Banasthali University

Kavyamimansa

Narayan Shastri · 2010/03

PDF Proofread

Front matter

No text on this page.

हरिदाससंस्कृतप्रन्यमालासमाख्य- काशीसंस्कृतसीरिज़पुस्तकमालाया: ८६ काव्यविभागे (१३) अयोदशं पुकार। राजशेखरविरचिता काव्यमीमांसा (प्रथमाध्यायमारभ्य पञ्चमाध्यायपर्यन्ता) काशीस्थराजकीय सरस्वतीभवनोपाध्यक्ष साहित्याचार्य पण्डित श्रीनारायणशानि खिस्त-कृत काव्य मीमांसा-चन्द्रिकाटीका सहिता । टीकाकत्रैव सम्पादिता च तस्या. (प्रथमो भागः) प्रकाशक- - जयकृष्णदास हरिदास गुप्त:- चौखम्बा संस्कृत सीरिज़ आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उसर फाटक, बनारस सिटी। . १९८७ TO भस्य सर्वेऽधिकारा प्रकाशन स्वायत्तीकृता ।

पEDIODOGoDIGDIODING Go इस कार्यालय द्वारा “काशीसंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा "चौखम्बाससहतसीरिज" "बनारससस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रन्य- मालायें निकलती है तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई हैं तथा अन्य सव स्थानों के छपे हुए सस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें, इसके अलावा हमारे यहा सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परीक्षा प्रार्थनीय है। पत्रादि प्रेषणस्थानम्- जयकृष्णदास-हरिदास गुप्तः- "चौखम्बा संस्कृतसीरिज” आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। OG भूमिका। यथेयमुपक्रम्यते काव्यमीमांसा-चन्द्रिका आदित पक्षमाध्ययपर्यन्त मुद्रयित्वा प्रकाशयितुम् । काशीस्थराजकीयसस्तपरीक्षाधिकारिभिनवप्रवत्सितायां साहित्यमध्यमपरीक्षार्या काव्यमीमांसाया आदिमा पश्चाध्याया सनिवेशिता । तत्र काव्यमीमासाया दुरवगाहता तत्र प्राचीनव्याख्यानाभाव तन्मूलक च परी- क्ष्यच्छात्राणा क्लेश च विचिन्त्य बहुभिरामेश्छा प्रार्थित काशीस्थचौखम्बा- सस्कृतप्रन्धमालाधनेकग्रन्थमालाप्रवर्तक वाचूजयकृष्णदामहरिदासगुप्तमहोदयश्च मानुराधं समुद्योजितश्च प्रावर्तिपि व्याख्यालिखने । मेय व्याख्या ऽऽपञ्चामाध्याय- मवमिता प्रथमभागत्वेन सहृदयाना पाठकाना करकमलेपूपायनीक्रियते । राजशेग्वरवचसा विपुलार्थवत्त्वात्तत्र तत्र स्थलविशेष सविशेष व्याख्यानमपे. क्षेतमासीत् , तथाऽपि परीक्ष्यच्छात्रसाहाय्यमेव मुग्व्य प्रयोजनमस्या निश्चिन्वता स्या तदनुरोधेन यथामति सङ्क्षेप एव प्रयतितम । विशेषजिज्ञासुमिराकरग्रन्या- नुशीलने प्रयतितव्यम् । मूलग्रन्थे च क्वचिन् कचिदर्थानुरोधेन मया स्वाभिमत पाठभेदोऽपि कल्पित । प्रथमाध्याये च 'इय सा काव्यमीमांसा मीमासा यत्र वाग्लव' इत्यत्र "मीमास्यो यत्र वाग्लव" इति पाठभेदश्यास्मत्सुहृदा पण्डितप्रवराणा श्रीगुरुप्रसादव्याकरणा- चार्याणामनुमत्या स्थापित । इत्थमेव प्रकृतग्रन्थे बहव पाठभेदा श्रीगुरुप्रसाद- पण्डितै कल्पिताः मन्ति, ते च ते स्वकृतटीकासहिते अनुपदमेव मुद्रयिष्यमाणे काव्यमीमामामस्करणे प्रदर्शयिप्यन्त इति तेषामेव मुखान्छुतमस्ति । पूर्वोक्तप्रथ- मान्यायीयपाठभेदप्रदर्शननिमित्तं शतशो धन्यवादैरभिनन्दाम्यहं तान । यच मधु मूदनीवृत्तिरित्याख्या काऽपि पञ्चाध्यायीवृत्तिर्मुदिता पुरस्तिष्ठति। सा च चतुर्था- ध्यायपर्यन्त प्रकृतचन्द्रिकाटीकामुद्रणे ऽवसिते दृष्टिगोचरीभूता इत्यत पञ्चमा- ध्यायचन्द्रिकायामेव स्थले २ मधुमूदनी सुपरीक्षिताऽस्ति । अथ मूलग्रन्थकर्तु श्रीमतो राजशेखरस्य विषये सक्षिप्तमितिवृत्त निरूप्यते- राजशेखर स्वात्मान 'यायावरोय' इत्युपपदेनैव सर्वत्र स्मरति । तत्र यायाव- ग्कुल्लो पन इत्येवार्थ । अन्ये प्राचीना धनपालादयो ग्रन्थकृतस्तु राजशेखरं 'याया- भूमिका । वर' पदेन स्मरन्ति । राजशेखरो ब्राह्मण. क्षत्रियो वाऽऽसीदित्यपि सन्दिग्धमेव । यतो महेन्द्रपालराजोपाध्यायत्वं तस्य ब्राह्मण्यं गमयति, चौहानवंशराजकुमार्या पाणिग्रहणं च तस्य क्षत्रियत्व ध्वनयति । राजशेखरेण काव्यमीमामायां प्रायस्त्रि- वारं स्वप्रियाया अवन्तिसुन्दर्या मतापन्यासः कृतः, तेन साऽपि ग्रन्थक: विद्रुपी चासीदित्यनुमीयते । विविधैः प्रमाणैरितिहासविवेचका राजशेखरस्य ८८०-९२० ख्रिस्तान्दपर्यन्त स्थितिकाल कल्पयन्ति । काव्यमीमांसायां राजशेखरेण दर्शितासु कवेर्दशस्ववस्थासु कविराजावस्था हि सर्वोत्कृष्टा परमदुर्लभा च । राजशेखरस्त्वा स्मान कविराजमेव कथयति न तु महाकविम् । बालरामायणं, बालभारत, विद्धशाल- भञ्जिका च राजशेखरस्य शैशवकालिका ग्रन्था । हरविलासाख्यो महाप्रबन्धश्च कविराजावस्थापन्नस्य राजशेखरस्य कृतिरित्यनुमीयते । 'भुवनकोश' इत्याख्योऽपि प्रन्थोऽस्यैव कृतिरित्यायनुमीयते । अयमुपलभ्यमानः काव्यमीमांसाया भाग काव्यमीमांसाग्रन्थस्य प्रथमभा- ग एव । यदि पञ्चाध्यायीटीकेय छात्राणामुपकारिणी भवेत् सहदयाश्च विनैव नासा- क्षिसकोचं तामभिनन्देयुस्वहि षष्टाद्यवशिष्टाध्यायव्याख्यानेऽपि प्रयतिष्यते । अस्मिन् कार्ये यै कैरपि येन केनाऽप्यध्वना साहाय्यमाचरितं, तान् सर्वान् , धन्यवादेरभिनन्द्य स्मृत्वा च परदेवतागुरुचरणान् विरमामि मुधाविस्तरादिति शम्। सरस्वतीमवनम् विदुषां विधेयो काशी। महाशिवरात्रिः। नारायण शास्त्री विस्ते मंत १९८७ ॐ राजशेखरविरचिता काव्यमीमांसा। कविरहस्यम् । M प्रथमोऽध्यायः शासङ्ग्रहः। अयातः काव्यं मीमांसिप्यामहे ययोपदिदेश श्रीकण्ठः परपेष्ठि- श्री काव्यमीमांसाचन्द्रिका बन्दे भीगणनायकमाखिलसुरेष्वप्रपूजिनं सततम् । गिग्विरतनयास्तन्यास्वादनसम्प्राप्तसर्वमामयम् ॥ १ ॥ कामेशकल्पपादपमारूदा पुण्डूदण्डमवलम्च्य । काचन कविता लतिका ललिताकृतिरन्तरल्लसतु ॥ २ ॥ प्रणम्य वाणी पितरौ गुरूनपि दयानिधीन् । रुचिरा काव्यमीमांसाचन्द्रिकेय वितन्यते ॥ ३ ॥ परीक्ष्यच्छात्रवृन्दस्योपकारायैष उद्यमः । सदयाः सन्तु सन्तोऽत्र साहित्याणवपारगाः ॥ ४ ॥ राजशेखरवचोगभीरता कुत्र, मन्दमतिता च कुत्र केवलं गुरुपदान्जसंस्मृतिर्दुष्करे ऽत्र विषये ऽस्ति मे गतिः ॥ ५॥ अथ तत्र भवान् कविकुलसार्वभौमो राजशेखरो नाम महाकविः शिष्य. बनावबोधसोकर्याय विच्छिन्नप्रायं सुकविसम्प्रदाय प्राचीनाकरमन्येभ्य सद्गु. सम्प्रदायाच यथायथ सङ्ग्रह्य निबध्नाति-अथात इति । 'काव्य सममिष्यामहे' इति प्रतिज्ञा । तस्याः स्वकपोलकल्पितत्वनिरासाबाह- 'यथोपविदेश श्रीकण्ठ' इत्यादि । यथा मगवता शिवेन प्रवि. मे।

- २ चन्द्रिकासहित काव्यमीमांसायां- 'वैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्यः । सोऽपि भगवान्वयम्भूरिच्छाज- न्मभ्यः स्वान्तवासिभ्यः । तेषु सारस्ववेयो वृन्दीयसामपि वन्धः का. व्यपुरुष आसीत् । तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्यदर्थद- शिनं भूर्भुवःस्वस्त्रितयत्तिनीषु प्रजासु हितकाम्यया प्रजापतिः काव्य- विद्यामवर्तनायै प्रायुत । सोऽष्टादशाधिकरणी दिव्येभ्यः काव्याविद्या- स्नातकेभ्यः सप्रपञ्च प्रोवाच । तत्र कविरहस्यं सहस्राक्ष: समाम्नासीत् । औक्तिकमुक्तिगर्भः । रीतिनिर्णय सुवर्णनाभः । आनुमासिक प्रचेताः -यमो यमकानि । चित्रं चित्राङ्गदः शब्दश्लेषं शेषः। वास्तवं पुलस्त्यः। औपम्यमापकायनः। अतिशयं पाराशरः । अर्थश्लेषमुतथ्यः। उभयाल- ङ्कारिक कुबेरः। वैनोदिकं कामदेवः । रूपकनिरूपणीय भरतः। रसाधि- कारिक नन्दिकेश्वरः।दोषाधिकरणं धिषणः । गुणोपादानिकमुपमन्युः । औपनिषदिकं कुचमारः । इति । ततस्ते पृथक् पृथक् स्वशास्त्राणि विर- एण्वादिभ्यः शिष्येभ्यः समुपदिष्टम् , तदेवाऽत्र मयाऽनूयते, न किश्चित् स्वबुद्ध्या कल्प्यते इति भावः । सम्प्रदायक्रमं दर्शयति-सोऽपीति। शिवोपदिष्टो ब्रह्मा स्वीयमानसपुत्रानुपदिदेश । तेषु सारस्वतेयः काव्यपुरुषो विद्यातपोऽभ्यर्हितः सर्वेषामपि वन्दनीय आसीत् । प्रजापतिश्च तं त्रिकालज विचिन्त्य त्रिलोक्यां काव्यविद्याप्रवर्तनाय समादिदेश । स च काव्यपुरुषः अष्टादशाधिकरणी अष्टादश अधिकरणानि यस्यास्ताहशी काव्यविद्या दिव्ये- भ्यः काव्यविद्याखातकेभ्यः स्वान्तेवासिभ्यः सविस्तरं प्रोवाच । इत्थमुपदिष्टेषु शिष्यषु केन कस्याधिकरणस्य प्रचारः कृत इति निर्दिशन्नाह-तत्र क- विरहस्यं सहस्राक्षः साम्नासीत् । इत्यादि। औक्तिक मिति । उक्तिचमत्कारमित्यर्थः । वास्तवमिति । भूतार्थवर्णनमित्यर्थः । स्वभावोक्किमिति यावत् । अतिशयमिति। अतिशयोक्तिरूपालङ्कारमि त्यर्थः । सहस्राक्षादिभिः शिष्यैश्च स्वस्वाधिकरणानि पृथक् पृथक् तत्चच्छा- स्वरूपेण बहुलं प्रपञ्चितानीति निर्दिशनाह-ततस्ते पृथक् पृथक, स्वशास्त्राणि विरचयाञ्चकुरिति । इत्थं विस्तीर्णोऽसौ काव्यविर्धा- १भानुप्रासिकं प्रचेतायनः । यमकानि चित्रंचित्राङ्गदः।इति पूर्वमुद्रितपोठः।

₹ प्रथमोऽध्यायः । बयानः । इत्वकारण प्रकीर्णत्वात् सा किञ्चिदुरिच्छिदे । इतीय प्रयोजकावती सहिप्य सईपर्यसम्पान्येन अष्टादशाधिकरणी प्रणीता। तस्या अयं प्रकरणाधिकरणसमुदेशः। शाखसशरः, शासनिर्देशः, का- व्यपुरुषोत्पत्तिः, पदवाक्यविवेकः, पाठमतिष्ठा, अर्यानुशासनं, वाक्य- विषयः, कविविशेषः, विचर्या, राजचर्या, काकुमकाराः, शब्दार्या- हरणोपायाः, कविसमयः, देशकालविभागः, भुवनकोश, इति कविर- हस्यं प्रथममधिकरणमित्यादि । इति सूत्राएयथतेषां व्याख्या भाष्य भविष्यति। समासव्यासविन्यासः सैष शिष्याहिताय नः । चित्रोदारणैर्मुवी अन्येन तु कधीयसी । इयं नः काव्यमीमांसा काम्पव्युत्पत्तिकारणम् । इयं सा काव्यमीमांसा मीमांस्यो यत्र वाग्लयः ।। सम्प्रदायः कालमभावेण किधिदुच्छिनोऽभूत् । अन्यप्रणयनप्रयोजनमाह इतीयामिति । सम्प्रदायस्य किविच्छिन्नत्वादेव हेतोस्तस्य सरक्षणाय सर्वमर्थजात सशिप्य इयमष्टादशाधिकरणी काव्यमीमांसा प्रणीतेति भावः । मस्याः काव्यमीमासायाः प्रथमाधिकरणमात्रमेव प्रन्योऽयम् । अत्र निरूप- णीयान् विषयान् नाममाहमाह-शास्त्रसग्रह इत्यादिना-इत्ये- तेषां सूत्राणां भाष्यं प्रत्यकत्रैव पुरः करणीयत्वेन प्रतिज्ञातमिति नेह तद्विषये किमपि वक्तुमुचितम् । यथावसरं सर्व स्पष्टीभविष्यति । शास्त्रसमहं प्रतिज्ञामुखन सार्षश्लोकत्रयेणाह-समासव्यासविन्यास इति । • समासः सकपः । व्यासो विस्तरः । तयोविन्यासो निवेशनम् । केपाचिद्विष- पाणां सझेपेण वर्णनम्, केचिद्विस्तरेण । यद्वा एकस्यैव पदार्थस्य सडूप- विस्तराम्या निरूपणम् । तदेतत्सकलं शिष्यहितोद्देशेन कृतमिति भावः । प्रकृतप्रन्थस्योपादेयतामाह-चित्रोदाहरणैरिति । लघुनाऽपि प्रमेयेण सहितेय चित्ररुदाहरणैर्गुरुभूतेत्यर्थः ! इयं नः काव्यमीमांसेति । न:- अस्मत्कर्तृका इयं काव्यमीमासा । काव्यस्य दृश्यश्रव्यात्मकस्य । द्विविधस्या- १ मीमांसा यत्र वाग्लवः' इति पूर्वमुद्रितपुस्तकपाठः। - ४ चन्द्रिकासहित काव्यमीमांसायां- वाग्लवं न स जानाति न विजानाति यस्त्विमाम् । यायावरीयः सक्षिप्य मुनीनां मतविस्तरम् । व्याकरोत्काव्यमीमांसां कविभ्यो राजशेखरः। इति राजशेखरकृतौ काव्यमीमांसाः कविरहस्ये प्रथमेऽधिकरणे प्रथमोऽध्यायः शास्त्र सङ्ग्रहः । द्वितीयोऽध्यायः शास्त्रानिर्देशः। इह हि वाङ्मयमुभयथा शास्त्रं काव्यं च। शास्त्रपूर्वकत्वात् का- ऽपि काव्यस्य व्युत्पत्तेः रससाक्षात्कारौपायकज्ञानविशेषस्य कारणं हेतुरिति । किञ्च, इयं काव्यमीमांसा, सा=तथाविधमहिमशालिनी, यत्र-यस्यामित्यर्थः । वाचो विविधविभेदाया लवः काव्यात्मको मीमास्यः विचारणीयः । एनामन- धीत्य काव्यात्मकस्य वाग्लवस्य ज्ञानमसुकरमित्याह-वाग्लवं न स जानाति न विजानाति यस्त्विमाम् । इति । आत्मनामनिर्देशपु. रःसरं प्रकृतग्रन्थपठनाधिकारिणोऽपि निर्दिशन्नाह-यायावरीय इति । यायावरीयः राजशेखरः मुनीनां मतविस्तरं साङ्क्षिप्य काव्यमीमांसां व्याकरोत् । किमर्थम् ? कविभ्यः । कवीनां कृते इत्यर्थः । इत्थं च प्रकृतग्रन्थपठनाधि- कारिणः कवय एवं नाऽन्ये इति फलितम् । तथा च, अष्टादशाधिकरणी काव्यविद्या विषयः, काव्यव्युत्पत्तिः प्रयोजनम् , प्रतिपाद्यपतिपादकभावः -सम्बन्धः । कवयश्चाधिकारिण इत्यनुबन्धचतुष्टयमपि दर्शितम् । इति श्रीमत्खिस्तेवंशसम्भूत भैरवनायकतनुजान-श्रीनारायणशास्त्रिप्रणीतायां काव्यमीमांसा-चन्द्रिकायां शास्त्रसङ्ग्रहो नाम प्रथमोऽध्यायः ॥१॥ मूलभूतं वाङ्मयं द्विधा विभजते-इह हीति । वाङ्मयम्-वाक् प्रपञ्चः, वाग्जालमिति यावत् । उभयथा द्विप्रकारमित्यर्थः । प्रकारद्वयमाह- शास्त्रं काव्यं चेति । अनधीतशास्त्राणां काव्यव्युत्पत्तरसम्मवादाह: शास्त्रपूर्वकत्वादिति । काव्येषु व्युत्पत्त्याधानाय शाखेषु पूर्वममिनि .. द्वितीयोऽध्यायः । म्याना पूर्व शाखेष्वमिनिविशेत । नझमयर्शितपदीपास्ते तत्त्वार्थसार्य- मध्यक्षयन्ति । तच द्विधा अपौरुषेयं पौरुषेयं च । अपौरुषेयं श्रुतिः । सा च मन्त्रबामणे । विकृतक्रियातन्त्रा मन्त्राः । मन्त्राणां स्तुतिनिन्दा- व्याख्यानविनियोगग्रन्यो ब्राह्मणम् । ऋग्यजुःसामवेदाखया आयर्वण- अ तुरीयः । तत्रार्थव्यवस्थितपादा ऋचः। ताः सगीतयः सामानि । अच्छन्दांस्यगीतानि यजूंषि । ऋचो यजूंषि ( सामानि ) चायवणं त इमे चत्वारो वेदाः । इतिहासवेदधनुर्वेदी गान्वायुर्वेदावपि चोपवेदाः । वेष्टव्यम् । दृष्टान्तमाह-न हीति । अप्रवर्चितप्रदीपास्तमसि वस्तुजातं प्रत्यक्षीकर्तुं यथा न शक्नुवन्ति तथैवाऽनधीतशास्त्राः काव्यमर्माण्यपि बोधु न पारयन्तीति भावः । वाङ्मयस्याऽपि द्वैविध्यमाह-तचेति । तब द्विप्रकारकम् । प्रकारद्वयमाह-अपौरुषेयं पौरुषेयं चेति । तत्राs. पौरुषेयं विवृण्वन्नाह-अपौरुषेयं श्रुतिरिति । श्रुतेः स्वरूपमाह- सा चेति । मन्त्रामणयोः श्रुतिरिति संज्ञेति भावः । मन्त्रस्वरूपमाह- विवृतक्रियातन्त्रा मन्त्रा इति । विवृतं सम्यनिरूपितं क्रियातन्त्र कर्मकाण्डकलापो यस्ते तथाविधा इत्यर्थः। ब्राह्मणस्वरूपमाह--मन्त्रा णामिति । मन्त्राणा तत्तत्प्रसङ्गसङ्गत्यादिपूर्वापरपालोचनमुखेन स्तुति. निन्दाव्याख्यानविनियोगादिपर्यवसायित्वप्रतिपादकः सामान्यतो मन्त्रभागस्य माध्यात्मको प्रन्यो ब्रामणमिति भावः । ब्राह्मण त्रिविधम् । विधिरूप, अर्थ वादरूप, तदुभयविलक्षण चेत्यन्यत्र विस्तरः । श्रुति चतुर्की विभजते-ग्य- जुःसामवेदात्रयी। अथर्वणश्च तुरीय इति । प्रत्येकं विवृण्वन्नाह- अर्थव्यवस्थितपादा ऋच इति । यत्र प्रतिपादमर्थो व्यवस्थितोऽस्ति ता ऋच इति । अर्थसमाप्त्यधीनैव यत्र पादसमाप्तिरिति भावः । पादबद्धगा- यत्र्यादिछन्दोविशिष्टा ऋच इत्यन्यत्र । गीतिसहितास्ता एवं सामानि । गी- तिरहितानि छन्दोरहितानि च तान्येव यजूंषि । इत्थमिमे ऋग्यजुः याख्याश्चत्वारो वेदाः । उपवेदानाह--इतिहासेति । इतिहासवेदः (इतिहासः पुराणं च पञ्चमो वेद उच्यते) इत्यमियुक्तोक्तेः । धनुर्वेदः, गा- वर्षवेदः, आयुर्वेदश्चेति चत्वार उपवेदाः । तथा च प्रस्थानभेदे मधुसूद नसरस्वतीस्वामिपादाः--'आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थशास्त्रं चेति - सामा- ६ चन्द्रिकासहित काव्यमीमांसायां- "वेदोपवेदात्मा सार्ववर्णिकः पञ्चमो गेयवेदः" इति द्रौहिणः । "शि- क्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्योतिषं च षडङ्गा- नि" इत्याचार्याः । “उपकारकत्वादलङ्कारः सप्तममाम्" इति याया- वरीयः । ऋते च तत्स्वरूपपरिज्ञानाद्वेदार्थानवगतिः । यथा- द्वा सुपर्णा सयुजा सखाया समान वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वात्ति अनश्नन्नन्यो अभिचाकशीति ।। - 3 चत्वार उपवेदाः' इत्याहुः । गान्धर्वस्य वेदत्वे प्राचीनाचार्यसम्मतिमाह-वेदो. पवेदात्मति। वेदोपवेदात्मा वेदः उपवेदश्व आत्मा स्वरूपं यस्येत्यर्थः । साम. वेदस्य गीतात्मकत्वात् वेदात्मत्वं तुगेयवेदस्य सिद्धमेव | लौकिकाऽवैदिकगीतादि प्राचुर्यात् इतिहासधनुर्वेदादिसम्बद्धगीतबाहुल्याचोपवेदात्मत्वमपि । सार्वच र्णिक इति । वेदस्य तु 'अधीयीरस्त्रयो वर्णाः' इति नियमेन त्रैवेणिकेतरानु चार्यत्वेन न सार्ववर्णिकत्वम् । अस्य गेयवेदस्य तु तथाविधनियन्त्रणाभावेन सर्ववर्णोच्चार्यत्वमिति । तत्र वेदात्मनो गेयवेदस्य न सार्ववर्णिकत्वम् , उपवे दात्मन एव तस्य तत्त्वमिति ध्येयम् । वेदस्य षडङ्गान्याह-शिक्षेत्या दिना-शिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्योतिषं चेति षडङ्गानि, इत्याचार्याणां मतम् । यायावरीयत्वेन प्रच्छन्नस्य स्वस्य मत माह-उपकारकत्वादिति । षट्स्वनेष्वपरिगणनेऽपि व्युत्पत्त्याधा. यकस्वेनोपकारकत्वादलङ्कारोऽपि सप्तममङ्गमिति । तदस्वीकारे वेदार्थानवग तिरूपामनुपपत्तिमुदाहरणद्वारा दर्शयति यथा-द्वासुपर्णेति । द्वा= द्वौ, सुपर्णा-सुपौँ पक्षिणावियर्थः । सयुजा सयुजी सहचरावित्यर्थः । सखाया सखायौ । समानमेकम् । वृक्षं परिषस्वजावे आलित इत्यर्थः । तयोः पक्षिणोर्मध्ये अन्य अन्यतर इत्यर्थः । स्वादुम्मधुरम् । पिप्पलम्- इदं फलोपलक्षणम् । फलसामान्यमित्यर्थः । अत्ति भक्षयति । अन्या पूर्वो कादन्य इत्यर्थः । अनश्नन् -मधुरफलान्यभक्षयन् सन् अभिचाकशीति-अ. भितः समन्ततः चाकशीति-प्रकाशते इत्यर्थः । अयं मावः-इमौ जीवशिवी एकमेवावलम्बमालम्ब्य स्थितौ । तत्र जीवस्तु शब्दादीन् विषयान् तज्जन्य; सुखानुभवपूर्वकं भुङ्क्ते । अन्यः शिवस्तु तादृशभोगपराङ्मुख एवं साक्षि- . ..

द्वितीयोऽध्यायः । सेयं शास्त्रोक्तिः । प्रत्यधिकरणं च ऋचं यजुः सामायणं ब्रा- मणं चोदाहृत्य भाषामुदाहरिष्यामः । तत्र वर्णानां स्यानकरणमय- लादिभिः निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका । नानाशाखा- धीतानां मन्त्राणां विनियोजक मूत्रं कल्पः । सा च यजुर्विद्या । श. दानामन्वाख्यानं व्याकरणम् । निवचनं निरुक्तम् । छन्दसां प्रति- पादयित्री छन्दोविचितिः । ग्रहगणितं ज्योतिषम् । अलङ्कारव्याख्यान तु पुरस्तात् । पौरुषेयं तु पुराणम् , आन्वीक्षिकी, मीमांसा, स्मृतित- रूपेण सर्वत्र प्रतिभासते इति । इयं शास्त्रोक्तिरालकारिकविषया रूपका. लहारमुखेन प्रदर्शिता, अनीतालकारदर्शनास्तु तत्र रूपकाद्यलकारचमत्कार- मनुभवितुं न पारयन्तीति सप्तमारत्वेनालकारस्वीकारोऽपि समुचित इति)। स्व- परिगृहीतक्रममाह-प्रत्यधिकरणं चेति । पूर्वोक्तानां शिक्षाकरपादिवेदष- डझाना प्रत्येकं क्रमशो निर्वक्ति-तत्र वर्णानामिति। कस्य वर्णस्य कि- मुत्पचिस्थानम् , केन करणेन कीदृशप्रयत्नेन च कस्य वर्णस्योच्चारणं भवती- त्यादि यत्र निर्णीयते सा शिक्षेत्यर्थः । शिक्षाया उदासानुदात्तस्वरितहस्वदीर्घप्लु. तादिविशिष्टस्वरव्यञ्जनात्मकवर्णोच्चारणविशेषज्ञान प्रयोजनम् । आपिशली. यादिका। आदिपदात्. पाणिनीयाज्ञवल्यादिसंग्रहः । कल्पमाह-नाना- शाखाधीतानामिति। कल्पसूत्र हि कस्य मन्त्रस्य कुत्र विनियोग इत्या- निरूपितमिति भावः । तादृशविनियोगसम्पादिका विद्यैव यजुर्विद्या । व्या. करणमाह--शब्दानामिति । स्वतः सिद्धानामेव शब्दानाम् । अनु-प. श्वात् आख्यानं साधनप्रयास इत्यर्थः । तदेव व्याकरणम् । व्याक्रियन्ते श- ब्दा अनेनेति व्युत्पत्ते. । तथाचोकमभिधानचिन्तामणिटीकायाम्-प्रकृतिप्रत्य- योपाधिनिपातादिविमागशः। पदान्वाख्यानकरणं शावं व्याकरण विदुः । इति । निरुतमाह--निर्वचन मिति । स्पष्टम् । छन्दोविचितिमाह- छन्दसामिति । इदमपि स्पष्टम् । ज्योतिषमाह--ग्रहगणितमिति । सप्तमाङ्गत्वेन स्वपरिगृहीतस्यालक्कारस्यापि क्रमप्राप्तत्वान्निर्वचनमुचितमपि तत्र बहुवक्तव्यत्वादने तत्करणं प्रतिजानन्नाह-अलङ्कारव्याख्यानमिति । एतावत्पर्यन्तमपौरुषेयस्य वाङ्मयस्य विचारः कृतः । अथ क्रमप्राप्तं पौरु- पेयं वाङ्मयं वर्णयमाह-पौरुषेयं तु पुराणमिति । १ पुराणम् -- चद्रिकासहित काव्यमीमांसायां- त्रामति चत्वारि शास्त्राणि । तत्र वेदाख्यानोपनिवन्धनमायं पुराण- मष्टादशधा । यदाहु:- सर्गः मतिसंहारः कल्पो मन्वन्तराणि वंशविधिः । जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति ॥ 6 "पुराणप्रविभेद एवेतिहासः" इत्येके । स च द्विधा परिक्रियापु- राकल्पाभ्याम् । यदाहुः- परिक्रिया पुराकल्प इतिहासगतिर्द्विधा । स्यादेकनायका पूर्वा द्वितीया बहुनायका ।। तत्र रामायणं भारतं चोदाहरणे । आन्वीक्षिकीं तु विद्यावसरे व- . २ आन्वीक्षिकी ३ मीमांसा ४ स्मृतितन्त्रमिति सामान्यतश्चत्वारि पौरुषे. याणि । तत्र प्रथमतः पुराणं निर्वक्ति-तत्रेति। तत्र-पौरुषेयवाङ्मय- मध्ये । वेदेषु बीजरूपणापन्यस्तानामाख्यानाना यत्र सम्यगुपनिबन्धनं भवति तत्पुराणमित्यर्थः । कचित् वेदाऽनिर्दिष्टकथासन्दर्भोऽपि दृश्यते इति प्रायन- हणम् । तच्च पुराणमष्टादशधा । प्राचीनोक्तं पुराणस्वरूपमाह-सर्ग इति । यत्र जगतः सर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशानुक्रमश्च निबद्धस्तत् पु. गणं विज्ञेयमित्यर्थः । इतिहासस्याऽपि पौरुषेयत्वात् पौरुषेयवाझये स कथं न परिगणित इत्याह--पुराणप्रविभेद एवेतिहास इत्येके इति । इतिहासो न वस्त्वन्तरम् , अपि तु पुराणान्तर्गतवंशानुक्रम एव स इति न तत्पृथग्गणनोचितत्येके वदन्ति । इतिहासं विभजते--स च द्विधेति । स च इतिहासो द्विविधः । परिक्रियात्मकः पुराकल्पात्मकश्चति । इदमेव भेदद्वयं सलक्षणं दर्शयन्नाह--परिक्रियेत । यत्रैकनायकसम्बद्धा कथा व. स परिक्रियात्मक इतिहासः । यत्र च बहुनायकसम्बद्धा कथा वर्णिता स पुराकल्पात्मक इतिहासप्रभेद इति । उभयोरपि प्रभेदयोरुदाहरण- माह-तत्रेति । तत्र रामायणं परिक्रयात्मकेतिहासादाहरणम् । तत्र मुख्यस्य नायकस्य रामस्यैव कथा निबद्धाऽस्ति, अन्येषां नायकानां सम्बन्धि- नी कथा वर्णिताऽपि मुख्यनायककथासापेक्षैवेति तदङ्गभूतव । पुराकल्पा- त्मकेतिहासोदाहरणम्-महाभारतम् । अत्र कौरवाः पाण्डवा अन्येऽपि बहवों र्णिता स्यात, . , wit- apraman . द्वितीयोऽध्यायः क्ष्यामः । निगमवाक्यानां न्यायैः सहस्रेण विवेकी मीमांसा । सा च द्विविधा विधिविवेचनी ब्रह्मनिदर्शनी च । अष्टादशैव श्रुत्यर्यस्मरणा- स्मृतयः । “तानीमानि चतुर्दश विद्यास्थानानि, यदुत वेदाश्चत्वारः, षडङ्गानि, चत्वारि शास्त्राणि" इत्याचार्याः। तान्येतानि कृतस्नायपि भूर्भुवःस्वस्त्रया व्यासज्य वर्तन्ते । तदाहुः- विधास्थानानां गन्तुमन्तं न शक्तो जीववर्षाणां योप साग्रं सहस्रम् । नायका निबद्धाः, तत्सम्बन्धिन्यः कथा आप नान्योन्यसापेक्षा इति । आन्वी- क्षिकस्विरूप तु विधानिरूपणावसरे वक्ष्यते इति न निवदम् । मीमांसा निर्वक्ति-निगमवाक्यानामिति । सहस्रणेत्युपलक्षणम् । असकरित्यः। न्यायनियमः । निगमवाक्याना विवेत्री-विवेचिका मीमांसेत्यर्थः । शास्त्री: यनियमद्वारा श्रुतिवाक्यविचारशास मीमासेति यावत् । तां विभजते-सा चेति । सा मीमासा द्विविधा । विधिविवेचनी-विधेः ज्योतिष्टोमेन यजे. तेत्यादेविधिवाक्यस्य विवेचन-विचारो यस्या सेति कर्ममीमांसत्यर्थः । ब्रह्म- निदर्शनी-ब्रह्मणो वेदान्तमहावाक्यप्रतिपायस्य निदर्शनं दृष्टान्तादिविषया कथंचित् प्रतिपादनं यत्र क्रियते सेति ब्रह्ममीमासोत्तरमीमांसेत्यर्थः । ब्रह्मणः स्वरूपतोऽनवगमात्तद्विवेचनस्याऽपि दुःशकतया दृष्टान्तादिद्वाग्व तद्विचारः क्रियत इति विवेचनीस्यनुक्त्वा निदर्शनात्युक्तम् । स्मृति निर्वक्ति अष्टा. दशैवेति । श्रुत्यर्थस्य स्मरणोत्तरं यत्रोपनिबन्धः क्रियते सा स्मृतिरित्यर्थः । न्यूनाधिकसङ्ख्याव्यवच्छेदायाप्टादशैवत्येवकारः । एतेनाष्टादशैव स्मृतयः प्रामाणिकाः, इतोऽधिकाना प्रामाण्यं चिन्त्यमिति राजशेखराशयः प्रतिभाति । उक्तेऽर्थे ऽभियुक्तोक्ति प्रमाणयति-तानीमानीति । सहलनया चतुर्दश. विद्यास्थानानि भवन्ति । यथा-चत्वारो वेदा ऋगादयः । शिक्षाकल्पादीनि तेषां षडङ्गानि । पुराणादीनि चत्वारि शास्त्राणि । मिलित्वा चतुर्दश भवन्ती त्याचार्याः । एतानि पूर्वोदितानि विद्यास्थानानि सम्पूर्ण भुवनत्रयं व्या- प्य समवतिष्ठन्ते । विद्यास्थानप्रशंसायामभियुक्तोक्तिमपन्यस्यति-वि. चास्थानानामिति । यः पुरुषो वर्षाणा सान सहस्रमपि जीवेत् , १० चन्द्रिकासहित काव्यमीमांसायां- तस्मात्सङ्केपार्थसन्दोह उक्तो व्यासः सत्यक्तो ग्रन्थभीरुपियार्थम् ॥ "सफलविद्यास्थानकायतनं पञ्चदशं काव्यं विद्यास्थानम्" इति यायावरीयः । गद्यपद्यमयत्वात् कविधर्मत्वात् हितोपदेशकत्वाच । तद्धि शास्त्राण्यनुधावति । "वार्ता कामसूत्रं शिल्पशास्त्रं दण्डनीवि- . सोऽपि विधास्थानानामन्त गन्तुं न शक्तः । तस्मात्-विद्यास्थानानां पारद. शनस्य दुःशकत्वात् । स पादयमर्थसन्दोह उक्तः । विस्तारः किमिति न कृत इत्याह--ग्रन्थभीरुप्रियार्थम् प्रन्थपठनपरिशीलनादौ ये भीरवो भय- शीलास्ते तथाविधं विस्तीर्ण विद्यास्थाननिरूपण बोडुं न पारयिष्य- न्तीति तेषा प्रियार्थ व्यासो विस्तरः सत्यक्तः परिहृत इत्यर्थः । विद्यास्था- नानि चतुर्दशति पूर्वमुक्तम् , इदानी काव्यमपि पञ्चदशं विद्यास्थानमस्तीति यायावरीयोपपदस्य स्वस्याभिमतमाह--सकलविद्यास्थानकायतन- मिति । सकलाना विद्यास्थानानामेकमद्वितीयमायतनं स्थानम् । चतुर्पु, षट- सु तदनेषु चतुषु शास्त्रेष्वपि व्युत्पत्त्याध्यायकस्य काव्यस्य परमावश्यकत्वात् तस्य सकलविद्यास्थानकायतनत्वं सिद्ध्यति । पञ्चदशम् पूर्वोक्तचतुर्दशा- तिरिक्तम् । काव्यं पञ्चदशं विद्यास्थानमित्यर्थः । उक्तार्थमेव समर्थयति-- गद्यपद्यमयत्वादित्यादिना । काव्यस्य गद्यपद्योभयात्मकत्वात् गद्य- पद्योभयात्मकचतुर्दशविद्यास्थानव्युत्पत्त्याधायकत्वेनापकारकत्वमिति भावः । कविधर्मत्वादिति। कविप्रौढोक्तिसिद्धत्वात् , कविनिबद्धवक्तृप्रौढोक्ति- सिद्धत्वाञ्चेत्यर्थः । हितोपदेशकत्वाचेति । कृत्याकृत्यप्रवृत्तिनिवृत्युपदे- शस्य कान्तासम्मितविधया सम्पादनेनाऽव्यभिचारतफलत्वादिति भावः । शावैः सह काव्यस्य सम्बन्धमाह--तद्धि शास्त्राण्यनुधावतीति । वद्धि-काव्यम् शास्त्राण्यनुधावति, अनुगच्छतीत्यर्थः । “शास्त्रपूर्वकत्वात् काव्यानां पूर्व शास्त्रेष्वमिनिविशेत" इति स्वयमेव पूर्व कथनात् शास्त्रका- व्ययोरनुगम्यानुगन्तृभावः स्पष्टं प्रतीयते । पराऽभिमतं विद्यास्थानानामष्टाद. शत्वमाह-वार्तेति । वार्ता, कामसूत्रम् , शिल्पशास्त्रम्, दण्डनीति- स्वति पूर्वोक्तैश्चतुर्दशविद्यास्थानमिलित्वा ऽष्टादशाविद्यास्थानानि भवन्तीत्यपरेषां .

द्वितीयोऽध्यायः। रिति पूर्वैः सहाष्टादश विद्यास्थानानि" इत्यपरे। आन्वीक्षिकी त्रयी वा दण्डनीतिश्चेति विद्याः । “दण्डनीतिरेका विद्या" इत्यौशन- साः। दण्डमयादि कृत्स्नो लोक स्वेषु स्वेषु कर्मस्ववतिष्ठते । “चा- ची दण्डनीति विधे" इति बाईस्पत्याः। दृचिनियग्रहणं च स्थि- विहेतुर्लोकयात्रायाः। "प्रयीवाचीदण्डनीतयस्तिस्रो विद्याः" इति मा- वाः । त्रयी हि वा दण्डनीत्योरुपदेष्ट्री । “आन्वीक्षिकीत्रयीवार्ता- मतम् । वार्तादीना स्वरूपमग्रे वक्ष्यते । चतस एव विघा इति पक्षान्तर- माह-आन्वीक्षिकी यी वार्ता दण्डनीतिति विद्याः। इति । औशनसानां मतमाह-दण्डनीतिरेवैका विधेति । सर्वा अपि विद्यास्तदधीना इति तात्पर्यम् । अवधारणस्य हेतुमाह-दण्डमयादिति । कृत्स्नः सकलः । स्वस्वकर्मपरित्यागे दण्डो भवेदिति भीत्यैव सर्वोsपि लोकः स्वस्वकर्मतत्परो भवति । इति सर्वासामपि विधानामुमत्यै प्रसाराय च दण्ड एव प्रभवतीत्युकं दण्डनीतिरेवैका विषेति । बाईस्पत्याना मतमाह-वार्ता- दण्डनीति विद्ये इति। कृषिपाशुपाल्यवणिज्यामिका वाता विना वि. सलामस्याऽसम्भवात् वित्ताधीनैव लोकयात्रेति हेतोवर्वार्ता दण्डनीतिश्चेति द्वे विधे इति बाईस्पत्या आहुः । तदेव विशदयनाह-वृत्तिविनयन- हणं चेति । वृत्तिः जीवननिर्वाहीपयिकी वेतनादिलब्धि । विनयग्रह. णम्-शिक्षाग्रहणम् , गुर्वादिसमुचिताचारव्यवहारझानमित्यर्थः तदेतद्द्य- भपि लोकयात्रायाः स्थितिहेतुः । अनेन विना लोकयात्रा न सम्यक् चल- सीत्यर्थः । मानवानां मतमाह--अयीत्यादिना-त्रयी-ऋग्यजुःसा- माख्यवेदत्रयी । अगसहितेति फलितम् । 'ब्राह्मणन निष्कारण पडलो वदो- । 'ऽध्येयो ज्ञेयश्चे', त्युक्तस्त्रय्या अध्ययनन्तु फलानुसन्धानमन्तरैव कर्तव्यमा. पतति । वार्ता दण्डनीतिबाऽपि लोकयात्रार्थ परमावश्यके इति तिस्रो विद्या इति मानवाः सनिरन्ते । अय्याः प्राधान्यमाह-त्रयी हीति । वार्ता दण्डनीतिय किं स्वरूपा किं भेदत्याधुपदेशकरणसामर्थ्यमहिम्ना त्रय्याः प्राधान्य सुस्प- 'ष्टमेव । कौटिल्यस्य मतमाह-आन्वीक्षिकीत्यादिना-आन्वीक्षि की त्रयी वार्ता दण्डनीतिश्चेति चतसो विषा इति कौटिल्यस्य मतम् । तत्र - - - ॥ " १२ चान्द्रकासहित काव्यमीमांसायां- दण्डनीतयश्चतस्त्रो विद्या" इति कौटिल्यः आन्वीक्षिक्या हि विवेचिता त्रयी चार्चादण्डनीत्योः प्रभवति । “पञ्चमीः साहित्यविद्या" इति marin, "त्रयीविशेषो ह्यान्वीक्षिकीति , । संवरणमात्रं हि त्रयी लोकयात्राविद इति । साङ्ख्य योगो लोकायतं चेत्यान्वीक्षिकी । धर्माधर्मों त्रयाम् । अर्थानौँ वार्ता- याम् । नयानयौ दण्डनीत्याम् । बलाबले चैतासां हेतुमिरन्वीक्षमाणा लोक स्योपकरोति । व्यसनेऽभ्युदये च बुद्धिमवस्थापयति । प्रज्ञावाक्यक्रियावैशा- रयं च करोति । प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।' आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता ॥ इति कौटिलीयेऽर्थशास्त्रे । पूर्वोक्तस्वरूपयाऽऽन्वीक्षिक्या विवेचिता त्रयी वार्तादण्डनीत्योः प्रयोग साहाय्यं सम्पादयतीत्याह-आन्वीक्षिक्या हिं विवेचिता त्रयीत्यादिना- अथाऽयमत्र सङ्घहः कामन्दकीयनीतिसारें- आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्चतस्त्र एवैता लोकसस्थितिहेतवः ।। त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या हि मानवाः । त्रय्या एवं विभागोऽय येयमान्वीक्षिकी मता ॥ वार्ता च दण्डनीतिश्च द्वे विधे इत्यवस्थिताः । लोकस्यार्थप्रधानत्वाच्छिष्याः सुरपुरोधसः ।। एकैव दण्डनीतिस्तु विद्येत्यौशनसा स्थिताः । तस्या हि सर्वविद्यानामारम्भाः सम्प्रतिष्ठिताः ॥ विद्याश्चतस्त्र एवैता इति नो गुरुदर्शनम् । पृथक्पृथक् प्रसिद्धयर्थं यासु लोको व्यवस्थितः ॥ आन्वीक्षिक्यात्मविज्ञानं धर्माधौं त्रयीस्थितौ । अर्थानौँ तु वार्तायों दण्डनीत्यां तथेतराः ॥ आन्वीक्षिका त्रयी वार्ता सत्तीर्वद्याः प्रचक्षते। चतस्रो विद्या इति कौटिल्यसिद्धान्तेऽधिकं योजयन्नाह--पञ्चमी साहित्यविद्येति । सा हीति सा साहित्यविद्या हि चतसृणामपि आ. 11 1 द्वितीयोऽध्यायः। वरीयः । सा हिचतसृणामपि विद्यानां निष्यन्दः । आभिर्द्धमायौँ य- देवात्तद्विद्यानां विद्यात्वम् । तत्र त्रयी व्याख्याता | द्विधा चान्वीक्षि- न पूर्वोत्तरपक्षाभ्याम् । अद्भदन्तदर्शने लोकायतं च पूर्व पक्षः। सावध यायवैशेषिको चोचरः। त इमे षद् तर्काः । तत्र च तिस्रः कथा भव- न्त वादो, जन्पो, वितण्डा च । मध्यस्थयोस्तत्त्वावबोधाय वस्तुत- वीक्षिकत्रियीवार्तादण्डनीतीनो विद्याना निष्यन्दः अन्तःसाररूपः प्रपा- गकरसन्यायेन चर्यमाणस्वभावो रसविशेषः, अत एव रसिकरविरतमास्वाद्यमा. नत्वेनापरोक्षत्वादुपादेयैव। विद्याना विद्यात्वं परिष्कुर्वन्नाह-आभिरिति । आ- भिः पूर्वोक्ताभिर्विद्याभिः करणभूताभिः प्रमाणभूताभिर्वा धर्मार्थों ज्ञायते इति वेदनक्रियावत्त्वाचाः सकला अपि विद्या एव । धर्मार्थवित्तिप्रयोजकत्व विद्या- त्वमिति फलितम् । तथा च न्यायमजया जयन्तः-वेदन विद्या, तब 'न घटपटादिवेदनमपि तु पुरुषार्थसाधनवेदनम् । तत्र-वासु विद्यासु । त्रयी- ऋग्यजुःसामात्मकवेदत्रयी । व्याख्याता=पूर्वमेव स्वरूपतो लक्षितेति भावः । मान्वीक्षिकी विभजते-द्विधोत । पूर्वपक्षान्वीक्षिकी, उत्तरपक्षान्वीक्षिकीति वि- धाद्वैयेनेति भावः । प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षाऽनुमानमित्यर्थः । नवयुत्पादक शास्त्रमान्वीक्षिकमिति आन्वीक्षिक्याः स्वरूपम् । तत्रपूर्वपक्षमाह- अद्भदन्तदर्शने इति । अर्हद्दर्शनं भदन्तदर्शनम् जैनदर्शनं, बौद्धदर्श- न चेत्यर्थः । लोकायतम् =चार्वाकदर्शनम् ।लोके आयतं विस्तृत रमणीयत्वादिति तत् । इत्थमुक्तदर्शनत्रयमवैदिकमनीश्वरमिति स एष पूर्वः पक्षः। उत्तरपक्षमाह- सायमिति । प्रधानपुरुषवादात्मक-कापिल दर्शनमित्यर्थः । न्यायो गौतमप्रणीत तर्कशास्त्रम् । वैशेषिक-विशेषपदार्थाभ्युपगन्तुः कणादस्य द- निमित्यर्थः । इत्थमिदं दर्शनत्रयमंशतो वेदानुसारि सेश्वरमित्युत्तरः पक्षः । पूर्वोत्तरपक्षौ मिलितावेव त इमे षट् तर्काः विचारशास्त्राणि भवन्ति । सन्दि- म्घऽऽन्यतरपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययस्तर्कः । इति तर्कसामान्यलक्षणम् । विचारशास्त्रे च तिसः कथा भवन्ति, वादो जल्पो वितण्डा च । तत्र वादमाह-मध्यस्थयोरिति । मध्यस्थयो-अन- विगततत्त्वयोरित्यर्थः । तत्त्वावबोधाय-यथार्थवस्तस्वरूपावगतये । वस्त. २का० मी० १४ चन्द्रिकासहित काव्यमीमांसायां- चपरामों वादः । विजिगीपोः स्वपक्षसिद्धये छलजातिनिग्रहादिप- ग्रिहो जल्पः । स्वपक्षस्यापरिग्रहित्री परपक्षस्य पयित्री वितएडा । कृषिपाशुपाल्ये वणिज्या च वार्ता । आन्वीक्षिकीत्रयीवार्तानां योग- क्षेमसाधनो दण्डस्तस्य नीतिर्दण्डनीतिः । तस्यामायचा लोकयात्रोत शास्त्राणि । सामान्यलक्षणं चैषाम्- सरितामिव प्रवाहास्तुच्छाः प्रथमं ययोत्तरं विपुला। ये शास्त्रसमारम्भा भवन्ति लोकस्य ते वन्द्याः॥ तत्त्वस्य परामर्शो विचार एव वाद इत्यर्थः । वीतरागवस्तुनिर्णयफलो बाद इत्यन्यत्र । जल्पमाह-विजिगीषोरिति । वादकाले स्वपक्षस्य विजयमि- च्छता पुरुषेण छलस्य जातेनिग्रहस्य, आदिपदादुपायान्तरस्यापि परिग्रहः स्वीकारो जल्प इत्यर्थः । विजिगीषुकथा पुरुषशक्तिपरीक्षाफला जरस इत्य- न्यत्र । तद्विशषो वितण्डा इत्यपि तत्रैव । स्वमतेन वितण्डामाह-स्वपक्ष. स्येति । यदा वक्ता स्वपक्षं दुर्बलं मत्वा तत्परिग्रहे मन्दादरः सन्नेव परपक्ष- मात्र दूषयितुमुपक्रमते तदा सा वितण्डा भवतीत्यर्थः । तत्र अर्थविकल्पैर्व- चनविघातश्छलम् | हेतुप्रतिबिम्बनप्रायं प्रत्यवस्थान जातिरित्यादिलक्षणानि -अन्थान्तरादवसेयानि । वार्तामाह-कृषीति । कृषिः पाशुपाल्यं वणिक्कर्म च वार्तेत्यर्थः । पूर्वोक्तलक्षणानामान्वीक्षिकीत्रयीवा नां निर्बाधप्रचारस्य साधनं दण्ड एव तद्यवस्थापिका राज्ञो नीतिरेव दण्डनीतिः । राजदण्डमयादेव सर्वस्य -लोकस्य सुव्यवस्थितत्वात् सुव्यवस्थितलोकाधीनत्वाच्चैव शास्त्राध्ययनस्य लोकयात्रा शास्त्राणि च दण्डनीत्यधीनानीति सिद्धम् । तथा च 'दण्डनीविरे- वैका विद्ये त्यौशनसानां मतं समर्थितं भवति । एषा शास्त्राणाम् । सामान्यल. -क्षणं-स्वरूपपरिचयमाह-सरितामिवेति । यथा सरिता नदीनां प्रवाहाः ओघाः प्रथमं पूर्वमुद्गमकाले इत्यर्थः । तुच्छाः अल्पाः भवन्ति । अथ यथो. त्तर-उत्तरोत्तरं नद्यन्तरसम्भेदादिना विपुला महान्तो भवन्ति, एवमेव ये शास्त्रसमारम्भाः पूर्वमल्पस्वरूपाः क्रमशो महिमानं प्रकटयन्ति, त एव लो- - विदार सूत्रादिभिश्चैषां प्रणयनम् । तत्र सूत्रणात् सूत्र varli द्वितीयोऽध्यायः . "अल्पाक्षरमसन्दिग्धं सारवाद्विश्वतो मुखम् । अस्तोभमनवद्यश्च सूत्रं सूत्रकृतो विदुः ।।" सूत्राणां सकलसारविवरणं वृत्तिः । सूत्रवृत्तिविवेचनं पद्धतिः । आक्षिप्य भाषणाभाष्यम् । अन्तर्भाष्यं समीक्षा | अवान्तरायविच्छे- कस्य वन्या आदरणीया भवन्ति । गोमुखानि शास्त्राणि लोकप्रियाणि भव. न्ति नतु व्याघ्रमुखानीति तात्पर्यम् | शास्त्रप्रणयनप्रकारमाह-सूत्रादि भिरिति । एषां शास्त्राणा सूत्रादिभिः, आदिपदात् श्लोकसहितादिभिरपी- त्यर्थः । प्रणयनं निमार्णम् । सूत्रमाह-तत्रेति । सूत्रणात् सूत्रम् । सूत्र यति-वक्तव्यार्थ बीजरूपेण सूचयतीति तदित्यर्थः । सूत्रलक्षणमाह-अल्पा- क्षरमिति । सूत्रकृतो महर्षय इत्थम्भूतं सूत्रं विदुरित्यन्वयः । तदेव विशि- नष्टि-अल्पाक्षरमित्यादिना। यत् , अल्पाक्षरं, अमिनरक्षरैप्रथितम् , इत्थमपि सन्देहरहितम् , अल्पाक्षग्वत्त्वे सन्देहस्यावसरादिति भावः । सारव तअर्थगाम्भीर्यात्मकसारसहितम् । विश्वतोमुखम् चतुरसमित्यर्थः । सर्वत्र मुलमान्वयमिति तात्पर्यम् । स्तम्भनं स्तोमः तहितम् । अर्थप्रतीतिप्रतिब न्धात्मकस्तम्भनरहितमित्यर्थः । अथवा निरर्थकपदरहितमित्यर्थः । अनवद्य. म्-च्युतसस्कृतिलोकशास्त्रविरुद्धत्वादिसकलदोषरूपाऽवद्यवर्जितामित्यर्थः । एव लक्षण सूत्र सूत्रकृदभिमतमिति तात्पर्यम् । अथ वृत्तिमाह-सूत्राणा मिति । सूत्राणामिति सम्बन्धे षष्ठी । तथा च सूत्रसम्बन्धिसकलसाराशस्य यत्र विवरणं व्याख्यान वर्तते सा वृत्तिरित्यर्थः । पद्धतिमाह-सूत्रेति । सूत्रस्य वृत्तेश्च तात्पर्य विचार्य इतिकर्तव्यताप्रकारो यत्र निबध्यते सा पद्धातिरित्यर्थः । आक्षिप्येति । सूत्रार्थ प्रतियोगिविधयाऽऽक्षिप्य पूर्वप. क्षत्वेन सन्दृष्य, भाषणं-उत्तरपक्षत्वेन सिद्धान्तप्रवचन यत्र क्रियते तद्भाष्य- मित्यर्थः । समीक्षामाह-अन्तरिति । भाष्यस्य अन्तः, अन्तर्भाष्यम् , भाष्य मध्ये इत्यर्थः। या समीक्षा-विचारः सैव समीक्षेत्यर्थः । तस्या एव रूपा- न्तरमाह-अवान्तरेत्यादिना । अवान्तरस्य प्रकरणमध्यवर्तिनोऽर्थस्य वक्तव्यांशस्य विच्छेदः पृथक्करणमपि सा-समीक्षेत्यर्थः । टीकामाह- M--- १६ चन्द्रिकासहित काव्यमीमांसायां- दश्च सा । यथासम्भवमर्थस्य टीकनं-दीका । विषमपदभञ्जिका पञ्जि- का। अर्थप्रदर्शनकारिका कारिका । उक्तानुक्तदुरुक्तचिन्ता वार्त- कामिति शास्त्रभेदाः भवति प्रथयनर्थ लीनं समभिप्लुतं स्फुटीकुर्वन् । ए अल्पमनल्पं रचयन्ननल्पमल्पं च शास्त्रकविः॥ शास्त्रकदेशस्य प्रक्रिया प्रकरणम् । अध्यायादयस्त्ववान्तरविच्छे- दाः । कृतिभिः स्वतन्त्रतया प्रणीता इत्यपरिसङ्घचया अनाख्येयाश्च । D . , यथासम्भवमिति । यथासम्भवम् सम्भावनामनतिक्रम्येत्यर्थः । अर्थस्य- शब्दार्थस्य टीकन-प्रकाशन टोकेति तात्पर्यम् । यावतां शब्दाना सम्भवतोऽ. र्थस्य प्रकाशनं टोकेति निष्कर्षः । पत्रिकामाह-विषमति। विषमाणां दुरूहाणां पदाना भाञ्जिका अर्थप्रकाशनेन पार्थक्यप्रदर्शिका पब्लिकेत्यर्थः । कारिकामाह-अर्थेति । सूत्रगतार्थप्रदर्शनकारिका छन्दोबद्धा वाक् कारिके- त्यर्थः । वार्तिकमाह--उक्तानुक्तेति। सूत्रकृता भ्रमप्रमादादिवशात् येऽ- • उक्ता, अनुक्ता, दुरुक्ताश्च, तेषा चिन्ता विचारो यत्र तद्वार्तिकमित्यर्थः । इत्थमेते शास्त्राणा तदवान्तरांशाना च भेदाः प्रकाटताः । शास्त्रकवेः प्रभावं प्रदर्शयति-भवतीति । यः लोकोत्तरबुद्धिशाली कविः लीनं गुप्तमभिप्रेतमर्थ वाच्यं प्रथयन् भवति-प्रथयति, प्रकटयती. त्यर्थः : । एवं समभिप्लुतं-समन्तात् अभिप्लुतं वाच्यान्तरसम्बन्धेन सन्दि- ग्धार्थ स्फुटीकुर्वन् भवति स्पष्टीकुरुते इत्यर्थः । किञ्च अल्पं साचतं, अ. नस्पं विस्तृतं रचयन् , अनपं-विरतृत, अल्पं सङ्क्षिप्तं रचयन् समासव्या- सरचनाकुशल इत्यर्थः । गुप्तमभिप्रायं प्रकटयति, सन्दिग्धार्थ च स्पष्टीकु- रुते । समासव्यासरचनयोश्च पाटवं प्रकटयति यः स शास्त्रकविरिति तात्पर्यम् । अथ प्रकरणमाह-शास्त्रैकदेशस्येति । अनेकप्रकरणयुक्तस्य शा. स्त्रस्य य एकदेशस्तस्य या प्रक्रिया प्रकारस्तदेव प्रकरणमित्यर्थः । अवान्तरवि. च्छेदानाह-अध्यायादय इत्यादिना । मध्ये मध्ये प्रयोजनवशा द्विहिता अवान्तरविच्छेदा एवाऽध्यायादयः । ते च परिच्छेदोच्छ्वाससमु. ल्लासादिभिर्नामभिरने कैन्थकारैरनेकधा परिकल्पिताः। अत एव ते अपरि द्वितीयोऽध्यायः । शब्दार्थयोर्यथावत्सहभावेन विद्या साहित्यविद्या । उपविधास्तु चतः- षष्टिः । ताश्च कला इति विदग्धवादः । स आजीवः काव्यस्य । तमौं- पनिषदिके वक्ष्यामः । इत्यनन्तोऽभियुक्तानामत्र सरम्भविस्तरः। १० त्यक्तो निपुणधीगम्यो ग्रन्थगौरवकारणात् ।। इति राजशेखरकृती काव्यमीमासाया कविरहस्ये प्रथमेऽधिकरणे द्वितीयोऽध्यायः शास्त्रानिर्देशः। सहयाः । प्रयोजनान्तराभावादनाख्येयाश्च । अथ साहित्यविद्या लक्षयन्ना-- ह--शब्दार्थयोरिति । शब्दार्थयोर्चाच्यवाचकयोर्यथासहभावेन साहचर्ये णोपलक्षिता विद्या साहित्यविद्येत्यक्षरार्थः । शब्दार्थों सहितौ काव्यमित्या- घभियुक्तोक्तेः सहितयोर्मावः साहित्यमिति समाख्याबलाच साहित्यविद्यैव काव्यशास्त्रमिति फलितम् । इयं खलु मुख्यविद्या | उपविद्या आह--उप- विद्यास्त्विति। मुख्यविद्यामुपजीव्य प्रवृत्ता उपविद्याः परिगणनमाह- चतुःषष्टिरिति । चतुःषष्टिसङ्ख्याका इत्यर्थः । चतुःषष्टिकला इति या. वत् । तदेव स्पष्टीकुर्वन्नाह--ताश्चेति । ताश्च चतुःषष्टिरुपविद्याः, क. लाशब्दवाच्या इति विदग्धाना रसिकाना वाद उक्तिरित्यर्थः । सः विदग्ध- वादः । काव्यस्य-शब्दार्थात्मकस्य आजीवो जीवनोपायभूतः । काव्यस्य वैदग्ध्यमूलत्वात् । तदेतदखिलमोपनिषदिकेऽध्याये वक्ष्यते । उपसहरति--इत्यनन्त इति । अभियुक्तानां पण्डिताना, अत्र शास्त्रे, संरम्भविस्तरः संरमे प्रकरणाध्यायपर्यालोचनादौ यो विस्तरः सः निपुणा धीर्बुद्धिर्येषां तेषां गम्यः सुज्ञेयः, अतः त्यक्ता-परिहृतः, न विशेषेण विवेचित इत्यर्थः । कुतः ? प्रन्थस्य यगौरव गुरुत्व तदेव कारण तस्मात् अन्यगौरव मा भूदिति हेतोरित्यर्थः । इति श्रीमखिस्तेवशसम्भूत भैरवनायकतनूजनि-नारायणशास्त्रिप्रणीतायां काव्यमीमांसा-चन्द्रिकाया शास्त्रनिर्देशो नाम द्वितीयोऽध्यायः॥ २ ॥ , १८ चन्द्रिकासहित काव्यमीमांसायां- तृतीयोऽध्यायः काव्यपुरुषोत्पत्तिः । एवं गुरुभ्यो गिरः पुण्याः पुराणीः शृणुमः स्म, यत्किल विषणं शिष्याः कथाप्रसङ्गे पप्रच्छुः, कीदृशः पुनरसौ सारस्वतेयः काव्यपुरुषो वो गुरुः १ इति । स तान् बृहताम्पतिरुचे । पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ तपस्यामास । पीतेन मन- सा तां विरिश्चः प्रोवाच-पुत्रं ते मुनामि । अथैषा काव्यपुरुष सुषुवे । सोऽभ्युत्थाय सपादोपग्रहं छन्दस्वतीं वाचमुदचीचरत्- यदेतद्वाङ्मय विश्वमर्थमूर्त्या विवर्त्तते । सोऽस्मि काव्यपुमानम्ब पादौ वन्देय तावको । q अस्मिन्नध्याये काब्यपुरुषस्योत्पत्तिः, तस्य साहित्यविद्यावधूप्राप्तिः, दम्पत्योदिग्विजयप्रयाणम् , विविधवृत्तिप्रवृत्तीनां प्रसरणम् , देशभाषावेषभेदा- दीनां कथन च समासेन भविष्यति । तत्र काव्यपुरुषोत्पत्तिमुपक्रममाणो ग्रन्थकृत् काव्यपुरुषान्तेवासिनो घिषणस्य मुखात्तदुपक्रम चिकीर्षन्नाह- एवमिति । यद्वयं वक्ष्यामो, न तत्स्वकपोलकल्पितम् , अपि तु सद्गुरु. सम्प्रदायागतमिति सुतरां विश्वासाईमिति बोधयन्नाह-गुरुभ्य इत्या. दि । धिषणम् बृहस्पतिम् । सारस्वतेया सरस्वतीपुत्रः । बृहता- म्पतिः बृहस्पतिः । पुत्रीयन्तीति । पुत्र कामयमानेत्यर्थः । तुषार गिरी हिमवत्पर्वते । सपादोग्रहमिति । पादावुपगृह्येत्यर्थः । नमस्कार पूर्वकमिति यावत् । छन्दस्वतीमिति । छन्दोबद्धामित्यर्थः । उदची- चरत् उच्चारितवान् । तामेव वाचमाह-यदेतदिति। हे अम्ब ! मातः ! सरस्वति ! अहं काव्यपुमान् काव्यपुरुषः, तावको त्वत्सम्बन्धिनौ, त्वदीयावित्यर्थः । पादौ-चरणौ, वन्देय-नमस्कुर्याम् । पूर्वार्द्धन काव्यपु. रुष विशिनष्टि-शब्दार्थों मिलित्वैव काव्यमिति प्राचामाचार्याणा सिद्धा न्तः । तदनुसारेणैव प्रकृतेऽपि, यदेतत्-पुरो दृश्यमानं विश्वं, प्रथमतो वाष्पयं-शब्दात्मकं, पश्चात् अर्थमूल्-अर्थरूपेण विवर्तते विवर्तरू पेण प्रकटीभवति । अस्मीति विभक्तिप्रतिरूपकमव्ययम् , अहमित्यर्थः । एतेन शब्दार्थात्मना वाड्मयेन स्वस्याभेदः साधितः । शब्दार्थामिन्नवाब्य- तृतीयोऽध्यायः । १६ तामाम्नायष्टचरीमुपलभ्य भाषाविषये छन्दोमुद्रां देवी ससम्म- दमङ्कपर्यकेनादाय तमुदलापयत् । "वत्स सच्छन्दस्काया गिरः प्रणे- तर्वाअयमातरमपि मातरं मा विजयसे । प्रशस्यतमं चेदमुदाहरन्ति यदुत 'पुत्रात्पगजयो द्वितीयं पुत्रजन्म' इति । त्वत्ता पूर्वे हि विद्वांसो गचं ददृशुर्न पद्यम् । त्वदुपज्ञमथातः छन्दस्वदचा प्रवस्यति । अहो श्लाघनीयोऽसि । शब्दार्थों ते शरीरं, संस्कृतं मुखं, माकृतं वाहुर, जघनमपभ्रंशः, पैशाचं पादौ, उरो मिश्रम् । समः प्रसन्नो मधुर उदार ओजस्वी चासि । उक्तिचणं च ते वचो, रस आत्मा, रोमाणि छन्दां- सि, प्रश्नोत्तरमबडिकादिकं च वाक्कलिः, अनुमासोपमादयश्च त्वामलङ्ग- याभिन्नः काव्यपुरुषोऽहमिति फलितम् । आम्नायदृष्टचरीमिति । आम्नायेषु, वेदेषु दृष्टचरीम्=पूर्व दृष्टाम् । वेदेष्वेव प्रयुक्तामित्यर्थः । भूतपूर्वे चरट् । भाषाविषये इति । वेदातिरिक्तलौकिकभाषास्वित्यर्थः । छन्दो- मुद्रामिति । प्रकृते ऽनुष्टुप्छन्दोनिबन्धनमिति भावः । देवी सरस्वती । ससम्मदम्-सहर्षमित्यर्थः । अङ्कपर्यवेनादाय -उत्सङ्गात्मके तल्पे सस्थाप्ये त्यर्थः । तम्=काव्यपुरुषम् , स्वपुत्रम् । उदलापयत्=प्रशाशं तिभावः । उल्लापनमाह-वत्सति । सच्छन्दस्काया इति । छन्दोबद्धाया इत्यर्थः । वाड्मयमातरम् वाङ्मयस्य, सकलस्य वाक्प्रपश्चस्य मातर जन- नामपि तव काव्यपुरुषस्य मातरं जननी मा विजयसे, मया ऽननुभूतपूर्वी छन्दस्वती गिर प्रकाश्य मा पराभवसीत्यर्थः । भाषाविषये छन्दोमुद्रायाः पूर्वमभावं दर्शयति-त्वत्त इति । त्वत्त' भवतः, पूर्व प्राचीनाः । त्व दुपज्ञमिति । त्वत्प्रथमारम्भमित्यर्थः । छन्दस्वद्वचः छन्दोबद्धं वच- नमित्यर्थः । साश्चर्य काव्यपुरुषावयवसस्थानमाह-अहो श्लाघनीयो- ऽसीत्यादिना । तेस्तव, शब्दार्थो शरीरम् । शब्दार्थात्मकमेव तव काव्यपुरुषस्य वपुरित्यर्थः । संस्कृतं मुखमित्यादिना च तत्तदवयवसस्थानं प्रदर्शितम् । मिश्रमिति । प्राकृतावान्तरभाषामिश्रणात्मकमित्यर्थः । समासमताख्यप्राचीनाभिमतगुणविशिष्ट इत्यर्थः । एवं प्रसादगुणविशिष्टः प्रसन्न इत्याद्यवसेयम् । प्रश्नोत्तरमिति। प्रश्नश्चोत्तर च तत् , प्रश्नोत्तरा २० चद्रिकासहित काव्यमीमांसायां- वन्ति । भविष्यतोऽर्थस्याभिधात्री श्रुतिरपि भवन्तमभिष्टौति- चत्वारि शृङ्गास्त्रयोऽस्य पादा द्वे शीर्षे सप्तहस्तासोऽस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मा(त्या)माविवेश ।। "तथापि सणु प्रगल्भस्य पुंसः कर्म, बालोचितं चेष्टस्व" इति निगध निवेश्य चैनमनोकहायिणि गण्डशैलतलतल्पे स्नातुमभ्रगङ्गा जगाम | सावञ्च कुशान् समिधश्च समाहर्तुं निःसृतो महामुनिरुशनाः परिहत्ते पूषणयुष्मोपप्लुतं तमद्राक्षीत् । कस्यायमनाथो बाल इति चि- न्तयन्स्वमाश्रमपदमनैषीत् । क्षणादाश्वस्तश्च स सारस्वतेयस्तस्मै छन्द- MC त्मकं काव्यमित्यर्थः । यद्वा य एव प्रश्नः स एव पदच्छेदवैशिष्टयादुत्तरं यत्र तत् । प्रचह्निकादिकमिति । प्रहेलिकादिकमित्यर्थः । एतत्सर्वं तव काव्यपुरुषस्य वाक्क्रीडनमिति यावत् । भविष्यत इति । कालान्तरे समु. त्पत्स्यमानस्येत्यर्थः । अर्थस्य-वस्तुनः । अभिधात्री प्रतिपादिका । इत्थंभूता, श्रुतिरपौरुषेयी वागपि त्वा स्तौति । ता श्रुतिमाह-चत्वारीति । ऋग्वेदसंहितायां तृतीयाष्टकेऽष्टमाध्याये दशममण्डले तृतीय सूक्तमिदम् । अस्यार्थश्च सायणभाष्ये, निरुक्ते, महा- भाष्ये पस्पशान्हिके च तत्तत्प्रकरणानुरोधेन मिथो विलक्षण एव कृतः । अस्मिन् अन्थे राजशेखरेण च काव्यपुरुषपरतयैव व्याख्यातः । भरतेन च स्वकीये नाट्यशास्त्रे काव्यविषये यथोक्तं, तदनुरोधेनैवासौ ऋक् काव्यपु- रुषपरतया व्याख्यायते । यथा-शृङ्गस्थानीयाश्चत्वारो वर्णाः । पादस्थानीयानि त्रीणि स्थानानि । शीर्षस्थानीयो द्विविधः काकुरिति । हस्तस्थानीयाः सप्त-.. स्वराः । ईदृशोऽसौ वृषमः काव्यपुरुषः त्रिधा त्रिप्रकारैः, मन्दमध्योच्चैः स्वरैः बद्धः उच्चारितः सन् रोरवीति शब्दायते । एवंभूतो महानसौ देवो मान् आविवेश । मत्र्येषु प्रविष्ट इत्यर्थः । इत्थं स्तुत्वा लोकव्यवहारसि. द्यर्थ लोकानुसारि वर्तनमावश्यकमिति तमाह-तथाऽपीति । संवृणुगो- पायेत्यर्थः । परिवृत्ते पूषणीति । मध्यान्होत्तरं सूर्यपरावर्तने सतीत्यर्थः । छन्दस्वती वाचं समचारयदिति । छन्दोबद्धा वाच तस्मिन् सञ्चा- रितवानिति भावः । तादृशवाक्सञ्चारणेन स्वयं विस्मितः परानपि विस्माप- .. तृतीयोऽध्यायः। २१ स्वती चाचं समचारयत् । अकस्माद्विस्मापयन्स चाभ्युवाच- या दुग्धाऽपि न दुग्धेव कविदोग्धृभिरवहम् । 3 हृदि नः सन्निषत्तां सा सूक्तिधेनुः सरस्वती ॥ इति । तत्पूर्वकमध्येतृणां च सुमेधस्त्वमादिदेश । ततः प्रमृति तमुशनसं सन्तः कविरित्याचक्षते । तदुपचाराच कवयः कवय इति लोक- यात्रा । कविशब्दश्च कह वर्ण इत्यस्य धातोः काव्यकर्मणो रूपम् । का- व्यैकरूपत्वाच्च सारस्वतेयेऽपि काव्यपुरुष इति भक्त्या प्रयुञ्जते । ततश्च विनिवृत्ता वाग्देवी तत्र पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द्र । प्रसङ्गागतश्च वाल्मीकि€निवृषा समश्रयं वमुदन्तमुदाहृत्य भगवत्यै भृगुसूतेराश्रमप- यन् स उशना अपि तत. परमुवाच । यदुवाचोशनास्तदाह-था दुग्धेति। या सरस्वती कवय एवं दोग्धारो दोहकाम्तैरन्वह प्रतिदिन दुग्धाऽपि कृत. दोहनाऽपि शब्दार्थाहरणैः कृतोपयोगाऽपीत्यर्थः । न दुग्धेव अकृतदाहनेव शब्दार्थसामग्रीपरिपूर्णेवास्ते । यस्याः शब्दानिधिरक्षय इति भावः । सा= इत्थंभूता सूक्तीनां सदुक्तीनां धेनुः कामगवीस्वरूपा सरस्वती नः अस्माकं हृदि सन्निघत्ता सान्निध्य कल्पयतु । सर्वदाऽस्मद्हृदये स्फुरवित्यर्थः । एतन्मन्त्रस्य फल प्रदर्शयन्नाह-तत्पूर्वकमिति । या दुग्धेत्यादि-श्लोक- मन्त्रपूर्वकमित्यर्थः । अध्येतृणां विद्याभ्यास कुर्वताम् । सुमेधस्त्वम्- शोभनबुद्धिमत्त्वम् । या दुग्धेत्यादिछन्दस्वद्वचःप्रवृत्यनन्तरमेव भाग क विरित्याख्यया लोका चिरे । तथा च मुख्यया वृत्या कविशब्दस्य भार्गव एव प्रयोगः । कथ तहींतरे कवय इति चेदाह-तदुपचाराचेति । भार्ग. वादन्यत्र कविशब्द उपचारादर्थाल्लक्षणयैव प्रयुज्यते । तथा च छन्दोमयी गिरं प्रयुञ्जानाः सर्वेऽपि कवय इति लोकव्यवहारः । कविशब्दव्युत्पत्तिमाह- कविशन्दश्चति । कुवृवणे इत्यस्माद्धातो. कविरिति शब्दो निष्पन्नः । काव्यकर्मण इति । धातोरित्यस्य विशेषणमिदम् । काव्य कर्म यस्येति तस्माद्धातोरित्यर्थ. । सारस्वतेये पुरुष काव्यशब्दप्रवृत्तिनिमित्तमाह-काव्य- करूपत्वाचति । काव्येन सह तादात्म्यापन्नत्वात् सारस्वतेये पुरुष काव्यपुरुष इत्यौपचारिक प्रयोग इत्यर्थ । मध्ये विच्छिन्नं कथासन्दर्भ भूयः संयोजयन्नाह- ततश्चेति । विनिवृत्तति । अम्रगङ्गास्नानादिति शेषः । .

२२ चन्द्रिकासहित काव्यमीमांसायां- दमदर्शयत् । सापि प्रस्तुतपयोधरा पुत्रायाङ्कपाली ददाना शिरसि । चुम्बन्ती स्वस्तिमता चेतसा पाचेतसायापि महर्षये निभृतं सच्छन्दा सि वांसि प्रायच्छत् । अनुपेषितश्च स तया निषादनिहतसहचरीव क्रौञ्चयुवानं करुणक्रेङ्कारया गिरा, क्रन्दन्तमुदीक्ष्य शोकवान् श्लो कमुज्जगाद। मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रोश्चमिथुनादेकमवधीः काममोहितम् ।। -6 ततो दिव्यदृष्टिदेवी तस्मा अपि श्लोकाय वरमदात्, यदुतान्यद नधीयानो यः प्रथममेनमध्येष्यते स सारस्वतः कविः संपत्स्यत इति। स तु महामुनिः प्रवृत्तवचनो रामायणमितिहासं समभत् , द्वैपायनस्तु श्लोकप्रथमाध्यायी तत्मभावेन शतसाहस्री संहितां भारतम् । एकदा तु ब्रह्मर्षिवृन्दारकयोः श्रुतिविवादे दाक्षिण्यवान्देवः स्वयम्भूस्तामिमां निर्णेत्रीमुदिदेश । उपश्रुतवृत्तान्तश्च मातरं ब्रजन्ती सोऽनुवबाज । वत्स परमेष्ठिनाऽननुमतस्य ते न ब्रह्मलोकयात्रा निःश्रेयसायेत्यभिदधाना हठान्न्यवर्तयदेनमात्मना तु प्रववृते । ततः स काव्यपुरुषो रुषा निश्चmim मुनिश्रेष्ठ इत्यर्थः । उदन्तमिति । वृत्तान्तमित्यर्थः । भृगुसतेरिति । भा. र्गवस्य शुक्रस्येत्यर्थः । अङ्कपाली ददानेति । उत्सङ्गमारोपयन्तीत्यर्थः । स्वस्तिमता चेतसेति । निश्चिन्तेन चित्तेनेत्यर्थः । प्राचेतसाया ऽपि महर्षये इति । महर्षये वाल्मीकुये इत्यर्थः । मा निषादेति । हे निषाद 1 हे व्याध | त्वं शाश्वतीः समाः चिरकालमित्यर्थः । प्रतिष्ठा मा अगमः स्थिति न लभस्व । चिरायुर्न भव । शीघ्र म्रियस्वेत्यर्थः । शापस्य हेतुमाह-यदिति । यत् यस्मात्कारणात् त्वं क्रौञ्चमिथुनात् क्रौञ्ची च क्रौञ्चश्चेति तयोमिथुनात् । त्यो र्द्वन्द्वादित्यर्थः । काममोहितं मदनबाण. पीडितं एक क्रौञ्च अवधीः हतवानित्यर्थः । तत इति । पूर्वोक्तश्लोकश्र- वणानन्तरमित्यर्थः । प्रवृत्तवचन इति । प्रवृत्तं समुत्पन्नं वचनं श्लोक- निर्माणात्मकं यस्येत्यर्थः । सदभदिति । व्यरचयदित्यर्थः । श्रुतिवि. वादे इति । श्रुतेर्वेदस्य विषये विवादे संशये समुत्पन्ने सतीत्यर्थः । आ मरा F - तृतीयोऽध्यायः। २३ काम । प्रिय मित्रमस्य च कुमारः साक्रन्दं रुदन्नभ्यधीयत गौर्या तात तृष्णीमास्स्व साऽहमेषा निषेधामीति निगदन्ती समचिन्तयत् । प्रायः प्राणभृतां प्रेमाणमन्तरेण नान्यद्वन्धनमस्ति, तदेतस्य वशीकरणं काम- पिस्त्रियं सृजामीति विचिन्तयन्ती साहित्यविद्यावधूमुदपादयदादिश- बैनामेष ते रुषा धर्मपतिः पुरः प्रतिष्ठते तदनुवर्चस्वैनं निवर्तय च । भवन्तोऽपि हन्त मुनयः काव्यविद्यास्नातकाश्चरिनमेतयोः स्तुध्वमेतद्धिक: काम्यसर्वस्वं भविष्यतीत्यभिधाय भगवती भवानी जोषमासिष्ट । तेऽपि तथा कर्तुमवतस्थिरे। अब सर्वे प्रथम प्राची दिशं शिश्रियुयंत्रावासुब्रह्मपुण्ड्राया जनपदाः । तत्राऽभियुञ्जाना तमोमेयी यं वेषं यथेष्टमसेविष्ट, स तत्रत्या- भिःखीभिरन्वक्रियत | सा महात्ति ड्रमागधी । ता ते मुनयोऽभितुष्टुवुः- स्मना तु प्रववृते इति । स्वय जगामेत्यर्थः । कुमार इति । कार्तिकेय इत्यर्थः । जोषमासिष्टेति । तष्णीं बभूवेत्यर्थः । औमेयी- ति । उमाया अपत्यं स्त्री साहित्यविद्यावप्रित्यर्थः । यं वेषं यथेष्टमः सेविष्टेति यादृशं नेपथ्य प्रसाधन च स्वीचकारेत्यर्थः । सा प्रवृत्ती रौद्रमागधी इति नाम्ना औड्रमागधी इति नाम्ना वा प्रसिद्धेत्यर्थः । अयमेवार्थः स्पष्ट प्रपञ्चितो भरतनाट्यशास्त्रे त्रयोदशाध्याये- । चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोक्तृभिः । आवन्ती दाक्षिणात्या च पाञ्चाली चौडूमागधी ।। अत्राह-प्रवृत्तिरिति कस्मात् । उच्यते-पृथिव्यां नाट्यदेशवेषभाषाचार- वार्ताः ख्यापयतीति प्रवृत्तिः, प्रवृत्तिश्च निवेदनैः । अत्राह-यदा पृथिव्यां नानादेशाः सन्ति, कथमासां चतुर्विधत्वमुत्पन्नम् , समासलक्षणश्चासा प्रयोग उच्यते । एवमेष समानलक्षणप्रयोगः । किन्तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमते वृत्तिसंश्रितमस्य मया चतुर्विधत्वमभिहितं भारत्यार- भटी साविकी कैशिकी चेति । वृत्तिमंश्रितैश्च प्रयोगैरभिहिता देशाः, यतः प्रवृत्तिचतुष्टयममिनिवृत्त प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्या भवेत् , बहु- गीतनृत्यवाचा कैशिकाया चतुरमधुरललिताशामिनया यथा । ,

२४
चान्द्रकासहित काव्यमीमांसायां-
"आर्द्रचन्दनकुचार्पितसूत्रहारः सीमन्तचुम्बिसिचयः स्फुटबाहुमूळः ।
दुर्वाप्रकाण्डरुचिरास्वगुरूपभोगागौडाङ्गनासु चिरमेष चकास्तु वेषः ॥"
महेन्द्रो मलयः सह्यो मेलकः पलपिञ्जरः ।
एतेषु संश्रिता देशाः स ज्ञेयो दक्षिणापथः ॥
कोशलास्तोशलाश्चैव कलिङ्गा एव मोशलाः ।
द्रविडान्ध्रमहाराष्ट्रा वैण्या वै वानवासजाः ॥
दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे ।
ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ।।
आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा ।
सैन्धवास्त्वथ सौवीराः आनास्सार्बुदेयकाः ॥
दाशार्णास्नैपुराश्चैव तथा वै मासिका मताः ।
कुर्वन्त्यावन्तिकीमते प्रवृत्ति नित्यमेव तु ॥
सात्वती कैशिकी चैव वृत्तिमेषां समाश्रितः ।
भवेत्प्रयोगो नान्यत्र सर्वः कार्यः प्रयोक्तृभिः ।।
अङ्गा वनाः कलिङ्गाश्च वत्साश्चैवोडूमागधाः ।
पौण्ड्रनैपालिकाश्चैव अन्तर्गिरिवहिगिराः ॥
तत्र वनसमा ज्ञेया मलदा मल्लवर्तकाः ।
ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥
प्राग्ज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः ।
प्रागाः प्रावृतयश्चैव युञ्जन्ति टोड्रमागधीम् ॥
अन्येऽपि देशा एभ्यो ये पुराण सम्प्रकीर्तिताः।
तेषु प्रयुज्यते ह्येषा प्रवृत्तिस्त्वौड्रमागधी ।
पाञ्चालमध्यमायां तु, सात्वत्यारमटी स्मृता ।
प्रयोगस्वरुपगीतार्थ आविद्धगतिविभ्रमः ॥
पाञ्चालाशौरसेनाश्च काश्मीरा हस्तिनापुराः ।
वाडीकाः शाकलाश्चैव मद्रकौसीनरास्तथा ।।
हिमवत्संश्रिता येच गङ्गायाश्चोत्तर दिशम् ।
ये श्रिता वैजनपदा स्तेषु पाञ्चालमध्यमा ॥

तृतीयोऽध्यायः। २५ यहच्छयाप यादृड्नेपथ्यः स सारस्वतेय आसीत् तद्वेषाश्च पुरुषा बभूवुः । साऽपि सैव प्रवृत्तिः । यदपरं नृत्तवाद्यादिकमेषा चक्रे सा भारती वृत्तिः। तां ते मुनय इति समानं पूर्वेण । तथाविधाकल्पयापि तया यदवशवदाकृतः समासवदनुपासवद्योगवृत्तिपरम्परागर्भ जगाद सा गौडीया रीतिः । तां ते मुनय इति समानं पूर्वेण । वृत्तिरीतिस्वरूपं इत्थं चोपर्युद्धृतै व्यशास्त्रवचनैस्तत्तद्वृत्तिप्रवृत्तिप्रमेदस्तन्मूल च प्रप- श्चितम् । अथ पुनः क्रमेण रौद्रमागधी प्रवृत्तिं मुनिजनस्तुताभाह-आ. द्रौद्रेति । गौडाइनासु एष वेषः चिरं चकास्तु इति सम्बन्धः । गौडालना. ना विशेषणमाह-दुर्गाप्रकाण्डरुचिरासु-दुर्वाप्रकाण्डः दुर्वास्तम्बः, तद्व- द्रुचिरासु तन्वीषु इत्यर्थः । तत्र हेतुमाह-अगुरूपभोगात्-अगुरोश्च- न्दनस्योपभोगालेपनादिना सन्तवमुपयोगकरणात् । दूर्वा अपि चन्दनलिप्ते देवताशिरसि तिष्ठन्तीति अगुरूपभोगस्तत्रापि वर्तते इति तस्मादृश्य वर्णि. तम् । यदा दुर्वाप्रकाण्डः गुरोः शिवस्योपभोग्यो न भवति किन्तु पुत्रस्य ग. णेशस्येति । गौडागनापक्षे अगुरुरनुद्दामः य उपभोगस्तस्मात् हेतोः दुर्वा. प्रकाण्डवगुचिरासु तन्वीपु कशाशीपु । उद्दामोपभोगासमर्थास्वित्यर्थः । आ द्रा अत्यन्तमाई चन्दन येषु तादृशेषु कुचेषु स्तनेषु अर्पितः सूत्रयुक्तो हारो यस्मिन् सः । सीमन्तचुम्वि शिरोऽप्रमागस्पर्शि सिचयं वस्त्र यस्मिन् . सः । स्फुट स्पृष्टं दृश्यमान वाहुमूल भुजमूलभागो यस्मिन् सः । एवभूतो गौडाङ्गनावेषः चिरं चकास्तु शोभतामित्यर्थः । इत्थं च वर्णितोऽय वेषः स्त्रीणामासीत् । अथ पुरुषा अपि तत्र कि वेषा आसन्नित्याह-यदृच्छ- येति । सः सारस्वतेयः काव्यपुरुषो य वेष स्वेच्छया स्वीचकार, तत्रत्यैः पुरुषैरपि स एव वेषोऽनुकृतः । पुरुषाणा वेषे सैव.रौद्रमागधी प्रवृत्तिः । अथ वृत्तिमाह-यदपरमिति । एषा-साहित्यविद्यावधूः । तत्र येन प्रकारेण नृत्यगीतवाद्यादिकं चक्रे सा भारती वृत्तिरिति प्रथिता बभूवेत्यर्थः । समानं पूर्वेणेति । अभितुष्टुवुरिति सम्बन्धः । तथाविधाकल्प. याऽपीति । आर्द्रचन्दनेत्यादिपूर्वोक्तगौडाङ्गनावेषयाऽपि 'तया साहित्य. ( विद्यावध्वा वेषप्रदर्शनमात्रेण यदा स काव्यपुरुषो वशीकत्तुं न पारितः, तदा ३का० मी० ':२६ चन्द्रिकासहित काव्यमीमांसायां- यथावसरं वक्ष्यामः । ततश्च स पञ्चालान्प्रत्युच्चचाल यत्र पञ्चालशूरसे नहस्तिनापुरकाश्मीरवाहीकवाडीकवाडवेयादयो जनपदाः । तत्राभिर जाना तमौमेयीति समानं पूर्वेण । सा पाञ्चालमध्यमा प्रवृत्तिः। ती मुनयोऽभितुष्टुवु:- ताटङ्कवलगनतराङ्गतगण्डलेख- मानाभिलाम्बदरदोलिततारहारम् । आश्रोणिगुल्फपरिमण्डलितोत्तरीयं वेषं नमस्यत महोदयमुन्दरीणाम् ॥ किञ्चिदार्द्रितमना यनेपथ्यः स सारस्वतेय आसीदिति समान पूर्वेण । साऽपि यदीषन्नृत्तगीतवाद्यविलासादिकं दर्शयांवभूव सा सा -स्वती वृत्तिः । आविद्धगतिमत्त्वात्सा चारभटी । तां ते मुनय इति समा नं पूर्वेण । तथाविधाकल्पयापि तया यदीषदशम्बदीकृत ईषदसमारं इषदनुपासमुपचारगर्भश्च जगाद सा पाञ्चाली रीतिः । ता ते मुनर इति समानं पूर्वेण । ततः सोऽवन्तीन्मत्युच्चचाल यत्रावन्तीवैदिशसुराष्ट्र . सा समासयुक्त अनुप्रासयुक्तं योगार्थयुक्त च यज्जगाद, सा गौड़ीया रीति- रिति प्रथिता बभूव । वृत्तिरीतिस्वरूपं च ग्रन्थकृतव यथावसरं निरूपयि ध्यत इति तत्रैव तव्याख्यास्यते । ततः स काव्यपुरुषः पञ्चालान् नाम दे. शान् प्रातिष्ठत । पञ्चालान् वर्णयति-यत्रेति । यत्र-पञ्चालेषु । पाञ्चा. लादि वाहवेयान्ता जनपदा यत्र सन्ति ते पञ्चाला देशा इत्यर्थः । पाञ्चालम. ध्यमा प्रवृत्तिमाह-ताटङ्केति । ताटङ्कानां कर्णभूषणाना वल्गनेन दोला यितेन तरङ्गिता तरलिता गण्डलेखा-कपोलभागो यस्मिन् सः तम् । ईदृश पञ्चालदेशवासिमहाजनसुन्दरीणां वेषं नमस्यतेत्यर्थः । ईदृशनेपथ्यदर्शनस्य प्रभावमाह-किञ्चिदार्द्रितमना इति । पूर्व सर्वथाऽवशम्बदोऽपि का व्यपुरुष इदानी किञ्चिदनुकूलमावं दधावित्यर्थः साऽपीति । साहित्यवि द्यावधरित्यर्थः । पाञ्चाली रीतिमाह-ईषदसमासमिति । किञ्चित्सम- स्त चेत्यर्थः । ईषदनुपासयुक्तं च वचो यत्र सा पाञ्चाली रीतिरिति भावः। पा -चालान् विहायाने प्रस्थान वर्णयन्नाह-ततः सोऽवन्तीनिति । सः= तृतीयोऽध्यायः । २७ मालवावुदभृगुकच्छादयो जनपदाः। तत्राऽभियुञ्जना तमौमेयीति समा- नं पूर्वेण । सा प्रवृत्तिवन्ती । पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचा- रिणी हि सा । अत एव सात्वतीकैशिक्यौ तत्र वृत्ती । तां ते मुनयोऽ. भितुष्टुवु:- पाञ्चालनेपथ्यविधिनराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः । ७ यज्जल्पितं यच्चरितादिकं तदन्योन्यसभिन्नमवन्तिदेशे ॥ ततश्च स दक्षिणां दिशमाससाद यत्र मलयमेकलकुन्तलकेरलकाल-- वरमहाराष्ट्रवकलिङ्गादयो जनपदाः। तत्राऽभियुञ्जाना तमौमेयीति- मानं पूर्वेण । सो दाक्षिणात्या प्रवृत्तिः । तां ते मुनयोऽभितुष्टुवुः- आमूलतो वलितकुन्तलचारुचूडश्चूालकमचयलाञ्छितभालभागः । - कक्षानिवेशनिबिडीकृतनीविरेष वेषश्चिरं जयति केरलकामिनीनाम्॥ काव्यपुरुषः । अवन्तीन नाम देशानुच्चचाल । यत्र अवन्तिदेशे । अव- त्यादयो भूगुकच्छान्ता यत्र जनपदाः सन्ति सोऽवन्तिदेश इत्यर्थः । तत्र काव्यपुरुषमनुसरन्ती साहित्यविद्यावदिशं नेपथ्यादिक विदधे सा आवन्ती' प्रवृत्तिरित्यर्थः । तस्याः स्वरूपमाह--पाञ्चालमध्यमेति । पाश्चालम- ध्यमाया दाक्षिणात्याया वृत्तेश्च मध्यगता सेत्यर्थः । अत एव-ताशव- तिद्वयमध्यगतत्वादेव हेतोः । सात्विकी कैशिकी च वृत्तिस्तत्र भवति । तत्रा. वन्त्या प्रवृत्तौ कस्मिन्नशे पाञ्चालमध्यमा, कस्मिन्नशे च दाक्षिणात्येति स्प-- ष्टीकुर्वन्नाह-पाञ्चालनेपथ्यविधिरिति । अवन्तिदेशे नराणां पुरु. पाणा पाञ्चालः पाञ्चालदेशानुसारी नेपथ्यविधिर्वेषव्यापारोऽस्ति, स्त्रीणा नेपथ्यविधिस्तु दाक्षिणात्यो दाक्षिणात्यानुसारी नन्दतु शोभताम् । यज्ज. रिपतं भाषणादिकमित्यर्थः । यच्चरितादिकं आचारादिक चेत्यर्थः । तत्सर्व अन्योन्यसम्भिन्न-मिथो मिश्रितमेव । अर्थात् भाषिते चरिते च पाञ्चालदा- क्षिणात्यत्यिोमिश्रणमस्वत्यिर्थः । दक्षिणा दिश वर्णयति--ततश्चेति । सः काव्यपुरुषः । दाक्षिणात्यसुन्दरीवेष वर्णयति--आमूलत इति ।' अग्रभागात् पृष्ठभागादुभयतश्च दृढाकर्षणपूर्वकं बन्धनेन वलिताना परावर्तिः वाना वलिपाखाना वा कुन्तलानां केशाना चाव: चूडा यस्मिन् सः । चूर्णा- २८ चन्द्रिकासहित. काव्यमीमांसायां- तामनुरक्तमनाः स यनेपथ्यः सारस्वतेय आसीदिति समान पूर्वेण । सापि यद्विचित्रनृत्तगीतवाद्यविलासादिकमाविर्भावयामास सा कैशिकीकृत्तिस्तां ते मुनय इति समानं पूर्वेण । यदत्यर्थं च स तया वशम्बदीकृतः स्थानानुपासवदसमासं योगवृत्तिगर्भ च जगाद सा वैदर्भी रीतिः। तां ते मुनय इति समानं पूर्वेण । तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासविन्यासक्रमो वृत्तिः, वचनविन्यासक्रमो रीतिः । “चतु- यी गतिवृत्तीनां प्रवृत्तीनां च, देशानां पुनरानन्त्यं तत्कथमिव का- स्न्येन परिग्रहः" इत्याचार्याः । अनन्तानपि हि देशांश्चतुर्वैवाकल्प्य लकाना चूर्णकुन्तुलाना प्रचयेन गुच्छेन लान्छितोऽकितो भालभागः लला टस्थलं यत्र सः । कक्षानिवेशेन अञ्चलस्य कक्षाप्रान्तसंयमनेन निविडीकृत' निबिडं बद्धो नीविर्वस्त्रग्रन्थियंत्र सः । इत्थभूतः केरलदेशवासिकामिनीनां -वेषः चिरं जयति सर्वापेक्षयाऽधिकं शोभते । इत्थं दाक्षिणात्यवेषा साहित्यविद्यावधू दृष्ट्वा काव्यपुरुषः पूर्वापेक्षयाऽ. 'धिकमावर्जितस्वान्तः सन् तस्यामनुरक्तो बभूवेति वर्णयन्नाह--तामनुर- क्तमना इति । साहित्यविद्यावध्वा तत्र यद्विचित्रगीतनृत्यवाद्यादिकं चक्र सैव कैशिकी वृत्तिरिति प्रथिता बभूवेत्याह--सा कैशिकीबृत्तिस्तामि- त्यादि । वैदर्भीरीति निरूपयन्नाह--यदत्यर्थमित्यादि । तया=सा: हित्यविद्यावध्वा अत्यन्तं वशीकृतः सन् काव्यपुरुषः स्वय योग्यस्थानकृता- नुप्रासं समासरहित योगार्थसहितं शक्तिलक्षणादिवृत्तियुक्तं च यज्जगाद सैव वैदर्भीरीतिरिति प्रथिता बभूवेत्यर्थः । वृत्तिप्रवृत्तिरीतीनां मिथो भेदमाह-- तत्रेति । तत्रवृत्तिप्रवृत्तिरीतिषु । वेषविन्यासस्य नेपथ्यसाधनस्य यः क्रमः स प्रवृत्तिरित्युच्यते । विलासानाम् आङ्गिकभावाभिनयानां विन्यासस्य यः क्रमः स वृत्तिरित्युच्यते । वचनानां-बाग्व्यापाराणा विन्यासस्य यः क्रमः स रीतिरित्युच्यते । आचार्याणामाशङ्कामाह-चतुष्टयोति । वृत्तयः प्रवृत्तयश्च चतस्र एवं पूर्वोक्तस्वरूपाः । देशाः पुनरनन्ताः, तत्सर्वेषु देशेषु चतुःसङ्ख्याकानामेव वृत्तिप्रवृत्तीना कथं समन्वय इत्याशङ्का । समाधत्ते- अनन्तानपीति । चतुर्यु विभागेपु अनन्तानपि देशान् विभज्य वृत्तिप्र-

द्वितीयोऽध्यायः ।
२९
कल्पयति "चक्रवर्तिक्षेत्र सामान्येन, तदवान्तरविशेषाः पुनरनन्ता एव"
इति थायावरीयः । दक्षिणात्समुद्रादुदीची दिशं प्रति योजनसहस्रं
चक्रवर्तिक्षेत्रं, तत्रैष नेपथ्यावधिः । ततः परं दिव्याचा अपि यं देशम-
धिवसैयुस्तद्देश्य चेषमाश्रयन्तो निबन्धनीयाः । स्वभूमौ तु कामचारः ।
द्वीपान्तरभवानां तदनुसारेण वृत्तिपत्ती। रीतयस्तु तिस्त्रस्तास्तु पुर-
स्तात् । तत्रास्ति मनोजन्मनो देवस्य क्रीडाचासो विदर्भेषु वत्सगुल्म
नाम नगरम् । तत्र सारस्वतेयस्तामोमेयीं गन्धर्ववत्परिणिनाय । तत-
स्तधूवरं विनिवृत्य तेषु प्रदेशेषु विहरमाणं तुपारगिरिमेवाजगाम, यत्र
गौरी सरस्वती च मियः सम्बन्धिन्यौ तस्यतुः । तौ च कृतवन्दनौ
दम्पती दत्त्वाशिष प्रभावमयेन वपुषा कविमानसनिवासिनौ चक्रतुः।
तयोश्च कविलोकस्वर्गसंगै तमकल्पता, यत्र काव्यमयेन शरीरेण मर्त्य-
मधिवसन्तो दिव्येन देहेन कवय आकल्पं मोदन्ते ।
इत्येष काव्यपुरुषः पुरा सृष्टः स्वयम्भुवा ।
एवं विभज्य जानानःप्रेत्य चेह च नन्दति ।।
॥ इति राजशेखरकृतौ काव्यमीमांसाया कविरहस्ये प्रथमेऽधिकरणे
तृतीयोऽध्यायः कान्यपुरुषोत्पत्तिः ॥
वृत्तिचतुष्टय तत्र योजनीयमित्युत्तरम् । इदमेव कथयन्नाह-अनन्तान.
पीति । यायावरीयमतमाह-चक्रवर्तिक्षेत्रमिति । सामान्येन=स!
धारणभावेन सर्वदेशसमष्टयात्मकमिद चक्रवर्तिक्षेत्रमस्ति । अवान्तराविशेषाणा
पृथक्कल्पने अनन्ताः प्रभेदा भवेयुरित्यर्थः । चक्रवर्तिक्षेत्र लक्षयति-द-
क्षिणादिति । स्पष्टम् । प्रभावमयेन वपुषेति । काल्पनिकशरीरे-
त्यर्थः । अध्यायमुपसहरति-इत्येष इति । पूर्वोक्तकथानायकः काव्य
पुरुषः स्वयंभुवा ब्रह्मणा सृष्टो निर्मितः । इदमित्थ कथासन्दर्भ जानन् पुरुषः
इह लोकान्तरे च सुख प्राप्नोति ॥
इति श्रीमत् खिस्तेकुलालकरण भैरवनायकतनूजनि खिस्ते-इत्युपाख्य नारा-
यणशास्त्रिप्रणीताया काव्यमीमासाचन्द्रिकाया तृतीयोऽध्यायः ॥ ३ ॥

३० चन्द्रिकासहित काव्यमीमांसायां- तः चतुर्थोऽध्यायः पदवाक्यविवेकः। द्विविध शिष्यमाचक्षते यदुत बुद्धिमानाहार्यबुद्धिश्च । यस्य निस- शास्त्रमनुधावति बुद्धिः स बुद्धिमान् । यस्य च शास्त्राभ्यास: संस्कुरुते बुद्धिमसावाहार्यबुद्धिः। त्रिधा च सा, स्मृतिमतिः प्रज्ञेति । अतिक्रान्तस्यार्थस्य स्मी स्मृतिः। वर्तमानस्य मन्त्री मतिः । अना- गतस्य प्रज्ञात्री प्रज्ञेति । सा त्रिप्रकारापि कवीनामुपकी । तयोर्बुद्धि- । अत्राध्याये शिष्यभेदं प्रदर्य तत्प्रयोजकबुद्धिभेदप्रदर्शनम् , कवित्वभा- वकत्वविचारः, तत्प्रभेदप्रपञ्चनम् , प्रतिमायाः कारायत्री भावयित्रीति भेदद्व- यप्रदर्शन च करिष्यते । अथ शिष्यभेदं प्रदर्शयति--द्विविधमिति । १ बुद्धिमान , २ आहार्यबुद्धिः इति भेदद्वयन शिष्यो द्विविधोऽस्ति । प्रथ- मस्तु नैसर्गिकबुद्धिमानिति विवृण्वन्नाह-यस्येति । यस्य बुद्धिमतः शि- ज्यस्य बुद्धिः निसर्गतः स्वभावतः प्रयत्नं विना शास्त्रमनुधावति शास्त्रार्थाव- गाहिनी तत्प्रणयिनी च भवति स बुद्धिमानित्यर्थः । अपरस्तु यलोत्पाद्यबुद्धि- रिति बिवृण्वन्नाह-यस्यचेति । शाखाभ्यासः पौनःपुन्येनानेकेषा शा. स्वाणा सम्यक् परिशीलनम् । संस्कारमहिमा यस्य धारणात्मिकां विवेचना- त्मिकां वा बुद्धिमुत्पादयति स आहार्यबुद्धिरित्यर्थः । कौटिलीयेऽर्थ- शास्त्रे तु "बुद्धिमानाहार्यबुद्धिबुद्धिरिति पुत्रविशेषाः । शिष्यमाणो ध- मर्थािवुपलमते चानुतिष्ठति च बुद्धिमान् , उपलभमानो नानुतिष्ठत्याहार्यधु. द्धिः । अपायनित्यो धर्मार्थद्वेषी चेति दुर्बुद्धिः" । इति त्रयो भेदा उक्ता लक्षिताश्च । बुद्धि विमजते--त्रिधा च सेति । साम्बुद्धिः त्रिधा- त्रिप्रकारा । १ स्मृतिः २ मतिः, ३ प्रज्ञा इति त्रयः प्रकारास्तस्या इत्यर्थः । स्मृतिमाह-अतिक्रान्तस्येति । अतिक्रान्तस्यातीतस्य अर्थस्य-विष. यस्य स्मर्ती-संस्कारदाय महिम्ना स्मरणात्मकज्ञानरूपिणी । मतिमाह- वर्तमानस्यति । वर्तमानस्य प्रस्तुतस्य अर्थस्य मन्त्री मननात्मकज्ञान- रूपिणी । प्रज्ञामाह--अनागतस्येति । अनागतस्य-भविष्यतोऽर्थ- स्य प्रज्ञात्री कल्पनात्मकज्ञानरूपिणी चेत्यर्थः । त्रिविधाप्येषा काव्यकर्माण कवीनामपैक्षितैवेत्याह--सा त्रिप्रकाराऽपीति । पुर्वोक्तगुणयोः शिष्य- चतुर्थोऽध्यायः । मान् शुश्रूषते शृणोति गृहीते धारयति विजानात्यूहतेऽपोहति तत्व चाभिनिविशते । आहार्यबुद्धेरप्येत एव गुणाः किन्तु प्रशास्तारमपे- क्षन्ते । अहरहः मुगुरूपासना तयोः प्रकृष्टो गुणः सा हि बुद्धिविकाश- कामधेनुः । तदाहुः- प्रययति पुरः प्रज्ञाज्योतिर्ययार्थपरिग्रहे योर्गुणतारतम्य पुनरप्याह--तयोरिति । बुद्धिमदाहार्यबुयोः शिष्ययो: मध्ये इत्यर्थः । तत्र बुद्धिमान् शिष्यस्तु शुश्रूषते-गुरोः सकाशात्स्वाभावि- कारणयैव शास्त्राणि श्रोतुमिच्छति । शृणोति-गुरूक्तं सावधानमनाः सन् आकर्णयति । गृहीते-गुरूपदेश श्रुत्वा तं यथावदवगच्छति । धारय- ति-श्रुतस्य ज्ञातस्य चार्थस्य संस्कारात्मना चित्त सर्वदा धारणं करोति । विजानाति-श्रुतस्य ज्ञातस्य धारितस्य चार्थस्य पुनः पुनः पर्या- लोचनाद्विशेषज्ञानवान् भवति । ऊहते-विशेषज्ञानमहिम्नैव तत्र विवि. धान् विकल्पान् वितर्कयति । अपोहति-ताश्च बिकल्पानु कचिदनुपयु तान् तदंशान् वा परित्यजति । तत्त्वं चाभिनिविशते-हत्य कश्चिदर्थ श्रुत्वा, ज्ञात्वा, धारयित्वा, पुनः पुनः पालोच्य, बहुविधं वितळ, दुष्टा. सच परित्यज्य वस्तुयाथार्यमवगम्य तात्रऽमिनिविष्टो भवतीत्यर्थः । बुद्धिमतः शिष्यस्यैते गुणाः स्वाभाविकाः सन्ति । अथाहार्यबुद्धिगुणमाह-आहार्य: बुद्धेरिति । पूर्वोक्ता एव गुणा आहार्यबुद्धरपि भवन्ति, किन्तु ते न स्वा- भाविका., अपि तु-प्रशास्तारमपेक्षन्ते पशास्तुर्गुरोर्बलसापेक्षा इत्य- र्थः । द्विविधयोरपि शिष्ययोः सुगुरूपासना कर्त्तव्यैवेत्याह-अहरह इति । अहंरहः प्रतिदिनम् । प्रकृष्टो गुण:-गुणप्रकर्षापादिकति भावः । सद्गुरूपासनाया गुणप्रकर्षजनकत्वेऽपि गुणप्रकर्षात्मकत्वकथन कार्यकारणयो- रभेदेनोपचरितम् । सद्गुरूपासनाया गुणप्रकर्षजननेऽव्यमिचारिताऽस्ति, इति भावः । सुगुरूपासनामाहात्म्यमाह--सा हीति । सा-सुगुरूपासना। बुद्धिविकासकामधेनुः बुद्धर्विकासाय=विविधविकल्पोद्भासनात्मकबुद्धिविस्फा- गय कामधेनु, कामगवीस्वरूपा । सद्गुरूपासनया यथेच्छ बुद्धिविकासो भवतीत्यर्थः । तदेवाह--प्रययतीति । विद्यावृद्धयसा नवनिरपि ज्ञान- - ३२ ३ चद्रिकासहित काव्यमीमांसायां- 01 तदनु जनयत्यूहापोहक्रियाविशदं मनः। अभिनिविशते तस्मात्त्वं तदेकमुखोदयं सह परिचयो विद्याद्धैः क्रमादमृतायते ।। ताभ्यामन्यथाबुद्धिबुद्धिः । तत्र बुद्धिमतः प्रतिपत्तिः । स खलु सकृदभिधानप्रतिपन्नार्थः कविमार्ग मृगयितुं गुरुकुलमुपासीत । आ- हार्यबुद्धेस्तु द्वयममतिपत्तिः सन्देहश्च । स खल्वप्रतिपन्नमर्थ प्रतिपत्तुं .. वृद्धरित्यर्थः । तैः सह परिचया सहवासपूर्वको वा व्यवहार इत्यर्थः । पुरः पूर्वम् । प्रज्ञारूपं बुध्यात्मकं ज्योतिः-तेजः । प्रथयति प्रकाशयतीत्यर्थः । सदनु-ततः परम् । यथार्थपरिग्रहे वस्तुतत्त्वज्ञानाय । मनः-चित्तम् । ऊह- श्चापोहश्च तयोःक्रियायां व्यापारे विशदम् । विकल्पकुशलं त्याज्यांशपरिहार- कुशलं चेत्यर्थः । जनयति-सम्पादयति । तस्मात् तदनन्तरमित्यर्थः । तदेक- मुखोदयम्सएव एकमुखः प्रमुखः उदयउत्पत्तिर्यस्य तत् । तदेकप्रधानमि- त्यर्थः । तत्त्वम्-वस्तुयाथार्थ्यम् । अभिनिविशते अवगाहते प्राप्नोतीत्यर्थः । एवं क्रमेण विद्यावृद्धैः सह परिचयः क्रमात् अमृतायते अमृतवदुपकारको भव- तीत्यर्थः । तृतीय शिष्यभेदमाह-ताभ्यामिति । ताभ्या बुद्धिमदाहार्य- बुद्धिभ्याम् । अन्यथावृत्तिः विपरीतव्यापारः । वैपरत्यिं च निसर्गतः प्रयत्ने- नाऽपि शास्त्रपरामुखत्वम् । एतादृशः शिष्यो दुर्बुद्धिरित्याख्यात स्तृतीयः प्रका- र: । अथ शिण्यभेदानुक्त्वा तेषां प्रत्येकं कर्तव्यमाह-तत्रेति । तेषु वि- विधेषु शिष्येष्वित्यर्थः । बुद्धिमतः प्रथमप्रकारस्य प्रतिपत्तिर्विनियोगः कर्त- व्यमिति यावत् । तदेवाह--स खल्विति। सः बुद्धिमान् शिष्यः । स कृत्=एकवारमेव, अभिधानेन उपदेशेन प्रतिपन्नः जातःअर्थो वस्तुतत्त्वं येन सः । कविमार्ग कवीनां मार्ग पन्थानं सम्प्रदायकमामित्यर्थः । मृगयितुं अन्वेष्टुं प्राप्तुमित्यर्थः । गुरुकुलम् गुरूणां साहित्याविधाधुंधराणा महाकवी- नाम् कुल-सुई सम्प्रदायविशेष वा उपासीत शुश्रूषासेवादिना निरन्तरमुपग- च्छत् । द्वितीयप्रकारस्य शिण्यस्य स्वरूपं कर्तव्यं चाह--आहार्यवुद्धे स्त्विति । आहार्यबुद्धेः शिष्यस्य अप्रतिपतिः अज्ञानं, सन्देहोऽनिश्चयश्चेति- द्वयं भवति । सः आहार्यबुद्धिः, अप्रतिपन्नं अज्ञातमर्थ विषयं प्रतिपत्तुं ज्ञातुं VA ३३. - चतुर्थोऽध्यायः। सन्देहं च निराकर्तुमाचार्यानुपतिष्ठते । दुर्बुद्धस्तु सर्वत्र मतिविपर्यास एव । स हि नीलीमेचकितसिचयकल्पोऽनाधेयगुणन्तरत्वात् यदि सारस्वतोऽनुभावः प्रसादयति तमोपनिषदिके वक्ष्यामः। “काव्यकर्मणि कवेः समाधिः परं व्याप्रियते" इति श्यामदेवः । मनस एकाग्रता समाधिः । समाहितं चित्तमर्थान्पश्यति । उक्तञ्च- 4 सन्देह मनिश्चयात्मक च निराकर्तुं गुरुवचनविश्वासबलाद् दूरीकर्तुं आचार्या- न्-शास्त्राध्यापकान पाठशालीयान् पण्डितान्, न तु महाकवीन्, तत्र गमने आहार्यबुद्धेरनधिकृतत्वात् । उपतिष्ठत नित्य नियमपालनपुरःसरं यथासमय पाठशालागमनादिना सेवेत । तृतीयस्य स्वरूपं कर्तव्यंचाह--दुर्बुद्धेस्त्वि ति। तृतीयप्रकारस्य दुर्बुद्धेः शिष्यस्य सर्वत्र सर्वेषु लौकिकेषु शास्त्रीयेषु वा. विषयेषु, मतिविपर्यास एव-मतेर्बुद्धेविपर्यासो विपरीतमार्गगमनमेव भवति । दुर्बुद्धि. स्वबुद्धदौरास्यमहिम्ना सन्तमप्यर्थमसन्तमवगच्छत्तीत्यर्थः । प्रय- नः किमिति न क्रियत इत्याह--सहीति । सः दुर्बुद्धिः शिष्यो हि प्रय. स्नेनापि गुणाधानपात्र न भवति । यतः स नलीमेचकितसिचयकल्पः नील्या अमरेण नीलीवर्णेन, मेचकित नीलीकृत यत् सिचय वस्त्र तत्कल्पस्त. सदृशः । अतएवाह-- अनाधेयगुणान्तरत्वादीत । अन्यो गुणो गुणान्तरम् , अनाघेयं आधातुमशक्यं गुणान्तरं यस्मिन् , तस्य भावस्तत्त्वात् । नीलीमेचकित सिचये यथाऽन्ये रक्तपतिादयो गुणा आधातु न शक्यन्ते एवमेव दुर्बुद्धौ शिष्ये उपाध्यायप्रयत्नेनापि शास्त्रप्रवणतादयो गुणा आधातुं न श. क्यन्ते । तस्याप्युपायमाह-तं यदीति। तं दुर्बुद्धि सारस्वतोऽनुभाव.= सरस्वतीमन्त्राराधनादिजन्यमदृष्टम् , सारस्वतमन्त्रसिद्धमहापुरुषकृतशिरःस्पर्श प्रभावो वा यदि प्रसादयति प्रसादपात्रीकरोति तम्प्रकार औपनिषदकेऽधिकर- णे वक्ष्यामः । अथ काव्यनिर्माणे मुख्य साधन विचारयन् प्रथमतः श्याम- देव मतमाह--काव्यकर्मणीति । काव्यकर्मणि-काव्यनिर्माणे, कवेः- काव्यनिर्मातुः, समाधिः पर=मुख्यतया, व्याप्रियते-साधनीभवति । समा धिपदार्थमाह--मनसहति । मनसश्चित्तस्य एकाग्रता विचारणीयैक- विषयालम्वनत्वमेव समाधिरित्यर्थः । एवं कृते किं भवतीत्याह-समाहित- . 'चन्द्रिकासहित. काव्यमीमांसायां- सारस्वतं किमपि तत्सुमहारहस्यं यगोचरे च विदुषां निपुणैकसेव्यम् । तत्सिद्धये परमयं परमोऽभ्युपायो यच्चेतसो विदितवेद्यविधेः समाधिः॥ "अभ्यासः" इति मङ्गलः । अविच्छेदेन शीलनमभ्यासः। स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते । समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः । तावुभावपि शक्तिमुद्भासयतः । “सा केवलं काव्ये " mewane .. मिति । समाहितं एकाग्रताभ्यासमहिना विषयान्तःप्रवेशपूर्वकं तदी- ययाथार्थ्यांनुसन्धानचतुरं, चित्तमर्थान-ज्ञातव्यविषयान् पश्यति याथा- येनावगच्छति । तथाचोक्तमभियुक्तैः- "चित्तकायमवघानम् ,अवहितं हि- चित्तमर्थान् पश्यति" इति । समाधेः काव्यकर्मणि मुख्यसाधनत्वमभियुक्तो- क्त्या समर्थयति-उक्तं चेति । सारस्वतमिति। तत्=अनिर्वचनीय. म् , सारस्वतंसरस्वतीसम्बन्धि, किमपि लक्षायतुमशक्य, सुमहारस्य= परैरविदिततमं गोपनीयं तत्त्वमस्ति । यत् तत्त्व विदुषां पण्डिताना विषये निपुणैकसेव्य=निपुणतया अवश्यं सेव्यम-स्त । अर्थात् पण्डितैस्तदवश्यमेव निपुणं सेव्यम् । तसिद्धये तादृशमहारहस्यप्राप्तये, अयं परमः श्रेष्ठः अ. भ्युपायः=उपायोऽस्ति, यत् विदितवेद्यविधेः विदितो ज्ञातः वेद्याना= पदार्थानां विधिः प्रकारो येन तादृशस्य चेतसः समाधिः एकाग्रतैव चित्तै- काम्प्यमेव काब्यस्फूर्तेर्मुख्य साधनमित्यर्यः । मङ्गलस्य मतमाह-अभ्यास इति । अभ्यासमाह-अविच्छेदेनेति । अविच्छेदेन सातत्येन नैरन्त येणेत्यर्थः । शीलन अन्थानुशीलनम् । अभ्यासस्य माहात्म्यमाह-स हीति । सः अभ्यासो हि सबंगामी सर्वेषु विषयेषु सम्भवतीत्यर्थः । सर्वत्र सर्वेषु अभ्यस्तेषु विषयेषु । निरतिशय अभ्यासातिशयमहिन्ना प्रकृष्टतमम् | कौशलं चातुर्यम् । आधत्त-उत्पादयतीत्यर्थः । समाध्यभ्यासयो दमाह-समा धिरिति । अन्तरिन्द्रियस्य मनस एकाग्रतापादनात्मकत्वात्समाधिरान्तरः, प्रयत्नः । ग्रन्थस्यावर्तनपरिशीलनादौ मुखनेत्रादिबाह्यप्रयत्नसापेक्षत्वाद. भ्यासो बाहयः प्रयत्न इत्यर्थः । उभयोरपि सार्थक्यमाह-तावुभावपी. ति । तावुभौ समाध्यभ्यासौ । शक्ति काव्यस्फूर्तिजनिकाम् | उद्भासयतः= जनयत इत्यर्थः । समाधिना=अभ्यासेन च काव्यशक्तिरुत्पद्यते इत्यर्थः । स्वम- ALM चतुर्थोऽध्यायः। हेतुः" इति यायावरीयः । विप्रमृतिश्च सा प्रतिभाव्युत्पत्तिभ्याम् । शेर क्तिकर्तृके हि प्रतिभाव्युत्पत्तिकर्मणी । शक्तस्य प्रतिभाति शक्तश्च व्यु- त्पद्यते । या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्तिमार्गमन्यदपि तथाविधम- घिहृदयं प्रतिभासयति सा प्रतिभा । अप्रतिभस्य पदार्थसार्थः परोक्ष इव, प्रतिभावतः पुनरपश्यतोऽपि प्रत्यक्ष इव । यतो मेघाविरुद्रकुमार- - तेन शक्तेः कार्यमाह-सा केवलामिति । सा-काव्योद्भासिनी शक्तिः । केवलम् इतरानपेक्षतया, प्राधान्येनेत्यर्थः । काव्ये काव्यनिर्माणे । हेतुः= कारणम् । प्रतिभाव्युत्पत्तिभ्यां तस्या भेदमाह-विप्रमृतिश्चेति । सा- शक्ति, प्रतिभाव्युत्पत्तिभ्या विप्रसूतिः दूरवर्तिनीत्यर्थः । तत्र हेतुमाह- शक्तिकतके इति । प्रतिभा च व्युत्पत्तिश्च तयोः कर्मणी कार्य शक्तिकर्तृ के शक्तिजन्ये इत्यर्थः । यदि शक्तिर्न स्याचर्हि प्रतिभाव्युत्पत्योः कार्ये अपि न संभवतः । प्रतिभाव्युत्पत्तिकर्मणोः शक्तयेकोधिष्ठानत्वादिति भावः । तदेवाह- शक्तस्येति । शक्तस्य काव्यकारणीभूतशक्तियुक्तस्य पुरुषस्य, प्रतिमाति प्रतिभात्मकबुद्ध्या नवनवार्थप्रतिभानं भवति । एवं शक्त. पुरुष एव व्युत्पद्यते- व्युत्पत्तिमान् भवति । प्रतिभाव्युत्पमिदस्त्वनुपदमेव दर्शयिष्यते। प्रतिभामाह- येति । या प्रतिभात्मिका विशिष्टवुद्धिः शब्दप्राम-काव्यानुकूलशब्दसमुदा. यम् , अर्थसाथै सहृदयहृदयङ्गम शब्दार्थराशिं च, अलङ्कारतन्त्र शब्दार्थोभ- यालङ्कारप्रपञ्चम् , उक्तिमार्ग=कविसमयानुकूलमुक्तिचमत्कारम् , अन्यदपि तथाविधमधिहृदय हृदयाभ्यन्तरे, प्रतिभासयति झटिति समुल्लासयति सा. प्रतिभा नामेत्यर्थः । प्रतिमाया फल मन्वय व्यतिरेकाभ्यामाह-अप्रतिम. स्येति । प्रतिभाख्यबुद्धिविशेषरहितस्य पुरुषस्य पदार्थसार्थ. शब्दार्थों घ. परोक्ष इव-इन्द्रियागोचर इव ज्ञानविषयो न भवति । अपश्यतोऽपि इन्द्रियार्थसन्निकर्षविधया वहिरिन्द्रियव्यापारमकुर्वतोऽपि प्रतिभावतः पुरुष- स्य सर्वोऽपि=पदार्थसार्थः प्रत्यक्ष इव-इन्द्रियगोचर इव झटिति ज्ञान- विषयो भवति । इत्य चान्वयव्यतिरेकाम्या पदार्थसार्थज्ञाने प्रतिभैव कारण- मिति सिद्धम् । अन्वयोदाहरणमाह-यत इति । यतः प्रतिभायाः पदार्थ- सार्थकारणत्वादेव मेघाविरुद्रः, कुमारदासः, आदिपदान्मूकमहाकविप्रभृत- ३६ चान्द्रकासहित काव्यमीमांसायां- दासादयो जात्यन्धाः कवयः श्रूयन्ते । किञ्चन महाकबयोऽपि देशद्वी- पान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृर्ति निबध्नन्ति स्म । तत्र देशान्तरव्यवहार:- माणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकापिशे पुण्याभिषेकक्रिया । ३ ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्कन्ति तपोभिरन्यमुनयस्तास्मिंस्तपस्यन्त्यमी ॥ यश्च जात्यन्धाः जन्मान्धाः श्रूयन्ते । इत्थमपि तैः सकलानां जागतेपदार्थाना वर्णन कृतमस्ति । तत्र प्रतिभैव हेतुः । मेधाविरुद्र इति कुवेर्नाम । नमिसाधु- कृताया रुद्रटालङ्कारटीकाया "ननु दण्डिमेघाविरुद्रभामहादिकृतानि सन्त्ये- वालकारशास्त्राणि" इत्युक्तमघाविरुद्रोऽलङ्कारशास्त्रप्रणेताऽऽसीदित्यपि ज्ञायते। श्रूयते च जन्मान्धानामपि महाकवीना भारतमार्तण्डगठ्ठलालमहोदयानाशीघ्र- कवित्वमद्भुतं वर्णनकौशलच | अन्यदप्याह-किश्चनेति । महाकवयः स्वदेशस्थिता अपि प्रतिभामहिम्ना देशान्तरद्वीपान्तरस्थ कथापुरुषान् प्रत्यक्ष पश्यन्त इव तेषा व्यवहारं वर्णयन्ति । तत्रापि प्रतिभैव हेतुः। तत्र देशान्तर व्यवहारनिबन्धनमुदाहरति-प्राणानामिति । अभिज्ञानशाकुन्तले सप्तमाके पद्यमिदम्-स्वर्गलोके निवसता मुनीनामाश्रमवर्णनमिदम् । अनिलेन वायु. ना प्राणाना वृत्तिधारणम् । वायुभक्षणमात्रेण प्राणधारणमत्र क्रियतइत्यर्थः । कुत्रेत्याह-सत्कल्पवृक्षे वने इति । यत्र वने कासितार्थप्रदातारः कल्पवृक्षाः प्राचुर्येण सन्ति तत्र वने मुनयो वायुभक्षणमात्रेण प्राणधारण कुर्वन्ती- त्यर्थः । काञ्चनपनाना सुवर्णकमलाना रेणुभि । पांसुभिः कपिशे पीतामे तोये दीर्घिकाजले पुण्याभिषेकस्य त्रैकालिकानयमनानस्य क्रिया व्यापारो भवति । रत्नशिलाभिरुत्मतादिरनिर्मितेषु भवनेषु ध्यानं समाधिकार्य क्रियते । विवुधस्त्रीणा, देवाङ्गनाना सन्निधौ सामीप्ये सत्यपि सयमः इन्द्रियाणामविच लितत्व भवति । अन्ये मुनयस्तु यस्या द्वारा यानि फलानि कान्ति तेषु स्वय मुपस्थितेष्वपि एते स्वर्गाथा मुनयस्तपस्यन्ति निःस्पृहा भवन्तीत्यर्थः । एवं स्वर्गलोकव्यवहारो मर्त्यलोकनिवासिनाऽपि कालिदासेन स्वप्रतिभातलादपनि.

चतुर्थोऽध्यायः। ३७. द्वीपान्तरन्यवहार:- अनेन सार्दै विहराम्बुराशस्तीरेषु ताडीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्परपाकृतस्वेदळवा मरुद्भिः।। कथापुरुषव्यवहार:- हरोऽपि तावत्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्वफलाधरौष्ठे व्यापारयामास विलोचनानि ॥ आदिग्रहणात्- तथागतायां परिहासपूर्व सख्यां सखी वेत्रभृदाबभाषे । बाले बजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ।। बद्धः । द्वीपान्तरव्यवहारनिबन्धनमुदाहरति-अनेनेति । रघुवशे इन्दुमती. स्वयंवरे पद्यमिदम् । अनेन पुरःस्थितेन राज्ञा सह तालीवनैर्ममरेषु मुर्मरशब्द- वसु अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरात् अन्यस्मात्समीपतिनो द्वीपात् आनीतानि समाहृतानि लवङ्गपुष्पाणि यैस्तैः । अत्र लवनपुष्पानयन तदीय- सौरमानयनोपलक्षकम् । एवमूतैर्मरुद्भिर्वायुभिः अपाकृतो निवारितः स्वेद- लवो धर्मकणिका यस्यास्तादृशीं सती विहरेति सुनन्दाया इन्दुमती प्रत्युक्तिः । अत्र द्वीपान्तरमवाना लवड्गपुष्पाणा संयोगन पवनस्य सौरभवर्णन कविना प्र. तिमाबलादेवोपनिबद्धम् । कथापुरुषव्यवहारमुदाहरति-हरोऽपीति । कुमारसम्भवे वसन्तोदये पार्वतीसन्निधाने हरस्य चित्तविकारवर्णनपरं पद्य. मिदम् । चन्द्रोदयारम्भे अम्बुराशिः समुद्रइव पार्वतीसन्निधानवशात् परिवृत्त- धैर्यः किञ्चिच्छिथिलीभूतधैर्यः हरोपि विम्बफलोपमाधरौष्ठशालिनि उमा- या मुखे चुम्बनेच्छया त्रीण्यपि नेत्राणि व्यापारयामास । अत्र प्रसिद्धस्य कथा- पुरुषस्य शिवस्य रहसि हिमवच्छृङ्गे पार्वत्या सह व्यवहारः कविना स्वप्रतिभाव- लादेवोपनिबद्धः। आदिग्रहणात्पराक्षस्य यत्किञ्चिद्वयवहारस्यापि प्रत्यक्ष- वनिबन्धनम् । यथा-तथागतायामिति । इदमपि रघुवशे इन्दुमतीस्व. यंवरे पद्यम् । पुरावर्तिनि राज्ञि सानुरागा ततोऽन्यत्र गन्तुमनिच्छुकामिन्दु- मती दृष्ट्वा परिहासपूर्व सुनन्दाया उक्तिः । सख्या इन्दुमत्या तथागताया पुरोवर्तिनि भूपे बद्धानुरागाया सत्या, वेत्रमृत् बेत्रधारिणी सखी सुनन्दा आब. भाषे-हे बाले ! अन्यतो व्रजामः अथ वधूरिन्दुमती एना सुनन्दा असूयया. ४ का०मी० चन्द्रिकासहित काव्यमीमांसायां- सा च द्विधा कारयित्री भावयित्री च । कवेरुपकुर्वाणा कारयि- त्री । सापि त्रिविधा सहजाऽऽहायौंपदेशिकी च । जन्मान्तरसंस्कारा- पक्षिणी सहजा । जन्मसंस्कारयोनिराहार्या । मन्त्रतन्त्राापदेशपभवा औपदेशिकी । ऐहिकेन कियतापि संस्कारेण प्रथमां तां सहजति व्यप- दिशन्ति । महता पुनराहार्या । औपदेशिक्याः पुनरैहिक एव उपदेश- काला, ऐहिक एव संस्कारकालः । त इमे त्रयोऽपि कवयः सारस्वत, कुटिलं यथास्यात्तथा ददर्श । अत्र सुनन्देन्दुमत्योमिथो व्यवहारः परोक्षो- ऽपि कविना स्वप्रतिभाबलात्प्रत्यक्षदुपनिबद्धः । एवं प्रतिमा निरूप्य विभ- जते-साचेति । साम्प्रतिभा । द्विधा द्विप्रकारा । प्रकारद्वयमाह- कारयित्री भावयित्री चेति । तत्राद्यामाह-कवेरिति । कवेः का. व्यकः उपकुर्वाणा उपकारिका सा कारयित्री नाम प्रतिमेत्यर्थः । तामपि विभजते-साऽपीति । सहजा, आहार्या, औपदेशिकीति भेदैः सा त्रिविधे. त्यर्थः । तत्र सहजा लक्षयति-जन्मान्तरेति । पूर्वजन्मजातसंस्कार- सापेक्षा या सैवेह जन्मनि सहजा-स्वाभाविकीत्युच्यते । आहायाँ लक्षयति- जन्मसंस्कारोति । जन्मनः इहजन्मसम्बन्धी यः संस्कारस्तदपेक्षिणी आ- हार्येत्युच्यते । औपदेशिकी लक्षयति-मन्त्रतन्त्रादीति । मन्त्रतन्त्रा- देरुपदेशात् प्रभव उत्पत्तिर्यस्याः सा औपदेशिकौत्युच्यते । आदिपदात् सार- स्वतमन्त्रसिद्धमहापुरुषकृतशिरःस्पर्शस्याऽपि सङ्ग्रहः । तेनाऽपि कवितो- त्पत्तेः श्रुतत्वात् । जन्मान्तरसंस्काराणामज्ञातत्वात् पूर्वोक्तानां प्रतिभाविशेषाणां ज्ञान मेव दुःशकमिति शङ्कायामाह-ऐहिकेनेति । ऐहिकेनाल्येनैव संस्का रेण समुद्बुद्धा प्रतिमा सहजेति व्यपदिश्यत इत्यर्थः । महता सस्कारेणैहि. केन पुनराहायों समुत्पद्यत इत्यनयो दः । मोपदेशिक्या विशेषमाह- औपदेशिक्या इति । औपदेशिक्यां संस्कारोपदेशाविहजन्मन्येव भवतः । तत्र जन्मान्तरीयं न किञ्चिदपेक्षितं भवतीति भावः । अथ पूर्वोक्तान प्रतिभाप्रभेदान् तत्तत्कविषु सङ्गमयन्नाह-तइमे इति । सारस्वत आभ्या- सिक औपदोशक इति ते त्रयः कवयः । तान्प्रत्येकं पूर्वोक्तप्रतिभाभेदैः सङ्ग- चतुर्योऽध्यायः । ३९. आभ्यासिक, औपदेशिकश्च । जन्मान्तरसंस्कारपवृत्तसरस्वतीको बुद्धि- मान्सारस्वतः। इइजन्माभ्यासोद्भासितभारतीक आहार्यबुद्धिराभ्या- सिकः। उपदेशितदर्शितवाविभवो दुर्बुद्धिरौपदेशिकः । तस्मान्नेतरौ वन्त्रशेषमनुतिष्ठताम् । “नहि प्रकृतिमधुरा द्राक्षा फाणितसंस्कारमपेक्ष- " इत्याचार्याः। "न" इति यायावरीयः। एकार्थ हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते । "तेषां पूर्वः पूर्वः श्रेयान्" इति श्यामदेवः । यतः- मयति-जन्मान्तति । जन्मान्तरजन्यसंस्कारेणैव प्रवृत्ता समुद्बुद्धा सरस्वती कविताशक्तिर्यस्यासौ । अतएव लोके बुद्धिमानिति कथितो यः स सारस्वतः कपिरित्यर्थः । आभ्यासिकमाह-इति । इहजन्मकृताभ्यासेन उद्भासिता प्रकटिता भारती कविताशक्तिर्यस्य तथाविध आहार्या उत्पाद्या बु द्विर्यस्य स चासौ आभ्यासिक. कविरित्यर्थः । औपदेशिकमाह-उपदे- शितेति । उपदेशितः मन्त्रतन्त्राद्युपदेशेन जनितः, दर्शितः उदाहरणादि- द्वारा प्रदर्शितः वाग्विभवः कविताशक्त्यात्मकं वाक्सामर्थ्य यस्य सः । किश्च स्वभावतः स दुर्बुद्धिर्दुमघा औपदेशिकः कुविरित्यर्थः । तस्मादिति। इतरौ-सारस्वताभ्यासिको यथाक्रम बद्दल्पाभ्यासवन्तौ वाग्वैभवशालिनी तस्मात्-तृतीयादौपदेशिकात् दुर्बुद्धरपेक्षया इतरौ तन्त्रशेष मत्रतन्त्रायु. पदेशात्मक नानुतिष्ठताम्-नापेक्षेते । अत्रार्थे प्राचीनाचार्यसम्मतिमाह-न- होति। स्वभावतो भधुराया द्राक्षाया माधुर्यवर्द्धनाय फाणितस्य इक्षुरसविका- रात्मकस्य दोहदस्य सस्कारो नाऽपेक्ष्यते । फाणितलक्षण तु यथाऽऽहुरगद- काराः-स एवेक्षुविकारेषु ख्यातः फाणितसज्ञया । इक्षो रसस्तु यः पक्कः किञ्चिगाढो बहुद्रवः । इति। स्वमतमाह-नेति यायावरीय इति । तदेव समर्थयति-एकाध हीति । एकप्रयोजनसम्पादक क्रियाद्वय फल द्विगुण- यतीत्यर्थः । तथाच सारस्वताभ्यासिकावपि यदि मन्त्रतन्त्राद्युपायमनुतिष्ठता तर्हि तयोर्यथायोग मृदुधहुतराभ्याससम्भवात्कविताशक्तिर्भुवं प्रगुणा भवेदि- ति यायावरीयस्य प्रत्यकर्ता राजशेखरस्याशयः । अथैतेषां तारतम्यमितरस- म्मत्या विचारयति-तेषामिति । तेषा पूर्वोक्तानां त्रिविधाना कवीना म- ध्ये भोपदेशिकादाभ्यासिकस्तस्मात्सारस्वत इति पूर्वपूर्वः श्रेयान् इति AMMrd चन्द्रिकासहित काव्यमीमांसायां- सारस्वतः स्वतन्त्र स्याद्भवेदाभ्यासिको मितः। औपदेशकविस्त्वत्र वल्गु फल्गु च जल्पति ॥ "उत्कर्षः श्रेयान्" इति यायावरीयः। स चानेकगुणसन्निपाते भवति । किश्च- बुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च । कवेश्वोपनिषच्छक्तिस्त्रयमेकत्र दुर्लभम् ॥ काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः मन्त्रानुष्ठाननिष्ठस्य नेदिष्टा कविराजता ।। ८ । श्यामदेवस्य मतम् । इत्थविधेोत्कर्षतारतम्ये हेतुमुपन्यस्यति-सारस्वत- इति । जन्मान्तरीयसंस्कारसहकृतहिकसंस्कारपरिमार्जितबुद्धिः- सारस्वतः कविनिर्माण स्वतन्त्रो भवति । सर्वत्राप्रतिहतसञ्चारा तस्य बुद्धिः कुत्राऽपि कुण्ठितान भवति-इत्यत उक्तं सारस्वतः स्वतन्त्रः स्यादिति । द्वितीय आभ्या- सिकस्विहजन्मकृताभ्यासोबुद्धवाग्वैभवतया परिमितमेव कवयितुं शक्नोति । इत्यत उक्त भवेदाभ्यासिको मित इति । मन्त्रतन्त्रायुपदेशप्रभावसमुद्बुद्धक- वित्वशक्तिरौपशिककविस्तु कदाचिद्वल्गु सुन्दरञ्जरपति, कदाचित्फल्गु निरर्थक जल्पतीत्यनवस्थिता तस्य शक्तिरिति हेतोरेतेषु पूर्वपूर्व एव श्रेयानिति श्याम देवोक्तिः समर्थिता भवति । स्वमतमाह-उत्कर्षः श्रेयानिति । उत्कर्ष- एव श्रेयस्त्वप्रयोजकः, सारस्वताभ्यासिकौपदशिकेषु यत्र स भवेत् स एव श्रेया- नित्यर्थः । उत्कर्षहेतुमाह-सचेति । सचोत्कर्षः अनेकेषां गुणानां सन्नि- पाते भवति । यत्रानेके गुणाः स्युस्तत्रोत्कर्षो भवेदिति तात्पर्यम् । उत्कर्षप्रयोज- कान् गुणानाह-वुद्धिमत्त्वश्चेत्यादिना । काव्यस्याङ्गभूतासु-विद्यासु बु- द्धिमत्त्वं नैपुण्यपूर्वक ज्ञातृत्वम् , अभ्यासकर्म-काव्यकरणाभ्यासः, कवेरि- ति जात्येकवचनम् , तथाच कवीनामुपनिषद्रहस्यज्ञानपूर्विका कवित्वशक्ति- श्चेति त्रयमेकत्र पुरुषे दुर्लभम् । एते एवोत्कर्षप्रयोजका अनेके गुणाः । का. व्ये, तदङ्गभूतासु छन्दःकोशादिविद्यासु कृताभ्यासस्य, अथ च सारस्वतम- न्त्रानुष्ठानतत्परस्य, बुद्धिमतः सारस्वतकवेरभ्यासप्रकर्षमन्त्रानुष्ठानात्मकगु- णसन्निपातानुभावात् कविराजता महाकविपदप्राप्तिः नेदिष्ठा करतलगतेव.'

. चतुर्योऽध्यायः । ४१ कवीनां तारतम्यतश्चैष प्रायोवादः। एकस्य तिष्ठति कवेह एव काव्य- मन्यस्य गच्छति मुहृद्भवनानि यावत् । न्यस्या(स्य?)विदग्धवदनेषु पदानि शश्व कस्यापि सञ्चरति विश्वकुतूहलीव ।। सेयं कारयित्री। भावकस्योपकुर्वाणा भावयित्री। सा हि कवेः समी वर्तत इत्यर्थः । कवीनामिति । कवीनामुत्कर्षापर्षतारतम्यादेष प्रवाद इत्यर्थः । प्रवादमाह-एकस्येति । एकस्यापकष्टस्य दुर्बद्धरौपदशि- कस्य वा काव्यं गृहएव तिष्ठतिः, भितिचतुष्टयान्तराल एव वर्चते, न केनाप्या- द्रियते । अन्यस्य मध्यमस्याभ्यासिकस्य वा काव्यं तदीयमित्रगृहपर्यन्त. मेव गच्छति। मित्रमात्रानन्ददायि भवति । तत्र रमणीयत्वाभावान्न सर्वसाधार- णस्यास्वाद्य भवतीत्यर्थः । अथ कस्याऽपि अनेकगुणसन्निपातप्रयोज्यप्रकर्षा- तिशयशालिनः कविराजस्य काव्यन्तु श्रुतिसुखाक्षरविन्यासवत्तया सरस-- तया च हलधरादिबुधावधि सकललोकसन्तोषकमिति अविदग्धानां प्राकताना- मपि षदनेषु श्रुतिसुखानि स्वपदानि न्यस्य विदग्धाविदग्धैः सादरणीयमानं सत् विश्वस्य जगतोऽवलोकने सकौतुकमिव शश्वत्सर्वदा सञ्चरति, शब्दसौष्ठवमा- त्रेण प्राकृतान , अर्थरसाद्यनुसन्धानेन सहृदयानानन्दयत् मुखान्मुखान्तरम्प- रिभ्रमतीत्यर्थः । तथा च यस्य कवेः काव्यमित्यकारमशेषजनमनामोदनं म. वेत् सएव कविः श्रेयानिति भावः । ईदृशं च काव्यमनकगुणशालिनो य. स्य कस्याऽपि भवितुमर्हति । इत्थ प्रस्तुतं विषयं सोदाहरणं प्रतिपाद्य समुप. संहरन्नाह-सेयमिति । पूर्वोक्तिषु कविप्रभेदेषु प्रदर्शिता सेय प्रतिभा कारयित्री- ति प्रसिद्धत्यर्थः । अथाऽपरा भावयित्रीमाह-भावकस्येति । भावयति= कान्यायं सहृदयतयाऽऽस्वादयतीति . भावकः काव्यार्थभावनापरिपक्कधीः सहृदयः, तस्योपकारिका या सा भावयित्री नाम प्रतिभेत्यर्थः । तस्याः प्रयोजन- माह-साहीति । सा भावयित्री प्रतिभा कवेः काव्यनिर्मातुः श्रमं का. व्यानुकुलशब्दार्थान्वेषणात्मकं प्रयास, अभिप्रायं मनोगतं भावं च भावयति बोर्बु प्रभवति । भावीयव्याः प्रतिभाया एव बलातादृशशब्दार्थभावा. V “४२ चन्द्रिकासहित काव्यमीमांसायां- श्रममभिमायं च भावयति । तया खलु फलितः कवेापारतरुरन्यथा सोऽवकेशी स्यात् । “कः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च -कविः" इत्याचार्याः। तदाहु:- प्रतिभातारतम्येन प्रतिष्ठा भुवि भरिधा । भावकस्तु कविः प्रायो न भजत्यधमां दशाम् ।। "न" इति कालिदासः पृथगव हि कवित्वाद्भावकत्वं, भावकत्वा- च कवित्वं । स्वरूपभेदाद्विषयभेदाच्च । यदाहु:- .. -- वगमः सहृदयस्य भवतीत्यर्थः । पूर्वोक्तार्थमेव विशदयन् पुनराह-तयेति । -तया भावयिच्या प्रतिभया कवेः काव्यकरणात्मको व्यापारतरुः फलितः फल. वान् भवति । अन्यथा भावयियाः प्रतिभाया अभावे सः कविव्यापारतरुः अवकेशी अफलः स्यात् । यदि भावकाः कवेः काव्यं भावयन्तो तत्रत्यरस. मास्वाद्य नानन्दतुन्दिलाः स्युस्तर्हि कवेः काव्यकरणश्रमो व्यर्थ एव स्यात् इति भावः । इत्थं कारयित्री भावयित्री च प्रतिभा प्रतिपाद्य तत्ताशप्रति. भाश्रययोः कारकभावकयोमेंदं दर्शयन् आचार्याणा मतमाह-कः पुनरिति । अनयोः कारकुभावकयोः कःपुनर्भेदः न कोऽपि भेदोऽस्तीत्यर्थः । यतः कविरेव भावयति, भावकोऽपि कवयति । इत्याचार्यमतसमर्थकममियुक्तवचनमाह- प्रतिभातारतम्येनेति । भुवि प्रतिभायास्तारतम्येन उत्कर्षापकर्षविशेषेण प्रतिष्ठा सम्मान आस्पदं वा भूरिधा ऽनेकप्रकारा भवति । तत्र भावको भाव- नाशीलो यः कविः सोऽधमान्दशा कुकवियोग्या दुर्दशा न भजति न प्राप्नो. ति । भावकत्वविशिष्टं कवित्वं प्रशस्यमित्यर्थः । पूर्वोक्तमतपरिपन्थि मतान्त- रमाह-नेति। आचार्यमते मावकत्वकवित्वयोर्भेदो नास्तीति यदुक्तं तन्न युक्तम् । अपि तु तयोर्मेदोऽस्त्येवेति कालिदासःकथयतीत्यर्थः । तमेव भेदं वि. विशदयति-पृथगेवहीति । यः काव्यं कुरुते स. कविः, यश्च काव्यार्थ- भावनापरिपक्कबुद्धिः सत्त्वोद्रेकान्निर्मलचेता वर्णनीयेन तन्मयीभावं भजति स. भावक इति कविभावकयोः स्वरूपभेदः । किञ्च कवेः काव्यनिर्माणाय शब्दा. लम्वनर्पूवकं वर्णनीया धटपटादयो विषयाः, भावकस्य तु रसमात्रास्वादयि. तुस्तदास्वादनमात्रं विषयः । इत्थं कविभावकयोर्विषयभदात्स्वरूपमेदाच्च पृथगेव- चतुर्थोऽध्यायः । ४३ कश्चिद्वाचं रचयितुमलं श्रीतुमेवाऽपरस्त कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति । नोकस्मिन्नतिशयवां सन्निपातो गुणाना- मेकः मते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥ ते च द्विधाऽरोचकिनः, सणाभ्यवहारिणश्च" इति मङ्गलः । "कवयोऽपि भवन्ति" इति वामनीयाः। “चतुर्दा" इति यायावरीयः। मत्सरिणस्तत्वाभिनिवेशिनश्च । "तत्र विवेकिनः पूर्वं तद्विपरीतास्तु ७- हि कवित्वाद्भावकत्व, भावकत्वाच्च कवित्वमिति कालिदासाशयः । पूर्वोक्तं क विभावकयोर्भेदमाभियुक्तोक्तया प्रमाणयति-कश्चिदिति । कश्चित्-कार- यिव्यात्मकप्रतिभयव युक्तः कविः वाचं रचयितुम लम् काव्य निर्मातुमेव प्रभवति । अपरो भावयित्र्यात्मकप्रतिभयैव युक्तः कविस्ता वाचं श्रोतुमेव भाव यितुमेवाऽलम् । एव स्थितेऽपि महाकवेस्तव कल्याणी उभयथा मतिः कार- यिन्यात्मकभावयिव्यात्मकप्रतिभाद्वयविशिष्टा ...बुद्धिः नः विस्मयं तनोति । विस्मयहेतुमाह-नोकस्मिानिति । एकस्मिन् पुरुषे अतिशयवता प्रकृष्टाना गुणानां सन्निपातः सहातो न दृश्यते । कुत इति चेदाह-एकइति । एक: उपलः स्पर्शमाणीरत्यर्थः । कनकं सुवर्ण सूते उत्पादयति । अन्यः निकषोपलः तस्य कनकस्य परीक्षाया तारतम्यविचारे क्षमः समर्थो भवति । अत्र क्रमेण विशेषसामान्यविशेषनिवेशनाद्विकस्वरालङ्कारः । अथ भावकान्- विभजते-ते चोति । ते च भावकाः द्विधा । तत्र केचित् अरोचकिनः, केचित्सतृणाभ्यवहारिणश्च भवन्ति इति मङ्गलस्याशयः । न रोचयतीत्यरोचकः सोऽस्यास्तीत्यरोचकी । अरोचको नाम रोग विशेषः, यस्मिन् सति सुस्वाद युक्तऽप्यन्ने प्रीतिन भवति । तथैके कवयोऽप्यरोचकिनः, ये सरसेऽपि काव्ये नासाक्षिसकोच कुन्ति । तृणमप्यपरित्यज्येति सतृणम् । स्तृणमभ्यवहरन्ति भुञ्जते इति सतृणाभ्यवहारिणः । यथा बुभुक्षिताः पात्रे परिवोषतान्नव्यञ्ज. नादिकमशेषमदन्ति तथा तद्विधाः कवयश्छन्दोमुद्राङ्कितं यत्किश्चिदपि का. व्यात्मना रसयन्ति ते सतृणाभ्यवहारिणोऽविवेकिन इति यावत । कवयोऽपि अरोचकिनः सतृणाभ्यवहारिणश्च भवन्तीति वामनमतानुयायिना मतम् ।

४४ चद्रिकासहित काव्यमीमांसायां- ततोऽनन्तरा" इति वामनीयाः। “अरोचकिता हितेषां नैसर्गिकी ज्ञानयोनिर्वा । नैसर्गिकी हि संस्कारशतेनापि बङ्गामव कालिका ते न जहति। ज्ञानयोनौ तु तस्यां विशिष्टज्ञेयवति वचास रोचकिता वृत्तिरेव" इति यायावरीय। किञ्च सतृणाभ्यवहारिता सर्वसाधारणी । तथा- हि व्युत्पित्सोः कौतुकिनः सर्वस्य सर्वत्र प्रथम सा। पविभाविवेकवि- कलता हि न गुणागुणयोर्विभागसूत्रं पातयति । ततो बहु त्यजाति बहु च गृह्णादि । विवेकानुसारेण हि बुद्धयो मधु निष्यन्दन्ते । परिणामे तु यथार्थदर्शी स्यात् । विभ्रमभ्रंशश्च निःश्रेयसं सन्निधत्ते । मत्स- रिणस्तु प्रतिभातमपि न प्रतिभात, परगुणेषु वाचंयमत्वात् । 6 अथाऽत्र विषये स्वमतमाह-अरोचकिता होति । तेषां भावकानामरो- चकिता हि नैसर्गिकी सहजा ज्ञानयोनिर्बुद्धिपूर्विका वा भवति । नैसर्गिकी चेत संस्कारशतेनाऽपि दूरीकर्तुं न शक्यते । तादृशाराचकिना निसर्गसुन्दरं सरस- मपि कान्यं न मोदं जनयति । अत्र दृष्टान्तमाह-वङ्गमिच कालिका- मिति । वो धातुविशेषः शोधनभावनादिंसंस्कारसहकृतोऽपि स्वा. भाविकी कालिकां नीलिमान यथा न त्यजति तथेत्यर्थः । सैवारोचकिता ज्ञानयोनिश्चेत् सविशेषरसध्वन्यासके वचसि तेषां रोचकिता वृतिरेव सादरो- व्यवहार एव भवतीत्यर्थः । इति यायावरीयत्त्य राजशेखरस्याशयः । सतृ. णेति । सतृणाभ्यवहारितात्मिका वृत्तिः सर्वजनसाधारणी, तदेव दर्शयति- तथा हीति । काव्यनिर्माणे प्रवृत्तस्य सर्वस्यैव व्युत्पित्सोः प्रथमं सतृणा- भ्यवहारिता वृत्तिभवत्येव । प्रतिमाया विवेकस्य च विकलता विरही गुणदो- षयोर्विभाजक सूत्र न पातयति, गुणागुणविवेकं कर्तुं न शक्नोतीत्यर्थः । तता प्रतिभाविवेकवैकल्याद्धेतोः । विभ्रमेति । विभ्रमस्य व्यामोहस्य विनंशो राहित्यं निःश्रेयस कल्याणं सन्निधत्ते समीपयतीत्यर्थः । मत्सरिण- इति । मत्सरिणोऽन्यशुभद्वेषिणोऽसूयालोः पुरुषस्य तु प्रतिभातमपि बुद्ध्या- रूढमपि न प्रतिभातमिव । तत्र हेतुमाह-परगुणेष्विति । परगुणश्ला- धाप्रसङ्गे मौनस्वीकारस्य तत्स्वभाववादित्यर्थः । खलाः खलु परेषां सरसं काव्यमवलोक्य तत्रत्यं रसमास्वादयन्तोऽपि कवेः प्रतिष्ठा मा भूदिति हेतोः चतुर्थोऽध्यायः। स पुनरमत्सरी ज्ञाता च विरलः । तदुक्तम्- कस्त्वं भोः कविरस्मि काप्यभिनवा सूक्तिः सखे पठ्यता त्यक्ता काव्यकयैव सम्मति मया कस्मादिदं श्रूयताम् । यः सम्यग्विविनक्ति दोषगुणयोः सारं स्वयं सत्कविः सोऽस्मिन्भावक एच नास्त्यय भवेदैवान निर्मत्सरः ।। तयाभिनिवेशी तु मध्येसहस्रं यकस्तदुक्तम्- शब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्द्रं लेदि रसामृतं विचिनुते तात्पर्यमुद्रां च यः। पुण्यैः सङ्कटते विवेचिरहादन्तर्मुखं नाम्यता केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो जनः॥ सनासाक्षिभूसकोचं तत्काव्यं परित्यज्य तत्र मौन भजन्त इति बहुशो दृष्ट दृश्यते चाहरहः । सइति । स. भावकः पुनर्विरलो यो ऽमत्सरी च झाता च भवेदित्यर्थः । उक्तार्थ प्राचीनपद्य प्रदर्शयति-तदुक्तं-कस्त्वमिति । कस्याऽपि कंचित् प्रश्नस्तदुत्तर च । भोः ! कस्त्वम् । इति प्रश्नः । कविर- स्मि-इत्युत्तरम् । हेसखे ! यदि त्वं कविरसि तर्हि काऽपि अमिनवा नवीना सूक्तिः पठ्यताम् , इति पुनः प्रश्नः, मया सम्पति काव्यकथैव त्यक्ता-इति पुनरुत्तरम् । कस्मादिदं-इति पुनः प्रश्नः । शृयताम्-इत्युत्तरम्-यः दोष- गुणयोः सम्यक् सार विविनक्ति-दोषगुणविवेचनसमर्थो भवति, अथ च स्वयमपि सत्कविः, ईदृशो भावक एव दुर्लभः, यदि काऽपि दैवात् लभ्यते तर्हि स निर्मत्सरो न भवतीति हेतोर्मया काव्यकथैव त्यक्तेति पूर्वेण सम्बन्धः । तत्त्वेति । तत्त्वे वस्तुयाथायें अभिनिवेशो यस्य तथाविषो विचारकस्तु यदि सहस्राणां मध्य कश्चिद्भवेत् तर्हि एक एव । तदेव दर्शयति-शब्दा. नमीत । यः शानां गुम्फनविधीन् विविनक्ति, अस्मिन् प्रसझे एता- दृशशब्दनिवेशेनेहशश्चमत्कारो जायते, एतादृशशब्दपरिहारणायं विशेषो भवे- दित्यादि शब्दविन्यासप्रकार यः सम्यविचारयतीत्यर्थः । यश्च सूक्ति दृष्ट्या ऽन्तरात्मना प्रहष्यति । यश्च रसरूपममृतं सान्द्र यथा स्यात्तथा लेदि-आ- स्वादयति । यश्च तात्पर्यमुद्रा विचिनुते, कविना. कुत्र किन्तात्पर्येण किंपदं - चन्द्रिकासहित काव्यमीमांसायां- स्वामी मित्रं च मन्त्री च शिष्यश्चाचार्य एव च । कवेर्भवति ही चित्रं किं हि तयन्न भावकः ।। काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्चिना । नीयन्ते भावकर्यस्य न निवन्धा दिशो दश ॥ सन्ति पुस्तकविन्यस्ताः काव्यवन्धा गृह रहे । द्विवास्तु भावकमनःशिलापट्टनिकुट्टिताः॥ सत्काव्ये विक्रियाः काश्चिद्भावकस्योल्लसन्ति ताः। सर्वाभिनयनिर्णीतौ दृष्टा नाट्यराजा नयाः ।। विन्यस्तमित्यादि कवितात्पर्य विचारयितुं यः प्रभवति । विवेक्तृविरहात् वि. वेचकाभावात् अन्तर्मुखं मुखस्यान्तरेव श्रोत्रभावात्सूक्तीरवस्थाप्य तान्यता क्लेशमनुभवतां केषांचिदेव कदाचिदेव पुण्य तु पुण्येन काव्यश्रमज्ञः काव्य- निर्माणपरिश्रमाभिज्ञो जनः सङ्घटते लब्धो भवतीत्यर्थः । स्वामीति । भावकः काठ्यार्थभावनापरिपक्कबुद्धिः सज्जनः कवेः कूते स्वामी, दोषाच्छादना- दिना रक्षकत्वात्पालकः, मित्रं, सुकविसमाजे कविगुणप्रख्यापनादुपकर्ता सुह- द्, मन्त्री, सद्विचारस्फुरणसाहाय्यकरणात्सचिवः, शिष्यः, कविसूक्तीनां सादरं, निषेवणादन्तेवासी, आचार्यः, गुणोपादानदोषहानाद्युपदेशकत्वा- द् गुरुः, इत्थं मावकः कवेः कृते किं न भवति सर्वएव सः ही इत्याश्चर्ये । काव्येनेति । तन्मनोमात्रवृत्तिना कवेर्मनस्येव कृतनिवासेन तस्य कवेः काव्येन किम् । न किमपि प्रयोजनं ताशकान्येनेति भावः । भावकर्यस्य निबन्धा दश दिशो न नीयन्ते-भावकद्वारा यस्य काव्यं सर्वत्र न श्लाध्यते तस्य कवेः काव्यं व्यर्थमेवेत्याशयः । सन्तीति । पुस्तकविन्यस्ताः पुस्तकेषु लिखिताः काव्यबन्धा गृहे गृहे प्रतिगृहं भूयस्त्वेनेत्यर्थः । सन्ति, तैर्न प्रयो- जनम् । भावकाना मनएव शिलापट्ट निकोपलस्तत्र निकुट्टिताः परीक्षि तास्तु द्वित्रा एव विरला एवेत्यर्थः । सत्काव्यइति । सत्काव्येऽपि भाव- कस्य-भावकहृदये इत्यर्थः । काश्चिदनिर्वाच्या विकिया विकारा उल्लसन्ति स्फुरन्ति, या नाट्यसृजा ब्रह्मणा नाट्याचार्येण भरतेनाऽपि, वा, अत्र अपि- रध्याहार्यः । सर्वविधानिकाभिनयनिर्णयविधौ न दृष्टा न लक्षिताः ।।

चतुर्थोऽध्यायः। ४७ वाग्भावको भवेकश्चित्कश्चिदुहृदयभावकः । साविकरानिकः कश्चिदनुभावैश्च भावकः ।। गुणादानपरः कश्चिद्दोषादानपरोऽपरः । गुणदोषाहृतित्यागपरः कश्चन भावकः ॥१९ अभियोगे समानेऽपि विचित्रो यदयं क्रमः । तेन विद्मः प्रसादोऽत्र नृणां हेतुरमानुषः ।। 20 न निसर्गकविः शास्त्रे न भुएणः कवते च यः। विडम्बयति सामानमाग्रहग्रहिलः किल ॥ २१ कवित्वं न स्थितं यस्य काव्ये च कृतकौतुकः । तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ॥ 22 अथ भावकानां वैचित्र्य दर्शयति-वागिति । गुणेति । कश्चित् वाग्मावकएव, कवेः सौशब्दयमेव पर्यालोचयितुं प्रभवति, कश्चित् हृदय- भावक एव, कवेः सूक्तिमाकर्ण्य 'अत्रेद कविहृदयम्' इत्येव विचार यितु प्रभवति । कश्चिद्भावको वचसा न किमपि प्रकाशयति, किन्तु आङ्गि- कसात्विकानुभावानेव प्रदय कविसूक्तिश्रवणजन्यमुल्लास प्रकटयति कश्चित् मावको गुणमात्रमुपादत्ते । कश्चिद्भावको गुणेषु निरपेक्षः केवलं दोषानेव पश्यति. से पुरोभागी शूकरोपमो भावकः । कश्चिद्भावको गुणान् गृह्णाति, दोषांश्च यज- ति। भावकवैचित्र्ये हेतुमुपन्यस्यति-अभियोगेइति । अभियोगे समानेपि, काव्ये भावकभेदाद्विविधा भावनाः समुल्लमन्ति, तेन हेतुना वयमित्थं विझो जानी मः, यत् प्रसादे नृणा हेतुरमानुषः मानुषबुद्धेरगम्यः । कश्चित् गुणैः प्रसीदति, कश्चित् दोषान् दृष्ट्वा समुच्छलति, कस्यचिद्रसेष्वेवानुग्रहः, कश्चिदलकारा- नेव बहु मन्यते इत्यादि । एतावता भावकानां मनःप्रसादकारणमिदमेवेति. परिच्छेत्तुमशक्यमिति भावः। ननिसर्गेति । यः शास्त्रे न क्षुण्णोऽपि च कवते स आग्रहपहिला सन् आत्मानं विडम्बयते प्रतारयति । कवित्वप्राप्तये सत्सम्प्रदायशुद्धं शास्त्रं नैसर्गिकी च प्रतिभावश्यकीति भावः। कवित्वप्रा- प्त्युपायमाह-कवित्वमिति । यः काव्येषु कुतुहली काव्य ज्ञातुं जनयितुं -वेच्छति नैसर्गिकप्रतिभाभावाकविता च यस्य न स्फुरति, तस्य सारस्वत- चन्द्रिकासहित काव्यमीमांसायां- पदान्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः। तदा स सिद्धो मन्तव्यः कुकविः कविरेव वा ॥23 कारयित्रीभावयिच्यावितीमे प्रतिभाभिदे । अथातः कथयिष्यामो व्युत्पत्ति काव्यमातरम् ।। ॥ इति राजशेखरकृतौ काव्यमीमांसाया कविरहस्ये प्रथमेऽधिकरणे चतुर्थोऽध्यायः पदवाक्यविवेकः । काव्यविशेषेषु कारयित्री नाम समीक्षा ।। , मन्त्राराधन, ब्राझीवचादिचूर्णसेवनाद्युपायैः कवित्वरूपा सिद्धिर्भवतीत्यर्थः । पदेति । सुधीः पण्डितो यदा स्ववाक्यपरवाक्य योरन्तरं भेदं वेत्ति, तदा स सिद्धः पदपरिपाकसिद्धो मन्तव्यः । अन्यथा स्ववचःपरवचोऽन्तरज्ञाना. भावे कुकविः अथवा कविशब्दोऽपि तत्र नोपयुक्तः, स कपिरेव मर्कटएव । मर्कटो यथा रत्नकाचयोर्मेदमजानन् रत्नं चूर्णीकृत्य काच श्लाघते तथाऽयम पीति भावः । अध्यायार्थमुपसंहरति-कारयित्रीति । इमे पूर्वोक्तप्रकारे कारयित्रीभावायव्यौ तदाख्ये प्रतिभाया भिदे भेदौ सोदाहरणं प्रपञ्चिते । अथाऽतः परं काव्यस्य मुख्यकारणस्वरूपामत एव मातरं व्युत्पत्ति कथयि. ष्यामः पञ्चमाध्याये इति शेषः । । इति श्रीमत खिस्ते-इत्युपनामकभैरवनायकतनूजानि साहित्या- चार्य श्रीनारायणशास्त्रिप्रणीताया काव्यमीमांसा- चन्द्रिकाया चतुर्थोऽध्यायः ।

पञ्चमोऽध्यायः। पञ्चमोऽध्यायः काव्यपाककल्पः । "बहुजता व्युत्पत्तिः" इत्याचार्याः । सर्वतोदिक्का हि कविवाचः। तदुक्तम्-प्रसरति किमपि कयञ्चन नाभ्यस्ते गोचरे वचः कस्य । इदमेव तत्काचित्वं यद्वाचः सर्वतोदिकाः॥ "उचितानुचितविवेको व्युत्पत्तिः" इति यायावरीयः । चतुर्थाध्यायमुपसंहरन् ग्रन्थकारः "अथातः कथयिष्यामो व्युत्पत्ति काव्यमातरम्" इति प्रतिज्ञातवान् । सैव व्युत्पत्तिरस्मिन्नध्याये सप्रभेदा सल. क्षणा सोदाहरणां च निरूपयिष्यते । प्रसङ्गाद्वयुत्पत्तितारतम्यसम्भवाः याकप्रभेदा अपि दर्शयिष्यन्ते । अथ प्रतिज्ञाता व्युत्पत्ति दर्शयति-बहुज्ञतेति । अनेकविषयावगाहि- त्वमेव सेत्यर्थ । वर्णनीयपदार्थसार्थसमर्थनसमर्थसर्वविषयविचारचातुरीचण- त्वं व्युत्पत्तिरिति भावः । इदमाचार्याणामभिमतम् । अमुमेवार्थ विवृणो- ति-सर्वतोदिक्का होति । हि-यस्मात्कारणात् कवीनां= काठ्यार्थभाव- नापरिपक्ववुद्धीनां परिणतवचसा महाकवीना वाच उक्तयः सर्वासु दिक्षु ग- च्छन्तीति तथाविधाः । यस्य भावकस्य यावती बुद्धि स्तावदर्यसम्पादनसम- र्था इत्यर्थः । कामदुघा इति यावत् । उक्तार्थ समर्थयति-तदुक्तम्-प्रसर- तीति । अभ्यस्ते–पुनः पुनरनुशीलनादिना संस्कारदा_मापादिते गोचरे- विषये कस्यचन-कस्यापि पुरुषस्य, सर्वस्यैवेत्यर्थः । कथञ्चन येन केनाप्युपा- येन वचः न प्रसरति किमिति काकुः । प्रसरत्येवेत्यर्थः । दृढसंस्कारमापन्नं विष- यमधिकृत्य येन केनाऽपि यक्किमपि वक्तुं शक्यत एव, न तावता किमपि वैशि- यम्भवतीति भावः । तत्-प्रसिद्ध कवित्वमिदमेव । अयमेव गुणः कवि- त्वव्यपदेशप्रयोजकः यत् वाचः उक्तयः सर्वतोदिक्काः स्यु. । अनभ्यस्तेपि सद्योवर्णनसामर्थ्य चेत्तदैव कवित्वन्यपदेशाईतेत्यर्थः । ईशसामर्थ्य बहुज्ञ- वात्मकन्युत्पत्त्यधीनमिति बहुज्ञतैव व्युत्पत्तिरित्याचार्याः प्राहुः । बहुज्ञताफला. मना स्वमतेन व्युत्पत्तिं लक्षयति उचितेति । उचितानुचितयोोग्यायो- ग्ययोविवेको विचारपुर.सरमादानपरित्यागावेव व्युत्पचिरिति यायावरीयस्य रा- जशेखरस्य ग्रन्थकर्तुर्मतम् । बहुज्ञता व्युत्पत्तिरित्याचार्योक्तमुचितमेव । तत्रा- ५का.मी. .

५० चन्द्रिकासहित काव्यमीमांसायां- . . "प्रतिभाव्युत्पत्त्योः प्रतिभा श्रेयसी" इत्यानन्दः सा हि कवरव्युत्पत्ति- कृतं दोषमशेषमाच्छादयति । तदाह- अव्युत्पत्तिकृतो दोषः शक्त्या संत्रियते कवेः। २ यस्त्वशक्तिकृतस्तस्य भगित्येवावभासते ॥ शक्तिशब्दश्वायमुपचरितः प्रतिभाने वर्चते । एतात्किं शिरास स्थितं मम पितुःखएडं सुधाजन्मनो लालाट किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगाः। इत्यं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ।। नेकविषयपरिज्ञानवशादेव योग्यस्थाने तत्स्थानाचितशब्दार्थालङ्काररसादिनि- बन्धनं तत्परिपन्थिना च निराकरणं यया विधीयते सैव व्युत्पत्तिरित्यर्थः । प्र. तिभाव्युत्पत्त्योस्तारतम्यमानन्दवर्द्धनाचार्यमतेनाह-प्रतिभेति। प्रतिभाव्यु पत्त्यामध्ये प्रतिमैव प्रशस्यतरा इति आनन्दवर्द्धनाचार्या वदन्तीत्यर्थः । तत्र. हेतुमाह साहीति । हि-यतः सा प्रतिभा कवेः काव्यकर्तुरव्युत्पत्तिकृतं व्युत्पत्त्यभावसम्भवमशेषं कृत्स्नं दोष रसास्वादप्रतिबन्धात्मकमाच्छादयति तिरोधत्ते दूरीकरोतीत्यर्थः । ऊक्तार्थ समर्थयन्नाह-अव्युत्पत्तिकृतइति । कवेरव्युत्पत्तिकतो व्युत्पत्यभावसम्भवो दोषः शक्त्या प्रतिभया संब्रियते आ- च्छाद्यते । यो दोषस्त्वशक्तिकृतः प्रतिभाया अभावादुत्पन्नः स झटिति तत्क्षणं झगिति वा अवभासते स्फुरति । प्रतिभाप्रस्तावे शक्तिरिय कुतः समापतितेति शङ्कयाऽऽह-शक्तिशब्दश्चायमिति । अयम्=पूर्वोक्तपद्यस्थः शक्ति- शब्दः प्रतिभाख्यशक्त्यभिप्रायेण प्रयुक्त इत्यर्थः । प्रतिभाशक्तिवशादव्युत्पत्ति- कृतदोषनिवारणस्योदाहरणमाह-एतत्किामिति । तातं शिवं निरीक्ष्य तदङ्ग- वर्तिभूषणादिविषये बालकस्य कुतूहलिनः कुमारकार्तिकेयस्य पार्वती प्रति- प्रश्नास्तदुत्तराणि चात्र वर्तन्ते कुमारः पार्वती पृच्छति हे मातः! मम पितुः शिरसि स्थितमेतस्किम् ? पार्वत्या उत्तरम्-एतत् सुधाजन्मनः सुधासूतेश्चन्द्रस्य खण्डं कलेत्यर्थः । पुनः प्रश्नः-लालाट-ललाटवर्ति इदं किम् ? पुनरुत्तरम्-इंद विलोचनम्- पञ्चमोऽध्यायः । ५१ "व्युत्पतिः श्रेयसी" इति मङ्गलः ॥ सा हि कवेरशक्तिकृतं दोषमाच्छादयति । तथा हि- कवेः संत्रियतेऽशक्तियुत्पत्या काव्यवम॑नि । - वैदग्धीचितचित्तानां हेया शब्दार्यगुम्फना ॥ .. तृतीयनेत्रमित्यर्थः । पुनः प्रश्नः -अस्य मम पितुः हस्ते किम् ! पुनरुत्तरम्-- पन्नगाः-सर्पभूषणानीत्यर्थः । इत्यमेवंप्रकारेण क्रौञ्चरिपोः कुमारस्य विश्वास- सो दिगम्बरस्य शूलिनो विषये प्रश्न उपस्थिते सति वामकरण यः उपरोधः स्व- मुखाच्छादनं तेन सुभग सुन्दरं यथा स्यात्तथा देव्याः पार्वत्या. स्मितं वः पातु रक्षत्वित्यर्थः । अत्र केचित् वामकरोपरोधसुभगमिति क्रौधरिपुमुखस्या- च्छादनं शूलिना कृतमिति व्याचक्षते, तदस्मभ्यं न रोचते। तत्र कतरद्वया. ख्यान समीचीनमिति सहृदयाः स्वयमेव विभावयन्तु । अत्र हास्यरसपरि। पोषमिच्छता कविना तथाविधः सन्दर्भः प्रकाटतोऽपि शब्दैन स्फुट प्रतीयत इत्यत्र कवेरव्युत्पत्तिरेव कारणम् । तथापि 'वामकरोपरोधसुभग देव्याः स्मित' मित्युक्त्यर्थसौन्दर्यविच्छितिविशेषमाईम्ना साऽव्युत्पत्तिस्तिरोधीयत इति । पूर्वमानन्दवर्द्धनाचार्येण प्रतिभाव्युत्पत्त्योः प्रतिमायाः प्रशस्यतरत्वमुक्तम् , इदानी तद्विपरीतं मालाचार्यमतमाह-व्युत्पत्तिः श्रेयसीति । प्रति- भापेक्षया व्युत्पत्तिरेव प्रशस्यतरेति मालाचार्याणामाशय. । पूर्वोक्तार्थसमर्थने हेतुमाह-साहीति । सा=व्युत्पत्तिर्हि कवेरशक्तिकृत प्रतिभाविरहजन्य अशेष सम्पूर्ण दोषमाच्छादयति तिरोधते इत्यर्थः । तदेवाह-कवेरिति । काव्यवमनि-काव्यमार्गे कवरशक्तिः प्रतिमाराहित्यं व्युत्पत्त्या सत्रियते तिरो. धीयते । वैदध्या काव्यार्थभाबनानन्यपरिपाकावशेषेण सहृदयताख्येन चितं व्याप्त चित्तं येषा तेषाम् । तैरित्यर्थः । शब्दार्थगुम्फना शब्दार्थालङ्कारसं. योजनम् । हेया ऽनादरणीयैवेत्यर्थः । ये खलु विदग्धा रसमनुभवन्ति तेषा यम- कानुप्रासोपमारूपकादिशब्दार्यालकारनिबन्धने न भूयानादर इत्यर्थः । अत्र के- चित् 'शब्दार्थगुम्फना' इत्यत्र 'शब्दस्य गुम्फना' इति पाठ कल्पयित्वा ईषन्नि- मौलितलोचनानां सुधिया विवेचनमभ्यर्थयन्ते, तन्निरीक्ष्य विस्मयविस्फारिता- -क्षा वयं 'अहो वैदग्ध्यम्' इति भणन्तो मौनमालम्बामहे । अशक्तिकृतदोषति.

५२ चन्द्रिकासहित काव्यमीमांसायां- व्युत्पत्तिर्यथा-कृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता-५ कृशं लीलापत्रं श्रवास निहितं कुण्डलमुचि ॥ न कौशेयं चित्रं वसनमवदातं तु वसितं समासन्नीभूते निधुवनविलासे वनितया ॥ "प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ" इति यायावरीयः। न खलु लावण्यलाभाहते रूपसम्पहते रूपसम्पदो वा लावण्यलब्धिहते im एका .. रोधायिकाया व्युत्पत्तेरुदाहरणमाह-व्युत्पत्तिर्यथा-कृतः कण्ठे इति । चिरकालप्रवासात् प्रियस्य प्रत्यागमनमाकर्ण्य तत्स्वागतोसुकाया वासकस- ज्जाया नायिकाया वर्णनमिदम् । निधुवनविलासे=सुरतोत्सवे समासन्नीभूते- समीपमागते सति । वनितया प्रियसमागमोत्कण्ठितया नायिकया कण्ठे नि- का सौभाग्यसूचकः सुवर्णामरणविशेषोऽपि न कृतो न धारितः । तन्वी सू, क्ष्मा मणिलता मणिमयोहारो न धृत इति किं वक्तव्यम् । निष्कमणिलतादीना- माश्लेषादौ प्रतिबन्धकत्वात्तद्धारणं न कृतमिति तात्पर्यम् । कुण्डलमुचिप्र- थमल एव कुण्डलरहिते कर्णे कृशं सूक्ष्ममपि लीलापत्रं न निहितं न स्थापि. तम् । अन श्रवसीत्येकवचनमविवक्षितम् , कर्णयोरित्यर्थः । एवमेव चित्र- मनेकवर्ण कौशेयं कृमिकोशजन्यं चिक्कणं पट्टाम्बर न वसितम् , अपितु शुभ्रवर्ण वसनं कापीसतन्तुजमंशुकं परिहितम् । अत्रेद तत्त्वम्-वासकसज्जानायिकाया: प्रसाधनवर्णनपरे ऽस्मिन् पद्ये सम्भोगशृङ्गारस्य व्यङ्गयतया तदभिव्यञ्जकाः कोमला वर्णा एव प्रयोक्तुमुचिताः, किन्तु कविना ऽशक्तिवशात्तत्प्रयोगो न कृतः प्रत्युते शृङ्गारपरिपन्थिनः ‘ण्ठे' 'क' 'सन्नी' 'कृ' '' इत्यादयों दुःश्रवा एव वर्णाः प्रयुक्ताः, तथा चैतैर्वण शृङ्गारस्य परिपोषो न भवतीति प्रतिभाभावज- न्या कवेरशक्तिः प्रकटीभवन्त्यपि सम्भोगशृङ्गारानुकूलप्रसाधननेपथ्यवर्णना- मिकया कवेव्युत्पत्त्या तिरोधीयते इति । अथात्र विषये स्वमत प्रकाशयति- प्रतिभाव्युत्पत्ती-इति । प्रतिभा च व्युत्पत्तिश्च ते मिथोऽन्योन्यं समवेते सङ्गत एव श्रेयस्यौ प्रशस्यतरे भवत इति राजशेखरमतम् । न केवलमेकल. या प्रतिभया व्युत्पत्त्या वा काव्यस्य प्रशस्यत्वं सम्पाद्यते, अपि तु प्रतिभाव्यु- त्पत्त्योरुभयोरपि सङ्गमेनेति भावः । लौकिकदृष्टान्तेनोक्तार्थ समर्थयति-नखर पञ्चमोऽध्यायः । सौन्द्रर्याय । उभययोगो यथा- जड्डाकाण्डोरुनालो नखकिरणलसत्केसरालीकराल: प्रत्यग्रालक्तकाभामसरकिसलयो मजुमारभृङ्गः। भर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी- सम्भूताम्भोजशोभां विदधदभिनयादण्डपादो भवान्याः ।। ल्विति । जगति सुन्दर इति व्यवहारः खलु रूपसम्पदं लावण्यं चापेक्ष्यैव भवति । तत्र यथा केवलया रूपसम्पदा, केवलेन लावण्येन वा सुन्दरत्वं न सम्पद्यते, अपि तु लावण्यरूपसम्पदोरुभयोयोगेनैव सौन्दय सम्पद्यते, तथैव प्रकृते प्रतिभाव्युत्पत्त्योरुभयोर्योग एव काव्यस्य प्रशस्यत्वं सम्पादयति । इह लावण्यरूपसौन्दर्यशब्दाः सामान्यतो लोके समानार्थका इति यद्यपि प्रयुज्य. न्ते, तथाऽपि सूक्ष्मेक्षिकया विचारे क्रियमाणे तेषु प्रत्येकं प्रवृचिनिमित्तमेदा. द्भिन्नत्वमेव । तरलतेजोविशेषो लावण्यम् । 'किमिव हि मधुराणां मण्डनं ना- कृतीनाम्' इति कालिदासोक्त्यनुसारेण प्रसाधननेपथ्यादिनिरपेक्षमेव यन्नय- नमोहनं भवेत्तद्रूपम् । निरवयं संश्लिष्टमवयवसस्थानमेव...सौन्दर्यमिति तेषां प्रत्येक भेदाः । प्रतिभाव्युत्पत्त्योरुभयोर्योगमुदाहरति-जवेति । महाकवि- ना भहवाणेन रचिते चण्डीशतके चण्डीचरणवर्णनपरं पद्यमिदम् । प्रदोष शिवस्य नृत्यं प्रसिद्धमेव, इत्थं नृत्यन्तं शिवं दृष्ट्वा भवान्या अपि तदनुकर• गेच्छा प्रादुर्भूता-इत्यत आह-भर्तु त्यानुकारे इति। भर्तुर्नटा- जस्य भवस्य नृत्यस्य पदार्थाभिनयात्मनोऽङ्गविक्षेपस्य अनुकारेऽनुकरणे प्र- वृत्तो मवान्या दण्डपाद ऊवीकृतश्चरणो जयतीति सम्बन्धः । तमेव विशिन- नष्टि-निजतन्विति । निजा भवानीसम्बन्धिनी या तनुः शरीरं सैव स्व- च्छा=निर्मला लावण्यवापी तस्यां सम्भूतं यदभोज कमलं तस्य शोभा श्रियं विदधदित्यर्थः । अत्र तनौ वापत्वि लावण्ये जलत्वं चरणेऽम्भोजस्व च परस्परसापेक्षम् । अम्भोजत्वसाधकविशेषणानि जङ्घाकाण्डेत्यादीनि । जङ्घा- काण्डमेव ऊरु महत् नाल नालदण्डो यस्मिन् , नखानां किरणा एवं लसन्ति केसराणि तेषामाल्या पत्या करालो व्याप्तो निम्नोन्नतो वा। प्रत्यास्य नवस्य तत्काललिप्तस्य अलक्तकस्य यावकस्य आमाया. कान्त ।

५४ चन्द्रिकासहित काव्यमीमासायां- - प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते । स च त्रिधा । शास्त्र- कविः काव्यकविरुभयकविश्च । “तेषामुत्तरोत्तरीयो गरीयान्" इति श्यामदेवः । "न" इति यायावरीयः। यथा स्वविषये सर्वो गरीयान्। न हि राजहंसश्चन्द्रिकापानाय प्रभवति, नापि चकोरोऽद्भयः क्षीरोद्धर- प्रसरा एव किसलयानि पूत्राणि यस्य । मञ्जुः सुन्दरो मञ्जीरः पादभूषणमेव भृङ्गो अमरो यस्मिन् । एवंविधो भवान्या दण्डपादो जयति सर्वोत्कर्षेण वर्त- ते इत्यर्थः । अत्र भवान्या दण्डपादे निजतनुस्वच्छलावण्यवापीसम्मूताम्भो. जारोपस्य 'सम्भूताम्भोजशोभा विदधत्' इत्युक्तरुपमानारोपस्वरूपत्वाभा- वान्निदर्शना । तत्साधकानि जङ्घाकाण्डत्यादि चत्वारि रूपकाणि । इदमत्र त- त्वम्-निपूर्वकस्य धाधातोः करणार्थकत्वाद्विदधदित्यस्य धारणार्थेऽवाचकवं दोषः । एवमेव निजतनुस्वच्छलावण्यवापीत्पादौ च तनुपदार्थस्य भवान्या- योगोऽभिप्रेतः, किन्तु स तथा न घटने, निजपदार्थस्य प्रधानक्रियान्वयिका- रकपदार्थान्वितत्वात् दण्डपादस्य निजपदार्थेनान्वयः प्रतीयत इत्यभवन्मत- योगो नाम दोषः । अत्रेशदोषसद्भावेऽपि कविप्रतिभाव्युत्पत्तिवशोन्मीलितनि- दर्शनारूपकालङ्कृतिचमत्कृतिः प्रधानतः प्रतीयमाना स्वानुमावेन दोषमा- च्छादयतीति उभययोगोदाहरणमिदम् । कविशब्दप्रयोगे योग्यतामाह -प्रति भेनि । न केवलं छन्दःपूरणमात्रेण कविर्भवति, अपि तु प्रतिभाव्युत्पत्ति- भ्यां युक्तः कविरेव कविव्यपदेशाई इत्यर्थः । कविं विभजते-सचंति। सः कविस्त्रिधा त्रिप्रकार इत्यर्थः । १ शास्त्रकविः २ काव्यकविः ३ शास्त्र- काव्योभयकविरिति तस्य त्रयः प्रभेदा इत्यर्थः । तेषां मध्ये यथोत्तरं प्रश- स्यत्वमिति श्यामदेवमतम् । ईदृशं तारतम्यं न समञ्जसमिति स्वमतम् । स्वमतं समर्थयितुमाह-यथेति । स्वाभ्यस्ते विषये सर्वएव परापक्षया प्रकर्षवान् भवतीति श्यामदेवोक्तं तारतम्यं न युक्तमित्यर्थः। दृष्टान्तमुखेन तदेवाह-नहीति । नीरक्षीर विवेककुशलोऽपि राजहंसश्चन्द्रिका पातुं न प्रभवति, एवं चन्द्रिकाचमनचतुरोऽपि चकोरो नीरात् क्षीरमुद्धर्तुं न शक्नो- ति। नैतावता हंसचकोरयोः कश्चिदुत्कृष्टः परोऽपकृष्ट इति गदितुं श क्यम् । स्वस्वविषये तयोनिपुणत्वात् इत्यर्थः । अथ स्वमतेन तेषां त्रयाणा , पञ्चमोऽध्यायः ।। ५५ णाय । यच्छास्त्रकविः काव्ये रससम्पदं विच्छिनात्त । यत्काव्यकविः शास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथयति । उभयकावस्तुभयोरपि वरीयान्याभयत्र परं प्रवीणः स्यात् । तस्मात्तुल्यमभावावेव शास्त्रकाव्य- कवी । उपकार्योपकारकभावं तु मिथः शास्त्रकाव्यकव्यारनुमन्यामहे । यच्छास्त्रसंस्कारः काव्यमनुगृह्णाति शास्त्रैकमवणता तु निगृह्णाति । काव्यसंस्कारोऽपि शास्त्रवाक्यपाकमनुरुणद्धि काव्यैकमवणता तु विरु- णद्धि । तत्र त्रिधा शास्त्रकविः । यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं कविभेदाना मिथो भेदकं दर्शयन्नाह-यच्छास्त्रकविरिति । यत्-य स्मात्कारणात् शास्त्रकवि. शास्त्रेषु सविशेष कृतश्रमोऽपि काव्येषु लब्धसा- धारणवशः कविः स्वोक्तिषु रससम्पदं विच्छिनत्ति रसाभिव्यञ्जनसमर्थश व्दार्थसन्निवेश कर्तुं न पारयति, एवमेव यस्मात्कारणात् काव्यकवि -का- व्येषु लब्धसविशषव्युत्पत्तिरपि शास्त्रेषु नाधिगताधिकव्युत्पत्तिः कविः, तक- कर्शमप्यर्थमुक्तिवैचित्र्येण श्लथयति शास्त्रीयान् पदार्थान् तत्तच्छास्त्रीयपा. रिभाषिकशब्दैवर्णयितुं न प्रभवति, तस्मात्तावुभावप्यन्योन्यसापेक्षाविति .स मानावेव । उभयकवि शास्त्रेषु काव्येषु च लब्धोत्कृष्टप्रबोधः कवि., शास्त्रकविकाव्यकव्योरपेक्षया स एव श्रेष्ठः, यदि स वस्तुतः शास्त्रकाव्ययोः समानभावेन प्रवीणः स्यात् । इत्थमुपदर्शितरीत्या शास्त्रकाव्यकवी समानावेव। तयो. परस्परोपकारकत्व परस्परोपकार्यत्वं च वक्तु शक्यम् । शास्त्रस्य सस्कारः साधारणः प्रवेश एव काव्यरचनाया वैचित्र्यमुत्पादयति, सर्वदा शाखैकममत्वन्तु सुकवितासम्पादनौपयिकशब्दार्थस्फूर्ति प्रतिबध्नाति । एवमेव काव्येषु सस्कारः काव्यार्थभावनामावितत्वं शास्त्रीयकर्कशपदार्थाना- मपि कान्तासम्मितविधया सरसभावेन वर्णने साहाय्यं कुरुते, सर्वदा काव्य. कममत्वं तु बुद्धि कोमला कुरुते, यथा सा समधिकविचारसापेक्षान् शास्त्री. यान पदार्थान् ग्रहीतु न प्रभवेत् । अथ त्रिधा मिन्नान कवीन् प्रत्येक वि- भजते-तत्रेति । तत्र तेषु कविषु शास्त्रकविः त्रिधा त्रिप्रमेद इत्यर्थः । तत्र यः शास्त्र विधत्ते-शास्त्रीयान अन्यान् विधत्ते निर्माति, स एकप्रकारः । यश्च शास्ने काव्यं विधते-शास्त्रीयपदार्थान् काव्यरूपेण प्रथ्नाति स द्वितीयः यतः mareer - - ..

५६ चद्रिकासहित काव्यमीमांसायां- - संविधत्ते, योऽपि काव्ये शास्त्रार्थ निवचे । कान्यकविः पुनरष्टया । तयथा रचनाकविः, शब्दकविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रसकविः, मार्गकविः, शास्त्रार्थकविरिति । तत्र रचनाकविः- लोलल्लागूलचल्लीवलायतबकुलानोकहस्कन्धगोल- ७ ोलाङ्ग्रलै दद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु । खएडेषूदण्डापिण्डीतगरतरलकाः प्रापिरे येन वेला- मालन्योत्तालतल्लस्फुटितपुटकिनीवन्धवो गन्धवाहाः ॥ त्रिधा च शब्दकवि माख्यातार्थभेदेन । तत्र नामकविः- प्रकारः । यश्च काव्येऽपि शास्त्रार्थ निधत्ते काव्यपदार्थान् शास्त्रीयपरिभाषया- निवधनाति-स तृतीयः प्रकरः। इत्थमिमे शास्त्रकवेस्त्रयो भेदा व्याख्याताः । अथ काव्यकविं विमजते-काव्यकविरिति । १ रचनाकविः २ शब्दक. विः ३ अर्थकविः ४ अलङ्कारकविः ५ उक्तिकविः ६ रसकविः ७ मार्ग. कविः ८ शास्त्रार्थकविरित्यष्टभेदैभिन्नः काव्यकविरित्यर्थः । तत्र रचनाकविनाम श्रुतिसुखा प्रगाढप्रौढपदबन्धा रचना कर्तुं यः प्रभवति सः। रचनाकविकाव्य. मुदाहरति-लोलदिति । येन राज्ञा वेला मर्यादा समुद्रतीरमर्यादामि- त्यर्थः । आलङ्घय आसमन्तात लङ्घीयत्वा षण्डेषु पद्मसमूहेषु गन्धवाहा वायवः प्रापिरे निषेविताः । कीदृशेषु षण्डेष्वित्याह-लोलत् चञ्चलं यल्लाङगूलं पु. च्छ तदेव वल्ली लता तया वलयितो मण्डलितो बकुलानोकहानां वकु. लद्रुमाणा स्कन्धगोलः शाखासमूहो यैस्तैः । निनदद्भिः शब्दं कु बर्बाणै गोलाङ्गूलैः कृष्णमुखैवानरैः कर्तृभिः प्रतिरसितेन प्रतिध्वनिना जर- त्यो जीर्णाः कन्दरा एव मन्दिराणि येषु तेषु । कीदृशा वायव इत्याह-उद्द- डानामुन्नतदण्डानां पिण्डीतगराणां पिण्डखजूराणां तरलनाश्चान्चल्य. सम्पादकाः कम्पयितार इत्यर्थः । किञ्च, उत्ताला उन्नता गभीरा वा ये तल्लाः सरांसि तेषु स्फुटितानां विकसितानां पुटकिनीनां पद्मिनीना बन्धवस्तद्गत- सौरभयुक्ता इत्यर्थः । अस्मिन् पद्ये प्रौढा प्रगाढा श्रुतिसुखा च रचना वर्तते इति रचनाकविकाव्योदाहरणमिदम् । अथ शब्दकवि-विभजते-विधेति । शब्दस्य नामाख्यातमेदमिन्नत्वात् १ नामकविः २ आख्यात कविः पश्चमोऽध्यायः। विद्येव पुंसो महिमेव राज्ञः प्रज्ञेव वैद्यस्य दयेव साधोः।। लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैव ॥ आख्यातकविर्यया- उस्तरां जुड़सुराजहपुर्जगर्नु- राजाध्निरे भुजतटीनिकरैः स्फुरद्भिः। सन्तुष्टुवुमुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भाम् ॥ नामाख्यातकविः- इतत्विषोऽधाः शिथिलांसबाहवः श्रियो विषादेन विचेतना इव । न चुक्रुशुों रुरुदुर्न सस्वनुर्न चेलुरासुनिखिता इव क्षणम् ।। ३ नामाख्यातकविरिति तस्य त्रयः प्रभेदा इत्यर्थः । तत्र नामात्मकशब्द प्रधानरचनाशीलो नामकविरित्यर्थः । नामकविकाव्यमुदाहरति-विद्येवेति। पुंसो विद्या यथा भूषणम् , राज्ञो महिमा यथा, वैद्यस्य प्रज्ञा यथा, साधर्दिया. यथा, शूरस्य लज्जा यथा, यूनो मृजा (शुद्धिरीज्वल्यम् ) यथा भूषणम् , तथा तस्य नृपस्य सैव भूषणमित्यर्थः । अत्र विद्यादयः सर्वेऽपि. नामशब्दो एवं प्रयुक्ता नत्वेकोऽप्याख्यातशब्दः प्रयुक्त इति नामकीवकाव्यादहारण- मिदम् । यः कविराख्यातशब्दानेव बहुश् प्रयुङ्क्ते स आख्यातकविः । माख्यातकविकाव्योदाहरणमाह-उच्चस्तरामिति । क्षीरसुमद्रादमृते मथ्यमाने सति तदमृतं सर्वेरेव देवैर्लप्स्यते इति बृहस्पतीचमाकण्य देवानां प्रहर्षस्य वर्णनम् । अमृतस्य सुधायाः सम्मवउत्पत्तिस्तस्य लाभो गर्ने यस्यास्तादी गुरोर्वृहस्पतेर्वाचः श्रुत्वेत्यध्याहार्यम् । ते देवा उच्चस्तरां जहसुः । आजहषुः । स्कुराद्रि, करैमुंजतटानि आजनिरे । सन्तुष्टुबु । मुमुदिरे । गुरोर्वाच बहु मेनिरे च । अत्र प्रायः सर्वे आख्यातशब्दा एवं प्रयुक्ता इत्याख्यातकविकाव्योदाहरणमिदम् । यःकविश्च नामशब्दान् आख्यात- शब्दाश्च समानतया प्रयुङ्क्ते स नामाख्यातकविः । नामाख्यातकविकाव्यमुदा- हरति-हतेति । प्रत्यग्रजातपतिनिधनशोकाना विधवाना दुरवस्थाया वर्णन- मिदम् । पत्युमरणेन सौभाग्यापगमात् हतत्विषोऽपगतप्रभा अतएवान्धाः किर्तव्यविमूढाः, शिथिलासौ बाहू यासा तथाविधाः विषादेन खेदन विचेतना 'इव ताःस्त्रियो न चुक्रुशु नौ रुरुदु नै सस्वनुः, किन्तु लिखिता इव न चेलुः ।

५ चन्द्रिकासहित काव्यमीमांसायां- अर्थकवि:- देवी पुत्रममृत नृत्यत गणाः किं तिष्ठतेत्युद्धजे ९० हर्षादभृङ्गिरिटाबुदाहृनगिरा चामुण्डयाऽऽलिहिते । पायावो जितदेवदुन्दुभिधनध्वानप्रवृत्तिस्तयो रन्योन्याङ्कानिपातजर्जरजरत्स्थूलास्थिजन्मा रकः।। द्विधाऽलङ्कारकविः शब्दार्थभेदेन । तयोः शब्दाऽलङ्कारः- न प्राप्तं विषमरणं प्राप्तं पापन कर्मणा विषमरणं च । न मृतो भागीरथ्यां मृतोऽहमुपगृह्य मन्दभागी रथ्याम् ।। ११ अत्र पूर्वार्धे नामप्रधाना, उत्तगर्दै चाख्यातप्रधाना रचनेति नामाख्यातकवि- काव्योदाहरणमिदम् । यश्चालङ्काररसमावादिनिरपेक्षमर्थमात्रमेव वर्णयति सोऽ थकविः । अर्थकविकाव्योदाहरणमाह-देवीति । पार्वत्याः पुत्रोत्सवप्रसङ्गे शिवगणाना हर्षस्य वर्णनमिदम् । देवी पार्वती पुत्रमसून, हे गणाः ! नृत्यव, किं तिष्ठत ! इति हर्षात् प्रमदात् उद्भुज उन्नमितभुजाये उदाहृतगिरा कृत- हर्षसूचकशब्दया चामुण्डया तन्नामकात्रीगणविशेषण आलिङ्गिते भृनिरिटी तन्नामके गणे सति जिता देवदुन्दुभेघनध्वानस्य प्रवृत्तिर्येन सा, अन्योन्यस्य परस्परस्य अके निपातेन जर्जर भग्नप्राय जरत् जीर्ण यत् स्थूलास्थि तस्मात जन्म उत्पत्तिर्यस्य सः तादृशो रवो महान तुमुलः 'शब्दो बे। युष्मान् पाया: दित्याशीः । अत्र कविना गणानां हर्षः कीदृशो जात इत्यर्थ एव बाढं वर्णितः, तत्र रसभावालङ्कारादिसानिवेशे न किञ्चिदपि प्रयतितमित्यर्थकविकाव्योदाहरण- मिदम् । अथालङ्कारकवि विभजते-द्विधेति । अलङ्काराणां शब्दार्थान्वयव्य- तिरेकानुविधायित्वेन द्विविधत्वातत्र तत्र साभिनिवेशप्रवृत्तिः कविरपि द्विविधः शब्दालङ्कारकविरालङ्कारकविश्चेत्यर्थः । तयोः । शब्दार्थालङ्कारयोः शब्दस्य प्रथमोपस्थितत्वात् प्रथम शब्दालकारमुदाहरति-न प्राप्तमिति । अनुतप्तस्य कस्याप्युक्तिरियम् । विषमं कठिनं दुर्गमं वा यद्रणं युद्धं तन्नप्रा. सम, अपि तु पापेन कर्मणा हेतुभूतेन् विषद्वारा मरणं प्राप्तम् । एवमेव भागीरथ्या गङ्गाया गङ्गातीरे इत्यर्थः, न मृतः, किन्तु मन्दभागी अल्पभाग्यो दुर्भाग्यो वा रथ्यां मार्गमुपगृहय मार्गएवेत्यर्थः, अहं मृत इति श्लोकार्थः ।अत्र पञ्चमोऽध्यायः। ५४ अर्यालङ्कार:- भ्रान्तजिहापताकस्य फणच्छत्रस्य वासुके। दंष्ट्राशलाकादारयूं कर्तुं योग्योऽस्ति मे भुजः॥ उक्तिकविः- उदरमिदमनिन्धं मानिनीश्वासलाव्य स्तनतटपरिणाहो दोलता दासीमा । स्फुरति च वदनेन्दुहक्मणालीनिपेय- स्तदिह मुशि कुल्याः फेलयो यौवनस्य ।। पद्ये 'विषमरणं' 'भागीरथ्या इत्यशयो. पादान्तयमक, शब्दशक्तिमूलको- विरोधाभासश्चेति शब्दालङ्कारप्राधान्याच्छब्दालङ्कारोदाहरणमिदम् । अर्था- लकारमुदाहरति-भ्रान्तेति । वीरस्य दपोंक्तिरियम्-प्रान्ताऽनवस्थिता जि. हारूपा पताका यस्य । मुहुर्मुहुर्जिहाचालनपुरःसरं वायुभक्षणस्य सर्पस्वभाव त्वात् । फणएव छत्रं यस्य तस्य वासुके नागराजस्य दंष्ट्रारूपा या शलाका छत्रपताकावलम्बभूतो दण्डविशेषस्तस्य दारियं दुर्गतिमभावं कर्तुं दंष्टामुत्पा. यितमित्यर्थः । मम मुजो बाहुयोग्यः समर्थोऽस्ति । अत्र जिह्वायां पता. कायाः फणे छत्रस्य दष्ट्राया शलाकाया स्तन्मूलक वासुको राजत्वस्य चारो। पापकालकार. तत्कृतैवात्र काव्ये चमत्कृतिरिति अर्थालङ्कारोदाहरणमिदम् । सामान्यतो यद्वक्तव्य तद्यदि सहृदयहृदयालाढकेन मजयन्तरेण पर्यायोक्तवि. धया ऽभिधीयते तदेवोक्तिवैचित्र्यं नाम । तादृशरचनाचतुरः कविरुक्तिकविः रभिधीयते । उक्तिकविकाव्यमुदाहरति-उदरमिदमिति । कांचन लोको. त्तररूपसम्पदं सुन्दरीं दृष्ट्वा कश्चित् सहृदयः स्वमित्र वदति । पूर्वदृष्टस्य स. म्प्रति परोक्षस्याऽपि तदुदरस्य वर्णनप्रसने मानसप्रत्यक्षवशादिदमा निर्देशः। इद-पुरो दृश्यमान अनिन्धं सर्वथा निर्दोष मानिन्यास्तस्याः स्वकीयेन श्वा सेन निःश्वासवायुनाऽपि लाव्यं भङ्गुरं कूशतममिति यावत् । एतादृशमार्द. वशालिन्यास्तस्या निःश्वासोऽपि परापेक्षया सूक्ष्म एव भवेत् , तथा च तादृश- सूक्ष्मनिःश्वासवायुनाऽपि यद्गुर तस्य कृशत्व सूक्ष्मत्वं' च किं वक्तव्य -मिति भावः । 'सदसत्संशयगोचरोदरी' इत्यादिमहाकविवर्णनात् स्त्रीणामु.

६० चन्द्रिकासहित कार्यमीमांसायां- यथावा- प्रतीच्छत्याशोकी किसलयपरावृत्मिधरः १४ कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् । परिम्लानमायामनुवदति दृष्टिः कमलिनी . मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ॥ दरकायमेव प्रशस्तमिति प्रसिद्धः । दोरेव लता तस्या लेह्यस्यास्वाद्यस्य सी- मा मर्यादास्वरूपः स्तनतटस्य परिणाहो विशालताऽस्ति । यथा काऽपि लता स्व. भावतः कश्चित् दृढं वृक्षमाश्रित्यैव शोभते वर्द्धते च, तथैव वर्णनीयनायिकाया. भुजरूपा लता विशाल स्तनतटमाश्रित्यैव राजते इत्यर्थः । लेह्यसीमेत्युक्तेः स्व. नतटस्य यावान् परिणाहोऽस्ति तावत्पर्यन्तं दोर्लता प्रसरतीति कथितं भवतीति स्तनयोः पीनत्वं पृथुत्वं च व्यक्तं भवति । हगेव प्रणाली जलवहनमार्गस्तयाँ निःशेषं पातुं योग्यो वदनमेव इन्दुश्चन्द्रः स्फुरति प्रकाशते । यथा जलपूर्णाद्वि- शालात् पात्रात् प्रणालिंकाद्वारा तत्रत्यं सकलमपि जलं पातुं शक्यते, एवमेव लावण्याम्बुभरितस्य तद्वदनस्य लावण्यं नेत्रप्रणालिकाद्वारा साकल्येनानुभ- वितुं शक्यमित्यर्थः । तत् तस्मात कारणात् इह सुदृशि अस्यां सुनयनायां नायिकाया यौवनस्य तारुण्यस्य याः केलयः क्रीडास्ताः कुल्याः अल्पाः स. रित एवेति मन्ये । अत्र 'कल्या' इत्यपपाठः । 'कुल्या' इत्येव पाठः समी. चीनः प्रतिभाति । यत्तु केचित् "तत्तस्मात् इहास्मिन् सुदृशि सुनयनाया यौवनस्य कल्या मादका केलयः स्फुरन्ति" इति व्याचख्युः, तत्र 'इह-अस्मिन्' इत्यंशः कुत्रान्वेतीति न विद्मः । अन्यत्चारतम्यं सहृदयाः स्वयमेव विचार- यन्तु । स्पष्टार्थमुक्तिकविकाव्यस्योदाहरणान्तरमाह-प्रतीच्छतीति अत्रापि कस्याश्चित्सुन्दा रूपसम्पदं निरीक्ष्य माधतो रसिकस्य सखार्य प्रत्युक्तिः । अधरः आशोकीम् , अशोकवृक्षसम्बन्धिनी किसलयपरावृत्ति नव- पल्लवविनिमयं प्रतीच्छति वाञ्छति । एवं कपोल: प्रियविरहजन्यात् पाण्डु- त्वात् ताडीपरिणतिं परिणततालशोभा अवतरति धारयति । दृष्टिः कमलिनी परिम्लानप्रायां प्रायशो म्लानामेव अनुवदति व्यञ्जयति । इति हेतोरिवं सुन्दरी माधुर्य मधुरिमाणं स्पृशति धारयति तनुत्व कृशत्वं च भजते वहति ।।

पञ्चमोऽध्यायः। रसकविः- +7 एतां विलोकय तनूदरि ताम्रपर्णी- मम्मोनिया चित्तशुक्तिपुटोद्धतानि । यस्याः पयांसि परिणाहिपु हारमा वामनुवां परिणमान्त पयोधरेषु ॥ मार्गकविः- मुलं बालकवीरुधां सुरभयो जातीतरूणां त्वचः सारश्चन्दनशाखिनां किसलयान्याद्रीण्यशोकस्य च । इत्यर्थः । अत्राधरः किसलयतुल्यः, कपोलः परिणततालपत्रसदृशः, दृष्टिः कमलिन्यधिकशोभायुक्ता, इत्याद्यनुक्त्वा उक्तक्रमेण वर्णनात् भगवन्तरेणाs. भिधानं भवतीति तदेव सहृदयहृदयाहादकमिति उक्तिकविकाव्यस्य स्पष्टार्थ. मुदाहरणान्तरमिदम् । अथ रसकविकाव्यमुदाहरति-एतामिति । स्व. काव्ये रसमेव मुख्यतया यो निबध्नाति स रसकविः । अत्रोदाहरणे ताम्रप. ाख्याया सरिति विहारकाले नायकस्य सन्निहिता नायिका प्रत्युक्तिः । हे तनदरि ! कृशमध्ये ! सुन्दरि ! एता ताम्रपर्णी विलोकय । अम्मोनिधी समुद्रे विवृतेभ्यो विकसिताननेभ्यः शुक्तिपुटेभ्य उदृतानि सञ्चितानि सम्पा. दितानीति वा यस्यास्ताम्रपाः सरितः पयासि जलान्येव परिणाहिषु उत्तुओं- वित्यर्थः । वामध्रुवा सुन्दरीणा पयोधरेषु स्तनेषु हारमूर्त्या हारस्वरूपेण परि- णमन्ति परिणाम भजन्ते । ताम्रपर्णीजलान्येव शुक्तिषु स्थितानि समुद्रे- मौक्तिकात्मना परिणमन्तीत्यर्थः । अत्र पयास्येव पयोधरेषु हारमूर्त्या परिण- मन्तीत्युक्तेः काऽपि विच्छित्तिः प्रतीयतइति स्तनकुचादिशब्दाननुक्त्वा 'प- योधरेषु' इत्युक्तम् । अत्र हे तनदरि ! इति नायककृतनायिकासम्बोधनेन- तस्य तस्यामनुरागः प्रतीयते । तथा च तनूदरी नायिका ऽऽलम्बनम् । तस्या उत्तुङ्गपर्योधरदर्शनमुद्दीपनम् । वर्णनमनुभावः । एतां विलोक्येत्युक्ते नायक- गतमौत्सुक्य व्यभिचारी चेति विभावानुभावव्यभिचारिसयागानायकात्मसम. वेता नायिकाविषयिणी रतिः सम्मोगशृङ्गारात्मना ऽऽस्वादयोग्यतां गाहते इति रसप्राधान्याद्रसकावकाव्यमिदम् । अथ मार्गकविकाव्यमुदाहरति- मूलमिति । मार्गों नाम रीतिस्तत्प्रधानं काव्य यो निबध्नाति स मार्गकविः । बालकाश्च ता वीरुषश्च तासा कोमललतानामित्यर्थः । मूल कन्दम् । सुरभयः ६का०मी० 7 ૬૨ चन्द्रिकासहित काव्यमीमांसायां- शरीषी कुमुमोद्गतिः परिणमन्मोचं च सोऽयं गणो ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चेषवे ।। शास्त्रार्थकविः- आत्मारामा विहितरतयो निर्विकल्प समाधौ १७ ज्ञानोदेकाद्विघाटततमोग्रन्थयः सत्वानिष्ठाः। यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता- तं मोहान्धः कथमयममुं वेत्तु देवं पुराणम् ।। एषां द्वित्रगुणैः कनीयान् , पञ्चकर्मध्यमः, सर्वगुणयोगी महाकविः। सुगन्धयुता जातीतरूणां त्वचः, चन्दनशाखिनां चन्दनवृक्षाणां सारो मुख्यों: शः, अशोकस्य आणि क्लिन्नानि किसलयानि पल्लवाः, शैरीषी शिरीषसम्ब धिनी कुसुमोद्गतिः पुष्पाविर्भावः शिरीषपुष्पाणीत्यर्थः । परिणमत् पाकोन्मुख मोचं कदली चेति सोऽयं पूर्वोक्तः शीतलपदार्थाना गणः ऊष्महर इति स न्तापहर इति हेतोः पुरा शिवनेत्राग्निना दग्धाय पञ्चेषवे कामाय ग्रीष्मेण दत्तः । ऊष्महरा एते पदार्थां ग्रीष्म एव भवन्तीति भावः । अत्र पये कोमलवर्णसत्त्वात्समासाभावाच्च वैदर्भी रीतिरिति रीतिकविकाव्योदाहग्णमिदम्। अथ शास्त्रार्थकविकाव्यमुदाहरति-आत्मारामा इति । यः शास्त्रीयम काव्ये निबध्नाति स शास्त्रार्थकविः । वेणीसहारनाटके कृष्णबन्धनोद्यद्यतं दुर्योधन श्रुत्वा मीमसेनस्य सहदेवं प्रत्युक्तिः । आत्मन्येव आसमन्ताद्रमन्ते इति तथाविधा आत्मक्रीडाः, निर्विकल्पे निरालम्बने असम्प्रज्ञाते समाघौ विहितरतयः सर्वदा तदेकसक्ताः, ज्ञानोद्रेकात् विशुद्धज्ञानोदयाधिक्यात् विघटितो दूरीभूत- म्तमोप्रन्थियेषा ते, सत्त्वनिष्ठाः सात्त्विका मुनयः तमसा ज्योतिषा च परस्तात् विद्याविद्ययोरतीतं यं देवं कमपि अनिर्वचनीयस्वरूप परमात्मानं वीक्षन्ते मनोगाचरीकुर्वन्ति, त तादृशं देवं माहान्धोऽ ज्ञानसमूढो ऽय दुर्योधनः कथं वेत्तु इत्यर्थः । अत्र निर्विकल्पसमाधि, सत्त्वोद्रेक, तमोग्रन्थि, ज्योतिरात्मादि- शब्दास्तदर्थाश्च योगदर्शनगता इति तेषा काव्यात्मना निबन्धनात् शास्त्रा- थकविकाव्योदाहरणमिदम् । अथ पूर्वोक्तकविप्रभेदगुणैर्मिया मिलितैः कवीनां तरतमभावं कथयन्नाह-एषामिति । एपां पूर्वोक्तकविप्रभेदानां मध्ये द्वाभ्यां त्रिभिर्वा गुणैः शब्दार्थालङ्काररचनात्मकैर्युक्तः कविः कनीयान् अध- . । 1 पश्चमोऽध्यायः । दश च कवेरवस्था भवन्ति । तत्र च बुद्धिमदाहार्यबुद्धयोः सप्त, तिसूश्च मोपदेशिकस्य । तद्यथा काव्यविद्यास्नातको, हृदयकविः, अन्यापदेशी, सेविता, घटमानो, महाकविः, कविराज, आवेशिका, अविच्छेदी, सङ्क्रायग्रिता च । यः कवित्वकामः काव्यविद्योपविद्याग्रहणाय गुरुकु- लान्युपास्ते स विद्यास्नातकः । यो हृदय एव कवते निहुते च स हृदयकविः । यः स्वमपि काव्यं दोषभयादन्यस्येत्यपदिश्य पठति सो. ऽन्यापदेशी । यः प्रवृत्तवचनः पौरस्त्यानामन्यतपच्छायामभ्यस्यति स सेविता । योऽनवयं कवते न तु प्रबध्नाति स घटमानः । योऽन्यतरम- बन्ये प्रवीण: स महाकविः । यस्तु तत्र तत्र भाषाविशेष तेषु प्रबन्धेषु तस्मिंस्तस्मिंश्च रसे स्वतन्त्रः स कविराजः। ते यदि जगत्यपि कतिपये। यो मन्त्राद्यपदेशवशाल्लब्धसिद्धिरावेशसमकालं कवते स आवोशकः । यो यदैवेच्छति तदैवाविच्छिन्नवचनः सोऽविच्छेदी । यः कन्याकुमारा. मणिगत इत्यर्थः । पञ्चभिः षड्मिळ गुणैर्युक्त. कविर्मध्यमः । पूर्वोक्तः सर्वेरेव गुणैर्युक्तश्चत् स महाकविन्यपदेशाहों भवतीत्यर्थः ॥ अथ कवेरवस्था आह-दश चेति । कवेः काव्यनिर्मातुर्दशसंख्याका अवस्था भवन्ति । तत्र यो बुद्धिमान् आहार्यबुद्धिश्च तयोः सारस्वताभ्यासिकयोः सप्तावस्था भवन्ति । औपदेशिकस्य दुर्बुद्धस्तिस्त्रो ऽवस्थाः सम्मवन्ति । अथावसरप्राप्ता अवस्था निरूपयितुकामम्तादृशानवस्थाविशिष्टानेव निरूप्य तद्द्वारा अवस्था अपि प्रकटयन्नाह-तद्यथेति । १ काव्यविद्यास्नातकः २ हृदयकविः ३ अन्यापदेशी ४ सेविता ५ घटमानः ६ महाकविः ७ कविराजः ८ आवेशि- कः ९ अविच्छेदी १० सकामयिता चेत्येषु प्रत्येकं लक्षयति क्रमशः । तत्र प्रथमतः काव्यविद्यास्नातकमाह-यइति । कवित्व काभयमानो यः पुरुषः काव्योपयुक्ता आन्वीक्षिक्यादिविद्या कलाद्या उपविद्याश्च ग्रहीतु काव्यविद्या. धूर्धराणा महाकवीनां गुरूणां कुलानि सेवते स काव्यविद्यास्नातकः । वेदमधीत्य स्नायादिति वत् काव्यविद्यागुरुभ्यो महाकविभ्यः काव्यविद्या साकल्येनाधिगम्य यः स्नाति स इत्यर्थः । यश्च लज्जया दोषप्रकाशभिया वा स्वहृदयएव कवते स्वकाव्यमन्येभ्यो न दर्शयति स हृदयकविः । यः स्वनिर्मितमपि काव्यं दोषभिया समामध्ये न्यस्येत्युक्त्वा पठति सोऽन्यापदेशी । (यः प्रवृत्तवचनः ६४ चन्द्रिकासहित काव्यमीमांसायां- दिषु सिद्धमन्त्रः सरस्वती सङ्कामयति स सङ्क्रामयिता । सततमभ्यास- वशत: सुकवेः वाक्यं पाकमायाति । "कः पुनरयं पाक: ?" इत्याचा- योः । “परिणामः" इति मङ्गलः । “कः पुनरयं परिणामः?" इत्या- चार्याः। "मुपां तिडां च अवाप्रिया व्युत्पत्तिः" इति मङ्गलः । सौशब्द्यमेतत् । “पदनिवेशनिष्कम्पता पाक:" इत्याचार्याः । तदाहु:- छन्दःपूरणाभ्यासवशात्प्रचलितकविताप्रवृत्तिः पुरुषः प्राचीनानां कवीना मध्ये कस्याऽपि भावमादाय स्ववचनैर्निबध्नाति स सेवितायः अनवद्य निर्दोषं रसभावपूर्णमपि रचयति, किन्तु तथाविध कमपि प्रबन्धं रचयितुं न शक्नो- ति । अर्थाद्यस्य रसभावपूर्णा रचनाशाक्तः सुदूरं नानुवर्तते मध्य एव त्रुट्य- ति से घटमानः । यो गद्यपद्यान्यतरप्रबन्धरचने प्रवीणः स महाकविः । यश्च मागधाशारेसन्यादिप्राकृतसंस्कृतापभ्रंशादिभाषासु गद्यपद्ययोस्तत्तदलङ्काररसवि- शेषे च यथेच्छं रचयितु समर्थः स कविराजः । कविराजास्तु प्रायशो नैव भवन्ति, ते यदि जगति सम्मवन्ति तर्हि कतिपये एव । यो मन्त्रप्रभावात् , आदिपदात्सारस्वतचूर्णसेवन, मन्त्रसिद्धपुरुषकृतशिरःस्पर्श. देवतावरदानादि, तोऽपि लब्धकवित्वसिद्धिरावेशकालएब कवते स आवेशिक। य इच्छामा त्रेण काव्यं कर्तुं शक्नोति, न तस्य किमपि प्रतिबन्धकं सोऽविच्छेदी यः सिद्धमन्त्रः पुरुषः स्वशक्ति कन्याकुमारादिषु शिरःस्पर्शादिद्वारा संक्रामयति जनयति स संक्रामयिता । यत्तु केचित् 'संक्रामयति स्वस्मिन् स्थापयति स संक्रामयिता' इत्याहुस्तदपेशलम् । एवं कवीना भेदप्रभेदान्निरूप्य तदीयक- वितानां तारतम्यप्रयोजकं पाक व्याचिख्यासुराह-सततमिति । सुक. वेः सत्सम्प्रदायाधिगतकाव्यविद्यस्य रसभावघटनानिपुणस्य, न तु छन्दोमात्र पूरयितुः । निरन्तरं कविताभ्यासवशात् वाक्यानि पाकमनुभवन्ति । तत्रा- । चार्याणां शङ्का-कः पुनरयं पाक इति । तत्र मङ्गलाचार्यस्योत्तरम् -'परि- णामः पाक इति । कोऽसौ परिणाम इत्याचार्यप्रश्ने पुनमलोत्तरम्-सुबन्तः तिङन्तपदानां श्रुतिमनोहरः सन्निवेश एव स इति । नेदमभिमतमाचार्या- णाम् । यदुक्त मङ्गलेन न.स पाकः, किन्तु सौशब्दयमात्रम् । पदाना सु- बतिङन्तादीनां निवेशने निष्कम्पता स्थिरतैव किल पाक इत्याचार्या. प्राहुः । तदेतदाचार्योक्तं समर्थयति-आवापोद्धरणे इति । आवापः काव्यानुः पञ्चमोऽध्यायः । ६५ - आवापोद्धरणे तावद्यावदोलायते मनः। पदानां स्थापिते स्थैर्य हन्त सिद्धा सरस्वती ।। "आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्तिवै- मुख्यं पाकः" इति वामनीयाः॥ तदाहु:- यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् । ११ तं शब्दन्यासानष्णाता: शब्दपाकं प्रचक्षते ॥ "इयमशक्तिर्न पुनः पाक" इत्यवन्तिसुन्दरी । यदेकास्मिन्वस्तुनि महाकवीनामनेकोऽपि पाठः परिपाकवान्भवति, तस्माद्रसोचितशब्दा- र्थ सूक्तिनिवन्धनः पाकः। यदाह- गुणालद्वाररीत्युक्तिशब्दार्थग्रथनक्रमः । स्वदते सुधियां येन वाक्यपाकः स मां प्रति ।। कूलपदनिवेशनं, उद्धरणं प्रतिकूलपदपरित्यागः, एतद्द्वय तावदेव भवति, या- मन्मनः दोलायते विकल्पारूढ भवति । पदानां स्थैर्ये स्थापिते सति, पदप- रिवर्तने ऽनावश्यके सति सरस्वती सिद्धा हन्त इति हर्षे । एतावता पदाना परिवर्तनानहत्त्वं पाक इति पूर्वमते फलितम् । अथात्र विषये वामनाचार्यमतमाह-आग्रहेति। आग्रहः पदस- निवेशः, परिग्रहस्त्यागः । पदानां स्थैर्य परिवर्तनासहत्वे पर्यवसायः पर्यव- सानम् । पदानां परिवृत्त्यसहत्वं पाक इति वामनमते फलितम् । उक्तार्थमु. पोहलयन्नाह-यत्पदानाति । यत्प्रवन्धघटकानि पदानि परिवृत्तिसह- त्वं त्यजन्त्येव, परिवृत्तिं नैव सहन्ते, पदपरिवर्तने कृते सति सभीहितार्थ नोपस्थापयन्ति | शब्दाना न्यासे सन्निवेशने निष्णाता निपुणा. कवय. तं शब्दपाफमिति प्रचक्षते कथयन्तीत्यर्थः । उपरि दर्शितवामनमतप्रतिकूला राज- शेखरदयिताया वाग्देव्यवतारभूताया अवन्तिसुन्दर्या उक्तिमाह-इयामिति । यतः वामनमते शब्दाना परिवृत्त्यसहत्वं पाक इत्युक्तम्, नासौ पाकः किन्त्वेषा कवेरशक्तिरसामर्थ्यमेव । तत्र हेतुमाह-यदेकस्मिन्निति । यत् यस्मात्का- रणात एकस्मिन्नपि वर्णनीये वस्तुनि महाकवीनामनेकोऽपि विविधोऽपि पाठः परिपाकवान् भवति । तस्मात्पदानां परिवृत्यसहत्वं पाक इति वामनकथनं न सम- स्त्रसमित्यर्थः । स्वाभिमते पाकलक्षणेऽन्येपा सम्मतिमाह-गुणेति । गुणानाम्- ६६ . चन्द्रिकासहित काव्यमीमासायां- तदुक्तम् सति वक्तरि सत्यर्थे शब्दे सति रसे सति । २१ अस्ति,तन्न विना येन परिसूवति वाङ्मधु ।। "कार्यानुमेयतया यत्तच्छन्दनिवेद्यः परं. पाकोऽभिधाविषयस्तत्स हृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौ" इति यायावरीयः । स च कविग्रामस्य काव्यमभ्यस्यतो नवधा भवति । तत्राद्यन्तयारेंस्वादु पिचुः मन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम् , आदावस्वाद परिणामे स्वादु मृद्वीकापाकम् , आदौ मध्यममन्ते चास्वादु वार्ताकपा कम् , आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम् , आदौ मध्यममन्ते स्वादु स इकारपाकम् , आदावुत्तममन्ते चास्वादु क्रमुकपाकम् , आदावुत्तममन्ते लङ्काराणा रीतीनामुक्तीना शब्दानामर्थानां च ग्रथनस्य क्रमः येन हेतुना स्व- दते आस्वादयोग्यो भवति, स मा प्रति मन्मते वाक्यपाक इत्यर्थः । पाकमेव स्तुवन्नाह-सतीति । वक्तार, शब्दे, अर्थे, रसे च सति, अर्थात् मह- नीये वतार सति श्रवणमनोहरे तदीये शब्दे च सति अनुच्छिष्टे तदर्थे च सति, विगलितवेद्यान्तरानन्दोरोघसमर्थे रसे चाभिव्यक्ते सति येन पाकेन विना वाक् मधु न स्त्रवति स पाकोऽवश्यमभ्युपेय इत्यर्थः । तमेव पार्क स्वमतेनाह-कार्यानुमेयतयेति । (कार्येण सहृदयहृदयाहादकत्वलक्ष- णेन पाकस्य अनुमेयतया येन विना नाह्रादः स पाक इति विधया यत्तच्छ. ब्दनिवेद्यः पाकोऽभिधाविषयो वाच्यवृत्तिविषयः, किश्च सहृदयमण्डले तदनु- भवसिद्ध इत्यसौ व्यवहारस्याङ्गमेवेति राजशेखरमतम् । ईदृशोऽसौ पाकः मुहुर्मुहुः काव्यमनुशीलयता कवीना नवप्रकारो भवति । तान् नवप्रकारान् सलक्षणान् नामग्राहमाह-तत्रेति । तत्र तेषु नवसु पाकेषु मध्ये आदा- वन्ते चास्वादु काव्यं पिचुमन्दपाकम् । पिचुमन्दो निम्बः । तस्य सर्वावस्थासु कटुत्वात् । आदावस्वादु परिणामे मध्यम वदरपाक नाम काव्यम् । बदर- स्याऽपि तथाभूतत्वात् । आदावस्वादु परिणामे स्वादु मृद्वीकापाकं काव्यम् । मृद्धीका द्राक्षा तस्या आदावस्वादुत्वेऽपि परिणामे ‘स्वादुतमत्वात् । आदी मध्यममन्ते चास्वादु वार्ताकपाकं काव्यम् । वृन्ताकस्य तथात्वात् । आदाव- न्ते च मध्यमं तिन्तिडीकपाकं काव्यम् । तिन्तिडीकं चिचा। तस्या आ- पञ्चमोऽध्यायः । ६७ - पुनः कुकविः स्यात्। मध्यमं त्रसपाकम् , आद्यन्तयोः स्वादु नालिकरपाकामिति । तेषां त्रि- ध्वपि निकेषु पाकाः प्रयमे त्याज्याः। वरमकविन कुकविता हि सोच्छ्वासं मरणम् । मध्यमाः संस्कार्याः । संस्कारो हि सर्वस्य गुणमुत्कर्षति । द्वादशवर्णमपि सुवर्ण पाचकपाकेन हेमीभवति । शेषा ग्राह्याः । स्वभावशुद्धं हि न संस्कारमपेक्षते । न मुक्तामणेः शा. 'णस्तारतायै प्रभवति । अनवस्थितपाकं पुनः कपित्थपाकमामनन्ति तत्र पलालधूननेन अन्नकणलाभवत्सुभाषितलाभः । म्लैकरसत्वात् । आदौ मध्यममन्ते च स्वादु सहकारपाक काव्यम् । सहकार- आम्रः । तस्य परिणामे सरसत्वान्मधुरत्वाच्च । आदौ स्वादु परिणामे चा- स्वादु क्रमुकपाक काव्यम् । क्रमुकः पूगः । तस्यादौ सरसत्वेन स्वादुत्वात् । आदावुत्तममन्ते मध्यम त्रपुसपाक काव्यम् । त्रपुसं कर्कटी । तस्यास्तथात्वा- त् । आदावन्ते च स्वादु नालिकेरपाकं काव्यम् । नालिकेरस्य सर्वावस्थासु स्वादुत्वात् । अथोक्ताना पाकाना मध्ये तातरतम्यं कथयति--तेषामिति तेषा नवविधपाकाना मध्ये त्रिष्वपि त्रिकेपु प्रथमे पाकाः पिचुमन्दवार्ताकक्र- मुकपाकास्त्याज्याः । अस्वादुत्वादनादेया इत्यर्थः । तत्र हेतुमाह-वर- मिति। अकविः कवित्वशक्तिरहितो वरम् , न पुनः कुकविः स्यात् । कुतः । कुकविता हि सोच्छवासं सजीवन मरणम् । यत्र प्राणा अपि न निर्गच्छन्ति व्याधिरपि न शाम्यति तथाविध जीवन्मरणमित्यर्थः । मध्यमा बदुरतिन्तिडीकनपुसपाकाः संस्कारवशतो ग्राह्या भवन्ति । यतः संस्कारो हि सर्वस्य अधमस्यापि गुणमुत्कर्षयति वर्द्धयते । द्वादशवर्णमधम्मपि सुवर्णमाग्न- तापनेन विशुद्ध हेम भवतीति दृष्टान्तः । शेषाः मृद्वीकासहकारनालिकेरपाका- स्तु यथेच्छ ग्राह्याः । तत्र सस्कारो नापेक्षित इत्याह-स्वभावशुद्ध- मिति । यत् स्वभावत एव शुद्ध निर्दोष तत् सस्कार नापेक्षते । अत्र ह- ष्टान्तः । सुवर्णस्योत्कर्षाघायकोऽपि शाणो मुक्तामणेस्तारतायै न भवति । अनवस्थित. स्पष्टमप्रतिपद्यमानः पाको यस्मिन् ईदृश काव्यं कृपित्थपाकमि. त्युच्यते । यथा पलालस्य सस्यत्वचो घूननेन ईषदन्नकणलामो भवति, एव तथाविधकाव्यानुशीलनेन महता प्रयत्नेनेषत्सुभाषितलाभो भवति । उपसह- ६८ चद्रिकासहित काव्यमीमांसायां- सम्यगभ्यस्यतः काव्यं नवधा परिपच्यते । हानोपादानसूत्रेण विभजेचद्धि बुद्धिमान् ।। अयमत्रैव शिष्याणां दर्शितस्त्रिविधो विधिः। किन्तु विविधमप्येतत्रिजगत्यस्य वर्तते ।। ॥ इति राजशेखरकृतौ काव्यमीमासाया कविरहस्ये प्रथमेऽधिकरणे शिष्यविशेषेषु काव्यपाककल्पः पञ्चमोऽध्यायः ।। रति-सम्यगिति । काव्यं सर्वदा अनुशीलयतः कवेः काव्यं नवप्रकारैः पच्यते परिणमति । तत्र बुद्धिमान् पुरुषः हानोपादानयोस्त्यागग्रहणयोः सूत्रेण तद्विभजेत् । अम्वादुप्रधानान् पाकान् परित्यजन् स्वादुप्रधानाश्चाद- दीत । शिण्याणा विनेयाना कृते अत्र अन्थे अयं त्रिविधपाकादानात्मको विधिः दर्शितः । किन्तु अस्य विविधा विचारा जगति वर्तन्ते सङ्क्षपादे- वात्र कथितमिति भावः । आदितः पञ्चमाध्यायपर्यन्तं यत्नतो मया । व्याख्याता काव्यमीमांसा राजशेखरनिर्मितिः ॥१॥ परीक्ष्यच्छात्रवृन्दस्य साहाय्यं कर्तुमिच्छता । राजशेखरवाग्व्याख्यासाहसं दुष्करं कृतम् ॥ २॥ गुणगृह्याः सहृदया अनसूयालुचेतसः । निरीक्षन्तामिमा व्याख्यां करुणार्विलोचनैः ।। ३ ॥ एता श्रीकाव्यमीमासा-चन्द्रिकामुज्ज्वलप्रमाम् । आचामन्तु चिरं छात्रचकोराः स्वैरमुत्सुकाः ॥ ४ ॥ श्रीगङ्गाधरसद्गुरुप्रतिफलत्सारस्वतज्योतिषः श्रीरामाचिनिषेवणाप्तसुमतेः सन्तीर्णशाखाम्बुधैः । श्रीमद्भवनायकात्मजनुषः सद्धर्मलक्ष्मीजुषः श्रीनारायणशर्मणः कृतिरियं विद्वन्मुदे जायताम् ॥ ५॥ इति श्रीमत् खिस्ते-इत्युपनामकभैरवनायकतनूजनि साहित्याचार्य श्रीनारायणशास्त्रिकृताया काव्यमीमासाचन्द्रिकाया पञ्चमोऽध्यायः। समाप्तोऽयं प्रथमो भागः ।

TBE
KASHI-SANSKRIT-SERIES
FARIDAS SAXSKRIT GRAXTUAVĀLĀ
NO. 86
(Karya Section, Yo 13)
TEIC
KÄVYAMIMĀMSÅ
li
HAJASEKHARA
Edriral llith Ilos ('
THE XĀVYAMĪNĀMSÃ CHANDRĪKĀ GORYENTARY
By
SAHITYACHARYA
Panait Sri Narayana S'estra Rhisto
lest. Librarian Gorcrument Strzelrit College,
Sarasıcati Bharan Library, Bewires
(PART I ADHYAYAS 1-V )
PRINTED, POBLI8uen & SOLD BY
JAI KRISHNADÁS-IIARIDAS GUPTA,
Th: Shorokhamba Sanskrit Scrics Office, Medya Filax Presu,
North of Gopalmandı, Benares City.
1931
[ Registered According to act XXV of 1867.
All Rights Reserocd by the Publisher ]

IN
Plinted-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowklamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandır,
BENARES CITY.

No text on this page.

Kavyamimansa

Author
Narayan Shastri
Title
Kavyamimansa
File name
Kavyamimansa
Text
OCR done
Citation
1930
Published
2010/03
Publisher
Chaukhambha Sanskrit Series Office, Benares City
Language
Sanskrit
Pages
76
Library
Banasthali University
Classification
Poetry
DLI number
405601
Barcode
99999990065477.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
kuELzaPpZCi
Download PDF

Kavyamimansa