Bharti Bhawan Library Allahabad

Kavya Mala Part V

Pandit Durgaprasad

PDF Proofread

Front matter

KAVYAMALA.
A collection of old and rare Sanskrit Kavyas,
Natakas, Champus, Bhanas, Prahasanas,
Chhandas, Alankaras &c.,
PART V.
EDITED BY
PANDIT DURGAPRASAD
AND
KÂSÎNÀTH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
THE PROPRIETOR
THE “NIRNAYA-SÅGARA” PRESS
BOMBAY
1888,
Price 1 Rupee.

Registered according to act XIV of 1867.) ( All rights reserved by the publisher. ) ॥ श्रीः॥ काव्यमाला नानाविधमाचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। पञ्चमो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितत्रजलालसूनुना पण्डित. दुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः । RAPHIER MOM मुम्बयां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः । MANNDIAN (अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः।) मूल्यमेको रूप्यकः।

अनुक्रमणिका।
पृष्ठम् ।
१
..
28.
.02.
..
१. मूककविकता पञ्चशती
२. क्षेमेन्द्रकृतश्चतुर्वर्गसंग्रहः
३. वीरेश्वरकतमन्योक्तिशतकम्
४. शिवरामत्रिपाठिप्रणीता नक्षत्रमाला (सटीका) १०५
५. नीलकण्ठदीक्षितविरचितं कलिविडम्बनम्.... ११५
१. सोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी (सटीका) १२४
७. नारायणभट्टपादविरचितं कोटिविरहम
८. राजानकरुय्यकप्रणीता सहृदयलीला.
१५७
2000
RSERY

काव्यमाला। महाकविश्रीसूककृता पञ्चशती। कटाक्षशतकम्। मोहान्धकारनिवहं विनिहन्तुमीडे मूकात्मनामपि महाकवितावदान्यान् । श्रीकाञ्चिदेशशिशिरीरुतिजागरूका- नेकामनाथतरुणीकरुणावलोकान् ॥ १ ॥ भातर्जयन्ति ममताग्रहमोक्षणानि माहेन्द्रनीलरुचिशिक्षणदक्षिणानि । १. अयं द्रविडदेशोद्भवः कविः कदा बभूवेति न निश्चयः, किं तु नायमतिप्राचीन इति भाति. कानीपुराधिष्ठात्र्याः कामाक्ष्याः स्तुतिरूपेयं पञ्चशती बिरलप्रचारैवास्ति, जीवानन्दभट्टाचार्येणेयं कलिकातानगरे मुद्रयितुमुपक्रान्ता. परं तेन च कथमप्यशुद्धं शतकचतुष्टयं मुद्रयित्वा पञ्चमं शतकमलभमानेन संख्यापूरणाय तत्र महिषशतकं मुद्रि- तमू. अन्येन तु केनचन नाद्याप्ययं ग्रन्थः प्राकाश्यं नीत इत्यस्माकं मुद्रणारम्भः. पुस्त- कचतुष्टयाधारेण चास्माकं पुस्तकशोधनोपक्रमः. तत्र प्रथम पञ्जावदेशान्तर्वतिन्यमृतसरो- नाम्नि नगरे वर्तमानानां काश्मीराभिजनानां श्रीरामचन्द्रपण्डितानां प्रत्नपुस्तकात्प्रति- रूपकं गृहीतं नातिशुद्धं क-चिह्नितम्. द्वितीयं जयपुरमहाराजाश्रितानां पण्डितश्री- सरयूप्रसादशर्मणां पुस्तकं प्रायः शुद्धं नवीनं ख-चिह्नितम्. तृतीयं केरलीयसदाशिवशं- करशास्त्रिणां कश्मीरलिखितं नवीनं शुद्धं ग-चिह्नितम्. चतुर्थे जयपुरीयजैनपाठशालाध्याप- कद्रविडकाशिनाथशास्त्रिणां प्राचीनमिवोपलक्ष्यमाणं नातिशुद्धं घ-चिहितम्.अस्मिन्पुस्त- कचतुष्कऽप्यशुद्धतामपहाय भूयान्पाठभेदो नास्ति. केवलं शतकोपन्यासभेदो वर्तते. तत्र क-ख-पुस्तकयोः (१) मन्दस्मितशतकम् , (२) पादारविन्दशतकम्, (३) आयशतकम्, (४) कटाक्षशतकम्, (५) स्तुतिशतकम्, अयं क्रमोऽस्ति. ग-पुस्तके (१) पादारविन्द०. (२) आर्या, (३) कटाक्ष, (४) मन्दस्मित०, (५) स्तुति०, अयं क्रमः, घ-पुस्तके (१) कटाक्ष०, (२) मन्दस्मित०, (३) पादारविन्द०, (४) आर्या, (५) स्तुति , अ- यमस्मदनुस्मृतः क्रमोऽस्ति. २. एकामनाथः काञ्चीपुराधिष्ठाता महेश्वरः, काव्यमाला। मुहुरेर्जुनस्य कामाक्षि कल्पितजगत्रयरक्षणानि त्वद्वीक्षणानि वरदानविचक्षणानि ॥ २ ॥ आनङ्गतम्रविधिदर्शितकौशलाना- मानन्दमन्दपरिघूर्णनमन्थराणाम् । तारल्यमम्ब तव ताडितकर्णसीनां कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३ ॥ कल्लोलितेन करुणारसवेल्लितेन कल्माषितेन कमनीयमृदुस्मितेन । मामञ्चितेन तव किंचन कुञ्चितेन कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४ ॥ साहाय्यकं गतवती मन्दस्मितेन परितोषितभीमचेताः । कामाक्षि पाण्डवचमूरिख तावकीना कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥ अस्तं क्षणान्नयतु मे परितापसूर्य- मानन्दचन्द्रमसमानयतां प्रकाशम् । कालान्धकारसुषमां कलयन्दिगन्ते कामाक्षि कोमलकटाक्षनिशागमस्ते ॥ ६ ॥ ताटङ्गमौक्तिकरुगङ्करदन्तकान्तिः कारुण्यहस्तिपशिखामणिनाधिरूढः । उन्मूलयत्वशुभपादपमस्मदीयं कामाक्षि तावककटाक्षमतङ्गजेन्द्रः ॥ ७ ॥ छायाभरेण जगतां परितापहारी ताटङ्करत्नमणिपल्लवतल्लजश्रीः । १. परिपूर्णित' इति क-ख-पुस्तकपाठः. २. अर्जुनस्य शौक्लयस्य मध्यमपाण्डवस्य च. ३. भीमः शिवो भीमसेनश्व. ४. कर्णान्तिक श्रवणसमोपं राधेयाभ्यर्ण च. 'कलयेत्' इति ग-पाठः. ६. कारुण्यमेव हस्तिपकश्रेष्ठस्तेनाधिरूढः NARAYArtime ve कारुण्यनाम विकिरन्मकरन्दजाल कामाक्षि राजति कटाक्षमुरद्रुमस्ते ।। ८ !! सूर्याश्रयप्रणयिनी मणिकुण्डलांशु- लौहित्यकोकनदकाननमाननीया । यान्ती तव स्मरहराननकान्तिसिन्धु कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९ ॥ प्राप्नोति यं सुकृतिनं तव पक्षपाता- कामाक्षि वीक्षणविलासकलापुरधी । सद्यस्तमेव किल मुक्तिवधूवणीते तस्मानितान्तमनयोरिदमकमत्वम् ॥ १० ॥ यान्ती सदैव मैरुतामनुकूलभावं भ्रूवल्लिशक्रवनुरुल्लसिता रसानी । कामाक्षि कौतुकतरङ्गितनीलेकण्टा कादम्बिनीव सब भाति कटाक्षमाला ॥ ११ ॥ गङ्गाम्भसि स्मितमये तपनात्मजेब गंगाधरोरसि नबोल्पलमालिकेव । वक्रप्रभासरसि शैवलमण्डलीव कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥ संस्कारतः किमपि कन्दलितान्सज्ञ- केदारसीम्नि सुधिया,पभोगभान्यान् । कल्याणसूक्तिलहरीकलमाङ्कुरान्नः कामाक्षि कन्दलयतु वदपाङ्गमेघः ॥ १३ ॥ चाचल्यमेव नियतं कलयन्प्रकृत्या मालिन्यभूः श्रुतिपथाक्रमजागरूकः । ३. नीलकण्ठः १. सूरि-आश्रय-; सूर्य-आश्रयः २. मरुतां वायूनां देवानां च. शिवो मयूरश्च. ४. 'उपभोगयोग्धान्' इति ग-पाठः, काव्यमाला कैवल्यमेव किमु कल्पयते नतानां कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥ १४ ॥ संजीवने जननि चूतशिलीमुखस्य संमोहने शशिकिशोरकशेखरस्य । संस्तम्भने च ममताग्रहचेष्टितस्य कामाक्षि वीक्षणकला परमौषधं ते ॥ १५ ॥ नीलोऽपि रागमधिकं जनयन्पुरारे- लालोऽपि भक्तिमधिकां द्रढयन्नराणाम् । वक्रोऽपि देवि नमतां समतां वितन्व- कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥ कामद्रुहो हृदययन्त्रणजागरूका कामाक्षि चञ्चलदगञ्चलमेखला ते । आश्चर्यमम्ब भजतां झटिति स्वकीय- संपर्क एव विधुनोति समस्तबन्धान् ॥ १७ ॥ कुण्ठीकरोतु विपदं मम कुञ्चित~- चापाञ्चितः श्रितविदेहभवानुरागः । रक्षोपकारमनिशं जनयञ्जगत्यां कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥ श्रीकामकोटि शिवलोचनशोषितस्य शृङ्गारबीजविभवस्य पुनः प्ररोहे । प्रेमाम्भसाईमचिरात्प्रचुरेण शङ्के केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥ माहात्म्यशेवधिरसौ तव दुर्विलङ्घच- संसारविन्ध्यगिरिकुण्ठनकलिचुचुः । विदेहमवा सीता. ३. रक्षारूपमुपकारम्; १. "चिनमयते' इति ग-पाठः, (पक्षे) रक्षसामपकारम्, पञ्चशती। धैर्याम्बुधि पशुपतेश्रुलकीकरोति कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ।। २. !! पीयूषवर्षशिशिरा स्फुरदुल्लमच्छी- मैत्री निसर्गमधुरा कृततारकाप्तिः । कामाक्षि संश्रितवती वपुरष्टमूर्त- ज्योत्स्नायते भगवति वदपाङ्गमाला ।। २१ ।। अम्ब स्मरप्रतिभटस्य वपुर्भनोज्ञ- मम्भोजकाननमिवाञ्चितकण्टकाभम् । भृङ्गीव चुम्बति सदैव सपक्षपाता कामाक्षि कोमलरुचिस्वदपाङ्गमाला ॥ २२ ॥ केशप्रभापटलनीलवितानजाले कामाक्षि कुण्डलमणिच्छविदीपशोभे । कने कटाक्षरुचिरङ्गतले कृपाख्या शैलूषकी नटति शंकरवल्लभे ते ॥ २३ ॥ अत्यन्तशीतलमतन्द्रयतु क्षणार्ध- मस्तोकविभ्रममनङ्गविलासकन्दम् । अल्पस्मिताहतमपारकपाप्रवाह- मक्षिभरोहमचिरान्मयि कामकोटि ॥ २४ ॥ मन्दाक्षरागतरलीकृतिपारतच्या- स्कामाक्षि मन्थरतरां त्वदपाङ्गदोलाम् । आसा मेन्दमतिकौतुकशालि चक्षु- रानन्दमति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥ त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि- रङ्गं विहारसरसी करुणाप्रवाहः । १. अगस्त्यः २. शिवस्य. ३. नटी. ४. 'तरलीकृत' इति ग-पाठः. ५. मन्दामिति क्रियाविशेषणम्. ६. त्रयम्बकम हयभूमिरित्यन्वयः. ७. 'करुणाकटाक्ष इति ध-पाठः, काव्यमाला। दासाश्च वासवमुखाः परिपालनीयं कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥ वागीश्वरी सहचरी नियमेन लक्ष्मी- भ्रूवल्लरीवशकरी भुवनानि गेहम् । रूपं त्रिलोकनयनामृतमम्ब तेषां कामाक्षि येषु तव वीक्षणपारतन्त्री ॥ २७ ॥ माहेश्वरं झटिति मानसमीनमम्ब कामाक्षि धैर्यजलधौ नितरां निमग्नम् । जालेन शृङ्खलयति त्वदपाङ्गनाम्ना विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८ ॥ उन्मथ्य बोधकमलाकरमम्ब जाज्य- स्तम्बेरमं मम मनोविपिने भ्रमन्तम् । कुण्ठीकुरुष्व तरसा कुटिलाग्रसीना कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥ उद्वेलितस्तबकितैललितैर्विलासै- रुत्थाय देवि तव गाढकटाक्षकुञ्जात् । दूरं पलाययतु मोहमृगीकुलं मे कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥ स्नेहाढतां विदलितोत्पलकान्तिचोरां जेतारमेव जगदीश्वरि जेतुकामः । मानोहतो मकरकेतुरसौ धुनीते कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥ श्रौती ब्रजन्नपि सदा सरणिं मुनीनां कामाक्षि संततमपि स्मृतिमार्गगामी । कौटिल्यमम्ब कथमस्थिरतां च धत्ते चौर्य च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥ १. शिवमेव.

पञ्चशती। नित्यं श्रुतेः परिचितौ यतमानमेव नीलोत्पलं निजसमीपनिवासलोलम् । प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः कामाक्षि किं नु तव कालिमसंप्रदायम् ॥ ३३ ॥ भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशी कामाक्षि वक्ररुचिसंचयवारिराशौ । आनन्दति त्रिपुरमर्दननेत्रलक्ष्मी- रालम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥ श्यामा तव त्रिपुरसुन्दरि लोचन श्रीः कामाक्षि कन्दलितमेदुरतारकान्तिः । ज्योत्स्लावती स्मितरुचापि कथं तनोति स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥ कालाञ्जनं च तव देवि निरीक्षणं च कामाक्षि साम्यसरणिं समुपैति कान्त्या । निःशेषनेत्रसुलभं जगतीषु पूर्व- मन्यत्रिनेत्रसुलभ तुहिनाद्रिकन्ये ॥ ३६ ॥ धूमाङ्कुरो मकरकेतनपावकस्य कामाक्षि नेत्ररुचिनीलिमचातुरी ते । अत्यन्तमद्भुतमिदं नयनत्रयस्य हर्षोदयं जनयते हरिणाङ्कमौलेः ॥ ३७ ।। आरम्भलेशसमये तव वीक्षणस्य कामाक्षि मूकमपि वीक्षणमात्रनम्रम् । सर्वज्ञता सकललोकसमक्षमेव कीर्तिस्वयंवरणमाल्यवती रणीते ॥ ३८ ॥ १. गुरुः. २. 'तु' इति घ-पाठः, ३. श्यामवर्णा, रात्रिश्च. ४. कीतिरेव स्वयं- वरणमाल्यं तद्वती सर्वज्ञता.

काव्यमाला। कालाम्बुवाह इव ते परितापहारी कामाक्षि पुष्करमधः कुरुते कटाक्षः । पूर्वः परं क्षेणरुचा समुपैति मैत्री- मन्यस्तु संततरुचिं प्रकटीकरोति ॥ ३९ ॥ सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद- साहाय्यकेन विचरन्नपवर्गमार्गे । संसारपङ्कनिचये न पतत्यमुं ते कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४० ॥ कामाक्षि संततमसौ हरिनीलरत्न- स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः । बद्धोऽपि भक्तिनिगडैर्मम चित्तहस्ती स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ।। ४१ ॥ कामाक्षि कार्ण्यमपि संततमञ्जनं च बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः । वैमल्यमन्वहमनञ्जनतां च भूयः स्थैर्य च भक्तहृदयाय कथं ददाति ॥ ४२ ॥ मन्दस्मितस्तबकितं मणिकुण्डलांशु- स्तोमप्रवालरुचिरं शिशिरीकृताशम् । कामाक्षि राजति कटाक्षरुचेः कदम्ब- मुद्यानमम्ब करुणाहरिणेक्षणायाः ॥ ४३ ॥ कामाक्षि तावककटाक्षमहेन्द्रनील- सिंहासनं श्रितवतो मकरध्वजस्य । साम्राज्यमङ्गलविधौ मणिकुण्डलश्री- नीराजनोत्सवतरङ्गितदीपमाला ॥ १४ ॥ १. कमलं तिरस्करोति, मेघश्च पुष्करं जलमधः पातयति. २. विद्युता; (प: क्षणमात्रस्थायिन्या कान्त्या.

मागंण मञ्जुकचकान्तितमोवृतेन पश्वशती। मातः क्षणं मपय मां तव बीक्षितेन मन्दाक्षितेन सुजनैरपरोक्षितेन । कामाक्षि कर्मतिमिरोत्करभास्करण श्रेयस्करण मधुपातितस्करेण ॥ ४५ ॥ प्रेमापगापयसि मज्जनमारचय्य युक्तः स्मितांशुकृतभस्मविलेपनेन । कामाक्षि कुण्डलमणिद्युतिभिर्जटाल: श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६ ॥ कैवल्यदाय करुणारसकिकराय कामाक्षि कन्दलितविभ्रमशंकराय । आलोकनाय तव भक्तशिवंकराय मातर्नमोऽस्तु परतन्त्रितशंकराय 11 १७ ॥ साम्राज्यमङ्गलविधौ मकरध्वजस्य लोलालकालिकृततोरणमाल्यशोभे । कामेश्वरि प्रचलनुत्पलवैजयन्ती- चातुर्यभेति तव चञ्चलदृष्टिपातः ॥ ४८ ॥ मन्दायमानगमना मदनातुरासौ । कामाक्षि दृष्टिरयते तव शंकराय संकेतभूमिमचिरादभिसारिकेव ॥ ४९ ॥ ब्रीडानुवृत्तिरमणीकृतिसाहचर्या शैवालितां गलरुचा शशिशेखरस्य । कामाक्षि कान्तिसरसी त्वदपाङ्गलक्ष्मी- मन्दं समाश्रयति मजनखेलनाय ॥ १० ॥ से) १. 'मन्देक्षितेन' इति ग-पाठः. २. 'प्रचुरमुत्पल' इति ग-पाठः, ३. 'तमोद्यतेन' इति पुस्तकेषु पाठः.

काव्यमाला। कापायमंशुकमिव प्रकटं दधानो माणिक्यकुण्डलरुचि ममताविरोधी। श्रुत्यन्तसीमनि रतः सुतरां चकास्ति कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ११ ॥ पाषाण एव हरिनीलमणिर्दिनेषु प्रम्लानतां कुवलयं प्रकटीकरोति । नैमित्तिको जलदमेचकिमा ततस्ते कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्याः ॥ ५२ ॥ शृङ्गारविभ्रमवती सुतरां सलज्जा नासाग्रमौक्तिकरुचा कृतमन्दहासा । श्यामा कटाक्षसुषमा तव युक्तमेत- कामाक्षि चुम्बति दिगम्बरवक्रबिम्बम् ।। ५३ ॥ नीलोत्पलेन मधुपेन च दृष्टिपातः कामाक्षि तुल्य इति ते कथमामनन्ति शैत्येन निन्दति यदन्वहमिन्दुपादा- पाथोरुहेण यदसौ कलहायते च ॥ १४ ॥ ओष्ठप्रभापटलविद्रुममुद्रिते ते भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ । कामाक्षि वारिभरपूरणलम्बमान- कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५ ॥ मन्दस्मितैर्धवलिता मणिकुण्डलांशु- संपर्कलोहितरुचिस्त्वदपाङ्गधारा । कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च नीलोत्पलैश्च रचितेव विभाति माला ॥ ६६ ।। कामाक्षि शीतलकृपारसनिझराम्भ:- संपर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला ।

पञ्चशती। . गोभिः सदा पुररिपोरोभिलप्यमाणा दूर्वाकदम्बकविडम्बनमातनोति ।। ५७ ।। हृत्पङ्कजं मम विकासयतु अमुष्ण- त्रुल्लासमुत्पलरुचेस्तमसा निरोन्हा ! दोषानुषङ्गजडतां जगतां धुनानः कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ १८ ॥ चाधिमोहयति चन्द्रविभूषणस्य कामाक्षि तावककटाक्षतमःप्ररोहः । प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां प्राकाश्यमेव नयतीति परं विचित्रम् ॥ १९ ॥ कामाक्षि वीक्षणरुचा युधि निर्जितं ते नीलोत्पलं निरवशेषगताभिमानम् । आगत्य तत्परिसरं श्रवणावतंस- व्याजेन नूनमभयार्थनमातनोति ॥ ६० ॥ आश्चर्यमम्ब वदनाभ्युदयावलम्बी कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते। धैर्य विधूय तनुते हृदि रागबन्धं शंभोस्तदेव विपरीततया मुनीनाम् ॥ ६१ ॥ जन्तोः सकृत्प्रणमतो जगदीज्यतां च तेजस्वितां च निशितां च मतिं सभायाम् । कामाक्षि माक्षिकझरीमिव वैखरी च लक्ष्मी च पक्ष्मलयति क्षणवीक्षणं ते ॥ १२ ॥ कादम्बिनी किमयते न जलानुषङ्गं भृङ्गावली किमुररीकुरुते न पद्मम् । १. 'दृष्टिमिः; (पक्षे) धेनुभिः. २. अभिलक्ष्यमाणा' इति क-ख-ग-पाठः. ३. 'अभ- यार्थित' इति घ-पाठः, ४. जगत्पूज्यताम्. ५. मधुधारामिव वाणीम्.

१२ काव्यमाला। किं वा कलिन्दतनया सहते न गङ्गा कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३ ॥ काकोलपावकतृणीकरणेऽपि देक्षः कामाक्षि बालकसुधाकरशेखरस्य । अत्यन्तशीतलतमोऽप्यनुपारतं ते चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥ कार्पण्यपूररसवर्धितमम्ब मोह- कन्दोद्गतं भवमयं विषपादपं मे तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५ ॥ कामाक्षि घोरभवरोगचिकित्सनार्थ- मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् । तत्रापि देवि लभते सुकृती कदाचि- दत्यन्तदुर्लभमपाङ्गमहौषधं ते ॥ ६६ ॥ कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो नानातपोनियमनाशितपाशबन्धाः । वासालयं तव कटाक्षममुं महान्तो लब्ध्वा सुखं समधियो विचरन्ति लोके ।। ६७ ॥ साकृतसञ्छपितगर्मितमुग्धहासं व्रीडानुरागसहचारिविलोकनं ते । कामाक्षि कामपरिपन्थिनि मारवीर- साम्राज्यविभ्रमदशां सफलीकरोति ॥ ६८ ॥ कामाक्षि विभ्रमवलैकनिधिविधाय भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् स्वाधीनतां तव निनाय शशाङ्कमौले- रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ १९ ॥ १. विषाग्निनिवारणे. २. 'दक्षं' इति पुस्तकेषु पाठः, ३. शिवस्य.

पञ्चशती। १३ कामाकुरैकनिलयस्तव दृष्टिपातः कामाक्षि भक्तमनसां प्रददाति कामान् । रोगान्वितः स्वयमपि प्रकटीकरोति वैराग्यमेव कथमेघ महामुनीनाम् ॥ ७० ॥ कालाम्बुवाहनिवहः कलहायते ते कामाक्षि कालिममदेन सदा कटाक्षः । चित्रं तथापि नितराममुमेव दृष्ट्वा सोत्कण्ठ एव रमते किल नीलकण्ठः ॥ ७१ ।। कामाक्षि मन्मथरिपुं प्रति मारताप- मोहान्धकारजलदागमनेन नृत्यन् । दुष्कर्मकशुकिकुलं कवलीकरोतु व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ।। ७२ ॥ कामाक्षि मन्मथरिपोरवलोकनेषु कान्तं पयोजमिव तावकमक्षिपातम् प्रेमागमो दिवसवद्विकचीकरोति लज्जाभरो रजनिवन्मुकुलीकरोति ॥ ७३ ।। मूको विरिश्चति परं पुरुषः कुरूपः कंदर्पति त्रिदशराजति किंपचानः । कामाक्षि केवलमुपक्रमकाल एव लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ॥ नीलालका मधुकरन्ति मनोज्ञनासा- मुक्तारुचः प्रकटरूढबिसाङ्कुरन्ति । कारुण्यमम्ब मकरन्दति कामकोटि मन्ये ततः कमलमेव विलोकनं ते ॥ ७५ ॥ HYMEN AIPeck Hin SHAHIYA ' १. प्रददातु इति ग-पाठः, २. 'मागान्वितः' इति घ-पाठः. ३. 'विलोचनं' इति कना-घ-पाठः, १४ काव्यमाला। आकाङ्क्षचमाणफलदानविचक्षणायाः कामाक्षि तावककटाक्षककामधेनोः । संपर्क एव कथमम्ब विमुक्तपाश- बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥ संसारधर्मपरितापजुषां नराणां कामाक्षि शीतलतराणि तवेक्षितानि । चन्द्रातपन्ति धनचन्दनकर्दमन्ति मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥ प्रेमाम्बुराशिसततस्त्रपितानि चित्रं कामाक्षि तावककटाक्षनिरीक्षणानि । संधुक्षयन्ति मुहुरिन्धनराशिरीत्या मारद्रुहो मनसि मन्मथचित्रभानुम् ॥ ७८ ॥ कालाजनप्रतिभट कमनीयकान्त्या कंदर्पतन्त्रकलया कलितानुभावम् । काञ्चीविहाररसिके कलुषार्तिचोरं कल्लोलयख मयि ते करुणाकटाक्षम् ॥ ७९ ॥ क्रान्तेन मन्मथमदेन विमोह्यमान- स्वान्तेन चूततरुमूलगतस्य पुंसः ! कान्तेन किंचिदवलोकय लोचनस्य प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥ कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे कण्ठेन कन्दलितकालिमसंप्रदायाः । उत्तंसकल्पिवचकोरकुटम्बपोषा नक्तंदिवप्रसवभूनयना भैवन्ति ॥ ८१ ॥ नीलोत्पलप्रसवकान्तिनिदर्शनेन कारुण्यविभ्रमजुषा तव वीक्षणेन । १. कामानिम्. २. एकाम्रनाथस्य. ३. सूर्यचन्द्रनेत्राः. ४. शिवलं यान्तीत्यर्थः, पञ्चशती। कामाक्षि कर्मजलधेः कलशीसुतेन पाशत्रयाद्वयममी परिमोचनीयाः ॥ २ ॥ अत्यन्तचञ्चलमकृत्रिममजनं किं झंकारभङ्गिरहिता किमु भृङ्गमाला । धूमाङ्कुरः किमु हुताशनसङ्गहीनः कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ॥ कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति- बीजाय विभ्रममदोदयपूर्णिताय । कंदर्पदर्पपुनरुद्भवसिद्धिदाय कल्याणदाय तव देवि दृगञ्चलाय ॥८४ || दपीकरो मकरकेतनविभ्रमाणां निन्दाङ्कुरो विदलितोत्पलचातुरीणाम् । दीपाङ्कुरो भवतमिस्त्रकदम्बकानां कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ५ ॥ कैवल्यदिव्यमणिरोहणपर्वतेभ्यः कारुण्यनिझरपयाकृतमजनेभ्यः । कामाक्षि किंकरितशंकरमानसेम्य- स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ।। ८६ ॥ अल्पीय एव नवमुत्पलमम्बहीना मीनस्य सा सरणिरम्बुरुहां च किं वा । दूरे मृगी तदसमञ्जसमञ्जनं च कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७ ॥ मिश्रीभवद्गरलपङ्किलशांकरोर:- सीमाङ्गणे किमपि रिङणमादधानः । हेलावधूतललितश्रवणोत्पलोऽसौ कामाक्षि बाल इव राजति ते कटाक्षः ||८|| १. अगस्त्येन.

बाणेन पुष्पधनुषः परिकल्प्यमान- काव्यमाला। प्रौढीकरोति विदुषां नवसूक्तिधाटी- चूताटवीषु बुधकोकिललाल्यमानम् । माध्वीरसं परिमलं च निरर्गलं ते कामाक्षि वक्षिणविलासवसन्तलक्ष्मीः ॥ ८९ ॥ कूलंकषं वितनुते करुणाम्बुवर्षी सारस्वतं सुकृतिनः सुलभं प्रवाहम् । तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गी कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ ९० ॥ जागर्ति देवि करुणा शुकसुन्दरी ते ताटङ्करनरुचिदाडिमखण्डशोणे । कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज- माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ॥ कामाक्षि सत्कुवलयस्य सगोत्रभावा- दाक्रामति श्रुतिमसौ तव दृष्टिपातः । किं च स्फुटं कुटिलतां प्रकटीकरोति भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥ १२ ॥ एषा तवाक्षिसुषमा विषमायुधस्य नाराचवर्षलहरी नगराजकन्ये । शङ्के करोति शतधा हदि धैर्यमुद्रां श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥ ९३ ॥ त्राणेन भक्तमनसां करुणाकरेण । कोणेन कोमलहशस्तव कामकोटि शोणेन शोषय शिवे मम शोकसिन्धुम् ॥ ९४ ॥ मारगुहो मुकुटसीमनि लाल्यमाने मन्दाकिनीपयसि ते कुटिलं चरिष्णुः । १. शुकी. WIN पञ्चशती। १७ कामाक्षि कोपरभसाहलमानमीन- संदेहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥ कामाक्षि संवलितमौक्तिककुण्डलांशु- चञ्चत्सितश्रवणचामरचातुरीकः । स्तम्भे निरन्तरमपाङ्गमये भवत्या बहश्चकास्ति मकरध्वजमत्तहस्ती ।। ९६ ॥ यावत्कटाक्षरजनीसमयागमस्ते कामाक्षि तावदचिरान्नमतां नराणाम् । आविर्भवत्यमृतदीधितिविम्बमम्व- संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥ ९७ ॥ कामाक्षि कल्पविटपीव भवत्कटाक्षो दित्सुः समस्तविभवं नमतां नराणाम् । भृङ्गस्य नीलनलिनस्य च कान्तिसंप- सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८ ॥ अज्ञातभक्तिरसमप्रसरद्विवेक- मत्यन्तगर्वमनधीतसमस्तशास्त्रम् । अप्राप्तसत्वमसमीपगतं च मुक्तेः कामाक्षि नैव तव काङ्गति दृष्टिपातः ॥ ९९ ॥ अत्यन्तशीतलमनगलकर्मपाक- काकोलहारि सुलभं सुमनोभिरेतत् । पीयूषमेव तव वीक्षणमम्ब किंतु कामाक्षि नीलमिदमित्ययमेव भेदः ॥ १० ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां कटाक्षशतकं प्रथमम् । मन्दस्मितशतकम्। बधीमो वयमञ्जलि प्रतिदिनं बन्धच्छिदे देहिनां कंदर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे । १. "स्मित' इति क-ख-ग-पाठः, २. 'अप्राप्यसत्य इति क-ख-पा-पाठः, ३ काव्यमाला। कामाक्ष्या धनसारपुञ्जरजसे कामद्रुहश्चक्षुपां मन्दारस्तवकप्रभामदजुषे मन्दस्मितज्योतिषे ॥ १ ॥ संधीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे- राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विषे । स्वर्धन्या सहयुध्वने हिमरुचेरीसनाध्यासिने कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥ कर्पूरवातिचातुरीमतितरामल्पीयसी कुर्वती दौर्भाग्योदयमेव संविधती दोषाकरीणां त्विषाम् । क्षुल्लानेव मनोजमल्लिनिकरान्फुल्लानपि व्यञ्जती कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥ ३ ॥ या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते या नीलेक्षणरात्रिकान्तिततिधु ज्योत्स्नाप्ररोहायते । या सौन्दर्यधुनीतरङ्गततिषु व्यालोलहंसायते कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥ ४ ॥ येषां गच्छति पूर्वपक्षसरणि कौमुंहतः श्वेतिमा मेषां संततमारुरुक्षति तुलाकक्षा शरच्चन्द्रमाः । येषामिच्छति कम्बुरप्यसुलभामन्तेवसत्प्रक्रियां कामाक्ष्या ममतां हरन्तु मम ते हासत्विषामङ्कुराः ॥५॥ आशासीमसु संततं विदधती नैशाकरी व्याक्रियां काशानामभिमानभङ्गकलनाकौशल्यमाबिनती। ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष- लेशापायकरी चकास्ति लहरी मन्दस्मितज्योतिषाम् ॥ ६ ॥ आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं कंदर्पस्य विभोर्जगत्रयजयमाकन्यमुद्रानिधेः । १. सनीचे', 'आचायाय', इत्यादिपदानि तुल्यता लक्षयन्ति. २. 'कौमुद्वतश्वेतिमा' इति ख-ग-पाठः.

पञ्चशती। यस्याश्चामरचातुरी कलयते राभिच्छाचाला सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते ॥ ७ ॥ शंभोयर्या परिरम्भसंभ्रमविधा नमल्यसीमानिधि गीणीब तरङ्गिणी तमनुस्मन्दा कलिन्दात्मजाम् । कल्माषीकुरुते कलसुषमा कण्ठस्थलीचम्विनी कामाक्ष्याः स्मितकन्दली भवतु सा कल्याणसंन्दोहिनी ॥ ८ ॥ जेतुं हारलतामिक स्तनतटीं संजापी संततं गन्तुं निर्मलतामिव द्विगुणितां समा रूपात्रोतलि । वक्तुं विस्मयनीयतामिव हरं राणाकुलं कुर्वती मञ्जस्ते स्मितमञ्जरी भवभयं मथ्नातु कामाक्षि में ॥९॥ श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा । खाभाव्यादधराश्रितापि नमतामुदिशन्ती गति कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्सन्दुहासभा ॥ १० ॥ वनश्रीसरसीजले तरलितभ्रूवल्लिकचोलिले कालिम्ना दधती कटाक्षजनुषा माधुव्रती व्याप्टतिम् । निनिद्रामलपुण्डरीककुँहनापाण्डित्यमाबिभ्रती कामाक्ष्याः स्मितचातुरी मम मनःकातर्यमुन्मूलयेत् ॥ ११ ॥ नित्यं बाधितन्धुजीवमधरं मैत्रीजुएं पल्लवैः शुद्धस्य द्विमण्डलस्य च तिरस्कारमप्याश्रिता । या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां कामाक्ष्या हृदयं प्रसादयतु मे सा मन्दहासमभा ।। १२ ।। द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाथ्यमाविनती यान्ती चन्द्रकिशोरशेखरवपुःसौधाङ्गणे प्रेक्षणम् । १. 'मे' इति ग-पाठः. २ गाव. ३. कुहना दम्भच्या... ४. बन्धनों जीवः; (पक्षे) बन्धुजीवो बन्धूकापरपर्यायो रक्तपुष्पविशेषः, ५. विटेः; (पक्षे) किसलयः, ६. ब्राह्म- णसमूहस्य; (पक्षे) दन्तपढ़ेः काव्यमाला ज्ञानाम्भोनिधिवीचिका सुमनसां कूलंकषां कुर्वती कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥ १३ ॥ काश्मीरद्वधातुकर्दमरुचा कल्माषतां विभ्रती हसौंधैरिव कुर्वती परिचितिं हारीकृतैर्मोक्तिकैः । वक्षोजन्मतुपारशैलकटके संचारमातन्वती कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥ १४ ॥ कम्बोवंशपरम्परा इव कृपासंतानवल्लीभुवः संफुल्लस्तवका इव प्रसृमरा मूर्ताः प्रसादा इव । वाक्पीयूषकणा इव त्रिपथगा पर्यायभेदा इव भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५ ॥ वक्षोजे घनसारपत्ररचनाभङ्गीसपत्नायिता कणे बन्धुरदन्तपत्रकुहना व्यापारमुद्रायिता । ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्कप्रसूनाथिता कामाक्षि स्फुरतां मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६ ॥ येषां बिन्दुरिवोपरिप्रचलितो नासाग्रमुक्तामणि- येषां दीन इवाधिकण्ठमयते हारः करालम्बनम् । येषां बन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं कामाक्ष्याः प्रभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥ १७ या जाड्याम्बुनिधि क्षिणोति भजतां वैरायते कैरवै- नित्यं या नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम् । बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी कामाक्षि स्मितमञ्जरी तव कथं ज्योत्ोत्यसौ कीर्त्यते ॥ १८ आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम् । ओष्ठं वेपयति ध्रुवौ कुटिलयत्यानम्रयत्याननं वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥ १. 'धामकर्दम' इति ग-पाठः, पवशती। वक्रेन्दोस्तव चन्द्रिका स्मितरुचिर्वल्गु स्फरन्ती सतां स्याच्चेधुक्तमिदं चकोरमनसां कामाक्षि कौतूहलम् । एतचित्रमहर्निशं यदधिकामेकां सदा गाहते बिम्बोष्टद्युमणिप्रभातपि च यद्विव्योकमालम्बते ॥ २० ॥ साहाय्यं कलशाम्बुधवहति ते कामाक्षि मन्दस्मितं शोभामोष्ठरुचा च विट्ठमभवामेतदिदां ब्रूमहे । एतस्मादुदिता पुरा किल पपी शर्वः पुराणः पुमा- नेतन्मध्यसमुद्भवां रसयते माधुर्यरूपां सुधाम् ॥ २१ ॥ उतुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तृरिका- पत्रश्रीजुपि चञ्चला स्मितरुचः कामाक्षि ते कोमलाः । संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिया व्यालोलामलशारदानशकलव्यापारमातन्वते ॥ २२ ॥ क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः । कि चेयं तु भिदास्ति दोहनवशादेतत्तु संजायते कामाक्षि स्वयमर्थितं प्रणमतामेतत्तु दोदुह्यते ॥ २३ ॥ कपूरैरमृतांशुभिर्जननि ते कान्तैश्च चन्द्रातये- मुक्ताहारगुणैर्मृणालवलमुग्धस्मितश्रीरियम् । श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनै- स्तत्तादृङ् मम तापशान्तिविधये कि देवि मन्दायते ॥ २४ ॥ मध्ये गर्भितम वाक्यलहरीमाध्वीझरीशीतला मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा । यस्या वर्धयितुं मुहुर्विकसनं कामाक्ष कामट्ठहो वल्गुक्षिणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५ ॥ बिम्बोष्ठद्युतिपुञ्जरञ्जितरुचिस्त्वन्मन्दहासच्छटा कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे । ॥ ॥

२२ काव्यमाला। फुल्लन्मल्लिपिनडहल्लकमयी मालेव या पेशला श्रीकाञ्चीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २६ ॥ विभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसौ कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम् । आश्चर्य शिशिरीकरोति जगतीमालोक्य चैनामहो कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥ प्रेङ्कप्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं वक्वेन्दुच्छविसिन्धुवीचिनिचये फेनमतानायितम् । नैरन्तर्यविजृम्भितस्तनतटे नैचोलपवायितं कल्माषं कवलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥ पीयूषं तव मन्थरस्मितमिति व्यथैव सापप्रथा कामाक्षि ध्रुवमीदशं यदि भवेदेतत्कथं वा शिवे । मन्दारस्य कथालवं न सहते मथ्नाति मन्दाकिनी- मिन्दु निन्दति कीर्तिते च कलशीपाथोधिमीर्य्यायते ॥ २९॥ विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम् । आः किं जातमनेन हाससुषुमामालोक्य कामाक्षि ते कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३० ॥ चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो नम्राणां नयनाध्वसीमसु चरच्चन्द्रातपोपक्रमाः। संसाराख्यसरोरुहाकरखेलीकारे तुषारोत्कराः कामाक्षि स्मरकीर्तिवीजनिकरास्त्वन्मन्दहासाकुराः ॥ ३१ ॥ कौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमंकरानङ्कुरान् । ये वक्र शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह- द्वेपोरोषणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥ ३२ ॥ १. ईर्षायति' इति ग-पाठ:. २. "खिलीकारे' इति ग-पाठः, पञ्चशती। कुर्युनः कुलशैलराजतनये कूलंकपं मङ्गलं कुन्दस्पर्धनचुचवस्तव शिवे मन्दस्मितप्रक्रमाः । ये कामाक्षि समस्तसाक्षिनयनं संतोषयन्त्यान्तरं कर्पूरप्रकरा इव प्रसुमराः पुंसामसाधारणाः ॥ ३३ ॥ कनेण स्वपयस्व कर्मकुहनाचोरेण मारागम- व्याख्याशिक्षणदीक्षितेन विदुपामक्षीणलक्ष्मीपुषा । कामाक्षि स्मितकन्दलेन कलुपस्फोटक्रियाचुचना कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४ ॥ त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शङ्कामहे बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः । किं च क्षीरपयोनिधिः प्रतिनिधिः स्वाहिनीवीचिका- विनोकोऽपि विडम्ब एवं कुहना मल्लीमतलीरुचः ॥ ३५ ॥ दुष्कर्मार्कनिसर्गकर्कशमहः संपर्कत मिल- त्पङ्घ शंकरवल्लभे मम मनः काञ्चीपुरालंक्रिये। अम्ब त्वन्मृदुलस्मितामृतरसे मङ्क्त्वा विधूय व्यथा- मानन्दोदयसौधशृङ्गपदवीमारोढुमाकाङ्कति ॥ ३६ ॥ नम्राणां नगराजशेखरसुते नाकालयानां पुरः कामाक्षि त्वरया विपत्प्रशमने कारुण्यधाराः किरन् । आगच्छन्तमनुग्रहं प्रकटयन्नानन्दवीजानि ते नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७ ॥ कामाक्षि प्रथमानविभ्रमनिधिः कंदर्पदर्पप्रसू- मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्लिपम् । यं द्रष्टुं विहिते करग्रह उमे शंभुत्रपामीलितः स्मेरं कारयति स्म ताण्डवविनोदानन्दिना तेण्डुना ॥ ३८॥ क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः कर्मग्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः । १. 'लक्ष्मीजुषा' इति ख-पाठः. २. तण्डः शिवल्य कश्चिद्गणः, २४ काव्यमाला। मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मे चक्षुषो मार्ग दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥ ३९॥ ज्योत्स्नाकान्तिभिरेव निर्मलतरं नैशाकर मण्डलं हंसैरेव शरद्विकाससमये व्याकोचमम्भोरुहम् । स्वच्छैरेव विकरचरैरुडुगणैः कामाक्षि बिम्बं दिवः पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥ ४० ॥ मानग्रन्थिविधुतुदेन रभसादाखाधमाने नव- प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् । आलोक्य स्मितचन्द्रिका मुहुरिमामुन्मीलनं जग्मुषी चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ४१ ॥ कामाक्षि स्मितमञ्जरी तव भजे यस्यास्त्विषामकुरा- नापीनस्तनपानलालसतया निःशङ्कमद्देशयः । ऊवं वीक्ष्य विकर्षति असमरानुद्दामया शुण्डया मृनुस्ते विसशक्याशु कुहना दन्तावलग्रामणीः ॥ ४२ ॥ गाढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण- मालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषो वक्षसि । या सख्येन पिनाति प्रचुरया भासा तदीयां दशां सा मे खेलतु कामकोटि हृदये स्वच्छा स्मितांशुच्छटा ॥ ४३ ।। मन्दारे तव मन्थरस्मितरुचो मात्सर्यमालोक्यते कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते । चान्द्रीपु द्युतिमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते शुद्धानां कथमीदशी गिरिसुतेऽशुद्धा दशा कथ्यताम् ॥ ४४ ॥ पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नद्यते । १. 'साधु स्मितांशु' इति ग-पाठः. २. 'दोषाकरो दृश्यते' इति ग-पाठः.

पञ्चशती। २१ . शीतांशुः परिभूयते च तमसा तस्मादियं तादृशी कामाक्षि स्मितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते ॥ ४५ ॥ आशङ्के तव मन्दहासलहरीमन्यादृशी चन्द्रिका- मेकानेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे । वक्षोजाम्बुरुहे न ते रहयतः कांचिद्दशा कौडली- मास्याम्भोरुहमम्ब किं च शनकैरालम्बते फुल्लताम् ॥ ४६ ॥ आस्तीर्णाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी कामद्रोहिणि मांसलस्मरशरज्वालावलि व्यञ्जती । निन्दन्ती धनसारहारवलयज्योत्स्नामृणालानि कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥ ४७ ॥ सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तमः- संदोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी । निर्यान्ती वदनारविन्दकुहरान्निधूतजाड्या नृणां श्रीकामाक्षि तव स्मितातिमयी चित्रीयते चन्द्रिका ॥४८॥ कुण्ठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनी श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमन्दहासाङ्कुराः । ये तन्वन्ति निरन्तरं तरुणिमस्तम्बरमग्रामणी- कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९ ॥ प्रेडन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता मज्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् । श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो नीलाम्भोधरनैपुणी तत इतो निन्द्रियन्त्यञ्जसा ॥ ५० ॥ व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती रुद्राक्षग्रहणं करेण सततं वागूमिकल्लोलिता । १. 'तस्मादनेतादृशी' इति क-ख-पाठः. २. 'वक्षोजाम्बुरुही' इति ग-पाठः. 'दोषाङ्कुर' इति क-पाठः, ४. 'मनोमन्थिनी' इति क-ख-पाठः.

२६ काव्यमाला। उत्फुलं धवलारविन्दमधरीसत्य स्कुरन्ती सदा श्रीकानाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ११ ॥ कपुरद्युतितस्करेण अहसा कल्माषयत्याननं श्रीकाश्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते । आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति प्रौढं रागभरं व्यनक्ति मनसो धैर्य धुनीतेतराम् ॥ ५२ ॥ वैशयेन च विश्वतापहरणक्रीडापटीयस्तया पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने । कामाक्षि स्मितकन्दलैस्तव तुलामारोढुमुद्योगिनी ज्योत्स्नालौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥१३॥ लावण्याम्युजिनीमृणालवलयैः शृङ्गारगहिप- ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यबीजाङ्कुरैः। आनन्दामृतसिन्धुवीचिष्टषतैरास्याब्जहंसैस्तव श्रीकामाक्षि मथान मन्दहसितमत्कं मनःकल्मषम् ॥ १४ ॥ उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा- चञ्चच्छोणिमपुञ्जमध्यसरणि मातः परिष्कुर्वती । या वैदग्ध्यमुपैति शंकरजटाकान्तारवाटीपत- सर्वागीयसः स्मितातिरसौ कामाक्षि ते मञ्जुला ।। ६५ ।। सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै- रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् । प्राथम्येन विकखरा कुसुमक्त्त्रागल्भ्यमभ्येयुषी कामाक्षि स्मितचातुरी तब मम क्षेमंकरी कल्पताम् ॥ १६ ॥ धानुष्काग्रसरस्य लोलकुटिलभूलेखया बिभ्रतो लीलालोकशिलीमुखं नववयःसाम्राज्यलक्ष्मीपुषः । जेतुं मन्मथमर्दिनं जननि ते मन्दस्मितप्रक्रमो वल्गुवित्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ॥ १. पयसा' इति ना-पाठः.

यन्नाकम्पत कालकूटकवलीकारे चुने न बढ़- ग्लान्या चक्षुपि रूपितानलशिखे रुद्रस्य ततादृशम् । चेतो यत्प्रसभं स्मर ज्वरशिखिवालेन लेलिहाते तत्कामाक्षि तव स्मितांशुमणिकाहेलाभ प्राणवम् ॥ १८ ॥ संमिन्नेव सुपर्वलोकतटिनी बोचीचर्यामुनेः संमिशेव शशादीतिलहरी नीलमहानीरदैः । कामाक्षि स्फुरिता तब स्मितरुचिः कालाजनाधिना कालिन्ना कचरोचिषां व्यतिकरे कांचिदशामभुते ।। ५९ ॥ जानीमो जगदीश्वरि प्रणमतां वन्मन्द्रहासनमा श्रीकामाक्षि कुमुद्धतीमभिनवानेपा यतः सर्वदा । आस्येन्दोरवलोकने पशुपतेरम्यति सफलता तन्द्रालुस्तदभाव एव तनुते तद्बपरीत्यनम ॥ १० ॥ यान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दम- न्तिी बालगभस्तिमालिकिरणेघावली शारदी। बिम्बोष्ठद्युतिपुञ्जचुम्बनकला शोणायमानेन ते कामाक्षि स्मितरोचिषा समदशामारोढुमाकावति ।। ६१ ॥ श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावक नेत्रानन्दकरं तथा हिमकरो गच्छेवथा तिग्मताम् । शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पद श्वेतं किं च तथा यथा मलिनतां धते च मुक्कामणिः ॥६२॥ त्वन्मन्दस्मितमञ्जरी प्रसृमरां कामाक्षि चन्द्रात सन्तः संततमामनन्त्यमलता तल्लक्षणं लक्ष्यते। येनासौ विधुनोति तापमधिकं नाभ्यन्तरं मानन- ध्वान्तं तत्खलु दुःखिनो वयममी कनेति जानीमहे ॥ ६३ ॥ १. प्रभवस्थिरज्वरशिखिज्वालेन' इति ग-पाठः. २. मतदीधितिः मरदशा' इतिग-पाठः, काव्यमाला। नम्रस्य प्रणयप्ररोहकलहच्छेदाय पादाब्जयो- मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते । बन्धूकप्रसवश्रियं जितवतो वहीयसी तां रुचि बिम्बोष्टस्य रुचिनिरस्य हसितज्योत्स्ना वयस्यायते ॥ ६४ ॥ मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी भूयो दूरत एव धूतमनसस्तत्पालनं तन्वती। उद्भूतस्य जलान्तरादविरतं तदूरतां जग्मुषी कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥६५॥ श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्थ्यलीलायितं पश्यन्तोऽपि निरन्तरं सुविमलं मान्या जगन्मण्डले । लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते मन्दाक्ष चिरेमस्तु वस्तुविभवो मन्दारचन्द्रादयः ॥ ६६ ॥ क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे । एकस्मै पुरुषाय देवि स ददौ लक्ष्मी कदाचित्पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मी च वागीश्वरीम् ॥६॥ श्रीकाञ्चीपुररत्नदीपकलिके नान्यानि विश्वान्तरे चाकोराणि चराचरेश्वरि परं धन्यानि मन्यामहे । कम्पातीरकुटुम्बचमकलानि चपुटै- नित्यं यानि तव स्मितेन्दुमहसामास्वादमातन्वते ॥ ६८॥ शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनय- रागव्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन् । लीलालापपुरःसरोऽपि सततं वाचंयमान्त्रीणय- न्कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥ १९॥ १. 'बद्रीयसी' इति क-ख-पाठः, २. 'विरहय्य इति क-ख-पाठः, ३. 'तान्येव' इति क-ख-पाठः पञ्चशती। श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् । यद्वैदग्थ्यमुखेन मन्मथरिपुं संमोहयत्यञ्जसा श्रीकामाक्षि तव स्मिताय सततं तस्मै नमस्कुर्महे ॥ ७० ॥ श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिप्परोहे तब स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुपि । चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका गङ्गा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ॥ ७१ ॥ ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्ति विना त्वन्मदस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना । संतापोऽपि निवार्यते नववचःप्राचुर्यमयते सौन्दर्य परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२ ॥ वैमल्यं कुमुदाश्रियां हिमरुचः कान्त्यैव संधुक्षते ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संपद्यते । खच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते कामाक्ष्याः स्मितदीधितर्विशदिमा नैसर्गिका भासते ॥ ७३ ॥ प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् । यदीत्येव निलीयते हिमकरो मेघोदरे शुक्लिका- गर्भ मौक्तिकमण्डली च सरसो मध्ये मृणाली च सा ॥ ७४ ॥ हेरम्वे च गुहे च हर्षभरितं वात्सल्यमय- न्मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुर व्यञ्जयन् । आनन्नेषु जनेषु पूर्णकरुणावैदग्व्यमुत्तालय- न्कामाक्षि स्मितमज्जरी (2) तव कथंकारं मया कथ्यते ॥७५ ॥ १. 'संधुक्ष्यते' इति ग-पाठः. २. 'संपाद्यते' इति सर्वेषु पुस्तकेषु पाठः, ३. "विली- यते' इति ग-पाठः काव्यमाला। Mange संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः संगम वाणीपद्धतिदूरतोऽपि सततं तत्साहचर्य वहन् । अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रति श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्यन्दताम् ॥७६॥ श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरप्रक्रम नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् । तत्ताडक्तव मन्दहाससुषमा मातः कथं मानितां तन्मून सुरनिन्नगां च कलिकामिन्दोश्च तां निन्दति ॥ ७७ ॥ ये माधुर्यविहारमण्डपभुवो ये शैत्यमुद्राकरा ये वैशद्यदशाविशेषसुभगास्ते मन्दहासाकुराः । कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ ॥ कामाक्ष्या मृदुलस्मितांशुनिकरा देाक्षान्तके वीक्षणे मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः । दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुंडद्राक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ॥ जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते गाङ्गानीव पयांसि देवि पटलान्यल्पास्मितज्योतिषाम् । एनःपङ्कपरम्परामलिनतामेकाम्रनाथप्रिये प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ॥ ८० ॥ अश्रान्तं परतन्त्रितः पशुपतिस्त्वन्मदहासाङ्कुरैः श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे । इन्दु नाकधुनी च शेखरयते मालां च धत्ते नवै- वैकुण्ठैरवगुण्ठनं च कुरुते धूलीचयैस्मिनैः ॥ ८१ ॥ श्रीकाश्चीपुरदेवते मृदुवचःसौरभ्यमुद्रासद प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् । १. दक्षान्तकः शिवस्तत्संबन्धिनि. २. 'गुण' इति क-ख-पाठः ३. वाणीषु.

पञ्चशती। मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे लक्षणे कुङमलति प्ररूदपुलके चाशेपणे फुल्छति ॥ ८२ ॥ किं त्रैःस्रोतसमम्बिके परिणतं लोतचतुर्थ नवं पीयूषस्य समस्ततापहरणं किंवा द्वितीय किंस्विन्नैकटिक गिरो मधुरिमाभ्यासाय नव्यं पयः श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ १३ ॥ भूषा वक्रसरोरुहत्य सहजा वाचा गरवी शाश्वती नौवी विभ्रमसंततेः पशुपतेः सौधो छशां पारणा । जीवातुर्मदनश्रियः शशिरुबेरुच्चाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी ॥ ८४ सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपानिधेः । वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हालप्रमाचातुरी ।। ८५ ।। उत्तुङ्गस्तनमण्डलस्य विलसल्लावण्यलीलानटी- रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी। श्रीकामाक्षि तव स्मितगृतिततिर्षिन्धोधकान्यकुरै- चित्रां विद्रुममुद्रिका वितनुते मौरती वितानाश्रियम् ॥ ८६ ॥ जन्तूनां जनिदुःखमृत्युलहरीसंतापनं हन्ततः प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं विभ्रतः श्रीकामाक्षि विसत्वरा इव करा हासाङ्करास्ते हठा- दालोकेन निहन्युरन्धतमसस्तोमस्य में संततिम् ।। १७ ॥ खाभाव्यात्तव वक्रमेव ललितं संतोषसंपादन] शंभोः किं पुनरचितस्मितरुचः पाण्डित्यपात्रीकतम् । १. नीवी मूलधमम् २. 'मूलसीनि च इति क-ख-पाठः, ३. 'मुक्तावितान- श्रियम्' इति -पाठः, ४. 'निहन्तु' इति ग पाठ.. ५. संततम्' इति ग-पाठ:.

काव्यमाला अम्भोज खत एव सर्वजगतां चक्षुःप्रियंभावुकं कामाक्षि स्फुरिते शरद्विकसिते कीडग्विधं भ्राजते ॥ ८॥ पुभिर्निर्मलमानसैविदधते मैत्रीरसं निर्मलं कर्तुं कर्मलयं च निर्मलतमां कीर्ति लभन्तेतराम् । सूक्ति पक्ष्मलयन्ति निर्मलगुणां यत्तावकाः सेवका- स्तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥८९॥ आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय- निन्, किं च विमोहयन्पशुपति विश्वातिमुच्चाटयन् । हिंसन्संसृतिडम्बरं तव शिवे हासाहयो मान्त्रिकः श्रीकामाक्षि मदार्तितापतमसो विद्वेषणे चेष्टताम् ॥ ९० ॥ क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमलपस्मित- ज्योतिर्मण्डलचक्रमास्तव शिवे कामाक्षि रोचिष्णवः । पीडाकर्मठ कर्मधर्मसमयव्यापारतापानल- श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ॥९१॥ श्रीकामाक्षि तव स्मितेन्दवमहःपूरे परिस्फूर्जति प्रौढ्यं वारिधिचातुरी कलयते भक्तात्मनां प्रातिभम् । दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते किं किं कैरवसाहचर्यपदवीरीत्यां न धत्ते पदम् ॥ ९२ ॥ मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीति निजां कादाचित्कतया विशङ्कच बहुशो वैशद्यमुद्रागुणः । श्रीकामानि तदीयसंगमकलामन्दीभवत्कौतुकः सातत्येन तव स्मिते वितनुते खैरासनावासनाम् ॥ ९३ ॥ इन्धाने भववीतिहोत्रनिवहे कर्मोघचण्डानिल- प्रौढिना बहुलीकते निपतितं संतापचिन्ताकुलम् । १. 'प्रोडिं' इति ग-पाठः... २. 'हासचर्यपदवी' इति ग-पाठः, पञ्चशती। माती परिषिञ्च किंचिदमलैः पीयूपरिव श्रीकामानि तव स्मितद्युतिकणैः शैशियलीलाकरैः ॥ ९४ ॥ भाषाया रसनानखेलनजुषः शृङ्गारमुद्रासखी लीलाजातरतेः मुखेन नियमस्नानाय मेनात्मने । श्रीकामाक्षि सुधामयीव शिशिरा स्त्रोतस्विनी तावकी गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥९॥ संतापं विरलीकरोतु सकलं कामाक्षि मञ्चेतना मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते । नैरन्तर्यमुपेत्य मन्मथमैरुल्लोलेषु येषु स्फुटं प्रेमेन्दुः प्रतिविम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥ चेतःक्षीरपयोधिमन्थनचलद्रागाख्यमन्थाचल- सोमव्याप्टतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् । खादं स्वादमुदीतकौतुकरसं नेत्रत्रयी शांकरी श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥ ९७ ।। आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल- प्रेडमारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः । काचिट्ठीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मका तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥९८॥ सूक्तिः शीलयते किमन्द्रितनये मन्दस्मितात्ते मुहु- माधुर्यागमसंप्रदायमथवा सूक्तेस्तु मन्दस्मितम् । इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमी श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्ती निधत्ते पदम् ।। ९९ ॥ क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि- श्रेणीवाक्परिपाटिकामृतझरी सूतीगृहेभ्यः शिवे । १. 'देशीयलीलाकणैः' इति ग पाठः. २. रसनाग्रलेखन' इति ग-पाठः, ३. 'म- रुल्लीलेषु' इति क-ख-पाठः. ४. 'क्षोभात्संप्रतिसंभवां' इति क-ख-पाठः.

काव्यमाला निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥ १०॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां मन्दस्मितशतकं द्वितीयम् । पादारविन्दशतकम् । महिम्नः पन्थान मैदनपरिपन्थिप्रणयिनि प्रभुनिगेंतु ते भवति यतमानोऽपि कतमः । तथापि श्रीकाञ्चीविहतिरसिके कोऽपि मनसो विधाकल्ल्यत्पादस्तुतिविधिषु जल्पाकयति माम् ॥ १ ॥ गलग्राही पोरंदरपुरवनीपलवरुचां धृतप्राथम्यानामरुणमहसामादिमगुरुः । समिन्धे बन्धूकस्तवकसहयुवा दिशि दिशि प्रसर्पकामाक्ष्याश्चरणकिरणानामरुणिमा ॥ २॥ मरालीनां यानाम्यसनकलनामूलगुरवे दरिद्राणां त्राणव्यतिकरसुरोधानतरवे । तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्टहयते ॥ ३ ॥ वहन्ती सैन्दूरी सरणिमवनभ्रामरपुरी- पुरंथ्रीसीमन्ते कविकमलबालार्कसुषमा । त्रयीसीमन्तिन्या स्तनतटनिचोलारुणपटी विमान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥ ४ ॥ प्रणम्रीभूतस्य प्रणयकलहस्तमनसः स्मरारातेथूडावियति गृहमेधी हिमकरः । ययोः सांध्यां कान्ति वहति सुषमाभिश्चरणयो- स्तयोमें कामाक्ष्या हृदयमपतन्द्र विहरताम् ॥ ५ ॥ १. हे कामारिदायित. २. वाचालयति. मुखरीकरोतीत्यर्थः. ३. तिरस्कारकः. ४. नन्दनवनतरुकिसलयानाम्. ५. तरुणरविकिरणानाम्. ६. देदीप्यते. ४. “पु- रारातः' इति ग-पाठः पञ्चशती। ययोः पौठायन्ते विबुधमुकुटीनां पटलिका ययोः सौधायन्ते स्वयमुदयभाजो भणितयः । ययोर्दासायन्ते सरसिजभवाद्याचरणयो- स्तयोमें कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥ ६ ॥ नयन्ती संकोचं सरसिजरुचं दिक्परिसरे सुजन्ती लौहित्यं नखकिरणचन्द्राखिचिता । कवीन्द्राणां हत्कैरवविकसनोद्योगजननी स्फुरन्ती कामाक्ष्याचरणचिसंध्या विजयते ॥ ७ ॥ विरावैर्माजीरैः किमपि कथयन्तीव मधुरं पुरस्तादानने पुरविजयिनि स्मेरवदने । वयस्येव प्रौढा शिथिलयति या प्रेमकलह- प्ररोहं कामाक्ष्याश्चरणयुगली सा विजयते ॥ ८ ॥ मुपर्वस्वीलोलालकपरिचितं पटपदकुलैः स्फुरलाक्षारागं तरुणतरणिज्योतिररुणैः भृतं कान्त्यम्भोभिर्विसमरमरन्दैः सरसिजै- विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदवीम् ॥ ९ ॥ रजःसंसर्गेऽपि स्थितमजरसामेव हृदये परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् । अलभ्यं मन्दानां दधदपि सदा मन्दगतितां विधत्ते कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥ १० ॥ जटाला मञ्जीरस्फुरदरुणरत्नांशुनिकरै- निषीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् । परित्राणं कर्तुं जननि मम कामाक्षि नियतं तपश्चर्या धत्ते तव चरणपाथोजयुगली ॥ ११ ॥ तुलाकोटिद्वन्द्वक्वणितभणिताभीतिवचसो- विननं कामाक्ष्या विसमरमहःपाटलितयोः ।

६ काव्यमाला। क्षणं विन्यासेन क्षपिततमसोम ललितयो? पुनीयान्मूर्धानं पुरहरपुरंध्रीचरणयोः ॥ १२ ॥ भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु- स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ । ययोलाक्षाबिन्दुस्फुरणदशया धूर्जटिजटा. कुटीरा शोणाझं वहूति वपुरेणाङ्ककलिका ॥ १३ ॥ पवित्रीकुर्युनः पदतलभुवः पाटलरुच परागास्ते पापप्रशमनधुरीणास्तव शिवे । कणं लब्धं येषां निजशिरसि कामाक्षि नियत वलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥ १४ ॥ बलाकामालाभिर्नखरुचिमयीभिः परिहते विनम्रवारीविकचकचकालाम्बुदकुले । स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद- स्तडिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥ १६ ॥ सरागः सद्वेषः प्रसूमररजस्कः प्रतिदिनं निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् । कथंकारं मातः कथय पदपास्तव सतां नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६ ॥ जपालक्ष्मीशोणो जननि परमज्ञाननलिनी- विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा। मनःपूर्वादि नस्तिलकयतु कामाक्षि तरसा तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥ १७ ॥ नमस्कुर्मः प्रेवन्मणिकटकनीलोपलमहः- पयोधौ रिद्भिर्नखकिरणफेनैवलिते। स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा- वितर्क कामाक्ष्याः सततमरुणिने चरणयोः ॥ १८ ॥ १. चरणरूपसूर्यः पञ्चशती। शिवे पाशायेतामलघुनि तमःकूपकुहरे दिनाधीशायेतां मम हृदयपाथोजविपिने । नभोमासायेतां सरसकवितारीतिसरिति त्वदीयौ कामाक्षि प्रस्तकिरणौ देवि चरणौ ॥ १९॥ निषतं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः समैर्जुष्टं शुद्धैरधरमिव रम्यैदिनगणैः । शिवे वक्षोजन्महितयमिव मुक्ताश्रितमुमे त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥ २० ॥ नमस्यासंसज्जन्नमुचिपरिपन्थिप्रणयिनी- निसर्गप्रेडोलत्कुंरलकुलकालाहिशवले । नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां प्रचारं कामाक्षि प्रकटयति पादाब्जसुषमा ॥ २१ ॥ कदा दूरीकर्तु कटुदुरितकाकोलजनितं महान्तं संतापं मदनपरिपन्थिप्रियतमे । क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥ २२ ॥ ययोः सांध्यं रोचिः सततमरुणिन्ने स्टहयते ययोश्चान्द्री कान्तिः परितपति दृष्ट्या नखरुचिम् । ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं म्रदिन्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥ जगन्नेदं नेदं परमिति परित्यज्य यतिभिः कुशाग्रीयस्वान्तैः कुशलधिषणैः शास्त्रसरणी। गवेप्यं कामाक्षि ध्रुवमतकानां गिरिसुते गिरामैदंपर्यं तव चरणमाहात्म्यगरिमा ॥ २४ ॥ १. निषित' इति क-ख-पाठा, २. शची. ३. केशकलापः, ४, क्षणं ते इति क-ख-पाठः.

कृतस्त्रानं शास्त्रामृतसरसि कामाक्षि नितरां दधानं वैशा कलितरसमानन्दसुधया । अलंकारं भूमर्मुनिजनमनश्चिन्मयमहा- पयोधेरन्तःस्थं तव चरणरत्नं विजयते ॥ २५ ॥ मनोगेहे मोहोद्भवतिमिरपूणे मम मुहु- दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः । विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः क्षणार्धे सांनिध्यं चरणमणिदीपो जननि ते ॥ २६ ॥ कवीनां चेतोवन्नखररुचिसंपर्कि विबुध- लवन्तीस्रोतोवत्पटुमुखरितं हंसकरवैः । दिनारम्मश्रीवन्नियतमरुणच्छायमुभगं मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम् ॥ २७ ॥ सदा किं संपर्क प्रकृतिकठिनै किमुकुटै- स्तटै हारा।रधिकमणुना योगिमनसा । विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा- मदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥ २८ ॥ पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः प्रवालैरम्भोजैरपि च वनवासव्रतदशाः सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥ मरालीनां पादाहतिमदनिशं हंसनिवहै- नमस्यं निर्जाड्यं नियतजलमध्यैकशरणम् । अदोषव्यासङ्गं सततमपि दोषाप्तिमलिनं पयोज कामाक्ष्याः परिहसति पादाब्जयुगलम् ॥ ३०॥ १. नखा एव नखरास्तत्कान्तियुक्तम्; (पक्षे) न खररुचिसंपर्कि. २. हंसकः पादक- टकः; (पक्षे) हंसा एव हंसकाः. ३. 'संपर्कात्' इति सर्वपुस्तकपाठः. ४. 'विभले इति ग-पाठः, "विभन्ने' इति क-ख-पाठः. ५. 'पादयुगली' इति ग-पाठः.

হারী। सुराणामानन्दप्रवलनतया मण्डनतया नखेन्दुज्योत्स्नाभिर्विस्मरतमःखण्डनतया । पयोजश्रीद्वेषव्रतरततया त्वचरणयो. विलासः कामाक्षि प्रकटयति लेशाकरदशाम् ॥३१॥ सितिना कान्तीनां नखरजनुषां पादनलिन- च्छवीनां शोणिना तव जननि कामाक्षि नमने । लभन्ते मन्दारप्रथितनवबन्धुककुनुम- लजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥ ३२ ॥ नख श्रीसंनद्धस्तबकनिचितः स्वकिरणः पिशङ्गैः कामाक्षि प्रकटितलसत्पवरुचिः । सतां गम्यः शङ्के सकलफलदाता मुरतरु- स्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३३ ॥ स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां वहनब्ज चक्र दरमपि च लेवात्मकतया। श्रितो मात्स्यं रूपं श्रियमपि दधानो निरूपमा विधामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३४ ॥ वघटकुर्वन्माजीरजकलकलैः कर्मलहरी- हवींषि प्रोद्दण्ड ज्वलति परमज्ञानदहने । महीयान्कामाक्षि स्फुटमहति जोहोति सुधियां मनोवद्यां मातस्तव चरणयज्वा मम सदा ॥ ३५ ॥ महामन्त्रं काश्चीमणिकटकनारिख जय- क्षिपन्दिन स्वच्छं नखरुचिमय भास्मनरजः । नतानां कामाक्षि प्रकृतिपटुरुवाच्य ममता- पिशाची पादोऽयं प्रकटयति ते मान्त्रिकदशाम् ॥३६॥ A १. 'मण्डिततया' इति ग-पाठः. २. रक्षात्मक' इति ग-पाठः, ३. विष्णुः, काव्यमाला। . उदीते बोधेन्दौ तमास नितरां जग्मुषि दशां दरिद्रां कामाक्षि प्रकटमनुरागं विदधती । सितेनाच्छाद्याङ्गं नखरुचिपटेनाङ्गियुगली- पुरंध्री ते मातः स्वयमभिसरत्वेव हृदयम् ॥ ३७ ।। दिनारम्भः सभ्यङ्गलिनविपिनानामभिनवो विकासो वासन्तः सुकविपिकलोकस्य नियतम् । मदोषः कामाक्षि प्रकटपरमज्ञानशशिन- श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८ ॥ धृतच्छायं नित्यं सरसिरहमैत्रीपरिचितं निधानं दीप्तीनां निखिलजगतां बोधजनकम् । मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवी पदं ते पातङ्गी परिकलयते पर्वतसुते ॥ ३९ ॥ शनैस्तीर्खा मोहाम्बुधिमथ सैंमारोढुमनसः श्रमात्कैवल्याख्यां सुकृतिसुलभा सौधवलभीम् । लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ १० ॥ प्रचण्डार्तिक्षोभप्रमथनकृते प्रातिभसरि- प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् । प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण- प्रसादौन्मुख्याय स्टहयति जनोऽयं जननि ते ॥ ४१ ॥ मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा । गुणोत्कर्षान्मञ्जीरजकलकलैस्तर्जनपटुः प्रवालं कामाक्ष्याः परिहसति सा पादयुगली ॥ ४२॥ १. च दधती' इति ग-पाठः, २. "सरत्येव इति ग-पाठ.. ३. परिचितिंद- धान' इति ग-पाठः. ४. 'समारूढमनसः' इति क-ख-पाठः, ५. 'सुकृत' इति ग. पाठ... 'प्रचण्डाचिः इति क-ख-पाठः, पञ्चशती। जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा सुरैर्नम्या रम्या सततमभिगम्या बुधजनैः । द्वयी लीलालोला श्रुतिषु मुरपालादिमुकुटी- तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥ ४३ ॥ गिरां दूरौ चौरौ जडिमतिमिराणां कृतजग- त्परित्राणौ शोणौ मुनिहृदयनीडैकनिपुणौ । नखैः स्मेरी सारौ निगमवचसा खण्डितभव- अहोन्मादौ पादौ मम मनसि कामाक्षि कलये ॥ ४४ ॥ अविश्रान्तं पर यदपि कलयन्यावकमयं निरस्यन्कामाक्षि प्रणमनजुषां पङ्कमखिलम् । तुलाकोटिद्वन्द्वं दधदपि च गच्छन्नतुलतां गिरां मार्ग पादो गिरिवरसुते लश्यति ते ॥ ४५ ॥ प्रवाले सबीडं विपिनविवरे वेपयति या स्फुरलीलं बालातपमधिकवालं देवति या। रुचि सांध्यां वन्ध्यां विरचयति या वर्धयतु सा शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥ ४६ ।। किरजयोत्स्नारीतिं नखमणिरुचा हंसमनसां वितन्वानः प्रीति विकचतरुणाम्भोरुहरुचिः । प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते शरत्कालप्रीति शशिशकलचूडप्रियतमे ॥ ४७ ॥ नखाङ्करस्मेरद्युतिविमलगङ्गाम्भसि मुख कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् । उदश्चन्माजीरस्फुरणमणिदीपे मम मनो मनोज्ञे कामाक्ष्याश्चरणमणिहम्य विहरताम् ॥ ४८ ॥ भवाम्भोधौ नौकां जडिमविपिने पावकशिखां प्रणनेन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् । 1. 'विधति' इति क-ख-पाठः, ६ RAITAamraplasang ४२ काव्यमाला जगत्तापज्योत्स्नामकतकवचःपञ्जरपुटे शुकस्त्री कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९ ॥ परात्मप्राकाश्यप्रतिफलनचुचुः प्रणमतां मनोजस्ते पादो मणिमुकुरमुद्रां कलयते । यदीयां कामाक्षि प्रकृतिमधुरां शोभनदशां विधातुं चेष्टन्ते बलरिपुवधूटीकुचभराः ॥ ५० ॥ अविश्रान्तं तिष्ठन्नकृतकवचःकंदरपुटी- कुटीरान्तः प्रौढां नखरुचिसटाली प्रकटयन् । प्रचण्ड खण्डत्वं नयतु मम कामाक्षि तरसा तैमोवेतण्डेन्द्र तव चरणकण्ठीरवपतिः ॥ ११ ॥ पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी- पुरंध्रीणां लास्यं तव सकलमालोक्य शनकैः । नख श्रीभिः स्मेरा बहु वितनुते नूपुररवै- श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥ ५२ ।। सरोज निन्दन्ती नखकिरणकर्पूरशिशिरा निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः । स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये तवाधत्ते मैत्री पथिकसुभगां पादयुगली ॥ १३ ॥ नतानां संपत्तेरनवरतमाकर्षणजपः प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः । त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥ १४ ॥ वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया पदाम्भोजन्यासं पशुपतिदृढप्राणदयिते । १. शची. २. अज्ञानरूपं गजेन्द्रम्. ३. चरणरूपो मृगेन्द्राधिपः. ४. स्मरं' इति क-स-पाठः, ५. क-ख-पुस्तकयोरस्मिश्लोके पूर्वार्धोत्तरार्धयोन्यत्ययोऽस्ति, पञ्चशती। पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसर दशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥ ५५ ॥ प्रणामोद्यवृन्दारकमुकुटमन्दारकलिका- विलोलद्रोलम्वप्रकरमयधूमप्रचुरिमा । प्रदीप्तः पादाब्जातिविततिपाटल्यलहरी- कृशानुः कामाझ्या मम दहतु संसारविपिनम् ॥ १६ ॥ वलक्षश्रीक्षाधिपशिशुसहक्षा तव नवै- जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे। क्षणान्मे कामाक्षि क्षापितभवसंक्षोमगरिमा वचोवैचक्षण्यं चरणयुगली पक्ष्मलयताम् ॥ १७ ॥ समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा- ननन्तामि मिर्दिवमनु दिगन्तान्विरचयन् । अहंताया हन्ता मम जडिमदन्तावलरिपु- विभिन्तां संतापं तव चरणचिन्तामणिरसौ ॥ १८ ॥ दधानो भास्वत्ताममृतनिलयो लोहितवपु- विनम्नाणां सौम्यो गुरुरपि कवित्वं च कलयन् । गतौ मन्दो गङ्गाधरमहिषि कामाक्षि भजतां तमाकेतुर्मातस्तव चरणपो विजयते ॥ ५९॥ नयन्ती दासत्वं नलिनभवमुख्यानसुलभ- प्रदानां दीनानाममरतरुदौर्भाग्यजननीम् । जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो- धुरीणामीष्टे कस्तव भणितुमाहोपुरुषिकाम् ॥ १० ॥ जनोऽयं संतप्तो जननि भवचण्डांशुकिरण- रेलब्ध्वैक शीतं कणमपि परज्ञानपयसः । तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां पदाम्भोजच्छायां परमशिवजाये मृगयते ॥ ६१ ॥ १. 'रलब्ध्वा किं त्वेकं' इति ग-पुस्तके, 'रलब्धैः कं शीतं' इति च ख-पुस्तके पाठः काव्यमाला । जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं वितानं विभ्राणे सुरमुकुटसंघटमसणे । निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा बुधैः संविनारी तव चरणमाणिक्यभवने ॥ ६२ ॥ प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण- श्रियो मूलद्रव्यं तव चरणमन्द्रीन्द्रतनये । सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं धुनीते दिग्भागानपि च महसा पाटलयते ॥ ६३ ॥ महाभाष्यव्याख्यापटुशयनमारोपयति वा स्मरव्यापारेापिशुननिटिलं कारयति वा । द्विरेफाणामध्यासयति सततं वा निवसति प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४ ॥ विवेकाम्यःस्रोतःस्नपनपरिपाटीशिशिरिते समीभूते शास्त्रस्मरणहलसंकर्षणवशात् । सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो महासवित्सस्यप्रकरवरबीजं गिरिसुते ॥ १५ ॥ दधानो मन्दारस्तबकपरिपाटी नखरुचा वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् । अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो विकासी वासन्तः समय इव ते शर्वदयिते ॥ १६ ॥ नखांशुभाचुर्यप्रसुमरमरालीधवलितः स्फुरन्मजीरोद्यन्मरकतमहः शैवैलयुतः । भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो नदः शोणाभिख्यो नगपतितनूजे विजयते ॥ ६७ ॥ १. विष्णुशिवब्रह्मरूपान्करोतीति भावः. २. 'मरालालिधवलः' इति क-ख-पाठः. ३. शैवललघुः' इति ग-पाठः, पञ्चशती। धुनानं पकौघं परमसुलभं कण्टककुलै- विकासव्यासङ्गं विदधदपराधीनमनिशम् । नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितरा- मसामान्यं मन्ये सरसिजमिदं ते पदयुगम् ।। ६८ ॥ करीन्द्राय द्रुह्यत्यलसगतिलीलामु विमलैः पयोजैर्मात्सर्य प्रकटयति कामं कलयते । पदाम्भोजद्वन्द्वं तदपि तव कामाक्षि हृदयं मुनीनां शान्तानां कथमनिशमस्मै स्टहयते ॥ ६९ ॥ निरस्ता शोणिना चरणकिरणानां तव शिवे समिन्धानासंध्यारुचिरचलराजन्यतनये। असामर्थ्यादेतत्परिभवितुमेतत्समरुचा सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७० ॥ उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ मरालानां शङ्के मसूणगतिलालित्यसरणौ । अतस्ते निस्तन्द्र नियतममुना सख्यपदवीं प्रपन्नं पाथोज प्रतिद्धति कामाक्षि कुतुकम् ॥ ७१ ॥ दधानः संसर्ग प्रकृतिमलिनैः षट्पदकुलै- बिजाधीशलाघाविधिषु विदधद्भिर्मुकुलताम् । रजोमित्रैः प.नियतमपि कामाक्षि पदयो- विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥ ७२ ॥ कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणी विपन्नानां श्रीमन्नलिनमसणौ शोणकिरणौ। मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३ ॥ परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयो- नखश्रीषु ज्योत्स्नाकुलिततुलयोस्ताम्रतलयोः । १. 'पुनानं' इति ग-पाट:. १. 'करीन्द्राणां' इति ख-पाठः, ४६ काव्यमाला। निलीये कामाक्ष्या निगमनुतयो किनतयो- निरस्तपोन्मीलन्नलिनमदयोरेव पदयोः ।। ७४ ॥ स्वभावादन्योन्यं किसलयमपीदं तव पदं नदिना शोणिम्ना भगवति दधाते सदृशताम् । बने पूर्वस्येच्छा सततमवने किं तु जगतां परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥ ७९ ॥ कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः सदैवानन्दान्विरचयति वाचंयमजनान् । प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो मनीषानर्मल्यं कथमिव नृणां मांसलयते ॥ ७६ ॥ चलत्तृष्णाबीचीपरिचलनपर्याकुलतया मुहुर्धान्त्वा तान्तः परमशिववामाक्षि परवान् । तितीपुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७ ॥ विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय- प्रभावेण क्षीणे सति मम मनः केकिनि शुचा । त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा नभोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७० ॥ विनम्राणां चेतोभवनवलभीसीम्नि चरण- प्रदीपे प्राकाश्यं दधति तव निधूततम सि । असीमा कामाक्षि खयमलघुदुष्कर्मल हरी विघूर्णन्ती शान्ति शलभपरिपाटीव भजते ॥ ७९ ॥ विराजन्ती शुक्तिनखकिरणमुक्तामणितते विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् । त्वदीयः कामाक्षि ध्रुवमलेघुवह्निर्भववने मुनीनां ज्ञानाग्नेररणिरयमद्धिवि जयते ॥ ८० ॥ 1. "विलीये' इति क-ख-पाठः. २. लघुदावो भववने' इति क-स-पाठः.

पञ्चशती। समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः । भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो- बलद्रोही मातश्चरणपुरुहतो विजयते ॥ ८१॥ वसन्तं भक्तानामपि मनसि नित्यं परिलस- द्वनच्छायापूर्ण शुचिमपि नृणां पापशमनम् । नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं नमामः कामाक्ष्याश्चरणमधिकाचर्यकरणम् ।। ८२ ॥ कवीन्द्राणां नानाभणितिगुणचित्रीकृतवच:- प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः । अधःकुर्वन्नब्ज सनकभृगुमुख्यमुनिर्जनै- नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३ ॥ भवत्याः कामाक्षि स्फुरितपदपङ्केरुहभुवां परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः । नतानामामृष्टे हृदयमुकुरे निर्मलरुचि प्रसन्ने निःशेष प्रतिफलति विश्वं गिरिसुते ॥ ८४ ॥ तव त्रस्तं पादाकिसलयमरण्यान्तरमगा- त्परं रेखारूपं कमलममुमेवाश्रितमभूत् । जितानां कामाक्षि द्वितयमपि युक्तं परिभवे विदेशे वासो वा शरणगमनं वा निजरिपोः ॥ ८५ ।। गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा- कटाक्षार्कज्योतिःशमितममताबन्धतमसः । यतन्ते कामाक्षि प्रतिदिवसमन्तढयितुं त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥ ८६ ॥ जडानामप्यम्ब स्मरणसमये त्वचरणयो- र्धमन्मन्थक्ष्माभृद्भुमधुमितसिन्धुप्रतिभटाः । १. 'मेवाश्रयमगात्' इति ग-पाठः.

मनोज्ञा कामाक्षि प्रकटयतु लास्यमकरणं काव्यमाला। प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकला विभान्ति स्वच्छन्दं प्रकृतिपरिपक्वा भणितयः॥ ८७॥ वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ तमेवाधः कर्तु किमिव यतते केलिगमने । भवस्यैवानन्दं विदधदपि कामाक्षि चरणो भवत्यास्तद्रोहं भगवति किमेवं वितनुते ॥ ८ ॥ यदत्यन्तं ताम्यत्यलसगतिवार्तावपि शिवे तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् । किरीटैः संघ कथमिव सुरौघस्य सहते मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥ ८९ ॥ मनोरङ्गे मत्के विबुधजनसंमोदजननी सरागव्यासङ्ग सरसमृदुसंचारसुभगा । चलन्मञ्जीरा ते चरणयुगली नर्तकवधूः ॥ ९० ॥ परिष्कुर्वन्मातः पशुपतिकपर्दै चरणराट् पराचां हृत्पमं परमभणितीनां च मुकुटम् । भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता- पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥ ९१ ॥ प्रसनैः संपर्कादमरतरुणीकुन्तलभवै- रभीष्टानां दानादनिशमपि कामाक्षि नमताम् । स्वसङ्गात्कङ्केल्लिप्रसवजनकत्वेन च शिवे त्रिधा धत्ते वार्ता सुरभिरिति पादो गिरिसुते ॥ ९२ ॥ महामोहस्तेनव्यतिकरभयात्पालयति यो विनिक्षिप्त स्वस्मिन्निजजनमनोरनमनिशम् । स रागस्योद्रेकात्सततमपि कामाक्षिरुचिरां किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥ ९३ ॥ १. 'प्रपन्नाः' इति क-ख-पाठः, पञ्चशती। सदा स्वादुंकारं विषयलहरीशालिकणिकां समास्वाद्य श्रान्तं हृदयशुकपोतं जननि मे । कृपाजाले भालेक्षणमहिषि कामाक्षि रभसा- गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ १४ ॥ धुनानं कामाक्षि स्मरणलवमात्रेण जडिम- ज्वरप्रौढिं गूढस्थितिनिगमनकुञ्जकुहरे । अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिन- चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ ९५ ॥ रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां मनोवास्तव्याभ्यां मथिततिमिराम्यां नखरुचा । निधेयाभ्यां पत्वा निजशिरसि कामाक्षि सततं नमस्ते पादाभ्यां नलिनमृदुलाम्यां गिरिलुते ॥ ९६ ॥ यशः सूते मातर्मधुरकवितां पक्ष्मलयते श्रियं दत्ते विते कमपि परिपाक अथयते । सतां पाशग्रन्थि शिथिलयति किं किं न कुरुते प्रेपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥ ९७ ॥ मनीषां माहेन्द्री ककुभमिव ते कामपि दशां प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः । यदीये संपर्के धृतरसमरन्दा कवयतां परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ ९८ ॥ सुरागे राकेन्दुप्रतिनिधिमुख पर्वतसुते चिराल्लभ्ये भल्या शमधनजनानां परिषदा । मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते प्रकामं कामाक्षि त्रिपुरहवामाक्षि रमताम् ॥ ९९ ॥ १. 'हृदयसुकपोतं' इति ख-पाठः. २. प्रसने' इति क-ख-पाठः. ३. 'प्रकृति' इति ग-पाठः. ४, क-ग-पुस्तकयोः 'सुरागे? इत्यादि, पदद्वन्द्र इत्यादि च पद्य नास्ति.

पदद्वन्द्वं मन्द गतिषु निवसन्तं हृदि सता
गिरामन्ते भ्रान्तं कृतकरहितानां परिवृढे ।
जनानामानन्दं जननि जनयन्तं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥ १०० ॥
इदं यः कामाक्ष्या चरणनलिनस्तोत्रशतकं
जपेन्नित्यं मन्या निखिलजगदाहादजनकम् ।
स विश्वेषां वन्द्यः सकलकविलोकैकतिलक-
श्चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०१ ॥
इति श्रीमूककविसावभौमती पञ्चशत्यां पादारविन्दशतकं तृतीयम् ।
आयशतकम्।
कारणपरचिपा काञ्चीपुरसीन्नि कामपीठगता।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥
चं न काञ्चीतिलकं करधृतकोदण्डवाणसृणिपाशम् ।
कठिनस्तनभरननं कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥
चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुधाधारा ॥ ३ ॥
परतन्त्रा वयमनया पकजसब्रह्मचारिलोचनया।
परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ॥ ४ ॥
ऐश्वर्यमिन्दुमौलेरेकात्म्यप्रकृति काश्चिमध्यगतम् ।
ऐन्दवकिशोरशेखरमैदंपर्य चकास्ति निगमानाम् ॥ ५ ॥
तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् ।
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ ६ ॥
मधुरधनुषा महीधरजनुषा नन्दामि सुरभिवाणजुषा ।
चिहपुषा काश्चिपुरे केलिजुषा बन्धुजीवकान्तिमषा ॥ ७ ॥
कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् ।
कुरुते विहति काश्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ८ ॥

पयशती। पञ्चशरशास्त्रबोधनपरमाचार्यण दृष्टिपातेन । काञ्चीसीनि कुमारी काचन मोहयति कामजेतारम् ॥ ९ ॥ श्रितकम्पासीमानं शिथिलितपरमेशधैर्यमहिमानम् । कलये पाटलिमान कंचन कचकितभुवनभूमानम् ॥ १० ॥ आहतकाञ्चीनिलयामाधामारूढयौवनाटोपाम् । आगमवतंसकलिकामानन्दाद्वैतकन्दली वन्दे ॥ ११ ॥ काञ्चीरत्नविभूषां कामपि कंदर्पसूतिकापाङ्गीम् । परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥ १२ ॥ कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् । केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥ १३ ॥ आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूपम् । आरब्धयौवनोत्सवमानायरहस्यमन्तरवलम्चे ॥ १४ ॥ अधिकाचि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन । अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥ १५ ॥ अङ्कितशंकरदेहामङ्कुरितोरोजकङ्कणाश्लेषैः । अधिकाञ्चि नित्यतरुणीमद्राक्ष कांचिद्भुतां बालाम् ॥ १६ ॥ मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन । मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥ धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोत्रमयीम् । अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीले ॥ १८ ॥ लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् । पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यश्च ॥ १९ ॥ श्वेता मन्थरहांसेते शाता मध्ये च वाल्मनोतीता! शीता लोचनपाते स्फीता कुचसीनि शाश्वती माता ॥ २० ॥ पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् । पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥ १. परमशिवधैर्य' इति खवा-ध-पाठः. २, कम्पानदीसमीपे.. ३, कृशा.

KUATARNATANA ५२ काव्यमाला पुण्या कापि पुरंधी पुडितकंदर्पसंपदा वपुषा । पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥ तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् । तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥ पौष्टिककर्मविपाक पौष्पशरं संविधसीनि कम्पायाः । अद्राक्षमात्तयौवनमभ्युदयं किंचिदर्धशशिमौलेः ॥ २४ ॥ संश्रितकाचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे । सविन्मये विलीये सारखतपुरुषकारसाम्राज्ये ॥ २५ ॥ मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् । आहतकाचीखेलनमादिममारूण्यभेदमाकलये ॥ २६ ॥ उरीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् । उन्नमस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥ २७ ॥ एणशिशुदीर्घलोचनमेनः परिपन्थि संततं नमताम् । एकाम्रनाथजीवितमेवंपददूरमेकमवलम्बे ॥ २८ ॥ स्मयमानमुखं काञ्चीमयमानं कमपि देवताभेदम् । दयमानं वीक्ष्य मुहुर्वयमानन्दामृताम्बुधौ मनाः ॥ २९ ॥ कुतुकजुषि काश्चिदेशे कुमुदतपोराशिपाकशेखरिते । कुरुते जनो मनोऽयं कुलगिरिपरिवृढकुलैकमणिदीपे ॥ ३० ॥ वाक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् । विगुमसहचरदेहं विभ्रमसमवायसारसनाहम् ॥ ३१ ॥ कुरुविन्दगोत्रगात्रं कूलचरं किमपि नौमि कम्पायाः । कूलंकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥ कुमलितकुचकिशोरैः कुर्वाणैः काश्चिदेशसौहार्दम् । कुङ्कुमशोणैर्निचितं कुशलपथं शंभुसुकतसंभारैः ॥ ३३ ॥ अङ्कितकुचेन केनचिदन्धकरणौषधेन कमलानाम् । अन्तःपुरेण शंभोरलंक्रिया कापि कल्प्यते काच्याः ॥ ३४ ॥ १. 'साँधसीनि' इति क-ख-ग-पाठः.

पञ्चशती। उररीकरोमि संततमूमलफालेन लालित पुंसा । उपकम्पमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥ ३५ ॥ अङ्कुरितस्तनकोरकमकालंकारमेकचूतपतेः । आलोकेमहि कोमलमागमसल्लापसारयाथार्थ्यम् ॥ ३६ ॥ पुञ्जितकरुणमुदश्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे । मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७ ।। लोलहृदयोऽस्मि शंभोलोचनयुगलेन लेह्यमानायाम् । लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥ मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः । मण्डितकम्पातीरैर्मङ्गलकन्दैमास्तु सारूप्यम् ॥ ३९ ॥ वदनारविन्दवक्षोवामाश्तलीवशंवदीभूता। पुरुषत्रितये त्रेधा पुरधिरूपा त्वमेव कामाक्षि ॥ ४० ॥ बाधाकरी भवाब्धेराधाराद्यम्बुनेषु विचरन्तीम् । आधारीकृतकाची बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥ कलयाम्यन्तः शशधरकलयाशितमौलिममलचिवालयाम् । अलयामागमपीठीनिलयां वलयात्रसुन्दरीमम्बाम् ॥ ४२ ॥ शर्वादिपरमसाधकगुर्वानीताय कामपीठजुधे । सर्वाकतये शोणिमगर्वाय समर्प्यते हृदयम् ॥ ४३ ।। समया सांध्यमयूखैः समया बुद्ध्या सदैव शीलितया । उमया काञ्चीरतया न मया लभ्येत किं नु तादात्म्यम् ॥ ४४ ॥ जन्तोस्तव पदपूजनसंतोषतरङ्गितस्य कामाक्षि । बन्धो यदि भवति पुनः सिन्धोरम्भःसु बम्भ्रमीति शिला ॥ ४५ ॥ कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे । गुणिनि गुहारणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६ ॥ १. पिञ्जरित' इति पुस्तकचतुष्टयेऽपि छन्दोमङ्गदूषितः पाठः. २. 'शीलतया' इति क-ख-पुस्तकयोः, 'शीतलया' इति च ग-पुस्तके पाठः. ३, 'गुहारिणि' इति काव्यमाला। अभिदारूतिभिदाकतिरचिदाकृतिरपि चिदाकृतिर्मातः । अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥ ४७ ।। शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः । विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ ४ ॥ कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते । कामदुधा भव कमले कामकले कामकोटि कामाक्षि ॥ १९ ॥ मध्ये हृदयं मध्यनिटिलं मध्यशिरोऽपि वास्तव्याम् । चण्डकरशऋकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ॥ १० ॥ अधिकाञ्ची केलिलोलैरखिलागमयन्त्रतन्त्रमन्त्रमयैः । अतिशीतं मम हृदयं विषमशरद्रोहिजीवनोपायैः ।। ५१ ॥ नन्दति मम हृदि काचन मन्दिरयन्ती निरन्तरं काञ्चीम् । इन्दुरविमण्डलकुचा विन्दुवियन्नादपरिणता तरुणी ॥ १२ ॥ शम्पालतासवर्ण संपादयितुं भवज्वरचिकित्साम् । लिम्पामि मनसि कंचन कम्पातटरोहि सिद्धभैषज्यम् ॥ १३ ॥ अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः । आनन्ददां भजे तामानङ्गब्रह्मतत्वबोधिसिराम् ॥ १४ ॥ ऐक्षिपि पाशाङ्कुशधरहस्तान्तं विस्मयाहटत्तान्तम् । अधिकाश्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥ आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया । आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥ मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् । एको भवति स जन्तुर्लोकोत्तरकोतिरेव कामाक्षि ॥ १७ ॥ पञ्चदशवर्णरूपं कंचन काञ्चीविहारधौरेयम् । पञ्चशरीयं शंभोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥ KaREMALE १. चिदाकृतिश्चिदाकृतिश्च मातः' इति क-ख-ग-पाठः, क-ख-ग-पाठः २. असमशर पञ्चशती। परिणतवती चतुर्धा पदवीं सुधियां समेत्य सौषुम्णीम् । पञ्चाशदर्णकल्पितपदशिल्पां तां नमामि कामाक्षीम् ॥ ५९ ॥ आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् । स्वादिष्टचापदण्डां नेदिष्टामेव कामपीठगताम् ॥ ६ ॥ तुष्यामि हर्षितस्मरशासनया काश्चिपुरि कृतासनया । खासनया सकलजगद्भासनया कलिताम्बरासनया ।। ६१ ॥ प्रेमवती कम्पायां स्थैमवती यतिमनःसु भूमवती । सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ।। ६२ ।। कौतुकिना कम्पायां कौमुमचापेन कीलितेनान्तः । कुलदैवतेन महता कुंमलमुद्रां धुनोतु नः प्रतिभा ॥ १३ ॥ केनापि मिलितदेहा यूना खाहासहायतिलकेन । सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥ कुसुमशरगर्वसंपत्कोषगृहं भाति काश्चिमध्यगतम् । स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ १५ ॥ दग्धषडध्वारण्यं दरदलितकुसुम्भसंभृतारुण्यम् । कलये नवतारुण्यं कम्पातटसीनि किमपि कारुण्यम् ॥ ६६ ॥ अधिकाश्चि वर्धमानानतुलां करवाणि पारणामक्ष्णोः । आनन्दपाकभेदानरुणिमपरिणामगर्वपल्लवितान् ॥ ६७ ॥ बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् । एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥ ६८ ॥ किं वा फलति ममान्यैर्बिम्बाधरचुम्बिमन्दहासमुखी । संबाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ।। ६९ ॥ मञ्चे सदाशिवमये परशिवमयललितपौष्पपर्यङ्के । अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥ ति १. 'पञ्चाशद्वर्ण' इति क-ख-ग-पाठः. २. आदिक्षत उपदिष्टवान्. ३. इक्षुधनुर्धा- रिणीम्. ४. स्थैर्यवती. ५. ऐश्वर्यवती. ६. संकोचम्.

MAN ५६ काव्यमाला। लक्ष्योऽस्मि कामपीठीलासिकया घनकपाम्बुराशिकया। श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१ ॥ लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । चरणे चन्द्राभरणे काशीशरणे नतार्तिसंहरणे ॥ ७२ ॥ मूर्तिमयि मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये । मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषास्माकम् ॥ ७३ ॥ वेदमयीं नादमयी बिन्दुमयी परपदोद्यदिन्दुमयीम् । मन्त्रमयी तन्त्रमयी प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७ ४ ॥ पुरमथनपुण्यकोटी पुजितकत्रिलोकमूक्तिरसधाटी । मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥७५ ॥ कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु । अवलोकितमवलम्बनमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥ प्रत्यङ्मख्या दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः । पश्यामि निस्तुलमहो पचेलिमं किमपि परशिवोल्लासम् ॥ ७७ ।। विद्ये विधातृविषये कात्यायनि कालि कामकोटि कले । भारति भैरवि भद्रे शाकिनि शांभवि शिव स्तुवे भवतीम् ।।७८॥ मालिनि महेशचारिणि काञ्चीखेलिनि विपक्षकॉलिनि ते । शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥७९॥ देशिक इति किं शङ्के तत्ताडक्तव नु तरुणिमोन्मेषः कामाक्षि शूलपाणेः कामागमतन्त्रयज्ञदीक्षायाम् ॥ ८ ॥ वेतण्डकुम्भडम्बरवैतण्डिककुचभरातमध्याय । कुङ्कुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥ ८१ ॥ अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि कांचिद्राक्षम् । अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ॥ ८२ ॥ १. 'मुमुदुषा' इति क-ख-ग-पाठः. २. "निस्तुललये' इति क-ख-ग-पाठः. ३. 'विपक्षहालिनि' इति क-ख-ग-पाठः. ४. 'इति नु किमेष: शङ्के' इति ध-पाठः. ५. 'तन्त्रयन्त्र' इति घ-पाठः, ६. 'कुडमरुचये' इति क-ख-घ-पाठः, ।

-ख-गन्यादतिव-पाठः, ७ पञ्चशती। परिचितकम्पातीरं पर्वतराजन्यसुकृतसंनाहम् । परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ।। ८३ ॥ दग्धमदनस्य शंभोः प्रथीयसी ब्रह्मचर्यवैदग्धीम् । तव देवि चतुरिमश्रीतरुणिमपाको न चक्षमे मातः ॥ ८४ ॥ मदजलतमालपत्रा वसनितपत्रा कराहतखनित्रा। विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्ररूतवेषा ॥ ८५ ॥ अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी । जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥८६॥ प्रैणतजनतापवर्गा कृतरणसर्गा ससिंहसंसर्गा । कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ।। श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा । देवि कलितान्त्रखण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८ ॥ उधिरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण.। गुर्वीमकिंचनाति खर्वीकुरुषे त्वमेव कामाक्षि ।। ८९ ॥ ताडितरिपुपरिपीडनमयहरणनिपुणहलमुसला। क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥ ९ ॥ स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला । कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ॥ ९१ ॥ विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी । कामाक्षि पक्ष्मलाक्षी कलितविपश्ची विभासि वैरची ॥ ९२ ॥ कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः । जयति तव रूपभेदं जपपटपुस्तकवराभयाब्जकरम् ॥ ९३ ॥ कनकमणिकलितभूषां कालायसकलहायमानकान्तिजालाम् । कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥ १. भैरवि' इति क-ख-ग-पाठः. २. प्रणतजनताया मोक्षरूपा. ३. 'धृता' इति सर्वेषु पुस्तकेष्वयमेव दुष्टः पाठोऽस्ति. ५. 'कमलघुटी' इति घ- काव्यमाला। लोहितिमपुञ्जमध्ये मोहितभुवनं मुदा निरीक्षन्ते । वदनं तव कुचयुगलं काञ्चीसीमां च केपि कामाक्षि ॥ ९५ ॥ जलधिद्विगुणितहुतवहदशदिनेशकलाश्विनेयदलैः । नलिनैर्महेशि गच्छसि सर्वोत्तमं त्वं करन्ध्रधृतनलिनम् ॥ ९६ ॥ सत्कृतदेशिकचरणा सबीजनिर्वीजयोगनिश्रेण्या । अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥ अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकदहते। चिन्तितसंतानकला संततमपि संतनुष्व महिमानम् ॥ ९८ ॥ जय जय जगदम्ब शिवे जय जय कामाक्षि जयजयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ ९९ ॥ आर्याशतकं भक्त्या पठतामार्याकटाक्षेण । निःसरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १० ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यामायांशतकं चतुर्थम् । स्तुतिशतकम् । पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरी वैरश्चान्यपि गुम्फनानि विगलगर्वाणि शर्वाणि ते । स्तोतुं त्वां परिफुल्लनीलनलिन श्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥ १ ॥ पिच्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे संसारख्यतमोमुपे पुररिपोर्वामाङ्कासीमाजुषे । कम्पातीरमुपेयुषे कवयतां जिह्वाकुटी जम्मुषे विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परज्योतिषे ॥ २ ॥ ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रामकं सिन्दूरन्ति च ये पुरंदरवधूसीमन्तसीमान्तरे । १. 'कुञ्जमध्ये' इति ग-पाठः. २. 'किमपि' इति क-ख-ग-पाठः. ३. इयमार्यापि उन्छन्दोमजदूषितैव. ४. 'सर्वोत्तर' इति घ.पाठः, ५. 'संतानवता' इति ध-पाठः, ६. इयमार्या घ-पुस्तके नास्ति.

पञ्चशती। -- पुण्यं ये परिपक्वयन्ति भजतां काञ्चीपुरे माममी पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३ ॥ कामाडम्बरपूणया शशिरुचा कमस्मितानां विषा कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती। कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४ ॥ कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दशा श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशान्तरा। वामालीजनमौलिभूषणमणिर्वाचां परा देवता कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे ॥ ५ ॥ श्यामा काचन चन्द्रिकात्र भुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी । मारारातिमनोविमोहनविधौ काचित्तमःकन्दली कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥ प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शय- ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्रावयन् । कालिन्दीलहरीदशां प्रकटयन्कम्रां नमस्यदुतां कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७ ॥ तेत्राभूततमालनीलसुपमैस्तारुण्यलीलागृहै. स्तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः । मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाधिमैः कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्कुरैः शांकरैः ॥ ८ ॥ नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती तेजःसंचयपाटवेन किरणानुष्णद्युतेर्मुष्णती । ३. तरुणी' इति १. 'वसतां' इति घ-पाठः. २. रुचा' इति क-ख-ग-पाठः, क-ख-ग-पाठः, ४. पुस्तकचतुष्टयेऽप्यशुद्ध एवायं श्लोकः, काव्यमाला। काञ्चीदेशगतापि दीप्तिजननी विश्वान्तरे जृम्भते काचिञ्चित्रभिह स्मृतापि मनसो निर्वापिका दीपिका ॥ ९॥ कान्तैः केशरुचां वयभ्रमरितं मन्दस्मितैः पुष्पितं कान्त्या पल्लवितं पदाम्बुरुहयोनेत्रत्विषा पत्रितम् । कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली काञ्चीमध्यमहामणिविजयते काचिन्छपाकन्दली ॥ १० ॥ राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् । श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सता- मेका भुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥ जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षणमात्र संस्मरणतः संतापविच्छेदिनी। आश्चर्य बहुखेलनं वितनुते नैश्चल्यमाबिभ्रती कम्पायास्तटसीनि कापि तटिनी कारुण्यपाथोमयी ॥ १२ ॥ ऐक्यं येन विरच्यते हरतनौ दम्भावपुंभावके रेखा यत्कचसीन्नि शेखरदशां नैशाकरी गाहते। औन्नत्यं मुहुरोति येन स महान्मेनासखः सानुमा- कम्पातीरविहारिणा सशरणास्तेनैव धाना वयम् ॥ १३ ॥ अक्ष्णोश स्तनयोः श्रिया श्रवणयोर्बाह्रोश्च मूलं स्टश- नुत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने । भाधुर्यण गिरां गतेन मृदुना इंसाङ्गनां पय- काञ्चीसीनि चकास्ति कोऽपि कवितासंतानबीजाङ्करः ॥१४॥ खण्डं चान्द्रमसंवतंसमनिशं काञ्चीपुरे खेलनं कालायश्छवितस्करी तनुरुचिं कर्णजपे लोचने । १. 'अहो' इति ध-पाठः.. २. हिमालयः. ३. 'मूलस्पृशो' इति सर्वपुस्तकपाठः, पञ्चशती। ar तारुण्योप्मनखंपचस्तनभरं जङ्घास्टशं कुन्तलं भाग्यं देशिकसंचितं मम कदा संपादयेदम्बिके ।। १५ ॥ तन्वानं जनकलिसौधसरणि नैसर्गिकीणां गिरां केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् । अंहोवञ्चनचुचु किंचन भजे काञ्चीपुरीमण्डनं पर्यायच्छवि पाकशासनमणेः पौप्पेषवं पौरुषम् ॥ १६ ॥ आलोके मुखपङ्कजे च दधती सौधाकरी चातुरी चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया। मुग्धस्मेरमुखी घनस्तनतटी मूर्छालमध्याञ्चिता काञ्चीसीमनि कामिनी विजयते काचिजगन्मोहिनी ॥ १७ ॥ यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित- ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्याहो देहिनम् । द्राक्षामाक्षिकमाधुरीमदभरब्रीडाकरी वैखरी कामाक्षि स्वयमातनोत्यभिसृति वामेक्षणेव क्षणात् ॥ १८ ॥ कालिन्दीजलकान्तयः स्मितरुचिवाहिनीपाथसि प्रौढध्वान्तरुचः स्फुटाधरमहालौहित्यसंध्योदये । माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९ ॥ कलकलरणत्काञ्ची काञ्चीविभूषणमालिका कचभरलसच्चन्द्रा चन्द्रावतंससर्मिणी कविकुलगिरः श्रावं श्रावं मिलत्पुलकाङ्कुरा विरचितशिरःकम्पा कम्पातटे परिशोभते ॥ २० ॥ सरसवचसा वीची नीचीभवन्मधुमाधुरी भरितभुवना कीर्तिमूतिर्मनोभवजित्वरी। १. 'स्तनतट' इति क-ख-ग-पाठः, २. इन्द्रनीलप्रभमिति भावः. ३. 'एव' इति क-ख-पाठः, ४. देहिनाम्' इति क-ख-पाठ:. ५. वाणी.

६२ काव्यमाला। जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१ ॥ भ्रमरितसरित्पूरे नीलोत्पलप्रभया भया- नतजनतमःखण्डी तुण्डीरसीनि विजृम्भते । अचलतपसामेकः पाकः प्रसूनशरासन- प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥ मधुरवचसो मन्दस्मेरा मतङ्गजगामिन- स्तरुणिमजुषस्तापिच्छामास्तमःपरिपन्थिनः । कुचभरनताः कुर्युभद्रं कुरङ्गविलोचनाः कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३ ॥ कमलसुषमाकक्षारोहे विचक्षणवीक्षणाः कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः । रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४ ॥ कलितरतयः काञ्चीलीलाविधी कविमण्डली- वचनलहरीवासन्तीनां वसन्तविभूतयः । कुशलविधये भूयासुम कुरङ्गविलोचनाः कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ।। २५ ॥ कवलिततमःखण्डास्तुण्डीरमण्डलमण्डनाः सरसिजवनीसंतानानामरंतुदशेखराः । नयनसरणेनेंदीयांसः कदा न भवन्ति मे तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥ २६ ॥ अचरममिधू दीनं मनिध्वजस्य मुखाश्रया सैरसिजभुवो यानं म्लानं गतेन च मञ्जना । त्रिदेशसदसामन्नं खिन्नं गिरा च वितन्वती तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥ १. मौनध्वजस्य प्रथमं बाणमरविन्दरूपं मुखश्रिया दीनं वितन्वतीत्यन्वयः. २. हंसम्. ३. पीयूषम्, पञ्चशती। जननि भुवने चङ्गम्येऽहं कियन्तमनेहसं कुपुरुषकरभ्रष्टै?ष्टैर्धनैरुदरंभरिः। तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥ २८ ॥ मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी- विहरणकलागेहं काञ्चीपुरीमणिभूषणम् । जगति महतो मोहव्याधेन॒णां परमौषधं पुरहरढशां साफल्यं मे पुरः परिजृम्भताम् ॥ २९॥ मुनिजनमनोधाम्ने धान्ने वचोमयजाह्नवी- हिमगिरितटप्रारभारायाक्षराय परात्मने । विहरणजुषे काञ्चीदेशे महेश्वरलोचन- त्रितयसरसक्रीडासौधाङ्गणाय नमोनमः ॥ ३० ॥ मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषा- ममृतलहरीपूरं पारं भवाख्यपयोनिधेः । सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ।। ३१ ।। प्रणमनदिनारम्भे कम्पानदीसखि तावके सरसकवितोन्मेषः पूषा सतां समुदश्चितः प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वती नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥ शमितजडिमारम्भा कम्पातटीनिकटेचरी निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला । फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥ ३३ ॥ १. 'प्रारभागाय' इति क-ख-ग-पाठः, २. 'अचिराय' इति घ-पाट:. ३. समु- दञ्चति' इति ख-ग-पाठः. ४. 'तन्द्रामुद्रा' इति घ-पाठः. ५. 'कुन्तली' इति ख-घ-पाठः, ६. हिमालयसुता.

काव्यमाला। मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया कुमुदसुपमामैत्रीपात्रीवतंसितकुन्तलाम् । जगति शमितस्तम्भां कम्पानदीनिलयामसौ श्रयति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणी ॥ ३४ ॥ परिमलपरीपाकोद्रेक पयोमुचि काश्चने शिखरिणि पुनद्वैधीभावं शशिन्यरुणातपम् । अपि च जनयन्कम्बोर्लक्ष्मीमनम्वुनि कोऽप्यसौ कुसुमधनुपः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥ पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया सरसकविताभाजां काञ्चीपुरोदरसीमया । तटपरिसरैनीहाराद्रेर्वचोभिरकृत्रिमैः किमिव न तुलामस्मञ्चेतो महेश्वरि गाहते ॥ ३६ ॥ नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं विदधति गतौ व्याकुर्वाणा गजेन्द्र चमक्रियाम् । मरकतरुचो देहे माहेश्वराः स्तननम्रिताः सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरंधराः ॥ ३७ ॥ मनसिजयशःपारम्पर्य मरन्दझरीसुवां कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् । मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥ शिथिलिततमोलीलां नीलारविन्दविलोचनां दहनविलसत्फालां श्रीकामकोटिमुपास्महे । करधृतलसच्छूलां कामारिचित्तमनोहरां मनसिजकपालीलां लोलालकामलिकेक्षणाम् ॥ ३९ ॥ कलालीलाशाला कविकुलवचःकैरववनी- शरज्ज्योत्स्नाधारा शशधरशिशुलाध्यमुकुटी । १. 'कालारि' इति क-ख-ग-पाठः, पञ्चशती। पुनीते नः कम्पापुलिनतटसौहार्दतरला कदा चक्षुर्मार्ग कनकगिरिधानुष्कमहिषी ॥ १० ॥ नमः स्तान्नब्रेभ्यः स्तनगरिमगर्वेण गुरुणा दधानेभ्यश्रूडाभरणममृतस्यन्दशिशिरम् । सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो यशोव्यापारेभ्यः सुकृतविभवेभ्यः पशुपतेः ॥ ११ ॥ असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी- कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः । तमोमुद्रां विद्रावयतु मम काञ्चीनिलयना हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥ अनाद्यन्ता काचित्सुजननयनानन्दजननी निरुन्धाना कान्ति निजरुचिविलासैर्जलमुचाम् । स्मरारेस्तारल्यं मनसि जनयन्ती खयमहो गलत्कम्पा शम्पा परिलसति कम्पापरिसरे ॥ १३ ॥ सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः । स्तनाभ्यामानम्रा स्तबकयतु मे काशिततकं दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥ १४ ॥ कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां निहन्त्री संतापं निगममुकुटोत्तंसकलिका। परा काञ्चीलीलापरिचयवती पर्वतसुता गिरांनीवी देवी गिरिशपरतन्त्रा विजयते ॥ १५ ॥ कवित्व श्रीकन्दा सुकृतपरिपाटी हिमगिरे- विधात्री विश्वेषां विषमशरवीरध्वजपटी । १. कनकगिरिणा मेरुणा धानुष्को धनुष्मान् शिवः तस्य महिषी. २. 'रतिपतेः' इति घ-पाठः. ३. मूलधनम्.

या जयपटाम् ॥ ११ ॥ काव्यमाला सखी कम्पानद्याः पदहसितपाथोजयुगली पुराणी पायान्नः पुरमथनसाम्राज्यपदवी ॥ ४६ ॥ दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः स्तनाभोगकान्तास्तरुणहरिणाङ्काङ्कितकचाः । इराधीना नानाविबुधमुकुटीचुम्बितपदाः कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७ ।। वरीवर्तु स्थेमा त्वाय मम गिरां देवि मनसो नरीन प्रौढा वदनकमले वाक्यलहरी । चरीचर्तु प्रज्ञाजननि जैडिमा नः पैरजने सरीसतु वैरं जननि मयि कामाक्षि करुणा ॥ १८ ॥ क्षणं ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् । नरीनतु स्वैरं वचनलहरी निर्जरपुरी- सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ ४९ ॥ पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां प्रचारस्ते कम्पातटविहृतिसंपादिनि दृशोः । इमां याच्यामूरीकुरु सपदि दूरीकुरु तमः- परीपाकं मैत्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥ उदश्चन्ती काञ्चीनगरनिलये त्वत्करुणया समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् । उपादत्ते मारप्रतिभटजटाजूटमुकुटी- श्रियं विद्यां दद्याजननि नमतां कीर्तिममितां सुपुत्र प्रादत्ते तव जननि कामाक्षि करुणा । १. क्षीणः. २. 'जडिमान' इति क-ख-ग-पाठः, ३. शत्रुजने. ४. मका कख-ना-पाठ पञ्चशती। त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२ ॥ मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् । गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपते- ईशा भोग्यं योग्यं तुहिनगिरिभाग्यं विजयते ॥ १३ ॥ धनश्यामान्कामान्तकमहिषि कामाक्षि मधुरा- न्दशां पातानेतानमृतजलशीताननुपमान् । भवोत्पाते भीते मयि वितर नाथे दृढभव- न्मन शोके मूके हिमगिरिपताके करुणया ॥ १४ ॥ नतानां मन्दानां भवनिगडबन्धाकुलधियां सदान्ध्यं रुन्धानामभिलषितसंतानलतिकाम् । चरन्ती कम्पायास्तटभुवि सवित्री त्रिजगतां स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५॥ परा विद्या हृद्याश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः । तमःपूरं दूरं चरणनतपौरंदरपुरी- मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥ १६ ॥ अहंताख्या मत्कं कवलयति हा हन्त हरिणी हठात्संविदूपं हरमहिषि सत्स्याङ्करमसौं । कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै- रिमामुच्चैरुञ्चाटय झटिति कामाक्षि रूपया ॥ ५७ ।। बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ कटाक्षः कामाक्षि प्रकटजडिमक्षोदैपटिमा । १. 'महान्ध्यं' इति क-ख-ग-पाठः. २. कमलो हरिणविशेषः. ३. क्षोम' इति क-ख-ग-पाठः काव्यमाला। कथंकारं नास्मै करमुकुलचुडालमुकुटा नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥ प्रतीची पश्यामः प्रकटरुचिनीवारकोणिश- प्रभासध्रीचीनां प्रदलितघडाधारकमलाम् । चरन्ती सौषुम्णे पथि परपदेन्दुप्रविगल- त्सुधाद्री कामाक्षी परिणतपरज्योतिरुदयाम् ॥ ५९ ॥ जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती गुम्फान्याचां कविजनकतान्त्वैरमारामयन्ती । शम्पालक्ष्मी मणिगणरुचापाटलैः प्रापयन्ती कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६० ॥ चन्द्रापीडां चतुरवदनां चञ्चलापागलीलां कुन्दस्मेरां कुचभरनतां कुन्तलोडूतभृङ्गाम् । मारारातेमदनशिखिन मांसलं दीपयन्ती कामाक्षी तां कविकुलगिरां कल्पवल्लीमुपासे ।। ६१ ॥ कालाम्भोदप्रकरसुषमा कान्तिभिस्तजयन्ती कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् । कंदपारेः प्रियसहचरी कल्मषाणां निहन्त्री काचीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥ उरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन् । कम्पातीरे विहरति रुचा मोघयन्मेघशैली कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥ काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मी- जोड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः । माकन्दश्रीमधुरकविताचातुरीकोकिलानां मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥ ६४ ॥ १. इन्द्राद्याः कथं न नमस्कुयुः २. 'नीयारकमणि' इति घ-पाठः, पञ्चशती। सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धी लीलालोला कुवलयमयी मान्मथी वैजयन्ती । काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५ ॥ व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् । काञ्चीलीलाविहृतिरसिके काङ्कितं नः क्रियासु- बन्धच्छेदे तव नियमिनां बददीक्षाः कटाक्षाः ॥ ६६ ।। कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती मध्येसौदामनि मधुलिहां मालिकां राजयन्ती हंसारावं विकचकमले मझुमुल्लासयन्ती कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ।। ६७ ॥ चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवाली पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् । जातः शैलान्न तु जलनिधेः स्वैरसंचारशीली काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिगे ॥ ६८ ॥ ताम्राम्भोज जलदनिकटे तत्र बन्धूकपुष्पं तस्मिन्मल्लीकुसुमसुषमा तत्र वीणानिनादम् । व्यावृण्वाना सुलतलहरी कापि काञ्चीनगर्या- मैशानी सा कलयतितरामैन्द्रजालं विलासम् ॥ ६९ ॥ आहारांशं त्रिदशसदसामाश्रये चातकाना- मोकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् । कम्पातीरे विहरतितरां कामधेनुः कवीनां मन्दस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥ ७० ॥ १. चन्द्रकला. २ चातकानामाश्रये मेघे, अर्थात्केशपाशे. ३. आकाशशब्देन मध्य- भागो लक्ष्यते. तदुपरि एषां त्रिदशानां तुङ्गमालयं मेरुम् , अर्थात्स्तनद्वन्द्वम्.

काव्यमाला आर्दीभूतैरविरलकपैरात्तलीलाविलासै- रास्थापूर्णरधिकचपलैरञ्चिताम्भोजशिल्पैः । कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः काश्मल्यं नः कवलयतु सा कामकोटी कटाक्षैः ॥ ७१ ॥ आधुन्वन्त्यै तरलनयनैराङ्गाजी वैजयन्ती- मानन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै । आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चै- राराध्यायै स्टहयतितरामादिमायै जनन्यै ।। ७२ ॥ दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं मोहवेडक्षितिरुहवने तीक्ष्णधारं कुठारम् । कम्पातीरे प्रणयिकविभिर्वर्णितोद्यच्चरित्रं शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥ ७३ ।। खण्डीकृत्य प्रतिकुटिलं कल्मषं प्रातिभश्री- शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती। तुण्डीराख्ये महति विषये स्वर्णवृष्टिप्रदात्री चण्डी देवी कलयति रति चन्द्रचूडालचूली ॥ ७४ ॥ येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा यहक्कोणे मदननिगमप्राभवं बोभवीति । यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किंपचानः कम्पातीरे स जयति महान्कश्चिदोजोविशेषः ॥ ७५ ॥ धन्या धन्या गतिरिह गिरां देवि कामाक्षि काम निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिपन्तीम् । साध्वी माध्वीरसमधुरताभञ्जनी मञ्जुरीति- वाणीवेणी झटिति वृणुतात्स्वधुनीस्पर्धिनी माम् ।। ७६ ॥ १. शौण्डीर्यम. शौर्य मिति यावत्. २. चन्द्रेण चूडाला सशेखरा चूली केशपाशो यस्याः पञ्चशती। यस्या वाटी हृदयकमलं कौसुमी योगभाजां यस्याः पीठी सततशिशिरा शीकरैमीकरन्दैः । यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काची सा मे सोमाभरणमहिषी साधयेत्काङ्कितानि ॥ ७७ ॥ एका माता सकलजगतामीयुषी ध्यानमुद्रा- मेकाम्राधीश्वरचरणयोरेकताना समिन्धे । ताटङ्कोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा तारुण्यश्रीस्तबकितरुचा तापसी कापि बाला ॥ ७ ॥ दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानै- मन्दाराणां मदपरिणति मथ्नती मन्दहासैः । अङ्कराभ्यां मनासिजतरोरङ्कितोराः कुचाभ्या- मन्तःकाञ्चि स्फुरति जगतामादिमा कापि माता ॥ ७९ ॥ त्रियम्बककुटुम्बिनी त्रिपुरसुन्दरीमिन्दिरां पुलिन्दपतिसुन्दरीं त्रिपुरभैरवी भारतीम् । मतङ्गकुलनायिका महिषमर्दिनीं मातृकां भणन्ति विबुधोत्तमा विद्वतिमेव कामाक्षि ते ।। ८० ॥ महामुनिमनोनटी महितरम्यकम्पातटी- कुटीरकविहारिणी कुटिलबोधसंहारिणी । सदा भवतु कामिनी सकलदेहिनां स्वामिनी कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ॥ जैडाः प्रकृतिनिर्धना जनविलोचनारुतुदा नरा जननि वीक्षणं क्षणमवाप्य कामाक्षिते। वचःसु मधुमाधुरी प्रकटयन्ति पौरंदरी- विभूतिषु विडम्बनां वपुषि भान्मथीं प्रक्रियाम् ॥ २ ॥ १. 'श्रुतिचरदुरोमौलि' इति क-ख-पाठः. २. 'मनसिजरिपो' इति क-ग-घ-पाठः. ३. 'जनाः' इति घ-पाठः. ४. 'मन्मथप्रक्रियाम्' इति क-ख-पाठः.

काव्यमाला वनस्तनतटस्फुटस्फुरितकञ्चुली चञ्चली- कृतत्रिपुरशासना सुजनशीलितोपासना । हशोः सरणिमभुते मम कदा नु काश्चीपुरे परा परमयोगिनां मनसि चित्कला पुष्कला ॥३॥ कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी निरूढकरुणाझरी निखिललोकरक्षाकरी। मनःपथदवीयसी मदनशासनप्रेयसी महागुणगरीयसी मम हशोऽस्तु नेदीयसी ।। ८४ ॥ धनेन न रमामहे खलजनान्न सेवामहे न चापलमयामहे भवभयान्न यामहे । स्थिरां तनुमहे तरां मनसि किं च काचीरत- स्मरान्तककुटुम्बिनीचरणपछचोपासनाम् ॥ ८५ ॥ मुराः परिजना वपुर्मनसिजाय वैरायते त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः ! गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ।। ८६ ॥ पवित्रय जगत्रयीविबुधबोधजीवातुभिः पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः । भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षण- निरक्षरशिरोमणि करुणयैव कामाक्षि माम् ॥ २७ ॥ कदा कलितखेलनाः करुणयैव काञ्चीपुरे कैलायमुकुलत्विषः शुभकदम्बपूर्वाङ्कराः पयोधरभरालसाः कविजनेषु ते बन्धुराः पचेलिमकृपारसाः परिपतन्ति मार्गे दृशोः ॥ ८८|| १. 'मर्दिने इति कन्ख-पाठः. २. निरीक्षणशिरोमणे' इति घ-पाठः. ३. क- लायो धान्यविशेषः, तत्पुष्पं नीलवर्ण भवति. 'कलापिमुकुटत्विषः शुभकदम्बपूर्णाङ्कुराः' इति -पाठः पञ्चशती। ७३ अशोध्यमचलोद्भवं हृदयनन्दनं देहिना- मनमधिकाञ्चि तत्किमपि रत्नमुद्दयोतते । अनेन समलंकृता जयति शंकराङ्कस्थली कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ॥ परामृतझराष्लता जगति नित्यमन्तश्चरी नृणामपि बहिश्चरी परमसंविदेकात्मिका । महद्भिरपरोक्षिता सततमेव काञ्चीपुरे ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९० ॥ त्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका त्वमेव परमातृका त्वमपि योगिनीरूपिणी । त्वमेव किल शांभवी त्वमपि कामकोटी जया त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ।। ९१ ॥ परे जननि पार्वति प्रणतपालिनि प्रातिभ- प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वति । त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९२ ॥ मनोमधुकरोत्सवं विदधती मनीषाजुषां स्वयंप्रभववैखरीविपिनवेदिकालम्बिनी। अहो शिशिरिता कृपामधुरसेन कम्पातटे चराचरविधायिनी चरति कापि चिन्मञ्जरी ॥ १३ ॥ कलावति कलाभूतो मुकुटसीम्नि लीलावति स्टहावति महेश्वरे भुवनमोहने भावति प्रभावति रमे सदा महितरूपशोभावति त्वरावति परे सतां गुरुकृपाम्बुधारावति ।। ९४ ॥ १. वेदारण्यविहारिणी.

काव्यमाला। त्वयैव जगदम्बया भुवनमण्डली सूयते त्वयैव करुणाईया तदपि रक्षणं नीयते । त्वयैव खरकोपया नयनपावके हूयते त्वयैव किल नित्यया जगति संततं स्थीयते ॥९५ ॥ चराचरजगन्मयीं सकलहृन्मयीं चिन्मयों गुणत्रयमयी जगत्रयमयीं विधामामयीम् । परापरमयीं सदा दशदिशां निशाहर्मयों परां सततसन्मयी परमचिन्मयीं शीलये ॥ ९६ ॥ जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा जितशरदम्बुजे धनविडम्बिनि केशरुचा । परमवलम्बनं कुरु सदा पररूपधरे मम गतसंविदो जडिमडम्बरताण्डविनः ॥ ९७॥ भुवनजननि भूषाभूतचन्द्रे नमस्ते कलुषशमनि कम्पातीरगेहे नमस्ते । निखिलनिगमवेये नित्यरूपे नमस्ते परशिवमयि पाशच्छेदहस्ते नमस्ते ॥ ९८ ॥ मैनोविपिनधाविनं सततमेव काञ्चीपुरे विहाररसिका परा परमसंविदुर्वीरुहे। कटाक्षनिगडैडेढं हृदयदुष्टदन्तावलं चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥ क्वणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी- शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः। घनश्यामा श्यामा कठिनकुचसीमा मनसि मे मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ॥ १० ॥ १. करुणानिधे' इति घ-पाठः. श्लोकः क-घ-पुस्तकयोनास्ति. २. 'सुररूप' इति घ-पाठः, ३. अयमनिमश्च चतुर्वर्गसंग्रहः। इमं परवरप्रदं प्रकृतिपेशलं पावनं परापरचिदाकृतिप्रकटनप्रदीपायितम् । स्तवं पठति नित्यदा मनसि भावयन्नम्बिका जपैरलमलं मखैरधिकदेहसंशोषणैः ॥ १०१ ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां स्तुतिशतकम् । (समाप्तेयं मूकपञ्चशती।) महाकविश्रीक्षेमेन्द्रकृतः चतुर्वर्गसंग्रहः । प्रथमः परिच्छेदः । सत्यस्कन्धस्तरुणकरुणापूतपीयूषसिक्तः शान्तिच्छायः शुभमतिलतालंकृतः शीलमूलः । भूयात्सत्वप्रसवविलसत्पल्लवः पुण्यभाजां धर्मः प्रोद्यत्कुशलकुसुमः श्रीफलो मङ्गलाय ॥ १ ॥ उपदेशाय शिष्याणां संतोषाय मनीषिणाम् । क्षेमेन्द्रेण निजश्लोकैः क्रियते वर्गसंग्रहः ॥ २ ॥ धर्मः शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः सर्वापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः । धों बन्धुरबान्धवे पृथुपथे धर्मः सुहृन्निश्चलः संसारोरुमरुस्थले सुरतरुस्त्येिव धर्मात्परः ॥ ३ ॥ कणे धर्मकथा मुखे परिचितं धर्माभिरामं वच- श्चित्ते धर्ममनोरथः प्रणयिनी सर्वत्र धर्मस्थितिः । काये धर्ममयी क्रिया परिकरः सोऽयं शुभप्राप्तये कल्पापायपदेऽप्युपल्लवलवैरस्टष्टवेलाफलः ॥ ४ ॥ निन्द्यं जन्म प्रमोहस्थिरतरतमसां यन्मनुष्यत्वहीनं बुद्ध्या हीनो मनुष्यः शुभफलविकलस्तुल्यचेष्टः पशूनाम् ।

काव्यमाला। । बुद्धिः पाण्डित्यहीना भ्रमति सदसतोस्तत्त्वचर्चाविचारे पाण्डित्यं धर्महीन शुकसदशगिरी निष्फल क्लेशमेव ॥ ५ ॥ पाण्डित्यं यन्मदान्धानां परोत्कर्षविनाशनम् । मात्सर्यपांसुपूरेण मातङ्गत्मानमेव तत् ॥ ६ ॥ तत्प्राज्ञलं हरति विमलं येन शीलं न काम- स्ताहीरत्वं प्रशमवशतां यान्ति यनेन्द्रियाणि । तबैदग्ध्यं भुवनजयिनी वञ्च्यते येन माया तत्पाण्डित्यं भवपरिभवः शान्तिमायाति येन || ७ || अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः । मृतः स एवास्ति यशो न यस्य धर्मे न धीर्यस्य स एव शोच्यः!! हितं न किंचिद्विहितं परस्य दत्तं न वित्तं न च सत्यमुक्तम् । यस्मिन्दिने निष्फलतां प्रयातमायुः स कालः परिदेवनस्य ॥ ९ ॥ न दानतुल्यं धनमन्यदस्ति न सत्यतुल्यं व्रतमन्यदस्ति । न शीलतुल्यं शुभमन्यदस्ति न क्षान्तितुल्यं हितमन्यदस्ति ॥ १० ॥ सत्यं वाचि दृशि प्रसादमयता सर्वाशयाश्वासिनी पाणौ दानविमुक्तिरात्मजननक्लेशान्तचिन्ता मतौ । संसक्ता हृदये दयैव दयिता काये परार्थोद्यमी यस्यैकः पुरुषः स जीवति भवे भ्राभ्यन्त्यजीवाः परे ॥ ११ ॥ परप्राणत्राणप्रणिहितधियां धर्मजननी दयैवैका लोके सकलजनताजीवितसुधा । असामान्यं पुण्यं मुनिभिरुदितं ज्ञाननयन- रहिंसा संसारे स्वपरकुशल श्लान्यसरणिः ॥ १२ ॥ प्राणानां परिक्षशाय सततं सर्वाः क्रियाः प्राणिनां प्राणेभ्योऽप्यधिकं समस्तजगतां नास्त्येव किंचित्प्रियम् । १. 'श्रुतिवर्जितः' इति पाठः. २. दानविमुक्ताता जनमनः' इति पाठः, ३, काले इति पाठ ।

चतुर्वर्गसंग्रहः । पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवा- प्राणानामभयं ददाति सुकृती तेषामहिंसाव्रतः ॥ १३ ॥ म एव सत्त्वाभरणप्रभावभूर्भुवः प्रकामाभरणं नरोत्तमः । मुखाम्बुजे यस्य वसत्यनत्यया सदैव सत्याभरणा सरस्वती ॥ १४ ॥ जिन्न कोपनिषण्णमर्थिविफलं शल्यायते यत्परं वित्तं क्लेशनिमित्तमेव मलिनं यातु स्वयं तत्क्षयम् । यत्कारुण्यपरोपकारविकलं भूभारभूतं वपुः स्वार्थासक्तमनर्थसार्थसदनं मा मास्तु तत्कस्यचित् ॥ १५ ॥ वन्धः स पुंसां त्रिदशाभिवन्धः कारुण्यपुण्योपचयक्रियाभिः । संसारसारस्वमुपैति यस्य परोपकाराभरणं शरीरम् ॥ १६ ॥ परद्रविणनिस्टहः परकलत्रनिष्कौतुकः परप्रणयवत्सलः परनिकारबाहक्षमः। परस्तुतिविशारदः परगुणापवादोज्झितः परार्तिहरणोद्यतो भवति भूरिपुण्यैर्नरः ॥ १७ ॥ पमानामिव सा सतां सगुणता या संश्रया श्रियः सा श्रीभद्रगजेन्द्रमूर्तिरिव या दानेन विभ्राजते । तद्दानं नवचन्द्रवद्यदनिशं मानेन संपूर्यते मानोऽसौ तृणवन्न यः परिचयम्लानः शनैः शुष्यति ॥ १८ ॥ लक्ष्मीनिफला श्रुतं शमफलं पाणिः सुरा फल- श्रेष्टा धर्मफला परातिहरणक्रीडाफलं जीवितम् । वाणी सत्यफला जगत्सुखफलस्फीता प्रभावोन्नति- र्थव्यानां भवशान्तिचिन्तनफला भूत्यै भवत्येव धीः ॥ १९ ॥ शीलं शीलयतां कुलं कलयतां सद्भावमम्यस्यता व्याज दर्जयतां गुणं गणयतां धर्म धियं बध्नताम् । क्षान्तिं चिन्तयतां तमः शमयतां तत्त्वश्रुति शृण्वतां संसारे न परोपकारसदृशं पश्यामि पुण्यं सताम् ॥ २० ॥ १. 'चयः क्रियामिः' इति पाठः.

काव्यमाला। तीर्थानि दीर्वाधवपरिश्रमाणि बहुव्ययानि क्रतुडम्बराणि । तपांसि मुक्त्वा तनुशोषणानि हिंसाविरामे रमतां मतिर्वः ॥ २१ ॥ यज्वा विप्रः शुचिरनुचरः संयतात्मा तपस्वी मन्त्री विद्वानवनिवनिताभूषणं भूमिपालः । धर्मोद्याने सुकृतसलिलासारसंसिच्यमाने पूर्णः सोऽयं कृतयुगतरो विनो बीजवापः ॥ २२ ॥ दम्भेन शीलवतमस्टहत्वं विरक्तता श्रोत्रियता मृदुत्वम् । एतानि मूलानि निगूढगूढकौटिल्यलीनानि कलिलुमस्य ॥ २३ ॥ चावन्ति दानानि वदन्ति सन्तस्तपांसि तीर्थानि च यानि सन्ति । तत्पुण्यमेकत्र विभाति सर्व महार्हमेकन च निःस्टहत्वम् ॥ २४ ॥ सतामदैन्यं बदनस्य शोभा निर्लोभतान्तर्वचसामयाच्या । कायस्य सत्सेव्यमसेवकत्वं पाणेरनुत्तानतलत्वमेव ॥ २५ ॥ मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः । धनी सुशीलाइनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन ॥ २६ ॥ तप्तैस्तीजवतैः किं विकसति करुणास्यन्दिनी यद्यहिंसा कि दूरैस्तीर्थसारैयदि शमविमलं मानसं सत्यपूतम् । यत्नादन्योपकारे प्रसरति यदि धीर्दानपुण्यैः किमन्यैः किं मोक्षोपाययोगदि शुचिमनसामच्युते भक्तिरस्ति ॥ २७ ॥ इति धर्मप्रशंसा नाम प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः। प्रधानधानां निधये धनाय नमोऽस्तु तस्मै गुणिनोऽपि यत्नात् । यदाशया निर्गुणभूपतीनामने गुणान्पण्यदशां नयन्ति ॥ १ ॥ दानादिधर्मः क्रियते धनेन धनेन धन्या धनमाप्नुवन्ति । धनविना कामकथापि नास्ति त्रिवर्गमूलं धनमेव नान्यत् ॥ २ ॥ यत्क्लीबैर्भटकुक्कुटोत्कटरणक्रीडा समादिश्यते यन्मूः सुखलीलया कविशुकालापश्चिरं चय॑ते ।

चतुर्वर्गसंग्रहः।
७९
नीचैरुञ्चतरश्च सेवकहयः वाम्येन यहाह्यते
तद्वित्तस्य विलासनृत्तवसतेरुद्वृत्तसत्तायितम् ॥ ३ ॥
पूजा धनेनैव न सत्कुलेन कीर्तिधनेनैव न विक्रमेण !
रूपं धनेनैव न यौवनेन क्रिया धनेनैव न जीवितेन ॥ ४ ॥
वृद्धाः प्रसिद्धा विबुधा विदग्धाः शूराः श्रुतिज्ञाः कवयः कुलीनाः ।
विलोकयन्तः सधनस्य वक्र जयति जीवेति सदा वदन्ति ॥ ५ ॥
ऋद्ध्या युतं निश्चलपक्ष्मनेत्रं मौनान्वितं देवमिवाकुलीनम् ।
दीनः कुलीनः प्रणमन्कुलीनः कृताञ्जलिः स्तौति धनाभिकामः ॥ ६ ॥
तस्मादलब्धगविणस्य लाभे लब्धस्य रक्षानियमे यतेत ।
संरक्षमाणस्य सदा विवृद्धौ वृद्धस्य च स्थानविभागसगै ॥ ७ ॥ (युग्मम्)
धर्माधानोऽशशिशुचियमः प्रेयसीमित्रबन्धु-
स्थानोत्साहोपचयविजयप्राणविद्याकलाप्तौ ।
लाध्ये देहप्रशमसमये निर्विवादे विभागे
वित्तत्यागे न भवति सतां ग्रन्थिबन्धानुबन्धः ॥ ८ ॥
गोष्ठीविटैश्चारणचक्रचर्या वेश्यारतिः साधुविशेषगन्धः ।
स्पर्धा सुवेनिजबत्तिलज्जा प्रधानमेतन्निधनं धनानाम् ॥ ९ ॥
जाया शीलविवर्जिता व्ययवती मायानिकायः सुह-
दुष्पूरो गुरुरर्थभोगनिचयैबन्धुर्दरिद्रः शठः ।
दासश्चौर्यपरोऽसलश्च कुपदे पुत्रः खलैः पातितः
सोऽयं क्लेशशताप्तसंचयनिधेः प्रत्यक्षलक्ष्यः क्षयः ॥ १० ॥
दाक्ष्यं वित्तस्य मूलं सुनयपरिचयः संपदुद्यानसेकः
प्रागल्भ्यं रत्नवर्षि व्यसनवनसमुन्मूलनं संयतत्वम् ।
श्रीरक्षा मन्त्रगुप्तिर्विपदुपशमनं वर्जनं दुर्जनाना-
मालस्यं मानवानां धनवननलिनासह्यभारस्तुषारः ॥ ११ ॥
हिमासहत्वं रवितापभीतिः कथामतिर्मार्गजनप्रतीक्षा ।
लज्जाभिमानः क्षणसंमुखत्वं नक्षत्रचर्चा च धनस्य विनाः ॥ १२ ॥

काव्यमाला। वेषः परिक्लेशविशेषचिन्ता परोपरोधः स्ववशावलेपः । नदीफलानामिव शीघ्रगानां हानिधनानां ग्रहणे विलम्बः ॥ १३ ॥ गुरुगणकैरबुधानां क्षयचतुरैश्चौरम्पकैवणिजाम् । कायस्थगायनगणैभूमिभुजां भुज्यते लक्ष्मीः ॥ १४ ॥ दारिद्येण कुलं मदेन कुशलं द्वेषेण विद्याफलं शीलं दुर्जनसंगमेन मलिनाचारेण शुक्लं यशः । आलस्येन धनं प्रयाति निधनं लौल्येन मानोन्नति- यांच्यादैन्यपरिग्रहेण च गुणग्रामः समग्रो नृणाम् ॥ १५ ॥ माध्यान्मृगार्थी रघुनन्दनोऽपि बाणः प्रमादाद्वलिराजवेन । नलः कुसङ्गेन ययातिजश्च क्लेशासहत्वाद्व्यसनान्यवापुः॥ १६ ॥ मौग्ध्यं प्रमादोऽविश्वासः कुसङ्गः केशभीरुता । पञ्च संकोचदा दोषाः पदिन्या इव संपदः ॥ १७ ॥ कुभूपकूपान्तरलम्बनाप्तवित्तानि रन्धैर्घटसंनिभानाम् । असंवृतैरिन्द्रियनामधेयः पुंसां पयांसीव परिस्रवन्ति ॥ १८ ॥ साखादे नवसौरभे मधुलिहां पद्मोदरे बन्धनं दीपे रूपरताः प्रयान्ति सततापातात्पतङ्गाः क्षयम् । गीतेनैव मृगाः पतन्ति करिणीस्पर्शन नीता गजा- स्तस्मादिन्द्रियसक्तिरेव सहसा पुंसां विपतिका ॥ १९ ॥ कुलं कुवृत्या कलुषीलतं तैः कृतो गुणौघस्तुणतुल्यमूल्यः । मानस्य मूले निहितः कुठारः प्राप्तं न वित्तं परिरक्षितं यैः ॥ २० ॥ जातः सत्कुलजः स नीचविनयी सेवावमानैरध- स्तस्योग्रं पतितः स्वमानयशसोद्रोहेण शापानलः । तेनास्वस्तिमता स्वहस्तनिहितं याच्याविषं भक्षितं वित्तं येन न रक्षितं रिपुमुखं तेन स्थितं वीक्षितुम् ॥ २१ ॥ धावन्सेवितुमेति साधुरधमं वन्ध्यस्ततो यात्यसौ नीता मूल्यतुलां गुणाश्च गुणिभिः कश्चिन्न गृह्णाति तान् ।

चतुर्वर्गसंग्रहः ।
याच्या मानमहाशनिर्धनकता प्राप्तं न किंचित्तया
किं किं वा न विधीयते धनधिया धन्यः स यस्यास्ति तत् ॥२२॥
विद्याकलापरिचयः क्षितिपालसेवा
दिग्द्वीपमार्गगिरिसंभ्रमणप्रयासः ।
युद्धक्रियाश्च भुवि भोजनलाभलोमा-
तद्वित्तलभ्यमिति वित्तवतां प्रवादः ॥ २३ !!
तावद्धर्मकथा मनोभवरुचिमोक्षस्टहा जायते
यावत्तृप्तिसुखोदयेन न जनः क्षुत्क्षामकुक्षिः क्षणम् ।
प्राप्ते भोजनचिन्तनस्य समये वित्तं निमित्तं विना
धर्म कस्य धियः स्मरं स्मरति क; केनेक्ष्यते मोक्षभूः॥ २४ ॥
अर्थाष्टिं विधातुं कटुरटनपटुर्दाम्भिकः श्रीजडानां
जानात्यन्यासहिष्णुर्वितथनिजगुणस्तोत्रपाठेवलज्जः ।
आर्यः कुर्यान्न सेवां कुलविनयगुणैस्तेन मूकोऽर्थनायां
तीक्ष्णानां मार्गणानां भवति हि पुरतः मापतेर्लक्षलाभः ॥ २६ ॥
इत्यर्थप्रशंसा नाम द्वितीयः परिच्छेदः ।
तृतीयः परिच्छेदः।
ललितललनालीलोदञ्चबिलोलविलोचनो-
पलवनरुचां चञ्चन्तीनां चौरिव चर्चिता ।
सुरभिसुहृदः पक्षच्छायावृतेव च षट्पदैः
कुसुमधनुषः श्यामा मूर्तिस्तनोतु सुखानि वः ॥ १ ॥
भ्रमझमरकेतकीविकसदेकपत्रप्रभाः
सनीलमणिनायका इव विमुक्तमुक्तालताः ।
ढशः शशिकला इव प्रतिपक्षमलेशाङ्किता
जयन्ति हरिणीदृशाममृतकालकूटच्छटाः ॥ २ ॥
ऋतुं धनानां फलमयमाहुः फलं ऋतूनामविवादि पुण्यम् ।
पुण्यस्य पूर्ण फलमिन्द्रलोको द्विरष्टवर्षाः स्त्रिय एवं नाकः ॥ ३ ॥

८२ एताः सन्ति वधूविलासकुटिला भ्रूकार्मुकश्रेणयः कर्णान्तायतपातिनश्च तरुणीनेत्रत्रिभागेषवः । निर्दग्धोऽन्धकवैरिणा नवमनःक्षोभाभियोगोद्भवा- त्संरम्भादविचार्य केवलमसौ मिथ्या तपस्वी स्मरः ॥ ४ ॥ लज्जावक्रो मनसिजधनुर्भूविलासेन तन्व्या- श्चिन्तापाण्डुः स्टशति कृशतां वक्रकान्त्या शशाङ्कः । यात्येवाधः प्रहसितरुचिदौलताभ्यां मृणाली कीवं धत्ते कुवलयकुलं कालिमानं कटाक्षैः ॥ ५ ॥ अयोमयानां हृदयेषु तेषां कोऽप्यस्ति नूनं कुलिशोपदेशः। सोढानि यैः प्रौढविलासिनीनां कर्णान्तमुक्तानि विलोचनानि ॥ ६ ॥ कुवलयमयी लोलापांङ्गे तरङ्गमयी ध्रुवोः शशिशतमयी वक्रे गाने मृणाललतामयी। मलयजमयी स्पर्श तन्वी तुषारमयी स्मिते दिशति विषमं स्मृत्या तापं किमग्निमयीव सा ॥ ७ ॥ स्मरशरनिशिताक्ष्याः कम्पयन्ते न केषां कुरव इव कटाक्षाः प्रौढशल्या मनांसि । भुवनजनजिगीपोत्साहयोगाय येषा- मधिचपलतराणां निश्चला कर्णमैत्री ॥८॥ स्तनस्थली हारिणि सुन्दरीणां नितम्बबिम्बे रशनासनाथे। धत्ते विशेषाभरणाभिमानलीलानवोल्लेखलिपिप्रपञ्चम् ॥ ९ ॥ कान्ताया विलसद्विलासहसितस्वच्छांशवश्वामरं संसक्तावभिषेकहेमकलशौ यचन्दनाको स्तनौ । यत्कार्तस्वरकान्ति चारु जघनं सिंहासनं भूभुजां साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्तामयः ॥ १० ॥ नासादितानि वनवासदृढव्रतेन चित्राणि नेत्रचरितानि मृगैर्मुगाक्ष्याः ।

लीनप्रतापमिव मन्मथमुहहन्त्याः ।। १५ ।। चतुर्वर्गसंग्रहः। ८३ तत्कान्तिरज्ज्वलरुचिव्यसनादहो नु हेम्ना हुताशपतनैरपि नैव लब्धा ॥ ११ ॥ अभिनवपयोधरोद्गतिविषमस्थितिहारहंसमुखपतिता। शैवलवलीव चास्यास्त्रिककलिता भाति रोमलता ॥ १२ ॥ नेयं तरुण्यास्त्रिवली तरङ्गकुसङ्गिनी राजति रोमराजिः । स्नात्वा गतोऽस्यां स्मरकेलिवाप्यां कलङ्कलेखामपहाय चन्द्रः ॥१३॥ कणे कोकिलकामिनीकलरवः संतप्तसूचीचयः फुल्लाशोकपलाशचम्पकवनाशुद्दामदावानलः । तन्वङ्गया विरहे वसन्तसमयः कालः किमन्यन्नृणां देहोच्चाटनमेव षट्पदघटाघ्राणातिथिर्मन्मथः ॥ १४ ॥ आपाण्डुता मदनकीर्तिसखी मुखेन्दौ प्रौहिं बिभर्ति विरहे हरिणायताक्ष्याः । अच्छिन्नबाप्पविसरारुणनेत्रकोण- वियोगे तन्वङ्गया हृदयदमने दैन्यसदने धने भर्तृत्तेहान्मदनदहने धैर्यचलने । समासन्ने चिन्ताव्यसनशमने प्राणगमने तनुस्तापम्लाने वलति नलिनीपत्रशयने ॥ १६ ॥ दाक्षिण्यप्रणयेन पादपतिते कान्ते मया नेक्षिते प्राणानां ज्वलितः प्रवासपिशुनः शापानलः पश्यसि । एतैः संभ्रमकातरे किमधुना मिथ्यासमाश्वासनैः संतापाय सखि त्वयैव ननु मे मानोपदेशः कृतः ॥ १७ ॥ समायाते पत्यौ बहुतरदिनप्राप्य पदवीं समुलङ्घयाविनागमनचतुरं चारुनयना । १. 'आयाते दयिते मरुस्थलभुवामुद्रीक्ष्य दुर्लयतां तन्वया परितोषबाध्पतरला- मासज्य दृष्टिं मुखे । दत्त्वा पीलुशमोकरीरकवलं स्वेनाञ्चलेनादरादुन्मृष्टं करमस्य केसर- सटाभारावलग्नं रजः॥' इत्यद्भुतफुल्लकवेरयं श्लोकः सुभाषितावलि-सूक्तिमुक्तावलि-शार्ङ्गध. रपद्धति-दशरूपावलोकादिषु प्रसिद्धः, 'समायाते' इत्यादिक्षेमेन्द्र श्लोकस्त्वस्य च्छायारूपः.

८४ काव्यमाला। स्वयं हौदाच्या हरति तुरगस्यादरवती रजः स्कन्धालीनं निजवसनकोणावहननैः ॥ १८॥ वासः कम्पविशृङ्खलं वितिलकं स्वेदोद्गमादाननं संदष्टोऽधरपल्लवः कलयति श्वासोप्मणा म्लानताम् । दूति त्वद्वचने शठस्य कठिनस्याओ गते कुण्ठतां मत्स्नेहाद्विहितस्त्वया कुपितया क्लेशप्रवेशः कियान् ॥१९॥ व्याप्तास्वशोकज्वलनेन दिक्षु निरन्तरापातशिलीमुखासु । रुद्धासु जालैर्वनमञ्जरीणां नष्टा गतिः पान्थकुरङ्गकस्य ॥ २० ॥ विकसति सहकारे दुःसहे कर्णिकारे मधुकरपरिहारे सस्मिते सिन्धुवारे । अहह विरहभीत्या कामिनी कण्ठलग्नां त्यजति नववसन्ते इन्त कापालिकः कः॥ २१ ॥ तन्वङ्गया नवसंगमे व्यवसिते कान्ते बलान्मेखलां मोक्तुं श्वासविकासकम्पविकलाः कण्ठे लुठन्त्यः सुधाम् । मौलत्पानिपीडितालिरणिता क्लीबा:(?) किरन्ति क्षणं धन्यानां नननेति निःसहतया हुंकारगर्भा गिरः ॥ २२ ॥ गाढालिङ्गननिश्चलाङ्गलतिका कान्तेन रुदा बला- दालम्ब्यालकवल्लरी विदधता वक्राम्बुजे चुम्बनम् । कम्पप्रस्फुरितारुणाधरदला बाला निमील्याक्षिणी मन्ये मानसजन्मजीवजननं जप्यं समभ्यस्यति ॥ २३ ॥ केनैते विशिखाः स्फुरच्छिखिशिखाशाखासखा मानिनी- मौनोन्माथष्टथुप्रथा विरहिणीनिःश्वासपक्षानिलाः । सह्यन्ते रतिवल्लभस्य लटभानेत्रान्ततीक्ष्णानना संदष्टाधरपल्लवाग्रतरुणीसीत्कारशूत्कारिणः ॥ २४ ॥ आयुर्दीर्घतरं तनोतु नयनद्वन्दं कुरङ्गीदशां कीर्ति ते स्मितसंततिः स्तनतटश्रोणी विशालश्रियम् ।

चतुर्वर्गसंग्रहः । देवस्य त्रिजगज्जयाय पटहे दत्ते मृगाक्षीगुरो- रित्युत्साहसहे हिताय विहिता जाने जनन्याशिषः ॥ २५ ॥ इति कामप्रशंसा नाम तृतीयः परिच्छेदः । चतुर्थः परिच्छेदः । भोगाभोगविलोपकोपकलहैरस्तोकशोकाकुलं कामं काममकामधामसमयं योग वियोगानुगम् । रोगोद्गारविकारपाकविषमं निर्मूल्यनेत्रव्यथाः सेकं मोक्षफलस्य संशयतरोरेकं विवेकं नुमः ॥ १ ॥ उद्याने मधुचन्द्रिका शशिमुखीगीतं सुहृत्सत्कथा कस्येदं न सुखाधिक सुखसखी प्रीति परां वर्षति । कि त्वेतत्खलसङ्गसर्परसनामातङ्गकर्णाशल- प्रौढापाङ्गपतङ्गपक्षगणिकानागेन्द्रजालोपमम् ॥ २ ॥ बाल्यं दुःसहमोहसंहतिहतं रागोल्बणं यौवनं वृद्धत्वं सकलोपभोगकलनावैकल्यशल्याकुलम् । वैराग्येण विना विनष्टविमलालोकं सशोकं सदा संसारे सरतां पुनःपुनरहो यातं वृथा जीवितम् ॥ ३ ॥ दृष्टा बालकचेष्टा यौवनदोऽथ वृद्धवैराग्यम् । सापि गता सोऽपि गतस्तदपि गतं स्वप्नमायेयम् ॥ ४ ॥ पुनःपुनर्जन्मसहलहेतुर्मलीमसः स्नेहसमोऽस्ति नान्यः । पुंसः प्रदीपस्य च यः करोति सेवोन्मुखत्वं गृहसंविभागे ॥ ५ ॥ आक्रान्तं पिशुनैनरेन्द्र भवनं विद्यागृहं मत्सरै- रायासैद्रविणं कुलं कुतनयैर्नानावियोगैः सुखम् । साधुत्वं खलवञ्चनापरिभवैश्चिन्तासहस्त्रमन- स्तनास्त्येव न यत्सरोषकलुपं निर्दोष एकः शमः ॥ ६ ॥ भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्भयम् ।

काव्यमाला। माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भूयं सर्व नाम भवे भवेद्यमहो वैराग्यमेवाभयम् ॥ ७ ॥ कृतं शमजलेन यैर्विरततीव्रतृष्णं मनः परं भवपराभवोद्धरणधीरधुने ते । भजन्ति जननीजतप्रस्तदुग्धधाराधन- स्तनप्रणयि तत्पुनर्दशनशून्यमास्यं नराः ॥ ८॥ उत्सृज्य संतोषसुखामृतानि प्रीत्यै पराराधनसाधनानि । अहो नु मानानि धनानि पुंसां धनानि निद्रासुखसाधनानि ॥ ९॥ विवेकस्वाधीने विजनगमने जन्मशमने विकारे संसारे व्यसनपरिहारेऽपि सुकरे । परं लज्जा साधोः प्रसवसमये शोणितमये पुनः पाणि मा क्षिपति यदि धात्रीति पतितः ॥ १० ॥ आयालप्रसवे विचारविरसे लज्जाजुगुप्सास्पदे रागान्धा विरमन्ति नैव कुपदे स्त्रीभोगनानि च्युताः । चित्तं नास्ति संचेतसामपि निजाकर्षे विमर्षः क्षणं रत्यन्येषु पराङ्मुखत्वमनिशं प्राप्नोति नायं जनः ॥ ११ ॥ केशाकुले रक्तकषायपङ्ककपालभाजि प्रकटास्थिदन्ते । कायश्मशाने रमतेऽङ्गलानां कामाकुलः कामुककाकलोकः ॥ १२॥ अहो तृष्णा वेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम् । विपदीक्षादक्षासहतरलतारैः प्रणयिनी- कटाक्षैः कूटाः कपटकुटिलैः कामकितवः ॥ १३ ॥ बाल्यं कुलीरजननीजनकनमोहं तद्यौवनं कुलटभासुभगोपयोगम् । शुद्धत्वमप्युपचितं कुकलत्रपुत्रैः सत्यं न किंचिदिदमत्र खचित्रमित्रम् ॥ १४ ॥ १. 'दक्षैः समतरलहारः' इति पाठः, चतुर्वर्गसंग्रहः । न कस्य कुर्वन्ति शमोपदेशं स्वग्नोपमानि प्रियसंगतानि । जरानिपीतानि च यौवनानि कृतान्तदष्टानि च जीवितानि ॥ १५ ॥ चिन्त्यन्ते यदि नाम रामनहुषश्वेतादिराजर्षयः किं तैर्याति विशालकालकलनामीलत्कथाकौतुकैः । गण्यन्तां स्वदृशैव भूरिविभवा दृष्टाश्च नष्टाश्च ये तस्मात्सर्वमनित्यताकवलितं ज्ञात्वा शमः स्मर्यताम् ॥ १६ ॥ यदा लोला लक्ष्मीः क्षितिपतिरणारण्यहरिणी यदा स्वप्नोन्मेषा तनुघनतडिद्यौवनरुचिः । यदा कालः कामं जनजलजकिञ्जल्कमधुप- स्तदा संसारेऽस्मिन्नविबुधमनो नोपरमते ॥ १७ ॥ संतोषाम्भः पिबति निमृतवच्छमिच्छामयूरी भ्रान्त्वा चान्तःकरणहरिणो याति विश्रान्तिमन्तः । लीन श्चायं शमतरुजले शीतले तापतान्ति मीलत्कामस्त्यजति नियतं मत्तचित्तद्विपेन्द्रः॥ १८ ॥ याते भोगे स्मरणपदवी सक्तनानावियोगे शोकः स्तोकं स्टशति न मनः सर्वथा निय॑थानाम् । काले काले किल कलयतामन्तवत्सर्वमन्तः प्रायः कायक्षयपरिचये निश्चये निर्भर नः ॥ १९ ॥ यातु व्यक्तिं कुसुमसमयः संचयः सौरभानां खे खेलन्तो मलयनिलयाः संततं वान्तु वाताः । कामः कामं क्षपयतु धृति पक्ष्मलाक्षीकटाक्षः शान्तिश्चित्ते स्थिरसुखसखी निर्विकारे ममास्तु ॥ २० ॥ जरानिगीणे सुभगाभिमाने म्लाने शनैर्भूतिलताप्रताने । धनावदाने शिथिलाभिमाने धृतिनिधाने प्रशमाभिधाने ॥ २१ ॥ रागेण साधं वयसि प्रयाते गतेषु भोगेषु सह स्टहाभिः । देहे च मोहेन समं प्रलीने निरर्गलोऽसावपवर्गमार्गः ॥ २२ ॥ १. 'संतताः' इति पाठः.

८ काव्यमाला। . चित्तं वातविकासिपांसुसचिवं रूपं दिनान्तातपं भोगं दुर्गतगहबन्धचपलं पुप्पस्मितं यौवनम् । स्वप्नं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपा नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥ २३ ॥ अभिन्नार्थानर्थः सुहृदरिपरिच्छेदरहितः समावज्ञामानः सदृशसुखदुःखव्यतिकरः । न मौनी नामौनी वनजलसमानासनमना न दैन्यं नादैन्यं स्टशति गुणनैर्गुण्यविरतः ॥ २४ ॥ सा दूरे हरिचन्दनस्य न परं हारेण किं हारिता नो कान्ताकुचमण्डलस्य सुलभा चन्द्रे दरिद्रे कुतः । गीते संगतिरेव नास्ति समता तस्यां न सिद्धामधो- नैराश्ये सहसैव चेतसि कते या प्रीतिरुज्जृम्भते ॥ २५ ॥ लब्धावधिः सत्यमुखामृतस्य नवप्रमोदादुतपूर्णकामः । भारावतारादिव निर्वतोऽहं त्यागेन सर्वाग्रहसंग्रहाणाम् ॥ २६ ॥ धनार्जनविचिन्तन हृदयरोपिताशावनं वृथा चरणशातनं खलकदर्यसंसेवनम् । सदा व्यसनशोचनं प्रियवियोगदीनाननं विहाय गृहमज्जनं व्रजति पुण्यवान्निर्जनम् ॥ २७ ॥ नास्ति स्वस्तिकरः परः परिभवो धर्मात्मनां प्राणिना- मापत्तापशमक्ष धनसमं नान्यत्क्रियाजीवितम् । संसारे परमस्ति नोऽत्र सुखदं रम्यं न रामानना- सर्वक्लेशविनाशनिवृतिरसः को नाम मोक्षात्परः ॥ २८ ॥ चतुर्वगोपदेशेन क्षेमेन्द्रेण यदर्जितम् । पुण्यं तेनास्तु लोकोऽयं चतुर्वर्गस्य भाजनम् ॥ २९ ॥ इति मोक्षप्रशंसा नाम चतुर्थः परिच्छेदः समाप्तोऽयं चतुर्वर्गसंग्रहः। १. 'वातविलासिपांसुसन वित्तम् इति पाठः. २. गेहदीपचपलम्' इति पाठा,

अन्योक्तिशतकम् ।
भट्टवीरेश्वरकृतम्
अन्योक्तिशतकम् ।
प्रोन्मीलल्लोलभौलिश्लथविकटजटाजालमालोक्य मुह्य-
गङ्गासंपातजातभ्रमभरविवशो विक्षिपल्लोचनानि ।
आकर्षन्मौक्तिकाली गिरिवरदुहितुः कण्ठसीमात उच्चैः
प्रातः श्रीहैमवत्या तदनु विहसितो लजितः पातु शंभुः ॥ १ ॥
पत्रं मुग्धतरं फलं सुमधुरं सौरभ्यमभ्युन्नत
चञ्चत्काञ्चनजित्वरं पुनरहो त्वत्केसरं सुन्दरम् ।
लावण्यं पुनरुत्तमं किमपरं किं तु स्फुरत्कण्टक-
व्यग्रं नालमिदं सरोरुह परं तेनातियामहे ॥ २ ॥
यस्मिन्स्फीतमहो निपीतमधुना दिव्यं मधु खेच्छया
नीतान्येव दिनानि केलिभिरहो संयापिता शर्वरी ।
तस्मिञ्शीतनिपातजातविकले मल्लीकुले किं वृथा
हा हा हन्त शो मधुव्रत दशोरेवंविधोऽनुग्रहः ॥ ३ ॥
सर्वाङ्ग वणितं मुहुविलुलितं सूचीदलेलोचनं
बूलीभिः कलितो हिरेफ भवता लब्धो रसः केतके ।
अद्यापि स्फुटमेव गुञ्जसि परं नो बुद्ध्यसे तत्कथं
स्वां वच्मि प्रसभं ततो विलुठितो भूमौ परं ज्ञास्यसि ॥ ४ ॥
व्याघूर्णन्नवकुम्भिकुम्भयुगलं व्यालम्ब्य गुञ्जस्यलं
दानादानधिया मदोन्मदतनुर्युक्तं किमेतद्वद ।
नो जानासि दुरन्तदन्तविदलत्मोद्दण्डशुण्डाभर-
व्याघातोत्पतदङ्गभङ्गविकलः प्रौढव्यथां भृङ्ग है ॥ ५ ॥
पेयं पङ्कजकोरके मधु नवं नेयं दिनं निर्भर
केलीभिर्निभृतं सुखेन सहसा संयापनीया क्षपा ।
किं तु प्रेमपिनाहमुग्धविदलत्सौरभ्यभव्योदयो
नो हेयो नितरां मधुव्रत सुधासनी लवङ्गीरसः ॥ ६ ॥

काव्यमाला माध्वीक परिपीय पङ्कजवने विभ्रष्टबुद्धिः परं वारंवारमहो विचाररहितो भूयश्चिरं गुञ्जसि । नो जानासि सुगन्धवन्धुरदलां लावण्यलीलाकुलां स्निग्धान्तःकरणां मधुव्रत मनाम छीमतही पुनः ।। ७ ।। प्रोदामातुलचण्डधामबहलज्वालाकलापाकुले शून्ये संप्रति निर्जले पुनरहो निर्वीरुदुर्वीतले । एतस्मिन्समुपागतो गजपति वेत्तदा निर्भर धाराभिर्धरणीतलं यदि मनाग्धाराधरः सिञ्चति ॥ ८ ॥ यावत्पङ्कजकोरकान्विकसयश्रीमानसौ भानुमा- नीदेति प्रसभं तमांसि विदलन्सानन्दमुच्चैस्तराम् । तावद्धोरधनान्धकारमिलितो झिल्लीरवाह्लादितो विद्युत्पुञ्जविजम्भितोऽम्बरतलं खद्योत विद्योतय ॥ ९ ॥ फुल्छकैरवकोपनिर्गतसुधासंसक्तभृङ्गाङ्गना- मञ्जुध्वानधुरीणशीतकिरणे जागति मुग्धाम्बरे । मन्येऽहं निविडान्धकारपटलीसंलीनसकितेः खद्योतस्य हतप्रभस्य कियती शक्तिः समुन्मीलति ॥ १० ॥ स्वच्छन्दं नवमालिकासु विहर प्रेम्णारविन्दे पुनः कुन्दे चापि तथा द्विरेफ कुमुदेऽथानन्दमङ्गीकुरु । कि त्वेतस्य कदापि केतकतरोर्मा गाः समक्ष यतो धूलीभिर्धनकण्टकैश्च नितरां संवर्धितो वर्तते ॥ ११ ॥ नासौ पश्यति मालती नहि मनाक्प्रेमाणमालम्बते चञ्चञ्चम्पककोरकेषु कुरुते मोदं न मल्लीकुले । स्मारं स्मारमुदारकेसरलतां नालोकते पद्मिनी क्षामः किं तु मधुव्रतोऽयमधुना गुञ्जन्मुहुर्धाम्यति ॥ १२ ॥ नैवालोंकि सरोजिनी नहि मनाग्गुजारवैस्तोषिता जातिः किं च गलन्मरन्दमधुना नालिङ्गिता मालती । 26

अन्योक्तिशतकम् ।
।
चित्रं किं तु मधुव्रतेन सहसा संपादिता सांप्रत
भिन्ना रीतिरियं लवङ्गमुकुलान्यालोक्य मन्यामहे ।। १३ ॥
कोप मा कुरु कुन्दवलि सहसा मा दैन्यमङ्गीकुरु
स्थाता कत्यपि वासराणि विदितानन्दो मिलिन्दस्त्वयि ।
किं वातः परमस्य पश्य विदलन्माध्वीसमृद्धिः स्फुर-
न्मन्दस्यन्दसुगन्धितुल्दिलदला जाता लवङ्गीलता ॥ १४ ॥
सत्यं भृङ्ग वदामि किं तत इतो गन्तुं विधत्से मनो
केयं निर्भरदीनता व मधुरव्याहारतारध्वनिः ।
एक सेवय सौरभ परिमलप्रोद्भिन्नमन्दानिलं (इ)
यस्मिन्मूलफलप्रसूननिकरे साधारणः सौरभः ॥ १५ ॥
लावण्यं वचनातिगं पुनरहो सौरभ्यमुच्चस्तरां
शैत्यं शीतलभानुविद्वकरं किं वापरं पश्य रे ।
उन्मीलन्मकरन्दतुन्दिलदलं कस्मादकस्मादहो
भ्रातर्मुञ्चसि चञ्चरीक चतुर त्वं चम्पकानां वनम् ॥ १६ ॥
त्वं चेञ्चम्पककोरके न कुरुषे प्रेमाणमेतावता
का हानिनहि तस्य कृत्यमपि रे किंचित्पुनहींयते ।
तेनैवास्य तु वैभवं मधुप है यद्भूषयन्ति स्फुटं
केलीमन्दिरदेहलीपरिसरे कर्णेषु वामभुवः ॥ १७ ॥
स्यादुद्दण्डदुरूहचण्डकिरणज्वालावलीशोषक:
पाटीरोऽयमुदारसुन्दरतनुः सौरभ्यभव्योदयः ।
किं कुर्मः कथमत्र हन्त भविता चित्रं गतिर्मादशा-
मा मूलं यदसौ भुजंगनिचयैरावेष्टितो वर्तते ॥ १८ ॥
सौरभ्यं वचनातिगं किमपरं दाक्षिण्यमुच्चैस्तरां
यद्यप्यस्ति नवीनशैत्यसुपमासंपत्तिरन्याशी।
सर्व तत्सुखदं परं तु नितरामेतेन यामहे
फूत्काराकुलभोगिभोगनिचयैः श्रीखण्ड यत्क्रीडसि ॥ १९ ॥

१२ एकस्मिन्मलयाचले निवसता ऋराशयेनामुना भिल्लेन त्वमिहाहतो यदि न चेत्का हानिरेतावता । भ्रातः श्रीहरिचन्दन प्रविदलत्सौरभ्यभव्योदयं ज्ञातुं ते कुशलीभवन्तु नितरां स्निग्धा विदग्धा जनाः ॥ २० ॥ मा संतापमुरीकुरुष्व कठिनो लोकप्रकारोऽधुना मन्ना हन्त रसज्ञता रसकलाप्यन्तं गता सांप्रतम् । मालाकारकुरङ्गलोलनयनां हित्वा नवीनां पुनः निग्धां मुग्धतरां लवङ्गलतिके कस्ते गुणान्वक्ष्यति ॥ २१ ॥ शेफालीरुचिरप्रफुल्लकलिकामाध्वी पिव त्वं मुदा वारंवारमुदारकुन्दविदलत्पीयूपमावादय । सानन्दं विहारविन्दविपिने किं तु प्रभूतोदयो भ्रातर्भूङ्ग लवङ्गसङ्गजनितः स्नेहो न हेयोऽधुना ॥ २२ ॥ नो पत्राणि चलानि हन्त कुरुषे गुञ्जारवं नो मना- ग्वत्से नैव पुनः स्वयं चलसि रे किं तु स्फुटं सर्वतः । सानन्दं मकरन्दमेव निभृतं गृह्णासि यत्केवलं ताकि कौशलमस्ति शंस भवतो ही किंचिदिन्दिन्दिर ॥२३॥ हित्वा सौरभसारसुन्दरदलां माध्वीक मुखममा मल्ली मालतिका मदालसतया भ्रान्या मुहुः संभ्रमन् । गुञ्जन्गन्तुमुरीकरोधि मधुप त्वं पङ्कजानां वने नो जानासि विमुद्रिते कमलिनीबन्धौ पुनर्बन्धनम् ॥ २४ ॥ मन्दं मन्दमहो मधुव्रतवचोविन्यासमशक्तिभिः सान्द्रानन्दमयं कथं कथमहो निद्रायितोऽभूत्करी । सोऽयं कविकारकर्मकुशलैः कारण्डवानां रवै- रुन्निद्रः सहसा करैः कमलिनीमुन्मूलितुं वाञ्छति ॥ २५ ॥ मुक्तानामांस नायकस्त्रिजगतामानन्दकन्दस्थली ज्योत्स्नानाथजानिर्जनकशरणं मन्दाकिनीवल्लभः ।

अन्योक्तिशतकम् ।
किं वातः परमस्ति जीवननिधे जल्पन्ति लोका मुहुः
क्षारं यत्तव जीवनं प्रतिदिनं तेनैव यामहे ॥ २६ ॥
सूते हन्त हलाहलं जलनिधिल्पन्ति ये मानवा-
स्ते जल्पन्तु परं तु नैव कतिनामेतेन कापि शतिः ।
मत्येवं गुणसंनिधौ कचिदहो तेनैव ते गौरवं
यत्त्वां वन्यकुरङ्गसुन्दरहशो जल्पन्ति रत्नाकरम् ॥ २७ ॥
स्फारोत्तुङ्गतरङ्गपीवरकरैराकृष्य रत्नोसम
यत्वं जीवनमध्यतः क्षिपसि रे दूरे धरित्रीतले ।
युक्तं तज्जलनाथ नाथ कलय प्रोच्चैः प्रसादात्त्वया
लब्ध हन्त जगत्रयेऽपि सकले रत्नाकरत्वं पदम् ॥ २८ ॥
उत्पत्तिजलधौं सुधासहचरी ज्योत्नाभिरामा तनुः
स्थानं व्योम कुमुद्वतीपरिदृढश्चन्द्रेति नाम स्फुटम् ।
सर्व चारु तथापि हन्त कठिना यखां कलवाहित
जल्पन्ति प्रतिवासरं सुरगणास्तेनातिदूयामहे ॥ २९ ॥
ज्योत्स्नाविभ्रमभारसाररुचिर पद्मालयाबान्धवे
लोकानां नयनोत्सवे दिविषदामानन्दकन्दालये।
मुग्धाकोमलमुग्धवक्रकमलस्पर्धाकरे पद्मिनि
त्वं चेच्छीतकरे न रज्यसि गुणश्लाघा तदस्तं गता ॥ ३० ॥
फुल्लकैरविणीपरागरुचिरा दिमण्डली श्रूयते
कोकानामपि मानसं कलुषितं किंचिद्विजानीमहे ।
मन्दं पश्चिमपर्वताञ्चलपुटे श्रीमान्गतो भानुमा-
स्तत्सत्यं रजनीपतेः समुदयो जातः परं मन्महे ॥ ३१ ॥
शेते रश्रयं सुखेन निभृतं पीयूषमभन्मुदा
मत्वैवं सहसा चकोरशिशुना संसेवितं सादरम् ।
को जानातु कुमुद्वतीपतिरसौ पीत्वा भृशं वारुणी
हा हा हन्त घनान्धकारनिकरैरावेष्टितो वर्तते ॥ ३२ ॥

काव्यमाला। ज्योत्स्नाभिर्भुवनं तनोषि विमलं पीयूषगर्भः करै- रामोदं कुमुदे दधासि बहुशः संजीवयस्यौषधीः । सर्वं तत्सुखदं परं तु नितरामेतेन यामहे नीहारैः कवलीकरोषि लवलीन्दानि शीतयुते ॥ ३३ ॥ सानन्दं वनगहराणि सहसा संगाहसे निर्भर भूयः सौरभजातमप्यनुदिनं गृह्णाति यत्तद्वरम् । किं तु श्रीयुतगन्धवाह भवतो नो युक्तमेतन्मना- ग्यत्त्वं तत्र करोषि नैव सदसद्दयतेविवेकक्रियाम् ॥ ३४ ॥ शुष्काः संप्रति निन्नगास्तत इतो नालोक्यते जीवन भयः कापि न वापिकापि नितरां जाताविलं पल्वलम् । ग्रीष्मोऽयं समुपागतोऽस्ति बहुशो वाचालतां मुञ्च रे मन्दं संचल भेकशाव समभूत्कालः करालो महान् ॥ ३५ ॥ एषा सीदति सुन्दराम्बुजवनी गुञ्जहिरेफाङ्किता चञ्चत्केसरनिर्यदुग्रबहलव्यामोदमेदस्विनी स्फारोत्तुङ्गकरीन्द्रदुर्वहकरप्रौढाभिधातैः परं विध्वस्ता परितो विभाति पुरतो विभ्रष्टपत्राम्बरा ॥ ३६ ॥ प्रोन्मीलत्सुरनिम्नगापरिपतद्वीचीचयव्याहत- व्याधूतानिलसंचलज्जलमिलदात्रोऽप्यसौ षट्पदः । स्मृत्वा हन्त दुरन्तकेतकशिखासंपातसंपादित- प्रोत्तुङ्गाङ्गविकारभारमधुना नो रन्तुमुत्कण्ठते ॥ ३७ ॥ हन्तासीत्परितो नवीनजलदप्रोत्तुङ्गधाराजलैः पूर्णानेकसहस्त्रपङ्कजदलैः कीर्णा नदीयं पुरा । सेयं संप्रति चण्डभानुविलसञ्चण्डातपप्रोच्छल- जज्वालाजालविलुप्तजीवनभरा हा हन्त संताम्यति ॥ ३८ ॥ नोच्चैजेल्प मनाम्यतस्व सहसा कुजे निलीय क्षणं गन्तुं कीर वदामि मास्तु मधुरव्याहारतारध्वनिः ।

वक्रस्याशु करोपिय यगोपनं
अन्योक्तिशतकम् ।
काकोलादपि दारुणैरनुचितारम्भाग्रणीभिः परं
रुद्धा संप्रति किं किरातनिकरैर्नालोक्यते मेदिनी ॥ ३९ ॥
प्रोद्यत्प्रौढमहीमहेन्द्रभवने प्रोतुङ्गसौधाङ्गणे
गत्वा काक वराक किं कलयसे साम्यं मरालैः समम् ।
छिन्द्रान्वेषणभूरिकर्मकुशलाः किंचिल्लभन्ते खलाः
सम्यक्पण्डितपुण्डरीकतुलनामारोप्य कण्ठे गुणम् ॥ ४० ॥
लोके दृष्टमिदं मया बहुतरं हंहो न सन्त्येव ते
ये विन्दन्ति सखायमुत्तमगुणं मित्रैकचित्ते रतम् ।
शम्बूकैः कलयन्ति केलिकुतुकं वापीषु कारण्डवा
नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥ ४ १ ॥
क्षीराम्भोनिधिकन्यका मधुरिपोर्वक्षःस्थलस्थायिनी
शीतांशोभगिनी जगत्रयजनिः किं चाधिका ते स्तुतिः ।
एकैकं वचनातिगं जलधिजे सर्व विजानीमहे
चाञ्चल्यं यदि नाम चेन्नहि भवेदेकं कलङ्कास्पदम् ॥ ४२ ।।
दपै मा वह बालवत्सनिकरानालोक्य पुच्छच्छटा-
पातैरेव महोक्ष गर्जसि मुधा किं गजितेनामुना ।
तावत्संचर यावदाशु न मनागादाय सीरं हठा-
त्कर्षत्येष कृषीवलस्तत इतो भूयोऽपि भूमीतले ॥ ४३ ॥
त्वामालोक्य समागतः कथमसौ केलिक्रियाकोविदो
हित्वा कत्यपि काननानि दिवसप्रान्ते द्विरेको युवा ।
दूरे तिष्ठति काननं नहि मनाङीरं समालोक्यते
क्रूरः संप्रति वालुकापरिकरश्चण्डांशुरत्युन्नतः ।
भूरेषा मरुरेव संप्रति कथं गन्तव्यमेकाकिना
मन्दं यूथपतिर्मुहुर्मुहुरिति ध्यायन्शुनीते शिरः ॥ ४५ ॥

काव्यमाला। दिक्चक्रं करिशाव दावदहनैर्दग्धं पुरी दृश्यते छाया क्षीणतरा क्षमापि समभूरे न नीरं क्वचित् । चित्रं चण्डचलत्प्रचण्डकिरणज्वालाकुलाङ्गो मुधा मध्याह्ने कथमेकदैव सहसा गन्तुं समुत्कण्ठसे ॥ ४६ ॥ शार्दूलाः प्रतिपेदिरे प्रथमतो गर्भान्तरं भूरुहां कुञ्ज किं च समाश्रयन्ति हरिणा लीना वराहाः क्वचित् । उद्दण्डप्रकटप्रचण्डकिरणज्वालाकुले दिक्कुले हा हा हन्त करी करोति कतमां जीवातवे जीविकाम् ॥४७|| उच्चैःश्चण्डमरीचिमण्डलकरज्वालाकुला दिक्तटी पश्श्राद्धोरदवानिगर्वगरिमोद्विक्ता धरित्री पुरः । कर्तव्यं कथमत्र हन्त करुणारङ्गी कुरङ्गीपति- मत्वैवं हरिणीविलोकनधनीभूतोऽभवत्कुण्ठितः ॥ ४ ॥ कृत्वा पर्वतकंदरापरिसरे केलीभरं लीलया भुक्त्वा पङ्कजकोरकांश्च परितो भृङ्गः समावेष्टितः । यावद्याति करेणुकाकटतटीकण्डूयने केवलं तावत्तीव्रहरीन्द्रदुर्वहकरैः क्षुण्णोऽभवत्कुञ्जरः ॥ ४९ ॥ यः पूर्व नवदानदर्पिततनुर्दन्तेन दन्तावला- चूर्णीकृत्य महाभिमानभरितो नो मन्यते कानपि । क्रीडन्नेव समागतो विधिहतो हा हन्त नीराशये पङ्ग्रे मनकलेवरः करिवरः सोऽयं शनस्ताम्यति ॥ ५० ॥ अन्यं काननमाशु गच्छ तरसा वन्यं फलं भुव रे धन्य धाम विभाति ते नहि तथा पुण्यं जघन्यं कुरु । एतस्मिन्करिशाव मा ब्रज वने जल्पामि तथ्यं वचो जानास्येव करीन्द्रदपैदलनो निद्राति पञ्चाननः ॥ ५१ ॥ निद्रामुद्रितलोचनः प्रतिपदं छायातले भूरुहां प्रोद्दण्डद्विपगण्डभित्तिदलनप्रोद्विक्तरक्तारुणः ।

अन्योक्तिशतकम् । सिंही जानुनि दत्तमस्तकलसत्सर्वाङ्गकः केसरी निद्राति प्रतिवासरं सुखमिति ध्यायन्करी कम्पते ॥ १२ ॥ शून्यं काननमा निरीक्ष्य तरसा चीत्कृत्य गाढं हठा- न्मातङ्गाधिप मानसे बत वृथा गर्वोद्गमं मा कृथाः । जानीमो वयमद्य कुञ्जरपटाविक्षोभकारी पुनः पारीन्द्रो न जगाम लोचनपथं तेनास्ति नो वै भयम् ॥ ५३॥ कामं कोपकषायिताक्षियुगलं कृत्वा करोत्फालनैः क्षुद्रान्वन्यमृगान्करीन्द्र सहसा विद्रावय त्वं मुदा । हेलाखण्डितकुम्भिकुम्भविगलद्रतारुणाङ्गे हरौ जाते लोचनगोचरे यदि भवान्स्थाता तदा मन्महे ॥ १४ ॥ दैन्यं मा त्वमुरीकुरु प्रतिपदं प्रेक्ष्यातुरां पद्मिनी राकाशारदशीतरश्मिकिरणैरावद्धमुग्धाननाम् । किं तु त्वं भ्रमसि द्विरेफ विदलन्माध्वीकधाराधरे सानन्दं नवमल्लिवल्लिनिकरे गत्वाद्य तृप्ति भज ॥ ५५ ॥ मन्द पश्चिमशैलमौलिमुकुटालंकारभूतो रविः संध्याकरितं नभः कलुषिता ध्वान्तैः परं दिक्तटी । एका पङ्कजिनी सुधाकरकरैीता परं मुद्रिता तत्कि संप्रति चञ्चरीक चरसि व्यर्थः प्रयासोऽधुना ॥ ५६ ॥ भृङ्गाणां नवनीरजानि विदलत्सौरभ्यलोभ्यान्यलं मल्लीकेसरचम्पकानि नितरां तिष्ठन्ति पुष्पाकरे । एक कोकिलशावकस्य शरणं मुग्धप्रसूनाकर- प्रस्यन्दन्मकरन्दतुन्दिलदलो माकन्दभूमीरुहः ॥ ५७ ।। धैर्य वायस धार्यतां समुचितो नोडेगमारस्त्वयि प्राणान्मुञ्चसि किं वृथा पिकसुतैः पुत्रत्वमायाति रे । जानास्येव कलेः प्रपञ्चमखिलं किंचाधिकं वा परं हित्वा नीरनिधि लसन्ति निधयो वापीषु काचित्स्वपि ॥ १८॥ । १३ काव्यमाला। शैत्यं शारदशीतरश्मिकिरणादप्युत्तमं तादृशं सौरम्यं वचनातिगं जगति ते श्रीखण्ड सर्वं वरम् । किं तु त्वां सहसा किरातगृहिणी दीप्ताग्निकुण्डे जवा- दुन्मूल्याशु करैः करोति तरसा शुष्कन्धनं लीलया ।। ५९ ॥ आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मना- क्चातुर्य मकरन्ददानविषये किं चातुरीयं पुनः । यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारवै- माहात्म्यं क इव ब्रवीमि तदहो हे चञ्चरीकाधुना ॥ ६० ॥ क्षिप्रं मुश्च कुरङ्ग काननमिदं रे ताण्डवं मा कथाः किं ते वैभवाविभ्रमेण तरसा गात्राणि संरक्षय । आस्तां कीर्तिभरः किरातविशिखैः क्षुण्णः क्षणानन्तरं क्षीणाङ्गः क्षितिमण्डलोपरि पुननी चेत्क्षयं यास्यसि ॥ ६१ ॥ त्वामाधाय निजोदरे कमलिनी चक्रे न माध्वीरसै- नित्यं कोमलकेसरैस्तव पुनः किं किं मनोवाञ्छितम् । त्वं त्वेतां कलकूजितैरपि मनाङ् नो भावयस्यातुरां तत्किं साहजिकं मधुव्रत मनाक्त्यक्तुं रसं वाञ्छसि ।। ६२ ॥ जाता नैव तृषा कृशा न समभूत्तापापकर्षक्रिया नो वा लोचनपङ्कजैरपि मनागालोकि किं चाधिकम् । क्षुभ्यद्धोरतरारवैः प्रतिदिशं झञ्झानिलैीविता सेयं नीरदमण्डलीति कलयश्वञ्चत्वलं चातकः ॥ ६३ ॥ दैन्यं मा त्वमुरीकुरु प्रतिपदं हित्वा मनाम्यूथिका स्थेयं कत्यपि वासराणि कथमप्यालम्ब्य धैर्य हृदि । आयाते खलु माधवे प्रविदलत्सौरम्यलोभास्पदे नूनं ते शरणं स एव भविता माकन्दभूमीरुहः ॥ ६४ ॥ साफल्यं कलये चकोर भवतो धन्योऽसि मन्यामहे कां कीर्ति कथयामि ते त्रिभुवने जागति ते संस्तवः ।

अन्योक्तिशतकम् ।
९९
किं वा पुण्यमितस्तवास्ति विमलं पीयूषधाराभरं
चन्द्रे पासि निरन्तरं कमलिनीढग्गोचरेऽपि स्फुटम् ॥ ६५ ॥
आध्माताः प्रतिदिङ्मुखं सरभसं गर्जन्त्यमी वारिदाः
प्रौढध्वानधुरंधराः प्रतिपदं चञ्चन्ति विद्युच्छटाः ।
भूयो मत्तमहामयूरनिकराः कूजन्ति केकारवै-
स्तन्मन्ये समुपागतोऽस्ति सहसा वर्षायुतो वासरः ॥ ६६ ॥
भूयो निर्भरसर्वगर्वगरिमा मुग्धाङ्गनानां मुदा
चञ्चञ्चम्पककोपचुम्बितमना वात्यद्य मन्दानिलः ।
नो युक्तं सहसान्यतः प्रचलितं हे पान्य चित्तव्यथा
मा कार्षीः किमु पञ्चबाणनृपती जागति चिन्ता तव ।। ६७ ॥
शैत्यं तापहरं तवास्ति न मुधा मन्ये सुधानायक
प्रोदञ्चत्सुपमा समृद्धिरपि ते जागर्ति लोकत्रये ।
सर्व चारु मनाक्तथापि यदि चेत्प्राप्तोऽसि मुग्धाङ्गना-
वक्रेन्दोस्तुलनां तदा क इव ते भाग्योदयं मन्महे ॥ ६८ ॥
आयाता रजनी भविष्यति महाविश्लेषदावानलो
नोद्वेगः सहसा कशाङ्गि मनसा कार्यों रथाङ्गाहयः ।
इत्थं बाप्पनिरुद्धगद्गदतया संभाष्य कोकी चिरं
चिन्तापूर्णमना विनोदविमुखो हंहो विधि निन्दति ॥ ६९ ॥
सौन्दर्य दलितं दवानलबलमन्दं मरन्दोऽप्यसो
स्वच्छन्दं गत एव का पुनरहो पुष्पादिकानां कथा ।
शीर्णा पर्णपरम्परा विगलिता सेयं लता तत्कथं
हंहो मन्द मिलिन्द कुन्दविपिनं नो हातुमाकाङ्क्षसे ॥ ७० ॥
रम्यं काननमुन्नतास्तरुगणाः स्निग्धं पयः किं पुन-
मुग्धान्येव फलानि हन्त परितः सम्यञ्चि पुष्पाण्यपि ।
सर्व हन्त विहाय निर्गतवतो दन्तावलस्य स्फुर-
चण्डांशुज्वलिते मरौ तदखिलध्यानैमनो मुह्यति ॥ ७१ ॥

हहो चातकशावकोऽयमधुना त्वां वीक्षते केवलं यत्संसर्गवशादसाधुचरिता एते पुनः कोटिशो निम्बाशोककपित्थबिल्वबकुलाः सौगन्थ्यमापुः परम् । धन्यस्त्वं हरिचन्दन त्रिजगतां संतापशान्त्यै पुनः संसारे नियतं स कोऽपि सदृशो युष्मादृशां वर्तते ॥ ७२ ॥ सानन्दं सुरनिन्नगाप्रविलसत्कूलेऽनुकूले पुन- मन्दं मन्दमहो कलिन्दतनयातीरे विहारं कुरु । अस्मिन्कि तु मरालबाल सरसीकुञ्ज न याहि क्षणं यस्मादत्र पतत्रिपातरसिका भिल्लयः स्वनं कुर्वते ॥ ७३ ॥ तृष्णाजरिताकतिः कवलितो बौशुधोरैः करै- दर्बोदश्चितचक्षुरद्य कलयंस्त्वत्तः परं जीवनम् । त्वं चेदम्बु ददासि नाम्बुद् भवेदस्याश्रयः कस्तदा ।। ७४ ॥ आ प्रातर्धनतृष्णया कवलितं प्रोद्दण्डचण्डातपै- दग्धं जीवनहानितः कलुषितं चिन्ताभरैः कीलितम् । प्रस्निग्धामृतधारया प्रतिदिनं संलावयंश्चातकं त्वत्तः कोऽपि न वारिवाह भुवने जागर्ति जानीमहे ।। ७५ ॥ चञ्चचातकचचकोरकपुटीं नो पूरयस्यन्वहं दिक्तापं नवनीरसीकरभरैनों वा मनाग्लुम्पसि । क्षेत्रं सिञ्चसि नैव किं च बहुशः कान्तारमाछावय- न्यद्गवै कुरुपे पयोद भवतस्तत्कि नयो दृश्यते ॥ ७६ ॥ चश्चञ्चण्डमरीचिमण्डलकरज्वालाकलापैरहो न स्यान्चातकपोतकः कवलितो यावत्ततो विह्वलः । भ्रातः श्रीयुत वारिवाह निभृतं जीयाश्चिरं निर्भर तावदीरतरं धरातलमिदं धाराभिरासिञ्चय ॥ ७७ ॥ नो गत्वा गगनाङ्गणेऽनुसरति प्रोच्चैर्न जल्पत्यही नो वा चण्डमरीचिमण्डलभिया संसेवते कानपि ।

अन्योक्तिशतकम् ।
१०१
चित्रं भूमिगतं तथापि निभृतं धाराजलैर्निर्मलैः
सिञ्चत्येव चिरेण चातकशिशुं श्रीमानयं वारिदः ॥ ७८ ॥
तापं तूर्णमपाकरोषि नितरां पाटीरवाटी पुनः
प्रेम्णा पल्लवयस्यलं वितनुषे मुक्ताफलं शुक्तिषु ।
धाराभिर्धरणिं धुनोषि परितो धारावर त्वं यथा
भ्रातश्चातकशावकं बत तथा संभावयाम्भोभरैः ॥ ७९ ॥
भूमेस्तापमपाकरोषि नितरां भूमीरुहो वर्धय-
स्यानन्दं विदधासि किं च तनुषे सस्ये प्रशस्यं मुदा ।
किं किं वारिद ते गुणोत्करमहं जल्पामि धन्योऽसि रे
धारामिश्चिरखिन्नचातकशिशुं यजीवयस्यातुरम् ॥ ८० ॥
मोदन्ते करिशावकास्तत इतः क्रीडन्ति कोलाः सुखं
कृत्वाङ्के तनयं कुरङ्गगृहिणी रोमन्थमभ्यस्यति ।
हीनं तेन मृगाधिपेन सहसा मन्यामहे काननं
द्वित्रैरेव दिनैभविष्यति परं वन्याभिरन्यादृशम् ॥ ८१ ॥
तूर्ण यात मृगाः पलायत वृका यूयं पुनः सर्वथा
कोलाः कापि निलीयत प्रसुमराः कोलाहलं मुञ्चत ।
दृप्यदानदुरूहदारुणदलहन्तावलग्रामणी-
गर्वग्रामविदारणाकुलकरः सोऽयं पुरः केसरी ।। ८२ ॥
प्रौढोत्क्षिप्तमहामहीप्रशिखरं कुत्रापि नीराशये
दृष्दैव प्रतिबिम्बितं सचकितं खात्छुत्य गाढं हठात् ।
पातुं वाञ्छति नो जलं करिवरस्याशङ्कया किं त्वयं
दोद्धृतशिरा धुनोति नयने क्रोधोद्धरः केसरी ॥ ८३ ॥
सक्रोधं करिणां मदैरुपहितामालोक्य विश्वंभरां
भूयः कोपकपायिताक्षियुगलं पद्भ्यां धरां दारयन् ।
बाहुभ्यां सहसा विकृप्य तिमिरं भूमौ मुहुः पातय-
भ्रूयुग्मं प्रविधूनयन्विजयते कोऽप्येष कण्ठीरवः ॥ ८४ ॥

१०२ काव्यमाला। -- यः सावेशमशेपवारणपटासंवहविद्रावणो मुक्तानालमयानि हन्त नितरां चक्रे वनानि स्फुटम् । दृप्यदारुदुरूहपञ्जरगतो हा हा हतो वेधसा सोऽयं मानधनो धुनोति नयने क्रोधोद्धरः केसरी ।। ८५ ॥ यस्य त्रामवशाहने करिवराः स्पन्दन्ति नो वामनाः कोलाः केऽपि न निःसरन्ति महिषा व्यग्राः पतन्ति क्षिती सोऽयं लोहदुरूहनव्यनिगडानद्धाङ्गियुग्मो मुहुः स्मारं स्मारमुदारवन्यचरितं कण्ठीरवस्ताम्यति ॥ ८६ ॥ मन्दं मन्दमहो मरन्दनिचयः पेयोऽमुना सादरं नेयो रात्रिभरः परं तु सहसा गेयः स्तवो मान्मथः । इत्यालोच्य समागतं खलु मया सायं नवे कैरवे को जानाति निशापतिः पुनरसावस्ताचलं यास्यति ॥ ८७ ॥ त्वं चेगुञ्जसि निर्भरं भ्रमर हे पीत्वापि कौन्दं मधु स्वच्छन्दं न विलोकयस्यपि मनागेनं किमेतावता। उन्मीलन्मकरन्दतुन्दिलदलत्पुष्पाकरास्वादनं माकन्दस्य परं स एव सुरुती जानाति किंचिल्पिकः ॥८॥ आ बाल्यं भवता समीर कतिधा साध मृणालीदलं भुक्तं केलिकथामृतैरपि तथा नीतं रहः सादरम् । चेतान्दोलनलालनैर्मुगदृशां वक्षःस्थलास्फालनै- भूयः संप्रति मां विना तव मनो रन्तुं कथं मोदते ॥ ८९ ॥ गम्यन्तां दशदिक्तटीपरिसरे रे मत्तमातङ्गजा लीयन्तां गिरिकंदरासु तरसा हित्वाटवीं ते मृगाः । युष्मञ्चीकृतिभीरुतारनिनदप्रध्वस्तनिद्राभर- व्याघूर्णन्नयनोऽयमेति सहसा क्रोधोडुरः केसरी ॥ ९० ॥ कृत्वा हन्त निरन्तरं कमलिनीकोघे मुधावैभव हित्वा संप्रति तां हिमैरुपहितां धत्से क्वचिन्मानसम् ।

अन्योक्तिशतकम् । oria तत्कि त्वां कथयामि हे मधुकर ब्रीडाकरं भाषितं धिग्धिक्प्रेम भवादशां न करुणालेशोऽपि संदृश्यते ॥ ९१ ॥ शेते हन्त मृगाङ्गना निजशिशुं कला निकुञ्जोदरे भूयः कुण्डलनां विधाय विवरे निद्राति साङ्गना । शीतार्ताः किल नैव पङ्कजदलं जिघ्रन्ति माध्वीलिहो दृष्ट्वा हन्त हिमागमं नहि मनाङ्नीडं त्यजन्ति द्विजाः ॥१२॥ सानन्दं मकरन्द तुन्दिलदलां मुग्धप्रभा पद्मिनी यावचुम्बति केसरारुणतनुमत्तद्विरेको युवा । तावत्तीबकरीन्द्रदुर्वहकरव्याघातसंचूर्णितो हा हा हन्त मधुव्रतोऽयमधुना भूमौ पुनस्ताम्यति ॥ ९३ ॥ चञ्चा नव्यसमीरधीरसरसौतीरं विलोक्योत्सुको धीरे धीरमहो महोन्नतिपरस्तृष्णाङ्कुशाकर्शितः । पातुं यावदहो करोति विमलं नीरं मरालः कृती मण्डूकध्वनिजर्जरीकृततनुस्तावच्छनैस्ताम्यति ॥ ९४ ॥ लोकेऽस्मिन्पिशुनाः कथंचिदपि वा नैवोपकारव्यथा विन्दन्ते सहसा परं तु सहसा जल्पन्ति दोषं स्फुटम् । शम्बूकैः कलयन्ति केलिकुतुकं वापीपु कारण्डवा नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥ ९५ ॥ आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः पश्वास्निग्धफलोगमे धनरसैः सिक्तो मया सर्वतः दानोन्मत्तदुरन्तवारणकटीसंघद्वनैः केवलं सोऽयं चूर्णित एव दैववशतो माकन्दभूमीरुहः ॥ ९६ ॥ चञ्चत्पन्नविचित्रितां मधुकरस्फूर्जत्फलालम्बिनी मन्दं मुग्धमरन्दम पुलको कान्तिप्रभूतोदयाम् । प्रोन्मीलत्कुसुमां प्रकीर्णसुषमा हा हा चलत्कण्टका को हेतुः कलधौतकेतकलतां त्यक्तुं समुत्कण्ठसे ।। ९७ ॥

साकृत सरसीषुहन्त नितरा रङ्गादयः काव्यमाला भुक्त्वा मीनमही नवीनमधुना पीतं जलं निर्मलं नीतः केलिभरेण वासरगणो किं तु त्वयाद्यावधि । गन्तव्यं खलु कुत्रचिद्धक वने चेञ्चण्डचण्डातपै- स्तप्ते हन्त जलाशये पुनरहो दैन्यं मुहुर्धास्यसि ॥ ९८ ॥ अग्रे तिष्ठति दारुणाकतिरसौ क्रोधोद्धतः केसरी पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः । किं कुर्मः सहसा विहाय कलभानेतान्द्रजामः कथं हंहो कूणितलोचनेति करिणी चिन्ताकुला ताम्यति ॥ ९९ ॥ आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहम् । किं ब्रूमः फलिते त्वयि हुततरं हा हन्त लिम्पाक हे भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत्कि अवे ॥१०॥ त्वत्तः श्रीरजनि स्फुट समभवत्कल्पद्रुमः सादरं जातास्ते निधयः पुनः किमपरं जने सुधादीधितिः । किं ब्रूमस्तव वैभवं जलनिधे त्वामप्यहोऽहो स्था यद्भूयस्तृपिता प्रयाति जनता तत्कि ब्रुवे त्वद्गुणान् ॥ १०१ ॥ भेकाः कूपजलं पिबन्तु नितरां वापीषु कारण्डवाः तृप्णाव्याकुलितस्य चातकशिशोः किं तेन यावतरां धन्याभिः परिपूरयन्ननुदिनं नोदेति धाराधरः ॥ १०२ ॥ तावद्रीष्मगभीरतापनिवहाः संसारमुच्चैस्तरां यूयं तापयत प्रचण्डकिरणज्वालावलीपूरिताः । यावत्सौरभभव्यनव्यविदलन्मल्लीमतल्लीदल- प्रोन्मीलन्मकरन्दतुन्दिलमना नोदेति मन्दानिलः ॥ १०३ ॥ चन्द्रो हन्त कलङ्कशङ्किततनुः क्षारान्वितः सागरो हंहो कल्पतरुस्तरुः पुनरहो मेरुः स्वयं पर्वतः ।

कामं कामगवी पुनः पशुरहो किं वा बहु बमह संसारे भवतस्तुलां कलयितुं को वा समर्थों भवेत् ॥ १०४ ॥ योऽभटाविडचक्रवर्तिमुकुटालंकारभूतस्य रे मौद्गल्यस्य हरेः सुतः क्षितितले वीरेश्वरः सत्कविः । तस्य प्रोद्गतसूक्तिनिर्मलसुधाशुद्धान्तरस्य क्षणा- देषा निर्मितिरुत्तमा मतिमतां नित्यं मुदे जायताम् ॥ १०५॥ इति श्रीवीरेश्वरभट्टनिर्मितमन्योक्तिशतकं समाप्तम् । त्रिपाठिश्रीशिवरामप्रणीता scer सटीका। राजत्रयसमानीतां मुनित्रयपरिष्कृताम् । जाह्नवीं शब्दविद्यां च चिन्तयामीष्टसिद्धये ॥ विनविघाताय कृतं मङ्गलं शिष्यशिक्षार्थ निबध्नाति- धरात्मजारम्बमुखारविन्दमरन्दरोलम्ब उदारकीतिः । शेषाख्यसंयोगविशेषशोभी देवो मुदे वोऽस्तु शिवः स रामः ॥ १ ॥ घरेति । धरस्य पर्वतस्यात्मजा तस्या रम्यमुखारविन्दस्य मरन्दो मकरन्दस्तस्य रोलम्बो अमरः । उदारकीर्तिः । शेषाख्यस्य संयोगेन विशेषशोमः । शेषस्य भूषणत्वा- दिति भावः । एतादृशो देवः शिवः स प्रसिद्धो रामो वो मुदेऽस्तु । पक्ष-धराया आ. मजा सीता। शेषाख्येण लक्ष्मणेन विशेषशोभा सौभावलात् । नेपालंकार:--'वाच्यमें- देन भिन्ना यागपद्भाषणस्पृशः । श्लेषोऽसौ' इति लक्षणात् । वृत्त्यनुप्रास:--'वर्णसाम्य- मनुप्रासश्छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ इति लक्ष- पात् । यमकालंकार:-'अर्थ सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं पादतद्भा- गवृत्ति तद्यात्यनेकताम् ॥' इति लक्षणात् । संभोगशृङ्गार:--'अनुकलौ निपेवेते यत्रा- न्योन्य विलासिनौ । दर्शनस्पर्शनादीनि स संभौगो मुदान्वितौ ॥ इति लक्षणात । अ- १. अयं शिवरामत्रिपाठी ख्रिस्तसंवत्सरीयाटादशशतकपूर्वाधिसमुत्पन्नानागेशभट्टाद- प्यर्वाचीनः, यतोऽयमत्रैव टीकायां तत्कृतपरिभाषेन्दुशेखरस्मरणं करोति. एतस्कृतन- न्यास्तु स्वयमेवानेनात्रैव टीकासमाप्ती गणिताः सन्ति. तेवस्माभिः (१) कादम्बरीटी- का, (२) दशकुमारचरितटीका, (३) नक्षत्रमाला सटीका, (४) रसरत्नहार: सटीकः, (५) वासवदत्ताटीका, एतद्वन्यपञ्चकमद्यावधि समुपलब्धमस्ति.

काव्यमाला। mamtana है नुकूलो नायक:--'अनुकूलस्त्वेकनायिकः' इति दशरूपकात् । उपजातिवृत्तम्----'अन- न्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः' इति तल्लक्षणात् ।। गोत्रस्खलनेन मानवती प्रत्याह- गोत्रस्खलने भ्रान्ति मानिनि जानीहि केवलां मेऽत्र । व्याख्यानतो विशेषप्रतिपत्तिः पाणिनीय इव ॥ २ ॥ गोत्रेति । हे मानिनि, गोत्रस्खलने गोत्रं नाम तस्य स्खलने च्यवने मे मम केवला भ्रान्ति जानीहि । ननु गोत्रस्खलनं त्वदुक्तिः। मया भ्रान्त्या तन्नामग्रहणं कृतं न त्वह- निशं तस्याभासक्तरित्यपि त्वदुक्तिरेव । तत्र व प्रामाण्यमुररीकर्तव्यम् । तत्राह-व्या- ध्यानतो विशिष्टादाख्यानाद्विशेषस्येष्टस्य प्रत्तिपत्तिर्बोधः। किमत्र मानं तत्रोपमारीत्याह- पाणिनीय इव । पाणिनीये तत्प्रोक्तशास्त्रे । एवं हि तत्रोक्ति:--लण्अहउणसूत्रयोर्णका- रस्यैवोपादानेन अण्णग्रहणेषु संदेहः । तत्राह-'च्याख्यानतो विशेषप्रतिपत्तिन हि संदेहादलक्षणम्' । व्याख्यानाच्छिष्टकृताद्विशेषस्यान्यतरार्थस्य प्रतिपत्तिनिश्चयः । हि यतः संदेहाच्छास्त्रमननुष्ठापकं न । 'अणुदित्-' इत्यत्रैव परेण णकारेणाणप्रत्याहारः । इण् तु सर्वत्र परेण । यदत्र परिभाषेन्दुशेखरे दूषणं तदस्मत्कृते विद्याविलासै द्रष्टव्यम् । अत्रलेषालंकार:--'श्लेषः स एकवाक्येऽस्मिन्यत्रानेकार्थता भवेत्' इति लक्षणात् । अत्र प्रमाणालंकारेषु शब्दप्रमाणालंकारः । श्रौती पूर्णोपमा---'साधर्म्यमुपमा भेदे पूर्णा लुप्ता च सानिमा । श्रोत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥' इति लक्षणात । काव्यादर्शे तु दण्डिनेयं धर्मोपमेति व्यवहृता-'इति धर्मोपमा साक्षात्तुल्यधर्मनिदर्श- नात्' । मानवत्यत्र नायिका । मानश्चात्रेाजन्य:----'पत्युरन्यप्रियास) दृष्टेऽथानुमिते श्रुते । ईचीमानो भवेत्स्त्रीणां तत्र वनुमितिस्त्रिधा ।।' इति रसरलहारः । स च म. ध्यम:--'भानो लघुर्मध्यमश्च गुरुश्चेति त्रिधा भवेत् । अपरस्त्रीदर्शनोत्थो गोत्रस्खलन- जस्तथा । अन्यस्त्रीसङ्गजनितः क्रमेण त्रिविधो भवेत् ॥ इत्यपि तत्रैव। पथ्यायो छन्द:- 'निध्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागरा- जेन ॥ इति लक्षणात् ॥ अन्यसंभोगदुःखितां प्रति संभुक्तसत्यवाह- नौष्ठवणान्मामपरामिव त्वमवेहि तामेव निजैकदासीम् । न चैकदेशे विकतरुपति भिन्नत्वमज्ञे सखि कोऽपि लोके ॥ ३ ॥ नौति । ओष्ठे व्रणोऽधरपानजस्तस्मान्मामपरा सपत्नीमिव मा अवेहि । अने सखि, एकदेशे विकृतेविकारान कोऽपि भिन्नत्वमुपैति प्राप्नोति । नहि छिनपुच्छे शुनि माजीरव्यवहारो लोके । लोकन्यायसिद्धेयम्' इति व्याकरणेऽप्युक्तम् । इयं ज्ञाप- कसिद्धापि । प्राग्दीव्यतोऽण्' इति सूत्रे माध्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानुकरण- मिद मित्युक्त्वा किमर्थ विकृतनिर्देशः । एतदेव ज्ञापयत्याचार्यः--भवत्येषा परिभाषा--- mumat and SHMADHistent १०७ नक्षत्रमाला। एकदेशविकृतमनन्यवत्' इति । तेन निर्जरशब्दे जरसादेशः फलम् । अत्र- त्यमपि दूषणं विद्याविलासे द्रष्टव्यम् । काव्यलिङ्गमलंकारः---‘समर्थनीयस्यार्थस्य का- व्यलिङ्ग समर्थनम्' इति लक्षणात् ।। पूर्वमी-मानेऽनुनीतां पुनः प्रणयमानिनी प्रत्याह- अनुनीता पुना रोषं भेजे तामाह मानिनीम् । एकस्यां लक्षणं व्यक्तौ सकदेव प्रवर्तते ॥ ४ ॥ अनुनीतेति । या पूर्वमनुनीता पुना रोषं भेजे । अत्र 'रो रि' इति लोपे कृते 'ट- लोपे--' इति दीर्घः । तामाह नायकः एकस्यां व्यक्ती एक लक्षणं सकृदेव एकवार- मेव प्रवर्तते । पुनः कोपो न योग्य इति भावः । प्रणयमानिनीयम् । 'लक्ष्ये लक्षणं सकदेव प्रवर्तते । अत्र ज्ञापकं 'समः सुटि' इति सूत्रम् । “समो वा लोपमेके इति भाष्येण लोपस्यापि रुप्रकरणस्थत्वान्मकारलोपे एकसकारके पुनस्तत्र सकारद्वित्वे द्वि- सकारके पुनः सकारद्वित्वे त्रिसकारकरूपसिद्धौ किं सूत्रेणेति तदेव ज्ञापकम् । फलं तु---- मुध्युपास्य इत्यत्र धकारद्वित्वे पुनर्धकारद्वित्वं न । युग्मविपुला च च्छन्द:--'यस्यां लः सप्तमो युग्मे सा युग्मविपुला' इति लक्षणात् ॥ सख्युपभोगेन साशङ्का नायिका गौणमुख्यन्यायं मनसि निधाय दासी धृष्टस्य सेवन योजयामासेति वर्णयति- मुख्य कार्यस्य विज्ञानादासी धृष्टस्य सेवने । नियोजयामास तयो रतिं ज्ञात्वा चुकोप सा ॥ ५ ॥ मुख्य इति । मुख्य प्रधाने कार्यस्य विधेयस्य विज्ञानादासी धृष्टस्य प्रगल्भस्य सेवने नियोजयामास । सा तयो रति ज्ञात्वा चुकोप सरोषा बभूव । परकीयान्यसंभोगदु:- खिता नायिका। नन्वेवमपि महद्भूतश्चन्द्रमा इत्यत्र 'आन्महतः' इत्यात्त्वापत्तिरत आह-- 'गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' । गुणादागतो गौणः । यथा गोशब्दस्य जाड्यादिगुण- निमित्तोऽर्थों बाहीकः । अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुध्यते । मुखमिव प्रधा- नत्वान्मुख्यः । प्रधान इत्यर्थः । गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुख्यार्थारोपेण प्रवर्तते । एवं चाप्रसिद्धत्वं गौणलाक्षणिकत्वं चात्र गौणत्वम् । तेन प्रियत्रयाणामित्यादौ त्रया- देशो भवत्येव । तत्र त्रिशब्दार्थस्येतरविशेषणत्वेऽप्युक्तरूपगौणत्वाभावात् । अन्ये तु 'प- रिवेविषीध्वमित्यत्र ढलव्यावृत्तये क्रियमाणात् 'इणः पीध्वं-' इत्यत्राङ्गमद्दणादर्थव- परिभाषानित्या । तन्मूलकमिदम्' इत्याहुः ।। दासी नायिकायाः सान्त्वनं करोति- यदागमास्तद्गुणास्ते गृह्यन्ते तनहाद्विते । अतस्त्वय्याबद्ध भावो मामैक्षत स सादरम् ॥ ६ ॥ यदागमा इति । यत्सकाशादागमो येषां ते यदागमा:, तस्य यत्सकाशादागमस्तद्गुणी- - काव्यमाला। भूता अङ्गभृतास्तद्रहाते गृह्यन्ते । अतस्त्वय्याबद्धभावः स नायको मां सादरमैक्षत । ननु प्रणिदापयतीत्यादी दारूपस्य विधीयमाना घुसंज्ञा दापर्न स्यादत आह-यदागमा- स्तद्गुणीभूतास्तद्रहणेन गृह्यन्ते' । यमुद्दिश्यागमो विहितः स तद्गुणीभूतः शास्त्रेण तदव- यवत्वेन बोधितोऽतस्तद्रणेन तबाहकेण तद्वोधकेन शब्देन गृह्यते बोध्यत इत्यर्थः । तत्र तद्गुणीभूता इत्यंशो बोजकथनम् । लोकेऽपि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्त. ग्रहणेन ग्रहणं दृश्यते । यमुद्दिश्य विहित इत्युक्तेः । प्रनिदारयतीत्यादौ न दारित्यस्य धु- खम् । आने सुविधानसामर्थ्यादेषानित्या । अन्यथा पचमान इत्यादावकारस्य मुक्य- नया परिभाषया विशिष्टस्य सवर्णदो। तद्वैयर्से स्पष्टमेव । तेन दिदीपे इत्यादी यणा- दिकं न । जहारेत्यादौ 'आत औ णलः' इति न || रतान्तं वर्णयति---मृष्टाघरेति युग्मेन । मृष्टाधरालक्तमनञ्जनाक्षं पत्रावलीशेपविशेषशोभम् । रतान्त आसेचनकं निपीय कान्ताननं कान्त उवाच कान्ताम् ॥ ७ ॥ कृतेऽङ्गकार्य पुनरङ्गकार्य न जायते मुन्दरि दर्शनेऽपि । ततो यथेषोऽस्ति परिश्रमस्ते प्रसाधनार्थ करभोपमोरु ॥८॥ (युग्मम) मृष्टोऽधरालतको यस्याः । अधरपानादित्यर्थः । अनञ्जने अक्षिणी बस्य । चुम्बनात्। बहुव्रीही सक्थ्यक्ष्णोः स्वाभात्यच्' इति पच् । विधेयत्वाभावादविसृष्टविधेयांशदोषा- भावः । पत्रावल्याः पनरचनायाः शेषेण शोभा यस्य । पनपचनाच्युतिस्तु विपरीतसुरते स्वेदोगमादित्यर्थः । आसेचनकम् । तदासेचनकं ते स्त्यन्तो यस्य दर्शनात्' इत्यमरः कान्ताननं निपीय सादरं दृष्ट्वा प्रसाधनोद्यतां नायिका प्रत्याह । करभोपमावूरू यस्या- स्तत्संबोधनम् । 'करस्य करभो बहिः' इत्यमरः । “उरूत्तरपदादौपम्ये' इत्यूङ तु न । उपमाशब्देन व्यवधानात् । एतेन धात्री कराभ्यां करभोपमोरुः' इति कालिदासप्रयो- गोऽपि व्याख्यातः । है सुन्दरि, अङ्गकार्ये अङ्गानां कार्य प्रसाधने कृते पुनरङ्गकार्य प्र- साधनं नास्ति । अङ्गस्य कार्ये कृते पुनरङ्गस्य कार्य न भवति । यथात्रैव सुन्दरीत्यत्र संबुद्धौ ‘अम्बार्थनद्योईस्वः' इति ह्रस्वे कृते 'हस्वस्य गुणः' इति गुणो न भवति । न चात्र लक्षणप्रतिपदोक्तपरिभाषया निर्वाहः । हे चित्रगोत्रमित्यनेन विरोधापत्तेः । अत्र ते प्रसाधनार्थे परिश्रमो वृथैव । ननु रतान्ते प्रसाधनवर्णनं न कविसंप्रदाय इति, तन्न । 'शान्ते मन्मथसंगरे रणकृतां सत्कारमातन्वती वासोऽदाजधनस्य पीनकुचयोहारं श्रुतेः कुण्डलम् । बिम्बोष्टस्य च वीटिका सुनयना पाण्यो रणकङ्कणे पश्चालम्बिनि केशपाश- निचये गुक्तो हि बन्धनमः ॥ इति दर्शनात् । यत्तु तत्त्वबोधिन्याम् 'हस्वविधानसा- माद्गुणो न प्रवर्तते अन्यथा 'अम्बार्थनद्योर्गुणः' इति यात्', तन्न । सति गुणग्रहणे इक्परिभाषोपस्थितेः अम्बाथै दोषः । अथाम्बार्थग्रहणसामर्थ्यात्तत्रानिक्यपि प्रवृत्तिरिति चेन्न । उभयत्र सामर्थ्यकल्पनापेक्षया अन्यार्थया परिभाषया निर्वाहस्य सुगमत्वात् । तत्रैवान्ये तु कृते द्वस्वे 'यदि गुण इष्टस्तार्ह अम्बार्थानां हस्वो नदीहस्वयोर्गुणः इत्येव नक्षत्रमाला। १०९ Human ब्रूयात् । तदपि न । 'जसि च' इति सूत्र एकदेशानुवृत्तिकल्पनापत्तेः। अस्यां परिभा- पायां ज्ञापकं ज्ञाजनोर्जा' इति जादेशविधानम् , 'ज्यादादीयसः' इत्यत्राकारविधानं च । जकारादेशे कृते जानातीत्यत्र 'अतो दी? यत्रि' इति ज्यायान् इत्यादौ 'अकृत्सार्व-' इति दीः इष्टसिद्धौ कि दीर्घविधानेन । 'तयोविचि--' इति निर्देशादनित्यैषा परि- भाषा । समास आर्थी धर्मलुतोपमा । काव्यादर्श वियं वस्तूपमेति व्यवहता--'इति प्रतीयमानेकधर्मा वस्तूपमैव सा' इति लक्षणात् । क्रमेणाधरचुम्वनाद्युत्कर्षदर्शनात्सारा. लंकार:--- 'उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते' इति तल्लक्षणात् ॥ कश्चन मानिनी दूती निराकरोति संनियोगशिष्टन्यायेन--- निवृत्तिस्ते संनियोगशिष्टन्यायेन नो कुतः । द्वयोर्मानोदये इत्यास्तदनित्यत्वमुत्तरम् !॥ ९ ॥ निवृत्तिरिति । 'संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति संनियोग- शिष्टन्यायः । तत्संनियोगेनागता स्वं तस्या निवृत्ती वं कथं न निवर्तसे । द्वयानोदये। वृत्या तदनित्यत्वमुत्तरम् । ननु पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र इत्यादौ द्विगोक' इत्यणो लुकि 'लुक् तद्धित--' इति स्त्रीप्रत्ययलुकि आनुकः श्रवणापत्तिरत आह-सं- नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः। एवार्थों वाशब्दः । अत्र बिल्व- कादिभ्यश्छस्य लुक्' इति सूत्रस्थछग्रहणं ज्ञापकम् । तद्धि छमात्रस्य लुग्बोधनद्वारा कुकोऽनिवृत्तिर्यथा स्यादित्यर्थम् । कृतकुगागमा नडाद्यन्तर्गणा बिल्वादय एव तत्र निर्दिष्टा बिल्लकादिशब्देन । समुच्चयार्थचशब्दयोगेन विधेययोरेककालिकत्वैकदेशत्व- नियमाय न्यायसिद्धापीयं णाविष्टवत्-' इत्यनेन पुंवत्त्वविधानमेतदनित्यत्वज्ञापनार्थम् । अन्यथा एनीमाचष्टे, एतयतीत्यादौ टिलोपेनैव डीनिवृत्तौ संनियोगशिष्टपरिभाषया नस्यापि निवृत्तौ पुंवत्त्वस्यानावश्यकत्वात् । 'ज्ञापकसिद्धं न सर्वत्र' इति ज्ञापकसिद्धे- यमनित्येति वा । अत्र परिभाषेन्दुशेखरे यहूषणं तद्विद्याबिलासे स्फुटम् ।। दूती नायक भर्त्सयन्त्याह-- कारोः शङ्खश्वेतकीतैर्युत्पत्तिस्तव कुत्रचित् । अव्युत्पत्ती रसे तेऽस्ति ततोऽसि त्वमुणादिवत् ॥ १० ॥ कारोरिति । कारोः शिल्पिनः । 'कृवापा--' इत्युण । शङ्खवत्कम्बुवच्छता कीर्तिर्यस्य तादशस्य । 'शमः खः' अत्र सति व्युत्पत्तौ खस्येनादेशः स्यात् । इति हेतोरव्युत्पत्ति- पक्षोऽपि । उणादयो व्युत्पन्नाः अव्युत्पन्नाश्च कुत्रचित् शिल्पादिविषये । रसे ते अ- व्युत्पत्तिः । ततस्त्वमुणादिवदसि । अव्युत्पत्ती रस इत्यत्र 'रोरि' इति लोपे 'इलोपे-' इति दीर्घः । यथा संख्यालंकारः । 'यथासंख्यं क्रमेणैव ऋमिकाणां समन्वये' इति त- क्षणात् । तद्धिते आर्थी लुप्तोपमा ॥

No text on this page.

१०९ " बयात् । तदपि न । 'जसि च इति सूने एक देशानुवृत्तिकल्पनापत्तेः । अस्यां परिभा- पायां ज्ञायक नाजनीना' इति जादेशविधानम्, 'ज्यादादीयसः' इत्यत्राकारविधानं च। जकारादेशे कृते जानातीत्यत्र 'अतो दीघों यत्रि' इति ज्यायान् इत्यादी अकत्सा...' इति दीर्घ इष्टसिद्धी कि दीर्घविधानेन । तयाचीवांच-' इति निर्देशादनित्यैषा परि- भाषा । समास आर्थी धर्मलुतोपमा । काव्यादर्श स्वियं वस्तूपमैति व्यवहता-... इति प्रतीयमानेकवर्मा वस्तुपमैव सा' इति लक्षणात् । क्रमेणाघर चम्बनाकर्पदर्शनात्सारा- लंकार:---- 'उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते इति तरक्षणात् ॥ कश्चन मानिनी दूतः निराकरोति सानयोग शिष्टन्यायेन---- निवृन्तिस्ते संनियोगशिष्टन्यायेन नो कुतः । द्वयोमर्मानोदये इल्यास्तदनित्यत्वमुत्तरम् ।। ९ ॥ नितिरिति । संनियोगशिष्टानां सह बा प्रवृत्तिः सह वा निवृत्तिः इति संनियोग- शिष्टन्यायः । तत्संनियोगेनागता लं तल्या निवृत्ती वं कथे न निवर्तसे । हयानोदये। दूस्या तदनित्यत्वमुत्तरमाः ननु पनेन्द्राण्यो देवता अस्य पवेन्द्र इत्यादी द्विगोलक' इत्यणो लुकि लुक् तद्धित-' इति श्रीमत्ययलुकि आनुकः श्रवणापत्तिरत आह-------- नियोगशिष्टानां सह वा प्रवृत्तिः सह वा नितिः । एवाय वाशब्दः । अत्र “बिल्व- कादिभ्यदलस्य लुक' इति सूत्रस्थलमहणं झापकम् । तद्धि छमात्रस्य लुमोधनद्वारा कुकोऽनिवृत्तिर्वथा स्यादिनार्थम् । ऋतकुगागमा मडाअन्तर्गणा दिल्यादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन । समुकायार्थ चशब्दयोगेन विधेययोरेककालिकायैकदेशत्व- नियमाय न्यायसिद्धापीय ‘णाविष्टवत्--' इत्यनेन पुंवत्त्वविधानमेतदनित्यत्वज्ञापनार्थम् । अन्यथा एनीमाचटे, एतवतीत्यादी टिलोपेनैव हीनिवृत्ती संनियोगशिष्टपरिभाषया नस्यापि निवृत्ती मुंवत्वस्यानावस्यकत्वात । ज्ञापकसिद्ध न सर्वत्र' इति ज्ञापसिद्धे- यमनित्येति वा । अत्र परिभाषेन्दुशेखरे यषणं तद्विद्याविलासे स्फुटम् ।। दती नायक भर्त्स यन्त्याह- कारोः शङ्खश्वेतकीर्तव्युत्पत्तिस्तव कुत्रचित् । अव्युत्पत्ती रसे तेऽस्ति ततोऽसि त्वमुणादिवत् ॥ १० ॥ कारोरिति । कारोः शिल्पिनः । 'कृवापा--' इत्युण । शङ्गवत्कम्बुवच्छेता कीर्तिर्यस्य तादृशस्य । 'शमः खः' अन्न सति व्युत्पत्तौ खस्येनादेशः स्यात् । इति हैतोरव्युत्पत्ति- पक्षोऽपि । उणादयों व्युत्पन्नाः अव्युत्पन्नाश्च कुत्रचित् शिल्पादिविषये । रसे ते व्युत्पत्तिः । ततस्त्वमुणादिवदसि । अव्युत्पत्ती रस इत्यत्र 'रोरि' इति लोपे 'ट्रलोपे- इति दीधः । यथा संख्यालंकारः । यथासंख्यं क्रमेणैव ऋमिकाणां समन्वये' इति त. लक्षणात् । तद्धिते आर्थी लुप्तोपमा ॥ सन काव्यमाला। निर्दिश्यमानस्यादेशाः संभवन्ति सुनो यतः । अतः प्रत्यादेशपात्रं रोपासव न तिका ॥ ११ ॥ निदिश्यमानस्येति । हे सुनः सुनासिक, यतो निर्दिश्यमानस्यादेशाः संभवन्ति अत: प्रत्यादेशस्य निराकरणस्य । 'प्रत्यादेशो निराकृतिः' इत्यमरः । पात्रं सैव दतिका । प्रकृते----सुन इत्यत्र 'पद्दन-' इति सूत्रे निर्दिश्यमानस्य नासिकाशब्दस्य नसादेशः । न तु ‘पदाङ्गाधिकारे' इति प्राप्तः सुनासिकाशब्दस्य नसादेशः । यद्वा समासान्तविधर- नित्यत्वेन 'अन्नासिकाया:--' इत्यजमावेऽपि संनियोगशिष्टन्यायस्यानित्यत्वे प्रकृतसूत्रेण नसादेशः । नन्वेवमुदस्थादित्यादौ 'उदःस्थास्तम्भो:--' इति पूर्वसवर्णापत्तिरत आह---- 'निर्दिश्यमानस्यादेशा भवन्ति' । 'पष्ठी स्थानेयोगा' इति सूत्रमावर्तते । तत्र द्वितोय- स्थायमर्थः । षष्ठयन्तं निर्दिश्यमानमुच्चार्यमाणस जातोयमेव निर्दिश्यमानावयवरूपमेव वा स्थानेन स्थाननिरूपितसंबन्धेन युज्यते न प्रतीयमानमित्यर्थः । तेनेदं सिद्धम् । अन्नत्यं दूषणं विद्याविलासे द्रष्टव्यम् ।। नायिकाया मानबीजमाह- आगमानित्यता शब्दे उणाद्यादौ मनोहरा । मनोहरा न ते यस्मात्तन्नित्यत्वमतोऽर्थये ॥ १२ ॥ आगमेति । उणावादी शब्दे आगमाना ङ्मुडादीनामनित्यता मनोहरा । ते आगम. स्थागतस्यानित्यता न मनोहरा । अतस्तनित्यत्वमर्थये । यथा 'उणादयो बहुलम्' इत्यत्र मुडागमोऽनित्यत्वान नैवं तथा आगमो युक्तः । 'आगमशास्त्रमनित्यम्' इति परिभाषा- खण्डनोद्धारोऽपि विद्याविलासे द्रष्टव्यः ।। वेश्या वर्णयति अर्थवग्रहणे यस्मान्नानर्थकपरिग्रहः । सुरूपधनिनोवेश्या गृह्णाति धनिनं ततः ॥ १३ ॥ अर्थवदिति । अर्थवतः सार्थस्य ग्रहणेऽनर्थकस्य व्यर्थस्य यतः परिग्रहो नास्ति ततो हेतोः सुरूपधनिनोमध्ये वेश्या धनिनो ग्रहणं करोति । अर्थवत्त्वादिति भावः । ननु प्रोढवानित्यत्र 'प्रादहोढ--' इति वृद्धिः स्यादत आह---'अर्थवजहणे नानर्थकस्य' विशिष्टरूपोपादाने उपस्थितार्थस्य विशेषणतयान्वयसंभवे त्यागे मानाभावोऽस्या मूलम् । 'नश्च-' इति सूने राजेः पृथग्भ्राजिग्रहणमस्यां हि ज्ञापकम् ॥ काचन दूती नायकस्य समीपे गता, नायकस्य गोत्रस्खलनं जातम, तदनुकरणमागत्य नायिकायाः समीपे कृतममुं प्रसङ्गं वर्णयति गोत्रस्खलनानुकतौ दृष्टारुणचक्षुषा दूती। इत्याहाशयमस्या अनुकरणं प्रकृतिवद्भवति ॥ १४ ॥ । । www । गोत्रेति । इत्यने नायककृतस्य गोत्रस्खलनस्यानुकुतावनुकरणे अरुणे चक्षुषी यस्या- स्तथा । कोपारुणचक्षुधेत्यर्थः । ती दृष्टा । अस्या आशयमाह-अनुकरणं प्रकृतिवद्भ- वतीति । यथा नायकोपरि कोपस्तया मयपि शास्त्रमाप्तः । ननु क्षियः' इत्यादी इब कथमत आह--'प्रकृतिवदनुकरणं भवति । क्षिय इति इयइनिर्देशोऽस्या ज्ञापकः । तत्रैव प्रातिपदिकत्वनिवन्धनविभक्तिकरणादनित्या चयम् । उपगीतिच्छन्दः॥ नायको दूतीमुखादात्रस्खलनश्रवणेन मानिनों प्रत्याह--- नास्ति तदन्तग्रहणं संज्ञाविधौ प्रत्ययग्रहणे हि । तस्माद्यथापरावं दण्ज्यो वध्यस्तु नैवाहम् ॥ १५ ॥ नास्तीति । संज्ञा नाम, तद्विधौ प्रत्ययग्रहणे शपथग्रहणे तदन्तग्रहणं तस्यापराधिनो- ऽन्तो नाशस्तस्य प्रणं नास्ति । हि यस्मात् । संज्ञा याचताना नाम हस्ताये चाय- मूचना', 'प्रत्ययोऽधीनशपथज्ञानविश्वासवस्तुपु', 'अन्तो नाशो यो मत्युः इति त्रि. यमरः । तस्मादपराधमनतिक्रम्य यथापराधमहं दमाः, वध्यस्तु नैव । अन्यथावाद- शपयाद्यपनेयस्तु मध्यमः' इति । 'मानो लघुर्मध्यमश्च गुरुवति त्रिधा भवेत् । अपरस्त्री- दर्शनात्यो गोत्रस्खलनजस्तथा । अपरस्त्रीसंगमोत्यः कामेण निविधी भवेत् ॥ इति रसरलहारः । नन्वेवं 'तरतमपौ पः' इत्यादिना तरबन्तादेः संज्ञा स्याइत आह- 'संज्ञाविधी प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' । 'सुटिङन्तं' इत्यन्तग्रहणमस्या ज्ञापकम् । गीतिच्छन्दः ॥ पुनस्तामाह -... अनुदात्तत्वप्रथितं युवति निबोधात्मनेपदमनित्यम् । उदयति सविता चन्द्रो न निर्गतं यौवनं हि तथा ॥ १६ ॥ अनुदात्तेति । हे युवति, अनुदात्ते मम हृदि ईत्वं लक्ष्मीलं यत्र ताहशत्वात्प्रथितं ख्यातमात्मने स्वस्मै पदं स्थानमनित्यं निबोध जानीहि । लक्ष्म्यपेक्षयं सुरूपति पदप्रा- तिरनित्येत्यर्थः । हि यस्मानिर्गतः सविता चन्द्रचोदति निर्गतं यौवन तथा न । 'उदात्तो दाटमहतोः' इति विश्वप्रकाशः। अनुदात्तत्त्वलक्षणमात्मनेपदमनित्यम् । चक्षिको डित्करणाज्ज्ञापकातू' । तेन प्रकृते उदयतीत्यत्रात्मनेपदं न । अत्रत्यपरिभाषेन्दुशेखर- दूषणोद्धारो विद्याविलासे स्फुटः । काव्यलिङ्गमलंकार:-'काव्यलिङ्गं हेतोर्वाक्यप- दार्थता' इति तल्लक्षणात् । परिकरालंकारोऽपि.---'अलंकारः परिकरः साभिप्राय विशे- पणे' इति लक्षणात् । उपगीतिच्छन्दः । सर्वद्वन्द्वैकवद्भावः पाणिनीये विकल्पितः । विहाय मामिति सखी काप्याह प्रेमगर्विता ॥ १७ ॥ सर्वति। सर्वश्चासौ इन्द्रश्च । 'चाथै द्वन्द्वः' इति विहितः समासः तस्यैकवद्भावः पाणि- नीय विकल्पितः । 'सर्वो द्वन्द्वो विभाषेकवद्भवति । द्वन्द्वसामान्येन स्वमिशुनप्राप्त परि- हरति-मां विहाय । त्यक्त्वेत्यर्थः । 'स्त्री'लोमिशुने द्वन्द्वम् इत्यमरः । कापि प्रेमग- विता सखी प्रत्याह । घटपटं घटपटी इत्यादि सिद्धये आह-~~-'सर्वद्वन्द्वी विभापैकव- द्रवति', इन्द्रश्च प्राणि-' इत्यादि प्रकरणाविषयः । सर्वो दुन्दु इलयः । बाथै द्वन्द्वः' इति सूत्रेण समाहारेतरेतरयोगयोगविशेषेण द्वन्द्वविधानाच्यायसिद्धेयम् । परिसं- ख्यालंकारोऽत्र---'परिसंख्या निषिध्यकमेकस्मिन्वस्तु यन्त्रणम्' इति तल्लक्षणात् ॥ तुल्ये वयसि रूपे च मयि मज्जति यन्मनः । पत्युस्तत्कारणं ब्रूहि सत्यूचे भेदका गुणाः ॥ १८ ॥ तुल्य इति । वयसि रूपे च तुल्ये सति मम सपत्न्याश्र । पत्युमनो यन्मयि निम- ज्जति तत्कारणं हि इति नायिकामनः । गुणा दाक्षिण्यादयः । भेदका व्यावर्तकाः । उत्कर्षजनका इत्यर्थः । इति सध्या उत्तरम् । हेवलंकारोऽ....तोहेतुमता साध वर्णन हेतुरुच्यते' इति लक्षणात ॥ प्रेमगविता मानभाजी दूषयति कृतमपि कार्य केचिन्निवर्तयन्तीह शास्त्रवत्प्रेम । मायस्त एव पूज्या ये न प्रागेव कुर्वन्ति ॥ १९ ॥ कृतमिति । केचित्कृतमपि प्रेम कार्य शास्त्रवनिवर्तयन्ति । तेभ्यस्त एव पूज्या में प्रागेव न कुर्वन्ति । 'अकृतव्यूहाः पाणिनीयाः' इति द्वयोमध्ये अकृतव्यूहा इति श्रेष्ठम् । 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं बरम्' इति न्यायात् ।। दूत्युपभोगकामः कश्चन निवारयन्ती दूती प्रत्याह---- स संनिपातलक्षणो विधिविधूपमानने । न मन्यतेऽधुना मया धुनोपि किं कराम्बुजम् ॥ २० ॥ सति । हे विधूपममाननं यस्याः, स संनिपातलक्षणो विधिरधुना मया न मन्यते । वं कराम्बुजं कि धुनोधि । तस्या अनित्यत्वात् । उपजीव्यविरोधोऽस्या मूलम् । 'क. टाय क्रमणे' इति निर्देशादनित्या । उपमालंकारः । प्रमाणिकावृत्तम्---'प्रमाणिका जरी लगौ' इति लक्षणात् । कचिनगस्वरूपिणीत्यस्याः संज्ञा ।। आकारयन्कामपि ना दृष्टः स्वप्रिययावदत् । यत्संज्ञापूर्वकविधेरनित्यत्वमवेहि तत् ।। २१ ॥ आकारयनिति । कोऽपि ना कामपि परस्त्रियं संज्ञया हस्तचेष्टया । संज्ञा स्थाच्चै तना नाम हस्तायैश्वार्थसूचना' इत्यमरः । आकारयन्स्वप्रियया दृष्टः सनित्यवदत् । यत्संज्ञा- पूर्वकविधेरनित्यत्वं तदहि । 'ओगुणः' इत्यत्र औरोत्' इति वक्तव्ये गुणोक्तिः संज्ञापू- वैकविधेनित्यत्वं ज्ञापयति । तेन स्वायंभुवामिति सिद्धम् ।। स्थिरो न रागो दयिताजनस्य श्रुत्वेति वाचं दयितस्य नूनम् । पर्जन्यवलक्षणसंप्रवृत्त्या स्वस्यामपीमं गुरुदोषमूहे ॥ २२ ॥ ।

स्थिरेति । नायिकायाः सखी प्रत्युक्तिः । दविताजनस्य गंग: स्थिरों न इति दयि- तस्य प्रियस्य बाचं श्रुत्वा पर्जन्यवलक्षणसंप्रवृत्या स्वस्यामपोम गुरुदोषम्हे ! लिट उत्त- मपुरुषेकवचनम् । पर्जन्यो मेघशकयोः' इति लक्ष्मीनिवासः । लोकसिद्धेय परिभाषा ।। ननु तथा सति को दोष इति चेदाशयः सख्यास्तनिराकरणावाह पूर्व ह्यपवादोऽभिनिविशते पश्चाद्भवति किलोत्सर्गः । इति मत्वा मम चेतः खिन्ते नित्यं सखि क्षणशः ॥ २३ ॥ पूर्वमिति । पूर्वमपवादोऽपवादशास्त्रमभिनिविशते । 'अभिनिविशश्च' इति कर्मसंज्ञा, 'नेविंशः' इत्यात्मनेपदम् । पश्चादुत्सर्गशास्त्रम् । पक्षऽपवादो निन्दा । अवर्णाक्षेपनिर्वा- दपाशीवादापवादवत्' इत्यमरः । उत्तगस्त्यागः । हे सखि, इति मत्वा मम चितः क्षणशी नित्यं विन्ते विद्यते । ननु दधतीत्यादावन्तरङ्गत्वादन्तादेशेऽविधौ स्थानिवत्वाभावाद- दादेशो न स्यादिति तयथ्यापत्तिरत आह-पूर्व अपवादा अभिनिविशन्ते पश्चादु- सगाः । लक्षणैक चक्षुष्को हि अपवादविषयं पर्शलोच्य तद्विषयत्वात्रिको उत्सर्गेण तत्तलक्षणं संस्करोति । अन्यथा विकल्पापत्तिरित्यर्थः । अभिनिविशन्त इत्यस्य बुझा- ड्डा भवन्तीत्यर्थः । अपवादों यवन्यन' इति न्यायस्य तु नात्र प्राप्तिः । अन्तादेशा- प्राप्तिविषये चारितार्थाभावात् । आर्याच्छन्दः ।। सखी तां सान्त्वयति- गणकार्यमनित्यं स्यादिति किं न श्रुतं त्वया । अनार्जवमतश्चित्तादपाकुरु कृपां कुरु ॥ २४ ॥ गणेति । गणकार्य भ्वादिधातुगणकार्यमनित्यमिति त्वया न श्रुतम् । पक्षे गणस्य समुदायस्य कार्यम् । अतश्चित्तादनार्जवं कौटिल्यमपाकुरु कृपां कुरु । तनादित्वादेव सिद्धे कृश्नहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन 'न विश्वतेदविश्वस्तम्' इत्यादि सिद्धम् ।। वार्णादाङ्ग बलीयः स्यादिति मत्वा विलासिनी । नोवाच वचनं किंचिदालिङ्गनमदान्मुदा ॥ २५ ॥ वाणेति । वाणांद्वर्णमयात्संतोषापादनादानं बलवदिति मत्वा सान किंचिदुवाच किं तु मुदा आलिङ्गनं अदात । पक्ष--वार्णाद्वर्णसंबन्धिकार्यादाङ्गमहाधिकारीयकार्य बलवत् । नन्वेवमियायेत्यादौ द्वित्वे कृतेऽन्तरङ्गत्वात्सवर्णदीर्घत्वे तदसिद्धिरत आह-- 'वार्णादाङ्ग बलीयो भवति । तेनान्तरणमपि सवर्णदीर्घ बाधित्वा बुद्धिरिति तत्सिद्धिः । 'अभ्यासस्यासवर्णे' इतीयविधायकसूत्रस्थमसवर्णमहणमस्या ज्ञापकम् । तद्धीयतुरि- त्यादावियब्यावृत्यर्थम् ॥ यान्तं निशम्य कान्तं तगृह सविधेऽस्मि साशङ्का । एतां प्रतारयति सा ज्ञापकसिद्धं न सर्वत्र ॥ २६ ॥ ।

। यान्तमिति । तस्याः सपत्न्या गृहसविध तत्समीपे । सदेशाभ्यासविषसमादस- देशवत' इत्यमरः । माशास्मि । एनां प्रतारयति सा इती-ज्ञापकसिद्ध सर्वत्र - वति । स्पष्टमेव पठितव्येऽनुमानाबोधनमसार्वत्रिकत्वार्थम् ।। काचिनायिका सपन्यासक्तं पति ज्ञात्वा कांचित्कार्मणकारिणी प्रत्याह---- योगविभागादृष्टा सिद्धिः स्वेष्टस्य पाणिनीयेऽपि । तस्मात्तयोस्तमाचर मत्सौख्यं तावतैवार्य ॥ २७ ॥ योगेति । योगः सूत्रं तस्य विभागाद्विभजनात्स्वेष्टस्याभिप्रेतलक्ष्यस्य सिद्धिः पाणि- नीयेऽपि च । पक्ष योग: संगतिः । 'योगः संनहनोपायध्यानसंगतियुक्ति' इत्यमरः । तस्या विभागस्तस्माद्योगविभागादिष्टसिद्धहतोस्तयोः पतिसपल्यास्तं योगविभागमाचर। है आर्ये हे पूज्ये, तावतैव मत्सौख्यम् । 'क्वचिद्योगविभागादिष्टसिद्धिः' । आयोछन्दः ।। वर्णाश्रये प्रत्ययलक्षणं न रागोदये बन्धनमस्य धुंसः । अभेदका अस्य गुणाः सुवाणि त्वया मया चापि किमत्र वाच्यम् ॥ २८॥ वर्णाश्रयेति । अस्य पुंसो वर्णाश्रये वर्णो गौरादि: स आश्रयो यस्य तादृशो रागो- दयो रागस्य पीतेरुदयस्तस्मिन्प्रत्ययलक्षणं शपथलक्षणम् । 'प्रत्ययोऽधीनशपथ-' इत्य- भरः । बन्धनं न । हे सुवाणि, अस्य पुंसौ गुणा अभेदकाः, न भेदकारः अत्रास्मि- न्विषये त्वयापि कि वाच्यम्, मयापि कि वाच्यम् । ननु गये हितं गोहितमित्यादी प्रत्ययल- क्षणनावादेशाचापत्तिरत आह-वर्णाश्रये नास्ति प्रत्ययलक्षणम्' । वर्णप्राधान्यविषयमे- तत् । तत्त्वं च प्रत्ययलोपे-' इति सूत्रे स्थानिवदित्यनुवृत्त्यैव सिद्ध प्रत्ययलक्षणग्रहणं प्रत्ययस्येतराविशेषणत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्यर्थमेतत्सिद्धम् । उपजातिवृत्तम् ॥ काचिती नायिकान्तराद्गुष्टं नायकं स्वनायिकासमीपे नेतुं वदति- एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयादेहि । तस्यां रोपसमाप्तिर्जातानुसर मत्सखी धीर ॥ २९ ॥ एकस्या इति । एकस्या आकृतेश्वरितः कृतः प्रयोगो न द्वितीयस्याः । पक्ष-ए- कस्या गवायुदाहरणव्यक्तेश्वरितः प्रयोगो द्वितीयादेन । अतस्तस्यां रोषसमातिजोता है घोर, स्वं मत्सखीमनुसर । ननु गोषु चाश्वेषु च स्वामीत्यादिवगोवश्वानां च स्वामी- त्यपि स्यात्। 'स्वामीश्वरा-' इति सूत्रेण षष्ठीसप्तम्योर्विधानादाह----'एकस्या आकृतेश्च- रितः प्रयोगो द्वितीयस्यास्टतीयस्याश्च न भविष्यति । यत्रान्याकृतिकरणे भिन्नत्वसं- भावना तद्विषयोऽयं न्याय इत्यन्यत्र विस्तरः । आर्याछन्दः ॥ द्विजराजो यथा भाति कण्ठे नक्षत्रमालया। द्विजराजस्तथा भातु कण्ठे नक्षत्रमालया ॥ ३० ॥ द्विजराज इति । द्विजराजश्चन्द्रः कण्ठे समीपे नक्षत्रमालया नक्षत्रपरम्परया यथा कलिविडम्बनम् । । भाति शोभते, तथा द्विजराजो द्विजश्रेष्ठः पण्डितः कण्ठे नक्षत्रमालया नक्षत्रमालाख्येन अन्येन भातु । 'काला गले गल याने समीपे च इति विश्वप्रकाशः ।। त्रिलोकचन्द्रात्मजकृष्णरामसूनोः कतिः श्रीशिवरामनाम्नः । नक्षत्रमालेयमनल्पशोभां तनोतु सूरेः प्रथितास्तु दिक्षु ॥ ३१ ॥ त्रिलोकचन्द्रेति । त्रिलोकचन्द्रस्यात्मजः पुत्रः । आत्मजस्तनयः सूनुः इत्यमरः । यः कृष्णरामः कृष्णरामाभिधस्तस्य मूनोः श्रीशिवरामनामः कतिरिय नक्षत्रमाला । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । मरेः पण्डितस्य । श्रीमान्मूरिः कृती कृष्टिः इत्यमरः । अनल्पशोमां तनोतु । दिक्ष प्रथिता प्रसिद्धा अस्तु ।। परिश्रमो व्याकरणे काव्यादावधि यः कृतः। दिगियं दर्शिता तस्य शिवरामेण सन्मुदे ।। लक्ष्मीकीती रसामध्ये शिवरामप्रसादतः। कुरुतां वसति शक्रतुल्यभपालपालिते ॥ अन्यान्मया विचितान्परिशीलयन्तु शीलान्विताः सुमनसो मनसो मुदे ते । यद्वह्निशोधितमनल्परुचा समेतं जाम्बूनदं तदिह मौल्यविशेषलभ्यम् ॥ काव्यानि पञ्च तनुतेऽपि च पञ्चसंख्याष्टीकास्तु सप्तदश चैक उणादिकोषः । भूपालभूषणमथो रसरत्नहारो विद्याविलास इनपूर्वशरत्फलाद्याः ॥ व्याख्या लक्ष्मीविलासाख्या लक्ष्मीप्रीत्यैव निर्मिता यावनक्षत्रमालास्ति तावत्तिष्ठतु भूतले ।। इति श्रीत्रिलोकचन्द्रात्मजकृष्णरामसुनुशिवरामत्रिपाठिकृता लक्ष्मीविलासाख्यटीका- समेता नक्षत्रमाला समाप्ता। HAMAR iyeamsumeme श्रीनीलकण्ठदीक्षितविरचितं कलिविडम्बनम् । न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः । झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥ १ ॥ असंभ्रमो विलज्जत्वमवज्ञा प्रतिवादिनि । हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ॥ २ ॥ उच्चैरुद्घोप्य जेतव्यं मध्यस्थ चेदपण्डितः । पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ३ ॥ १. 'उद्धृष्य' इति पाठः, लाभो हेतुधनं साध्यं दृष्टान्तस्तु पुरोहितः । आत्मोत्को निगमनमनुमानेप्वयं विधिः ॥ ४ ॥ अलभ्यं लप्स्यमानेन तत्वं जिज्ञासुना चिरम् । जिगीषुणा लियं त्यक्त्वा कार्यः कोलाहलो महान् ॥ ५ ॥ पाठनैर्ग्रन्थनिर्माणैः प्रतिष्ठा तावदाप्यते । एवं च तथ्यव्युत्पत्तिरायुषोऽन्ते भवेन्न वा ॥ ६ ॥ स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले । न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिः ॥ ७ ॥ वाच्यतां समयोऽतीतः स्पष्टमने भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र वैतते ॥ ८ ॥ अगतित्वमति श्रद्धा ज्ञानाभासेन तृप्तता । त्रयः शिप्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥ ९ ॥ यदिन क्वापि विद्यायां सर्वथा क्रमते मतिः । मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ १० ॥ अविलम्बे कृत्यसिद्धौ मान्त्रिकैराप्यते यशः । विलम्बे कर्मवाहुल्यं विख्याप्यावाप्यते धनम् ॥ ११ ॥ सुखं सुखिषु दुःखं च जीवनं दुःखशालिघु | अनुग्रहायते येषां ते धन्याः खलु मान्त्रिकाः ॥ १२ ॥ यावदज्ञानतो मौनमाचारो वा विलक्षणः । तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके ॥ १३ ॥ चारान्विचार्य दैवज्ञैर्वक्तव्यं भूभुजां फलम् । प्रहचारपरिज्ञानं तेषामावश्यकं यतः ॥ १४ ॥ पुत्र इत्येव पितरि कन्यकेत्येव मातरि । गर्भप्रश्नेषु कथयन्दैवज्ञो विजयी भवेत् ॥ १५ ॥ १. 'अभ्यास्य लप्स्यमानेन इति, अलभ्यं लज्जमानेन' इति च पाठ:. २. एवं सतस्तु इति पाठ:. ३. वर्तताम्' इति पाठः, ४. भाग्यतः' इति पाठः. ५. अविलम्बेन संसिद्धी' इति पाठः, ६. 'दुःखेऽपि' इति पाटा. ७. 'भूभृतां' इति पाठः, कलिविडम्बनम् । आयुः प्रश्ने दीर्घमायुर्वाच्यं मौहूर्तिकैजनः जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ।। १६ ।। सर्व कोटिद्वयोपेतं सर्व कालद्वयावधि । सर्व व्यामिश्रमिव च वक्तव्यं देवचिन्तकैः ॥ १७ ॥ निर्धनानां धनावाप्ति धनिनामधिकं धनम् । सर्वथा ग्राह्या लोकैज्योतिषिका जनाः ॥ १८ ॥ शतस्य लाभे ताम्बूलं सहस्त्रस्य तु भोजनम् । दैवज्ञानामुपालम्भो नित्यः कार्यविपर्यये ॥ १९ ॥ अपि सागरपर्यन्ता विचेतव्या वसुंधरा । देशो रित्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ २० ॥ वारान्केचिद्रहान्केचित्केचिहक्षाणि जानते । त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयम् ॥ २१ ॥ नैमित्तिकाः स्वप्नदशो देवतोपासका इति । निसर्गशत्रवः सृष्टा दैवज्ञानाममी त्रयः ॥ २२ ॥ स्वस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किंचन । कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवः ॥ २३ ॥ नातिधैर्य प्रदातव्यं नातिभीतिश्च रोगिणे । नैश्चिन्त्यान्नादिमे दानं नैराश्यादेव नान्तिमे ॥ २४ ॥ भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् । आरोग्यं वैद्यमाहात्म्यादन्यथात्मपथ्यतः ॥ २५ ॥ निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितम् । सर्वमप्युपदेश्यन्ति रोगिणः सदने स्त्रियः ॥ २६ ॥ जुम्ममाणेषु रोगेषु नियमाणेषु जन्तुषु । रोगतत्वेषु शनकैर्युत्पद्यन्ते चिकित्सकाः ॥ २७ ॥ १. 'सर्वदा' इति पाठः २. नित्य इति पाठः.३. प्रादेशमानोऽपि' इति पाठ:: 'रोगिणि' इति पाठ:., ५. भिषज्य तु' इति पाठः, ६. स्वनापथ्यतः' इति पाठः, TAR ११८ प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे । बहुमानार्थमन्ते च जिहीपन्ति चिकित्सकाः ॥ २८ ॥ लिप्समानेषु वैद्येषु चिरादासाध रोगिणम् । दायादाः संप्ररोहन्ति देवज्ञा मात्रिका अपि ॥ २९ ॥ रोगस्योपक्रमे सान्त्वं मध्ये किंचिद्धनव्ययः । शनैरनादरः शान्तौ स्नातो वैद्यं न पश्यति ॥ ३० ॥ दैवज्ञत्वं मान्त्रिकता भैषज्यं चाटुकौशलम् । एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभः ॥ ३१ ॥ अनृतं चाटुवादश्च धनयोगो महानयम् । सत्यं वैदुष्यमित्येष योगो दारिद्रयकारकः ।। ३२ !! कातर्य दुविनीतत्वं कार्पण्यमविवेकता। सर्व मार्जन्ति कवयः शालीनां मुष्टिकिंकराः ॥ ३३ ॥ न कारणमपेक्षन्ते कवयः स्तोतुमुद्यताः । किंचिदस्तुक्तां तेषां जिह्वा फुरफुरायते ॥ ३४ ॥ स्तुतं स्तुवन्ति कवयो न स्वतो गुणदर्शिनः । कीटः कश्चिदलिन म कियती तत्र वर्णना ॥ ३५ ॥ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने । अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ३६ ॥ शब्दाख्यमपरं ब्रह्म संदर्भण परिष्कृतम् । विक्रीयते कतिपयैर्वृथान्यैर्विनियुज्यते ॥ ३७ ॥ वर्णयन्ति नराभासान्वाणीं लब्ध्वापि ये जनाः । लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ ३८ ॥ प्रशंसन्तो नराभासान्नलपन्तोऽन्यथान्यथा । कथं तरन्तु कवयः कामपारम्यवादिनः ॥ ३९ ॥ १. 'लुप्यमानेषु' इति पाठः, २. 'शाकिनोमुष्टि-' इति पाठः. ३. धुरुधुरायते' इंति पाठः कलिविडम्बनम् । यत्संदर्भ यदुलेखे यहचङ्गाचे निभृतं मनः । समाधेरपि तज्ज्यायः शंकरो यदि वर्ण्यते ॥४॥ गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि । प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥ ४१ ॥ जामातरो भागिनेया मातुला दारबान्धवाः । अज्ञाता एवं गृहिणां भक्षयन्त्याखुवगृहे ॥ ४२ ॥ मातुलस्य बलं माता जामातुर्दुहिता बलम् । श्वशुरस्य बलं भार्या स्वयमेवातिथेवलम् ॥ १३ ॥ जामातुर्वक्रता तावद्यावछ्यालस्य बालता ! अबुद्धमाने सारल्यं प्रबुद्धेऽस्मिन्पलायनम् ॥ १४ ॥ आर्या ज्येष्ठा शिशुः श्यालः श्वश्रूः स्वातन्त्र्यवर्तिनी । श्वशुरस्तु प्रवासी व जामातुर्भाग्यकारणम् ॥ ४५ ॥ भूषणैर्वसनैः पात्रैः पुत्राणामुपलालनैः ! सकदागत्य गच्छन्ती कन्या निष्टि मन्दिरम् ॥ ४६॥ गृहिणी स्वननं वक्ति शुष्काहारं मिताशनम् । पतिपक्ष्यांस्तु बहाशान्क्षीरपास्तस्करानपि ॥ ४७ ॥ माय द्वे पुत्रशालिन्यौ भगिनी पतिवनिता । अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ ४८ ॥ भायें वे बहवः पुत्रा दारिद्य रोगसंभवः । जीर्णी च मातापितरावकै नरकाधिकम् ॥ ४६॥ स्मृते सोदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति । अहो महदिदं भूतमुत्तमर्णाभिशब्दितम् ॥ ५० ॥ अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते । न कालनियमः कश्चिदुत्तमर्णस्य विद्यते ॥ ११ ॥ १. "प्रबुध्यमाने' इति पाठः. २. प्रवासोति' इति पाठ:. ३. 'भाग्यधोरणी इति पाठः १२० न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्चले । उत्तमर्णमवेक्ष्यैव तथाप्युद्विजते मनः ॥ १२ ॥ शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् । मृत्योर्मृत्युंजयध्यानं दारिद्रये तु न किंचन ॥ ५३ ॥ शक्ति करोति संचारे शीतोष्णे मर्पयत्यपि । दीपयत्युदरे वह्नि दारिद्यं परमौषधम् ॥ ५४ ॥ गिरं स्खलन्ती मीलन्ती दृष्टिं पादौ विसंस्फुलौ । प्रोत्साहयति याच्यां राजाज्ञेव दरिद्रता ॥ ५५ ॥ नीर्यन्ति राजविद्वेषा जीर्यन्त्यविहितान्यपि । आकिंचन्यबलाढ्यानामन्ततोऽश्मापि जीर्यति ॥ १६ ॥ नास्य चोरा न पिशुना न दायादा न पार्थिवाः दैन्यं राज्यादपि ज्यायो यदि तत्वं प्रबुद्ध्यते ॥ १७ ॥ प्रकाशयत्यहंकारं प्रवर्तयति तस्करान् । प्रोत्साहयति दायादांलक्ष्मीः किंचिदुपस्थिता ॥ १८ ॥ विडम्वयन्ति ये नित्यं विदग्धान्धनिनो जनान् । त एव तु विडम्ब्यन्ते श्रिया किंचिदुपेक्षिताः ॥ १९॥ प्रामाण्यवृद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ६ ॥ शृण्वन्त एव दृच्छन्ति पश्यन्तोऽपि न जानते । विडम्बनानि धनिकाः स्तोत्राणीत्येव मन्वते ॥ ११ ॥ आवत्य श्रीमदेनान्धानन्योन्यकृतसंविदः । स्वैरं हसन्ति पावस्था बालोन्मत्तपिशाचवत् ॥ १२ ॥ स्तोतव्यैः स्तूयते नित्यं सेवनीयैश्च सेव्यते न बिभेति न जिह्वेति तथापि धनिको जनः ॥ १३ ॥ क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः । लक्ष्मीमदस्तु मूर्खाणामा देहमनुवर्तते ॥ ६४ ॥ १. "विबुध्यते' इति पाठः कलिविडम्बनम् । श्रीमासमधमास वा चेष्टित्वा विनिवर्तते । विकारस्तु तदारव्यो नित्यं लशुनगन्धवत् ॥६५॥ कण्ठे मदः कोद्रवजो हृदि ताम्बूलजो मदः । लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेप्वपि ॥ ६६ ॥ यत्रासीदस्ति वा लक्ष्मीस्तत्रोन्मादः प्रवर्तताम् । कुलेऽप्यवतरत्येष कुष्ठापस्मारवत्कथम् ।। ६७ ॥ अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जाति स्वां वराटाः पञ्चषाः करे ॥ ६८ ॥ बिभर्तु भृत्यान्धनिको दत्तां वा देयमर्थिषु । यावद्याचकसाधम्य तावल्लोको न मृप्यति ॥ ६९ ॥ धनभारो हि लोकस्य पिशुनैरेव धार्यते । कथं ते तं लधूकर्तुं यतन्तेऽपरथा स्वतः ॥ ७० ॥ श्रमानुरूपं पिशुने किमुपक्रियते नृपः । द्विगुणं त्रिगुणं चैव कृतान्तो लालयिष्यति ॥ ७१ ॥ गोकर्णे भद्रकणे च जपो दुष्कर्मनाशनः । राजकणे जपः सद्यः सर्वकर्मविनाशनः ॥ ७२ ॥ न स्वार्थ किंचिदिच्छन्ति न प्रेयन्ते च केनचित् । परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ॥ ७३ ॥ कालान्तरे ह्यनाय गृनो गेहोपरि स्थितः । खलो गृहसमीपस्थः सद्योऽनय देहिनाम् ॥ ७४ ॥ शुप्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् । जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ॥ ७५ ॥ किं वक्ष्यतीति धनिको यावदुद्धिजते मनः । किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्धिजते ततः ॥ ७६ ॥ सर्वमातिथ्यशास्त्रार्थ साक्षात्कुर्वन्ति लोभिनः । भिक्षाकवलमेकैकं ये हि पश्यन्ति मेरुवत् ।। ७७ ॥ १. वापि' इति पाठः, २. धनिकातू' इति पाठः, काव्यमाला धनपालः पिशाचो हि दत्ते स्वामिन्युपस्थिते । धनलुब्धः पिशाचस्तु न कस्मैचन दित्सति ॥ ७८ ॥ दातारोऽथिभिरर्थ्यन्ते दातृभिः पुनरर्थिनः । कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥ ७९ ॥ स्वस्मिन्नसति नार्थस्य रक्षकः संभवेदिति । निश्चित्यैव स्वयमपि मुझे लुब्धः कथंचन ॥ ८० ॥ प्रस्थास्यमानः प्रविशत्प्रतिष्ठेत्तु दिने दिने । विचित्रानुलिखेद्विघ्नांस्तिष्ठासुरतिथिश्चिरम् ॥ ८१ ॥ प्रदीयते विदुष्येकं कवौ दश नटे शतम् सहस्रं दाम्भिके लोके श्रोत्रिये तु न किंचन ॥ ८२॥ घटकं सम्यगाराध्य वैराग्यं परमं वहेत् । यावदर्थाः प्रसिद्धयन्ति यावच्चापलमारतम् ॥ ८३ ॥ एकतः सर्वशास्त्राणि तुलसीकाष्ठमेकतः । वक्तव्यं किंचिदित्युक्तं वस्तुतस्तुलसी वरा ।। ८४ ॥ विस्मृतं वाहटेनेदं तुलस्याः पठता गुणान् । विश्वसंमोहिनी वित्तदायिनीति गुणद्वयम् ॥ ९ ॥ कौपीनं भसितालेपो दर्भा रुद्राक्षमालिका । मौनमेकासनं चेति मूर्खसंजीवनानि षट् ॥ ८६ ॥ वासः पुण्येषु तीर्थेषु प्रसिद्धश्च भृतो गुरुः । अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥ ८७॥ मन्त्रभ्रंशे संप्रदायः प्रयोगश्युतसंस्कृती। देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥ ८ ॥ यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि । तथा धर्म चरेत्सर्वं न वृथा धर्ममाचरेत् ॥ ८९ ॥ सदा जैपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्व ब्रह्मेति वादश्च सद्यः प्रत्ययहेतवः ॥ १०॥ १. उपागते' इति पाठः, २. 'प्रस्थाप्यमानः इति पाठ.. अष्टाङ्गहृदयकर्ता. ४. 'जपसरपस्ते च' इति पाठः. ३वाहटीवारमा तावत्संक्षिप्यते सर्व यावष्टा न विद्यते ।।१२।। कलिविडम्बनम् आ मध्याह्न नदीवासः समाजे देवतार्चनम् । सततं शुचिवेषश्वेत्येतद्दम्भस्य जीवितम् ॥ ९१ ॥ तावदी नित्यकर्म यावत्स्याट्टमेलनम् । आनन्दवाप्परोमाञ्चौं यस्य स्वेच्छावशंवदौ । किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवाः ॥ १३ ॥ दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् । दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ॥ ९४ ॥ अदानमीषदानं च किंचित्कोपाय दुर्वियाम् । संपूर्णदानं प्रकृतिविरामो वैरकारणम् ॥ ९५ ॥ ज्यायानसंस्तवो दुष्टैरीयायै संस्तवः किल अपत्यसंबन्धविधिस्त्वनायैव केवलम् ॥ ९६ ॥ ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता । मिलन्ति यदि चत्वारि तदिशेऽपि नमो नमः ॥ ९ ॥ परच्छिद्रेषु हृदयं परवार्तासु च श्रवः । परममणि वाचं च खलानामसृजहिधिः ॥ ९८ ।। विषेण पुच्छलग्नेन दृश्चिकः प्राणिनामिव । कलिना दशमांशेन सर्वः कालोऽपि दारुणः ॥९९ ॥ यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनम् । यत्र स्वप्रतिभा मान तस्मै श्रीकलये नमः ॥ १० ॥ काममस्तु जगत्सर्वं कालस्यास्य वशंवदम् । कालकालप्रपन्नानां कालः किं नः करिष्यति ॥ १०१ ॥ कविना नीलकण्ठेन कलेरेतहिडम्बनम् । रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ १०२ ॥ इति श्रीनीलकण्ठदीक्षितविरचितं कलिविडम्बनम् । १. 'पुनः' इति पाठः. २. 'मर्मसु' इति पाठः. ३. कालकालः शिवः श्रीसोमाभाचार्यविरचिना জাহৰ সুৰক্লিয়া। मुखबोधिया वृत्या समेता। । श्रीपार्श्वनाथं प्रणिपत्य भक्त्या पुरि स्थितं श्रीफलवाधिकायाम् । मारवैराग्यतरङ्गिणी या व्याख्यानतो व्याक्रियते मया सा॥ श्रीसोमप्रभाचार्या वैराग्यवासनया शृङ्गारं दूषयन्तः शृङ्गारवैराग्यतरङ्गिणीनामानं अन्धं कर्तुकामाः स्त्रीरूपं निन्द्यमिति प्रतिपादयन्त उत्:---- धर्मारामदवाग्निधूमलहरीलावण्यलीलाजुष- स्तन्वङ्गचा यमितान्विलोक्य तदही वालाकिमुत्कण्ठसे । व्यालान्दनितोऽपि मुक्तिनगरप्रस्थानविनक्षमा- न्मत्वा दूरगन्धिमुख कुशलं यद्यात्मनो वाञ्छसि ॥ १ ॥ अहो इत्याश्चर्ये । तन्वयाः । तनुः सूक्ष्ममङ्गं यस्याः सा तन्वङ्गी । तस्याः स्त्रिया य. मितान्बहान्बालान्केशान्विलोक्य दृष्ट्वा किमुत्कण्ठसे किमुत्कण्टो करोषि। कथंभूतान्वा- लान् । धारामदवानिधूमलहरीलावण्यलीलाजुषः । धर्म एवारामो वनं तत्र यो दवा- मिर्दावानलस्तस्य या धूमलहरी धमश्रेणितस्या यालावण्यं श्यामहवं तस्य लीलां जुषन्तः सेवन्त इति लीलाजुषस्तान् । जुधी प्रीतिसेवनयोर्धातुः । दवाग्निधूमपतिसदृशानित्यर्थः । अथ वैराग्यरसेन शृङ्गारं दूषयति -रे मनुष्य, यदि त्वमात्मनः स्वस्य कुशलं क- ल्याणं वाञ्छसि तदासूम्बालान्च्यालान्सपोन्मत्वा । कृष्णावर्णत्वालम्बायमानत्वाच्च सर्प- सादृश्यं वालानां युक्तमेव । दूरं विमुञ्च । दूरतस्त्यजेत्यर्थः । सर्प दृष्ट्वा यथा दूरमेव पलायते तथा त्वमपि दूर पलायस्वेत्यर्थः । किंभूतान्वालान् । दर्शनतोऽपि मुक्तिनगरप्रस्थानवि- नक्षमान । मुक्तिरेव नगरं तत्र यत्प्रस्थान गमनं तत्र विनाय विनं कर्तुं क्षमाः समर्था- स्तान् । सर्पस्य दर्शनादेव गभने विधासमुत्पत्तिरिति शकुनशाने प्रसिद्धम् । तन्वया यमितान्वालान्व्यालाजानीहि । तथाहि शेषार्थोऽयम्---यकारं इताः प्राप्ता: संयुक्ता वा वाला व्याला भवन्तीति युक्तमेव वालानां व्यालत्वम् । इदं शार्दूलविक्रीडितं नाम छन्दः । इति प्रथमपद्याचसकोचः ।। ये केशा लसिताः सरोरुहदृशां चारित्रचन्द्रप्रभा- भ्रशाम्भोदसहोदरास्तव सखे चेतश्चमत्कारिणः । १. श्वेताम्बर जैनोऽयं सोमप्रभाचार्यः. नास्य देशकालौ ज्ञायेते. २. 'विलोकितुमहो' इति मल पुस्तक पाठः, ३, बिमुक्तिनगर' इति मूलपुस्तकपाठः.

। शृङ्गारवैराग्यतरङ्गिणी। केशान्मूर्तिमतोऽवगम्य नियतं दूरेण तानुत्सृजे- नी चेकप्टपरम्परापरिचितः शोच्यां दशामेष्यसि ॥ २ ॥ है सम्वे, सरोरुहदशां सरोरुहाणि कमलानीव दृशो नेत्राणि वासा ताः सरोरुहदश. स्तासां स्त्रीणां ये लसिता देदीप्यमानाः केशास्तव चेतश्चमत्कारिणश्चित्तप्रसत्तिकारिणः । वर्तन्त इति शेषः । किंभूताः केशाः । चारित्रचन्द्रप्रभाधेशाम्भोदसहोदराः । चारित्र- मेव चन्द्रप्रभा ज्योत्स्ना तस्या भ्रंश नाशने अम्भोदो मेघस्तस्य सहोदराः सदृक्षाः । केशानां श्यामत्वादम्भोदसदृशत्वम् । तान्केशान्मूर्तिमतश्चक्षुरिन्द्रियगम्यान्केशान् । नियतं निश्चयेनावगम्य बुद्धा दूरेण दूरादेव त्वमुत्सजेस्त्यजेः । नो चेदिति यदि न त्य- जसि तदा त्वं शोच्या शोचनीयां दशामवस्थामेध्यसि प्राप्स्यसि । लिभूतस्त्वम् । कष्ट- परम्परापरिचितः कष्टानां या परम्परा श्रेणिस्तया परिचितो युक्तः । वीणां केशा- न्लेशाज्ञाला त्यजेत्यर्थः । केशाः शाः कथं स्युरिति प्रो । लसिताः लेन लकारेगा सिता बद्धाः केशाः क्लेशा भवन्तीत्यर्थः।। ये शुद्धबोधशशिखण्डनराहुचण्डा- श्चित्तं हरन्ति तव वक्रकचाः कृशाङ्गयाः। ते निश्चितं मुकतमर्त्यविवेकदेह- निर्दारणे ननु नवक्रकचाः स्फुरन्ति ।। ३ ॥ पुमन, कृशाङ्गायाः कृशं सूक्ष्मम यस्याः सा तस्या ये वक्रकचा वऋकेशास्तव चित्तं हरन्ति । तव चेतसि चमत्कारमुत्पादयन्तीत्यर्थः । कथंभूता वक्रकचा: । शुद्धबोधश- शिखण्डनराहुचण्डाः । शुद्धबोधो निर्मलज्ञानं स एव शशी तस्य खण्डनेऽर्थात्कवलने राहु- रिव चण्डाः क्रूराः शुद्धबोधशशिखण्डनराहुचण्डाः । फलितार्थस्तु राहुर्यथा चन्द्र ग्रा- सीकरोति तथा एते वक्रकचा ज्ञाननाशका इत्यर्थः । ननु निश्चितं ते वक्रकचाः सुकृतम- त्यविवेकदेहनिदीरणे । सुकृतमेव मयस्तस्य यो विवेक एवं देहस्तस्य निदारणे नवक्र- कचाः । नवाश्च ते क्रकचाच नवक्रकचाः । नूतनकरपत्राणि । 'क्रकचं पुनपुंसकम् । करपन्नं च' इति नामकोषः । स्फुरन्ति स्फुरद्रूपा वर्तन्ते इत्यर्थः । अत्र ऋकचा: नव- ऋचा इति भिन्न श्लेष एव चमत्कारः । वसन्ततिलकाछन्दः अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदम् । वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् ॥ ४ ॥ अस्या नायिकायाः कुन्तलभारं बद्धकेशसमूहम् । 'कुन्तलाः संयता ये स्युः इति कोपः । विलोक्य लोकः प्रमोदं हर्ष कुरुते । कथमतं कुन्तलभारम् । अलंकृतं पा- दिना संस्कृतम् । अमुं कुन्तलभारं कुन्तभारम् । 'कुन्तः प्रासोऽथ मुद्रः' इति नाम- १. 'अवगत्य नियतं दूरे च' इति मूलपुस्तकपाट:.

कोपः । किन पश्यामि । कथंभूतं कुन्तभारम् । वैराग्यमेव वीरः सुभटस्तस्य छिदुर- चछेदनशीलस्तम्। पुनः कथंभूतं कुन्तभारम् । दुरन्तम् । दुष्टमन्तं प्रान्तं यस्य तम् । अन्ते तीक्ष्णत्वादुःसहमित्यर्थः । कुन्तलभार: कुन्तभारः कथं स्यात, । न विद्यते साल- कारो यस्य सोडलस्तं अलं कृतं विहितम् । लकाररहितः कुन्तलभारः कुन्तभार: स्यादेवेत्यर्थः । उपेन्द्रवज्ञानाम च्छन्दः ।। कस्तूरिकातिलकितं तुलिताष्टमीन्दु चित्ते विचिन्तयसि सौख्यनिमित्तमेकम् । वामनुवां यदलिक तदहो अलीक- मित्याख्ययैव परया प्रवदन्ति रूपम् ॥ ५ ॥ वामध्रुवां स्त्रीणां यदलिक ललाटमेकमद्वितीयं सौख्यानिमित्तं सुखकारणं चित्ते विचिन्तयसि । कथंभूतमलिकम् । कस्तूरिकातिलकितम् । तिलकं जातं यस्य तत्तिल- कितम् । कस्तूरिकया तिलकितम् । पुनः कथंभूतमलिकम् । तुलिताष्टमीन्दु । तुलितो- ऽष्टम्या इन्दुर्येन तत् । अष्टमीचन्द्रसदृशमित्यर्थः । अहो इत्याचर्य । तदलिकं पाया अन्यया आख्यया नाम्ना अलोकमिति रूपं वदन्ति बुधाः । 'गोधिललाटालिके चा- लोक श्रवणमस्त्रियाम् इति नामकोपः । अलिक अलीकमित्युभयं नाम ललाटस्य । अलीके मृपावचः । अलि अलीके मिथ्या जानीहीत्यर्थः ।। न भूरियं पङ्कजलोचनायाश्चकास्ति शृङ्गाररसैकपात्रम् । भूः किं त्वसौ साधुतरा प्रसूते निबन्धनं मोहविध[मस्य ॥ ६ ॥ पङ्कजलोचनाया: कमलाक्ष्या इयं भ्रन चकास्ति न शोभते । कथंभूता भ्रूः । पृङ्गा- ररसैकपात्रं शृङ्गाररसस्य एकमद्वितीयं पात्रं स्थानम् । अजहल्लिङ्गत्वानपुंसकत्वम् । कि त्वसौ ः साधुतरा अतिशयेन साध्वी साधुतरा । तरतमेति पुंवद्भावः । श्रेष्ठतरा भूः भूमिः सा मोइविषद्रुमस्य मोह एव विषद्रुमस्तस्य निवन्धनं आविर्भाव प्रसूते उत्पादयति । भूर्भूः कथमिति प्रश्ने सा प्रसिद्धा 5ः। धुतरा। धुतो गतो रो रेफो यस्या ईदृशी भूर्भूर्भवतीत्यर्थः । इन्द्रवज्रानाम च्छन्दः ॥ नैवकुवलयदामश्यामलान्दृष्टिपाता- न्कृतपरमदनाशान्विक्षिपत्यायताक्षी इति वहसि मुदं किं मोहराजप्रयुक्ता- प्रशमभटवधार्थ विद्ध्यमून्दृष्टिपातान् ।। ७ ।।. १. वदति स्वरूपम्' इति मूलपुस्तकपाठः... २. निबन्धन' इति मूलपुस्तकपाठः. २. मयि कुवलय' इति मूलपुस्तकपाठः, शृङ्गारवैराश्यतरङ्गिणी। आयताक्षी। आयते विस्तीर्ण अक्षिणी वस्याः सा एवंविधा मामुद्दिश्य दृष्टिपाता- कटाक्षान्विक्षिपति प्रगु । किविशिष्टान्डष्टिपातान् । नवकुवलयदाम श्यामलान् । न. बानि यानि कुवलयानि तेगां दाम माला तच्छयामला: कृष्णास्ताञ्झ्यामलान् । धुन किविशिष्टान्दृष्टिपातान् । कृतपरमदानाशान्कृतः परमदस्य नाशो गैस्तान् । इति मुदं हर्ष कि वहसि प्राप्नोघि । अमून्दृष्टिपाताप्रशमभटवधार्थ प्रशमः शान्तिभावः स एव भटस्तस्य वधार्थम् । मोहराजप्रयुत्तान् । मोह एवं राजा मोहराजः। राजाहः सखिभ्य- टन् समासान्तः । तेन प्रयुतान् प्राष्टिपातान तरवारिपातान् । तरवारिणि द्वौ च टि रिटी अखण्डको' इति नामकोप: । विद्धि जानीहि । दृष्टिपातान ऋष्टिपातान् जानीहि । तत्कथम् । कृतपरमदनाशान् । कृतः परमः सर्वात्मना दस्य इकारस्य नाशो यन ते कृत- परमदनाशास्तान् । दृष्टिपातशब्दे दकारनाशे ऋटियात इति स्यादेव । मालिनीनाम च्छन्दः । तस्याः कोपपदं यदाननमहोरात्र स्मरक्षात्मनः संतापं वितनोघि काननमहो ज्ञात्वा सखे तत्त्यजेः । एतस्मिन्वसत्ता मनोभवमहासपेण दष्टः पुमा- कार्याकार्यविवेकशून्यहृदयः कैको न संजायते ॥ ८ ॥ हे सखे, तस्याः स्त्रिया यत् आननं मुखं अहोरात्रं स्मरन् स्मृतिविषयं कुर्वन व आ- स्मनः स्वस्य संतापं वितनोषि विस्तारयसि । कथंभूत आननम् । कोपपई कोषल्य पर स्थानं तत् आननं अहो इति खेदे काननं वनं ज्ञाला वं त्यजेः । एतस्मिन्कानने वसता स्थिति कुर्वता मनोभवमहासर्पण मनोभवः कामः स एव महासर्पस्तेन गुमान वष्टः सन् करवाः । सर्वस्य द्वे' इति द्वित्वम् । कस्कादित्वात्सल्वम् । कार्याकार्यविवेकशून्यहृदयः । कार्य चाकार्य च कार्याकार्ये तयोविवेकस्तेन शून्यं हृदयं यस्य स तथा न संजायते सर्पविषेण मूच्छितः पुमान् शून्यहृदयो भवति । अयं तु महासर्पण दष्टस्तस्य किवाच्यम् । आनन फानन कथमिति प्रों । आननं कोषपदं कः ककार उपपदं यस्य तदा जानने स्थादेवेत्यर्थः ।। साकारमालोक्य मुखं तरुण्याः किं मुग्धबुद्धे मुदमादधासि । इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचो ॥ ९ ॥ हे मुग्धबुद्धे, मुग्धा बुद्धिर्यस्य तत्संबोधनम् । तरुण्या मुखं आलोक्य किं मुदं हर्ष आदधासि धारयसि। कथंभूतं मुखम् । साकारम् । आकारेण सह वर्तमानं साकारम् । सु- न्दरमित्यर्थः । हि निश्चितं इदं मुखं विचक्षणविद्वद्भिः चित्तभ्रमनाटकस्य चित्तभ्रम एवं १. 'येनास्मिन्न्' इति मूलपुस्तकपाठः. २. 'कः कोऽत्र नो जायते' इति मूल- पुस्तकपाठ काव्यमाला। नाटकस्तस्य आमुखमाद्यारम्भ आचचक्षे इत्यत्र कर्मणि लिन् । मुखम् । आमुखं त्रि- त्यम् --- साकार आकारेण सह वर्तमान मुखं आमुखं स्यादित्यर्थः ।। कामज्वरातुरमते तव सर्वदास्य वामभुवा यदि कथंचिदवाप्तुमिच्छा। यत्नं विनाप्यखिलजन्मपरम्परामु तज्जातमेव भवतो ननु सर्वदास्यम् ॥ १० ॥ हे कामज्वरातुरमते । कामज्वरेण आतुरा मतिर्यस्य तत्संबोधनं हे कामज्वरातुर- मते। सर्वदा सर्वस्मिन्काले यदि तव वामध्रुवां स्त्रीणां आस्यं मुखं कथंचिकेनापि प्रकारेण अवाप्तुं प्राप्तुमिच्छा वर्तते तदा ननु निश्चितं यत्नं विनापि अखिलजन्मपरम्परासु । जन्मनः परम्परा: श्रेणयः। अखिला या जन्मपरम्परास्तासु भवतस्तव' सर्वदास्यम्। दासस्य भावो दास्यं सर्वेषां मृत्यत्वं जातमेव । स्त्रीमुखदत्तचित्तस्य तव सर्वजनानां दासलं जातमेव । अत्र पद्ये उभयत्र सर्वदास्यमिति पदस्य भिन्नार्थत्वमेव चित्रम् । वसन्ततिलका नाम तस्याः साधुरदं विलोक्य वदनं यः संश्रयत्यञ्जसा मुक्त्वा मुक्तिपथं हहा प्रविशति भ्रान्त्या सद्गै वनम् तंचात्यन्तमचारुबद्धवसतियनात्र रागादिभि- श्चौरैधर्मधनापहारकरणात्कष्टं न किं प्राप्यते ॥ ११ ॥ यः पुमान् तस्याः स्त्रिया वदनं मुखं साधुरदं साधवः समीचीना रदा यस्मिन् तत् तथा विलोक्य अअसा वेगेन संश्रयति आश्रयति स पुमान् हहा इति खेदे । मुक्तिपथं मुक्तिमार्ग मुक्त्वा प्रान्त्या भ्रमेण दुर्ग दुःखेन गमनाहं वनं प्रविशति । तद्वनं अत्यन्तं अन्तमतिकान्तम् । अप्रमाणमित्यर्थः । कथंभूतः सः। अचारुबद्धवसतिः। न चारुरचारुः बद्धा वसतियेन सः। येन वनं प्रविशता पुरुषेण अत्र बने कष्टं किं न प्राप्यते । कस्मात् । रागादिभिश्चौरैधमंधनापहारकरणात् । धर्म एव धनं धर्मधनं तस्यापहारः हरणं तस्य करणं तस्मात् । चौरा हि धनमपहृत्य वनं प्रविशन्ति तदा कष्ट स्पष्टमेव । तत्र वदनं कथं बनमिति प्रश्ने। यः साधुः अदं न विद्यते। दकारो यस्मिन् तत् अदम् । दकाररहितं वदनं वनं स्यादेव ॥ यियाससि भवोदधेर्यदि तटं तदेणीहशा- महीनमधरं धरं परिहरेः परं दूरतः । १. "विघ्नपरम्परासु' इति भूलपुस्तकपाठः. २. 'यत्रात्यन्त' इति भूलपुस्तकपाठः. 'प्रापितः इति मूलपुस्तकपाठ:.

. शृङ्गारवैराग्यतरङ्गिणी। देहास्फलनतोऽन्यथा विशदवासनानौस्तव जिप्यति विशीर्णतां न भविता ततो वाञ्छितम् ॥ १२ ॥ हे पुमन् , यदि त्वं भवोदधेः संसारसमुद्रस्य तटं पारं बियामसि यातुमिच्छसि । यातेः सनन्तान्मध्यमपुरुषकवचनरूपम् । तदा एणीदशा एणी हरिणी तस्या दृश इव दृशो यास तास्तासां अधरं धरं पर्वतं दूरतो दुरात्परं त्वं परिहरेः । किमतमधरम् । अहीनं परिपूर्ण अमृतादिना । अन्यथा यदि न परिहरसि ताह इह पर्वते आस्फलनतः संघटनात् तब विशवासना निर्मलवासना सेव नौः विशीर्णतां भक्तां ब्रजिष्यति । तत- स्त्वदाञ्छितं न भविता न भविष्यति । यथा समुद्रमध्ये पर्वतास्फलनानावि भन्नायां वाञ्छितं न भवेत्तथेत्यर्थः । अधरं परं कामति प्रश्न उत्तरम् । अहीनं एन अकारण हीन अधरं धरं स्यादेव । 'सानुमान्पर्वतो घर:' । 'घर: शैलस्तयोदयः' इति कोषः । पृथ्वीनाम च्छन्दः ॥ न भातीदं भ्रातः स्फुरदरुणरत्नौषकिरण- प्रतानं तन्वङ्गयास्तरलतरलं कुण्डलयुगम् । दमं दुग्धं पुंसामिह विरहसंयोगदशयो- ज्वलच्छोकानङ्गज्वलनयुगिदं कुण्डयुगलम् ॥ १३ ॥ हे भ्रातः, तन्वङ्गायाः कशाझ्या इदं कुण्डलयुगं कुण्डलस्य कर्णाभरणस्य युगं न भाति न शोभते । कथंभूतं कुण्डलयुगम् । स्फुरदरुणरत्नौधकिरणप्रतानं स्फुरन्तो देदीप्यमाना ये अरुणरत्नौधा रक्तरत्नसमूहास्तेषां ये किरणास्तेषां प्रतानं समूहो यस्मिस्तत् । पुनः कथंभूतं कुण्डलयुगम् । तरलतरलम् । तरलाचञ्चलात्तरलं चञ्चलम् । चम्बलतरमित्यर्थः । कथंभूतं कुण्डलयुगलम् । विरहसंयोगदशयोः । स्त्रीपुंसयोः संयोगाभावाद्विरहोत्पत्तिः । विरहश्च संयोगश्च विरहसंयोगौ तयोदशे अवस्थे तयोः । शोकानङ्गज्वलनयुक् । शोकथा- नङ्गज्वलनश्च शोकानङ्गज्वलनौ ताभ्यां युक् । विरहे शोकाविभावः, संयोगे कामामेरा. विर्भाव इत्यर्थः । कुण्डलयुगलं किं कुर्वत् । इह संसारे पुंसां पुरुषाणां दसमुपशमं दुग्धं पयः । ज्वलत्कुण्डलयुगं कुण्डयुगलं कथं तत्रोच्यते । तरलतरलश्चञ्चलतरो लो लकारो य- स्मिन् । कुण्डशब्दाल्लकारे कुण्डलयुगस्य चञ्चलत्वात् युगशब्दात्परतः स्थिते सति कु- राहयुगलं स्यादित्यर्थः । शिखरिणी नाम च्छन्दः ।। ताडकं सस्टहं तस्याः पश्यन्मूढः परे भवे । नरो नरकपालेभ्यस्तार्ड के न सहिप्यते ॥ १४ ॥ १. 'इह स्खलनतो' इति मूलपुस्तकपाठः. २. 'दग्धु' इति मूलपुस्तकपाठ एवं समीचीनः. टीकाकारस्त्वशुद्ध मेव व्याख्यातवान्. ३. संभोग' इति मूलगुस्तकपाठ:. ४. 'गुगदं' इति मूलपुस्तकपाठ:.

मढो नमस्तस्याः स्त्रिया: सस्पृहं सामिलापं यथा स्यात्तथा ताडई कणभूषण पश्यन परे भवे आगामिभवे नरकपालेभ्यः नरकान् पालयन्ति ते नरकपालास्तेभ्यः समाय- मिकेभ्यः के ताटं ताडनं ताद आघातस्तं कं न सहिष्यते, अपि तु सर्व साहित्यते । अनुष्टुप् च्छन्दः॥ सारं गलं यमरविन्दविलोचनाना- मालोक्य चेतसि मुदं कलयन्ति मूढाः । हा निश्चितं रचितमुक्तिपुरप्रवेश- व्यासेधमर्गलममुं न विचारयन्ति !! १६ ॥ महा भूखा नरा अरविन्दविलोचनानां कमलनयनानां स्त्रीणां यं सार श्रेष्टं गलं नि- गरण विलोक्य । चेतसि मुदं हर्षे कलयन्ति प्राप्नुवन्ति । हा इति खेल्ने । निश्चित नि. यमेन अमुं गलं अगलं न विचारयन्ति । कथंभूतं अगलम् । रचितमुक्तिपुरप्रवेशव्यास रचिता विहितो मुक्तिनगरप्रवेशस्य व्यासेधो निधी येन स तं रचितमुक्तिपुरवेश- व्यासेधम् । गलं अर्गलं वित्यम् । सारं अरा अशब्देन सह वर्तते यः स तारस्तंसारम् । असहितो गल: अर्गलः स्यादित्यर्थः ।। अलं प्राप्य स्पर्श कुचकलायोः पवाजहशा परां प्रीति भ्रातः कलयसि सुधामन इव किम् । अवस्कन्दं धमक्षितिपकटके दातुमनसा प्रयुक्तं जानीयाः कलुषवरटेन स्पशमिमम् ॥ १६ ॥ पजशा कमलनयनानां स्त्रीणां कुचकलशयोः स्तनयोः अलं अत्यर्थ रूप प्राध्य हे भ्रात:, कि परामुत्कृष्ट प्रीति कलयसि प्राप्नोषि। क इव। सुधामन इव अमृते कृतम- जजन इव। इमं स्पर्श कलुपवरटेन कलुपं पापं तदेव बरटो भिलस्तेन प्रयुक्त प्रेरितं स्पन्न हैरिक त्वं जानीयाः । कथंभूतेन कलुपवरटेन । धर्मक्षितिपकटके धर्म एवं क्षितिज राजा तस्य कटके सैन्ये अवस्कन्द प्रहरणं दातुमनसा । प्रहरणं कर्तुमनसेत्ययः । सपा स्पर्श कथमिति । अलं रलयोश्चैकत्वस्मरणात् अरं नास्ति रो रेफो यत्र तं अरम् । रेफर- हितस्पर्श स्पशं स्थादित्यर्थः ॥ 'पीनोन्नतं स्तनतट मृगलोचनाया आलोकसे नरहितं यदपूर्वमेतत् । १. 'यदरविन्द' इति मलपुस्तकपाठः. २. 'तनिश्चित' इति मूलपुस्तकपाठः, 'अरं' इति मूलपुस्तक पाठ:. ४. 'चरटेन' इति मूलपुस्तकपाठः. 'पीनोगत नाहितं यदपूर्वमेतदालोकसे स्तनत मृगलोचनायाः' इति मूलपुस्तकपाट.. । ।

शृङ्गारवैराग्यतरङ्गिणी । मोहान्धकारनिकरक्षयकारणस्य विद्यास्तदस्ततटमेव विवेकभानोः ॥ १७ ॥ यत् गलोचनायाः हरिणादया: स्त्रियाः एतत् स्तनतट कुचद्वन्दं पीनोन्नत पीनं च तदुन्नतं च पीनोन्नतम्', पुनः नरहितं नरेभ्यो हितम्, 'पुन: अपूर्वम् । प्रतिक्षणं चमत्कार- हेतुत्वात् । त्वं आलोकसे पश्यसि, तत्स्तनतटं विवेकभानोः विवेकसूर्यस्य अस्ततटं त्वं विद्याः । अत्र ज्ञानसूर्योऽस्ततामेष्यतीत्यर्थः । कथंभूतस्य विवेकभानोः । मोहान्धकार- निकरक्षयकारणस्य मोह एवान्धकारस्तस्य यो निकरः समहस्तस्य क्षयकारणं तस्य मोहान्धकारनिकरक्षयकारणस्य । स्तनतटामिति विशेषणद्वयन अस्ततट माधयति- नरहित नेन नकारेण रहितम्', पुन: अपूर्व अ: अकार: पूर्वो यस्य तत् अपूर्व एतादृशं स्तनतट अस्ततट स्याइवेत्यर्थः ।। कंदर्पद्विपकुम्भचारुणि कुचद्वन्द्वे मृगाक्ष्या मया न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मा स्म भूः । किं त्वा जन्म यदर्जितं बहुविधामभ्यस्य कष्टक्रियां हस्तोऽयं सुरूतस्य तस्य सहसादायीति संचिन्तये ॥ १८ ॥ मया मृगाक्ष्याः स्त्रियाः कुचद्वन्द्वे स्तनयुग्मे हस्तो न्यस्त: करः स्थापितः । कथं- भूते कुचद्वन्द्वै। कंदर्पद्विपकुम्भचारुणि कंदर्प एव द्विपस्तस्य कुम्भा गण्डस्थलं तद्वचारु भनोज्ञ तस्मिन्कंदर्पद्विपकुम्भचारुणि । इति हेतोः प्रमोदमदिरामाद्यन्मनाः प्रकृष्टो यो मोदः स एवं मदिरा तया माद्यन्मनो यस्य स एतादृशस्त्वं मा स्म भूः । माडि लुक इति लुङ् । 'न माझ्योगे इत्यडागमाभावः । किं तु बहुविधां तपोनुष्ठानादिरूपां कष्ट- कियां कष्टसाध्या क्रिया कष्टक्रिया तां कष्टक्रियाम् अन्यत्य अभ्यास कृत्वा आजन्म यजितं जन्मनो मर्यादीकृत्य यत्सुकृतमजितं तस्य सुकृतस्य त्वया अयं हस्तो अदायि दत्तः । यथा कस्य आजिगमिषोः हस्तप्रदानं संज्ञया निषेधयति तथा हस्तदानेन सुकृत निषिद्धं इति वं संचिन्तयेः विचारयेरित्यर्थः । अत्र पधे हस्तो न्यस्तः सुकृतस्य हस्ती- ऽदायीति चित्रकृत् ॥ कण्ठोपकण्ठे लुलितं विभावयेर्भुजं युक्त्या भुजगं गराजितम् । एतस्य संस्पर्शवशादपि क्षणादशेषचैतन्यमुपैति संक्षयम् ॥ १९ ॥ १. मूलपुस्तकेऽस्मात्पद्यादनन्तरं 'एतस्या युवतेः पयोधरयुगं वल्गन्महात्मनिदं चक्रे योधयुगं विरचिरपरं विश्वापकारोवतः । कुर्वधर्मगुणेष्वयोगमनतिकामन्निजां स्त- ब्धतां यदूरादपि कल्पयत्युपशमप्राणापनादं नृणाम् ॥' अयं श्लोकोऽधिकोऽस्ति. अत्र अपरमन्यत्पयोधरयुगम् , अन्यत्र पकार-रेफरहितं पयोधरगं योधयुगं भवति. वर्म- गुणेति धनुर्जीवावाणेषु योगं सबन्धं न करोतीत्यर्थः, कण्ठोपका ललित कण्ठस्य गलस्य समीपे काटोपकण्ठे लुलित वलितं युवस्याः स्त्रिया भुज बाहुं भुजगं सर्व त्वं विभावयेोनीयाः । कथंभूतं भुजगम् । गराजित गरेण विषण अजितो गराजितस्तम् । एतस्य मुजगस्य संस्पर्शवशात् स्पर्शमात्रेणापि अशेयं स- मस्तं चैतन्यं चेतनाया भावः क्षणात् संक्षयं नाशं उपैति प्राप्नोति । यथा भुजगस्पर्शा. बीतन्य गाति तथा युवत्या भुजस्पर्शादेव चैतन्यनाशः स्यादित्यर्थः । भुजं भुजगं कर स्यादिति प्रश्ने भुजं गराजितं गेन गकारेण राजितं भुज भुजगं स्यादित्यर्थः । इन्द्रवंशा नाम छन्दः ।। कण्ठावसते कुपिते नवाही वरं बहिःप्राणहरे प्रमोदः । विध्वस्तधर्मान्तरजीविते नुः स्त्रैणे न बाहौ विदुषां स युक्तः ॥ २० ॥ नुः पुरुषस्य नवाही नवश्वासावहिश्च नवाहिस्तस्मिन्नबीनएं कण्ठावसक्ते कण्ठस्था- पित कर श्रेष्टम् । कथंभूते नवाही। कुपिते क्रुद्धे । पुनः कथंभूते नवाही । बहिःपाणहो । बहि:प्राणान्हरतीति बहिःप्राणहरस्तस्मिन्बाह्यप्राणनाशके । स्त्रैणे स्त्रीणामयं वैशस्त- स्मिन् । 'स्त्रीसाभ्यां नलओ' इति नम्प्रत्यये आदिवृद्धी गवे बैणशब्दसिद्धिः । बाही भुजे कण्ठावसक्ते सति यः प्रमोदो हर्षः स विदुषां पण्डितानां युक्तो न । कथंभूते बाही। विध्वस्तधर्मान्तरजीविते विध्वस्तं नाशितं धर्म एव अन्तरजीवितं येन तस्मिन् । अन्त- रप्राणनाशक इत्यर्थः । अहिस्तु कण्ठावसक्तः सन बहिःप्राणान्नाशयति, स्लीशा बाहुः क- ण्ठावसक्तः सन् अन्तरमाणनाशं विधत्ते । अतः सादप्यधिकतरदुःखदं स्त्रीकृतालिङ्गन- मित्यर्थः । अत्र नवाहावित्युभवत्र चित्रकृत् । वययोरभेदस्तु आलंकारिकैरिष्ट एव ।। कोऽयं विवेकस्तव यन्नतभ्रुवां दोषावगूढः प्रमदं विगाहसे । यतः स्मरातङ्कपरीतचेतसां किं सुन्दरासुन्दरयोविवेचनम् ॥ २१ ॥ है साधो, अयं तव को विवेकः यत् नतभ्रुवां नते नम्रीभूते ध्रुवौ यासां ता नत - वस्तासां स्त्रीणां दोषा बाहुनावगूढ आलिङ्गितः सन् त्वं प्रमदं प्रकृटमदं विगाहले. प्रा- मोषीत्यर्थः । यतो यस्मात् स्मरातङ्कपरीतचतसां स्मरः कामः स एव आतको रोगस्तेन परीतं व्याप्तं चेतो येषां तेषां पुरुषाणां सुन्दरासुन्दरयोः समीचीनासमीचीनयोः किं वि- वेचनम् । अपस्मारादिरोगग्रस्तानां शुभाशुभे विवेको न भवतीति युक्तमेव । पक्षे दो- धैरवगढो दोषावगूढः । विवेकदोषयुक्त इत्यर्थः ।। हहो विलोक्य परमङ्गदमङ्गनाना- मानन्दमुद्रहसि किं मदनान्धबुद्धे । सत्यं विवेकनिधनकनिमित्तमेत- न्मेधाविनो हि परमं गदमुगुणन्ति ॥ २२ ॥ १. 'तु' इति मूलपुस्तकपाठः. २. 'यद्वा' इति मूलपुस्तकपाठः. ३ 'एन' इति मूल. पुस्तकपाठ:.

शृङ्गारवैराग्यतरङ्गिणी। हो इति संबोधने । है मदनान्धबुद्धे, मदनेन कामेन अन्धीभूता बुद्धिर्यस्य तस्य संयो- धने ! अङ्गनानां प्रधानमई यासा तासामजनानां परमुष्टं अङ्गद केयर विलोक्य दृष्ट्या आनन्दं किमुहसि प्राप्नोषि । मेधाविनः पण्डिता एतत् अगदं परममुत्कृष्टं गदं रो- गमुद्गुणन्ति प्रजल्पन्ति तत्सत्यम् । कथंभूत गदम् । विवेकनिधनकनिमित्तं विवेको ज्ञानं तस्य निधनस्य नाशनस्य एकमद्वितीयं निमित्तं कारणम् । गदो हि निधनैकहेतुर्भवत्येव । अत्र पये उभयत्र परमादमिति पदं भिन्नार्थस्वाचित्रकृत् ॥ अयं जनी वलयभरं विलोकते मृगीदशामधिभुजवालि बालिशः । ने बुध्यते सुकतचमू जिगीपतः समुद्यतं बन्नभरमेनमेनसः ॥ २३ ।। अयं प्रत्यक्षगतो बालिशो मूखौं जनो मृगीदृशां स्त्रीणां वलयभर बलवानां भरस्तं अधिभुजवालि भुजावेत्र वलित स्यामिति अधिभुजवालि ! विभक्त्वोऽव्ययीभावः । भुजल- तायामित्यर्थः । विलोकते पश्यति । एनं वलयभर एनसः पापल्य समुद्यतं सावधानीभूत बलभर सेनासमूहं न बुध्यते । कथंभूतस्य एनसः । सुकृतचमं सुकृतस्य शीलादेः चमूः सेना तां जिगीषत: जेतुमिच्छतः । कथं वलय भरं बलभमिति तत्रोच्यते ---- कभत ब- लयभरम् । अयं न विद्यते यो यकारो बस्मिन स: अयस्तमयम् । यकाररहितमित्यर्थः । रुचिरा नाम च्छन्दः॥ ये दृक्पथे तव पतन्ति नितम्विनीनां कान्ताः करा जडिमपल्लवनप्रवीणाः । नो वेसि तान्किमपवर्गपुरप्रयाण- प्रत्यूहकारणतया करकानवश्यम् ॥ २४ ॥ तव दृक्पथे दृष्टिमार्गे नितम्बिनीनां स्त्रीणां कान्ता मनोज्ञाः करा हस्ताः । नितम्बि- नीनामिति संबन्धे बहुत्वात् करा इति बहुत्वम् । पतन्ति अवलोकनता गच्छन्ति । क- थंभूताः करा: । जडिमपल्लवनप्रवीणाः जडिनो जडताया यत्पल्लवनं प्रकटीकरणं तत्र प्रवीणाश्चतुरा:। तान् करान् अवश्यं निश्चयेन करकान् धनोपलान् कि नो वेत्सि न जा- नासि । कया । अपवर्गपुरप्रयाणप्रत्यूहकारणतया अपवर्गो मोक्षः स एव पुरं नगरं त. स्मिन् प्रयाणं गमनं तत्र यः प्रत्यूहो विनस्तत्र यत्कारणं निदानं तस्य भावस्तत्ता तया अपवर्गपुरप्रयाणप्रत्यूहकारणतया । गमनकाले करकवृष्टिः स्वेष्टसिद्धौ विन्न कारणं प्र- सिद्धमेव । उक्तं च वसन्तराजशाकुने–'क्षीणचन्द्रतिथि दुःसहानलं दूषितं धरणिक- म्पनादिना । पूर्ववज्जलदसंकुलाम्बरं वर्जयेच्छकुनदर्शने दिनम्' इति । अकालवृष्टिगमने निषिद्धा । करकपतनं ववश्यं वयमेव । करान् करकान् कथमिति प्रश्नोत्तरम् । कथं- भूताः कराः । कान्ता: ककारान्ता इत्यर्थः । तादृशाः कराः करका भवन्त्य वेत्यर्थः ।। १. 'जिगोषतः सुकृतचमूं समुद्यतं न बुध्यते' इति मलपुस्तकपाठः, I काव्यमाला। नीव्याप्तमस्या हरिणेक्षणाया यं वीक्ष्य हारं हृदि हर्षमेपि । विवेकपङ्केरुहकाननस्य तमेव नीहारमुदाहरन्ति ॥ २५ ॥ अस्या हरिणक्षणाया हरिणस्य ईक्षणमिवेक्षणं यस्यास्तस्याः यं हारं वीक्ष्य त्वं हदि ह. दये हर्ष प्रमोदं एषि प्राप्नोषि । कथंभूतं हारम् । नीव्याप्तं नीवीं वसनग्रन्थि आप्तं प्राप्त नी- व्याप्तम् । नीवीपर्यन्तं लम्बायमानमित्यर्थः । बुधाः तं हारमेव विवेकपङ्केसहकाननस्य विवेक एव पङ्केरुहं कमलं तस्य काननं बनं तस्य नीहारं हिमं उदाहरन्ति कथयन्ति । नीहारों यथा कमलकाननस्य दाहकस्तथायं हारः । हृदि हारवर्णनं विवेकनाशकमित्यर्थः । हार कथं नीहारमिति प्रश्ने तत्रोच्यते-कथंभूतं हारम् । नीव्याप्तं नीशब्देन व्याप्तं नीव्याप्त एतादृशं हारं नीहारं स्यात् ।। विलोक्य किं सुन्दरमङ्गनोदरं करोपि मोहं मदनज्वरातुर । नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमङ्ग नो दरम् ॥ २६ ॥ मदनज्वरातुर, मदनः कामः स एव ज्वरस्तेन आतुरस्तस्य संबोधनम् । सुन्दरं द- शनाहे अगनोद अङ्गनाया उदरं विलोक्य लं कि मोहं करोषि । अत्यामन्त्रणे । म- वान्तरे आगामि भवे भाविनं भवनशीलं दरं भयं किं नो ईक्षसे न विचारयसि । कथंभूतं दरम् । दुर्गतिपातसंभवं दुर्गतिर्नरकादिस्तस्यां यः पात: पतनं तस्मिन् संभव उत्पत्तिर्य- स्य तम् । अत्र पूर्व अङ्गनोदरमिति समस्तं पदम् । परत्र अङ्ग नो दरमिति पद विभाग- नार्थव्युत्पादनं चित्रम् ।। स्फूर्जन्मनोभवभुजंगमपाशनाभी नाभी कुरङ्गकदृशां दशि यस्य लग्ना। नाभीमयं जगदशेपमुदीक्षतेऽसौ यो यत्र रज्यति स तन्मयमेव पश्येत् ॥ २७ ॥ यस्य पुरुषस्य दृशि नेत्रे । कुरङ्गकदृशां मृगनेत्राणां स्त्रीणां नाभी शरीरावयवविशेषः लमा । कथंभूता नाभी। स्फूर्जन्मनोभवभुजंगमपाशनाभी स्फूर्जन् देदीप्यमानो यो मनो- भवः कामः स एव भुजंगमः सर्पस्तस्य पाशाथै नाभी । कामसर्पस्थानमित्यर्थः । असौ पुमानशेष समस्तं जगत् नाभीमयं अभीमयं निर्भयं न ईक्षते । न निर्भयं जगदीक्षत इ. त्यर्थः । यः पुरुषो यत्र स्थाने रज्यति स पुमान् तन्मयं तद्रूपमेव पश्यति। नाभी दृशि लग्ना नाभीमयं जगत्पश्यतीति न चित्रम् । नाभीनाभीनयमिति चित्रकृत् ॥ अँडोपयुक्तं जघनं मृगाक्ष्याः समीक्ष्य किं तोषभरं तनोपि । अमुं विशुद्धाध्यवसायहंसप्रवासहेतुं घनमेव विद्याः ॥ २८ ॥ १. किमीक्षसे दुर्गनिपात' इति मूलपुस्तकपाठः. २. “स' इति मूलपुस्तकपाठ:. ३. 'जलोपयुक्त' इति मलपुस्तकपाटः, ४. 'संवीक्ष्य' इति मलपुस्तकपाटः, शृङ्गारवैराग्यतरङ्गिणी। मृगाक्ष्याः स्त्रिया जघनं समीक्ष्य दृष्ट्या कि तोपभर हर्षमा तनोषि विस्तारवसि । क- शंभूतं जघनम् । जडोपयुक्तं जडानां मूर्खाणां उपयुक्त योग्य अमुं जयन वन मेघमेव विद्या जानीयाः । कथंभूतं जघनमः । विशुद्धाध्यवसायहँसप्रवासहेतुम् । विशुद्धो निर्मला यः अव्यवसायः चित्ताभिप्रायः स एव हसः तस्य यः प्रवासः तस्यत: कारण ते वि- शुद्धाव्यवसायहंसप्रवासहेतुम् । घनागमे इंसा मानसे गच्छन्तीति प्रसिद्धम् । जयनं धनं कथं तत्राह । जोपयुक्तं उलयोश्चैकत्वस्मरणात जलोपयुक्तम् । जस्य जकारस्य लोग नाशस्तेन युक्तं जकारं विना जघनं धनं स्यात् ॥ नितम्बमुल्लासिततापनोदं दिदक्षसे यत्कमलेक्षणानाम् । सर्वात्मनात्यन्तकटुं विदित्वा तं निम्बमेव त्यज दूरतोऽपि ॥२९॥ कमलेक्षणानां कमलनयनानां यं नितम्ब पृष्टभाग दिदक्षसे द्रष्टुमिन्छसि । कथंभूत नितम्बम् । उल्लासिततापनोदं उल्लासितस्तापस्य नोदः प्रेरणं यन स तम् । तं नितम्ब नि- म्बमेव रिष्टं विदित्वा दूरतोऽपि त्यज । कथंभूतं निम्बम् । सर्वात्मना पत्रफलपुष्पसम- हेन । अत्यन्तकटुं अतिकटुकम् । नितम्ब कथं निम्बमिति प्रश्न तत्रोच्यते--कामत निम्बम् । उल्लासिततापनोदम्' उल्लासितस्तस्य तकाराक्षरस्य अपनोदी नाशी यस्मिन संतम् । तकारनाशे नितम्बो निम्बः स्यादेवेत्यर्थः ।। नूनं नूपुरमेतदायतदशो रागादिविद्वेषिणां क्रीडार्थ पुरमित्यवेत्य न दृशाप्यालोकनीयं कचित् । येनास्मिन्मुखमात्रचङ्गिमगुणैराकृप्य तैरुल्वणे- बद्धस्य प्रसभं चिरादपि सखे मुक्ति वित्री न ते ॥ ३० ॥ नूनं निश्चितं आयतदृश: आयते विस्तीर्ण दृशौ यस्यातस्या विशालनयनायाः एत- नपुरं चरणभूषणं रागादिविद्वेषिणां रागादिशत्रूणां क्रीडाथै विनोदार्थ पुरे नगरमिति अवेत्य ज्ञात्वा त्वया क्वचित्कदापि दृशा नेत्रेण नालोकनीयं न द्रष्टव्यम् । शत्रुपुरं श्रेयो- ऽथिना पुरुषेण न विलोकनीयमित्यर्थः । हे सखे, येन नपुरेण अस्मिन्पुरे तैः प्रसिद्भः मु. खमात्रचङ्गिमगुणैः मुखमात्रे ये चङ्गिमाः श्रेष्ठाः गुणास्तैहल्दणदाररावध्य प्रसभं बलात्कारेण बद्धस्य ते तव चिरादपि चिरकालेनापि मुक्तिमोचनं न भवित्री । नपुर पुरं कथमिति प्रश्ने। तत्र कथंभूतं नूपुरम् । नूनम् । नूशब्देन उनं नूनं नूशब्दरहितं नूपुर पुर भवतीति ॥ या स्त्रीति नाम्ना बिभृते शमादौ शस्त्री प्रबुद्धैरवबुध्यता सा । एनां पुरस्कृत्य जगत्यनङ्गभटो यतः पुण्यभट भिनत्ति ॥ ३१ ॥ या स्त्रीति नान्ना स्त्रीत्यभिधानेन बिभृते धारयति सा स्त्री प्रबुद्धानिभिः शमादावुप- १. किं कमले-' इति मूलपुस्तकपाठ: नाम गिनाममा । ।

काव्यमाला। शमादिकमणि शस्त्री अमुक्तायुधम् । अमुक्तं शस्त्रीप्रमुखमिति । 'क्षुरी शस्त्री कृपाणिका' इति नामकोषः । अवबुध्यतां ज्ञायताम् । यतो यस्मात् अनङ्गभट: कामसुभटः जगति संसारे एना स्त्रीरूपां शस्त्री पुरस्कृत्य अग्रे कृत्वा पुण्यभटं धर्मसुभटं भिनत्ति भेदनं क- रोति । सुभटेन प्रतिसुभट शख्या भेदनं विधीयत एव ! स्त्रीति शस्त्री कथं तत्रोच्यते । शमादी या स्त्री शंशकारमादौ बिभृते तदा स्त्री शस्त्री स्यादेवेत्यर्थः !! येयं वधूरवसिता हृदये प्रमोद- संपादनव्यतिकरैकनिवन्धनं ते । सा दुर्गदुर्गतिपथेन जगन्निनीपो- धूरेव मन्मथरथस्य विभावनीया ॥ ३२ ॥ या इयं वधूः ते तव हृदये प्रमोदसंपादनव्यतिकरैकनिबन्धनम् । हृदये यः प्रमोद- स्तस्य संपादनमुत्पादनं तस्य यो व्यतिकरः समूहः तस्य निबन्धनं कारणं अवसिता प्राप्ता हृदयहर्षोत्पादनकारणं वधूरिति त्वया मन्यत इत्यर्थः । सा वधूः मन्मथरथस्य धू- रेव युगमेव विभावनीया ज्ञातव्या । कथंभूतस्य मन्मथरथस्य । जगत्कर्मतापनं दुर्गदुर्गति- पथेन दुर्गतेनरकादिगतेः पन्थाः दुर्गतिपथः । ऋक्पूरब्धूःपथामानक्षे' इति अप्रत्ययः । दुर्गो यो दुर्गतिपथस्तेन । निनीपोनेंतुमिच्छोः दुर्गतिमार्गेण संसारे नेतुमिच्छतः कामरथस्य धरस्ति न वधरित्यर्थः । वधूः धूः कथं तत्रोच्यते---वेन वकारेण सिता बद्धा वसिता न बसिता अवसिता वकाररहिता वधधरेव स्यादित्यर्थः ।। प्रीति तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता देहात्या कनकनिभया द्योतिताशा विवेकिन् । सत्यं तासामनलसदृशां संयमारामराज्यां मा भूः पार्श्वेऽप्यसि यदि शिवावाप्तये बद्धबुद्धिः ॥ ३३ ॥ हे विवेकिन, या एतास्तरुण्यो नार्यः तव प्रीति हर्ष तन्वन्ति विस्तारयन्ति । कथं- भूतास्तरुण्यः । अनलसदृशः न अलसा अनलसाः आलस्यरहिता दृशो यासां ताः अ- नलसदृशः । उन्निद्रनेत्रा इत्यर्थः । पुन: किंविशिष्टास्तरुण्यः । कनकनिभया स्वर्णतुल्यया देहशुत्या शरीरकान्त्या द्योतिताः प्रकाशिताः आशा दिशो याभिस्ता द्योतिताशाः। संयमारामराज्यां संघमश्चारित्रं स एवं आरामस्तस्य राजी परम्परा तस्यां विषये तासां स्त्रीणां अनलसदृशां अग्नितुल्यानाम् । सत्यं स्त्रीसंपर्काचारित्रवनदाहो भवत्येवेत्यर्थः । यदि त्वं शिवावाप्तये मोक्षप्राप्य बद्धबुद्धिः बद्धा बुद्धिर्येन स तादृशोऽसि तदा तासां पार्श्व- ऽपि समीपेऽपि मा भूः। अत्र पये अनलसदृशत्वम् एकत्र वर्णत्वेन अपरत्र दाहक शक्ति- वेनोपादानं चित्रकृत् ॥ १. 'यैषा' इति मूलपुस्तकपाठः, २. 'हृदयप्रमोद' इति मूलपुस्तकपाठः, । ।

। शृङ्गारवैराग्यतरङ्गिणी। क इह विषयभोगं पुण्यकर्मायशून्यं साहति विषमागं भावयस्त स्वतस्त्वम् । स्मरति न करणीयं मूर्छितो येन जन्तुः पतति कुगतिगते नेक्षते मोक्षमार्गम् ॥ ३४ ॥ इहास्मिन् संसारे कः पुरुषों विषयभोग पञ्चन्द्रियसुखं स्मृति वाहति । कथभूत विषयभोगम् । पुण्यकर्माय शून्यम् । पुण्यकर्मणः आयो लामस्तेन शन्यम् । तत्वतस्त्वं विष- भाग भावये: जानीहि । विषयभोगं विषमक्षणतुल्यं जानीहीत्यर्थः। तदेव स्पष्टयति-येन विषयभोगेन मूछितो मोहे प्राप्तो जन्तु: प्राणी करणीयं करणाहै न स्मगति । पुन: मोक्षमार्ग न ईक्षते । कुगतिगर्ने पतति । विषमक्षणस्य स्मरणादिभ्रंशकवं प्रकटमेव विषयभोगोवियभोगो भवतीत्यर्थः ।। सखे सुखं वैषयिकं यदेतदाभासते तन्नर कान्तमन्तः । सत्यं तदुत्सर्पदवनबन्धनिबन्धनत्वान्नरकान्तमेव ॥ ३५ ॥ है सखे. हे नर, एतत् वैषयिक विषयेभ्यो भवं वैषयिकं सुखं ते तब अन्त: वितसि कान्तं मनोज्ञ यत् आभासते तत्सत्यम् । मिथ्या नेत्यर्थः । उत्सपदधप्रबन्धनिबन्धनत्वात् । उत्सपिन्प्रसपन् यः अघस्य पापस्य प्रबन्धः परम्परा तस्य निबन्धन कारणं तस्य भाव- स्तत्वं तस्मात् । नरकान्तमेव नरक एवं अन्तो यस्य तत् नरकान्तम् । नरकप्रापकाम- त्यर्थः । अत्र पद्ये पूर्वत्र नर कान्तमिति भिन्नं पदम्, परत्र नरकान्तमिति समस्तं पद- मिति चित्रकृत ॥ स्मरक्रीडावाप्यां बदनकमले पक्ष्मलदशा दृढासक्तियेषामधरमधुपानं विदधताम् अदूरस्था बन्धव्यसनघटना केशमहती विमुग्धानां तेषामिह मधुकराणामिव नृणाम् ।। ३६ ॥ स्मरक्रीडाबाप्यां स्मरक्रीडार्थ वापी तस्यां येषां मनुष्याणां पक्ष्मलवां स्त्रीणां वदन- कमले वदनमेव कमलं तत्र दृढासक्तिः दृदा आसक्तिः तन्मयता वर्तते इति शेषः । किं कुर्वतां येषाम् । अधरमधुपानं विदधताम् । अधरमेव मधु पुष्परलः तस्य पान तत् कुर्व- ताम् । तेषां नृणां इह वदनकमले मधुकराणां भ्रमराणामिव बन्धव्यसनघटना बन्धेन बन्धनेन अद्यसनं कष्टं तस्य घटना रचना अदरस्था समीपत्रतिनी भवति । कमतानां १. भावयंस्तत्वतस्तम् इति सूलपुस्तकापाठः. २. 'स्मरति न करगीय नक्षते मोक्ष- मागे पतति कुगतिगत मूच्छितो येन जन्तुः' इति मूलपुस्तकपाठः, ३. 'यन्नर कान्त- मेव इति मूलपुस्तकपाठः. ४. मूलपुस्तके हतीयतरीय चरणयोव्यत्ययोऽस्ति.

काव्यमाला। । - मधुकराणाम् । नृणां च विमुग्धानां मोहदशा प्राप्तानाम् । कथंभूता बन्धव्यसनघटना। क्लेशमहती क्लेशेन महती दुःसहा । यथा भ्रमराणां कमले मधुपानं कुर्वतां दृढास- क्तिबन्धनकष्टदायिनी, तथा नृणां स्त्रीमुखकमले अधररसपानं कुर्वतां वधबन्धनादि कादं भवतीत्यर्थः॥ सखे संतोषाम्भः पिब चपलतामुत्सृज निजां शमारामे कामं विरचय रुचिं चित्तहरिण । हरन्त्येतास्तृष्णां न युवतिनितम्बस्थलभुवो विमुक्ता नीरागैविषमशरसंपातविषमाः ॥ ३७ ॥ हे सखे हे चित्तहरिण, चित्तमेव हरिणो मृगस्तस्य संबोधनम् । चित्तस्य चाचल्या- न्मृगसादृश्यम् । त्वं संतोषाम्भः पिब संतोष एवं अम्भो जलं त्वं पिब। निजां स्वकीयां चपलतां चापलमुत्सृज त्यज । काममत्यर्थ शमारामे शम एवं आरामस्तस्मिन् उपशम. बने रुचि तुष्टि विरचय कुरु । मृगस्य बनेऽधिकरुचिलात, इष्टोपदेशः । एता युवक तिनितम्बस्थलभुवः । युवतीनां नितम्बाः पृष्ठभागाः त एव स्थलभूमयः तव तृष्णां तृषां न हरन्ति न दूरीकुर्वन्ति । स्थलभुवं दृष्ट्वा तृष्णापहारो न भवतीत्यर्थः । कथंभूता युवति- नितम्बस्थलभुवः । नीरागैविमुक्ताः । नीराणि च अगाश्च नीरागास्तैः जलवृक्षविमुक्ताः । जलेन वृक्षच्छायया च तपाहानिर्भवति । पुनः कथंभूता युवतिनितम्बस्थलभुवः । बि- धमशरसंपातविषमाः । विषमा असह्या ये शरसंपाता बाणपातास्तविषमा दुष्टाः । अस्या भुवि व्याधादिभिर्वाणपातो विधीयते, तेन तव मरणं भविष्यति, न तु तृष्णाहानिरित्यर्थः । पक्षे कथंभूता युवतिनितम्बस्थलभुवः । नीरागैः रागरहितविमुक्तास्त्यक्ताः । विषमशरः कामस्तस्य संपातेन विषमा अमनोज्ञाः । एतेन युवतिनितम्बवाञ्छां मा कुरु इति चित्तं प्रत्युपदेशः। चेतश्चापलमाकलय्य कुटिलाकारां कुरङ्गीशो दृष्ट्वा कुन्तलराजिमञ्जनघनश्यामां किमुत्ताम्यसि । धर्मध्यानमहानिधानमधुना खीकर्तुकामस्य में प्रत्यूहार्थमुपस्थितेयमुरगश्रेणीति संचिन्तयेः ॥ ३८ ॥ है चतः, त्वं कुरङ्गीहशो मृगाक्ष्याः कुन्तलराज शिरोरुहणि दृष्ट्वा चापलमाकलव्य चाचल्यं गृहीत्वा किमुत्ताम्यसि किं आकुलतां करोषि । कथंभूतां कुन्तलराजिम् । कुटिलाकाराम् । कुटिलो वक्र आकारो यस्यास्ताम् । पुनः कथंभूतां कुन्तलराजिम् । अअनघनश्यामाम् । अञ्जनं कजलं घनो मेघस्तद्वत् श्यामां कृष्णाम् । केशानां कृष्णत्वं १. प्राणान' इति मूलपुस्तकपाठः, तृतीयचतुर्थचरणव्यत्ययश्च. २. 'ते' इति मूल- पुस्तकपाठ S है शृङ्गारवैराग्यतरङ्गिणी। । यौवने । तशुक्ता स्त्रियं दृष्ट्वा चित्तचलनं न्यायम् । उक्त च--- पुष्पं दशा फलं दृष्ट्वा दृष्ट्या च नवयौवनाम् । द्रविणं पतितं दृष्ट्वा कस्य नो चलते मनः ॥' इति । मे मम प्रत्यूहाथै विघ्नार्थ अधुना इदानी उपस्थिता प्राप्ता इयं उरगश्रेणी सर्पपरम्परा इति त्वं संचिन्तयः जानीयाः । कथंभूतस्य मे । धर्मध्यानमहानिधानं स्वीकतुकामस्य अङ्गीकुर्वतः धर्म- ध्यानं धर्मचिन्तनं तदेव महानिधानम् । यत्किचित्कार्यकरणोयतस्य सर्पदर्शनं नि- पिम् । निधानस्वीकारे तु सर्पदर्शनमतीव नेष्टमित्यर्थः । कुन्तलस्य सपिमानत्वं कविसंमतमेव ॥ यातुं यद्यनुरुच्यते शिवपुरी रामानितम्बस्थली मुञ्चे रमिमामनङ्गकलभक्रीडाविहारोचिताम् । नो चेद्यौवनचण्डवातविततव्यामोहधूलीकण- क्लाम्यदृष्टिरदृष्टशाश्वतपथः प्राप्नोषि जन्माटवीम् ॥ ३९ ॥ है पुमन् , यदि तुभ्यं शिवपुरी मुक्तिनगरी यातुं गन्तुं अनुरुच्यते तदा त्वं इमां रामानि- तम्बस्थली स्त्रीनितम्बभूमि दूरं दूरतो मुनेः । कथंभूतां गमानितम्बस्थलीम् । अनङ्गकल- भक्रीडाविहारोचिताम् । अनङ्गः कामः स एव कलभः गजशिशुः तस्य क्रीडाथै विहागे विहरणं तत्रोचितां योग्याम् । चदिमां दूर न मुञ्चसि तदा कि भविष्यति तदाह ---नो चेदिति । त्वं जन्माटवीं संसाराटवीं प्राप्नौषि । कथंभूतस्त्वम् । यौवनचण्डवातविततच्या- मोहधूलीकणक्लाम्यदृष्टिः । यौवनमेव चण्डवातस्तेन विततः विस्तारितः व्यामोहो वै- चित्यं स एव धूलीकणस्तेन क्लाम्यन्ती व्याकुला दृष्टियस्य तथाविधः । अत एव अ. दृष्टशाश्वतपथः । न दृष्टः शाश्वतस्य शिवस्य पन्या मार्गो येन सः । रजःकणपतनं दृष्टा मार्गावलोकनं न भवत्येवेत्यर्थः ।। शमधनमपहर्तु कामचौरप्रचार विरचयति निकामं कामिनीयामिनीयम् । सपदि विदधती या मोहनिद्रासमुद्रा जनयति जनमन्तःसर्वचैतन्यशून्यम् ॥ ४० ॥ इयं कामिनीरूपा यामिनी रात्रिः निकाममत्यन्तं कामचौरप्रचारं काम एव चौरस्तस्य प्रचारं विहरणशीलत्वं विरचयति प्रकटीकुरुते । किं कर्तुम् । शमधनमपहर्तु शम उपशम एव धनं तद्गहीतुम् । यामिन्यां धनाहरणार्थ चौरप्रचारो भवति । या यामिनी जन मनुष्य अन्तःसवैचैतन्यशून्यं अन्तरिति अन्तःकरणे सर्वे च तद् चैतन्यं च तेन शून्यं रहितं १. 'अनुरज्यसे' इति मूलपस्तनपाठः. २. 'हरिणक्रीडा-' इति मूलगुस्तकपाटः. ३. 'प्राप्तासि' इति मूलपुस्तकपाठ:. ४. 'निद्राममुद्रा' इति मूलपुस्तकपाठः.

। मृगक्षणा नूनमसावसीमा भीमाटवी बुद्धिमतामंतीत्या। रापसरणमतिमा काव्यमाला। जनयति करोति । यामिनी किं कुर्वती । सपदि तत्कालं मोहनिद्रासमुद्रां मोहो मूही एवं निद्रा तस्या: समुद्रो समृद्धि विदधती ॥ यद्वाहुवल्लीभिरनङ्गभिल्लो बड्डा नरांल्लम्भयते न मुक्तिम् ।। ४१ ॥ नूनं निश्चितं असौ मृगस्य अक्षिणीवाक्षिणी यस्याः सा मृगेक्षणा स्त्री । भीमाटवी भयानकारण्यम् । वर्तते इति शेषः । कथंभूता भीमाटवी। असीमा। न विद्यते सीमा मयादी यस्याः । पुनः कथंभूता । बुद्धिमतां विदुषां अतीत्यातिक्रमणीया यदाहुवल्लीभिः यस्या मृगेक्षणाया बाहू एव बल्यो लतास्ताभिः अनङ्ग एव भिल्लस्तस्करः नरान् मनुष्यान् बद्धा मुक्ति न लम्भयते न कारयति । यथा अटव्यां तस्करः पथिकान् लताभिर्बवा स- वस्वं गृह्णाति, तथा मृगेक्षणापि कण्टग्रहणं कृत्वा नगन्मुक्तिप्राप्ति न कास्यतीति भा- वार्थः॥ इयं वारंवारं द्युतितुलितरोलम्बवलयं न वक्रं भ्रूचक्र चलयति मंगाक्षी मम पुरः । कुँधीकारागारापसरणमति मां खलयितुं प्रपञ्चत्पञ्चेपोर्वहति निविडं लोहनिगडम ॥ ४२ ॥ इयं मृगाक्षी मृगलोचना स्त्री मम पुरः पुरस्तात् वक्र भ्रूचक्र वारंवारं अनुवेलं न चलयति । कथंभूतं भ्रूचक्रम् । द्युतितुलितरोलम्बवलयम्। युत्या कान्त्या तुलित: समानी- कृतो रोलम्बानां भ्रमराणां वलयो वृत्तता येन। किमेतत्तदाह-मां स्खलयितुं गमनाभावं कर्तु पञ्चेषोः पञ्च इषवो बाणा यस्य तादृशस्य कामस्य निबिडं दुःसहं लोह निगडं व- हति धारयति । किंभूतं लो हनिगडम् । प्रपञ्चत् प्रपञ्चयुक्तम् । कथंभूतं माम्। कुधीकारागा- गमने मतिर्यस्य तम् । यथा चौरस्य लोहनिगडं क्षिप्त्वा कारागारे क्षिप्यते, तथा मामपि वशीकर्तुं भ्रूचक्र कामस्य निगडं धत्ते इत्यर्थः ।। यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे नायं हारश्चकितहरिणीलोचनायाश्चकास्ति । नाभीरन्ध्रे विहितवसतियोऽस्ति कंदर्पसर्प- स्तन्मुक्तोऽयं स्फुरति रुचिरः किं तु निर्मोकपट्टः ॥ ४३ ॥ १. 'अतीव' इति मूलपुस्तकपाठः. २. बद्धान्' इति मूलपुस्तकपाठः. ३. "च लाक्षी' इति मलपुस्तकपाठः ४. 'क्रुधा' इति मलपुस्तकपाठः ५. छलयित अप- चात्' इति मलपुस्तकपाठः.

शृङ्गारवैराग्यतरङ्गिणी। है मित्र, वयं इतोऽस्मात् । अन्यत्र द्रुततरं अतिशीघ्रं धामो गच्छामः। चकितहरिणी- लोचनायाः । चकिता हरिणी तस्या लोचने इन लोचने यस्यास्तस्याः । कण्ठपीट छन् चकास्ति शोभते अयं हारो नास्ति किंतु यः कंदर्पसः कदर्पः कामः स एव सर्प. म्तन्मुक्तस्तेन मर्पण मुक्तस्तन्मुक्तः । अयं रुचिरो मनोज्ञः निर्मोकपः कबुक: - गति चकास्ति । कथंभूतः कंदर्पमपः । नाभीरन्धे निहितवांतः । नाभीरन्धे नाभीकुहरे विहिता कृता वसतिर्वासो येन स नाभोरन्धे विहित वसतिः । अयमेवान्यत्र गमने हेतुः । सर्पक चुकदर्शनमपि भयावहम् । नाभी सर्पविलं हार सर्पक बुक तहट्या पलायन युक्तमेवेत्यर्थः ।। यः कामकामलविलुप्तविवेकचक्षुः स्वर्गापवर्गपुरमार्गमवीक्षमाणः । ज्ञानाञ्जनं प्रति निरादरतामुपैति भ्रातः पतिप्यति स भीमभवान्धकूपे ॥ ४४ ॥ यः पुरुषः ज्ञानाञ्जनं ज्ञानमेवाअनं प्रति निरादरतामुपैति निरादरं करोति । कथंभू- तो यः । कामकामलविलुतविवेकचक्षुः । कामः स्मरः स एव कामलो नेत्ररोगस्तेन वि- लुप्तं विवेक एवं चक्षुर्यस्य स कामकामलविलुप्तविवेकचक्षुः । अत एव स्वर्गापवर्ग- पुरमार्गमवीक्षमाणः । स्वर्गो देवलोकोऽपवर्गो मोक्षः, तायेव गरे नगरे तयोगिस्तमवीक्ष. माण: अदर्शकः एवंविधः स पुरुषः हे प्रातः, भीमभवान्धकूप । मोमो भयानकः भवः संसारः स एव अन्धकपः तस्मिन् पतिष्यति यः कामलारोगग्रस्तचक्षुरजनं प्रत्यादर न करोति सोऽन्धकपे पतत्येवेति ॥ भवारण्यं मुक्त्वा यदि निगमिपुमुक्तिनगरी तदानीं मा कानिपयविपक्षेषु वसतिम् । यतश्छायाप्येपां प्रथयति महामोहमचिरा- दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ४५ ॥ हे पुमन् , भवारण्यं संसाराटवीं मक्त्वा यदि मुक्तिनगरों शिवपुरी जिगमिषुः गन्तु- मिच्छुरसि तदानी विषयविषवृक्षेषु विषया एवं विषवृक्षास्तेषु बसति गर्त त्वं मा कार्षीः मा कुर्याः । यतो यस्मात् कारणात् एषां वृक्षाणां छायाधि महामोह अचिगत् शीघ्र प्रथयति विस्तारयति । विषयविषच्छायास्पोऽपि वैचित्यकारको भवतीत्यर्थः । अतः कारणात अयं जन्तुः प्राणी पदमपि पादमात्रमपि गन्तुं गमनाथ न प्रभवति न समर्थः भवति । यथारण्यं मुक्त्वा नगरी गन्तुकामा नरो. विषवृक्षायो बसन् मत्तो भवति तदा १. 'अवेक्ष्यमाणः इति मलपुस्तकपादाः । पदमात्रमपि न गन्तुं शक्नोति । तत् संसारं मुक्त्वा मुक्तिमभिलपता पुंसा विषयसेवायां मतिर्न कार्येति तात्पर्यम् ॥ सोमप्रभा चार्यमभा च यन्न पुंसां तमःपमपाकरोति । तदप्यमुष्मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥ १६ ॥ सोमप्रभा चन्द्रकान्तिः च पुनः अर्यममा अर्यम्ण: सूर्यस्य कान्ति: यत्पुंसां मनुष्या- णां तमःपङ्कमज्ञानान्धकारसमूह न अपाकरोति न दूरीकरोति तदपि अन्तर्गतान्धकार. मपि अमुष्मिनुपदेशलेशेऽल्पोपदेशे निशम्यमाने श्रूयमाणे सति अनिशं निरन्तरं नाशमनि नाशं प्राप्नोति । चन्द्रसूर्यप्रभयाज्ञानान्धकार दूरीकर्तुं न शक्यते । अनेनोपदेशेन अन्त. मतान्धकारमपि दुरीकर्तुं शक्यत इति । अतोऽस्योत्कृष्टत्वम् । अत्र पद्ये अन्यकत्री मो- मप्रभाचार्य इति स्वनाम गोपितं चातुर्येणेति बोध्यम् ।। संवत्स(च्छोरद्विपमुनीन्दु(१७७५)मितस्य मासे मार्गे त्रयोदशमिते दिवसे भृगौ च । स्वल्पा तरी विरचिता सुखबोधिकाख्या श्लेषौघदुस्तरतरङ्गिणिकासुशास्त्रे ।। आगरानानि नगरे नन्दलालेन धीमता। दानविशालशिष्यानुरोधेन कृपया गुरोः ॥ (युग्मम्) सोमप्रभाचार्यकृति सुदुर्गमा विवृण्वता स्वल्पधिया मयात्र यत् । न्यूनाधिकोङ्कनमल्पबुद्धितः कृतं विशाध्यं कृतिभिः कृपालुभिः ॥ श्रीजिनभक्तिसूरीन्द्रे गच्छसाम्राज्यं बिभ्रति । अशेषमनुजवन्दनतपादाम्बुजद्वये ॥ इति सुखबोधिकानाच्या वृत्या समेता श्रीशैतार्थवृत्तिकारश्रीप्सोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी समाप्ता। महाकविश्रीनारायणभट्टपादविरचितं कोठिविरहम् । भङ्गया निजाङ्गकानामङ्गजमपि मानहीनमाकलयन् । संगीतकेतुनामा धीमानासीहिजोत्तमः श्रीमान् ॥ १ ॥ १. 'समुपैति' इति मूलपुस्तकपाठः. २. 'शताथिसोमप्रभाचार्यकृता' इति मलपु- स्तकपाठः. ३. कवेर्देशकालौ काव्यमालाया एकविंशेऽङ्के स्वाहासुधाकर प्रारम्भटिप्पणे द्रष्टव्यो. कोटिविरहाख्योऽयं ग्रन्थ उत्तरमलबार(केरलोदेशान्तवर्ति कटयनद राजेन श्री- मुदुदयवर्मणा केरलीयलिपितो देवनागराक्षरैविलिख्यास्मभ्यं प्रेषित इति महदुपकृतं भूभृता. ४. केरलीयाः सदाशिवशास्त्रिणस्तु 'कोडिअविरहम्' इति ग्रन्थनाम वदन्ति, 'कोहिअ शब्द: केरलभाषायां नतनवाचक इति तदर्थ च.

कोटिविरहम् । कलाभिरपि पूर्णात्मा कुमुदामोदमावहन् । सतां प्रीतिकरः सोऽयं द्विजेन्द्रः शुशुभेतराम् ॥ २ ॥ तस्मिन्नेव समये संकेतभूमिः सुकुमारतायाः संगीतसाहित्यसरोमराली । शृङ्गारलक्ष्मीरिव संभृताङ्गी शृङ्गारलीलेति बभूव बाला ॥ ३ ॥ अधिककुतुकदात्री पश्यता सो समषा- ममृतकिरणलेखेवान्वहं वर्धमाना । अमजत वयसस्तामत्युदारामवस्था- मतुलितमपदानं तन्वतीमङ्गयोनेः ॥ ४ ॥ यथा यथा वक्षसि पक्ष्मलाक्ष्याः कुचद्वयी वृद्धिमवाप तस्याः । तथा तथावर्धत कामुकानां विलोकने कापि कुतुहलश्रीः ॥ ५ ॥ आकर्णयन्तावनधान्गुणोघानानेड्यमानाननिशं जनौधैः । आकाशितान्योन्यविलोकनौ तावास्ताममन्दप्रणयौ युवानौ ॥ ६ ॥ हृदयगृढनिरूढमनोजयोरिति तयोर्वसतोः कुतुकाईयोः । अभवदभ्युदयाय महो महाननतिदरगते गिरिजालये ॥ ७ ॥ आकल्पजालसविशेषमनोहरश्रीः साकं वयस्यनिवहश्च समानवषैः । सोऽयं विवेश गिरिजाभवनं विलासी तामुत्सवनियमुदीक्षितुमुत्सुकात्मा ॥ ८ ॥ आकासितार्थजननीमभिवन्द्य गौरी- मालोकयन्नभिनवानयमत्सुनौ(मुत्सवौ)वान् । अन्यूनकौतुकभरैः सहितो वयस्यै- रध्यारुरोह ललितामथ रत्नवेदीम् ॥ ९ ॥ आलीबन्दैरधिकानिपुणरात्मना निर्विशेषैः केलीशीलैः सततवशगैराता च स्वकान्तः । को किया नया साल १. सी. २. साखिलानां' इत्यपि पाठ..

नानाभूषामणिगणरुचा भासयन्ती दिगन्त
सा च प्रागादुदितकुतुका द्रष्टुमेवोत्सवं तम् ॥ १० ॥
नत्वा देवीमभिमतफलप्राप्तिहेतुं भवानी
मुग्धाक्षी सा सह सहचरैः संचरन्ती सहेलम् ।
प्राप्ता दैवात्सपदि पुरतस्तस्य संगीतकेतो-
रत्रानन्दप्रसरमपरां(?) वेदिकामासरोह ॥ ११ ॥
विलोकयन्ती तमतीव कान्तं विलोचनासेचनकं युवानम् ।
सा कोऽयमित्यन्तरुदीतचिन्ता वाला क्षणं व्याकुलतामवाप ॥ १२ ॥
स च तामवलोकयन्नुपेतामतिमात्रायतलोचनामदूरे ।
हृदि केयमिति प्ररूढचिन्तः क्षणमासीत्प्रतिपत्तिमूढचेताः ॥ १३ ॥
स इति सेति च तो परिबोधितौ सवयसा शनकैः श्रवणान्तिके ।
अतनुतां परिरम्भणमञ्चलैनयनयोर्नवविभ्रमचञ्चलैः ॥ १४ ॥
उद्भिद्यमानपुलको निटिलप्ररोह-
दाकम्रधर्मकणसुन्दरवक्रबिम्बौ ।
धन्याविमौ विगलितान्यसखौ युवाना-
वन्योन्यदर्शनमहोत्सवमन्वभूताम् ।।, १५ ॥
अत्यायतैर्गुणगणैर्निविडं निबन्डा-
वाकृप्यतामभिमुखौ तरसा विधाय ।
अव्याजावक्रमधनो विललास संध्ये(!)
सव्यापसव्यमिषुभिर्विकिरन्मनोभूः ॥ १६ ॥
तदनु कतिपयानां नाडिकानां विरामे
विरतिमुपगतोऽभूदुत्सवश्चण्डिकायाः ।
विततकुतुकभाजोरेतयोनेत्रकोण-
व्यतिकररसजन्मा तूत्सवो न व्यरंसीत् ॥ १७ ॥
अपयत्सु जनेषु तावतृप्ताववरूढौ गमनाय वेदिकायाः ।
मृदुहाससुधानुलिप्तवत्रौ मितमाष्टच्छच्च यथागतं प्रयातौ ॥ १८ ॥

कोटिविरहम। किमपि किमपि सख्याः श्रोत्रमुले वदन्ती वलितवदनमेनं वीक्षमाणा युवानम् । कपटकृतविलम्बा कामिनी सा कथंचि- निजनिलयमयासोनि हुतानङ्गपीडा ॥ १९ ॥ सेयं सायं प्राप्य गेहं नताङ्गी भेजे तल्पं कल्पितं तत्सखीभिः । अत्यारूढां चित्तजन्मव्यथां तामध्वश्रान्तिव्याजतो गृहभाना ॥२०॥ पश्यन्ती तं हृदि सुकृतिनं निःश्वसन्ती सुदीर्घ नश्यद्वैयर्या नयनकमलादश्रुधारां किरन्ती । विस्वस्ताङ्गी विदलितमनाः सायकर्मीनकेतो. रवस्था सा समजनि मनोमोहना मुग्धगात्री ॥ २१ ॥ विदितविगतिमूलैः सा सखीनां निकायैः सततमथ वचोभिः सम्यगाश्वास्यमाना । कथमपि धृतशोका वासरान्वत्सरामा- परिचितधृति निन्ये पञ्चषानचिताङ्गी ॥ २२ ॥ स्फुटमिव कथयन्तीमन्तरुज्जृम्भमांगा कुसुमविशिखपीडां मुग्धपातैः कटाक्षैः । स च मधुरमुखीं तां वीक्षमाणः प्रयान्ती युगपदाभिहतोऽभूदायुधैरङ्गयोनेः ॥ २३ ॥ चतुरवचनभेदव्यञ्जितातीतवृत्तै- स्तदनु सह वयस्यैरेष मन्दं जगाम । गलदतिगुरुकैश्यं गन्धमातङ्गमन्दं गमनमनघगान्याश्चिन्तयन्नन्धचेताः ॥ २४ ॥ गत्वा गेहं प्रियसहचरैः साकमारूढमूलं मारातङ्क मनसि सततं गृहमानोऽपि धीमान् । तामेवान्तस्तरलनयनां कल्पयन्नल्पधैर्य क्षामक्षामः समजनि दिनैः पञ्चषैरेष कामी ॥ २५ ॥ १. कामव्यथामू.

काव्यमाला। व तदुद्गतमनोहरमन्दहास वक्षोरुहावपि च तो क्रमवर्षमानौ । विस्तारितं जघनमित्यनुवेलमस्य चित्तं क्रमेण तरुणीमयमेव जातम् ॥ २६ ॥ तस्मिन्ननुक्षणमिति प्रविजम्भमाणे मारामये स तु कदाचिदुदारधामा । व्याजेन केनचिदनन्धगतिः स्वगेहा- देकः प्रियामवलुलोकयिषुः प्रतस्थे ॥ २७ ॥ अंसे वहनधिककोमलमङ्गनाना चिल्लीबिलासचतुरं मधुरं शरासम् । अध्वानमन्तिकचरं कथयन्नवर्क साहाय्यमस्य विदधे सहकारवाणः ॥ २८ ॥ स्फुरद्रागोन्मेषे चरमगिरिसौधारवलभी नभोमध्यादद्धा विशति नलिनीजीवितसमे । असावक्षीणश्रीरधिकलुलिताङ्गोऽपि शनकैः अपेढे प्रेयस्याः प्रकृतिरमणीयं निलयनम् ॥ २९ ॥ तदनु मुदितचेताः प्राप्य वापीमदूरे विमलसलिलपूरस्पर्शवीताध्वखदः । अधिकसुभगपातैः सेवितो वातपोतैः सकुतुकभिपेदे मन्दिरं सुन्दराङ्गचाः ॥ ३० ॥ आवृण्वानामुरसिजभरोत्सेधमेकेन दोष्णा विन्यस्यन्ती तदितरकरे वक्रमापाण्डुगण्डम् । अङ्के सख्या निहितवरणामध्वनि न्यस्तनेत्रा- मद्राक्षीत्तां मृदुनि तलिमे मुग्धगात्री शयानाम् ॥ ३१ ॥ तदनु मदनपीडां मानसे देहकान्त्या स्फुटमिव कलयन्ती प्रेक्ष्य कान्तामरे । १. भ्रममनोहरम्. २. धनुः. ३. कामः. ४. मन्दवायुभिः, ५. तल्पे.

कोटिविरहम् । ११७ कुतुकभरमनोजातङ्कमिश्रीकृतात्मा द्रुतमभजत कामी वामनेत्रासकाशम् ॥ ३२ ॥ अभ्यर्थ्यमानमनिशं मनसा पुरस्ता- दभ्यागतं समवलोक्य युवानमेनम् । सा वागतोक्तिमकरोदमृतद्रवाई- मन्दारकान्तिलहरीसुहृदा स्मितेन ॥ ३३ ॥ ततः श्रान्ते कान्ते सविधभुवि सख्या चतुरया समानीतं नव्यं तृणकटमलंकुर्वति शनैः । न्यपीदत्सा चौरान्मितमधुरवाणीविलसिते- हरन्ती तच्चेतो हरिणतरुणीमुग्धनयना ॥ ३४ ॥ लपन्तावन्योन्यं किमपि समुदाचारसरसं दिशन्तौ ताम्बूलं परिमिलितकर्पूरशकलम् । वदन्तावाकाडामधिकचतुरैरलिबलन- युवानौ तावास्तामुदयदधिकामोदसरसौ ॥ ३९ ॥ वाङ्मात्रेण प्रतिष्ठासुमप्रतिष्टासुमात्मना । कामिनी कामुकं प्राह यामिनीकामुकानना ॥ २६ ॥ यातप्रायमिदं दिनं कमलिनी दीनेयमालोक्यता नीरन्ध्रश्च पयोधरः स च शशी दूरेऽधुना वर्तते । विप्रागारमिदं तटाकसविधे वायत्तमेतच ते गेहं तत्क्षपय क्षपामिह महान्कार्यातिपातो न चेत् ॥ ३७ ।। अध्वा निर्मल एव नापि सहसा संवर्धते वा तमो विद्यन्ते च निकेतनानि सुहृदामृद्धानि मध्येपथम् । मुग्धापाङ्गि पयोधरः परमसौ संध्यागमे सांप्रतं प्रस्थानोद्यममुन्नमत्परिगलद्धारो रुणझ्येव मे ॥ ३८ ॥ १. आरात्समीपे सा च न्यषीदत. २. चन्द्रानना.३.स्तनो मेवश्च. ४. परिगलतू- झार:: (पक्षे) परिगलत बारः ....... PRIMARY बदतोरिति मुग्यहासमाध्यमिधुरं व्यञ्जितमजुरागवन्धम् । अरुणं तैरणेरवाप विम्बं वरुणाशातरुणीवतंसभावम् ॥ ३९ ॥ अथ म विहितसंध्यावन्द्रनाद्यः समीपे कथितधरणिदेवस्यालये तन्नियोगात् । सकुतुकरुचि भुक्त्वा स्वानुसंपन्नमन्नं त्वरितमुपजगाम प्रेयसीवासगेहम् ॥ ४० ॥ लातानुलिप्ततनुरागमनं तदीयं सा च प्रगाहकुतुका परिपालयन्ती। मुग्वेक्षणा निजमसेवत वासगेह मुद्रादरिद्रमदनद्युतिमुग्धगात्री ॥ ४१ ।। उन्निद्राकान्तिलहरीमहनीयगात्री संनाहिनी सरसिजायुधसंप्रहारे तां पश्यतः क्षितिसुरस्य समुज्जजम्भे पूर्वाधिका मनसि कापि कुतूहलश्रीः ॥ ४२ ।। तल्पोपान्ते तद्नु च मिथः सनिविष्टौ दिशन्तो कपूरैलामिलनसुभगां शुभ्रताम्बूलवीटीम् । सख्या साकं चतुरवचसा सूचितान्योन्यभावै- वकालापैः कमपि समयं यापयांचक्रतुस्तौ ॥ ४३ ॥ पश्यन्ती पुनरनयोरिङ्गितभेदैरनङ्गपरिपीडाम् । नातिचिरादतिनिपुणा नाटितनिद्रागमा सखी निरगात् ।। ४४ । बहिः स्वल्पं तल्पं तदनु स तया दीपकरया समादिष्टं भेजे मदनपरिदूनेन वपुषा । हृदा तु प्रत्यग्रं भैसक्शरकेलीगृहगतं तदीयप्रत्यन्तं परिहसितपर्वेन्दुसुषमम् ॥ ४५ ॥ तदनु शशिमुखी सा प्राप्य शय्यानिकेतं निजमभजत तल्पं निर्भरानङ्गपीडा । 1. सूर्यस्य. २. पश्चिमा दिक. ३. मदनयुद्धे संनद्धान्. ४. कामः, कोटिविरहम् । किमपि जनितकम्पैरङ्गकै ङ्गमाला- वचन(चरण)चलितमल्लीवरीतुल्यकुल्यैः ॥ ४६ ।। मनसा सदृशानुरागभाजी मुहुरुद्युक्तपरस्पराभिसारौ । अवमानभयेन जातचिन्ताववलन्तौ वषुषा च तावभूताम् ॥ ४७ ।। तल्पादनल्परसमुञ्चलितोऽथ तत्वा- त्पुष्पायुधेन बलिना परिणुद्यमानः । सोऽयं विवेश शनकैः शफरेक्षणायाः शय्यामहं शमितकल्पमणिप्रदीपम् ॥ १८ ॥ बडोद्यमा तदभिसारविधौ विसोढुं तत्तादृशं मदनतापमपारयन्ती । मुग्धा विहाय शयनं खयमुत्थिता च त्यस्तं च तेन विवरे कुचयोः कराम्जम् ॥ ४९ ॥ पुलकित्तनुवली सा ततः प्रीतिवगा- न्मृदुलभुजलताभ्यां गाढमालिङ्गय कान्तम् । अधिककुतुकमारादानमयोदसीयं वदनमधरबिम्बं चुम्वति स्म प्रकामम् ॥ ५० ॥ अनुदिवसमयोगे चेतसा काङ्कितं य- द्यदपि मदननाम्ना देशिकेनोपदिष्टम् । स्फुरितमभवदन्तर्यत्तदात्वे च यूनोः सुरतमननुभूतं संबभूवाभिरामम् ॥ ११ ॥ मिथुनमिदमुदारखेदलेशानुनिई पुलकि गलितधैर्य पुष्यदानन्दभारम् । दृढमभजत जाग्रत्खनयोर्मध्यसंस्थां मदनरससमुत्थामत्युदारामवस्थाम् ॥ १२ ॥ अथ सुरतविरामे विस्मृतान्योन्यभेदं कृतघनपरिरम्भं कोमलाभ्यां कराभ्याम् (भुजाभ्याम्)। १. मोनलोचनायाः. २. एतदीयम्. ३. गुरुणा. ४. तस्मिन्काले. - ११० नन्याश्रया मिलितवदनबिम्ब मिश्रितोरुमकाण्डं शयनमभजतां तौ श्रान्तिभाजौ युवानौ ।। ५३ ॥ जाराचवाण(पात)परुपे चरणायुधानां नादे ततः सरति कर्णयुगान्तरालम् । गादं कुचान्तरगतं परिरभ्य कान्तं वान्ताशुविन्दु कमनी वचनं बभापे ॥ १४ ॥ आवाल्यादपि कान्त कर्णविवरं प्राप्तैस्त्वदीयैर्गुणे- रासक्तं त्वयि मानसं द्विगुणितं जातं त्वदालोकनात् । त्यक्त्वाचैव न याहि पाहि मदनात न दूनामिमाम् ॥ ५५ ॥ तन्न्या तया निगदितं शृण्वन्कर्णामृतं वचः । प्रत्युवाच प्रसन्नात्मा स कामी वामलोचनाम् ॥ ६६ ॥ अभ्यर्थनीयमतिरागजुषा मया य- न्मुग्ध त्वयैव गदितं तदिदं तथापि । एतावदद्य कथयामि शपे कुचाभ्या- माभ्याममुं जनमवहि तवैव दासम् ॥ १७ ॥ इति कृतसमयोऽसौ कल्यमुत्थाय गत्वा द्विजवरगृहमारादात्मगेहोपमानम् । विहितसकलकत्यो मृष्टमास्वाद्य चान्नं सपदि मुदितचेताः प्राप कान्तानिकेतम् ॥ १८ ॥ सा चलानाद्यखिलमविलम्बन निर्वयं कृत्यं पत्युः प्रत्यागमनपदवीदत्तनेत्रारविन्दा । भूयोभूयः किमपि रजनीरत्तमेव स्मरन्ती पुष्पामोदात्पुलकिततनुः स्वैरमास्थादलिन्दे ॥ १९ ॥ आयातेन समं प्रियेण सुमुखी सा प्राप्य वासालयं स्वच्छनच्छभाजि केलितलिमे तन्वी शयाना सुखम् । १. नापिका.

कोटिविरह अन्यूनप्रणयप्रवाहमुझौराका द्धितिश्चेतसा तैस्तै मभिरुन्मिपत्परिमलैरवाय निन्ये दिनम् ॥ ६० ॥ क्षणादस्तं याते दिनकति शनैर्वाति पवने समादायामोदं दरदलितजातीमुमनसाम् । समारूढे चन्दौ गगनममृतस्यन्दिकिरणे स्मरोन्मादावेगादधिकविवशौ तावभवताम् ॥ ६१ ॥ गतनिजपरभावं गाढगाढप्रहारं मणितभारतगह मञ्जभूपाविरावम् । रतमधिकमासीदुद्धतं चित्तरङ्गे सति मदनविलास कामिनां का व्यवस्था ॥६॥ समदिवसानिशीथं क्रीडतोरेवमेव क्षणवदविदितांशा वत्सराः केऽपि याताः । न च सुरतमुखे तो वीततृष्णावभूतां न खलु विषयसङ्गः शीलनेनैति शान्ति ॥ ६३ ॥ इत्थं निवसतोः बैरं नित्यं प्रत्यायोस्तयोः । कदाचित्स्वगृहं याता वयस्या कार्यगौरवात् ॥ ६४ ॥ शय्योत्थायमर्थकदा प्रियतमे याते प्रभातागमे निद्राशेपनिमीलिताक्षिकमला तन्वी शयाना क्षणम् । दुर्वारं खलु दैवदुर्विलासितं स्वप्ने स्वयं सा विलो- क्यान्यासङ्गिनमात्मवल्लभमतिकुन्हा विबुद्धाभवत् ॥ ६५ ॥ निद्राविरामसमयेऽपि रुपा स्फुरन्त्या मुद्रादरिद्रतरया परिवृत्तचेताः । स्वप्नानुभूतमपि वस्तु तदस्तधैया तन्वी चिराय परमार्थतयैव मेने ॥ १६ ॥ सा भामिनी परुषरोपनिवीतचित्ता नैवोच्चचाल शयनादतिदूयमाना । १. प्रत्यहं नूतनयो:.

क्षौमोपधानममलं नयनान्तवान्त- रातन्वती मलिनमश्रुभिरजनाक्तैः ॥ १७ ॥ यथापुरमुपस्थितः स तु विलोकयन्प्रेयसी विकारमयथापुरं विधृतमानमासेदुषीम् । विषादभरविकुलः किमिति चिन्तयन्नन्धधी- रुवाच कलितादरं सरसया गिरा सान्त्वयन् ॥ ६८ ॥ किमेतदयि वल्लभे कथय किं न जानासि मा- ममुं तव पदाश्रयं किमिति मानमालम्बसे । अकारणसमुद्मामपनयाशु दूरे रुष विषादभरिताशये मयि विधेहि दासे दयाम् ॥ ६९ ॥ गलितचिकुरबन्धं गण्डसंसक्तबाप्पं विचलद्धरविश्वं विश्लथन्मुग्धगात्रम् । शयनमिदमकाण्डे व्यायतश्वासवातं चकितयति मदीयं चण्डि चेतः प्रकामम् ॥ ७० ॥ मुश्च मानमनिदानमिदानीमश्चिताक्षि हृदि संचिनु मोदम् । सिश्च वाङ्मयसुधाभिरधीरं पञ्चसायकहतं जनमेनम् ॥ ७१ ॥ इति विविधतराभिः सान्त्व्यमानापि वाग्भिः प्रतिवचनमुदश्रुः सा यदा न न्यगादीत् । अधिकुचतटमस्याः कातराक्ष्यास्तदासो मृदु निजकरपा न्यस्तवानस्तधैर्यम् ॥ ७२ ।। कितव शठ किमेतन्मा स्टशेत्यातभावा निजकुचयुगमध्यन्यस्तमुत्सार्य हस्तम् तरुणमरुणिताम्यामश्रुपूर्णान्तराभ्यां नयनसरसिजाभ्यां वीक्ष्य रूसं वभाघे ॥ ७३ ॥ अपसर शठबुद्धे मामकीनान्निकेता- दलमतिनयवाचा विस्तरैः कृत्रिमैस्ते । १. निष्कारणम्.

कोटिविरहम् ।
साच्चण्डि
जुमतिरहमेवं त्वय्युपारूदरागा
ध्रुवमेवमतिपात्रं हन्त जाता जनानाम् ॥ ७४ ।।
तामेव नूतनां याहि किं मया यातयामया।
सति सूने दरोत्फुले कस्य वन्तश्लथे स्टहा ।। ७५ ।।
का सा कामिनि कथ्यतां तव सदा या मानसे वर्तत
"त्वमेव समये यातं तदैतहत ।
अद्याप्येवमिदं शपे चरणयोईष्टे विवादरलं
स्वप्नः किं न्वयमम्बुजाक्षि सकलं स्वभोपमं दृश्यते ॥ ७६ ।।
परिचयवशादस्या रागः श्लथः किमु सांप्रतं
धृतरुचिरभूदन्यस्मिन्वा न वेशि नवे जने ।
किमु तमुपभोगोद्रेकान्मे गतं किमु शून्यतां (1)
न पुनरधुना मानस्थानं मनागांप लक्षये।। ७७ ॥
गतवृतिरिति तत्त
तत्तत्तयन्कर्कशेन
स्मरपरिभवशोकेनाकुलीभूतचेताः ।
क्षणमथ धृतमौनं यत्नसंस्तम्भितात्र
नतवदनमतिष्ठत्संनिधौ संनताङ्गयाः ।। ७८ ॥
तथा विषीदन्तमनन्यसंश्रयं न किंचिदेवा निजगाद भामिनी ।
अतिप्रमाणारुणितेन केवलं दिधक्षतीवेक्षत चक्षुषा रूपा ॥ ७९ ।।
आरोपितागसमनागसि मध्यकश्मा-
न्मानोहरामनुनयोक्तिभिरप्यसाध्याम् ।
एनां त्यजाम्यहमिति क्षणजातबुद्धिः
क्रुध्यन्नसौ कृतघनश्वसितं प्रतस्थे ॥ ८० ।।
अथ विलन्थ्य विलम्ब्य शनैः शनैः प्रियतमानुगति प्रतिपालयन् ।
नियतिमेव मुहुः परिगर्हयन्निजमवाप चिरेण निकेतनम् ।। ८१ ||
१. अवमानभाजनम् . २. भुक्तप्रायया. ३. शिथिलबन्धने. म्लान इति यावत्
४. निरपााधे मयि समारोपितापराम

काव्यमाला। : चिराष्टैरिटैविदितनिखिलात्मीयचरित- वसन्गेहे साकं सुमधुरवचोभिः सहचरैः । स्मरन्मानाक्रान्तां मनसि दयितामेव सततं कथाबन्धैस्तस्याः कथमपि स कालं क्षपितवान् ॥ ८२ ॥ निर्धूतधैर्यविभवे हदि नित्यमित्थं निध्यायतः प्रियतमा प्रतिपन्नदैन्यम् । अल्पीयसैव समयेन समुज्जजम्भे पुप्पायुधार्तिरतिमात्रमसह्यतापा ॥ ८३ ॥ उरसि निहितं मुक्ताहारं क्षिपन्नहिशङ्ख्या मलयजरसं मन्वानोऽन्तर्महाविषसोदरम् । वपुषि सहसा जातवेदो हिमाम्बुनिषेचने शिवशिव बभूवायं सायं क्रमात्सुहृदामसौ ॥ ८४ ॥ गमिष्याम्येवाहं गतदुरभिमानः परिसरं प्रियाया हीही मां पुनरपहसेयुर्ननु जनाः । कथं वा सोढव्यो मदनपरितापः स्थितमिदं न सा द्रष्टव्या मे स्फुरति हृदये सैव तरुणी॥ ८५ ॥ इति बहुविधविकल्पदोलाधिरूढे कान्ते सा तु-- याते च कोपविवशे दयिते वगेहा- द्वाते(?)च चेतसि मनागनुतापलेशे । सा भागिनी तदनुनीतिधृताग्रहापि सौभाग्यलोभचकिता न चचाल तल्पात् ! ८६ ।। उत्थाय सेयमुदितस्मृतिरुत्पलाक्षी तल्पादनल्पतरसाध्वसनुद्यमाना मत्वा बहिस्तमनिरीक्ष्य युवानमारा- दुद्वेलशोकविवशीकृतमानसाभूत् ॥ ८७ ॥ १. अनुनीतिरनुनयः. alrapcsAD कोटिविरहम् । अपश्यन्ती कान्तं किमिदमिति चिन्तापरवशा विनिन्दन्ती दैवं मुहुरधिकदूनेन मनसा । क्षिपन्ती बाप्पाम्भःप्रसरकलुपे दिक्षु नयने क्षणं तस्थौ तन्वी कुचनिहितीहासरसिजा ॥ ८८ ॥ स्थित्वा किंचन वञ्चितास्मि विधिनेत्युत्कम्पमानान्तरा पश्यन्ती व्रजतः पदानि कमितुस्तन्वी बहिः प्राङ्गणे । भयः खीयमुपेत्य वासभवनं मानस्मरातित्रपा- शोकव्याकुलिता पपात शयने लूनेव मल्छीलता ॥ ८९॥ इतः प्राङ्गिव्यूढाः प्रणयपरिपाटीसुरभिला रहः क्रीडास्तास्ताः प्रियदयित विस्मृत्य हृदये। इदानी मामीपत्कलहकलुषीभूतहृदया- मनाप्टच्छचाकाण्डे यदसि चलितस्तत्किमुचितम् ॥१०॥ यन्निमित्तं परित्यक्ता पूर्व प्राणसमा मया । तन्निमित्तं परित्याज्याः प्राणाश्चाद्य न संशयः ॥ ९१ ॥ तत्तचिन्ताशवलहृदयां श्रान्तगात्री शयाना तन्वीमित्थं तपनकिरणालीढवल्लीसकुल्याम् । प्राप्ता दैवात्सपदि सविधं तत्सखी जातखेदा श्चोतन्माली (2) सरसवचना सान्त्वपूर्व बभाषे ।। ९२ ॥ प्रियसखि वदनं ते किं गलद्वाप्पमेत- द्वहति तुहिनसिक्तेनाम्बुजेनाद्य मैत्रीम् । अयि कथय निदानं संविभक्तं हि दुःखं ननु भवति जनानां सह्यपीडातिरेकम् ॥ ९३ ॥ क ते यातः प्रेयान्प्रहसितहिमांशु कुमुदिनी गतच्छाया भूयत्सनु(?)रनुकरोतीयमधुना। शुचा दीनो मौनं भजति च निकामं परिजनः किमतन्नो जाने वद सखि वयस्यास्मि ननु ते ॥ ९४ ।। १. करकमला. बाहाशब्दस्तु भुजावाचक एवं प्रसिद्धः, काल काव्यमाला . इति पृष्टा तथा तन्वी कृतनिःश्वसितं शनैः । आदितो दुरवस्थां तामातुरा संन्यवेदयत् ॥ ९५ ॥ श्रुत्वा वृत्तमुवाच सा च युवयोरस्मिन्नवस्थान्तरे नागः किंचन विद्यते हतविधेरेतद्विलासान्तरम् । आयास्यत्यचिरात्तथापि दयितस्त्वत्संनिधि खिन्नधीः सौभाग्यं तव तादृशं प्रणयिता तस्यापि तादग्विधा ।। ९६ ॥ विरहानलेन तव मानसं यथा प्रियमानसं च परितप्यते ध्रुवम् । युवयोः परस्परविमेलना ततः मुकरा भवेत्सुरभिवाणशिल्पिनः ॥ ९७ ।। सततमिति वचोभिः स्निग्धया केलिसख्या विदितहृदयपीडोदन्तया सान्त्व्यमाना । समधिकपरितापक्षीयमाणावल्ली समयमनयदेपा संस्मरन्ती तमेव ॥ ९८ ॥ इत्थं देवाधिगतवतोरप्रियं विप्रयोग रोषप्रेमव्यतिकरजुपीः सीदतोर्जातखेदम् । यूनोरासीत्सपदि पुरतो वॉरिदानामनेहा मानव्याधिक्षपणनिपुणः कामिनीकामुकानाम् ॥ ९९ ॥ चातकीमनसि मोदमावहन्केत तकीकुसुमसौरभं वहन। धूतनूतनधनः समाययौ चूतसायकसखा समीरणः ॥ १० ॥ सह मदनधनुर्व्यानिःस्वनेनोजज़म्भे वियति विततिभाजामारवो नीरदानाय । अपतद्वनिष्टष्ठे नूतना तोयधारा सह च विरहभाजां विश्लथैरश्रुपूरैः ॥ १०१ ॥ इत्थं प्रवृत्ते समये धनानामुढेलमुलितसूनरेणुः । उच्छूनमानं मिथुनं तदुच्चैरुच्चाटयामास मनोजमन्त्री ॥ १०२ ॥ विरहमसहमानौ वीतनिःशेषमानी तदनु रहसि दीनौ नुद्यमानौ स्मरेण । १, न अपराध:. २. मदनशिल्पिन:. ३. प्रावृट्समयः. ४ कामदेवसुहृत्.

निबिडतमसि धोरे जम्भमाणे निशी निजनिजनिलयात्तौ निःसृतौ निःसहायों ॥ १०३ ॥ शृण्वन्तौ श्रुतिकटु निःस्वनं घनानां पन्थानं पदयुगलेन वीक्षमाणौ । कुर्वाणो हदि च मनोरथाननेकान्दुर्वारस्परविवशी विचरतुस्तौ ॥ १०४ ॥ स्निग्धश्यामैस्तमालैरविरलदलसंघातनीरन्धशाखै- राक्रान्ते भ्रान्तभृङ्गोकुलविततगरुन्मण्डलीमण्डितान्ते । स्फायदोरान्धकारस्थगितदिशि निशीथान्तरे तत्र कुत्रा- प्यारामे मारपीडाभरपरिललितैरङ्गकैः संगतौ तौ ॥ १०६ ॥ आबद्धमानौ निभृतं चरन्तावा कस्मि]कल्पविकम्पिताङ्गी । आवेदयामास परस्परं तावानन्दचन्दः स्वयमयुदञ्चन ।। १०६॥ आमनाङ्गममन्दागमधुरं तावापिन्तावुभा. वस्वाम्भोविसरैरतीव शिशिरैमासेच्यमानाङ्गको । आमोदादगलगिरावभिनवी भूताविवात्युत्सुझा- वानन्दामृतवारिधावकुरुतासव्याजमामजनम् ।। १०७ ।। इति महाकविश्रीनारायणभपादविरचितं कोटिविन हमः । श्रीराजानकरुय्यकमणीता শর্তীত্তা श्रीमतामुत्कर्षपरिज्ञानाद्वैदग्ध्येन सहृदयत्वान्नागरिकता सिद्धिः ।। यु- ৭. ওঃনিষাঙ্গনখানকান ইন্ধান! লাল: कश्मीरेषु विस्ताब्दीयद्वादशशतकपूर्वाध आसीत. अयमेव मानविना श्रीकण्ठचरित. स्यान्तिमे सर्गे स्वगुरुत्वेन वर्णितः, अद्यावधि ज्ञाता एतत्प्रणीता ग्रन्यास्त्वेते--(१) अलं- कारसर्वस्वम्, (२) अलंकारानुसारिणीनान्नी जहणकविप्रणीतसोमपालविलासकाव्यस्य टीका, (३) काव्यप्रकाशसंकेतः, (४) श्रीकण्ठस्तवः, (५) सहृदयलीला, (६) साहित्य- मीमांसा, (७) हर्षचरितवातिकम्, इति सप्त. एतेषु सहृदयलीलायाः पुस्तकद्वयं भा- ण्डारकरोपालश्रीमद्रामकृष्णनामशालिभिः पण्डितधुरीणैः पुण्यपत्तनस्थराजकीयसंग्रहा- दस्मभ्यं प्रहितम्. तत्रैक नागराक्षरलिखित पत्रत्रयात्मकं नातिशुद्ध नवीनं क-चिदितम्. अपरं शारदाक्षरालिखितमलंकारशेखरेण सह संबद्ध प्रायः शुद्धं प्राचीन पत्रत्रयात्मक ख-चिह्नितम्. पुस्तकद्वयमपि कश्मीरलिखितमस्ति. तदाधारणतन्मुद्रणमारभ्यते. पाठा- न्तराणि चात्र लेखककृतं प्रमादमपहायैव गृहीतानि सन्तीति आयमः काव्यमाला। वत्यादीनामुत्को देहे' गुणालंकारजीवितपरिकरेभ्यः । तत्र शोभावि- धायिनो धर्मा गुणाः ।। रूपं वर्णः प्रभा राग आभिजात्यं विलासिता। लावण्यं लक्षणं छाया सौभाग्यं चेसमी गुणाः ॥ अवयवानां रेखास्पाष्टव्यं रूपम् ॥ गौरतादिधर्मविशेषो वर्णः ॥ का- चकाच्यरूपा रविवत्कान्तिः प्रभा ॥ नैसर्गिकस्मेरत्वमुखप्रसादादिः सर्वे- पामेव चक्षुबन्धको धर्मो रागः ॥ कुसुमधर्मा मार्दवादिालनादिरूपः स्प- शविशेषः पेशलताख्य आभिजात्यम् ॥ अङ्गोपाङ्गानां यौवनोद्भेदी मन्म- थवासनाप्रयुक्तः कटाक्षादिवद्विभ्रमाख्यश्चेष्टाविशेषो विलासिता ॥ तर- गिद्रवस्वभावाप्याथिनेत्रपेयव्यापिस्निग्धमधुर इव पीतिमोत्कर्षेकसार इव पूणेन्दुवदाहादको धर्मः संस्थानमुग्धिमव्यङ्गयो लावण्यम् ॥ अङ्गोपाङ्गा- नामसाधारणशोभाप्राशस्त्यहेतुरौचित्यात्मा स्थायी धर्मो लक्षणम् ॥ त- स्य युक्तप्रमाणतादोषस्पर्शस्निग्धवक्रनियतलोमाङ्गसुश्लिष्टसंधानतानाहपरि- णाहौचित्यचक्रपद्मादिलेखाङ्कनायोगेभ्यः प्रसिद्धाङ्गपूर्णतादोषवैकल्यधर्म- सौन्दर्यत्रमाणौचित्यलोकाप्रसिद्धविशिष्टाङ्गयोगाख्याः क्रमेण षड़ेदाः ॥ अग्राम्यतया वक्रिमत्वख्यापिनी ताम्बूलपरिधाननृत्तभणितिगमनादिस्थान- केषु सूक्ष्मा भङ्गिश्छीया ॥ स्फुरलक्ष्म्युपभोगपरिमलादिगभ्योऽन्तःसारो रञ्जकतया वशीकर्ता सहृदयसंवेद्यधर्मभेदश्च सौभाग्यम् ॥ तत्राचे स्मर- मदपुलकादयो भेदाः । अन्त्ये तु मणितरूपरिभोगाधरास्वादसौरभादि- भिर्युगपद्रसवत्वापचेन्द्रियसुखलाभः ॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां गुणोल्लेखः प्रथमः । रत्नं हेमांशुके माल्यं मण्डनद्रव्ययोजने । प्रकीर्ण चेसलंकाराः सत्वेते मया मताः ॥ १. देहगुणा--' इति क-पाठः. २. 'काचकच्य' इति ख-पाठः. ३. 'नैसर्गिकः' इति ख. पाट:. ४. 'प्रमाणोचित्याख्या लोकाप्रसिद्धा विशिष्टा-' इति क-पाठः. ५. 'छा- यास्मरलक्ष्मीः' इति क-पाठः. ६. 'उपभोगपरिगम्योन्तस्मारो रञ्जक-' इति क-पाठः, ७. 'परिभोगधाराकुसुमसौरभादिभि-' इति क-पाठः, ८, 'प्रबेन्द्रियो' इति ख-पाठः.

सहृदयलीला । तत्र वजमुक्तापझरागमरकतेन्द्रनीलवैदूर्यपुष्परागकतनलकरुधिरा- क्षभीष्मस्फटिकवालरूपाणि त्रयोदश रत्नानि ॥ हेम नवधा । जाम्बून- दशातकौम्भहाटकवैणवशृङ्गीशुक्तिजजातरूपरसविद्धाकरोद्गतभेदात् ॥ च- तुर्धा रत्नहेममयः । आवेध्यनिबन्धनीयप्रक्षेप्यारोप्यभेदात् ॥ तत्र ता- डीकुण्डलश्रवणवालिकादिरावेध्यः । अङ्गदश्रोणीसूत्रमूर्धमणिशिखादृढि- कादिनिबन्धनीयः। ऊर्मिकाकटकमञ्जीरसहशः प्रक्षेप्यः। मॉलम्बमालिका- हारनक्षत्रमालाप्रभृतिरारोप्यः ॥ चतु(शुकमयः । त्वक्फलक्रिमिरोमज- त्वात्क्रमेण क्षौमकासकौशेयरावादिभेदात् ।। पुनस्त्रिया । निबन्धनीय- प्रक्षेप्यारोप्यवैचित्र्यात् ।। तत्र निबन्धनीयः शिरःशाटकजधनवसनादिः । प्रक्षेप्यः कलिकादिः । आरोप्य उत्तरीयपटादिः ॥ सर्वस्यास्यानेकवि- धत्वं वर्णविच्छित्तिनानात्वात् ।। प्रथिताप्रथितवंशाहिविधः सन्नष्टया मा- ल्यमयः ।। वेष्टितविततसंघाव्यग्रन्थिमदवलम्बमुक्तकमञ्जरीस्तवकलक्षणमा- ल्यभेदेन ॥ तत्रीहर्तितं वेष्टितम् । पार्श्वतो विस्तारितं विततम् । बहुभिः पुष्पैः समूहेन रचित संबव्यिम् । अन्तरान्तरा विषमं अन्थिमत् । स्पष्टो- म्भितमवलम्बम् । केवलं मुक्तकः । अनेकपुष्पमयी लता मञ्जरी । कुसुम- गुलुच्छं स्तबकः । तस्यादेव्यादयोऽपि चत्वारो भेदाः ॥ कस्तूरीकु- कुमचन्दन:पूरागुरुकुलकदन्तसमपटवाससहकारतैलताम्बूलालक्तकाञ्जन- गोरोचनादिनिवृत्ती मण्डनद्रव्यमयः ॥ श्रृंघटनालकरचनाधम्मिल्लबन्धादि- १. 'कर्केतक' इति ख-पुस्तके, 'करकेतन" इति च क-पुस्तके पाठ:. २. 'पुलकः प्रस्तरभेदे' इति मेदिनी. रुधिराख्यो मणिभेदः, तल्लक्षणं गरुडपुराणेऽसप्ततिमितेऽध्याये द्रव्यम्. भीष्ममपि रत्नभेदः, भीष्मरलम, हिमालपोत्तरदेशजातशुक्लवर्णभस्तरवि. शेषे इति शब्दार्थचिन्तामणिः. 'वनेन्द्रनीलमरकतकर्कतनपारागांधराख्याः । वैदू यपुलकविषमकराजमणिस्फटिकशशिकान्ताः ॥' इति रत्नगणनायां वराहमिहिरः (बृ. हत्संहिता ८०४). 'विषमक' इत्यस्य स्थाने 'विमलक' इति पाट: क्वचिदृश्यते. “भी- मक' इति पाठोऽपि संभाव्यते. ३. 'विद्रुमरूपाणि' इति क-पाठः. ४. 'शुक्तिजात- रूप्य' इति क-पाठः. ५. 'भेदेन' इति खपाठः ६. 'ताडी' इति क-पुस्तके नास्ति. ७. प्रलम्ब' इति ख-पाठः. ८. भेदः' इति क-पाठः, ९.. 'रोप्यभेदात्' इति क-पाठः. १०. 'तत्र' इति ख-पुस्तके नास्ति. ११. 'वशात्पुनाद्विविधः' इति क-पाटाः, १२. सं- धात्य इति ख-पाठः. १३. 'तत्र' इति स्व-पुस्तके नास्ति. १४. संघात्यम्' इति ख- पाठः, १५. 'ग्रन्थिमद्विषमम्' इति का पाठः, १६. 'कर्षगगुरुपटवास' इति क-पाठ:.

काव्यमाला। योजनामयः ॥ द्विधा प्रकीर्णमयः ॥ जन्यनिवेश्यभेदेन । श्रमजलमधुम- दादिर्जन्यः । दूर्वाशोकपछवयवाश्ररजतत्रपुशलतालदलदन्तपत्रिकाम- गालवलयकरक्रीडनकादिनिवेश्यः । एतत्समवायो वेषः । स च देशका- लप्रकृत्यवस्थासात्म्येन । एतेषां विच्छिच्या यथास्थाननिवेशनपरभागला- भाद्रामणीयवृद्धिः॥ अति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायामलंकारोल्लेखो द्वितीयः । शोभाया अनुप्राणकं यौवनाख्यं जीवितम् ॥ बोल्यानन्तरं गात्राणां वैपुल्यसौष्ठवविभक्तताविधायी स्फुटितदाडिमोपमः स्मरवसतिरवस्थाभेदो यौवनम् ।। तस्य बयःसंधिरारम्भः ॥ मध्यं तु प्रौढिकालः ॥ प्रथमे ध- मिल्लरचनालकमङ्गनीविनहनदन्तपरिकर्मपरिष्करणदर्पणेक्षणपुष्पोच्चयमा- ल्याम्भनजलक्रीडाधूताश्कीलच्छेकभणित्यनिमित्तलनानुभावशृङ्गारशिक्षा- दय आवर्तमानाष्टाः । अन्त्ये तु शृङ्गारानुभावतारतम्यं श्रेयः ।। इंति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां जीवितोल्लेखस्तृतीयः । शोभाया आरानुपकारकत्वाचनकः परिकरः ।। तस्य चेतनाचेतनयोः स्थाणुचलयोः प्रत्येकं लिष्टसंनिहितमात्ररूपत्वेनाष्टविधत्वम् ॥ उत्सङ्गों- पासीनकान्तहयपरिवारवातायनविताननौछत्रादीनि दर्शनानि ॥ तानि हि- था । व्यस्तसमस्तभेदात् । एवं शोभासमुत्पादकसमुद्दीपकानुप्राणकव्यञ्ज- काः क्रमाद्गुणालंकारजीवितपरिकराः ॥ एवं परस्परोपकरकत्वादितरेतरा- नग्राहकत्वं सिद्धम् ।। इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां परिकरोल्लेखश्चतुर्थः समाश्यं सहृदयलीला। १. "वेश: इति पुस्तकद्वयेऽपि. २. 'इति सहृदय-' इति क-पाठः; सहृदय--' इति ख-पाठः. 'श्रीराजानक-' इत्यादि पुस्तकद्वयेऽपि नास्ति. ३. 'बाल्यान्तरं' इति ख- पाट:. ४. विधायी सदस्फुटी दाडिमोपमः' इति क-पाठः, ५. 'अत्रापि पूर्वोल्लेखस- भाप्तिवदव पुस्तकद्वये वर्तते. ६. 'मात्रत्वेन' इति क-पाठः. ७. 'सहृदयलीलायां' इत्येव ख-पाठः, ८. 'समाप्तेयं सहृदयचमत्कारिणी सहृदयलीला । कृतिः श्रीमद्विपश्चिद्वरराजा- नकतिलकात्मजश्रीमदालंकारिकसमाजाप्रगण्यश्रीराजानकरुय्यकस्य राजानकरुचका- परनान्नोऽलंकारसर्वस्वकृतः' इति ख-पुस्तकेऽस्ति. क-पुस्तके तु 'सहृदयचमत्कारिणी' झति विशेषण नास्ति भारती भवन

Kavya Mala Part V

Author
Pandit Durgaprasad
Title
Kavya Mala Part V
File name
Kavya Mala Part V
Text
OCR done
Citation
1888
Publisher
The Nienaya Sagara Press Bombay
Language
Sanskrit
Pages
166
Library
Bharti Bhawan Library Allahabad
DLI number
272870
Barcode
5990010894206.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
ktxJe9YOP7d
Download PDF

Kavya Mala Part V