Bharatiya Vidya Bhavan Library, Mumbai

The Kavyaalankarsutras Of Vamana

Pandit,.durgaprasad · 2012/08

PDF Proofread

Front matter

KAVYAMÁLA. 15.
THE
KAVYALANKARASÛTRAS
OF
VAMANA
with his own Vritti.
EDITED BY
SP
PANDIT DURGAPRASAD,
AXD
KÂSINATH PÂNDURANG PARAB.
PRINTET AND PUNLISTED
THE PROPRIETOR
OF
TISEXIRX.YASALARA" PRESS.
ROMBAT.
ISSN.
Price As,

काव्यमाला. १५. पण्डितवरवामनविरचितानि काव्यालंकारसूत्राणि त्तिसमेतानि। जयपुरमहाराजाश्रितेन पण्डितत्रजलालसनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परयोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितानि तानि च मुम्वय्यां निर्णयसागरास्ययन्त्रालये तदधिपतिना मुद्राक्षरैरयित्वा प्राकाश्यं नीतानि । Mon- १८८९ (अस्य प्रत्यय पुनर्मुद्रणादिविश्यै मर्वया जावजी दादाजी इत्यस्ताधिकार मूल्यं ९ आणकाः।

वामनपण्डितः। वृत्तिसमेतकाव्यालंकारसूत्राणां प्रणेता श्रीवामनपण्डितः कदा कुत्र समुत्पन इति न सम्बधितंतुं शक्यते. किं वयं खिस्तान्दीयसप्तमशतकोत्तरार्धाभ प्राचीनः, यतोऽयं में- वभूतिषणीतोत्तररामचरितादिश्लोकानुदाहृतवान्, अथ च वन्यालोकलोचने प्रथमो- योले 'वामनाभिप्रायेणायमाक्षेपः, मामहामिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरिदमैकमेवोदाहरणे व्यतरद्वन्यकृत्' इति वदन्तः श्रीमदा- चार्याभिनवगुप्तपादा धन्यालोकर्तुः श्रीमदाचार्यानन्दवर्धनाद्वामनस्य प्राचीनत्वं प्रक दयन्ति. तस्मारिसस्ताव्दीय वमशतकोत्तरार्धानाधस्तनो वामनः, भाति चायं काश्मी- रकः. अष्टमशतके कश्मीरमहीपतेविपश्चिद्वरस्य धीजयापीहस्य मन्त्री काश्चन वामना- भिघ आसीत्, स एवायं काव्यालंकारसूत्रमणेतत्यपि केचन काश्मीरका वदन्ति. का- शिकात्तिसारो वामनस्तस्माद्भिन्न, प्राचीनश्व.ध्वन्यालोकलोचन-काव्यप्रकाश-अलंका- रसर्वस्वादिनन्धरलेष्वपि वामनमत समुपन्यस्तमुपलभ्यते. अस्मिन्प्रन्ये वृत्तौ अमरुश- तक-उत्तररामचरित-कादम्परी-किरातार्जुनीय कुमारसंभव-मृच्छकटिक मेघदूत-रघुवंश- विक्रमोर्वशी-वीरवरित वेणीसंहार-शाकुन्तल-शिशुपालवध-हर्षचरितादिप्रन्येभ्यः समुद्द- सोदाहरणानि दत्तानि सन्ति. किं च कामन्दकीनीति-नाममाला-हरिप्रषोधानाम, विशाखिल-शूदक कविराजानां च नामान्यप्पत्र समुपलभ्यन्ते. महेश्वरकता टीकाप्यस्य ग्रन्थस्य वर्तते. . अयं अन्यः प्रथम १८५५ मिते खिस्तान्दे जर्मनीदेशे जेनाख्य(Jena)नगरे का- प्लर (Professor Cappeller)नामा विदुषा मुद्रितः. तत्पुस्तकमस्मिन्देदो न सर्वसुलमम्. पुनः १८८३ मिते सिस्तान्दे पालकत्तानगरे आनन्दरामबडुयामिधेन मुद्- यित्वा वाग्मटालंकार-सरस्वतीकण्ठाभरणाभ्यां संबद्ध एव स्थापितः, मुद्रणेऽपि सूत्र- १. भवतिः तिस्ताब्दीयतप्तमशतकोत्तरार्धे कान्यकुब्जमहीपालस्य यशोवर्मणः सं. भायामासीदिति सुप्रसिद्धमेव. २. काव्यमालायां मुद्रितस्य ३७ पृष्ठे टोकायाम्. ३. क- मोरेववन्तिवर्मराज्यममये नवमशतकोत्तरार्धे श्रीमदानन्दवर्धन आसोदिति राजतर- हिण्याः प्रतीयते. ४. 'मनोरयः शङ्गदत्तश्चटकः संघिमांस्तथा । यः कवरस्तस्य वाम. नाशाच मन्त्रिणः ॥ इति राजतरहिणी. ५. चीनदेशातीर्थयात्रार्थ भारत सप्तम. शतपूर्वाध कश्चन हुएन्-सह(lfiolen-Thsang)नामा पुरुषः समागतः. त- दान वामनप्रणोताया: पाणिनिमूत्रव्याख्याशः (काशियायाः) पठनपाठनंषु प्रचार आ- मोदिति तदीयगात्रावर्णनपुस्तकापाचागः पण्डितरधिगतम्, ६. विशासिलः कना- मासा. ५. टोमा तस्माभिनोपलव्धेति मूलप्रत्य एव प्रकटीकृतः.

वृत्त्युदाहरणानां पार्थक्यं न सम्यग्विहितमिति तत्पुस्तकं हस्तलिखितपुस्तकसमानमेव. अतो वयमस्य प्रत्नस्यात्युपयुक्तस्य ग्रन्थस्य मुदणे प्रवृत्ताः. तत्रास्मन्मुद्रणमूलभूतानि पुस्तकानि त्वेतानि- क. जयपुरराजगुरुभश्रीलक्ष्मीदत्तसनुभश्रीदत्तानां पुस्तकम् प्रायः शुद्धम्. तत्पत्राणि ४०. स. कलकत्तामुद्रितम्. ग. द्रविडवीरेश्वर शास्त्रिभिवाराणसीतः प्रहितम्. तत्तु नातिशुद्धमन्तिमाध्यायस्य त्रयस्त्रिंशन्मितसूत्रपर्यन्तमेवास्ति. तत्पत्राणि ६१. एवं पुस्तकत्रयाघारेण मुदितानि सवृत्तीनि काव्यालंकारसूत्राण्येतानि प्रमोदावहानि भवन्त्वलंकारशास्ने प्रविविक्षणा सच्छात्राणामिति शिवम्, १. प्राचीनेवलं कारनियन्धेगु (अस्मदवलोस्तिषु) वामनतिरेयोत्कृया । तस्यो हि वापि वापि स्तोती समीचीना युक्तिद्भाविता । (शब्दशुद्धि विना) अप्रामगिकविषयो नावाग, नापि च महाररमः, यदनुषहादश्लीलनादोपस्य संमवः । अत एव नास्ति न- प्राशीलताशेषः । नापि पेय वृत्तिरतीव विस्तृता । प्रमिद्धेषु तावदलंकारनियन्धेषु पा. लानां प्रथमपाटोपयोगिनी एवेति मन्यामहे ।' इति स्वमुद्रितकाव्यप्रकाशोषोदाते न्या- परनश्रीयुतमद्देशचन्दपण्डिताः. -

काव्यालंकारसत्राणां विषयानुक्रमः।
एटारः।
१
२
७
१८
अध्यायाः।
शारीरं नाम प्रथममधिकरणम् ।
१ प्रयोजनस्थापना।
२ अधिकारिचिन्ता रीतिनिश्चयश्व।
३ काव्याहानि काव्यविशेषाश्च ।
दोपदर्शनं नाम द्वितीयमधिकरणम् ।
१ पदपदार्षदोपविभागः ।
२ वाक्याश्यार्थदोपविभागः ।
गुणविवेचनं नाम तृतीयमधिकरणम् ।
१ गुणालंकारविवेकः शाहगुणविवेकश्च ।
२ अर्थगुणविवेचनम् ।
आलंकारिक नाम चतुर्थमधिकरणम् ।
१ शब्दालंकारविचारः।
२ उपमाविचारः।
३ उपमाप्रपमाधिकारः।
प्रायोगिक नाम पञ्चममधिकरणम् ।
कायसमयः।
२ शब्दमुद्धिः।
२५
३१
४२
४८
६३

काव्यालंकारसूत्राणां शुद्धिपत्रम् । शुद्धम् । शुद्धम् । 11 तावापि ७) ७ अधिकारिचिन्ता रोति- १०१२४ पद्यभागवदृत्त. १२।११ महाकाव्यमिति । २४.१७ उत्तरोष्ठ- २६॥ ४ सौकुमार्योदारता २७१२२ वारोह २८११५ विप्रतिपत्ति. २९/२१ वनाली ३०।१३ मधुच्युतः ३४॥ ४ पश्यतीत्युक्तं ४३.१७ लप्साहरागो ५३॥ ३ सा पीनो. ५६॥ १ स व्यतिरेक. ६४1 4 वरात्मनेपद. ६५।२४ इति शब्द ६६. सिध्यति ३६.१२ 'श्रितादिपु गमिगाम्यादीनाम्' ६८) १ तिकृत्तद्धितसमासैः' इति १६९/२३ सिध्यति ४०। ९ इत्यत्रारिहा रिपुहा |७२।२१ सिध्यति ७३५१४ 'काला' ७३१६ सिध्यति । 'काला' ७६। २ सिध्यन्तीति ७६. ८ 'वा संज्ञायाम् ७८।६ प्रपीयेति ७५1१० दीहादमिति १७९)10 'उपयोदिषु त्रिपु । द्वितीयामेडि- तान्तेषु ८ काव्यमाला। पण्डितवरश्रीवामनविरचितानि काव्यालंकारसूत्राणि। वृत्तिसमेतानि । शारीरं नाम प्रथममधिकरणम्। प्रथमोऽध्यायः। प्रणम्य परमं ज्योतिमिनेन कविप्रिया । काव्यालंकारसूत्राणां स्खेषां वृत्तिर्विधीयते ॥ काव्यं ग्राह्यमलंकारात् ॥ १॥. काव्यं खलु ग्राह्यमुपादेयं भवति । अलंकारात् । काव्यशब्दोऽयं गुणा- लंकारसंस्कतयोः शब्दार्थयोर्वर्तते । भक्त्या तु शब्दार्थमात्रवचनोऽन गृह्यते । कोऽसावलंकार इत्यत आह- सौन्दर्यमलंकारः ॥ २॥ अलंकातिरलंकारः । करणव्युत्पच्या पुनरलंकारशब्दोऽयमुपमादिषु वर्तते स दोपगुणालंकारहानादानाभ्याम् ॥ ३ ॥ स खल्वलंकारो दोपहानात, गुणालंकारादानाञ्च संपाद्यः कः । शास्त्रतस्ते ॥४॥ ते दोपगुणालंकारहानादाने शास्वादस्मात् । शास्त्रतो हि ज्ञात्वा दोपा अह्यात, गुणालंकारांचाददीत । १. 'परमात्मान' क. २. 'ते' क. ३. 'माक्त्या' ख. लक्षणयेत्यर्थः. ४. 'कवेः' ख-पुस्तके नास्ति. ५. 'कवेः शास्रतस्ते च' स. ६. 'ते चैते ख. ५. 'हे' क-य. स्तके नास्ति, २ काव्यमाला। - किं पुनः फलमलंकारवता काव्येन येनैतदर्थोऽयं यत्न इत्याह- काव्यं सदृष्टादृष्टार्थम् । प्रीतिकीर्तिहेतुत्वाद ॥ ५ ॥ काव्यं सञ्चारु दृष्टप्रयोजनम् । प्रीतिहेतुत्वात् । अदृष्टप्रयोजनम् । कोतिहेतुत्वात् । अत्र श्लोकाः- 'प्रतिष्ठा काव्यबन्धस्य यशसः सरणिं विदुः । अकीर्तिवर्तनी त्वेवं कुकवित्वविडम्बनाम् ।। कीर्ति स्वर्गफलामाहुरासंसारं विपश्चितः । अकीति तु निरालोकनरकोद्देशतिकाम् ॥ तस्मात्कीर्तिमुपादातुमकीर्ति तुं निहितम् । काव्यालंकारशास्त्रार्थः प्रसाद्यः कविपुंगवैः ।। इति काव्यालंकारसूत्रवृत्ती शारीरे प्रथमेऽधिकरणे प्रथमोऽध्यायः । प्रयोजनस्थापना। द्वितीयोऽध्यायः । अधिकारिनिरूपणार्थमाह- अरोचकिनः सणाभ्यवहारिणश्च कवयः ॥ १ ॥ इह खलु द्वये कवयः संभवन्ति-अरोचकिनः, सनृणाम्यवहारिण- श्चेति । अरोचकिसतृणाभ्यवहारिशब्दो गौणार्थी 1 कोऽसावर्थ:-विवे- कित्वमविवेकित्वं चेति । तवाह- पूर्व शिप्याः । विकिलात् ॥ २ ॥ 1.'येन तदर्थोऽयं' क. २. 'इन्यत आहे' क. ३.क:' का. ४. वर्तनी मार्ग:. ५. 'लेव' क. ६. 'च' प. ७ 'च व्यपोहिनुम्' ग. ८. 'प्रयोजन स्थापनमधिकारि-ग. ९.'नास्ति गना मचिका द्रा येश तोचकन 1 अपरिचिताबारदाना इत्यर्थः । माणमन्यवहालि मात्र इनि मत्रणामाहारिणः । दोषगुणविवेकान्या इत्यर्थः । ति यटिप्पणन्, 'मतृणमभ्यवहरति मतृणाय. वहारी अदिती । दनि श्रीपष्टचग्निटीका (२०२८). १.. 'कलयः' क-गुम्न में नास्ति...'माहानिरा.१२. 'यदा' फ..

पूर्व खल्वरोचकिनः शिप्याः शासनीयाः । विवेकित्वाद्विवेचनशील- त्वात् । . - नेतरे । तद्विपर्ययात् ॥ ३॥ इतरे सतृणाम्यवहारिणो न शिप्याः। तद्विपर्ययादविवेचनशीलत्वात् । न च शीलमपाकर्तु, शक्यम् । नन्वेवं न शास्त्रं सर्वाग्राहि कुतस्तदुपादीयते तदाह- न शास्त्रमद्रव्येप्वर्थवत् ॥ ४॥ म खलु शास्त्रमद्रव्येप्वविवेकिप्वर्थवत् । निदर्शनमाह- न कैतकं पनामसादनाय ॥५॥ नहि कतकं पयस इव पकस्य प्रसादनाय प्रभवति । अधिकारिणो निरूप्य रीतिविनिश्चयार्थमाह- रीतिरात्मा काव्यस्य ॥ ६॥ रीतिर्नामेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः। का पुनरियं रोतिरित्याह-- विशिष्टा पदरचना रीतिः ॥ ७ ॥ विशेषवती पदानां रचना रीतिः। कोऽसौ विशेष इत्याह- विशेपो गुणात्मा ॥८॥ वक्ष्यमाणगुणरूपो विशेषः। सा त्रिधा दी गौडीया पाशाली च ॥९॥ सा चेयं रीतिरिवधा भिद्यते-वैदर्भी, गौडीया, पाचाली चेति । १. 'नुपाहि स्याको वा मन्यते तदाह' क. २. प्रयोजनवदित्यर्थः. ३. कतक जलप्रसादको निर्मली' इति प्रसिद्धः फलविशेषः. ४. 'मग्नीनिक. ५. रातिीन- या' स. ६. विशिष्टपद' क. ५. 'वैदी गोडीया पाबाली' इति स्त्र-पुस्तके नास्ति, ४ - काव्यमाला। • कि पुनर्देशवशाहव्यवद्गुणोत्पत्तिः काव्यानाम्, येनायं देशविशेषव्य- पदेशः । नैवम् । यदाह- विदर्भादिपु दृष्टत्वात्तत्समाख्या ।।१०।। विदर्भगौडपाश्चालेषु देशेषु तत्रत्यैः कविभिर्ययास्वरूपमुपलब्धत्वान- समाख्या । न पुनर्देशैः किंचिदुपक्रियते काव्यानाम् । तासां गुणभेदाढ़ेदमाह- समग्रगुणा वैदी ॥ ११ ॥ समग्रैरोनःप्रसादप्रभृतिभिर्गुणैरुपेता वैदर्भी नाम रीतिः । अत्र श्लोकी- 'अरटष्टा दोपमात्राभिः समग्रगुणगुम्फिता । विपशीस्वरसौभाग्या वैदर्भी रीतिरिप्यते ॥ तामेकामेवं कवयः स्तुवन्ति- 'सति वक्तरि सत्यथै सति शब्दानुशासने । अस्ति तेन विना येन परित्रवति वाडमधु ।' अत्रोदाहरणम्-~ शाहन्तां महिपा निपानसलिलं गर्महस्वाडित छायावादकदम्बकं मृगकुलं रोमन्यमम्यस्यतु । विस्त्रयः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्यले विश्रान्ति लभतामिदं च शिथिल ज्यावन्यमस्मद्धनुः ।। ओनाकान्तिमती गाडीया ॥ १२ ॥ ओजः कान्ति"विद्यते यस्यां सा ओनःकान्तिमती गोडीया नाम शतिः । माधुर्यसौकुमार्ययोरभावात । समासबहुला अत्यल्बणपदा च । १. 'देशविशेष य, २. 'नर' व. १. 'दंगो कागुम्नां नास्ति. ४. 'सम्पला देशममास्या' क. ५. 'अत्र हो। -पुस्तके. नाम्नि. ६. 'अलंकारादिमाभाग्यो तामेशामर स्तुवन्ति कवयः ग... गरयात्म यातु 'प्रक-युम्न के नाम्नि. १. अमिशनशानदे द्वितीय कोष" .गने सग्याः मेस' क..

१ अवि० २ अ०] काव्यालंकारसूत्राणि । अत्र श्लोक:--- 'समस्तात्युत्कटपदामोनाकान्तिगुणान्विताम् । गौडीयामिति गायन्ति रीति रीतिविचक्षणाः ॥' उदाहरणम्--- 'दोर्दण्डाचितचन्द्रशेखरधनुईण्डावभङ्गोधत- एंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्रापर्यस्तकपालसंपुटमिलद्रह्माण्डमाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ।। माधुर्यसौकुमार्योपपन्ना पाचाली ॥ १३ ॥ माधुर्येण सौकुमार्येण च गुणेनोपपन्ना पाचाली नाम रीतिः । ओन:- कान्त्यभावानुल्यणपदा विच्छाया च । तथा च श्लोकः- 'आश्लिष्टश्लयभावां तु पुराणछाययाश्रिताम् । मधुरां मुंकुमारां च पाचाली कवयो विदुः ॥ अत्रोदाहरणम्- 'ग्रामेऽस्मिन्पधिकाय पान्य वमतिनवाधुना दीयते राजापत्र विहीरमण्डपतले पान्यः प्रसुप्तो युवा । तेनोत्याय सलेन गर्नति घने स्मृत्वा नियां तत्कृतं येनाद्यापि करइदण्डपतनाशकी जनस्तिति ।।" एतामु तिस्पु रोतिषु रेखास्विर चित्रं काव्यं प्रतिष्ठितमिति । तामां पूर्वा ग्रागा । गुणसाकल्यात् ।। १४ ॥ तासां तिसृणां रीतीनां पूर्वा पैदर्भी ग्राह्या ! गुणानां साकल्यात् । न पुनरितरे । स्तोकगुणलात् ।। १५ ॥ १. 'र' क. २. 'गुगामिलाम्' फ. ३. 'रिक. ४. वीरचरित प्रथम गर.. ५. 'पति' क. . अनुयाध्यापकाया 'क. ५. कागतो नालि. २. तारमाश्रिताप. १.. 'माम. 1. 'या' फ. १२. पादक.

६ काव्यमाला। इतरे गौडीयपानाल्यौ न ग्राह्ये । स्तोकगुणत्वात् । तदारोहणार्थमितराभ्यास इत्यैके ॥ १६ ॥ तस्या वैदा एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते । तेनु न । अतत्त्वशीलस्य तत्त्वानिप्पत्तेः ॥ १७ ॥ नह्यतत्वं शीलयतस्तत्वं निप्पद्यते । निदर्शनार्थमाह- न शेणमूत्रवानाभ्यासे त्रसरसूत्रानचित्र्यलाभः ॥ १८ ॥ नहि शेणमूत्रवानमभ्यस्यन्कुपिन्दत्रसासूत्रयानवैचित्र्यं लभते । सापि समासाभावे शुद्धवैदर्भी ॥ १९ ॥ सापि च वैदर्भी रीतिः शुद्धवैदर्भी मण्यते । यदि समासवत्पदं न भवति । नस्पामर्थगुणसंपदास्वाद्या ॥ २० ॥ तस्यां वैदामर्थगुणसंपदास्वाद्या मवति । तदुपारोहादर्थगुणलेशोऽपि ॥ २१॥ तदुपधानतः खल्वर्थलेशोऽपि स्वदते । किमङ्ग, पुनरर्थगुणसंपन् । तथा चाहुः- 'कि त्वस्ति काचिदपरैव पदानुपूर्वी यस्यां न किंचिदपि किंचिदिवावभाति । आनन्दयत्यथ च कर्णपर्थ प्रयाता चेतः सताममृतवृष्टिरिख प्रविष्टा । वचसि यमधिगम्य स्पन्दते वाचकश्री. वितथमपि तथात्वं यत्र वस्तु प्रयाति । १. क-पुस्तके इयं वृत्तिनालि. २. प-गुस्तके 'तत्तु ने' इति सूत्रपतिम; 'तन्न' फ. ३. 'सण' क. ४. 'वाने स. ५, 'मण' फ. ६. 'तन्तुक. ५. 'वैचित्री' म. ८. 'मापि च ममामाभावे शुदी भन्यने । यदि ममामवपद न मपति तस्यो पैदभ्योमर्थगुणमेपरवाया भवति । तदुपारोहादगुणलेशोऽपि तदृपदानतः ॥१९॥ सल्वा-'स. १. 'ममामानिए क... 'यपाल' क.

७ - .१ अधि० ३ अ०] काव्यालंकारसूत्राणि । उदयति हि स ताटकापि वैदर्भीती सहृदयहृदयानां रञ्जकः कोऽपि पाकः ॥ सापि वैदर्भी । तात्स्थ्यात् ॥ २२॥ सापीयमर्थगुणसंपद्वैदर्भात्युक्ता । तात्स्थ्यादित्युपचारतो व्यवहारं द- र्शयति । इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रयमेऽधिकरणे द्वितीयोऽध्यायः । अधिकारचिन्तारीतिनिथयश्व । तृतीयोऽध्यायः। रोतितत्त्वं निरूप्य काव्याङ्गान्युपदर्शयितुमाह- लोको विद्या प्रकीर्णं च कान्याङ्गानि ॥ १॥ उद्देशक्रमेणैतद्वयाचष्टे- लोकवृत्तं लोकः ॥ २॥ लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तमिति । शब्दस्मृत्यभिधानकोपच्छन्दोविचितिकलाकामशास्त्रदण्डनी- तिपूर्वा विद्या ॥३॥ शब्दस्मृत्यादीनां तत्पूर्वकत्वं पूर्व काव्यबन्येप्वपेक्षणीयत्वात् । तासां काव्याङ्गत्वं योजयितुमाह- शब्दस्मृतेः शब्दशुद्धिः॥४॥ शब्दस्मृतेर्व्याकरणाच्छन्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शु- द्वानि हि पदानि निशिङ्कः कविभिः प्रयुज्यन्ते । अभिधानकोपतः पदार्थनिश्चयः ॥ ५॥ पदं हि रचनाप्रैवेशयोग्यं भावयन्संदिग्धार्थत्वेन न गृह्णीयान्न वा जह्या- दिति काव्यबन्धविनः । तस्मादभिधानकोपतः पदार्थनिश्चयः कर्तव्य १. 'सापीय स. २. 'वैदर्भी उक्ता' ख, ३. ख-पुस्तके नास्ति. ४. 'अधिका- खत्ता रीतिनिश्चयं च निरूप्य' स. ५. 'क्रमेणैव' ख. ६. "विद्याः' क. ५. 'तस्पू. त्वं काव्य' क. ८. 'साधुले' क. ९. क-पुस्तके नास्लि. १०. निकम्मर क. ११. 'कोशात् क.१२. 'योग्यप्रवेश' क.

काव्यमाला। ८ इति । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोषस्य । अप्रयुक्तस्या- प्रयोज्यत्वात् । यदि प्रयुक्तं प्रयुज्यते तहि किमिति संदिग्धार्थत्वमाश- ङ्कितं पदस्य । तन्न । तत्र सामान्येनार्थावगतिः संभवति । यथा नौवी- शब्देन जवनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्चयः । स्त्रिया वा पुरु- पस्य वेति संशयो 'नीवी संग्रथनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपश्यत इति । अथ कथं 'केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्लथीलतः । विचित्रभोजनाभोगवर्धमानोदरादिना ॥' इति प्रयोगः । भ्रान्तेकैपचाराहा। छन्दोविचितेत्तसंशयच्छेदः ॥ ६ ॥ काव्याभ्यासादृत्तसंक्रान्तिर्भवत्येव । कि तु मात्रात्तादिपु क्वनि- संशयः स्यात् । अतो वृत्तसंशयच्छेदश्छन्दोविचितेविधेय इति । कलाशास्त्रेभ्यः कलातचस्य संवित् ॥ ७॥ कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशाखि. लादिप्रणीतानि कलाशास्त्राणि तेभ्यः कलातत्वस्य संवित्संवेदनम् । नहि कलातत्त्वानुपलब्धौ कलावस्तु सम्यविहं शक्यमिति । कामशास्त्रतः कामोपचारस्य ॥ ८॥ संविदित्यनुवर्तते । कामोपचारस्य संवित्कामशास्त्रत इति । कामोप- चारबहुलं हि वस्तु काव्यस्येति । दण्डनीतेनयापनययोः॥९॥ दण्डनीतरर्थशास्त्रानयस्यापनयस्य च 'संविदिति । तत्र पाहुण्यस्य १.स-पुस्तके नास्ति २. 'मामान्यनापि' प. ३. 'नागिन्धन' य. ४. 'अय फर कनचित् पूर्वमुक्तो नायिन्धः लयीत नि प्रयोग.' ग. ५. लक्षगन्यर्थः 'उपमानादा' क. ६. 'वृत्त' ख. ७.'छन्दःशायत.' या. ८.ग-गुम्ला मास्ति. .. 'तत्वमविन्' क. १. 'मवेदना प. 11. 'मविदिनि तम्यानुवर्तन' का. १२. क-पुस्तके नाम्नि. १३. प्रतिगाम-यः. १४. 'सविमान' रा.

१ अधि० ३ ०] काव्यालंकारसूत्राणि । यथावत्प्रयोगो नयः । तद्विपरीतोऽपनयः । नहि ताबविज्ञाय नायकम- तिनायकयोवृत्तं शक्यं काव्ये निबहमिति । इतिहत्तकुटिलत्वं च ततः ॥ १० ॥ इतिहासादिरितिटनं काव्यशरीरम् । तस्य कुटिलत्वं ततो दण्डनीते- बलीयस्त्वाबलीयस्त्वादिप्रयोगो व्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासाम- पि विद्यानां यथास्वमुपयोगो वर्णनीय इति । लक्ष्यज्ञत्वमभियोगो द्धसेवावेक्षणं प्रतिभानमवधानं च मकी- र्णम् ॥ ११ ॥ तंत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १२ ॥ अन्येपो काव्येषु परिचयो लक्ष्यज्ञत्वम् । ततो हि काव्यबन्धस्य व्यु. त्पत्तिर्भवति ॥ काव्यवन्धोद्यमोऽभियोगः ।। १३ ।। काव्यस्य बन्धनं रचना काव्यबन्धः । तत्रोद्यमोऽभियोगः। स हि' कवित्वप्रकर्षमवसंदधाति । काव्योपदेशगुरुशुश्रूषणं सुद्धसेवा ॥ १४ ॥ काव्योपदेशे गुरव उपदेष्टारः। तेषां शुश्रूषणं वृद्धसेवा । ततः कौव्य- विद्यायाः संक्रान्तिर्भवति । पदाधानोद्धरणमवेक्षणम् ।। १५ ।। पदस्याधान न्यासः । उद्धरणमैपेसारणम् । तयोः खल्ववेक्षणम् । अत्र श्लोको- 'आधानोद्धरणे तावद्यावद्दोलायते मनः । पदस्य स्थापित स्थैर्य हन्त सिद्धा सरस्वती ।। १. काव्येषु निबटुं शक्यमिति. २. 'ततः इतिहासादि क. ३. 'काव्यार्य ख. ४. 'पावलीयसादिप्रयोगव्युत्पत्ति' क. ५. 'यथायथ' स. ६. स-पुस्तके एतरसूत्र पूर्वसूत्रान्तर्गतमेव स्यापिनम्. ५. अन्येषु' क. ८. 'रचना काव्ययन्यः' इति प- पुस्तके नास्ति. १ क-पुस्तके नास्ति. १९. आराधयति' क.११. 'शभूपणं च' क. १२. क-पुस्तके नास्ति. १३. 'काव्यछाया संग्रामति' क. १४. 'पदाधानीद्धरणे चावेक्षणम्' स. १५. 'अपसारः' क. १६.'तत्' क.१५, 'आस्थापिते' प. . २ -- १० काव्यमाला। यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् । तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥ कवित्ववीजं प्रतिभानम् ॥ १६ ॥ कवित्वस्य बीजं कवित्वबीनं जन्मान्तरागतसंस्कारविशेषः कश्चित् । यस्माद्वी विना कान्यं न निप्पद्यते । निष्पन्नं वावहास्यायतनं स्यात् । चित्तकाश्यमवधानम् ॥ १७॥ चित्तस्यैकाथ्यं बाद्यानिवृत्तिः । तदवधानम् । अवहितं हि चित्त- मर्थान्पश्यति । तद्देशकालाभ्याम् ॥ १८॥ तदवधानं देशात्कालाच्च समुत्पद्यते । को पुनर्देशकालावित्याह- विविक्तो देशः ॥ १९ ॥ विविक्तो निर्जनः रात्रियामस्तुरीयः कालः ॥ २०॥ रात्रेर्यामो रात्रियामः प्रहरस्तुरीयश्चतुर्थः काल इति । तद्वशाद्विष. योपरतं प्रसन्नं चित्तमवधत्ते । एवं काव्याङ्गान्युपदर्य काव्यविशेषकथनार्थमाह- काव्यं गद्यं पद्यं च ॥ २१ ॥ गद्यस्य 'पूर्व निर्देशो दुर्लक्ष्यविपयत्येन दुन्धित्वात् । यथा :-'गा कवीनां निकपं वदन्ति । तञ्च त्रिधा भिन्नमिति दर्शयितुमाह-- गयं वृत्तगन्धि चूर्णमुत्कलिकामायं च ॥ २२ ॥ तल्लक्षणान्याह- पद्यभारपदृत्तन्धि ।। २३ ॥ 1. जन्मान्तगगत' इति क-गुस्तके नास्ति. २. प-गुस्ता मास्ति. ३. 'म हास्यायतन' क. .'निसकाध्यमन्यादिनितिः' म. ५. 'अाम स्तति' क. ६. 'देशकालाभ्यां संपद्य क. ५. रा-पुस्तके नास्ति. ८. 'विण्यादुप' क. ५. 'का- व्यविदोषस्य सानार्थमाई' रा.१०. 'पूर्वनिर्देशो टुबन्धलात् वियरेन दुर्वाधार र.

१ आधि० ३ अ०] काव्यालंकारसूत्राणि । पद्यस्य भागाः पद्यभागास्तद्वद्वृत्तगन्धि । यथा---'पातालतालुतलवासिपु दानवेपु' इति । अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते । अनाविद्धललितपदं चूर्णम् ॥ २४ ॥ अनाविद्वान्यदीर्घसमासानि ललितान्यनुदतानि पदानि यरिंमस्तदना. विद्धललितपदं चूर्णमिति। यथा--'अभ्यासो हि कर्मणां कौशलमावहति । नहि सहन्निपात- मात्रेणोदविन्दुरपि ग्रावणि निम्नतामादधाति । विपरीतमुत्कलिकाप्रायम् ॥ २५ ॥ विपरीतमाविद्धोद्धतपदमुत्कलिकामायम् । यथा-'कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गकु- म्भस्थलगलन्मदच्छटाच्छरितचारुकेसरीरभासुरमुखे केसरिणि' इति । पद्यमनेकभेदम् ॥ २६ ॥ पद्यं सल्वनेकेन समार्धसमविपमादिना भेदेन भिन्नं भवति । तदनिबद्धं निबद्धं च ॥ २७ ॥ तदिदं गद्यपद्यरूपं काव्यमनिवद्धं निवई न । अनयोः प्रसिद्धत्वा- लक्षणं नोक्तम् । क्रमसिद्धिलपीः स्रगुत्तंसवत् ॥ २८ ॥ तयोरित्यनिप्रद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमसिद्धिः । अनिवदसिद्ध झवद्धसिद्धिः स्वगुत्तंसवत् । यथा स्रनि मालायां सिद्धा- यामुत्तंसः शेमा सिध्यतीति । केचिदानन्द एव पर्यवसितास्तेपणार्थमाह-- नानिको कास्त्वकतेनः परमाणुवत् ॥ २९ ॥ न राल 'अन्र्चा काव्यं नास्ति दीप्यते । ययकतेनः परमाणुरिति । देग' क. २. 'मार' क-गुस्ता. नास्ति. ३. 'भनौमिति' का. ४. मसानाम्नि. ५. सदूपणा' य. ६. नि' ग. १. "निष्प ८.

काव्यमाला। १२ :- अत्र श्लोकः- - 'असंकलितरूपाणां काव्यानां नास्ति चारुता । न प्रत्येक प्रकाशन्ते तैनसाः परमाणवः ॥' संदर्भेष दशरूपकं श्रेयः ॥ ३०॥ संदर्भेषु प्रवन्धेषु दशरूपकं नाटकादि श्रेयः । करमात्तेदाह- तद्धि चित्रं चित्रपटवाद्विशेपसाकल्यात् ॥ ३१ ॥ तद्दशरूपकं हि यस्माञ्चिनं चित्रपटवत् । विशेषाणां साकल्यात् । ततोऽन्यभेदप्तिः ॥ ३२॥ ततो दशरूपकादन्येषां भेदानां लप्तिः कल्पनामिति । देशरूपक- स्यैष हीदं सर्व विलसितम् । यच कथास्नायिके महाकाव्यमिति तछ- क्षण ने नातीव हदयंगमभित्युपेक्षितमस्माभिः । तदन्यतो ग्राह्यम् । इति काव्यालपारसूपनी शारे प्रश्मेऽधिमणे तृतीयोऽध्यायः । पाच्याहानि याविषयी समाप्त चेदं शारीरं प्रथममधिकरणम् । दोपदर्शनं नाम, द्वितीयमधिकरणम् ।

२ अधि० १ अ०] काव्यालंकारसूत्राणि । किमर्थं ते पृथकप्रपश्यन्त इत्याह- सौकर्याय प्रपञ्चः ॥ ३॥ सौकर्यार्थ प्रपञ्चो विस्तरो दोपाणाम् । उद्दिष्टलक्षणा हि दोषाः ज्ञाता भवन्ति । पददोपान्दयितुमाह-- दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च ॥४॥ क्रमेण व्याख्यातुमाह- शब्दस्मृतिविरुद्धमसाधु ॥५॥ शब्दस्मृत्या व्याकरणेन विरुद्ध पैदमसाधु । यथा --'अन्यकारक- वैयर्थ्यम्' इति । अत्र हि 'अपठ्यतृतीयास्थस्यान्यस्य दुगाशीरा- शास्थास्थितोत्सुकोतिकारकरागच्छेषु' इति का भवितव्यमिति । श्रुतिविरसं कष्टम् ॥ ६॥ श्रुतिविरसं ओनकटुपदं कष्टम् । तद्धि रचनागुम्फितमप्युहेजयति । यथा-- 'अचूचुरञ्चण्डि कपोलयोस्ते कान्तिद्रवं द्राविशदः शशाङ्कः । लोकमात्रमयुक्तं ग्राम्यम् ॥ ७॥ लोक एव यत्मयुक्तं पदं न शास्त्रे तद्वाम्यम् । यथा---'काष्टं कथं रो- दिति फूकतेयम्' । अन्यदपि तैलगल्लादिकं द्रष्टव्यम् । शास्त्रमात्रमयुक्तममतीतम् ॥ ८॥ शास्त्र एव प्रयुक्तं यन लोके तदप्रतीतं पदम् । यथा- 'कि भापितेन वहुना सैंपस्कन्धस्य सन्ति मे न गुणाः । गुणानन्तरीयकं च प्रेमेति न मेऽरेत्युपालम्भः ।।" ..विस्तरों' फ-पुस्तके नास्ति. २. 'असाधुपदम् क. ३. ई क-पुस्तके नास्ति. ४. 'अन्यः पारकः' इति विग्रहे दुगागमो भवति. तेन 'अन्यतारवयम्' इति मापु. ५. क-पुस्तके सूरमदितम्. ६. 'तहिरचनात्' क. ७. प्रयुक्त यम माग्ने नगम्य पदम... 'मर' क. तलसम्स्तागायर. ६. 'पदम्' क-गुस्लो नास्ति. इन्दियासम्प. 9. 'गणनान्तरेरक च' का. १२, FASTलम्मः' प. ..

काव्यमाला। ४ अत्र रूपस्कन्धान्तरीयको न लोक इत्यप्रतीतम् । पूरणार्थमनर्थकम् ॥ ९॥ पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापूपन्यायेन पदमन्यद- प्यनर्थकमेव । यथा- 'उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणैः सविता ।' अत्र तुशब्दस्य पादपूरणार्थमेव प्रयोगः, न वाक्यालंकारार्थम् । वा- क्यालंकारप्रयोजनं तु नानर्थकम् । अपवादार्थमिदम् । यथा- 'न खल्विह गतागता नयनगोचरं मे गता' इति । तथा हि ग्वलु हन्तेति । संप्रति पदार्थदोपानाह- अन्यार्थनेयगूढार्थाश्लीलनिष्टानि च ॥ १० ॥ दुष्टं पदमित्यनुवर्तते । अर्थतच पचनविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति मूत्रार्थः। एपां क्रमेण लक्षणान्याह-- मंदिच्युतमन्यार्थम् ।। ११ ॥ संदिपु च्युतं रूटिमनपेश्य यौगिकार्थमात्रोपादानादन्यार्थ पदम् । स्थूलत्वात्सामान्येन घटशब्द. पटशब्दार्थ इत्यादिकमन्या नोक्तम् । यथा- 'ते दुःश्वमुच्चावनमावहन्ति ये प्रस्मरन्ति प्रियसंगमानाम् ।' अत्रापतिः करोत्यर्थो धारणायें प्रयुक्तः, प्रस्मरतिविस्मरणार्थः प्रम- प्टरमरण इति । कल्पितार्य नेपार्यम् ॥ १२ ॥ 1. 'ए' का-पुम्न नाम्नि. २. क-पुस्तके नाग्नि. ३. 'नारसमाम्' क. ४. होचादिका पाहिः क-पुम्न के नाम्नि. ५. 'दोष' क. ६.शियानि' क. ५. 'पई दुष्ट' क. ८. 'अथांग प्रिनिविरिणामः' क; 'भातय वचन परिणाम.' म... 'अन्यायनेमाने गदोनि' ग... 'हरिग्युत'.

'२ अधि० १ अ.] काव्यालंकारसूत्राणि। अश्रुतस्याप्यन्यस्य पदार्थस्य कल्पनात्कल्पिताथै नेयार्थम् । यथा- 'सपदि पतिविहंगमनामभृत्तनयसंवलितं वलशालिना। विपुलपर्वतवपिशितैः शरैः प्लवगसैन्यमुलूकनिता जितम् ॥' अत्र विहंगमश्चक्रवाकोऽभिप्रेतः । तन्नामानि चक्राणि । तानि विभ्रती- ति विहंगमनामभृतो रथाः। पतिरिति दशसंख्या लक्ष्यते । पतिर्दश विहंगमनामभृतो रैथा यस्य स पङ्क्तिविहंगमनाममृद्दशरथः । तस्य तन- याभ्यां रामलक्ष्मणाम्यां संवलितं लवगसैन्यं नितम् । उलूकनिता इन्द्र- जिता । कौशिकशब्देनेन्द्रोल्कयोरभिधानमिति कौशिकशब्दवाच्यत्वेने- न्द्र उलूक उक्तः । ननु चैवं रैथाङ्गनामादीनामपि प्रयोगोऽनुपपन्नः । न । तेषां निदलक्षणत्वात्। अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ १३ ॥ यस्य पंदस्य लोकेऽर्थः प्रसिद्धश्चाप्रसिद्धश्च तदप्रसिद्धेऽथें प्रयुक्तं गू- दार्थम् । यथा-- 'सहस्रगोरिवानीकं दुःसहं भवतः परैः' इति । सहस्रं गावोऽक्षीणि यस्य स सहस्रगुरिन्द्रः । तस्येवेति गोशब्दस्या- शिवाचित्वं केविप्वप्रसिद्धमिति । असभ्यार्थान्तरमसभ्यस्मृतिहेतुथाश्लीलम् ॥ १४ ॥ यस्य पदस्यानेकार्थस्यैकोऽयोंऽसम्यः स्यात्तदसभ्यार्थान्तरम् । यथा-'वर्चः' इति पदं तेजसि विष्ठायां च । यत्तु पदमेकदेशद्वारेणासम्याथ स्मारयति तदसभ्यस्मृतिहेतुः, यथा-'रुकाटिका' इति । १. 'अश्रुतापस्य कल्पना कल्पितार्थे' ख. २. 'तानि' ख-पुस्तके नास्ति. ३. 'रथा' फ-पुस्तके नास्ति. ४. 'रबाइनामप्रयोगो' ख. ५. 'हट' . ६. 'पदस्य स- पुस्तके नास्ति. ७. प्रसिद्धार्थ स. . 'वाचकलात्' स. ९. 'कवि' क-पुस्तके नास्ति. १०. 'इति' ख-गुस्तके नास्ति. ११. 'स्मृतिकरमशीलम्' क.

"" काव्यमाला। न गुसलक्षितसंवृतानि ।। १५॥ अपवादार्थमिदम् । गुप्तं लेक्षितं संवतं च नालोलम् । एपां लक्षणान्याह-- अप्रसिद्धासभ्यं गुप्तम् ॥ १६॥ अप्रसिद्धासम्यार्थान्तरं पदमप्रसिन्हासभ्यम् । तद्गुप्तम् । यथा- 'संबाधः' इति पदम् । तद्धि संकटार्थे प्रसिद्धम्, न गुह्यामिति । लाक्षणिकासभ्यान्वितं लक्षितम् ॥ १७ ॥ तदेवासम्यार्थान्तरं लाक्षणिकेनासभ्येनार्थेनान्वितं पदं लक्षितम् ।.. यथा-~~'जन्मभूमिः' इति । तद्वि लक्षणया गुह्यार्थम्, न स्वशक्त्येति । लोकसंवीतं संवृतम् ॥ १८ ॥ लोकेन संवीतं लोकसंवीतं यत्तत्संवृतम् । यथा-'सुभगा' 'भगिनी' 'उपस्थानम्' 'अभिप्रेतम्' 'कुमारी' 'दोहदम्' इति । अन हिं' श्लोकः-- 'संवीतस्य हि लोकेन न दोपान्वेषणं समम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वमावना ।।' सविध्यम् । श्रीडाजगुप्सामहलातइदायिभेदात् ।। १९ ॥ तस्याश्लीलस्य वैविध्यं भवति 1 नोडानुगुप्सामङ्गलातरदायिना भेदात् । किनिद्रीडादायि भवति । यथा [-~-'वानादवम्' 'हिरण्यरेताः' इति । किंनिग्नगुप्सादायि भवति । यथा 'कपकः' इति । किनिदमन- लातादायि भवति । यथा 'संस्थितः' इति । व्याहतार्यमत्ययं लिष्टम् ॥ २० ॥ १. 'मात लक्षितं ना-'२. 'गुर्म पर-यथा' ग... 'प्रमिदमकदार्थम्' क. ४. राषिामन्य' का. ५. 'म गागालालाय.ग, ६. 'लोकगीतमनुमान मंत्र तम् । ग' क... दिग-गुग्न नाग्नि, ८. 'तम्' क... भिति' क-गात मास्ति....'मरिथतम्'स, H २ आधि० १ अ.] काव्यालंकारसूत्राणि । अर्थस्य प्रतीतिरर्थप्रत्ययः । स व्यवाहतो यस्माद्भवति तदव्यवहि- तार्थप्रत्ययं क्लिष्टम् । यथा- 'दक्षात्मनादयितवल्लभवेदिकानां ज्योत्स्नाजुपां जललवास्तरलं पतन्ति || दक्षात्मजास्ताराः । तासां दयितो दक्षात्मजादयितश्चन्द्रः। तस्य व- लभाश्चन्द्रकान्ताः । तद्वेदिकानामिति । अत्र हि व्यवधाननार्थप्रत्ययः। अरूढार्थत्वात् ॥ २१॥ अरूढार्थत्वेऽपि यतोऽर्थप्रत्ययो झटिति न, तक्लिष्टम् । यथा- 'काचीगुणस्थानमनिन्दितायाः' इति । अन्त्याभ्यां वाक्यं व्याख्यातम् ।। २२।। अश्लील क्लिष्टं चैत्यन्त्ये पदे । ताभ्यां वाक्यं व्याख्यातम् । तदप्य- श्लीले क्लिष्टं च भवति । अश्लीलं यथा- 'न सा धनोन्नतियां स्यात्कलत्रसुखदायिनी ।', 'परार्थबद्धकक्षाणां यत्सत्यं पेलवं धनम् ॥' 'सोपानपथमुत्सृज्य वायुवेगसमुद्धतम् । महापथेन गतवान्कीर्त्यमानगुणो जनैः ।।" क्लिष्टं यथा--- 'धम्मिलस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्ववन्धव्युत्पत्तेर्मानसं शोपाम् ।। एतान्पेंच पदार्थदोषान्विभक्ताक्षावा कविस्त्यजेदिति तात्पर्यायः । इति काव्यालंकारसूत्रत्ती दोपदर्शने द्वितीयधिकरणे प्रयमोऽध्यायः । पदपदार्थदोपविभागः। १. 'ध अन्त्य स. २. 'रतिदायिनी' कना. ३. 'समुद्धतः क-ग. ४. 'पदपदार्थ क, 'एतान्यपि च पदपदार्य ग.

१.व्यमाला द्वितीयोऽध्यायः। ईदानी वाक्यदोपान्दयितुमाह- भिन्नत्तयतिभ्रष्टविसंधीनि वाक्यानि ॥ १॥ दुष्टानीत्यामिसंबन्धः। क्रमेण व्याचष्टे..- स्वलक्षणच्युतचं भिनटचम् ।। २॥ स्वस्मालक्षणाच्युतं रत्तं यस्मिस्तत्स्वलक्षणच्युतवृत्तं वाक्यं भिन्नर- त्तम् । यथा---'आय पश्यसि सौधमाश्रितामविरलमुमनोमालभारिणीम् ।' वैतालीययुग्मपादे लध्वक्षराणां पण्णां नैरन्तयं निषिद्धम् । तञ्च रुतमिति भिन्नत्तत्वम् । विरसविरामं यतिभ्रष्टम् ॥ ३॥ विरसः श्रुतिकटुर्विरामो यस्मिस्तद्विरसविरामं यतिभ्रष्टम् । तदातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥४॥ तद्यतिभ्रष्ट धातुमागभेदे नाममागभेदे च सति भवति । स्वरसंधिना- कृते प्रायेण बाहुल्येन । धातुमागभेदे मन्दाक्रान्तायां यथा--'एतासां रानति सुमनसा दाम कण्ठावलम्बि ।' नाममागभेदे शिखरिण्यां यथा- -'कुरङ्गाक्षीणां गण्डतलफलके खेद- विसरः। मन्दाक्रान्तायां यथा--'दुर्दशश्चक्रशिखिकपिशः शाझियो माहुदण्डः।' धातुनाममागपदग्रहणात्तद्रागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् । यथा मन्दाक्रान्तायाम्-'शोमा पुप्यत्ययमभिनवः मुन्दरीणां प्रबोधः ।' शिखरिण्यां यथा-विनिद्रः श्यामान्तेप्वघरपुटसीत्कारविरुतः । 'पदपदार्षदोगप्रतिपाय हानी-क. २. 'इति मन्ध.ग. ३. मन्दाक्रा- न्तायो' क-ग-पुस्तायोनास्ति. .. 'यया शिनरियाम्' ग. ५. 'मन्दाक्रान्तायो का-ग-पुस्तस्योनालि. ६. 'मन्दाक्षान्नायां यथा' क-गुलक नाग्नि, ७. अस्माद रा-पुस्तके "अन्ये नु पदान्त एवं प्रतिमि यन्ति पदं च मिययनम् । यथा--सफार्म क्षामा मरमकदलीगर्भमुममा यालाशेपा मुनिः शशिन व नेत्रोत्गवगे । अवस्था मापमा मदनदहनोहामवियुग दियं नः करपाणी स्मति मनः पमति घ" इत्व- पिरुमस्ति.. 'मिसरिया या कस्तो नास्ति. 'पीवार' क-ग.

२ अधि० २ अ०] काव्यालंकारसूत्राणि । स्वरसंध्यकत इति वचनात्खरसंधिस्ते भेदे न दोषः । यथा- चिद्भावालसमसरलं प्रेक्षितं सुन्दरीणाम् ।' न वृत्तदोपात्पृथग्यतिदोपः। यत्तस्य यत्यात्मकत्वाद ॥५॥ एत्तदोपात्राथग्यतिदोपो न वक्तव्यः । रत्तस्य यत्यात्मकत्वात् । यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तावान्न एथ- ग्ग्रहणं कार्यमत आह- न, लक्ष्मणः पृथक्त्वात् ॥ ६ ॥ नायं दोषः । लक्ष्मणो लक्षणस्य पृथक्त्वात् । अन्यर्द्धि लक्षणं - तस्य, अन्यद्यतेः । गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका चै य- तिरिति । विरूपपदसंधिविसंधिः॥७॥ पदानां संधिः पदसंधिः । स च स्वरसमवायरूपः प्रत्यासत्तिमात्र- रूपो वा । स विरूपो यस्मिन्निति विग्रहः । पदसंधिवैरूप्यं विश्लेपोऽश्लीलत्वं कटत्वं च ॥ ८॥ विश्लेपो विभागेन पदानां संस्थितिरिति । अश्लीलत्वंमसभ्यस्मृति- हेतुत्वम् । कष्टत्वं पारुप्यमिति । विश्वेपो यथा- 'मेपानिलेन अमुना एतस्मिन्नद्रिकानने । 'कमले इव लोचने इमे अनुवनाति विलासपेडतिः।' 'लोलालकानुवरानि आननानि चकासति ।' अश्लीलत्वं यथा-- 'विरेचकमिदं नृत्तमाचार्याभासयोजितम् ।' 'चकासे पनसमायैः पुरी पण्डमहाद्रुमैः ।' 'विना शपथदानाम्यां पवादसमुत्सुकम् ।' काटावं यथा-माससस्ते मुर्शमोगा गुमा भुः । १. विलक्षणं' क-ख, २. नियामक स. ३. 'च'ग-पुस्तके नास्ति. ४, इति' ग-पुस्तके नालि. ५. 'पद्धतिम्' फ. ६. 'अश्लील चक, 'अशोले' ग. ७. वृत्त. माचार्याभ्यास-' स. ८. सण्ड' क-ग. ६. 'विनासपथदीनायां यदवाश्यात्मुरुम्' क, "पिनातापपदानायदधारयदुतकाम् ग. 10. 'गुरुमागा' क. .

२० काव्यमाला। - - एवं वाक्यदोपानभिधाय वाक्यार्थदोषान्प्रतिपादयितुमाह- व्यर्थकार्थसंदिग्पायुक्तापक्रमलोकविद्याविरुद्धानि चें ॥९॥ वाक्यानि दुष्टानीति संवन्धः । क्रमेण व्याख्यातुपाह- व्याहतपूर्वोत्तरार्य व्यर्थम् ॥ १० ॥ व्याहतौ पूर्वोत्तरावर्थी यस्मिस्तद्वयाहतपूर्वोत्तरार्थ वाक्यं व्यर्थम् । यथा-'अद्यापि स्मरति सालसं मनो मे मुग्धायाः स्मरचतुराणि चे- टितानि ।' मुग्धायाः कथं स्मरचतुराणि चोप्टतानि । तानि चेत्कर्ष मुग्धा । अत्र पूर्वोत्तरयोरर्थयोविरोधाहचर्यमिति । उक्तार्थपदमेकार्थम् ॥ ११ ॥ उक्तार्थानि पदानि यस्मिंस्तदुक्तार्यपदमेकार्थम् । यथा---'चिन्तामो- हमनङ्गमङ्ग तनुते "विप्रेक्षितं सुनुवः ।' अनङ्गः शृङ्गारः। तस्य चिन्ताया मोहात्मकत्याञ्चिन्तामोहशब्दो प्रयुक्तायुक्तार्थी मवतः । एकार्थपदत्वाद्वा- क्यमेकार्थमित्युक्तम् । न, विशेपश्चैव ॥ १२ ॥ नगतार्थ दुष्टम् विशेषश्चमतिपाद्यः स्यात् । तं विशेष प्रतिपादयितुमाह-- धनुर्याध्वनी धेनुःश्रुतिराहढेः प्रतिपत्त्यै ॥ १३ ॥ धनु|ध्वनावित्यत्र ज्याशब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते । आरूढेः प्रतिपत्त्यै आरोहणस्य प्रतिपत्त्यर्थम् । नहि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुज्येति शक्यं प्रतिपत्तुम् । यथा- -'धनुयाकिण- चिड्रेन दोप्णा विस्फुरितं तव' इति । १. निरूपयितु' क. २. 'प्रयुक्तार्थापक्रम' ग. ३. 'विरुद्धाविरुद्धानि' ग. ४. 'च' ख-पुस्तके नास्ति. ५. पूर्वोत्तराधौं' स. ६. 'वाक्य' क-ग-पुस्तकयो स्ति. ५. 'रसो- सत्' ख, ८. 'मुग्धा घेद' ग. ५. 'अत्र' फ-ख-पुस्तकयोक्ति. १०. "विश्लेषित' ख. ११. 'चिन्तामोहायात्मकलात्' क, 'चिन्तामोहात्मरत्वाद' ग. १२. 'दुष्टं पई' ख. १३. 'धनुःप्रतीतिराहटे प्रतिपत्ती' क. .

२ अवि० २ अ.] काव्यालंकारसूत्राणि। कर्णावतंसश्रवणकुण्डलशिम्शेखरेषु कर्णादिनिर्देशः संनिधे:१४ कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि निर्देशः संनिधेः प्रतिपत्त्यर्थमिति संबन्धः । नहि कर्णादिशब्दनिर्देशमन्तरेण क- दिसंनिहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा-- 'दोलाविलासेपु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।' 'लीलाचलच्छ्रवणकुण्डलमापतन्ति ।' 'आययुमङ्गमुखरशिरःशेखरशालिनः ।' मुक्ताहारशब्दे मुक्ताशब्दः शुद्धः ॥ १५ ॥ मुक्ताहारशन्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते शुद्धेः प्रतिपत्त्यर्थमिति संवन्धः । शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्ताहारः । यथा-- 'माणेश्वरपरिप्वङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ।' पुप्पमालाशब्दे घुप्पपदमुत्कर्पस्य ॥ १६ ॥ पुष्पमालाशब्दे मालाशब्देनैव गतार्थ पुप्पपदं प्रयुज्यते उत्कर्षस्य प्रतिपत्यर्थमिति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति । यथा---'मा- यशः पुष्पमालेव फैन्या सा कं न लोमयेत् । ननु मालाशब्दोऽन्यत्रापि दृश्यते यथा रतमाला शब्दमालेति सत्यम् । उपचरितस्य प्रयोगः । नि- रुपपदो हि मालाशब्दः पुंप्परचनाविशेपमेवाभिधत्त इति । करिकलभशब्दे करिशब्दस्ताटूप्पस्य ॥ १७ ॥ करिकलमशब्दे करिशब्दः कलभेनैव गतार्यः प्रयुज्यते ताट्यस्य .. । है १. 'अपि' रामा-पुस्तायो स्ति. २. 'फर्नुमिति' राग-गुल्लकयो स्ति. ३. 'मु- सरास-ग..शायिनः' ग. ५. 'अमिभागां' क. ६. स्तनद्वपी' क. ५. 'पुर- नाद क... 'कन्यका कं' रा-ग. ९. 'पुणमालारचना' स. १.. "एवं' प-ग- पुस्तायोनास्ति. 11. ताइप्यस्य प्रतिपयम्' रा.

- २२ काव्यमाला। प्रतिपत्यर्थमिति ! कैरी मौढकुमरः । तद्रूपः कलमः करिकलभ इति । यथा--'त्यज करिकलम त्वं प्रीतिवन्धं कारण्याः। विशेषणस्य च ।। १८॥ विशेषणस्य विशेषप्रतिपयर्थमुक्तार्थस्य पैदस्य प्रयोगः । यथा--- 'जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।' तदिदं प्रयुक्तेषु ॥ १९॥ तदिदमुक्तं प्रयुक्तेषु नाप्रयुक्तेषु । नहि भवति यथा 'श्रवणकुण्ड- लम्' इति तथा 'नितम्बकाची' इत्यपि । यथा वो 'करिकलभः इति तथा 'उष्ट्रकलभः' इत्यपि । अन लोकः- 'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबोधार्थ स्थिते वेतत्त्समर्थनम् ॥ संशयकृतसंदिग्धम् ॥ २०॥ यहाक्यं साधारणानां धर्माणां श्रुतेः, विशिष्टानां र्या श्रुतेः संशयं फरोति तत्संशयरसंदिग्धमिति । यथा-'स महात्मा माग्यवशान्महापदमुपागतः ।' किं भाग्यवशान्महापदमुपागत आहोस्विदभाग्यपशान्महतीमापदमिति संशयहाायं प्रकरणाघमावे मतीति । मायादिकल्पितार्थमभयुक्तम् ।। २१ ॥ मायादिना कल्पितोऽयों यस्मिरतन्मायादिकल्पितार्थममयुक्तम् । अन्न 'लोकमुदाहरणम् । मामहीनार्यमपक्रमम् ॥ २२॥ १. परिणः प्रयुगा. क. २. 'हनि' क-पुग्नक माम्नि. प. भादग्य' पा. ४. मालिनीम् क. ५,' -रक, नाति, ६. 'धाधुने.क., 'पभुने .. .. इति' गगन नाग्नि. ८. 'भारदमुगात इमि. ... Tir म.पुग्नर नागन.... 'भानोरक'गे' ग.

२ अधि० २ अ०] काव्यालंकारसूत्राणि । २३ उद्देशितानामनुद्देशितानां च क्रमः संबन्धस्तेन विहीनोऽर्थों यस्मिंस्त- क्रमहोनार्थमपक्रमम् । यथा---'कीर्तिमतापौ भक्तः सूर्याचन्द्रमसोः समौ ।' अत्र कीर्तिश्चन्द्रमसस्तुल्या प्रतापः सूर्यस्य तुल्यः। सूर्यस्य पूर्वनिपा- तादपक्रमः । अथवा प्रधानार्थस्य निर्देशः नमः । तेन विहीनोऽयों य- स्मिस्तदपक्रमम् । यथा--'तुरंगमथ मातङ्गं प्रयच्छास्मै मदालसम् ।' देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि ॥२३ ।। देशकालस्वभावैविरुद्धोऽयों येषु तानि देशकालस्वभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि । अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् । दे. शविरुद्धं यथा- 'सौवीरेप्वस्ति नगरी मथुरा नाम विश्रुता । अक्षोटनीलिकेराख्या यस्याः पर्यन्तभूमयः ॥' कालविरुद्धं यथा--'कदम्बकुसुमस्मेरं मघौ वनमशोभत ।' स्वभावविरुद्धं यथा-'मत्तालिसङ्गमुखरामुच मञ्जरीषु सप्तच्छदस्य तर- तीव शरन्मुखश्रीः। सप्तच्छदस्य स्तवका भवन्ति न मार्य इति स्वभावविरुद्धम् । तथा- 'मृड्ण कलिकाकोपस्तथा अंशमपीब्यत । यथा गोप्पदपूरं हि ववर्ष बहुलं मधु ॥ फलिकायाः सर्वस्या मकरन्दस्यैतावद्वाहुल्यं खमावविरुद्धम् । १. "उद्देशिनामनुद्देशिनां क. २ 'हीनो' फ. ३. 'अत्र' इसारभ्य 'अपक्रमः' इ. तिपर्यन्तं क-पुस्तके, 'अत्र इत्यारभ्य 'यया' इतिपर्यन्तं च ग-पुस्तके नास्ति. ४. 'मे प्रयच्छ'ग.५. "विपदार्थले क. ६. 'नालिफेरारक, 'मालिकेराया' स. ७.वि. स्वार्य क. ८. "विरुद्धा' फ. १. 'इति स्वभावविरोधः । यथा' क, 'इति । त. भावविरुद्ध यथा ।स. १०.'संघावपीट्यत' क.11. 'करिमाकोषस्य मकरन्दस्यत्र तावत' क.

२४ काव्यमाला। कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ॥ २४ ॥ कलाशास्त्रैश्चतुर्वर्गशास्वैश्च विरुद्धोऽयों येषु तानि कैलाचतुर्वर्ग- शास्त्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थ- हारकः। कलाशास्त्रविरुद्धं यया-'कालिङ्ग लिखितमिदं वयस्य पत्रं पत्र- रपतितकोटिकण्टकाग्रम् । कालिङ्गं पतितायकोटिकण्टकमिति पत्रविदामाम्नायः । तद्विरुद्धत्वा- स्कलाशास्त्रविरुद्धम् । एवं कलान्तरेप्वपि विरोधोऽभ्यूह्यः । चतुर्वर्गशास्त्रविरुद्धानि तूंदाहियन्ते--'कामोपभोगसाफल्यफलो राज्ञा महीजयः। धर्मफलोऽश्वमेघादियतफलो वा राज्ञां महीनय इत्यागमः । तद्विरोधा- हर्मशास्त्रविरुद्धार्थमेतद्वाक्यमिति । 'अहंकारेण जीयन्ते द्विपन्तः किं नयश्रिया ।' द्विपजयस्य नयमूलत्वं स्थितं दण्डनीतौ । तद्विरोधादर्थशास्त्रविरुद्धार्थ वाक्यमिति। 'दशनाइपवित्रितोत्तरोष्ठं रतिखेदालसमाननं स्मरामि ।' 'उत्तरौठमन्तर्मुखं नयनान्तमिति" मुक्त्वा चुम्बननखरदशनस्थानानि' इति कामशास्त्रे स्थितम् । तद्विरोधात्कामशास्त्रविरुद्धार्थ वाक्यमिति । 'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा ।' एतस्यार्थस्य मोसशास्त्रे स्थितत्वात्तविरुद्धार्थम् । 1. विरुद्धानि' ख. २. 'विरुद्धार्थी' ख. ३. 'फलाविरुद्धचतुर्वर्ग' प. ४. 'विए. दानि विद्या-'प. ५. 'य यस्य' रा. ६. 'कष्टकनिक... 'कोटि क-पुस्तके नास्ति. ८. 'तद्विरोधात' क. . "विरद्धवम्' क. १०, 'अरगन" स, 'अभ्युपेयः' ग. 11. ''कलो गालि. १९. विरुदमेतद्वाक्यम्फा, "विरुद्ध पाश्यम् . १३. 'विरुद्धत्वर' क, 'विरुदम् ग, १४. 'वाक्यमिति' क-ग-गुस्तकयांनालि. १५. 'पति' गपुस्तके नास्ति. १६. 'काममानसू' प. १७. 'देवनागनती' .

३ अधि० १ अ०] काव्यालंकारसूत्राणि । २५ एते वाक्यवाक्यार्थदोपास्त्यागाय ज्ञातव्याः । ये वन्ये शब्दार्थ- दोषाः सूक्ष्मास्ते गुणविवेचन एवोच्यन्ते । उपमादोपाधोपैमाविचार इति । इति काव्यालंकारसूत्रवृत्ती दोपदर्शने द्वितीयेऽधिकरणे द्वितीयोऽध्यायःः । वाक्यवाक्यार्थदोपविभागः। समा चेदं दोपदर्शनं द्वितीयमधिकरणम् । गुणविवेचनं नाम तृतीयमधिकरणम् । प्रथमोऽध्यायः । यद्विपर्ययात्मनो दोषास्तान्गुणान्विचारयितुं गुणविवेचनमधिकरणमा- रम्यते--- तत्रौन प्रसादादयो गुणाः, यमकोपमादयस्त्वलंकारा इति स्थितिः का- व्यविदाम् । तेषां किं भेदनिबन्धनमित्याह- काव्यशोभायाः कर्तारो धर्मा गुणाः ।। १॥ ये खलु शब्दार्थयोधर्माः काव्यशोमां कुर्वन्ति ते गुणाः । ते चौन:- प्रसादादयः । न यमकोपमादयः । कैवल्येन तेषामकाव्यशोभाकरत्वात् । ओमाप्रसादादीनां तु केवलानामस्ति काव्यशोमार्करत्वमिति । तदतिशयहेतवस्त्वलंकाराः ॥२॥ तस्याः काव्यशोभाया अतिशयस्तदतिशयस्तस्य हेतवः । तुशब्दो व्यतिरेके । अलंकाराश्च यमकोपमादयः । अन श्लोको- - 'युवतेरिव रूपमा काव्यं वदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलंकाराविकल्पकल्पनाभिः ।। 'यदि भवति वनश्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः। अपि जनदयितानि दुर्भगवं नियतमलंकरणानि संश्रयन्ते ।' 1. अन्ये 'ग. २. शब्दार्पयोः' क. ३. 'वशन्ते स. ४. -पुस्तके नास्ति. ५. 'इनि' य-पुस्तके नास्ति. ६. 'वास्यगन्दादिर क. ७. विननापि- पाने क. ८. धर्मगुणाः' रा. दापंधर्माः क... 'अस्ति' स-पुस्लरी मालि...ारित ग. ११. तदतिशयः' फ-पुम्नो नाम्नि. १३. 'बार' क, ४ काव्यमाला। पूर्व नित्याः ॥३॥ पूर्व गुणा नित्याः । तेविना काव्यशोमानुपपत्तेः । एवं गुणालंकाराणां भेदं दयित्वा शब्दगुणनिरूपणार्थमाह- ओजःप्रसाद श्लेपसमतासमाधिमाधुर्यसौकुमायौंदारतार्थव्यक्ति- कान्तयो पन्धगुणाः ॥ ४ ॥ वन्धः पदरचना । तस्य गुणा बन्धगुणा ओमःप्रभृतयः । तान्क्रमेण दर्शयितुमाह-- गाढवन्धत्तमोजः ॥ ५॥ बन्धस्य गाढत्वं यत्तदोनः । यथा-'विलुलितमकरन्दा मनर्निर्तयन्ति ।' न पुनः, 'विलुलितम- शुधारा मारीलोलयन्ति । शथिल्यं प्रसादः ॥६॥ बन्धस्य शैथिल्यं शिथिलत्वं प्रसादः । नन्ययमोनोविपर्ययात्मा दोपः, तत्कथं गुण इत्याह गुणः संप्लवाद ।। ७ ॥ गुणः प्रसादः । ओजसा सह संप्लवान् । ने शुद्धः ॥ ८॥ से शुद्धस्तु दोष एवेति । ननु विरुद्धयोरोनःप्रसादयोः कथं संलय इत्याह- म लनुभवसिद्धः ॥१॥ स तु मंटवम्चनुमवामिद्धः तदिदां रसादिविशेपवत् । मन भोकः- 'करणप्रेक्षणीयेषु मंटनः मुगःपयोः । यथानुभवाः मिस्तथेयोनःप्रमादयोः ॥' 1. प्रेम गर्व ग. २. नयन,' क. २. 'प्रभार्ग मग, ४. "प्रमाद: गाम्ना नानि. ५. ए ग-गुम्ना निमगाम, पुनरितम... 'मदन' क, पदानु' ग... नाग. - ३ अधि० १ ०] काव्यालंकारसूत्राणि । २७ साम्योत्कौ च ॥१०॥ साम्यमुत्कर्षश्चीनःप्रसादयोरेव । साभ्यं यथा-'अथ स विषयव्यारत्तात्मा यथाविधि मूनवे नृपति- ककुदं दत्त्वा यूने सितातपवारणम् ।' क्वचिदोनः प्रसादादुत्कृष्टम् । यथा---'वनति गगनं महातक्याः फलेन सहोपमाम् । क्वचिदोजसः प्रसादस्योत्कर्षः । यथा---'कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः।' मरणत्वं श्लेपः ॥ ११॥ महणत्वं नाम यस्मिन्सति बन्यपि पदान्येकवद्भासन्ते । यथा---'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधि- रानः। न पुनः, 'सूत्रं ब्राह्ममुरःस्थले-', 'भ्रमरीवल्गुगीतयः', 'तडित्क- लिलमाकाशं' इति । एवं तु श्लेषो भवति-'माझं सूत्रमुरःस्थले', 'भ्र. मरीम गीतयः', 'तडिजटिलमाकाशं' इति । मार्गाभेदः समता ॥ १२॥ मार्गस्याभेदो भागभिदः समता । येन मार्गेणोपक्रमस्तस्यात्याग इ. त्ययः । ठोके प्रबन्धे नेति । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यया- 'प्रसीद पण्डि त्यन मन्यमजसा जनस्तेवायं पुरतः कृताञ्जलिः । किमर्षमुकम्पितपोवरस्तनद्वयं त्वया लुप्तविलासमास्यते ।।' आरोहावरोहक्रमः समाधिः ॥ १३ ॥ आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आ- रोहस्यावरोहे सति परिहारः, अपरोहस्य वारोह सतीति । सवारोहपूर्वोऽवरोहो यया -'निरानन्दः कौन्दे मधुनि परिभुक्तोनि- तरसे ।' अवरोहपूर्वस्त्यारोहो यथा---' -'नराः शीलभ्रष्टा व्यसन इव म- जन्ति तरकः। TA कागपुरतायोनीत. २. 'या' ग-ग-गुस्तायोनालि... मागीमदः स-पुस्तके नास्ति. ४. 'तपाय' क. ५. 'आरोहागीयोः प्रमः' स. ६. 'पूर्वको रा.

२८ काव्यमाला। आरोहस्य क्रमोऽवरोहस्य च म आरोहावरोहक्रमः क्रमेणारोहण- मवरोहणं चेति केचित् । यथा-निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीषु जयति ।' न पृथक्, आरोहावरोहयोरोज प्रसादरूपत्वात् ॥ १४ ॥ न पृथक्समाधिर्गुणः । आरोहावरोहयोरोजःप्रसादरूपत्वात् । ओ- जोरूपचारोहः प्रसादरूपश्चावरोह इति । न, संपृक्तत्वात् ॥ १५ ॥ यदुक्तमोनःप्रसादरूपत्वमारोहावरोहयोस्तन्न । संप्टक्तत्वात् । संघक्ती खल्वोजःप्रसादौ नदीवेणिकावद्वहतः । अनेकान्त्याच ॥ १६ ॥ न चायमेकान्तः यदोजस्यारोहः, प्रसादे चावरोह इति । ओजःप्रसादयोः कचिद्भागे तीवावस्थायां ताविति चेदभ्युप- गमः॥ १७ ॥ ओजःप्रसादयोः क्वचिदागे तीमावस्थायामारोहोऽवरोह श्रेत्येवं चेन्म- न्यसे अभ्युपगमः, न विप्रतिपत्तिः । विशेषापेक्षत्वात्तयोः ॥ १८ ॥ स विशेपो गुणान्तरात्मा । आरोहावरोहनिमित्तं समाधिरोख्यायते ॥ १९ ॥ आरोहावरोहकरः समाधिरिति गोण्या दृश्या व्यारयेयम् । श्रमविधानार्यत्वाद्वा ॥ २० ॥ एपकरणमिति । पाठधर्मत्वं च न संभवतीति न पाठधर्माः सर्वत्रा. रप्टे' इत्यत्र वश्यामः । पृथयपदत्वं माधुर्यम् ।। २१ ॥ १. 'मागहम्म म... '' मग नानि. ३.४'ग... 'दीपिका- गममदार. ग. ५. 'ना' क-ग. ६. 'औरामायोलीबारयामाथितिम. .. सायादो क...--: "श्रमविधानागाहामि तिमश नि. क्षिप्तम. ५. पग.

३ आधि० १ अ०] काव्यालंकारसूत्राणि । २९ वन्धस्य प्यपदत्वं यत्तन्माधुर्यम् । पृथक् पदानि यस्य स पृथक्पदः तस्य भावः पृथक्पदत्वम् । समासदैयविनिरत्तिपरं चैतत् । पूर्वोक्तमुदा- हरणम् । विपर्ययस्तु यथा--'चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराह- व्याकुला विन्ध्यपादाः। अनरसत्वं सौकुमार्यम् ॥ २२ ॥ बन्धस्याजाठत्वमारुप्यं यत्तत्सौकुमार्यम् । पूर्वोक्कमुदाहरणम् । विपर्ययस्तु यथा -'निदानं नितं प्रियजनसढक्वव्यवसितिः सुधासे- कछोपौ फलमपि विरुद्धं मम हृदि ।' विकटत्वमुदारता ॥२३॥ बन्धस्य विकटत्वं यदसावुदारता ! यस्मिन्सति नृत्यन्तीव पदानीति' जनस्य वर्णना भवति तद्विकटत्वम् । लीलायमानत्वामित्यर्थः । यथा- 'खचरणविनिविष्टैनपुरैर्नर्तकीनां इंटिति रणितमासीत्तत्र चित्रं कलं च ।' न पुनः, चरणकमललेगैनूपुरैर्नर्तकीनां 'इंटिति रणितमासोन्मनु चित्रं च तत्र।' अर्थव्यक्तिहेतृत्वमर्थव्यक्तिः ॥ २४ ॥ यत्र 'झटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोऽर्थव्यक्तिरिति । पूर्वोक्तमुदाह- रणम् । प्रत्युदाहरणं तु भूयः सुलभं च । औज्ज्वल्यं कान्तिः ॥ २५॥ बधस्योज्ज्वलत्वं नाम यदप्तौ कान्तिरिति । यदभावे पुराणच्छाये- त्युच्यते। --'कुरङ्गीनेन्नालीस्तवकितवनालोपरिसरः ।' विपर्ययस्तु भूया. . यथा- १. अपपल' क. २. 'पृएक्त्तव्यवसितं मुघासेकालावी' क. ३. लोपः ख. ४. 'यरसा' क, 'यदेश' ग. ५. 'इति' ख-पुस्तके नास्ति. १. 'वर्णभावना स. ५. 'तद्रि विकटवम्' क. ८. 'मगिति' क, 'सगिति' ग.९ 'युत्तर ख... 'म- गिति' क-ग.1. अगिति' कमा. १२. 'च भूयः सुलभ स. १३. 'पुराणी' क. १४.'चक.

३ काव्यमाला। ० - श्लोकाश्चान भवन्ति- 'पदन्यासस्य गाढवं वदन्त्योजः कवीश्वराः । अनेनाधिष्ठिताः प्रायः शब्दाः ओवरसायनम् ॥ श्लथत्वमोजसा मिश्र प्रसादं च प्रचक्षते । अनेन न विना सत्यं वदते काव्यपद्धतिः ।। यत्रैकपदवद्भावः पदानां भूयसामपि । अनालक्षितसंधीनां स श्लेपः परमो गुणः । प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः । दुर्वन्धो दुर्विभावश्च समतेति मतो गुणः ।। आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत् । समाधिनीम स गुणस्तेन पूता सरस्वती ॥ बन्ये एषपदत्वं च माधुर्यमुदितं बुधैः । अनेन हि पदन्यासाः कामं धारामधुश्रुतः ।। यथा हि च्छिद्यते रेखा चतुरं चित्रपण्डितैः । तयन यागपि प्राः समस्तगुणगुम्फिता ॥ बन्धस्यानरठत्वं न सौकुमार्यमुदाहृतम् । एतेन वनिता वाचो रुसत्याग्न श्रुतिक्षमाः ॥ विकटलं पे बन्धस्य कथयन्ति [दारताम् । वैचियं न प्रपद्यन्ते यया शून्याः पदक्रमाः ॥ पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः । यत्रार्थव्यक्तिहेतुत्वात्मोऽर्थव्यक्तिः स्मृतो गुणः ॥ औमन्य कान्तिरित्यागुणं गुणपिशारदाः । पुराणभियग्थानीयं तेन वनयं कवचः ।। नामन्तः, मद्यत्वात् ॥ २६ ॥ 1. 'पदपद्धति.का. २. याम' ग. 1. 'मधुच्युता. क. Y. fifteel' प.. ५. पदविता क. ६. क्षयाम निक्षमा.. .. '' रा गुमारित्र, 'पास.. 'मिर्गतक. .

- ३ अधि० २ अ०] काव्यालंकारसूत्राणि । न खल्वेते गुणा असन्तः । सद्वेद्यत्वात् । तद्विदां सवेद्यत्वेऽपि भ्रान्ताः स्युरित्याह- भ्रान्ताः, निष्कम्पवाद ॥ २७ ॥ न गुणा भ्रान्ताः । एतहिपयायाः प्रवृत्तेनि कम्पत्वात् । न पाठपर्याः, सर्वत्रादृष्टेः ॥ २८ ॥ नैते गुणाः पाठधर्माः । सर्वत्रादृष्टेः । यदि पाठधर्माः स्युस्तहि वि- शेपानपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापे- क्षया विशेषाणां गुणत्वाहणाभ्युपगम एवेति । इति काव्यालंकारसूत्रवृत्ती गुणविवेचन तृतीयेऽधिकरणे प्रथमोऽध्यायः । गुणालंकारविवेकः शब्दगुणविवेकश्च । - द्वितीयोऽध्यायः । संप्रत्यर्थगुणविवेचनार्थमाह--- त एवार्थगुणाः ॥ १॥ त ऐवौनाममृतयोऽर्थगुणाः । शब्दार्थगुणानां वाच्यवाचकद्वारेण भेदं दर्शयति- अर्थस्य पौहिरोजः ॥२॥ अर्थस्याभिधेयस्य मौदिः प्रौढत्वमोजः । 'पदार्थ वाक्यवचनं वाक्याथै च पदाभिया । प्रौडियससमासौ च साभिप्रायत्वमस्य च ॥'. पदाथै वाक्यवंचनं यथा-'अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः।' अत्र चन्द्रपदवाच्येऽर्थे 'नयनसमुत्यं ज्योतिरत्रेः' इति वाक्यं प्रयु- कम् । पदसमूहश्च वाक्यमभिप्रेतम् । अनया दिशान्यदपि द्रष्टव्यम् । १. संवेद्यत्वात् क. २, संवेद्यले क. ३. 'निधान्ताः' क-ख, ४. "निष्क्रम्य- लात' ग. ५. 'तहि क-ग-पुस्तफयोनास्ति. ६. विवेचन क. ५. 'एवीजाप्रसाद ख.. प्रौढत्वं यत्तदोजगः १. 'रचन' ख. १०. 'रचन' ब.

३२ काव्यमाला। : तद्यथा- 'पुरः पाण्डुच्छायं तदनु कपिलिना रुतपदं ततः पाकोत्सेकादरुणगुणसंसर्गितवपुः । शनैः शोपारम्भे स्थपुटनिजविष्कम्मविषम वने पीतामोदं बदरमरसत्वं कलयति ।। न चैवमतिप्रसङ्गः । काव्यशोभाकरत्वस्य गुणसामान्यलक्षणस्याव- स्थितत्वात् । वाक्याथै पदाभिधानं यथा--'दिव्येयं न भवति किं तु मानुपी' इति वक्तव्ये 'निमिपति' इत्याहेति । अस्य वाक्यार्थस्य व्याससमासी । व्यासो यथा-- 'अयं नानाकारो भवति सुखदुःखव्यतिकरः मुखं वा दुःखं वा भवति न भवत्येव च ततः । पुनस्तस्मादूर्ध्व भवति सुखदुःखं किमपि त- त्पुनस्तस्मादूर्व भवति ने च दुःखं न च मुखम् । समासो यथा- ति हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्याथै तद्विसृष्टाः खमुद्ययुः ।।' साभिप्रायत्वं यथा-'सोऽयं संप्रति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा जातो भूपतिराश्रयः कृतधियां दिष्ट्या रूतार्थश्रमः ।' आश्रयः रुतधियामित्यस्य ' सुबन्धुसाचिन्योपेक्षेपपरत्वात्साभि- प्रायत्वम् । एतेन, 'रतिविगलितबन्धे केशपाशे मुकेश्याः' इत्यत्र मुकेश्या इत्यस्य च साभिप्रायत्वं व्याख्यातम् । १. 'माय' क. २. 'पाकोरीपादरणमणि' प. ३. मोतारम्भ प. ४. 'वीजामोई' म. ५. 'न धाति' ग...'सामान्यम्य प.५,'भारो क. ८. 'न भनि मात्यः म. नहिं ग... 'वानुवन्धु' काय.. 'पलक्षणयानु' ग. 13. 'प्रत्यय मुरंग' क-ग-मुम्नायो नि. "त्यस्यापि फ.

यथा-- ३ अधि० २ ०] काव्यालंकारसूत्राणि । अर्थवैमल्यं प्रसादः ॥३॥ अर्थस्य वैमल्यं प्रयोजकमात्रपरिग्रहः प्रसादः । -~-'सवर्णा कन्यका रूपयौवनारम्भशालिनी! विपर्ययस्तु-'उपास्तां हस्तो मे विमलमणिकाचीपदमिदम् ।' काञ्चीपदमित्यनेनैव नितम्बस्य लक्षितत्वाहिशेषणस्यामयोजकत्वमिति । घटना श्लेपः॥ ४॥ क्रमकौटिल्यानुल्वणत्वोपपत्तियोगो घटना । स श्लेषः। . यथा- 'दृष्ट्वैकासनसंगैते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।। ईपद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तहसिलसत्कपोलफलकां धूताडपरां चुम्वति ।।" शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान्मपञ्चो दृश्यते । अवैपम्यं समता ॥५॥ अवैषम्यं प्रक्रमाभेदः समता । क्वचित्क्रमोऽपि भिद्यते । यथा- 'च्युतमुमनसः कुन्दाः पुप्पोद्गमेम्वलसा द्रुमा मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः । अथ च सवितुः शीतोल्लास लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ।' ऋतुसंधिप्रतिपादनपरेऽत्र द्वितीये पादे क्रमभेदो मलयमरुतामप्ताधार- णत्वात् । एवं तु द्वितीयः पादः पठितव्यः । 'मनसि च गिर वान्तीमे किरन्ति न कोकिलाः' इति । सुगमत्वं चावपम्यमिति ॥६॥ मुखेन गम्यते ज्ञायत इत्यर्थः । १. अर्थवमयं क-ग. २. 'रूपशीलयौवनशालिनी' ग. ३. 'उपास्ते ख. ४. 'संस्थिते' स. ५. 'प' क. ६. 'प्रयोगः ग, ७. 'अलसमा स्व. स.व. जरटता' ख. ५. 'प्रक्रम' स. १०. 'तु' ख-पुस्तके नास्ति.

काव्यमाला। यथा-'अस्त्युत्तरस्यां दिशि देवतात्मा' इत्यादि। मत्युदाहरणं मुलभम्। अर्थदृष्टिः समाधिः ॥ ७॥ अर्थस्य दर्शनं दृष्टिः । समाधानकारणत्वात्समाधिः । अवहितं चित्त- मर्थान्पश्यन्तीत्युक्तं पुरस्तात् । अर्थो द्विविधः, अयोनिरन्यच्छायायोनिर्वा ॥ ८॥ यस्यार्थस्य दर्शनं समाधिः सोऽर्थों द्विविधः--अयोनिः, अन्य- च्छायायोनिति । अयोनिरैनन्यकारणः । अवधानमात्रकारण इत्यर्थः । अन्यस्य काव्यस्य च्छाया अन्यच्छाया तद्योनिर्वा । तद्यथा--- 'आश्वपैहि मम सीधुभाननाद्यावदप्रदशनैर्न दश्यसे । चन्द्र मद्दशनमण्डलाड्वितः खं न यास्यसि हि रोहिणीभयात् ॥' 'मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं विभेपि । प्रायो विदग्धवनितानवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥' पूर्वस्य श्लोकस्यायोंऽयोनिः, द्वितीयस्य च च्छायायोनिरिति । अर्यो व्यक्तः सूक्ष्मश्च ॥९॥ यस्यार्थस्य दर्शनं समाधिरिति स द्वेधा---व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहत एव । सूक्ष्मं व्याख्यातुमाह-~ मूक्ष्मो भाव्यो वासनीयश्च ॥ १० ॥ सूक्ष्मो देवा भवति-भाव्यो वामनीयच । 'शीघनिरूपणागम्यो भाव्यः । एकाग्रतामकर्पगम्यो वासनीय 'इति । भाच्यो यथा--- 'अन्योन्यमंमिलितमांसलदन्तकान्ति मोडासपाविरलयंवलितार्धतारम् । 1. 'इति' ग्य. भस्मादनन्तर ग-गुल 'यमवगुष्टनाती-स्यादित स्टपमाहा एवं पोष्टान्तरियमग्नि. १. 'ममाधिकरण' क.ग. ३. 'प्रार' ग. ४.'अना' ग. ५. 'नदयोनिर्श' ग...'यशन' य..... विधा' ग. स्पट' या.... 'सुक्ष्म ग. १. 'इति' का-ग-गुम्नानाति १२. तय भाचो' क.११. मग.

५ ३.अधि० २ अ०] काव्यालंकारसूत्राणि । लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति ।। वासनीयो यथा- 'अवहित्यवलितमधनं विवर्तिताभिमुखकुचतदं स्थित्वा । अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ॥ उक्तिवैचिन्यं माधुर्यम् ॥ ११ ॥ उक्तचित्यं यत्तन्माधुर्यमिति । यथा- 'रेसबदमृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । सकदापि पुनमध्यस्थ: सरसान्तरविजनो वदतु यदिहान्यत्स्वादु स्यात्मियादशनच्छदात् ।' अपारुप्यं सौकुमार्यम् ॥ १२ ॥ परुपेऽर्थेऽपारूप्यं सौकुमार्यगिति । यथा मृतं यशःशेष इत्याहः। एकाफिनं देवताद्वितीयमिति । गच्छति साधयेति च । अग्राम्यत्वमुदारता ॥ १३ ॥ ग्राम्यत्वप्रसङ्गेऽग्राम्यत्वमुदारता । यथा-- 'स्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सामानं परमिह युवामेव भनयः । अपि इन्हें दिष्टया तदिति मुभगे संवदति पा. मतः शेष नेत्स्यानितमिह तदानी गुणितया ॥ विपर्ययस्तु-~- 'स्वपिति यावदयं निकटे ननः स्वपिमि तापदहं किमपति ते । इति निगद्य शनैरनुमेखलं मम कर स्वकरेण रुरोध सा ।' 1. प्रतिरले' स. 'रिस्तं' या. २. किलकिमितेन' ग. ३. 'उड बचिच्यं नेन' क. ५. 'माममन' ग. ५. 'अमृतं यदाःोपामिन्याहुः'प, ६. सोमान्तक. ५. ति' ग.. 'गभगाय वदति' ग. ९. 'अ' क. - काव्यमाला। -- वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ।। १४ ।। वस्तूनां भावानां स्वभावस्य स्फुटत्वं यदसावर्थव्यक्तिः । यथा- 'पृष्ठेषु शकशकलच्छविषु च्छदानां राजीभिरक्षितमलतकलोहिनीभिः । गोरोचनाहरितबभूवहिःपलाश- मामोदते कुमुदमम्भसि पल्वलस्य ।। यथा वा-- 'प्रथममलसैः पर्यस्तायैः स्थितं रथुकेसरै- विरलविरलैरन्तःपत्रैर्मनामिलितं ततः । तदनु वलनामात्रं किंचिद्वयधायि बहिर्दलै- मुकुलनविधी वृद्वान्नानां बभव कदर्थना ।' दीसरसत्वं कान्तिः ॥ १५॥ दीप्ता रसाः शृङ्गारादयो यस्य स दीप्तरसः, तस्य भावो दीप्तरसत्वं कान्तिः । यथा- 'प्रेयान्सायमपारुतः सशपथं पादानतः कान्तया दिवाण्येव पदानि वासभवनाद्यायन यात्युन्मनाः । तावत्मत्युत पाणिसंपुटलसन्नीवोनितम्यं धृतो धावित्वैव हेतप्रणामकमहो प्रेम्णो विचित्रा गतिः ।।" एवं रसान्तरेप्वप्युदाहरणीयमिति । अन श्लोकाः- 'गुणस्फुटत्वमाकल्यं काव्यपाक मचक्षते । चूतस्य परिणामेन स पायर्मुपमीयते ॥ मुप्तिहमस्कारमात्रं यष्टिवस्तुगुणं भवेत् । काव्यं रन्ताकपाकं तनुगुप्मन्ते जनास्तुतः । १. 'माल'म... "पर्यस्तापस्थित क...'कृनप्रणाममहहा' क. ४. 'Rir रेग, 'rमान्नर' ग. ५. 'दादा' ग, ६. 'दरनीय नेक, परिमीयरे' ग. ७. 'fr'ग.

४ अधि० १ अ०] काव्यालंकारसूत्राणि । गुणानां दर्शनान्मुक्तो यस्यार्थस्तदपार्थकम् । दाडिमानि दशेत्यादि न विचारक्षमं वचः ॥' इति काव्यालंकारसूत्रत्तो गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः । अर्थगुणविवेचनम् । समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् । आलंकारिकं नाम चतुर्थमधिकरणम् । प्रथमोऽध्यायः। गुणनित्या काव्यशोभा । तस्याश्चातिशयहेतवोऽलंकाराः । तन्निरू- पणार्थमालंकारिकमधिकरणमारम्यते- तत्र शब्दालंकारी हो यमकानुमासौ क्रमेण देशयितुमाह- पदमनेकार्थमक्षरं वाटतं स्थाननियमे यमकम् ॥ १ ॥ पदमनेकार्थ भिन्नार्थमेकमने वा तद्वदक्षरमावृत्तं स्थाननियमे सति यमकम् । स्वावृत्या सनातीयेन वा कात्स्न्येकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते तेषु श्लोकान्तरस्य संस्थानं यमकापेक्षयव स्थाननियम इति । स्थानकथनार्थमाह- पादः पादस्पैकस्यानेकस्य चादिमध्यान्तमागाः स्थानानि॥२॥ पादः, एकस्य नं पादस्यादिमध्यान्तमागाः, अनेकस्य च पादस्य त एव स्थानानि । पादयमकं यया- 'असजनवचो यस्य कलिकामधुगर्हितम् । तस्य न स्पादिपतरोः कलिकामधु गहितम् ।' १. 'स्पत्तो' क-ग. २. दादासंहमादिशक्यं स्याउरममहामाध्ये 'अर्थपदधातुः' इत्यादि प्रन्याख्याने द्रष्टव्यम्. ३. विकः क, 'रयनम् ग. ४. 'गणानां गत्या' ग. ५. 'लक्ष क. ६. 'वारस' ग. ७. "नियमे मति' रा. ८. 'स्वरस्या' क, 'माया' ग... 'च' रा-पुस्तो नास्ति.... 'पदमा' या.. - काव्यमाला। एकपादस्यादिमध्यान्तयमकानि यथा- 'हन्त हन्तररातीनां धोरधोरचिता तव । कामं कामन्दकी नीतिरस्या रस्या दिवानिशम् ॥ 'वमुपरामु परामुमिवोज्झतीप्वविकलं विकलङ्कशशिप्रभम् । प्रियतमं यतमन्तमनीश्वरं रसिकता सिकतास्थित्र तामु का ।' 'सुदृशोऽवसरे चकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् । अपि हासलवस्तव कः स्तबकस्तुलयेन्न तु कामधुरां मधुराम् ।। पादयोरादिमध्यान्तयमकानि यथा--- 'भ्रमर दुमपुष्पाणि भ्रम रत्यै पिबन्मधु । का कुन्दकुमुमे प्रीतिः काकुं दवा विरोपि यत् ॥' 'अप्यशक्यं त्वया दर्न दुग्वं शक्यन्तरात्मनि ।। बाप्पो बाहीकनारीणां वेगवाही कपोलयोः ॥' 'सपदि रुतपदस्त्वदीक्षितेन स्मितशुचिना स्मरतत्वदीक्षितेन । भवति यत जनः सचित्तदाहो न खलु मृपा कुत एव चिनदाहो ॥" एकान्तरपादान्तयमकं यथा- 'उद्वेनयति भूतानि यस्य राज्ञः कुशासनम् । सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ।।" एवमेकान्तरपादादिमध्ययमकान्यूह्यानि । ममस्तपादान्तयेमकं यथा- 'नतोन्नतंभ्रगतिवन्दलास्यां विलोक्य तन्वी शशिपेशलास्याम् । मनः किमुत्ताम्यसि चसलास्यां रती स्मराज्ञा यदि पुष्कला रयाम् । एवं समस्तपादादिमध्यान्तयमकानि व्याख्यातानि । अन्ये च संकरना- तिभेदाः मुधियोत्मेश्याः । अक्षरयमकं वेकाक्षरपनेकाक्षरं च । एकाक्षरं यथा- 'नौनाकारेण कान्ताधूरागधितमनोभुवा । विविकेन विलामेन ततक्ष हदयं नृणाम् ।।' १.सक. २. 'यमर' ग. ३. 'यतमन्त' क-ग. ४. 'ननु', 'तुम' ग: ५. "विपदाह.'म.. पादराम' क'यम ध भवति । यथा प... "ती १. पादादियमानि' क, पादयमानि ग... 'यात्यातल्यान' ग. ". नानापिन' प. -- ४ अधि० १ अ०] काव्यालंकारसूत्राणि । एवं स्थानान्तरयोगेऽपि द्रष्टव्यः । सजातीयनरन्तर्यादस्य प्रको म- वति । स चायं हरिप्रबोधे दृश्यते । यथा- 'विविधधववनानागगर्धर्धनाना विक्तितगगनानाममजजनाना। रुरुशशललनाना ववन्धुन्धुनाना मम हिहि ततनानाननस्वस्वनाना ॥' अनया चे वर्णयमकमालया पदयमकमाला व्याख्याता। भङ्गादुत्कर्पः ॥ ३ ॥ उत्कृष्टं खलु यमकं भङ्गाद्भवति । चला परिवर्तकशूर्णमिति भङ्गमार्गः ॥४॥ एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति । तान्क्रमेण व्याचष्टे- वर्णविच्छेदचलनं शृङ्खला ॥ ५ ॥ वर्णानां विच्छेदो वर्णविच्छेदः तस्य चलनं यत्सा शृङ्खला । यथा-कलिकामधुशब्दे विच्छेदः शब्दे च तस्य चलनम् । लिमर्व- योविच्छेदात्। सङ्गविनिरत्ती स्वरूपापचिः परिवर्तकः ॥ ६ ॥ अन्यवर्णसंसर्गः सङ्गः । तद्विनिवृत्तौ स्वरूपस्यान्यरूपतिरस्कृतस्या- पत्तिः प्राप्तिः परिवर्तकः । यथा-'कलिकामधु गहितम्' इति । अत्राहितमिति पदं गकारस्य व्य. अनस्य सङ्गादहितमित्यन्यस्य रूपमापन्नम् । तत्र व्यञ्जनसङ्गे विनिरत्ते स्वरूपमापद्यते अहितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ता. प्यविधिरंयमिति तात्पर्यार्थः । एतेनेतरावपि व्याख्याती । पिण्डासरभेदे स्वरूपलोपशूर्णम् ॥ ७ ॥ १. 'म' क-ग-पुस्तमगार्गस्ति. २.'तघ' ग. ३. योपिक' म-गुम्के नास्ति. ४. 'कलिकामशब्द ग. ५. मगन्दे फ, फारादे पुरादे' ग... यो. क-ग. . निती' ग 6. 'मस्तस्य' रा. ५.चनस्य गफारस्य सक. १. 'अ' रापत मास्ति.

काव्यमाला। पिण्डाक्षरभेदे सति पदस्य स्वरूपलोपचूर्णम् । यथा- 'योऽचलकुलमपति चलं दूरसमुन्मुक्तशुक्किमीनां कान्तः । साग्नि विभर्ति च सलिलं दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तः ॥' अत्र शुक्तिपदे तोति पिण्डाक्षरम्। तस्य भेदे शुक्तिपदं लुप्यते ।कका रतिकारयोरन्यत्र संक्रमात् । दूरसमन्मुक्तशुक् अचलकुलम्, तिमीन कान्तः समुद्रः। श्लोकाश्चात्र- 'अखण्डवर्णविन्यासचलनं शृङ्खला मता । अनेन खलु भनेन यमकानां विचित्रता ॥' 'यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः । शब्दखरूपमारोहेत्स ज्ञेयः परिवर्तकः ॥ 'पिण्डाक्षरस्य भदेन पूर्वापरपैदाश्रयात् । वर्णयोः पदलोपो यः स भङ्गचूर्णसंज्ञकः ॥' 'अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि । अलकानीव नात्यर्थ यमकानि चकासति ॥' 'विभक्तिपरिणामेन यत्र भैंङ्गः क्वचिद्भवेत् । न तदिच्छन्ति यमकं यमकोत्कर्पकोविदाः ॥' 'आरूढं भूयमा यनु पदं यमकभूमिकाम् । न युज्यते पुनस्तस्य युक्तानुप्रासकल्पना ॥" “विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च । आरत्तिः मुप्तिडन्तानां मिया यमकाइतम् ॥' शेपः सम्पोऽनुमासः ॥ ८ ॥ पदमेकार्थमनेकार्थ च स्थानानियतं तद्विधमक्षरं च शेपः । सरूपोऽन्येन प्रयुक्तन तुल्यरूपोऽनुमामः । ननु ने 'शेपोऽनुमासः' इत्येतावदेव मूत्रं १. 'पिग्वाक्षर' क. २. 'मामि' म. ३. 'ममाध्रपान क. ४. भर. क-ग. ५. 'प्रायो यमरोक्षिा' ग...'ल्य' ग. ७. 'शेपम्पम्पोकनग... 'भयाना निपमेन' ग. 'प-गुम्न नाम्नि.

४ अधि० १ अ०] काव्यालंकारसूत्राणि। करमान्त कृतम्, आरत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते । सत्यम् । सिध्यत्येवावृत्तिशेषे'। किं स्वव्याप्तिप्रसङ्गः । विशेषाथै च सरूपग्रहणम् । कास्न्यनैवात्तिः कात्स्न्यैकदेशाम्यां तु सारूप्यमिति । अनुल्वणो वर्णानुमासः श्रेयान् ॥९॥ वर्णानामनुप्रासः स खल्वतुल्वणो लीनः श्रेयान् । यथा--- 'क्वचिन्मरणमांसलं क्वचिदतीव तारास्पदं प्रसन्नसुमग मुहुः स्वरतरङ्गलीलाङ्कितम् । इदं हि तव वकीरणितनिर्गमर्गुम्फितं मनो मदयतीव मे किमपि साधुसंगीतकम् ॥ उल्नणस्तु न श्रेयान् । यथा-वडीबद्धोटोगटमटति रटस्कोटिकोद- ण्डदण्डः' इति । पादानुमासः पादयमकवत् ॥ १०॥ ये पादयमकस्य भेदास्ते पादानुमासस्येत्यर्थः। तेपामुदाहरणानि यथा--- 'कविराजमविज्ञाय कुतः काव्यक्रियादरः । कविराज व विज्ञाय कुतः काव्यनियादरः ।। 'आखण्डयन्ति मुहुरामलकीफलानि वालानि बालकपिलोचनपिङ्गलानि ।' 'वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाश काशाः काशामा भान्ति तासां नवपुलिनगताः श्रीनदीहंस हंसाः । हंसामाम्भोदमुक्तः स्फुरदमलरुचिमेदिनीचन्द्र चन्द्रः चन्द्राक्षः शारदस्ते जयरुद्रुपनतो विडियां काल कालः ॥ 'कुवलयदलश्यामा मेघा विहाय दिवं गताः कुवलयदलश्यामो निद्रां विमुञ्चति केशवः । 1. विदये ग. २. स. १. 'टीन इव'ग, , 'व' क. ५, 'उप- गतो .

काव्यमाला। कुवलयदलश्यामा श्यामालताद्य विजृम्भते कुवलयदलश्यामं चन्द्रो नभः प्रविगाहते।' एवमन्येऽपि भेदा द्रष्टव्याः। इति काव्यालंकारसूत्रवत्तावालंकारिक चतुर्थेऽधिकरणे प्रथमोऽध्यायः । शब्दाल कारविचारः। द्वितीयोऽध्यायः। संप्रत्यर्थालंकाराणां प्रस्तावः । तन्मूलं चोपमेति सैव विचार्यते-- उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ।।१।। उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्तदुपमानम् । यदुपमी- यते न्यूनगुणं तदुपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यदसा- पमेति । ननूपमानमित्युपमेयमिति च संबन्धिशब्दावेती तयोरेकतरोपी- दानेनैवान्यतरसिद्धिरिति । यथा-'उपमित व्याघ्रादिभिः सामान्यामयोगे' इत्यत्रोपमितग्रहणमेव कृतं नोपमानग्रहणमिति, तद्वदत्रोभयग्रहणं न कर्तव्यम् । सत्यम् । तत्कृतं लोकमसिद्धिपरिग्रहार्थम् । यदेवोपमेयमुप- मानं च लोकमसिद्धं तदेव परिगृह्यते, नेतरत् । नहि यथा 'मुखं कमल- मिव' इति, तथा 'कुमुदमिव' इत्यपि भवति । गुणबाहुल्यतश्च कल्पिता ॥ २॥ गुणानां वाहुल्यं गुणवाहुल्यं तत उपमानोरमेयस्य साम्यात्कल्पितो. पमा । कविभिः कल्पितत्वात्कल्पिता । पूर्वा तु लौकिकी । नैन कल्पि- ताया लोकप्रसिद्धक्षमावात्कथमुपमानोपमेयनियमः । गुणवाहल्यस्योत्कर्षाप- कपकल्पनाम्याम् । तद्यया- १. 'प्रतिगाहते' क. १. 'भेदा' प-पुस्तके नास्ति. ३. "उपमानोपमेयस्य गुणा. लिनः साम्यमुपमा क. ४. अन्यस्य यत्तटुप' ग. ५. 'यम्यून' प-स. ६. 'मनु घोष' स. ७. 'पादानेन चान्य' प. ८. 'मामान्यत' करा. १. पतंयमिति' य. ...तरसायं' प. 1. प.गुम्ना नास्ति. १२. ग-गुस्तक भनीन्यस्मा. • ‘খ হাফিয়াথ লিম্বা মাথা সহ মা সামি पम्' इत्यधिकमस्ति. १. प-गुम्न ननित्यादि परगनाभ्यामियन्तं पोष्टकान्तः शापिनमस्ति.

४ अधि० २ अ०] काव्यालंकारसूत्रीणि । 'उदर्भहूणतरुणीरमणोपमर्द- भुग्नोन्नतिस्तननिवेशनिमं हिमांशोः । विम्यं कठोरविसकाण्डकडारगौर- विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति । 'सद्योमुण्डितमत्तहूणचिवुकप्रस्पर्धि नारङ्गकम् ।' 'अभिनवकुंशस्तूचिस्पर्धि कर्णे शिरीपम्' इति । 'इदानी लक्षाणां जरठदलविश्लेषचतुरः शिखानामावन्धः स्फुरति शुकचथूपुटनिमः । ततः स्त्रीणां हन्त क्षममधरकान्ति तुलयितुं समन्तानियोति स्फुटसुभगरागं किसलयम् ॥ तहैविध्यम् । पदवाक्यार्थदृत्तिभेदात् ॥ ३ ॥ तस्या उपमाया दैविध्यम् । पदवाक्यावृत्तिमेदात् । एका पदार्थ- त्तिः, अन्या वाक्यार्थरत्तिरिति । पदार्थवृत्तिर्यया- 'हरति तनुपु वभ्रुत्वग्विमुक्तासु यासां कैनककणसधर्मा मान्मथो रोमभेदः।' वाक्यार्थवृत्तिर्यथा- 'पाण्ज्योऽयमंसार्पितलम्बहारःक्लप्ताङ्गरागो नवचन्दनेन । आभाति वालातपरक्तसानः सनिर्मरोदार इवाद्रिराजः।।' सा पूर्णा लुप्ता च ॥ ४॥ सा उपमा पूर्णा लुप्ता च भवति । गुणद्योतकोपमानोपमेयशब्दानां सामध्ये पूर्णा ॥५॥ गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा । यथा- 'कमलमिव मुखं मनोज्ञमेतत्' इति । लोपे लप्सा ॥६॥ १. 'मनोन्नति' क-ग. २. 'कुसुमस्पा' ग ३. 'चतुरस्लिमीनां सावधः स्फुरति' क, 'चतुरस्तिभोनामाबद्धस्फति' ग. ४. 'उद्भाति' प. ५. 'कनककलाधर्मा, - काव्यमाला। -- गुणादिशब्दानां वैकल्पे लोपे लुप्ता । गुणशब्दलोपे यथा-'शशीव राजा' इति । द्योतकशब्दलोपे यया--'दूर्वाश्यामेयम्' । उभयलोपे यथा-'शशिमुखो' इति । उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः । स्तुतिनिन्दातत्त्वाख्यानेषु ॥ ७ ॥ स्तुती निन्दायां तत्वाख्याने चास्याः प्रयोगः । स्तुतिनिन्दयोर्यपा- 'स्निग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विमिवापगुणं तदेव ।' तत्वाख्याने यथा- 'तां रोहिणी विनानीहि ज्योतिपामत्र मण्डले । यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥' हीनत्वाधिकवलिङ्गवचनभेदासादृश्यासंभवास्तहोपाः ॥८॥ तस्या उपमाया दोपा भवन्ति-हीनत्वमधिकत्वं लिङ्गभेदो वचनभे- दोऽसादृश्यमसंभव इति । तान्क्रमेण व्याख्यातुमाह- जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ॥९॥ जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या तद्धीनत्वमिति । नातिन्यूनत्वरूपं हीनत्वं यया-'चाण्डालैरिव युष्माभिः साहसं परम - हतम् ।। प्रेमाणन्यूनत्वरूपं हीनत्वं यया---'वद्विस्फुलिङ्ग इव भानुरयं कास्ति।' उपमेयादुपमानस्य धर्मतो न्यूनत्वं यत्तद्धमन्यनत्वम् । तद्रूप ही. नत्यं यथा--- ‘स मुनिलान्छितो मौच्या रुष्णानिनपटं वहन् । ध्यराजन्नीलनीमूतमागाश्लिष्ट इयांशुमान् ।' 1. उभयशद' प. २. 'उपमानोपमेयसन्द' ग. ३. 'प्रपच एव' ग. ,'नि. दायाँ प. ५. 'तावाल्याने' ग. ६. "निन्दादयो' क. ७. विमिव प्रगुणे' क, 'मिमिवाप गुण ग. ८. 'धर्मती' ग. ५. 'प्रमाणन्यून तदूपदीना' प.. १.विमाति' ग 11."यन्' न-पुस्तके नास्ति. ११. 'यरोयत्' प.

४५ १. ४ अधि० २ अ०] काव्यालंकारसूत्राणि । अत्र मौझोप्रतिवस्तु तडिन्नास्त्युपमान इति हीनत्वम्। न च कृष्णा- निनपटमात्रस्योपमेयत्वं युक्तम् । मौज्या व्यर्थत्वप्रसङ्गात् । ननु नीलजी- मूतग्रहणेनैव तडित्प्रतिपाद्यते । तन्न । व्यभिचारात् । अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते । तदाह- धर्मयोरेकनिर्देशेऽन्यस्य संवित् । साहचर्यात् ॥ १० ॥ धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यधर्मस्य संवित् प्रतिपत्तिर्भवति । कुतः। साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिमैवेति । तद्यथा-- 'निटेऽपि वहिर्घने न विरमन्त्यन्तर्जरद्वेश्मनो लूतातन्तुततिच्छिदो मधुष्टपत्पिङ्गाः पयोविन्दवः । चूडाबर्वरके निपत्य कणिकामावेन जाताः शिशो- रङ्गास्फालनभन्ननिद्रगृहिणीचित्तव्यथादायिनः ॥" अत्र मधुष्टपतां वृत्तत्वपिङ्गत्वे सहचरिते। तत्र पिङ्गशब्देन पिङ्गत्वे प्रतिप- न्ने वृत्तत्वप्रतिपत्तिर्भवति । एतेन 'कनकफलकचतुरस्त्रं श्रोणिबिम्बम्' इति व्याख्यातम् । कनकफलकस्य गौरत्वचतुरस्रत्वयोः साहचर्याच्चतुरस्रत्वश्नु- त्यैव गौरवप्रतिपत्तिरिति। ननु च यदि धर्मन्यूनत्वमुपमानस्य दोपः, कथ- मयं प्रयोगः- 'सूर्याशुसंमोलितलोचनेषु दीनेषु पद्मानिलनिर्मदे । साध्व्यः खगेहेप्विव मर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ।। बहुत्वमुपमेयधर्माणामुंपमानात् । न विशिष्टानामेव मुखानामुपमेय- वात् । तादृशेवेव केकाविनाशस्य संभवात् । तेनाधिकत्वं व्याख्यातम् ॥ ११॥ तेन होनत्वेनाधिकत्वं व्याख्यातम्, जातिप्रमाणधर्माधिक्यमधिकत्व- मिति । जात्याधिक्यरूपमधिकत्वं यथा- २. संभवन्ती' ख. ३. 'विचार्यते' क. ४. 'अन्यस्य ग. ५. 'भवति' क-ख-पुस्तकयोनास्ति. ६. रहाच्छादन' क. ५. 'प्रतीनि' क. ८.दि. नेप.५.निर्मले 'स, 'नर्मदेषु' क-ग.१०. 'उपमानतः' स. ११. 'उपमेयत्वम्' क. :- अत्र १. 'उपमान'ख.

काव्यमाला। 'विशन्तु वृष्णयः शीघ्रं रुद्वा इव महौजप्तः ।' प्रमाणाधिक्यरूपं यथा- 'पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वणीदण्डः पुनरयं कालिन्दीपानसंनिमः ॥ धर्माधिक्यरूपं यथा--- 'सरश्मि चञ्चलं चक्रं दधद्देवो व्यराजत । सवाडवाग्निः सावर्तः स्रोतसामिव नायकः ॥' सवाडवाग्मिरित्यस्योपमेयेऽभावाधर्माधिक्यमिति । अनयोदोपयोविय- ययाख्यस्य दोपस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते पड्- दोपा इति । उपमानोपमेययोलिङ्गव्यत्यासो लिङ्गभेदः ॥ १२॥ उपमानस्योपमेयस्य च लिङ्गयोर्व्यत्यासो विपर्ययो लिङ्गभेदः । यथा-- 'सैन्यानि नद्य इव जग्मुरनर्गलानि ।' इष्टः पुनपुंसकयोः प्रायेण ॥ १३ ॥ पुनपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येनेटः । यथा--- 'चन्द्रमिव मुखं पश्यति' इति । 'इन्दुरिव मुखं माति' ऐवंप्रायं तु ने. च्छन्ति । लौकिक्यां समासाभिहितायामुपमामपभे च ॥ १४ ॥ लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपचे चेष्टो लि- गभेदः प्रायेणेति । लौकिक्यां यपा-'डायेव स तस्य' 'पुरुप इव स्त्रो' इति । समासाभिहितायां यथा--'भुनलता नीलोत्पलसदृशी' इति । उपमाप्रपचे यथा-- "शुद्धान्तदुर्लपमिदं वपुराश्रमवामिनो यदि जनस्य । दूरीरूताः खलु गुरुधानलता पनलताभिः । 1. 'उपमेयामाधा' ग, 'उपमेयामावान्' ग. २. 'इटोमाय' ग... 'टपमायो' प-पुस्तके नास्ति. ४. 'नानी' ग. ५. 'नीलोत्पलमहर रति क, 'नोलोराई रयते ग.

१७ : अधि० २ अ०] काव्यालंकारसूत्राणि । एवमन्यदपि प्रयोगजातं द्रष्टव्यम् । तेने वचनभेदो व्याख्यातः ॥ १५ ॥ तेन लिङ्गभेदेन वचनभेदो व्याख्यातः । यथा-'पश्यामि लोचने तस्याः पुष्पं पुप्पलिहो यथा ।' अमतीतगुणसादृश्यमसादृश्यम् ॥ १६ ॥ अप्रतीतैरेव गुणैर्यत्सादृश्यं तदप्रतीतगुणसादृश्यमसादृश्यम् । यथा- 'अध्नामि काव्यशशिनं विततार्थरश्मिम्' काव्यस्य शशिना सह यत्सा- दृश्यं तदमतीतैरेव गुणैरिति । ननु चार्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति । मैवम् । काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिद्ध्यति । नार्थानां रश्मीनां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेवमितरेतराश्रयदोपो दुरुत्तर इति । असादृश्यहता युपमा । तनिष्ठाश्च कवयः ॥ १७ ॥ असादृश्येन हता असादृश्यहता उपमा, तन्निष्ठा उपमाननिष्ठाश्च कवय इति । उपमानाधिक्यात्तदपोह इत्येके ।। १८॥ उपमानाधिक्यात्तस्यासादृश्यस्यापोह इत्येके मन्यन्ते । यथा-'क. प्रहारहरहाससितं यशस्ते ।' कर्पूरादिभिरुपमानैहुभिर्यशसः सादृश्यं संस्थापितं भवति । तेषां शुरलगुणातिरेकात् । नापुष्टार्थत्वात् ॥ १९ ॥ उपमानाधिक्यात्तदपोह ईति यदुक्तं तन्न । अपुष्टार्थत्वात् । एकस्मिन्नु- पमाने प्रयुक्त उपमानान्तरप्रयोगो न कनिदर्यविशेपं पुष्णाति । तेन 'व. लसिन्धुः सिन्धुरिख क्षुभितः' इति प्रयुक्तम् । ननु सिन्धुशब्दस्य द्विः प्रयोगात्पीनरुक्त्वम् । न । अर्थविशेषात् । पलं सिन्धरिव वैपुल्यावल- सिन्यः सिन्धुरिव पुभित इति सीमसारूप्यम् । तस्मादभेदान पौनरु- १. 'एन' ग. २. तुच्यते मिझे क. ३. 'नग्न्' क. ४. 'उरमानानामापिक. ५. 'गुस्थापित क. ५. 'खुस' क. ५. 'उपमानानन्तर' रा. ८. 'प्रयामलाद' य. 'क्षोमसारयाद क 1. परलम्' इत्परमादनना क-पुलके ' मंग वाश्याः' इत्यधिकमलि. . ४ अधि० ३ अ.] काव्यालंकारसूत्राण । 'देवीमावं गमिता परिवारपदं कथं भजत्येपा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रैनम् ॥ प्रतिवस्तुनः समासोक्तभेदं दर्शयितुमाह- अनुक्तौ समासोक्तिः॥ ३॥ उपमेयस्यानुक्ती समानवस्तुन्यासः समासोक्तिः । संक्षेपवचनात्समासो- - क्तिरित्याख्या । यथा- 'श्लाघ्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः । धिन्मेरौ कल्पवृक्षाणामनुत्पन्नार्थिनां श्रियः ॥' समासोकेरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह- किंचिदुक्तावप्रस्तुतप्रशंसा ॥ ४॥ उपमेयस्य किंचिछिगमात्रेणोक्तौ समानवस्तुन्यासेऽप्रस्तुतप्रशंसा । 2.. यथा- 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संहवन्ते । उन्मन्नति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥" अप्रस्तुतस्यार्यस्य प्रशंसनमप्रस्तुतप्रशंसा । अपतिरपि ततो भिन्नेति दर्शयितुमाह- समेन वस्तुनान्यापलापोऽपद्धतिः॥५॥ समेन तुल्येन वस्तुना वाक्यार्थेनान्यस्य वाक्यार्थस्यापलापो निद्ववो यस्तत्वाध्यारोपणायासावपतिः । यथा- 'न केतकीनां विलमन्ति मूनयः प्रयासिनो हन्त हमत्ययं विधिः। तडिटतयं न चकास्ति नाला पुरः स्मरज्योतिरिदं विवर्तते ।। गाक्यायोस्तात्पर्यात्ताप्यमिति न रूपकम् । २. MEHTA. 1. 'कायनेप' रा. ४. 'मस्तस्याध्यारोमामा' स, 'यस्तता. परानामा'ग. ५. 'ए. . .

५० काव्यमाला। रूपकं तु कोदशमित्याह- 'उपमानोपमेयस्य गुणसाम्यात्तत्वारोपो रूपकम् ॥ ६ ॥ उपमानोपमेयस्य गुणसाम्यात्तत्त्वस्याभेदस्यारोपणमारोपो रूपकम् । उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्योपमायाः प्रकृतित्वमन यथा विज्ञायतेति । यथा-- 'इयं गेहे लक्ष्मीरियममृतवर्तिनयनयो- रसावस्याः स्पशी वपुपि पहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमहणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ मुखचन्द्रादीनां तूपमा । समासात् न चन्द्रादीनां रूपकत्वं युक्तमिति । रुपकापस्य भेदं दर्शयितुमाह- सधर्मपु तन्त्रप्रयोगे श्लेपः ॥७॥ उपमाननोपमेयस्य धर्मषु गुणक्रियाशब्दरूपेषु सतत्त्वारोपस्तन्त्रम- योगे तन्त्रेणोच्चारणे सति श्लेपः । यथा- 'आरटामलमण्डलाग्ररुचयः संनद्धवक्षःस्थला: सोमाणो व्रणिता विपक्षहृदयप्रोन्माथिनः कर्कशाः । उदृत्ता गुरवश्च यस्य शमिनः श्यामायमानामना योधा मारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याजिनः ।।" यथा च गौणस्यार्थस्यालंकारत्वं तथा लाक्षणिकस्यापीति दर्शयि- तुमाह- सादृदयाक्षणा वक्रोक्तिः ॥ ८॥ वहूनि हि' निवन्धनानि लक्षणायाम् । तत्र सारश्याचक्षणा वक्रो- क्तिरसाविति । यथा-'उन्मिमील कमलं सरसीनां करवं च निमिमाल मुहूर्तात् ।' अत्र नेत्रधर्मावुन्मीलननिमीलने साटश्याद्विकाससंकोची लक्षयतः । T. दर्शयितुमा६' ग. २. विशयन इति' ग... 'वाट' क. ४. म तया' म. ५. 'वारवधू' ग. ६. 'द: क. ५. 'हि' क-युम्न नारित, ८. पक्षपाया.' क. 'मार ग. - तिपत्तिक्षमत्वं रहस्यमाचक्षत इति । असादृश्यनिवन्धना तु लक्षणा न ४ अधि० ३ अ.] काव्यालंकारसूत्राणि । 'इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयम् । मदयति च केसराणां परिणतमधुगन्धि निःश्वसितम् ॥20601 अत्र निःश्वसितमिति परिमलनिर्गमं लक्षयति । 'संस्थानेन स्फुरतु सुभगः स्वर्चिपा चुम्बित द्याम् ।' 'आलस्यमालिङ्गति गात्रमस्याः।' 'परिम्लानच्छायामनु वदति दृष्टिः कमलिनीम ।' 'प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकपायः।' 'उरुद्वन्दं तरुणकदलीकाण्डसब्रह्मचारि ।' इत्येवमादिषु लक्षणार्थों निरूप्यत इति । लक्षणायां चै झटित्यर्थप्र- वक्रोक्तिः । यया-जरठकमलकन्दच्छेदगौरैमयूखैः । अत्र च्छेदः सामीप्याव्यं लक्षयति । तस्यैव गौरवोपपत्तेः।। रूपकवक्रोक्तिम्यात्प्रेक्षाया भेदं दर्शयितुमाह- अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्मेक्षा ॥ ९ ॥ अतपस्यातत्स्वभावस्य । अन्यथा अतत्वभावतया । अध्यवसान- मध्यवसायः । न पुनरध्यारोपो लक्षणा वा । अतिशयार्थमिति भ्रान्ति- ज्ञाननिरत्यर्थम् । सादृश्यादियमुत्प्रेक्षेति । एनां वादिशब्दा द्योतयन्ति । यथा- 'स वः पायादिन्दुर्नवविसलताकोटिकुटिलः । स्मरारेयो मूर्ध्नि ज्वलनकपिशे भाति निहितः। सवन्मन्दाकिन्याः प्रतिदिवससिक्केन पयसा कपालेनोन्मुकः रफटिकवलेनाकुर इव ।।" १. 'सानिया' क. २. 'गुम्य' ग. ३. 'च' ग-ग-पुस्तम्गोनोस्ति. १. 'इति। फ-पुल के नास्ति. ५. 'तु' रा-गुलो नास्ति. ६. 'माया' ग. क.मिन' प. शालिनी पोतात का, ७. 'उत्प्रेक्षायां' RECE काव्यमाला। . उत्प्रेक्षवातिशयोक्तिरिति केचित् । तन्निरासार्थमाह- संभाव्यधर्मतदुत्कर्पकल्पनातिशयोक्तिः॥ १० ॥ संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पनातिशयोक्तिः । यथा- 'उभी यदि व्योनि एथक्प्रवाहावाकाशगङ्गापयतः पतेताम् । तेनोपमायेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ।। यथा वा-- 'मलयजरसविलुप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शशभृति विततधानि धवलयति धरामविभाव्यतां गताः मियवसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ।। यथा भ्रान्तिज्ञानस्वरूपोत्प्रेक्षा तथा संशयज्ञानस्वरूपः संदेहोऽपीति दयितुमाह- उपमानोपमेयसंशयः संदेहः ॥ ११ ॥ उपमानोपमेययोरतिशयार्थ यः क्रियते संशयः स संदेहः । यथा-- 'इदं कर्णोत्पलं चक्षुरिदं चेति विलासिनि । न निश्चिनोति हृदयं किंतु दोलायते पुनः॥' संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह- विरुद्धाभासत्वं विरोधः ॥ १२ ॥ अर्थस्य विरुद्धस्येवामासलं विरद्धाभासत्वं विरोधः । यथा- 'पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः पवाली तब कुङ्कुमेन रचिता रक्ता पयं मानिनि । त्वं तुझस्तनमारमन्थरगतिगात्रेषु में येपy. स्त्वमध्ये ननुना ममावृतिरही मारस्य चित्रा गतिः ।। 1. धर्मस्य ग. १. 'मभायाम' प३, 'तदा' प. ४. 'वति' फ. ५. 'मन.' ग, 'मर' ग. ६. 'विरोधाभारत' ग... 'आमामन' पा. ८.गंध.' म पुग्न रे. नास्ति.

१. 'यपाया' ग-पुस्तके नास्ति, २. अबोकः क-पुस्तनाम्नि. ३. 'मनमः गग.४, 'फटस्य' ग. ५. मिदरप' क...'या'ग-गुम्न नास्ति, ५. प. मानोरमेयहाँक, 'पारमुरमानरी प'ग. ८. 'पा' य... -पुस्तके पूगी- राधाग्यपः फलो नाग्नि... विसरले कमा. " .. भधि० ३ अ०] काव्यालंकारसूत्राणि । यया वा- - 'सा वाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सी पोनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । सा क्रान्ता जवनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोपैरन्यननाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥' विरोधाद्विमावनाया भेदं दर्शयितुमाह- क्रियाप्रतिपेधै प्रसिद्धतफैलव्यक्तिविभावना ॥ १३ ॥ क्रियायाः प्रतिपेये तस्या एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्ति- विभावना । यथा- 'अप्यसजनसांगत्ये न वसत्येव वैकतम् । अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ॥' विरोधप्रसङ्गेनानन्वयं दर्शयितुमाह- एकस्योपैमेयत्वोपमानत्वेऽनन्वयः ॥ १४ ॥ एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः । यथा- 'गंगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिख ।' अनन्यसादृश्यमेतेन प्रतिपादितम् । क्रमेणोपमेयोपमा ॥ १५ ॥ एकस्यैवार्पस्योपमेयत्वमुपमानत्वं च क्रमेणोपमेयोपमा । यथा- 'खमिव जलं जलमिव सं हंस इव शशी शंशीय हंसोऽयम् । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।' इयमेव परिवृत्तिरित्येके । तग्निरालार्थमाह- समविमशाभ्यां परिवर्तन परिरत्तिः ॥ १६ ॥ . पोगले उपमानो धमेग' फ..१२. 'म:' क-ग.

काव्यमाला। समेन विसदृशेन वार्थनार्थस्य परिवर्तन परिदृत्तिः । यथा- 'आदाय कर्णकिसलयमियमस्मै चरणमरुणमर्पयति । उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ।' यथा वा- 'विहाय सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना । बबन्ध वालारुणवधु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह- उपमेयोपमानानां क्रमसंवन्धः क्रमः॥ १७ ॥ यानामुपमानानां चोद्देशिनामनुद्देशिनां च क्रमेण संबन्धः क्रमः । - यथा- 'तस्याः प्रवृद्धलीलाभिरालापस्मितहष्टिभिः । जीयन्ते वल्लकोकुन्दकुसमेन्दीवरस्वनः ।।' संबन्धप्रसङ्गेनैव दीपकं देशयितुमाह- उपमानोपमेयवाक्येप्वेका क्रिया दीपकम् ॥ १८ ॥ उपमानवाक्येपूपमेयवाक्येषु चैका क्रिया अनुपगतः संबध्यमाना दी. पकम् । तंप्रिविधम् । आदिमध्यान्तवाक्यत्तिभेदात् ॥ १९ ।। तत्रिविधं भवति । आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् । यथा- 'भूप्यन्ते प्रमदवनानि बालपुष्पैः कामिन्यो मधुमदमांसलैर्विलासैः । ब्रह्माणः श्रुतिगदितैः क्रियाकलापै राजानो विरलितवैरिभिः प्रतापैः ।।" 'बाप्पः पथिककान्तानां जलं जलमुचां मुहः । विगलत्यधुना दण्डयात्रोद्योगो महाभुजाम् ।।' १. अर्थेन चार्थस्य' ग. २. 'अस्मादनुचरणमर्थयति केला' क, 'अस्मादिह चरण• मर्पयति पाला' ग. ३. 'यटि. क-ग. ४. 'शुद्ध' क. ५. 'लक्षयितु' का. ६. 'प. मानोपमेयादि फ.५. 'तविध्यम्' क.८.'तप्रिया' क... 'तिभेदात्' क.

- क्रिययैव अधि० ३ अ०] काव्यालंकारसूत्राणि । 'गुरुशुश्रूषया बुद्धिर्मधुगोठ्या मनोभवः । उदयेन शशाङ्कस्य पयोराशिविवर्धते ॥' दीपकवन्निदर्शनमपि संक्षिप्तमित्याह- क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ॥ २० ॥ शुद्धया स्वस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं संवलितहेतुदृष्टान्तविभागं निदर्शनम् । यथा- 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् । आपाण्ड पतति पत्रं तरोरिदं बन्धनग्रन्थः ॥' पततीति क्रिया । तस्याः स्वं पतनम् । तदर्थोऽत्युच्चपदाध्यासः पत- नायेति शंसनम् । तस्य ख्यापनमर्थशालिनां शंसदिति । इदं च नार्यान्तरन्यासः । स ह्यन्यथाभूतः। तमाह- उक्तसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ॥२१॥ उक्तसिद्ध्यै उक्तस्यार्थस्य सिद्ध्यर्थ वस्तुनो वाक्यार्थान्तरस्यैव न्यसन- मन्तिरन्यासः । वस्तुग्रहणार्थस्य हेतोयसनं नार्थान्तरन्यासः । ५- ह नातिदूरगोचरमस्ति सरः । कमलसौगन्ध्यात्' इति । अर्थान्तरस्यैवेति चिनम्, यत्र हेतुाप्तिगूढत्वात्कथंचित्प्रतीयते तत्र यया स्यात् । 'यद्य- रतकं तत्तदनित्यम्' इत्येवंप्रायेषु मा भूदिति । उदाहरणम्- 'मियेण संग्रथ्य विपक्षसंनिधायुपाहितां वससि पावरस्तने । सनं न काचिद्विनही नाविला वसन्ति हि प्रेम्णि गुणा न वस्तुनि ।' अर्थान्तरन्यासस्य हेतुरूपत्वात् हेतोश्चान्वयव्यतिरेकात्मकत्वात् न पग्व्यतिरेक इति केनित । तग्निरामार्थमाह- उपमेयस्य गुणातिरेकसं व्यतिरेकः ॥ २२ ॥ १. योपिरभिात फ. १. 'मनुतिहेतु' य. 'गंपुति' ग. 3. मनन' क-ग-गुप्तरोनास्ति, ४. गावार्थम्यान्तर' क. ५. 'दाम' क... इतिगूसरात' का, हेदुमातिम्रताद' रा. . 'तादादरम' क८. परि. - सनी' क.

६६ काव्यमाला। उपमेयस्य गुणातिरेकत्वं गुणाधिक्यं यत् अर्थादपमानात् सव्यतिरेकः । यथा- 'सत्यं हरिणशावाक्ष्याः प्रसन्नसुभगं मुखम् । समानं शशिनः किं तु स कलङ्कविम्बितः ॥' कश्चित्तु गम्यमानगुणो व्यतिरेकः । यथा-- 'कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं भग्नं स्वादोः पदं रससंपदः । विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनां चतुरमधुरीलातन्त्रैस्तवार्षविलोकितैः ।" व्यतिरेकाद्विशेपोक्त दं दर्शयितुमाह- एकगुणहानिकल्पनायां साम्यदाय विशेपोक्तिः ॥ २३ ॥ एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैः साम्यं यत्तस्य दार्य वि. शेपोक्तिः । रूपकं चेदं प्रायेणेति । यथा- 'भवन्ति यत्रौपधयो रजन्यामतैलपूराः मुरतनदीपाः ।' 'तं हि नाम (रुपस्यासिंहासनं राज्यम् ।' 'निद्रेयमकमला लक्ष्मीः । 'हस्ती हि जङ्गमे दुर्गम् ।' इति । अत्रापि जङ्गमशब्दस्य स्थावरत्वनिरत्तिप्रतिपादनत्वादेकगुणहानिक- ल्पनैव । एतेन- 'वेश्या हि नाम मूर्तिमत्येव निकृतिः।' 'व्यसनं हि नाम सोच्छ्वासं मरणम् ।' 'द्विजो भूमियहस्पतिः। इत्येवमादिप्वेकगुणहानिकल्पना व्याख्याता । १. 'गुणातिरिनाल यर' क. २. 'चतुरचर लीलारम्भ.' ग. ३. 'पत्र तस्य' य. ४, 'फापुरुषस्य' ग. ५. 'राज्यमिति' ग. ६. "निदा' पना-पुस्तकयो स्ति. ५. लक्ष्मीरिति ग. . 'नाम' कला-गुस्तकयौनास्ति.

५७ ४ अवि० ३ ०] काव्यालंकारसूत्राणि । व्यतिरेकविशेपोक्तिम्यां व्याजस्तुति भिन्नां दर्शयितुमाह- संभाव्यविशिष्टकर्माकरणानिन्दास्तोत्रा व्याजस्तुतिः॥२४॥ अत्यन्तगुणाधिको विशिष्टस्तस्य च कर्म विशिष्टकर्म तस्य संभाव्यस्य कर्तुं शक्यत्याकरणानिन्दा विशिष्टसाम्यसंपादनेन' स्तोत्रार्था व्याज 1 स्तुतिः । यथा- - 'बबन्ध सिन्धुं गिरिचक्रवालविभेद सप्तैकशरेण तालान् । एवंविधं कर्म ततान रामस्त्वया कृतं तन्न मुधैव गर्वः ॥' व्याजस्तुतेप्नोक्ति भिन्नां दर्शयितुमाह- व्याजस्य सससारूप्यं व्याजोक्तिः ॥२५॥ व्यानस्य च्छद्मनः सत्येन सारूप्यं व्यानोक्तिः । यां मायोक्तिरि- स्याहुः । यथा- 'शरच्चन्द्रांशुगौरेण वाताविद्धन भौमिनि । काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम् ॥' व्यानस्तुतेः पृथक्तुल्ययोगितेत्याह- विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ॥ २६ ॥ विशिष्टेन न्यूनस्य सान्यार्थमेकालायां क्रियायां योगस्तुल्ययोगिता । 'जलनिधिरशनामिमां धरित्री वहति भुनंगविभुवनश्च ।' उपमानाक्षेपश्चाक्षेपः ॥२७॥ उपमानस्याक्षेपः प्रतिषेध उपमानाक्षेपः । तुल्यकार्यार्थस्य नरर्थक्य- विवक्षायाम् । यथा-- 'तस्याश्चेन्मुखमस्ति सौम्यमुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दशी च यदि नेरिक नाम नीलोत्पलैः किंवा कोमलकान्तिभिः फिमलयः सत्येव तत्रापरे हा धातुः पुनरुक्तवस्तुरननारम्भेवों ग्रहः ॥' 7. स्तोत्राय ग. २. 'मायोगदानेन' फ, 'सान्यापादनन' ग. ३. 'स्नोपाय म. ४. 'मायोति' .:: 'भागिन' ग. ह. नानिमायोग: पला. मानाक्षेपः' ग..नारियायामाक्षेप.' गीधातुः' का, 'दोधात. ग. यथा- - - *.

काव्यमाला। - उपमानस्याक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः । यथा- 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरदधानानखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दं तापं रवेरभ्यधिक चकार ।' अत्र शरद्वेश्येव, इन्दु नायकमिव, रवेः प्रतिनायकस्येवत्युपमानानि 'गम्यन्त इति । तुल्ययोगितायाः सहोदमाह- वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ॥२८॥ वस्तुईयस्य क्रिययोस्तुल्यकालयोरेकेन पढ़ेनाभिधानं सहायशब्दसा- मात्सहोक्तिः । यथा- 'अस्तं भास्वान्मयातः सह रिपुभिरयं संद्वियन्तो बलानि ।' अत्रार्थयोन्यूनत्वविशिष्टत्वे ने स्त इति नेयं तुल्ययोगितेति । ममाहितमेकमवशिष्यते तल्लक्षणार्थमाह-- यत्सादृश्यं तत्संपत्तिः समाहितम् ॥ २९ ॥ यस्य रस्तुनः सादृश्यं गृह्यते तस्य वस्तुनः संपत्तिः समाहितम् । यथा- 'तन्वी मेघनलाईपल्लवतया धौताधरेवाश्रुभिः शून्येवामरणः स्वकालविरहाद्विश्रान्तपुप्पोद्गमा । चिन्तामोहमिवास्थिता मधुलिहां शब्देविना लक्ष्यते चण्डी मामवध्य पादपतितं जातानृतापेव सा ॥' अत्र पुरूरवमोलतायावश्याः सादृश्यं गुडतः मैव लतोर्वशी मंपन्नेति । एते चालंकाराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानामलंकाराणां मिश्र संमृष्टिरित्याह- अलंकारस्पालंकारयोगित्वं संसृष्टिः ॥ ३० ॥ अलंकारस्यालंकारयोगित्वं दमी ममृष्टिगिति। मंगृष्टिः संसर्गः संपन्य दति। १.तान' ग. १. 'यक्रिो' ग. ३. 'मन दतिम तय ग, 'म पनि । तुल्य' ग. ४. 'नय रक्षणार्य क. ५. 'गृहानम्' प... मामी' ग. ७. इति' पाना पुस्तकमोनाग्नि.

५६ ५ अधि० १ अ०] यति । यथा- काव्यालंकारसूत्राणि। तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ॥ ३१ ॥ तस्याः संसृष्टे दावुपमारूपकं चोत्प्रेक्षावयवति । उपमानन्यं रू- पकमुपमारूपकमिति । यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् । प्रथम इव भवान्स कूर्ममूर्ति यति चतुर्दशलोकवल्लिकन्दः । । एवं रजनिपुरंधिरो|तिलकः' इत्येवमादयस्तद्देदा द्वेष्टव्याः । उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ३२॥ उत्प्रेक्षाया हेतुरलंकार उत्प्रेक्षावयवः । अवयवशब्दो ह्यारम्भकं ल- 'अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुङ्मलोकतसरोजलोचनं चुम्वतीव रजनीमुखं शशी ।' ऐभिनिदर्शनैः खोयैः परकीयैश्च पुष्कलैः । शब्दवैचित्र्यगर्भयमुपमैव प्रपञ्चिता ॥ अलंकारैकदेशा ये मताः सौभाग्यभागिनः । तेऽप्यलंकारदेशीया योजनीयाः कवीश्वरैः ।। इति काव्यालंकारसूत्रवृत्तीवालंकारिक चतुर्थेऽधिकरणे तृतीयोऽध्यायः । उपमाप्रपचाधिकारः। समासं चेदमालंकारिक चतुर्थमधिकरणम् । प्रायोगिक नाम पञ्चममधिकरणम् । प्रथमोऽध्यायः । संप्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकास्यमधिकरण- मारम्यते । तत्र काव्यसमयस्तावीच्यते-- नकं पदं द्विः प्रयोज्यं मायण ॥१॥ १. स. २. रजनियरपुरधि' क. ३. 'लोकतिला शो' ग. ४. 'व्या इति' रा. ५. 'अलंकार' रा-पुस्तके नास्ति. ६. ऽस्या एक मूरति म.... अभिलक्षणः स्वीयः स. . पवित्र रा. ६. सामाग्यशालिनः' क... संकारिकाधिकरपेालंकारमधनं ग... 'उपमारभितार क-ग-पुस्तायो- मौलि. १२. प्रायोगितामधिपरमार' ग. ३. 'उच्यत इमाई' . 3 गद्ये समाप्तप्रायं वृत्तं न विधेयम् । शोमाभ्रंशात् । अन्यत्रोता. पादादी खल्वादयः शन्दा न प्रयोज्याः | आदिशब्दः प्रागः। येपामादी प्रयोगो न लिप्यति ते गृह्यन्ते । न पुनर्वतहन्तप्रभृतयः । काव्यमाला। एक पदं न द्विः प्रयोज्यं प्रायेण वाहुल्येन । यथा--'पयोद पयोद' इति । किंचिदिवादिपदं द्विपि प्रयोक्तव्यमिति । यथा--'सन्तः सन्तः खलाः खलाः। निसं संहितैकपदवत्पादेप्वर्धान्तवर्जम् ॥ २॥ नित्यं संहिता पादेप्वेकपदवदेकस्मिन्निव पदे । तत्र हि नित्या संहि. तेत्याम्नायः । यथा-'संहितकपदे नित्या नित्या धातूपसर्गयोः' इति । अर्धान्तवर्गमर्धान्तं वर्जयित्वा । न पादान्तलघोगुरुत्वं च सर्वत्र ॥३॥ पादान्तलघोगुरुत्वं प्रयोक्तव्यं न सर्वत्र न सर्वस्मिन्टत्त इति । यथा- 'यासां बलिर्भवति मद्गृहदेहलीनां हसैश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव पूर्ववलिरूढयवाडुरासु वीजाञ्जलिः पतति कीटमुखावलीढः ॥' एवंप्रायवेव रत्तेविति । न पुनः 'वरूथिनीनां रनास प्रसर्पति समस्तमासीहिनिमीलितं जगत् । इत्यादिषु । चकारोऽर्धान्तवर्जमित्यस्यानुकर्षणार्थः । न गये समाप्तमायं वृत्तमन्यत्रीदतादिभ्यः संवादात् ॥ ४ ॥ दिभ्यो विषमरत्तेभ्यः । संवादात् गद्येनेति । न पादादी खल्वादयः ॥५॥ नार्धे किंचिदममासमायं वाक्यम् ॥ ६ ॥ १.प्रात्ताय्यं व. २. 'दिवादिक-स. ३. 'तिदायति' क-स. ४. 'म. मनाय' स.५. 'ममामाय' ख.

'निधानगर्भामिव सागराम्बराम् ।' अत्र हि एथिव्या विशेषणमात्रमेव सर्वनाम्नानुसंघिरनुसंधानं प्रत्यवमर्शः । वृत्तिच्छन्नस्य वृत्ती समासे ..'अममाप्त याश्य न विधेयं प्रयोत्तव्य' कर ममाप्तप्राय वाक्यन प्रयोयन' ५ अधि० १ अ.] मत्युक्तम् । एतेन इत्यादयः प्रयोगा व्याख्याताः। सनस्य गुणीभूतस्य । यथा-- काव्यालंकारसूत्राणि वृत्तस्यार्धे किंचिदंसमाप्तप्रायं न प्रयोक्तव्यम् । यथा- 'जयन्ति ताण्डवे शंभोर्भङ्गुराङ्गुलिकोटयः । कराः कृष्णस्य च भुजाचक्रांशुकपिशत्विषः ॥' न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥७॥ बहुव्रीहि प्रतिपत्तिं करोति यः कर्मधारयः स न प्रयोक्तव्यः। यथा- 'अध्यासितश्चामौ तरुश्चाध्यासिततरुः' इति । तेन विपर्ययो व्याख्यातः ॥ ८॥ बहुव्रीहिरपि कर्मधारयतिपत्तिकरो न प्रयोक्तव्यः । यथा--'वीराः पुरुषा यस्य स वीरपुरुषः' । 'कलो रखो यस्य स कलरवः । इति । संभाव्यनिषेधनिवर्तने द्वौ प्रतिपेयौ ॥९॥ संभाव्यस्य निषेधस्य निवर्तने हौ प्रतिषेधौ प्रयोक्तव्यौ । यथा- 'समरमूर्धनि येन तरस्विना न न नितो विजयी त्रिदशेश्वरः । स खलु तापसवाणपरम्पराकवलितशतजः क्षितिमाश्रितः ।। विशेपणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥ १० ॥ विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः । यथा- 'कुदस्य तस्याथ पुरामरातेललाटपट्टादुदगादुचिः।' "गिरेस्तडिवानिव तावदुच्चकैनवेन पीठाडुइविष्टदच्युतः ।' सर्वनाम्नानुसंधित्तिच्छन्नस्य ॥ ११ ॥ म.'चमार' स. ३. 'विप्रनिपति' फ.४. क.६.निसा' क. ७. स्लिानियादयः क-ग. 'विनियंत'फ. विनिति' 'यशस्विना' क. ८. 'एव' कसम्म नास्ति... मरेल.

काव्यमाला। 'तथापि नीलोत्पलपत्रचापो मुखस्य तद्रेणुसमानगन्धिनः' इति । संवन्धसंवन्धेऽपि पष्ठी कचित् ॥ १२ ॥ संबन्धेन संबन्धः संवन्धसंबन्धस्तस्मिन् पष्ठी प्रयोज्या क्वचित्, न सर्वत्रेति । यथा-'कमलस्य कन्दः' इति । कमलेन संबद्धा कमलिनी नलिनी तस्याः कन्द इति संबन्धसंबन्धः । तेन केंदलीकाण्डादेयो व्या- ख्याताः। अतिप्रयुक्त देशभापापदम् ॥ १३ ॥ अतीव कविभिः प्रयुक्तं देशभापापदं प्रयोज्यम् । यथा- 'योपिदित्य भिललाप न हालां' इत्यत्र हालेति देशभापापदम् । अन- तिप्रयुक्तं तु न प्रयोज्यम् । यथा- 'कॅट्वेलीकाननालीरविरलविलसत्पल्लवा नैर्तयन्तः' इत्यत्र ककेली. पदम् । लिहाव्याहारो ॥ १४॥ लिङ्गं चाध्याहारश्च लिङ्गाध्याहारापतिप्रयुक्तौ प्रयोज्याविति । यथा- 'वसे मा बहु निःश्वमीः कुरु सुरागण्डूपमेकं शनैः' इत्यादिपु गण्डूप- शब्दः पुंसि भूयसा प्रयुक्तः, न स्त्रियामानातोऽपि स्त्रोत्ले । अध्याहारो यथा- 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुवी । वाहिनीनलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह रक्ष ।' अत्र ह्यधाक्षीदित्यादीनामध्याहारोऽन्वंयप्रयुक्तः । लक्षणाशब्दाच ॥ २५॥ लक्षणाशब्दाश्रातिप्रयुक्ताः प्रयोज्याः । यथा द्विरेफरथचरणशब्दी 1. कमलिनी' य-ग-गुम्तायांनास्ति. २. 'कमल' ग, 'बदल ग, ३. यो र र... 'पी' ग. ५. ' जलि' का, ' मन्न' ग. ६. 'कोही'ग ७. 'दति' क-ग-गुम्ममयानाग्नि, ८.'यमिन्द्रकविमनं या क-ग... यापदानामध्याहारो ग...श्रय प्रयुक्त इति' स, 'उत्तमप्रयुक्ततया युक्न, इति' ग. "."धोकदादा कमा.

। न क. ... ५ अधि० २ अ०] , काव्यालंकारसूत्राणि । स्विद्यत इति च ॥ ६॥ खिंद्यत इति च प्रयोगो दृश्यते सोऽपि कर्मकर्तव द्रष्टव्यः, तरि । अदेवादिकत्वारिखदेः। मार्गरात्मनेपदमलक्ष्म ॥ ७ ॥ चुरादौ 'मार्ग अन्वेषणे' इति पठ्यते 'आ धृपाहा' इति विकल्पित- णिकः तस्माद्यदात्मनेपदं दृश्यते-'मार्गन्तां देहभारं-' इति तदलक्ष्म अलक्षणम् । परस्मैपदित्वान्मार्गः । तथा च शिष्टप्रयोगः-'करकिसलयं धुंवा धूता विमार्गति वाससी ।' लोलमानादयश्चानशि ॥ ८॥ लोलमानो वेल्लमान इत्यादयश्थानशि द्रष्टव्याः । शानचस्वभावः । परस्मैपदित्वाद्धातूनामिति । लभेगसर्थवाणिच्यणी कर्तुः कर्मत्वाकर्मत्वे ॥९॥ अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह, अस्ति च गत्युपसर्जना प्राप्तिमाहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वालमेणिच्यणौ यः कर्ता तस्य गत्यादिसूत्रेण कर्मसंज्ञा । यथा-- 'दोषिकामु कुमुदानि विकास लम्भयन्ति शिशिराः शशिभासः ।' द्वितीयपक्षे गत्याल्लभेणिच्यणी कर्तुन कर्मसंज्ञा । यथा- 'सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिमिः सौधमिवाय लम्भयन् । द्विनावलिव्याननिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ।।' ते मे-शब्दो निपातेषु ॥ १०॥ स्वयामयेत्यस्मिन्नये ते-मे-शब्दौ निपातेपु द्रष्टव्यौ । यथा- 'शृतं ते वचनं तस्य', 'वेदानधीत इति नाधिगतं पुरा तिरस्कृत इति परिभूतेऽन्तऍपचाराद ॥ ११ ॥ तिरस्कृत इतिशब्दः परिभूते दृश्यते । 'राक्षा तिरस्कृतः' इति । सियत इत्यपि च' क, 'मियते' ग. २. 'तिने' क. मियते' ग.. हमां' क. 'देहसारान्' ग. ४. 'तयार' क. ५. 'शुत्रा धुत्वा' ग. ६. 'च' फ- पुस्तस्योनास्ति.

५ आधि० २ अ.] काव्यालंकारसूत्राणि । आमूललोलमामूलसरलमित्यादिषु वृत्तिस्पिष्टपटुवत् । मयूरव्य॑सका- दित्वात् । लोलामेव लोलम् आमूलं च तछोलं चेति । न धान्यपष्टादिषु पष्ठीसमासप्रतिषेधः । पूरणेनान्यतद्धितान्त- स्वात् ।। १७॥ धान्यपठं 'तान्युञ्छषष्ठावितसैकतानि' इत्यादिषु न पठीसमासप्रति- पेधः । पूरणेन पूरणप्रत्ययान्तेनान्यतद्धितान्तत्वात् । पष्ठो भागः पष्ठ इति । 'पूरणाद्भागे तीयादन्' 'पष्ठाटमाभ्यां न च' इत्यन्विधानात्स प्राप्तः । पत्रपीतिमादिपु गुणवचनेन ॥ १८ ॥ पत्रपीतिमा पत्रालीपिङ्गलिमा इत्यादिपु पष्ठीसमासप्रतिषेधो गुणवच- नेन प्राप्तो बालिश्यात्तु न कृतः अवयॊ बहुव्रीहिय॑धिकरणी जन्मागुत्तरपदः ॥ १९ ॥ अवज्यों न वर्जनीयो व्यधिकरणो बहुव्रीहिः । जन्माधुत्तरपदं यस्य स जन्मायुत्तरपदः । यथा-'शास्त्रार्थजन्मा हि विवेकलामः', 'कण्ठ- वृत्तयः प्राणाः' इति । हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ॥ २० ॥ हस्ताग्रमग्रहस्तः पुप्पाग्रमग्रपुप्पमित्यादयः प्रयोगाः कथम् । आहि- ताश्यादिप्वपाठात् । पाठे वा तदनियमः स्यात् । आह-गुणगुणिनो:- दाभेदात् । तत्र भेदात् हस्तायादयः । अभेदादग्रहस्तादयः । पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ २१॥ काठतृणं तृणकाष्ठमिति यहच्छया पूर्वनिपातं कुर्वन्ति तत्रापभ्रंशो रक्ष्यो रक्षणीयः । अनित्यत्वज्ञापनं तु न सर्वविषयमिति । निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः । परिगणनस्य प्रायिकत्वात् ।। २२ ।। १. 'सरस' क. २. 'पक्ष्मालीपिङ्गलिन्ना' ग. ३. 'तु' क-ग-पुस्तकयो स्ति, ४. 'कण्ठे वृत्तयः' ख. ५. 'अत आह' स. ६. 'तत्र' ख-पुस्तके नास्ति. ५. 'पूर्व. निपातापभ्रंशो' क, 'लध्वक्षरपूर्वनिपातेऽपभ्रंशो वर्व्यः' ग. ८. 'वर्यः' ग. - ९. शापफ'ख.

काव्यमाला। अनभिहिते' इत्यत्र सूत्रे तिङ् कृत्तद्धितसमासैरिति परिगणनं कर्त तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भवति । यथा--'विपरक्षोऽपि संवर्य स्वयं छेत्तुमसांप्रतम्' इति । 'पण्डितं मूर्ख इति मन्यते । शक्यमिति रूपं विलिङ्गवचनस्यापि कर्माभिधायां सामान्योप- क्रमात् ॥ २३ ॥ शके: 'शकिसहोश्च' इति कर्मणि यति कृते शक्यमिति रूपं भ. वति । विलिङ्गवचनस्यापि विरुद्धलिङ्गवचनस्यापि कर्माभिधायां कर्मवचने सामान्योपक्रमात् विशेपानपेक्षायामिति । यथा-- 'शक्यमोपधिपतेर्नवोदयाः कर्णपूररचनारुते तव । अप्रगल्भयवमूचिकोमलाश्छेत्तुमगनखसंपुटः कराः ॥' अत्र भाप्यरद्वचनं लिङ्गम् । यथा--' -'शक्यं च श्वमांसादिभिरपि सुत्पतिहन्तुम्' इति । न चैकान्तिकः सामान्योपक्रमः । तेने-'शक्या भॉ .टिति विसिनीकन्दवचन्द्रपादाः' इत्यपि भवति । हानिवदाधिक्यमप्यङ्गानां विकारः ॥ २४ ॥ 'येनाङ्गविकारः' इत्यत्र मूत्र यथाङ्गानां हानिस्तथाधिक्यमपि वि. कारः । यथा-'अक्षणा काणः' इति भवति तथा 'मुखेन त्रिलोचनः' इ. त्यपि भवति । न कृमिकीटानामिति । एकवद्भावममगात् ॥ २५ ॥ 'आयुपः रुमिकीटानामलंकरणमल्पता' इत्यत्र कमिकीटानामिति प्रयोगो न युक्तः । 'क्षुद्रजन्तवः' इत्येकवद्भावप्रसङ्गात् । न च मध्यमाद- लोपी समासो युक्तः । तस्यासर्वविषयत्वात् । न, खरोष्ट्री। उष्ट्रखरमिति पागद ॥ २६ ॥ १. 'कर्माभिधान' क. २. शके: इनि य-पुस्तके पूर्वसूत्र क्षिप्तम्. ३. 'तदाद' क-ए. ४. 'अति' क. ५. पिकालय' का. ६. ग- गुरेऽम्याग्रिमस्य च सूत्रों विपर्ययः, ५ आधि० २ अ०] काव्यालंकारसूत्राणि । 'खरोष्ट्री वाहनं येषाम्' इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः । ग- वाश्वप्रभृतिपूाष्ट्रखरमिति पाठात् । आसेखसतेः ॥ २७ ॥ 'लावण्यमुत्पाद्य इवास यत्नः' इत्यत्रासेत्यसतेर्धातोः 'अस गतिदीत्या- दानेषु' इत्यस्य प्रयोगः, नास्तेः । भूभावविधानात् । युध्येदिति युधः क्यचि ॥ २८ ॥ 'यो भर्तृपिण्डस्य कृते न युध्येत्' इति प्रयोगः स चायुक्तः । युधे- रात्मनेपदित्वात् । तत्कथं युध्येदित्याह--युधः क्यचि । युधमात्मन इच्छे- , धुयेदिति । विरलायमानादिपु क्यङ् निरूप्यः ॥ २९ ॥ 'विरलायमाने मलयमारुते' इत्यादिषु क्यङ् निरूप्यः । भूशादिषु पाठात् । नापि क्यम् । लोहितादिप्वपाठात् । अहेतौ हन्तेणिच् । चुरादिपागत् ।। ३० ॥ 'घातयित्वादशास्यम्' इत्यत्राहेतौ णिच् दृश्यते स कथमित्याह-चुरा- दिपाठात् । चुरादिषु "चट स्फुटभेदे' 'घट संघाते' हन्त्यर्थाश्च" इति पाठात् । अनुचरीति चरेष्टित्वात् ।। ३१ ॥ 'अनुचरी प्रियतमा मदालसा' इत्यत्रानुचरीति न युक्तः । ईकारल- क्षणाभावात् । तत्कथम् । आह-चरेष्टित्वात् । पचादिषु चरडिति पश्यते । केसरालमिसलतेरणि ॥ ३२॥ 'केसरालं शिलीन्ध्र' इत्यत्र केसरालमिति कथम् आह-अलते- रणि । 'अलं भूपणपर्याप्तिवारणेपु' इत्यस्माद्धातोः केसरशब्दे कर्मण्युप- पदे 'कर्मण्यम्' इत्यनेनाणि सति केसरालमिति सिद्ध्यति । १. पृषभं चानयेति' ग. २. 'पाठो' ख. ३. 'युध्यते' क-ख. ४. 'तत्' ख-पुस्तके नास्ति. ५. 'इच्छति' क-ख. ६. 'युध्येदिति' क-ख-पुस्तकयो स्ति. ७. अपाठाद' क-ख. ८. 'चुरादिषु' क. ९. 'इन्याई' ग-पुस्तके नास्ति. १०. 'त. कथम् क-पुस्तके नास्ति. ११. पाठात्' ख. १२. 'इत्यस्मात्पर्यास्यर्थ केसरदान्दै' का. १३. 'सिलति' ख-पुस्तके नास्ति.

७० काव्यमाला। . पन्नलमिति लाते के ॥ ३३ ॥ 'पत्रलं वनमिदं विराजते' इत्यत्र पत्रलमिति कथम् । आह- ह-लातेः के । 'ला आदाने' इत्येतस्मादातोरादानार्थात् पपशब्दे कर्मण्युपपदे 'आतोऽनुपसर्गे कः' इति कमत्यये सतीति । महीधादयो मूलविभुनादिदर्शनात् ।। ३४ ॥ महीधरणीधादयः शब्दा मूलविभुजादिदर्शनात्कप्रत्यये सतीति । महीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः ॥ ब्रह्मादिष हन्तेनियमादरिहाद्यसिद्धिः ।। ३५ ॥ ब्रह्मादिपूपपदेषु हन्ते. विविधौ 'ब्रह्मभूणपत्रे -' इत्यत्रारिहारि- पुहा इत्येवमादीनामसिद्धिः । नियमात् । 'ब्रह्मादिप्नेव, हन्तेरेव, विवेव, भूतकाल एवेति चतुर्विध शात्र नियमः' इति नियमान्यतरविपयो निरूप्यः। ब्रह्मविदादयः कृदन्तहत्या ॥ २६ ॥ ब्रह्मवित्रमिदित्यादयः प्रयोगा न युक्ताः । ब्रह्मभ्रूण-' इत्यादिषु 'हन्तेरेव' इति नियमात । आह रुदन्तवृत्त्या । वेत्तीति वित् । मिन- त्तीति भित् । 'विप् च' इति क्विम् । ततः रुदन्तैर्विदादिभिः सह बह्मा- दीनां पष्ठीसमास इति । सैर्महीधरादयो व्याख्याताः ॥ ३७॥ तविदादिभिर्महीधरादयो व्याख्याताः । धरतीति धरः । मह्या धरो म. हीधरः । एवं गङ्गाधरायो व्याख्याताः । भिदुरादयः कर्मकर्तरि कर्तरि च ॥ ३८ ॥ भिदुरं काष्ठम् । भिदुर तमः । 'तिमिरभिदुरं व्योन्नः शृङ्ग-' इति । छिदुरातपो दिवसः । मत्सरच्छिदुरं प्रेम । मगुरा प्रीतिः । 'मातङ्गं मा. नमगुरम्' इत्यादयो हि प्रयोगा दृश्यन्ते । कथमित्याह ते कर्मकतरि कतरि च भवन्ति । 'कर्मकर्तरि चायमिप्यते' इत्यत्र हि चकारः कतरि घेत्यस्य ममुच्चार्यः । १. ग-पुस्तकमेतावरीलाम, २. धरणीधा इत्यादयः' क. ३. बदनाम्य' य.. ४. सदरोगाः' या. ५. 'प्रमादिगु हन्तत्र नियमान्' ग. ६. भिटु तमः' - पुम्ना नाम्नि. ५. 'ते' का गुप्ता नाम्नि, ८. 'मन्ति' क-पालक नाग्नि.

७१ ॥ ५ अधि० २ अ०] काव्यालंकारसूत्राणि । गुणविस्तरादयश्चिन्याः ॥ ३९ ॥ गुणविस्तरः व्याक्षेपविस्तरः इत्यादयः प्रयोगाश्चिन्त्याः । 'प्रथने वा- वशब्दे' इति घञ्प्रसङ्गात् । अवतरावचापशब्दयोदीर्घहस्वत्वव्यसासी बालानाम् ॥ ४० ॥ अवतरशब्दस्यावचायशब्दस्य च दीर्घत्वहखवयोव्य॑त्यासो बालानां बालिशानां प्रयोगप्विति । ते होवतरणमवतार इति प्रयुञ्जते । मारुता- वतार इति । स ह्ययुक्तः । भावे तरतेरविधानात् । अवचयनमवचय इति प्रयुञ्जते । पुष्पावचय इति । अत्र 'हस्तादाने चेरस्तेये' इति घमाप्त इति । शोभेतिनिपातनात् ॥ ४१॥ शोभेत्ययं शब्दः साधुः । निपातनात् । 'शुभशुम्भशोभार्थी' इति शुभभिंदादेराकृतिगणवार्दङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे किं शोभा, आहोखिच्छोम इति विशेषावग- तिराचार्यपैरम्परोपदेशादिति । अविधी गुरोः स्त्रियां बहुलं विवक्षा ॥ ४२ ॥ अविधायविधाने 'गुरोश्च हलः' इति स्त्रियां बहुलं विवक्षा । क्वचि- द्विवक्षा, क्वचिदविवक्षा, क्वनिमयमिति । विवक्षा यथा-ईहा लनेति । अविवक्षा यथा--आतङ्क इति । विवक्षाविवक्षे यथा-याधा बाधः, उहा उहः, बोडा वीडः, इति । व्यवसितादिषु क्तः कर्तरि चकारात् ॥४३॥ व्यवसितः प्रतिपन्न इत्यादिषु भावकर्मविहितो:पितः कतरि । ग. त्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थवं नकार- स्येति चेत्, आरत्तिः कर्तव्या । आहेति भूतेऽन्यलेंडन्तभ्रमाद वो लटि ॥ ४४ ॥ 'बुवः पञ्चानां-' इत्यादिना आहेति लटयुत्पादितः । स मते प्र- 1. 'याक्षेप' रा. १. 'हवार अतार: क. ३. गन्धिानात्' क. ४. 'अव. पायमायः स. ५. 'अर' क-पुस्तके. नास्ति. १. दर: मिदत्यादेव' रा. ५. पा. रमयोपदेशात् फ. . कतरित.स. 'ताति: रा.... 'मजन्त' क.

७२ काव्यमाला। युक्तः । 'इत्याह भगवान्प्रभुः' इति । अन्यस्य भूतकालाभिधायि- नो लेडन्तस्य लिटि भ्रमात् । निपुणांश्चैवं प्रयुञ्जते.---'आह स्म स्मितम- धुमधुराक्षरां गिरम्' इति । 'अनुकरोति भगवतो नारायणस्य' इत्यत्रापि मन्ये 'स्म'शब्दः कविना प्रयुक्तो लेखकैस्तु प्रेमादान्न लिखित इति । शवलादिभ्यः स्त्रियां टापोऽमासिः ॥१५॥ 'उपस्त्रोतः स्वस्थस्थितमहिपशृङ्गाग्रशबलाः स्त्रवन्तीनां जाताः प्रमुदितविहंगास्तरभुवः ।' 'भ्रमरोत्करकल्मापाः कुसुमानां समृद्धयः। इत्यादिपु स्त्रियां टापोऽप्राप्तिः । 'अन्यतो डोप्' इति डोपविधा- नात् । तेनै शवली कल्मापीति भवति । प्राणिनि नीलेति रिन्सम् ॥ ४६॥ 'कुवलयदलनाला कोकिला बालचूते' इत्यादिपु नीलेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् । नीलशब्दात् 'जानपद-' इत्यादि सू. त्रेण 'प्राणिनि च' इति डीविधानात् । मनुप्यजातेचियक्षाविचक्षे ॥ ४७॥ 'इतो मनुष्यजातेः', 'उडुतः' इत्यत्र मनुष्यजातविवक्षा अविवक्षा न लक्ष्यानुसारतः । 'मन्दरस्य मदिरासि पार्श्वतो निम्ननाभि न भवन्ति निमगाः । यास वामुकिविकर्षणोदया भामिनीह पदवी विभाव्यते ॥ अत्र मनुष्यनातेर्विवक्षायां 'इतो मनुप्यनातेः' इति डोपि सति 'अ. म्यानद्योईस्वः' इति संवृंदी इस्वत्वं सिद्धयति । नाभिशब्दापुनः 'इ. तश्च प्राण्यान्' इतीकारे रेते निम्रनाभीकेति स्यात् । 'देतोष्ठरागर्न यनोदबिन्दुभिर्तिमननानिपतद्भिरक्षितम् । च्युतं रुपा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुरुम् ।। १. परन्तम्य' का. २. 'देव' म. ३. 'मधुमझदक्षरा' फ. ४.'प्रमादान' क-यु. स्तके नास्ति. ५. 'गोवर्ग' स. ६. तेनेन्यादि मवतीयन्तं क-पुलक नाम्नि. ७. पति स्त्र प विवक्षा अविभा घ' प. ८. 'पासवापि क. 5. मथुधी' स-गुम्न नास्ति....सनिक.11.सात.

५ अधि० २ अ०] काव्यालंकारसूत्राणि । ७३ अत्र निमग्ननाभेरिति मनुष्यजातेरविवक्षेति डोप न कृतः । 'सुतनु जहिहि को-' इत्यत्र मैनुष्यजातेर्विवक्षेति सुतनुशब्दात् 'ऊंडुतः' इत्यङि सति द्वैस्वत्वे मुतन्विति सिध्यति । 'वरतनुरथवासौ नैव दृष्टा त्वया मे' । अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः । ऊकारान्तादप्यूत्यत्तेः॥४८॥ उत ऊङ् विहितः । ऊकारान्तादपि क्वचिद्भवति । आचार्यप्रवृत्तेः । कासौ प्रवृत्तिः । 'अप्राणिजातेश्वारज्ज्वादीनाम्' इति अलावूः कर्क- न्धरित्युदाहरणम् । तेन 'सुभ्र कि संभ्रमेण । अत्र सुभ्रुशब्द उङि सिद्धो भवति । ऊडि त्वंसति सुभूरिति स्यात् । कार्तिकीय इति ठञ् दुर्धरः ॥ ४९ ॥ 'कार्तिकीयो नभस्वान्' इत्यत्र 'कालाहम्' इति ठञ् दुर्धरः । ठञ्- भवनं दुःखेन धियत इति । शार्वरमिति च ॥ ५० ॥ 'शावर तमः' इत्यत्र च 'काला' इति ठञ् दुर्धरः । शाश्वतमिति प्रेयुक्तः ॥५१॥ 'शाश्वतं ज्योतिः' इत्यत्र शाश्वतमिति न सिद्ध्यति । 'काला' इति उत्प्रसङ्गात् । येषां च विरोधः शाश्वतिकः' इति सूत्रकारस्यापि प्रयोगः । आह-प्रयुक्तः । 'शाश्वते प्रतिपेघः' इति प्रयोगात् शाश्वतमिति मवति । राजवंश्यादयः साध्वर्थे ये भवन्ति ।। ५२॥ राजवंश्याः सूर्यवंश्या इत्यादयः शब्दाः 'तत्र साधुः' इत्यनेन साध्वयें ये [यति] प्रत्यये सति साधवो भवन्ति । भवार्थे पुनर्दिगादिपाठेऽपि वंशश- ब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः । तदन्तविधेः प्रतिषेधात् । १.निम्ननाभः' ख. २. 'मान' क. ३. 'सुतनुशब्दान्मनुष्यजातेः' स... कर कृत उहि सति' स. ५. 'पूर्ववत् इस्खत्वे मुतनुशन्दः सिध्यति' ख. ६. 'प्रिया में म. ७. कि मुभ्रु' क. ८. 'इन्यत्र सुध्रुशब्दार सिद्धो भवति' स. ९. 'हे गु' स. १०. 'भवन्' क. 11. 'प्रयुक्त' क. १२. 'ये सति' स. १३. 'पन्यादयः माधावयें यो यस्तम साधुरिति तस्मिन्सनि भवन्तीति' क. १४. 'शिशब्दस्य रा-पुस्तके नास्ति, काव्यमाला। दारवशब्दो दुप्पयुक्तः ॥ ५३ ।। 'दारवं पात्रम्' इति दारवशब्दो दुष्प्रयुक्तः 1 नित्यं सुद्धशरादिभ्यः' इति मयटा भवितव्यम् । ननु विकारावयवयोर्थयोर्मयडू विधीयते । अत्र तु दारुण इदमिति विवक्षायां दारवमिति भविष्यति । नैवमपि स्यात् । 'उद्धाच्छः' इति च्छविधानात् । मुग्धिमादिप्विमनिज् मृग्यः ॥ १४ ॥ मुग्धिमानौढिमेत्यादिपु इमानज् मृग्यः अन्वेपणीय इति । औपम्यादयश्चातुर्वर्ण्यवत् ॥ ५५ ॥ औपम्यं सांनिध्यमित्यादयश्चातुर्वर्ण्यवत् 'गुणवचन-' इत्यत्र 'चा- तुर्वर्यादीनां [खार्थे] उपसंख्यानम्' इति वातिकात्स्वार्थिकप्यजन्ताः । प्यत्रः पित्करणादीकारो बहुलम् ॥ ५६ ॥ 'गुणवचनब्राह्मणादिभ्यः' इति यः प्यञ् तस्य पित्करणादीकारो भ- वति । स बहुलम् । ब्राह्मण्यमित्यादिषु न भवति । सामग्यमिसादिपु बिकल्पेन ।। ५७ ।। सामग्र्यं सामग्री । वैदग्ध्यं वैदग्धीति । धन्वीति ग्रीह्यादिपु पाठात् ॥ ५८ ॥ ग्रीह्यादिपु धन्वशब्दस्य पाठात् धन्वीति इनी सति सिद्धो भवति । चतुरस्रशोभीति णिनी ॥ ५९ ॥ 'बभूव तस्याश्चतुरस्त्रशोभि याविभक्तं नवयौवनेन' इत्यत्र चतुरस्त्र. शोभाति न युक्तम् । ब्रीह्यादिषु शोभाशब्दस्य पाटेऽपि इमिरत्र न सि- ध्यति । ग्रहणवता प्रतिपदिकेन तदन्तविधिप्रतिपेधात् । भवतु या तद. न्तविधिः । कर्मधारयान्मत्वर्थीयानुपपत्तिः । लघुत्वात्प्रक्रमस्यति बहुयी हिर्णय भवितव्यम् । तत्कयमिति मत्वर्षीयस्याप्राप्ती चतुरस्त्रशोभीति- 1. इत्यादिषु स. २. ' चास्ताविका पत्र स्यान्' क... 'गुणवने गा. ४. 'म' क-गुम्नके नास्ति, ५. क-गुस्लंक माममिन्यादिसून मूत्रात्तायन्ती वितम्. ६. विल्लित.' क... पत्रि' य-गुस्त के नाम्नि. .चन्नन्' ग...'गुतः। मीदास शोभारादाटेर का.... 'प्रातिविति' क... मतिभ्यामति मारस्यावापिः। तसर्थ चतुरस' क. -- ५ अधेि० २ ०] काव्यालंकारसूत्राणि । प्रयोगः। आह-णिनौ । चतुरस्त्रं शोमत इति ताच्छोलिके णिनावयं प्रयोगः । अथ 'अनुमेयशोभि' इति कथम् । नात्र पूर्ववद्वृत्तिः शक्या कमिति शुभेः साधुकारिण्यावश्यक वा णिनि कृत्वा तदन्तादभावप्र- त्यये पश्चाद्वहुव्रीहिः कर्तव्यः । अनुमेयं शोभित्वं यस्येति । भावप्रत्य- यस्तु गतार्थत्वान्न प्रयुक्तः । यथा 'निराकुलं तिष्ठति'; 'सधीर- मुवाच' इति । कचकीया इति क्यचि ॥ ६० ॥ 'जीवन्ति राजमहिपीमनु कभुकीयाः' इति कथम् । मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । आह-क्यचि । क्यचि प्रत्यये सति कञ्जकीया इति भवति । कञ्चकमात्मन इच्छन्ति कक्षुकीयाः । बौदप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ६१ ।। बौदस्य प्रतियोगिनोऽपेक्षायामप्यातिशायनिकास्तरवादयो भवन्ति । 'घनतरं तमः', 'हुलतरं प्रेम' इति । कौशिलादय इलचि वर्णलोपात् ॥ २ ॥ कौशिलवासिल इत्यादयः कथम् । आह-कौशिकवासिष्टादिम्यः शब्देभ्यो नीतावनुकम्पायां वा 'घनिलचौ च' इति इलचि कृते 'ठाना- दावूध द्वितीयादचः' इति वर्णलोपासिंध्यन्ति ! मौक्तिकमिति विनयादिपांगत् ॥ ६३ ॥. मुक्तव मौक्तिकमिति विनयादिपागद्रष्टव्यम् । खाधिकाश्च प्रतितो लिङ्गवचनान्यतिवर्तन्त इति नपुंसकत्वम् ॥ मोतिभादयः प्रज्ञादिपु ॥ ६४ ॥ प्रोतिभादयः शब्दाः प्रज्ञादिपु द्रष्टव्याः। प्रतिमा-विरूति-द्विता. १. 'पूर्ववकृत्तिः स. २. 'तदन्ताच भावप्रयय. स. ३. युक्तः क. ४. 'नि- राकुलः' स. ५. 'भत आई' प. ६. यहुनर क. ५. 'वाशिर' स. ८. 'कार्य की शिकवशिष्टादिभ्यो स. ९. 'वा' स-पुस्तके नालि.१०. 'सिध्यतीति क. ११. 'यो- गार' स. १२. 'मुक्तव' क-पुस्तके नालि. १३. रा-पुस्तके 'स्वाचिसाथ-वर्तन। इति सूत्रत्वेन गगितम्. १४. 'प्रतिमादय.' क. १५. 'प्रतिभाइयः' क.

काव्यमाला। दिभ्यः शब्देन्यः प्रज्ञादिपाठाईणि स्वाधिक कते प्रातिर्भ वैकतं दैत- मित्यादयः प्रयोगाः सिद्ध्यन्तीति । न सरजसमित्यनव्ययीभावे ॥६५॥ 'मधु सरजसं मध्येपमं पिबन्ति शिलीमुखाः' इत्यादिषु सरजसमिति न युक्तः प्रयोगः अनव्ययीभावे । अव्ययीभाव एव सरजसशब्दस्येप्टत्वात् । न धृतधनुपीससंज्ञायाम् ॥ ६६ ॥ 'धृतधनुपि शौर्यशालिनि' इत्यत्र धृतधनुपीत्यसंज्ञायां न युक्तः प्र- योगः । 'धनुपश्च' इत्यनविधानात् । संज्ञायां निङ् विकल्पितः 'वा- संज्ञायाम्' इति । दुर्गन्धिपद इदुर्लभः ॥ ६७ ॥ 'दुर्गन्धिः कायः' इत्यादिपु दुर्गन्धिपदे इत्समासान्तो दुर्लभः । उत्पू. त्यादिषु दुःशब्दस्यापाठात् । मुदत्यादयः प्रतिविधेयाः ॥ ६८ ॥ 'सा दक्षरोपात्सुदती ससन' इति, 'शिखरदति पतति रशना' इत्या. दिपु सुदत्यादयः शब्दाः प्रतिविधेयाः । देवादेशलक्षणाभावात् । तंत्र प्रतिविधानम्-"अग्रान्त-- आदिमत्र चकारस्यानुक्तसमुच्चयार्थत्वा- रसुदत्यादिषु दनादेशः" इत्येके । अन्ये तु वर्णयन्ति-मुदत्यादयः रुयभिधायिनी योगरूदिशब्दाः । तेषु 'स्त्रियां संज्ञायाम्' इति दत्रा. देशो विकल्पेन सिद्ध एवेति । क्षतढोरस इति न कप । तदन्तविधिमतिपेधात् ॥ ६९ ॥ 'लवंगनखकोटिभिः क्षतदारसी रोक्षसाः' इत्यत्र ददोर शब्दाइ 'उरःप्रमृतिभ्यः कैप' इति का न स्तः ग्रहणवता प्रातिपदिकेन तदन्त- विधेः मतिपधान । याक्यं लेवं कर्तव्यम्-सतं ददोरो येपामिति । १. 'भपि' रा. २. पाट' का ३. 'प्रयोगः' क-गुम्नर नास्ति. ४, यनादि फगो फ. ५. 'दुर्गन्धीति दुर्लमः' प. ६. 'दन्यादिगु समामान्ती' ग. ५. शब्दा. कम्तो नानि... 'आदेश' म... 'त' क.१०. गूग' म. 1. गरम.' इत्यत्र होरस इनि टनि.क. ११. 'कप न यतः'प. 11. 'प्रातिदि- नेति तदन्तविधि' क..

५ अधि० २ अ०] काव्यालंकारसूत्राणि । अबहीति वृद्धिरवद्या ।। ७० ॥ अवैहीत्यत्र वृद्धिरवद्या । गुण एव युक्त इति । ‘अपाङ्गनेत्रेति लुगलभ्यः ॥ ७१ ॥ अपाङ्गे नेत्रे यस्याः सेयमपाङ्गनेत्रेत्यत्र लुगलम्यः । 'अमूर्धमस्तका- स्वागादकामे' इति सप्तम्या अलुग्विधानात् । नेष्टाः लिएभियादयः । पुंबद्भावप्रतिषेधांद ॥ ७२ ॥ श्लिष्टप्रियः उद्धकान्तः इत्यादयो नेष्टाः । 'स्त्रियाः पुंवत्-' इति पुंवद्रावस्य प्रियादिपु निषेधात् । दृढभक्तिरसौ सर्वत्रेति ॥ ७३ ॥ 'हेढमक्तिरसौ ज्येष्ठे ।' अत्र पूर्वपदस्य 'स्त्रियाम्' इत्यविवक्षितत्वात् । जलजम्बुलतादयो ह्रस्वविधैः ॥ ७४ ।। 'जलजम्बुलताविलाः स्त्रवन्त्यः' 'अग्रे कर्कन्धुग्रहणम्' इत्यादिषु कथं जलजम्बुलतादयः प्रयोगाः । आह-दस्खविधेः । 'इको इखोऽड्यो गालवस्य' इति इखविधानात् । तिलकादयोऽजिरादिषु ।। ७५ ।। तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः। अन्यथा तिलकवती क- नकवीत्यादिषु मतुपि 'मतौ वचोऽनजिरादीनाम्' इति दीर्घत्वं स्यात् । केचित्तु वर्णयन्ति-'नद्यां मतुप्' इति यो मतुप् तत्रायं विधिः । तेषां मतेनामरवतीत्यादीनामसिद्धिः । निशम्यनिशमय्यशब्दौ प्रकृतिभेदात् ॥ ७६ ।। निशम्यनिशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे । शेमेः 'ल्यपि लघुपू- त्'ि इत्ययादेशे सति निशमय्येति भवितव्यम्, न निशम्येति । आह- प्रकृतिभेदात् । शैमेवादिकस्य निशम्येति रूपम् । 'शमो दर्शने' इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम् । १. 'अवैहि इति वृद्धिवद्या गुण एवात्र' ख. २. 'दृढभक्तिरिति ख. ३. 'हम- क्तिरसी ज्येष्ठे' क-पुस्तके नास्ति. ४. 'अस्त्रियां विवक्षिततात्' क. ५. 'जल' क- पुस्तके नास्ति. ६. 'प्रयोगा.' क-पुस्तके नास्ति. ५. घट्टचो' ख. ८. 'नामरावती' सस्यापि सिद्धिः क... 'अत्र समेपि' क. १०. 'शमादेशमो के, काव्यमाला। संयम्पनियम्यशब्दावणिजन्तत्वात् ।। ७७ ।। कथं संयम्यनियम्यति । 'ल्यपि लघुपूर्वात्' इति रयादेशेन भवित- व्यम् । आह अणिजन्तत्वात् । धातोणिच् न कृतः । गतार्थत्वात् । यथा-वाचं नियच्छति' इति । गिजानवगतौ तु णिच् प्रयुज्यत एव । यथा---'संयमयितुमारयः' इति । प्रतीयोति पीडः ॥ ७८॥ प्रपोयत्ययं शब्दः 'पीड पाने' इत्येतस्य । पिबतेहि 'न ल्याप' ईतीत्वप्रतिषेधात्मपायेति भवति । दूरयतीति बहुलग्रहणात् ।। ७९ ।। 'दूरयत्यवनते विवस्वति' इत्यत्र दूरयतीति कथम् । णाविष्ठवगावे 'स्थू- लदूर-' इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम् । आह--- बहुलग्रहणात् । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवञ्च' इत्यत्र बहुलग्रहणात् 'स्थूलदूर-' आदिसूत्रेण यद्विहितं तन्न भविष्यतीति । गच्छतीप्रभृतिप्वनिपेध्यो नुम् ।। ८० ॥ 'हरति हि वनरानिर्गच्छती श्यामभावम्' इत्यादिषु गच्छतोमृतिषु शब्देपु 'श्यपश्यनोनित्यम्' इति नुमनिपेथ्यो निपेद्धमशक्यः । मिप्रेण गोप्षेति पुंवद्भावात् ।। ८१ ॥ 'मित्रेण गोप्ना' इति कथम् । गोप्तृणा भवितव्यम् । 'इकोऽचि वि- भक्तौ' इति नुमविधानात् । आह-युवद्भावात् । 'तृतीयादिषु भापित- पुंस्कं पुंवद्रालवस्य' इति वदावेन गोप्नेति भवति । वेत्स्यसीति पदभगात् ।। ८२॥ 'पतितं वेत्स्यसि क्षिती' इत्यत्र वेत्स्यसीति न सिध्यति । इप्रम- झाद । आह-पदभाव सिध्यति । वत्स्यसोति पदं भज्यते पत्सि- १. नियम्परान्दा' क. २. 'तु न' फ. ३. निन्' स... 'अ' पपुलर भारित. ५.nि-पुस्नो नास्ति... इतिहमति' ग. ७. 'भवितव्यम्' ग. 4. 'मत्र' म-पुस्तके नास्ति. ९ 'प्रमनियों म... 'हाति वचनराजि' क. 11.भ. तिरन्धु' क. १२. म्याति' क. १३. 'अल आर' म.

५ अधि० २ अ.] काव्यालंकारसूत्राणि । असि । असोत्ययं निपातस्त्वमित्यस्मिन्नथें । क्वचिद्वाक्यालंकारे प्रयुज्यते यया-'पार्थिव त्वमसि सत्यमम्यधाः' इति । कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ ८३ ॥ कामयानशब्दः सिद्धः 'आगमानुशासनमनित्यम्' इति मुक्यकते य. द्यनादिः स्यात् । सौहृददौर्हदशब्दावणि हद्धावाद ।। ८४ ॥ मुहृदयदुहृदयशब्दाभ्यां युवादिपाठादणि कृते हृदयस्य हृद्भावः । आ- दिवृद्धौ सौहृददोर्हदशब्दौ भवतः । मुहृदुईच्छब्दाभ्यां युवादिपाठादे- वाणि कते 'हृदगसिन्ध्वन्ते-' इति हृदन्तस्य तद्धितेऽणि कृते सत्युभ- यपदवृद्धौ सत्यां सौहार्दै दौहार्दमिति भवति । विरम इति निपातनात् ॥ ८५॥ रमेरनुदात्तोपदेशत्वात् 'नोदात्तोपदेशस्य' इत्यादिना वृद्धिप्रतिपेघस्या- भावात्कथं विरम इति । आह-निपातनात् । निपातनं तु 'यम उप- मैं' इत्यत्रोपरम इति । अतन्त्रं चोपसर्ग इति । उपर्यादिपु सामीप्ये द्विरुक्तेपु द्वितीया ॥ ८६ ॥ उपर्यादिषु शव्देषु सामीप्ये द्विरुक्तेषु 'उपर्यध्यधसः सामीप्ये' इत्य- नेन उपर्यादिषु त्रि 'द्वितीयानेडितान्तेषु' इति द्वितीया । वीप्सायां तु द्विरुक्तेषु पष्ठयेव भवति । 'उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः । मन्दमन्दमित्यमकारार्थत्वे ॥ ८७ ॥ 'मन्दं मन्दं नुदेति पवनः' इत्यत्र मन्दमन्दमित्यप्रकाराथें भवति । प्रकारार्थवे तु 'प्रकारे गुणवचनस्य' इति द्विवचने कृते कर्मधारयवद्भावे मन्दमन्दमिति प्रयोगः.। मन्दमन्दमित्यत्र तु 'नित्यवीप्सयोः' इति द्वि- १. 'असि' ख-पुस्तके नास्ति. २. 'नित्यनिपातः । त्वमिन्येतस्मिन्नर्थ क. ३. 'पा. विवः' ख. ४. सिद्धः ख-पुस्तके नास्ति. ५. 'युक्यकृते' स. ६. 'स्यादिति' क. ७. 'भवत इति' क. . णीभयपद' क.९. 'इत्यत्र चोपसर्ग इति' क.१०.'सामी. प्येषु' स. ११. 'त्रिषु क-पुस्तके नास्ति. १२. 'इन्यत्र प्रकारार्थते' ख, १३. 'तुदति' ख. १४. 'तु'ख-पुस्तके नास्ति.

काव्यमाला। वचनम् । अनेकभागात्मकस्य नुदेर्यदा सर्वे भागा मन्दत्वेन व्याप्तमिष्टा भवन्ति तदा वीप्सेति । न निद्राईगिति । भभावमाप्तेः॥८८॥ 'निद्राद्रुक्काद्ववेयच्छविरुपरिलसद्धर्घरो वारिवाहः' इत्यत्र निद्राहूँगिति न युक्तः । 'एकाचो बशो भप्-' इति मप्मावप्राप्तेः । अनुमासप्रियै- स्त्वपभ्रंशः कृतः । निप्यन्द इति पत्वं चिन्त्यम् ॥ ८९ ॥ नह्यत्र पत्वलक्षणमस्ति । कस्कादिपाठोऽप्यस्य न निश्चितः । नाङ्गुलिसङ्ग इति । मूर्धन्यविधेः ॥९० ॥ 'म्लायन्त्यङ्गुलिसङ्गेऽपि कोमलाः कुसुमस्त्रनः' इत्यत्राङ्गुलिसङ्ग इति न युक्तः । 'समासेऽङ्गुलेः सङ्गः' इति मूर्धन्यविधानात् । तेनावन्तिसेनादयः प्रत्युक्ताः ॥११॥ तेनाङ्गुलिसङ्ग इत्यनेनीवन्तिसेन इन्दुसेन एवमादयः शब्दाः प्रत्युक्ताः प्रत्याख्याताः । सुपामादिषु 'एति संज्ञायामगात्' इति मूर्धन्यविधानात् । नेन्द्रवाहने णत्वम् । आहितत्वस्याविवक्षितत्वात् ॥ ९२ ॥ 'कुयेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यनेन्द्रवाहनशब्दे वाहनमाहितात्' इति णत्वं न भवति । आहितत्वस्याविवक्षितत्वात् । स्वस्वामिभावमात्रं त्रि विवक्षितम् । तेन सिद्धमिन्द्रवाहनमिति । सदसन्तो मया शब्दा विधिनौल्पेन दर्शिताः। अनयैव दिशा कार्य शेपीणामप्यवेक्षणम् ॥ इति फाच्यालयारसूपत्ती प्रायोगिक पञ्चमेऽधिकरणे द्वितीयोऽध्यायः । शब्दशुद्धिः। समाप्तं चेदं प्रायोगिक पञ्चममधिकरणम् । ग्रन्थध समामः। १. 'तुदैः' ए. २. 'धुगिति' क. ३. 'घर' क. ४. 'भूगिति' क. ५. 'स्वयमानं. शः' क. ६.'न' क-गुस्तके नास्ति. ५. 'अवन्तिसेना इत्येवमादयः' स. ८. 'प्रत्या- ख्याता:' क-पुस्तके नाम्नि. ९. मुग्मादिष्विति मंज्ञायां मूर्धन्य' ग.१०. 'इन्द्रयाना- दे' क..'बर' स-गुम्न के नास्ति. १२. विविच्यायेन' स. १३. दोषाणा' का.

The Kavyaalankarsutras Of Vamana

Author
Pandit,.durgaprasad
Title
The Kavyaalankarsutras Of Vamana
File name
The Kavyaalankarsutras Of Vamana
Text
OCR done
Citation
1889
Published
2012/08
Publisher
Bombay,.the Proprietor
Language
Sanskrit
Pages
82
Library
Bharatiya Vidya Bhavan Library, Mumbai
Classification
Devotional
DLI number
405957
Barcode
99999990292977.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
kVajmMSpnsF
Download PDF

The Kavyaalankarsutras Of Vamana