Sringeri Sharada Peetham

Sankhya Karika

Ishwara Krishna · 2005/03/10

PDF Proofread

Front matter

SANKHYA-KARIKA
А
TREATISE ON SANKHYA PHILOSOPHY
BY
ISHWARA KRISHNA
WITH A COMMENTARY
BY
GOUDAPADA-SWAMI
23
PUBLISITED BY
The Pandit Narayan Moolji l'ustakalaya, Kalladevi Road,
Zaverbay, No. 229 Dombay 2.
and
Manilal Itcharam Desai, News Printing Bress, Kala Ghoda,
Forbes Street, Baku House Lane, Fort, Bombay.
Printed by Manilal Itcharam Desai in his
THE NEWS PRINTING PRESS.
Kala Ghoda, Forbes Street Bake-House Lane, Fort,
BOMBAY.
Samyat 1985
A.D. 1929
Price Rs. 0-5-0

wwwwww
Printed and Published by Manilal Ichharam Desai, in his
The News Printing Preso.
Kala Ghoda, Forbes Street 20-24 Bake House Lane,
Fort, Bombay.

सांख्यकारिका।
श्रीईश्वरकृष्णेन विरचिता।
श्रीगौड़पादस्वामिकृतभाष्यसहिता।
प्रकाशकाः
पंडित-नारायण मूलजी पुस्तकालय,
कालकादेवीरोड झवेरबाग नंबर २२९ मुंबई नं. २
मणिलाल इच्छाराम देसाई, न्यूस प्रिंटिंग प्रेस
काळाघोडा, फोर्बसस्ट्रीट, बेक-हाउस लेन, कोट, मुंबई,
मुम्बय्यां
'मणिलाल इच्छाराम देसाई' इत्यनेन स्वीये
न्यूस मुद्रणयन्त्रालये' मुद्रिता ।
काळाघोडा, फोर्बसस्ट्रीट, बेक-हाउस लेन, फोर्ट।
.
शकाब्दाः १८५१,
ख्रिस्ताब्दाः १९२९.
मूल्यं पंचाणकाः

मुम्बय्यां
मणिलाल इच्छाराम देसाई इत्यनेन स्वीये
न्यूस मुद्रणयन्त्रालये"
मुद्रयित्वा प्रकाशिता ।
काळाघोडा, फोर्बसस्ट्रीट, बेक-हाउस लेन, फोर्ट ।

साङ्ख्यकारिका। दुःखत्रयाभिघाताजिज्ञासा तदभिघातके हेतौ । कपिलाय नमस्तस्मै, येनाविद्योदधौ जगति मग्ने । कारुण्यात सांख्यमयी, नौरिव विहिता प्रतरणाय ॥ (१) अल्पग्रन्थं स्पष्टं, प्रमाणसिद्धान्तहेतुभिर्युक्तम् । शास्त्रं शिष्यहिताय, समासतोऽहं प्रवक्ष्यामि ॥ (२) दुःखत्रयेति-अस्या आर्याया उपोद्धातः क्रियते । इह भगवान ब्रह्मसुतः कपिलो नाम,तद् यथा- सनकश्च सनन्दश्च तृतीयश्च सनातनः । आसुरिः कपिलश्चैव वोदुः पञ्चशिखस्तथा । इत्येते ब्रह्मणः पुत्राः सप्त प्रोक्ता महर्षयः॥" कपिलस्य सहोत्पन्नानि 'धर्मों ज्ञानं वैराग्यमैश्वर्यञ्च' इति । एवं स उत्पन्नः सन् अन्धे तमसि मजजगदालोक्य संसारपारम्पर्येण सत्कारुण्यो जिज्ञासमानाय आसुरिगोत्राय ब्राह्मणाय इदं पञ्चविंश- तितत्त्वानां ज्ञानम् उक्तवान्, यस्य ज्ञानादुःखक्षयो भवति, "पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः॥" तदिदमाहुः । दुःखत्रयाभिघाताजिज्ञासेति ।-तत्र दुःखत्रयम् आध्यात्मिकम्, आधिभौतिकम् , आधिदैविकञ्चेति । तत्राध्यात्मिकं द्विविधं, शारीरं मानसं चेति । शारीरं वातपित्तश्लेष्मविपर्ययकृतं ज्वरातीसारादि । मानसं प्रियवियोगाप्रियसंयोगादि । आधिभौ- तिकं चतुर्विधभूतग्रामनिमित्तं मनुष्यपशुमृगपक्षिसरीसृपदंशमश- कयूकांमत्कुणमत्स्यमकरग्राहस्थावरेभ्यो जरायुजाण्डजस्वेदजोद्भि- जेभ्यः सकाशादुपजायते । आधिदैविक-देवानामिदं दैवम् , दिवः सांख्यकारिका। दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १॥ दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः । प्रभवतीति वा दैवं तदधिकृत्य यदुपजायते शीतोष्णवातव- शिनिपातादिकम् । एवं यथा दुःखत्रयाभिघाताजिज्ञासा कार्या व ? तदभिघातके हेतौ । तस्य दुःखत्रयस्य अभिघातको योसौ हेतुस्तत्रेति । दृष्टे सापार्था चेत, दृष्टे हेतौ दुःखत्रयाभिघातके सा जिज्ञासाऽपार्था चेद् यदि । तत्राध्यात्मिकस्य द्विविधस्यापि आयुर्वेदशास्त्रक्रियया प्रियस- मागमाप्रियपरिहारकटुतिक्तकषायक्वाथादिभिदृष्ट एव आध्यात्मिको- यः आधिभौतिकस्य रक्षादिनाऽभिघातोदृष्टः। दृष्टे साऽपार्था चेदेवं मन्यसे, न, एकान्तात्यन्ततोऽभावात् । यत एकान्ततोऽवश्यमत्य- न्ततो नित्यं दृष्टेन हेतुनाऽभिघातो न भवति, तस्मादन्यत्र एकान्ता- त्यन्ताभिघातके हेतौ जिज्ञासा विविदिषा कार्येति ॥१॥ यदि दृष्टादन्यत्र जिज्ञासा कार्या, ततोऽपि नैव । यत आनुश्र- विको हेतुः दुःखत्रयाभिघातकः । अनुश्रूयत इत्यनुश्रवस्तत्र भवः आनुश्रविकः । स च आगमात् सिद्धः। यथा- "अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान तृणवदरातिः किमु धूर्तिरमृतमर्त्यस्य ॥" कदाचिदिन्द्रादीनां देवानां कल्प आसीत् । कथं वयममृता अभू- मेति विचार्य । यस्माद्वयमपाम सोमं पीतवन्तः सोमं तस्मादमृता अभूम अमरा भूतवन्त इत्यर्थः। किञ्च, अगन्म ज्योतिः, गतवन्तः लब्धवन्तः ज्योतिः स्वर्गमिति । अविदाम देवान , दिव्यान् विदित- वन्तः । ऐवं च किं नूनमस्मान् तृणवदरातिः, नूनं निश्चितं किम- रातिः शत्रुरस्मान तृणवत कर्तेति । किमु धूर्तिरमृतमर्त्यस्य, धूर्ति- जरा हिंसा वा किं करिष्यति अमृतमय॑स्य । अन्यञ्च वेदे श्रूयते आत्यन्तिकं फलं पशुवधेन । “सर्वाल्लोकान् जयति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां तरति यो योऽश्वमेधेन यजते" इति । ऐका- सांख्यकारिका। ३ , तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २॥ मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । तात्यन्तिके एवं वेदोक्ते अपार्थेव जिज्ञासा, इति न । उच्यते-दृष्ट- वदानुश्रविक इति । दृष्टेन तुल्यो दृष्टवत् । योऽसौ आनुश्रविकः कस्मात् स दृष्टवत्, यस्मादविशुद्धिक्षयातिशययुक्तः । अविशुद्धि- युक्तः पशुघातात , तथा चोक्तम्- “षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनादूनानि पशुभिस्त्रिभिः ॥” इति । इत्थं यद्यपि श्रुतिस्मृतिविहितो धर्मस्तथापि मिश्रीभावाद्विशु : द्धियुक्त इति । तथाः- “बहूनीन्द्रसहस्राणि देवानां च युगे युगे। कालेन समतीतानि कालो हि दुरतिक्रमः॥” इति । एवमिन्द्रादिनाशात् क्षययुक्तः। तथाऽतिशयो विशेषस्तेन युक्तः विशेषगुणदर्शनादितरस्य दुःखं स्यादिति । एवमानुश्रविकोऽपि हेतुर्दृष्टवत् । कस्तहि श्रेयानिति चेत् ? उच्यते-तद्विपरीतः श्रेयान, ताभ्यां दृष्टानुश्रविकाभ्यां विपरीतः श्रेयान् प्रशस्यतर इति, अवि- शुद्धिक्षयातिशयायुक्तत्वात् । स कथमित्याह-व्यक्ताव्यक्तशविज्ञा- नात् । तत्र व्यक्तं महदादि,बुद्धिरहङ्कारःपञ्चतन्मात्राणि एकादशेन्द्रि- याणि पञ्चमहाभूतानि । अव्यक्तं प्रधानम् । ज्ञः पुरुषः । एवमेतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञाः कथ्यन्ते । एतद्विज्ञानाच्छ्रेय इति । उक्तं च “पञ्चविंशतितत्त्वज्ञ" इत्यादि ॥२॥ अथ व्यक्ताव्यक्तज्ञानां को विशेष इत्युच्यते-मूलप्रकृतिः प्रधा- नम् । प्रकृतिविकृतिसप्तकस्य मूलभूतत्वात् , मूलं च सा प्रकृतिश्च मूलप्रकृतिः। अविकृतिः अन्यस्मान्नोत्पद्यते, तेन प्रकृतिः कस्यचि- द्विकारो न भवति । महदाद्याःप्रकृतिविकृतयः सप्त ।महान् बुद्धिः । बुद्धयाद्याः सप्त, बुद्धिः १ अहङ्कारः १ पञ्च तन्मात्राणि ५ एताः सप्त २-३ सांख्यकारिका। षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः ॥३॥ दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । प्रकृतिविकृतयः । तद् यथा । प्रधानाद् बुद्धिरुत्पद्यते तेन विकृतिः प्रधानस्य विकार इति । सैवाहङ्कारमुत्पादयति, अतःप्रकृतिः। अह- कारोऽपि बुद्धरुत्पद्यत इति विकृतिः, स च पञ्च तन्मात्राण्युत्पादय- तीति प्रकृतिः । तत्र शब्दतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्त- स्मादाकाशमुत्पद्यत इति प्रकृतिः । तथा स्पर्शतन्मात्रमहङ्कारादुत्प- द्यत इति विकृतिस्तदेवं वायुमुत्पादयतीति प्रकृतिः । गन्धतन्मात्र- महङ्कारादुत्पद्यत इति विकृतिस्तदेवं पृथिवीमुत्पादयतीति प्रकृतिः । रूपतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवं तेज उत्पादयतीति प्रकृतिः। रसतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवमप उत्पा- दयतीति प्रकृतिः। एवं महदाद्याः सप्त प्रकृतयो विकृतयश्च । षोड- शकस्तु विकारः, पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकादशं मनः पञ्च महाभू तानि एष षोड़शको गणो विकृतिरेव । विकारो विकृतिः।न प्रकृतिर्न विकृतिः पुरुषः॥ ३॥ एवमेषां व्यक्ताव्यक्तज्ञानां त्रयाणां पदार्थानां कैः कियद्भिःप्रमाणैः केन कस्य वा प्रमाणेन सिद्धिर्भवति । इह लोके प्रमेयवस्तु प्रमाणेन साध्यते । यथा प्रस्थादिभिर्वीहयस्तुलया चन्दनादि । तस्मात् प्रमा- णमभिधेयम् । दृष्टमिति–दृष्टं यथा श्रोत्रं त्वक् चक्षुर्जिह्वा घ्राणमिति पञ्चबुद्धीन्द्रियाणि,शब्दस्पर्शरूपरसगन्धा एषां पञ्चानां पञ्चैव विषया यथासंख्यम् । शब्दं श्रोत्रं गृह्णाति, त्वक् स्पर्श, चक्षू रूपं, जिह्वा रसं, घ्राणं गन्धमिति । एतद् दृष्टमित्युच्यते प्रमाणम् । प्रत्यक्षेणानुमानेन वा योऽर्थो न गृह्यते स आप्तवचनाद् ग्राह्यः । यथेन्द्रो देवराजः उत्तराः कुरवः, स्वर्गेऽप्सरसः, इत्यादि । प्रत्यक्षानुमानाग्राह्यमप्या- सवचनाद् गृह्यते । अपिचोक्तम्- " आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः। क्षीणदोषोऽनृतं वाक्यं न प्रयाद्धत्वसम्भवात् ॥

सांख्यकारिका।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥४॥
स्वकर्मण्यभियुक्तो यः सङ्गद्वेषविवर्जितः।
पूजितस्तद्विधैर्नित्यमाप्तो ज्ञेयः स तादृशः ॥"
एतेषु प्रमाणेषु सर्वप्रमाणानि सिद्धानि भवन्ति । षट् प्रमाणानि
जैमिनिः । अथ कानि तानि प्रमाणानि ?-"अर्थापत्तिः सम्भवः
अभावः प्रतिभा ऐतिह्यम् उपमानं च” इति षट् प्रमाणानि । तत्रा-
र्थापत्तिद्विविधा, दृष्टा श्रुता च । तत्र दृष्टा–एकस्मिन् पक्षे आत्म-
भावो गृहीतश्चेदन्यस्मिन्नप्यात्मभावो गृह्यत एव । श्रुता यथा-
दिवा देवदत्तो न भुङ्क्ते, अथ च पीनो दृश्यते, अतोऽवगम्यते
रात्रौ भुङ्क्त इति । सम्भवो यथा--प्रस्थ इत्युक्ते चत्वारः कुडवाः
सम्भाव्यन्ते । अभावो नाम प्रागितरेतरात्यन्तसर्वाभावलक्षणः ।
प्रागभावो यथा-देवदत्तः कौमारयौवनादिषु । इतरेतराभावः
पटे घटाभावः । अत्यन्ताभावः--खरविषाणवन्ध्यासुतखपुष्पव-
दिति । सर्वाभावः--प्रध्वंसाभावो दग्धपटवदिति । यथा शुष्कधा-
न्यदर्शनाद् वृष्टेरभावोऽवगम्यते । एवमभावोऽनेकधा । प्रतिभा
यथा-'दक्षिणेन च विन्ध्यस्य सह्यस्य च यदुत्तरम् । पृथि-
व्यामासमुद्रायां स प्रदेशो मनोरमः ।” एवमुक्ते तस्मिन् प्रदेशे
शोभनाः गुणाः सन्तीति प्रतिभोत्पद्यते, प्रतिभा च जानतां ज्ञान-
मिति । ऐतिां यथा--ब्रवीति लोको यथात्र वटे यक्षिणी प्रतिव-
सतीति एव ऐतिह्यम् । उपमानं यथा-गौरिव गवयः, समुद्र इव
तड़ागः । एतानि षट् प्रमाणानि त्रिषु दृष्टादिष्वन्तर्भूतानि । तत्रानु-
माने तावदापत्तिरन्तर्भूता । सम्भवाभावप्रतिभैतिह्योपमाश्चाप्तव-
चने । तस्मात् त्रिष्वेव सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्टं,
तदाह--तेन त्रिविधेन प्रमाणेन प्रमाणसिद्धिर्भवतीति वाक्यशेषः ।
प्रमेयसिद्धिः प्रमाणाद्धि । प्रमेयं प्रधानं बुद्धिरहङ्कारः पञ्चतन्मात्राणि
एकादशेन्द्रियाणि पञ्च महाभूतानि पुरुष इति । एतानि पञ्चविंश-
तितत्त्वानि व्यक्ताव्यक्तज्ञा इत्युच्यन्ते । तत्र किञ्चित् प्रत्यक्षेण साध्यं
किञ्चिदनुमानेन किञ्चिदागमेनेति त्रिविधं प्रमाणमुक्तम् ॥ ४ ॥

सांख्यकारिका । षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः॥३॥ दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । प्रकृतिविकृतयः । तद् यथा । प्रधानाद् बुद्धिरुत्पद्यते तेन विकृतिः प्रधानस्य विकार इति । सैवाहङ्कारमुत्पादयति, अतः प्रकृतिः। अह- कारोऽपि बुद्धरुत्पद्यत इति विकृतिः, स च पञ्च तन्मात्राण्युत्पादय- तीति प्रकृतिः। तत्र शब्दतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्त- स्मादाकाशमुत्पद्यत इति प्रकृतिः। तथा स्पर्शतन्मात्रमहङ्कारादुत्प- द्यत इति विकृतिस्तदेवं वायुमुत्पादयतीति प्रकृतिः । गन्धतन्मात्र- महङ्कारादुत्पद्यत इति विकृतिस्तदेवं पृथिवीमुत्पादयतीति प्रकृतिः। रूपतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवं तेज उत्पादयतीति प्रकृतिः। रसतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवमप उत्पा- दयतीति प्रकृतिः। एवं महदाद्याः सप्त प्रकृतयो विकृतयश्च । षोड- शकस्तु विकारः, पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकादशं मनः पञ्च महाभू तानि एष षोड़शको गणो विकृतिरेव । विकारो विकृतिः। न प्रकृतिर्न विकृतिः पुरुषः॥३॥ एवमेषां व्यक्ताव्यक्तज्ञानां त्रयाणां पदार्थानां कैः कियद्भिःप्रमाणैः केन कस्य वा प्रमाणेन सिद्धिर्भवति । इह लोके प्रमेयवस्तु प्रमाणेन साध्यते । यथा प्रस्थादिभिर्वीहयस्तुलया चन्दनादि । तस्मात् प्रमा- णमभिधेयम् । दृष्टमिति दृष्टं यथा श्रोत्रं त्वक् चक्षुर्जिह्वा घ्राणमिति पञ्चबुद्धीन्द्रियाणि,शब्दस्पर्शरूपरसगन्धा एषां पञ्चानां पञ्चैव विषया यथासंख्यम् । शब्दं श्रोत्रं गृह्णाति; त्वक् स्पर्श, चक्षू रूपं, जिह्वा रसं, घ्राणं गन्धमिति । एतद् दृष्टमित्युच्यते प्रमाणम् । प्रत्यक्षेणानुमानेन वा योऽर्थो न गृह्यते स आतवचनाद् ग्राह्यः । यथेन्द्रो देवराजः उत्तराः कुरवः, स्वर्गेऽप्सरसः, इत्यादि । प्रत्यक्षानुमानाग्राह्यमप्या- सवचनाद् गृह्यते । अपिचोक्तम्- " आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः। क्षीणदोषोऽनृतं वाक्यं न ब्रयात्वसम्भवात् ॥ .

सांख्यकारिका।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाडि ॥४॥
स्वकर्मण्यभियुक्तो यः सङ्गद्वेषविवर्जितः ।
पूजितस्तद्विधैनित्यमाप्तो ज्ञेयः स तादृशः॥"
एतेषु प्रमाणेषु सर्वप्रमाणानि सिद्धानि भवन्ति । षट् प्रमाणानि
जैमिनिः । अथ कानि तानि प्रमाणानि ?-"अर्थापत्तिः सम्भवः
अभावः प्रतिभा ऐतिह्यम् उपमानं च” इति षट् प्रमाणानि । तत्रा-
र्थापत्तिद्धिविधा, दृष्टा श्रुता च । तत्र दृष्टा–एकस्मिन् पक्षे आत्म-
भावो गृहीतश्चेदन्यस्मिन्नप्यात्मभावो गृह्यत एव । श्रुता यथा-
दिवा देवदत्तो न भुन्ते, अथ च पीनो दृश्यते, अतोऽवगम्यते
रात्रौ भुङ्क्त इति । सम्भवो यथा--प्रस्थ इत्युक्ते चत्वारः कुडवाः
सम्भाव्यन्ते । अभावो नाम प्रागितरेतरात्यन्तसर्वाभावलक्षणः ।
प्रागभावो यथा-देवदत्तः कौमारयौवनादिषु । इतरेतराभावः--
पटे घटाभावः । अत्यन्ताभावः--खरविषाणवन्ध्यासुतखपुष्पव-
दिति । सर्वाभावः--प्रध्वंसाभावो दग्धपटवदिति । यथा शुष्कधा-
न्यदर्शनाद् वृष्टेरभावोऽवगम्यते । एवमभावोऽनेकधा । प्रतिभा
यथा-'दक्षिणेन च विन्ध्यस्य सह्यस्य च यदुत्तरम् । पृथि-
व्यामासमुद्रायां स प्रदेशो मनोरमः ।" एवमुक्ते तस्मिन् प्रदेशे
शोभनाः गुणाः सन्तीति प्रतिभोत्पद्यते, प्रतिभा च जानतां ज्ञान-
मिति । ऐतिह्यं यथा--ब्रवीति लोको यथात्र वटे यक्षिणी प्रतिव-
सतीति एव ऐतिह्यम् । उपमानं यथा-गौरिव गवयः, समुद्र इव
तड़ागः । एतानि षट् प्रमाणानि त्रिषु दृष्टादिष्वन्तर्भूतानि । तत्रानु-
माने तावदापत्तिरन्तर्भूता । सम्भवाभावप्रतिभैतिह्योपमाश्चाप्तव-
चने । तस्मात् विष्वेव सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्टं,
तदाह--तेन त्रिविधेन प्रमाणेन प्रमाणसिद्धिर्भवतीति वाक्यशेषः ।
प्रमेयसिद्धिः प्रमाणाद्धि । प्रमेयं प्रधानं बुद्धिरहङ्कारः पञ्चतन्मात्राणि
एकादशेन्द्रियाणि पञ्च महाभूतानि पुरुष इति । एतानि पञ्चविंश-
तितत्त्वानि व्यक्ताव्यक्तज्ञा इत्युच्यन्ते । तत्र किञ्चित् प्रत्यक्षेण साध्यं
किञ्चिदनुमानेन किञ्चिदागमेनेति त्रिविधं प्रमाणमुक्तम् ॥ ४ ॥

६
सांख्यकारिका।
प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमासश्रुतिराप्तवचनं तु ॥५॥
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमासागमात् सिद्धम् ॥६॥
तस्य किं लक्षणमेतदाह-प्रतिविषयेषु श्रोत्रादीनां शब्दादिविष-
येषु अध्यवसायो दृष्टं, प्रत्यक्षमित्यर्थः। त्रिविधमनुमानमाख्यातं,
पूर्ववत् शेषवत् सामान्यतोदृष्टं चेति । पूर्वमस्यास्तीति पूर्ववद्, यथा
मेघोन्नत्या वृष्टिं साधयति पूर्वदृष्टत्वात् । शेषवद् यथा--समुद्रादेकं
जलपलं लवणमासाद्य शेषस्याप्यस्ति लवणभाव इति सामान्यतो-
दृष्टम्-देशान्तराद्देशान्तरं प्राप्तं दृष्टम् गतिमञ्चन्द्रतारकं चैत्रवत् ।
यथा चैत्रनामानं देशान्तराद्देशान्तरं प्राप्तमवलोक्य गतिमानयमिति
तद्वच्चन्द्रतारकमिति । तथा पुष्पिताम्रदर्शनादन्यत्र पुष्पिता आम्रा
इति सामान्यतोदृष्टेन साधयति । एतत्सामान्यतोदृष्टम् । किञ्च तल्लि-
झलिङ्गिपूर्वकमिति, तदनुमानं लिङ्गपूर्वकं, यत्र लिङ्गेन लिङ्गी अनुमी-
यते, यथा-दण्डेन यतिः । लिङ्गिपूर्वकं च, यत्र लिङ्गिना लिङ्गमनु-
मीयते, यथा--दृष्ट्वा यतिमस्येदं त्रिदण्डमिति । आप्तश्रुतिराप्तवचनं
च । आप्ता आचार्या ब्रह्मादयः । श्रुतिर्वेदः । आप्ताश्च श्रुतिश्च आप्त-
श्रुतिः तदुक्तमाप्तवचनमिति । एवं त्रिविधं प्रमाणमुक्तम् ॥ ५ ॥
तत्र केन प्रमाणेन किं साध्यमुच्यते--सामान्यतोदृष्टादनुमानाद्-
तीन्द्रियाणामिन्द्रियाण्यतीत्य वर्तमानानां सिद्धिः। प्रधानपुरुषाव-
तीन्द्रियो सामान्यतोदृष्टेनानुमानेन साध्येते यस्मान्महदादिलिङ्गं
त्रिगुणम् । यस्येदं त्रिगुणं कार्य तत् प्रधानमिति । यतश्चाचेतनं
चेतनमिवाभाति अतोऽन्योधिष्ठाता पुरुष इति । व्यक्तं प्रत्यक्षसाध्यम्।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्--यथेन्द्रो देवराजः,
उत्तराः कुरवः, स्वर्गेऽप्सरस इति परोक्षमाप्तवचनात् सिद्धम् ॥६॥

सांख्यकारिका।
अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।
सौम्यायवधानादभिभवात्समानाभिहाराच्च ॥ ७ ॥
सौम्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धिः ।
महदादि तच्च कार्य प्रकृतिविरूपं सरूपं च ॥ ८॥
अत्र कश्चिदाह प्रधानं पुरुषो वा नोपलभ्यते यच्च नोपलभ्यते लोके
तन्नास्ति तस्मात् तावपि न स्तः। यथा द्वितीयं शिरस्तृतीयो बाहु-
रिति । तदुच्यते । अत्र सतामप्यर्थानामष्टधोपलब्धिर्न भवति । तद
यथा-इह सतामप्यर्थानामतिदूरादनुपलब्धिर्दृष्टा यथा--देशान्तर-
स्थानां चैत्रमैत्रविष्णुमित्राणाम् । सामीप्याद् यथा-चक्षुषोऽञ्जनानु-
पलब्धिः । इन्द्रियाभिघाताद् यथा बधिरान्धयोः शब्दरूपानुपलब्धिः।
मनोऽनवस्थानाद् यथा--व्यग्रचित्तः सम्यक्कथितमपि नावधारयति।
सौम्याद् यथा--धूमोष्मजलनीहारपरमाणवो गगनगता नोपल-
भ्यन्ते । व्यवधानाद् यथा--कुडयेन पिहितं वस्तु नोपलभ्यते अभि-
भवाद् यथा--सूर्यतेजसाभिभूताः ग्रहनक्षत्रतारकादयः नोपलभ्यन्ते ।
समानाभिहाराद् यथा--मुद्राशौ मुद्गः क्षिप्तः कुवलयामलकमध्ये
कुवलयामलके क्षिप्ते, कपोतमध्ये कपोतो नोपलभ्यते समानद्रव्य-
मध्याहृतत्वात् । एवमष्टधानुपलब्धिः सतामर्थानामिह दृष्टा ॥ ७॥
एवं चास्ति किमभ्युपगम्यते प्रधानपुरुषयोरप्येतयोर्वानुपलब्धिः
केन हेतुना केन चोपलब्धिस्तदुच्यते--सौम्यात् तद्नुपलब्धिः,
प्रधानस्येत्यर्थः । प्रधानं सौम्यान्नोपलभ्यते यथाकाशे धूमोष्मजल-
नीहारपरमाणवः सन्तोऽपि नोपलभ्यन्ते । कथं तर्हि तदुपलब्धिः ?
कार्यतस्तदुपलब्धिः। कार्य दृष्ट्वा कारणमनुमीयते । अस्ति प्रधान
कारणं यस्येदं कार्यम् । बुद्धिरहङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रि-
याणि पञ्चमहाभूतानि एव तत्कार्यम् । तच्च कार्य, प्रकृतिविरूपम् ।
प्रकृतिःप्रधानं तस्य विरूपं प्रकृतेरसदृशम् । सरूपं च समानरूपं
च, यथा लोकेऽपि पितुस्तुल्य इव पुत्रो भवत्यतुल्यश्च । येन हेतुना
तुल्यमतुल्यं तदुपरिष्टावक्ष्यामः ॥ ८॥

८ सांख्यकारिका। असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात्। शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥९॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । यदिदं महदादिकार्य तत् किं प्रधाने सदुताहोस्विदसत् आचार्य- विपत्तिपत्तेरयं संशयः। यतोऽत्र सांख्यदर्शने सत्कार्य बौद्धादीना- मसत्कार्यम् । यदि सदसन्न भवत्यथालत्सन्न भवतीति विप्रतिषेध- स्तत्राह-असदकरणात् । न सदसदसतोऽकरणं तस्मात्सत्कार्यम् । इह लोकेऽसत् करणं नास्ति यथा सिकताभ्यस्तैलोत्पत्तिः, तस्मात् सतः करणादस्ति प्रागुत्पत्तेः प्रधाने व्यक्तम् । अतः सत्कार्यम् । किंचान्यदुपादानग्रहणात्, उपादानं कारणं तस्य ग्रहणात्, इह लोके यो येनार्थी स तदुपादानग्रहणं करोति ध्यर्थी क्षीरस्य न तु जलस्य तस्मात् सत्कार्यम् । इतश्च सर्वसम्भवाभावात् , सर्वस्य सर्वत्र सम्भवो नास्ति, यथा सुवर्णस्य रजतादौ तृणपांशुसिकतासु तस्मात् सर्वसम्भवाभावात् सत्कार्यम् । इतश्च शक्तस्य शक्यकरणात्, इह कुलालः शक्तो मृद्दण्डचक्रचीवररज्जुनीरादिकरणोपकरणं वा शक्यमेव घटं मृत्पिण्डादुत्पादयति, तस्मात् सत्कार्यम् । इतश्च कारणभावाच्च सत्कार्यम् । कारणं यल्लक्षणं तल्लक्षणमेव कार्यमपि, यथा यवेभ्यो यवाः, ब्रीहिभ्यो व्रीहयः यदाऽसत्कार्य स्यात् ततः कोद्रवेभ्यः शालयः स्युन च सन्तीति, तस्मात् सत्कार्यम् । एवं पञ्चभिर्हेतुभिः प्रधाने महदादिलिङ्गमस्ति, तस्मात् सत उत्पत्ति- सत इति ॥९॥ प्रकृतिविरूपं सरूपं च यदुक्तं तत् कथमित्युच्यते--व्यक्तं महदा- दिकार्य, हेतुमदिति । हेतुरस्यास्ति हेतुमत् । उपादानं हेतुः कारणं निमित्तमिति पर्यायाः। व्यक्तस्य प्रधानं हेतुरस्ति, अतो हेतुमद व्यक्तं भूतपर्यन्तम् । हेतुमद् बुद्धितत्त्वं प्रधानेन, हेतुमानहङ्कारो बुद्धया, पञ्चतन्मात्राणि एकादशेन्द्रियाणि हेतुमन्त्यहङ्कारेण । आकाशं शब्दतन्मात्रेण हेतुमत् । वायुः स्पर्शतन्मात्रेण हेतुमान् । , सांख्यकारिका। ९ सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥ B. तेजो रूपतन्मात्रेण हेतुमत् । आपो रसतन्मात्रेण हेतुमत्यः । पृथिवी गन्धतन्मात्रेण हेतुमती। एवं भूतपर्यन्तं व्यक्तं हेतुमत् । किंचान्यत्, अनित्यं, यस्मादन्यस्मादुत्पद्यते यथा--मृत्पि ण्डादुत्पद्यते घटः स चानित्यः किंचाव्यापि, असर्वगमित्यर्थः, यथा प्रधानपुरुषौ सर्वगतो नैवं व्यक्तम् । किंचान्यत् , सक्रिय, संसारकाले संसरति, त्रयोदशः विधेन करणेन संयुक्तं सूक्ष्मं शरीरमाश्रित्य संसरति, तस्मात् सक्रि- यम किंचान्यत्, अनेकं, बुद्धिरहङ्कारः पञ्चतन्मात्राण्येकादशेन्द्रि- याणि पञ्चमहाभूतानि चेति । किंचान्यत्, आश्रितम्, स्वकारणमा- श्रयते, प्रधानाश्रिता बुद्धिः, बुद्धिमाश्रितोऽहङ्कारः, अहङ्काराश्रिता- न्येकादशेन्द्रियाणि पञ्चतन्मात्राणि, पञ्चतन्मात्राश्रितानि पञ्चमहा- भूतानीति । किञ्च लिङ्गं लययुक्तं, लयकाले पञ्चमहाभूतानि तन्मा- वेषु लीयन्ते तान्येकादशेन्द्रियैः सहाहङ्कारे स च बुद्धौ सा च प्रधाने लयं यातीति । तथा सावयवम्, अवयवाः शब्दस्पर्शरसरूप- गन्धाः, तैः सह । किञ्च परतन्त्रं, नात्मनः प्रभवति, यथा प्रधानतन्त्रा बुद्धिः, बुद्धितन्त्रोऽहङ्कारः, अहङ्कारतन्त्राणि तन्मात्राणीन्द्रियाणि च, तन्मात्रतन्त्राणि पञ्च महाभूतानि च । एवं परतन्त्रं परायत्तं व्याख्यातं व्यक्तम् । अथोऽव्यक्तं व्याख्यास्यामः । विपरीतमव्यक्तम् । एतैरेव गुणैर्यथोक्तैर्विपरीतमव्यक्तं, हेतुमद् व्यक्तमुक्तम् । न हि प्रधा- नात् परं किञ्चिदस्ति, यतः प्रधानस्यानुत्पत्तिः, तस्मादहेतुमदव्य- तम् । तथानित्यं च व्यक्तं, नित्यमव्यक्तमनुत्पाद्यत्वात् , न हि भूता- नीव कुतश्चिदुत्पद्यत इत्यव्यक्तं प्रधानम् । किंचाव्यापि व्यक्तं, व्यापि प्रधानं सर्वगतत्वात् । सक्रियं व्यक्तमक्रियमव्यक्तं सर्वगतत्वादेव । तथानेकं व्यक्तमेकं प्रधानं कारणत्वात् , त्रयाणां लोकानां प्रधानमेकं कारणं, तस्मादेकं प्रधानम् । तथाश्रितं व्यक्तमनाश्रितमव्यक्तमकार्य- त्वात् , न हि प्रधानात् किञ्चिदस्ति परं यस्य प्रधान कार्य स्यात् । तथा व्यक्तं लिङ्गम् , अलिङ्गमव्यक्तं नित्यत्वात् , महदादिलिङ्गं प्रल- सांख्यकारिका। त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । यकाले परस्परं प्रलीयते नवं प्रधानं, तस्मादलिङ्गं प्रधानम् । तथा सावयवं व्यक्तं, निरवयवमव्यक्तं, न हि शब्दस्पर्शरसरूपगन्धाः प्रधाने सन्ति । तथा परतन्त्रं व्यक्तं, स्वतन्त्रमव्यक्तं प्रभवत्यात्मनः१०. एवं व्यक्ताव्यक्तयोवैधय॑मुक्तं साधर्म्यमुच्यते यदुक्तं 'सरूपं च'- त्रिगुणं व्यक्तं सत्त्वरजस्तमांसि त्रयो गुणा यस्येति । अविवेकि व्यक्तं न विवेकोऽस्यास्तीति । इदं व्यक्तमिमे गुणा इति न विवेकं कर्तु याति, अयं गौरयमश्व इति यथा, ये गुणास्तव्यक्तं यदव्यक्तं ते च गुणा इति । तथा विषयो व्यक्तं, भोग्यमित्यर्थः, सर्वपुरुषाणां विषय- भूतत्वात् । तथा सामान्य व्यक्तं, मूल्यदासीवत् सर्वसाधारणत्वात् । अचेतनं व्यक्तं, सुखदुःखमोहान न चेतयतीत्यर्थः। तथा प्रसवधर्मि व्यक्तं, तद् यथा-बुद्धेरहङ्कारः प्रसूयते तस्मात् पञ्चतन्मात्राणि एका- दशेन्द्रियाणि च प्रसूयन्ते तन्मात्रेभ्यः पञ्चमहाभूतानि । एवमेते व्यक्तधर्माः प्रसवधर्मान्ता उक्ताः, एवमेभिरव्यक्तं सरूपं, यथा व्यक्त तथा प्रधानमिति । तत्र त्रिगुणं व्यक्तमव्यक्तमपि त्रिगुणं यस्यैतन्मह- दादिकार्य त्रिगुणम् । इह यदात्मकं कारणं तदात्मकं कार्यमिति, यथा कृष्णतन्तुकृतः कृष्ण एव पटो भवति । तथाऽविवेकि व्यक्तं, प्रधानमपि गुणैर्न भिद्यते, अन्ये गुणाः अन्यत् प्रधानमेवं विवेक्तुं न याति तदविवेकि प्रधानम् । तथा विषयो व्यक्तं प्रधानमपि सर्व- पुरुषविषयभूतत्वात् विषय इति । तथा सामान्य व्यक्तं प्रधानमपि, सर्वसाधारणत्वात् । तथाऽचेतनं व्यक्तं प्रधानमपि सुखदुःखमोहान न चेतयतीति कथमनुमीयते, इह ह्यचेतनान्मृत्पिण्डादचेतनो घट उत्पद्यते । तथा प्रसवधर्मि व्यक्तं प्रधानमपि प्रसवधर्मि, यतः प्रधा- नाद् बुद्धिरुत्पद्यते । एवं प्रधानमपि व्याख्यातम् । इदानीं तद्विपरी- तस्तथा च पुमानित्येतद् व्याख्यायते । तद्विपरीतस्ताभ्यां व्यक्ता- व्यक्ताभ्यां विपरीतः पुमान् । तद् यथा-त्रिगुणं व्यक्तमव्यक्तं च, अगुणः पुरुषः । अविवेकि व्यक्तमव्यक्तं च, विवेकी पुरुषः । तथा ...

सांख्यकारिका। ११ व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । विषयो व्यक्तमव्यक्तं च, अविषयः पुरुषः। तथा सामान्य व्यक्तमव्यक्तं च, असामान्यः पुरुषः । अचेतनं व्यक्तमव्यक्तं च, चेतनः पुरुषः। सुखदुःखमोहांश्चेतयति सजानीते तस्माच्चेतनःपुरुष इति। प्रसवधर्मि व्यक्तं प्रधानं च, अप्रसवधर्मी पुरुषः, न हि किञ्चित् पुरुषात् प्रसूयते। तस्मादुक्तं तद्विपरीतः पुमानिति । तदुक्तं 'तथा च पुमान्' इति । तत् पूर्वस्यामार्यायां प्रधानमहेतुमद् यथा व्याख्यातं तथा च पुमान तद् यथा हेतुमदनित्यमित्यादि व्यक्तं तद्विपरीतमव्यक्तं, तत्र हेतुमद् व्यक्तमहेतुमत् प्रधानं, तथा च पुमानहेतुमान, अनुत्पाद्यत्वात् । अनित्यं व्यक्तं नित्यं प्रधानं, तथा च नित्यः पुमान् । अव्यापि व्यक्तं व्यापि प्रधानम् , तथा च व्यापी पुमान , सर्वगतत्वात् । सक्रिय व्यक्तमक्रियं प्रधानम् , तथा च पुमानक्रियः, सर्वगतत्वादेव । अनेक व्यक्तमेकमव्यक्तं, तथा च पुमानप्येकः । आश्रितं व्यक्तमनाश्रितम- व्यक्तं, तथा च पुमाननाश्रितः। लिङ्गं व्यक्तमलिङ्गं प्रधानं, तथा च पुमानप्यलिङ्गः । न क्वचिल्लीयत इति । सावयवं व्यक्तं निरवयवम- व्यक्तं, तथा च पुमान् निरवयवः । न हि पुरुषे शब्दादयोऽवयवाः सन्ति । किञ्च परतन्त्रं व्यक्तं स्वतन्त्रमव्यक्तं, तथा च पुमानपि स्वतन्त्रः, आत्मनः प्रभवतीत्यर्थः॥११॥ एवमेतदव्यक्तपुरुषयोः साधर्म्य व्याख्यातं पूर्वस्यामार्यायाम् । व्यक्तप्रधानयोः साधर्म्य पुरुषस्य वैधय॑ च त्रिगुणमविवेकीत्यादि प्रकृत्यार्यायां व्याख्यातम् । तत्र यदुक्तं त्रिगुणमिति व्यक्तमव्यक्तं च तत् के ते गुणा इति तत्स्वरूपप्रतिपादनायेदमाह-प्रीत्यात्मका अप्रीत्यात्मका विषादात्मकाच, गुणाः सत्त्वरजस्तमासीत्यर्थः । तत्र प्रीत्यात्मकं सत्त्वं, प्रीतिः सुखं तदात्मकमिति । अप्रीत्यात्मकं रजः । अप्रीतिर्दुःखम् । विषादात्मकं तमः। विषादो मोहः। तथा प्रकाशप्र- वत्तिनियमार्थाः । अर्थशब्दः सामर्थ्यवाची, प्रकाशार्थ सत्त्वं, प्रका- , सांख्यकारिका। भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूपस्य ॥ १५ ॥ त्रैगुण्यादविवेक्यादिर्व्यक्ते सिद्धस्तद्विपर्ययाभावात् , एवं कारण- गुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धमित्येतन्मिथ्या, लोके यन्नो- पलभ्यते तन्नास्ति, इति न वाच्यम्, सतोऽपि पाषाणगन्धादेरनुप- लम्भात् , एवं प्रधानमप्यस्ति किन्तु नोपलभ्यते तदाह-कारण- मस्त्यव्यक्तमिति क्रियाकारकसम्बन्धः। भेदानां परिमाणात्, लोके यत्र कर्तास्ति तस्य परिमाणं दृष्टं यथा कुलालः परिमितैर्मृत्पिण्डैः परिमितानेव घटान् करोति, एवं महदपि महदादिलिङ्गं परिमितं भेदतः, प्रधानकार्यमेका बुद्धिरेकोऽहङ्कारः पञ्चतन्मात्राणि एकाद- शेन्द्रियाणि पञ्चमहाभूतानीत्येवं भेदानां परिमाणादस्ति प्रधानं कारणं यद् व्यक्तं परिमितमुत्पादयति । यदि प्रधानं न स्यात् , तदा निष्परिमाणमिदं व्यक्तमपि न स्यात्, परिमाणाच्च भेदानामस्ति प्रधानं यस्माद् व्यक्तमुत्पन्नम् । तथा समन्वयात्, इह लोके प्रसिद्धि- दृष्टा यथा व्रतधारिणं बटुं दृष्ट्वा समन्वयति नूनमस्य पितरौ ब्राह्म- णाविति, एवमिदं त्रिगुणं महदादिलिङ्गं दृष्ट्वा साधयामोऽस्य यत् कारणं भविष्यतीति, अतः समन्वयादस्ति प्रधानम् । तथाशक्तितः प्रवृत्तेश्च, इह यो यस्मिन् शक्तः स तस्मिन्नेवार्थे प्रवर्तते,यथा कुलालो घटस्य करणे समर्थो घटमेव करोति न पटं रथं वा । तथा अस्ति प्रधानं कारणं, कुतः ? कारणकार्यविभागात् । करोतीति कारणम् । क्रियत इति कार्यम् । कारणस्य कार्यस्य च विभागो यथा-घटो- दधिमधूदकपयसां धारणे समर्थो न तथा तत्कारणं मृत्पिण्डः । मृत्पिण्डो वा घटं निष्पादयति न चैवं घटो मृत्पिण्डम् । एवं महदा- दिलिङ्गं दृष्ट्वानुमीयते । अस्ति विभक्तं तत्कारणं यस्य विभाग इदं व्यक्तमिति । इतश्च अविभागाद् वैश्वरूपस्य, विश्वं जगत्, तस्य रूपं व्यक्तिः । विश्वरूपस्य भावो वैश्वरूपं, तस्याविभागादस्ति प्रधान, यस्मात् त्रैलोक्यस्य पञ्चानां पृथिव्यादीनां महाभूतानां पर

सांख्यकारिका।
१५
कारणमस्त्यव्यक्त प्रवर्तते त्रिगुणतः समुदयाच ।
परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् ॥१६॥
स्परं विभागो नास्ति महाभूतेष्वन्तर्भूतास्त्रयो लोका इति, पृथिव्या-
पस्तेजो वायुराकाशमिति, एतानि पञ्चमहाभूतानि प्रलयकाले सृष्टि-
क्रमेणैवाविभागं यान्ति तन्मात्रेषु परिणामिषु तन्मात्राण्येकादशेन्द्रि-
याणि चाहङ्कारे अहङ्कारो बुद्धौ बुद्धिः प्रधाने, एवं त्रयो लोकाः
प्रलयकाले प्रकृतावविभागं गच्छन्ति, तस्मादविभागात् क्षीरदधि-
वद् व्यक्ताव्यक्तयोरस्त्यव्यक्तं कारणम् ॥ १५ ॥
अतश्च-अव्यक्तं प्रख्यातं कारणमस्ति यस्मान्महदादिलिङ्गं प्रव-
तते । त्रिगुणतः त्रिगुणात्, सत्त्वरजस्तमांसि गुणा यस्मिन् तत्
त्रिगुणं, तत किमुक्तं भवति, सत्त्वरजस्तमसांसाम्यावस्था प्रधानम्।
तथा समुदयात् , यथा गङ्गास्रोतांसि त्रीणि रुद्रमृर्द्धनि पतितानि
एकं स्रोतो जनयन्ति, एवं त्रिगुणमव्यक्तमेकं व्यक्तं जनयति, यथा
वा तन्तवः समुदिताः पट जनयन्ति, एवमव्यक्तं गुणसमुदयान्मह-
दादि जनयतीति त्रिगुणतः समुदयाच्च व्यक्तं जगत् प्रवर्तते । यस्मा-
'देकस्मात् प्रधानाद व्यक्त तस्मादेकरूपेण भवितव्यम् । नैष दोषः,
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात्,' एकस्मात
प्रधानात् त्रयो लोकाः समुत्पन्नास्तुल्यभावा न भवन्ति, देवाः
सुखेन युक्ता मनुष्या दुःखेन तिर्यञ्चो मोहेन, एकस्मात् प्रधानात
प्रवृत्तं व्यक्तं प्रतिप्रतिगुणाश्रयविशेषात् परिणामतःसलिलवद्भवति ।
प्रतिप्रतीति वीप्सा । गुणानामाश्रयो गुणाश्रयस्तद्विशेषस्तं गुणाश्र.
यविशेष प्रतिनिधाय प्रतिप्रतिगुणाश्रयविशेष परिणामात् प्रवर्तते
व्यक्तं यथा आकाशादेकरसं सलिलं पतितं नानारूपात् संश्लेषाद्भि-
द्यते तत्तद्रसान्तरैः एवमेकस्मात् प्रधानात् प्रवृत्तास्त्रयो लोका नैक-
स्वभावा भवन्ति, देवेषु सत्त्वमुत्कटं रजस्तमसी उदासीने तेन तेऽ-
त्यन्तसुखिनः, मनुष्येषु रज उत्कटं भवति सत्त्वतमसी उदासीने
तेन तेऽत्यन्तदुःखिनः, तिर्यक्षु तम उत्कटं भवति सत्त्वरजसी उदा.
सीने तेन तेऽत्यन्तमूढाः ॥ १६ ॥

१६ सांख्यकारिका। सङ्घनतपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थ प्रवृत्तेश्च ॥ १७ ॥ जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । एवमार्याद्वयेन प्रधानस्यास्तित्वमवगम्यते । इतश्चोत्तरं पुरुषास्ति- त्वप्रतिपादनार्थमाह । यदुक्तं व्यक्ताव्यक्तविज्ञानान्मोक्षः प्राप्यत इति, तत्र व्यक्तादनन्तरमव्यक्तं पञ्चभिः कारणैरधिगतं व्यक्तवत्, पुरुषोऽपि सूक्ष्मस्तस्याधुनानुमितास्तित्वं प्रतिक्रियते । अस्ति पुरुषः कस्मात् सङ्घातपरार्थत्वात् । योऽयं महदादिसङ्घातः स पुरुषार्थ इत्य- नुमीयते, अचेतनत्वात् पर्यवत् । यथा पर्यङ्कः प्रत्येकं गात्रोत्पलक- पादपीठतूलीप्रच्छादनपटोपधानसंवातः परार्थोनहि स्वार्थः,पर्यङ्कस्य न हि किञ्चिदपि गात्रोत्पलाद्यवयवानां परस्परं कृत्यमस्ति । अतोऽवगम्यतेऽस्ति पुरुषो यः पर्यङ्के शेते यस्यार्थ पर्यङ्कस्तत्परार्थम्, इदं शरीरं पञ्चानां महाभूतानां सङ्घातो वर्तते, अस्ति पुरुषो यस्येदं भोग्यं शरीरंभोग्यमहदादिसङ्घातरूपं समुत्पन्नमिति। इतश्चात्माऽस्ति त्रिगुणादिविपर्ययात् । यदुक्तं पूर्वस्यामार्यायां त्रिगुणमविवेकिविषय इत्यादि । तस्माद्विपर्ययात, येनोक्तं तद्विपरीतस्तथा च पुमान् । अधिष्ठानात , यथेह लङ्घनप्लवनधावनसमर्थैरश्चैर्युक्तो रथः सारथि- नाऽधिष्ठितः प्रवर्तते तथात्माऽधिष्ठानाच्छरीरमिति । तथा चोक्तं षष्टितन्त्रे "पुरुषाधिष्ठितं प्रधानं प्रवर्तते"। अतोऽस्त्यात्मा, भोक्तृ- त्वात् । यथा मधुराम्ललवणकटुतिक्तकषायषड्रसोपबृंहितस्य संयु- क्तस्यान्नस्य साध्यते, एवं महदादिलिङ्गस्य भोक्तृत्वाभावादस्ति स आत्मा यस्येदं भोग्यं शरीरमिति । इतश्च, कैवल्यार्थ प्रवृत्तेश्च, केव- लस्य भावः कैवल्यं तन्निमित्तं या च प्रवृत्तिस्तस्याः स्वकैवल्यार्थ प्रवृत्तेः सकाशाद्नुमीयते, अस्त्यात्मेति, यतः सर्वो विद्वानविद्वांश्च संस न्तानक्षयमिच्छति । एवमेभिर्हेतुभिरस्त्यात्मा शरीराद् व्यतिरिक्तः॥१७॥ अथ सः किमेकः सर्वशरीरेऽधिष्ठातामणिरसनात्मकसूत्रवत् आ- होस्विद् बहव आत्मानः प्रतिशरीरमधिष्ठातार इत्यत्रोच्यते-जन्म च

सांख्यकारिका।
१७
पुरुषबहुत्वं सिद्ध त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥
तस्माच विपर्यासात्सिडं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टुत्वमकर्तृभावश्च ॥ १९ ॥
मरणञ्च करणानि च जन्ममरणकरणानि तेषां प्रतिनियमात् , प्रत्ये-
कनियमादित्यर्थः। यद्येक एव आत्मा स्यात् तत एकस्य जन्मनि सर्व
एव जायेरन्, एकस्य मरणे सर्वेऽपि म्रियेरन् , एकस्य करणवैकल्ये
बाधिर्यान्धत्वमूकत्वकुणित्वखञ्जत्वलक्षणे सर्वेऽपि बधिरान्धकुणि-
खजाः स्युः, न चैवं भवति, तस्माजन्ममरणकरणानां प्रतिनियमात्
पुरुषबहुत्वं सिद्धम् । इतश्च, अयुगपत् प्रवृत्तेश्च युगपदेककालं, न
युगपदयुगपत् प्रवर्तनं, यस्मादयुगपद्धर्मादिषु प्रवृत्तिर्दृश्यते, एके
धर्म प्रवृत्ता अन्येऽधर्मे वैराग्येऽन्ये ज्ञानेऽन्ये प्रवृत्ताः, तस्मादयुगपत्
प्रवृत्तश्च बहव इति सिद्धम् । किञ्चान्यत् त्रैगुण्यविपर्ययाच्चैव, त्रिगु-
णभावविपर्ययाञ्च पुरुषबहुत्वं सिद्धम् । यथा सामान्ये जन्मनि एकः
सात्त्विकः सुखी, अन्यो राजसो दुःखी, अन्यस्तामसो मोहवान्,
एवं त्रैगुण्यविपर्ययाहुत्वं सिद्धमिति ॥ १८ ॥
अकर्ता पुरुष इत्येतदुच्यते-तस्माच्च विपर्यासात् , तस्माञ्च यथो-
क्तत्रैगुण्यविपर्यासाद्विपर्ययान्निर्गुणः पुरुषो विवेकी भोक्तेत्यादिगुणानां
पुरुषस्य यो विपर्यास उक्तस्तस्मात् , सत्त्वरजस्तमःसु कर्तृभूतेषु
साक्षित्वं सिद्धं पुरुषस्येति, योऽयमधिकृतो बहुत्वं प्रति । गुणा एव
कर्तारः प्रवर्तन्ते, साक्षी न प्रवर्तते नापि निवर्तत एव । किञ्चा-
न्यत् , कैवल्यं केवलभावः, कैवल्यमन्यत्वमित्यर्थः, त्रिगुणेभ्यः केव-
लोऽन्यः। माध्यस्थ्यं मध्यस्थभावः, परिव्राजकवत् मध्यस्थः पुरुषः।
यथा कश्चित् परिव्राजको ग्रामीणेषु कर्षणार्थेषु प्रवृत्तेषु केवलो
मध्यस्थः, पुरुषोऽप्येवं गुणेषु प्रवर्तमानेषु न प्रवर्तते तस्मादृष्टत्वम-
कर्तृभावश्च, यस्मान्मध्यस्थस्तस्माद्दष्टा तस्मादकर्ता पुरुषस्तेषां
कर्मणामिति सत्त्वरजस्तमांसि त्रयो गुणाः कर्मकर्तृभावेन प्रवर्तन्ते,
न पुरुषः, एवं पुरुषस्यास्तित्वं च सिद्धम् ॥ १९ ॥

१८ सांख्यकारिका । तस्मात्तत्संयोगादचेतनं चेतनाववि लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ २० ॥ पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पङ्गन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥ यस्मादकर्ता पुरुषस्तत् कथमध्यवसायं करोति धर्म करिष्याम्य- धर्म न करिष्यामीत्यतः कर्ता भवति, नच कर्ता पुरुष एवमुभयथा दोषः स्यादिति, अत उच्यते-इह पुरुषश्चेतनावान् तेन चेतनाव- भाससंयुक्तं महदादिलिङ्गं चेतनाव दिव भवति, यथा लोके घटः शीतसंयुक्तः शीतः, उष्णसंयुक्त उष्णः, एवं महदादि लिङ्गं तस्य संयोगात् पुरुषसंयोगाच्चेतनाववि भवति । तस्माद् गुणा अध्यव- सायं कुर्वन्ति न पुरुषः। यद्यपि लोके पुरुषः कर्ता गन्तेत्यादि प्रयुज्यते तथाप्यकर्ता पुरुषः । कथम् ? "गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः" गुणानां कर्तृत्वे सति उदासीनोऽपि पुरुषः कर्तेव भवति, न कर्ता । अत्र दृष्टान्तो भवति, यथाऽचौरश्चौरैः सह गृही- तश्चौर इत्यवगम्यते, एवं त्रयो गुणाः कर्तारः, तैः संयुक्तः पुरुषोऽक- र्ताऽपि कर्ता भवति कर्तृसंयोगात् एवं व्यक्ताव्यक्तज्ञानां विभागो विख्यातः, यद्विभागान्मोक्षप्राप्तिरिति ॥ २० ॥ अथैतयोः प्रधानपुरुषयोः किं हेतुः सङ्घात उच्यते-पुरुषस्य प्रधा- नेन सह संयोगो दर्शनार्थ, प्रकृति महदादि कार्य भूतपर्यन्तं पुरुषः पश्यति, एतदर्थ प्रधानस्यापि पुरुषेण संयोगः कैवल्यार्थम् । स च संयोगः पङ्गन्धवदुभयोरपि द्रष्टव्यः, यथा एकः पङ्गुरेकश्चान्ध एतौ द्वावपि गच्छन्तौ महता सामर्थ्यनाटव्यां सार्थस्य स्तेनकृतादुपप्लवात् स्वबन्धुपरित्यक्तौ दैवादितश्चेतश्च चेरतुः, स्वगत्या च तौ संयोगमु- पयातौ पुनस्तयोः स्ववचसोर्विश्वस्तत्वेन संयोगो गमनार्थ दर्शनार्थ च भवति, अन्धेन पङ्गुः, स्कन्धमारोपितः, एवं शरीरारूढ़पमुदर्शि- तेन मार्गेणान्धो याति पङ्गुश्चान्धस्कन्धारूढ़ः । एवं पुरुषे दर्शन- शक्तिरस्ति पङ्गुवन्न क्रिया, प्रधाने क्रियाशक्तिरस्त्यन्धवन्न दर्शन- सांख्यकारिका। १९. , प्रकृतेमहांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोड़शकात्पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥ अध्यवसायो बुद्धिधर्मो ज्ञानं विराग ऐश्वर्यम् । शक्तिः । यथावानयोः पङ्गन्धयोः कृतार्थयोविभागो भविष्यतीप्सित- स्थानप्राप्तयोः, एवं प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्तते पुरु. षोऽपि प्रधानं दृष्ट्वा कैवल्यं गच्छति, तयोः कृतार्थयोविभागो भविष्यति । किञ्चान्यत् , तत्कृतः सर्गः, तेन संयोगेन कृतस्तत्कृतः, सर्गः सृष्टिः, यथा स्त्रीपुरुषसंयोगात् सुतोत्पत्तिस्तथा प्रधानपुरुष. संयोगात् सर्गस्योत्पत्तिः ॥ २१ ॥ इदानीं सर्गविभागदर्शनार्थमाह-प्रकृतिः प्रधानं ब्रह्म अव्यक्तं वहुधानकं मायेति पर्यायाः । अलिङ्गस्य प्रकृतेः सकाशान्महानु- त्पद्यते, महान् बुद्धिरासुरी मतिः ख्यातिनिमिति प्रज्ञापर्यायैरुत्प. द्यते । तस्माञ्च महतोहङ्कार उत्पद्यते, अहङ्कारो भूतादिकृतस्तैज- सोऽभिमान इति पर्यायाः। तस्माद्गणश्च षोडशकः, तस्मादहङ्कारात् पोड़शकः षोड़शस्वरूपेण गण उत्पद्यते । स यथा-पञ्चतन्मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति । तन्मात्रसूक्ष्मपर्यायवाच्यानि, तत एकादशेन्द्रियाणि श्रोत्रं त्वक्- चक्षुपी जिह्वाघ्राणमिति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूप- स्थानि पञ्च कर्मेन्द्रियाणि, उभयात्मकमेकादशं मनश्च, एषः षोड़शको गणोऽहङ्कारादुत्पद्यते । किञ्च पञ्चभ्यः पञ्चभूतानि, तस्मात् षोड़श- काद्गणात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात् पञ्च वै महाभूतान्युत्पद्यन्ते । यदुक्तं-शब्दतन्मात्रादाकाशं, स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्रात् पृथिवी, एवं पञ्चभ्यः परमाणुभ्यः पञ्चमहाभूतान्युत्पद्यन्ते ॥ २२ ॥ यदुक्तं व्यक्ताव्यक्तविज्ञानान्मोक्ष इति, तत्र महदादि भूतान्तं त्रयोविंशतिभेदं व्याख्यातम् , अव्यक्तमपि “भेदानां परिमाणात्" इत्यादिना व्याख्यातं, पुरुषोऽपि “सङ्घातपरार्थत्वात्" इत्यादिभि- .

सांख्यकारिका। सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥ हेतुभिर्व्याख्यातः । एवमेतानि पञ्चविंशतितत्त्वानि, यस्तैस्त्रैलोक्यं व्याप्तं जानाति तस्य भावोऽस्तित्वं तत्त्वं, यथोक्तम्-“पञ्चविंशति- तत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः॥” तानि यथा, प्रकृतिः पुरुषो बुद्धिरहङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानि, इत्येतानि पञ्चविंशतितत्त्वानि । तत्रोक्तप्रकृतेमहानुत्पद्यते, तस्य महतः किं लक्षणमित्येतदाह- अध्यवसायो बुद्धिलक्षणम् । अध्यवसानमध्यवसायः। यथा बीजे भविष्यद्वृत्तिकोऽङ्करस्तद्ददध्यवसायोऽयं घटोऽयं पट इत्येवम् अध्य- वस्यति या सा बुद्धिरिति लक्ष्यते । सा च बुद्धिरष्टाङ्गिका सात्त्वि- कतामसरूपभेदात् । तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति । धर्मों ज्ञानं वैराग्यमैश्वर्य चेति । तत्र धर्मो नाम दयादानयमनियम- लक्षणः, तत्र यमा नियमाश्च पातञ्जलेऽभिहिताः-"अहिंसासत्या- स्तेयब्रह्मचर्यापरिग्रहा यमाः," "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणि- धानानि नियमाः" ज्ञानं प्रकाशोऽवगमो भानमिति पर्यायाः, तच्च द्विविधं बाह्यमाभ्यन्तरं चेति । तत्र बाह्यं नाम वेदाः शिक्षाकल्पव्या- करणनिरुक्तच्छन्दोज्योतिषाख्यषडङ्गसहिताः पुराणानि न्यायमी- मांसाधर्मशास्त्राणि चेति । आभ्यन्तरं प्रकृतिपुरुषज्ञानम् , इयं प्रकृतिः सत्त्वरजस्तमसां सास्यावस्थाऽयं पुरुषः सिद्धो निर्गुणो व्यापी चेतन इति । तत्र बाह्यज्ञानेन लोकपतिर्लोकानुराग इत्यर्थः । आभ्यन्तरेण ज्ञानेन मोक्ष इत्यर्थः । वैराग्यमपि द्विविधं, बाह्यमाभ्यन्तरं च । बाह्य दृष्टविषयवैतृष्ण्यमर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनात् विरक्तस्य, आभ्यन्तरं प्रधानमप्यत्र स्वप्नेन्द्रजालसदृशमिति विरक्तस्य, मोक्षे- पलोर्यदुत्पद्यते तदाभ्यन्तरं वैराग्यम् । ऐश्वर्यमीश्वरभावः, तञ्चाष्ट- गुणम्-अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्र कामावसायित्वं चेति । अणोर्भावोऽणिमा सूक्ष्मो भूत्वा जगति विचरतीति । महिमा महान भूत्वा विचरतीति । लघिमा मृणाली- तूलावयवादपि लघुतया पुष्पकेसराग्रेष्वपि तिष्ठति । प्राप्तिरभिमतं सांख्यकारिका। २१ अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः । एकादशकश्च गणस्तन्मात्रः पञ्चकश्चैव ॥ २४ ॥ सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ २५ ॥ वस्तु यत्र तत्रावस्थितःप्राप्नोति । प्राकाम्यं प्रकामतो यदेवेच्छति तदेव विदधाति । ईशित्वं प्रभुतया त्रैलोक्यमपीष्टे । वशित्वं सर्व वशी भवति । यत्र कामावसायित्वं ब्रह्मादिस्तम्बपर्यन्तं, यत्र काम- स्तत्रैवास्य स्वेच्छयास्थानासनविहारानाचरतीति । चत्वारि एतानि बुद्धेः सात्त्विकानि रूपाणि । यदा सत्त्वेन रजस्तमसी अभिभूते तदा पुमान् बुद्धिगुणान् धर्मादीनाप्नोति । किञ्चान्यत् , तामसमस्माद्विप- यस्तम्, अस्माद्धर्मादेविपरीतं तामसं वुद्धिरूपं, तत्र धर्माद्विपरी- तोऽधर्मः, एवमज्ञानमवैराग्यमनैश्चर्यमिति । एवं सात्त्विकस्तामसैः स्वरूपैरष्टाङ्गा बुद्धिस्त्रिगुणादव्यक्तादुत्पद्यते ॥ २३ ॥ एवं बुद्धिलक्षणमुक्तम्, अहङ्कारलक्षणमुच्यते-एकादशकश्च गण एकादशेन्द्रियाणि तथा तन्मात्री गणः पञ्चकः पञ्चलक्षणोपेतः शब्द- तन्मात्रस्पर्शतन्मात्ररूपतन्मात्ररसतन्मात्रगन्धतन्मात्रलक्षणोपेतः २४ किं लक्षणात् सर्ग इत्येतदाह-सत्त्वेनाभिभूते यदा रजस्तमसी अहङ्कारे भवतस्तदा सोऽहङ्कारः सात्त्विकः, तस्य च पूर्वाचार्यैः संज्ञा कृता वैकृत इति । तस्माद्वैकृतादहङ्कारादेकादशक इन्द्रियगण उत्प- द्यते । तस्मात् सात्त्विकानि विशुद्धानीन्द्रियाणि स्वविषयसमर्थानि, तस्मादुच्यते सात्त्विक एकादशक इति । किञ्चान्यत् । “भूतादेस्त- न्मात्रः स तामसः" तमसाभिभूते सत्त्वरजसी अहङ्कारे यदा भवतः, तदा सोऽहङ्कारस्तामस उच्यते, तस्य पूर्वाचार्यकृता संज्ञा भूतादिः, तस्माद्भूतादेरहङ्कारात् तन्मात्रः पञ्चको गण उत्पद्यते, भूतानामादि- भूतस्तमोवहुलस्तेनोक्तः स तामस इति-तस्माद्भूतादेः पञ्च- तन्मात्रको गणः । किञ्च "तेजसादुभयम्” यदा रजसाभिभूते सत्त्व- तमसी अहङ्कारे भवतस्तदा तस्मात् सोऽहङ्कारस्तैजस इति संज्ञां , २२ सांख्यकारिका। बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शनकानि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः॥ २६ ॥ उभयात्मकमन्न मनः सङ्कल्पकमिन्द्रियश्च साधात् । लभते, तस्मात्तैजसादुभयमुत्पद्यते । उभयमिति एकादशो गणस्त- न्मात्रः पञ्चकः । योऽयं सात्त्विकोऽहङ्कारो वैकृतिको विकृतो भूत्वा एकादशेन्द्रियाण्युत्पाद्यतिसतैजसमहङ्कारसहायंगृह्णाति, सात्त्विको निष्क्रियः स तैजसयुक्त इन्द्रियोत्पत्तौ समर्थः। तथा तामसोऽह- कारो भूतादिसंज्ञितो निष्क्रियत्वात् तैजसेनाहङ्कारेण क्रियावता युक्तस्तन्मात्राण्युत्पादयति तेनोक्तं "तैजसादुभयमिति" एवं तैज- सेनाहङ्कारेणेन्द्रियाण्येकादश पञ्चतन्मात्राणि कृतानि भवन्ति ।। २५॥ सात्त्विक एकादशक इत्युक्तः, यो वैकृतात् सात्त्विक एकादशकः सात्त्विकादहङ्कारादुत्पद्यते तस्य का संज्ञेत्याह-चक्षुरादीनि स्पर्श- नपर्यन्तानि बुद्धीन्द्रियाण्युच्यन्ते । स्पृश्यतेऽनेनेति स्पर्शनं त्वगि- न्द्रियं, तद्वाची सिद्धः स्पर्शनशब्दोऽस्ति, तेनेदं पठ्यते स्पर्शनका- नीति । शब्दस्पर्शरूपरसगन्धान पञ्चविषयान् बुध्यन्ते अवगच्छन्तीति पञ्चबुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः, कर्म कुर्वन्तीति कर्मेन्द्रियाणि । तत्र वाग्वदति, हस्तौ नाना व्यापार कुरुतः, पादौ गमनागमनं, पायुरुत्सर्ग करोति, उपस्थ आनन्द प्रजोत्पत्त्या ॥२६॥ एवं बुद्धीन्द्रियकर्मेन्द्रियभेदेन दशेन्द्रियाणि व्याख्यातानि, मन एकादशकं किमात्मकं किंस्वरूपं चेति तदुच्यते-अत्रेन्द्रियवर्गे मन उभयात्मकं बुद्धीन्द्रियेषु बुद्धीन्द्रियवत् कर्मेन्द्रियेषु कर्मेन्द्रियवत् । कस्माद् ? बुद्धीन्द्रियाणां प्रवृत्तिं कल्पयति कर्मेन्द्रियाणां च, तस्मा- दुभयात्मकं मनः । सङ्कल्पयतीति सङ्कल्पकम् । किञ्चान्यत् “इन्द्रियं च साधर्म्यात्" समानधर्मभावात्, सात्त्विकाहङ्काराबुद्धीन्द्रियाणि कर्मेन्द्रियाणि मनसा सहोत्पद्यमानानि मनसः साधर्म्य प्रति, तस्मात् साधान्मनोऽपीन्द्रियम्, एवमेतान्येकादशेन्द्रियाणि सात्त्विका- सांख्यकारिका। २३ गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥ रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । द्वैकृतादहङ्कारादुत्पन्नानि । तत्र मनसः का वृत्तिरिति । सङ्कल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः कर्मेन्द्रियाणां वचनादयः। अथैतानीन्द्रियाणि भिन्नानि भिन्नार्थग्राहकाणि किमीश्वरेण उत स्वभावेन कृतानि, यतः प्रधानबुद्धयहङ्कारा अचेतनाः पुरुषोऽप्य- कर्तेत्यत्राह । इह सांख्यानां स्वभावो नाम कश्चित्कारणमस्ति । अत्रोच्यते “गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च' इमान्येका- दशेन्द्रियाणि, शब्दस्पर्शरूपरसगन्धाः पञ्चानां वचनादानविहरणो- त्सर्गानन्दाश्च पञ्चानां सङ्कल्पश्च मनसः। एवमेते भिन्नानामेवेन्द्रि- याणामाः, गुणपरिणामविशेषात-गुणानां परिणामो गुणपरिणाम- स्तस्य विशेषादिन्द्रियाणां नानात्वं बाह्यार्थभेदाश्च । अथैतन्नानात्वं नेश्वरेण नाहङ्कारेण न बुद्धया न प्रधानेन न पुरुषेण, स्वभावात् कृतगुणपरिणामेनेति । गुणानामचेतनत्वान्न प्रवर्तते ? प्रवर्तत एव । कथम् ? वक्ष्यतीहैव*"वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर- शस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥” एवमचेतना गुणा एकादशेन्द्रियभावेन प्रवर्तन्ते, विशेषोऽपि तत्कृत एव येनोच्चैः प्रदेशे चक्षुरवलोकनाय स्थितं, तथा घ्राणं तथा श्रोत्रं तथा जिह्वा स्वदेशे स्वार्थग्रहणाय । एवं कर्मेन्द्रियाण्यपि यथायथं स्वार्थसमर्थानि स्वदेशावस्थितानि स्वभावतो गुणपरिणामविशेषादेव, न तदर्थ अपि, यत उक्तं शास्त्रान्तरे-"गुणा गुणेषु वर्तन्ते" गुणानां या वृत्तिः सा गुणविषया एवेति बाह्यार्था विज्ञेया गुणकृता एवेत्यर्थः । प्रधानं यस्य कारणमिति ॥२७॥ अथेन्द्रियस्य कस्य का वृत्तिरित्युच्यते-मात्रशब्दो विशेषार्थः । अविशेषव्यावृत्त्यर्थो यथा-भिक्षामात्रं लभ्यते, नान्यो विशेष इति । तथा चक्षुः रूपमात्रे न रसादिषु, एवं शेषाण्यपि, तद्यथा-चक्षुषो * सप्त पञ्चाशत्सङ्ख्यककारिका द्रष्टव्या । ?

सांख्यकारिका। वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥ स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥ रूपं, जिह्वाया रसः, घ्राणस्य गन्धः, श्रोत्रस्य शब्दः, त्वचः स्पर्शः। एवमेषां बुद्धीन्द्रियाणां वृत्तिः कथिता । कर्मेन्द्रियाणां वृत्तिः कथ्यते-“वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानां" कर्मेन्द्रियाणा- मित्यर्थः । वाचो वचनं हस्तयोरादानं, पादयोर्विहरणं, पायोर्भुक्त- स्याहारस्य परिणतमलोत्सर्गः, उपस्थस्यानन्दः सुतोत्पत्तिविषया- वृत्तिरिति सम्बन्धः॥ २८ ॥ अधुना बुद्धयहङ्कारमनसामुच्यते-स्वलक्षणस्वभावा स्वालक्षण्या। अध्यवसायो बुद्धिरिति लक्षणमुक्तं सैव बुद्धिवृत्तिः। तथाऽभिमा- नोऽहङ्कार इत्यभिमानलक्षणोऽभिमानवृत्तिश्च । सङ्कल्पकं मन इति लक्षणमुक्तं, तेन सङ्कल्प एव मनसो वृत्तिः। त्रयस्य बुद्धयहङ्कारमनसां स्वालक्षण्यावृत्तिरसामान्या, या प्रागभिहिता बुद्धीन्द्रियाणांच वृत्तिः साऽप्यसामान्यैवेति । इदानीं सामान्या वृत्तिराख्यायते-सामान्य- करणवृत्तिः, सामान्येन करणानां वृत्तिः प्राणाद्याः वायवः पञ्च, प्राणापानसमानोदानव्याना इति पञ्च वायवः सर्वेन्द्रियाणां सामान्या वृत्तिः, यतः, प्राणो नामवायुर्मुखनासिकान्तर्गोचरः, तस्य यत्स्पन्दनं कर्म तत् त्रयोदशविधस्याऽपि सामान्या वृत्तिः, सति प्राणे यस्मात् करणानामात्मलाभ इति । प्राणोऽपि पारशकुनिवत् सर्वस्य चलनं करोतीति । प्राणनात् प्राण इत्युच्यते । तथाऽपनयनादपानः, तत्र यत् स्पन्दनं तदपि सामान्यवृत्तिरिन्द्रियस्य । तथा समानो मध्यदे- शवीय आहारादीनां समं नयनात् समानो वायुः, तत्र यत् स्पन्दनं तत् सामान्यकरणवृत्तिः । तथा ऊर्धारोहणादुत्कर्षादुन्नयनाद्वा उदानो नाभिदेशमस्तकान्तर्गोचरः, तत्रोदाने यत् स्पन्दनं तत् सर्व- न्द्रियाणां सामान्या वृत्तिः । किञ्च शरीरव्याप्तिरभ्यन्तरविभागश्च येन क्रियतेऽसौ शरीरव्याप्याकाशवद्वयानः, तत्र स्वाणि हनं तत् , सांख्यकारिका। २५ युगपञ्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे, तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥ स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् ॥ ३१ ॥ करणजालस्य सामान्या वृत्तिरिति । एवमेते पञ्च वायवः सामान्य- करणवृत्तिरिति व्याख्याताः, त्रयोदशविधस्यापि करणसामान्या वृत्तिरित्यर्थः ॥ २९ ॥ “युगपञ्चतुष्टयस्य” बुद्धयहङ्कारमनसामेकैकेन्द्रियसम्बन्धे सति चतुष्टयं भवति । चतुष्टयस्य दृष्टे प्रतिविषयाध्यवसाये युगपत्तिः, वुद्धयहङ्कारमनश्चभ्रूषि युगपदेककालं रूपं पश्यन्ति स्थाणुरयमिति । बुद्धयहङ्कारमनोजिह्वा युगपद्रसं गृह्णन्ति । बुद्धयहङ्कारमनोब्राणानि युगपद्गन्धं गृह्णन्ति । तथा त्वक् श्रोत्रे अपि । किञ्च “क्रमशश्च तस्य निर्दिष्टा" तस्येति चतुष्टयस्य, क्रमशश्च वृत्तिर्भवति । यथा कश्चित् पथि गच्छन् दूरादेव दृष्ट्वा स्थाणुरयं पुरुषो वेति संशये सति तत्रो- परूढ़ तल्लिङ्गं पश्यति शकुनि वा, ततस्तस्य मनसा सङ्कल्पिते संशये व्यवच्छेदभूता बुद्धिर्भवति स्थाणुरयमिति, अतोऽहङ्कारश्च निश्च- यार्थः स्थाणुरेवेत्येवं बुद्धयहङ्कारमनश्चक्षुषां क्रमशो वृत्तिदृष्टा, यथा रूपे तथा शब्दादिष्वपि बोद्धव्या । दृष्टे दृष्टविषये। किञ्चान्यत् । तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः, अदृष्टेऽनागतेऽतीते च काले बुद्धयहङ्कारमनसां रूपे चक्षुःपूर्विका त्रयस्य वृत्तिः, स्पर्श त्वक्पू- विका, गन्धे घ्राणपूर्विका, रसे रसनपूर्विका, शब्दे श्रवणपूर्विका, बुद्धयहङ्कारमनसामनागते भविष्यति कालेऽतीते च तत्पूर्विका क्रमशो वृत्तिः, वर्तमाने युगपत् क्रमशश्चेति ॥ ३० ॥ किञ्च-स्वां स्वामिति वीप्सा, बुद्ध्यहङ्कारमनांसि स्वां स्वां वृत्तिं परस्पराकूतहेतुकां “आकूतकादरसम्भ्रमः” इति प्रतिपद्यन्ते पुरुषार्थकरणाय बुद्धयहङ्कारादयः, बुद्धिरहङ्काराकूतं ज्ञात्वा स्ववि- पयं प्रतिपद्यते, किमर्थमिति चेत् ? पुरुषार्थ एव हेतुः, पुरुषार्थः २६ सांख्यकारिका। , - करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्य च तस्य दशधा हार्य धार्य प्रकाश्यञ्च ॥ ३२ ॥ अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥ कर्त्तव्य इत्येवमर्थ गुणानां प्रवृत्तिः, तस्मादेतानि करणानि पुरुषार्थ प्रकाशयन्ति, यद्यचेतनानीति कथं स्वयं प्रवर्तन्ते ? न केनचित् कार्यते करणम्, पुरुषार्थ एवैकः कारयतीति वाक्यार्थः,न केनचित, ईश्वरेण पुरुषेण वा, कार्यते प्रबोध्यते करणम् ॥ ३१ ॥ बुद्धयादि कतिविधं तदित्युच्यते-करणं महदादि त्रयोदशविधं बोद्धव्यम्, पञ्च बुद्धीन्द्रियाणि चक्षुरादीनि, पञ्च कर्मेन्द्रियाणि वागा. दीनीति त्रयोदशविधं करणम् । तत् किं करोतीत्येतदाह-"तदा- हरणधारणप्रकाशकरम्” तत्राहरणंधारणं च कर्मेन्द्रियाणि कुर्वन्ति, प्रकाशं बुद्धीन्द्रियाणि । कतिविधं कार्य तस्येति तदुच्यते- “कार्य च तस्य दशधा,"तस्य करणस्य कार्य कर्त्तव्यतिमि दशधा दशप्रकारम्, शब्दस्पर्शरूपरसगन्धाख्यं वचनादानविहरणोत्सर्गान- न्दाख्यमेतद्दशविधं कार्य, बुद्धीन्द्रियैः प्रकाशितं कर्मेन्द्रियाण्याहरन्ति धारयन्ति चेति ॥ ३२॥ किञ्च-अन्तःकरणमिति बुद्धयहङ्कारमनांसि, त्रिविधं महदा- दिभेदात् । दशधा बाह्यं च, बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च दशविधमेतत् करणं बाह्यम्, तत्र यस्यान्तःकरणस्य विषयाख्यं बुद्धयहङ्कारमनसां भोग्यं “साम्प्रतकालं" श्रोत्रं वर्तमानमेव शब्द शृणोति नातीतं न च भविष्यन्तं, चक्षुरपि वर्तमानं रूपं पश्यति नातीतं नानागतं, त्वग्वर्त्तमानं स्पर्श, जिह्वा वर्तमानं रसं, नासिका वर्तमानं गन्धं, नातीतानागतं चेति । एवं कर्मेन्द्रियाणि, वाग्वर्त्त- मानं शब्दमुच्चारयति नातीतं नानागतं, पाणी वर्तमानं घटमाद- दाते नातीतमनागतं च, पादौ वर्तमानं पन्थानं विहरतो नातीतं नाप्य नागतं, पायूपस्थौ च वर्त्तमानावुत्सर्गानन्दौ कुरुतो नातीती सांख्यकारिका। २७ बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥३४॥ सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । नानागतौ । एवं बाह्यं करणं साम्प्रतकालमुक्तम् । “त्रिकालमाभ्य- न्तरं करणम्" बुद्धयहङ्कारमनांसि त्रिकालविषयाणि, बुद्धिवर्तमानं घटं बुध्यते, अतीतमनागतं चेति । अहङ्कारो वर्तमानेऽभिमानं करो- त्यतीतेऽनागते च। तथा मनो वर्त्तमाने सङ्कल्पं कुरुतेऽतीतेनागते च, एवं त्रिकालमाभ्यन्तरं करणमिति ॥३३॥ इदानीमिन्द्रियाणि कति सविशेष विषयं गृह्णन्ति, कानि निविशे- पमिति तदुच्यते-बुद्धीन्द्रियाणि तेषां सविशेषं विषयं गृह्णन्ति, सविशेषविषयं मानुषाणां शब्दस्पर्शरूपरसगन्धान सुखदुःखमोह- विषययुक्तान बुद्धीन्द्रियाणि प्रकाशयन्ति । देवानां निर्विशेषान् विष- यान प्रकाशयन्ति । तथा कर्मेन्द्रियाणां मध्ये वाग्भवति शब्दविषया, देवानां मानुपाणां च वाग्वदति, श्लोकादीनुच्चारयति तस्माद्देवानां मानुषाणां च वागिन्द्रियं तुल्यं, शेषाण्यपि वागव्यतिरिक्तानि पाणि- पादपायूपस्थसंशितानि पञ्चविषयाणि, पञ्च विषयाः शब्दादयो येषां तानि पञ्चविषयाणि, शब्दस्पर्शरूपरसगन्धाः पाणौ सन्ति, पञ्चश- ब्दादिलक्षणायां भुवि पादो विहरति, पायिन्द्रियं पञ्चक्लप्तमुत्सर्ग* करोति, तथोपस्थेन्द्रियं पञ्चलक्षणं शुक्रमानन्दयति ॥ ३४ ॥ सान्तःकरणा बुद्धिः, अहङ्कारमनःसहितेत्यर्थः, यस्मात् सर्व विष- यमवगाहते गृह्णाति, त्रिष्वपि कालेषु शब्दादीन गृह्णाति, तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि करणानीति वाक्यशेषः ॥३५॥ किञ्चान्यत्-यानि करणान्युक्तानि एते गुणविशेषाः, किं विशि- टाः ? प्रदीपकल्पाः प्रदीपवद्विषयप्रकाशकाः, परस्परविलक्षणा अस- * पञ्चलक्षणमुत्सर्गमिति पाठान्तरम् ।

२८. सांख्यकारिका। कृत्स्नं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥ सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः। सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७॥ तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥ दृशा भिन्नविषया इत्यर्थः । गुणविषयेति-गुणविशेषा गुणेभ्यो जाताः । कृत्स्नं पुरुषस्यार्थ बुद्धीन्द्रियाणि कमेंन्द्रियाण्यहङ्कारो मन- श्चैतानि स्वं स्वमर्थ पुरुषस्य प्रकाश्य बुद्धौ प्रयच्छन्ति बुद्धिस्थं कुर्व- न्तीत्यर्थः। यतो बुद्धिस्थं सर्व विषयसुखादिकं पुरुष उपलभ्यते ॥३६॥ इश्चान्यत्-सर्वेन्द्रियगतं त्रिष्वपि कालेषु सर्वे प्रत्युपभोगमुप. भोग प्रति देवमनुष्यतिर्यग्बुद्धीन्द्रियकर्मेन्द्रियद्वारेण सान्तःकरणा बुद्धिः साधयति सम्पादयति यस्मात् तस्मात् सैव च विशिनष्टि प्रधानपुरुषयोविषयविभागं करोति, प्रधानपुरुषान्तरं नानात्वमि- त्यर्थः, सूक्ष्ममित्यनधिकृततपश्चरणैरप्राप्यम् , इयं प्रकृतिः सत्त्वरज- स्तमसां साम्यावस्था इयं बुद्धिरयमहङ्कार एतानि पञ्चतन्मात्राण्ये- कादशेन्द्रियाणि पञ्चमहाभूतान्ययमन्यः पुरुष एभ्यो व्यतिरिक्त इत्येवं बोधयति बुद्धिः, यस्यावापादपवर्गो भवति ॥ ३७ ॥ पूर्वमुक्तं विशेषाविशेषविषयाणि तत् के विषयास्तान दर्शयति । यानि पञ्च तन्मात्राण्यहङ्कारादुत्पद्यन्ते ते शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमितान्यविशेषा उच्यन्ते देवाना- मेते सुखलक्षणा विषया दुःखमोहरहिताः, तेभ्यः पञ्चभ्यस्तन्मा- त्रेभ्यः पञ्चमहाभूतानि पृथिव्यप्तजोवायाकाशसंज्ञानि यान्युत्पद्यन्ते एते स्मृता विशेषाः । गन्धतन्मात्रात् पृथिवी, रसतन्मात्रादापः, रूपतन्मात्रात् तेजः, स्पर्शतन्मात्राद्वायुः, शब्दतन्मात्रादाकाशम् , इत्येवमुत्पन्नान्येतानि महाभूतान्येते विशेषा मानुषाणां विषयाः शान्ताः सुखलक्षणा, घोरा दुःखलक्षणा, मूढा मोहजनकाः । यथा- सांख्यकारिका। सूक्ष्मा मातापितृजाः सह प्रभूतस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥ काशं कस्यचिदनवकाशादन्तर्गृहादेनिर्गतस्य सुखात्मकं शान्तं भवति, तदेव शीतोष्णवातवर्षाभिभूतस्य दुःखात्मकं घोरं भवति, तदेव पन्थानं गच्छतो वनमार्गाद भ्रष्टस्य दिङ्मोहान्मूढं भवति । एवं वायु- धर्मातस्य शान्तो भवति, शीतार्तस्य घोरो धूलीशर्कराविमिश्रोऽ- तिवान् मूढ इति । एवं तेजःप्रभृतिषु द्रष्टव्यम् ॥ ३८ ॥ अथाऽन्ये विशेषाः-सूक्ष्मास्तन्मात्राणि यत्संगृहीतं तन्मात्रक सूक्ष्मशरीरं महदादिलिङ्गं सदा तिष्ठति संसरति च ते सूक्ष्माः, तथा मातापितृजाः स्थूलशरीरोपचायका ऋतुकाले मातापितृसंयोगे शोणितशुक्रमिश्रीभावेनोदान्तः सूक्ष्मशरीरस्योपचयं कुर्वन्ति, तत सूक्ष्मशरीरं पुनर्मातुरशितपीतनानाविधरसेन नाभिनिबन्धेनाप्यायते, तथाप्यारब्धं शरीरं सूक्ष्मैर्मातापितृजैश्च सह महाभूतैत्रिधा विशेषैः, पृष्ठोदरजङ्घाकटयुरःशिरःप्रभृति पाट्कौशिकं पाञ्चभौतिकं रुधिर- मांसस्नायुशुक्रास्थिमजासंभृतम् आकाशोऽवकाशदानाद्वायुर्वर्द्धनात् तेजः पाकादापः संग्रहात् पृथिवी धारणात् समस्तावयवोपेतं मातु- रुदात् वहिर्भवति । एवमेते त्रिविधा विशेषाः स्युः । अत्राह--के नित्याः के वा अनित्याः ? सूक्ष्मास्तेषां नियताः, सूक्ष्मास्तन्मात्रसंज्ञ- कास्तेषां मध्ये नियता नित्याः, तैरारब्धं शरीरं कर्मवशात् पशु- मृगपक्षिसरीसृपस्थावरजातिषु संसरति, धर्मवशादिन्द्रादिलोकेषु, एवमेतन्नियतं सूक्ष्मशरीरं संसरति न यावज्ज्ञानमुत्पद्यते, उत्पन्ने ज्ञाने विद्वाञ्छरीरं त्यक्त्वा मोक्षं गच्छति, तस्मादेते विशेषाः सूक्ष्मा नित्या इति । मातापितृजा निवर्तन्ते, तत् सूक्ष्मशरीरं परित्यज्येहैव प्राण- त्यागवेलायां मातापितृजा निवर्तन्ते, मरणकाले मातापितजं शरी- रमिहैव निवृत्य भूम्यादिषु प्रलीयते यथातत्त्वम् ॥ ३९ ॥ , * शरीरमधर्मवशादिति पाठान्तरम् ।

३० सांख्यकारिका । पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥४०॥ चित्रं यथाश्रयमृते स्थाणवादिभ्यो विना यथा छाया। तदिना विशेषैन तिष्ठति निराश्रयं लिङ्गम् ॥ ४१ ॥ सूक्ष्मं च कथं संसरति ? तदाह-यदालोका अनुत्पन्नाःप्रधानादि- सगै तदा सूक्ष्मशरीरमुत्पन्नमिति। किञ्चान्यत् । असक्तं न संयुक्तं तिर्य- ग्योनिदेवमानुषस्थानेषु, सूक्ष्मत्वात् कुत्रचिदसक्तं पर्वतादिषु अप्र- तिहतप्रसरं संसरति गच्छति । नियतम् , यावन्न ज्ञानमुत्पद्यते तावत् संसरति । तच्च महादादिसूक्ष्मपर्यन्तम् । महानादौ यस्य तन्महदादि, बुद्धिरहङ्कारो मन इति पञ्चतन्मात्राणि सूक्ष्मपर्यन्तं तन्मात्रपर्यन्तं संसरति शूलग्रहपिपीलिकावत् त्रीनपि लोकान् । निरुपभोग भोगर- हितं तत् सूक्ष्मशरीरं मातापितृजेन वाह्येनोपचयेन क्रियाधर्मग्रहणा- द्भोगेषु समर्थ भवतीत्यर्थः । भावैरधिवासितं पुरस्ताद्भावान् * धर्मा- दीन वक्ष्यामः, तैरधिवासितमुपरजितम् । लिङ्गमिति ।-प्रलयकाले महदादिसूक्ष्मपर्यन्तं करणोपेतं प्रधाने लीयते, असंसरणयुक्तं सत् आसर्गकालमत्र वर्तते प्रकृतिमोहबन्धनबद्धं सत् संसरणादिक्रिया- स्वसमर्थमिति । पुनः सर्गकाले संसरति तस्माल्लिङ्गं सूक्ष्मम् ॥ ४०॥ किं प्रयोजनेन त्रयोदशविधं करणं संसरतीत्येवं चोदिते सत्याह चित्रं यथा कुख्याद्याश्रयमृते न तिष्ठति, स्थाणवादिभ्यःकीलकादिभ्यो विना छाया न तिष्ठति, तैर्विना न भवति, आदिग्रहणाद् यथा-शैत्यं विना नापो भवन्ति शैत्यं वाऽद्भिविना । अग्निरुष्ट विना वायुः स्पर्श विना आकाशमवकाशं विना पृथिवी गन्धं विना, तद्वदेतेन दृष्टान्तेन न्यायेन विनाविशेषैरविशेषैस्तन्मात्रैविना न तिष्ठति । अथ विशेष- भूतान्युच्यन्ते, शरीरं पञ्चभूतमयम् , वैशेषिणा शरीरेण विना क्व * अयश्चत्वारिंशत्सङख्यककारिका द्रष्टव्या।

सांख्यकारिका। पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥ सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः लिङ्गस्थानं चेति व एकदेहमुज्झति तदेवान्यमाश्रयति, निराश्रयमा- श्रयरहितम् , लिङ्गं त्रयोदशविधं करणमित्यर्थः ॥ ४१ ॥ किमर्थम् ? तदुच्यते-पुरुषार्थः कर्त्तव्य इति प्रधानं प्रवर्तते, स च द्विविधः, शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश्च । शब्दाधुपलब्धिर्ब्रह्मादिषु लोकेषु गन्धादिभोगावाप्तिः । गुणपुरुषान्त- रोपलब्धिर्मोक्ष इति । तस्मादुक्तं—“ पुरुषार्थहेतुकमिदं सूक्ष्मशरीरं प्रवर्तते” इति । निमित्तनैमित्तिकप्रसङ्गेन, निमित्तं धर्मादि, नैमि- त्तिकमूर्द्धगमनादि, पुरस्तादेव वक्ष्यामः । प्रसङ्गेन प्रसत्या प्रकृतिः प्रधानस्य विभुत्वयोगात्, यथा-राजा स्वराष्ट्रे विभुत्वाद् यद्यदि- च्छति तत् तत् करोतीति, तथा प्रकृतेः सर्वत्र विभुत्वयोगानिमित्त- नैमित्तिकप्रसङ्गेन व्यवतिष्ठते पृथक् पृथद्नेहधारणे लिङ्गस्य व्यवस्था करोति । लिङ्गं सूक्ष्मैः परमाणुभिस्तन्मात्रैरुपचितं शरीरं त्रयोदश- विधकरणोपेतं मानुषदेवतिर्यग्योनिषु व्यवतिष्ठते । कथम्? नटवत्। यथा नटः पटान्तरेण प्रविश्य देवो भूत्वा निर्गच्छति पुनर्मानुष- पुनर्विदूषकः । एवं लिङ्गं निमित्तनैमित्तिकप्रसङ्गेनोदान्तः प्रविश्य हस्ती स्त्री पुमान् भवति ॥ ४२ ॥ भावैरधिवासितं लिङ्गं संसरतीत्युक्तम् , तत् के भावा इत्याह-- भावास्त्रिविधाश्चिन्त्यन्ते --सांसिद्धिकाः, प्राकृताः, वैकृताश्च । तत्र सांसिद्धिका यथा-भगवतः कपिलस्यादिसर्गे उत्पद्यमानस्य चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञानं वैराग्यमैश्वर्यमिति।प्राकृताः कथ्यन्ते,- ब्रह्मणश्चत्वारः पुत्राः सनकलनन्द-सनातन-सनत्कुमारा बभूवुः, तेषामुत्पन्नकार्यकारणानां शरीरिणां षोड़शवर्षाणामेते भावाश्चत्वारः समुत्पन्नाः, तस्मादेते प्राकृताः। तथा वैकृता यथा,-आचार्यमूर्ति * चत्वारिंशत्संख्यककारिका द्रष्टव्या ।

३२ सांख्यकारिका। दृष्टाः करणायिणः कार्याश्रयिणश्च कललाद्याः॥४३॥ धर्मेण गमनमूद्धं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥ निमित्तं कृत्वाऽस्मदादीनां ज्ञानमुत्पद्यते, ज्ञानाद्वैराग्यं, वैराग्याद्धर्मः, धर्मादैश्वर्यमिति । आचार्यमूर्तिरपि विकृतिरिति, तस्माद्वैकृता एते भावा उच्यन्ते, यैरधिवासित लिङ्गं संसरति । एते चत्वारो भावाः सात्त्विकाः, तामसा विपरीताः, सात्त्विकमेतद्रूपं तामसमस्माद्विप- यस्तमित्यत्र *व्याख्याताः। एवमष्टौ धर्मो ज्ञानं वैराग्यमैश्वर्यमध- मोऽज्ञानमवैराग्यमनैश्वर्यमित्यष्टौ भावाः, क्ववर्त्तन्ते ? दृष्टाः करणा. श्रयिणः । वुद्धिः करणं तदाथयिणः एतदुक्तम्--" अध्यवसायो बुद्धिधर्मो ज्ञानम्" इति । । कार्य देहस्तदाश्रयाः कललाद्या ये मातृजा इत्युक्ताः, शुक्रशोणितसंयोगे विवृद्धिहेतुकाः कललाद्या बुबुदमांसपेशीप्रभृतयः, तथा कौमारयौवनस्थविरत्वादयो भावा अन्नपानरसनिमित्ता निष्पद्यन्ते, अतः कार्याश्रयिण उच्यन्ते, अन्नादि- विषयभोगनिमित्ता जायन्ते ॥ ४३ ॥ निमित्तनैमित्तिकप्रसङ्गेनेति यदुक्तमत्रोच्यते --धर्मेण गमनमू- र्द्धम्, धर्म निमित्तं कृत्वोर्द्धमुपनयति, ऊर्द्धमित्यष्टौ स्थानानि गृह्यन्ते, तद्यथा-ब्राह्म प्रजापत्यं सौम्यमैन्द्रं गान्धर्व याक्षं राक्षसं पैशाच- मिति, तत् सूक्ष्म शरीरं गच्छति । पशुमृगपक्षिसरीसृपस्थावरान्ते- प्वधर्मो निमित्तम् । किञ्च, ज्ञानेन चापवर्गः, अपवर्गश्च पञ्चविंश- तितत्त्वज्ञानम्, तेन निमित्तेनापवर्गो मोक्षः, ततः सूक्ष्मं शरीरं निव- तते, परमात्मा उच्यते । विपर्ययादिष्यते बन्धः, अज्ञानं निमित्तम् , स चैष नैमित्तिकः प्राकृतो वैकारिको दाक्षिणिकश्च बन्ध इति वक्ष्यति पुरस्ताद यदिदमुक्तं--"प्राकृतेन च बन्धेन तथा वैकारिकेण च । दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते” ॥४४॥ * त्रयोविंशतिसंख्यककारिका द्रष्टव्या । । अत्रापि त्रयोविंशतिसंख्यक- कारिका द्रष्टव्या। * द्विचत्वारिंशत् संख्यककारिका द्रष्टव्या ।

सांख्यकारिका ।
वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात् ।
ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः॥ ४५ ॥
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत् ॥ ४६॥
तथाऽन्यदपि निमित्तम्-यथा कस्यचिद्वैराग्यमस्ति न तत्त्वज्ञान
तस्मादज्ञानपूर्वाद्वैराग्यात् प्रकृतिलयो मृतोऽष्टासु प्रकृतिषु प्रधानबु-
यहङ्कारतन्मात्रेषु लीयते न मोक्षः । ततो भूयोऽपि संसरति, यथा
योऽयं राजसो रागः, यजामि दक्षिणां ददामि येनामुष्मिन लोकेऽत्र
यद्दिव्यं मानुषं सुखमनुभवाम्येतस्माद्राजसाद्रागात् संसारो भवति।
तथा ऐश्वर्यादविघातः, एतदैश्वर्यमष्टगुणमादियुक्तं तस्मादैश्वर्यनि-
मित्तादविघातो नैमित्तिको भवति ब्रह्मादिषु स्थानेष्वैश्वर्य न विह-
न्यते किञ्चान्यत् । विपर्ययात् तद्विपर्यासः, तस्याविघातस्य विप-
र्यासो विधातो भवति, अनैश्वर्यात सर्वत्र विहन्यते ॥ ४५ ॥
एष निमित्तैः सह नैमित्तिकः षोड़शविधो व्याख्यातः, स किमा-
त्मक इत्याह-यथा एष षोड़शविधो निमित्तनैमित्तिकभेदो
व्याख्यात एष प्रत्ययसर्ग उच्यते । प्रत्ययो बुद्धिरित्युक्ता, अध्यव-
सायो वुद्धिर्धर्मो ज्ञानमित्यादि, सच प्रत्ययसर्गश्चतुर्धा भिद्यते,
विपर्ययाशक्तितुष्टिसिद्धयाख्यभेदात् । तत्र संशयोऽज्ञानं विपर्ययः।
यथा कस्यचित् स्थाणुदर्शने स्थाणुरयं पुरुषो वेति संशयः । अश-
क्तिर्यथा }--तमेव स्थाणुं सम्यग् दृष्ट्वा संशयं छेत्तुं न शक्नोतीत्य-
शक्तिः। एवं तृतीयस्तुष्टयाख्यो यथा । तमेव स्थाणुं ज्ञातुं संश-
थितुं वा नेच्छति किमनेनास्माकमित्येषा तुष्टिः । चतुर्थः सिद्धया-
ख्यो यथा ।--आनन्दितेन्द्रियः स्थाणुमारूहां वल्लिं पश्यति शकुनि
बा तस्य सिद्धिर्भवति स्थाणुरयमिति । एवमस्य चतुर्विधस्य प्रत्य-
यसर्गस्य गुणवैषम्यविमर्दात् तस्य भेदास्तु पञ्चाशत्, योऽयं सत्त्व-
रजस्तमोगुणानां वैषम्य विमर्दः तेन तस्य प्रत्ययसर्गस्य पञ्चाशद्भेदा
भवन्ति ॥४६॥

सांख्यकारिका। पञ्च विपर्ययभेदा भवन्त्यशक्तिस्तु करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः॥ ४७ ॥ भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः॥४८॥ तथा क्वापि सत्त्वमुत्कटं भवतिरजस्तमसी उदासीने, क्वापि रजः क्वापि तम इति भेदाः कथ्यन्ते-पञ्च विपर्ययभेदास्ते यथा-तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्त्र इति, एषां भेदानां नानात्वं वक्ष्यतेऽनन्तरमेवेति । अशक्तेस्त्वष्टाविंशतिभेदा भवन्ति करणवैक- ल्यात् तानपि वक्ष्यामः । तथा तुष्टिर्नवधा, ऊर्द्धस्रोतसि राजसानि ज्ञानानि । तथाऽष्टविधा सिद्धिः, सात्त्विकानि ज्ञानानि तत्रैवोर्द्ध- स्रोतसि ॥४७॥ एतत् क्रमेणैव वक्ष्यते, तत्र विपर्ययभेदा उच्यन्ते-तमसस्ताव- दष्टधा भेदः प्रलयोऽज्ञानाद्विभज्यते, सोऽष्टानु प्रकृतिषुलीयते प्रधा- नबुद्धयहङ्कारपञ्चतन्मात्राख्यासु, तत्र लीनमात्मानं मन्यते मुक्तोऽह- मिति तमोभेद एषः, अष्टविधस्य मोहस्य भेदोऽष्टविध एवेत्यर्थः । यत्राष्टगुणमणिमाद्यैश्वर्यं तत्र सङ्गादिन्द्रादयो देवा न मोक्षं प्राप्नुवन्ति, पुनश्च तत्क्षये संसरन्त्येषोऽष्टविधो मोह इति । दशविधो महामोहः, शब्दस्पर्शरूपरसगन्धा देवानामेते पञ्च विषयाः सुखलक्षणाः, मानु- पाणामप्येत एव शब्दादयः पञ्च विषयाः, एवमेतेषु दशसु महामोह इति । तामिस्रोऽष्टादशधाऽष्टविधमैश्वर्यं दृष्टानुश्रविका विषया दश एतेषामष्टादशानां सम्पद्मनुनन्दन्ति विपदं नानुमोदन्ते, एषोऽष्टाद- शविधो विकल्पस्तामिस्रः । यथा तामित्रोऽष्टगुणमैश्वर्यं दृष्टानुश्र- विका दश विषयास्तथान्धतामिस्रोऽप्यष्टादशभेद एव । किन्तु विष- यसम्पत्ती सम्भोगकाले य एव म्रियतेऽष्टगुणैश्वर्याद्वा भ्रस्यते तत- स्तस्य महद्दःखमुत्पद्यते सोऽन्धतामिस्र इति एवं विपर्ययभेदास्त- मःप्रभृतयः पञ्च प्रत्येकं भिद्यमाना द्विषष्टिभेदाः संवृत्ता इति ॥४८॥ , सांख्यकारिका। एकादशेन्द्रियवधाः सह बुद्विवधैरशक्तिरुद्दिष्टा । सप्तदशवधा बुद्धेर्विपर्ययात् तुष्टिसिद्धीनाम् ॥ ४९ ॥ आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्या विषयोपरमात्पञ्च नव तुष्टयोऽभिमताः ॥ ५० ॥ अशक्तिभेदाः कथ्यन्ते-भवन्त्यशक्तेश्च करणवैकल्यादष्टाविंशति- भेदा इत्युद्दिष्टं, तत्रैकादशेन्द्रियवधाः वाधिर्य-मन्धता प्रसुप्तिरुपजि- ह्निका-प्राणपाको मूकता कुणित्वं खाध्यं गुदावतः क्लैब्यमुन्माद इति । सह बुद्धिवधैरशक्तिरुद्दिष्टा, ये बुद्धिबधास्तैः सहाशक्तरष्टाविंशति- भेदा भवन्ति । सप्तदश बधा बुद्धः, सप्तदश बधास्ते तुष्टिभेदसिद्धि- भेदवपरीत्येन, तुष्टिभेदा नव, सिद्धिभेदा अष्टौ, ये तद् विपरीतैः सह एकादशवधा एवमष्टाविंशतिविकल्पा अशक्तिरिति ॥ ४९॥ विपर्ययात् तुष्टिसिद्धीनामेव भेदक्रमो द्रष्टव्यः । तत्र तुष्टिनवधा कथ्यते-आध्यात्मिक्यश्चतस्रस्तुष्टयः । अध्यात्मनि भवा आध्या- त्मिक्यः । ताश्च प्रकृत्युपादानकालभाग्याख्याः। तत्र प्रकृत्याख्या यथा-कश्चित प्रकृतिं वेत्ति तस्याः सगुणनिर्गुणत्वं च, तेन तत्त्वं तत्- कार्य विज्ञायैव केवलं तुष्टस्तस्य नास्ति मोक्ष एषा प्रकृत्याख्या । उपादानाख्या यथा-कश्चिदविज्ञायैव तत्त्वान्युपादानग्रहणं करोति त्रिदण्डकमण्डलुविविदिषाभ्यो मोक्ष इति तस्यापि नास्ति मोक्ष इति, एपा उपादानाख्या। तथा कालाख्या-कालेन मोक्षो भविष्यतीति किं तत्त्वाभ्यासेनेत्येषा कालाख्या तुष्टिस्तस्य नास्ति मोक्ष इति । तथा भाग्याख्या-भाग्येनैव मोक्षो भविष्यतीति भाग्याख्या, चतुर्की तुष्टिरिति । बाह्याविषयोपरमाच्च पञ्च । वाह्यास्तुष्टयः पञ्च विषयो- परमात्, शब्दस्पर्शरूपरसगन्धेभ्य उपरतोऽर्जनरक्षणक्षयसङ्गहिंसा- दर्शनात् । वृद्धिनिमित्तं पाशुपाल्यवाणिज्यप्रतिग्रहसेवाः कार्या एत- दर्जनं दुःखम्, अर्जितानां रक्षणे दुःखम् , उपभोगात , क्षीयत इति क्षयदुःखम् । तथा विषयोपभोगसङ्गे कृते नास्तीन्द्रियाणामुपशम इति सङ्गदोषः। तथा न अनुपहत्य भूतान्युपभोग इत्येष हिंसादोषः।

सांख्यकारिका। ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥ एवमर्जनादिदोषदर्शनात् पञ्चविषयोपरमात् पञ्च तुष्टयः । एवमाध्या- त्मिकबाह्यभेदान्नव तुष्टयः, तासां नामानि शास्त्रान्तरे प्रोक्तानि । अम्भः सलिलमेधो वृष्टिः सुतमः पारं सुनेत्रं नारीकमनुत्तमाम्भ- सिकम्” इति । आसां तुष्टीनां विपरीता अशक्तिभेदाद् बुद्धिबधा भवन्ति । तद्यथा-अनम्भोऽसलिलममेघ इत्यादिवैपरीत्याद् बुद्धि- बधा इति ॥५०॥ सिद्धिरुच्यते-ऊहो यथा-"कश्चिन्नित्यमूहते किमिह सत्यं किं परं किं नैःश्रेयसं किं कृत्वा कृतार्थः स्याम् , ” इति चिन्तयतो ज्ञान- मुत्पद्यते प्रधानादन्य एव पुरुष इतोऽन्या बुद्धिरन्योऽहङ्कारोऽन्यानि तन्मात्राणीन्द्रियाणि पञ्च महाभूतानीत्येवं तत्त्वज्ञानमुत्पद्यते येन मोक्षोभवति, एषा ऊहाख्या प्रथमा सिद्धिः।तथा शब्दज्ञानात प्रधान- पुरुषबुद्धयहङ्कारतन्मात्रेन्द्रियपञ्चमहाभूतविषयं ज्ञानं भवति ततोमोक्ष इत्येषाशब्दाख्या सिद्धिः। अध्ययनाद् वेदादिशास्त्राध्ययनात् पञ्चविं- शतितत्त्वज्ञानं प्राप्यते मोक्षंयाति इत्येषा तृतीया सिद्धिः। दुःखविधा- तत्रयम्, आध्यात्मिकाधिभौतिकाधिदैविकदुःखत्रयविधातायगुरुंस- मुपगम्य तत उपदेशान्मोक्षं याति, एषाचतुर्थी सिद्धिः। एषैव दुःख- त्रयभेदात् त्रिधा कल्पनीया इति षट् सिद्धयः । तथा सुहृत्प्राप्तिः, यथा-कश्चित् सुहृज्ज्ञानमधिगम्य मोक्षं गच्छति, एषा सप्तमी सिद्धिः । दानं यथा-कश्चिद्भगवतां प्रत्याश्रयौषधित्रिदण्डकुण्डिका- दीनां ग्रासाच्छादनाहीनां च दानेनोपकृत्य तेभ्यो ज्ञानमवाप्य मोक्षं याति, एषाष्टमी सिद्धिः । आसामष्टानां सिद्धीनां शास्त्रान्तरे संज्ञाः कृताः, “तारं सुतारं तारतारं प्रमोदं प्रमुदितं प्रमोदमानं रम्यकं सदा- प्रमुदितम्” इति । आसां विपर्ययाद् बुद्धेर्बधा ये विपरीतास्ते अशक्तौ निक्षिप्ताः, यथाऽतारमसुतारमतारतारमित्यादि द्रष्टव्यम् । अशक्तिभेदा अष्टाविंशतिरुक्तास्ते सह बुद्धिबधैरेकादशेन्द्रियबधा सांख्यकारिका । ३७ - A , न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिवृत्तिः । लिङ्गाख्यो भावाख्यस्तस्माद्विविधः प्रवर्ततेसर्गः ॥५२॥ अष्टविकल्पो दैवस्तैर्यग्योनञ्च पञ्चधा भवति । मानुष्यश्चैकविधा समासतो भौतिकः सर्गः ॥ ५३ ॥ इति । तत्र तुष्टिविपर्यया नव, सिद्धीनां विपर्यया अष्टौ, एवमेते सप्त- दश बुद्धिबधाः, एतैः सहेन्द्रियबधा अष्टाविंशतिरशक्तिभेदाः पश्चात् कथिता इति विपर्ययाशक्तितुष्टिसिद्धीनामेवोद्देशो निर्देशश्च कृत इति। किञ्चान्यत् । सिद्धेः पूर्वोऽङ्कशस्त्रिविधः, सिद्धेः पूर्वा या विपर्ययाश- क्तितुष्टयस्ता एव सिद्धरङ्कुशस्तद्भेदादेव त्रिविधः, यथा-हस्ती गृही- ताङ्कुशेन वशो भवति, एवं विपर्ययाशक्तितुष्टिभिर्गृहीतो लोकोऽज्ञा- नमाप्नोति, तस्मादेताः परित्यज्य सिद्धिः सेव्या, सिद्धेस्तत्त्वज्ञानमु- त्पद्यते तस्मान्मोक्ष इति ॥ ५१॥ अथ यदुक्तं भावैरधिवासितं लिङ्गं, तत्र भावा धर्मादयोऽष्टाबुक्ता बुद्धिपरिणामाः, विपर्ययाशक्तितुष्टिसिद्धिपरिणताः, स भावाख्यः प्रत्ययसर्गो, लिङ्गञ्च तन्मात्रसर्गश्चतुर्दशभूतपर्यन्त उक्तः, तत्रैकेनैव सगण पुरुषार्थसिद्धौ किमुभयविधसर्गेणेत्यत आह-भावैः प्रत्यय- सगैविना लिङ्गं न तन्मात्रसो न, पूर्वपूर्वसंस्कारादृष्टकारितत्वादु- त्तरोत्तरदेहलम्भस्य, लिङ्गेन तन्मात्रसर्गेण च विना भावनिवृत्तिन स्थूलसूक्ष्मदेहसाध्यत्वाद्धर्मादेः अनादित्वाच्च सर्गस्य बीजाङ्कुरवद- न्योन्याश्रयो न दोषाय तत्तज्जातीयापेक्षित्वेऽपि तत्तयक्तीनां पर- स्परानपेक्षित्वात् , तस्माद्भावाख्यो लिङ्गाख्यश्च द्विविधः प्रवर्तते सर्ग इति ॥५२॥ किञ्चान्यत-तत्र देवमष्टप्रकारं, ब्राह्म प्राजापत्यं सौम्यमैन्द्रं गान्धर्व याक्षं राक्षसं पैशाचमिति । पशुमृगपक्षिसरीसृपस्थावराणि भूता- न्येवं पञ्चविधस्तैरश्चः । मानुषयोनिरेकैव । इति चतुर्दश भूतानि ५३ , ३८ सांख्यकारिका। .. अर्द्ध सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४॥ तत्र जरामरणकृतं दुःखं प्रामोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेस्तस्माद् दुःखं खभावेन ॥ ५५ ॥ इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः । त्रिष्वपि लोकेषु गुणत्रयमस्ति, तत्र कस्मिन् किमधिकमित्युच्यते ऊर्द्धमिति । अष्टसु देवस्थानेषु सत्त्वविशालः सत्त्वविस्तारः सत्त्वो- कट ऊर्द्धसत्त्व इति । तत्रापि रजस्तमसीस्तः। तमोविशालो मूलतः, पश्वादिषु स्थावरान्तेषु सर्वः सर्गरजस्तमसाधिक्येन व्याप्तः, तत्रापि सत्त्वरजसी स्तः। मध्ये मानुषे रज उत्कटं, तत्रापि सत्त्वतमसी विद्येते, तस्माद् दुःखप्राया मनुष्याः । एवं ब्रह्मादिस्तम्बपर्यन्तः, ब्रह्मादिस्थावरान्त इत्यर्थः । एवमभौतिकः सर्गो लिङ्गसौं भाव- सर्गों भूतसर्गों दैवमानुषतर्यग्योना इति, एषः प्रधानकृतः षोड़श- विधः सर्गः ॥ ५४॥ तत्रेति-तेषु देवमानुषतिर्यग्योनिषु जराकृतं मरणकृतं चैव दुःखं चेतनः चैतन्यवान् पुरुषः प्राप्नोति, न प्रधानं न बुद्धि हङ्कारो न तन्मात्राणीन्द्रियाणि महाभूतानि च । कियन्तं कालं पुरुषो दुःखं प्राप्नोतीति तद्विविनक्ति-लिङ्गस्याविनिवृत्तरिति। यत् तन्महदादि लिङ्गशरीरेणाविश्य तत्र व्यक्तीभवति, तद्यावन्न निवर्तते संसारश- रीरमिति तावत् संक्षेपेण त्रिषु स्थानेषु पुरुषो जरामरणकृतं दुःखं प्राप्नोति, लिङ्गस्याविनिवृत्तेः, लिङ्गस्य विनिवृत्तिं यावत् । लिङ्गनि- वृत्तौ मोक्षो मोक्षप्राप्तौ नास्ति दुःखमिति । तत् पुनः केन निवर्तते? यदा पञ्चविंशतितत्त्वज्ञानं स्यात् सत्त्वपुरुषान्यथाख्यातिलक्षणम्, इदं प्रधानमियं बुद्धिरयमहङ्कार इमानि पञ्चतन्मात्राण्येकादशेन्द्रि- याणि पञ्च महाभूतानि येभ्योऽन्यः पुरुषो विसदृश इत्येवं ज्ञानाल्लि- गनिवृत्तिस्ततो मोक्ष इति ॥ ५५॥ प्रकृतेः किं निमित्तमारम्भ इत्युच्यते-इत्येष परिसमाप्तौ निर्देशे

सांख्यकारिका।
.५६॥
प्रतिपुरुषविमोक्षार्थं स्वार्थ
इव
परार्थ
आरम्भः ।।
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७॥
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तव्यक्तम् ॥ ५८ ॥
च, प्रकृतिकृतौ प्रकृतिकरणे प्रकृतिक्रियायां य आरम्भो महदादि-
विशेषभूतपर्यन्तः, प्रकृतेर्महान महतोऽहङ्कारस्तस्मात् तन्मात्राण्ये-
कादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीत्येष प्रतिपुरुषविमोक्षार्थ
पुरुषं पुरुषं प्रति देवमनुष्यतिर्यग्भावं गतानां विमोक्षार्थमारम्भः ।
कथम् ? स्वार्थ इव परार्थ आरम्भः, यथा कश्चित् स्वार्थं त्यक्त्वा
मित्रकार्याणि करोति, एवं प्रधानम् । पुरुषोऽत्र प्रधानस्य न किञ्चित
प्रत्युपकारं करोति । स्वार्थ इव न च स्वार्थः परार्थ एव, अर्थः
शब्दादिविषयोपलब्धिर्गुणपुरुषान्तरोपलब्धिश्च, त्रिषु लोकेषु शब्दा-
दिविषयः पुरुषा योजयितव्याः, अन्ते च मोक्षेणेति प्रधानस्य
प्रवृत्तिः, तथा चोक्तम् ।-'कुम्भवत् प्रधानं पुरुषार्थ कृत्वा निव-
तते" इति ॥५६॥
अत्रोच्यतेऽचेतनं प्रधानं चेतनः पुरुष इति मया त्रिषु लोकेषु
शब्दादिभिर्विषयैः पुरुषो योज्योऽन्ते मोक्षः कर्त्तव्य इति कथं चेतन-
वत प्रवृत्तिः? सत्यं, किन्त्वचेतनानामपि प्रवृत्तिदृष्टा निवृत्तिश्च
यस्मादित्याह-यथा तृणोदकं गवा भक्षितं क्षीरभावेन परिणम्य
वत्सविवृद्धिं करोति, पुष्टे च वत्से निवर्तते, एवं पुरुषविमोक्षनि-
मित्तं प्रधानम् इति अज्ञस्य प्रवृत्तिरिति ॥ ५७ ॥
किञ्च-यथा लोके इष्टौत्सुक्ये सति तस्य निवृत्त्यर्थं क्रियासु प्रव-
तते, गमनागमनक्रियासु कृतकार्यों निवर्त्तते, तथा पुरुषस्य विमो-
क्षार्थ शब्दादिविषयोपभोगोपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिल-
क्षणं च द्विविधमपि पुरुषार्थं कृत्वा प्रधानं निवर्त्तते ॥ ५८ ॥

४० सांख्यकारिका। , रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य निवर्तते प्रकृतिः॥ ५९॥ नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः। गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ ६० ॥ प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ।। ६१ ॥ किञ्चान्यत्-यथा नर्तकी शृङ्गारादिरसैरितिहासादिभावश्च निब- द्धगीतवादित्रनृत्यानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान्निवर्तते, तथा प्रकृतिरपि पुरुषस्यात्मानं प्रकाश्य बुद्धयहङ्कारतन्मात्रेन्द्रियम- हाभूतभेदेन निवर्त्तते ॥ ५९॥ कथं को वाऽस्या निवर्त्तको हेतुः ? तदाह-नानाविधैरुपायैः प्रकृतिः पुरुषस्योपकारिण्यनुपकारिणः पुंसः, कथम् ? देवमानुषति- र्यग्भावेन सुखदुःखमोहात्मकभावेन शब्दादिविषयभावेन, एवं नाना- विधैरुपायैरात्मानं प्रकाश्याहमन्या त्वमन्य इति निवर्त्तते, अतो नित्यस्य तस्यार्थमपार्थकं चरति, कुरुते, यथा कश्चित् परोपकारी सर्वस्योपकुरुते नात्मनः प्रत्युपकारमीहते, एवं प्रकृतिः पुरुषार्थ चरति करोत्यपार्थकम् । पश्चादुक्तमात्मानं प्रकाश्य निवर्त्तते ॥६०॥ निवृत्ता च किं करोतीत्याह-लोके प्रकृतेःसुकुमारतरं न किञ्चि- दस्तीत्येवं मे मतिर्भवति, येन परार्थ एवं मतिरुत्पन्ना। कस्मात् ? अह- मनेन पुरुषेण दृष्टास्मीत्यस्य पुंसः पुनदर्शनं नोपैति, पुरुषस्यादर्शन- मुपयातीत्यर्थः । तत्र सुकुमारतरं वर्णयति । केचिदीश्वरं कारणं ब्रुवते । “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग नरकमेव वा " ॥ अपरे स्वभावकारणिका ब्रुवते ।- "केन शुक्लीकृता हंसा मयूराः केन चित्रिताः। स्वभावेनैव-" इति। अत्र सांख्याचार्या आहुः-"निर्गुणत्वादीश्वरस्य कथं सगुणतः प्रजा जायेरन् ? कथं वा पुरुषानिर्गुणादेव ? तस्मात् प्रकृतेयुज्यते, - , सांख्यकारिका। तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥ तथा शुक्लेभ्यस्तन्तुभ्यः शुक्ल एव पटो भवति, कृष्णेभ्यः कृष्ण एव" इति । एवं त्रिगुणात् प्रधानात् त्रयो लोकास्त्रिगुणाः समुत्पन्ना इति गम्यते निर्गुण ईश्वरः सगुणानां लोकानां तस्मादुत्पत्तिरयुक्तेति । अनेन पुरुषो व्याख्यातः । तथा केषाञ्चित् कालः कारणमिति, उक्तं च। -"कालः पचति भूतानि कालः संहरते जगत् । कालः सुप्तेषु जागति कालो हि दुरतिक्रमः" ॥ व्यक्ताव्यक्तपुरुषास्त्रयः पदार्थाः, तेन कालोऽन्तर्भूतोऽस्ति, स हि व्यक्तः, सर्वकर्तृत्वात् कालस्यापि प्रधानमेव कारणं, स्वभावोऽप्यत्रैव लीनः, तस्मात् कालो न कार- णम् । नापि स्वभाव इति । तस्मात् प्रकृतिरेव कारणं, न प्रकृतेः कारणान्तरमस्तीति, न पुनदर्शनमुपयाति पुरुषस्य । अतः प्रकृतेः सुकुमारतरे सुभोग्यतरं न किञ्चिदीश्वरादि कारणमस्तीति मे मति- भवति । तथा च श्लोके रूढ़म् ॥ ६१ ॥ पुरुषो मुक्तः, पुरुषः संसारी, इति नोदिते आह-तस्मात् कार- णात पुरुषो न बध्यते, नापि मुच्यते, नापि संसरति, यस्मात् कार- णात प्रकृतिरेव नानाश्रया दैवमानुषतिर्यग्योन्याश्रया बुद्धयहङ्कारत- न्मात्रेन्द्रियभूतस्वरूपेण बध्यते मुच्यते संसरति चेति । अथ मुक्त एव स्वभावात् स सर्वगतश्च कथं संसरति? अप्राप्तप्रापणार्थं संसर- णमिति, तेन पुरुषो वध्यते. पुरुषो मुच्यते, पुरुषः संसरतीति व्यप- दिश्यते येन संसारित्वं विद्यते, सत्त्वपुरुषान्तरज्ञानात तत्त्वं पुरुष- स्याभिव्यज्यते । तदभिव्यक्तौ केवलः शुद्धः मुक्तः स्वरूपप्रतिष्ठः पुरुष इति । अत्र यदि पुरुषस्य बन्धोनास्ति. ततो मोक्षोऽपि नास्ति। अत्रो- च्यते-प्रकृतेरेवात्मानं बध्नाति मोचयति च, यत्र सूक्ष्मशरीरं तन्मा- त्रकंत्रिविधकरणोपेतं तत् त्रिविधेन बन्धेन बध्यते।उक्तञ्च। -“प्राकृ- तेन च बन्धेन तथा वैकारिकेण च । दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते" ॥ तत सूक्ष्मं शरीरं धर्माधर्मसंयुक्तम् ॥ ६२ ॥ "

सांख्यकारिका।
रूपैः ससभिरेव तु बनात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थ प्रति विमोचयत्येकरूपेण ॥ ६३ ॥
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥
तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकववस्थितः स्वस्थः ॥ ६५ ।।
?
प्रकृतिश्च बध्यते, प्रकृतिश्च मुच्यते, संसरतीति कथम् ? तदु-
च्यते-रूपैः सप्तभिरेव, एतानि सप्त प्रोच्यन्ते, धर्मो वैराग्यमैश्वर्य-
मधर्मोऽज्ञानमवैराग्यमनैश्वर्यम्, एतानि प्रकृतेः सप्त रूपाणि. तैरा-
त्मानं स्वं बध्नाति प्रकृतिः, आत्मना स्वेनैव सैव प्रकृतिः पुरुषस्यार्थः
पुरुषार्थः कर्त्तव्य इति विमोचयत्यात्मानमेकरूपेण ज्ञानेन ॥ ६३ ॥
कथं तज्ज्ञानमुत्पद्यते ?-एकमुक्तेन क्रमेण पञ्चविंशतितत्त्वालो-
चनाभ्यासादियं प्रकृतिरयं पुरुष एतानि पञ्चतन्मात्रेन्द्रियमहाभूता-
नीति पुरुषस्य ज्ञानमुत्पद्यते, नास्ति नाहमेव भवामि, न मे मम
शरीरं तत् , यतोऽहमन्यः शरीरमन्यत् , नाहमिति अपरिशेषम् , अह-
ङ्काररहितम् , अविपर्ययाद्विशुद्धं, विपर्ययः संशयोऽविपर्ययादसंश-
याद्विशुद्धं केवलं तदेव नान्यदस्तीति मोक्षकारणमुत्पद्यतेऽभिव्यज्यते
शानं पञ्चविंशतितत्त्वज्ञानं पुरुषस्येति ॥ ६४ ॥
शाने पुरुषः किं करोति ?-तेन विशुद्धेन केवलज्ञानेन पुरुषः
प्रकृति पश्यति प्रेक्षकवत् प्रेक्षकेण तुल्यमवस्थितः स्वस्थः, यथारङ्ग-
प्रेक्षकोऽवस्थितो नर्तकीं पश्यति, स्वस्थः स्वस्मिस्तिष्ठति स्वस्थः
स्वस्थानस्थितः । कथंभूतां प्रकृतिम् ? निवृत्तप्रसवां निवृत्तवुद्धयह-
कारकार्याम् , अर्थवशात् सप्तरूपविनिवृत्तां, निर्मितपुरुषोभयप्रयो-
जनवशाद यैः सप्तभिः रूपैर्धर्मादिभिरात्मानं बध्नाति तेभ्यः सप्तभ्यो
रूपेभ्यो विनिवृत्तां प्रकृति पश्यति ॥ ६५ ॥

सांख्यकारिका। ४ दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या । सत्ति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६ सम्यग्ज्ञानाधिगमाद् धमादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाचक्रभ्रमवद् धृतशरीरः ॥ ६७॥ किञ्च-रङ्गस्थ इति यथा रङ्गस्थ इत्येवमुपेक्षका एकः केवल: शुद्धः पुरुषस्तेनाहं दृष्टेति कृत्वा उपरता निवृत्ता, एका एकैव प्रकृतिः त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिरस्ति मूर्तिबधे जातिभेदात् , एवं प्रकृतिपुरुषयोनिवृत्तावपि ब्यापकत्वात् संयो- गोऽस्ति न तु संयोगात् कृतः सर्गी भवति । सति संयोगेऽपि तयोः प्रकृतिपुरुषयोः सर्वगतत्वात् सत्यपि संयोगे, प्रयोजनं नास्ति सर्गस्य सृष्टेःचरितार्थत्वात ,प्रकृतेर्द्विविधं प्रयोजनंशब्दविषयोपलब्धिर्गुणपु- रुषान्तरोपलब्धिश्च । उभयत्रापि चरितार्थत्वात् सर्गस्य नास्ति प्रयोजनं यः पुनः सर्ग इति । यथा दानग्रहणनिमित्त उत्तमर्णाधमर्ण- योर्द्रव्यविशुद्धौ सत्यपि संयोगे न कश्चिदर्थसम्बन्धो भवति । एवं प्रकृतिपुरुषयोरपि नास्ति प्रयोजनमिति॥६६॥ यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षो भवति ततो मम कस्मान्न भव- तीत्यत उच्यते-यद्यपि पञ्चविंशतितत्त्वज्ञानं भवति तथापि संस्का- रवशाद्धृतशरीरो योगी तिष्ठति, कथम् ? चक्रभ्रमवञ्चक्रभ्रमेण तुल्यम्, यथा कुलालश्चक्रं भ्रमयित्वा घटं करोति, मृत्पिण्डं चक्र- मारोप्य पुनः कृत्वा घटं पर्यामुञ्चति चक्रं भ्रमत्येव संस्कारवशात्, एवं सम्यग्ज्ञानाधिगमादुत्पन्नसम्यग्ज्ञानस्य धर्मादीनामकारणप्राप्तौ एतानि सप्त रूपाणि बन्धनभूतानि सम्यग्ज्ञानेन दग्धानि, यथा नाग्निना दग्धामि बीजानि प्ररोहणसमर्थानि, एवमेतानि धर्मादीनि बन्धनानि न समर्थानि । धर्मादीनामकारणप्राप्तौ संस्कारवशाद्धृत- शरीरस्तिष्ठति, ज्ञानाद्वर्त्तमानधर्माधर्मक्षयः कस्मान्न भवति, वर्त- मानत्वादेव, क्षणान्तरे क्षयमप्येति, झानं त्वनागतं कर्म दहति, वर्त- मानशरीरेण च यत् करोति तदपीति, विहितानुष्ठानकरणादिति, संस्कारक्षयाच्छरीरपाते मोक्षः॥ ६७॥ , सांख्यकारिका । प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८॥ पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९ ॥ एतत्पवित्रमय्यं मुनिरासुरयेऽनुकम्पया प्रौ । आसुरिरपिपञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् ॥७॥ शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभिः । संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥ सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्लस्य षष्टितन्त्रस्य । आख्यायिकाविरहिताः परवाद्विवर्जिताश्चापि ॥ ७२ ॥ इति सांख्यकारिका समाप्ता। स किंविशिष्टो भवतीत्युच्यते-धर्माधर्मजनितसंस्कारक्षयात प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानस्य निवृत्तौ ऐकान्तिकमवश्यमात्य- न्तिकमनन्तर्हितं कैवल्यं केवलभावान्मोक्ष उभयमैकान्तिकात्यन्तिक- मित्येवं विशिष्टं कैवल्यमाप्नोति ॥ ६८॥ पुरुषार्थो मोक्षस्तदर्थं ज्ञानमिदं गुह्यं रहस्यं परमर्षिणा श्रीकपि- लर्षिणा समाख्यातं सम्:गुक्तम्, यत्र ज्ञाने भूतानां वैकारिकाणां स्थित्युत्पत्तिप्रलया अवस्थानाविर्भावतिरोभावाश्चिन्त्यन्ते विचा- र्यन्ते, येषां विचारात् सम्यक् पञ्चविंशतितत्त्वविवेचनात्मिका सम्प- द्यते संवित्तिरिति ॥ ६९ ॥ सांख्यं कपिलमुनिना प्रोक्तं संसारविमुक्तिकारणं हि । यौताः सप्ततिरार्या भाष्यं चात्र गौड़पादकृतम् ॥ इति सांख्यकारिकाव्याख्या समाता ।

Sankhya Karika

Author
Ishwara Krishna
Title
Sankhya Karika
File name
Sankhya Karika
Text
OCR done
Published
2005/03/10
Publisher
The Pandit Narayana Moolij Pustakalaya Kalbadevi Road Zaverbag,no 229 Bombay 2
Language
Sanskrit
Pages
48
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495487
Barcode
1990030070586.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
kwpREP3bj9c
Download PDF

Sankhya Karika