Bharti Bhawan Library, Allahabad

Asvaita Siddhi Siddhanta Sara 2

Sri Sadananda Vyasa

PDF Proofread

Front matter

No. 66. Price Rupe. Pre. Yom THE CHOWKHAMBA SANSKRIT SERIES COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS, अद्वैतसिद्धिसिद्धान्तसारः । 1 पण्डितप्रवरश्रीसदानन्दव्यासप्रणीतस्तत्कृत- व्याख्यासमलकृतश्च । ADVAITA SIDDHI SIDDHANTA SARA, An abstract of Aducita Sidhi, BY PANDIT SRI SADANANDA VYÁSA, WITH A COMMENTARY BY THE SAME AUTHOR. Edited and annotaied by PANDIT LAKSHMANA SÂSTRÎ DRAVIDA, Professor of Vedanta Central Hindu College, Benares. FASCICULAS II. PUBLISHED AND SOLD BY THE SECRETARY CHOWKHAMBA SANSKRIT BOOK-DEPÔT: BENARES. AGENT:-OTTO HARRASSOWITZ, LEIPZIG: Printed By Hari Das Gupta Proprietor AT THE VIDYA VILASA PRESS. BENARES. 1903. Registered decording to Act XXV. of 1867.

भारती-भवन पुस्तकालय, प्रयाग क्रमिक संख्या विभाग २२-१/१२० అంతంతంత తత ంతం eee HOB000 980-900 श्रीः 3000000000 आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्तूपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दामोदमोहितम् ॥ २ ॥ स्तबकः-६६ 30000000000000000 900000०००००००००००००००००००००००००००००००००० 300/ १०१ 22 2/१२ रजतश्रमस्य चाक्षुषत्वानुभवविरोधपरिहारः । इयोरध्यसनीयत्वादिदरजतयो रपि । स्वप्रकाशतयाऽविद्याधिष्ठानस्य चिदात्मनः ॥ १६ ॥ चाक्षुषेदंमनोवृत्त्यवच्छिन्नचितिगाऽस्ति या । अविद्या तद्विवर्तत्वे चाक्षुषत्वोपचारतः ॥ १७ ॥ स्वत एवास्त्युपाधित्त्वमविद्यावृत्तिभासके । चैतन्येऽस्मिन्नविद्याया वृत्तेर्नान्यदपेक्षणम् ॥ ४८ ॥ साक्षिवेद्यतया वृत्तौ नाज्ञानं यद्यपीष्यते । तथाऽपि तदवच्छिन्ने शुक्तयवच्छिन्नगं तमः ॥४९॥ रिति" । अविद्यावच्छिन्नचैतन्यरूपाधिष्ठानस्य स्वप्रकाशत्वादि- त्यर्थः ॥ ४६ ॥ ननु रूप्यज्ञानस्याचाक्षुषत्वे रूप्यं पश्यामीति चाक्षु- षत्त्वानुभवविरोध इति नेत्याह-" चाक्षुषेति "। चाक्षुषेदं- वृत्त्यवच्छिन्नचैतन्यस्याविद्यापरिणामत्त्वेन चाक्षुषत्वोपचारादित्यर्थः ॥ ४७ ॥ ननु रूप्यज्ञानस्याऽविद्यावृत्तित्वेन प्रातिभासिकतया प्र- तिभासावश्यम्भावेनाध्यस्तविषयज्ञानस्य चाध्यस्तत्वनियमेनाविद्या- वृत्तेरपि अविद्यावृत्तिप्रतिबिम्बितचैतन्यवेद्यत्त्वं एवं तस्य तस्यापि इत्यनवस्थेति चेन्नेत्याह-" स्वत" इति । सत्यमेतत् न पुनर- नवस्था अविद्यावृत्तिप्रातिभासिकचैतन्ये अविद्यावृत्तेः स्वत एवो- पाधित्वेन वृत्यन्तरानपेक्षत्वादित्यर्थः ॥ ४८ ॥ नन्विदं वृत्तेतिकसत्त्वेन तदवच्छिन्नचैतन्यगताशानमेव ना- स्तीति चेन्नेत्याह-“साक्षीति | वृत्तेः साक्षिवेद्यत्त्वेन यद्य. पि तद्गोचराक्षानं नास्ति तथाऽपि तदवच्छिन्ने चैतन्ये शुक्त्यवच्छि- नगोचराज्ञानस्य सत्वात् तथा चेदंवृत्तिराश्रयावच्छेदिका न तु वि. षयावच्छेदिकेति वस्तुस्थितिरिति तात्पर्यार्थः ॥४९॥ ननु स्वन्मते य.

१०२ सब्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे..
नाज्ञाननाशिकाऽविद्यावृत्तिः किं त्विदमाकृतिः।
धीवृत्तिस्तदभिव्यक्तचैतन्यं रूप्यभासकं ॥ ५ ॥
नह्यवच्छेदकान्यत्वं फलभेदकर मतं ।
किं तु व्यञ्जकभिन्नत्वं तथा च परमार्थसत् ॥ ५१ ॥
चैतन्यं स्यादधिष्ठानमध्यस्तस्य च तद्विधा ।
व्यावहारिकसच्चैकं द्वितीयं प्रातिभासिकं ॥ ५२ ॥
स्वप्नजागरयोस्तुल्या प्रतिभासैकसत्यता ।
अधिष्ठानमविद्यावच्छिन्नचैतन्यमेव हि ॥ ५३ ॥
था क्रममिदंरूप्याकारान्तःकरणवृत्त्यविद्यावृत्तिप्रतिबिम्बिताभ्यां वा
तदभिव्यक्ताभ्यां वा इदमंशावच्छिन्नतदनवच्छिन्नाभ्यां वा इमंश-
रूप्याधिष्ठानचैतन्याभ्यां वा वेद्यत्वेनावच्छिन्नफलस्य भेदारकथं
फलैक्यमनवच्छिन्नफलीभूतचिन्मात्राभेदस्य सर्वत्र समानत्वात न
हीदमंशेऽपि
तदवच्छिन्नमेव चैतन्यमुपादानं आत्माश्रयात् न वा
रूप्ये इदमंशानवच्छिन्नमुपादानं इदं रूप्यमिति प्रतीत्यनुपपत्तेरित्या-
शय परि हरति-" नाज्ञानेति"
निभिः ॥५०॥५१॥ ५२ ॥
भ्रमस्य वृत्तिद्वयत्त्वोपपत्तिः ।
नन्वेवं सत्त्ववैविध्यविभागो नोपपद्यते प्रातिभासिकादप्यपकृष्टस्य
स्वानरूप्यस्य व्यावहारिकादप्युत्कृष्टाया अविद्यानिवृत्तेः सद्भावादि-
ति चनेत्याह-“ स्वप्नति"। स्वप्ने प्रातिभासिकनिकृष्टत्वे प्र-
माणाभावात् तथा हि प्रातिमासिकत्वं हि प्रतिभासमात्रसत्वं तव
स्वप्नजागरयोः समानं । ननु जागरे अधिष्ठानतावच्छेदकेदमंशस्या-
धिकसत्ताकत्त्वं स्वप्नकाले तस्याऽपि प्रातिभासिकत्वमित्येव निकृष्टत्व-
मिति चन्न । स्वो हि इदमों नाधिष्ठानावच्छेदकत्वं तुल्यवदारोप्य-
त्वात् तत्राधिष्ठानमविद्यावच्छिन्नमेव चैतन्यमित्यर्थः ॥ ५३ ॥

सत्त्ववैविध्योपपत्तिः। PRA ब्रह्मरूपाऽस्तु वाऽविद्यानिवृत्तिरथ वाऽस्तु सा ।। अनिर्वाच्येति नैवास्ति विभागान्यूनता मनाक् ॥५४॥ ब्रह्मभिन्नं मृषा सर्वमित्येवं वदतो विदः । विभागातात्विकत्त्वस्यापीष्टत्वमिति न क्षतिः ॥५५॥ सन्त्वत्रैविध्यमप्यत्र व्यावहारिकमारितं । तात्विकत्वं न कस्याऽपि ब्रह्मभिन्नस्य वस्तुनः ॥५६॥ अबाध्यत्वं स्वकालेऽस्त्यनध्यस्ताध्यस्तयोः समं । यद्वाविद्यानिवृत्तेः सत्वाभावेन सत्वविमागे न तदसङ्ग्रहनिब- न्धनो दोषः वस्तुतस्तु अविद्यानिवृत्तिर्ब्रह्मस्वरूपा अनिर्वचनीया वेति न विभागन्यूनता न च विभागस्य तात्विकत्त्वे अपसिद्धान्तः अतात्त्विकत्वे त्रिविधत्वं गतमेवेति वाच्यं । ब्रह्मातिरिक्तमतात्विक- मिति वदतो विभागातात्विकत्वस्येष्टत्वादित्यभिप्रेस्याह-" ब्रह्म- रूपेति द्वाभ्यां । बाधबोध्यत्वं न तात्विकत्त्वे प्रयोजकं किं त्व- बाध्यत्वं तश्च न ब्रह्मातिरिक्तवृत्ति नेहनानेस्यादिना बाधादिति भावः ॥ ५४॥ ननु तर्हि तात्त्विकत्रैविध्यहानिः स्यादित्याराम को हि त्रैवि- ध्यस्य तात्विकत्वं ब्रवीति किं तु व्यावहारिकत्वमेवेत्याह-"स- वेति । न च त्रिविधसत्वाङ्गीकारे ब्रह्मैव सदिति स्वमतवि- रोधः तस्य परमार्थ सबझैवेत्येतत्परत्वादिति न कश्चिद्विरोध इ- त्यर्थः ॥ ५६ ॥ व्यावहारिकसत्वप्रतिभासिकसत्वयोरवान्तर- भेदमादायैव त्रैविध्यकथनमित्याह-"अबाध्यत्व मिति । यथा प्रातिभासिके रजते ज्ञातैकसदेकं रजतत्वं लौकिकपरमार्थर- १०४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदे- अतोऽवान्तरभेदेन सत्ववैविध्यमिष्यते ॥ ५७ ।। सप्रकारकज्ञानादिबाध्यत्वेनैव सद्भिदा । तान्त्विकं सदधिष्ठानं शुद्धं निर्मकं मतं ॥ ५८ ॥ जते चाज्ञातं सदपरं रजतत्वं तदुभयानुगतं चारोपितानारोपित- साधारणं रजतत्वं रजतशब्दालम्बन एवमाकाशादावारोपितका स- त्यता चिदात्मनि चानारोपिताऽपरा तदुभयसाधरणी चान्या व्या- वहारिकी सत्यता सत्यशब्दालम्बनमित्यर्थः तदुक्तं 'आकाशादौ सत्यता(१)तावदेका प्रत्यङ्मात्रे सत्यता का चिदन्या ।सत्संपर्कात्स- त्यता तत्र चान्या व्युत्पन्नो ऽयं सत्यशब्दस्तु तत्रेति' । आरोपिता- नारोपितयोरेकसामान्याभावे प्रवृत्याद्यनुपपत्तेरुक्तत्वादिति स- द्विशेषत्वेऽपि व्यावहारिकस्य प्रपञ्चस्य नानारोपितविशेषत्वमपीति भावः ॥ ५७॥ ननु व्यावहारिकप्रातिभासिकयोर्बाध्यत्त्वाविशेषे भेदः किं नि- बन्धन इत्यत आह-" सप्रकारकज्ञानादीति "। सप्रकार- कनिष्प्रकारकज्ञानबाध्यत्वाभ्यां शुद्धब्रह्मधीबाध्यत्वतदन्यधीबाध्य- स्वाभ्यां वा महावाक्यार्थजन्यधीबाध्यत्वतदन्यधीबाध्यत्वाभ्यां वा खबाधकधीबाध्यत्वतदन्यधीबाध्यत्वाभ्यां वा भेदसम्भवोऽस्ती त्यर्थः । शुद्धशब्देन निर्द्धर्मकाधिष्ठानमात्रमेवात्र विवक्षितमित्याह- " तात्विक"मिति । निर्द्धर्मकं यद्वस्तुगत्या तन्मात्रगोचर- ज्ञानस्य विवक्षितत्वात् निर्द्धर्मकत्वादेस्तद्बुद्धावुपायत्त्वमात्रं न तु त- द्रुद्धौ विषयत्वमिति भावः ॥ ५८ ॥ ॥ सत्त्ववैविध्योपपत्तिः ॥ (२) सडच परकी पूर्वोकार्थोपसंहारः। तदेवं दृश्यमिथ्यात्वं सिद्ध ब्रह्माद्वयं तथा IFE अखण्डार्थपरं वाक्यं तत्वावेदकमित्यतः ॥ ५९ ॥ अविद्यातत्कृतं बन्धमपबाध्यं स्वया देशा। भजन्ते यं महान्तोऽपि तं भूमानं हरिं श्रये ॥३६॥ इति सिद्धान्तसारे श्रीसदानंदविदा कृते । जगन्मिथ्यात्वनिष्ठोऽयं प्रथमः पूर्णतां गतः ॥ १ ॥ अतसिद्धिसिद्धान्तसारसङ्घहे प्रथमः परिच्छेदः । " तदेवं रश्यस्य प्रपञ्चस्य मिथ्यात्वात्सदतिरिक्तब्रह्मरूपाखण्डा- थनिष्ठवेदान्तवाक्यं परं तत्वावेदकं सखण्डार्थविषयकं सर्वमत- त्वावेदकमेवत्याह-" तदेव मिति ॥ ५९ ॥ प्रकरणान्ते भग- बन्तमनुसन्धत्ते-" अविद्ये "ति ॥ ३६० ॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दरसाभिलाषिश्रीसदा- नन्दविदा कृते अद्वैतसिद्धिसिद्धान्तसारसङ्घहे जग- मिथ्यात्वनिरूपणं नाम प्रथमः परिच्छेदः॥१॥ Art १४ ॥श्रीः ॥ अद्वैतसिद्धिसिद्धान्तसारसङ्ग्रहे । द्वितीयः परिच्छेदः प्रारभ्यते । आनन्दैकरसं ब्रह्म वेदान्तकप्रमाणकम् । मुकुन्दमनिशं वन्दे हृदि स्थितमनामयम् ॥ १ ॥ हेयं निरूप्य बन्धाख्यं तन्निवृतेर्निबन्धनम् । यज्ज्ञानं तदखण्डार्थमादेयमधुनोच्यते ॥ २ ॥ विशुद्धं सर्ववेदान्तप्रमेयं ब्रह्म चिद्धनम् । वन्दे स्वानन्दमद्वैतं कृष्णमद्भुतसुन्दरम् ॥ १॥ एवं दृश्यमिथ्यात्वं सपरिकरमुपवयेदानी इक्तत्त्वं निरूपाय- यन्भगवन्तं मङ्गलमूर्ति वेदान्तप्रमेयं श्रीकृष्णतत्वमनुसन्धत्ते- आनन्दे ति ॥ १॥ पूर्वोत्तरपरिच्छेदयोः सङ्गतिं प्रदर्शयन् चिकीर्षितं प्रतिजानीते-" हेयमिति ” । अविद्यामूलकं कर्तृ- त्वाद्यनर्थजातं सर्वथा हेयत्वेन शास्त्रे प्रदर्शितं दृश्यबन्धं श्रुत्यनुकू- लतफैमिथ्यात्वेन निर्णीतं तत्वज्ञानकनिवर्त्य सम्यनिरूप्येदानीं त- निवृत्यैकहेतुं 'सत्यं ज्ञानमनन्तं ब्रह्मेत्याद्यवान्तरवाक्यसहकृततत्व- मस्यादिमहावाक्यप्रमाणकमखण्डब्रह्मात्मैक्यविषयं ज्ञानं तद्विषय तत्त्वम्पदार्थतत्त्वतदैकवाक्यार्थभूतमखण्डतत्त्वं सपरिकर निरूप्यते इत्यर्थः ॥ २॥ निरूपणप्रकारमेवाह-" अखण्डार्थ मिति अखण्डार्थभेदतल्लक्षणनिरूपणम् । १०७ अखण्डार्थ द्विधा तच्च श्रौतलौकिकभेदतः । पुनः पदार्थवाक्यार्थनिष्ठत्वेन द्विधा मतम् ॥ ३ ॥ तत्वम्पदार्थनिष्ठं तद्विविधं वैदिकं मतम् । सत्यं ज्ञानमिति श्रौतं तत्पदार्थपरं मतं ॥ ४ ॥ योऽयं प्राणेषु हृद्यंतरित्यादि त्वम्पदार्थगं । महाप्रकाश इत्यादि लौकिकं स्यात्पदार्थगं ॥ ५॥ तत्त्वमस्यादिवाक्यं तु श्रौतं वाक्यार्थतत्परं । । सोऽयमित्यादिवाक्यार्थनिष्ठं तल्लौकिकं मतं ॥ ६ ॥ तत्रापर्यायशब्दानामखण्डार्थत्त्वमाश्रितं । तश्चाखण्डाथै द्विविधं एक पदार्थनिष्ठमपरं वाक्यार्थनिष्ठं एकैकं च पुनर्वैदिकलौकिकभेदेन द्विविधमिति योजना ॥ ३॥ पदार्थनिष्टं वैदिकमपि द्विविधं तत्पदार्थनिष्टं त्वम्पदार्थनिष्टं च तत्र 'सत्यं ज्ञान- मनन्त'मित्यादि तत्पदार्थानष्टं, 'योऽयं विज्ञानमयः प्राणषु हृद्यन्त- ज्योतिः पुरुष' इत्यादि त्वम्पदार्थनिष्टं, प्रकृष्टप्रकाश इत्यादि तु लौ- किकं पदार्थनिष्ठमित्याह-" तत्व मितिद्वाभ्यां ॥४॥५॥ वाक्यार्थनिष्ठमपि द्विविधं दर्शयति-" तत्त्वमसीति ननु किमखण्डार्थत्वं न तावनिर्भेदार्थत्वं यतो निर्भेदत्वस्य श- ब्दबोध्यत्वे विशेषणताया मुपलक्षणतायां च निर्घट भूतलमिति वत्सखण्डार्थत्वमेव स्यात्शब्दाबोध्यत्वे तु वस्तुगत्या यन्निर्भेदं ब्रह्म त- दोधकसगुणवाक्यानामप्यखण्डार्थत्वापत्रित्यादिदूषणं पर्यालो- च्य स्वाभिमतं लक्षणमाह-" तत्रेति "। अपर्यायशब्दानां पदवृत्तिस्मारिताऽतिरिक्तागोचरप्रमाजनकत्वमखण्डार्थत्वं तथा चा- प्राप्तयोः प्राप्तिः संयोग इत्यादि संयोगलक्षणवाक्ये नाव्याप्तिः तस्य १०८ सन्याख्याद्वैतसिद्धिसिद्धान्तमारे। [२ परिच्छेदे- पदवृत्तिस्मारितार्थातिरिक्तागोचरप्रमा॥ ७ ॥ याऽस्तितजनकत्त्वं तन्नातिव्याप्त्याऽतिदूषितं । संसर्गासङ्गिसम्पग्धीहेतुता या गिरामियं । उक्ताऽखण्डार्थता यद्दा तत्प्रातिपदिकार्थता ॥ ८ ॥ अविशिष्टमपर्यायानेकशब्दप्रकाशितं । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे- ॥ ९ ॥ पदवृत्तिस्मारितत्वात् नापि द्विषन्नभोजननिषेधकेतिव्याप्तिः त- प्रानिष्टसाधनत्वसंसर्गस्य पदवृत्त्यस्मारितस्य. प्रतिपाद्यत्वात् अत्र घटः कलशः इत्यादौ संसर्गाप्रमापके एकार्थपरेऽतिव्याप्तिवारणा- यापर्यायशब्दानामित्युक्तं, पदक्षाप्येत्युक्तेऽर्थापत्या पदज्ञाप्यमनिष्ट- साधनत्वमादाय विर्ष भुवेर्ति वाक्येऽतिव्याप्तिः स्यात्तद्वारणा- यवृत्तीति । तथाऽप्यन्विताभिधानधादिमते शक्त्याभिहितान्वयन धादिमते लक्षणया वाक्यार्थभूतसंसर्गस्य वृतिशाप्यत्वात सर्वत्र प्रमाणवाक्येऽति व्याप्तिः स्यात्तद्वारणायोकं स्मास्तिति साचतास्प- यार्थः ॥ ७ ॥ अपर्यायशब्दानां संसर्गागोचरप्रमित्तिजनकत्वं वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायित्वं वा खण्डार्थत्वमित्यभिप्रे- त्य तत्त्वप्रदीपिकाकृवचनं तल्लक्षणपरमुदाहरति-"संसर्गेति संत्राप्येकरवं प्रातिपदिकार्थस्यैकधर्मावच्छेदेन वृत्तिविषयत्वं नत्वे कमावव्यक्तित्वं अत एकदेशया वृक्षा बनमित्यादी नाव्याप्तिः तः दुक्तं पञ्चपायां- 'पवानां परस्परामवच्छिमार्थानामन्याकाणा- मध्यतिरिक्तकरसप्रातिपदिकार्थमात्रान्वय' इति तात्पर्यायः ॥ ॥ कल्पत एकवचनमा अविशिष्टेलि" नन -22 अखण्डार्थेऽनुमानोपन्यासः ।। प्रवृत्तिहेतुभेदं हि स्वीकृत्यैवोश्यते नयात । अनन्तादिपदानां च शुद्धनौकनिष्ठता॥ १०॥ शुद्धे तात्विकसम्बन्धाभावादपि हि लक्षणा । सिद्ध्येदतात्त्विकेनैव सम्बन्धेन श्रुतेगिरां॥११॥ अखण्डार्थपरंवाक्यं सत्यं ज्ञानमिति श्रुतेः । तत्प्रातिपदिकार्थे कनिष्ठं लक्षणवाक्यतः ॥ १२ ॥ तन्मात्रस्योत्तरत्वाद्वा तत्प्रकृष्टप्रकाशवत् । तत्वमस्यादिकं वाक्यमखण्डार्थपरं मतं । प्रवृत्तिनिमितभेदेऽपर्यायस्वं स चानन्तादिपदेषु न सम्भवति शु- ब्रह्ममात्रनिष्ठत्वादतो घेदान्तेषु लक्षणाव्याप्तिरिति चेन्नेत्याह- "प्रवृत्तीति ॥ १० ॥ शुद्ध सम्बन्धाभावात्कथं लक्षणेत्यत. आह-" शुद्धे " इति । अतात्विकसम्बन्धेनैव लक्षणोपपतेः भ्रमप्रतीतरजतत्वेन शुक्तौ रजतपदलक्षणावत् शुद्धस्यैव सर्वकल्प- नास्पदत्वेन शुद्धे न कल्पितसम्बन्धाऽनुपपत्तिः यथा चानन्तादिप- दातां लाक्षणिकत्वोपि नान्तवत्वादिप्रसङ्गस्तथा वक्ष्यते इति ॥ ११ ॥ अखण्डार्थत्वलक्षणकथनम् । एवं लक्षणसम्भवे प्रमाणसम्भवोपीत्याह-"अखण्डाथैति" सत्यादिवाक्यमखण्डानिष्ठ ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं वा लक्ष- नयाक्यत्वात्तन्मात्रप्रश्नोत्तरत्वाद्वा प्रकृष्टप्रकाशचन्द्र इत्यादिवा- क्यवदिति पदार्थविषयाखरार्थत्वानुमानमिति सार्खयोजना ॥१२॥ वत्वमस्यादिवाक्यमवण्डानिष्टमिति वाक्यार्थविषयाखण्डा- यत्वानुमानमित्याह-"तत्वसस्यादीति " सार्द्धद्वाभ्यां ॥ १३॥ ॥

११०, सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- आत्मस्वरूपमात्रैकनिष्ठं वेत्येव साध्यते ॥ १३ ॥ अकार्यकारणद्रव्यनिष्ठत्वे सति वस्तुतः । सामानाधिकरण्यादा तन्मात्रस्योत्तरत्वतः ॥ १४ ॥ सोऽयमित्यादिवन्त्वित्थं मानमत्रानुमानकं । सत्यादिवाक्ये तन्मात्रप्रश्नोत्तरतया मतं ॥ १५ ॥ ब्रह्मवित्परमाप्नोतीत्यत ब्रह्मात्मवेदनं । इष्टसाधनभावेन बुभुत्सा तत्र युज्यते ॥ १६ ॥ तत्वमस्यादिवाक्येऽपि तन्मात्रप्रश्न उत्तरं । कोऽहमित्यात्मरूपस्य प्रश्नोत्तरतया भवेत् ॥ १७ ॥ यद्यप्येकं परं लक्ष्यं सत्यादिकगिरां मतं । ॥ १४ ॥१५॥ नचसत्यादिवाक्ये तन्मानप्रश्नोत्तरत्वमसिद्धमित्याह- ब्रह्मवि"दिति । तन्मात्रस्यैव प्रश्नविषयत्वादित्यर्थः ॥१६॥ एवं त. स्वमस्यादिवाक्येऽपि तन्मानप्रश्नोत्तरत्त्वं नासिद्ध मित्याह-"तत्त्व- मिति"कोऽहमित्यात्मस्वरूपस्यैव प्रश्नविषयत्वेन तदधिकप्रत्युत्तर- स्थायुक्तरित्यर्थः ॥ १७॥ यद्यपि सत्याद्यन्यतमपदं खरूपलक्षणपरं ब्र- ह्मणोऽन्यस्य तदाभासत्त्वात् तथापि परैरपि सत्वस्य सत्वे सति ज्ञा- नत्वस्य सत्यत्वे सति आनन्दत्वस्य शून्यवादिनाऽपि सत्वरहितज्ञाना- नन्दात्मकत्वस्य ब्रह्मणोऽन्यत्राङ्गीकारान्मिलितं विना न निर्विचि- कित्सब्रह्मसिद्धिरिति मिलितं लक्षणं, यद्यपि सर्वेषां सत्यादिप- दानां लक्ष्यमेकमेव निर्बिशेषं ब्रह्म तथापि निवर्तनीयांशाधिक्येन अभेदेऽपि लक्ष्यलक्षणभावोपपादनम् । तथाऽपि विनिवांशाधिक्येनेष्टं पदान्तरं ॥ १९ ॥ अतो वाच्यार्थवैशिष्ट्येऽखण्डसिद्धावुपायता । स्वरूपलक्षणस्थाताविरोधित्त्वादखण्डिते ॥ १९ ॥ अभेदेऽपि धियो वृत्तिप्रयुक्ताकारभेदतः । लक्ष्यलक्षणभावोऽपि सियेदावृततादिवत् ॥ २० ॥ शुद्धब्रह्मैकताकारा धीवृत्तिनिष्पकारिका । शुद्धब्रह्मैकविषयाज्ञानस्य विनिवर्तिका ॥ २१ ॥ न पदान्तरवैयर्थ्यमित्याह-"यद्यपीति " ॥ १८ ॥ अतो वाच्या- र्थवैशिष्टयस्याखण्डसिद्धावुपायत्वान्न तद्विरोधितेत्याह-"अत- इति ॥ १९ ॥ अभेदे कथं लक्ष्यलक्षणभाव इत्यत्राह-"अभेदेऽपीति "। आवृततादिवत्-आवृतत्त्वानावृतत्ववत् अन्यथा स्वरूपलक्षणतट- स्थलक्षणविभागो न स्यादित्यर्थः ॥ २० ॥ अज्ञानविषयश्च शुद्धं ब्रह्म अज्ञानकल्पितस्य तदितरस्याज्ञानविषयत्वायोगात् तथा च शुद्धब- झाकारा चित्तवृत्तिनिप्रकारिकैवाज्ञाननिवर्तिका प्रकारमात्रस्या- ऽप्यविद्याकल्पितत्वेन तद्विषयाया वृत्तेरविद्यासमविषयत्वाभावा- दित्यभिप्रेत्याह-" शुद्धब्रह्मेति ” । यथा चाविद्यातत्कावि- षयं ज्ञानं तदनिवर्तकं तथा व्युत्पादितं प्रागिति भावः ॥ २१ ॥ नन्वस्तु सत्प्रतिपक्षम्तथाहि सत्यादिवाक्यतात्पयविषयः सं- सृष्टरुपः संसर्गरूपी वा प्रमाणवाक्यतात्पर्यविषयत्त्वात्संमतवतू सत्यादिवाक्यं खतात्पर्यविषयज्ञानाबाध्यसंसर्गपरं खतात्पर्यविष- यज्ञानाबाध्यस्खकरणकप्रमाविषयपदार्थनिरूप्यसंसर्गपरं वा प्रमा- णवाक्यत्वादग्निहोत्नादिवाक्यवत् विषं भुझ्वेत्यादौ वाच्यार्थसं- ११२ सव्यायाद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- न वा सत्प्रतिप्रक्षोऽत्र शङ्कयोऽखण्डार्थसाधने । प्रतिकूलो यतस्तर्कः सर्वेषु प्रतिहेतुषु ॥ २३ ॥ दृष्टान्ते साध्यवैकल्यं न शन्य लक्षणेष्यते । सर्गपरत्वाभावेऽपि स्वकरणकप्रमाविषयपदार्थसंसर्गपरत्वान्न व्य. भिचार: खं च्छिद्रं कोकिलः पिक इत्यादौ चान(१)तिभिन्नार्थत्वे सा- मानाधिकरण्यायोगेन छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्व- संसर्गपरत्त्वान्नव्यभिचार इत्याशय निरस्यति-" न वेति "। आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूपं इति साध्ये च संसृष्टरूपे पदार्थ व्यभिचारात तयोरपि प्रमाणवाक्यतात्पर्य- विषयत्वात् द्वितीयानुमाने प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेण प्रमितिविषयपरत्वमात्रेणं घोपपत्ती विशिष्टसाध्यस्य तत्रातन्त्रत्वे- नाप्रयोजकत्वात् अलक्षणवाक्यत्वस्योपाधित्त्वाच नात्र सत्प्रति- पक्षः सम्भवतीत्यर्थः । ननु वेदान्तजन्या प्रमा सप्रकारिका विचा- रजन्यत्वातू संशयनिवर्तकत्वा द्वा कर्मकाण्डजन्यज्ञानवत् वेदान्त- जन्या प्रमा ब्रह्मप्रकारविषया ब्रह्मर्मिकसंशयविरोधित्वाब्रह्मवि- चारजन्यत्वाद्वा यहवं तदेवं यथा कर्मकाण्डविचारजन्यो विनिश्चय इति प्रतिसाधनमस्त्वित्याशय निरस्यति-"प्रतिकूल " इति । वन्मते ज्ञानमात्रस्य सप्रकारत्त्वेन विचारजन्यत्वसंशयविरी- वियोव्यर्थत्वात अप्रयोजकत्त्वात् निष्प्रकारकंज्ञानादपि संश- थादिनिवृत्तिसंम्भवात् लक्षणवाक्याजन्यत्त्वस्योपाधित्वा अत एव द्वितीयांनुमानमप्यपास्तम् । ब्रह्मनिष्टप्रकारविषयत्त्वसाधने इष्टान्ता- भावाश्च सर्वेषु, च प्रतिसाधनेषु प्रश्नोत्तरयांवयधिकरण्यापत्तिः प्र- विकूलतर्कोऽबसेय इत्यर्थः ॥ २२ ॥ ॥ सत्प्रतिपक्षनिरासः॥ ननु रष्टान्ते साध्यवैकल्यं तथा हि प्रकृष्टप्रकाशादिवाक्यं न तावदभिधेयाखण्डार्थनिष्ठं प्रकृष्टादिपदस्यास्खण्डेऽभिधाया अभावात त्वयाऽनङ्गीकारांच, नाऽपि लक्षणया प्रकृष्टप्रकाशस्य द्रव्यस्य गुणस्य मिनमतिकान्तोऽतिभित्रो भदाभदवान् तादृशार्थलाभावे इत्यर्थः ।

बटाते साध्यवैकल्यादीनां निरासः । तत्राखण्डपुरत्वेऽतोऽप्युत्तरस्योचितत्वतः ॥ २३ ॥ प्रश्नोत्तरे उभे युक्त्या ते प्रातिपदिकार्थगे । चन्द्रव्यक्तिस्ततो लक्ष्या सामानाधिकरण्यतः ॥२४॥ दार्टान्तिकेऽपि किं ब्रह्मेत्येवं वाक्ये प्रकल्पिते । सत्यज्ञानमिति श्रौतमखण्डार्थपरं भवेत् ॥ २५ ॥ वा चन्द्रऽन्वयोपपत्तेरन्वयानुपपत्तिरूपलक्षणाबीजाभावादित्याश- दृष्टान्ते " इति । यष्टीः प्रवेशयत्यादौ 'लोकेतरसमयाः पुरोडाशा भवन्ती'त्यादौ वेदे च यथाश्रुतान्वयसम्भवेऽपि यथा ता- त्पर्यविषयीभूतान्वयानुपपत्त्या यष्टिधरपुरुषेषु सवनीयहविर्मात्रे च यष्टिपुरोडाशशब्दयोर्लक्षणाऽऽश्रिता तथैवेह तात्पर्यविषयीभूतान्वया नुपपत्तिनिमित्तया लक्षणया अखण्डार्थपरत्वोपपत्तेः कश्चन्द्र इति चन्द्रस्वरूपे पृष्टे तन्मात्रस्यैवोत्तरस्योचितत्वादिति तात्पर्यार्थः ॥२३॥ प्रश्नोत्तरे तावञ्चन्द्रप्रातिपदिकार्थमात्रविषये चन्द्रप्रातिपदिकार्थश्च प्रकृष्टप्रकाशश्रयीभूतासाधारणी विशेष्यभूता व्यक्तिः न तु प्रकृष्ट- प्रकाशविशिष्टा प्रकृष्टप्रकाशचन्द्र इति सह प्रयोगानुपपत्तेः विशे- म्यव्यक्तिश्चाखण्डेत्यखण्डातैवेत्यभिप्रेत्याह- इति । तथा च दृष्टान्ते न साध्यवैकल्यमित्यर्थः ॥ २४ ॥ ब्रह्माविदाप्नोति परं' 'एकधैवानु द्रष्टव्य'मित्यादि वाक्यबला- सत्यत्वादिवैशिष्ट्याविषयकस्यैव ब्रह्मविषयकवेदनस्य मोक्षजन- कत्वात् कश्चन्द्र इति वर्तिक ब्रह्मेत्येव वाक्यं कल्प्यते इत्याह- दान्तिक इति ॥ २५ ॥ ननु सत्यादिवाक्ये सत्सु विशेषणेषु सस्तु(१)तिकविधिवाक्ये प्राशस्त्य इव विशेषणार्थेप्याका- (१) संस्तुतिकेति स्तुत्यर्थवादहितेत्यर्थः । अस्तुतिके विधौ बलवदनिष्टासाधन- खरूपपाशस्त्यस्याचेपलभ्यत्वेऽपि सस्ततिके विधौ प्राशस्व्ये शाब्दी भाकाडचेति भावः । " प्रश्नोत्तर, १५ ११४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे. सत्यज्ञानादिवाक्येऽत्र यद्यप्यस्ति डार्थसा नाकाङ्क्षाकल्पनं तत ब्रह्मव्यक्तिपरत्वतः ॥ २६ ॥ निष्प्रकारकबोधस्याधिष्ठानप्रत्ययत्त्वतः । भ्रमादिविनिवृत्त्या स्यान्मोक्षहेतुत्वमञ्जसा ॥ २७ ॥ एकधैवानुद्रष्टव्यमित्यनेकन्त्ववारणात् । नाऽल्पमप्यन्तरं कुर्यादिति भेदनिषेधनात् ॥ २८ ॥ केवलो निर्गुणश्चेति गुणानां प्रतिषेधनात् । एकमेवाद्वितीयं सदिति द्वैतनिषेधनात् ॥ २९ ॥ कोत्था(१)पनीयेत्याशय सत्यादिवाक्ये विशेषणे सत्यपि न तद्गोच- राकाङ्क्षाकल्पनं प्रकृष्टप्रकाशश्चन्द्र इत्यत्र विशेषणे सत्यपि कश्चन्द्र इति स्वरूपमात्राकाङ्क्षादर्शनात् व्यावृत्तिविशेषबोधश्च विशेषणपर- स्वाभावेऽपि तद्वारकस्वरूपज्ञानमात्रेणैवोपपद्यते इत्यभिप्रेत्याह- सत्यज्ञानादीति ॥ २६ ॥ ननु सप्रकारकज्ञानस्यैव मोक्ष- हेतुतया 'ब्रह्मविदाप्नोति परं' 'य एवं विद्वानमृत इह भवतीति' श्रुत्या यो वेद निहितं गुहाया मित्युत्तरवाक्येन च मुमुक्षोः सप्र- कारक एव धर्मिज्ञाने साध्ये बुभुत्सोचितेस्याशय निष्प्रकारकशा- नस्यैव स्वरूपोपलक्षणोपलक्षिताधिष्ठानज्ञानत्वेन भ्रमादिनिवृत्या मो- क्षहेतुनाया उपपादितत्वेन तदनुरोधाब्रह्मविदित्यादेः सप्रकारक- ब्रह्मज्ञानपरतायां मानाभावात् य एवं विद्वानित्यस्याप्येवं प्रकारत्वं नार्थः किंत्वेवं प्रकारोपलक्षितत्वमेकधैवेत्याद्यनुसारादित्यभिप्रेत्याह- निष्प्रकारकेति ॥ २७ ॥ यथोक्त एवार्थे सर्वश्रुतिसामञ्जस्यं नान्यथेत्याह-' एकधेत्यादि युग्मेन ॥ २८ ॥ ॥ २९॥ " TUR) यथा रतः पटोऽस्तोत्यादौ रकान्वयं विना वाक्यार्थसमाप्तिसम्भवे ऽपि रन- पदवे यध्ये परिहाराय रक्त वैशिष्ट्यांशेऽध्याकाङ चा करप्यते तथा सत्यवाद्यन्वयं बिना तत्स मभावेऽघि स याटिपदवियाय तव मा कम्प्यतामित्याः ।।

शान्ते साध्यवैकल्यान करणम । सर्वतोऽप्यपरत्वेऽन्निवस्तुमात्रपरौ मतौ । अनन्तब्रह्मशब्दौ तद्वाक्यं चाखण्डतत्परम् ॥ ३० ॥ एकत्वभेदाभावादेः स्वरूपत्वेन वस्तुतः । न विशिष्टपरत्वं स्यादुक्तवाक्यस्य कर्हि चित् ॥३१॥ संसर्गाविषयेऽप्यस्त्याकाङ्क्षादीनां सुसम्भवः । " इति। अनन्तादिशब्दसामञ्जस्यमप्येवमेवेत्याह-“ सर्वत ननु तेषामैक्यभेदाभावादिविशिष्टार्थपरत्वे वेदान्तमात्रस्याखण्डार्थ- स्वासिद्धिः सत्यशुद्धान्यमिथ्याविशिष्टार्थपरत्वे प्रामाण्यायोग इ- त्याशयेक्यभेदाभावादीनां स्वरूपत्वेन विशिष्टपरत्वस्यैवाभावात् भेदाभावादेः कल्पितप्रतियोगितया कल्पितत्वे सत्यादिपदवद्विशि- ष्टार्थाभिधानद्वारा स्वरूपपरत्वेन प्रामाण्योपपत्तेरित्यभिप्रेत्याह- एकत्वेति " ॥ ३१ ॥ ॥ दृष्टान्ते साध्यवैकल्यादीनां परिहारः ॥ नन्वखण्डार्थसाधका हेतवः प्रतिकूलतर्फपराहताः तथा हि प. क्षदृष्टान्तलक्षणमैक्यपरवाक्यं यदि संसृष्टार्थ न स्याद्वाक्यमेव न स्यादाकाङ्कायोग्यतासत्तिमत्त्वाभावात् आकाङ्क्षा हि अभिधानाप- येवसानं तश्च येन विना यस्य न स्वार्थान्वयानुभावकत्वं तस्य त. देवापर्यवसानं, सन्निधिस्त्वव्यवधानेनान्वयप्रतियोग्युपस्थितिः यो ग्यता चैकपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगिता- वच्छेदकधर्मशून्यत्वं नैतत्रयं संसर्गाविषये सम्भवतीत्याशय परि हरति-" संसर्गेति"। एतदुक्तं भवति अखण्डार्थेप्येतन्त्रित- तयसम्भवोऽस्ति तथा हि निराकाङ्कयोरपि यत्किश्चिदन्वयानुभाव. कतया तात्पर्यविषयान्वयाननुभावकत्वमेवाकाङ्क्षा वाच्या तथा चान्वयांशो व्यर्थः येन विना यस्य तात्पर्यविषयाननुभावकत्वमि.

१ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- न वाक्यत्वक्षतिर्दोषो वेदान्तेऽखण्डबोधके ॥ ३२ ॥ यद्यप्यखण्डवाक्यार्थचिहातोः स्वप्रकाशतः । स्वतः सिद्धत्त्वमेवेष्टं तथाऽप्यस्यप्रमाणजां ॥ ३३ ॥ विना वृत्तिमविद्याया विनिवर्त्तकता न हि । मानवृत्तिरविद्यैकनिवृत्तिफलभागिनी ॥ ३४ ॥ निष्प्रकारमपि ज्ञानं निर्विकल्पकमिष्यते । त्येतावन्मात्रस्यैव सामञ्जस्यात् तात्पर्यविषयश्च क्वचित्संसृष्टः क्वचि- दखण्ड इति न विशेषः अतः सा तात्पर्यविषयाऽखण्डानुभवज- ननात् प्राग् वेदान्तवाक्येऽप्यस्त्येव आसत्तिरप्यव्यवधानेन शाब्द बोधानुकूलार्थोपस्थितिमानं न त्वन्वयप्रतियोगित्वविशेषितपदार्थो- पस्थितिः गौरवात् सा च संसर्गाबोधकेप्यस्त्येव योग्यताऽपि तात्प- यविषयाबाध एव न त्वेकपदार्थसंसर्ग इत्याद्युक्तरूपेति न वाक्य- स्वानुपपत्तिलक्षणप्रतिकूलतर्कपराहतिरिति ॥ ३२ ॥ ननु संसृष्टार्थत्वं न चेत्तदा वेदान्तानां निर्विषयत्वापत्तिरख- ण्डवाक्यार्थस्य स्वप्रकाशचिन्मात्रस्याविद्याद्यध्यासाधिष्ठानत्वेन त- त्साक्षित्वेन च नित्यसिद्धत्त्वादिति तत्राह-" यद्यपीति " - अनाद्यविद्योपहितत्वेनादोषात स्वतः सिद्धस्यापि प्रमाणवृत्तिमन्त- रेणाविद्यानिवर्तकत्वाभावात्प्रमाणवृत्तेश्चाविद्यानिवृत्तिफलोपहित- स्वान्न काऽप्यनुपपत्तिरिति द्वयोरर्थः ॥ ३३ ॥ ३४ ॥ ननु वेदान्त- पाक्यजन्यं ज्ञानं निष्प्रकारकं चेत् ज्ञानमेव न स्यात् ज्ञानस्येच्छा- दितुल्यतया सविषयत्ववत्सप्रकारकत्वस्यापि नियमात्कचित्प्रकार विना वस्तुनो बुद्धावनारोहाञ्चेद्याप्यासिद्धेमॆवमित्याह-"निष- कारक " मिति । तार्किकादिभिरपि निर्विकल्पकलानाभ्युपग- मान शब्दवाच्यं तु कं चित्प्रकारमन्तरेण सम्भवति.न वेति वादिनी

-35 निर्विशेषेविचाराधुपयोगप्रदर्शनमा ११७
तार्किकैरपि किं वाच्यं वेदान्तैर्निर्विशेषगम् ॥ ३५ ॥
विचारस्याऽपि वेदान्ततात्पर्यैकविनिश्चये ।
फलवत्त्वेन निर्विघ्नब्रह्मज्ञानार्थता भवेत् ॥ ३६ ॥
आपातदर्शनं यस्मान्नाज्ञानविनिवर्तकम् ।
अतो विचारशास्त्रस्य प्रारम्भः सफलो मुनेः ॥३७॥
व्यावृत्ताकारतो ब्रह्माज्ञातत्त्वाद्विषयो मतः ।
स्वरूपनिश्चयाधीनं प्रयोजनमपीष्यते ॥ ३८ ॥
निश्चयो मुक्तिफलकोऽखण्डार्थज्ञानमेव सः ।
सिद्धान्तपूर्वपक्षौ हौ कल्पितत्वावलम्बिनौ ॥ ३९ ॥
विवदन्ते तश्चास्माभिर्ब्रह्मणो नाभ्युपेयते आकाशादिपदव कश्चित्प्र.
योगोपाधिमादाय तदपि सम्भवत्यवेत्यभिप्रायः ॥ ३५ ॥ विचार-
विधिसम्भवोऽप्यस्तीत्याह-" विचारस्येति" द्वाभ्यां । विचा-
रस्य वेदान्ततात्पर्यनिश्चयादिफलकतया निष्प्रत्यूहनिष्प्रकारकब-
ह्मज्ञानार्थत्वोपपत्तेः आपातदर्शनस्य प्रतिबद्धत्वेनाज्ञानानिवर्तक-
स्वात विचारशास्त्रस्या थातो ब्रह्मजिज्ञासे'त्यादिरूपस्य प्रारम्भो मुनेः
व्यासस्य सफलोऽभिमत इति द्वयोःसमुदितोऽर्थः ॥ ३६ ॥ ३७॥
शुद्धब्रह्मविषयाणामधिकरणानामप्यारम्भो नाऽनुपपन्नः विष-
यादिपञ्चकसम्भवादित्याह-“ व्यावृत्तेति "। व्यावृत्ताकारे-
णाज्ञातो हि विषयः ब्रह्म च तथा भवत्येव बिषयखरूपनिर्धारणा-
धीनं च प्रयोजनं न निर्धारणे सप्रकारकत्वमपेक्षते निष्प्रकार व-
स्तुनि स्वरूपनिर्धारणत्त्वाव्याघातात अद्वैताद्युपलक्षिताखण्डार्थशा-
नं च निर्धारणं तदधीनं च प्रयोजनं मुक्तिरेव पूर्वपक्षसिद्धान्तौ च
कल्पितप्रकारालम्बिनौ संशयोऽपि कल्पितसमानधर्मधीजन्मैवेति
नानुपपत्तिः अत एव विषयादिपञ्चकं निर्विशेषे कथं स्यादिति
परास्तम् । उक्तरीत्योपपत्तरिति त्रयाणां समुदितोर्थः ॥ ३८ ॥ ३९ ॥

११८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे-
संशयोऽध्यस्तसामान्यधर्मधीजननो मतः ।
तस्मात्सम्यग्धियः सिद्ध्यै शास्त्रारम्भादिसम्भवः ॥४०॥
स्वरूपस्य प्रमेयत्वादुद्देश्यत्त्वविधेयते ।
सत्यादिद्वारतो ज्ञानादसाधारणनिश्चयः ॥ ११ ॥
लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः ।
बीजत्वान्नान्वयासिद्धेः प्रकृते सैव सम्मुता ॥ ४२ ॥
॥ प्रतिकूलतर्कनिराकरणम् ॥
॥४०॥ एकस्मिनाप कल्पितोद्देश्यविधेयभावसम्भवादप्राप्तविधे-
यमात्रपरत्वाद्वाक्यस्य नाखण्डार्थत्वव्याघात इत्याह-"असाधा-
रणेति"। असाधारणखरूपस्य प्रमेयतया विधेयत्वात्सत्यत्वा-
दिद्वारकखरूपज्ञानेनासाधारणज्ञापनपर्यवसानात् द्वारफलाभ्या-
मप्राप्तप्रापणसम्भवात् तथा चोद्देश्यता विधेयता च खरूपमात्रप-
र्यवसन्नैवेत्यर्थः ॥ ४१॥
नन्वेवं सत्यादिपदानां लक्षणा न स्यातू अशक्यासहशान्वयन-
तियोग्युपस्थितिरूपायास्तस्या असम्भवात्तद्वीजस्यान्वयानुपपत्ते-
श्चात्राभावादित्याशङ्याह-" लक्षणेति" । वृत्त्या हि पदार्थो-
पस्थितिनं तु सैव वृत्तिरतो नोक्तरूपा लक्षणा किं तु शक्यसम्बन्धः
स च प्रकृतेऽप्यस्त्येव उपस्थितिरूपत्त्वेऽपि लक्षणायास्तात्पर्यानुकू-
लोपस्थितिरेव सा नोक्तोपस्थितिरूपा अतात्पर्यविषयताइगुपस्थिती
गतत्वातू नाऽपि बीजानुपपत्तिस्तात्पर्यानुपपत्तेरेव बीजवादित्या-
ह- " तात्पर्येति " । तात्पर्यानुपपत्तितः षष्ठयर्थे तस् नान्वया-
सिद्धेरेव बीजत्वं प्रकृते तातपर्यानुपपत्तिरेव बीजत्वेन संमतेत्यर्थः॥४२॥

सत्यादिपदानां पर्यायत्त्वनिरासः ।।११ वाच्यार्थभेदात्सत्यादिगिरां पर्यायता न हि । आदायाध्यस्तधर्मत्वं ब्रह्मव्यक्तिपरत्वतः ॥ ४३ ॥ त्रिकालाबाध्यतायैश्वानृतत्वादेरपोहनात् । व्यावर्तकत्त्वं प्रत्येक सत्यादीनां गिरां भवेत् ॥ ४४ ॥ न पदान्तरवैयर्थ्य स्वरूपैक्यपरत्त्वतः । व्यावृत्तिभेदबोधित्त्वात्प्रामाणिकतया तथा ॥ ४५ ॥ स(१)त्तादीनां तु जातीनां व्यक्तितादात्म्यकारणात् । सत्यादिपदानां पर्यायतापत्तिं निरस्यति-" वाच्यार्थभेदा- दिति | सत्यत्वं हस्मन्मते त्रिकालाबाध्यत्वं परमते कुम्भादि- साधारणी परजातिः सत्यपदप्रवृत्तिनिमितं ज्ञानानन्दपदयोरपि अस्मन्मते अन्तःकरणवृत्युपधानलब्धभेदचिदानन्दविशेषानुगते शा- नत्वानन्दत्वे परमते तु स्वभावलब्धभेदज्ञानानन्दनिष्ठे अपरजाती प्रवृत्तिनिमित्ते तथा च लक्ष्यार्थाभेदेऽपि न पर्यायताशङ्का । ननु कु. म्भाधनुगतसत्तायां ब्रह्मलक्षणत्त्वायोगः मिथ्यासत्यानुगतसामा- न्याभावात् तथा चानृताद व्यावृत्यसिद्धेः त्रिकालाबाध्यत्त्वं ब्रह्मणि श्रौतमिति त्वन्मतहानापतेश्चेदित्याशङ्याह-" आदायेति "। ब्रह्मणः सर्वाधिष्ठानतया तद्रूपसत्तायाः सर्वानुस्यूतत्वेन जातित्व- व्यपदेशात् कल्पितधर्मत्वमादाय ब्रह्मव्यक्तिकत्वाच सत्वं त्रिका- लाबाध्यत्त्वमेवेति न तस्य श्रौतत्वहानिः तस्यानृतं प्रत्यधिष्ठानत्त्वेऽपि अनृताश्रितत्वाभावेन तद्यावर्तकत्त्वसम्भवातू आनन्दत्वादिकल्पि. तजातिसाहित्येन लक्षणाक्तिः पररीत्येति तात्पर्यार्थः ॥४३॥ ४४ ॥ स्वरूपमानपरत्वेऽपि न पदान्तरवैयर्थ्य व्यावृत्तिभेदबोधनेन पदस- मुदायात्मकस्य वाक्यस्य प्रामाणिकत्वेन च साफल्यमित्यर्थः ॥४५॥ नन्वेवं निर्द्धर्मकत्वव्याकोपः व्यावहारिकस्य धर्मस्य सत्वेऽपि (3) कल्पतरौ ।।। २ ।

teen १२० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- लक्ष्यव्यक्तिरपि ब्रह्म सत्तादि न जहाति नः ॥ ४६॥ तात्पर्याविषयत्वेन धर्मा वेदप्रकाशिताः । अतात्त्विका यतो वेदप्रामाण्यं तात्विके मतं ॥४७॥ सत्यमिथ्यात्वभेदोऽपि लोकेऽवान्तरभेदतः । वस्तुमानपरत्वेऽपि बाधक-त्वं श्रुतेर्मतं ॥ १८ ॥ दोषाप्रयुक्तभानत्वं सत्यत्वे हेतुतां भजेत् । स्वसमानसताकधर्मविरहेण तदुपपत्तेरित्यभिप्रेत्य कल्पतरुकृद्धच नमुदाहरति-" सत्तादीना" मिति । गौर्नित्यो गौरनित्य इ- त्युभयत्नाप्येकदेशान्वयार्थ लक्षणाऽभ्युपगमेपि जातिव्यक्त्योरुभयो- रपि तार्किकैर्गोपदार्थत्वाभ्युपगमाञ्चति भावः ॥ ४६ ॥ नन्वौपनि- षदे पुरुषे धर्मा न प्रत्यक्षेण प्राप्ताः किं तु तत्वावेदकेन वेदेन तथा चं कथं व्यावहारिका इति चेन्नेत्याह-" तात्पर्येति तात्पर्येति " । वेदा- दापाततः प्रतीतानामपि वेदतात्पर्यविषयत्वाभावादतात्विकत्त्वोप- पत्तेः तात्पर्यविषये हि वेदस्य प्रामाण्यं यत्र च तस्य प्रामाण्यं तदेव तात्विकमिति नियम इत्यर्थः ॥४७॥ वेदतात्पर्याविषयत्वेनातात्वि- कत्वे स्थिते तत्वावेदकबाध्यत्वव्यावहारिकावेदकबाध्यत्त्वाभ्यां व्या- वहारिकप्रातिभासिकव्यवस्थोपपत्तेः न च तत्वावेदकस्य विशेष्यमा- त्रपरत्वान्न बाधकत्वं विशेषणबुद्धिद्वारकत्त्वेन तन्मात्रपरस्याऽपि बाधकत्त्वसम्भवात् विशेषणेऽप्यवान्तरतात्पर्याभ्युपगमार्केति हृदि निधायाह-" सत्येति" ॥४८॥ ॥ सत्यादिपदानां लक्षणयाऽखण्डार्थपरत्वे ऽनुपपत्तिनिरासः ॥ ननु व्यावृत्तयः सत्या मिथ्या वा नाद्यः व्यावर्तकानामपि स- त्यत्वापत: व्यावहारिकाणां पारमार्थिकव्यावृत्यसाधकत्वात् नान्त्यः शुक्तेः मुक्तितो व्यावृत्तेर्मिथ्यात्वे शुक्तित्वस्य शुक्तिसमसत्ताकत्व- FEATRE me व्यावृत्ते सत्यत्त्वे मिथ्यात्वे वा दोषरहित्यप्रदर्शनम् । १२१ बोध्यबोधकयोस्तुल्यसत्ताक-त्वं न तां व्रजेत् ॥ ४९ ॥ व्यावृत्तिसमसत्ताकं नैव व्यावृत्तिबोधकं । स्वप्नस्त्रियाः स्वजानन्दापेक्षयापि सुखान्तरे ॥ ५० ॥ व्यावृत्तिबुद्धिहेतुत्वं हेतोावर्त्तकत्वतः । व्यावृत्तिस्तात्विकी सा ते मन्मते व्यावहारिकी ॥५१॥ ब्रह्माभिन्नतया साऽस्तु सत्या मिथ्या न वा क्षतिः । धदनृतव्यावृत्तेब्रह्मणि मिथ्यात्वेऽनृतत्वस्य ब्रह्मसमसत्ताकत्वापत्ते- रिति चेदुभयथाऽन्यदोषान्मैवमित्याह-" दोषेति " | व्यावृत्ते- ब्रह्माभिन्नतया पारमार्थिकत्वेऽपि व्यावर्तकं पारमार्थिकमिति कुतः न हि यत्पारमार्थिकबोधकं तत्पारमार्थिकमिति नियमोऽस्ति बोध्य- बोधकयोः समसत्ताकत्वस्य पदतदर्थादौ व्यभिचारेण प्रागेव नि- रस्तत्वात् दोषाप्रयुक्तभानत्वस्य सत्यत्वप्रयोजकत्वात् नाऽपि व्या- वृत्तिबोधकं व्यावृत्तिसमसत्ताकमिति नियमः स्वप्नाङ्गनादेरपि स्व- जन्यसुखापेक्षया सुखान्तरव्यावृत्तिबुद्धिजनकत्वात् कारणस्य का- येव्यावर्तकत्त्वात् सा च व्यावृत्तिस्तव मते पारमार्थिक्येव मम तु मते व्यावहारिकी सर्वथाऽपि प्रातिभासिकव्यावर्तकापेक्षयाधि- कसत्ताकैवेति त्रयाणां योजना ॥ ४९ ॥५०॥५१॥ नन्वेवं सत्य- त्वज्ञानत्वादिधर्माणामपि व्यावृत्तिवब्रह्माभिन्नतया पारमार्थिक- त्वमस्त्वितिशङ्कामिष्टापत्त्या परिहरति-" ब्रह्मेति । तदेवं व्यावृत्तेः सत्यत्वे न कोऽपि दोषः । व्यावृत्तेर्मिथ्यात्त्वपक्षेऽपि नानृ- तत्वस्य ब्रह्मसमसत्ताकत्त्वापत्तिः एकबाधकबाध्यत्वस्योभयत्रापि तु. ल्यत्वातू व्यावृतियाधकाबाध्यस्यैव प्रतियोगिनो व्यावृत्यधिकसत्ता- कत्त्वं न त्वेकबाधकबाध्यस्यापीत्यर्थः । स्थूलारुन्धतीन्यायेन पूर्वपू- भ्रमनिवृत्तये काल्पनिकोपदेशस्य पञ्चकोशस्थले दर्शनाओत्याह- १६

१२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे-
उपायो बोधसिद्ध्यै स्यात्सर्वभ्रान्तिनिवृत्तये ॥ ५२ ॥
सत्ये ब्रह्मणि सत्यादिशब्दा व्यावृत्तिहारतः ।
पर्यवस्यन्ति तात्पर्य श्रुतीनां ब्रह्मणि ध्रुवं ॥ ५३ ॥
ब्रह्मबोधोपयोगित्वं सत्यादेर्भावरूपतः ।
अस्थूलत्वादिशब्दानामभावहारतो हि तत् ॥ ५ ॥
वादिनां कुमतप्राप्तातिव्याप्तिविनिवृत्तये ।
सत्यज्ञानादिशब्दानां स्यादपेक्षा समुच्चये ॥ ५५ ॥
उपाय इति ॥५२॥
तथा च मीमांसकमते अनृतस्याप्यर्थवादार्यस्य सत्ये प्राशय
इव मिथ्याभूतानामपि व्यावृत्तीनां सत्ये ब्रह्मणि द्वारत्वेन बोधन
युक्तमित्यभिप्रेत्याह-" सत्ये” इति ॥ ५३॥ प्रधानस्य प्रह्मणः
प्रतिपत्त्युपयोगिनामानन्दादीनां भावरूपाणा'मा(१)नन्दादयः प्रधान-
स्यै'त्यनेन स्थूलत्वादीनामभावरूपाणा'मक्ष(२)रधियां त्ववरोधः सा-
मान्यतभावाभ्यामौपसदवत्तदुक्तिमित्यनेन च सूत्रेण निर्गुणब्रह्म-
प्रतिपत्तावेव सर्वशाखासूपसंहारस्य प्रतिपादितत्वेन द्वारसमुच्चय-
स्यैवेष्टत्वमित्यभिप्रेत्याह-"ब्रह्मबोधेति""हीति" । अतिसूब
प्रसिद्धं तत् ब्रह्मबोधोपयोगित्वमित्यर्थः ॥ १४ ॥ ननु सगुणे ब्रह्म
ण्युपासनार्थ भवतु शाखान्तरीयगुणोपसंहारो निर्गुणब्रह्मप्रमिती तु
किं शाखान्तरीयगुणोपसंहारेण सत्यादिपदानां प्रत्येकं लक्षकत्वेन
लक्ष्यब्रह्मबोधने प्रत्येकमेव समर्थत्वात् सत्यत्वादेश्व प्रत्येक लक्ष
णत्वात् न हि प्रकृष्टत्वादिकमिव सत्यत्वादिकमतिव्याप्तमित्याशमा
प्रकृष्टप्रकाशयोरिव सत्यादिपदानामपि कुमतप्राप्तातिव्याप्तिनिव-
स्वधे समुच्चयापेक्षणादित्यभिप्रेत्याह-" वादिनामिति ॥ ६॥
(1) ०.०३ १३१ । (२) व सू०.३ ॥ ३ ॥ ३३ ॥

व्यावृत्तेरार्थिकत्वोपपादनम् । सत्येनानृतव्यावृत्तब्रह्मबोधनमन्तरा । ब्रह्म विज्ञानमानन्दं न सिद्ध्येच्छून्यतः पृथक् ॥१६॥ एवमेकैकशब्दस्याभावेऽतिव्याप्तितर्कणं। व्यावृत्तिस्त्वार्थिकी ज्ञेया न शाब्दी द्वारभावतः ॥१७॥ लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः । विज्ञानानन्तपदयोः पर्यायव्यर्थते न हि ॥ ५० ॥ एवं समाहितं सम्यक्पदे स्वीकृत्य लक्षणां। के चित्तु लक्षणां वाक्ये प्राहु व पदे तु सा ॥५९॥ यथा घोषो गभीरायां नद्यामित्यत्र च द्वयोः । तप्रकारमाह- “ सत्येनेति" पतत्प्रकारमन्यवाऽप्यत्ति दिशति-" एव मिति" एव मिति" । तथा च सत्यत्वादिकमनृतादिव्यावृत्तिद्वारा शून्यवादादिव्यावृत्तना- सिद्धरुपाय इति भावः । ननु व्यावृत्तिः किं ब्रह्मविशेषणत्वेन बो. ध्या स्वतन्त्रा वा आधे सखण्डार्थत्वं द्वितीये ब्रह्मजिज्ञासु प्रति त- तुपदेशोऽसङ्गत इत्याशय व्यावृत्तिर्यद्यपि विशेषणतयैवा मासते तथाऽपि न शाब्दबोधे सखण्डार्थत्वं 'यश्चार्थादर्थो न स चोदनार्थ इति न्यायान्मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृत' इति वार्तिकोक्तश्चेत्यभिप्रेत्याह-" व्यावृत्तिरिति ॥ ५७॥ तंत्रानन्दबोधाचार्यसंमतिमाह-" लक्ष्यार्थेति ॥ ५८ ॥ उ- तमनूद्य लक्षणायां पक्षान्तरमाह " एवमिति ॥ ५९॥ त- प्रकार प्रदर्शयति-" यथेति " । यथा गभीरायां नद्यां घोष Brlseasoi १२४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- गभीरनद्योरन्योन्यमन्वयज्ञानतः परः ॥ ६० ॥ विशिष्टार्थेकसम्बन्धि तीरं वस्त्वेव लक्ष्यते । तथैव प्रकृतेऽन्योन्यविशिष्टार्थधियः परं ॥ ६ ॥ तत्सम्बन्धि परं ब्रह्माखण्डं वस्त्वेव लक्ष्यते । एकस्मिन्ब्रह्मणि द्वारीभूताया अपि तद्धियः ॥ ६२॥ मिलित्वा जननाच्छब्दैर्लक्षणातोऽप्यखण्डधीः । तात्पर्यज्ञापकाभावात्प्रत्येकं न पृथक्पदे ॥ ६३ ॥ लक्षणा समुदाये स्यात्तस्माद्वाक्येऽपि लक्षणा । एवं पदार्थे तात्पर्यान्वयासिद्धिंकृता पदे ॥ ६४ ॥ लक्षणा तद्वयासिद्ध्या वाक्यार्थे वाक्य इष्यते । इत्यत्र गभीरनद्योः परस्परमन्वयबोधानन्तरं बिशिष्टार्थसम्बन्धि तीर लक्ष्यते तथा प्रकृते परस्परविशिष्टार्थबोधानन्तरं तत्सम्बन्ध्य- खण्डं लक्ष्यते तथा च न वैयर्थं न च तत्रापि प्रत्येकं लक्षणा तथा सति गभीरतीरनदीतीरादिलाभेन विशिष्टतीरबुद्धिर्न स्यात् । न च तत्र गभीरनदीपदयोरिवेह सत्यादिपदानां परस्परमन्वयबोध- कत्वं त्वन्मते नास्तीति वाच्यम् । एकस्मिन्ब्रह्मणि द्वारीभूतस्य प- रस्परार्थान्वयबोधस्य सत्यादिपदमिलित्वा जननात उत्तरकालं ल- क्षणयाऽखण्डबोधस्याभ्युपगमादिति सार्द्धद्वयतात्पर्यार्थः ॥ ६ ॥ ॥ ६१ ॥ ६२ ॥ तथा च समुदाये एव लक्षणा न प्रत्येक तात्पर्य ज्ञा- पकाभावादित्याह-" तात्पर्येति " ॥ ६३ ॥ पदार्थे तात्पर्यान्व- यानुपपत्तिभ्यां लक्षणा पदे वाक्यार्थे तहयानुपपत्या वाक्ये इत्यु- भयत्र फलितमाह- ॥ वाक्ये लक्षणोपपत्तिः ॥ ननु सर्वपदीनां लक्षकत्वे वाक्यार्थानुभवो न स्याल्लाक्षणिक hanimun " मिति ॥ ६४ ॥ एव वाक्यस्य लाक्षणिकत्वेऽपि अनुभावकत्वप्रदर्शनम् । १२५ वाक्यं लाक्षणिकत्त्वेऽपि भवेदेवानुभावकम् । अज्ञातज्ञापकत्त्वाच वेदान्ता अनुभावकाः ॥ ६५ ॥ एवं च तत्वमस्यादिमहावाक्यानुमानकम् । निर्दोषं सोऽयमित्यादिदृष्टान्तोऽत्रानुकूलकृत् ॥ ६६ ॥ तत्र तद्देशकालादिविशेषणविवर्जनात् । विशेष्यमात्रमेकं हि बोध्यतेऽखण्डितार्थकम् ॥ ६७ ॥ प्रत्यभिज्ञा पदार्थाप्तभेदभ्रमनिवर्तिका। नाभिज्ञा स्यात्पदाथै क्यविषयत्त्वेऽपि सा प्रमा ॥६८॥ स्थाननुभावकत्वादिति तत्राह-" वाक्यमिति " । एवं च प- दशक्तेः पदार्थोपस्थिती एवोपक्षयावुपस्थितानां च पदार्थानामन्व- यानुभावकत्वात्सर्वपदलाक्षणिकत्वेऽपि न वेदान्तवाक्यानामन्वया- नुभावकत्वानुपपत्तिरिति भावः ॥ १५ ॥ ॥ सत्याद्यवान्तरवाक्यानण्डार्थतोपपत्तिः ॥ एवं च तत्वमस्यादिमहावाक्यपक्षकानुमानमपि निर्दोषमि- त्याह-" एवं चेति” । न च सोऽयं देवदत्त इत्ययं ह- ष्टान्तः साध्यविकलः विशिष्टाभेदस्य बोधयितुमशक्यत्वादि- त्यंतआह-“सोयमिति" ॥६६ ॥ उभयविशेषणपरित्यागे वि . शेष्यमात्रमभिन्नं बोध्यते इति सिद्धमखण्डार्थत्वमित्याह- द्वाभ्यां । तत्तेदन्तोपस्थितिद्वारकाभेदबोधस्यैव भेदभ्रमविरोधितया नान्यतरपदवैयर्थ्य प्रत्यभिज्ञाप्रत्यक्षस्याऽप्य. भिज्ञाद्वयोपस्थितस्वरूपातिरिक्ताविषयत्वेऽप्युभयोपस्थितिद्वारकाभे. दबोधनेन भेदभ्रमनिवर्तकत्वं तत्समानार्थ च वाक्यमेतदिति न विशिष्टपरमित्यर्थः ॥ ६७ ॥ ६८ ॥ " ततेति १२६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- एवं तत्वमसीत्यस्य सत्यादिपदवाक्यतः । प्रमेयैक्येऽपि भेदान्ध्यनाशकत्वेन मानता ॥ ६९ ॥ उ(१)पाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते । तदपि स्यादखण्डार्थ महत्खं कुम्भखं यथा ॥ ७० ॥ तथा तन्त्वमसीत्येवमखण्डार्थावबोधकम् । उपाधिभेदभिन्नेऽर्थेऽप्यैक्यस्य प्रतिपादनात् ॥ ७१ ॥ सत्यज्ञानादिगीरेतत्संसर्गव्यतिरेकिणी । अर्थे प्रमाणं मानत्वान्नयनादिप्रमाणवत् ॥ ७२ ॥ मानं वेदान्तवाक्यानि निर्गुणाखण्डसाधनात् । निर्गुणत्वं च तस्योक्तं श्रुत्या युक्तिसहायया ॥७३॥ एवं तत्वमसीति वाक्यस्य सत्यादिवाक्यात्तत्पदाच प्र- मेयावलक्षण्येऽपि धर्मिद्वयपरामर्शित्वेन भेदनमनिवर्तकत्वात प्रामाण्यमित्याह-" एवमिति " ॥ ६९ ॥ कल्पतरुकृवचन तत्रोदाहरति-" उपाधीति " ॥ ७० ॥ प्रकृते फलितमाह- तथेति " ॥७१॥ चित्सुखाचार्योक्त्याऽपि तदृढयति-"एवं" मिति । सत्यादिवाक्यमेतत्पदार्थसंसर्गव्यतिरिक्त एवार्थे प्रमाण- मिति सावधारणं साध्यं विवक्षितं तेन संसर्गातिरिक्तसंसर्गिण्यपि प्रामाण्याङ्गीकारान्न सिद्धसाधनमिति भावः ॥ ७२ ॥ फलितमुप संहति-" मान " मिति ॥ ७३ ॥ ॥ तत्त्वमसीत्यादिमहावाक्यास्त्रण्डार्थत्वोपपत्तिः ॥ (1) कातरी ।। ।। २ ।

आत्मनो निर्गुणत्व उपपत्तिप्रदर्शनम् । १२७ निर्गणस्तावदात्माऽस्ति कैवल्यश्रुतिसद्राि । उपास्त्यै सत्यकामाद्या गुणास्तत्र समर्पिताः ॥ ७ ॥ अन्यशेषतया तेषां तत्परत्वं न तच्छ्रुतेः । निर्गुणप्रकृतस्थाया अद्वितीयपरत्वतः ॥ ७५ ॥ तत्परत्वेन सत्वैक्यबोधिनोः श्रुतिवाक्ययोः । प्राबल्यान्न निषेध्यत्त्वमसझेदादिबोधिभिः ॥ ७६ ॥ न ब्रह्मण्यनुमानं वा सद्धर्मादिप्रमापकम् । सिद्धसाधनदोषेण दुषितत्वान्निरर्थकम् ॥ ७७ ॥ कैवल्यश्रुत्या तावदात्मा निर्गुण इत्याह निर्गुण" इति। ननु 'बृहन्तोऽस्य धर्मा' इति श्रुत्या, ब्रह्म धर्मवत पदार्थत्वादित्याद्यनु- मानैश्च, स्वसमानसत्ताकधर्मवद्ब्रह्मति चेन्नैवं न तावत् श्रुत्या सगु- णत्वसिद्धिः सगुणप्रकरणस्थाया उपास्तिविधिविषयविशेषणसमर्प- कत्वेन तत्परत्वाभावात्, न चापूर्वत्वात् सत्यकामादौ विशेषणे तात्पर्य अपूर्वत्वेप्यन्यशेषस्य अतत्परत्त्वदर्शनातू, निर्गुणप्रकरण- स्थायास्तु अद्वितीयब्रह्मप्रतिपत्त्यनुकूलनिषेधापेक्षितविषयसमर्पकत- या अन्यथासिद्धोरिति द्वयोरर्थः ॥ ७४ ॥ ७५ ॥ असद्वाक्यभेदवा- क्ययोस्तु न ब्रह्मसत्वैक्यनिषेधकता सत्वैक्यबोधकयोरेव तत्पर- रवेन प्राबल्यादिस्याह-" तत्परत्वेनेति ॥७६ ॥ ब्रह्म ध- मिसत्तासमानसत्ताकधर्मवत्पदार्थत्त्वाद्भाववद्वा घटवदित्याद्यनुमा- नमपि न ब्रह्मणि तात्विकधर्मतासाधनायालमित्याह-" नेति धर्मिपदस्य यत्किचिद्धर्मिपरत्वे समसत्ताककल्पितधर्मत्वेन सिद्ध- साधनं ब्रह्मपरत्वे साध्याप्रसिद्धिः घटादिधर्मे ब्रह्मसमानसत्ताक- वादेस्प्रसिद्धरित्यादिदूषणग्रस्तत्वान्नानुमानं तत्र प्रमाणमित्यर्थः७७ सब्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- ईश्वरस्तु सदावाप्तसमस्तशुभसद्गुणः । स्वीकृतोऽस्माभिरप्यत्र मायावित्वेन कालतः ॥ ७८ ॥ न निर्द्धर्मकतायां स्यात्कालसम्बन्ध आत्मनि । हेत्त्वसिद्धेर्न शुद्धस्य पक्षीकरणसम्भवः ॥ ७९ ॥ आनन्दादेस्तु नित्यत्वात्तत्प्रेप्सायाश्च तत्र च। सामर्थ्यस्य त्वया वक्तुमशक्यत्वान्न साधनम् ॥८॥ सद्धर्मकानुमाने ते सर्वत्रैवास्ति दूषणम् । न ब्रह्मसमसत्ताकधर्मे मानं तवानुमा ॥ ८१ ॥ अपरब्रह्मविषया श्रुतिर्निर्मकश्रुतेः । STHANI ईश्वरः सदाऽवाप्तसमम्तकल्याणगुणः सदा प्रेप्सुत्वे सति तत्र शक्तत्वात् यो यदा यत्प्रेप्सुर्यत्र शक्तः स तदा तद्वान् यथा चैत्रः ईश्वरः सदा त्यक्तसमस्तदोषः सदा तजिहासुत्वे सति तत्त्यागे श- क्तत्वात यश्चैवं स तथैव यथा चैत्रः इत्याशय परि हरति- ईश्वर इति” । ईश्वरः सदाऽवाप्तसमस्तकल्याणगुणः ई- त्यत्न कालं व्याप्य आप्तगुणत्वस्यास्माभिरप्यङ्गीकारात न हि निर्द्ध- मिकतायां सत्यां कालसम्बन्धोऽस्ति किं च शुद्धस्य पक्षीकरणे हे- त्वसिद्धिः उपहितस्य पक्षीकरणे अर्थान्तरं स्वाभिन्नाप्तसमस्तक- ल्याणगुणत्वेन सधर्मकत्वायोगाञ्च सिद्धसाधनाञ्च कल्याणगुणाना- मानन्दादीनां नित्यत्वेन तत्प्रेप्सायास्तत्र सामर्थ्यस्य च त्वयाऽपि वक्तुमशक्यत्वाञ्च सदा त्यक्तसमस्तदोषत्वे साध्ये चरमवृत्तिपर्यन्तं तत्त्यागे सामर्थ्याभावेन हेत्वसिद्धेः यदा तु तत्सामर्थ्य तदा त्यक्त- दोषत्वमिष्टमेवेत्यादिदोषदुष्टत्वात्त्वदुक्तानुमानं न सङ्गच्छते तस्मा- भानुमानं ब्रह्मसमसत्ताकधर्मे प्रमाणमिति च योजना ॥७९॥८०॥८॥ ॥ ब्रह्मणि तात्त्विकधर्मसाधकानुमानानामाभासत्त्वप्रदर्शनम् ॥ सगुणश्रुतिव्यवस्थामाह-" परेति” । ननु सगुणातिरि- संगुणनिर्गुणश्रुत्यौव्यवस्थापदर्शनम्। * : अविरोधितयोपास्त्यै गुणानां स्यात्समर्पिका ॥ ८२ ॥ नि(३)विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनु कंप्यन्ते सविशेषनिरूपणैः ॥ ८३ ॥ वशी(२)कृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ ८४ ॥ सदेवासीदसद्देति श्रुती कारणकार्ययोः । विषयीकुरुतः सत्वासत्वे न ब्रह्मतत्परे ॥ ८५ ॥ शून्यत्वस्यापुमर्थत्वादानन्दावाप्तिरिष्यते । मुक्तिस्तस्मादसन्नेवेत्यादिश्रुतिरतत्परा ॥ ८६ ॥ " तस्य परब्रह्मणोऽद्याप्यसिद्धिः त्वत्पक्षे तात्विकगुणवद्यक्त्यन्तरस्या- भावास्किविषयत्वं च सगुणश्रुतेरिति चेत्तत्राह-" निर्मक- श्रुतेरिति " । तात्विकत्वपर्यंतस्य सगुणश्रुत्या अविषयीकरणा- निद्धर्मकत्वध्रुत्या शुद्धब्रह्मसिद्धरित्याशयः ॥ ८२॥ तन कल्पतरु- कृवचनद्वयमुदाहरति-" निर्विशेषमिति ननु 'सदेव सोस्येदमन आसीदसद्वा इदमग्र आसीदिति श्रुती अपि परापरब्रह्मविषये स्यातामिति नेत्याह-" सदेवेति तत्रेदमिति प्रपञ्चस्य प्रकृतत्वेन ब्रह्मपरत्वस्य वक्तुमशक्यतया प्रप- श्वस्येव पूर्व कारणात्मना सत्वं कार्यात्मना असत्वं विषयीकुरुत इत्यर्थः ॥८५॥ नन्वेवं ' अ(३)सन्नेव स भवति । असद्ब्रह्मेति वेद चे'. उदिति श्रुतिरपि नासत्वसिद्धयर्था किं तु शून्यतापत्तिरूपपरममो- क्षपरेति स्यादिति चेन्नेत्याह-" शून्यत्वस्येति " ॥८६॥ (१) कल्पतरौ । । १ । १५ । (२) कल्पतरौ १ । १ । १५ । (३) • १ । ६ । १ १७ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- ज्ञानादीनां स्वरूपत्वाद् गुणत्वासिद्धिरेव हि । तत्स्वरूपातिरिक्तानामाबोध नित्यता मता ॥ ८७ ॥ औपाधिकगुणोक्तयाऽपि श्रुतिः प्रामाण्यमश्नुते । मायाविदर्शिता मायानुवादिन्यो गिरो यथा ॥ ८८ ॥ स्वाभाविकीति वाक्यं तु लोके योग्यर्जिताद् गुणात् । पृथक्त्वोक्तया न चिद्धातौ स्वाभाविकगुणान्जगौ॥८९॥ एष ननु 'ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मन' नित्यो महिमा ब्राह्मणस्येत्यादि श्रुत्या ब्रह्मज्ञानादीनां नित्यत्वप्रति- पादनात्सगुणत्वमित्यत आह -" ज्ञानादीना " मितिं । ज्ञाना- दीनां खरूपतया गुणत्वासिद्धिः स्वरूपातिरिक्तानां तु चरमसाक्षा- कारपर्यन्तस्थायितया नित्यत्वोपचारात् 'अपामसोमममृता अ- भूमे त्यादौ अमृतशब्दस्य 'आभूतसप्लवं स्थानममृतत्त्वं हि भाष्यत' इति पौराणिकोक्तामृतत्वपरत्ववदिति तात्पर्यार्थः ॥८७॥ नन्वौपाधि- कत्वस्य सोपाधिकाध्यस्तरूपत्वे श्रुत्यप्रामाण्यापत्तिः सत्यत्वश्रुति- विरोधश्च अन्तःकरणादिरूपोपाधिसृष्टेः प्रागेव ईक्षितृत्वादिश्रुते- रुपाध्यसम्भवश्चेत्याशङ्ख्य मायाविदर्शितमायानुवादिवाक्यवत्स्वतो भ्रमजनकत्त्वाभावेन अप्रामाण्यानापत्तेः सत्यत्त्वश्रुतिस्त्वन्यथैव सि- द्धा सृष्टेः पूर्वमन्तःकरणाभावेऽप्यविद्याया। उपाधेः सत्वान्मैवमि- त्यभिप्रत्याह-"औपाधिकेति" ॥८८ ॥ ननु गुणानामौपाधिकत्वे- 'स्वाभाविकी ज्ञानबलक्रिया चे'त्यनेन विरोधः स्यादित्याशङ्ख्याह- स्वाभाविकीति "। अस्मदादाविव भौतिकोपाधिकत्त्वाभा- घेन योगिचिव योगार्जितत्वाभावेन स्वाभाविकत्वोक्तेः । न च स- ङ्कोचाभाव निर्गुणवाक्यस्यैव सङ्कोचकत्वादित्यर्थः ॥ ८९ ॥ नन्वेवं पूर्वोत्तरतन्त्रयोवैषम्यकथनम् । १४ सत्त्यंतत्वमसीत्यादी ब्रह्मसत्वैक्यतत्परे । सत्वैक्ये तात्विके ब्रूतः श्रुती प्रामाण्यनिश्चयात् ॥१०॥ न पूर्वतन्त्रवच्चात्र व्यवस्था श्रुतिवाक्ययोः । तत्र प्रामाण्यहेतुत्वं समकक्षतया मतम् ॥ ९१ ॥ इह त्वेकतरस्याऽस्तिप्राबल्यं तत्परत्वतः । इतरस्य तु दौर्बल्यमिति वैषम्यमेतयोः ॥ ९२ ॥ 'सत्यं ज्ञानमनन्तं ब्रह्म' 'तत्त्वमसी'त्यादिश्रुत्युक्तब्रह्मसत्वैषयादि- कमपि तात्विकं न स्यादिति चेन्मैवमित्याह-" सत्यमिति " निर्गुणश्रुतिविरोधस्यात्र तत्नेवाभावादिति भावः ॥ ९०॥ ननु श्रुत्योर्विरोधे नैकस्यातात्विकविषयत्वं शास्त्रविरोधे सङ्को- चविकल्पादिना उभयप्रामाण्यस्य पूर्वतन्त्रे व्याकरणे च निर्णीत- त्वात् तथा हि दशमाध्याय स्थप्राप्तबाधे प्रकृतिवत्कुर्यादित्यादिरूप- क्लप्तस्य चोदकस्य कृष्णलादाववघातवर्जमित्यादिरूपः सङ्कोच एव एवं तार्तीयांप अप्राप्तबाधे 'गार्हपत्यमिति द्वितीयाश्रुत्यनुसारेणे- न्द्रशब्दयुक्तमन्त्रलिङ्गस्य गार्हपत्ये गौणत्वादिकमेव, व्याकरणेऽपि परेण पूर्वस्य नित्येनानित्यस्येत्यादिवाध उक्तस्तत्रापि सङ्कोच एव तथा चोक्तं ' को हि मीमांसको ब्रूयाद्विरोधे शास्त्रयोमिथः । एक प्रमाणमितरत्त्वप्रमाणं भवेदि'त्याशय निरस्यति-" नेति तत्र शास्त्रयोः प्रामाण्ये समानकक्षतया एकतरस्यात्यन्तिकबाधायो- गात्सोचेन विकल्पेन वा पाक्षिकं प्रामाण्यमाश्रितं इह त्वेकतरस्य तत्परतया प्रबलत्त्वात् इतरस्य चातत्परत्वेन दुर्बलतया वैषम्या- त्पूर्वतन्त्रोतरतन्त्रयोर्महद्वैषम्यमिति द्वयोर्योजना ॥ ९१ ॥ ९२॥ ॥ पूर्वोत्तरतन्त्रयोवैषम्यकथनम् ॥

ફિર सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- विकारशब्दान्नेत्यादिसूत्ररीत्याऽपि नाव सा। व्यवस्था यत एकस्मिंस्तात्पर्य श्रुतिसगिराम् ॥ ९३ ॥ न नत्कासेडितीवात्र शब्दशास्त्रव्यवस्थया । ननु अनापि विका(१)रशब्दान्नेति चेन्नोभयस्मिन्नप्यविरोधातू' 'गौण्य(२)सम्भवादित्यादौ शास्त्रयोर्विराधे तात्त्विकार्थान्तरपरतोक्ता नत्वारोपितार्थता अन्यथेात्याद्यधिकरणे सिद्धान्तसाधकानामी- क्षणादीनां साङ्ख्याद्यभिमतप्रधानादावारोपसम्भवेन प्रधाननिरा- करणादि न सिद्ध्येदित्याशङ्य विकारशब्दादित्यादौ न विरोधेन तात्विकार्थान्तरपरत्वमर्थः किं तु स्वप्रधाने ब्रह्मणि अवयवत्वास- म्भवेन पुछपदमुपरितमित्यर्थःगौण्यसम्भवादिति पूर्वपक्षसूत्रेऽपि 'आत्मन आकाशः सम्भूत' इति श्रुतिस्तु गौणी आकाशोत्पत्तिः कारणासम्भवादित्यर्थःन तु तात्विकार्थान्तरविषयत्वं उपदेशभे. दादित्यादौदिवि दिव इति सप्तमीपञ्चमीभ्यामाधारत्वावधित्वयोः प्रतीतेरुपदेशभेदेन न पूर्वनिर्दिष्टब्रह्मणः प्रत्यभिज्ञानमस्तीति प्राप्ते ए- कस्मिन्नपि श्येने वृक्षाग्रे शेनः वृक्षाग्रात् श्येन इति निर्देशदर्शनात एकस्मिन्नेव ब्रह्मणि उभयरूपाविरोधइत्यर्थःन तु तात्विकार्थान्तर- परत्वं चतथा च चेतन एवेक्षितृत्वदर्शनाच्चैतने ब्रह्मणि आरोपो यु- ज्यते नाचेतन इति न सिद्धान्तक्षतिरित्याशयेन समाधत्ते- विकारेति " ॥१३॥ ननु मृडमृदेत्यादेर्यथा नत्कासेडिति निषेधनिषेधत्वं तद्वत्सगु- णवाक्यानामपि निर्गुणवाक्यबाधकत्वं किन्नस्यादिति चेन्नेत्याह- " न नेति " | दृष्टान्ते पयुदासाधिकरणन्यायेन मृडमृदेत्यायुत्त- रत्त्वरहितसेट्क्वाप्रत्ययकित्वनिषेधपरत्वेनैकवाक्यतायां वाक्यमे- देन निषेधनिषेधकत्त्वाकल्पनात् न च प्रकृतऽपि पर्युदासार्थत्वं नेति " (1) सू०।। १३ । (२.) व. सू० २ । ३ । ३ ।

मेदश्रुतीनामत्यपरत्वम् ।
१३३
पर्युदासोऽस्ति नेतीति श्रुत्या सर्व निषिध्यते ॥९॥
हा सुपर्णेतिवेदार्थो बुद्धिजीवपरत्वतः ।
न जीवब्रह्मणोर्भेदस्तथा पैंग्येऽपि वर्णनात् ॥ १५ ॥
आत्मैवेदमिति श्रौतं ब्रह्मसात्म्यतत्परं ।
वाक्यं तद्विश्वमिथ्यात्वे पर्यवस्यति सर्वथा ॥ १६ ॥
मिथ्यात्वब्रह्मसत्वात्मब्रह्मैक्यानां श्रुतेर्गिरा ।
सिद्धत्वान्नाऽत्र कस्याऽपि सामर्थ्य तन्निषेधने ॥ १७ ॥
अविद्यासिद्धसाक्षित्वाद्यनुवादेन निर्गणे ।
श्रुतीनामस्ति तात्पर्य ताटस्थ्यद्वारतो मतम् ॥ ९८ ॥
अन्यशेषतया नास्ति सार्वश्यादिनिवेदने ।
नेतीति वाप्सायाः प्रसक्तसर्वनिषेधकतया विशेषपरिशेषायोगेन प.
गुंदासस्याऽऽश्रयितुमशक्यत्त्वादित्यर्थः ॥ ९४ ॥ द्वा सुपर्णेति वा-
क्यस्य न भेदपरत्वमित्याह-" द्वेति " ॥९५ ॥ स एवेदं स-
'मात्मैवेदं सर्वमित्यादेस्तात्पर्यमाह-"आत्मेति" ॥९६॥ वि.
भ्वमिथ्यात्वब्रह्मसत्त्वादीनां ज्ञाननिवर्त्यत्वादिनाऽऽक्षिप्तानां न केना-
ऽपि निषेधुं सामर्थ्यमित्याह-" मिथ्यात्वेति" । सत्यस्य ज्ञा-
नादनिवृत्तेः असत्यस्याधिष्ठानत्वायोगातू भेदे सार्धात्म्यायोगाच्चे.
त्यर्थः ॥ ९७ ॥ नन्नौपनिषदस्य ब्रह्मणः साश्यादिकमनुमानादि-
सिद्धमित्याशय विद्यासिद्धसाक्षित्वाद्यनुवादेन तटस्थलक्षणद्वा-
रकब्रह्मपरतया गुणपरत्वाभावाद् गुणनिषेधतोकपपत्तेमवमित्याह-
अविद्येति
॥९८॥

१३४ सव्याख्यातिसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- तात्पर्य वाक्यभेदः स्यादन्यथा श्रुतिमौलिषु ॥ ९९ ॥ यः सर्वज्ञ'इति श्रुत्या ब्रह्मतत्वं निवेदितम् । तटस्थलक्षणद्वारा तात्पर्य्यान्नाप्युपासनम् ॥ १० ॥ न च ज्ञाने विधिः शङ्कयोऽप्यने तस्य निषेधनात् । आत्मप्रावण्यसिधै तत्कथनं कुत्र चिन्मतम् ॥ १ ॥ अथ योऽन्यामिति श्रुत्या भेददर्शननिन्दया । नोपास्तिरुच्यते तत्र न सवेदेति निन्दनम् ॥ २ ॥ आनन्दाद्या इति न्यायेऽखण्डवाक्यार्थसिद्धये । वाच्यार्थस्योपसंहारान्नोपास्यत्वस्यसम्भवः ॥ ३ ॥ विपक्षे बाधकमाह-"अन्यथेति ॥ ९९ 'यः सर्वज्ञः स स- विदित्यादावुपासनाप्रकरणस्थत्वाभावेऽपि तटस्थलक्षणद्वारा ब्रह्म प्रतिपादने तात्पर्येण विशेषणे अतात्पर्यात् अन्यथा एकविज्ञानेन स- विज्ञानप्रतिज्ञाविरोधापत्तिः स्यादित्याह-" यः सर्वज्ञ यः सर्वज्ञ " इति ॥ १०० ॥ न च ज्ञाने विधि स्तस्य निराकरिष्यमाणत्वा न च विधि- श्रुत्यानर्थक्यं बाह्यविषयात्परावर्त्य चित्तस्य प्रत्यगात्मप्रवणतास: म्पादकत्त्वादित्याह-" न चेति " ॥ १ ॥' अथ योन्यां देव- तामुपास्ते' इत्यादेनं स वेदेत्त्युतरवाक्यपर्यालोचनया भेददर्शन- निन्दापरतयोपास्तिपरत्वशड्ढव नास्तीत्याह-" अथेति" । ॥ २ ॥'आनन्दादयः प्रधानस्येति' सूत्रेण लक्ष्याखण्डवाक्यार्थसि- द्वयर्थ वाच्यवाक्यार्थोपसंहारस्य क्रियमाणत्वेनोपास्यत्त्वानुपपत्ति- रित्याह आनन्दाद्या इति ॥ ३॥ व्यतिहारसूत्रे च

PRETATION
आनन्दसत्यकामत्वादीनां तात्त्विकत्वातात्विकत्व व्यवस्था। १३५
उपास्तिविषयत्वेऽपि तात्विकत्त्वं न चैक्यवत् ।
सत्यकामत्वमुख्यानां न वैक्यस्याऽप्यवस्तुता ॥ ४ ॥
विशिष्टविषयोपास्तिनिर्विशेषे न सम्भवेत् ।
आनन्दादेरतो ब्रह्मरूपत्वादेव वस्तुता ॥ ५ ॥
भ्रमत्वं सगुणोपास्तेविशिष्टविषयत्वतः ।
न निगुणाद्युपास्तेस्तन्निर्विशेषास्पदत्वतः ॥ ६ ॥
तद्योऽहं सो ऽसौ ऽयो सो सौऽह ' मित्युक्तस्य जीवे ईश्वरा-
भेदध्यानस्येश्वरे वा जीवाभेदध्यानस्योपासनाप्रकरणपठितश्रुत्युक्त-
स्य जीवेश्वराभेदः सगुणोपासनरूपेणापि दृढीकर्त्तव्य इत्येवं पर-
तया ऐक्यस्योपासनाविषयत्वेऽपि न सत्यकामत्वादिवदतात्विकत्वं
न चैत्यवत्सत्यकामत्वादीनां तात्विकता वा अनुपासनाप्रकरणस्थ-
तत्परवाक्यबोधितत्वाबोधितत्वाश्यां विशेषादित्यभिप्रेत्याह-
" उपास्तीति
नन्वानन्दादिवाक्यसत्यकामादिवाक्ययोर्मानान्तराविरोधे तद्-
प्राप्तौ च उपासनाविध्यश्रवणे निर्गुणश्रुतिविरोधे च तुल्ये ऽपि आ-
नन्दादयस्तात्विकाः सत्यकामत्वादयस्त्वतात्विका इतिं कथं व्य-
घस्थेति तत्राह विशिष्टेति” । आनन्दादीनां ब्रह्मरूपत्वेन
निर्गुणश्रुतिविरोधाभावस्य व्यवस्थापकत्वमित्यर्थः ॥ ५॥ ननु स.
गुणोपास्तेभ्रंमत्वे निर्गुणोपास्तेरपि भ्रमतया सम्यक्फलासिद्धिर्ब्रह्मा-
सिद्धिश्च स्यादिति नेत्याह-"भ्रमत्वमिति"। स्वयं भ्रमोऽपि सं-
वादी यथा सम्यक् फलप्रदः । ब्रह्मतत्वोपासनाऽपि तथा मुक्तिफ-
लप्रदे'त्युक्त निर्गुणोपास्तेः सम्यक्फलप्रदत्वं नाऽपि ब्रह्मासिद्धि-
रुपास्तभ्रमत्वेऽपि शब्दाजायमानस्य ज्ञानस्य प्रमात्वादित्यर्थः ॥ ६ ॥

१३६ः सम्याख्याद्वेतसिद्धिसिद्धान्तसारे । २ परिच्छेदे- विशेष्यांशस्य सत्वेऽपि न सत्यत्वं विशेषणे । अतः सगुणवाक्यं नो गुणानां वस्तुतापरम् ॥ ७ ॥ त्रिमालालम्बनोपाधिविशिष्टस्यैव वस्तुनः । ध्येयत्वोक्तया न शुद्धे सा नेक्षतेःस्याद्विरोधिता ॥ ८ ॥ य आत्मा ध्वस्तपाप्मेति गुणाः सन्ति स्वरूपगाः । जिज्ञास्या न बहिर्भूताः सत्यकामादयो गुणाः ॥ ९ ॥ ॥ । परं पुरुष सगुणवाक्यस्य विशेष्यांशसत्यविषयत्वेऽपि विशेषणांशासत्यवि- षयत्वान्न गुणादितात्विकत्वपरत्वमित्याह-“विशेष्यांशस्येति" ॥ ७॥ नन्वीक्षतिकर्मेति सूत्रे 'ईक्षतिध्यानयोरेकः कार्यकारणभू- तयोः । अर्थ आत्सर्गिक तत्वविषयत्वंतथेक्षते रितिभामत्यां'परात्परं पुरि शयं पुरुषमीक्षते' इतीक्षतिकर्मणः परब्रह्मण एव मभिध्यायीतेति अभिध्यातव्यत्वेनोक्त्या तद्विरोध इत्याह त्रि- मात्रेति । त्रिमात्रोंकारालम्बनोपाधिविशिष्टस्यैव ध्येयत्वोक्त्या- शुद्धविषयत्वाभावेन विरोधाभावात् विशेष्यांशमादायेक्षतिस- मानकर्मत्वोपपत्तिरित्यर्थः ॥ ८॥ ननु यआत्मा अपहतपाप्म'त्यारभ्य 'सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्य' इति सत्यकामत्वादीनामपहतपा- प्मन्वादिभिः सह जिज्ञास्यत्वश्रवणाज्ज्ञेयत्वमित्याशयापहतपाप्म- त्वादीनां स्वरूपतया जिज्ञासाकोटिप्रवेशेऽपि सत्यकामत्वादीनां स्वरूपबहिर्भावेन जिज्ञास्यत्त्वायोगात्तच्छब्देन तेषामपरामर्शात् य- श्चित्रगुर्लम्बकर्णश्च तमानयेत्यादौ योग्यविशेषणस्यैव तच्छब्देन प- समर्शदर्शनान्मैवमित्याह-"अपहतेति" । अस्वरूपत्वे तेषाम- प्यपरामर्श विशेष्यीशमात्रपरामर्शः यश्चित्रगुर्बहुधनस्तमानयेत्या दिवदिति भावः ॥ ९ ॥ धर्माणामपि व्यावहारिकसत्यत्वोक्तब्रह्म 'सविशेषज्ञानस्यमोक्षाहेतुस्वम् Imeg १३७ व्यावहारिकसत्वं स्याद्धर्माणां न तु धर्मिणः । अधिष्ठानतया सत्वं पारमार्थिकमात्मनः ॥ १० ॥ पृथगात्मानमित्यादिश्रुतियोमामिति स्मृतिः । कैवल्यहेतुधीसिद्ध्यै सगुणोपासनं जगौ ॥ ११ ॥ निर्गुणज्ञानतो मुक्तिं तत्परत्वाजगौ श्रुतिः । सगुणागुणयोर्ज्ञाने महद्वैषम्यमिष्यते ॥ १२ ॥ णोऽपि सत्यत्त्वं तथाऽस्त्विति चेन्नेत्याह-" व्यावहारिकेति "। 'सत्यस्य सत्यमिति निरतिशयसत्वप्रतिपादनविरोधादधिष्ठानत्त्वा- नुपपत्तेश्च न ब्रह्मणो व्यावहारिकसत्यत्वोपपत्तिरित्यर्थः ॥ १० ॥ ननु 'पृथगात्मान मित्यादिश्रुतिषु ' यो मामशेषदोषोत्थगुणसर्वस्व- वर्जितं।जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चाऽन्यथा'।भोक्ता(१)रं यशतपसां सर्वलोकमहेश्वरं । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्ति- मृच्छती'त्यादिस्मृतिषु च सविशेषज्ञानादेव मोक्षोक्तेः सप्रकारक- ज्ञानस्यैव भोचकत्वमित्याशङ्ख्य निरस्यति-" पृथगिति”। प- रममुक्तिहेतुनिर्गुणसाक्षात्कारोपयोगिसत्वशुद्धयुपायसगुणोपासन- विध्यर्थवादतया साक्षान्मुक्तिहेतुत्वाप्रतिपादकत्वात् श्रुतिस्मृत्योः नैवं परत्वमित्यर्थः ॥ ११ ॥ न च निर्गुणशानान्मुक्तिश्रुतिसपि तथा तत्परत्वातत्परत्वाभ्यां वैषम्यादित्याह-“निर्गुण" इति । यद्यपि ' नास्याब्रह्मवित्कुले भक्ती त्यादि फलान्तरश्रवणं निर्गुणज्ञानेऽपि स्तुत्यर्थतयोपपाद- नमपि समानं, संयोगपृथत्कन्यायेनोभयफलत्वोक्तिरपि समाना, त- थाऽप्यधिष्ठानत्वावगाहित्वानवगाहित्वाक्यां निर्गुणसगुणज्ञानयोर्वि- शेषात् सगुणज्ञानजन्यमुक्तेरवान्तरमुक्तित्वाञ्चेति तात्पर्यम् ॥ १२ ॥ (१) भगवदगीतायाम ५ । २६ ।

JARAN १३८, सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- अनन्तत्वादिरद्वैतस्वरूपपर इष्यते । उपास्तिप्रकृतस्थोऽपि वस्तुमात्रपरत्वतः ॥ १३ ॥ वाग्धेनुवादिवन्नात्र सत्यकामादयो गुणाः । अध्यस्ता ईश्वरान्नैतेऽन्यत्र सन्ति श्रुतेर्मताः ॥ १४ ॥ नाम ब्रह्मेत्युपासीत सैषा नामाभिमानिनी । स्मरेत्तस्यां हरिं ब्रह्मेत्येवमारोपतत्परा ॥ १५ ॥ शाखेन्दुन्यायतो ब्रह्मोपदेष्टुं स्यादुपास्तिगीः । स्वरूपपर ' सत्यं ज्ञानमनत'मित्यादिवाक्ये अनन्तत्वादेः स्वरूप एव सत्त्वेन वस्तुतत्वमात्रपरत्वमेव युक्तं क्वचिदुद्गीथाधुपास्तिप्र. करणस्थस्यापि स एवानन्त' इति वाक्यस्योभयपरत्वेऽपि निर्गु- णश्रुतिविरोधेन सगुणवाक्यस्योभयपरत्वाभावात् अनन्तत्वादेस्ता- त्विकत्वमेवेत्यभिप्रेस्याह-“ अनन्तत्वादिरिति नन्वेवं सार्वइयादीनां वाग्धेनुत्वादिवत्प्रातीतिकत्वापत्तिरिति ने- त्याह-" वागिति"। वाग्धेनुत्वादेर्बुद्धिपूर्वकारोपविषयतया प्रातीतिकत्वेऽपि सत्यकामत्त्वादेरीश्वरादन्यत्रासम्भवेन बुद्धिपूर्वका- रोपविषयत्वाभावान्न तथात्वमित्यर्थः ॥ १४॥ नामब्रह्मेत्यत्रारोपेण मुख्यत्वसम्भवे गौणत्वस्यान्याय्यत्वमित्याह-" नामेति एवं प्रतिमादावपि देवतात्वारोपेण मुख्यत्वे गौणत्वमन्याय्यमेवे. ति द्रष्टव्यम् ॥ १५ ॥ अनात्मोपास्तेस्तु भूमाख्यब्रह्मोपदेष्टुमेव शाखाचन्द्रन्यायेनावता- रितत्वात ' तदेव(१)ब्रह्मत्वं विद्धि नेदं यदिदमुपासते' इति गुणधि- शिष्टस्योपास्यस्य ब्रह्मत्त्वनिषेधोऽपि सुसंपन्न इत्याह-- शाखेति" SRO केमोपनिषद।

ब्रह्मण सगुणत्वे बाधकम् | RESS १३९ नोपास्तौ श्रुतितात्पर्यमुपास्यत्त्वनिषेधतः ॥ १६ ॥ अन्यदेवेति गीः श्रौती प्रमेयादप्रमेयतः । घटादेः शशशृङ्गादेरन्यद्ब्रह्मेति तत्परा ॥ १७ ॥ तस्मात्साधकसद्भावान्निर्गुणं ब्रह्म सम्मतम् । सगुणत्वे तु बहुधा बाधकस्याऽपि सत्वतः ॥ १८ ॥ तत्परत्वात्पुमर्थंकफलत्वान्निर्गुणश्रुतिः । ॥ १६ ॥ नन्व 'न्यदेव(१)तद्विदितादथो अविदितादधीति श्रुतौ अ. श्रौतज्ञानस्याकात्स्येन ज्ञानस्य वा निषेध इति तदेव ब्रह्मेत्यादाव- श्रौतध्यानस्याकात्स्येन ध्यानस्य वा निषेधेन नोपास्यस्य. ब्रह्मत्वनि- षेधः अन्यथा तस्याभिध्यानादित्वादिश्रुतिविरोध इति चन्मैवमि- त्याह-"अन्यदेवेति" । अन्यदेवेत्यादौ विदितात्प्रमेयाद् घटा- देरविदितादप्रमेयात् शशविषाणादेवैलक्षण्येन स्वप्रकाशत्वप्रतिपा- दनपरतया त्वदुक्तार्थादृष्टान्तत्वात उपास्ये ब्रह्मत्वनिषेधेऽपि न 'त- स्याभिध्यानादिति' श्रुतिविरोधः अभिध्यानशब्दस्य निदिध्यासनवा- चकत्वात् ध्यानपरत्वेऽपि क्रममुक्त्यर्थत्वेन विरोधाभावादिति ता. पर्यार्थः ॥ १७ ॥ फलितमाह-" तस्मादिति" | न चासिद्धिः मिथ्यात्वश्वतेर्निर्गुणश्रुतेश्च बाधकत्वादिति भावः ॥ १८ ॥ ॥ ब्रह्मणः सगुणत्त्वे बाधकम् ॥ ननु निगुणवाक्यं सगुणवाक्य बाधते न तु सगुणवाक्यं तदिति- किमत्र नियामकं । न च निषेधकतया निर्गुणवाक्यं प्रबलं 'असद्वा इत्यादिवाक्यस्य सदेवेत्यादिवाक्यात्प्राबल्यापत्तरिति चेन्न । अपच्छेद- न्यायेन प्राबल्यस्य प्रागेवोक्तः निषेध्यत्वाच्च प्राबल्यं असद्धा इत्य- त्रासच्छब्दस्यानभिव्यक्तपरत्वेनानिषेधत्वात नैतन्यायन प्राब- ल्यमित्याह-" तत्परत्वादिति । निर्गुणवाक्यस्य पुरुषार्थ- (1) केनोपनिषद ।।

सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- प्रबलास्यानुसारित्वमिष्यते सगुणश्रुतेः ॥ १९ ॥ सगुणश्रुतिबाहुल्यं प्राबल्ये साधकं न हि । नेक्षते शतमन्धानामिति न्यायस्य सम्भवात् ॥ २० ॥ युक्तोऽयुक्तश्च यतार्थ आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थ इत्यप्यस्मन्मते भवेत् ॥ २१ ॥ अन्तरित्यादिसूत्रेषु न तात्विकगुणोक्तयः । पर्यवसायितया तत्परत्वेन प्राबल्यात् सगुणवाक्यस्य तत्सन्निधिप- तितस्य 'फलवत्सन्निधा विति न्यायेन तद्गुणतया नेयत्वादित्य- र्थः(१) ॥ १९ ॥ बहुत्वादपि न प्राबल्यमित्याह-" सगुणेति तथा च सर्वथा निर्गुणश्रुतेरेव प्राबल्यमिति तात्पर्य ॥ २०॥ सा- क्ष्यादिशब्दानां द्रषत्वादिद्वारकब्रह्मरूपार्थतैव युक्ता आगमस्य त- त्रैव प्रामाण्यसम्भवादित्याशयेनाह-"युक्त इति"। नन्व 'न्त(२) स्तद्धर्मोपदेशात् 'अन्त(३)र्याम्यधिदैवादिषु तद्धर्मव्यपदेशादित्याश- दिसूत्रेषु धर्माणां तत्तदधिकरणसिद्धान्तसाधकतया आहतत्वात्स- गुणत्वसिद्धिरित्याशङ्याह-"अन्तरिति”। आरोपितब्रह्ममाव- (१) न च सगुणज्ञानस्य मोचकत्व' तस्य प्रागेव निरासात् अत एव सगुणनिर्गुण- लयीविरोधेन समुच्चयायोगात् अनुष्ठान इव च वस्तुनि विकल्पायोगात् एकस्य प्रती- सार्थत्यागरूपे बाधे वक्तव्य निर्गुणवाक्यस्य व सयुक्त; न तु प्रबलस्य सगुणवाक्यस्य ति नि- रस्तम् प्राबल्यासिङ्घः न चीपक्रमाधिकर णन्यायन अनुपजातविरोधित्वात निर्गुणश्रुतेः प्र. तियोगिज्ञानापेक्षया विलम्बितत्वं न लिङ्गाच्छ रतेरिव शौधगामित्वात् पदेनुहोतौतिव- विशेषविषयत्वाञ्च सगुण वा कास्य प्राबल्यमिति वाच्यम उपक्रमाधिकरण न्यायस्था न्यथा- सिद्धोपस हारविषयत्वात् प्रकृते च तदभावात् सगुणवाक्यस्य प्रतियोग्युपस्थापकल्या शो- धमामिल न प्राबल्य ग्रहण वा कास्यापि प्राबल्यापत्त्या विकल्पाभाव प्रसङ्गात सामान्यविष. यप्रमाणसमान कक्षय व विशेषविषयस्य प्राबल्यात् इति भावः । (1) ब्र० स० ।। १ । २० । (३) न. सू०, १३२.15 STANTARVASNA निर्गुणश्रुतेस्तकस्य च प्राबल्यम् । सरकार आरोपितगुणैरेव सिद्धान्ते सिडिसम्भबात् ॥ २२ ॥ दुःखधीवृत्तिरूपत्वादानन्दस्तु चिदात्मकः । ब्रह्मण्यध्यस्तविश्वस्य न सत्त्वं स्यात्ततः पृथक् ॥२३॥ निर्विशेषत्वरूपेण विशेषप्रतिषेधनम् । अद्वितीयतया द्वैतनिषेध इव सम्भवेत् ॥ २४ ॥ सम्बन्धिगुणोपादानेन सिद्धान्तसिद्ध्युपपत्तेः गुणतात्विकत्त्वौदा- सीन्यान्न सगुणत्वसिद्धिरित्यर्थः । तस्मानिर्गुणवाक्यबाधात्सगुण- वाक्यमतत्परमिति भावः ॥ २२ ॥ नन्वेवमानन्दस्य ज्ञानमात्नत्वे दुःखज्ञानमयानन्दः स्यात् भि: नत्वेऽखण्डत्वहानिः एवमेव ब्रह्मणो जगदभिन्नत्त्वे मिथ्यात्वापत्तिः भिन्नत्वे भेदसत्यत्वमित्यादितर्कबाधात्त्वदभिमतं ब्रह्मापि न सि- येदिति श्रुतिबाधात्तर्काणामाभासत्वं त्वन्मतेऽपि समानमित्या- शङ्य दुःखज्ञानस्य वृत्तिरूपतया आनन्दस्य नित्यचिन्मानानतिरेके- इतिप्रसङ्गाभावात् आरम्भणाधिकरणन्यायेन ब्रह्मव्यतिरेकेण ज- गतोऽभावाद्भेदाभेदविकल्पस्यानवकाशात सगुणश्रुतेरतत्परतया श्रुतिबाधसाम्योक्तरयुक्तः निर्गुणश्रुतेस्तु तत्परतया तदनुगृहीत- तकें शुष्कत्त्वाभावान्न त्वन्मतसाम्यमिति तात्पर्यमनुसृत्याह-. दुःखधीरिति ॥ २३ ॥ ननु निर्विशेषत्त्वस्य भावाभावा- भ्यां मूकोऽहमित्तिवत्स्वव्याघातः यदि निर्विशेषत्वरूपनिषेधोऽप्य. नेनैव निषिध्यते तीयमपि वचनक्रिया मूकोहमित्यनेनैव निषिध्यत इति सममित्याशय निरस्यति-" निर्विशेषत्वेति विशेषत्वस्य विशेषरुपत्वे निर्विशेषत्वेनैव रुपेण तनिषेधस्याद्विती- यवाक्ये द्वितीयाभावरूपद्वितीयनिषेधस्येवोपपत्तेद्कोहमित्यत्र व. तृत्वतदभावयोरेकरूपेण निषेधाभावाद्याधातोपपत्ते त्र तथात्व- मिति तात्पर्यार्थः ॥ २४ ॥ ननु ब्रह्मयो निर्विशेषत्त्वे विचारविषय- । नि- सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- विचारसमयेऽध्यस्तधर्मसम्भवतोऽञ्जसा । विचारविषयत्त्वं स्याच्चितो विविदिषा फलं ॥ २५ ॥ निर्विशेष परं ब्रह्म सिद्धं श्रुत्यादिमानतः । सगुणत्त्वमितोऽध्यस्तं मायया तत्र केवलं ॥ २६ ॥ वेदान्ता निर्विशेषे स्युः प्रमाणं नान्यसम्भवः । त्वानुपपत्तिः 'इदमित्थमिति ज्ञान जिज्ञासायाः प्रयोजनं । इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिते'त्याशय विचारकाले आरोपित- धर्मसम्भवातू विचारोत्तरकाले च इत्थमिति व्यवहारस्य स्वरूप- व्यावृत्यादेः कल्पितपार्थक्यमादायोपपत्तिरिति मैवमित्याह- विचारसमय " इति । ननु धर्मारोपार्थमेव के चन धर्माः सत्याः खीकर्तव्या इदन्वादिना ज्ञात एव रूप्याद्यारोपदर्शनात तदुक्तं 'धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने । सर्वधर्मविही- नस्य धर्मारोपः क दृश्यत' इति चेन्नेत्याह-"अंजसेति" । इदं- त्वादेरपि सत्यत्वासंप्रतिपत्तेः शुद्धेऽप्यध्यासस्योपपादितत्वाञ्च आरोग्यविलक्षणधर्मवत्वस्यानाद्यविद्यासम्बन्धेनैवोपपत्तन सत्य- धर्मकल्पनाऽपीति भावः ॥ २५ ॥ स्वरूपातिरेकिणोऽभावस्यानङ्गीकाराद्धर्ममात्रे प्रामाणिकत्वस्य निराकृतत्वाञ्च निर्विशेषं परं ब्रह्मेति सिद्धमित्याह-" निर्विशेष- ॥२६॥ ॥ ब्रह्मणो निर्गुणत्वोपसंहारःn ननु निर्विशेषे किं प्रमाणमिति चत् किं स्फूत्यर्थे वा अक्षाननिवृत्यर्थ वा प्रमाणप्रश्न आद्ये स्वप्रकाशतया प्रमा- णवैयर्थ्य द्वितीय उपनिषद एव प्रमाणत्वादत एव प्रत्यक्षमनुमानं चेत्यादिविकल्पानवकाश इत्याह-" वेदान्तानामिति "। ननु मिति, लक्षणया वेदान्तानां ब्रह्मप्रमाणत्वोपपत्तिः । तेऽपि लक्षणया ब्रह्म बोधयन्ति न मुख्यया ॥ २७ ।। असन्दिग्धाविपर्यस्तबोधकत्वेन मानतां । प्राप्नुवन्त्यत्र वेदान्ता निर्विशेषऽपि वस्तुनि ॥२८॥ अ(१)गृहीत्वैव सम्बन्धमभिधानाभिधेययोः । हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर्बोधिताः परैः ॥ २९॥ जाग्रहन्न हि सम्बन्धं सुषुप्तो वेत्ति कश्चन इति वाक्यस्य सम्बन्धं विना प्रामाण्यमीरितं ॥३०॥ कथं तत्रोपनिषन्मानं जातिगुणक्रियादिरूपनिमित्ताभावेन मुख्युव- तेरयोगात् अस्वीकाराच्च आरोपितनिमित्तविषयप्रतीतेनिर्विशेषे प्रामाण्यायोगात् गौण्याश्च मुख्यार्थगुणयुक्ततयैव लक्षणायाश्च श- क्यार्थसम्बन्धितावच्छेदकरूपवत्तयैव स्वार्थोपस्थापकतया निर्वि- शेषे वृत्तिमात्रायोगात् पदविधया वाक्यविधया चोपनिषन्मानं न निर्विशेषे संसर्गागांचरत्त्वाञ्चति चदित्याराड्याह-"तेऽपीति"। मुख्यगौण्यसम्भवेपि लक्षणायाः सम्भवात् तत्रोपनिषत्प्रमाण- मित्यर्थः ॥ २७ ॥ ननु लक्षकपदे शक्यार्थसम्बन्धित्वावच्छेदकरूपवत्तया पद- मात्रेऽन्वयितावच्छेदक रूपवत्तया चौपस्थितिनियमस्तस्याऽत्राऽभा. वात्कथं लक्षणेत्याशङ्य संसर्गबोधकवाक्यस्थपदानामेव तथात्वान्न च संसर्गागोचरत्वे प्रमाणवाक्यत्वानुपपत्तिः असंदिग्धाविपर्यस्त- बोधकतया निर्विकल्पकत्त्वेऽपि प्रामाण्यस्याकाङ्क्षादिमत्तया वाक्य- स्वस्य चोपपत्तमॆवमियाह-"असंदिग्धेति" ॥२८॥ वृत्तिमन्त- रेणाऽपि सुप्तोत्थापकवाक्यस्येव वेदान्तवाक्यस्य निर्विशेषे प्रामा- ण्यस्य वार्तिककृद्भिपपादितत्वान्नानुपपत्तिरित्याह- "अगृहीत्वेति" लक्षणापक्षेऽपि तात्पर्यविशेषग्रहेणैवातिप्रसङ्गभङ्गो वाच्यः शक्य- सम्बन्धस्यानेकत्र सम्भवादिति भावः ॥ २९ ॥ ३०॥ तात्पर्यविशे- (1 . वा. १ । ४ । ८६१ ।

सव्याख्याद्वैतसिदिसिद्धान्तसारे। [२ परिच्छेदे- प्रतिबन्धक्षये पुसः सम्बन्धग्रहणं विना । शब्दाज्ज्ञानं धियोऽशुद्धिः प्रतिबन्ध इहरितः ॥ ३१॥ निष्प्रकारमपि ज्ञानं निर्विशेषात्मगोचरं । जायते शंसयोच्छेदि वेदान्तकप्रमाणजं ॥ ३२ ॥ तस्माद्बाधकसहावात्साधकाभावतस्तथा । सगुणत्वे परं ब्रह्म निर्गुणं सिद्धमञ्जसा ॥ ३३ ॥ षग्रहश्च पुरुषविशेषस्य भवति न सर्वस्य पुरुषगतो विशेषश्चान्तःक- रणशुद्धिरूपः प्रतिबन्धाभावः अन्तःकरणाशुद्धिरुपस्य पापस्य च प्रतिबन्धकत्वं ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण'इत्यादिशा- स्त्रसिद्धं तथा च प्रतिबन्धक्षये विनाऽपि सम्बन्धं शब्दादात्मसा- क्षात्कार इत्यभिप्रेत्याह-" प्रतिबन्धक्षय " इति ॥ ३१ ॥ ननु निर्धारितैककोटिप्रकारकनिश्चयं प्रत्येव धर्मिज्ञानाधीनवि- चारस्य जनकत्त्वात् कथं विचारसध्रीचीनवेदान्तवाक्यजन्यज्ञानस्य निष्प्रकारकत्वं कथं वा ताहम्झानस्य जनिरित्याशझ्याह-" नि- प्रकारमिति” । एतदुक्तं भवति संशयनिवृत्तिक्षमज्ञानस्यैव विचारफलत्वात् तस्याश्च विरोधिकोटिप्रतिक्षेपकोपलक्षितधर्मि- ज्ञानादप्युपपत्तेन तदर्य सप्रकारकत्वनियमः । न च गौरवं प्रमा- णवतो गौरवस्य न्याय्यत्वात् न च निर्विशेषविषयकस्य ज्ञानस्य निष्प्रकारकत्त्वे निर्विशेषत्वासिद्ध्या तत् सिद्ध्यर्थ विशेषाभावरूप- विशेषविषयत्वस्यावश्यकत्त्वमिति वाच्यं विशेषाभावस्य स्वरूप- तया तत्स्फूत्ती प्रमाणानपेक्षत्वात् अखण्डार्थसिद्ध्यनुकूलपृथक्शा तपदार्थोपस्थितिविषयमानेण विशिष्टव्यवहारोपपत्तेरिति ॥ ३२ ॥ फलितमुपसंहरति-" तस्मादिति ॥ ३३ ॥ ॥ ब्रह्मणो निर्गुणत्वे प्रमाणोपपत्तिः ॥

१४७ ब्रह्मणो निराकारसवोपपतिः । maker निराकारं स्वयं ज्योतिस्तमसः परमर्कवताना ॥३८॥ ज्ञानानन्दैकरूपत्वमृतेनान्याऽऽकृतिविभोः ॥ ३ ॥ उपास्यतत्त्वसिधै वा सर्वात्मकतया विभोः । नियम्यगानुवादित्वात्तथोक्तेर्नान्यथेष्यते ॥ ३५ ॥ नन्वा दित्यवर्ण तमसः परस्ता'चदा पश्यः पश्यते रुक्मवणे 'ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं"विश्वतश्चक्षुः' 'सहस्रशीर्षा' इत्यादिश्रुतिभिः 'पश्य में पार्थ रूपाणि' 'सर्वतः पाणिपादं तदि- त्यादिस्मृतिभिः ब्रह्म सविग्रहं स्रष्टत्वात् पालयितृत्वादुपदंष्टत्वा. दित्याद्यनुमानैश्च विग्रहसिद्धिरित्याशय पार हरति-"निराका- रमिति " द्वाभ्यां । आदित्यवर्णमित्यस्याविद्याविलक्षणस्वप्रका- शखरूपप्रतिपादतपरतया उपास्यपरतया चोपपत्तेः न च तमसः परत्वोत्तयोपासनापरत्वानुपपत्तिः उपास्यविग्रहोपलक्षितस्य तमसः परत्वोक्तेः न तु रूपविशिष्टस्य नचै'षोन्तरादित्ये हिरण्मयः पुरुषो दृश्यत' इत्यत्र वर्तमानत्वेनापरोक्षज्ञानविषयत्वोक्रनाराप्यत्त्वं न हि योषितोऽग्नित्वं दृशत इत्युच्यते इति वाच्यं प्रतीकोपासने उ- पास्यसाक्षात्कारनियमाभावेऽपि सगुणोपासने उपास्यसाक्षात्का- रस्य' स्यादद्धोति' श्रुनिसिद्धेन नियतत्वेन तस्यैव दर्शनशब्देना- भिधानात् विश्वतश्चक्षुरित्यादिश्रुतिस्मृतीनां सर्वात्मकतया सर्वा. न्तर्यामितया च नियम्यजीवशरीरचक्षुःपाणिशिरःप्रभृत्यनुवा- दित्वोपपत्तेः सर्वतःपाणिपादत्वादेस्तु असम्भवात् त्वया प्येवमेव- वक्तव्यत्वात् अन्यथा देशविशेषावच्छेदेन परममुक्तिप्रतिपादन ग. म्यत्वप्रवेष्तृत्वाद्युपपादनं च त्वदीयमसङ्गतं स्यात् अनुमानेऽप्येवमेव सिद्धसाधनं 'विक(१)रणत्वान्नेति चेत्तदुक्त मिति सूत्रे अविद्यापरि- णामस्य करणस्थानीयस्याङ्गीकारादविरोधादिति द्वयोः समुदिता- थेः॥३४॥३५॥ (१) व. २०२।१ । ११ । १९ Rela द्वैतसिडिसिनन्तसारे । रिंपरिच्छेदे. प्रतिच गम्यत्वेऽन्यथासिद्धे न विग्रहः । कल्प्योऽथ क्रममुक्त्यै वा तज्ज्ञानं वोपलक्षितं ॥३॥ चिदानन्दस्वरूपस्य निराकारस्य वस्तुतः। विग्रहो मायया भाति नान्यथा तय॑तां वृथा ॥३०॥ नारायणादिशब्देन मायोपहितमुच्यते । ननु 'तदे(१)वानुप्रविश"ब्रह्म(२)विदाप्नोति परमित्यादि श्रुति सिद्धं सर्वगतब्रह्मणः प्रवेष्ट्रत्वं गम्यत्वं च विग्रहं विना न युज्यत इति शङ्कां निरस्थति-“ प्रवेष्टुत्वमिति " । स्वसृष्टकार्याभिव्यक्त- त्वस्यैवानुप्रवेशशब्दार्थतया व्यापकस्य मुख्यप्रवेशासम्भवात् अतः प्राप्तस्याप्यविद्यातिरोधाननिवृत्यपेक्षया प्राप्यत्वोपचारेण विग्रहाना- क्षेपकत्वात यत्तु 'तमेवं विद्वानमृत इह भवति' 'यदा पश्य'इत्या- दिश्रुतौ सर्वनाम्ना सविग्रहस्यैव परामर्शात्तज्ज्ञानस्यैव मोचकत्वे सविग्रहत्वमिति तन्नेत्याह-" अथेति " सगुणविद्यायाः क्र- ममुक्त्यर्थत्वेनान्यथासिद्धेः साक्षान्मुक्तिजनकत्वपक्षे तदुपलक्षिता- त्मज्ञानस्यैव मोचकत्वमित्यर्थः ॥ ३६ ॥ 'अपाणिपादो' 'नेति नेतीति' श्रुतिविरोधान्मायिकत्वमेव सविग्रहत्वस्य न तात्विकत्वमित्याह- चिदानन्दति ॥३७॥ नन्व'को नानारायण आसीन ब्र. झा न च शङ्कर' इति श्रुत्या महाप्रलये नारायणस्थित्युक्त्या नित्य- विग्रहसिद्धिरित्याशय निराचष्टे-"नारायणेति" | नारायणश- ब्दस्य — सदेव सोम्येदमग्र आसीदिति' श्रुत्यनुसारेण मायोपहित- ब्रह्मपरत्वेन विग्रहपरत्वाभावात् न चैतावता चेतनान्तरसाधारण्य तेचा (१) ० उ. ३ ।।

lants ग्रहह्मणो निराकारतासिद्धि: ।। १४७ चैतन्यं न चिते नास्ति विग्रहस्यापि कल्पना ॥३८॥ ज्ञानानन्दैकरूपत्वप्रतिपादनतत्परा । श्रुतिर्न विग्रहं वक्ति तात्पर्येणाद्वितीयगा ॥ ३९ ॥ उपासनादिसंसिद्ध्यै ब्रह्मणो रूपकल्पना । वस्तुतस्तु निराकारं निर्गुणं निर्विशेषकं ॥ ४० ॥ ज्ञानमर्थप्रकाशात्म मुक्तावप्यनपायतः । am अखण्डमायोपहितत्वस्यैव व्यावर्तकत्वादिति तात्पर्यायः ॥ ३८ ॥ नन्वानन्दरूपममृतं यद्विभाति' 'आप्रणखात्सर्व एव आनन्दः' 'मोदो दक्षिणः पक्षः''यदात्मको भगवान् तदात्मिका व्यक्तिःकिमा- स्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मक' इत्यादि श्रुतेः भेदाभावपि अहिकुण्डलन्यायेन विशेषबलाद्विग्रहत्वोपपत्तिरित्याशझ्याह ज्ञानेति”। आप्रणखादित्यादेश्च लीलाविग्रहावच्छेदेन दुःखाद्यभोक्तृतयोपपत्तेः मोदो दक्षिण इत्यादेरानन्दमयकोशप्रति- पादकतया ब्रह्मपरत्वाभावादिति भावः ॥३९॥ फलितमुपसंहरति- तस्मादिति ॥४०॥ ॥ ब्रह्मणो निराकारतासिद्धिः ॥ ननु निर्विशेषं चेब्रह्म ब्रह्मवैकं ज्ञानात्मकमानन्दात्मकम- द्वितीयं. नित्यं साक्षि चेति ते नोपपद्यते जातिविशेषाद्य- भावादित्याशङ्याह-" ज्ञानमिति” । अर्थप्रकाशत्वमेव ज्ञा- नत्वं मुक्तौ अर्थाभावे तत्संसृष्टप्रकाशत्वस्य कदाचिदर्थसम्ब- न्धेनाप्यनपायातू आनन्दत्वस्य निरुपाधिकेष्टत्वरूपत्वात् ज्ञाना- नन्दयोरभेदपि कल्पितजातिभेदनिबन्धनप्रवृतिकतया पदद्वयप्रयोग स्य व्यावृत्तिभेदेन साफल्यात द्वितीयाभावोपलक्षितस्वरूपत्वद्विती- १४८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- निरुपाधिकमानन्द इष्टरूपत्वमश्रुते ॥ 2016 ज्ञानानन्दापृथत्केऽपि साफल्यं स्यात्पदद्वये । अद्वितीयस्वरूपं स्याद् द्वैताभावोपलक्षितं ॥ ४२ ॥ उभयावधिराहित्यं नित्यत्वं सम्मतं विदां । अविद्यायां तत्कार्ये वा साक्षिचैतन्यबिम्बनं ॥ १३ ॥ शुद्धब्रह्मातिरिक्तो यो बुद्ध्युपाधिकतः पृथक् । साक्षी स एव वेदान्ते स्वीकृतः सर्वसाधकः ॥४४॥ यत्वं उभयावधिराहित्यं नित्यत्त्वं कालस्याप्याविद्यकत्वेनान्तावधिम- स्वात् ध्वंसस्याध्वंसप्रतियोगिन्वेप्याद्यावधिमत्वाञ्चाविद्यातत्कार्यान्य- तरप्रतिफलितचैतन्यस्यैव साक्षित्वादिति । ननु कथं दृग्रूपस्य ब्रह्मणः साक्षादृपृत्वरूपं साक्षित्वमित्यत आह- अविद्यायामिति" । तथा च इपस्यापि उपाधिना द्वषत्वमिति त्रयाणां तात्पर्या- थैः ॥ ४१ ॥ ४२ ॥ ४३ ॥ ननु साक्षी जीवकोटिब्रह्मकोटिवा उभयानुगत चिन्मानं वा नाघः जीवो बुद्धपाधिकोऽणुरिति पले इदमंशावच्छिन्नचिद्धे- धस्य शुक्तिरूप्यस्य साक्षिवेद्यत्वायोगाच्चक्रकाद्यापातातू अज्ञानोपाः धिकः सर्वगत इति पक्षेऽप्यज्ञानस्यापि साक्ष्यधीनसिद्धिकत्वेना- न्योन्याश्रयात् न द्वितीयः ब्रह्मण एव साक्षिवेद्यदुःखादिधीन तु जीवस्येति वैपरीत्यापातात् न तृतीय ईश्वरेणेव चिन्मात्रेणापि सं- सारिदुःखस्य तद्तत्वेन प्रहणे मुक्तोपप्लवापात इति शङ्कां साक्षिरूपं प्रदर्शयनिरस्यति-" शुद्धेति । तथाचाविद्यावृत्तिप्रतिफलित चैतन्यं साक्षी सुप्तावष्यविद्यावृत्ति स्वीकारस्य प्रागुक्त नान्योन्या- श्रयः प्रागेव निरासात् शुद्धस्य साक्षित्वाभावेत मुक्तोषलवापाता भावादिति तात्पर्यार्थः ॥ ४४ ॥ साध्येकोपि न व्यवहारसर ब्रह्मणो ज्ञानानन्दाद्वितीयनिस्यसाक्षियोपपतिः। १४ साक्षिणः सर्वजीवेषु साधारण्येऽपि सर्वदा । तत्तज्जीवादभेदेनाभिव्यक्तस्यैव बोधिता ॥ ४५ ॥ ज्ञानानन्दैकरूपं यदद्वितीयमनश्वरं । नित्यं साक्षि परं ब्रह्मेत्येवं सिद्धान्तदिग्जयः ॥१६॥ चितो विवाधिष्ठानतयोपादानता मता । विवर्तकारणाज्ञानगोचरत्वात्तथेष्यते ॥ ४७ ॥ अस्य द्वैतेन्द्रजालस्य यदुपादानकारणं । इत्याह साक्षिण " इति । साक्षिणः सर्वजीवसाधारण्येऽपि तत्तजीवचैतन्याभेदेनाभिव्यक्तस्य तत्तद्दुःखादिभासकतया ऽतिप्र. सनाभावादित्यर्थः ॥ ४५ ॥ फलितमुपसंहरति ज्ञानेत्या- दिना" ॥ ४६॥ ॥ ब्रह्मणोशानानन्दाद्वितीयनित्यसाक्षित्वोपपत्तिः ॥ ननु निर्विशेषं चेद्ब्रह्म कथं तदेव निमित्तमुपादानमित्यभिन्न- निमित्तोपादानकत्त्वं जगतो विकारवत्कारणस्यैवोपादानत्वाब्रह्म- गोऽविकारत्वात् अन्यथा 'निर्विकारी हरः शुद्ध'इत्यादिश्रुतिवि. सेधादित्याशङ्ग्याह-" चितइति " । परिणामितयोपादानत्वा- भावपि विवाधिष्ठानतयोपादानत्वसम्भवाद्विवाधिष्ठानत्वं च विवर्तकारणहाज्ञानविषयत्वमेवेत्यर्थः ॥ ४७ ॥ तत्र वार्तिकवचनमु- १५० सन्याख्या तसिदिसिद्धान्तसारे । [२ परिच्छेदे- अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ॥ १८ ॥ स्वस्मिन्कार्यजनेरेव हेतुत्वं लक्षणं ध्रुवं । उपादानस्य तच्चास्ति विवर्तपरिणामयोः ॥ १९ ॥ ब्रह्ममाये जगधोनी नोभयोः परिणामिता। PKARISM दाहरति-" अस्येति ॥४८॥ उपादानलक्षणमाह- स्मिन्निति"। आत्मनि कार्यजनिहेतुत्वस्यैवोपादानत्वलक्षण स्वात् तस्य च परिणाम्यपरिणाम्युभयसाधारणत्वादित्यर्थः ॥ ४९ ॥ ननु ब्रह्मैवोपादानमुताज्ञानमपि आधे सत्योपादानत्वे सत्यत्वापत्या अज्ञानोपादानकत्वकल्पनविरोधः द्वितीये सूत्रद्वयस्य रज्जु प्रतीव ब्रह्माज्ञानयोः समप्राधान्येन वाऽन्यथा वा कारणत्वं विवक्षितमि- त्याशङ्याह-" ब्रह्मेति "। उभयापरिणामित्वेन तयोः कार- णत्वाङ्गीकारात् न च तत्पक्षोक्तदोषावकाशः उभयोः परिणामि- तया कारणतानङ्गीकारात् किन्त्वज्ञानस्यैव न हविद्यासाहित्येऽपि ब्रह्म परिणमते किन्तु विवर्त्तते न चाविद्यापरिणामत्वेऽपि सत्य- त्वापत्तिः परिणाम्युपादानसमसत्ताकत्त्वरूपस्य सत्यत्त्वस्य परिणा- मनिर्वाहकत्वात् ब्रह्मसमसौकत्वाभावेन तदपेक्षया परिणाम- स्वाभावात्खसमानसत्ताकविकाराहेतुतया निर्विकारत्वोपपत्तश्च न च सत्योपादानत्वे सत्यत्वापत्तिः परिणाम्युपादानधर्माणामेव मृत्व सुवारवादीनो कार्य अन्वयदर्शनात सत्योपादानत्वेऽप्यसः ब्रह्मणों जगदुपादानत्योपपत्तिः । तयोर्विकारिणी माया ब्रह्म तत्र विवर्तते ॥ ५० ॥ ब्रह्मणो निर्विकारत्वमसाधारण्यरूपतः । विकारित्वं तु मायायाः समसत्ताककार्यतः ॥ ५१ ॥ न ब्रह्मसमसत्ताकं जगत्तस्य विवर्तनं । जगत्प्रातीतिकं तस्मात्सत्यं ब्रह्मैव तात्विकं ॥ ५२ ॥ मायैव वाऽस्त्युपादानं निमित्तं परमेश्वरः । अधिष्ठानं विशुद्धा चिदिति पक्षोऽपि युक्तिभाक् ॥५३॥ घटादेः कल्पितस्यैव कुलाले कर्तृतेक्ष्यते । स्यत्वापत्तरिति(१)त्रयाणां तात्पर्यार्थः ॥ ५० ॥ ५१ ॥ ५२ ॥ ननु मायोपादानं ईश्वरो निमित्तं शुद्धं ब्रह्माधिष्ठानमिति पझे अभिन्ननिमित्तोपादानत्वाभावेन त्वन्नये तदर्थस्य प्रकृत्यधिकरणा- देरनुपपत्तिरिति चेन्मैवमित्याह-"मायति"। एकस्यैवावि- घोपहितत्वेनोपादानत्वस्य अविद्यापरिणामेच्छाकृत्याद्याश्रयत्वेन नि. मित्तत्वस्यापि सम्भवात् तस्माद्रह्मणो जगदुपादानत्वं सिद्धं न तत्र दोषकल्पनावकाश इति तात्पर्यम् ॥ ५३॥ ॥ ब्रह्मणो जगदुपादानत्वोपपत्तिः ॥ नन्वेवं कुलालादिवदुपादानगोचरप्रयत्नादिमत्वं कर्तृत्वमुक्तं स्या- तू तश्च कार्यस्य कल्पितत्वे न घटते कुलालादेरकल्पितं प्रत्येव कर्तृ- त्वदर्शनात् कल्पितं च रूप्यादिकं प्रति भ्रान्तस्यान्यस्य वा कर्तृत्वाद- (1) मच सत्यासत्यधमानुगतधमत्वस्य व सत्यासत्यानुगतीपादानकत्वस्यै कस्याभाव इति वाच्यम । खनिष्ठकार्य मनिहेतुत्वस्यीतालात् न हि सत्यत्वासत्यत्ववैधम्य साधयं विरोधि पन्यथा किचि धन्य स्यैव साधय विरोधित्वं साधय कर्याचदापत्तिः भनाभा. सविषयसंस्कारजन्य ज्ञानविषयवादेराधासानाभाससाधारणस्य दृष्टान्नेऽपि सत्वाचविता.

११३ सध्याख्यादेतसिलिसिसान्तसारे। [२ परिच्छेदे- रूप्यादौ कल्पिते साक्षिकर्तृवं सम्मतं विदाम् ॥५४॥ जनिकर्तुर्यतो वेति श्रुतिसूत्रप्रमाणतः । स्थित्याद्याधारलिङ्गाचोपादानत्वं प्रसिद्ध्यति ॥५५॥ तदैक्षत व्याकरोमीत्यादिश्रुत्या चिदद्वये । ईक्षणादिकलाधारतया कर्तृत्वमिष्यते ॥ ५६ ॥ एकविज्ञानतः सर्वविज्ञानश्रुतिमौलिगीः । सच्च त्यच भवत्येवमित्युपादानतां जगौ ॥ ५ ॥ सर्व ब्रह्मेदमित्येवं सामानाधिकरण्यगीः । अधिष्टानतया सर्वव्यापित्वे मानमीशितुः ॥ ५८ ॥ र्शनादित्याशङ्य कुलालकार्यघटादावण्यकल्पितत्त्वासंप्रतिपत्तेः तं प्र- त्येव कर्तृत्वदर्शनात् कल्पितरूप्यादेरपि अकर्तृकत्वासिद्धश्च तत्रापि साक्षिण एव कर्तृत्वादित्याह-"घटादेरिति । न ह्यदर्शनमात्रेण कपलापः त्वन्मतेपि सर्वशक रसिद्ध्यापत्तेरिति भावः ॥ १४ ॥ 'यतो(१)वा इमानि भूतानि जायन्त इति श्रुतौ 'जनिकर्तुः प्रकृतिरित सूत्रविहितप्रकृत्यर्थपञ्चमीश्रुत्या तत्प्र(२)यन्त्यभि संविशन्तीति स्थिति- लयाधारत्वाल्लिङ्गाञ्चोपादानत्वसिद्धिरित्याह-“यतइति ॥१५॥ तदैक्षत व्याकरवाणीति ईक्षणाद्याधारतया कर्तृत्वसिदिश्वे- त्याह-" तदैक्षति ॥ ५६ ॥ एकविज्ञानेन सर्वविज्ञानश्रुतिः 'सञ्च(३)त्यञ्चाभवदिति श्रुतिश्चोपादानत्वे मानामत्याह-"एकवि- ज्ञानत" इति ॥ ५७ ॥ 'सर्व खल्विदं ब्रह्मति'सामानाधिकरण्य- प्रतिरपि मानमित्याह-" सर्वमिति " ॥ ५८ ॥ श्रुत्यनुगृहीता- ( २ ) ते. उ. २ ( 2 ) . उ. २ से उ - ब्रह्मणो जगदुपादानत्त्वेऽनुमानोपन्यासः । सदुपादानकं विश्वं सत्स्वभावानुरञ्जितं । नानाविकाररूपत्वान्मृतस्नाव्याप्तघटादिवत् ॥ ५९ ॥ सुखदुःखादिवत्प्रेक्षापूर्वोत्पादितकार्यतः । नुमानमप्यत्रविवरणोक्तमध्यवसेयमित्याह-सदिति" । महा- भूतानि सद्वस्तुप्रकृतिकानि सत्खभावानुरक्तत्वेसति विविधविका- रत्वान्मृदनुस्यूतघटादिवदित्यर्थः । नच विवर्त्तमते उपादानत्वा- नुपपत्तिः सत्प्रधानप्रकृतित्वेनार्थान्तरता वा आदावेव तदुपादा- नत्वस्य स्थापितत्वात् प्रकृतेः सत्वाभावस्य प्रसाधितत्वेन अर्थान्त- रानवकाशाच, न च खण्डो गौर्मुण्डो गौरिति गोत्वानुरक्तख- ण्डादौ व्यभिचारः तदनुरक्तत्त्वे सति तद्विकारत्वादित्यत्र तात्प- यांत सदतिरिक्तगोत्वाचनभ्युपगमाञ्चेति भावः ॥ ५९॥ (१)एवं च जगदभिन्ननिमित्तोपादानकं प्रेक्षापूर्वजनितकार्यत्त्वा- त्सुखदुःखादिवदित्यभिन्ननिमित्तोपादानं ब्रह्म सिद्ध्यतीत्याह- सुखेति द्वाभ्यां । न च व्यर्थविशेषणत्वं प्रेक्षापूर्वकत्वात् कार्यत्वादिति हेतुद्वये तात्पर्यात् न च त्वन्मते दुःखादीनामन्तः- करणोपादानकत्वेन साध्यवैकल्य मिति वाच्यं अस्मिन्मतेऽ- न्तःकरणस्य परिणाम्युपादानत्वेपि अन्तःकरणरूपेण परिणता- शानाधारतया विवोंपादानत्वस्यानपायात कार्यत्वादिति हेतौ स- कार्यनिमित्तकालघटसंयोगस्योभयवादिसंप्रतिपन्नस्य दृष्टान्तस्य ला- भाश्च । न च जगदुपादानं न कर्तृ द्रव्योपादानत्वान्मृद्वत् जगत्क- (१) एतेन सन् घट इतिवदवेदानोमसन्घटः असन्न शृङ्गमित्यादिप्रतीत्यनुसारेण घटऋशृङ्गादेरसदुपादानत्वापत्तिरितिनिरस्तम् । नापि ब्रह्म न द्रव्योपादानं चेतनत्वा- चैववत् जगन्नानन्दप्रकृतिकं यद्यखभावाननुरक्तन तत्तरप्रतिकं यथा घटस्वभावाननुरक्त घटादि न घटोपादानकमित्यादिना सत्प्रतिपक्षत्व' वाप्तिपक्षधर्मतयोरापात प्रतीत्या साम्य ऽपि अत्यनुग्रहेण स्थापनायां बलवत्वात् द्वितीयानुमाने कपालखभावाननुरक्ते घटे वाभिचारः कपालं घट इत्यप्रतीते: नच मुखेन तदनुरतात्वमस्तीति वाच्यम् ।' सत्त्वेना- ऽवाप्यनुरक्तात्वस्य समानत्वादिति भावः । २० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- अभिन्नहेतूपादानं जगदित्यनुमानतः ॥ ६ ॥ ब्रह्माभिन्ननिमित्तोपादानं सिद्धमितीष्यते । न वा सत्प्रतिपक्षोऽत्र श्रुतिमौलिविरोधतः ॥ ६१ ॥ ब्रह्मणः स्वप्रकाशत्वमवेद्यत्वे सति ध्रुवं । अपरोक्षाहतात्यन्ताभावानाश्रयतात्मकं ॥ ६२ ॥ तस्याव्याप्ति ने मोक्षेपि स्वरूपत्वेन सत्वतः । ा वा न द्रव्योपादानं कर्तृत्वात्कुलालादिवदित्यादिना सत्प्रतिप- क्षत्वं श्रुतिविराधेन हीनबलत्वात् आद्यानुमाने जडत्वस्य द्वितीया- नुमान सर्वानन्तर्यामित्वस्य चापाधित्वात् बाधोनीततया पक्षेनर- त्वेपि दोषत्वात् तस्माद्ब्रह्म जगदुपादानं कर्तृ च सिद्धमिति द्वयो- स्तात्पर्यार्थः ॥ ६०॥ ६१ ॥ ॥ ब्रह्मणो जगदुपादानत्वे प्रमाणोपपत्तिः ॥ ननु परिणाममानाविद्याधिष्ठानत्वेनोपादानत्त्वं वाच्यं अधिष्ठा- नत्त्वं तु नावेद्यस्य तद्वदनार्थ प्रमाणापेक्षायामन्यांन्याश्रयात् न च खप्रकाशतया तदनपेक्षमवाधिष्ठानमिति वाच्यं स्वप्रकाशताया वक्तुमशक्यत्वात् तथाहि किमिदं स्वप्रकाशत्वं वृत्त्यव्याप्यत्वं वा फलाव्याप्यत्वंचा, अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा, तद्यो- ग्यत्त्वं वा, तद्योग्यत्वात्यन्ताभावानधिकरणत्वं वा, नाद्यः ब्रह्मणो- ऽप्यावरणभङ्गाय चरमवृत्तिव्याप्यत्वात न द्वितीयः अतीतादौ नि- त्यातीन्द्रिये चातिव्याप्तेः न तृतीयः सुषुप्त्यादौ व्यवहाराभावेना- व्याप्तेः न चतुर्थः योग्यत्वरूपधर्मस्य मोक्षकाले अभावेन तदा ब्र- ह्मण्यव्याप्तेः नापि पञ्चमः अनधिकरणत्वस्यापि धर्मत्वेन मोक्षद- शायां तस्याप्यभावेनाव्याप्तिरित्याशय पञ्चमपक्षस्यैव मोदसहत्वा न्मेवमित्याह ब्रह्मण इति । अवेद्यत्वे सति अपराक्ष, खप्रकाशत्त्वनिरुक्तिः। स्वरूपत्वेपि तस्यास्ति लक्षणत्वं गुणत्ववत् ॥ ६३ ॥ यहाऽत्र योग्यतात्यन्ताभावो ब्रह्मैव तत्त्वतः । फलाव्याप्यतया वस्यावेद्यत्वमपि सम्भवेत् ॥ ६४ ॥ फलव्याप्यत्वमेवेष्टं घटादौ न तु चिद्धने । साक्षिभास्यत्वमेवेष्टं सुखादौ रजतादिके ॥ ६५ ॥ फलाव्याप्यत्त्वतुल्याधिकरणत्वस्य सम्भवात् । व्यवहारयोग्यत्वात्यन्ताभावानधिकरणत्वं स्वप्रकाशत्त्वं . ब्रह्मणो- स्तीत्यर्थः । न च मोक्षे अव्याप्तिरित्याह-" तस्येति अनधिकरणत्वस्य स्वरूपतया तदापि सत्वात् । न च स्वरूपत्वे ल- क्षणत्वानुपपत्तिः स्वन्नये ब्रह्म भिन्नानन्दादौ गुणत्वव्यवहारवत स्वरूपभूतेप्यनधिकरणत्वे लक्षणत्वव्यवहारादिति तात्पर्यार्थः ॥६३॥ यद्वा व्यावहारिकात्यन्ताभावो विवक्षितः ब्रह्मणि च योग्य- स्वात्यन्ताभावस्य ब्रह्मरूपत्वेन तात्विकत्वात् नाप्यवेद्यत्वानिरुक्तिः फलाव्याप्यत्वस्यैव तत्वात आवरणभङ्गे चित. एव फलत्वादियाभ- प्रेत्याह-" यद्धति ॥ ६४ ॥ नन्वेवं घटादेरपि वृत्तिवेद्य तया फलविषयत्वाभावाद्रूप्यसुखादेरफि अपरोक्षव्यवहारयोग्य- तयां विशिष्टलक्षणस्यातिव्याप्तिरित्याशङ्याह-" फलव्याप्य- त्वमिति ” । घटादौ फलव्याप्यत्वस्य समर्थितत्वात् रूप्यसुखादी साक्षिभास्यतयाऽपरोक्षव्यवहारेऽपि प्रमाणजन्यापरोक्षवृत्तिविषय- स्वाभावान्नातिव्याप्तिरित्यर्थः ॥ ६५ ॥ तथा च फलाव्याप्यत्वस. मानाधिकरणत्वस्य पर्यवसिततया सकलदोषनिरासादित्याह- " फलेति " । न च ब्रह्मणोऽपि वृत्तिप्रतिबिम्बितचिद्रूपफल- सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- ब्रह्मणः फलरूपत्वान्न तद्गोचरतेष्यते ॥ ६६ ॥ स्वस्मिन्स्वाविषयत्वेऽपि व्यवहारैकहेतुता। घटादेरप्रकाशत्वाद्विषयत्वं विना न सा ॥ ६७ ॥ चैतन्याविषयत्वं वा स्वप्रकाशत्वमुच्यते । भास्यत्वेन असम्भवः तस्य फलरूपत्वेन तद्विषयत्वाभावादित्याह- ब्रह्मण इति । अयमत्र निष्कर्षः वृत्तिप्रतिबिम्बितचिज- न्यातिशययोगित्वं वृत्या तत्प्रतिफलितचिता वाऽभिव्यक्ताधिष्ठान चिद्विषयत्वं वा फलव्याप्यत्वं चिजन्यातिशयश्च नावरणभङ्गो- नापि व्यवहारो विवक्षितः किं तु भग्नावरणचित्सम्बन्धः स च घटादावस्ति नात्मनि सम्बन्धस्य भेदगर्भत्वात् एवमुक्तचिद्विषय- त्वमपि भेदघटित घटादावस्ति नात्मनीति स्थितं प्रतिकर्मव्यवस्था- यामिति ॥ ६६ ॥ नन्ववेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं तद्योग्यत्वं च व्याहतं तदपरोक्षव्यवहारे तद्विषयक स्फुरणस्य हेतुत्वादित्याशयान्यत्र द्विषयस्य तद्यवहारजनकत्वेऽपि स्फुरणस्य खाविषयस्य स्वस्मिन् व्यवहारजनकत्वं स्वभावभेदादस्तीत्यभिप्रेत्याह-"स्वस्मिन्निति' न च घंटादावपि तथैवास्तु तेषामस्फुरणरूपत्वेन तद्विषयत्वं वि- ना नियामकान्तराभावादित्याह-" घटादेरिति ॥ ६७ ॥ यद्वा चिदविषयस्वरूपत्वमेव स्वप्रकाशत्वं चिदन्यस्य सर्वस्य चि- विषयत्वादित्याह- " चैतन्येति " द्वाभ्यां । तुच्छस्य निःख- रूपत्वेन नातिव्यामिशडा नाष्यसम्भवः स्वात्मनि निविरोधन १ खप्रकाशत्त्वलक्षणोपपत्तिः epithe चिदन्यस्य समस्तस्य चैतन्यविषयत्वतः ॥ ६८ ॥ निःस्वरूपतया तुच्छे नातिव्याप्तिरसम्भवः । स्वस्मिन्वृत्तिविरोधेन स्ववेद्यत्त्वं न युज्यते ॥ ६९ ॥ यहा स्वव्यवहारे स्वातिरिक्तायाश्च सम्विदः । अनपेक्षत्वमेतद्वा स्वावच्छिन्नानपेक्षता ॥ ७० ॥ स्वप्रकाशत्वधर्मस्य स्वरूपत्वमिहेष्यते । नाद्वैतहानिर्बाधो वा नेदमिष्टं च वादिनां ॥ ७१ ॥ स्वप्रकाशानुभूतिः स्यादनुभूतित्वहेतुना । छिदाया अच्छेद्यत्ववत्स्वस्य स्ववेद्यत्वायोगादित्यर्थः ॥ ६८ ॥ १९ ॥ यद्वा स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वावच्छिन्नसंविदन- पेक्षत्वं वा स्वप्रकाशत्वमित्याह-" यद्दति ॥ ७० ॥ ननु स्वप्रकाशत्वधर्मस्य तात्विकत्वे अद्वैतव्याघातः अतात्विकत्वे अस्व- प्रकाशत्वस्यैव तात्विकत्वापत्त्या तत्साधकानुमानादेर्बाध इति चेन्मै- वमित्याह-" स्वप्रकाशत्वेति स्वप्रकाशवेति "। न च परेषामिदमिष्टं वे- द्यत्वविरोधिस्वरूपस्य परैरनङ्गीकारादित्यर्थः ॥ ७१ ॥ ॥ स्वप्रकाशत्वलक्षणोपपत्तिः ॥ न च प्रमाणाभावः अनुभूतित्वहेतोय॑तिरेकिण एव प्रमाण- त्वात् । नन्वत्र साध्याप्रसिद्धिः न च वेद्यत्त्वं किश्चिनिष्ठास्यन्ता- भावप्रतियोग धर्मत्वादित्यनुमानेन सामान्यतः प्रसिद्धिरिति वा- च्यम् । अवेद्यत्वप्रसिद्धावपि विशिष्टसाध्याप्रसिद्धस्तदवस्थत्वात् नचानुभूतित्वेनापि तावदेवसाध्यं वेद्यत्वस्य वृत्तिव्याप्यन्वरूपत्वे 'तु तदभावस्य चरमवृत्तिव्याप्यानुभूतौ बाधात् फलव्याप्यत्वरूपत्वे १९८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- यन्नैवं न तदेवं स्यादित्यस्ति व्यतिरेकिमा ॥ ७२ ॥ मानानपेक्षसिद्धेहि स्वतः सिद्धिपदार्थता । तु तदभावस्य मम घटादौ तव धर्मादौ शुक्तिरूप्यादौ च पक्षभिन्ने प्रसिद्धत्वेनासाधारणानकान्तिकतापत्तिः अखप्रकाशत्वरूपत्वे प्र- तियोग्यप्रसिद्ध्या ऽप्रसिद्धिरेव किञ्च अत्यन्ताभावप्रतियोगित्वं कु- नश्चिद्यावर्तते चेत् तत्रैव व्यभिचारः न चेदत्र व्यभिचार इति चेन्न । चिदविषयस्वरूपत्वरूपं स्वप्रकाशत्वं अनुभूतित्वेन यदा साध्यते तदा वेद्यत्त्वं चिद्विषयत्वमेव चिदन्यमात्रवृति पक्षः अत्य- न्ताभावप्रतियोगिखरूपत्वं साध्यं यथा च वृत्तिप्रतिफलितचिदवि- षयता घटादौ न ब्रह्मणि तथोपपादितमिति नासाधारण्यबाधौ नाप्य- त्यन्ताभावप्रतियोगित्वस्य अत्यन्ताभावप्रतियोगित्वेऽपि व्यभिचारः अत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेन अत्यन्ताभावप्रतियोगिन्येवा- त्यन्ताभावप्रतियोगितया यनिष्ठात्यन्ताभावप्रतियोगित्वं तस्य केव- लान्वयित्वाभावात, न चैवं ब्रह्मणि चिद्विषयत्वेऽपि तदत्यन्ताभा- वोपपत्त्या अर्थान्तरं घटादावण्येवं साध्यसत्वेनासाधारण्यं चेति वाच्यम् । चिद्विषयत्वविरोध्यत्यन्ताभावप्रतियोगिरूपत्वस्य साध्य- नार्थान्तरासाधारण्ये घटादौ तयोः सहावस्थित्या अविरोधात ब्रह्मणि विरोधादिति तात्पर्य अनुसृत्याह-"स्वप्रकाशेति"॥७२॥ ननु स्वतःसिद्धानुभूतिरात्मेत्यर्थादुक्तं स्वत इत्यस्य खेनैवेत्यर्थे खविषयत्वापतिः प्रमाणं विनेत्यर्थे उपायान्तरस्यानुपन्यासेनासि ध्यापत्तिः अन्यथा नृशृङ्गादेरपि सिद्ध्यापात इत्याशयाह " मानति ” । मानानपेक्षसिद्धरेव स्वतःसिद्धिशब्दार्थत्वात् न च नृश्यङ्गादावेवं प्रसङ्गः तदसत्त्वव्यावृतिफलकप्रमाणाभावात प्र- कृते च वृत्तिविषयतामात्रेण तत्सत्त्वात् सिद्धिरुप आत्मनि सिद्ध खातू आत्मनः स्वप्रकाशत्वोपपत्तिः । नृशृङ्गादेरसत्त्यत्वान्न मानामानयोग्यता ॥ ७३ ॥ आत्मनः स्वप्रकाशत्वं चिद्रूपत्वादपीष्यते । चिद्रूपत्वं श्रुतेर्मानात्स्वयं ज्योतिर्मिरेष्यते ॥ ७ ॥ आत्मैवास्थयतो ज्योतिः स्वयं ज्योतिस्तदुच्यते । स्वातिरिक्तानपेक्षत्वात्स्वप्रकाशत्वमात्मनः ॥ ७५ ॥ दुर्विवेकतया जाग्रदवस्थायामनेकधा । आदित्यादेः समावेशात्स्वयं ज्योतिष आत्मनः ॥७६॥ सुविवेकतया स्वप्ने तदन्यस्याखिलस्य हि । अभावाजोतिषोऽत्रेति सफलं स्याद्विशेषणं ॥ ७७ ॥ इति व्यवहारस्य सिद्धप्रयुक्तव्यवहारविषयतया गौणत्वमिति ता- तूपर्यार्थः ॥ ७३ ॥ ॥ अनुभूतेः स्वप्रकाशत्वोपपत्तिः ॥ एवं चिदभिन्नस्यात्मनोऽपि स्वप्रकाशत्त्वं चिद्रूपत्वा- साधनीयमित्याह आत्मन " इति ॥ ७४ ॥ 'अत्रायं पुरुषः स्वयं ज्योतिरित्यादिश्रुतिरपि खप्रकाशत्त्वे प्रमाणमित्याह- "आत्मैवेति"। 'अस्तमित आदित्ये याज्ञवल्क्येत्यादिना किं ज्योति- रयं पुरुष इत्यन्तेन ज्ञानसाधनालोकाद्यभावे जीवस्य कथं स्फुरणाम- त्युक्त 'आत्मैवास्य ज्योतिः स्वयंज्योतिरित्यादिना स्वातिरिक्तानपे- क्षतया स्वप्रकाशत्वमुक्तमित्यर्थः ॥ ७९ ॥ नन्वात्मनः सदा स्वप्रका- शत्वेन श्रुतावत्रेत्यस्य वैयर्थ्यमित्यत आह-" दुर्विवेकतयेति द्वाभ्यां ॥ ७६.॥ ७७ ॥ " सव्याख्याद्वैतसिदिसिद्धान्तसारे। [२ परिच्छेदे- तथाऽऽत्मा स्वप्रकाशोऽयं स्वसत्तायां प्रकाशतः । व्यतिरेकविहीनत्वात्प्रकाशस्याश्रयत्वतः ॥ ७८ ॥ प्रकाशकर्तृभावाच्चत्युक्तं विवरणे स्फुटं । अत एव घटादौ नाप्रकाशेऽतिप्रसङ्गतः ॥ ७९ ॥ निईर्मकतया ब्रह्मावेद्यत्वेन निरञ्जनं । अनन्तादिगिरां लक्ष्यं न वाच्यं हेत्वभावतः ॥ ८ ॥ लक्ष्यत्त्वव्यवहारोऽपि वाच्यत्त्वाभावहेतुकः । " तथेति तत्र विवरणोक्तानुमानं प्रमाणमाह- भ्यां । आत्मा स्वप्रकाशः स्वसत्तायां प्रकाशव्यतिरेकविधुरत्वात प्रकाशाश्रयत्वातू प्रकाशकर्तृत्वात्प्रदीपवत् स्वप्रकाश्यत्वस्य बाधि- ततया तदप्रकाश्यत्वेन पक्षस्य विशेषिततया वाऽर्थान्तराभावात् सजातीयप्रकाशाप्रकाश्यप्रकाशत्वमेव साध्यं एवं न घटादिवद- स्वप्रकाशत्वेनोपपत्तिः स्वाप्रकाश्यसजातीयाप्रकाश्यत्वेनावेद्यत्व- स्य लाभात विजातीयस्याप्रकाशत्वात ज्ञानप्रभानुगतं च प्रकाश- त्वमावरणाभिभावकत्वं एवं च न स्वविषयत्वरूपस्वप्रकाशत्वं कि- त्ववेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वमिति सिद्धमिति भावः ॥ ७८॥ ७९ ॥ ॥ आत्मनः खप्रकाशत्त्वोपपत्तिः॥ निर्द्धर्मर्कतया अवेद्यतया 'च ब्रह्मानन्तादिपदलक्ष्य न वाच्यं प्रवृत्तिनिमिताभावादित्याह-" निर्द्धर्मकतयेति ॥८॥ नन्ववाच्यशब्देनोच्यते चेत् वाच्यत्वसिद्धिलक्ष्यते चेत् अवा- च्यत्त्वरूपमुख्यार्थस्याभावात्कथं लक्षणा भावे वा ब्रह्म न अवा- व्यं किन्तु तीरवत् अवाच्यत्वरूपमुख्यार्थसम्बन्धिमात्रमिति स्यात् मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि घटलक्षकं स्यादित्या- शङ्ख्यावाच्यत्वरुपमुख्यार्थाभावेपि नञ्समभिव्याहृतवाच्यशब्देन १६१ ब्रह्मणः शब्दावाच्यत्वोपपत्तिः। निर्मकतया वृत्तेनिमित्ताभावतो गिरां ॥१॥ सत्यज्ञानादिशब्दास्तेऽध्यस्तधमैकवाचिनः । लक्षयन्ति परब्रह्माखण्डव्यक्तिं च तात्विकीं ॥ ८२ ॥ वस्तुनः पदलक्ष्यत्वेप्यपदार्थत्वसम्भवात् । पत्या वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपलक्षणयैव पर्यवसानात् एवं निर्विशेषपदमपि अखण्डपदलक्षकतायामेव मुख्यार्थावश्यम्भावनिय- मादित्याभिप्रेत्याह-" लक्ष्यत्वेति लक्ष्यत्वेति"। नन्वेवं लक्ष्यपदेनापि लक्ष्यत्वे तीरस्यागङ्गात्ववद्ब्रह्मणोऽलक्ष्यत्वापत्तिरित्याशस्रष्टा- समाधत्ते-" निर्द्धर्मकतयेति "। सर्वथा निई- मेकत्वात् लक्ष्यव्यवहारस्य च वाच्यत्वाभावनिबन्धनत्वं न चैवं लक्ष्यत्वाभावेन वाच्यत्वव्यवहारप्रसङ्गः गौणस्य तस्यापीष्टत्त्वादि- त्यर्थः ॥ ८१॥ सत्यज्ञानादिपदानां वा कल्पितधर्मवाचिनां ब्रह्म- रूपव्यक्तिलक्षकतया सखण्डत्वानापातादित्याह(१)-"सत्येति"॥२॥ ननु निर्विशेषादिपदानां समासपदतया लक्ष्यादिपदानां च यौगि- कतया वाक्यतुल्यत्वान्न वाचकतति वक्तुमशक्यं अन्विताभिधा- पक्षे तेषामपि वाचकत्वात् अभिहितान्वयपक्षेऽपि वाक्य एवाभि- हितान्वयत्रीकारेण प्रकृतिप्रत्यययोरन्विताभिधायकत्वाद्वाक्यतुल्य- स्यापि वाचकत्वात् ब्रह्मणः पदार्थसंसर्गरूपत्वे सखण्डत्वापत्त्या पदार्थत्वे वाच्यत्वापरिहारादित्याशङ्याह-" वस्तुत इति (१) नच सत्वादिधर्माश्रयतया लक्ष्यत्वाभावे मञ्चसम्बन्धित्वमाण लक्ष्यस्य पुं- सोऽमचत्तवत्सलादिसम्बन्धित्वमात्र ग लक्ष्यस्य ब्रह्मणोऽसत्त्वाद्यापत्तिरिति वाच्यम् । क सितचन्द्रबादिजातेः परमार्थचन्द्रव्यक्तितादात्म्य नाचन्द्रत्वाभाववदवाऽपि सत्त्वाद्यभावा- नापने यथाऽाहुः लक्षाक्तिरपि बुद्ध सत्त्वादि न जहाति न इति, अतएव खप्रकाशा- देरबंधत्त्वे यददष्ट तत्वदन ति साधु समर्थिती बद्धवाद इति निरस्तम् ।

स्वर सव्याख्याद्वैतसिदिसिद्धान्तसारे। [२परिच्छेदे- अखण्डत्वेऽपि वाक्यार्थभावो ब्रह्मणि सिद्ध्यति ॥८३॥ अत्रान्विताभिधामेऽपि स्वरूपे लक्षणेष्यते । अन्वितस्य न चावाच्यभावस्य क्षतिरस्ति वा ॥८॥ अवाच्याशब्दमस्पर्शमखण्डं श्रुतयो जगुः । स्वार्थे मानतया तासां न चान्याय्यप्रकल्पना ॥ ८५ ॥ लक्षणास्वीकृतेः शक्तिमात्रस्यैव निराकृतेः । निर्मकतया वाच्यभावबाधादुपाधितः ॥ ६ ॥ पदलश्यत्वेप्यपदार्थत्वोपपत्तिः अखण्डत्वपि वाक्यार्थत्वस्योपपा- दितत्वात् अन्विताभिधानेन्वितवाचकस्यापि स्वरूपे लक्षणाङ्गी कारान्न च तयवाच्यत्वासिद्धिः अखण्डब्रह्मसिद्ध्युपायत्वेन प्राप्त स्यावाच्यत्वादनिवारकामानामुषङ्गिकतया सिखेंः 'यतो पाचो नि- घर्तन्त' ' अशब्दमस्पर्श मित्यादिश्रुतयश्चात्रानुसन्धेयाः- अधाच्या शब्दाचदशन्दशब्दपि व्याधाताभावात नचेयं श्रुतिर तत्वाभिप्राया भूयमाणार्थ बाधकामावादन्याय्यकल्पना तत्रोचितेति त्रयाणां यो- जना । ८३॥८६॥८५ ॥ ननु यसो पात्र इत्यत्रापि मनसा सहेति भूतमनोवृत्तरिवान्ताकारणकृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सर्वथा निषेधायोग इति मैकमित्याह-" लक्षणेति" । ननु तात्पन यविषयों ब्रह्म वाच्यं वस्तुत्वालस्यत्वाच तीरवदिति चैन्मैवं नि- चमकेतया! वाच्यत्ययाधात तीतसधर्मकाव्याघुपाधिसम्सवाचे तिरोभावः ॥ ६ ॥ परमार्थमन्दादिक कमा चिकाचकं पढ़वादिस्यपि न, किसब पटल न बाव माननादी वाभिचारसन नामि मनात सा बडिमेव, नापि सत्यादिवावय वागाधना अवाच्यत्वेऽपिलश्यत्वोपपत्तिः । 232 वेदान्तवाक्याजज्ञाननिवाज्ञानगोचरं । बोधयन्ति प्रमाणत्वाद्वेदान्ता ब्रह्म चिडनं ॥ ८७ ॥ दृष्टा गुणक्रियाजातिसम्बन्धाः शब्दहेतवः । नात्मन्यतमोह्येषां तेनात्मा नाभिधीयते ॥ ८८ ॥ आरोपितगुणादेस्तु तात्पर्यागोचरत्वतः। अवाच्यत्वेऽस्ति तात्पर्य सर्ववेदान्तसद्भिरां ॥ ८९॥ ब्रह्मण्यवाच्ये योविद्वान्वाच्यतामधिगच्छति । स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यतां ॥ ९ ॥ । तथा ज्ञानमुप नन्वत्रावाच्यत्वे लक्ष्यत्वानुपपत्तिः वाच्यार्यसम्बन्धित्वेना शा. तस्यैव लक्ष्यत्वात् तज्ज्ञानं च न शब्दभिन्नेन, उपनिषन्मात्रगम्य- स्वात् नापि स्वप्रकाशतया, नित्यसिद्धे शब्दवैयर्थ्यात् अवाच्यशब्दस्य च लक्षकस्यैव वक्तव्यत्वात् तत्रापि वाच्यसम्बन्धित्वेन ज्ञेयत्वे अ- नवस्थेत्याशङ्ग्य समाधत्ते-" वेदान्तेति स्थिती उपयोगि ब्रह्म स्वप्रकाशनया स्वत एवोपस्थितमिति किं तेन नचैवं शब्दवैयर्थ्य आवरणाभिभावकवृत्तावुपयोगादत एव नानव- स्थेत्यर्थः ॥ ८७ ॥ तस्मात्प्रवृत्तिनिमित्तस्य दुर्निरूपत्वादवाच्यत्वमि- त्यत्र वृद्धसंमतिमाह-" दृष्टेति ॥ ८८॥ न चारोपितगु- णाश्रयतया वाच्यता तस्य तात्पर्याविषयतया तात्पर्यविषये अवा. व्यत्वस्य स्थितत्त्वादित्याह-" आरोपितेति वाश्यां ॥ ८९॥ ॥ ९० ॥ तस्मानिर्विशेषत्वादेव जीवब्रह्माभेदः सिद्धाभेदकासम्भू- S १६४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे. घटादीनां मिथो भेदो भेदो जीवेशयोमिथः । भ्रान्त्या प्रतीयमानत्वान्मिथ्या रज्जुभुजङ्गवत् ॥ ९॥ सत्तकैः श्रुतिभिः स्मृत्या भिदाया बाधितत्वतः । प्रतीत्येकशरीरस्य न भेदस्यास्ति वस्तुता ॥ ९२ ॥ भेदखण्डनयुक्तीनां तत्त्वतो भेदवारणात् । व्यावहारिकभेदस्यावारकत्वान्न दुष्टता ॥ ९३ ॥ " नेति वात्तथा च जडानां जडचैतन्ययोमिथो भेदो जीवेशयोश्च भेदोऽप्रा- माणिकत्वान्मिथ्यैवास्ति रज्जुसादिवदित्यभिप्रेत्याह-" घटा- दीनामिति ॥ ९१॥ ॥ ब्रह्मणः शब्दावाच्यत्वोपपत्तिः ॥ ननु भेदस्य प्रमाणसिद्धत्वादपलापो न युक्त इत्यत आह न हि वयं भेदप्रतीतेः स्वरूपं वा कारणं वा ऽपलपामः किन्तु बाधितविषयत्वं ब्रूमः व्याप्तिसध्रीचीनतया अशुष्कैस्तर्केरनन्यपरया श्रुत्या स्मृत्या च भेदस्य बाधितत्त्वात् वि- षयभेदादिना प्रत्यक्षविरोधस्य परिहृतत्वेन श्रुत्यादावुपचरिता- र्थत्वाभावादिति तात्पर्यार्थः ॥ ९२ ॥ नन्वभेदस्याप्येवं निरासः न चाभेदखण्डनयुक्तीनां स्वस्य स्वा- भेदोपि न सिद्धयेदिति स्वव्याघातादाभासता भेदखण्डनयुक्तीना- मपि भूषणयुक्त्यभेदेन स्वव्याघातकतायाः समानत्वादिति चेन्ने- त्याह" भेदेति” । तथा च स्वाव्याघातकतोपपत्ति दख- ण्डनयुक्तीनामिति भावः ॥ ९३ ॥ ननु भेदबाधकं न भेदविषयमेव Modin, सामान्यतो भेदखण्डनम् । भेदभ्रमाद्यधिष्ठानतत्त्वगोचरबोधतः । भ्रमे समूले विध्वस्ते नैव भेदः प्रमाणभाक् ॥ ९४ ॥ अनिर्वाच्यतया भेदो बाध्यत्वेनैव सम्मतः । ऐक्यं ब्रह्मस्वरूपत्त्वादबाध्यं श्रुतिबोधितं ॥ ९५ ॥ व्यवहारव्यवस्थापि व्यावहारिकभेदतः । तत्साधकतापत्ते प्यभेदविषयं एवं हि तदन्यस्तद्विरोधी तदभावो वा नअर्थों विषयो वाच्यः सर्वथा च भेदो दुष्परिहरः तदनन्यत्वे तद्विरोधितदभावत्त्वयोरयोगात भेदाभावग्राहिणाऽपि प्रतियोगि- विलक्षणतयैवाभावस्य ग्रहणाच्च औदासीन्येन प्रवृत्तस्येदमितिज्ञान- वदबाधकत्त्वाच्चेति चेन्मैवमित्याह-" भेदभ्रमेति ” । अयम- र्थः । पारमार्थिकत्वाकारेण भेदाभावविषयस्यैव बाधकत्वात् न च भेदस्य दुष्परिहरता व्यावहारिकभेदेनैव व्यावहारिकतद्विरोधि- त्वतद्भावत्त्वयोरुपपत्तिसम्भवात् यक्षानुरूपोबलिरिति न्याया- द्भेदभ्रमाधिष्ठानतत्वगोचरं ज्ञानं भ्रमबाधकमित्युपपन्नं उक्त- रीत्या भेदवैलक्षण्येन तद्हणोपपत्तेरिति ॥ ९४ ॥ भासमानो यो भेदः स स्वरूपादिपक्षान्तर्भावबहिर्भावाभ्यां वा अन्येन वा धर्मान्तरेणानिर्वाच्य इत्याह-“अनिर्वाच्यतयेति" । नच तर्का- भासेन अनिर्वाच्यत्वे ऐक्यस्यापि तत्प्रसङ्गः भेदबाधकस्यानाभास- ताया उक्तत्वादित्याह-"ऐक्यमिति" । ऐक्यभदयोः श्रुत्य- नुग्रहाननुग्रहाभ्यां विशेषाञ्चेति भावः ॥ ९५ ॥ तात्विकभेदाभावेऽपि कल्पितव्यावहारिकभेदेन व्यवस्थोपप- तिरित्याह-" व्यवहारेति " । नच कल्पितेनाकल्पितकार्य- १६६ सव्याख्याद्वैतसिद्धिसिद्धान्तमारे। [२ परिच्छेदे- सिद्धा न भेद्वस्तुत्वमपि साऽपेक्षते स्वयं ॥ ९ ॥ अभेदे भेदमारोप्य धर्मधर्मिभ्रमावहा । माया भ्रान्तिकरी दक्षाऽप्यसम्भावितदर्शने ॥ ९७ ॥ निरपेक्षस्वरूपस्य सापेक्षत्त्वं न सम्भवेत् । प्रतिबन्धायोगः अविद्यया स्वप्रकाशरूपब्रह्मकार्यप्रतिबन्धदर्शनात कल्पितकान्तया विश्लेषकार्यप्रतिबन्धदर्शनाञ्चेति तात्पर्यार्थः ॥ ९७ ।। ननु भेदस्य व्यावहारिकसत्वार्थमपि त्वया अन्योन्याश्रयादिकमु- दरणीयं परस्परमपि सापेक्षेण व्यवहारस्याप्यभावात् न हि व्या- वहारिकमृदः स्वजन्यघटसापेक्षत्वमित्याशयाह-“भेदइति अस्माकमविद्यासामर्थ्यात्सर्वानुपपत्तिबिधूननोपपत्तिः न हि मा- यायामसम्भावनीयं नाम तथाच परस्पराश्रितमपि इन्द्रजालवद्दर्श- यिष्यति न चेश्वरसामर्थ्यात् तादृशमपि सत्यं स्यादिति वाच्यं उ. भयसिद्धमृषाभूतेन्द्रजालस्थले कारणादिव्यवस्थोल्लजिकार्यादिद- निवदन्यत्र तथा अदर्शनातू दर्शने च मृषात्व एव पर्यवसानातू आपादनं च भेदस्तत्प्रतीतिश्च यदि मायिकी न स्यात् सर्वव्यवस्थो- लकिनी न स्यात् सर्वव्यवस्थोल्लकिनी चेयं तस्मान्मायिकीति विप- र्ययपर्यवसानात मायिके व्यवस्थोल्लङ्घनस्य दर्शनेन व्याप्तिसिद्धः त. स्मात् श्रुत्या अस्वव्याघातकयुक्त्या च भेदस्य बाधादुभेदस्याबाधाच, पटे स्वाभेदाभेदयोर्व्यावहारिकत्वे समानेऽपि स्वाभेदं परित्यज्य: भेद एव सर्वथा प्रद्वेषो नाकारणक इति तात्पर्यार्थः ॥ ९७ ॥ ॥ सामान्यतो भेदखण्डनम् ॥ ननु निरपेक्षस्वरूपत्त्वे सापेक्षत्त्वानुपपत्तिरिति यदुक्तं तत्ता- वदयुक्तं अविद्यानिवृत्तेर्जीवब्रह्मैक्यस्य च तव मते मतद्वयेऽपि स्थिती व्यक्तिसापेक्षस्य जातिमात्रस्य प्रतीती सापेक्षस्य नीलतरत्वादेर- र्थप्रकाशात्मकज्ञानस्य ब्रह्मणि ब्रह्माभेदस्य अस्ति ब्रहोत्यादी काल- १६७ कल्पितवस्तु सापेक्षत्वस्यापि काल्पनिकत्त्वम् । क्वचिदाविद्यका सा चेदपेक्षा तेन का क्षतिः ॥ ९८ ॥ अविद्याविनिवृत्तिश्च जीवब्रह्मैक्यमेव वा । अपेक्षते प्रतीतौ तत्सापेक्षत्वं हि मायिकं ॥ ९९ ॥ तात्विके निरपेक्षत्वे नविरोधोस्ति तावता । न हि काल्पनिकं किञ्चिद्वस्तुतत्त्वमपि स्पृशेत् ॥१०॥ चैतन्ये कल्पिताः सर्वे ये विरोध्यनुरोधिनः । तेषां सापेक्षताप्येवं कल्पिता चिढने पदे ॥१॥ सापेक्षस्यास्तित्वस्य निरपेक्षब्रह्मव्यक्त्यादिरूपताया दर्शनादित्या- शय समाधत्ते-“ निरपेक्षस्वरूपस्येति" त्रिभिः । एतदुक्तं भवति अविद्यानिवृत्तिजीवब्रह्मैक्ययोः प्रतीतो सापेक्षत्त्वस्याऽऽवि. द्यकतया तात्त्विकनिरपेक्षत्वविरोधित्त्वाभावाजातिमात्रस्य व्यक्त्य- भेदासिद्धिः व्यक्तिसमानसत्ताकघटत्वादावभावात् व्यक्त्यसमा- नसत्ताकसत्तादिजाती तु सापेक्षत्वस्य काल्पनिकत्वात् नीलतर. त्वादेव्यक्तिरूपत्वासिद्धी हेतोरभावात् अर्थप्रकाशात्मकज्ञानस्य ब्रह्मामेदस्य च सापेक्षतायाः काल्पनिकत्वात् अस्ति ब्रह्मेत्यादाव- प्येवमेव तथा च तत्त्वतो निरपेक्षस्य सामानाधिकरण्यासिद्ध्या न तकोभासता व्याप्तिसिद्धरत एवैक्यस्यास्वरूपत्वे अद्वैतहानि- मिथ्यात्वे भेदस्य सत्यत्वप्रसङ्ग(१)इति निरस्तं ऐक्यस्य ब्रह्मभेदान- ङ्गमकारादिति ॥ ९८ ॥ ९९ ॥ २०० ॥ सिद्धान्तरहस्यमाह- चैतन्यइति ॥ ॥१॥ (१) यत्र य धास्तं तव तहिरोधि तज्ज्ञानाबाधा यथा शुक्नावरूप्यत्व यव त- देव बाधा तव तोदलजज्ञानाबाधाः यथा दूरस्थवनस्यत्यो द इति था यत्र यद. धस्त तवं तहिरोधि तात्त्वि के यथा बधण्य नृतत्वस्याधास्तत्वे सत्यत्व ता विकमिति वा वाम्बस्ति शेषः ।।

१६८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२परिच्छेदे- ऐक्यस्य निरपेक्षत्वे भेदभ्रान्तिनिवृत्तये । एकवाक्यत्वसद्भावात्स्वरूपपरसद्गिरां ॥ २ ॥ अतः काल्पनिको भेदः सर्वत्र व्यावहारिके । वस्तुन्यात्मन्यभेदस्तु तात्विकः श्रुतिबोधितः ॥ ३ ॥ सापेक्षत्वात्सावधेश्च तत्वे द्वैतप्रसङ्गतः। , नन्वैक्यस्य निरपेक्षत्वे तत्त्वम्पदार्थपराणां 'सत्यं विज्ञानधन इत्यादीनामैक्यपरमहावाक्यैकवाक्यत्त्वाभावेन वैयर्थ्य स्यादित्या- शङ्ख्य निरस्यति-" ऐक्यस्येति ऐक्यस्य स्वप्रकाशब्रह्मा- भिन्नतया स्थितिप्रतीत्यादौ निरपेक्षत्वेऽपि यथालक्षितार्थभेदभ्रम- निवर्तकवृत्तिजनने पदार्थसापेक्षतया स्वरूपपरवाक्यानामेकवा- क्यतायाः सत्त्वात् भेदरूपप्रतियोगिसापेक्षत्वेन तत्र सापेक्षत्वव्यव- हारादित्यर्थः ॥ २॥ न चैतावता सापेक्षत्त्वापत्तिरेक्यस्येत्याह- अत इति" । काल्पनिकस्य सापेक्षत्वस्यापीष्टत्त्वात् । न च भे- देऽपि एवमेवास्तु भेदस्य निषेधप्रतियोगितया श्रुतत्वेन ब्रह्मरूपत्वा- भावात् न च तत्राभेदश्रुतिरम्ति । एतेन स्वरूपेण निरपेक्षस्याप्य- भेदस्याभेदत्वेन सापेक्षत्त्ववत्स्वरूपेण निरपेक्षस्याऽपि घटस्य भेद- त्वेन सापेक्षत्वमस्तु अवच्छेदकभेदेन सप्रतियोगित्वाप्रतियोगित्वे अपि तद्वदिति निरस्तं, भेदस्य स्वरूपतो निरपेक्षत्वे निष्प्रतियोगि- कत्वे च परान्प्रतीव स्वमपि प्रत्यविशिष्टतया स्वव्याघातः नचैवम- भेदस्यापि स्वान्प्रतीव परान्प्रति तथा सति तथात्वापत्तिरिष्टापत्तेः घटत्वादिना भेदः परं कल्पितः स्वरूपतस्त्वभेद एव तथासति पर- त्वं परं व्याहतं न खरूपत्वमपीत्यर्थः ॥३॥ यथैक्यं ब्रह्मणो रूपं न तथा भेदो वस्तुनो उपमित्यत्राचार्यसं- मतिमाह-" सापेक्षत्वादिति " । घटस्य भेदत्वे एकतरपु- " विशेषलो मेवखण्डनम् । ॥ एकामावादसन्देहान्नरूपं वस्तुनो भिदा ॥ ४ ॥ कल्पितो धर्मभेदोऽस्ति ज्ञानानन्दादिगोचरे । तदैक्यं श्रुतिसंसिद्ध भेदभ्रान्तिनिवर्तकं ॥ ५॥ प्रतियोग्यादिसापेक्षं भेदज्ञानं न तात्विके । ऐक्यज्ञाने प्रमाणोत्थे वस्तुतः प्रतिबन्धकं ॥ ६ ॥ अस्वव्याघातकैरेवं जातिभिन्नैः सदुत्तरैः । निरस्तं भेदमादाय स्वात्माभेदो निषीदति ॥ ७ ॥ रिशेषापत्तिः स्यादिति भावः ॥४॥ नन्वैक्यस्य ज्ञानस्यानन्दस्य च ब्रह्मस्वरूपत्वे एकतरपरिशेषापत्तिस्तवापि समाना न च वस्तुन एकत्वेनेष्टापत्तिः प्रकृतेऽपि साम्यादिति तत्राह-"कल्पिते इति" एकतरपरिशेषापत्त्या घट इति भेद इति विलक्षणव्यवहारामावस्या- पादनात् न च ज्ञानानन्दादावपि विलक्षणव्यवहारो न स्यादिति घाच्यं कल्पितधर्मभेदमादायोपपत्तेरित्यर्थः । अयं भावः भेद स्य हि स्वरूपत्वे इदं भिन्नमस्य भेद इति सम्बन्धित्वेन धीन स्यात् नचानन्दो ब्रह्मण इति वदुपपत्तिः प्रमाणसिद्धेबैक्ये भेदव्यवहार- स्यौपचारिकत्वं कल्प्यते राहोः शिर इत्यादिवत् न च प्रकृते तथा ऐक्ये मानाभावाद्वाधकाश्चेति ॥५॥ ननु त्वन्मतेऽपि बिम्बब्रह्मजी- वानां प्रतिबिम्बब्रह्माभेदे इदमनेन भिन्नमस्यामुष्मादभेदः इमे अ- मित्रे पतयोरभेद इत्येवं प्रतीतिः स्यात् तथा च धर्मप्रतियोगिभा- वधीईित्वावच्छिन्नधीश्च भेदज्ञानाधीनेति तद्विरुद्धाभेदज्ञानानुपप- त्तिरित्याशङ्ख्याह-" प्रतियोग्यादीति” । काल्पनिकभेदशा- नस्य धर्मिप्रतियोगिभावद्वित्वावच्छिन्नज्ञाननिर्वाहकस्य तात्विकाभे- दज्ञानप्रतिबन्धकरवायोगादित्यर्थः ॥ ६ ॥ तस्मादात्मैक्यं विजयते तरामित्याह-" अस्वव्याघातकैरिति ॥ ७॥ ॥ विशेषतो भेदखण्डनम् ॥ rease २२ winnironment १७० सम्यास्यादैतसिदिसिद्धान्तसारे। [२ परिच्छेदै- न समानविशेषादिरूपभेदः प्रमाणयुक् । अभेदो विजयी तस्माद्वेदान्तैकप्रमाणभाक् ॥ ८ ॥ एवं प्रत्यक्षतः प्राप्तभेदस्यैव निवारणात् । असाक्षात्कृतजीवेशभदादौ का कथा तव ॥ ९ ॥ अप्रत्यक्षतयेशस्य तडर्मिप्रतियोगिकः । भेदोऽशक्यो ग्रहीतुं सोऽन्यथासिद्धस्तु तद्ग्रहः ॥१०॥ भेदानुवादिनी श्रौती गीरवच्छिन्नमात्रगा। स्वरूपभेदान्योन्याभावभेदादरप्रमाणकत्वान्न भेदगन्धोऽपि प्रमाणपथमवतरतीत्याह-" नेति" ॥ ८॥जीवेशभेदनिराकरणं कैमुत्येन प्रतिजानीते-“एवमिति" ॥९॥"अप्रत्यक्षतयेति"। ईश्वरस्याप्रत्यक्षत्वेन तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भे. दस्य ग्रहीतुमशक्यत्वादित्यर्थः ॥ १० ॥ ननु तद्धर्मिकभेदस्य जीवाप्रत्यक्षत्वेऽपि स्वधर्मिकभेदस्तथाऽपि तत्प्रत्यक्षो नाहं सर्वशो- नाहं निर्दुःख इत्यनुभवात् न च योग्यप्रतियोगिकत्वमभावे योग्य- स्वप्रयोजकमिति वाच्यं स्तम्भः पिशाचो नेत्यादिप्रत्यक्षरूपफलब- लेन संसर्गाभावे तथात्वेपि अन्योन्याभावे अधिकरणयोग्यताया एव तन्त्रत्वातू 'तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप । उत्तमः पुरुषस्त्वन्य' इत्यादिवचनानुमितप्रत्यक्षसिद्धत्वमेवेति चेन्नेत्याह-- अन्यथासिद्धस्तु तद्ग्रह इति" । उक्तानुभवस्यान्त:- करणाचवच्छिन्नचैतन्यस्य तदनवच्छिन्नचैतन्यप्रतियोगिकभेदावे- गोहितया । शुदचैतन्यर्मिकनिषु खादिप्रतियोगिफभेदानवगाहि मेदपत्रके प्रत्यक्षस्थाप्रमाणत्वोपपत्तिः। १७१ अनवच्छिन्नचिहातोरभेदः श्रुतिसम्मतः ॥ ११ ॥ सौषुप्तिकानुभूतिस्त्वज्ञानावच्छिन्नभेदगा। न शुद्धेऽथ न जीवानां मिथो भेदे प्रमाऽक्षजा ।।१२॥ नानुमानाद्भिदासिद्धि स्तयोर्निर्द्धर्मकत्वतः । स्याह- स्वमित्यर्थः । ' द्वासुपर्णेत्यादिश्रुतिरप्यवच्छिन्नभेदानुवादिनी. " भेदेति । भेदनिषेधश्रुतिस्तु अनुमानादिप्रसक्तमे- दनिषेधपति भावः ॥ ११ ॥ ननु ॥ ११ ॥ ननु योऽहमस्खाप्स ममाज्ञानसंसारादि सोऽहं निर्दुःखो नेति सुषुप्तिकालीनान्तः- करणानवच्छिन्नाभेदेनाज्ञानाद्याश्रयाभेदेन च प्रत्यभिज्ञायमाने शुद्धे भेदप्रतीतिरित्याशङ्याह-" सौषुप्तेति | एतावताऽप्यज्ञाना: वच्छिन्न एव भेदग्रहो न तु शुद्ध न हि सुषुप्तौ अन्तःकरणानव- च्छिन्नत्ववदज्ञानानवच्छिन्नत्वमप्यस्तीत्यर्थः । चैत्रमैत्रादिजीवानाम- प्रत्यक्षतया तत्र भेदग्रहोन्तःकरणाद्यवच्छिन्नमेवावगाहते न तु शु- द्धांमत्यर्थः ॥ १२॥ । भेदपञ्चके प्रत्यक्षस्थाप्रमाणत्वोपपत्तिः ॥ नाप्यनुमानं जीवेश्वरौ भिन्नौ विरुद्धधर्माधिकरणत्वात् दहन- तुहिनवदिस्येवं रूपं भेदे प्रमाणमित्याह-" नेति । दुःखा- देरन्तःकरणादिधर्मत्वेन स्वरूपासिद्धेः एकत्रैव निर्दुःखत्वदुःखवत्त्व. योरवच्छंदभेदेन दृष्टतया धर्मिभेदासाधकत्वात् भेदमात्रे सिद्ध- साधनात तात्विकभेदसाधने साध्यवैकल्यात ब्रह्म तत्वतो जीवा- द्भिन्नं सर्वशत्वात् व्यतिरेकेण जीववदित्यत्राप्रसिद्धविशेषणत्वात् ब्रह्म धर्मिसत्तासमानसत्ताकमेदवदिति साध्यकरणे असाधारण्यात भात्मत्त्वं नानाव्यक्तिनिष्ठं जातित्वात् पृथिवीत्त्ववदित्यत्रात्मैक्यका-

१७२
सव्याख्यावेतसिद्धिसिद्धान्तसारे। परिच्छेदे-
स्वरूपासिद्धितः साध्यवैकल्यात्सिद्धसाधनातं ॥१३॥
अप्रसिहविशेषत्वादसाधारण्यदूषणात् ।
अन्यथैवोपपत्त्या च सर्वस्मिन्सिद्धसाधनात् ॥ १४ ॥
अभ्रान्तत्वादयो धर्मा न तयोर्भेदसाधकाः ।
ज्ञानाज्ञानप्रयुक्तास्ते न स्वरूपनिबन्धनाः ॥ १५ ॥
शुद्धयोस्तत्वमोनैव धर्मित्वमवकल्पते ।
निर्विशेषतया तत्र भेदगन्धोऽपि दुर्लभः ॥ १६ ॥
दिनं प्रत्यसिद्धेः कल्पितव्यक्तिनिष्ठत्वेन सिद्धसाधनाञ्च ईश्वरो जी-
धप्रतियोगिकतात्त्विकभेदवान् सर्वशक्तित्वात् सर्वज्ञत्वात् सर्वका-
यकर्तत्वात्वतन्त्रत्वाद्वा व्यतिरेकेण जीववत् जीवो वा ब्रह्मप्रति-
योगिकतात्विकभेदवान् अल्पशक्तित्त्वादल्पज्ञत्त्वादल्पकर्तृत्वात्सं-
सारित्वाद्वा व्यतिरेकेण ब्रह्मवदित्यादिषु भेदस्य च स्वरूपत्वेन त-
द्वत्वसाधने बाधान्न च विशेषमादाय तदुपपादनं तस्य स्वरूपान-
तिरेकेण तद्वत्त्वासम्पादकत्वातू अप्रसिद्धविशेषणतापत्तश्च तात्वि-
कभेदन्यतिरेकेऽपि उपाधिकल्पितभेदेन सर्वानिष्टपरिहारसम्भवा-
दिति द्वयोस्तात्पर्यार्थः ॥ १३ ॥ १४ ॥ एतेनाभ्रान्तत्वादसंसारित्वा-
तदुःखाननुभवितृत्वादित्यादिहेतुकानुमानान्यपि निरस्तानीत्याह-
अभ्रान्तत्वादय इति
॥ १५ ॥
उपहितस्य पक्षत्वे धर्मिसमसत्ताकरत्वेऽपि तात्विकत्वासिद्धेः
सिद्धसाधनात शोधिततत्वम्पदार्थपक्षत्वे तयोद्धभित्वाभावेन बा-
धापन्तेरतोनानुमानेन भेदसिविरिया--"शुद्धयोरिति” ॥१६॥

Statif जीवब्रह्मभेदानुमान भङ्गः। अप्रमेयेऽनुमानस्य प्रवृतिर्न कथञ्चन । प्रमेयस्य त्वनात्मत्वात्तत्र भेदानुमेष्यते ॥ १७ ॥ शुद्धे शब्दैकगम्ये नानुमानप्रसरोऽजसा । तात्विकत्वभ्रमध्वस्त्यै भेदे तस्य फलित्वतः ॥ १८ ॥ अप्रसिद्ध विशेषत्वादन्यथैवोपपत्तितः । सर्वशक्त्यल्पशक्त्यादेर्न भेदे तन्त्रता ततः ॥ १९ ॥ जीवेश्वरभिदा सत्या खण्डिताऽऽस्माभिरादरात् । गीताभावप्रकाशेऽतो यत्यते नेह विस्तरे ॥ २० ॥ न जीवानां मिथो भेदे ऽनुमानं सिद्धसाधनात् । शुद्धचैतन्ये धानधिकरणतया अनुमानाप्रसरः यत्र प्रसरस्तश्रेष्टा- पतिरित्यत्न वृद्धसम्मतिमाह-“ अप्रमेयइति” । नन्वेवमैक्या- नुमानमपि कथं भवेत् यद्यस्य तदैक्यानुमितिः कथमिति पठितुं श- क्यत्वादित्यत आह-" शुद्धइति शुद्धइति" । शुद्धचैतन्यैक्यस्य शब्दै- कगम्यत्वेन तनाननुमेयत्त्वस्येष्टत्वात् न च तर्हि ऐक्यानुमानो- पन्यासानर्थक्यं तस्य भेदे तात्विकत्वभ्रममात्रनिरासफलकत्वादिति तात्पर्यार्थः ॥ १८ ॥ फलितमाह-" अप्रसिद्धति विस्तरेण जीवेश्वरभेदनिराकरणं तु गीतासु त्रयोदशाध्यायस्थद्वि- तीये श्लोके भावप्रकाशे द्रष्टव्यमिति नेह यत्यत जीवेश्वरभिदेति " ॥ २० ॥ HAN ॥ जीत्रब्रह्मभेदानुमानभङ्गः ॥ " ॥ १९ ॥ इत्याह- सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेद- अर्थान्तरादसिद्धेश्वांशस्योपाधित्वसम्भवात् ॥ २ ॥ दुःखाद्यननुसन्धानमुपाधेर्न स्वरूपतः। सुप्तौ लयेऽप्युपाधे! भेदः संस्कारतः स्थितेः ॥२२॥ सुप्तप्रलीनमुक्तानामध्यासविरहाद्भवेत् । जीवानां मिथो भेदाऽनुमानमोपाधिकभेदमादाय सिद्ध साथ- नादिदूषणग्रस्तत्वान्न साध्वित्याह-" नेति"। चैत्रो मैत्र- प्रतियोगिकर्मिज्ञानाबाध्यभेदवान् मैत्रप्रतियोगिकतात्विकाभेद- वान्नेति वा मैत्रानुसंन्धितदुःखाननुसन्धातृत्वात् मैत्रस्मृतसर्वा- स्मर्तृत्वात् मैत्रानुभूतसर्वाननुभवितृत्वाञ्च घटवदित्यत्र प्रथमसाध्ये धभिपदविकल्पेन द्वितीयसाध्ये तात्विकाभेदस्यातात्विकभेदेन च सिद्धसाधनात् उपहितस्य पक्षत्वे अर्थान्तरातू चैतन्यमात्रपक्षत्वे हेत्वसिद्धेः साधनैकदेशस्याननुसधातृत्वादेरुपाधित्वसम्भवाच्चेत्यर्थः। ॥ जीवभेदानुमानभङ्गः ॥ ननु यद्यात्मैक्यं स्यात्तदा चैत्रेण सर्वदुःखाद्यनुसन्धान स्यादिति चेदौपाधिकभेदेनाननुसन्धानोपपत्तेमॆवमित्याह-“दुःखादीति" नन्वन्तःकरणस्य प्रत्यहं सुषुप्तौ विलयन पूर्वदिनानुभूतस्याननुस- न्धानापत्तिरित्यत आह-" सुप्ताविति " । सुप्तौ संस्कार- स्मताऽवस्थितस्यैव पुनरुद्धोधेन तत्रान्तःकरणभेदाभावादित्यर्थः ॥२२॥ नन्धेवं सुप्तप्रलीनमुक्तानामननुसन्धानप्रयोजकान्तःकरणभेदाभावा- संसारिदुःखानुसन्धानापत्तिरित्यत आह-" सुप्तेति "। तेषामनुसन्धानप्रयोजकान्तःकरणैक्याध्यासरूपसामग्रीविरहात ना- नुसन्धातृत्वं न हि प्रतिबन्धकमात्रण कार्यविरहः किन्तु सामग्री- विरहेणापि न चैवं मुक्तस्य स्वरूपसुखानुभवाऽपि न स्यादिति वाच्य औपाधिकभेदेन, व्यवस्थापपादनम् । १७५ संसार्यननुसन्धानं स्वसुखानुभवः स्वतः ॥ २३ ॥ अविद्याध्वस्तिमोक्षस्य गतत्वेऽपि चिददये। तत्रैवोपहिते बन्धो न तेनास्ति भिदा तयोः ॥ २४ ॥ उपाधेः कल्पितत्त्वेन निवृतावपि तात्त्विकम् । उपधेयस्वरूपं नो मुक्तौ जातु निवर्त्तते ॥ २५ ॥ नो वैयधिकरण्यं स्यादात्मनो बन्धमोक्षयोः । विशिष्टे भोक्तृता सिद्धा न शुद्धे सा सुखात्मनि ॥२६॥ तस्याजन्यत्वेनान्त:करणानपेक्षत्वादित्यर्थः ॥ २३ ॥ नन्वेवमनेकाविद्यासम्बन्धस्य दुःखानुसन्धानरूपस्यानर्थस्य च विशिष्टगतत्वे बन्धमोक्षयोयधिकरण्यापातेन शुद्धगतत्वे वाच्ये यच्छुद्धं चैत्रीयदुःखानुसन्धातृ तदेव मैत्रीयदुःखानुसन्धातृ इति कथमनुसन्धानव्यवस्थेत्याशझ्याह-"अविद्येति । अविद्या- स्मकबन्धनिवृत्त्यात्मकमोक्षस्य शुद्धगतन्वेऽपि दुःखाद्यनुसन्धातृत्व. स्योपहितवर्तितया शुद्धभेदापादनायोगात् न च संसारस्य शुद्ध गतत्वे ब्रह्मणोऽपि संसारित्वापत्तिः बिम्बप्रतिबिम्बयोरवदातत्व- श्यामववत् घटाकाशमहाकाशयोः परिच्छिन्नत्वापरिच्छिन्नत्ववत् एकस्यैव नभसस्तत्तत्कर्णपुटावच्छेदेन तत्तच्छ्रोत्रतावश्च उौपाधिक- भेदेन संसारित्वासंसारित्वव्यवस्थोपपत्तेरित्यर्थः ॥ २४ ॥ ननु दुःखाद्यनुसन्धानरूपस्यानर्यस्योपहितनिष्ठत्वेन तस्य कल्पितत्वेन ब- खस्य निवृत्तिरेव न तु मोक्ष इत्यापात इत्याशङ्य निरस्यति- " उपाधेरिति " ॥ २५ ॥ अत एव न बन्धमोक्षयोधयधिकर- ण्यमित्याह-" नेति । उपाधिसम्बन्धेन भोक्तृतोपलक्षित- संसारस्तद्विरहे स्वरूपावस्थानं मोक्षोऽपीत्यर्थः ॥ २६ ॥ पक्षान्तरेणापि " १०६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- अविद्यात्मकबन्धस्य शुद्धवस्तुगतत्वतः । सामानाधिकरण्यं स्यादेवं वा बन्धमोक्षयोः ॥ २७ ॥ अनुसन्धातृतापीष्टा शुद्धेऽवस्थात्रयानुगे । सर्वदेहेषु शुद्धस्यानुप्रवेशश्रुतिर्यतः ॥ २८ ॥ बद्धमुक्तव्यवस्थाऽपि न स्वाभाविकभेदगा। उपाधिबाधाबाधाभ्यां साऽपि सम्यग्व्यवस्थिता ॥२९॥ येनैवोपाधिना यस्य परिच्छिन्नत्वमात्मनः । तदुपाधेलयात्तस्य मुक्तित्वे नास्त्यसम्भवः ॥ ३० ॥ एकजीवमते सर्वोपाधिनाशाद्विमुक्तिता । इदानीं मुक्त्यभावस्य नानिष्टत्वं मते मम ॥ ३१ ॥ मिथ्याभूतस्य चोपार्मिथ्याभेदैकहेतुता । बन्धमोक्षयोः सामानाधिकरण्यमित्याह-"अविद्यात्मकेति'' ॥२७॥ शुद्धस्यानुसन्धातृत्वमिष्टमित्याह-" अनुसन्धातृतेति " ॥२८॥ बद्धमुक्त व्यवस्थाप्यनवद्यैवेत्याह-" बद्देति " त्रिभिः ॥२९॥ ॥ ३० ॥ ३१ ॥. ननूपाधेः कथं भेदकत्त्वं तथा हि उपाधिः कि- मेकदशेन संबद्धयते कृत्स्रन वा आये त्वन्मते स्वाभाविकांशाभावे- नौपाधिकत्वं वाच्यं तथाचानवस्था अन्त्ये स्वभेदकता कृत्वस्यैको- पाधिप्रस्तत्त्वात् गगनादावपि स्वाभाविकांशाभावे घटाद्युपाधिस- म्बन्धो न स्यात् तदुक्तं भवेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । ए- फिदेशेऽनवस्था स्यात्सर्वगचेन्न भेदक इत्याशय सर्वविकल्पास- हत्वेन मिथ्याभूतस्यैवोपाधेमिथ्याभेदप्रयोजकत्वस्य प्रागवोपपादि- भेदपञ्चकेऽनुमानप्रामाण्यनिरासः । अस्ति तेन न जीवानां मिथो भेदो मनागपि ॥ ३२ ॥ एवं जडेशभेदेऽपि भेदे च जडजीवयोः । तात्विके न प्रमाणं स्यात्प्रोक्तदोषानतिक्रमात् ॥ ३३ ॥ परिच्छिन्नत्वजन्यत्त्वजडत्वोपाधिभावतः । स्यादप्रयोजकत्त्वाच्च हेतोरनुमितिवृथा ॥ ३४ ॥ स्वप्रकाशतया सर्वप्रत्यये विषयत्वतः । ब्रह्मसिद्धावपि श्रौती गीरज्ञाननिवर्तिका ॥ ३५ ॥ तत्वादित्याह-" मिथ्याभूतस्येति" ॥ ३२ ॥ ॥ जीवभेदानुकूलतर्कभङ्गः॥ एवं जडेशभेदे जडजीवभेदे च तात्विके प्रमाणं नास्ति ब्रह्म जीवो वा अनात्मप्रतियोगिकधर्मिशानाबाध्यभेदवान पदार्थत्वाद्धटवत् ब्रह्म जी- वो वा घटप्रतियोगिकर्मिज्ञानाबाध्यभेदवान घटासम्बद्धकालसम्ब- न्धित्वात् तदसम्बद्धदेशसम्वन्धित्त्वात्तजनकाजन्यत्वात् पटवत् ब्र. म जीवो वा जडप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान् जडानात्मकत्वात यदेवं तदेवं यथा दूरस्थवनस्पत्योरेक इत्यादिषु पूर्वोक्तदोषानतिवृत्तेः परिच्छिन्नत्वस्य जडत्वस्य जन्यत्वस्य चोपाधित्वात् अप्रयोजकत्वाञ्चे- त्यभिप्रेत्याह-" एवमिति ॥ ३३ ॥ ३४॥ यद्यपि सर्वजडाधिष्ठानत्वेन सर्वप्रत्ययगोचरत्वं ब्रह्मणस्तथापि पूर्णानन्दत्वादिरूपेण वेदैकगम्यत्वमित्याह-"स्वप्रकाशतयेति। स्वप्रकाशत्वेन सर्वप्रत्ययवेद्यत्वेन च ब्रह्मसिद्धावपि सविलासाक्षा- ननिवर्तकशानाय वेदान्तसाफल्यस्य बहुधाऽभिधानादित्यर्थः ॥ ३५ ॥ २३ १७८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- एवं जडानामन्योन्यभेदेनानुमितिः प्रमा। धादिकविकल्पैकग्रासवासानपायतः ॥ ३६॥ मिथ्यात्वसाधकानां हि हेतूनां प्रबलत्त्वतः । तैर्वाधान्नानुमानं ते जडानां भेदसाधकम् ॥ ३७ ॥ द्वासुपर्णेति पूर्वार्धे न प्रमेयो भिदेक्ष्यते । अपदार्थतया तद्वदवाक्यार्थतयाऽस्य च ॥ ३८ ॥ एवं जडानां परस्परभेदे नानुमानमित्याह-" एवमिति एवमिति "। घटस्तत्वतः शुक्त्यभिन्नो न शुक्तिसम्बद्धकालासम्बन्धित्वात् तज- नकाजन्यत्वात् तत्रारोपितरूप्यवत् व्यावहारिकभेदस्य त्वयाऽप्य- ङ्गीकारेण न पक्षदृष्टान्ताद्यनुपपत्तिः अन्यथा भेदसिद्ध्यसिद्ध्यो- र्दोषतदभावयोश्चाभेदेन स्वप्रक्रियाविरोधः स्यादित्यत्र तात्विकशु- त्यभिन्नत्वरूपप्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धः तत्वत इत्यस्य ने- त्यत्र विशेषणत्वे सुतरामप्रसिद्धः घटादिसमसत्ताकभेदमात्रेण हे- तोरुपपत्या अप्रयोजकत्वाच्च भेदस्य तात्विकत्वे बाधस्योक्तत्वेन बा- धाश्चेत्यर्थः ॥ ३६ ॥ मिथ्यात्वसाधकानां प्राबल्यस्योक्तत्वेन तेर्बाधाच न भेदेनुमानोदय इत्याह- मिथ्यात्वेति " । तस्मा पञ्चक नानुमानविषय इति भावः ॥ ३७॥ ॥.भेदपश्चकेनुमानभङ्गः ॥ . ननु भेदतात्विकत्वे 'द्वासुपर्णा' 'य आत्मति तिष्ठन्' 'नित्यो नित्याना बनशेतनानां' 'अजोधेको जुषमाणोऽनुरोते जहात्येनों भुक्तभोगामजोत्य' इति श्रुत्यो मानमित्याचयाह देति ३ मा बिलयमा खाभयप्रतियोमिकलेदसमानाधिकरणत्वनिर भेदश्रुतेरनुवादकत्वोपपत्तिः। १७९ हौ चन्द्राविति वन्मिथ्या भेदेनाप्युपपत्तितः । न वास्तवस्य भेदस्याक्षेपकत्त्वं भवेद्गिरः ॥ ३९ ॥ अतो नैवोत्तरार्द्धपि तात्विकं भेदमाह सा । बुद्धिजीवपरत्वेन व्याख्याता श्रुतिरन्यथा ॥ १०॥ चेतनश्चेतनानां य आत्मन्नित्यादिवेदगीः । आधाराधेयभावादेस्तात्विकत्वे न तत्परा ॥ ४१ ॥ किन्तु काल्पनिकं भेदमादायैवोपपद्यते । श्रुत्यन्तरविरोधाच्च न सा भेदपरा श्रुतिः ॥ ४२ ॥ त्रिकालाबाध्यताबोधिपदाभावादजाश्रुतिः । यमात् श्रुतद्वित्वार्थीपत्तिसमधिगतस्यापि भेदस्य श्रौतत्वमित्या- शङ्य निरस्यति-" द्वाविति ॥ ३९ ॥ अत एव नोत्तरार्द्ध- स्यापि तात्विकभेदपरत्वं । वस्तुतस्त्वस्याः श्रुतेः पैङ्गिरहस्यब्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवेशभेदपरत्वस्य वक्तुमशक्य- त्वादित्याह-“अतइति" ॥ ४० ॥ ‘य आत्मनि तिष्ठ 'नित्या- दावाधाराधेयभावस्य 'चेतनश्चेतनानामिति' निर्धारणस्य 'अ- जोन्य' इत्यत्र भेदव्यपदेशस्य च काल्पनिकभेदमादायाप्युपपत्ते:- दतात्विकत्वापर्यवसायित्वात् श्रुत्यन्तरविरोधाञ्चः न भेदे कस्या अपि श्रुतेस्तात्पर्यमित्याह-“चेतन" इति द्वाभ्यां ॥ ४१ ॥ ४२ ॥ नचैतच्छृतिविरोधात्सैव श्रुतिरन्यपरा भेदश्रुतेः प्रत्यक्षसिद्ध- भेदानुवादित्वेन हीनबलत्वादित्याह-" त्रिकालेति " सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- प्रत्यक्षसिद्धभेदानुवादित्वेन न तत्परा ॥ १३ ॥ व्यावहारिकभेदे वा तत्पराऽस्त्वर्थवादवत् । प्रामाण्यं वैपरीत्यं वा विरोधेनाभिदाश्रुतेः ॥ ४४ ॥ तात्पर्यलिङ्गवत्वात्स्यात्प्राबल्यमभिदाश्रुतेः । यत्र भेदश्रुतिर्मुक्तौ सा मुक्तिः स्यादवान्तरा ॥ ४५ ॥ परमुक्तौ न भेदोऽस्ति सर्वद्वैतनिषेधनात् । विस्तरेण प्रकारोऽयं ज्ञेयो भावप्रकाशतः॥ ४६ ॥ त्याह- अजोऽन्य इत्यादौ त्रिकालाबाध्यत्त्वबोधकपदाभावात् भेदनिषेधक- श्रुतेर्भेदतात्विकत्वनिषेधपरत्वेन भेदखरूपप्रतिपादकवाक्यस्य त- त्प्रतिप्रसवायोगात् प्रत्यक्षसिद्धभेदानुवादित्वमेवेत्यर्थः ॥४३॥ ॥ भेदश्रुतेरनुवादकत्त्वोपपत्तिः ॥ अथवाऽनुवादत्वाभावेऽपि व्यावहारिकभेदपरत्वेनैव श्रुत्युपपत्तिरि- व्यावहारिकेति "| न चाप्रामाण्यापातः अर्थवादवा- क्यवत्तदुपपत्तेः प्रतीयमानार्थे वा ऽभेदश्रुतिविरोधेनाप्रामाण्यस्येष्ट- त्वाच्चेत्यर्थः ॥ ४४ ॥ षड्विधतात्पर्यलिङ्गवत्त्वादेक्यश्रुतेः प्राबल्यमि- तात्पर्येति " । ननु नायं भेदो व्यावहारिको मुक्ताव- पि भेदस्य श्रुतिस्मृतिभ्यां सिद्धेरित्याशझ्याह-" यत्रेति "। तस्या मुक्तेरवान्तरत्वात् । नन्विदं 'ज्ञानमुपाश्रित्ये'त्यादिना सा परमा मुक्तिरित्यत आह-" परेति ” । परममुक्ती । परममुक्तौ भेदस्याप्रसक्तेः व्यावहारिकत्वोपपत्त्या भेदश्रुतेावहारिकभेदपरत्वमेवेति सिद्धं अयं प्रकारो विस्तरेणास्मतकृते गीताभावप्रकाशे द्रष्टव्य इ- त्यथः ॥४६॥ ॥ भेदश्रुतेावहारिकभेदपरत्वोपपत्तिः ॥ त्याह- ESH शब्दान्तरादेरात्मभेदकत्वाभावोपपत्तिः । न वा शब्दान्तरादीनां भेदकत्वेऽपि तात्त्विकें। अभेदे स्याद्विरोधित्वं प्रत्यक्षसमकक्षतः ॥ ४७ ॥ मीमांसकोऽप्यपूर्वस्त्वमन्यभेदकमानतः । कल्पयस्यात्मनोभेदं नेक्षसेऽतिप्रसञ्जनम् ॥ १८ ॥ भेदे षड्विधतात्पर्यलिङ्गं नास्ति श्रुतेर्मतं । ननु पूर्वतन्त्रे द्वितीयाध्याये येरेव शब्दान्तरादिभिः कर्मभेद उ- क्तस्तैरेव जीवेशभेदोऽपि सिद्ध्यति तथाहि एष एव जीवं प्रबोधयति- एतस्माजीव उत्तिष्ठतीति विरुद्धार्थधातुनिष्पन्नाख्यातरूपशब्दान्तरस्य नित्यः परो नित्यो जीव इत्यप्रत्यभिज्ञायमानपुनः श्रुतिरूपाभ्यासस्य द्वासुपर्णेत्यादिसंख्याया अशब्दं अनश्नन् इत्यादेर्भेदकस्य गुणान्तरस्य 'यतो वाचो निवर्तन्त' इत्यादिप्रकरणान्तरस्य जीवेशाविति नामधेय- भेदस्य सत्वाच्चेत्याशय निरस्यति-" न वेति " । प्रत्यक्षादि- समकक्षतया शब्दान्तरादीनां भेदकत्वेऽपि तात्विकाभेदाविरोधात न तथात्वमित्यर्थः ॥ ४७ ॥ शङ्कितुः शास्त्रतात्पर्यानभिज्ञतां दर्शयति- " मीमांसक इति" अदृष्टचरस्त्वं मीमांसको यः कर्मभेदे शा- स्त्रभेदे वा प्रमाणत्त्वेन क्लुप्तानां शब्दान्तरादीनां चेतनभेदे प्रमाण- त्वं कल्पयसि नह्यन्यभेदप्रयोजकस्यान्यभेदप्रयोजकता विशिष्टभेद- प्रयोजकस्यापि विशेषणभेदस्य विशेष्यभेदकत्वापत्तेः देवदत्त उत्ति- ष्ठति शिष्यं बोधयति यजति ददाति जुहोती.यादावपि भेदापत्तन शब्दान्तरस्य कर्तृभेदकतेत्यर्थः ॥ ४८ ॥ ॥ शब्दान्तरादेरात्मभेदकत्वाभावोपपत्तिः ॥ ननु षड्विधतात्पर्यलिङ्गोपेतश्रुतिगम्यभेदस्य कथमतात्विकत्वं तथा हि आथर्वणे 'द्वासुपर्णेत्युपक्रमः' परमं साम्यमुपैती'त्युपसं. हारः तयोरन्यः अनश्नन्नन्यः अन्यमीशमित्यभ्यासः शास्त्रकगम्ये- श्वरप्रतियोगिकस्य कालत्रयाबाध्यभेदस्य शास्त्रं विना अप्राप्तरपूर्वता 'पूण्यपापे विधूयोत' फलं * अस्य महिमान मिति स्तुतिरूपोऽर्थवादः १८२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- मुण्डकोपक्रमादीनामद्वैतैकपरत्वतः ॥ ४९ ॥ पौर्वापर्यापरिज्ञानात्प्राह भेदपरां श्रुतिम् । भ्रान्तस्तेन न वेदान्तंप्रमाणं भेदगोचरं ॥ ५० ॥ अत्ति अनश्ननित्युपपत्तिः अत्र च मायामात्रमिदं द्वैतमित्यादाविव द्विशब्द एव भेदवाचक इत्याशङ्कयाह-“भेद इति" । आथर्व- णे प्रथममुण्डके ' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भ- वतीति'प्रश्नानन्तरं द्वविद्ये वेदितव्ये इति विद्याद्वयमवतार्य ऋग्वे- दादिलक्षणामपरामुक्त्वा अथ परा यथा तदक्षरमधिगम्यते यत्तद्रेश्यमग्राह्यमगोत्रमवर्ण'मित्यादिना परविद्याविषयं प्रतिपा- दयताऽभेदस्यैवोपक्रान्तत्वात् द्वितीयमुण्डके 'पुरुषं एवेदं विश्वं ब्रह्मैवेदं विश्वमिदं वरिष्ठमिति मध्ये परामर्शात् तृतीय मुण्डकान्ते च 'परेऽव्यये सर्व एकीभवन्ति स योह वैतत्परमं ब्रह्म वेद ब्रह्मैव भ- वतीत्यैक्यलक्षणफलोपसंहाराच्च मुण्डकत्रयात्मिकाया उपनिषद ऐक्यपरत्वे स्थिते 'असंयुक्तं प्रकरणादिति'न्यायेनाभि(१)क्रमणादि- वन्मध्यस्थितवाक्यस्याऽपि द्वासुपर्णेत्यादेस्तदनुकूलत्वे सम्भवति महाप्रकरणविरोधेन विपरीततात्पर्यकल्पनया भेदोपक्रमत्वाभावात् परमं साम्यमुपैतीत्यस्य पूर्वोक्तन्यायेनैक्यपरतया भेदोपसंहारत्वा- भावात् अनश्नन्नन्य इत्यादिना न तात्त्विकभेदाभ्यास इत्यादिविचा- रेण श्रुतेरैक्यपरत्वं निश्चीयते इत्यर्थः ॥ ४९ ॥ ५० ॥ (१) ननु हासुपर्णेन्यादा वैक्यस्याऽस्पष्टवानीतम्या यस्तवाऽऽह अभिक्रमणेति । दर्श पूर्णमासौ प्रकृत्य प्रयानसमीपे श्रूयते अभिकामं जुहोतीति तवाभिका ममित्यस्य णमुल- तत्व नाभिक्रम्य त्यर्थकत्वात् जुहीतिना प्राकरणिकसर्वहोमानुवादातदुद्देशनाभिकमणं वि- धीयते प्रयाजानां सन्निधिसत्त्वेऽपि तदपेच या प्रकरणस्य बलवत्वात न चावान्तरप्रकरणन- प्रयोनाङ्गतेति वाच्यम् । अवान्तरप्रकरणस्यविनियोजकत्वे सर्वेषामङ्गानांतत्सम्भवेन मियो- जाङ्गितापत्तरिति प्राप्त प्रयाजाविधाय वौन्प्रयाजानिष्पवा समानयत उपमतः इत्यने- नोपभुतस्थाज्यस्याधं जुहवां स्थायमित्य व रूपंसमानयन विधायाभिकामं जुहोतीत्यु- यत्वायोवै प्रथाजानां मिथ नं वेद समिधीबहवौरिवेत्यादिना प्रयाजानियवाहवाष्यभिधार यतीव्यन्तेन प्रचाजपरामर्शात्तत्सन्टमस्य प्रयाजप्रकरणत्त्व निश्श्यात् तेन तन्मध्येयचद्धि- हित तत्तत्यानाड गमितिनिथयात इति दृतीयप्रथमे स्थितम् तथा च तन्नाचेन घुर्ता- पर मोक्याचार का बचपकार कुनामव्य संपामुषण वाद्यवस्थापि वदिताः।

ऐक्यखरूपोपपत्तिः। सामु १८३ ऐक्यमात्मस्वरूपं हि ज्ञानानन्दादिरूपवत् । निरपेक्षतयैक्यस्य निरपेक्षात्मरूपता ॥ ५१ ॥ तत्वमस्यादिमानं स्यादभेदे ब्रह्मजीवयोः । विरुद्धांशपरित्यागात्सोऽयमित्यादिवङ्वं ॥ ५२ ॥ त्यागो विरुद्धरूपस्याविवक्षामात्रतो मतः । ॥ भेदश्रुतेः षड्विधतात्पर्यलिङ्गभङ्गः ॥ नन्वैक्यमात्मखरूपमुतान्यत् नाद्यः एकतरपरिशेषाद्यापत्तेः सापेक्षेक्यस्य निरपेक्षात्मत्त्वायोगाश्च नान्त्यः सत्यत्वे अद्वैतहानिः मिथ्यात्वे तत्त्वमसीत्यादेरतत्त्वावेदकत्त्वापत्तेरित्याशयाद्यमेवान- बद्यमित्याह-" ऐक्यमिति" | शानानन्दयोरात्मैक्येऽपि यथा नै कतरपरिशेषपर्यायत्त्वादिकं कल्पितानन्दत्त्वादिधर्मात् तथा प्रक- तेऽपि सम्भवातू ऐक्ये अभिशेयत्त्वस्य प्रागुक्तः तस्याऽपि निरपेक्ष- तया निरपेक्षात्मरूपत्वाविरोधातू अज्ञानाद्यधिष्ठानतया भासमा- नात्मरूपत्वेऽपि पेक्यस्य तद्गोचरवृत्तिविशेषस्याज्ञाननिवर्तकस्येदा- नीमसत्वात्संसारोपपत्तिरपीति तात्पर्यार्थः ॥५१॥ शून्यस्य नि:- खरूपत्वान्न शून्यस्यैक्यरूपताऽतो जीवब्रह्माभेदे 'तत्त्वमस्ययमात्मा ब्रह्मेत्यादिश्रुतिर्मानमित्याह- " तत्त्वमिति " ॥ ५२ ॥ ॥ ऐक्यखरूपोपपत्तिः ॥ ननु सार्वश्यासावश्यादिविशिष्टयोरैक्यमयोग्यतापराहतं कथमुदाह- तभुत्या बोध्यमित्यत आह-"विरुद्धांति" ।सोऽयमित्यादाविव विरुद्धाकारत्यागेन शुद्धयोरैक्यबोधनं युक्तमित्यर्थः । ननु विरुद्धाका- रत्यागो किमविवक्षामात्रेण उतानित्यत्त्वेन उत मिथ्यात्वेन नाद्यः वि- रुद्धाकारस्याविवक्षायामण्यनपायातू न हि असद्वा इदमन आसीत् सर्व प्री त्यादिश्रुत्या सत्त्वशून्यत्वयोश्चित्त्वजडत्वयोहाविवक्षामा- १८४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- स च ब्रह्मानुभूत्यैकागोचरत्वं न चात्ययः ॥ ५३ ॥ जडानां बाध्यरूपत्वान्निःस्वरूपत्वतो ऽसतः । न जीवब्रह्मवत्तत्रानुस्यूताकारसम्भवः ॥ ५४ ॥ नोपजीव्यविरोधोत्रोपजीव्यांशो न बाध्यते । त्रेण ब्रह्मणः शून्येन जडेन च ऐक्यं सुवचं न द्वितीयः तत्त्वं भवि. व्यसीति निर्देशापत्या असीति वर्तमाननिर्देशायोगातू दशाभेदेन भेदाभेदयोः सत्त्वापत्या त्वयाप्यनङ्गीकाराच जीवेशयोः स्वातन्त्र्य- पारतन्त्र्यादनियत्त्वाञ्च न तृतीयः निर्दोषश्रुतिसाक्षिसिद्धयोविरुद्ध- धर्मयोर्मिथ्यात्त्वायोगादित्याशङ्ख्याह-" त्यागइति "। विरुद्धा- कारस्याविवक्षयत्र त्यागात् त्यागश्च ब्रह्मानुभवाविषयत्वं न त्वपायः तस्य चरमसाक्षात्कारसाध्यत्वात् तथा च तत्तेदन्ते इवानपेते अपि सार्वझ्यासावश्ये नाश्रयाभेदविरोधाय अविवक्षा च प्रधानप्रमेयनि- वाहायेत्यर्थः ॥ ५३॥ असदेत्यादी सर्व खल्विदं ब्रह्मेत्यादौ च शून्यजडैक्यापत्ती इ. " त्याह- जडानामिति" । शून्येसतोः चिजडयोर्वा विरुद्धा- कारपरित्यागेन जीवब्रह्मणोरिवानुस्यूतस्याकारस्याभावात् असतो निःस्वरूपत्वाजडस्य बाध्यखरूपत्वान्न तदैक्यापत्तिरित्यर्थः ॥ १४॥ ॥ जीवब्रह्माभेदेप्रमाणम् ॥ नन्वैक्यश्रुत्या प्रत्यक्षसिद्धं जीवमनूद्य ब्रह्मत्वं वा बोधनीयं श्रुति- सिद्धं ब्रह्मानूद्य तस्य जीवत्वं वा उभयानुवादेनाभेदो वा विधेयः सर्वथाऽप्युपजीव्यविरोधान्नैक्ये प्रामाण्यं प्रत्यक्षेण जीवस्य ब्रह्म- भिन्नत्वेन श्रुत्या च सर्वशत्वादिमब्रह्मग्राहिण्या तद्धीनत्त्वेनानु- भयमानाजीवाद्भिन्नत्वेन ब्रह्मणो ज्ञायमानत्वात न चानुमानेन ब्र- गोपस्थितिः तेनापि सर्वशत्वादिना ब्रह्मणो विषयीकरणेनोपजीव्य- विरापनादयमथ्यादितिचेन्मैवमित्याह-" नोपजीव्येति । ।

ऐक्यश्रुतेरुपजीव्यबाधाभावः। यहाध्यते न तच्चेहोपजीव्यमिति वर्णितं ॥ ५५ ॥ सार्वझ्यादिविशिष्टं यत्तत्रैक्यं नेष्यते मया । ऐक्यज्ञानं प्रमाणत्त्वे न तज्ज्ञानमपेक्षते ॥ ५६ ॥ तस्मादैक्यश्रुतेः सर्वशेषित्वेन बलिष्ठता । ब्रह्मात्मैक्यपरत्वं स्यात्सिद्धं भेदैकबाधनात् ॥ ५७ ॥ तात्पर्यनिश्चितेोक्ये तन्निर्वाहकलक्षणा । राक्तिग्रहादी तयोरूपजीव्यत्वेऽपि वप्रमेयेऽनुपजीव्यत्वात् तथा च यदुपजीव्यं तन्न बाधते यद्वाधते तन्नोपजीव्यमिति मिश्रोत्या प्रा. ग्वर्णितमित्यर्थः ॥ ५५ ॥ ननु यद्धि यदपेक्षं यस्य बाधे स्वस्य बाधापत्तिश्च तत्तस्योपजीव्यं प्रकृते च धादिग्राहकस्यैव स्वप्रामाण्यग्राहकतया तबाधे स्वबा- धापत्तिरिति चेत्सत्यमित्याह-" सार्वइयादीति"। सार्व- श्यादिविशिष्टं न तद्धर्मि: किन्तु ब्रह्मस्वरूपमा विशिष्टधर्मिज्ञानप्रा माण्यमक्यज्ञानप्रामाण्ये नापेक्ष्यते किन्तु स्वरूपज्ञानप्रामाण्यमात्र- मित्यर्थः ॥ ५६ ॥ तस्मादुपजीव्यविरोधाभावात् प्रत्युताभेदश्रुतेरेव सर्वशेषितया भेदश्रुतिं प्रत्यप्युपजीव्यत्वात् भेदश्रुतेरेव तद्विरोधेन तदानुकूल्यतया नेयत्वात् सर्वविरोधशून्यं तत्वमस्यादिवाक्यं तथा- चैक्यपरमिति सिद्धमित्याह-" तस्मादिति " ॥ ५७॥ ॥ ऐक्यश्रुतेरुपजीव्यबाधाभावः ॥ नन्वेवं पदद्वयेऽपि लक्षणा स्यात् तथा च मन्मतमाश्रित्येक पदलक्षणैव लक्षणीया तथा हि द्वासुपर्णा सयुजेत्यादौ जीवस्य ब्र- झसाहचर्योक्तेस्तत्साहचर्यात्तदिति व्यपदेशः 'वसन्तादिश्यष्ठगि'- २४ १८६ सव्याख्यातिसिद्धिसिद्धान्तसारे। १२ परिच्छेदे- निर्दष्टा न तु तात्पर्यत्यागस्तदनुरोधतः ।। ५८ ॥ न हि मुख्यपरत्वे स्युरीन्तरविकल्पनाः । त्यत्र वसन्तसहचरिते(१)अध्ययने वसन्तपदप्रयोगस्य महाभाष्ये उ- तात्वा त्सन्मूलाः प्रजाः सदायतना' इत्यादिवाक्यशेषात्प्रसिद्धत- दाश्रितत्वाद्वा तदितिव्यपदेशः 'समर्थः पदविधि'रिति सूत्रे समर्थ- पदाश्रितत्त्वेन पदविधौ समर्थपदप्रयोगस्य महाभायोक्तेः 'सन्मू- लाः सोम्येमाः सर्वाः प्रजा' इति वाक्यशेषात्प्रसिद्धतजत्वाद्वा त- त्पदप्रयोगः 'ब्राह्मणोऽस्य मुखमासी'दित्यादिवत् 'इग् यणः संप्रसा- रण'मित्यत्र(२)संप्रसारणाजातोवर्णः संप्रसारणमिति भाष्योक्त. 'प्रा. णबन्धनं हि सोम्य मन' इति वाक्यशेषेण जीवस्येशाधीनत्त्वोक्त्या तदधीनत्वाद्वा तच्छब्दप्रयोगः 'धान्यमसि घिनुहीं'त्यत्र मन्त्रे त- ण्डुले धान्यपदप्रयोगवत् 'तत्साहश्याद्वा तच्छब्दप्रयोगः सारुप्या- दिति जैमिनिसूत्रे 'आदित्यो :यूप'इत्यादिकं साहश्यादित्युक्तत्वात 'तद्गुण(३)सारत्वात्तद्यपदेशःप्राक्षव'दिति ब्रह्मसूत्रेण ब्रह्मगुणयोगा- जीवे तद्यपदेश इत्युक्तरिति चेन्मैवमित्याह-" तात्पर्यइति । अभेदे तात्पर्येऽवधूते तन्निाहकलक्षणाबाहुल्यस्यादोषत्वात् न हि लक्षणैक्यानुरोधेन तात्पर्यपरित्यागः तदुक्त न्यायचिन्तामणी ता- स्पयोगि वृत्तिर्ने वृत्तेस्तात्पर्यमिति तात्पर्यार्थः ॥ ६८॥ () स्वायनविषये वसनासावरित वसन्तादिम्बष्ठगिायवेन तद वोने तक दिल्या- याधे ठग्विधानाइसन्तकालस्याचायनाविषयत्वाइसन्त प्रतिपादको गणनेवसन्तशब्दार्थस्तस्य व- सन्तसम्बन्धिपदसम्बन्धित्व न वसन्तसाहचर्यादिस्युक्तम् । (R) इग्यणः सम्प्रसारमामिति सवै यणः स्थाने य इग्वर्णः स सम्प सारण संश- रति चे चर्हि ग्यअचम्पासारणमित्यादी दोषी न हि थजीयणस्थाने एकासिद्धोस्तियः यः सम्प सारणमित्यनेन वर्ष संज्ञा पक्षं दूषयित्वा पण स्थाने भवनकपो वाक्यार्थः म सम्प-- मारपसज इति पलान्तरमाश क्या वाक्यार्थस्यासवरूपचन स्थानिलावभावात्सम्प मार- नवनिदिने नीति तदपि षधिता काकाजाते काकादिपदस्य व सम्प मारगाना- जवन न स्यानिवायापनिहित्यताम तत्त्वमसीतिवाफ्यार्थनिरूपायम 410 न तथा श्रुतिसूत्राणां व्यवस्था वन्मतेऽञ्जसा ॥ १९ ॥ विशेषणांशत्यागेऽपि न त्यागः स्थाद्विशेष्यगः । भागलक्षणया त्वैक्यं निर्दुष्ट श्रुतिसम्मतं ॥ ६० ॥ स आत्मा तत्वमित्यत्रैतदात्म्यमिति शहतः जहदजहल्लक्षणया मुख्यपरत्वे सम्भवति तस्सहचरितार्थप- रत्वकल्पनस्यानुचितत्वादित्याह-" नहीति " । 'हा सुपर्णा सयुजा' इत्यनेन न जीवस्य ब्रह्मणा सहचरितत्वोक्तिः किंत्वन्ताक- रणेनेति न तेन सहचरितत्वप्रसिद्धिरपि न वा 'सन्मूलाः सर्वाः प्रजा इत्यादिना जीवस्य तदाश्रितत्त्वप्रसिद्धिः प्रजाशब्दस्य प्रजाय- मानवाचकत्वेन जीवस्य नित्यस्थाप्रतिपादनात् अतएव न तज्जन्य- स्वेन तच्छब्दप्रयोगः यत्तुः 'तगुणसारत्त्वा'दित्यादिना जीवे ब्रह्म- गुणयोग इति तन्न । बुद्धिगुणसूक्ष्मत्वयोगाज्जीवे ब्रह्मणीव सूक्ष्मः स्वमित्येवंपरत्वात्सुत्रस्य सर्वत्रापि श्रुतिसूर्थानभिज्ञत्त्वमेव खस्य प्रकटितमित्यर्थः । ननु जहदजहल्लक्षणायां वाच्यान्तर्गतत्त्वेनः प्रा- ग्धीस्थस्य बाधकात त्यक्तस्य पुनःस्वीकारः जहल्लक्षणायां अधीस्थस्या- त्यक्तस्यैव स्वीकारः त्यक्तस्वीकाराद्वरमधीस्थस्वीकार इतिचेन्मैव-- मित्याह-" विशेषणांशेति विशेषणांशेति"। अनुपपत्त्या विशेषणत्यागेऽपि विशष्यांशात्यागात् तथा च तेन त्वं तिष्ठसीति वा ततः सनात. इति वा तस्य त्वमिति का तस्मिस्त्वर्माित बाऽर्थप्रकल्पनमतीवास-- झतमेवोत्प्रेक्षितमिति नैक्ये का चिदप्यनुपपत्तिस्त्वत्सम्भाविता स- म्भवतीति तात्पर्याथैः ॥ ६ ॥ नन्वै तदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्वमसी' स्यन नस्प- देन नात्मा परामृश्यते किन्त्वैतदात्म्यं नपुंसकत्त्वात् ऐतदात्म्यमि- त्यस्य एष चासावात्मा च एतदात्मा तस्येदं ऐतदात्म्यं एवं च ए- १८८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे. एतत्सद्यस्य सर्वस्यास्त्यात्माभावेष्यो विधेः॥ ६१॥ सामानाधिकरण्यं तद्यो वै भूमेतिवत्सुखं । एकविज्ञानतः सर्वविज्ञानस्य प्रतिज्ञया ॥ ६२ ॥ न चैक्यं देहदहित्वहेतुकं तत्वमोर्मतं । तदीयं वस्तु त्वमसीत्यर्थों नत्वात्माभेदः एतदात्मा यस्य तदैतदा- त्स्यमित्यर्थे भावप्रत्ययवैयापत्तेः ततो वरमर्थान्तराश्रयणं वि. चित्रा हि तद्धितगतिरिति वचनातू 'स स्रष्टा चैव संहतो नियन्ता रक्षिता हरिः। तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुरिति स्मृते- श्चेति चेन्मैवमित्याह-“स इति द्वाभ्यां । अयमर्थः तस्ये- दमित्यर्थे ष्यञोऽविधानात् प्रयोगादर्शनाच्च स्वार्थे च सौख्यमि- त्यादिप्रयोगदर्शनात् तथा च एतत्सत् आत्मा यस्य सर्वस्य तदेत- दात्म तस्य भाव ऐतदात्म्यं सामानाधिकरण्यं तत्स्वार्थिकत्वाद्धा भावभविनोरभेदोपचाराद्वा यो चै भूमा तत्सुखमितिवत् यत्तु स्मृ. तावेतद्यापकत्वेन ऐतदात्म्योक्तिः सा न युक्ता एकविज्ञानेन सर्व- विज्ञानप्रतिज्ञाविरोधादिति ॥ ६१ ॥ ६२ ॥ ननु शरीरवाचिनां देवमनुष्यशब्दानां शरीरिपर्यन्तत्वदर्श- नात् ब्रह्मशरीरभूतजीववाचित्वम्पदस्य ब्रह्मपर्यंतत्वेन तत्त्वमिति व्यपदेशः शररिशरीरिभावनिबन्धनः 'यस्यात्मा शरीर'मित्यादिश्रुते- रिति मुख्यमेवास्मन्मते पदद्वयमिति चेन्मैवमित्याह-"नचेति" अयमर्थः शरीरिपर्यन्तत्वमिति तल्लक्षकत्वं वा तत्रापि शक्तत्वं वा शरीरविषयवृत्त्यैव तत्प्रतिपादकत्वं वा नाद्यः मुख्यत्त्वानुपपादनात न द्वितीयः शरीरवाचिनामित्यसाधारण्येन निर्देशानुपपत्तेः प्रवृ- तिनिमित्तमनुष्यत्वादिजातेः शरीरिण्यवृत्तेरुक्तत्वाञ्च, न तृतीयः अ- न्यविषयवृत्तेरन्य त्रानुपयोगेन शरीरशरीरिणोरनादिभ्रमसिद्धाभेद- निबन्चता र प्रयोगो वाच्य तथा चात्राप्य भेदनिबन्धन एवायं प्र- शकुनिसूत्रदृष्टान्तादेरन्यथोपपत्तिः । १८९ तात्विके बाधकाभावादभेदे ब्रह्मजीवयोः ॥ ६३ ॥ वेदे शकुनिदृष्टान्ते भेदः सन्नन्यथेष्यते । स्वमपीत इति श्रुत्या स्वरूपे स्वार्थ ईरितः ॥ ६४ ॥ प्राज्ञेन सम्परिष्वक्त इति विक्षेपहानितः । योगः अभेदस्तु भेदबोधकाभावादत्र तात्विक इत्येव विशेष इति ॥ ६३ ॥ ननु ‘स आत्मा तत्वमसी त्यत्रातत्त्वमसीति पदच्छेदः शब्दो नित्य इत्यत्रानित्य इति पदच्छेदो यथा घटदृष्टान्तानुसारेण त- थानापि शकुनिसूत्रादिदृष्टान्तानुसारादिति चेन्नेत्याह-" वेद इति । 'स यथा शकुनिः सूत्रेण प्रबद्ध' इत्यादिदृष्टान्ते विद्य- मानोऽपि भेदो नातदिति पदच्छेदप्रयोजकः तं विनैव तदुपपत्तेः तथा हि ज्वरादिरोगग्रस्तस्य तन्निर्मोके स्वास्थ्ये विश्रान्तिवत् जाग्रत्ख- प्रावस्थयोः करणव्यापारजनितश्रमापनुत्तये जीवस्य देवतात्मकस्ख रूपावस्थानमित्यस्मिन्नर्थे शकुनिसूत्रदृष्टान्त इत्यन्यथैवोपपत्तेः 'स्व- मपीतोभवती'त्यत्र स्वशब्दस्य स्वरूपे मुख्यस्यार्थान्तरपरत्वे गौणी- लक्षणयोरन्यतरापत्तेः अभेदे योगरूड्योरभावेऽप्युपसर्गप्रकृतिप्रत्य- यपर्यालोचनया लब्धखरूपप्राप्तिरूपार्थस्य अभेदे पर्यवसानादिति तात्पर्यार्थः ॥ ६४॥ प्राशेनात्मना सम्परिष्वक्त' इति सुषुप्तविषयभेदश्रुत्या त्वन्मतेऽपि भेदपरेण 'सु(१)षुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रेण त्वत्पक्षेपि जागरण इव सुषुप्तावप्याविद्यकजीवब्रह्मभेदस्वीकारेण च विरोध इति चन्नेत्याह-" प्राज्ञेनेति "। सुप्तौ हि जाग्रतस्वप्नाव- स्थयोरिव स्फुटतरविक्षेपो नास्तीत्यभिप्रायेण स्वरूपप्राप्त्युक्तिः नत्त्वा- त्यन्तिकाभेदाभिप्रायेणान्यथा सुषुप्तिमुक्त्योरविशेषापत्तिः स्यादि- SURE) ब्र सू० ११३। ४२ ।

सव्याण्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेद-
सुप्तौ स्वरूपलाभोक्तिनत्त्वात्यन्तिकतत्परा ॥ ६५ ।।
एवमन्यत वेदान्ते भेदगन्धोऽपि नेष्यते ।
ऐक्ये षड्विधतात्पर्यलिङ्गसद्भावतः श्रुतेः ॥ ६६ ॥
ब्रह्म वा इदमित्याद्यारण्यकस्थगिरामपि ।
ऐक्ये प्रमापकत्वं ता न भेदं लवतोऽब्रुवन् ॥ ६७ ॥
स यश्चायं नरे यश्वासावादित्ये स एककः ।
इति गीरैक्यमेवाहोपाधिभेदनिवारणात् ॥ ६८ ॥
स योह परमं ब्रह्म वेदेत्यादि तु मुण्डके ।
ब्रह्मैक्यपरमेवेति वाक्यं भेद्भमापहं ॥ ६९ ॥
त्यर्थः ॥६५॥ उक्तन्यायमन्येषु श्रुतिवाक्येष्वतिदिशति-" एव
मिति ॥६६॥
॥ तत्त्वमसिवाक्यार्थनिरूपणम् ॥
बृहदारण्यकस्थितस्य तु ब्रह्म वा इदमन
वा इदमग्र आसीत।
तदात्मानमेवावेदहं ब्रह्मास्मीति वाक्यस्यानुपासनाप्रकरणस्थ-
नया अभेदप्रमापकत्वमेवेत्याह-" ब्रह्मति
ब्रह्मेति ” । ता गिरोल-
वतों शतोपि कटाक्षेणापि भेदं न वदन्तीत्यर्थः ॥६७॥ स(१) यश्चार्य
पुरुषे । यश्वासावादित्ये। स एक' इति वाक्यस्यापि नान्तर्याम्वैक्यप-
रता 'ब्रह्मविदाप्नोति पर' मित्यादिना. शुद्धस्य ब्रह्मणः प्रकततया
तस्मिन्नुपाधिकृतभेदस्य तात्विकत्वप्रसक्तो तभिराकरणार्थत्वेन ऐ.
क्योपदेशोपपत्तेरित्यभिप्रेत्याह-" स इति " ॥ ६८ ॥ मुण्डकाप
तदेवयपरं वाक्यमुदाहरति- स य इति ॥ ६ ॥

RAN एकीभावस्य गौणत्वनिरासः । १९१ १ परात्परमुपैतीति ब्रह्मप्राप्तिपरं वचः । आवद्याभ्रान्तिबाधात्स्यादैक्यज्ञाने न सा गतिः॥७॥ सर्व एकीभवन्तीत्येतदप्यैक्यप्रमापकम् । अज्ञानहेतुकानेकभावं ध्वस्तैकतां गतः ॥ ७१ ॥ अतोऽन्यदात नेतीति जडवर्गनिषेधतः । परात्परं पुरुषमुपैति दिव्यामिति न देशान्तरस्थब्रह्मप्राप्त्युक्ति- परा तस्याः सगुणोपासनफलत्वेन ब्रह्मविद्याफलत्वासम्भवेन स्वरू- पभूतब्रह्मप्राप्तिपरत्वादित्याह-" परात्परमिति " । नन्वद्वैति- मते नित्यं ब्रह्मभूतस्या पूर्वब्रह्मभावोक्तिरयुक्तेति तनाह "अवि- द्याभ्रान्तीति" कण्ठगते चामीकरादौ भ्रान्तिनिवृत्तिमात्रेण प्रा- मप्राप्तिरूपतया फलत्वदर्शनातदुक्तियुक्तैवेत्यर्थः ॥ ७० ॥ ' परे- ऽन्यये सर्व एकीभवन्ती'त्येतदप्यभेदे मानमित्याह-"सर्व इति"। ननु गावः सायं गोंष्ठे एकीभवन्ति' एकीभूता नृपाः सर्वे ववृषुः पा- ण्डवं शरैः । कीटो भ्रमरेणैकीभूत इतिस्थानकमत्यैक्यसादृश्यनिब- न्धनकीभावस्य गोनृपकीटभ्रमरादी दर्शनातू अनापि तैरेव निमि- तैर्गौण एकीभावः स्यादित्याशय निराचष्टे-" अज्ञानेति"। मुख्यत्वे सम्भवति गौणत्वस्यायोगात् ब्रह्मैक्यमात्रपरत्वेन सकृदु- चरितस्य नानेकार्थपरत्वशङ्कापीत्यर्थः ॥ ७१ ॥ अनेन ह्येतत्सर्वे वे- देति प्रतिज्ञातस्यैकविज्ञानेन सर्वविज्ञानस्योपपादनार्थ अन्यत्वेन प्र- तीतेन जीवेनाभेदबोधनात् अचेतनवर्गस्यातो ऽन्यदात नेति नेतीति निषेधाश्च जीवब्रह्माभेद एव वाक्यप्रमेयः दृष्टान्ते तु अभेदस्याविव- क्षितत्वात त्वदुक्तप्रकाराश्रयणे बाधकाभावान्नाद्धतिमते क्षतिः का १९२, सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे- ब्रह्मात्मैक्यं प्रमेयोऽत्र सर्ववेदान्तसंग्रहे ॥ ७२ ॥ अन्तर्याम्यमृतोह्येष त आत्मेत्यैक्यतत्परम् । अतोऽन्यदातमित्यत्र दृश्यमिथ्यात्वबोधनात् ॥ ७३ ॥ द्वितीयाद्यमित्यत्र भेदस्याभयहेतुताम् । वहन्ती निन्दया त्वैक्यं प्रमेयं वदति श्रुतिः ॥ ७४ ॥ यन्मदन्यन्न चास्तीह तत्कस्मान्नु बिभेम्यहम् । चनास्तीत्यभिप्रेत्याह-" अतइति " ॥ ७२ ॥ ॥ नन्वत्राप्यन्तर्यामिवाक्ये 'य आत्मनो अन्तरो यमात्मा न वेद यस्यात्मा शरीरं यश्चात्मानमन्तरो यमयतीति पूर्ववाक्येन 'एष त आत्मा अन्तर्याम्यमृत अतोन्यदात मित्युत्तरवाक्येन च विरोधः तत्र परमात्मनोऽन्यं चेतनमङ्गीकृत्य तस्यातियुक्तत्त्वेनाखातन्त्र्यस्यै- वोक्तरित्याशय पूर्ववाक्यस्योपाधिकभेदमात्रेणोपपत्तेः उत्तरवा- क्येन न चेतनान्तरस्यातियोगो विधीयते. किन्त्वेषोन्तर्यामी ते आ- त्मेति जीवखरूपभूतादन्तर्यामिणोव्यतिरिक्त सर्व आर्त विनश्वर- मिति वा मिथ्येति वा बोधना न विरोधशङ्काऽस्तीत्यभिप्रेत्याह- अन्तर्यामीति" ॥ ७३ ॥ द्वितीयाद्वै भयं भवतीति'भेदस्य भ- यहेतुत्वेन निन्दितत्वादप्यभेद एवोपनिषद्गम्य इत्याह-" द्विती- यादिति ॥ ७४ ॥ नन्वस्य विरोधिनः समानाद्भयं भवतीत्येवा- थः लोके तादृशादेव भयदर्शनेन लोकसिद्धानुवादित्वात् पूर्वत्र तस्मादेकाकी बिभेति'उत्तरत्र 'तस्मादेकाकी न रमते' इति श्रव- जाविति शहां श्रुत्यन्तरनिदर्शनेन निरस्यनि- यदिति । यत्पदन्यतास्त पस्मान्नु बिभेमीति 'तत पवायं भयं वीयाये- ऐक्ये श्रुतिप्रमाणोपन्यासः। द्वैतस्य भयहेतुत्वं स्पष्टमाह श्रुतिः स्वयम् ॥ ७५ ॥' अल्पमप्यन्तरं कुर्वन्भयं यातीति वेदगीः । भेदस्य निन्दनादैक्ये प्रामाण्यं भजते स्फुटं ॥ ७६ ॥ सर्वभूतेषु गूढोऽयं देव एक इति श्रुतिः । केवले निर्गुणे शुद्धे मानमद्वैतवस्तुनि ॥ ७७ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ७८ ॥ यावन्मोहं तु भेदः स्याज्जीवस्य च परस्य च । ति'श्रुतेः सामान्यतो द्वितीयमात्रदर्शनस्यैव भयहेतुत्वात विशेषक- ल्पनायोगात् 'एकाकी बिभेतीति'पूर्ववाक्ये परमार्थदर्शनरहितस्य तन्निमित्तभयसम्भवात् एकाकी बिभेतीत्युक्तं उत्तरवाक्ये तस्मा- देकाकी न रमते'इत्यत्र इष्टसंयोगजन्यरतेरेकाकिन्यभावात् एका- किनो रतिर्नास्तीत्युक्तं ततश्चातत्वज्ञविषयोक्तवाक्यानुसारेण. तत्त्व- शविषयमध्यवाक्यस्य स्वार्थसमर्पणेनाप्युपयुक्तत्वात तद्विरोध्यर्थ- परत्त्वायोगात् य एतस्मिन्नुदरमन्तरं कुरुत अथ तस्य भयं भव- तीति भेदनिन्दयाऽप्यभेदसिद्धिरिति द्वयोस्तात्पर्यार्थः ॥ ७५ ॥ ७६ ॥ 'एको देवः सर्वभूतेषु गूढ' इत्यादिश्रुतिरप्यैक्ये प्रमाणमित्याह- " सर्वेति" ॥ ७७ ॥ श्रुत्यन्तरमप्यत्रप्रमाणमित्याह-" एक- ॥ ७८ ॥ भेदस्थाविद्यकत्वे ऐक्यस्य तात्विकत्वे स्मृतिप्र- यावदिति" त्रिभिः । एवं श्रुतिस्मृतिवाक्यानि " एवेति" माणमाह- १९४ सव्याख्यावेतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- ततः परं च भेदोऽस्ति भेदहेतोरभावतः ॥ ७९ ॥ विभेदजनके जाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ ८ ॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । एवं श्रुतिस्मृतीनां स्युर्गिरोमानं सहस्रशः ॥ ८१ ॥ तत्त्वतो नैव भिधन्ते जीवास्ते परमात्मनः । परमात्मवदेवते आत्मत्वादिति माऽनुमा ॥ ८२ ॥ यद्वा खव्यवहारे स्वभिन्नज्ञानानपेक्षता । हेतुरस्त्वथवा तत्राबाध्यत्त्वं ज्ञातृताऽथवा ॥ ८३ ॥ पारमार्थिकभेदस्य सर्वत्रासम्भवादपि । जडे न व्यभिचारोऽस्ति तात्विकाभेदसाधने ॥८॥ सहनश ऐक्ये प्रमाणमिति सिद्धमिति भावः ॥ ७९ ॥ ८०॥८१॥ ॥ अहं ब्रह्मास्मीत्याधनेकश्रुतिस्मृत्यर्थकथनम् । एवमनुमानमपि तन मानमित्याह-" तत्त्वत इति " । अनु- मा अनुमानं मा प्रमाणमित्यर्थः । ननु आत्मत्वजातिरत्र हेतुस्तथा- चाभेदे हेतूच्छित्तिरेव प्रतिकूलस्तर्क इति चेन्न तत्वतोमेदपि व्याव- हारिकमेवेनैव व्यावहारिकजातेरसुच्छेदोपपत्तेरिति भावः ॥ १२ ॥ खव्यवहारे खभिन्नज्ञानानपेक्षत्वं वा हेतुः तचापि जीवस्य स्वा- भिन्ननित्यज्ञानस्याबाध्यव्यवहारविषयत्वात अबाध्यत्वं हेतुः हात- स्वादिस्ययन हेतुः जीव उपधेयान्तःकरणोपहितवृत्तिस्तस्यासिडे- भावादित्यधिपत्याह । मति वाश्यां । ८३॥ ८४ ॥ मेदो मेंदधियो मिथ्यात्वेऽनुमानोपन्यासः । १९५ भेदो मिथ्याऽस्ति भेदत्वादेकस्यां दृशि कल्पितः । दृश्यत्वादिति हेतो, चन्द्रभेदवदेव सः ॥ ८५ ॥ मिथ्याऽस्ति भेदधीर्मेंदधीत्वाञ्चन्द्रभिदेव धीः । इत्यादीन्यनुमानानि भेदमिथ्यात्वसाधने ॥ ८६ ॥ पादोऽस्येति श्रुतौ तद्वन्ममैवांश इति स्मृतौ । मिथ्या एकस्यां इशि कल्पितो वा भेदत्वात् दृश्यत्त्वाचा चन्द्रभेद- वदित्यनुमानान्तरमाह-" भेदइति” । एकस्यां इशि क्षणि- कवादिकल्पितभेदवद्वा मिथ्या अकल्पितभेदो न कुत्रापीत्यर्थः ॥ ८५॥ एवं विमता भेदधीमिथ्या भेदधीत्वाञ्चन्द्रभेदधीवदित्यनु- " मिथ्येति। चन्द्रभिदेव धारैति भिदा प्रमेयत्वेन विषयो यस्याः सा धीस्तथेत्यर्थः ॥८६॥ ॥ जीब्रह्माभेदानुमानोपपतिः ॥ मानान्तरमाह- 'पादोऽस्थ विश्वाभूतानीति श्रुतौ 'ममैवांशो जीवलोके जीव- भूतः सनातन इति स्मृतौ चांशत्वव्यपदेशादपि जीवब्रह्माभेदसि- द्धिरित्याह-पादइति" । यद्यपि ब्रह्म प्रति जीवस्यांशत्वं न ताबदारम्भकत्वं ब्रह्मणोऽनादित्वात नापिः खण्डन्, अछेद्यत्वात् नापि सामुदायित्त्वं समुदायस्य समुदाय्यनन्यावेन व्यवहारदशा- यामपि संसार्यन्यशुद्धब्रह्माभावापातात नापि भिन्नाभिन्नद्रव्यत्व- मनङ्गीकारात् नापि घटं प्रति खण्डपटस्येव प्रदेशवं निष्प्रदेशब्रह्म- प्रति कल्पनां विना तदद्योगात् तथापि घटाकाशस्य महाकाशं प्रतीव कल्पितत्त्वं जीवस्यावच्छेदपक्षेः सम्भवतिः स्वतो. निरंशेय

Brata
सव्याख्यातिसिद्धिसिद्धान्तसारे। [२परिच्छेदे.
अंशत्वोक्त्याऽनयोरक्यं घटाकाशादिसाम्यतः ॥ ८७ ॥
निरंशेऽप्यंशतारोपो भवेदौपाधिकस्ततः ।
महत्खं कुम्भखं यद्वदन्यथा नांशतेष्यते ॥ ८८ ॥
तथा ब्रह्मात्मनोरैक्यं स्याद्विम्बप्रतिबिम्बवत् ।
आपाताद्भेदभानेऽपि सयुक्त्यध्यक्षतोऽभिदा ॥ ८९ ॥
यत्स्वलक्षणकं वत्क्रं दृष्टं ग्रीवास्थमुज्ज्वलं ।
दर्पणस्थं तथेदं तदेवेति मुखमस्ति मे ॥ ९० ॥
औपाधिकांशो यथा युज्यते तथोक्तं पुरस्तादिति द्वयोस्तात्प.
यार्थः ॥ ८७ ॥ ८८ ॥
॥ अंशत्वेनैक्यसिद्धिः॥
तथा जीवब्रह्मणोर्मुखप्रतिमुखवद् बिम्बप्रतिबिम्वरूपत्वादप्यभे-
दोऽवगन्तव्य इत्याह-"तथेति"। ननु दृष्टान्ते नाभेदः संप्रतिपन्नः
चैत्रछाये भिन्ने इतिवञ्चैत्रतत्प्रतिबिम्बे भिन्ने इत्येव पार्श्वस्थितेन
ग्रहणात् खेनापिस्वकरतत्प्रतिविम्बे भिन्ने इति ग्रहणादित्याशङ्याह-
"आपातादिति" | आपाततो भेदप्रतीतावपि सयुक्तिकप्रत्यक्षेण-
बिम्बप्रतिविम्बयोरभिदैवेत्यैक्यसिद्ध्या दृष्टान्तत्वोपपत्तिरस्त्येवेत्यर्थः
॥८९॥एतदेवानुभवेन द्रढयति-“यत्स्वलक्षणकमिति" । लक्ष-
णापरिज्ञाने भेदभ्रमवतोऽपि बहिस्थितश्चैत्रोयत्स्वलक्षणकत्वेन 'प्र-
तिपन्नः ततो गृहस्थे तथा भाति तस्मिश्चैत्र एवायमिति धीः तथा
ग्रीवास्थं मुखं यत्स्वलक्षणकं प्रतिपन्नं दर्पणस्थमपि तथेत्यवधाऱ्या
तदेवेदं मुखमिति स एवायं कर इति च स्वपरसाधारणप्रतीतिर-
प्यनुभवसिद्धति तात्पर्यार्थः ॥ ९० ॥

बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धिः। तदृष्टान्तेन तत्वैक्यं लक्षणैक्यात्प्रतीयते । प्रतिबिम्बत्वसद्भावे निर्णीता युक्तयो बुधैः ॥ ९१ ॥ अनाद्युपाधिनाऽनादिजीवस्यानादिसंसृतिः । तत्वज्ञानेन तबाधाजीवो ब्रह्मैव सिद्ध्यति ॥ ९२ ॥ तदेवं प्रतिबिम्बस्य बिम्बेनैक्ये व्यवस्थिते । ब्रह्मैक्यं जीवजातस्य सिद्धं तत्प्रतिबिम्बनात् ॥९३॥ नित्यः सर्वगतोह्येष महानज इति श्रुतेः । दान्तिके फलितमाह-" तदृष्टान्तेनेति "। जीवस्य ब्रह्मप्रतिबिम्बभावसाधकयुक्तीनां सूरिभिः सामञ्जस्यप्रदर्शनं बहु- धा कृतं न तत्प्रयासो ऽत्रास्तीत्याह-"प्रतिबिम्बत्वेति" ॥९१॥ नन्वनादेर्जीवस्य नोपाध्यधीनं प्रतिबिम्बत्त्वं किं तु तदनधीनत्वेसति तत्सहशत्वं तच्च भेदव्याप्तमिति विरुद्धो हेतुः उक्तं हि सूत्रकृता अत(१)एव चोपमा सूर्यकादिति तत्राह-" अनादीति" । उ- पाध्यधीनत्वं हि उपाधौ सत्येव सत्वं तच नानादित्वविरोधि अना- धुपाधिना अनादिजीवस्यापि तत्सम्भवात् अत एव प्रतिबिम्बपदस्य भेदसादृश्यार्थकत्वमादाय विरुद्धत्वोक्तिहेतावयुक्तति तात्पर्यार्थः ॥ ९२ ॥ फलितमुपसंहरति-" तदेवमिति ॥ ९३ ॥ ॥ बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धिः॥ नन्वणुत्वाजीवस्य कथं व्यापकादीशादभेद इति चेन्मैव मित्याह- नित्य इति ” । जीवो नाणुः प्रत्यक्षगुणाश्रयत्वात्प्रत्यक्षत्वाञ्च घटबत् आत्मत्वादभूतत्त्वाच्चे शवदित्याद्यनुमानैश्च जीवानणु-वसिद्धः ( ६ ) व मू० ३ । २ । १८ । " १९८. सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे- व्यापकत्वप्रसिद्ध नाणुर्जीव इति स्थितं ॥ ९ ॥ एषोऽणुरिति वेदान्तो दुर्विज्ञेयात्मतत्परः । विपक्षे च देहव्यापिसुखज्ञानाद्यनुपलम्भापत्तिर्बाधिका ततो नाणु- जीव इत्यर्थः ॥ ९४॥ नन्व' णुह्येष आत्मा यं वा एते सिनीतः पुण्यं च पापं च 'बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते' इति श्रुत्या जीवो ऽणुरिति चेन्मैवमित्याह- एष " इति । व्यापकत्वप्रतिपादकबहुश्रुतिविरोधेन दुर्विज्ञे- यत्वपरत्वात् देशव्यापिगुणोपलम्भस्याऽन्यथयितुमशक्यत्वात् । ननु जीवो न व्याप्तः उक्रान्तिमत्वात् क्रियावत्त्वाच्च खगशरीरवत् विपक्षे हेतूच्छित्यापत्तिरेव बाधिकेत्याशङ्याह-“उत्क्रान्त्यादिरिति"। हेतोरसिद्धेर्नानुमानं तत्र मानं । ननु सोऽस्माच्छरीरादुरक- म्यामुं लोकमधिगच्छति अमुष्मादिमं लोकमागच्छत्तीत्यादिश्रुतिभिः 'तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवर्तते' इत्यादिस्मृतिभिश्च हे- तुसिद्धिरित्याशङ्याह-" धिय " इति । उत्क्रमणादीनां बुद्धि-- गतानां तदुपहिते श्रुत्या प्रतिपादनात् न तु शुद्धे गत्यादिकमिति भावः । आत्मनि सुखदुःखाद्यनुभवस्याऽपि बुद्ध्युपाधिकत्वेन तत्सा- मानाधिकण्यस्य गतौ खाभाविकत्वासाधकत्वान्न तेषामात्मगतत्व- मित्याह-" आत्मनीति । ननु ‘स एतान्ब्रह्म गमयंती'त्या- दिश्रुतौ ' तत्न प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना' इत्यादिस्मृ- तौ च गतेर्मुक्तिसामानाधिकरण्योक्तेः कथं नात्मगतत्वमिति चेन्मे- वमित्याह-" यावदिति | अव्यापकस्यैवाव्यापकं प्रत्येव ग- मनं ब्रह्म च व्यापकं तत्प्रतिगमनासम्भवेन गमनपदस्योपाधिकृत- भेदरहित्यपरतया गतिमुक्तिसामानाधिकरण्याप्रतिपादकत्वाद्याव-

SOCIR
आत्मनो विभुत्वोपपादनम् ।
उत्क्रान्त्यादिर्धियो धर्मस्तत्सत्त्वे तस्य सम्भवः ॥९५॥
आत्मन्यारोपिता बुद्धिस्तद्धर्मा न तु शुद्धगाः ।
उत्क्रान्त्याद्याः सुखाद्याश्च यावन्मोहं भवन्ति ते ॥९६॥
तत्वसाक्षात्कृतौ बुद्ध्याधुपाधिविलये सति ।
उत्क्रान्त्याद्याः सुखाद्याश्च शुद्धे सन्ति न कर्हि चित्॥९७॥
येनाऽऽत्मनापि यद्दध्यवच्छिन्नेन न कर्म यत् ।
कृतं तेनैव तहृयवच्छिन्नेनैव भोजनं ॥ ९८ ॥
".
दज्ञानं यथा यथं सर्वस्यापि व्यवस्था समर्थनीयेति भावः ॥१५॥९६॥
ननु 'तन प्रद्योतेनैष आत्मा निष्क्रामति' इत्यात्मनिष्ठत्वश्नुते-
नासिद्धिः अन्यथा मोक्षादिकमपि बुद्धेरेव स्यात् नाऽपि श्रुत्या बु-
द्ध्युपाधिकगत्यादिविषयत्वं सम्भवति तद्यथा नः सुसमाहितमु-
त्सर्जद्यायादेवमेबायं
शारीर आत्मा प्राशेनाऽऽत्मनाइन्वारूढ उत्सर्ज-
न्यातीति' स्वाभाविकगत्याश्रयशकटदृष्टान्तोक्तेरित्याशीष इति
बुद्ध्युपहितस्यैव परामर्थेन शुद्धात्मनिष्ठत्वस्य गतावनुक्तेः मोक्षे च
बुद्ध्युपरमेन तन्निष्ठत्वस्यासम्भाविततया वैषम्यादित्यभिप्रेत्याह-
तत्वसाक्षात्कृताविति " ॥ ९७ ॥ नन्वात्मनो व्यापकत्वे
सर्वाणि शरीराणि सर्वस्यैव भोगायतनानि स्युः तथा हि सर्वशरीरे-
न्द्रियादीनां सर्वदा सर्वात्मसंयुक्तत्वात्कर्मणामपि साधारणदेहा-
दिकृतत्वेन असाधारण्यायोगात अहन्त्वारोपादेरपि नियामकमूलस-
म्बन्धादेरभावे नैयत्यायोगादित्याशय तवापीश्वरस्य व्यापकत्वेन
सर्वशरीराणां तद्भोगजनकत्वापतेः समानत्वान्न च तददृष्टाजन्य-
त्वात्तत्संयुक्तत्वेऽपि न तत्र भोगजननं तीहापि सममित्यभिप्रेत्याह-
" येनेति " । यद्गुढ्यवच्छिन्नेन येनैवाऽऽत्मना यत्कृतं तदव-
च्छिन्नेन तेनैव भोजनातू नह्यात्मनो व्यापकस्यापि निरवयवस्य प्रदे-
शोऽस्ति न च कर्मणामेव कथमसाधारण्यं पूर्वतत्कर्मजन्यत्त्वात
एवमनादितव शरणं अन्यथा ईशात्मनि तवाप्यगतेरिति तात्प.
यार्थः ॥ ९८॥

सव्याख्यातिसिद्धिसिद्धान्तसारे। [२परिच्छेदे-
एवं न कृतहान्याद्यापत्तिरस्ति मनागपि ।
जीवोऽस्तु प्रतिबिम्बो वाऽवच्छिन्नो वा तदेव वा ॥९९॥
बुद्ध्याधुपाधिसम्बन्धादेव संसृतिभागयं ।
तत्वज्ञानेन तद्वाधे विशुद्धो नित्यमोक्षभाक् ॥ ३० ॥
नाणुर्न मध्यमो जीवो न विभुस्तार्किकैर्मतः ।
जीवो ब्रह्मैव वेदान्तसिद्धान्त इति निर्णयात् ॥ १॥
अद्वैतसिद्धिपरिशीलनतो मयाऽऽत्म-
तत्वे धियः परिचयाय परिश्रमो यः ।
सम्यक् कृतो यदि भवेदथ वा ऽन्यथाऽसौ
श्रीकृष्णपादकमले ऽर्पित एव भूयात् ॥ २ ॥
अद्वैतसिद्धिसिद्धान्तसारसङ्ग्रहे द्वितीयः परिच्छेदः ।
" जीव
रहस्यमाह-
नन्ववच्छिन्नस्य कर्तुर्भोक्तुर्भेदात्कृतहान्यादिदोषापत्तिः स्थादि-
त्यत आह-" एव
" मिति । अवच्छेद्यात्मनोऽवच्छेदकबुद्धेश्चै-
क्ये वच्छिन्नभेदस्य वक्तुमशक्यत्वमिति भावः ॥ ९९ ॥ सिद्धान्त.
इति सार्द्धद्वाभ्यां ॥ ३०१॥ स्वकृतप-
रिश्रमं स्वेष्टदैवतकृष्णपदारविन्दे समर्पयति-" अद्वैतसि-
द्वीति
॥३०२॥
इति श्रीमन्मुकुन्दपदारविन्दमकरन्दरसाभिलाषिश्रीसदान-
न्दविदा कृते अद्वैतसिद्धिसिद्धान्तसारसङ्ग्रहे आत्म-
निरुपणं नाम द्वितीयपरिच्छेदः समाप्ति-
मगमत् ॥ २॥

विज्ञप्तिः । १ अस्थां चौखम्बा-संस्कृतग्रन्धमालायां प्रतिमासं पृष्टशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । २ एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । ३. प्राचीना दुर्लभाश्चाऽमुद्रितामीमांसावेदान्तादिदर्शन, व्याकरण, धर्मशास्त्र, साहित्य, पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते । ४ काशिकराजकीयप्रधानसंस्कृतपाठालयाध्यापकाः पण्डिता अन्येच शास्त्रदृष्टयो विद्वांसः एतत्परिशोधनादिकार्यकारिणो भवन्ति । भारतवर्षीय,ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै- देयं वार्षिकमग्रिम मूल्यम् मुद्राः ७ आणकाः ८ ६ कालान्तरे प्रतिस्तबकं प्रापणव्ययः पृथग नास्ति । ८ साम्प्रतं मुद्यमाणा ग्रन्थाः- मुद्रिताः स्तबकाः (१) संस्काररत्नमाला । गोपीनाथभट्टकृता ( संस्कारः) २ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (व्याकरणम् ) १० (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया (मीमांसा) १० व्याख्यया सहितम् सम्पूर्णम् । (५) भाष्योपवृहितं तत्त्वत्रयम विशिष्टाद्वैतदर्शन प्र.) करणम् श्रीमल्लोकाचार्यप्रणीतम् श्रीनाराय- पातीर्थ विरचित भादृभाषा प्रकाश सहि- -(वेदान्तः) २ तम् । सम्पूर्णः । (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः ) १ (६) भादृचिन्तामणिः महामहोपाध्याय- ( मीमांसा )२ श्रीगागाभट्ट विरचितः । तर्कपादः (७) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र । विरचिता सम्पूर्णः। मेश्र} (मीमांसा) २ (८) ब्रह्मसूत्र भाष्यम्-वादरायण प्रणीत वेदान्त सूत्रस्य यतीन्द्र श्रीमद्विज्ञा (वेदान्तः) ६ नभिक्षु कृत व्याख्यानम् । सम्पूर्णः ।

(a) स्थाडाद मञ्जरी-मलिषेणनिर्मिता सम्पूर्णम् । (जैनदर्शनम् १)सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- परम्-श्रीमाष्यकृतां परमगुरभिः श्री ६ ( वेदान्तः यामुनमुनिभिर्विचितम्। सम्पूर्णः (११)न्यायमकरन्दः । श्रीमदानन्दबोधमट्टा- रकाचार्यसंग्रहीतः आचार्यचित्सुखमु ( वेदान्तः ) २ निविरचितव्याख्योपेतः (१२) विभक्त्यर्थनिर्णयान्यायानुसारिप्रथमादि- सप्तविभक्तिविस्तृतविचाररूपः म० म० ( न्यायः ) ५ श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः (१२) विधिरसायनम् श्रीअप्पयदीक्षितकृतम् स० (मीमांसा) ૨ (१४)न्यायसुधा ( तन्त्रवार्तिकटीका ) भट्टसो-} (वेदान्तः ) ११ ता। (१५)शिवस्तोत्रावली। उत्पलदेवविरचिता। ( वेदान्त) २ श्रीक्षेमराजविरचित्रवृत्तिसमेता। (१६) मीमांसाबालप्रकाशः (जैमिनीयद्वादशा ध्यायार्थसंग्रहः ) श्रीमद्पदवाक्यप्रमा- (मीमांसा) २ णपारावारीणधुरीणमीमांसाद्वैत साम्रा- ज्यधुरन्धरश्रीभट्टनाराणात्मजभट्टशङ्कर- विचितः । यो प्रकरणपश्चिका (प्रभाकरमतानुसारि मीमांसादर्शनम) महा- महोपाध्याय श्री शालिकनाथमिश्र विरचितम । ( मीमांसा ) २ (१२) अद्वैतासद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यास- प्रणीनस्तकृत व्याख्यासमलङ्कृतश्च । ( वदान्त )२ हरिदासगुप्ता, पत्तांदिप्रेषणस्थानम् चौखम्ब - संस्कन पुत का नय. बनारस सिटी। }

Asvaita Siddhi Siddhanta Sara 2

Author
Sri Sadananda Vyasa
Title
Asvaita Siddhi Siddhanta Sara 2
File name
Asvaita Siddhi Siddhanta Sara 2
Text
OCR done
Citation
1903
Publisher
Chowkhamba Sanskrit Book Depot, Varanasi
Language
Sanskrit
Pages
104
Library
Bharti Bhawan Library, Allahabad
Classification
Literature
DLI number
272961
Barcode
5990010894085.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
jykdOShRMn4
Download PDF

Asvaita Siddhi Siddhanta Sara 2