Allahabad University

The Subodhini

Bhatta Visweswara · 2006/07/06

PDF Proofread

Front matter

THE
Collections of Hindu Law Texts.
(No. 3.)
THE SUBODHINI
(Sasnkrit Text. )
BEING A COMMENTARY BY
Bhatta Vis'ves'vara
ON
( The Mitâksharâ of S'ri Vijñânes'wara
on the Yâjñavalkya-Smriti).
BOOK II
Vyawahârâdhyâya.
EDITED BY
J. R. GHARPURE, B. A. LL; B
Vakil, High Court,
BOMBAY
THE UNIVERSITY LIBRARY
RECEIVED ON
31 JAN 1925
First Edition.
( All rights reserved ).
1914.
ALLAHABAD.

Printed at (1) The Arya Bhusana Press, Poona City.
by N. A. Dra vid.
at (2) The Bombay Vaibhav Press, Bombay.
by 0. 8. Deole,
at (3) The Niraya Sagar Press, Bombay.
by B. R. Ghanekar.
And Publishsd by J. R. Gharpure, at the office of The Collections
of Hinda Law Texts, Girgaum, Bombay.

THE UNIVERSITY. LIBRARY. RECEIVED ON BiJAN 1925 PREFACE, in LAHAD The Subodhini by Vis res rara-Bhatta which is the third of this series, is a commentary on the Mitâksharâ by Vijnanes' wara (Vol. I of this series) and was written by Bhatta Vis'wes' wara. It is the earliest commentary on the Mitåksharà, the second in point of time and importance being the Bålambhatti (Nos. 4-8 of this series), and is entitled to great respect on account of its author who also wrote several other works principal among which is the Madana Pârijata. From an account of the author given by himself, his father was Pedi Bhatta also otherwise known as Appâ Bhatta, and his mother's name was Ambikâ, their family name being Kaus’ika. The Madana Párijáta, another work of the author Bhatta Vis'wes'wara, was written under the patronage of king Madana Pála of Digha, who flourished in the 15th Century, and that is also the period when the present work must have been written. A detailed account of the author, and also of the Yâjnavalkya school generally will be found in the preface to Vols. I and II of this series and in "The Introduction to the study of Hindu Law Texts" by the undersigned. The present edition was prepared with the help of the following material: (1) A manuscript copy in the possession of Shri Balacharya Gajendragadkar of Satara and kindly secured by Mr. H. N. Apte, of the Anandasrama Poona, marked herein as . (2) A transcribed copy of a Grantha manuscript in the collection at Bangalore and kindly sent by Mr. A. Mahadev Sastri, the curator Government Library Mysore- -marked as a (3) A manuscript from the Deccan college (incomplete) (4) A Copy belonging to Babu Govind Dass of Benares.

2
(5) A manuscript belonging to Mr. M. V. Bhat, High Court
Vakil, Bombay.
The undersigned feels bound to express his deep obligations to the
gentlemen named above for their kindly allowing him the use of the
manuscripts.
BOMBAY GIRGAON,
J. R. Gharpure,
14th January 1914.
Editor,

धर्मशास्त्रग्रन्थमाला-ग्रन्थाङ्कः (२).
|| श्रीः॥
श्रीमद्योगीश्वरयाज्ञवल्क्यस्मृतेः
श्रीविज्ञानेश्वरप्रणीतमिताक्षराव्याख्यायाः
श्रीभट्टविश्वेश्वरप्रणीतांव्याख्या
सुबोधिनी.
(व्यवहारालोकः२).
जगन्नाथ रघुनाथ घारपुरे. बी. ए. एल्. एल्. बी.
हायकोर्ट वकील, मुंबई.
इत्यनेन संशोधिता-मुद्रिता, प्रकाशिता च.
प्रथमावृत्तिः
शकाब्दाः १८३४. खिस्तान्दाः १९१२.

विमान
नुद्रकः-देवळे इत्युपपदनामा सखारामात्मजश्चिन्तामणिशर्मा ।
[१ सदाशिव स्ट्रीट, मुंबईवैभव प्रेस-मुंबई.]
काशकः-घारपुरे इत्युपाभिधो रघुनाथसूनुर्जगन्नाथशर्मा ।
[आंग्रवाडी-गिरिनाम-मुंबई.]
(अस्य सर्वेऽधिकारा रानशासनानुसारेण स्वायत्तीकृताः

" अस्या भट्टविश्वेश्वरसुबोधिन्याः संशोधने यानि पुस्तकानि यश्च सुमन- स्कतया संशोधनार्थ दत्तानि तेषां नामादीनि संज्ञाश्च प्रकाश्यन्ते. क-इति संज्ञितम्-सप्तपुर ( सातारा ) वासी श्रीमहालाचार्य गजेंद्र- गडकर इत्येतैः संशोधनार्थ प्रेषितम्, बंगलोरराजसंग्रहालये ग्रंथलिप्या लिखितं अस्म- दर्थे तत्संग्रहालयाधिकारिणा श्रीमहादेवशास्त्रिशभि- नागरीलिप्यां लेखितं अस्मत्सकाशे प्रेषितं च. डेक्कन कॉलेजसंग्रहात्प्राप्तम्- ज- काशीपुरवासी श्रीमद्वाबूगोविंददास इत्येतैरनेक- विद्वत्सहायेन संशोधितं अस्मत्सकाशे तुलनाथै ग- . " प्रेषितं च. ड- श्रीमहादेव वामन भट हायकोर्टवकील मुंबई. इत्यतैः प्राचीनपुस्तकाल्लेखितम्. नितान्तं खलूपकृताः स्म एतेषा सर्वेषां महाभागानाम्. जगन्नाथ रघुनाथ घारपुरे.

एतत्पुस्तकान्तर्गतविषयाणां सूची। ३ ... ... ... २ ... २ .... ३ ... १४ ... विषयः पृष्ठम्. विषयः पृष्ठम्. साधारणव्यवहारमातृकाप्रकरणम् १ आगमभोगापेक्षया बलीयस्त्वे हेतुः न्यवहारदर्शनम् १ पुरुषप्रामाण्याभ्यां दण्डव्यवस्था इतिकर्तव्यता १ परलोकं गते पितरि पुत्रादिना तदागमोदरणम् २० सभासदः कर्तव्याः न्यवहारदर्शिनां बलाबलम् ब्राह्मणवैश्ययोर्योजना मत्तोन्मत्तादियोजितव्यवहारस्यासिद्धिः... सभ्यानां दण्डपरिकल्पनम् ३ परावर्त्यद्रव्यदानम् गौतमोक्ता अष्टाचत्वारिंशत्संस्काराः ३ निधिप्राप्तौ तद्विधानम् सप्तपाकसंस्थाः... ३ चौरहतद्रव्यस्य प्रतिपादनम् २२ सप्तहविर्यज्ञसंस्थाः ३ ऋणादानप्रकरणम् ३ सप्तसोमसंस्थाः ३ ऋणादानस्य सप्तविधत्वम् संस्कारविवरणम् ३ सबन्धकप्रयोगेऽशोतिभागो वृद्धिः २३ व्यवहारविषयस्य द्वैविध्यम् अनाकारितवृद्धिकथनम् भाषारक्षणम् पक्षाभासवर्णनम् पशुस्त्रीणां संततिर वृद्धिः ५ सकृत्प्रयोगे सकृदाहरणे वृद्धिः पूर्वपक्षस्योत्तरम् प्रयुक्तद्रव्यस्य ग्रहणप्रकारः सत्यादिचतुर्विधमुत्तरम् ६ अधमर्णिकाइण्डरूपग्रहणम् मिभ्योत्तरं चतुर्विधम् ६ अधमण्ड उत्तमाद्भुतिव असाधारणव्यवहारमातृकाप्रकरणम् २ निर्धनाधमर्णिकविषयः प्रत्यभियोगकथनम् ६ देमणकथनम् २५ वनरूपवस्त्वन्तरोपादानस्य निषेधः योषिदायधिकारिविषयऋणमदेयम् प्रत्यभियोगविधियर्थः पुत्रपौत्रैरदेयमृणम् प्रतिभूग्रहणम् प्रतिपन्नमृणं देयम् प्रतिभूविषयकनिर्णयः प्रमाणेन साधितद्रव्यस्य पुत्रादिभिदानम् २६ दुपदण्डनम् ऋणदानाधिकारिणां क्रमः प्रतिज्ञाकालेऽभिहितस्यार्थप्राप्तिः परपूर्वादिस्त्रीस्वरूपम् प्रतिज्ञाकालेऽनभिहितस्यार्थप्राप्तिन प्रातिभाव्यमृणं साक्ष्यं चाविभक्त द्रव्ये निषिदम् ३. भर्थशास्त्राद्धर्मशास्त्रं बलवत् प्रातिभाव्यनिरूपणम् प्रमाणम् दर्शनप्रतिभुवः पुत्रैर्ऋणस्यादानम् ३० प्रमाणान्तर्भावकथनम् प्रतिभुवामनेकत्वे ऋणदानप्रकारः सर्वार्थविवादेषूत्तरा क्रिया बलवती १२ ऋणिकैः प्रतिभुवो द्विगुणदानम् एकग्राहितस्य दत्तस्य विक्रीतस्य वा पुनरन्यत्रा- जातेष्टिविधानस्य दृष्टान्तः ... ध्यादिकरणे स्वत्वस्यासंभवः १२ आधिविधर्मेदाः आध्यादिषु पूर्वबलीयस्त्वम् १२ चतुर्विधाधर्विशेषविभागाः ३२ धनभूम्यादेर्भुक्तिहानिकथनम् १२ गोप्यभोग्याधेः साधारणधर्माः ३२ उपनिक्षेपस्योपनिधेर्भेददर्शनम् आधिसिद्धिः ३२ आध्यादिषु दण्डविशेषः द्विगुणीभूतद्गव्यस्य दानम् ... .". ... ... ... m mm ३२ ... ३२ ३२ ... ::: ... ... ...

४ एतत्पुस्तकान्तर्गतविषयाणां सूची। विषयः पृष्ठम्. ३३ ... ... ... ... ३४ ... ... ... ३५ ३५ ३५ ३७ ... ... आधिमोक्षकथनम् भोग्याधौ विशेषः उपनिधिप्रकरणम् ४ उपनिधिदानम् साक्षिप्रकरणम् ५ गूढसाक्ष्यादिकथनम् असाक्षिस्वरूपम् त्र्यवरग्रहणमर्थवत् चौर्यादिषु वज्यसाक्षिणो ग्रहणम् साक्षिणां विप्रतिपत्तिनिर्णयः कूटसाक्षिदर्शनम् कूटसाक्ष्याभ्यासे विशेषदण्डः ब्राह्मणस्यापि दण्डः जानतः साक्ष्यानङ्गीकारे दण्डः क्वचित्साक्षिणोऽसत्यवचनाभ्यनुज्ञानम् अनृतवचननिषेधप्रकाराः अनृतवचने प्रायश्चित्तम् लेख्यप्रकरणम् ६ स्वहस्तेन लिखितं प्रमाणम् लेख्यारूढमृणं त्रिभि (आहर्तृतत्पुत्रपौत्रैः) यम् जीर्णादिपत्रविषयः प्राइन्यायविधिसिध्यर्थे जयपत्रकम् लेख्यसन्देहे साक्षिभिनिर्णयः एतावन्मया लब्धमिति लेख्यस्य पृष्ठे लेखन- ... ... ... ... विषयः पृष्ठम्. दायविभागप्रकरणम् ८ दायशब्दार्थस्वरूपादिकथनम् विभागस्य द्विपर्वा विचारः स्वत्वविचारः ज्येष्ठविभागे विशेषकथनम् पित्रर्जितद्रव्यविभागस्य चत्वारः कालाः पितृमरणानन्तरं समविभागः मातृधनं कन्यागामि ४९ धनस्य विभाज्याविभाज्यनिर्णयः अनेकभ्रातृपुत्राणां धनविभागः ५२ पितामहधने पितुः पुत्रस्य सदृशं स्काम्यम् ५३ पितुरूवं विभक्तपुत्रेषु पश्चादुत्पन्नस्य गृहीतगर्भस्य वा विभागकल्पना आयव्ययकथनम् विभक्तपितृभ्यां स्वपुत्रादिभ्यो प्रीतिदत्तं रिक्थं न विभागार्हम् असंस्कृतासु भगिनीषु तुरीयकं अंशं दत्वा संस्क- रणम् विजातीयवर्णविभागाः ५५ नात्रादिवञ्चनया स्थापितद्रव्यस्य विभागः द्विपितृको उभयोरपि पिण्डदाता रिक्थहारी च नियोगकथनम् नियोगनिन्दा धनियोगः ५७ औरसपुत्रिकापुत्रक्षेत्रजस्य लक्षणम् कानीनलक्षणम् ५८ क्रीतादिपुत्रलक्षणम् मुख्यामुख्यपुत्राणां दायग्रहणक्रमः असवर्णकानीनादीनामप्रशस्तकथनम् ५८ दत्तकपुत्रविषयः कलियुगे कानीनाद्युत्पत्तिधर्मो वयः ६१ कानीनादिषु सजातीयत्वम् .. ६१ मूर्धावसिक्तानां दायहरणक्रमः पितुरुचे दासीपुत्रायार्धभागदानम् ६१ मुख्यगौणसुताद्यभावे सर्वेषां दायादक्रमः ६१ पत्नीशब्दव्युत्पत्तिः पल्यधिकारनिर्णयः ६२ ... ३९ .. ५५ ४० ... ... दिव्यप्रकरणम् ७ महाभियोगेष्वेव दिव्यानां नियमः (अ.) दिव्यानां शपथानां चर्णादिविवादेषु प्रयोगः (ब.) दिव्ये. साधारणकालः (शिशिरादिकाला- न्तरविधिः) (ब.) दिव्येऽधिकारिव्यवस्था (व.) अभियोगापेक्ष्यं महत्त्वम् ४२ घटादिदिभ्यप्रयोगः ४२ ४१ ... ६२ ::

एतत्पुस्तकान्तर्गतविषयाणां सूची। 4.. ... ... ६४ ८२ ... ... ... ... ७० .. ... ७४ ... ८४ ... विषयः पृष्ठम्. प्रमीतभर्तृकायाः पल्या धर्मद्वयोपदेशः स्त्रीनियोगनिर्णयः यज्ञेऽनधिकारादपि स्त्रीणां धनग्रहणं युक्तम् यज्ञार्थार्जितधनस्य यज्ञ विनियोगः यज्ञार्थद्रव्यस्य यज्ञादिष्वनियोगे दोषः ६६ राद्धान्तैकदेशिमतम् पत्न्यभावे दुहितुर्धनम् स्त्रीधनं दुहितृणाम् पुत्रपौत्रदुहित्रभावे दौहित्राणां धनम् दुहितृदौहित्राभावे पित्रोर्धनभाक्त्वम् पित्रभावे भ्रातरो धनभाजः... ७२ भ्रात्रभाव तत्सुता धनभाजः ७३ भ्रातृसुताभावे पितामही धनभागिनी दायादाभावे ब्राह्मणार्थस्य ब्राह्मणायैव दानम् वानप्रस्थयतिब्रह्मचारिणां धनेऽधिकारिनिर्णयः संसृष्टिधनाधिकारिकथनम् । सोदरसंसृष्टिधनं सोदरेण संसृष्टिना ग्रहणम् सोदर्यभगिनीनां समविभागः ७६ निरंशकादीनां भरणम् स्त्रीधनभेदवर्णनम् विवाहभेदेनाधिकारिभेदाः वाग्दत्तकन्याहरणे तदुत्तरं कन्यामरणे च निर्णयः ७८ अधिवेदननिमित्तधनदानम् ... सीमाविवादप्रकरणम् ९ सीमाविवादनिर्णयः भूविवादे षट्प्रकाराः सीमाविवादे सीमादर्शकाः अनृतकथने सामन्ता दण्डनीयाः मर्यादादीनां भेदादिषु दण्डाः स्वामिपालविवादप्रकरणम् १० गवादिपशुभिः परसस्यादिभक्षणे पशुस्वामिनो दण्डः अपराधातिशये द्विगुणो दण्ड: गोपस्य ताडनम्... ग्रामसमीपवर्तिनि क्षेत्रे गोमिक्षिते- विषयः गोपगोमिनोरदोषः पशुविशेषे दण्डाभावः ८२ प्रमादेन नष्टपशूनां गोस्वामिने दानम् ... दण्डपरिमाणकथनम् तृणकाष्टादीनामाहरणे द्विजस्याप्रतिबन्धः गवादिप्रचारार्थ क्षेत्रपरिमाणम् अस्वामिविक्रयप्रकरणम् ११ विक्रेतारं नरं क्रेत्रा राजपुरुषैाहितव्यम् मूले विक्रेतरि क्रेता नाभियोज्यः ८३ दत्ताप्रदानिकप्रकरणम् १२ दत्ताप्रदानिकम् ८३ दत्तानपकर्मस्वरूपम् दत्तानपकर्मभेदाः अदेयं द्विविधम् ... ८३ अस्वतया देयादेयविवरणम् ... दारसुतव्यतिरिक्तस्वदानम् विवादनिराकरणाथै प्रकाशप्रतिग्रहे हेतुः दत्तादत्तविषयः... नारदवचनव्याख्यानम् कीतानुशयप्रकरणम् १३ केत्रा पूर्वमूल्यात्तृतीयेऽह्नि द्विगुणं देयम् प्रत्यर्पणप्रकारः परीक्षापूर्वक्रये विशेषः पदादौ वृद्धिः अभ्युपेत्याशुश्रूषाप्रकरणम् १४ शिष्यान्तेवासिभृतकादीनां सामान्यसंज्ञा ८५ भृतकस्य त्रैविध्यम् ८५ दासभेदाः ८५ दासान्तेवासिनोधर्मविशेषप्रतिपादनम् दासमोक्षविधिः ८५ ब्राह्मणादीनां वर्णानामानुलोम्येन दास्यम् स्खशिल्पमिच्छतोऽन्तेवासिनो धर्मः संविधतिक्रमप्रकरणम् १५ पाखण्डिनैगमादीनां पारिभाषिकधर्मेण व्यवस्था- नस्य व्यतिक्रमः ... ... ७७ ... ... ... ,, .... ... ... ... -- ... ...

एतत्पुस्तकान्तर्गतविषयाणां सूची। wr विषयः पृष्ठम्. ९४ ... चैत्यादिषु जातक्षशाखाच्छेदने द्विगुणो दण्डः ९३ गुल्मगुच्छलतादीनां विकर्तनेऽर्धदण्डः साहसप्रकरणम् २० परद्रव्यापहरणसाहसे दण्डः... निहवे चतुर्गुणो दण्डः दोषाधिक्यात्साहसप्रयोजितुश्चतुर्गुणो दण्डः अर्घाहर्हाणामाचार्यादीनामाज्ञातिक्रमे आक्रोशे च पञ्चाशत्परिमाणो दण्डः ९५ नेजकादीनां दण्डविधानम् . वस्त्रधावकादिभिर्वस्वाच्छादनादिकृते पणत्रयं दण्डः वस्त्रधावकादिभिः वस्त्रादीनामवक्रयेषु भाटकदत्तेषु च दशपणो दण्डः जीर्णवस्त्रनाशे परीक्षकाणामिच्छयैव मूल्यदान- ... ८८ ... कल्पना ... ... ९० विषयः पृष्ठम् वेतनादानप्रकरणम् १६ भृत्याय वेतनदानम् दर्पादिना पण्यविक्रयाधुचितदेशोल्लंघने भृत्याय भृतिदानमैच्छिकम् अनेकभृत्यसाध्यकर्मणि भूतिदानम् ८६ आयुधीयभारवाहको प्रति विशेषः ८६ द्यूतसमाह्वयप्रकरणम् १७ द्यूतसभाधिकारिणो वृत्तिः द्यूतकाराच्छतकाकिण्यादौ जिते सभाधिकारिणा पंचकाकिण्यादीनां ग्रहणम् यूतनिषेधने दण्डः वाक्पारुष्यप्रकरणम् १८ निष्ठुराक्रोशे दण्डः अश्लीलाक्षेपे दण्डः विषमगुणेषु ( परस्त्रीबृत्तमादिषु च ) दण्डः वर्णानां मूर्धावसिक्तानां च परस्पराक्षेपे दण्डयोजनाए वर्णानां प्रतिलोमानुलोमाक्षेपे दण्डः निष्ठुराक्षेपकथनम् ब्रह्महत्यादिभिर्वर्णिनामाक्षेपे दण्डः ब्राह्मणमूर्धावसिक्तादिजातिसंघानामाक्षेपे दण्डः दण्डपारुष्यप्रकरणम् १९ दण्डपारुष्यभेदाः ९१ वाग्दण्डपारुष्ययोः पंचप्रकाराः असाक्षिकहते युक्त्यादिना निश्चयः वाग्दण्डपारुष्ययोधाः ९२ भस्मादिसाधनैः परस्पर्श दण्ड: परस्त्रीषूत्तमेषु च पुरीषादिस्पर्शने द्विगुणो दण्डः भस्मादिभिः प्रातिलोम्यापराधे द्विगुणो दण्डः परस्परवधार्थ हस्तपादे शस्त्रे चोद्गुणे दण्डः मर्मस्थले परगात्रेषु रक्तदर्शकस्य दण्डः ९२ करपाददतो भने कर्णनासयोश्छेदने च दण्डः वाक्पारुष्योक्तन्यायेन प्रातिलोम्यानुलाम्यापराधे दण्डयोजना गृहाभिघातादौ दण्डाभिधानम् ९३ गोगजवाजिप्रभृतीनां स्थानेषु ताडनलोहितस्रावे दण्डः ... ... ९६ ९१ ९२ ... पितापुत्रविरोघे साक्ष्यमङ्गीकरणे पणत्रयं दण्डः ९५ तिर्यगादिषु मूल्यविशेषेण दण्डस्य गुरुलघुकल्पना ९५ कूटमानादिना पणानां द्विशतं दण्डः ९६ अपहृतस्य वृद्धौ हानौ च दण्डस्यापि वृद्धिहानिकल्पना वर्णोत्कर्षापादनेन स्पटिकादिविक्रेयगव्यस्य मूल्यादष्टगुणो दण्डः ९६ कृत्रिमकस्तूरिकादिविक्रये पञ्चाशत्पणो दण्ड: राज्ञाऽस्थिरार्घपदार्थानां पञ्चपञ्चदिनेषु गतेषु स्थिरार्घपदार्थानां च प्रतिपक्षे गते स्वसमक्षमघस्थापनम् ९६ वणिजा स्वदेशपण्यावक्रये पञ्चपणलाभग्रहणम् ९६ वणिजा परदेशपण्यविक्रये दशपणलाभग्रहणम् विकीयासंप्रदानप्रकरणम् २१ पण्यं द्विविधम् ९६ पण्यस्य षट्प्रकाराः उदयश्चतुर्धा ९६ उदयविवरणम् .. षट् प्रकारकं पण्यं विक्रीयासंप्रयच्छतो दण्डः ... ... ९३ एतत्पुस्तकान्तर्गतविषयाणां सूची। ७ ... विषयः विक्रीयानुशय (अनुचितमूल्य ) वर्णनम् अनुशयस्य सामान्यधर्माः संभूयसमुत्थानप्रकरणम् २२ नृपेणार्घप्रक्षेपणान्मूल्याविंशतितमांशशुल्कग्रहणम् ६६ शुल्कवञ्चनार्थे पण्यपरिमाणनिसवे पण्यादष्टगुणो ९९ ... १०४ ... ... ... १०० मनुकृतजलजस्थलजशुल्कविवरणम् देशान्तरमृतवणिरिरक्थस्य निर्णयः वणिजामप्यभावे दशवर्षपर्यन्तं धनस्थापनम् ऋत्विजां धनविभागे विशेषप्रकारः दक्षिणाप्रापकं वचनम् स्तेयप्रकरणम् २३ तस्करज्ञानोपायः स्विन्नललाटादीनां तस्कराणां शंकया ग्रहणम् १०१ चौर्यशंकया गृहीतनिस्तरणार्थ मानुषेण दिव्येन वाऽमसंशोधनम् ... विषयः स्त्रीसंग्रहणप्रकरणम् २४ संग्रहणस्य त्रैविध्यम् संग्रहणे प्रवृत्तपुरुषस्य केशाकेझ्यादिलिङ्गैज्ञात्वा ग्रहणं दण्डविधानं च प्रतिषिद्धयोःस्त्रापुंसयोःपुनःसंलापादिकरणे दण्डः१०४ गुप्तसवर्णागमने दण्डः आनुलोम्येन गुप्ताया गमने दण्ड: १०५ प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेवधः १०५ दण्डविभागदर्शनम् १०५ कन्यादूषणे दण्डः १०६ कन्याहरणे दण्डविधानम् सामान्यस्त्रीगमने दण्ड: १०६ पशुवेश्याभिगमने प्राजापत्यम् १०७ पुरुषस्य प्रत्यभिमुखमेहने चतुर्विंशतिपणदण्ड; १०८ प्रव्रजितागमने चतुर्विशतिपणात्मको दण्डः १०८ स्त्रीपुंसयोगाख्यं प्रकरणम् प्रकीर्ण (नृपाश्रयो व्यवहारः) प्रकरणम् २५ अपराधविशेषेण दण्डाविशेषः लशुनाद्यभक्ष्यदूषणे तु दोषतारतम्या- द्दण्डतारतम्यम् कुत्सितमांसविक्रयिणो दण्डः कूटरजतादिव्यवहारिणो दण्डः १०९ रागलोभादिनाऽन्यथाव्यवहारदर्शने दण्डः राजसहितसभ्यानां दण्डने वचनप्रमाणम् १०९ ऐहिकपारलौकिकफलविवरणम् १०९ न्यायतो नितिव्यवहारस्य प्रत्यावर्तयितुर्दण्डः ११० चौरे दण्डः ब्राह्मणचौरस्य ललाटे स्वपदाकारमङ्कनम् १०२ चौरदर्शने तद्देशाधिपतिना चौरधन- समर्पणम् सन्निहितग्रामवासिभिश्चौरर्धनप्रदानम् बंदिग्राहादीनां शूलारोपणम् उत्क्षेपकान्थिभेदयोः करेण तर्जन्यङ्गुष्टेन च हीन- करणम् जातिगुणापेक्षया दण्डस्य गुरुलधुभावकल्पना १०३ पथिकादीनामल्पापराधे न दण्डः शीलवृत्ताद्यपेक्षया पुरुषस्य स्त्रियाच मारणे दण्डः १०३ क्षेत्रादिदाहकानां कटतृणविशेषैर्वेष्टयित्वा दहनम् १०३ ... ... ...

एतत्पुस्तकोऋषिवचनानां सूची। २. ... "आपस्तम्बः पृ. १९,३०, ५९. कात्यायन: पृ. ९, १५, १०, ३६, ३९, ५०, ६२, ६३, ६६, ७३, ७, ७८, ७९,८४. "गुरुतन्त्रम्:पृ. ३२, १५. गौतमः पृ. १३, २२, ४३, ४५, ५२, ६१, " ६३, ९०. - मनुः अ. ८ श्लो. १३ अ. ९ श्लो. १५९, १६० ६०. १६६, १७८ ... १८४ वृद्धमनुः पृ. ३२. याज्ञवल्क्यः पृ. ९, ५५, ५८,६२, ७५. योगीश्वरः पृ. १३, १४, १५, २७, ३६, ५१, ६२, ६, ६९, ७३, ७४, ८०, ८६. वसिष्ठः पृ. ५४, ५८.अ. १७ सू. १५ पृ. ६०. विश्वरूपाचार्यः पृ. ६९, ७१. विष्णुः पृ. ४८. बृहद्विष्णुः पृ. ६२. व्यासः पृ.३१. शबः पृ. ५०,६९,७३ शंखलिखितौः पृ. ३. श्रीकरः पृ. ६९. सुमन्तुमनूः पृ. १०. धारेश्वरः पृ. ६२,७१, नारदः पृ. १४, २१, २३, २७, २९, ३२ ब, ३९,३,५०,६१,६६,६९,७९,८०,८३. ८१, ८५,८६,८८, २५, ९७,१००,१०३. पितामहः पृ. ४०, ४१. बृहस्पतिः पृ. २७, ३२ ब, ६२, ७३,७४, ८०. भट्टः पृ. ३२. मनुः पृ. १६, १८, ३५, ३६, १८, ५१ ५२, ५३, ५५, ५७, ५८,६५, ७१, ७२, ७४, ७६, ८०, ९८, १००,१०१, १०३. • अ. २ श्लो. ९५, ९६ . ६५. पृ. एतत्पुस्तकोद्धृतन्यायानां सूची। ... ... ... ... ६६ ६६ .... ... ... ... .. अतिदेशो ह्यधिकमाकांक्षते अश्वकर्णादिवन्यायः काकाक्षिवन्यायः कैमुतिकन्यायः ...१०,२७ दण्डापूपिकन्यायः... धर्मिकल्पनातो वरं धर्मकल्पना निमित्तानन्तरं नैमित्तिकस्य अवश्यंभावित्वम् पाञ्चमिकन्यायः बालाग्रशतबालोऽपि न कल्प्यो निष्प्रमाणकः १४ बीजाद्योनिर्बलीयसी रात्रिसत्रन्यायः विश्वजिन्न्यायः शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् ... सत्यबाधेनोपपत्तौ बाधो न न्याय्यः सविषयनिर्विषययोनिर्विषयं बलवत् सापेक्षनिरपेक्षयोनिरपेक्षं बलीयः सामान्यस्य विशेष बाधकम् सिंहावलोकनन्यायः सूचीकटाहन्यायः ... १५,३६ ९ ... ... ... ... ४६ ... ...

अमरकोशः। पृष्ठम्. पृष्टम्.. २३ ... ... ... 11३।१६... १.१०॥२६ १1१०१२८ ... ... २।९।४ ... ।।३३... २।९।५८... २।९।९१... ८१ ... ... :: ... m २१११४ ... ... ७ ... २०४९ ३ ... . १०३ ... ... ... ... ... २११६४ २१६२६६... २.६.११७ २१॥२८... २१७४२९... २११०।२५ ३।२।२०... ३।३।४३... ३।३।९८... ३।३।१३० ३।३।२१४ :: :: :: ... ६. ... :: ६० ... सूत्रवार्तिकाणां सूची। पृष्टम. चार्थे द्वन्द्वः ७०,७५. ... २३ ... ... ... . ... अचित्तहस्तिधेनोष्ठक (सू. २७) अपिः पदार्थ संभावना. (सू. १९६) अभ्यर्हितं पूर्वम् (वा.) (सू. २।२।३४) इतराभ्योऽपि दृश्यन्ते (सू. ५।३।१४) उपसामीप्य. कृष्णोदक्पाण्डु. (वा.) (सू. ५१४।७५) क्किन्वचिन्छि (वा.) (सू. ३।२।१७) ९६. (सू. २१२।२९) तदस्मिन्वृध्या० (सू. ५/११७) पत्यु! यज्ञसंयोगे (सू. ४।१।३३ ) पूर्वादिभ्यो नवभ्यो वा (सू. १११६) सरूपाणामेकशेष. (सू. ३२१६४) सहयुक्तेऽप्रधाने (सू. २।३।१९) संख्यकवचनाच्च० (सू. ५।४।४३) ... ... ...

अथ विश्वेश्वरी (सुबोधिनी) टीका (मिताक्षराटीका) व्यवहाराध्यायप्रारंभः साधारणव्यवहारमातृकाप्रकरणम् ? ॥ श्रीगणेशाय नमः ॥ नमः सकलकल्याणभाजनाय पिनाकिने । नमो लक्ष्मीविलासाय देवतायै गिरां नमः ॥१॥ योऽप्पभट्टात्मजः श्रीमान् भट्टविश्वेश्वरः सुधीः । व्याख्यां मिताक्षराख्यायाः कुरुतेऽयं सुबोधिनीम् ॥ २ ॥ मतिर्येषां शास्त्रे प्रकृतिरमणीया व्यवहृतिः परा शीलं श्लाघ्यं जगति ऋजवस्ते कतिपये॥ चिरं चित्ते तेषां मुकुरतलभूते स्थितिमिया- दियं व्यासारण्यप्रवरमुनिशिष्यस्य भणितिः॥३॥ पूर्वाध्यायान्ते राजधर्मकथनप्रस्तावे दुष्टेषु दंडविधानाच्छिष्टेषु परिपालनविधानादन्वयन्यतिरे- काभ्यां परिपालनाधिकारिणाऽहरहर्यवहारदर्शनं कर्तव्यमित्युक्तम् । तस्य व्यवहारस्य स्वरूपप्रकारे- तिकर्तव्यताऽकांक्षायामुत्तराध्याय आरभ्यते । अभिषेकादिगुणयुक्तस्येति । अथ व्यवहारा- न्स्वयं पश्येदित्यादिना प्रयोगविधिना सांगोपांगो व्यवहारः कर्तव्य इति विहितः पूर्वस्मिन्नध्याये । तत्रांगाकांक्षायां तदर्थमुत्तरारंभ इति । अयमभिप्रायः । अनयोरध्याययोर्हेतुहेतुमद्भावसंलक्षणः संबंध इति । तद्व्यवहारो नाम कीदृश इत्याशंक्य व्यवहारानित्यत्र प्रातिपदिकोपात्तं व्यवहार- स्वरूपं निर्वक्ति । अन्यविरोधेनेति । तमेवोदाहृत्य दर्शयति । यथाकश्चिदिति । प्रातिपदि- कोद्दिष्टस्य व्यवहारस्य प्रत्ययेन द्वितीयाबहुवचनेन भेदो दर्यत इत्याह । तस्यानेकविधत्व- मिति । नृपशब्दोपादानस्याभिप्रायमाह । नृप इति । नेति । व्यवहारान्स्वयं पश्येदित्यनेन पौनरुक्त्यं परिहरति । पश्येदिति । पूर्वोक्तस्यानुवाद इति । अत्रैषा वचनव्यक्तिः । व्यवहा- रान्स्वयं पश्येदिति यत्तद्वक्ष्यमाणधर्मेण सहेति । तमेव धर्मविशेषमाह । विद्वद्भिर्वेदव्याकरण- धर्मशास्त्राभिरिति। विद्वद्ब्राह्मणसाहित्यरूपधर्मविधानमित्यर्थः । स एव धर्म इतिकर्तव्यता ना- मांगानुष्ठानप्रकारः । एवं च द्वितीयाध्यायादिश्लोकस्यैव प्रपंचः सकलाध्यायशेष इति गम्यते । ननु किंचिद्राह्मणानां नृपस्यच व्यवहारदर्शने समप्राधान्यमेवेत्याशक्य नेत्याह । ब्राह्मणैःसहेति । १क-पिनाकये २ क-सुबोधिनी । ३ग-दृश्यते । ४ क-अनुगम । ५क-दर्शनेन ।

२ त्याह । तस्यचेयं यौगिकीति । पृच्छतीति प्राट् । किब्वचिप्रच्छीत्यादिना कम मिताक्षराटीका. [श्लोकः ३ तेषां ब्राह्मणानामित्यर्थः । ननु तृतीयानिर्देशादप्राधान्यं कथमित्यत आह । सहयुक्त इतीति । सहयुक्तेऽप्रधाने । अस्यार्थः । सहार्थेन युक्ते अप्रधाने तृतीयाविभक्तिर्भवतीति । यथा पुत्रेण सहागतः पितेत्यादिषु । एवं प्रकृतेऽपि ब्राह्मणैः सहेति सहयोगे तृतीयाविधानात् । ब्राह्मणानाम- प्राधान्यमुपसर्जनत्वमित्यर्थः । राज्ञः प्राधान्ये ब्राह्मणानां चोपसर्जनत्वे फलमाह । अतश्चाद- ५र्शन इति । अयमभिप्रायः । राज्ञः प्राधान्यादधिको दोषः । ब्राह्मणानां तु तादृशदोषाभावः । नतु सर्वात्मना दोषाभावः । तथाच । 'सभा वा न प्रवेष्टव्या वक्तव्यं वा समंजसं । अब्रुवन्वित्रुव- न्वाऽपि नरो भवति किल्बिषी' (मनुस्मृतौ अ० ८ श्लो० १३ ) त्यनेन विरोधः स्यादिति । याज्ञवल्कीये २ श्लोकः पूर्वोक्तेभ्यो ब्राह्मणेभ्यः पृथक्सभासदः कर्तव्या इत्याह । किंचेति । ते च सभासदो ब्राह्मणा १० एवेत्याह । यद्यपीति । स तु सभ्यैरिति । स राजा । सभ्यैः । स्थिरैरचंचलैः । प्राझै- बुद्धिमद्भिः। मौलेः । पितृपितामहागतैः । अर्थशास्त्रमोशनसादि । तेच त्रय इति । ते स- भासदः । पक्षांतरमाह । बृहस्पतिस्त्विति । व्यवहारान्नृपः पश्येदित्यत्रोपात्तबिद्वद्राह्मणोद्देशेन श्रुताध्ययनसंपन्नत्वादिरूपो धर्मो विधीयते । ततश्च विद्वद्राह्मणविशेषणत्वाच्छ्रुताध्ययनसंपन्नत्वा- देर्न पूर्वोक्तेभ्यः पृथक्भूताः सभासद् इत्यभिप्रायेणाशक्य परिहरति । न च ब्राह्मणैः सहेत्या- १५ दिना। कात्यायनेन पूर्वोक्तब्राह्मणेभ्यः पृथक्त्वेन सभासदां दर्शितत्वात्त एव सभासद इति वक्तुं न शक्यते । अतस्तद्वचनविरोधाद्विशेषणविशेष्यभावाभावाच तदुद्देशेन विधिन घटत इत्यर्थः । सप्राड्विाक इति । राजप्रतिनिधिः प्राडिवाकः । अमात्या बुद्धिसचिवाः । ब्राह्मणानामनि- युक्ततया भेदमाह । ब्राह्मणाऽप्यनियुक्ता इत्यादिना । अत्र नियोगे नृपोऽधिकारी । तेन नियुक्ता अनियुक्ताश्चेत्यर्थः। तेऽपि तद्भागिन इत्यर्थः । मूलवचनस्थशब्दयोत्यमर्थमाह । रिपौ- २० मित्रेचेति । चशब्दादिति ॥२॥ याज्ञवल्कीये ३ श्लोकः ननु नृपस्य प्रतिदिनं व्यवहारदर्शनं कर्तव्यतया विहितं । तथा शांतिकादीनि कर्तव्यान्यपि विहितानि । तत्र दैववशादुभयसमवाये किं कर्तव्यमित्यत्राशंक्य दांतत्वादिगुणयुक्तं सभासदा- दिभ्यः पृथग्भूतं ब्राह्मणं तदभावे वैश्यं वा व्यवहारदर्शने नियोजयेदित्याह । व्यवहारानृपः २५ पश्येदित्युक्तमित्यादिना । योगीश्वरोक्तमनुकल्पमेव मुख्यं मन्यते नारद इत्याह । नारदेन त्वयमेवेति । राज्ञां बहुकार्यव्याकुलत्वेनावकाशाभावात्स्वप्रतिरूपकपूर्वोक्तपुरुषांतरद्वारेणैव व्यवहारदशर्नस्योचितत्वादसावेव पक्षो मुख्यो ज्यायानित्यर्थः । धर्मशास्त्रं पुरस्कृत्येत्यत्र प्रस्तुतत्वाद्राजप्रयुक्तपुरुष एव व्यवहारदर्शनेऽधिकारीति गम्यते । प्राडिवाकमते स्थित इति । धर्मशास्त्रानुसारेण कृतस्य प्राडिवाकस्यानुकूलत्वेन न तु नियंतृत्वेन यथाकथंचित्स्वेच्छ- ३० याऽन्यनमित्यर्थः । पृच्छति विविनक्ति चेति प्राडिवाकस्य यौगिकी संज्ञा, नत्वश्वकर्णादिवद्रूढिरि- । । दी|संप्रसारणं च । विविनक्ति विचारयति । विविनक्ति विशेषेण कथयतीत्यर्थः ॥३॥ १ग-ब्राह्मणानां विशेषामित्यर्थः । २ ग-दीघोप्रसारणमेव । ३ विवेचयतीति पाठः।

श्लोकः ५] मुबोधिनी. ३ ६ याज्ञवल्कीये ४ श्लोकः अज्ञानभ्रांत्यादिव्यतिरिक्तै रागद्वेषादिभिरुपाधिभिधर्मशास्त्रविरुद्धमाचरन्तः सभ्यास्तत्र व्यवहार- पराजयनिमित्तदंडद्विगुणदंडेन प्रत्येकं दंड्या इत्याह । अपिच रागादित्यादिना।सभ्या इति नियुक्ताभिधांनं । अत एवानियुक्तानां नियुक्तापेक्षया न्यूनदंडः परिकल्पनीयः । नियुक्तानामभि- युक्तत्वे सति धर्मशास्त्रविरुद्धाचरणाधिकापराधः । अनियुक्तानां तु तदभावादल्पापराध इति युक्त- मेवैतत् । तथाहि नियुक्तेषु स्मृत्युल्लंघनं नृपाज्ञाभंगश्च । अनियुक्तेषु स्मृत्युल्लंघनमेवेति । अष्टी- चत्वारिंशत्संस्कारैरिति । तेच संस्कारा गौतमेनोक्ताः । गर्भाधानं १ । पुंसवनं २ । सीमं- तोन्नयनं ३ । जातकर्म ४ । नामकरणं ५। निष्क्रमणं ६ । अन्नप्राशनं ७ । चौलोपनयने (द्वे)९॥ वेदव्रतानि (चत्वारि ) १३ । स्नानं १४ । सहधर्मचारिणीसंयोगः १५ । पंचयज्ञानुष्ठान २० । देवपितृमनुष्यभूतब्राह्मणा एतेषां चेति। एतेषां संस्काराणां च कृते, देवयज्ञादीनांच कृते, पंचयज्ञा- नुष्ठानं भवतीत्यर्थः । अष्टका पार्वणः श्राद्धं २ । श्रावण्याग्रहायणी २। चैत्री। आश्वयु- जीति सप्त पाकसंस्थाः। अग्न्याधेयं । अग्निहोत्रं । दर्शपौर्णमासौ । चातुर्मास्यानि । आग्रयणेष्टिः। निरूढपशुबंधः। सौत्रामणीति सप्तहविर्यज्ञसंस्थाः। अग्निष्टोमः । अत्यग्निष्टोमः। उक्थः। षोडशी । वाजपेयः । अतिरात्रः । अप्तोर्यामः । इति सप्त सोमसंस्थाः। इति चत्वारिंशत्संस्काराः । द्विविधः संस्कारो भवति । ब्राह्मो देवश्च । गर्भाधानादिस्नानांतो ब्राह्मः । पाकयज्ञहविर्यज्ञसौ- म्याश्चेति दैवः । पाकयज्ञादीनां च संस्कारत्वं शंखलिखितवचनात् । “पाकयज्ञा हविर्यज्ञाः सोमसंस्थास्तथैव च । संस्काराह्यग्निहोत्रांता अग्निहोत्रं तु जुह्वतः ॥ संस्कारैः संस्कृतः पूर्वैरुत्तरै- रनुसंस्कृतः। नित्यमष्टगुणैर्युक्तो ब्राह्मणो ब्रह्मलौकिकः ॥ ब्राह्मं पदमवाप्नोति तस्मान्न च्यवते पुनरिति ॥ ब्रह्मलौकिको । ब्रह्मलोकार्हः । अष्टगुणाश्चं, सर्वभूतदया क्षांतिरनसूया शौचम- नायासो मांगल्यमकार्पण्यमस्पृहेत्येवमष्टाचत्वारिंशत्संस्काराः ॥ ४॥ याज्ञवल्कीये ५ श्लोकः प्रत्यर्थिप्रतिकूलतया नृपादिषु कथनं व्यवहारः । कथ्यमानं तद्विषयं इत्याह । व्यवहारविष- यमाहेत्यादिना । 'आवेदयति चेदाई' इत्यत्र राजशब्दः पूगश्रेण्यादीनामुपलक्षणार्थः । व्यवहारविषयस्य द्वैविध्यं दर्शयति । सच द्विविध इत्यादिना । शंकारूपोऽभियोगो यस्मि- विषये तत्वरूपोऽभियोगो यस्मिन्विषय इति विग्रहः । होढा लोप्नमिति । लुप्यत इति लोप्वं चौर्य धनं । "चौरिकास्तैन्यचौर्यच स्तेयं लोप्लं तु तद्धनमित्यमरः" (२-१०-२५) । एतान्य- पि साध्यभेदेनेति । अवांतरसाध्यभेदेनेत्यर्थः । नच प्रापितमन्येनेति । अन्यायेनान्येन प्रापितं न गृहीयात् । अथवा, अन्येन प्रापितं निवेदितं कार्य न ग्रसेत नोपेक्षेत । "नवा प्रा. पितमन्येनेत्य"पि पाठः। तत्रायमर्थः । अन्येन विवदमानेन तत्संबंधिना वा अप्रापितमनिवेदितं कथंचिदवगम्य रागादिना न असेत् । न ग्राहयेदिति । मूलवचनस्य परशब्दस्थितं तृतीयाबहुव- १क-अत्र चत्वारिंशता। ग-अष्टाचत्वारिंशता। २म-चौडोपनयन ८। ३ ग त एते देवइ ४क-अग्निहोत्रः। ५ग-मूलवचनस्यापरशब्दइ.

४ मिताक्षराटीका. [श्लोकः ६ चनमविवक्षितं । अतश्चैकस्यैकेनवा द्वाभ्यां वा बहुभिर्वा विवादो घटत इत्याह । परैरितीति । तद्भिन्नसाध्यविषयमिति । भिन्नसाध्यानि पृथक्साध्यानि भिन्नव्यवहारविषये इति यावत् । एत- दुक्तं भवति । यदात्वेकेनैकः पुमानभियुक्तो मह्यमसौ धारयतीति तदा तस्मिन्व्यवहारे निष्पन्ने अपरेणापरेणच पूर्वम भियुक्तो नाभियोज्य इत्येवमेकस्य बहुभिः सार्ध विवादाभावः । नत्वेवमेते ५ मह्यं धारयन्ति शतमित्येवमेकस्य बहुभिर्विवादाभावः इति । इत्याद्यर्थसिद्धमिति । अविनी- तस्यावेदनमेव न घटते । उद्धतत्वेन राज्ञः परिसरमेव गंतुमशक्यत्वात् । आवेदनानंतरं च युक्तत्वे प्रत्यर्थिनोऽनाव्हाने आवेदनमेव निष्प्रयोजनमिति नकोऽप्यौवेदयेत् । तथा च प्रजापरि- पालनमेव न सिघ्यतीत्यादिभिर्हेतुभिः पूर्वोक्तानां धर्माणार्थसिद्धत्वमूद्यम् । किं कार्य का च ते पीडेति । अर्थकृतो मैन्युकृतश्च प्रश्नभेदः । अकल्पेत्यादि । अकल्पो व्याधितः । १० विषमस्थ उत्पन्नसंकटः । क्रियाकुलो नित्यनैमित्तिकादिक्रियाव्यग्रः। आगच्छतो यस्य गुरुतर- कार्यहानिः स कार्यातिपाती । इष्टवियोगादिदुःखवान्व्यसनी । मत्तो मदनीयद्रव्येण । उन्मत्तो ग्रहादिभिः । सर्वदाऽवधानहीनः प्रमत्तः। आर्तो विपदादिना । हीनपक्षामिति । अनाथां सर्वजनशोच्यामिति यावत् । स्त्रीणामाव्हाने निषिद्धे तत्र प्रतिप्रसवमाह । तद्धीनकुटुं- बिन्य इति । पूर्वमकल्पाद्याव्हानं निषिद्धं, तत्रापि प्रतिप्रसवमाह । कालं देशं च विज्ञा- येति । स्थानासेध इत्यादि । अस्मात्प्रदेशान्न गंतव्यमिति स्थानासेधः । आसंध्यं न गंत- व्यमित्यादिः कालासेधः । ग्राम प्रति न गंतव्यमिति प्रवासासेधः । असौ व्यापारो न कर्तव्य इति कर्मासेधः । इति विवेकः । अन्यथाकुर्वन्नासेद्धति । अनासेधकाल आसेधं कुर्वन्नित्यर्थः । निर्वेष्टकामइति । आश्रमांतरं गंतुकामः । विवाहोर्यंत इति यावत् । 'हीनः पंच- विधः स्मृत' इति वचनादिति शेषः । अथवा इति शब्दो हेत्वर्थे । अतो हेतोरित्यर्थः । याज्ञवल्कीये ६ श्लोकः पूर्वावतारितवचनस्यैवोत्तरार्थशंकोत्तरपरत्वेनावतारयति । आवेदनकाल एवेति । तिथि- वारदिनमिति । तिथिः प्रतिपदादिः । दिनमहः । क्षमालिङ्गादीनीति । प्रत्यर्थिविषये आसेधाद्यकरणं क्षमा । सहिष्णुता । तत्र लिंगानि कारणानि बाल्यजडत्वादीनि । अर्थवद्धर्म- २५ संयुक्तमित्यादि । अर्थवत्प्रयोजनवत् । धर्मसंयुक्तं । धर्मोगुणः । अल्पाक्षरत्वप्रभूतार्थत्वा- दिकः । तेन संयुक्तं । संपूर्णमध्याहारानपेक्षं । अनाकुलमसंदिग्धाक्षरं । साध्यवसिषाधयि- षितार्थसहितं । वाचकपदं गौणलाक्षणिकपदरहितं । प्रकृतार्थानुबन्धि पूर्वावेदितार्थाविरोधि । प्रसिद्ध लोकप्रसिद्धवस्तुविषयम् । अविरुद्धं पुरराष्ट्राद्यविरुद्धं । पूर्वापराविरुद्धं । प्रत्यक्षादि- प्रमाणाविरुद्धं । व्यावहारिकधर्माविरुद्धं च । निश्चितं । अर्थातरसंशयरहितम् । साधनक्षम साधनाह । संक्षिप्तमनतिविस्तृतं । निखिलार्थ अनवशेषितवक्तव्यं । देशकालाविरोधि १क-विषया। २क-राज्ञा । ३क-कोपि वेदयेत् । ४ की ५ य-अर्थकृतामन्युकृतंच । क-मन्युःकृतश्च । ६क-विवाहो घटत इति । ७क-दिनेति । तिथिवारादिनेति (बापूशास्त्री मोघेसंस्कृत मिताक्षरापुस्तके पाठः) ८ ग-विस्मृतं ।

श्लोकः ७] सुबोधिनी. मध्येदेशीयं क्रमुकक्षेत्रं । शरत्कालीनमाम्रफलसहस्रं मदीयमपहृतमित्येवमादिशून्यं । अहः प्रति- पदादिर्दिनं वा । वेला प्रातरादिः । देशो मध्यदेशादिः । प्रदेशः क्षेत्रादेः स्थलविशेषः । स्थानं वाराणस्यादि । आवसथो ग्रामादिः । हट्टादिरूपस्थलविशेषो वा । साध्याख्या विवादास्पदीभूतवस्तुनाम । जातिाह्मणादिः । आकारो गवाश्वादिगतो वर्णविशेषः । गृहक्षे- त्रादेः संस्थानविशेषश्च । वयः अश्वादेवयाप्रमाणं । साध्यप्रमाणसंख्यावत् । साध्यप्रमाणं ५ क्षेत्रादेर्निवर्तनादिकम् । संख्या रूपकादीनां । आत्मप्रत्यर्थिनामवत् । स्पष्टं । परात्मपूर्व- जानेकराजनामभिरंकितं । परः प्रतिवादी, आत्मा वादी; पूर्वजास्त्वनयोः पित्रादयः अनेकराजानो भुक्तिकालीनाः; एषां नामानि; तैश्चिह्नितं । क्षमालिंगात्मपीडावत् । व्याख्यातानि क्षमालिङ्गानि (पृ. ४ पं. २२)।आहर्ता प्रतिग्रहीदिनाऽधिगन्ता। दायको दाता। कथितावाहर्तृदायको यस्मिन्वचने तत्त्वीदृक् । अथवा कथिताहर्तृदायकमिति । कथितप्रत्य- र्थिसंबंधमितियावत् । कृष्णभूमः पांडुभूम इति । अच् प्रत्ययांतावेतौ शब्दौ । "कृष्णोदक्पांडुसंख्याया भूमेरच्प्रत्ययः स्मृतः । गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदी"ति वार्तिककारस्मरणात् । (व्या. सू.५-४-७५) अप्रसिद्धादीनां पक्षाणां यथा पक्षाभासत्वं तथा अनेकपदसङ्कीर्णः पूर्वपक्षो न सिध्यतीत्य- त्रापि प्रातीतिकार्थानुसारेणेशस्यापि पक्षस्य पक्षाभासत्वमेवेति प्रतीयते तन्निराकर्तुमुपपादते । १५ यत्त्वनेकपदेति । अनेकपदैः संकीर्णो यः पूर्वपक्षः प्रतिज्ञा सा न सिध्यति । आभासेति प्रातीतिकार्थः । तत्र पदशब्दः पद्यते ज्ञायत इति किं वस्तुपरः । उत ऋणादानादिरूपव्यवहार- विषयपरो वेति विकल्प्य नतावदाये पक्षे पक्षाभासत्वमित्याह । तत्र यद्यनेकेति । अस्तु द्वितीय इत्याशङ्कय परिहरति । ऋणादानादीति । अधुना अनेकपदसंकीर्णइ त्यस्य योऽभिप्रे- तोऽर्थः तमर्थमाह । किंतु क्रियाभेदादिति । तमेवार्थमुपसंहारव्याजेन द्रढयति । तस्माद-२० नेकेति। तस्यार्थः तस्य वचनस्सार्थः । 'यथावेदितमर्थिने' त्यत्रार्थिपदद्योत्यानाह । अर्थिग्रहणादिति । अर्थिनःपुत्रोऽप्यर्थी तत्पि- ताऽपि । आदिशब्दादर्थिना नियुक्तादयोऽपि अर्थिन इत्यर्थः । तत्रार्थिपुत्रादीनां तदेकार्थत्वं युक्तं । अर्थिनियुक्तस्य तु कथं तदेकार्थत्वमित्यत आह । नियुक्तस्यापीति । याज्ञवल्कीये ७ श्लोकः अश्लिष्टविभक्तिसमासेति । श्लिष्टं संबद्धं युक्तमदुष्टमिति यावत् । अश्लिष्टं दुष्टं । वि- भक्तिश्च समासश्च विभक्तिसमासौ । अश्लिष्टौच तो विभक्तिसमासौ च । अध्याहारेण सह वर्तत इति साध्याहारं । अश्लिष्टविभक्तिसमासाभ्यां साध्याहारेण च यदभिधानं तत्तादृशं तेनेति समासः। प्रत्यवस्कंदनमिति । कारणोत्तरमित्यर्थः । प्रतिपत्तिरुदाहृतेति । प्रतिपत्तिः संप्रतिपत्तिः सत्योत्तरमित्यनर्थातरं । आचारेणावसन्नोऽपीति । व्यवहारेण पराजित इत्यर्थः । श्रुतार्थस्योत्तरं ३० २५ १ग-अत्रात्मा । क-आत्म । २ क-प्रतिग्रहादीनामधिगता ३ क-न। ४ दुःश्लिष्टेति मिताक्षरापुस्तकेषु पाठः।

श्लोकः ९ मिताक्षराटीका. ६ । । लेख्यमित्युत्तरमित्येकवचननिर्देशात्संकीर्णोत्तरस्यानुत्तरत्वमित्याह । उत्तरमित्येकवचननिर्दे- शादिति । एवं चतुःसङ्करेऽपीति । 'अनेन सुवर्ण रूपकशतं वस्त्राणि धान्यंच गृहीत'मित्य- मियोगे, 'सुवर्ण धारयामि, 'रूपकशतं न गृहीतं,' 'वस्त्राणि प्रतिग्रहेणे लब्धानि,' धान्यविषये पूर्वपराजित,' इत्येवं क्रमादुत्तरसङ्करो द्रष्टव्यः । अतोऽन्यथासंकीर्ण भवतीति । यत्प्रभूता- र्थविषय उत्तरं न भवति । अपि तु समार्थविषयम् । यत्र चोत्तरे उभयत्र क्रियाफलं भवति ततः पूर्वोक्तादन्यथा प्रकारान्तरं सङ्कीर्णमिति शेषपूरणेन प्रकारान्तरत्वस्यैव कथनं । संकीर्ण किमनुत्तर- मेवेत्याशक्य युगपन्नोत्तरं । वादिप्रतिवादिनोः सभ्यानां चापेक्षाक्रमेण क्रमादुत्तरं भवतीति । पूर्वो- तार्थमेवात्रापि स्मारयति । ऐच्छिकक्रमः । अपेक्षाक्रमो भवतीत्यर्थः । तस्मिन्नेवाभियोग इति । अनेन 'सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीति' पूर्वोक्त एवाभियोग इत्यर्थः । अत्र १० सुवर्ण रूपकशतं च गृहीतं वस्त्राणि न गृहीतानीति' सत्यमिथ्योत्तरयोः संकरः। 'प्रतिदत्तानीतिः सत्येनसह कारणस्य संकरः। 'वस्त्रविषये पूर्वं पराजित' इति सत्येन सह प्राङ्न्यायस्य संकर इति विवेकः । संकीर्णोत्तरे विषये साम्ये ऐच्छिकक्रमः । विषयवैषम्येत्वधिकविषयोपादानेन प्रथ- मतो व्यवहार इत्युक्तं । तत्र प्रथमतोऽधिकविषयोपादानस्यापवादमाह । संप्रतिपत्ते रिवि- षयत्वेऽपीति । एवं तर्हि संकीर्णोत्तरं सर्वदा यौगपद्येन किमनुत्तरमेवेत्याशंक्य । नेत्याह । १५यत्र तु मिथ्याकारणोत्तरयोरित्यादिना परिहरति । तस्य शुद्धमिथ्याविषयत्वादिति । प्रसिद्धकारणोत्तर इति । सत्यं गृहीतं प्रतिदत्तं चेत्येवंरूपे प्रकृतोदाहरण इति । अन्यस्तु मिथ्यैतदेतत्प्रदर्शितं कालादित्येवं पूर्वोक्त इत्यर्थः । न पक्षनिराकरणसमर्थमुत्तरं भवति । संप्रतिपत्तेरंगीकारात्मकत्वेन तदभावादनुत्तरत्वमेवेत्या- शंक्याह । संप्रतिपत्तेरपीति। संकीर्णोत्तरस्य युगपदनुत्तरत्वमुक्तमुपसंहरति । नक्वचिदिति । २० प्रत्याकलितस्यति । पौनःपुन्येन विचारणं प्रत्याकलितं । ॥ इति व्यवहारमातृका ॥ अथ असाधारणव्यवहारमातृकाप्रकरणम् २ याज्ञवल्कीये ९ श्लोकः ननु अभियुक्तस्य प्रत्यभियोगेनिषेधे "गृहीतं प्रतिदत्त" मित्येवं प्रत्यभियोगात्मकं कारणोत्तर २५न स्यादित्याशंक्याह । यद्यपीति । अयमभियुक्तः स्वाभियोगनिवारकं प्रत्यभियोगमपि कुर्यात् अन्यथा-"सत्यं मिथ्योत्तरं चैव प्रत्यवस्कंदनं तथा । पूर्वन्यायविधिश्चैकमुत्तरं स्याच्चतुर्विघं' इति चातुर्विध्यकथनमेवानुपपन्नं इति । अयं निषेध इति । नैनं प्रत्यभियोजयेदित्ययं निषेधः एकस्मिन्नपिपदे इति । एकस्मिन्नपि ऋणादानादिव्यवहारविषये वस्त्वंतरोक्तिनिषेध इत्यर्थः । १ ग-प्रतिग्रहोपलब्धानि । २क-अत्रान्यथा । ३क-विषयमनुत्तरं। ४ ग-मदतः। ५ ग-वेत्येवं ६ क प्रतिदर्शि । ७क-तत्तु । ८क-त्मकत्वे । ९क-विषयो। १० कप्रत्यभियोगात्मकारणोत्तरं ११ ग-अयमाशकार्थः।

श्लोकः ११] । . -१५ सुबोधिनी. तदुदाहृत्य दर्शयति । यथाऽनेनेति । रूपकशतस्य मिथ्यादानमावेदैनसमयेऽभिधाय प्रत्यर्थिनः पुरस्ताद्भाषाकाले वस्त्रशतम्य वृद्ध्यादानेऽअभिधीयमाने यद्यपि ऋणादानरूपैक एव व्यवहारविषयो भवति तथापि रूपकशतस्थाने वनशतस्योपन्यासात् वस्त्ररूपवस्त्वंतरोपादानं यत्तन्निषिध्यते । यथावेदितमर्थिनेत्यनेनेत्यर्थः । तथासति पदान्तरागमनेऽपीति । विषयांतरप्रत्यागमने- पीत्यर्थः । अस्मिन्प्रकरणे पदशब्दो विषयवाचीति ज्ञेयः । यथा रूपकशतं वृध्द्यागृहीत्वा-५ ऽयमिति । आवेदनसमये वृद्ध्या रूपकशतमभिधाय प्रतिज्ञाकाले रूपकशतस्य बलादपहरणेऽभि- हिते रूपवस्तुन एकत्वेऽपि ऋणादानरूपापहरणरूपव्यवहारविषययोभिन्नत्वेन यत्पदांतरगमनं 'तन्नोक्तं विप्रकृति नयेदि"त्यनेन निषिध्यत इत्यर्थः । यदुक्तं हीनवादी दण्ड्य एव न प्रक- तार्थाद्धीयत इति तदेतदुक्तविषयव्यवहार एवेत्याह । एतच्चार्थव्यवहार इति । मन्युकृत इति । वाक्पारुष्ये दण्डपारुष्य इत्यादिके व्यवहार इत्यर्थः । एतदुक्तं भवति । एवंविधे वाक्-१० छलेसति व्यवहारहानिर्देड्यश्चेति । न मन्युकृतेष्विति । अमन्युकृतेष्वितियावत् । याज्ञवल्कीये १० श्लोकः प्रत्यभियोगसंभवे साहसादिष्वेवापराधेषु स्वयमभियुक्तोऽपि प्रत्यभियोजयेत्प्रार्थना असति तु नेत्याह । “अभियोगमनिस्तीर्ये'त्यादिना । नन्वेवंविधस्थले त्वभियोगः किमुत्तरं सत्सार्थकः उत प्रतिज्ञांतरं सत्सार्थक इति विकल्पे, नतावदुत्तरत्वेन सार्थकत्वं पूर्वपक्षनिराकरणासमर्थत्वेनानुत्तर- त्वात् । नापि प्रतिज्ञांतरत्वेन पूर्वाभियोग एकः प्रतिज्ञाप्रत्यभियोगश्चान्यः । ततश्च यथा संकीर्णोत्तरे युगपद्व्यवहारासंभवादनुत्तरमेव तत् । तथा प्रतिज्ञांतरेऽपि युगपयवहारासंभवस्य समानत्वादप्रति- ज्ञात्वेन प्रत्यभियोगविधिरेव व्यर्थ इति अभिप्रायेण क्षिपति । नन्वत्रापीति । कार्ययोग्यस्तु वादिन इति । वादिन इत्यर्थिप्रत्यर्थिनोः समासेन ग्रहणं । उक्तन्यायमन्यत्राप्यतिदिशति । प्राङ- न्याये प्रत्यवस्कंदनेचेदमेवेत्यादिना । योजनाप्रकारस्त्वेवं । अस्मिन्नर्थे पूर्व पराजित इति प्राङ्-२० न्यायोत्तरे, गृहीतं प्रतिदत्तमिति कारणोत्तरे, दत्ते पूर्वन्यायं प्रतिदानं च प्रतिज्ञावाद्येवापलपतीति वाद्येवापलापवादी । तत्रच प्रतिज्ञावादिना साधिते प्रात्याये पराजये प्रतिदाने वा राज्ञे प्रकृत- धनसमं दंडमेव वादी दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं प्रतिदानं वा न साधयति तदा तस्य वादित्वेन प्रकृतधनद्विगुणधनं दंडं राज्ञे प्रकृतधनं च वादिने दद्यात् इति । संप्रति प्रत्युत्तरे तु दंडाभाव इति निह्ववाद्यभावे दंडाभावः । अथ धनव्यवहारेष्विति । वाक्पारुष्यदंडपारुष्यादि- २५ व्यवहारेषु प्रकृतधनसमदंडदानं तद्वैगुण्यदानं वा यतो न संभवति तस्मादित्यर्थः । याज्ञवल्कीये ११ श्लोकः ननु पूर्वोक्तदण्डस्यर्णादानमात्रविषयत्वे राज्ञाधमर्णिको दाप्य इत्यत्र पुनरभिधानमनुपपन्नं स्यादित्याशक्य परिहरति । राज्ञाधर्णिक इति । निह्नवे भावितो दद्यादित्येतदृणादानमात्र- विषयत्वमभिहितं पूर्वत्र । अधुना तस्यैव सकलव्यवहारविषयतामाह । एतदेव सर्वव्यवहार-३० विषयत्वेनेत्यादिना प्रतिपदोक्तमेव धनं दंडं दद्यादित्यन्वयः। प्रतिपदोक्तमेवेत्यवधारणं कुतो १कन्यदनेनेति । २-क वेदनं। ३ क-येभिधाय । ४ क योग ।

८ मिताक्षराटीका. [श्लोकाः १३-२० लभ्यत इत्यत आह । च शब्दोऽवधारण इति । मूलवचनस्थश्चशब्द इत्यर्थः । इत्यनुवाद इति । शृंगग्राहिकतया तत्तद्यवहारपदेषु दंडस्य विहितत्वात्प्राप्तत्वेनानुवादः । दद्यादिति विधी- यत इति । द्विगुणदंडस्याप्राप्तत्वात् । याज्ञवल्कीये १३ श्लोकः "देशाद्देशांतरं याति"। "अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तित" इति । मनोवाक्कायकर्म- भिरित्युद्दिश्य देशांतरं यातीत्यादिना व्युत्क्रमेण कर्मकायवाङ्मनसां विकृतिं प्रदर्शयतो योगीश्व- रस्यायमभिप्रायः । उद्देशकमेणोत्तरस्य बाह्यत्वेन अत्यंतस्थूलत्वेन स्थूलतमप्रक्रमेण विकारदर्शन- मिति एते वक्ष्यमाणास्त्रयो न केवलं दुष्टा अपितु अर्थादपि हीना दण्ड्याश्चेत्याह । याज्ञवल्कीये १६ श्लोकः किंचेति । संदिग्धमित्यादिना । यत्र द्वावपि प्रतिज्ञावादिनौ तद्विषयत्वेन पूर्वोक्तं वचनं स्वयं व्याख्याय कैश्चिदुत्तरवशादेव पूर्ववादिन उत्तरवादिनश्च साक्षिणः प्रष्टव्या इत्यन्यथा व्याख्यातं तन्निराकर्तुमनुभाषते । याज्ञवल्कीये १७ श्लोकः मिथ्योत्तरे पूर्ववादिन इति । प्रतिज्ञातार्थसाधनमित्यनेनोक्तत्वादिति । अर्थ्यत १५ इत्यर्थः । तद्वानर्थी साध्यवान् । एवंच मिथ्योत्तरे पूर्ववादी साध्यवान् । कारणप्राङ्न्याययोस्तु उक्तरवायेव साध्यवान् । यस्य साध्यवत्ता तस्यैव साधनोपन्यास इत्यभिप्रायत उक्तत्वादित्यर्थः । याज्ञवल्कीये १९ श्लोकः यस्माद्भुतमपीत्यादिना । भूतमपि वस्तुतत्वमपि साक्ष्यादिभिरनुपन्यस्तं सद्ध्यवहारतो हीयते इत्यन्वयः । द्विगतिरिति । द्विप्रकारक इत्यर्थः ॥ याज्ञवल्कीये २० श्लोकः "निन्हुते लिखितं नैक"मिति । अस्मिन्वचने पादत्रयेणैषोऽर्थः प्रतीयते । प्रतिज्ञाकाले वादिनाऽभिहितस्य सकलस्वार्थस्य प्रतिवादिना निह्नवे कृते यदि वादी पूर्वोक्तार्थे एकदेशमपि साधयति तदा प्रतिवादी सकलं पूर्वोक्तार्थ दाप्य इति । चतुर्थपादे त्वयमर्थः प्रतीयते । प्रतिज्ञा- काले नाभिधाय पश्चात्कमप्यर्थमधिकं निवेद्यमानो वादी नादर्तव्य इति । एवमंशद्वयेन प्रतिज्ञा- २५ कालेऽभिहित एवार्थो व्यवहारतः प्राप्यत इत्यन्वयः । अनभिहितो न प्राप्यत इति व्यतिरेकश्च दर्शितः । यतोऽन्वयव्यतिरेकाभ्यां भूतमप्यनुपन्यस्तं हीयत इत्येतद्दढीकृतं । अतस्तदुदाहरणमि- त्यर्थः । तर्कापरनामेति। तर्कज्ञानस्य संज्ञांतरं संभावनाज्ञानमिति । तज्ज्ञानसहकृतान्निह्न- वे लिखितमित्यस्माद्योगीश्वरवचनादित्यर्थः । न्यायाधिगमतर्क इति । अस्यार्थः । न्यायज्ञाने तर्क उपायः । तेन तर्केण न्यायमध्यूह्य यस्मिन्विषये न्यायो योजनीयस्तत्स्थानं गमयेत् । अथवा ३० यथास्थानं न्यूनातिरेकरहितं यथातथा गमयेदिति । ननु भाषासमये पश्चादभिधीयमानो वादी यथा नादरणी यः एवमेकदेशविभावितः सन्नपि प्रत्यर्थी अनादरणीय एव भवतु किमिति सर्व ।

श्लोकः २१] सुबोधिनी. दाप्य इत्यनेनाभिप्रायेणाशंक्य स्यादेवं । यदि वचनं नास्ति । अस्ति तु तदित्याह । न चैकदेशवि- भावितोऽनुपादेयवचन इत्यादिना प्रतिवदन् निन्हववादी न भवति । ऋणस्यान्यकृतत्वेनाज्ञान- स्यापि तत्र संभवादपलापाभावादित्यभिप्रायः । अनेकार्थाभियोगेऽपीति कात्यायनवचन- मिति । सामान्यविषयं कात्यायनवचनं कर्तृविशेषशास्त्रस्य विषयं निह्नवोत्तरं परिहत्याज्ञानो- त्तरे प्रवर्तत इत्यन्वयः । निह्नवो ज्ञात्वाऽपलापः । अज्ञानं ज्ञानाभावः । स्थिरप्रायेष्विति । ५ लिंगदर्शनमात्रेणादृढहेतुना स्त्रीसंग्रहणादिरूपस्य साध्यस्य सिद्धिर्भवतीति तादृशानामस्थिरत्वं । ऋणादानादिरूपस्य तु साध्यस्य दृढसाधनेनैव सिद्धेः स्थिरप्रायत्वमित्यर्थः ॥ उच्यते लि- खितसर्वार्थसाधनेति । अयमभिप्रायः । 'सुवर्ण रजतं वस्त्राणि चानेन गृहीतमित्यभियोगे न मया गृहीतमिति निन्हवे कृते तत्रोक्तसकलवस्तुग्रहणे साधनत्वेन कथितैः साक्षिभिः सुवर्णाद्यन्य- तमस्य ग्रहणे वा सुवर्ण रजतं वस्त्राणि धान्यं च गृहीतमिति पूर्वनिर्दिष्टवस्तुभ्योऽधिकवस्तुग्रह- णे वा निर्दिष्टे सकलमपि साध्यं न सिध्यति । इत्येतत्परं कात्याय नवचनं । याज्ञवल्क्यव- चनं तु । सुवर्ण रजतं वस्त्राणि च धारयतीत्यभियुक्तः प्रत्यर्थी न धारयतीति निन्हुते । तदा सु- वर्णग्रहणसाक्षिणः संतीत्युपन्यस्य तावन्मात्रेऽपि साक्षिभिः साधिते, प्रत्यर्थी पूर्वोक्तं सर्वे दाप्य इत्येतत्परमित्येवं परस्परविरोध इति कात्यायनचनाचेत्युक्तं तदेव वचनं दर्शयति । साध्यार्थी- शेऽपीति । स्त्रीसंग्रहादिके विवादपदे प्रतिवादिनो योऽर्थः साध्यत्वेन कथितः तत्र सकलसा-१५ ध्यसांधनत्वेनाभिहितैरपि साक्षिभिः साध्यस्यार्थस्यैकदेशेऽपि कथिते सकलं साध्यं भवेत् सिध्येदित्यर्थः । । याज्ञवल्कीये २१ श्लोकः उत्सर्गापवादादिलक्षण इति । “सामान्यस्य विशेष वाधक" मित्येवं सामान्यावादक- लक्षणो न्यायः। आदि (शब्दा?) त्सविषयनिर्विषययोः निर्विषयं बलवदित्यादिकं गृह्यते विकल्पादि य-२० थासंभवमिति आदिशब्दात्प्रबलप्रमाणविरोधे अर्थवादत्वमाश्रित्य यथोचितन्यायानुसारेण योज्यमि- त्यभिधीयते । नन्वेकविषये प्राप्तयोविरुद्धार्थयोहि स्मृत्योः परस्परं विरोधो न तु भिन्नविषययो- रविरुद्धार्थयोर्वा । सति तु विरोधे प्रबलदुर्बलभावचिंता । एवं च पूर्वमेव धर्मशास्त्रानुसारेणैव व्यव- हारदर्शनस्य विहितत्वादौशनसादि नीतिशास्त्रं न व्यवहारविषयमुपस्पृशति । अत एकविषयत्वा- भावादर्थशास्त्रधर्मशास्त्रयोर्दूरे विरोधः । तथा चानयोः प्रबलदुर्बलभावचिंतैव न घटत इत्यभिप्राये-२५ णाक्षिप्य । सत्यमेवं । नात्रौशनसाद्यर्थशास्त्रधर्मशास्त्रयोः प्रबलदुर्बलभावचिंता । अपि तु धर्मशास्त्रां- तर्गतार्थशास्त्रस्य धर्मशास्त्रस्य च प्रबलदुर्बलकथनभावचिंता इति समाधत्ते । धर्मशास्त्रानुसारे- णेत्यनेनैवेत्यादिना। एवं तर्खेवंविधार्थशास्त्रधर्मशास्त्रयोर्मन्वादिरूपैककर्तृनिष्पन्नत्वेन वचनस्वरू- पगतविशेषाभावादनयोरपि न प्रबलदुर्बलभावचिंतावकाश इत्याक्षिपति । यद्यपि समानकर्तृक- तयेति। (नच?) स्वरूपगतविशेषात्प्रबलदुर्बलभावः। अपि तु धर्मशास्त्रप्रमेयस्य षड्विधस्यापि धर्मस्य ३० मुख्यत्वेन अर्थशास्त्रप्रमेयस्वार्थस्य नीतेरंमुख्यत्वादुपसर्जनत्वे च प्रमेयगतविशेषसंभवात्प्रबलदुर्बल- १ क-प्रतिवदं। २ क-साध्यनत्वे । ३ क-विशेष । ४ क-सामान्यापदकलक्षणे ।५ ग-नीतेमुख्यत्वादुप!

१० [श्लोकः २१ । मिताक्षराटीका. भावो घटत इति परिहरति । तथाऽपि प्रमेयस्येति । शास्त्रादौ दर्शितमिति । आचारा- ध्यायस्यादावित्यर्थः । (आचाराध्याये श्लो. ८ टीका ) । अन्यैरुक्तमुदाहरणमनूद्य रूपर्यंति न तावद्गुरुं चेत्यादिना धर्मशास्त्रं बलवदित्युक्तमित्यंतेन । अत्र इति न तावदुक्तमिति व्यवहितेनान्वयः। उक्तवचनानामनुदाहरणत्वे हेतुमाह । अनयोरेकविषयत्वासंभवेनेति । गुरु ५ वा बालवृद्धौवेत्यर्थवादत्वेन स्वार्थे प्रामाण्याभावादेकविषयताभावः। तेन विरोधाभावान्नोदाहरणत्व मित्यर्थः । आत्मनश्च परित्राण इत्येतद्वचनं व्याचष्टे । आत्मरक्षणे दक्षिणादीनामिति । गुरुं वा बालवृद्धौवेति। अस्यार्थवादत्वप्रकारमेव दर्शयति ।गुर्वादीनत्यंतावध्यानपीति। अयमर्थः । कैमुतिकन्यायेण गुर्वादिव्यतिरिक्तानां हननमीदृशस्थले प्रशस्तमिति स्तूयते । अतः स्तावकत्वेनार्थवादत्वमिति । नन्वेतावतेदमुक्तं स्यात् । अत्र गुर्वादिहनने न तात्पर्यमिति । त- • त्कुतोऽवगम्यतामित्याह । वाशब्दश्रवणादित्यादिना । अयमभिप्रायः । यथा लोकेऽत्र पिशा- चोऽस्तीत्युक्ते पिशाचो राक्षसो वा भवतु भूतमपि प्रेतोऽपि भवत्वित्यादौ प्रौढिप्रतिपालने तात्पर्य, एवमत्रापि वाशब्दापिशब्दयोः प्रौढिप्रकर्षे तात्पर्य । अतस्तद्विशिष्टवाक्यजातस्यापि न गुर्वादि- हनने तात्पर्य । तथा वेदेऽपि । “वायुर्वै क्षेपिष्ठा देवते"ति, "प्रतिनिघ्नंतीह वाय एता रात्रीरुपयं- ती"त्यादौ, वैशब्दवाशब्दप्रभृतीनां शब्दानां विधिशक्तिप्रबंधकत्वदर्शनात् । प्रकृतेऽपि वाशब्दा- १५ पिशब्दाभ्यां तद्वद्विधिशक्तेः प्रतिबद्धत्वात् । न गुर्वादिहननविधिः । अतश्च गुर्वादिविषये "गुरुं वा बालवृद्धौवे"त्यनेन वचनजातेन हनन विधेस्तन्निमित्तस्य प्रायश्चित्तविधेश्चेयं विशुद्धिरुदितेत्यनेन चाप्राप्तत्वात् नानयोः परस्परविरोधः । येन प्रबलदुर्बलभावकथनस्योदाहरणं स्यादिति । किंच सुमन्तुमनुभ्यां गोब्राह्मणाचार्यादिव्यतिरिक्तानामेवाततायिनां वधे दोषाभावप्रतिपादनादाततायि- नामपि गुर्वादीनां न वध्यत्वमित्याह । नाततायिवधे दोषोऽन्यत्रेत्यादिना । नन्वाचार्य च २० प्रवक्तारं इत्यत्र मनुवचने आचार्याधुपादानं प्रदर्शनमात्राय । तथा च हिंसामात्रप्रतिषेधतात्पर्या- दस्य वचनस्याततायिनां आचार्यादीनां विधिनिषेधपरत्वं येन गुरुं वा बालवृद्धौ वेत्यस्यैतन्मनुवच- नविरोधः स्यादित्याशंक्य परिहरति । आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेति । अयमभिप्रायः । हिंसामात्रप्रतिषेधस्य सामान्यवचनेनैव सिद्धत्वादस्मिन्वचने आचार्यादिपदानां स्वार्थाविवक्षाकारणाभावाद्धिंसाविशेषनिषेधेनैवैतद्वचनं संप्रयोजकं । हिंसामात्रनिषेधपरत्वे वचनां- २५ तरेणैतन्निषेधस्य प्राप्तत्वात्पुनरुक्तेनास्य निष्प्रयोजकत्वमिति । इदं वचनं । आचार्यचेत्येतन्मनु- वचनमिति यावत् । नन्वेवं ताचार्य च प्रवक्तारमित्यनेन नाततायिनामप्याचार्यादीनां हिंसा निषि- ध्यते । 'नाततायिवधे दोष' इत्यनेन चाततायिहिंसायां दोषाभावप्रतिपादनादाततायिनां वध्यत्व- प्रतीतेरनयोर्वचनयोः परस्परविरोधः स्यादित्यत आह । नाततायिवधे दोषो हन्तुर्भवति । कश्चनेत्येतदपीति । भिन्नविषयत्वेनाविरोध इत्यर्थः । ब्राह्मणादिव्यतिरिक्तविषयत्वमेव दर्शयति । यतोऽग्निद इत्यादिना । एतदुक्तं भवति । सामान्येनैवाततायिनः प्रदर्शनादाततायिवधे दोष इत्यभिहितत्वात्सामान्यशास्त्रमिदं । नातता- कारूपयति । २ क-विरोधेग्रे बाग्दुर्बल भाव य चिंता। ३ग-प्रतिपादने.। ४ गगुर्वादिरूपे विषये । ५ का इति पोदना । ६ क-प्रदर्शनामात्राय । ७ क-हिंसाप्रतिबंधेनेति । ८ ग-स्वार्थविवक्षा । ९ क सिंप्रयोजनक। ख-समयोजकं १० ग-यदुक्तं भवति । ।

श्लोकः २२] सुबोधिनी. यीत्यादिकं विशेषशास्त्रस्य आचार्य च प्रवक्तारमित्यस्य विषयः । ब्राह्मणादिकं परिहत्यैतद्यतिरि- क्तविषये वर्तत इति । एवं सिद्धे आततायिनां ब्राह्मणादीनामवध्यत्वे प्रमादाद्यदि आततायिनां ब्राह्मणानां हननं स्यात्तदा प्रामादिकत्वाद्धननस्य सर्वात्मना हन्तुः किं दोषाभावः स्यादित्याशंक्य नेत्याह । अतश्च ब्राह्मणादय इत्यादिना । स्वाभिमतमुदाहरणमाह । तदुच्यत इत्यादिना । अत एव धर्मार्थसंनिपात इति । यतो धर्मशास्त्रं प्रबलं । अतएव अस्माद्धेतोरित्यर्थः । । । याज्ञवल्कीये २२ श्लोकः शासनमुक्तलक्षणमिति । 'दत्वा भूमिं निबंधं वा कृत्वा लेख्यं तु कारयेत्' (याज्ञवल्कीये आचाराध्याये ३१८ श्लोकः ) इत्यत्रोक्तरूपमित्यर्थः । प्रकारो भेदः । दृष्टसाक्षिणः श्रुत- साक्षिण इत्येवमादिः । स्वरूपं च प्रकारश्च वक्ष्यमाणस्वरूपप्रकारौ येषां ते तथाविधाः । ननु प्रत्य- क्षादिष्वन्तर्भूतमेव प्रमाणं नेतरत् एवंच पत्रस्य खस्मिन्लिखितशब्दसंदर्भद्वारा प्रामाण्यं । साक्षिणां- त्वभिवदनरूपशब्दद्वारा प्रामाण्यं । भोगस्य क प्रमाणेऽतर्भावः येन प्रामाण्यं स्यादित्याक्षिपति । ननु लिखितस्य साक्षिणांचेति । प्रमाणांतर्भावमाह । उच्यते । भुक्तिरपि कैश्चिद्विशे- षणैरित्यादिना । विशेषणान्यनुमानरचनावेलायां स्फुटीभविष्यति । अयमभिप्रायः । अनुमा- नेऽर्थापत्तौ वाऽन्तर्भवतीति प्रमाणमिति । इदं क्षेत्रादिकमस्य क्रयादिप्राप्तं भवितुमर्हति । आसेधरहितत्वे सति चिरकालोपभोगयोग्यत्वात् । “संप्रतिपन्नवदि"त्यनुमानं । असौ देवदत्त ए-१५ तत्क्षेत्रादिविषयकक्रयादिमान् । आसेधरहितचिरकालोपभोक्तृत्वात् । यथा संग्रतिपन्नः क्षेत्रादा- विति वा । आसेधरहितचिरकालभोगान्यथानुपपत्त्या क्रयादिकं परिकल्प्यत इत्यर्थापत्तिः। एवमनुमानार्थापत्तिभ्यां सिद्धे क्रयादिके स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेष्वित्यादिभिर्व- चनोपेतैनियतकारकत्वहेतुभिः स्वत्वं सिद्धं भवति । एषाम्...अन्यतमाभावे दिव्यान्यत- ममुच्यते इत्यत्र मानुषप्रमाणाभावमात्रे दिव्यावसर इति प्रतीयते । न च तथा । अपि तु २० मानुषप्रमाणाभावनिर्णये सत्येव दिव्यं प्रमाणं कर्तव्यमित्याह । मानुषाभाव एवेति । मानु- षप्रमाणस्याभावनिर्णये सत्येव दिव्यं प्रमाणमित्येतत्कुतोऽवगम्यत इत्यत आह । अस्मादेव वचनादिति । अस्मादेव वचनाद्वगम्यत इत्युक्तं । तत्र हेतुमाह । दिव्यस्य स्वरूपप्रामा. ण्ययोरिति । अयमर्थः । दृष्टे सत्यदृष्टाश्रयणस्यान्याय्यत्वात् । दिव्यस्वरूपस्य तत्प्रामाण्यस्य च शास्त्रैकसमधिगम्यत्वेनालौकिकत्वेनादृष्टत्वाद्यावदृष्टप्रमाणसंभावना तावदृष्टप्रमाणस्यावसराभा-२५ वादेषामन्यतमाभाव इत्यत्र दृष्टप्रमाणस्याभावनिर्णये सति एवं दिव्यं प्रमाणीकर्तव्यमिति तात्पर्यार्थः । सिद्धो भवतीति । यत्र सकलसाध्यसाधनत्वे सति न मानुषी दैवी च क्रियोपन्यस्ता तत्र भवतु मानुष्येव क्रिया ग्राह्या । यत्र पुनः साध्यैकदेशे साधनं मानुषी क्रिया, दैवी तु सर्वस्मिन्सा- ध्ये साधनं, तत्र का ग्राह्या इत्यपेक्षायामाह । यत्रापि प्रधानैकदेशसाधनमित्यादिना। वृद्धिव्यतिरेकेण यन्मूलभूतं स्वं तत्प्रधानमित्युच्यते । तस्यैकदेशः । रूपकशतमनया वृद्ध्या ३० गृहीतं' इत्यत्र रूपकशतग्रहणं प्रधानं । रूपकग्रहणमाचमेकटेश एकादेशांतर संख्या अस्य THE UNIVERSITY LIBRARY. १क-न्यायत्वात् । RECEIVED ON । + १२ मिताक्षराटीका. [श्लोकः २४ चापवादो दृश्यते इति । 'मानुषाभाव एव दिव्येन निर्णय' इति यदुक्तं सामान्येन । अस्य साक्षिदिव्ययोर्विकल्पविधानात्पूर्वोक्तनिर्णयस्यापवादः। तथा लेख्यादीनामपीति । आदिशब्देन भुक्तिसाक्षिणौ गृह्यते। तथा द्वारमार्गक्रियाभोगेति। अस्यार्थः। द्वारक्रिया मार्गक्रिया चेति। क्रियाशब्दस्य प्रत्येकमभिसंबंधः । द्वारकरणं मार्गकरणं चेति । तत्र चाभोगेच । आभोगः ५ परिणाहः । तेन परिणाहवदंगणादिकं लक्ष्यते । जलवाहादिषुच । जलवाहो जलमार्गः । आदिशब्दाद्गृहादिषु प्रमार्जितरजःपुंजप्रक्षेपणस्थानमवस्करादिकं गृह्यते । एतेषु पूर्वोक्तेषु भु- क्तिरेव क्रिया प्रमाणं । न दिव्यं नापि साक्षिणः प्रमाणमिति । तथा, दत्तादत्तेति । दत्तंच अदत्तं च दत्तादत्तं तस्मिन्दत्ताप्रदानिकाख्ये, स्वामिभृत्यनिर्णयाख्ये, विक्रयासंप्रदानाख्ये । द्यूतं च समाह्वयं च द्यूतसमाह्वयं । तदाख्येच विवादपादे प्राप्ते साक्षिण एव साधनं नान्यदित्यस्यार्थः। १० एतानि च विवादपदानि उत्तरत्र स्फुटीभविष्यति । याज्ञवल्कीये २३ श्लोकः सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रियेत्यत्रोदाहरणमाह । तथा पूर्व द्विकं शतमिति । नि- काणां शतस्य निष्कद्वियं वृद्धिरिति प्रथमं गृहीत्वा कालांतरे स्वकार्यवशात्तस्यैव निष्कशतस्य निष्कत्रयं वृद्धिरित्यंगीकारे तदेव परं बलवत् । विरुद्धस्वभावत्वेन पूर्वाबाधेनोत्पत्त्यभावादित्यर्थः । १५न्यायमूलमेवेदं वचनमिति । एकग्राहितस्य दत्तस्य विक्रीतस्य वा पुनरन्यत्र आध्यादि- करणे खत्वमेव न संभवति इत्यसावेव न्यायः, एतन्मूलमेवेदं वचनं । एतन्न्यायसिद्धमेवार्थ सौकर्या- यानुवदतीत्यर्थः । अथवा, न्यायस्यैव मूलमेतद्वचनं । अनेन वचनेनाध्यादिषु पूर्वबलीयस्त्वे वि- हिते तबलादेकत्राहितादेवस्तुन अन्यत्रीधानादिकं न घटते स्वत्वाभावादित्यसौ न्यायो निष्पन्न इत्युभयथाऽपि न्यायमूलमेवेदं वचनमित्युक्तिरनुसंधेया याज्ञवल्कीये २४ श्लोकः भुक्तेः कैश्चिद्विशेषणैर्युक्ताया इति । आसेधराहित्यचिरकालत्वादीनि विशेषणानि तै युक्तायाः। पश्यतोऽब्रुवत इत्येतद्वचनमेकदेशिमतमादाय व्याचष्टै । परेणासंबंधेन भुज्यमाना मित्यादिना । अनासेधात्स्वामिनः स्वत्वानपगमाविंशतिवर्षोपभोगादिभिश्च उपभोक्तुः स्वत्वाप्राप्ते २५ विंशतिवार्षिकी दशवार्षिकी च हानिरनुपपन्नेत्याक्षिपति । नन्वित्यादिना । अनासेधात्स्व त्वानपगममाह । नाप्रतिषेधादिति । तत्र हेतुमाह । अप्रतिषिद्धस्येति । यथा दानक्रयादे स्वत्वापगमे हेतुत्वं लोके शास्त्रे च सिद्धं, तथा प्रतिषेधस्य नास्तीत्यर्थः । उपभोगादुपभोक्तुः स्वत्व माह । नापि विंशतिवर्षोपभोगादिति । तत्र हेतुमाह । उपभोगस्य स्वत्वे प्रमाणत्व दिति । अयमभिप्रायः । यथा धूमानुमानस्य पर्वतेऽग्निज्ञापकत्वं, नोत्पादकत्वं, तथोपभोगस्या। ३० स्वप्रमेयभूतखत्वज्ञापकत्वं । अतो नोपभोगात्स्वत्वोत्पत्तिरिति । उपभोगात्स्वत्वाभावे हेत्वंतरमाह रिक्थक्रयादिति । कारकहेतुषु मध्ये भोगस्य पाठाभावात्तस्योत्पादकहेतुत्वं नास्तीत्यर्थः । कारकहे १ क-पूर्वाभावेनो २ क क्रमादिष्विति ।

। -- श्लोकः २४] सुबोधिनी. १३ तुष्वपाठमेव दर्शयति । तथाहि, स्वामी रिक्थक्रयेति गौतमवचनस्यायमर्थः । रिक्थक्रय- संविभागपरिग्रहाधिगमेषु सत्सु स्वामी भवति । इति सर्वसाधारणस्वत्वकारकहेतुपरिगणनं । अप्रतिबंधो दायो रिक्थ। सप्रतिबंधोदायःसंविभागः परिग्रहोऽरण्यादिष्वनन्यपरिगृहीत- तृणकाष्ठादिस्वीकरणं । अधिगमो निध्यादिप्राप्तिः । असाधारणकारकस्य हेतूनाह । ब्राह्मण- स्याधिकं लब्धमिति । ब्राह्मणस्य प्रतिग्रहादिना यल्लब्धं तदधिकमसाधारणं । शूदस्य द्विज-५ शुश्रूषादिना भृतिरूपेण यल्लब्धं तदधिकमसाधारणं । “निर्वेशो भृतिभोगयौरित्यमरः ( ३।३ २१४) ननु 'पश्यतोऽब्रुवत' इतीदमेव योगीश्वरवचनं विंशतिवर्षीपभोगस्य दशवर्षांपभोगस्य च स्वत्वहेतुत्वविधायकं भविष्यतीत्यत आह । न चेदमेव वचनमिति । तत्र हेतुः । स्वत्वस्य स्वत्वहेतूनां चेति । अयमभिप्रायः । विधेरत्यंताप्राप्तप्रापणत्वस्वभावेन लोकसिद्धार्थे प्रवृत्त्य- भावादिति । एतच्च विभागप्रकरण इति । स्वत्वस्य स्वत्वहेतूनां च लोकसिद्धत्वमिति यत् १० तदेतत् । एवं तर्हि गौतमवचनस्य का गतिरित्याशंक्य शास्त्रपरिगणितैरेव हेतुभिः स्वत्वमुत्पाद- यितत्वं नापरिगणितैः । यतो नियमाददृष्टं जायत इत्येवं नियमार्थ न तु स्वत्वं स्वत्वकारक- हेतवो वा शास्त्रसमधिगम्या इत्येवमर्थमित्याह । गौतमवचनंत्विति । अनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते इति । अनागमोपभोगेन स्वत्वोत्पत्तौ उपभोक्तुदंडविधानमनुपपन्नं । विधीयते च दंडः । अत एव तद्वचनविरोधादपि स्वत्वमुपभोगान्नोत्पद्यते इत्यर्थः । सति – वि. १५ रोधे सर्वात्मना उपभोगात्स्वत्वानुत्पत्तिः । न च विरोधः । तथाहि । “अनागमं च यो भुङ्क्ते" इत्यनेनैतद्विधीयते । स्वामिनोऽसमक्षं बहुकालोपभोगेऽपि स्वत्वानुत्पादादुपभोक्ता चोरव- इंड्य इति । “पश्यतोऽब्रुवत" इत्येतत्तु अमुमर्थ विधत्ते। स्वामिनः समक्षं अनासेघोपभोगे विं- शतिवर्षाधनंतरं हानिर्भवति । उपभोगादुपभोक्तः स्वत्वमुत्पद्यत इति । एवं च परोक्षापरोक्षविषयत्वे नानयोः परस्परविरोधः । येन पश्यतोऽब्रुवत इत्यत्रोपभोगात्स्वत्वप्रतीतिर्न स्यादित्याशंक्य परिह-२० रति । न चागमं तु यो भुक्ते इत्येतदिति । न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्याशंक्य हेतुमाह । अनागमं तु यो भुंक्त इतीति । अयमाशयः। परोक्षत्वापरोक्षत्वरूपविशेषमन्तरेण सामान्येन यः अनागमं मुंक्त स दंड्य इति निर्देशान्न परोक्षापरोक्षविषयत्वेन व्यवस्थापनं युक्तं । न विरोध इति। नोपभोगे वलं कार्यमिति । उपभोगमात्रबलादेव न स्वत्वसिद्धिरित्यर्थः । समक्षभोगे च हानिकारणाभावेनेति । अनासेधेन स्वत्वानपगमात्, उपभोगेन च स्वत्वाप्राप्तेरिति पूर्वोक्तानु- २५ संधानेन न हानिकारणाभावो द्रष्टव्यः । ननु पश्यतोऽब्रुवत इत्यस्य माभूत्पूर्वोक्तार्थः । “आधौ प्रतिग्रहे क्रीत" इत्यत्राध्यादिषु पूर्वक्रि- याप्राबल्यमभिहितं, तदपवादेन भूमौ विंशतिवर्षोपभोगसहिता उत्तरक्रिया। धने तु दशवर्षोपभोगस- हिता उत्तरक्रिया च बलवती । अत एवंविधस्थले आध्यादिष्वप्युत्तरक्रियैव ग्राह्येत्येवंरूपोऽर्थो- ऽस्त्वित्येवमाशंक्य परिहरति । न चैवं मन्तव्यमित्यादिना । अत्र क्रिया नाम करणं कृति-३० रिति यावत् । भूमौ विंशतिवर्षीपभोगरहितस्थले, धने च दशवर्षापभोगरहितस्थले पूर्वकृताध्यादि- १ क-क्रम। २ क-स्वत्वहेतुत्वमित्यपि पाठः। ३ क-सति चावरोधे । ४ क-अनागमे तु यो भुक्ते । ५क-न चैतन्मंत्रत्वमित्यादिना ।

[श्लोकः २४ १४ मिताक्षराटीका. कमेव बलवत् । एतदभावस्थले तु पूर्वकृताध्यादिकापेक्षया उत्तरकालकृताध्यादिकं बलवदिति शंकावादिनोऽभिप्रायः । परिहारवाद्यभिप्रायस्तु उत्तरक्रियाया एवाभावात् पूर्व क्रियापेक्षया उत्तर- क्रियाप्राबल्यं न घटते । यतः सति हि धर्मिणि धर्मचिंतनमिति । किं च एवं च सति पूर्वोक्तव- क्ष्यमाणयोर्योगीश्वरवचनयोः परस्परविरोधादानर्थक्यमपि स्यादित्याह । तथाऽध्यादीनां ५ त्रयाणामिति । अयमभिप्रायः । विंशतिवर्षोपभोगसहितं दशवर्षोपभोगसहितं चोत्तरकालकृत- माध्यादिकं बलवत् । एतदपेक्षया पूर्वकालकृतं दुर्बलमिति । पश्यतोऽब्रुवत इत्यनेनाभिधीयत इति पूर्वपक्षिण आशयः । एवं स्थिते, 'आधिसीमोपनिक्षेपजडबालधनैर्विनेति' पूर्वोक्तापवादकेनोत्तरव- चनेनाधौ उत्तरं कार्य बलवन्नभवतीति विधीयते । तथा च पूर्वेण वचनेनाधावुत्तरकार्यबलीय- स्त्वविधानादुत्तरेण च वैपरीत्याभिधानात्परस्परविरोधादानर्थक्यमिति । ननु माभूत्स्वरूपहानिः भूम्यादीनामासेधाधकरणे विंशतिवर्षाद्यनंतरं व्यवहारस्य तत्तद्विषयस्य हानिर्मवत्वित्यत आह । नापि व्यवहारहानिरिति । तत्र हेतुः । यत उपेक्षां कुर्वत इति । अस्य वचनस्य पूर्वोक्तार्थहेतुत्वमेवोपपादयति । इति नारदेनोपेक्षालिंगाभावकृत इति । उपेक्षायां यानि लिंगानि जडत्वबालत्वादीनि तेषामभावः । तत्कृता तन्निमित्ता । एत- दुक्तं भवति । उपेक्षा लिंगेष्वसत्स्वपि व्यवहारोऽनेन किमिति न कृतो विप्रतिपन्नवस्तुनः स्वकी- १५ यत्व इति प्रत्यर्थिनाभिहिते वादी निरुत्तरो भवति । इत्येवं प्रकारेण व्यवहाराभावो नारदेना- भिधीयते । उपेक्षां कुर्वत इत्यभिधानात् । अतो न वस्तुनो व्यवहाराभावो वक्तुं शक्यत इति । पश्यतोऽब्रुवत इत्येतद्वचनं प्रकारांतरेण व्याचष्टे । अथ मतमित्यादिना । अयमर्थः । अना- सेधविंशतिवर्षापभोगात्तादृशदशवर्षोपभोगाच्च भूम्याधिक्यवस्तुनो हानिर्वा तद्विषयस्य हानिरनेन वचनेन प्रतिपाद्यते । अपि तु स्वसमक्षं वस्तुनि उपभुज्यमाने सत्यासेधं यदि स्वामी न करोति २. तदा कालांतरे व्यवहारहानिशंका भवेदिति व्यवहारहानिशंकानिवृत्यर्थे आसेधो विधेय इत्यासे धस्यावश्यकर्तव्यतां विधत्त इति । तदपि व्याख्यानं दूषयति । तच्च नेत्यादिना । किमयं तूर्ण न स्थातव्यमित्युपदेशोऽदृष्टार्थः ? । उत दृष्टार्थः ? । न तावदृष्टार्थः । तथाहि । व्यवहारहानिशं कायां सत्यां तन्निवृत्त्यर्थमयमुपदेशो वक्तव्यः । स च हानिशंकाकारणे सत्येवोत्पद्यते ना सति । तच्च कारणं विंशतिवर्षादिपरिमिता भुक्तिः। आहोस्विदन्यत् ? । न तावदन्यत् । वचने २५ ऽनुपादानादसंभवाचेति बहिरेव परिहृत्य नापि तादशी भुक्तिरित्याह । स्मार्तकालाया भुक्ते रिति । अयमर्थः । असौ मदीयं क्षेत्रादिकं प्रतिग्रहादिकमंतरेणोपभुक्ते इति स्मरणयोग्यकालिन या भुक्तिः तादृशभुक्त्या व्यवहारहानिशंकैव नोत्पद्यते । साक्ष्यादिसंभवादिति । नाप्यदृष्टार्थ इ त्याह । तूष्णीं न स्थातव्यमितीति । अत्रैतावन्मात्राभिघित्सायां अविवक्षितं स्यादित्यंतरे णान्वयः। अविवक्षितमनुपपन्नमिति । अयमभिप्रायः । तूष्णीं न स्थातव्यमित्यस्योपदेशस्या दृष्टं फलमिति वक्तव्यं । तच्च फलं विधानबलात्कल्प्यं । कल्पना च गरीयसी । अदृष्टं प्रथमं ताव नास्तीत्येवं प्रतीयते । "बालाग्रशतबालोऽपि न कल्प्यो निष्प्रमाणक" इति न्यायात् । साच के सना संभवत्यसत्यां गतौ । वक्ष्यमाणानुसारेण चास्य वचनस्य गत्यंतरसंभवाददृष्टकल्पनयवास ? । । । १क-पक्षया।

श्लोकः २४]] सुबोधिनी. १५ वचनस्य सार्थकत्वकल्पनायां हेत्वभावातूष्णीं न स्थातव्यमित्ययमुपदेशो नादृष्टार्थ इति । अस्यो- पदेशस्यादृष्टार्थत्वमंगीकृत्यापि दोषमाह । विंशतिग्रहणमविवक्षितं स्यादिति । अवि- वक्षितं स्यादिति पदं पूर्वग्रंथशेषत्वेनैतद्रंथशेषत्वेनान्वेति । अयमर्थः। तूष्णीं न स्थातव्यमित्युपदेशो- दृष्टार्थः । आसेधकृते किमप्यदृष्टं फलं जायते अतस्तूष्णीं न स्थातव्यमित्युपदिश्यत इत्युक्तं स्यात् । तथा च तत्फलं विंशतिवार्षिकीति विंशतिवर्षरूपमर्यादाभावे तूष्णीं न स्थातव्यमिति निषेधमात्रे-५ णापि सेत्स्यतीति विंशतिपदं अविवक्षितमनर्थकं स्यादित्यर्थः । अथवा सकललोकमनःप्रसाद- संपादिना सुगमेन मार्गेण तच्च नेत्यादिपरिहारग्रंथसंदर्भोऽभिप्रायतो व्याख्यास्यते । तदपि व्या- ख्यातं दूषयति । तच्च नेत्यादिना । अयमर्थः । असौ मदीयं क्षेत्रादिकं प्रतिग्रहादिकमंतरेणोप- भुंक्ते इति स्मरणयोग्यकालीना या भुक्तिः साऽस्य व्यवहारहानिशंकाप्रतिकारणत्वाभावा- निवृत्यर्थमसावुपदेश इति न घटते । अत एव वक्तव्यं तूष्णीं न स्थातव्यमिति एतावन्मात्रमुप-१० दिश्यत इति । तथा च विंशतिपदमविवक्षितमनर्थकं स्यात् । कुतः। दृष्टप्रयोजनाभावादस्योपदेश- स्यादृष्टं प्रयोजनं कल्पनीयं । अदृष्टप्रयोजनस्य विंशतिवर्षरूपमर्यादाभावेऽपि उपपत्तेः। अतो विंश- तिपदमविवक्षितमिति । विंशतिपदस्यानर्थक्यं परिहरति । अत्रोच्यत इत्यादिना । अयमभिप्रायः। पश्यतोऽब्रुवत इत्यनेन तूष्णीं न स्थातव्यमित्येतन्मात्रमेवोपदिश्यते नाधिकं । तथापि विंशतिपदं सार्थकं । तथाहि विंशतिवर्षपर्यंतं यदि स्वामी नासेधति, प्रत्यर्थी चासेधरहितं तावंतं कालमुपभुक्ते १५ वस्तुतः कपटकृतलेख्यमपि । तदा विंशतिवर्षेष्वतिक्रांतेषु तत्पत्रं निर्दोषमिति पत्रगतदोषोद्भावनं निराकरणार्थे विंशतिपदं सार्थकं । अनासेधविंशतिवर्षीपभोगेन विंशतिवर्षानंतरं पत्रं निर्दोषमिति अत्र कात्यायनवचनं प्रमाणयति । शक्तस्य संनिधावर्थ इति । निराकरोति । तदपि न आध्यादि- प्वपीति । अयमभिप्रायः। पत्रे दोषोद्भावननिराकरणत्वेन विंशतिपदस्य सार्थकत्वे अस्य न्याय- स्याध्यादिपत्रेष्वपि तुल्यत्वात् । उपरितनयोगीश्वरवचने 'आधिसीमोपनिक्षेपजडबालधनैर्विना' इत्यसौ आध्यादिषु अपवादो विरुध्येतेति । ननु पश्यतोऽब्रुवत इत्यनेनासेधरहितविंशतिवर्षोपभोगानंतर सामान्येन सर्वत्रपदेषु दोषोद्भाव- ननिराकरणे प्राप्ते आधिसीमोपनिक्षेपेत्यनेन विशेषवचने साध्यादिविषये तथा न । किं तु विंशति- वर्षानंतरमपि दोषोद्भावनमस्त्येवेति पूर्वोक्तापवादे कुतो विरोध इत्याशंक्य । न योगीश्वरव- चनस्य विरोधः । अपि तु कात्यायनवचनाभ्यामाधिसीमोपनिक्षेप इति योगीश्वरवचनस्य वि-२५ रोध इति द्योतयितुं कात्यायनवचनमुदाहरति । अथ वर्षाणीति । एतदुक्तंभवति । आधि- पत्रे सीमापत्रेऽपि विंशतिवर्षानंतरं दोषोद्भावनं नास्ति । अदुष्टमेव तत्पत्रं कात्यायनवचना- भ्यां प्रतीयते । योगीश्वरवचनेन त्वेतद्विपरीततया आधौ सीमनि च विंशतिवर्षानंतरं अपि दोषो- द्वावनमस्तीति । तथा च विरोधः । न चैतद्युक्तं । वक्ष्यमाणप्रकारेण विरोधेनैवोपपत्तेरिति । तस्याभिप्रेतमर्थमाह । उच्यत इत्यादिना । प्रत्यक्षभोगे च साक्रोश इति । फलानुसरणं ३० लभत इत्यनुषंगः । अत्र हेतुः । अब्रुवत इति वचनादिति । यतोऽब्रुवत एव फलहानिः अतो ढुवाणस्याक्रोशं कुर्वतः फलमस्तीत्यर्थः । प्रत्यक्षे निराक्रोशे लभत इति । अत्रापि २० १ क-अतएवं । २ विंशतिवर्षाणीति मिताक्षरापाठः। ३ क-अतोऽब्रुवाणस्य ।

[श्लोकः २६ मिताक्षराटीका. फलानुसरणमित्येव । अस्तु स्वत्वं; तथापि विषयविशेष फलहानिरुपपन्नैवेत्यर्थीगीकारेण परिहरति । बाढमिति।क विषये फलहानिर्नास्ति क्व वा फलहानिरित्याकांक्षायों यत्र फलं विद्यमानं तत्र हानि - स्तीत्याह । तस्य स्वरूपाविनाशेनेति । तस्य फलस्य । यत्र पुनः फलमुपभोगात्स्वरूपतो नष्टं तत्र संबंधिनस्वरूपस्याभावात्संबंधात्मके खत्वे निवृत्तेऽपि अनागमोपभोक्तारं चोरवइंडयेदिति ५विधानात् । चोरेणापहृतं द्रव्यं स्वामिनेऽर्पयित्वा यथा दंडो गृह्यते तद्वदुपभोक्तारं स्वामिने फलं दापयित्वा दंडयेदिति विधानात् । वचनबलात्कलमूल्यदाने प्राप्ते फलहानिर्विधीयत इत्याह । यत्र पुनस्तदुत्पन्नमित्यादिना। याज्ञवल्कीये २५ श्लोकः उपनिक्षेपस्योपनिधेर्भेदं दर्शयति । उपनिक्षेपो नामेति । एतदुक्तं भवति । रूपसंख्ये अप्रदर्य रक्षणार्थ यद्दीयते असौ उपनिधिरिति । नारदवचने विश्रंभादितिपदेन रूपसंख्याऽप्र- दर्शनं द्योत्यते । हानि भवतीति । फलहानि भवतीत्यर्थः । १० याज्ञवल्कीये २६ श्लोकः विवादास्पदीभूतं द्रव्यं स्वामिने दापयेदित्यनुवाद इति। "निन्हवे भावितो दद्याद्धनं राज्ञे च तत्समं" ( याज्ञव० व्य० अ० श्लो० ११) इत्यस्यार्थस्य विहितत्वादित्यभि- १५ प्रायः । दंडं च तत्समं विवादास्पदीभूतद्रव्यसमं राज्ञे दापयेदिति । नन्वत्र विधिरनुपपन्नः । राज्ञे च तत्सममित्यत्रैव प्रकृतधनसमदंडस्यापि विहितत्वात् । उच्यते । राज्ञे च तत्सममित्यत्र ऋणा- दानमात्रे विधिर्न सर्वत्रविषयेषु । भवतु वा सर्वविषयत्वं । तथापि न तत्र विधिः । तत्र तत्र विहि- तस्य राज्ञे च तत्सममित्यनूद्यमानत्वात् । अतो न काचिदनुपपत्तिः । ननु सर्वेष्वपि विवादपदेषु तत्समदंडविधिर्न युक्तः । गृहादिविवादेषु गृहांतरादिरूपदंडदानस्याशक्यत्वादित्याशंक्य । सत्य- २० मेवं । तादृशि स्थले तत्सममिति च वक्ष्यमाणो दंडो विधीयत इत्याह । यद्यपि गृहक्षेत्रादिष्वि- ति। ननु तत्रि वक्ष्यमाणस्थले चासावेवार्थो विधीयते इत्यन्यतरस्याविधित्वं स्यादिति चेन्न । वक्ष्यमाणस्थले दंडस्वरूपविधिः । अत्र तु तत्र प्राप्तदंडानुवादेन दापनविधिरिति उभयत्र विधे- यसंभवान्नान्यतरस्याविधित्वं । ननु धिक्कारस्य दडंत्वमेव कथं सिद्धं, सिद्धे वा दंडत्वे तद्विधानं कुतोऽवगम्यते, इत्याशं- २५ क्योभयत्र मनुवचनं प्रमाणयति । धिग्दंडं प्रथमं कुर्यादिति । अत्र प्रथमं तदनंतरं तृतीयादयः शब्दा धिग्दंडधनदंडवधदंडानां मध्ये पूर्वपूर्वापेक्षयोत्तरोत्तरत्याधिक्यप्रतिपादकाः न पुनः सर्वेष्वप्यपराधेषु प्रथमादिक्रमेण कर्तव्यताप्रतिपादकाः । नवधा दर्शित इति । नवधा नवप्रकारेण, प्रसिद्धवधव्यतिरेकेण, नवप्रकार इत्यर्थः । दश स्थानानि दण्डस्येति । त्रिषु वर्णेषु क्षत्रियवैश्यशूद्रेषु यानि दण्डस्य स्थानानि दशेत्यन्वयः । एतेषां च यन्निमित्तमिति । १ क-अस्तु स्वत्व तथापि । २ क-त्याकांक्षाया। ३ कन्यत्युनस्तदुत्पन्नमिति मिताक्षरापाठः । ४ क- उपचयहानिर्भवतीति। ५ दशधा इति मिताक्षरापाठः।

श्लोकः २७] सुबोधिनी. एतेषां उपस्थादीनां मध्य इत्यर्थः । अकिंचनं धिन्दंडयेदित्युक्तं । तत्रैव पक्षातरमप्याह । कर्म च कारयितव्य इत्यादिना । यथाह गौतमः। कर्मवियोग इत्यादिना । अस्यार्थः। याज्ञवल्कीये २७ श्लोकः अवृत्तौ अन्यायिनि ब्राह्मणे व्यापारनिरोधान्यायप्रख्यापनादीनि कर्तव्यानीति विशिष्टभोगस्य स्वत्वे प्रामाण्यमभिधास्यन् स्वत्वोत्पादकहतोरागमस्य प्राबल्यं दर्शयति । स्वत्वहेतुः प्रतिग्रहक्र-५ यादिरिति । आगमस्य भोगापेक्षया बलीयस्त्वे हेतुमाह । स्वत्ववोधने भोगस्योति । अय- मर्थः । भोगः स्वत्वे प्रमाणं भवत् प्रतिग्रहादिकमपेक्षते । प्रतिग्रहादिकं तु भोग नापेक्षते । एवं च सापेक्षनिरपेक्षयोः निरपेक्षं बलीय इति न्यायेनागमस्य प्रतिग्रहाद्यात्मकस्य बलीयस्त्वमिति । विच्छेदापरवोज्झित इति । अपरव आक्रोशः। विच्छेदेन अपरवेण चोज्झितस्त्यक्तः। विच्छेदापरवरहित इति यावत् । एतदुक्तं भवति । विच्छेदरहितो निरंतरः । अपरवरहितो नि-१० राक्रोश इति । पूर्वावतारितवचनस्यैवावयवमभिप्रायतो व्याख्यातुमुपक्रमते । क्वचित्त्वागमनिर- पेक्षस्थापीति । स पुनरागमाभ्यधिक इति । स पूर्वक्रमागतो बोध्यः । आगमनिरपेक्षः प्रमाणमित्युक्तं । तत्र कीदृशं नैरपेक्ष्यमित्याशक्य आगमज्ञाने नैरपेक्ष्यं न तु सत्तायामित्याह । तत्राप्यागमज्ञाननिरपेक्ष इति । एतदुक्तं भवति । कश्चन आगमोऽस्तीत्यागमस सद्भाव- मपेक्षते । अयमसावागम इति शृंगग्राहिकतया आगमज्ञानं नापेक्षत इति । एवं तद्युपेक्षितसत्ता-१५ सद्भावे किं प्रमाणमित्यत आह । सत्ता तु तेनैवेति । तेनैव विशिष्टेनोपभोगेनैव । नन्वेतद्- नुपपन्नं । अन्योन्याश्रयप्रसंगात् । तथाहि । प्रमाणभूतेन भोगेनागमसत्तावगतिः । आगमसत्ताया- मवगतायां तत्सहकृतस्य भोगस्य प्रामाण्य मिति । उच्यते । चिरकालोपभोगानुपपत्तिरूपया अर्था- पत्त्याऽऽगमसत्तावगतिः। सत्तायामवगतायां पश्चादोगस्य प्रामाण्यनिश्चय इति । साक्षात्प्रमाण- भूतेन भोगेनागमसत्ताया अवगममात्रेऽन्योऽन्याश्रयप्रसंगः । तर्हि सत्ता तु तेनैवेत्युक्तिः कथमिति २० चेत् । तद्वारकार्थापत्यावगमादुपचारेण तेनैवेत्युक्तिरिति द्रष्टव्यं । 'आगमोऽभ्यधिको भोगादि- त्यत्र द्विविधो भोगः प्रमाणमित्यभिप्रेतं योगीश्वरस्य । स्मातकालीन अस्मार्तकालीनश्चेति तदुभयं विमज्य दर्शयति । विना पूर्वक्रमागतादित्येतञ्चेत्यादिना । एतदुक्तं भवति । अस्मार्तका- लीनोपभोग आगमज्ञाननिरपेक्षः । स्मातकालीनस्तुभोग आगमज्ञानसापेक्ष इति । नन्वेकस्यैव भोगप्रमाणस्य क्वचिदागमसापेक्षत्वं वचिच्च नेति कुतोऽवगम्यत इत्याशंक्य सापेक्षत्वे हेतुमाह । २५ अतश्च स्मरणयोग्ये काल इति । स्मरणयोग्ये काले प्रतिग्रहक्रयादिरूपस्यागमस्य प्रमिति- योग्यत्वे सत्यपि प्रमित्यभावादागमाभावनिश्चयो जायते । सिद्धे चाभावनिश्चये केवलभोगस्य बलात्कारेणापि सिद्धेरप्रामाण्यप्रसंगादागमसापेक्षत्वमित्यर्थः । इदानी भोगस्य क्वचिदागमज्ञाननिरपेक्षत्वे हेतुमाह । अस्मार्ते तु काल इति। योग्यत्वे सत्यनु- पलब्धियॊग्यानुपलब्धिः । स्मरणयोग्ये काले प्रतिग्रहादिकस्य प्रमितियोग्यत्वाभावादेव योग्या-३० नुपलब्ध्यभावः । तेनागमो नास्तीति निश्चेतुं न शक्यते । अभावग्राहकप्रमागस्य योग्यानुपलब्धे- । १ वा--मिताक्षरापाठः। २क-स्वत्वाबोधने। ३ क-प्रतिग्रहादिकर्तुभोंगेनापेक्षते । ४ क-विच्छे- दोपरवोझितः इतिमिताक्षरापाठः। ५ कचिच्चेति मिताक्षरापाठः। ६ क-अनागमात्रान्योन्याश्रयप्रसंगः।

मिताक्षराटीका. [श्लोकः २७ रभावात् । एवं चागमाभावनिश्चय एव भोगो न प्रमाणम् । मूलशैथिल्यात्। प्रकृते तु आगमाभाव- निश्चयाभावान्मूलशैथिल्याभावेनागमज्ञाननिरपेक्षो भोगः प्रमाणमित्यर्थः। स्मार्ते काले क्रियेति । क्रिया प्रमाणमित्यर्थः । सर्वे गत्यर्थी ज्ञानार्थी इति । गत्यर्थे गमिर्ज्ञाने वर्तते । अतोऽनुगमो नाम निश्चयज्ञानं । तद्भावेऽनुगमाभावः । क तदभाव इति साकांक्षत्वाद्योग्यानुपलब्ध्यभावेनागमाभावे ५ निश्चयाभाव इत्याकांक्षा पूरयन् कात्यायनवचनस्थमनुगमाभावपदं व्याचष्टे । अनुगमाभावा- दिति । योग्येति । यत अनागमस्मृतिपरंपरायां सत्यामपि भोगो न प्रमाणं अत एव मनुना अनागमभोगेऽविशेषेण दंडो विहित इत्याह । अत एवानागमं त्विति । ननु 'बहून्यब्दशता- न्यपी' त्यत्रापिशब्दः समुच्चये वर्तते। तथा च उपसर्गसूत्रं 'अपिसंभावनानिवृत्त्यपेक्षासमुच्चयग- होशी:समर्थभूषणप्रश्नेष्विति' । तथा चैवमर्थः संपद्यते । बहूनब्दान् अभिव्याप्य य उपभुक्ते सदंड्य १० इति । यत एककर्तृकानेककर्तृकानेकवर्षोपभोग एव समुच्चयो घटते नान्यथा । एवं चापिशब्दा- दुपभोक्तुरेकत्वं प्रतीयते । तथा य इत्येकवचननिर्देशादपि । तथा च यद्येकश्चिरकालमनागममु- पभुक्ते स दंड्य इत्येकस्यैव दंड्यत्वं न बहूनां । पितृपरंपरया भोगे तु भोक्तृणामनेकत्वादेवंवि- धैकभोक्तुरभावेन प्रथममनागमेनोपभोक्तुरेकत्वेन प्रथमस्यानागमोपभोक्तुः पुरुषस्य चोरसदृशो दंडो न द्वितीयस्य तृतीयस्य वा दंडः । तेन तत्र भोगस्य प्रामाण्यप्रतीतेर्यदुक्तं 'अनागमस्मृति- १५ परंपरायां भोगो न प्रमाणमिति' तदयुक्तमित्यभिप्रायेणाक्षिप्य परिहरति । न चानागमं तु यो भुंक्ते इत्येकवचननिर्देशादित्यादिना । अथवा, अपिशब्दः समर्थवाची । समर्थवाचित्वं च तेनैव सूत्रेण प्रतीयते । एतदुक्तंभवति । अनागमचिरकालोपभोगे यः समर्थः स एव दंड्य इति समर्थश्व प्रथम एव, न द्वितीयतृतीयौ । तयोः परंपरायातभोगत्वेन तादृशसामर्थ्याभावात् । अथ प्रथम एव दंड्य इत्याशयेनाशंक्य परिहरति । न चानागमं तु यो भुंक्ते इत्येकवचननिर्दे- शादित्यादिना । परिहाराभिप्रायस्तु । ' आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमेति । मध्येऽपि सागमभुक्तेः प्रामाण्यविधायकवचनबलात् । अनागमं तु यो भुक्ते इत्यत्र य इत्युद्देश्यगत- त्वेनेकवचनस्याविवक्षितत्वाच सागमाया भुक्तेः प्रामाण्यं । अतो द्वितीयतृतीययोरपि पुरुषयो- निरागमोपभोगे दंडो दुर्निवार इति अनागमस्मृतिपरंपरायां सत्यां भोगो न प्रमाणमेवेति । एवं चापिशब्दो संभावनायां वर्तते न समुच्चये सामर्थ्य वा । ततश्चैतदुक्तं भवति । बह्वब्दशतव्या- २५ पित्वेनापि यस्य भोगः संभाव्यते । संभोगश्चेन्निरागमः । तादृशोपभोगवानपि पुरुषो दंड्यः । किमुता नागमाऽल्पोपभोगवानिति । ननु अस्मरणयोग्यकालिकस्यै* पूर्वक्रमायातस्यैव भोगस्यैवागमज्ञाननैरपेक्ष्येण प्रामाण्यमिति यदुक्तं तदनुपपन्नं । 'अन्यायेनापि यद्गुक्तं पित्रा पूर्वतरैत्रिभिः' । अस्मिन्वचने अन्यायेनापि पित्रा यद्गुक्तं तथा पूर्वतरैत्रिभिर्यद्गुक्तं ततउभयत्रापि प्रत्यपहारो न शक्यत इत्यभिधाना- ३.दनागमोपभोगस्य स्मरणयोग्यकालीनस्यापि प्रामाण्यप्रतीतेरित्याक्षिपति । यदप्यन्यायेना- पि यद्भुक्तमिति । अत्रान्यायेनापीति निरागमभोगस्य प्रामाण्यप्रतिपादकं । पि- त्रेति मरणयोग्यकालीनस्य । सातकालीनोपभोगस्यागमनिरपेक्षस्य न प्रामाण्यमिति । । २० १क-तृतीयस्य तृतीयस्य ।२ क-किमुतआगमोऽल्पोपभोगवानिति । ३ स्मरणयोग्यकालीनस्य * कालान् ।

९ श्लोकः २७] सुबोधिनी. परिहरति । पित्रा सहेति । अयमर्थः । अत्र पित्रा यद्भुक्तमिति न पृथगन्वयंः । येन पित्रो- पभोगस्य स्मातकालीनत्वेन तादृशस्य निरागमोपभोगस्य प्रामाण्यं स्यात् । अपि तु सहयोगे इयं तृतीया । पित्रेति । तथा च तेन सह पूर्वतरपुरुषत्रयोपभोगे क्रमेणाविच्छेदेन तदेतत्क्षेत्रादिकं तस्मादपहर्तुं न शक्यत इति एकवाक्यत्वेऽनेकपुरुषोपमोगस्य चिरतरकालमंतरेणासंभवात् अस्मा- तकालीनोपभोगस्य प्रामाण्यमित्युक्तं स्यात् । अतो न निरागमस्य स्मातकालीनोपभोगस्य प्रामाण्य-५ मिति । ननु त्रिपुरुषागतमित्यनेनानेकपुरुषोपभोगे वा कथमसातकालेऽपि भोगो लभ्यत इत्या- शंक्योपलक्षकमेतदित्याह । तत्रापि क्रमादिति । ननु भवत्वस्मातकालीनोपभोगः प्रमाणं । सोऽप्या- गमसत्तामपेक्षते । अतः अन्यायेनापीत्युक्तिः कथमित्यत आह । अन्यायेनापि यद्भुक्तमित्यतआह। नन्वस्मातकालीना भुक्तिरागमज्ञानं नापेक्षते । अपि तु तत्सत्तामपेक्षते इत्युक्तं । तदसंगतं । यद्विनागममित्यंतं भुक्तमित्यस्मिन्वचने अत्यंतमिति सर्वात्मना आगमनैरपेक्ष्येण भुक्तेः प्रामाण्य-१० प्रतीतेरित्यत्राभिप्रायेणाक्षिपति । यच्चोक्तं 'यद्विनागममित्यादिना । परिहरति । तच्चाप्यंत- मिति । अयमभिप्रायः। सर्वात्मना आगमस्यास्मातकालीनोपभोगापेक्षाभावादत्यंतमागमज्ञानं वि- नाऽपि अस्मातकालीनोपभोगे सति भुक्तं तद्वस्तु अपाहतुं न शक्यत इत्येव । न तु वस्तुत आगम- सत्तां विनाऽप्युपभोगात्स्वत्वमस्तीति येन पूर्वोक्तविरोधैः स्यादिति । अत्र हेतुमाह। आगमस्य स्व- रूपाभाव इति । अनियत इति शेषः । एतदुक्तार्थमिति । अस्मातकालो लक्षकत्वेनोक्तार्थ- मित्यर्थः । अस्मातकालीनोपभोग आगमज्ञाननिरपेक्षः प्रमाणं । स्मार्तकालीनस्त्वागमज्ञानसापेक्षः प्रमाणमित्युक्तं । तत्र स्मातकालीनस्यागमज्ञानापेक्षत्वेन प्रामाण्यमनुपपन्नमित्याक्षिपति । ननु स्मरणयोग्य इति । तमेवोपपादयति । तथाहीत्यादिना । यमागममपेक्षते भोगः स किं प्रमाणान्तरेणानुगतः उत नेति कस्मिन् सति किं स्यादित्याशंक्याचे दोषमाह । योंगम इति । अयमर्थः । प्रमाणांतरावगतागमेनैव स्वत्वे ज्ञाते भोगस्य स्वत्वज्ञाने आगमज्ञानेवानु-२० पयुक्तत्वेन प्रमाणांतरप्रमिते स्वत्वे आगॅमस्यैव प्रमित्यनुत्पादकत्वेनाप्रामाण्यादागमज्ञानसापेक्षो भोगः प्रमाणमिति वक्तुं न शक्यमिति । द्वितीयेऽपि दोषमाह । अथेति । अनवगतागमेन वै- शिष्टयासंभवादित्यर्थः । समाधत्ते । उच्यत इत्यादिना । एतदुक्तं भवति । प्रमाणांतरेणैवागमो- ऽवगम्यते । तादृशागमविशिष्टभोगः प्रतिग्रहाद्युत्तरभाविनि कालान्तरे स्वत्वबोधक इति । ननु उक्तं स एवागमः स्वत्वं गमयिष्यति, किमनेन भोगेनेत्यत आह । अवगतोऽप्यागम इत्यादिना । २५ वाचिकस्तु ममेदमिति । मदीयमित्यभिवदनोल्लेखि यत्र विकल्पज्ञानं स वाचिकः स्वी- कार इत्यर्थः । तत्र नियमः स्मर्यत इति । तत्र कायिकस्वीकारे । अनुमंत्रयेत्प्राण्यभि- मृशेदिति । अस्यार्थः । प्रतिग्राह्यः पदार्थश्चत्प्राणी बलवान्वक्तुं समर्थः । तदा तं प्रतिग्राह्य प्रतिग्रहीता अनुमंत्रयेत । अमुकस्त्वं मदीयोऽसि इति । सोऽपि ब्रूयादहं भवदीयोऽस्मीति । प्रतिग्राह्यं अप्राणी अभिवदनानभिज्ञो गवादिः प्राणिष्वपि कन्या वा तदुभयं प्रतिग्रहीताऽभिमृ- शेदिति । तत्सहितादागमादिति । कायिकस्वीकारसहितागमापेक्षयेत्यर्थः । । । १-तत्राप्यन्ततमागमिति मिताक्षरा पाठः २ क-विरोधस्यादिति । ३-आगमखरूप इति मिताक्षरापाठः। ४ यद्यागम इति पाठः।५क-आगमेवाप्रमित्य । ६क-होमः।

[श्लोकः ३२ २० मिताक्षराटीका. ननूपभोगसहितागमापेक्षया भोगसहितागमस्य दुर्बलत्वे यत्रैकमेव क्षेत्रं एकस्याधीकृत्यान्यस्या- धीकरोति । तत्र यदि दैववशात्पूर्वस्य भोगाभावः उत्तरस्य भोगोऽस्ति तादृशेऽपि स्थले भोगरहि- तागमस्य दौर्बल्यं स्यात् । तथा च 'आधौ प्रतिग्रहे क्रीत' इत्यादिवचनविरोधः स्यादित्याशंक्य परिहरति । एतच्च द्वयोरित्यादिना । आगमोऽभ्यधिको भोगादित्येतद्वचनं प्रकारांतरण ५व्याचष्टे । अथवेत्यादिना । एतेषां समवाय इति । एतेषां साक्ष्यादीनां । समवाये मेलने। सर्वसंभवः इति यावत् । पूर्वक्रमाद्भोगाद्विनेति । क्रमायातभोगव्यतिरिक्तभोगापेक्षयागमो बलवानित्यर्थः । पूर्वक्रमागतभोगस्यागमापेक्षया कचिबलीयस्त्वं दर्शयति । सपुनरिति । 'आगमोऽपि बलं नैवेति' द्वितीयाधै तात्पर्यतो व्याचष्टे । मध्यमेन भोगरहितादिति । कारणं भुक्तिरेवैकेति । एतच्चतुर्थपुरुषविषयम् ॥ २७ ॥ याज्ञवल्कीये २८ श्लोकः दंडव्यवस्था दर्शयितुमाह । आगमस्तु कृतो येनेति । न चैतदनुपपन्नं अस्मिन्वचने दंड- व्यवस्थाविधानाभावात् इति चेन्मैवम् । आयेन पुरुषेण प्रतिग्रहादिकमेवोपन्यसनीयं । द्वितीयेना- विच्छिन्नाप्रतिरवसमक्षत्वादिविशेषेण विशिष्टो भोग एवोपन्यसनीयः। तृतीयेन समक्षत्वादिविशे- षणवैशिष्टयमंतरेणापि क्रमागतभोगमात्रमुपन्यसनीयमिति नियमविधेनियमातिक्रमे दंडविधानम- प्यर्थसिद्धमेवेति दंडव्यवस्थाप्रतिपादकत्वं उपपन्नमेवेति सर्वमनवद्यं । भोग्यहानिस्तयोरपीति। भोग्यहानिरर्थहानिरित्यर्थः । याज्ञवल्कीये २९ श्लोकः नवारूंढविवादस्येति । अस्यार्थः । आरूढविवादस्य व्यवहारिणः प्रेतस्य संबंधिना पुत्रेण । स्वार्थो विवादास्पदीभूतः । संशोध्य आगमेन तमर्थ भोगो न निवर्तयेत् न प्रत्या- २० वर्तयेत् । तत्र न भोगः प्रमाणं भवतीति यावदिति । व्यवहर्तरि प्रेते व्यवहारो न निवर्तत इति । न निवर्तते नापगच्छति प्रवर्तते इति एवेत्यर्थः । याज्ञवल्कीये ३० श्लोकः यथा हेडावुकादीनामिति । देशाद्देशांतरं गत्वा प्रस्थाप्य येऽश्वविक्रेतारो हेडाबुका इति १५ गुजरे प्रसिद्धोऽयं शब्दः । गणाश्चाधिकृता इति । गणाः पूगाः । सोत्तरसभ्येनेति । अधि- कसभायुक्तेनेत्यर्थः। याज्ञवल्कीये ३२ श्लोकः असंबद्धकृत इत्यमुमंशं अनियुक्तपदाध्याहारेण व्याचष्टे । अनियुक्तासंबद्धकृत इति । अनियुक्तत्वेनासंबद्धः । अप्रेषितत्वेन प्रकृतव्यवहारसंबंधरहित इत्यर्थः । ननु मत्तोन्मत्तादिकर्तृको व्यवहारो न सिध्यतीत्युक्तं पूर्वत्र । तत्र किं मत्तादिग्रहणमुपलक्षणं । तथाच न केवलमेतद्वचनो- । ३० १क-तादृश्यपि ।२ क तथारूढः। ३ कन्योश्वविक्रेतारों। ४ क-अनियुक्तो। ।

श्लोकः ३३] सुबोधिनी. २१ पात्तमत्तादिकर्तृकव्यवहारासिद्धिः । अपि तु गुरुशिष्यादिकृतोऽपि व्यवहारो न सिध्यतीत्येवं । उत मत्तादिग्रहणं नोपलक्षणं । ततश्च मत्तादिभिरेव कृतो व्यवहारो न सिध्यतीति नियमार्थमिति विकल्पे न तावदाद्यः । असंबद्धकृतश्चैवेत्येवकारेण मत्तादिभिरेव कृतो व्यवहारो न सिध्यतीति नियमप्रतीतेरिति बहिरेव परिहृत्य नापि द्वितीयः । गुरोः शिष्य इत्यादिवचनेन नियम- निवृत्तेरित्याह । यत्तुस्मरणं गुरोः शिष्य इत्यादिना । अयमभिप्रायः । गुरुशिष्यादिकृतव्य-५ वहाराणामसिद्धिकथनेन मत्तोन्मत्तादिव्यवहारव्यतिरिक्तानामपि गुरुशिष्यादिव्यवहाराणामसिद्धेः पूर्वोक्तनियमविशिष्टसिध्यभावात्पूर्वोक्तमत्तादिव्यवहाराणामेवासिद्धरेवेतिनियमो घटत इति । गुरु- शिष्ययोर्व्यवहारस्थलं दर्शयति । तथाहि शिष्यशिष्टिरवधेनेति। अस्वार्थः। शिष्यस्य शिक्षाऽ- वधेनाताडनेन। अताडनेन शिक्षाया अशक्तौ रज्जुवेणुविदलाभ्यां सूक्ष्माभ्यां कृत्वा ताडयेत् । अन्येन रज्जुवेणुविदलव्यतिरिक्तेन स्थूलया रज्ज्वा स्थूलेन वेणुविदलेन वा नन् ताडयन् राज्ञा शिक्षणीयो गुरुरिति । भूर्या पितामहोपात्तेत्यादिवचनादिति । 'भूर्या पितामहोपात्ता निबंधो द्रव्यमेव च । तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि' । इति वचनादित्यर्थः । संप्रतिरोधक इति । सर्वस्वहरणं कृत्वा दुर्गादौ परबलैनिरोधः संप्रतिरोधकं । नाकामो दातुमर्हति इति । पूर्वोक्तस्थलेषु गृहीतं स्त्रीधनं पुनातुमनिच्छुश्चेन्न दद्यादित्यर्थः । गणद्रव्यं हरेद्यस्तु संविदं लंघयेच्च य इति । सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् इत्युत्तरार्ध । एकं नतां १५ बहूनां चेदित्यादि । यथोक्ताद्विगणोदय इति वचनशेषः । व्यवहार इष्यत एवेति इति। गणद्रव्यहारिणः सर्वस्वहरणादिविधानम् । एकहंतॄणां बहूनां च द्विगुणदंडविधानं च विद्यते । एतदुभयमपि व्यवहारमुखेन तादृशापराधवतामेव भवतीति व्यवहारोऽस्तीत्यर्थः । एकस्य बहुभिः सार्थमित्यस्य नारदवचनस्याभिप्रायमाह । भिन्नार्थबहुभिरिति । पृथक्साध्यवद्भिर्बहुभिः सार्धमेकस्य युगपद्यवहारो न सिध्यति । अपि तु क्रमात्सिध्यतीत्यभिप्रायः । उपसंहरति । २० इति योजनीयमिति । अयं भावः । उन्मत्तादिव्यवहारः सर्वात्मना न सिध्यत्येव गुरुशिष्या- दिकृतव्यवहारस्तु उक्तरीत्या सिध्यत्येवेति । याज्ञवल्कीये ३३ श्लोकः यदि न भावयति तदा तत्सम दंड्य इति । पूर्व मदीयमेतदिति निवेद्य पश्चाद्यदि न साधयति तदा दंड्य इत्यर्थः । ननु प्रणष्टाधिगतद्रव्यस्य परकीयत्वेन अवश्यं देयत्वात् प्रणष्टा- २५ धिगतं देयमित्यसावुपदेश एवानर्थक इत्यत आह । अधिगमस्य स्वत्वनिमित्तत्वादिति । अत्र कालावधि वक्ष्यतीति। अत्र प्रणष्टाधिगतस्य प्रतिदाने राजभागस्य चतुर्थाशोऽधिगंत्रे दातव्य इति । यः पुनः प्रणष्टं द्रव्यं प्राप्य राज्ञे समर्पयति शुल्कस्थानाद्यधिकृतस्तस्मै शुल्कस्थानाद्यधिकत्रे राज्ञो यो भागः षष्ठादिरूपः तच्चतुर्थांश उद्धृतषष्ठादिभागाद्धनाद्दातव्यो न राज्ञोंऽशात् । तथा सति, आददीताथ षड्भागमित्यादिवचनविरोधः स्यादित्यभिप्रायः । उर्ध्वमधिगंतुश्चतुर्थोऽशो राज्ञः ३० शेषमिति वत्सरानंतरं । स्वामिन्यागते अनागते वाऽधिगन्तुश्चतुर्थाशो दातव्यः। शेषं राज्ञो भवति । तत्राधिगन्तुश्चतुर्थाशदाने इयान् भेदः । स्वामिन्यागते पूर्वोक्तरीत्या राज्ञः षष्ठांशमुद्धृत्या- । । १क-व्यवहारद्रष्टातवेति । २क-अवश्यदेयत्वात् ।

[श्लोकः ३६ २२ मिताक्षराटीका. वशिष्टाद्धनाद्राज्ञश्चतुर्थभागः । अनागते तु स्वामिनि सर्वस्माद्धनाचतुर्थांश इति पूर्ववत्रापि विवेकः । राज्ञः शेषमित्यत्राप्येष विवेकः । यदा खाम्यागतस्तदा पूर्वोक्तरीत्या राज्ञः षष्ठादि- भागः । अनागते तु तस्मिन् सर्वस्माद्धनाचतुर्थमंशं अधिगंत्रे दत्वा राजा गृहीत इत्येवं गौतमी- मप्यनुसंधेयं । गौतमवचनस्थं संवत्सरमित्येकवचनमविवक्षितमित्याह । अत्र संवत्सरमित्येक- ५ वचनमिति । अक्सिंवत्सरादित्यत्रापि समानन्यायेनैकत्वस्याविवक्षितत्वे बुद्धिस्थत्वेन तच्चतुर्थ- पादस्याभिप्रायमाह । हरेत परतो नृप इत्येतदपीति । राजा स्वांशमवतार्य तत्समं दद्या- दिति। स्वांशं षष्ठांशं अवतार्य तत्समं यावदधिगंतृहस्तागृहीतं तत्संख्याकं राजा दद्यात्स्वामिने। तत्रापि न तज्जन्यवृद्धिं दद्यात् किं तु मूलमात्रमेव । परतो नृपतिहरेदिति व्यवहारानभिज्ञानात् इति तात्पर्यार्थः। एतच्च तत्समत्वं स्वकोशद्रव्येणैव नत्वधिगंत्रे दत्तो यश्चतुर्थाशस्तस्य ग्रहणेनापि तस्मै भृति- रूपेण दत्तत्वात् । भृतिरूपस्यादाने कालांतरे प्रणष्टाधिगतप्रत्यर्पणं न स्यात् । स्वांशमवतायेंति विशेषोपादानाच्च । याज्ञवल्कीये ३४.३५ श्लोको निध्यधिगमो राजधनमिति । अस्यार्थः । निध्यधिगमो निधेः प्राप्तिः । तया प्राप्त्या १५ धनं लक्ष्यते । तद्राज्ञो धनं नाधिगंतुः । अभिरूपस्य श्रुताध्ययनसंपन्नस्य ब्राह्मणस्य निध्यधि- गमो न राजधनमपि तु तस्यैव । अब्राह्मणो ब्राह्मणव्यतिरिक्त आख्याता निध्यधिगमस्य कथ- यिता चेत्तदा स्वेन प्राप्तनिध्यधिगमस्य कथिता षष्ठं अंशं लभत इत्येके । एक इति निध्यधि- गमो न राजधनमपि तु सर्वग्रहणेन सह षष्ठांशप्रदानस्य विकल्पप्रदर्शनार्थमिति । नन्वनिवेदितविज्ञातो दाप्यस्तं दंडमेवेत्येतदनुपपन्नं । निध्यधिगंत्रा वाऽन्येन वाऽनिवेदने २० राज्ञो ज्ञानाभावादित्यत आह । अनिवेदित इति कर्तरि निष्ठेति । अयमभिप्रायः। यदि निध्यधिगंता स्वयं निवेदने कर्ता प्रयोजको वा न भवति, अपि तु अन्यैनिवेदितः सन् राज्ञो विज्ञातो भवति, तदा स तं अर्धे दंडं च दाप्य इति ॥ ३४॥३५॥ याज्ञवल्कीये ३६ श्लोकः चौरैरपहृतद्रव्यस्याप्रतिदाने यस्य तद्धनं यश्च चोरस्तयोरुभयोः किल्बिषं राजा प्राप्नोतीत्युक्तं । २५ तदेव विभज्य दर्शयति । यदि चौरहस्तादादायेत्यादिना । यथास्थानं गमयेदिति । यस्य तद्धनं तं प्रापयेदित्यर्थः ॥ ३६ ॥ इत्यसाधारणव्यवहारमातृकाः । अथवा इति साधारणासाधारण व्यवहारमातृकाः॥ १क-राज्ञा गृण्हीतरित्येवं ।२ क-तत्र संवत्सर।३ कस्वांशमवेतार्थ ।

श्लोकः ३८]] सुबोधिनी. २३ अथ ऋणादानप्रकरणम् ३ पूर्वोत्तरयोग्रंथसंदर्भयोः संगतिं दर्शयति । साधारणासाधारणरूपामित्यादिना । अयम- भिप्रायः । प्रथमप्रकरणे साधारणमातृकाऽभिहिता । द्वितीयप्रकरणेऽसाधारणमातृकाऽभिहिता । एवं च प्रकरणद्रव्यस्योत्तरग्रंथोपयोगित्वेन ताभ्यां उत्तरग्रंथसंगतिः । अथवाऽनंतरप्रकरणमेव साधारणासाधारणात्मकं । तथाहि । देशाद्देशातरं यातीत्यादिषु दुष्टलक्षणं सर्वसाधारणं छलं ५ निरस्य भूतेनेत्यादिकमपि । इतरदसाधारणमित्युभयात्मकत्वेन अनंतरप्रकरणेनैवोत्तरस्य संगति- रिति अनेनैवाभिप्रायेण पूर्वप्रकरणसमाप्तौ उभयात्मकत्वेन प्रकरणसमापनं । ईदृशं ऋणं देयमित्यादि ।अस्वतंत्रैरपि स्यादिभिः कुटुंबरक्षणार्थं गृहीतमृणं देय। उक्तवैपरीत्ये तु न देयं । पुत्रपौत्रादिरूपेणाधिकारिणा देयं । यद्यधमर्णिको ब्राह्मणः क्षीणवृत्तिः तदा शनैर्दाप्यो य- थोदयमिति उदयवति समये देयं । कचित्सवृद्धिकं देयं । कचिवृद्धिकमित्यनेन प्रकारेण देयमिति ।१० क्रमेणाधमणे पंचप्रकारं उत्तमणे द्वैविध्यमिति मिलित्वा ऋणादानं सप्तविधमित्यर्थः । ऋणं देयमदेयमिति । यत्र च यदृणं देयं यच्चादेयमित्यन्वयः । येनेत्यधिकारिणो निर्देशः। यत्रेति कालस्य । यथेति प्रकारस्य । एवमृणादानस्य स्मृत्यंतरानुसारेण सप्तविधत्वं प्रतिपाद्याधुना मूलवचनमवतारयति । तत्र प्रथममिति । याज्ञवल्कीये ३७ श्लोकः मासि मासीत्येवेति । मासि मासीत्यनुवर्तते । तथा च प्रतिमासं वर्णक्रमावित्रिचतुष्पं- चकं भवतीत्यर्थः । द्वित्रिचतुष्पंचकमित्ययं शब्दः कन्प्रत्ययान्त इत्याह । तस्मिन्वृद्ध्यायति । पूर्वोक्ताया वृद्धे रूपादिभेदानाह । इयं च वृद्धिरित्यादिका कायाविरोधिनी शश्वदिति। शश्चन्मुहुर्मुहुः । प्रतिदिनमिति यावत् ॥ ३७॥ याज्ञवल्कीये ३८ श्लोकः सर्वे वा ब्राह्मणादयोऽधमर्णा इति । अत्र ब्राह्मणादीनामधमर्णत्वं मूर्धावसिक्तादि- जातीनां उत्तमर्णत्वं च प्रदर्शनमात्रं । हीनोत्तरभावमपरिगणय्य व्यत्ययेन यथाकथंचिदुत्तमर्णत्वं अधमर्णत्वं च भवतीत्यर्थः । न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचिदिति । वृद्धिं कुर्वतमधमर्ण उत्तमर्णः प्रयुक्त इति णिचि कृते निष्ठान्तः शब्दः कारितेति । च आङ् पूर्वः । न आकारिता अनाकारिता । अकृतेत्यर्थः । अकृता वृद्धिः प्रीत्या त्वं व्यवहरेति दत्तानां २५ क्वचिदपि न स्यात् । एतादृश्यपि स्थले । वत्सरादूर्ध्व षण्मासानंतरं अनाकारितमपि धनं वर्धत इति । अस्यार्थः । वर्धनप्रकारस्तु सबंधकाबंधकभेदात्पूर्वोक्तो द्रष्टव्यः । यस्तु याचितकमि- ति । याश्चयाप्तं याचितकभित्यमरः (२-९-४) । कृत्वोद्धारमदत्वा य इति । याचितक- रूपेणोद्धौर कृत्वेत्यर्थः । प्रीतिदत्ते वत्सरार्धादिरूपकालानंतरमकृताऽपि वृद्धिः प्राक् प्रदर्शिता । तदपवादो नारदेनोक्त इत्यत आह । अनाकारितवृद्धरपवाद इति । विश्वस्ते पुरुषे रूप-३० १क-मित्याह। २क-यश्च याचितकमिति मिताक्षरापाठः।३ क-कृत्वोद्धारयदत्वाय इंति ।

मिताक्षराटीका. [श्लोकः ४६ १० संख्याप्रदर्शनद्रव्ये न्यस्ते स यदि मयैतत् व्यवह्रियते कालांतरं एतत्संख्याकमेतज्जातीयं च द्रव्यं दास्यामीति स्वामिनः पुरस्तात्कथयति । स च स्वामी तथैवांगीकुरुते तादृशि न्यासे अकृता वृद्धिर्नास्तीत्यर्थः । न्यासमात्रे वृद्ध्यभावस्य सिद्धत्वात् । स्वामिनेऽकथयित्वैव व्यवहारे कृते सो- दयस्य देयत्वात् च वृथादानं नाम बंदिचारणादिभ्यो दत्तं । ऑक्षिकं द्यूतजितं । पण्यं विक्रे- ५ यवस्तु । न्यासव्यतिरेकेण पण्यमूल्यादिषु दास्यामीति दृढीभूतवाग्व्यवहारे कृते तावतैषां पण्य- मूल्यादीनां परकीयत्वेनादाने अनाकारितवृद्धिप्राप्तौ अपोद्यत इति ताप्तार्थः ॥ ३८ ॥ याज्ञवल्कीये ३९ श्लोकः पशूनां स्त्रीणां संततिरेवेति । स्त्रीणां दासीनां न कुलस्त्रीणां । कियती परा वृद्धिरिति । वृद्धेः पराकाष्ठा कियतीत्यर्थः । एतच्च सकृत्प्रयोगे सकृदाहरणे चेति । एकस्मिन्नृणादानप्रयोगे एकदैव सवृद्धिकमूल. ग्रहणे चेत्यर्थः । एतदुक्तं भवति । एकस्मिन्नृणप्रयोगे दशसु रूपकेषु दत्तेषु प्रतिमासं प्रतिवत्सरं वा वृद्धेरग्रहणे कालविलंबवशात् वृद्धद्वैगुण्यादिक्रमेणाभिवृद्धिर्जाता । तत्र सवृद्धिकमूलमेकदैव गृण्हन् उत्तमो मूलेन सह द्विगुणं विंशतिरूपकपरिमितं द्रव्यं गृह्णीयात् । यदि तदेव द्विगु- णद्रव्यं पूर्वं यस्मै दशरूपकपरिमितं दत्तं तस्मादेव प्रयोगांतरं कृत्वा दीयते अन्यस्मै वा दीयते, १५ तदा पूर्वप्रयोगे द्विगुणीभूतमिति कृत्वा अधुना क्रियमाणे प्रयोगांतरे न वर्धत इति न मन्तव्यं । तदा दीयमानस्यैव मूलत्वेन वृद्धरिष्टत्वादिति । अत एव प्रथमप्रयोगे एव द्वैगुण्यादिक्रमेणाभिवृद्धिर्नास्ति । द्वितीयादिप्रयोगांतरेषुद्वैगुण्यमप्येतीति मंतव्य।अधमर्णदेयस्य द्वैगुण्यासंभवादिति।द्वैगुण्यासंभवस्त्वेवं द्रष्टव्यः । प्रतिमासं प्रतिसंवत्सरं वा यस्मिन्दिने बृद्धिीयते तस्मादिनात्पूर्व अभिवृद्धस्य विच्छेदः पुनरपि नूतनत्वेनाभिवृद्धिः । एवं च वस्तुतः प्रयोगान्तरमेव भवतीति । यावद्वैगुण्यं प्रामोति २० तावदविच्छेदेन वृद्धस्य द्रव्यस्य स्थित्यभावादिति । सकृदाहृतेति पाठे शनैः शनैरिति । यदि सकृदाहृता मूलसहिता वृद्धिरेकदैव गृहीता तर्हि द्वैगुण्यं नात्येति । अन्यथा शनैः शनै- गृहीता सती द्वैगुण्यमत्येतीत्यर्थः । चिरस्थाने द्वैगुण्यं प्रयोगस्यति । स्थानं स्थितिः । ऋणादानप्रयोगस्य प्रतिमासं ग्रहणमंतरेण चिरस्थितौ सत्यां द्वैगुण्यं भवतीति ॥ ३९ ॥ याज्ञवल्कीये ४०-४१ श्लोको । २५ अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति । अप्रतिपन्नमनंगीकृतं साधयन् प्रत्या- हारन्नित्यर्थः । प्रत्युदाहरणं बोद्धव्यमिति । अयमभिप्रायः । “स्मृत्याचारव्यपेतेन मार्गेणा- धर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्" इत्यनेनैतदुक्तं भवति । स्मृत्याचार- विरुद्धेन मार्गेणाभिभूतः सन् यदि राज्ञे निवेदयति तदावेद्यमानं व्यवहारपदमिति । साध्यमानो नृपं गच्छेदित्यनेनैतदभिहितं स्यात् । स्मृत्याचाराविरुद्धमार्गेण राज्ञो न निवेदयेत् । यदि निवे- ३० दयति तन्निवेद्यमानं व्यवहारपदं न भवतीति । अत एव दंडो विधीयते। दंडो दाप्यश्च १क-आक्षित।

श्लोकः ४७] सुबोधिनी. २५ तद्धनमिति । तद्विपरीतोदाहरणमित्यर्थः । राजाऽधमणिकाइंडरूपेण गृह्णीयादित्यर्थः । इति ॥ ४०॥४१॥ याज्ञवल्कीये ४२ श्लोकः नन्वत्र दंडादिरूपेण ग्रहणमनुपपन्नं 'राज्ञाऽधमणिको दाप्यः' इति योगीश्वरवचनेऽधमा- दशमांशग्रहणमात्रस्यैव प्रतीतेः, उत्तमर्णात्पंचमांशग्रहणस्य प्रतीतेरिति चेत् मैवं । ग्रहणं ताव- ५ प्रतीयते न तत्र विवादः । तत्र को हेतुरित्यपेक्षायां दृष्टसंभवेऽदृष्टं न कल्पनीयं । दृष्टे सत्यदृष्ट- कल्पनाया अन्याय्यत्वात् । दृष्टहेतुश्वाधमर्णेऽगीकृतार्थादानरूपोऽपराधः । उत्तमणे तु न कोऽप्यप- राधः । अपि त्वशक्तिरेव । अत एव यथाक्रममपराधेनाशक्यत्वेन च हेतुनाऽधमाइंड उत्त- मर्णाद्धृतिरिति सर्वमनवा । ननु प्रतिवादिनांगीकृते धने प्रत्याहरणप्रकारो दंडविभागश्च दर्शितः, प्रपन्नं साधयन्नित्यादिना'। १० प्रतिवाद्यनंगीकृते तु धने कथं साधनप्रकारः कथं वा दंडविभाग इत्याह । अप्रतिपन्नार्थसा. धनेत्विति ॥४२॥ याज्ञवल्कीये ४३ श्लोकः कर्मणाऽपि समं कुर्यादिति । समोऽपकृष्टजातिश्चाधमर्णिको धनिकेन सार्ध आत्मानं कर्म- णाऽपि समं कुर्यात् । श्रेयांस्तु तद्धनं शनैर्दद्यादित्यन्वयः । अस्यैव श्लोकस्य तात्पर्यार्थमाह । १५ उत्तमर्णन सममिति ॥ ४३ ॥ याज्ञवल्कीये ४५/४६ श्लोको अविभक्तैर्बहुभिः कुटुंबार्थमिति । बहुभिरेकैकेन वा कुटुंबाथै यहणमितिदेयर्ण- कथनं । २५ कुटुंबी दद्यादित्यधिकारिवर्णनं । तस्मिन् प्रेते प्रोषिते वेति ( श्लो० ५०) कालाभि-२० धानं । तद्रिक्थिन (श्लो० ५१ ) इत्यप्यधिकारिण एवोक्तिः । येन देयमित्यत्र प्रत्युदा- हरणमिति । 'अविभक्तैः कुटुंबाथै यदृणं तु कृतं भवेदि'त्यस्मिन्योगीश्वरवचने कुटुंब्यादि- भिरधिकारिभित्रणं देयमिति येनेत्ययमंशो विवृतः । तत्र कुटुंब्यादिभिरपि योषिदाधिकारिभि- विषयविशेषे ऋणमदेयमिति पूर्वमभिहितं ऋणस्य देयत्वं व्यावर्तत इति प्रत्युदाहरणत्वमित्यर्थः । याज्ञवल्कीये ४७ श्लोकः तस्य पुरस्तादपवादमाहेति। पुत्रपौत्रैर्ऋणं देयमित्येतद्वचनं 'सुराकामद्यूतकृते'त्याद्यपवाद- कथनापेक्षया यद्यपि पाठक्रमापेक्षया परं, तथापि अर्थक्रमतः पूर्वभावीत्यपवाद इत्यर्थः । धूर्तबंद्या- दिभ्यो दत्तस्य वृथादानत्वं प्रतिपादयति । धूर्ते बंदिनि मल्ले चेति । निष्फलं भवतीति बचनबलाढ्थादानत्वं । न तु दृष्टफलाभावादित्यर्थः । मद्यशुल्कबूतकदंडान् इति । अत्र मधशुल्कबूतदंडैः पदैस्तत्तदर्थव्ययीकृतानि द्रव्याणि लक्ष्यते । एते मद्यादयः पुत्रान्नाधिभवेयु-३० रित्यन्वयः । तात्पर्यार्थस्तु ग्रंथ एव स्पष्टः ॥ ४७ ॥ १क-पाटनक्रमापेक्षया। सु०४ २६ मिताक्षराटीका. [श्लोकः ५० याज्ञवल्कीये ४९ श्लोकः मुमूर्षुणा प्रवत्स्यता वेति । मुमूर्षुणा, प्रवत्स्यता देशांतरं गंतुमिच्छता वा पत्या भर्ना ऋणदाने नियुक्तया भार्यया यत्प्रतिपन्नमंगीकृतं तद्देयमित्यर्थः । ननु 'भार्या पुत्रश्चे'त्यनेन भार्याया निर्धनत्वे प्रतीयमाने सति प्रतिपन्नं स्त्रिया देयमि'त्यादिवचनशतैरपि देयत्वे विधीयमाने कथं स्त्रिया ५ऋणं देयं निर्धनत्वादित्यत आह । न चानेन वचनेन रूयादीनामिति ॥ ४९ ॥ याज्ञवल्कीये ५० श्लोकः पौगंडश्चेति शब्द्यत इति । पौगंड इति बालस्यैव संज्ञांतरं । स्वतंत्रः पितरावृत इति । ऋते पितरौ पित्रोरभावे षोडशवर्षानंतरमेव स्वतंत्रो भवतीत्यर्थः । ननु पित्रमावे षोड- शवर्षानंतरं स्वातन्त्र्यमिति नियमोऽनुपपन्नः । षोडशभ्यो वर्षेभ्यः प्रागपि पितृमरणे स्वातंत्र्यसिद्धेः। १० तथा च अप्राप्तव्यवहारस्याप्यृणं देयं स्यादित्यत आह । यद्यपि पितृमरणादूर्ध्वमिति । अप्राप्तव्यवहारश्चेदिति । अप्राप्तव्यवहारः अषोडशवर्षदेशीयत्वेन यदि तदा स्वतंत्रोऽपि हि ऋणभाङ् न भवतीत्यर्थः । यस्मादेवं अप्राप्तव्यवहारो न ऋणभाक् तस्माद्वक्ष्यमाणवचनमेवं व्याख्येयमित्याह । तस्मादतः पुत्रेण जातेनेति । न जातमात्रेण पुत्रेण पिता ऋणान्मोचनीयः । १५ अपि तु व्यवहारतया जातेन षोडशवर्षदेशीयत्वेन जातेन पुत्रेणात्पिता मोचनीय इत्यर्थः । न ब्रह्माभिव्याहारयेदिति । अस्यार्थः । ब्रह्म वेदं नाभिव्याहारयेन्न प्रयोजयेदन्यं स्वधाकारः प्रणीयतेऽस्मिन् श्राद्धे इति स्वधाकारप्रणयनं श्राद्धं तस्मादन्यत्र श्राद्धव्यतिरिक्तस्थले नाभिव्याहा- रयेदिति । एतदुक्तं भवति । श्राद्धे वेदोच्चारणं कारयेत् यदि स्वयमनुपनीतः। उपनीतस्य स्वयमे- वोच्चारणेऽधिकारात् । एवं च बालस्यापि प्रयोजककर्तृत्वप्रतीतिबलाद्यजमानताप्रतीतेरधिकारो- २०ऽस्तीति । यद्वा ब्रह्म वेदं, अन्यो ऋत्विगादिः प्रयोजककर्ता । अनुपनीतं बालं नाभिव्याहारयेत् । बालं वेदोच्चारणे न प्रयोजयेदित्यर्थः । स्वधानिनयनादन्यत्र । संभूयसमुत्थानेनेति । अंश- कल्पनामंतरेण मिलित्वैवेत्यर्थः । अविभक्ताः संभूयसमुत्थानेन ऋणं दद्युरित्युक्तं । तत्र तात्पर्या- र्थमाह । गुणप्रधानभावेनेति । प्रधानभूतो मुख्यो दद्यादित्यर्थः । अत ऊर्ध्वं पितुः पुत्रा इति । यतः पुत्रपौत्रैर्ऋणं देयं अतः पितुरूचे अविभक्ता वा २५ पुत्रा ऋणं दद्युः। अविभक्तानां पुत्राणां ऋणदाने प्रकारमाह । यस्तावोद्वहतेधुरमिति । अवि- भक्तानां मध्ये यस्तां धुरं कुटुंबभारमुद्वहति स दद्यादित्यभिप्रायः । अत्र 'तां वेति' वाशब्द एवं- कारार्थः । विभक्तानां दानप्रकारमाह । यथांशत इति । अत्र च यद्यपीति । अत्र 'पुत्र- पौत्रैर्ऋणंदेयमि'त्यस्मिन्वचने । अत्र विभावितमिति । अविशेषोपादानमिति । अत्र बृह- स्पतिवचने विभावितमितिसामान्येनोपादानात् । 'पुत्रपौत्रैर्ऋणं देयं निन्हवे साक्षिभावित मिति ३० योगीश्वरवचने साक्षिभावितमितिपदं प्रमाणमात्रमुपलक्षयति । अतश्च येन केनापि प्रमाणेन १ क-प्रयोजयेदन्येन ।२ क-न्यस्ता वोरहते धुरमिति मिताक्षरापाठः।

श्लोकः ५१] सुबोधिनी. २७ । साधितमृणं पुत्रादिभिर्दातव्यं इत्यर्थः । एवं च योगीश्वरबृहस्पतिवचनयोन विरोध इत्यभिप्रायः॥५०॥ याज्ञवल्कीये ५१ श्लोकः ऋणापाकरणे ऋणी तत्पुत्र इति । ऋणी ऋणग्राही । 'ननु रिक्थग्राह' इत्येवालं न 'योषिद्राह' इत्येवं वक्तव्यं । तस्य योषितोऽपि द्रव्यत्वेन' रिक्थरूपत्वात् । अत आह योषितोड ५ विभाज्यद्रव्यत्वेनेति । अयमर्थः । यद्यपि योषिद्रव्यं भवति तथाऽपि रिक्थशब्दवाच्यत्वं नास्ति तस्य विभागार्हद्रव्य एव लोके रिक्थशब्दप्रयोगात् । योषितश्च विभागानहत्वादिति । एतेषां रिक्थग्राह्यादीनां समवाये मेलने केन क्रमेण ते ऋणं दाप्या इत्याकांक्षायां रिक्थ- ग्राहऋणं दाप्य ' इत्येतद्वचनपाठक्रमेणैव दाप्या इत्याह । एतेषां समवाय इति । रिक्थग्राहा- दीनां सति हि समवाये क्रमचिंता । स एव समवायो नास्तीत्याक्षिपति । नन्वेतेषामिति । समवायाभावमेवोपपादयति । न भ्रातरो न पितर इति । न भ्रातरो न पितरो रिक्थहराः । अपि तु 'पितू रिक्थहराः पुत्रा एवेति' मनुना प्रतिपादितत्वात् (अ. ९ श्लो. १८५)। पुत्रे विद्यमानेऽन्यस्य रिक्थहारित्वासंभवात् रिक्थग्राहपुत्रयोर्मेलनं नास्तीत्यर्थः । ननु मा भूदृक्थग्राह- पुत्रयोः समवायः, योषिड्राहपुत्रयोः समवायोऽस्तीत्याशंक्य योषिद्राहामावादेव नानयोः समवाय इत्याह । योषिद्धाहोऽपि नोपपद्यत इति । अत्र हेतुर्न द्वितीयश्चेति । द्वितीयभर्तृनिषेधादेव १५ योषिद्राहाभाव इत्यर्थः । 'पुत्रोऽनन्याश्रितद्रव्य' इत्यत्र पुत्र ऋणं दाप्य इत्युक्तं । असावप्युपदेशोऽनर्थक इत्याह । तथा ऋणं पुत्रो दाप्यत इति । तत्र हेतुः पुत्रपौत्रैरिति । 'पुत्रपौत्रैणं देयमि' त्यत्रास्यैवार्थस्य प्रतिपादितत्वेन पौनरुक्त्यात् अत्र पुनः कथनमयुक्तमित्यर्थः । 'पुत्रोऽनन्याश्रितद्रव्य' इत्यत्रैवान- न्याश्रितद्रव्य इति विशेषणमुपात्तं तदप्यनर्थकमित्याह । अनन्याश्रितद्रव्य इति । तत्रोपप-२० त्तिमाह । पुत्रे सतीति । पुत्रे विद्यमाने पितृद्रव्यस्यान्यगामित्वाभावात् अनन्याश्रितद्रव्यः पु- त्र ऋणं दाप्य इत्यर्थः व्यर्थविशेषणमित्यर्थः । सत्यपि पुत्रे पितृद्रव्यस्यान्यगामित्वमंगीकृत्यापि दोषमाह । संभवे चेति । अयमाशयः। यदा पुत्रे विद्यमानेऽपि रिक्थग्राह्यंतरं संभवति तदा न पुत्रा ऋणं दाप्याः, अपि तु यदा पुत्रोऽनन्याश्रितद्रव्यः स्वयमेव रिक्थग्राही, तदा ऋणं दाप्य इत्येतदर्थ अनन्याश्रितद्रव्य इत्येतद्विशेषणं सार्थकं इत्येवं कृत्यमस्मिन्पक्षे । तथा च रिक्थग्राहि-२५ त्वमेव ऋणदाने हेतुर्न पुत्रत्वमित्युक्तं स्यात् । एवं च एषोऽर्थः सिद्धो भवति । रिक्थभागृणं दाप्य इति । अस्यार्थस्य रिक्थग्राह ऋणं दाग्य' इत्यनेनैवांशेनोक्तत्वात्पुनरपि पुत्रोऽनन्याश्रितद्रव्या' भिधानमनुपपन्नमिति । मूलवचनस्य चतुर्थपादमाक्षिपति । पुत्रहीनस्य रिक्थिन इत्येतदपीति । आक्षेपाभिप्रायमेव विवृणोति । पुत्रे सत्यपीति । एवं पुत्रे विद्यमानेऽपि रिक्थग्राह ऋणं दाप्यः तदा किमुताविद्यमाने पुढे रिक्थग्राहो दाप्य इति कैमुतिकन्यायेनैवा-३. थतः सिद्धत्वात्पुत्रहीनरिक्थिन इत्ययमुपदेशोऽनर्थक इत्यर्थः इत्याक्षिप्य परिहरति । अत्रोच्यत इत्यादिना । पुत्रे सत्यन्यस्य रिक्थग्रहणासंभव इति यदुक्तमाक्षेपदशायां तबाह । पुत्रे स- । १क-विभज्य।

.२८ मिताक्षराटीका. [श्लोकः ५१ । त्यप्यम्यो रिक्थग्राही संभवतीत्यादिना । क्लीबादिपुत्राणां रिक्थहरत्वाभावे हेतुमाह । तथा च क्लीबादीननुक्रम्येति । योषिद्राहसद्भावमाह । योषिनाहो यद्यपीति । अयमभिप्रायः । शास्त्रे भतरनिषेधा- स्त्रीणां यद्यपि शास्त्रीयः पतिर्द्वितीयो नास्ति तथा शास्त्रनिषेधोल्लंघनकारिणो योषिद्राहित्वसंभवा- ५ तादृशस्तत्पतिकृतांपाकरणेऽधिकारीति । संभवतु नाम एवंविधो योषिद्राहः शास्त्रातिकारी, त- स्यापि स्मृत्यंतरोक्तलक्षणानुसारेणानेकविधत्वादनियमने किं सर्वे योषिद्राहा ऋणापाकरणेऽधि- कारिण इत्याकांक्षायां नियममाह । यश्चतसृणामिति । खैरिणीनां चातुर्विध्यं पुनर्भुवां च त्रैविध्यं तत्र च यथाक्रमेणांतिमप्रथमयोषिद्राहयोरेवापाकरणेऽधिकारित्वं चेत्येतत्सर्वं नारदवचनैः प्रति- पादयति । यथाह नारदः 'परपूर्वाः स्त्रिय' इत्यादिना । परः पतिः पूर्वी यासांतास्तादृश्यः १. देवरादीनपास्येति नियोगविधिना प्राप्तान् देवरादीन् परित्यज्येत्यर्थः । प्राप्ता देशादिति । अस्यार्थः। देशाद्देशांतरात्प्राप्ता सती धनक्रीता भवति या स्त्री सा क्षुपिपासातुरा सती तवाहमिति प्राप्ता भवेत् सा चतुर्थी वैरिणीति कथिता । अंतिमा स्वैरिणीनामिति । स्वैरिणीनां मध्ये यांऽतिमा । पुनर्भुवांच मध्ये या प्रथमा । ते यं उपाश्रिते स, तयोः पतिकृतं ऋणं दद्यादर्थादि- त्यन्वयः । ऋणं वोदुः स भजत इति । वोढुः पत्युः । 'पुत्रोऽनन्याश्रितद्रव्य' इत्यत्र पुत्रग्र- १५हणरिक्थयोषिद्राहयोरभावे पुत्रेणणे देयमिति एवंविधक्रमप्रतिपादनार्थे । न तु ऋणापाकरणे पुत्रस्या- धिकारप्रदर्शनाय । न पौनरुक्तं स्यात् इत्याह । पुत्रस्य पुनर्वचनमिति। अनन्याश्रितद्रव्य इत्येतदपि विशेषणं सार्थकमित्याह । अनन्याश्रितद्रव्य इतीति । अनन्याश्रितद्रव्येन पितृ- कृतांपाकरणेऽधिकारान्नांधबधिरादय इत्येवमर्थपरत्वेनानन्याश्रितद्रव्य इति विशेषणं सार्थकमिति। एतदुक्तं भवति । अंधबधिरादयोऽन्याश्रितद्रव्याः अंधत्वादिदोषयुक्तत्वेन पितृरिक्थांशग्रहणायो- २० ग्यत्वात् । अतोऽधादिपुत्रा अनन्याश्रितद्रव्यत्वेन पितृऋणापाकरणेऽनधिकारिणः । अंधत्वादि- दोषरहितास्त्वधिकारिणः पितृऋणापाकरणे अनन्याश्रितद्रव्यत्वेनेत्यस्य विशेषणस्य सार्थकत्वमिति पुत्रहीनस्य रिक्थिन इत्यस्य सिद्धांताभिप्रेतमर्थमाह । पुत्रहीनस्य रिक्थिन इत्येतदपीति। पुत्रपौत्राभावे प्रपौत्रोऽपि यदि रिक्थग्राही तदा प्रपितामहर्णदानेऽधिकारी । अन्यथा रिक्थग्रहणा- भावे प्रपौत्रः प्रपितामहर्णापाकरणे नाधिकारीत्यर्थः । रिक्थभाजः प्रपौत्रस्य प्रपितामहर्णदाने अ- २५ धिकारप्रतिपादितत्वेन पुत्रहीनस्य रिक्थिन इत्यप्यंशः सार्थक इति तात्पर्यार्थः । 'पुत्रहीनस्य रिक्थिन' इत्यमुमंशं प्रकारान्तरेण व्याचष्टे । यद्वा योषिद्राहाभाव इति । अय- मर्थः । रिक्थनाहाभावे 'योषिनाह ऋणं दाप्यः' तदभाव अनन्याश्रितद्रव्यः पुत्र ऋणं दाप्य इति पुत्रोऽनन्याश्रितद्रव्य इत्यतेनोक्तं । अधुना पुत्राभावे योषिद्राह ऋणं दाप्य इत्युच्यते । पुत्रही- नस्य रिक्थिन इत्यनेनेति । अस्मिन्पक्षे रिक्थिन इति पञ्चमी। रिक्थिनः सकाशादृणं दाप्य- ३. मित्यर्थः । नन्वत्र 'पुत्रहीनस्य रिक्थिन' इत्येवं, न तु पुत्रहीनस्य योषिद्राह इति । अतः पुत्रा- मावे योषिद्राहो दाप्य इतीयं व्याख्या कथमित्यत आह । रिक्थशब्देन योषिदेवेति । स तस्य हरते धनमिति चेति । अत्र यो यस्य दारान् हरते स तस्य धनमपि हरेदिति न विधिः । अपि तु यस्माद्दारा एव धनं तस्माद्दारान् हरन् तद्धनहारीति व्यपदेशमाग्भवतीत्यर्थः ।

श्लोकः ५१] सुबोधिनी. २९ । इति परस्परविरुद्धमिति । अत्र हि किंविधो विरोधः । तथा हि योषिद्राहाभावे पुत्रेणर्ण देयमिति एकः क्रमः प्रतीयते । 'योषिद्राहस्तथैव च' 'पुत्रोऽनन्याश्रितद्रव्य' इत्यंतेन । 'पुत्रहीनस्य रिक्थिन' इत्यनेन तु पुत्राभावे तु योषिद्राहेणणे देयं इति पूर्वोक्तविपरीतक्रमः प्रतीयते । एवं च क्रमे परस्परविरोध इत्येको विरोधः । यदा योषिद्राहः पुत्रश्च द्वावपि स्तस्तदोमयसद्भावे परस्प- राभावोपलक्षितयोरेवर्णदत्वनियमात् उपलक्षकाभावे सति न कोपि ऋणं देयमिति कृत्वा ५ 'यदा तु न सकुल्यास्युन च संबंधिबांधवाः । तदा दयाद्विजेभ्यस्तु तेष्वसत्स्वप्सु च क्षिपेदि'त्या- द्यवश्यर्णदेयत्वप्रतिपादकवचनविरोध इत्यपरो विरोधः । एतद्यमपि सूचितपरस्परविरुद्धं इत्य- नेन उभयसद्भाव इत्यनेन च पूर्वोक्तमाक्षेपं परिहरति । नैष दोष इति । अनेके योषिद्रा- हिणस्तत्र द्वे कोटी अंतिमस्खैरिणीग्राही प्रथमपुनर्भूग्राही, प्रकृष्टधनयुक्तस्त्रीहारीत्येका कोटिः । निरपत्यनिर्धनयोषिद्राहीत्यन्या कोटिः। एवं स्थिते प्रथमकोट्यंतर्भूतयोषिद्राहाभावे पुत्र ऋणं १० दाप्यत इत्यभिधीयते 'पुत्रोऽनन्याश्रितद्रव्य' इत्यनेनेत्याह । अंतिमस्वैरिणीग्राहिण इति । पुत्राभावे द्वितीयः कोऽप्यंतर्भूतो योषिद्राह ऋगंदाप्य इत्यभिधीयते । 'पुत्रहीनस्य रिक्थिन' इत्यने- नेत्याह । पुत्राभावे तु निर्धन इति । एतदुक्तं भवति । न हि सामान्येन योषिद्राहाभावे पुत्रो दाप्यः, पुत्राभावे योषिद्राहो दाप्य, इति उच्यते येन विरोधः स्यात् । किं तु योषिzाहेषु कोटिद्वयालंबनेनैवंविधयोषिद्राहाभावे पुत्रो दाप्यस्तदभावे पूर्वोक्तविलक्षणयोषिद्राहो १५ दाप्य इत्यवांतरभेदांगीकरणेन न क्रमविरोधो नाप्यवश्यमृणस्य देयप्रतिपादकवचनसंदर्भेण सह विरोधः अवश्यमनन्यत्वेनैव देयत्वादिति न कश्चिद्विरोध इति । 'पुत्रहीनस्य रिक्थिन' इति अस्य पूर्वोक्तव्याख्यानांतरेणायमर्थः सिद्धः । योषिद्राहाभावे पुत्र ऋणं तदभावे योषिद्राहो दाप्य इति । अत्र नारदवचनं प्रमाणयति । एतदेवोक्तमित्यादिना । धनस्त्रीहारीत्येतन्नारदवचनं व्याचष्टे । धनस्त्रीहारिपुत्राणां समवाय इति । पुत्रहीनस्य रिक्थिन इत्यस्य व्याख्यानांतरं २० वक्तुमुपक्रमते । 'पुत्रहीनस्य रिक्थिन ' इत्यस्य अन्या व्याख्येति । तदेव व्याख्यानांत- रमभिधातुमाकांक्षापूर्वकमर्थसिद्धं किंचिदाह । एतेन स्त्रीहारि पुत्रा इति । अयमर्थः । । रि- क्थग्राह ऋणं दाप्य' इत्यादिना 'पुत्रोऽनन्याश्रितद्रव्य ' इत्यंतेनोक्ता धनस्त्रीहारिपुत्रा ऋणं दाप्या इत्युक्तं । कस्य कृते ते ऋणं दाप्या इत्याकांक्षयां सत्यां प्रथमतो यस्मादृणं गृहीतं तस्योत्तमणर्य दाप्याः । तस्मिन्नसति तत्पुत्रस्य पौत्रस्य चेति एष एव चार्थसिद्धार्थः । इत्यर्थसिद्धमभिधाया-२५ धुना पुत्रहीनस्य रिक्थिन इत्यमुमंशमवतारयति । पुत्राद्यभाव इति । अस्मिन् पक्षे रिक्थिन इति षष्ठी । अमुमेवार्थ विवृण्वन् व्याचष्टे । पुत्राद्यन्वयहीनस्येति । तस्य सपिंडादिरूपस्य रिक्थिनः कृते रिक्थग्राहादयः पूर्वोक्तक्रमेण ऋणं दाप्या इत्यर्थः। ब्राह्मणस्य तु यद्देयमिति । सान्वयस्य ब्राह्मणस्य यदृणं देयं स चेद्राह्मणो नास्ति तदा तत्सकुल्येषु तदृणं निर्वपेत् तदभावेऽस्य ब्राह्मणस्योत्तमर्णस्य बंधुषु निर्वपेदित्यन्वयः। सकुल्याः सगोत्रत्वे सति सपिंडाः। बंधवोऽसगोत्रत्वे ३० सति सपिंडाः । पुत्राद्यन्वयाभावे रिक्थग्रहणयोग्यसपिंडाद्यभावे चैते पूर्वोक्ताः कस्य कृते ऋणं दाप्या इत्याकांक्षानिवृत्तये नारदवचनमेव दर्शयति । यदा तु न सकुल्याः स्युरिति । ए- वं च नारदवचने व्यवस्थापनीये । एते धनस्त्रीहारिपुत्रा' इत्यादिना तदभावे तत्पुत्रादेरित्यतेन' १क केनापी ।२क-अवश्यमन्यत्वमेव । , ।

[श्लोकः ५२ ३० मिताक्षराटीका. योऽर्थोऽमिहितस्तत्र नारदीयं ब्राह्मणस्य तु यद्देयमिति' श्लोकपूर्वार्धे प्रमाणयति । ब्राह्मणस्य त्विति । 'पुत्राद्यभावे कस्य दाप्या' इत्यादिना, 'तस्य रिक्थिनो दाप्या' इत्यतेन योऽर्थों दर्शित- स्तमर्थ नारदीयेनैव सार्धश्लोकेनान्वयव्यतिरेकाभ्यां द्रढयति । 'निर्वपेत्तत्सकुल्येषु' इत्या- दिना । तत्र निवपेदित्यनेनान्वयः । अन्वयाभावे तत्सकुल्येषु निवेदित्यन्वयमुखेनाभिधानात् । ५'यदा तु न सकुल्याः स्युरिति' व्यतिरेकः । सकुल्याभाववविजादौ निक्षिपेदित्यभिधानेन सत्सु स- कुल्येषु द्विजादावृणदाननिषेधद्वारा पूर्वोक्तार्थस्य दाात् ॥ ५१ ॥ याज्ञवल्कीये ५२ श्लोकः अधुना पुरुषविशेष इति । पुत्रहीनस्य रिक्थिन' इत्यस्यांतिमव्याख्यानेनायमर्थः सिद्धः । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी सपिंडादिस्तस्य रिक्थिनः कृते एते पूर्वोक्ता ऋणं १. दाप्या इति । एतेन 'रिक्थं चर्ण गृह्णीयान्नान्य' इत्यादि नियमाद्रिक्थग्रहणायोग्यस्य पुरुषविशे- घस्यणग्रहणमप्यानिषिद्धं स्यात् । एवमार्थिकात्पुरुषविशेषे ऋणग्रहणप्रतिषेधप्रसंगादन्यदपि नि- षेधतीत्यर्थः । अपि तु प्रतिषिद्धं साधारणधनत्वादिति । साधारणं समुदितं धनं येषां भ्रात्रादीनां ते तादृग्विधाः तेषां भावस्तत्त्वमिति समासः । दंपत्योर्विभागात् प्राक् परस्परानुमितिव्यतिरेकेण प्रातिभाव्यादिकं नास्तीति यदुक्तं तदाक्षिपति। १५ ननु दम्पत्योरिति । तत्र हेतुः । तयोविभागाभावेनेति । विभागाभावात् विभागात्प्रागित्यत्र विभागपवैयर्थ्यात् विशेषणानर्थक्यमित्यर्थः । अर्धांगीकारेण । परिहरति । सत्यमित्यादिना। एवं श्रौतस्मार्ताग्निसाध्येषु कर्मसु सहाधिकारविधिबलादर्थसिद्धमर्थमाह । अतश्चेति । पूर्त खातादिकर्म यत्' इत्यमरः (२-७-२८)। पुण्यफलेषु चेत्यमुमंशं व्याचष्टे । तथा पुण्याना- मिति । दिवि ज्योतिरिति । अस्यार्थः । दिवि धुलोकादावजरं कारणभूतं सुकृतनाशपर्यंत- २० मपि नश्वर ज्योतिः तेजः प्रधानं कलेवरमारभेतामिति निष्कृष्टमर्थे दर्शयति । येषु पुण्य- कर्मस्विति । यथाऽऽधाने सहाधिकारविधिबलात्साध्यामिनिष्पाद्यस्वर्गादिफलेषु सहत्वं विभागा- भावैश्वेत्तर्हि द्रव्यस्वाम्येऽपि सहत्व विधायकवचनबलात्सहर त्वसिद्धे द्रव्यसाध्यपुत्रादिफलेष्वपि दं- पत्योः सहत्वं । सहितयोरेव द्रव्यस्वाम्यात् द्रव्यस्याविभाज्यत्वमपि स्यात् । तथा च द्रव्येऽपि दंपत्योर्विभागाभावाद्यदुक्तं विभागात्प्राक् प्रातिभाव्यादिकं नास्तीति तद्व्यर्थविशेषणत्वादेव पूर्ववदसं- २५ गतमित्यभिप्रायेणाक्षिपति । ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तमिति। द्रव्यस्वामित्वेऽपि सहत्वोक्तिमेवदर्शयति । द्र- व्यपरिग्रहेषु चेति । अस्यापस्तंबवचनस्यायमाक्षेपवाद्यभिप्रेतोऽर्थः । पाणिग्रहणाद्धि सहत्वमि- त्यनुवर्तते । द्रव्यपरिग्रहेषु चार्जनेषु च सहत्वमेव दंपत्योः । एतदुपपादयति । न हि भर्तुरिति । भर्तुर्विप्रवासे सति भार्याया नैमित्तिके दाने न हि स्तेयं चौर्यमुपदिशंतीति । द्रव्यस्वाम्येऽपि स- ३० हत्वविधानाच्छौतस्मार्ताग्निसाध्यकर्मादिष्विव द्रव्येऽपि विभागो नास्तीत्यर्थः । 'द्रव्यस्वाम्यमात्रमुप- दिशत्येतद्वचनं न तत्र सहत्वविधानं येन विभागाभावः स्यादित्यर्धांगीकारेण परिहरति । सत्यं - । । क-प्रागिमाग्यादिकं । २ क-पूर्तखातादिकर्मणीत्यमरः। ३ क-विभागाभावश्च तर्हि ।

श्लोकः ५४] -- सुबोधिनी. द्रव्यस्वामित्त्वमित्वादिना । द्रव्यपरिग्रहेषु चे'त्यादिवचनस्यायं सिद्धांतसंमतोऽर्थः । द्रव्यार्जने- ष्वपि सहत्वं दंपत्योः । एतच्च सहत्वमौपचारिकं न मुख्यं । तथा हि । यथा आधानादिषु पतिपत्योरन्यतराभावे आधानादिस्वरूपासिद्धिः एवं द्रव्यार्जने न; अपि तु पतिरर्जयिता पत्नी चा- र्जितं रक्षयतीति योगक्षेमावुभाभ्यां क्रियते इति उभयानुसंधानसिद्धत्वेन सहत्वमिव । एवं च यत्राधानादिषु सहत्वं तत्र स्वत्वमस्तीत्यत्रापि द्रव्यपरिग्रहेषु सहत्वप्रतीतेः स्वत्वमस्तीति । तदेतद्ढा- भिसंधिराह । यस्माद्रव्यपरिग्रहेषु चेत्युक्तति । अयमभिप्रायः । न सहत्वं विधत्ते । अपितु लोकसिद्धमेव । सहितयोरेव खाम्यात् । अथैवं Qषे विवाहात्प्रागर्जिते द्रव्ये पुरुषस्यैव स्वत्वं । तत ऊर्ध्वमर्जिते तु पतिपल्योरिति । तदपि तु । तथा सति पुत्रस्यापि स्वजन्मतः प्राक् पित्रा- र्जितधने स्वत्वमेव न स्यादित्यलमतिप्रपंचेन । अन्यथा स्तेयं स्यादिति ॥ ५२ ॥ याज्ञवल्कीये ५३ श्लोकः अन्यथा खत्वाभावे, उर्वरामायभूरिति । 'उर्वरा सर्वसस्थाब्ये' त्यमरः (२-१-४) इतरस्य सुता अपि इत्यत्रापि वितथपदमनुवर्तत इत्याह । वितथ इत्येवेति । वैतथ्यमेव दर्शयति । शाठ्येनेति । दौर्जन्येन धनाभावेन वा अधमों यदोत्तमर्णस्य धनं न ददाति तदा दानप्रतिभूर्दाप्य इत्यर्थः ॥ ५३ ॥ याज्ञवल्कीये ५४ श्लोकः दानप्रतिभुवः पुत्रा मूलमेव दद्युरित्याह । ते च मूलमेवेति। मूलमेव च मूल्यं । व्यासवचनं व्याचष्टे । प्रातिभाव्यव्यतिरिक्तमित्यादिना । अत्र प्रातिभाव्यव्यतिरिक्तमित्येतत्पदमर्थ- सिद्धं । 'प्रातिभाब्यागतं सुत' इत्यमुमंशं व्याचष्टे । तथा तत्सुतोऽपीति । 'तत्सुतौ तु न दाप्या'वित्यमुमंशं व्याख्यास्यन् तत्सुतावितिपदं निर्वक्ति तयोः पुत्रपौत्रयोः सुतावित्यनेन । तौ कावित्याकांक्षायां विवृण्वन्नाह पौत्रप्रपौत्रावित्यनेन । अधुना तत्सुतौ न दाप्यावित्यय २० वाक्यार्थमाह । प्रातिभाव्यायातमिति । पौत्रसुतः प्रपौत्रो अप्रातिभाव्यायातम् । पुत्रसुतः पौत्रः प्रातिभाव्यायातंचर्णमगृहीतरिक्थौ द्वावपि न दद्यातामित्यर्थः । 'ऋणं पैतामह' मित्यनेन व्यासवचनेन सह विरोधमाशंकते वचनांतरस्य यदपि सरणं खादको वित्तहीन इति । व्यासवचने तु दानप्रतिभूपुत्रस्य मूलदानं प्राप्तं । अत्र तु लग्नकस्स प्रतिभुव एव मूलदानमिति विरोधः । विरोधं परिहरति । तदपीति । व्याख्येयमित्युत्तरेणान्वयः । दानप्रतिभुवः पुत्रा ऋणं दाप्या इत्यभिधानादर्शनप्रत्ययप्रतिभुवोः सुता न दाप्या इत्युक्तं । तत्र कचिदपवादमाह । यत्र दर्शनप्रतिभूरित्यादिना । अत्र तस्मादेव बंधकाढणं दाण्या इत्यभिधानात्तस्य बंधकस पर्याप्तत्त्वेऽपि यावद्वंधकमर्हति तावद्देयं नातोऽधिकं यावदृणं ताव- हेयमिति गम्यते ॥ ५४॥ १ क-धानाद । २ 'प्रथमपंक्तिप्रारंभेऽयं शोधो ज्ञेयः' इति कपुस्तकांतर्गतावतरितटिप्पणिका । ३ क-वि- तथेत्येवेति। ४ क-तथासुतोऽपीति । ५ क-प्रतिभव । ६क-दाप्य । ७ क-नतोधिकं ।

मिताक्षराटीका. श्लोकः ५६ याज्ञवल्कीये ५५ श्लोकः अतश्च धनिको वित्ताद्यपेक्षयेति । आदिशब्दात्सत्यवाक्त्वाभिजात्यादयः । मृते तु कस्मिंश्चिदिति । एकच्छायाश्रितेषु मध्ये कस्मिंश्चित्प्रतिभुवि मृत इत्यर्थः। एकच्छायाप्रविष्टाना- मिति । एकच्छायाप्रविष्टसुतोऽपि धनिकेच्छया सर्व दाप्यः । तेष्वेकच्छायाश्रितेषु कस्मिंश्चि- न्मृते तत्सुतः स्वपित्र्यमंशमेव दाप्यो न सर्वमित्यस्यार्थः ॥ ५५ ॥ याज्ञवल्कीये ५६ श्लोकः एतच्च हिरण्यविषयमिति । न वस्त्रधान्यादिकमित्यर्थः । कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यमिति । यदुक्तं तदाक्षिपति । नन्विदं वचनमिति। 'द्विगुणं प्रतिदातव्यमिति' द्वैगुण्यमात्रं प्रतिपाद्यते । तच्च द्वैगुण्यं पूर्वो- १. क्तमासादिरूपे काले यत्काला वृद्धिस्तस्य यः क्रमो वर्धते तैमबाधित्वैवोपपद्यत इत्यर्थः। एतदुक्तं भवति । खस्वकृतवृद्ध्यनुसारेण यदा कालांतरे द्वैगुण्यमेति धनं तदैव देत्तद्रव्याय प्रतिभुवे द्विगुणं धनं दातव्य- मधमणेना अन्यथा यावती वृद्धिःतत्सहितं मूलधनं देयं न द्विगुणं इति। सद्यो द्वैगुण्यदानमयुक्तमिति'। पूर्वोक्तकालकलाक्रमाबाधेनापि द्वैगुण्यमुपपद्यत इत्युक्तं । तत्राबाधेनाप्युपपत्तौ दृष्टान्तमाह । यथा जातेष्टिविधानमिति । चतुर्थे तृतीयपादेंऽतिमाधिकरणं । फलसंयोगस्त्वचोदिते- १५ न स्यात्संयोगस्याशेषभूतत्वात् ।। 'वैश्वानरं द्वादशकपालं निर्वपेत्पुढे जात ' इति श्रूयते । तत्र संशयः । पुत्रजन्मानंतरमेवेयं जातेष्टिः कर्तव्या उत जातकर्मानंतरमेवेति । पूर्वपक्षस्तु पुत्रजन्मनो निमित्तस नियोज्यविशेषणत्वेन निमित्तानंतरमेवेष्टिः कर्तव्या । अतो जातकर्मणः प्रागेवेति । सैद्धांतस्तु न केवलं जन्म विशेषणं नियोज्यस्य, अपि तु पुत्रगत. पूतत्वादिकमपि । एवं च जन्मपूतत्वनिमित्तयोः संकलितयोरेव नियोज्यविशेषणत्वं । पुत्रग- २. तपूतत्वादिकं च पुत्रे जीवत्यभिलषितं पितुः न तद्वैपरीत्येन । जीवनं च स्तनपानादेव । स्तनपानं च जातकर्मणः प्राक् निषिद्धम् । अतो जातकर्मानंतरमेवेष्टिः । एवं च जन्मानंतर. भाविन्या इष्टेतकर्मानंतरमुत्कर्षे आशौचानंतरमेव कर्तव्या, न जातकर्मानंतर; कालशौचरूपांग- त्यागे प्रमाणाभावात् । 'शुचिना कर्म कर्तव्यमि 'त्यस्यापवादाभावादिति । एतच्च गुरुतंत्रा- नुसारेण । २५ भट्टमते तु 'फलसंयोगस्त्वचोदितेन सात्संयोगसाशेषभूतत्वात् । बैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात' इत्यादि श्रूयते । तत्र संशयः । पुत्र जन्मानंतरमेवेष्टिरुत जातकर्मानंतरमेवेति । निमित्तानंतरं नैमित्तिकस्खावश्यंभावित्वात् जन्मन एव निमित्तत्वाज्जन्मानंतरमेवेति पूर्वः पक्षः । वाक्यशेषश्रुतपुत्रगतपवित्रत्वादिफलकामनावान्वैश्वानरेष्टावधिकारी । पुत्रगतपवित्रत्वादिकं च फलं जीवत्वेव पुत्रेऽभीष्टं । जीवनं च जातमात्रस्य शिशोः स्तनपानायत्तमेव । तच्च स्तनपानं जातक- २" मानंतरमेव न प्राकू । अतः पुत्रगतपवित्रत्वादिकफलौविरोधेन जातकर्मानंतरमेवेष्टिरिति सिद्धांतः. क-एकच्याप्रविष्टात्सुतोऽपि ख-एफच्छायाप्रविष्टाना मध्ये दश्यतेस । २ क-धन्यादिकमित्यर्थ । ३ क-तदुक्तं । ४ क तन्नाबाधित्वैव ।५ क-वादत्तद्रव्यायः । ६ क-सहितं । ७ क-पूर्वोक्तकालकला क्रमोषिक्षणं । ८ ख-सिद्धान्तस्तु । ९ क-संवालितयो ख-संवलितयो । १० ख-जातकर्मणि निवृत्त एव ।११क-फलविरोधेन ।

श्लोकः ५७] सुबोधिनी. ३२ ' एवं स्थिते तृतीयवर्णकेऽन्या चिंता। जातकर्मानंतरमेवेष्टिः उताशौचापगम इति । तत्र पुत्रगत- पवित्रत्वादिरूपप्रयोजनवशात् जननरूपनिमित्तानंतरमपि प्राप्तेयमिष्टिर्जातकर्मानंतरमुत्कृष्टा । एवमुत्कृष्टायाः पुनराशौचानंतरं उत्कर्षे प्रयोजनाभावात् जातकर्मानंतरमेव कर्तव्यमिति प्राप्ते विधीयते । निमित्तानंतर्य तावद्बाधितमिष्टेः पवित्रत्वादिरूपप्रयोजनक्शात् । बाधिते च निमि- त्तानंतर्ये शुद्धकालप्रतीक्षायाः आशौचापगमे पौर्णमास्यादिकाले कर्तव्या । शुद्धकालस्याप्यंगत्वात् । ५ 'शुचिना कर्म कर्तव्यमि 'त्यस्य अपवादाभावादिति । प्रकृते त्वेवमुपयोगः । यथा शुद्धकालरूपमंगं अवाधित्वैव जातेष्टिविधानं, तथा 'अशीति- भागो वृद्धिः स्यादि 'त्यादिना पूर्वोक्तो यः कालक्रमेण वृद्धिक्रमः तमबाधित्वैव द्वैगुण्यविधानं । अतश्च न सद्यो द्वैगुण्यमेति । सद्यो द्वैगुण्यपक्षेऽनुपपत्तिमपि दर्शयति । अपि च सद्य इति । अयमर्थः । सद्यो द्वैगुण्यं नाम सद्य एव वृद्ध्या सह द्वैगुण्यं न स्वरूपतः । वृद्धिस्तु पशुस्त्रीणां 1. संततिरेव । 'संततिस्तु पशुस्त्रीणामि 'त्युक्तत्वात् । तथा च सद्यो द्वैगुण्यदानपक्षे पशुस्त्रीषु सद्यः संतत्यभावान्मूलमात्रमेव देयं स्यान्नद्विगुणं । अतश्चाननुस्यूतत्वेन सद्यो द्वैगुण्यमनुपपन्नमिति । परिहरति । तदसदित्यादिना । एतदुक्तं भवति । 'वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणापरे' त्येतद्वचनारंभसामर्थ्येनैव कालक्रमेण द्वैगुण्यादेः प्राप्तत्वात् पुनरत्र कालक्रमायातद्वैगुण्यविधा- नमनुपपन्नं स्यात् । अतश्च पूर्वमप्राप्तं यत्सद्यो द्वैगुण्यं तदेवावश्यं विधेयं । जातेष्टिविधायक-१५ वाक्यस्य आनर्थक्याभावात् । 'शुचिना कर्म कर्तव्यमित्येतदबाधेनाप्युपपत्तिरिति विशेष इति । प्रतिभूर्दापितो यत्तु' इत्येतत्तस्यैव वचनस्य विषयविशेषपर्यवसानद्वारा कालक्रमेणैव द्विगुणदानविधिपरत्वं वक्तुमाक्षेपवादी तदुपयुक्तं किंचिदाह । अथ प्रातिभाव्यमित्यादिना। अधुना कालक्रमेणैव द्विगुणदानपरत्वं दर्शयति । अतश्चास्येति । प्रीतिदत्तस्स अयाचितस्य वृद्ध्यभावेन प्रतिभूदत्तस्यापि पूर्वोक्तरीत्या प्रीतिदत्तत्वेन अयाचितस्यापि वृद्ध्यभावे प्राप्ते तदपवाद-२० त्वेनायाचितस्यापि प्रतिभूदत्तस्य दानदिवसादारभ्य कालक्रमेण वृद्ध्या सह द्विगुणं दातव्यमिति । निराकरोति । तदप्यसदिति । वाक्यार्थो हि वाच्यो व्यंग्यो वा भवेत् । न त्वसावर्थों अभि- धीयेत न व्यज्येत वा । अतो नायमर्थो अपि त्वस्मदुक्त एवार्थो ग्राह्य इत्यर्थः ॥ ५६ ॥ याज्ञवल्कीये ५७ श्लोकः निबंधं दापयेत्तामिति । तमर्थ दापयेदित्यर्थः । इति ऋणादानप्रकरणे प्रतिभूविधिः । आधिविधिः। 'अधिक्रियत' इत्यादिनारदवाक्यं व्याचष्टे । कृतकाल आधानकालश्चेत्यादिना । तत्र कृतकालाधिस्वरूपं निरुच्य अकृतकालाघिस्वरूपं निर्वक्ति । देयं दानमित्यादिना । गोप्या- धिस्वरूपमाह । गोप्यो रक्षणीय इति । भोग्यस्तु प्रसिद्धः ॥ ५७ ॥ एवं चातुर्विध्यमाघेरुक्तं भवति । तद्यथा । कृतकालगोप्यः कृतकालभोग्यश्चेति द्वेधा । अकृ- तकालगोप्यः अकृतकालभोग्यश्चेति द्विप्रकारमिति । १ ख प्रतिविधीयते । २ ख-प्रतीक्षायल । ३ ख-मूलदानमात्रमेव । ४ ख-देव । ५ क-पूर्वात्प्राप्तम् । ६ क-इत्येतत्तस्यैव । ७ क-भूतात्तस्य । ८ ख मदुक्तापवादार्थों । ९क-निबंधं दाप्येतामिति ।

३२ब श्लोकः ६० मिताक्षराटीका. याज्ञवल्कीये ५८ श्लोकः अक्षरार्थमाह । प्रयुक्ते धन इत्यादिना । चतुर्विधाधिष्वपि विशेषं विभज्य दर्शयति । कृतकालस्य गोप्यस्येति । अकृतकालगो प्याधेद्वैगुण्यातिक्रमे नाशः। कृतकालगोप्यभोग्या- धेस्तु कृतकालातिक्रमे नाश इत्यभिहितम् । तत्र द्वैगुण्यमात्र एव न च कालातिक्रममात्र एव ५ नाशः । अपि तु ततोऽपि कियानवकाशोऽस्तीति आह । द्वैगुण्यातिक्रमेणेति । अथ कृतकालस्य गोप्याधेर्धनद्वैगुण्ये नाशोऽभिहितः । तमाक्षिपति । नन्वाधिः प्रणश्ये- दित्यनुपपन्नमित्यादिना । परिहरति । उच्यते; आधीकरणमेवलोक इत्यादिना । सोपाधिकी चासौ खत्वनिवृत्तिश्च तत्र हेतुः । सोपाधिकी चासौ स्वत्वापत्तिश्च तत्र हेतु- रित्युभयत्रापि समासः । ननु भवेत्येवं लोकतः । तथाप्यधमर्णस्यात्यंतिकस्वत्वनिवृत्तेरुत्तमर्णस्य चात्यंतिकस्वत्वप्राप्ते- श्वाभावादाधिनाशः कथमित्यत आह । तत्र धनद्वैगुण्ये निरूपितकाले प्राप्ते चेति । अयमर्थः । 'परिपूर्णे कृते काले धने च द्विगुणे सति । तदंतरा धनं दत्त्वा ऋणी बंधमवामुया- दिति'वदता बृहस्पतिना द्वैगुण्यानंतरं कृतकालानंतरमपि चतुर्दशदिनाभ्यंतरे द्रव्यं दद्याच्च नोत्तरत्रेति सूचितम् । तेन चात्यन्तं द्रव्यदानं द्वैगुण्याद्यनंतरं निवर्तते। निवृत्ते च द्रव्यदाने 'आधिः १५ प्रणश्येदि'त्यनेन वचनेनाधमर्णस्यात्यंतिकी स्वत्वनिवृत्तिरुत्तमर्णस्य चात्यंतिकी स्वत्वप्राप्तिरुपादिश्यत इति । यतो 'नत्वेवाधौ सोपकार' इति । सोपकार आधौ भोग्याधाविति यावत् । तत्राप्य- कृतकाल इति बोद्धव्यम् ॥ ५८ ॥ याज्ञवल्कीये ५९ श्लोकः गोप्यभोग्याधिसाधारणं धर्ममाह । नष्टो विकृति गत इति । उभयसाधारण्यमेव विवि- २० नक्ति । तत्र गोप्याधिनष्टश्चेदित्यादिना । विनष्ट आत्यंतिकं नाशं प्रात्प इत्यादिकमप्युभया- धिविषयं बोध्यं* ॥ ५९॥ याज्ञवल्कीये ६० श्लोकः आधेोप्यस्य भोग्यस्य च स्वीकरणादुपभोगादिति । गोप्यस्य स्वीकारमात्रं भोग्यस्योपभोग इति द्रष्टव्यं । भोग्यस्योपभोगेनैव सिद्धिरित्यत्र नारदवचनं प्रमाणयति । २५ आधिस्तु द्विविधः प्रोक्त' इति । अथवा आधेर्गोप्यस्य भोग्यस्य च स्वीकरणादित्यस्यान्या व्याख्या । तद्यथा । स्वीकरणशब्दस्यैव पर्याय उपभोगादि इति। अयमभिसंधिः । 'भुजिः पालनेऽ भ्यवहारे च' वर्तते । गोप्याधावुपभोगो नाम परिपालनं अत्रोपेत्युपसर्गों व्याप्तौ वर्तते । तथा चोपसर्गसूत्रं । 'उपसामीप्यसामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानदाक्षिण्यवीप्सारंभपूजोद्यो- गकार्याहत्यमरणानशनेष्विति' । भोग्याधावुपभोगो नामाभ्यवहरणं । फलाद्यपभोग इति यावत् । अस्मिन्व्याख्याने उभयत्र नारद्वचनमपि प्रमाणयति । 'आधिस्तु द्विविध' इति । अस्य च फलमिति । आधेः स्वीकरणासिद्धिरित्यस्य वाक्यस्येत्यर्थः । फलत्वमेव विविच्य । १ क-तत्र द्वैगुण्य मात्र एव न च कालातिक्रममात्र एव । २ क-नचाधिः। ३ क-कालप्राप्तौ चेति । दाप्यान्नोत्तरत्रेति । ५. क ख-फलत्वमेव । * ख-बोद्धव्यं - श्लोकः ६४] सुबोधिनी. -- याज्ञवल्कीये ६१ श्लोकः यद्रव्यमात्मसात्कृतं पराधीनं वा कृतमित्युक्तं पूर्वत्र, तत्रात्मसात्कृतं द्रव्यमाह । धनिनः स्वच्छाशयत्वेनेति । पराधीनकृतं द्रव्यमाह । यदि वाऽधमर्णस्येति । 'सत्यंकार' इत्ये- तच्छब्दं निर्वक्ति । करणं कार इत्यादिना । 'चरित्रबन्धककृतं' इत्येतत्प्रकारांतरेण व्याचष्टे । अन्योऽर्थ इत्यादिना ॥६१ ॥ याज्ञवल्कीये ६२ श्लोकः असंनिहिते पुनः प्रयोक्तरि इति । प्रयोक्ता ऋणप्रयोक्ता उत्तमर्ण इति यावत् ॥ ६२ ॥ याज्ञवल्कीये ६३ श्लोकः 'अथ प्रयोक्ताऽप्यसंनिहितस्तदाप्ताश्च धनग्रहीतारो न सन्ति' इत्याशंक्योत्तरं । तस्मिन्काले यत्तस्याधेर्मूल्यमिति । 'यदि वा असंनिहिते प्रयोक्तरीति' यदुक्तं तत्रोत्तरं यावद्वा तन्मूल्य. द्रव्यमिति । यदर्णग्रहणकाल इत्यादिना । विचारिते त्वयमिति । आस्मिन्वचने अभिहित इत्यर्थः॥ ६३॥ याज्ञवल्कीये ६४ श्लोकः यदा प्रयुक्तं धनमिति । अयमाशयः । ऋणत्वेन प्रयुक्त धने वृद्धया सह द्विगुणे जाते धने पश्चादाधिदत्तो भोगार्थ यदा तदा आधेः सकाशादुत्पन्ने धने द्विगुणे धनिनः प्रविष्टे सत्याधि- १५ मोक्तव्य इति । यदि वाऽऽदावेवेति । अयमाशयः । ऋणग्रहणकाल एवाधिं दत्त्वा अधमर्ण एवं ब्रवीति । यदा द्रव्यं वृद्धया सह द्विगुणं जायते तदाऽयमाधिस्त्वया भोक्तव्यो न ततः पूर्वमिति' । एवं च परिभाषया यावद्भिगुणं भवति तावदाधेर्नोगाभावः; अथवा यावद्विगुणं भवति तावदृणग्रहणकालदत्तस्याप्याधेर्दैविक- राजकव्यसनरूपकारणान्तरवशाद्भोगाभावः । एवमुभयथाऽपि ऋणग्रहणकाले दत्तस्याप्याधेर्नोगाभावेन २० हेतुना ऋणे द्विगुणे जाते पश्चादाधिमुपभोक्तुं धनिनि प्रविष्ट सति आध्युत्पन्नद्रव्येऽपि द्विगुणे जाते वृद्ध्या सह द्विगुणीभूतर्णसमे सत्याधिर्मोक्तव्य इति । 'ऋणी बंधमवामुयात्' इत्यादिबृहस्पतिवचनजातं व्याचष्टे अस्यार्थ इत्यादिना । तत्र 'ऋणी बंधमवाप्नुयात् फलभोग्यं पूर्णकालम्' इत्येतदंतमेकं वाक्यं तात्पर्यार्थसहितं व्याचष्टे। फलंभोग्यं यस्य इत्यादिना बंधमवामुयादित्यर्थ इत्यंतेन । 'दत्त्वा द्रव्यं तु सामकं' इत्यस्यांशस्य व्याख्या २५ 'वृद्धिमात्रापाकरणार्थमित्यादिना । 'यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी' इत्यमुमंशं व्याख्यास्यन्नवतारयति । अस्यापवादमाहति । 'ऋणी च न लभेद्वंधं ? इत्यमुमंशं व्याचष्टे । अथ स्वप्रकर्षितमित्यादिना । 'यदि प्रकर्षितं न स्यात्तदा न धनभाग्धनी इत्येकं वाक्यम् । 'ऋणी च न लभेदध'इत्यपरम् । एतदुभयं बृहस्पतिरेवापवदतीत्याह । पुनरुभयत्रापवादमाहेति । इति ऋणादानप्रकरणम् ॥3॥ THE UNIVERSITY LIBRAR १क यदि वादावेवेति । २ क परिभाषा । ३ क फलं भोगस्येत्यादिना । ४५-ऋणं । RECEIVED 3JAAN 1925 मिताक्षराटीका. [ श्लोकः ६९ अथ उपनिधिप्रकरणम् ४ याज्ञवल्कीये ६५/६६।६७ श्लोकाः (श्लो०६६) 'ग्रहीतुः सह यार्थेनेति । अस्यार्थः । ग्रहीतुरर्थेन सह योऽर्थो नष्टः सोऽर्थो दायिनो धनस्वामिन एव नष्टः । सोपनिध्यादिरक्षकस्येति । एतच्च चौरहताधुपलक्षणार्थ । अस्यापवादीमीत । 'न दाप्योऽपहृतं त्विति यदुक्तं तस्येत्यर्थः । अस्मिन्प्रकरण इतरनिगदव्याख्यातम् ॥ इति निक्षेपप्रकरणम् ॥ ४ ॥ १५ अथ साक्षिप्रकरणम् ५ अर्थिना स्वार्थसिद्धयर्थमिति । अस्यार्थः । अर्थिना साध्यवता स्वार्थसिद्धयर्थं प्रत्यार्थना वचनं स्फुटं यथा भवति तथा प्रत्यर्थिनाऽविज्ञातः सन् स्थितो यः पुमान् श्राव्यते स गूढसाक्षी कथ्यत इति । १० 'लेखकः प्राडिवाकश्च सभ्याश्चैवानपूर्वशः । नृपे पश्यति तत्कार्य साक्षिणःसमुदाहृताः' इतीति । सह पाठादिति शेषः । अस्यार्थः । राजनि तत्कार्य व्यवहारकार्य पश्यति सति एते लेखकाद- योऽनुपूर्वशः 'पूर्वाभावे परः पर ' इति साक्षिण: न तु लेखकादीनामेव सभापतित्वे त एव साक्षिणः.॥ 'नृपे पश्यती ' त्यभिधानादिति लेखकादिभिः सह परिपैठितस्य प्राड्डिवाकस्योपादानं लेखकाग्रुपलक्ष- गार्थमित्यर्थः । साक्षिप्रकरणप्रक्रमप्रभृत्येतत्पर्यंतमुपोद्धातत्वेन किंचिदभिधायाधुना मूलवचनमवतारयति । ते च साक्षिणः कीदृशा इति ॥ याज्ञवल्कीये ६८/६९ श्लोको वचनादसाक्षिणां खरूपं नारद एव दर्शयतीत्याह । के पुनर्वचनादसाक्षिण इति । निग्रंथा इति । पाषंडिन इत्यर्थः । 'साक्षिणां लिखितानां चेति' । अस्यार्थः । साक्षित्वेन २० निर्दिष्टानां, 'एते साक्षिण' इति पत्रलिखितानां, वादिनां ब्रुवतां तेषां साक्षिणां मध्ये एकोऽन्यथा वादी चेत् ते भेदान साक्षिण इति ॥ योऽर्थः श्रावयितव्यः स्यादित्ये'तद्वचनं व्याचष्टे । 'येनार्थिना प्रत्यर्थिना वा' इत्या- दिना । एतदुक्तं भवति । अस्मिन्नर्थविशेषे एते साक्षिण इति अर्थविशेषऽभिहिते निर्दिष्टेषु च साक्षिषु सत्सु पश्चात्तमर्थविशषप्रति निर्दिष्टपुरुषाणां कृते साक्ष्ये वक्तव्यं एवं च पदाविशेषनिर्देष्दैव मृतः। २५ अथवाऽर्थविशेषो न निवेदितः । तदा तस्मिन्नर्थे कस्य कृते साक्ष्यं वदत्विति मृतांतरः साक्षी नेति । मृतेनांतरं अवकाशो व्यवधानं यस्य स मृतांतरः । एवं मृतांतरस्य सर्वत्रीसाक्षित्वे प्राप्तेऽपवादमाह। यत्र तु मुमूर्षेत्यादिना। 'मृतांतरेऽर्थिनि ते मुमूर्षश्राविताहत' इति । अस्यार्थः । अर्थिनि प्रेते सति साक्षी मृतांतर इति कथ्यते । मुमूर्षु. श्रावितं विना । अयमभिप्रायः। मुमूर्षुश्रावितो मृतांतरः साक्षी भवतीत्यमुमथै नारदवचनेन ३० प्रतिपाद्य स्वस्थेन श्राविता मृतांतरोऽपि साक्षी भवतीत्यत्रापि नारदवचनमेव प्रमाणयति । सधा 'श्रावितो नातुरेणापीति ॥ ६८ ॥ १९ ॥ . । मनायें. २ ख ननु. ३ क पाठितस्य. ४ कचे. ५ ख-निर्देष्ट. ६ ख-पुरुषस्य. ७ ख-साक्ष्यं. ८ क-सर्वत्र श्लोकः ८.] सुबोधिनी. ३५ याज्ञवल्कीये ७०७१ श्लोको. एवं महता प्रपंचेनासाक्षिखरूपं प्रतिपाद्य अस्मिन्नर्थे मूलवचनमवतारयति । तानेतानसा- क्षिण इति ॥ ७०-७१॥ याज्ञवल्कीये ७२ श्लोकः ननु ज्यवरा अपि धर्मविद एकोऽपि धर्मविदेव साक्षी तथा द्वावपि एवं च त्र्यवरपदमनर्थक- मित्यभिप्रायेणाशंक्य परिहरति । यद्यपि श्रौतस्मातक्रियापरा इत्यादिना । ननु संग्रहणचौर्यपारुष्यसाहसानां सर्वेषामपि साहसशब्दवाच्यत्वाद्भेदनोपादानमनुपपन्नमित्याशंक्य परिहरति । 'मनुष्यमारणं चौर्य 'इत्यादिना । अयं भावः । जनसमक्षं स्वबलावष्टभेन यत्करणं स एवोपाधिः तेनोपाधिना क्रोडीकृतान्येतानि संग्रहणादीनि साहसशब्दवाच्यानि । एकांते बलादिना यत्क- रणं स एवोपाधिः; स चोपाधिर्विषयभेदाद्भिद्यते । ततश्च तत्तद्विषयभेदघटितरहःकरणोपाधिभेदात्संग्रहणादि- १. शब्दवाच्यत्वमिति ॥ ७२ ॥ याज्ञवल्कीये ७३।७४।७५ श्लोकाः सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकांचनैर्वैश्यामि' त्यस्मिन्नर्थे मनुरेवापवादं दर्शयती- त्याह। अत्र चापवादस्तेनैवेत्यादिना । अत्र 'गोरक्षकान् । इत्यादीनि 'विप्रान्' इत्यस्य विशेषणानि न खतंत्राणीति बोद्धव्यम् । अनेकजन्मार्जितसुकृतसंक्रमणस्येति । अनेकानि च तानि जन्मानि च तत्रार्जितं तच्च तत् सुकृतं च तस्य संक्रमणमास्मिन्ननेकजन्मार्जितसुकृतसंक्रमणमिति समासः॥ ७३१७४/७५ ॥ याज्ञवल्कीये ७८ श्लोकः ननु पूर्व भेदादसाक्षिणः' इत्युक्तं । अधुना 'द्वैधे बहूनां? इत्यनेन भेदादपि साक्षिणो भवंतीत्युच्यते । तथा च परस्परविरोधः स्यादित्याशंक्याह । यत्तु भेदादसाक्षिण इति । यत्र संख्यागुणादिभिः साम्यं तत्र विशेषाभावा दादसाक्षित्वं, यन्त्र पुनः संख्यागुणादिभिवैषम्यं तत्र पूर्वोत्तरीत्या भेदादपि साक्ष्यं २. भवतीत्यभिप्रायः॥ ७८॥ याज्ञवल्कीये ८० श्लोकः पूर्वो कलक्षणे साक्षिभिः साक्ष्य स्वाभिप्रायविषये साक्ष्ये । प्रतिज्ञातार्थवैपरीत्येनामिहिते इत्यन्वयः। अर्थ साक्षी नाम अर्थ्यभिमतार्थस्य सम्यक् ज्ञाता, तस्य भावः साक्ष्यं, तदेव साक्ष्यं वस्यार्थिनः अभिप्रायः । एवं च साक्ष्यं नाम स्वाभिप्रायः । तथा च साक्ष्यपदस्य व्याख्या स्वाभिप्राय इति । अस्मिन् पक्षे यथाश्रुत २५ एवान्वयः । निगदे दत्त इति । सभ्यादिजनसमक्षमुच्चैनिःसंदिग्धभाषणं निगद्गः, तस्मिन् दत्ते कृत इत्यर्थः । यदार्थी प्रतिज्ञाताथस्योति । अयमभिसंधिः । प्रतिज्ञातार्थस्य सत्यत्वेन स्वांतःकरणेऽसों- वर्थ एवमेवेति दृढतरप्रतीत्युपपत्तेः। तदुपपत्यन्यथानुपपत्त्या साक्षिष्वपि दोषः परिकल्प्यते। न दृष्टदोष- स्तेषु साक्षिषु । अतश्च परिकल्पितदोषदुष्टत्वेन प्रमाणांतरांगीकरणमुपपन्नमेव । अंगीकृते च प्रमाणांतरे ३० व्यवहारदर्शिभिरपि व्यवहारः प्रवर्तनीय एवं । 'छलं निरस्य भूतेनेति । वचनादिति। ननु स्वयमित्यसाक्षिष्वदृष्टदोषः कथमित्याशंक्य दृष्टांतमुखेनोपपादयति । 'यस्य च दुष्ट करण- , क-कारणं. २ क- कारणं. ३ ख-भेदादसाक्षिणो. ४ क- अथवा. १ ख- करणो. ६ क-तदुत्पन्यथा. ७ क- कल्पनेन, ८क-प्रमाणांगीकरणं. ९ क-एवं. निगदिते इति मिताक्षरापाठः मिताक्षराटीका. [ श्लोकः ८० मितिः ।अस्याथैः। यस्य ज्ञानस्य च करणं चक्षुरादिकं दुष्टं काचकामलादिदोषदुष्टं यत्र चेदं रजितमित्यादि- ज्ञानविषये नेदं रजतमिति बाधकप्रत्ययः । स एव प्रत्ययो ज्ञानमसमीचीनमिति दृष्टांतवाक्यस्य तात्पर्यार्थ प्रकृतोपयोगार्थमाह । यथा चक्षुरादीति । अयमभिप्रायः । अर्थविसंवादादर्थस्य शुक्तिरजतादे- रन्यथात्वतजनितस्येदं रजतमिति ज्ञानस्याप्रामाण्येन चक्षुरादिगतदोषकल्पना यथेति दातिके ५ योजयति तथेहापीति । न केवलं युक्तितः प्रमाणांतरं गवेषणमुचितम् अपि तु वचनबलादपीत्याह । साक्षिपरीक्षा. तिरेकेणेति । अयमभिप्रायः । न केवलं साक्षिवचनमात्रेण निर्णयः अपि तु तद्वाक्यपरी- क्षया च । एवं च साक्षिवचनपरीक्षायां क्रियमाणायां यदि तद्वचनमबर्बाधितं स्यात्तदा तस्य प्रामाण्यमितरथा साक्षिवचनस्य बाधितत्वे साक्षिष्वपि दोषकल्पना स्यादिति । एतच्च परीक्षावचनवि- १० घिबलाद्गम्यते । 'यदा शुद्धा क्रियेति' कात्यायनवचनं व्याचष्टे । क्रिया साक्षिलक्षणेत्यादिना। 'स शुद्धस्तथा' इति शुद्धपदस्य व्याख्या। तथाभूत इति । तथाभूतस्तथ्यभूतः सत्य इति यावत् । कात्यायनवचनस्य तात्पर्यार्थमाह । करणदोषबाधकप्रत्ययाभाव इति । ' यथा शुद्धा क्रिया न्यायात् । इत्यनेनांशेन साक्षिलक्षणक्रियारूपकरणगतदोषाभावोऽभिधीयते । शुद्धाच्च वाक्यायः शुद्धः। इत्यनेन तु बाधकप्रत्ययाभावोऽभिधीयते । एवं च करणदोषबाधकप्रत्यययोरभावे १५ सत्यर्थोऽवितथः सत्य इति तात्पर्यार्थः । स्वभावेनैव यब रिति । आर्थिना स्वकीयप्रतिज्ञायामन्यथाभावमज्ञात्वैव प्रथममेवान्येषामपि साक्षित्वेन निर्देष्टत्वात्स्वभावेनैव वचनमिति प्रकृते द्रष्टव्यं यदुक्तं 'आक्षेपसमये अनवस्थाप्रसंगान् इति। तत्परिहरति । अतःपरमपरितुष्यताऽपीति । स्वप्रत्ययबलादपरितुष्यतार्थिना 'प्रमाणांतरमंर्गीकर्तव्यमित्युक्तं । प्रत्यर्थिनस्तु तथा नास्तीत्याह । यत्र तु प्रत्यर्थिन इत्यादिना । 'यस्य दृश्यते' त्यस्य मनुवचनस्य विषयं दर्शयति । एतच्च यस्योचुः २० साक्षिणः सत्यॉमिति । अयमर्थः। एतत् तु 'यस्य दृश्यतेति' मनुवचनं 'यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवे'दित्यस्यापवादकं कस्मिन्विषय इत्याकांक्षायां इदमुच्यते । अपरे तु व्युत्पत्यविषय एवेति। एतदुकं भवति । साक्षिभिः साक्ष्ये कथिते यदि प्रत्यर्थी परितुष्यति तदाऽर्थिनो जयः, प्रत्यार्थिनः पराजयः । अथ स्वप्रत्ययविसंवादित्वेन प्रत्यर्थी न परितुष्यति, तर्हि साक्षिपरीक्षणे सप्तदिनेषु २५ क्रियमाणे यदि दोषवन्तः साक्षिणः तदा यस्य दृश्येत सप्ताहादिति 'मनुवचनेन 'यस्योचुः साक्षिणः सत्यामितियोगीश्वरवचनमेपोद्यते । तथा च प्रत्यर्थिनो जयः । अपरस्य पराजय इति । 'उक्तेऽपि साक्षिभिः साक्ष्य' इत्यस्य योगीश्वरवचनस्यैकदेशिव्याख्यानं दूषयितुमनुभाषते। 'केचिदुक्तेऽपि साक्षिभिारित्यादिना दूषयति । तदसदिति । प्रत्यर्थिनः क्रियानुपपत्तिं विविच्य दर्शयितुमर्थिप्रत्यर्थिस्वरूपं दर्शयति । तथा हर्थी नामेति । भवत्वभाववादित्वं प्रत्यर्थिनस्तस्य ३० क्रियानुपपत्तौ किमायातमित्यत आह । तत्राभावस्येति । अयमाशयः । न भावः अभावः; भावी- धीनत्वादभावस्वरूपस्य तथा अभाव इत्युक्ते कस्याभाव इत्याकांक्षायां पटस्याभावः घटस्याभाव इति प्रतियोगिभूतघटपटादिनिरूपणाधीननिरूपणत्वात् प्रध्वंसाभावे च भावस्वरूपसिध्युत्तरकालीनत्वाच्च अभाव खरूपसिद्धेःभावस्वरूपेण सापेक्षसिद्धत्वमभावस्य भावत्वे तद्वैपरीत्यात्स्वातंत्र्येण सिद्धिर्न त्वभावापेक्षया भा- वस्य सिद्धिः अत एवाभावसिद्धिनिरपेक्षसिद्धत्वं भावस्य । एवं च सापेक्षनिरपेक्षयोः सिद्धयोभीवा- ३५ भावयोमध्ये निरपेक्षसिद्धत्वेन भावस्यैव साध्यत्वं युक्तमिति । नन्वभावस्य सापेक्षत्वे सिद्धे कोऽपराधो यत्साध्यता नास्तीत्यत आह-अमावस्य स्वरूपेणेति। रख-बाने करपं. २ क-यत्रेदं रजतमिति. ३ क-कल्पनाय, ४ ख-प्रथितं. ५ क-निर्दिष्टत्वात् ६क-सप्रत्यय ७ व सरस्वमिति. ८ ख-मित्याकांक्षायां, अपरितष्यत्प्रत्यार्थविषय. ९ क-आपद्यते. १० क-अभावाधीनत्वातं, .

श्लोकः ८१] सुबोधिनी. अयमर्थः । भावस्य साक्षात्साक्ष्यादिरूपप्रमाणप्रमेयत्व; अभावस्य तु न साक्षात् अपि तु भावद्वारा; तथा च साक्षात्प्रमेयस्यैव साध्यत्वं न निरूपणपरंपरतया प्रमेयस्येति । 'उक्तेऽपि साक्षिभिः साक्ष्य' इत्यस्य वचनस्यार्थातरमाशंकते पूर्ववादी ।अथ मतमित्यादिना। तस्यायमपवाद इत्युक्कं । कोऽपवाद इत्याशंक्य परिशेषादपवादविषयं वक्तु 'द्वयोर्विवदतोरर्थे । इत्यस्य विषयं दर्शयति-अतश्च पूर्वोत्तरयोः वादिनोरिति । अपवादविषयमाह । यदा ५ तूत्तरवादिन इति । अस्मिन् व्याख्याने पूर्वोक्तदोषाभावं दर्शयति । एवं च नाभावस्येति । ननु पूर्वोत्तरयोर्वादिनोः साक्षिणां समत्वे पूर्ववादिनः साक्षिणः प्रष्टव्याः उत्तरवादिसाक्षिणां गुणाधिक्ये द्वैगुण्ये वा उत्तरवादिन एव साक्षिणः प्रष्टव्या इत्यभिधीयमाने एकस्मिन्नपि वादे द्वयोर्वादिनोः क्रियाप्रसक्तः। नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोईयोः' इत्येतद्वचनविरोधः स्यादित्यत आह । चतुर्विधोत्तर- विलक्षणत्वादिति । अयमभिप्रायः । सत्यमिथ्याकारणप्राङ्न्यायोत्तरेष्वेव वादिप्रतिवादिनोईयो... रपि क्रियभावः । प्ररुतोदाहरणे तु उभयोः प्रतिवादित्वेन तद्विलक्षणत्वात् क्रिया व्यवस्थेति। युक्त्यंतरमाह-एकस्मिन् व्यवहारे यथेति । अयमर्थः । यथा परमते सिद्धांतिनो मते साक्षिभिः साक्ष्येऽभिहिते सति प्रतिज्ञातार्थस्य अन्यथात्वेन खांतःकरणप्रत्ययाभावात् प्रमाणांतरांगीकरण, एवमस्मन्मतेऽपि वादिप्रतिवादिनोः क्रियाद्वयमिति । एतदुक्तं भवति । सिद्धांतिनो मते 'न चैकस्य क्रियाद्वयमिति' वचने जाग्रत्यपि यथा स्वांतःकरणविसंवादित्वेन प्रमाणांतरांगीकरणं तथाऽस्मन्मतेऽपि 'न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोईयोः । इत्येतस्मिन् सत्यपि उक्तरीत्यैकस्मिन् विवादे क्रिया- द्वयामिति निराचष्टे । तदप्याचार्य इति । आचार्यों विश्वरूपाचार्यः । 'विश्वरूपविकटोक्ति- विस्तृति संग्रहात्मकत्वात् अस्य ग्रंथस्य 'उक्तेऽपि साक्षिभिः साक्ष्ये' इत्यतः शब्दादिति अतोऽस्माच्छब्दात् वचनादित्यर्थः ॥ ८० ॥ याज्ञवल्कीये ८१ श्लोकः क्रोधात्तु त्रिगुणं परमिति । परं तु उत्तमसाइसमित्यर्थः । लोभादिकारणविशेषे दंडविशेष- मभिधाय कूटसाक्ष्याभ्यासे दंडविशेषं दर्शयति । तथा कौटसाक्ष्यं त्विति । अभ्यासविषयत्वमेव व्यनक्ति । एतच्चाभ्यासविषयमिति । एतदुक्तं भवति । अनभ्यासे त्वेकदैव कृतत्वेन भूतार्थे तप्रत्ययान्तः शब्दः स्यात् कृतानिति । न च तथा वर्तमानार्थवाचिशानच्प्रत्ययातः शब्दः २५ प्रयुक्तः कुर्वाणानिति । प्रारब्धस्यापरिसमाप्तिर्हि वर्तमानता पुनः पुनः कौटसाक्ष्यमभिधीयमान- स्यापरिसमाप्तिप्रायत्वाद्वर्तमानत्वमेव कौटसाक्ष्यभिधानस्य अतोऽभ्यासविषयत्वमिति । कौटसाक्ष्यं तु कुर्वाणाने'त्येतद्वचनं व्याचष्टे । त्रीन् वर्णानिति । अस्य चार्थशास्त्र रूपत्वा दिति । अस्य 'कौटसाक्ष्यं वित्येतद्वचनस्येत्यर्थः । ननु किं ब्राह्मणस्य सर्वत्र विवासनमेव नार्थदंड इत्याशक्य दंडोऽप्यस्तीत्याह । 'ब्राह्मणस्यापि ३० लोभादिकारणविशेषपरिज्ञाने चेत्यादिना । अत्राप्यभ्यास इति। अत्रापि महाविषये सर्वेषां ब्राह्मणादीनां दंडाभावो वा प्रसज्येतेति तच्चायुक्तमिति शेषः । १ क-साक्ष्यं. २ क-मेयस्येति. ३ क-तत्र कापवाद. ४ क-एवं वचनामावस्येति. ५ख-पूर्वोक्तयो ६क-सत्वे ७ क-एकस्मिन् विवादे. ८ क-क्रिया व्यवस्थेति. ९ क-परम सिद्धांतितो. १० ख-प्रतिशातार्थः स्यात् यथात्वेन ११ ख-जाग्रत्यापि, १२ क-कौट साक्षभ्यासे. १३ ख-समाप्त. १४ ख-सार्थदंड. १५ स्त्र-भाशंका.

मिताक्षराटीका. [ श्लाकः ८३ । ननु ब्राह्मणस्यार्थदंडो न युज्यते। शंखवचने त्रयाणां वर्णानां क्षत्रियादीनां धनापहारवधबंधक्रिया. ब्राह्मणस्य तु विवासनमेवेत्युक्तत्वादित्याशंक्य परिहरति । यत्तु शंखवचनं त्रयाणां वर्णानामि. त्यादिना । एष परिहाराभिप्रायः । सर्वस्वहरणं ब्राह्मणस्य निषिध्यते नै दंडमात्रमिति । ननु वधसाहचर्यवचनमात्रेण धनापहारस्य सर्वस्वापहारपरत्वं कथमित्यत आह । शारीरस्त्वव- ५रोधादिरिति ॥ ८१ ॥ याज्ञवल्कीये ८२ श्लोकः एतच पूर्वश्लोकेऽप्यनुसर्तव्यमिति । एतदिति । ब्राह्मणस्य द्रव्य शनासमर्थस्य विवासनं क्षत्रियादीनां च द्रव्यदानासमर्थानां निगडबंधनादिकं यदुक्तं तत्पृथक् पृथक् पूर्वोक्तप्रकारेण दंज्य इत्यर्थः । तदाऽनुबंधापेक्षयति । जातिद्रव्यगुणद्रव्यगुणाद्यपेक्षयेत्यर्थः ॥ ८२ ॥ याज्ञवल्कीये ८३ श्लोकः यत्र वर्णिनां शूद्रविक्षत्रविप्राणामिति । अत्र प्रातिलोम्येन वर्णिनामुपादानं हीनस्यापि वधो गर्हितः । किमुतोत्कृष्टस्येति ज्ञापनार्थम् । 'असत्यवचनमवचनं चाभ्यनुज्ञायत? इत्युक्तं पूर्वत्र, तत्र क्वासत्यवचनाभ्यनुज्ञानं क चावचनाभ्यनु- ज्ञानमित्याकांक्षायां असत्यवचनाभ्यनुज्ञानविषयं दर्शयति । यत्र शंकाभियोगादाविति । अवचनाभ्य- १५ नुज्ञानविषयमाह-यत्र तु सत्यवचन इति । अनृतवचननिषेधो हि द्विप्रकारः । साधारणोऽसाधारणश्चेति । साधारणस्तु 'नानृतं वदेब्रुवन् विब्रुवन्वोत्यादिकः । असाधारणस्तु 'स तान् सर्वानवाप्नोति यः साक्ष्यमनृत वेददिति ।। अब्रुवन् हि नरः साक्ष्य मित्यादिकश्च । एवं स्थिते योऽयमसाधारणो निषेधः साक्ष्यनृतवचनावचनयोस्तत्रा. भ्यनुज्ञावशादनृतवचने अवचने वा न प्रायश्चित्तमित्यभिप्रायेणाह । साक्षिणामनृतवचनं चेति २० ननु तर्हि 'तत्पावनाये'त्यनेन प्रायश्चित्तार्थं सारस्वतचरुः क्व विधीयत इत्याशंक्य साधारणनिषेधाति- क्रमाभ्यनुज्ञानाभावात् तदतिक्रमंदोषपरिहारायेदं प्रायश्चित्तमित्याह ।। यत्त नानृतं वदेदिति ननु 'वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेदि'त्येतन्निषिद्धानृतवचनाभ्यनुज्ञापरं वचनमनर्थकं । सामान्यतो निषिद्धानृतवचनावचनातिकमजन्यदेषिस्य स्थितत्वादित्याशंक्य परिहरति । न च मन्तव्यमित्यादिना । एवं परिहाराभिप्रायः । साधारणनिषेधातिक्रमजन्यभूयोदोषाभावं प्रति- २५ पादयन् सार्थकमिति । ननु ब्रह्महनने विचारित पापमुत्पद्यते; तथोद्योगे कृते तस्मादप्यधिकं पापं; हनने निष्पन्ने महत्पाप- मिति पूर्वपूर्वापेक्षया पापाधिक्येऽपि हननजनितमहापापप्रायश्चित्ते क्रियमाणे आनुषंगिकविचारोद्योगा- दिजन्यान्यानामल्पीयसामपि पापानां यथा निवृत्तिस्तथेहाभ्यनुज्ञावचनेन महतः प्रत्यवायस्य निवृत्ते. रनुषंगसिद्धसाधारणानृतवचननिषेधातिकमजन्यस्वल्पप्रत्यवायनिवृत्तिरपि भातावत्याशंक्य 'वर्णिनां ही १ख-दहमात्रमिति. २ क-धनापहाराय वधत्वन्धक्रियां 'ब्राह्मणस्य तु' निवासनमेवेत्युक्तत्वादित्याशंक्य परिहरा क-संयोगनियोगादाविति । ४ ख-साक्ष्यमनृतं वदेदिति वचनावचन्योः ५ क-अनय ज्ञा. ६क-न प्रायाश्चत्त.७ बचाव, चनाभ्य, ८ख-अभ्यनुवानपर.

श्लोकः ९०] सुबोधिनी. ३९ त्यभ्यनुज्ञावचनात् तत्पावनाय निर्वाप्य इत्येतद्वचनारंभसामर्थ्याचात्र नाल्पीयसः प्रत्यवायस्य निवृत्ति रित्याह । यद्यपि भूयस इत्यादिना । अयमाशयः । यद्यभ्यनुज्ञावचनमेव स्यात् तर्हि स्या- न्महतः प्रत्यवायस्य निवृत्त्यानुषंगसिद्धस्याल्पीयसोऽपि निवृत्तिः, प्रायश्चित्तविधायकमप्यस्ति वचनम् । अत एतदानर्थक्यपरिहारायानुषङ्गासद्धस्याल्पीयसः प्रत्यवायस्यानिवृत्तिः कल्प्यत इति । उक्तन्यायमन्यदप्यतिदिशति । एतदेवेति । उक्तन्यायातिदेशेन प्रायश्चित्तस्याप्यतिदेशप्राप्तावप- ५ वदति । नच तत्रेति । तत्रोपपत्तिमाह । प्रतिषेधांतराभावादिति । एतदुक्तं भवति । यथा साधारण्येनानृतवचनावचननिषेधे सत्यपि पुनर्विशेषेण साक्षिणां तनिषेधः । न तथा निषेधद्वयं पांथा- दिषु किंतु साधारणनिषेध एव, अतो विशिष्टनिषेधान्तराभावात्सामान्यनिषेधातिकमजन्यप्रत्यवायस्या- भ्यनुज्ञावचनबलेनाभावाच न प्रायश्चित्तिरिति ॥ ८३ ॥ इति साक्षिप्रकरणम् ॥ - अथ लेख्यप्रकरणम् ॥६॥ 'प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति । मानुषप्रमाणानां मध्ये निर्देशक्रमेण लेखस्य पूर्वभावित्वेऽ-१० पि साक्षिलिखितयोरर्थसंबंधवशात्पौर्वात्य असिद्धवत् कृत्वा प्रेसंगात्प्रथमत एव मध्यनिर्दिष्टाऽपि भुक्तिः प्रतिपादिता । ततश्च साक्षिस्वरूपे विज्ञाते 'लेख्यं तु साक्षिमत् कार्यम् ' इति साक्षियुक्तलेख्यविधार्न सु- बोधमिति साक्षिप्रकरणानंतरभावित्वं लेख्यप्रकरणस्योचितमिति संगतिं दर्शयति । मुक्तिसाक्षिणी निरूपिताविति । मूलवचनमवतारयति । तत्रान्यकृतमाहेति ॥ ८४॥ याज्ञवल्कीये ८९ श्लोकः युक्तमर्थक्रमापरिलोपेनेति। अर्थक्रमापरिलोपेन लिप्यक्षरापरि लोपेन च युक्तं लेख्यमित्यन्वयः। 'देशाचारविरुद्धम् । इत्येतनारदवचनं व्याचष्टे । विधानं विधिरित्यादिना ॥ ८९ ॥ याज्ञवल्कीये ९० श्लोकः न तुरीयादिभिरिति । नियम्यत इति । तुरीयश्चतुर्थः । प्रपौत्र इति यावत् । पूर्वोत्तमाक्षेप २० समाधत्ते । बाढमिति । अयमर्थः । 'पुत्रपौत्रैर्ऋणं देयं ' इत्यनेन पत्रावढे पत्रानारूढे चणे सामान्येन त्रयाणामेव दातव्ये सति स्मृत्यंतरवशात्पत्रारूढमृणं पुत्रपौत्रैरेव देयं न प्रपौत्रादिभिरित्येष नि- यमो न घटते । अपि तु प्रपौत्रादिभिरपि देयमिति पत्रारूढणेऽपवादशंका ज्ञायते तां शंकामपनेतुं'ऋणं लेख्यकृतं देयम् ' इत्यतेद्वचनमादृतमिति तदेव स्मृत्यंतरप्रकरणशुद्धिपूर्वकं दर्शयति । तथाहीत्यादिना। पूर्वोकं कात्यायनवचनं व्याचष्टे । इत्थं पप्रारूढमिति । अनेन वचनेन पत्रारूढविषये पुत्र- २५ पौत्रैरेव देयमृणमिति न अपि तु प्रपौत्रादिभिरपि देयमितीयमपवादशंका कथं ज्ञायते इत्यत आह । अत्र पितृणामिति । अयमभिप्रायः । बहुत्वं वित्वे पर्यवस्यति। तथा च पितॄणामित्युक्तेः प्रपौत्रस्य प्रपितामहर्ण देयमिति प्रतीयते । तथा यदा पौत्रोऽप्यतिक्रांतो मृतस्तदा 'पुत्रपौत्रै ऋणं देयं । इत्या- दिभिर्वचनैः पौत्रानंतरकालीनस्य प्रपौत्रादेरदेयत्वे सिद्धेऽपि अतिक्रांतकालमित्युक्तः प्रपौत्रादीनामपि पत्रारूढे ऋणे देयमित्याशंका भवतीति आक्षेपसमाधानमुपसंहरति । अतश्चेति । एवं तर्हि कात्या- ३० यनहारीतवचनयोः का गतिरित्यत आह । वचनद्वयं चेति ॥९० ॥ १ ख-दोषस्य तथापि स्थितत्वात् २ क-तत्पावना याति. ३ ख-निवृनृषगं. ४ ख-अदृत ५ क-पर्यासद्धवत्यक्- वा. ७ क-प्रततिा. ८ के. ख.-परिलोपेनीच. ९ नचतुर्थादिभिरिति मिताक्षरापुस्तकेषु पाठः १० क-प्रपितामहस्य. १२ क ख-मृतश्चेति. । ।

मिताक्षराटीका. [ श्लोकः ९६ Po याज्ञवल्कीये ९१ श्लोकः 'देशांतरस्थे दुर्लेख्ये' इत्यस्मिन् वचने विधेयांशमाह । व्यवहाराक्षम इति । व्यवहाराक्षमत्वमेव कथमित्याशंकायामाह । व्यवहाराक्षमत्वं चेत्यादिना । अत्र व्यवहाराक्षमत्वं च भवतीत्युत्तरे- णान्वयः । यथोपन्यस्तसाध्यार्थ इति । अस्यार्थः । साध्यार्थः प्रतिज्ञातार्थः तेन संयुक्तं; तथा उत्तरेण द्वितीयपादसरूपेण क्रियया पत्रादिरूपेण च सहित; तथैव सावधारणकं. अवधारणं निर्णयः तेन सहित जयपत्रं भवतीति । एतच्च चतुष्पादूद्व्यवहार एवेति । एतब्जयपत्रमित्यर्थः ॥ ९१ ॥ याज्ञवल्कीये ९२ श्लोकः साक्ष्यसंभवाविषयमिदं हारीतवचनमिति । इदं वक्ष्यमाणं 'न चतदितिः वचनमित्यर्थः याज्ञवल्कीये ९३ श्लोकः 'धनी चोपगतं दद्यादि'त्यमुमशं प्रकारांतरेण व्याचष्टे। यद्वोपगतं प्रवेशपत्रमिति शेषं सुगम॥१३॥ इति लेख्यप्रकरणं ॥ ६ ॥ अथ दिव्यप्रकरणं ॥७॥ याज्ञवल्कीये ९५ श्लोकः त्रेधा हि नियमः संभवति।अपराधविशेषे दिव्यस्वरूपे उभयत्रापीति । तद्यथा । महाभियोगरूपा- पराधष्वेव दिव्यानीत्येकः । इयंत्येव दिव्यस्वरूपाणीत्यपरः । इयंत्येव दिव्यस्वरूपाणि महाभियोगेष्वेवेति अन्यः; एवं स्थिते 'तुलाग्न्याप) इत्यत्र निर्दिष्टानि पंच दिव्यानि 'महाभियोगेष्वेवेति' नियम्यते न स्वरूपनियमो नापि विशिष्टनियमः । यतः पितामहवचनविरोध इत्याह ॥ एतानि महाभियोगेष्वेवेत्यादिना । अत्र न प्रसरति पुनःशब्दो विशिष्टनियमनिराकर- णार्थः । पूर्वोक्तानि दिव्यानि महाभियोगेष्वेवेति नियमो न घटत इत्याशंकते । नन्वल्पाभियोगेऽ. पीति । परिहरति । सत्यमित्यादिना। अयमर्थः । कोशस्य तुलादिभिः सह पाठो न महाभियोगेष्वेवेति नियमार्थः । अपि तु यथैतानि तुलादीनि सावष्टंभाभियोगेषु भवति तथा कोशेऽपि सावष्टंभाभियोगे. प्वपीत्येवमर्थ इति। सावष्टंभाभियोगे इति । यत्राभियोक्ताऽहमस्यापराधं जानामीति शीर्षकस्थो २५ भवति स सावष्टंभाभियोगः इत्युच्यते ॥ ९५ ॥ याज्ञवल्कीये ९६ श्लोकः अल्पाभियोगे महाभियोगे शंकावष्टंभयोरिति । अल्पाभियोगे कोशमल्पेऽपि दापयेदि त्यनेन, 'महाभियोगेष्वेतानी' त्यनेन, शंकायां ' तंडुलाश्चैव कोशश्च शंकास्वेव न संशयः' इत्यनेन । सावष्टंभे तु 'तुलाग्न्यापो विषं कोश ' इति तुलादिसहपाठेन ' शीर्षकस्थेऽभियोक्तरी'त्यनेन ३८ चोक्तार्थमिति द्रष्टव्यम् । तुलादीनि विषांतानीत्यादि । अत्रापि महाभियोगेष्वेव । 'महाभि- योगेष्वेतानी' त्यनेनैव सावष्टंभेष्वेव' शीर्षकस्थेऽभियोक्तार' इत्यनेन च नियमो दर्शित इति बोद्धव्यम् । - १ क-संरूपेण. २ 'न मयतादिति' मिताक्षरापुस्तकेषु पाठः ३ क-इयंतेव. ४ कख-अमरः ५ क-पुनरिति. पक-तमारपानमयोगे.७ खन्नवाल्पाभियोगे.

20 सहपाठो अनुपपन्न इत्याशंक्य पूर्वोक्तमेव प्रयोजनं स्मारयति । कोशस्य तु शपथत्वेऽपीति । सुवाविना. महाचौर्याभिशंकायां चेति । अत्र शिरस्थायिना विनाऽपि तंडुलादीनि कुयोदिति पूर्वेण संबंधः राजभिः शंकितानां च निर्दिष्टानां च दस्युभिरिति । अत्र निर्दिष्टानां च दस्युभिरित्युक्त्या शब्दतश्चौयाभिशंका यद्यपि न प्रतीयते तथाऽपि ‘राजमिः शंकितानामि । त्युपक्रमबलात् दस्यू- नामविश्वसनीयत्वेन तनिर्दिष्टेऽप्याशंकैव जायत इति । 'चौर्यशंकाभियुक्तानामिति' यद्यप्यविशेषेणोक्त तथाऽपि तप्तमाषस्य तीक्ष्णत्वेन महादिव्यत्वात् तप्तमाषानुसारेणानिमित्तस्य चौर्यशंकाया महत्त्वं ५ युक्तमिति भावः । एतच्च प्रायश्चित्ताध्याये निपुणतरमुपपादयिष्यते । अभियोगेषु सहोष्विति । सह्येषु सहनयोग्येषु स्वल्पष्विति यावत् । ब्राह्मणपरिव्राजकवदिति । अयमर्थः । ‘ब्राह्मणानामंत्रये त्युक्ते परिव्राजकेऽपि ब्राह्मणत्व- स्याविशिष्टत्वात्तनिमंत्रणेऽपि प्राप्ते पुनः 'परिव्राजकमामंत्रयेति' पृथगैभिधानं यथा परिव्राजकप्राधान्य- प्रतिपादनार्थ तथा तुलादीनां शपथानां च सिद्धेऽपि दिव्यत्वे तुलादिभ्यः शपथानां पृथंगभिधानं १० कालांतरनिर्णयनिमित्तत्वद्योतनार्थमिति । एतदुक्तं भवति । यथा परिव्राजकस्य पृथर्गभिधानं प्रयोजनां। तरानुसारेण तथा शपथानामपि प्रयोजनांतरानुसारेण पृथगभिधानमिति । तच्च प्रयोजनांतरं पूर्वमेवोक्तम् अथवा 'ब्राह्मणपरिव्राजकवदित्यस्यान्योऽर्थः । ब्राह्मणानामंत्रय, परिव्राजकं चामंत्रयेत्युक्ते' ब्राह्म- णामंत्रणनियोगेनैव परिव्राजकेऽप्यामंत्रणनियोगे सिद्धे पुनः परिव्राजकामंत्रणनियोगाद्यथा परिव्राजकाति- रिक्तविषयो ब्राह्मणशब्दः तथा तुलादीनां शपथानां च दिव्यत्वे सिद्धेऽपि दिव्यशब्दशपथशब्दयोः १५ प्रयोगादिव्यशब्दः शपथव्यतिरिक्ततुलादिविषय इति । ननु यदि कालांतरनिर्णयनिमित्तानि शपथास्तहि सद्यो निर्णयनिमित्तेषु तुलादिषु कोशस्य । - . २५ यदुक्तं 'ऋणादिषु सर्वेषु विवादेषु यथासंभवं दिव्यानि प्रयोज्यानीति । तदनुपपन्नं स्थावरेषु पितामहवचनविरोधात् इत्याशंक्य परिहरति । यत्तु पितामहवचनं स्थावरेष्वित्यादिना । २० एवं सति — स्थावरेषु विवादेष्वि ' त्यत्र पितामहवचने स्थावर पदमनर्थकं विवादांतरेष्वपि मानुष- प्रमाणसंभवे दिव्याभावादित्याक्षिपति । ननु विवादांतरेष्वपीति । अर्धांगीकारेण परिहरति । सत्यमित्यादिना। स्थावरपदस्य सार्थकत्वमाह । स्थावरेषु तु विवादेषु प्रत्यार्थिनेति । अयमभिप्रायः। स्थावरेषु मानुषदिव्यप्रमाणयोर्न विकल्प इति विकल्पनिराकरणार्थः स्थावरशब्द इति ॥ १६ ॥ याज्ञवल्कीये ९७ श्लोकः । ननु ग्रीष्मादिकालविधानबलादेवेतरकालनिषेधसिद्धेः पुनर्निषेधोऽनर्थक इत्याशंक्य परिहरति । विधानलब्धस्यापि पुनरिति ॥ ९७ ॥ याज्ञवल्कीये ९८ श्लोकः। नन्वनिर्जलं वा शूद्रस्य यवाः सप्त विषस्य वे 'त्यत्राग्निजलविषाणां शूद्रस्य एव विकल्पोऽस्तु ।'किमि- त्यनुपात्तक्षत्रियवैश्यविषयताश्रियत इत्यत आह ब्राह्मणस्य तुलाविधानात् शूद्रस्य यवा' इति। ननु भवतु ख्यादिगणस्य तदतिरिक्तानां अन्येषां च मिथोऽभियोक्तत्वेऽभियोज्यत्वे वा ज्यादि शिरस्थं विनति युक्ततर-पाठः १ क-सर्वेषु इति मिताक्षरापुस्तकेषु पाठः १४ २ क-पृथग्विधानं. ३ क- ब्राह्मणमामंत्रय. ख-मंत्रणानियोगेन. ५ क-परिव्राजकमात्रेण. ६ क ख-तदुक्तं ७ ख-काल. ८ क-नियोक्तत्वे.

मिताक्षराटीका. [ श्लोकः ९९ १२ - व्यतिरिकानामेवादिव्यं माऽस्तु । 'रुच्या वाऽन्यतर इति विकल्पः । स्त्व्यादीनामेवान्योन्या- भियोगे कथमित्यत आह । परस्पराभियोगे त्विति । ननु च दिव्यकर्तृविकल्पवद्दिव्यविकल्पोऽप्यस्तु इत्याशंक्य भवेन्यायतः अपि तु 'स्त्रीबालवृद्धेत्यादि। योगीश्वरवचनेन तुलाया नियम इत्याह । तत्रापि तुलैवेति । ननु किमयं सावष्टंभाभियोगे- ५ ष्वेव तुलानियम इत्याशक्य नेत्याह । तथा महापातकादीति । अत्र तथा वेति स्यादीनां तुलानियमसाम्याभिप्रायस्तथाशब्दो न सर्वसाम्याभिप्रायेण शंकाभियोगे सर्वथा सावष्टंभाभियोग- साम्याभावात् । ननु किमयं तुलानियमः स्त्रीणां सार्वकालिक इत्याशंक्य नेत्याह । एतच्च वचनमित्यादिना । एतच्च 'स्त्रीबालेत्यादि । योगीश्वरवचनमित्यर्थः । उक्तं प्रमेयमुपसंहरति । तस्मात्साधारणकाल इति । नियमार्थमेवेत्याह । इदमिति। इदमिति 'स्त्रीबालेत्यादि । योगीश्वरवचनम् । पूर्व विधिप्रतिषेधमुखेन 'अग्नेः शिशिरहेमंता' वित्या- दिभिः वचनैः शिशिरादिकालांतराणि दर्शितानि । तत्र प्रयोजनं तु वक्ष्यत इत्युक्तम् । तदिदानी दर्श- यति । कालांतरे तु तत्कालविहितमित्यादिना । उक्तं प्रयोजनमुपसंहरति । सर्वथाऽपि विधिप्रतिषेधाहतुकालानतिक्रमणेति 'मध्यवर्ति जलमपीति , तुलाग्न्यापो विषं कोश १५ इत्यत्र तुलाविषयोर्मध्ये जलस्य स्थितत्वात् मध्यवर्तित्वमित्यर्थः ॥ ९८॥ याज्ञवल्कीये ९९ श्लोकः । अत्र कोशस्य ग्रहणमिति । अत्र 'नासहस्राद्धरेदि ' त्यत्र वचन इत्यर्थः । एतानि चत्वारि दिव्यानीति। तुलाग्न्यापोविषानीति भावः । एतच्च वचनद्वयमिति। 'नासहस्रादिति योगीश्वर- वचनमेकं, अपरं 'तु सहस्रं तु धटमिति' पितामहवचनामिति द्रष्टव्यम् । शेषं सुबोधम् ॥ ९९ ॥ इतिदिव्यमातृका॥ अथ धटाकृतिलिख्यते । इति धटाकृतिः । धटप्रकरण एव षष्टयाहः। 'खाग्निभिर्दिनैः मास' इति । अत्र खशब्देन शून्यमभिधीयते । अग्निशब्देन त्रित्वसंख्या । ततश्चैवरूपोऽङ्कः संपद्यते [३०] । तुला अग्निः सलिलं विषं कोशः तंडुलः तप्तमाषः धर्माधर्माख्यादिव्यं निष्के तु सत्यवचनमित्यादयः। शपथाः देिव्यपराजयनिमित्तदंडविधानं चेत्येवंरूपैस्तत्तन्नामधेयैर्दशभिरवांतर- २५ प्रकरणैर्विशिष्टं दिव्यप्रकरणं सुबोधम् ॥ इति दिव्यप्रकरणं ॥ ॥ इतिश्रीमद्भट्टविश्वेश्वरविरचितायां मिताक्षराव्याख्यायां सुबोधिन्यां दिव्यप्रकरणम् ॥ अथ दायविभागप्रकरणम् ९ । महता प्रणिधानेन दायविभागप्रकरणं व्याचिख्यासुः निबन्धकारः पूर्वोत्तरयोग्रंथसंदर्भयोः पद्यसंबंधेन संगतिं दर्शयति । 'प्रमाणं मानुषं दैवमिति । दायशब्दार्थमाह । तत्र दायशब्देनेति । अयमर्थः । धनस्वामिना पित्रादिना सह यः संबंधो जन्यजनकत्वादिः तस्मात्संबंधरूपात् निमित्तादन्यस्य संबंधप्रतियोगिनः पुत्रादेः स्वं यद्धनं भवति तद्दायशब्देनोच्यत इति । अप्रतिबंधदायस्वरूपमाह । तत्र पुत्राणां पौत्राणां चेति । अयमाभप्रायः । पितृधने पितामहधने च पुत्रपौत्रयोः स्वव्यतिरिक्तजन्यजनकप्राप्तिमंतरेण स्वाम्यं भवतीत्यप्रतिबंधो दाय इति । - श्लोकः ९९। सुबोधिनी. १३ . सप्रतिबंधदायस्वरूपमाह । पितृभ्रात्रादीनामिति । पितरौ भ्रातरश्चादिर्येषां ते तथाविधाः । एवं तत्पुत्रादिष्वप्यूहनीय इति । अत्र तच्छब्देन पुत्रपौत्रयोः पुत्रादयो गृह्यते । अयमभिसंधिः । विद्यमानेषु स्वामिसंबंधिषु यस्य व्यवहितः स्वामसंबंधः तस्य सप्रतिबंधो दायः । अव्यवहितेषु सत्स्विति । दायशब्दार्थमभिधाय विभागशब्दार्थमाह । विभागो नाम द्रव्य समुदायविष- याणामिति । अयमाशयः । अविभक्तद्रव्यसमुदायगोचराणामनेकेषां पुत्रादिस्वाम्यानां तदेकदेशेषु ५ समुदितद्रव्यैकदेशेषु व्यवस्थापनं विशेषेण प्रातिस्विकस्वाम्यस्थापन विभागशब्दवाच्यं इति पूर्व संगतिश्लोके 'दायविभागो योगमूर्तिने' त्यभिधाय दायविभागशब्दस्यार्थो विविच्य दर्शितः । तत्र नारदवचनं प्रमाणयितुमाह । एतदेवाभिप्रेत्योक्तं इति । नारदवचनस्य स्वाभिप्रेतार्थपरत्वं दर्शयति । पैत्रस्येति स्वत्वनिमित्तसंबंधोपलक्षणमित्यादिना । एतदुक्तं भवति । स्वामि- संबंधादेव निमित्तादिति यदुक्तं तदुपलक्षणार्थ नारदवचनस्य पैत्रस्येति पदं । तनयरितिपदमव्यवाह-१० तसंबंधोपलक्षणार्थमिति । संगतिमाभिधाय विभागप्रकरणाथै निष्कृष्य दर्शयति । इदमिह निरूपणीयमित्यादिना। तत्र कस्येति द्रव्यस्य निर्देशः । कथमितीतिकर्तव्यतायाः कैश्चेति कर्तृणां । तत्र कस्येत्यस्यांशस्य मूलश्लोकागारूढत्वात्सकलविभागप्रकरणोपयोगित्वाच्च तमंशं प्रथमतो विचारपथमवतारयति । कस्य विभाग इत्येतदिह चिंत्यत इति । अत्र द्विपर्वा विचारः । तथाहि विभज्यमानं द्रव्यं विषयं तत्र संदेहः किमस्वस्य विभाग उत स्वस्य विभाग इति । तदर्थमर्थातराचिंता विभागः स्वत्वहेतुरुत नेति । यदि विभागः स्वत्वहेतुः ततोऽस्वस्य विभागः तेन च विभागेन स्वत्वं, न ततः प्राक; स्वत्वहेतुभूतविभागाभावात् । अतश्चास्वस्य विभाग इति पक्षोदयः । अथ विभागो न स्वत्वहेतुः अपि तु जन्मैव तदा जन्मनैव स्वत्वात्स्वस्य विभाग इति पक्षोदय इत्येको विचारः । तमेनं विचारं दशर्यति । किं विभागात्स्वत्वं उत २० स्वस्य सतो विभाग इति । अपरो विचारः। स्वत्वविषयं तमुपक्षिपति । तत्र स्वत्वमेव तावनिरूप्यत इति । अत्र तु स्वत्वं विषयः तत्र संशयः। किं शास्त्रैकगोचरं स्वत्वं उत लौकिकप्रमाणांतरगोचरमिति । तमेव दर्शयति । किं शास्त्रकसमधिगम्यमिति । पूर्वपक्षं परिगृह्णाति । तत्रेति । हेतुमाह । गौतमवचना- २५ दिति । तदेव वचनं दर्शयति । स्वामी रिक्थेति। स्वत्वस्य लौकिकप्रमाणांतरगम्यत्वे युक्तिदोषमाह । प्रमाणांतरगम्ये स्वत्वे इति नेदं वचनं । इदं गौतमवचनं नार्थवदित्यर्थः । स्वत्वस्य लौकिकत्वे दोषमाह-अपि चेति । तत्र हेतुः । अपहर्तुरेव स्वत्वादिति । विशेष- माशंकते । अथेति । परिहरति । एवं तहीति । अयमभिप्रायः । यदि लौकिकं स्वत्वं तर्हि अन्यस्य ३. स्वे अन्येनापहृते सति तत्रापह्रियमाणो यदि ब्रूयात् मम स्वमनेनापहृतमिति । ततः शृण्वता सभासदां अस्य व स्वमस्य वा स्वमिति संशयो न स्यात् । यथा लौकिके सुवर्णरजतादिस्वरूपे दृष्टे सुवर्णादिकं भवति वा न वेति न संशयः। तथा स्वत्वेऽपि संशयाभावः स्यात् लौकिकत्वात्स्वत्वस्य । जायते च संशयः। अतोऽपहर्तुः स्वं न भवतीति प्रमितिरुत्पद्यते वा नवेति विकल्प्याद्यं दूषयति । एवं तहीति । अयमाशयः। - - - १घ–यस्थाव्यहित, ग-अव्ययहितः । २ ख-पक्षोदायः। ३ कध-रूपयति, ११ मिताक्षराटीका- [ श्लोकः ९९ । - यद सुवर्णमिदं रजतमित्युत्पन्नायां प्रमितौ सुवर्णादिस्वरूपे संशयो न जायते। तथा प्रकृतेऽ पाति। नापि द्वितीयः । प्रमित्यनुदयादेवापहर्तुः स्वं न भवतीति वक्तुमशक्यत्वादिति । बहिरेव परिहत्य पूर्वपक्षमुपसंहरति । तस्मादिति । सिद्धांतमाह । अत्रोच्यत इति । स्वत्वं लौकिकमित्यत्रानुमानं प्रमाणयति । लौकिकमेव ५ स्वत्वमित्यादिना । अनुमानं तु स्वत्वं लौकिकं लौकिकार्थक्रियासाधनत्वात् । यद्यत् लौकिकार्थ क्रियासाधनं तत्तल्लौकिकं । यथा व्रीह्यादि तथा चेदं स्वत्वं, तस्माल्लौकिकमिति । यद्यल्लौकिकं न भवति तल्लौकिकार्थक्रियासाधनमपि न भवति । यथाऽऽहवनीयादि इति व्यति- रेकव्याप्तिं दर्शयति । आहवनीयादीनां हाति। व्यतिरेकापरिशुद्धमनुमानं न प्रमाणमित्याक्षिपति । नन्वाहवन यादीनामपति । १० भलौकिकस्याप्याहवनीयस्य लौकिकपाकस्फोटादिसाधनत्वाद्यद्यदलौकिकं तत्तत् लौकिककार्य क्रियासाधनमिति या व्यतिरेकव्याप्तिः तस्या व्यभिचारादनुमानं दुष्टमित्यर्थः । समाधत्ते । नैतदित्यादिना । अयमभिसंधिः । आहवनीयादीनां द्वे रूपे । अलौकिकाहवनीयत्वं लौकिकाग्नित्वं च । एवं च लौकिकाग्निरूपेण पाकसाधनत्वं नत्वलौकिकाहवनीयादिरूपेण, तथा सत्यलौकिकाहवनीयादिरूपहीनलौकिकाग्नेः पाकसाधनत्वं न स्यात् । तस्मान्न व्यतिरेकव्याप्ति- १५ व्यभिचार इति । ननु तर्हि प्रकृतेऽपि सुवर्णादिरूपेणैव लौकिकक्रयविक्रयार्थसाधनत्वमस्तु सुवर्णादेवस्तुनः । मा भू- स्वत्वरूपेणेत्याशंक्याह । इह तु सुवर्णादिरूपेत्यादिना । अज्ञातशास्त्रव्यवहाराणां म्लेच्छादी- नामपि स्वत्वव्यवहारो दृश्यते । अतस्तदन्यथाऽनुपपत्तिरपि स्वत्वस्य लौकिकत्वे प्रमाणमित्याह । अपि चेत्यादिना। 'स्वत्वव्यवहारो दृश्यते । इत्यनेन स्वत्वव्यवहारः स्वत्वस्य लौकिकत्वे कल्पक इत्यभिहितः । तत्र कल्पकासत्वाख्यमर्थापत्तिदूषणं निवारयति । क्रयविक्रयादिदर्शनादिति। तथा हि लिप्सासूत्रे तृतीयवर्णक इति । चतुर्थाध्यायप्रथमपादे द्वितीयाधिकरणसूत्रं । 'यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणविभक्तत्वात्। अत्र प्रथमवर्णके क्रत्वर्थपुरुषार्थयो- लक्षणविचारः।, द्वितीयवर्णके गोदोहनादिकं क्रत्वर्थमुत पुरुषार्थमिति । २५ तृतीयवर्णके त्वयं विचारः । 'अनारभ्य श्रूयंते द्रव्यार्जननियमाः । ब्राह्मणः प्रतिग्रहादिना धनमर्जयेत्, राजन्यो जयादिना, वैश्यः कृष्यादिनेति' । तत्र संदेहः। एते नियमाः क्रत्वर्था उत पुरुषार्था इति । पूर्वपक्षस्तु। अनारभ्याधीतत्वेऽपि द्रव्यार्जननियमानां क्रत्वर्थत्वानंगीकारे अधिकारिणः अभावात् । तथाहि द्रव्यार्जनविध्यानर्थक्यापत्तेः कर्तृपार्थक्यापत्तेः कर्तृप्रयुक्तद्रव्यद्वारा क्रत्वर्थत्वमेव युक्तम् । नन्वेष पूर्वपक्ष एव नोदेति । ऋतुसिद्धयभावात् । तथाहि । द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वस्या. ३० लौकिकहेत्वजन्यत्वात् वैदिकहेत्वंतराभावात् । नियतप्रतिग्रहादिहेतूनां च क्रत्वर्थत्वेनान्यार्थत्वादकारणक- कार्योत्पत्त्यभावाच्च स्वत्वमेव नोत्पद्यते । ततःस्त्रत्वस्याभावात्कतोरभावः। यतः स्वेनैव ऋतुसिद्धिनान्येने। मैवं जन्मना प्रतिग्रहादिभिश्चार्जितस्य द्रव्यस्य स्वत्वं लोकसिद्धमिति लोके वृद्धव्यवहारसिद्धत्वात् । ननु नार्जनोत्पन्नः कोऽपि धर्मो मानगम्यः यत् स्वत्वमिति व्यवड़ियते । मैवं । अर्जनार्जकार्य- । १ ख-विक्षा. २५-पृथक्यापतेः. ३ क ख-कर्तृ पृथक्. प्रथक्या ४५-ऋत्वर्थत्व. ५ क ख-नास्वेन ६क- विधिः मर्जक श्लोकः ११४] सुबोधिनी. १५ - । संबंधो यः स स्वामिभावसंबंधो तदेव स्वत्वं तच्च पृथङ्मानं नापेक्षते, यतः क्रियागर्भः कर्तृकर्मणोः संबंधो लोकसिद्धः । न चैवमर्जनक्रियापायेतजन्मस्वरूपसंबंधस्यापायः संबंधिनोराश्रययोरनपायात् । न हि पितुः क्रियापाये' पितृत्वमपैति । तेन लौकिकत्वात्स्वत्वस्य स्वेन च ऋतुसिद्धेः सिद्धमर्जननिय- मानां क्रत्वर्थत्वामेति । सिद्धांतस्तु धनार्जनप्रवृत्ते ह्यधिकारिण्यर्थलभ्ये सति अर्जननियमानां क्रतुनिवेशककल्पना न युक्ता ५ धनकामाधिकारे यथेष्टांचरणात्प्रवृत्तौ न नियते प्रवर्तते । अतो नियमार्थ विधिवाक्यप्रवृत्तौ ' ब्राह्मणः प्रतिग्रहादिना धनमर्जयेदि'त्यादिविधेर्नानर्थक्यम् । किंच। त्वर्थे चार्जने कृत्स्नमेवार्जितं सर्व क्रत्वर्थमिति। जीवनोपायाभावात् सर्वक्रतुलोपः स्यात् । तस्मात्पुरुषार्था नियमाः । नियमातिक्रमे च पुरुषस्य दोषो न ऋतुवैगुण्यं । पूर्वपक्षे तु क्रत्वर्थत्वाग्नियमानां तदतिक्रमे ऋतुवैगुण्यामिति । प्रकृतमनुसरामः । ' स्वत्वं लौकिकमिति न्यायविदो मन्यंत ' इत्युक्तं तदुपपादयति । *तथाहि लिप्सासूत्र इत्यादिना। तत्र द्रव्यार्जननियमाः क्रत्वर्था इत्यमुं पूर्वपक्षमाक्षिपति । व्यार्जननियमानामित्या- दिना पूर्वपक्षासंभवमाशंक्येत्यन्तनं । अयमभिप्राय: । द्रव्यार्जननियमाः क्रत्वर्था उत पुरुषार्था इति लिप्सासूत्रतृतीयवर्णके विचारः । तत्र क्रत्वर्था इति पूर्वपक्षः । स न घटते तथाहि १५ द्रव्यार्जननियमानां ऋत्वर्थत्वे स्वत्वस्यालौकिकत्वेन लौकिकहेत्वजन्यत्वात् वैदिकोपायांतराभावाद- जननियमानां च ऋत्वर्थत्वेनान्यार्थत्वात् स्वत्त्वमेव नौदेति । तथा च स्वस्याभावादस्वेन च ऋत्वासद्धः क्रत्वर्था द्रव्यार्जननियमा इति पूर्वपक्षो न घटत इति । पूर्वपक्षमुपजीवयति । द्रव्यार्जनस्य प्रतिग्रहादिनेति । अयमभिसंधिः । प्रतिग्रहादि- नियमाः स्वत्वं साधयन्त एव ऋतूपयुक्तधनद्वारा क्रत्वर्था भविष्यति । यथाऽवघातो वितुषीभावं २० कुर्वन्नेव ऋतूपैयुक्तव्रीहिद्वारा क्रत्वर्थः । तच्च स्वत्वं वृद्धाः पुत्रत्वादिकमेव लौकिकं मन्यते । अतो न ऋतुसिद्भयभाव इति । ननु भवत्वर्जनं स्वत्वसाधनं अर्जननियमानां ऋत्वर्थत्वादर्जनस्यापि त्वर्थत्वेनान्यार्थत्वात् स्वत्वमेव न भवतीति क्रत्वभावस्तदवस्थ एवेत्याक्षिपति । ननु चेति । अपहरति । प्रलपितमि- दामिति । अर्जनं स्वत्वं नापादयतीति वदता केनापि प्रलपितम् । कुतः । विप्रतिषिद्धमिति । २५ एवं योजना। अयमर्थः । अर्जनं नामार्जकधर्मसंबंधरूपः ; से द्विनिष्ठः । पितापुत्रवत् । तथा चाय॑मंतरेणार्जनस्या निष्पत्तेः 'मे माता वंध्ये। तिवत् अर्जनं स्वत्वं नापादयतीति वचन विरुद्धमिति । विचारप्रयोजनमुक्तमिति । अधिकरणविचारप्रयोजनमित्यर्थः। प्रयोजनस्वरूपं दर्शयति । अतो नियमातिकम इति । पूर्वोक्तप्रयोजनग्रंथार्थो विवृतो गुरुणा । तमर्थमाह । अस्य चार्थ एवं विवृत इत्यादिना। *पुरुषस्यैव नियमातिक्रमे दोष इत्यन्तेन । एष तात्पर्यार्थः। पूर्वपक्षे पुरुषस्य नियमातिक्रमदोषो - ३० १ घ-पापे २ क घ-वर्णात्प्रवृत्तौ ३ ख-अनेन ४ ख-नोदिति ५क ख-पक्ताव्रीहिद्वारा ६ ख-नद्विनिष्ठः ७ क-अर्जकमन्तरण। ख कारण पृ.७४ पं. १.४.७५ पं. २-३, पृ.७४ पं. ७. * पू,७४ पं.१० मिताक्षराटीका. [ श्लोकः ११४ नास्ति । किंतु नियमातिकमार्जितद्रव्येण न ऋतुसिद्धिः । अतः ऋतुवैगुण्यम् ।राद्धांते तु निय. मानां पुरुषार्थत्वात्तदतिक्रमे पुरुषस्य दोषः । न तुवैगुण्यामिति फलितार्थमाह । नियमातिकमार्जितस्यापीति । अन्यथा ऋतुसिद्ध्यभावादिति। अन्यथा नियमातिकमार्जितस्यापि, स्वत्वानंगीकारे नियमानां क्रत्वर्थत्वेन स्वत्वस्याप्यलौकिकत्वा- ५ लौकिकस्वत्वाभावेन जीवनमपि दुर्लभमिति कर्तुरभावात्क्रतारेभाव इत्यर्थः । ननु यदि नियमातिक्रमार्जितेऽपि स्वत्वं तर्हि चौर्यादिप्राप्तस्यापि स्वत्वप्रसंग इत्याशंक्य परिह- रति । न चैतावतेत्यादिना । ज्ञातेषु ज्ञायते स्वामीति । एतेषु निमित्तेष्वित्यनुवर्तते । एतेषु निमित्तेषु ज्ञातेषु स्वामी ज्ञायत इत्यर्थः। उक्तन्यायमन्यत्राप्यतिदिशति । एवमनुलोमजानामित्यादिना । ननु ‘पत्नी दुहितर १० इत्यादिभिर्वचनैः स्वामिन अभावे पत्न्यादीनां स्वामित्वप्रतिपादनात्स्वेत्वस्य लौकिकत्वे एतद्वचनजातं विरुद्धयत इत्याक्षिप्य परिहरति । यद्यपि पत्नी दुहितरश्चेत्यादिना । स्वत्वस्य लौकिकत्वे पूर्वपक्षिणा यदूषणमभिहितं तत्परिहर्तुमनुभाषते । यदपि मम स्व- मिति। एतदुक्तं भवति । स्वत्वस्य लौकिकत्वे मम स्वमनेनापहृतमिति न ब्रूयात् । अपहर्तुरेव स्वत्वात् । यदि ब्रूयात्तर्हि मम स्वमनेनापहृतमिति उक्ते मध्यस्थानां संशयो जायते । स न घटेत सुव- १५ र्णादिस्वरूप इवेति । परिहरति । तदप्यसदित्यादिना । । अयमर्थः। एतादृशस्थले अन्यस्य स्वं तेनापहतमिति ज्ञानमात्रमुत्पद्यते । आवेदकवचनबलात्प्रतीतिर्हि सा न प्रतीतिः । तथा च विप्रतिपत्तेः कारणसंदेहो जायते । तथा हि । मम स्वमनेनापहृतमिति वादिना अभिहिते प्रतिवादिना तद्विपरीते चाभिहिते मध्य- स्थानां सन्देहो जायते । अनेनापहृतमथवा क्रयादिना लब्धमिति । एवं च स्वत्वकारणभूतक्रयादिषु २० संदेहात्कार्यभूतस्वत्वेऽपि सशयो भवतीति। ननु साधु निरूपितं स्वत्वस्य लौकिकत्वं । तथाऽप्ययुक्तमेव विभागप्रकरणे स्वत्वगतलौकिकत्वा- लौकिकत्वयोः अप्रयोजकत्वादित्याशंक्याह । विचारप्रयोजनं त्वित्यादिना जप्येन तपसैव चेत्यन्तेन । यद्हितेने त्येतद्वचनमर्थाद्वयाचक्षाणः पूर्वपक्षसिद्धांतयोविभागप्रकरणोपयोगिनी प्रयोजने दर्शयति । शास्त्रैकसमधिगम्य इत्यादिना ॥ २५ ननूद्देशक्रमेणोद्दिष्टविषयविचारो युक्तः । अथ मतं प्रयोजनांतरानुसारेणापि विचार इति । तर्हि न तत्प्रयोजनांतरं पश्यामः । तथाहि तत् किं हेतुमद्भावः उत सूचीकटाहन्यायेनाल्पता अथान्यः । तत्र न प्रथमः स्वत्वगतलौकिकत्वानपेक्षत्वात् वक्ष्यमाणविचारस्य । न द्वितीयः बहुयुक्तिसाध्य- त्वालौकिकस्य । न चरमः अदर्शनादेव । अतः कृतकरिष्यमाणविचारावनवसरदुःस्थावित्यमुमाक्षेपमाभि- प्रायतः परिहरन् प्रथमोद्दिष्टं विचारं परिगृह्णाति । अयमभिप्रायः । विभागोऽपि लौकिकः तद्गतनियमा एवालौकिकाः । जन्मादिकमपि लौकिकं । एवं च स्वत्वस्य लौकिकत्वे सिद्धे लौकिकविभागादिजन्यत्वं घटते नेतरथा । अतः स्वत्वगतलौकिकत्व- विचारो हेतुः । अयं तु विचारो हेतुमानिति तदानंतर्यमस्य विचारस्योचितमिति अनेनैवाभिप्रायेणेदानीमि- . - । जातपुत्रस्याधानविधानादिति। 'जातपुत्रः कृष्णकेशोऽमनिादधीतेति ' श्रुतिवाक्येनाधान- १ क-अत्राषि. २ ख पादितात्स्वत्वस्य; ३ क स्वत्वस्य प्रतिपादनस्वत्वस्थलौकिकत्वे. कख-पमितिः ५-विपतिणसेदेख-प्रयो. जनकत्वात् ख-प्रकरणोपयोगि प्रयोजनं.

श्लोकः ११४] सुबोधिनी. विधानादित्यर्थः । अस्य वाक्यस्यायमर्थः । जातपुत्रोऽपत्यवान् पुत्रशब्दोऽपत्योपैलक्षणं । रुष्णकेशः पूर्ववयस्कः समर्थ इति यावत् । एवंविधोऽधिकारी आधानं कुर्यादिति । नन्वेतद्वचनं आधानं विधत्ते न तु विभागात्स्वत्वप्रतिपादनपरमित्याशंक्य तत्परत्वमाह । यदि जन्मनैवेत्यादिना। अयमभिप्रायः । जन्मनैव स्वत्वे उत्पन्नमात्रस्यापि द्रव्यस्वाम्यात् । द्रव्यस्य साधारणत्वेन द्रव्यसाध्ये पतिपत्नीमात्रसाध्ये आधानादौ कर्मणि अनधिकारः स्यात् इति । आदि- ५ शब्दादवश्यकर्तव्यश्राद्धायुपसंग्रहः । प्रतिषेधस्य प्राप्तिपूर्वकत्वाज्जन्मनैव स्वत्वपक्षे प्रीतिदत्तस्य विभाग- प्राप्तिरेव नास्ति तत्प्रतिषेधोऽपि नोपपद्यते इत्याह । तथा विभागादिति । नने सति कुडये चित्रकर्म तादृशः प्रतिषेध एव नास्तीत्याशंक्य प्रतिषेधवचनं दर्शयति। *यथाह शौर्यभार्या धने इति । किंच जन्मनैव स्वत्वे जातमात्रस्यापि स्वत्वस्य विद्यमानत्वात् तस्यानु- ज्ञायामपि असामर्थ्यात् द्रव्यस्य सर्वसाधारणत्वेनैकेनादातुमशक्यत्वात्प्रीतिदानस्याप्यभावात्प्रीतिदान- १० प्रतिपादकमपि वचनं विरुध्येतेत्याह । तथा भ; प्रीतेन यद्दत्तमित्यादिना । ननु नास्ति प्रीतिदानवचनविरोधः अपित्वनुकूलमेव तद्वचनम् । तथाहि। 'स्थावराहते यद्भ; त्रिय दत्तं तस्मिन् मृते सा यथाकाममश्नीयादि'त्यन्वयः। तथा च स्थावरेषु प्रीतिदानप्रतिषेधाज्जन्मनैव स्वत्वे सिद्धे तभ्यायेनेतरद्रव्ये ऽपि तथात्वे स्थावरव्यतिरिक्तस्य प्रीतिदानं वचनाद्भविष्यति किं तहि वचनं न कुर्यादित्याशंक्याह । नच स्थावराहते यद्दत्तमिति ॥ अयमत्र परिहाराभिप्रायः। यद्ययमन्वयः स्यात् स्यादेवं; एवंविधान्वयस्य व्यवहितत्वेन ग्रंथानार्ज- वादयमन्वय एव न घटत इति वचनांतरयोरव्यवहिताऽन्वयेनैव स्थावराणां प्रीतिदानप्रतिषेधात् जन्मेव स्वत्वहेतुर्न विभाग इत्याशंक्य परिहरति । यदपि मणिमुक्तापवालानामित्यादिना ॥ अयमभिप्रायः । अर्जनादयमर्जफस्य स्वं भवति । तच्च तत्संबंधिनां पुत्रादीनां विभागात्स्वामिनाशाद्वा संभवति । तत्र स्वामिनि जीवति विभागः स्वत्वहेतुः । विनष्टे तु स्वामिनि स्वामिनाश एव स्वत्वहेतुः। २० तत्राप्ययमपरो अर्धवैशसंः । स्वामिसंबंधिनः पुत्रस्य पौत्रस्य च एकत्वे स्वामिनाश एवासाधारणत्वहेतुः पुत्रादीनां बहुत्वे स्वामिनाशात्साधारणं स्वं भवति । विभागात् प्रातिस्विकम् । एवं स्थिते स्वामिनि पितामहे नष्टे विभागात्प्राक् पितामहधने पितुः प्रातिस्विकस्वत्वाभावादेव पैतामहं स्थावरं न प्रीत्या दद्यादिति स्थावरप्रीतिदाननिषेधो, न स्वोपार्जितस्य यतो जन्मैव स्वत्वहेतुः स्यादिति । न किमेतदपि अर्धवैशसं पैतामहे स्थावरे सर्वसाधारण्यं मणिमुक्तादिषु तु नेत्याशंक्य वचनानियम्यत २५ इत्याह । अतीते पितामह इति । यतः स्वामिनाशोऽपि स्वत्वहेतुः अत एव पितरि मृते विभागात प्रागन्यद्रव्यमिवौदासीन्यविषयं तद्र्व्यं न भवतीत्याह । अत एव पितुरूर्ध्वमिति । पितृपयाणा- दिति । पितृमरणादित्यर्थः । एवं पूर्वपक्षे प्राप्ते सिद्धांतं प्रतिजानीते । अत्रोच्यत इति ।जन्मनैव स्वत्वे गौतमवचनं प्रमा- णयति । तथा चोत्पत्त्यैवेति । जन्मनैवार्थस्वामित्वात्तमर्थ लभते इत्यर्थः । मणिमुक्ताप्रवालादीनामि- ३. त्यादिकमपि सिद्धांतपक्ष एवोपपद्यत इत्याह । मणिमुक्तेति । यदुक्तं पूर्वपक्षिणा अस्य वचनजातस्य अन्यार्थपरत्वं तनेत्याह । नच पितामहेति। अयमभिप्रायः । स्वामिनाशस्यापि स्वत्वहेतुत्वेन अतीते पितामहे तद्धने पितापुत्रयोः साधारणे मणि- मुक्तादिकं वचनात् पितुः स्थावरे तु साधारण्यमेवेत्येतावानर्थो यदि तद्वचनात्प्रतीयते तदा पूर्वोक्त- व्यवस्था स्यात् न च तथा । ततश्चैवं वक्तव्यम् । पितामहे जीवत्यपि स्थावरेषु सर्वसाधारण्यमिति । तथा ३५ १ कध-विधानाद । २ क ख-अपत्यलसण ३ क ख मात्रस्या द्रव्य साम्यान. ४ कध-न विभागादिति ५ धननु ६ कप-प्रतिदान वचनाद्भविष्यति । ७ ख-तेषां स्वामिनाशान् । ८ ख-विभागात् प्रतिस्विकं । क-विभागाधा ९क-ननु कम वैशतं पैतामो घ-ननु किमर्थं वैशसं । १० घ–प्राप्तसिद्धांते. ११ ख-तहते। घ-वसु । ख-अनुवाई नुमात ।* पृ.७५ पं.७ मिताक्षराटीका. [ श्लोकः ११४ चास्य वचनस्य पितामहोपार्जितस्थावरविषयत्वमनुपपन्नमिति । कथमनुपपन्नमित्याशक्य हेतुमाह । न पिता न पितामह इति वचनादिति । यदि पितामहोपार्जितमेव स्थावरादिकं तदा तस्मिन् जीवति स्वोपार्जितप्रभुत्वाभाववचनमनुपपन्नमित्यर्थः । मणिमुक्तादिवचनद्वयस्य जन्मना स्वत्वपरत्वं दर्शयति । पितामहस्य हीति। जन्मनैव स्वत्वे ५ सर्वसाधारणत्वात्स्वस्य प्रीतिदानं कथमित्याशंक्य प्रतिषेधवचनादित्याह । परमत इत्यादिना। अयम- भिप्रायः। स्थावरव्यतिरिक्तं स्वोपार्जितं वस्तु अनुज्ञानुिमतिमंतरेणापि पित्रा प्रीत्या दातुं शक्यत इति। ननु यद्येवं तर्हि स्थावरस्यापि प्रीतिदानप्रतिपादनेन विष्णुवचनेन विरोध इत्याह । यत्तु भर्चा प्रीतेनेत्यादि विष्णुवचनामति । अयमाशयः। स्वोपार्जितेष्वपि स्थावरेषु ह्यनुज्ञातमर्थानुज्ञातमर्थानु- झाईसर्वानुमतिमंतरेण दानानधिकारः । इतरेषु नानुमत्यपेक्षेति विष्णुवचनस्यैवमर्थपरत्वे हेतुमाह । पूर्वोक्तैरिति । यदुक्तं जातपुत्रस्याधानाभाव इति तत्राह । यदप्यर्थसाध्वेष्विति वचनादधिकार इत्यर्थः । स्वार्जिते पित्रा प्राप्ते च स्थावरे पितुः पुत्रादिपारतंत्र्यमेवेत्यभिहितन्यायतः सामान्यवचनादपि तदपो- यते वैशेषिकेन वचनेनेत्याह । अस्यापवादः । एकोप स्थावरे कुर्यादित्यादिना । ननु एकोऽपि स्थावरे कुर्यादि । त्यस्यापवादो दृश्यते विभक्ता वाऽविभक्तावे, १५ त्यनेनेत्याशंक्य नैतद्वचनं सर्वात्मना दानादिष्वेकस्याधिकारं निरुणद्धि अपि तु अविभक्तानुज्ञा- मंतरेण दानार्थसिद्धिसाध्यकत्वाव्यस्य विभक्तानुमतिव्यतिरेकेणापि दानादिकमुपपद्यते। परंतु प्रतिग्रहीत्रा- दीनां व्यवहारसौकर्याय तदनुमतिरित्याह । यत्तु वचनं विभक्तावेत्यादिना । षड्भिर्गच्छति मेदिनी'त्युक्तम् । तत्र षण्णां क्रमेणोपयोगं दर्शयन् प्रथमतो ग्रामजनानुमतेः प्रयोजनं दर्शयति । तत्रापि ग्रामानुमतिरित्यादि । एवं क्रमेणेतरेषामप्युपयोगो ग्रंथ एव द्रष्टव्यः । पूर्व कस्मिन् काले कस्य कथं कैश्च विभागः कर्तव्य इति प्रकरणार्थं संगृह्य कस्येत्ययमंशो महता प्रपंचेन प्रतिपादितः। अधुनेतरानंशान्प्रतिपादयितुं मूलश्लोकानवतारयति। इदानीं यस्मिन् काल इति . याज्ञवल्कीये ११४ श्लोकः सुतानित्यत्र बहुवचनमविवक्षितमित्याह । पुत्रं पुत्रौ पुत्रानिति । 'ज्येष्ठस्य विंश उद्धार' इत्यस्य मनुवचनस्य स्वयमेवार्थे दर्शयिष्यति । 'विभजेरन् सुताः पित्रोरि? त्यत्र 'ज्येष्ठं वा श्रेष्ठभागेनेति । २५ योगीश्वरवचनस्थवाशब्दस्याभिप्रायमाह । वाशब्दो वक्ष्यमाणपक्षापेक्ष इति । 'विभाग चेत्पिता कुर्यादित्यनेन ' जीवत्येव पितार पितुरिच्छया विभाग इति यस्मिन्काले विभाग इत्यस्योपसंग्रहः । पितेत्यनेन येन इत्यस्योपसंग्रहः । ज्येष्ठं वा श्रेष्ठभागनेत्यादिना यथा विभाग इत्यस्योपसंग्रह इति द्रष्टव्यम् । चत्वारः काला विभागस्य पित्रर्जितद्रव्ये । तद्यथा । जीवत्येव पितरि पितुर्यदा विभागेच्छा स तावदेकः, ३० निवृत्तरजस्कायां मातरि स्त्रीसुखानभिलाषिणि द्रव्यनिस्पृहे पितार जीवत्येव पित्रनिछायामपि यदा पुत्रेच्छा सोऽन्यः; पितृप्रयाणानंतरमपर; सरजस्कायामपि मातार अनिच्छत्यपि पितार तस्मिन् वृद्ध ऽधर्मवर्तिनि अचिकित्स्यरोगग्रस्तेऽकामें वा यदि पुत्रेच्छा सोऽप्यन्यतरः । १स दानायसिदिः साधारणत्वात् द्रव्यस्य । २ ख प्रतिग्रहादीनां । ३ तेषापप्युपयोगो। ४ घ--प्रतिपादी। ५ कघ. पक्ष्यमाणस्या पक्षामों। ६-पिण्याक्षित द्रव्ये । ७क-विवृत्त, घ-विवत्त ।

११७ श्लोकः । सुबोधिनी. ५ तत्र तावत् प्रथमं कालमाह । विभागं चेत्पिता कुर्यादिति । यदा पितुरिति । द्वितीयं दर्शयति । अपरो जीवत्येवेति । अत्र पुत्राः समं धनं विभजेयुरित्यनुषज्यत इति । अत्रेति । पूर्वोक्ते 'मातुर्निवृत्ते रजाति ' नारदवचन इत्यर्थः । पथमद्वितीयतृतीयपक्षान् प्रतिलोमक्रमेण दर्शयति । गौतमेनापीति । चतुर्थमाह । तथा सरजस्कायामपीत्यादिना । इतःपरं सार्धश्लोकव्याख्यानं सुगमम् ॥ ११६ ॥ पूर्व पुत्राणां चत्वारः काला विभागस्य दर्शिताः निबंधकर्ता ते योगीश्वरेण द्विधा संगृहीताः 'पितरि जीवतीति । तत्र 'पितरि जीवती'त्यत्र वयः पक्षाः संभवंति । तद्यथा । पित्रिच्छायां, तदनिछायामपि द्विधा, अरजस्कायां मातरि निवृत्तरमणादिके पितरीत्येकः, मातुरनिवृत्ते रजसि पितर्यधर्मवृत्तित्वादिगुणयुक्ते चेत्यपर इति । एतत्सकलं कर्तृनियमः प्रकारनिय- मश्च ‘विभागं चेत्पिता कुर्यादि' त्यत्राभिप्रायतो दर्शिताः । अधुना पितृपयाणोपलक्षितो यः कालः ये च कर्तारः यश्च प्रकारः तत्प्रतिपादकं वचनं अव- १० तारयति । इदानीं विभागस्य कालांतरमिति । याज्ञवल्कीये ११७ श्लोकः । नियमस्वरूपमेव निष्कृष्य दर्शयति । सममेवेति । ननु पितुरुयै च प्रागपि च मन्वादि- पचनर्विषमविभागादिविधानात्समाविषमविभागयोर्विकल्पे न्याय्ये सममेवेति नियमो न घटत इत्याक्षिपति। १५ ननूवमित्यादिना, सममेव विभजेरनिति नियम्यत इत्यंतेन। 'धर्म्यमपि लोकविद्दिष्टं नाच- रेद्यतो अस्वग्य तदिति ' विषमविभागाभावे हेतुरभिहितः । तत्र स्मार्तमुदाहरणं दर्शयति । यथा महोक्षं वेति । श्रोतं उदाहरणं दर्शयति । यथा मैत्रावरुणीमिति । अस्यार्थः । मित्रावरुण दवताकां वशां वंध्यां अनुबंध्यां गामालभेतेति । उक्तस्मातीतोदाहरणोपेतं विषमविभागप्रतिषेधक वचनं दर्शयति । उक्तं चेति । अस्यार्थः । अन्यो नियोगधर्मो । विधिधर्मो विधायकवाक्यविहितो २० महोक्षमहाजालंभनरूपः तथाऽनुबंध्यावशालंभनरूपश्च धर्मो यथा नास्ति तथा विषमविभागोऽपि नास्ति इति । देशविशेषे सुवर्ण कृष्णा गाव इत्यादि । अस्यार्थः । क्वचन देशे सुवर्ण कृष्णाः गावः कृष्णं भौम, भूमौ जातं, माषादिधान्यं । कृष्णं भौमं कृष्णायसं इत्येके । एतज्ज्येष्ठस्य पुत्रस्य, पितू रथः परीभांडं च गृहे। यद्गृहे परीभांडमुपकरणं पीठादिकं भार्याया धृतोऽलंकारः तथा ज्ञातिभ्यः पित्रा- २५ दिभ्यश्च यल्लब्धं धनं तत् ज्येष्ठपुत्रपितृभार्याणां यथाक्रमेणांशो भवति इति स्वयमेव दर्शयति स्मेति स्वयमापस्तंब इत्यर्थः । मनुः पुत्रेभ्यो दायमिति । अस्यार्थः । मनुरविशेषेण । अवशिष्टेऽपि मातृधने पुत्राणामनधिकारो दुहिवादिषु सत्सु अत एव मातृकृतर्णसमे न्यूने सुतरामनधिकारात् मातृकृतर्णसमं न्यूनं च मातृधनं 'विभजेरन् सुताः पित्रोरिश्त्यस्य वचनस्या- विषय इत्याह । अतश्चर्णसममिति । यथा ऋणावशिष्टं मातृधनं दुहिवादिषु सत्सु विभागानहै, ३. तथा दुहिवादिष्वसत्सु तद्धनं ऋणसमं न्यूनमपि विभागानहमित्यर्थः । प्रत्ताप्रत्तेति । प्रत्ता विवाहिता । अप्रत्ता कन्यका ॥ ११७ ॥ १ ख-मैत्रावरुणदेवताकां ।

मिताक्षराटीका. [११९ श्लोक . याज्ञवल्कीये ११८५११९ श्लोकौ । पूर्व नष्टां तु यो भूमि मित्येतच्छंखवचनं पूरयति । क्रमादभ्यागतमिति । अत्र क्रमादित्येतत् शंखवचनस्थमेव पदं अभ्यागतमित्येतदेव शेषपूरकं पदं । मूलवचनस्थः 'पितृद्रव्या- विरोधेने ' त्ययमंशः विभागानर्हत्वेन वचनोपात्ता ये मैत्रादयस्तेषां सर्वेषां शेष इत्याह । अत्र पितृद्ध- ५ व्याविरोधेनेति । उपलक्षणं चैतत् । यद्यत्स्मृत्यंतरेऽप्यविभाज्यमुक्तं तस्य तस्य योगस्यायं शेष इति द्रष्टव्यम् । 'पितृद्रव्याविरोधेनति । अस्यांशस्याविभाज्यत्वेन वचनोपात्तानां मैत्रादीनामेव शेष- त्वाद्यथा पितृद्रव्यविरोधेनोपार्जितानां विभाज्यत्वं, तथा मैत्राद्यनंतर्भूतत्वात्पतिग्रहलब्धस्य पितृद्रव्या- विरोधेनोपार्जितस्यापि तस्य विभागार्हत्वमित्याह । तथा पितृद्रव्याविरोधनोत । यदि १० पितृद्रव्याविरोधेनेत्ययमंशो मैत्रादिशेषो न स्यात् तदाऽयमर्थः संपद्यते । यद्यपितृद्रव्याविरोधे- नोपार्जितं तत्तविभाज्यमिति । तथा चानया वचनव्यक्त्या साधारण्येन तादृशानां मैत्रादीनामप्य- विभाज्यत्वसिद्धेः पुनस्तेषां मैत्रमौदाहिकमित्यविभाज्यत्वाभिधानमनुपपन्नं स्यात् इत्याह । अस्य च सर्वशेषत्वाभाव इति । ननु मैत्रादिकं तु पितृद्रव्यविरोधेनार्जितमप्यविभाज्यमित्येतदर्थ मैत्राद्यारंभ इति विशे- षमाशंकते । अथ पितृद्रव्यविरोधेनेति । शिष्टाचाररूपप्रमाणविरोधानैवमिति परिहरति तथा सतीति। नन्वेतदनुपपन्नं वचनापेक्षया आचारस्य दुर्बलत्वात् । अथ मतं । आचारोऽपि वचनं कल्पयन्नेव प्रमाणं न स्वत एवेति । अस्मिन् मतेऽपि वचनमेवेति । एवमप्याचारपरिकल्पिततया स्मृत्या २० याक्ता स्वार्थः प्रत्येष्यते तावता मैत्रमौदाहिकमित्यादिस्मृत्या तदर्थप्रतीतेः विलंबितत्वाविलंबितत्व- प्रतीतिभ्यामाचार एव दुर्बल इति चेत् । मैवं । अगतिका हीयं गतिः योऽयं बाधः; ने हि दुर्बलं दुर्बलं इत्येवं बाध्यते अपि तु विरोधे । विरोधश्चैकस्मिन् विषये. परस्परविपरीताभिधानेन । तथा सत्यबाधेनोपत्तौ बाधो न न्याय्य, इति न्यायेन ' मैत्रमौदाहिकमि ' त्यस्य वचनस्यास्मदुक्त- रीत्या शिष्टाचाराविरोधेनैव वाक्यार्थप्रमित्युपपत्तेर तरकल्पनया विरोधोऽनुपपन्न इति सूक्तं । समाचारविरोध इति सर्वमनवयं । न केवलं समाचारविरोधः अपि तु मैत्रादिगणपरि- पठितविद्यालब्धधनविषये नारदवचनमपि विरुध्येतेत्याह । विद्यालब्ध इति । नारदवचनस्या- यमर्थः । विद्याध्ययनं कुर्वतो भातुर्योऽन्यो भ्राता तत्कुटुंबं पोषयति स पोषकस्तस्माद्विद्याधनाद्भाग- मध्रुतः सञ्चापि प्राप्नुयादिति । अत्र कुटुंबभरणस्य धनग्रहणे हेतुत्वोपन्यासादौपाधिकी विद्याधनांशप्राप्तिर्न भ्रातृत्वेन स्वाभाविकीति विद्याधनस्य न स्वतो विभागार्हतेत्यविभाज्यत्वमित्ति ३० तात्पर्यार्थः । कात्यायनवचनेन पित्रादिव्यतिरिक्तांनाभ्यवहरणप्राप्तविद्याधनस्यैवाविभाज्यत्वावगमाविधा- लब्धे धने तवचनविरोधोऽपीत्याह । तथा विद्याधनस्येति । कात्यायनवचनस्यैवं तात्प- र्यार्थः । पितृद्रव्याविरोधेन या विद्या प्राप्ता अन्यसकाशात्तया लब्धं धनं तथा प्राप्तं धर्म नान्यत् । स्वाविभाज्यं । एतद्दिपरीतं तु विद्याधनं अविद्याधनमातो विभाज्यमेवेति । २५ । १ कमावस्यासत्वपरख वचनवृत्त्या ३ वचन कल्पनयैव । ४ ख-अस्मन्मत्तेऽपिा५ख सहिा६ख नोपपन्नो। कलव्यतिरिक्तत्वान्नाभ्यवहरणं।९क-अविद्याधनमिव ।

लोकः ११९] सुबोधिनी. । । । पितृद्रव्याविरोधेनत्यस्य मैवादिसर्वशेषत्वाभावे दोषांतरमाह । तथा पितृद्रव्याविरोधेने- त्यस्य मिन्नवाक्यत्वे इति। एतदुक्तं भवति । यदा पितृाविरोधेनेत्यमशः स्वतंत्रो न मैत्रादिशेषः तदा यद्यपितृद्रव्याविरोधेनार्जितं तत्तदविभाज्यमिति सिद्धे निरभिसंधिकदानक्रियासंप्रदानभूतस्यैव प्रतिगृहीतत्वात्प्रतिग्रहलब्धस्य पितृद्रव्याविरोधेनोपार्जितत्वात्तस्याप्यविभाज्यत्वं स्यात् । तथा च वृद्ध- व्यवहारविरोध इति। पितृद्रव्याविरोधेने ' त्यस्य मैत्रादिशेषत्वं मनुना स्पष्टीकृतमित्याह । एतदेव स्पष्टीकृत- मिति । अयमर्थो मनुवचनस्य । पितृद्रव्यमनुपनन् अमेण विद्यया यलब्धं उपार्जयेत् । लभ्यत इति लब्धं धनं । अथवा पितृद्रव्यमनुपनन् अमेण यदुपार्जयेत्। पितृद्रव्यमनुपनता विद्यया यल्लब्धमिति विभक्तिविपरिणामेनान्वयः । तदुभयमपि दायादेभ्यो न दद्योंदिति । एवं च पितृद्रव्यविनाशस्य विद्यादिभिरुपार्जितस्य द्रव्यस्य चोपार्जकद्वारा विशेषणविशेष्यभावप्रतीतेः पितृद्रव्याविरोधेन यद्विद्यालब्धं १० धनं श्रमलब्धं वा तदविभाज्यमिति सिद्धमित्यर्थः । उपलक्षणं चैतत् । मैवादीनामप्येवमेव तद्गण- परिपठितविद्याधनस्य तथात्वात् । ननु पैतामहे पैतृके च धने पुत्रादीनां जन्मनैव स्वत्वं न भ्रार्जिते । अतश्च भ्रातृप्राप्तमैत्रादिधनेषु यद्येनैवाजितं तत्तस्यैवति तादृशधने विभागंप्राप्त्यभावात् मैत्रादिकर्मविभाज्यमिति निषेधोऽनुपपन्न इत्यभिप्रायेणाक्षिपति । ननु पितृद्रव्याविरोधेनेत्यादिना । एकदेशिमतं दूषयितुं तन्मतेन मैवादीनां विभागप्राप्तिं दर्शयति । अत्र कश्चिदिति । विभागप्रापक वचनं दर्शयति । यत्किंचित् पितरि प्रेत इति । अस्य वचनस्य मैत्रादि- विभागप्राप्तिपरत्वं दर्शयति । ज्येष्ठो वा कनिष्ठो वेति । अयमर्थः । 'धनं ज्येष्ठोऽधिगछति' इत्यत्र ज्येष्ठशब्दोऽविवक्षितस्वार्थः । तथा च ज्येष्ठशब्दो मध्यमकनिष्ठयोरप्युपलक्षकः । तथा 'भागो यवीयसामि ' त्यत्र यवीयःशब्दः कनिष्ठवांची ज्यायसामुपलक्षकः । तथा 'पितरि प्रेत' इति पितृमरणोत्तर- कालपरोऽयं शब्दः पितृप्रयाणोत्तरकालं पांचमपि कालं लक्षयति । एवं ज्येष्ठादिशब्दानामुपलक्षकत्वेन २० ज्येष्ठोऽन्यो वा यत्किचिन्मैत्रादिकं धनमधिगच्छति तस्माद्धनात्कनिष्ठानां ज्यष्ठानां वा पितरि स्थिते मृते च . विभागोऽस्ति यदि ते विद्यानुपालिनो विद्वांस इत्येवमर्थपरत्वा यत्किंचित्पितरि प्रेत' इति अस्य वचनस्यानेन मैत्रादीनामपि विभाज्यत्वे प्राप्ते 'पितृद्रव्याविरोधेनेत्यनेन योगीश्वर- वचनेन निषिध्यत इति । मैत्रादिलब्धधनस्य वृद्धव्यवहारसिद्धं अविभाज्यत्वमनुवदति । पितृ- द्रव्याविरोधेनेत्येतद्वचनं न निषेधकम् । यतः प्राप्तिमपेक्षत इत्यभिप्रायेण दूषयति । तदसदि. २५ त्यादिना। भवतु वा निषेधकं । तथापि वचनांतरप्रमाणन प्राप्तिः न त्वदुक्तरीत्येत्याह । अथवा समवेतैस्त्विति। 'यत्किंचित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छेतीत्यस्य वचनस्य युक्तमर्थ दर्शयति । अतो मैत्रादिवचनैरिति । पितुर्मरणात्यागूधै मैत्रादीनां 'पितृद्रव्याविरोधेने त्यादिभिर्योगीश्वर- क्चनैरविभाज्यत्वे प्राप्ते. 'यत्किचित्पितरि प्रेत' इत्यनेन वचनेन पितरि मते ज्येष्ठेनार्जितान्मैत्रा- ३० दिकाद्भागं कनीयांसो यदि विद्वांसः तदा लभंते इत्यपोद्यत इत्यर्थः । १ क-पितृव्यविराधेन । २ ख-निरभिसंधिकादानक्रिया । ३ घ-संपादक-- नियमापदेनिति ६ मात्राजिते । ७ स्व-विभागकास्यभावान् । ८ क-ख-मैत्रादिकमविभाज्यम् ITHवीयोताजीEिRTYMIRRARY. १० क-ध-वचनान्तरण। ११ घ-अभिगच्छति । RECEIVED ON मिताक्षराटीका. ५२ [श्लोकः १२१ । 'वस्त्रं पत्रमलंकारं त्वित्येतन्मनुवचनं व्याचष्टे । धृतानामेव वस्त्राणामित्यादिना। वैषम्यणाविभाज्यत्वे ज्येष्ठस्यति । अत्र वैषम्यमंशं प्रत्यपर्याप्तत्वं न विषमसंख्योपेतत्वं । युक्तं चैतत् । त्रयोऽश्वास्त्रयः पुत्रास्तदा अंशविभागस्य पर्याप्तत्वात् । तद्विभाज्या। अश्वाश्चत्वारः पुत्रास्त्रयः पंच वा अश्वानां विषमसंख्याकानां स्वरूपेणांशविभागस्य कर्तुं अशक्यत्वात् द्रव्यद्वारा ५ विभागस्य निषिद्धत्वाज्ज्येष्ठस्यैव देयत्वविधानात् अंशपर्याप्तानश्वादीन्विभज्य वैषम्येणावशिष्टम- स्वादिकं ज्येष्ठस्यैव दद्यात् इति । आस्मन् प्रकरण एवमेव वैषम्यम् द्रष्टव्यम् । यः स्त्रीभिरलंकारो धृतो भवेत् इति । अत्र स्त्रीभिरित्युपलक्षणम् । तथा च 'यो येन घृत, इति पूर्वतर्नग्रंथे सामान्यनिर्देशो न विरुध्येत । एवं च 'पत्यौ जीवती'त्यत्र पत्याव- धिपतौ पित्रादिक इति यावत् । पित्रवरुद्धस्वौरण्यादीनांम् समानानामप्यविभाज्यत्वे गौतमवचन १० दर्शयति । स्त्रीषु च संयुक्तास्विति । संयुक्तासु उपभुक्तासु अवरुद्धास्विति यावत् । " पितृद्रव्याविरोधेन यदन्यत्स्वयमार्जितमित्यादिना अविभाज्यत्वं वक्तुं आरब्धं योगी- श्वरेण । तच्च विधिप्रतिषेधमुखेनैकत्राभिहितं सुबोधमित्यविभाज्यप्रकर'. एव वक्ष्यमाणं निर्दिश- भुक्तं च स्मारयति । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यत इत्यादिना । 'अविभाज्य- स्वरूपकथनं विधिः । अविभाज्यत्वनिरासो निषेधः । येन चैषामिति । एषां भ्रातृणामि- १५ त्यर्थः ॥ ११८५११९॥ याज्ञवल्कीये १२० श्लोकः । अनेकपितृकाणामिति ॥ अनेकपितृकाणां भिन्नपितृकाणां भ्रातृपुत्राणामिति यावत् । 'प्रमीतपितृकाणामि, त्यपि पाठोऽस्ति । न स्वरूपापेक्षयेति । न पौत्रस्वरूपापेक्षयेत्यर्थः । केषु चित्पुत्रेषु धियमाणेषु इति । ध्रियमाणेषु अवस्थितेषु जीवत्स्विति यावत् । धृङ् अवस्थाने । न न्व नेकपितृकाणां तु पितृतो भागकल्पनेत्यनेनैतावानर्थः संपन्नः । पौत्रस्य पैतामहद्रव्यापा- प्तिः पितृवारा । तत्रापि पितरि अविभक्ते दिष्टंगत एवति । तथा सति यदा पिता जीवति विभ- क्तश्च स्वपितुः, अथवैकपुत्रत्वेन भ्रात्रंतराभावात् स्वपितुः सकाशादविभक्त एव जीवन्नास्ते । तदा प्रथमपक्षे विभक्तत्वादेव पैतामहद्रव्यप्राप्त्यभावः स्वपितुः तस्माद्रियमाणत्वाच्च पौत्रस्य पैतामहधनस्य पात्प्यभावः उद्धारस्य निरुद्धत्वान् । द्वितीयपक्षे यद्यपि स्वपितुर्धनप्राप्तिरस्त्यविभक्तत्वात् तथापि पितुर्विद्यमानत्वादेव पौत्रस्य पैतामहधनप्राप्त्यभावः । अत एव पैतामहे धने पौत्रस्य जीवत्पितृकस्य विभाग एव नास्ति । भवतु वा विभागो जन्मनैव स्वत्वात् । तथाऽपि पितरि दिष्टंगतेऽपि पितृद्वारा २५ वांऽशविधानात् जीवति तस्मिन सुतरॉमिति पितुः प्राधान्यप्रतीतेः पितुरिच्छयैव विभागः ॥ १२० ॥ तत्रापि "द्वावंशौ प्रतिपद्येत विभजनात्मनः पिता' इत्यंशद्वयं पितुः स्यादित्यभिप्रायेणाशं- कते । उत्तरं वचनमवतारयितुं । अधुना विभक्ते पितरीत्यादिना। याज्ञवल्कीये १२१ श्लोकः। अत्र पौत्रस्येत्युपलक्षणं पौत्रयोः पौत्राणामपि । निबंध एकस्य पर्णभारकस्येति ॥ २. एकस्याः पर्णवाटिकाया इयंति पर्णानि । तथा क्रमुकवाटिकाया इयंति क्रमुकाणीति तब्यापारको- विदा विदंति । तथा च निबध्यते पर्णादिगणनयोति निबंधः । पर्णभरकादिरित्यर्थः । भृञ् भरणे वुन प्रत्ययातः। पक-अशापाटन । २-पर्दतमग्रंथो । ३ घ-मिन्नं पितृका भ्रातूपुत्राणामिति यावत । ४ ख-अथचैकत्रत्वेन । २० । । ।

कोकः १२२ ] सुबोधिनी. ५३ । . प्रतिग्रहविजयादिना लब्धमिति । आदिशब्देन वाणिज्यद्विजशुश्रूषादिकं गृह्यते । यत एवं स्वाम्यं पितापुत्रयोः पितामहधने समानं लोके अतोऽ' नेकॅपितृकाणां तु पितृतो भागकल्पने' त्ययमर्थः 'पितरि प्रेते' वचनाानयम्यते । न तु जीवतीत्यभिप्रायेणाह। आतश्च पितृतो भागकल्प- नोति वचनांतरविरोधं परिहरति । विभागं चेत्यादिना । पितामहधने पित्रर्जितधनाद्विशेषांतरं आह । तथा च सरजस्कायामित्यादिना। पतामहे धने पित्रा दीयमाने पौत्रस्य निषेधाधिकारः । पैत्रे तु नेत्यभिहितं । तदेव हेतूपन्यासपुरःसरं ५ विवृणोति । तथाहीत्यादिना । पितामहार्जितं अकामोऽपि इति। पूर्वोकव्यतिरिक्तं पिता- महार्जितमित्यर्थः ।। १२१ ॥ याज्ञवल्कीये १२२ श्लोकः। मातृभागं चासत्यां दुहितरीति । अत्र च शब्दस्त्वर्थे । दुहितृसद्भावे मातृभाग न लभेतेत्यर्थः । असवर्णायां उत्पन्नास्तु स्वांशमेवोति । ब्राह्मणात् क्षत्रियायात्पन्नः पादोनं १० अंशं, वैश्यायां उत्पन्नोऽधर्मशं, शूद्रायां उत्पन्नश्चतुर्थाशं । एवं क्षत्रियात् क्षत्रियायामुत्पन्नोऽशवयं वैश्यायां उत्पन्नोऽधैं शूद्रायामुत्पन्नः पादं । वैश्यायां उत्पन्नोंऽशद्वयं शूद्रायामुत्पन्नः पादं लभते इत्यर्थः। एवमेव वक्ष्यति । चतुस्त्रिध्येकभागाः स्युरि'त्यत्र । मातृकं तु सर्वमेवेति । अत्रापि असत्सु दुहित्रादिषु' इत्येव 'मातुर्दुहितरः शेषमि'त्यस्य मातृधनमात्रशेषत्वात् । सवर्णायां विभागानंतरमुत्पन्नपुत्रस्य पित्रोरूर्वं तद्धनभाक्त्वं इत्यत्र मनुवचनं प्रमाणयति ॥ एतदेवं मनुनोक्तमिति । मनुवचनस्थं पित्र्यमिति पदं एकशेषं कृत्वा व्याचष्टे । पित्रोरिदमिति। नन्वेकशेषे कृतेऽकृते च पित्र्यमित्येव तथा चैकशेषकरणे को हेतुरित्यत आह । २० अनीशः पूर्वज इति । अत्र पित्रोरिति द्विवचननिर्देशादित्यर्थः । अनीशः पूर्वजः पित्रो रित्येतद्वचनं व्याचष्टे । मातापित्रोरिति । संसृष्टास्ते न वेति । तेन पित्रेत्यर्थः । 'दृश्याद्वा तद्विभागः स्यादि' त्यत्र तद्विभागशब्दस्यार्थमाह । तस्य पितरि प्रेत इति। अत्र ग्रंथे विभागोत्तरकालमुत्पन्नस्य तस्येत्यन्वयः । विभागानंतरं प्रातिस्विकांशैः कृष्यादिषु क्रियमाणेषु यो लाभः स आयः । पितृकृतांपाकरणस्वकुटुंबपोषणादिकं क्रियते स व्ययः। २५ आयमंशमध्ये परिगणय्य व्ययं चोद्धृत्य सर्वेभ्योऽशेभ्यो यस्मादंशाद्यावद्यावदुचितं तावत्तावद्गृही- त्वांऽशक्लप्तिः कर्तव्या । पितृमरणेसमय एव गर्ने पतित्वा विभागसमयेऽपि अव्यक्त गर्भे तस्मादेव गर्भादुत्पन्नस्य पुत्रस्येत्याह । एतदुक्तं भवतीत्यादिना। विभक्तमपि तत्पितृधनं अविभक्तमिव यतो गर्भस्थितमप्यपत्यमपत्यत्वादेव पितृधनांशाह अतः पितृधनात्तदुत्थादपि लाभाच्च तदपत्यं भागाईमित्यर्थः । तत्रापि पुत्रत्वे समांशभागित्वं पुत्रीत्वे तु स्वजातिनिबंधनादंशाश्चतुर्थीश- ३० भागित्वमितिवक्ष्यमाणमनुसंधेयम् । अब मूलवचनस्थवाशब्दोऽवधारणे । आयव्ययविशोधितात् दृश्यादेव तद्विभाग इत्यर्थः। । . १ ख अंशत्रयम् । २ अने यज्ञवल्कीये अस्मिन्नेवाध्याये १२५ श्लोकः । ३ पृ. ८२ पं, २३४ ध-निर्देशामित्यर्थः । ५क-ध-पितृमरणसमसमय एव । ६ पृ. ८३. पं.६. ।

मिताक्षराटीका, [श्लोक, १२४ १० - अथ प्रातृणामि त्येतद्वसिष्ठवचनमध्याहृत्य व्याचष्टे । गृहीतगर्भाणामिति ॥ १२२ ॥ विभक्तजः । पित्र्यं मातृकं चेति । विभागानंतरं मातापित्रोः सतोरेव योऽयमुत्पन्नः वादृशो विभक्तजः । पित्रोरूर्वं माता पितृधनं गृह्णातीत्युक्तं 'विभक्तेषु सुतो जात ' इत्यत्रेत्यर्थः । याज्ञवल्काये १२३ श्लोकः। उकन्यायं स्थलांतेरऽप्यतिदिशति। तथा असति विभक्तज इति । अयमर्थः । न केवलं विभक्तजपुत्र सति विभागात् प्राक् वा 'पितृभ्यां यस्य यद्दत्तं तत्तस्यैवेति' नियमः । अपि तु विभक्तज- पुवाभावेऽपि विभक्ताभ्यां पितृभ्यां स्वपुदिभ्यो यत्पीत्या दत्तं तन्मातापितृमरणानंतरं तद्रिक्थं विभजतां मध्ये यस्मै यदत्तं तत्तस्यैव न विभागार्हमिति ॥ १२३॥ याज्ञवल्कीये १२४ श्लोकः। 'भगिन्यश्च निजादंशादि' त्यत्र वचने व्याख्यातूणां विप्रतिपत्तेविद्यमानत्वात्सूक्ष्मत्वाञ्चार्थस्य स्वेनैवोच्यमानोऽर्थो नान्य इत्यभिप्रायेणाह । अस्यार्थ इति । 'असंस्कृतास्तु संस्कार्या । इत्यमुं पांच्यमशं अत्रानुषज्य व्याचष्टे । भगिन्यश्चासंकृता इति । केचन 'निजादंशादिति' पदं एवं व्याचक्षते। तद्यथा। यावंतो भ्रातरस्तावंतः अंशान्विधाय स्वात्स्वा- १५ दंशाच्चतुर्थश्चतुर्थो भागो दातव्यो भगिन्यै । तथा भगिनीद्वित्वे बहुत्वे चैकैकस्यै प्रत्येकं चतुर्थश्चतुर्थो- तावंतः अंशात् दातव्य इति । अपरे तु भ्रातृभिः स्वात्स्वादंशाच्चतुर्थमंशं उद्धृत्य भगिन्यै दातव्यं । यदा द्वे भगिन्यौ बह्वयो वा तदाऽप्युद्धृतमेवैनं भागं ते ताश्च गृह्णीयुर्न पृथगद्धार इति व्याचक्षते । तदुभयमनुपपन्नम्। तथाहि । आये यदैको भ्राता भगिन्यश्च सप्ताष्टास्तदा प्रतिभागीन चतुर्थेऽशे दीयमाने भ्रातु- रकिंचनता स्यात् ॥ अथैका भगिनी बहवो भ्रातरः । तदा भ्रातृभिश्चतुर्थे चतुर्थेऽशे दीयमाने भातुर- २० धिकांशता भगिन्याः स्यात् । तथा पुत्रापेक्षया पुत्र्या न्यूनांशप्रापकवचनविरोधः । द्वितीये तु व्याख्याने भगिन्या एकत्वे. भ्रातृणां च बहुत्वे पूर्वोक्त एव दोषः।भ्रातुरेकत्वे भगिनींनां. च सप्ताष्टत्वे मातृभागस्यैकनिष्ठत्वे तच्चतुर्थभागस्य स्वल्पत्वेन तत्राप्यंशकल्पनायामतितुच्छता स्याचदंशस्थतिः । 'दत्वांऽशं तु तुरीयकमिश्त्यस्याविषयः । भवतुः वा. तथापि तद्वचनविरोधः । अस्मदुच्यमानरीत्या तु प्रत्येकं भमिनीनामपि चतुर्थेऽशे २५ सिद्धे तुरीयकमित्येतत्पदं न विरुध्यते, त्वन्मते तु तदभावाद्विरुध्येतेत्यनेनाभिप्रायेणैकदेशिमतं निसकुर्वन स्वमतमाहे । तत्र निजादशादित्यादिना शेषं ब्राह्मणीपुत्रो विभज्य गृहीत इत्यंतेन । एवं जातिवैषम्ये भ्रातृणां भगिनीनां चेत्यादि । तब जातिवैषस्ये भ्रातृणां भगिनीमां संख्याया साम्ये एवं द्रष्टव्यं । तद्यथा । ब्राह्मणीपुत्रः कन्या च क्षत्रियापुत्रः कन्या च तथा वैश्मायाः शूद्रायाश्च एक्मष्टावपत्यानि, चत्वार्यपत्यानि स्त्रियः चत्वारि पुमांसः । चतुस्त्रिव्येकभागास्युारतवच- ३० नेन ब्राह्मण्यपत्ययोरष्टावंशाः क्षत्रियापत्ययोः षट् वैश्यापत्ययोश्चत्वारः शूद्रापत्ययोः द्वौ एवं विंशति भामान् कृत्वा ब्राह्मणीकन्यकायै स्वजातिविहितादंशचतुष्टयरूपानिजाद्भागाचतुर्थमंशं दद्यात् ॥ क्षत्रियकन्याकायै स्वजातिविहितादंशबयरूपानिजादागाच्चतुर्थमंशं दद्यात् । वैश्याकन्यकायै स्वजाति- -ब-गविभक्तिन । २ क-ध-विभक्ते । ३ विभक्तपुत्राव । ४ क-ध-स्वपित्रादिभ्या । ५ ख-प्रांश । - नवनिया कम्पनीमा लोकः १२५ ] सुबोधिनी. । -- १ १५ विहितादंशद्वयरूपानिजाद्भागाच्चतुर्थमंशं दद्यात् । शूद्राकन्यकायै स्वजातिविहितादेकांशरूपादेव निजाद्भागाच्चतुर्थमंशं दत्वा तत्तद्भागादवशिष्टं द्रव्यमेकीकृत्य ब्राह्मणादिपुत्राः क्रमाञ्चतुनिध्येकभागान गृह्णीयुः। वैषम्ये तु भ्रातूणां भगिनीनां यावत्यो व्यक्त्यो भ्रात्रादीनां तावतोंऽशान चतुस्मिध्येकभागा- दिक्रमेण कल्पयित्वा कन्यकानां स्वस्वजातिविहिताद्भागाच्चतुर्थमंशं दत्वाऽवशिष्टं तत् भागद्रव्यं पुनश्च- तुख्यादिक्रमेण विभज्य गृह्णीयुरित्येवं योजनीयम् । संस्कारमात्रोपयोगि व्यमिति । संस्कारो विवाहः । स्वेभ्योंशेऽभ्यस्त्विति । मनु- वचनं स्वोक्तार्थपरत्वेन व्याचष्टे । अस्यार्थ इत्यादिना। मनुवचनेऽप्येकदेशिव्याख्यानं निराचष्टे । न चात्रात्मीयभागादिति । अत्रापि जातिवैषम्ये भ्रातूणां भगिनीनां च वैषम्ये पूर्वोक्तैव व्यवस्थेत्याह । वैषम्ये संख्या- वैषम्ये चेति । ननु कन्यानां प्रीतिदानमेव, न त्वावश्यकमित्यत आह । 'पतिताः स्युरदित्सव इत्यकरण इति । एवं मनुवचनं व्याख्यायाक्षिपति। अत्रापि चतुर्भागवचनमिति। समाधत्ते।न स्मृतिद्व- येऽपीति । स्मृतिद्वये याज्ञवल्क्यस्मृतौ मनुस्मृतौ चेत्यर्थः । अंशदानविवक्षायां बहु- मातृकायां इति । 'दत्वांऽशं तु तुरीयकमित्यत्र ‘स्वात्स्वादंशाच्चतुर्थभागमि'त्यत्रापि चतुर्थांशदान- विवक्षायामित्यर्थः ।। १२४ ।। याज्ञवल्कीये १२५ श्लोकः । संख्यैकवचनाच्च वीप्सायामिति । अस्य पाणिनीयसूत्रस्यायमर्थः । संख्यावाचिनश्च एकवचनाच्च वीप्सायां द्योत्यायां शस् प्रत्ययो भवतीति। संख्यायां द्वौ द्वौ ददाति द्विशो ददाति । एकवचनोदाहरणत्वेन प्रकृते दर्शयति । अधिकरणकारकादिति । सप्तम्येकवचनादित्यर्थः तत्पुत्राणां पूर्वोक्त एव विभाग इति। तस्य शूद्रस्य पुत्राः शूद्रायामुत्पन्नास्तत्पुत्रास्तेषां पूर्वोक्को २० विभागः। 'विभागं चेत्पिता कुर्यादित्यादिना' 'विभजेरन् सुताः पित्रोरूर्ध्वमित्यादिना' चोक्त इत्यर्थः । किंच अतोऽपि कारणात् क्षत्रियादिसुतानां क्रयादिलब्धभूभागोऽस्त्वित्याह । प्रतिग्रह- ग्रहणादिति । प्रतिग्रहशब्दोपादानसामर्थ्यात् क्रयादिलब्धायां भुवि क्षत्रियादिसुतानामधि भागोऽस्त्येवेत्याह । शूद्रापुत्रस्योत । शूद्यां द्विजातिभिर्जात इति । अब शामिति न शूद्रभार्यायां अपि तु स्वस्त्रियां शूद्रायामित्यर्थः। शूद्रभार्यात्वे तस्यां जातस्य कुंडगोलकयोरन्यतरत्वेन २५ भागानहत्वात् । अतः 'शूद्रामिति' छांदसः । ननु भवतु शूद्रापुत्रस्य विशेषतो भूभागप्रतिषेधः । एतावता क्रयादिमाप्तायां भुवि क्षत्रियादिसुतानां विभागप्राप्तिः कुतस्सेत्यत आह । यदि क्रयादिप्राप्ता भूरिति । शूद्रापुत्रस्यैव शृंगग्राहिकतया निषेधात् क्षत्रियादिसुतानां भागोऽस्तीति गम्यत इत्यर्थः । ननु स्वल्पमेतदुच्यते शूद्रापुत्रस्य भूमेागो नास्तीति यतो वचनांतरेणांशमात्रमेव निषिध्यते ३० तस्येत्याशंक्य परिहरति । यत्पुनर्ब्राह्मणक्षत्रियविशामित्यादिना । जीवता पित्रा शूद्रापु- भाय यत्किंचिद्दत्तं स्यात् तदा शूद्रापुत्रोंऽशभाङ्न भवतीत्यर्थः ॥ १२६ ॥ १ख-चतुबिधेकभागादि दत्वा तत्तद्भागादवशिष्टं द्रव्यमेकीकृत्य ब्राह्मणादि दद्यात् । सदाकन्यकावै स्वजातिविहितादे कांशल्पादेव निजाद्भागाच्चतुर्थशं क्रमेण कल्पयित्वा कन्यकातां स्वस्वजातिविहितादागातुर्थ चतुर्थमंशं दत्वाऽपानीटं । २ पृ.८४ प. १. ३ ख-भागप्रतिषेधः ४ क कुतस्त्येत आहः ।

मिताक्षराटीका. [श्लोक. १२६ । याज्ञवल्कीये १२६॥ उद्धारविभागो निषिद्ध इति । 'ज्येष्ठं वा श्रेष्ठभाग चे'त्युक्त्यांऽशविभागो निषिद्ध इत्यर्थः । केचन 'अन्योन्यापहृतमित्येतद्वचनं विभागार्हसमुदायद्रव्यापहारे कृतेऽपि तेषां दोषो नास्तीत्येतत्परमिति व्याचक्षते तदसदित्याह । एवं च वचनस्यार्थवत्वादिति । अयमभिप्रायः । ५ पूर्वोक्तरीत्या श्रुतसमांशविभागविधानमात्रेणैव वाक्यस्य सार्थकत्वादश्रुतदोषाभावपरत्वं न कल्प्यं; अतः समुदायद्रव्यापहारेऽपि दोषो नास्तीति । नन्वस्तु दोषः, स तु ज्येष्ठस्यैव (न ) कनीयसां मनुना तथोक्तत्वादित्याशंकते। ननु मनुना ज्येष्ठस्यैवेति । विनिकुर्वीत तिरस्कुर्यान वंचयेदिति यावत् । दंडापूपिकनीत्यति । अपूपानां समूह आपूपिकं । 'अचित्त हस्ति थे नोष्ठगिति' ठक् (व्या. सू.४।२।४७)। तथाचामरः । १० (३।२।४०) 'आपूपिकं शाष्कुलिकमेवमाद्यमचेतसामिति । आपूपीकं यस्मिन् दंडे प्रोतं बद्ध वा। स दंडो यदि चौरैरपहृतः तदा आपूपिकमपि सुतरामपहृतमिति गम्यते । तद्वत् प्रकृतेऽपि । स्वतंत्रस्य पितृस्थानीयज्येष्ठस्य यदा समुदायद्रव्यापहारे दोषः श्रूयत इत्याह । तथा चाविशेषेणेत्योदिना। ननु समुदायद्रव्ये स्वस्यापि स्वत्वमस्तीति अपहारदशायामपि स्वद्रव्यमित्येव गृह्यते । अतोऽ- पहर्तुर्दोषो मास्तीत्यभिप्रायेणाशंकते । अथै साधारणं द्रव्यमिति ।यथा स्वस्य स्वत्वं समुदायद्रव्ये १५ तथा भागार्हाणां अन्येषामपि तत्र 'स्वत्वमस्तीत्यपहारदशायामन्यद्रव्यमपि सर्वात्मनाऽपहृतमेव स्यादिति । परस्वं न गृह्णीयादित्यादिनिषेधकशास्त्रानुप्रवेशादस्त्येव दोष इति परिहरति । तदस- दित्यादिना । असुमेवार्थ द्रढयितुं षष्ठंन्यायमुदाहरति ! यथा मौद्ने चरौ विपन्न इत्यादिना। षष्ठतृतीयपादाधिकरणं । 'प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः । अयज्ञिया वै माषाश्चण काः' २० कोद्रवा इति श्रूयते । तत्र संशयः । मौद्नं चक्र निर्वपेदित्यस्ति । तत्र मुद्राभावे प्रतिनिधित्वेन माषा ग्राह्या वा न वति । पूर्वपक्षे तु वह्यिभावे नीवारा इव मुद्ाभावे माषाः प्रतिनिधेयाः । नन्वयज्ञिया वै माषा इति निषेधसंभवान्न प्रतिनिधेया माषा इति चेन । माषादिरूपेण हि तत्र निषेधो न तु मुद्गाद्यवयवादानेनावर्जनीयतया प्राप्तमाषावयवादिरूपेण अतः प्रतिनिधेया इति । राद्धांतस्तु, माषादिजातीयस्य हि सर्वात्मना यज्ञसाधनत्वं निरस्तं · अयज्ञिया वै माषा ' इत्यनेन २५ साधारण्येन श्रुतेः । अतो नांतरीयका अपि माषावयवा वाः तस्मात्पतिनिधित्वेन माषा न बाह्या इति । ग्रंथयोजना त्वेवं । अधिकरणस्थपूर्वपक्षं संगृह्य दर्शयति । यथा मौद्ने चराविति । अयमर्थः । मुन्द्रे चरौ नष्टे मुद्गाभावे मुद्गसदृशतया माषेषु गृह्यमाणेषु (अ) यज्ञिया वै माषावटकाः' इत्येतनिषेधशास्त्रं न प्रविशति, निषेधो नास्ति यतो माषेषु मुद्गावयवाः सन्ति तत्र स्थितमुगावयवबुद्ध्यैव ३० माषा गृह्यते न स्वरूपेणेति सिद्धांतं संगृह्य दर्शयति । मुद्गावयवेषु गृद्यमाणेष्ववर्जनीयतयेति । अयमाशयः। 'अयज्ञिया वै माषा' इत्यनेन सामान्येन माषजातिनिषिध्यते। अतो मुद्गावयवबुद्ध्या गृह्य- माणेष्वपि माषेषु अवर्जनीयतया निषिद्धमाषजातीयावयवा अपि गृह्यते एवेति निषेधशास्त्रप्रवेशोऽस्तीति । - १५.८५५ २६.२ क- अश्रुते ३ प्र.८६६६.४ ख-मसिद्धचविशणपहिनधृति.

ला. १२२ सुबाधना. । । - -- उक्तन्यायं दाष्टातिकेऽप्यभिप्रायतो दर्शयन्नेकदेशिमतनिराकरणमुपसंहरति । तस्माद्वचनत इति ॥ १२६ ॥ याज्ञवल्कीये १२७ श्लोकः। 'अपुत्रेण परक्षेत्र' इत्यस्य 'उभयोरप्यसा ' वित्यस्य च प्रत्युदाहरणं दर्शयितुं तात्पर्यार्थमाह । इत्यस्यार्थ इत्यादिना । इतिशब्द एवंशब्दार्थे वक्ष्यमाणाभिप्रायः । तदिदानी प्रत्युदाहरण- माह । यदा तु नियुक्त इति । उक्तार्थे मनुवचनं प्रमाणयति । यथोक्तं मनुना क्रियाभ्युप- ममादिति । पूर्वोदाहृतं मनुवचनं व्याचष्टे । अत्रोत्पन्नमपत्यमित्यादिना । अत्रोत्पन्नमपत्य- मावयोरिति यदा प्रतिज्ञा नास्ति तदा क्षेत्रिण एव तदपत्यं नोभयोरित्यमुमंशं मनुवचनेन द्रढयति । तथा फलं त्वनभिसंधायेति । क्षेत्रिणां बीजिनां मध्येऽन्यतमेनापि फलमनभिसंधाय तथा तथोत्पन्नेन परक्षेत्रे यदपत्यं उत्पाद्यत इति पूर्वोक्तमनुषज्यते । सोऽपत्यरूपोऽर्थः क्षेत्रिणामेव । अबो- १० दाहरणांतराविवक्षया बहुवचनम् । बीजिनां क्षेत्रिणामिति । तत्र हेतुः । बीजाद्योनिबली- यसीति । प्रत्यक्षं प्रत्यक्षेण दृश्यत इत्यर्थः । एवं श्लोकयोजना । विशेषार्थस्तु निबंध एव स्पष्टः । इतरस्य नियोगस्येति । विवाहिताविषयनियोगस्येत्यर्थः। ननु 'देवरादा सपिंडादा स्त्रिया सम्यङ् नियुक्तये' त्यादिकेन मनुवचनेन विधवानियोगस्य विहितत्वात् 'नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिरि' त्यादिकेन च तन्नियोगस्य निषिद्धत्वाच्च षोडशिग्रहणाग्रहण- १५ वन्नियोगविषयविधिनिषेधयोर्विकल्पोऽस्तीत्याशंक्य परिहरति । न च विहितप्रतिषिद्धत्वादिति । समयोर्हि विकल्पः । अत्रा 'न्यस्मिन् हि नियुंजाना धर्म हन्युः सनातनमिति' नियोक्तृनिंदाश्रवणा- निषेधे च तदभावान्न समता विधिनिषेधयोः, अतो न विकल्पः । षोडशिग्रहणाग्रहणयोस्तूभयत्र निंदाश्रवणात्समत्वेन ग्रहणाग्रहणयोर्विकल्पः इत्यभिप्राये- पाह । नियोक्तृणां निंदाश्रवणादिति । ननु ' तामनेन विधानेन निजो विदेत देवर ' इति विवाहस्य विहितत्वेन सा भार्या स देवर एव पतिरिति दांपत्यसमुत्पत्तेस्तदुत्पन्नः पुत्रः तयोरौरस एव स्यादित्याशंक्याह । अयं च विवाहो वाचनिक इत्यादिना । अयमभिसंधिः । नियुक्ताभिगमने यथा घृताभ्यंगादिकमंगत्वेन विधीयते तथाऽयं विवाहोऽपि नियुक्ताभिगमनेंऽगं न स्वतंत्रतयों प्रधानकर्म येन दांपत्यप्रसंगः । अत एव नोभयो- रौरसः पुत्रः अपि तु क्षेत्रज एव क्षेत्रस्वामिन 'अत्रोत्पन्नमपत्यमाक्योरिति प्रतिज्ञाया अभावे । सत्यां तु २५ प्रतिज्ञायामुभयोरपि पुत्र इति ॥ १२७ ॥ याज्ञवल्कीये १२८-१३२ श्लोकाः। अत एवौरससम इति । यत औरस्याः पुत्रिकायाः सुतः पुत्रिकासुतः अत एवौरससमत्वं न साक्षादौरसत्वं व्यवहितत्वादित्यर्थः । ननु 'पुत्रिकैव सुतः पुत्रिकासुत' इत्यस्मिन् व्याख्यानेनौरससमः पुत्रिकासुत इत्येतद्विरुध्यते ३० व्यवहितत्वाभावात्तस्या इत्याशंक्याह । सोऽप्यौरससम इत्यादिना । अयमभिसंधिः । पित्रवय- २० -- १६.८७ पं. १९, २७-स्वातंत्रया.३ख-तत्समः पत्रिकासुतः।

मिताक्षराटीका. [श्लोकः १३२ ५८ वानां दुहितरि विरलत्वावयवबाहुल्याभावेन व्यवहितत्वमिति । 'तृतीयः पुत्रिकैवेति । (१७-१५) वसिष्ठेन तृतीयत्वेन पुत्रिका गणिता न याज्ञवल्क्येन । ननु यामुष्यायणो बीजिनः किमौरस उत तत्समादिष्वन्यतम इत्याशंक्याह । ढ्यामुष्यायणा- स्त्विति । औरसाविशिष्टः । औरससम इत्यर्थः । क्षेत्रजः क्षेत्रजातस्त्वि' त्यादि मूलवचनांशं ५ व्याख्यातुमुपादत्ते । क्षेत्रजः क्षेत्रजातस्त्विति ॥ १२८ ॥ तथा पितृगृह एव संस्थितेति । विवाहात्याक् पुत्र उत्पन्ने तथा विवाहितैव पितृवेश्मान यदि स्थिता सा कन्या तस्याः पुत्रो मातामहस्येत्यर्थः । अनूंढा चेत्कन्या तदा कानींनो मातामह- सुतः ऊडा चेद्दोडुरित्युक्तम् । तत्रोभयत्र मनुवचनं प्रमाणयति । यथाह मनुः। पितृवेश्मनीति। अस्यार्थः । पितृवेश्मनि कन्या रहो व्यभिचारेण यं पुत्रं जनयत्तं कन्यासमुद्भवं नाम्ना कानीनं वदेत् १० स वोर्डर्भवतीति । अब वोडरित्युपादानाद्विवाहिता चेत्तदा वोढुर्नो चेन्मातामहस्योत गम्यते ॥ १२९॥ सदृशं प्रीतिसंयुक्तमिति । सदृशं सवर्णमित्यर्थः । दातुरयं प्रतिषेध इति-न प्रतिग्रही- तुरित्यर्थः । पूर्वोक्तं पुत्रीकरणप्रकारं क्रीतकृत्रिमादिष्वप्यतिदिशति । एवं क्रीतस्वयं- दत्तेति ॥ १३०॥ ननु यदुक्तं — सवर्ण इत्येवेति ' । तद्नुपपन्नं मनुवचनविरोधादित्याशंक्य परिहरति । यत्तु १५ मनुनोक्तं क्रीणीयादित्यादिना । तत्र हेतुमाह ' स्वजातीयेष्वयं प्रोक्त ' इत्युपसंहारा- दिति । योगीश्वरेणेति शेषः । योगीश्वरवचनविरोध इत्यर्थः ॥ १३१ ॥ औरसपौत्रिकेयसमवाय इति । औरसपुत्रस्य पुत्रिकायाश्च सद्भाव इत्यर्थः । “ सम- स्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रिया ' इतीति । अस्यार्थः। पुत्रिकायां कृतायां यद्यौरस उत्पन्नः तदा स्त्रियाः पुत्रिकायाः ज्येष्ठता नास्ति । 'ज्येष्ठस्य विश उद्धारः सर्वद्रव्याच २० यद्वरमि ' त्यभिहितोद्धारादिकं नास्ति अपि तु सम एव विभाग इति सम एवेत्युक्तत्वादौरसस्य सकल- धनग्रहणं नास्ति । अतः ‘पूर्वाभावे परः पर' इत्यस्यापवाद इत्यर्थः । यथौरसे सति पुत्रिकाया अंशभाक्त्वं तथाऽन्येषामपि पुत्राणां अंशभाक्त्वं अस्तीत्याह । तथा अन्येषामपीत्यादिना । औरसे सति क्षेत्रजादीनामप्यंशभाक्त्वे कात्यायनवचनमाप प्रमाणयति । तथा च का- त्यायन इत्यादिना । क्षेत्रजदत्तकादय इति । आदिशब्दात्क्रीतकृत्रिमस्वयंदत्तापविद्धा २५ गृह्यते । असवर्णाः कानीनेति । असवर्णा अप्रशस्ता इत्यर्थः । दत्तकादीनामौरसप्रतिकूलत्वे निर्गुणत्वे च चतुर्थांशभाक्त्वं नास्ति । किंतु ग्रासमा दातव्यमि- त्युक्तम् । अधुना क्षेत्रजस्यौरसप्रतिकूलत्वे निर्गुणत्वे च विशेषोऽस्तीत्याह । तंत्र क्षेत्रजस्यति । प्रतिकूलत्वनिर्गुणत्वसमुच्चये इति । उभयसद्भाव इत्यर्थः । ‘दायादा बांधवाश्च षडिति' षडदायाबांधवा इति । च द्वयोर्वचनयोः स्वसपिंडसमानोदकानां संनिहितरिक्थहरांतराभावे पूर्वेण ३० रिक्थहरत्वमुत्तरेषां तु तन्नास्तीत्ययमों दर्शितः। । । १ औरसापकृष्ट इति मिताक्षरापाठः।२'तथाविवाहित' इति संश्लिष्टपदं लिखितपुस्तकेषु दृश्यते । ३ अरुढा। ४ एतत्वपुस्तके न दृश्यते । ५ औरसपौत्रिकसमवाय । ६ पृ.८६ पं. १८॥ ७ दत्तकक्षेत्रजादय इति मिताक्षरापाठः। ८ विशेषो नास्तीत्याह। ९ पृ. ८९ पं. ३० ।

श्लोकः १३२] सुबोधिनी. तत्र हेतुमाह । गोत्ररिक्थे जनयितुरित्यादिना । अस्यार्थः । दत्तकः पुत्रो जन- यितुनिषेत्तुर्जनकस्य गोत्रं धनं च न कदाचित् प्राप्नुयात् । अपि तु यस्मै दत्तस्तस्य गोत्रं धनं च स दत्तकः प्रामोति । तथा पिंडः पिंडदानमपि गोत्ररिक्थानुगः यत्संबंधिनी गोत्ररिक्थे भवतः, तस्मा एव पिंडो देयः यस्मात्कारणात्स्वधा स्वधासाधनकं पिंडं श्राद्धादिकं ददतो दातुः सकाशाद्यपति निवर्तते । एतच्च दातुः पुत्रांतरादिसद्भावे वेदितव्यम् । अभावे त्वसावेव पिंडदो रिक्थहरश्चेति । एतदुर्फ भवति । अत्र दत्रिमग्रहणं प्रतिनिधिपुत्रोपलक्षणार्थम् । तथा च दत्रिमादिपुत्राणामनेन वचनेन रिक्थ- हरत्वप्रतीतेः पूर्वपक्षोक्तरीत्या च रिक्थहरत्वाभावप्रतीतेः परस्परविरोधादप्रामाण्यं प्रसज्येत । ततो वचनानर्थक्यभयादस्मदुक्तैव व्याख्या श्रेयसी । ननु षद्वयमध्ये पूर्वषट्स्यैव स्वसपिंडादिरिक्थहरत्वमस्तु, मा भूदुत्वरषट्रस्य, पितृधने १० तु कथमित्यत आह। पितृधनहारित्वं त्विति। तत्र हेतुमाह।न भ्रातर इति। ननु पुत्रा रिक्य- हरा ' इति पुत्राणां पितृधनभाक्त्वं प्रतीयते । ते पुत्रा औरसा एव न तव्यतिरिक्ता इत्यत आह। औरस- स्यैक एवौरस इति । वचनद्वयस्याप्येकार्थत्वे पौनरुक्त्यमित्यर्थः । दायादशब्दस्वरूपपर्यालोच- नयाऽपि दायादा बांधवाश्च षट् । 'षडदायादबांधवा ' इत्यत्र पितृधनपरत्वं नास्तीत्याह । दायादशब्दस्येति । ननु याज्ञवल्क्येन · औरसो धर्मपत्नीज , इत्यादिना द्वादश- १५ विधपुत्राः प्रदर्शिताः । पूर्वाभावे परः पर ' इति रिक्थग्रहणक्रमोऽपि दर्शितो वाक्यशेष स्मृत्यंतरे- ध्वन्यथा दर्शितः । तथा हि आपस्तंबधर्मवृत्तौ स्मृत्यंतरसंग्रहः । ' औरसः पुत्रिका बीजक्षेत्रजौ पुत्रिकासुतः । पौनर्भवश्च कानीनः सहोटो गूढसंभवः ।। दत्तः क्रीतः स्वयंदत्तः कृत्रिमश्चापविद्धकः। यत्र क्व चोत्पादितश्च स्वपुत्रा दश पंच चेति ॥ अत्र संख्याव्यत्ययः क्रमव्यत्ययश्च । अब संख्याव्यत्ययः सुपरिहरः। पुत्रिकापुत्रिकासुतौ द्वाक्प्येका कोटिः। २० तथा 'बीजक्षेत्रजौ यत्र क चोत्पादितोऽप्येष्वेवान्यतम ' इति पुत्रिकात्रयाणामंतर्भाव द्वादशैवेति । तथापि क्रमव्यत्ययस्तदवस्थ एव । मानवे तु, (अ. ९ श्लो. १६६-१७८) ‘औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । दशापरे तु क्रमशो गोत्ररिक्थांशभागिन ' इति। पुत्रिकामप्यौरससमत्वेनौरस एवांतर्भावयित्वा इतरे दश पुत्रा दर्शिताः ॥ । २५ " स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादितश्च यः । तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥ यस्त्वप्रजप्रेमीतस्य क्लीबस्य पतितस्य च । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः। सदृशं तु प्रकुर्वाणं गुणदोषविचक्षणम् । पुत्र पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ।। १ ख-दातुः सकाशाद्या वैति। २ क-प्रमाण्यं । ३ पृ. ९० पं. ९१४ उत्पादयोद्धि यम् । ५ यस्तल्पजः प्रमीतस्य । ६ प्रकुर्याद्य ।

मिताक्षराटीका. [ श्लोकः १३२ कस्य उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः। स गृहे गूढमृत्पन्नो यस्य स्यात्तस्य तल्पजः॥" न च ज्ञायेत कस्य स इति । हीनाधिकपुरुषजत्वमंतरेण सवर्णजत्वनिश्चये पुरुषस्यति पुरुषविशेषो न च ज्ञायते इत्यर्थः । यस्य स्यात्तस्य तल्पज इति । तल्पजः स्यात्तस्य तल्पज इत्यर्थः । तल्पशब्देन दारा लक्ष्यते । यथा गुरुतल्पग इति । 'तल्यं शय्यादृदारेष्वि 'त्यमरः (३-३-१३०) यस्य मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती। वोदुः स गर्भो भवति सहोढज इहोच्यते । क्रीणीयाद्यस्त्वपत्यार्थ मातापित्रोर्यमंतिकात् । स क्रीतस्तु सुतस्तस्य सदृशोऽसदृशोऽपि वा। १० गुणैः सदृशोऽसदृशश्चेत्यर्थः ॥ या पत्या वा परित्यक्ता विधवा चेच्छयोऽऽत्मनः । उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते । पुनर्भूत्वा पुनर्गृहिणीभूत्वेत्यर्थः । " मातापितृविहीनो यस्त्यक्तो वा स्यादकारणे । आत्मानं स्पर्शयेद्यस्तु स्वयं दत्तस्तु सस्मृतः।" अकारणे पातित्यादिकारणाभावे। स्पर्शयेद्दद्यादित्यर्थः। विश्राणनं वितरणं स्पर्शनं प्रतिपादन- २५ मि त्यमरः । (२-७-२९)। . - यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् । स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः स पारयन्नेव शव इति । स पुत्रः पितॄन् श्राद्धादिभिः पारयन् प्रीणयन्नपि इतरपुत्रवदप्रशस्तत्वात् शववच्छव इति पारयन शवः पारशव इत्यर्थः । अस्य शूद्रापुत्रस्य विवाहिताजन्यत्वेनानुलोमजात्वादौरसत्वं अविशिष्टम् । तथाप्येषु सत्सु तस्य २० सकलधनहरत्वाभावादस्मिन् प्रकरणे अंते परिगणनम् । वासिष्ठे (अ. १७ सू. १५) तु 'तृतीयः पुत्रः पुत्रिकैवेति ' क्रमव्यत्ययः । एवं स्मृत्यंतरेष्वपि द्रष्टव्यम् । ग्रंथगौरवभयान लिख्यते । - अतः कथं ' पूर्वाभावे परःपर ' इत्युक्तिरित्याशंक्याह । वासिष्ठादिषु वर्गद्वयेऽपीति । अयमत्र परिहाराभिप्रायः ॥ मनुना तु ( अ. ९ श्लो० १५९-१६० ) “ औरस:- क्षेत्रजश्चैव दत्तः कृत्रिम एव च ॥ गूढोत्पन्नोऽविद्धश्च दायादा बांधवाश्च षट् ॥ कानीनश्च सहोढश्च २५ क्रीतः पौनर्भवस्तथा। स्वयं दत्तश्च शौद्रश्च षडदायाबांधवा" इति स्वसपिंडसमानोदकानां संनिहितरिक्थ- हरांतराभावे प्रथमषट्कस्य तद्रिक्थहरत्वं द्वितीयषट्कस्य तदभावं च प्रतिपाद्य तत्प्रसंगादेव पश्चादौरसादि-- पुवस्वरूपप्रतिपादनात् । उपक्रमानुसारेण तत्वतः ‘एष एव क्रम ' इति ज्ञायते । अत एव तत्र क्रमशः १वा स्खयेच्छया । २ अकारणात् । ३ यस्मै ।

लोकः १३६] सुबोधिनी. । -- । । इत्युक्तिरपि सर्वात्मनाऽमुमेव क्रमं न नियच्छति । अपि तु कस्मिंश्चिद्विशेषे इत्येव । स च विशेषो गुण- वदगुणवद्रूप एवेति । एवं स्मृत्यंतरपाठस्यापि गतिरिति । युक्तियुक्तं चैतत् याज्ञवल्क्योक्तम् । तथा हि औरसपौत्रिकेययोस्त्वौरसत्वात्समत्वादेव, क्षेत्रजगूढजकानीनपौनर्भवानां तु सबीजस्वक्षेत्रोत्पन्नत्वादेव दत्ताद्यपेक्षया प्राबल्यम् । सहोढजस्य स्वकीयत्वेन परिगृहीतक्षेत्रोत्पनत्वेऽप्युत्तरे षढे पाठो वाचनिक एवेति सर्वमनवद्यम् । एतच्च सर्वं युगांतरविषयम् । कलौ त्वौरसदत्तकावेव औरससमत्वात्पुत्रिका ‘च दत्तौरसेतराणां तु पुत्रत्वेन परिग्रह ' इति स्मरणात् । अत्र वाक्यशेषे 'कलौ युगे त्विमान्धर्मान् वानाह मनी- षिण ' इति वाक्यशेषः । शिष्टाचारोऽपि तथैव दृश्यते कलौ ननु मा भूदितरवचनविरोधः । गौतमेन त्वौरससमस्य पौत्रिकेयस्य दशमत्वेन पाठात्तद्वाक्य- विरोध इत्याशंक्य परिहरति । गौतमीये विति । विजातीयविषय इति । ब्राह्मणादेः क्षत्रि- १० यादिस्त्रीषूत्पन्नपौत्रिकेयविषय इत्यर्थः । ननु ' भ्रातृणामेकजातानामि'त्यनेन भ्रातृपुत्रेणेवेतरभ्रातृणामपि पुत्रवत्त्वप्रतिपादनात् द्वादश- भ्योऽधिकोऽन्यः स पुत्र इति द्वादशत्वकथनं पुढेष्वनुपपन्नमित्यत आह । यत्तु भ्रातृणामेक- जातानामित्यादिना । तत्र हेतुमाह । तत्सुता गोत्रजा बंधुरिति । 'पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ॥ तत्सुता गोत्रजा बंधुः शिष्यः सब्रह्मचारिणः' । इत्यत्र भ्रात्रनंतरं भ्रातृपुत्रस्य १५ रिक्थभाक्त्वप्रतिपादकयाज्ञवल्क्यवचनविरोधः । भ्रातृपुत्रणेतरभ्रातॄणां पुत्रित्वेन पुनरस्य पुत्रत्वेन सर्वेभ्यः पित्रादिभ्यः पूर्वमेव रिक्थभाक्त्वादित्यर्थः ॥ १३२॥ याज्ञवल्कीये १३३३१३४ श्लोको। कानीनादिषु सजातीयत्वं दर्शयति। तत्र कानीनेति। तेषां वर्णजातिलक्षणाभावस्यो- क्तत्वादिति । कुंडगोलकयोरन्यतरत्वेन वर्णाद्यभाव आचाराध्यायेऽभिहित इत्यर्थः । मूर्धावसिक्तादीनां दायहरणे क्रममाह । तथाऽनुलोमजादीनामिति । नाधिकं दशमा- दद्याच्छूद्रापुत्राय धर्मत इतीति । नन्वेतदुपपन्नं 'चतुस्त्रिोकभागाः स्युर्वर्णश' इति शूद्रापुत्र- स्यैकांशहरत्वाभिधानादत्र च दशांशहरत्वाभिधानात् । मैवं । ब्राह्मणीपुत्रस्य चत्वारोंऽशाः क्षत्रि- यापुत्रस्य त्रय इति सप्त, वैश्यापुत्रस्य द्वाविति नव, शूद्रापुत्रस्यैक इति मिलित्वा दश । एवं च 'चतुस्त्रि- ब्येक ' इत्यत्रापि दशमांशहारित्वस्योक्तत्वान्न विरोध इति सर्वमनवद्यम् ॥ ये परिणीताः संतीति । विवाहितायाः पुत्रा इत्यर्थः । स्वभागाद दद्युरिति । स्वांशापेक्षया अर्धे समुदितद्रव्याद्दद्यादित्यर्थः ॥ १३३३१३४ ॥ याज्ञवल्कीये १३५।१३६ श्लोकौ । उक्तप्रमेयस्य कठिनत्वावक्ष्यमाणप्रमयस्य कठिनतमत्वाच्च श्रोतृसावधानार्थ पद्यबंधेन संगतिं दर्शयति निबंधकारः । मुख्यगौणसुता इति । तेषामभावे सर्वेषामिति। ३० सर्वेषां ब्राह्मणांदिवर्णानां तथा मूर्द्धावसिक्ताद्यनुलोमजातीनां सूतादिपतिलोमजानां चेत्यर्थः । २० ~ २५ । तत्र १ स्व-श्रोतृसाधनात् ।

मिताक्षरांटीका. [ श्लोकः १३६ ६२ 'सर्ववर्णेष्वयं विधिरि त्यत्र सर्वशब्दोन वर्णविशेषणं अपि तु स्वतंत्र एव । तथा सर्वे च वर्णाश्च तेषां समाहारे समासांतर्गतश्च शब्द इत्याह । सर्वेषु मूर्धावसिक्तादिष्विति। पत्यु! यज्ञसंयोगे इति । स्मरणादिति ।अस्य पाणिनिसूत्रस्यायमर्थः । पतिशब्दस्य नकारादेशो भवति। यज्ञसंयोगे गम्यमाने यज्ञसाधनत्वात्तत्फलोपभोक्रीत्वाच्चेति । एतदुक्तं भवति । विवाहसंस्कृता नारी यज्ञसाधनं ५ नान्येति । विवाहसंस्कृतैव पत्नीत्युच्यत इति । यद्यपि ज्येष्ठायामनिषिद्धायां सत्यां कनीयसीनां यज्ञे नाधिकारः । तथापि तदभावे सद्भावेऽपि वा दीर्घरोगग्रस्तायां तस्यां पतितायां वाऽन्यासां क्रम- णाधिकारोऽस्तीति यज्ञसाधनत्वयोग्यताऽस्तीति ' यज्ञसंयोग । इत्यत्र यज्ञसाधनत्वयोग्यता विवक्षितेत्यर्थः । अथवा यज्ञशब्देन विवाह एव कथ्यते । तत्रापि देवतोद्देशेन द्रव्यस्य दीयमानत्वात् तद्रूपत्वाच्च यागस्य । एवमपि विवाहितैव पत्नी नान्या तदा स्त्रियमंतरेण विवाहस्यैवाभावात् यज्ञसाधनत्व- १० मिति द्रष्टव्यम् । यथांशं विभज्यधनं गृहंतीति। यथांशम् 'चतुस्त्रिद्व्येकभागाः स्यु' रित्यनेन क्रमेण ब्राह्मणी क्षत्रिया वैश्या शूद्रा च गृह्णीयुरित्यर्थः । अपुत्रस्यार्थे कुलजा पत्नीति । नात्र कुलजेति स्वसवर्णाज्जाता अपि तु सत्कुलप्रसूता सवर्णादानुलोम्येन च जाता गृह्यते । अव्यभिचा- रिण्यः साध्व्य इति यावत् । आछिंधुरितरास्विति । इतरासु व्यभिचारिणीस्त्रीषु विषये भरणं पोषणं अप्याछिंद्युरपाकुर्युनं दद्युरिति यावत् । एतच्चापोषणं अत्यंतपरिदुष्टासु । एवं परस्परविरुद्धानां २५ वचनानां धारेश्वरेण कृतां व्यवस्थां दर्शयति । पत्नीगृह्णीयादित्येतद्वचनजातमिति । एतद्दचनजातं याज्ञवल्क्यवृद्धमनुबृहविष्णुकात्यायनबृहस्पतिवचनसमूह इत्यर्थः । नि- योगार्थिन्या एव पत्न्या धनग्रहणमित्येतत्कुतो हेतोरित्याशक्य तामेव व्यवस्थां प्रतिपादयितुं कुत एतदिति । न स्वतंत्राया इति । नियोगानपक्षिण्या इत्यर्थः । तं हेतुमाह । पिता हरेदिति । 'पिता हरेदपुत्रस्येत्यादि' वचनविरोधादित्यर्थः । २० किमतो यद्येवमित्याशंक्योभयेषामप्रामाण्यप्रसक्तर्व्यवस्था वक्तव्या, तत्रापि कारणं वक्तव्य- मित्याह । व्यवस्थाकारणं वक्तव्यमिति । ननु तत्कारणमन्यदेवास्तु किमिति नियोगापक्षि- त्वमबति नियम इत्याशंक्याह । नान्यदिति । न केवलं नियोगार्थिन्या एव धनग्रहणमिति युक्तितः अपि तु गौतमवचनमप्यस्तीत्याह । गौतमवचनाच्चति । 'बीजं वा लिप्सेते ' त्यत्र स्थितं वा- शब्दं यद्यर्थपरं व्याचष्टे । यदि बीजं लिप्सतेति । दद्यात्तस्यैव तद्धनमिति । तद्धनं तस्य २५ मातुधनं तस्यैव दयादित्युक्त्या विभक्तभ्रातृविषयमिति गम्यते । अन्यथा विभागाभावे तस्य पृथ- ग्मृतधनाभावात् समस्तविभागः स्यादिति समो. विभागः स्यादित्यभिधानादेतदविभक्तविषयमिति गम्यते । विभक्ते विभागाभावात् ॥ योगीश्वरेणापि किल वक्ष्यत इति । अत्रारुचौ किलशब्दः यथा त्वं किल योत्स्यस इति' । 'अपुत्रा योषितश्चैषे'त्यस्य योगीश्वरवचनस्यार्थांतरस्य वक्ष्यमाण- त्वात् । तथा च केनापि स्मृतमिति । केनापीत्यनादरद्योतनार्थम् । अत एतस्मिन् पूर्वपक्षे, न ३० मूलयुक्तित्वेन प्रदर्शनमस्य वचनस्य धारेश्वरेणोक्तां व्यवस्थां दूषयितुमुपक्रमते । तदनुपपत्र- मिति । अप्रस्तुतत्वाच्चेति । अप्रकृतत्वादित्यर्थः ।

श्लोकः १३६] सुबोधिनी. १० आद्यं पक्षं दूषयति । तत्र नियोगस्यैवेति । ननु नियोगस्यैव धनग्रहणे निमित्तत्वात्तत्स- भावे अपुत्राया अपि धनग्रहणमस्तु को विरोधः इत्यत आह । उत्पन्नस्य च पुत्रस्येति । अयमभिसंधिः । नियोगादुत्पन्नपुत्रस्य धनग्रहणे निमित्तत्वांतरस्य धनसंबंधाभावे सति 'पिचोरूर्व विभजतां माताऽप्यंशं समं हरेदिति 'स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिरिति ' च द्वादशविध- पुत्राणां विभागप्रकारकथनं पुत्राभाव एवेतरेषां धनग्रहणकथनं च विरुध्येतेति । द्वितीयं पक्षं ५ दूषयति । अथ तदपत्यस्यैवति । अयमभिप्रायः । पुत्रस्यैव ' धनसंबंधनिमित्तत्त्वे ' पत्नी दुहितरश्चैवे । त्यत्र पत्नीति न कथनीयम्, तस्या धनसंबंधनिमित्तत्वाभावादस्य वचनस्य धनसंबंध- निमित्तप्रदर्शनार्थत्वाच्चेति । ननु पत्न्या धनग्रहणे नियोगो वा निमित्तं, तदुत्पन्नमपत्यं वा निमित्तं, विशिष्टं वा निमित्तं, वैशि- ध्येऽपि नियोगः प्रधानं, अपत्यं वा, उभयोः समप्राधान्यं वेति, षट्पक्षाः संभवंति । एवं च पक्षद्वयोपन्यासोऽनुपपन्न इति चेत्, मैवं, आद्यपक्षद्वयोक्तदूषणरेव पक्षांतराणां सुप- रिहरत्वात् । पृथगुक्तेरनपेक्षितत्वात् । तद्यथा । यदा वैशिष्टये नियोगः प्रधानं तदाऽपत्यमुपसर्जनमिति अपत्यं निमित्तमप्यनिमित्तमिव अन्यपरतंत्रत्वात् । तथा चानुत्पादितपुत्राया अपि धनसंबंधः प्रामोतीति प्रथमपक्षोक्तं दूषणं तदवस्थमेव । अथापत्यं प्रधानं तदा ‘पत्नीति ' नारब्धयामिति स दोषस्तवस्थः । उभयप्राधान्ये नियोगवत्याः पत्न्याः पुत्रस्य च धनसंबंधात्केवलं 'पत्नी दुहितर ' इत्यनेन पत्न्या १५ एव धनसंबंधकथनमनुपपन्नं स्यात् । अथ मतम् । उभयप्राधान्ये नियोगोत्पन्नः पुत्रः प्रधानमित्युक्तं भवतीति। तथापि पत्नीति नारब्धव्यं पुत्रस्यैव धनसंबंधादिति सर्वात्मना पूर्वोत्तदूषणद्वयस्य दुष्परिहरत्वन्न काऽप्यनुपपत्तिरित निरवद्यः पक्षद्वयोपन्यासः । ननु यदुक्तं पत्नीतिनारब्धव्यमिति तदसत् । स्त्रीणां भर्तृद्वारा पुत्रद्वारा वा धनसंबंधः । स्त्री स्वातंत्र्यमर्हतीति ' वचनात् । तथा चाभर्तृकाया अपुत्रायाश्च धनसंबंधाभावात् पत्युरभावे २० नियोगेनैव पुत्रसिद्धेस्तद्वारा पत्न्या धनसंबंधं वक्ति “पत्नी दुहितर' इति। अतः पत्नीत्यारंभोऽपि सार्थ- कोऽस्मदुक्तव्यवस्थाऽप्यवश्यमाश्रयणीयेत्यनेनाभिप्रायेणाशंकते । अथ स्त्रीणामिति । भवेदेवं पति- पुत्रद्वारैव धनप्राप्तिः स्त्रीणामिति यदि नियमः, स एव न घटते । मुखांतरेणापि स्त्रीणां धनसंबंध- बोधादिति परिहराति । तदप्यसद्ध्यग्नीति। अध्यावहनिकमिति। 'यत्पुनर्लभते नारी नीयमाना पितुर्ग्रहात् । अध्यावहनिकं नाम स्त्रीधनं तदुदाहृतमिति ' कात्यायनवचनेनाध्यावहनिकस्वरूपं २५ दर्शयिष्यति । नियुक्तायाः पुत्रद्वारा धनसंबंधे स पुत्रः क्षेत्रजः । तथा च तस्य क्षेत्रजः पुत्रस्य धन- संबंधोऽर्थादुक्तः स्यात् । अस्य चार्थ 'स्यौरसो धर्मपत्नीज' इत्यत्रैवोक्तत्वात् 'पत्नी दुहितर' इत्यत्र पत्नीति न कथनीयं पौनरुक्त्यप्रसंगादित्याह । किंचेत्यादिना। ननु युक्तियुक्तमिदमपुत्रधनं नियोगानपेक्षिण्येव गृह्णातीति । एवं च गौतमवचनानां का ३० मतिरित्याशक्य तेषां गतिं दर्शयितुं गौतमवचनं पूर्वपक्ष्यभिप्रायसहितमनुवति । अथ पिंडगोत्र- र्षिसंबंधा इति । तदाऽनपत्यस्य स्त्री धनं गृह्णीयादिति । धनमनपत्यस्य स्त्री गृह्णीया- दित्यन्वयः। न । १ पृ.९२६.२६ मिताक्षराटीका. [श्लोकः १३६ ६४ अत्रायमभिप्रायः । गोत्रर्षिसंबन्धा रिक्थभाजः स्त्री च रिक्थार्हेत्यभिधाय तस्याः प्रमीतभर्तृ- काया धर्मद्वयमुपदिशति । तत्रायमेको धर्मः । सा स्त्री बीजं वो लिप्सेत । नियोगधर्मेण पुत्र- मपेक्षेतेति । अत्रत्यवाशब्दो न यद्यर्थः अपि तु विकल्पाभिप्रायः । विकल्पश्च पक्षांतरापेक्षया । तदेव पक्षांतरं द्वितीयो धर्मः । स च धर्मो वचने साक्षादनुपात्तोऽपि वाशब्दप्रयोगबलात् नियोगेन संताना- भिलाषरूपस्य पक्षस्य प्रतियोगी संयतत्वं धर्म इति ज्ञायते । एतदुक्तं भवति । नियोगात्पुत्रमपेक्षेत वा संयता वा भवेदिति धर्मद्वयोपदेश इति। तदविभक्ते संसृष्टिीन वा भर्तरि प्रेत इति । एतदुक्तं भवति । अविभक्ते पत्यौ मृते, संसृष्टिनि वा पत्यौ मृते, पक्षद्वयेऽपि तत्पत्न्याः स्वस्या धनसंबंधो नास्तीति कृत्वा स्वस्या धनसंबंधाभावेऽपि स्वापत्यस्य भवत्विति धनलोभान्नियोगो नापेक्षणीय इति । ननु " संसृष्टानां तु यो भागस्तेषामेव स इष्यते " इति नारदेन संसृष्टिन उपक्रम्य “मातृ- १० णामप्रजाः प्रेयात् कश्चिन्चेत्प्रव्रजेत वा । विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विना । भरणं चास्य कुर्वी- रन् स्त्रीणामाजीवनक्षयादि ' त्युक्तत्वात् उपक्रमानुरोधेन भ्रातुर्धनमितरे संसृष्टिभ्रातरो गृह्णीयुरित्यभि- हितम् । 'भ्रातॄणामप्रजाः प्रेयादि” त्यादिना च स एवार्थोऽभिधीयत इति पौनरुक्त्यं स्यादित्याशंक्य परिहरति । न भ्रातृणामित्यादिना । अयमर्थः । पूर्व संग्रहेण कथितमधुना विवृण्वन् 'तत्र स्त्रीधन- मविभाज्यमिति च 'तासां स्त्रीणां भरणं कर्तव्यमिति ' च वाक्यद्वयेनार्थद्वयं विधीयते न केवलं १५ पूर्वोक्तमेव कथ्यते येन पौनरुक्त्यं स्वादिति। तत्र स्त्रीधनं विनोत । तद्धनाविभाज्यत्वविधिः उत्तरेणो- त्तरविधिः। योगीश्वरवचनस्य स्वाभिमतमथै दर्शयति । यदप्यपुत्रा योषित इति । यत्तु मनुवचनं। (अ.९श्लो.१४६) धनं यो बिभृयाद्भातुर्मतस्य स्त्रियमेव वा। अपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धन' मिति विभक्तेऽपि भ्रातरि नियोगद्वारैव तत्पत्न्या धनग्रहणप्रतिपादकं पूर्वपक्षदशायामुक्तं तत्र मनुनैव नियोगस्य निंदितत्वात्तत्परिहारः सुकर इति व्याख्यातृ बुद्धिपरीक्षार्थं च सिद्धांतार्थमदर्शयित्वैव वचनांतराणि २० स्वाभिप्रेतार्थपरत्वेन दर्शितानि इति मंतव्यम् । परिहारस्त्वेवम् । 'अन्यस्मिन्हि नियुंजाना धर्मं हन्युः सना- तनमि' त्यादिभिर्विधवायां नियोगस्य निंदितत्वावश्यं नियोगेन विभक्तधनविधवायां भातृजायायां पुत्रमुत्पाद्य तद्धनं तस्यैव दातव्यमिति न नियम्यते तेन वचनेन, अपि तु ' न स्त्री स्वातंत्र्यमई- तीति । स्त्रीणामेकाकितयाऽवस्थानं निषिद्धमिति । देवरगृहेऽवस्थाने कृते स्त्रीणामप्रगल्भत्वेन तद्धन- रक्षणे देवरेण च क्रियमाणे संततिलोभात् सा स्त्री शास्त्रसिद्धत्वाद्गतिमपि नियोगं यद्यनुमनुते तदा २५ ऽपत्य उत्पन्ने देवरेण धनलोभो न कर्तव्यस्तस्यैव तद्धनं समर्पयेदित्येवमर्थपरं व्याख्येयं अनेकवचन- विरोधादिति । अत एव 'धनं यो बिभृयादिति' धारणपोषणवाचिनो भूत्र उपादानं मनुना कृतम्। ननु यज्ञशब्दो धममात्रोपलक्षको न यज्ञवाचकः अतो दानहोमादिसिद्धिरित्याशंकते। अथ यज्ञशब्दस्येति । ' देवतोद्देशेन द्रव्यत्यागो यागः । स एवोद्देशोऽनौ प्रक्षेपणांतो होमः । ३० “स्वत्वनिवृत्तिद्वारा परस्वत्वापादानं दानमिति ' यागहोमदानानां भेदः धर्म एव धनस्योपयोगा- द्धनसाधनकः कृषिवाणिज्यादिलभ्योऽर्थः, तथा धनसाधनकः स्रक्चंदनादिविषयः कामश्च, न स्यातामिति परिहरति । एवं तहर्थकामयोरिति । ॐ इत्यत आह । तथा च सतीत्यादिना । धर्मार्थकामेभ्यो यथाशक्ति पूर्वाह्नमध्यं- दिनापराह्रानफलान कुर्यादिति गौतमवचनस्यान्वयः । “न तथैतानि शक्यंत । इति इंद्रि- १क-जीवनं. २ क-तद्धनस्य विभाज्यत्वाः।

लोकः १३६) सुबोधिनी. । याणां विचरतां विषयेष्वपहारिषु । संयमे यत्नमातिष्ठेदि ' तींद्रियसंयमं प्रक्रम्य ‘प्रापणात्सर्वकामानां परित्यागो विशिष्यते । न तथैतानि शक्यते संनियंतुमसेवया ' इत्यभिहितं मनुना । ( अ. २ श्लो. ९५-९६)। अस्यार्थः । सर्वकामानां प्रापणादुपभोगादपि परित्यागो विशिष्यते समीचीन उत्तम इति यावत् । एतानि विषयासक्त्या दोषजनकानींद्रियाणि । असेवया रूपादिविषयानुपभोगेन तथा संनियंतुं न शक्यते । यथा विषयोपभोगेन तद्गतदोषविज्ञान तथा विषयानुपभोगेन नेत्यर्थः। अनिषिद्धविषयोपभोगस्य वैराग्योत्पादकत्वेन कर्तव्यत्वार्थकामाववश्यं साधनीयाविति प्रतिपादक- वचनविरोध इत्यभिप्रायः। यदि धनं यज्ञार्थं स्यात्तर्हि 'हिरण्यं धार्यमित्यनेन वाक्येन विहितहिरण्यधारणं कृत्वर्थ इति पूर्वपक्षिणाऽभिहिते तन्निराकृत्य पुरुषार्थमित्युक्तं सिद्धांतिना तन्न्यायाविरोधोऽपि स्यादित्याह । अपि च धनस्य यज्ञार्थत्वे हिरण्यं धार्यमितीति तत्प्रत्युद्धृतं स्यादिति । प्रत्युद्धृतं १० विघटितं विपरीताभिहितमिति यावत् । तृतीयचतुर्थपादाधिकरणम् । 'अप्रकरणे तु तद्धर्मस्ततो विशेषात् ।। 'अनारभ्य श्रूयते; तस्मात् सुवर्णं हिरण्यं धार्य । दुर्वर्णोऽस्य भ्रातृव्यो भवतीति ' । तत्र संशयः । किं हिरण्यधारणमिदं क्रत्वंगतया विधीयते, उत ऋतुगतहिरण्यानुवादेन धारणं संस्कारो विधीयते अथवा हिरण्यं हस्ते भवतीति विहितं यद्धारणं तदनुवादेन सुवर्णता शोभनरूपता विधीयते यद्धिरण्यं धार्यमिति, । आहो- १५ स्विद्धिरण्यधारणं पुरुषार्थतया विधीयत इति । पूर्वपक्षस्तु । हिरण्यविशिष्टं धारणं यद्यपि विधीयते तथापि तस्य फलापेक्षायामस्य धारणस्य वेदवाक्यविहितत्वेन वैदिकत्वात् क्रियापत्वेन वैदिकदर्शपूर्णमासादिसाम्यात्, फलवद्वैदिकं कर्म बुद्धिस्थं भवति । ततश्च तत्रैव वैदिकर्कर्मणि प्रयाजादिवदारादुपकारं कुर्वन् क्रत्वंगं धारणं भविष्यति । एता- वता च प्राधान्यप्रतीतेर्धारणं संस्कारः बीहीन्प्रोक्षतीत्यत्र प्रोक्षणमिव भूतभाव्याकांक्षादिनिवृत्तेः स्वर्गा- २० दिफलकल्पना न युक्तेत्येकः । अथवा हिरण्यं धार्यमित्यत्र कृत्यप्रत्ययेन धारणविधानात्कर्मणो हिरण्यस्य द्वितीयाविभक्त्या प्राधान्यप्रतीतेर्धारणं संस्कारः । ब्रीहीन्योक्षतीत्यत्र प्रोक्षणमिव । 'भूतभायुपयोगं हि द्रव्यं संस्कारमर्हतीति । न्यायेनोपयुक्तस्योपयोक्ष्यमाणस्य वा संस्कारः कर्तव्यः। उपयोगश्च प्रयोजनवत एव । निष्प्रयोजनस्य लौकिकसुवर्णस्य धारणसंस्कारायोगात् क्रतुगतहिरण्यानुवादेन धारणसंस्कारविधान- मिति प्रयाजादिवन्नारादुपकारकमंगं, अपि तु प्रोक्षणादिवत्संस्कारकर्मेत्यपरः । अथवा क्रतुगतं हिरण्यं २५ तद्धारणं चानूद्य लाघवात्सुवर्णमिति सुवर्णता विधीयत इत्यन्यः । एवं त्रेधाऽपि तावत्क्रत्वर्थमिति प्राप्तेऽभिधीयते । यदुक्तं वैदिकत्वक्रियात्वसाम्यात्क्रतुरुपतिष्ठते फलाकांक्षायामिति नैष नियमो घटते स्वर्गाद्युत्पत्तेरपि क्रियात्वाद्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिषु स्वर्गादेः कर्तृसंबंधितयोत्पत्तेः वैदि- कत्वाञ्च स्वर्गाद्युत्पत्तिं कतुं चोभंयमुपस्थापयति क्रियात्वं च वैदिकत्वं चेति हेतुद्वयं न नियमतः क्रतु- मेव येन विशिष्टविधिपक्षेऽपि क्रत्वर्थता स्यात् । न च क्रतुगतहिरण्यप्रतीतिः यतो हिरण्यानुवादेन ३० धारणसंस्कारविधिः स्यात् । लोकेऽपि हिरण्यसद्भावात् येन न कतुगतहिरण्यप्रतीतिः । न हि धारणं धार्यमाणसंस्कारः अदृष्टार्थत्वं विनोंऽपि धारणोपपत्तेः कृत्यप्रत्ययश्च कर्मत्वे साध्यतामात्रं चाह न प्राधान्यं अनीप्सितकर्मणोऽपि विद्यमानत्वात् । १ क-विषयेष्यनपादिषु २ क-भायमित्यनेन । ३ कख-प्रत्युदाहरणम् । ४ सू. २६-३० ५ कख-क्रियारूपत्वाय । ६क-कर्माणि । ७क-कुर्वतु । ८ ख-भूतभाव्यप्रयोगं । ९ ख-वोभय । १० क-अदृष्टार्थत्वे । क मिताक्षराटीका. [ श्लोकः १३६ अत एव न धारणानुवादेन सुवर्णतारूपगुणविधिः क्रतुगतधारणाप्रतीतः लोकेऽपि धारणसं- भवात् अतो न ऋत्वर्थं सुवर्णधारणं । विधिवशाञ्चावश्यं फलेन भवितव्यं । तच्च फलमर्थवादाभावे विश्वजिन्न्यायेन स्वर्गो भवति । अर्थवादसद्भावे तु रात्रिसत्रन्यायेन तद्गतमेव । अत्र तु 'दुर्वर्णोऽस्य मातृव्यो भवतीति ' श्रवणात् भ्रातृव्यस्य दुर्वर्णत्वमात्मनश्च शोभनरूपतैव फलमिति पुरुषार्थ हिरण्य- ५ धारणमिति सिद्धांतः ।। तदस्तु पारतंत्र्यमिति । पारतंत्र्यमेकाकिनीभूत्वा स्थितिः । अतः स्वपत्युर्धने गृहीतेऽपि न विरोध इत्यर्थः । यज्ञार्थमेवार्जितं यद्धनमिति यज्ञार्थं द्रव्यमुत्पन्नमित्यस्मिन् वचने द्रव्यं यज्ञार्थमुत्पन्नमिति न विधिः, किंतु यागभिक्षयाऽवनिपतिगमनेन यज्ञार्थमेव यज्ञो- द्देशेन यद्र्व्यमुत्पन्नमित्यनूद्य तद्र्व्यं तेन यज्ञ एव विनियोक्तव्यम् । लोभादिनाऽनेन तत्र विनियो- १. गेऽकृतेऽपि पुत्रादिभिरपि धर्मकार्येष्वेव विनियोक्तव्यमिति सर्वात्मना यज्ञार्थमर्जितं द्रव्यं धर्म एव विनियोक्तव्यमिति विधीयते । अत एव धर्मेऽनधिकृतैस्तद्र्व्यं न ग्राह्यम् । धर्मकरणेऽधिकाराभावात् । अत एव ग्रासाच्छादनमात्रभाजना इत्युच्यत इत्यर्थः । दोषश्रवणस्य पुत्रादिष्वप्यविशेषादिति । ' यज्ञार्थं लब्धमदद ' दित्यस्मिन्वचने । अर्जकनामग्रहणमंतरेण सामान्यतोऽभिधानान्नानृतं बदेदितिवत् पुरुषमात्रोद्देशेन प्रवृत्तेः अर्जकस्य १५ तत्पुत्रादीनां च यज्ञार्थद्रव्यस्य यज्ञादिष्वनियोगे दोष इत्यर्थः । पूर्वोक्तं कात्यायनवचनं व्याचष्टे अदायिकं दायादरहितमित्यादिना । अस्यैव कात्यायनवचनस्य द्वितीयाधैं व्याचष्टे अस्यापवाद इति । इष्ट इत्येवं व्याख्याय तद्विरोधं परिहरति । एतदप्यवरुद्धस्त्रीविषयमिति । तत्र हेतुः । योषिग्रहणादिति । अन्यत्र ब्राह्मणात् किंत्विति । 'अदायिकं राजगामी ' त्यस्यैवार्थस्य नारदेन पूर्वप्रस्तुतत्वादनुषंगेणैवात्र २० योजना कर्तव्या । ब्राह्मणादन्यत्रादायिकं धनं राजगामि । किंतु तत्रापि तत्स्त्रीणां जीवनं दद्यादिति । प्रतिपादितं स्वपक्षमुपसंहरति । तस्माद्विभक्तासंसृष्टिनीति । ननूक्तस्यैवोपसंहारो युक्तः तथा च पूर्वोक्तोपसंहारेऽभिहितस्यार्थस्य ‘पत्नी दुहितर' इत्यत्र वचने व्याख्याने वा अनुक्तत्वात्कथं सोऽर्थ उपसंह्रियत इत्याशंक्य सकलवाक्यानां स्वेतरवाक्यविरोधेनैव प्रवृत्तेाय्यत्वादुक्तवक्ष्यमाणानुसंधानेनास्मिन् वाक्ये इयानर्थों लब्ध इत्यर्थादुक्तस्यैवोपसंहार २५ इति दर्शयितुमुक्तं स्मारयन् वक्ष्यमाणं च प्रदर्शयति । विभागस्योक्तत्वादिति । यद्यल्पधनं भवति तमु पुत्रस्य प्रमीतस्य तद्धनं पत्नी गृह्णीयादित्येवमर्थपरत्वं — पत्नी दुहितर ' इत्येवमादीनां पल्यादिपापकाणां याज्ञवल्क्यादिवचनानामन्यैः प्रदर्शितं यदक्ष्यमाणेन निरस्तमित्याह । एते- नाल्पधनविषयत्वमिति । निरसनप्रकारमुपपादयति तथाहीत्यादिना ॥ जीवद्विभागेऽजीवे चेति पत्यौ जीवति मृतेऽपीत्यर्थः । व्यामोहमात्रमिति । यदा भर्तरि जीवति मृते च पुत्रेषु सत्स्वपि ३० पुत्रसमांशभाक्त्वं न भरणमात्रोपयुक्तधनभाक्त्वं पत्न्याः तदा किमु वक्तव्यमपुत्रस्य धनं सकलमा- मोतीत्येवं कैमुतिकन्यायेनैव पत्न्याः सकलधनभाक्त्वे सिद्धे ग्रासाच्छादनातिरिक्तं न प्रामोतीत्युक्तिः प्रांतेत्यर्थः । किंच अंशग्रहणाधिकारिणां पुत्रांतराभावे सकलरिक्थग्रहणाधिकारेण पुत्रेण सह समांश- । । १ क-विश्रवणात् । २ क-ग्रासमात्रभाजना । ख-ग्रासाधनमात्र । ३ ख-सामान्यतरो विधानात् । ४ पत्न्या च व प्रापकाणां । ५ पृ. ९३ पं. ३२। ६ ख-अधिकारेणापुत्रेण सह ।

श्लोकः १३६] सुबोधिनी. ६७. भाक्त्वस्योक्तत्वात् पुत्राभावे विभक्तस्यानपत्यस्य धनं पत्नी गृह्णातीति युक्तियुक्तं चैतत् । तस्मात्पूर्वा- परविचारशून्यानामिदं वचनमुपेक्षणीयमेव । समांशशब्दावपि जीवनोपयुक्तधनोपलक्षकावित्याशंकते। अथ पत्न्यः कार्या इति। परि- हरति । तदसदिति । अयमर्थः । भागे तुल्यतायां चांशसमशब्दो लोके व्युत्पन्नौ । तथा कारण- मंतरेण स्वार्थपरित्यागादानर्थक्यं स्यादिति । नन्वनयोः शब्दयोः पक्षे स्वार्थपरत्वान्न सर्वात्मनाऽऽनर्थक्यमिति विशेषमाशंकते । स्यान्मत- मिति । परिहरति । तच्च नेति । विधिवैषम्यस्वरूपं दर्शयति । तथा हीत्यादिना । अयमर्थः । 'पत्न्यः कार्याः समांशिकाः' माताप्यंशं समं हरेत्' इति बचनद्वयं बहुधनपत्यौ जीवति मृते वा पुत्रैः सह विभागकाले — भरणं चास्य कुरिन्नि ? त्यादिवाक्यांतरापेक्षया जीवनमात्रो- पयुक्तधनग्रहणं पत्न्या विधत्ते । पत्यावल्पधने तु स्वपुत्रांशसमं धनग्रहणं विधत्त इति । सकृदुच्चरितमेकमेव वचनं पक्षे सापेक्षं पक्षे निरपेक्षं इत्येकरूपत्वाभावात् विधिवैषम्यमिति अस्मिन्नर्थे दृष्टांतार्थत्वेनास्य न्यायस्योपपादकमधिकरणं संगृह्य दर्शयति । तथा चातुर्मास्येषु इत्यादिना ॥ सप्तमतृतीयपादाधिकरणं ( सू. १९)। — सौमिकं तु प्रणयनमवाच्यं हीतरत् : सेमे सधर्मकमग्निप्रणयनमस्ति दर्शपूर्णमासयोश्चाधर्मकमग्निप्रणयनं । प्रणयनं नाम गार्हपत्यादाहबनीया- मिनयनम् । उत्तरवेदिश्च सोमे एव न दर्शपूर्णमासयोः एवं प्रयोगस्थितिः । एवं स्थिते चातुर्मास्यानीति चत्वारि कर्माणि संति, वैश्वदेववरुणप्रयाससाकमेधशुना- सीरीयाणि । तत्र श्रूयते ' द्वयोः प्रणयंति : तस्मादाभ्यां यंति अरू वा एते यज्ञस्यति । 'यो- श्चातुर्मास्यपर्वणोरग्निं प्रणयंतीति । विधायकं वाक्यं ' तस्माद्वाभ्यां फलं यति गच्छंती ' त्यादिकमर्थ- वादवाक्यम् । तत्र संशयः सौमिकप्रणयनसदृशं प्रणयनं विधीयते 'योः प्रणयंतीत्यनेन वाक्येन । एतदुक्तं भवति । सौमिकप्रणयनवत् प्रणयनं कर्तव्यमिति, उत प्रणयनमात्र विधीयत इति ? पूर्व- २० पक्षस्तु सौमिकप्रणयनसदृशं प्रणयनं विधीयत इति तावद्युक्तं अतिदेशत एव प्रकृतिभूतदर्शपूर्ण- मासयोः प्रणयनमात्रप्राप्तेः प्रणयनमात्रविधानानर्थक्यात् । नन्वनुवादकमेव भवतु चोदकप्राप्तप्रणयनस्य, किमर्थं विधानमिति चेत् । मैवम् । प्रणयंतीति विधायकपत्ययश्रवणबलाद्विधेयत्वप्रतीतेः । किंच, न वैश्वदेव उत्तरवेदिमुपकिरंति न शुनासी- रीय ' इति वाक्यद्वयेन वैश्वदेवशुनासीरीयाख्ययोः पर्वणोरुत्तरवेदिप्रतिषेधश्चोपपद्यते । सौमिक- २५ प्रणयनसदृशप्रणयनविधाने ह्युत्तरवेदेरपि प्राप्तत्वात् दर्शपौर्णमासिकप्रणयने तूत्तरवेदेरभावात् तत्पणयनप्राप्तावुत्तरवेदिप्राप्त्यभावे 'न वैश्वदेव उत्तरवेदिमुपचयंती ' त्यादिप्रतिषेधो नोपपद्यते । ननु सौमिकप्रणयनसदृशप्रणयनविधानेनोत्तरवेदिप्राप्तौ प्राप्ताया उत्तरवेदन वैश्वदेव इत्यादि निषेध इति कोऽयं बकबंधनप्रयासः । चातुर्मास्यपकरणे स्थितेन ' उपात्तं वपंती' त्यनेन वाक्येनोत्तरवेदेर्विहितत्वात् । विधानलब्धोत्तरवेदिनिषेधकं — न वैश्वदेव' इत्यादिवाक्यद्वयं भवि- ३.. ष्यतीति चेत् । तन्न । ' उपात्तं वपंतीति ' इदं वचनं चातुर्मास्यं परमापूर्वशेषतयोत्तरवेदिं विधत्पर्व- चतुष्टयेऽप्यविशेषेण विधत्ते । 'न वैश्वदेव' इति वाक्यद्वयेन पर्वद्वये निषेधात् । विधिनिषेधयोर्वाक्यप्रमि- तत्वात्तुल्यत्वेन विकल्पः प्राप्नोति । ततश्चैवमर्थः संपद्यते । ' उपात्तं वपंतीति ' वाक्यं, वैश्वदेव- १ ख-स्वपुत्रांशसमानग्रहणम् । २ मी मू. ७-३-१९ । ३ क-गाहंपत्यादाहवनीयादिध्वग्निनयनं । ४ क-प्रकृत ५क-विधानेनेत्युत्तरवेदैरपि । ६ क ख-चातुर्मास्यापरमापूर्दक.

मिताक्षराटीका. [ श्लोकः १३६ शुनासीरीययोः पर्वणोनिषेधकं न शुनासीरीय ' इत्यादिवाक्यद्वयमपेक्ष्य यदा निषेधकवाक्यद्वयार्था- नुष्ठानं नास्ति तदैवोत्तरवेदिं विधत्ते, इतरपर्वद्वये तु नित्यवदुत्तरवेदिं विधत्त इति । तथा च द्वयोः पर्वणोः वाक्यांतरमनपेक्ष्योत्तरवेदिविधिः । इतरयोस्तु पर्वणोः वाक्यां- तरापेक्षया पक्षे विधिरिति विधिवैषम्यापत्तिः तस्मात् सौमिकप्रणयनसदृशप्रणयनविधिरिति । राद्धांतस्तु विधायकप्रत्ययश्रवणात्प्रणयनं तावद्विधेयं विधेयत्वादेव दर्शपौर्णिमासिकप्रणय- नादन्यत् प्रणयनमेतदिति गम्यते । न चैवं सति प्रणयनप्रवृत्तिमात्रमेव आतिदेशिकं न भवति किंत्वौपदेशिकमिति प्रवृत्तौ न कोऽपि विशेष इति वाच्यम् । तस्मात् ' द्वाभ्यां यंती ' त्यादिकस्यार्थ- वादस्य विध्यन्वयेन तदेकवाक्यतया प्रामाण्योपपत्तेः । तथा चार्थवादबलेन मध्यमपर्वद्वय उत्तरवेदेरुप- संहारादनुष्ठानेऽपि विशेषोऽस्तीत्युत्तराधिकरणे राद्धांतेषु गुरुणा वक्ष्यते । ततश्च — न वैश्वदेव उत्तरवेदि- १. मुपकिरंति न शुनासीरीये' इति वाक्यद्वयमाद्यंतयोः पर्वणोनित्यानुवादकम् । 'उपात्तं वपंती' तीदं वाक्यं मध्यमपर्वणोरेवोत्तरवेदिमापकमिति पर्वचतुष्टये उत्तरवेदिप्राप्तेरभावाद्विधिवैषम्यमपि नास्तीति प्रणयनांतरमेव विधीयत इति प्रथमोत्तमयोः न प्रणयनमुत्तरवेदिप्रतिषेधात् । 'द्वयोः प्रणयंती ' त्यादि श्रूयते । तत्र सशंयः । किमिदं पर्वद्वये विधीयमानं प्रणयनमाद्यंतयोः पर्वणोः उत मध्यमयोरेवेति न वैश्वदेवे न शुनासीरीय ' इत्याद्यतयोरुत्तरवेदिप्रतिषेधादसत्यां च प्राप्तौ १५ प्रतिषेधानुपपत्तेरायंतयोः पर्वणोः प्रणयनमिति पूर्वपक्षः। 'ऊरू वा एते यज्ञस्य यद्वरुणप्रघासश्च साकमेधश्चेति तस्माद्वाभ्यां यंती' त्याद्यर्थवादस्य द्वयोः प्रणयंतीत्यस्य च मध्यमपर्वघटितत्वात् तत्रैव प्रणयनं; न वैश्वदेव उत्तरवेदिमुपकिरांत न शुनासीरीय इति ' आद्यन्तयोः पर्वणोनित्यानुवाद इति सिद्धान्तः। अथ प्रकृतमनुसरामः । चातुर्मास्येषु द्वयोः प्रणयंति इति प्रणयनं विहितम् । तत्र सौमिकपण- यनसदृशप्रणयनं विधीयते इति पूर्वः पक्षः। सौमिकप्रणयनवत्पणयनं कर्तव्यमित्यभिप्रायः। एवं स्थिते २० प्रणयनविधिः प्रतीयते न सौमिकवदित्यतिदेशप्रतीतिः । एवं च तद्वत् कर्तव्यमित्यतिदेशे को हेतुरि- त्याशक्य न वैश्वदेवे न शुनासीरीये इत्येतदुत्तरवेदिप्रतिषेधकवाक्यद्वयमुत्तरवेदिप्राप्तिमपेक्षते । प्राप्तिश्च सौमिकवदित्यतिदेशात्तत्रत्यसकलधर्मप्राप्ता उत्तरवेदिरैपि सिध्यतीति प्रतिषेधकवाक्यद्वयमेव सौमिकप्रणय- नसदृशप्रणयनविधाने हेतुरिति पूर्वपक्षिणोऽभिप्रायमाह। द्वयोःप्रणयंतीत्यत्र पूर्वपक्षिणेत्यादिना वेदिप्रतिषेधे दर्शित इत्यंतेन । प्रतिषेधः प्राप्तिमपेक्षते । सा च सौमिकप्रणयनातिदेशमंतरेणापि चातुर्मास्यप्रकरणपरिपठते- 'नोपात्तं वपंती'त्याद्यतयोर्वैश्वदेवशुनासीरीयपर्वणो 'रुपात्तमिति ' प्राप्ताया उत्तरवेदे ‘र्न वैश्वदेव ' इत्या- दिवाक्येन प्रतिषेधसिद्धेः सौमिकप्रणयनवत्प्रणयनं कर्तव्यमिति पूर्वपक्षो न घटत इति पूर्वपक्षं निराकरोति। रांद्धांतैकदेशिनेत्यादिना प्रतिषेधोऽयमित्यभिहित इत्यंतेन । नन्वेवमुपात्तं वपंतीति वाक्यं पर्वचतुष्टयेऽप्युत्तरवेदिं विधत्ते न वैश्वदेव उत्तरवेदिमुपकिरंति न ३० शुनासीरीय इति पर्वद्वय उत्तरवेदिं निषेधतः । उत्तरवेदिविधिनिषेधयोरुभयोरपि वाचनिकत्वेन द्वयोः पक्षे उत्तरवेद्यनुष्ठानमिति विकल्पः प्रसंगः। तत एवैवं स्यात् । 'उपात्तं वपंती' तीदं वाक्यं आयंतयोः पर्वणोः न वैश्वदेव इत्यादिवाक्यद्वयेन यदोत्तरवेदिर्न निषिध्यते तदा तदाक्यमपेक्ष्य पक्ष उत्तरवेर्दि विधास्यति । मध्यमयोस्तु पर्वणोनिषेधवाक्यानपेक्षयैव नित्यवत्प्रापयतीति सकृदाम्नातं वाक्यमेकत्र पक्षे -- २५ १ क-इनरपर्वणयोः । २ ख-अन्यरूप । ३ क-सौमिकपणयनं विधीयते ।ख-उत्तरवेदेरपि । ५पृ. ९४.६.१०-१२ - श्लोकः १३६] सुबोधिनी. ६९. पापकमेकत्र नित्यवदिति एकरूपप्रवृत्त्यभावाद्विधिवैषम्यं स्यादिति पूर्ववादीराद्धांतैकदेशिमतं निराक- रोतीत्याह । पुनः पूर्वपक्षिणेत्यादिना विधिवैषम्यं दर्शितमित्यंतेन । राद्धांतैकदेशिमतानंतरं मुख्यराद्धांतस्योचितत्वात् तद्भांतिर्मा भूदिति पुनः पूर्वपक्षिणेत्युक्तिई- टव्या । राद्धांतमाह । राद्धांतेऽपीति । एकदेशिमतानुसारेणाभिधीयमाने विधिवैषम्यं दुर्वारमिति 'द्वयोः प्रणयंति तस्माद्वाभ्यां यति ऊरू वा एते यज्ञस्ये' त्याद्यर्थवादवाक्यस्य मध्यमपर्वद्वयघटितत्वेन ५ तत्रैव प्रणयनविधिः यत्र प्रणयनं तत्रैवोत्तरवेदिरिति उपात्तं वपंतीत्युत्तरवेदिविधानमप्यर्थवादानुसारेण तत्रैव मध्यमपर्वणोरिति। आद्यतयोरुत्तरवेदिप्राप्त्यभावात् न वैश्वदेव इति वाक्यद्वयमाद्यतयोः पर्वणोनि- त्यानुवादकं नांतरिक्षे न दिव्यामिश्चेतव्य इतिवदित्यर्थः । अनेन चातुर्मास्येष्वित्यादिग्रंथजातेनैतदुक्तं भवति । यथा तत्रैकदेशिमते विधिवैषम्य दोषः तथा 'पत्न्यः कार्याः समांशिकाः' 'माताऽप्यंशसमं हरेदि' त्यत्र च सकृदाम्नातावंशसमशब्दावपि भर्तृ- १. बहुधनत्वपक्षे 'भरणं चास्य कुरिन्नि ' त्यादिवाक्यपालोचनया जीवनोपयुक्तधनपरौ, स्वल्पधनत्वे तु वाक्यांतरनैरपेक्ष्येण नित्यवत् पुत्रांशसमांशपराविति श्रीकरायुक्तव्याख्यानेऽपि विधिवैषम्यदोषो दुर्वार इति । अन्यैः कैश्चिदपि पत्नीदुहितर इत्यादीनां वाक्यानां व्यवस्था दर्शिता तां निराकर्तुं दर्शयति । यदपि मतमित्यादिना । मनुवचनशंखवचनयोस्तात्पर्यार्थमाह । अपुत्रस्य धनं भ्रातृगा- १५ मीति । नारदवचनस्य तात्पर्यार्थमाह । भरणोपयुक्तं (धनं) पत्नी लभत इत्यपि स्थितमिति । एवमुक्तरित्याऽपुत्रप्रमीतभर्तरिक्थभाज इतरे भ्रातरः तत्स्न्यपि जीवनोपयुक्तं धनं लभत इत्येवं व्यवस्थिते सति यस्या भर्ता अपुत्रको बहुधनश्च तस्मिन् प्रमीत एतद्द्यमपि घटते, यद्भातरो रिक्थभाजो पत्नी च भरणमात्र लभत इति । पत्न्यै जीवनायैवालं तद्धनं जीवनायापि नालं वा । तदा मनुशंखवचनप्रमाण्या- २० द्भातरो गृहति उत नारदवचनात् पत्न्येव गृह्णातीति संशये तन्निवृत्त्यर्थं योगीश्वरेण अनुपसंजात- विरोधित्वेन पूर्वबलीयस्त्वात् पत्न्येव गृह्णातीति वक्तुं क्रमप्रतिपादकं पत्नी दुहितर' इत्यादिवचनमार- ब्धमित्याह । एवं स्थिते बहुधन इत्यादिना इत्यारब्धमित्यंतेन । सर्वदा पत्न्येवापुत्रधनभागिनी न भवतीत्यर्थः । निराकरोति । तदप्योति । आचार्यो विश्वरूपाचार्यः । पिता हरेदपुत्रस्येत्यस्य' २५ मनुवचनस्यान्यार्थत्वादित्यर्थः । तदेवान्याथै दर्शयति यतः पिता हरेदित्यादिना । अयमर्थः । दायग्रहणे पित्रादिक्रम- प्रतिपादनपरमेतद्वचनं न भवति । येन पूर्वोक्तव्यवस्था स्यात् । अपि तु पित्रादयोऽपि रिक्थग्रहणे- अधिकारिणः इति अधिकारप्रदर्शनपरं 'रिक्थं भ्रातर एव वेति' वाशब्देन विकल्पप्रतीतेः समयो- हि विकल्पः । पितुरभावेऽन्येऽधिकारिण इति क्रमस्य विवक्षितत्वे पितुः प्राधान्यप्रतीतस्तस्य चान्येषां ३० च समत्वाभावाद्विकल्पस्मरणमनुपपन्नम् । एवमधिकारप्रदर्शनपरत्वे मनुवचनस्य पत्नी दुहितरं वा गणयित्वा पिता 'हरेदपुत्रस्येति पितृभ्रातृगणने कृतेऽपि पितृभ्राबोरधिकारो घटत एवेति जीवनोपयुक्तं ततो न्यूनं वा धनं पत्न्या एवेत्यभिधानार्थं ' पत्नी दुहितर ' इति वचनमित्यु- किरनुपपन्नेति। १ ख-अत्र । २ पृ. ९४५.२०-२३ । ३ क-जीवनोपयुक्ततो न्यूनं च धनं । अथ तु । ।

मिताक्षराटीका. [श्लोकः १३६ , । स्वर्यातस्य ह्यपुत्रस्येति शंखवचनमप्याचार्येणान्यथा व्याख्यातं तद्दर्शयति । शंखवचन- मपि संसृष्टभ्रातृविषयमिति । विभागानंतरं पुनरपि स्नेहादिवशादेकीभूयस्थितभ्रातृविषयमित्यर्थः। अस्माद्वचनात्यक- रणादिति । ' पत्नीदुहितर ' इत्यस्माद्दचनादित्यर्थः । किंच पत्नीदुहितर इत्यस्याल्पधनं पत्नी ५ गृह्णातीत्येवमर्थपरत्वे । एषामभावे पूर्वस्य धनभागुत्तरोत्तर ' इति वाक्यशेषोऽपि । 'भरणं चास्य कुरिन् स्त्रीणामाजीवनक्षयादि । त्यादिवाक्यपर्यालोचनया याद चेद्भरणमात्रोपयुक्तमेव धनं तदैव पत्नी तदभावे दुहिता गृह्णाति न बहुधनत्व इति । पक्षे अनित्यवद्धनग्रहणं पत्न्या दुहितुश्च प्रापयति । पितृभ्रातृ- तत्पुत्रादिषु तु वाक्यांतरनिरपेक्षेणैव नित्यवद्बोधयति रिक्थग्रहणमिति । पूर्वोक्तो विधिवैषम्यदोषस्तदवस्थ एवेति आह । धनभागुत्तरोत्तर इत्यस्य चेत्यादिना। १० अस्मादेव वचनादिति । हारीतवचनादित्यर्थः । एतदेवाभिप्रेत्योक्तमिति । अनाशंकितव्य- भिचारायाः सकलग्रहणमेवेत्यर्थः । उपसंहरति तस्मादिति । दुहितर इति । अब दुहितृप्रकृत्या स्यपत्यमात्रमभिधीयते तत् च स्यपत्यत्वं भिन्नजातीयेष्वप्य- विशिष्टम् । प्रत्ययेन च जात्याऽपि बहुत्वं प्रतीयते । तच्च विसदृशेष्वप्यविरुद्धं अतः प्रकृतिप्रत्ययाभ्यां समानासमानजातीया दुहितरः प्रतीयते। ताश्चतुस्त्रिव्येकभागाः स्युरित्यनेन क्रमेण समविषमांशभानो १५ भवंतीत्याह । दुहितर इति बहुवचनमिति । अंगादंगात्संभवतीति । सर्वेभ्योऽङ्गेभ्य उत्पद्यत इत्यर्थः। तथा प्रतिष्ठिताप्रतिष्ठितासमवाय इति । प्रतिष्ठिताः सधनाः अप्रतिष्ठिता निर्धनाः। स्त्रीधनं दुहितणामिति । अविवाहितानां दुहितॄणां स्त्रीधनम् । तदभावे निर्धनानामित्यर्थः । नन्वेतद्गौतमवचनं मातृधनविषयं न पितृधनविषयमित्यत आह । पितृधनेऽपि समान- त्वादिति । अयमर्थः । 'स्त्रीधनं दुहितृणामिति ' स्त्रीधनोद्देशेन दुहितृसंबंधविधानात् उद्देशविशेषण- २० त्वेन स्त्रीत्वस्याविवक्षितत्वान्यायस्य साधारणत्वमिति । ननु ‘पत्नी दुहितर ' इत्येतद्वचनं पत्न्यभावे पुत्रिकाया दुहितुर्धनसंबंधं ब्रवीति । न तु दुहित- मात्रस्य । येनानूढाभावे अप्रतिष्ठिता, तदभावे प्रतिष्ठितेत्येषु क्रमः स्यादित्याशंक्य परिहरति । न चै- तत्पुत्रिकाविषयमित्यादिना । पुत्रप्रकरण एवाभिहितत्वात् पुनरभिधानमनुपपन्नमित्यर्थः । 'पत्नी दुहितरश्चैवे ' त्यत्र चशब्दमभिप्रायतो व्याचष्टे। चशब्दाहुहित्रभावे इति। अपुत्र- २५ पौत्रसंतान इति । पुत्रपौत्रादिरूपः संतानः तदभावः अपुत्रपौत्रसंतानः । तस्मिन् सति पुत्रपौत्र- दुहित्रभावे धनं दौहित्रा एव पौत्रस्थानीया अवानुयुः । पूर्वेषां मातामहादीनां स्वधाकारे श्रा- द्धादौ दौहित्रकाः पौवाः मताः संमताः । त एवाधिकारिणः । श्राद्धादौ दौहित्रा एव पौत्रस्थानी- या इत्यर्थः । अकृता वा कृता वाऽपीति । पुत्रिकात्वेन कृता वाऽकृता वा दुहितृत्वात्सदृशात्स- वर्णायं सुतं लभते तेन सुतेन मातामहः पौत्री पौत्रवान् । स तस्य धनं गृह्णीयात् पिंडमपि ३० दद्यादित्यर्थः । 'पितरावि ' त्यत्रैकशेषोऽभिप्रेत इत्याह । पितरौ मातापितराविति । ननु दुहितृदौहित्रा- भावे पित्रोर्धनभाक्त्वं विधीयते तत्रैकशेषत्वात् मिलितयोर्वा धनग्रहणं उत प्रत्येकं तत्राप्यैच्छिको वा क्रमः उत प्रतिनियतो वा क्रम इत्याकांक्षायामाह । यद्यपीति । अयमर्थः । 'चार्थे द्वै । इतरेतर- १क-तस्मिन्नसति । २ व्या. सू. (२।२।२९)।

श्लोकः १३६] सुबोधिनी. ७१ । योगसमाहारयोर्विधीयमानो इंद्वसमास उभयपदार्थप्रधानो भवति । अत एव पूर्वपदार्थरूपमुत्तरपदार्थ- रूपं चाधिकरणम् युगपत् द्वंद्वसमासाभिधाने । अपरथा उभयपदार्थप्राधान्याभावात् । एवं स्थिते पिता मात्रेत्येकपदलोपेनान्यतरपितृशब्दावशेषस्य पितरावित्यस्यापि युगपदधिकर- णवचनत्वेन यद्यपि समासे कमो न प्रतीयते तथापि माता च पिता चेति विग्रहवाक्ये अभ्यहित पूर्वमिति मातृशब्दस्य पूर्वनिपातात् यदात्वेकशेषाभावः तदा समासेऽपि मातापितरौ इति पूर्व मातृ- ५ शब्दस्य श्रुतेरुभयथाऽपि मातृशब्दस्य पूर्वमुच्चरितत्वाच्छब्दोच्चारणक्रमेणार्थक्रमप्रतीतेः । प्रकृतेऽपि धनग्रहणे क्रमापेक्षायां क्रमांतराप्रतीतेर्विग्रहसमासप्रतीतक्रमानुसरणेनैव मात्रभावे पितुर्धनसंबंधो वेदितव्य इति । मातुः स्वपुत्रान्प्रत्यसाधारणत्वेन पित्रपेक्षयाऽत्यंतसंनिहितः संनिकर्षः । पितुस्तु सवर्णाया जात- पुत्रेभ्यः क्षत्रियादिस्त्रीभ्यो जातपुत्रेभ्यश्च पितृत्वं साधारणमिति मात्रपेक्षया साधारणत्वाकारेण व्यवहितः १० संनिकर्ष इति मातुरधिका प्रत्यासतिः । ततश्च 'अनंतरः सपिंडाद्य ' इत्यनेन यः सपिंडात्सनिहितः तस्य सपिंडसन्निहितस्य धनं सपिंडस्य सन्निहितस्य धनं भवोदति विहितत्वात् मातैव प्रथमं धनभागिनी- त्याह । किंच पिता पुत्रांतरेष्वित्यादिना । यद्यपि पुत्रे पित्रवयवबाहुल्यात् मात्रपेक्षया प्रत्या- सत्त्यतिशयः एतदेव च प्रत्यासत्तेर्मूलकारणं, तथापि पुत्रांतरेषु पितुः साधारणत्वेन मातुरसाधारणत्वेन चैवंविधाव्यवहितसंनिकर्षसधींचीनया पितरावित्येकपदात्मिकया श्रुत्या स्वविग्रहवाक्यांतर्गतक्रमस्थोप- १५ स्थापितत्वादेष एव क्रमो ज्यायानित्यभिप्रायः । नन्वनुगतं हि कारणं लोके दृश्यते ' अनंतरः सपिंडाय ' इत्यस्मिन् वचने सपिंडपदोपादानेन सपिंडेष्वेव प्रत्यासत्तिर्धनग्रहणे कारणं न समानोदके। तब कारणांतरं वक्तव्यम् । तदेव सपिंडेष्वपि भवतु किमनया प्रत्यासत्त्येत्याशंक्य सपिंडपदं समानोदकानामप्युपलक्षकम् । अतोऽनेनैव वचनेनोभयत्र प्रत्या- सत्तिरेव धनग्रहणे कारणमित्याह । न च सपिंडेष्वेवेत्यादिना। रिक्थं भ्रातर एव वेति। २० अत्र वाशब्दो व्यवस्थितविकल्पार्थः । मातुरभावे पिता रिक्थग्राहीत्युक्तम् । तदन्यैरन्यथाकृतं तत्प- रोक्तं निराकर्तु सिंहावलोकनन्यायेनानुभाषते । यत्पुनर्धारेश्वरेणेत्यादिना ॥ अयमभिप्रायः । पित्रा गृहीतं तद्धनं पितृधनमिति मूर्धावसिक्तजातीयपुत्राणामपि भवति, पिता- मह्या गृहीते तु मातृधनत्वेन तदुहितॄणां तदभावे दौहित्रपुत्रादीनां क्रमाद्भवतीति सजातीयानामेव भवे- दित्येवंरूपयुक्त्युपबंहितमनुवचनेन मात्रभावे पितामही गृह्णीयादिति न्यायविद्विश्वरूपाचार्यों २५ नांगीकुरुत इति निराकरोति । एतदप्याचार्य इति। भवेदेवं यदि परंपरया विजातीयपुत्रग्रहणे दोषः । न च तथा । अपि तु तेऽपि वचनेनैव रिक्थभाज इत्येकदेशिमतनिराकरणे हेतुमाह । विजातीयपुत्राणामपीति। 'मातयपि च वृत्तायां पितुर्माता हरेद्धनमिति ' मनुवचनं न क्रमपरम् । अपि तु पितामह्यपि धनग्रहणेऽधिकारिणीत्ये- वमधिकारप्रदर्शनपरं व्याख्येयम् । अथवा मात्रनंतरं पितृभ्रातृतत्सुताः क्रमेण धनभाजः एतेषामप्यभावे ३० पितामही गृह्णीयादित्येवमध्याहृत्य व्याख्येयम् । अथवा नाध्याहारापेक्षा 'पितुर्माता हरेद्धनाम ' त्युक्या तत्रत्यपितृशब्दः पितरं तत्कुलभूतं पुत्रपौत्रं च लक्षयति । पितुर्मातेत्येतत्पदवयं तु तदनंतरं पितामहाँ धनसंबंध बोधयतीति गम्यते । यतः सूत्रप्राया प्राचामुक्तिः । अत एव 'पितामहीत नोपात्तम्' इति । १ क-युनयन्नदंदूसमासोनिधाने। २ क-अविशेषस्य ! ३-पूर्वोक्तनिपातात् । ४ क-जानिपुत्रेभ्यः । ७ क-युवान। ६ क-तत्परित्यक्तं । ७ कख-मातामह्या । * कख-संनिकर्म । ..

मिताक्षराटीका. [ श्लोकः १३६ R -- । परमतं निराकृत्य यदुक्तं पित्रभावे भ्रातरो धनभाज इति तदिदानीं विशेषकथनेनानु- संधत्ते । भ्रातृष्वपि सोदरा इत्यादिना । तत्पुत्राः पितृकमेण धनभाज इति । 'अनेकपितृकाणां तु पितृतो भागकल्पने' त्यनेन न्यायेन भ्रातृसुतानामेकत्वे द्वित्वे बहुत्वेऽपि स्वपितृद्वारा भागकल्पना न स्वरूपद्वारेत्यर्थः । भ्रातृभ्रातृपुत्रसमवाये इति । मृतस्य भ्रातरः ५ केचन संति । तथा प्रमीतपितृका भ्रातृपुत्राश्च । तत्र भ्रातॄणां तत्पुत्राणां च सद्भाव इत्यर्थः । भ्रात्रभावे भ्रातृपुर्वाणामिति । 'पितरौ भ्रातरस्तथा तत्सुता गोवजा ' इति भ्रात्रभावे तत्पुत्राणामधिकारप्रतिपादनादित्यर्थः । यदा त्वपुत्रे भ्रातरि स्वर्याते इत्यादि। अयमर्थः । बहुभ्रातृछु विभक्तेषु सत्सु तेष्वेकोऽनपत्योऽपत्नीको मृतः पितरौ च न स्तः तदा तत्र भ्रातूणां तद्धनग्रहणेऽधिकारे प्राप्ते भ्रातृधनस्य विभागात्पूर्वमेवान्यो भ्राता मृतः तस्य पुत्राः संति तादृशस्थले भ्रातृभ्रातृपुत्रसम- १० वाये भ्रातृणामेव धनमित्युक्तत्वात् भ्रातर एव विभज्य न गृह्णीयुः । अपि तु मृतभ्रातृपुत्रा अपि । तत्पितुर्धनसंबंधस्य प्राप्तत्वात् पितृद्रव्ये पुत्राणामधिकारात् । इयांस्तु विशेषः तत्र भ्रातृभ्यो भ्रातृ- पुत्राणाम् । भ्रातरः स्वीयानंशान् लभंते भ्रातृपुत्रास्तु स्वपित्रंशमिति । गोत्रजाः पितामही सर्पि- डाः समानोदकाश्चेति । पितामही च सपिंडाश्च समानोदकाश्चेति पदविभागः। ननु पितामह्या मात्रनंतरं धनग्रहणे युक्ते भ्रातृसुतानंतरं धनग्रहणोक्तिः कथमित्याशंक्याह १५ मातर्यपि च वृत्तायां पितुर्माता धनं हरेदिति मात्रनंतरं इत्यादिना । अयमभिसंधिः । ' मातर्यपि च वृत्तायां' इत्यस्य मनुवचनस्य पूर्वोक्तयुक्त्या धनग्रहणाधिकारप्राप्तिमात्राद्यर्थपरत्वेन क्रमे तात्पर्याभावात् । पुत्रपौत्राभावे ' पत्नी दुहितरश्चैवति ' पत्नी दुहितृदौहित्रा धनभाज इत्यभिधाय 'पितरौ भ्रातरस्तथा तत्सुता' इति मातापित्रोरव्यवहितत्वात्तदनंतरमेकगोवत्वे सति स्वपितृकुलत्वेनात्यं- तांतरंगत्वादानंतर्यपाठा 'त्पूर्वाभावे परः पर इति ' वाक्यशेषाच्च भ्रातृतत्सुतपर्यंतानां संदृष्टक्रमत्वेन २० तेषां मध्ये पितामह्या धनग्रहणविषये ऽप्रवेशयन् भ्रातृसुतानंतपर्यंतमाकृष्यापनुन्ना* सती पितामहीं “मातर्यपि च वृत्तायां पितुर्माता धनं हरेदिति ? पातीतिकक्रमस्यातःपरं बाधहेत्वभावात् भ्रातृसुता- नंतरं गोत्रजा इति पाठान्मनुवचनस्थपातीतिकक्रमानुसारेण पितामहाद्यपेक्षया पितामह्या एक सन्निहितत्वात् गोत्रजातत्वाच्च भ्रातृसुतानंतरमेव रिक्थभागिनीति । अत्र कैश्चिदेवमभिहितं । दौहित्रानंतरं पिता माता च धनग्रहणे युगपदधिकारिणौ उभयोरफि २५ सनिहितत्वात् अत एव तौ विभज्य गृह्णीयाताम् । न तु माता पूर्वं तद्भावे पितेत्ययं क्रमः । अनेनै- वाभिप्रायेण याज्ञवल्क्येन पितरावित्येकशेषः कृतः। एकशेषे क्रमाप्रतीतौ च पांचमिकन्याय उदाहृतः। तद्यथा-पंचमप्रथमपादाधिकरणं । 'मुख्यक्रमण वांऽगानां ' तदर्थत्वात् ' सारस्वतौ भवत ' इति युरोडाशहविष्कं यागद्वयं विहितम् । सरस्वती देवता अस्य सारस्वतः पुरोडाशः। सरस्वान् देवता अस्य सारस्वतः तौ सारस्वतावित्येकशेषः । एवं स्थिते स्त्रीदैवत्ययाज्यानुवाक्यायुगलमाम्नायपाठे प्रथम ३० पठितं । ततश्च पुंदैवत्ययाज्यानुवाक्यायुगलं पठितमिति मंत्रपाठानुसारेण यागानुष्ठानक्रमः एतावान- धिकरणविषयमूलविभागः । इतःपरमधिकरणार्थचिंता । पुरोडाशयागस्येष्टिविकृतत्वादतिदेशेन चतुरो मुष्टीन निर्वपतीति विहितो निर्वापः प्राप्तः । तत्र संदेहः । किमनियमेन निर्वापः कर्तव्य उत स्त्रीदेवत्यं निरूप्य ततः पुंदैवत्यनिर्वाप इति । तवातिदेशमाप्तनिर्वापक्रमामतीतेरनियमेन निर्वाप इति प्राप्तेऽभिधीयते । मुख्ययागक्रमेणैव निर्वापः १ब-तबुलं । २ क-तदा भ्रातॄणां । ३ क-मातृधनग्रहणे । ४ क-ननु । *क-मपकृष्य । ।

श्लोकः १३६ ] सुबोधिनी. कर्तव्यः । मुख्ययागयोस्तु याज्यानुवाक्यायुगलपाठानुक्रमणानुष्ठानकमः । अतः प्रमितकमाविरोधाय मुख्यक्रमानुसारेणैव निर्वापानुष्ठानक्रम इति राद्धांतः । एवमत्राधिकरणे सारस्वतौ भवत इति अतिदेश- वाक्ये एकशेषत्वेन क्रमाप्रतीतेऽर्थतो याज्यानुवाक्यायुगलपाठक्रमेण यागयोरनुष्ठानक्रमोऽगीकृतः । अतोऽत्रापि 'पितरौ भ्रातर ' इति वचने एकशेषत्वेन पितरावित्यत्र क्रमाप्रतीतेः सामान्यतो दौहित्रानंतर मातापित्रोयुर्गपद्धनप्राप्तिः । तदभावे भातृणां तदभावे तत्सुतानामिति प्राप्ते न्यायमूलमिदं योगीश्वर- ५ वचनं कात्यायनवचनेनापोद्यते । सामान्यन्यायापेक्षया वचनस्य प्राबल्यात् । वचनं च विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ॥ भ्राता वा जननी वाऽथ माता वा तत्पितुः क्रमात् । । अस्य चार्थ एवमभिहितः । पुत्रग्रहणमासन्नतरोपलक्षणार्थम् । तेन पुत्रपौत्रपत्नी- दुहितृदौहित्राभावे प्रथमं पिता धनभागिति । मिताक्षराकारव्याख्याने दूषणान्यप्यभिहितानि । तद्यथा । मातुः स्वपुत्रेष्वसाधारणत्वात् १० पितुस्तु पुत्रांतरेषु साधारणत्वाच्च मातुरेवामुयोत्सत्यतिशये इति यदुक्तं तदसत् । न हि जननीजनकयो- जन्यं प्रति सन्निकर्षतारतम्यमस्तीति । अन्यच्च । गोत्रजा इत्यनेन पितामही सपिंडाश्च समानोदकाश्चो- च्यते । एवं च ' पितरौ भ्रातरस्तथेति ' पुत्रादीनां भ्रातृसुतपर्यंतानां बद्धक्रमत्वेन मध्ये पितामह्याः प्रवेशाभावेन ' मातर्यपि च वृत्तायां पितुर्माता धनं हरेदिति' मात्रनंतरं पितामही न धनं प्रामोति । अपि तु उत्कृष्टा सती भातृसुतानंतरं प्रामोतीति यदुक्तं, तदप्यसत् । गोत्रजा इति सौंपैकशेषत्वेन पुंसा- १५ मेव ग्रहणात् । तथा च पूर्वोक्तभ्रातृसुतैः सह गोत्रजानां पुरुषत्वेन बद्धक्रमत्वाविशेषेण तत्रापि पितामह्याः प्रवेशाभाव इत्यादीनि । एतदखिलमप्यचतुरस्रम् । तथा हि । न तावदेकशेषे क्रमाप्रतीतिः विग्रहवाक्ये चानेकशेषपक्षे च मातुः पूर्वपाठादेव क्रमप्रतीतेः । ननु 'सारस्वतौ भवत' इत्युक्तं इति चेत् न, तन्यायविरोधाभावात् । तथाहि सारस्वतश्च सारस्वतश्च सारस्वताविति — सरूपाणामेकशेष एक विभक्तौ' इति सरूपैकशेषत्वात् क्रमस्तत्र विग्रहवाक्येऽपि न प्रतीयते अतः कोऽर्ज क्रम इत्याकांक्षायां २० औतो मंक्रमो युक्त इति याज्यानुवाक्यायुगलक्रमेण यागानुष्ठानक्रमो निरूपितः न तु सर्वत्रैकशेषे क्रमप्रतीत्यभाव इत्यभिप्रायः । प्रकृते तु 'पितरा' वित्यत्र 'पिर्ता मात्रोत' विजातीयैकशेषत्वाद्विग्रहवा- क्येऽवश्यं क्रमप्रतीतेः स क्रमो ग्राह्य एव । यञ्चोक्तं । नहि जननीजनकयोर्जन्यं प्रति सन्निकर्षतारतम्यमस्तीति तदपि स्थवीयः । गर्भ- धारणपोषादिभिरत्यावश्यकत्वेन जन्येऽतिशयांतरमुत्पादयति माता । पिता तु निषेककृदेव । अदृष्टात् २५ दृष्टस्यैव प्राबल्यात् दृष्टोपकाराधिक्यान्मातुः सनिकर्षातिशयोऽस्तीति । यदपि चोक्तं गोत्रजा इति सरूपैकशेषत्वात् भ्रातृतत्सुतादिभिः सह बद्धक्रमत्वात् पितामह्या भातृसुतानंतरमपि प्रवेशाभाव इति तदसाधु। विजातीयानामपि स्त्रीणां पुंसां च गोत्रजाश्च गोत्रजाश्च इत्ये- कविभक्त्यंतत्वाविरोधात् । जातिद्रव्यगुणा इतिवत् । नापि बद्धक्रमता । पित्रादिभ्रातृसुतानां गोत्रजानां चन बद्धक्रमता। अतः पत्न्यभावे दुहिता तदभावे दौहिवस्तदभावे माता तदभावे पिता ३० तदभावे भ्रातरस्तदभावे भ्रातृसुतास्तदभावे पितामहीति च क्रमः । यथाह बृहस्पतिः । 'भार्यासुतविहीनस्य तनयस्य मृतस्य तु । माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञयेति ।। १ दूर-प्रतीतेर्यतो । २ क-चाथ । ३ पितृष्वसु । ४ 'मातुरेव प्रत्यासत्यातिशये ' इति समीचीनः पाठः। ५ “ सरूपाणामेकशेष एकविभक्तौ" । व्या. सू. १२२।६४।।। ६ क-ख-कोवा । ७ क-ख-मंचक्रमोपयुक्त। ८व्या. सू. शसभा ९ख-रिक्थहरी ।।

७४ मिताक्षराटीका. [ श्लोकः १३७ अस्यार्थः । सुतविहीनस्य मृतस्यास्य रिक्थहरी भार्या । तदभावे तनया । तदभावे तत्पुत्रः । तदभावे माता। मात्रनुज्ञया मृतस्य भ्राता वा । भ्रात्रा गृहीतेऽपि मात्रनुज्ञया गृहीतत्वादेव मात्रा गृहीतमेवेति मातुरेव पितुः पूर्व रिक्थभाक्त्वमिति । केचन बृहस्पतिवचनेऽपि तनय- शब्दो दौहित्रपितगामुपलक्षक इति कथयति । तन्मंदं । अनुपपत्त्या हि लक्षकत्वं शब्दानाम् । ५ एवं च सर्वत्राविवादेन दुहितुरभावे दौहित्रस्य धनभावत्वं वचनेष्वविशिष्टमिति दुहित्रनंतरं वचनांतर- विरोधरूपया दुहितृसंततिरूपया चानुपपत्त्या दुहितृदौहित्रयोरेवोपलक्षको न तु पितुः । तावतैवानुपपत्तेः परिक्षीणत्वात् । परिक्षयश्च मानवादिवचनांतरेषु पितुरौहित्रानंतर्यस्यानियतत्वेन । अतो यावत्यर्थे लक्षितेऽनुपपत्तिः शाम्यति तावानेव तनयशब्देन लक्ष्यत इति । न पितुदौहित्रानंतरं प्रतीतिः । यच्च कात्यायनवचनम् ‘विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी १. वाऽथ माता वा तत्पितुः क्रमात् ' इति । अत्रापि वाशब्दस्य श्रवणान्न क्रमपरता। अपि तु वचनोपात्ता एतेऽधिकारिण इत्यधिकारमात्रप्रदर्शनपरतैव । स्वाम्याख्ये सिद्धरूपे वस्तुनि विकल्पाभावादपिशब्दार्था वाशब्दाः । न तु परोक्तरीत्या पूर्वपूर्वाभावपरा वाशब्दाः । अभावे वाशब्दस्य शिष्टप्रयोगाभावात् । अप्यर्थे प्रयोगाच्च । अथशब्दोऽप्यानंतर्यपरो न मात्रनंतरमेव पितामह्या धनसंबंध बोधयति । वाक्यस्योक्तरीत्या १५ क्रमपरत्वाभावात् । अतो भ्रातृसुतानतरमेवाविरोधात् धनसंबंध. बोधयतु । तथापि स्वार्थाहानात् कमादिति च पदं 'पूर्वाभावे परः पर' इति योगीश्वरवचनवाक्यशेषपर्यालोचनया तवत्यमविरुद्ध- मेतत्क्रम बोधयति न स्ववाक्यस्थम् । अव क्रमादिति सामान्येनाभिधानात् । योगीश्वरेण 'पूर्वाभाव ' इति विशेषोपादानात्सामान्यं प्रति विशेषस्य बाधकत्वात् । तस्मादन्यैर्यत्किंचिदुक्तमिति मिताक्षरा- व्याख्यानमेव युक्ततरामति सर्वं सुस्थम् ॥ एवं भ्रातृसुतानंतरं पितामह्या धनग्रहणे युक्ततरे सति ततोऽपि क्रमं विविच्य दर्शयति । तत्र च पितृसंतानाभाव इति । पितृसंतानो भ्रातृतत्सुतपर्यंतः । जन्मनामज्ञानावधिकावति । सपिं- डानामुपरीत्यनुवर्तते । ततश्च सप्तपुरुषानंतरं यावज्जन्म च नाम च ज्ञायते तावदा समानोदकसंज्ञका इत्यर्थः । गोत्रजाभावे बंधवो धनभाज इति । पितामही-पितामह-पितृव्य-तत्पुत्राणां, प्रपि- तामही-अपितामह-पितामहभ्रातृ-तत्पुत्राणां, प्रपितामहमातृ-प्रपितामहपितृ-पितामहभ्रातृ-तत्पुत्राणां, २५ पितामहपितामही-प्रपितामहपितामह-प्रपितामहपितृव्य-तपुत्राणां, प्रपितामहप्रपितामही प्रपितामहपपि- तामह-अपितामहपितामहभ्रातृतत्पुत्राणां समानोदकेष्वप्यनेन न्यायेन तेषां भाव इत्यर्थः । ब्राह्मणार्थस्य तन्नाश इति । ब्राह्मणार्थस्य कश्चन दायादो न चेत् तद्भाह्मणायैव दातव्यं तदिति सामान्येन निर्देशः । अध्याहारेण कस्मिन् सात ? । तन्नाशे तस्य स्वामिनो ब्राह्मणस्य नाशे सतीत्यन्वयः । अथवा तदिति पृथक्पदं । सर्वाभावे हरनृप इति । सर्वाभावे सर्वसब्रह्मचारिपर्यं- ६. तानामभावे. इत्यर्थः ॥ १३५॥१३६॥ याज्ञवल्कीये १३७ श्लोकः। नैष्ठिकस्य धनं तदंपवादेनेति' । मात्रादिग्रहणापवादेनेत्यर्थः । सच्छिष्य इति । शिष्यस्य सम्यक्त्वमुपलक्षणं अत आचार्यधर्मभ्रात्रेकतीथिनावपि सुवृत्तावेव - धनग्राहिणांवित्याह । २० । । १.९७५.२३.

श्लोकः १३९ ] सुबोधिनी. दुर्वृत्तस्याचार्यादेरपीति । अनेनैवाभिप्रायेण याज्ञवल्क्योऽपि ' आचार्यसच्छिष्यधर्मनात्रेक- तीर्थिन ' इत्युभयत्र संबंधं द्योतयितुं सच्छिष्य इति मध्ये परिगणयामास । अथवा सच्छिष्य इत्यनेनादुर्वृत्तत्वं नाभिधीयते । अपि तु अध्यात्मश्रवणादिसमर्थोऽभिधीयते । न (नु ?) च दुर्वृत्तानामाचार्यादीनां सर्वेषामपि भागानईत्वस्याविशिष्टत्वात् शिष्यस्यैवादुर्वृत्तत्वकथन- मनुपपन्नं स्यादित्याह । सच्छिष्यः पुनरित्यादिना । भागानहत्वादित्यन्तेन । प्रतिपन्नो ५ भ्रातोति । भ्रातृत्वेनांगीकृत इत्यर्थः । आचार्यसच्छिष्यभ्रात्रेकतीथिनामभावे ब्रह्मचारियतिवानप्रस्थानां को धनं गृह्णीयादिति आह । एतेषामाचार्यादीनामभावे इति । योगसंभारभेदांश्चेति । योगप्रतिपादकग्रंथादीनित्यर्थः । याज्ञवल्कीये १३८ श्लोकः । संसृष्टिशब्दं निर्वक्तुं संसृष्टशब्दार्थमाह । विभक्तं धनमिति । मूलवचनं व्याचष्टे । तस्य संसृष्टिन इत्यादिना। संसृष्टयेवापहरेत् गृह्णीयात् न पत्न्यादिरित्यतेन । नान्यो धन हरेदित्युपरितनवाक्यशेषस्थित 'हरेदिति पदमपकृष्येतद्वाक्यं पूरयति । अपहरेत् गृह्णी- यादिति । तस्येत्यनेन पूर्वोक्तं समासवाक्यं पूरयति । अत्र मृतस्येत्यर्थलभ्यं पदं प्रकरणलभ्यं वा वचनांतरविरोधपरिहाराय तदर्थेन वाक्याथै पूरयति । विभागकालेऽविज्ञातगर्भायामिति । १५ इदमत्राकूतम् । यदा त्रिचतुरो भ्रात्रादयः संसृष्टिनस्तदा तेष्वेकस्मिन् भ्रातरि स्वभार्यायां गर्भ- माधाय दिवं गते संसृष्टिनां जीवतामनेकत्वादैक्याभावात् च विभागः प्राप्तः । एकत्वे ऐक्ये च वि- भागाभावात् । तस्मिन विभागकालेऽस्पष्टगर्भत्वेन यदि गर्भो न विज्ञातो विभागश्च निष्पन्नः कालांतरे पुत्र उत्पन्नः तदा तस्मै तत्पित्रंशो दातव्यः । तदभावे संसृष्टिव्यक्तिपालोचनयांऽशकल्पनया संसृ- ष्टिनो गृह्णीयुरिति । अत्र संसृष्टीत्यनुगतधर्मविवक्षया एकवचनम् । अन्यथा व्यक्त्येकत्वे विभागाभावात् २० पूर्ववाक्यानुवृत्तौ यो वाक्यार्थः संपद्यते तं दर्शयति । 'अतः सोदरस्य संसृष्टिन' इति 'जातस्य सुतस्येति' पूर्ववदेव विभागकालेऽस्पष्टगर्भायां पश्चादुत्पन्नस्येत्यर्थः ॥ सोदरस्य तु सोदर इत्यनेन 'संसृष्टिनस्तु संसृष्टी' त्यस्यापवाद इत्युक्तं तदभिप्रायतः स्फोटयति । एवं च सोदरासादर- संसर्ग इति। याज्ञवस्कीये १३९ श्लोकः। कस्य धनग्रहणमिति विवक्षायां दर्शने ज्ञाने समुत्पने, जिज्ञासायां सत्यां इति यावत् । मूलवचनद्वितीयार्धादिपदांतमादित आरभ्य वाक्यमित्याह । अन्योदर्यः सापत्नो भ्रातेति । अत्र संसष्टिन इत्यस्य पदस्यानुवृत्तिर्द्रष्टव्या । अतः संसृष्टिनो धनमित्यर्थः । संसृष्टिनो भिन्नोदरस्य धनहारित्वविधानरूपेणान्वयेनासंसृष्टिनो भिन्नोदरस्य धनहारित्वनिषेध- रूपेण च व्यतिरेकेण योऽर्थो निष्पन्नस्तं निष्कृष्य दर्शयति । अनेनान्वयव्यतिरेकाभ्यामिति । ३० असंसृष्टीत्येतत्पदं काकाक्षिवदुभयत्र संबध्यते। अतः ‘असंसृष्टयपि चादद्यादि' त्यंतमन्यद्वाक्यमित्याह। असंसृष्टीप्येतदुत्तरेणापीति । एतद्वाक्यमेवाह । अतश्चासंसृष्ट्यपीति । संसृष्टयाधिकारत्वादेव १ ख-बोधयितुं । २ पृ. ९८ पं.७ ।। - २५ मिताक्षराटीका. [ श्लोकः १३७ अस्यार्थः । सुतविहीनस्य मृतस्यास्य रिक्थहरी भार्या । तदभावे तनया । तदभावे तत्पुत्रः । तदभावे माता । मात्रनुज्ञया मृतस्य भ्राता वा । भ्रात्रा गृहीतेऽपि मात्रनुज्ञया गृहीतत्वादेव मात्रा गृहीतमेवेति मातुरेव पितुः पूर्वं रिक्थभाक्त्वमिति । केचन बृहस्पतिवचनेऽपि तनय- शब्दो दौहित्रपितगामुघलक्षक इति कथयति । तन्मंदं । अनुपपत्त्या हि लक्षकत्वं शब्दानाम् । ५ एवं च सर्वत्राविवादेन दुहितुरभावे दौहित्रस्य धनभाक्त्वं वचनेष्वविशिष्टमिति दुहित्रनंतरं वचनांतर- विरोधरूपया दुहितृसंततिरूपया चानुपपत्त्या दुहितृदौहित्रयोरेवोपलक्षको न तु पितुः । तावतैवानुपपत्तेः परिक्षीणत्वात् । परिक्षयश्च मानवादिवचनांतरेषु पितुर्दीहिवानंतर्यस्यानियतत्वेन । अतो यावत्यर्थे लक्षितेऽनुपपत्तिः शाम्यति तावानेव तनयशब्देन लक्ष्यत इति । न पितुदौहित्रानंतरं प्रतीतिः। यच्च कात्यायनवचनम् ‘विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी १० वाऽथ माता वा तत्पितुः क्रमात् ' इति । अत्रापि वाशब्दस्य श्रवणान्न क्रमपरता। अपि तु वचनोपात्ता एतेऽधिकारिण इत्यधिकारमात्रप्रदर्शनपरतैव । स्वाम्याख्ये सिद्धरूपे वस्तुनि विकल्पाभावादपिशब्दार्था वाशब्दाः । न तु परोक्तरीत्या पूर्वपूर्वाभावपरा वाशब्दाः । अभावे वाशब्दस्य शिष्टप्रयोगाभावात् । अप्यर्थे प्रयोगाच्च। अथशब्दोऽप्यानंतर्यपरो न मात्रनंतरमेव पितामह्या धनसंबंध बोधयति । वाक्यस्योक्तरीत्या १५ क्रमपरत्वाभावात् । अतो भ्रातृसुतानतरमेवाविरोधात् धनसंबंध. बोधयतु । तथापि स्वार्थाहानात् क्रमादिति च पदं 'पूर्वाभावे परः पर' इति योगीश्वरवचनवाक्यशेषपर्यालोचनया तवत्यमविरुद्ध- मेतत्क्रमं बोधयति न स्ववाक्यस्थम् । अत्र क्रमादिति सामान्येनाभिधानात् । योगीश्वरेण 'पूर्वाभाव इति विशेषोपादानात्सामान्यं प्रति विशेषस्य बाधकत्वात् । तस्मादन्यैर्यत्किंचिदुक्तमिति मिताक्षरा- व्याख्यानमेव युक्ततरामति सर्वं सुस्थम् ॥ एवं भ्रातृसुतानंतरं पितामह्या धनग्रहणे युक्ततरे सति ततोऽपि क्रमं विविच्य दर्शयति । तत्र च पितृसंतानाभाव इति । पितृसंतानो भ्रातृतत्सुतपर्यंतः । जन्मनामज्ञानावधिकावति । सपिं- डानामुपरीत्यनुवर्तते । ततश्च सप्तपुरुषानंतरं यावज्जन्म च नाम च ज्ञायते तावदा समानोदकसंज्ञका इत्यर्थः । गोत्रजाभावे बंधवो धनभाज इति । पितामही-पितामह-पितृव्य-तत्पुत्राणां, प्रपि- तामही-प्रपितामह-पितामहभ्रातृ-तत्पुत्राणां, मपितामहमातृ-प्रपितामहपितृ-प्रपितामहभ्रातृ-तत्पुत्राणां, प्र- २५ पितामहपितामही-अपितामहपितामह-प्रपितामहपितृव्य-तपुत्राणां, प्रपितामहप्रपितामही प्रपितामहपपि- तामह-अपितामहपितामहभ्रातृतत्पुत्राणां समानोदकेष्वप्यनेन न्यायेन तेषां भाव इत्यर्थः । ब्राह्मणार्थस्य तन्नाश इति । ब्राह्मणार्थस्य कश्चन दायादो न चेत् तद्ब्राह्मणायैव दातव्यं तदिति सामान्येन निर्देशः। अध्याहारेण कस्मिन् सति ? । तन्नाशे तस्य स्वामिनो ब्राह्मणस्य नाशे सतीत्यन्वयः । अथवा तदिति पृथक्पदं । सर्वाभावे हरेनृप इति । सर्वाभावे सर्वसब्रह्मचारिपर्यं- ३. तानामभावे. इत्यर्थः ॥ १३५।१३६॥ याज्ञवल्कीये १३७ श्लोकः। 'नैष्ठिकस्य धनं तदंपवादेनेति । मात्रादिग्रहणापवादेनेत्यर्थः । सच्छिष्य इति । शिष्यस्य सम्यक्त्वमुपलक्षणं अत आचार्यधर्मभ्रात्रेकतीथिनावपि सुवृत्तावेव - धनग्राहिणांवित्याह । २० . १पृ.९७ पं. २३.

लोकः १३९ ] -- सुबोधिनी. । । दुर्वृत्तस्याचार्यादेरपीति । अनेनैवाभिप्रायेण याज्ञवल्क्योऽपि आचार्यसच्छिष्यधर्मभ्रात्रेक- तीर्थिन ' इत्युभयत्र संबंधं द्योतयितुं सच्छिष्य इति मध्ये परिगणयामास । अथवा सच्छिष्य इत्यनेनादुर्वृत्तत्वं नाभिधीयते । अपि तु अध्यात्मश्रवणादिसमर्थोऽभिधीयते । न (नु ?) च दुर्वृत्तानामाचार्यादीनां सर्वेषामपि भागानहत्वस्याविशिष्टत्वात् शिष्यस्यैवात्तत्वकथन- मनुपपन्नं स्यादित्याह । सच्छिष्यः पुनरित्यादिना । भागानहत्वादित्यन्तेन । प्रतिपनो ५ भ्रातोति । भ्रातृत्वेनांगीकृत इत्यर्थः । आचार्यसच्छिष्यभ्रात्रेकतीथिनामभावे ब्रह्मचारियतिवानप्रस्थानां को धनं गृह्णीयादिति आह । एतेषामाचार्यादीनामभावे इति । योगसंभारभेदांश्चेति । योगप्रतिपादकग्रंथादीनित्यर्थः । याज्ञवल्कीये १३८ श्लोकः । संसृष्टिशब्दं निर्वक्तुं संसृष्टशब्दार्थमाह । विभक्तं धनमिति । मूलवचनं व्याचष्टे । तस्य संसृष्टिन इत्यादिना। संसृष्ट्येवापहरेत् गृह्णीयात् न पत्ल्यादिरित्यंतेन । नान्यो धनं हरेदित्युपरितनवाक्यशेषस्थित 'हरेदिति' पदमपकृष्यैतद्वाक्यं पूरयति । अपहरेत् गृही- यादिति । तस्येत्यनेन पूर्वोक्तं समासवाक्यं पूरयति । अत्र मृतस्येत्यर्थलभ्यं पदं प्रकरणलभ्यं वा वचनांतरविरोधपरिहाराय तदर्थेन वाक्याथै पूरयति । विभागकालेऽविज्ञातगर्भायामिति । १५ इदमत्राकूतम् । यदा त्रिचतुरो भ्रात्रादयः संसृष्टिनस्तदा तेष्वेकस्मिन् भ्रातरि स्वभार्यायां गर्भ- माधाय दिवं गते संसृष्टिनां जीवतामनेकत्वादैक्याभावात् च विभागः प्राप्तः । एकत्वे ऐक्ये च वि- भागाभावात् । तस्मिन् विभागकालेऽस्पष्टगर्भत्वेन यदि गर्भो न विज्ञातो विभागश्च निष्पन्नः कालांतरे पुत्र उत्पन्नः तदा तस्मै तत्पित्रंशो दातव्यः । तदभावे संसृष्टिव्यक्तिपालोचनयांऽशकल्पनया संसृ- ष्टिनो गृह्णीयुरिति । अत्र संसृष्टीत्यनुगतधर्मविवक्षया एकवचनम् । अन्यथा व्यक्त्येकत्वे विभागाभावात् २० . पूर्ववाक्यानुवृत्तौ यो वाक्यार्थः संपद्यते तं दर्शयति । 'अतः सोदरस्य संसृष्टिन' इति जातस्य सुतस्येति' पूर्ववदेव विभागकालेऽस्पष्टगर्भायां पश्चादुत्पन्नस्येत्यर्थः ॥ सोदरस्य तु सोदर इत्यनेन 'संसृष्टिनस्तु संसृष्टी' त्यस्यापवाद इत्युक्तं तदभिप्रायतः स्फोटयति । एवं च सोदरासादर- संसर्ग इति। याज्ञवल्कीये १३९ श्लोकः । कस्य धनग्रहणमिति विवक्षायां दर्शने ज्ञाने समुत्पन्ने, जिज्ञासायां सत्यां इति यावत् । मूलवचन द्वितीयार्धादिपदांतमादित आरभ्य वाक्यमित्याह । अन्योदर्यः सापत्नो भ्रातेति । अत्र संसष्टिन इत्यस्य पदस्यानुवृत्तिर्द्रष्टव्या । अतः संसृष्टिनो धनमित्यर्थः । संसृष्टिनो भिन्नोदरस्य धनहारित्वविधानरूपेणान्वयेनासंसृष्टिनो भिन्नोदरस्य धनहारित्वनिषेध- रूपेण च व्यतिरेकेण योऽर्थो निष्पन्नस्तं निष्कृष्य दर्शयति । अनेनान्वयव्यतिरेकाभ्यामिति । ३० असंसृष्टीत्येतत्पदं काकाक्षिवदुभयत्र संबध्यते । अतः 'असंसृष्टयपि चादद्यादि' त्यंतमन्यद्वाक्यमित्याह । असंसृष्टीप्येतदुत्तरेणापीति । एतद्वाक्यमेवाह । अतश्चासंसृष्ट्यपीति । संसृष्टयाधिकारत्वादेव १ ख-बोधयितुं । २ पृ. ९८ पं.७॥ २५ मिताक्षराटीका. [श्लोकः १४३ । १ संसृष्टिन इति लभ्यते । संसृष्ट इत्युत्तरपदं पूर्ववाक्यशेषत्वेन योजयति । कोऽसाविति । पूर्वोक्तसंसृष्ट- शब्दार्थमाह । संसृट एकोदरसंसृष्ट इति । एकस्मिन् मातुरुदरे मिलित इत्यर्थः । एतत्पितुरप्युप- लक्षणपरम् । 'पतिजीयां प्रविशति गर्भो भूत्वा स मातरमिति । जायाया अपि मातृत्वश्रवणस्य श्रौत- त्वात्पिताऽसंसृष्टयपि पुत्रस्य । एवं पुत्रोऽप्यसंसृष्टी पितुः भ्रातुः परेतस्यान्यस्मात् संसृष्टिनो भागं हरोदति ५ तात्पर्यार्थः । संसृष्टपैदप्रयोगात् अमुमेवाभिप्रायं प्रकटयति । सोदर इति यावदिति । ' असंसृष्ट्यपि चादद्यात्संसृष्ट ' इत्येतस्य वाक्यस्य तात्पर्यार्थमाह । अनेन सोदरस्येति। पूर्वोक्तेनैव न्यायेन पूर्ववाक्यांतर्गतसंसृष्टपदं 'नान्यमातृज ' इति उत्तरपदसंदर्भेणाप्यन्वेतीत्याह । संसृष्ट इत्युत्तरेणापीति । उत्तरवाक्यशेषत्वे संसृष्टशब्दस्याभिप्रेतमर्थमाह । तत्र च संसृष्ट इति । नान्यमातृज ' इत्येतदेवशब्दाध्याहारण पूरयितुं प्रतीकमुपादत्ते । नान्यमातृज इति । १० अध्याहृतैवकारोपेतस्य · संसृष्टो नान्यमातृज ' एवेत्यस्य वाक्यस्य व्याख्याप्रकारमेवं दर्शयति । संसृ- दृयप्यन्यमातृज एवेति । 'असंसृष्टयपि चादद्यादि । त्यस्योत्तरार्धस्य सकलस्यापि तात्पर्यार्थमाह । एवं चासंसृष्टयपि चेति । तत्र हेतुमाह । द्वयोरपीति । भिन्नोदरस्य संसृष्टित्वं धनग्रहणे हेतुः सोदरस्य सोदरत्वमेव हेतुः । न संसृष्टित्वमित्यर्थः । संसृष्टिविभागं प्रक्रम्यति । सहजीवंत इत्युक्त्या तत्प्रक्रम १५ इत्यनुसंधेयम् ॥ 'येषां ज्येष्ठः कनिष्ठो वेति' मनुवचनं व्याचष्टे । येषां भ्रातृणामित्यादिना । आय- तयोर्येष्ठकनिष्ठयोरुपादानान्यायसाम्येन च मध्यमोऽपि विवक्षित इत्यभिप्रायेणाह । मध्यमो वेति । अंशाचंशे निमित्तानि दर्शयति । आश्रमांतरपरिग्रहेणेति । अस्यैव मनुवचनस्य तात्प- यार्थमाह । अतः पृथगुद्धरणीय इति । ‘सोदर्या विभजेयुरि ? त्येतन्मनुवचनं व्याख्यातुमवतार- २० यति । तस्योद्धृतस्योते । भ्रातरो ये च संसृष्टा इत्यत्र संसृष्टपदोपादानात्सोदरा अत्रासंसृष्टा इति गम्यते । अत एवार्थलभ्यार्थसंसृष्टपदान्वयेन पूर्वार्द्ध व्याचष्टे । तमुद्धृतं भागमिति । सनाभयो भगिन्यश्चति । सहोदर्यो भगिन्य इत्यर्थः ॥ १३९ ॥ याज्ञवल्कीये १४०।१४१।१४२ श्लोकाः। पुत्रपत्न्यादिसंसृष्टिनामिति । पुत्रशब्देन पौत्रोऽपि लक्ष्यते। आदिशब्देन दुहित्रादयः । २५ पुत्राश्च पत्न्यादिगणाश्च संसृष्टी चेति समासः । “विभक्तेषु सुतो जातो सवर्णायां विभाग- भागि ' त्यस्य सामान्यन्यायत्वादिति । विभागादूर्ध्वमुत्पन्ने पुत्रे स्वपुत्रोत्पत्तिरिति धर्मधर्मि- णोरुत्पत्तिमात्रभेद एव नान्यो भेदोऽस्ति इति विषयमात्रभेदात्समानन्यायत्वादित्यर्थः । उक्तदो- षदुष्टानामिति । क्लीबत्वादिभिर्दोषरित्यर्थः ।१४०।१४१।१४२। याज्ञवल्कीये १४३ श्लोकः । अनावधिकृत्येति । अग्निसन्निधावित्यर्थः । अधिवेदननिमित्तमिति। आधिवेदनं धर्म- पत्न्यां सत्यां रागत एव विवाहांतरकरणम् । षड्विधं स्त्रीधनं स्मृतमिति मनुवचनबलान्मनुपरि- गणितेष्वेव षट्सु अश्वकर्णादिवत्स्त्रीधनशब्दा अयौगिक इति केचन वर्णयति । तदसाधु । वचनांतर- । । । अपि तौ । २ ख-संसृष्टिपदाप्रयोगस्य । ३ क-उपादनम् । ४ क-लभ्यते । ५ कु-समानन्यायत्वम् ।।

श्लोकः १४५ ] सुबोधिनी.. विरोधात् शिष्टाचारविरोधादलब्धात्मिकाया रूढेर्योगस्य प्राबल्याञ्च यौगिक एवेत्यनेनाभिप्रायेणाह । स्त्रीधनशब्दश्च यौगिक इति ॥ १४३॥ याज्ञवल्कीये १४५ श्लोकः । दुहितॄणां प्रसूता चेदिति । मूलवचनस्थं पदं व्याचष्टे । सर्वेष्वपि विवाहेष्विति । दुहितृदुहितर इति । दुहितुः पुन्य इत्यर्थः । सोदर्याणामूर्ध्व मातुरिति । मातुरभावे सोदर्या ५ गृह्णीयरित्यर्थः। यदा दुहितरो बयस्ताश्च न संति । तत्पुत्र्यश्चैकस्या एकव अन्यस्या द्वे अपरस्यास्तिस्र इत्येवं वैषम्यं तदा मातामहीधने दौहित्रीणां कथं विभागकल्पना इत्याशंक्य पौत्राणां पैतामहे धनोक्तमेव न्यायं स्मारयति । तासां भिन्नमातृकाणामिति । प्रतिमातृतो वा स्ववर्गण इति । अस्यार्थः । दौहित्रीवर्गे, प्रतिमातृ, मातरि मातरि, स्वस्वमातृविषयो भागविशेषः कर्तव्यः, न स्व- १० स्वरूपापेक्षयेति । मातुर्दुहितरोऽभाव इति । अस्यार्थः । मातुरूचे तद्धनं दुहितरो गृह्णीयुः । तदभावे तदन्वये दुहितृसंताने प्रथमतो दुहितॄणां दौहित्रीणां भवति । तदभावे तदन्वय' इति अभिधाना- त्पुत्रिसंतानरूपाणां दौहित्राणां भवति अन्यथाऽन्वय इत्युक्तेरानर्थक्यादिति । ननु तच्छब्दः संनिहितपरामर्शी, तथा च दुहितॄणामेव पाठक्रमेण सन्निहितत्वाद्दौहिन्यन्वयो वंश एव लभ्यते । न दुहितृसंतानरूपा दौहित्रा लभ्यंत इत्यत आह । तच्छब्देनेति । इदमत्रान्तम्। १५ अर्थसंनिधेः शब्दसंनिधेश्च विद्यमानत्वात्साक्षादुहितृपरामर्श एव युज्यत इति । 'जनन्यां संस्थितायां त्विति' मनुवचनं व्याचष्टे । मातृकं रिक्थमिति । ननु सहो- दराः सनाभयो भगिन्यश्च मिलित्वा भजेरनित्ये कान्वयोऽस्तु, किमिति भिन्नान्वय इत्याशंक्य परिहरति। न पुनः सहोदरा इति । तत्र हेतुमाह । इतरेतरस्येति । अयमाशयः । चत्वारश्चार्थाः । समु- ञ्चयान्वाचयेतरेतरयोगसमाहाराः । 'चार्थे ईईः । तत्र समुच्चयान्वाचययोरसामर्थ्यात् द्वंद्वसमासो २० नास्ति इतरेतरयोगसमाहारयोरेव समासः । इतरेतरयोगप्रतीतौ च मनुवचने भ्रातृभागिन्य इति सजाती- यैकशेषे रखे इतिवच्च समानार्थानामिति वा 'भ्रातृपुत्रौ स्वसृदुहितृभ्यामिति ' भ्रातृस्वस्रोरेकशेपे भ्रातराविति वा पुत्रदुंहिबोरेकशेषे पुत्राविति । एतेषामन्यतरसद्भावे भवति तत्यतीतिः । न च तथा । तस्मान्नेतरेतरयोगप्रतीतिरिति । किं, चशब्दस्य प्रकारांतरेणाप्युपपत्तेर्न भ्रातृभगिन्योः संभूय विभाग- प्रतीतिरित्याह । विभागकर्तृत्वान्वयेनापीति । अथवा ननु द्वंद्वैकशेषाभावेऽपि चशब्दफलादि- २५ तरेतरयोगप्रतीतिरस्त्विति चेत्यत आह । विभागकर्तृत्वान्वयेनापीति । अथवा तब दृष्टांतमाह । यथा देवदत्त इति। स्त्रियास्तु यद्भवेद्वित्तमिति। अत्र स्त्रिया इति पित्रेति ब्राह्मणी कन्येति चोपादाना- दुक्तार्थप्रतीतिः । अनपत्यवैश्याधनं क्षत्रिया कन्या गृह्णातीति । एवं शूद्रांधने ऽपि द्रष्टव्यम् । रिक्थभाज ऋणं प्रतिकुर्युरिति । ये ऋणं प्रतिकर्तारस्ते रिक्थभाज इत्युक्तत्वात् वचनद्दय- ३० पर्यालोचनया पौत्रस्यापि तादृशत्वेन पुत्राभावे पौत्रः पितामही धनभागित्यर्थः ॥ १४५ ॥ । , १ क-योगस्याप्राबल्याहा । २ क-पौत्रीणाम् । ३ क ख क्ष-तत्र स्वस्वरूपापेक्ष । ४ पृ. १०१ पं.२४॥ ५ आर्थसन्नि- हितिश्च । ६ व्या. सू. २।२।२९ । ७ ख-रक्ष इतिवच्चानीति वा (?)। ८ व्या. सू. ११२।६८ । ९ क-दुहिताहित्रोरेक. १० क-किंवा। ११ क-शूद्रापत्येऽपि ।

विवाहांतरमेव पूर्वस्याः धर्मपत्न्या धनदाने निमित्तमित्याह । अधिवेदननिमित्तं धन- प्राप्तिसंभवः तमनतिक्रम्येत्यर्थः । ध्वजिनी वृक्षादिलक्षितेति । मत्स्यिनी सलिलवती। चितेत्यर्थः। अत्रार्थित्वं प्रत्यर्थित्वं नतिविशेष्यत्वेन तयोग्यत्वाभिप्रायेण न मत्सरग्रस्तत्वेनेति द्रष्टव्यम् ॥ पंचनिवर्तनाया इति । द्वितीयमाह । पंचनिवर्तनाते । तृतीयं चतुर्थं चाह । पंचनिवर्तनो मिताक्षराटीका. [ श्लोकः १५१ याज्ञवल्कीये १४६ श्लोकः द्रव्यानुबंधाद्यनुसारेणेति । अनुबंधो दोषोत्पाद् इति यावत् । — दोषोत्पादोऽनुबंधः स्या दित्यमरः । उभयोरात्मनः कन्यादातुश्चोते । अयमाशयः । विवाहोद्यतैः कन्यादातृ- प्रतिगृहीतृतत्पित्रादिभिस्तनिमित्तं व्ययीकृतं धनं तस्मात् कन्याधनात् गृहीत्वाऽवशिष्टं वराय दद्या- ५ दिति । तदभावे मातुस्तदभावे पितुरिति । सोदराभावे मातुर्भवति । तदभावे पितुर्भवतीत्यर्थः । याज्ञवल्कीये १४८ श्लोकः। मिति । तत्कियदित्याकांक्षायामाह ॥ समं यावद्धिवेदनार्थमिति । अब मूलवचनस्यार्धपदं नपुंसकलिंग येन समविभागवाचकं अपि तु पुंल्लिंगम् । अत एवांशमात्रवचनम् इत्यनेनाभिप्रायेणाह । १० अर्धशब्दश्चात्रेति । ' पुंस्य!ऽधं, समेंऽशक' इत्यमरः ॥ इति रिक्थविभागप्रकरणम् ॥ अथ सीमाविवादप्रकरणम् ९ । याज्ञवल्कीये १५०।१५१ श्लोकौ ॥ जनपदसीमेति । जनपदो देशः । सा च यथासंभवमिति । नावश्यं वक्ष्यमाणैः १५ पंचभिर्लक्षणैरुपेतैव सीमा । अपि तु क्वचिदेकेन क्वचित् दाभ्यां क्वचित् बहुभिरिति यत्र यथा नैधानी निखाततुषांगारादिमती च ॥ तथा चाह व्यासः- ग्रामयोरुभयोः सीम्नि वृक्षा यत्र समुन्नताः । समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकीर्तिता॥ " स्वच्छंदगा बहुजला झषकूर्मसमन्विता । नित्यप्रवाहिणी यत्र सा सीमा मत्स्यिनी मता ॥ " तुषांगारकपालैस्तु कुंभैराग्तनैस्तथा । सीमा प्रचिह्निता कार्या नैधानीति निगद्यते " ॥ इति अर्थिप्रत्यर्थिपरस्परसंप्रतिपत्तिनिर्मितेति । वादिप्रतिवादिनोः सत्यसंधत्वेन परस्परमत्यंतविश्वस्तत्वादियं मदीया भूरियं मदीयोत स्वस्वचित्तानुसंधानपुरःसरं वाङ्मात्राभिर्विर- ज्ञातृचिह्नाभाव इति । ज्ञातारो वक्ष्यमाणाः साक्षिसीमंतादयः । चिह्नानि वृक्षादीनि । २५ ज्ञातारश्च चिह्नानि च तेषामभाव इत्यर्थः । भूविवादे षट्प्रकारत्वं कात्यायनवचनव्याख्याने दर्शयन् तत्र प्रथमप्रकारमाह । ममात्र ममांश इति। अब पंचनिवर्तनो ममांश । इत्युक्ते 'अंशस्ते पंचनिवर्तन' इत्येतन्नास्ति इति तृतीयं पक्षं व्याख्यातृबुद्धिपरीक्षार्थं स्फुटमकथयित्वोत्तरः पक्ष एव व्यक्तीकृतः । अत एवास्ति- ३० नास्तित्वविवाद इति संभूयोपसंहारः । १ पु. १०२ पं. ८ । २ अ. को. ३३३३९८ ॥ ३ पु. १०२ पं. १५ ॥ १ क-धर्मे दाने । ५ क-ख-मूलवचनस्थधर्मर्पद ६ क-ख-नपुंसकलिंग। ७ अ. को. ११३०१६ । - । २० -- श्लोकः १५२ ] सुबोधिनी. ७९ - । । - । पंचमषष्ठावाह । मदीया भूः प्रागिति । इयं मर्यादेयं वेति चः अथवा पंचनिवर्तनो ममांश इत्यत्र एक एव प्रकारः, इयं मर्यादेयं मर्यादा वेति पंचमः प्रकारः, इथं सीमा इयं चेति षष्ठः, अनेनैवाभिप्रायेणाह । इयं मर्यादेयं वेति सीमाविवाद इति । मर्यादायाः सीनश्च भेदं दर्शयिष्यति 'मर्यादायाः प्रभेदे वित्यत्र । अस्तिनास्तित्वविवादे पक्षद्वयांगीकरणे सीनो मर्यादायाश्चैकत्वेन व्यवहारः । अत्र भेदे पूर्ववैकत्वम् । अथवा आधिक्यं न्यूनत्वं ५ अस्तित्वं नास्तित्वं अभोगभुक्तिः सीमा चेत्यमी षट् हेतवः । कचियस्ताः क्वचिन्मिलिता इति एवं पूर्वोक्ताभिप्रायगर्भितमुपसंहरति । षदप्रकार एवेति । श्रुत्यर्थाभ्यामिति । यत्र साक्षात्सीमावि- वादः तत्र श्रुत्या इतरत्रार्थादिति विवेकः । तत्संसक्ताद्युपलक्षणार्थमित्युक्तं । तत्रादिशब्दगृहीतानाह । उक्तं च कात्यायेन । संसक्तकास्त्विति । अस्यार्थः । सामंतास्तु संसक्तकाः प्रकीर्तिताः । तथा तदनंतरस्थिताः तत्सं- १० सक्ता उत्तरा इति च कथिताः । अत एव संज्ञात्वान्न सर्वनामसंज्ञा । तथा तदनंतरस्थिताः संसक्तसक्त- संसक्ताः पद्माकारा इति चोच्यते । सामंतादयस्त्रयोऽपि संज्ञाद्वययुक्ता इत्यर्थः । तत्कार्यं तद्गुणान्वितैरिति । तत्कायै सीमादिनिर्णयादिरूपं तद्गुणान्वितैः सीमानिर्णयादिषु निपुणमतित्वरूपगुणयुक्तरित्यर्थः । उपश्रवणसंभोगति । अब वसुरिति सभ्येभ्यः स्पष्टश्रवणमुप- श्रवणं च संभोगरूपकार्यं च तयोराख्यानं तेनोपलक्षिता इत्यर्थः । १५ व्याधान शाकुनिकानिति । व्याधी लुब्धकाः । शाकुनिकाः पक्षिवधीविनः । कैवर्ता- स्तटाकादिखननवृत्तयः । मूलखानकाः वृक्षादिमूलोत्पाटनजीविनः । व्यालग्राहाः सर्पग्राहिणः आहि- तुंडिकाः । उच्छवृत्तयः शिलोंच्छवृत्तयः । वनगोचराः फलपुष्पाद्यर्थमरण्यचारिणः । गुल्मान् वेणूंश्च विविधानिति ।गुल्माः अप्रकांडस्तंबाः 'अप्रकांडे स्तंबगुल्मावि 'त्यमरः। ( रा४।९) । तृणं जंघा वा । कुप्यकगुल्माश्चेति । कुप्यसंबंधिनो गुल्माः कुप्यगुल्माः । कुप्यमेव २० कुप्यकं । कुप्यं सुवर्णरजतव्यतिरिक्तताम्रादि। ' हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यं ' इत्य- मरः (२।९।९१)। कुप्यकस्य मलापकर्षणात्परस्परसंश्लेषादिरूपयोगित्वात् तत्संबंधित्वम् । अत एवाधिकोपयोगित्वेन गुल्मेभ्यः पृथक् ग्रहणमिति भेदः । तडागान्युदपानानीति । उद्पा- नानि कूपाः । 'कूप उदपानं तु पुंसि वे ' त्यमरः(१।१०।२६)। वाप्यः पाषाणादिबद्धा दीपिकाः। 'वापी तु दीर्घके ' त्यमरः ( १।१०।२८)। प्रस्रवणानि निर्झरादयः ॥ याज्ञवल्कीये १५२ श्लोकः । सामंता वा समग्रामा इति । समग्रामा इति सामंतविशेषणं न पृथक् समग्रामासंसक्तका इत्यर्थः । वाशब्दार्थो ग्रंथ एव स्पष्टः । स्वार्थसिद्धौ प्रदुष्टेष्विति । सामतेषु दोषयुक्तेषु सत्स्वित्यर्थः । नयेयुरिति बहुवचननिर्देशादेकस्य द्वयोर्न सीमानिर्णेतृत्वं स्यादित्यत आह । नयेयुरिति । ३० बहुवचनमिति । 'निम्नगापहृतोत्सृष्टनष्टचिह्नास्ति' त्येतन्नारदवचनं व्याचिख्यासुरस्य पदस्य समा- समाह । निम्नगाया नद्य इति । २५ १ क-ख-च्याघलुब्धाः। कुअगुल्मा इति मिताक्षरापाठः । ३ख-परस्य संश्लेषादिरूपः । ४क-विकीरादयः।

७८ मिताक्षराटीका. [ श्लोकः १५१ - याज्ञवल्कीये १४६ श्लोकः। द्रव्यानुबंधाद्यनुसारेणेति । अनुबंधो दोषोत्पाद इति यावत् ।' दोषोत्पादोऽनुबंधः स्या 'दित्यमरः । उभयोरात्मनः कन्यादातुश्चेति । अयमाशयः । विवाहोद्यतैः कन्यादातृ- प्रतिगृहीतृतत्पित्रादिभिस्तन्निमित्तं व्ययीकृतं धनं तस्मात् कन्याधनात् गृहीत्वाऽवशिष्टं वराय दद्या- ५ दिति । तदभावे मातुस्तदभावे पितुरिति।सोदराभावे मातुर्भवति । तदभावे पितुर्भवतीत्यर्थः । याज्ञवल्कीये १४८ श्लोकः । विवाहांतरमेव पूर्वस्याः धर्मपत्न्या धनदाने निमित्तमित्याह । अधिवेदननिमित्तं धन- मिति । तत्कियदित्याकांक्षायामाह ॥ समं यावदधिवेदनार्थमिति । अब मूलवचनस्यार्धपदं नै नपुंसकलिंगं येन समविभागवाचकं अपि तु पुँल्लिंगम् । अत एवांशमात्रवचनम् इत्यनेनाभिप्रायेणाह। १० अर्धशब्दश्चात्रेति । ' पुंस्य|ऽधे, समेंऽशक ' इत्यमरः ॥ इति रिक्थविभागप्रकरणम् ॥ ८ २० अथ सीमाविवादप्रकरणम् ९ । याज्ञवल्कीये १५०।१५१ श्लोकौ ।। जनपदसीमेति । जनपदो देशः । सा च यथासंभवमिति । नावश्यं वक्ष्यमाणैः १५ पंचभिर्लक्षणैरुपेतैव सीमा । अपि तु क्वचिदेकेन क्वचित् द्वाभ्यां क्वचित् बहुभिरिति यत्र यथा प्राप्तिसंभवः तमनतिक्रम्येत्यर्थः । ध्वजिनी वृक्षादिलक्षितेति । मत्स्यिनी सलिलवती । नैधानी निखाततुषांगारादिमती च ॥ तथा चाह व्यास:- ग्रामयोरुभयोः सीम्नि वृक्षा यत्र समुन्नताः । समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकीर्तिता॥ " स्वच्छंदगा बहुजला झषकूर्मसमन्विता । नित्यप्रवाहिणी यत्र सा सीमा मत्स्यिनी मता ॥ तुषांगारकपालैस्तु कुंभैरायतनैस्तथा । सीमा प्रचिह्निता कार्या नैधानीति निगद्यते" ॥ इति अर्थिप्रत्यर्थिपरस्परसंप्रतिपत्तिनिर्मितेति । वादिप्रतिवादिनोः सत्यसंधत्वेन परस्परमत्यंतविश्वस्तत्वादियं मदीया भूरियं मदीयोत स्वस्वचित्तानुसंधानपुरःसरं वाङ्मात्राभिर्विर चितेत्यर्थः। अत्रार्थित्वं प्रत्यर्थित्वं नतिविशेष्यत्वेन तद्योग्यत्वाभिप्रायेण न मत्सरग्रस्तत्वेनेति द्रष्टव्यम् ॥ ज्ञातृचिह्नाभाव इति । ज्ञातारो वक्ष्यमाणाः साक्षिसीमंतादयः । चिह्नानि वृक्षादीनि २५ ज्ञातारश्च चिह्नानि च तेषामभाव इत्यर्थः । भूविवादे षट्प्रकारत्वं कात्यायनवचनव्याख्याने दर्शयन् तत्र प्रथमप्रकारमाह । ममात्र पंचनिवर्तनाया इति । द्वितीयमाह । पंचनिवर्तनति । तृतीयं चतुर्थं चाह । पंचनिवर्तनो ममांश इति । ' अब पंचनिवर्तनो ममांश । इत्युक्ते 'अंशस्ते पंचनिवर्तन' इत्येतन्नास्ति इति तृतीयं पक्षं व्याख्यातृबुद्धिपरीक्षार्थं स्फुटमकथयित्वोत्तरः पक्ष एव व्यक्तीकृतः । अत एवास्ति ३० नास्तित्वविवाद इति संभूयोपसंहारः । १ पृ. १०२ ६.८ । २ अ. को. ३।३।९८ ॥ ३ पु. १०२ पं. १५ ॥ ४ क-धर्मे दाने । ५ क-ख-मुलवचनस्थधर्मपद ६ क-ख-पुंसकलिंगं । ७ अ. को. १॥३१६ ।

श्लोकः १५२ ] सुबोधिनी. - पंचमषष्ठावाह । मदीया भूः प्रागिति । इयं मर्यादेयं वेति च; अथवा पंचनिवर्तनो ममांश इत्यत्र एक एव प्रकारः, इयं मर्यादेयं मर्यादा वेति पंचमः प्रकारः, इयं सीमा इयं चेति षष्ठः, अनेनैवाभिप्रायेणाह । इयं मर्यादेयं वेति सीमाविवाद इति । मर्यादायाः सीम्नश्च भेदं दर्शयिष्यति 'मर्यादायाः प्रभेदे त्वित्यत्र' । आस्तिनास्तित्वविवादे पक्षद्वयांगीकरणे सीनो मर्यादायाश्चैकत्वेन व्यवहारः । अत्र भेदे पूर्ववैकत्वम् । अथवा आधिक्यं न्यूनत्वं ५ अस्तित्वं नास्तित्वं अभोगभुक्तिः सीमा चेत्यमी पट्ट हेतवः । कचियस्ताः क्वचिन्मिलिता इति एवं पूर्वोक्ताभिप्रायगर्भितमुपसंहरति । षदप्रकार एवेति । श्रत्याभ्यामिति । यत्र साक्षात्सीमावि- वादः तत्र श्रुत्या इतरवार्थादिति विवेकः । तत्संसक्ताद्युपलक्षणार्थमित्युक्तं । तत्रादिशब्दगृहीतानाह । उक्तं च कात्यायेन । संसक्तकास्त्विति । अस्यार्थः । सामंतास्तु संसक्तकाः प्रकीर्तिताः । तथा तदनंतरस्थिताः तत्सं- १० सक्ता उत्तरा इति च कथिताः । अत एव संज्ञात्वान्न सर्वनामसंज्ञा । तथा तदनंतरस्थिताः संसक्तसक्त- संसक्ताः पद्माकारा इति चोच्यते । सामंतादयस्त्रयोऽपि संज्ञाद्वययुक्ता इत्यर्थः । तत्कार्यं तद्गुणान्वितैरिति । तत्कार्य सीमादिनिर्णयादिरूपं तद्गुणान्वितैः सीमानिर्णयादिषु निपुणमतित्वरूपगुणयुक्तरित्यर्थः । उपश्रवणसंभोगति । अत्र वसुरिति सभ्येभ्यः स्पष्टश्रवणमुप- श्रवणं च संभोगरूपकार्यं च तयोराख्यानं तेनोपलक्षिता इत्यर्थः । १५ व्याधान शाकुनिकानिति । व्याधी लुब्धकाः । शाकुनिकाः पक्षिवधजीविनः । कैवर्ता- स्तटाकादिखननवृत्तयः । मूलखानकाः वृक्षादिमूलोत्पाटनजीविनः । व्यालग्राहाः सर्पग्राहिणः आहि- तुंडिकाः । उच्छवृत्तयः शिलोंच्छवृत्तयः । वनगोचराः फलपुष्पायर्थमरण्यचारिणः । गुल्मान् वेणूंश्च विविधानिति । गुल्माः अप्रकांडस्तंबाः 'अप्रकांडे स्तंबगुल्मावि 'त्यमरः। (१४।९)। तृणं जंघा वा । कुप्येकगुल्माश्चेति । कुप्यसंबंधिनो गुल्माः कुप्यगुल्माः । कुप्यमेव २० कुप्यकं । कुप्यं सुवर्णरजतव्यतिरिक्तताम्रादि । ' हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्छुप्यं ' इत्य- मरः ( २।९।९१)। कुप्यकस्य मलापकर्षणात्परस्परसंश्लेषादिरूपयोगित्वात् तत्संबंधित्वम् । अत एवाधिकोपयोगित्वेन गुल्मेभ्यः पृथक् ग्रहणमिति भेदः । तडागान्युदपानानीति । उदपा- नानि कूपाः । 'कूप उदपानं तु पुंसि वे ' त्यमरः(१।१०।२६)। वाप्यः पाषाणादिबद्धा दीर्घिकाः। 'वापी तु दीर्वके त्यमरः ( १।१०।२८)। प्रस्रवणानि निर्झरादयः ॥ याज्ञवल्कीये १५२ श्लोकः । सामंता वा समग्रामा इति । समग्रामा इति सामंतविशेषणं न पृथक् समग्रामासंसक्तका इत्यर्थः । वाशब्दार्थो ग्रंथ एव स्पष्टः । स्वार्थसिद्धौ प्रदुष्टेष्विति । सामंतेषु दोषयुक्तेषु सस्वित्यर्थः। नयेयुरिति बहुवचननिर्देशादेकस्य द्वयोर्न सीमानिणेतृत्वं स्यादित्यत आह । नयेयुरिति । ३० चंहुवचनमिति । 'निम्नगापहृतोत्सृष्टनष्टचिह्नास्वि ' त्येतन्नारदवचनं व्याचिख्यासुरस्य पदस्य समा- समाह । निम्नगाया नद्य इति । । १ क-खच्याधलुब्धाः । कुञ्जगुल्मा इति मिताक्षरापाठः।३ख-परस्य संश्लेषादिरूपः। ४क-विकीरादयः।

मिताक्षराटीका. [श्लोकः १५० । - यस्य ग्रामस्य अस्मिन् वचन उपायत्रयमभिहितं । तत्र तत्पदेशानुमानादित्युपात्तमुपायस्वरूपं विविच्य दर्श- यति । तत्र तत्प्रदेशानुमानादिति । प्रमाणादित्युपात्तमुपायस्वरूपं विविनक्ति । ग्रामादार- भ्येति। भोगदर्शनादित्येतद्ध्याचष्टे । प्रत्यर्थिसमक्षमिति । बृहस्पतिना चात्र विशेषो दर्शितः ५ इति । अत्रेति परमप्रकृतिसाक्षिसामंतादिविषय इत्यर्थः । अथवा अब सीमानिर्णय इत्यर्थः । 'ये विदुस्तेऽत्र साक्षिण । इत्यत्र साक्षिग्रहणं सामंताद्युपलक्षणार्थम् । ग्रामेयककुलानां त्विति। ग्रोमस्य जनाः ग्रामेयवाः, तेषां च पूगश्रेणीकुलानामित्युक्तलक्षणकुलानां च वादिप्रतिवादिनोश्च समीप इत्यर्थः । अथवा ग्राम्यजनानां समूहाः कुलानि तेषामिति । याज्ञवल्कीये १५३ श्लोकः । न 'न्वन्ते तु पृथग्दंड्या' इति सामान्योक्तेः केवलसामंतविषयता कथमित्यत आह । सामंत- विषयता चेति । सामंतव्यतिरिक्तानां स्मृत्यंतरेष्वेतद्विरुद्धदंडांतरविधानाद्योगीश्वरोक्तं दंडस्य सामंतविषयत्वेन युक्तमित्यर्थः । जयन्यास्त इति । जवन्या दुष्टा इत्यर्थः । एतदंडविधानमज्ञानविषय- मिति — अनुते तु पृथक् दंड्य' इत्यारभ्य यो दंडः प्रदर्शितो योगीश्वरमनुनारदाद्युक्तस्त- द्विधानमित्यर्थः । तत्र हेतुमाह । बहूनां तु गृहीतानां इत्यादिना। अत्र भयादा लोभावा इति हेतूपादानात् ज्ञानविषयं त्वस्फुटम् । यदा तस्यां भूमाविति । विवादास्पदीभूतायां भुव्यन्यतरस्य ग्रामस्याधिकोपकारसंभवे यावत्युपयुक्ता भूस्तावती सर्वाऽपि देयेत्यर्थः। १५ सीमायामविषह्यायामिति । अस्यार्थः । लिंगसाक्षाद्यभावे सीमनि परिच्छेत्तुमशक्यायां धर्मज्ञो राजा स्वयं पक्षपातरहितः सन् योवतो भूभाग उपकारातिशयः तावानुपकारातिशय- वशात् तस्य ग्रामस्य प्रतिदिशेनिर्दिशेदिति ॥ १५३ ॥ 'अतिदेशो ह्यधिकमाकांक्षते' इति न्यायेन यत्राधिका शंका तत्र पूर्वोक्तविषया सादृश्यप्रतीतिः तभावाभावेनाँतबदभावाशंकायां पूर्वोक्तवदेवैतदपीत्यंतिदेशो वक्तव्यः । यथाऽऽहिताः पिंडपितृयज्ञ २० विधाय एवमेवानाहितामेरित्यनाहिताग्नेतिदेशः । प्रकृते तु : सीम्नो विवादे क्षेत्रस्ये ' त्यादिना यो न्या- योऽभिहितः तस्यारामादीनां अत्यंततुल्यत्वेन तेष्वतिदेशानपेक्षत्वादारामायतनेऽपि च वक्ष्यमाणं वचनं निष्प्रयोजनमित्याशंक्य भवत्वेवं तथापि न्यायप्रभवाण्यपि वचनानि संतीति शिष्यशिक्षार्थ पूर्वोक्तन्याय- सिद्धार्थमविषयांतरेष्वपि वचनेन संगृह्णातीत्याह । असत्यामपि अतद्भावाशंकायामिति । तत्ता- दृक्स्वरूपमस्यास्तीति तद्वतोऽभावः तत्तभावः तस्य आशंका तस्यामसत्यामपीत्येवं समासप्रयोजनम् ॥ २५ याज्ञवल्कीये १५४ श्लोकः। आयतनं निवेशनमित्युक्त्या तदेव विविच्य दर्शयति । पलालकूटाद्यर्थमिति ॥ १५४ ॥ याज्ञवल्कीये १५८ श्लोकः। क्षेत्र वा भीषया हरनिति । भीषा भयमन्यस्योत्पाद्य तथा भीषया हरन्नित्यर्थः ॥ १५५॥ इदानीं तस्यैवानुप्रसक्तानुप्रसक्त्येति । तस्यैव क्षेत्रस्वामिन एव । स्वामिसंबंधि क्षेत्रं ३० तत्संबंधी क्षेत्रगतविचारः । एवं प्रसक्तानुप्रसक्तिरन्यत्र द्रष्टव्या । तं प्रदाप्याकृष्टशदमिति । तमकृष्टशदं प्रदाप्येत्यन्वयः । अकृष्टशदमित्येतत्पदं व्याचष्टे । तस्याकृष्टस्य फलं इति ॥ इति सीमाविवादप्रकरणम् ॥ १ ख-ग्राम्यजनाः । २ ख-समानोक्तः। ३ ख-केचन । ४ पृ. १०७ पं. ५॥ ५ क क्ष-यावति; ख-यावती । ६ क-प्रतीतेः । ७ क-मावेनाततद्वदभावा । ८ ख-चैतदपीत्यादिदेशो वक्तव्यः । ९ आहिताग्निपिंड ।।

श्लोकः १६३] सुबोधिनी. ८१ १० अथ स्वामिपालविवादप्रकरणम् १० ॥ याज्ञवल्कीये १५९ श्लोकः । ज्ञानपूर्वे तु पणस्य पादौ द्वौ गामिति । गांप्रति दौ' पणस्या! दंडः । महिषीं प्रतीति द्विगुणं संपूर्णः पणो दंडः । अजात्रिकवत्सानां तु पणस्य चतुर्थो भागो दंड इत्यर्थः । दंडाधिक्यादेव ज्ञानविषयत्वं गम्यते ॥ १५९ ॥ याज्ञवल्कीये १६० श्लोकः। यथोक्ताद्विगुणो दंडो वेदितव्य इति । यथोक्ताद्विगुणो दंडो वेदितव्य इति । अज्ञाने तु 'माषानष्टौ तु महिषी ' त्यादिनाक्ताद्दण्डाद्विगुणो दंडः । ज्ञानपूर्वकत्वे तु — पणस्य पादौ दौ गामि ' त्यादिनोक्तादिगुणो दंड इति विवक्तव्यम् । यथोक्ताच्चतुर्गुण इति । अत्रापि पूर्वदेवं विवेको द्रष्टव्यः । महिषी यत्र यादृशेनेति । यत्र यस्मिन् क्षेत्रे यादृशो यत्परिमाणो दंडोऽभिहितः ताह- शेन तत्समेन दंडेन खरो दंडनीय इत्यर्थः । उष्ट्रोऽपि तथैव स्वापॅराधे दंडनीयो न तूभयमपि विशिष्टं दंडनीयमित्यर्थः । तत्र हेतुमाह । सस्योपरोधकत्व इति ॥ १६० ॥ याज्ञवल्कीये १६१ श्लोकः। 'गोपस्ताड्यस्त्विति' वचनात्तस्य धनदंडाभावे प्राप्तेऽपवादमाह । गोपस्य चताडनमिति। १५ पालो गोपालः । स्वदोषेगेति यावत् । पालनं पालः तद्दोषेणेति वा व्याख्येयम् । ' गोमी तु पूर्वोक्तं दंडमर्हति ' इत्यमुमशं व्याचष्टे । गोमी पुनरिति । गोमी गोस्वामी 'गोमान् गोमो ' त्यमरः( २।९।५८)। गोभिस्तु भक्षितं सस्यामिति । अस्यार्थः । गोभक्षितं सस्यं यः पतियाचरे, तस्मै सामंतपरिकल्पितं तत्क्षेत्रवापितं धान्यं धान्यादिमूल्यं देयम् । पलालं • भक्षितावशिष्टम् । तृणबुसादिकं गोस्वामिने दद्यात् । 'यो नरः प्रतियाचते तस्मै देयमिति' सामान्या- २० भिधानेन विशेषाकांक्षायामर्थप्रकरणसिद्धमपि विशेष स्पष्टीकुर्वन्नाह । धान्यं वै कर्षकस्य त्विति। तस्मा एव क्षेत्रस्वामिने प्रदातव्यमित्यर्थः ॥ १६१ ॥ याज्ञवल्कीये १६२ श्लोकः । ग्रामविवीतसमीपवर्तिनि च क्षेत्रे इति । ग्रामसमीपवर्तिनि विवीतसमीपवार्तनीति प्रत्येकमभिसंबव्यते। ग्रामसंबंधि यत् विवीतं तत्समीपवतिनीति वा । ग्रामादहियों गवादिस्थित्यर्थो २५ भूप्रदेशः तद्विवीतशब्देन लक्ष्यते । तत्समीपवर्तिनीति वा व्याख्येयम् । अजगोभिरित्युपलक्षणम् । एतच्चानावृतक्षेत्रविषयमिति । वृतिरहितविषयमित्यर्थः । वृतिंच तत्र कुर्वीतेति।अस्यार्थः । तत्र क्षेत्रपार्षे समंततः उष्ट्राबलाकनायोग्यां प्राकारसदृशीं वृतिं कुर्यात् । तत्र यानि छिद्राणि श्वादिमुखप्रवेशयोग्यानि तान्यपि निरुंध्यात् । ' यदेतच्छिद्र वारयेदिति ' पाठः । तदा श्वादि- मुखप्रवेशयोग्यसच्छिद्ररहितं यथा तथा वाऽत्यनुन्नतां वृतिं कुर्यादिति वृतिकरणे प्रकारांतराभि- ३० धानमिति॥१६२॥ । -- । । १ ख-दौ पादौ । २ क-विषयत्वे । ३ या व्य० अ० १५९ ॥ ४ खरोष्ट्रं दण्डनीयम् । ५ क-तथैवैक्यापराधे ६ ख-पालनः । ख-मुख्य । ७ क-यदाच्छिद्रं वावारयेदिति पाटः । ख-यदच्छिद्रं वात्रयादीने पाटः । ०० मिताक्षराटीका. [ श्लोकः १६८ दर । । याज्ञवल्कीये १६३ श्लोकः। अदण्ड्यौ काणकूटौ चेति। काणः एकाक्षिविकलः । कूटः पादरहितः पंगुरिति यावत् । शश्वत्कृतलक्षणः वारंवारं सस्यनाशकत्वेन दंडिताः अंकनन धनग्रहणादिभिर्वेत्यर्थः ॥ १६३ ।। याज्ञवल्कीये १६४ श्लोकः । नष्टं जग्धं च कृमिभिरिति । अस्यार्थः । गोपालसंबंधिरक्षणाख्यपुरुषव्यापाररहितं संतं नष्टं दृष्टिगोचरातीतं, कृमिभिभक्षितम्, श्वादिभिहतम् । विषमे श्वभ्रादिप्रवेशे पतनेन मृतं च गोपाल एव स्वामिने दद्यादिति । प्रसह्य चोरैरैपहृतान्न दाप्य इति । चोरैर्बलादपहृतात्पालात् स्वामिने न पशुर्दाप्य इत्यर्थः । विधुष्य तु हतं चौरैरिति । चोरैः पटहायुद्धोषेण प्रसिद्धमपहृतं पालो दातुं नार्हति । यदि तस्मिन्नेव देशे हरणोत्तरकालमेव स्वामिने. १. कथयतीत्यर्थः । कौँ चर्म चेति । चर्म त्वक् । वालाः लोमानि चिह्नभूतानि । बस्ति मूत्रधारांगविशेषः । स्नायुर्वसा । अथ वस्नसा स्नायुरि' त्यमरः (२।६।६६)। रोचनां गोरोचनाम् । एतानि स्वामिषु दद्यात् । पशुषु मृतेषु अन्यान्यप्यंगानि विज्ञापकानि प्रदर्शयेत् । 'अंकांश्च दर्शयोद' त्यपि पाठः । तदा पशुदेहस्थितान मुद्रादीन् अपि चिह्नानि दर्शये- दित्यर्थः ।। १६४ ॥ याज्ञवल्कीये १६५ श्लोकः । दण्डपरिमाणार्थः श्लोक इति । पूर्वोक्तैरेव वचनैरितरार्थस्याप्राप्तत्वादत्रयोदेशपण , इत्य,मेवांशो विधेय इत्यर्थः । ॥ १६५ ॥ याज्ञवल्कीये १६६ श्लोकः । तृणा/न्यतराभाव इति । अस्वामिकतृणाद्यन्यतराभाव इत्यर्थः । अनिवारिते आहरे-- २० दिति । निवारितः सन् न गृह्णीयादित्यर्थो गम्यते । एतच्च परिगृहीतविषयमिति । 'द्विजस्तृ- णैधःपुष्पाणी ' त्यादिनोक्तमित्यर्थः ॥ १६६ ॥ याज्ञवल्कीये १६७ श्लोकः। प्रचुरकंटकसंतानस्येति । कंटकिवृक्षायाँक्रांतस्येत्यर्थः । इति स्वामिपालविवादप्रकरणम् ॥ । अथास्वामिविक्रयप्रकरणम् ११ । विक्रीयतेऽसमक्षमिति । स्वामिनोऽसमक्षं परोक्षमनुज्ञामंतरेणेति यावत् । एवंविधेऽस्वामि- विक्रयस्थले शास्त्रविधानं कीदृशं भवतीत्याशंकापुरःसरं मूलवचनमवतारयति । तत्र किमित्याहेति । याज्ञवल्कीये १६८ श्लोकः । असंभाव्ये द्रव्यादपि हीनमूल्य इति । यद्वस्तु यावन्मूल्यद्रव्यमहति तस्मादपि । ३० न्यूनेनः मूल्येनेति यावत् । प्रकाशं क्रयतः शुद्धिरिति । प्रकाशो यथा भवति तथा यः क्रयः क्रियते तस्मादित्यर्थः ॥ १ क-अदण्ड्यो काणकुब्जौ चेति । ख-अदण्ड्यौ काणकूटी चेति । २ ख-कूटः । ३ क-इतरार्धस्य । ४ ख-त्र- पोदशपण। ५ ख-इत्ययमेवांशो । ६ 'तृणाद्यन्यतरा भावे' इति मुद्रितमिताक्षरापाठ. ७ ख-कंटकिवृक्षाद्यकीतत्येत्यर्थः। ।

शोकः १७५] सुबोधिनी. ८३ -- -- याज्ञवल्कीये १६९ श्लोकः। एकदेशिव्याख्यानमनुभाषते दूषयितुम् । नष्टमपहृतं चेत्यादिना । अयमभिप्रायः । नष्टं चाप- हृतं चान्यदीयं द्रव्यं क्रयप्रतिग्रहादिभिरस्वामिनः सकाशाद्यः कश्चन प्राप्य स्वयमप्यन्यस्मै विक्रीणीते। तो विक्रेतारं तस्मात्ता पुरुषो रजनीचरादिभिः राजपुरुषैर्याहयेत् । स्वचौर्यनिवृत्त्यर्थं राज्ञो दंड- प्राप्त्यर्थं च । अथ केनापि कारणेन न ग्राहयितुं प्रदर्शयितुं वा समर्थः तदा तस्मात् गृहीतं ५ द्रव्यं मूलस्वामिने समर्प्य स्वयं शुद्धो भवतीति दूषयति । तदिदमनुपपन्नमिति । तब हेतु- माह । 'विक्रेतुर्दर्शनादिति ' वक्ष्यमाणमूलवचनेनास्य पौनरुक्त्यमित्यर्थः । स्वाभिप्रेतमर्थ दर्शयितुमुप- क्रमते । अतोऽन्यथा व्याख्यायत इति। मूलवाक्यस्थमासाद्यैतत्पदं व्याचष्टे । केतृहस्तस्थं ज्ञात्वति । तद्विज्ञापनकालात्प्रागिति । स्थलपालादिभ्यः कथनात्यागित्यर्थः ॥ याज्ञवल्कीये १७० श्लोकः । मूले समाहृत इति । मूले विक्रेतरीति यावत् । क्रयं शोधयित्वैव शुद्धो भवतीति। स्वक्रये साक्ष्यादिप्रदर्शनेनेत्यर्थः ॥ ॥ इत्यस्वामिविक्रयप्रकरणम् ॥ -- । १० । . अथ दत्ताप्रदानिकप्रकरणम् १२। अस्मिन् प्रकरणेऽभिधेयं प्रमेयं निष्कृष्य दर्शयति । अधुना विहिताविहितेति । विहि- १५ तमार्गाश्रयं दत्तानपाकर्म अविहितमार्गाश्रयं दत्तापदानिकमित्यवांतरभेदः । सामान्यतस्तु दानाख्यं व्यवहारपदमित्यर्थः । 'दत्त्वा द्रव्यमसम्यग्य' इत्येतन्नारदवचनं व्याचष्टे । असम्यगविहित- मार्गाश्रयेणेति । 'अस्मिन्नेव वचने दत्ताप्रदानिकमि ' त्यस्य समस्तस्य पदस्य विग्रहवाक्यं दर्शयति। दत्तस्याप्रदानमिति।अविहितमार्गाश्रितदत्ताप्रदानिकस्वरूपनिरुक्तौ एतविपरीतरूपस्य दत्तानपकर्मणः स्वरूपमर्थसिद्धमेवेति न पृथनिर्दिष्टमित्याह। विहितमार्गाश्रयत्वेनेति । दत्तानपकर्मस्वरूपं निर्वक्ति । २० दत्तस्यानपाकर्मेति । शास्त्रविहितमार्गेणैव दत्त्वा पुनरादानस्य निषिद्धत्वेन न पुनर्ग्रहणं इत्यर्थः । तच देयादिभेदेनेति । तद्दानाख्यं व्यवहारपदमित्यर्थः । अथ देयमदेयमिति । देयं दत्तं च द्वयमपि दत्तानपकर्मभेदः । अदेयमदत्तं च द्वयमपि दत्तापदानिकभेदः । एवं दानमार्ग- श्चतुर्विध इत्यर्थः। अनिषिद्धदानक्रियायोग्यमिति । अनिषिद्धं च तद्दानक्रियायोग्यं चेति समासः । तद्यथा । कुटुंबाविरोधि स्वकीयं द्रव्यं । अस्वतया निषिद्धतया चेति । अन्वाहितादिकम- २५ स्वतया दानानहै कुटुंबपोषणापर्याप्तं यत्र द्रव्यं दातुमिच्छति तनिषिद्धतया दानानहमिति ज्ञेयम् । अव्यावर्तनीयमिति । अपुनराहार्यमित्यर्थः । नारदवचनोक्तार्थपरत्वेन मूलवचनमवतारयति । तदेतत्संतक्षेपत इति ॥ याज्ञवल्कीये १७५ श्लोकः । पूर्वमस्वतया दानान, निषिद्धतया दानान! चेत्यदेयं द्विविधं नारदवचने प्रतिपादितम् । ३० तत्र निषिद्धतया यदेकं प्रकारमदेयं तन्मूलवचनस्थकुटुंबाविरोधेनेति पहन त्यतिरेकदो दर्शमतिY AIBE कुटुंबाविरोधेनेत्यनेनेति । स्वकुटुंबपोषणायापर्याप्तं न देयमित्यर्थः । RECEIVED १ क-ख-त विक्रेतार ।२-निरुक्त्यैव । । - [श्लोकः १७६ १० रादौ इति । पावार उत्तरासंग: ' द्वौ प्रावारोत्तरासंगौ समावि' त्यमरः (२।६।११७)। ८४ मिताक्षराटीका. अस्वतया यददेयमुक्तं तद्दर्शयति । स्वं दद्यादित्यनेनेति । अयमभिप्रायः । अस्वमदेयं, स्वमपि कुटुंबपोषणापर्याप्तं न देयमिति द्विविधमदेयमिति । नन्वस्वत्वेनान्वाहितादिः पंचको गुणोऽदे- यत्वेन त्वयाऽभिधीयते । नारदेन त्वष्टको गुणोऽदेय इत्यभिहितं । अतस्तद्विरोध इत्याशंकते विरोध परिहर्तुम् । यत्पुनर्नारदेनति । परिहरति । एतदेयत्वमात्राभिप्रायेणोति । एकगणपाठोऽन्वा- ५ हितादीनां अष्टानामदेयत्वमात्रसाम्येन न पुनरस्वत्वाभिप्रायेणेत्यभिसंधिः । तत्र हेतुमाह । पुत्रदा- रसर्वस्वति। स्वकुटुंबाविरोधेन देयमित्यमुमंशं व्याख्याय दारसुतादृत इत्याद्यवशिष्टं व्याख्यानुमवतारयति । स्वं दद्यादित्यनेनेति । याज्ञवल्कीये १७६ श्लोकः । स्थावरस्य विशेषतः । प्रकाशप्रतिग्रहे हेतुमाह । तस्य सुवर्णादिवदिति । पूर्वोक्तमूलश्लोकस्यैर्वोत्तरार्धप्रकरणसंबंध अवतारयति । एवं प्रासंगिकमिति । यद्यसौ धर्मात्प्रच्युतो न भवतीति । यस्मै दातुं प्रतिश्रुतं स इत्यर्थः । देयादेयविषयं वक्तव्यमभिधाय दत्तादत्तविषयं वक्तव्यं वक्तुमुपक्रमते । न्यायमार्गेण यद्द- त्तमिति । दत्तस्यानपहरणकथनेनैव तत्पतिपक्षभूतस्यादत्तस्य प्रत्याहरणमर्थसिद्धिमेवेत्याह । यत्पुनर- १५ न्यायेनेति । अदत्तं तु भयकोधेति । भयं च क्रोधश्च शोकश्च भयक्रोधशोकाः तेषामावेगः। तनासक्ततयेति समासः । पूर्वोक्तं नारदवचननिचयं व्याख्यातुमुपक्रमते । अयमर्थ तत्रैवाद्यं पण्यमूल्यमिति वचनं ब्याचष्टे । पण्यस्येति । नारदवचनस्थदत्तमिति पदं पण्यमूल्यादिशेषतः स्वतंत्रतया च तंत्रेणोपात्तमित्यभिप्रायं प्रकटयनाइ । यच्चादृष्टार्थमिति । सहस्रमिति परिभाष्य ददातीति । शतं दीयत इति । मनसि विचार्योऽतःकरणोल्लासादिवशात्सहस्रं दीयत इत्युक्तौ सत्यां २० मनसोऽनभिप्रेतमप्युक्तानुसारेण यत् दीयते तदित्यर्थः । कात्यायनवचनेनैव सर्वविवादसाधारणं वचनमुक्तमित्याह । तथेदमपरमिति ॥ ॥ इति दत्तापदानिकं नाम प्रकरणम् ॥ अथ क्रीतानुशयप्रकरणम् १३ । द्विगुणं तु तृतीयेऽह्नीति । पूर्वोक्तत्रिंशांशाद्विगुणं पंचदशांशमित्यर्थः । 'परतः केतु- रेव ही ' त्यमुमंशं तात्पर्यतो व्याचष्टे । परतोऽनुशय इति । एतच्च बीजादिव्यतिरिक्तेति । २५ बीजादिव्यतिरिक्तं च तदुपयोगविनश्वरं चेति समासः । एवं स्मृत्यंतरोक्तं मनसि निधाय पूर्वोक्तव्यतिरिक्तविषये योगीश्वरः पत्यर्पणप्रकारं दर्शयती- त्याह । बीजादिक्रये पुनरिति । परीक्षापूर्वक्रये विशेषमाह । यत् पुनः परीक्ष्यति । यद्यपि 'बीजायोबाह्यरत्नस्त्रीदोह्यपुसां परीक्षणमिति' बीजादिक्रमेण परिगणितं तथापि दोह्यमाहिष्यादौ पतिसवनदोहनेन परीक्षायाः पयोगताल्पत्वमहत्त्वाभ्यां सुज्ञानत्वात्तत्प्राधान्येनाह । ३० दोह्यादिपरीक्षाप्रसंगेनेति । पटादौ पंचपलावृद्धिरिति । अत्र यद्यप्यौर्णकार्पाससौत्रिक इति कंबलस्यादित्वेन परिगणनं तथापि ‘पटादावि 'त्युक्तिरुपपन्ना । प्रतिलोमाभिप्रायत्वात् । यत्र प्रावा- इति । - ॥ इति क्रीतानुशयप्रकरणम् ॥ १क-ख-श-प्रतिलोमामिप्रायत्वादौ ।

श्लोकः १८४ ] सुबोधिनी. । । अथाभ्युपेत्याशुश्रूषाप्रकरणम् १४ । अपरं विवादपदमिति । तेषामाद्यमृणादानमित्यत्रानुपात्तत्वादपरं विवादपदमित्यर्थः । अभ्युपेत्य 'तुशुश्रूषामि' त्येतनारदवचनं व्याचष्टे । आज्ञाकरणमिति । शिष्यांतेवासिभृतकादि- कर्मकृतेः सामान्यसंज्ञामाह । तेषामाद्य इति । सामान्यमस्वतंत्रत्वमिति । अस्यार्थः । एषां शिष्यादीनां पंचानामस्वतंत्रत्वं नाम सामान्य साधारणो धर्म इत्याहुः । मनीषिणो महर्षयः । एषां मध्ये शिष्यादिचतुष्टयसमुदायोऽवांतरजातिकर्मर इति विशेष उक्तो मनीषिभिः । कर्मकरत्वं चतुर्णाम- प्यवांतरजातिरित्यर्थः । तथा वृत्तिर्वर्तनमपि शुभकर्मकरत्वेन विशिष्टं शुभकर्मकरत्वं विशिष्टा- वृत्तिरिति । पूर्वोक्तमर्थ विविच्य दर्शयति । ' शिष्यांतेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृदि ' त्यमुं नारदीयवचनांशं व्याचष्टे । तत्र शिष्य इत्यादिना । गृहद्वारा शुचिस्थानरथ्यावस्करशोधन- पदानि व्याचष्टे । अशुचिस्थानमित्यादिना । 'शिष्यांतेवासिभृतक' इत्युद्दिष्टानां मध्ये १० भृतकस्य वैविध्यमाह । भृतकश्चेति । दासाः पुनः पंचदशनकारा इत्युक्तं तत्प्रपंचयति । दासाः पुनरित्यादिना। ध्वजाहृत इति। दंडदासश्चेति च । युद्धप्राप्तो ध्वजदासः । पारिवाज्यच्युतस्य प्रायश्चित्तमकुर्वतः पुंसो दंडार्थमेवामरणादास्यं राज्ञः कृते भवतीति दंडदासः पारिव्रज्याच्युत इति विवेकः । न तु परिसंख्यामिति । परिगणितव्यतिरिक्तं निषेधार्थ नेत्यर्थः । एवं प्रकरणोपात्तत्वेन स्मृत्यंतरोक्तमभिधाय मूलवचनविषयं विवेचयति । तत्रैषामित्या- १५ दिना। अधुना मूलवचनमवतारयति । दासांतेवासिनोरिति । याज्ञवल्कीये १८२ श्लोकः। अपिशब्दादाहितो दत्तश्चेति । चौररित्यनुवर्तते । चौरैराहितो दत्तश्चेत्यर्थः । स्वाम्या- हितादिविषय उत्तरत्राभिधास्यमानत्वात् । यदि स्वामी न मुंचतीति । बलात् चौरक्रयादिना वा यः स्वामीव स्वामी स इत्यर्थः । 'भक्तत्यागादि । त्यमुं मूलवचनांशं व्याचष्टे । भक्तादासादीनाम्। संभक्षितं यहुभिक्ष इति । दुर्भिक्षे यद्भक्षितं न तत्कर्मणा शुद्ध्येत् । यद॑यं भुंक्ते तदीयव्यापारमात्रेण न शुद्धिर्दास्यात् न निर्मुक्तिः । अपि तु तत्कर्मकरणेन गोयुगदानेन च शुद्धिरित्यर्थः । अयमेव याज्ञवल्क्योक्तो विशेष इति शेयः । प्रतिशीर्षकदानेनेति । तुल्यव्यापारेण पुरुषांतरदानेन मुच्येरन् । कर्माण स्वसदृश- पुरुषांतरं दत्त्वा मुच्येरनित्यर्थः । 'निग्रहाद्दडवायास्त्वि ' त्यस्य तात्पर्यमाह । दासेन सहति। २५ तेनैवोक्तमिति । तेन नारदेन । याज्ञवल्कीये १८३ श्लोकः। दारवद्दासतेति । यथाऽऽनुलोम्येनैव विवाहो न प्रातिलोम्येन तथा दासत्वमपीत्यभिप्रायः । याज्ञवल्कीये १८४ श्लोकः। स्वशिल्पमिच्छनिति । स्वजातिविहितं शिल्पमित्यर्थः । । इत्यभ्युपेत्याशुश्रूषाख्यं विवादपदम् । १ज-कर्मकृता । २ ज-इत्यत्रशुचिस्थानावस्कर ? शोधनपदानिन्याचष्ठे । ३ क-ख-स्वाम्याहितातिविषय । ४ ज-यदीयं भक्तंअभुक्ते तदीय- २० - ।

मिताक्षराटीका. [श्लोकः २९६ अथ संविद्व्यतिक्रमप्रकरणम् १५॥ पापंडिनगमादीनामि । त्येतन्नारदवचनं व्याचष्टे। पारिभाषिकधर्मेणोत । पूर्व व्यतिरेक- मुखेन दर्शितं इत्युक्तं तद्दर्शयति । तद्व्यतिक्रम्यमाणमिति । इमत्राकूतम् । समयस्यानपाकर्मे- त्यन्वयमुखेन संविढ्यतिकमाख्यविवादपदस्य प्रतिपक्षरूपमभिधाय तद्विवादपदं स्मृतमित्यभिधानात् ५ उक्तव्यतिरेकरूपं विवादपदमिति व्यतिरेकाभिधानमिति । मूलवचनमवतारयति । याज्ञवल्कीये १८५-१९२ श्लोकाः। तदुपक्रमार्थमिति । अनुबंधाधतिशयेति । अनुबंधो दोषोऽपराध इति यावत् । १८५११८६।१८७॥राज्ञा प्रथमसाहसमिति । १८८।१९१॥ अस्मिन् ग्रंथे यच्छब्दोपादानात् स इति शब्दोऽप्यर्थसिद्ध इति स इति शब्दो नोपात्तः इति । शेषं सुबोधं ॥ इति संविध्यातिक्रमप्रकरणम् । १० २० अथ वेतनादानप्रकरणम् १६ । एवं स्मृत्यंतरोक्तलक्षणवेतनस्यानपाकर्माख्ये विवादपदे योगीश्वरो निर्णयं दर्शयतीत्याह । तत्र निर्णयमाहति। याज्ञवल्कीये १९३ श्लोकः । भृत्याय वेतनं दद्यादिति । भृतो भृत्य इत्यर्थः । यथाक्रमम् । आदिमध्यावसानेश्वैच्छिक- क्रमणोक्तसमयमनतिक्रम्यति यावत् । 'कर्मणो यदिनिश्चित' मित्यनेन कर्मानुसारेण मध्यस्थ- परिकल्पितं द्रव्यं भृतिरिति भृतिस्वरूपोक्तिद्रष्टव्या । याज्ञवल्कीये १९५ श्लोकः। यस्तु भृत्य इति । अत्रानुचितं देशं कालं च दर्पादिनोलंघयदित्यन्वयः । याज्ञवल्कीये १९६ श्लोकः । अनेकभृत्यसाध्ये कर्मणीति । एकद्विवादिभिः वा मिलित्वैतत्कर्म तावत्या भृत्या क्रियत इति परिभाष्य क्रियमाणे कर्मणीत्यर्थः । न पुनः सममिति । एकस्मिन् कर्मणि पंचभिः कर्म- करैर्दर्शभिः पण त्या क्रियमाणे व्याध्यादिवशात्तैः सर्वैरपि च तत्कर्म न निष्पन्नं कियदेव च निष्पन्नम् । तत्र प्रतिपुरुषं पणद्वयं पणद्वयं विभज्य साम्येन न दातव्यम् । अपि तु तत्तत्कृत- २५ कर्मानुसारेण न्यूनाधिकं देयमित्यर्थः । एतेनैव तत्कर्मणि निष्पन्ने परिभाषितवेतनमपि स्वामिना दत्तं कर्मकरा अपि स्वस्वकृतव्यापारानुरोधेनैव विभज्य गृह्णीयुरिति गम्यते । ननु 'न पुनः समं देय' मित्युक्त्या तत्तत्कृतकर्मानुसारेणैव वेतनं देयमित्युक्तं स्यात् । तथा चैतदुक्तं . भवति । अवयवशो विभज्य दातव्यमिति । एतदनुपपन्नम् । यतः कर्मणि नियतमेव वेतनं कर्मकरेभ्यः समुदितमेव परिभाषितं न पृथक् पृथक्परिभाषानुसारेण वेतनादानमुचितमिति इमामाशंकां परिहरन्नाह । ३० नचावयवश इति । अयमाशयः । यद्यप्यविभज्य दानमपरिभाषितं तथापि कर्मानुसारेण दातुमुचितत्वा- १ क-एतेनैकतत्कमणि । २ ख-तथा चैतदित्युक्तं भवति । ३ ख-कर्मानुसारेणादातुम् ।

लोकः २०१) सुबोधिनी. । इचनात् च विभज्य दीयत इति । अयं हि परिहारः सुबोध इति ग्रंथे निबंधकारेण न निबद्धः। साध्ये तूभाभ्यामिति । उभाभ्यामित्युपलक्षणम् । अतो बहुभिर्वा साध्ये । अभ्युपेत्याशुश्रूषाख्ये विवादपदे 'शुश्रूषक: पंचविध ' इत्युपक्रम्य 'चतुर्विधाः कर्मकरास्तेषां दासास्त्रिपंचकाः । शिष्यांतेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृदिति' शुश्रूषकपंचविधत्वमुक्त्वा भृतकस्यैव वैविध्यं दर्शितम् । “उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः । अधमो भारवाही स्यादित्येवं त्रिविधो ५ भृतः” इति । तत्र — गृहीतवेतनः कर्मे' त्यनेन कृषीवलभृतकं प्रतिवेतनविषयेऽभिहितमधुनाऽऽयुधीय भृतकभारवाहकभृतको प्रतिविशेषं दर्शयतीत्याह । आयुधीयभारवाहकाविति ॥ याज्ञवल्कीये १९७ श्लोकः। भांडमिति पात्रादिकं । 'सर्वमावपनं भांडं पात्रामत्रं च भाजनमि' त्यमरः ( २।९।३३) तथा नानार्थे स एव । ‘स्याद्भांडमश्वाभरणेऽमत्रे मूलवणिग्धने' इति । (अमरकोशे ३।३।४३)। १० वाहकेन नाशितमिति । वाहकपदमायुधीयस्याप्युपलक्षकम् । याज्ञवल्कीये १९८ श्लोकः। भृत्यंतदानपा इति । अपादानमुपादानं संप्रदानमिति यावत् । एतच्च व्याधितादिविषय- मिति । प्रस्थानविनकृन्नैवेत्यारभ्य ' यदुक्तं तदित्यर्थः । एवं विषयविभागः कथमवगम्यते इत्या- शंक्य व्याध्याद्यपीडिते मनुना दंडांतरविधानादित्याह। भृतोनात इति।भृतो भृत्यः नार्तो व्याध्यादि- १५ रहितः । अत्र 'न देयं तस्य वेतनमिति ' मनुस्मरणादुपरितनवाक्यशेषेणान्वयः । यस्त्वपगत- व्याधिः स्वस्थ एव चेति । व्याध्युपसृष्टः पश्चानिवृत्तव्याधिः व्याध्यसंसृष्टः स्वस्थ इति भेदः ॥ इति वेतनादानप्रकरणम् ॥ अथ धूतसमाह्वयप्रकरणम् १७ । अधुना द्यूतसमाह्वयाख्यमिति । द्यूतं च समाह्वयश्च द्यूतसमाह्वयमेवं व्याख्या यस्मिन् २० विवादपदे तत्तथोक्तम् । अप्राणिभिः अक्षादिभिः साध्यं देवनं द्यूतं, प्राणिभिः कुक्कुटादिभिः साध्यं समाह्वयः। 'तदेतदुभयमक्षबंध' इति नारदवचनं व्याचक्षाणो दर्शयति । अक्षाः पाशका इत्यादिना । एवंलक्षणलक्षिते द्यूतसमाह्वयाख्ये विवादपदे द्यूतसभाधिकारिणो वृत्तिं याज्ञवल्क्यो दर्शयती- त्याह । तत्र द्यूतसभाधिकारिण इति । याज्ञवल्कीये १९९ श्लोकः । तदाश्रया शतिकेति । तदाश्रिता ग्लहाश्रिता। शतपरिमिता वृद्धिस्तदधिका चेत्यर्थः। एत- दुक्तं भवति । यस्मिन् यस्मिन् द्यूते शतेन वा तद्धिकैर्वा काकिण्यादिभिः परिकल्पितं पणं जयति । •स जेता शतिकवृधिरित्युच्यते ॥ याज्ञवल्कीये २०१ श्लोकः । तस्मात् द्यूतकारात् शतकाकिण्यादिके जिते तत्सभाधिकारी पंचकाकिण्यादीन गृह्णीयादिति ३० मूलवचनस्थं स्थान इति पदं व्याचष्टे । अविपतिपत्नमिति। स्थाने युक्तमविप्रतिपन्नमिति यावत् २५ ॥ १ज्ञ तत्परिमिता।

मिताक्षराटीका. [ श्लोकः २०६ याज्ञवल्कीये २०२ श्लोकः। क्वचिद्द्यूतं निषेद्धमिति । कूटाक्षादिभिर्दीव्यतो दंडविधानात् तादृशाक्षादिभिर्देवनं समिकरहितस्थले च देवनमन्निषिद्धमिति गम्यते ॥ ॥ इति द्यूतसमाह्वयाख्यप्रकरणम् ॥ अथ वाक्पारुष्यप्रकरणम् १८ । देशजातीति ' नारदवचनं व्याचष्टे । देशादीनामिति । देशाद्याक्रोशानुदाहृत्य दर्शयति । तत्र कलहप्रिया इत्यादिना। आदिग्रहणात्स्वविद्येति । साक्षादितरपुरुषनिंदामकुवस्तव निंदाभिप्रायेणैव स्वयं विद्वान् सन्नप्यविद्वान्वा यस्मिंस्तर्कविद्यादिविशेष परस्य नैपुण्यमस्ति यस्यां च शिल्पविद्यायां कुशलः परः, तत्तर्कविद्यायां कुशलः परः । तत्तर्कविद्या १० शिल्पादिानंदा या विद्वज्जनाद्यधिक्षेप इत्यर्थः । एवंविध वाक्पारुष्ये दंडवैषम्याभिधानार्थं निष्ठुरा- श्लीलतीवत्वसंज्ञाभेदेन विरूपत्वमभिधाय निष्ठुरादिलक्षणमपि नारदेनैवोक्तमित्याह । तत्र च दंडतारतम्यार्थमित्यादिना । अत्र च निष्ठुराक्षेपो लघीयान तीव्राक्षेपो गरीयानिति भेदः । पूर्व न्यंगमवद्यमित्युक्तं । तच्चावद्यम् । निष्ठुरादिषु वाक्पारुष्यभेदेषु साधारणमिति ‘अश्लील न्यंगसंयुक्त ' मित्यश्लीलरूपवाक्पारुष्यरूपविशेषलक्षणाभिधानमनुपपन्नं स्यादित्यसत्यरूपोऽवद्यविशेषोऽत्र १५ न्यंगशब्देनाभिप्रेत इत्याह । अत्र न्यंगमिति । याज्ञवल्कीये २०४ श्लोकः। अधुना मूलवचनमवतारयति । तत्र निष्ठुराक्रोश इति। 'सत्यादिः। तंत्र स्वरूपमुदाहृत्य दर्शयति । नेत्रयुगलहीन इत्यादिना । ननु मनुना ‘कार्षापणावरमिति ' कार्षापणादन्यूनदंडो विहितोऽतस्तेन विरोधो अर्धाधिक- २० त्रयोदशपणात्मकदंडविधानस्येत्याशंक्याचारादिभिरत्यंतनिकृष्टो वर्णी यद्याक्षिप्यते स वर्ण एव तदा स आक्षेपकः । कार्षापणावरं दण्डं दुड्यो न सर्वविषय एष दंड इति विषयभेदेन विरोधं परिहरति । काणं वाऽप्यथवा खंजमित्यादिना । कार्षापणः अवरो यस्मिन् दंडे स तादृशः न ततो न्यूनमित्यर्थः । याज्ञवल्कीये २०५ श्लोकः। मूलवचनस्थहशब्दयोत्यमर्थमाह । अन्यं वा त्वजायामिति । अश्लीलाक्षेप एव स्थलविशेषे दंडविशेषमाह । एवं समानगुणेष्वित्यादिना । पूर्व- वाक्यस्थसंख्यापेक्षयाऽस्मिन् वाक्येऽर्थद्वैगुण्यादिप्रतिपादनात् अश्लीलाक्षेप एवेति गम्यते । याज्ञवल्कीये २०६ श्लोकः। परभार्यासु पुनरविशेषेणेति । आक्षेप्त्रपेक्षया न्यूनवृत्तस्याधिकवृत्तस्य वा भौर्या भवतु । यथा। कथंचित्परभार्यात्वमत्र विवक्षितं अत एवाविशेषेत्युक्तिरिति द्रष्टव्यम् । ननु पूर्ववाक्यव्याख्यानाव- • सरेऽन्यं किंचित्परं वा त्वज्जायामभिगंतेत्युपादाय पंचविंशतिको दमो विहितः। अब तु पंचाशत्पणात्मको । १-तत्स्वरूपमुदाहत्य २ ज्ञ--अभिहितो ३ क-अधिकद्वादश । ख-यधिकद्वादशपणात्मक । क-ख-निकृष्टेना वणिना पद्याक्षिप्यते । ५ क-भार्याभावात् भवतु । ख-भार्या भवतु भवतु ।

श्लोकः २०६] सुबोधिनी. । ऽभिधीयत इति परस्परविरोध इति चेत् मैवं । पूर्वव भार्याद्वारा पुरुषस्याक्षेपे दण्डविशेषोऽभि- हितः । सांप्रतं परभााया एवाक्षेपे विशेषोऽभिधीयत इति भेदः। उत्तराधरभावापेक्षयति । वर्णजातिगतन्यूनाधिकत्वतारतम्यापेक्षयेत्यर्थः । एतदेवोदाहृत्य दर्शयति । यथा मूर्धावसिक्त- मित्यादिना । अब ब्राह्मणकर्तृको मूर्धावसिक्तविषय आक्षेपः । प्रतिलोमापवादेष्विति। वर्णानामानुलोम्येने त्युपरितनवचने क्षत्रियकर्तृकब्राह्मणविषयाक्षेपे ब्राह्मणकर्तृकक्षत्रियविषयाक्षेपे ५ च शतपणकं पंचाशत्पणकं च दंडं वक्ष्यमाणं सिद्धवत् कृत्वाऽत्रोपन्यस्यति । क्षत्रियाक्षेप- निमित्तादिना । किंचिदधिकामिति । किंचिदिति पादाभिप्रायेण स चाच शतापेक्षया चतुर्थांश इति ज्ञेयः । अनेनैवाभिप्रायेणाह । पंचसप्तत्यात्मकमिति । तं मूर्धावसिक्तं । अब ब्राह्मण- विषयक्षत्रियकर्तृकाक्षेपनिमित्ताच्छतदंडात्पादोनः पंचसप्ततिर्दैडः मूर्धावसिक्तस्य ब्राह्मणापेक्षया न्यूनत्वात्, क्षत्रियापेक्षयाऽधिकत्वात् । क्षत्रियकृतात् ब्राह्मणक्षत्रियनिमित्तात् शतदंडात्पादन्यूनो ब्राह्म- १० णकृतात् क्षत्रियाक्षेपनिमित्तात् पंचाशत्परिमितात्पादाधिकः पंचसप्तत्यात्मको दंडः क्षत्रियकर्तृके मूर्धावसिक्तेऽपीति तौ ब्राह्मणक्षत्रियौ मूर्धावसिक्तस्य क्षत्रियापेक्षयाऽधिकत्वेन क्षत्रियकर्तृकब्राह्मण- विषयापेक्षया निमित्तशतदंडापेक्षया पादोनशतं पंचसप्ततिरेव दंडो मूर्धावसिक्तेन ब्राह्मणाक्षेपे कृते तथा मूर्धावसिक्तस्य ब्राह्मणापेक्षया न्यूनत्वेन ब्राह्मणकर्तृकत्वेन ब्राह्मणकर्तृकक्षत्रियाक्षेपनिमित्तदंडात्पंचाश- त्परिमितात् पादाधिकपंचसप्ततिर्दण्डो मूर्धावसिक्तेन क्षत्रियाक्षेपकृत इति । उभयतोऽपि तावानेव १५ दंड इत्यभिप्रायः। । - एवं वर्णजात्योः परस्पराक्षेपे दंडमभिधाय जातिष्वेव ब्राह्मणात् क्षत्रियायां वैश्यायां च जातयो मूर्धावसिक्तांबष्ठयोरन्योन्याक्षेपे दण्डमाह । मूर्धावसिक्तांबष्ठयोरिति । अत्र ब्राह्मणस्थानीयो मूर्धावसिक्तः क्षत्रियस्थानीयोऽम्बष्ठः । अंबष्ठेन मूर्धावसिक्ताक्षेपे शतं विपरीते तु पंचाशदिति व्यवस्था विज्ञेया । वर्णजात्योतिष्वेव वाऽनुलोमप्रतिलोमापवादे पूर्वोक्तन्यायेन पादोनः २० पादाधिको दंडः कल्पनीय इत्याह । एवमन्यत्रापीति । कल्पनाप्रकारस्तु ब्राह्मणकर्तृकमूर्धावसिक्त- विषयाक्षेपे दर्शितो 'यथा मूर्धावसिक्तमि' त्यनेन । ब्राह्मणकर्तृकांबष्ठविषयाक्षेपे सार्धसप्तविंशत्पणात्मको दंडः। अब पञ्चाशत्पणात्मको दण्डः । अत्र पंचाशदपेक्षया पादपरिकृप्तिः न शतापेक्षया । तथा च क्षत्रियापेक्षयांऽबष्ठस्य न्यूनत्वात् वैश्यापेक्षयाऽधिकत्वात् ब्राह्मणे क्षत्रियाक्षेपे यो दंडः पंचाशत्फ्णात्मकः तस्मात्पादोनो ब्राह्मणेनैव वैश्यापेक्षया दंडः पंचविंशत्पणात्मकः तस्मात्पादा- २५ धिकः सार्धसप्तैतिर्दैडो भवतीत्यर्थः । ब्राह्मणेन निषादाक्षेपे पादोनैकविंशतिः पणानां दंडो यः पंचविंशतिः तदपेक्षया पादन्यूनो ब्राह्मणेनैव शूद्राक्षेपे यः सार्धद्वादशपणात्मको दंडः तस्मात्पादाधिकः पादोनैकविंशतिर्दैड इत्यर्थः । निषादेन ब्राह्मणाक्षेपे पंचसप्तत्यधिकं शतं दंडः । अत्रापि पुनः शतापेक्षयैव पाव्यवस्था । तथा च शूद्रापेक्षया निषादस्याधिकत्वेन वैश्यापेक्षया च न्यूनत्वेन शूद्रत्वेन ब्राह्मणापेक्षया यो दंडो वधात्मकः शारीरस्तस्मादर्थदंडस्यान्यूनत्वेन शूद्रकृतब्राह्मणाक्षेप- ३०. निमित्तादंडात्किंचिन्यूनो वैश्येन ब्राह्मणाक्षेपे यो दंडः सार्धशतं तस्मात् किंचिदधिक: पंचसप्तत्यधिक शतं दंडो भवतीत्यर्थः । अंबष्ठेन ब्राह्मणाक्षेपे पंचविंशत्यधिकशतदंडः । वैश्यापेक्षयांऽबष्ठस्या- धिकत्वेन क्षत्रियापेक्षया च न्यूनत्वेन वैश्येन ब्राह्मणाक्षेपे साधै शतं यो दंडः तस्मान्यूनः क्षत्रि- १ ज-सार्धसप्तत्रिंशत्यणात्मको दंडो । २ ज-पादोनो कोनविशति । ३ ज यूनत्वेन सु. १२ मिताक्षराटीका. [ श्लोकः २१.. यकर्तृकब्राह्मणाक्षेपे यो दंडः शतात्मकः तस्मादधिकः पंचविंशत्यधिकं शतं दंडो भवतीत्यर्थः । सूर्धा- वसिक्तबाह्मणविषयाक्षेपे पूर्व दर्शितः । स एष वर्णजात्योरानुलोम्यप्रातिलोम्यापवादे कल्पनाक्रमः जातिष्वेव आनुलोम्यप्रातिलोम्यापवादे तु ब्रह्मक्षत्रविशामिव मूर्धावसिक्तांबष्ठनिषादानामपि यथाक्रम पंचाशत्पंचविंशतिसार्धद्वादशसार्धशतशतपंचाशदात्मकं दंडस्योहनं विज्ञेयम् । एतदुक्तं भवति । स्वस्यासन्निहिताधिकापेक्षयाऽधिको दंडो व्यवहिताधिकाक्षेपे तथैव सन्निहितन्यूनापेक्षया च न्यूनो दंडो व्यवहितन्यूनाक्षेप इति ॥ २०६ ॥ प्रकृतमनुसरामः । एवं सर्ववर्णविषय इति । सर्वे च वर्णाश्चेति समासः । सर्वे मूर्धावसि- तादयः वर्णाः ब्राह्मणादयः पूर्ववाक्यद्विगुणपादोपात्तेति । 'अर्थोऽधमेषु द्विगुण ' इत्यत्रेत्यर्थः । याज्ञवल्कीये २०७ श्लोकः। द्वैगुण्यत्रैगुण्यं चोदाहृत्य दर्शयति । शतपणाः सार्धशतपणा इति च । अत्र दंडा इति बहुवचनं निमित्तभूतवर्णापराधबाहुल्याभिप्रायेण । तथाहि क्षत्रियवैश्याभ्यां ब्राह्मणे वैश्य- शुद्राभ्यां क्षत्रिये शूद्रेण वैश्ये एवमानुलोम्येनापीत्यपराधबाहुल्यम् । शूद्रस्य ब्राह्मणाक्षेपे शारीर एव दंडो नार्थदंडः । ब्राह्मणविषयक्षत्रियकर्तृकापराधे यो न्यायोऽभिहितः क्षत्रियविषयविशूद्रकर्तृ- कापराधेऽप्यतिदिशति । विद्शूद्रयोरपीति । अनंतरसंनिहितः एकांतर एकेन व्यवहितः यथा १५ ब्राह्मणादनंतरैकांतरयोः क्षत्रियवैश्ययोः ब्राह्मणविषयापराधे दंडस्तथैव क्षत्रियादनंतरैकांतरयोर्वै- श्यशूद्रयोरपीत्यर्थः । ब्राह्मणानंतरभाविना क्षत्रियेण ब्राह्मणाक्रोशे शतमिव वैश्यानंतरभाविना शूद्रेण वैश्याक्रोशेऽपि शतमित्याह । शूद्रस्य चेति । वर्णानामानुलोम्येनेति । द्वितीयाधैं व्याचष्टे । आनुलोम्येन त्विति । ब्राह्मणाक्रोश- निमित्तादिति । क्षत्रियकर्तृकब्राह्मणविषयाक्षेपनिमित्ताच्छतदंडादित्यर्थः । प्रतिवर्णमर्धस्यार्ध- २० स्यति । ब्राह्मणेन क्षत्रियाक्षेपे कृते शतार्धे पंचाशइंडः। तेनैव वैश्याक्षेपे पंचाशतोऽर्धे पंचविंशतिः, तेनैव च शूद्राक्षेपे पंचविंशतरर्ध सार्धद्वादशपणा इति विवेकः । शूद्रे द्वादशको दम इति । सार्ध- इति शेषः । 'क्षत्रियेण वैश्ये शूद्रे चे? त्यत्र गौतमवचनं प्रमाणयति । ब्राह्मणराजन्यवदिति । 'वैश्यस्य च शूद्राकोशे ' इत्यत्र मनुवचनं प्रमाणयति । विदशूद्रयोरेवमेवेति । 'सत्यासत्यान्यथा स्तोत्रैरि । त्येतेन नेष्टुराक्षेपे दंडमभिधायाश्लीलाक्षेपे दंडं प्रस्तुत्य सिंहावलो- २५ कनन्यायेन निष्ठुराक्षेपमधिकरोतीत्याह । पुनर्निष्ठुराक्षेपमिति । याज्ञवल्कीये २०८ श्लोकः । वाचा प्रतिपादनमेवोदाहृत्य दर्शयति । तव बाहुमिति । याज्ञवल्कीये २१० श्लोकः । वर्णिनामाक्षेप इति । वर्णिपदं मूर्धावसिक्तादिजातीनामुपलक्षणार्थम् । तथा च जातिष्वपि ३० परस्परं पतनीयैराक्षेपे मध्यमसाहसः उपपातकैराक्षेपे प्रथमसाहस इत्येष निर्णयः । वर्णजात्योः परस्परमाक्षेपेऽपि पूर्वोक्त एव दंडः । वर्णिष्वपि न्यूनाधिकभावमंतरेण मध्यमसाहसादिदंडविधानादि- तरत्रापि कल्पनापत्तिः प्रामाणिकत्वात् । १ ज-कल्पनाया निष्मामाणिकत्वात् । - - लोकः २११] सुबोधिनी. १२ याज्ञवल्कीये २११ श्लोकः। ये पुनर्ब्राह्मणमूर्धावसिक्तादीनामिति । ब्राह्मणसंयो मूर्धावसिक्तसंघः एवं क्षत्रियादिसंघ इति प्रत्येकं संघशब्दान्वयः । मीलितान्वयो वा उभयथाऽपि स एव दंडः । ॥ इति वाक्पारुष्यं नाम विवादपदम् ।। - । अथ दण्डपारुष्यप्रकरणम् १९ । दंडपारुष्यस्वरूपं नारदवचनानुसारेणाभिधाय तद्वचनानुसारेणैव तद्भदानप्याह । तस्य त्ववगोरणादिरूपकरणभेदेनति । अवगोरणादिरूपकरणकारणभेदेनेति यावत् । द्रव्यरूपकर्म- त्रैविध्यादिति । कर्मकारकत्रैविध्यादित्यर्थः । एतदुक्तं भवति । दंडपारुष्यं नाम शरीरस्य विरुक्षी- करणम् । तत्र विरुक्षीकरणाख्ये कमणि अवगोरणं निःसंगपातनं क्षतदर्शन चेति त्रीणि करणानि एवं करणभेदात् वैविध्यम् । यत्र शरीरे विरुक्षीकरणं नायते तत्कर्मकारकम् । तस्य कर्मकारकस्य १० हीनत्वेन मध्यमत्वेनोत्तमत्वेन च त्रैविध्यमिति । तस्यापि दृष्टं त्रैविध्यमिति । तस्य दंडपारुष्य- स्यावगोरणनिःसंगपातनक्षतदर्शनैः करणीनमध्यमोत्तमानां द्रव्याणां समतिक्रमात् हीनमध्यमोत्तरक्रमा- वैविध्यं दृष्टमित्यन्वयः। अवगोरणादिकरणेषु पाठक्रमादेव हीनत्वादिकं विज्ञेयम् । ननु करणकारकभेदात् कर्मकारकभेदाच्च षड्डिधत्वे सिद्धे विध्योतिरनुपपन्नेत्याशंक्याह । त्रीण्येव साहसानीति ।तत्रैवंविधे दंडपारुष्ये कंटकशोधने दुष्टशिक्षायां क्रियमाणायामपराधानुसारेण १५ शिक्षार्थ दंडपारुष्यरूपाणि साहसानि हीनदंडपारुष्यमध्यमदंडपारुष्योत्तमदंडपारुष्याणीति त्रीण्येवेति नियम्यते । अयमर्थः । कर्मकरणभेदेऽपि हीनमध्यमोत्तमव्यपदेशात्रिपकारत्वमेवेति । एवं दंडपारुष्यस्वरूपसंभेदमभिधाय वाक्पारुष्यदंडपारुष्यसाधारणधर्मानाह । तथा वाग्दंड- पारुष्ययोरुभयोरिति । बद्धे वैरानुसंधातुरिति । पूर्ववैरानुस्मतुरित्यर्थः । विधिः पंच- विधस्तूक्त इति। एतयोरुभयोर्वाग्दंडपारुष्ययोः पंचविधिः पंचप्रकारो विधिविधानमित्यर्थः । २० तानतान् पंचविधीन दर्शयति । पारुष्ये सतीत्यादिना । संरंभात्पारुष्य उत्पन्ने सति क्रुद्धयोयो- मध्ये यः क्षमते स मान्यत इत्यन्वयः । द्वयोरापन्नयोरिति । तुल्यमापनयोः कलहं प्रति प्राप्तयोः द्वयोर्मध्ये यः पुनर्वैरमनुबध्नाति स एव दंडभाक् प्रथमप्रवृत्तेः पश्चात्मवृत्तो वेत्यर्थः । श्वपाकषंढेति। अस्यार्थः। श्वपाकादिदासांतेषु सद्यो घात एवानुशासनम् । कस्मिन् सति गुर्वाचार्यांत- गेषु विषये मर्यादातिकमे सति अंतं चरममाश्रमं गच्छतीत्यंतगोपतिः । चशब्दो भिन्नक्रमः । तथा २५ चायमन्वयः संपद्यते । वधवृत्तिषु श्वपाकादिषु हस्तिपत्रात्यदासेषु सद्योघात एव अनुशासनं । गुर्वाचार्यान्तगेषु विषये मर्यादातिक्रमे सतीति । अथवाऽन्यैव व्याख्या । अंतं नाशं गच्छतीत्यंतगः । गुर्वाचार्याणामंतगो गुर्वाचार्यांतगो द्रोही तेषु गुर्वाचार्यांतगेषु गुर्वाचार्यद्रोहिष्विति यावत् । ततश्चाय- मन्वयः । श्वपाकादिगुर्वाचार्यांतगांतेषु सद्यो घात एवानुशासनं । कस्मिन् सति ? सत्सु विषयमर्यादाति- क्रमे सति । सत्स्विति पदमुत्तरश्लोकपर्यालोचनयाऽर्थलभ्यम् । अधुना मूलश्लोकमवतारयति । एवंभूतेति । : । -- १ क-विरक्तीकरणम् । २ ख-पावक्रमादेव ।

मिताक्षराटीका. [ श्लोकः :२१८ १२ - याज्ञवल्कीये २१२ श्लोकः। कारणप्रयोजनोति । कारणपर्यालोचनात्मिकयति । प्रत्येकमभिसंबध्यते । साधनविशेषेणोति । वक्ष्यमाणभस्मादयः साधनविशेषाः । याज्ञवल्कीये २१३ श्लोकः। कर्णविददूषिकेति । कर्णविट् कर्णमलम् । दूषिका नेत्रमलम् । मूलवचनस्थं 'द्विगुणस्तत' इत्यमुमशं व्याचष्टे । तत इति । ततो द्विगुणो दंड इत्यन्वयः । तत 'इति कुत इत्यपेक्षायामाह। पूर्वाद्दशपणादिति । 'पूर्वादिभ्यो नवभ्यो वेति' विकल्पेन सर्वनामसंज्ञा । पुरीषादिस्पर्शन इति । पुरषिदिभिः स्पर्शने कृत इत्यर्थः । छर्दिमूत्रेति । अस्यार्थः । छ-दिभिः परगात्राभिद्रोहे दंडश्चतुर्गुणः कर्तव्यः । दशपणापेक्षया १० चातुर्गुण्यं चत्वारिंशत्पणा इत्यर्थः । कायमध्ये नाभेरुपरिष्टात् मुखार्वाक् छर्यादिभिरभिद्रोहे षड्गुणो दंडः स्यात् । पारिशेष्यात्पूर्वोक्तश्चतुर्गुणो दंडो नाभेरधस्तात् द्रोहे विज्ञेयः । षड्गुणः षष्टिपणाः । अष्टगुणोऽशीतिः पणा इति । 'समेष्वेवमि । त्यमुमंशं व्याचष्टे । एवंभूतपूर्वोक्त इति । परस्त्रीमात्रे, स्वापेक्षयाऽधिक- श्रुतवृत्तेषु च भस्मादिभिः स्पर्शने दशपणात् द्विगुणो विंशतिपणः, अमेध्यादिभिः स्पर्शने तु विंशतिपणा-- १५ द्विगुणः चत्वारिंशत्पणश्च दंडो भवतीत्याह । परभार्यासु चाविशेषेणेति । सवर्णोत्तमवर्णत्वहीन- वर्णत्वविशेषमंतरेणेत्यर्थः । पंचपणो दशपणश्चेति । भस्मादिभिः स्पर्शन इत्यर्थः ॥ याज्ञवल्कीये २१५ श्लोकः । श्रेयांसमिति । उत्तमजातिं द्विजातिमिति यावत् । उक्तन्यायमत्राप्यतिदिशति । वैश्य- स्यापीति । वैशस्यापि क्षत्रियानंतरभावित्वेन न्यूनत्वेनांत्यजत्वात् क्षत्रियस्थ तदपेक्षया ज्यायस्त्वेन २० श्रेयस्त्वात् शूद्रतुल्यन्यायत्वेनायभेवांगछेदनरूपो दंड इत्यर्थः । ननु 'भस्मपंकरजःस्पर्श' इत्यत्रोक्तैर्भसादिभिः निष्ठतातैः कृत्वा प्रातिलोम्यापराधे को दंड इत्याकांक्षायामाह । भस्मादिसंस्पर्शने विति । अयमभिसंधिः । यत्र भस्मपंकरजोभिः स्पर्शने सवर्णविषये दशपणो दंडः तत्र क्षत्रियेण ब्राह्मणं प्रति भस्मादिभिरभिद्रोहे कृते प्रातिलोम्या- पर्वादत्वेन द्विगुणो विंशतिपणो दंडः । तैरेव वैश्यकर्तृके ब्राह्मणविषयाभिद्रोहे त्रिगुण: त्रिंशत्पणों २५ दंडः । अमेध्यादिभिः साधनैः क्षत्रियकर्तृकब्राह्मणविषयाभिद्रोहे तत्र तत्रोक्तात् विंशतिपणात् द्विगुण- श्चत्वारिंशत्पणो दंडः तैरेव वैश्यकर्तृकब्राह्मणविषयापराधे विंशतिपणादेव त्रिगुणः षष्टिपणो दंड इति । याज्ञवल्कीये २१६ श्लोकः । परस्परवधार्थमिति । सर्वेषां वर्णानां सर्वेष्वेव परस्परवधार्थ शस्त्र उद्वर्ण इत्यर्थः । याज्ञवल्कीये २१८ श्लोकः । ३० त्वग्भेदकः शतं दंड्य इति । यस्त्वग्भेदको लोहितस्य च दर्शकः स शतं दंड्यो न तु त्वङ्मात्रभेदकः यतश्चशब्दः समुच्चयं प्रत्याययति । ननु याज्ञवल्क्येन चतुःषष्टिपणानां दंडोऽ भिहितः । रक्तदर्शने मनुना तु शतमिति परस्परविरोध इति चेत्, मैवम् । मर्मस्थले परगात्रेषु रक्त- दर्शकस्य शतंपणो दंडः । इतरत्र चतुःषष्टिरिति विवक्तव्यम् । १ज-निष्ठयूताऽन्तः।२ ज-प्रातिलोम्यापवादादन्यत्वेन । । । । ।

श्लोकः २२८ सुबोधिनी. ९३ १ याज्ञवल्कीये २१९ श्लोकः। ननु कर्णनासच्छेदायपेक्षया करपाददंतभंगस्याल्पत्वेनैकरूप्येण सर्वत्र मध्यमसाहसं दंडविधान- मनुपपन्नं स्यादित्यत आह । अनुबंधादिनेति । अनुबंधो दोषोत्पादः । 'दोषोत्पादेऽनुबंधः स्यादि त्यमरः (३१३१९८)। आदिशब्दाव्यवहारसौकार्यत्वं गृह्यते । कर्णनासच्छेदनरूढव्रणोद्भेदनादौ दोषा- धिक्यं प्रत्यक्षसिद्धम् । करपादयोस्तु साक्षाच्छरीराव्यात्वेन तद्भगे व्यवहारसौकर्याभावेन शरीरयात्रायाः दुर्लभत्वादोषाधिक्यम् । दंतभंगेऽभ्यवहारसौकर्याभावेन परंपरया जीवनसंकोचाद्दोषाधिक्यं इत्यनुबंधा- दिना करपाददंतभंगादिरूपस्य विषयस्य साम्यमूह्यमित्यर्थः। याज्ञवल्कीये २२१ श्लोकः । एवं सवर्णविषयापराधे दंडमभिधाय तं दंड वाक्पारुष्योक्तन्यायेन प्रातिलोम्यानुलोम्यापराधे योजयति । प्रातिलोम्योते । प्रातिलोम्यापराधे दंडस्य वृद्धिः आनुलोम्यापराधे तु दंडस्य १० हानिरिति विवेकः। ननु ‘विप्रपीडाकरं छेद्यमि' त्येतद्वचनव्याख्यानसमये 'भस्मादिसंस्पर्श पुन: रित्यनेनासावर्थो- ऽभिहितः । स एवार्थोऽत्राभिधीयत इति पौनरुक्त्यं स्यादिति चेन्मैनम् । भस्मादिभिः कारणविशेषैः प्रातिलोम्यापराधे सति तत्रैवापराधे पूर्वमभिहितः प्रातिलोभ्यापराधदंडप्रसंगेन । अब तु प्रतिलोम्यानु- लोम्यापराधयोरुभयोरपि वाक्पारुष्योक्तस्य सकलस्यापि दंडकल्पनाप्रकारः बालबोधार्थमभिधीयत इति १५ न पौनरुत्यदोषः । याज्ञवल्कीये २२३ श्लोकः। उत्तरवचनस्य प्रासंगिकी संगतिरित्याह । परगात्राभिद्रोह इति । अयमर्थः । अंतरंगभूत- हस्तपादादिष्वभिद्रोहे दंडमभिधायांगप्रसंगावहिरंगभूतगृहाभिघातादौ दंडोऽभिधीयत इति । याज्ञवल्कीये २२४ श्लोकः। पूर्वोक्तमर्थमाक्षिप्य समाधत्ते। कथमिति।चेदिति । समाधातुं सिद्धार्थमनुवदति। अपराध- गुरुत्वादिति । ततः किमित्यत आह । तत्र चाश्रुतेति । एतदुक्तं भवति । ' विपणप्रभृतिः क्रमा- द्विति द्वित्वम् तावत् श्रुतं । श्रुतद्वित्वसङ्ख्यात आधिक्यमश्रुतत्रित्वरूपधर्मिकल्पनया वा श्रुतद्वित्वगता- भ्यासाक्षिप्तचतुष्करूपधर्मकल्पनया वा भवति । एवं च नित्वेनाधिक्यकल्पनायामश्रुतकल्पना धर्मिकल्पना चेति गौरवं, चतुष्केनाधिक्यकल्पनायां तु श्रुतद्वित्वगताभ्यासरूपधर्मकल्पनेति लाघवम् । तथा च २५ न्यायविदो मन्यते । धर्मिकल्पनातो वरं धर्मकल्पनेति । अतश्च श्रुतद्वित्वाभ्यासश्रवणमेवोचितमिति । याज्ञवल्कीये २२६ श्लोकः। ताडनलोहितस्त्रावणादिति। 'दुःखे च शोणितोत्पाद' इत्यादिनोक्तेषु निमित्तेष्वित्यर्थः । सावणादीति । याज्ञवल्कीये २२८ श्लोकः । चैत्यादिषु जातानामिति । अत्र शाखाछेदने स्कंधच्छेदने समूलवृक्षच्छेदने यथाक्रम चत्वारिंशत्पणोऽशीतिपणः षष्ठ्याधिकशतपणश्चेति विवेकः । । २० -- १ ज-आनुलोम्यप्रातिलोम्यापराधे।

मिताक्षराटीका. [श्लोकः २३१. याज्ञवल्कीये २२९ श्लोकः । पूर्वोक्तादंडादर्पदंडो वेदितव्य इति । प्रकृतिभूतविंशतिचत्वारिंशंदशीतिपणरूपात्पूर्वोक्तादंडा- दर्धदंडो दशविंशतिचत्वारिंशदात्मक इत्यर्थः । ॥ इति दंडपारुष्यप्रकरणम् ॥ ५ -- अथ साहसप्रकरणम् २० । याज्ञवल्कीये २३० श्लोकः। मूलवचनस्थं 'सामान्यद्रव्यमिति ' पदमुपलक्षकम् । अतस्तेन परकीयद्रव्यमपि लक्ष्यत इत्यभिप्रेत्या उपलक्षकत्वे हेतुं दर्शयन् अभिमतमर्थमाह । यथेष्टमिति । अयमभिप्रायः । साधारणद्रव्यस्य यथा यथेष्टविनियोगार्हत्वं तथा परद्रव्यस्यापीति तदपहरणमपि साहसं भवतीति । राजदंडं जनाक्रोश १० वेति । राजदंडभयं जनाक्रोशभयं चोलंध्येत्यर्थः । राजपुरुषश्च इतरजनाश्च राजपुरुषेतरजनाः तयोः समक्षमिति समासः । ननु सहसा कृतं साहसमित्येतल्लक्षणं चौर्यादिष्वप्यविशिष्टमिति तेष्वेवांतर्भावादस्य प्रकरणस्य पृथगभिधानमनुपपन्नमित्याशंक्य भवत्वेवैतल्लक्षणं चौर्यादिष्वनुस्यूतं, तथाऽप्यवांतरोपाधिभेदादितरेभ्य एतत्प्रकरणं भिद्यत इति पृथगुपादानं युज्यत इत्याह । तदिदं साहसमिति । अयमभिप्रायः ।। १५ सहसा कृतं साहसमित्येतत्सामान्यलक्षणं अत एव चौर्यादिषु सर्वत्रानुस्यूतम् । अत्र तुबलं दर्पश्चोपाधिः। अनेनैवोपाधिना विशेषलक्षणेन लक्षितं साहसपदाभिधेयमेवं चौर्यादिष्वपि विशेषलक्षणं मृग्यामिति । तस्य चेति । तस्य, साहसस्य । प्रथमादिभेदेनेति। प्रथमसाहसमध्यमसाहसोत्तमसाहसभेदेनेत्यर्थः । एतानि प्रथमसाहसादीनि कर्मनामधेयानि । न तु दंडस्य नामानि । तेनैवेति । तेन नारदेन । भंगा- क्षेप इति । भंगो भंजनं । आक्षेपो दोषोत्पादः । उपमर्दो म्लानतापादानं । आदिशब्दाच्छेदनादिकं २० गृह्यते। एतेनैव प्रकारेणैवेति। एतेनैव भंगादिभिरेव। क्रिया करणं कर्मेति यावत् । प्रथमसाहसरूप- कर्मापेक्षो मध्यमसाहसरूपकर्मापेक्ष उत्तमसाहसरूपकर्मापेक्षे इत्यर्थः । एतदेव विविच्य दर्शयति । प्रथ- मस्येत्यादिना । समस्ता व्यस्ता वेति । समस्ता मिलिताः । व्यस्ता भिन्नाः । स्मृत्यंतरोक्तान् विशेषानभिधाय प्रकृतमनुसरति । तत्र परद्रव्यापहरणरूप इति । यः पुनः साहसं कृत्वेति । निह्नवानंतरं साक्ष्यादिभिर्भावितः स चतुर्गुणं दंडमहति । न तु निह्नव- २५ मात्रणेत्यभिप्रायः। ननु प्रथमसाहसादिष्वपराधेषु शतपणादयो दंडा विहिताः पूर्वम् । अब मूल्याद्विगुणचतुर्गुणौ दंडौ विधीयते । ततश्च परस्परविरोधादप्रामाण्यं वा पक्षे प्रामाण्यमंगीकृत्य विकल्पो वाऽष्टदोषदुष्टः समाश्रयणीयः स्यादित्यत आह। एतस्मादेवति । अयमभिप्रायः । नाप्रामाण्यं न विकल्पः । अपि तु. विशेषस्य सामान्यापवादकत्वेन अपहाररूपे विषयविशेषे द्वैगुण्यचातुर्गुण्यविधायकेन विशेषवाक्येन ३.०० सामान्यविधायकवाक्यं बाध्यत इति ॥ याज्ञवल्कीये २३१ श्लोकः। अनुबंधातिशयादिति । अवष्टंभाधिक्याहोषाधिक्यादिति यावत् ॥ १ज-अभिप्रेतम् । २ ख-कर्माक्षेपो-कर्मक्षेपे-कर्माक्षेप । ३ क-ज-अथ । - ।

श्लोकः २४३] सुबोधिनी. । । याज्ञवल्कीये २३२ श्लोकः । अाक्रोशति । अय॑स्याकोशश्च अतिक्रमश्च तौ करोतीति तत्कृदिति समासः । ते सर्वे पंचाशदिति । ते सर्वे प्रत्येकं पंचाशत्पणपरिमितेन दंडनीया इत्यर्थः । शेषं सुबोधम् । ॥ इति साहसप्रकरणम् । १० । नष्टस्य अथ नेजकादीनां दण्डविधानं नाम प्रासङ्गिकप्रकरणम् तत्सहशापराधेष्विति । साहससहशा अपराधा वस्त्रधावकादिभिः क्रियमाणा वस्त्रछादनादयः तेष्वपराधेषु तत्कर्तृणां दंडोऽभिधीयत इत्यर्थः । याज्ञवल्कीये २३८ श्लोकः। अवक्रयं चेति । अवक्रयं वा यो ददातीत्युत्तरेणान्वयः । अवक्रयस्वरूपमेव दर्शयति । एता- वत्कालमिति । भाटकं यथा भवति तथेत्यर्थः । 'मूल्याष्टभाग' इत्यादिनारदवचनजातं व्याचष्टे । अष्टपणकीतस्येत्यादिना । अवधिमंतरे- णाष्टमांशादिभ्यो न्यूनताया वक्तुमशक्यत्वात् दिङ्मात्रप्रदर्शनायाष्टपणमूल्यकथनं । अष्टमभागोनं सप्त- पणा इत्यर्थः । पादोनमिति । चतुर्थांशन्यूनम् । 'अर्धक्षयात् तु पटत ' इत्यमुमंशं व्याचष्टे । ततःपरं प्रतिनिणेजनमिति । अयमभिप्रायः । अष्टपणक्रीतस्य वाससः चतुर्थे प्रक्षालने मूल्यादर्धस्य पणचतुष्टयस्य क्षयो जायते । पंचप्रक्षालनादिषु नष्टस्यार्धमूल्यक्षयादुपरि क्षयो १५ जायते । एवं स्थिते पंचमे प्रक्षालने नष्टस्य पादन्यून मूल्यमवशिष्टपणचतुष्टयान्मूल्यात्रयः पणाः । षष्ठे तु क्षालने नष्टस्यावशिष्टपणत्रितयाञ्चतुर्थांशन्यूनमित्येवं यावता कालेन वस्त्रं जीर्णं भवति तावदेव चतु- थोशन्यून मूल्यं देयम् । जीर्णता च दशासु क्षीणासु भवतीति जीर्णस्य नियमः पुनरि त्यमुमंशंव्याचष्टे। जीर्णस्य पुनरिति । अयमर्थः । जीर्णस्य नाशे परीक्षकाणामिच्छैव मूल्यदानकल्पनायां प्रमाणं न पूर्वोक्तरीत्या वचनप्रवृत्तिर्नापि स्वेच्छाप्रवृत्तिरिति ॥ २० पूर्व नेजकादीनां दंडमाहेत्युक्तम् । तत्रादिशब्दवाच्यानां दंडान दर्शयति । 'पितापुत्रविरोधे' इत्यादिभिः ‘पणस्योपसंस्थाप्य ' इत्येतैः पंचदशभिः श्लोकैः । याज्ञवल्कीये २३९ श्लोकः। कलहनिवारणसमर्थः सन्नपि यः कलहमीदृशस्थले अनिवारयन् साक्ष्यमंगीकरोति तस्यापि दंड इत्यनेनाभिप्रायेणाह । पितापुत्रयोरिति । दंपत्यादिष्वपीति । आदिशब्दाद्गुरुशिष्यप्रभृतयो २५ गृह्यते इति। याज्ञवल्कीये २४२ श्लोकः । तिर्यगादिषु मूल्यविशेषेणेति। तिर्यक्षु मूल्यविशेषेण, मानुषेषु ब्राह्मणत्वादिवर्णविशेषेण, राजपुरुषेषु प्रत्यासत्तिविशेषेण दंडस्य लघुत्वं गुरुत्वं च कल्पनीयमित्यर्थः याज्ञवल्कीये २४३ श्लोकः । 'अप्राप्तव्यवहारामि' त्यस्य पदस्यार्थमाह । अनिवृत्तव्यवहारमिति । । - १ क-अध्याकोशश्च ।२ क-ख-द्विश्चात्र । ३ अनिवृत्तव्यवहारम् ।

मिताक्षराटीका. [ श्लोकः २५३ . याज्ञवल्कीये २४४ श्लोकः । कूटमानादिनाऽपहृतस्याष्टमांशादप्यधिकत्वे न्यूनत्वे वा दंडद्रव्यस्यापि द्विशतादृद्धि हानि च कल्पयेदित्याह । अपहृतस्य पुनरिति ॥ याज्ञवल्कीये २४६ श्लोकः। विक्रेयस्यापादितसादृश्यं यस्येति । अयमभिप्रायः । वर्णोकर्षापादनेनापादितवर्ण- रागाद्यात्मकस्य स्फटिकादेविकैयद्रव्यस्य यन्मूल्यं तस्मादष्टगुणो दंडो ग्राह्य इति । याज्ञवल्कीये २४७-२४८ श्लोकः । 'भिन्ने पणे तु पंचाशदि त्यमुं श्लोकं व्याचष्टे । कृत्रिमकस्तूरिकादेरित्यादिना। याज्ञवल्कीये २५१ श्लोकः । पंचरात्रे पंचरात्र इति । अस्यार्थः । अस्थिरार्घाणां पदार्थानां पंचपंचसु दिनेषु गतेषु स्थिराणां तु पक्षे पक्षे गते एषां पूर्वोक्तानामधैं राजा स्वसमक्षं कुर्यादिति । अत्र वीप्सया दशसु दिनेषु मासे चातीतेऽर्धनिरूपणमिति न मंतव्यमपि तु पंचरात्रानंतरं पक्षांतरमिति एवं मिलित्वाऽव- श्यकर्तव्यत्वेन नित्यतां बोधयति । ' वसते वसंते ज्योतिष्टोमेतिवत् ।। याज्ञवल्कीये २५२ श्लोकः। राज्ञाऽर्थो निरूपणीयः । वणिग्भिरपि स्वदेशप्राप्ते पण्ये पणशते पंचपणो लाभः, परदेशप्राप्ते तु दशपणलाभो ग्राह्य इत्युक्तम् । एवं स्थिते राज्ञा केन प्रकारेणार्घः स्थापनीय इति विवक्षायामुपरि- तनवचने परदेशसंप्राप्तपण्ये अर्धस्थापनप्रकारस्य वक्ष्यमाणत्वात् तन्न्यायेनार्थसिद्धमर्घनिरूपणप्रकार स्वदेशप्राप्तपण्ये दर्शयति । एवं च यथार्घ इति । याज्ञवल्कीये २५३ श्लोकः । पण्यस्योपरिसंस्थाप्योत । नन्वत्र सामान्येनार्धनिरूपणकारस्य प्रतीयमानत्वात्पारदेश्य- पण्यस्यानिरूपणप्रकारस्य अपरत्वकथनमनुपपनामति चेत्, मैवं । 'व्ययं पण्यसमुद्भवमिति' हेतूपादानात्तदपरत्वं प्रतीयते । अयमभिप्रायः । प्रायशः परदेशादानीयमानस्यैव द्रव्यस्य व्ययसंभवात् तत्पदत्वमिति सूक्तमिति । ।। इति नेजकादीनां दंडविधानं नाम प्रासंगिक प्रकरणम् ।। १५ २० - २५ - अथ विक्रीयासंप्रदानप्रकरणम् २१ । चराचरभेदेनेति । चरं जंगममचरं स्थावरम् । षद्भिधस्तस्य च तु बुधैरिति तस्य पण्यस्य बुधैर्मन्वादिभिर्दानस्यादानस्य च विधिक्रमो विज्ञानक्रमः करणप्रकारः षड्डिधः कथित इत्यस्यार्थः । 'रूपत ' इत्यत्र सार्वविभक्तिस्तसिल्, अतश्च रूपेणेति तृतीयार्थे । साऽपि तृतीया उपलक्षणार्था इत्यनाभिप्रायेणाह । रूपतः पण्यांगनादीति। ३० अधुना मूलवचनमवतारयति । इत्येतदिति । १ज-वर्णान्तराया धाने । २ ज-पद्म । ३ ज-वीप्सावत्कर्तव्यत्वेन । ४ व्या-सू-इतराभ्योऽपि दृश्यन्ले ।

शेकः २५५ ] सुबोधिनी. - -- । याज्ञवल्कीये २५४ श्लोकः। 'सोदयं तस्य दाप्य ' इत्यत्रोदयश्चतुर्धा संभवति । तद्यथा। विक्रयकालापेक्षया कालांतरे समर्घत्वे साम्ये महार्घत्वे चांसमर्घत्वे तावत् पंचभिः पणैः पण्ये क्रीते कालांतरे चतुभिर्लेख्ये सति समर्घत्वेन पण्यस्योदयः तदा चतुर्भिरेव पणैः पण्यं केत्रे दाप्यमित्येक उदयः वृद्धिः । एतादृशि स्थले लौकिकाः समधैं पण्यमित्याचक्षते । क्रयकालापेक्षयाऽर्घस्य कालांतरे साम्ये तु द्वेधा उद्यः यस्मिन् नगरादौ ५ हट्टादिप्रदेशेषु पण्यं क्रीत्वा क्रयस्थानादन्यत्र गृहादिषु विक्रीणानस्य यः कश्चन लाभः स एक उदयः । अथवा येन द्रव्येण पण्यं गृहीतं तस्मिन्नेव द्रव्ये उद्धारत्वेन दीयमाने ' अशीतिभागो वृद्धिः स्यान्मा- सि मासि सबंधके । वर्णक्रमाच्छ्रुतं दित्रिचतुःपंचकमन्यथे' त्यनेन प्रकारेण या कालवृद्धिः सोऽन्य उदयः। महार्यत्वे त्वेकः पंचभिः पणैः क्रीते कालांतरे षड्भिर्दशभिर्वा लभ्ये सति तदा वगृहप्रभृतिष्ठ परिधानस्थित्यादिरूपो य उपभोगः स उपभोगात्मक एव लाभोऽपर उदय इति । एतदुक्तं भवति । वस्तुनः १. समर्घत्वे तु एक उदय इत्याद्यः पक्षः। अर्घस्य साम्ये एकस्मिन्नेव देशे क्रयस्थानादन्यत्र विक्रीते यो लाभ: स द्वितीयः । पण्यमूलद्रव्ये ऋणत्वेन दत्ते मासि मासि या वृद्धिः स तृतीयः। महार्यत्वे वस्तूनामुपभोग एवं चतुर्थ इति । एतेषु चतुर्ध्वपि पक्षेषु केतुरिच्छया सोदयं पण्यं दाप्यः । मूल्यं गृहीत्वाऽप्रयच्छन् विक्रेतेत्यभिधास्यन प्रथमं पक्षं तावदाह। तच्च पण्यं यदीत्यादिना। अयमर्थः। पंचभिः पणैः विक्रीय मूल्यमपि गृहीत्वा क्रेतरि प्रार्थयमानेऽपि तत्पण्यं यदि विक्रेता न १५ ददाति, कालांतरे चतुर्भिर्लभ्यते, एकेन वा, तदा कालांतरमूल्येनैव तस्मै क्रेत्रे दत्त्वाऽवशिष्टं पूर्वगृहीतं मूल्यमपि विक्रेत्रा देयमिति । द्वितीयं पक्षमाह । यदा मूल्यह्रासकृत इति । एतदुक्तं भवति । स्वक्रयकाले कालांतरे चार्घस्यैकरूपत्वे हट्टादिस्थानेषु क्रीत्वा गृहादिषु विक्रीणानस्य यो लाभस्तत्सहितं पण्यं देयमिति । तृतीयं पक्षमाह । द्विकं त्रिकमित्यादीति । अर्घस्य ह्रासे साम्ये च सोदयं पण्यं दापये- २० दित्युक्तम् । तत्र पक्षद्वयेऽपि नारदवचनं प्रामाणयति । अर्घश्चेति । अस्यार्थः । चेदित्यनेन पक्षांतरं द्योत्यते । यदाऽर्थोऽवहीयेत अर्घह्रासः पण्यस्य समर्पता भवति तदा सोदयं समर्घमूल्येन पण्यं दद्यात् घेदों नावहीयते । साम्यमेवार्घस्य तदापि सोदयं दद्यात् । अत्र सोदयदानं पूर्वोक्तं द्रष्टव्यम्। एवं नियमस्थानानां स्वदेशस्थितानामेव दिग्विचारिणां दिग्लाभं वक्ष्यमाणपकारं दद्यादिति । चतुर्थं पक्षमाह । यदा त्वर्घमहत्त्वेनेति । अयमभिमायः । विक्रयकाले पंचभिः पण्यैर्लभ्यं २५ पण्यं कालांतरे षड्भिर्दशभिर्वा लभ्यं स्यात्तदा विक्रयकालमूल्येनैव के दापयित्वा विक्रयकालादा- रभ्य दानकालमध्ये योऽयमुपभोगः तन्मूल्यमपि दापयेत् । न तु साक्षादुपभोगदानं, तस्य सर्ववस्तुषु दातुमशक्यत्वादिति । जंगमस्य विक्रियाफलमिति । जंगमस्य दास्यादेः क्रियाफलं शुश्रूषादिफलमित्यर्थः । नारदवचनस्य क्षयशब्दार्थमाह । धितुरुपभोग इति । तत्र हेतुः ‘केतृसंबंधित्वमति ।। ३. 'विक्रिया संप्रयच्छतः' इत्यत्रोक्तत्वादिति । अत्रास्मिन् वचने नारदेन कुड्यावपातने विक्रेतुर्हानि- रित्युक्तत्वेन पुनरपि 'क्षयं दाप्य' इत्यत्राभिधीयमाने पौनरुत्यं स्यादित्यर्थः । ज- असमर्थत्वे।२ क-समर्थत्वक्स्तुनः समर्थवे वैक उदय इत्यायः पक्षः। ज-समर्थत्वे वस्तुनः महायवेवैक उदय इत्याद्यः पक्षः। ३ ज-एवं नियमस्थानिना। । vi मिताक्षराटीका.. [श्लोकः २८५ 'दिग्लाभं वा दिगागते' इत्यमुं मूलवचनांशं व्याचष्टे । यदा त्वसाविति। अनुशयाभाव इति। अनुशयो नामानुचितमूल्येन विक्रीतमित्यादि मनूक्तं वेदितव्यं इति । यस्येहानुशयो भवेत् सोऽत- र्दशाहात्तष्ट्रव्यं दद्याच्चैवाददीतोति । श्लोकशेषः । याज्ञवल्कीये २५५ श्लोकः । तत्केतुरेवासौ हानिरिति । तस्य पण्यस्य केतुरित्यर्थः । याज्ञवल्कीये २५६ श्लोकः। विक्रेतुरेवासावित्यत्रैवकारद्योत्यमर्थमाह । अतोऽन्यददुष्टमिति । याज्ञवल्कीये २५७ श्लोकः । 'प्रासंगिक परिसमाप्ये ' त्यादिनाऽभिहितस्य दंडादिविधानस्य विषयं दर्शयति । सर्वश्चार्य विधिरिति । अयमभिप्रायः । यस्य पणस्य यावन्मूल्यमुभयसंप्रतिपन्नं तावद्गृहीत्वा विक्रेता यत्र १० पण्यं क्रे' ददाति तद्विषयमित्यर्थः । नियमकारिणः समयाहत इति । मूल्यमदत्त्वाऽपि यत्रतत्पण्यस्य मूल्यद्रव्यं त्वदीयं पण्यं न मदीयमिति योऽयं नियमः (सः) समयः तेन विना विक्रयादौ, सत्या निवृत्तौ वा न दोष इत्यर्थः । न विक्रेतुरविक्रय इति ॥ २५७ ॥ 'गृहीतर्मूल्यं यः पण्यमि' त्यादिना — अन्यहस्ते तु विक्रीतमि ' त्यंतेन ग्रंथजातेनाभिहित- मित्यर्थः । क्रीतानुशयस्वरूपमिति । दत्ताप्रदानिकपकरणानंतरं पूर्वप्रपंचितमित्यवगंतव्यम् । याज्ञवल्कीये २५८ श्लोकः । परीक्षितकीतपण्यानामित्यादिः । अयमाशयः । अदुष्टं पण्यं चतुर्भिः पंणैः क्रीत्वा शास्त्रोक्तानुशयकालमध्ये पणत्रयादिरूपार्धवृद्धिमज्ञात्वा केवा नानुशयः कार्यः । तथा विक्रेत्राऽपि पणपंचकादिरूँपमहासमजानता नानुशयः कार्य इति पण्यवैगुण्यनिबंधनोति । पण्यगतदोषनिबंधनेत्यर्थः । इत्यादिना दर्शित एवति । कयानुशयप्रकरण ' एव दार्शतो विधिरित्यर्थः । क्रयकालार्घपरिमाणापेक्षयाऽर्घस्य वृद्धिक्षयपरि- ज्ञानेऽनुशयः कार्यः । अपरिज्ञाने तु नेत्यन्वयव्यतिरेकावभिहितौ ताभ्यां सिद्धमर्थ निष्कृष्य दर्शयति । तदनया वाचो युक्त्येति । दृष्टांतन्याजेनानुशये हेत्वंतरमपि । यथा पण्यपरीक्षेति । "क्रेता पण्यं परीक्षतेति ? परीक्षाविधिवशात्परीक्षायां क्रियमाणायां यदि दोषाः स्युः तदाऽनु- शयो भवतीति दोषाणामप्यनुशयकारणत्वमस्तीत्यर्थः । २५ ॥ इति विक्रीयासंपदानं नाम प्रकरणम् ॥ . २० - अथ संभूयसमुत्थानप्रकरणम् २३ । ' वणिजामिति । मूलवचस्थपदमन्येषां अप्युपलक्षणमतो वणिक्पदेन नटादयोऽपि गृह्यन्तै इत्यनेनाभिप्रायेणाह । ये वणिनटनर्तकप्रभृतय इति । अयमर्थः । पंचंभिर्मिलित्वा वाणि- ज्यमन्यद्वा कर्म यदा क्रियते । तत्रैकेन पंचनिष्का अपरेण दश अन्येन पंचदशेत्येवं द्रव्यं दत्त्वा ३० परिभाषामृते अहमहमिकया तस्मिन् कर्मणि क्रियमाणे मूलभूतद्रव्यस्य त्रिंशन्निष्कात्मकस्य लाभ- वशात् षट्रिशनिष्कत्वे यस्य पंचमूलं स निष्करूपाल्लाभादेकनिष्कं, यस्य तु दशमूलं स निष्कद्वयं, यस्य क-ख-ऋत्रे ददाति। २ ज-प्रवृत्तौ निवृत्तौ. ३ या. व. व्य. अ. २५४॥ ४ या. व. व्य. अ. २५॥ क-ख-पण्यैः।६ पण पंचकादि पंचादिशमहासमजानता। दृष्टान्तब्याजतः।८क-उपरितन ११५पृष्ठे १७ पंक्तौ । रम-पंचमिलिया।१०क-ज-परिभाषाक्रमेण ।

श्लोक: २६४ ] सुबोधिनी. । । । - । । । पुनः पंचदशमूलं स निष्कत्रयमित्येवं स्वस्वमूलद्रव्यानुसारेण गृह्णीयात् । एवं मूलद्रव्यादपचयेऽप्यपचयो द्रष्टव्य इति । यथा वा संविदा कृतावि' त्यस्याभिप्रायमाह । यद्वा प्रधानगुणेति । प्रधानो मुख्यो गुण उपसर्जनभूतः । मुख्यस्याधिकोंऽशः उपसर्जनस्य तस्य तस्मान्यूनः ततोऽपि न्यूनत्वादि- परिकल्पनया न्यूनतरन्यूनतमांशपरिकल्पनमित्यर्थः । याज्ञवल्कीये २६१ श्लोकः। राजतो निरूपणादिति । राज्ञा निरूपणादित्यर्थः । असाविति राज्ञो निर्देशः । अयमर्थः । अर्घस्य राज्ञा निरूपितत्वाद्यस्य पण्यस्य विंशतिः पणा मूल्यं तस्मादेकं पणं राजा गृह्णी- यादिति । राजगामि मूल्यदाननिरपेक्षमिति । मूल्यदाननिरपेक्षं सद्राजगामीत्यन्वयः । अस्यैव तात्पर्याथै दर्शयति । तत्सर्वमिति । याज्ञवल्कीये २६२ श्लोकः । ते सर्वे पण्यादृष्टगुणं इति । ते सर्वे प्रत्येकं दंडनीयाः । न समुचितमिति बोद्धव्यम् अपराधस्य समत्वात्। याज्ञवल्कीये २६३ श्लोकः । पणं यानं तरे दाप्य इत्यादि। अस्यार्थः । 'भांडपूर्णानि यानानीति' वक्ष्यति । अतोऽत्र रिक्तं यानं गृह्यते । रिक्तं यानं शकटादिकं तर्तृतरणं तरतेऽनेन तन्मूल्यं लक्ष्यते । तरं तरणमूल्यं दाप्यं । १५ यानादिशब्दैर्यानादि स्वामी लक्ष्यते । किं तन्मूल्यमित्याकांक्षायामाह । पणमिति । पणपरिमित- मिति यावत् । पुरुषः पुरुषवाह्यो भारः । सोऽर्धपणं तरं दाप्यः । पशुर्गवादिकं स्त्री च, पादं चतुर्थीशं दाप्यः । रिक्तकः पुमान् । भांडरहितः पुरुषः पणाष्टभागं दाप्यः । द्रव्यपूर्णानि शकटादीनि यानानि सारतः द्रव्यतोत्कर्षापकर्षवशात् । ताय तरणमूल्यं । दाप्यानि । रिक्तभांडानि रहितानि शुकमंजूषादीनि यत्किचिदल्पं दाप्यानि । पुमांसश्चापरिच्छदाः। विक्रेयवस्तुरहिताः वणिक्- २० प्रभृतयः पुमांसश्च यत्किंचिद्दाप्याः । पूर्वोक्तं 'पादार्धं रिक्तकः पुमानिति । तु वणिगादिव्यति- रिक्तविषयमिति । न भिन्नकार्षापणमिति । अयमर्थः। भिन्नकार्षापणं न्यूनकार्षापणं कार्षापणन्यून- मूल्यमिति यावत् । तत्पति शुल्कं नास्ति । तथा शिल्पवृत्त्यादिषु । हृतावशेषेन चोरादिभिर्हताव- शिष्टद्रव्ये शुल्कं न यज्ञे । तदुपयुक्तद्रव्येषु आनीयमानेषु तदर्थं गच्छत्सु च मनुष्येषु शुल्कं नास्तीति। अधुना मूलवचनं ब्याचष्टे । तीर्यतेऽनेनेत्यादिना । २५ याज्ञवल्कीये २६४ श्लोकः। संभूयकारणमिति । मिलित्वा वाणिज्यादिकं कुर्वतामित्यर्थः । ज्ञातयोऽपत्यवर्गव्यति- रिक्ता इति । अत्र सपिंडा वा अपत्यवर्गव्यतिरिक्ता वा ज्ञातय इत्येवं नान्वयः । अपि त्वपत्यवर्ग- व्यतिरिक्ताः सपिंडा ज्ञातय इति । एवं च वाशब्दो वक्ष्यमा॑णागतशब्दवाच्यैः सहापत्यवर्गादिसपि- डांतानां विकल्पद्योतनार्थः । स च विकल्पो व्यवस्थित एव नैच्छिकः अयमेवार्थस्तूत्तरत्र स्फुटी- ३० भविष्यति। ननु वाशब्दो यदि वैकल्पिकाधिकारद्योतनार्थः तथा च 'ब्रीहियवव ' दैच्छिकविकल्पे सति — पत्नी दुहितर ' इति क्रमाभिधायकवचनविरोधः स्यादित्यत आह । पौर्वापर्यनियम- १ ज-न समुच्चिता इति । २ ज-कर्तृतरं तरत्यनेन । ३ ज-पौरुषः । ४ क-रिक्तभाहान्युरुरहितानि । ५ ख-मूष- कमंजूषादीनि । ६ क-वक्ष्माणं णागतशब्द। ख-वक्ष्यमाण व्यगतशब्द । ।

मिताक्षराटीका. [लोकः २६५ ५ . स्त्विति । अयमाशयः । व्यवस्थितोऽयं विकल्पः । व्यवस्था च 'पत्नी दुहितर' इति प्रतिपादित- पौर्वापर्याबाधेन विज्ञेयेति । यदि पत्न्यादिक्रमेणैव रिक्थभाक्त्वं तर्हि प्रयोजनाभावा ' देशांतरगते प्रेत ' इत्यादि वचन- मनारंभणीयं स्यादित्यत आह । शिष्यसब्रह्मचारीति । अयमाशयः । 'गोत्रजा बंधुः शिष्यः स ब्रह्मचारिण ' इति बंधूनामभावे शिष्यसब्रह्मचारिणौ क्रमेण धनभाजौ, तदभावे सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिन इति । — ब्राह्मणा रिक्थभाज ' इति पूर्वप्रतिपादितशिष्यादिनिवृत्तिः । वणिक्- प्राप्तिश्च प्रयोजनम् । अतः पुत्रादीनां बंधुपर्यंतानामभावे संभूयकारिणो वणिजो गृह्णीयुरिति । वणिजामप्यभावे दशवर्षपर्यंतं स्थापयेदित्युक्तं, तदेतन्नारदेन स्पष्टीकृतमित्याह । तदि- दमिति । एकस्य चेत्स्यान्मरणमिति । संभूयकर्मकुर्वतां वणिजां मध्ये एकस्य चेन्मरणं स्यात् १० अस्य मृतस्य तद्वस्तु दायादः पुत्रबांधवांतो जनः पूर्वपूर्वाभाव उत्तरोत्तर आमुयात् । दायादेऽसति अन्यो वणिग्वा पिंडदानादिसमर्थ आमुयात् । असामर्थ्य पिंडदानादावेकस्य ते सर्वे वणिज आमुयुरित्यर्थः । तदभावे इत्यादि सुगमम् । याज्ञवल्कीये २६५ श्लोकः । कर्मिपदवाच्यानाह । नटनर्तकेति । श्रुतिविहितदक्षिणाया विभागमकारस्यास्मिन् मनु- १५ वचनेऽभिधीयमानत्वादक्षिणामापकं वचनमाह । तं शतेन दीक्षयंतीति । अस्यार्थः । पूर्व गवां प्रस्तुतत्वात् शतेन गवां शतेन तं यजमानं अध्वर्यादयो दीक्षयंतीति । यदा 'नतं शतेनेति । पाठः तदा नतं नतिं आनतिं यजमानायत्ततां प्रति शतेन दीक्षयंतीत्यर्थः । यतो दक्षिणाग्रहणेनतिजो यजमानायत्ता भवति । नन्वस्मिन्वाक्ये दीक्षोद्देशेन गोशतग्रहणं प्रतीयते तदा न दक्षिणाविधिः अतः कथं २० दक्षिणापापकमेतद्दचनमित्यत आह । इति वचनेनेति । अयमाशयः । यथा भुजिक्रियासाध्ये तृप्त्यात्मके कार्ये ' पयसा तृप्तिं कुर्वीतति । पयोद्रव्ये विहिते तत्पयोभोजनसाधनस्यौदनस्य स्थाने निपतति, तद्ववापि दीक्षयंतीति दीक्षाकरणम् आनतिरूपं दक्षिणादानकार्यम् । आनतिर्नाम नम्रीभावः स्वायत्तता । भूति गृहीत्वा भल्या इव दक्षिणां गृहीत्वा स्वायत्ता भवंतीह ऋत्विजः । तस्मि- मानतिरूपे दक्षिणादानकार्ये गोशतं विधीयमानं दक्षिणादानरूपव्यापारसाधने दक्षिणास्थाने नियतीत्यर्थातोशतमेव दक्षिणा भवतीति दक्षिणाप्रापकं वचनमिति । एतदुक्तं भवति । गोशतं दक्षि- णात्वेन विधीयत इति। अधुना 'सर्वेषामर्थिन । इत्येतन्मनुवचनं व्याख्यातुमवतारयति । ऋत्विजश्चेति । 'ले मोशतस्यार्धिन । इत्युक्ते शतापेक्षया पंचाशतोऽर्धत्वात्तथैव विभागप्राप्तावभिप्रायमाविष्कुर्वन् विशेषमाह । सर्वेषां भागपरिपूरणेति । विभागपरिपूरणार्थमुपपत्तिः तस्यावशस्तदनुसरणं तेन आयातः पाप्तः । स चासावष्टाचत्वारिंशद्रूपाधः तेनेति समासः । प्रकारांतरेणार्थ्यादीनां दक्षिणा- विभागस्य कर्तुमशक्यत्वादित्यर्थः । तस्य मुख्यांशस्येति । तत्र मुख्यांशोऽष्टचत्वारिंशद्रूपः । न तावत्र समय इति । प्रधानस्याधिकांशः अन्येषां न्यूनन्यूनतरन्यूनतमांशा इति न समयः कृतः । न चैकेन दशान्येनाष्टावपरेण षडित्येवं वाणिज्य इव द्रव्यसमुदायः कृत इत्यर्थः । दशम- । - १ज-क्रमेणात्र । २ क-ख-तदा रक्षणविधिः।

लोकः २६८ ] सुबोधिनी. तृतीयपादाधिकरणम् । ' समं स्यादश्रुतत्वात् । । ज्योतिष्टोमे श्रूयते । गौश्चाश्वश्चाश्वतरश्च गर्दभश्चा- जाश्च वयश्च ब्रीयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणेति पूर्वतराधिकरणे गवां द्वादशशतं इतराण्यश्वादीनि च दक्षिणेति प्रतिपादितम् । पूर्वाधिकरणे त्वियमेव दक्षिणा विभाज्यत्यपि चोक्तम् । अत्र तु स्थिते विभागे चिंत्यते । किं समो विभागः स्यात् उत प्रयासानुरूपः । अथवाऽर्धिन इत्यादि समाख्यानुरूप इति संदेहः । तत्र विशेषाश्रवणात् समो विभागः सर्वेषां ऋत्विजां स्यादिति ५ प्राप्ते सिद्धांतैकदेश्याह । लोकवत्प्रयासानुरूपेण विभाग इति । एवं प्राप्ते सिद्धांतः । द्वादशाहे दक्षिाक्रम- वाक्ये अध्वर्युगृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति । तत उद्गातारं ततो होतारं ततस्तं प्रतिप्रस्थाता दीक्षयित्वा अर्धिनो दीक्षयति ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति । ततस्तमुन्नैता दीक्षयित्वा पादिनो दीक्षयतीत्येवंविधाऽदिसमाख्या श्रूयते । अतस्तद्दशात् ब्राह्मणाच्छंसिप्रभृतीनां तदनुरूपो विभागो द्वादशाहप्रकृतौ ज्योतिष्टोमेऽध्यवसीयत इति । प्रकृतमनुसरामः । पूर्वपक्षिणो मतं सिद्धांतैकदेशिमतं चावलंब्य शंकायमाह । समं स्याद- श्रुतत्वादिति । विशेषाश्रवणात्सममिति पूर्वपक्ष्याशयः । ऋत्विजां स्वस्वकर्मणि वैषम्या 'त्कर्मानुरूपे- णेति' सिद्धांतैकदेश्यभिप्रायः । सिद्धांतावलंबनेन परिहरति । तत्रोच्यत इत्यादिना। अयमभिप्रायः। श्रुतिलिंगवाक्यप्रकरणस्थानसमाख्या इति षट् प्रमाणानि शेषत्वे बोधकानि, समाख्या नाम संज्ञा, ज्योतिष्टोमविकृतिभूते द्वादशाहे अर्थिन इत्यादि समाख्या श्रूयते । समाख्याप्रमाणबलात्तत्प्रकृतौ १५ ज्योतिष्टोमे तथैव दक्षिणाविभागः कर्तव्यः । अन्यथा विकृतौ द्वादशाहे अर्थिन इत्यादिसिद्धानुवादो न स्यादिति । एतदुक्तं भवति । विकृतिगतसमाख्यान्यथानुपपत्त्या प्रकृतौ पूर्वोक्तो दक्षिणाविभागः कल्प्य इति। ॥ इति संभूयसमुत्थानं नाम प्रकरणम् ॥ . - अथ स्तेयप्रकरणम् २४ ॥ स्यात्साहसं त्वन्वयवदि । त्येतन्मनुवचनं व्याचष्टे । अन्वयवव्यरक्षीत्यादिना 'कृत्वाऽ २० पचुक्ते च यदी ' त्यस्यांशस्य तात्पर्यमाह । यच्च सान्वयमपीति । मूलवचनमवतारयति । तत्र तस्करग्रहणेति । याज्ञवल्कीये २६६ श्लोकः। अपहृतभाजनादिना वेति । यस्य गृहे यन्नष्टमपहारादिना, तद्यस्य गृहे हस्ते वा दृश्यते तेन चिह्नन स पुरुषो ग्राह्य इत्यर्थः । वासः स्थानं यस्यासाविति । उष्यतेऽस्मि- २५ निति वासः । उषितस्यैव प्रतिपदं स्थानमित्येतत् । न तु वासः स्थानमित्येकं पदमित्यवबोद्धव्यम् । याज्ञवल्कीये २६७।२६८ श्लोको। 'शुष्कभिन्नमुखस्वरा' इत्यत्र शुष्कमुखो भिन्नस्वर इति च प्रकृत्या दावेव उपात्तौ, प्रत्ययेन तु जसा बहव उपात्ताः । अतः प्रकृतिप्रत्यययोः परस्परविरोधादनुपपन्नं पदं स्यादित्याशंक्याह । बहुव- चनादिति । अयमभिप्रायः । प्रकृतिरन्येषामुपलाक्षका तेन स्विन्नललाटादयोऽपि गृह्यते । एवं च ३० बहुत्वविवक्षायामेव बहुवंचनविधानान्न प्रकृतिप्रत्ययविरोध इति । १ ज-शेषत्वबोधकानि ।२ क-ज-अधिनः। ३ ज-पुंसितस्यैव ४ ज-बहुविवक्षायाम् ।

श्लोकः २८२] . सुबोधिनी. याज्ञवल्कीये २७४ श्लोकः। तौ यथाक्रममिति । उत्क्षेपकः करणहीनः ग्रंथिभेदकः तर्जन्यंगुष्ठेन हीन इति विवेकः । प्रथमे ग्रह इति । प्रथमग्रहणं प्रथमचौर्य इति यावत् ॥ २७४ ॥ याज्ञवल्कीये २७५ श्लोकः। परिग्रहविनियोगेति । 'ब्राह्मणपरिगृहीतायाः गोर्हरणेऽधिको दंड ' इति । ब्राह्मणपरिग्रहो ५ अधिकदंडकारणं तथा सा गौर्दोहाय यद्यग्निहोत्रे विनियुक्ता तस्या हरणे ततोऽप्यधिको दंड इति विनियोगोऽप्यधिकदंडकारणम् । एवंविधपरिग्रहविनियोगयोरभावो न्यूनदंडकारणं इत्यवबोद्धव्यं । साहसेषु य एवोक्त ' इत्यनेन नारवचनेन क्षुद्रमध्यमोत्तमद्रव्यापहारेष्वविशेषेण यथाक्रमं प्रथम- मध्यमोत्तमसाहसदंडप्राप्तौ विशेषप्रापकं मूलवचनं पूर्वाध तात्पर्यतो व्याचष्टे । मृन्मयेषु मणि- मल्लिकादिष्विति । अत्र मृन्मयेष्वितीति क्षुद्रस्य द्रव्यस्योपलक्षकम् । 'गोव्यतिरिक्तेष्विति । १. मध्यमस्य, ब्राह्मणसंबंधिष्वि ' त्युत्तमस्येति विवेकः । मूल्याद्यनुसारेण दंडः कल्पनीय इत्युक्तं। तत्रादिशब्दवाच्यान् प्रदर्शयिषुर्मूलवचनस्योत्तरार्धं व्याचष्टे । तत्र दंडकल्पनायामिति । नन्वत्र वचन उपात्ता देशकालवयःशक्तय एव किं दंडकल्पनायां हेतव इत्याशंक्य नैवमपि तु हेत्वंतराण्यप्यनेन देशादिकेनोपलक्ष्यन्ते इत्याह । एतच्च जातिद्रव्येति । जात्यपेक्षया गुणापे- क्षया च दंडविधिं दर्शयति । तथा ह्यष्टापाद्यमिति । विदक्षत्रियब्राह्मणादीनामिति । १५ अब ‘विदुषामित्ये' तत् विटक्षत्रियादिविशेषणम् । शूद्भवैदिजात्यपेक्षया विद्वत्त्वरूपगुणापेक्षया च दण्डविधानमिति जातिगुणापेक्षा। ननु 'हरतोऽभ्यधिकं वध ' इति मनुना वधदंडोऽभिहितः । वधशब्देन च ताडनादि पाणवियोजनांता व्यापाराः कथ्यते । ते सर्वत्र समुचिता एव प्रयोक्तव्या इत्यत आह । हर्तुढिय- माणेति । हर्तुर्गुणापेक्षया ह्रियमाणस्य द्रव्यस्वामिनो गुणापेक्षया चेत्यर्थः । द्विजोऽध्वगः क्षीणवृत्तिरिति । क्षीणवृत्तिः क्षीणपाथेयः । अध्वगः पथिकः । द्विजो द्विजातिः । अध्वगक्षीणवृत्तिपदे द्विजविशेषणे । हीनकर्मण इति। हीनकर्मणोऽल्पाचारादर्तव्यम् । न पुनरुत्कृष्टादित्यर्थः॥ याज्ञवल्कीये २७७ श्लोकः । शतं दंडोऽभिहित इति । साहसप्रकरणेऽभिहित इत्यर्थः । ब्रह्महत्यातिदेशं वक्ष्यत २५ इति । प्रायश्चित्ताध्याये वक्ष्यत इत्यर्थः । पुरुषस्य स्त्रियाश्च प्रमापण इति । शीलाचारवतः पुरुषस्य तथा स्त्रियाश्च मारणे उत्तमसाहस एव दंडः । शीलाचाररहितायास्तु मारणे प्रथमसाहस एवेति विकल्पव्यवस्था ज्ञेया । ईषच्छीलाचारवतोस्तु ममापणे पारिशेष्यान्मध्यमसाहसदंडो व्यवतिष्ठते ॥ याज्ञवल्कीये २८२ श्लोकः । कटैवीरणमयैरिति । यस्य तृणस्योशीरं मूलं स तृणविशेषो वीरणं । ' स्याहीरणं वीरतरं ३० मूलेऽस्योशीरमस्त्रियामि . त्यमरः (१४।१६४)। ॥ इति स्तेयप्रकरणम् ॥ २० १क-ख-अभावे न्यूनदण्डकारणे । २क-ख-ज-शृंदत्वादिजापेक्षया । ३ख-जातिगुणापेक्षया ।

मिताक्षराटीका. [मेक: २८६ । अथ स्त्रीसंग्रहणप्रकरणम् २५ । परस्परमुपाश्रय इति। आलिंगनांशुकहस्तावलंबनादिभिः अन्योन्यसंश्रय इत्यर्थः । सम्यक् संग्रहणमिति । सम्यग्यथावत् संपूर्ण उत्तमसंग्रहणमिति यावत् ॥ संग्रहणस्य त्रैविध्यमभिधाय मूलवचनमवतारयति । संग्रहणज्ञानपूर्वकत्वादिति। याज्ञवल्कीये २८३ श्लोकः। केशाकेशीत्यत्र कः समासः कथं वा शब्दनिष्पत्तिरित्याकांक्षायां आह । तत्र तेनेदामतीति। सरूपे । तत्रेति' सप्तम्यते सरूपे पदे 'तेनेति' तृतीयांते सरूपे पदे इदमित्येतस्मिन्नर्थे समस्येते । सैमासो बहुव्रीहिसंज्ञो भवतीत्यस्य सूत्रस्यार्थः । केशेषु केशेषु गृहीत्वा इदं प्रवर्तते इति विग्रहे कृते — इच्कर्मव्यतिहारे' (व्या. सू. ५।४।१२७) अन्यसंबंधिन्याः क्रियाया अन्येन करणं १. कर्मव्यतिहारः । कर्मव्यतिहारे यो बहुव्रीहिः । तत्र तेनेदमिति सरूप ' इति विहितः । तस्मादिच्- प्रत्ययो भवतीत्यस्य सूत्रस्यार्थः । अन्येषामपि दृश्यत ' (व्या. सू. ६।३।१३७ ) इत्यनेन पूर्वपदस्य दीर्घत्वम् । समासप्रत्ययांतत्वेन मातिपदिकसंज्ञायां ' तिष्ठद्दुप्रभृतीति चे' त्यनेन (व्या. सू. २।१।१७) सूत्रेण । तिष्ठद्गुगणे पाठात् केशाकेशीत्यस्याव्ययीभावसंज्ञायां — अव्ययीभावश्चे। त्यव्ययसंज्ञाया (व्या. सू. २।४।१८) 'अव्ययादाप्सुपः' (व्या. सू. २।४।८२) इति १५ तृतीयाविभक्तेः लुकि कृते केशाकेशीति शब्दो निष्पन्नो भवतीत्यर्थः । ननु नखादिकृतव्रणरूपैलिँगैः संग्रहणप्रवृत्त इति ग्रहीतुं न शक्यते क्रोधप्रमादादिभिरपि तत्संभवादित्यत आह । रागकृतैलिँगैरिति । द्वयोः संप्रतिपत्त्या वेति । द्वयोः स्वैरिणीजारयोः संपतिपत्त्या अंगीकारणेत्यर्थः । परस्त्रीग्रहणमिति । यद्यपि नियुक्तायां नखक्षतादिचिह्नानि न संति, घृताभ्यंगविधानेने मिथुनीभावविधानात् नखक्षतादिकरणस्य निषिद्धत्वात् तथापि द्वयोः संपति- २० पत्तिरस्तीति तेन लिंगेन न ग्राह्यं नियोगविघिसंभवादेव । अवरुद्धादीनां तु साधारणत्वात् पूर्वोक्तैश्चिह्न- रपि तद्विषये ग्रहणमुचितम् । अतो नियुक्तादयः परस्त्रीशब्देन व्युदस्यते इत्यर्थः । एतच्चावसरे स्फुटीभविष्यति ॥ याज्ञवल्कीये २८४ श्लोकः। यस्त्वनाक्षारित इति । अनाक्षारितो नाभिनंदितः 'असौ विट् इति न निंदित इत्यर्थः ॥ प्रतिषिद्धयोः स्त्रीपुंसयोरिति । अनेन सह त्वया न वक्तव्यं । ' अनया सह त्वया न वक्तव्यमिति । पूर्व प्रतिषिद्धयोः स्वैरिणीजारयोरित्यर्थः । याज्ञवल्कीये २८५ श्लोकः। नैष चारणदारोब्बति । चारणा नादयः। आत्मोपजीविषु वेशवृत्तिजीविदारेष्विति भावः । यस्मात्ते परपुरुषेषु स्वनारीः सज्जयंति । निगूढाश्च व्यवाये चारयंतीत्यस्यार्थः ॥ याज्ञवल्कीये २८६ श्लोकः। पूर्व ' यदा पुनः सवर्णामगुप्तां ब्रजति आनुलोम्येन गुप्तां वा जतीति विषयद्वयमभिहितं । तवं गुप्तसंवर्णागमने दंडमाह । सहस्रं ब्राह्मणो दंड्य इति । अस्यार्थः । अत्र पूर्वार्धे तु संजातावुत्तमो दंड ' इति याज्ञवल्क्योक्तेन समानविषयम् । अब ब्राह्मण इति क्षत्रियादेरप्युप- १ म-उपपदे । २ क-व-समासोख बहुबीहिसंज्ञो ज-स समासो। ३ ख-युद्धं वृत्तमिति । ज-प्रवृत्तं तदिति । ४ अव्ययी मावसंज्ञायां । ५ ज-धृताभ्यंगविधानेनापि । ६ ज-ग्राह्या । ७ ज-अबरुद्धादीनां साधारणत्वं । ' यस्याले- पंपरपुरुलेषु। एक-संज्ञयति । ज-सञ्जयन्ति । ख-संज्ञायति । । । .० ।

श्लोकः २८६] सुबोधिनी. १०५ लक्षणम् । तथा विमापदमपि। अतः क्षत्रियादीनामपि गुप्तसवर्णपरदाराभिगमने एष एव विधि!द्धन्यः। एतच्च पूर्वार्धे प्रकरणशुद्ध्यर्थं निबंधकारेण पठितं । प्रकृतोपयुक्तं तूत्तरार्धमेव । तस्यायमर्थः । पूर्वार्धे गुप्तामित्यपादानादन च तद्विपरीतार्थस्याभिलषितत्वादगुप्तपदमर्थलभ्यम् । तथा चागुप्तया अरक्षितव्या इत्थं सवर्णया सह संगतः पंचशतानि दंड्य इति । आनुलोम्येन गुप्तायाः गमने दंडमाह । सहस्रं ब्राह्मणो दंडं दाप्य इति । अस्यायमर्थः। ५ क्षत्रियवैश्ययोः प्रकृतत्वात् ते क्षत्रियावैश्ये गुप्ते वजन् गच्छन् ब्राह्मणः सहस्रं दंड दाप्यः । शुदायां रक्षितायां गमनं कुर्वतोः क्षत्रियवैश्ययोरपि सहस्रं दंडो भवेदिति । समानन्यायत्वादेश्यनियं रक्षितां गच्छतः क्षत्रियस्यापि सहस्रं दंड इत्युक्तं भवति । मूलवचनस्य द्वितीयाधं व्याचष्टे । प्रातिलोम्य उत्कृष्टस्त्रीगमन इत्यादिना । उभावपि तावेवेति । तावेव क्षत्रियवैश्यौ रक्षितया ब्राह्मण्या सह कृतमैथुनौ शूद्रवदंड्यौ । 'गुप्तं सर्वेण १० हीयत ' इत्यत्रोक्तप्रकारेण सर्वेण शरीरेण धनेन च हीनौ कर्तव्यौ सर्वस्वं गृहीत्वा वध्याविति भावः । कटामिना वा दग्धव्या इति मारणप्रकारविशेषोपदेशः । कटामिदाहपकारस्तु स्तेयप्रकरणे- ऽभिहितः। इदं चात्यंतश्रोत्रियदारगुणवद्राह्मणीविषयम् । दंडगुरुत्वात् । वैश्यः सर्वस्वं दंड्यः स्याद सहस्र · क्षत्रियो दंड्य इति च इतरत्र दंडविधानाच्च एतच्च गुप्ताविषयमिति पूर्वत्राभिहितम् । तत्र १५ मानसेंमतिमभिधायान्यत्र तु धनदंड इत्यत्रापि मनुवचनं प्रमाणयति । ब्राह्मणी यधगुप्तामिति। अरैक्षितां ब्राह्मणी गच्छंतं क्षत्रियं सहस्रदंडवतं कुर्यात् । रक्षायामधिकृतत्वेन क्षत्रियस्य वैश्या- पेक्षयाऽधिकदंडविधिरिति भावः । शूदो गुप्तमगुप्तं वेति । शूद्रो यदि भादिरक्षितामरक्षितां वा द्विजातिस्त्रियं गच्छति तदा वक्ष्यमाणो दंडो ज्ञेयः। तमेव दंडं विभज्य दर्शयति । अगुप्तकांगसर्वस्वेति । अगुप्तां गच्छन् एकांगसर्वस्वी २० एकांगलिंग सर्वस्वं च दंडोऽस्यास्तीत्येकांगसर्वस्वी । लिंगं छित्वा सर्वस्वेन दंड्य इति भावः । गुप्तौ रक्षितायामित्यर्थः । तां गच्छन् सर्वस्वेन शरीरेण च हीयते । सर्वस्वं गृहीत्वा वध्य इत्यस्याथैः । 'नार्याः कर्णादिकर्तनमित्य ' मुमंशं व्याचष्टे । नार्याः पुनरिति । पातिलोम्येन गच्छंत्याः स्त्रियःकर्णायंगछेदविधानात्प्रातिलोम्यगमनव्यतिरिक्तेन गमनेऽल्पदोषत्वेनांगभेदाभावस्य युक्तिगम्यत्वात्। आनुलोम्यगमने गुणवदगुणवदपेक्षयोचिति धनदंडः सवर्णगमने तु धिक्कारादिभिः वाग्दंड इति देशा- २५ द्यनुसारेण दंडः कल्प्य इत्यनेनाभिप्रायेणाह । आनुलोम्येन वेति । क्षत्रियवैश्ययोरन्योन्य- ज्यभिगमने इति । अत्र समुच्चयोऽविवक्षितः प्रत्येकमेव पापहेतुत्वात् । अत्रापि रक्षितागमन इत्येव बोद्धव्यम् । वैश्यश्चेत् क्षत्रियामिति । यो दंडो ब्राह्मण्या अरक्षिताया गमने प्रतिपादितः ‘वैश्य पंचशतं कुर्यात् क्षत्रियं तु सहस्रिणम् । इति ते दंडं यथाक्रमेणार्हत इति । क्षत्रियस्य वैश्यापेक्षयो- त्कृष्टत्वेऽपि रक्षायामधिकृतत्वाधिकदंड इति ज्ञातव्यम् । - ३० १ज-उपपादनात् । २ ज-गुप्तौ। ३ ख-गुप्ताविषयामिति । क-पान वासयतिमभिधाय । ४ ज-मानवीं संमतिमभिधाय । ५ ज-अगुप्तां । ६ ज-सहस्रं दंडमेव । ७ ज-रिक्ते । ८ क-अत्र समुच्चयोविवक्षित प्रत्येकयेकपापहे. तुत्वात् । क-ख-अयंदंडी।

मिताक्षराटीका. | श्लोकः २९० । याज्ञवल्कीये २८७ श्लोकः। तदनभिमुखीमिति । विवाहानभिमुखीमित्यर्थः ॥ याज्ञवल्कीये २८८ श्लोकः। अविषह्य तु यः कन्यामिति । यो बलात्कारेण दादिभिः कन्यामंगुलिप्रक्षेपयोगेन योनौ ५ क्षतवतीं कुर्यात् तस्यांगुलिद्वयं च्छेतव्यम्' तथा षट्शतं दंडं चाहतीत्यस्यार्थः । सानुरागां पूर्ववद्दषयतीति अंगुलिप्रक्षेपादिना योनिक्षतं कुर्वन् दूषयतीत्यर्थः। ' उत्तमायां वधस्तथे । त्यमुमंशं च्याचष्टे । यदा पुनरुत्कृष्टजातीयामिति ॥ याज्ञवल्कीये २८९ श्लोकः । संसृष्टमैथुनत्वादिति । संसृष्टं प्राप्त मैथुनं संभोगो ययेति । एकपदं समासांतर्गतम् ॥ याज्ञवल्कीये २९० श्लोकः । उक्तलक्षणा वर्णस्त्रियो दास्य इति । अभ्युपेत्याशुश्रूषाप्रकरणे — गृहजातस्तथा क्रीत ' इत्यादिनोक्तलक्षणा इत्यर्थः । स्वैरिणी ब्राह्मणीति । स्वैरिणी चासौ ब्राह्मणी च । ब्राह्मणी- त्युपलक्षणं । अतः क्षत्रियादिस्त्रियोऽपि स्वैरिण्यो गृह्यते। तथा वेश्या च दासी चासौ निष्काशनी चेति विवेकः । दास्यश्च तावद्वर्णस्त्रिय एवेति । अत्र वर्णशब्दोऽनुलोमजातीनामप्युपलक्षकः । अतो १५ मूर्धावसिक्ताद्यनुलोमजातिष्वपि दास्यमस्तीति ज्ञेयम् । ननु भवंतु स्वैरिण्याया वर्णस्त्रिय एव तथाप्यासां साधारणत्वाभावः कथमित्याशंक्य स्वपुरुष- परत्वविधानात्पुरुषांतरनिषेधपरत्वविधानाच्च साधारणत्वाभाव इत्याह । न च वर्णस्त्रीणां इत्या. दिना । तथाविधाया एव रक्षिताया अदुष्टाया इति यावत् । ननु यथा सूतकादिवशात्स्वधर्मभूतसंध्याध्यधिकाराभावस्तद्दद्दासीभावात्स्वधर्मभूतस्वपुरुषपरत्वादि- २. धर्माधिकारच्युतिर्भविष्यति । तथा च सकलपुरुषसाधारणत्वमस्त्वित्यनेनाभिप्रायेणाशंक्य परिहरति । न च दासीभावादिति । अयमभिप्रायः । सूतकादौ तु वचनादधिकाराभावो, न स्वरूपेण । अत्र तु न वचनं नापि स्वरूपतः । यतो दास्यं नाम पारतंत्र्यमानमेव शिष्यत्वादिवत् । अतो न स्वधर्म- त्यागः येन साधारण्यं स्यादिति। ननु मा भूत्स्वैरिणीदास्योः साधारणत्वाभावाद्गम्यत्वं । वेश्यायाः साधारणत्वेन गम्यत्वं भवत्वित्या- १५ .शंक्य एवं वदता वक्तव्यं किमियं वेश्या ब्राह्मणादिवर्णमूर्धावसिक्ताद्यनुलोम्यजव्यतिरिक्तगम्यजात्यंत- रांतःपातित्वेन गम्या उत वर्णानुलोमजांतःपातित्वेन ? अथवा मतिलोमजांत:पातित्वेनेति विकल्प दूषयितुमुपक्रमते । नापि वेश्यति । आयं दूषयति । वर्णानुलोमजोत । तादृशजात्यंतराभावा- देव तदंतःपातित्वेन गम्यत्वं नास्तीत्यर्थः । न द्वितीयेत्याह । तदंतःपातित्वेति । वर्णानुलोमजांतःपातित्वेनासां पतिपरायणत्वविधाना- ३० देव पूर्ववत् स्वैरिणीबदासीवच्च न गम्यत्वमित्यर्थः । नापि तृतीय इत्याह । प्रतिलोमजत्वेति । प्रतिलोमजांनां दुष्टत्वेन तद्गमनस्य निषिद्धत्वादित्यर्थः । - -- । । १ मिताक्षरा पृ. ११९ .९ ॥२ ज-तासां। ३ क-प्रतिलोमजातौ।

श्लोकः २९२) सुबोधिनी. . - किंच वर्णानुलोमजप्रतिलोमजानां सर्वासामपि परपुरुषोपभोगस्य निषिद्धत्वानिषिद्धकर्माचरणे च पातित्यात्पतितसंपर्कस्यापि निषिद्धवान स्वैरिण्यादयः परपुरुषोपगम्या इत्याक्षेपोपसंहारव्याजेनाह । अतः परपुरुषांतरभोग इति । समाधत्ते । सत्यमेवामित्यादिना । अयमभिप्रायः । दोषो द्विविधः । दृष्टोऽदृष्टश्चेति । तत्र दृष्टदोषरूपं यत्र रक्षकपिनादिभ्यः ताडनादिभयं राज्ञः सकाशादंडात्मकं भयं च तदभावादुभयदोषवत्सु ५ परदारेषु यथा सर्वात्मगम्यत्वाभावः तथा न स्वैरिण्यादिष्विति साधारण्येन गम्यत्वकथनमिति । अस्तु नाम गम्यत्ववाचो युक्तिः तद्गमने दंडाभावः कथमित्यत आह ! दंडाभावश्चेति । अयमाशयः । अवरुद्धासु दासीष्वि ' त्यनेन वचनेन एकैकस्मिन् पुरुषे नियतानामन्यपुरुषोपभोग उपभोक्तु- दंडविधानादनियतपुरुषपरिग्रहो दंडग्रहणे हेतुरित्युक्तं भवति । तथा च यत्र हेत्वभावः तत्र दंडा- भाव इत्यर्थसिद्धत्वात् तादृशहत्वभावेन स्वैरिण्यादिगमने दंडाभाव इत्यर्थः । मनु मा भूत्स्वैरिण्यादिगंतुः पुरुषस्य दंडः रमयित्रीणां स्वैरिण्यादीनामेव दंडोऽस्त्वित्यत आह । स्वैरिण्यादीनां पुनरिति । अत्रैव हेत्वंतरमाह । कन्यां भजंतीमिति । अयमर्थः । उत्कृष्टं भजती कन्यां किमपि न दापयेदिति । कन्यादंडनिषेधो लिंगम् । एवंविधलिंगदर्शनाच्च स्वैरि- प्रयादीनां दंडाभाव इति । एतदुक्तं भवति । लिंगदर्शनं नाम निमित्तमात्रं नाव्यभिचरितो हेतुः । कन्याऽपि स्त्री, स्वैरिण्यादयोऽपि स्त्रियः अत उभयत्र स्त्रीत्वाविशेषात् कन्याया इव स्वैरिण्यादी- १५ नामपि दंडाभाव इति हेतुमात्रमेव । न तु मुख्यो हेतुस्तइंडविड्यभाव एवेति यद्येवं दंडाभावस्तहिं पाय- श्चित्तमपि न स्यादित्यत आह । प्रायश्चित्तं त्विति । कैश्चिदुक्तं वेश्यानां वर्णाद्यतःपातित्वं तदूषणपुरःसरं । स्वमतमभिधातुं तदनुभाषते । यत्युन- वैश्यानामिति । अनुमानशिक्षात्वेवं कर्तव्या । वश्याः वर्णानुलोमांतःपातिन्यो भवितुमर्हति । प्रतिलोमजात्यंतरासंभवे सति मनुष्यजात्याक्रांतत्वाधव यत्रोतो हेतुः तत्र तत्र वर्णायंतःपातित्वम् । २० यथा ब्राह्मणादिष्विति । हेतोरनैकांतिकत्वेनानुमानं दूषयति । तत्रेत्यादिना। कुंडगोलकादीनां आ- बाराध्याये वर्णायंतःपातित्वाभावस्योक्तत्वेन अत्रोक्तहेतुसद्भावेऽप्युक्तसाध्यस्याभावादित्यर्थः । इदानीं स्वमतमाह । अतो वेश्याख्येति । तामेव जातिमाह । उत्कृष्टजातेरिति । अनिषिद्धपुरुषोत्पन्नत्वे सति पुरुषसंभोगवृत्तित्वं जातिरित्यर्थः । पंचमी जातिरितीति । ब्राह्मण- त्वादिजात्यंतरापेक्षया वेश्याजाति: पंचमीत्यर्थः । पशुवेश्याभिगमन इति । पश्वभिगमने वेश्याभिगमने चेत्यर्थः । याज्ञवल्कीये २९१ श्लोकः। वडवा स्मृतेति । वडवा गृहदासी ॥ याज्ञवल्कीये २९२ श्लोकः। आक्रमेण च संगच्छन्निति। अनिच्छन्तीं तां तु पुनर्दन्तनखव्रणादिभिःकरणैराक्रम्य गच्छ- ३० मित्यर्थः । बहुभिर्वाऽपि वासयेदिति । शुल्कमदत्वा वा एकमेवं शुलं दत्वा वा यो बहुभिः संगमयति स इत्यर्थः॥ - २५ । १क-ख-दंडविधानान्नियतपुरुषपरिग्रहो । २क-ख-एवमपि स्त्रीणाम् । ३ ख-अनुमान शिक्षात्वेन न कर्तव्या । ज-तत्रोक्तं ।

मिताक्षराटीका. (श्लोकः २९६ . याज्ञवल्कीये २९३ श्लोकः। पुरुषं वाऽभिमुखो मेहतीति । 'पुरुषं वेति ' पदं काकाक्षिवदुभयत्र संबध्यते । अतश्च पुरुष वाऽपि मुखादावभिगच्छति पुरुषं प्रत्यभिमुखः सन् मेहति मूचादिकं करोति चेत्यन्वयः । नन्वत्र प्रव्रजितागमने चतुर्विंशतिपणात्मको दंडः नारदेन तु 'राज्ञी प्रव्रजितां धात्रीं । ५ इत्यनुक्रम्य 'आसामन्यतमां गच्छन् गुरुतल्पग उच्यते" शिश्नस्योत्कर्तनात्तत्र नास्य दंडो विधीयत इति शिश्नोत्कर्तनदंडोऽभिहितः । अतः परस्परविरोध इति चेत् मैवं । अत्यंतगुणवत्पद्रजितागमन विषयं तत्रैवाभ्यासविषयं वा नारदवचनम् । एतद्विपरीतविषयं योगीश्वरवचनं इति न किंचिदछ । याज्ञवल्कीये २९४ श्लोकः। दंडनमेवेति । नांकनमित्यर्थः । इति स्त्रीसंग्रहणप्रकरणं । विवाहादिविधिः स्त्रीणामिति । यत्र विवादपदे स्त्रीणां पुसां च विवाहादिविधिः कीर्त्यते तद्विवादपदं स्त्रीपुंसयोगसंज्ञमुच्यत इत्यन्वयः । एतदुक्तं भवति । यत्र विवाहे स्त्रीपुंसयोर्व्यतिक्रमो भवति । तद्यथा कन्या त्वेकं वृणीते भृयमाणश्च पुमान न तां दोषशंकादिभिः एवमेव पुरुषः परिणेतु. मिच्छति कामपि कन्यकां, कन्यका तु न तं दोषशंकादिभिः । एतादृशभवे व्यवहारः प्रवर्तते । तथा विवाहादीत्यत्र आदिशब्दात्पुरुषेण स्त्री रक्षणीया सर्वात्मना स्त्रियाऽपि भर्तृपरतया भवितव्य- १५ मित्यादिनियमव्यतिक्रमे च विवादो भवति । एतत् सर्वं 'स्त्रीपुंसयोगाख्यं विवादपदामिति । १० । अथ प्रकीर्णप्रकरणम् २५ । तत्कर्मकरणं तथेत्यादि । तत्कर्मकरणं राजकर्मकरणम् । पुनः प्रदानं कृतस्य कर्मणः प्रत्यर्पणम् । 'राज्ञे पुरमदानमिति । पाठे दुर्गगुल्मस्थानादिरूपपुराणां पालनाय दानं । संभेदः प्रकृतीनां संमेलनम् । अथवा प्रकृतीनां संभेदः अंततो यः परस्परविरोधः । प्रतिग्रहविलोपः २० प्रतिग्रहस्य विलोपो नाशः । यथा ब्राह्मणाय प्रतिग्रहयोग्याय पात्रभूतायादानम् । अथवा प्रतिग्रहायो- ग्यशदादौ प्रतिग्रहप्रवृत्तेः प्रतिग्रहस्य विलोपः । आश्रमिणां ब्रह्मचर्यादीनां । कोपः प्रकोपः उद्रेकः सिक्ततास्वधर्मभ्रंश इति यावत् । अथवा आश्रमिणां परस्परविरोधः कोपः। न दृष्टं यच्च पूर्वेषु । पूर्वोक्तेषु ऋणादानादिपदेषु यच्च व्यवहारपदं न दृष्टं तदित्यर्थः । इत्येवं परिगणितानां विवादानां निर्णयो यत्र तत्पकीर्णकमिति भावः । एवं च वदता यो नृपाश्रय इति केवलं २५ नृपनिर्णयो यो व्यवहारः स इत्यर्थः । याज्ञवल्कीये २९५ श्लोकः। अधुना मूलमवतारयति । तत्रापराधविशेषेणेति । याज्ञवल्कीये २९६ श्लोकः। दंडतारतम्यमूहनीयमिति । प्रायश्चित्तविधिबलाद्दोषतारतम्यभावं ज्ञात्वा ब्राह्मणादिवर्ण ३० सणनिर्गुणत्वादिपर्यालोचनया च द्डैः कल्प्य इत्यर्थः । ज-स्थले। रज-अन्तों। ३ ज-दंडाः कल्ल्याः।

श्लोकः ३०५) सुबोधिनी. । । याज्ञवल्कीये २९७ श्लोकः। 'विमांसस्य च विक्रयी' त्यत्रत्य चशब्दार्थमाह । चशब्दात् कूटेति । दाप्यश्चोत्तम- साहसमित्यत्रत्यचशब्दाभिप्रायमाह । चशब्दादंगेति । अयमर्थः । अंगच्छेदनमपि कृत्वा उत्तमसाह- सदंडमापि दापनीया इति । याज्ञवल्कीये २९८ श्लोकः। पाषाणोत्क्षेपणेन बाहुनेति । बाहुना क; पाषाणोत्क्षेपणेन करणेन यो दोषः कृतः स इत्यर्थः । पाषाणोत्क्षेपकेणेत्यपि पाठोऽस्ति । एतदुक्तं भवति हस्तेन लगुडादिकमुत्क्षिप्यमाणे प्रमा- दायस्य कस्याप्युपरितनेनांगभंगादिके जातेऽपि दोषभाक् न स भवतीति । याज्ञवल्कीये २९९ श्लोकः। छेदने चैव यंत्राणामिति । यंत्राणां चर्मबंधानां योत्कं युग्मं बलीवर्दादिग्रीवासंबद्धकाष्ठं १० रश्मयो रज्जवः एतेषां छेदने । अपैहीति । एवं च सति स्वामिनो न दंड इत्यर्थः ॥ याज्ञवल्कीये ३०५ श्लोकः। 'दुर्दृष्टांस्त्वित्यस्य ' वचनस्य ' रागाल्लोभाद्भयादाऽपि स्मृत्यपेतादिकारिणः । सभ्याः पृथक् पृथक् दंड्या विवादाद्विगुणं दममि ' त्यनेन पौनरुत्यं परिहरति । अप्राप्तजेतृदंडविधिपरत्वा- दिति । यः पूर्वव्यवहारे जितवान् स विचार्यमाणो यदि दोषवान् तदा दुष्टत्वेन स जयी दंड्य इति १५ जेतृदंडो विधीयते । 'दुर्दृष्टांस्त्वि' त्यनेन वचनांतरेण अप्राप्तत्वात् । इतरांशे त्वनुवाद इति पुन- रुक्तिरित्यर्थः । राजसहिताः सभ्याः दंडनीया इत्युक्तं । तत्र वचनं प्रमाणयति । पादो गच्छतीति । कादीनां सर्वेषामपि पापपाप्तिप्रतिपादकवचनबलाद्दुष्टत्वेन दंड्या इत्यर्थः । नन्वेकस्यैव पापस्य कादीनामंशतः प्राप्तिदंडोऽप्यतेषामेक एव स्यात् न पृथक् पृथगित्यत २० आह । एतच्च प्रत्येकमिति । एतद्वचनं अस्य वचनस्य दोषप्रतिपादनमात्रे तात्पर्य न वंशतो दोषपापणे इत्यर्थः। तत्र हेतुमाह । कर्तृसमवायीति। अयमर्थः । 'शास्त्रफलं प्रयोक्तरि तलक्षणत्वात् । इत्यनेन न्यायेन यः कर्ताऽस्मिन्नेव फलं समवैति । तच्च फलं द्विविधं । ऐहिकं पारलौकिकं चति । ऐहिकं तु धर्मशास्त्रोक्तं दंडादि । पारलौकिकं तु नरकादि । एवं स्थिते ' रागाल्लोभादि । त्युपक्रम्य 'सम्याः २५ पृथक् पृथक् दंड्या विवादाविगुणं दममिति ' प्रतिपुरुषं दंडरूपसंपूर्णफलसंबंधविधानादधर्मस्य च यत्र कर्तरि स्वयमुत्पन्नं तत्रैव फलोत्पादकस्वभावत्वाच्च प्रत्येकं समग्रफलसंबंधविध्यन्यथानुपपत्त्या प्रत्येकं समग्रदुरितापूर्वसंबंध इति । । १ज-चर्मबंधनानि ।२ ज-अपूर्वस्य ।

मिताक्षराटीका. (श्लोकः ३०६ याज्ञवल्कीये ३०६ श्लोकः। नारदवचनस्थतीरितशब्दार्थमाह । तीरितमित्यादिना । अनुद्धतदंडमित्यंतेन। अनु- शिष्टशब्दार्थमाह । अनुशिष्टमित्यादिना यावदित्यंतेन । ननु तीरितं चेति नारदवचने निर्णीतस्य व्यवहारस्य दंडावष्टंभपुरस्सरकरणं प्रतीयते । मनु- ५ वचने त्वेतद्वैपरीत्यं । अतः परस्परविरोध इत्याशंक्य परिहरति । यत्पुनर्मनुवचनमित्यादिना। अयमभिप्रायः । धर्मतो व्यवहारो निति इति निश्चिते पुनः स एव व्यवहारो न निवर्तनीय इत्युच्यते। न पुनर्धर्मतो निर्णीतं न वेति संदेहे न निवर्तनीय इत्युच्यत इति । एतदुक्तं भवति । नारदवचनं संशयविषयं । मनुवचनं निश्चितविषयमिति । इति प्रकीर्णप्रकरणम् । ग्रन्थसंख्या ३६०४. १० १५ माता पुण्यचरित्रकीर्तिविभवा यस्यांबिकानामतः । शाकल्यापरमूर्तिरार्यचरितः श्रीपेदिभट्टः पिता । सोऽयं कौशिकवंशभूषणमणिः श्रीभट्टविश्वेश्वरो। विज्ञानेश्वरसूक्तिभावविवृतौ दक्षश्चिरं बर्द्धते ॥ अत्रानुक्तं दुरुक्तं किमपि यदि भवेत्तद्धि सूक्तं कृषीरन् । संख्यावंतो महांतो यदुपकृतिविधौ शीलमेषामतंत्रम् ॥ आलोकं लोकहेतोर्दधति हि निबिडध्वांतमुद्दासयंतः । प्रालेयांशुप्रदीपयुमणिमणिगणास्तत्र को हेतुरास्ते ॥ इति श्रीमहापंडितसूरिश्रीपेदीभट्टात्मजभट्टविश्वेश्वरविरंचितायां मिताक्षराव्याख्यायां सुबोधिन्याख्यायां व्यवहारालोको नाम द्वितीयोऽध्यायः समाप्तः ॥ ॥ श्रीकृष्णार्पणमस्तु ॥ ॥ श्रीरस्तु ॥ ॥ श्रीलक्ष्मीनृसिंहाय नमः॥ ज-नेत्रबाणाङ्कचन्द्राब्दे मेवामिश्रोहि शर्मणा । श्रीमद्गोविन्ददासार्थमलेखीयं सुबोधिनी ॥१॥ २०

The Subodhini

Author
Bhatta Visweswara
Title
The Subodhini
File name
The Subodhini
Text
OCR done
Citation
1914
Published
2006/07/06
Publisher
Arya Bhushan Press Poona
Language
Sanskrit
Pages
129
Library
Allahabad University
Classification
Literature
DLI number
486492
Barcode
5990010113765.00
Scanning centre
IIIT, Allahabad
VMLT id
k1yaIVKFqhx
Download PDF

The Subodhini