपाणि स्मारयत्य- नन्तरं तु तान्यन्वितान्यभिधत्त इत्येष एव हि नः सिद्धान्तः । तत्र चोक्तदोषानवकाश एव । तदुक्तम्-" पदंजातं श्रुतं सच्च स्मारितान- न्वितार्थकम् ।। न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ।।१॥" न्यायसम्पादितव्यक्तीति लोकव्यवहारानुवर्तिभिः प्रकरणादिन्यायैर्याव- दिदं विधीयमानमिदमनुवाद्यमिदं गुणभूतमिदं विवक्षितमिदमविवक्षित- मित्यादिका व्यक्ति वधार्यते तावन्न कश्चिद्वेदवाक्यार्थमवबुध्यत इति २० वृद्धव्यवहारनियन्त्रितायां शब्दार्थावगतो ये न्याया वृद्धव्यवहारे वाक्यार्थावगतिहेतुतयां विदितास्तानपरित्यजता वाक्यार्थो बोद्धव्य इति। तदुक्तं वार्तिककारैः-" तावदेव हि सन्देहो वेदवाक्ये श्रुते भवेत्।। यावन्न वचनव्यक्तिस्तस्य स्पष्टाऽवधार्यते ॥१॥ ज्ञाता च वचन- १ प्र. पं. वा. मा. वृ. पृ. १५ पं १२ । २. तावदेव' इत्यतः ' अपेक्षते (पृ. ६६६ पं. ६.) इत्यन्तं पाठः प्र. पं. वा. मा. वृ. (पृ ७५ ६.) कि- श्चित्पाठभेदेन समुपलभ्यते ।

६६६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० व्यक्तिर्मीमांसा न्यायकारिता ॥ प्रलीयन्ते समस्ताश्च वेदवाक्यार्थ- संशयाः ॥२॥” इति । अत एव च मीमांसाया वेदवाक्यार्थ- प्रतिपतावितिकर्तव्यतात्वम् । तदुक्तं तैरेव-" धर्मे प्रमीयमाणे हि भेदेन करणांत्मना ॥ इतिकर्तव्यतामागं मीमांसा पूरयिष्यति ५ ॥ १॥ इति । धर्म इति वेदार्थे । ननु लोके द्रागेव वाक्यार्थनिश्चयो नेयती सामग्रीमपेक्षते । उच्यते । अत्यन्ताभ्यस्ते वाक्यार्थे स्यादेतदेव- मदृष्टपूर्वेषु तु स्मृत्यादिवाक्यार्थेषु लोकेऽपि नानाविधविवादोत्थानात्कुतो द्रागेव निश्चयः । अपि च प्रयोजनाभावेनापि लोकस्याऽयं विवेको नास्ति । वाक्यज्ञास्तु विविंचते। तदुक्तम् - "बहुजातिगुणद्रव्यकर्मभे- १० दावलम्बिनः ॥ प्रत्ययात्सहसा जाताच्छौताल्लाक्षणिकात्मकात् ॥१॥ न लोकः कारणाभावान्निर्धारयितुमिच्छति ॥ बलाबला- दिसिद्धयर्थ वाक्यज्ञास्तु विविञ्चते ॥२॥ " अथैवं सिद्धान्ते स्मृतेः पूर्वानुभवानुसारितयाऽर्थगोचरप्राप्तावपेक्षानपेक्षणलक्षणदूषणावतारः तथा हि, न पदं पदार्थमात्रे क्वचिद्दष्टचरप्रयोगो येन तत्साहचर्येण तन्मात्रं १५ स्मारयेत् । तन्मात्रेण व्यवहारायोगाव्यवहारोपयुक्तत्वाञ्च पदोच्चारणस्य । किं त्वन्विते स्वार्थे । तथा च गामानयत्यत्रानयनान्वितस्वार्थो गो- शब्दस्तेन सहचरितो दृष्टो गां पश्येत्यत्रापि तदन्वितमेव गां स्मारयेन्न तन्मात्रम् । एवं च स्मर्यमाणेनानयनेन दर्शननिरपेक्षीकृतो गोर्न पश्येत्यनेनान्वियात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितस्वार्थे पश्य- २० पदं तेन सहचरितं दृष्टं गां पश्येत्यत्रापि प्रासादान्वितमेव दर्शनं स्मारयेन्न दर्शनमात्रम् । तथा च स्मर्यमाणेन प्रासादेन गोनिराकांक्षी- कृतं पश्यपदं न गवा सम्बध्येतेति सर्वत्र वाक्यार्थप्रत्यये दत्ता जलाञ्जलिः प्रसज्यते । अथ गोशब्दो गोलक्षणमर्थं न व्यभिचरत्यान- यनादिकं तु व्यभिचरतीत्यव्यभिचाराद्गामितिपर स्वार्थमेव स्मारयति न तु पदार्थान्तरं व्यभिचारादिति चेत् । तदसाम्प्रतम् । पद्धत्या - १ मी. श्लो. सु. ५ सं. आ. श्लो. २५, २६, २७.

परि. ४ सू.१०] स्याद्वादरत्नाकरसहितः ६६७ ५ सहिता हि भावना प्रबोधवती स्मृतिहेतुरङ्गीक्रियते । तस्याश्च प्रबो- धो नाव्यभिचारनिबन्धन एव । साहचर्यमात्रस्यापि तन्निबन्धस्य पूगीफलादौ दर्शनात् । तच्च स्वार्थस्येव पदार्थान्तरस्याऽप्यस्तीति पदार्थान्तरसहितमेव स्वार्थमनाशकं सहसैव स्मारयेदित्यपेक्षानपेक्षण- दूषणप्रसक्तेन पदेभ्यः पदार्थमात्रस्मरणमुपपद्य इति । अत्रोच्यते । अस्ति तावत्पदार्थधीः । सा चेन्न स्मृतिस्तार्ह कतमोऽयमस्तु । न ताव- प्रमाणम् । अनधिगतार्थबोधनं हि तदुपेयते । यदाहु:-" सर्वस्यानु- पलब्धेऽर्थे प्रामाण्यं स्मृतिरन्यथा " इति । न च पदार्थधीरनधि- गतार्थगोचरा । न खलु सम्बन्धसमये समधिगतोऽर्थः पदैरभिधीयमानो देशकालावस्थानुरूपेणाप्यतिरिच्यते । अनतिरिच्यमानश्च न स्वरूप- विज्ञानं प्रमाणयति । अत एवाहुः परोक्षश्चानुभूतश्च यस्तत्र स्मृतिरिष्यते ॥ प्रमिते तु प्रसक्तत्वात्स्मृतेर्नास्ति प्रमाणता ॥१॥ इति, पदमभ्यधिकाभावात्स्मारकान विशिष्यते” इति च । यच्चास्याः पूर्वानुभवानुसारिल्याऽपेक्षणलक्षणदूषणावतारकारणमन्धि- तार्थगोचरत्वं प्रसज्यते तन्न समीचीनम् । यतोऽभ्यासातिशयः संस्का- रातिशयमाधत्ते । अभ्यासवती च पदस्य स्वार्थेन साहचर्यानुभूतियथा न तथाऽर्थान्तरेणेति । पदश्रवणात्स्वार्थविषय एव संस्कारः प्रबुध्यत इति स्मरणमपि तद्विषयमेव भवितुमर्हति नार्थान्तरविषयमिति । पदानि प्रथमं यथास्वं साहचर्यस्वरूपाणि स्मारयन्ति । तथा च स्मृतिसन्निहिताः स्वरूपमात्रेणार्या अर्थान्तराकांक्षापदैरन्विता अभिधी- २० यन्त इति न परस्पराश्रयम् । तदुक्तम्-" स्मृतिसन्निहितैरेवमथैर- न्वितमात्मनः ।। अर्थमाह.पदं सर्वमिति नान्योन्यसंश्रयम् ॥१॥" स्वार्थरूपस्मरणे हि न पदं पदान्तरमपेक्षते । स्मृतिसन्निहितमपि भवत्येव सन्निहितमिति नास्तीतरेतराश्रयम् । यच्चेदं सर्वपदानामन्विता- १ मी. श्लो. सू. ५ औ. सूत्रे श्लो. १५. । २ मी. श्लो. सू. ५ शब्दप. श्लो. १.३, १०४,१०७. ।

६६८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० भिधायित्वमुच्यते तत्सर्वेषु श्रौतार्थेषु पदेष्ववसेयम् । गङ्गायां घोषो गौर्वाहीक इत्यादौ तु लाक्षणिकगौणार्थपदप्रयोगे यदेव श्रौतार्थं पदं तदेवाऽन्विताभिधायकम् । इतरत्तु गङ्गादिकं प्रतियोगिनस्तटार्बुद्धा- वुपस्थापकमेव । तत्र तस्य वाचकत्वानवधारणात् । स्वार्थस्यापि तदा- ५ नीमवाचकमन्वयायोग्यत्वात् । किं तु तदर्थेन यत्स्वसम्बन्धि स्वसदृशं वा योग्यं च तटादिकं बुद्धावुपस्थाप्यते तेनान्वितं श्रौतार्थमेव पदं स्वार्थभभिधत्त इति दर्शनरहस्यमिति । अपि निरुपमपक्षपातपात्राण्यन्वितवस्त्वभिधास्वतिप्रगल्भाः ।। कथमन्वयशून्यमेवमेते प्रलपन्ति प्रसभं विमुक्तशङ्काः ॥ ५५२ ।। तथा हि, यत्तावत्पदार्थानेव प्रधानगुणतयेत्यादिकमवादि । तत्र पदार्थानां प्रकरणादिवशात्प्रधानगुणतया व्याप्तसमन्वयावस्थानां को नाम वाक्यार्थत्वं प्रतिपद्यते । यथैव हि परस्परसापेक्षाणां पदानामन्यनिरपेक्षा संहतिर्वाक्यं तथा विशेषणविशेष्यतया परस्परसापेक्षाणां पदार्थानामप्य- न्यनिरपेक्षा संहतिर्वाक्यार्थ इत्युच्यते । यत्तूक्तं तं च पदान्येवाकांक्षास- १५ निधियोग्यतारूपोपधानलब्धसुकरव्युत्पत्तीनि प्रत्याययितुमशित इति । तत्रापि किं पदानि पृथक्पृथक्तं प्रतिपादयेयुः संहतानि वा । न ताव- त्पृथक्पृथक् । पादप इत्यादिपदमात्रोच्चारणे पदार्थमात्रप्रतीतेरेवानुभूय- मानत्वात् । तदर्थाच्च प्रतिपन्नतिष्ठत्यादिपदवाच्यस्य स्थानाद्यर्थस्य सामर्थ्यतः प्रतीतेः । तत्र पदस्य साक्षाव्यापाराभावात्तदर्थस्यैव तद्गमक- २० त्वात् । परम्परया तस्य तत्र व्यापारे लिङ्गवचनस्य लिङ्गिप्रतिपत्तौ व्यापारोऽस्तु । तथा सति शाब्दमेवानुमानज्ञानं भवेत् । लिङ्गवाचक- वच्छब्दाल्लिङ्गस्य प्रतीतेः सैव शाब्दी । न पुनस्तत्प्रतिपन्नालिझाद- नुमेयप्रतिपत्तिः । अतिप्रसङ्गादिति चेत् । तत एव पादपपदास्थानाद्यर्थ- प्रतिपत्तिर्भवन्ती शाब्दी माभूत् । तस्य स्वार्थप्रतिपत्तावेव पर्यवसि- २५ तत्वाल्लिङ्गशब्दवत् । किंच, पदानां पृथक्पृथग्वाक्यार्थाभिधाने देव- दत्तो गामभ्याज शुक्लां दण्डेनेत्युक्तेऽनेकवाक्यार्थप्रत्ययप्रसङ्गः । संह- ।

परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६६९ त्याऽर्थमभिदधति पदानि वाक्यमिति स्वसिद्धान्तविरोधश्च । संहतानि पदानि वाक्यार्थं प्रतिपादयन्तीति द्वितीयपक्षे त्वस्मन्मतप्रवेशः । संहति- रूपं परिणाममापन्नानां तेषां वाक्यत्वेनास्माकं सम्मतवात् । तस्यैव च वाक्यार्थप्रतिपादकत्वात् । यच्चाकांक्षाया अभिधानापर्यवसाननिब- न्धनत्वं चाभ्यधायि तदसम्बद्धम् । अभिधाया अंन्वितार्थविषयत्वस्य ५ पराकरिष्यमाणत्वात् । अथ यद्येवं कारणद्वयमप्याकांक्षायाः पराक्रि- यते तर्हि किंनिबन्धनाऽसौ भवतु । भवद्भिरपि तावदेषाऽभ्युपगन्तव्यैव । परप्रतिपत्तये हि वचनमुच्चार्यते । परश्च गामित्युक्तेऽवश्यमाकाङ्कत्यर्था- न्तरं यत्र च न तदाकासा तत्र तदुच्चारयन्तो लौकिकाः परीक्षका वा उन्मत्तवदुपेक्ष्यन्त इति । उच्यते । अभिधेयापर्यवंसाननिबन्धनैवेय- १० माकासा । गामित्युक्ते हि गोशब्दाभिहितोऽर्थो न क्रियां कर्तारं चान्त- रेण पर्यवस्यतीति प्रतिपत्ता तौ जिज्ञासते । इयाँस्तु त्वन्मताद्विशेषः । त्वन्मते हि प्रत्ययान्वितः प्रकृत्या स्वार्थोऽभिधीयते । अस्मन्मते त्वन- न्वित एव । यत्पुनरूचे, सा चेयमाकाङ्क्षा प्रतियोगिनीत्यादि । तद- स्माकमपि सम्मतमेव । यदप्युक्तम् । द्वारमित्यादावध्याहृतेनाप्युद्धाट- १५ नार्थेन लोकेऽन्विताभिधानदर्शनादिति । तदपि त्वन्मतेनैव निराकृतम् । अर्थापत्तिप्रमाणतो ह्यान्तराध्याहारस्त्वन्मते । सा च प्रमाणपरिदृष्टा- न्यथानुपपत्तिनिबन्धना । द्वारमित्यादौ च द्वारलक्षणस्यार्थमात्रस्य स्मरणगोचरत्वेन न प्रमाणपरिदृष्टत्वम् । ततः कथं तस्यार्थान्तरपरि- कल्पनानिमित्तत्वम् । तन्निमित्तत्त्वे वा स्मरणस्यापि प्रामाण्याङ्गीकरण- २० प्रसङ्गः । न च श्रावणप्रत्यक्षगोचरस्य द्वारशब्दस्यान्यथानुपपद्यमानत्वम् । यतस्तस्यार्थापत्त्युत्थापकत्वं ' स्यात् । द्वारशब्दस्य स्वार्थविरह एवान्यथानुपपद्यमानत्वात् । यच्चोक्तमाकांक्षावच्च सन्निधावपीत्यादि । तदपि सकलमनुकूलमेवास्माकम् । यच्च पूगीफलादिकमवलोकितमि- त्यादि दर्शनरहस्यमिति पर्यन्तं प्रत्यपादि । तदप्यसुन्दरम् । यतो येय- २५ मन्विताभिधानवादिभिरन्वितस्वार्थगोचरा शक्तिरुपेयते पदानां साड- ६७० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० न्वयमात्रविषयाऽन्वितविशेषविषया वा । न तावदन्वयमात्रविषया । तन्मात्रविषवत्वे तस्य सर्वत्राविशेषात्सर्वेषां शब्दानां पर्यायत्वापत्तेः । अथान्वितविशेषविषयाऽन्वितविशेषाणां च स्वरूपतो भेदान्न पर्या- यत्वापत्तिरिति चेत् । नैवम् । अन्वितविशेषविषयत्वे ह्यन्वयमात्रमप्य- ५ भिधानीयं शब्देन । अन्यथा तदसिद्धेः । तदभिधाने चैकान्विते विशेषेऽपरान्वयमात्रे पदानां शक्तिः प्रसज्यते विकल्पनागौरवं स्यात् । न चेदं वाच्यं व्यतिषिक्ताभिधाय्येव पदं न व्यतिषङ्गस्य वाचकम् । व्यतिषिक्ततोऽवगतेय॑तिषङ्गस्य । यदाह- -" व्यतिषिक्ताभिधानेन व्यतिषङ्गमतिर्यतः॥तेनैकवित्तिवेद्येऽस्मिन्न निमित्तान्तरादरः॥१॥" १० इति । यतो व्यतिषिक्तेति रूपमात्रमुच्यते पदैरुपलक्ष्यते व्यतिषङ्ग इत्यर्थो विवक्षितो, यद्वा व्यतिषङ्गादेव तैस्तदुच्यत इति । तत्र रूप- मात्राभिधानजन्मा ख्यातिन व्यतिषङ्गमपि गोचरयितुमर्हति । न हि यथा दण्डमन्तरेण दुरवगर्म दण्डिस्वरूपं तथेदमपि व्यतिषङ्गमन्तरेण दुरवगमं येन स्वगोचरशब्दसामर्थ्यजन्मनि ज्ञाने स्वान्वयमपि समर्प- १५ येत् । तद्रूपस्यान्वयव्यतिरेकेणापि शक्यनिरूपणत्वात् । नान्वयं विना तद्रूपकं क्वचिदपीति चेत्, लिङ्गमाप लिङ्गिनं विना न कचिदपीति तदपि तन्निरूपणाधीननिरूपणमस्तु । अस्त्वेवमिति चेत् । तर्हि कथं लिङ्गिनो लिङ्गित्वम् । लिङ्गात्पूर्वमेव तस्य निर्णीतत्वादिति कीर्ति- शेषमनुमानमासज्येत । एवं च सूक्ष्मामपि न परक्षिा परीक्ष्यमाणं परीक्षकैः क्षमते ।। इदमन्विताभिधानं प्राभाकर वर्जनीयं तत् ॥ ५५३ ॥ भट्टाः पुनरेवं सङ्गिरन्ते । पदानि पदार्थानेवाभिदधति । तेऽभि- हिताः सन्तो वाक्यार्थमवबोधयन्ति । तदुक्तम्- अभिहितान्वयवादिभट्टम- २५ तस्योपपाय खण्डनम् । पदानि हि स्वं स्वमभिधायाऽर्थ निवृत्तव्यापारा- ण्यथेदानीमर्थोऽवगतोऽर्थान्तरमवगमयतीति"। १ मी. शा. भा. पृ. २५ पं. ८ ।

नावग- ५. परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६७१ अन्वयव्यतिरेकाभ्यां खल्वेवमवगम्यते यत्पदार्थपूर्वको वाक्यार्थ इति । यो हि मानसादपचाराच्छ्रुतेप्वपि पदेषु पदार्थान्नावगच्छति च्छत्येवासौ वाक्यार्थम् । यस्त्वश्रुतेष्वपि पदेषु प्रमाणान्सरतः पदार्था- जानीयाजानात्येवासौ वाक्यार्थम् । यदाह ." पश्यतः श्वेतिमारूपं हेपाशब्दं च शृण्वतः ॥ खुरविक्षेपशब्दं च श्वेतोऽश्ची धावतीति ५ धीः ॥ १॥ दृष्टा वाक्यविनिर्मुक्ता न पदार्थाद्विना कचित् ।। इति । आरूपमव्यक्तं रूपम् । तेन गुणिविशेषो न प्रत्यक्षेणावसीयत इत्यर्थः । तदेवं वाक्यार्थबुद्धिः पदार्थप्रतीति न व्यभिचरति तु पद. प्रतीतिमिति न तत्कायर्या भवितुमर्हति । अपि च, अनन्यलभ्यः शब्दार्थः प्रसिद्धः । लभ्यते च समभिव्याहारान्यथानुपपत्त्या पदाना- १० मन्वितार्थपराणां स्वाभिधेयार्थरूपसमवेतान्वितावस्थाप्रत्यायनं लक्ष- णया । न हि पदानि समभिव्याहृतानि स्वाभिधेयप्रत्ययमात्रे पर्यवसातुमीशते । न हि लौकिकाः पदार्थमात्रप्रत्यायनाय प्रवर्तन्ते । प्रतिपित्सितं खल्वेते प्रतिपादयिष्यन्तः पदान्युच्चारयन्ति । अबुभु- त्सितावबोधने त्वनन्वयविषयवचनतया नामी लौकिकाः परीक्षका १५ इत्युपेक्षेरन् । न च भूयो भूयः समधिगतं परे पदार्थमात्रं बुभुत्सन्ते । तस्मादधिगतमर्थमवगमयितुमनसो न समभिव्याहरन्ति वृद्वाः पदानि। तदयं समभिव्याहारः पदानामनधिगतार्थप्रत्यायनयुक्तस्तमन्तरेणानुप- पद्यमानस्वाभिधेयसमवेतामनधिगतचरी समन्वितावस्थां लक्षयति । तदुक्तम् –“ विशिष्टार्था प्रयुक्ता हि समभिव्याहृतिर्जने” इति, २० वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति हि स्थितिः" इति च । अथ पदार्थाः प्रत्येक वाक्यार्थमवंगमयेयुः समुदिता वा । नाद्यः पक्षः, गौरित्युक्तेऽपि वाक्यार्थप्रतीतिप्रसङ्गात् । यावन्तश्च पदार्थास्तावन्तो वाक्यार्थाः प्रतीयेरन् । अथ प्रत्येकमप्येकमेव वाक्यार्थं बोधयति । तदाऽऽवृत्त्या तत्प्रतीतिप्रसक्तिः । नापि द्वितीयः । समुदितानां तेषाम- २५ .१ मी.ला. वा. वा.अ. श्लो. ३५८१३५९ ।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० वाचकः । साधारण्येन सत्त्वस्य ग्रहीतुमशक्यत्वात् । देवदत्त गामानयेत्युक्ते हि विवक्षितगोविषयानयनान्वितो नियत एव देवदतः प्रतीयते । गौरपि प्रतिनियतो देवदत्तकर्तृकानयनान्वितोऽसाधारण एव वेद्यते । आनयनमपि च नियतगोदेवदत्तान्वितं तथाभूतमेव ज्ञायते, इत्येवं ५ समुदितेषु पदार्थेष्यसाधारण्येन प्रतीयमानेषु न सत्त्वग्रहणसम्भवः । तेषां व्यभिचारादानन्त्याद्वा । तथा हि, न नियतस्य शाबलेयसन्नि- वेशस्य गोशब्दो तदभावेऽपि बाहुलेये दर्शनात् । न च त्रैलोक्यान्तर्गतसकलगोपिण्डगतसन्निवेशवच- नत्वमवगन्तुं शक्यम् । आनन्त्यादिति । तदयुक्तम् । आद्यपक्ष- १० कक्षीकारात् । द्वितीयपक्षे त्वसाधारण्यं भवदपि न नः क्षतिकरम् । न ह्येते लिङ्गवत्सम्बन्धग्रहणमपेक्षमाणा अवबोधकाः । येनाऽसाधारण्या- तेषु सम्बन्धग्रहणं नावकल्पत इत्युच्यमानं शोभेत । किं त्वगृहीत- सम्बन्धा अप्याकांक्षासन्निधियोग्यत्वपर्यालोचनया परस्परं संसृज्यन्ते स एव च वाक्यार्थो यः संसृष्टः पदार्थसमुदायः । इतरपदार्थविशिष्टो १५ वेतरपदार्थ इति । नाप्यशाब्दत्वनिमित्तत्वं वाक्यार्थप्रतीतेराशङ्कनीयम् । शब्दावगतिमूलत्वेन तस्याः शाब्दत्वादिति स्थितं पदात्पदार्थप्रती- तिस्ततो वाक्यार्थावगतिरिति । निरटति भट्टचट्टैः स्पष्टमसावभिहितान्वयो ध्वनिषु ॥ अधिरोप्य युक्तिदिव्यं दोषज्ञास्तं परीक्षन्ते ॥ ५५४ ।। तथा हि, यत्तावदवादि पदानि पदार्थानेवाभिदधतीत्यादि । तत्र संहतान्यसंहतानि वा पदानि पदार्थानपि संसृष्टानसंसृष्टान्वा प्रति- पादयेयुः । तत्र संहतानि पदानि संसृष्टान्पदार्थानभिदधति, ते च वाक्यार्थमवगमयन्तीत्युच्यते । तदेतदेवोक्तं भवति, वाक्यं वाक्यार्थ प्रति- पादयति स च पुनरपि वाक्यार्थमवगमयतीति । संहतानां पदानामेव २५ वाक्यत्वात्, संसृष्टानां च पदार्थानां वाक्यार्थत्वात् । तथा च द्विरवगमो वाक्यार्थस्याप्रमाणको निरुपयोगश्च प्रसज्येत । अथ संहतानि तान्य. २० परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६७३. संसृष्टान्पदार्थान्ब्रुवत इत्यभिधीयते । तदप्यनुभवबाधितम् । तेभ्य- स्तथाविधेभ्यः संसृष्टानामेव तेषां प्रतीयमानत्वात् । असंहतानि संसृष्टानवगमयन्तीत्येतदपि तथाविधमेव । केवलेभ्यः पदार्थमात्रस्यैव प्रतीतेः । असंहतान्यहतसंसृष्टानवगमयन्तीति पक्षे तु कक्षीकार एव । यदपि गदितं यो हि मानसादपचारादित्यादि । तदत्यल्पमुच्यते। न खलु प्रणिहितेऽपि मनसि श्रुतेप्वपि पदेषु सर्वः सर्वत्र वाक्याथ प्रत्येति । अथैवं सुतरामस्मन्मतसिद्धिरिति चेत् । स्यादेवम् । यदि विदितेभ्यः पदार्थेभ्यो वाक्यार्थप्रतीतिरवश्यमुत्पद्येत । विदितेष्वपि तेषु क्लिष्टकाव्यादौ वाक्यार्थप्रत्ययादर्शनात् । अत एव तत्र तत्र पदार्थ- मात्रं व्याख्याय व्याख्यातारो व्याहरन्त्ययमत्र वाक्यार्थ इति । अन्यथा १०. निरूपितेषु पदार्थेप्ववश्यं वाक्यार्थावगमे व्यर्थं तदभिधानं भवेत् । अथ न पदार्थेभ्यो वाक्यार्थप्रतीतिरुत्पद्यत एवेत्यभिदध्महेऽपि तु तेभ्य एवेति । किमुच्यते मानसादपचरादिति । अथ किमत्र कारणं विदिते- भ्योऽपि पदेभ्यः कदाचिद्वाक्यार्थोऽवसीयते कदाचिन्नेति । क्षयोपशम- भावाभावादिति ब्रूमः । यदप्युदितं यस्त्वश्रुतेष्वपि पदेषु इत्यादि । १५: तदपि नावदातम् । श्वेतोऽश्वोधावतीत्यादिप्रतीतेरानुमानिकत्वेनास्माभिः स्वीकारात् । त्वयाऽपि चेयमनुमानरूपाऽर्थापत्तिरूपा वाऽभ्युपेया । किं च किं येन रूपेण पुरुषेण श्वैत्यसमानाश्रयौ हेषाध्वनिपदनिक्षेपशब्दा- ववगतौ तस्यैवेयं श्वेतोऽश्वो धावतीति धीः । उत यस्याश्रयानध्य- वसायस्तस्यापीति । तत्र यदि तावदप्रत्याकलितहेषाध्वनिपदविहार- २० निर्घोषाश्रयस्येत्युच्यते । तदा श्वेतोऽश्वी धावतीति प्रतीतरसम्भवः । स ह्येवं प्रतिपद्यते भवितव्यमत्रं प्रदेशे नूनमश्वेन धावता च भाव्यं केनचिदिति । अथाऽश्वसम्बन्धिनमेव खरखुटपुटटङ्कारमभ्यासपाटवा- प्रतिपत्तावबुद्धयते । तदाऽप्यश्ववर्तिनीमेव वेगवतीं गतिमनुमिनोति नतु केवलामेव तामवगम्य तस्या अश्वान्वयं पदार्थसामर्थ्यमात्रेण प्रतिपद्यते। २५ योऽपि तस्मिन्देशे नास्त्यन्योऽश्वादिति निश्चित्य पारिशेष्यादाश्रयान- ६७४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. १० ध्यवसायेऽपि हेषाध्वनेः श्वैत्यसमानाधिकरणौ हेषाध्वनिखुरपुटटकार- रवावध्यवस्यति । तस्याऽश्वत्वे वेगवति गमने च श्वेतद्रव्यवर्तिन्यवानु- मानं न स्वतन्त्रयोरिति । प्रमाणान्तरेणासम्बद्धावगतानां न कचिदन्यो- न्यसम्बन्धबोधकत्वमनुमानार्थापत्तिव्यतिरेकेण तवापि प्रतीतमिति । अपि च मानान्तरेणानुभूतानामर्थरूपाणामन्वयबोधनसामर्थ्यमुपलम्भे वाऽन्व- यबोधकाख्यसप्तमप्रमाणप्रसङ्गः । न चास्य शाब्देऽन्तर्भावः । शब्दाभा- वात् । पदार्थाभिधानावान्तरव्यापारेण हि शब्दाद्यदन्वयज्ञानं तच्छाब्द- मित्येष एव वो राद्धान्त इति नास्य शाब्देऽन्तर्भावः । यदि च तत्त्वं विवेच्यते तदेवमेव प्रत्यक्षादिभिः सह तुल्यकक्षतया शाब्दस्य स्थानेऽभि- १० धानीयम् । नतु शाब्दं तद्भेदस्य । न हि लौकिका ब्राह्मणयुधिष्ठिराविति प्रयुञ्जते । प्रयुञ्जते तु ब्राह्मणराजन्याविति वा वशिष्ठयुधिष्ठिराविति वा । न च भेदान्तरोपन्यासेन भेदान्तमुपन्यम्तं भवति । तदयं समस्त- मानलक्षणप्रवृत्तो मानतुषस्यापि परित्यागे तेनैव सह स्वकौशल्यमपि त्यजेदिति । यदप्यनन्यलभ्यः शब्दार्थ इत्यादि सर्वत्रैवेति हि स्थिति- १५ रिति चेत्यन्तमवादि तदपि पूर्वानुसन्धानवन्ध्येन व्याहृतम् । पूर्व हि भवानेवेदमवादीत्पदैरभिहिताः पदार्था वाक्यार्थमवगमयन्तीति । सम्प्रति पुनरिदमुदीरयति पदानि लक्षणया वाक्यार्थमवगमयन्तीति । सोऽयं पूर्वापरविरोधेनापि वाचो पिरचयनिश्चितं वाचस्पतिः । किं च स्खलद्दतित्वं नाम सामान्यलक्षणं लक्षणायाः । न च समभिव्याहृत- २० पदकदम्बकस्य सर्ववाक्यार्थे स्खलद्गतित्वं प्रतीमः । न खलु यथा कनकलतिकायां कृतास्पदे कमले कुवलययुगलमिदमालोक्यत इति वाक्यं कामिनीतनुव्यवस्थितवदनवर्तिनेत्रद्वयलक्षणेऽर्थे प्रतिपाद्ये स्खल- द्गति तथा कामिनीकलेवराधारवके नेत्रद्वन्द्वं दृश्यत इत्येतदपि वाक्यं स्खलद्त्यभिधातुं शक्यम् । योऽपि समुदिताः पदार्था वाक्यार्थमवगम- २५ यन्तीति पक्षस्य कक्षीकारः सोऽपि न क्षेमकारः । समुदितानां पदार्थानामेव वाक्यार्थत्वादात्मनि च गमकमावायोगात् । यदपि शब्दाव- :

परि. ४ स. १०] स्याद्वादरत्नाकरसहितः ६७५ गतिमूलत्वेन तस्याः शाब्दत्वादित्युक्तम् । तदप्ययुक्तम् । एवं हि प्रत्यक्षावगतधूमादवगम्यमानस्य कृष्णवर्त्म नोऽपि प्रत्यक्षमूलत्वात्प्रत्यक्षप्र- मेयत्वं भवेत् । तस्मादिदमिह रहस्य पदापेक्षयाऽनन्विताभिधानं वाक्या- पेक्षया त्वन्विताभिधानमिति । भो भट्टशिष्याः खलु युक्तिमूलान्युन्मूलि तान्येवममूनि मूलात् ॥ चिरप्ररूढोऽभिहितान्वयस्तत् पतत्विदानी विषवृक्ष एषः ॥ ५५५ ॥ सम्प्रतीदं चिन्त्यते किमयं शब्दो नित्यः सन्नर्थमभिदधाति, अनि- ५ त्यो वा। शब्दनित्यत्ववादिनो मीमां- सकस्य पूर्वपक्षं विसरश तत्रैवमुदीरयांबभूवुर्मीमांसाध्ययनैकदुर्विदग्धाः ॥ उपपाद्य खण्डनम् । शब्दस्य सनातनत्व एव प्रमितिः संश्रयतेऽत्र सा- १० शिमुद्राम् ॥ ५५६ ॥ तथा हि, स एवायं गकार इत्यादिप्रत्यभिज्ञानप्रत्यक्षत एव ताव- द्वर्णानां नित्यत्वमवसीयते । न चास्याज्ञानत्वलक्षणमप्रामाण्यम् । ज्ञानत्वेन प्रतिप्राणि प्रतीयमानत्वात् । नापि संशयस्वभावम् । एकां- शावलम्बित्वात् । नापि मिथ्यात्वरूपम् । बाधाविधुरत्वात् । न च दुष्टकारणोत्पाद्यत्वादस्याप्रामाण्यमिति मन्तव्यम् । तत्कारणानां दुष्ट- त्वानवधारणात् । नाप्यधिगतार्थाधिगन्तृत्वात् । स्मयमाणानुभूयमान- विशेषेणावच्छिन्नस्य गकारादेः पूर्वसेवदनाविषयत्वात् । तदुक्तम्- " यः पूर्वावगतोऽशोज़ स नो नाम प्रतीयते । इदानीन्तनम- स्तित्वं न हि पूर्वधिया गतम् ॥ १॥” इति । प्रत्यक्षत्वं चास्य २० श्रोत्रेन्द्रियान्वयव्यतिरेकानुविधायित्वात्सुप्रसिद्धम् । न च स्मृतिपूर्व- कत्वादस्याप्रत्यक्षवं वक्तुं युक्तम् । तत्पूर्वकत्वेऽप्यस्य सत्सम्प्रयोगजत्वेन प्रत्यक्षत्वोपपत्तेः । एवं च प्रत्यभिज्ञानप्रत्यक्षमाहात्म्यतः शब्दस्य नित्यत्वे प्रतिपन्ने इदानीमिवान्यदापि यच्छब्दस्योच्चारणं न तत्तस्य १ मी. श्लो. स. ४ प्र. सू. श्लो. २३३,२३४ ।

६७६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० अत्र जनकम् । किंत्वभिव्यञ्जकम् । ततो विप्रतिपन्नान्प्रतीदं प्रतिपाद्यते । अन्यदापि यच्छब्दस्योच्चारणं तदस्याभिव्यञ्जकमुच्चारणत्वात् । यदुच्चा- रणं तदभिव्यञ्जकं यथैव तत्कालोपलक्षितमुच्चारणम् । तथा विवादाध्या- सितकाल एतद्गादिसंबद्धः कालत्वादिदानीन्तनकालवत्। नित्यः शब्दः ५ श्रावणत्वाद्यदित्थं तत्तथा । यथा शब्दत्वसामान्यम् । देशकाला- दिभिन्ना गोब्दव्यक्तियुद्धय एकगोशब्दविषया न वाऽनेकार्थगो. चरा। गौरित्युल्लेखेनोत्पद्यमानत्वात् । सम्प्रत्युत्पन्नगोशब्दव्यक्तिबुद्धि- वत् । गोशब्दव्यक्तिबुद्धिरित्यभिधीयमाने सिद्धसाधनं भवेत् । एकगोशब्दव्यक्तिबुद्धेरेकविषयत्वाङ्गीकारात्तव्यवच्छेदार्थ १० बहुवचनम् । तथा सामान्यगोशब्दनिबन्धनाः समाना एव बुद्धयः प्रादुर्भवन्तीति तन्निवृत्यर्थं व्यक्तिग्रहणम् । एकस्मि- न्देशे काले वा बहूनां प्रमातृणां गोशब्दज्ञानान्येकगोशब्दव्यक्ति- गोचराणीति सिद्धसाध्यता मा प्रापदिति देशकालादिभिन्ना इत्यभि- हितम् । ह्यस्तनो गोशब्दोऽद्याप्यनुवर्तते गौरिति ज्ञायमानत्वादद्योचा- १५ रितगोशब्दवत् । अथ वाऽद्यतनो गोशब्दोऽप्यासद्गिौरिति ज्ञाय- मानत्वाद्धयस्तनगोशब्दवत् । शब्दो दीर्धकालावस्थायी सम्बन्धब- लेनार्थप्रतीतिजनकत्वाद्भूमसामान्यवत् । यः पुनरस्थिरः स सम्ब- न्धबलेन नार्थप्रतीतिं जनयति तादात्विकनिमित्तत्वात्प्रदीपसौदामि- नीप्रकाशवत् । तदेवं-" काश्चत्कालं स्थिरः शब्दः सर्वकालमपि २० स्थिरः॥ विनाशहेतुशून्यत्वात्सामान्याकाशकालवत् ॥१॥" अस्यार्थः-शब्दः सर्वकालं स्थिरो विनाशहेतुशून्यत्वात् । सामान्या- दिवत् । विनाशहेतुशून्यत्वं च कश्चित्कालं स्थिरत्वात्सिद्धम् । स हि सम्बन्धकरणकालं यावदनुपद्रुतः पश्चादपि केनाऽपनीयतामिति । विवादाध्यासितकालो गादिशब्दशून्यो न भवति कालत्वादिदानीन्त- २५ नकालवदित्यनुमानपरम्पराऽपि शब्दे नित्यत्वमवस्थापयति । अर्थापत्ति- रप्यत्र नित्यत्वमेव प्रकटयति । तथा हि-नित्यः शब्दः परार्थ तदु- परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६७७ च्चारणान्यथानुपपत्तेः । तथा च जैमिनीयं सूत्रम्-"दर्शनस्य परा- र्थत्वात्" इति । अनेन किलार्थापत्तिरुक्ता । कथम् ।, दर्शनमुच्चा- रणम् । तच्च परस्यार्थप्रतिपत्त्यर्थम् । सा चाऽर्थप्रतिपत्तिः शब्दस्या- नित्यत्वे न घटते । गृहीतसम्बन्धाद्धि शब्दादर्थप्रतीतिराविर्भवति । नान्यथा । अतिप्रसक्तेः । सम्बन्धावगमश्च प्रमाणत्रयसम्पाद्यः । तथा हि-यदैको वृद्धोऽन्यस्मै प्रतिपन्नसंकेताय प्रतिपादयति देवदत्त गाम- भ्याज शुक्लां दण्डेनेति । ततः पार्थस्थोऽन्यः कश्चिदव्युत्पन्नसङ्केतः शब्दार्थो वृद्धौ च प्रतिपाद्यप्रतिपादकौ प्रत्यक्षतः प्रतिपद्यते । श्रोतुश्च प्रतिपाद्यवृद्धस्य गवादिगोचरक्षेपणादिविशिष्टचेष्टालक्षणादनुमानात्तां गवादिविषयां प्रतिपत्तिमवबुद्धयते । तत्प्रतिपत्त्यन्यथानुपपत्त्या च १० शब्दस्य वाचिकामर्थस्य तु वाच्यां शक्ति परिकल्पयति । सोऽयं प्रमाणत्रयसम्पाद्यः सन्बन्धावगमो न सकृद्वाक्यप्रयोगात्सम्भवति । किन्त्वावापोद्वापाभ्यां पुनस्तच्छब्दोचारणादेव । न चास्थिरस्य पुनः पुनरुच्चारणं घटते । तदभावे च नान्वयव्यतिरेकाभ्यां वाच्यवाचक- शक्त्यवगमः । तदसत्त्वान्न प्रेक्षावद्भिः परावबोधाय वाक्यमुच्चार्येत । १५ न चैवम् । ततः परार्थवाक्योच्चारणान्यथानुपपत्त्या निश्चीयते "शब्दवृद्धाभिधेयानि प्रत्यक्षेणैव पश्यति।। श्रोतुश्च प्रतिपन्नत्त्रमनुमानेन चेष्टया ॥१॥ अन्यथानुपपन्या तु बुद्धेः शक्ति द्वयाश्रिताम् ॥ अर्थापत्यैव वुद्धयन्ते सम्बन्धं त्रिप्र- माणकम् ॥ २॥" अनुमानेन चेटयेति । गोक्षेपणादिचेष्टालक्ष- २० णेनानुमानेन श्रोतुः प्रतिपन्नत्वं पश्यतीत्यर्थः । अर्थापत्त्यैवेति, यद्यपि सम्बन्धावबोधेऽध्यक्षानुमानार्थापत्तिलक्षणप्रमाणत्रयस्यापि व्यापारस्तथापि साधकतमतया करणत्वेनापत्तेरेव मुख्यवृत्त्या तत्र प्रामाण्यम् । प्रत्यक्षानुमानयोः पुनस्तदन्तर्गतत्वेनात्रेतिकर्तव्यतास्थानीयत्वमिति नित्योऽसौ । तदुक्तम् १ मी. श्लो. वा. शब्दनित्यताधिकरणे श्लो. २४१-२४४, ४३ भावः। ६७८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० अर्थापत्तिरियं चोक्ता पक्षधर्मादिवार्जिता ॥ यदि नाशिनि नित्ये वा विनाशिन्येव वा भवेत् ॥ १॥ शब्दे वाचक- सामर्थ्य तदा दूषणमुच्यताम् ॥ यदि शब्दे नाशिनि नित्ये वा वाचकसामर्थ्यमित्यनेन संशय उक्तः । विनाशिन्येव वा शब्दे वाच- ५ कसामर्थ्यमित्यनेन तु विपर्यय उपदर्शितः । तदा दूषणमुच्यतामिति । यदैव शब्दे वाचकसामर्थ्य सन्दिग्वं विपर्यस्तं च स्यात्तदा दूषणा- वसरः । एतचात्रोभयमपि नास्तीति भावः । न दृिष्टार्थसम्बन्धः शब्दो भवति वाचकः ॥ तथा चेत्स्यादिपूर्वोऽपि सर्वः सर्व प्रकाशयेत् ॥ १॥ सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते ।। १० सम्बन्धज्ञानसिद्धिश्वेत ध्रुवं कालान्तरस्थितिः ॥२॥ अन्यस्मिन् ज्ञातसम्बन्धे न चान्यो वाचको भवेत् ॥ गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः ॥३॥" अथ मतं सदृशतया शब्दस्यार्थ- प्रतिपनिहेतुत्वोपपत्तेनार्थापत्तितोऽस्य नित्यत्वसिद्धिः । पुनः पुनरुच्चा- र्यमाणो हि शब्दः सादृश्यादेकत्वेनाध्यवसीयमानोऽर्थावबोधं विदधाति १५ न पुनर्नित्यत्वादिति । नैतदपि क्षोदक्षमम् । सादृश्येन शब्दादर्थावबो- धासम्भवात् । न हि सदृशतया शब्दः प्रतीयमानो वाचकत्वेन निश्चीयते । किं त्वेकत्वेन । य एव हि सकेतावसायसमये मया ध्वनिरु- पलब्धः स एवायमिति प्रतीतेः । अपि च सादृश्यादर्थप्रतीतौ भ्रान्तः शाब्दप्रत्ययः स्यात् । न ह्यन्यस्मिन्गृहीतसङ्केतेऽन्यस्मादर्थप्रतीतिर- २० भ्रान्ता भवति । गोशब्दे गृहीतसङ्केतेऽश्वशब्दाद्वार्थप्रतीतेरभ्रान्तत्वप्र- सक्तेः । न च भूयोऽवयवसाम्ययोगम्वरूपं सादृश्यं शब्दे सम्भवति । विशिष्टवर्णात्मकत्वाच्छब्दानाम् । वर्णानां च निरवयवत्वात् । न च गत्वा- दिविशिष्टानां गादीनां वाचकत्वं युक्तम् । गत्वादिसामान्यस्याभावात् । तदभावश्च गादीनां नानात्वायोगात् । सोऽयमिति प्रत्यभिज्ञया तेषामेकत्व- १ मी. श्लो. वा. शब्दनित्यताधिकरणे श्ला. २३॥२३८. २ मी. श्लो. सू. ५ स. श्लो. १४०, १४१।

६७९ स्वरूप- परि. ४ सू. १.] स्याद्वादरत्नाकरसहितः निश्चयात् । अथानेकपतिपतमिबिभिन्नदेशतयोपलभ्यमानत्वाद्कारादीनां नानात्वं कथ्यते । तन्न । तैर्विभिन्नदेशतयोपलभ्यमानेनादित्येनाने- कान्ताद्विभिन्नदेशतयोपलभ्भश्चैषां व्यञ्जकध्वन्यधीनो न भेदनिबन्धनः । तथा हि-"नित्यत्वं व्यापकत्वं च सर्ववर्णेषु संस्थितम् ॥ प्रत्यभिज्ञानतो मानाद्वाधसङ्गमवर्जितात् ॥ १॥ यो ५ यो गृहीतः सर्वस्मिन्देशे शब्दो हि दृश्यते । न चास्यावयवाः सन्ति येन वर्तेत भागशः ॥२॥ " यो यो गृहीत इति । अस्य भावार्थः । नास्त्यसौ देशो यत्र शब्दो नावगम्यते । यो यो देशो गृहीतः सर्वत्राऽस्यावगमात् । ततोऽसावात्मादिवद्विभुरिति । " शब्दो वर्तत इत्येव तत्र सर्वात्मकश्च सः॥ व्यजकध्वन्यधीनत्वात्तदेशे १० स च गृह्यते ॥ १॥" शब्दो वर्तत इति । न भागशः कृत्स्नपरि- समाप्त्या च शब्दो वर्ततेऽपि तर्हि शब्दो वर्तत इत्येवाऽस्याविशेषितं वृत्तिमात्रमातिष्ठामहे यतः शब्दो वर्तत इत्येवेति वृत्तौ यद्भवति तदाह तत्रेति । तत्र वृत्तिप्रकारे । सर्वात्मकः शब्दो वर्तत इत्येतावदेव भवति । नाधिकं किञ्चिद्भागवृत्तिः कृत्मपरिसमाप्तिर्वा । निर्भागस्य तस्य १५ भागवृत्तेर्व्यापिनश्च कृल्मपरिसमाप्तेरभावादिति पूर्वार्धस्यार्थः । “ नै च ध्वनीनां सामर्थ्य व्याप्तुं व्योम निरन्तरम् ॥ नैवावच्छिन्नरू- पेण नाऽसौ सर्वत्र गृह्यते ॥ १॥ ध्वनीनां भिन्नदेशत्वं श्रुतिस्त- त्रानुरुध्यते ॥ अपूरितान्तरालत्वाच्छब्देऽप्यविभुतामतिः ॥२॥ गतिमद्वेगवत्त्वाभ्यां ते चायान्ति यतो यतः ॥ श्रोता ततस्ततः २० शब्दमायातमिव मन्यते ॥ ३॥' अथैकेन भिन्नदेशतया उपलम्भा- द्गादीनां घटादिवन्नानात्वम् । नैवमपि । आदित्येनैवाऽनेकान्तात् । दृश्यते ।केनादित्यो भिन्नदेशों न चैतावताऽसौ नाना । अथ युगपदे- केन भिन्नदेशतयोपलब्धेरिति विशिष्योच्यते । तथाऽप्यनेनैवाऽनेकान्तः । १ मी. श्लो. वा. शब्दनित्यताधिकरणे श्लो. १७१।१७२ । २ ' असंभवात् इति भ. पुस्तके पाठः । ३ मी. श्लो. वा. शब्दनित्यत्वाधिकरणे श्लो. १७३-१७६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० जलपात्रेषु हि भिन्नदेशेषु सविताऽप्येकोऽप्येकेन युगपद्भिन्नदेशः गृह्यते । अथ न तत्र मार्तण्डमण्डलमवलोक्यते तस्य नभसि व्यवस्थानात्तन्निमि- त्तानि तु जलपात्रेषु प्रतिबिम्बानि भिन्नानि प्रतीयन्ते ततो नानेकान्तः । तदुक्तम्-" अहो केन निमित्तेन प्रतिपात्रं पृथक्पृथक् ॥ भिन्नानि प्रतिबिम्बानि गृह्यन्ते युगपन्मया ॥१॥" एतत्कुमारिल: परिहरन्नाह -" अत्र ब्रूमो यदा तावजले सौर्येण तेजसा ।। स्कुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ १। स्वदेशमेव गृह्णाति सवितारमनेकधा । भिन्नमतिर्यथा पात्रं तदाऽस्यानेकता कुतः ॥२॥” प्रतिस्रोतः प्रवर्तितमिति प्रतिस्रोतः प्रवर्तितमिति प्रतीपप्रवर्तितमिति १० प्रतीपप्रवर्तितमधस्तात्प्रवृत्तं सदूर्ध्व प्रवर्तितमित्यर्थः । एवं च- नित्यत्वं शब्दराशेः श्रवणकरणकं भ्रान्तिसन्देहशून्यं विज्ञानं प्रत्यभिज्ञेत्यभिहितममलं मूलतस्तावत्र ॥ पश्चान्निःशेषदोषविरहितमुदितं लैङ्गिक मानमन्ते त्वर्थापत्तिः कलङ्कव्यतिकरविधुरा दर्शिता सिद्धिहेतुः ॥५५७॥ जैमिनीय निनदेषु नित्यता दर्शितैवमतिविस्तरात्त्वया ।। किन्तु काचिदपि युक्तिरक्षता वीक्ष्यतेऽत्र न परीक्षकोचिता ॥५५८|| तथा हि-यत्तावदुपन्यस्तं स एवायं गकार इत्यादिप्रत्य- भिज्ञाप्रत्यक्षत एव तावद्वर्णानां नित्यत्वमवसीयत इत्यादि । तन्न २० सत्यम् । अस्यैकत्वप्रत्यभिज्ञानस्य भ्रान्तत्वेनैकत्वसिद्धावसमर्थत्वात् । प्रदीपायेकत्वप्रत्यभिज्ञानवत् । न खलु स एवाऽयं प्रदीपः कदलका- ण्डकुन्तलकलापादित्यादि प्रत्यभिज्ञानं प्रदीपादीनामेकत्वं प्रसाधयति अथाऽत्रैकत्वाभावात्तस्यैकत्वप्रसाधनासामर्थ्यम् । तदितरत्रापि तुल्यम् । ननु तैलादिकारणकलापस्योत्तरत्र क्षयोपलम्भात्प्रदीपादेः प्रतिसमय- २५ मन्यत्वप्रतीतेरुपपन्नभेकत्वासत्त्वम् । न तु शब्दस्य । विपर्ययादिति १मी. श्लो. वा. शब्दनित्यत्वाधिकरणे श्लो. ७९१८०१८१८२ ।

परि. ४ सू.१०] स्याद्वादरत्नाकरसहितः ६८१ चेत् । तदपि न्यायबाह्यम् । शब्दस्य ताल्वादिसंयोगविभागलक्षण- कारणकदम्बकस्योत्तरत्र क्षयप्रतीतितः प्रतिक्षणमन्यत्वसिद्धेरेकत्वासत्त्वो- पपत्तेः । अथ ताल्वादिसंयोगविभागयोः शब्दाभिव्यञ्जकसमीरणोत्पत्ती कारणत्वं न शब्दोत्पत्तावित्युव्यते। तर्हि वर्तिकामुखतैलानलसंयोगादेर- पि प्रदीपाद्यभिव्यञ्जकप्रभञ्जनजनने कारणत्वं न प्रदीपौद्युत्पाद इत्यप्यु- च्यताम् । विशेषादर्शनात्। प्रतीतिविरोधः पुनरुभयत्राप्यविशिष्टः। अनेन नापि मिथ्यात्वरूपं बाधाविधुरत्वादित्यपास्तम् । ताल्वादिसंयोगविभाग- लक्षणस्य कारणकदम्बकस्योत्तरत्र क्षयप्रतीतितः प्रतिक्षणं शब्दस्या- न्यत्वसिद्धेरेव बाधकत्वात् । उत्पन्नः कुम्भो विनष्टः कुम्भ इति प्रती- तिवत् । अथ प्रत्यभिज्ञानेनैवेयं प्रतीतिः कस्मान्न बाध्यते । मैवं वादीः। १० प्रत्याभिज्ञानस्य शब्दे सादृश्यहेतुकतया भ्रान्तत्वेन नित्यत्वाप्रसाधक- त्वात् । ननु यथा घटे विनष्टे विनाशकारण मुद्रादि कपालमाला च विलोक्यते न तथा शब्दश्रवणानन्तरं विनाशकारणं कपालमा- लाकल्पं च किमपि परिदृश्यते । केवलं शब्दो नोपलभ्यते । न चानुपलब्धिमानेन विनाशोऽस्यावसितुं शक्यते । तथा सत्युपलभ्यानु- १५ पलब्धानां घटादीनां विद्यमानानामेव विनाशः स्यात् । न चैतदस्ति । तदयुक्तम् । यतः शब्दस्तावदाकर्णनानन्तरं कुम्भादिवदन्यत्र न गतः । व्यापकत्वेन तस्य त्वया स्वीकारात् । नापि घटादिवदेव तत्रस्थ एव केनचिदावृतः । तदावरणस्य निराकरिप्यमाणत्वात् । नापि सहसा श्रोतुरिन्द्रियदोषः कश्चिदुपजातः । शब्दान्तराणां तदानीमेव श्रवणात्। २० न चानवहितः प्रमाता । सविशेषमवधानवताऽपि तदनुपलम्भात् । सत्यामपि चैतावत्यां सामग्यां यः कुम्भादिरन्यो वा कश्चिन्नावलो- क्यते तस्य प्रध्वंसः प्रत्यक्षेणैवावगतो भवति । एवं च प्रत्यक्षप्रसिद्ध- स्यास्य न कारणाभावद्वारेणाऽभावोऽभिधातुं साधीयान् । एतद्दर्शनादेव कारणस्यानुमितेः । यतूक्तं कपालमालाकल्पं च किमपि न परिदृश्यत २५ इतिः। तदपि न्यायबाह्यम् । न ह्ययमेकान्तो यत्सर्वत्र वस्तुविनाशे तद- ६८२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. १० वयवानामुपलम्भेन भाव्यम् । विपुलस्यापि चपलादण्डस्य महतोऽपि च प्रदीपकुड्नलस्य सहसैव विनाशे तदवयवानामनुपलम्भात् । अथ तयोरवयवानामवयविविपरीतपरिणामापन्नत्वान्नोपलम्भः । शब्दावयवा- नामप्येवमस्तु । नन्वेकज्ञानसंसर्गिपदार्थान्तरोपलम्भात्कुम्भायभाव- ५ प्रतीतिदृष्टा । 'शब्दाभावप्रतीतिस्तु कथम् । तत्रैकज्ञानसंसर्गिणः कस्यचिदप्यभावादिति चेत् । तदप्यसूक्ष्मम् । विवक्षितशब्दाभावप्रतीतौ शब्दान्तरस्यैकज्ञानसंसर्गिणः सम्भवात् । निःशब्दे प्रदेशे सर्वशब्दा- भावप्रतीतौ तर्हि तदसम्भव इति चेत् । मैवम् । तत्राऽप्यात्म- स्वरूपस्य तदेकज्ञानसंसर्गिणः सम्भवात् । स्वपररूपावभासकस्व- १० भावस्य ह्यात्मनः परस्मिन्योग्यदेशावस्थिते वस्तुनि न केवलात्मस्वरूप- संवेदनं भवेत् । यावन्ति खलु वस्तूनि प्रतिषेध्यत्वसम्मतवस्तुना साकं योग्यदेशस्थितानि सन्त्यवश्यं प्रतिभासन्ते तानि सर्वाण्यप्येकज्ञानसंस- गीणि । तत्र कुम्भादौ प्रतिषेध्यो भूतलादिरात्मस्वरूपं चैकज्ञानसंसर्गि। शब्दे तु प्रतिषेध्ये सशब्दके प्रदेशे शब्दान्तरमात्मस्वरूपं च । निः- १५ शब्दके तु केवलमात्मस्वरूपम् । अथ वा मा भवत्वेकज्ञानसंसर्गिपदा- र्थान्तरम् । प्रमाणान्तरगृहीतं तु भविष्यति । यथा स्मृतिगोचरे चैत्य- कुलादौ कचिदभावप्रमाणेन भवतामभावग्रहणे चैत्यकुलादि । स्यादे. तत् । यद्यपि शब्दो नान्यत्र गतो यद्यपि श्रोता समवधानबन्धुरो यद्यपि च नेन्द्रियदोषः सञ्जातस्तथापि व्यञ्जकाभावादेवायं नोपलभ्यते २० यथा प्रदीपाद्यभावात्तिमिरनिकरकरम्बितकुम्भादिः । न खलु दृश्यस्व- भावापरित्यागेनादृश्यस्वीकारे तस्यावृतत्वमुपपद्यते । अतिप्रसक्तेः । यद्यदा यत्स्वरूपं न परित्यजति न तस्य तदा प्रत्यनीकस्वरूपसम्भवः । यथाऽ- नावृतावस्थायां दृश्यस्वरूपं शब्द इति। तदा तत्स्वरूपपरित्यागे वा सिद्ध- मस्यानित्यत्वं स्वरूपभेदस्वभावत्वात्तस्य । ननु घटादीनां स्वरूपाभेदे- २५ ऽपि तिमिरस्तोमादिनाऽऽवृतत्वं दृश्यते । इत्यप्यसत्यम् । तत्रापि स्वरूप- भेदे सत्येवावृतत्वोपपत्तेः । स्वरूपमखण्डयतः कस्यचिदावरणत्वायागात् ।

परि. ४ सू. १०] स्याद्वादरत्नाकरसाहतः ६८३ भवतु वा यथा कथञ्चिच्छब्दस्यावृतत्वं तथापि तदावरणं दृश्यमदृश्यं वा नित्यमनित्यं वा व्यापकमव्यापकंवा, एकमनेकं वेत्यष्टौ विकल्पाः । तत्र न तावदृश्यमिति विकल्पः । प्रत्यक्षतस्तत्प्रतीत्यभावात् । ततस्तत्प्र- तीतौ वा विवादाभावः स्यात् । न हि पीते पीततया प्रत्यक्षतः प्रतीयमाने कश्चिद्विवादायोपतिष्ठते । अथादृश्यं तदावरणम् । 'तर्हि कथं तद- ५ स्तित्वनिश्चयः । ननु नित्यस्य सतः शब्दस्योच्चारणादनन्तरं शब्दस्या- विद्यमानतयैवानुपलब्धिसिद्धेरावरणकल्पनावैयर्थ्यात् । नित्यत्वे त्वाव- रणस्य सदा शब्दस्यानुपलब्धिप्रसाक्तिः । अनित्यं त्वावरणं सहेतुक- महेतुकं वा । नाद्यः कल्पः । तदुत्पादकस्य हेतोः कस्यचिदप्रतीतेः । अहेतुकस्य तस्यानित्यत्वं विरुद्धमिति । व्यापकत्वमप्यावरणस्य दुरु- १० पपादम् । बाधकप्रमाणप्रतिहतत्वात् । तथा हि-आवरणत्वेनाभिमतः प्रभञ्जनो न व्यापकः स्पर्शवव्यत्वादुपलशकलवत् । व्यापकत्वे वाऽस्य न कचित्कस्यापि शब्दोपलब्धिः स्यात् । तस्य सर्वत्रावृतत्वात् । अव्यापकत्वे तस्याऽनेन शब्दस्यावार्यत्वानुपपत्तिः । तन्मध्ये तद्देशे तत्पार्थे चाविद्यमानत्वात् । प्रत्युत शब्द एवावारकः स्यात् । अन्यथा १५ सर्षपकणोऽपि कुम्भस्यावारकः स्यात् । ननु वसुधादिना व्योम्नस्तथा- विधस्याप्यात्रियमाणत्वदर्शनाददोषोऽयमिति चेत् । तदपि न कमनी- यम् । तत्प्रदेशस्यैव तेनात्रियमाणत्वाङ्गीकारात् । शब्दप्रदेशस्यापि पवनेनात्रियमाणत्वाभ्युपगमे शब्दस्य सांशत्वमनित्यत्वं वापद्येत । समस्तशब्दानां च यद्येकमेवावरणं कल्प्येत । तदैकश्रवणशब्दे सर्वेषां २० श्रवणप्रसक्तिः । तदावरणापगमे तद्वत्सर्वेपामनावृतत्वात् । तदश्रवणे वाऽभिमतशब्दस्यापि तद्वदश्रवणं स्यात् । अविशेषात् । अथ प्रति- शब्दं विभिन्नमावरणमिष्यते । तन्न युक्तिमार्गमवगाहते । सर्वशब्दानां व्यापकत्वेन समानदेशत्वे समानेन्द्रियग्राह्यत्वे चावरणभेदस्य व्यञ्जक- भेदस्य चानुपपत्तेः । अत्र प्रयोगः । शब्दाः प्रतिनियतावरणावार्याः २५ प्रतिनियतव्यञ्जकव्यङ्गयाश्च न भवन्त्यपृथग्देशवृत्तित्वे सत्येकेन्द्रिय प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स.१. ग्राह्यत्वात् । यत्पुनर्यथोक्तसाध्यान्वितं न भवति तदपृथग्देशवृतित्वे सत्येकेन्द्रियग्राह्यमपि न भवति यथैकाम्रफलसमाश्रितौ रूपरसाविति । अनेकाम्रफलाश्रित रूपादिभिव्यभिचारः स्यात्तघ्यावृत्त्यर्थमपृथग्देश- वृत्तित्व इत्युक्तम् । एवं च, अन्यार्थ प्रेरितो वायुर्यथाऽन्यं न ५ करोति च ।। तथाऽन्यवर्णसंस्कारशक्तो नाऽन्यं करिष्यति ।।१।।' इत्यादि प्रत्युक्तमवगन्तव्यम् । यदि च ध्वनयः शब्दानां व्यञ्जकाः प्रतिज्ञायन्ते तर्हि तद्व्यापारे नियमेनोपलब्धिः शब्दस्य तु भवति तद्वि- परीतस्वरूपत्वात्तदप्यपालोचितजल्पितम् । शब्दस्य सर्वगत्वासिद्धेः । तथा हि-शब्दः सर्वगतो न भवति सामान्यविशेषवत्त्वे सति बाह्येन्द्रिय- १. प्रत्यक्षत्वात् । य एवं स एवं यथा कुम्भः । तथा च शब्दस्तस्मात्तथेति । अपि चैते ध्वनयः केन समधिगता येन तदधीना शब्दश्रुतिः स्यात् । प्रत्यक्षेणानुमानेनार्थापत्त्या वा । प्रत्यक्षेण चेत्, किं श्रावणेन स्पार्शनेन वा । न तावच्छावणेन, तथाप्रतीत्यभावात् । न हि श्रावणे चेतसि शब्दा इव ध्वनयोऽपि प्रतिभासन्ते । विवादाभावप्रसक्तेः । अथ १५ स्पार्शनेन, स्वपाणिपल्लवपिहितवक्त्रकमलो हि जल्पन्प्रमाता स्वपाणि- स्पर्शनेन ध्वनीन्समधिगच्छति । इत्यपि न्यायपराङ्मुखम् । वायुवत्ता- ल्वादिव्यापारानन्तरं वक्त्रकुहरविनिर्गतोदाबिन्दूनामप्युपलम्भतः शब्दा- भिव्यञ्जकत्वप्रसक्तेः । वक्वक्त्रप्रदेश एवं विग्रुषां प्रध्वंसतः श्रोतृश्रवण- प्रदेशे गमनाभावान्न शब्दाभिव्यञ्जकत्वमित्यत्रापि तुल्यम् । न खलु २. ध्वनयोऽपि तत्र गच्छन्तः प्रत्यक्षतः प्रतीयन्ते । शब्दप्रतिपत्त्यन्यथा- नुपपत्त्या तु प्रतीतिरुभयत्राप्यविशिष्टा । यथा च स्तिमितभाषिणः सलिलकणानां नोपलम्भस्तथा प्रसञ्जनोपलम्भोऽपि नास्ति । अथ स्तिमितास्तत्रापि पवनाः परिकल्प्यन्ते । कथं न जलबिन्दवोऽपि । विशेषाभावात् । एतेन वदतो वदनाग्रे स्थिततूलादेः प्रेरणोपलम्भादनु- २५ मानतो ध्वनीन्प्रतिपद्यन्त इत्यपि प्रत्यादिष्टम् । तद्वतोयबिन्दूनामप्यतः १ मी. श्लो, सू ६ श. नि. श्लो. ८०, ८१ ।

परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६८५ प्रतिपत्तिप्रसक्तेः । अथार्थापत्त्या ध्वनयः प्रायन्ते । तथा हि, सन्ति शब्दव्यञ्जका ध्वनयः शब्दप्रतिपत्त्यन्यथानुपपत्तेः । न हि शब्दस्य परार्थोच्चारणान्यथानुपपत्त्या प्रतिपन्ननित्यत्वस्य स्तिमितमा रुतावृत्तस्य व्यञ्जकान्वनीनन्तरेण प्रतिपत्ति रुपपद्यत इति । तदप्यवद्यम् । परार्थो- चारणान्यथानुपपतेः शब्दनित्य त्वसाधिकायाः प्रागेर परास्तत्वात् । तथा च शब्दप्रतिपत्तेरुत्पत्तिप्रकारेणाप्युपपद्यमानत्वात्ततो न ध्वनिसिद्धिः । अस्तु वा कथंचित्तत्सिद्धिः । तथापि ते किश्चित्कुर्वतः शब्द व्यञ्जयन्त्य- न्यथा वा । न तावदन्यथा। अतिप्रसक्तेः । प्रथमपक्षे तु किं ते कुर्वन्ती- ति वाच्यम् । विशिष्टं संस्कारमिति चेत्, ननु कोऽयं विशिष्टः संस्कारो नाम । शब्दसंस्कारः श्रोत्रसंस्कार उभयसंस्कारो वा । तत्राद्यपक्षे १० व्यञ्ज कवायुना यावद्वेगमभिसर्पता यावान्वर्णविभागः संस्कृतस्तावत एव श्रवणं स्यान्न समस्तस्य वर्णस्येति खण्डशस्तस्य प्रतिपत्तिः स्यात् । अथ वर्णस्य निरवयवत्वादेकत्र संस्कृतः सर्वत्रैव संस्कृतोऽसाविति नायं दोषः । तर्हि निर्विभागत्वादेवैकत्रासंस्कृतः सर्वत्र तथैवेति मना- गपि श्रवणं न स्यात् । किंच, क एष शब्दसंस्कारः । किमतिशया- १५ धानमनतिशय यावर्तनमावरणापगमो वा । तत्रातिशयाधानं दृश्य- स्वभावतापादनम् । अनतिशयव्यावर्तनं त्वदृश्यस्वभावताखण्डनम् । च शब्दाद्भिन्ने आभिन्ने वा विधीयते । यदि भिन्ने । तदा तत्करणे शब्दस्य न किञ्चित्कृतमिति तदवस्थाऽस्याश्रुतिर्भवेत् । अथाभिन्ने, तर्हि शब्दस्यापि तत्कार्यतानुषङ्गादनित्यत्वप्रसङ्गः । यो हि यस्माद. २० भिन्नस्वभावः,तत्करणे तस्यापि करणम् | यथाऽतिशयानतिशयव्यावर्तन- स्वरूपस्य । ताभ्यामभिन्नस्वभावश्च शब्द इति । आवरणापगम- पक्षोऽपि न क्षमकारः । आवरणासम्भवस्येदानीमेव प्रदर्शितत्वात् । माभूतार्ह शब्दसंस्कारः । श्रोत्रसंस्कारस्तु भविष्यति । यदाह- "अथाऽपीन्द्रियसंस्कारः सोऽप्यधिष्ठानदेशतः ॥ अतोन श्रोष्यति ते २५ .१ मी. श्लो. श. अ. श्लो. ६९,७०।

६८६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० श्रोत्रं तेनासंस्कृतशष्कुलिः ॥१॥" अधिष्ठानदेशत इति । अधि- ष्ठानसंयोगपरतन्त्रप्रदेशे । अत इत्यादि तच्च शब्दं नैव श्रोप्यति श्रोत्रं यस्य संस्क्रियमाणस्य संयोगद्वारेणावच्छोदिका शष्कुली न संस्कृतेत्यर्थः । " अप्राप्तकर्मदेशत्वाद्धनिना श्रोत्रसस्क्रिया । अतोऽधिष्ठानभेदेन ५ संस्कारनियमः स्थितः"||१॥ इति। तदप्यसमीचीनम् । श्रोत्रसंस्कार- पक्षेऽपि सकृत्संस्कृतस्य श्रोत्रस्य युगपदखिलशब्दपरिच्छेदकत्वप्रसक्तेः । न हि नेत्रमञ्जनादिना कृतसंस्कारं सत्सन्निहितं स्वगोचरं नीलपीतादिकं किंचित्पश्यति किंचिन्नेति विशेष पश्यामः । बलातैलादिना संस्कृतं श्रोत्रं वा कांश्चिदेव गकारादिवर्णाशृगोतीति नियमो दृश्यते । येना- १० त्रापि तथा कल्पना स्यात् । अथ व्यञ्जकानां वायूनां भिन्नेषु कर्णमूला- वयवेषु वर्तमानानामर्थापत्त्या प्रतिनियतवर्णश्रवणान्यथानुपपत्तिलक्षणया प्रतिनियतवर्णग्राहकत्वेन संस्काराधायकत्वस्य प्रतीते कवर्णग्राहकत्वेन संस्कृतं श्रोत्रं सर्ववर्णान्युगपद्गृह्णाति । यथा हि भवत्पक्षेऽन्यवर्ण- जनकैस्ताल्वादिसंयोगविभागैर्नान्यो वर्णो जन्यते । तथाऽस्मत्पक्षेऽपि १५ नान्यवर्णग्राहकश्रोत्रसंस्काराधायकव्यञ्जकप्रेरकैर्वायुभिरन्यवर्णग्राहको- त्रसंस्काराधायकवायुप्रेरणं क्रियते । इत्युत्पत्त्यभिव्यक्तिपक्षयोः कार्य- दर्शनान्यथानुपपत्त्या समः सामर्थ्यभेदः प्रयत्नविवक्षयोः सिद्धः । तदुक्तम् " व्यञ्जकानां हि वायूनां भिन्नावयवदेशता ॥ जाति- भेदश्च तेनैव संस्कारो व्यवतिष्ठते ॥१॥ अन्यैस्ताल्लादिसंयोगै- नान्यो वर्णो यथैव हि ॥ तथाऽन्यवर्णसंस्कारो न ध्वन्यन्तर- सारिभिः॥२॥ तस्मादुत्पत्यभिव्यक्त्योः कार्यार्थापत्तितः समः॥ सामर्थ्यभेदः सर्वत्र स्यात्प्रयत्नविवक्षयों ॥३॥ तदेतदसम्बद्धम् । इन्द्रियसंस्कारकाणां व्यञ्जकानां समानदेशसमान- धर्मापन्नसमानेन्द्रियग्राह्येष्वर्थेषु प्रतिनियतग्राहकत्वेनेन्द्रियसंस्कारक- २० " इति । १ मी. श्लो. श, अ. श्लो. ७०,७१। २ मी. श्लो. सू. ५ श. अ. श्लो.७९, ८१, ८२, ८३.

परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६८७ त्वस्य कदाचिददर्शनात् । प्रयोगयुग्मं चात्र । श्रोत्रं समानेन्द्रियग्राह्य- समानधर्मापन्नानामर्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्य न भवति, इन्द्रियत्वात् । यदित्थं तदित्थं यथा लोचनम् । तथा च श्रोत्रम् । तस्मात्तथा । शब्दाः प्रतिनियतसंस्कार संस्कार्येन्द्रियग्राह्या न भवन्ति समानेन्द्रियग्राह्यत्वे सति युगपादिन्द्रियसम्बद्धत्वात् , ५ कुम्भादिवत् । युगपदिन्द्रियसम्बद्धत्वादेतावत्युच्यमाने , एकेन्द्रियाभि- सम्बद्धरूपरसादिभिराम्रफलगतैर्व्यभिचारस्तदपोहाय समानेन्द्रियेत्यादि। अस्मिन्नेव तु सति व्यवहिताव्यवहितघटाभ्यामनेकान्तस्तन्निराकरणाय युगपदित्यादि । तन श्रोत्रसंस्कारोऽपि घटते । भवतु त भयसंस्कारः । तत्रोक्तदोषाणामसम्भवात् । तदाह-" द्वयसंस्कारपक्षे तु मृपा १० दोषद्वये वचः ॥ येनान्यतरवैकल्यात्सर्वैः सर्वो न गृह्यते ॥ १॥" द्वयसंस्कारपक्षे श्रोत्रशब्दयोः संस्कारपक्षे । यत्प्रत्येकपक्षभावे दोषद्वयस्य वचनं तन्मृषालीकम् । मृषात्वे कारणमाह येनेति । संस्कृतोऽपि शब्दो दूरस्थेनेन्द्रियसंस्कारवैकल्यानोपलभ्यते । संस्कृतेन्द्रियेणाऽपि निहितेन शब्दान्तरमसंस्कृतत्वान्नोपलभ्यते । इत्यन्यतरवैकल्यात्सर्वैः १५ सर्वेषामग्रहणं युक्तमिति । नैतदपि सूक्तम् । तथा हि, यदि संस्कृतं श्रोत्रं संस्कृत वर्ण प्रतिपद्येत तदा तं सर्वगतत्वेन प्रतिपद्यते । तत्स्वरूप- त्वात्तस्य । ततो नित्यैकरूपत्वे शब्दस्यावार्यावारकभावस्य व्यङ्गय- व्यञ्जकभावस्य चानुपपत्ते वरणकृतः समुच्चारणानन्तरमस्यानुपलम्भ इति प्रत्यक्षेणैवास्य नाशोऽवसीयते । उत्पादोऽपि तेनैव निश्चीयते । २० यथा हि चक्रचीवरादिव्यापारान्वयव्यतिरेकानुविधायित्वं घटादेरव- गम्यते । तथा ताल्वादिसंयोगान्वयव्यतिरेकानुविधाथित्वं शब्दस्यापीति घटवच्छब्दोऽप्युत्पाद्यः प्रत्यक्षलक्षित एव । अथात्र ताल्वादिसंयोगादी- नामभिव्यञ्जकत्वं कथयेः। कलशादिप्वपि चक्रादीनां किं तन्न कथयसि । कथयाम्येवेति चेत् । सत्कार्यवादमिदानी कतरण कपाट- २५ १ मी. श्लो. सू. ५ श. अ. श्लो. ८६, ८७.

૨૮૮ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० सम्पुटेन पिदधासि । नन्वालोके सति कलशादयोऽवलोक्यन्तेऽसति च नावलोक्यन्ते ततश्चानेन न्यायेनालोकस्यापि कलशादीन्प्रति कारणत्वं स्यादिति चेत् । नैष दोषः । तत्र बाधकसम्भवात् । तथा हि, प्रदीपस्य कलशं प्रति कारणत्वमङ्गीक्रियमाणं केवलस्य स्यान्चक्रादिकारणकलाप- ५ कलितस्य वा । नायः पक्षः । कलशशून्येऽप्यपवरककुहरे प्रबोधित- दीपाङ्कुरमात्रात्कलशोत्पत्तिप्रसङ्गात् । नापि द्वितीयः । चक्रादिसामग्री- विरहिणि प्रदेशे प्रबलप्रदीपकलिकाकलापप्रबोधे कदाचिदपि कलशा- नुपलब्धिप्रसक्तेः । ततश्चक्रादिसामग्रीव्यतिरेकेणापि चेदुपलभ्यते कलशः । तेन ज्ञायते प्रदीपदानात्पूर्वमप्यासीदसौ । तथा च प्रदी- १० पस्य व्यञ्जकत्वमेव । न च शब्दजनकेप्वप्येष प्रसङ्गोऽवकाशमासा- दयति । यादृशेभ्य एव तेभ्यः शब्दो जायते तादृशानामेव कारण- त्वाङ्गीकारात् । तस्माजनकाभिव्यञ्जकसामग्र्योरयमेव विशेषो यस्यां सत्यामवश्यं पदार्थोपलम्भः सा व्यञ्जिकेति सिद्धः प्रत्यक्षनिश्चयः शब्दोत्पादः । एवं च विनाशोत्पादग्राहिणा प्रत्यक्षेण प्रत्यभिज्ञा १५ बाध्यत इति स्थितम् । प्रयत्नानन्तरीयकत्वेनापि शब्दस्य कार्यत्वनि- श्चयात्प्रत्यभिज्ञाबाधः सिध्यति । ननु कूपखननादिप्रयत्नानन्तरमाकाशं समुपलभ्यते न च तत्कार्यमतोऽनैकान्तिकत्वमस्य । उक्तं च- अनैकान्तिकता तावद्धेतूनामिह कथ्यते । प्रयत्नानन्तरं दृष्टि- नित्येऽपि न विरुध्यते ॥ ॥ आकाशमपि नित्यं स्याद्यदा भूमि- २० जलावृतम् ॥ व्यज्यते तदपोहेन खननोत्सेचनादिभिः॥ २ ॥ प्रयत्नानन्तरं ज्ञानं तदा तत्रापि विद्यते ॥ तेनानैकान्तिको हेतुर्य- दुक्तं तत्र दर्शनम् ॥ ३ ॥ अथ स्थगितमप्येतदस्त्येवेत्यनुमीयते।। शब्दोऽपि प्रत्यभिज्ञानात्प्रागस्तीत्यवगम्यते ॥४॥" यदुक्तं तत्र दर्श- नमिति । प्रयत्नानन्तरं दर्शनं शब्दस्यानित्यत्वसाधनाय हेतुतया यदुक्तं २५ तदनैकान्तिकमित्यर्थः। अथ स्थगितमपीति। अथ पुनः पिहितमप्याकाशं १ मी. श्लो. सू. ५ श. नि. श्लो. २९, ३०, ३१, ३२, ३३.

परि. सू. १.] 'स्याद्वादरत्नाकरसहितः ६८९; पृथिव्यादिना कथंचित्पृथिव्याद्यवस्थानान्यथानुपपत्त्यैवास्तीत्यनुमीयते । ततश्च प्रागर्व चानुपलब्धेरसिद्धत्वादनैकान्तिकत्वाभाव इत्युच्यते । प्रत्यभिज्ञानबलाच्छब्दोऽप्यस्तीत्यवगम्यते । पुनश्च विनाशकारणाभावा- दिति । ततश्च तयैवोपलब्ध्या तद्विपरीतमनुमानं विरुध्यत इति । एतदपि न क्षोदक्षमम् । एकत्वस्वरूपत्वस्य गगनेऽप्यसिद्धत्वात् । ५ तत्खल्वेकस्वरूपं सत्स्वगोचरविज्ञानजननैकस्वरूपं तद्विपरीतं वा भवेत् । यदि तजननैकस्वरूपम् । तदा तस्य न खननाद्यनन्तरमेवोप- लब्धिः । किन्तु पूर्वमपि स्यात् । तद्विपरीतस्वभावत्वे कदाचनाप्युप- लम्भो न भवेत् , विशेषाभावात् । विशेषे वा तदेकरूपताव्याहतिः । प्रत्यभिज्ञानाच्छब्दे प्राक्सत्त्वप्रतीतिश्च च्छिन्नोद्भिन्नकररुहकुन्तलादा- १० वपि समाना । यदप्पवादि प्रत्यक्षत्वं चास्य श्रोत्रेन्द्रियान्वयव्यतिरे- कानुविधायित्वात्सुप्रसिद्धमित्यादि । तदप्यसम्बद्धम् । प्रत्यभिज्ञानस्ये- न्द्रियान्वश्रव्यतिरेकानुविवाधिदर्शनस्मरणान्वयन्यतिरेकानुविधायित्वेन तस्य पूर्व प्रसाधितत्वात् । प्रत्यक्षतायां चास्यातीतकालसम्बद्धत्वेन शब्दनिर्णायकत्वायोगः । सम्बद्धवर्तमानार्थग्राहित्वात्त्वन्मते प्रत्यक्षस्य। १५ तदयोगे वा कथं योगिप्रत्यक्षाधिक्षेपो भवतः शोभते । प्रत्यक्षत्वेऽप्यस्य तद्वदतीताद्यर्थग्राहकत्वाविरोधात् । समर्थितं च प्रागेवाऽस्य विस्तरेणा- प्रत्यक्षत्वम् । यदप्युक्तमेवं प्रत्यभिज्ञानप्रत्यक्षमाहात्म्यतः शब्दस्य नित्यत्वे प्रतिपन्ने इत्यादि । तदप्यवधम् । शब्दनित्यत्वग्राहकप्रत्यभि- ज्ञानस्यानन्तरमेव निराकृतत्वात् । यदपि न्यगादि विवादाध्यासितः २० काल एतद्गादिसम्बद्धः कालत्वादित्यादि । तदपि प्रलापमात्रम् । गादेरुच्चारणादनन्तरं विनाशस्य प्रत्यक्षप्रतिपन्नत्वेन प्रतिपादनात् । नित्यत्वसाधकानुमानस्य प्रत्यक्षविक्षितपक्षत्वेनागमकत्वात् । विद्युदादे- रपि चैवं नित्यत्वं स्यात् । तथा हि विवादाध्यासितकाल एतद्विद्यु- दादिसम्बद्धः कालत्वादिदानीन्तनकालवत् । प्रतीतिबाधाऽन्यत्रापि २५ समाना । नित्यः शब्दः श्रावणत्वादित्याद्यपि विचारपराङ्मुखम् ।

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० उदात्तादिभिधम्मैरनैकान्तिकत्वात् । ते हि श्रवणग्राह्यत्वेऽपि न नित्या भवद्भिरङ्गीकृताः । तेषामश्रावणत्वे तु नीलादीनामिव श्रोत्रेणोपलम्भो न भवेत् । वीणादिशब्दैश्वानैकान्तिकत्वम् ! तेषां श्रावणत्वेऽप्य- नित्यत्वात् । यच्चान्यदवादि देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धय ५ इत्यादि । न तदपि सुन्दरम् । गोशब्दलिपिबुद्धया हेतोरनैकान्तिक- त्वात् । सा हि गौरित्युल्लेखेनोत्पद्यते न चैकगोशब्दविषया। देश- कालादिभिन्नत्वाद्गोशब्दलिपीनाम् । नचैवं विषयभेदः क्वापि प्रसिद्धपद्धतिमास्कन्दति । सकलबुद्धीनामभिन्नविषयत्वप्रसङ्गात् । तथा हि, देशकालादिभिन्नवस्तुबुद्धय एकगोचरा न चाने कगोचरा वस्तु- १० बुद्धित्वात्सम्प्रत्युत्पन्नघटबुद्धिवत् । एवं च निखिलवस्तुबुद्धीनामेक- घटलक्षणवस्तुगोचरत्वे घटबुद्धित्वमेव भवेत् । न गोशब्दव्यक्तिबुद्धीनां धर्मित्वम्। कथं वा गोशब्दबुद्धित्वं हेतुः । सम्प्रत्युत्पन्नगोशब्दबुद्धिव- दिति दृष्टान्तः सिद्धयेत् । यतोऽनुमानं स्यात् । यदप्यवादि ह्यस्तनो गोशब्दोऽद्याप्यनुवर्तत इत्यादि । तदपि न नीतिशीलान्प्रीणाति । १५ अन्यथानुपपत्तिशून्यत्वेन हेतोरत्राप्रयोजकत्वात् । कथमन्यथा ह्यस्तना- द्यतनसौदामिनीप्रकाशयोरप्येकत्वं न भवेत् । शक्यं हि वक्तुं ह्यस्तन- विद्युत्प्रकाशोऽद्य तस्याभिन्नरूपस्य प्रत्यक्षतः प्रतीतेः । शब्दे तारत्वा- दयो धर्मा न स्वाभाविका इति चेत् । तदशोभनम् । स्वाभाविकत्वा- वधारणन्यायस्य यत्र तत्र प्रसिद्धस्यात्रापि तुल्यत्वात् । न हि पयसि २० शैत्यद्रवत्वे तेजसि वा भास्वरत्वोष्णत्वे स्वाभाविके इत्यत्रान्यत्प्रमाणं प्रत्यक्षात् । अथ पयःप्रमुखेषु शैत्यादीनां स्वाभाविकत्वेनैव प्रत्यक्ष ग्राहकं युक्तमन्यस्योपचारहेतोरनुपलम्भान्नियमेन तद्गतत्वेन चोपलम्भा- दिति चेत् । शब्देऽपि तारतारत्वादीनामेवमस्तु, विशेषाभावात् । तथाऽप्यतीन्द्रियः कश्चिदुपाधिरस्ति तद्गताः शब्दे तारतारतरत्वादयोऽ- २५ वभासन्त इति शङ्किप्यत इति चेत् । किन्न पयःप्रमुखेष्वपि शैत्यादी- नामतीन्द्रियान्यधर्मत्वं शङ्कयते । तत्किं यद्गतत्वेन यदुपलभ्यते तस्यै- परि. ४ सू.१०] स्याद्वादरत्नाकरसहितः वाऽसौ धर्मः । तथोपगमे पीतत्वस्य शङ्खगतत्वेन प्रतिभासादेतदपि तस्यैव धर्मः स्यात् । अविशेषात् । तन्न्यायापेतम् । पीतत्वस्यान्यधर्म- त्वस्थितौ शङ्खस्य च तद्विरुद्धधर्मत्वे स्थिते कामलाद्यन्वयव्यतिरेका- नुविधाने च पीतत्वोपलम्भस्य बाधेन भ्रान्तत्वावधारणात् । न चेह तारतारतरत्वादेरन्यधर्मतास्थितिः । नापि शब्दस्य तारतारतरत्वादि- ५ विरुद्धधर्मत्वम् । नापि तारतारतरत्वाद्युपलम्भस्य ध्वनिरूपत्वाद्यन्वयव्य- तिरेकानुविधायित्वम् । तथापि शङ्का स्यादिति चेत् । एवमियं सर्वत्र स्यात् । तथा च न कचित्कुतश्चित्किंचित्सिद्धयेत् । न चेदं शङ्कितुमपि शक्यते । अप्रतीते तारतारतरत्वादीनां ध्वनिरूपवायुधर्मत्वे संस्कारा- भावात्संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात् । न च प्रतीयन्त १० एवाऽमी तद्धर्मा इाते वाच्यम् । रूपरसगन्धस्पर्शेष्वनन्तर्भावेन तेषु भावरूपेषु चक्षुरादीनामव्यापाराभावात् । न च श्रवणेनैव तत्प्रतीतिः । तथा सति तेषां वायुधर्मत्वविरोधात् । तथा हि तारतारतरत्वादयो न वायुधाः श्रावणत्वात् , कादिवत् । यदि पुनरेवं नेष्यते । तदा कादीनामपि वायवीयत्वप्रसङ्गः । अस्त्वेवं को दोष इति चेत् । उच्यते। १५ वायवीयाः सन्तोऽमी कादयः किं वाय्ववयविगुणा भवेयुर्वायु- परमाणुगुणा वा । आद्यपक्षे तेषामनित्यताप्राप्तिः। अवयविविनाशे तेषामप्यवश्यं विनाशभावात् । द्वितीये तु कथं ग्रहणं तेषां तद्गतान्य- गुणवत् । एवं च, प्रत्यक्षेण तेषामन्यधर्मतया कदाचिदग्रहणे संस्का- राभावात्कथं शब्दे समारोपः । न चैते प्रमाणान्तरेणापि कदाचि- २० दृह्यन्ते । अथ ध्वनिभेदसंस्कारवशादेव श्रोत्रस्येदृशः सामर्थ्यभेद आविरस्ति । यत आरोप्याग्रहेऽपि भ्रमो भवति । मण्डूकवसाक्ताक्षा- णामिवानवगतवंशोरगाणामपि प्रथमाक्षसन्निपाताद्वंशेषूरगारोपमतिः । तदसाम्प्रतम् । सर्वासामपि भ्रान्तीनामारोप्यारोपविषयग्रहणपुरस्सरत्व- नियमात् । तदनुसारेण च मण्डूकवसाक्ताक्षाणामपि वंशेषूरगभ्रमो २५ व्याख्येयः । वंशे ज्ञात एव सत्यनन्तरं सर्पप्रेमभावात् । कथमेवं नानु- . ६९२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० भवोदय इति चेत् । क्षणभेदस्य दुर्लक्ष्यत्वात् । न चागृहीतसर्पस्य सर्पभ्रमा भवतीति वक्तुं शक्यम् । तस्मिञ्जन्मनि जन्मान्तरे वा सर्पग्रहणसम्भवात् । ध्वनिवर्मस्तु तारतारतरत्वादिरस्मिन्निव जन्मनि जन्मान्तरेऽप्यशक्यग्रहण एव । तस्माद्वर्णाविप्वम्भूतस्तारतारतरत्वादिः ५ प्रतीयमानो वर्णधर्म एवेति । अनौपाधिकप्रतीत्या तीव्रतादिधर्मस्य . सौदामिनीदान इव तारतारतरत्वादिधर्माधिकरणस्य शब्दस्यापि सिद्धः प्रत्यक्षतो भेदः । तथा च तदेकत्वानुमानस्यापि तदाभासत्वमवसेयम् । एतेनाद्यतनो गोशब्दो ह्याऽप्यासीदित्यादि प्रतिक्षिप्तम् । न्यायस्य सह- शत्वात् । यदप्यभाषि शब्दो दीर्घकालस्थायीत्यादि । तदपि चेष्टयाऽ- १० नैकान्तिकम् । तस्याः सम्बन्धवलेनार्थप्रतीतिहेतुत्वऽपि दीर्घकालमव- स्थानाभावात् । एतेन यः पुनरस्थिरः स सम्बन्धबलेन नार्थप्रतीति जनयतीत्यादि पराकृतम् । चेष्टायाः सम्बन्धबलेनार्थबोधकत्वेऽपि तादा- त्विकनिमित्तत्वसम्भवात् । ततश्चायुक्तमेतत्कंचित्कालं स्थिरः शब्दः सर्वकालमपि स्थिर इत्यादि । कञ्चित्कालं स्थिरत्वस्येत्थं शब्दे निरा- १५ कृतत्वेनासिद्धत्वात् । अनैकान्तिकं कश्चित्कालस्थिरत्वमचिररोचिः: प्रमुखे । तेषां तत्सद्भावेऽपि साधनमसिद्धम् । तत्सिद्धिनिबन्धनस्य कश्चित्कालस्थिरत्वस्य हेत्वाभासत्वेन प्रोक्तत्वात् । कादाचित्कत्वाच्च शब्दे तदसिद्धम् । तथा हि यत्कदाचित् न तद्विनाशहेतुशून्यम् यथा सौदामिनीदामादिकम् । कादाचित्कश्च शब्द इति । यदपि २० विवादाध्यासितः कालो गादिशब्दशून्यो न भवतीत्यादिकमवादि तदपि विद्युदादौ तुल्यत्वादयुक्तम् । तथा हि विवादविषयापन्नः कालः सौदा- मिन्यादिशून्यो न भवति कालत्वात्तत्सत्त्वोपेतकालवत् । प्रत्यक्षबाधनं पुनरुभयत्रापि समानम् । यच्च प्रत्यपादि नित्यः शब्दः परार्थं तदु- च्चारणान्यथानुपपत्तेरित्यादि । तदप्यनौपयिकम् । परार्थं तदुच्चारणस्या- २५ न्यथाप्युपपत्तेः । अनित्यत्वेऽपि शब्दस्य सादृश्यवशादेवार्थे सम्बन्ध- ग्रहणसम्भवेन तत्प्रतिपत्तिघटनात् । यदप्यभिहितम् । अन्यस्मि- परि. ४ सू. १.] स्याद्वादरत्नाकरसहितः ज्ञातसंबन्धे न चान्यो वाचको भवेदित्यादि । तदपि नोपपन्नम् । न खलु य एव सम्बन्धावबोधसमये समुपलब्धस्तेनैवार्थप्रतिपत्तिर्विधेयेति नियमः समस्ति । प्राक्प्रदेशपरिछिन्नधूमसदृशादपि मेदिनीधरधूमा- द्धनञ्जयावबोधसमधिगमात् । न च महीध्रमहानसाधिकरणयोधूम- व्यक्त्योरक्यं सम्भवति । प्रतीतिविरोधात् । सर्वगतत्वप्रसङ्गाच्च । अथ धूमसामान्यस्यात्र गमकत्वमिष्यते । इतरत्रापि सामान्यस्यैव वाचकत्व- मिष्यताम् । विशेषाभावात् । नन्विह सामान्य शब्दत्वं गत्वादि वा वाचकत्वेनाभिप्रीयते । आद्यपक्षे, तस्य सर्वत्राविशेषात्सर्वेऽर्थाः सर्व- शब्देभ्यः प्रतीयेरन् । न खलुः कारणानियमे कार्यनियमो भवितु- मर्हति । तस्याकस्मिकत्वप्रसङ्गात् । द्वितीथे तु गादीनामेकैकव्यक्तिरू- १० पत्वेन भेदाभावान्न तत्र गत्वादिसामान्यं सम्भवतीति कथं तस्य वाच- कत्वमिति चेत् । तदप्यसाम्प्रतम् । तेषामपि तारतारतरत्वादिभेदतो नानाव्यक्तिरूपत्वसम्भवात्, गत्वादिसामान्यसद्भावोपपत्तेः । न च व्यञ्जकभेदकृत एवायं तारतारतरत्वादिभेदप्रत्ययो गकारादाविति मन्त- व्यम् । यरलवादिवर्णभेदप्रतिभासस्यापि व्यञ्जकप्रभञ्जनभेदनिबन्धनत्वा- १५ पत्त्याऽखिलवर्णविकल्पातीतनिरवयवाक्रमैकशब्दब्रह्माङ्गीकारप्रसङ्गात् । यरलवादीनां परस्परविभिन्नस्वरूपावगमाविषयभेदनिबन्धन एव तद्भेदप्रतिभासो नोपाधिहेतुकः । तर्हि सर्गस्वर्गगर्गगाङ्गेयगङ्गादौ गकारभेदप्रत्ययोऽप्ययं न व्यञ्जकवायुभेदनिमित्तः । तत्राप्यन्योन्य- विभक्तगकारस्वरूपप्रतिभासाविशेषात् । वक्तृभेदे हि सति शुकशा- २० रिकामनुप्येषु व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रतिभासस्तन्निबन्धनः कथंचित्सम्भावनाभुवमवतरे । वक्त्रैकत्वे पुनर्गाङ्गेयादौ कुतस्तन्निमित्तो भेदप्रत्ययः । ननु तत्रापि भिन्ना एव नभस्वन्तो व्यञ्जकाः, वदनं पुन- रेकमस्तु किं तेन तदपि वा भिन्नमित्येके । नैतदप्युपपन्नम् । एवं हि यरलवादीनामपि परस्परं भेदो दुरुपपादः । तत्रापि व्यञ्जकप्रभञ्जन- २५ भेदस्य विद्यमानत्वाविशेषात् । ननु यरलवादिषु विशेषप्रतीतिः, समस्ति अथ ४४ . ६९४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० गकारेषु नास्ति । उच्चारणस्यैव हि तत्र भेदो नोच्चार्यमाणस्येति चेत् । तदप्यनुचितम् । तत्रापि विशेषप्रतीतेः सद्भावात् । ननु यथा शाव- लेयादौ खुरककुदाद्यवयववर्तिनः । प्रतिव्यक्ति विशेषाः सुस्पष्टमा- भासन्ते तथा गाङ्गेयादावपि गकारे ते सुस्पष्ट किं नावभासन्त इति ५ चेत् । तत्किं तिलतण्डुलकलापादाविव शावलेयादावपि प्रत्येकं त्रिकोण- त्वादि सुस्पष्टविशेषावभासोऽस्ति येन भेदावभासः स्यात् । अथ तत्र त्रिकोणत्वादिविशेषाप्रतिभासेऽपि प्रतिभासन्त एव सुस्पष्टं देशभेदादयः केचिद्विशेषाः केचिद्विशेषाः । तर्हि शुकशारिकादिसमुदी- रितगादेरपि गोपालादीनामपि सुस्पष्टं तारतारतरत्वादिविशेषावभासो १० विद्यत एव । एतेन यदपि भट्टेनोच्यते " दृश्यते शावलेयादि- व्यक्त्यन्तरविलक्षणा ॥ बाहुलेयादिगोव्यक्तिस्तेन भेदोऽस्ति वा- स्तवः ॥ १॥ न तु द्रुतादिभेदेन निष्पन्ना सम्प्रतीयते ॥ गव्य- क्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥२॥” इति तदपि परास्तम् । नन्वस्त्वेवं तारत्वादीनां विशेषाणां तत्र ग्रहणं किं त्वारो- १५ पितम् । तदप्ययुक्तम् । आरोपितरूपवैलक्षण्यात् । तथा हि यदा- रोपितरूपं वस्तु तदनारोपितनिजस्वरूपसम्बन्धितयाऽप्युपलभ्यते यथा स्फाटिको मणिनैसर्गिकश्चेतिन्ना । न चाऽमी गकारादयो वर्णाः कदा- चिदपि तारतारतरत्वादिधम्मसस्पशशून्याश्श्रुत्या प्रतिभासन्ते तत्कथं तेषां गकारादिषु समारोपः । एवं च, यथा बुद्धीनां स्तम्भकुम्भादिविषय- २० विशेषशून्यानामसंवेदनात्प्रतिविषयं नानात्वं तथा वर्णानामपि गका- रादीनां प्रति तारतारतरत्वादिविशेषं नानात्वं सिद्धम् । ननु बुद्धिरप्ये- कैव विषयभेदोपाधिनिबन्धनस्तद्भेद इति वेत् । मैवम् । क्षणिका हि सा न चिरकालमवतिष्ठते " इत्यभिधानेन स्वयमेव तद्भेदाभ्युप- गमात् । यथा च शुक्लो गुणो भास्वरधूसरादिभेदवत्तयोत्क्षेपणादि २५ कर्म च स्वकीयक्षणविशेषवत्तया नानात्वं प्रतिपद्यते तथा वर्णोऽपि १ मी. श्लो. वा. श्लो. २१।२२।

परि. • ४ सू. १.] स्याद्वादरत्नाकरसहितः ६९५ . तारतारतरत्वादिभेदवत्तयेति । ननु शुक्लो गुण उत्क्षेपणादि कर्म चैक- मेवाधारभेदात्तु तद्भेदप्रतिभास इति चेत् । अहो प्रतीयमानापला- पित्वम् । एक कर्म प्राणिनां बुद्धिरेका सर्वत्रैकः श्वेतरूपो गुणश्च ॥ एतत्सर्व हंत मीमांसकानांमध्ये व्यक्तं स्वप्रियाबाहुकर्म ॥५५९॥ ५ किंचैकात्मवादोऽप्येवं कथं प्रतिक्षिप्यते । सुखदुःखादिभेदस्य शरीरभेदेनाऽपि सम्भवात् । ततो बुद्धयादिवत्सर्वदा सविशेषाणामेव वर्णानां प्रतीयमानत्वान्नानात्वमनिवार्यम् । ननु गगनादावकारोपश्लेष- कृत एव भेदप्रतिभासो न स्वरूपभेदकृत इति चेत् । तदपि न निर- वद्यम् । अकारस्यापि भवन्मते भेदाभावात् । असत्यपि चाऽकारो- १० पश्लेषे दिग्गजो दिग्गज इति भेदेन प्रतिभासो भवत्येव । न खलु दिग्ग इत्यत्रोपरितनगकारस्याकारान्तरेणोपश्लेषः समस्ति । एवं सम्मदः सम्मदः पट्टः पट्ट आसन्नमासन्नं मल्लो मल्लः पत्तिः पत्तिः पत्तनं पत्तनमित्यादिषु वर्णभेदप्रतीतिः सुव्यक्तैव । अर्थप्रतीतिभेदोऽपि च दिग्गजादौ शब्दान्तरनिमित्तको भवितुमर्हति न द्विरुच्चारणकृतो १५ ग्रन्थाधिक्यात् । स खल्वाधिक्यं नोच्चारणभेदात् । सहस्रशोऽपि प्रयुक्ते गवादिशब्दे सास्त्रादिमदर्थव्यतिरिक्तवाच्यसम्प्रत्ययाभावात् । शब्दविदोऽपि दिग्गज इति द्विगकारकोऽयं निर्देश इत्यभिदधति न तु द्विर्गकार उच्चारित इति । ननु गोगिरिगुरुगेहादावर्थभेदेऽपि गकारप्रती- त्यनुवृत्तिदर्शनादेक एवाऽयं गकारः । मैवं वोचः । न हि वयमभेदप्र- २० त्ययमपङमहे । किन्तु भेदप्रत्ययस्यापि बाधाविकलस्य सद्भावादन- न्यथासिद्धत्वाच्च गवादिवत्सामान्यविशेषरूपतां गकारादेर्वर्णस्य वर्ण- यामः । व्यञ्जकभेदनिबन्धनत्वं तु भेदप्रत्ययस्य यरलवादावपि वक्तुं शक्यमिति प्रावप्रतिपादितमेव । किंच शावलेयादिभेदप्रतीति- रपि व्यञ्जकभेदनिर्मितत्वादेक एव गोस्त्रिभुवनेऽपि स्यात् । ननु २५ कश्चात्र व्यञ्जको यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते । आह च-"न ६९६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा ॥ पिण्डव्यङ्गयैव गोत्वा- दिजातिनित्यं प्रतीयते ॥१॥” इति तदपि न तर्ककर्कशकुशा- ग्रीयबुद्धीनां वचः । गोत्वजातेर्गत्ववदिदानी विवादाविषयापन्नत्वात् । भेदप्रत्ययस्य तु चक्षुर्व्यापारभेदादपि सम्भाव्यमानत्वात् । ननु सकृदपि ५ व्यापृतनेत्रस्य परस्परविविक्तगोपिण्डप्रतिभासः समुपजायत इति । तर्तिक प्रथमश्रोत्रव्यापारवेलायां गाङ्गेयगङ्गादौ गकारभेदप्रतिभासो नोप-' जायते । तथा चात्र प्रयोगः । गकारादिवर्णः प्रत्येकमनेको बाधका- भावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वात् । य एवं स एवं यथा ब्रह्मवृक्षादिः । तथा चायम् । तस्मात्तथेति । न तावदत्रैकेन पुरुषेण १० क्रमशोऽनेकदेशतयोपलभ्यमानेन हेतोरनैकान्तिकत्वमाशङ्कनीयम् । युगपद्रहणात् । नाप्येकेन सहलदीधितिना नानापुरुषैः सकृद्भिन्नदेश- तयोपलभ्यमानेन व्यभिचारः । बाधकाभावे सतीतिविशेषणात् । न ह्येकस्मिन्नहिमरश्मौ भिन्नदेशतयोपलभ्यमाने बाधकाभावः । प्रतिपुरुष क्रमलङ्घनानुपलम्भस्य बाधकस्य सद्भावात् । नापि नानाजलपात्रसान्त- तिग्मरश्मिबिम्बेन प्रत्यक्षतो दृश्यमानेन हेतोरनेकान्तः । तस्य दिनकरकरनिकरसन्निधिमपेक्ष्य तथापरिणममाणस्यानेकत्वात् । अथ पर्वतादिनैकेनास्य हेतोळभिचारः । तस्यैकस्यापि बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वादिति चेत् । न । तस्याप्यवयवरूप- तया नानात्मकस्य सतो बाधकामावे सति युगपद्भिन्नदेशतयोपलभ्य- २० मानत्वव्यवस्थितेः । निरवयवत्वे तथाऽभावविरोधादेकपरमाणुवत् । व्योमादिना तदनैकान्तिकत्वमनेन प्रत्युक्तम् । तस्याऽप्यनेकप्रदेशत्व- प्रसिद्धेः । व्योमादेरनेकदेशत्वादेकद्रव्यत्वपिरोध इति चेत् । न । नानादेशस्यापि घटादेरेकद्रव्यत्वप्रतीतेः । न खेकप्रदेशत्वेनैवैकद्रव्यत्वं व्याप्तम् । येन परमाणोरेकद्रव्यता । नापि नानाप्रदेशत्वेन । यतो २५ घटादेरेवैकद्रव्यतेति समवतिष्ठते । एकद्रव्यत्वपरिणामेनैकद्रव्यताया १५ १मी. श्लो. वा. स्फोटवादे श्लो. ३६।३५ ।

परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६९७ व्याप्तत्वप्रदर्शनात् । सकललोकप्रसिद्धा ह्येकद्रव्यत्वपरिणतस्यैकद्रव्यता। नानाद्रव्यत्वपरिणतानामर्थानां नानाद्रव्यतावत् । स्यादेतबाधकाभावे सतीति हेतुविशेषणमसिद्धम् । गङ्गेत्यादौ गकारवर्णस्य सर्वगतस्य युगपद्व्यञ्जकदेशभेदाद्भिन्नदेशतयोपलभ्यमानस्य स्वतो देशविच्छिन्न- तयोपलम्भासम्भवादिति । तदयुक्तम् । तस्य सर्वगतत्वासिद्धेः । कूटस्थ- ५ त्वेनाभिव्यङ्गयत्वप्रतिषेधाच्च । अथोच्यते सर्वगतः शब्दो नित्यद्रव्यत्वे सत्यमूर्त्तत्वादाकाशवदिति द्रव्यत्वादित्यभिधीयमाने घटादिना व्यभि- चारस्तन्निषेधार्थं नित्यग्रहणम् । तथाऽप्यणुना व्यभिचारस्तद्व्यवच्छेदार्थ- ममूर्तग्रहणम् । अमूर्तत्वादित्यभिधीयमाने परमाणुत्वापरिमाणेनाऽनेकान्त- स्तदपोहाय द्रव्यत्व इति । एतदपि न शब्दगतसर्वगतत्वप्रसिद्धये १० प्रभवति । जीवद्रव्येणाऽनैकान्तिकत्वात् । तस्यापि साम्प्रतं पक्षीकर- णान्न तेनाऽनेकान्त इति चेत् । न । प्रत्यक्षविरोधात्प्रतिज्ञायाः । श्रोत्र- प्रत्यक्षं हि नियतदेशतया शब्दमुपलभते स्वसंवेदनाध्यक्षं चात्मानं शरीरपरिमाणानुविधायितयेति । स्वरूपासिद्धश्च हेतुः । सर्वथाऽपि नित्यद्रव्यत्वामूर्तत्वयोधर्मण्यसम्भवात् । तदसम्भवश्व नित्यत्वस्य निरा- १५ करणात्पौद्गलिकत्वेन शब्दमूर्तत्वप्रसाधनाच्च । तदेवं सुव्यक्तो गाङ्गेय- गङ्गादौ गकारादिभेदप्रतिभास इति सिद्धमनेकगादिव्यक्तिषु वर्तमानं गत्वादिसामान्यमिति । यच्चोक्तं सादृश्येन शब्दादर्थावबोधासम्भवादि- त्यादि । तदप्यसत् । प्रतिपादितयुक्तया वर्णैकत्वस्य निराकृतत्वेन सर्वेषामपि य एव सङ्केतावसायसमये मया ध्वनिरुपलब्धः स एवाऽय- २० मित्येकत्वप्रतीतेरेव नीलम वरमिति प्रतीतिवत् प्रान्तत्वात् । यत्तूक्तं सादृश्यादर्थप्रतीतौ भ्रान्तः शब्दप्रत्ययः स्यादिति तद्भूमाद्भूमध्वजादेः प्रतिपत्तावपि तुल्यम् । यच्चोक्तं न च भूयोऽवयवसामान्ययोगस्वरूपमि- त्यादि । तदप्यसारम् । सदृशपरिणामलक्षणस्यैव सादृश्यस्य व्यव- स्थितेः । वर्णानां च निरवयवत्वमसिद्धम् । तेषां पौद्गलिकत्वसमर्थ- २५ नात् । यदप्यवादि न च गत्वादिविशिष्टानां गादीनां वाचकत्वं युक्तं ६९८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० गत्वादिसामान्यस्याभावादिति । तदप्यसत्यम् । गत्वादिसामान्यस्य साधितत्वात् । यच्च नित्यत्वं व्यापकत्वं चेत्यादिकारिकाजालमजल्पि तदपि निष्फलंम् । नित्यत्वव्यापकत्वयोः शब्दे सविस्तरमनन्तरमेवा- पास्तत्वात् । यदप्यमाणि जलपात्रेषु हीत्यादि तदप्यसम्बद्धम् । तत्रो- ५ पलभ्यमानस्यादित्यप्रतिबिम्बस्याऽनेकत्वात् । गगनतलावलम्बी हि कम लबन्धुस्तत्रोपलभ्यत इत्यत्र न प्रत्यक्षं प्रमाणम् । तत्र तत्स्वरूपाप्रति- भासनात् । तस्य हि स्वरूपं गगनतलावलम्बि चैकं च । न चेदमव- भासते । यच्चावभासते जलपात्रावलाम्ब चाऽनेकं च । तद्वृक्षछा- यादिवद्वस्त्वन्तरमेव । न चाऽन्यप्रतिभासेऽन्यप्रतिभासो नाम, १० अतिप्रसङ्गात् । न च जलभानोर्गगनभानुना सादृश्यादेकत्वम् । त्रस्तकुरङ्गदारकशोरत्यन्तसदृशयोरेकत्वप्रसङ्गात् । न च कादम्बि- न्यादेव्योमभानोर्विकारे जलभानोर्विकारावलोकनादेकत्वमिति मन्त- व्यम् । वृक्षछाययोरपि तत्प्रसङ्गात् । ननु तत्प्रतिबिम्बानां वस्त्वन्तरत्वे कुतः प्रादुर्भावः स्यादिति चेत् । जलादित्यादिलक्षणस्वसामग्रीविशेषा- १५ दिति ब्रूमः । स्वच्छताविशेषाद्धि जलदर्पणादयो मुखादित्यादिप्रति- बिम्बाकारविकारधारिणः सम्पद्यन्ते । ततो निराकृतमेतत्, अत्र ब्रूमो यदा तावज्जले सौर्येण इत्यादि । स्वप्रदेशस्थतया सवि- तुर्ग्रहणासिद्धेः । “ चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम्" इति चाऽतीवाऽसङ्गतम् । प्रमाणाभावात् । न हि चक्षुस्तेजांसि जलेनाभिस- पुनः सवितारं प्रति प्रवृत्तानि प्रत्यक्षादिप्रमाणतः प्रतीयन्ते । यथा च नयनरश्मीनां.. विषयं प्रति प्रवृत्ति- र्नास्ति तथा चक्षुषोऽप्राप्यकारित्वप्रघट्ट के प्रतिपादितमित्यलमति- विस्तरेण । ततो यद्यत्स्वभावतया कुतश्चिदपि प्रमाणान्न निश्चीयते न तत्तत्स्वभावतया स्वीकर्तव्यम् । यथा विश्वमद्वैतस्वभावतया । सर्वथा २५ नित्यस्वभावतया न निश्चीयते च कुतश्चिदपि प्रमाणाच्छन्द इति । अनित्यस्वभावतायां तु प्रमाणसद्भावात्तद्रूपतयाऽसौ स्वीकरणीयः । २० म्बध्य परि. ४ सू. १०] स्याद्वादरत्नाकरसहित तच्च प्रमाणमनित्यः शब्दः कृतकत्वात् । यत्कृतकं तदनित्यं दृष्टं यथा कुम्भः । कृतकश्च शब्दः । तस्माद्यथोक्तसाध्याधिकरणमिति । न चात्र कृतकत्वमसिद्धम् । तस्याधस्तात्प्रसाधित्वात् । तथा शब्दः परिणामी वस्तुत्वान्यथानुपपत्तेरिति । न चात्र वस्तुनः प्रतिक्षण- विवर्तेनैकेनानेकान्तः शङ्कनीयः । तस्य वस्त्येकदेशतया वस्तु- ५ 'त्वाव्यवस्थितेः । न च तस्यावस्तुत्वम् । वस्त्वेकदेशत्वाभावप्रसङ्गात् । तदुक्तम्-"नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥१॥” इति । वस्तुत्वस्याऽन्यथा- नुपपत्तिरसिद्धेति चेत् । शान्तम् । एकान्तनित्यत्वादौ पूर्वापरस्वभाव- त्यागोपादानस्थितिलक्षणपरिणामाभावे क्रमयोगपद्याभ्यामर्थक्रियाविरो- १० धाद्वस्तुत्वासम्भवादिति नैकान्तनित्यः शब्दः । नापि सर्वथा द्रव्यम् । पर्यायात्मतास्वीकरणात् । स हि पुद्गलस्य पर्यायः । क्रमशस्तत्रोद्भवात् । छायातपादिवत् । कथंचिद्रव्यं शब्दः । क्रियावत्त्वाद्वाणादिवत् । अस्तिभवतीत्यादिकया धात्वर्थलक्षणया क्रियया क्रियावता गुणादिनाऽ- नेकान्त इति चेत् । न । परिस्पन्दरूपया क्रियया क्रियावत्त्वस्य हेतुत्वेन विवक्षितत्वात् । क्रियावत्त्वमसिद्धमिति चेत् । न । देशान्तरप्राप्त्या शब्दस्य क्रियावत्त्वप्रसिद्धेः । इतरथा वाणादेरपि निष्क्रियत्वप्रसङ्गात् । ततः कथञ्चिद्व्यं शब्द इति सिद्धम् । मूर्तिमांश्चासौ मूर्तिमव्यप- यित्वाद्धटवत् । न च मूर्तिमद्र्व्यपर्यायत्वमसिद्धम् । तत्प्रसाधकस्या- नुमानस्य सद्भावात् । तद्धि शब्दो मूर्तिमव्यपर्यायः सामान्यविशेष- २० वत्त्वे सति बाह्येन्द्रियविषयत्वात्पादपादिवत् । न घटत्वादिसामान्येनात्र हेतोर्व्यभिचारः । सामान्यविशेषवत्त्वे सतीति विशेषणात् । परमतापेक्ष चेदं विशेषणम् । स्वमते घटत्वादिसामान्यस्यापि सदृशपरिणामलक्ष- णस्य द्रव्यपर्यायात्मकत्वेन स्थितस्तेन व्यभिचाराभावात् । कर्मणाऽने- कान्त इति चेत् । न । तस्यापि द्रव्यपर्यायात्मत्वेनाभिमतत्वात् । न २५ चात्मना व्यभिचारः । बाह्येति विशेषणात् । एवं च वर्णात्मकस्य १५ ७०० प्रमाणनयतत्त्वालोकालङ्कारः। [परि. ४ स. १० शब्दस्य परिणामित्वे सिद्ध तदात्मकस्य पदस्य पदात्मकस्य च वाक्य- स्याऽनायाससिद्धमेव परिणामित्वं प्रज्ञाशालिभिरवगन्तव्यमिति । किं चाग्रतः सकलवस्तुगतव्यवस्था कूटस्थनित्यनियमक्षणिकत्वपक्षे ॥ नैव प्रयाति घटनामिति वक्ष्यतेऽत्र शब्दोऽपि तन्न हि कथं परिणामिरूपः ॥ ५६० ॥ सोऽयं मीमांसकानामुपशमपदवी नित्यवर्णप्रवादः सम्यग्युक्तिप्रबन्धप्रसरणवशतः प्राप्यनेकान्तविद्भिः ।। पक्षः स्वीयः कथंचिन्निनदविलयितालक्षणः सिद्धिसौधं नीतस्तस्मात्रिलोक्यां जयति जयकर शासनं जैनचन्द्रम् ॥५६१॥ १० अत्राहुः सौगताः- शब्दस्य वस्तुनि न कोऽपि विचार्यमाणः शब्दार्थयोः संबन्धमनभ्यु-संबन्ध एति घटनां ननु मानतोऽत्र ॥ पगच्छता बौद्धाना मत- स्योपपाद्य खण्डनम् । तस्मात्ततः कथमिह प्रतिपत्तिमर्थे स्याद्वादिनःप्रणिगदन्त्युपपत्तिवन्ध्याम् ॥५६२।। तथा हि-शब्दादर्थयोः सम्बन्धः किं तादात्म्यरूपः किं वा तदु- त्पत्तिलक्षणः स्यात् । न तावत्तादात्म्यरूपः । पृथग्देशतया तयोरुपल. भ्यमानत्वात् । वदने हि शब्दः समुपलभ्यते विश्वम्भरायामर्थ इति । तयोस्तादात्म्यकक्षीकारे च क्षुरक्षिरादिशब्दप्रयोगे वदनस्य २० पाटनप्लावनादिप्रसक्तिः । नापि तदुत्पत्तिलक्षणः । करशाखाशिखरे करिकदम्बकमास्त इत्यादिशब्दानामर्थाभावेऽपि स्थानकरणप्रयत्नानन्त- रमुत्पत्तेर्दर्शनात् । तथा चाऽर्थसंस्पर्शित्वाभावात्कथं ते बाह्यार्थे प्रतीति जनयितुमलम् । ते हि विकल्पमात्राधीनजन्मानः स्वमहिम्ना तिरस्कृ. तबाह्यार्थान्प्रत्ययाञ्जनयन्ति । यथा करशाखादिवाक्यानि । पुरुष- २५ दोषाणामेव महिमा न शब्दानामित्यप्यसुन्दरम् । दोषवतोऽपि भूका- परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७०१ दिपुरुषस्यानुच्चारितशब्दस्यदृशासत्यप्रत्ययोत्पादनसामर्थ्यासम्भवात् । असत्यपि हृदयकालुष्ये, आतैः प्रतिपादितान्यंगुल्यादिवाक्यानि तामु- त्पादयन्त्येव । न चाप्ता नेशानि वाक्यानि प्रयुञ्जते प्रयुञ्जाना वा नाऽऽप्ताः स्युरिति चेत् । एतदप्यसुन्दरम् । एवमपि हि वक्तृदोषाणाम- यथार्थज्ञानोदयकारणत्वासिद्धिः । व्यतिरेकासिद्धेः । यदि हि वक्तृ- ५ दोषाभावेऽमून्यपि वाक्यानि प्रतिपाद्येरन्न चाऽयथार्थान्प्रत्ययान्कुर्वीरस्तदा व्यतिरेकनिश्चयाद्वक्तृदोषजत्वं शाब्दज्ञानस्य भवेत् । आप्तैस्तु तेषाम- प्रयोगे किं शब्दाभावादयथार्थज्ञानानुत्पत्तिराहोस्विदोषाभावादिति सन्दिग्धो व्यतिरेकः । शब्दे तु निश्चित: सत्स्वपि दोषेषु शब्दानुच्चा- रणे मिथ्याप्रत्ययस्यानुत्पादात् । न चाप्तत्वमीदृशवाक्यप्रतिपादकत्वेन १० विरुध्यते । एवंविधशब्दाभिधाने सत्यप्याशयदोपाभावतोऽनाप्तत्वस्या- भावात् । तथा ह्याप्तोऽपि कस्मैचिदेवमुपदिशति न त्वयाऽननुभूतार्थ वचनं प्रतिपादनीयम् । यथा करशाखादिवाक्यम् । अतः शब्द- स्यैवैष महिमा न वक्तृदोषाणाम् । ततोऽर्थासंस्पर्शिनः शब्दा विकल्प- मात्रायत्तोत्पत्तयः सिद्धाः । तथा चाह-" विकल्पयोनयः शब्दा १५ विकल्पाः शब्दयोनयः ॥ तेषामन्योन्यसंबन्धो नार्थान् शब्दाः स्पृशन्त्यमी ॥१॥” इति ॥ १० ॥ एतत्प्रतिविधातुमाह- स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इति ॥ ११ ॥ २० स्वाभाविक सहजं सामर्थ्य च शब्दस्याऽर्थप्रतिपादनशक्तिर्योग्यता परपर्याया । ज्ञानस्य ज्ञेयज्ञापनशक्तिवत् । समयश्च सङ्केतस्ताभ्यामर्थ- बोधस्याभिधेयावगमस्य । निबन्धनं कारणं शब्द इति । तथा चायुक्त- मुक्तं " शब्दस्य वस्तुनि न कोऽपि विचार्यमाणः सम्बन्धः इत्यादि । तादात्म्यतदुत्पत्तिलक्षणसम्बन्धाभावेऽपि शब्दार्थयोर्योग्यता- २५ ७०२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ११ भिधानसम्बन्धसद्भावात् । तदभावे तयोर्योग्यताभिधानोऽपि सम्बन्धः कथमित्यप्यनभिधेयम् । नयनरूपयोः कचित्तदभावेऽपि तदुपलम्भात् । न खलु स्फीतालोककलितकलशरूपेण समं लोचनस्य तादात्म्यं तदु- त्पत्तिर्वा शौद्धोदनितनयैरप्यङ्गीक्रियते । प्रतीतिविरोधापत्तेः । नापि नेत्रस्य तादात्म्यादिसम्बन्धाभावे रूपसम्बन्धस्यानुपपत्तिः । श्रवणादी- न्द्रियवत्तस्यापि रूपाप्रभासकत्वप्रसक्तेः । न च वाच्यं योग्यतात: शब्दस्यार्थवाचकत्वेऽर्थस्यापि शब्दवाचकत्वं किं न भवेदिति । प्रतिनियतशक्तिकत्वात्पदार्थानाम् । योग्यता हि शब्दार्थयोः प्रति- पाद्यप्रतिपादकशक्तिः । ज्ञानज्ञेययोआप्यज्ञापकशक्तिवत् । न च १० ज्ञानज्ञेययोः कार्यकारणभावात्स्वरूपप्रतिनियमो न पुनर्योग्यतात इत्य- मिधानीयम् । तयोः कार्यकारणभावसद्भावेऽपि योग्यतात एव स्वरूप- प्रतिनियमोपपत्तेः । इतरथा ज्ञानमेव प्रकाशकं न तु ज्ञेयं ज्ञेयमेव च प्रकाश्यं न पुनर्ज्ञानमिति नियमस्याघटनात् । ननु योग्यतावशाच्छब्दो यद्यर्थं प्रतिपादयति तदा भूमिगृहवर्धितोत्थितस्याऽपि पुंसः प्रतिपाद- १५ यतु विशेषाभावादिति चेत् । तदप्यनुचितम् । सङ्केतसहायस्य स्वयो- ग्यतामाहात्म्यतः शब्दस्यार्थप्रतिपादकत्वप्रतिज्ञानात् । भूमिगृहवर्धि- तोत्थितं प्रति चाऽस्य स्वयोग्यतासद्भावेऽपि सङ्केतसहायकाभावान्नार्थ- प्रतिपादकत्वानुषङ्गः । सङ्केतो हीदमस्य वाच्यमिदं चास्य वाचक- मित्येवं रूपो वाच्यवाचकयोर्विनियोगः । स यस्याऽस्ति तस्यैव शब्दः २० स्वार्थ प्रतिपादयति नाऽपरस्य । इतरथा धूमादिसाधनमपि तथाविध- स्यानधिगतसम्बन्धस्य धूमध्वजादिसाध्यं प्रकाशयेत् । विशेषादर्शनात् । अविनाभावो हि साध्यावबोधे विधेये साधनस्य निबन्धनं स च सर्वदा सर्व प्रत्यस्यास्तीति । अथ येनैव साध्यसाधनयोरविनाभावः प्रतिपन्नस्तं प्रत्येव साधनं साध्यमवबोधयतीत्यभिधीयते । तर्हि येनैव २५ शब्दार्थयोः सङ्केतः प्रतिपन्नस्तं प्रत्येव शब्दोऽर्थस्य वाचक इत्यभिधीय- ताम् । समानयोगक्षेमत्वात् । ननु सङ्केतः पुरुषेच्छामात्रनिर्मितः । न परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७०३ च तदिच्छया वस्तुव्यवस्थानमुपपन्नम् । अतिप्रसक्तेः । ततोऽर्थोऽपि वाचकः शब्दोऽपि वाच्यः किं न भवेत् । पुरुषेच्छाया निरङ्कुशत्वादिति चेत् । तदप्यविचारितमनोहरम् । सङ्केतस्य सहजयोग्यतानिबन्धनत्वा- मधूमध्वजवत् । यथैव हि धमपावकयोः स्वाभाविक एवाविनाभावः सम्बन्धस्तद्वथुत्पत्तये तु तर्कः समाश्रीयते । तथा शब्दार्थयोनैसर्गिक एव वाच्यवाचकशक्तिस्वरूपसम्बन्धस्तद्वयुत्पत्तये तु सङ्केतः समाश्रीयते । ननु शब्दस्य नैसर्गिकी शक्तिः किमेकार्थप्रतिपादनेऽनेकार्थप्रतिपा- दने वा । यद्येकार्थप्रतिपादने । तदा सङ्केतकोटिभिरपि ततोऽर्थान्तरे प्रतीतिर्न भवेत् । धूमादनमिप्रतीतिवत् । अथाऽनेकार्थप्रतिपादने, तदा समसमयं शब्दादनेकार्थप्रतीतिप्रसक्तेः प्रतिनियते वस्तुनि १० प्रवृत्तिर्न प्राप्नोतीति चेत् । तदपि न निपुणनिरूपितम् । शब्दस्याने- कार्थप्रतिपादने नैसर्गिकशक्तिसद्भावेऽपि प्रतिनियतसङ्केतसामर्थ्यात्प्रति. नियतार्थप्रतिपादकत्वोपपत्तेः । एकस्यापि हि शब्दस्य देशादिभेदेन प्रतिनियतः सङ्केतोऽनुभूयते । यथा गूर्जरादौ चोरशब्दस्य तस्करे द्रविडादौ पुनरोदन इति । दृश्यते च सर्वत्र रूपप्रकाशने योग्यस्याऽपि चक्षुषः प्रत्यासन्नतिमिरवशादसन्निहिते दूरतिमिरसामर्थ्याच्च सन्निहिते रूपे विशिष्टाञ्जनादिवशादन्धकारान्तरितेऽपि ज्ञानजनकत्वम् । काच- कामलादिदूषणबलाच्च विवक्षितरूपाभावेऽपीति । ततो यथाऽनेकरूप- प्रकाशनयोग्यस्याऽपि चक्षुषो दूरतिमिरादिप्रतिनियतसन्निहितरूपादि- ज्ञानजनकत्वम् । तथाऽनेकार्थप्रतिपादनयोग्यस्याऽपि शब्दस्य प्रतिनिय- २० तपदार्थप्रतिपादकत्वं यदि स्यात्तदा का नाम क्षतिः । यदप्याभिहि- तमर्थसंस्पर्शित्वाभावादित्यादि तदप्यनभिज्ञवचनम् । यतः किमाप्त- निगदितस्य शब्दस्याऽर्थासस्पर्शित्वमुपपन्नं नाऽपरस्य । इतरथा तिमिरा- दिदोषकलुषितलोचनसमुद्भूतप्रत्यक्षस्याऽर्थासंस्पर्शित्वोपलम्भाद्गुणवन्नयन- समुत्यप्रत्यक्षस्याऽपि तद्भवेत् । नाऽपि तृतीयः पक्षः । आप्तानाप्तप्रणीत- २५ शब्दव्यतिरिक्तस्य शब्दमात्रस्याऽसम्भवात् । अथाप्तप्रयुक्तात्करशाखा- ७०४ प्रमाणनयतत्त्वालोकालङ्कार। [परि. ४ सु.११ दिवाक्याद्विपरीतज्ञानोत्पादप्रतीतेः शब्दस्यैष महिमा न वक्तृदोषाणा- मित्युच्यते। तदप्यसम्बद्धम् । आप्तैरेवंविधवाक्याप्रयुक्तेः । यत्पुनराप्तैस्तु तेषामप्रयोग इत्यादिना सन्दिग्धव्यतिरेकत्वमुक्तम्, तदपि न क्षोदक्षमम् । अनुच्चारितशब्देऽपि दोषवति पुंसि करसंज्ञादिना विपरीतप्रत्ययोत्पादनस्य ५ दर्शनेन तस्य शब्दव्यभिचारात् । आप्तेऽनुच्चारितशब्दे तदनुत्पादनस्य शर ब्दाभावनिबन्धनत्वसन्देहाभावेन दोषाभावनिबन्धनत्वनिश्चितेर्व्यतिरेक- निर्णयाच्च । न च हस्तसंज्ञादिना शब्दानुमानं ततो विपरीतप्रतीति- रित्यभिधेयम् । तथाप्रतीतेरभावात् । तरङ्गिणीतीरमनुसरन्ननासादित- मोदकराशिः पुरुषः पुरुषमेवाधिक्षिपति दुरात्मना तेन विप्रतारित १० ऽस्मीति न शब्दम् । यत्पुनराप्तोऽपि कस्मैचिदेवमुपदिक्षतीत्याद्यभि- हितम् । तत्र प्रतिषेधपरत्वेनाऽस्य यथार्थतैव । वाक्यैकदेशम्याऽपि ह्युदा- हरणविवक्षायामिति करणावच्छिन्नस्य शब्दपरत्वेनोपादानात् । प्रति- धैकवाक्यतया यथार्थतैव । अर्थपरत्वे तु प्रतिषेधेनैकवाक्यतैव न म्यात् । तस्मादाप्तप्रणीतशब्दानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पर्शि- १५ नः शब्दाः । किंतु पुरुषदोषवशादिति । अपि च विपर्ययज्ञानो- त्पत्तेर्यावद्भिः सह तद्भावभावित्वमवसीयते तावतां तत्र व्यावृत्तिः । विपर्ययज्ञानोत्पत्तिश्चात शब्दोच्चारणे सत्यप्यनाप्तमन्तरेण नोपलब्धेति शब्दवदनाप्ताभिप्रायस्यापि तत्र व्यापारः स्वीकरणीयः । किंच लाचनादिवदर्थप्रकाशकत्वमात्रं शब्दस्य नैसर्गिक रूपम् । न तु यथार्थप्रकाशकत्वायथार्थप्रकाशकत्वे । तयोर्गुणदोषनिबन्धनत्वात् । सति हि नैर्मल्यादिगुणे चक्षुर्यथावद्वस्तु प्रकाशयति कामलादिदोषे तु सत्ययथावत् । एवं शब्दोऽपि वक्तृगुणदोषापेक्षः सत्येतररूपं प्रका- शयति । अत एव करशाखाशिखराधिकरणकरिशतवचसि बाध्यमाने- ऽपि पुनःपुनरुच्चार्यमाणे भवति तत्सद्भावसंशीतिः । प्रकाश- २५ कत्वस्य शब्दस्वरूपस्य बाधकसहस्रौपढौकनेऽप्यविनाशात् । यदप्यजल्पि विकल्पयोनयः शब्दा इत्यादि । तदप्यसत्यम् । शब्दानामर्थेन २० परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः संस्पर्शसद्भावस्य प्रमाणोपपन्नत्वात् । तथा हि शब्दोऽर्थेन सम्बद्धः प्रतिनियततत्प्रत्ययनिमित्तत्वाल्लोचनवत् । न च लोचनस्या- प्यर्थेनासम्बन्ध इत्यभिधेयम् । योग्यताख्यसम्बन्धस्य तत्रोभाभ्यां प्रति- पन्नत्वात् । न चैवमप्राप्यकारित्वं बाध्यते । संयोगादेः सन्निकर्ष- स्याऽनभ्युपगमात् । तथा शाब्दो बोधः संबन्धनिबन्धनः प्रतिनियत- ५ बोधत्वात्, दण्डीत्यादिवत् । इत्थं सम्बन्धो योग्यतानामधेयः शब्दस्याऽर्थेन प्रोक्तयुक्त्या प्रसिद्धः ॥ तस्मात्तत्रातः सिद्धिराविर्भवन्ती शाक्यैः शक्या नो सन्निरोद्धं कथंचित् ॥ ५६३ ॥ अत्राहुर्नैयायिकाः सङ्केतमात्रसचिवाच्छब्दादर्थम्य भवति संवित्तिः।। संकेतातिरिक्तं स्वाभाविक संबन्धमनभ्युपगच्छतो नै स्वाभाविकोऽस्य तस्मात्संबन्धो नाभिधेयेन।५६४। यायिकस्य मतमुपपाद्य तथा हि-शक्तिरूपः स्वाभाविकः शब्दानां सम्बन्धोऽसम्बद्धः । स्वरूपसहकारिव्यतिरि- १५ तायास्तस्या असम्भवात् । न चार्थप्रत्ययान्यथानुपपत्त्या तत्कल्पना शब्दे श्रेयसी । सङ्केतबलादेव तत्र तदुपपत्तेः । किंच कल्पयित्वाऽपि स्वाभाविकसम्बन्धं तव्यञ्जकः सङ्केतस्त्वयाप्यङ्गीकृत एव । तदङ्गीकारे च तत एवार्थसिद्धेः कृतं तथाविधसम्बन्धपरिकल्पनेन । तत्परिकल्पने वा न कस्यचित्सङ्केतापेक्षा स्यात् । तन्मात्रैणैव शब्दम्याऽर्थप्रकाशक- २० त्वोपपत्तेः । न चैवमस्ति । सङ्केतमपास्य विपश्चितोऽपि शब्दादर्थप्रतीतेर- नुत्पत्तेः । अपि च क्वचिद्देशविशेष कश्चिच्छब्दो देशान्तरप्रसिद्धमर्थ- मुत्सृज्य ततोऽर्थान्तरे प्रयुज्यते । यथा चौरशब्दस्तस्करवचनो दाक्षि- णात्यरोदने । यथेच्छं च शब्दः पुत्रादिषु नियुज्यते । तच्चेदं समय- पथाऽक्षुण्णमुपपद्यते । स्वाभाविकसम्बन्धसद्भावे चैकैकार्थनियतत्वमेव २५ सर्वशब्दानाम् । लौकिकोऽपि च व्यपदेशः सङ्केतपक्षसाक्षितामेव भजते। खण्डनम् ।

.७०६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ११ देवदत्तेनोक्तममुतः शब्दादमुमर्थं प्रतिपद्यस्वेत्येवं हि व्यपदिशति लोकः। तथा यत्र शृङ्गग्राहिकया शब्दमर्थं च निर्दिश्य सङ्केतः क्रियते तत्रेय- न्तमेवाङ्गीक्रियमाणमीक्षामहे , अयमस्य वाचक इति । न तु शक्तिप- र्यन्तम् । यत्राऽपि वृद्धेभ्यो व्यवहरमाणेभ्यो व्युत्पद्यते बालस्तत्राऽपीय- देवाऽसौ जानात्यघमर्थोऽमुतः शब्दादनेन प्रतिपन्न इति । न त्वन्याऽस्य शक्तिः काचिदस्तीति । इयत्यैव च व्युत्पत्त्या शब्दादर्थप्रत्ययोपपत्तेर- स्याश्चापरिहार्यत्वादधिककल्पनाबीजाभावात् । न स्वाभाविकः शब्द- स्याऽर्थेन सम्बन्ध इति । गौतमीय परमार्थमत्र यत्त्वं सखे हरसि पश्यतोहरः ॥ श्रीजिनेश्वरमताधिकारिभिस्तन्न नाम कृतिभिस्तितिक्ष्यते ॥५६५॥ तथा हि-यदवादि स्वरूपसहकारिव्यतिरिक्तेत्यादि । तदवद्यम् । अतीन्द्रियशक्तेरापत्तिविचारावसरे समर्थितत्वात् । यत्तूक्तं सङ्केतबला- देव तत्र तदुपपत्तेरिति । तदसत् । सङ्केतो हि पुरुषाधीनवृत्तिः । न च पुरुषेच्छया वस्तुनियमोऽवकल्प्यते । अन्यथा तदिच्छाया अव्याहतप्रस- १५ रत्वादर्थोऽपि किमिति वाचको न भवति शब्दश्च वाच्यः । सुकरमेव हीदं वक्तुमस्य शब्दस्याऽयमर्थो वाचकोऽस्य चाऽर्थस्याऽयं शब्दो वाच्य इति । न चैवमस्ति । किंचेच्छया वस्तुनियमेऽनिच्छतः पुरुषस्य न धूमादपि वहेः प्रतीतिः स्यात् । इच्छतस्तु जलस्याऽपि ततः सा स्यात् । तत्र यथा धूमाग्न्योर्नैसर्गिक एवाऽविनाभावो नाम सम्बन्धस्तत्प्रतिपत्तये २. चोपलम्भादिकं निमित्तमाश्रीयते । एवं सांसिद्धिक एव शब्दार्थयोः शक्त्यात्मा सम्बन्धस्तत्प्रतीतये सङ्केतसमाश्रयणम् । शक्त्यभावेऽपि शब्दस्यैव वाचकत्वे योग्यत्वान्न वाच्यवांचकभावानैयत्यमिति चेत् । तहि किमिति कलहायसे । भवताऽपि योग्यत्वशब्देन शक्तेरेव स्वीका- रात् । अथ क्रमविशेषोपकृतो गत्वादियोग एव योग्यता शक्तिः २५ गत्वौत्वादिसामान्यसम्बन्धो हि यस्य भवति स वाचकत्वे योग्य इतरस्तु वाच्यत्वे । यथा द्रव्यत्वाविशेषेऽप्यमित्वादिसामान्यवत एव परि. ४ स. ११] स्याद्वादरत्नाकरसहितः ७०७ दाहजनकत्वं न जलत्वादिसामान्यवत इति चेत् । तदचतुरस्रम् । अतीन्द्रियशक्तिं विनाऽमित्वादेः कार्यकारणभावनियामकत्वानुपपत्तेः । अग्नित्वं हि दाहवद्विजातीयकारणजन्यकार्येप्वपि तुल्यरूपम् । न हि दाहं प्रत्येवाडमेरग्नित्वम् । यथा पुत्रापेक्षं पितुः पितृत्वम् । भृत्यापेक्षं वा स्वामिनः स्वामित्वम् । अपि तु सर्वमेव प्रति । ततश्चाऽग्निर्दाहव- ५ त्पिपासापनोदमपि विदध्यात् । नन्वसाधारणं स्वरूपं व्यवस्थानिमित्त तथाभूतं चेदमग्नित्वमग्नेरनग्निभ्यो व्यावृत्तिनिमित्तत्वादिति दृष्टेनैवाग्नि- त्वेन कार्यकारणभावस्योपपत्तेर्नादृष्टशक्तिकल्पनोपपत्तिमतीति चेत् । तदयुक्तम् । अनमिव्यावर्तकतया तुल्यस्वरूपत्वाभावेऽप्यग्नित्वस्य प्रति- नियतकार्योत्पादकत्वव्यवस्थापकत्वानुपपत्तेः । अनग्निव्यावर्तकत्वविशि- १० ष्टस्याऽप्यग्नित्वस्य सर्वकार्याणिप्रति साधारणत्वात् । न हि कार्यान्तरेष्व- ग्नित्वस्याग्नेरननिभ्यो व्यावर्तकत्वं नास्ति । येनास्य तज्जनकत्वं न स्यात् । जलादिकारणापेक्षया ह्यग्नित्वस्याऽसाधारणस्वरूपता न जलादि- कार्यापेक्षयेति । एवं जलस्यापि शैत्यादिजनकत्वे प्रतिनियमो न घटते । तन्नियमानिमित्तस्य जलत्वस्य दाहादावपि साधारणत्वात् । अतो १५ जलमपि दहेदनलोऽपि शैत्यं जनयेदविशेषात् । अथ दाहस्याऽग्निजन्यत्वे दाहत्वजातेर्व्यवस्थानिमित्तत्वाच्छैत्यादीनामदाहरूपतयाऽग्निजन्यत्वस्या- प्राप्तिः । शैत्यादीनां च जलजन्यत्वे शीतत्वादिजातेर्व्यवस्थाहेतुत्वात्तद्वि- रहितत्वेन दाहस्य कथमिव जलादिजन्यत्वप्रसङ्ग इति चेत् । तदस- मीचीनम् । यस्माद्दाहत्वजातेः शैत्याद्यपेक्षया तुल्यत्वाभावेऽपि जलादि- २० कारणान्तरापेक्षया तुल्यत्वान्न प्रतिनियतकार्यकारणभावव्यवस्थाहेतुत्वम्। ननु शक्तरपि कथं तद्वयवस्थाहेतुत्वम् । सा हि स्वरूपेणैव तद्धेतुः स्याच्छक्त्यन्तरेण वा । स्वरूपेण चेत् । तदाऽर्थोऽपि तथैवाऽस्तु किं शक्त्या शक्त्यन्तरेण तस्यास्तद्धेतुत्वाभ्युपगमेऽनवस्थोपनिपातः । तदसत्। पदार्थस्य स्वरूपेणैव तद्धेतुत्वे यदेव विषं पूर्व मारणसमर्थमासीत्तदेव २५ केनचिन्मन्त्रविशेषेण संस्कृतं कथमुज्जीवनहेतुः स्यात् । तदानीमपि Voc प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ११ पदार्थस्वरूपस्य तादृक्षस्यैव प्रत्यक्षेण वीक्षणात् । शक्तिस्वीकारपक्षेऽपि कथमेतदघटिप्यत इति चेत् । मन्त्रसंस्कारक्षणे मारणशक्तेर्विना- शाच्छक्त्यन्तरस्य च मन्त्रसहकृताद्विषादुत्पादादिति शक्तिरेव शक्त्य- न्तरनिरपेक्षा तन्नियमहेतुर्न पदार्थः । तथा चाऽतीन्द्रियशक्तिमन्तरेण ५ नाऽमित्वादीनां कार्यकारणभावव्यवस्थाहेतुत्वं तद्वदेव च गत्वौत्वादि- सामान्यानामपि न वाच्यवाचकभावनियमहेतुत्वमिति योग्यताशब्देन शक्तिरेवोच्यत इत्यभ्युपगन्तव्यम् । यदप्यवादि तदङ्गीकारे च तत एवार्थसिद्धेः कृतं तथाविधसम्बन्धपरिकल्पनेनेति । तदप्यबन्धुरम् । अङ्कुरादिकार्यकारितया प्रतीतस्य बीजादेरपि परित्यागप्रसङ्गात् । एव- १० मपि हि वक्तुं शक्यत एवं कल्पयित्वाऽपि बीजादिकारणं तत्सहकारी क्षित्यादिस्तावदवश्यं स्वीकृत एव तत्स्वीकारे च तत एवाऽकुरादि- सिद्धेः कृतं बीजादिकारणकल्पनेनेत्यादि । बीजादेरङ्कुरादिकार्योत्पत्ती व्याप्रियमाणस्य प्रत्यक्षत एव प्रतीतेः कथं तदुपद्रवः श्रेयान्, किंतु केवलमतन्न तज्जनकमिति क्षित्यादिरप्यस्य सहकारी कल्प्यत इति १५ चेत्, तर्हि योग्यतारूपस्य सम्बन्धस्याऽपि शब्दे वाच्यप्रतीतिं कुर्वतो वाच्यवाचकभावप्रतिनियमान्यथानुपपतिरूपादनुमानतः प्रतीतेः कथं तदपलापोऽपि प्रशस्यः स्यात् । अनभिव्यक्तस्त्वसौ न तजनक इति सङ्केतस्तदभिव्यञ्जकत्वेन सहकारी कल्प्यते । यच्चोक्तं वचि- देशविशेष कश्चिच्छब्दो देशान्तरप्रसिद्धमर्थमुत्सृज्येत्यादि । तदप्य- २० पेशलम् । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । कचिद्देशे केनचिदर्थेन व्यवहारः । अत एव चाऽनवगतसम्बन्धे शब्दे श्रुते सति संशयो जायते कमर्थं प्रत्याययितुमनेन शब्दः प्रयुक्तः स्यादिति । असत्यां हि शक्तावकृते समये निरालम्बना प्रत्यायकत्वाशङ्का । सर्वशक्तियोगे एकस्मादपि शब्दादशेषार्थप्रत्ययप्रसङ्ग इति चेत् । २५ नैवम् । समयोपयोगस्य नियामकत्वात् । न च वाच्यं स एवाऽस्तु किं शक्तिभिरिति । कृतोत्तरत्वात् । योऽपि लौकिको व्यपदेशः सङ्केत- परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७०९ . पक्षस्यैव साक्षित्वेनोक्तः । स एवमेव । न खलु वयमपि शक्तिपर्यन्तं सङ्केतमाचक्ष्महे । किंतु वाच्यवाचकयोः स्वाभाविकी शक्तिमन्तरेण सकेत एव कर्तुमशक्यो व्यत्ययेनाऽपि तत्प्रसङ्गादिति व्याकुर्महे । ततः स्वाभाविकी शक्तिर्वाचकत्वोपयोगिनी ।। सङ्केतमनुरुन्धाना शब्दे सम्बन्ध इष्यताम् ॥ ५६६ ॥ मीमांसकास्त्वाहुः-आस्तां स्वाभाविकी शक्तिः शब्दस्य सम्बन्धः । स तु नित्य एव । अनित्यत्वे तस्य शब्दार्थयोनित्यशक्ति- रूपः संबन्ध इति मीमांस-व्यवहारकालाननुयायित्वेनाऽर्थप्रतिपत्त्यनङ्गत्वात्। कमतस्योपपाद्य खण्डनम्। तदयुक्तम् । अनित्यत्वेऽप्यस्य शब्दस्येव सादृश्य- १० वशादेवाऽर्थप्रतिपत्तिहेतुत्वोपपत्तेः । यथा च शब्दस्य सादृश्यवशादर्थ- प्रतीतिहेतुता तथा शब्दानित्यत्ववादे प्रतिपादितम् । नित्यत्वानुपपत्तेश्च । तथा हि-असौ नित्यः सन्स्वभावतोऽथ प्रकाशयेत्सङ्केताभिव्यक्तेर्वा । यदि स्वभावतः, तर्हि सर्वदा सर्वस्याऽथ तत्सम्बन्धः प्रकाशयेत् । अथ सङ्केताभिव्यक्तः, कथमेवमस्य नित्यैकरूपत्वमुपपन्नम् । व्यक्ताव्यक्त- १५ रूपतया भेदप्रसक्तेः । नित्यैकरूपं हि वस्तु यदि व्यक्तं तदा सर्वदा व्यक्तमेव, अथाऽव्यक्तमव्यक्तमेव तर्हि सर्वदा, तस्यैकस्वभावत्वादिति । अत्र भूयोऽपि प्रत्यवतिष्ठन्ते ताथागता:- कथं शब्दाबाह्ये मतिरुदयते बाधरहिता तात्त्विकः कोऽपि बा. योऽया नातीति वादिनो न यस्माद्बाह्योऽर्थः कथमपि भवत्यस्य विषयः॥ २० वौद्धस्य मतं विस्तरश उप-विशेषस्तावन्नो समयकरणासङ्गतिवशात् पाद्य तत्खण्डनम् । न सामान्य तस्याऽसुरसरणिपुप्पप्रतिमितम् ५६७ तथा हि शब्दस्य बहिःपदार्थो गोचरः स्वलक्षणो भावः सामान्य- स्वभावो वा । तत्र प्रथमकल्पना न साधीयसी । स्वलक्षणे सङ्केता- सम्भवतः शब्दानां प्रवृत्तेरघटनात् । सङ्केतव्यवहारकालानुगामि- २५ स्वभावे सङ्केतः क्रियते । न च स्वलक्षणस्य तादृशः स्वभावः सम्भवति । । ४५ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. ११ देशकालाकारसङ्कुचितत्वेनाननुगामिस्वभावत्वात् । प्रयोगः-यः सङ्केत- व्यवहारकालाननुगामी न तत्र व्यवहारिभिः शब्दः सङ्केत्यते यथो- त्पन्नमात्रविनाशिनि कचिद्भावे । सङ्केतव्यवहारकालाननुगामि च बाहुलेयादिस्वलक्षणमिति । अपि च यो यत्राऽकृतसङ्केतो न स तमर्थ ५ प्रतिपादयति यथा गोशब्दस्तुरङ्गमम् । अकृतसङ्केतश्च स्वलक्षणे समस्तशब्द इति । स्वलक्षणगोचरताङ्गीकारे च शाब्दज्ञानस्यन्द्रियोत्थ- ज्ञानस्येव स्पष्टप्रतिभासत्वापत्तिः । न चैतदास्त । प्रतीतिपराहतत्वात् । यथोक्तम्-"अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः। शब्दात्प्रत्येति भिन्नाक्षो ननु प्रत्यक्षमीक्षते ॥१॥ अन्यथैवाग्निसम्बन्धादाह १० दग्धोऽभिमन्यते । अन्यथा शब्दतस्तेन दाहार्थः सम्प्रतीयते ॥२॥" इति । न चैकस्य वस्तुनो रूपद्वयं सम्भवति । येनाऽस्पष्टं वस्तुगतमेव रूपं शाब्दज्ञाने प्रतिभासेत । एकस्य द्विस्वभावताविरोधात् । तथा यत्कृते ज्ञाने यन्न प्रतिभासते न तत्तस्य गोचरो यथा गन्धसमुत्थज्ञाने स्पर्शः । न प्रतिभासते च शाब्दज्ञाने स्वलक्षणमिति । यदि च १५ तात्त्विकार्थगोचरत्वं शब्दानां भवेत्तदा समयभेदेनाऽर्थभेदप्रत्यायकत्वा- योगः । तदुक्तम्-"परमार्थंकतानत्वे शब्दानामनिबन्धना । तस्मा- त्प्रवृत्तिरर्थेषु समयान्तरभेदिषु ॥१॥" इति । तन्न स्वलक्षणलक्षणः शब्दम्य गोचरो विचारवीथीमवगाहते । नापि सामान्यस्वभावः । तात्त्विकस्य सामान्यस्यैवायोगात् । तदयोगश्च व्योमकुसुमवदनर्थ- २० क्रियाकारित्वात्सुप्रतीतः। न खलु नित्यकस्वरूपस्य सामान्यस्य क्रमा- क्रमाभ्यामर्थक्रियाकारित्वमुपपद्यते । तदेवं न बाह्यवस्तुनः प्रकाशकाः शब्दाः । किन्त्वन्यापोहस्य, निषेधः सं च द्विविधः । पर्युदासः प्रसज्यश्च । पर्युदासोऽपि द्विविधोऽर्थात्मा बुद्धयात्मा च । तत्राऽर्थात्मा- ऽर्थस्वभावो विजातीयव्यावृत्तसर्वस्वलक्षणम् । अपोह्यतेऽन्योऽस्मिन्नि- त्यपोह इति व्युत्पत्तेः । बुद्धयात्मा तु स्वभावतः परस्परविलक्षणाना- नेकार्थकारितया समानहेतुत्वेन च समानानाश्रित्य यदेकप्रत्यवमर्श- परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः .७११ रूपमर्थप्रतिबिम्बस्वभावज्ञानमुत्पद्यते । तथा हि, वस्तुभागच्छायो विकल्पेन बाह्यत्वेनाविकल्पाकारः स्वाकारविपरीताकारोन्मूलकबुद्धि- प्रतिबिम्बनामाऽपोहः । अपोह्यते स्वाकाराद्विपरीत आकारोऽनेनेत्य- पोह इति व्युत्पत्तेः । यद्वा विकल्पान्तरवाकाराद्भेदेन स्वयं प्रति- भासमानत्वादपोह्यतेऽन्यस्मादित्यपोह इति व्युत्पत्तेः । अयं हि व्युत्पत्ति- ५ द्वयेऽपि मुख्यत एवाऽपोहशब्दाभिधेयो बुद्धिप्रतिबिम्बात्मा । एवं निगदितपर्युदासात्मा द्विप्रकारोऽपोहः । प्रसज्यरूपस्तु गौरयमगौन भव- तीति व्यवच्छेदमात्रम् । एतेषु च त्रिष्वपोहेषु मध्ये बुद्धिप्रतिबिम्बा- त्मन एवाऽपोहस्य मुख्यवृत्त्या शब्दार्थत्वम् । य एव हि शब्दोद्भवे प्रत्यये प्रतीयते स एव शब्दार्थतया स्वीकर्तुमुचितः । न चात्र प्रसज्य- प्रतिषेधावसायोऽस्ति । नाऽपीन्द्रियोत्थसंवेदनवत्स्वलक्षणावभासः । अपि तर्हि बाह्यार्थप्रतिबिम्बावभासः । अतस्तदेवाऽर्थप्रतिबिम्बकं शाब्दे बोधे साक्षात्तदात्मतया प्रतिभासनाच्छब्दार्थो युक्तो नत्वपरः। यश्च शब्दस्यार्थेन सार्धं वाच्यवाचकभावनामा सम्बन्धः प्रतीतो लोके नायं कार्यकारणभावादपरः । तथा हि, बुद्धिसम्बन्धिनः प्रतिबिम्बस्य शब्द- १५ जन्यत्वाद्वाच्यत्वं तजनकत्वाच्च शब्दस्य वाचकत्वमिति । गौणवृत्त्या तु पर्युदासप्रथमप्रकारस्य स्वलक्षणात्मनो व्यपोहस्य प्रसज्यापोहस्य तृतीयभेदस्य च निषेधमात्रस्य शब्दार्थत्वमवसेयम् । तथा हि-अस्ति शब्दस्य परम्परया स्वलक्षणेन सह कार्यकारणभावलक्षणः सम्बन्धः । प्रथमं हिं यथावस्थितवस्त्वनुभवः । ततो विवक्षा । ततस्ताल्वादि- २० परिस्पन्दनम् । ततः शब्द इत्येवं पारम्पर्येण यदा शब्दस्य बाह्येन वयादिस्वलक्षणेन सह सम्बन्धस्तदा विजातीयव्यावृत्तस्वलक्षणस्यापि सामर्थ्याप्रतिपत्तिर्भवतीति स्वलक्षणस्याप्युपचरितं शब्दार्थत्वं न विहन्यते । तथा गोशब्दादेः सकाशाद्यद्गत्वादिबुद्धिप्रतिबिम्बकमुत्स- यते तत्तुरङ्गमादिशब्दसमुत्थबुद्धिप्रतिबिम्बस्वरूपाद्वयावृत्तस्वभावमनुभू- २५ यत इति प्रसज्यलक्षणापोहस्याप्यभिधानसामर्थ्यतः प्रतीयमानत्वादोप- ७१२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. " चारिकी शब्दार्थता न विरुध्यते । परमार्थवृत्त्या तु न किंचिद्वाच्यं वाचकं वा समस्ति । मुख्यवृत्त्या शब्दार्थत्वेन कथिते बुद्धिप्रति- बिम्बात्मन्यव्यपोहे कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापित- त्वात् । ज्ञानश्रीः पुनरपोहप्रकरण इदमुदीरयामास-" शब्दस्ताव- ५ न्मुख्यमाख्यायतेऽर्थस्तत्रापोहस्तद्गुणत्वेन गम्यः । अर्थश्चैकोऽध्या- सतो भासतोऽन्यः स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित् ॥११॥" इति मुख्यमिति आख्यायते इति क्रियाया विशेषणमेतत् । मुख्यया वृत्त्ये- त्यर्थः । अर्थ इति वक्ष्यमाणस्वरूपः । तत्राऽपोहस्तद्रुणत्वेन गम्य इति । न घटोऽस्तीत्यादिषु समुपहितेषु वाक्येप्वपोहस्यैव प्राधान्यतः १० प्रतीतेर्बिम्बाद्यभावः । घटोऽस्तीत्यादिषु तु विधिवाक्येषु विधौ मुख्यतया शब्दैः प्रतिपाद्यमाने तद्विशेषणतयोपसर्जनत्वेन गम्यतेऽपोहः । आख्यायतेऽर्थ इति सामान्येनोक्तं तद्विशेषतो व्यञ्जयन्नाह । अर्थश्चै- कोऽध्यासतो भासतोऽन्यः स्थाप्यो वाच्य इति । द्विविधो ह्यर्थो बाह्य आभ्यन्तरश्च । अन्यस्याभावात् । तत्रैकस्तावबाह्यः स्वलक्षणलक्षणोऽ. १५ ध्यासतो गृहीतोऽपि प्रवर्तनयोग्यतानिमित्तकाद्वयवसायादेव वाच्यो व्यवस्थाप्यते न परिस्फूर्त्या । प्रत्यक्षचेतसीव देशकालादिनियतत्वेन परिस्फुटरूपतया शब्देषु तस्याऽस्फुरणात् । तथा भासतः प्रतिभासम- पेक्ष्येत्यर्थः । अन्यो बाह्यादुक्तस्वरूपाद्भिन्न आन्तरो बुद्धयाकार इत्यर्थः शब्दजन्यायां बुद्धावाकारमात्रस्य प्रतिभासनात्स एव विषय उच्यते २० चक्षुष इव रूपम् । न पुनरध्यवसायात् । न हि बुद्धयाकारेऽप्यध्यव- सायः शक्योऽभिधातुम् । प्रवृत्तिविषये तस्य व्यवस्थापनात् । प्रवृत्ति- श्वार्थक्रियार्थिनो बाह्य एव । एवं स्थितमेतत् । अध्यवसायेन बाह्यस्य प्रतिमासेन तु वुद्धयाकारस्य शब्दवाच्यत्वमिति । स्थाप्य इत्यस्य चेदमेवैदम्पर्यम् । जात्याधुपाधिराशेर्बाह्यस्य च समस्तस्य वाच्यतानिर- २५ सनरूपं प्रयोजनान्तरमुद्दिश्य व्यवस्थामात्रमेतक्रियतेऽध्यवसायमात्रेण च वाच्यत्वमिति । तथा हि जात्याधुपाधिराशेः शब्दस्य विषयतया.

. . परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः तत्त्वतो गृह्णतः प्रतिवादिनः प्रतीतिवदन्यापोहं स्वलक्षणमेव बाधमध्य- वसायतो विषय इत्युच्यते , जात्याधुपाधिराशिनिरसनपरम् । एवम- न्यापोहो ज्ञानस्थ आन्तर आकारो भासतो विषय इति च प्रतिपाद्यते समस्तबाह्यनिरसनपरम् । न पुनरेतयोविषयतयोस्तत्त्वतो विश्रान्तिः । कुतः पुनरेतत्तत्र विषयताप्रतिपादनेऽपि न तत्त्ववृत्त्या. तस्यास्तत्र वि- ५ श्रान्तिः, किन्त्वन्यनिरसने तात्पर्यमित्याह तत्त्वतो नैव कश्चिदिति । परमार्थतः शब्दस्य बाह्य आन्तरो वाऽर्थो न वाच्य इत्यर्थः । अध्यव- सायसहायो हि प्रतिभासः सांव्यवहारिकापेक्षया तत्त्वतो ज्ञेयस्य ज्ञान- विषयतामुपनयति प्रत्यक्षवत् । न हि प्रतिभासमात्रमवसायप्रतिहत- व्यापार वा प्रवृत्तिकामस्य प्रमातृविषयव्यवस्थामर्थे क्षमते गच्छंस्तृण- १० स्पर्शवत् । मरीचिकास्तदुदकारोपवञ्च । मरीचिकाविषयो हि प्रतिभास उदकगोचरावसायाक्रान्तव्यापारत्वान्न तत्त्वतस्तद्विषयः । नाऽप्यवसाय- मात्रमपेतप्रतिभासं तस्य तां तस्मिन्क्षमते । उदकारोपादेवारोपि- तोदकविषये ह्यवसायः प्रतिभाससहायसम्पत्सम्पर्कशून्यत्वात्परमार्थतो निर्विषय एव । अत्र च स्वलक्षणलक्षणो बाह्योऽर्थः शब्दादध्यवसीयत १५ एव न प्रतिभासते । आन्तरस्तु बुद्धिप्रतिबिम्बापरनामा बुद्ध्याकार- रूपोऽर्थः प्रतिभासत एव नाध्यवसीयते । ततोऽध्यवसायप्रतिभासरू- पोभयस्य व्यापकस्य निवृत्त्या विषयत्वस्य व्याप्यस्य तत्र निवृत्तिरिति तत्त्वतो नैव कश्चिदित्यस्य तात्पर्य पर्यवसितं भवति । समग्रस्य चास्य वृत्तस्येदमर्थतत्त्वम् । कथमपोहः शब्दगम्यो भाववाचकेषु वाक्येष्विति २० प्रश्ने तद्गुणत्वेन यथोक्तार्थेनेत्युत्तरम् । यदा तु शब्दैः किं वाच्यमित्यनु- योगः । तदा किं प्रतिभासादथाऽध्यवसायायद्वा तत्त्वत इति त्रिधा विकल्प्य विकल्पस्थ आन्तरोन्यापोहाकारो, बाह्यमन्यापोहस्वलक्षणं, न किंचिदिति, त्रीणि प्रतिवचनानि क्रमेण प्रतिपाद्यानोति । इत्थं नाऽर्थस्तात्त्विकः कोऽपि बाह्यः शब्दग्रामे दर्शयत्यात्मरूपम् । . २५ ७१४॥ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ स. ११ - अन्यापोहं संविहायाऽस्य तस्मात् नान्यद्वाच्यं किंचिदास्थेयमत्र ॥ ५६८ ॥ इति निगदितमेतदुद्धशिष्यैः समस्त निजमतमथ जैनास्तन्निराकर्तुमत्र । स्वसमयगतयुक्तीः प्रौढमानानुविद्धाः सहृदयहृदयानां वल्लभाः कीर्तयन्ति ॥ ५६९ ॥ तथा हि-यत्तावदभिहितं शब्दस्य हि बहिःपदार्थों गोचरः स्वलक्षण इत्यादि तत्र स्वलक्षणमेव शब्दस्य गोचर इति नः पक्षः। यत्पुनर्यः सङ्केतव्यवहारकालाननुगामीत्याद्यनुमानम् । तत्र हेतोरसिद्धिः । १० सामान्यविशेषवतोऽर्थस्य सङ्केतव्यवहारकालानुगामित्वेन प्रतीयमान- त्वात् । भवत्कल्पितस्य च स्वलक्षणस्य विषयविचारावसरे प्रपञ्चतः पराकरिष्यमाणत्वात् । एतेन यो यत्राकृतसङ्केतो न तमर्थं प्रतिपादय- तीत्यादावपि प्रयोगे हेतोरसिद्धिः प्रतिपादिता द्रष्टव्या । सामान्यविशे- षात्मनि स्वलक्षणे सङ्केतस्य करणात् । न चाऽत्राऽप्यानन्त्याद्वयक्तीनां १५ परस्पराननुगमाच्च सङ्केतकरणानुपपत्तिः । समानपरिणामापेक्षया क्षयो- पशमविशेषाविर्भूतताख्यप्रमाणे व्यक्तीनां प्रतिभाससमानतया सङ्केत- विषयत्वसम्भवात् । कथमन्यथानुमानमपि प्रवर्तेत । तत्राऽप्यानन्त्यान- नुगमरूपतया साध्यसाधनव्यक्तीनां सम्बन्धग्रहणासम्भवात् । अन्य- व्यावृत्त्या तत्र सम्बन्धग्रहणमिति त्वविशदम् । तस्या एव सदृशपरि- २० णामान्यासम्भवेऽनुपपद्यमानत्वात् । न चासदंशेष्वप्यर्थेषु सामान्यवि- कल्पजनकेषु स्वदर्शनद्वारेण सदृशव्यवहारहेतुत्वमिति वाच्यम् । नीला- दिविशेषाणामप्येवमभावप्रसक्तेः । यथा हि परमार्थतोऽसदृशा अपि तथाविधविकल्पोत्पादकदर्शनहेतवः सन्तः सदृशव्यवहारभाजो भावा- स्तथा स्वयमनीलादिस्वभावा अपि नीलादिविकल्पोत्पादकदर्शननिमि- २५ त्ततया नीलादिषु व्यवहारभाक्त्वं प्रतिपत्स्यते । ततः सदृशपरिणामा- भावेऽर्थानां सजातीयेतरव्यवस्थाया असम्भवात्कुतः कस्य व्यावृत्तिः ।

परि. ४ सू. ११] स्याद्वादरत्नाकरसहित ७१५ एवं चाऽकृतसङ्केतत्वादित्येतस्य सुव्यक्तैवाऽसिद्धिः । ननु च शब्देनाऽर्थ- स्याऽभिधेयत्वे साक्षादेव ततोऽर्थप्रतिपत्तिसम्भवादिन्द्रियसंहतेर्वैयर्थ्याप- तिरिति चेत् । मैवं वादीः । शब्दादर्थस्याऽस्पष्टाकारतया प्रतिपत्तिः स्पष्टाकारतया तु तत्प्रतिपत्त्यर्थमिन्द्रियसंहतिरप्युपपद्यत एवेति तस्याः कथं वैयर्थ्यापत्तिः । स्पष्टास्पष्टाकारतया प्रतिभासभेदश्च सामग्रीमे- ५ दान विरुध्यते । दूरासन्नार्थोपनिबद्धेन्द्रियप्रतिभासवत् । यथैव हि दूरा- सन्नदेशादिसामग्रीविशेषमाहात्म्यान्महीरुहमहीधरादेरविभिन्नस्यापि वि- भिन्नप्रतिभासगोचरत्वं तथा शाब्दप्रत्यक्षसंवेदनयोरभिन्नगोचरत्वेऽपि शब्देन्द्रियादिसामग्रीभेदादस्पष्टेतरप्रतिभासभेदो न विरोधधुरामधिरोहति। अथासत्यप्यर्थेऽतीतानागतादौ शब्दस्य प्रवृत्तेर्नाऽर्थाभिधायकत्वम् । १० तन्न साधीयः । अतीतानागतादेरिदानीमभावेऽपि स्वकाले भावात् । इतरथा प्रत्यक्षस्याऽप्यर्थविषयत्वबाधः स्यात् । तद्विषयस्यापि तत्काले भवद्दष्टया क्षणभङ्गुरत्वेनाऽभावात् । अविसंवादस्तु प्रमाणान्तरप्रवृत्तिल. क्षणः प्रत्यक्षवत्तत्राऽप्यनुभूयत एव । आसीद्वहिरिहेत्याद्यतीतविषये शाब्दे विशिष्टभस्मादिकार्यदर्शनोद्भूतेनानुमानेन संवादोपलब्धेः कमलबन्धुकुमुदबान्धवोपरागाद्यनागतार्थविषये तु प्रत्यक्षप्रमाणेनैव संवाददर्शनात् । कचिद्विसंवादात्सर्वत्र शाब्दस्याऽप्रमाणतायां पुनः प्रत्यक्षस्याऽपि क्वचिद्विसंवादात्सर्वत्राप्रमाणताप्रसक्तिः । एवं च स्वलक्षणगोचरताङ्गीकारे चेत्यादि प्रत्यादिष्टम् । किं वाऽन्यदेवेन्द्रिय- ग्राह्यम् ॥ २० .... .... १ एतदरे यावत्परिच्छेदसमाप्ति स्याद्वादरत्नाकरग्रन्थो नोपलभ्यते कुत्रापि पुस्त- केषु । अतो द्वादशसूत्रमारभ्य रत्नाकरावतारिकासहितः सूत्रग्रन्थः प्रदश्यते सूक्ष्मा- क्षरैः। एकादशसूत्रेऽन्तिमभागे योऽर्थः स द्वादशसूत्रस्थावतरणेन ज्ञातुं शक्यः । .

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १२ . स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इत्युक्तम् । अथ किमस्य शब्दस्य स्वाभाविक रूपं, किंच परापेक्षमिति विवेचयन्ति- अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद्यथायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः॥१२॥ अर्थप्रकाशकत्वम्, अर्थावबोधसामर्थ्यम् । अस्य शब्दस्य । स्वाभाविकं परान- पेक्षम् । प्रदीपवत् । यथा हि प्रदीपः प्रकाशमानः शुभमशुभं वा यथा सन्निहित भावमवभासयति, तथा शब्दोऽपि वक्त्रा प्रयुज्यमानः श्रुतिवर्तिनीमवतीर्णः सत्येऽ- नृते वा, समन्वितेऽसमन्विते वा, सफले निष्फले वा, सिद्धे साध्ये वा वस्तुनि प्रतिपत्ति- मुत्पादयतीति तावदेवास्य स्वाभाविक रूपम् । अयं पुनः प्रदीपाच्छब्दस्य विशेषः, १० यदसौ संकेतव्युत्पत्तिमपेक्षमाणः पदार्थप्रतीतिमुपजनयति, प्रदीपस्तु तनिरपेक्षः । यथार्थत्वायथार्थत्वे सत्यार्थत्वासत्यार्थत्वे पुनः प्रतिपादकनराधिकरणशुद्धत्वाशुद्धत्वे भनुसरतः । पुरुषगुणदोषापेक्षे इत्यर्थः । तथा हि-सम्यग्दर्शिनि शुचौ पुरुष वक्तरि यथार्था शाब्दी प्रतीतिरन्यथा तु मिथ्याथेति । स्वाभाविके तु याथायें मिथ्या. यस्वे चाऽस्याः स्वीक्रियमाणे विप्रतारकेतरपुरुषप्रयुक्तवाक्येषु व्यमिचाराव्यभिचार- १५ नियमो न भवेत् । पुरुषस्य च करुणादयो गुणा द्वेषादयो दोषाः प्रतीता एव । तत्र यदि पुरुषगुणानां प्रामाण्यहेतुत्वं नाभिमन्यते जैमिनीयैः, तर्हि दोषाणामप्यप्रा. माण्यनिमित्तता मा भूत् । दोषप्रशमनचरितार्था एव पुरुषगुणाः, प्रामाण्यहेतवस्तु न भवन्तीत्यत्र च कोशपानमेव शरणं श्रोत्रियाणामिति ॥ १२ ॥ इह यथैवान्तर्बहिर्वा भावराशिः स्वरूपमाविभर्ति, तथैव तं शब्देन प्रकाशयता २० प्रयोक्तॄणां प्रावीण्यमुपजायते । तं च तथाभूतं सप्तभङ्गीसमनुगत एव शब्दः प्रतिपादयितुं पटीयानित्याहुः-- सर्वत्राऽयं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिधानः सप्तमङ्गी- मनुगच्छति ।। १३॥ सदसन्नित्यानित्यादिसकलैकान्तपक्षविलक्षणानेकान्तात्मक वस्तुनि विधिनिषेध- २५ विकल्पाभ्या प्रवर्तमानः शब्दः सप्तभङ्गीमङ्गीकुर्वाण एच प्रवर्तत इति भावः ॥१३॥ अथ सप्तभङ्गीमेव स्वरूपतो निरूपयन्ति-- एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्त- योश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥ एकत्र जीवादी वस्तुन्यकैकसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादि- बाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनवा कृत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभशी विशेया। . - परि. ४ सू. १५] रत्नाकरावतारिकासहितः ७१७ भज्यन्ते भिद्यन्तेऽर्था यैस्ते भङ्गा वचनप्रकारास्ततः सप्तभङ्गाः समाहृताः सप्तमजीति कथ्यते । नानावस्त्वाश्रयावधिनिषेधकल्पनया शतभङ्गीप्रसङ्गनिवर्तनाथमेकत्र वस्तु. नीत्युपन्यस्तम् । एकत्राऽपि जीवादिवस्तुनि विधीयमाननिषिध्यमानाननाधर्मपर्या- लोचनयाऽनन्तभङ्गीप्रसक्तिव्यावर्तनार्थमेकैकधर्मपर्यनुयोगवशादित्युपात्तम् । अनन्ते- ध्वपि हि धर्मषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्तमानत्वात् । तत्प्रतिवचन- स्यापि सप्तविधत्वमेवोपपन्न मित्येककस्मिन्धमें एकैकेव सप्तभक्ती साधीयसी । एवं चाऽनन्तधर्मापेक्षया सप्तभङ्गीनामानन्त्यं यदायाति, तदभिमतमेव । एतच्चाऽने सूत्रत एव निर्णेष्यते । प्रत्यक्षादिविरुद्धसदायेकान्तविधिप्रतिषेधकल्पनयाऽपि प्र- तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थमविरोधेनेत्यभिहितम् । अवोचाम च- 'या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निदोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया जल्पन जल्परणाङ्गगे विजयते वादी विपक्ष क्षणात् ॥ १॥' इदं च सप्तभनोलक्षणं प्रमाणनयसप्तभङ्ग्योः साधारणमवधारणीयम् । विशेष. १५ लक्षणं पुनरनयोरप्रे वक्ष्यते ॥ १४ ॥ अथाऽस्यां प्रथमभङ्गोल्लेखं तावद्दर्शयनि- तद्यथा-स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमो भङ्गः ॥१५॥ स्यादित्यव्ययमनेकान्तावद्योतकं स्यात्कथञ्चित्स्वद्रव्यक्षेत्रकालभावरूपेणाऽस्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथा हि-कुम्भो द्रव्यतः पार्थि. २० वरवेनाऽस्ति, न जलादिरूपत्वेन, क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन । कालतः शैशिरत्वेन, न वासन्तिकादित्वेन, भावतः श्यामत्वेन, न रक्तत्वादिना । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चाऽत्र भङ्गेऽनभिमतार्थ- व्यावृत्त्यर्थमुपात्तम् । इतस्थाऽनभिहिततुल्यतेवाऽस्य वाक्यस्य प्रसज्येत, प्रतिनियत- खानभिधानात् । २५ तदुक्तम्- वाक्येऽवधारण तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित्" ॥१॥ तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणाऽस्तित्वप्राप्तः प्रतिनियतस्वरूपानुपपत्तिः स्यात्, तत्प्रतिपत्तये स्यादिति ३० प्रयुज्यते, स्यात्कथञ्चित्स्वद्रव्यादिभिरेवाऽयमस्ति, न परद्रव्यादिभिरपीत्यर्थः । यत्रापि बाऽसौन प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एष। .

प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. १५ . यदुक्तम्- सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्राऽर्थात्प्रतीयते । यथैवकारो योगादिव्यवच्छेदप्रयोजनः " ॥ १ ॥१५॥ अथ द्वितीयभङ्गोल्लेखं ख्यापयन्ति स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥ १६ ॥ स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियतस्वरू- पाभावाद्वस्तुप्रतिनियमविरोधः । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्ध- मित्यभिधानीयम् । कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वात्साधनवत् । न हि क्वचि- दनित्यत्वादौ साध्ये सत्त्वादिसाधनस्याऽस्तित्वं विपक्षे नास्तित्वमन्तरेणोपपत्रम्, १० तस्य साधनाभासत्वप्रसङ्गात् । अथ यदेव नियतं साध्यसद्भावेऽस्तित्वं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते, तत्कथं प्रतिषेध्यम् ? स्वरूपस्य प्रति- षेधत्वानुपपत्तेः, साध्यसद्भावे नास्तित्वं तु यत्तत्प्रतिषेध्यम् , तेनाऽविनाभावित्वे साध्यसद्भावास्तित्वस्य व्याघातात्तेनैव स्वरूपेणाऽस्ति नास्ति चेति प्रतीत्यभावादिति चेत् । तदसत् । एवं हेतोस्त्रिरूपत्वविरोधात् । विपक्षासत्त्वस्य तात्त्विकस्याभावात् । १५ यदि चाऽयं भावाभावयोरेकत्वमाचक्षीत, तदा सर्वथा न कचित्प्रवर्तत। नापि कुतश्चिनिवर्तत । प्रवृत्तिनिवृत्तिविषयस्य भावस्याऽभावपरिहारेणासंभवात् । अभा- वस्य च भावपरिहारेणेति वस्तुनोऽस्तित्वनास्तित्वयो रूपान्तरत्वमेष्टव्यम् । तथा चास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावि सिद्धम् । यथा च प्रतिषेध्यमस्ति- त्वस्य नास्तित्वं प्रधानभावतः क्रमापितोभयत्वादिधर्मपञ्चकमपि वक्ष्यमाणं २० लक्षणीयम् ॥ १६॥ अथ तृतीयं भगमुल्लेखतो व्यक्तीकुर्वन्ति- स्यादस्त्येव स्यानास्त्यवति ऋमतो विधिनिषेधकल्पनया तृतीयः ॥१७॥ सर्वमिति पूर्वसूत्रादिहोत्तरत्र चाऽनुवर्तनीयम् । ततोऽयमर्थः । क्रमाप्तिस्वपर- २५ द्रव्यादिचतुष्टयापेक्षया क्रमाप्तिाभ्यामस्तित्वनास्तित्वाभ्यां विशेषितं सर्व कुम्भादि वस्तु स्यादस्त्येव स्यानास्त्येवेत्युल्लेखेन वत्तव्यमिति ॥ १७ ॥ इदानीं चतुर्थभगोल्लेखमाविर्भावयन्ति-- स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः॥१८॥ द्वाभ्यामस्तित्वनास्तित्वाख्यधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामेकस्य वस्तुनो- ३० ऽभिधित्सायां ताश्यस्य शब्दस्याऽसंभवादवक्तव्यं जीवादिवस्त्विति । तथा हि- यदसत्त्वगुणद्वयं युगपदेकत्र सदित्यभिधानेन तद्वक्तुमशक्यम् । तस्याऽसत्त्वप्रतिपा- दनासमर्थत्वात् । तथैवाऽसदित्यभिधानेन न तद्वक्तुं शक्यम् । तस्य सत्यप्रत्यायने । -- ।

परि. ४ सू. २३]
रत्नाकरावतारकासहितः
.
-
सामर्थ्याभावात् । साहोतेकमेकं पदं तदभिधातुं समर्थमित्यपि न सत्यम् । तस्यापि
क्रमेणार्थद्वयप्रत्यायने सामथ्र्योपपत्तेः । शतृशानचौ सदिति शतृशानचोः सङ्केति-
तसच्छब्दवत् । द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकमित्यप्यनेनाऽास्तम् । सदसत्त्वे
इत्यादि पदस्य क्रमेण धर्मद्वयप्रत्यायने समर्थत्वात् । कर्मधारयादिवृत्तिपदमपि न
तयोरभिधायकं तत एव वाक्यं तयोरभिधायकमनेनैवाऽपास्तमिति सकलवाच-
करहितत्वादवक्तव्यं वस्तु युगपत्सदसत्त्वाभ्यां प्रधानभावार्पिताभ्यामाकान्तं
'व्यवतिष्ठते । अयं च भङ्गः कैश्चित्तृतीयभङ्गस्थाने पठ्यते, तृतीयश्चैतस्य स्थाने । न
चैवमपि कश्चिद्दोषः,
अर्थविशेषस्याभावात् ॥ १८ ॥
अथ पञ्चमभङ्गोल्लेखमुपदर्शयन्ति-
स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेध. १०
कल्पनया च पञ्चमः॥१९॥
स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वे सत्यस्तित्वनास्तित्वाभ्यां सह वक्तुमशक्यं सर्व
वस्तु । ततः स्यादस्त्येव स्यादवक्तव्यमेवेत्येवं पञ्चमभङ्गेनोपदर्यत इति ॥ १९ ॥
अथ षष्ठभङ्गोल्लेखं प्रकटयन्ति
स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेध. १५
कल्पनया च षष्ठः ॥२०॥
परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सत्यस्तित्वनास्तित्वाभ्या यौगपोन
प्रतिपादयितुमशक्यं समस्तं वस्तु । ततः स्यान्नास्त्येव स्यादवक्तव्यमेवेत्येवं षष्ठ-
भङ्गेन प्रकाश्यते ॥ २० ॥
सम्प्रति सप्तमभङ्गमुल्लिखन्ति-
२०
स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेध-
कल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ॥२१॥
इतिशब्दः सप्तमीसमाप्त्यर्थः । स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वनास्ति-
त्वयोः सतोरस्तित्वनास्तित्वाभ्यां समसमयमभिधातुमशक्यमखिलं वस्तु तत
एवमनेन भनेनोपदश्यते ॥ २१ ॥
अथास्यामेव सप्त सभङ्ग्यामेकान्तविकल्पानिराचिकीर्षवः
सूत्राण्याहुः
विधिप्रधान एव ध्वनिरिति न साधु ॥२२॥
प्राधान्येन विधिमेव शब्दोऽभिधत्ते इति न युक्तम् ॥ २२ ॥
अत्र हेतुमाहुः-
निषेधस्य तस्मादप्रतिपत्तिप्रसतेः॥ २३ ॥
३०
तस्मादिति शब्दात् ॥ २३ ॥

७२० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. २४ - भाशतान्तरं निरस्यन्ति- अप्राधान्येनैव ध्वनिस्तमभिधत्त इत्यप्यसारम् ॥ २४ ॥ तमिति निषेधम् ॥ २४ ॥ भत्र हेतुमाचक्षते- ५ कचित्कदाचित्कथञ्चित्प्राधान्येनाऽप्रतिपन्नस्य तस्याऽप्राधान्यानुप- पत्तेः॥२५॥ न खलु मुख्यतः स्वरूपेणाप्रतिपन्नं वस्तु क्वचिदप्रधानभावमनुभवतीति ॥२५॥ इत्थं प्रथमभङ्गकान्तं निरस्येदानी द्वितीयभञ्जकान्तनिरासमतिदिशन्ति- निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् ।। २६ ॥ व्यक्तम् ॥ २६ ॥ अथ तृतीयभङ्गकान्तं पराकुर्वन्ति- क्रमादुमयप्रधान एवाऽयमित्यपि न साधीयः ॥ २७ ॥ भयमिति शब्दः ॥ २७ ॥ एतदुपपादयन्ति १५ अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याऽप्यबाध्यमानत्वात् ।२८। प्रथमद्वितीयभङ्गगतैकैकप्रधानत्वप्रतीतेरप्यबाधितत्वान्न तृतीयभङ्गैकान्ताभ्युपगमः श्रेयान् ॥ २८॥ अथ चतुर्थभडैकान्ताराभवाय प्राहुः- युगपविधिनिषेधात्मनोऽर्थस्याऽवाचक एवाऽसाविति च न चतुरस्रम् ॥ १९॥ स्यादवक्तव्यमेवेति चतुर्थभङ्गैकान्तो न श्रेयानित्यर्थः ॥ २९ ॥ कुत इत्याहुः-- तस्याऽवक्तव्यशब्दनाऽप्यवाच्यत्वप्रसङ्गात् ॥ ३० ॥ अथ पञ्चमभङ्गकान्तमपास्यन्ति- २५ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न कान्तः॥ ३१ ॥ अत्र निमित्तमाहुः- निषेधात्मनः सह हयात्मनश्चाऽर्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥ ३२ ॥ ३० निषेधात्मनोऽर्थस्य वाचकत्वेन सह, विधिनिषेधात्मनोऽर्थस्याऽवाचकत्वेन च शब्दः षष्ठभने प्रतीयते यतः, ततः पंचमभङ्गकान्तोऽपि न श्रेयान् ॥ ३२ ॥ .

परि. ४ स. ४१] रत्नाकरावतारिकासहितः ७२१ षष्ठभङ्गैकान्तमपाकुर्वन्ति-- निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवाऽय- मित्यप्यवधारणं न रमणीयम् ।। ३३ ।। भत्र हेतुमुपदर्शयन्ति- इतरथाsपि संवेदनात् ॥ ३४॥ आद्यभङ्गादिषु विध्यादिप्रधानतयाऽपि शब्दस्य प्रतीयमानत्वादित्यर्थः ॥३४॥ अथ सप्तमभङ्गैकान्तमपाकुर्वन्ति- क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्वाऽवाचकश्च ध्वनि- नाऽन्यथेत्यपि मिथ्या ॥ ३ ॥ अत्र बीजमाख्यान्ति- १०. विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धः॥ ३६॥ नन्वेस्मिन् जीवादौ वस्तुन्यनन्तानां विधीयमाननिषिध्यमानानां धर्माणा- मङ्गीकरणादनन्ता एव वचनमार्गाः स्याद्वादिनां भवेयुः, वाच्येयत्ताऽऽयत्तत्वा. द्वाचकेयत्तायाः; ततो विरुद्धैव सप्तभङ्गीति ब्रुवाणं निरस्यन्ति-- एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनाऽनन्तम- १५ ङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥ ३७॥ अत्र हेतुमाहुः- विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गी- नामेव संभवात् ॥ ३ ॥ एकैकं पर्यायमाश्रित्य वस्तुनि विधिनिषेधविकल्पाभ्यां व्यस्तसमस्ताभ्यां सप्लैव भङ्गाः संभवन्ति, न पुनरनन्ताः । तत्कथमनन्तभङ्गीप्रसङ्गादसङ्गतत्वं सप्तभङ्गया: समुद्भाव्यते ॥३८॥ कुतः सप्तैव भङ्गाः संभवन्तीत्याहुः- प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥ ३९ ।। एतदपि कुन इत्याहु:-: २५ तेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात् ॥ ४०॥ अथ सप्तविधतजिज्ञासानियमे निमित्तमाहुः तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् ॥४१॥ तस्या अपीति प्रतिगद्यजिज्ञासायाः। तत्संदेहसमुत्पादादिति प्रतिपाद्यसंशय- समुत्पत्तेः ॥४१॥ ३०. २० - -- ७२२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ४२ संदेहस्याऽपि सप्तधात्वे कारणमाहुः- तस्यापि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यै- वोपपत्तेः॥४२॥ तस्य प्रतिपाद्यगतसन्देहस्य । खगोचरवस्तुधर्माणां सन्देहविषयीकृतानामस्तित्वादि- ५ वस्तुपर्यायाणाम् ॥ ४२ ॥ इयं सप्तभङ्गी कि सकलादेशखरूपा विकलादेशतरूपा वेत्यारेका पराकुर्वन्ति- इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४३॥ एकैको भङ्गोऽस्याः संबन्धी सकलादेशखभावः विकलादेशस्वभावश्चेत्यर्थः॥४३॥ अथ सकलादेश लक्षयन्ति--- प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्या- दभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥ ४४ ।। कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेधर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात्, कालादिभिर्मिनात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद्वा समकालमभिधायक १५ वाक्यं सकलादेशः प्रमाणवाक्यमित्यर्थः । अयमर्थः-योगपयेनाऽशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचारात्, भेदप्राधान्याद्वा तदभिधत्ते, तस्य नयायत्तत्वात् । कः पुनः क्रमः ? किं वा यौगपद्यम् ? । यदाऽस्तित्वादि- धर्माणां कालादिभिभेदविवक्षा, तदैकस्य शब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावा- २० स्क्रमः; यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते,तदैकेनाऽपि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकाशेषरूपस्य वस्तुनः प्रतिपाद- नसंभवाद्योगपघम् । के पुनः कालादयः ? । कालः, मात्मरूपं, अर्थः, संबन्धः, उप- कारः, गुणिदेशः, संसर्गः, शब्दः, इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः ।। २५ यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपम्, तदेव चान्यानन्तगुणानामपीत्यात्मरूपेणाऽ. भेदवृत्तिः २ । य एव चाधारोऽयों द्रव्याख्योऽस्तित्वस्य, स एवाऽन्यपर्यायाणामि- त्यथैनाभेदवृत्तिः । य एव चाऽविष्वग्भावः कथश्चित्तादात्म्यलक्षणः संबन्धोऽस्ति- त्वस्य, स एवाऽशेषविशेषाणामिति संबन्धेनाभेदवृत्तिः ४। य एव चोपकारोऽस्ति. त्वेन स्वानुरक्तत्वकरणम्, स एव शेषैरपि गुणैरित्युपकारेणाभेदवृत्ति: ५। य एव ३० गुणिनः संबन्धी देशःक्षेत्रलक्षणोऽस्तित्वस्य, स एवाऽन्यगुणानामिति गुणिदेशेनाऽ- भेदवृत्तिः ।य एव चैकवस्त्वात्मनाऽस्त्विस्वस्य संसर्गः, स एवाऽशेषधर्माणामिति संसर्गेणाऽभेदवृत्तिः। ननु प्रागुकसंबन्धादस्य कः प्रतिविशेषः । उच्यते । मभेद- . .

परि. ४ सू. ४७] . रत्नाकरावतारिकासहितः ७२३ प्राधान्येन भेदगुणभावेन च प्रागुक्तः संबन्धः, भेदप्राधान्येनाऽभेदगुणभावेन वैष संसर्ग इति । य एवास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः, स एव शेषानन्तधर्मात्मकस्याऽपीति शब्देनाभेदवृत्तिः ८ । पर्यायार्थिकगुणभावे द्रव्या- र्थिकनयप्राधान्यादुपपद्यते । द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः संभवति, समकालमेकत्र नानागुणानामसंभवात्, संभवे वा तदाश्रयस्य तावद्वा भेदप्रसङ्गात् १ । नानागुणानां संबन्धिन आत्मरूपस्य च 'भिन्नत्वात्, आत्मरूपाभेदे तेषां भेदस्य विरोधात् २ । स्वाश्रयस्याऽर्थस्यापि नाना- स्वात्, अन्यथा नानागुणाश्रयत्वविरोधात् ३ । संबन्धस्य च संबन्धिभेदेन भेद- दर्शनात्, नानासंबन्धिभिरेकत्रैकसंबन्धाघटनात् ४ । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरो- १० धात् ५। गुणिदेशस्य च प्रतिगुणं भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशा- भेदप्रसङ्गात् ६ । संसर्गस्य च प्रतिसंसर्गिभेदात्, तदभेदे संसर्गिभेदविरोधात् ७ । शब्दस्य च प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेक- शब्दवाच्यतापत्तेः शब्दान्तरवैफल्यापत्तेः ८ । तत्त्वतोऽस्तित्वादीनामे- कत्र वस्तुन्येवमभेदवृत्तेरसंभवे कालादिभिर्मिनात्मनामभेदोपचारः क्रियते । तदे- १५ ताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशःप्रमाणवाक्यापरपर्याय इति स्थितम्। कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्वत्यष्टौ कालादयः स्मृताः" ॥१॥ ४ ॥ अधुना नयवाक्यस्वभावत्वेन नयविचारावसरलक्षणीयस्वरूपमपि विकलादेश २० सकलादेशस्वरूपनिरूपणप्रसङ्गेनाऽत्रैव लक्षयन्ति-- तद्विपरीतस्तु विकलादेशः॥ ४५ ॥ नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यानेदोपचाराद्वा क्रमेण यद- भिधायकं वाक्यम् , स विकलादेशः । एतदुल्लेखस्तु नयस्वरूपानभिज्ञश्रोतॄणां दुरवगाह इति नयविचारावसर एव प्रदर्शयिष्यते ॥ ४५ ॥ २५ प्रमाणं निर्णायाथ यतः कारणात्प्रतिनियतमर्थमेतद्यवस्थापयति, तत्कथयन्ति- तत् विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूप- सामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥४६॥ प्रत्यक्षपरोक्षरूपतया द्विप्रकारमपि.प्रागुपवर्णितस्वरूपं प्रमाणं स्वकीयज्ञानावर- गाद्यदृष्टविशेषक्षयक्षयोपशमलक्षणं योग्यतावशात्प्रतिनियतं नीलादिकमर्थ व्यव- ३० स्थापयति ॥ ४६॥ एतद्यवच्छेद्यमाचक्षते- ७२४ प्रमाणनयतस्वालोकालङ्कारः [परि. ४ स. ४७ न तदुत्पत्तितदाकारताभ्यां, तयोः पार्थक्येन सारास्त्येन च व्याभि- चारोपलम्भात् ॥४७॥ तथा हि-ज्ञानस्य तदुत्पतितदाकारताभ्यां व्यस्ताभ्यां समस्ताभ्यां वा प्रति- नियतार्थव्यवस्थापकत्वं स्यात् । यदि प्राच्यः पक्षः, तदा कपालक्षणः कलशा- ५ न्त्यक्षणस्य व्यवस्थापकः स्यात्, तदुत्पत्तेः केवलायाः सद्भावात् । स्तम्भः स्तम्भान्तरस्य च व्यवस्थापकः स्यात् , तदाकारतायास्तदुत्पत्तिरहितायाः संभ- वात् । अथ द्वितीयः, तदा कलशस्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत्, समुदितयोस्तदुत्पत्तितदाकारतयोर्विद्यमानत्वात् । अथ विद्यमानयोरप्यनयोनि- मेवार्थस्य व्यवस्थापकम् ; नाऽर्थः, तस्य जडत्वादिति मतम् । तदपि न न्यायानु- १० गतम् , समानार्थसमनन्तरप्रत्ययोत्पन्नज्ञानयभिचारात् । तानि हि यथोक्तार्थव्यव- स्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपि प्राच्यं जनकशानक्षगं न गृह्णन्ति । अपि च किमिदमर्था कारत्वं वेदनाना ? यद्वशात्प्रतिनियतार्थपरिच्छेदः स्यात् । किम- कारोलेखित्वम् , अाकारधारित्वं वा । प्रथमप्रकारे, अर्थाकारोल्लेखोऽर्याकारप- रिच्छेद एव, ततश्च ज्ञान प्रतिनियतार्थपरिच्छेदात्प्रतिनियतमर्थमवद्योतयतीति १५ साध्याविशिष्टत्वं सष्टमुपढौकते । द्वितीयप्रकारे पुनराकारधारित्वं ज्ञानस्य सर्वात्मना देशेन वा । प्रथमपक्षे, जडत्वादर्थस्य शानमपि जडं भवेत्, उत्तरार्थ- क्षणवत् । प्रमाणरूपत्वाभावश्चोत्तरार्थक्षणवदेवाऽस्य प्रसज्येत, सर्वात्मना प्रमेय- रूपतानुकरणात् । अथ देशेन नीलत्वादिनाऽर्था कारधारित्वमिष्यते ज्ञानस्य, तहि तेनाऽजडाकारेण जडताप्रतिपत्तेरसंभवात्कथं तद्विशिष्टत्वमर्थस्य प्रतीयेत? २० न हि रूपज्ञानेनाऽप्रतिपन्नरसेन तविशिष्टता सहकार कलादौ प्रतीयते । किंच देशेनाकारधारित्वान्नीलार्थवनिःशेषार्थानामपि ज्ञानेन ग्रहणापत्तिः, सत्त्वादि- मात्रेण तस्य सर्वत्राकारधारित्वाविशेषात् । अथ तदविशेषेऽपि नीलाद्याकार- वैलक्षण्यानिखिलानामग्रहणम् , तर्हि समानाकाराणां समस्तानां ग्रहणगाप्तिः । अथ यत एव ज्ञानमुत्पद्यते, तस्यैवाऽकारानुकरणद्वारेण त्राहकम् , हन्त ! एवमपि २५ समानार्थसमनन्तरप्रत्ययस्य तद्ग्राहकं स्यादित्युक्तम् । ततो न तदुत्पत्तितदाकार- ताभ्यां ज्ञानस्य प्रतिनियतार्थावभासः । किंतु प्रतिबन्धकापगमविशेषादिति सिद्धम् ॥ ४॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायामागमस्वरूपनिर्णयो नाम चतुर्थः परिच्छेदः ॥ ४॥ ३० !

शुद्धिपत्रकम् । . अशुद्धं अशुद्धं मुपाध पं. किकृत ४९१ ४९२ ४९४ छिन्नः भेदीहंसः सट संम्भव त्येवं रूपा ४९८ ५०० ५०० ५११ ५१९ २० | नैष्टे रसात्, प्ययु वों श्रवण हेतुत्वा तीति नेका सिसा মুদা 3 . शुद्धं मुपपाय किंकृत च्छिन्नः भेदी हंसः सटा सम्भव त्येवंरूपा प्यु वों श्रावण हेतुत्व तीति । नैका सिषा सूत्रानु छन्दः च गम र्णया क्षेत निषेध- निर्देश्यः सांख्य उत्पाद वचन न्तैक प्रत्य ५१९ ५२१ ५२३ ५२५ ५२७ ५२८ ५३३ १८ | पतौ रेषा शुद्ध पृ. ३ स्वण्ड खण्ड ५८१ १३ ३ | द्रवि द्रमि ५८४ १४ साड्व शाद ५९७ २ २० कृत्तिका कृत्तिकाः ५९८३,१८ ती ३ १२ ते न्ते ५९८ ११ २१ विशिष्ट काल विशिष्टकाल ५९८ १७ २ चर १६ जन्मरूप जन्म रूप ६.१ नष्टै ६.१ २५ | रसात्। १० षड्भ षड्भ ३ १२ न्यः व्यः ६१. १ पत्य प्रत्य ६११ पत्तो ६१३ २७ रेषः १२ येते २ १ त्वस्य। स्वस्य ६२३ १० १७ न्त्यास त्यास ६३३ ४ णदि णादि १३ योप्या योऽप्य ६३७ २२ २४ दिक दिका ६३८ १ २ निर क निराक ६४४ १२ ९ मुत २ पव पत्र ६५१ १६ २ प्लता प्लुता ६५५ १४ स्यो स्यो ६ | स्त्रयामि स्त्रयोऽभि २४ / कलिकाल काले काले ६५० ६ युज्य ६५९ १९ ध्वनि वनि १४ २३ / धर्म धर्म पद्य पद्यत २४ । यते ५४५ ५५० न गम णया क्षेत् निषेध निर्देशः साख्य उत्पादे वनच न्तिक प्रत्प वचसो ५५२ ५५२ ५५८. } ५६८ ५६८ धान धर्म धन स्मक दिति नाशो श्रुतिः दिति । न शो श्रतिः शुद्धं दत्त शुद्ध रार्थ सिष्टे यु अशुद्धं दत्तो शिष्ठयु वके वर्म नो गोन्द वक्त्रे वर्त्मनो गोशब्द पृ. पं. | अशुद्धं ६६८ २६ । रार्थ ११ ६७४ २३ मारुता नित्य त्व काश्चि ६ पद्गु पं. ६७६ २६ ६७९ ३ ६८५ ३ ६८६ ६८६. ९ ६८६ १३ मारुता वृ नित्यत्व कांश्चि पद्गृ २ ६७६

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Syadwadratnakarah Vol. 3

Author
Debasuri
Title
Syadwadratnakarah Vol. 3
File name
Syadwadratnakarah Vol. 3
Text
OCR done
Citation
1945
Published
2007/12/10
Publisher
N. A.
Language
Sanskrit
Pages
259
Library
The Asiatic Society, Kolkata
DLI number
322380
Barcode
4990010252249.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
VMLT id
jxUagpwknID
Download PDF

Syadwadratnakarah Vol. 3