The Asiatic Society, Kolkata

Nyayasara

Sastri, K. Sambasiva, Ed. · 2007/12/11

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

TRIVANDRUM SANSKRIT SERIES.
No. CIX.
sri Setu Laksmí Prasadamala
No. XXI.
THE
NYAYA SĀRA
OF
BHÂSARVAJKA
With the Commentary Padap:ñeikā of
l'asudeva Sūri
EDITED BY
K. SAMBASIVA SASTRI
Curator of the Department for the Publication of
Oriental Vanuscripts, Trivandrum,
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HER HIGHNESS THE MAHARANI REGENT OF TRAVANCORE.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT I'R FAS,
1931.
All Rights Reserved.]

No text on this page.

अनन्तशपनसस्कृतप्रन्यावलिः । ग्रन्थाङ्क: १.९. श्रीसेतुलक्ष्मीप्रसादमाला। प्रन्थाङ्क: २१. श्रीभासर्वज्ञप्रणीतः न्यायसारः वासुदेवसूरिकृतन्यायसारपदपश्चिकाख्य- व्याख्योपेतः। पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षेण के. साम्बशिवशास्त्रिणा संशोधितः । सच अनन्तशयने महामहिमश्रीसेतुलक्ष्मीमहाराझीशासनेन राजकीयमुद्रणयन्त्रालये तदध्यक्षेण मुद्रयित्वा प्रकाशितः । कोलम्बाब्दाः ११०६, कैस्ताग्दाः १९११.

No text on this page.

ويصعبييه ॥श्रीः॥ श्रीपबनामसेवि- न्यखिलश्रीवर्धनी महाराज्ञी । श्रीसेतुलक्ष्म्यभिख्या प्रत्यक्षा जयति वश्चिभूलक्ष्मीः ।। ग्रन्थावलिरियमिन्धे प्रसाधिता तत्प्रसादगुणगुम्फा । श्रीसहितसेतुलक्ष्मी- प्रसादमाला सुवर्णमणिचित्रा ॥ पल How

No text on this page.

PREFACE. "? 1 61 This is a rare commentary on the Nyāyasāra of Bhäsarvajña. The great Ācārya Bhāsarvajña is one of the highest authorities on Logic, cçlebrated in the councils of great logicians and scholars and famous tre his unique logical tenets. Sri Nārāyana Bhatta speaks of him thus in the Manameyoclava: 'भासर्वज्ञश्च सायस्त्रियम्॥ Even from the first st:12, 'देवदेवमभिवन्ध शाश्वतं योगिन्दहृदयकमन्दिरम् । वासुदेवविदुषा विरच्यते न्यायसारपदपश्चिका परम्" ॥ it is known that the name of the commentary is Padapancikā, and that the name of its author is Vasudeva. It could also be known from the sentence at the end of the Paricchedas, इति श्रीमत्काश्मीरसूर्यसूरीन्द्रसूनुवासुदेवसूरिविरचितायां न्यायसारपदपम्चि- कायर्या प्रत्यक्षपरिच्छेदः समाप्तः । that he was a Kashmirian and son of Surya Sūrīudra. We have no clear evidence to determine the date of this Vasudeva. This Pañcikā amply illustrates the ancient style of the Bhāşyas and the Vārtikas, elucidating as it does, the abstruse tenets of the science of Loyic, in sweet and simple, short and lucid sentences, entirely untarnished by the characteristics of the dry, hard and involved style of the works of Jayadīša and Gardā Thara; and thus it is evident that it is more than five hundred yeurs old. If the author of this commentary is just a Kishumiras boy culebrix, as was Väsudevil, the author of numurous l'ents like the Yuclhişthiravijajil, who was will-versed in the various sciences, it is not improbable that both are identical.. Ir that is so, he must be the court poet and friend of the author of the Mukundamäld, the great poet, ning kulaśckhara Rajasekhara who lived during the latter part of the 8th and the earlier part of ihe 9th century a. 1. And this eurly date is in keeping with our own inference based on the characteristics of style and it woull be then evident that he is a Kerallya. A family of Timutrika Brahıning who migrated from Madura and settler in the village of Kumarunallur in Kottayam (Travancore) is even now called “Madbura Illom". So too, a family that night have migrated from Kashmir and settled in Kurala might be called Kashmirians and thus Saryasūri might well 2 be designated a Kashmirian. And 28 the author of Yudhişthiravijaya is known as the son of Ravi (Tamat:) the fact that our author is called the son of Surya (atua:) would not militate agaiust our conjecture and the practice that is suggested in the illustration, igen Fraganciatopartament situatemala Viêt:' (p. 117) is another point that goes towards establishing that he is a Keraliya. We bear of another work of this scholar, Bhüşaņabhūşaņa by name, to which he thus refers in the Pancika, "एवं प्रतिज्ञाविशेषणहान्यादयोऽस्माभिभूषणभूषणेऽभिहितास्तत्रैव ज्ञातव्याः(p.81) and if the Bhūşana is a work on Nyāya by Bhāsarvajña himsulf, Bhūṣaṇabhūşaņa might just be a communtary on it. We are making enquiries of that work and shall have occasion to refer to it in detail in the fulness of time, Six manuscripts were utilized for the publication of this work. Five of these are three hundred years old and in Malayalam script. The first of these belongs to Govinda Pigaroti, Kailasapuram, Kaduthuruthi and is designated . The second and the third belong to the Swamiyar Matom, Munchira and are designated and 17. The other two, designated * anda, belong to Brahmadattan Namburippad, Kidallar. And the sixth, designated , is a transcript on paper from the. Adyar Library, Madras. We express our thanks to the owners of all these manuscripts and place this edition before the public. Trivandrum, 28-12-1106.} K. SAMBAŠIVA SASTRI.

निवेदना। अपूर्वयं कापि व्याख्या श्रीमासर्वज्ञप्रणीतन्यायसारस्य । प्रामाणिक- समस्तपण्डितगोष्ठीप्रसिद्धोऽयं श्रीभासर्वज्ञपरमाचार्यों न्यायशास्त्रस्य किमप्यसा- मान्यं प्रमातृप्रकाण्डम् । अन्यादृश एव च प्रमाणपरिग्रहसिद्धान्तोऽस्य सुप्र- थितः । इदं प्रत्येवमाह मानमेयोदये श्रीमान् नारायणभट्टपादः "भासर्वज्ञश्च सायखितयम्" इति । "देवदेवमभिवन्ध शाश्वतं योगिन्दहृदयैकमन्दिरम् । वासुदेवविदुषा विरच्यते न्यायसारपदपञ्चिका परम् ॥" इति प्रथमपयेनैव व्याख्याया आख्या पदपञ्चिकेति कर्तृनामधेयं वासुदेव इति चावगम्यते । विशिष्य सोऽयं वासुदेवः,' 'इति श्रीमत्काश्मीरसूर्यसूरीन्द्रसुनुवासुदेवमूरिविरचितायां न्यायसार- पदपञ्चिकायां प्रत्यक्षपरिच्छेदः ।' इत्यादेर्यथोचितं तत्तत्परिच्छेदपरिसमाप्तिघटिताद् वाक्यात् काश्मीरीयः कस्य- चन सूर्यसूरीन्द्रस्य सूनुरिति ज्ञायते । अस्य च वासुदेषरेर्जीवितसमयादिनिर्धारणाय न किमपि स्फुटतरं प्रमाणमुपलभ्यते । जागदीशगादाधरादिनवीनग्रन्थजातपद्धति गन्धतोऽप्यना- जिघ्रता मधुरमधुरेण खण्डखण्डेन वाक्यजातेन निसर्गगहनं न्यायशास्त्रीय सिद्धान्तं विविश्वती पञ्चिकेयं बाढं प्राचीनमेव भाष्यवार्तिकप्रस्थानमुदाहरन्ती माकी पञ्चशतसंवत्सरीतोऽनर्वाचीनेति सिध्यति । यदितु युधिष्ठिरविनयादि. बहुकान्यकर्तुः श्रीवासुदेवकवेरिवारय काश्मीरीयत्वं तावत्प्रसिद्धिमात्रतो वि- श्राम्येत् , तदा स एव वा वासुदेवकवि कशास्त्रपण्डितो महात्मास्याः पञ्चि. कायाः कर्तेत्यपि सम्भावना नासम्भविनी । सत्येवं क्रिस्त्वब्दीयाष्टमशताब्युत्त- राघस्य नवमशताब्दीपूर्वार्धस्य चान्तरविजयिनो मुकुन्दमालादिग्रन्थकर्तुः श्रीकुलशेखराजशेखरस्य सदस्यः सुहृदयं तत्समसमयजीवी स्यादिति २ - सिध्यत्प्राक्तनत्वमस्मदभ्यूहितग्रन्थशैलीज़रत्तमतया निकाममनुरुध्यते । सिद्ध चैतावता केरलीय इत्यपि। वञ्चिराज्यान्तर्गतकोट्टयपरिसरवर्तिकुमारनल्लूर- देशे बहोः कालात् प्राक् मधुरानगरादागत्य लब्धप्रतिष्ठस्य कस्यचन ता- न्त्रिकद्विजकुलस्याधुनापि 'मधुर इल्लम्' इति व्यवहारवत् काश्मीरांगतस्य केरलप्रतिष्ठितस्य काश्मीरव्यपदेशोऽपि वस्तुतः सम्भवत्येवेति विचारे तु यथा- श्रुतमेव-सूर्यरेः काश्मीरत्वं सङ्गच्छते । युधिष्ठिरविजयादिकवे रवितनय- व्यवहारात् प्रति अर्थवशसम्पन्नतया सूर्यसूनुरिति व्यवहारोऽपि नात्यन्ताया- खारसिकश्चिन्तकानाम् । 'यथा हस्तमुखसंयोगविशेषाभ्यां बुभुक्षापिपासाप्रतिपत्तिः।' (पृ० ११७) इति विवेचने स्वीकृत उदाहरणप्रदर्शनाचारश्चास्य केरलीयतायामन्योऽयमुप- एम्भकः सम्भाव्यते । अस्य च वासुदेवसूरेः कृतिरन्याप्युपभूयते नाना भूषणभूषणम् इति । यत्किलैवमाह पञ्चिकायाम् - 'एवं प्रतिज्ञाविशेषणहान्यादयोऽस्माभिर्भूषणभूषणेऽभिहितास्तत्रैव ज्ञा- तव्याः ।' (पृ० ८१) इदं च भूषणं भासर्वज्ञस्यैव मूलकारस्य प्रसिद्धं कृत्यन्तरं न्यायभूषणं स्थासम्भवेत् । तदीयग्रन्थव्याख्यानलिप्सया च निकाममनेनैव विरचितं स्यात् किमपि भूपणभूषणं नाम । तदन्वेषणप्रकाशनयोः श्रद्धावतामस्माकमन्यदवसीयं निरूपणं मन्ये तदात्वे भविता । अस्य अन्यस्य प्रकाशनोपयोगिन्यः षण्मातृकाः । तत्र वर्ज पञ्च मातृका माकी त्रिशतवत्सरीवृद्धाः केरलीयलिपयश्च । तासु प्रथमा कटुत्तिरुत्ति कैलासपुरं गोविन्दपिषारोटिस्वा. मिका क. संज्ञिता। अनन्तरे द्वे मुञ्चिरस्वामियाठसम्बन्धिन्यौ ख. ग. संज्ञिते । अन्त्ये द्वे अपि कूटल्लूर ब्रह्मदत्तन्नम्पूरिपाटुस्वामिके इ. च. संज्ञिते ।

पठी मद्रनगरीयाडयारपन्यशालातः पतिरपितानीता पत्रालिका घ. संश। आसां मातृकाणां स्वामिन्यः प्रेरकम्प सुबहु धारवामि सबो अन्य मिमं महाजनसमक्षमवतारयामि ॥ मनन्तशयनम्, २४-१२-११०६. ०६. के. साम्बशिवशास्त्री.

No text on this page.

विषयानुक्रमणी। पृष्ठम् or . प्रत्यक्षपरिच्छेदः । विषयः. मङ्गलाचरणम् प्रमाणलक्षणम् संशयलक्षणम् संशयविभागः ऊहानध्यवसाययोः संशयान्तर्भावकथनम् विपर्ययलक्षणम् प्रमाप्रमातृविषयलक्षणम् प्रमाणस्य त्रैविध्यम् प्रत्यक्षलक्षणम् प्रत्यक्षस्य वैविध्यम् अयोगिप्रत्यक्षम् अयोगिप्रत्यक्षमेदाः योगिप्रत्यक्षम् योगिप्रत्यक्षभेदाः प्रत्यक्षमात्रस्य द्वैविध्यम् सविकल्पकलक्षणम् निर्विकल्पकलक्षणम् अनुमानपरिच्छेदः। अनुमानलक्षणम् अविनाभावः १० ११ १६ १७ १९ २० २१ २२ २३ २५. तस्य द्रविष्यम् बिजलक्षणम् तस्य दैविध्यम् २६ २७ " : २८ ३० ३१ ३२ ३४ ३५ विषयः. अनुमानस्य खार्थपरार्थभेदेन द्वैविध्यम् पञ्चावयवाः प्रतिज्ञा हेतुः हेतोवैविध्यम् अन्वयव्यतिरेकी अन्वयव्यतिरेकिणोऽवान्तरभेदः केवलान्वयी केवलव्यतिरेकी हेत्वाभासाः असिद्धः विरुद्धः अनैकान्तिकः अनध्यवसितः कालात्ययापदिष्टः प्रकरणसमः स्वरूपासिद्धः व्यधिकरणासिद्धः विशेष्यासिद्धः विशेषणासिद्धः भागासिद्धः आश्रयासिद्धः आश्रयैकदेशासिद्धः व्यर्थविशेष्यासिद्धः सन्दिग्धासिनः सन्दिग्धविशेष्यासिद्धः विरुदभेदाः अनैकान्तिकभेदाः ३६ " " " " ३८ " ३९ ११ १५ १९ " " ६० विषयः अनध्यवसितमेदाः कालात्ययापदिष्टमेदाः उदाहरणम् तस्य वैविध्यम् उदाहरणाभासाः उपनयः तस्य द्वैविध्यम् निगमनम् कथाप्रस्ताव: कथाया वैविध्यम् वाद: जल्पः वितण्डा छलम् जातिः निग्रहस्थानानि आगमपरिच्छेदः। आगमलक्षणम् । तस्य द्वैविध्यम् । आगमप्रामाण्यम् । आगमस्य नित्यत्वादिनिरासः। त्रीण्येव प्रमाणानि । उपमानस्य शब्देऽन्तर्भावः । अर्थापचेरनुमानेऽन्तावः । सम्भवस्यानुमानेऽन्तर्भावः । अभावस्व विष्वन्तर्भावः । ऐतिवस्यागमेऽन्तर्भावः । ६१ १०३ १११ १११ ११६ पृहम्, ११७ १२२ १२३ १२६ विषयः. चेष्टाया आगमेऽतर्भावः प्रमेयविचारः आत्मविचारः परमात्मनिरूपणम् जीवात्यनिरूपणम् इन्द्रियाणामात्मत्वनिरासः शरीरस्यात्मत्वनिरासः जीवात्मनित्यत्वसमर्थनम् जीवात्मनो व्यापकत्वम् आत्मोपासनतत्साधनानि यमनियमादिनिरूपणम् शिवज्ञानस्य मोक्षहेतुत्वम् मोक्षनिरूपणम् । " १२७ १३१ १३२ १३३ १४१ १४२ ॥श्रीः॥ श्रीभासर्वज्ञप्रणीतः न्यायसारः वासुदेवसूरिकृतन्यायसारपदपचिकाल्य- व्याख्योपेतः। .. - देवदेवमभिवन्ध शाश्वत योगिवृन्दहृदयैकमन्दिरम् । वासुदेवविदुषा विरच्यते न्यायसारपदपश्चिका परम् ॥ तत्र तावञ्चिकीर्षितस्य ग्रन्थस्य निष्पत्यूहपरिपूरणायाभिमतदेवताप्रणति. पुरस्सरं श्रोतृजनमनस्समाधानार्थ सप्रयोजनमाभिधेयं प्रतिजानीते - प्रणम्य शम्भुं जगतः पर्ति परं समस्ततत्त्वार्थविदं स्वभावतः। शिशुप्रबोधाय मयाभिधास्यते प्रमाणत दतदन्यलक्षणम् ॥ इति । शं सुखं भवत्यस्मादिति शम्भुः तम्। किंवि- शिष्टम् । जगतः त्रैलोक्यस्य पतिं स्वामिनम्। देवेन्द्रादीमा मपि जगत्पतित्वमस्तीति तद्व्यवच्छेदायाह-परमिति । उत्कृष्टम् अनन्यप्रेष्यमित्यर्थः । इन्द्रादयः पुनरीश्वरप्रेछ- G.P1.1505. 500. 18-1-1106. B सव्याख्ये न्यायसारे त्वेन न परा इति भावः । परत्वं ब्रह्मादीनामप्यस्ति तव्य. वच्छेदार्थमाह-समस्ततत्त्वार्थविदामिति । प्रमाणोपपन्नं स्व. रूपं तत्त्वं, तेन विशिष्टा अर्थाः तत्त्वार्थाः, समस्ताश्च ते तत्त्वा. र्थाश्चेति समस्ततत्त्वार्थाः, तान् वेत्तीति समस्ततत्स्वार्थवित्, तं सर्वज्ञमित्यर्थः । सर्वज्ञत्वं योगिनामध्यस्तीति ततो विशेष दर्शयति स्वभावत इति । न साधनान्तरापेक्षया, किन्तु सर्वदेत्यर्थः । योगिनस्तु योगाभ्यासप्रसादसमासादिततत्त्व- ज्ञानदेव समस्ततत्त्वार्थविद इति कादाचित्कसार्वझ्या इत्यर्थः । तम् इत्थम्भूतं प्रणम्य प्रकर्षेण भक्तिपुरस्सरं नत्वा । प्रमाणं च तद्भेदाथै तदन्ये चै प्रमाणतद्भेदतदन्ये, तेषां लक्षणम् इत- रेतरव्यावर्तको धर्मः। मया भासर्वज्ञेन अभिधास्यते । किम- र्थम् । शिशुप्रबोधाय। शिशव इव शिशवः प्रमाणादिपदार्थ- लक्षणज्ञानशून्याः शास्त्रार्थश्रवणयोग्या विवक्षिताः, न पुनः स्तनन्धयाः। तेषां प्रबोधाय तत्त्वज्ञानोत्पादनायेति प्रयोजन- कथनम् । अत्राबालानामपि शिशुशब्देनाभिधानं शुश्रूषयो- पपन्नाः छात्राः शिशुवत् सस्नेहं व्युत्पादनीया इति ज्ञापना- र्थम् ॥ प्रमेयादिपरिज्ञानस्य प्रमाणाधीनत्वात् प्रथमोदिष्टस्य प्रमाणस्य सामान्य- लक्षणमाह सम्यगनुभवसाधनं प्रमाणम् ॥ इति । सम्यक् चासावनुभवश्चेति सम्यगनुभवः, तस्य साधनं करणं प्रमाणम् । प्रमीयते येन तत् प्रमाणमिति १. 'नवशादे' ङ. च. पाठः. २. 'श्च प्रत्यक्षादयः त', ३. 'च प्रमेयादयः प्रच. पाठः. ४. 'नाः शि' इ. च. पाठः.

करणव्युत्पत्तेरिह विवक्षितत्वात् करणभूतस्य प्रमाणस्य लक्ष- णाभिधानम् । अतो नाव्याप्त्यतिव्याप्ती । अन्यथा प्रमितिः प्रमाणमिति फलभूतस्य ज्ञानस्यानुभवसाधनत्वाभावाद-, व्याप्तिः स्यात् । अत्र सम्यक्त्वमनुभवत्वं च संशयत्वविप- ययत्ववद् ज्ञानावान्तरजातिविशेषः । अबाध्यमानाध्यवसा. यात्मकत्वं सम्यक्त्वम् । स्मरणविलक्षणज्ञानस्वरूपत्वं पुन- रनुभवत्वम् । विशेषणस्यातिप्रसङ्गापाकरणार्थत्वात् ॥ सम्यगित्यस्य विशेषणस्य व्यवच्छेद्यं दर्शयति . सम्यगग्रहणं संशयविपर्ययापोहार्थम् ॥ इति। संशयविपर्यययोरपोहःसंशयविपर्ययापोहःप्रमा- णफलादनुभवाद् व्यावर्तनम् । संशयविपर्ययाभ्यां वापोहः व्यवच्छेदः प्रमाणफलस्य स एवार्थः प्रयोजनं यस्य तत् तथोक्तम्।यदा च संशयविपर्यययोरनपोहः तदा तत् साधनं प्रमाणं न भवतीत्यर्थः॥ अज्ञातस्वरूपयोः संशयविपर्यययोरपोहो ज्ञातुं न शक्यत इति तदव- गमार्थ तल्लक्षणमाह - तत्रानवधारणज्ञानं संशयः॥ इति । तत्र तयोर्मध्ये। अनवधारणंच तज्ज्ञानं चेति विग्रहः । न चावधारणाभाववाचकत्वादनवधारणशब्दस्य कथं ज्ञानशब्देन सामानाधिकरण्यमिति वाच्यम् । तस्या- निश्चयत्वजातिसहितव्यक्तिवाचकत्वात् ॥ तस्यावान्तरमेदमाह स च समानधर्मानेकधर्मविप्रतिपत्युपलव्ध्यनु- पलब्धिकारणभेदात् पञ्चधा भियते ॥ - सायसारे इति।समानधर्मधानेकधर्मश्च विप्रतिपत्तियोपलब्धि- धानुपलब्धिश्च तानि कारणानि च तेषां भेदात् । अत्रासा- धारणकारणभूतानां समानधर्मोदीनां भेदात् संशयस्य भेदो- ऽभिहितः, न पुनः कारणमात्रभेदात् । अनेककारणजन्य- स्यापि घटस्यैकत्वदर्शनात् । स च समानधर्मादसाधारणकार- णाद् विशेषाग्रहणादीतरकारणगणसहिताज्जायमानः संशयो- ऽनेकधर्मादिकारणजनितसंशयेभ्यो भिद्यत इति योज्यम् । एवमुत्तरत्रापि ॥ क्रमेण तेषां संशयानां स्वरूपमाह तद् यथा समानधर्मात्-किमयं स्थाणुः पुरुषो - वेति ॥ - इति। स्थाणुपुरुषयोः समानः साधारणो धर्म ऊर्ध्वत्वं, तस्मात् । तच्चोर्ध्वत्वव्यवहारकारणं सामान्यमवयवरचनावि- शेषो वा । इतिशब्दः प्रकारार्थः। एवम्प्रकारः संशय उत्पद्यत इत्यर्थः । एवमुत्तरवाक्येष्वपीतिशब्दो व्याख्येयः ॥ द्वितीयं संशयमाह अनेकधर्मात्-आकाशविशेषगुणत्वात् किमयं शब्दो नित्यः स्यादनित्यो वेति ॥ इति । समानासमानजातीयमनेकमिहाभीष्टम् । अने- कस्माद् व्यावर्तको धर्मोऽनेकधर्म इति मध्यमपदलोपी स- मासः। असाधारणो धर्म इति भावः । ननु स्थाणुत्वपुरुष- त्वादिविरुद्योभयविशेषैः सह समानधर्मस्योर्ध्वत्वस्य पूर्वमुप- १. 'मत्वादी' च. पाठः. २. एवञ्च रु. पाठः. ३. 'तों ध' च. पाठः.

- लम्भात् पश्चाद दूरत्वादिनिमित्तेन विशेषद्वयाग्रहणेन समान- धर्मः केवल एवोपलभ्यमानस्तत्स्मृतिहारेण संशयहेतुरिति युक्तम् । असाधारणस्तु धर्मो विरुद्धोभयविशेषैः सहादृष्टः । कथं तत्स्मृतिहेतुः । तदहेतुश्च कथं संशयोपाय इति । व्यति- रेकमुखेनेति ब्रूमः । तथाहि नित्येभ्यो व्यावृत्तधर्मयोगी खल्बनित्यो दृष्टः ।अनित्येभ्यश्च व्यावृत्तधर्मयोगी खलु नित्यो दृष्टः । शब्दस्तु नित्यानित्यव्यावृत्तेनाकाशविशेषगुणत्वधर्मेण युक्तः । तस्मादनित्यव्यावृत्तधर्मवत्त्वाद् नित्यः स्याद्, उत नित्यव्यावृत्तधर्मवत्त्वादनित्य इति सन्देहः । नन्वेवमपि स- मानधर्मासाधारणधर्मविप्रतिपत्तीत्यादिवाक्यं क्रियताम् । कि- मनेकधर्मग्रहणेनाप्रसिद्धप्रकृतार्थेनेति । सत्यम् । अनेक- श्वासौ धर्मश्च अनेकधर्मः सोऽपि संशयहेतुरिति ज्ञापनार्थत्वा- ददोषः । तथाहि-विरुद्धार्थडयाविनाभूतधर्मद्वयस्यैकत्रो- पलम्भाद् विशेषाग्रहणादिसहकारिणि च सति संशयो भवति। यथा क्रियावत्त्वान्मूतं मनः, किं वा स्पर्शशून्यत्वादमूर्तमिति । अनेकधर्मस्य तु विप्रतिपत्तिवदेव संशयहेतुत्वम् । विरुद्धार्थ- द्वयप्रतिपादकवचनद्वयं विप्रतिपत्तिः । विरुद्धार्थद्वयाविना- भूतधर्महयं बनेकधर्म इति नानयोरत्यन्तभेदोऽस्तीति ॥ इदानीं विप्रतिपत्तिजनितसंशयं दर्शयितुकामो विप्रतिपत्तिस्वरूप- माह- विप्रतिपत्तेः-एके भौतिकानीन्द्रियाण्याहुरन्ये त्वभौतिकानीति ॥ १. 'द्धार्थ' च. पाठः. २. 'पं तावदाह' ङ. पाठः.

.. सव्याख्ये न्यायसारे एवंरूपाया विप्रतिपत्तेः सकाशात् किमिन्द्रियाणि भौतिकान्याहोस्विदभौतिकानीति संशयो मध्यस्थस्य विशेष- मजानानस्य जायत इति शेषः॥ चतुर्थपञ्चमौ संशयौ दर्शयति उपलब्धेः-किं सदुदकमुपलभ्यते उतासदिति। अनुपलब्धेः किं विद्यमानः पिशाचो नोपलभ्यते किं वाविद्यमान इति ॥ इति । विधिमुखेन ज्ञानमुपलब्धिः । उपलब्ध्यभावो- त्रानुपलब्धिः । नचात्र केवलोपलब्धिरनुपलब्धिर्वा संशव- कारणं, येनातिप्रसङ्गः स्यात् । किन्तु विशेषाग्रहणादिसह- कारिसहिता। ततो नातिप्रसङ्गः । यद्यप्यनयोः समानधर्मान्न भेदः, तथापि प्रयोजनवशात् सूत्रकारेण 'समानानेकधर्मोप- पत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च-' इति पृथ- गभिहिते इति तदनुसारिणा सङ्ग्रहकृतापि पृथगुक्ते इति न दोषः। प्रयोजनं च परपक्षप्रतिक्षेपः। तथाहि-शब्दे स एवा- यमिति स्थायित्वोपलम्भादविनाशित्वम् , अदृष्टेश्वरादेवानुप- लम्भादसत्त्वं केचित् प्रतिपन्नाः। तच्चायुक्तं, विशेषग्रहणाभावे खलूपलब्धिमात्रस्य चानुपलब्धिमात्रस्य च संशयहेतुत्वात् । प्रत्यभिज्ञानं तु प्रदीपादिष्विव । अनुपलब्धिश्च भूतलान्त- गतजलादाविवान्यथाप्युपपन्नत्वान्न निर्णयकारणमिति ॥ सम्यग्ग्रहणेन चेत् संशयविपर्यययोरपोहः, तहानध्यवसाययोः केन पदेनापोह इत्याशझ्याह अनवधारणत्वाविशेषादूहानध्यवसाययोर्न संश- यादर्थान्तरभाव इति ॥ १. 'मत्वान्न' क. पाठः. २. 'पद्यमानत्वा' क. च. पांठ..

अनिश्चयात्मकत्वमेवानयोराह तद्यथा बाह्यालिप्रदेशे पुरुषेणानेन भवितव्य- मित्यूहः । किंसंज्ञकोऽयं वृक्ष इत्यनध्यवसाय इति ॥ प्रायेण पुरुषेणानेन भवितव्यमित्यनिश्चयरूप एवोहः, न पुनः पुरुष एवेति निश्चयरूपः । अनध्यवसायोऽपि का संज्ञा अस्य, असौ किंसंज्ञक इत्यनिश्चयात्मक एवोपपद्यते । तस्मादनयोः संशयात्मकत्वात् सम्यग्ग्रहणेनैव व्यवच्छेद इत्यर्थः । ममात्र संशयोऽस्तीत्यशेषपुरुषहृदयसाक्षितया सवे- द्यमानस्य संशयस्य निराकरणं परेषामज्ञत्वमेव प्रकटयतीति॥ सप्रपञ्चं संशयमभिधाय विपर्ययमाह- मिथ्याध्यवसायो विपर्ययः ।। इति । अध्यवसायः समीचीनोऽप्यस्तीति तद्यवच्छेदाय मिथ्याग्रहणम् । मिथ्यात्वं चातस्मिरतदितिज्ञानस्वरूपत्वम्। तत् संशयेऽप्यस्तीति तन्निरासायाध्यवसायग्रहणम् ।। उदाहरणमाह - तद्यथा द्वौ चन्द्रमसाविति सुप्तस्य गजादिदर्शन - चेति ॥ इति । सकलविपर्ययप्रभदावराधाथमुदाहरणद्वयमुक्तं परपक्षप्रतिक्षेपार्थ च । वैशेषिकाः खलु संशयविपर्ययप्रमिति- स्मरणेभ्यो विलक्षणं स्वप्नज्ञानं मन्यन्ते । तदयुक्तम् । सुप्तस्या- विद्यमाना असन्निहितावा गजादयो विद्यमानत्वेन सन्निहित- वेन च गृह्यन्त इति तद्विषयं ज्ञानं विपर्यय एव। यस्तु गजो ८ - सव्याख्यन्यायसार वा महिषो वा इति प्रत्ययः स संशयः। स्वप्ने वधूबन्धुदर्शन- जनितसुखानुभवस्तु प्रमा। सुप्तस्यैवातीतस्वप्नानुसन्धानं स्म- रणम् । अतो न प्रत्ययान्तरं पश्यामः। धिगेतत् , शुक्तिका- शकलमेव मया रजतामिति गृहीतमिति प्रत्ययो विपर्यय- सद्भावे प्रमाणम् । अनुमानं च । तथाहि-विवादपदं शु- क्तिकाशकलं रजतज्ञानस्य विषयः, रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात् , सम्बग्रजतवत् ॥ प्रमाणलक्षणान्तर्गतानुभवपदव्यावत्यमाह स्मरणज्ञानव्यवच्छेदार्थमनुभवग्रहणम् ॥ इति । सम्यक्साधनं प्रमाणमित्युक्ते स्वर्गादेरज्ञान- स्वरूपस्य साधनं यागाद्यपि प्रमाणं स्यात् । तथापि सम्यग्- ज्ञानसाधनं प्रमाणमिति सिद्धेऽक्षराधिकस्यानुभवशब्दस्य ग्रहणं स्मरणस्यापि व्यवच्छेदार्थमित्यर्थः । स्मरणविलक्षणं हि ज्ञानमनुभवः ॥ साधनग्रहणापोह्यमाह प्रमातृप्रमेयव्यवच्छेदार्थ फलाइ भेदज्ञापनार्थ च साधनग्रहणम् ॥ इति । सम्यगनुभवः प्रमाणमित्युक्ते फलभूतस्यानु- भवस्य प्रमाणत्वप्रसङ्गः । तथापि सम्यगनुभवहंतुरिति सिद्धे साधनमिति गुरुकरणं प्रमातृप्रमेयव्यवच्छेदार्थम् । साध्यते येन तत् साधनमिति करणव्युत्पत्तेरिह विवक्षितत्वात् , कर्म- कर्तृविलक्षणस्य क्रियाहेतोः करणत्वाच्च । १. 'वग्रहणव्यावयं दर्शयति स्म', २. 'स्योपादानं स्म' ग. उ.पाठः.

प्रत्यक्षापरिया। साधनग्रहणन्यवच्छेवत्वेन प्रस्तुतयोः प्रमातृप्रमेययोक्षणं. तलक्षण- भूतायाः प्रमाया लक्षणामिधानद्वारेणाह सम्यगनुभवः प्रमा । प्रमाश्रयंप्रमाता।प्रमा- विषयः प्रमेयमिति ॥ इति । प्रमाया आश्रयः प्रमाश्रयः। प्रमोत्सत्तौ सम- वायिकारणम् । प्रमाया विषय आलम्बनम् । प्रतिभासमानोऽर्थ इति यावत् । इतिशब्दः प्रमाणसामान्यलक्षणपरिसमाप्ति- सूचकः ॥ भेदमाह- त्रिविधं प्रमाणम्॥ इति । तिस्रो विधाः प्रकारा यस्य तत् त्रिविधम् ॥ प्रकारानाह- प्रत्यक्षमनुमानमागमश्चोत॥ इति । इतिशब्दः प्रकारार्थः । अनेन प्रकारेण त्रि- विधम् । अन्यथा तु सप्तविधत्वादिकमपि सम्भवत्येव । तथा- हि-निर्विकल्पकसविकल्पकभेदेन योग्ययोगिप्रत्यक्षभेदेन वा द्विविधं प्रत्यक्षम् । कार्यकारणानुभयात्मकभेदेन त्रिविध. मनुमानम् । दृष्टादृष्टविषयत्वेन द्विविध आगम इति सप्त- प्रकारम् । अवान्तरभेदविवक्षायां तु विधान्तरमैपि सम्भव- वत्येव ।। - इतरप्रमाणमूलत्वेन ज्येष्ठत्वात् प्रथमोदिष्टस्य प्रत्यक्षस्य लक्षणमाह तंत्र सम्यगपरोक्षानुभवसाधनं प्रत्यक्षम् ॥ १. 'मिति । कच. पाठः. २. 'श्रेच. पाठः. C . १. मव्याख्ये न्यायसारे इति । अत्रापि सभ्यगनुभवादिशब्दाना व्यवच्छेचं पूर्ववत् । अपरोक्षग्रहणेनानुमानादेर्व्यवच्छेदः । अपरोक्षत्वं हि ज्ञानावान्तरजातिः । अनुमानादिकं तु परोक्षत्वजातिम- तोऽनुभवस्य साधनम् । अतोऽस्य निरासः ।। तद्भेदमाह तद् द्विविधं योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति ॥ इति । चकारी निर्विकल्पकसविकल्पकभेदेनापि व- क्ष्यमाणं दैविध्यं समुच्चिनोति ॥ विशिष्टत्वेन प्रथमोद्दिष्टस्यापि योगिप्रत्यक्षस्यास्मदादिप्रत्यक्षदृष्टान्तबलेन वेद्यत्वादादौ तदेव लक्षयति तत्रायोगिप्रत्यक्ष प्रकाशदेशकालधर्मायनुग्रहादि- न्द्रियार्थसम्बन्धविशेषेण स्थूलार्थग्राहकम् ॥ इति । प्रकाश आलोकः, मनस्समाधिश्च । देशः समीपपुरोवादिः । कालो वर्तमानः । धर्म इष्टज्ञाने । आदिशब्दादनिष्टोपलब्धावधर्मः । ईश्वरोऽपि सर्वकार्ये निमि- त्तत्वात् स्वीक्रियते । तथा रसादिज्ञाने दन्तान्ततिजला- दिः । तेषामनुग्रहः साहाय्यं , तस्मात् । इन्द्रियाणि च- क्षुरादीनि । अर्थाः पृथिव्यादयो रूपादयश्च । तेषां मिथः सम्बन्धविशेषः संयोगसंयुक्तसमवायादिः । तेनासाधारण- कारणेन सह । स्थूल इव स्थूलः । स्थूलश्वासावर्थश्चास्म- दादिप्रत्यक्षयोग्यः । तस्य ग्राहकं ग्रहणकरणभूतं यत् तदयो. गिप्रत्यक्षम् । करणस्यापि कर्तृत्वोपचारात् ण्वुल्प्रत्ययः । न चेदृशं योगिप्रत्यक्षमिति ततोऽस्य भेदः । नचे स्थूलस्यैव १. 'राद् नि', २. 'तोदकादिः' ग. पाठः. ३. 'तु' उ. पाठः, - प्रत्यक्षपरिच्छेदः । ग्राहकमिति व्याख्येयम् । अस्थूलस्यापि रूपादेग्रहणात् । इन्द्रियार्थसंबन्धे च प्रमाणमनुमान-चक्षुःश्रोत्रे प्राप्तमेव प्रकाशयतः, बाह्येन्द्रियत्वात् , त्वगिन्द्रियवत् । प्रकाशकत्वे सति व्यवहिताप्रकाशकत्वाद् वा, प्रदीपादिवत् ॥ प्रत्यक्षप्रमाणस्य प्रायेणातीन्द्रियत्वात् तत्फलमेव सम्बन्धविशेषोपदर्शन- द्वारेणोदाहरति तद्यथा चक्षुःस्पर्शनसंयोगाद् घटादिद्रव्य- ज्ञानम् ॥ इति । चक्षुषा स्पर्शनेन्द्रियेण वा संयोगाद् घटादि- द्रव्यस्य ज्ञानम् । उत्पद्यते इति शेषः । संबन्धान्तरात् प्रत्यक्षज्ञानं दर्शयति संयुक्तसमवायात् ताभ्यां घटत्वसङ्ख्यापरिमाणादि ज्ञानम् ॥ इति । ताभ्यां चक्षुःस्पर्शनाभ्याम् । संयुक्ते द्रव्ये स- मवायः संयुक्तसमवायः । तस्मात् सम्बन्धात् । आदिशब्दस्य प्रत्येकमभिसम्बन्धाद् घटत्वसत्त्वपृथिवीत्वादीनि सङ्ख्यापरि- माणपृथक्त्वसंयोगविभागपरत्वापरस्वकर्माणि च द्विहीन्द्रिय. ग्राह्याणि संगृह्यन्ते। हस्तचलनं प्रत्यक्षं, प्रत्यक्षाश्रितत्वे सति संयोगासमवायिकारणत्वात् संयोगवत् । कर्मत्वं वा प्रत्यक्षा- श्रयाश्रितं, संयोगासमवायिकारणाश्रितत्वात् संयोगत्ववत् । नचाश्रयासिद्ध साधनं, जातिरूपस्य कर्मत्वस्य परीनभ्युप- - १. 'न्धः घ', २. 'रैरन' ग. पाठः.

१२ सन्याये न्यायसारे गमेऽपि उपाधिरूपस्याभ्युपगमात् । तथा संयोगत्वस्याप्युपा- धिरूपस्य सिद्धत्वान्नाश्रयहीनमुदाहरणम् ॥ एतस्मादेव सम्बन्धादेकैकेन्द्रियमायेषु ज्ञानान्याह चक्षुषैव रूपज्ञानं, स्पर्शनेनैव स्पर्शज्ञानं, घ्राणे- नैव गन्धज्ञानं, रसनेनैव रसज्ञानं, मनसैव सुखादि- ज्ञानमिति ॥ सर्वत्र संयुक्तसमवायादित्यनुवर्तते । चक्षुषैवेत्यादा- वेवकारो बाह्येन्द्रियान्तरनिषेधार्य, रूपादिज्ञाने मनसोऽपि हेतुत्वात् । मनसैवेत्यत्रैवकारो बाह्येन्द्रियाणां प्रतिषेधपरः, न पुनरदृष्टादेः । इतिशब्दः संयुक्तसमवायपरिसमाप्तौ ॥ अधुना सम्बन्धान्तराद् ज्ञानोत्पत्तिमाह- एतेषु सङ्ख्यादिष्वाश्रितानां सामान्यानां खा- भयग्राहकैरिन्द्रियैः संयुक्तसमवेतसमवायाद् ग्रहणम् ॥ इति । सङ्ख्यादिग्रहणं घटत्वादिनिरासार्थ, सामान्ये सामान्याभावात् । सामान्यानामिति सत्त्वसङ्ख्यात्वपरिमा- णत्वादीनां ग्रहणम् । स्वाश्रयग्राहकैरिन्द्रियैरिति । तत्र स- यालादिकर्मत्वान्तानां चक्षुःस्पर्शनाभ्यां ग्रहणम् । 'स- यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वकर्माणि' इति सूत्रम् । रूपत्वादीनां त्वेकैकेन्द्रियेण । सत्तासामान्यस्य पडिन्द्रियग्राह्येष्वपि विशेषणत्वेन ग्रहणात् सर्वेन्द्रियेण ज्ञा- नम् । इन्द्रियेण संयुक्ते द्रव्ये समवेता ये सङ्ख्यादयः तेषु समवायो यः सामान्यानां तस्माद् ग्रहणम् । भवतीति शेषः । - १. 'थः।' ग. पाठः.

. - प्रत्यक्षपरिजोदः । १३ पुनः सम्बन्धद्वयाद् छानोत्पादं दर्शयति श्रोत्रसमवायाच्छन्दग्रहणम् । तदाश्रितसामान्य- ज्ञानं समवेतसमवायात् ॥ इति । शब्दो गुणः सामान्यवत्त्वास्पर्शदत्त्वे सति अ- मदादिबायैकेन्द्रियग्राह्यत्वात, सामान्यवत्वकर्मव्यतिरिक्तत्वे सति सामान्यवतामनाधारत्वाद् वा, रूपादिवत् । इति गुणत्वे सिद्धे गुणत्वाचाश्रयवत्त्वे सति य आश्रयः स पारिशेष्या- दाकाशः । तथाहि शब्दः स्पर्शवतां गुणो न भवति, प्रा. णरसनचक्षुस्त्वगिन्द्रियैरग्राह्यत्वे सति अस्मदादिप्रत्यक्षत्वात् सुखादिवत् । शब्द आत्ममनसोर्गुणो न भवति, अस्मदादि- बाह्यन्द्रियप्रत्यक्षत्वाद् रूपादिवत् । भूतात्ममनोतिरिक्तदिका- लसद्भावेऽपि शब्दो दिकालगुणो न भवति, विशेषगुणत्वाद् रूपादिवत् । अतः पारिशेष्याद् यः शब्दाश्रयःस आकाशः। स एव श्रोत्रम् । तथाहि शब्दो गुणत्वावान्तरजात्या ख. समानजातीयगुणवतेन्द्रियेण गृह्यते, बाह्यन्द्रियग्राह्यविशेष- गुणत्वाद् रूपादिवत् । श्रोत्रं वा स्वग्राह्यगुणेनात्यन्तसजा- तीयगुणवत्, बाह्येन्द्रियत्वात् चक्षुरादिवत् । अतः श्रोत्रस्या- काशात्मकत्वात् तद्गुणस्य शब्दस्य तेन सह समवायः स- म्बन्ध इति स्थितम् । नचाकाशात्मकश्रोत्रसंयुक्त एवाकाशा- न्तरे समवायाच्छब्दस्य ग्रहणमिति युक्तम् । नभोभेदे प्रमा- णाभावात् । तीव्रादिभेदभिन्नास्तु शब्दास्तीवादिभेदभिन्ना- घातान्वयव्यतिरेकानुविधायित्वान्नाश्रयभेदसाधकाः । अभेदे तु विवादाध्यासिताः शब्दाः श्रूयमाणशब्देनैकाश्रयाः, शब्द- १. 'तिवा', २. 'वेस' ख. च. पाठः, .

. । १५ सव्याख्ये न्यायसारे त्वात् श्रूयमाणशब्दस्यासमवायिकारणशब्दवत् । असमवायि- कारणशब्दः स्वकार्येणैकाश्रयः, अस्पर्शद्रव्यविशेषगुणस्या- समवायिकारणत्वात्, आत्मान्तःकरणसंयोगवदित्यलम् । त- दाश्रितेति। तं शब्दमाश्रितानि तदाश्रितानि । (तदाश्रितानि) च सामान्यानि च तदाश्रितसामान्यानि सत्त्वशब्दत्ववर्ण- त्वादीनि । तेषां ज्ञानम् ॥ षष्ठसम्बन्धाद् ज्ञानोत्पादमाह एतत्पञ्चविधसम्बन्धसम्बन्धिविशेषणविशेष्य- भावाद् दृश्याभावसमवाययोर्ग्रहणम् ॥ इति । एते च ते पञ्चविधसम्बन्धाच एतत्पश्चविध- सम्बन्धाः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवाय इति । एतैः सम्बन्धैः सम्बद्धेपु पदार्थेषु विशेषणविशेष्यभावो नाम यः सम्बन्धः तस्मात् । अत्र सम्बन्धविशेष एवेतरसम्बन्धवलक्षण्येन ज्ञापनार्थ वि. शेषणविशेष्यभावशब्देनोक्तः । न पुनर्विशेषणविशेष्यभाव एव सम्बन्धः। विशेषणविशेष्यभावयोः प्रतिनियताश्रयवृत्ति- त्वेन द्विष्ठसम्बन्धरूपत्वानुपपत्तेः । तत्सत्त्वे किं प्रमाणमिति चेद् , घटशून्यं भूतलमिति ज्ञानं विशेषणविशेष्यभावसम्ब- न्धनिबन्धनं, विशिष्टप्रत्यक्षप्रत्ययत्वाद् दण्डीत्यादिप्रत्ययवत्॥ प्रहर्णेप्रकारमाह तद्यथा-घटशून्यं भूतलम् , इह भूतले घटो नास्ति ॥ १. 'यी श' ग. पाठः. २. 'ण्यज्ञा' क. ङ. पाठः. 'स्यादि ज्ञा' ग. पाठः. 'णस्वरूपमा' .. च. पा.. --- ३.

प्रत्यक्षपरिच्छेदः । इति । इदमितीन्द्रियसंयुक्ते भूतले विशेषणतया वि. शेष्यतया वाभावस्य ग्रहणं दर्शितम् ॥ एवं सर्वत्रोदाहरणीयम् ॥ इति । इन्द्रियसंयुक्तसमवेतादौ विशेषणविशेष्यभाव- सम्बन्धेनाभावस्य ज्ञानमुदाहरणीयमित्यर्थः । तथाहि - अशुक्लं कृष्णरूपं, कृष्णरूपे शुक्लत्वं नास्तीति संयुक्तसमवेते कृष्णरूपे शुक्लत्वाभावस्य ज्ञानम् । अभिन्नं शुक्लत्वसामान्यं, शुक्लत्वसामान्ये भेदो नास्तीति संयुक्तसमवेतसमवेते शुक्ल- त्वसामान्ये विशेषणविशेष्यभावेन भेदकधर्माभावस्य ज्ञानम्। अकारः ककारो न भवति, अकारे ककारत्वं नास्तीति श्रोत्र- समवेताकारे विशेषणविशेष्यभावसम्बन्धेन कत्वाभावस्य ज्ञा- नम् । अभिन्नमत्वम् , अत्वे भेदो नास्तीति श्रोत्रसमवेतसम- वेते अत्वसामान्ये भेदकधर्माभावस्य ज्ञानमिति । दृश्यस्य द्रष्टुं योग्यस्य घटादेरभावो यस्तस्य प्रत्यक्षत्वं, न पुनः पि.. शाचाद्यभावस्येत्यर्थः ॥ नन्वेवं सत्यभाववत् समवायेऽपि विशिष्टव्यवहारदर्शनात् समवायिभिः सह सम्बन्धान्तरं स्यात् , ततस्तस्यापि सम्बन्धान्तरमित्यनवस्थाप्रसङ्ग इत्याश- - चाह समवायस्य तु कचिदेव ग्रहणम् । यथा-घटे रूपसमवायः, रूपसमवायवान् घटः इति ॥ क्वचिदेव शास्त्राभ्यासाविपर्यासितबुद्धौ, समवायस्य विशेषणतया विशेष्यतया वा विषयत्वं, न पुनरभाववल्लौकिक- बुद्धावपीत्यर्थः । नच प्राक्तनहेतोः रूपसमवायी घट इति .

सन्याख्ये न्यायसारे विशिष्टप्रत्ययेन व्यभिचारः । प्रत्यक्षात्मकविशिष्टप्रत्ययत्वस्य हेतुत्वेनोपादानात् । नचायं प्रत्यक्षरूपः प्रत्यय इति । कथं तर्हि समवायस्य प्रत्यक्षेत्वमिति चेद् , न। अनुमितनिर्विक- ल्पकविषयत्वात्। तथाहि-शुक्लः पट इत्यादिप्रत्यक्षप्रत्ययः प्रत्यक्षेण ज्ञायमानसम्बन्धपूर्वकः, प्रत्यक्षात्मकविशिष्टप्रत्यय. त्वाद् दण्डीति प्रत्ययवत् । अन्ये पुनरिमं ग्रन्थमन्यथा योज- यन्ति। समवायस्य तु कचिदेव संयुक्ते संयुक्तसमवेते समवेते च विशेषणविशेष्यभावेन ग्रहणं, नत्वभाववत् पञ्चविधे स- म्बन्ध इति । तदयुक्तम् । कचिदपि समवायस्य विशेषण- तया विशेष्यतया वाभाववत् प्रत्यक्षप्रतीत्यभावात् । तथात्वा- भ्युपगमे हि समवायस्यापि सम्बन्धान्तरप्रसङ्गः। तच्चानिष्टम् । विशेषणविशेष्यभावाद् दृश्याभावसमवाययोर्ग्रहणमिति प्र- न्थस्तर्हि कथामिति चेत् । उपचाराद् भेदव्यवहारः । तथा- हि-रूपरूपिणोर्विशेषणविशेष्यभूतयोविशिष्टप्रत्ययहेतुत्वात् तत्समवायो विशेषणविशेष्यभाव इत्युच्यते । स्वविषयालो- चनाहेतुश्च स एवेति भेद उपचरितः । किमुक्तं भवति । विशेषणविशेष्यभावसम्बन्धरूपत्वात् समवायो निर्विकल्पकेन गृह्यत इत्यर्थः । नच यनिर्विकल्पकग्राह्यं तत् सविकल्पके- नापि गृह्यत इति व्याप्तिरस्ति, पथि गच्छता गृह्यमाणतणा- दिमियभिचारादिति ॥ योगिप्रत्यक्षं दर्शयति- योगिप्रत्यक्षंतु देशकालस्वभावविप्रकृष्टार्थग्राह- - १. 'क्षरूपस्व', २. 'प्रतीयमा', ३. 'वा प्र' न. पाठः.

प्रत्यक्षपरिच्छेदः। १७ इति । देशेन विप्रकृष्टा दूरस्था मेर्वादयः नागभवना. दयश्च । कालविप्रकृष्टा रामादयः । स्वभावविप्रकृष्टाः परमा- दृष्टादयः । तेषां ग्राहकं तद्विषयसाक्षात्कारिसम्यगनुभव. साधनं यत् तद् योगिप्रत्यक्षम्। तद् द्विविधं युक्तावस्थायां वियुक्तावस्थायां चेति वाक्यमध्याहार्यम् ॥ अवस्थाद्वयेऽपे योगिप्रत्यक्षस्य फलोत्पत्तिप्रकारमाह तत्र युक्तावस्थायामात्मान्तःकरणसंयोगादेव ध- मादिसहितादशेषार्थग्रहणम् ॥ इति । युक्तावस्थायां सकलबाह्यकरणव्यापारविरमे केवलमनोविलोक्यमानत्वावस्थायाम् । आत्मान्तःकरणसंयो- गादेवेत्येवकारेण बाह्येन्द्रियसन्निकर्ष मनसोऽर्थसन्निकर्ष च निरस्यति, न पुनः कारणान्तरं, धर्मादिसहितादित्यभि- धानात् । धर्मश्चात्र योगाभ्यासप्रसादसमासादितो विशिष्टो निर्दिष्टः । आदिशब्दादीश्वरः । अशेषार्थग्रहणमित्युपलक्षणं, कतिपयातीन्द्रियार्थग्रहणस्यापि योगिप्रत्यक्षरूपत्वात् ॥ वियुक्तावस्थायां तु चतुष्टयत्रयद्वयसन्निकर्षाद ग्रहणम् ॥ इति।वियुक्तावस्थायाम् असमाध्यवस्थायाम्।तुशब्द: प्राक्तनज्ञानादस्य करणाधिक्यलक्षणातिशयसूचने । सन्निक- शब्देनात्र संयोगो विवक्षितः। तत्र घ्राणरसनचक्षुस्त्वगिन्द्रि. यैरर्थग्रहणे चतुर्णामात्मान्तःकरणबाह्येन्द्रियगन्धाद्याश्रयाणां संयोगः कारणम् । यदा शब्दग्रहणं तदात्ममनश्श्रोत्राणां त्रयाणां संयोगः । यदा चान्तरधर्मादीनां ग्रहणं तदात्ममन-. सोईयोः संयोगः कारणमिति ॥ १. 'वाद', २. 'यसंयोगं म', ३. 'संयोगं च' ग. पाठः, D - - १८ सव्याख्ये न्यायसारे एतदेवाह - यथासम्भवं योजनीयम् ॥ इति । यद्यप्यस्मदादिचाक्षुषज्ञाने प्रकाशस्यापि पश्च- मस्य संयोगः कारणं, तथापि योगिनां तदपेक्षाभावान्नाभि- हितम् ॥ आप नाम प्रमाणान्तरं केचिदाहुः । तथा चोक्तं 'प्रत्यक्षलैजिक- स्मृत्यार्षलक्षणा विद्येति । तन्निरस्यति अवार्षमन्तर्भूतं प्रकृष्टधर्मजत्वाविशेषादिति॥ इति।आर्षप्रमाणफलभूतस्य ज्ञानस्येति शेषः। अस्म- दायतीन्द्रियार्थविषयसाक्षात्कारिप्रमा हि विशिष्टादृष्टजनिता योगिप्रत्यक्षफलमुध्यते । आर्षज्ञानमप्यतीन्द्रियेऽर्थे विशिष्ट- धर्मजनितम् । धर्मस्तु समाधिजनितो वास्तु, तपोविशेष- जनितो वा । नैतावता प्रमाणभेदः । नन्वस्मदादिष्वपि कचिदार्षज्ञानं दृश्यते । तथाच कन्यका ब्रवीति-श्वो मे ज्यायानागन्ता, हृदयं मे कथयतीति । तद्वचनानुमितस्य भा. विभ्रात्रागमनालम्बनज्ञानस्य संवादेन प्रामाण्यमप्यस्तीति नैतदेवम् । काकरुतादिवत् कन्यावचनस्य शाकुनत्वेन लिङ्ग- त्वात् । अतो न कन्यकाया अतीन्द्रियार्थज्ञानसद्भावे प्र. माणमस्तीति । योगिप्रत्यक्षे चानेकागमवचनानि प्रमाणम् । अनुमानं च- अस्मदादिप्रत्यक्षज्ञानं सर्वविषयेणातीन्द्रि. यार्थविषयेण वा केनचिज ज्ञानेनात्यन्तसजातीय, प्रमोत्वात्। , १. 'वा एकेन ज्ञा', २. 'समानजा', ३. 'माणत्वा' ग. पाठः.

प्रत्यक्षपरिच्छेदः । . शब्दज्ञानवत् । नच सर्वविषयेण ज्ञानेनात्यन्तसजातीयत्वे साध्ये लैङ्गिकज्ञानेन व्यभिचारः। तस्यापि शाब्देन सर्वविष- येणैकेनापि ज्ञानेन परोक्षत्वजात्यात्यन्तसजातीयत्वात् । न च तेनैव प्रकृतस्याप्यत्यन्तसजातीयत्वमस्तीति पाभ्यम् । प्रकृतज्ञानस्य साक्षात्कारित्वेन विजातीयत्वात् ॥ प्रत्यक्षमात्रस्य पुनरपि द्वैविध्यमाह तञ्च द्विविधं सविकल्पक निर्विकल्पकं च ॥ इति । तच्छब्देन योगिप्रत्यक्ष परामृश्यते । चकारे- णायोगिप्रत्यक्षम् । द्वितीयस्तु चकार उक्तसमुच्चये ।। लक्षणमाह तत्र संज्ञादिसम्बन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकम् ॥ इति । संज्ञादीत्यादिशब्दाद् द्रव्यगुणकर्मसामान्या- भावाः स्वीकृताः । संज्ञादीनां यः सम्बन्धः स संज्ञादिस- म्बन्धः । तस्योल्लेखस्तद्विषयं ज्ञानम् । तेन सहकारिणा सह विशिष्टज्ञानोत्पत्तौ निमित्तं करणं यत् तत् सविकल्पकं प्र- माणम् । आवृत्त्यान्योऽप्यर्थः - 'संज्ञादिसम्बन्धस्योल्लेख: प्रतिभासः विषयत्वम् । तेन सहिता या ज्ञानोत्पत्तिः तस्या निमित्तं करणं सविकल्पकमिति व्याख्येयम् । विशेषणस्य सं- ज्ञादण्डादेः पूर्व ज्ञाने सति तत्सहकारिणेन्द्रियेण विशेषण- विशेष्यविषयस्यैकस्य विशिष्टज्ञानस्योत्पत्तेः । अत एवामिमान् पर्वत इत्यादिज्ञानमनुमानफलं, व्याप्तिस्मरणकाले प्रतीतेना- १. 'यविशिष्टज्ञानोत्प' ग. च. पाठः, ३ - २ सव्याल्ये न्यायसारे मिना विशिष्टस्यानुमेयत्वात् । अन्यथा निराधारस्यामः क- थमनुमेयत्वमिति ॥ प्रमाणस्यातीन्द्रियत्वात् तत्फलमेवोदाहरति यथा देवदत्तोऽयं दण्डीत्यादि । इति । तत्र देवदत्त इति संज्ञासम्बन्धोल्लेखि ज्ञानम् । दण्डीति द्रव्यसम्बन्धोल्लेखि ज्ञानम् । आदिशब्देन शुक्लः पट इत्यादि गुणोल्लेखि ज्ञानम् । गच्छति नर इति क्रियोल्लेखि । गौरश्व इत्यादि सामान्यसम्बन्धोल्लेखि । घटरहितं गृहमित्य- भावोल्लेखि । अत्र विशेषणविशेष्ययोर्बा_केन्द्रियग्राह्ययोर्वि- शिष्टज्ञानं बाह्येन्द्रियजम् । यथा दण्डी शुक्लः पट इत्यादि । भिन्नेन्द्रियग्राह्ययोस्तु विशिष्टज्ञानं मानसमेव । यथा देवद- त्तोऽयं, सुरभि कुसुममित्यादि। अन्ये तु सर्वस्यापि सविकल्प- कज्ञानस्य संज्ञादिसम्बन्धोल्लेखेनोत्पद्यमानत्वात् संज्ञायाश्च विशेषणत्वेन विशिष्टप्रत्ययालम्बनत्वात् तद्विषये चक्षुरादीनां व्यापारासम्भवान्मनसो व्यापार इति मानसमेव सविकल्पक- मित्याचक्षते । संज्ञादेश्व विशेषणत्वं व्यावर्तकत्वादिति । यथा तेषु पुरुषेषु दण्डिनमाह्वयेति दण्डेन पुरुषः पुरुषान्तराद् व्यावय॑ते, तथा तेषु पुरुषेषु देवदत्तमायेति संज्ञयापि ॥ वस्तुस्वरूपमात्रावभासकं निर्विकल्पकम् ॥ इति । मात्रग्रहणेन संज्ञादिसम्बन्धनिरासः । अवभा- सकमिति तद्विषयावभासकरणमित्यर्थः॥ १. 'स्य पर्वतस्यानु' ह. पाठः. २. 'तं भूतलमि' ग. च. पाठः, भनुमानपरिच्छेदः । २१ अत्रापि प्रमाणस्यातीन्द्रियस्वात् तत्फलमेवाह यथा प्रथमाक्षसन्निपातजं ज्ञानं युक्तावस्थायां योगिज्ञानं चेति ॥ इति । प्रथमाक्षसम्बन्धवेलायां संज्ञादिसम्बन्धस्मर- णाभावात् तदनन्तरमुत्पद्यमानं ज्ञानं निर्विकल्पकमेवोत्पद्यते। उत्पन्ने तु तस्मिन् सङ्केतग्रहणकाले साहचर्येणानुभूतशब्दार्थ- योर्मध्येऽन्यतरस्यार्थस्य दृष्टत्वात् तत्संस्कारोबोधे संज्ञादिस्म- रणस्योत्पादे च पश्चात् सविकल्पकज्ञानं युक्तमेव । अत एव निर्विकल्पकमभ्युपगन्तव्यम् । तदभावे हि मंजादिस्मरणा- भावेन सविकल्पकाभावप्रसङ्गः। तदभावे चानुमानादेरनुत्था- नमिति । युक्तावस्थायां समाध्यवस्थायाम् । योगिजानं च निर्विकल्पकम् । तस्यां दशायां पदार्थस्वरूपमात्रावलोकनात्। इतिशब्दः प्रत्यक्षलक्षणपरिसमाप्तौ ॥ इति श्रीमत्काश्मीरसूर्यसूरीन्द्रसुनुवासुदेवसूरि- विरचितायां न्यायसारपदपञ्चिकायां प्रत्यक्षपरिच्छेदः ॥ अथानुमानपरिच्छेदः। सकलप्रमाणज्येष्ठं प्रत्यक्षं लक्षयित्वेदानीमनुमानं प्रपञ्चयति .. सम्यगविनाभावेन परोक्षानुभवसाधनमनुमानम ॥ इति । सम्यगिति भिन्नं पदं साधनविशेषणम् । इहा- विनाभावविषयं स्मरणमविनाभावः, उपचारात् । साधकत- मार्थे तृतीया । अविनाभावविषयस्मरणेनासाधारणकारणेन जनितस्य परोक्षानुभवस्य यत् सम्यक्साधनं लिङ्गज्ञानादिकं, १. 'गिप्रत्यक्षज्ञा' ग. च. पाठः. २. 'तका' ग. पाठः. ३. 'यसनु' ग. च. पाठः. ४. 'रलघुप' ग. पाठः.

२२ सव्याख्ये न्यायसारे तत् सर्वमनुमानमित्यर्थः । सम्यगित्यादिविशेषणानां तु प्रयोजनं पूर्ववत् । परोक्षग्रहणं तु प्रत्यक्षव्यवच्छेदार्थम् । श- ब्दोऽपि परोक्षानुभवसाधनमिति तेनातिप्रसङ्गः । तद्व्यवच्छेदा- र्थमविनाभावेनेति पदम् । शब्दस्य समयबलेनार्थप्रेतीतिहेतु- त्वात् । ननु तथाप्यविनाभावग्रहणेन प्रत्यक्षस्यापि व्यव- च्छिन्नत्वाद् व्यर्थ परोक्षग्रहणमिति चेत् । सत्यम् । परोक्षत्वा- परोक्षत्वजाती बाह्येन्द्रियविषयाश्रिते इति केषाश्चिद् दर्शनम् । तन्निरासार्थमनुमा फलस्वरूपकथनार्थ चानुभवविशेषणत्वे- नोक्तमिति केचित् । वयं तु ब्रूमः-वहिधूमयोः सहचरितयो- ग्रहणे सति दहनाविनाभूतो धूम इति जानमपरोक्षरूपं मा- नसं जायते । ततस्तत्साधनमप्यविनाभावेनानुभवसाधनम् । नचानुमानमिति तद्व्युदासाय परोक्षग्रहणमिति ॥ केनाप्यर्थेनाविनाभावः कस्यापि तात्त्विको नास्ति । अतोऽनुमानलक्ष- णमसम्भवीति शक्का । तां निरस्यति - स्वभावतः साध्येन साधनस्य व्यातिरविनाभावः ॥ इति । प्रत्यक्षेण प्रतीयमानो निराकर्तुं न शक्यत इति शेषः । तथाहि-बालादयोऽपि धूमं दृष्ट्वा वह्नि प्रति- पद्य तदर्थ प्रवर्तमाना दृश्यन्ते । नचान्यदर्शनेनान्यस्य प्र. तीतिः । दहनं विना धूमो नोपपद्यते इत्येवंविधाविनाभाव- ग्रहणमन्तरेण न सम्भवतीति साध्येन साधनस्य व्याप्ति- रिति । यदिदं साध्यस्य वह्नयादेापकत्वं, साधनस्य धूमादे- ाप्यत्वं, यत्र यत्र धूमस्तत्र तत्रामिः, अग्न्यभावे तु न १. 'त् वाच्यम् । प' ग. ङ. पाठः. २. 'प्रतिपतिहे', ३. 'नस्व. पाठः, 'ति मतं नि' उ. च. पाठः.

अनुमानपरिच्छेद २३ कचिद् धूमो दृष्ट इति, सोऽविनाभाव इत्यर्थः। तथापि शब्द- नित्यत्वे साध्ये पक्षसपक्षयोरन्यतरत्वादीनां कल्पिता व्या- तिरस्ति । नचासावविनाभाव इति तद्व्युदासार्थमाह- स्वभावत इति । अकल्पनयेत्यर्थः । अत्र पक्षसपक्षयोरन्य- तरत्वादीनां तु न शब्दनित्यत्वेन स्वाभाविकी व्याप्तिरस्ति, अनियतसाध्यत्वात् । तथाहि-यथा नित्यः शब्दः पक्ष- सपक्षयोरन्यतरत्वादाकाशादिवदिति प्रयोगः, तद्वदनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् घटवदित्यपि सम्भवत्येव । न च स्वाभाविकाविनाभाववान् धूमो धूमध्वजमिव तदभोवो- ऽभावमपि साधयतीति दृष्टम् ।। भेदमाह स द्विविधः अन्वयव्यतिरेकभेदात् ।। इति । अन्ये पुनर्विना केनचित् कस्यचिदभावो ह्यविनाभाव इति शब्दार्थ पश्यन्तो व्यतिरेकरूप एवाविना- भाव इति मन्यन्ते । तदयुक्तम् । नहि व्युत्पत्तिरेव शब्दार्थ व्यवस्थापयति, अपितु लोकप्रसिद्धिरपि । सा चाविना- भावस्योभयरूपत्वेऽप्यस्ति । व्युत्पत्तिमात्रनिमित्तत्वे तिष्ठन् गौर्न स्याद् , गच्छतीति गौरिति व्युत्पत्तेः ॥ . उभयरूपस्य लक्षणमाह साध्यसामान्येन साधनसामान्यस्य व्याप्तिर- न्वयः । साधनसामान्याभावेन साध्यसामान्याभावस्य व्याप्तिर्व्यतिरेकः॥ १. 'त् । यथाहि नि' ग. पाठः. २. 'भावम' क. पाठः.

सव्याने न्यायसारे इति । साध्यमेवाविवक्षितावान्तरविशेषं सामान्यं सा- ध्यसामान्यम् । तार्णत्वपार्णत्वमठमहानसस्थत्वादिविशेषवि- वक्षाशून्यमनिमात्रमित्यर्थः । तेन कर्तृभूतेन।साधनमेवाविव- क्षितावान्तरभेदं सामान्यं साधनसामान्यम् । तस्य कर्मभूतस्य व्याप्तिः साहचर्य यत् सोऽन्वयः । यो यो विशिष्टोधूमः स स मूलप्रदेशे वह्निमान् । यो धूमवान् भूप्रदेशः स वह्निमानिति व्याप्तिः सोऽन्वयः । एतेन "विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥" इति दूषणं प्रत्युक्तम् । अवान्तरविशेषेणान्वयस्यानभिधा- नात् । सामान्ये सिद्धसाधनादित्यपि निरस्तम् । नहि यत्र कचिदनिरस्तीति साध्यते। कैथं तर्हि । यत्र पर्वतादौ धूमोप- लब्धिस्तत्र मूलप्रदेशे वतिरिति प्रदेशस्यापि सामान्याकारे- णाविनाभावग्रहणमुपदर्शितमेव । अथवा, द्वयमनुमानाङ्गं व्याप्तिः पक्षधर्मता चेति । तत्र व्याप्तिबलादग्निमात्रसिद्धिः । पक्षधर्मताबलाच्च नियतर्मिसम्बन्धलक्षगविशेषसिद्धिरित्य- लम् । तथा साधनमेव सामान्य साधनसामान्यम् । तस्या- भावेन । साध्यमेव सामान्यं साध्यसामान्यम् । तस्याभाव: साध्यसामान्याभावः । तस्य व्याप्तिः साहचर्य यत् स व्यतिरेकः। यत्र साध्यस्याग्न्यादेरभावः तत्र साधनस्य धूमादें- रप्यभाव इति यः साध्याभावसाधनाभावयोाप्यव्यापक- भावः स व्यतिरेक इत्यर्थः ॥ १. 'धनमित्य' ग. पाठः. २. 'किन्त' . पाठः, २५ अनुमानपरिच्छेदः । साधनं लिङ्गम् ॥ इति पर्यायो न लक्षणम् ॥ तत् पुनर्दिविधं दृष्टं सामान्यतोदृष्टं च ॥ इति । भेदनिरूपणे चशब्दः । स्वार्थपरार्थगेदेन दै- विध्यसूचने। तत्र दृष्टविषयत्वेन साधनमपि दृष्टमित्युच्यते । साध्यं तु कचित् पूर्व दृष्टमनुमीयते । यथा कुड्यादिव्यवहितः स्वपित्रादिर्ध्वनिलिङ्गेन । कचित् पूर्वमदृष्टोऽप्यनुमीयमानो दहनादिदृष्टसजातीयत्वाद् द्रष्टुं शक्यत्वाद् वा दृष्ट इत्यु- च्यते । अतस्तद्विषयमपि साधनं दृष्टमेव ॥ उभयरूपस्यापि साधनस्य लक्षणमाह - तत्र प्रत्यक्षयोग्यार्थानुमापकं दृष्टम् । यथा धूमोऽमेरिति । स्वभावविप्रकृष्टार्थानुमापकं सामान्यतो- दृष्टम् । यथा रूपादिज्ञानं चक्षुरादेरिति ॥ प्रत्यक्षप्रमाणस्य योग्यः प्रत्यक्षयोग्यः। स चासावर्थश्च प्रत्यक्षयोग्यार्थः। तस्यानुमापकमिति करणस्यापि कर्तृत्वोप- चारात् ण्वुल्प्रत्ययः । प्रत्यक्षयोग्यत्वं च पूर्वदृष्टत्वेन वास्म- दादिभिर्द्रष्टुं शक्यत्वेन वा । स्वभावेन वरूपेण विप्रकृष्टा अर्था अस्मदादिप्रत्यक्षायोग्याः परमाण्वादयः। तेषामनुमापकं लिङ्गं सामान्यतोदृष्टमित्युच्यते, व्याप्तिग्रहणवेलायां सामा- न्यतो दृष्टस्यार्थस्य पश्चादनुमापकत्वात् । यद्यपि सर्वमनुमानं सामान्यतो गृहीतव्याप्तिकार्थविषयं, तथापि दहनोद्यनुमानं येन सामान्येन व्यपदिश्यते तस्य प्रत्यक्षत्वात् तद्विषयमनु- १. 'यत्वात् सा' ग. पाठः. २. 'च', ३. 'नादि ये ख. १. 'शति त' च. पाठः. पाठः.

२६ सव्याख्ये न्यायसारे मानं दृष्टमित्युच्यते । नचैवं चक्षुराद्यनुमानं येन सामान्येन नयनत्वादिना व्यपदिश्यते न तस्य प्रत्यक्षत्वमिति । तथापि क्रिया करणपूर्विकेति सामान्यव्याप्तिबलात् प्रवर्तमानत्वात सामान्यतोदृष्टमित्युच्यते इति ।। तत् पुनर्द्विविधम् ॥ इति । अत्र स्वार्थ पगर्थ चेत्येतावदध्याहार्यम् ॥ उभयस्यापि लक्षणमाह परोपदेशानपेक्षं स्वार्थम् । परोपदेशापेक्षं परार्थ- मिति ॥ पर उपदिश्यते येन पदनमूहेनामौ परोपदेशः ॥ ..---- तस्य स्वरूपमाह परोपदेशस्तु पञ्चावयवं वाक्यम् ॥ इति । तुशब्दो यवयवयवयवादिपरपक्षनिरासे ॥ पदकदम्बात्मकत्वाद् वाक्यस्य तदवयवाः पञ्च किं पदान्येव, नेत्या- he - प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ इति । वाक्यात्मका अपि प्रतिज्ञादयः महावाक्या- पेक्षया अवयवाः । यथावयविनोऽपि पादादयः कायापेक्षया अवयवो व्यवहियन्ते तहदेवेत्यर्थः ॥ आद्यावयवस्य लक्षणमाह तत्र प्रतिपिपादयिषया पक्षवचनं प्रतिज्ञा । यथा अनित्यः शब्द इति ॥ १. 'वा उच्यन्ते तथेत्य' ग. ङ. च. पाठः.

२७ अनुमानपरिच्छेदः । तत्र तेष्ववयवेषु मध्ये। 'साध्यधर्मविशिष्टो धर्मी पक्ष' इति वक्ष्यति । तस्य पक्षस्य वचनं हेत्वाद्यवयवशून्यमनित्यः शब्द इति । केवलपक्षवचनं प्रतिज्ञा मा भूदित्येतदर्थमुक्तं प्रतिपिपादयिषयेति । परं प्रति प्रमाणेन सिसाधयिषयेत्यर्थः । नच प्रतिज्ञा निरर्थिका । तदभावे हेत्वादिविषयापरिज्ञानात् । केवलहेत्वभिधायिनोऽप्रस्तुताभिधायित्वप्रसङ्गात् । "साध्याभिधानात् पक्षोक्तिः पारम्पर्येण चौप्यलम।" इति वदता बौद्धेन स्वप्रवृत्तिरेव स्ववचनेन विडम्बिता । पक्षोक्तिः पारम्पर्येणोप्यलमित्यस्य वचनस्य प्रतिज्ञारूपत्वात्॥ द्वितीयावयवस्य लक्षणमाह साधनत्वख्यापकं लिङ्गवचनं हेतुः ॥ इति । लिङ्गवचनं हेतुरित्येवोच्यमाने धूमाऽयं धूभवा- नित्यादिवचनस्यापि हेतुत्वप्रसङ्गः । तन्निवृत्यर्थं साधनत्व- ख्यापकमिति विशेषणम्। धूमवत्त्वात धूमवत्त्वेन धूमो यस्माद् इत्यादिवचनमेव हेतुरित्यर्थः ।। भेदमाह - स त्रिविधः अन्वयव्यतिरेकी केवलान्वयी केव- लव्यतिरेकी चेति ।। चकारः कारणानुमान कार्यानुमानमकार्याकारणानु- मानमिति सूत्रोक्तत्रैविध्यसूचैन । अत्र लिङ्गस्यान्वयव्यनि- रेकादिरूपेण त्रैविध्यात तहाचकशब्दरूपा हेतुरपि तथोक्तः । १. 'ना', २. 'ण नाप्य' ख. ङ. च. पाठः. ३. 'चकः ।' ग. ४. 'द्वारा च श' ख. पाठः. पाठः.

: - २८ सव्याख्ये न्यायसारे उपचारात् । उपचारे च प्रयोजनं लिङ्गरय दुष्टत्वे हेतुरपि दुष्टो भवति , अदुष्टत्वे चादुष्ट इति ज्ञापनम् ॥ आयं हेतुं लक्षयति तत्र पञ्चरूपोऽन्वयव्यतिरेकी । रूपाणि तु पक्ष- धर्मत्वं, सपक्षे सत्त्वं, विपक्षाद् व्यावृत्तिः, अबाधितवि- षयत्वम् , असत्प्रतिपक्षत्वं चेति ॥ तत्र तेषु त्रिविधेषु हेतुषु मध्ये। पञ्च रूपाणि यस्यासौ पश्चरूपो हेतुः । अत्राप्युपचारः। तुशब्दस्त्रिरूप एव हेतुरिति मतस्य निरासे । अबाधितः प्रमाणाविरुद्धो विषयःसाध्यार्थो यस्यासावबाधितविषयः । तस्य भावस्तत्त्वम् । असन् प्रति- पक्षःसाध्यत्वेन यस्यासावसत्प्रतिपक्षः। तस्य भावस्तत्त्वम् ॥ पञ्च रूपाणि व्याचष्टे. तत्र साध्यधर्मविशिष्टो धर्मी पक्षः । तत्र व्या- प्यवृत्तित्वं हेतोः पक्षधर्मत्वम् ॥ इति । स्वेन व्याप्ये पक्षे वृत्तिर्यस्यासौ व्याप्यवृत्तिः। तस्य भावो व्याप्यवृत्तित्वं पक्षधर्मत्वमुच्यते। न पुनः पक्षक- देशे ब्याप्यवृत्तित्वमित्यर्थः ॥ साध्यसमानधर्मा धर्मी सपक्षः। तत्र सर्वस्मिन्ने- कदेशे वा हेतोवृत्तिः सपक्षे सत्त्वम् ॥ इति । समानो धर्मो यस्यासौ समानधर्मा । 'धर्माद- निच् केवलादिति बहुव्रीहौधर्मशब्दादनिच् । साध्येन समान- धर्मा साध्यसमानधर्मा इति पश्चात् तत्पुरुषः ॥ १. 'ति त' ख. पाठः. - अनुमानपरिच्छेदः । ३९ साध्यव्यावृत्तधर्मा धर्मी विपक्षः। तत्र सर्वस्मिन् विपक्षे हेतोरवृत्तिर्विपक्षाद् व्यावृत्तिः ॥ साध्याद् व्यावृत्तः साध्यव्यावृत्तः । स एव धर्मो य- स्यासौ साध्यव्यावृत्तधर्मा। साध्यशून्य इत्यर्थः । धर्माति पदेन "तस्माद् वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः । तदभावे च तन्नेति वचनादपि तद्गतेः ॥" इति बौद्धमतं निरस्यति । नहि धर्मिणमन्तरेण वचनमात्राद् व्यतिरेकप्रतीतिर्भवितुमर्हति । धूमे सति वहिरवश्यमस्तीति वचनमात्रादेवान्वयसिहौ साधर्म्यदृष्टान्तेऽपि धर्मिणो वैय- र्थ्यप्रसङ्गात् । यद्यपि हेतुरूपाभिधानप्रस्तावादेव हेतोरिति लभ्यते, तथापि स्पष्टार्थे पुनरभिधानम् ॥ प्रमाणाविरोधिनि प्रतिज्ञातार्थे वृत्तिरबाधितवि- षयत्वम् ॥ इति । प्रमाणेन प्रत्यक्षादिना विरोधः स न विद्यते यस्यासौ प्रमाणाविरोधी तस्मिन् । प्रतिज्ञातेऽर्थेऽनित्यत्वादि- धर्मके शब्दादौ वृत्तिः । हेतोरित्यधिकारात् प्रस्तावाच ल- भ्यते॥ साध्यतद्विपरीतयोः साधनस्यात्रिरूपत्वमसत्प्रति- पक्षत्वम् ॥ इति । साध्यं शब्दानित्यत्वादि । तद्विपरीतं शब्द- नित्यत्वादि । तयोरुभयोरपि साध्यमानयोः साधनस्य कार्य- 'ये हेतोवृत्ति' इति मूलकोशपाठः.

३० सव्याख्ये न्यायसारे त्वादेरत्रिरूपत्वं पक्षधर्मत्वसपक्षेसत्त्वविपक्षाव्यावृत्तिलक्षण- रूपत्रयरहितत्वम् । किन्तु एकस्मिन् साध्य एव त्रिरूपत्वमिति भावः ॥ अन्वयव्यतिरेकिणोऽवान्तरभेदं सोदाहरणमाह स द्विविधः सपक्षवृत्तिभेदात् ॥ इति । सपक्षे सर्वस्मिन्नेकदेशे वा या वृत्तिस्तस्या भेदात् ॥ तद् यथा अनित्यः शब्दः कार्यत्वादिति सपक्ष- व्यापकः ॥ इति । नन्वनित्यत्वं नाम विनाशित्वम् । तस्मिन् साध्ये प्रागभावोऽपि सपक्षः । नच तत्र कार्यत्वमस्ति । अतः कथमयं सपक्षव्यापको हेतुः । नैष दोषः । विनाशी खल्वनित्य इत्युच्यते । विनाशश्चाभावः । नच प्रागभावस्या- भावान्तरमस्ति । भावोत्पादेनैव प्रागभावो नष्ट इति व्यव- हारोपपत्तेः । भावाभावयोः सहानवस्थानलक्षणो हि विरोध इति । अन्ये तु-अनित्यत्वं नाम वस्तुत्वे सति विनाशि- त्वम् । तस्मिन् साध्ये न प्रागभावस्य सपक्षत्वमिति परि- हरन्ति । ननु तथापि कार्यत्वं नाम प्रागसतः पश्चादात्म- लाभोऽभिधीयते । तच्चानित्यत्वशून्ये प्रध्वंसाभावेऽप्यस्तीति व्यभिचार इति चेत् । सत्यं, सामान्यवत्वे सतीति वक्ष्य- माणविशेषणस्यात्रापि स्मरणाददूषणमेतत् । अथवा स्व- कारणसमवायस्तु कार्यत्वम् । तञ्च प्रध्वंसे नास्तीति ॥ १. 'त्य उच्य' ख. रु. च. पाठः. २. 'स्य' च. पाठः. ३. 'सेऽप्य' रु. पाठः.

. २ अनुमानपरिच्छेदः। ३१ अनित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादि- बाह्येन्द्रियग्राह्यत्वादिति सपक्षकदेशवृत्तिः॥ इति ! इन्द्रियग्राह्यत्वादनित्यः शब्द इत्युक्ते मनो- ग्राह्यणात्मना नित्येन व्यभिचारः। तन्निवृत्त्यर्थ बाह्यग्रहणम् । तथापि परमाणूनां योगिबाह्येन्द्रियग्राह्यत्वमस्ति, नचानित्य- त्वमिति तन्निरासायास्मदादिग्रहणम् । सत्तादिसामान्ये व्यभि- चारनिरासार्थ सामान्यवत्त्वे सतीति विशेषणम् । सकलशब्द- पक्षीकरणेऽपि बाह्यन्द्रियग्राह्यत्वं नाम ग्रहणयोग्यत्वं विवक्षि- तम् । तच्च सर्वशब्दानामस्ति । ब्रह्मभाषितादीनां तु दूरत्वेन श्रोत्रसम्बन्धाभावादग्रहणं, न पुनरयोग्यत्वात् । अतो न पक्ष- कदेशवृत्तिरयं हेतुः । किन्तु सुखादावनित्ये सपक्षे न वर्तत इति सपक्षकदेशवृत्तिरिति ॥ केवलान्वयिनो लक्षणमाह पक्षव्यापकः सपंक्षवृत्तिरविद्यमानविपक्षः केव- लान्वयी॥ इति । अबाधितविषयत्वासत्प्रतिपक्षत्वे सतीति वि- शेषणमत्रोत्तरलक्षणवाक्ये चााल्लभ्यते इति सङ्ग्रहे नोक्तम् ॥ स पूर्ववद् द्विविधः ॥ इति । सपक्षव्यापकत्वसपक्षैकदेशवृत्तित्वभेदाद् द्वि- विध इत्यर्थः ॥ १. 'सैव प्रतिज्ञा । सा' ग. पाठः. २. 'क्षीकारेऽपि' ङ. पाठः. ३. 'णो' च. पाठः.

३२ सव्याख्ये न्यायसारे उभयारप्युदाहरणमाह तद् यथा विवादास्पदीभूतान्यदृष्टादीनि कस्यचित् प्रत्यक्षाणि, प्रमेयत्वात् । करतलामलकवत् । सैव प्रतिज्ञा । मीमांसकानामप्रत्यक्षत्वाद् अस्मत्सुखा- दिवत् ॥ इति । अत्राद्यो हेतुः सपक्षव्यापकः । द्वितीयस्तु स- पक्षकदेशवृत्तिः । घटादावभावात् । ननु मीमांसकानामप्रत्य- क्षत्वं नाम विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वान्मीमांसक- व्यतिरिक्तपुरुषप्रत्यक्षत्वं यदि हेतुः, तदा .साध्याविशिष्टः । अथ निषेधमात्रं हेतुः, तदा शशविषाणादिना व्यभिचारः । तत्र मीमांसकानामप्रत्यक्षत्वसद्भावेऽपि कस्यचित् प्रत्यक्षत्वा- भावादिति । मैवम् । मीमांसकानां प्रत्यक्षातिरिक्तप्रमाणेग्राह्य- त्वस्य हेतुत्वेन विवक्षितत्वात् । केवलान्वयी प्रमाणमबाधित- विषयत्वासत्प्रतिपक्षत्वे सति पक्षव्यापकत्वे च सति सपक्ष एव सत्त्वात् अन्वयव्यतिरेकिवत् ॥ केवलव्यतिरेकिणो लक्षणमाह पक्षव्यापकोऽविद्यमानसपक्षो विपक्षाद् व्यावृत्तः केवलव्यतिरेकी॥ इति ॥ तस्योदाहरणमाह तद् यथा-सर्व कार्य सर्ववित्कर्तृपूर्वकं, कादा- चित्कत्वात् । यत् सर्ववित्कर्तृपूर्वकं न भवति तत् कादा- चित्कमपि न भवति । यथाकाशादि ॥ १. 'नै' च. पाठः. २. 'णविषयत्व' उ. पाठः.

अनुमानपरिच्छेदः । इति । नचाप्रसिद्धविशेषणः पक्ष इति दूषणम् । सर्व- विदादिपदार्थानां प्रसिद्धत्वात् । पदार्थान्वयरूपवाक्यार्थस्या- प्रसिद्धत्वादप्रसिद्ध विशेषणः पक्ष इति चेत् । तर्हि पर्वतोऽमि- मानिति वाक्यार्थस्याप्यनुमानात् पूर्वमप्रसिद्धत्वादप्रसिद्ध- विशेषणपक्षत्वेन धूमानुमानस्याप्यप्रेसिद्धविशेषणत्वप्रसङ्गः । नन्वेवं शशविषाणपूर्वकत्वमपि साध्यं स्यात् । सर्व कार्य शशविषाणपूर्वकं, कादाचित्कत्वादिति । तन्न। विपक्षे बाधक- प्रमाणसहितस्य केवलव्यतिरेकिणः प्रमाणत्वाभ्युपगमात् । सर्ववित्कर्तृपूर्वकत्वाभावे हि कार्यत्वमेव न स्यात् । तथाहि- कार्यवैचित्र्यात् कारणवैचित्र्यमनुमीयते। कारणानां च दृष्टानां जलभूमिबीजादीनां क्वचिदवैचित्र्येऽपि कार्यस्य फलस्य वैचि- त्र्योपलम्भाद् विचित्रमदृष्टरूपं कारणं सिध्यतीति सर्वस्यापि कार्यस्यादृष्टरूपकारणपूर्वकत्वं सिद्धम् । तच्चादृष्टरूपं कारण- मचेतनत्वाच्चेतनानधिष्ठितं दण्डादिवत् स्वकार्ये न व्याप्रि- येत । नच तदजानानोऽस्मदादिस्तत् प्रेरयतीति युक्तम् । अतोऽदृष्टादिकारणगणविषयविशिष्टज्ञानवानेव कर्ता भवितु- महतीति तर्कसहितमेवेदं प्रमाणम् । शशविषाणपूर्वकत्वाभावे च विपक्षे न किञ्चिद् बाधकमस्ति । तथाहि शशविषाणं नाम यदि शून्यमेव, तदा कथं कारणं स्यात् । अथातुच्छं सकलकार्यकारणभूतादृष्टायभिज्ञं तत् प्रेरकं चाङ्गीक्रियते, तदा संज्ञाभेदमात्रं स्यादित्यलम् ॥ २. 'त् तव स' ग. पाठः, १. 'प्रामाण्यप्र' ख, ङ. च. पाठः. ३. 'धपेक्षं त' च. पाठः. F सव्याख्य न्यायसारे केवलव्यतिरेकिण उदाहरणान्तरमाह प्रसङ्गद्वारेण वा । यथा नेदं निरात्मकंजीवच्छ- रीरम् । अप्राणादिमत्त्वप्रसङ्गात्, लोष्टवदिति ॥ प्रसङ्गशब्द एव द्वारमुपायः द्वारिणस्तद्विपर्ययसाधन- प्रयोगस्य सः प्रसङ्गद्वारः । तेन प्रसङ्गशब्दोच्चारणेनेत्यर्थः । केवलव्यतिरेकी प्रमाणम्, अबाधितविषयत्वासत्प्रतिपक्षत्वे पक्षव्यापकत्वे च सति विपक्षादेव सर्वस्माद् व्यावर्तमान- त्वात् , अन्वयव्यतिरेकिवत् ॥ इदानीमनुमानपरिशुद्धावत्यन्तोपयोगिनां हेत्वाभासानां स्वरूपं निरूप- यितुकामस्तेषां प्रसङ्गं तावद् दर्शयति - एतेन हेत्वाभासानामहेतुत्वमुक्तं भवति । इति । एतेन हेतुस्वरूपोपवर्णनेन । तदाभासानामहे- तुत्वमुक्तं भवति, हेतुलक्षणरहितत्वादिति भावः ॥ - तल्लक्षणमाह हेतुलक्षणरहिता हेतुवदवभासमाना हेत्वाभासाः॥ इति। सम्यग्धेतुरपि कस्यचिदज्ञस्य हेतुवदवभासते। न पुनहेंतुरेवेति प्रतिभाति । नचासौ हेत्वाभास इति तन्नि- रासायोक्तं हेतुलक्षणरहिता इति । हेतुलक्षणरहिता घटा- दयोऽपि भवन्ति । नच ते हेत्वाभासाः। तन्निरासायोक्तं हे. तुवदवभासमाना इति । अत उभयं सम्मिलितं लक्षणम् । हेतुलक्षणरहितानामपि हेतुवदवभासमानत्वं पक्षधर्मत्वाद्य- न्यतमरूपवत्वेन ॥

- - अनुमानपरिचोदा विभजते- असिद्धविरुद्धानेकान्तिकानध्यवसितकालात्ययाप- दिष्टप्रकरणसमाः॥ इति ॥ एतेषां क्रमेण लक्षणमाह तत्रानिश्चितपक्षवृत्तिरसिद्धः॥ इति । न निश्चिता सन्दिग्धा, नास्तीति न निश्चिता वा पक्षे वृत्तिर्यस्यासावनिश्चितपक्षवृत्तिः ॥ पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्धः ॥ इति । न सपक्षे इति भावः । साध्यं विरुणीति विरुद्धः ॥ पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः ॥ इति । एकस्मिन्नर्थे साध्ये नियत ऐकान्तिकः । तस्मा- दन्यः अनैकान्तिकः ॥ साध्यासाधकः पक्ष एव वर्तमानोऽनध्यवसितः॥ इति । पक्ष एव वर्तमानः केवलव्यतिरेक्यपि भ. वति, नचासौ हेत्वाभास इत्याशङ्कय तयवच्छेदार्थ साध्या- साधक इति पदम् ॥ प्रमाणबाधिते पक्षे वर्तमानो हेतुः कालात्ययाप- दिष्टः॥ इति । कालस्यात्ययोऽतिक्रमः तस्मिन् सत्यपदिष्ट उक्तः कालात्ययापदिष्टः । सन्देहयोग्यपक्षोपन्यासानन्तरं हि सव्याख्ये न्यायसारे हेतूपन्यासस्य कालः । प्रमाणान्तरेण च विपरीतनिश्चये स- न्देहयोग्यता नास्तीत्यर्थः ॥ स्वैपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः॥ प्रकरणयोः पक्षप्रतिपक्षयोः साधने समः प्रकरण- समः । पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षाद् व्यावृत्तिरिति त्रिरूपत्वम् ॥ अथैषामवान्तरभेदं सोदाहरणं प्रपञ्चयितुकामोऽशक्यत्वं तावनिरस्य- ति- यद्यपि चैषां सूक्ष्मो भेदोऽनन्तत्वान्न शक्यते वक्तुं, तथापि स्थूलां दृष्टिमाश्रित्य कियन्तोऽपि) भेदा लक्षणोदाहरणाभ्यां प्रदर्श्यन्ते ॥ इति । शिष्यव्युत्पत्त्यर्थमिति शेषः ॥ आयं हेत्वाभासं प्रपञ्चयति असिद्धभेदास्तावत् । स्वरूपासिद्धो यथा - अनित्यः शब्दश्चाक्षुषत्वात् ॥ इति । स्वरूपेणासिद्धः स्वरूपमसिद्ध वा यस्यासौ स्वरूपासिद्धः । यद्यपि चाक्षुषत्वं स्वरूपेण रूपादावस्ति, तथापि शब्दे धर्मिणि निर्दिष्टं चाक्षुषत्वं स्वरूपेण नास्तीति खरूपासिद्धः। नतु व्यधिकरणासिद्धः ॥ व्यधिकरणासिद्धो यथा- अनित्यः शब्दः प- टस्य कृतकत्वात् ॥ इति । पक्षाद् विलक्षणमधिकरणं यस्यासौ व्यधि. करणः, स चासावसिद्धश्चेति विग्रहः ॥ १. 'स्वपर' ग... पाठः. - ...

अनुमानपरिच्छेदः। विशेष्यासिद्धो यथा अनित्यः शब्दः सामा- न्यवत्वे सति चाक्षुषत्वात् ॥ इति। विशेष्यं चाक्षुषत्वमसिद्धं यत्र हेत्वाभासे सोऽयं विशेष्यासिद्धः ॥ विशेषणासिद्धो यथा आनित्यः शब्दः चाक्षुः षत्वे सति सामान्यवत्वात् ॥ इति । चाक्षुषत्वं तु नित्ये गोत्वादावप्यस्तीति तय वच्छेदार्थमुभयत्रापि सामान्यवत्त्वग्रहणम् ॥ भागासिद्धो यथा अनित्यः शब्दः प्रयत्नान- न्तरीयकत्वात् ॥ इति । यद्यपि वाय्वादिशब्दानामीश्वरप्रयत्नपूर्वकत्व- मस्ति, तथापि स्पृष्टादिप्रयत्नजन्यतीव्रमन्द्रादिभावानुविधा- यित्वलक्षणं प्रयत्नानन्तरीयकत्वमत्र विवक्षितम् । तच्च वा- वादिशब्दे नास्तीति भागासिद्धः ॥ आश्रयासिद्धो यथा अस्ति प्रधानं विश्व- परिणामित्वात् ॥ इति । आश्रयस्य प्रधानस्यासिद्धत्वात् । सिद्धौ चा- नुमानस्य वैयर्यमिति भावः ॥ आश्रयैकदेशासिद्धो यथा-प्रधानपुरुषेश्वराः नित्याः अकृतकत्वात् ॥ इति । पक्षीकृतानां मध्ये प्रधानस्यैकदेशस्यासिद्ध- त्वात् ॥ १. 'पि प्रयवतीव्रत्वादिभावा' ग, पाठः. २. 'दिति' च. पाठः. १ १८ सव्याले न्यायसारे व्यर्थविशेष्यासिद्धो यथा अनित्यः शब्दः कृतकत्वे सति सामान्यवत्त्वात् । व्यर्थविशेषणासिद्धो व्यथा अनित्यः शब्दः सामान्यवखे सति कृतक- त्वात् ॥ इति । व्यर्थः विशेष्यः यस्य स व्यर्थविशेष्यः। व्यर्थ- विशेष्यश्चासावसिद्धश्चेति व्यर्थविशेष्यासिद्धः । एवमितर- त्रापि । प्रागसतः सत्तासम्बन्धः कृतकत्वम् । तच्च प्रध्वंसे नास्तीति न व्यभिचारः। तस्मात् सामान्यवत्त्वं व्यर्थमित्यर्थः। आसिद्धत्वं तु कृतकत्वस्य मीमांसकाभिप्रायेण ॥ सन्दिग्धासिद्धो यथा-धूमबाष्पादिविवेका- निश्चये कश्चिदाह, अग्निमानयं प्रदेशः धूमवत्वात् ॥ इति । बाष्पादीत्यादिशब्देन मशकावर्तस्वीकारः॥ सन्दिग्धविशेष्यासिद्धो यथा-अद्यापि रागादि- युक्तः कपिलः, पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्वज्ञानत्वात्। सन्दिग्धविशेषणासिद्धो यथा- अद्यापि रागादियुक्तः कपिलः, सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वात् ॥ इति । कपिलस्यापि कदाचिद् रागादियोगोऽस्तीति सिद्धसाध्यता स्यात् । अतः तत्परिहाराय प्रतिज्ञायामद्यापीति पदम् । अनुत्पन्नतत्त्वज्ञानत्वादित्युक्ते महायोगिभिर्व्यभि- चारः । तेषां कदाचिदनुत्पन्नतत्त्वज्ञानत्वेऽप्यद्यापि रागादि- योगाभावात् । अतोऽद्यापीति सर्वदेति च हेतुविशेषणं कृतम् । पाषाणादिभिर्व्यभिचारपरिहारार्थ पुरुषत्वे सतीति विशेषणम् ॥

अनुमानपरिच्छेदः । ३९ ननूभयासिद्धान्यतरासिद्धावपि कस्मादसिद्धमेदौ नोदाहृतावित्याश- १ याह , एते सिद्धभेदा यदोभयवाद्यसिद्धत्वेन विवक्षिताः तदोभयवायसिद्धा भवन्ति । यदा त्वन्यतरवायसिद्ध त्वेन विवक्षिताः, तदान्यतरवायसिद्धा भवन्तीति ॥ विरुद्धभेदास्तावत् ॥ प्रदर्श्यन्त इति शेषः ॥ सति सपक्षे चत्वारो विरुद्धभेदाः। पक्षविपक्ष- व्यापको यथा नित्यः शब्दः कार्यत्वात् ॥ इति । उभयान्तोपलक्षितस्य वस्तुनः सत्त्वमनित्यत्वं, न पुनर्विनाशित्वम् । तद्विपरीतं नित्यत्वम् । अतः प्राग- भावप्रध्वंसाभावयोरपि नित्यत्वात् सपक्षत्वम् । स्वकारण- समवायस्तु कार्यत्वम् । तच्च प्रागभावादिषु नास्तीति विरुद्धः। यदि पुनरादिमत्त्वं कार्यत्वमिष्यते, तदा प्रध्वंसेऽपि गतत्वा दनैकान्तिकः स्याद् , न विरुद्ध इति ॥ विपक्षैकदेशवृत्तिः पक्षव्यापको यथा - नित्यः शब्दः सामान्यवत्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् ॥ इति । योगिनां परमाणवोऽपि बाह्येन्द्रियग्राह्याः। ततः सपक्षवृत्तित्वान्न विरुद्धत्वं स्यादित्यस्मादस्मदादिग्रहणम् । तथाप्यस्मदादिबाह्येन्द्रियग्राह्यत्वं सामान्ये नित्येऽप्यस्तीति सामान्यवत्त्वे सतीति पदम् । ग्राह्यत्वं ग्रहणयोग्यत्वं विवक्षि- तम् । तच्च सर्वशब्देऽप्यस्तीति पक्षव्यापकः ॥ १. सिद्धधप्रकारेणापि घ... पाठः. २. 'दम् । . च. पाठ.:

PARAN सव्याख्ये न्यायसारे पक्षविपक्षैकदेशवृत्तिर्यथा-नित्यः शब्दः प्रय- नानन्तरीयकत्वात् ॥ इति । प्रयत्नतारतम्यानुविधायित्वं प्रयत्नानन्तरीय- कत्वम् । तच्च वाय्वादिशब्दे तृणादौ विपक्षे च नास्तीति पक्षविपक्षकदेशवृत्तिः॥ पक्षकदेशवृत्तिः विपक्षव्यापको यथा-नित्या पृथिवी कृतकत्वात् ॥ इति । व्याख्यातप्रायमेतत् ॥ असति सपक्षे चत्वारो विरुद्धभेदाः । पक्षवि- पक्षव्यापको यथा-आकाशविशेषगुणः शब्दः, प्रमेय- त्वात् ॥ इति । आकाशविशेषगुणत्वं साध्यं शब्दव्यतिरेके- णान्यत्र नास्तीति सपक्षाभावः । एवमुत्तरानुमानेष्वपि ॥ पक्षविपक्षकदेशवृत्तिर्यथा-आकाशविशेषगुणः शब्दः, प्रयत्नानन्तरीयकत्वात् ॥ इति । कृतव्याख्यानमेतत् ॥ पक्षव्यापको विपक्षैकदेशवृत्तिर्यथा-आकाश- विशेषगुणः शब्दः अस्मदादिबाह्येन्द्रियग्राह्यत्वात् ॥ इति । ग्रहणयोग्यत्वं सर्वशब्देष्वस्ति । अन्यत्र तु कचित् सुखादौ नास्तीति विपक्षैकदेशवृत्तित्वम् ॥ विपक्षव्यापकः पक्षैकदेशवृत्तिर्यथा-आकाश- विशेषगुणः शब्दः, अपदात्मकत्वात् ॥ १. 'दाः।. पाठः.

अनुमानपरिच्छेदः । ४१ इति । सुप्तिङन्तं पदम् । अपदात्मकत्वं मेदिश- ब्द एवास्तीति पक्षकदेशवृत्तित्वमस्य । चोदयति- ननु चत्वार एव विरुद्धभेदाः, नान्ये । तेषाम. सिद्धलक्षणोपपन्नत्वात् ॥ इति । चत्वार इति । ये पक्षव्यापकास्ते । नान्य इति । ये पक्षैकदेशवृत्तयः ते । कस्मात् । तेषामसिद्धलक्षणो- पपन्नत्वात् । तदुक्तं पक्षधर्मस्य हि त्रयी गतिः हेतुविरुद्धो- नैकान्तिको वेति ॥ परिहरति नैष दोषः । इति ॥ उभयलक्षणोपपन्नत्वेनोभयव्यवहारविषयत्वात् तुलायां प्रमाणप्रमेयव्यवहारवत् ॥ इति । यथा सुवर्णादिद्रव्येयत्तावधारणकरणत्वात् तुला प्रमाणं, तुलान्तरतुलितद्रव्येण प्रमीयमाणं प्रत्यक्षेण वा गृह्यमाणस्वरूपं प्रमेयं च भवति तथेत्यर्थः ॥ अनेकान्तिकभेदास्तु॥ इति । उदाहियन्त इति शेषः ॥ पक्षत्रयव्यापको यथा-अनित्यः शब्दःप्रमेय. त्वात् ॥ इति । स्पष्टमेतत् ॥ १. 'रहेतुत्वा' घ. पाठः.

४ १२ सन्याख्ये न्यायसारे पक्षव्यापकः सपक्षविपक्षैकदेशवृत्तिर्यथा -अ. नित्यः शब्दः प्रत्यक्षत्वात् ॥ इति । अस्मदादिबाह्येन्द्रियग्रहणयोग्यत्वमत्र विवक्षितं प्रत्यक्षत्वम् । तच्च पक्षीकृते शब्दे सर्वत्रास्तीति न पक्षकदेश. वृत्तित्वमस्य । नापि पक्षत्रयव्यापकत्वमिति ॥ पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा-गौ- रयं विषाणित्वात् ॥ इति । विषाणिन एव पिण्डस्य पक्षीकृतत्वात् पक्ष- व्यापकत्वम् । सपक्षे च गोपिण्डे सर्वत्र सद्भावः, सद्योजात- स्यापि वत्सस्य विषाणयोग्यत्वात् ॥ पक्षविपक्षव्यापकः सपढेकदेशवृत्तिर्यथा-नायं गौर्विषाणित्वात् ॥ इति । प्राक्तनानुमानसपक्षविपक्षयोरत्र वैपरीत्यमिति पक्षविपक्षव्यापकत्वमस्य ॥ पक्षत्रयैकदेशवृत्तिर्यथा-अनित्या पृथिवी प्र- त्यक्षत्वात् ॥ इति । अत्राप्ययोगीन्द्रियग्राह्यत्वमेव प्रत्यक्षत्वं विव- क्षितं वेदितव्यम् ॥ पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापको यथा--- व्याणि दिक्कालमनांसि अमूर्तत्वात् ॥ १. 'क्षन्या', २. 'तं स्यात् । प' ग. पाठः. ३. 'तद्रव्यत्वात्' ह.पाठः.

, अनुमानपरिच्छेदः ! इति। पक्षकदेशे मनसि, द्रव्यत्वेन सपने पृथिव्यादौ चामूर्तत्वहेतुर्नास्ति । आत्माकाशयोस्तु सपक्षभूतयोरस्ति । विपक्षे च गुणादौ सर्वत्रास्ति । अल्पपरिमाणरहितत्वं अमू- तत्वम् ॥ पक्षविपक्षकदेशवृत्तिः सपक्षव्यापको धया- न द्रव्याणि दिक्कालमनांसि, अमूर्तत्वात् ॥ इति । अत्रापि प्राक्तनानुमानसपक्षो विपक्षीभूत इति विपक्षैकदेशवृत्तित्वमस्य, अद्रव्यत्वेन च सपक्षे गुणादौ व्यापकत्वममूर्तत्वहेतोः ॥ सपक्षविपक्षव्यापकः पक्षकदेशवृत्तिर्यथा-न द्रव्याण्याकाशकालदिगात्ममनांसि, क्षणिकविशेषगुण- रहितत्वात् ॥ इति । आश्रये सत्याशुतरविनाशित्वं क्षणिकत्वम् । क्षणिकविशेषगुणरहितत्वं च पक्षीकृतेषु दिकालमनस्स्वेव वर्तते नाकाशात्मनोः । अद्रव्यत्वेन सपक्षे गुणादौ विपक्षेषु च पृथिव्यप्तेजोवायुषु सर्वत्रास्ति । यद्यपि तेजोद्रव्यस्य क- स्यचिदग्न्यादेराशुतरविनाशित्वात् तद्विशेषगुणावपि रूप- स्पशौं शीघ्रविनाशिनौ, तथापि सत्याश्रये विनाशाभावान्न क्षणिकत्वमिति विपक्षव्याप्तिः॥ अनध्यवसितभेदास्तु अविद्यमानसपक्षविपक्षः पक्षव्यापको यथा-सर्वमनित्यं सत्वात् ॥ इति । विद्यमानत्वादित्यर्थः ॥

सन्याले न्यायसारे अविद्यमानसपक्षविपक्षः पक्षकदेशवृत्चिर्यथा- सर्वमनित्यं कार्यत्वात् । विद्यमानसपक्षविपक्षः पक्षव्या- पको यथा-अनित्यः शब्दः आकाशविशेषगुणत्वात्। इति । स्पष्टम् ॥ विद्यमानसपक्षविपक्षः पक्षकदेशवृत्तिर्यथा सर्व द्रव्यमनित्यं क्रियायत्त्वात् ॥ इति । पक्षीकृतेष्वाकाशादिषु क्रियावत्त्वस्याभावात् पक्षकदेशवृत्तित्वमस्य । पक्षीकृताच्च द्रव्यादन्यत्राभावाद- साधारणत्वमिति ॥ अविद्यमानविपक्षो विद्यमानसपक्षः पक्षव्यापको यथा-सर्व कार्य नित्यम् उत्पत्तिधर्मकत्वात् ॥ इति । सर्वस्य कार्यस्य पक्षीकरणेन नित्यत्वसाधने सपक्षा आकाशादयः सन्ति, न तु विपक्षाः । अनित्यस्य सर्वस्य पक्षीकृतत्वात् ॥ अविद्यमानविपक्षो विद्यमानसपक्षः पक्षकदेश- वृत्तिर्यथा-सर्व कार्य नित्यं सावयवत्वात् ॥ इति । अत्रापि पूर्ववत् प्रागभावप्रध्वंसाभावयोः स- पक्षत्वं, न पुनर्विपक्षत्वमिति । अविद्यमानसपक्षो विद्यमान- विपक्षः पक्षव्यापकस्तु केवलव्यतिरेकी नासाधारणः, न्या. प्तिमत्त्वात् । अव्याप्तस्तु भवत्यसाधारणः । यथा सर्व कार्य प्रधानान्वितं, कार्यत्वादिति । नहि प्रधानान्वितत्वा- भावे किश्चिद् बाधकमस्तीत्यव्याप्तिः । अत्रैव साध्ये रूपित्वा- दिति भागासिद्धोऽपीति ।। - अनुमानपरिया। ७५ 'कालात्ययापदिष्टमेदास्तु प्रत्यक्षविरुद्धो यथा- अनुष्योऽयमभिः कृतकत्वात् ॥ इति । सर्वथैवागृहीतस्य निषेदुमशक्यत्वादुष्णत्व- प्रहणमङ्गीकार्यम् । ग्रहणं च प्रत्यक्षेणाग्न्यादावेव, इति प्रत्व- क्षबलीयस्त्वम् ॥ अनुमानविरुद्धो यथा- अनित्याः परमाणवः मूर्तत्वात् ॥ इति । यद्यप्यनुमानमात्रेणानुमानस्य बाधो न स- म्भवति, तथापि बलवता दुर्बलं बाध्यते प्रत्यक्षेणेव । नहि प्रत्यक्षं प्रत्यक्षमित्येवानुमानस्य बाधकम् । तथात्वे हि अलात. चक्रप्रत्यक्षमपि बाधकं स्यात् । तत्र हि विवादपदमलातचक्र न भवति, विशिष्टालातत्वाद् अभ्रमणावस्थालातवदित्यनु. मानमेव बाधकम् । प्रत्यक्षं तु आशुभ्रमणवशाद् भ्रान्तम् । एवमिहापि परमाणुसाधकस्यानुमानस्याप्रामाण्ये धर्मिण ए- वाभावाद् मूर्तत्वानुमानमाश्रयासिहं स्यात् । प्रामाण्ये वा तस्य पारम्पर्येण नित्यत्वसाधकत्वात् तेन बाधितमिति । तथाहि-अल्पपरिमाणतरतमभावः कचिद् विश्रान्तः, परि- माणतरतमभावत्वात् । महत्परिमाणतरतमभाववदिति निर- तिशयाल्पपरिमाणवद्वस्तुसिद्धौ तस्योपादानकारणाभावादनु- १. 'मधनजन्यत्वाद् नवनीतवत् ॥' ख. पाठः. २. 'तविषयमि' ग.घ.उ.च. पाठः. "अविद्यमानसपक्षो विद्यमानविपक्षः पक्षकदेशतिर्यया-जा. काशविशेषगुणः शब्दः, अपदात्मकत्वात्।" एवं ख.मूले अधिकपाठो दृश्यते।

१६ सव्याख्ये न्यायसारे त्पत्तिः । कार्यद्रव्यापेक्षयाल्पपरिमाणानि खलूपादानानि । यथा पटस्य तन्तवः । न च परमाणुभ्योऽल्पपरिमाणं कि- ञ्चिदस्ति । अतः कारणशून्यवस्तुत्वेन नित्यत्वे सिद्ध धर्मि- ग्राहकप्रमाणबाधितमिति ॥ आगमविरुद्धो यथा- ब्राह्मणेन सुरा पेया, द्र- वद्रव्यत्वात् क्षीरवत् ॥ इति । "गौळी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैको न पातव्या तथा सर्वा द्विजोत्तमैः॥ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेत् ॥" इत्यादिरागमः । न चागमस्यैवानुमानेन बाध इति वाच्यम् । पेयत्वं हि सुरायाः पीतायाः पापाहेतुत्वं साध्यम् । अन्यथा सिडसौधनताप्रसङ्गः, खाद्यत्वाभावाद् , आगमनापेयत्वापा- दनात् । ततश्च साध्यं दृष्टान्ते क्षीरादावागमैकसमधिगम्य- मस्मदादेः । तदप्रामाण्ये च दृष्टान्तस्यासिद्धावनुमानस्या- नुत्थानप्रसङ्गः । तस्मादागमस्यैवानुमानाद् बलवत्त्वमिति ॥ प्रत्यक्षैकदेशविरुद्धो यथा- सर्व तेजोऽनुष्णं रूपित्वात् ॥ इति । सर्वस्य तेजसोऽनुष्णत्वसाधने परमाणुषु ज्यो- लायां चास्मदादीनां प्रत्यक्षविरोधो न सम्भवतीति प्रत्यक्षेणै- कदेशविरुद्धः प्रत्यक्षैकदेशविरुद्ध इत्यर्थः ।। १. 'का तथैवान्या न पातव्या द्वि' ग. पाठः. २. 'साध्यताप घ..पाठः.

. अनुमानपरिच्छदः। अनुमानेकदेशविरुद्धो यथा-नित्याश्रयाः द्रव- स्वरूपरसगन्धस्पर्शा नित्याः, अप्रदेशवृत्तिसमानजा- त्यारम्भकत्वे सति परमाणुवृत्तित्वात् तद्गतैकत्ववत् ॥ इति । परमाणुवृत्तित्वादित्युक्ते संयोगेन व्यभिचारः। तभिवृत्त्यर्थमप्रदेशवृत्तित्वग्रहणम् । तथापि द्वित्वादिना व्य- भिचारः, तत्परिहाराय समानजात्यारम्भकत्वे सतीति विशे- षणम् । तथापि यणुकेन व्यभिचारः, तन्निवृत्त्यर्थ गुणत्वे सतीति विशेषणमूह्यम् । अत्र च नैमित्तिकद्रवत्वपार्थिवपर- माणुरूपादिष्वेव नित्यत्वमनुमानेन विरुध्यते, न सांसिद्धिक- द्रवत्वादिपरमाणुरूपादिष्विति । तथाहि-पार्थिवपरमाणुरू- परसगन्धस्पर्शा अमिसंयोगजाः, पार्थिवविशेषगुणत्वाद् घट- रूपादिवत् । पार्थिवतैजसपरमाणुद्रवत्वं पाकजं, पार्थिवतैज- सद्रवत्वात् सर्पिःसुवर्णादिद्रवत्ववत् ॥ आगमैकदेशविरुद्धो यथा-सर्वेषां देवर्षीणा शरीराणि पार्थिवानि शरीरत्वादस्मदादिशरीरवादिति॥ केषाश्चिद् देवानामृषीणां च शरीराण्याप्यतैजसवा- यवीयानि श्रूयन्ते । तस्मादागेमैकदेशविरुद्धोऽयं हेतुः ॥ प्रकरणसमस्योदाहरणं यथा-अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् सपक्षवदिति ॥ एक एवार्य हेतुरनित्यत्व इव नित्यत्वेऽपि साध्ये समः, नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् सपक्षव- दिति ॥ १. 'गमेनैक' ग. पाठ..

। सव्यास्ये न्यायसारे एकत्र तुल्यलक्षणविरुद्धहेतुद्वयोपनिपातो विरु- डाव्यभिचारीत्येके॥ इति । वयमित्यर्थः। अन्ये तु प्रकरणसमोऽयमित्याहुः। भिन्नविषययोर्हेत्वोः सन्निपातो विरुद्धाव्यभिचारी मा भूदि- त्येकत्रेति पदम् । तथाप्यनित्यः शब्दः कार्यत्वाद् घटवत्, कर्मव्यतिरिक्तगुणः शब्दः सामान्यवत्त्वे सति सामान्यवता- मनाधारत्वाद् रूपादिवदित्यनयोविरुडाव्यभिचारित्वं स्यात्, तनिषेधाय विरुद्धग्रहणम् । एवमपि नित्यः शब्दः प्रमेय- त्वात् , अनित्यः शब्दः कार्यत्वादित्यनयोस्तथात्वं स्यादिति तुल्यलक्षणग्रहणम् । प्रकृते प्रमेयत्वस्यानैकान्तिकत्वान्न तु- ल्यलक्षणत्वम् । त्रिरूपत्वलक्षणतुल्यलक्षणत्वाभावात् ॥ उदाहरति- यथा-नित्यमाकाशममूर्तद्रव्यत्वादात्मवत् । अनित्यमाकाशमस्मदादिबाह्येन्द्रियग्राह्यगुणाधारत्वाद् घटवदिति ॥ न वस्तुनो द्वैरुप्यासम्भवादवश्यमन्यतरानुमानं दुष्टमेव । ततश्चा- सियादिदूषणदुष्टत्वात् तेष्वेवान्तर्भावो हि भविष्यति । किं हेत्वाभासान्तरा- भ्युपगमनेन इत्याशडयाह स खल्लु पुरुषविशेषमपेक्षमाणो हेत्वाभासो * वति । अन्यतरासिद्धवदिति ।। १. के भिन्न' ग. रु., 'के आधास्तु प्र' प. पाठः. २. 'त् । गुं' च. पाठः. ३. 'हि' ष. पाठः.

४९ अनुमानपरिच्छेदः । यथा परं प्रत्यसिद्ध हेतुं न समर्थयितुं यः शक्तः, तदपेक्षयान्यतरासिद्धो हेत्वाभासो भवति । यथा वा दूषणा- न्तरोद्भावनासमर्थस्य प्रकरणसमः, तथा दूषणान्तरोद्भावनायां विकलशक्तेविरुद्धाव्यभिचारीति । यदा त्वन्यतरानुमानस्य धर्मिग्राहकप्रमाणबाधमुद्भावयति, तदा कालात्ययापदिष्टदोष- दुष्टं भवत्येकम् । अन्यत्तु प्रमाणम् । अत्र पुनरनित्यत्वानु- मानमेव धर्मिग्राहकप्रमाणबाधितम् । तथाहि व्यापकमेकमे- वाकाशमिति प्रत्यक्षपरिच्छेदे समर्थितम् । अतः समानजाती- योपादानकारणाभावादाकाशमनुत्पत्तिधर्मकं सिद्धमिति कथं तदनित्यं भविष्यतीति ॥ हेतुप्रसङ्गेन हेत्वाभासानभिधायोदाहरणाख्यमवयवमाह सम्यग् दृष्टान्ताभिधानमुदाहरणम् ॥ इति । सम्यगित्यभिधानविशेषणं भिन्नं पदम् । त- चाव्याप्त्यभिधानादेनिरासार्थम् ॥ उदाहरणस्य भेदमाह तद् द्विविधं साधर्म्यवैधर्म्यभेदात् ॥ इति । साधर्म्यवैधयें एव भेदः साधर्म्यवैधर्म्यभेदः, तस्मात् ॥ द्विविधस्यापि तस्य लक्षणोदाहरणे दर्शयति --- अन्वयमुखेन दृष्टान्ताभिधानं साधर्योदाहरणम् । यथा- अनित्यः शब्दः तीवादिधर्मोपेतत्वात् । यद्यत् तीवादिधर्मोपेतं तदनित्यं दृष्टं, यथा सुखादि । व्यति- रेकमुखेन दृष्टान्ताभिधानं वैधम्र्योदाहरणम् । यथा- - ५० सव्याख्ये न्यायसारे यदनित्यं न भवति तत् तीव्रादिधर्मोपेतमपि न भवति, यथाकाशमिति ॥ दृष्टग्रहणं व्याप्तेः प्रमाणोपपन्नत्वं सूचयितुं, न पुन- रवश्यमुदाहरणे वाच्यमिति नियमयितुम् । शेषं सुगमम् ।। उदाहरणलक्षणाभिधानात् तदाभासा निरस्ता भवन्तीत्यभिप्रायेण त- लक्षणमवान्तरमेदं च सोदाहरणमाह उदाहरणलक्षणरहिता उदाहरणवदवभासमाना उदाहरणाभासाः । ते चानेकप्रकाराः। तथाहि । अ- नित्यं मनो मूर्तत्वादित्यस्मिन् प्रयोगे सर्वे उदाहरणा- भासा उच्यन्ते ॥ इति । विस्तरभीत्येति शेषः ॥ यन्मूर्त तदनित्यं दृष्टं, यथा परमाणुरिति सा- ध्यविकलः॥ साध्यस्यानित्यत्वस्य परमाणावभावात् ॥ यथा कर्मेति साधनविकलः ॥ इति । साधनस्य मूर्तत्वस्य कर्मण्यभावात् ॥ यथाकाशमित्युभयविकलः॥ इति । उभाभ्यां साध्यसाधनाभ्यां विकलः । दृष्टा. न्ताभास इति सर्वत्र सम्बन्धः ।। यथा खैरविषाणमित्याश्रयहीनः ॥ इति । स्पष्टम् ॥ घटवदित्यव्याप्त्यभिधानम् ॥ १. 'स्पष्टम् ॥' ग. घ. इ. पाठः. २. 'शवि' घ. पाठः.

अनुमानपरिच्छेदः । ५१ इति । न व्याप्त्यभिधानमव्याप्त्यभिधानम् । य- न्मूर्त तदनित्यं दृष्टं, यथा घट इति वचनमन्तरेण व्याप्तेरप्र- तीतेः॥ यदनित्यं तन्मूर्त दृष्टमिति विपरीतव्याप्त्यभि- धानम् ॥ इति । यत्र साधनजातीयमस्ति तत्र साध्यजातीयम. वश्यमस्तीति वक्तव्यम् । अन्यथाभिधानं तु विपरीतव्याप्त्य- भिधानम् ॥ एतौ वचनदोषो। इति । अव्याप्त्यभिधानविपरीतव्याप्त्यभिधानरूपौ वचनदोषौ । आद्याश्चत्वारोऽर्थदोषा इति भावः ॥ यदनित्यं न भवति, तन्मूर्तमपि न भवति, यथा परमाणुरिति साधनाव्यावृत्तः ॥ इति । साधनं मूर्तत्वमव्यावृत्तं यस्मौदसौ साधना- व्यावृत्तः । साधनमव्यावृत्तं यत्र इति वा साधनाव्यावृत्तः। उदाहरणाभास इति सर्वत्र सम्बन्धात सर्वत्र पुल्लिङ्गनिर्देशः ॥ यथा कर्मेति साध्याव्यावृत्तः । यथा घट इत्यु- भयाव्यावृत्तः । यथा खैपुष्पमित्याश्रयहीनः ॥ इति । व्यक्तमेतत् ॥ आकाशवदित्यव्याप्स्यभिधानम् ॥ इति । यदनित्यं न भवति तन्मूर्तमपि न भवतीत्य. भिधानमन्तरेण व्याप्तेरप्रतीतेः।। १. 'स्माद दृष्टान्ताद' घ... पाठः. २. 'खरविषाणमि' ग. पाठ:.

५२ सव्याख्ये न्यावसारे यदमृत तदनित्यमपि न भवति, यथाकाश- मिति विपरीतव्याप्त्यभिधानम् ॥ इति । यत्र साध्यं नास्ति तत्र साधनमपि न भव- तीति खलु व्यतिरेको वक्तव्यः । अन्यथाभिधानं साधनात् साध्यसिद्धावङ्गं न भवतीति दोष एव ॥ एतौ वचनदोषौ ॥ इति । अव्याप्त्यभिधानविपरीतव्याप्त्यभिधानल- क्षणौ ॥ अत्राद्याः षट् साधम्योदाहरणाभासाः । इतरे षड् वैधम्र्योदाहरणाभासाः॥ इति । व्यक्तम् ॥ अन्ये तु सन्देहद्वारेणापरानष्टावुदाहरणाभासान् वर्णयन्ति ॥ इति । सन्देहो द्वारमुपायः तेन ॥ सन्दिग्धसाध्यो यथा-महाराज्यं करिष्यत्ययं, सोमवंशोहतत्वाद् विवक्षितराजपुत्रवत् ॥ इति । सोमवंशोद्भूतत्वेन निश्चित एव राज्यमकुर्वाणो दृष्टान्तीकृतः । न चासौ राज्यं करिष्यतीति निश्चयः । अतः सन्दिग्धसाध्य एव दृष्टान्तः ।। सन्दिग्धसाधनो यथा-नायं सर्वज्ञो रागादि- मत्त्वाद्, रथ्यापुरुषवत् ॥ १. योऽस्ति । अ' उ. पाठः.

इति । अत्रापि येनकेनचित् प्रकारेण निश्चितोऽसर्व- ज्ञतया रागादिमत्त्वेनानिश्चितो दृष्टान्तीकृतः॥ सन्दिग्धोभयो यथा गमिष्यत्ययं स्वर्ग विव- क्षितः पुरुषः, समुपार्जितशुक्लधर्मत्वाद् देवदत्तवत् ॥ इति । अत्र सन्दिग्धमुभयं स्वर्गगमनं समुपार्जित- शुक्लधर्मत्वं च यस्यासौ सन्दिग्धोभयः पुरुषो दृष्टान्तीकृतः ।। सन्दिग्धाश्रयो यथा - नायं सर्वज्ञो बहुवक्तृ- स्वाद , भविष्यदेवदत्तपुत्रवत् ॥ इति । भविष्यदेवदत्तपुत्रे प्रमाणाभावात् सन्दिग्धा- श्रय उदाहरणाभासः॥ सन्दिग्धसाध्याव्यावृत्तो यथा-यो महाराज्यं न करिष्यति स सोमवंशोतोऽपि न भवति, यथान्यो राजपुत्रः॥ इति । साध्यमव्यावृत्तं यस्मादसौ साध्याव्यावृत्तः। सन्दिग्धश्चासौ साध्याव्यावृत्तश्चेति सन्दिग्धसाध्याव्यावृत्तः । सोमवंशादन्यत्रोद्भूतस्यापि महाराज्याकरणे प्रमाणाभावात् ॥ सन्दिग्धसाधनाव्यावृत्तो यथा-यस्तु सर्वशः स रागादिरहितः, यथा समस्तशास्त्राभिज्ञः ॥ इति । समस्तशास्त्राभिज्ञस्यापि रागादिरहितत्वे प्रमा- णाभावात् सन्दिग्धसाधनाव्यावृत्त इत्यर्थः ॥ सन्दिग्धोभयाव्यावृत्तो यथा-यः स्वर्ग न गमिष्यति स समुपार्जितशुक्लधोऽपि न भवति, यथा दुःस्थः पुरुषः॥

- ५४ सव्याख्ये न्यायसारे इति । दुःस्थस्यापि पुरुषस्य स्वर्गागमने शुक्लधर्मा- भावे च प्रमाणाभावादिति भावः ॥ सन्दिग्धाश्रयो यथा यः सर्वज्ञः स बहुव- तापि न भवति, यथा भविष्यदेवदत्तपुत्रः ॥ इति । स्पष्टमेतत् ॥ चतुर्थावयवस्य लक्षणमाह दृष्टान्ते प्रसिद्धाविनाभावस्य साधनस्य दृष्टान्तो- पमानन पक्षे व्याप्तिरव्यापकं वचनमुपनयः ॥ इति । साधनस्य पक्षे व्याप्तिरव्यापकं वचनमुपनय इत्युक्ते हेतुरूपवचनस्याप्युपनयत्वप्रसङ्ग इति तन्निवृत्त्यर्थ दृष्टान्तोपमानेनेति पदम् । तच्चोपलक्षणम् । तेन दृष्टान्तो- पमानेन वा दृष्टान्तवैधम्र्येण वा सहेत्यर्थः । शेषं स्वरूपक- थनार्थम् । स द्विविध इत्यध्याहार्यम् ।। साधर्म्यवैधयें दर्शयति तथाच तीवादिधर्मोपेतः शब्द इति साधम्र्यो- पनयः । न च तथा तीवादिधर्मोपेतः शब्दोऽपि न भव- तीति वैधम्र्योपनयः॥ इति । यद्यपि "द्वौ नौ प्रकृतमर्थ गमयत" इति न्यायेनार्थभेदो नास्ति, तथाऽप्युक्तिभेदादुपनयभेदः । उक्ति- भेदोऽप्युदाहरणभेदादिति ॥ उपनयानन्तरम् ॥ निगमनं व्याख्यायत इति शेषः ।। १. 'द्वैविध्यं द' च. पाठः. २. 'ब्दो न', पाठः. - अनुमानपरिच्छेदः । तदाह सहेतुकं प्रतिज्ञावद् वचनं निगमनम् । तस्मा- दनित्य एवेति ॥ सहेतुकमिति । तस्मादिति । अनूद्यमानहेतुकमित्यर्थः । प्रतिज्ञावदिति तत्समानं, न तु प्रतिजैव । परेणानिश्चितस्य सिसाधयिषितस्याभिधानं हि प्रतिज्ञा। निगमनं तु प्रतिज्ञा- तार्थसाधकहेत्वभिधानेन निश्चितस्यार्थस्याभिधानमिति ॥ एवं तर्हि व्याप्तलिङ्गाभिधानादेव साध्यसिद्धेयर्थ निगमनमित्याश- याह- न चेदमनर्थक, साध्यविरुद्धाभावप्रतिपादकप्र- माणसूचकत्वादस्य ॥ इति । साध्यमनित्यत्वादि । तस्य विरुद्ध नित्य- त्वादि । तस्याभावः अनुपपन्नत्वम् । तस्य प्रतिपादकं यत् प्रमाणं, तस्य सूचकत्वात् । तस्मादनित्य इत्युक्ते 'सिद्धे सत्या- रम्भो नियमाय' इति न्यायान्नित्यो न भवति, तत्र प्रमाणा- भावाद् बाधकसद्भावाच्चेति प्रतीतेः ॥ तदपि किमर्थमित्याशझ्याह - न च तदन्तरेण साध्यावधारणमुपपद्यते ॥ इति । तदन्तरेण विपक्षे बाधकप्रमाणमन्तरेण । सा- ध्यावधारणं निश्चयो नोपपद्यते ॥ अस्मिन्नर्थे सूत्रसंवादमाह - तथाचोकं "विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधा- रणं निर्णयः” (न्यायसू०१-१-४१) इति ॥ १. 'वात् तस्मादनित्यः ॥' ग. पाठः.

सव्याख्ये न्यायसारे इति। विमृश्य संशयं कृत्वा । निर्णयः पुरुषेण कि- यते। काभ्याम् ।पक्षप्रतिपक्षाभ्याम् । पक्षविषयं साधनं, विप- क्षविषयं दूषणं चोपचारात् पक्षप्रतिपक्षशब्देनोच्यते ॥ किञ्च निगमनमसाधनाजमिति ब्रुवतो बौद्धस्य स्वप्रवृत्तिविरोध इत्या- hos निगमनाभिधानमसाधनाङ्गमभ्युपगम्य बाधकं प्रमाणमभ्युपगच्छतो निग्रहस्थानं प्रसज्यते, निगम- नार्थत्वाद् बाधकस्य ॥ इति । निगमनप्रयोजनवादित्यर्थः । क्षणिकत्वादी सत्वादिसाधनमभिधाय पश्चादसन्तोऽक्षणिकास्तस्य क्रमाक्र- मविरोध इत्यादिना बाधकं प्रमाणं अवतो बौद्धस्य स्वप्रवृ. त्तिविरोधो निग्रहस्थानं स्यादित्यर्थः ॥ ननु सत्यपि तत्र निगमनवचने विप्रतिपद्यमानस्य परितोषामावाद् बा- धकमेवाभिधीयतां, किमनेनत्याशझ्याह - निगमनार्थविप्रतिपत्तौ हि बाधकप्रमाणोपन्यासो युक्तः, हेत्वर्थविप्रतिपत्तौ तत्साधकप्रमाणोपन्यासव- दिति ॥ इदानीं पञ्चावयवानुमानस्तुतिद्वारेण कथालक्षणं प्रसञ्जयति सोऽयं परमो न्यायः विप्रतिपन्नपुरुषेप्रतिपादक- त्वात् कथाप्रवृत्तिहेतुत्वाञ्च ॥ इति । सोऽयं पञ्चावयवरूपो न्यायः। परमः उत्कृष्टः । १. 'पं प्रति प्र' ख. पाठः.

- अनुमानपरिच्छेदः। का पुवरियं कथा इत्याशझ्याह- वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा । इति। साधनदूषणरहितं पक्षप्रतिपक्षपरिग्रहमात्रं कथा मा भूदिति वादिप्रतिवादिग्रहणम् । यथायोग्यं साधनदूषण- वादिनोरित्यर्थः॥ भेदमाह साद्विविधा। वीतरागकथा विजिगीषुकथा चेति॥ तयोर्लक्षणमाह - यत्र वीतरागो वीतरागेणेव सह तत्त्वनिर्णयार्थ साधनोपालम्भौ करोति, सा वीतरागकथा वादसंज्ञ- यैवोच्यते ॥ इति । यथा विजिगीषुकथायां वाद इति सामान्य- संज्ञा जल्प इति वितण्डेति च विशेषसंज्ञा च दृष्टा, तथात्र न विशेषसंज्ञान्तरमस्तीत्यर्थः । वादसंज्ञा च सकलकथा- साधारणीति लोकव्यवहारेण विज्ञायते । तथाच जल्पेऽपि क्रियमाणे वादं कुरुत इति व्यवहरन्ति । वीतरागकथा वादसंज्ञयैवोच्यत इत्यत्र सूत्रकारवचनं दर्शयति- तथाचोकं "प्रमाणतर्कसाधनोपालम्भः सिद्धान्ता- विरुद्धः पञ्चाक्यवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" (१.२.१)॥ इति । साध्यतेऽनेन पक्ष इति साधनम् । उपालभ्यते दूष्यते प्रतिपक्षसाधनं येन स उपालम्भः। प्रमाणैस्तर्केण वा विषवीकृतसामथ्यौं साधनोपालम्भौ यत्र स प्रमाणतर्कसाध- नोपालम्भः। पक्षप्रतिपक्षपरिग्रहत्वं तु कथात्रयेऽप्परतीत्यति- सव्याख्ये न्यायसारे व्याप्तिा भूदिति प्रमाणेत्यादिपदम् । तत्र साधनोपालम्भग्रह- णेन वितण्डातो व्यवच्छेदः । नहि वितण्डायामुभाभ्यामपि साधनमुपालम्भश्चोच्यते । जल्पाद् व्यवच्छेदस्तु प्रमाणतर्क- ग्रहणेन । कथमनेन साधनेन स्वपक्षः साधयितुं शक्यः, अ- नेन चोपालम्भेन प्रतिपक्षसाधनं दूषयितुं शक्यमिति प्रमाणेन निश्चितसामर्थ्यो तर्कविषयीकृतसामथ्र्यो वा साधनोपालम्भौ वादे कोयौं नान्यथेति शुद्धाभिसन्धित्वं पुरुषयोनियम्यते । न चैवं जल्पे । तेत्र ह्येकान्तपराजयावस्थायां छलादिप्रयोग- स्यापि सूत्रितत्वात् । तथाच वक्ष्यति-सिद्धान्ताविरुद्ध इत्यादिपदं तु शिष्यशिक्षार्थम् । सिद्धान्ताविरुद्ध एव वादः कार्यः । न पुनः शुष्कतार्किकवदीश्वरस्य शरीराभ्युपगमेन । तथा स्वपक्षसाधनं प्रतिपक्षसाधनदूषणं साधनसमर्थनं दूषण- समर्थनं शब्ददोषवर्जनमित्येतैः पञ्चभिरवयवैरुपपन्नो वादः कार्यः, येनाभिमतसिद्धिः स्यात् । शब्ददोषास्तु निरर्थका- पार्थक्रातिद्रुतोच्चारणाप्रसिद्धपदप्रयोगादयः । वादोऽपि द्वि- विधः सप्रतिपक्षोऽप्रतिपक्षश्च ॥ तत्रापि सूत्रं दर्शयति- *"तं प्रतिपक्षहीनमपि वा कुर्यात् प्रयोजनार्थ- मर्थित्वे सति ॥" इति । तं वादम् । प्रतिपक्षविषयं साधनं प्रतिपक्षः, १. 'वक्तव्यौ ना', २. 'तस्यैका' ग. पाठः. * 'प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे' (न्यायसू० अध्या०१. आ० २. सू०४९) इति मुद्रितपुस्तके । - ५९ - अनुमानपरिच्छेदः । उपचारात् । तेन हीनमपि वा कुर्यात् । प्रयोजनार्थ तत्त्व- ज्ञानार्थम् । आर्थित्वे सतीति । अस्य सूत्रस्य तात्पर्यार्थमाह यथा शिष्यो गुरुणा सह प्रश्नद्वारेणैवेत्यर्थः ॥ इति । वादं करोति, न पुनः प्रतिपक्षसाधनाभिधान- द्वारेणेति शेषः॥ विजिगीषुकथाया लक्षणमाह यत्र तु विजिगीषुः विजिगीषुणा सह लाभपूजा. ख्यातिकामो जयपराजयार्थ प्रवर्तते, वीतरागो वा परानुग्रहार्थ ज्ञानाकुरसंरक्षणार्थं च प्रवर्तते, सा चतु- रङ्गा । वादिप्रतिवादिसभापतिप्राश्निकाङ्गा विजिगीषु- कथा जल्पवितण्डासंज्ञोक्ता ॥ इति । लोभः सुवर्णादिप्राप्तिः । पूजा वचनेन स- कारः । ख्यातिः कीर्तिलेोके । जयपराजयार्थमिति । स्वस्य जयार्थ परस्य पराजयार्थम् । परानुग्रहार्थमिति । परेषां शिष्या- दीनां वेदप्रामाण्यमोक्षादौ निश्चयोत्पादनद्वारेण मोक्षशास्त्रा- चार्यादौ श्रद्धोत्पादनबारेण चानुग्रहः, तदर्थम् । ज्ञानाकु- रस्य आत्मस्थस्य च शिष्यस्थस्य च । संरक्षणार्थ बौद्धादि. मृगेभ्यः । सा जल्पसंज्ञा वितण्डासंज्ञा चोक्तेत्यर्थः॥ भत्र सूत्रकारसंवादमाह तथाचाह "तत्त्वाध्यवसायसंरक्षणार्थ जल्पवि. तण्डे बीजप्ररोहसंरक्षणार्थ कण्टकशाखावरणवत्” (१. २. ५०)॥ , -- १. 'जय' ग. प. च. पाठः.

६० सव्याख्ये न्यायसारे इति ॥ उभयरूपाया विजिगीषुकथाया लक्षणं सौत्रमेवेत्याह - "यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपा- लम्भो जल्लः” (१. २. २)॥ इति । यथोक्ते वादलक्षणे यदुपपन्नं योग्यं तद् यथो- तोपपन्नम् । तेनोपपन्नः सम्पन्नः यथोतोपपनोपपन्न इति एकस्योपपन्नशब्दस्य लोपो द्रष्टव्यः। सूत्रत्वात् । उपपन्नश्च साधनोपालम्भवान् पक्षप्रतिपक्षपरिग्रहः पश्चाक्यकोपपन्न इति यावत् । प्रमाणतर्कग्रहणं त्वनुपपन्नं, शुद्धाभिसन्धिनैव जल्पः कार्य इति नियमाभावात् । सिद्धिः साधनम् । उपा- लम्भनमुपालम्भः । छलजातिनिग्रहस्थानः साधनोपालम्भौ यत्र स तथोक्तः । यद्यपि छलादीनामसदुत्तरत्मात् परमार्थ- तस्तैः स्वपक्षसाधनं परपक्षोपालम्भश्व कतुं न शक्यते, त- थापि भ्रान्तानां साधनोपालम्भबुद्धिजननाव साधनोपाल- म्भहेतुबमुक्तभिति । अथवा, प्रमाणैरेव साधने उपालम्भे च क्रियमाणे तद्विघातायं परैः प्रयुक्तानां छलादीनामनुवा- वने प्रमाणेषु दूषितत्वबुद्ध्या साधनमुपालम्भव न स्यात् । तदुहावने तु छलादीन्येवासदूषणत्वेन प्रत तानि साधनो- पालम्भहेतूनां प्रमाणानामङ्गभावं भजन्त इति पारम्पर्येण छलादीनां तहेतुत्वम् ॥ "स प्रतिपक्षस्थापनाहीनो वितण्डा" (१.२.)। १. 'ह इति यावत् ।' ग. च. पाठः. २. 'थैव पक. पाठ..

६१ इति । स वादो जल्पश्च । प्रतिपक्षः स्थाप्यते या सा प्रतिपक्षस्थापना । तया हीनो वितण्डति, न पुनः प्रति- पक्ष एवं नास्तीत्यर्थः । एक्श्च वीतरागवितण्डा विजिगीषुकि तण्डेति द्विविधा वितण्डा । एतच "तं प्रतिपक्षहीनमपि वा कुर्यात्" इत्यादिसूत्रेणापि सूचितम् ॥ अज्ञातस्वरूपाणां छलादीनां न साधनोपालम्भहेतुत्वं नापि स्ववाक्ये परिवर्जनं परवाक्ये द्रावनं वा कर्तुं शव पमिति तेषां लक्षणमाह - "वचनविघातोऽर्थविकल्पोपपत्या छलम्” (१.२.१०)। इति । अर्थस्य विरुद्धत्वेन कल्पनमविकल्पः, तस्यो- पपत्तिः सम्भवः, तया वचनस्य विघातो दूषणं यत् तच्छ- लम् । उदाहरणं तु विशेषलक्षणे भविष्याते ॥ विभागमाह "तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छल चेति' (१. २. ११)॥ त्रैविध्यं लक्षणत्रैविध्यात् ॥ ।। - अतस्तदाह "अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरक- ल्पना वाक्छलम्" (१. २. १२)॥ इति । अनेकार्थाभिधायि पदं वाक्यं चात्राविशेषः। तस्यार्थाभिधानाय प्रयोग एवं उपचारादविशेषाभिहितेऽर्थ इत्युक्तः । नार्थपरिज्ञाने छलस्य प्रसङ्गः । नवसङ्ग्यादिस्तु न 'षु दोषोसा घ. च. पठः, २. '' क. पाठः.

सव्याख्ये न्यायसारे वक्तुरभिप्रेत इत्युपचारोंऽत्राश्रितः । तस्मिन् सति वक्तुरभि- प्रायावन्तरकल्पना यत्र वचनविवाते निमित्तं, तद् वाक्- छलं, वानिमित्तत्वात् । यद्यपि सर्वमपि छलं वानिमित्र, तथाप्यन्यत्र सामान्योपचारयोः प्रधानत्वात् तान्यां व्यप- देशः ॥ उदाहरणमाह - नवकम्बलोऽयं माणवकः इत्युक्त छलवायाह कुतोऽस्य नव कम्बला इति ॥ नूतनकम्बलत्वं वक्तुर्विवक्षितम् । प्रतिवादी तु नव- सङ्ग्याककम्बलत्वं विवक्षितमित्यध्यारोप्यासम्भवेन दूषयति॥ तरय परिहारमाह- तस्याप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यं, नवः कम्बलोऽस्येति वक्तुरभिप्रायापरिज्ञानात् ॥ इति ॥ अथवाभिप्राय जानाति, तत्राह उत्तरापरिज्ञानाद्वा॥ इति । अप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यमित्यनु- वर्तते । सत्यम् । सिई साध्यते इत्याधुत्तरापरिज्ञानात् ॥ दूषणान्तरमाह विप्रतिपत्तिर्वा विपरीतपरिज्ञानादिति ॥ इति । विपरीतस्य वक्तुरभिप्रायादन्यार्थस्य नवसं- ख्याभिसन्धित्वस्य परिज्ञानात् ॥ १. 'सिद्धसाध्यतेत्युत्त' ख. पाठः. -- अनुमानपरिच्छेदः । ३३ "सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थ- कल्पना सामान्यच्छलम” (१. २. १३) । इति । यस्य ब्राह्मणादेश्चतुर्वेदाभिज्ञत्वलक्षणो धर्मः प्रायेण सम्भवति , स सम्भवच्छब्देनोक्तः । तस्यातिव्यापि सामान्यमतिसामान्यम् । तेन योगादसम्भूतार्थकल्पना यत्र वचनविघाते निमित्तं, तत् सामान्यनिमित्तत्वात् सामान्य- च्छलम् ॥ अत्रोदाहरणमाह अहोनुखल्वयं ब्राह्मणश्चतुर्वेदाभिज्ञ इत्युक्ते केन- चिन्न्यायवाचाह-किमत्राश्चर्य, सम्भवति हि ब्रा- मणे चतुर्वेदाभिज्ञत्वमिति । अत्र छलवायाह-न, व्रात्येनानैकोन्तिकत्वात् ॥ इति । चतुर्वेदाभिज्ञत्वे ब्राह्मणत्वं लिङ्गं विवक्षित- मिति मत्वानेनानैकान्तो दर्शितः ।। परिहरति- तस्यापि पूर्ववन्निग्रहस्थानम् ॥ इति । अप्रतिपत्तिलक्षणमभिप्रायापरिज्ञानादुत्तरापरि- ज्ञानाद् वा । विप्रतिपत्तिश्च, विपरीतस्य हेतुत्वस्य परिज्ञाना- दिति ॥ चोदयतिः कस्मात् ॥ १. 'कान्त्यात्' ग, घ, पाठः. २. 'वा' घ. च. पाठः.

- सम्मले न्यायसारे इति । परिहरति हेतुत्वेनाविवक्षितत्वात् । किन्तर्हि, ब्राह्मणत्वे सति चतुर्वेदाभिज्ञत्वमाश्चर्यकारणं न भवतीत्यभिप्रायः। सक्षेत्रे शालिसम्पत्तिवत् ॥ इति । क्षाधियादाववाश्चर्यकारणम् । विद्याचारस- म्पन्नः पुनर्ब्राह्मण इति सर्वापि ब्राह्मणजातिः स्तूयते तत्र श्रद्धोत्पादनार्थमवज्ञापरिहारार्थ चेत्यर्थः ।। उपचारप्रयोगे मुख्यार्थकल्पनया प्रतिषेध उप- चारच्छलम् । मचाः कोशन्तीत्युक्ते छलवायाह-पु- स्थाः क्रोशन्ति न मञ्चाः, तेषामचेतनत्वादिति ॥ इति । क्षेत्रे पक्ष्यादिभ्यः शाल्यादिपरिरक्षणार्थ कृतः काठसवयचतुःस्तम्भरूपो मञ्चः ॥ तत्र छलवादिनो दूषणमाह तस्यापि पूर्ववन्निग्रहस्थानम् , उभयथापि लोके शानेच शब्दप्रयोगदर्शनादिति ॥ पराभिप्रायापरिज्ञानादुत्तरापरिज्ञानाद् वा अप्रति. पचिलक्षणं निग्रहरथानम् । विप्रतिपत्तिर्वा परेणाविवक्षितस्य मुख्यार्थस्य स्वीकारेण दूषणात् । तरमादुभयथोपि मुख्य- प्रकारेण गौणप्रकारेणापि लोके शास्त्रे च प्रयोगदर्शनात् । अतो गौणशब्दप्रयोगे परेण कृते मुख्यार्थस्य निषेधः स्वम- नीषिकानिषेधो न परोपालम्भ इति ॥ १. 'म', २. 'प्रतिषेधोऽसौ न' ग. पाठः.

अनुमानपरिच्छेदः । जातिनिग्रहस्थानयोलक्षणमाह - प्रयुक्त हेतौ समीकरणाभिप्रायेण प्रसङ्गो जातिः। पराजयनिमित्तं निग्रहस्थानम् ॥ इति । प्रसङ्गः प्रतिषेधः । स च प्रत्यक्षागासादा- वस्ति, न चासौं जातिः । अतः प्रयुक्ते हेताविति पदम् । तथाप्यसिद्धत्वादिप्रसङ्गः प्रयुक्ते तो भवति, तद्व्यवच्छेदाय समीकरणाभिप्रायेणेति पदम् । असिद्धत्वादिदूषणं तु परपक्ष- प्रतिषेधाय, नतु स्वपक्षस्य परपक्षण समीकरणाभिप्रायेण । यद्यपि प्राप्त्यप्राप्तिसमादिष्वेतल्लक्षणं नास्ति, तेषां परपक्षसमी. करणाभिप्रायेणाप्रवृत्तेः । तथापि बाहुल्यापेक्षयेदं लक्षणं वि- वक्षितम् । स्वव्य पिदूषणं स्वव्याघातातिप्रसङ्गो जातिरिति तु निर्दिष्टम् ॥ सूत्रकारेणोक्तानामनुक्तानां चानयोर्भेदानां निरवशेषेणानभिधाने हेतु- माह बहवश्चानयोः सूक्ष्मा भेदाः।तेषां कियन्तो भेदा लक्षणोदाहरणाभ्यां प्रदर्श्यन्ते ॥ इति । बहवोऽपरिसङ्ख्याताः । तेषामिति निर्धारणे षष्टी । तेषां मध्ये इत्यर्थः॥ "साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोप- पत्तेः साधर्म्यवैधर्म्यसमौ" (५.१.२)। १. 'चोचं तु' घ., 'चोदनं तु' उ. पाठः. K ६६ सव्याख्ये न्यायसारे इति । साधर्म्यवैधाभ्यामन्वयव्यतिरेकाम्यामुपसं- हारे । साध्यस्येति शेषः । तद्धर्मस्य साध्यधर्मस्यानित्यत्वादेः। विपर्ययो नित्यत्वादिः । तस्योपपत्तिः सिद्धिः। तदर्थ, तद्धर्म- विपर्ययोपपत्तेरिति तादर्थे षष्ठीविधानात्। साधर्म्यवैधाग्या- मेव च क्रियमाणौ प्रसङ्गौ साधर्म्यवैधर्म्यसमौ ॥ अनयोरुदाहरणमाह यथा अनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते जातिवायाह - यद्यनित्यघटसाधा कृतकत्वाद- नित्य इष्यते, तर्हि नित्याकाशसाधादमूर्तत्वान्नित्यः प्राप्नोति। यदि च नित्याकाशवैधात् कृतकत्वादनित्य इष्यते, घटायनित्यवैधादमूर्तत्वात् तर्हि नित्यः प्रा- मोति, विशेषाभावादिति अनयोरुत्तरम् ।। इति । अत्रैवं विकल्पः - अमूर्तत्वं यथा नित्यत्व- साधनं न भवति तथा सर्वमाप साधर्म्य वैधयं च साध्य- साधकं न भवतीत्युच्यते, वा कृतकत्ववत् सर्वमपि सा- धयं वैधयं च सांध्यसाधकं स्यादिति । आये पक्षे जाते- रनुत्थानं, तस्या अपि साधाद् वैधाडा समुत्थानात् ॥ द्वितीये पक्षे परिहारमाह - अविनाभाविनः साधर्म्यस्य वैधर्म्यस्य च हेतु- त्वाभ्युपगमादप्रसङ्गो धूमादिवत् ॥ इति । यथा अनिमत्साधयीदनामेमद्वैधादविना- भूताद् धूमादेवानिमत्त्वमेव सिध्यति, न पुनरभिमत्साधर्म्य- १. 'दनि' ग. पाठः. - २. साध' घ. पाठः.

६७ अनुमानपरिच्छेदः । मात्रादननिमद्वैधर्म्यमात्रादेकप्रदेशत्ववृक्षत्वादेरमिमत्वं सि- ध्यति तथात्रेत्यर्थः । अविनाभाविन इत्यनेन पदेन विशेष- भावोऽसिद्ध इति सूचयति ॥ "साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाञ्चो- त्कर्षापकर्षविकल्पसाध्यसमाः" (५. १.४) । इति । साध्योऽत्र- पक्षो विवक्षितः । साध्यदृष्टान्तयोः धर्मविकल्पादुत्कर्षापकर्षविकल्पसमाः। उभयसाध्यत्वाच्च सा- ध्यसम इति सम्बन्धः । उत्कर्षापकर्षविकल्पशब्देषु भावे घञ् । साध्यशब्दे तु भावे कृत्यः । तदयभर्थः पक्षदृष्टा- न्तयोधर्मस्य विकल्पाद वैचित्र्याद् यदोत्कर्ष प्रसञ्जयति, तदोत्कर्षसमः । यदा चापकर्ष, तदापकर्षसभः । यदा साध्य- दृष्टान्तयोधर्मस्य मूर्तत्वामूर्तत्वादेविकल्पान्नित्यत्वानित्यत्वीव- कल्पं प्रसञ्जयति, तदा विकल्पसमः। यदा च साध्यदृष्टान्तयो- धर्मस्य विकल्पादुभयरय साध्यत्वमपि प्रसज्यतेत्यभिधाय, ततो दृष्टान्तस्य साध्यत्वे को हेतुः को वा दृष्टान्त इति प्रस- जयति, तदा स प्रसङ्गः साध्यसमः। उभयसाध्यत्वाच्चेति चकारेण हि धर्मिविकल्पः समुच्चीयते । हेतुहेतुमद्भावेन च सम्बन्धः॥ सूत्रं विवृणोतिः साध्ये दृष्टान्तादनिष्टधर्मप्रसङ्ग उत्कर्षसमः॥ इति । दृष्टान्तात् सकाशात् साध्ये शब्दादावनिष्ट- स्याविद्यमानस्य धर्मस्य सावयवत्वादेः प्रसङ्गः परेणापाद्यमान उत्कर्षसमः॥ १. 'तथा सा.च. पाठः, - ६८ सव्याख्ये न्यायसारे इष्टधर्मनिवृत्तिरपकर्षसमः ॥ इति । परेणापाद्यमानेति शेषः ॥ अनयोः स्वरूपमाह यदि कृतकत्वाद् घटवदनित्यः शब्दः, तदा घटवदेव सावयवः स्यात् । अथ नैवम् , अनित्योऽपि तर्हि न स्याद् अविशेषात् । अश्रावणो घटो दृष्टः । शब्दोऽपि श्रावणो न स्यादविशेषात् ॥ इति । स्पष्टम् ॥ अथ विकल्पसमः।कृतकत्वाविशेषेऽपि यथा मूर्त- स्वामूर्तत्वादिधर्मविकल्पः, तथा नित्यत्वानित्यत्वविक- ल्पोऽपि स्यादविशेषात् ॥ इति । साध्यदृष्टान्तयोः शब्दघटयोरिति वाक्य- शेषः॥ अथ साध्यसमः। यदि कृतकत्वादुभयोरनित्यत्वं, तर्हि साध्यत्वमुभयोरपि स्यात् । न वा कस्यचिदविशे- पादिति ॥ ततश्च दृष्टान्तस्य साध्यत्वे को हेतुः, को वा दृष्टान्त इति प्रसङ्गः साध्यसम इति भावः ।। एतेषामुत्तरं- "किंचित्साधादुपसंहारसिद्धे- वैधादप्रतिषेधः" (५.१.५)॥ इति । किश्चित्साधाद् ईषत्साधर्म्यात् । उपसंह्रियते यस्मिन् स उपसंहारो दृष्टान्तः । तस्य सिद्धेवैधात् सर्व- था साधादापाद्यमानादप्रतिषेधः । साध्यस्येति शेषः ।

- अनुमानपरिच्छेदः । अथवा, किश्चित्साधादविनाभूतात् कृतकत्वादिलक्षणात् । उपसंहियत इत्युपसंहारः साध्यम् । तस्यैव सिद्धेवैधाद- विनाभावशून्यादप्रतिषेधः साध्यस्य । सूत्रार्थ संक्षेपगाह किश्चित्सावाद धूमवत्त्वादिलक्षणात् साध्यह- ष्टान्तयोर्धर्मविकल्पेऽपि व्यवस्था दृष्टा । तदपलापे लो- कादिविरोधः सर्वानुमानाप्रामाण्यप्रसङ्गश्चेति ॥ इति । व्यवस्था वहिमत्त्वस्यैव सिद्धिदृष्टा । न पुनः सर्वस्यापि दृष्टान्तधर्मस्य सिद्धिः । नापि तदसिद्धौ वह्निम- त्त्वस्याप्यसिद्धिरिति । जात्यन्तरमाह- "प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अवि- शिष्टत्वादप्राप्त्या असाधकत्याच्च प्राप्त्यप्राप्तिसमौ" (५. १. ७)॥ इति । साध्यं ज्ञाप्यं शब्दादिकार्य च । तद्विषयं ज्ञानम् । हेतोरित्यस्यानन्तरं साधकत्वमङ्गीक्रियत इत्यध्या- हारः । विकल्पस्त्वयं जात्युत्थाननिदाननिरूपणार्थः प्राप्त्या अविशिष्टत्वाद् अप्राप्त्या असाधकत्वाच्चेति । अत्र हेतुरसा- धक इति । यो प्रतिषेधौ तावित्यध्याहारः ॥ - सूत्राथमाह- यद्ययं हेतुः प्राप्य साध्य साधयेद् , उभयोः प्रा- प्त्यविशिष्टत्वादगुल्योरिव किं कस्य साधनं साध्यं वा ॥ १. 'रः । सूत्रा' ग. घ. पाठः.

सव्याख्ये न्यायसारे इति । प्राप्तिः संयोगादिरूपा। तस्या अविशिष्टत्वं साधारणत्वम् । तया वा अविशिष्टत्वं विद्यमानत्वम् । तस्मा- दप्राप्य साधकं नास्ति ॥ काष्ठादमिवदिति ॥ इति । नहि काष्ठमप्राप्य वह्निर्दहति प्रकाशयति वे- त्यर्थः ॥ २ परिहरति "घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारा- दप्रतिषेधः” (५. १. ८)॥ इति । निष्पत्तिरुत्पत्तिईप्तिश्च । पौडन इति निमित्त- सप्तमी । पीडनार्थमभिचारदर्शनादित्यर्थः । प्राप्त्यविशेषेऽपि कुलालादिभिर्मपिण्ड एव घटीक्रियमाणः प्रदीपादिना च प्रकाश्यमानो दृश्यते, न पुनविपर्ययः । तथात्रेत्यर्थः । तथा अप्राप्त्यविशेषेऽयभिचारकर्मणा पीडनं शत्रोः कुर्वन् दृश्यते, न विपर्ययः । तस्मादुभयथापि हेतुत्वोपपत्तेरयुक्तः प्रतिषेधः॥ - सूत्रस्य तात्पर्यार्थमाह - प्राप्त्यप्राप्त्यविशेषेऽपि प्रतिनियतार्थवृत्तय एव चैते साध्यसाधनत्वादयो धर्मा दृष्टाः । ते निराकर्तुम- शक्याः, सर्वप्रमाणविरोधादिति ॥ इति । किश्चायं प्रसङ्गोऽपि हेतुं प्राप्तः प्रतिषेधत्य- १. 'म् । प्रतियोगितया', २. तिरासिई' क. पाठः.

७१ प्राप्तो वेत्यादिदोषः समानः । ततः स्वेनैव स्वस्य दुष्टत्वे हेतुरर्दुष्ट एव ॥ जात्यन्तरमाह "प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः" (५. १. १२)॥ इति ॥ सोदाहरणमस्यार्थमाह अनित्यः शब्दः कार्यत्वादित्युक्ते प्रागुत्पत्तेरनि- त्यत्वकारणं नास्तीति नित्यः प्रसक्तः । तस्योत्पत्तिरनु- - पपन्नेति ॥ इति । अनुत्पत्त्या प्रत्यवस्थानमनुत्पतिसमः ।। परिहरति- "तथाभावादुत्पन्नस्य कारणोपपत्तेरप्रतिषेधः" (५. १. १३)॥ इति । उत्पन्नस्य शब्दस्य तथाभावादुत्पत्तिसम्भवात् कारणोपपत्तेरनित्यत्वसाधकहेतूपपत्तेरप्रतिषेधः । अन्यथा प्र- तिवादिवचनात् प्रागदुष्टो हेतुः, हेतावदुष्टे दूषणानुपपत्तिरिति जातिप्रयोगयाघातः॥ तात्पर्यार्थमाह- अनुत्पन्नः शब्द एव नास्ति। कस्य नित्यत्वादि- धर्मश्चिन्त्यते ॥ इति । आदिशब्दादनित्यत्वपरिग्रहः ॥ १,२. '' च. पाठः. ३. 'तुरदृष्टे' ग. क. पाठः. 'स्यासत्त्वम् ॥' ग. पाठः. - १.

- - ७२ सव्याख्ये न्यायसारे जात्यन्तरमाह "त्रैकाल्यासिद्धेहेंतोरहेतुसमः" (५. १. १८)॥ इति । त्रैकाल्ये असिद्धिरिति विग्रहः ॥ एतदेव विवृणोति- यदि पूर्व साधनम् , असति साध्ये कस्य साध- नम् । अथ पश्चात्, अविद्यमानं कथं साधनम् । अथ युगपत्, किं कस्य साधनं साध्यं वा । द्वयोस्तुल्य. कालत्वादिति ॥ इति । अविद्यमानमिति । साध्यकाले इति शेषः । हेतोरहेतुत्वापादनाय प्रतिषेधोऽहेतुसमः ॥ पारेहरति "न । हेतुतः साध्यसिद्धेः” (५. १. १९) । इति । साध्यस्य कार्यस्य ज्ञाप्यस्य च । हेतुत एव सिद्धरुत्पत्तेजप्तेश्च लोके शास्त्रे च दर्शनाद् अयुक्तः प्रति- षेधः । यादे पुनहेतुतः साध्यसिद्धिर्नाङ्गीक्रियते, तदा प्रवृत्ति- निवृत्तिभ्यामपि कस्यचिदर्थस्यासाधनात् तयोर्वैयर्थ्यप्रसङ्गः॥ एतदेवाह प्रवृत्यादिविरोधः सूत्रार्थः ॥ इति ॥ इतोऽपि ज्ञापकहेतुप्रतिषेधो नोपपद्यत इत्याह "प्रतिषेधानुपंपत्तिश्च त्रैकाल्यासिद्धेः” (५.१.२०)। इति । योऽयं परेण प्रतिषेधः क्रियते, स किं प्रतिषेध्यात् पूर्वम् , उत पश्चाद्, अथ युगपत् । यदि पूर्वम् , असति १. '' ग. पाठः.

अनुमानपरिच्छेदः। प्रेतिषेध्ये कस्यायं प्रतिषेधः स्यात् । अथ पश्चात्, असति प्रतिषेधे कथं प्रतिषेध्यम् । युगपञ्चेत् , सव्येतरविषाणयो- रिव किं कस्य प्रतिषेधकं प्रतिषेध्यं वा स्याद् , एककालत्वा- विशेषात् ॥ नन्वेवमस्यापि प्रतिषेधस्य त्रैकाल्यासिद्धिरिति दूषणे सत्यावस्थायां कस्यापि सिद्धिर्न स्यादित्याशझ्याह - स्ववचनेनैव प्रतिषेधासिद्धौ हेतुसिद्धिरिति सू- - त्रार्थः॥ इति । स्वरूपनाशकत्वादयं दोष एव न भवतीति भावः । एतेन सर्वोऽप्ययं साधर्म्यवैधादिजातिप्रयोगः स्व- रूपमपि व्याप्नोति । तच्च शिष्यैरूहनीयमिति सूचयति ॥ जात्यन्तरमाह "एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् स- द्भावोपपत्तेरविशेषसमः" (५.१. २३) ॥ इति ॥ - एतद् विवृणोति यदि घटशब्दयोरेकैधर्मत्वस्य कार्यत्वस्योपपत्तेर- नित्यत्वेनाविशेष इष्यते, सर्वभावानां तर्हि सद्भावोप- पत्तेरविशेषः प्रसज्यत इति ॥ इति । अविशेषार्थः प्रसङ्गोऽविशेषसमः ॥ परिहरति- तत्रेदमुच्यते-सर्वथा अविशेषे प्रत्यक्षादिवि. रोधः । अनित्यत्वेनाविशेषेऽनुमानागमविरोधः । केन- चिदविशेषे प्रमेयत्वादिना सिद्धसाधनमिति । १. 'डे' . पाठः, २. 'कस्य' ग. पाठः, - सन्याख्ये न्यायसारे इति । सर्वथा अविशेष प्रतिषेधानुपपत्तिश्च, प्रतिषे. ध्वप्रतिषेधकभेदासिद्धेरित्यूह्यम् । आत्मादिनित्यः, अनादि- वस्तुत्वात् । यनित्यं न भवति तदनादिवस्तु न भवति यथा घटादीत्यनुमानम् । 'अविनाशी वा अरे अयमात्मे'त्यागमः। ताम्यां विरोधः ॥ जात्यन्तरमाह "निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः' (५. १. २७)॥ इति । हेतुरयुक्त इति प्रतिषेध इति शेषः ॥ सूत्रं विवृणोति पृथिव्यादिषु कार्यत्वसिद्धये निर्दिष्टस्य सावय- वत्वस्याभावेऽपि बुद्ध्यादौ कार्यत्वमुपलब्धमित्यतोऽप्र- योजकोऽयं हेतुः॥ इति । उपलब्ध्या प्रतिषेध उपलब्धिसम इत्यर्थः ।। परिहरति- सपक्षैकदेशस्यापि धूमादेर्गमकत्वदर्शनादप्रति- बेधः॥ इति । सपक्षकदेशे वर्तमानो हेतुरत्र सपक्षकदेश इत्युक्तः, उपचाराद्, मञ्चशब्देन पुरुषवत्। सपक्षस्यैकदेशो यस्यासौ सपक्षकदेश इति भिन्नाधिकरणो वा बहुव्रीहिः । अथ सपक्षव्यापके हेत्वन्तरे सत्यव्यापकस्याप्रयोजकत्वं, नो- व्यापकमात्रस्य धूमादेः । इह त्वभूत्वाभावित्वस्य सपक्षव्या- पकस्य प्रयोजकत्वात् सावयवत्वमप्रयोजकमिति । तदप्ययु. १. 'रगमकत्वाद', २. 'न' ग. पाठः.

अनुमानपरिच्छेदः। ७५ क्तम् । द्रव्यत्वसाधने सपक्षव्यापकस्य गुणवत्त्वस्य समवा- यिकारणत्वस्य वा सद्भावेऽपि वायोः क्रियावत्त्वादेव द्रव्यत्व- सिद्धेः । नापि कार्यत्वे अभूत्वाभावित्वं प्रयोजकमिव वाच्यं, तयोः पर्यायत्वात् ॥ इदानीमाशकापूर्वकं सूत्रोक्तं परिहारमाह कथं तर्हि बुद्धयादेः कार्यत्वसिद्धिरित्यत आह- "कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः” (५. १. २८)। - इति ॥ तद् व्याचष्टे-- प्रमाणान्तरादपि कार्यत्वसिद्धरित्यर्थः ॥ इति । यथा धूमाभावेऽप्ययोगोलकादौ प्रमाणान्तरा- दमिसिद्धिस्तथेत्यर्थः ॥ प्रमाणान्तरमेव दर्शयति प्रमाणं चानुपलब्धिकारणेष्वसत्सु प्रागूवं चा- नुपलम्भादिति ॥ इति । तथाहि बुद्धयादिकं कार्यम् , उपलब्धिकारणेव- सत्सु प्रागूध्वं चानुपलभ्यमानत्वाद् घटादिवत् । येष्वावरणा- दिषु सत्सु बुद्धिघटादयो विद्यमाना अपि नोपलभ्यन्ते, ता- न्यनुपलब्धिकारणादीन्युच्यन्ते ॥ अस्मिलनुमाने जात्यन्तरं सौत्रं दर्शयति "तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरी- तोपपत्तेरनुपलब्धिसमः" (५. १. २९) । १. 'भ्यमानत्वाद् घटवदि' ग. घ. पाठः..

- ७६ सव्याख्ये न्यायसारे इति।तद्विपरीतोपपत्तेरित्यस्मादसिद्धो हेतुरिति प्रति- षेध इत्यध्याहारः॥ सूत्रं व्याचष्टे- तस्य बुद्धयादिकार्यत्वस्यानुपलब्धेरनुपलम्भाद- भावसिद्धावनुपलब्धिविपरीतोपलब्ध्युपपत्तेः प्रागूलम- पि बुद्धयादेः सद्भावः सेत्स्थतीत्यभिप्रायः॥ इति । अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसम इति । उपलभ्यमानत्वे चोपलब्धिरेव स्यान्नानुपलब्धिरिति भावः॥ परस्योत्तरमाह- "अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः” (५.१.३०)। इति । अनुपलब्धेरनुपलम्भारमकत्वादनुपलम्भैरूपेण प्रतीयमानत्वादहेतुः। बुद्ध्याद्यनुपलब्धेरभावसाधिकाया अनु- पलब्धः स्वयमविद्यमानत्वादिति भावः ॥ अमुमेवार्थमाह - नास्तीति ज्ञानमनुपलब्धिः। सा तत्स्वभावतया प्रत्यात्मवेया । अतस्तदनुपलब्धिरसिद्धेत्यभिप्रायः ॥ इति। यदाप्युपलब्ध्यभावोऽनुपलब्धिः, तदापि तस्याः प्रत्यात्मवेद्यत्वादनुपलब्धेरनुपलब्धिरसिद्धा । तथाहि-शा- स्त्रज्ञानं मम पूर्व नास्ति, इदानी वा नास्ति, शास्त्रज्ञानं मयि - ३. १. 'रित्य' ग. पाठः. २. 'म्भस्वरू' ख. च. पाठः. 'वसिद्धे कानुपलब्धिरित्यर्थः ॥ अमु' म. पाठः.

अनुमानपरिच्छेदः। ७ नोपलभ्यते इत्यनुपलब्धिरूपेण ज्ञायत एव । एतेनोपलभ्यमा- नत्वादुपलब्धिः स्यादित्येतत् प्रत्युक्तम्। विधिमुखेनोपलब्धि- यथा प्रतीयते तथानुपलब्धेः प्रतीत्यभावात् । किञ्च परवच. नस्य स्वरूपाप्रतिषेधात्मकत्वे हेतुरप्रतिषिद्धः स्यात् । स्वरूप- प्रतिषेधकत्वे वा स्वयमेव न स्यादित्यलम् ॥ "नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्य- समः” (५.१.३५)॥ इति ॥ अस्यार्थमाह अनित्यत्वधर्मस्य नित्यं सर्वदा सद्भावाद् धर्मि- णोऽपि शब्दस्य सर्वदा सद्भावप्रसङ्गः । अथानित्यत्वं सर्वदा नास्ति, तथाप्यनित्यत्वाभावान्नित्यः शब्द इति । इति । धर्मिणोऽपि शब्दस्य सर्वदा सद्भाव इति । धर्मिणमन्तरेण धर्मस्यावस्थानायोगादिति भावः । नित्यत्वस्य प्रसङ्गो निस्पसमः॥ परिहरति- अनित्यत्वस्य सदाभ्युपगमानित्यत्वविरोधः। अनभ्युपगमे चासिद्धो हेतुः॥ इति । नित्यमनित्यत्वस्य भावादित्ययमसिद्ध इ. त्यर्थः ॥ १. 'त्वेनापतिषेधात्मकत्वे हे' रु. पाठः.

७८ सम्याख्ये न्यायसारे यत्तु धर्मस्यावस्थानाद् धर्मिणोऽप्यवस्थानप्रसङ्ग इति दूषणं, तबाह- प्रध्वंसश्चानित्यत्वम् । नच तस्मिन् सति शब्द- सद्भाव इति ॥ भावात्मको हि धर्मों निराश्रयो न सम्भवति, न त्वमा- वात्मक इति भावः ॥ ननु सूत्रकारोक्तानामनुक्तानां च जातीनामन्यासां विद्यमानानामिह कस्सादनभिधानमित्याशङ्कयाह- एतेनान्यत्वस्यात्मनोऽनन्यत्वादन्यत्वं नास्ति इ. त्यादीन्यसदुत्तराणि प्रत्युक्तानि । इति । एतेन कतिपय जातीनां स्वरूपदर्शनपरिहारा- भिधानेन । प्रत्युक्तानि तत्समानन्यायतयति भावः । यदि- दुमन्यदित्युच्यते तत् स्वरूपादन्यद् , उतानन्यत् । यदि स्वरूपादन्यत् , तदात्महोनादसदेव स्यात् । अथानन्यत्, तदाप्यनन्यत्वादेवान्यन्न भवतीत्यन्यताया अभाव इति इय- मनन्यसमा जातिः॥ कथमियं निराकृतेत्यत्राह - निमित्तान्तरात् संज्ञान्तरे योज्यमानेऽप्यर्थतथा- भावस्य निराकर्तुमशक्यत्वात् ॥ इति । निमित्तान्तरात् स्वरूपापेक्षया भेदाभावलक्ष- णात् । संज्ञान्तरेऽनन्यशब्दे योज्यमाने परेणापाद्यमानेऽप्यर्थ- तथाभावस्य वस्वन्तरापेक्षयान्यशब्दवाच्यत्वस्य निराकर्तु- मशक्यत्वात् । यदि वा घटादौ निमित्तान्तरात् पदार्थान्त- १. 'नत', २. 'भा' ग. पाठः.

अनुमानपरिच्छेदः । रापेक्षया भेदलक्षणात् संज्ञान्तरेऽन्यशब्दे योज्यमानेऽर्थत- थाभावस्य स्वरूपापेक्षया भेदशून्यत्वेनानन्यशब्दवाच्यत्वस्य निराकर्तुमशक्यत्वात् पुत्रादिवदित्यर्थः ॥ ननु तथापि वचनप्रवृत्त्या संग्रहे जात्यन्तराणि सर्वाणि कस्मान्नोक्तानी. त्यत आह- - आनन्त्यान सर्वाणि जात्युत्तराण्युदाहर्तुं श- क्यन्ते, सूत्राणामप्युदाहरणार्थत्वादिति ॥ इति । सूत्राणामुदाहरणार्थत्वं चतुर्विंशतिजातिव्यति- रिक्तजात्यन्तरेणाप्यनन्यसमादिना स्थानान्तरे सूत्रकारेण प्रत्यवस्थानकरणाद् विज्ञायते ॥ उपसंहरति- उक्ता जातिभेदाः॥ इति ॥ अथेदानीं निग्रहस्थानान्युच्यन्ते । तान्यपि वि- प्रतिपत्त्यप्रतिपत्त्योर्विकल्पोनन्त्यादसङ्ख्यातानीत्यतः संक्षेपतो व्युत्पाद्यन्ते ॥ इति । सूत्रोक्तानि द्वाविंशतिनिग्रहस्थानान्येव लक्ष- णोदाहरणाभ्यां प्रदर्श्यन्त इत्यर्थः ॥ तथाच सूत्रम्- "प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्र. तिज्ञासन्न्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थ- १. 'ल्याद' ख. रु. पाठः, ८० सव्याख्ये न्यायसारे मपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुतमननुभाषण- मज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रह- स्थानानि" (५.२.१) इति ॥ सूत्रे वाक्यात्मकानामपि कियतां विप्रतिपत्त्यप्रति- पत्तिसूचकत्वेन पराजयनिमित्तत्वान्निग्रहस्थानत्वमुक्तम् । अ- समासकरणमन्योन्यनिरपेक्षाणामेवैषां स्वकार्यकरणसामर्थ्य- प्रकटनार्थम् ॥ सवक्रमेण लक्षणमाह "साध्ये प्रतिदृष्टान्तधर्मानुज्ञा प्रतिज्ञाहानिः" (५.२.२)॥ - अस्या उदाहरणमाह - यदि कृतकत्वादनित्यः शब्द इष्यते, ताकाश- बदमूर्तत्वान्नित्यः किं नेष्यते इति प्रतिवादिनोक्ते वाद्याह-भवतु किं नो बाध्यते इति । तस्य नित्य- त्वाभ्युपगमेनानित्यत्वप्रतिज्ञा हीयेत इत्यतः प्रतिज्ञा- हानिर्नाम निग्रहस्थानं भवति इति ॥ उपलक्षणमेतत् । तेन हेतुहान्यादीनामपि सङ्ग्रहः । तथाहि-अनित्यः शब्दः प्रमेयत्वादित्यस्य हेतोरनैकान्ति. कत्वेन प्रतिषेधे कृते, सत्यम् , अस्तु तर्हि कृतकत्वादिति ब्रुवतो हेतुहानिः। अनित्ये वाड्मनसे कार्यत्वादित्यस्य भागा- सिया प्रतिषेधे वागेव तर्हि पक्षीक्रियत इति वदतः पक्ष. १. 'काशना' ङ. पाठः.

अनुमानपरिच्छेदः । ८१ हानिः । एवं प्रतिज्ञाविशेषणहान्याक्ष्योऽस्माभिर्भूषणभूषणे- ऽभिहितास्तत्रैव ज्ञातव्याः ॥ "प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम्” (५. २. ३) ॥ इति ॥ लक्षणसूत्रमुदाहरणप्रदर्शनद्वारेण व्याचष्टे- सर्वमनित्यं सत्त्वादित्यत्र दृष्टान्ताभावेन प्रति- ज्ञातार्थप्रतिषेधे धर्मो विवादास्पदीभूतत्वादिलक्षणः । तस्य विकल्पः प्रतिज्ञातार्थविशेषणत्वेन योजनम् । त. दर्थ इति प्रतिषेधनिवृत्त्यर्थः, यथा मशकाओं धूम इति निर्देशः । विवादास्पदीभूतं सर्वमनित्यमित्येतत् प्रति- ज्ञान्तरं निग्रहस्थानं हेत्वन्तरवदिति ॥ दृष्टान्ताभावेन असाधारणवेनेत्यर्थः । प्रतिषेधनिवृ- त्यर्थ इति । एतेन तच्छब्दः प्रतिषेधपरामर्शी, अर्थशब्दश्व निवृत्तिगर्भप्रयोजनवाचीति सूचितम् । ननु निर्विशेषणप्रति- ज्ञायाः प्रहाणात् प्रतिज्ञाहानितोऽस्य को विशेषः । न । स्व- रूपमात्रापरित्यागात् , तस्यैव विशेषणान्तरेण समर्थयितुं प्रवृत्तत्वात् ॥ "प्रतिज्ञाहेत्वोर्विरोधःप्रतिज्ञाविरोधः” (५.२.४)॥ यथा गुणव्यतिरिक्तं द्रव्यं, भेदेनानुपलम्भादिति ॥ इति । न च वक्तव्यं विरुद्धहेत्वाभास एवायं न पृ. थग्वाच्य इति । व्याप्तिस्मरणवशाद् विरुद्हेत्वाभासे विरोधा- १. 'ति । सू' ग. पाठः २. 'गर्मित' घ. २. च, पाठः, ३. 'विरुवाब' ख. पाठः. L ८२ सव्याख्ये न्यायसारे वगमः, इह तु प्रतिज्ञाहेतुवचनश्रवणमात्रादिति इयता भेदेन पृथगभिधानम् ॥ "पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञास- न्न्यासः" (५.२.५)। अनुष्णोऽयमग्निरित्यस्य प्रतिषेधे वायाह-सम्पश्यध्वमहो मध्यस्थाः साक्षिणः। नाह- मनुष्णमग्निं ब्रवीमि, अनुक्तोपालम्भोऽयमित्येतत् तस्य प्रतिज्ञासंन्यासलक्षणं निग्रहस्थानमिति ॥ इति । अत्र पक्षप्रतिज्ञाशब्दयोरुपलक्षणेपरत्वाडे- त्वादिसन्न्यासा अपि निग्रहहेतवो वेदितव्याः । यथा नित्यः शब्दः प्रमेयत्वादित्यस्यानैकान्तिकत्वेन प्रतिषेधे कृते नाहं नित्यत्वे प्रमेयत्वं हेतुं ब्रवीमीति ब्रुवाणस्य हेतुसंन्यास इत्यादि । 'समो गम्युच्छिप्रच्छि-' इत्यादिसूत्रे 'दृशेथेति वक्तव्यमि'त्यनेन सम्पश्यध्वमित्यात्मनेपदम् ॥ "अविशेषोक्त हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्" (५. २.६)॥ इति । विशेष्यते येन स विशेषो विशेषणम् । न विद्यते विशेषो यस्यासावविशेषः। स चासावुक्तधेत्यविशे- षोक्तः तस्मिन् । हेतुशब्दः परार्थानुमानवाक्यगतसाधनभागो- पलक्षकः । वचनशब्दस्य चाध्याहारः । तेनादावविशिष्टं सा- धनभागमभिधाय तदूषणे च परेणोद्भाविते पश्चाद् विशिष्टं तमभिदधतो वचनं हेत्वन्तरमित्यर्थः ॥ १. 'धार्यमाह', २. 'णत्वा' ग. पाठः.

अनुमानपरिच्छेदः ८३ अस्पोदाहरणमाह यथा नित्या वेदाः, अस्मर्यमाणकर्तृकत्वादित्यस्य जीर्णकूपारामादिभिरनैकान्तिकत्वेन प्रतिषेधे कृते स- म्प्रदायाविच्छेदे सतीति विशेषणमिच्छतो हेत्वन्तरम् ॥ इति । निग्रहस्थानं भवतीति शेषः॥ कथमित्याशझ्याह - पूर्वस्यासाधकस्योपादानादिति ॥ इति। ननु प्रतिज्ञाहान्या हेतुहान्यादीनामुपलक्षणवत् प्रतिज्ञान्तरेण हेत्वन्तरस्याप्युपलक्षणं भविष्यति । किमस्य पृथगुपादानेन । अन्यथोदाहरणान्तरादीनामपि पृथगभि- धानप्रसङ्गः । यथा-गुणः शब्दः सामान्यवत्त्वास्पर्शवत्वे सत्यस्मदादिबायैकेन्द्रियग्राह्यत्वाद् रूपाविवद् इत्यत्र रूप- मात्रस्यास्मदादिप्रत्यक्षत्वाभावात् साधनविकलत्वेन दृष्टान्ते दूषिते पटरूपवदिति वदत उदाहरणान्तरम् । तथोपनयान्तरं निगमनान्तरमप्युदाहरणीयम् ।सत्यम् । तथापि परार्थानुमान- वाक्यस्य साध्यसाधनेभागरूपतया त दविवक्षया पृथगभि- धानम् । तेनात्र प्रतिज्ञान्तरं निगमनान्तरं च प्रतिज्ञान्तर- शब्देन गृह्यते । हेवन्तरमुदाहरणान्तरमुपनयान्तरं हेत्वन्तर- ग्रहणेन गृह्यत इति ॥ "प्रकृतादादप्रतिसम्बद्धार्थमर्थान्तरम् (५.२.७)॥ ------ १. 'नरू', २. ५ च हे' ग. पाठः.

८४ सम्याख्ये न्यायसारे इति । अत्रान्यदित्यध्याहार्यम् । अर्थान्तरमिति लक्ष्य- पदमेव वा लक्षणेऽप्यावृत्त्या सम्बन्धनीयम् । तेन प्रकृतोत् प्रस्तुतादर्थात् साध्यसाधनात् तदूषणाद् वा यदर्थान्तरं प्रकृतेनासंबहार्थमनुपयोगि, तदर्थान्तरं नाम निग्रहस्थान- मित्यर्थः॥ एतदेव सादाहरणमाह यथा नित्यः शब्दोऽस्पर्शवत्त्वादिति हेतुः। हेतुश्च हिनोतेर्धातोस्तुनप्रत्यये सति कृदन्तं पदमित्यादि प्रस- कानुप्रसक्त्या प्रकृतार्थानुपयोगि शास्त्रान्तरमुपदिशतो- ऽर्थान्तरं नाम निग्रहस्थानम् ॥ इति । अस्पर्शवत्त्वादिति हेतुमज्ञानात् प्रयुज्यानन्तर- मेवानकान्तिकत्वं स्वयमेव जानानस्तदाच्छादनार्थमेवं प्रव- तत इति भावः ॥ "वर्णक्रमानिर्देशवनिरर्थकम" (५. २.८)। यथा नित्यः शब्दः कचटतपानां जबगडदश्त्वात् झभघढ- धष्वदिति ॥ इति । वर्णक्रमनिर्देशो वर्णानां पाठक्रमः अ आ इ ई इत्यादिः, स इव तहत् । तत्सादृश्यं चार्थशून्यत्वम् । यत्र पदार्थोऽपि नास्ति तन्निरर्थकम् । वर्णक्रमनिर्देश एवास्ति न पुनरर्थो यत्र तद् वर्णक्रमनिर्देशवदिति । मत्वर्थीयो वा ॥ "परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातम- विज्ञातार्थम्” (५.२.९)। यद् वाक्यं वादिना त्रिरभिहित- १. 'तादर्थात्' ग. पाठः.

८५ अनुमानपरिषदः । मध्यप्रतीतप्रयोगातिद्रुतोच्चारणादिना निमित्तेन परिष- प्रतिवादिभ्यां न ज्ञायते, तदज्ञानसंवरणायोक्तमविज्ञा- तार्थ नाम निग्रहस्थानमिति ॥ इति । न ज्ञायत इति । विद्यमानार्थमेवार्थतो न ज्ञायत इत्यर्थः । न पुनः स्वरूपतः ॥ "पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकम्" (५.२. १०)॥ इति । पूर्व विशेषणम् । अपरं विशेष्यम्। तयोर्भावः पौर्वापर्य विशेषणविशेष्यभावः । तेनायोगोऽसम्बन्धः । त- स्मात् कारणादप्रतिसम्बन्धोऽनन्वितोऽर्थों यस्य तदप्रतिसम्ब- न्धार्थम् ॥ तत्र वाक्ययोरनन्वितत्वे उदाहरणमाह यथा दश दाडिमानि षडपूपाः ॥ इति ॥ पदयोरनन्वितत्वे निदर्शनमाह - कुण्डमजाजिनमित्येवमादि। इति ॥ "अवयवविपर्यासवचनमप्राप्तकालम्" (५.२.११) ।। इति। विपर्यासेन व्यत्यासेन वचनं विपर्यासवचनम् । अवयवानां विपर्यासवचनमवयवविपर्यासवचनम् ॥ सूत्रस्यार्थमाह - प्रतिज्ञादीनामर्थवशात् क्रमः । तेषां विपर्ययेणा- भिधानं निग्रहस्थानम् ॥ १. 'त्ययेन' ग, घ, २, च, पाठः, - सव्याख्ये न्यायसारे इति । स्पष्टम् । एतच्च नियमकथायां निग्रहस्थानम् । अनियमकथायां तु न विरोधः ।। "हीनमन्यतमेनाप्यवयवेन न्यूनम् ("(५.२.१२)॥ साधनाभावे साध्यसिद्धरयोगात् ॥ इति । व्यक्तमेतत् ॥ "हेतूदाहरणाधिकमधिकम” (५.२.१३) ॥ . इति । हेतूदाहरणग्रहणं सर्वस्याधिकस्योपलक्षणम् ॥ अस्य निग्रहस्थानत्वे कारणमाह एकेन कृतत्वादितरानर्थक्यादिति ॥ इति। एक एव हेतुः दृष्टान्तो वा मयोच्यते इति निय- मपूर्विकायां कथायामेव दूषणं, न सर्वत्र । असम्प्लववादिनां तु सर्वदा । एतच्च न्यूनाधिकलक्षणं द्वयमपि स्वमताभ्युपगता- वयवापेक्षया न्यूनत्वे चाधिकत्वे च दूषणं विज्ञेयम् ॥ पुनरुक्तलक्षणमाह - "शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवा- दात्” (५. २. १४)॥ इति ॥ एतद् व्याचष्टे सार्थक पुनरभिधानमनुवादः।तमतिरेकेण पुन- रभिधानं पुनरुक्तम् । नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम् । नित्यो ध्वनिः अविनाशी शब्द इत्यर्थ- पुनरुक्तम् ॥ इति । सार्थक पुनरभिधानं यथा गौगौः कामदु- घेत्यादि ।

अनुमानपरिच्छेदः । पुनरुक्तान्तरमा "अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम्" (५.२.१६) । यथा साधम्र्योदाहरणेऽभिहिते वैधम्योंदा- हरणाभिधानमिति ॥ इति । व्याप्तिख्यापनार्थ [दाहरणमुच्यते । तचै- केनाप्युदाहरणेनालम् इति व्यर्थमुभयाभिधानम् । यथा- यद्यत् कृतकं तत् तदनित्यं यथा घटादात्यभिधाय यदनित्यं न भवति तत् कृतकमपि न भवति यथा गगनमिति । अन्वयव्यतिरेकित्वज्ञापनार्थमुभयाभिधानमिति चेद्, नैवम् । तज्ज्ञापनेन प्रयोजनाभावाद् , व्याप्तिप्रतीत्यैवानुमानप्रसि- देश्च ॥ - चोदयति- कथं तन्निग्रहस्थानमिति ॥ तत् पुनरुक्तमात्रम् ॥ परिहरति कथावसानविरोधित्वादेकेन कृतत्वादितरानर्थ- क्यादिति ॥ उक्तस्यापि पुनरभिधानेऽनवस्था वैयर्थ्य चेत्यर्थः । एतदपि नियमकथायामेव निग्रहस्थानम् । अनियमकथायां तु साक्षिप्रतिपक्षिणोरुपेक्षायां सत्यां स्पष्टार्थ पुनरभिधानेऽपि विरोधाभावात् त्रिरभिधाननियमाञ्च नातिप्रसङ्गः । तथाप्य- धिकानेदं मिद्यत इति चेत् । सत्यम् । पुनरुक्तरूपमप्यधिक १. 'न कृतम्' घ... च. पाठः.

८८ सव्याख्ये न्यायसारे दर्शितमेव । अधिकात् तु कियता भेदेन पुनरुक्तं पृथगुक्तं शिष्यव्युत्पादनार्थमित्यदोषः॥ "विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युचार- णमननुभाषणम्" (५. २. १७) प्रतिवादिनो निग्रहस्था- नम् ॥ इति । उपलक्षणमेतत् । प्रतिवादिना प्रतिपादितदूष- णस्याननुभाषणे वादिनोऽपि निग्रहस्थानसम्भवात् ।। कथमेतन्निग्रहस्थानमित्याशझ्याह अप्रत्युच्चारयन् किमाश्रयः परपक्षप्रतिषेधं ब्रूया- दिति ॥ क आश्रयो विषयो यस्य असौ किमाश्रयः । एतेन दृष्यमात्रानुवादेऽप्यसमर्थस्यैतद् दूषणमिति सूचितं, न पुनः सर्वानुवादः कर्तव्य इति । त्रिरभिहितस्येत्येतदपि परिषद- भ्युपगमस्योपलक्षणम् । यावत् प्रालिका अन्यतरस्यासामर्थ्य निश्चिन्वन्ति तावद् वक्तव्यमिति भावः ॥ "अविज्ञातार्थ चाज्ञानम्” (५.२.१८)॥ चकारेण पूर्वसूत्राद् विज्ञातस्य तस्य परिषदा त्रिरभि- हितस्यापीत्येतदाकृष्यते ॥ तदेवाह यदं वाक्यं त्रिरभिहितमपि परिषदावगतार्थ प्र- तिवादी प्रत्युच्चारयन्नपि नार्थतः सम्यगधिगच्छति तद- ज्ञानं नाम प्रतिवादिनो निग्रहस्थानम् ॥ १. 'नभावात्' प. पाठः. २. 'च' प. च. पाठः, -- अनुमानपरिच्छेदः। इति । अत्रापि प्रतिवादिग्रहणमुपलक्षणम् ॥ कथामभ्युपगम्य तूष्णीम्भावोऽप्रतिभा वादिप्रति वादिनोनिग्रहस्थानमिति ॥ इति । अननुभाषणे न तूष्णीमास्ते, किन्तु अप्रत्यु- चारयन्नपि दूषणादिकमभिदधाति । अतो नानयोरभेदः ॥ "कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः” (५. २.२०)॥ इति ॥ अस्यार्थमाह कथामभ्युपगम्य सभ्येषु सम्मिलितेषु ब्रवीति-- अद्य मे महत् प्रयोजनं विद्यते, तस्मिन्नवसिते पश्चात् कथयिष्यामीति ॥ इति । यदि पुनस्तदानीमेवोत्पन्नं महत् प्रयोजनं सभ्या अप्यभ्युपगच्छन्ति, तदा तद्वशेन कथां विच्छिन्दतोऽपि न पराजयः। न चेदमर्थान्तरेऽन्तर्भवतीति वाच्यम् । हेतुप्रयो- गानन्तरं तदनुपयोगिवचनं ह्यर्थान्तरम् । अत्र तु हेतूपन्या- समपि पश्चात् करिष्यामीति वदति । अतोऽस्ति भेदः ।। "स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो मता- नुज्ञा" (५.२.२१)॥ इति । स्वपक्षोऽत्र सिद्धान्तो विवक्षितः, न पुनः मि- साधयिषितधर्मविशिष्टधर्मिमात्रम् । अभ्युपगमोऽपरिहरणम् । १. 'न्तु प्र' ग. पाठः. २. 'तदाशयन' घ. पाठः. ३. क्षे घ...च. पाठः, ९० सव्याख्ये न्यायसारे तेन स्वसिद्धान्ते परोक्तं दूषणमपरिहत्य परसिद्धान्ते दोष- प्रसञ्जनं मतानुज्ञेत्यर्थः॥ तदेवाह यः स्वपक्षे मनागपि दोषं न परिहरति, केवलं परपक्षे दोष प्रसञ्जयति, भवांश्चोर इत्युक्ते त्वमपि चोर इति । तस्येदं निग्रहस्थानम् ।। इति ॥ कस्मादित्याशङ्कयाह - स्वयं दोषाभ्युपगमात् परेणानभ्युपगमादिति ॥ इति । 'अप्रतिषिद्धमनुमतं भवतीति न्यायेनेति भावः ।। "निग्रह(स्थानं प्रातस्यानिग्रहः पर्यनुयोज्योपे- क्षणम्" (५.२.२२)॥ इति ॥ - एतद् व्याचष्टे पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः । तस्योपेक्षणं निग्रहं प्राप्तोऽसीत्यननुयोगः ॥ इति । एतच्च निग्रहस्थानं कतमस्यात्र पराजय इति पृष्टया परिषदोहावनीयं, निग्रहं प्राप्तस्य स्वदोषोद्भावनानुप- पत्तेः ।। “अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनु- योज्यानयोगः” (५. २. २३) ॥ इति । अदोषे दोषोहावनमित्यर्थः ॥ १.. 'र', २. 'दोषभाव' घ. पाठः, ---- - अनुमानपरिच्छेदः। ९१ एतदेवोदाहरति- यथा सावयवत्वेन पृथिव्यादी कार्यत्वसाधने परो ब्रूयादप्रयोजकोऽयं हेत्वाभास इति । तस्येदं मिथ्याभि- योगलक्षणं निग्रहस्थानम् ॥ इति । द्रव्यत्वे सति द्रव्याश्रितत्वं सावयवत्तम् । न चास्य कार्यत्वस्य साधनेऽसिद्धत्वाद्यन्यतमदूषणमस्ति । बु- यादौ सावयवत्वाभावेऽपि कार्यत्वोपलम्भाद् व्याप्त्यभा- वेनाप्रयोजकत्वमिति चेत् । न । सपक्षैकदेशवृत्ते—मादेरप्य- प्रयोजकत्वप्रसङ्गात् । अथ सपक्षव्यापकहेत्वन्तरसद्भावे सत्य- व्यापकस्य हेतोरप्रयोजकत्वं, नाव्यापकमात्रस्य धूमादेः। अत्र तु कादाचित्कत्वं सकलकार्यव्यापकं प्रयोजकं, न सावयव- त्वमिति चेत् । न । कार्यत्वकादाचित्कत्वयोः पर्यायत्वात् । किञ्च व्यापकस्येवाव्यापकस्याप्यसिद्धत्वादिदोषरहितत्वेन प्र- योजकत्वं केन वार्यत इत्यलम् ॥ "सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसि. द्धान्तः” (५. २. २४)। यथा मीमांसामभ्युपेत्य कश्चि- दग्निहोत्रं स्वर्गसाधनमित्याह । कथं पुनरग्निहोत्रक्रिया ध्वस्ता सती स्वर्गसाधिका भवतीत्यनुयुक्तः प्राह - तया क्रियया आराधितः परमेश्वरः फलं ददाति राजा- दिवदिति । तस्येश्वरानभ्युपगमादपसिद्धान्तो निग्रह- स्थानम् ॥ १. 'स्येदानी मि', २. 'जनमिति' ग. पाठः, . १२ सव्याख्ये न्यायसारे इति । स्पष्टम् । अन्ये तु अन्यथा सूत्रार्थमाहुः सिद्धान्तमभ्युपेत्य कश्चिदर्थ प्रतिज्ञायानियमात् तद्विरोधेन कथाप्रसङ्गः कथाकरणमपसिद्धान्त इति ॥ तदयुक्तमित्याह प्रतिज्ञातार्थविपर्ययस्तु प्रतिज्ञाहानि पसिद्धान्तः ॥ इति ॥ "हेत्वाभासाश्च यथोक्ताः" (५.२. २५) । इति । यथा येन प्रकारेण हेत्वाभासा उक्ताः, तेन प्रकारेण निग्रहस्थानानि, न पुनः प्रमाणस्य प्रमेयत्ववल्ल. क्षणान्तरेण ॥ तदेवाह - हेत्वाभासलक्षणेनैव यथोक्तेन हेत्वाभासा निग्र- हस्थानानीत्यर्थः॥ इति । चकारो दृष्टान्ताभासानन्वयविपरीतान्वयादि- समुच्चये । तेषामपि निग्रहे हेतुत्वात् ।। सूत्रोक्तानि द्वाविंशतिर्निग्रहस्थानानि न नियमार्थानि, किन्तु उपलक्ष- णार्थानीत्याह - एतेन दुर्वचनकपोलेताडनवादित्रादीनां साधना- नुपयोगित्वेन निग्रहस्थानत्वं वेदितव्यम् । नियमक- थायां त्वपशब्दादीनामपि । इति । एतेनेति । केषाञ्चिल्लक्षणोदाहरणप्रपश्चनेन । - १. 'क्षकाणीत्या' घ. पाठः. २. 'लवा' ग. पाठः.

आगमपरिच्छेदः। नियमकथा नाम संस्कृतेनैव मया वक्तव्यं वर्गत्यागेन वा श्लोकप्रबन्धेन वा इत्येवंरूपा इति । इति श्रीमत्काश्मीरसूर्यसूरीन्द्रसूनुवासुदेवसूरि- विरचितायां न्यायसारपदपश्चिकायाम् अनुमानपरिच्छेदः॥ अथागमपरिच्छेदः। अवसितमनुमानम् । आगमस्येदानी लक्षणमु- च्यते॥ इति । अवसितं निश्चितमनुमानमिति वृत्तानुकीर्तनेना. गमस्यानुमानपूर्वकत्वात् तल्लक्षणानन्तरमेवास्य लक्षणावसर इति सूचयति । तथाहि समयग्रहणबलात् शब्दानाम- र्थावबोधसाधनत्वम् । समयग्रहणं च प्रोयेण वृद्धव्यवहारा- दनुमानरूपादेवेति ॥ समयबलेन सम्यक्परोक्षानुभवसाधनमागमः॥ इति । समयः सङ्केतः पुरुषकृतः, न पुनरविनाभाव- वत् स्वाभाविकः । स्वाभाविकत्वेऽविनाभाविधूमादिलिङ्ग- वन्नियतमेवार्थ बोधयेद्, न तद्विपरीतम् । नहि धूमो दहन- मिव तदभावं जलादिकं वानुमापयति । दहनादिशब्दास्तु पुरुषेण यत्र यत्र सङ्केत्यन्ते तत्र तत्र यथार्थोमेव प्रतीति कुर्वन्ति । अतोऽविनाभावात् समयो भिन्नः । समय एवं बलं १. 'पायो वृ' घ पाठः. २. 'थ' ग. पाठः, ३. 'स ए' ग, घ, ८.च. पाठः, सव्याख्ये न्यावसारे सहकारि, तेन समयबलेन । अत्र च समयविषयं ग्रहणं स्मरणं वोपचारेण समयः । समयविषयज्ञानसहकारिगेति यावत् । सम्यक् संशयादिविलक्षणस्य परोक्षस्य परोक्षत्व- जातियुक्तस्यानुभवस्य स्मरणविलक्षणज्ञानस्य साधनं करणं शब्दात्मकमशब्दात्मकं वा चेष्टालिप्यक्षरादि यत् तत् सर्व- मागमः ॥ तस्य भेदमाह- स द्विविधः दृष्टादृष्टार्थभेदात् ॥ इति । अर्थः प्रयोजनम् । तत्र दृष्टप्रयोजन आ- गमो यथा 'नद्यास्तीरे फलानि सन्ति' 'गेहान्तर्मोदकानी- त्यादिः । अदृष्टार्थस्तु 'स्वर्गकामो यजेते'त्यादिः॥ अर्थासंसर्गित्वात् सर्वशब्दानामप्रामाण्यमिति बौद्धा मन्यन्ते । तान् - प्रत्याह तत्र दृष्टार्थानां वाक्यानां प्रायेण प्रवृत्तिसाम- ात प्रामाण्यमवगम्यते ॥ इति । प्रवृत्तिः कायिकी चेष्टा इष्टप्राप्त्यर्था अनिष्ट- परिहारार्था च । तस्याः सामर्थ्य तत्तत्प्रयोजनप्रापकत्वम् । तस्मात् । अयमभिसन्धिः- स्वप्रत्यायितमर्थ प्रापयत् प्र- त्यक्षमनुमानं च प्रमाणमिति लोकप्रसिद्धत्वाद् यथा स्वी- क्रियते, तहदागमोऽपि स्वप्रत्यायितमर्थ प्रापयन् प्रमाण- मित्यङ्गीकार्यम् , अन्यथा सर्वशब्दानामङ्गल्यग्रे करियूथशत- मास्त इति वाक्यसमत्वेन शास्त्रलौकिकवचनानामर्थशून्यत्वेन १. 'समीचः सं' उ. च. पाठः, २. 'संस्पर्शित्वा' ग, घ, ङ, च. पाठः, आगमपरिच्छेदः। ९५ -|| - - व्यर्थप्रयोगत्वात् मौनशरण एव शाक्यः स्यात् । विवादा. ध्यासितानि वाक्यानि प्रमाणानि, समर्थप्रवृत्तिकारणत्वात् । प्रत्यक्षादिवदिति स्थितम् ॥ अदृष्टार्थानां पुनराप्तोक्तत्वेनेति. इति । पुनःशब्दः प्राक्तनवाक्यप्रामाण्यसमर्थनप्रकार- वैलक्षण्यज्ञापने ॥ चोदयति कथम् ॥ इति । अयमभिसन्धिः न तावत् प्रवृत्तिसाम- येनात्र प्रामाण्यनिश्चयः, अदृष्टार्थत्वादेव । नहि स्वर्गादय इदानीमेवैकेनापि कृतयागेन प्राप्यन्ते । नाप्याप्तोक्तत्वेन, तस्यैव निश्वेतुमशक्यत्वात् । अतः कथमदृष्टार्थांना प्रामाण्य- निश्चय इति ॥ परिहरति 'पुत्रकामो यजेते त्यादिवाक्यानां प्रवृत्तिसाम- •त् प्रामाण्यमनुमाय तत्प्रणेतुरतीन्द्रियार्थदर्शित्वेन परमाप्तत्वमवधार्य तत्प्रणीतानां सर्ववाक्यानामप्रामा- ण्यकारणाभावात् प्रामाण्यमनुमीयते ॥ इति । यद्यपि सर्ववेदवाक्यानां प्रवृत्तिसामर्थ्य न घटते, तथापि तदेकदेशभूतानां 'पुत्रकामो यजेत' 'पशु-, कामो यजेत', 'कारीर्या वृष्टिकामो यजेते'त्यादिवाक्यानां १. 'यत्वा' इ. पाठः, . सव्याख्ये न्यायसारे तावत् प्रवृत्तिसामर्थ्यात् प्रामाण्यमनुमीयते । न च वक्तव्यं निवर्तितायामपीष्टौ पुत्राद्यदर्शनात् तेषां प्रामाण्यमयुक्त- मिति । बाहुल्येन फलोपलम्भात । कचिदनुपलम्भे तु कर्म- कर्तृसाधनवैगुण्यमेव कल्प्यता, न पुनर्वाक्यस्याप्रामाण्यम् । किञ्च, शान्तिकपौष्टिकादिकर्मणां वैदिकानां प्राचुर्येण फलो- पलम्भात् तदभिधायिवाक्यानां प्रामाण्यसिद्धेः तत्प्रणेतुरती- न्द्रियार्थद्रष्टुत्वमेव सिद्धमिति ! नहि तत्तत्कर्मणां तत्तत्कलानां चापरिमितानां साध्यसाधनभावमन्योऽस्मदादिरसर्वज्ञः प्रति- पत्तुमुपदेष्टुं वा समर्थः । ननु बौद्धाद्यागमानामप्येकदेश- संवादोऽस्तीति प्रामाण्यप्रसङ्ग इति तत्परिहारायोक्तम् अप्रा. माण्यकारणाभावादिति । बौद्धादिवाक्यानां तु 'सर्व क्षणिकं' 'सर्व शून्यमित्येवमादीनां भूयसां बाधकमुपलभ्यत इत्यप्रा- माण्यमेव युक्तमिति भावः। तत्रातीन्द्रियैकदेशसंवादस्तु वेद- मूलत्वादप्युपपद्यत इति । नच वैपरीत्यमाशङ्कनीयम् । त- त्रानभिहितानां शान्तिकपौष्टिकजातिविभागकर्मणामनन्तानां वेद एवोपलम्भात् ॥ "आपणे कियतामेव रत्नानामुपलम्भनात् । नहि तन्मूलता शङ्कया रत्नाकरमहोदधेः।" "नन्वेवं पौरुषेयत्वात् प्रामाण्यप्रतिपादने । रागद्वेषादिकालुष्यं पुरुषेषूपलभ्यते ॥ अतोऽप्रामाण्यशङ्कापि निष्कलके प्रसज्यते । वेदप्रमाणता तस्मान्नित्यत्वेनाभ्युपेयताम् ॥" १. 'प्रतिपत्ति' ग. पाठः. २. 'म्भेऽपि क' घ. पाठः. ३. 'त्वादुप' ग. पाठः, .

आगमपरिच्छेदः। इत्याराड्याह न नित्यत्वेन ॥ इति । नहि नित्यत्वाद् वेदः प्रमाणमिति वक्तुं श- क्यते, श्रोत्रीन्तःकरणादीनां नित्यत्वेऽपि संशयविपर्ययो- सादनदशाथामप्रमाणत्वेनानेकान्तात् । नित्यत्वे सति पुरुष- दोषाणामननुप्रवेशादप्रामाण्यशङ्कानिवृत्ती वेदे प्रामाण्यं खत एवेति चेत् । न । वेदस्य हि विशिष्टज्ञानसाधनेत्वं प्रामाण्यम्। तच्च न स्वतः, समयग्रहणापेक्षणात् । अन्यथा व्याकरणादि- व्युत्पत्तिरहितानां वेदश्रवणमात्रादर्थप्रतीतिप्रसङ्गः। अथ त- ज्जनितस्य ज्ञानस्य प्रामाण्यं स्वतः । तत्रापि स्वत इति कोऽर्थः । किमुत्पत्त्यपेक्षया ज्ञप्त्यपेक्षया वा ! न तावत् कार्यस्य कस्यापि स्वत उत्पत्तिदृष्टा । अथ सम्यमिथ्याभूतबोधसाधार- णकारणमात्रादतिरिक्तकारणानपेक्षाज्जायमानत्वं स्वतस्त्वम् । तेदप्ययुक्तं, प्रमाणाभावात् । विपर्यये तु प्रमा सम्यमिथ्या- भूतबोधसाधारणकारणादतिरिक्तसहिताज्जायते, साधारण- कारणेषु सत्स्वनुत्पद्यमानज्ञानत्वादप्रमावत् । नचासिडो हेतुः, मिथ्याज्ञानोत्पत्तिसमये साधारणकारणसद्भावेऽपि प्रमाया अनुत्पादात् । नापि स्वत एव ज्ञप्तिः, ज्ञानस्य स्व- संवेद्यत्वासिद्धः। भाट्टैरनभ्युपगमाच्च । अथ यया अर्थप्राक- ट्यान्यथानुपपत्त्या बोधः सिध्यति, तयैव सामग्रया प्रमाण- मित्येव ज्ञायमानत्वात् स्वतःप्रामाण्यमिति । तन्न । असि- डत्वात् । नहि यथाकथश्चिदपि ज्ञायमानो बोधः प्रमाणमि- १. 'त्रादेः क' २. 'क', ३. 'स्य प्रा', ४. 'या', ५. 'तन्न, प्र' ग. पाठः. .

...: १८ सव्याख्ये न्यायसारे सेव ज्ञायते, मिथ्याभूतबोधस्यापि तथा प्रतीतिप्रसङ्गात् । कचिद् बोधेऽपि सम्यङ् मिथ्या वेति संशयदर्शनाच्च प्रामाण्यं परतो ज्ञायते । अनभ्यस्तदशायां संशयविषयत्वादप्रामाण्य- वत् । अथ नित्यत्वेनाप्रामाण्यशङ्काया निवृत्तौ पश्चात् प्रवृ. त्तिसामर्थ्येन महाजनपरिगृहीतत्वेन वा वेदस्य प्रामाण्यं सि- ध्यतीति चेत् । एतत् पौरुषेयत्वेऽपि समानम् । न चाप्रामा- ण्यशङ्कानिरासाथै प्रमाणान्तरोपयोगः, प्रामाण्यसाधकादेवा. प्रामाण्यशङ्काया अपि निराससिद्धरित्यलम् ॥ नापि नित्यत्वे प्रमाणमस्तीत्याह .. वाक्यानां हि नित्यत्वे प्रमाणाभावात् । अनि- त्यत्वे पुनर्वाक्यत्वायनेकमनुमानम् ॥ इति । हिशब्दार्थे दूषणान्तरसूचने। पदरचनात्मकं हि वाक्यम् । नच तन्नित्यत्वे प्रमाणमस्ति । नित्यानि वेद- वाक्यानि,सम्प्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वादाकाश- वदिति चेत् न। साधनविकलत्वाद् दृष्टान्तस्य । सम्प्रदायावि- च्छेदो हि वृद्धपाठपरम्परया येद् वाक्यस्यानुवर्तनम् । नच तोद्रूप्यमाकाशे सम्भवति । किञ्च 'यो धर्मशीलो जितमान- दोषः' इत्यादिवाक्यानां बहूनामपि सम्प्रदायाविच्छेदे सत्य- स्मर्यमाणकर्तृकत्वमस्ति न च नित्यत्वमिति व्यभिचारः । ननु नेदमनुमानम्। किन्त्वर्थापत्तिः । तथाहि-यदि वेदः पौरुषेयः स्यात् , तदा तदभिहितकर्मणां सन्ध्यावन्दनादीनां १. 'यथावद् वा', २. 'तद्रूपमा' इ. पाठः. २. 'तद्रूपमा' क. पाठः. ३. 'हितानां क'.ग. पाठः.

आगमपरिच्छेदः । ९९ बहुवित्तव्ययायाससाध्यामिहोत्रादीनां चानुष्ठानकाले कर्तृस्म- रणे सति तत्प्रत्ययादेव प्रवृत्तिः स्यात् । न च तदस्ति । अ. तोऽवश्यं स्मरणयोग्यस्यापि कर्तुरस्मर्यमाणत्वान्यथानुपपत्त्या वेदानां नित्यत्वमिति । तन्न । शिष्टवृद्धपरम्परानुष्ठानप्रत्यया- देवाकर्तृस्मरणेऽपि भविष्योक्तादिष्टवतेष्विव प्रवृपः क्षीणा- पत्तिः । अनित्यानि वेदवाक्यानि पौरुषेयाणि चे, वाक्य- त्वात् , कालिदासवाक्यवत् ।रचनारूपत्वाद् वा, तन्तुरचना- वत् । पौरुषेयत्वं च साक्षात् परम्परया वा स्वतन्त्रपुरुषपूर्वकत्वं साध्यम् । अतो नोपाध्यायपरम्परापूर्वकत्वेन सिद्धसाधनम्। स्वातन्त्र्यं च तादृशरचनान्तरानुसन्धानशून्यस्य विशिष्टरच- नाहेतुत्वं "सर्वथा प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता।" इति वदद्भिः श्रोत्रियरप्यङ्गीकृतमन्यत्रेत्यलम् ॥ दूषणान्तरमाह- सर्वदोपलब्ध्यनुपलब्धिप्रसङ्गश्च विपर्यये निया- मकाभावात् ॥ इति । वैदिकवाक्यानां सर्वपदानां च नित्यस्ख इति शेषः । यदीन्द्रियग्रहणयोग्यत्वं तदा सर्वशब्दानां नित्यव्या- पकत्वेनेन्द्रियसम्बद्धानां सर्वदोपलब्धिप्रसङ्गः । अयोग्यत्वे वा परमाण्वादीनामिव सर्वदैवानुपलब्धिप्रसङ्गः । विपर्यये कदाचिदनुपलम्भलक्षणे नियामकस्य कारणस्याभावात् ॥ १. 'वा', २. 'षः नित्यानां य' घ. पाठः.

- - १०० समारले साकारे परमतमाशइते- अभिव्यञ्जकाभावात् तदनुपलब्धिरिति चेत् ॥ इति । तेषां शब्दानामनुपलब्धिः कदाचिदभिव्य- अकाभावात् । तत्सद्भावे तु कदाचिदुपलब्धिरित्यर्थः ॥ दूषयति न । तदनिर्देशात् ॥ इति । तस्याभिव्यञ्जकस्यानिर्देशादकथनात् । विशे- घेणेति शेषः॥ पुनः परमतमाशते वायुसंयोगविभागाविति चेत् ॥ इति । वक्तुस्ताल्वोष्ठपुटव्यापारात् प्रेरितो विशिष्टो वायुरागत्य श्रोतुः श्रोत्रदेशेन यदा संयुज्यते, तदा शब्दो- पलब्धिः। यदा च विभज्यते तदानुपलब्धिः । अथवा व्य- :। शब्दवारकस्तिमितवायुना च वि. भागः । तौ व्यञ्जकावित्यर्थः॥ परिहरति- • न । सर्वशब्दानां युगपग्रहणप्रसङ्गात् ॥ इति ॥ परः प्रत्यवतिष्ठते कथम् ॥ इति । नहि रूपाधभिव्यञ्जकतेजस्संयुक्तेन चक्षुषा सर्वेषां रूपादीनां युगपद् ग्रहणं दृष्टमिति भावः॥ १. 'दा तदनु' घ. पाठः. २. 'त् प्र' ग. पाठः, अकवायुना संयोगः भारम्परिच्छेदः। युगपच्छम्दानां ग्रहणप्रसङ्गं समर्थयितुमाह - श्रोत्रं तावत् समानेन्द्रियग्राह्यसमानदेशस्थानां ग्रहणाय प्रतिनियतसंस्कारसंस्कार्य न भवति, इन्द्रि- यत्वात् । चक्षुर्वत्॥ इति।प्रतिनियतसंस्कारसंस्कार्य न भवति इति साध्ये मनसा व्यभिचारः । तद्धि रूपरसादिग्रहणाय प्रतिनियत- सहकारिसहितमेव प्रवर्तते । तन्निरोसाय समानेन्द्रियग्राब- ग्रहणम् । तथापि भिन्नदेशावस्थितरूपग्रहणाय चक्षुः प्रति- नियतप्रदीपादिसहकारिणमपेक्षत इत्यनैकान्तिकः । तन्निरा- साय समानदेशग्रहणम् । समानदेशत्वं च युगपदिन्द्रिय- सम्बन्धित्वं विवक्षितम् । ननु तथापि शुक्लकृष्णरूपग्राहक- चक्षुषा व्यभिचारः । शुक्लरूपं हि मन्दालोकवता चक्षुषा गृ- ह्यते । कृष्णरूपं तु प्रचुरालोकसहितेनेति । ने। प्रचुरालो- कसहितेन चक्षुषा शुक्लकृष्णयोरुभयोरपि ग्रहणात् प्रतिनि- यतसंस्कारसंस्कार्यत्वासिद्धेः । अन्ये तु अस्य चोयस्य परि- हारार्थ समानधर्मापन्नानामिति विशेषयन्ति । तच्चायुक्तम् । सर्वशब्दानां समानधर्मत्वाभावेनासिद्धविशेषणस्य साध्यता- प्रसङ्गात् । एतच्च श्रोत्रसंस्कारपक्षेऽनुमानमुक्तम् ॥ विषयभूतशब्दसंस्कारपक्षे दूषणमाह शब्दा वा प्रतिनियतसंस्कारसंस्कार्या न भ- वन्ति, समानेन्द्रियग्राह्यस्वे सति युगपदिन्द्रियेसम्ब- न्धित्वात्, घटवत् ॥ १. 'देशार्थानां' घ. पाठः, २. 'राकरणाय', ३. 'कवतेति', ४. 'तब प्रग, प.क.पाठः, ५. यमायत्वात' ग. पाठः.

१०२ सव्याख्ये न्यायसारे इति । युगपदिन्द्रियसम्बन्धित्वादित्युच्यमाने रूप- रसगन्धस्पर्श(षु) व्यभिचारः, तेषामेकद्रव्यसमवेतानां युगप- चक्षुस्सम्बन्धित्वेऽपि प्रदीपदन्तान्तर्गतोदककस्तूरीवायुविशेषै- यथासङ्ख्यं संस्कार्यत्वात् । अतः समानेन्द्रियग्राह्यग्रहणम्। समानधर्मापन्नग्रहणं तु यदि पुस्तकान्तरेषु स्यात् , तदा विशेषणासिद्धो हेतुः स्यात् । यदि पुनः शुक्लकृष्णरूपवदु- उज्वलानुज्ज्वलत्वधर्मरहितत्वमेव समानधर्मापन्नत्वं विवक्षितं, न पुनः सर्वथा साम्यमिति, ततोऽदुष्टो हेतुरिति । एतच्चानु- मानं परैः प्रसङ्गसाधनस्याङ्गीकरणादुक्तम् । अन्यथा मन्मते युगपदिन्द्रियसम्बन्धित्वमसिद्धमेव ॥ परमतमाशङ्कते- उत्पत्तिपक्षेऽप्ययं दोषः समान एवेति चेत् ॥ इति । वायोः शब्दोत्पादकत्वाभ्युपगमेऽप्येकोत्पा- दकः सर्वोत्पादकः स्यात् । अथ नियतैकैकवर्णोत्पादनेच्छया प्रेरितो वायुस्तमेव करोति नान्यमिति चेत् । व्यञ्जकत्वेऽपि समानम् । तदुक्तं भट्टाचार्यैः "अन्यार्थ प्रेरितो वायुर्यथान्यं न करोति सः। तथान्यवर्णसंस्कारशक्तोऽन्यं न करिष्यति ॥" इति । परिहरति- न । मृत्पिण्डप्रदीपदृष्टान्ताभ्यां कारकव्यञ्जक- वैधर्म्यसिद्धिरित्यलम् ॥ १. 'क्षुःस्पर्शसम्ब', २. 'यं समानो दोष इति', ३. 'लमतिप्रसङ्गे- नेति' ग. पाठः. - - आगमपरिच्छेदः । १०३ इति । एको हि मृत्पिण्डः कर्तुरिच्छावशेन घटाय. न्यतमं कार्यमारभते । व्यञ्जकस्तु प्रदीपः पटप्रकटनेच्छया प्रेरितः स्वसंयुक्तघटादिकमपि प्रकटयत्येव । अतो न कारक- व्यञ्जकयोः साम्यम् ॥ इदानीं प्रागुक्तसकलशास्त्रार्थमुपसंहरन् प्रमाणानामन्तर्भावं दर्शयति- एवमेतानि त्रीण्येव प्रमाणानि । एष्वेवोपमाना- र्थापत्तिसम्भवाभावैतिह्यादीनामन्तर्भावः ॥ इति । आदिशब्देन चष्टालिप्यक्षरयोः स्वीकारः ॥ वृद्धनैयायिकाभिमतोपमानमन्तर्भावयति- तत्र यथा गोरेवं गवय इत्युपमानं शब्देऽन्तर्भू- इति । अदृष्टगवयेन गवयार्थिना नागरिकेण कीदृग् गवय इति पृष्टो वनेचरः प्राह यथा गौरेवं गवय इति । एतत् किल वाक्यं गवोपमानेन गवयं ज्ञापयत् पृथक् प्रमा- णमिति । तच्चायुक्तम् । "दीर्घग्रीवः प्रलम्बोष्ठश्चतुष्पाद् विकृताकृतिः । उष्ट्र इत्यादिवाक्यस्य पृथक्प्रामाण्यसक्तितः ॥" मीमांसकामिमतमुपमानमाशइते अनेन सदृशी मदीया गौरित्युपमानमिति चेत्॥ इति । अटव्यामटतः पुरुषस्य गोसदृशपिण्डोप- लम्भाद् मदीया गौरनेन सदृशीति ज्ञानमुपजायमानं न १. 'एता' ग. घ. पाठः.

१०४ . सव्याचे न्यायसारे तावत् प्रत्यक्ष, गोपिण्डस्य तदेन्द्रियासनिकृष्टत्वात् । नापि स्मरणं, गवयसादृश्यावच्छेदेन पूर्व ग्रहणाभावात् । नाप्य- नुमानं, लिङ्गाभावात् । अथ गौरनेन सदृशीति ज्ञानमुप- जायमानमस्य तत्सदृशत्वादित्युच्यते, तदा अधिकरणासिडो हेतुः । अनुपपद्यमानार्थासम्भवाच्च नार्थापत्तिः । शब्दाभाव- योबासम्भवादपमानमेवेति भावः॥ परं दूषयति- न । तस्य स्मृतित्वात् । पूर्वमेव हि सादृश्यवि- शिष्ट उपलब्धो गोपिण्डः । कस्मात् । उपलब्धियोग्य- त्वात् । अयोग्यत्वे वा न कदाचिदुपलभ्येतादृष्टवत् ॥ इति । भूयोवयवसारूप्यं हि गोर्गवयेन सादृश्यम् । तच्चेन्द्रियग्रहणयोग्यत्वादाश्रयग्रहेणकाल एव गृहीतम् । के- वलं प्रतियोगिग्रहणप्रतिबुद्धसंस्कारस्य स्मरणमेवोत्पद्यते ॥ पूर्वमेव गवयसदृशी चेद् गौरुपलब्धा, किमिति तदा तथा निश्चयो न भवतीत्याशयाह निर्विकल्पकेन तु प्रत्यक्षेण पूर्व सादृश्यमुपल- ब्धम् । तेन तदोपलब्ध्यभिमानो न भवति ॥ इति ॥ तर्हि पश्चानिश्चयात्मिका स्मृतिः कथं स्यात् , अनुभवाकारानुकारित्वात् स्मृतरित्यत्राह निर्विकल्पकोपलम्भेऽपि संस्कारसहकारिसाम- ादभावादिषु सविकल्पिका स्मृतिदृष्टेति ॥ - १. 'पूर्वमग्रहणात्' ग. क. पाठः. २. 'हका' ग, पाठः.

- भागमपरिच्छेदः। १०५ इदानीन्तननैयायिकामिमतोपमानमनूष दूषयति- संज्ञासंशिसम्बन्धप्रतिपत्तिरप्यातवचनकार्या । इति । गोसदृशो गवय इत्यतिदेशवाक्यं श्रुतवतो- इटवीमटतो गोसहशपिण्डदर्शनानन्तरमयं गवयनामेति संज्ञा- संजिसम्बन्धप्रतिपत्तिरुत्पाद्यमानोपमानफलम् । गै.सादृश्य- विशिष्टपिण्डदर्शनं च प्रमाणमित्याचार्या उद्द्योतकारादयो मन्यन्ते । तच्चायुक्तम् । आप्तवचनादेवातिदेशरूपात् पूर्वमेव संज्ञासंशिसम्बन्धज्ञानस्योत्पन्नत्वादिति ॥ तत्रार्थे प्रमाणमाह तथा प्रश्नोत्तराभिधानादन्यप्रमाणानिर्देशाच्च ।। इति । कथं च जानीषे गवयनामायमिति केनचिद- नुयुक्तः सन् वनेचरवचनादवगतमिति ब्रूते, न पुनरुपमानेन जानामीति प्रमाणान्तरं निर्दिशति ॥ परमतमाशहते अस्य गवयशब्दः संज्ञेति प्रतिपत्तावुपमानसिद्धिः, तथा शब्दाश्रवणादिति चेत् ।। इति । गोसदृशो गवय इति वनेचरवचनाद् गव- यस्य गोसादृश्यमानं प्रतीयते । पश्चाद् गोसादृश्यविशिष्टपि- ण्डदर्शने सत्यस्य पिण्डस्य गवयशब्दः संज्ञेति प्रतिपत्ती प्रमाणान्तराभावादुपमानमेष्टव्यम् । कस्मात् । तथा अस्य गवयशब्दः संज्ञेति प्रकारेण शब्दस्य पूर्वमश्रवणात् ॥ १. 'यिकोप' ग. पाठः. २. 'र्योद्यो', ३. 'श्वातु सा' -- ग, घ, पाठा, १ १०६ सव्याख्ये न्यायसारे परिहर्तुमतिप्रसङ्गं तावद् दर्शयति- एवं तर्हि गौरयमित्यस्मिन् सङ्केते कृतेऽस्य गो- शब्दः संज्ञेति प्रतिपत्तौ प्रमाणान्तरं वाच्यं, समान- न्यायत्वात् । गोपिण्डान्तरेऽपि सङ्केतग्रहणे प्रमाणान्त- राभिधानप्रसङ्ग इति ॥ इति । यस्मिन् पिण्डे सङ्केतोऽन्यैवचनाद् गृहीतस्त- तोऽन्यो गोपिण्डो गोपिण्डान्तरम् । तस्मिन्निदानीमतिप्र- सङ्गः ॥ परेणाभिधीयमानं परिहारं स्वपक्षेऽपि समीकतुं तमेवाशकते तथा शब्दानभिधानेऽपि प्रतिपादकप्रतिपचोरेव- मेवाभिप्रायः-ईदृशस्य सर्वस्य गोशब्दःसंज्ञेति साम- •देवं प्रतिपत्तिरिति चेत् ॥ इति । तथा शब्दानभिधानेऽपि एवञ्जातीयकस्य सर्वस्य गोशब्दः संज्ञेति शब्दानुच्चारणेऽपि । सामर्थ्यमूहनश- क्तिरदृष्टविशेषः ॥ परोक्तं परिहारं स्वपक्षेऽपि योजयति- समानमेतदितरत्रापि । गोसदृशो गवय इति शब्दादुभयोरेवमेवाभिप्रायः गोसदृशस्यार्थस्य गवय- शब्दः संज्ञेति सामर्थ्यादेवं प्रतिपत्तिरिति ॥ इति ॥ १. 'मित्येवं स', २. 'अ' ख. पाठः. ३. 'न्यत्र व' ग. पाठः, ४. 'विषयः प' ख. पाठः.

आगमपरिच्छेदः । २०७ ननु वनेचरवचनोचारणकाले गवयस्याप्रत्यक्षत्वात् कथं तत्र संज्ञाकर- णम् । 'प्रत्यक्ष संज्ञाकर्मेति सूत्रविरोधादित्याशङ्कयाह नच प्रत्यक्ष एवार्थे संज्ञासंजिसम्बन्धप्रतिपत्तिः, अप्रत्यक्षेऽपि शकादौ संज्ञासंज्ञिसम्बन्धप्रतिपत्तिदर्श- नात् ॥ इति । देवानामधिपतिः सहस्राक्षो यः स शेक इति संज्ञाप्रत्यायनम् । तथा स्वपुत्रादौ दृढप्रमाणावगते दूरस्थेन पित्रा संज्ञाकरणमपि दृष्टमिति "प्रत्यक्षं संज्ञाकमें"ति सूत्रे प्रत्यक्षशब्दो दृढप्रमाणोपलक्षणपर इति वैशेषिकैरेव व्या- ख्यातम् ॥ तर्हि "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" (१-१-३) इति प्रमाण- विभागसूत्रविरोध इत्याह सूत्रविरोध इति चेत् ॥ इति ॥ परिहरति न । प्रमाणनिग्रहस्थानाभ्यां दृष्टान्तहेत्वाभासा- दीनामिव प्रयोजनवशेन पृथगभिधानात् ॥ इति। "प्रमाणप्रमेयसंशय--" इत्यादिप्रथमसूत्रे प्रमा- णान्तर्भूतस्य दृष्टान्तस्य निग्रहस्थानान्तर्भूतानां हेत्वाभासा- दीनां यथा प्रयोजनवशेन पृथगभिधानं, तथा शब्दान्तर्भूत- स्याप्युपमानस्य प्रयोजनवशेन पृथगभिधानमित्यर्थः । १. 'शतक्रतुरिति' ख. पाठः. २. 'र्भावस्य इ. पाठः, - -- १०८ सव्याख्ये न्यायसारे पृच्छति- तहि प्रयोजनं वाच्यम् ॥ इति ॥ प्रयोजनमाह उच्यते । शब्दप्रामाण्यसमर्थन प्रयोजनम् ॥ इति ॥ परः प्रत्यवतिष्ठते कथम् ॥ इति । अयमभिसन्धिः-"तदप्रामाण्यमनृतव्याघात- पुनरुक्तदोषेभ्यः” (२-१-५६) इति पूर्वपक्षसूत्रे "न कर्मकर्तृ- साधनवैगुण्यात्” (२.१.५७), "अभ्युपेत्य कालभेदे दोषवच- नात्" (२-१-५८), "अनुवादोपपत्तेश्व” (२-१.५९) इति सूत्रषु वा शब्दप्रामाण्यसमर्थनार्थेषु नोपमानस्योपयोगः श्रूयते । तत् कथं पृथगभिधानस्यैतत् प्रयोजनं स्यादिति ॥ प्रकारान्तरेण शब्दप्रामाण्यसमर्थनार्थत्वमुपमानस्य दर्शयिष्यन् पराशकां - तविद् दर्शयति केचिदाहुः-प्रत्यक्षानुमानविषयत्वे शब्दस्या- नुवादकत्वम् । तदविषयत्वे सम्बन्धामहणादवाचक- त्वम् ॥ इति । प्रत्यक्षानुमानयोर्विषय एव विषयो यस्यासौ प्रत्यक्षानुमानविषय इत्येकस्य विषयशब्दस्य लोपेन समासः। अनुवादकत्वं प्रमाणान्तरगृहीतकविषयत्वम् । ततश्च स्मृति- वदप्रामाण्यं स्यादित्यर्थः॥

आगमपरिच्छेदः । १०९ पदेनवार्थमभिधाय तत्र पदं सडेत्यतामित्याशड्याह - पदार्थस्याप्रसिद्धत्वान्न पदेन सम्बन्धग्रहणमि- तरेतराश्रयत्वात् ॥ इति । पदेनार्थाभिधाने सम्बन्धग्रहणम् । तद्ग्रहणे च पदेनार्थाभिधानमिति ॥ वाक्येनापि सम्बन्धो ग्रहीतुमशक्य इति दर्शयति- वाक्यार्थस्तु प्रसिद्धानां पदानामन्वयमात्र- मिति ॥ इति । पद्यन्ते ज्ञायन्त इति पदानि । तेषां, पदार्था- नामित्यर्थः । किंविशिष्टानाम् । प्रसिद्धानाम । पदैरभिहि- तानामन्वयमात्रं वाक्यार्थः । एवञ्च सम्बन्धाग्रहणे पदार्था- प्रसिद्धिः। तदप्रसिद्धौ च वाक्यार्थीप्रसिद्धिरिति कथं वाक्येन सम्बन्धग्रहणमित्यर्थः॥ एवं परोक्तं दूषणमनूचेदानीं तत्परिहार उपमानस्योपयोगमाह - तन्निराकरणार्थमुपानं निदर्शनार्थत्वेन पृथ- गुक्तम् । यथा कार्यार्थिनोऽप्रसिद्धगवयस्य प्रसिद्ध गोसादृश्यमुपादायोपमानाख्येन वाक्येन संज्ञासंज्ञि- सम्बन्धप्रतिपत्तिः क्रियते, तथा किञ्चिनिमित्तमुपादाय शक्रादिपदपदार्थयोरपि । तस्मादन्यार्थत्वान्न सूत्र- विरोधः॥ इति । किश्चिन्निमित्तं सहस्राक्षत्वदेवाधिपत्वादिकमु- पादाय शकादिपदपदार्थयोरपि संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः । १. 'द्वानां', २. 'दाना', ३. 'मानमिति नि', १. 'पीति।त' ग. पाठः, ܘܪܪ सन्याख्ये न्यायसारे कियत इत्यनुवर्तते । तथाच प्रत्यक्षानुमानसमानविषयत्वेऽपि नाप्रामाण्यं, संवादाभ्युपगमात् । पदान्तरसन्निधाने च तदर्था- न्वितापूर्वार्थप्रतिपादकत्वात् ॥ ननूपमानस्य पृथक्प्रामाण्याभावे ‘अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः' (२-१-४२), 'प्रसिद्धसाधादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः' (२-१-४३) इति सूत्राभ्यां सूत्रकारेणाप्रामाण्यशापूर्वक प्रामाण्यसमर्थनं किमर्थ कृत- मित्याशड्याह - परीक्षा चार्थापत्तिवत् प्रमाणस्य सतः प्रमाणेष्व- न्तर्भावज्ञापनार्थम् ॥ इति ॥ ननूपमानस्यान्तर्भावमप्याशङ्कय परिजहार सूत्रकारः । तथाचोपमान- मनुमानं, 'प्रत्यक्षेणाप्रत्यक्षसिद्धेः' (२-१-४४) परा(मा :)र्थमुपमानमिति चेत् । न । स्वयमप्यध्यवसायात् 'तथेत्युपसंहारादुपमानसिद्धर्नाविशेषः' (२.१-४६) इति । तस्मात् कथमन्त वे सूत्रविरोधो न भवतीत्याशझ्याह अन्तर्भावस्त्वनुमान एवास्य यथाश्रुतोऽपि नि- राकृतो नागम इति ॥ इति । निराकृतोऽपीति सम्बन्धः ॥ ननु 'न चतुष्ट्वमैतिद्यार्थापत्तिसम्भवाभावप्रामाण्यात्' (२-२-१) इत्या- दिषु सूत्रेषु प्रमाणचतुष्टयश्रवणात् त्रित्वं सूत्रविरुद्धमित्यत आह चतुष्ट्वाभिधानं सूत्रेषु पञ्चत्वादिनिराकरणार्थ, १. 'नवि' रु. च. पाठः. २. 'देः न च प' ख. रु. पाठः. ३. 'व:' ग. पाठः.

- - भागमपरिच्छेदः। न त्रित्वप्रतिषेधार्थ प्रमाणसिद्धत्वादन्तर्भावस्य । इति ॥ परमतमाशते त्रित्वानभिधानादयुक्तमिति चेत् ॥ इति । यदि सूत्रकारः प्रमाणत्रित्वमेवाभ्युपागमिष्यत् तदा कचित् त्रित्वमभ्यधास्यत् । नचाभ्यधात् । तस्माद् युक्त. मेतदिति ॥ परिहरति- ने। सूत्रकारस्यैवंस्वभावत्वात् , यत् सिद्धान्तमपि कचिन्नाभिधत्ते यथा कृत्स्नैकदेशविकल्पादिनावयवि- निराकरणे ॥ इति ॥ कुत एव तदनभिधानमित्यत्राह - शिष्याणामूहादिशक्त्यतिशययुक्तानामेवात्राधि- कार इति ज्ञापनार्थम् ॥ इति । उपसंहरति तस्मात् स्थितमुपमानं शन्देऽन्तर्भूतम् ॥ इति ॥ अर्थापत्तेरप्यनुमानेऽन्तर्भावोऽविनाभावबलेनार्थ- प्रतिपत्तिसाधनत्वात् ॥ २. 'त्यत आह', ३. १. 'नास्य सू' ख. ग. क. पाठः, 'क' घ. पाठः.

११२ सव्याख्ये न्यायसारे इति । दहनानुमाने धूमवदिति शेषः॥ अविनाभावमेव दर्शयति- अन्यथा नोपपद्यत इत्युक्ते सत्येवोपपद्यत इति लभ्यते । अयमेवाविनाभाव इति ॥ इति ॥ परमतमाशहत यत्र सामान्याकारेणाप्यन्वयग्रहणं नास्ति यथा मुख्यकारणत्वाप्रतिबन्धशक्त्योः, तत्रार्थापत्तिः पृथक प्रमाणमिति चेत् ॥ इति । मुख्यकारणत्वं नाम सकलसहकारिसाकल्यं यदनन्तरमेव कार्योत्पत्तिः। सहकारिणश्च दृष्टादृष्टरूपाः। न च तेषां साकल्यं कचिदप्यस्मदादिप्रत्यक्षम् । किन्तु कार्यक- समधिगम्यम् । तथा वह्नयादीनां दाहकत्वादिशक्तः प्रति- बन्धाभावोऽपि न प्रत्यक्षः । प्रतिबन्धकानां मणिमन्त्रादीना- मनन्तत्वेन तदभावस्याप्यनन्तत्वात् । अतो मुख्यकारणत्वा- प्रतिबन्धशक्त्योः प्रतिपत्तौ सामान्याकारेणाप्यन्वयग्रहणा- भावादनुमानासम्भवेऽर्थापत्तिरेव प्रमाणमित्यर्थः ॥ परिहरति न।तत्रापि केवलव्यतिरेक्यनुमानादव्यतिरेकात् । केवलव्यतिरेकी अर्थापत्तिरित संज्ञाभेदमात्रम् ॥ इति । प्रयोगस्तु कार्योत्पत्तेः पूर्वक्षणे कारणानि सकलसहकारिसमवेतानि सकलप्रतिबन्धकशून्यानि वा । १. 'प्यसंख्यत्वात्' ख. क. पाठः, २. 'तो' ग. पाठः, - आगमपरिच्छेदः । अनन्तरमेव कार्योत्पादकत्वात्। यानि पुनरेवं न भवन्ति, न तान्यनन्तरं कार्योत्पादकानि । यथा केवलतन्तवो मणि- प्रतिबद्धोऽग्निर्वा ॥ चोदयति- अन्वयाभावान्नैतदनुमानमिति चेत् ॥ इति ॥ परिहरति न । केवलान्वयिनो व्यतिरेकाभावेन प्रमाणान्त- रत्वप्रसङ्गात् ॥ इति । स्पष्टम् ॥ दृषणान्तरमाहै - अपिच प्रत्यक्षादिभेदानां केनचिद् वैधयेण भेदात् प्रमाणान्तरत्वप्रसङ्गः ॥ इति । सविकल्पकनिर्विकल्पकभेदेन योग्ययोगिप्रत्य- क्षभेदेन वा द्विविधं प्रत्यक्षम् । कार्यकारणानुभयात्मकभेदेन त्रिविधमनुमानम् । दृष्टादृष्टार्थभेदेन द्विविधः शब्द इति ॥ उपसंहरति तस्मादविनाभावबलेनार्थप्रतिपादकत्वादर्थाप- तिरनुमानम् ॥ इति ॥ केनचित् सहसमेतदिति कथितेऽत्र शतं सम्भवतीति ज्ञाने सम्भवाख्य माणमिति केचिदाहुः । तन्निराकरोति १. 'न्धकोप्रमि'.ग. पाठः. २. 'ह-प्र' ख. पाठः. - ११४ सव्याख्ये न्यायसारे *अल्पसङ्ख्याविषयत्वे सति बहुत्वसङ्ख्याविष- यत्वस्य सर्वत्रोपलम्भाद् नानुमानात् सम्भवो भिद्यत इति ॥ इति। प्रयोगस्तु-विवादपदं सहस्रं स्वसमुदायि- शतवत् , सहस्रत्वात्, पूर्वपरिगणितसहस्रवत् ॥ अभावस्य तु त्रिष्वपि यथासम्भवेनान्तर्भावः । तथाहि-कौरवाद्यभावप्रतिपत्तिरागमात् ॥ इति । व्यासाद्याप्तवचनात् । अभावप्रत्यक्षत्वे विप्र- तिपत्तेर्बहुवक्तव्यतया व्यत्ययेनान्तर्भावो निरूपितः॥ आत्मादिषु रूपायभावप्रतिपत्तिरनुमानात् ॥ इति । आत्मा रूपरहितः नियमेनाचाक्षुषप्रत्यक्ष- त्वाद् वायुवत् , गन्धरैसहीनो रूपरहितत्वाद् वायुवत् , स्पर्शरहितोऽस्मदादिमानसप्रत्यक्षत्वात् सुखादिवत् । आकाशं रूपरसगन्धरहितं स्पर्शरहितत्वादात्मवदित्यायूह्यम् ॥ भूतलादिषु घटायभावप्रतिपत्तिः प्रत्यक्षात् । इ- न्द्रियव्यापारभावभावित्वात् ॥ इति । इन्द्रियव्यापारस्य भाव एव भवतीत्येवंशीलं यस्य तदिन्द्रियव्यापारभावभावि तस्य भावस्तत्त्वं, तस्मात् । तथाहि - निर्घटं भूतलमित्यादिज्ञानमिन्द्रियजमिन्द्रिया- न्वयव्यतिरेकानुविधाथित्वाद् रूपादिज्ञानवत् ॥ १. 'चौ बहु', २. 'रहितः रू' ग. पाठः. * 'बहुसङ्ख्याविषयत्वे सत्यल्पसङ्ख्याविषयत्वस्य सर्वत्रोपलब्धत्वाद् ना' इति मुद्रितन्यायसारपाठः.

आगमपरिच्छेदः । ११५ चोदयति- अन्यत्र तद्भावभावित्वं पर्यवसितामिति चेत् ॥ इति । अन्यत्रेत्यभावाधारभूतलादिग्रहणे । तथा- चोक्तं "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ।" इति ॥ परिहरति न । रूपादिष्विव बाधकाभावात् ॥ इति । नहि रूपाद्याश्रयद्रव्यग्रहण एवेन्द्रियव्या- पारः पर्यवसितः, न रूपादिष्विति युक्तम् । किश्च घ्राणव्या. पारे सत्येव निर्गन्धं कुसुममिति ज्ञानमुत्पद्यते । नच तत्र इन्द्रियव्यापारोऽन्यत्र पर्यवसित इति युक्तं वक्तुम् । द्रव्यस्य घ्राणाविषयत्वात् ॥ सम्बन्धाभावो बाधक इति चेत् ॥ इति । नह्यभावेनेन्द्रियस्य संयोगः समवायो वा सम्भवतीति भावः॥ परिहरति न । स्वपरपक्षयोरसिद्धत्वात् ॥ इति । मीमांसकस्य पक्षोऽत्र स्वपक्षः ॥ एतदेव विवृणोति स्वपक्षे तावद् रूपादिष्विवापरोक्षानुभवकार्यानुमेयो १. 'लप' प. च, पाठः. २. 'ति-स्व', ३, 'य' ग. पाठः.

सव्याख्ये न्यायसारे योग्यताख्यः सम्बन्धः । परपक्षेपि संयुक्तविशेषण- भावादिरिति॥ इति । आदिशब्देन संयुक्तविशेष्यभावादीनां प्रत्यक्ष- परिच्छेदोक्तानां स्वीकारः॥ परमतमाशय परिहरति- संयोगसमवायरहितस्य विशेषणविशेष्यभावानुप- पत्तिरिति चेद् । न । विशिष्टप्रत्ययवशेन तत्सिद्धेरिति ॥ इति । गोमान् धनवानित्यादिष्विवेति भावः ॥ ऐतिहमन्तर्भावयति अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमति मागमे- ऽन्तर्भूतम् ॥ इति । अनिर्दिष्टोऽनिश्चितः प्रवक्ता स्वयं द्रष्टुत्वेन मूलभूतो यत्र तदनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यम् । सत्यं चेदिति शेषः । असत्यं चेदप्रमाणमेव ॥ उदाहरति यथा इह वटे यक्षः प्रतिवसति ॥ इति ॥ चेष्टा नाम प्रमाणान्तरमिति केचित् , अनुमानेऽन्तर्भूतेति चापरे। तदु- भयमपि चेष्टालक्षणाभिधानपूर्वकं निषेधति प्रयत्नजन्या शरीरतदवयवक्रिया चेष्टा । सा नाव्यशास्त्रादिसमयबलेन पुरुषाभिप्रायविशेषमर्थविशेष च गमयन्ती नागमाद् भिद्यते लिप्यक्षरादर्थप्रतिपत्ति- वदिति ॥ १. 'ति । एवम् ऐ ग. पाठः. २. 'यम' स. रु. पाठः.

आगमपरिच्छेदः । ११७ इति । प्रयत्नजन्येत्यनेन वाय्वादिविकारजनितह- स्तादिकम्पव्यवच्छेदः । नाट्यशास्त्रादीत्यादिशब्दोल्लोकव्यव- हारपरिग्रहः । क्रियेत्युपलक्षणम् । संयोगेनाप्यर्थप्रतीतिदर्श- नात् । यथा हस्तमुखसंयोगविशेषाभ्यां बुभुक्षापिपासा- प्रतिपत्तिः । लिपिरेवाक्षरं लिप्यक्षरं, तस्मादिति । अनेन चेष्टायाः प्रमाणान्तरत्वाभ्युपगमे लिप्यक्षराणामपि प्रमाणा- न्तरत्वप्रसङ्ग इति सूचितम् । नच वक्तव्यं लिप्यक्षरानु- मिताक्षरेभ्योऽर्थप्रतिपत्तिरिति । क्रमे प्रमाणाभावात् । चेष्टायों वा तथा प्रसङ्गात् ॥ उपसंहरति तदेवं व्यवस्थितमेतदेतानि त्रीण्येव प्रमाणा- नीति ॥ प्रमाणज्ञानमात्रमेव नापवर्गसाधनम् । किन्तु तेन प्रमीयमाणं किश्चिद् वस्तुतत्त्वम् ।। तञ्च किं स्यादित्यभिप्रायेण पृच्छति- किं पुनरेभिः प्रमाणैः प्रमातव्यामिति ।। इति ॥ उत्तरमाह उच्यते । प्रमेयम् ॥ इति ॥ - पुनः पृच्छति- - किंलक्षणम् ॥ इति । यद्यपि पूर्व प्रमाविषयः प्रमेयमिति लक्षण- १. 'ब्देन लोक' ग. पाठः. २. 'तो' ग. घ. इ. पाठः.

११८ सव्याख्ये न्यायसारे मुक्तं, तथापि न प्रमेयसामान्यापेक्षयायं प्रश्नः । किन्तु तद्विशेषापेक्षयेति न विरोधः ॥ उत्तरमाह यद्विषयं ज्ञानमन्यज्ञानानुपयोगित्वेनैव निःश्रेय- ससाधनं भवति, तत् प्रमेयम् । तदेव तत्त्वतो ज्ञात- व्यं, सर्वदा भावयितव्यं च । न कीटसंख्यादि । तज्ज्ञानस्यानुपयोगित्वात् ॥ इति। अन्यज्ञानानुपयोगित्वेनैवेत्यनेन प्रमाणादिव्यव- च्छेदः। प्रमाणादिज्ञानस्यात्मादिज्ञानोपयोगित्वेन निःश्रेयस- साधनत्वात् । न तु साक्षात् ॥ प्रमेयं विभजते तच्चतुर्विधं -हेयं, तस्य निर्वर्तकं, हानमात्य- न्तिकं, तस्योपाय इति ॥ इति । यद्यपि सूत्रकारेण 'आत्मशरीरेन्द्रियार्थबुद्धि- मनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्' (१-१-९) इति द्वादशविधं प्रमेयमुक्तं, तथापि तस्य चतुर्धा भाव्य- मानस्यैव निःश्रेयसनिमित्तत्वामिति ज्ञापयितुं सङ्ग्रहे चातु- विध्यमुक्तम् ॥ चतुर्विधस्यापि स्वरूपमाह तत्र हेयं-दुःखमनागतम् ॥ इति । हेयं नामावश्यं प्रयत्नेन परित्याज्यम् । तच्चा- १. 'ज्ञादि' ख. च. पाठः. २. 'गीत्यनेन प्र' इ., 'गित्वे- नेत्यनेन पर्दैन प्रच. पाठः, ३. 'त्वात् ॥प्र ग. च. पाठः.

आगमपरिच्छेदः । नागतमेव । अतीतस्योपभुक्तत्वाद् , वर्तमानस्याप्युपभोगं -विना प्रकारान्तरेण परिहर्तुमशक्यत्वात् ॥ हेयमपि विभजते- एकविंशतिप्रकारं-शरीरं, षडिन्द्रियाणि, षड् विषयाः, षड् बुद्धयः, सुखं, दुःखं चेति ॥ इति। घाणरसनचक्षुस्त्वक्छ्रोत्रमनांसि षडिन्द्रियाणि । गन्धरसरूपस्पर्शशब्दा बहिर्विषयाः, ज्ञायमानतया सुखदुःख- हेतुत्वात् । मनोविषयस्तु स्मृतिसङ्कल्पावित्येके । निद्रालस्य- कामादिरित्यपरे । विषयाणामिन्द्रियाणां च षड्विधत्वाद् बुद्धयोऽपि षडित्युच्यन्ते ॥ शरीरादीनां दुःखादत्यन्तविलक्षणत्वात् कथं दुःखशब्दवाच्यत्वमित्या- शक्याह तत्र शरीरं दुःखायतनतया दुःखम् ॥ इति । दुःखरयायतनं गृहम् । शरीरावच्छिन्नात्म- प्रदेशे हि दुःखमुत्पद्यते, नान्यत्र । एतेनैव विशेषेण ज्ञाय- मानतया दुःखहेतुभ्यो विषयेभ्यः शरीरं पृथगुक्तम् ॥ इन्द्रियाणि विषया बुद्धयश्च तत्साधनभावात् ।। इति । दुःखमित्यनुवर्तते ॥ सुखं दुःखानुषङ्गाद् दुःखम् ॥ इति । दुःखेनानुषङ्गोऽविनाभावः । सुखहेतूनामेव दुःखहेतुत्वादभेदोपचारादेव शरीरादौ दुःखशब्दः प्रयुक्त १. 'त्वात् । एतेनोप' ग. .. च. पाठः.

१२० सन्यास्ये न्यायसारे इति दर्शितम् । दुःखरूपतया भाव्यमांना हि शरीरादयः स्व- विषयवैराग्यहेतवो भवन्ति । दुःखं तु बाधापीडासन्तापात्मकं मुख्यत एवेति ॥ इति । दुःखशब्दवाच्यमिति शेषः ।। तस्य निर्वर्तकमसाधारणकारणमविद्यातृष्णे 4- माधर्माविति च ॥ इति । तस्य गौणमुख्यभेदभिन्नदुःखस्य ।निर्वर्तकमि- त्यस्य व्याख्या असाधारणकारणभिति। यद्यपि धर्मः सुखस्य कारणं, तथापि सुखस्य दुःखानुषङ्गेण दुःखवर्गान्तःपातित्वाद् दुःखहेतुरुक्तः, प्रवर्तकस्य धैर्भस्यापि हेयत्वज्ञापनार्थम् ॥ अविद्यादीनां लक्षणमाह- सम्यगध्यात्मविद्भिः प्रदर्शितेऽर्थे विपरीतज्ञान- मविद्या सह संस्कारेणेति ॥ इति । आत्मन्यधिवर्तत इत्यध्यात्मं शरीरादि । यथा सम्यग् भवति तथा अध्यात्म विदन्तीत्यध्यात्मविदः । तैः प्रदर्शित प्रकटितेऽर्थे "अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । चर्मावनई दुर्गन्धि पूर्ण मूत्रपुरीषयोः ॥ जराशाकसमाविष्ट रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥" १. 'तु वेदनास' ग. पाठः. र्थवि' क. च. पाठः. ४. 'तः प्रकटिताऽर्थः अ' च. पाठः, ५. 'रुजाशो' २. 'तस्या' च. पाठः. ३. 'ता- ख. पाठः.

इलादिना । तस्मिन् विपरीतज्ञानम् "अमृतस्येव कुण्डानि सुखानामिव राशयः । रतेरिव निधानानि योषितः केन निर्मिताः॥" इत्येवंरूपमविद्या । प्रलयावस्थायां विपरीतज्ञानाभावेऽपि पुनः शरीराचुत्पत्तिश्रवणाच्छास्त्राभ्यासजनिततत्त्वज्ञानवतामपि रा- गद्वेषाचभिभवदर्शनादविद्यास्तीति दर्शयति -सह संस्का- रेणेति ॥ पुनर्भवप्रार्थना तृष्णा ॥ इति । पुनर्भवस्य विशिष्टशरीरादिलाभस्य प्रार्थना वाञ्छा॥ सुखदुःखयोरसाधारणहेतू धर्माधर्माविति । इति । सुखस्यासाधारणो मुख्यः दुःखस्याकारणभूतो हेतुः धर्मः । दुःखस्य पीडात्मकस्य मुख्योऽसाधारणः सुख- स्यानिमित्तभूतो हेतुरधर्मः ।। हानं दुःखविच्छेदः॥ इति । दुःखस्य एकविंशतिभेदभिन्मस्य विच्छेदो हानम् ॥ आत्यन्तिकमिति न कदाचित् कथञ्चिद् दुःख- सम्बन्ध इत्यर्थः॥ इति । अत एव संसारदशायामौषधाधुपयोगेन दुःख- विच्छेदसहावेऽप्यात्यन्तिकं हानमिति नोच्यते । विनष्टाया १. 'याधव' ग. पाठः. R ११२ सव्याख्ये न्यायसारे दुःखव्यक्तेः पुनरुत्पत्त्यभावेऽपि तेज्जातीयस्य व्यक्त्यन्तर- स्योपोदानात् ॥ तस्योपायस्तत्त्वज्ञानमात्मविषयम् ॥ इति । यद्यपि द्वादशविधप्रमेयविषयं सूत्रेऽभिहितं, तथाप्यात्मनः प्राधान्यज्ञापनार्थमात्मविषयमित्युक्तम् । तथा- हि-पूर्व शरीरादिषु हेयत्वेन ज्ञानोत्पादवतस्तव्यतिरि- क्तात्मनि च श्रुत्यादिप्रमाणैनिश्चिते पश्चात् तत्रैव ज्ञाना- भ्यासो निःश्रेयससाधनम् ॥ अत्र संवादिकां श्रुतिं पठति तथाचोक्तम् "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इति । "श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः । ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः॥" इति ॥ इति । वाशब्दोऽवधारणे । एते श्रवणमननिदिध्या- सनरूपा दर्शनस्यात्मविषयसाक्षात्कारज्ञानस्य हेतवः ॥ आत्मज्ञानं च निःश्रेयसकारणमित्यत्र श्रुतिं दर्शयति - 'तरति शोकमात्मविदिति च ॥ इति । आत्माद्वैतज्ञानमेव निःश्रेयससाधनमिति मतनिरासार्थमाह स द्विविधः परश्चापरश्चेति । तथाचोक्तं 'द्वे ब्रह्मणी वेदितव्ये परं चापरं चेत्यादि। १. 'तच्छेषसूतस्य' ख. पाठः. २. 'त्पादना' च. पाठः. 'यं सू' क. ख. पाठः. ४. 'नध्यानरू' ग, ङ, पाठः, ३ .

आगमपरिच्छेदः । १२५ इति । आदिशब्दाद् 'द्वा सुपर्णा सयुजा सखाया' इति श्रुतिः, "द्वाविमौ पुरुषौ लोके क्षरश्वाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।" इत्यादिस्मृतिश्च स्वीक्रियते ॥ परापरयोर्लक्षणं प्रमाणं चाह तत्रैश्वर्यविशिष्टः संसारधमैरीषदप्यस्पृष्टः परो भगवान् परमेश्वरः सर्वज्ञः सकलजगद्विधाता॥ इति । ऐश्वर्य सकलपुरुषाधिष्ठातृत्वम् । तेन विशिष्टा युक्त इत्येकं लक्षणम् । संसारधर्मैः रागद्वेषमोहदुःखादिभिः रीषदपि सर्वदाप्यस्पृष्ट इति द्वितीयम् । सर्वज्ञः, अनादिरिति शेषः । एतत् तृतीयम् । गच्छति विनश्यतीति जगत् । सकलस्य विनश्यतो वस्तुनो विधातेत्यनेन सह चत्वारि लक्षणानि ॥ प्रश्नपूर्वकं प्रमाणमाह स कथं ज्ञातव्यः। अनुमानादागमाच्च । तथा- हि-विवादाध्यासितमुपलब्धिमत्कारणकम् , अभूत्वा भावित्वात्, वस्त्रादिवदिति ॥ इति । उपलब्धिः कारणसाक्षात्कारः। नच धर्मिविशेष - १. 'इत्यादिश्रु' ग. पाठः.

१२४ सव्याख्ये न्यायसारे स्यानिर्देशात सन्दिग्धाश्रयोऽसिद्धो हेतुरिति वाच्यम् । साध्य- विशेषाभिधानेन यत्र बुद्धिमत्पूर्वकत्वोबुद्धिमत्पूर्वकत्वेन वि. वादः, तस्यैवारादेः पक्षीकारात् ॥ अथश्वरकारणत्वे साध्ये साध्यविकलो दृष्टान्तः, वस्वादावीश्वरकारणत्वा- सिद्धेः, व्याप्त्यसिद्धिश्च । बुद्धिमन्मात्रकारणत्वे च साध्ये विवक्षितविशेषासिद्धिः सिद्धसाध्यता च, संसारिणामेव कर्मद्वारेणाकुरादिकारणत्वादित्याशझ्याह सामान्यव्याप्तेरनवद्यत्वेन निराकर्तुमशक्यत्वात् ततः सामान्यसिद्धौ परिशेषात् कार्यावशेषाच्च कर्तृ- विशेषसिद्धिः । चित्रादिकार्यविशेषात् कर्तृविशेषसिद्धि- वदिति ॥ इति । सामान्यव्याप्तेः यत् कार्य तत् कारणसाक्षा- काराधारकारणमित्येवरूपायाः । परिशेष्यते येनासौ परिशेषः प्रसक्तप्रतिषेधः । नह्यचेतनस्यासर्वज्ञस्य शरीरिणो वाकुर- शरीराधशेषकार्येषु नैरन्तर्येण हेतुत्वं घटते । अतो विवादा- ध्यासितं कार्यमशरीरसर्वज्ञपूर्वकमस्मदाधजन्यकार्यत्वात् । यदेवंविधसाध्यं न भवति तदस्मदाद्यजन्यकार्य न भवति. यथा घटादीति व्यतिरेकी । कार्यविशेषाम्चेत्यनेनान्वयिनं सूचयति । तथाहि --विवादपदं स्त्रोत्पादनप्रवीणज्ञानिका- रणकं विशिष्टकार्यत्वात् चित्रादिवत् । यत्तु कैश्चिच्छरीस्स्यापि व्याप्तावनुप्रवेशात् सिद्धिः स्यात् , असिद्धौ वा कर्तुरप्यसिद्धि- १. 'यो हे', २. 'स्वात् बु', ३. 'व' च. पाठः.

आगमपरिच्छेदः । १२५ रित्युष्यते। तत्र यद्यङ्कुरादिकं शरीरकर्तृकं कार्यत्वाद् वस्त्रा- दिवदित्युच्यते, तदा प्रत्यक्षकदेशविरुद्धो हेतुः । अङ्कुराधुत्प- तिसमये शरीरस्यानुपलब्धिबाधितत्वात् । नच तदसिद्धौ क- तुरप्यसिद्धिः। बाधकाभावात् । नहि कार्यत्वेन वह्नयादावनुष्ण- त्वासिद्धी विनाशित्वस्याप्यसिद्धिरस्ति । अथ क्षित्यादिकमका- यमकर्तृकं वा शरीराजन्यत्वाद् गगनवदित्युच्यते। तन्न । आये साध्ये महुरादिभिरनैकान्तिकत्वात् । द्वितीये साध्ये विशे- पनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् शरीराजन्यत्वं नाम शरी- रव्यतिरिक्तजन्यत्वं हेतुः स्यात्, ततश्च साधनविकलो ग- गनदृष्टान्तः। किश्च नदीस्रोतःपतितशवकर्मणोऽपि पक्षीकारा- च्छीराजन्यत्वं भागासिद्धम् । अथेश्वरः शरीरी कर्तृत्वात् अस्मदादिवत् । तन्न । आश्रयासिद्धत्वात् । सिद्धौ वा तद्- ग्राहकप्रमाणबाधो हेतुश्चासिद्धः । तत्सिद्धौ वा तद्वाहक. प्रमाणबाधः । ईश्वरः कर्ता न भवति अशरीरत्वाद् मुक्त- वदित्युज्यमानेऽप्याश्रयासिडो हेतुः । आश्रयसिद्धौ वा प्रति- ज्ञापदयोर्व्याघातः धर्मिग्राहकप्रमाणबाधा च । किश चम्पकः कम्पत इत्यादावशरीरस्यापि वृक्षादेः कर्तृत्वाभ्युपगमात् परै- रनैकान्तिक इत्यलम् ॥ "एको रुखो न द्वितीयाय तस्थे य इमाल्लोकानी- शत ईशिनीभिरि"त्याचागमाच्चति ॥ इति । स ईश्वरो ज्ञातव्य इति शेषः । द्वितीयायेति सहार्थे तृतीयास्थाने चतुर्थी । ईशिनीभिरिच्छादिशक्तिभिः । इमान् लोकानीशते अधितिष्ठति ॥ १. 'त्वादन्यत् अस्म' च. पाठः.

१२६ सव्याख्ये न्यायसारे - अपरात्मनो लक्षणमाह संसारफलोपभोक्तानन्तोऽपरः ।। १ । इति । अनन्तः (इति) स्वरूपकथनम् । न विद्यतेऽन्तः कालतो देशतः सङ्ख्यातश्चेत्यनन्तः । नित्यो व्यापकोऽसंख्य- श्वेत्यर्थः । तत्सद्भावे च प्रत्यक्षं प्रमाणम् । तथाहि मनोव्यापारे सति प्रत्यात्मभहं सुखी अहं दुःखीति प्रत्ययो दृष्टः । नचासौ शरीराद्यालम्बनः । शरीराद्यप्रतीतावप्यन्धका- रेऽहमिति प्रत्ययोत्पादात । सुखादीनां शरीराद्यनाश्रितत्वाच्च । स्थूलोऽहं कृशोऽहमिति प्रत्ययस्य तु चक्षुषा स्पर्शनेन वा शरी- रग्रहणे सत्येव भावात् यद्यपि शरीरालम्बनत्वं, तथाप्यहमि- त्यभेदप्रत्ययस्तत्र भ्रान्त एव । मम शरीरमिति भेदावभासेन बाधितत्वात् ॥ प्रत्यक्षसिद्धेऽपि विप्रतिपद्यमानं प्रत्यनुमानमाह स खलु बुद्धयादिकार्याणामाश्रयभूतोऽनुमातव्यः॥ इति । बुझ्यादिकं कचिदाश्रितं भावरूपकार्यत्वात् गुणत्वाद् वा, रूपादिवत् ॥ व्याप्तिं दर्शयति नहि कार्य किञ्चिदनाधारमुपलब्धम् ॥ इति॥ सिद्धसाध्यतापरिहाराय भूतचैतन्यं निषेधति - नचेन्द्रियाणामाश्रयत्वं युक्तमुपहतेन्द्रियस्य वि- षयस्मरणायोगात् ॥ -- - १. 'ति न' रू. पाठः. २. 'त्यक्षमहं', ३. 'क्षप्रसि' च. पाठः.

आगमपरिच्छेदः । १२७ इति । उपहतं च तदिन्द्रियं चोपहतेन्द्रियम् । तस्य विषये स्मरणाभावप्रसङ्गात् ॥ कस्मादित्यत्राह- अन्यानुभूतेऽर्थेऽन्यस्य स्मरणोदर्शनात् ॥ इति । इन्द्रियमनुभवितृ न भवति, संस्कारसद्भावेऽपि सर्वदेवास्मर्तृत्वात् पाषाणादिवत् । अस्मर्तृत्वं च चक्षुरा- द्यभावेऽपि रूपादिविषये स्मरणादर्शनात् । किश्चेन्द्रियाणां ज्ञानाधारत्वे एकस्मिन्नपि शरीरे नानाचेतनानां कदाचिद् विप्रतिपत्तिः स्यात् ॥ तर्हि शरीरमेव चेतनमस्त्वित्याशङ्कयाह - अत एव शरीरस्यापि बाल्यकौमारादिभेदभिन्न- त्वादस्मरणम् ॥ इति । यतोऽन्यानुभूतेऽर्थेऽन्यस्य स्मरणं न सम्भवति, अत एव शरीरस्य स्मरणं न सम्भवति । अतश्वानुभवितृत्व- मपि नास्तीत्यर्थः । शरीरस्यापि बाल्यकोमारयौवनादिरूपेण भिन्नत्वात् । नच तत्रावस्थाभेदमानं नावस्थावद् भिन्नमिति वाच्यम् । महत्त्वभेदस्याश्रयभेदाव्यभिचारात् । तथाहि- विवादपदानि महत्त्वानि भिन्नाश्रयाणि परिमाणभेदत्वाद् बकुलामलकबिल्वादिषु परिमाणभेदवत् ।। बौद्धराद्धान्तेऽपि स्मरणं नोपपद्यत इत्याह एतेन पूर्वबुद्ध्यनुभूतेऽर्थे उत्तरबुद्धेः कार्यकारण- भावात् स्मरणमपास्तमन्यत्वाविशेषात् ॥ १. 'यत्वस्म' च. पाठः. २. 'गायोगान्', ३. 'नि भि', ४. 'दिप' इ. पाठः.

१२८ सन्सारले म्यावसारे इति । अनुभवितृस्मोंर्भेदेऽपि परस्परकार्यकारण- भावस्य विद्यमानत्वात् कारणबुधनुभूतं चेत् कार्यदिः स्मरति, तदोपाध्यायानुभूतमपि शिष्यः स्मरेत् ॥ एतषणपरिहारायापरमाह- कार्पासे रक्ततादिवदिति चेत् ॥ इति । यथा कार्पासबीजे लाक्षादिना कृता रक्तता भेदाविशेषेऽपि तद्बीजसन्तान एव पुष्पे फले वा रक्तता- मुत्पादयति, न पुनर्बीजान्तरसन्ताने, तहदुपाध्यायजनितः संस्कारः तस्मिन्नेव सन्ताने स्मृति जनयति, न पुनः शिष्ये, तस्य सन्तानान्तरत्वात् । तदुक्तं "यस्मिन्नेव हि सन्तान आहिता कर्मवासना । फलं तत्रैव बध्नाति कापसे रक्तता यथा ।" इति । कर्म पुण्यापुण्यरूपं, कर्म चासौ वासना चेति कर्म- वासना । तच्चोपलक्षणमनुभवजनितवासनायाः ॥ परिहरति न । साधनदूषणासम्भवात् ॥ इति ॥ - एतद् विवृणोति- अन्वयायभावान्न साधनम् । असिद्धत्वायनुद्भा- वनान्न दूषणम् ॥ १. 'यबुद्धिज' च. पाठः..

आगमपरिच्छेदः। १२९ इति । न तावत् स्वपक्षसाधनमिदम् । स्मृतिः कार्य- कारणभावाद् भवतीत्यस्य कापसे रक्ततावदित्यत्र अन्वया- भावाद्, यत्र न स्मृतिः न तत्र कार्यकारणभाव इति व्यति- रेकाभावाच्च । नापि परपक्षदूषणम् । पूर्वबुद्ध्यो अनुभूतार्थ- मुत्तरबुद्धिर्न स्मरति, अनुभवितुरन्यत्वात् सन्तानान्तरबुद्धि- वदित्यस्य हेतोः कार्यासे रक्ततावदित्यनेन असिद्धत्वाद्यन्य. तमदोषस्यानुदावनात् । किञ्च 'समानानां कार्यकारणभाव एकसन्तान' इति बौद्धानां कृतान्तः । तादृशश्च कार्यकारण- भावः शिष्योपाध्यायबुद्धीनामस्तीति प्राक्तनोव दृपणम् ॥ दूषणान्तरमाह नच कापातापि निरन्धयविनाशोत्पादे रक्ततो- स्पद्यते कापीमान्तरवत ॥ इति । निर्गतोऽन्वयः कारणपरम्परा यत्रासौ निर- न्वयः सचासो विनाशश्च निरन्वयविनाशः । तस्मिन् सत्यु- त्पादो यस्य तत्कार्यस्य स निरन्वयविनाशोत्पादः । तस्मिन् सति कार्पासे रक्तता नोत्पद्यते उत्पत्तुं नार्हति यथा काप- सान्तरे । तस्मात् तत्रापि बीजावयवाना रक्तानामनुवृत्तावेव कार्पासे रक्ततोत्पद्यते । नच क्षणिकवादिनः पक्षे अनुभवितुः संस्कारस्य वानुवृत्तिरस्ति । तदभावे स्मरणमपि न स्यादिति .. भावः ॥ एतेनैव क्षणिकत्वं निरस्तम् ॥ १. 'वावतिका' ङ पाठः. २. 'व्यनु', ३. 'राद्धान्तः' च पाठः. ४. 'न्यस्य', ५. 'दकः' ङ. पाटः. ६. 'कत्यवा' च. पाठः सव्याल्य न्यायसारे इति । अनुभवितृविनाशेऽन्यस्य स्मरणं सर्वथा नो- त्पद्यते इत्यनेनैतेन यत् सत् तत् क्षणिकं यथा जलधरः सन्तश्च सर्वे भावा इत्यस्यानुमानस्य तर्कबाधा दर्शिता । सर्वस्य पक्षीकारे दृष्टान्ताभावादसाधारणो हेतुः। विवादाध्या- सितेति पक्षीकारे जलधरस्यापि द्विवक्षगावस्थायित्वात् सा. ध्यविकलो दृष्टान्तः ॥ एकदशे प्रत्यक्षबाधां दर्शयति प्रत्यभिज्ञांख्येन प्रत्यक्षेण स्फटिकादिष्वक्षणि- कत्वं गृह्यते ॥ इति । स एवायं स्फटिको मया वत्सरात् पूर्व दृष्ट इति पूर्वापरकालाकलितवस्तुग्राहिप्रत्यक्षज्ञानमुत्पद्यते इति प्रत्यक्षैकदेशविरुद्धमनुमानम् । तथा यस्याहमुत्पादमद्राक्षं तस्यैव पौत्रं पश्यामीत्यात्मन्यपि प्रत्यभिज्ञानमुत्पद्यते ॥ परमतमाशङ्कते - प्रदीपादिष्विव भ्रान्तमिति चेत् ।। इति । पूर्व प्रज्वलिते विनष्टे पुनरन्येन प्रचलितेऽपि- प्रदीपे स एवायं प्रदीप इति प्रत्यभिज्ञानं भेदग्राहिप्रमाण- पुरुषज्ञानेन बाध्यमानत्वाद् यथा भ्रान्तं तथात्रापीत्यर्थः । यदि वैकस्मिन्नेव प्रदीप विवादाध्यासितः प्रदीपो नैकः भि- नकालेधनजन्यत्वात् सम्प्रतिपन्ना नेकप्रदीपवदित्यनुमानेन ३ १. 'ज्ञानेन', २. 'ते । परमतम्' ङ. पाठः. 'पसन्ताने वि' च. पाठः. ३. 'च', आगमपरिच्छेदः। १३१ बाध्यमानत्वात् प्रत्यभिज्ञानं यथा भ्रान्तं तथा क्षणिकत्वानु- मानबाधितत्वादक्षणिकत्वप्रत्यभिज्ञानं भ्रान्तम् ॥ दूषयति- न । एकत्र बाध्यत्वेन भ्रान्तत्वे सर्वत्र भ्रान्तत्व- कल्पनायामतिप्रसङ्गात् ।। इति । एकत्र दीपादिज्ञानस्य बाध्यत्वेन भ्रान्तत्वे सर्वत्रापि तथाभावप्रसङ्ग इत्यर्थः । नच सर्वमपि प्रत्यभिज्ञानं क्षणिकत्वानुमानबाधितमिति वाच्यम् । अनुमानस्य प्रागुक्त- युक्त्या दुष्टत्वात् ॥ भ्रान्तमपि प्रत्यभिज्ञानं बौद्धम्य न सम्भवतीत्याह. अनभ्युपगमाच्च । सादृश्यस्य क्षणिकत्वे भ्रान्ति- बीजाभावः॥ इति । भ्रान्तमपि प्रत्यभिज्ञानं प्रदीपादौ पूर्वोत्तर- प्रदीपानां सादृश्ये स्थिरे सत्येव भवति । नचास्ति क्षणिक- वादिनः किञ्चित् स्थिरम । अतो निमित्ताभावान्नैमित्तिकस्य प्रत्यभिज्ञानस्याप्यभावः स्यादित्यर्थः । स्थायित्वे तु प्रमाणं क्रमकार्याण्येककारणजन्यानि कार्यत्वातु सम्प्रतिनिककाल- कार्यवत् ॥ उपसंहरति- तत् सिद्ध मेतत् - शरीरादिव्यतिरिक्त आत्मा व्यापको नित्य इति । नित्यत्वं कुत इति चे अनादि त्वात् । तदेव कथम् । जातमात्रे जन्मान.रानुभव- १. 'न्तक', २. 'त्रे प्राणिनि ज' ङ. पाठः. ..

१३२ सव्याख्ये न्यायसारे सूचकस्मरणलिङ्गस्य हर्षशोकभयेस्तन्याभिलाषादेरुप-. लम्भात् ॥ इति । जातमात्रे प्राणिनीति शेपः । तदानीमेव जा- तमात्रस्य मृगशाबादेः स्तन्यपानाभिलापेण प्रवृत्तिदर्शनात् स्तन्यपानविपयं सुखसाधनत्वस्मरणमवगम्यते । स्मरणाच्चा. नुभवः । नचास्मिन् जन्मनि तस्य स्तन्यपानानुभवोऽस्तीति जन्मान्तरानुभवो ज्ञायते । एवं सद्योजातानां मुखप्रसादाद्य- नुमिता हर्षादयः सुखदुःखसाधनदर्शनाजायमानाः तज्जा- तीयत्वलिङ्गसुखदुःखसाधनत्वयोः व्याप्तिस्मरणाद् भवन्ती- त्यनुमातव्याः ।। व्यापकत्वे प्रमाणमाह - धर्नादेराश्रयसंयोगापेक्षस्य गुरुत्वादिवदाश्रया- तर वावादी क्रियाकर्तृत्वादणिमातस्य युगपदसं- ख्यातशरीराविष्टातत्वाञ्च व्यापकत्वसिद्धिः ।। इति । प्रयोगातु-धर्माधी स्थाश्रयसंयुक्त एव आश्रयान्तरे क्रियो जनयतः क्रियाहेतुगुणत्वाद् गुरुत्ववत् । आत्मना व्यभिचारपरिहाराय गुणग्रहणम् । तस्याश्रयान्तरे क्रियाहेतोरपि स्वाश्रयाभावेन स्वाश्रयसंयोगापेक्षाभावात् ॥ युगपदनेकशरीराविष्ठातृत्वे प्रमाणमाह तथाचोक्तं पुराणेषु- "आत्मनो वै शरीराणि वहनि मनुजेश्वर! प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं चरेत्। १. 'यमोहम्त', २. 'क्तम् -आ' च. पाठः.

आगमपरिच्छेदः । १३३ भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव ॥" इति । श्लोके युगपदिति सम्प्रदायाद् गम्यते ॥ उपसंहरति- तदेवमपरमात्मतःवज्ञानं परलोकसद्धावेन पेर- लोकप्रवृत्त्युपयोगित्वादधर्मक्षयहेतुत्वाच्च निःश्रेयससा. धनमिति ॥ इति । एतेन नित्यात्मज्ञानमात्मनि शाश्वतस्नेहजनन- द्वारेण संसारकारणमिति वदन्तो भाट्टा अनि प्रत्युक्ताः। शा- श्वतस्नेहे हि तस्य सांसारिकदुःखपरिहार य प्रवृत्युपपत्तेः । किश्च नित्यपरलोकाभावे हि, "यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मीभूतस्य दहस्य पुनरागमनं कुतः ॥" इति वदतो लोकायतस्यैव यथेष्टचेष्टायसङ्गात् । अधक्षय- हेतुत्वे च 'तरति शोकमात्मविद् इत्यागमः प्रमाणम् ॥ परमात्मज्ञानस्य निःश्रेयसहेतुत्वं दर्शयनि परमात्मज्ञानं च तदुपासनाङ्गत्वेन अपवर्गसाधनम् ।। इति । तस्य परमात्मन उपासनमाराधनं तदुपासनं तस्याङ्गत्वेन ॥ स चापासनविधिः॥ इति । आराधनप्रकारः॥ १. सम्भवे', २. 'पारलौकिक' च. पाठः. ३. 'न उपायत्वेन' उ.पाठः.

- तथाचोक्तम् १३४ सव्याख्ये न्यायसारे क्लेशक्षयसमाधिलाभार्थमनुष्ठानम् ॥ इति । क्लेशक्षयार्थ समाधिलाभार्थमित्युभयत्रार्थशब्द. सम्बन्धः । येनानुष्ठानेन रागद्वेषमोहाख्याः क्लेशाः क्षीयन्ते, परमात्मनि च चित्तैकाग्रतालक्षणः समाधिः प्राप्यते, तदनु- ष्ठानं परमेश्वरोपासनविधिरित्यर्थः ।। अत्र पातञ्जलसूत्रसंवादं दर्शयति - "तपस्स्वाध्यायेश्वरप्रणिधानानि क्रिया योगः” (२.१) । "क्लेशतनूकरणार्थः समाधिभोव- नार्थश्च” (२.२) ॥ इति ॥ इति । यद्यपि पातञ्जलसूत्रे समाधिभावनार्थः क्लेशतनूकरणार्थश्चेति पाठः । तथापीहार्यक्रममाश्रित्यान्यथा पाठः कृतः ॥ सूत्रार्थ कथयति तत्रोन्मादकामादिव्यपोहार्थमाध्यात्मिकादिदुःख- सहिष्णुत्वं तपः॥ इति शरीरान्तर्गतः व्याधिभिः मानसैश्च कामादिभिः जनितदुःखमाध्यात्मिकम् । आत्मानमधिकृत्य जातमाध्या- त्मिकमिति व्युत्पत्तेः। मानुषपश्वादिभूतान्यधिकृत्य जातमाधि- भौतिकम्। देवप्रयुक्तं शीतवातातपादिनिमित्तमधिकृत्य जात. माधिदैविकम् । एवमेतानि विविधानि दुःखानि शान्तचित्तेन नियमपूर्वकं सहमानस्य यद् दुःखसहिष्णुत्वं तद् निवर्तकधर्म- सञ्चयमधर्मनाशं च कुर्वत तप इत्युच्यते । चान्द्रायणाद्यप्य. नशनादिजनितदुःखसहनरूपत्वात् तपः । निवर्तकधर्मसञ्च- न केनचिदनु' ङ. पाठः. २. 'लाभार्थ' ग. पाठः, १.

आगमपरिच्छेदः। १३५ याच योगप्रवृत्तिहेतुः श्रद्धातिशयो भवति । अधर्मनाशाच्चो- न्मादकामव्याध्यादीनां योगान्तरायाणां प्रक्षयः। ततश्चित्त- समाधिः। तपो धर्माधर्मसञ्चयक्षयहेतुरित्यत्र प्रमाणं मन्वादि- वचनम् । तथाहि "तपोमूलमिदं सर्वं यद् दैवं मानुषं सुखम् । तपोमध्यं बुधैः प्रोक्तं तपोन्तं वेददार्शभिः ।। महापातकिनश्चैव शेषाश्चाकार्यकारिणः । तपसैव सुतप्तेन मुच्यन्ते किल्बिपात् ततः ॥ यत्किञ्चिदेनः कुर्वन्ति मनोवामूर्तिभिर्जनाः । तत् सर्व निर्दहन्त्याशु तपसैव तरोधनाः ॥" इति ॥ स्वाध्यायस्वरूपमाह - प्रशान्तमन्त्रस्य ईश्वरवाचिनोऽभ्यासः स्वा- ध्यायः॥ इति । ईश्वरवाचिनः क्षुद्रसिचिहेतोनिरासाय प्रशा. न्तग्रहणम् । परमात्मनिष्ठेन भवितव्यमिति जापनार्थमीश्वर- ग्रहणम् । गीतादियोगशास्त्राभ्यासो वा स्वाध्यायः ॥ ईश्वरप्रणिधानमाह - परमेश्वरत स्वस्य प्रवन्धेनानुचिन्तनीश्वरप्रणि- धानम् ॥ इति । प्रबन्धेन नैरन्तयणानुचिन्तनं पर्यालोचनम् । स्तुतिपुष्पादिभिराराधनं वा । सर्वकर्मणां परमगुगवर्पणं १. 'रुङ. पाठः.

१३६ सव्याख्ये न्यायसारे वा। सेयं तपःस्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योगसा. धनत्वाद् योग इत्युक्ता । स च क्लेशानां तभूकरणार्थ इ- त्युक्तम् ॥ अतः क्लेशस्वरूपमाह समासतो रागद्वेषमोहाः क्लेशाः समाधिप्रत्य. नाकाः ससारापात्तद्वारेण क्लेशहतुत्वात् ॥ इति । आसक्तिलक्षणो रागः । कोपो द्वेषः । मिथ्या- ज्ञानं मोहः । समाधिप्रत्यनीका इत्यादिना क्लेशशब्दवाच्यत्वे निमित्तत्वभुतम् । मुख्यस्तु क्लेशो दुःखमेव । रागादयो हि समाधिविगेधित्वेन संसारापादनहारेण च पुरुषं क्लेशयन्तीति क्लेशा उक्ताः समासत इति पदं तु साङ्ख्यमतनिरासाय । ते हि 'अविद्यास्मितारागहेपाभिनिवेशाः क्लेशा' इति त्रु- वाणाः पञ्च क्लेशानभ्युपागमन् । तच्चायुक्तम् अस्मिताभि- निवेशयोरेपु चान्तर्भावात । तथाहि - दृग्दर्शनशक्त्योरे- कात्मतैवास्मिता । दृक्शक्तिः पुरुषः । दर्शनशाकः बुद्धिः । तयोभित्रयोः एकात्मतैयाभेदेन प्रतिपत्तिर्मोह एव । तथा स्वरसवाही बिदुपोऽपि तथारूढो भिनिवेशः । मरणसन्त्रास. जनितः सर्वहाहं भूयासमिनि योऽयं सङ्कल्पः सोऽभिनिवेशः । स चौसावनदिमरणजानतदुःखानुभवारूढवासनाजन्यत्वात स्वरसवाहीत्युक्तः । सोऽपि यथात्यन्तमूढानां दृश्यते तथा विज्ञातरावरस्य विदुषोऽपि भटः प्रतीयते । स च मोह एव । अवश्यंभाविनि मरणे जीवज्ञानस्यान्यथाप्रत्ययत्वाद् विदुषा. १. 'चाना', चाना', २. 'पूर्वापरान्तस्य' च. पाठः, आगमपरिच्छेदः । १३७ मप्यान्तरदोषान्मोहो दृष्टः । यथा सूर्योदयादिलिङ्गानुमित- दिग्विभागस्यापि दिमोह इति॥ यथा तपस्स्वाध्यायेश्वरप्रणिधानात्मकः क्रियायोगः क्लेशविनाशहेतु:. तथा योगामान्यपीति तानि दर्शयति तथा यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाधयोऽष्टाङ्गानि ॥ इति । अनुष्ठेयानीति शेषः । अङ्गानि कारणानि । यमादीनां योगहेतुत्वेनाङ्गत्वम् । समाधेस्तु योगात्मकस्याप्यु- त्तरोत्तरसमाधिप्रकर्षस्य हेतुत्वादङ्गत्वमिति ॥ आदावुद्दिष्टान् यमानाह तत्र देशकालावस्थाभिरनियताः पुरुषस्य शुद्धि- वृद्धिहेतवो यमाः अहिंसाब्रह्मचर्यास्तेयादयः ॥ इति । आदिशब्देन सत्यापरिग्रहयोः परिग्रहः । शुद्धिरधर्ममदमानादिक्षयः । बृद्धिधापचयः । नइतबो ये देशादिभिरनियताः अहिंसादयः सर्वस्मिन् दशे सर्वस्मिन् काले सर्वस्यामवस्थायां न हिंसामि ब्रह्मचर्य चरामि न चोरयामि नासत्यं वदामि नापि, परिगृह्णामीति सङ्कल्प- पूर्वकाः, ते यमाः । यदि पुनस्तीर्थपर्वादौ हिंसां न करोमि ब्रह्मचर्य चरामीति देशादिना नियताः, ते नियमा एव, न यमाः ॥ नियमानाह-- देशकालावस्थापेक्षिणः पुरुषस्य पुण्यहेतवः १. 'र्वतादी' च. पाठः.

सव्याये न्यायसारे क्रियाविशेषा नियमा देवताप्रदक्षिणसन्ध्योपासनज- पादयः॥ इति। देशविशेषापेक्षि देवताप्रदक्षिणम् । सन्ध्योपा- सनं कालविशेषापेक्षि । जपक्रिया तु शुद्धावस्थामात्रापेक्षिणी। पुण्यविशेष प्रति तु देशादिविशेषापेक्षिणी च । 'अनन्तं शिव- सन्निधावि'त्यादिवचनात् । एवमन्येऽपि देशादिविशेषापेक्षिणः क्रियाविशेषा नियमा वेदितव्याः। पातञ्जलास्तु-निवृत्ति- लक्षणा यमाः प्रवृत्तिलक्षणा नियमा इत्याहुः। तथाचो- क्तम्-'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' (२. ३०) शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' (२.३२) इति । असत्यवचनानिवृत्तिरिह सत्यं विवक्षितम् ॥ आसनं लक्षयति योगकर्मविरोधिक्लेशजयार्थः करणबन्ध आसनं पद्मकस्वस्तिकादि। इति । करणानां शरीरावयवानां पादादीनां बन्धः संयमः पद्मकस्वस्तिकाद्यनेकप्रकारः प्राणायामोपयोगी यस्त- दासनं स्थिरं सुखं चोपवेशनमित्यर्थः । स च योगक्रियाविरो- धिनो ये क्लेशाः क्लेशहेतवो व्याध्यादयस्तेषां जयार्थो विना- शार्थ इति प्रयोजनोपन्यासः ॥ प्राणायामं लक्षयति कोष्ठ्यस्य वायोर्गतिविच्छेदः प्राणायामो रेचक- पूरककुम्भकप्रकारः॥ १. 'स्थापे', २. 'को' च. पाठः. - आगमपरिच्छेदः। १३९ इति । कोष्ठे शरीरान्तदेशे भवः कोष्ठयो वायुः श्वासप्रश्वासरूपः । तस्य यो गतिविच्छेदैः स प्राणायामः । स त्रिविधो रेचकादिभेदेन । तत्रान्तरस्य वायोः बहिनिस्सा- रणं रेचकः । बाह्यस्य शरीरे पूरणं पूरकः । पूरितस्य शरी- रान्तर्धारणं कुम्भकः॥ वायुवशीकरणोपायमाह - स शनैः शनैजेंतव्यो वनगजेन्द्रवत् ॥ इति । यथा गजेन्द्रः शनैःशनैरुपायेन वशीक्रिय- माणो महान्तमुपकारं करोति बलादप्रयोगेण गृह्यमाणस्तु विनाशयति, तथा वायुरपि शनैःशनैधियमाणो निश्शेषरो- गादिमलं विनाश्य समाधि प्रापयति । अप्रयोगेण बलाद् प्रियमाणस्तु वातगुल्माद्यनर्थमेव जनयतीति ॥ प्रत्याहारमाह समाधिप्रत्यनीकार्थेभ्यः समन्ताच्चेतसो व्यावर्तन प्रत्याहारः॥ इति । समाधेः प्रत्यनीका विरोधिनो येऽर्थाः पुत्र- मित्रकलत्रादयः तेभ्यः समन्तात् सर्वेभ्यश्चेतसो निवर्तनं व्यावर्तनम् । प्रत्याहृते चेतसि बाह्यन्द्रियाण्यपि प्रत्याहृतानि भवन्ति, चेतोधीनत्वात् तत्प्रवृत्तेः । प्रत्याहारेणैव च धर- ३ णालाभः॥ देशबन्धश्चित्तस्य धारणा ॥ १. 'दः प्रा', २. योनि', ३. 'सो व्या' ४. 'त् प्र छ, पाठः, १४० . . सव्याल्ये न्यायसारे इति । शरीसवयवो हमाभ्यादिर्देश इत्येके । बाह्यः सूर्यमण्डलादिरित्यपरे । परमात्मैवात्र देशो विवक्षितः, तदा- राधनप्रवृत्तत्वान्मोक्षार्थिन इत्याचार्याः । तत्र देशे चित्तस्य मनसो बन्धःप्रयत्नेन धारणं निश्चलीकरणं यत् साधारणति ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ इति । तत्र धारणादेशे प्रत्ययस्य ध्येयालम्बनस्य ए- कतानता सदृशप्रवाहः मध्ये प्रत्ययान्तरेणापरामेशों ध्यानम्॥ तदेवार्थनिर्भासमात्रं स्वरूपशून्यमिव समाधिः॥ इति । तदेव ध्यानमेव । ध्येयाकारमात्रनिर्भासं स्व- रूपेण प्रत्ययात्मकेन शून्यमिव इदं ध्येयमहमेवं ध्यायामीति भेदज्ञानशून्यं यदा भवति, तदा समाधिरित्युच्यते॥ तदेवेत्यादिकं प्रपञ्चयति- तदेव ध्यानोत्कर्षान्निवाताचलप्रदीपावस्थानमि- वैकत्र चेतसोऽवस्थानं समाधिरभिधीयते ॥ इति ॥ उपसंहरति एवमेतानि योगाङ्गानि मुमुक्षुणा सर्वेषु ब्रह्मा- दिस्थानेष्वनेकप्रकारदुःखभावनयानभिरतिसंज्ञितं परं वैराग्यं महेश्वरे च परां भक्तिमाश्रित्यात्यन्ताभियोगेन सेवितव्यानि ॥ १. 'मृष्टो ध्या', २. त्रैव चे च. पाठः, आगमपरिच्छेदः । १०१ इति । अनेकप्रकाराणि स्वविभवादतिशयितविभव- दर्शनक्षयभावनाजनितोनि दुःखानि । तेषां भावनया प्र. मादिस्थानेषु अनभिरतिरपेक्षाभावः । तत्संजितं तत्स्वरूपं यत् तत् परं वैराग्यम् ॥ योगागसेवायाः फलमाह ततोऽचिरेणैव कालेन भगवन्तमनौपम्यस्वभावं शिवमवितथं प्रत्यक्षतः पश्यति । तं दृष्ट्वा निरतिशयं श्रेयः प्राप्नोति ॥ इति । निर्गतोऽतिशयो यस्मात् तन्निरतिशयं श्रेयो मोक्षः॥ एतस्मात् शिवज्ञानादेव मोक्ष इत्यत्र प्रमाणं दर्शयति - तथाचोक्तं- "यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ।" "तमेव विदित्वातिमृत्युमति इत्यादि च ॥ इति । चर्मेव चर्मवत् । यथा चर्म वेष्टयन्ति तथा- काशं यदा वेष्टयिष्यन्ति मानवाः, तदा शिवं परमात्मानम- विजायें स्थितानां मानवानां दुःखस्य सर्वस्यान्तो मोक्षो भवि- प्यति ॥ - उपसंहरति तस्माच्छिवेसन्दर्शनादेव मोक्ष इति ॥ १. 'तदु' रु. पाठः. २. 'क्षः ॥ शि', ३. 'देवम' च. पाठः. १. 'य दु'. पाठः. ५. 'वदर्श च. पाठः. TA ११२ सन्याख्ये न्यायसारे इति ॥ मोक्षस्वरूपे विप्रतिपत्तेर्विद्यमानत्वात् प्रश्नपूर्वकं वैशेषिकमतमादौ दर्श- यति -- कः पुनरयं मोक्ष इति। एके तावद् वर्णयन्ति- समस्तविशेषगुणोच्छेदे सति संहारावस्थायामाकाश- वदात्मनोऽत्यन्तावस्थानं मोक्ष इति ॥ इति । अत्यन्तं सर्वदावस्थानमित्यनेन प्रलयावस्थातो विशेषकथनम् ॥ वैशेषिकं प्रति कश्चिचोदयति कस्मात् ॥ इति । सुखाथैव प्रेक्षावतां प्रवृत्तिरुपलब्धा । ततश्च बुद्धिसुखादिविशेषगुणशून्ये मोक्षे प्रेक्षावतां प्रवृत्तिर्न स्यात् । मतः सुखमात्रानुभवोऽत्राङ्गीकार्य इति भावः ॥ परः परिहरति- सुखदुःखयोरविनाभावित्वेन विवेकहानानुपपत्तेः॥ इति । सुखहेतूनामवश्यं दुःखजनकत्वमविनाभावि- त्वम् ॥ मोक्षे प्रवृत्त्यनुपपत्तिरित्यस्य परिहारमाह - नच सुखार्थेव प्रेक्षावतां प्रवृत्तिः, कण्टकादिज- नितदुःखपरिहारार्थत्वेनापि प्रवृत्तेरुपलम्भात् ॥ इति ॥ १. 'दे सं' च. पाठः. २. 'दिसकलवि', ३. 'वोऽशी', १. 'कज्ञाना'. क. पाठः.

भागमपरिच्छेदः। इदानीमाचार्यः स्वपक्षं दर्शवितुकामो वैशेषिकमतं दूषयति मोहावस्थात्वान्मू द्यवस्थावदत्र विवेकिनां प्र. वृत्तिर्न युक्तेत्याहुरन्ये ॥ इति । वैशेषिकेभ्यो वयमिति भावः ॥ दुःखपरिहारार्थमेव प्रवृत्तिर्नोपपद्यत इति दर्शयति. दुःखे सति सुखोपभोगासम्भवात् । कण्टकादि- जनितदुःखपरिहारोऽपि सुखोपभोगार्थ एवेत्यसमो - ष्टान्तः॥ इति ॥ स्वमते यद्यपि मुमुक्षुणां प्रवृत्तिः सुखानुभवार्था विवेकिप्रवृत्तित्वात् स- म्प्रतिपन्नप्रवृत्तिवदित्यनुमानमुक्तं, तथापि प्रश्नपूर्वकमागमप्रमाणं दर्शयति कुतो मुक्तस्य सुखोपभोगसिद्धिरिति चेद आगमात् । उक्तं हि- "सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद दुष्प्रापमकृतात्मभिः॥" तथा "आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते"। "विज्ञानमानन्दं ब्रह्म" इति च ॥ इति। दुःखाभावेऽत्र सुखानन्दशब्दावुपचारेण प्रयुक्तौ ॥ यथा भाराकान्तस्य वाहकस्य तदभावे हि सुखी जातोऽहमिति प्रत्यय इत्याशदायामाह --- १. 'खस्यास', २. 'दिप', ३. 'णमाह-कु' च. पाठः सव्याये न्यायसारे. मुल्योथै बाधकाभावानोपचारकल्पना ॥ इति । किञ्च भाराकान्तस्य तदभावे वाय्वादिसम्पर्क- वशात् सुखोत्पादे सत्येव सुखशब्दस्य प्रयोगः, न पुनर्दुःखा- भावे । नचासंवेद्यमानो दुःखाभावः प्रवृत्त्यङ्गमिति मुख्य- सुखानुभवाभावे मोक्षे प्रवृत्तिर्न स्यात् ॥ मुख्य बाधकं परोक्तमाशकते - सुखसंवेदनयोर्नित्यत्वान्मुक्तसंसारिणोरविशेष- प्रसङ्ग इति चेत् ॥ इति ॥ परिहरति- न । चक्षुर्घटयोः कुख्यादेरिव सुखतत्संवेदनयो- विषयविषयिसम्बन्धप्रत्यनीकस्योधर्माद् दुःखादेः सं- सारावस्थायां सद्भावात् । तन्नाशे मुक्तावस्थायां भवति सुखसंवेदनयोः विषयविषयिसम्बन्ध इत्यतो नावि- शेषः॥ इति । सम्बन्धप्रतिबन्धकत्वमात्रेण कुड्यादिकमत्रो- दाहृतम् । न पुनः कुड्यादेरिवाधर्मादेर्व्यवधायकत्वं सम्भवति, अमूर्तत्वात् ॥ पुनः परमतमाशते - तस्य सम्बन्धस्य कृतकत्वेन कदाचिद् विनाश- प्रसङ्ग इति चेत् ॥ १. 'ख्ये', २. क्ति'. ३. 'रावस्खयोर', ४. 'स्य दु', 'योः स' च, पाठः. ६. 'बाधक ङ. पाठः.

ऑगमपरिच्छेदः १४५ इति । सुखसंवेदनसम्बन्धस्य विनाशे मुक्तस्य पुनः संसारप्रसङ्ग इति भावः ॥ परिहरति- न । प्रध्वंसेनानैकान्तिकत्वात् ॥ इति । विवादाध्यासितः सम्बन्धः कदाचिद् विनश्यति, कृतकत्वाद् घटवदित्यस्य हेतोः प्रध्वंसेनानैकान्तिकत्वमि- - त्यर्थः ॥ परमतमाशङ्कते वस्तुत्वे सतीति चेत् ॥ इति । सम्बन्धो द्रव्यगुणकर्मसामान्यविशेषसमवायेभ्यो बहिर्भूतः तदन्तर्भूतो वेति विकल्पः ॥ पक्षद्वये दूषणमाह ar न । द्रव्यादिष्वनन्तर्भावेन तदसिद्धत्वात् ।। इति । तस्य वस्तुत्वस्य असिद्धत्वात् ॥ अन्तर्भावे वा समवायादिभिः सह तत्संवेदनस्य सम्बन्धो न स्यात् ॥ इति । द्रव्यादिषट्पदार्थान्तर्भूतो हि सम्बन्धो न समवायस्य वाभावस्य वा सम्बन्धो दृष्ट इति भावः ॥ पुनः परमतमाशहते - अदृष्टादिवशात् कर्मकारकं विषयः तजनितं. ज्ञानं विषयीति चेत् ॥ १. 'रित्वप्र' . पाठः. २. 'तदभावे' च, पाठः. ३. 'दिप', १. 'तो नक, पाठः, १४६. . सन्यास्ने न्यायसारे आगमपरिच्छेदः । इति । न पुनानार्थयोरन्यः सम्बन्धोऽस्तीति भावः॥ परिहरति न । ईश्वरज्ञानस्य नित्यस्याथैः सह सम्बन्धा- भावप्रसङ्गात् ॥ इति । अस्मदादिज्ञानस्याप्यतीतानागतपदाथैः सह सम्बन्धो न स्यात् । अतीतार्थस्य कारकत्वासम्भवादिति जेयम् ॥ उपसंहरति तस्मात् कृतकत्वेऽपि नित्यसुखसंवेदनसंबन्धस्य विनाशे कारणाभावान्नित्यत्वं स्थितम् । तत्सिद्धमेत- नित्येसंवेद्यानसुखेन विशिष्टात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य मोक्ष इति ॥ इति श्रीमत्काश्मीरसूर्यसूरीन्द्रसूनुवासुदेवसूरि- विरचितायां न्यायसारपदपश्चिकायाम् आगमपरिच्छेदः समाप्तः॥ शुभं भूयात् । ३. 'ति विजे, ४. १. 'ह हि स', २. 'ण' ङ. पाठः, 'श' च. पाठः. ५. 'त्यं', ६. 'मानेन' ङ. पाठः, LIST OF SANSKRIT PUBLICATIONS FOR SALE. RS. As. P Haar Bhaktimanjari (Stuti) by H. H. Svati Sri i àma Varma Mahārāja. 1 0 0 स्यानन्दूरपुरषर्णनप्रबन्धः Syanandurapuravarmanaprabandha (Kavya) by H. H. Svati Śrſ Rāma Varma Mahārāja, with the commentary Sundarf of Rājară ja Varma Koil Tampuran. 2 0 0 Trivandrum Sanskrit Series. No. 1–494 Daiya (Vyakarara) by Dera with Puruşakára of Krsmalīlasukamuni (out of stock). 1 0 0 No. 2-T ETHICT-aferrari Fiat Abhinavakaustubhamala and Daksinamurtistava by Kropalilābukamuni (out of stock). 0 2 0 No. 3-Torget: Nalabhyudaya (Kavya) by Vamana Bhatta Bapa (second edition). 0 4 0 No. 4-fracteruta: Sivalilarnava (Kavya) by Nilakaạtha DIkşita (out of stock). 2 0 0 No. 5-fanfaari Vyaktiviveka (Alankara) by Mahima-Bhatta with commentary (out of stock). 2 12 0 No. 6-axter: Durghatayrtti (Vyakarupa) by Sarapudeva (out of stock), 2 0 0 No. 7 - White anfaat Brahmatattvaprakasika (Vedanta) by Sadasivendrasarasvati (out of stock). % 4 0 No. 8-The Pradyumnabhyudaya) (Natak:l) by Ravi Varma Bhäpa (out of stock). 1 0 0.

RS. AS. P. 0 No. 9-विरूपाक्षपश्चाशिका Virupaksapancasika (Vedānta) by Viru pākşanātha with the commentary of Vidyacakravartin (out of stock). O 8 No. 10-AUFT Matangalila (Gajalaksana) by Nilakantha (out of stock) 0 8 0 No. 11-auriacae Tapatisamvarana (Nātaka) by Kulasekhara Varma with the commentary of Sivarama (out of stock). 2 4 0 No. 12-TATTATTA Paramarthasara (Vedānta) by Addiscesa with the commentary of Rāghavananda (out of stock). 0 8 0 No. 13-मुभद्राधनञ्जयम् Subhadradhananjaya (Nauka) by Kuhśckhara Varma with the commentary of Siparāma (out of stock). 20C No. 11fahrt: Nitisara (Nīti) by Kānandaka, with the connnentary of Sankarārça (out of stock). 38 No. 15-Fahata Svapnayasayadatta (Nāçakıl) by Bhāsa (second edition). 1 8 ( No. 16-afari TRTUTA Pratijnayaugandharayana (Nataka) by Bhasa (out of stuck). 1 8 0 No. 17-OSTETH Pancharatra (Nátıka) by Bhasa (out of stock). 1 0 0 No. 18-arrruftra Narayaniya (Stuti) by Närivana Bhattil with the commentary of Desumangalavărya (out of stock). 400 No. 19-ATTHuract: Manameyodaya (Mímānsā) by Näräyana Bhutta and Narayana Panqitu (out of stock). 1 4.0 No. 20- THTH Avimaraka (Nāwka) by Bhūsu (out of stock). 1 8 0 No. 21-armatan Balacarita (Nátoku) by Bhasu (out of stock). 1 0 0 C 8. RS. AS. P. No. 22-ATHepato-gaala-galan Puardo cha Madhyamavyayoga-Duta - vakya-Dutaghatotkaca-Karnabhara and Urubhanga (Naţikat) by Bhasin (out of stock). 1 8 0 No. 23—arapujuferinta: Nanartharnayasam - ksepa (Koši) by Kcsuvasvamin (Part I, 1st anul 2nd Kāņdus). (out of stock). 1 12 0 No. 24–3gptorer: Janakiparinaya (Kavya) by Cakra Kuvi (out of stick). 1 0 0 No. 25-refererara egen Kanadasiddhantacandrika (Nyāya) by Gangadharasüri (out of stock). 0 12 0 No. 26—2016 Abhisekanataka by Bhāsa (out of stock). 0 12 () No. 27-HTCFra: Kumarasambhava (Kavya) by Kalidāsa with the two commentaries, Prakäsiki of Arunagirinatha and Vivarııan of Narāyanı Pancita (l'art I, 1st and 2nd Sargas) (out of stock). 1 120 No. 28–4urare : Vaikhanasadharmaprasna (Dharmasútra) by Vikhanas (out of stock). () 8 0 No. 29-aratulutertata: Nanartharnayasam ksepa (koši) by kośavasvámin (Part II, 3rd Kända) (out of stock). 2 4 0 No. 30-leefaren Vastuvidya .(Silpx) (out of stock). () 120 No. 31-araturulerereta: Nanartharnavasam - ksepa (Košil) by Ke&ivisvainin (Part II), 4th, 5th and 6th Kaņdas). 1 CO No. 32Arcore Kumarasambhava (Kavya). by Kalidasa with the two coinmentaries, Prakāsikā of Arungiriuatha anel Vivarana of Narāyaṇa l'avditu Part II, 3rd, 4th and 5th Sargue) (out ojºstirk). 2 8 0 RS. AS. P. . No. 33-Touring Yararuoasangraha (Vyākarana) with the cornmentary Dipa prabha of Nārāyaņa (out of stock). O 8 0 No. 34-afüredor: Manidarpana (Nyāya) by Rājacudāmaņimakhin. 1 4 0 No. 35-forert: Manisara (Nyāya) by Gopinatha. 1 80 No. 36-Hraha: Kumarasambhava (Kavya) by Kalidasu with the two commentaries, Prakäsikā of Aruņagirinatha and Vivaraņa of Nārāyaṇa Pandita (Part III, 6th, 7th and 8th Sargas). 3 0 0 00 No. 37-ratele Asaucastaka (Smști) by Vararuci with commentary. 0 4 0 No. 38-नामलिङ्गानुशासनम् Namalinganusasana (liosa) by Amarasimha with the commentary Tikāsarvasva of Vandyaghatiya Sarvānanda (Part I, 1st Kāņda). 2 0 0 No. 39-a u Carudatta (Națaka) by Bhasa (out of stock). 0 12 0 No. 40_UIERERET Alankarasutra by Rājānaka Ruyyakıl with the Alankárnsarvasva of Mankhuka and its commentary b; Samudrabandhn (second edition). 2 8 0 No. 41-VRAYECT Adhyatmapatala (Ve. däntu) by A pastamba with Vivaraña of Sri Sankara-Bhagavat-Pada (out of stock). O 40 No. 42-aft Tara Pratimanataka by Bhāsa (out of stock). 1 8 0 No. 43~ATAPOS SRITETITE Namalinganusasana (Koon) by Amorasimha with the two coinmentaries, Ainarakośojghatana of KsImsvăinin and Trkasarvisyn of Vandyaghoţiya Sarvånanda (Part II, 2nd Kanda, 1-6 vargas). 2 8 0 No. 44-gray Tantrasuddha hy Blauttaraka Vedottama. 0 4 0 8 0 RS. AS. P. No. 45-9314 Prapancahrdaya. 1 0 0 No. 46_ofthriel: Paribhasayrtti (Vyakaraņa) by NTlakaạtha Díkşita. 0 8 0 No. 47–fererrafermath Sidhantasiddhanjana (Vedanta) by Krsņānanda Sarasvati (Part I.) 1 12 No. 48-ferateateret Do. Do. (Part II). 2 0 0 No. 49 गोलदीपिका Goladipika (Jyotişa) by Paramešvara. 0 4 0 No. 50-centage: Rasarnayasudhakara. (Alankara) by Singa Bhūpala. 3 0 0 No. 51-The gargan Namalinganusasana (Koša) by Amarasimha with the two commentaries, Amarakošodghatana of Kşimsyāmin and Tikūsarvasva of Vandyaghatiya Sarvānanda (Part III, 2nd Kanda, 7-10 vargas). 2 0 0 No: 52-garcia Namalinganusasana (Kosa) by Amarasimha with the commentary Tikâsarvasva of Vandyaghatiya Sarvânanda (Part IV, 3rd Kanda). 1 8 0 No. 53-mofordrer: Sabdanirnaya (Vedanta, by Prakasatmayatîndră. 0'12 0 No. 54-pintereferreterar: Sphotasiddhinyayavichara (Vyakuraņa). 0 4 0 No. 55-H STEHEERATH Mattayilasaprahasana (Natakaj by Mahendravikruina- 0 80 No. 56~Aguinaldo Manusyalayacandrika (Silpa) (out of stock). 0 8 0 No. 57-रघुवीरचरितम् Raghuviraoarita (Kavya). 1 4 0 No. 58--Ferrari Siddhantasiddhanjana (Vedanta) by Kpanananda Sarasvati (Part III). 2 0 0 Virtuan. 3 6 RS. AS. P. • No. 59-M Nangananda (Nataka) by Harşadeva with the commentary Vimarsinſ of Sivarâma (out of stock). 3. 40 No. 60-gregla: Laghustuti by Laghubhađțâraka with the commentary of Rayhavânanda, 0 8 0 No 61-ferrafermata Siddhantasiddhanjana (vedânta) hy Rşənânanda Sarasvati (Part IV). 1 4 0 No. 62- FASTEAE: Sarvamatasangraha. 0 8 0 No. 63-aseratie Kiratarjuniya (Kavya) by Bharavi with the commentary Sabdârthadīpika of Citrabhânii (1, 2 and 3 Sargns). 2 & 0 No. 64-aar: Meghasandesa by Kálidāsa with the commentary Pradīpa of Dakşiņâvartanātha. 0 12 0 No 65-9 Mayamata (Šilju) by Mayamuni (out of stock). 3 3 4 0 No. 66-AETAT Maharthamanjari (Darbuna) with the commentary Parimala of Maheávarânanda. 2 4 0 NO. 67-TTA: Tantraasamuccaya (Tantra) by Nûrîyana with the commentary Vimarsinſ of Sankara (Part I, 1-6 Patalās) (out of stock). 3 4.0 No. 68- Trat: Tattvaprakasa (Ayama) by Sri Bhojadeva with the commentary Tâtpi. adfpikā of Sri Ku.nära. 1 12 0 No. 6.)-- erairaggare at: [8®nasiyagurudevapaddhati(Tantra)byİsinabivagurudevamišra Part I, Saunānyapâda). 1 x 0 No. 70-rfHsgate 4ae4. Aryamanjusrimulakalpa (Part I). ? 8 0 No. 71-Teret: Tantrasamucoaya(Tantra) by Narayana with the commentary Vimarsint of Sankam (Part II, 7-12 Patalás) (out of stock). 38 0 :

RS. AS. P. 'No. 72-farafragedarata: Isanasivagurudevapaddhati (Tantra) by Isanusivagurudevamisra (Part II, Mantrapada). - 4 0 0 No. 73-faca farurat Isvarapratipattiprakasa (Vedānta) by Madhusudanasarasvati. 0 4 0 No. 74-rpreta: Yajnavalkyasmrti with the commentary Balakrida of Visvarûpâcarya. (Part I – Acara and Vyavahâra Adhyâyās). 3 4 0 No. 75-FreuarSilparatna (Šilpa) by Srikumíra (Part I). 2 12 0 No. 76—pfhshaftungstea: Aryamanjusrimulakalpa (Part II). 3 0 0 10. 77-Bayrafata gogarafa: Isanasivagurudevapaddhati (Tantra) by Isánasiva. gurudevamisra (Part III, Kriya pāda 1-30 Patalas). 3 0 0 No. 78-3779CCURATETET Asvalayanagrhyasutra with the cominentary Anāvila of Haradattācārya. 2 6 0 No. 79-seara, Arthasastra of Kauulya with commentary by Mahāmahupādhyāya T. Ganpati Šāstri (Part 1-1 & 2 Adhikaraņās). 3 12 0 No. 80-37fallaDo. Do. (Part 11--3--7 Adhikaraņā-). 4 0 0 No. 81-FRIE:Yajnavalkyasmrti with the commentary Balakrida of Vibyarūpācārya (Part II. Prayascittadhyaya). 2 0 0 No. 82-er Arthasastra of. Kautalya with commentary by. Mahamahopādhyāya T. Ganapati Sastri (Part III, 8-15 Achikaranis). 3 4 0 No. 83-zirafaraghaqata: Isanasivagurudevapaddhati (Tantra) by f&ana sivagurudevamiśra (Part IV, kriya pāra 31-64 l'atulás and Yogapada). 3 8 0 RS. AS. P. deva. No. 84-satuny: Aryamanjusrimulakalpa (Part III). 2 0 0 No. 85—Parascinear Vianusamhita (Tantra) 2 8 0 No. 86-Paraftar Bharatacarita (Kavya), by Kronakavi. 1.80 No. 87PRIETARTET: Sangitasamayasara (Sangſta) of Sangſtakara Parsva- 1 2 0 No. 88-a: Kayyaprakasa (Alankára) of Mammaţabhatta with the two commentaries the Sampradayaprakābinſ of Sri Vidyācakravartin and the Sahityacadâmani of Bhattrgopala (l'art I, 1-5 Ullásās). 3 0 0 No. 89—hreeft: Sphotasiddhi (Vyakarana) by Bharatamisra. 0 8 0 No. 90--ATAIAT Jefront Mimamsaslokavartika with the coirmentary Katika of Sucaritamisra (Part I). 2 8 0 No. 91-er Horasastra of Varahamihiracārya with the Vivaraņa of Rudra. 3 0 0 No. 92-tetraer Rasopanisat. No. 93-TECHTET. Vedantaparibhasa (Vedanta) of Dharmarājādhvarindra with the commentary Prakasiku of PeddädIkşita. 1 8 0 No. 94- Brihaddesi (Sangſta) of Matangamuni. 1 8 0 No. 95— Tureftforest Ranadipika (Jyotiņa) of Kumaragannka. 0 4 0 No. 96-WEST Rksamhita with the Bhasya of Skundasvamin and the cominentury of Venkatawadhavayya (Purt I, 1st Adhyāya in 1st Aptuka). 1 8 2 0 0 os RS. AS. P. No. 97-नारदीयमनुसंहिता Naradiyamanusamhita (Smrti) with Bhåşya of Bhavasvamin. 2 0 0 No. 98-Paveicu Silparatna (Šilpa) by Śrikumăra. 2 8 0 No. 99—AATAR Mimamsaslokavartika (Mimamsa) with the commentary Kasika of Sucaritamisra (Part II). 200 No. 100-478449727:Kavyaprakasa (Alankara) of Mammatabhatta with the two commentaries, Sampradayaprakabinſ of Śrīvidyacakravartin and Sahityacudamaṇi of Bhattagopala. (Part II, 6-10 ulasas). 5 00 No. 101–pretera Aryabhatīya (Jyotișn) of Aryabhatācārya with the Bhaộya of Nīlakanthasomasutvan (Part I. Ganita päda). 2 8 0 No. 102- Dattila (Sangīta) of Dattilamuni. 04.0 No. 103-rett: Hamsasandesa (Vedanta) with commentary 0 8 0 No. 104-Apayanti 14 Sambapanoasika (Stuti) with commentary. 1 0 No 105 paraseta: Nidhipradipa of Siddhaárikanthadaibhu. 04 0 No, 106-apreekt Prakriyasaryasya. (Vyakarana) of Sri Narayaņa Bhatta with commentary (Part I.) 100 No. 107-Hour Kayyaratna (Kavya) of Arbaddasa U 12 0 No. 108--Thrivsfarra Balamartandavijaya. (Nataka) of Devarā jakavi. 1 8 0 No. 109TTER: Nyayasara with the commentary of Vasudevastiri, 1 8 0 Apply to: The Curator for the publication of Oriental Manuscripts, Trivandrum. 8.0

No text on this page.

No text on this page.

IN THE PRESS, S'S 1. Aryabhatiya with the Bhagya öf Nilakanthasomasutvan (Part II.) 2. Haramekhala (Vaidyaka) of Mahuka with commentary. B. Bksamhita with the Bhasya of Skandasyimin and commentary of Venkatamadhava (Part II.) SahityamImāmså (Alankara.) 5. Vaikhanasāgama by Marici. 6. Arthaśāstra of Kautalya with commentary in Malayalam (Part II.) 7. Sangſtakrtis of Svati Sri Rama Varma Mahārāja. 8. Sarasvatſkanthabharaṇa (Vyakaraņa) of Bhoja with the Vritti of Narayana Dandanatha. 9. Asvala yanagrhyamantravyakhyå of Haradattācarya. 10. Prabodhacandrodaya (Nataka) by Krşņamiéra with the commentary Natakabharapa of Govindamptabhagavan. 11. Astängakrdaya (Vaidyaka) with the commentary Hrdayabodhikå of Śrī Dasa Pandita (Part I) 12. Hrdayapriya (Vaidyaka) by Paramesvarasivadvija. 13. Sangrāmavijayodaya. (Jyotiga) UNDERTAKEN FOR PUBLICATION.. 1. Paninſyalagbuvivrti. (Vyakaraña.) 2. Sarvadarsanakaumudi of Madhavabharati. 3. Skandusariraka (Palmistry) with commentary. 4 Saunakiya (Smšti.) 5. Yogamartanda (Yogu.) 6. Tantropakhyana.

Nyayasara

Author
Sastri, K. Sambasiva, Ed.
Title
Nyayasara
File name
Nyayasarah
Text
OCR done
Citation
1931
Published
2007/12/11
Publisher
Superintendent Government Printing, Trivandrum
Language
Sanskrit
Pages
179
Library
The Asiatic Society, Kolkata
DLI number
322354
Barcode
4990010252225.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
VMLT id
kqZYagT89Ej
Download PDF

Nyayasara