Library
Pashvaalambhamiimaan'saa
Front matter
UNIVERSAL
LIBRARY
OU_184145
LIBRARY
UNIVERSAL
No text on this page.
OUP-43-30-1-71-5,000
Call No.
Accession No.
OSMANIA UNIVERSITY LIBRARY
3294584
P.GI
vauP
52326
वामनशास्त्री
Title पखालम्भमीमा सा : 1923.
Author
This book should be returned on or before the date last marked below.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः । पश्वालम्भमीमांसा । वे. शा० रा. रा. किंजवडेकरोपाहवामन- शास्त्रिविरचिता। एतत्पुस्तकं व० शा० सं० रा. रा० आगाशे इत्युपाहै। काशीनाथशास्त्रिभिः संशोधितम् । उच्च पी. ए. इत्युपपदधारिभिः विनायक गणेश आपटे इत्येतैः पुण्याख्वपत्तने श्रीमन् ' महादेव चिमणाजी आपटे । इत्यभिधेय- महाभागप्रतिष्ठापिते आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दाः १८४५। खिस्ताब्दाः १९२३ । ( अन्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )। मूल्यं दशाऽऽणकाः (१०)।
No text on this page.
. ॥ भूमिका हन्त भोः समुपस्थितोऽयं तथाविधो विस्मयकरः समयः, यत्र करकोऽपि वा भवतु विद्वानुताविद्वान्बहुश्रुतो वाऽनाघ्रातधर्ममीमांसा- सूत्रकुसुमगन्धो वाऽऽस्तिको वा गलहरिततशास्त्रमर्यादो चा समयानुसार परिवर्तयितुमेव कामयते भगवन्तं सनातन वैदिक धर्मम् । सर्वोऽपि ननु स्वातकयेणैव कपोलकल्पित्तानात्मनो विचारान्परेषां पुरस्तात्मादुर्भा- चयितुं प्रयतते । प्रयस्यति चेतस्ततः पदशो वाक्यशो वा प्रमाणाभासा- न्यान्तरप्रयुक्तानि संगृह्य संमृह्य स्वीयं मतमुपोद्वलयितुम् । अपरा- पृशन्नेव पौर्वापर्य वाक्यजातस्याचिन्तयन्भेव श्रुतिलिङ्गादिममाणानो बल्यदौर्बल्यमननुसंदधान एव वाक्यार्थविचारमगणयन्नेव च मीमां- पान्यायप्रवृत्तिं शास्त्रार्थ सावष्टम्भ निर्णिनीयत्ति, निर्णयमपि वा नाप- पित इत्यहो कौटिल्यं कालस्य विजृम्भितं च व्यामोहस्य। सत्येवं तद्विस्मापयत्यरमान् , यत् यदि कोऽपि मितपचमतिनिरर्गलमद्ययावत्म- लता वैदिकसंप्रदायपरीवाहेण समर्थितं परःसहसः श्रुतिस्मृतिवचनैः माणमूर्धन्यै निर्विचिकित्सं व्यवस्थापितं भूयोभिरारितकधोरयैर्दार्शनि- क्रमकाण्डैः स्वमेऽप्यसंभावितदोषलेशं वैदिक ऋतौ शिवंकरं पश्वालम्भ, संचिचीषुरिव स्थास्नुतमं पापनिकायमश्रेयस्करं च प्रतिषिद्धपायं च सप्रगल्भं साक्षेपं च मजल्पेद्भीषयेत्समाह्वयेच्च विवदितुमास्तिकमूर्धन्या- निति । समयेऽस्मिन् आस्तिकाः पुनर्विांसः 'न हि स्तमनुरीति ग्रामसिं- हस्य सिंहः' इत्पभियुक्तानामाभाणक मनास मन्वाना उपेक्षया जोपंभावमेव यदि भजेरंस्तर्हि प्रायेण परतन्त्रप्रज्ञा अर्धमुग्धा भूयांसो जनाः श्रद्दधाना अपि भगवति वैदिक धर्मेऽनुतिष्ठासवः श्रौतानि कर्म- जातानि महान्तं व्यामोहमापन्ना इत्थंक्रियाविवेकविधुराः कर्तव्यतो हीयेरन्, आत्यन्तिकं चानर्थमृच्छेयुः, श्रेयसश्चमतिहन्येरनिति अनिच्छ- न्तोऽपि विवादाध्यवसायं 'परमतमप्रतिषिद्धमनुमतं भवति' इति न्यायेन संभाव्यमानं यागीयपशुहिंसाया अवैधत्वं प्रत्याख्याय परमार्थभूतं वैदिकं पन्थानं प्रथयितुं किंचिदिव व्यापारयामो लेखनीमात्मीयाम् । अत्र केचन समुत्तिष्ठन्ते-"ननु भो" यदेतद्यज्ञादिकमनुष्ठीयते नैत. च्छ्रेयो जनयितुमीष्टे, अपितु बलवत्पातकमेवानुबध्नाति प्रत्यक्षमेव पशूनां निर्दयं हिंसनादिति । न च"अग्नीषोमीयं पशुमालभेत, वायव्यं श्वेतमालभेत भूतिकामः, ब्रह्मणे ब्राह्मणमालभेत" इत्यादीन्यसंख्ये- [ २ ] . यानि श्रीतवाक्यकदम्बानि घण्टाघोषमुघुष्यन्ति पश्चादीनां क्रतुष्वाल- म्भनम् । यथा च वैदिकं निखिलमपि वाक्यजातं स्वतः प्रामाण्यमाटी- कते तथा पराक्रान्तं पूर्वमीमांसायां भगवता महामुनिना जैमिनिना इति कथमेतच्चोद्यमवतरति यागीयहिंसा पापानुबन्धिनीति, इति वाच्यम् । त्वदुदाहृतवचनानां भूतिकामादिपदरवारस्येन काम्यपरत्वस्यैव प्रती- यमानत्वात् । निन्दिताश्च काम्यकर्मानुष्ठातारो भगवता गीतासु- "यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः" । "कामात्मानः स्वर्गपरा जन्मकर्मफलपदाम् ॥" " विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।" 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्यादिना बहुप्रकारेण । आम्ना- यते चोपनिषत्स्वपि 'प्लवा होते अढा यज्ञरूपाः' इत्यादी बहुत्र । युज्य- ते चैतत् । स्वस्य सुखं संपादयितुं दयनीयानामस्वतत्राणां मुकदीनाना प्राणिनां सौनिकैरिव ब्राह्मण वैर्धार्मिकंमन्यैापादनं नैपुण्येन क्रिय- माणं सेष्वेव पशुत्वमसुरत्वं वा प्रद्योतयति । ' न हिस्यात्सर्वभूतानि' इति ध्वन्यमानोऽयं माणिवघनिषेधः कथं नु नाम पशु विशसितार यामीर्यातना नानुभावयेत् ? न चात्र प्रत्यवस्थातव्यं केनापि ' अग्नीषो- मीर्य पशुमालभेत' इत्यादिवाश्यं सामान्यतः प्रवृत्तं न हिस्यादिति वचनं संकोचयेदेवेति । अग्नीषोमीयं पशुमालभेतेत्यादिवाक्येन प्राकर- णिकेन पश्वालम्भस्य क्रत्वर्थत्वमिष्टसाधनत्वं च प्रत्याय्येत । न तु हिंस्यादिति विधिविहितहिंसासामान्य स्यानिष्टसाधनत्वं यागीय- हिंसायां व्यावत्येत । एकस्यैव कर्मण इष्टसाधनत्वमनिष्टसाधनत्वं चे- त्युभयमपि वचनवलात्प्रमीयमाणं न विरुध्यते परकीयसुन्दरीगमनादे- रिव । वस्तुतस्तु पूर्वोदाहतेष्वग्नीषोमीयादिवाक्येष्वालभतिनैव हिंसाम- भिधत्ते किंतु स्पर्शमात्रं यथा ह्यग्निहोत्रीयदोहाधिकारे "वत्समालभेत" इति वाक्य आलभतिः स्पर्शमात्रमाचष्टे । स्पष्टं चैतदध्वरमीमांसायाम् । हिंसा पुनरङ्गन्यागविधानेन विशसनप्रकारेण चाऽऽक्षेपन एव प्रतीयते न पुनः शक्त्येति सुतरां च संकोच्यसंकोचकमावो नोपपद्यते । आक्षे- पलभ्यक्रत्वर्थहिंसायाः शक्यार्थभूतहिंसानिषेधस्य चान्यतरापामाण्यभी- त्या हि संकोचः कल्प्यते । न चात्र तत्पदमाधातुं प्रभवति । अथ कथं निष्कम्पप्रवृत्तिहिंसाविशिष्टे यागादौ प्रामाणिकानामिति चेन्णु नान्तरी- सकहिंसाजन्यपाषफलसहिरणनामेव स्वर्गविषयकोकटरागवशीकृतान्त- -- [३] रङ्गाणां धूमादिसहिष्णूनां पाकादाविव श्येनादाविव च प्रवृत्तेरुपपद्यमान- त्वात् । न च निषेध्यनिषेधयोः पुरुषार्थत्वं ऋत्वर्थत्वं वा एकमेवाऽऽ- वश्यकमिति प्रकृते निषेधस्य ऋत्वहिंसाप्रतियोगिकत्वं नोपपद्यते किंतु पुरुषार्थहिंसामतियोगिकत्वमेवेति वाच्यम् । यतो नायमेकान्तो यत्पुरु- पार्थप्रतियोगिक एव पुरुषार्थनिधः क्रत्वर्थप्रतियोगिकश्च क्रत्वर्थनिषेध इति । व्यभिचरितत्वात् । पुरुषार्थो हि भार्योपगमः क्रत्वर्थत्वेन निषि- ध्यते “ न स्त्रियमुपेयात् " इत्यनेन । नत्वर्थहिंसाया अपि परम्परया ५रुषोपकारकत्वेन पुरुषार्थत्वस्यापि सूपपादत्वाञ्च । स्यादेतत् । यदि न स्याद्यागीयहिंसायाः पापाभावप्रतिपादकं प्रामाणिकवचननिकुरम्बम् । विहाय गनिमीलिकां विस्फारिते चक्षुषि समुपलभ्येरन्परःशतानि वचांसि । यथा हि मनु:- "यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः " ॥ "या वेदविहिता हिंसा नियताऽरिंमश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ" ॥ इति । अग्नीषोमीयादिवाक्यानां निन्दामायश्चित्तादिसमभिन्याहारा- भावेन तद्धो-यप्रवर्तनायाः स्वजन्यप्रवृत्तिविषयेऽजादिपश्वालम्भे सामान्यतोऽनर्थहेतुत्वप्रतिक्षेपकत्वमुक्तमनुवचनबलेनाध्यवसीयत इति सामान्यनिषेधशास्त्रस्य यागीयहिंसातिरिक्तपरत्वमेवोररीक्रियते । आक्षेपलमाया अपि यज्ञियहिंसाया विधितात्पर्यविषयत्वेनानर्थ- हेतुत्वप्रतिक्षेपो नानुपपन्नः । तथा चेमं सामान्यशास्त्रस्य संकोचं सुरुप- ष्टमेवाऽऽचष्टे श्रुत्यन्तरवचनम्--" अहिंसन्सर्वा भूतान्यन्यत्र तीर्थ- भ्यः" इति । अत एव च चोराततायिवधे पापाश्रवणेन शिष्टाचा- रानुवृत्तिः । एवं च यागीयहिंसायाः शास्त्रविहितत्वेनानर्थहेतुत्वशङ्काया अप्यनुत्पत्त्या सामान्यनिषेधस्य तदतिरिक्तपरत्वं निराबाधमिति न काऽप्यनुपपत्तिरिति चेन्मैवम् । “ तस्माद्यज्ञे धोऽवधः" इत्यत्रावध इति मोऽनुदरा कन्येत्यादाविवाल्पार्थकत्वस्यैवाभ्युपेयमानत्वात् । अन्यो- न्याभावार्थकत्वे एनरङ्गीक्रियमाणे घटोऽघट इत्यादिवाक्यादिव वधोऽवध इत्यादिवाक्यादपि अब्दबोधानुत्पत्तेरामाण्यापाताच । “ अहिंसन्सवी भूतानि " इति श्रुतिस्तु अवैधाहिंसात्यागस्य वैयहिंसायासाधनत्व- [४] मभिधत्त । न पुनधहिंसाया अनिष्टसाधनत्वाभावमपि । पशुं विशारित, वपामुरिखदति, पशुमालभते, पशुं यत्संज्ञपयन्ति, इत्यादिहिंसाविध- योऽपि हिंसाया इष्टसाधनत्वमाचक्षते । नैव पुनः प्रत्याचक्षतेऽनर्थहेतु- तामपि । अत एव तैत्तिरीयश्रुतौ " परागावर्ततेऽध्वर्युः पशोः संज्ञप्य- मानात् " इत्यनेन परागावर्तनं विधीयमानं जाघटीति पापवत्त्वात्तस्य कर्मणः । युज्यते चैवमेव ऋत्विजां प्रायश्चित्तश्रवणमपि । किंच तदेव हिं ब्राह्मणैर्विधीयते यन्मन्त्राः स्तुवन्ति । न चायं सोम- यागोमन्त्रः स्तूयते । यत्र च मन्त्रे तादृशं पदमाभासते तस्यान्यार्थ.वं वक्तुं सुशकम् । केवलं ब्राह्मणवाक्यैव विधानं त्वर्किचित्करम् । मन्त्रापे- क्षया ब्राह्मणस्य दौर्बल्यात् । तस्मान्मन्त्रैरस्तुतत्वादविहितत्वाच न सोमयागोऽनुष्ठेयतामर्हति । इतश्च नानुष्ठेयः सोमयागः-यतो रामायणेऽपि प्रतिपाद्यते-“यदनाः पुरुषा राजस्तदनारतस्य देवताः" इत्यनेन निवृत्तमांसानां देवतार्थ- मपि मांसबलिप्रदानमनवहमिति । ततश्चार्थादेव विज्ञायते ये नाव- न्मांसं भक्षयन्ति तैरेव तेऽनुष्ठेयाः समांसयज्ञा इति । न खलु कथमपि निवृत्तमांसानामनुष्ठेयः सोमयाग इति संप्रतिपन्नम् । “ अस्वयं लोक- विद्विष्ट धर्ममप्याचरेन त" इति भगवता याज्ञवल्क्येन लोकविशिष्ट धर्मोऽनाचरणीयतामेवाऽऽपद्यत इति सर्वथा सर्वर्जुगुप्स्यमानहिंसा- विशिष्टमाध्वरिकं कर्म परित्यागाईमेव प्रेक्षावताम् । महाभारते शान्तिपर्वणि उपरिचरोपाख्याने " बीजैर्यज्ञेषु यष्टयं छागं नो हन्तुमर्हथ " इत्यैतिह्यस्योपलभ्यमानत्वात्तत्रैवान्यत्रापि हिंसा- मययज्ञानां बहुशो विहितत्वात् , यज्ञानां जपयज्ञोऽस्मि, एष मे सर्व- धर्माणाम् , इत्यादिषु च भगवद्भक्तेरेच सर्वाधिक्येन तो य्यमानत्वाच सोमयागस्याननुष्ठेयत्वं सेत्स्यति । किंच कोऽयमभिनिवेशः-सत्यपि हिंसाविधुरे सोमप्रतिनिधिभूते समजसतमे कर्मणि हिंसाप्रधानः सोमयाग एवानुष्ठातव्य इति । स्पष्टमेव च प्रतिनिधिमाचक्षात भगवन्सौ मनुयाज्ञवल्क्यो- " इष्टिं वैश्वानरी नित्य निर्वपेदब्दपर्यये । क्लप्ताना पशुसोमानां निष्कृत्यर्थमसंभवे" ।। ( मनु० ११-२७) [५] "प्रतिसंवत्सरं सोमः पशुः प्रत्ययन तथा । कर्तव्याऽऽग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ एषामसंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः।" इति ( याज्ञ० आचाराध्या० १२५)। एकादशस्कन्धे भागवतेऽपि “वृत्त्यै परं घ्नन्ति पशूनतद्विदः"। पशोरालभनं न हिंसा" “ वन्यैश्वरुपुरोडाशैर्निर्वपेत्कालचोदितान् । न तु श्रौतेन पशुना मां यजेत" इत्यादिना बहुधा विनिन्दित एव हिंसा- युक्तः क्रतुः। भगवान्यास्कोऽप्यमुमेवार्थमुपष्टभ्नाति “अथ ये हिंसामाश्रित्य विद्या- मुत्सृज्य महत्तपस्तेपिरे चिरेण वेदोक्तानि वा कर्माणि कुर्वन्ति ते धूममभि- संभवन्ति" इत्यादिना "पुनरेवेमं लोकं प्रतिपद्यन्ते" इत्यन्तेन ग्रन्थेन । मनुनाऽपि उपबंहितोऽयमेवार्थो मुन्यन्नैरेव पुरोडाशचरुनिर्वपणयज्ञा- नामनुष्ठेयत्वमभिदधता, " अहिंसयेन्द्रियासङ्गवादकैश्चैव कर्मभिः । निवृत्तिस्तु महाफला" इत्यनेन । यदि च नैव सर्वथा त्यक्तुमिष्येत सोमयागस्तदा पिष्टपशुमालभ्येष्टं निर्वर्त्यताम् । तथैव चानुशास्ति भगवान्मनुरपि । 'कुर्याघृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा' इति । अनुकू- लश्चात्र वैष्णवानामाचारः। विशेषतश्चेदृक्तमे कराले कलिकाल एवंविधं कर्मानुष्ठीयमानं न कर्य- चिदपि धिनोति विदुषां चित्तम् । आधानमधुपर्कश्राद्धादौ हिंसामयो विधिः कलौ यथा जुगुप्सापादकत्वात्परित्यज्यत एवमिहापि पशुहिं- सा दूरतः परिहर्तव्या । अत एव च युज्यते याज्ञवल्क्यादिभिरुदीरितः प्रतिनिधिः। तथा च यागीयहिंसाविधायकवाक्यानां काम्यकर्मपरत्वात्काम्यक- मणां च बहुत्र निन्दितत्वात्, स्वसुखसंपिपादयिषयाऽस्वतत्राणां पशूनां मारणस्यानुचितत्वाद् विधिवाक्यैर्यागीयाहिंसायामिष्टसाधनत्वबो- धनेऽपि सामान्यशास्त्रप्राप्तस्यानिष्टसाधनत्वस्यानिराकरणात, स्पर्शस्यै- वाऽऽलभतिशब्दार्थत्वेन हिंसाया आक्षेपलब्धत्वेन संकोच्यसंकोचक- भावानुपपत्तेः, अवर्जनीयहिंसाजन्यपापफलसहिष्णूनामेव हिंसाविशिष्टे कर्मणि प्रवन्यपणने: 'यता : मला: रस्यादि ओल्या.
[६ ] त्वाध्यवसयाच पायजमकमेव हिंसायटितं यागादिकमंतिन तु तदनुष्ठीय- मानं श्रेय आवहेत्प्रत्युतानमेव संपादयेदिति । तदेतदज्ञानविजृम्भितमेव । न पुनः कदाचिदपि शक्यं सर्वेषां हिंसा- विशिष्टकर्मणां काम्यत्वमेवेति, स्यात्पनर्वायव्यं श्वेतमालभेत भूतिकाम इत्यादिवाक्यविहितानां कर्मणां काम्यत्वं, तावता वसन्ते वसन्ते ज्योतिषा यजेत, सोमेन यजेत, पशुना यजेत, इत्यादिवाक्यविहितक- र्मणां नित्यत्वं नापहोतुं शक्यम् । वीप्सादिभिर्हि तेषां तत्र तत्र मीमां- साशास्त्रे नित्यत्वस्य व्यवस्थापितत्वात् । कामं निन्यन्तां नाम काम्यानि कर्माण्यनित्यत्वेन किं ताक्ता प्राप्तं तदङ्गनहिसायाः । किंच यदेतत्काम्यं कर्मजातं निन्यने तकि हिंसाविशिष्टत्वेनाऽऽहोस्वित्काम्यत्वेन? नाऽऽद्यः। नित्यानामपि हिंसाविशिष्टत्वेन निन्द्यत्वापातात्. । निरुक्तगीतावाक्येषु निन्दाप्रयोजकहिंसाघटितत्वप्रतिपादकपदाभावाच्च । नान्त्यः । काम्य- त्वेन निन्दालेऽपि फलं प्रेप्सुनाइन्साकस्परांपादनाय हिंसाया अव- उगकर्तव्यत्वात् । अङ्गविनाकृतं हि प्रधानं फलपर्यवसाय्यपूर्व म प्रसवितुमरीष्टे । देशमशकमत्कुणानपि स्वमेऽपि अव्यापादयतामास्तिक- शिखामणीनामकरणे प्रत्यवायपरिहारार्थमेव केवल हिसाघटितेषु नित्य- कर्मसु प्रवृत्तिदर्शनात् न जावषि शङ्कनीयं स्वसुखोपार्जनाय यज्ञे पशून्हिसन्तीति । यदप्युक्तम्-एकस्यैव कर्मण इष्टसाधनत्वमनिष्टसाध- नत्वं चेत्युभयमपि वचनबलात्प्रमीयमाणं न विरुध्यते, इत्यादि । तन चारु । अमीषोमीयं पशुमालभेत, इति वाक्येन यागीयपश्वालम्भ- नस्य न केवलमिष्टसाधनत्वं प्रत्याय्यतेऽपितुः कलक्दनिष्टननुबान्धत्व- मपि । अन्यथा विषसंपृक्त भोजनविधायकवाक्यस्यापि प्रामाण्यापत्तिर्नि- कम्पं तादृशभोजने प्रवृत्त्यापत्तिश्च । अतो हि बलवदनिष्टाननुबन्धित्व- विशिष्टेष्टसाधनत्वमेव विधिना बोध्यत इत्यवश्यमभ्युपेतम्यम् । अनि- साधनत्वमाप केवलं निषेधवाक्येन न बोध्यते । तत्रापि बलवदनिए- जनकत्वमेव. बोध्यते । अत्र च बलवत्वमिष्टोपायानुष्ठानप्रयुक्तसफलवि- धेशवाधिकाधिक्यरूपत्वम् । तथा च विधिनिषेधयोधितयोरीहशेष्यनिष्ठ- साधनत्वयोरेंकत्र समावेशो न संघटते मिको विरोधात् । प्रतियोमित्रः पुरुषार्थत्वे नित्याणि पुरुषाविमिति नियमय पुरुषार्थ करताना निषेवल्य क्रत्वर्यस्वदर्शनेन व्यभिचारेअपि प्रतियोगिता सत्यार्थी [७] विषेधस्यापि ऋषर्थत्वनियषस्य कापि व्यभिचारादर्शनात् । यश्चाप्यभि- हितम्-अमीषोमीयादिवाक्येष्वालयतिनैव हिंसामभिधने किंतु वत्समा- लभेत्तेतिवाक्य इस स्पर्शमानम्, इत्यादि तप्यपेशलम् । अग्नीषो- मीयं पशुमालभेतत्यादीसाऽस्य देवतेत्यधिकृतेन च्छपत्ययेन प्रतीयमानो द्रव्यदेवतासंबन्धो यार्ग विनाऽनुपपत्र इति यागघाचकपदमावश्यकम् , लाघवादालभप्तिनव यागो लक्ष्यत इति शब्दयोध्यत्वमेव हिसाया न पुनः स्पर्शवाचकत्वमालभतेः । अथ चेदभिनिविशसे शक्त्या नैव हिंसाऽऽल भतिना बोध्यते, आक्षेपत एव च यागोपपत्त्यर्थं कल्प्या सेति तदा निभालय चक्षुषी विस्फार्य " वपासुरिखदति पार्थत आच्छथति नन्ति वा एतत्पशुं संज्ञपयन्ति पशुं विशास्ति हृदयस्याग्रेऽवद्याति अथ जिह्वाया अथ बक्षसः" इत्यादीनि सुस्पष्टमेव पशुहिंसामाचक्षाणानि वचोजातानि । अथ शडून्थाः-वसमाल में तेत्यत्र कथमालभतिः स्पर्शमाचष्ट इति । तदा यागतात्पर्य ग्राहको द्रव्यदेवतासंबन्धरतत्र न प्रतीयत इति समाधान मन्धीथाः। एतेनाऽऽक्षेपलभ्या हिंसा सामा- न्यशास्त्रं न बाधितुमीष्ट इति परास्तम् । यच्चोक्तं परुषार्थो हि भार्योप- गमः ऋत्वर्थत्वेन निषिध्यते न त्रियमुपेयादित्यनेन । यामीयहिंसाया अपि परम्परया पुरुषोपकारकत्वेन पुरुषार्थत्वरयापि सूपपादस्वादिति तब समयसम्-- न हिंस्यादिति शास्त्रस्य यागीयहिंसाशास्त्रस्यचोक्तनियमव्यभिचारण विरोधे सत्यपि सामान्यविशेपभावपर्यालोचनेन बाध्यबाधकभाव एचाभ्युपगम्यते । विशेषशास्त्रोदेश्यतावच्छेदकावच्छिमवृत्तिसामान्यध- विच्छिम्यविध्यताफरवरूपसामान्यशास्त्रत्वं न हिस्यादिति पाक्ये निरा- बाधमिति न काऽप्यनुपपत्तिः । यागीयहिंसाया अपि परम्परया पुरु- पोपकारकत्वेन पुरुषार्थस्वाभ्युपगमे सर्वमपि कर्मजातं परम्परया पुरुषो- पकारकमेति हन्त पुरुषार्थत्वं केवलान्वयि संपचेत? रयाह-येत च" अ- थातः कवर्थपुरुषार्थयार्मिज्ञासा" इत्यनेन चतुर्थाचन्याये निर्दिश्ययानो विभागः । सामान्यधर्मभ्याप्ययोः पुरुषार्थत्वक्रत्यर्थत्वयोरेका समावे- शेन मिथो विरोपाभावात् । आमनन्ति च परिणतमज्ञाः सामान्यधर्म- व्याप्पपरस्परविन्दमानाधर्मप्रकारकज्ञानानुकूलव्यापार विभागपद- व्यपदेश्यम् ।
[८] यच्च जल्प्यते-तस्माघज्ञे वधोऽवध इति मनुवचनेऽनुदरा कन्ये- त्यादाविव नोऽल्पार्थकत्वमेवाड़ी क्रियत इति तदतिसाहसम् नमोऽ- भावत्वावच्छिन्नमात्रवाचकत्वस्य सर्वदार्शनिकसंप्रदायसंमतिपन्नत्वेना- पार्थकत्वं लक्षणयैवाङ्गीकरणीयम् । कुतो नन्वायास्यते शक्त्यैव निर्वाहे लक्षणाश्रयणेनाऽऽत्मा । न चापि भ्रमितव्यम् “अहिंसन्सर्वाभू- तान्यन्यत्र तीर्थेभ्यः" इति श्रुतिधहिंसाया इष्टसाधनत्वमेवाभिधत्ते। न पुनरनिष्टसाधनत्वाभावमपीति । उभयोर्विरोधेन दत्तोत्तरत्वात् । एक- तरसत्त्वे तदितराभावस्य नान्तरीयकत्वात् । विधिस्पृष्टे च न प्रसरति निषेधः । विधयश्च यागीयहिंसाप्रतिपादका भूयांस इत्यवोचाम । अध्वर्योः परागावर्तनं तु संज्ञप्तिहोमार्थ न पुनः पापभियेति । ऋत्वि- जो प्रायश्चित्तश्रवणमपि प्रतिग्रहनिमित्तं न तु हिंसानिमित्तमित्यवधेहि । यदप्युल्लपितम्-यन्मत्राः स्तुवन्तीत्यादि । तदप्यविचारितरमणी- यम् । न चायमस्ति नियमः, मत्रैः स्तूयमानमेव ब्राह्मणैर्विधीयत इति । प्रभुसंमिततया ब्राह्मणवाक्यैर्विधीयमानं कर्म मनार्थवादादयः स्तुवीरं- श्वेत्पदैकवाक्यतया वाक्यैकवाक्यतया वा साफल्यमनुविन्देरन् । कचि- स्तवनाभावमात्रेण विधित्वं नापह्रोतुं सुशकम् । अत एव च निरर्थ- वादा विधयोऽमनसाध्यानि च कर्माणि तत्र तत्रोपलभ्यन्ते । अत एव प्रत्यपादि सार्थक्यं मन्त्राणामनुष्ठेयार्थमारकत्वेनैव न तु विधेयस्ताव- कत्वेन । अथ यद्यागृह्णासि मत्रैः स्तूयमानत्वमेव विधेयतापयोजक- मिति । तदा सोमस्याऽऽर्चिके नवमे मण्डले परःशनाभिक्रग्भिः स्तूयमा- नत्वं नाऽऽकलयसि किं! न च तेषां मन्त्राणामन्यार्थतां नेष्याम इति युक्तं वक्तुम् । भगवत्सा. यणाचार्यः सोमपरताया एव भाष्ये प्रतिपादितत्वात्, कचिच्च ऋक्षु हिंस्यमानपशुविषयकैव स्तुतिः स्पष्टमुपवर्णिता संलक्ष्यते । यथा- " प्रजानन्तः प्रतिगृह्णन्ति पूर्व प्राणमङ्गेभ्यः पर्याचरन्तम् । सुवर्ग याहि पथिभिर्देवयानरोपधीषु प्रतितिष्ठा शरीरैः" ।।(तै०स० ३-१-४ सायणभाष्यम्-हे पशो पूर्वे देवास्त्वदीयं वृत्तान्तं जानन्तोऽङ्गेभ्यः परि त्वदीयावयवेभ्य ऊर्ध्वमाचरन्तं ते त्वदीयं प्राण प्रतिगृह्णन्ति अस्मा- कमधीनोऽयमिति स्वी कुर्वन्ति । त्वं तु देवा येषु पथिषु यान्ति तैः पथिभिः स्वर्ग याहि । प्राणरूपेण स्वर्ग गत्वाऽवशिष्टः शरीरावयवै- रोषधीषु प्रतितिष्ठ पुरोडाशादिवद्धविर्भवेत्यर्थः । - ॥ [९] " इमं पशु पशुपते ते अद्य बध्नाम्यग्ने सुकृतस्य मध्ये । अनुमन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम्"॥ तै० सं०३-१-४) सा० भा०—हे पशुपतेऽने यदस्मिन्दिने सुकृतस्य मध्ये सम्यगनुष्ठितस्य ज्योतिष्टोमस्य कर्मणो मध्य इमं पशु बध्नामि अतस्त्वमनुमन्यस्व । वयं सुयज्ञा शोभनेन यज्ञेन यजाम । इदं हव्यं देवानां जुष्टं प्रियमस्तु । "जातवेदो वपया गच्छ देवान्त्व५ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयत्स्व स्वाहाकृत हविरदन्तु देवाः "॥ (तै० सं० ३--१-४) ता० भा०—हे जातवेदस्त्वं वपया सह देवान्गच्छ । हि यस्मात्त्वं प्रथमो होता बभूथ मनुष्यहोतुः पूर्वभावी वभूविथ तस्यात्त्वं धृतेन देवानां तनूवर्धयस्व । ते च देवाः स्वाहाकारेण समर्पितमिदं हविर्भक्षयन्तु । तुभ्यं श्चोतन्त्यधिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य। कविशस्तो बृहता भानुनाऽऽगा हव्या जुषस्व मेधिर" ॥ (ऋ० सं०३-२-२२) सा०भा०-अधिगो, अधृतगमन सततगमनस्वभाव, अत एव शचीवः शक्तिमन्हे, अग्ने तुभ्यं त्वदर्थ मेदसो मेदोरूपस्य हविषो घृतस्य च स्तोकासो बिन्दवः श्चोतन्ति सवन्ति तस्मात्काविशस्तः कविभिः कर्मा- भिर्होत्रादिभिः स्तुतस्त्वं बृहता प्रभूतेन भानुना तेजसा सहितः अस्मदीयं पशुयागमभ्यागच्छ । आगत्य च मेधिर प्रज्ञावनग्ने हव्या अस्माभिर्दीयमानानि वपादीनि हवींषि जुषस्व सेवस्व । " ओजिष्ठं ते मध्यतो मेद उद्धृतं म ते वयं ददामहे । थोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि" ॥ ( ऋ० सं० ३-२-२२) मा०भा०–हे, अग्न ओजिष्ठमतिशयेन सारयुक्त मेदो वपाख्यं हविम- ध्यतः पशोर्मध्यभागात्ते त्वदर्थमुद्धृतमुद्धृतमध्वदियो वयमस्मिन्पशौ ते तुभ्यं प्रददामहे, उद्धृतं तद्वपाख्यं हविः प्रयच्छामः । वसो सर्वस्य जगतो वासयितर्हे, अग्ने त्वच्यधि वपायामुपरि ये स्तोका घृतमिश्रा सन्नागा २ । १० । विन्दवस्ते ते त्वदर्थ श्चोतन्ति सवन्ति । यद्वा ते तव त्वच्याधि ज्वाला- ख्यशरीस्योपरि श्योतन्ति तान्स्तोकान्देवशो देवेषु प्रति विहि प्रत्येक विभजस्व । यद्यपि स्वस्वमतिवैभवेन मन्त्राणामनेकेऽर्था उत्प्रेक्षितुं शक्यन्ते, अथापि ब्राह्मणविहितानां कर्मणां प्राशस्त्यसंपादकोऽर्थः स्वयमाविर्भ- वन्न गोपयितुं शक्यते । केचित्तु ऐतरेय ब्राह्मणे श्रूयमाणाम्- " पशु नीयमानः स मृत्यु प्रापश्यत्सदेवान्नान्धकामयतैतुं तं देवा अब्रुवन्नेहि स्वर्ग वै त्वा लोकं गमयिष्याम इति स तथेत्यब्रवीत्तस्य वै मे युप्माकमेकः पुरस्तादेत्विति तथेति तस्याग्निः पुरस्तादैत्सोऽग्नि- मनु प्राच्यवत (ऐ० ब्रा०६।६।) पा०भा०-शामित्रदेशं प्रति नीयमानः पशुः प्रत्यक्षेण मृत्यु दृष्टवान् । ततः स पशुर्देवानन्येतुं नान्वकामयताऽऽगन्तुं नैच्छत् । ततो देवाः पशु प्रत्येवमब्रुवन्हे पशो त्वमागच्छ त्वया सह वयं सर्वे स्वर्ग गच्छाम इति । पशुश्च तदङ्गीकृत्य देवान्मत्येवमत्रवीत् , युष्माकं मध्ये कश्चिदेवो मम पुरस्ताद्गच्छत्विति । तद्वचनमङ्गीकृत्यानिर्देवस्तस्य पशोः पुरस्ता- दगच्छत् । ततः स पशुस्तमग्निमनु खयमपि तुष्टः सन्मकर्षणागच्छत् । एकधाऽस्य त्वचमाच्छयतात्पुग नाभ्या अपि शसो वपामुरिख- दतादन्तरेवोल्माणं वारयध्वादिति पशुधेव तत्प्राणान्दधाति" । (ऐ० ब्रा०६ । ६ ।) ०भा०-एकधैकविधया विच्छेदराहित्येनास्य त्वचमाच्छयतासमन्ता- च्छिन्नां कुरुत । नाभ्या अपि शसञ्छेदात्पूर्वमेव वपामुरिखदतादुद्धरत । ऊष्माणमुच्चासमन्तरेव वारयध्वान्निवारयत पिहितास्य संज्ञपय- तेत्यर्थः । तद्भागपाठन पशुष्वेव प्राणान्संपादयति । " तस्य वपामुखियाऽऽहरन्ति तामध्वर्युः स्रवेणाभिधारयन्नाह स्तोकेभ्योऽनुब्रूहीति "। ( ऐ० ब्रा० ७।२।) मा०भा०-तल्य पशोर्वपामुदरगतां वस्त्रसदृशीमुरिखद्योवृत्य होमार्थमाहरन्ति। तां च वपामध्वर्युरभिधारयन्षमत्रं ब्रूयात् । तदेतदापरतम्बो विशद- [ ११ ] यति-' त्वामु ते दधिरे हव्यवाहमिति सुवेण वपामभिजुहोति प्रादुर्भ- सेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहीति संप्रेष्यति ॥ " तद्यत्स्तोकाः श्चोतन्ति सर्वदेवत्या वै स्तोका नेन्म इमेऽनभिनीता देवान्गच्छानिति"॥ ( ऐ० ब्रा० । ७।२।). सा० भा०--तत्तस्यां वपायां तदानीमेव हिन्नायामायां श्रप्यमाणायां यदा स्तोका नीरबिन्दवः शेतन्ति निर्गत्याधः पतन्ति तदानीं सर्व- देवानां पियत्वादिमे स्तोकाः स्वयमनभिपीता अस्मासु पीतिरहिता देवान्गच्छान्गमिष्यन्ति । तथा सति महदेतदरमा भयकारणं तन्मा भूदित्यभिप्रेत्य रतोकमीपनार्थमिदं प्रैषानुवचनम् । अत्र नेदित्ययं शब्दः परिभयार्थः। "पुरुष वेदेवाः पशुमालभन्त तस्मादालब्धान्मेध उदकामत्सोऽश्च प्राविशत्तस्मादश्वो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स किंपुरुपोऽभवत् "॥ (ऐ० ब्रा०६।८।) सा० भा०--परा कदाचिदेवाः स्वकीये यज्ञे पुरुष मनुष्यं पशुमालभन्त पशुं कृत्वा तेन पशुना यमयुक्ताः । तस्मादालब्धाधष्ठुमुधुक्तान्मनुष्य- पशोर्मेधो मेथ्यो यज्ञयो यो हविर्भाग उदत्रामन्मनुध्यं परित्यज्यान्यत्रा- गच्छत् । गत्वा च स भागोऽश्वं प्राविशत् । यस्मादेवं तस्मादश्वो यज्ञ- योग्योऽभवत् । अथ तदानीमुत्क्रान्तमेधं परित्यक्तहविर्भागमेनं मनुष्य देवा अत्यान्तातिशयेन वर्जितवन्तस्तस्मिन्पशुत्वमपि नाकुर्वन् । देवैः स्वीकृत्य परित्यक्तः स मनुष्यः किं.रूपः किंनरावान्तरजातीयः। "तेऽश्वमालभन्त सोऽश्वादालब्धादुदत्रामत्स गां प्राविशत्तस्मा- गौमध्योऽभवदथैनमुत्क्रान्तमेधमत्यान्त स गौरमृगोऽभवत्" । (ऐ० ब्रा०६।८) सा० भा०-आलब्धादश्वान्मेधो यज्ञ योग्यभाग उत्क्रम्य गां प्राविशत्स गौर्यज्ञयोग्य आसीत् । तदानीमयोग्यत्वेन त्यक्तः सोऽश्वो गौरमृगोऽ- भवद्यस्य शृङ्गावपि लोमशौ भवतः । "ते गामालभन्त स गोरालब्धादुदक्रामत्सोऽविं प्राविशत्तस्मादविर्मेध्योऽभवदथैनमुत्क्रान्तमेधम- [१२] स्यार्जन्त स गवयोऽभवत्तेऽविमालभन्त सोऽवेरा- लब्धादुदक्रामत्सोऽजं माविशत्तस्माद जो मेध्योऽभ- वदथैनमुत्क्रान्तमेधमत्यार्जन्त स उग्रोऽभवत्" ।। ( ऐ० ब्रा०६।८।) "सोऽजे ज्योक्तमामिवारमत तस्मादेष एतेषां पशूनां प्रयुक्ततमो यदजः" ॥ (ऐ० ब्रा०६।८।) सा० भा०-स मेधारयो यज्ञ योग्यभागरतस्मिन्नजे ज्योक्तमामिवातिशयेन चिरकालमेवारमत क्रीडितवांस्तस्माचिरकालमेव सद्भावाद्योऽयमजोऽस्ति स एष एतेषां पूर्वोक्तानां पशूनां मध्ये प्रयुक्ततमः शिष्टैरतिशयेन प्रयुक्तः। इत्याख्यायिकामापाततो निरीक्षमाणाः पिष्टमयपशोरालम्भनमेवैता- दृशार्थवादाभिमेतमिति तदेव करणीयं न साक्षात्पशुरालम्भ्य इति संभावयन्ति । नैतत्समञ्जसतामगाते-यतो नाऽयं पिष्टपशोविधायक: स्तावको वाऽर्थवादोऽपि तु पशुपुरोडाशयागस्थ वपायागाङ्गस्य स्ता- वको मृतार्थवादः । नैव स्वभेऽपि संभावनीयं पश्वभावे पुरोडाश इति । यदि च वपायागो नैतदाख्याथिकयाऽनुमन्यत इति वलात्संभावयति तदाऽस्या एवाऽऽख्यायिकायाः पूर्व पश्चाच्चाभिहितानि पश्वगावदाना- दीनि कां गतिमालम्बेरन् । तस्मात्पशपरोडाशस्यैवैपा स्तुतिन पशुपति- - निधिपुरोडाशयागतात्पर्यिका । अथ पाध्यायेऽपि दृष्टिविकिरसि चेजानीषे वपायागस्य विहितत्वम् । " होता यक्षदग्नीपोमो छागस्य वपाया मेदसो जुपेतां हवि:तर्यज । होता यक्षदग्नीपोमो हविष आत्ताम्"। यच्चोदैरि यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः । इति रामा- यणान्तर्गतभगवद्रामवचनेन नानुष्ठेयः सोमयागो निवृत्तमांसैरिति । सदविमर्शमासुरम् , तत्रैवोत्तरत्र " श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति, मा" इत्यनेन यदन्नः पुरुषो भवतीत्यादेलौकिकश्रुतित्वं स्पष्ट प्रत्यपादि । लौकिकश्च प्रधादो वेदाक्षरैरेव विचारणीयेऽदृष्टमात्र- फलक एवंविधे विषये न तथा प्रमाणाभावमाटीकते ।
[ १३ ] तुष्यतुन्यायेन प्रामाध्येऽङ्गीक्रियमाणेऽपि ५रुषो यदको भवति तदना एव देवता इति नैव नियन्तुं शक्यते । पलापडगृजना- दिभक्षकैः श्राद्धादी तनिवेदनरय कर्तव्यरयाऽऽपातात् । यः पुरुषो याशाम्भविशिष्टरतनिरूपिता राध्यतावत्यो देवतारतादृशान्नविशिष्टा इति नायमविनाभावः संघटते । अन्वयव्यतिरेक-यभिचारदर्शनात् । दर्शि- तश्चान्वयव्यभिचारः पूर्वम्। रमातहोमेषु समिध्वादीनां होतव्यत्वानु- शासनात् तेषां च पर पन्नित्वाभावात् । व्यतिरेकव्यभिचाशेऽपि सुप्र- दर्शः । तथा चावश्यमेवाभ्युपगन्तव्या व्यवस्था यदयं लौकिकः प्रवादः स्मार्नेप्वेव पूजाहोमबलिप्रदानाद्याचारेषु सार्थक्यमनुने न एनः कथं- चिदपि श्रौतानपूर्वान्विधीनस्पधितुमीष्टे । तस्मानिर्विचिकित्समनुष्ठेयः सोमयागः। नापि याज्ञवल्क्यस्मृतिः-अत्यमित्यादिका पूर्वपक्षिणो मतं साध- यितुं प्रभवति । अस्वयों हि धर्मत्याज्यः स्यात् । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यनेन विधियिनैव स्वर्गसाधनत्वं दध्वन्यमानं न जात्वापि यागरयात्वर्यतां क्षमते नापि लोकविहिष्टत्वरूपो दोपः पदमा- धाति द्विषन्तु हिंसाविशिष्टं यागं प्राकृतालोका लोकायतिकाश्च तावता न शिष्टविहिष्टत्वमुत्प्रेक्षितुं शक्यं साद सानन्दं सोत्साहं सभक्त्युन्मेषं चानुभूयापि महान्तं क्लेश विभ्यतोऽकरणात्प्रत्यवायाच्छिष्टमूर्धन्याः परः- सहस्रा महात्मानोऽन्वतिष्ठन्यागाननुतिष्ठन्ति अनुष्ठास्यन्ति च । अत एव च भगवत्पाद पितं " शिष्टैरनुष्ठीयमानत्वाद निन्द्यमान- स्वादिति " किं न रमसि परशिवपराक्तारः श्रीचिदम्बरदीक्षितपादैः, चतुरधिकशतप्रबन्धनिर्मातृभिः परमशैवारगण्यैः श्रीमदपश्यदीक्षितचर- गैरन्यैश्च तैरतैर्विद्वदवतंसैरनुष्ठितांस्तात्ताज्योतिष्टोमप्रभृतीन् । कलादस- स्तन्मनसाऽपि नाऽऽकलनीयो शेषलेशोऽपि पवित्रतमे वैदिके तौ। एतेन यः पूर्वपक्षिणा मोदघाट महाभारतीय उपरिचरोपाख्यान- गोचर आक्षेपछागं नो हन्तुमर्हथेत्यादिः स तत्रैव चतुर्दशे श्लोके देव- पाक्येन प्रत्याविछो वेतिथ्य इति नात्र वयं विशेषतो वाचमायास- यितुभभिलपामः । यच्च-यनुयाज्ञवल्क्यप्रभृतिभिरुपदिष्टा वैश्वानरोष्टिरेव सोमप्रतिनि. धितया क्रियतां किं साक्षाद्धिसाघटितसोमेन, इत्यायुक्तं तन्मन्दम्- २ [ १४ ] द्वितीगद्यावृत्तौ हि सोममनिधितयाऽऽदिश्यते वैश्वानरेष्टिने पुनः प्राथ- मिकस्य सोमस्य स्पष्टं चैतत्त्वयैवोदाहृतमनुवचने-अब्दपर्यये प्रतिसंव- त्सरमिति पदाभ्याम् । तत्रापि निष्कृत्यर्थमसंभवे, एषामसंभवे, इत्या- दिनाऽसंभव एव हि सोमस्य वैश्वानरेष्टिः कर्तव्या स्यात् । न च सांप्रतं सोमः प्रतिवसन्तमसंभवी । यच्चोपवर्णितं भागवतं हिंसां विनिन्दतीति तदपि तत्रत्यपदेनैव प्रत्यु- क्तम् -वृत्त्यै जीविकाथै पशून्घ्नन्ति तेऽतद्विदः, पशोरालभनं च न हिंसा- पदवाच्यम्, पापजनकत्वाभावात् । वन्यैश्चरुपुराडाशैरित्याद्यपि नहि निन्दान्यायन नेयम् । या च यास्कोक्तिः प्रमाणत्वेन निर्दिष्टा साऽपि अशुद्धमिति चेन्न शब्दादिति न्यायेन भगवता बादरायणाचार्येणैव प्रत्याख्यातेति न वयं पुनस्तदर्थ प्रयतामहे । नापि मनुनोपबृंहितोऽर्थः पूर्वपक्षिणोऽभीष्टं साधयितुमीष्टे- अहिंसयेन्द्रियासङ्गैरित्यादिषु चका- रात्पुरुषार्थहिंसाया एव निषेधो न क्रत्वर्थायाः । वैदिकैश्चैव कर्मभि- रित्यग्रे स्मृतत्वात् । किं च सोऽयं सर्वोऽपि धर्मो वानप्रस्थाश्रमिणामेव न पुनर्गृहस्थानाम् । उपक्रमोपसंहारयोस्तथा दर्शनात् । मुन्यनेष्वपि च मांसस्यापि परिगणनाभक्षितेऽपि लशुन इति न्यायेनास्मदिष्टसि- द्विस्तदवस्थैव । कुर्याद्धृतपशुमित्यत्रापि रागप्राप्ताया एव हिंसायाः सङ्ग इति पदेन निन्दायाः स्मर्यमाणत्वान्न तद्वचो वैदिकी हिंसां निषेद्धं प्रभवति । एतेन केपांचिद्वैष्णवानां पिष्टपश्वनुष्ठानरूप आचारोऽपि निर्मू- लत्वादुपेक्ष्यः । अत एव चतुस्तन्त्रारण्यानीविहरणपश्चास्यैः श्रीमद्रा- घवेन्द्राचार्यचरणैष्णवधुरीणैरपि पिष्टपशुखण्डनप्रसङ्ग एवमभ्यधायि । " किंच कल्पसूत्राणां विशङ्खलशाखाकोडीकाररूपत्वेन स्मृतिभ्यः पावल्यात् । हिंसायज्ञपरैः कल्पसूत्रः स्मृतीनां वाध एव युक्तः । मनुनापि या वेदविहितेत्यादिषु बहुधा वैदिकहिंसाया अनुष्ठेयत्वेन पापाजनकत्वेन च विधीयमानत्वात् । न चाप्यतिशङ्कनीयमीदृशे कालेये काले हिंसायुक्तो ज्योतिष्टोमया- गादिविधिः परित्यक्तव्य इति । यतो न कापि श्रुतौ स्मृतौ वोल्लिख्यते कलियुगे नानुष्ठेयो यागीयहिंसाविधिरिति । आधानमधुपर्कादौ तु कल्प- सूत्रकारैः श्रीता एव विकल्पाः प्रादुरकारिषत । नैवं यागीयहिंसायाः कापि विकल्पाः प्रोच्यमानाः कर्णपथमवतरन्ति । तथा च काम्यकर्मणां [ १५ ] निन्दितन्वेऽपि ज्योतिष्टोमादिकर्मणामकरणे प्रत्यवायापादकत्वरूपनित्य- त्वोत्कीर्तनात् । आलब्धस्य च पशोः स्वर्गतस्य निरतिशयसुखभोक्तृत्वा- नानात्, एकत्र चेष्टसाधनत्वानिष्टसाधनत्वयोःसमावेशानुपपत्तेः, आलभ- तेद्रव्यदेवतासंबन्धान्यथानुपपत्त्याऽनुमेययागार्थकत्वात् , हिंसायाः शब्द- बोध्यत्वात् , सामान्यविशेषभावाभावपर्यालोचनया बाध्यबाधकभावस्य सूपपादत्वात् , नोऽल्पार्थकत्वानुपपत्तेश्च, हिंसाघटितमप्यावरिकं कर्म विशुद्धमिति न किल स्वमेऽपि संभाव्यतां तदनुष्ठायिनां पापलेशग- न्धोऽपि । आत्यन्तिकं च निरपेक्षं च श्रेयः समासाद्यत इति सर्वमनव- द्यम् । एवमिदं केषांचिदर्धमुग्धानां प्रलपितं समासतोऽस्माभिः प्रत्या- ख्यातं ग्रन्थे पुनर्ग्रन्थकृता सविशेषं विशदं प्राच्यानां वैयाकरणमूर्ध- न्यानां मजूषाकृत्यभृतीनां केनचिदभिसंधिनोद्भावितान् यागीयहिंसा- क्षेपान गभीरतराभिरुपपात्तभिः प्रबलतरैश्च प्रमाणनिचयैः समूलमुन्मूल्य निराबाधं प्रावर्ति वैदिको घण्टापथः । एतच्च सुस्पष्टमेव प्रतिपद्येत ग्रन्थ- मनुवाचयद्भिः प्रियपण्डितवरेण्यरिति न विशेषतो विज्ञापनीयमुत्पश्याम इति शिवम् । श्रीमज्जगद्गुरुशंकराचार्य- उप्पिन बेट्टगिरी श्रीनागेशशास्त्री। संस्कृतपाठशाला, धारवाड । *
No text on this page.
॥ पश्वालम्भमीमांसा ॥ ध्यायं ध्यायमुमापतेर्भगवतः पादारविन्दद्वयं स्मारं स्मारदारतर्करुचिराः श्रीसद्गुरूणां गिरः। अझैः कैश्चन वैदिके पथि हादुद्भावितं दूषणं प्रत्याख्याय समर्थ्यते विमलता यागीयहिंसाविधेः॥१॥ यैः पीतं कणभुग्वचोमृतमलं वैयासिकी भारती येऽस्ताशङ्कमनलं निजमुखाम्भोजे समानर्तयन् । नित्यं जैमिनितनगेन्दुकचयैः सोल्लासमक्रीडिषु- स्ता-श्रीन्यायमृगेन्द्रविश्रुतविरूपाक्षान्गुरूनौम्यहम् ॥२॥ मीमांसारमणीगलैकविलसद्रत्नायमानानह । वावन्दीमितमा गुरुननुदिनं श्रीवैद्यनाथान्परान् । दत्तात्रेयगुरुनितान्तयशसस्तच्छिष्यभावादमुं ग्रन्थं श्रीकमलेशपूर्णकृपया अथ्नात्यसौ वामनः ॥३॥ अतिरोहितमिदं समेषामपि विदुषामन्येषां च यदद्यत्वेऽपि कर्मभू- मिभावेन भाव्यमानेऽस्मिन्भारते देशे श्रुतिस्मृतिसमधिगताः परापरंश्रे- यःसाधनीभूता धर्मा आस्तिकभूयभूषितैर्मानुषैरनुष्ठीयमाना विज- यन्त इति । न खलु नावगतोऽयमपि विषयो मानुषजनुषां यत्किल कलिनामपरुषपुरुषस्यावेदस्मृतिनन्दितसराणिप्रसारणमूलकारणस्य वै- दिकनिन्दकमानवसमुन्नतिसंपादनबद्धपरिकरस्य सकलसमीशितृभावमा. पन्नस्याऽऽज्ञापिशाच्या विगमितविवेकप्रज्ञा उल्लवितानादिसाधुमर्यादा अनवरतमुत्पथसंचारसमाहितसमीहाः परमसाध्वीं वस्तुतः सकलजनहि- तोपदेशनिरतामास्तिकभूयभूमभरितैर्भारतीयभूमिदेवैरतिविरलैरपि दत्ता- वलम्बामत्यादरेण परिपाल्यमानां श्रुतिदेवीं निरालम्बीकृत्य कलुष- यितुमनवरतं प्रयतमानास्तदालम्बनभूतान्केवलमाम्नायसमाम्नातसत्प- थसंचारसंप्राप्तसमादरान्परतन्त्रप्रज्ञाञ्जननिकायानन्यांश्च वैदुषीविभूषि- तानपि मानुषानात्मसात्कर्तुं बहुधा संनयन्तः सर्वदा संवर्तन्त इति । तत्र-आवितलोकायतभावांः प्रत्यक्षप्रमाणैकशरणां आकृत्या परं तिर्य- माणितो भिदा संप्राप्ताः केचन मानुषाकाराः प्रात्यक्षिकादर्थात्पुनरन्य- त्किमस्ति, न तद् यथावत्कदापि शक्यनिरूपणमिति वृथा प्रलपन्तः २ पश्वालम्भमीमांसा। केवलमामुष्मिकसंप्रत्ययानस्वतन्त्रप्रत्ययान्संमोहयन्तो यथाकाम देहयात्रा प्रकुर्वाणाः कालमतिवाइयन्ति । अन्ये च केचन सर्वज्ञसूक्तिप्रमाणका धर्मराजसंपत्ययसंपृक्ता इति मिथ्याभाणकेन भ्रामयन्तो मान्वस्तुतः सकळसमीहितसमीचीनपदार्थनिकायावेदकेषु वेदवाक्येषु तदनुसारिम- हत्सूक्तिषु चोन्मत्तमलपितपायभावमुद्भावयन्तः · अहिंसा परमो धर्मः' इति मोहकरवाक्यजातं घाचयन्तः स्वस्वाभ्यूहमात्रपरिकल्पितमर्थ- नातं साधु संमन्यमाना अपापत्रपाः वृथाकालं यापयन्तः पर्यटन्ति । अपरे च पुनः कणभक्षणमतानुसारिणोऽनुमतनयनचरणमताः कापिलाः पातञ्जलाश्च सर्वज्ञपुरुषप्रणीतत्वादिनाऽऽन्नायाः प्रमाणमिति वृथा वाव- धमानाः स्वस्वतर्कपतर्कितार्थानुवादका इति मुधा प्रजल्पन्तः स्वस्वा- भ्यूहितार्थजातप्रतिपादकानिवन्धानिबध्नन्तो वहूनपि मानवान्स्वाभिम- सप्रस्थाने प्रस्थापयन्त आत्मानं कृतकृत्यं मन्यमानाः संतिष्ठन्ते । अत एतादृशमन्यतममतमनुप्रविशन्तो मनुजाः सर्वथाऽधःपातमापतेयुरिति पुराऽऽलोचनाकान्तस्वान्ती परमकरणापूरितान्तःकरणी सर्वज्ञशिरोमणी उपगतपरमास्तिकभाषी व्यासजैमिनिनामानौ तपोधनाग्रगण्यौ नाना- विधसच्यायनिर्धारणीयोचावचवचनव्यक्तिकमत एवाधुनातनजनैर्दुष्प- रिज्ञानमस्तोकमयार्थ्यमानपरमपुरुषार्थसाधनीभूतप्रवृत्तिनिवृत्तिपथप्रत्या- यकं समस्तप्रमाकरणाग्रगणनीयभावयापन्नं महान्तं वेदराशिं बहुविध- न्यायमदीपविचारात्मकशास्त्रेण संव्याख्याय वाचामगोचरं लोकोपकार- मकृषाताम् । तादृशशास्त्रात्मिकां टीकामाटीकमानमर्थ नितरां प्रतिभासयन्तं शब्दतोऽर्थतश्च दोषलवानाफलितं निबन्धसमुदायं श्रीमच्छंकरभगव त्पूज्यपादशबरस्वामिभट्टपादनमुखा महामहनीयाः प्रामाणिका ध्यरर- चन् । आपस्तम्बबौधायनाश्वलायनद्राह्यायणकात्यायनसत्याषाढादि- प्रभृतयोऽपि आत्यन्तिकीमाईन्तीमापन्ना मुनिवरेण्याः सकलवेदवेद्य- तत्त्वावेदकानि धर्मसूत्राणि अतिदुर्बोधप्रत्यक्षश्रुतिश्रावितश्रौतकर्माभि- धकर्मवृन्दानुष्ठानप्रक्रियामतिविशदमादयन्ति श्रौतसूत्राणि तथाऽऽचा- रानुमितवेदावेदितस्मातकर्माख्यकर्मरतोमप्रयोगप्रकारं मन्दाधियां दुरवगर्म प्रदीपयन्ति गृह्यसूत्राणि च निर्माय लोकानां बहूपाकुर्वन् । किं बहुना:- त्यन्तमादरणीया मानव्याद्या बह्वयः स्मृतयश्च लोके जेजीयन्ते । तद- त्र कापिलपातञ्जलमतानुयायिनोऽपौरुपेयानाशङ्कनीयदोषवेदमानभि- ज्ञाञ्जनान्व्यासमिनिप्रभृतिभिरापस्तम्बादिमहर्षिभिर्मन्वादिभिश्च मह- ३ - - पश्वालम्भमीमांसा। मीयैः प्रदर्शितं पन्चानमवळम्म्य किंचिदिव वेदार्थवत्त्वं प्रतियोधयामः। वेदस्तावत्प्रत्यक्षादिप्रमाणाप्रमेयपरमपुरुषार्थहेतुभूतवस्त्वावेदक इती- दमपश्चिमं विपश्चिताम् । एवं खलु निरुच्यते निरुक्तकोविदैः- प्रत्यक्षेणानुमानेन यस्तूपायो न बुध्यते । एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता ॥ इति । वेदवेद्यश्चार्थो द्विधाभावमापद्यते प्रवृत्तिसाध्यो दर्शपूर्णमासादिनिव- त्तिसाध्यं प्रत्यग्याथात्म्यज्ञानं चेति । तत्र प्रवृत्तिसाध्यधर्मसाधनीयः परमः पुरुषार्थः । आसार्वभौमस्थानादाब्रह्मलोकस्थानं सरतमभावेना- नुभूयमानः ' स एको मानुष आनन्दः' इत्यादिना · स एको ब्रह्मण आनन्दः' इत्यन्तेन वाक्यजातेन प्रतीयमानः सुखविशेषः । ज्ञानसा- ध्यश्च परमः पुरुषार्थोऽज्ञाननिवृत्तिपूर्वकः परमानन्दावाप्तिरूपः 'ब्रह्म- विदामोति परम् ' इत्यादिश्रुतिशतैस्तथा घोधितत्वात् । वस्तुतस्तु परमः पुरुषार्थो मोक्ष एक एव साक्षात्परम्परया वै तत्साधनभावमा- पना एव वेदावेदिताः समस्ता अपि धर्माः । " सर्वे वेदा यत्पदमाम- नन्ति तपांसि सर्वाणि च यद्वदन्ति” इत्यादिश्रुतिभ्यस्तथावगम्यमा- नत्वात् । तत्रापि ज्योतिष्टोमादिकर्मणां “ तमेतं घेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " कर्मभिः पके ततो ज्ञानं प्रवर्तते " इत्यादिश्रुतिस्मृतिभ्यश्चित्तशोधन- पूर्वकज्ञानसंपादनद्वारा मोक्ष उपयोगः । ज्ञानस्य तु तमेव विदित्वाति मृत्युमोत नान्यः पन्था विद्यतेऽयनाय' इत्यादिश्रुतिभ्यः साक्षा- न्मोक्ष उपयोगः । यद्यपि दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, अग्नि- होत्रं जुहुयात्स्वर्गकामः, ज्योतिष्टोमेन स्वर्गकामो यजेत, सौर्य चर निर्वह्मवर्चसकामः, इत्यादिश्रुतिभिः कर्माणि स्वर्गब्रह्मवर्चसादि- साधनभावमापन्नानि प्रतीयन्ते तत्कथं मोक्षहेतुभूतान्येव सर्वाणीति प्रतिज्ञायत इति चोधमेकमग्रगामितामागच्छेत् तथाऽपि तानि वाक्यान गुडजिहिकान्यायेन प्राकृताञ्जनानिषिद्धाचरणतो निवर्त्य श्रेयःसा- धनीभूतकर्मसु प्रवर्तयितुं प्रवृत्तानि न तु तदेव फलं नान्यदतः पर- मस्तीति प्रत्याययितुम् , यथा वा माता स्वबालकमविवेकिनमारो- ग्यप्रदायकौषधपाने गुडं दास्यामीति प्रलोभ्य प्रवर्तयति तथैव श्रुति- माता स्वर्गादिफलं प्रदर्श्य तत्तक रकर्मसु बहिर्मुखाः प्रजाः प्रवर्तयति, इति सधियामातरोहितम । " कषाये - ४ पश्वालम्भमीमांसा। आस्तां तावदिदम्, सर्वथाऽपि प्रत्यक्षवेदपठितानि अनुमितश्रुति- बोधितानि सर्वाण्यपि श्रौतानि स्मार्तानि च कर्माणि श्रेयःसाधनीभू- तानीत्यस्मिन्विषये न कोऽपि विवादः । केचित्माकृता आत्मानं पाण्डितीमण्डितं मन्यमानाः सकलवेदतदनुसारिशास्त्रसारदृश्वभावमात्म- न्यारोपयन्त इत्थं वृथा प्रजल्पन्ति-वेदस्तदनुसारिशास्त्राणि च केवल- मामुष्मिकसुखसाधनोपायं प्रत्याययन्ति न खलु तैहिकसुखसाध- नोपायाः प्रत्याय्यन्ते । तदुपायोऽधुना जगति प्रसृमरहूणविद्याभ्यासः। न तत्र किंचिदपि वैदिकः पन्था उपकरोति । अतो लोके परमसुखा- भिलाषाहितैः पुरुषैस्तादृशोपाया एवानुष्ठातव्याः, न हि तैर्वेदबोधि- तमध्वानं प्रतिप्रस्थातव्यमित्यादि । एवंवादास्ते पुरुषा इत्थं परिम- हव्याः-कि केवललौकिकोपायसंपादनेनान्तरादृष्टसहकारमैहिकमभिल- षितं सुखं प्राप्तुं सुशकमाहोस्वित्तीयसाहाय्यकेन वा । तत्राऽऽद्यः पक्षो गगनकुसुमसमानः । तस्मिन्पक्षे हि दैवानुकूलतानादरे केवलपुरुषकारेण समीहितं मुसाधमित्युक्तं स्यात् । न हि तथा संभवति । दृश्यते हि उभाभ्यां समाने यत्न आस्थितेऽपि एकेन फलं प्राप्यतेऽन्येन नोपेयत इति । वदन्ति च प्राज्ञाः-एकः समीचीनादृष्टसंभूषितोऽपरस्तु दुरदृष्ट- संदष्ट इति । केवलपुरुषकारवादैरत्र व्यवस्था दुरुपपादैव । न खलु द्वाभ्यां विद्यार्थिभ्यां समायामभ्यासप्रयत्यामास्थितायामपि समानैव योग्यता प्राप्यत इति लोके दृष्टम् । न हि द्वौ कृषीवलौ समतया कृषि- कर्मणि व्यामियमाणौ सदृशमेव फलं भुञ्जाते इति नियन्तुं शक्यम् । नापि द्वयोः पण्याजीविनोः सदृशप्रयत्नकारिणोरुदर्के लाभालाभौ समौ परिदृश्यते । नो किल जगत्यां पाणिनो भिन्नाकारा नावलोक्यन्ते, तत्रापि मानुपाः समस्ताः समानसुखदुःखभाजिभावमापना न संप- धन्ते, नैव धनिकाकिंचनभावमनापद्यमाना विद्यन्ते, नापि अधिकारो- त्कर्षनिकर्षरहिता निर्वर्ण्यन्ते, अशक्यव्यवस्थाककेवलपुरुषकारवाद- मते बहूपप्लवः संपद्येत । द्वितीयपक्षावलम्बने प्रस्थितं वैदिके प्रस्थाने । निगमावगमितसुकृतदुष्कृताभ्यां खलु सदसती अदृष्टे निष्पद्येते, ना- न्यदुपायभूतं वस्तु प्रमाणसिद्धं भवति, अतः पूर्वोक्तं मतं सर्वथाऽश्रद्धे- यम् । आस्तां तावदिदं प्रकृतमनुसरामः । तत्र गार्हस्थ्यमापनैः पुरुषै- त्रैवर्णिकैः प्रत्यवायपरिहृतयेऽवश्यमनुष्ठातव्या यज्ञा एकविंशतिप्रभेद- पश्वालम्भमीमांसा। ५ भिन्ना वर्तन्ते । तत्रौपासनवैश्वदेवपार्वणाष्टकामासिश्राद्धसर्पवलीशा- नबल्याख्या याः सप्त पाकयज्ञसंस्थास्ताः शिष्टाचारानुमितश्रुतियो- धिताः सत्यः केवलप्रत्यक्षरमृतिपरिपठिताः स्मार्ता इत्युच्यन्ते । अत एव भगवानापस्तम्बः-" अथ कर्माण्याचाराद्यानि गृह्यन्ते " इत्याह । अस्यायमर्थः-आचारानुमितवेदाद्यानि कर्माणि औपासनहोमादीनि पाकयज्ञशब्दानि यानि चोद्वाहादीनि यज्ञाधिकारयोग्यदेहसंस्कारार्थानि कर्माणि गृह्यन्ते ज्ञायन्ते तानि व्याख्यास्यामः, इति । या अ- ग्निहोत्रदर्शपूर्णमासाग्रयणचातुर्मास्यनिरूढपशुबन्धसौत्रामणिपिण्डपितृय- ज्ञादिदीहोमा हविर्यज्ञसंस्थाभिधाः सप्त याश्च-अनिष्टोमात्यमिष्टो- मोक्थ्यषोडश्यतिरात्रवाजपेयाप्तोर्यामाख्याः सप्त सोमसंस्थास्ताः सर्वा अपि श्रौतशब्दप्रतिपाद्या आधानसिद्धानिषु अनुष्ठेयाश्च ' अमिहोत्रं जुहुयात्स्वर्गकामः' इत्यादिप्रत्यक्षपरिपठितवेदवाक्यैस्तेषां प्रतिपद्य- मानत्वात् । एते च श्रेयोभिलाषोपलक्षितैः पुरुषैरवश्य संप्रयुज्येरन् " यावज्जीवमग्निहोत्रं जुहोति " "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" " वसन्ते वसन्ते ज्योतिषा यजेत" "कुर्वन्नेवेह कर्माणि जिजीविषे- च्छतं समाः " "एसदै जरामर्थ सत्रं यदग्निहोत्रम्" "वीरहा वा एष देवानां योऽग्निमुद्वासयते" "निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिज्ञेयो नान्यस्य कस्यचित्"। इत्यादिश्रुतिस्मृतिभ्योऽवश्यानुष्ठेयत्वप्रतिपादनद्वाराऽकरणे प्रत्य- वायापादकत्वप्रदर्शनात् । तथाहि-" यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात्स्यात्" इत्यस्मिन्नधिकरणे “ यावज्जीवमग्रिहोत्रं जुहोति" " यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" इत्यादिवाक्यान्युदाहृत्य किमिदं वाक्यजातं स्वर्गफलकदर्शपूर्णमासादिकर्मणो जीवनपर्यातकालविशि- व्यापकप्रयोगविधायकमाहोस्विज्जीवनानिमित्तकविनियोगान्तरविधा- यक बोति कथंभावाकाङ्क्षारूपप्रकरणानुग्रहसंभवाप्णमुलन्तशब्दसत्वाच संशये यावज्जीवशब्दस्य णमुलन्तस्यापि यावदेहं तिष्ठतीत्यादाविव का- लपरत्वसंभकात, प्रत्युत- अभिक्रामं जुहोतीत्यादिस्थले निमित्तपरत्वादर्श- नाच, उत्पत्तिशिष्टामावास्यादिकालावरोधेऽपि अमावास्यायामपराहे पिण्डपितृयज्ञेन चरन्तीतिवद्व्याप्यव्यापकविधया कालट्यसमावेशसं- भवात, जीवनपर्याप्तकालविधानसामर्थ्यादेवाभ्यासस्य सिद्धत्वातु तस्यैव .
६ पश्वालम्भमीर्मासा। कर्मणो नीवनकालपरिमितप्रयोगविधानमिति पूर्वपक्षे प्राप्ने यावच्छब्दस्य सामस्त्यवाचित्वाज्जीवशब्दस्य ‘जीव प्राणधारणे' इत्यनुशासनात् प्राणनक्रियावाचित्वात् समभिव्याहृतधात्वर्थान्तरसंबन्धे धातोः परत्वेन पक्ष्यमाणाः प्रत्यया इत्यर्थक “ धातुसंबन्धे प्रत्ययाः" इत्यधिकारेऽ- न्तर्गतेनानुशासनेन विहितस्य णमुल्यत्ययस्य धात्वर्थान्तरानुयोगि- कस्वपकृत्यर्थप्रतियोगिकसंबन्धवाचित्वात्ताशसंबन्धविशेषाकाङ्क्षायां पावच्छब्दरूपतात्पर्यग्राहकवशानिमित्तत्वरूपसंबन्धविशेषप्रतीतेर्जीवधा- त्वर्थस्य यजत्यर्थ एव संबन्धस्य वक्तव्यत्वाद्भवदुक्तकालपरत्वाङ्गी- कारे तद्वाचकपदस्याभावाल्लक्षणाया आपद्यमानत्वात् स्वावच्छिनकाल- पत्त्वसंबन्धेन वाच्यार्थस्य जीवनस्यैव विधाने गुणभूतजीवनकालानु- रोधेन प्रधानभूतप्रयोगावृत्तेरन्याय्यत्वात् , यावच्छब्दार्थस्यापि विधाना- गीकारे लक्षणादोषस्य तदवस्थत्वादेताशगुरुभूतसंबन्धापेक्षया रुघुभूतनिमित्तत्वसंबन्धेनान्वयस्य योग्यत्वाज्जीवने निमित्ते प्रकृतकर्मण एव पापक्षयोदेशेन विनियोगान्तरविधानमिति सिद्धान्तितम् । अत्र च निमित्तत्वं न केवलानुष्ठापकत्वं कामनावत, तथा सति यावत्पदा- नुवादासंगतेः । किं तु अवश्यानुष्ठापकत्वरूपं तदानी प्रतिनिमित्तमा- तेरर्थलब्धत्वाद्यावच्छब्दोऽनुवादः । निमित्तत्वं च स्वान्वयव्यतिरे- कानुविधाय्यन्वयव्यतिरेककानुष्ठानकत्वं, राहूपरागस्य स्वान्वयव्यतिरे- कानुविधाय्यन्वयव्यतिरेककस्नानकत्वात्स्नाननिमित्तत्वम् । एवं च निमि- तसत्त्वे नैमित्तिकस्यावश्यानुष्ठातव्यत्वादवश्यानुष्ठापकजीवननिमित्तक- त्वहेतुना प्रत्यवायजनकाकरणकत्वानुमानादकरणे प्रत्यवायजनकत्वमे- तदधिकरणसिद्धम् । तत्र प्रवृत्तिसिद्धयर्थ फलाकाङ्क्षायामकरणे प्रत्य- पायजनकत्वज्ञानादेव प्रवृत्तिसंभवात्करणस्य पृथक्फलाभाव एवेति प्रभाकरो मन्यते । न्यायसुधाकारादय इष्टसाधनत्वज्ञानमन्तरा प्रवृत्त्य- संभवाद्योगक्षेमसाधारणकार्यकारणभावमङ्गीकृत्य करणस्य प्रत्यवाय- प्रागभावपरिपालनं फलमनुमन्यन्ते । नवीनमीमांसकास्तु प्रत्यवाय- प्रागभावस्याजन्यत्वान्मुख्यफलत्वासंभवात् • धर्मेण पापमपनुदति 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः' इत्यादिश्रुतिस्मृतीनां जागरू- कत्वादानुषङ्गिक पापक्षयाख्यं फलमनुष्ठापकं परं जीवनादिनिमित्तमित्य- भिप्रयन्ति । अद्वैतप्रवर्तकमूर्धन्या भगवत्पादा नित्यानामपि कर्मणां छाया- गन्धन्यायेन काम्यवददृष्टस्वर्गादिफलकत्वं सोपपत्तिकं समर्थयामासुः ।
पश्चालम्भमीमांसा। अत एव गीताभाष्यान्ते भगवन्तो भाष्यकाराः-'नहि काम्यानुष्ठानायास- दुःखात्केवलनित्यानुष्ठानायासदुःखं भिद्यते, किं चान्यदविहितमपति- षिद्धं च कर्म तत्कालफलं न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेद्यदि तदा स्वर्गादिष्वदृष्टफलशासने चोद्यमो न स्यादग्निहो- त्रादीनामेव कर्मस्वरूपाविशेषेऽनुष्ठानायासदुःखमात्रेणोपक्षयः काम्याना च स्वर्गादिमहाफलत्वमङ्गतिकर्तव्यताद्याधिक्ये त्वसति फलकामित्व- मात्रेण न शक्यं कल्पयितुम् । तस्मानित्यानां कर्मणामदृष्टफलाभाचो न कदाचिदप्युपपद्यते " इत्यादिग्रन्थेन भावदन् । आस्तां तारदिर्य कथाऽप्रकृता, अकरणे प्रत्यवायः सर्वेषामेव संमत इति सिदम् । किं चैतेषामकरणे प्रत्यवायः कूर्मपुराणे दर्शितः- "नास्तिक्यादथवाऽऽळस्यादग्नीन्नाऽऽधातुमिच्छति ।। यजेत वा न यझेन स याति नरकान्बहून् । तस्मात्सर्वप्रयत्नेन ब्राह्मणो वा विशेपतः ।। आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम्"। इत्यादिना । प्रजापतिनाऽपि- "सर्वसंस्थाधिकारः स्यादाहितामेधने सति । आदध्यानिर्धनोऽप्यग्नीनित्यं पापभयाद्विजः ॥ अतः सिद्धं पापभयाविष्टैः श्रेयोर्थिभिः पूर्वोक्ता यज्ञा इतराणि । कर्माण्यवश्यमनुष्ठानकर्मतां नेयानीति । अथ कथमुच्यते सर्वा आप संस्थाः पापभीरुभिः श्रेयोर्थिभिरनुष्ठातव्या इति, पाकयज्ञसंस्थादीनां हिंसादिदोषराहित्यात्सात्त्विकर्मत्वेन पापासंपृक्तश्रेयोभिलाषिपुरुष- रनुष्ठानयोग्यत्वेऽपि पशुहिंसादिदोषपितानामितरेषां कर्मणां पापज- नकानुष्ठानकानां तादृशैः पुरुषैरनुष्ठातुमयोग्यत्वात् , न हि ते यज्ञाः सात्त्विकाः किं तु श्येनयागादिवत्तामसाः, अतस्त आमिषाभिलाषिणा. मेवानुष्ठानीया न तु सत्त्वप्रकृतीनामपि। न हि परमास्तिकाः सात्त्विकाः संध्यावन्दनादाविव श्येनयागादौ प्रवर्तन्ते यत्कारणं तत्र शत्रुहिंसादि- दोषकलुषितत्वं तदेवाग्निष्टोमादीनामपि पशुहिंसादिदोषदुष्टत्वातत्रापि सात्त्विकानां प्रवृत्तिरनुचिता हिंसायाः पापजनकत्वाख्यं दुष्टत्वं न हिंस्यात्सर्वभूतानीत्यादिनिषेधशास्वतोऽवगम्यते । अत एव गीताशा- रेऽष्टादशाध्याये- - ८ पश्चालम्भमीमांसा। ॥ 'सहज कर्म कौन्तेय सदोषमपि न त्यजेत् ' इत्यनेन भगवता विहितकर्मणां हिंसादिदोषवत्त्वमभ्युपगम्यैवार्जुन प्रति परित्यागाभावश्चोदितः । अत एव प्रायश्चित्ताध्याये हेमाद्रौ- 'अजं बस्तं द्विजो हन्यात्कारणेन विना नृप । नरकं चानुभूयाऽऽशु ततः सूनुर्भवेत्कलौ ॥ ब्राह्मणो निनिमित्तेन बस्ताजो निहनेद्यदि । नरकं कालचक्रं तु ह्यनुभूय महत्तरम् । पुनः क्ष्मामुपगम्याऽऽशु सूनुर्भवति पूर्वजः इति कथितम् । अनयोर्वधे प्रायश्चित्तं तत्रैव निरवर्णि- "तद्दोपपरिहारार्थ प्राजापत्यद्वयं चरेत् । विप्रः सङ्गाद्धि तं गत्वानिमित्तैर्यदि हिंसयेत् । प्राजापत्यद्वयं कुर्यात्तथा बस्तवधे नृप"। इति । अत्र हि अजं बस्तमिति विशिष्योपादानसामोड्विज इति कर्तृ- विशेषोपादानसामर्थ्याद्याग एव स्वतो द्विजकर्तृकहिंसायाः प्रसक्ति- संभवात्मायशो यागेऽजबस्तयोरेव द्रव्यत्वेन चोदनाद्यागीयहिंसाया एव दोषजनकत्वं प्रतीयते । अन्यथा नरो हन्याद्यदि पशुमित्येव प्रब्रू- यात् । किं च भगवतेश्वरकृष्णेन " दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयाति- शययुक्तः । तद्विपरीतः श्रेयान् " इत्यनेनेदमेव प्रत्यपादि । तथा हि रसायनकामिनीनीतिशास्त्राभ्यासमत्राद्युपयोगेऽपि तस्य तस्य दुःखस्य निवृत्तेरदर्शनादनैकान्तिकत्वं निवृत्तस्यापि पुनरुत्पत्तिदर्शनादनात्यन्ति- कत्वं तद्वदेवाऽऽनुश्रविकस्य कर्मणः । तत्र च प्रतिज्ञायां हेतुमाह-स हीति । ज्योतिष्टोमादिरानुश्रविकः पशुहिंसादिदोषकवलितो भावकार्यत्वाद- नित्यः परस्परं तरतमभावसंपन्नश्च । नहि ज्योतिष्टोमजन्यस्वर्गो दर्श- पूर्णमासजन्यस्वर्गश्चोत्कर्षनिकर्षानापन्नो भवितुमर्हतीति । एवं च ज्योति- टोमादिककलापस्य हिंसादोषरूपाविशुद्धियुक्तत्वहेतुना दुःखानि- वृत्तेः साधनाज्ज्योतिष्टोमाद्यपि कर्म हिंसादिना दुष्टमितीश्वरकृष्णोऽभि- मौत । भगवान्पञ्चशिखाचार्योऽपीममेवार्थमनुमन्यते । तेन हि " स्वल्पः संकरः सपरिहारः समत्यवमर्षः" इत्यभाणि । तस्याप्ययमर्थः-ज्योति- टोमादिजन्यधर्मस्य पशुहिंसाजन्याधर्मेणाल्पः संबन्धः पुण्यापेक्षया .
पश्चालम्भमीमांसा - पापस्याल्पत्वात्संबन्धे स्वल्पत्वमुपचरितम्, अल्पप्रायश्चित्तपरिहार्यः प्रत्य- वायो विद्यत इत्यर्थः । स्वल्पत्वमेवोपपादयति-सपरिहार इति । अल्पेन प्रायश्चित्तेन परिहर्तुं शक्य इत्यर्थः । यद्यालस्यादिना प्रायश्चित्तं नाऽऽ- चर्यते तदा प्रधानकर्मविपाककालीनपचनयोग्यं पापं तदानीं सहनयोग्य भवतीति । पतञ्जलिरपि-" कर्माशुक्लाकृष्णं योगिनस्त्रिविधामितरेषाम् " इत्यनेन सूत्रेण सोमयागादिकर्मणः शुक्लकृष्णभावमभिप्रेतवान् । वाम- नससाध्यं सुखैकफलकं शुक्लं कर्म स्वाध्यायतपआदि दुःखैकफलकं कर्म कृष्णं निषिद्धं सुरापानादि सुखदुःखमिश्रफलकं सोमयागादीत तदीय- रामानन्दवृत्तावुक्तत्वाच्च । योगभाष्ये भगवता व्यासेनापि शुक्लकृष्णा बहिःसाधनसाध्या तत्र परपीडानुग्रहद्वारेण कर्माशयप्रचय इत्येवं यागस्याविशुद्धियुक्तत्वमभ्यधायि । सांख्यभाष्यकर्तृविज्ञानभिक्षुणाऽप्य- यमेव पक्षोऽङ्गीकृतः । अत एव कर्मणां हिंसादिदोषरूषितत्वान्मुण्डका- द्युपनिषत्सु 'प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म' इत्यादिना निन्दा श्रूयते । किंच गीताशास्त्रे तृतीयेऽध्याये- 'ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तरिक कर्मणि घोरे मां नियोजयसि केशव' ।। इत्यर्जुनेन कर्मणों हिंसादिदोषदुष्टत्वादेव घोरत्वरूपं विशेषणं दत्तम् । भाष्यकारेणापि कर्मणि घोरे हिंसालक्षण इति घोरशब्दार्थो व्याख्यातः । मधुसूदनसरस्वत्या कर्मणि घोरे हिंसाधनेकायासबहुल इति तच्छब्दो व्यवियत । अत एव ' अहिंसा परमो धर्मः । इति स्मर्यते । तत्र परमत्वरूपविशेषणादिसादोषयुक्तानामधर्मत्व- समानाधिकरणधर्मत्वं सूच्यते । एवमनेकश्रुतिस्मृतिसमालोचने ज्योतिष्टोमादिकर्मणां हिंसादोषदुष्टत्वात्कथं सात्त्विकैः श्रेयोर्थिभिः सर्वा अपि संस्था अनुष्ठातव्या इति प्रतिज्ञातुं शक्यत इति चेदत्र साधु समादध्मः । हिंसादियुक्ता अपि यज्ञाः केवलं निर्दोषा इत्येवाभ्युप- गन्तव्यम् । तत्र हिंसाया अग्नीषोमीयं पशुमालभेत, वायव्यं श्वेतमा- लभेतेत्यादिना प्रमाणभूतेन शास्त्रेण विशिष्य विहितत्वाद्विधिस्पृष्टे न निषेधावकाश इति न्यायस्य जागरूकत्वात्, अत्र हिंसायुक्त- कर्मणो दुष्टत्ववादी देवानांप्रियः प्रष्टव्यः-कथमवगतं भवता हिंसायाः पापजनकत्वं मा हिंस्यात्सर्वभूतानीति निषेधशास्त्रेणावबुद्धमिति चेत्- हन्त यथाऽनेन शास्त्रेण हिंसाया अनिष्टसाधनत्वं प्रतीयते तथैव तत्स- • - पश्वालम्भमीर्मासा। जातीयेन यागीयहिंसाविधायकशास्त्रेण दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिशास्त्रैः साकमवैरूप्यसिद्धयर्थ स्वविधेयेऽनिष्टसाधनत्वास- मानाधिकरणेष्टसाधनत्वं कुतो नाभ्युपगम्यते । ननु दर्शपूर्णमासादि- कर्मणां सामान्यतो निषिद्धत्वाभावात्केवलमिष्टसाधनत्वमभ्युपगम्यते, प्रकृते सामान्यतो निषिद्धत्वादनिष्टसाधनत्वं विहितत्वाच्च ऋतूपकाररूपे- टसाधनत्वं चाभ्युपगम्यत इति चेन्न । प्रकृते निषेधशास्त्रस्य विहितहिंसाति- रिक्तरागप्रयुक्तहिंसामादाय चारितार्थ्यसंभवे विशेषशास्त्रविहितहिंसाया- मितरविधिविधेयसंदृश्यमानानिष्टजनकत्वासामानाधिकरण्यविशिष्टेष्टसा- धनत्वबाधापादकानिष्टसाधनत्वबोधनानौचित्यात् । किंच सामान्य- विशेषस्थले सति विरोध उत्सर्गापवादभाव एवाऽऽश्रयणीयः । यदा- हवनीये जुहोति, पदे जुहोतीत्यादिस्थले तथा दृष्टत्वात् । अन्यथा लोकेऽपि बहुविप्लवापत्तिः स्यात् । न झुषःकाले न शयीतेति सामा- न्यतः शयननिषेधकवाक्येन रुग्णस्तूप्णी सदा शयीतेति वाक्यविहित- रुग्णकर्तृकशयनस्यापि निषेध्यत्वमभ्युपगम्यते । अत्र यद्यद्वक्तव्यं तत्स- वमुपरिष्टावक्ष्यामः । यत्तु श्येनादिवदित्युक्तं तदतीवासंगतम् । तस्थले शत्रुवधस्य फलत्वेनाभ्भुपगम्यमानत्वात्फलस्य च विधेयत्वासंभवाद्विधि- स्पृष्टे न निषेधावकाश इति न्यायाप्रसरात् । अत एव यसिन्धीतिस्तस्य लिप्सा, इत्यादिसूत्रस्य वर्णकान्तरेऽल्पत्वाद्वा नानेन लक्षणकारणमि- त्यादिना ग्रन्थेन खण्डदेवमित्रैः फलस्यापि धात्वर्थादिवद्भावनाविशेष- णत्वाविशेषाद्विधेयत्वमिति पूर्वपक्षायित्वा प्रथमतः सकलकारकशिष्ट- भावनाविधानेऽपि अनन्तरं विशेषणविधिकल्पनमन्तरा तस्यापर्यवसा- नात्तद्विषय कविशेषणविध्यकल्पनात्तस्य न विधेयत्वमिति सिद्धान्त- यित्वा पूर्वोत्तरपक्षफलकथनावसरे पूर्वपक्षे श्येनफलीभूतहिंसारूपाभि- चारस्य विहितत्वान्न हिस्यादिति निषेधाविषयत्वं सिद्धान्ते तत्य राग- प्राप्तत्वानिषेधाविषयत्वमिति प्रत्यपादि । एवं च हिंसाया विहितत्वे निषेधास्पृष्टत्वमविहितत्वे तत्त्वमित्येव खण्डदेवमिश्राशय उन्नीयते । न च हिंसापदस्य मरणानुकूलव्यापारवाचित्वाच्थेनस्यापि तत्त्वात्तस्य विहितत्वेऽपि शिष्टानां तत्र निःशडू प्रवृत्त्यविषयत्वेन यथाऽनिष्टसाध- नत्वमुपेयते तथा यागीयहिंसाया अपि विहितत्वेऽपि अनिष्टसाधनताऽ- भ्युपेयतामिति वाच्यम् । यतः साक्षान्मरणानुकूलव्यापारस्यैव हिंसाशब्दार्थत्वं प्रकृते श्येनस्य-अभिचरन्यजेतेतिवाक्यघटकयजि- पश्वालम्भमीमांसा। ११ धात्वर्थभूतस्य-अभिचरन्निति शतृप्रत्ययान्तशब्देन हिंसारूपाभिचार- फलकत्वावसायात्साक्षान्मरणानुकूलत्वाभावान हिंसात्वं न ह्यत्राभि- चाररूपफलस्य वैरिमरणरूपत्वाभ्युपगमाच्छ्येनस्य साक्षात्तदनुकूलव्या- पारत्वेन हिंसात्वमव्याहतमिति संभवति । तथा सति अभिचरन्य- जेतेत्यत्र प्रतीयमानमभिचारस्य यच्छयेनसमानकर्तृकत्वं तस्यासंग- त्यापत्तेः । अतस्तत्र सामानाधिकरण्यानुसारेणाभिचारस्य मरणानुकूल- विषदानादिव्यापाररूपत्वाभ्युपगमाच्टयेनस्य हिंसात्वं दुरुपपादमेव । न चात्र भ्रमितव्यं श्येनरय हिंसात्वाभावेऽपि हिंसानुकूलव्यापाररू- पत्वाव्याघातात्तस्यापि निषिद्धत्वेन श्येनेनाभिचरनिति विहितत्वेन च यथा-इष्टानिष्टसाधनत्वं तथा यागीयहिंसाया अपि संभवतीति । यतो नहि तत्र श्येनस्यानिष्टसाधनत्वमभ्युपेयते किंतु केवलमिष्टसाधन- त्वमेव श्येनकर्तरि परम्परयोत्पद्यमानस्याभिचारस्यैव तत्र पापजनकत्वं नहि तदपि विधेयम् । अतः परम्परयाऽभिचारोत्पत्तिभियैव शिष्टानां तत्रामवृत्तिः । एवं च प्रकृतेऽपि हिसाया विहितत्वात्तस्य केवल मिष्टसा- धनत्वमेवाभ्युपगन्तव्यम्। किंच गीताशास्त्रेऽपि अशोच्यानितिश्लोकस्य भाष्ये भगवत्पादैः “हिंसादियुक्तत्वाद्वैदिक कर्माधर्मायेतीयमप्या- शङ्का न कार्या कथं क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसाल- क्षणमत्यन्तरतरमपि स्वधर्म इति ज्ञात्वा नाधर्माय तदकरणे च ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि'इति ब्रुवता यावज्जीवादिश्रुति- चोदितानां पश्चादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति" इति वणितम्- तथा-'नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागरतामसः परिकीर्तितः'। इति श्लोकव्याख्यानावसरे मधुसूदनसरस्वतीभिः-ननु दोष- वत्त्वं काम्यस्येव नित्यस्यापि दर्शपूर्णमासज्योतिष्टोमादेवी हिपश्वादि- हिंसामिश्रितत्वेन सांख्यैरभिहितं न च बीहीनवहन्ति अग्नीषोमीयं पशुमालभेतेत्यादिविशेषविधिगोचरत्वात्क्रत्वङ्गहिंसाया न हिंस्यात्सर्व- भूतानीति सामान्यनिषेधस्य तदितरपरत्वमिति सांप्रतम् । भिन्नविष- यत्वेन विधिनिषेधयोरबाधेनैव समावेशसंभवात् । निषेधेन हि पुरु- पस्यानर्थहेतुर्हिसेत्यभिहितं न त्वक्रत्वर्था सति, विधिना क्रत्वर्थी सेत्यभिहितं न तु अनर्थहेतुर्नेति । तथा च ऋतूपकारकत्वपुरुषानर्थहे- - १२ पधालम्भमीमांसा। तुत्वयोरेकत्र संभवात्त्रत्वर्थाऽपि हिंसा निषिद्धैवेति हिंसायुक्तं दर्शपूर्ण- मासज्योतिष्टोमादि सर्व दुष्टमेव । विहितस्यापि निषिद्धत्वं निषिद्धस्यापि विहितत्वं श्येनादिवदुपपन्नमेव । अत एव महाभारते- जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते अहिंसया हि भूतानां जपयज्ञः प्रवर्तते ॥ इत्यादिना पूर्वपक्षायत्वा ब्रूमः-न क्रत्वर्थहिंसाऽनर्थहेतुः । विधि- स्पृष्टे निषेधानवकाशादित्यादिग्रन्थेन सिद्धान्तितम् । सिद्धान्तग्रन्थस्याय- मभिप्रायः-विधिशास्त्रं स्वविषये जनानां प्रवृत्तिसिद्धयर्थ विधेये पदार्थे बलवदिष्टसाधनत्वं बोधयति बलवदिष्टसाधनत्वं च विधेयस्या- नर्थहेतुत्वेऽनुपपनं सदनर्थहेतुभावाभावं चाऽऽक्षिपति । अतो विहितपदार्थे निषेधवाक्यज्ञायमानानर्थहेतुता न युज्यते । यत इष्टे बलवत्त्वस्येष्टोपा- यानुष्ठानप्रयुक्तसकलदुःखावधिकाधिक्यरूपत्वं निषेधशास्त्रबोधितानिष्ट- गतबकवत्त्वस्य चेष्टापायानुष्ठानप्रयुक्तसकलविधेष्टावाधिकाधिक्यरूपता चोपेयते । नहि तत्र केवलेष्टसाधनत्वं विधिवाक्येन बोध्यते केवला- निष्टसाधनत्वं निषेधवाक्येन बोध्यत इति सांप्रतम् । तथा सति विष- संपृक्तानभोजनेऽपि प्रवृत्त्यापत्तेः, धूमसहनादिक्लेशजनकयागानिवृत्त्या- पत्तेश्च । इतिकर्तव्यताविधयोऽपि न साक्षात्क्रत्वर्थत्वं बोधयन्ति येन विरोधाभावः शङ्कथेत किंतु बलवदिष्टसाधनत्वमेव । प्रवर्तनाविषयी- भूतपुरुषप्रवृत्तेः पुरुषार्थकर्मकत्वस्वाभाच्यात्कचित्तोरपि पुरुषार्थसा- धनत्वेन पुरुषार्थभूयमुपगतस्य तद्विषयतेत्यन्योऽयं विषयः। परंतु बलव- दिच्छोपाधानसमये जायमाना पुरुषप्रवृत्तिर्भाव्यस्य नार्थहेतुतामाक्षि- पति न वाऽनर्थहेतुतां प्रतिक्षिपति । किं तु यथाप्राप्तमेवावलम्बते । बलवदिच्छाविषये स्वर्गादौ स्वत एव प्रवृत्तिसंभवात्तत्र विध्यपेक्षाभा- वात् । अत एव श्येनदृष्टान्तवैषम्यम् । तत्रापि परम्परया श्येनकर्तृनि- ष्ठस्याभिचाररूपफलस्य बलवदिच्छाविषयत्वेन विधिजन्यप्रवृत्तिविष- यत्वाभावात् । श्येनकर्तुरभिचारप्रयुक्तानथहेतुत्वसंभवात्तत्स्थले श्येन- यागस्य विधिजन्यप्रवृत्तिविषयत्वेनानर्थहेतुत्वानभ्युपगमात् । एवं च हिंसानिषेधसामान्यशास्त्रं विशेषविधिबाधितं सद्रागद्वेषादिमूलकाक्रत्वर्थ- हिंसां विषयी करोतीत्येवाभ्युपगन्तव्यम् । विधिस्पृष्टस्यापि निषेधविष- यत्वेऽतिरात्रग्रहणस्यापि नातिराने पोडशिनं गृह्णातीत्यनेन निषिद्ध- त्वादनर्थहेतुत्वापत्तिः । अयं तु भट्टस्याभिप्रायः । प्रभाकरस्तु श्येन- पश्वालम्भमीमांसा। १३ ज्योतिटोमादियागहिंसयोरन्यथावैषम्यमुपपादयामास । साक्षात्पुरुषा- साधने नियोगेन न प्रवृत्तिः किं तु रागत एव । एवं च श्येनयागस्योति- कर्तव्यतात्वाभावात्तस्य रागप्रयुक्तप्रवृत्तिविषयत्वान्मरणप्रयोजनकव्या- पारत्वेनाऽऽपतितमनर्थहेतुत्वं न शक्यप्रतिक्षेपम् । यागीयहिंसायाः सर्व- बेतिकर्तव्यतात्वात्तत्र प्रहत्तेर्वैधत्वाद्विधिना हिंसायामनर्थहेतुता निवर्यंत इति श्येनयागीयहिंसयोर्वैषम्यमिति यथा तथा वा भवतु मतद्वयेऽपि यागीयहिंसाया अनिष्टसाधनत्वं नास्तीति सिद्धम् । मतद्वय इयान्विशेषः- भट्टमते श्येनस्य केवलधर्मत्वाच्चोदनालक्षणोऽर्थो धर्म इत्यत्रार्थपदव्या- वत्यै कलञ्जभक्षणादिकमेव, प्राभाकरमते तस्याधर्मत्वात्सोऽपि तेन व्यावर्त्य इत्यलमधिकेन । तार्किकैरपि कृतिसाध्यत्वबलवदनिष्टाननुव- न्धित्वेष्टसाधनवानां त्रयाणां विध्यर्थत्वं सर्वत्राभ्युपगम्य ऋत्वर्थहि- सायामपि विशिष्य निषेधाभावात्मायश्चित्तानुपदेशाच्च त्रयाणामपि भान- मावश्यकमित्युच्यते । अत एव व्युत्पत्तिवादान्ते गदाधरभट्टाचार्य:- यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया मा हिंस्यादित्यत्रविधर्हिसैव विवक्षितति श्येनस्य नरकासाधनत्योपपादनं तदपि न, तावंताऽपि अभि- चारविधया तथात्वस्य दुर्वारत्वादिति लिखितम् । तत्र यत्तुकारमते सिद्धा- न्तमते च यागीयहिंसाया अनिष्टासाधनत्वेनमा हिंस्यादित्यस्य विहित- हिंसातिरिक्तहिंसापरत्वमभिमतमेव परंतु श्येनस्य यत्तुकारमते नरकासा- धनत्वं संमतं सिद्धान्तेऽभिचारत्वेन नरकसाधनत्वं तच मांसकानामपि संमतमेव । औपनिपदानामपि भाट्टदर्शनमेव व्यवहारार्थमुपयोग । अत एव हिंसादिदोषदुष्टत्वेन कर्मपरित्यागकथनस्थले भगवता 'मोहात्तस्य परि- त्यागस्तामसः परिकीर्तितः' इत्यत्र कर्मपरित्यागहेतुत्वेन मोहो वर्णितः। तत्रत्यमोहपदं मधुसूदनसरस्वतीभिरित्थं व्याख्यायि । तथा च सांख्यानां विहिते निषिद्धत्वज्ञानमनहितावनर्थहेतुत्वज्ञानं धर्मे चाधर्मत्वज्ञानमनु- ठेये चाननुष्ठेयत्वज्ञानं विपर्यासरूपो मोह इति । एवं चैतादृशज्ञानप्रयो- ज्यकर्मपरित्यागस्य तामसत्वं भगवतः कृष्णस्याभिप्रेतमिति सिद्धम् । यदप्युक्तम् ' सहज कर्म कौन्तेय सदोषः पि न त्यजेत्' इत्यन्ताग्निष्टोमा- दिकर्मणां दोषवत्त्वमभ्युपगम्यैव त्यागाभावः कीर्तित इति तदप्यपे. शलम् । तत्रापिशब्देन वस्तुतो दोषाभावः सूचित एव स्थूलबुद्धिमनु- मृत्य भगवता तथाऽभ्युपगम्य कथितत्वात् । अयमभिप्रायो ब्रह्मानन्द- गिरी व्यक्तः। यदवादि प्रायश्चित्ताध्याये हेमाद्रौ- -- ४ पश्वालम्भमीमांसा। - अजं वस्तं द्विजो हन्याकारणेन विना नृप । नरकं चानुभूयाऽऽशु ततः सूनुर्भवेत्कलौ ॥ इत्यादि । तदतितुच्छम् । तत्रैव श्लोके कारणेन विनत्युक्तत्वात् । अत्र च यागादौ हिंसाविधायकशास्त्रमेव कारणत्वेनाभिप्रेतमन्यथा तस्मि- नेव हेमाद्रावेतत्पद्यलेखनोपरि- 'यज्ञार्थ हन्ति चेद्विमो ह्यनन्तं फलमश्नुते ॥ यज्ञार्थ हन्ति यो विमो हज मेष सुपुण्यधीः । स याति ब्रह्मणः स्थानं पुनरावृत्तिदुर्लभम् ।। यागार्थ हन्ति यो विप्रः पशुं लोकपरायणः । स याति ब्रह्मसदनं ब्रह्मणा सह मुच्यते । बस्तं वापि हनेद्यस्तु स यातीन्द्रपदं ध्रुवम् । यागाहिंसनं प्रोक्तं तयोर्ब्रह्मविसृष्टयोः । इत्यादीनि लैङ्गगौरीकाण्डकौर्मवचनानि व्याहतप्रामाण्यकानि भवेयुः। एषु पद्येषु यागीयहिंसाया निर्दुष्टत्वस्य स्फुटं प्रतीयमानत्वात् । एवं च- विप्रः सङ्गाद्धितं हित्वाऽनिमित्तैयदि हिंसयेत् । प्राजापत्यद्वयं कुर्यात्तथा बस्तवधे नृप ।। इत्यादिप्रायश्चित्तवचन विहितहिंसातिरिक्तहिंसाविषयकमेव पूर्वलि- खितनिरवकाशवचनवलादत्रापि सङ्गादनिमित्तैरिति कथितत्वाच्च । यदत्र हि अजं वस्तमिति विशिष्य विम इति च विशिष्योपादान- सामर्थ्यात्, इत्यादि कथितं तदपि अस्माकमेव साधकम् । यतो यागे द्विजैः प्रायशोऽजवरतयोहिंसनेऽपि शिष्टगर्हितत्वादर्शनाट्यागाबाहिरपि तत्कर्तृकतद्धिंसाया दोपविधुरत्वं स्यादिति मन्दमतीनामाशङ्का संजा- येत तनिवारणार्थ विशिष्य तथाऽकथि । यदवाचि कापिलपातञ्जलं- मतानुयायिभिरीश्वरकृष्णप्रभृतिभिः-यागीयहिंसाया अल्पदोषदुष्टत्वं वर्णितमिति, तत्तु अतीवासमीचीनम् । तैश्च केवलं स्वोत्नक्षितमोक्षरूप- फलोपायत्वेनाभिमतस्य प्रकृतिपरुषविवेचनस्य सिद्धये शास्त्राणां प्रणी- तत्वेन मुण्डकाद्युपनिषत्सु विधीयमानस्य ब्रह्मज्ञानस्य प्रशंसासिद्धये प्लवा होते अदृढा यज्ञरूपा इत्यादिना कर्मणां निन्दितत्वेऽपिन हि निन्दा निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुमितिन्यायेन तत्र तात्पर्याभाववत्ता- पश्वालम्भमीमांसा। १५ दृशशास्त्रपरमतात्पर्यविषयीभूतप्रकृतिपुरुषविवेचनात्मकोपायस्य प्राश- स्त्यसिद्धये तदितरेषां निन्दाकथनावसरे कर्मणामल्पदोषदुष्टत्वेन निन्दितत्वात्तत्र तात्पर्याभावस्योन्नेयत्वात् । यदि च कपिलपतञ्जलि- प्रभतीनां हिंसादिदोपदुष्टत्वेन यागानां वस्तुतोऽनिष्टसाधनत्वमेवाभिमत- मिति मन्यते तदाऽपि पूर्वोक्तयुक्त्याऽपौरुषेयनिर्दोपहिंसाविधायकश्रुती- नामनर्थहेतुत्वाभावबोधकत्वावश्यंभावात्तादृशश्रुतितन्मूलकबहुस्मृतिवि- रोधादप्रतिष्ठादोपदूपितोत्सेक्षामात्रमूलककापिलपातञ्जलादिस्मृतीनां श्रु- तितात्पर्यानवबोधमात्रनिबन्धनानां श्रुतिविरुद्धद्वैतांश इवैतदंशेऽपि अप्रा- माण्यमेवावश्यमभ्युपेयम् । अत एवाढा ह्येत इत्यादिना कर्मनिन्दोक्ति- रपि संगच्छत इत्युक्तिः परारता । तत्रापि ज्ञानप्रशंसार्थमेव कर्मनिन्दा- या उक्तत्वेन तत्र श्रुतेस्तात्पर्याभावात् । यदपि गीताशास्त्रे तृतीयाध्याये- 'ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । ततिक कर्मणि घोरे मां नियोजयसि केशव '॥ इत्यस्मिश्लोकेऽर्जुनेन वस्तुतो हिंसादिदोषदुष्टत्वाभिप्रायेण घोर- त्वविशेपणं दत्तमिति व्याहृतं तदपि अज्ञानमूलकमेव । यतस्तत्रार्जुनेन वस्तुतो हिंसादिदोषदुष्टत्वेन न घोरत्वविशेषणमदायि अपि तु शास्त्रब- हिभूतानां प्राकृतानामापातबुद्धिमनुसृत्य तथा कथितम् । तादृशविशेषणं च तदानीं देयमेव यतोऽर्जुनेन स्वरय केवलकर्मयोगे प्रवर्तक कृष्णं प्रति उपालम्भरय कथ्यमानत्वात् । एतदवसरे च ज्ञानयोगापेक्षया येन येन प्रकारेण कर्मयोगस्य निकर्षों भवति तत्सर्वं वक्तव्यम् । तस्मात्सर्वथा यागीयहिंसानिर्दोषतामतस्यैवापौरुषेयदोषशङ्कानास्कन्दितश्रुतिस्मृति. न्यायसहस्रसिद्धत्वाद्यागीयहिंसादुष्टत्ववादो दृढतरमूलावलम्बाभावाद- व्यवस्थितोत्प्रेक्षामूलकत्वाच्च सिकताकूपवद्विशीर्यमाणत्वेन श्रेयोथिभिः सर्वथाऽनादरणीय इति सिद्धम् । अधुनातनाः वावदूका दुर्वास- नावासितान्तःकरणाः पूर्वोपपादितप्रमाणान्यनालोचयन्तो दूरीकृतानादि- श्रुतिस्मृतिसिद्धवर्णाश्रममर्यादा आब्राह्मणमाम्लेच्छादाहारादिव्यवहारेषु समतां भावयन्त आस्तिकमूढानन्यांश्च केवलशास्त्राधीतिन इहैव येन के- नापि प्रकारेण प्रतिष्ठाकामाञ्जनान्बहुधाऽऽवर्जयन्तोऽनादिनिर्दोषश्रुति- तदनुमतस्मृतिविरुद्धापतिष्ठिततर्कप्रकल्पितकापिलपातञ्जलादिस्मृतिमूल- कान्वैयाकरणसिद्धान्तलघुमञ्जूषादिग्रन्थांस्तैस्तैर्निखिलागमेषु निष्णा- तमात्मानं मन्यमानः प्रणीतान्वेदवत्प्रमाणयन्त इदानी हिंसायुक्ता यागा केचन १६ पश्वालम्भमीमांसा। नानुष्ठातुमर्हाः श्येनादिवत्तामसा हि ते । अतो हिंसादिरहिताः सात्त्विकाः पाकयज्ञादयः परं कर्तुं युक्ता इत्यादिकमात्मनि सर्वशास्त्राभिज्ञत्वाभिमानेन मुधा जाजल्प्यमाना महाप्रामाणिकपरम्परा- गतां वस्तुतो निःश्रेयसकरीमग्निष्टोमादिधर्मजातानुष्ठिति प्रतिवन्दु संब- द्धसंनाहा अटाट्यन्ते । तेषां मिथ्याभिमानं समूलकाषं कषितुं किंचि- दिवात्र लेखनव्यापारेऽधिकृता भवामः । यदलेखि मञ्जूषायां लिङर्थ- विचारावसरे तत्सर्वमाभासयितुमिदानी प्रयत्यते । यत्तु न हिंस्यात्सर्व- भूतानीति निषेधाद्यागीयपश्वालम्भे पापं संभवत्येव । न चाग्रीषोमीयं पशुमालभेतेत्यादिर्यागीयहिंसाविधिनिषेधस्य विहितेतरहिंसापरत्वं वो- घयतीति वाच्यम् । विधिना प्रकरणेन च तल्याऽऽप्सप्रेरणाविषयत्वेनेष्ट- हेतुत्वक्रत्वर्थत्ववोधनेऽपि उक्तरीत्याऽनिष्टाहेतुत्ववोधे मानाभावेन निषे- धस्य हिंसायां पुरुषानिष्टहेतुत्ववोधकत्वेन विरोधाभावात्परकीय- सुन्दरीगमनादौ समावेशदर्शनादिति तत्सामान्यविशेषशास्त्रविशेषा- नभिज्ञता ग्रन्थकर्तुळक्तमावेदयति । यतो यागीयहिंसाविधायकानाम- नीपोमीयं पशुपालभेत, वायव्यं श्वेतमालभेत, पशुं संज्ञपयति, पशु विशास्ति, इत्यादिश्रुतीनां जागरूकत्वेनावस्थितिः । न हिस्यात्सर्व- भूतानीति सामान्यवाक्यादेतादृशविशेषवाक्यापर्यालोचनदोषप्रयुक्तवै- धावैधहिंसामतियोगिकनिषेधाविषयकभ्रमोत्पतावपि एतादृशवाक्यपर्या- लोचनानन्तरं वैयहिंसाप्रतियोगिकत्वांश उत्पन्नज्ञानस्य भ्रमत्वनिश्च- यात्तद्वाक्यं केवलमवैधहिंसाप्रतियोगिकनिषेधपरं पर्यवस्यति । एवं च क्रत्वर्थहिंसाया निषेधप्रतियोगित्वेन शास्त्रजन्यप्रमाविषयत्वाभावात्कथं- कारं दुष्टत्वमापद्येत । एवं स्थितेऽपि यदि हठान्न हिंस्यादित्यत्र सक- लहिंसानां निषेधोऽभ्युपगम्यते तर्हि निर्विषयतया विधिवाक्यमरण्यरु- दितमायमापद्येत हृदयावदानराहित्येन क्रतोरनित्त्यापत्तिश्च । न च . वाच्यमेतदोषद्वयमपि नाऽऽपतति विधिना कत्रिष्टसाधनत्वस्य निषेधेन तदनिष्टसाधनत्वस्य बोधयितुं शक्यत्वात् । न चैकत्रेष्टसाधनत्वानिष्ट साधनत्वे न संभवतः । घृतपाने पुष्टयाख्येष्टसाधनत्वमेहरोगाख्यानिष्ट- साधनत्वयोः समावेशदर्शनात् । यागादौ च स्वर्गादिरूपेष्टसाधनत्वस्य धूमसहनादिरूपतात्कालिकानिष्टसाधनत्वस्य च संकरस्य सर्वसंपतिपत्र- त्वात् । निषेधशास्त्राणां हि- पश्वालम्भमीमांसा। १७ प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । इंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ इत्यभियुक्तोक्त्या विधीनां प्रवर्तकत्वेनेव निवर्तकत्वेनैव शास्त्रत्वस्य समर्थनीयत्वात् । प्रकृते निवर्तकत्वासंभवे शास्त्रत्वाभावप्रसङ्गात् । न च शङ्कनीयं पशुहिंसा यागनित्त्यर्थं कार्या, आहोस्वित्प्रत्यवायपरि- हारार्थ परिहर्तव्येति विकल्पापादकत्वेन पाक्षिकनिवर्तकत्वं संभवतीति । यत एवंचेनिषेधशास्त्रं यागीयहिंसांशे पक्षे निषेधकमवैधहिंसां नित्यं निषेधकमिति बैरूप्यदोषग्रस्तं वैधहिंसाननुष्ठानपक्षे ऋत्वनित्तिदोषप- राहतं च भवेत् । किं च मधुविपसंपृक्तान्नसाधारण्येन केवलेष्टसाधन- त्वस्य प्रवृत्त्यौपयिकत्वाभावादिष्टोपायानुष्ठानप्रयुक्तसर्वावधानिष्टावधि- काधिक्यरूपवलवत्त्वविशिष्टेष्टसाधनत्वस्यैव प्रवृत्तिप्रयोजकत्वात्केवला- निष्टसाधनत्वस्य तात्कालिकलेशकरम्बितयागादिसाधारण्यापत्त्या निव- त्तिप्रयोजकत्वासंभवेनेष्टोपायानुष्ठानसाध्योदेश्यभूत्तेष्टावधिकाधिक्यरूपब- लवत्त्वविशिष्टानिष्टसाधनत्वस्यैव निवर्तकत्वावश्यंभावात् । यागीय- हिंसाया निषेधविषयत्वाभ्युपगम एकस्मिन्हिसापदार्थ एतादृश- योरिष्टानिष्टसाधनत्वयोः समावेशासंभवन प्रवर्तकनिवर्तकयोर्विधिनि- षेधशास्त्रयोः क्रत्वर्थहिंसायां तादृशेष्टानिष्टसाधनत्वबोधकता व्याह- न्येतति यागीयहिंसाया निषेधाविषयत्वमवश्यमभ्युपगन्तव्यमिति कुत- स्तस्याः पापजनकत्वम् । न च निषेधशास्त्राणां कण्डन्यादिपञ्चसू- नानान्तरीयकमाणिहिंसांशे निवर्तकत्वासंभवात्तत्र तादृशमाणिवघनिमि- त्तकपञ्चमहायज्ञात्मकप्रायश्चित्तेषु प्रवर्तकत्वेनैव तदंशे शास्त्रत्वस्य समर्थ- नीयत्वात्तेषां निवर्तकत्वेनैव शास्वत्वमिति नियमस्य व्यभिचरितत्वा- द्यागीयहिसांशेऽपि तद्वत्तन्निमित्तकमायश्चित्ते प्रवर्तकत्वेनैव शास्त्रत्वस्य समर्थयितुं शक्यत्वाविधिनिषेधयोः प्रवर्तकत्वनिवर्तकत्वव्याघाताभा- वात्क्रत्वनित्तिदोपप्रसङ्गल्याप्यभावाटबलवत्वस्यकविधस्य वक्तुमश- क्यत्वादजीर्णतापादकाधिकानभोजनगतप्रवृत्तिश्योजकबलवदिष्टसाधन- त्वविरोधानापादकत्वपरिहारोपायप्रवृत्त्योपयिकबलवदनिष्टसाधनत्वव- त्मकृतेऽपि स्वपरिहारोपायप्रवृत्तिप्रयोजकबलवदनिष्टसाधनत्वस्याभ्युप- गम्यमानत्वाद्विहितपशुहिंसाया निषेधविषयत्वेऽपि न किंचिद्धाधकमिति वाच्यम् । निषेधशास्त्राणां निवर्तकत्वेन शास्त्रत्वस्योत्सर्गसिद्धत्वादबु- दिपूर्विकायाः (प्रामादिकायाः) पञ्चसूनानान्तरीयकहिंसाया निवर्त- २ १८ पश्वालम्भमीमांसा। नस्याशक्यत्वात्तदेशे निवर्तकत्वं परित्यज्य तत्परिहारोपायपश्चमहायज्ञ- प्रवृत्तिप्रयोजकत्वेन शास्त्रत्वत्य समर्थनीयत्वात्पूर्वोक्तव्याघातपरिहारा- संभवाद्यागीयहिंसाया निषेधाविषयत्वमेवाभ्युपगन्तव्यमिति कुतोऽनि- टजनकता । न च निषेधशास्त्राणां चुद्धिपूर्वकाभिषिध्यमानाविवर्तक- त्वोत्सर्गस्यापि बुद्धिपूर्वकशास्त्रनिषिद्धविहितवर्णिवधपरिहारार्थानृतवदने तत्परिहारोपायसारस्वतचर्वात्मकप्रायश्चित्तप्रवृत्तिप्रयोजकत्वेन शास्त्रत्व- समर्थनवनिषेधशास्त्राणां निषेध्यसमर्पकशब्दसमर्पितयावदर्थवोधकत्व- रूपोत्सर्गत्यागस्य विना कारणं कर्तुमशक्यत्वाद्विहितस्य निषेधवि- षयत्वे न किंचिदाधकमिति वाच्यम् । यतः सर्वस्वारकत्वङ्गात्मव्या- पादनमरणान्तमायचित्तांशयोतेन पश्चात्तत्परिहारोपायमायश्चित्तस्य कर्तुमशक्यत्वात्तत्प्रवृत्तिप्रयोजकत्वेनापि निषेधशास्त्राणां शास्त्रत्वसम- र्थनासंभवानिवर्तकत्वेन तत्समर्थने तादृशात्मव्यापादनमरणान्तप्रायश्चि- त्तयोः प्रवृत्तयोनिषेधशास्त्राविषयत्वसिद्धयर्थ निषेधशास्त्राणां निषे- ध्यपरशब्दप्रतिपाद्ययावदर्थनिषेधयोधकत्वोत्सर्गपरित्यागस्याऽऽवश्यक- त्वाट्यागीयहिसारूपांशान्तरेऽपि तत्त्यागस्यौचित्यादधुना निषेधानां स्वनिषेध्यसर्वांशेऽपि निवर्तकत्वेनैव शास्त्रत्वसंभवरूपलाभाद् यागी- यहिंसाया निषेधाविषयत्वेन कुतो दुरितजनकता। न च हिंसानिषेधशा- स्वात्प्रथमतो हिंसासामान्यस्य निषेध्यत्वप्रतीतौ पश्चात्सर्वस्वाराङ्गात्मव्या- पादनमरणान्तप्रायश्चित्तयोः प्रवर्तकत्वेन निवर्तकत्वेन वा चारितार्थ्यस्य वक्तुमशक्यत्वादगत्या तन्मात्रस्य निषेध्यत्वत्यागेऽपि यागीयसायां स्वपरिहारोपयप्रायश्चित्तप्रवर्तकत्वेन निषेधशास्त्रल्य चारितार्थ्यसंभ- वेन तदंशस्य निषेधविषयत्वपरित्यागानौचित्यात्तदृष्टान्तसत्त्वमात्रेण तत्परित्यागल्याऽऽग्रयणेष्टिदक्षिणारूपवत्सेऽतिदेशमाप्तानामन्याहार्यसंव- न्धिनां धर्माणां मध्ये पतितल्य पाकल्य दक्षिणारूपवत्सनाशप्रस- ङ्गभिया परित्यागावश्यकत्वेन तदृष्टान्तमहिम्नेतरेषां धर्माणामपि परि- त्यागप्रसङ्गापत्त्या, असंभवात्क्रत्वर्थहिंसाया अपि निषेधविषयत्वेना- निष्टसाधनत्वमस्त्येवेति वाच्यम् । यतो दृष्टान्तसद्भावमात्रेणातिप्रसङ्गा- पत्त्या निषेध्यकोटिवहिर्भावासंभवेऽपि मरणान्तप्रायश्चित्तसर्वस्वारकत्व- गात्मव्यापादनाहवाभिमुखशत्रुहननोचितदण्डरूपचोरहननादीनां बहुना हननानामवश्यं निषेध्यकोटितो व्यावर्तनीयानां व्यावर्तनार्थ तत्त- द्वयक्तिभिन्नत्वरूपबहुविशेषणोपादाने लाघवादातव्येन वध्यानुग्रहपर्यव- पश्वालम्भमीमांसा। १९ न सायिभिन्नत्वरूपविशेषणेन यागीयहिंसाया अपि व्यावृत्तिसंभवादा- ततायिब्राह्मणहननगर्भिणीभूतमल्हाहनननान्तरीयकगर्भहननयोनिषेध्य- कोटितो व्यावर्तनार्थमनुपदिष्टवैशेषिकप्रायश्चित्तकत्वविशिष्टविध्यनुज्ञात- त्वरूपस्यानुगतरूपस्य निषेध्यविशेषणत्वेनोपादानेऽपि तेनापि यागीय- हिंसाया निषेध्यकोटितो व्यावृत्तिसंभवात्क्रत्वर्थहिंसाया निषेधा- विषयत्वेन पापजनकत्वम् । तस्माद्यथा यदाहवनीये जुहोतीत्याहवनीयरूपहोमाधिकरणविधिवाक्ये जुहोतिधातोः, अश्वस्य पदे पदे जुहोति आत्रश्चने जुहोतीत्यादिवाक्यावेदिताधिकर- णान्तरावरुद्धहोमातिरिक्तहोमविषयत्वमभ्युपगम्यते तथैवेहापि विहित- हिंसातिरिक्तहिंसाविषयकत्वं निषेधशास्त्रस्याभ्युपगन्तव्यमित्यलमति- विस्तरेण । परकीयसुन्दरीदृष्टान्तोऽव्यसंगतः । यागीयहिंसादौ विधिशास्त्रेण पूर्वोक्तरीत्या बलवदिष्टसाधनत्वस्य बोधनानि- षिद्धत्वेन बलवदनिष्टसाधनत्वस्यापि वक्तव्यत्वादुभयोरपि शास्त्र- त्वादुभयत्रापि वस्तुतो बलवत्त्वस्याभ्युपगन्तव्यत्वादेकत्र भ्रम इति वक्तुमशक्यत्वात्परकीयसुन्दरीगमने च केवलं निषिद्धत्वाद्वस्तुतो बलवदनिष्टसाधनत्वस्यैवाभ्युपगमाद्विहितत्वाभावेनेष्टांशे बलवत्त्वभ्र- मेणापि उत्कटरागवतः प्रवृत्तेः संभवावस्तुतो बलवत्त्वस्यानपेक्षणा- दुभयोवैषम्यात् । यत्तु किंचाऽऽलम्भनमत्र स्पर्शः, अग्निहोत्रप्रकरण- पठिते वत्समालभेतेतिवाक्ये तदर्थकत्वनिर्णयात् । हिंसा तु अङ्गयाग- विशसनप्रकारोपदेशाभ्यामाक्षेपलभ्या । एवं चाऽऽक्षेपलभ्यार्थेन विरो- धेऽपि वेदस्याप्रामाण्यप्रसत्यभावेन तत्सकांचे न मानम् । अन्य- तरापामाण्यभीत्या हि संकोचः पापसत्त्वेऽपि तोषसहिष्णोरेव रागव- शीकृतस्य श्येनादाविव ज्योतिष्टोमादावपि प्रवृत्तिरुपपद्यते । एतेन तक्र- कौण्डिन्यन्यायेनाविरोधेऽपि निषेधस्य विहितेतरहिंसापरत्वं विशेषवि- धिना बोध्यत इत्यपास्तम् । हिंसाविधेरभावात् । न च निवेधस्य पुरु- पार्थत्वेन यदर्थो निषेधस्तदर्थमेव निषेध्यमिति नियमेन पुरुषार्थहिं- साया एव स निषेध इति वाच्यम् । पुरुषार्थस्त्र्युपगमादिनिषेधस्य क्रत्वर्थत्वदर्शनेन त्वदुक्तनियमस्य व्यभिचरितत्वात् । ऋत्वर्थहिंसाया अपि परम्परया पुरुषोपकारकत्वेन पुरुषार्थत्वाच्चेति तत्तु अनाघ्रातमी- मांसाकुसुमगन्धत्वमविदितवेदवाक्यार्थत्वं चाऽऽत्मनः प्रख्यापयति । तथा हि तत्रभवान्माजमन्यः प्रष्टव्यः-अग्नीषोमीयवाक्य आलभतेः केव- २० पश्वालम्भमीमांसा। लस्पार्थकत्वमभ्युपगम्य यागविध्यनङ्गीकारे केन वावयेन पुनरनी- षोमीययागविधिरताशे वाक्यं स्पष्ट वक्तव्यं खलु । किं च हिंसा, अङ्गन्यागविशसनप्रकारोपदेशाभ्यामाक्षिप्यत इत्युक्तेः कोऽर्थः । अङ्ग- यागेत्यत्राङ्गभूताश्च ते यागाश्चाङ्ग-यागा इत्यर्थः, आहोत्विदङ्गानां हृद- यादीनां यागा इत्यर्थो वा । पक्षद्वयेऽपि तद्विधायकं वाक्यं किम् । किं च विशसनस्य प्रकार इत्यस्य किमभिप्रेयतेन हि क्रमादिरूपः प्रकारो वर्णयितुं शक्यते तादृशप्रकारस्याविहितत्वात् । यथासौकर्य विशसनस्य कर्तुं योग्यत्वात् । किं च हिंसाऽऽक्षेपलभ्योति बदता देवानांप्रियेण हिंसायाः प्रत्यक्षवाक्यविहितत्वाभावेऽभिप्रेते पशुं संज्ञपयति पशु विशा- स्तीत्यादिप्रत्यक्षसंस्कारविधीनां कोऽर्थोऽभिप्रेयते । किं च श्रुतार्था- पत्त्या प्रमितेनार्थेन विरोधेऽपि वेदस्य नाप्रामाण्यप्रसक्तिरित वदितु- हिंसा रागमालसमानेत्यभिप्रेतं वा । तथा सति सर्वत्रार्थापत्तिकल्पि- तवाक्यविहितानां पदार्थानामप्रामाणिकत्वमित्युक्तं स्यात् । एवं सति बहुविप्लवो भवेत । न हि कश्चित्सोमेन यजेतेत्यादिविधिस्थल आर्थिक- विशेषणविधिप्रमितार्थस्यापैदिकत्वमभ्युपैति । किं चाग्नीषोमीयवाक्ये यागविध्यनङ्गीकारे पशुसोमाधिकरणविरोधः। द्रव्यसंयोगाचोदनापशु- सोमयोः प्रकरणे ह्यनर्थको द्रव्यसंयोग इत्यधिकरणे यो दीक्षितो यद- ग्रीषोमीयं पशुमालभेतेति प्रकृत्य श्रूयमाणानि हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षस इत्यादिवाक्यान्युदाहृत्य किमनीपोमीयवाक्यं हृदयादिवाक्यविहितयागसमुदायानुवादकमाहोस्विद्रव्यदेवताविशिष्ट- यागान्तरविधायकं हृदयादिवाक्यानि चैतद्वाक्यविहितद्रव्यसंस्कारविधा- यकानि, इति संदिह्य पूर्वाधिकरणे दध्यादिवाक्यानां गुणमात्रविधानेन तृतीयविधिप्रकारसंभवे पश्चमविधिप्रकाराश्रयणल्यान्याय्यत्वात् । अग्नि- होत्रं जुहोतीत्यत्र धात्वर्थमात्रविधानसंभवादग्निहोत्रवाक्ये होमविधित्वस्य दध्यादिवाक्ये गुणमात्रविधित्वस्य चाङ्गीकारेऽपि प्रकृतेऽनीषोमीयवाक्य आद्यविधिप्रकारस्यासंभवात्पश्चमविधिप्रकारत्यैवाऽऽश्रयणीयत्वादुत्पत्ति- वाक्यविहितपश्चवरुद्धे यागे हृदयादीनां साधनत्वानुपपत्तेर्हदयादिवाक्ये हृदयायुदेशेनावदानसंस्कारविधानासंभवाट्यागविधिसिद्ध्यर्थमेव हृदया- दिवाक्यैः प्राकृतावदानभिन्नावदानान्तराणां विधानाट् विहितानां तेषां पशुप्रभवद्रव्यवृत्त्यवदानत्वसादृश्येन सांनाय्यावदानप्रकृतिकत्वावसा- यात्प्रकृतिभूतावदानगतयागीयद्रव्यत्तित्वल्य विकृतिभूतेऽस्मिन्नवदाने पश्वालम्भमीमांसा। २१ ज्ञानसंभवादहृदयादीनां यागसाधनद्रव्यसंस्कारसंस्कृतत्वहेतुना पूतीक- वद्यागसाधनत्वानुमानात्तदन्यथानुपपत्त्या यावद्हृदयादियागान्विधाय- तांश्चाऽऽलभतिना लक्षणयाऽनूद्यानीषोमीयवाक्येनानीपोमदेवतामात्रवि- धानं, पशुपदं च छागल्य वपाया मेदस इति मन्त्रवर्णादहृदयादीनां छागप्रकृतिकत्वस्य प्राप्तत्वाल्लक्षणया परं यागसाधनद्रव्यवृत्तित्वस्य सांनाय्यावदानानङ्गत्वात्तस्य प्रकृतावदानेऽतिदेशतः प्राप्त्यसंभवेन हृदयादीनां यागसाधनत्वानुमानासंभवादुक्तप्रकारासंभवेऽपि हृदयादि- वाक्यविहितावदानालिसस्पर्शाननीपोयीयवाक्यगतालभतिना शक्त्याऽ- नूद्य पशुपदेन हृदयादील्लँक्षायित्वा तेषां प्रत्येकं देवतासंबन्धस्य करणा- तादृशद्रव्यदेवतासंबन्धान्यथानुपपत्त्या कल्पितानां तावतां यागाना- मनेनैव वाक्येन विधानं पशुपदं सर्वथाऽनुवाद इति पूर्वपक्षयित्वा पक्ष- येऽपि पशुपदस्य पशुत्वावच्छिन्ने शक्तस्य हृदयादिषु लक्षणाया आवश्यकत्वात्तस्याश्चागतिकगतित्वात् । तदोषपरिहारार्थ पञ्चमविधिप्रका- राश्रयणेनापि अग्नीपोमीयवाक्य एव विशिष्टविधिमङ्गीकृत्य हृदयादि- वाक्यैश्च हृदयादीनां संस्कारमात्रविधानं यद्यपि हृदयादीनामुत्पत्तिशिष्ट- पशुद्रच्यावरुद्धे यागे साधनत्वं न संभवतीति तदुद्देशेन संस्कारविधान न संभवतीत्येकं चोद्यं पुरस्कृतिक भवेत्तथाऽपि विशसनावदानादिवि- धितात्पर्यग्राहकानुरोधेनानीपोमीयवाक्ये पशद्रव्यस्य हृदयादिप्रकृतित्वे- नैव विधानम् । एवं च हृदयादीनां साक्षाद्धविष्ट्वेन यागकरणत्वसं- भवात्तदुद्देशेन संस्कारविधिरुपपन्न एव । एवं च पूर्वपक्षे सिद्धान्ते चानीपोमीयवाक्ये यागविधेः सत्त्वात्तदनभ्युपगम्य केवलं वत्समाल- भेतेत्यत्रेव स्पर्शपरत्वाभ्युपगमोऽज्ञानमूलक आग्रहमूलको वा स्यात् । वत्समालभेतेत्यत्र द्रव्यदेवतासंबन्धबोधकतद्धिताभावाद्यागविधानासंभ- वेनानिहोत्राङ्गदोहनोपयोगिवत्ससंस्कारकत्वेन स्पर्शस्य विधानं प्रकृते तादृशतद्धितो वर्तत इति यागविधिरिति विषमोऽयं दृष्टान्तः । अग्नीषो- मीयप्रधानवाक्थैकवाक्यतापन्नस्य पशुं संज्ञपयतीत्यादिहिंसाबोधकाङ्ग- वाक्यजातस्य सत्त्वादिसाऽऽक्षेपलभ्यैवेति प्रतिज्ञोन्मत्तप्रतिज्ञासमैव । यागीयहिंसायाः श्येनस्य च वैषम्यस्य पूर्व बहुधा प्रदर्शितत्वात्तदृष्टा- न्तालम्बनं चायुक्तम् । एवं च प्रत्यक्षहिंसाविधेर्जागरूकत्वान्न तक्रको- ण्डिन्यन्यायेनाविरोधोपपादनं संभवतीत्युक्तिरपि पराहता। प्रतियोगिनः पुरुषार्थत्वे निषेधल्यापि पुरुषार्थत्वमिति नियमस्य पुरुषार्थपरस्त्रीगमन- २२ पश्चालम्भमीमांसा। निषेधस्य क्रत्वर्थत्वदर्शनेन व्यभिचारेऽपि प्रतियोगिनः क्रत्वर्थत्वे निषेधस्यापि ऋत्वर्थस्य कापि व्यभिचारादर्शनान्न हिंस्यादित्यत्र निषे- धस्य क्रत्वर्थहिंसाप्रतियोगिकत्लाङ्गीकारेऽस्य वाक्यस्यानारभ्याधीत- त्वेन पुरुषार्थहिंसाया निषेधः पुरणार्थ इति अवश्यमङ्गीकर्तव्यतयोक्त- नियमबलात्क्रत्वर्थत्वस्यापि अङ्गीकर्तव्यत्वाद्वाक्यस्य वैरूप्यापत्त्या तत्परिहारार्थ ऋत्वर्थपुरुषार्थयोरन्यतरस्य निषेधे वाक्यार्थत्वेनावश्य- मङ्गीकर्तव्ये शीघ्रोपस्थितपुरुषार्थहिंसाया एव निषेधः प्रकृतवाक्यार्थः पर्यवस्यति, इत्यस्मदिष्टसिद्धिर्भवत्येव । न च क्रत्वर्थप्रतियोगिकनिषे- धस्य ऋत्वर्थत्वमिति नियमस्यापि क्रत्वर्थब्राह्मणापगूरणादिप्रतियोगि- कपुरुषार्थनिषेधेषु व्यभिचारात् , तस्माद्राह्मणाय नापगुरेत तस्मान्मलव- द्वाससा न संवदेतेत्यादिस्थले निषेध्यकोटी क्रत्वर्थब्राह्मणापगूरणक्रत्वर्थ- रजस्वलासंवादादीनामनुप्रवेशानङ्गीकारे कदाचि ऋतुनित्त्यर्थं ब्राह्मणा- पगूरणमलवद्वासःसंवादादिषु स्वाच्छन्दयाप्रसङ्गात्तत्र तस्य तस्यानुप्रवे- शनीयत्वादुक्तनियमव्यभिचारस्याप्यावश्यकत्वादुक्तनियमपरिपालनानु- सारेण न हिस्यादित्यत्र निषेध्यकोटितः क्रत्वर्थहिंसाया व्यावर्तनस्याना- वश्यकत्वात्सर्वासामपि हिंसानां पुरुषार्थतया निषेधसंभवात्क्रत्वर्थहिंसाया अपि निषेधविपयत्वेन तस्या दुरितजनकत्वमशक्यनिवारणमिति वाच्य- म् । यतः ऋतुनिवृत्त्यर्थमनुष्ठेयत्वेनाऽऽपतद्विविधमस्ति तयोरेक लोकतः प्राप्तं विध्यविषयत्वात्क्रतोरन केवलं तदुपकारकम् , ऋतूपयोगिद्रव्या- भावविशिष्टस्य पुरुपत्त्यैव शेषभूतं च । यथा द्रव्यसंपादनार्थमनृतवदन- मलबद्वासःसंवादादि । अपरं तु वैदिक विधिसंस्पृष्टं क्रत्वङ्गभूतं च । यथा यागीयपशुहिंसादि । तत्र पूर्वोक्तानृतवदनमलवद्वासःसंवादादेव- स्तुतः पुरुषशेषभूतत्वात्परुषार्थनिषेधनिषेध्यकोटावनुप्रवेशेऽपि वस्तुतः ऋतुशेषभूतस्य पुरुषार्थनिपेध्यकोटावनुप्रवेशस्याक्लुप्तत्वात्क्रतुशेषप्रतियो- निषेधस्य ऋत्वर्थत्वमितिनियमस्याव्याघातात्तादृशनियमपरिपाल- नार्थ न हिंस्यादित्यत्र पुरुषार्थहिंसाया एव निषेधविषयत्वमित्यस्मदि- ष्टसिद्धिर्भवत्येव । अत एव 'अन्याधिष्ठितेषु पूर्ववदभिलापात् ' (ब्र सू० ३ । १ । २४ ) इत्यस्मिन्नधिकरणे भामत्यामेवं कथितम्-न चेष्टादेः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः संभवति तस्य धर्मत्वेन सुखैकहेतुत्वात् । न च तद्गतायाः पशुहिंसाया न हिंस्या- दितिनिषेधात्कत्वया अपि दुःखफलत्वसंभवः पुरुषार्थाया एव न .
पश्वालम्भमीमांसा। २३ हिस्यादितिप्रतिषेधात् । तथाहि न हिंस्यादिति निषेध्याधीननिरूपण- तथा यदर्थ निषेध्यं तदर्थ एवं निषेधो विज्ञायते, इत्यादि । एवं हि विहिताया अपि हिंसाया दुःखफलत्वं, यदि विधिनिषेधयोरेकविषयत्वं तदेव नास्तीत्याह-पुरुषार्थाया एवेति । क्रत्वर्थो हि प्रतिषेधः क्रत्वर्थी हिंसां प्रतिषेधेत्तव क्रत्वर्थः स्यात्तच्च नारतीति वदिष्यनिषेध्यनिषेध- योरेकार्थतामाह तथाहीति । इति कल्पतरुः । एवं च न हिंस्यादिति निषेधशास्त्रं लिडर्थभावनाद्वारा शीघ्रं कर्तुरे- वोपस्थितत्वादस्य वाक्यस्यानारभ्याधीतत्वेन ऋतोः प्रकरणादिनोप- स्थित्यसंभवात्पुरुषार्थहिंसाया एव निषेधबोधकमिति कन्वर्थहिंसाया अ- दुष्टत्वमव्याहतमेव । अत एव वाचस्पतिमिश्ररुत्सर्गस्तु सः, अपवादः- अग्नीपोमीयं पशुमालभेतेति भाष्यस्याऽऽशयः "अयमेवार्थ उत्सर्गापवाद- कथनेनोपलक्षितः" इति ग्रन्थेनोदघाटि। इदं च भामतीवाक्यं कल्पतरुका- रेणेत्थमवतार्य व्याख्यायि-अत्र भाष्यकारैर्न हिस्यादित्युत्सर्गः, अग्नी- षोमीयमालभेतेत्यपवाद इत्युक्तं तदयुक्तम् । विशेषविधिविहितस्या- र्थस्य सामान्यविधिनाऽपि विपयीकारे हि उत्सर्गापवादन्यायः-यथा- आहवनीये जुहोति पदे जुहोतीति । होममात्रस्याऽऽहवनीयान्वयवि- धिना पदहोमस्यापि विषयीकारे पदहोमान्वयविशेषविधिना बाधात्त- दितरपरत्वं सामान्यशास्त्रस्य, अत्र तु वर्णितेन न्यायेन निषेधस्योत्प- त्तिसमय एव पुरुषार्थहिंसाविषयकत्वान्न ऋत्वर्थहिंसानुप्रवेश इत्याश- कन्याऽऽह-अयमेवार्थ इति । एकस्य विशेषविधेःस्वविषयस्य क्रत्वर्थत्वेन पुरुषार्थत्वेन च विनियोगे विरोधात्सामान्यविषयत्वे च पुरुषार्थहिंसासु सावकाशस्य न क्रत्वर्थहिंसानिपेधविषयत्वं तदाऽधिकारान्तरानुप्रवेशि- त्वेन सापेक्षत्वं स्यादिति यो विषयनिष्कर्षः कृतोऽयमेवाविशेषप्रवृत्तत्वे- नावभासमानशास्त्रस्य विशेपत्याजनलक्षणगुणसाम्यादुत्सर्गापवाद इत्युक्त इत्यर्थ इति । एवं च न हिंस्यादित्यत्र सर्वज्ञवाचस्पत्यमलान- न्दयोः पुरुषार्थहिंसाया एवं निषेधः क्रत्वर्थहिंसाया निषेधविषयत्वप्र- सक्तिरापि नास्तीत्यभिप्रायः स्पष्टमवगभ्यते । ननु मरणोदेश्यकमरणो- पधायकव्यापारत्वस्यैव हिसिधातुप्रवृत्तिनिमित्तत्वादेतादृशभवृत्तिनिमि- त्तस्य यागीयहिंसायामप्यविशेषात्तस्या अपि न हिंस्यादिति वाक्यस्थ- हिसिधातुना परामर्शनीयत्वादिस्यादित्याख्यातोपात्तभावनाद्वारा कर्तु- रेव प्रथमत उपस्थितत्वेऽपि प्रकृते हिंसाया उद्देश्यत्वेन तत्र २४ पश्वालम्भमीमांसा। विशेषणत्वेन संबन्धासंभवात, तथाऽपि तत्र संबन्धाङ्गीकार आहवनीयवाक्यस्थ जुहोतिनाऽपि तत्रत्याख्यातोपात्तभावनाक्षिप्तपरुषस्य जुहोत्यर्थहोमे विशेषणत्वेनान्वयावश्यंभावेन पुरुषार्थहोमानामेवानुवाद्य- वसंभवाज्ज्योतिष्टोमक्रत्वर्थपदहोमस्य तेनाविषयीकरणादाहवनीयपदवा क्ययोरुत्सर्गापवादभावस्य तान्त्रिकसंमतस्य प्रत्युद्धारप्रसङ्गानारिष्ठहो- मादीनां क्रत्वर्थानामाहवनीयासिद्धिप्रसङ्गाच भावनाद्वारोपस्थितस्या- पि पुरुषस्योद्देश्यविशेषणत्वाङ्गीकारासंभवात्क्रत्वर्थप्रतियोगिकनिषेधस्य क्रत्वर्थत्वमिति नियमल्यापि क्रत्वर्थमलवद्वासःपत्नीसंवादादिप्रतियो- गिकपुरूषार्थनिषेधान्तविण व्यभिचारान्न हिस्यादित्यत्र क्रत्वर्थहिंसा- या अपि निषेधषिपयत्वादनिष्टसाधनत्वं संभवत्येवेति चेन्नैवम् । न हिस्यादिति निषेध्यकोटित उभाभ्यामपि अवश्यं व्यावर्तनीयानां मरणा- न्तप्रायश्चित्ताहवाभिमुखहननादीनां व्यावर्तनाथ निषेध्यकोटावनुपदिष्ट- वैशेषिकप्रायश्चित्तकविध्यनुज्ञातहिंसाभिन्नत्वविशेषणस्याऽऽवश्यकत्वात्ते- न यागीहिंसाया अपि व्यावर्तनसंभवात्तस्या अनिष्टसाधनत्वं कथमपि न संभवीत्यलं पल्लवितेन । यदपि न च- यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः॥ या वेदविहिता हिंसा नियताऽस्मिश्चराचरे। अहिंसामेव तां विद्याद्वेदाधर्मो हि निर्बभौ ।। इतिमनुवाक्यादिभिः पापाभावप्रतिपादकैनिन्दापायश्चित्तोपदेशाद्यस- मभिव्याहृतविधिवाक्यवोध्यप्रवर्तनायाः स्वविषयप्रवृत्तिविषये धात्वर्थे सामान्यतोऽनर्थहेतुत्वप्रतिक्षेपकत्वकल्पनेन सामान्यनिषेधल्य तदतिरि- तपरत्वमाक्षेपलभ्याया अपि विधितात्पर्यविषयत्वेन तत्राप्यनर्थहेतुत्व- प्रतिक्षेपात्, अत एवान्यत्र हिंसां चैवाविधानतः, इत्यविधानेन हिंसैव पापजनिकोक्ता। श्रुतिरपि 'अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः' इत्याह । तीर्थ यज्ञः। तीर्थ शास्वाध्वरेतिकोशात । अत एव मरणान्तप्रायश्चित्ताहवा- भिमुखहननोचितदण्डरूपचोरहननादीनां न पापजनकत्वं शुद्धयर्थ विहि- तमरणे तस्यायुक्तत्वात्, न दोषो हिंसायामाहवे, इत्युक्तेश्वोराद्यवधे राज्ञो दोषश्रवणाच्च । तस्माद्गाहितहिंसाविषयोऽयं निषेधः । अगर्हिता चानुपदिष्टमायश्चित्तिका हिंसा । एवं सर्वनिषेधेषु द्रष्टव्यमिति वाच्यम् ।
पश्वालम्भमामासा। २५ - मनुवचनेऽवध इत्यादावनुदरा कन्येतिवदल्पार्थे * नत्रः सत्त्वात् । अ- न्यथा घटोऽघट इतिवदस्याबोधकत्वनावधपदस्य पापजनकत्वलक्षणा- पत्तेः । यज्ञानुषक्रम्य- अहिंसा परमो धर्मो गीतो वै मनुना पुरा'। इति ब्रह्मवैवर्तप्रथमखण्ड उक्ततया च मदुक्तस्यैवौचित्यात् । परमत्वं च पापाजनकत्वेनास्याल्पीयसा प्रायश्चित्तेन परिहर्तुं शक्यत्वात्तत्र न दोषः। पशुहिंसाजन्यपापस्याल्पप्रायश्चित्तोपदेशेन बहुव्ययायाससाध्ययागजन्य- स्वर्गात्पथममेवाल्पस्य यागविषयेऽत्यल्पत्वबोधनात् । एवं च न तद्ध- लेन विधेः स्वविषयेऽनर्थहेतुताप्रतिक्षेपकत्वमिति तदतीव मन्दम् । मनुस्मृतिपद्यस्थावधपदघटकननोऽनुदरा कन्येतिवदल्पार्थकत्वं न तु पापजनकत्वार्थकता । तथा सति लक्षणापत्तेरिति वदतस्तत्रभ- वतोऽल्पार्थकत्वे लक्षणा नास्तीति खलु अभिप्रायः प्रतीयते । तत्तु न युज्यते । अल्पार्थकत्वेऽपि लक्षणाया अशक्यनिवारणत्वात् । नाल्पत्वे नमः शक्तिः । तस्याभावत्वावच्छिन्नमात्रशक्तत्वात् । अल्पत्वावच्छि- नेऽपि शक्तत्वे इर्यादिपदवबानार्थकत्वमापद्येत । सत्यां गतौ तत्स्वी- कारो नोचितः । किं च वैयाकरणेन भवताऽपि अल्पत्वावच्छिन्ने शक्तिर्नेष्यते । यतस्त्वया नअर्थवादे यद्वा नन्, समभिव्याहृतघटादि- शब्दानामारोपितप्रवृत्तिनिमित्तबोधकरत्वे तात्पर्यग्राहकः, यथा सिंहां माणवक इत्यादी माणवकादिपदानि । सिंहादिपदस्याऽऽरोपितसिंहत्व- चरोधकत्वेऽनुदरा कन्येत्यादावपि अल्पत्वादिनोदराभावमारौप्य न- समभिव्याहार आरोपितोदरबुद्ध्या तन्मूलाल्पत्वादौ विश्रमः | अद्विज इत्यादौ च तद्भेदमूलकमारोपितत्तिनिर्वित्तकत्वमिति भेदे विश्रान्तिः। अधर्म इत्यादौ च विरोधिनि आरोक्तित्वस्य नवाच्यत्वे तु तस्य ब्राह्मणादिपदशक्येऽनारोपितब्राह्मण्यवति संबन्धो दुरुपपादः । तस्य * तदुक्तं हरिणा-तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । PG अप्राशस्त्यं विरोधश्च नचाः षट् प्रकीर्तिताः ।। इति । तत्सादृश्यम्-गर्दभेऽनश्वोऽयमित्यादौ । अभाव:-गेहे घटा नास्तीत्यत्र । तदन्यत्वम्-अमनुष्यं प्राणिनमानयेत्यादौ । तदपत्वम्- अनुदरा कन्या । अत्राारस्थूलत्वनिषेधेनोदरस्याल्पत्वं गम्यते । अप्राशस्त्यम्-ब्राह्मणेऽब्राह्मणोऽय- मिति प्रयोगे । विरोधः-असुरोऽधर्म इति प्रयोगे । इत्युदाहरणानि. बोध्यांचि २६ पश्वालम्भमीमांसा। १ प्रसिद्धार्थपरित्यागोऽप्रसिद्धार्थपरिग्रह इत्युभयं द्योतककृत्यमिति नम्- सूत्रे भाष्ये स्पष्टमिति भाषितम् । एवं च यथाऽनुदरा कन्येत्यादाव- ल्पत्वप्रत्यक्षाविषयत्वादिना प्रथमत एवोदराभावमारोप्य नसमाभ- व्याहारे सति यथाऽऽरोपितोदरबुद्धयाऽल्पत्वादौ विश्रमः कथ्यते, तथैवावध इत्यादिस्थलेऽपि पापाजनकत्वनिमित्तेन वस्तुतो वधत्व- वति वधत्वाभावमारोप्य नङ्समभिव्याहार आरोपितवधत्व- बुद्धया पापाजनकत्वे विश्रमः कथ्यताम् । नाल्पत्व एव विश्रम इति नियन्तुं शक्यते । अद्विजोऽधर्म इत्यादी भेदे विरोधिनि च विश्रान्ते- स्त्वयैव कथितत्वात् । एवं चावध इत्यत्र नः पापाजनकत्वार्थकत्वे लक्षणाऽल्पार्थकत्वे न लक्षणादोष इति यदत्रोच्यते तत्पूर्वत्वदीयग्रन्थे- नैव विरुद्धमिति न किंचिदेतत् । अत एवं पापाजनकत्वावच्छिन्नबोध- कत्वस्वीकाराद्घटोऽघट इतिवच्छाब्दबोधाजनकत्वदोषोऽपि नास्तीत्य- बधेयम् । अत एव कुल्लुकभट्टेन यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् । वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मान जन्मनि ॥ इतिपूर्ववाक्यस्य देवतायुद्देशमन्तरेणाऽऽत्मार्थ यः पशून्हन्ति स वृथा प- शुघ्नो मृतः सन्यावसंख्यानि पशुरोमाणि तावत्संख्याभूतं जन्मनि जन्मनि मारणं पामोति तस्मादृथा पशुं न हन्यात्, इति विवरणं कृत्वा यज्ञार्थे तु पशुवधे न दोष इत्याह-यज्ञार्थ पशव इति, इत्यनेन ग्रन्थेनेदं पद्य- मवतार्य यज्ञसिद्धयर्थं प्रजापतिनाऽऽत्मनैव, आदरेण पशवः सृष्टाः, यज्ञ- थाग्नौ भारताऽऽहुतिरितिन्यायात्सर्वस्यास्य जगतो विवृद्धयर्थस्तस्माद्यते वधोऽवध एव वधजन्यदोषाभावादिति व्याख्यातम् । एवं तेनैव महा- पण्डितेन कुल्लूकभट्टेन कथं तर्हि स्याद्वैदिकी देशादिपशुहिंसा नाधर्मा- येत्यत आह-या वेदविहितेति । इत्यनेन ग्रन्थेन ' या वेदविहिता हिंसा' इत्यादिपधं पातयित्वा या श्रुतिविहितकर्मविशेषदेशकालादि- निमित्ता, अस्मिञ्जगति स्थावरजङ्गमात्मनि अहिंसामेव तां जानीयात् । हिंसाजन्याधर्मविरहात् । दैक्षपशुहननमधर्मः प्राणिहननत्वाब्राह्मणहन- नवत् , इत्याद्यनुमानमुपजीव्यशास्त्रबाधादेव न प्रवर्तते । दृष्टान्तीकृतब्रा- णहननस्यापि अधर्मत्वे शास्त्रमेयोपजीव्यम् । वेदाधर्मो हि निर्वभौ यस्मादनन्यममाणको धर्मो वेदादेव निःशेषेण प्रकाशतां गत इति पिस- पश्वालम्भमीमांसा। २७ , तम् । किं च सामान्यतः पशुहिंसाजन्यपापस्याल्पप्रायश्चित्तोपदेशेऽपि विशिष्य यागीयहिंसायास्तादृशोपदेशो नारित । पूर्वोक्तयुक्त्या सामा- न्योपदेशस्य विहितहिंसातिरिक्तपरत्वं च संभवतीति पशुहिंसाजन्यपा- पस्याल्पप्रायश्चिसोपदेशेनेत्यादिकमपास्तम् । अपि च नास्माभिर्मनुस्मृ- तिवाक्यं वर्तत इति तबलात्सामान्यतोऽनर्थहेतुत्वप्रतिक्षेपकत्वकल्पनेन निषेधवाक्यस्य तदतिरिक्तपरत्वमुच्यते, अपि तु पूर्वोक्तरीत्या स्मृति- वाक्यज्ञानात्पूर्वमेव विधिनिषेधशास्त्रयोः सामान्यविशेषभावावगमादि- साविध्यात्मकविशेषशास्त्रमाहिम्नैव सामान्यानिषधशास्त्रस्य यागीयहिंसा- तिरिक्तहिंसानिषेधपरत्वमभ्युपगम्यते. परंतु तच्चोपोदलकतया शिष्टानां वचनमाद्रियते । स्मृत्यनुसारेणैव श्रुत्यर्थकल्पने विरोधाधिकरणसि- द्धान्तो दत्ताञ्जलिः स्यात् । प्रत्यक्षश्रुत्योर्विरोधे रमृत्यनुगृहीता श्रुतिः प्रबलेति कथ्यते । तस्मात् , एवं च, न तद्वलेन विधेः स्वविषयेऽन- थेहेतुताप्रतिक्षेपकत्वामित्यादि अपारतम् , यदपि अत एव गीतायां 'यज्ञानां जपयज्ञोऽस्मि' इत्यादिना जपयज्ञस्याहिंसारूपत्वेन प्राश- स्त्यमुक्तम् । तथा 'स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धादि युद्धाच्छ्योऽन्यत्क्षत्रियस्य न विद्यते ॥ इत्युपक्रम्य सुखदुःखे समे कृत्वा लाभालाभौ जयाजयो। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ इत्यनेन विहितेऽपि युद्धे पापं वदताऽतादृशस्य यज्ञेऽपि तदुक्तमाय- मेवेति, तदपि पूर्वापरग्रन्थानवलोकननिबन्धनमेव । यज्ञानां जपयज्ञोऽ- स्मीत्यादिकं यया कयाचिद्विधया प्रशंसाप्रदर्शनार्थ प्रवृत्तम्, न तु वस्तु- तोऽपि तत्र तादृशी विधाऽपेक्ष्यते । यदि वस्तुतोऽपि जपयज्ञस्येतरयज्ञा- पेक्षया हिंसाप्रयुक्तदोषाभाववत्वेनोत्कर्षों विवक्ष्येत तर्हि भगवतेदमेव कर्तव्यमित्युपदिश्येत न तु प्रत्यवायजनकीभूतहिंसाबहुलः सङ्ग्रामः। उपदिश्यते चात्र- 'अथ चेत्त्वमिमं धर्म्य सङ्ग्रामं न करिष्यसि । इत्यादिना। एवं नैवं पापमवाप्स्यसीत्यत्र फलकामनां त्यक्त्वा युध्यमानो गुरुबाह्मणवधानिमित्तं पापं न प्राप्स्यसीति व्याख्याने हतो २८. पश्वालम्भमीमांसा वा प्राप्त्यास स्वर्गमिति पूर्व श्लोके फलकामनाप्रयुक्तयुद्धकर्तव्यतापले गुर्वादिवघंप्रयुक्तपापमस्तीत्युद्भावितं स्यात् । न च वाच्यं पूर्वस्मिन्पधे स्वर्गादिफलकीर्तनमानुषङ्गिककलोक्तिमात्रम् । न तु फलकामनाप्रयुक्त- युद्धोपदेश इति। सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ, इति श्रवणेऽपि यत्फ- लकामनया कर्मानुष्ठानं तदेव फलं नस्मिन्प्रयोग इति योगसिद्धयधिक- रणे. व्यवस्थापिततया कामनां विना स्वर्गस्याऽऽनुषङ्गिकत्वायोगात् । न च तथाऽपि हतो वा जित्वा वेति नार्जुनोद्देशनोक्तं तस्य जयापजया- भिसंधिशून्यत्वादिति वाच्यम् । यद्वा जयेम यदि वा नो जयेयुरित्यर्जु- नोक्त्या मया हतांस्त्वं जहिं मा व्यर्थिष्ठाः । युध्यस्व जेतासि रणे सपत्नानिति भगवदुक्त्या च तस्य जयाभिसंधिप्रदर्शनात् । तस्मात्सका- मत्वपक्षे युद्धानुष्ठानप्रकारः पूर्वश्लोके वर्णितः । मुमुक्षुत्वपक्षे तदनुष्ठान- प्रकारोऽस्मिञ्श्लोके वर्णितः । मुमुक्षुत्वपक्षे तदनुष्ठानप्रकारोऽस्मिञ् श्लोक इत्येव व्याख्येयम् । यत्तु न. चापशब्दज्ञानजाधर्मस्य कूपखानकन्यायेन सुशब्दज्ञानजधर्मेण नाशः फलान्तरं चेति भाष्यै पस्पशायामुक्तम् । कूपखानकस्तत्खननवेलायां मृदा लिप्तस्ततो जलं लब्ध्वा तं लेष दूरी करोति फलान्तरं च लभते तेन न्यायेन यज्ञजधर्मेण तत्पापनाशः फलान्तरलाभश्चेति न दोष इति वाच्यम् । अपशब्दज्ञानादधर्मस्यावा- चनिकत्वेन केवलं वैपरीत्यमात्रेण कल्यस्यातिस्वल्पत्वात् । उत्कृष्टेन साधुशब्दज्ञानजधर्मेण नाशेऽपि न हिंस्यादितिवचनबोधितपापस्य तेन धर्मेण वचनं बिना नाशायोगादुक्कगीतावाक्याचति तन्मन्दम् । अनुक्तो- त्तरत्वात् । अस्माभिरनुक्तं खलु भवानुक्तवदापाद्योत्तरयितुं प्रयतते । नवस्माभिरपशब्दज्ञानादधर्मोत्पादवट्यायाहिंसातः कदाऽप्यधर्मोत्पत्ति- रिष्यते किंतु तस्य कदाऽप्यनिषिद्धत्वाज्ज्योतिष्टोमादिवत्केवलधर्मार्थ- त्वमेवाभ्युपगम्यते । अस्य निषेधप्रतियोगिता स्वमेऽपि यथा नास्ति तथाऽस्माभिः सविस्तर पूर्वमुपपादितम् । एवं च कूपखानकन्यायेनाभ्यु- पगतं. सुशब्दज्ञानजधर्मप्रयुक्तमपशब्दज्ञानजन्याधर्मनार्श दृष्टान्तीकृत्य साधित ज्योतिष्टोमादिजधर्मप्रयुक्तं क्रत्वर्थहिंसाजन्याधर्मनार्श सिद्धान्त्य- भिमतत्वेनाऽऽपाद्य, अनन्तरं दृष्टान्तदान्तिकवैषम्यप्रदर्शनपूर्वकं तत्ख- ण्डनमस्थाने कलकलप्रायं त्वयैवानुमोदनीयम् । उक्तगीतावाक्याच्चेति पदवादि सं च हेत्वाभास एव । यद्युक्तगीतावाक्यं भवदभिमतमर्थम- बोधयिष्यत तदेदं समीचीनहेतुभावमगमिष्यत् । तस्य वाक्यस्यार्थः मरणकाल पश्वालम्भमीमांसा । २९ पूर्वमेवास्माभिरन्यथोपपादितः । तस्मादिदं हेतुभावं न प्रतिपद्यत एवं- त्यलम् । यदपि अत एवेन्द्रादेः शताश्वमेधफलस्वर्गभोगसमये रावणम- हिषासुरादिभ्यो दुःखधाराः श्रुतिपुराणादिषूपवर्णिता यज्ञान्तर्गतहिंसादि- जन्यपापफलस्य यज्ञफलभोगान्तरुत्पत्तेरुपपत्तिसिद्धत्वादिति तत्तु अवि- वेकिव्यवहारसमम् । यतः कर्म तावत्रिविधं भवति संचितं प्रारब्धमा- गामि चेति । तत्र प्रारब्धस्योपभोगेनैव क्षय इति सर्वेषां तात्रिकाणां संपतिपत्तिः । प्रारब्धं नाम उद्बोधकविशेषमहिना फलदानव्यग्रतां यत्कर्म पानोति तदेव । तदा यत्कर्मफलदानाया- भिव्यक्तं भवति तदानीं तत्कर्मनान्तरीयककर्मान्तरमपि फलदानव्यग्रता प्रामोतीति न नियमोऽस्ति न वा पुण्यं कर्म फलदानायोन्मुखं भवति चेत्तदानीं तनान्तरीयकमेव पापं कर्म फलदानव्यग्रं भवतीति नियमः । येनेन्द्रादीनां शताश्वमेधादिफलभूतस्वर्गादिभोगसमये दुःखधाराया अपि संजातत्वेन तदन्यथानुपपत्तिप्रकल्प्यमानफलौन्मुख्यवदुष्टकर्म तादृशाश्व- मेधावन्तर्गतहिंसारूपमेव वक्तव्यमिति हिंसाया दुष्टताऽव्याहता भवेत् । किंतु पुण्यकर्माभिव्यक्तिकाले तत्तदुद्बोधकविशेषमहिम्ना तनान्तरीयक- मन्यद्वा पापं कर्मोबुद्धमित्येव दुःखफलानुभवान्यथानुपपत्त्या प्रकल्पनी- यम् । एवं च यागीयहिंसादुष्टताया उभयासंप्रतिपन्नत्वादुभयसंप्रतिप- अदुष्टताकमन्यदेव पापं कर्म तदानीं प्रारब्धफलकमिति वक्तुं शक्यत्वादि- न्द्रादिदुःखधारानुभवो न यागीयहिंसादुष्टतासाधको भवितुमर्हतीत्यवधे- यम् । एतेन 'एतेनाध्वर इति यज्ञनाम' ध्वरतिहिंसाकर्मा तत्प्रतिषेधोऽध्वर इति निरुक्तमाहिंस्र इति तद्भाष्यमपि व्याख्यातं नमोऽल्पार्थकत्वात् । अत एव तस्मादभ्युदययोगादहिन इत्युपपद्यत इति तद्भाष्य उपसंहृतम् , इति परास्तम् । नओऽल्पत्वावच्छिन्ने मुख्या वृत्तिर्नास्तीति पूर्वमेव बहु अपश्चितम् । अत एवेत्याद्यपि असंगतम् । तथाहि तत्रभवान्यामन्यस्तस्मा- त्पापजनकहिंसादोषदृषितत्वेन ज्योतिष्टोमादिक्रतोहिंस्रत्वादहिंस्रत्वासंभ- वेऽपि स्वर्गादिरूपाभ्युदयसंबन्धाद्गौणमहिंत्रत्वमुपपद्यत इत्यर्थकं तस्मा- दभ्युदययोगादहिंस्र इति भाष्यवाक्यमित्यभिप्रैति । नायं साधुरभिप्रायः। लोके हिंसाया दुष्टत्वेऽपि क्रत्वर्थहिंसाया विहितत्वेनानिष्टामिश्रितेष्टज- नकत्वस्यैव वक्तव्यत्वात् । तादृशहिंसायुक्तयागस्यापि हिंस्रत्वाभावाद- हिंस्रत्वं वस्तुत उपपद्यत इत्येवंरूपस्यार्थस्य स्वरसतस्तद्वाक्यात्पतीय- मानत्वात् । यत्तु, उक्तं च 'स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति नित- ३० पश्चालम्भमीमांसा। -- तिरिति, इति तत्तु असंबद्धमलापित्वमात्मनः प्रख्यापयति । तथाहि- इदं वाक्यं भवतः कथं यागीयहिंसादुष्टत्वे साधकं भवति । नत्वत्र यागीयहिंसादुष्टत्वप्रतीतिगन्धोऽप्यस्ति । अत्र तु स्वर्गलोके वसतोऽपि स्वर्गस्य कर्मजन्यफलत्वात्कर्मणश्च कालपरिच्छिन्नफलजनकत्वस्वाभा- व्यात्किचित्काल फलभोगानन्तरं मर्त्यलोके पतनावश्यंभावात्तस्याप्या- त्यन्तिकसुखमाप्तिर्नास्तीति खलु स्फुटं प्रतीयते । नितिशब्दस्याऽऽत्य- न्तिकसुखे प्रसिद्धत्वात् । न तावता यागीयहिंसादुष्टता प्रतीयते । अदुष्टत्ववादिभिरस्माभिरपि हिंसायुक्तयज्ञस्य निर्वृतिजनकत्वं नाभ्युप- गम्यते । किंतु नश्वरफलजनकत्वमेवाभ्युपगम्यते । न च यागीयहिंसाया दुष्टत्वादेव तत्फलस्य क्षयिष्णुता । अन्यथाऽऽत्यन्तिकत्वं संभवेदिति वाच्यम् । तथा सति अदुष्टत्वेनोभयवादिसंप्रतिपन्नानां जपयज्ञपाकय- ज्ञादीनां नित्यमोक्षफलजनकत्वापातेन ज्ञानवैयर्थ्यप्रसङ्गात् । नहि प्रामाणिकाः सत्पुरुषा ज्ञानमन्तरा पूर्वोक्तकर्मभिर्मोक्षाख्यं फलं संभव- तीत्यभ्युपगच्छन्ति । अतो ज्ञानादेव केवलादात्यन्तिकं नित्यपरप- र्यायं सुखं न तु कर्मण इति ज्ञानप्रशंसार्थमिदं वाक्यं प्रावर्तत न तु भवदभिमतयागीयहिंसादुष्टताबोधनार्थमित्यलम् । यत्तु अहिं- सन्सवेति श्रुतिस्त्ववैधहिंसात्यागस्येष्टसाधनत्वं वैध्याश्च न तत्त्वमाह न तु वैध्या अनिष्टसाधनत्वाभावम् । हिंसाविधयोऽपि हिंसायाः स्वर्गसाधनत्वमात्रमाहुर्न त्वनर्थहेतुताप्रतिक्षेपमपि । अल्पायुष्वाद्य- निष्टबोधकस्मृतिविरोधात् । तदुक्तं योगसूत्रभाष्ये यदि कथंचित्पु- ण्यावापगता हिंसा भवेत्तदा तत्र सुखप्राप्तावपि अल्पायुर्भवेदिति । तत्र श्रुतिस्मृत्योर्बलाबलानभिज्ञत्वेनाऽऽत्मनो मूर्खतामावेदयति । हिंसावि- धीनां स्खविधेये प्रवृत्तिसिद्धयर्थमनिष्टसाधनत्वात्समानाधिकरणेष्टसाध- नत्वपर्यवसायिबलवदिष्टसाधनत्वबोधनमावश्यकमिति पूर्वमुक्तं न विस्म- तव्यम् । पातञ्जलस्मृत्यनुसारेण यदि श्रुतिवाक्यं नीयते तर्हि श्रुतिस्म- तिविरोधे श्रुतिरेव प्रबला, इत्येतादृशार्थव्यवस्थापकविरोधाधिकरणं दत्ताञ्जलितामियात् । यदि पातञ्जलस्मृत्यनवकाशदोषप्रसङ्गभिया श्रुते- रेतादृशार्थपरत्वं कल्प्यते तर्हि यागीयहिंसादुष्टत्वाभावबोधकस्मृत्यनव- काशदोषप्रसङ्गभिया तादृशार्थपरत्वमपि कल्पनीयमापतेत् । नहि पत- ञ्जलेरेव सर्वज्ञत्वात्तदीयस्मृतेरेव प्रामाण्यात्तदनुसारेणैव वेदवाक्यं नेयं न तु इतरेषामसर्वज्ञत्वात्तदीयस्मृतीनामप्रामाण्यात्तदनुसारेण वेदवाक्यं पश्वालम्भमीमांसा। ३१ १ . नेतुं शक्यत इति कश्चित्प्रामाणिकोऽभ्युपगच्छति । एतादृशविषयचर्चा स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् इत्यस्मिन्नधिकरणे नितरामकारि भगवत्पादैः । किंच पातञ्जलमतस्यैव वेदबाह्यत्वं भगवता बादरायणेन ' एतेन योगः प्रत्युक्तः । इत्यनेन व्यक्ततममुदघाटीत्यलम् । यत्तु अत एव क्षत्रियाणामपि युधिष्ठिरादीनां स्वधर्मयुद्धेन जानज्ञातिहिंसायां प्रायश्चित्तस्मरणमिति, इति । तथा च भागवते मुचुकुन्दं प्रति कृष्णवाक्यम्- क्षत्रधर्मे स्थितो जन्तूनवधीमृगयादिभिः । समाहितस्तत्तपसा जयघं मदुपाश्रितः ॥ इति । आदिना युद्धम् । मार्कण्डेयेऽपि- 'तस्माद्यास्याम्यहं तात दृष्ट्वेमं दुःखसंनिधिम् । . त्रयीधर्ममधर्माढयं किंपाकफलसंनिभम् ' ॥ इति । किंपाको निम्बः, इन्द्रवारुणीत्यपरे, इति तत्तुच्छम् । न हि युधि- ष्ठिरादीनां युद्धप्रयुक्तपापनिवारणार्थ विशिष्य प्रायश्चित्तानुष्ठानं कुत्रापि स्मृतम् । राजसूयानुष्ठानं तु प्रायश्चित्तानुष्ठानरूपं भवितुं नाहति राजा राजसूयेन स्वाराज्यकामो यजेतेति श्रुत्या राजसूयस्य स्वाराज्यफलक- त्वबोधनात् । तस्य युद्धात्व कृतत्वाच्च । भागवतमार्कण्डेयपुराणयोः कनिन्दा च नहि निन्दा निन्धं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतु- मिति न्यायेन विधेयप्रशंसाथै प्रवृत्ता न तु वस्तुतः कर्मणो निन्द्यत्व- बुद्धया । प्रकृते भागवते कर्मनिन्दया भक्तिप्रशंसैव विवक्षिता न तु कर्मनिन्दायामाप तात्पर्यम् । श्रुतावपि एवं बहुषु स्थलेषु दृश्यते । तथाहि ' यदुदिते मर्ये पातर्जुहुयाद्यदनुदिते सूर्ये प्रातर्जुहुयात् ' इत्या- दिनोदितानुदितहोमयोरुभयरपि निन्दा प्रतीयते, तावतोभयमपि निन्द्य- मिति नाभ्युपगम्यते किंतूदितनिन्दयाऽनुदितहोमः प्रशस्तोऽनुदितनि- न्दयोदितहोमः प्रशस्त इत्येवाभ्युपगम्यते । मार्कण्डेयपुराणस्थवाक्य- स्यापि एवमेवाभिप्रायो द्रष्टव्य इति । यदपि मोक्षधर्मे भारतेऽपि पिता- पुत्रसंवादे- तातैतद्धहुशोऽभ्यस्तजन्मजन्मान्तरेष्वपि । प्रयीधर्ममधर्माढयं न सम्यक्प्रतिभाति मे ॥
-- ३२ पश्वालम्भमीमांसा। तथा केनचिदुञ्छत्तिना मृगरूपिणो धर्मस्य प्रलोभनावाक्यैर्वधे कृत उक्तम्- 'तस्य तेनानुभावेन मृगहिंसात्मनस्तदा । तपो महत्समुत्सनं तस्माद्धिंसा न यज्ञिया । इति । यज्ञियाऽपि हिंसा न केवलं धर्मायेत्यर्थः । एवं चौषधे यज्ञ एव सात्त्विकब्राह्मणस्याधिकारः । 'नमो ब्राह्मण यज्ञाय ये च यज्ञचिदो जनाः । स्वयझं ब्राह्मणा हित्वा क्षत्रयज्ञमिहाऽऽस्थिताः ।। यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः । नमस्कारेण हविषा स्वाध्यायैरौपधैस्तथा ॥ इति वनपर्वणि जाजलिसंवाद उक्तेश्च । 'अव्यवस्थितमर्यादैविमूढेर्नास्तिकैः परैः । संशयात्मभिरव्यक्तैहिंसा समनुवर्णिता ॥ सर्वकर्मस्वहिंसां हि धर्मात्मा मनुरब्रवीत् । कामकाराद्विहिंसन्ति बहिर्वेद्यां पशून्यथा ॥ इति हिंसायुक्तयज्ञनिन्दापूर्वक विष्णुमेवाभिजानन्ति सर्वयागेषु ब्राह्मणाः। पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥ इति मोक्षधर्मेषु विचिख्थुवाक्याच्च । सा यथा पापाय तथा वेद्यन्त- गताऽपीति तदर्थः । नास्तिकैरिति करणे तृतीया । तैः करणभूतैस्तानु- दिश्येति यावत् । विष्णुमेवेति विष्णुत्वेनैव सर्वदेवता जानन्तीत्यर्थः । अत एव सर्वयागेषु ब्राह्मणानां पायसपुष्पैरेव तत्तद्भागकल्पनेत्यर्थ इति, तत्तु भारतवाक्यतात्पर्यानभिज्ञतामूलकम् । यतो यथा मुण्डकाद्युप- निषत्सु प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्मेत्यादिना यज्ञनिन्दा वस्तुतो यज्ञस्य निन्द्यत्वबुद्धया न क्रियते किंतु कर्ममार्गे निर्वेदसंपादनद्वारा ज्ञानमार्गे प्रवर्तनार्थमित्युच्यते तथैव शान्तिपर्वणि मोक्ष- धर्मे विद्यमानवाक्यैः क्रियमाणा यज्ञनिन्दा वस्तुतो न यज्ञानां निन्द्यत्वबो- धनार्थ किंतु तत्र वैराग्यसंपादनद्वारा शान्तिप्रसाधनार्थम् । अत एव शान्ति- पर्वणि मोक्षधर्म एतेषां वाक्यानां पठनम् । अत एव नीलकण्ठसुधिया भारत- + पश्चालन्भमीमांसा। ३३ , भावदीपे नारितकैरिति संशयात्मभिरिति च पदयोनारित ब्रह्मेति वद- द्भिः, आत्मा देहोऽन्यो वाऽन्योऽपि कर्ता, अकर्ता वा, अकर्ताऽपि एकोऽनेको वा, एकोऽपि सङ्गवानसङ्गो वा, इत्यादिरूपः संशयस्त- द्वानात्मा चित्तं येषां तैरिति यथाक्रमं विवरणं कृतम् । एवं चाज्ञानिनां कर्म विहितमिति सिद्धं भवतीति नास्तिकैरिति पदं नास्तिकानुदिश्योति त्वयैव व्याख्यातत्यान्द्रह्मास्तित्वाद्यज्ञानवन्त एव कर्मसु अधिकृता इत्येवारमाकमपि सिद्धान्तः । किं च कामकाराद्विहिंसन्ति, इत्यत्र कामकारपदं नीलकण्टेन महापण्डितेनेत्थमाक्षेपसमाधानपूर्वकं व्याख्या- तम् । तथाहि ननु बसन्ते क्सन्ते ज्योतिपा यजेत, प्रतिसंवत्सरं सोमः, इति श्रुतिस्मृतिभ्यां नित्यत्वेन विहितेषु ज्योतिष्टोमादीषु विहितः पश्वा- लम्भः कथं कामकारात्स्यात्, जायमानो वै ब्राह्मणस्त्रिभिऋणवा जायते ब्रह्मचर्येणाभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः, इत्यृणश्रुतेश्च, अन- धीत्यानिष्ट्वा प्रजामनुत्पाद्य च कथमनृणो वा स्यात्, अनाहिताग्निताया- शोपपातकेषु स्मरणात्,कृताधानस्य समर्थल्य क्रत्वनारम्भो वा कथं स्यात्, इति चेन्न । गार्हस्थ्यस्यैव कामकारत्वे तन्मूल कानामाधानादिनामपि तथात्वात् । जायमानो वा इत्यत्रापि नोत्पद्यमान इत्यर्थः किंतु गृहस्थोऽ- धिकारी वा संपद्यमान इति व्याख्येयम्, इत्यनेन समाधानवाक्येन गृहस्थाश्रमस्य गगप्रयुक्तस्वात्तमूलककर्मणामपि रागप्रयुक्तत्वं कथितं न तु कल भ६ णादि द्रिहितत्वाभावेन केवलरागाधीनत्वेन रागप्रयुक्त- खमभ्यधायि । तस्मानैष्ठिकब्रह्मचारितया गुरखुले वास आहोस्वि- ब्रह्मचचीनन्तरमेव मोक्षाश्रम कार उत्कृष्ट इति नीलकण्ठाभिमायः प्रतीयते । अयं साधुरेबाध्यवसायः । न चैतावता हिंसायुक्तकर्मणो दुष्टत्वं सिद्धं भवति । किं चाव्यवस्थितयदैिविमनास्तिकैः परैः, इत्यादि श्लोकवाटतोऽध्यायो नीलकण्टेनाऽऽदावेवेत्थावतारितः । एवं तुलाधारवाक्यरहिंसात्मकस्य धर्मस्य श्रेष्ठयमुपपाद्य तस्यैव स्तुतये हिंसात्मकं धर्म निन्दत्याख्यायिकामुखेनात्रापीत्यादिना । अनेन पात- निकावाक्येन नहि निन्दान्यायेनात्र क्रियमाणा हिसायुक्तयज्ञनिन्दाs- हिंसात्मकधर्मस्य स्तुत्यर्थ प्रवृत्ता न तु वस्तुतो हिंसायुक्तकर्मणो निन्द्य- त्वबुद्धया, इत्यर्थः स्पष्टं प्रतीयते । एवं चेमानि भारतवाक्यानि हिंसा- युक्तयज्ञस्य दुष्टत्वे न प्रमाणानीत्यलम् । यत्तु तैत्तिरीयश्रुतावपि परा- डबवर्ततेऽध्वर्युः पशोः संज्ञप्यमानादित्युक्तं तत्र पापसत्त्व एव हि ततः ३४ पश्चालम्भमीमांसा। परागावर्तनं युक्तं नान्यथा । रिच्यत इव वा एप प्रेव रिच्यते यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नन्तः स्वाध्या- यमधीयीतेति ऋत्विजां प्रायश्चित्तोपदेशाच्च । सोऽपि पापसत्त्व एव युक्त इति । तत्तु श्रुतितात्पर्याबोधनिबन्धनमेव । यतो यदि अध्वर्योः पाप- संभवभिया परागावर्तन तर्हि प्रतिप्रस्थातुरपि पापभीरुतासंभवात्परागा- वर्तनं युक्तम् । किं चाङ्गभूतसंज्ञपनस्य याजुर्वेदिकपदार्थत्वादाध्वर्यव- मिति समाख्यया नियमेनाध्वर्युणा कर्तव्यत्वात्पापभीरुतया ततः परा- वर्तने तस्य लोपेन ऋतुवैगुण्यापत्तिः । अपिचैवमेवात्यायाससाध्यानाम- ध्वर्युकर्तृकाणां बहूनां पदार्थानां सत्त्वादायासभीरुतया तेभ्योऽपि परा- वर्तनं कुतो नोच्यते । किं चाऽऽत्विज्यमयुक्तपापशरीरायासादिकमविग- णय्य द्रव्यलोभेनाऽऽविज्ये प्रवर्तमान ऋत्विक्कथंकारं स्वावश्यकर्तव्या- पदार्थात्पापभीरुतया निवर्तेत । श्रुतिश्च कथं निवर्तनस्य पापमूलकत्वं चदेत् । वदन्ती कथं प्रमाणं भवेत् । तस्माद्येन तदानीमध्वर्युणा संज्ञ- पनं सर्वथा कर्तुमशक्यं तादृशं किंचिद्वक्तव्यम् । स च संज्ञप्तिहोमो भवितुमर्हति । तस्य विशिष्य तदानीमध्वर्युकर्तव्यत्वेन विहितत्वात्त- दानीं तस्य करणे संज्ञपनस्य कर्तुमशक्यत्वात्संज्ञपनकार्याभिवर्तनं युक्तमेव । संज्ञपनस्याप्यङ्गत्वात, तस्य विना कारण परित्युक्तमशक्य- त्वात्, तदीयेन प्रतिप्रस्थात्रा तक्रियते । तस्मात्परावर्तनस्य पापप्रयो- ज्यत्वं न सिध्येदिति रिच्यत इव वा एप प्रेव रिच्यत इत्यनुवाकेन यत्यायश्चित्तमुपदिश्यते तत्तु याजनसामान्यप्रतिग्रहसामान्ययोन भवति । किंतु अयाज्ययाजननिषिद्धद्रव्यप्रतिग्रहयोः । तत्तु अस्मत्संपतिपन्नमेव । सायणाचार्थरेवमेव तद्वाक्यं व्याख्यायि । तथाहि यः पुमान्स्वयमापद- हितोऽपि द्रव्यलोभादयाज्यं याजयति निषिद्धं द्रव्यं वा परिहाति स पुमानिह लोके रिच्यत इव कीर्तिशून्य इव भवति । अहो दुरात्माऽय- मेवं धनिकोऽपि सन्द्रव्यलोभादन्यायं करोति, इति सर्वे जनास्तं नि- न्दन्ति । तदिदामिह लोके रिक्तत्वम् । तथा प्रेव रिच्यते परलोके प्रक- र्षेण रिक्त इव भवति पुण्यलोकाभाव एव रिक्तत्वं याजनप्रतिग्रहयो- जीविकारूपेण शास्त्रेऽभ्युपगतत्वान्निपिद्धयाजनप्रतिग्रहविषयमिदं द्रष्ट- व्यम् । अतो द्रव्यलोभाधाजयित्वा प्रतिगृह्य वा भोजनरहितस्त्रिवार स्वशाखारूपं वेदं जपेदिति । किंतु प्रायश्चित्तोपदेशमात्रेण पापमरतीत्ये- व ज्ञायते न तु हिंसाप्रयुक्तपापमस्तीति । तथा सति प्रतिग्रहकर्मणि पश्वालम्भमीमांसा। ३५ हिंसासंवन्धाभावात्तत्र प्रायश्चित्तोपदेशोऽनुपपन्नः स्यात् । तरमादयं प्रायश्चित्तोपदेशो यागीयहिंसायाः पापजनकत्वे साधको भवितुं नाई- तीत्यलम् । एतेन–एतेनोक्तपुराणान्यपशुचातुर्मास्यस्तावकान्येवेत्यपा- रतम् । सर्वकर्मस्वहिंसामिति विचिस्युवाक्ये श्रवणाच्चेत्यपास्तम् । अप- शुचातुर्मास्यस्य खरीविषाणायमानत्वात्, उन्मत्तेनापि तथा. प्रलपितत्वे- नानुक्तोपालम्भत्वात्सर्वकर्मस्वित्यादिवाक्यस्यान्यपरत्वेन व्याख्यातत्वा- तस्य प्रकृते हेतुत्वासंभवाचति । यत्तु हिंसामयानां नित्यत्वोक्तिररापि मांसभक्षणादिरागान्धं वेदमार्गे प्रवर्तयितुं न तु तत्त्वदृष्टया । अत एव भागवते- 'मुन्यत्रैस्तु परा प्रीतिस्तथा न पशुहिंसया'। - इत्युपक्रम्य- 'द्रव्ययज्ञैर्यक्ष्यमाणान्दृष्ट्वा भूतानि बिभ्यति । एप माऽकरुणो हन्यादतज्ज्ञोऽसुतृपो भृशम् ।। तस्माद्यथोपपन्नेन मुन्यन्नेनैव धर्मवित् । संतुष्टोऽहरहः कुर्यानित्यनैमित्तिकीः क्रियाः ॥ इति । द्रव्यमत्र पशुः । पशुयज्ञैरिति पागन्तरं तेन मुन्यनेन तुष्टस्य तेनैव यज्ञोऽर्थात्तेनासंतुष्टस्य मांसादिलुब्धस्य तेनेति सूचितम् । तेषां तामसाधिकारिकत्वं च कपिलस्युमरश्मिसंवादे मोक्षधर्मे स्पष्टमेव तत्तु बालप्रलापसमम् । वेदमार्गे प्रवर्तयितुं न तु तत्त्वदृष्टया वाक्यस्य वस्तुतो नित्यत्वाभाववतो नित्यत्वेन बोधनं मांसभक्षणाशाग्रस्तस्य वेदबोधितोपायेषु प्रवर्तनैकप्रयोजनं न तु सर्वेषामवश्यानुष्ठेयत्वसिद्धि- प्रयोजनकम् , इत्याशय उन्नीयते । नायं साधुराशयो भवितुमर्हति । तथाहि दबोधितोपायेषु इति पदस्यात्रत्यस्य वेदोक्तहिंसासहितज्योतष्टोमादि- कर्ममात्रपरत्वमेवाभ्युपगन्तव्यं न वितरोपायपरता । तत्र प्रवर्तनाथ हिंसायुक्तानां नित्यत्वबोधनस्य भवतीत्येतरान्प्रति एतेषां नित्य- त्वेन बोधनाभावेऽपि तेषु हिंसारहितोपायेषु तेषां प्रवृत्तेर्भवताऽ- प्यभ्युपगम्यमानत्वेनानुपयुक्तत्वात् । एवं च मांसभक्षणकामस्यैव निय- मेनैतेषामनुष्ठानार्थ वस्तुतो नित्यत्वेन कथनं न तु सर्वान्मति नित्य- खेन कथनमित्येव भवता वक्तव्यं न तु वस्तुतो नित्यत्वाभाववतो ३६ पश्चालम्भमीमांसा Com नित्यत्वेन कथन मांसभक्षणरागान्धप्रवर्तनार्थमित्येताहशार्थ स्वरसतो वोधयन्मांसभक्षणादिशगान्धं वेदमार्गे प्रवर्तयितुं न तु तत्त्वदृष्टया, इति वाक्यं प्रयोक्तव्यम् । अस्य वाक्यस्यापि स एवार्थोऽभिप्रेत इतिचेद्भवतु यथाकथंचित् । तथाऽयसामञ्जस्यं न गच्छति । यावज्जीवमग्निहोत्रं जुहोति यावज्जीवं दर्शपूर्णमासाभ्यां यजेत, इत्यत्र यथा सर्वान्कर्माधि- कारयोग्यान्यति अग्निहोत्रदर्शपूर्णमासादीनामवश्यानुष्ठेयत्वं प्रतीयते तथैव वसन्ते वसन्ते ज्योतिषा यजेतेति वाक्येनाव्यविशेषप्रवृत्तेन सर्वा- प्रत्येव हिंसायुक्तज्योतिष्टोमादिकर्मणोऽवश्यानुष्ठेयता ज्ञायते । अत्र परं मांसभक्षणकामो वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिरीत्याऽधि- कारिसंकोचे प्रमाणं नोपलभामहे । किं च यत्यैतेऽष्टाचत्वारिंशत्सं- स्कारा इत्यनेन पुरुषमात्रस्य त्रैवर्णिकस्याष्टचत्वारिंशत्संस्काराः काथ- तास्तत्र हिंसायुक्तज्योतिष्टोमादिकर्माण्यप्यन्तर्गतान्येवेति तेपामपि सर्वा- न्पति नित्यत्वमकामेनाच्यभ्युपगन्तव्यम् । भागवतवाक्यानि नहि निन्दान्यायेन प्रवृत्तानि न स्वार्थे प्रमाणानीत्यवगन्तव्यम् । यत्तु लोके व्यवायामिषमद्यसेवेति श्लोके भागवतेऽपि स्पष्टमेतत् , तच्चैवकारवादे निरूपितम् । तत्रैव स्थलान्तरे भगवद्वाक्यम्- " हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना । हिंसा विहाराद्यालब्धैः पशुभिः स्वसुखेच्छया" ॥ यजन्ते देवता यज्ञैरिति । हिंसायां तत्फलमांसभक्षणे यदि राग- स्तर्हि यज्ञ एवेत्यभ्यनुज्ञाद्वारा ताशरागवतः प्रति परिसंख्येयं न तु सर्वान्प्रत्यावश्यकत्वेनेयं चोदनेत्यर्थः, नित्यत्वादिकमपि तान्मत्येवेत्यर्थ- कमुक्त्वा · वेदस्य हृदयं लोके नान्यो मद्वेद कश्चन' मन्मत्तोऽन्यो न वेदेत्यर्थ इति तदपेशलम्, एतेषां पद्यानां ज्ञानप्रकरणे विद्यमानत्वाद् वैराग्यादिप्रशंसाथै प्रवृत्तत्वाद्यथाश्रुतार्थो न विवक्षितः। अपि च रागिणः प्रति व्यवायामिपमद्यसेवानां परिसंख्येत्युक्तं तत्तु अस्माकं संमतमेव । अर्थी विद्वान्समर्थो यजेतेति न्यायेनार्थित्वस्याधिकारिविश- षणत्वात् । ये तु चित्तशुद्धया वैराग्यमापनास्तेषां कर्मसंन्यास एवाधि- कारो न तु कर्मसु इत्येवास्माभिरभ्युपगम्यते । तस्मादेभिः पयै रागिणः प्रति परिसंख्यामात्रे यागीयहिंसा दुष्टेति वक्तुं न शक्यते । यजेऽभ्यनुज्ञाऽस्तीति वदता भवताऽपि यज्ञे पशुहिंसा न दुष्टेत्यवश्यमभ्यु- पश्वालम्भमीमांसा। ३७ - पगन्तव्यम् । न च रागिण एवाभ्यनुज्ञा न वितरेषामिति वाच्यम् । रागिन्यतिरिक्तजनस्य कर्माधिकारस्यैवाभावादित्यलम् । अथ सांख्यं योगः पाश्चरात्रं च विचार्यते । यत्तु अत एव पतञ्जलिना योगसूत्रे-एपां शुक्लकृष्णत्वेन व्यवहारः कृत इति तत्तुच्छम् । पूर्वमेव पातञ्जलं मतं वेदवाखमिति बहुधाऽऽवेदि- तत्वात् । यदपि गीतायामपि- 'अनिमिष्ट मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ।।' इत्युक्तम् । कर्मण इति जाताचेकवचनम् । कस्यचित्कर्मण इष्टं सुखमेव फलं कल्यचिनिष्ट दुःखमेव कस्यचिन्मिश्रमेतत्सर्वमत्यागिनां कर्मफला- त्यागिनां प्रेत्य देहान्तरसंबन्धे भवति । न तु संन्यासिनां तत्फलत्याग- नाम्। न चात्यागिनां कर्मफलत्यागेऽपि कर्मानुष्ठायिनां सत्त्वशुद्धः प्रागेव मृतानां तत्तत्कर्मफलं कर्मविध्यात्रिविधशरीरग्रहणरूपं भवति । पापस्या- निष्ट तिर्यगादिदेहरूपं एयरयेष्टं देवादिदेहलक्षणं मिश्रस्य पापपुण्ययु- गलस्येष्टानिष्टयुक्तं मनुष्यदेहलक्षणं संन्यासिनां मुख्यसंन्यासिनां तेषां ज्ञानतोऽज्ञाननिवृत्त्या देहसंबन्धाभावादिति वाच्यम् । तिर्यगादिदेहस्याप्यु- भयारब्धत्वात् । तत्रापि सुखदुःखोभयानुभवात् । 'नहि देहभृता शक्यं त्यक्तं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते । इत्युक्तश्लोकस्थत्यागल्यैवात्र त्यागपदेन ग्रहीतुमौचित्याच । उक्त- त्यागफलकथनपरत्वात्पतञ्जल्येकवाक्यतया मदुक्तार्थस्यैवौचित्याच्च । संन्यासिपदेनापि उक्तश्लोकस्थत्यागिन एव ग्रहणमुचितं तस्य गृहीतदेह- स्यापि जीवन्मुक्तदशयाऽवस्थानात्कर्मफलप्राप्तिजन्यहर्षविपादाभाव इति तात्पर्यादिति । तत्पकृतानुपयुक्तबहुप्रलापिनोऽस्थाने वृथा कलकलं कलयतो भ्रातृभावं भवतो व्यक्तमावेदयति । नह्यत्र कर्मण इष्टा- निष्टफलकत्वकथनमात्रेण यागीयाहिंसाया दुष्टत्वं वक्तुं सुशकम् । नह्यस्मिश्लोक एकस्मिन्नेव कर्मणि सुखदुःखोभयफलजनकत्वं प्रतीयते येन यागीयहिंसाया एव विहितत्वेन निषिद्धत्वेन चोभयफल- कत्वमभ्युपगन्तव्यमित्युच्येत किंतु केवलपुण्यमानं कदाचित्फलदा- ३८ पश्वालम्भमीमांसा। नायोन्मुखं भवति । एकदा तु केवलपापमात्रं जातुचित्पा पुण्यं चेत्युभयमापि युगपत्फलदानव्यग्रं भवति, इत्यर्थ तत्पद्यतः स्वरसतः प्रतीयते । किं चात्यागिनामिति पदं कर्मफ- लत्यागिपरमाहोस्वित्संन्यासिपरमित्ययं विचारोऽस्थाने कलकल एव । यदपि य इष्टापूर्तादिकर्मणा चन्द्रलोकं गतास्तत्र भुक्तभोगाः पुनरवता- रसमये वीडादावन्याधिष्ठितेऽनुशायिनः संसर्गभाज एव न तु तत्र भोगस्तेषां तत्र भोगप्रापककर्माभावादिति सिद्धान्तिनोक्ते पशुहिंसादि- योगादिष्टस्याशुद्धत्वात्तस्य तत्र भोगमापकत्वमस्त्विति पूर्वपक्षे यत्सिद्धा- न्तबोधकं व्याससूत्रमशुद्धामति चेन्न शब्दादिति । तस्यायमर्थः- अशुद्ध एवेति चेन्न । शब्दात् । धर्मत्वाधर्मत्वयोः शब्दकगम्यत्वात् । वैधहिंसाया धर्मत्वेनोक्तेन साऽधर्म एवेति अल्पपापत्वादेव वैधहिंसा न पूर्णदोषायेत्येव मीसांसकाशयः । अत एवं तस्याल्पपापल्याल्पायु- शादिकं फलमुक्तम् । स्थावरभावो हि सर्वथाऽशुद्धस्यैव कर्मणः फल- मिति व्यासाशयः । किं च यत्राल्पं सुखमधिकं दुःखं समे वा ते तत्रापि रागान्धास्तिकस्य परकीयसुन्दरीगमन इव तत्सुख उत्कटेच्छा- वशात्प्रवृत्तिरुपपद्यते दुःखस्याल्पत्वे तु सुतरामिति । तदपि भवान्सम- स्ततान्त्रिकासंमतार्थ कल्पयतः शब्दशक्तिस्वभावमजानतोऽव्युत्पन्नस्य भ्रातेत्यावेदयति । यदि, अशुद्धभिति चेन्नेति सूत्रस्य भवर्णित एवार्थो व्याससंमतोऽभविष्यत्तर्हि सर्वज्ञभगवत्पादवाचस्पतिमिश्रप्र- मुखा महान्तो व्याख्यातारस्तत्सूत्रं भवदुक्तरीत्यैवार्थापयिष्यन् । व्यासाभिमततत्सूत्रार्थो मयैव ज्ञातो न तु तैरिति वदिता भवान्राजकी- यकार्येऽभिषिक्तो महानिपुणो मन्त्री राज्यवस्तुस्थितिं न जानाति देशान्तरवासी गोपाल एव तज्जानातीति वदितुतैव । न च वाच्यं पतञ्जलिना सर्वज्ञेन ज्योतिष्टोमादिकर्मणो दुष्टत्वादुष्टत्वोभयसंवलितत्वे- नाभ्युपगतत्वात्तदनुसारेणेदं सूत्रमित्थमेव व्याख्येयमिति । न हि पतञ्ज- ल्यभ्युपगत एवार्थो व्यासेनाभ्युपगन्तव्य इति राजाज्ञाऽस्ति नापि पतञ्जलिरेव सर्वज्ञो न तु व्यास इत्यनुन्मत्तः कश्चिदभ्युपैति । किं च वेदवाक्यार्थविशदीकरणे जैमिनिवादरायणावेव कुशलावतस्तदभ्युपग- तार्थ एव श्रेयस्कामैरभ्युपगन्तव्यो न त्वितराभिमतार्थ इत्येव शिष्टानां महात्मनां प्रवादः श्रूयते । पतञ्जलिस्तु शब्दसाधुत्वासाधुत्वव्यवस्था- पन एव दक्ष इत्येव महनीयैरभ्युपगम्यते । अतः पतञ्जल्यभिमतो पश्वालम्भमीमांसा ३ ९ वस्तुतो वेदविरुद्धार्थः श्रेयरकाभैरनादरणीयः । न च व्यासेनैव योग- सूत्रभाष्ये कर्मणामल्पदोषवत्त्वेन वर्णितत्वान्मदभिमत एवैतत्सूत्रार्थों व्याससंमत इति वाच्यम् । मूलाशयोद्घाटनार्थ मूलानुसारेणैव व्याख्या करणीयेत्येव नियमस्तान्त्रिकैरभ्युपगम्यते । अतो व्यासोऽपि पतञ्ज- लिसूत्राशयोद्घाटनार्थ तथा भाष्यं कृतवान् । न च तावता स एवार्थों व्याससंमत इति नियन्तुं शक्यते । श्रुत्यर्थनिर्णायकत्वेन ब्रह्मसूत्राण्य- रचयत् । एवं चाशुद्धमिति सूत्रस्य स्वरसतो यादृशोऽर्थः प्रतीयते स एव वेदार्थ इत्येव व्यासोऽभिप्रैतीत्येवाभ्युपगन्तव्यं सुधीभिः । नहि कस्यचन सूत्रकारस्य स्वकृतसूत्रात्स्वरसतः प्रतीयमानोऽर्थो न संमतः किंतु अन्यदायसूत्रानुसारेण स्वकृताभाष्यात्स्वरसतःप्रतीयमानार्थ एव संमत इति कश्चन विवेकी वदितुमर्हति । तस्मादशुद्धमिति सूत्रस्य मर्णित एवार्थों व्यासाभिमत इति यदुच्यते तत्तु न विचारसहम् । किं च परकीय- सुन्दरीगमनदृष्टान्तप्रदर्शनेन कर्मसु प्रवृत्त्युपपादनमसंगतम् । नहि शिष्ट- त्वेनाभिमता जना ज्योतिष्टोमादिकर्मसु यथा सर्वजनसमक्ष प्रवर्तन्ते तथा परकीयसुन्दरीगमने कदाऽपि प्रवर्तन्ते। किंच परकीयसुन्दरीगमनकर्तारो यथाऽपाङ्केयत्वेन गण्यन्ते नहि तथेमे गण्यन्ते । प्रत्युताऽऽस्तिकैः प्रथम पूज्यन्ते सकलवैदिकशिरोमणितया गण्यन्ते । अत एवानयोमहावैषम्य- मस्तीति प्राकृतैरपि ज्ञातुं शक्यत इति नात्रास्माभिरधिकं वक्तव्यम् । यत्तु अव एव मरणरूपमहानिष्टसाधनेऽपि सहगमनवेणीप्रवेशादावात्म- हत्यङ्गाके सर्वस्वारयज्ञादौ च प्रवृत्त्युपपत्तिः पुरुषस्य प्रत्यवायेऽपि याग- स्य साङ्गत्वमक्षतमेव । यो नाम ऋतुमध्यस्थकलञ्जादीनि भक्षयन ऋतोस्तत्र वैगुण्यं यथाचोदितसिद्धित इत्युक्तेरिति । तत्तु न विचारस- हम् । सहगमने वेणीप्रवेशादिस्थले मरणस्यानिष्टत्वमेव नारित । जना- नामिदमेवेष्टमिदमनिष्टमिति ब्रह्मणाऽपि नियन्तुं न शक्यते । पतिमर- णानन्तरं जीवनेच्छारहितायाः पतिव्रताया मरणमेव कामयमानाया मरणोपायत्वेन सहगमनात्मक उपायः शास्त्रेणाभ्यनुज्ञात एवमेव वेणीप्रवेशादावप्यूह्यम् । तथा कयाचिदपि चिकित्सया निवर्तयितुमश- क्येनातिदुःसहेन महारोगेण पीडितस्य जीवने निराशस्य मरणमेवाऽऽ- काडमाणस्य पुरुषस्य मरणोपायत्वेन सर्वस्वारात्मकः क्रतुर्विहितस्तत्र पश्चालम्भमीमांसा। च सहगमनसर्वस्वारादीनां विहितत्वादेव दुष्टत्वं नेत्यभ्युपगम्यतेऽ- स्माभिः । एवंचतदादिस्थलेऽपि केवलेष्टसाधनत्वेनैव प्रवृत्त्युपपत्तिरिति प्रकारान्तरेण प्रवृत्त्युपपादनमुभयवादिसंमतं नेत्यलम् । पञ्चशिखाचार्य- स्योभयवाद्यसंप्रतिपन्नत्वात्तत्संमतिरकिंचित्करी । यत्तु जैमिनेरेव सर्व वस्तुतत्त्वज्ञत्वाभावो मार्कण्डेयपराणादवगम्यते सुतरां तदीयानाम् । तत्र हि व्यासशिष्यो जैमिनिर्भारतविषयेषु केषुचित्पदार्थेषु संदिहानो मार्क- ण्डेयं पप्रच्छ, स च न मेऽवसरस्तस्मात्सर्वज्ञान्विन्ध्याचलवासिनश्चतुरः पक्षिणः पृच्छेत्युक्तवान् । तस्यायमाशयः-व्यासशिष्योऽध्ययमशुद्ध- चित्ततया व्यासोक्तं न साधु मन्यते । सर्वफलदं परमेश्वरं तत्त्वेन न मनुते किंतु कर्भव फलदमिति । तथा देवतियगादीनां व्यासक्ति ज्ञाना- धिकार न मन्यते, असंभवादनधिकारं जैमिनिरिति व्यासोक्तेः । अत- स्तिरश्चां शिष्यो भूत्वा तेषां ज्ञानाधिकारे ज्ञाते सर्वत्र व्यासोक्त विश्वस्तो भवेत् । देवासुरसङ्ग्रामादेस्तन्मुखतः श्रवणे तेपामविग्रहत्वाभिमानं त्यक्ष्यतीति । तस्मात्पातञ्जलभाव्ये व्यासोक्तमेव श्रद्धेयमितीति । तच्च महतामुपालन्भेन स्वस्योन्मत्ततां मुर्खतां वा केवलमावेदयति । मार्कण्डेय- पराणस्थाया अल्या आख्यायिकाया एतादृशमाशयं भवन्तं विनाऽन्यः कश्चन पामरोऽपि नाभ्युपगच्छति । किं च नहि व्यासेन तिरश्चामधि- कारः कुत्रापि प्रत्यपादि " तदुपर्यपि बादरायणः संभवात् " इत्यस्मि- अधिकरणे विद्यायां देवानां परमधिकारः समर्थितस्तत्रापि तिरश्चामधि- कारः परयर्षिणा नाभ्युपगम्यते । न च तथा सति पक्षिणां कथमुपदेष्ठत्व- मिति वाच्यम् । येषां पक्षिशरीरावच्छिन्नानां ज्ञानवत्त्वं श्रूयते तेषा- मपि गर्भस्थवामदेवशूद्रभूतविदुरादिवज्ञान जननयोग्यशरीरावच्छेदेनैव ज्ञानवत्त्वमुत्पन्नमित्यभ्युपगम्यते । ते च महान्तो योगैश्चर्यवशादनेक- देहादानन्यायेन नानाजातीयानि शरीराणि परिगृह्णन्ति । तस्मान्मार्क- ण्डेयेन केषांचन पक्षिविशेषाणामुपदेप्रत्वकथनमात्रेण सर्वेषां पक्षिणां ज्ञानवत्त्वं वा ज्ञानाधिकारवत्त्वं वाऽभ्युपगन्तुं न युज्यते । नहि अग- स्त्येन समुद्रः पीत इति सर्विप्रैः समुद्रः पातुं शक्यत इत्युन्मत्तोऽप्य- भ्युपगच्छति । अतो मार्कण्डेयवचनस्यैतादृशाशयवर्णनं त्वयैवानुमोद- नीयं नान्येन केनचित् । किंच जैमिनेः कमैंव फलदमीश्वरो नास्ति पश्वालम्भमीमांसा ४१ . देवतानामपि विग्रहवत्त्वं नास्तीत्यादिषु विषयेषु नास्त्याग्रहः नितरा कर्मविश्वासरहितानां नास्तिकानां बौद्धादीनां खण्डनार्थ तथा कथित- वान् । एतच्छंकरविजये भगवद्विद्यारण्यस्वामिकृते नवमसगै स्पष्टमि- त्यास्तां तावत् । यत्तु- यन्न दुःखेन संभिन्न न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ' ।। इत्यनेनापि सूचितमेतत् । आद्यपादेहिकरत्यन्तकालदुःखसदृश- सुखसमानदुःखनिरासः । न च अत्तमित्यनेन तदधिकदुःखनिरासः । अनन्तरमित्यनेन निद्राकालबद्वैषयिकोभयरहितदिनरूपकालनिरासः । अन्यथा सकलदुःखाभावस्याऽऽद्यपादेनैव प्रतिपादने सिद्धे न च ग्ररत- मित्यस्य वैयोपत्तेः । अभिलाषोपनीतत्वेन विषय संपादनक्लेशनि- रासः । स्वर्गेऽपि वैषयिकमेव सुखमिति अप्सरस एनं जाया भूत्वो- पशेरत इत्यमिष्टोमादिफलकथनेनैकः पूर्वपरयोरिति सूत्रे भाष्ये स्पष्टम- क्तम् । एवं च विजातीयसुखत्वमेव स्वर्गत्वम् । तस्मान्महिषासुरादि- जन्यदुःखमस्त्येवेति सूचितम् । यद्वा स्वनान्तरीयकावश्यभाविदुःखा- न्यदुःखजनकाधर्मानारब्धदेहोपभोग्यसुखत्वं तत् । सहगमनादौ मरणा- * भगवता जोमनिना नवमे देवताधिकरणे- "देवता बा प्रयोजयेत्” इति पूर्वपक्षमुप- क्षिप्य " अपि वा शब्दपूर्वत्वात् " इत्यनेन सिद्धान्तितं तदाशय एवम्---" वज्रहस्त; पुरंदर: " इत्यादिभूतार्थवादानां प्रमाणान्तराविरोधे प्रतीयमानार्थेऽपि प्रामाण्यं विद्यत इति । किंप्रयुक्ता धर्मा इत्येव तत्रोहलक्षणे विचार: प्रस्तुतो न देवताविग्रहादिनिर्णयः । अत एवापूर्वस्वीकारमात्रेणैव शब्दमात्र प्रमाणको भगवा मिनिः परितुष्टो न भगवती देवतां द्वेष्टि । तावतैव स्वापेक्षितोहाध्यायस्याऽऽरम्भसिद्धेः । भगवतो जैमिनेश्च देवताविग्रहादिक संमतमित्यधिकारलक्षणे तद्वय ख्यातृभिः प्रपञ्चितमिति तत एवावगन्तव्यम् । विस्त.रभिया नह तन्यते । प्रासङ्गिकाः केचन यासजैमिनितत्रभेदा ये संदृश्यनो तेऽधिकारिभेदेनोह्याः। माहुश्चात्र भट्टपादाः श्लोकवार्तिक १६ इत्याह नास्तिक्यनिराकरिष्णुरात्मास्तितां भाष्यकृदन युक्त्या । दृढ़त्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेन ॥” इति । ६ ४२ पश्वालम्भमीमांसा। न्तप्रायाश्चित्तादौ चोक्तरीत्याऽल्पं पापं भूयान्धर्मो ज्योतिष्टोमन्यायन वदन्तीति दिगिति । तत्तुच्छम् । यन्न दुःखेन संभिन्नमित्यादिपद्येन खरसतः प्रतीयमानोऽर्थ इत्थम्-न दुःखेन संभिन्न स्वावच्छेदकश- रीरावच्छेदेन स्वसमवायिसमवेतत्वसंबन्धेन दुःखवद्भिन्नम् । न च ग्रस्तमनन्तरमिन्यस्य शरीरमाप्त्यनन्तरं सुखाभावावच्छेदकशरीरावच्छि- अभिन्नम् । अभिलापोपनीतमित्यस्य संकल्पमात्रेणोत्पन्नं न तु प्रया- सेन । एतादृशविशेषणत्रयविशिष्टरु खमेव स्वपदवोध्यं भवितुमर्हति, इति भवदुक्तरीत्या हिंसाजन्यदुःखसंबन्ध उक्तविशेषणानुपपत्तेः । भवदुक्त- रीत्या विशेषणसामञ्जस्येऽपि तथा तद्वाक्यार्थवर्णनं हिंसाजन्यदुःख- संवन्धान्यथानुपपत्त्यैव न तु स्वरसतस्तद्वाक्यात्तादृशार्थः प्रतीयत इति वाक्यस्वारस्यं भज्येत । केचित्तु यन्न दुःखेनेत्यादि न स्वर्गलक्षणं विशेषणचतुष्टयव्यावाभावात् । किंतु स्वरूपकथनमात्रम् । विशेषण- चतुष्टयेनापि हि सांसारिक सुखवैलक्षण्यमस्य ब्रुवता सुखत्वावान्तरजातिः स्वगत्व पलक्ष्यते । तद्धि दुःखमिश्रमिदं तु न तथा । एवं सांसारिक राज्यादिसुखं वर्षावधिप्रमाणाभावाच्छत्रुकृतापहारादिशङ्कगग्रस्तम् । इदं तु अर्थवादादिप्रमाणतो वर्षादियावत्कालभोग्यतया प्रमितं न तन्मध्येs- पहारादिशङ्काग्रस्त तथेदमन्तरमनवच्छिन्नं संततं वर्षादिपर्यन्तमितरत्तु न तथा किंतु नुखदुःखोभयरहितावस्थयाऽवच्छिन्नमेवमिदमभिलाषमात्रे- णोपनतमुपस्थितं न सक्चन्दनवनितादिविषयापेक्षमितरत्तु विषयापेक्ष- मेवेत्येवंरीत्याऽस्य पद्यस्यार्थ वर्णयन्ति । अस्मिन्पक्षेऽपि स्वर्गसुखस्य दुःखसंबन्धगन्धोऽपि नास्तीत्येव प्रतीयत इत्यलम् । यदपि श्येनवधप्रयुक्तमत्यल्पं पापं भवत्येवेति तत्तु मीमांसेतिशब्द- स्याप्यश्रोतृत्वमात्मनः प्रख्यापयति । यतस्तव्यपदेशं चेत्येतस्मिन्नधि- करणे श्येनेनाभिचरन्यजेतेति वाक्यमुदाहृत्यात्रत्यश्यनपदं श्येनपक्ष्या- त्मकगुणविधायकमाहोस्वित्कर्मनामधेयं वेति संदिह्य तत्प्रख्यन्याया- द्यात्मकबाधकाभावात्, श्येनपदस्य श्येनपक्षिण्येव प्रसिद्धत्वात्, 'यथा वै श्येनो निपत्याऽऽदत्त एवमयं द्विषन्तं भ्रातृव्यं निपत्याऽऽदत्ते' इत्य- र्थवादस्योपक्रमस्थविधिवाक्यानुसारेण ते तद्विलासा इव तद्विलासा इतिवन्भेयत्वात्, प्रकृतसोमयागमाश्रित्य फलोदेशेन श्येनात्मकगुणवि- धायकमाहोस्विच्छयेन विशिष्टकर्मान्तरविधायकं वेति पूर्वपक्षे प्राप्ते, अर्थ- वादस्यानन्वयालंकारत्वे सर्वेषामर्थवादस्थपदानामुपमानान्तराभावल- ,
पश्वालम्भमीमांसा
४३
क्षकत्वापत्तेरुपक्रमन्यायात्पबलेन भूयोनुग्रहन्यायेनोपक्रमस्थ एकस्मि-
श्येनपदे रूपकविधया लुप्तोपमानविधया वा गौणी वृत्तिमाश्रित्य
श्येनपदस्य द्वितीयविधिप्रकारापादकं नामधेयत्वमेवाङ्गीकर्तव्यम् ।
अर्थवादस्तु रूपकाद्यपेक्षितसादृश्योपपादनार्थः सन्विनैव लक्षणां पूर्णा-
पमानविधया विधेययागस्तुत्यर्थ इत्येवाभ्युपगम्यते, इति सिद्धान्ति-
तम् । भवदुक्तरीत्या श्येनपक्षिद्रव्यकः श्येनयाग इत्यभ्युपगम्यते चेदे-
तदधिकरणसिद्धान्तविरोधः स्यात् , इत्यलमधिकेन प्रपञ्चेन । तस्मा-
च्छेयस्कामैवेदार्थतत्त्ववित्सर्वज्ञव्यास जैमिनितदनुयायिमहानुभावशंकरश-
बरस्वाम्यादिमतमनादृत्य वेदविरुद्धार्थपलापिसांख्यानुयायिना येनकेन-
चित्पण्डितमन्येन व्याकरणमनवोधकमञ्जूपादौ प्रलपितं स्वभेऽपि न
विश्वसनीयम् । किंतु व्यासजैमिनिमतमेवाऽऽदरणीयमित्यास्ताम् ।
श्रीरामो जनकः सती मतिमती यस्य प्रसूर्जानकी
दत्तात्रेय इति प्रक्लप्सनिगमो यः सोमयाजी सुधीः ।
गोविन्दः सुगुणश्च विष्णुरपरो ह्येवं त्रयः सोदराः
श्रीलक्ष्मीकमलेशपादयुगुले ग्रन्थं न्यवादामनः॥१॥
No text on this page.
No text on this page.
No text on this page.
No text on this page.