Scl

The Kavyarathna Of Arhaddasa

K_sambasiva_sastri

PDF Proofread

Front matter

No text on this page.

TRITUND RIMSKRIT SERIES
No. CVII.
Sri Sato Lakemi Prasadamala.
No. XIX.
THE
KAVYARATNA
ARHADDASA
EDITED BY
K. SĀM BAŠIVA SĀ STRI,
son Grindai Veripum, Trinarum,
PC'ILISHED UNDER THE AUTHORITY OF THE GOVEUXYEYT AF
1ER WIGINESS TIE VAN ARANI RRUENT OF TRAVAXCORE,
3
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
::
AU Rijla Rared.)

No text on this page.

अनन्तश्यनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः १०७.
श्रीसेतुलक्ष्मीप्रसादमाला
ग्रन्थाङ्क: २९.
अहंद्दासविरचित
मुनिसुव्रतकाव्यं नाम
काव्यरत्नं
प्राचीनग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधितम् ।
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम्
कोलम्बोस: ११०६. कस्तादाः १२३५.

No text on this page.

PREFACE. It is it matter for gratification that we have been able to enrich the Trivandrum Sanskrit Series by the publication of the Munisuvrata Kavya, it work dealing with the life of Munisuvrata, il Jain Tīrıhankara, by a Jain poet Arliadāsa, as it is our desire that the Scries should include in it the works on all the great religious in India. The work contains 10 Surgas and the title of the poem is inscribed at the commencement of the manuscript ils Munisuvrata. Kvyil. But it is clear from the stanzil, "यद् वर्ण्यते जैनचरित्रमत्र चिन्तामणिभव्यजनस्य यच्च । हृद्यार्थरत्नैकनिधिः स्वयं मे तत् काव्यरत्नाभिधमेतदस्तु ॥” (1P. 1). that the title of the poem intended by the poct is Kävyilratila. It is possible to infer from the stanzas, "अहंद्दासः सभक्युल्लसितमवसितं भूधरे तत्र कृत्वा कल्याणं तीर्थकर्तुः सुरकुलमहितः प्रापदात्मीयलोकम् । अहंहासोऽयमित्थं जिनपतिचरितं गौतमस्वाम्युपशं गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापदुच्चैः प्रमोदम् ॥ "धावन् कापथसंभृते भववने सन्मार्गमेकं परं त्यक्त्वा श्रान्ततरश्चिराय कथमप्यासाद्य कालादमुम् । सद्धर्मामृतमुद्धृतं जिनवचः क्षीरोदधेरादरात् पायंपायमितश्रमः सुखपदं दासो भवत्यर्हतः ॥” (1P. Ti). that the name of the poet is Arhadıāsa and that it is a title obtained by him in virtue of his great clovotion for the "Arhat'. It would be evident to all Sahrayas that this poem of Arhaddāsa is a delightful composition like the poems of Kālidāsa. It has not been possible for us to gather any further information about this great poct. An index to all principal topics dealt with in the poem has been prepared and appended.

No text on this page.

निवेदना! महाकविश्रीमदहवालविरचितमिदं श्रीमुनिसुव्रतकाव्यं नाम काव्य- रत्नं किमप्यनर्घ रत्नममापौरम्त्यग्रन्थमालायाः । अखिलमतीयग्रन्थबातमम - त्सरमाविष्कर्तुमनसामस्माकमान्य रत्नस्य प्रकाशनं मन्ये धन्यतायाः कोऽपि प्र- कटनापर्यायः । जिनाचायवर्यम्य श्रीमुनिसुव्रतस्य चरितवर्णनपरमिदं दशसगी. सम्पुटितं काव्यं मा मायामादौ श्रीमुनिसुव्रतकाव्यनाम्ना समुचितमेव समुत्तसितं दृश्यते । "यद् वयेने जैनचरित्रमत्र चिन्तामणिभव्यजनस्य यच । हमानकनिधिः स्वयं में नत काव्यरत्नाभिधमेतदस्तु ।।" (श्लो० २०. स० १. पृ० ४) इति श्लोकेन कविसम्मतमम्याभिधानं काव्यरत्नमिति स्पष्टम् । "अहंदा: समक्युलसितगवसितं भवरे तत्र कृत्वा कल्याण तीर्थकर्तुः सुरकुलहितः प्रापदात्मीयलोकम् । अहंदासोऽयमित्यं जिनपतिचरितं गीतगस्वाम्युपशं गुम्फित्वा कान्यवन्धं कविकुलमहितः प्रापदुचैः प्रमोदम् ॥ धावन् कापथसम्मृत गवयने सन्मार्गमेकं पर त्यक्त्वा श्रान्ततरश्चिय कथमप्यासाद्य कालादमुम् । सद्धर्मामृतानं जिनकच क्षीरोदरादरात् पायंपायति श्रमः सुखपदं दारो भवत्यहितः ॥" (शा० ६३, ६४. स० १०. पृ. ७६) इति पद्याभ्यां कविनामयमहदास इति, तचाहद्धतिमहिमातिशयान काव्य- रचनानिपुणमतेरस्य विदसम्पन्नमिति च शक्यमभ्यूहितम् । सर्वथा दासानगऽयं महाकविः श्रीकालिदासवद् रघुवंशादिनानेन काव्यरत्रेन सहृदयालागी विजयत इत्यनुभवमाक्षिकोऽयं समाचार: । तमिम कविमईदास प्रति न किञ्चिदन्यद् विज्ञातुं पारितम् ।

2 serves: In the stanza, "श्रीमल्लिनाथगणिनाथ तदीरितेन DE: Taaraa lastne arah !" (P. 73). it is said that the revered teacher Munisuvrata explained the Tattva to Mallinātha and this statement is in obvious contradiction to the statements of Mrs. Sinclair Stevenson M A., Sc. D. and Jagmander Lal Jaini M. A. The former ob- “The nineteenth Tīrthankara (Mallinātha) is the most interesting of all ...... (vide page 56, The Heart of Jainism), and the latter also mentions Mallinātha as the 19th and Munisuvrata as the 20th Tīrthankaras (vide table attached after page 6,"Outlines of Jainism"). Thus both of them consider Mallinātha to be the 19th Ācārya and the predecessor of Munisuvrata. If tho Mallinātha of our Arhaddāsa who is desirous of receiving instruction at the hands of Munisuvrata, the exponent of Tattva, is the same as the Mallinātha of the above mentioned scholars, then he could only have been a contemporary ini? not the predecessor. A palm leaf manuscript belonging to the Raja of Chirakkal and a transcript belonging to the Adyar Library, Madras, have been utilized for the publication of this work and we express our gratitude to the owners of these manuscripts for their kindness in placing them at our disposal. Trivandrum, 15-12-1106.) K. SAMBASIVA SASTRI.

निवेदना। महाकविश्रीमदहद्दासविरचितमिदं श्रीमुनिसुव्रतकाव्यं नाम काव्य- रत्नं किमप्यनर्घ रत्नमस्गत्पौरस्त्यग्रन्थमालायाः । अखिलमतीयमन्यातमम . सरमाविष्कर्तुमनसामस्माकमम्य रलस्य प्रकाशनं मन्य धन्यतायाः कोऽपि प्र- कटनापर्यायः । जिनाचार्यवर्यस्य श्रीमुनिमुव्रतस्य चरितवाणनपरमिदं दशमन सम्पुटितं काव्यं मातृकायामादौ श्रीमुनिमुवनकाबपनाम्ना समुचितमेय समुत्तसितं दृश्यते । "यद् वयेत जैनचरित्रमत्र चिन्तामणिभव्यजनम्य या । हृयाचरनिनिधिः स्वयं ग नत् काव्यरत्नाभिधमतदानु ।" (क) २७. स. १. पृ. ४) इति श्लोकेन कविसम्मतगम्याभिधानं काव्यगन्नामिनि म्पाटम् । "अहहास: स भक्त्युत्लासितगमित भधरे तत्र कल्ला कल्याणं तीर्थकर्तुः मुस्कुलमाहितः प्रापदात्मीयलोकम् । अर्हद्दासोऽमित्थं जिनपतिनरित गौतमस्वायुपर्श गुम्फित्वा काव्यबन्ध कविकुलगतिः पापगः प्रमादम ।। धावन् कापथसम्भृते गवरने सन्मार्गमा पर त्यक्त्वा श्रान्ततरश्चिराय कथमाध्यामाध कालादमुम् । सद्धर्मामृतमुन जिनवचःक्षशिवरादरात पायंपायमितश्रमः सुखपदं दासी भवत्यत: ॥" इति पद्याभ्यां कविनामयमदास इनि, तजानिमामानिमयान काव्य रचनानिपुणमतेरस्य विरुदसम्पन्नमिति न शक्यमभ्यहिनुम् । सर्वशा दासागरोऽयं महाकविः श्रीकालिदामबन्द रघुवंशादिनानन काव्यरत्नेन सहृदयायागी विजयत इत्यनुभवसाक्षिकोऽयं समाचार: : अभिग कविमहासं प्रति न किञ्चिदन्यद विज्ञातुं पारितम् ।

१ इहत्यान् मुख्यान् विषयान् संक्षिपती काचन सूची चरितजिज्ञासूनामुप- काराय साकमनेनैव सम्पुटेन मुखतः सङ्घटिता । तदिशा दशमसर्गीयाष्टाचत्वा- रिशश्लोके 'श्रीमल्लिनाथगणिनाथ तदीरितेन पृष्टः समस्तविदसौ निजगाद तत्त्वम् ।'' इत्यंशेन श्रीमल्लिनाथगणिने भगवता मुनिसुव्रतेन तत्त्वनिगदनमुपवर्ण्यमानं, मिस्तिस्. सिन्क्लेयर स्टीवन्सन् एम्. ए., एस्सि. डि., जग्मन्द- लाल् जयिनि एम्. ए. इत्यनयोः पण्डितयोरभिप्रायेण विरुध्यमानं दृश्यते । तयोहि - मिस्सिस्. सिन्क्लेयर स्टीवन्सन् एकोनविंशोयं सर्वाभिनन्द्यमहिमा तीर्थकरो मल्लिनाथः, विशश्च मुनिसुव्रतस्तादृश इति (The Heart of Jainism. p. 16) जग्मन्दलाल् जयिनि एम्. ए. चतुर्विंशतौ तीर्थक्करेषु सुप्रसिद्ध एकोनविंशो मल्लिनाथो विंशश्च मुनिसुव्रत इति 7 Arara (Table attached after page 6. Oltlines of Jainism.) यदि च मुनिसुव्रतात् तत्त्वाख्यातुरुपदेशलिप्सुरस्मदर्हदासीयम- ल्लिनाथः पूर्वोक्तपण्डिताभिमतश्चाभिन्नावभविष्यतां, तदा समसमयजीवि. तावश्यम्भावेन प्राक्तनतावादो न मनागपि समगंस्यतेति विरोधोऽयं दुष्परिहर एव । अस्य रत्नस्य प्रकाशनोपयोगि परिशोधनघर्षणं बहुमान्यश्री-चिरकल्- राजसम्बन्धिनी तालपत्राल्मिकां, मद्रनगरस्थ-अडयाग्रन्थशालीयां पत्रा- त्मिकां च द्वे मातृके निकषहषदावाश्रित्य साधितम् । अतस्तदुभयस्वामिभ्यां कृतज्ञतानिवेदनपुरस्सरमिदं ग्रन्थमालायामुपगुम्भ्य महद्भ्य उपहरामि । अनन्तशयनम्, १५-१२-११०६.} के. साम्बशिवशास्त्री.

॥श्रीः॥
श्रीपद्मनामसेवि-
न्यखिलश्रीवर्धनी महाराज्ञी।
श्रीसेतुलक्ष्म्यभिख्या
प्रत्यक्षा जयति वञ्चिभूलक्ष्मीः ।।
ग्रन्थावलिरियमिन्धे
प्रसाधिता तत्प्रसादगुणगुम्फा ।
श्रीसहितसेतुलक्ष्मी-
प्रसादमाला सुवर्णमणिचित्रा ॥

No text on this page.

मुख्यविषयाः। सर्गे लो० विषयाः. १. २३ &c. १. ६. १०. ११. काव्यकथाया मूलम् २०,२१. काव्यनामधेयम् १२,१३. नायकजन्मवृत्तसूचनम् नायकमातुः स्वप्नदर्शनम १६. नायकजन्मसमयः अभिषेक ४३. नामकरणम् १७. विवाहो राज्याभिषेकश्च ३१. राज्यपरिपालनकाल: गजराजवृत्तम् ३. नायकस्य वैराग्योत्पत्तिः तनयं राज्येऽभिषिच्य प्रव्रजनम् १०. पाण्डवनप्रवेशः नीलवने तपश्चर्या च १५. दीक्षाप्राप्तिसमयः ३५. दीक्षाकालपरिमाणम् ८. धनदेन शक्राज्ञया सभानयनम् सभायां मल्लिपेणगणिप्रार्थितेन भगवता तत्त्वोपदेशः भगवतः सम्मेदशैलप्राप्तिः ८. २. . १०. "

No text on this page.

॥ श्रीः॥ ॐ नमः सिद्धेभ्यः । अहंदासविरचितं श्रीमुनिसुव्रतकाव्यं नाम काव्यरत्नम्। प्रथमः सर्गः। श्रियं स वः श्रीवृषभो विशिष्याद् यस्यालिमालावृतवत् सभायाम् । बभौ नतेन्द्रोत्करमौलिनील- प्रभावलीलालितमब्जपीठम् ॥ १ ॥ चन्द्रप्रभं नौमि यदङ्गकान्ति ज्योत्स्नेति मत्वा द्रवतीन्दुकान्तः । चकोरयूथं पिबति स्फुटन्ति कृष्णेऽपि पक्षे किल कैरवाणि ॥ २ ॥ तमांसि हत्वा जगतः पदार्थान् प्रकाशयन्तं यमिव प्रदीपम ननाश मोहादभिपत्य कामः पतङ्गवच्छान्तिजिनं भजे तम् ॥ ३ ॥ अबोधकालोरगलीढमूढ- मबूबुधद् गारुडरत्नवद् यः। G, P. T. 1502, 500. 12-9-1105.

२
काव्यरने
जगत् कृपाकोमलदृष्टिपातैः
प्रभुः प्रसद्यान्मुनिसुव्रतो नः ॥ ४ ॥
त्रासादिदोषोज्झितमुहजाति
गुणान्वितं मौलिमणिं यथैव ।
वृत्तात्मकं भावलयाभिरामं
कृतक्रियं मूर्तिं दधामि वीरम् ॥ ५ ॥
स्वार्थप्रकाशिद्युतयोऽशरीरा
रत्नप्रदीपा इव मे वसन्तु ।
तमःप्रहाण्यै हृदि दीप्यमानाः
कृताधिवासाः पवनान्तरेऽपि ॥ ६ ॥
निराकृतान्तस्तमसो निषेव्या
दिगम्बरैः सन्ततवृत्तदेहाः ।
सुनिर्मलाः साधुसुधांशवो मे
हरन्तु सन्तापमदृष्टपूर्वाः ॥ ७ ॥
रत्नत्रयात्मा सुचिराय धर्मः
सार्थेन नाम्ना महितः स जीयात् ।
यो धारयत्यच्युतधाम्नि ममा-
नुद्धृत्य सत्त्वान् भववारिराशेः ॥ ८ ॥
वीरादिव क्षीरनिघेः प्रवृत्ता
सुधेव वाणी सुधिया कलश्या ।
विधृत्य नीता विबुधाधिपैमें
निषेविता नित्यसुखाय भूयात् ॥ ५॥

प्रथमः सर्गः । भट्टाकलङ्काद् गुणभद्रसूरेः समन्तभद्रादपि पूज्यपादात् । वचोऽकलङ्क गुणभद्रमस्तु समन्तभद्रं मम पूज्यपादम् ॥ १० ॥ वीराकरोत्थं मुनिसार्थनीतं कथामणि श्रीमुनिसुव्रतस्य । सुवर्णदीप्रं नवयुक्तिरम्यं विदग्धकर्णाभरणं विधास्ये ॥ ११ ॥ सरस्वतीकल्पलतां स को वा संवर्धयिष्यन् जिनपारिजातम् । विमुच्य काझीरतरूपमेषु व्यारोपयेत् प्राकृतनायकेषु ॥ १२ ॥ गणाधिपस्यैव गणेयमेतद् भवामि चोद्यन् भगवच्चरित्रे । भक्तीरितो नन्वगचालनेऽपि शक्तो न लोके ग्रहिलो न लोकः॥ १३ ॥ मनः परं क्रीडयितुं ममैतत् काव्यं करिष्ये खलु बाल एषः । न लाभपूजादिरतः परेषां न लालनेच्छाः कलभा रमन्ते ॥ १४ ॥ श्रव्यं करोत्येष किल प्रबन्धं पौरस्त्यवन्नति हसन्तु सन्तः ।

काव्यरत्ने
किं शुक्तयोऽद्यापि महापरायं
मुक्ताफलं नो सुवते विमुग्धाः ॥ १५ ।।
प्रबन्धमाकर्ण्य महाकवीनां
प्रमोदमायाति महानिहैकः ।
विधूदयं वीक्ष्य नदीन एव
विवृद्धिमायाति जडाशया न ॥ १६ ॥
उपेक्षितारोऽपि फलन्त्यनिष्टा-
भीष्टानि यद् दुर्जनसज्जनास्तत् ।
वृथा कृता विश्वसृजा श्रमाय
विषद्रुकल्पद्रुमयोहि सृष्टिः ॥ १७ ॥
सन्तः स्वभावाद् गुणरत्नमन्ये
गृह्णन्ति दोषोपलमात्मकीयम् (?) ।
यथा पयोऽयं शिशवो जलूका
जनो वृथा रज्यति कुप्यतीह ॥ १८ ॥
तिक्तोऽस्ति निम्बो मधुरोऽस्ति चेक्षुः
स्वं निन्दतोऽपि स्तुवतोऽपि तद्वत् ।
दुष्टोऽप्यदुष्टोऽपि ततोऽनयोमें
निन्दास्तवाभ्यामधिकं न साध्यम् ॥ १९ ॥
यद् वर्ण्यते जैनचरित्रमत्र
चिन्तामणिर्भव्यजनस्य यच्च ।
हृद्यार्थरबैकनिधिः स्वयं मे
तत् काव्यरत्नाभिधमेतदस्तु ॥ २० ॥

प्रथमः सर्गः। यत् स्थापनां नाम भुवं च कालं द्रव्यं च भावं प्रति षट्प्रकारा । स्तुतिर्जिनस्य क्रियतेऽत्र तस्मात् काव्यं ममैतत् स्तुतिरेव भूयात् ॥ २१ ॥ अथास्ति जम्बूविटापिच्छलेन हीपेषु गर्वोन्नतमस्तकस्य । द्वीपस्य भर्माभरणेऽत्र खण्डे रत्नायमानो मगधाख्यदेशः ॥ २२ ॥ यद्भूधरा भूतलसेव्यपादा भूपा इवाक्रान्तदिगन्तरालाः इन्दन्ति मत्तहिपकैरवाक्षि- कस्तूरिकाकाञ्चनरत्नखड्गैः ॥ २३ ॥ नगेषु यस्योन्नतवंशजाताः सुनिर्मला विश्रुतवृत्तरूपाः । भव्या भवन्त्याप्तगुणाभिरामा मुक्ताः सदा लोकशिरोविभूषाः ॥ २४ ॥ उत्तुङ्गगोत्रप्रभवा भवत्यो भजन्तु भूचक्रबहिष्कृतं किम् । इति सवन्तीरुदधिं सरन्ती- रवैमि यत्रालिगणो रुणद्धि ॥ २५ ॥ तरङ्गिणीनां तरुणान्विताना- मतुच्छपद्मच्छदलाञ्छितानि । १. 'वर्गोन्न' क. पाठः. २. "देहाः ।' ख. पाठः. :

काव्यरले पृथूनि यस्मिन् पुलिनानि रेजुः काञ्चीपदानीव नखाञ्चितानि ॥ २६ ॥ तमोनिवासेषु वनेषु यस्य मरन्दसा(ी ? न्द्रा)स्तरणेमयूखाः । स्फुरन्ति शाखान्तरलब्धमार्गाः कुन्ताः प्रयुक्ता इव शोणितााः ॥ २७ ॥ अभ्रंलिहाग्राणि वनानि यस्मि- नीयुर्बुवं नाकतरं निकर्तुम् । को दानवारिप्रतिपन्नवृत्तेः क्षमेत सङ्कल्पितदानगर्वम् ॥ २८ ॥ पाकावनम्राः कलमा यदीयाः पदावनम्रा इव मातृभक्त्या । आघ्रायमाणाः स्वशिरस्सु भान्ति विकासिपद्माननया धरित्र्या ॥ २९ ॥ विभान्ति सस्यान्तरितानि यस्मिन् हेमारविन्दानि मधूल्बणानि । आपाययन्त्या इव शालिपुत्रा- नात्तानि धात्र्याः करसेचनानि ॥ ३० ॥ यत्रेक्षुदण्डाः कुसुमाभिरामा वितन्वते पर्वचयाञ्चिताङ्गाः । मनोजराजस्य जगज्जिगीषो- रुच्चामरोड्डामरकुन्तलीलाम् ॥ ३१ ॥ १. 'स्मिन् म', २. 'चि' ख. पाठः.

७ प्रथमः सर्गः। भूदेवता यद्विभवं विलोक्य भूयोऽवधूतत्रिदिवं दधाति । निलीनभृङ्गस्थलपद्मदम्भा- निष्पन्दताराणि विलोचनानि ॥ ३२ ॥ यस्योर्वरासारगुणस्य मूर्ताः पुञ्जा इवाभान्ति समन्ततोऽपि । तिलातसीकोद्वमुंद्गमाष- गोधूमवल्लक्षवशालिशैलाः ॥ ३३ ।। यत्रार्तवत्त्वं फलिताटवीषु पलाशिताद्रौ कुसुमे परागः । निमित्तमात्रे पिशुनत्वमासी- निरोष्ठयकाव्येष्वपवादिता च ॥ ३४ ॥ स्त्रीणां कचे माल्यमुरोजभारे श्यामाननत्वं जघने जडत्वम् । अपाङ्गता केवलमक्षिसीम्नो- मध्यप्रदेशेषु च नास्तिवादः॥ ३५॥ भुजङ्गमेष्वागमवक्रभावो भुजङ्गहारेऽप्यजिनानुरागः । ध्रुवं प्रदोषानुगमो रजन्याम् (दिइ)नक्षयः सोऽपि दिनोवसाने ॥ ३६ ।। तत्रास्ति सा राजगृहाभिधाना पुरी वनैः पृष्ठगतैरुदौः । 'माषमुद्गगो', २. 'वा' ख. पाठः, ८ काव्यरत्ने पुरारिवैरप्रतिकारहेतो- यो मुक्तकेशव्रतमादितेव ॥ ३७ ।। बहिर्वणे यत्र विधाय वृक्षा- रोहं परिष्वज्य समर्पितास्याः। कृताधिकारा इव कामतन्त्रे कुर्वन्ति सङ्गं विटपैर्ऋतत्यः॥ ३८ ॥ आरामरामाशिरसीव केली- शैले लताकुन्तलभासि यत्र । सकुङ्कुमा निर्झरवारिधारा सीमन्तसिन्दूरनिभा विभाति ॥ ३९ ॥ कण्डूतिशान्त्यै निजकर्णमूलं सङ्घर्षयन्तः सरसीषु मीनाः । अम्भोजदण्डेषु विभान्ति यस्या- मालानदण्डोष्विव हस्तिपोताः ॥ ४० ॥ वीथ्या हयानां दशया गजानां श्रमैर्भटानां करणैनटानाम् । भुजाहतैमल्लगणस्य यस्या जयन्ति बाह्यालिभुवो विशालाः॥ ४१ ॥ अहो नु तीरद्रुमराजिराज- द्विचित्रपुष्पोद्गमबिम्बितानि । उतोल्लसत्पन्नगभोगरत्न- द्युतीनि यस्याः परिखाजलानि ॥ ४२ ॥ १. 'ने', २. 'बन्धेष्वि' क. पाठः.

प्रथमः सर्गः । माणिक्यकुम्भोज्ज्वलगोपुराणां रूपेण यां मूर्तिचतुष्टयाप्तः । आप्तः समालक्ष्य विलक्षमास्ते पूर्वाचलः कूटविभासिभास्वान् ।। ४३ ॥ मुरापगापूरकृतान्तराणि शृङ्गाणि सालाग्रगतानि यस्याः। हैमानि हेमाम्बुरुहाणि बुद्ध्वा मुग्धा जिहीर्षन्ति सुरर्षिकान्ताः॥४४ ॥ प्रतप्तचामीकरवैकृतानि प्राकारशीर्षाणि पुनर्न यस्याः । पत्या दिशां भित्तिषु लिप्तशेषाः प्रतापपिण्डा वियदङ्गणे ते ॥४५॥ उत्तोरणानां किल मन्दिराणा- मुद्यडजानामसमेषु यस्याः। धनुष्मतो वारिभृतः सशम्पान् निर्माय निर्माय नभः प्रमार्टि ॥ ४६॥ यच्चन्द्रकान्तोपलमन्दिराणां ज्योत्स्नाप्रवाहैः परिवाहिता द्यौः । क्रीडाधियामप्सरसां विधत्ते दिवा दिवा दिव्यसरःप्रमोषम् ॥ ४७ ॥ ताराफलायां वियदामलक्यां क्षेप्तुं ब्रजन्तं नतदारुबुद्ध्या ।

१० काव्यरत्ने यच्चन्द्रशालागतबालचन्द्र बालं हसन्ति स्फुटमीशदाराः ॥ ४८ ॥ नैतानि ताराणि नभस्सरस्याः सूनानि तान्याददेते सुकेश्यः । यदुच्चसौधाग्रजुषो मृषा चेत् प्रगे प्रगे कुत्र निलीनमेभिः ॥ ४९ ॥ विकासिनेत्राशुभिरङ्गनानां विषक्तगात्रैरेवसक्तगात्राः। विलासिनां सूचिगृहान्धकारा वितन्वते यत्र सदा नियुद्धम् ॥ ५० ॥ सदा पठत्कोकिलनन्दनाढ्याः समुल्लसत्पाण्डुकभद्रशोलाः जिनालयाः सौमनसालयास्ते जयन्ति मेरूनपि यत्र चित्रम् ॥ ५१ ॥ यत्राश्मगर्भार्कजिनालयत्विट् - छन्नेऽभ्रमध्ये तपनो हठेन । दूर्वाम्बुबुद्ध्या द्रवदश्वरोध- क्लेशासहः किं कुरुतेऽयने द्वे ॥ ५२ ॥ चित्रं जिनेन्द्रावसथस्थलेषु प्रमोदबाष्पोदकपिच्छिलेषु । १. 'ध', २. 'रि', ३. 'सा' क. पाठः.

द्वितीयः सर्गः । भव्यैः किलोप्ताः सिततण्डुलौघाः फलन्ति यस्यां बहुशः फलानि ॥ ५३ ॥ देवीनां मणिगृहमध्यवर्तिहैम- प्रासादे सदलसकर्णिकाम्बुजाभे । आवासे यदधिभुवः कृताधिवासा श्रीरासीद् ध्रुवमरविन्दमन्दिरा सा ॥ ५४॥ इत्यर्हद्दासकृतौ काव्यरत्ने भगवदभिजनवर्णनो नाम प्रथमः सर्गः ।। : अथ द्वितीयः सर्गः। अथाभवत् तस्य पुरस्य राजा सुमित्र इत्यन्वितनामधेयः । क्रियार्थयोः क्षेपणपालनार्थ- द्वयादसत्सद्विषयात् सुपूर्वात् ॥ १॥ यं राजशब्दासहमन्यपुंसि श्रुत्वा भयाव्यः सुखरोचिरासीत् । स्तुतिप्रसक्ताः कवयो बभूवु- यक्षोऽपि सत्यं धनदो बभूव ॥ २ ॥ कोपारुणेऽप्यक्षणि यस्य चित्रं सकञ्चुकैः कुण्डलिभिः सनाथम् । शिवास्पदं काञ्चनवज्रपूर्ण बभूव सर्व नगरं रिपूणाम् ॥ ३ ॥ १. 'लास्ते फँ' क. पाठः.

१२ काव्यरत्ने प्रयाणभेरीश्रवणेन यस्य पलायमानानरिभूमिपालान् । पदाभिघाताक्षमयेव सद्यः प्रकाशयामास समीरकेतुः ॥ ४ ॥ येनासिना युद्धशिरस्यरीणां साङ्ग(च्छि ? च्छ)दे चर्मणि रक्तधारा । विनिर्यती तेन पथा व्यराजी- दुद्भूतकोपाग्निशिखेव तेषाम् ॥५॥ रणेषु खड्गः करिकुम्भमुक्ता- संपृक्तधारोऽनुचकार यस्य । विदारिते वक्रबिले विधातु- विधुन्तुदस्येन्दुकुटुम्बकानाम् ॥ ६ ॥ कृपाणभिन्नैयुधि वैरिवीरै- विभिन्नबिम्बे सति यस्य भानौ । स्वयं भयेनैव बभूव भिन्नः शशी नचेदद्य बिली किमेषः ॥ ७ ॥ बाहौ यदीयेऽर्थिसुरद्रुमेऽपि मन्येऽसियष्टिं विषवल्लिमन्याम् । नो चेत् तया वैरिणि वेष्टयमाने किं तेपिरे तस्य कुटुम्बकानि ॥ ८ ॥ यस्य प्रतापाग्निशिखावलीढं सर्वं जगत् सत्यमिदं वदामि । १. 'व' क. पाठः, द्वितीयः सर्गः । १३ नेदं द्विषो यं यमगुः प्रदेशं तप्ता बभूवुः किमु तत्र तत्र ॥ ९ ॥ यस्यासिधाराविनिपातभीता- स्त्यजन्तु पद्माकरसङ्गमानि । विमुक्तवन्तः किल राजहंसाः स्वमुत्तराशाश्रितमानसं च ॥ १० ॥ तेजोनले व्याप्तसमस्तकाष्ठे तत्र स्थिति कर्तुमशक्नुवानाः । यस्यारयो वारिधिवासमापु- नचेत् तथा के किल वारिमाः॥ ११ ॥ उपायनाश्वेभखुरप्रहार- मदाम्बुनिम्नीकृतपूर्णमध्यम् । रत्नाङ्कणं यत्सदसो विशालं क्रीडासरोवद् विरराज लक्ष्म्याः ॥१२॥ प्राणेश्वरी तस्य बभूव राज्ञः पद्मावती नाम नरेन्द्रकन्या । ययाधिविन्नाजनि भूतधात्री या चाधिविन्नाजनि भूरिलक्ष्म्या ॥ १३ ॥ लावण्यवाराशितराङ्गकल्प- लतां नृपस्त्रीमवलोक्य शङ्के । १. 'मन्ये' । ' ख. पाठः.

काव्यरत्ने तत्काम्ययायापि करोति लक्ष्मी- स्तपोऽम्बुमध्ये कमलासनस्था ॥ १४ ॥ निशाकरस्फेटनिभानि तन्व्या नखानि पादाङ्गुलिसङ्गतानि । जगजिगीषोमकरध्वजस्य प्रपेदिरे खेटकभल्लकत्वम् ॥ १५ ॥ स्वर्गापगारक्तसरोरुहाणां सजातमेतद्वयमित्यवैमि । सुराङ्गनानां कथमन्यथा स्तां चिराय सेव्यौ चरणौ मृगाक्ष्याः ॥ १६ ॥ सपर्वरम्भासहशोस्तदूर्वोः सजङ्घयोरङ्गजकाहला का । कियांश्व पञ्चायुधपृष्ठतूणः कियत्तरौ मन्मथदन्तिदन्तौ ।। १७ ।। परिस्फुरत्काञ्चनकाञ्चिबन्धं निषद्धनीवीविलसद्दुकूलम् । कलत्रभारं कलिकायुधोऽस्या- श्वकार वास्त्रं किल चक्रयानम् ॥ १८ ॥ वलित्रयत्रासतरङ्गितेऽस्या विलमसौन्दर्यमहाम्बुराशौ। उपर्युदस्तस्तनशैलतयों रराज सेतुर्नवरोमराजिः॥ १९ ॥ १. 'र्यधस्त' क. पाठः.

द्वितीयः सर्गः । १५ भुजायता चम्पकमालिका स्यात् कुचोन्नतः पङ्कजकुमलश्च । मृदुत्वकाठिन्यगुणौ मृगाक्ष्याः कथं दधीतोभयमप्युभय्याः ॥ २० ॥ शुभेन रेखात्रितयेन तन्व्याः कण्ठः स्फुटं कम्बुसमान एव । सुधासदाइँण पुनः स्वरेण विपश्चिकाप्यञ्चत एव तस्य ॥ २१ ॥ यदब्जसौन्दर्यसखं मुखं च यदम्बके मीनविडम्बके च । नमःश्रियः साम्यमुपागता या सरःश्रियः साम्यमतो गता सा ॥ २२ ॥ त्रिलोकनारीतिलकस्य तस्याः क केशपाशस्य पुरो भवामः । इतीदमद्याप्यभिनेतुमेते सधूतयश्चामरवालहस्ताः ॥ २३ ॥ मनोजसंमोहनमन्त्रचिन्ता- फलं नु भूपालतपःफलं मु । जनेक्षणादृष्टफलं नु किञ्चि- न्न वेद्मि सृष्टेः कलशाकृतिः सा ॥ २४ ॥ निर्मूलिताशेषविपक्षकक्षो निराकुलीभूतसमस्तभूतः। - १. 'मुपाग', २. 'टि' क. पाठः.

काव्यरत्ने युवा स पुष्पायुधबाणकोण- व्यधात् परं व्याकुलमानसोऽभूत् ॥ २५ ॥ कुलागते वर्मणि दृष्टशौचे से मन्त्रिवर्गेऽर्पितराज्यभारः। तया समं मन्मथशासनानि बभार भावातिमनोहराणि ॥ २६ ॥ अगायदेषा स ततान तान- मनृत्यदेषा स तताड तालम् । अवादयद् वल्लकिकामथैषा स वल्लकीवानुजगौ द्वितीया ॥ २७ ॥ सह प्रयातौ दयितौ वनान्तं सह प्रियौ केलिसरः प्रविष्टौ । सहाधिरूढौ रमणौ च दोलां सह स्थितौ सौधशिरस्सु कान्तौ ॥ २८ ॥ उरोजयोरेणमदेन तन्व्याः कुतूहली यं मकरं लिलेख । विभावयामास स भावयोनेः स्थूलाग्रजाग्रन्मकरध्वजस्य ॥ २९ ॥ सखीसभायां चतुरङकेली चुचुम्ब संरक्षितुमाहतस्य । हयस्य याकपटेन कामी मुहुर्मुहुः स्मेरमुखीं कपोले ॥ ३० ॥ १. ई' ख. पाठः. २. 'सु' क. पाठः.

१७ ७ तृतीयः सर्गः। मुक्तागुणच्छायनिषेण तन्व्या रसेन लावण्यमयन पूर्णे । नाभिहूदे नाधनिवेशितेन विलोचनेनानिमिषेण जज्ञे ॥ ३१ ॥ अमर्षणायाः श्रवणावतंस- मपाङ्गविद्युद्विनिवर्तनेन । स्मरेण कोशादवऋष्यमाणं रथाङ्गनुर्वीपतिराशाके ।। ३२ ॥ रहस्सु वस्त्राहरणे प्रकृताः सहासगर्जाः क्षितिपालवध्वाः । सकोपकन्दर्पधनुःप्रभुक्त शरोघहुकाररवा इवाः ॥ ३३ ॥ इति किलानिमती सुरडम्पति- प्रतिमरूपकलागुणशालिनौं । विविधकेलिरसैः कृतसम्पदैः सफलतां युवतापनियतुः ॥ ३४ ॥ इत्यहदासकृतौ काव्यरले अगवरिश्तृवर्णनो नाम द्वितीयः सर्गः।। अथ हनीयः सर्गः। एषैकदा तु नवकल्पलतेव भूयो। भूयः प्रपन्नऋतुकापि फलेनं हीना ! mein १. 'किल स' क. पाठः,

१८
काव्यरत्ने
आलोक्य केलिकलहंसवधू सगी
दध्यौ धराधिपवधूरिति दीनचेताः॥१॥
आः पुष्पितापि विफलेव रसालयष्टिः
सेनेव नायकगतापि जयेन शून्या ।
काले स्थितापि धनराजिरवर्षणेव
मिथ्या दधामि हतकुक्षिमदृष्टतोका ॥ २ ॥
चिन्ताभरादिति वहन्नयनोदकां तां
कान्तोऽनुसद्य करपल्लवदत्तगण्डाम् ।
व्यग्रीभवत्परिजनादवगम्य सर्व-
माश्वासयत्युचितसूक्तिरसेन यावत् ॥ ३ ॥
तावत् तमम्बरतलादवतीर्य देव्यो
मित्रं दिने नमितया रमया समेतम् ।
मुक्त्वा श्रिया सततसङ्गतया सनाथं
भक्तुं सुमित्रमिव दीधितयोऽधिजग्मुः ॥ ४ ।
भूपोऽथ जीवजयनन्दपदास्पदास्या-
स्ताः प्राञ्जलीरभिनिरीक्ष्य विलक्षचक्षुः
प्राप्तासनेषु विनिवेश्य मुदेदमूचे
प्राप्ताः किमत्र सुरलोकसुखैकसाराः ॥५॥
आकर्ण्य वाचमिति तस्य सुराङ्गनाभिः
श्रीरीरिताकथयदागमहेतुमेवम् ।
मन्दस्मितद्विगुणमञ्जुलवाक्प्रसूनै-
वय॑त् फलं क्षितिपतेरिव सूचयन्ती ॥६॥

१९ तृतीयः सर्गः। भूपार्यखण्ड इह भूविदितेऽङ्गदेशे चम्पापुरे नृपवरो हरिवर्मनामा । आसीद् यशःकवचितावनिरस्रधारा- संप्लावितारिनृपतद्वनितावितानः ॥ ७ ॥ ज्ञात्वा जिनाजननदुःखमनन्तवीर्या- देषोऽवगीतभवभोगशरीररोगः । मत्वा तृणाय निजराज्यपदं मनीषी तत्पादयोः किल बभार जिनेन्द्रमुद्राम् ॥८॥ सन्त्यक्तसर्वविषयोऽप्यवरोधमुक्तो- ऽप्येकाक्षरक्षणपरोऽप्यनिशं यतीशः । संभक्तसर्वविषयोऽजनि सावरोधः पञ्चाक्षनिग्रहपरः परमेष चित्रम् ॥ ९॥ कुर्वस्तपो जिननिरूपितलक्ष्मलक्ष्मी- भूतं प्रभूतविनयो विविधं मुनीन्द्रः । एकादशाङ्गकुशलोऽजनि हेतुयुग्म- सामग्र्यसञ्जनिततीर्थकरत्वपुण्यः ॥ १० ॥ अन्ते समाधिविधिसात्कृतदेहभारः स्वः प्राणते तदभिधानविमानमध्ये । स प्राणतेन्द्र इति सेन्द्रपतिर्बभूव लोकेषु तप्ततपसां किमसाध्यमस्ति ॥ ११ ॥ मासानतीत्य षडयं गुडनिर्विशेषी- भूतेतविंशतिनदीपतिसम्मितायुः । 'म्बा', २. 'दी', ३. 'नो' क. पाठः. ४. 'ज' ख. पाठः, ३ २०. काव्यरत्ने सूनुर्भविष्यति च तेऽतुलपुण्यराशे- स्तीर्थस्य विंशतितमो भाविता च कर्ता ॥१२॥ तस्माद् वयं जिनपतेर्मुश्क्वन्ध- पादारविन्दयुगलस्य भविष्यतोऽग्रे! दास्यं विपुण्यजनदुर्लभनय याता मातुर्विधातुनमरेश्वरशासन ॥ १३ ॥ इत्थं तदीयमुखचन्द्रमसः समुथद्- वाक्चन्द्रिका श्रुतिपुटेन निपीय सद्यः । चेतस्यवाप चपलेक्षणया सनतो भूपश्चकोर इव भूरितरप्रमोदम् ॥ १४ ॥ भूमीपतेरनुमताभिस्थानराणां भ्रूवल्लरीविलसनेन विलासिकाभिः । भूपालमौलिदयिता भृतसंप्रदाभि- भूलोकसेव्यचरणाम्बुरुहा सिषेत्रे ।। १५ ।। साधः कयापि विधृतस्य सुरेन्द्रनील- च्छत्रस्य चारुवलयस्थ महौषधीव । रेजे प्रकाण्डरुचिरस्य सुरद्रुमस्य धारान्तरस्य च घनस्य तटिल्लतेव ।। १६ ॥ दिव्याङ्गनावधुतचामरलालिताङ्गा तिष्ठन्त्यसावरुचदुन्नतरत्नपीठे । लक्ष्मीः सुधाब्धिचटुलोमिहतेव शेषे चान्द्री कलेव शरदभ्रचितोदयाद्रौ ॥ १७ ॥ १ . 'स' ख. पाठः, तृतीयः सर्गः । २१ सा कुङ्कुमेन पश्या कुचयोविलिप्ता कर्पूरक्लुप्ततिलका निटिले चकाशे । संबद्धकुन्तलमा शिरलि द्विरे व्याप्तेव पल्लवितयुधिपतकल्पवल्ली ॥ १८ ॥ तस्याः शिरोरुहरे विनियोज्यनानं कृष्णं कमाथि समारोहमा मासे । तापिञ्छक माधिनायकारं नीलाब्जकुञ्जमुनयनिक शशिः ।। १९ ।। कर्पूरमौक्तिकखगेन्द्र निकलते- स्ताटङ्कहारबलभैरपरोपनीतः। डिण्डीरितः क्वचन अबुद्धितः परत्र शैवालितः क्वचिनहीं सुन्नमाब्धिरस्याः॥ २० ॥ वामे फलव्यवहिते व्यरुचत् कुचोऽन्य- स्तन्त्रीविवादनचलखिदशाङ्गनायाः । वक्रेन्दुना सहचरीमभिशङ्कय याता- मुत्कम्पमान इव कान्तिझरीरथाङ्गः ॥ २१ ॥ ताभिर्यथावसरमित्थमुपास्थमाना सानीततुर्यवसना किल तीर्थतोयैः । शुभ्राम्बराभरणमाल्यविलेपना च शिश्ये सुखेन रमणेन समानतल्पा ॥ २२ ॥ नागं वृषाधिपगजारिरमाश्च माले चन्द्रार्कमीनयुगकुम्भयुगानि वापीम् ।

काव्यरले अम्भोनिधि च हरिपीठविमानभोगि. स्थानानि रत्ननिकरं च विधूममग्निम् ॥ २३ ॥ स्वप्नेऽथ सा सदृशताप्रणयादिवेता- नेतान् गजेन्द्रगतिरात्तवृषाधिपत्वा । शातोदरी सविभवा सुकुमारगात्री चन्द्रानना सकलविष्टपसेव्यपादा ॥ २४ ॥ मीनेक्षणा घटकुचा ह्रदनिम्ननाभि- गर्गाम्भीर्यपर्यवसितिः सुनितम्बपीठा। मानोन्नता च कृतभोगिपतिप्रमोदा चेतस्विरत्नममला क्रमशो ददर्श ॥ २५॥ राज्ञी विबुध्य सुरवल्लाभिकासुगीतैः कादम्बिनीकलकलैरिव केकिकान्ता । उत्थाय तल्पतलतः सुसमाप्य कृत्यं प्राभातिकं सपदि वल्लभमाससाद ॥ २६ ॥ अर्धासने प्रियनिवेशितवल्लभायै स्थित्वा क्षणं श्रुतिसुखं विनिवेदितायाः। स्वप्नावलेरिति जगाद फलं कुचान्ते दन्तार्चिषा विरचयन्निव चर्चिकां सः ॥ २७ ॥ नागेन तुङ्गचरितो वृषतो वृषात्मा सिंहेन विक्रमधनो रमयाधिकश्रीः। स्रग्भ्यां धृतश्च शिरसा शशिना क्लमच्छित् सूर्येण दीप्तिमहितो झषतः सुरूपः ।। २८ ॥ कल्याणभाक् कलशतः सरसः सरस्तो गम्भीरधीरुदधिनासनतस्तदीशः । ।

तृतीयः सर्गः । देवाहिवासमणिराश्यनलैः प्रतीत- देवोरगागमगुणोद्गमकर्मदाहः ॥ २९ ॥ एवंविधस्तव भविष्यति तीर्थकर्ता पुत्रो जगत्रयविनेयजनकमित्रम् । मामरोरगखगप्रमदातिशायि- पुण्यातिशायनधनायितचारुमूर्ते ! ॥ ३०॥ एतन्निशम्य वचनं रुचितस्य देवी रोमाञ्चकञ्चुकितचञ्चुरगात्रयष्टिः । आकर्णितान्यभृतमजुरवा वनान्ते माकन्दवल्लिरिव कोरकिता बभूव ॥ ३१ ॥ देवोऽथ पूर्वगदितस्त्रिदिवादुपतो देव्या वपुः करिवपुर्वदनादविक्षत् । पक्षेऽपरे नभसि मासि तिथौ द्वितीये योगे शिवे श्रवसि भे विरतौ रजन्याः॥ ३२॥ विज्ञायासनकम्पतः सुरपतिस्तस्यावतारं प्रभोः स्वर्गादेत्य चतुर्विधैः सह सुरैरस्याम्बिकां कल्पजैः । आकल्पाम्बरगन्धमाल्यनिवहैरभ्यर्च्य नामं स्तवं गानं नर्तनमारचय्य जनकं चादृत्य भूयो गतः॥३३॥ इत्यर्हद्दासकृतौ काव्यरत्ने भगवद्गर्भावतरणवर्णनो नाम तृतीयः सर्गः ॥ -- १. 'र' क. पाठः.

.. अथ चतुर्थः सर्गः। न्यग्रोधशाखेव राज सान्द्र- च्छायाँ दाना पुरुषोत्तमं तम् । पत्रोदरेऽथार्तवनुष्णशीत- मुच्चैःस्तनीयं नुइती प्रियस्थ ॥ १ ॥ सा गर्भिणी सिंहकिशोरगी गुहेव मेरोमुतांशुगर्वा । वेलेव सिन्धोः स्मृतिलगी रेजेतरां इनकाण्डिके ॥ २ ॥ चल्ली वसन्तान सरनी बनान्तात् सम्पन्नचान्द्रतोऽधिवेला । यथा तथाजायतलाशाली गर्भार्भकादुलरूपसम्पत् ।। ३ ॥ जिनस्य माहाल्ल्यपन हो सामीप्यालामेव कुचौ तदीयौ । न बभ्रतुः श्याललता खेल्पा- मप्येष लो हयतीह कांस्कान् ॥ ४ ॥ सुतस्य गम्भीरतरस्य सङ्गात् तस्योदरिण्या अपि राजपल्याः । नाभिर्न तत्याज अभीरमावं गुणं त्यजेत् को गुणिसङ्गोन ॥ ५ ॥ P- १. 'य', २. 'री' क. पाठः. ३. 'ण्ड' ख. पाठः.

२५ चतुर्थः सर्गः। गर्भेऽपि बोधत्रयनायकोऽय- मितीदमावेदयितुं किलास्याः । वलिप्रभावाद् वलयो न नष्टाः सनाभिनाशं भुवि के सहन्ते ॥ ६ ॥ तत्सङ्गमे सर्वसमृद्धिहेतौ निरन्तरं सत्यपि कुक्षिरस्याः । समृद्धिमल्पामपि न प्रपेदे भाग्यानुसारीणि फलानि कामम् ॥ ७ ॥ स्मरज्जनानामपि नाशयन्त- मन्तस्तमो नूतनरत्नदीपम् । साक्षाद् दधत्या जिनमन्तरस्याः स्प्रष्टुं तमो नैष्ट भियेव जातु ॥ ८ ॥ गर्भस्य लिङ्गं परमाणुकल्प- मप्येतदङ्गेष्वनवेक्ष्य रक्षी। जगत्रयोडारणदोहदेन परं नराणां बुबुधे ससत्त्वाम् ॥ ९ ॥ सम्बन्धदुःखाखिलजीवमुक्ते- हेतुं तमक्षार्थगतस्पृहं च । प्रसोष्यती तेन समाभवत् सा- प्युपाधिवत् स्वच्छतरं हि वस्तु ॥ १० ॥ गुणान्वितोऽपास्ततमःप्रपञ्चः प्रकाशितात्मेतरवस्तुरेषः 'म' क. पाठः. Panamav.

२६ काव्यरले बभौ जिनेन्द्रो जठरे जनन्या दीपो यथा स्फाटिकपात्रमध्ये ॥ ११ ॥ तद्गर्भवासे निवसन्नपीशः स भास्वराङ्गो निहतान्धकारः । तत्याज बोधत्रितयं न तेज- स्त्यजेत् करण्डेऽपि मणिमहार्घः ॥ १२ ॥ मासाने पुरे पञ्चदशानुसन्ध्यं बन्धुर्महेशस्य वसून्यवर्षत् । सौधा यदंशुच्छुरिता विरेजुः शैला यथा कर्बुरिताभ्रलिप्ताः ॥ १३ ॥ स्वनामसार्थीकरणाय भक्ति- च्छलेन गत्वातिबलेन राज्ञा । विधित्सितं पुंसवनादिकर्म पुरैव शक्रः स्वयमस्य चक्रे ॥ १४ ॥ मुग्धामरीगानसुधानिपान- मुदश्छलान्मीलितचक्षुरेषा । विचिन्वती क्षेमवतोऽपि सूनोः क्षेमित्वमायात् समयं प्रसूतेः॥ १५ ॥ अवाप्य चैत्रासितपक्षपूर्णा- मथो तिथिं सश्रवणामसूत । असावहम्पूर्विकयेव सूनुं भानुं यदेवेन्द्रदिशा तदैव ॥ १६ ॥ १. 'तू' ख. पाठः. २., ३. 'थै' क. पाठः, २७ चतुर्थः सर्गः। बभुः स्त्रियस्तं निहतान्धकारं नवोदितं विश्वजनैकमित्रम् । विलोकयन्त्यः सरसीव सौधे फुल्लाक्षिपद्मा इव पुष्करिण्यः ॥ १७ ॥ गृहान्तराले शशिकान्तभित्ति- विषैव निर्वान्ततमःप्रपञ्चे । सुराङ्गना कापि तदा प्रदीपा- नबोधयत् केवलमङ्गलार्थम् ॥ १८ ॥ हतान्धकारेऽपि शिशुप्रभावाद् गृहोदरे तद्दयुतिपूर्णमेतत् अजानती काचन रत्नदीपा- नतिष्ठिपद् भक्तिभरेण मुग्धा ॥ १९ ॥ अरिष्टहर्म्यस्य सवनवेदे- बलाङ्गनीलद्युतिपूरितस्य । मध्ये विरेजुर्नवदीपमाला माला मणीनामिव वारिराशेः ॥ २० ॥ कुमारजन्मादिमवातकर्ने कृताङ्गभूषो हृषितः क्षितीन्द्रः। विधूतपत्रोद्गतकोरकस्य विधामधानीपतरोर्मुहूर्तम् ॥ २१ ॥ गन्धाम्बुसिक्ता विरजाः पुरश्रीः श्रीखण्डपङ्केन विलिप्तदेहा । १. 'हि' क. पाठः, .२८ काव्यरत्ने दुकूलमुक्तावलिमाल्यरम्या भृशं बभूवात्मपतेः प्रियाय ॥ २२ ॥ प्रत्यङ्गणं कल्पितपञ्चरत्न- रङ्गालयश्चक्रुरनेकभङ्गाः। जिनेन्द्रजन्मावसरप्रणश्य- स्पयोधरसस्तधनुर्विशङ्काम् ॥ २३ ॥ उत्क्षिप्तचित्रध्वजपङ्कयोऽपि समीरमार्गे जिनजन्मदृष्टाः। चञ्चत्पताकाग्रमिवाभ्यनृत्यन् परस्परं गाढमिवालिलिङ्गुः ॥ २४ ॥ मृदङ्गमन्द्रध्वनिमांसलेन गीतेन नृत्यगणिकानिकायः । उद्वेलमुज्जृम्भितरागवाई- स्तरङ्गमालाकृतिमाललम्बे ॥ २५ ॥ भव्याश्चिरं दुस्सहगन्धबन्ध- मुक्त्यर्थिनोऽस्मिन्नुदिते विमुक्तिम् । यास्यन्ति यत्तेन्न ययुस्तदैव क्षितीन्द्रबन्यो यदिदं हि चित्रम् ॥ २६ ॥ श्रीखण्डषण्डेन जिनस्य गाने सौरभ्यमिभ्यं प्रहितोऽवगन्तुम् । प्रभूतभीतेरिव कम्पमान- श्व(का? चा)र चारुमलयाद्रिवातः॥ २७ ॥ १. 'मि', २. 'त्नं न य' ख. पाठः, c- २९ चतुर्थः सर्गः । प्रकाशते भानुसहस्रतुल्यं तथाप्यहो नेत्रसुखैकहेतुः । कुमारकोऽसाविति लजितः किं बभूव मन्दोष्णरुचिर्विवस्वान् ॥ २८ ॥ शुचित्ववृद्धेरसपत्नहेतो- र्जिनस्य भक्त्या शुचयः कुरुध्वम् । प्रदक्षिणं यूयमितीव वक्तुं प्रदक्षिणत्वेन शुचिर्दिदीपे ॥ २९ ॥ रजांसि धर्मामृतवर्षणेन जिनाम्बुवाहः शमयिष्यतीति । न्यवेदयन्नम्बुधरा नितान्तं रजोहरैर्गन्धजलाभिवषैः ॥ ३० ॥ जिनस्य कालारिरिति प्रसिद्धि विबुध्य भीता इव सेवनाय । वनाय सर्वे सहसावलेरु- र्वसन्तमुख्याः सममेव कालाः ॥ ३१ ॥ अहो विभुङ्क्ते सवितारमेषा तमीश्वरं दृष्टि च पश्यतेति । द्विरेफवृत्तिं जिनजन्मदम्भा- दम्भोजिनीमुत्पलिनी जहास ॥ ३२ ॥ अप्यद्ययावन्मधुपाननिष्ठाः सम्प्रत्यपाप' इति गानभङ्गया। १. 'श्य' ख. पाठः. २. 'तृप्तिं जि' क. पाठः.

काव्यरले भृङ्गा वदन्तो विविशुः प्रतीत्यै पद्माग्निकुण्डेषु परीत्य विद्मः ॥ ३३ ॥ मुक्ता रजोभिर्बहुकण्टकैश्च जिनप्रभावेन समुज्ज्वलात्मा । वसुन्धरापि प्रमदेन जाता सस्यच्छलाङ्कुरितरोमराजिः ॥ ३४ ॥ स्वभावशुद्धा अपि सर्वजीवा- चिरं रजोभिः परिभूयमानाः । न केवलं निर्गलितेषु तेषु दधुः प्रसादं ककुभोऽपि सद्यः ॥ ३५ ॥ गृहेषु शङ्खा भवनामराणां वनामराणां पटहाः पदेषु । ज्योतिस्सुराणां सदनेषु सिंहाः कल्पेषु घण्टाः स्वयमेव नेदुः॥ ३६ ।। पुष्पाः पतन्तो नभसः सुधांशो- रेणस्य सिंहध्वनिजातभीतेः । पदप्रहारैः पततामुडूनां शङ्कां तदा विद्रवतो वितेनुः।। ३ ।। अभ्रात् पतन्तो मणयस्तदानी- मुच्चण्डघण्टाध्वनिताडनेन । भिन्नेन्द्रकोशालयतो जनानां मतिं वितेनुर्गलतां मणीनाम् ॥ ३८ ॥ १. 'म्भे' क. पाठः.

चतुर्थः सर्गः । जाते जिने मा जनि भूजनानां विपत्कणोऽपीति विभुत्वशक्त्या । बन्दीकृतानीव भुवि ग्रहाणां बलानि रेजुर्मणयो विकीर्णाः ॥ ३९ ॥ देवोत्तमाङ्गान्यखिलोत्तमाना- मानभ्यपादस्य विभोः प्रणामैः। सार्थ स्वनामेव विधातुकामा- न्यानेमुरत्यद्भुतमात्मनैव ॥ ४० ॥ जिनामृतांशोरुदितात् त्रिलोक्या- मुत्कूलितस्य प्रमदाम्बुराशेः । प्रत्युञ्चलद्वीचिवशेन सत्यं भद्रासनानि धुसदां विचेलुः ॥ ४१ ॥ विज्ञाय तेनाधिपजन्म पीठा- दुत्थाय सप्तेय पदानि नत्वा । प्रादापयन्मेघहयोऽतिमेघां प्रस्थानभेरीमभिषेक्तुकामः ॥ ४२ ॥ शङ्खादयोऽर्हज्जननं प्रणादै- रेकैकलोकं स्वमबूबुधंस्ते । तत् सर्वलोकानभिषेकयात्रां सा बोधयामीति मदादिवाप ॥ ४३ ॥ ज्योतिष्कवन्योरगकल्पनाथा भेरीप्रणादादवगम्य यात्राम् । १. 'ज्ज्व' क. पाठः .

३२ काव्यरत्ने विभूषिताङ्गाः सपरिच्छदाः खे विलोकयन्तः शतमन्युमस्थुः ॥ ४४ ॥ सामानिर्दिकपतिभिः पदाति- गन्धर्वहस्त्यश्वरथाद्यनीकैः। शरीररक्षैश्च समन्वितोऽयं शच्या सहास्थाय गजं प्रतस्थे ॥ ४५ ॥ साथैः सुरेन्द्रैस्तरिभिर्विमानैः सांयात्रिकोऽयं जलधिं विहायः । सन्तीर्य चिन्तामणिमीशितारं सञ्चेतुमेयाय खनि कुशाग्रम् ॥ ४६ ॥ इन्द्रोऽथ रुद्रविभवं गणिकानिकाय- सङ्गीतकेलिरुचिरं रचिताष्टशोभम् । भक्त्या परीत्य पुरवन्नृपवासमीश- मानेतुमन्तरचिरेण ससर्ज कान्ताम् ॥ ४७ ॥ इत्यर्हद्दासकृतौ काव्यरत्ने भगवजन्मोत्सववर्णनो नाम चतुर्थः सर्गः ॥ .. अथ पञ्चमः सर्गः। अदृश्यरूपाथ गृहे प्रविश्य ददर्श बालामृतभानुमारात् । शची जनन्याः स्थितमम्बरान्ते सुधारसस्यन्दिनमीक्षणानाम् ॥ १॥ वहन्त्यसौ भक्तिरसप्रवाहे दिदृक्षमाणेव दृढावलम्बम् ।

पञ्चमः सर्गः। समर्प्य मायाशिशुमम्बिकायाः पुरो जहारोन्नतवंशमेनम् ॥२॥ पाण्योर्जिनं न्यस्य निरित्य हाद् वजन्त्यसौ वल्लभमाभिमुख्यात् । द्विरेफमध्याम्बुरुहेव रेजे सरोजिनी भानुमभिस्फुरन्ती ॥ ३ ॥ जिनास्यचन्द्रेक्षणमात्रतोऽभू- श्चतुर्निकायामररागसिन्धुः । विशृङ्खलो यत्र मुखस्मितानि वितेनिरे फेनविभङ्गलीलाम् ॥ ४ ॥ दिवौकसां बालसुधामरीचि- जयस्वनापूरितदिक्तटानाम् । हृदक्षिहस्तान् कुमुदेन्दुकान्त- कुशेशयार्थान् कुरुते स्म सद्यः ॥ ५ ॥ जिनाङ्गलावण्यरसप्रपूर्णे निश्शेषमस्मिञ् जगदन्तराले । विभासुरं तन्नगरं सुराणा- मजीजनत् पाशिपुराभिशङ्काम् ॥ ६ ॥ जिगाय शच्या शतमन्युहस्त- द्वये कृतस्तन्नयनाचिताङ्गः। जिनार्भको भृङ्गकुलाभिरामं दामोत्पलानां मणिभाजनस्थम् ॥ ७ ॥ १. 'धा' क. पाठः.

३२ काव्यरत्ने विभूषिताङ्गाः सपरिच्छदाः खे विलोकयन्तः शतमन्युमस्थुः ॥ ४४ ॥ सामानिकैर्दिकपतिभिः पदाति- गन्धर्वहस्त्यश्वरथाद्यनीकैः शरीररक्षैश्च समन्वितोऽयं शच्या सहास्थाय गजं प्रतस्थे ॥ ४५ ॥ साथैः सुरेन्द्रैस्तरिभिर्विमानैः सांयात्रिकोऽयं जलधिं विहायः । सन्तीर्य चिन्तामणिमीशितारं सञ्चेतुमेयाय खनि कुशाग्रम् ॥ ४६ ॥ इन्द्रोऽथ रुद्रविभवं गणिकानिकाय- सङ्गीतकेलिरुचिरं रचिताष्टशोभम् । भक्त्या परीत्य पुरवन्नृपवासमीश- मानेतुमन्तरचिरेण ससर्ज कान्ताम् ॥ ४७ ॥ इत्यर्हद्दासकृतौ काव्यरत्ने भगवजन्मोत्सववर्णनो नाम चतुर्थः सर्गः ॥ अथ पञ्चमः सर्गः। अदृश्यरूपाथ गृहे प्रविश्य ददर्श बालामृतभानुमारात् । शची जनन्याः स्थितमम्बरान्ते सुधारसस्यन्दिनमीक्षणानाम् ॥ १ ॥ वहन्त्यसौ भक्तिरसप्रवाहे दिदृक्षमाणेव दृढावलम्बम् ।

पञ्चमः संगः। समर्प्य मायाशिशुमम्बिकायाः पुरो जहारोन्नतवंशमेनम् ॥ २॥ पाण्योर्जिनं न्यस्य निरित्य हाद् व्रजन्त्यसौ बल्लभमाभिमुख्यात् । द्विरेफमध्याम्बुरुहेव रेजे सरोजिनी भानुमभिस्फुरन्ती ॥ ३ ॥ जिनास्यचन्द्रेक्षणमात्रतोऽभू - चतुर्निकायामररागसिन्धुः । विशृङ्गलो यत्र मुखस्मितानि वितेनिरे फेनविभङ्गलीलाम् ॥ ४ ॥ दिवौकसां बालसुधामरीचि- जयस्वनापूरितदिक्तटानाम् । हृदक्षिहस्तान् कुमुदेन्दुकान्त- कुशेशयार्थान् कुरुते स्म सद्यः ॥ ५ ॥ जिनाङ्गलावण्यरसप्रपूर्णे निश्शेषमस्मिञ् जगदन्तराले । विभासुरं तन्नगरं सुराणा- मजीजनत् पाशिपुराभिशङ्काम् ॥ ६ ॥ जिगाय शच्या शतमन्युहस्त- द्वये कृतस्तन्नयनाचिताङ्गः । जिनार्भको भृङ्गकुलाभिरामं. दामोत्पलानां मणिभाजनस्थम् ॥ ७ ॥ - १. 'धा' क. पाठः.

काव्यरत्ने जिनाङ्गदीप्त्या पिहितस्वकान्ति- विकस्वरस्फारसहस्रनेत्रः । सुराधिनाथः शुशुभेऽञ्जनाद्रि- यथैव फुल्लस्थलपुण्डरीकः ॥ ८ ॥ करारविन्दद्वयभृङ्गराशिं जिनं पदाब्जद्वितये प्रणम्य । चकार देवाधिपतिर्द्वितीय- मनर्थ्यचूडामणिमुत्तमाङ्गे ॥ ९ ॥ अथैष संसारमहाम्बुराशिं समुत्तितीर्घर्जिनपोतमेनम् । दधत् कराभ्यां दृढमुत्सवेन स्वसिन्धुरस्कन्धतटं निनाय ॥१०॥ द्वात्रिंशदास्यानि मुखेऽष्ट दन्ता दन्तेऽब्धिरब्धौ बिसिनी बिसिन्याम् । द्वात्रिंशदब्जानि दलानि चाब्जे द्वात्रिंशदिन्द्रद्विरदस्य रेजुः ॥ ११ ॥ अस्पृष्टनीरेजदलं नटन्त्यो नट्यः सुराणामभितो नृसिंहम् । रंहो वितेनुर्निजवल्लभाशा- प्रकाशमानाब्जनिवेशनानाम् ॥ १२ ॥ ईशाननाथः स्वयमातपत्रं दधौ तदूोभयकल्पनाथौ । प्रकीर्णके प्राक्षिपतां परेऽपि यथावमासन् करणीयभाजः ॥ १३ ॥ -

पञ्चमः सर्गः।
३५
संसारगर्तापतिताखिलैक-
हस्तावलम्बं जिनराजमिन्द्रः ।
हृदा च दोामवलम्बमानः
पथा सुराणामथ संप्रतस्थे ॥ १४ ॥
आकारमात्रेण तुषारशैल !
का कूटराशेस्तव तुल्यतेति ।
आकर्णयिष्यन्निव विप्रलापा-
नाकाशमार्गेऽक्रमताभ्रनागः॥ १५ ॥
आरुह्य नानाविधवाहनानि
जिनाग्रवामेतरपृष्ठदिक्षु ।
क्रमेण वन्योरगकल्पवासि-
ज्योतिष्कनाथा व्यचलन् ससैन्याः॥ १६ ॥
नभोन्तरे नाथतनुप्रभाभिः
प्रपूरिते प्रोज्ज्वलरत्नकूटाः ।
बभुर्विमानाः कुलिशास्त्रभीतेः
समुद्रममा इव सानुमन्तः ॥ १७ ॥
जिनाङ्गदीप्त्या दधुरभ्रवीथ्यां
तरङ्गितायां सितचामराणि ।
सुरावधूतानि कलिन्दकन्या-
तरङ्गदोलारतहंसलीलाम् ॥ १८ ॥
चला न्यलीयन्त जिनाङ्गरोचि-
वींचीप्रपञ्चे गरुधूमलेखाः ।
हरेविभीताः फणिराजपत्न्य-
स्तरङ्गकुञ्जेष्विव यामुनेषु ॥ १९ ॥

काव्यरत्ने
नभस्थलेनागरुधूमलेखाः
स्फुरत्स्फुलिङ्गाः शशिशङ्कयामी ।
सितातपत्रग्रसनाय धाव-
द्विधुन्तुदा वान्तविषस्फुलिङ्गाः ॥ २० ॥
अङ्गारविक्षिप्तदशाङ्गधूपः
सङ्क्रान्तसन्ताप इव क्षणेन ।
आलिष्यदुत्थाय पटीरहार-
कपूरकल्हारपयोरुहाणि ॥ २१ ॥
गद्येन पद्येन च दण्डकेन
शशंस गीतेन च गाथया च ।
मरुद्गणोऽयं न परं परोऽपि
गुहामुखोद्यत्प्रतिशब्ददम्भात् ।। २२ ॥
वियत्तलं वीतघनाघनौघ-
मपि प्रपूर्ण जिनदेहभासा ।
विभिन्ननीलाञ्जनसन्निभेन
पुनर्घनापूर्णमिवाबभासे ॥ २३ ॥
जिनाम्बुदोऽसाविभदानवृष्टि-
नेटीतटिद् वाद्यनिनादगर्जः ।
विमानमालारुचिकार्मुको दि-
व्याकालिकी प्रावृषमाततान ॥ २४ ॥
अभ्राण्यदभ्राणि सुरेभदन्त-
प्रोतानि रेजुः परितो जिनेन्द्रम् ।
उत्क्षिप्यमाणानि मुदामुनेव
चन्द्राश्मदण्डातपवारणानि ॥ २५ ॥

पञ्चमः सर्गः । ३७ सेनापदामर्दितपाण्डुमेघान् मुक्तागुरूनभ्रतले बिडालाः । हठेन दध्यन्नधिया व्रजन्तः स्कन्धाधिरूढाननयन्त मन्युम् ॥ २६ ॥ प्रयाणवेगानिलनीयमानाः पयोधराः श्यामतनूनिभेन्द्रान् । सगर्जितानूर्जितदानवर्षान् स्वबन्धुबुद्ध्या ध्रुवमन्वरुन्धन् ॥ २७ ॥ सदाभियुक्तापि तदामरौधैः सहोत्पला भानुसुता प्रतीये। जिनाङ्गरोचिर्निचयेन दिग्धा विबुद्धहेमाम्बुरुहा द्युसिन्धुः ॥ २८ ।। विशालमाकाशतलं चकाशे विभुप्रभाश्यामलतारकौघम् । विपाकनीलैर्विपुलैः फलौघै- विलम्बमानामभिभूय जम्बूम् ॥ २९ ॥ स्वशून्यवादे परमागमेन सद्यो निरस्ते विशदान्तरस्य । व्योम्नो विरेजुः पुलकोपमानि जिनप्रभाश्यामलतारकाणि ॥ ३० ॥ मुग्धाप्सरा कापि चकार सर्वा- नुत्फुल्लवक्रान् किल धूपचूर्णम् ।

काव्यरत्ने रथाग्रवासिन्य रुणे क्षिपन्ती हसन्तिकाङ्गारचयस्य बुद्धया ॥ ३१ ॥ मन्दाकिनीसालिसितारविन्द- धियान्यया मूर्ध्नि कृतो मृगाङ्कः । अमन्यतापूर्णसुधं तमन्या सनीलनीररुहदुग्धकुम्भम् ॥ ३२ ॥ अगच्छिदर्हद्युतिभानुजायाँ सुरहिपद्युत्सुरसिन्धुसख्याम् । मज्जत् प्रतीहारसुरासुराणा- मनीकमाद्रिं कथमप्यनैष्ट ।। ३३ ॥ गिरीशमुद्यद्विपदन्तवृत्ति रवीन्दुतारामरसेव्यपादम् । दिगम्बरैरातमेनमारा- दपश्यदग्रे प्रभुतुल्यमिन्द्रः ॥ ३४ ॥ सजातरूपोऽपि गिरिः प्रवृत्त- दिगम्बराकान्तिरूदग्रकूटः । अघान्तकं पापभियाभ्ययासीत् किमित्यमयैर्भणितः क्षणाप्तः ॥ ३५ ॥ द्युमण्डलं मध्यगतस्य मेरो- मणिप्रभापञ्जरभासमानम् । विभोरमुष्योपरि हेमदण्डा बभार नीलातपवारणाभाम् ॥ ३६॥ - १. धृ' क. पाठः.

पञ्चमः सर्गः । अगाह्यतः पाण्डुवनं समन्ता- दुपर्यटन्त्या सुरसेनयाद्रेः । सजीवचित्राङ्कितमन्दवायु- चलोत्तरीयश्रियमावहन्त्या ॥ ३७ ॥ अनीकिनीमत्र वने समस्तां सुरद्रुमच्छायसुखे यथार्हम् । निवेशयन् पाण्डुशिलामवाप पूर्वोत्तरस्यां दिशि तस्य जिष्णुः ॥ ३८ ॥ शतार्धमष्टौ शतमुज्ज्वलाया विशालतामुन्नतिमायतिं च । क्रमेण यस्याः खलु योजनानि वदन्ति सर्वज्ञजिनेन्द्रपादाः॥ ३९ ॥ आद्यहिकल्पेशपरार्थ्यपीठ- मध्यस्थजैनासनरम्यमध्या । सतोरणा रत्नमयाञ्चला या समङ्गला शुक्तिसमाकृतिश्च ॥ ४० ॥ या चाबभासेऽमरकल्पितेन महाभिषेकोत्सवमण्डपेन । ज्वलन्मणिस्तम्भसहस्रमुक्ता- वितानचित्रध्वजभूषितेन ॥ ४१ ।। अभ्रेऽवलम्बरहिते सुचिरं सुमेरु- क्ष्माभृतप्रदक्षिणकृतिश्रमभारशान्त्यै ।

काव्यरत्ने प्राप्तोऽष्टमीन्दुरिव पाण्डुवनं शिलैषा प्रादात् सुरेन्द्रनयनोत्पलषण्डहर्षम् ॥ ४२ ॥ इत्यर्हदासकृतौ काव्यरत्ने भगवन्मन्दरानयनवर्णनो नाम पञ्चमः सर्गः ॥ अथ षष्टः सर्गः। अथामरेन्द्रेण गजेन्द्रतो जिनः संनीयमानः प्रति पाण्डुकं महत् । निराकृतोग्रो मधुनेव मन्मथो नितम्बमुच्चैः शुशुभे हराचलात् ॥ १ ॥ नगेन्द्रफालस्थलबद्धपट्टिका- शिलोपरि स्थापित एष जिष्णुना । जिनार्भकः प्रोतपुरन्दरोपल- स्फुरन्मनीषामपुषद् दिवौकसाम् ॥ २ ॥ तरङ्गितज्योतिषि तच्छिलातले सरोजरागद्विपवैरिविष्टरे । तरङ्गिताम्बौ त्रिदिवौकसां सर- स्यलिय॑था कोकनदेऽशुभद् विभुः ॥ ३ ॥ जिनेश्वरः पाण्डुशिलाप्रभान्तरे रराज माणिक्यमयासने स्थितः । हरिर्यथा विद्रुमरागरञ्जिते फणीन्द्रभोगे कलशार्णवान्तरे ॥ ४॥ जिनेन्द्र पाण्ड्वोमणिपीठरश्मिभिः प्रवेणितः कान्तिरयो व्यराजत ।

षष्ठः सर्गः । यथा निमज्जद्वनिताङ्गकुङ्कुम- द्रवैर्जलौघो यमुनात्रिमार्गयोः ॥ ५ ॥ बभौ नगेन्द्रः प्रभुपीठपाण्डुक- प्रभावितानैः परितस्तिरोहितः । यथैव तापात्ययसान्ध्यशारदै- धनाधनौधैर्युगपत् समावृतः ॥ ६ ॥ अथेन्द्रवाचा मणिदण्डभृद् विभुं दिदृक्षयोपव्रजतो मुहुर्मुहुः । धनी दिगीशान् सपरिच्छदान् हठा- निजे निजेऽस्थापयदाशु धामनि ॥ ७ ॥ जिनाभिषेकाय सुराङ्गनाजनं सुरप्रतानं सुरनायकानपि । अशेषकृत्यं जिनभक्तिभावितान् यथार्हमग्राहयदेष कृत्यवित् ॥ ८ ॥ अनन्तरं दक्षिणवामभागयो- र्जिनस्य पूर्वाभिमुखस्य सुस्थिते । शचीपतीशानपती ससम्भ्रमौ निजासने सम्मुखमध्यरोहताम् ॥ ९ ॥ अनेकतीर्थोपहतैरथाम्बुभि- घंटोद्धृतैः स्नापयितुं जिनार्भकम् । यदारभेते स्म मुदा सुरानक- स्तदाप्सरोगीतरवाप्तदिक्तटम्॥१०॥ :

४२ काव्यरत्ने तदा ऋभूणामुभयी घटा घटैः पयांसि नेतुं घटिता प्रयत्नतः । सुमेरुचूलादि सुधार्णवावधि प्रबद्धनीलो(त्प ? पलतीर्थपइतिः ॥ ११ ॥ बभुर्ब्रजन्तो मणिकुम्भधारिणः सुधाशिनः पाण्डुवनात् पयोवनम् । जिनेन्द्रभक्त्या जलनीतये स्वयं प्रवृत्तपत्राङ्गसुरद्रुमा इव ॥ १२ ॥ भुवा च भीत्या भिदुरात्मकं सुराः स्वभावतो द्यक्षमुखैर्विवर्जितम् । विशालमाद्यन्तविदूरमहतं गभीरमापुस्त्वरया पयोनिधिम् ।। १३ ॥ निपीड्य लक्ष्मीमपहृत्य चक्रिरे ठकाः स्वकं जीवनमात्रशेषकम् । अपीदमायान्त्यपहर्तुमित्यगा- दपांनिधिर्वेपथुमूर्मिभिर्न तु ॥ १४ ॥ मरुत्सु कुम्भान् युगपत् क्षिपत्स्वलं जलाय संक्षोभमिषेण सागरः । जिनोत्सवाझेऽहमभूवमित्यभू- न्मुदा समुन्मेषित एष केवलम् ॥ १५ ॥ विनिन्युरेकं मुखयोजनं घटै- दधद्भिरष्टादश योजनानि च । १. 'इतीद', २. 'डोदरयो' ख. पाठः, षष्ठः सर्गः। जलानि सर्वाण्यपि दुग्धवारिधेः स्वकेन मार्गेण धराधरं सुराः॥ १६॥ जिनोऽयमक्षीणमहानसहिभाग् भविष्यतीत्यस्य विवक्षया स्फुटम् । वितीर्णमप्यम्बुधिना पयोऽखिलं जिनाधिपायाक्षयतामयात् पुनः ॥ १७ ॥ अथामरेन्द्रौ सुरवृन्दढौकितान् भुजैरनेकैविकृतैः पयोघटान् । विधृत्य जन्माभिषवं विधीच्छया सुनिर्मलस्यापि जिनस्य चक्रतुः ॥ १८ ॥ सुवर्णगारुत्मतरूप्यकुम्भिभि- (जासहस्रैरमराधिपावुभौ । व्यराजतां पाकशलाटुपुष्पिभि- लतासहस्ररिव कल्पशाखिनौ ॥ १९॥ शिशुश्च शैलश्च धृति परीक्षितुं ध्रुवं सुरेन्द्रद्वितयेन वारिधेः । निपीड्यमानौ युगपत् सुधाजलै- रुभावभूतां समधैर्यसम्पदौ ॥ २० ॥ वहत्पयःपूरशतानि पाण्डुकाद् बभुस्त्रिलोकैकगुरोर्जिनेशिनः । भरेण भिन्नादभितो विनिस्सरत्- प्रभूतनिर्यासरसप्रवाहवत् ॥ २१ ॥ १. 'वपिष्य' ख. पाठः. -- १ काव्यरत्ने नगेन्द्रसम्पत्तिदिदृक्षया ध्रुवं पयःप्रवाहाः परितोऽपि सम्भ्रमात् । हटत्तटीशृङ्गशिलागुहासरो- वनेषु पर्याटुरनेकधा चिरम् ॥ २२ ॥ वहत्पयःपूरशतोऽभितो बभौ सुमेरुराच्छिद्य पतत्रयोर्द्वयम् । पुनश्च केनापि चलिष्यतीत्ययं गिरिद्विषा राजतरज्जुबद्धवत् ॥ २३ ॥ विरेजुरुन्मग्ननिमग्नमूर्तयो मुहुर्मुहुज्योतिषलोकसंश्रिते । पयःप्रवाहे परितोऽपि तारका येथैव विस्पष्टविनष्टबुबुदाः ॥ २४ ॥ निशाकराहस्करभार्गवासितै- रलक्ष्यत क्षीरतरङ्गिणी क्षणम् । सिताब्जरक्ताम्बुजकैरवोत्पलै- विराजमानेव वियत्तरङ्गिणी ॥ २५ ॥ वहन्ति नानामणिमेदिनीप्रभा- प्रबहदुग्धाम्बुधुनीशतान्यभुः । सुरेन्द्रभीताचलपालिनेऽब्धये नगाधिपक्षिप्तविचित्रवस्त्रवत् ॥ २६ ॥ महीभृता तेन तदोपदीकृताः पयस्तटिन्यो भुवनैकपालकम् । १. 'रि' ख. पाठः. २. 'स्त', ३. 'धी' क. पाठ:. ३ mohana-- - - षष्ठः सर्गः। ४५ सुगोत्रलावण्यनिवासमर्णवं समेत्य वर्याः स्वमयं व्यधुः क्षणात् ॥ २७ ॥ अथामरास्तीर्थजलैः सुरेश्वर- द्वयेन सृष्टे जिनगन्धवारिणि । पटीरकर्पूरनिषहराविले- ऽप्यहो ममज्जुर्हतपापकर्दमे ॥ २८ ॥ बभौतरां पाण्डुकसंज्ञिता शिला समीपकीर्णैः स्नपनोदबिन्दुभिः । यथा शरच्चन्द्रकलोडुभिः श्रितै- यथाच शुक्तिनवमौक्तिकैश्च्युतैः ॥ २९ ॥ प्रमार्य निर्मज्जनशीकरांस्तनौ दुकूलचेलाञ्चलपल्लवेन तम् । शची विमुग्धा जगदेकवृद्धम- प्यलंचकाराखिलबालभूषणैः ॥ ३० ॥ निसर्गरन्ध्रश्रुतिसंश्रयाभ्यां रराज रक्तोत्पलकुण्डलाभ्याम् । जिनाधिपः पल्लवितद्विपा? यथा रसाल: शिशिरात्ययस्य ॥ ३१ ॥ हारस्य मुक्ता गलशङ्खमुक्ता इव प्रभोरङ्गमरीचिवश्याः । उरःकपाटीयमुनाहदान्त- वितेनिरे बुबुदपतिलीलाम् ॥ ३२ ॥ १. 'माणुहृत', २. 'द्वयसं' ख. पाठः.

काव्यरत्ने महीधरे तत्र निषेदिवांसं तमालनीलाकृतिमुद्वहन्तम् । पयोदबुद्धया श्रितमिन्द्रचाप- म(सि ?स)स्मरद् रत्नमयः कलापः ॥ ३३ ॥ बालामृतांशोधूवमस्य पाद- मेकान्ततः पङ्कजरुक्प्रशान्तेः । निबन्धनं बन्धुहिताय भानु- भैजे ज्वलन्नूपुरवेषधारी ॥ ३४ ॥ कलङ्कमुक्त्यै सकुटुम्बमिन्दु- नखच्छलेनाभजदस्य पादौ । सदाश्रयं सोऽपि न मोचयेति- च्छलेन नीलोपलकिङ्किणीनाम् ॥ ३५ ॥ मुहुर्विलिप्तोऽपि जिनेन्द्रगाने शचीशरत्नोज्ज्वलभासि शच्या । सिताभ्रविभ्राजिपटीरपङ्कः स्फुटोऽभवत् केवलसौरभेण ॥ ३६ ॥ अथाखिलेन्द्रैः सहितोऽमरेन्द्रः समर्चनाभिः स्तवनैश्च नाट्यैः । समाप्य जन्माभिषवं समग्रं कुशाग्रमेनं पुनरानिनाय ॥ ३७ ॥ ऋभुक्षिचक्षुर्युतिसिच्यमानो जिनो बभौ देवगजे निषण्णः । १. 'मुनीन्द्र' क. पाठः, ४७ षष्ठः सर्गः । तदापि पाण्डूपरि रत्नकुम्भ- शतक्षरत्क्षीरनिषिच्यमानः ॥ ३८ ॥ पुरं नृपागारमपि प्रवेश्य पुरैव यक्षेन्द्रकृते सुरेन्द्रः। निवेशयामास स हेमपीठे सभागृहे रत्नमये जिनेन्द्रम् ॥ ३९ ॥ ततः सुतास्येन्दुविलोकमात्र- प्रवृद्धहर्षामृतसिन्धुमग्नौ । विलोक्य मातापितरौ स्मितास्यो निवेदयामास समस्तमिन्द्रः॥ ४०॥ माता स्वयं च परिरम्भमिषेण देव रोमाञ्चनीपकलिकानिकरैः कृतार्ध्या । प्रीत्याभ्यषिञ्चदमितप्रमदाश्रुनीरैः स्वच्छैरतुच्छकुचकुम्भपयोद्वितीयः ॥ ४१ ॥ मणिकाचनदिव्यवस्त्रदानैः पटुभेरीपटहोत्थितारवैश्च । युगपत् परिपूरिताखिलाशं विदधे स्वःपतिरस्य जातकर्म ॥ ४२ ॥ करिष्यते मुनिमखिलं च सुव्रतं भविष्यति स्वयमपि सुव्रतो मुनिः । विवेचनादिति विभुरभ्यधाय्यसौ बिडौजसा किल मुनिसुव्रताक्षरैः ॥ ४३ ॥ १. 'वि' ख. पाठः.

४८ काव्यरत्ने देवर्मिजनमण्डनादिकरणे प्रौढाः प्रहृष्टाशया देवांश्चापि विनोदकर्मणि समानाकृत्यवस्थां गतान् । देवस्यास्य नियुज्य निर्जरपतिः प्रत्युद्ययौ स्वं जगत् प्रीत्यानुव्रजतो विसृज्य विबुधान् फालाग्रबद्धाञ्जलीन् ॥ इत्यहदासकृतौ काव्यरले भगवज्जन्माभिषेकवर्णनो नाम षष्ठः सर्गः ॥ अथ सप्तमः सर्गः। न निर्जरैर्वर्जितसेवनोऽयं न कान्तिसम्भावितशुक्लपक्षः। नच प्रदोषावसरं प्रपन्नः क विद्म बालेन्दुरियाय वृद्धिम् ॥ १ ॥ कराङ्गुलिं लिप्तसुधां स लीढ्वा बबन्ध मातुः स्तनयोन बुद्धिम्। सुरेन्द्रवन्धः सुरदेहतायां चिरानुभूतामृततृष्णयेव ॥ २ ॥ जिनार्भकस्येन्द्रियतृप्तिहेतुः करे बभूवामृतमित्यचित्रम् । चित्रं पुनः स्वार्थसुखैकहेतु- स्तच्चामृतं तस्य करे यदासीत् ॥ ३ ॥ उल्लोकितैरुत्पललोचनायाः ससम्भ्रमोत्क्षेपणकौतुकेषु । १. 'था' क. पाठः, revman-armerasnian----- an २ सप्तमः सर्गः। रराज राजाङ्गभवोऽन्तरिक्ष तटिल्लताश्लिष्ट इवाम्बुवाहः ॥ ४ ॥ नराधिपेनोरसि नीयमानो बभार हारान्तरनायकत्वम् । भेजे चलत्कुण्डलतां भुजाग्रे चूडामणित्वं शिरसि प्रपन्नः ॥ ५ ॥ करात करं बन्धुजनस्य गच्छन् रराज विभ्राजितहेमसूत्रः । स लेखवन्द्यः कृतहेमलेखो वणिग्जनस्येव निकाषपट्टः ॥ ६ ॥ स जानुचारी मणिमेदिनीषु स्वपाणिभिः स्वप्रतिबिम्बितानि । पुरः प्रधावत्सुरसूनुबुद्धया प्रताडयन् नाटयति स्म बाल्यम् ॥ ७ ॥ शनैः समुत्थाय गृहाङ्कणेषु सुराङ्गनादत्तकरः कुमारः । पदानि कुर्वन् किल पञ्चषाणि पपात तबीक्षणदीनचक्षुः ॥ ८ ॥ स पांसुकेलौ सुरतर्णकानां करावकीर्णैनवरत्नचूर्णैः । कृतोपवीतो व्यरुचत् कुमारः सदिव्यधन्वेव नवाम्बुवाहः ॥ ९ ॥ H ५० काव्यरत्ने अशेषविज्ञोऽनिमिषैः परीक्षा- प्रदित्सयवैष विधीयमानान् । नियुडमुख्याखिलबालकेलीन् निरूपयामास नरेन्द्रसूनुः ॥१०॥ गतोनपादायुतवत्सरस्य श्रितं ततो यौवनमस्य गात्रम् । मधुर्यथा नन्दनपारिजातं शरद् यथां सान्ध्यसुधामयूखम् ॥ ११ ॥ अधर्मता निर्मलता च नित्यं पयः सुधा वाङ्निकरो हितत्वम् । समाकृतिः संहननं च पूर्व सुगन्धिता निन्दितकैणनाभिः ॥१२॥ परश्शतैरम्बुजकम्बुमत्स्य- श्रीवत्समुख्यैर्वरलक्षणैश्च । सयञ्जनैश्चोनसहस्रकोण- मसूरिकायैरुपलक्षितत्वम् ॥ १३ ॥ विलोचनासचनकं स्वरूपं वचांसि पीयूषरसालघट्टाः। जगत्त्रयीमप्यतथाविधातुं पटीयसी काचन दिव्यशक्तिः ॥ १४ ॥ युतः स्वभावातिशयैरमीभिः कृतोन्नतिर्विंशतिचापदण्डैः। १. 'के' क. पाठः.

५१ सप्तमः सर्गः। विषानिशस्त्रादिविघातदूर- स्त्रिदोषवैषम्यभवामयारिः ॥ १५ ॥ त्रिंशत्सहस्रीमितवत्सरायुः स्फुटातसीसूनसमानवर्णः तदायमुत्सृष्टधनुःशरस्य स्मरस्य शङ्कां जनयाम्बभूव ॥ १६ ॥ पित्रापि निर्वर्तितदारकर्मा ततः स यूनामधिपोऽपि वृद्धाम् । अग्राह्यत स्वामधिराजलक्ष्मी पुरैव राजा जगतां त्रयाणाम् ॥ १७ ॥ पुण्यैकलभ्योऽधिकसौख्यहेतु- विचित्रवर्णो विशदान्तरङ्गः । 'नृपासनस्थोऽनमयत् त्रिलोकी सदीपवर्तीन् निधिवत् पदाग्रे ॥ १८ ॥ भास्थानलक्ष्म्याः सगुणोरुकान्ति- नृपावलीमौक्तिकहारमध्ये । स्थितो दधौ नायकरत्नशोभा- मसौ महानीलरुचिर्नृपेन्द्रः ॥ १९ ।। स चन्द्रपाषाणसभापयोधौ सचामरोल्लोलतरङ्गमाले । शेषोपमस्फाटिकविष्टरस्थः श्रिया सनाथो हरिवञ्चकाशे ॥ २० ॥ १. 'न्ति:' क. पाठः

५२
काव्यरले
चकम्पिरे हेममयाः किरीटा
मुहुः सभासौधसदां नृपाणाम् ।
जिनोक्तिपीयूषजुषां यथामी
मरुद्वशाज्जाह्नवपद्मकोशाः॥ २१ ॥
जिनाम्बुदः पीठनगाधिरूढो
दिवौकसामेष धिनोतु वृन्दम् ।
प्रवर्षणैर्वागमृतस्य चित्रं
प्रमोदयामास च राजहंसान् ॥ २२ ।।
स्वस्थैरदुस्थोऽतनुसौख्यकृष्टै-
र्जुष्टामृतैरष्टगुणाभिरामैः ।
वृतोऽजरैः सिद्ध इवैष रेजे
विलोकयल्लोकगतिं समस्ताम् ॥ २३ ॥
नरोरगस्वर्गिमनोरमाभि-
रुपास्यमानः स बभौ सभायाम् ।
जयार्थमुन्मुद्रितशस्त्रकोशो
जगत्रयाणामिव पुष्पकेतुः ॥ २४ ॥
उपायनीकृत्य गजाश्वरत्ना-
न्युपागतानामधिपं नृपाणाम् ।
न केवलं मार्गरुधो नगेन्द्रा
निपेतुरेषां दुरिताद्रयश्च ॥ २५ ॥
भक्तुं जिनेन्द्रं व्रजतां नृपाणां
चमूपदोघृतपरागपाल्या ।
विहाय चेतांसि पलायमान-
कपोतलेश्याकृतिरन्वकारि ॥ २६ ॥

५३ सप्तमः सर्गः । चित्रं कृपालोर्जिनपस्य राज्य यत् प्राप्तबन्धानपि पापदस्यून् । बाधां दुरन्तां ददतो नितान्तं विमोचयामास जगज्जनानाम् ॥ २७ ॥ जिनेऽवनिं रक्षति सागरान्तां नयप्रतापद्वयदीर्घनेत्रे । कस्यापि नासीदपमृत्युरीति- पीडा च नाल्पापि बभूव लोके ॥ २८ ॥ अधर्मता खड्गिनि तस्य राज्ये पयोधरे सत्पथरोध आसीत् । वधूकटाक्षे श्रवणातिपातो गजे कदाचिद् यदि दानलोपः ॥ २९ ॥ रतिक्रियायां विपरीतवृत्ती रतावसाने किल पारवश्यम् । बभूव मल्लेषु गदाभिघातो भयाकुलत्वं रविचन्द्रयोश्च ॥ ३० ॥ इति निरुपमभक्त्या सानुरक्तयावनम्र- त्रिभुवनपरिचूडाचित्ररत्नांशुवा । विलिखितपदपीठे राजपीठे स तस्थौ दश दश शतसङ्ख्यान् वत्सरान् पञ्च चैव ।। ३१ । इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्कौमारयौवनदारकर्मसाम्राज्यवर्णनो नाम सप्तमः सर्गः ॥

५४ अथाष्टमः सर्गः। अत्रान्तरे श्रुतधरः श्रुतधर्मतत्त्वै- भव्योत्तमैदमवराख्यमुमुक्षुमुख्यः । आलोक्य यागकैरिपुङ्गवहेस्तहर्ष- मापृष्ट इत्यचकथद् गजराजवृत्तम् ॥ १ ॥ राजाभवन्नरपतिः पुरि पूर्वताले दानं ददौ निकृतनिर्मलजैनधर्मः । स्वैरं कुपात्रनिवहाय ततोऽजनिष्ट सोऽयं गजः स्मृतवतैः कबलं निरुन्धे ॥ २ ॥ आकर्ण्य तद्वचनमाप्तभवस्मृतिः सन् सद्यः सदृग्विकलसंयममग्रहीत् सः । श्रुत्वा जगत्त्रयगुरुस्तदिदं सभास्थो निर्वेदमात्महृदये बिभराम्बभूव ॥ ३ ॥ हन्ताशुभाशरणदुःखचले भवेऽस्मिन् बीभत्सके वपुषि चेतननेययन्त्रे । प्रारम्भमृष्टपरिणामकटौ च भोगे लोलो वसाम्यलमलं स्वहिते यतिष्ये ॥ ४ ॥ तं निश्चितात्मकरणीयतया वसन्तं स्वान्तनितान्तमवधार्य विमुक्तिनार्या । सम्पर्कलालसधियेव चरा विसृष्टाः सम्प्राप्य साधु जगदुर्जगदन्तदेवाः ॥ ५॥ १. 'गजपु', २. 'मस्तिह' ख. पाठः. ३. 'न:', १. 'वि', ५. "श्रि' क. पाठः. ६. 'न्तं निता' ख. पाठः.

भष्टमः सर्गः । अस्मात् तृतीयजनने जननान्धकूपा- दभ्युद्धरेयमखिलं जगदित्युदीर्णा । चित्तस्थले तव कृपाच्छलकल्पवल्ली या साद्य देव ! फलिता जगदेकबन्धोः ॥६॥ सांयात्रिकस्त्वमसि बोधनकर्णधारो यस्मात् तपःप्रवहणो गुणरत्नवाही । तस्माद् विनेयवरसार्थयुतो विमुक्ति- हीपं गमिष्यसि भवाम्बुनिधेरवश्यम् ॥ ७ ॥ स्वं लोकमित्थमभिवन्द्य गतेषु तेषु देवोऽपवर्गपुरसाधननिर्गमं तम् । बन्धून् निवेद्य जननीजनकौ परांश्च प्राज्यं नियोज्य तनये विजये स्वराज्यम् ॥ ८ ॥ तीर्थाम्बुनाथदिविजप्रभुणाभिषिक्तो दिव्याङ्गरागवसनाभरणैः प्रसिद्धः । अग्रेभवां ग्रहविवर्तमिव स्फुरन्ती- मध्यारुरोह शिबिकामपराजिताख्याम् ।। ९ ॥ भूमीभृतामभृत सप्त पदानि भूमौ विद्याधृतां वियति सप्त पदानि वृन्दम् । आरभ्य पाण्डुवनमप्यतुभिः प्रपन्नै- रानिन्यिरे तदनु नीलवनं निलिम्पाः ॥ १० ॥ रेजे नभःस्थलविराजिविमानराजि- रश्मिप्रतानवितताग्रविभागमेतत् ।

५६ काव्यरत्ने अत्तुं फलप्रकरमापततो विहङ्गा- नानायविस्तृतमिवोपरि निग्रहीतुम् ॥ ११ ॥ रेजे बहिर्घटितरत्नविमानमेत- दन्तश्चरामरगलन्मकरन्दधारम् । सेन्द्रायुधं सचपलं च सवारिधार- मभ्रच्युतं मिथ इवाहतमभ्रजालम् ॥ १२ ॥ यानादथायमवतीर्य वनस्य मध्ये श्रीदेन दिव्यपदमण्डपिकां प्रक्लप्ताम् । आविश्य देवपतिदत्तकरावलम्बः श्रीब्धमौक्तिकचतुष्कमलञ्चकार ॥ १३ ॥ षष्ठोपवासनियमी सुरदिङ्मुखस्थः पल्यवान् परिहृताम्बरमाल्यवेषः । त्यक्ताखिलोपधिरुपेतसहस्रभूभृ- दुच्चार्यमाणवरसिद्धनमस्कृतिश्च ॥ १४ ॥ उत्खाय पञ्चभिरुदञ्चितमुष्टिबन्धैः कैश्यं स पञ्चभवमूलचयं यथैव । वैशाखकृष्णदशमीदिवसेऽपराह्ने दीक्षामुपादित युतश्रवणे सिताशौ ॥ १५ ॥ लोकत्रयैकगुरुरेष पुरैव पूर्ण- चारित्रशीलगुणसंयमभारवाही । प्राप्ताखिलदिरुपजातचतुर्थबोधि- रत्यन्तगौरवपदं पुनरास देवः ॥ १६ ॥ १. 'तः पतङ्गा' क. पाठः. २. 'नीरधा' ख. पाठः.

अष्टमः सर्गः । रेजेतरां दशशतैः श्रमणैरुपेतो मैत्रैरिवामरपतिः किरणैरिवार्कः । पत्रैरिवाम्बुलमरैरिव चक्ररत्नं शेषः फणैरिव निधानमिवैष यक्षैः ॥ १७ ॥ यस्माद् बभूव लवनं नियमेन तस्मि- नेः : पुष्पधन्व धुनतः पुरतो जिनेन । तस्मात् तदादि किल नीलवनाभिधानं तस्याभवत् त्रिभुवनप्रथितं यमस्य ॥ १८ ॥ पश्चाज्जिनालकभरं मणिभाजनस्थं रक्तोत्पलस्थमिव भृङ्गकदम्बमिन्द्रः । चिक्षेप दुग्धजलधौ जयघोषघूर्णद्- बम्भाप्रणादबधिरीकृप्तसर्वलोकम् ॥ १९ ॥ यो यत्र यत्र जिनकुन्तलकर्बुरोऽभू- छैवालमञ्जरितवत् स हि तत्र तत्र । क्षीराम्बुधिस्त्रिदशलोकमनांसि कर्षन् वातावधूर्णितधनावृतवद् बभासे ॥२०॥ तं पारणां वृषभसेन इति प्रतीतो राजाथ राजगृहनामनि राजधान्याम् श्रादिसप्तगुणवान् नवभेदभिन्नैः पुण्यैरकारयदुपस्थितपूर्वपुण्यः ॥ २१ ॥ आश्चर्यपञ्चकमभूदथ रनवृष्टि- राच्छादिताम्बरतला च लतान्तवृष्टिः ।

५८ काव्यरत्ने व्याप्तश्रुती विबुधदुन्दुभिनिस्वनाहो- दानस्वनौ सुरभिशीतलमन्दवायुः ॥ २२ ॥ मुनिपरिवृढो निर्वत्यैवं तनुस्थितिमुत्तमां मृदुमधुरया वाचाशास्यं विधाय यथोचितम् । मुनिसमुदयै रक्षिवातैश्च पौरनृणामनु- ब्रजितचरमः पुण्यारण्यं गजेन्द्रगतिययौ ॥ २३॥ इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्परिनिष्क्रमणवर्णनो नामाष्टमः सर्गः ॥ अथ नवमः सर्गः। आलोक्य देवमथ पाटितपञ्चबाणं प्रायेण नश्यति मधौ मधुरा(स्रं ? स्त्र)बन्धौ । वेलामुपेत्य किल विस्फुरितप्रतापः सद्योऽग्रहीदरिपदं विपिनं निदाघः ॥ १॥ वाताश्ववेगजरजःपिहितानभाग- मागत्य सर्वमपहाय मैधोर्दुतस्य । ग्रीष्मस्तुतोद पिकभृङ्गबलान्यधाक्षीत् केलीवनानि रुजति स्म च पुण्डरीकम् ॥२॥ तहावि दुःखमिव वीक्षितुमक्षमत्वात् क्षिप्रं मधौ व्रजति तीव्रनिदाघयोगात् । संतप्यमानमखिलं तरुवल्लिजातं तापज्वरीव ददृशे मधुविप्रयोगात् ॥ ३ ॥ १. 'स्त', २. 'पथो द्रुत' ख. पाठः, . नवमः सर्गः । ५९ ग्रीष्मे विदीर्णवनभूमिविशालदर्यो रेजुः कनकनकशेवधिदीप्रगर्भाः। मान्याभिरुग्रकरपादहतेः प्रवेष्टुं क्लप्ताग्निकुण्डशतवद् वनदेवताभिः ॥ ४ ॥ मिथ्यात्वकर्मकृतयाशुभयेव दृष्टया जन्तुप्रजापरमतत्त्वधियाप्यतत्त्वम् । ग्रैष्म्या तृषा मृगगणा मृगतृष्णकाम्भः सेदुनंदीरयधिया बत धावमानाः ।। ५ ॥ तृष्णातुरः स्वयमपि धुमणिर्बभूव सन्तापवांश्च समयेऽत्र न चेत् करात्रैः । पङ्काविलान्यपि जलान्यपिबत् किमर्थ प्रालेयशैलतटमध्युषितश्च कस्मात् ॥ ६॥ शङ्कामयं जनितवान् जगतो वनान्तः किं पाटलाः कुसुमिता दवपावकाः किम् । किं वल्लिकाः स्तिमितभृङ्गगणाः किमेते शान्तोल्मका विशदभस्मचया इतीत्थम् ॥७॥ सन्तप्तरेणुनिकरं कृपयेव वाता निन्युः सुशीतलजलां धुनदी निदाघे । एकान्ततप्तवसुधास्थितिभीतभीता द्रागद्रवन्निव तदा मृगतृष्णकौघाः॥ ८॥ हा हन्त तृड्भरविदीर्णगला मृगाली पङ्काविलोष्णसलिलं वनपल्बलानाम् । १. 'म', २. 'र', ३. 'ततीभिद्री' ख. पाठं.

६०
काव्यरले
०
अल्पं कथञ्चिदपिबत् कृपयावगम्य
केनाप्युपाहतमिवोढकषायतोयम् ॥ ९ ॥
धात्री दरीमुखगतैर्विपिनस्थलीनां
व्यादीर्णवेणुगलितैर्मणिभिर्विरेजे ।
मा लोकमित्र! शिखिनो मम पीडयति
दीनं प्रकाशितरदेव दिनाधिपाय ।। १० ॥
सन्तापिताः स्वरिपुराहुमहारुषेव
चण्डांशुना सदृशराहुकुलाः फणीन्द्राः।
शङ्केऽगतान्यशरणा व्यलुठस्तदीये
पादान एव कृतवक्रपुटप्रमोकाः॥११॥
इत्येष तीव्रतरभावमिपीड्यमान-
निश्शेषजीवनिवहोऽपि निदाघकालः।
निन्थेऽत्र जीवनिवहै। सुखमात्तयोगः
पुण्ये जगद्गुरुरवास्थित यत्र शैले ॥ १२ ॥
गम्भीरगर्जितभरादथ कम्पमान-
चक्राङ्गबालविरहिव्रजमब्दकालः ।
छिद्राविशत्रूणि समृत्यमयूरयूथ-
मुन्मीलदोष्ठपुटचातकमबभूव ॥ १३ ॥
प्राजीजनन् प्रसृतसर्वसमुद्रदेशाः
शक्रेण सिन्धुजलमममगनहाय ।
क्षिप्तोरुजालधिषणां पुनरुत्पतन्तः
खं नीयमाननगशेमुषिकां नवाब्दाः ॥ १४ ॥

नवमः सर्गः । ६१ नो विद्म साभ्रमपराम्बुनिधेरटन्ती विद्युत्वतां किमु ततिर्बडवानलार्ता । वार्दन्तिसन्ततिरुत धुनदीक्षणार्थ व्यारूढपाशिवनितामकरीततिर्वा ॥ १५॥ नीरन्ध्रमभ्रपटलं पिहिताखिलधु भ्रेजेतरां विधृतदीर्घतराम्बुधारम् । देव्याः क्षितरुपरिलम्बितदीर्घमुक्ता- मालं विशालमिव धातृकृतं वितानम् ॥ १६ ॥ रेजुः प्रसृत्य जलधिं परितोऽप्यशेष मेघा मुहुर्मुहुरभिप्रसृताभ्रभागाः । आदानवर्षषमिषात् पयसां पयोधि व्योमापि मान्त इव संशयिनाशयेन ॥ १७ ॥ कान्तारभूमिषु विदीर्णदनिधान- देदीप्यमानमणिराशिमुपोपविष्टाः । अङ्गारपुञ्जमनसा किल सेवमानाः शाखामृगाः शुशुभिरे नववृष्टिशीर्णाः ॥ १८ ॥ नीलोपलोर्ध्वनिलयैर्मणितोरणा- रन्तर्बहिः परिमुहुर्विचरद्वधूकैः । किर्मीरिता जलधराः सुरचापरम्या विद्युद्युता विविदिरे नगरेषु वर्षेः ॥ १९ ॥ उन्मार्गवर्मपि जगज्जनमान्यवृत्ति- रुहासभासुरकुजोऽप्युरुबाष्पसीतः। १. 'ता', २. 'घि' ख. पाठः, काव्यरते अम्भोमुचामशमयत् प्रचयो रजांसि प्रत्याहतामलदिगम्बरदर्शनोऽपि ॥२०॥ किं केतकी कुसुमिता किमयं तडित्वान् सम्बोधतो जलमुचां पतितः पृथिव्याम् । किं वा धृतेन्दुशकलस्तमसां समूहः किं शाकिनी शिंतरदा तरुणादनाय ॥ २१॥ गोत्रारिगोपकरका व्यरुचन् धरायां मेघागमेन दयितेन कृताङ्कपाल्याः । व्योमश्रियः स्तनतटत्रुटितोरुहार- स्रस्तावकीर्णनवविद्रुममौक्तिकाभाः॥ २२ ॥ आलप्य खल्वतितरां चतुरैरमुष्मि- नारूढधन्वनि सतामवमानहेतौ । काले हि राजविकले कलुषात्मनीति(6) कामं पिकोऽभवदुरीकृतमूकभावः॥ २३ ॥ प्रत्युन्मिषन्नवकदम्बरजोभिरुच्चै- श्चके दिगम्बरहदप्यनुरक्तमाशु । चित्तान्यरञ्जयत रागिजनस्य तस्ये- त्याश्चर्यमत्र किमु पश्चिमगन्धवाहः ॥ २४ ॥ इत्यम्बुवाहसमयोऽपि विजृम्भमाणो वज्रानलं जनपदेषु ससर्ज नेषत् । चकेऽतिवृष्टिमितरां नच दुर्दिनानि तस्य द्रुमूलगतलोकमतेः प्रभावात् ॥ २५ ॥ १. त्याततो' क. पाठः नवमः सर्गः। सुश्लिष्टकान्तमथ सीत्कृतगर्भकण्ठं निःस्वेददीर्घसुरतं स्वदमानवह्नि । कर्पूरखण्डविकलक्रमकोपभोगं कश्चिद् बभूव विषयः समयो जनानाम् ॥२६॥ उच्चाटनाय शरदः सितसर्षपौधो निर्दग्धुमब्जनिलयानिलयं तुषाग्निः । आलम्भचूर्णमसहायजनस्य कामं प्रालेयशीकरमिषेण कुतोऽप्यपप्तत् ॥ २७ ॥ रेजुः प्रभातसमयेषु लतावनद्धाः क्षोणीरुहस्तुहिनवारिकणैर्विकीर्णैः मालिङ्गितस्तबकचारुकुचा रतान्त- प्रादुर्भवद्भिरिव धर्मलवैर्युवानः ॥ २८ ॥ कालेऽत्र तीब्रहिमभाजि न वासरेन्द्रः सान्द्रांशुकोऽपि सहते स्म हिमाद्रिवासम् । दूरस्थमप्यथ ययौ मलयाचलेन्द्र गोशीर्षकोटरफणिश्वसितैः कवोष्णम् ॥ २९ ।। लौभ्रेण सौरभसनद्रितदिङ्मुखेन रेणूत्करेण पिहितानि वनानि रेजुः । लोकातिदुःसहसहस्यभयादिवात्त- पत्राङ्गचारुतरभूरिनिवारकाणि ॥ ३० ॥ सन्तापिता रेतिपतस्त्रिजगज्जयार्थ नाराचिकाः सुनिशिता इव निर्विचारम् । १. 'स्सुनिशितास्त्रि' ख. पाठः, काव्यरत्ने कातर्यमम्बुजदृशो दिदिशुर्जनानां काश्मीररेणुकलिताङ्गलता हिमत्तौ ॥ ३१ ।। कान्तावियोगदहनेन नितान्तदग्धाः पान्थास्तुषारपतनेन विशीर्यदङ्गाः। ऊष्मायमाणवदनाः श्वसितैरशङ्क चूर्णोपलाः समभवन् सलिलोपसिक्ताः ॥ ३२ ॥ सत्यं तुषारपटलैः शमिनो न रुद्धाः सिद्धेः पुनः परिचयाय हिमर्नुलक्ष्म्या । छन्ना दुकूलवसनैर्नु पटीरपङ्क- लिप्ता नु मौक्तिकगुणैर्यदि भूषिता नु ॥ ३३ ॥ इत्थं सुदुःसहतुषारतुषावपातै- निर्दग्धनीरजकुले समयेऽपि तस्मिन् । म्लानानि नैव कमलानि महानुभावो यस्याः स्थितः स भगवान् सरितः प्रतीरे॥३४॥ कायक्लेशाभिधाने तपसि जिनपतिनिष्ठितो वर्षमेक बाह्यान्तर्विग्रहद्वादशविधतपसां मध्यमेऽप्यग्रय इत्थम् । दीक्षाकल्याणमादौ समभवदभवद् यत्र तत्रैव भूयो नीलारण्ये शरण्ये भवचकितधियामात्तपुण्ये वरेण्ये॥३५॥ इत्यर्हदासकृतौ काव्यरले भगवत्तपोवर्णनो नाम नवमः सर्गः॥ १. 'द्वैः' क. पाठः, • - अथ दशमः सर्गः। श्रीमन्तमेनमखिलार्चितमात्मधाम प्राप्तं स्वयं सपदि तदनभूजषण्डम् । शाखाकरेषु धृतपुष्पफलप्रतान- मासीदिवार्चयितुमुद्यतमादरेण ॥ १ ॥ तस्यैव कीलकलनाः किमु पल्लवानि तस्य स्फुलिङ्गनिकरो ननु कुड्मलानि । तस्यैव धूमविततिर्न पुनर्हिरेफा दत्त्वा वने यमनलं मदनो निममः ॥२॥ अस्मिन्नमूनि न पलाशदलान्यघारे- रुडेलशान्तरससागरविद्रुमा नु। वान्ता मृगैश्चिरविरोधलवा मिथो नु वन्यैस्ततार्चनमणिप्रकरा नु रेजुः ॥ ३ ॥ अध्यास्य चम्पकतरोस्तलमात्तपृष्ठो धाणि बिभ्रदवलम्बितशुभ्रलेश्यः । शुद्धात्मतत्त्वमिव जातविवर्तमीशो ध्यानं दधे दुरितधूननचुञ्चु शुक्लम् ॥ ४॥ स्त्यानत्रयं जिनपतिः क्रमशो रजांसि सोम्नि त्रयोदश पुरा हतसप्तमोहः । मोहैकविंशतिमपि क्षपयन् ददाह क्षीणेऽथ षोडशचिदीक्षणरोधविनान् ॥ ५ ॥ १. '', २. 'ना' ख. पाठः.

कायरले घातीन्यपि प्रबलशक्त्यतिगर्वितानि देवस्य योगकरवालदितान्यभूवन् । वमात्मनः किमिति चिन्तनयेव दग्ध- रज्जूपमं सममघातिबलं बभूव ॥ ६ ॥ इत्यस्तपापरिपुराप सहैव लब्धि- वैशाखकृष्णदशमीश्रवणेऽपराहे। सामायिकीनवदशातिशयान पदं च प्राप्तोदयं नभसि पञ्चसहस्रदण्डैः ॥ ७ ॥ अत्रान्तरे सकललोकपतेरमुष्य शक्राज्ञयाचरितवान् धनदः सभां ताम् । तस्याः प्रमाणमुदितं मुनिभिः पुराणै- रध्यर्धयोजनयुगं बहुरत्नमय्याः ॥ ८॥ रेजेतरां दिविजराजहषत्प्रतिष्ठा संसन्मही विनयसङ्कुचिताखिलाङ्गा । व्योमस्थलीव भुवि यः समवाप्य सेव्यः सोऽयं स्वयं गुणनिधिः समगच्छतेति ॥९॥ प्रासादचैत्यपरिखालतिकाद्रुमक्ष्मा जाता ध्वजधुकुजहर्म्यगणक्षमाश्च । पीठानि चेति हरसङ्ख्यभुवस्तदन्त- रेकान्तकेलिसदनं जिनबोधलक्ष्म्याः॥१०॥ प्रासादचैत्यनिकरः परिखा व्रतत्यो वृक्षा ध्वजः सुरकुजाः क्रमशोऽष्टभूषु । १. 'स' क. पाठः. २. 'दश्च प्रा', ३. 'प' ख. पाठः १. 'णा' क. पाठः,

।
दशमः सर्गः ।
आसन् गृहाणि च गणास्त्रिषु विष्टरेषु
श्रीधर्मचक्रविविधध्वजमङ्गलानि ॥ ११ ॥
सालैश्चतुर्भिरपि पञ्चभिरप्युदार-
वेदीभिरुन्नतिरवापि चतुर्गुणैव ।
लोकोन्नतादपि जिनाधिपतेरमुष्मा-
ज्जैनप्रदक्षिणकृतेः फलमीदृशं हि ॥ १२ ॥
आवेष्टय संसदवनीतलवारिवाहं
प्रारभ्यमाणसुकृतामृतपूरवर्षम् ।
सालेन सर्वमणिचूर्णमयेन तेने
तेनापि तानसुरकार्मुकसम्पुटश्रीः ॥ १३ ॥
लोकेषु कूटरहितेषु महामहिम्नो
देवस्य तस्य निकटेऽपि कृतधिवासाः ।
प्रासादचैत्यनिलयाः प्रथयांबभूवुः
कूटान् दिगम्बरपथप्रतिरोधिनो धिक् ॥१४॥
मार्गेष्वपि त्रिषु चिरनमणेन खिन्ना
भिन्ना पुरैव भवलालनया द्युसिन्धुः ।
शङ्के जिनेन्द्रचरणं शरणं प्रवेष्टुं
सम्प्राप सम्प्रति सभां जलखातकात्मा ॥१५॥
वल्लीक्षितौ सुमनसो रतिवल्लभस्य
भल्लक्रियागतजगल्लयपातकानि ।
सैलप्य भृङ्गरणितेन विशुद्धिहेतोः
कि लोकनाथमभजन सुमनोनिषेव्यम् ॥१६॥

काव्यरत्ने कङ्केलिसप्तदलचम्पकचूतषण्डाः कामारिसन्निधिवशादिव शान्तकामाः । पुष्पाणि वामचरणाहतिचाटुवाद- च्छायाकटाक्षनिरपेक्षमधुर्वधूनाम् ॥ १७ ॥ अर्चा जिनस्य वनचैत्यमहीरुहाणा- मच्छिन्नधारमकरन्दमुचां तलेपु । चक्रुनिरत्ययतपात्यययोगनिष्ठा- निष्कम्पगात्रजिनयोगिवराभिशङ्काम् ॥ १८ ॥ ज्ञानोदये जिनपतेः स्थिरभावमाप्ते लोके स्वयं च तडितः स्थिरभावमाप्ताः । प्रायः प्रलम्बितघनास्तमुपासते स्म प्रेख़त्पताककनकध्वजदण्डदम्भात् ॥ १९ ।। भव्यावलेर्दशविधामरभूजकृत्य वाञ्छां विनैव विदधात्ययमेक एव । यत्ते तदेनमभितोऽप्यभजन जिनेन्द्र रुद्रान् गुणैर्विगुणिनः समुपाश्रयन्ते ॥ २० ॥ आकीर्णकेतुचमरीरुहतालवृन्त- कालाचिकाब्दकलशातपवारणादिः । हावनी जिनजितद्रुतपुष्पकेतोः सेनानिवेश इव चेलकुटीचितोऽर्भात् ॥ २१ ।। देवेन्द्रनेत्रकुमुदोत्सवचन्द्रिकाया देदीप्यमानमणिवैकृतगन्धकुट्याः । १. 'त्यमिच्छां वि', दा' ख. पाठः. ३, ध', 3. 'भू' क. पा.

दशमः सर्गः ।
उच्चै ब्रतोरिव विदिनु भृशं विरेजुः
कोष्ठाः प्रकीर्णकवदुज्ज्वलरूपभाजः ॥ २२ ॥
तेषु प्रदक्षिणमनुक्रमतो मुनीन्द्राः
कल्पाङ्गनाश्च नृवधूसहितार्यिकाश्च ।
ज्योतिष्कभौमभवनामरिकाश्च भोगि
भौमोडुकल्पसुरमर्त्यमृगाश्च तस्थुः ।। २३ ॥
वीथीषु नाथचतुरानननिर्यदुक्ति-
पीयूषनाभयचारुतटानुकाराः ।
अष्टायतस्फटिकभित्तय आवितेनु-
वृद्धेशभूतिविनिवेशितयष्टिशङ्काम् ॥ २४ ॥
यच्छूयते सुरपथात् सुमनस्स्रवन्ती
रस्ता तरङ्गिततनूरिति पुस्तकेषु ।
तत्त्वेतदित्यनुमिमे भगवत्सभाया
यत् तीर्थपद्धतिचतुष्टयमशिल्पम् ॥ २५ ॥
वाराशितीर्थकरवारणसंख्यरूपा
देवादिरुद्रनगकजलभूधरास्तम् ।
दैय॑स्पृहो निखिलदिग्गतहेमरूप्य-
नीलाइमगोपुरनिभादभजन्त देवम् ॥ २६ ॥
सम्प्राप्य चारगुणरत्ननिधि जिनेन्द्र
लोकैकमङ्गलममुं समपक्षरागात् ।
शक्तानि मोक्तुमथ नो निधिमङ्गलानि
द्वारेषु तस्थुरखिलेष्विह को वितर्कः ॥ २७ ॥

काव्यरत्ने ज्योतिष्कयक्षफणिकल्पसदः क्रमण तेजस्विनः प्रतिदिशं मणिदण्डहस्ताः । हारत्रयद्वितययुग्मयुगेषु तेनु- ःपालकृत्यमपि जन्मशतैरलभ्यम् ॥ २८ ॥ नुन्नाम्बरं प्रतिदिशं नवगोपुराणा- मष्टान्तरेषु बहिरादिमगोपुराच्च । नानाविधाभिनवशिल्पमनोभिरामं माणिक्यतोरणशतं पृथगाविरासीत् ॥ २९ ॥ आद्यन्तरे निहतदुर्मतिमानगुम्फाः स्तम्भाचतुर्थ इह राजतनाट्यशालाः । षष्ठेऽपि नाट्यनिलयाः किल सप्तमेऽस्मिन् स्तूपाश्च तोरणशतान्तरिता बभूवुः ॥ ३० ॥ दुःखौघसर्जनपटूंत्रिजगत्यजेयान् साक्षानिहत्य चतुरोऽपि च घातिशत्रुन् । स्तम्भा जयादय इव प्रभुणा निखाताः स्तम्भा बभुः प्रतिदिशं किल मानपूर्वाः॥३१॥ संसारदुस्तरमहार्णवमग्मजन्तू- चारैकनावि सदसीश्वरकर्णधारे । स्तम्भश्रियं विदधुरुज्ज्वलरत्नमान- स्तम्भाः समीरचलकेतुपटाभिरामाः ।। ३२ ॥ मानाधिकौ कनकगोपुररूप्यसाल- व्याजेन मानमवितुं बहुरूपभाजौ।

दशमः सर्गः।
७१
मन्ये सुमेरुविजयार्धनगौ स्म मान-
स्तम्भानुपेत्य भजतश्चतुरोऽपि भीत्या ॥ ३३ ॥
मजत्पुरन्ध्रिकुचकुङ्कुमलालितानि
पर्यन्तखातसलिलानि वितेनुरेषाम् ।
आलोकनेन सुचिरोपचिताभिमानै-
लोकैर्विवान्तदृढमानरसाभिशङ्काम् ॥ ३४ ॥
विश्रामसुन्दरमृदङ्गनिनादगर्जा
विद्युल्लतायितनिलिम्पनटीसनाथाः ।
नाट्यालया विजितशारदवारिवाहा-
श्चित्तक्षितौ नवरसान् ववृर्जनानाम् ॥ ३५ ॥
सौवर्णधूपघटनिर्गतधूमजालं
सौरभ्यशालि ददृशे जिनपूजनाय ।
आयज्जनस्य सुचिरं हृदयारविन्द-
गन्धाधिवासितमिव द्रवदन्धकारम् ॥ ३६ ॥
जैनी सभा जिनपदाम्बुजसेवयैव
सेत्स्यन्ति मङ्क्ष नव केवललब्धयो वः।
इत्येवमुन्नतनवाङ्गुलिसंज्ञयो(च्चैः१चे)
स्तूपच्छलादुपयतां जिनसेवनार्थम् ॥ ३७ ॥
रेजे विशालगणभूतलवेष्टितस्य
पीठत्रयस्य शिरसि द्विपवैरिपीठम् ।
धतु जिनेश्वरमुपागतभद्रसाल-
रुडत्रिसानुकनकाचलचूलिकेव ॥ ३८ ॥

काल्यरले तत्र त्रिकालविषयाखिलवस्तुवृत्ति- साक्षी प्रबोधमहसा सकलं स जानन् । जिज्ञासयोपगतसङ्घचतुष्टयस्य तज्ज्ञापनोत्सुकतयेव चतुर्मुखोऽस्थात् ॥ ३९ ॥ भामण्डलेन निकटोच्चलचामरेण संवेष्टितो दिवि जिनाधिपतिश्चकाशे । हंसान्वितेन शरदम्बुमण्डलेन नीलाम्बुवाह इव कोऽपि कृतोपवीतिः ॥ ४॥ अस्याशरीरपदलिप्सुतया शरीरं बोधासिना हतवतो भुवनैकमल्लम् । वीरस्य पार्श्वमुपयन्ति तदा तदीय- दिव्यायुधान्यनुचकार लतान्तवृष्टिः ॥४१॥ दिव्यध्वनिश्च सुरदुन्दुभिनिस्वनश्व सन्त्यक्तशासनतदीयफलाभिलाषम् । उत्पयमानमुभयं युगपज्जहार श्रोत्रं मनश्च सुतरां परिषज्जनानाम् ॥ ४२॥ सर्वज्ञपादरतयो वयमप्यशोका मुग्धाद्भिजातरतयः किल तेऽप्यशोकाः । इत्यालपन्नलिनिनादपदादशोकः प्रत्युन्मिषत्कुसुमकैतवतो जहास ॥ ४३ ॥ छायां तिरस्कृतवतो जगदेकभर्तु- श्छायां प्रदातुमितमेतदलं ललज्जे । १. 'क्षि' क. पाठः, २. 'ज', ३. 'धिः' ख, पाठः. ४, 'त्य क. पाठः.

७३ दशमः सर्गः। छत्रत्रयं न यदि शारदनीरदाभं श्यामं जिनाङ्गरुचिसङ्गनिभात् कुतोऽभूत् ॥ स्त्रीबालवृद्धनिवहोऽपि सुखं सभां ता- मन्तर्मुहूर्तसमयान्तरतः प्रयाति । निर्याति च प्रभुमहात्मतयाश्रितानां निद्रामृतिप्रसवशोकरुजादयो न ॥ ४५ ॥ मिथ्यादृशः सदसि तत्र न सन्ति मिश्राः सासादनाः पुनरसंज्ञिवदप्यभव्याः । भव्याः परं विरचिताञ्जलयः सुचित्ता- स्तिष्ठन्ति देववदनाभिमुखं गणोाम् ॥ ४६ ॥ इत्यद्भुतां त्रिभुवनैकपतेः सभा ता- मागत्य वीक्ष्य निखिलं हरिणा जिनेन्द्रम् । आकीर्णपुष्पमवनम्य पुनर्भमज्जे हर्षाम्बुधौ भवसमुद्रतितीर्षणापि ॥ ४७ ॥ साक्षायिकाचलदृशोज्ज्वलसंयमेन सप्तर्डिसम्यगवबोधचतुष्कभाजा । श्रीमल्लिनाथगणिनाथ तदीरितेन पृष्टः समस्तविदसौ निजगाद तत्त्वम् ॥ ४८ ॥ अथ समयविदिन्द्रादेशतो वाघदेवै- विनिहतजिनसंख्योदारभेरीप्रणादः । विघटितगिरिसन्धिविश्वविश्वैकभर्तु- स्त्रिभुवनमपि यात्रारम्भमावेदयत् तम् ॥ १९॥ १. 'घ' क. पाठः.

काव्यरले समवसरणमभ्रे भव्यपुण्यैश्चवाल स्फुटकनकसरोजश्रेणिना लोकवन्धः । सुरपतिरपि सर्वाञ् जैनसेवानुरक्तान कलितकनकदण्डोऽयोजयत् स्वस्वकृत्ये ॥ ५० ॥ सितचमररुहाली पार्श्वयोश्चिक्षिपाते सुधिय उपरि शुभ्राण्यातपत्राणि देवैः । उदधृषत तथाष्टौ मङ्गलान्यप्सरोभि- दिशि दिशि धृतमग्रे धर्मचक्रं च यः ॥५१॥ सपदि पवनदेवाः शर्करालोष्टधूली- कृमितृणमपनिन्युभूतलान्मेघदेवाः । सुरभिसलिलसेकं चक्रुरत्रेदमासी- न्मुकुरतलवदच्छाकाशदिक्पर्धयेव ॥ ५२ ॥ धरणिरमरवृष्टैरुद्गमैः सोपहारा सुरमणिमकुटाचिःशक्रचापार्चितं खम् । सुरनरजयशब्दस्तोत्रकिम्मीरभेरी- मुखरवमुखरं चाप्यास दिक्चक्रवालम् ॥ ५३ ॥ गलितचिरविरोधाः प्राप्तवन्तश्च मैत्री मिथ इव जिनसेवालम्पटाः संपदिताः। षडपि च ऋतवस्ते तत्र तत्रान्वगच्छन् व्यवहरदयमीशा यत्र यत्रैव देशे ॥ ५४ ॥ न परमखिललोकः प्रातिकूल्यं विहाय त्रिभुवमतिलके तं वायुरप्यम्वियाय । दिविजसरसि मन्नः पुष्पगन्धोपवाही मधुकरकुलशब्दच्छद्मना संस्तुवामः ॥ ५५ ॥ १. 'स' ख. पाठः. २. स्य' क. पाठः. ३. 'नु' ख. पाठः. merikar mahiyetmument दशमः सर्गः । ७५ अपिच सदसि भर्तुः कच्छपाङ्कस्य रेजुः सवरुणबहुरूपिण्यन्वहाराधितस्य । गणधरपदभाजोऽष्टादशैतच्छताङ्का न परमवधिनेत्राः केवलज्ञानिनोऽपि ॥ ५६ ॥ शतविगलितमाना वादिनस्तुर्यबोधा- स्त्रिशतगलितसंख्या विक्रियाईप्रसिद्धाः । अधिकशतचतुष्काः केवलिभ्यो बभूवु- स्त्वधिगतदशपूर्वास्तुर्यबोधत्रिभागाः ।। ५७ ।। त्रिहतहयसहस्राण्यर्धलक्षं च लक्ष त्रिगुणितमपि लक्षं शिक्षकाचार्यकाश्च । उपगतगृहमेधाः श्राविकाश्चाप्यसंख्याः सुरसुरसुकुमार्यः प्राप्तसङ्ख्या मृगाध ॥ ५८ ॥ इति विषयमशेष विश्ववन्द्यो विहृत्य त्रिचरणपरिशिष्टं नूनमब्दायुतं सः । सुजनहृदयवप्रेषूप्ततत्त्वार्थसस्यः प्रविशदमाणिचूलं प्राप सम्मेदशैलम् ॥ ५९ ॥ सत्र स्थित्वैकमासं व्यपगतविहतिः फाल्गुने कृष्णपक्षे द्वादश्यामर्धरात्रौ सदशशतमुनिर्जन्मभे घात्यरातीन् । आरूढा योगिधामाद्विचरमसमये सप्ततिं द्विःप्रयुक्तां शुक्लध्यानासियष्टया स चरमसमये वृत्तसङ्ख्याञ् जघान॥ ईषत्प्रारभारसंज्ञेऽष्टमधरणितलेऽमर्त्यलोकप्रमाणे सिद्धक्षेत्रे विशुद्धः स जयति तनुपातान्त्यभागे कृतौकाः । किञ्चिन्न्यूनान्त्यवेहप्रमितिघननिजाकारभाक् क्षायिकैः स्वैः सम्यक्त्वाधैरुपेतोऽष्टभिरमितसुखापादकैरेस्तकर्मा ॥ ६१ ।।

दशमः ७६ काव्यरत्ने सर्गः। आस्ते तत्र स निर्वृतः सुखसुधां चर्वन् सदात्यन्तिकी स्वस्थः संसृतिनाटकं स्फुटरसं पश्यन् विभावादिभिः । सम्पन्नः सकलैर्गुणैरनुपमैः स्थानं सिताभ्राकृतेः कीर्तेरात्मसमैः सहैव पुरुषैः शुद्धैश्च बुद्धैः परम् ॥ ६२ ॥ अर्हदासः स भक्त्युल्लसितमवसितं भूधरे तत्र कृत्वा कल्याणं तीर्थकर्तुः सुरकुलमहितः प्रापदारमीयलोकम् । अहंहासोऽयमित्थं जिनपतिचरितं गौतमस्वाम्युपज्ञं गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापदुच्चैः प्रमोदम् ।। धावन् कापथसम्भृते भववने सन्मार्गमे परं त्यक्त्वा श्रान्ततरश्चिराय कथमप्यासाद्य कालादमुम् । सद्धर्मामृतमुद्धृतं जिनवचःक्षीरोदधेरादरात् पायंपायमितश्रमः सुखपदं दासो भवेत्यर्हतः॥ ६४ ॥ मिथ्यात्वकर्मपटलैश्विरमावृते मे युग्मे दृशोः कुपथयाननिदानभूते । आशाधरोक्तिलसदञ्जनसम्प्रयोगै- रच्छीकृतेऽद्य पृथुसत्पथमाश्रितोऽस्मि ॥ ६५ ॥ इत्यहदासकृतौ काव्यरले भगवदुभयमुक्तेिवर्णनी नाम दशमः सर्गः ॥ मुनिसुव्रतकाव्यं सम्पूर्णम् । शुभमस्तु। १. 'द्धं', २. 'वाम्यहं' ख. पाठः. ३. “धा' क. पाठः.

LIST OF SANSKRIT PUBLICATIONS FOR SALE. RS. AS. P. HACI Bhaktimanjari (Stuti) by H. H. Svāti Śrī liāma Varma Mahārāja. 1 0 û स्यानन्दूरपुरवर्णनप्रब yaps: Syanandurapuravarnanaprabandha (Kavya) by H. H. Svāti Śrī Rāma Varma Mahārāja, with the commentary Sundarī of Rājaraja Varma Koil Tampuran. 2 0 0 Trivandrum Sanskrit Series. No. 14498 Daiva (Vyakaraña) by Deva with Puruşakāra of Krsnalīlāśukamuni (out of stock). 1 0 0 No. 2-TECHHIcefaurantcat Abhinavakaustubhamala and Daksinamurtistava by Krşnalīlāśukamuni (out of stock). 0 2 0 No. 3-: Nalabhyudaya (Kavya) by Vāmana Bhatta Bāņa (second edition). 04 0 No. 4-Alerterufa: Sivalilarnava (Kavya) by Nīlakantha Dīkşita (out of stock). 2 0 0 No. 5-fatalagerii Vyaktiviveka (Alankāra) by Mahima-Bhatta with commentary (out of stock). 2 12 0 No. 64-stara: Durghatavrtti (Vyakaraña) by Šaraṇadeva (out of stock), 200 No. 7-aaral tenT Brahmatattvaprakasika (Vedānta) by Sadāśivendrasarasvati (out of stock). 2 4 0 No. 8-Team Pradyumnabhyudaya, (Nataka) by Ravi Varma Bhūpa (out of stock). 1 0.0 2 RS, AS. P. 4 No. 9-faETTITIETET Virupaksapancasika (Vedānta) by Virūpäkşanātha with the commentary of Vidyācakravartin (out of stock). O 80 No. 10-aastCT Matangalila (Gajalaksana) by Nīlakantha (out of stock) 0 8 0 No. 11-aarsiacore Tapatisamvarana (Nāțaka) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 2 0 No. 12-Tarfarce Paramarthasara (Vedanta) .by Ādiseșa with the commentary of Rāghavānanda (out of stock). 0 8 0 No. 13-THSTYT Subhadradhananjaya (Nățaka) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 200 No. 14-aart: Nitisara (Nīti) by Kamandaka, with the commentary of Sakarärya (out of stouk). 3 8 C No. 15-FTTETTE Svapnavasavadatta (Nātaka) by Bhāsa (second edition). 1 8 ( No. 16-maritTTTUTH Pratijnayaugandharayana (Nataka) by Bhāsa (out of stock). 1 8 8 0 No. 17–7TEA Pancharatra (Nataka) by Bhasa (out of stock). 1 0 0 No. 18-acreruter Narayaniya (Stuti) by Nārāyana Bhatta with the commentary of Desainangalavarya (out of stoclo). 4 0 0 No. 19--ATHAT: Manameyodaya (Mīmāısa) by Nārāyaṇa Bhatta and Nārāyaņa Paņdita (out of stock). 1 No. 20- Arca Avimaraka (Nataka) by Bhāsa (out rif stock). 1 8 0 No. 21-arcatat Balacarita (Nataka) by Bhāsa (out of stock). 1 0 0 RS. AS. P. 0 No. 22—THelia-Da-Tac-FUATÈ - Esta Madhyamavyayoga-Dutavakya-Dutaghatotkaca-Karnabhara and Urubhanga (Nāțaka) by Bhāsa (out of stock). i 80 No. 23-Athertuarianta: Nanartharnavasamksepa (Kośa) by Kesavasrāmin (Part I, 1st and 2nd Kāndas). (out of stock). 1.12 No. 24-Treffurt: Janakiparinaya (Kavya) by Cakra Kavi (out of stock). 1 0 0 No. 25--TUTTEra Taarifa Kanadasiddhantacandrika (Nyāya) by Gangādharasūri (out of stock). 0 12 0 No. 26–277124H Abhisekanataka by Bhāsa (out of stock). 0 12 0 No. 27-HREFH: Kumarasambhava (Kāvya) by Kálidā sa with the two commentaries, Prakāsikā of Arunagirinātha and Vivarana of Nārāyaṇa Pandita (Part I, 1st and 2nd Sargas) (out of stock). 1 12 0 No. 28-atte: Vaikhanasadharmaprasna (Dharmasūtra) by Vikhanas (out of stock). 0 8 0 No. 29-arefulareista: Nanartharnayasam - ksepa (Koša) by keśavasvamin (Part II, 3rd Kāņda) (out of stock). 2 4 0 No. 30--areglan Vastuvidya (Šilpa) (out of stock). 0 12 0 No. 31-alaterrutarcia: Nanartharnayasam ksepa (Koša) by Keśavasvāmin (Part III, 4th, 5th and 6th Kardas). ico No. 32-HTETHET: Kumarasambhava (1) by Kalidasa with the two content aries, Prakāśikă of Arunagii and Vivaraņa of Nārāyaṇa 11a Part II, 3rd, 4th and 5th $ (out o 2 80 4 RS. AS. P. No. 33-TCETEVE: Vararucasangraha (Vyäkaraña) with the commentary Dípaprabhā of Nārāyaņa (out of stock). () 8 0 No. 34- foregor: Manidarpana (Nyāya) by Rājacūļāmaņimakhir. 1 4 0 No. 35--APOTETT: Manisara (Nyāya) by Gopinatha. 1 8 0 No. 36-ATTEETAT: Kumarasambhava (Kavya) by Kālidāsa with the two commentaries, Prakāsika of Arunagirinatha and Vivaſaņa of Nārāyaṇa Pandita (Part III, 6th, 7th and sth Sargas). 3 0 0 No. 37 - spirale H Asauoastaka (Smrti) by Vararuci with commentary. 0 4 0 No. 38--arafcigTETH Namalinganusasana (Kośa) by Amarasimha with the conmentary Tīkāsarvasva of Vandynghatīya Sarvānanda (Part 1, 1-0 Kānda). 200 No. 39–TECH Carudatta (Nataka) by Bhasa (out of stock). 0 12 0 No. 40-3 -अलङ्कारसूत्रम् Alankarasutra by Räjänaka Ruyyaka with the Alarkārasarvasva of Mankhuka and its commentary by Samudrabardha (second edition). 2 80 No. 41-TECHYCOH _Adhyatmapatala (Vedānta) by. A pastamba with Vivarana of Sri Sankara-Bhagnvat-Pāda (out of stock). 04 0 No. 42-fantach Pratimanataka by Bliżsa (out of stock). 1 8 0 No. 43--AfOSTEUTETTE Namalinganusasana (Koša) by. Amarasimha with the two commentaries, Amarakośodghatana of Kşīrasvāmin and Tikäsarvasva of Vandyaghatiya Sarvānanda (Part II, 2nd Kanda, 1-6 vargas). 2 8 0 Nh. 44-YEH Tantrasuddha by Bhattaraka 5 RS. AS. P. No. 45-JECTF Prapancahrdaya. 1 0 0 No. 46-Chri: Paribhasavrtti (Vyakaraṇa) by Nīlakantha Dīkşita. 0 8 0 No. 47-TAGET THE Sidhantasiddhanjana (Vedānta) by Krşņānanda Sarasvati (Part I.) 1 12 0 No. 48-EET THE Do. Do. (Part II). 2 0) 0 No. 49-Tetrtett Goladipika (Jyotişa) by Parameśvara. 0 4 0 No. 50 --- Target: Rasarnavasudhakara (Alarkâra) by Singa Bhūpāla. 3 0 0 No. 51--ATARISHTEETTEATH Namalinganusasana (Kośa) by Amarasimha with the two commentaries, Amarakośodghātana of Kşīrasyāmin and Tīkāsarvasva of Vandyaghatīya Sarvānanda (Part III, 2nd Kanda, 7-10 vargas). 20.0 No. 52-ATHSG TESH Namalinganusasana (Koša) by Amarasimha with the commentary Tikâ sarvasva of Vandyaghatiya Sarvânanda (Part IV, 3rd Káạļa). 1 180 No. 53-separat: Sabdanirnaya (Vedanta) by Prakaśâtmayatîndra. 0 12 0 No. 54-Taigrireert: Sphotasiddhinyayavichara (Vyakaraña). 04. 0 No 55-मत्तविलासप्रहसनम् Mattavilasaprahasana (Nataka) by Mahendravikrama- 0 8 0 No. 56 Against Manusyalayacandrika (Šilpa) (out of stock). 0 8 0 No. 57-gettata Raghuviracarita (Kavya). 1 4 0 No. 58-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vedanta) by Krşnånanda. Sarasvati (Part III). 2 0 0 Varinan.

6 RS. A.S. P. 0 No. 59-araren Nangananda (Nataka) by Harşadeva with the commentary Vimarsinſ of Sivarama (out of stock). 3 4 0 No. 60% gegra: Laghustuti by Laghubhattâraka with the commentary of Raghavânanda. 0 8 0 No 61-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana. (vedânta) by Rșşnânanda Sarasvati (Part IV). 1 4 0 No. 62-HTETE: Sarvamatasangraha. 0 8 0 No. 63-fatrate Are Kiratarjuniya (Kavya) by Bharavi with the commentary Sabdârthadīpika of Citrabhânı (1, 2 and 3 Sargas). 2 8 0 No. 64-rat: : Meghasandesa by Kâlidāsa with the commentary Pradīpa of Dakşiņâvartanātha. 0 12 No 65-THE Mayamata (Silpa) hy Mayamuni (out of stock). 3 No. 66--PETOTASO Maharthamanjari (Daránna) with the commentary Parimala of Mabesvarânanda. 240 NO. 67--TEET: Tantraasamuccaya (Tantra) by Nârâyana with the commentary Vimarsinſ of Sankara (Part I, 1-6 Patalās) (out of stock). 3 4 0 No. 68-araurt: Tattvaprakasa (Agama) by Sri Bhojadeva with the commentary Tâtparyadīpikā of Śrī Kumara 1 12 0 No. 69-aayegarafa: Isenasivagurudevapaddhati(Tantra)by Isanasivagurudevamišra Part I, Sâmányapâda). 1 No. 70—37faeftAryamanjusrimulakalpa (Part I). 2 8 0 No. 71-TTET: Tantrasamuccaya(Tantra) by Vârâyana with the commentary Vimarsinſ of Sankara(Part II, 7-12 Patalās) (out of stock). 3 8 0 RS. AS. P. No. 72-Aftagacarera: Isanasivagurudevapaddhati (Tantra) by Išānasiraguruderamiśra (Part II, Mantrapăda). 4 0 No. 73–Searcafa fatal: Isvarapratipattiprakasa (Vedānta) by Madhusūdanasarasvati. 0 4 0 No. 74-STEPiela: Yajnavalkyasmrti with the commentary Balakrida of Visvarûpâcârya. (Part I – Acara and Vyavahâra Adhyâyās). 3 4 0 No. 75-Parcu &# Silparatna (Šilpa) by Śrīkumâra (Part I). 2 12 0 No. 76—pfhsgefrystieq: Aryamanjusrimulakalpa (Part II). 3 0 0 No. 77-Tagafayefa: Isanasivagurudevapaddhati (Tantra) by Isanasiyagurudevamiśra (Part III, Kriyā pāda 1—30 Patalās). 300 No. 78—3772TORITETETT Asvalayanagrhyasutra with the commentary Anāvilā of Haradattācārya. 260 No. 79-Teatreth Arthasastra of Kautalya with commentary by Mahāmahopadhyāya T. Ganapati Šāstri (Part 1-1 & 2 Adhikaraņās). 3 12 0 No. 80-TITETA Do. Do. (Part II--3-7 Adhikaraņās). 4 0 0 No. 81-Texfa:Yajnavalkyasmrti with the commentary Balakrida of Visvarūpācārya (Part II. Prayascittậdhyaya). 200 00 No. 82-TITETE Arthasastra of Kautalya with commentary by, Mahamahopādhyāya T. Ganapati Sastri (Part III, 8-15 Adhikaramās). 3 4 0 No. 83-arauaganefa: Isanasivagurudevapaddhati (Tantra) by Išāna sivagurudevamisra (Part IV, Kriya pāda 31-64 Patalās and Yogapāda). 3 8 0 8 RS. AS. P. No. 84-f5ys29: Aryamanjusrimulakalpa (Part III). 2 0 No. 85--ferro fear Visnusamhita (Tantra) 2 8 0 No. 86--Retta Bharatacarita (Kavya). by Křşņakavi. 1 8 0 No. 87-ASTEHTEIT: Sangitasamayasara (Sangīta) of Sangītākara Pârsvadeva. 1 2 0 No. 88-mer Thirt: Kavyaprakasa (Alankara) of Mammaţabhatta with the two commentaries the Sampradayaprakasini of Sri Vidyācakravartin and the Sahityacadâmani of Bhattagopala (Part I, 1-5 Ullásās). 300 No. 89-Erfare Sphotasiddhi (Vyākarana) by Bharatamiśra. 08 0 No. 90-TAIT Tehet Mimamsaslokavartika with the corrmentary Kasikā of Sucaritamiśra (Part I). 8 0 No. 91-ETRETTET Horasastra of Varahamihiracārya with the Vivarana of Rudra. 3 0 0 No. 92-Carrara Rasopanisat. 2 0) 0 No. 93-atra RTHIT Vedantaparibhasa (Vedānta) of Dharmaräjādhvarīndra with the cummentary Prakasika of Peddadīksita. 1 80 No. 94-eest Brihaddesi (Sangita) of Matangamuni. 1 18 0 No. 95-Coretro FT Ranadipika (Jyotişa) of Kumāraganaka. 040 No. 96-Fifeat Rksamhita with the Bhāşya of Skandasvāmin and the cominentary of Venkatamadhavārya (Part I, 1st Adhyāya in 1st Aştaka). 1 8 1.80 RS. AS. P. No. 97-1TEFTATCeai Naradiyamanusamhita (Smrti) with Bhagya of Bhavasyā min. 2 0:0 No. 98-feTax Silparatna (Šilpa) by Śrikumāra. 2 8 0 No. 99-fthieruinallü # Mimamsaslokavartika (Mīmāmsā) with the commentary Kašikā of Sucaritamiéra (Part II). 200 No. 100-64:Kavyaprakasa (Alankāra) of Mammaţabhatta with the two commentaries, Sampradāyaprakasini of Śrīvidyā cakravartin and Sahityacūdamani of Bhattagopāla. (Part II, 6-10 Ullāsās), 5 No. 101–pleta Aryabhatīya (Jyotiņa) of Aryabhatācārya with the Bhāsya of Nilakanthasomasitvan (Part I. Gaạitapā da). 2 8 0 No. 102- masa Dattila (Sangīta) of Dattilamuni. 0 4 0 No. 103-ceret: Hamsasandesa (Vedānta) with commentary. 08 8 0 No. 104-arraysayfaret Sambapancasika (Stuti) with commentary. 1 No 105-Araneta: Nidhipradipa of Siddha- Srikanthaśambhu. 0 4 0 No. 106-TEST Prakriyasarvasva. (Vyākaraņa) of Srī Nārāyaṇa Bhatta with commentary (Part I.) 1 0 0 No. 107-ca Kavyaratna (Kavga) of Arhaddasa 0 12 0 Apply to:- The Curator for the publication of Oriental Manuscripts, Trivandrum.

IN THE PRESS.
Balamartandavijaya (Nataka) of Devarajakavim
mekhala (Vaidyaka) of Mahuka with comment
Bom its with the Bharya of Skandasvamin
kartery of Venkatadhaye (Part II.)
Alankara.)
arvaine with the comment
with commentary
of Bboja

No text on this page.

The Kavyarathna Of Arhaddasa

Author
K_sambasiva_sastri
Other authors
Ccl
Title
The Kavyarathna Of Arhaddasa
File name
The Kavyarathna Of Arhaddasa
Text
OCR done
Citation
1931
Publisher
-
Language
Sanskrit
Pages
104
Library
Scl
DLI number
326581
Barcode
2020010008655.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
kLUZNgtVMWn
Download PDF

The Kavyarathna Of Arhaddasa