Bharti Bhawan Liabrary, Allahabad
Niti Dipika
Front matter
യായ S नौतिदीपिका। सर्वदर्शनाचार्य- श्रीताराचरणशर्मणा विरचिता । खस्तिथीविविधविरुदावलौविराजमानमानोन्नत- महाराजाधिराजहिजराजकाशिराज- श्री ५ मत् प्रभुनारायणसिंहशर्मा- बौरपुडवस्थाजया तदीयसभापण्डितवर- ग्रन्यवदात्मज श्रीप्रियनाथतत्त्वरत्नेन प्रकाशिता । काशोधाग्नि भारतजीवनयन्वालये श्रीरामकृष्णवर्मणा मुद्रिता । सम्बत् १८४६ ।
No text on this page.
सूचौपत्रम् ।
यत्राङ्करः।
विषयनामानि ।
शास्त्रार्थविभागः
राजखरूपम
राजविभागः
भेदान्तराणि
मन्विलक्षणम्
मन्त्रि विभाग
मन्त्रिविधिः
त्याज्यमन्विलक्षणम्
बल-विभामः
अखादि
"
जन
सांग्रामिक
वैषयिक
राजखग्राहि
१०
राजस्वरक्षक-लक्षणम्
भोग्यदर्शक
देयप्रदर्शक
व्यवहारदर्शि
नष्टेष्टदर्शकलक्षणम्
( २ )
न्यायदर्शि ( लक्षणम्)
राजरक्षक
विचाराधिकारि,
धर्माधिकिारि
विद्याविभागस्थ
अध्यात्मविद्या
कृषिविद्या
वाणिज्यविद्या
ज्योतिर्विद्या
शिल्पविद्या
कलाविद्या
विद्यासामान्य
चिकित्सा
भूदर्शि
पाकरविन
१४
"
प्रस्त्रभेदः
यानभेदः
यन्वलक्षणम्
उष्ट्रादिभेदः
दुर्गलक्षणत दौ
दुर्गविधिनियमः
अननिरूपणम्
कोषनिरूपणम्
१६
(३)
२१
चरनिरूपणम्
प्रजानिरूपणम्
नीतिलक्षणम् संक्षेपतः कर्तव्यनिरूपणम्
सद्गुणनिरूपणम्
दुर्गुणनिरूपणम्
लोकसगहः
कैवलक्षणदोषः
कामजव्यसनानि
मृगयादोषः
अक्षदोषः
दिवास्वप्नदोषः
परीवाददोषः
स्त्रीदोषः
२३
१५
मदः
तौर्यत्रिकम्
वृथाव्या
सर्वेषां सामान्यतोदोषः
व्यसनविधिः
क्रोधजव्यसनानि
देवजव्यसनम्
चक्रमाहामाम
कर्तव्यविशेषनिर्णयः
धर्मार्थकामसेवा
३४
४२ ४५ धम्मरक्षाफलम् सर्वत्रैकधर्मासम्भवः धर्मोच्छेदिदण्डः धर्माचार्यरक्षणम् विषयदर्शनम् अनभिभूतिः मभुत्वरक्षोपायः विखसादिव्यवस्था मित्रव्यवस्था कार्यण्यादिव्यवस्था शायनिकादिव्यवस्था अर्थसंग्रहः मृत्यसञ्चालनम् -मन्त्रविधानम् "शान्त्यादिव्यवस्था कर्तव्यविधिः मण्डलनीतिः १ मण्डलविभागः 'महासत्त्वव्यवहारः 'मंण्डलप्रीतिः लोकपीड़ादोषः वराज्यरक्षोपायः दुर्लक्षणानि ४२ ५० ५३ ६. ५७ PREM 92 (५) राजमौर्येकर्तव्यानि ७४ ८३ ८४ ८५ गुणरक्षादि प्रजारक्षणम राज्य स्थितिव्यवस्था शिक्षाविधिः राज्यविभागादि अभ्युदयकालापद्विवेकः सामादिव्यवस्था दूतप्रेषणादि गूढचारप्रेरणादि भेदव्यवस्था दूतागमे कर्तव्यम् सन्ध्यादिनियमः ८२ २ २ १०७ युद्ध विधिः संग्रामान्तकार्यम् प्रतिष्ठादानम् प्रेरणविधिः भोगविधिः मधुरादिरसभोगः रुपभोगः गन्धभोगः १०८ १०८ " ११० स्पर्श
वैधकाम,
सेव्यासव्यस्त्रीलक्षणम्
११३
सुरतव्यवस्था
भ्रमणविधिः
शरीररक्षोपायः
प्रव्यापन लक्षणानि
हेमन्त स्य
शिशिरस्य
वसन्तस्य
ग्रीष्मस्य
प्रावृषः
१२१
१२७
ऋतुवि- सादिकर्तव्यम
महाराज्यम्
अनुबतिमार्ग:
लोकवशीकारः
प्रक्षावलम्बनम्
महासन्धिः
मण्डलकर्तव्यम्
ঘালী
सैन्यस्थानम्
विद्यास्थानम्
विचारस्थानम्
मन्विकार्यम
१२८
१४२ १४३ प्रजाकार्यम् साधारणीनीतिः-तत्रविद्यास्तुतिःमूर्खनिन्दा विद्याशिक्षा गुरुकर्तव्यम् पाठोत्तरकर्त्तव्यम् वाणिज्यविधिः कृषिकर्म दास्यम् भिक्षा धनप्रशंसा दास्यदोषः स्वाधीनता सख्यविधानम सत्यवृत्तिः मिथ्या १४७ १५० १५१ १५ क्रोधः लोभः मोहः मदः मात्सर्यम् कामादिपालनम् व्यभिचारदोषः खदारसेवागुणः वृत्तिप्रावल्यम् लोकदर्शनम् १६४ (८) १७८ १७४ १८२ १८२ १८३ क्रोधफलम् शान्ति फलम् गार्हस्थानियमः प्राशुकीति करोपायः शठवृत्तिः खलवृत्तिः दखादिवृत्तिः चतुरवृत्तिः वेश्यावृत्तिः लम्पटवृत्तिः जड़वृत्तिः ग्राहस्थवत्तिः धनिवृत्तिः पण्डितवृत्तिः सतपुरुषवृत्तिः तत्वज्ञवृत्तिः धनरक्षोपायः देवाबसिद्धिः आपत्कर्तव्यम् तत्रविप्लवे प्रायणे ग्रामविधिः धम्मसेवा धम्मपरिवर्तनम् महनोलनम् बन्धुविवादः १८८ १८० १८. १८२ १८३ १६४ १८५ २.१ इति।
PAARATISHAL AN,
HABAD
॥ श्रीकाशी॥
नौतिदीपिका।
श्रीगणेशायनमः ॥
राजराजेश्वरं देवं सोममूत्तिं परात्परम् ।
काशीश्वरं गुरूं नत्वा क्रियते नीतिदीपिका ॥१॥
जयत्यसी काशिनरेशईश्वरी
प्रसादनारायणाशर्मकेशरी ।
यमाश्रिता काशिपुरी पुरातनी
प्रवोधविद्यानगरी विराजते ॥ २ ॥
देवतीर्थमनिर्नामा सम्प्रज्ञातसमाधिमान् ।
शिवमूर्तिरवोचयं नौतिसारं महामतिम् ॥ ३ ॥
तस्योपदेशमाकर्ण्य व्यवहारं विलोक्य च ।
यथाज्ञानमुपेत्यार्थान् विनाय मुनिसम्मतिम् ॥ ४ ॥
भुक्ता च सकलां गोष्ठौं प्रायशस्तत्मसङ्गिभिः ।
विलोक्य नृपकार्याणि प्रकृतेर्भावदृष्टिमान् ॥ ५ ॥
श्रीसीतानाथसम्भूतो वशिष्ठकुलसम्भवः ।
भट्टपल्लीग्रामजन्मा श्रीताराचरणद्विजः ॥६॥
काशिराजात्मजं धीरं युवराज महामतिम् ।
प्रभुनारायणं नाम्ना नीतितत्त्वं प्रभाषते ॥ ७ ॥
( २ )
शास्त्रार्थविभागः ।
राजा मन्त्री वलं दुर्गमन्नं कोषश्चरः प्रजाः ।
अस्मिन्नेव महासंघे नीतिविद्या प्रवर्तते ॥१॥
राजा जीवो मनी मन्त्री वलं वलमुदीर्यते
दुर्गमायतनं विद्यादन्नं सर्वस्य पोषणम् ॥२॥
कोषः सारश्चरश्चक्षुः प्रजाचरणरूपिणी ।
एतदेव महारांज्यं नौत्यधिष्ठानमुच्यते ॥ ३ ॥
राजवरूपम ।
परमात्मा प्रजाः सृष्ट्वा रन्तुं तत्र खमायया ।
राजरूपेण लोकेषु प्राप्तवान् मानवौं तनुम् ॥ १ ॥
सजनाद् यागपूजाद्यैः पालनान्नौतिवर्त्मना।
संहाराट् दण्डरूपेण ब्रह्मा विष्णुः शिवो नृपः ॥ २॥
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च ।
चन्द्रवित्तेशयोश्चैव मात्राभिनिर्मितो नृपः ॥ ३ ॥
यस्मादेषां नरेन्द्राणां मात्राभ्यो निर्मितो नृपः।
तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ ४ ॥
यत्नेन तोषिता देवा राजरूपेण साधकान् ।
प्रापयन्तीप्सितान् भोगान् सर्वदेवमयः स तत् ॥५॥
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता येषा नररूपेण तिष्ठति ॥ ६ ॥
( ३ )
यस्य प्रसादे पद्मा श्री विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७ ॥
विषं तीक्षां नृपस्तीक्षाो विषात्तीक्षातरी नृपः ।
विषमेकाकिनं हन्ति राजा हन्ति कुलैः सह ॥ ८ ॥
यदि राजमयो लोके न तिष्ठेत् कल्पपादपः ।
कस्य छायां समाश्रित्य शान्तिमिच्छेन्नरः सदा ॥६॥
खे खे धर्मे निविष्टानां सर्वेषामनुपूर्वशः ।
वर्मानामाश्रमाणाञ्च राजा सृष्टोऽभिरक्षिता ॥१०॥
एष एव तपो यज्ञश्चतुर्वर्गप्रदस्त्वसौ ।
एष एव महापळे निमज्जयितुमीश्वरः ॥ ११ ॥
सत्यादियुगसङ्गानां राजैव सम्प्रवर्तकः ।
राजैव परमो देवो लोक सेयो न चापरः ॥ १२ ॥
राजविभागः ।
राजा चैव महाराजो राजराजस्तदीश्वरः ।
समाडिति विजानीयाद् भेटान् पञ्चमहीभृताम् ॥१॥
रञ्जनाल्लोकसङ्घानामङ्गानां परिरक्षणात् ।
दण्डार्थनौतिसम्पन्नः प्रथमः परिकीर्त्यते ॥ २ ॥
विषये लक्षदो यस्य महाराजः स उच्यते ।
तिष्ठेयुर्यदशे भूपा राजराजः स कीर्तितः ॥ ३ ॥
एते यस्य वशीभूता राजराजेश्वरो हि सः ।
सर्वभूमीश्वरो यः स्यात्म समाडिति गीयते ॥ ४ ॥
( ४ )
भेदान्तराणि ।
सुहन्मित्रमुदासीनः सामन्तो रिपुपञ्चमः ।
एवं रानविभेदेन नृपतिः पञ्चधा मतः ॥ १ ॥
येन प्रीतिमता राजा व्यवहारः प्रवर्तते ।
नियमेन समो भूत्वा स सुहृत्परिकीर्त्यते ॥ २ ॥
दुःखे दुःखी सुखे प्रीतो नियमापेक्षमोज्झितः ।
आत्मवत् प्रीतिसंयुक्तः स मित्रमभिधीयते ॥३॥
न सुख सुखमाप्नोति न दुःख भजतेऽसुखम् ।
व्यवहारमकुर्वाण उदासीनः प्रकीच ते ॥ ४ ॥
सामदानाद्युपायेन होनवौय्यतयाऽपि वा।
योऽधीनः कुरुते कायं स सामन्त उदीरितः ॥ ५ ॥
यः सदा निष्ठमाधातुं क्रियावाङ्मनसा रतः ।
मुखी दुःखे सुख दुःखीरिपुरित्यभिधीयते ॥६॥
व्यवहारात् खभावाहा कार्याहा भौतितोपि वा ।
सुहृन्मित्रादिभावोऽयं जायते धरणीभृताम् ॥ ७ ॥
सन्निककभोग्यत्वजिगौषाद्यैर्महीभृताम् ।
प्रायशो जायते बैर इतराणि स्वकारणात् ॥ ८॥
पुनर्भेदान्तराणि ।
धीरोदात्तोड़तौ वेधा स्याद्धौरललितस्तथा ।
धीरप्रशान्त इत्येवं चतुर्धा नृपतेभिंदा ॥ १ ॥
अनात्मश्लाघया युक्तो गम्भीरः क्षमया युतः । हर्षशोकभयाो नानभिभूतः खभाववान् ॥ २ ॥ विनयच्छन्नगश्च स्वाङ्गीकृतकरः स्थिरः । धीरैर्वीरगुणोपतो धीरोदात्तः प्रकौयं ते ॥ ३ ॥ मायापरः प्रचण्डश्च चपलोऽहद्धृतेर्वशः । आत्मश्लाघापरो दी धीरोद्यत इति स्मृतः ॥ ४ ॥ नृत्य गीतादिनिरतश्चिन्ताहीनो मृदुश यः । स धीरललितो जेयः केवलं भोगतत्परः ॥ ५ ॥ सामान्यगुणयोगेन भूयान् सदृत्तिशोभितः । धीरप्रशान्त इत्येवं नामतः परिकीयं ते ॥ ६ ॥ मन्त्रिलक्षणम् । नौतिविद्यासु निपुणः सत्कुल: प्रियभाषणः । सवृत्तः सर्वधर्माणां समद्रष्टा पवित्रधीः ॥ १ ॥ अपक्षपाती निर्दम्भो निरालस्यः प्रतापवान् । कामजेषु क्रोधजेषु व्यसनेषु पराङ्मुखः ॥ २ ॥ अलोभी नित्यसन्तृप्तो मन्त्रगोपनतत्परः । प्रत्युत्पन्नमति/र आगन्तुकविलोककः ॥ ३॥ इतिहासपुराणादिममवत्ता निरामयः । एवं मन्त्री भवेद्रातः शुभसाम्राज्यरक्षणे ॥ ४ ॥ मन्त्रिविभागः। स एष मन्वेऽधिकृतो मन्त्री नानाविधी मतः ।
navin
बन्धु/रोऽनुरक्तश्च शठो दुष्टश्च पञ्चमः ॥ १ ॥
रहस्यतो नोभहीनः कार्याकार्यविवेचकः ।
दुःखे दुःखी सुखे प्रीतो नित्यं खामिहिते रतः ॥२।
कुलीनो धार्मिको धीरो लोकानामनुरञ्जकः ।
राजाजानेऽपि कर्त्तव्यसाधको बन्धुरुच्यते ॥ ३ ॥
न्यायवान् न्यायतःकारी खाधिकाराभिपादकः।
गम्भीर प्रकृति(रो धीरै/रो निगद्यते ॥ ४ ॥
यथाजप्तसाधनेषु तत्परो देववत् प्रभुम् ।
द्रष्टा नम्रः शिष्टगुणश्चानुरक्तः प्रकीयते ॥ ५ ॥
कूटन्यायेन कार्याणा साधकः खार्थतत्परः ।
साहङ्कारो दुराक्रम्यः शठ इत्यभिधीयते ॥ ६ ॥
अनिष्टं सूचयन् भौतिं दर्शयन् खार्थसाधनः ।
चतुरोऽन्तश्छिद्रदर्शी निर्भयो दुष्ट ईरितः ॥ ७ ॥
मंत्रिदोषेण नृपतिहतराज्यो हतोदयः ।
तद्गुणेन विपन्नोऽपि लभते सम्पदं पुनः ॥ ८॥
मन्त्रिविधिः।
एवं गुणेन सम्पन्नो दुर्लभो विषये रतः ।
पहिरक्तः पुरुषोऽन्वेषणीयः सदा नृपैः ॥ १ ॥
धीरोदारक्तियोगेन विनयेन नराधिपः ।
धीरप्रशान्त शे कुर्य्यान्महात्मा भक्तिवन्दनः ॥ २ ॥
( ७ ) लिङ्गमा समालोक्य नोदासीनतया भजेत् । प्रायशो जीविकाहेतोवहवो लिङ्गधारिणः ॥ ३ ॥ अग्निहोत्रं त्रयो वेदास्विदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति वृहस्पतिः ॥ ४ ॥ ये तु सम्प्राप्तविषया भुक्तभोगा निराकुलाः। विरक्ता विषये जातास्ते विरता इति स्मृतम् ॥ ५ ॥ गुरुः पुरोहितो वापि यद्येवं गुणवान् भवेत् । सोपि मन्त्री भवेदेव यम्मात्ती सहजी हितौ ॥ ६ ॥ प्रायशो गृहिणां चेतो धनलुब्धं स्वभावतः । तस्मानिन सन्तोष्य रहिगां मंत्रिणं चरेत् ॥ ७ ॥ अमात्योऽपि मंत्रिरूपस्तस्मादेतान् गुणान् नृपः । तत्र पश्यन् पदे तस्मिन् नियुञ्जीत समादरात् ॥८॥ मातापिकुलोद्भूतः कुलसम्बन्धिनस्तथा । चिरप्रौतिसमायुक्ता अमात्याः स्युर्महीभृताम् ॥८॥ खनाशे यस्य राज्याशा यस्य मित्रस्य वा पुनः । तममात्यपदे नैव कदाचिदभियोजयेत् ॥ १० ॥ त्याज्यमंत्रिलक्षणम् ॥ अकुलीनं दुराचारमतिलुब्ध हतत्विषम् । धर्माहौनं शठं क्रूरं विषचित्तं पयोमुखम् ॥ १ ॥ सूचकं स्वार्थनिरतं स्वार्थवद्धगणन्तथा । पक्षपातरतं दुष्टं मन्त्रिणं सर्पवत् त्यजेत् ॥ २ ॥ ।
( ८ )
बलविभागः।
हयो हस्ती जनः शस्त्रं यानं यन्त्र महीभृताम् ।
उष्ट्रा गावस्तथा चैवमष्टाङ्ग वलमिष्यते ॥१॥
अखादिविभागः।
मारवाः पार्वता हैमा जलीयाः समदेशजाः ।
अश्वास्तु विविधा या एवं हस्त्यादयो मताः ॥१॥
कैचित् सैन्यवहाः केचिदग्निशस्त्रवहास्तथा ।
केचिद्राजवहाः केचिच्छिविकादिवहाः पुनः ॥ २ ॥
एवं हस्त्यादयो जया राजकार्येषु मानवैः ।
सामर्थ्य मवलोक्यैषां नियुञ्जीत क्रियासु तान् ॥ ३ ॥
जनविभागः ।
सांग्रामिकवैषयिकभेदेन द्विविधा जनाः ।
आद्या रणसहायाः स्युर्विषयेषु परे मताः ॥ १ ॥
सांग्रामिकविभागः।
पदातयो हयारोहा यानरोहा: करिव्रजाः ।
शतघ्नीचालका भूमिखनकाः पदमार्जकाः ॥ १ ॥
रणवाद्य कराः केचित् केचिन्नष्टचिकित्सकाः ।
केचिन्नष्टादिसम्वाहाः केचिद् भक्ष्यादिसाधकाः ॥२॥
शिविकादिवहा: केचित् स्थानसम्माजकाः परे ।
एवं कार्यविभागेषु विविधास्ते समौरिताः ॥ ३ ॥
(८)
•
दशखेको भवेद् द्रष्टा तेषु द्रष्टुषु चापरः ।
अपरेषु तथैवैकः क्रमादेवं परः परः
निरालस्यो मदोन्मत्तः क्रूरः ल शसही युवा ।
तृणवज्जीवनालोको नियोज्यः पुरुषो रणे ॥ ५ ॥
मारवादिजनाः स्थाप्या मर्वादिषु यथानयम् ।
तत्तद्देशेषु संग्रामे प्रेषणीयाश्च ते नृपैः ॥ ६ ॥
एवमश्वादयो ये ये यद्यद्देशसमुद्भवाः ।
तत्तेद्देशे कार्यपाते ते प्रेष्याः शुभमिच्छता ॥ ७ ॥
जीवन्ति मनुजा भूमौ मीना नश्यन्ति भूमिषु ।
खभाव एव जन्तूनां प्राणरक्षाकरः सदा ॥८॥
यदि कार्यातिपात:स्यादाक्रमे दारुणे रिपोः ।
तदैषनियमस्त्याज्यो नियमः सम्भवे स्थिरः ॥ ६ ॥
वैषयिकविभागः।
राजखग्राहिणः केचित् केचित्तद्रक्षकाः स्मृताः ।
भोग्यसन्दर्शका: केचित् केचिद्देयप्रदर्शकाः ॥ १ ॥
व्यवहारक्षिणः केचित् कैचिन्नष्टेष्टदर्शकाः ।
केचिन्यायविलोकाः स्युः केचिन्नृपतिरक्षकाः ॥ २ ॥
केचिहिचारऽधिकृताः केचिटर्म नियोजिताः ।
केचिविद्याविभागस्थाश्चिकित्सावैदिनः परे ॥ ३ ॥
केचिभूमि विलोकाः स्युः केचिदाकरलोककाः ।
एवं कार्यविभागषु पृथग वैषयिकाः स्मृताः ॥ ४ ॥
( १. )
वृत्तयो वहवो लोक कायं तदनुसारतः ।
अनुक्ता अपि संग्राह्याः कार्य
दृष्ट्वा महीभृताम् ॥५॥
राजखग्राहिविभागः ।
ग्रामे च मण्डले चैव देशे प्राधान्यतः क्रमात् ।
राजखणहिणो राज्ये राज्ञां बहुविधाः स्मृताः॥१॥
एवं जले च पुलिने पर्वतादौ पृथक् पृथक् ।
राजखग्राहिणो राज्ञां विश्वस्तानीतितत्पराः ॥२॥
राजस्वरक्षकलक्षणम् ।
आनीय राजभोग्यस्य यदाधीन्ये नियोजनम् ।
तस्य संरक्षका ये स्युस्ते तद्रक्षितया मताः ॥ १ ॥
भोग्यदर्शकलक्षणम् ।
भोग्यमन्नं पशुर्यानं पृथ्वीजलनभश्चलम् ।
वस्त्रं रत्नं गृहारामौ वापिका शयनादिकम् ॥ १ ॥
एवं बहुविधं यं यदाज्ञा परिभुज्यते।
नियुक्तास्तेषु ये दासा भोग्यसन्दर्शकास्तु ते ॥ २॥
देय प्रदर्शकलक्षणम् ।
क्रये धर्मे वेतने वा वृड्यादौ यत् प्रदीयते ।
नियुक्तास्तत्र भूपेन जेया देयप्रदर्शकाः ॥ १ ॥
व्यवहारदर्शिलक्षणम्।
पादानं प्रतिदानम्वा राजभिर्बधुभिश्च यत् ।
अन्यैर्वा तत्र संयुक्ता व्यवहारीक्षिणो मताः ॥ १ ॥
( ११ ) नष्टेष्टदर्शकलक्षणम् । प्रदानादान कार्यादौ किं नष्टं वर्द्धते च किम् । तदर्शननियुक्तास्तु जेया नष्टेष्टदर्शकाः ॥ १ ॥ न्यायदर्शिलक्षणम् । परिवर्ते विधाने वा रक्षणे न्यायवम॑नाम् । नियुक्ता ये नृपैस्तेतु जेया न्यायविलोककाः ॥१॥ राजरक्षकलक्षणम। । । । भूपते रक्षणे ये स्युर्गमने शयने स्थिती नियुक्ताः शस्त्रसम्वाहा विश्वस्ता भूपरक्षकाः ॥ १ ॥ विचाराधिकारिलक्षणम् । दण्डदायप्रभेदेन विचारो विविधो मत: विचारेऽधिकृता जया नियुक्तास्तत्र भूभृता ॥१॥ एतेऽपि प्रथमा मध्या अधमाः परिकीर्तिताः अधमादिक्रमात् ते स्यु,ष्टारो नीतितत्पराः ॥ २ ॥ एवं कार्य विभागेषु प्राधान्याद्य नियोजनम् विना प्रभुं न कार्याणि सिध्यन्ति नियमात् क्वचित्॥३॥ धर्माधिकारिलक्षणम् । येषां यथा यथा धर्मों वर्तते कुलदेशतः । यदा यदा च कर्तव्यः खेन वा शुभमिच्छता ॥१॥ तदर्शननियुक्ता ये ते स्युर्धर्म विनोककाः एवे भवन्ति नृपतेः पुरोधः पण्डितादयः ॥२॥ -
(१२)
विद्याविभागस्थलक्षणम् ।
अध्यात्मकृषिबाणिज्यज्योतिःशिल्पकलादिषु ।
जे या विद्याविभागस्था नियुक्ताः परिलोकने ॥ १ ॥
अध्यात्मविद्यालक्षणम् ।
यां यां वृत्तिमुपादाय मनो युक्त विवक्षया ।
जीवः स्वमिष्ठमाधातुमनिष्टम्वा व्यपोहितुम् ॥१॥
सा वृत्तिः कथमुत्पन्ना किम्बा कायं करिष्यति ।
किं करोति किमात्मा वा किम्फला वा भवेन्नृणाम्॥२॥
एवं यद् विद्यया वेद्यं तदध्यात्ममुदीयते ।
विद्यैषाखिलविद्यानां कल्याणी जननी परा ॥ ३ ॥
अभ्यासात् सर्वशास्त्राणां सङ्गाहापि महात्मनाम् ।
दर्शनात् प्राणिवृत्तीनां भोगजातस्य भोजनात् ॥ ५ ॥
प्रणिधाने क्षणादेषां कृपातो वा जगद्विभोः ।
कोटिष्वेकस्य कालेन विद्यैषा सम्प्रसीदति ॥ ५ ॥
अस्याः प्रसादात् सर्वत्र भोगमोक्षी करस्थिती ।
कृतकृत्यो नरो भूत्वा नटवच्चरति क्षिती
क्वषिविद्यालक्षणम्।
उत्पादन मेलनं च व्याधि शान्तिं नियोजनम् ।
मष्यगुल्मलतावृक्षप्रभृतीनां यथायथम् ॥ १ ॥
पर्वते सलिले भूमौ तथा भूमिमहादिषु ।
अन्दाया जनो विद्यात् कृषिविद्येयमुच्यते ॥ २ ॥
( १३ ) - वाणिज्यविद्यालक्षणम् । यद् यद् देशेषु यद् द्रव्यं यदा स्यात् सुलभं क्रये । विक्रये दुर्लभं चैवं रक्षणं चालनादिकम् ॥ १ ॥ इत्यादिका क्रिया सर्वा यया विज्ञायते नीभिः वाणिज्यविद्या सा जेया सर्वसम्पद्विधायिनी ॥२॥ ज्योतिर्विद्यालक्षणम् । ग्रहतारादिसञ्चारसलिलादेगमागमौ विज्ञायते यया सास्याज्योतिर्विद्या महाफला ॥१॥ शिल्पविद्यालक्षणम् । वयनं वसनादीनां शालभञ्जमादिकल्पनम् । वाष्पादिवेगविज्ञानं चक्रादिपरियोजनम् ॥ १ ॥ आकाशे सलिले भूमौ कौशलास्तुचालनम् ।। यया सम्वेद्यते सास्याच्छिल्पविद्या धनप्रदा ॥२॥ कलाविद्यालक्षणम्। नृत्यसंगीततालादेरिङ्गिताटेश्च बोधनम् । यया सञ्जायते सा स्यात् कलाविद्या सुखप्रदा ॥ १ ॥ विद्यासामान्यलक्षणम् । आदिना प्राणिभूतत्त्वपुरानागरसादय: यया ययाधिवेत्तव्याः सा सा विद्या प्रकीर्तिता ॥१॥ चिकित्सकलक्षणम् । धातूद्भिज्जविषादीनां योगेनौषधकल्पने । वायुपित्तकफादीनां तथैव च परीक्षणे ॥ १ ॥ ।
-
14
कालखाल्यपरिज्ञाने देहचक्रविलोकने
छैदे भेदे समर्था ये चिकित्सावेदिनो हि ते ॥२॥
भूदर्शिलक्षणम्।
इदमंत्र प्रजायेत नेदमत्र प्रजायते ।
इदमुहईतेऽनेन नश्यतीदमनेन च ॥१॥
समयेस्मिन्निदं ग्राह्यमस्मिन्नेतन्न गृह्यते ।
इदं ये तत्त्वतो विद्युस्तस्यु मिविलोककाः ॥२॥
आकरविलक्षणम् ।
उद्वित्प्राणिधातुरनमारामारादिभेदतः ।
आकरा वहवस्तज्ज्ञा मता आकरलोककाः ॥१॥
अस्त्रभेदः।
दहनास्त्रं विषास्त्रं च खड्गवाणासिपट्टिशाः ।
कुन्तकोदण्डादिभेदादस्वं वहुविधं स्मृतम् ॥१॥
यानभेदः।
पृथ्वीजलाकाशचराद यानन्तु विविधम्मतम् ।
लोकाश्वगजवाण्याद्यैर्भूया वाहितम्भवेत् ॥ १ ॥
वाष्पैर्वा मानवैर्वातैर्जलयानं प्रवाद्यते ।
वाष्पण
वायुना
वापि व्योमयानं प्रधावति ॥ २॥
अन्यद्वार्तावई यानं ताड़ितक्रियया भवेत् ।
क्षणेन सर्वजगतां कार्य्यामां परिसाधकम् ॥ ३ ॥
( १५ ) । यन्त्रलक्षणम्। सिध्यत्यल्पप्रयासेन कार्यजातं यदाश्रयात् । जन्तुवायुजलाग्नाादेवलात् तद्यन्त्रमुच्यते ॥ १ ॥ उष्ट्रादिभेदः। उष्ट्रा गावो वहुविधा नानादेशप्रभेदतः । रासभाजादिकं ग्राह्य पर्वताद्यधिरोहणे ॥ १ ॥ दुर्गलक्षणत दौ। यदुर्गममरीणां स्यादन्नपानादिरञ्जितम् । पूरितं सर्वभोग्येन तदुर्गमभिधीयते ॥१॥ पार्वतं सारितं वन्यं मारवं वैणवन्तथा । सैकतं कृत्रिम मिश्रं कामं नवधा च तत् ॥ २ ॥ चतुःपार्वेषु यस्यास्ते गिरिरुच्चतरोऽगमः । वासयोग्यं भवेन्मध्यं तत्पार्वतमुदीरितम् ॥ ३ ॥ अथवोच्चगिरेः शृङ्गे वासयोग्ये सुटुर्गमे । यमुर्ग क्रियते राज्ञा तत्पार्वतमुदीर्यते ॥ ४ ॥ सरिद्भिर्वेष्टितं यत् स्यात् पदं पार्वेषु सर्वतः । सारितं कीर्तितं लोकैर्महाक्षेत्रसमन्वितम् ॥ ५ ॥ एवं वनेन दुर्गेण हिंस्रपूर्णेन वेष्टितम् । वनदुर्ग विजानीयात् सर्वभोग्यसमन्वितम् ॥ ६ ॥ जलच्छायान्नहीनेन मरुणावेष्टितं पदम् । मध्येजलं महाक्षेत्र मारवं परिकीर्तितम् ॥ ७ ॥ . - ।
एवं गाढ़ावृतिर्वेणुर्यस्य पार्वेषु शोभते । वायोरपि दुराक्रम्यं तदैणवमुदीर्यते ॥ ८॥ सिकतापर्खताकाराजल छायादिविच्युता । पार्वे राजगृहं तत्र सैकतं दुर्गमुच्यते ॥ ६ ॥ दुर्गमं कई मैोरैरन्तर्वाहिजलाशयैः । स्थितिमद्भिश्चिरं पार्वे यस्य तत् काईमं स्मृतम्॥१०॥ मिथमन्यतमः कीमी पार्वेष्वन्यतमेषु च । खाभाविकं कृत्रिमं च द्विरूपं तत् त्रिधा स्मृतम्॥११॥ एकैकवेष्टितं दुर्ग दुर्गमं स्यात् खभावतः । हित्रयादियोगे शत्रूणां नास्ति चेतः पथागमः ॥ १२ ॥ चक्रकूर्मधनुःशंखाद्याकारं विविधं हि तत् । यथालभ्यपदं कुर्यात् सर्वमेव दुराक्रमम् ॥ १३ ॥ देशान्तरे रणक्षेत्रे रक्षणाय प्रकल्पयेत् । गजाश्वमानवाढोस्तु दुर्ग तात्कालिकं बहु ॥ १४ ॥ दुर्गविधिनियमः । 'कोष्ठ तत्र विधातव्यमन्ततस्वितयाधिकम् । प्रतिकोष्ठ महाद्वारं दुर्भेयं रक्षकैर्युतम् ॥ १ ॥ दुर्गभित्तौ चतुर्दिक्षु वन्यस्वाणि योजयेत् । तञ्चालकरहं गूढं दुर्भेद्यं शत्रुभिस्ततः ॥ २ ॥ महाद्वारस्य पार्वे दे रक्षणीये प्रयत्नतः । अम्नास्वादिसुनिपुणैर्विश्वस्तैः साहमाश्रितः ॥ ३ ॥ ॥
स्तम्भानस्य चतुःपाखें तथा कुन्निराधिपः । यत्र खल्या अपि स्थित्वा ताड़येयूरिपोर्गणान् ॥ ४ ॥ तथाग्निमयशस्त्रादि तत्र स्थाप्यं प्रयत्नतः । यतः सञ्चालने सर्व पार्श्वमाच्छादितम्भवेत् ॥ ५ ॥ एवं पार्वेषु यन्त्राणि विधातव्यानि यत्नतः । वले होनवले येषां क्रियातो दुर्गमम्भवेत् ॥ ६ ॥ जलयन्त्र गुहायन्वं यन्त्रमग्नाादिसाधनम् । तद् भवेद विविधाकारं गूढरूपं दुरासदम् ॥ ७ ॥ अन्ततो वर्षभोग्येन द्रव्येन परिपूरितम् । कुर्य्याद टुर्ग नरेशानः स्वराज्यस्थितिलिप्सया ॥८॥ हारं प्रास्थानिकं कुर्य्याद् दुर्बोधमपरैः सदा । आक्रमेऽपि रिपोर्येन नाक्रम्यः स्यान्महीपतिः ॥ ६ ॥ शस्त्रागारं पश्वगारं सैन्यागारं तथाचरेत् । येन कार्यप्रपातेषु क्लेशलभ्यं भवेन्न तत् ॥ १० ॥ येन वा वहिरासीनै!च्छिद्यन्ते परैः कदा । शस्त्रादीनि तथा तत्र स्थापनौयानि यत्नतः ॥ ११ ॥ हययानादिकं तत्र तथास्थाने निवेशयेत् । सबस्मिन् विफले यत्ने येन प्रस्थातुमौश्वरः ॥ १२ ॥ आलयारामकूपादि यथास्थाने पृथक् पृथक् । दासानां महतां स्त्रीणां येन कार्य प्रभेट्तः ॥१३॥ ३
( १८ )
अन्ननिरूपणम् ।
उद्भित्प्राणिप्रभेदेन तदन्नं विविधं स्मृतम् ।
धान्यहिदलगोधूमयवाग्वाद्युद्भिदुच्यते ॥ १ ॥
अजपक्षिमृगाद्यानां भेदादन्यद् वहूच्यते ।
तैलटुग्धसर्पिरादि यद् भवं तत्तदुच्यते ॥ २ ॥
कोषनिरूपणम् ।
संस्थाप्यते धनं यत्र स कोषः परिकीर्त्यते ।
स्पष्टगुप्तप्रभेदेन कोषस्तु विविधो मतः
वेतनादिप्रदानार्थे ऋणादानादिकारणात् ।
धर्माद्यर्पणतस्तादृक् खेच्छादयविधानतः । २॥
एवं वह विधो सेयः स्पष्टकोषो महीभृताम् ।
गुप्तः स यत्र रक्ष्यन्ते धनानि व्ययवर्जनात् ॥ ३ ॥
कश्चिद्विपत्ती संग्राह्यः कश्चिन्निधिरिव स्थिरः ।
अयं गोप्यः प्रयत्नेन राजा कल्याणमिच्छता ॥ ४ ॥
चरनिरूपणम् ।
लोकानां तत्त्वमन्वेष्टुं यश्चरेच्चर एव सः ।
गुप्तप्रकाशभेदेन स चरो द्विविधो मतः ॥ १ ॥
राजभक्तः समालोको लोभमोहविवर्जितः।
नानारूपधरो वाग्मी साहसी लोकरञ्जकः ॥२॥
यो गोपनात् परोद्देशं तत्त्वाहिज्ञाय भूपतिम् ।
विज्ञापयेत् स लोकेषु गुप्तचार: प्रकीर्त्यते ॥ ३ ॥
MAR
( १६ )
यावत् कार्यविभागोऽस्ति भूपतेरनुजीविनाम् ।
शत्रूणां मुहृदां चात्र गुप्तचारः पृथक् पृथक् ॥ ४ ॥
नैपुण्यं यस्य यत्कायें तं परीक्ष्य महीपतिः ।
धनवस्त्रादिनातोष्य साधयेत्तेन तक्रियाम् ॥ ५ ॥
दस्युकार्य विलोकार्थं दस्युमेव नियोजयेत् ।
तथाधिकारिणां कार्ये तत्कायनिपुर्ण स्मरेत् ॥६॥
प्रायशो जीवलोकेषु प्रियवाची मनोमलाः ।
तेषां दोषविघाताय गुप्तचारी महाशनिः ॥ ७॥
स्पष्टचौराः सुवार्य्याः स्युगुप्तचौरा भयङ्कराः ।
रहः खल्पहराः स्पष्टा गुप्ता राज्यहराः स्मृताः ॥८॥
सामदानादिसंसिध्यै प्रेष्यते यो महीभृता ।
स प्रकाशचरो जेयः साहसी वाचितत्परः ॥६॥
निसृष्टार्थों मितार्थश्च तथा सन्देशहारकः ।
एषां भेदेन लोकेषु स्पष्टचारस्विधा मतः ॥ १० ॥
उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
मुश्लिष्टं कुरुते कार्य निसृष्टार्थः प्रकीयते ॥ ११॥
मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः ।
यावद्भाषितमन्देश-हारी सन्देशहारकः ॥ १२ ॥
प्रजानिरूपणम् ।
स्थिरागन्तुकभेदेन प्रजा तु द्विविधा मता।
या वसन्ति स्वसाम्राज्ये ताः स्थिराः परिकीर्तिताः॥१॥
( २. ) वाणिज्यार्थं विलोकार्थं तीर्थार्थं दास्यतोऽपि वा। आयाता अन्यतो देशादस्थिराः परिकीर्तिताः ॥२॥ नीतिलक्षणम संक्षेपतः कर्तव्यनिरूपणच । नयेन चालयन्नेतान्यङ्गानि पृथिवीपतिः । भुत ह सकलान् भोगान् परत्र लभते सुखम् ॥ १ ॥ येन तिष्ठेहशे लोको येन स्यादात्मनो हितम् । येनाभ्युदयिनः सर्वे स उपायो नयो मतः ॥ २ ॥ चतुष्पदा नीतिरेषा सदसज्जानमादिमम् । अन्यत् साधनसम्पत्तिस्तृतीयं विघ्नचिन्तनम् ॥ ३ ॥ परिणामेक्षणं तूयं पदमेतच्चतुष्टयम् । एषा सर्वस्य लोकस्य ज्ञेया कल्याणदायिनी ॥ ४ ॥ हे धर्मसहचारिण्यौ श्रद्धा नीतिश्चशाश्वती पूर्वयोदेत्ययं धर्मोऽपरया चैव सिध्यति ॥ ५ ॥ राजनीतिमहालक्ष्मी राजा नारायणः स्वयम् । उभाभ्यां स्थाप्यते धर्मो विश्वस्याभ्युदयो यतः ॥ ६ ॥ देहस्य भूषणं शास्त्रं क्षमा शास्त्रस्य भूषणम् । क्षमाया भूषणं शक्ति तिः शक्तेश्च भूषणम् ॥ ७॥ उपाया विविधा लोके चित्तवृत्त्यनुसारतः । वृत्तयो वहुधा जेयाः प्रकृतेर्भागयोगतः ॥८॥ अस्माकमिष्टमन्य॑षां विष्टमेवं परस्परम् । वैपरौल्येन गृह्णाति वृत्तिरेषां हि दुवंशा ॥ ८ ॥ ।
:
( २१ )
एकानुकरणेऽप्यन्यो विद्वेषं लभते क्षणात् ।
सर्वेषां रञ्जनं लोके दुष्करं भिन्नचेतसाम् ॥ १० ॥
अध्यात्मवोधयोगेन तस्माहीक्षित वृत्तिकः ।
कारणं कार्यमालोच्य चालयेल्लोकसञ्चयम् ॥ ११ ॥
वहुलशकरी येषां वृत्तिरापाततः सुखा ।
दण्डाहानान्मत्रतो वा तेषां शोध्या शनैः शनैः॥१२॥
क्षेत्रभेदेन या वृत्तिविरुद्धा त्यतुमक्षमा ।
सा क्षेत्रिणां पृथक् कृत्वा पालनौयाऽविरोधतः॥१३॥
उदासीनः स्वयं भूत्वा सर्वदृक् सर्वरञ्जनः ।
प्रीतियोगेन सर्वेषां स्थितिं रक्षेन्नराधिपः ॥ १४ ॥
सहुणनिरूपणम् ।
औदार्य लोकमार्गेण पालनं समदर्शनम् ।
उत्साहदानं कार्याणां साधनाद्दुष्टताड़नम् ॥ १ ॥
अवार्थपरता नित्यं गुणानां परिरक्षणम् ।
एत एव महोपाया राजामभ्युदये मताः ॥ २ ॥
दुर्गुणनिरूपणम् ।
हृदये दोषगरलं मुख माधुर्यमुज्जलम् ।
अन्तः स्वच्छन्दचारित्वं वहिर्धमानुरागिता ॥ १ ॥
गुणानामभिध्यानं व्यसनेष्वनुरागिता ।
सत्सु शाठ्यं शठे मैत्रं खार्थसन्धाननैपुणम् ॥ २ ॥
( २२ ) आग्रहः खोक्तरक्षायां हितवाक्येष्वनाग्रहः । अहमेवेति विज्ञानं घृणा दासादिकेषु च ॥ ३ ॥ उत्साहदानं कार्यात् प्राक् सिद्धे कार्ये तिरस्किया। सर्वकार्येष्वविश्वास: कार्याणामपुरस्किया ॥ ४ ॥ सम्मुखे सादरालापः पश्चाद् विद्वेषणं छलात् । वाचालतातिमात्रं च वृथा संलापनं मुहुः ॥ ५ ॥ समय बेतनादानं कार्याणामपरीक्षणम् । नीचस्योन्नतिसन्दानं महतामनुपातनम् ॥ ६ ॥ हठन ग्रहणं भृत्या-मात्यादिस्वीनिषेवणम् । धर्मास्योच्चाटनं तादृक् समयानां विरोधनम् ॥ ७ ॥ करेणोत्पीड़नं नित्यं खेच्छातश्चरणं तथा । सुराना-दिसंरक्तिर्हितानामपरिग्रहः ॥८॥ एत एव महादोषाः समयं प्राप्य भूभृताम् । राज्यं धनं कुलं प्राणान् नाशयन्त्यचिराट् ध्रुवम् ॥६॥ लोकसंग्रहः । खराज्ये परराज्ये वा ये केचिदिह मानवाः लिङ्गिनश्छद्मनाजीवाः शठाश्चौराश्च दस्यवः ॥१॥ विहांसो वणिजो वन्याः शिल्पिन: पार्वतादयः । एतान् सर्वान् वशीकुर्य्यान्नृपतिः शुभकाम्यया ॥२॥ प्रत्येकं जनसंघानां रञ्जनं लोकदुर्लभम् । वहवो बहुदेशस्था बहु कर्म करा हि ते ॥ ३ ॥ -
( २३ )
-
तत् तेषां महतां वंशे विख्यातो वहुमण्डलः ।
यो भवेत्तमुपादाय पालयेत् पृथिवीपतिः ॥ ४ ॥
पूजनाद् भजनात्
सौख्यान्मासवर्षादिदापनात् ।
भूशस्य पशुरनादिदानात् परिणयादिना ॥ ५ ॥
समाजेषु महावंश्यानेवं सम्पोषयेन्नृपः ।
कार्यकाले त एवैते निन्युः सर्वान् वशं जनान् ॥६॥
केवलक्षणदोषः ।
केवलं तीक्षाभावेन यो लोकानां वशीकृती ।
यततेऽसौ दुष्टचेता नाचेरं लभते सुखम् ॥ १ ॥
तीक्षा ता दुष्टदमने न सतामनुरचने
तोक्षणस्य सर्वदा गैब्यं चित्तस्थैर्यविमई कम् ॥ २ ॥
अस्थिरे मानसे नित्यं क्रोधवनिविदाहिते ।
राज्यैर्वा विभवैर्वापि विक्रमेा भवेत् किम् ॥ ३ ॥
तीक्षणस्य सर्वदा भौतिर्लोकाश्छिद्रानुधाविनः ।
विपत्तौ दुर्लभं मित्रं तेक्षण वह्निप्रपौड़ितम् ॥ ४ ॥
शिष्टानां पालनेस्तस्माद् दुष्टानां परिपीड़नः ।
यो वर्त्तते नरेशानः स चिरं लभते सुखम् ॥ ५ ॥
कामजव्यसनानि ।
मृगयाऽतो दिवास्वपः परीवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाव्या च कामजो दशको गणः ॥ १ ॥
( २४ )
तत्र प्रसक्तो नृपतिर्धर्मार्थाभ्यां वियुज्यते ।
तयोर्ना जीवलोके जीवनं बिफलं भवेत् ॥ २ ॥
मृगयादोषः ।
मृगयायां समासक्तो नृपतिर्वन्यवान्धवः
हौनवुद्धिर्वने नित्यं भ्रमति भान्दचेतनः ॥ १ ॥
लक्ष्यवेधेन या प्रौतिस्तन्मात्रमनुपश्यताम् ।
लतामध्ये गुहामध्ये सरित्तौर तरोस्तले ॥२॥
अयमायाति लक्ष्यो मे चायं निर्यात वेगतः ।
भीत्याऽयं स्थगितो भ्रान्तो नायं निर्यातुमीश्वरः ॥३॥
एवमौत्सुक्यमालोक्य तिष्ठतां भान्तचेतसाम् ।
दिवारावं विनिर्याति वने वन्यैर्महीभृताम् ॥ ४ ॥
धनलुब्धा जनाः सर्वे तदुत्माहप्रयोजका: ।
तत्र निक्षिप्य नृपतीन् हरन्ति धनसञ्चयम् ॥ ५ ॥
खभावतो वनं रम्यं शरीरखास्थ्य कारकम् ।
दरिद्राणामपि प्रेयः किमु निश्चिन्तचेतसाम् ॥ ६ ॥
सर्वदा तन्निविष्टानां होनैः सह समागमात् ।
पुष्टात्मनां मांसभोगात् कामवृत्तिः प्रजायते ॥ ७॥
कामात् सञ्जायते क्रोधः क्रोधात् पापं विवर्धते ।
पापाल्लोकस्य विषो विहषान्नाशमाप्नुयात् ॥८॥
अक्षदोषः।
अक्षेऽभिसारिका ह्येषा वन्द्या नाश्या सुदुर्लभा ।
वजयेऽन्यपराभूति: पुनर्विजयवासना ॥१॥
( २५ ) खाजये विजिगीषा च वृत्तिरेवं क्रमागता । वृथा हरति काल हि होनैस्तवृत्तिशालिभिः ॥ २ ॥ होनसङ्गे वुदिलोपो वुद्धिलोपे शठाक्रमः । शठाक्रमे न्यायहानिया॑यहानी विनश्यति ॥३॥ चेदेष पणयोगेन साध्यते धनशालिना । तदा क्षणेन राज्यानां धनानामपि संक्षयः ॥ ४ ॥ अस्योदरस्य सम्यूर्तिः समाजाऽपि सुदुष्करा । अस्योदरे पुरा लौना बहवो वसुधाभृतः ॥ ५ ॥ दिवास्वप्नदोषः। दिवा विषयदृष्ट्यर्थ रात्रिभॊगप्रसाधिका । दिवाखाना महोशाना विषयान् नेक्षितुं क्षमाः ॥१॥ रात्रौ निद्रां परित्यज्य दुष्टेभॊगप्रसाधकः । जातालस्या निरुत्साहा हरन्ति समयं नृपाः ॥ २ ॥ परीवाददोषः। परीवादे नरेन्द्राणामथावान् जनो भवेत् । नानुरक्ति समागच्छेद् विषं लभते हृदा ॥ १ ॥ जनद्देषे नृपो हषी जन रक्तो नृपो रतः । परस्परकृते हषे व शुभं स्थान्महीभृताम् ॥ २ ॥ स्त्रीदोषः । स्त्रीरूपा राक्षसी ह्येषा विषमध्या पयोमुखा । सर्वदोषस्य जननी सर्वकल्याणनाशिनी ॥ १ ॥ - ४
।
( २६ )
दर्शनात् स्पर्शनात् स्मृत्या क्षणाच्चित्तप्रमादिनी ।
सर्वाधिकसुखाभासदर्शिनी कामरूपिणी ॥२॥
गन्धरूपरसस्पर्शशब्दाख्या विषयाश्च ये ।
ते सर्वे कामरूपासु कामिनीषु प्रतिष्ठिताः ॥ ३॥
रूपं कामयते नेत्रं गन्ध नासाऽभिरोचते ।
रस रसना रसना स्पर्शस्तस्याः सुधाम्बुधिः ॥ ४ ॥
शब्दो दास्यकरो नााः कटुर्वा मधुरोऽपि वा।
तस्मात् सर्वस्वरूपेण नारीरूपं भयङ्करम् ॥ ५ ॥
तस्यां प्रसतो नृपतिहतजानो हतोदयः ।
अलसो मग्नदेहश्च सर्व व्यसनतत्परः ॥ ६ ॥
अश्रद्धेयो नृभिनित्यं होनबुद्धिहतप्रभः ।
स्खौदेवो दासतामेति यथा सा सम्प्रसौदति ॥ ७ ॥
सक्तस्य चेतसो नारी न निर्याति कथञ्चन ।
सर्वान् निक्षिप्य वेगेन खं रूपं दर्शयेत् सदा ॥ ८॥
अस्मिन्नेव महापद्धे निमज्जयितुमुद्यताः ।
यतन्ते मानवा नित्यं ये दुष्टा धनहारिणः ॥ ६ ॥
एतदेव प्रियं नित्यं विषयासक्तचेतसाम् ।
पाकर्षति बलाञ्चित्तमेतदेव महौभृताम् ॥ १० ॥
एतत्संसाधका ये स्युस्ते स्युरापाततः प्रियाः ।
सव्वं हरन्ति कालेन दुर्वार्याः सव्व घातिनः ॥११॥
( २७ )
यौवनारुढ़वयसाममाट्रचा मुटुर्लभा ।
तस्मात्तैः परिषेवेरन् येऽस्मात्मन्तारणे क्षमाः ॥ १२॥
वृद्धा अपि न विश्वास्या धनलोभापराङ्मुखाः ।
न केचिदिह संसार तस्मात् सर्वान् परीचयेत् ॥१५॥
यदि कश्चिन्महाचेता विरतो लोभवर्जितः ।
दयां कृत्वा नृपं शास्यात् तदा जौवेन्महीपतिः॥१४॥
मदोऽपि टुस्तरो व्याधिर्मद्यादेरुपजायते।
तत्से विनां तदा तत्र वासना टुरतिक्रमा ॥ १ ॥
तहासनस्तदासेवी तेनोपहतचेतनः ।
रुग्नः सदा कामयते मदरूपं महाविषम् ॥ २॥
प्राणनाशेऽपि नादेयं मयं मोहकरं नृणा ।
सकृत् खादेऽपि टुस्त्याज्यं सर्वनाशकरं विषम् ॥३॥
तौर्यत्रिकम् ।
नृत्यं गौतं तथा वाद्यं यत् तौर्यत्रिकमीर्यते ।
तत्सब स्वौमदादीनां सहायं कालहारकम् ॥ १ ॥
सर्वस्माञ्चित्तमाकृष्य महाप्रीतिं प्रदर्शयेत् ।
दिवाराचं खदासत्वे नियुक्त पृथिवीपतिम् ॥ २ ॥
वृधाय्या।
सुखमात्राभिलोभन देशदर्शनरागिणाम् ।
चेतो हरति भूपानां पदं नित्यं नवं नवम् ॥ १ ॥
( २८ ) देशा अनन्ता वर्तन्ते नानाभोग्यसमाकुलाः । यावज्जौवं चरन् वापि को दृष्ट्वा परिशेषयेत् ॥ २ ॥ सर्वेषां सामान्यतो दोषः । सर्वमेतन्नरेन्द्राणां विषयानीक्षितेः पदम् । तस्मादेतानि यत्नेन वर्जयेत् पृथिवीपतिः ॥ १ ॥ ये केचिद्राजसम्बडाः सर्वेषां प्रायशो मतिः । राजानो नाभिपश्यन्तु तिष्ठन्तु व्यसने सदा ॥ २ ॥ एभिर्दोषैर्महीशाना बहवो हतचेतनाः । बभूवुर्वञ्चिताः पूर्वं भृत्यामात्यैर्दुरात्मभिः ॥ ३ ॥ मदोऽनः स्त्री महादोषा एतेषु परिकीर्तिताः। तस्मादेतान् प्रयत्नेन वर्जयेत् पृथिवीपतिः ॥ ४ ॥ व्यसनविधिः। लुप्ते युद्धे हतोत्साहे सैनिके मृगया शुभा । रहस्ये प्रिययासङ्गे सेव्योऽक्षः कौतुकावहः ॥ १ ॥ वैधे निशाजागरणे दिवास्वप्नः प्रशस्यते । परीवादः प्रशस्तः स्यानिर्वेदे मुक्तिमिच्छताम् ॥ २ ॥ भा-यामृतुकाले च सक्ति - शुभावहा । पौड़ायां समरोत्साहे यजे हितकरी मदः ॥ ३ ॥ देवोत्सवे गृहोत्साहे तौर्यधिकमनिन्दितम् । अटनं स्वास्थारक्षायामामंत्र वारिविद्रवे ॥ ४ ॥ ॥
( २८ ) एवं यत्र यत्र चैषां न दोषः परिलोक्यते । गुणश्च लभ्यते तत्र व्यसनी स्यानचान्यथा ॥ ५ ॥ तत्रापि तैर्महासत्त्वैः सेवनीयो न च खयम् । ये निवर्तयितुं शक्ता वीर्यमेषां दुराक्रमम् । क्रोधजव्यसनानि । पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजं व्यसनं मतम् ॥ १ ॥ अविनाताऽन्यदोषस्याऽऽरोपः पैशुन्यमुच्यते । साधूनां बधवन्धादावुद्यमः साहसं मतम् ॥ २ ॥ द्रोहो जिघांसा विजेया ईर्ष्याऽन्यगुणदूषणम् । असूयाऽन्यगुणे दोषाविष्कारः परिकीर्त्यते ॥ ३ ॥ अर्थानामपहारो यो विना दोषण साध्यते । देवानामप्रदानञ्च तदेवार्थस्य दूषणम् ॥ ४ ॥ व्यर्थवाक् कलहश्चैव वाग्दण्डजमुदाहृतम् । क्रूरता बन्धुभृत्यादौ पारुष्यं परिकीचते ॥ ५ ॥ सर्व एव महादोषाः परेषां हेषहेतवः । हेर्नियुक्ताः पुरुषा विनाशाय कृतोद्यमाः ॥ ६ ॥ धर्मार्थकामेहीयेत तत्रासक्तो महीपतिः । तस्मादेतानि यत्नेन वर्जयेत् क्षेमकामुकः ॥ ७॥.
( ३.) - देवजं व्यसनम् । कामजं क्रोधनं यादृग् व्यसनं परिकीच ते व्यसनं दैवजं तादृग् राज्यसम्पत्तिनाशनम् ॥ १ ॥ निस्पृहा सर्वभूतेषु दया धर्मरतिः सदा । तपः क्लेशो विरक्तिश्च देवनं व्यसनं स्मृतम् ॥ २ ॥ तत्र सक्तो महीपालो लब्धसत्त्वोदयः सुखी । न राजसौं कामयते वृत्तिं विक्षेपकारिणीम् ॥ ३ ॥ क्रोधदम्भादिकं यत्तु राज्यमूलं प्रकोयते । तत्सर्व राजसं जेयं शान्तिः सत्त्वगुणोद्भवा ॥ ४ ॥ दिवाराचं देवमेवौ तद्ध्यायौ तत्मुखोदयः । रहः कामयते नित्यं तद्धि शान्तेः प्रसाधनम् ॥ ५ ॥ मेलने जनसंघानां वहिश्चरति मानसम् । विक्षेपो जायते तस्माद्विषयेषु निरन्तरम् ॥ ६ ॥ विक्षेपः सत्त्ववृत्तीनां प्रतीपः परिकौयते दैवसक्तो नृपस्तस्मात् समाज नाभिवाञ्छति ॥ ७॥ शठा हि समयं प्राप्य हरन्ति धनसञ्चयम् । त्यजन्त्यनशना भृत्या अविचारः प्रवईते ॥ ८॥ विषयं विषवत् पश्येत् सत्त्ववृत्त्यभिरञ्जितः । तथैव सङ्गिनां लाभो ये शान्ता वीतरागिणः ॥ ६ ॥ राजसिंहासनासीनस्तत्र सक्ति न चाचरेत् । यावत् खधर्मामाचं स्यात्तावद् यत्नेन पालयेत् ॥१०॥ -
( ३१ )
कारयेत् सकलं वैधं कुश लैः शान्त वृत्तिभिः।
प्रजानां पालनं राज्ञां परो धर्मः परं तपः ॥ ११ ॥
बुद्धे वयसि सम्प्राप्त भोगनाते लयं गते ।
राज्याभिषिक्तं तनयं कृत्वा शान्तिपथं चरेत् ॥ १२ ॥
यदि चाध्यात्मयोगेन जन्तूनां चेतमां सदा ।
वृत्तीः पश्येडराधीशस्तदा कुर्याद् यथेप्सितम् ॥१३॥
चक्रमाहात्मयम्।
यस्तथ्यवादी धर्मात्मा हिताहितविलोककः ।
व्यसनादुद्धृतौ योग्यः स चौस्ताडयते बलात् ॥ १ ॥
दोषान् सन्दर्य शतशश्चस्तस्य महात्मनः ।
तथा सम्पाद्यते वैरं येन राजा विरागवान् ॥ २ ॥
राजा नाध्यात्मसम्पन्नश्चक्राच्च दुष्टमानसम् ।
तदेको न महान् भृयाच्चक्रेष्वक्षेमवादिषु ॥ ३ ॥
अशने शयने पाने भ्रमणे ये निरन्तराः ।
कथं तैनं प्रताद्वैः स्यान्नृपतिर्वाधवानपि ॥ ४ ॥
तेषाम्मतमनादृत्य यदीच्छेत् कर्तुमन्यथा ।
नृपः प्राणान् परित्यज्य द्रुतं गच्छेद् यमालयम् ॥५॥
यं पश्येन्नृपतिर्मित्रं पापादस्मा हि तारकम् ।
गोपनात्तन्मतं नीत्वा चरेत् कार्य समाहितः ॥ ६ ॥
तेनोदासीनभावेन समयं यापयेनृपः ।
स चेच्चक्रण विज्ञातो हतः स्यात्ताड़ितोऽपि वा ॥७॥
( ३२ )
सोऽपि सर्वैर्वहिः प्रीतश्छन्नभावेन तत्त्ववित् ।
मादुद्दोधयेच्चक्रं यत्र यादृग् गुणोदयः ॥८॥
किन्त्वेवं दुर्लभो गेही महात्मा कथमीदृशः ।
गृहस्था धनलुब्धाः स्युर्महात्मानो निरापदः ॥ ६ ॥
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु तत्र चतुष्टयम् ॥ १० ॥
यदि रक्षेनरेशानमीशानः करुणामयः ।
तदा जीवेत् स चक्रेभ्यो व्यसनेषु महीपतिः ॥ ११ ॥
तस्मात् प्रतिष्ठिता: शिष्टाः कुलेन यशसा धनैः ।
विद्यया चरितैर्धमैर्ये भवन्ति नरोत्तमाः ॥ १२ ॥
तेषां समाजमादृत्य सर्वकार्यनिरीक्षणे ।
खयं तन्मतमादाय कुर्य्यात् कायें समाहितः ॥१३॥
तैरेव कार्यं कुर्वीत मन्वयेद वेदयेत् कृतिम् ।
कार्योपयोगिभिर्दासैर्वेष्टितो टुष्टघातनः ॥ १४ ॥
तेषामाक्रमणे चक्र यदीच्छेद टुष्टसाधनैः ।
तदा तन्न विचार्यैव दूरं कुर्य्यान्महीपतिः ॥ १५ ॥
यैर्भवत् सर्वदा वासो रहस्यालापवेदिभिः ।
तन्मण्डलं भवेच्चक्रं तत्र राजा वशं गतः ॥ १६ ॥
इदमेव महाचक्रं प्रभुशक्तिं विनाशयेत् ।
सूत्रधारं स्वयं भूत्वा नटवच्चालयेन्नृपम् ॥ १७ ॥
अन्यदस्ति महाचक्रं कार्य्यिणां समवायत: । तदप्यधीनं पूर्वोक्त चक्रस्य महतो भवेत् ॥ १८ ॥ एतच्चक्रं भयात्तम ददाति खहृतन्धनम् । अप्रदाने माल्यचक्र: कार्य्यिचक्र प्रताडयते ॥ १६ ॥ खचक्रेण विना चक्री न क्षणं स्थातुमर्हति । तेन सम्पालयेच्चक्र तेषु कार्येष्वनाकुलः ॥ २० ॥ येन यत्साध्यते कायं तेन तत् प्रतिगृह्यताम् । नैक: सर्वाणि कार्याणि कर्तुमर्हति कहिचित्॥२१॥ सर्वेषां रञ्जको भूयाइनमानादिसम्पदा । तथा सन्ताड़येद् यत्नाद् येन मूल् न दीप्यति ॥२२॥ अधार्मिका भोगसक्ताः परं लोकार्थसाधकाः । एत एव महामूर्खा न जड़ो मूर्ख उच्यते ॥ २३ ॥ धर्मभौरो तचित्तात् कृतजात् कुल जाज्जनात् । स्वल्पनादपि कार्याणि साधयेन्न शठाहहु ॥ २४ ॥ शठस्य मेलने शाठ्यं दुर्वायं स्यात् सतामपि । वह्निर्धर्मो विषं योगात् किं न कुर्य्याद्भयङ्करम् ॥२५॥ सर्वकार्येश्वरो राजा यतो राक्षस्ततोऽखिलम् । ततः सर्वान् जनान रक्षेत् तत्तत्काय्यसमाधिना॥२६॥ भूयः क्रूरतरं कायं मूर्खेण परिसाधयेत् । अन्नपानधनादीनां रक्षणं सत्त्वत्तिभिः ॥ २० ॥ ५ ( ३४ ) सतां सम्मेलयेन्नित्यमधितिष्ठन स्वयं सभाम् । राक्षसानां पिशाचानां वृत्तिं पश्यन् दिनं नयेत् ॥२८॥ दिनातिपाते सर्वेषामधिकारो न चान्यथा । सुखदुःखकृता सिद्धिर्देवमानवरक्षसाम् ॥ २६ ॥ सदा सङ्गीपयेत् तत्त्वं शठेषु धरणीपतिः । येनैते न विजानीयुः प्रीतास्तिष्ठेयुराशये ॥ ३० ॥ धनं मानं तथा भोगं दत्त्वा कार्य प्रसाधयेत् । बिना शठानां संगेन दुर्लभं विषयावनम् ॥ ३१॥ सैन्यानामधिपे शिष्टे गुरौ बंधुषु मन्त्रिषु । योजयेन्मतिमात्मीयां कार्याकार्यविधायिनीम्॥३२॥ शठाः स्युरात्मवृत्तीनामुगावेच्छिद्रदर्शिनः । भौषयन्तो बलात् तैक्षणादरन्ति धनिनां धनम् ॥३३॥ वेधयन् वड़िशे मल्यान् खेलयन् भावसञ्चयैः । धरा राज्येऽपि वैराज्यं भजेत् तत्त्वार्थ कोविदः ॥३४॥ एवं लोके वशीभूते भोगजातं भजन् सदा । दृष्टा नाचं जगद्मे निरापल्लमतेमुखम् ॥ ३५ ॥ कर्तव्यविशेषनिर्णयः। यद्राजा शृणुयाद् वृत्तं चाराद् भृत्याद्वितादथ । तदन्यं न वदेत् किञ्चित् प्राणैः कण्ठगतैरपि ॥ १ ॥ यदि ब्रूयान्न तं कश्चित् कथयेत् शङ्कितो जनः । अश्रुती लोकवृत्तस्य कथं विद्याज्जनेक्षणः ॥ २ ॥ -art BREA
( ३५ )
बहवः स्वार्थसन्धाना वञ्चयन्तो नराधिपम् ।
हरन्ति काय॑णां वित्तं सदा सूचनसाधनैः ॥ ३ ॥
आकारङ्गितचेष्टायेस्तस्माद्राजा परीक्षयन् ।
पुनरप्यन्यचारण तवृत्तमवलोकयेत् ॥ ४॥
प्रायः प्रतिष्ठितं दृष्ट्वा विहिषन्तो नृपाशयाः ।
सूचयन्ति वृथावादं येन राजा रुषं चरेत् ॥ ५ ॥
परीक्ष्य गुणदोषौ तत् सावधानी जनाधिपः ।
वृथावभाषिणं हन्यात् पालयेत् सत्यवादिनम् ॥ ६ ॥
यावन्तश्चेद् दुराचारा मिलिताः सूचयन्त्यमुम् ।
तदा भूयोऽचिरेणैव राजलक्ष्मीच्युतोभवेत् ॥७॥
तत एवहि विहांसं पालयेत् सादरं सदा ।
प्रायशः कृतविद्या हि न स्युः सूचनतत्पराः ॥८॥
ये मूर्खा व्यसनोत्साहप्रदातारो निरन्तराः ।
प्रायशः सूचकास्तेस्युः पामराः क्रूरवृत्तयः ॥ ६ ॥
धर्मार्थकामसेवा।
धर्मार्थकामान् सेवेत निर्विरोधान्महीपतिः ।
विरोधे सर्व विद्रावो निर्विरोधेऽखिलस्थितिः ॥ १॥
विभज्य समयं नित्यं तत्तत् कार्यप्रवेदिभिः ।
सर्वास्तानभिसैवेल शुभमिच्छुर्नराधिपः ॥२॥
प्रातर्धान निषेवेत धर्मसत्त्वार्थवेदिभिः ।
व्यवहारेषु नियुयोर्मध्याहू विषयं भजेत् ॥ ३ ॥
( ३६ )
अपराहे प्रियैर्मि ौरैः कार्याविचक्षणः ।
विविक्तेषु समासीनः कार्य सेवेत भूमिपः ॥ ४ ॥
धर्मार्थकाममोक्षाणां केवल शाम्बजीविता ।
शास्वेज्ञानविहीनानां न किञ्चित् परिसिध्यति ॥५॥
रात्री वयस्यसंयुक्तो नृत्यगीतादिमोदितः ।
कामान् सेवेत शुद्धान्ते समयोचितभोगभाक् ॥ ६ ॥
राविशेषे समुत्थाय मन्त्रयन् कार्य्यमात्मनः ।
धर्मार्थकामान् सेवेत पूर्ववत् सुसमाहितः ॥७॥
धर्मरक्षाफलम् ।
नास्ति धम्मात् परं मित्रं नास्ति धम्मात् परं धनम् ।
नास्ति धर्मात् परं श्रेयस्तस्मादम सदाचरेत् ॥ १ ॥
दण्डे या व्यवहार वा धर्मा एव महाबलम् ।
सिध्यतस्तावुभौ तेन धन्यथा हानिरेतयोः ॥ २ ॥
समदृष्टिः खामिनां हि साक्ष्यदानञ्च पश्यताम् ।
उत्कोचग्रहणं यच्च तद्धि धर्मात्सुसिध्यति ॥ ३ ॥
भयेन यदि वा सर्व सिध्येदेतत् कदाचन ।
अन्तरेणान्तरौं शुद्धिं न तत् सर्वत्र सिध्यति ॥ ४ ॥
ऐकमव्यस्थापनेषु धर्म एव महासुहृत् ।
यस्मात् सर्व प्रियो ह्येष सर्वसत्त्ववशीकरः ॥ ५ ॥
धर्मार्थ सकला लोकाः प्राणानप्युज्झितुं क्षमाः ।
तस्माजम्नॊ नरेन्द्राणां मूलं राज्यस्य रक्षणे ॥ ६ ॥
( ३७ )
गोपने वञ्चनादिभ्यो रक्षको धर्म एव हि
अन्तः पापमयं यत्तत् सब धर्मोण शोध्यते ॥ ७ ॥
यथा यथा च धर्मस्य विनाशः परिजायते ।
तथा तथा मनुष्याणां शाठ्यचौर्यादि बईते ॥ ८॥
वईने दुष्टत्तीनां कैवलं दण्डसाधनैः ।
शोधनं दुष्करं राजा कृत्वा यत्नशतान्यपि ॥ ६ ॥
वर्द्धने पापवृत्तीनां सत्यत्तिविनश्यति ।
उच्छृङ्खला जना भूत्वा धावन्ति खेच्छया सदा ॥१०॥
कौशलात् परवस्तूनि हरन्ति मनुजाः सदा ।
वाणिज्यं कृषिकर्मापि व्यवहारश्च नश्यति ॥ ११ ॥
व्यभिचारादयो दोषा प्रभवन्ति गृहे गृहे ।
जायन्ते सङ्करा लोका होनबोधा हतत्विषः ॥ १२ ॥
सख्यं भक्तिर्दया शान्ति: सत्यादि परिनश्यति ।
हिंसा स्तेयं दुराचारो दुःखभावः प्रवर्तते ॥ १३ ॥
यथा तथा विधानेन मानवाः खार्थतत्पराः ।
उपद्रवन्ति मनुजान् स्वयं नश्यन्ति शर्मतः ॥ १४ ॥
केवलं जनसङ्ग्रेषु दोषवह्निः प्रवर्द्धते ।
दह्यन्ते मानवास्तेन निःसहाया दिवानिशम् ॥ १५ ॥
तस्माद् यत्नेन नृपतिर्धर्म सेवी निरन्तरम् ।
धर्मान् रक्षेन्मनुष्याणां यथा यस्य प्रवर्तते ॥ १६ ॥
॥
( ३८ )
यदि धर्म न सेवेत खयं राजा विमार्गगः ।
कथं रक्षेत् स लोकानां धर्म यत्नशतैरपि ॥ १७ ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ १८ ॥
देश कुले मनुष्याणां धर्मों यस्य यथा यथा ।
रक्षणीयः प्रयत्नेन सर्व एव शुभावहः ॥ १६ ॥
सर्बकधासम्भवः ।
येषां मतेतु सर्वेषां धर्माणां परिनाशतः ।
एको धर्मो विधातव्यस्ते मूढ़ा हतवुद्धयः ॥ १ ॥
प्रथमं सर्व धर्माणामुच्छेदे विप्लवो महान् ।
नाशयन्तं समाक्रम्य कुरुते प्राणसंशयम् ॥ २ ॥
श्रद्धा मूलं हि विश्वासे बलोद्भूता न सा क्वचित् ।
विश्वासन विना धर्मों न पुनः फलदो भवेत् ॥ ३ ॥
यदि वीर्येण लोकानामेको धर्मः क्रमात् स्थिरः ।
तथापि मानवाः सर्वे नाधीना भिन्नवृत्तयः ॥ ४ ॥
चित्तभेदेन लोकानां बुद्धिवृत्तिर्विचित्रगा।
एकस्याविमतोऽन्यस्य ग्राह्यो धर्मः पृथक् पृथक् ॥५॥
काचिद् गृहाति परमं व्यापकं ज्ञानविग्रहम् ।
काचिद् गृह्णाति परमं सुन्दरं मूर्तिभाजनम् ॥ ६ ॥
रसभेदेन लोकानां चित्तवृत्तिस्तथा पृथक् ।
वात्सल्यवीरशृङ्गारकारुण्यादिप्रिया यतः ॥ ७॥
।
( ३८ )
खभावो दुरतिक्रम्यः सर्वेषां मूद्धि वर्तते ।
खभावाच्चालनं लोके कथञ्चिन्नतु सिध्यति ॥८॥
चक्षुर्गृह्णाति रूपाणि रसना रसिका रसे ।
वैपरीत्यं न गृह्यत ताभ्यां यत्नशतैरपि ॥ ६ ॥
एकधर्मप्रचारेऽपि नैकस्मिन् सम्पदां स्थितिः ।
एकधर्मेऽपि किं राजा हन्यते न परैः क्वचित् ॥१०॥
अस्माकमिति बुद्धिस्तु मत्खन्येषु प्रिया भवेत् ।
सर्व त्रैकमते सातु खमात्रपरिणामिनी ॥ ११ ॥
पिता यत्र सुतं हन्ति सुनोऽपि पितरं तथा ।
तद्राज्यार्थं व बन्धोऽस्ति धर्मस्य सुखलोभिनाम् ॥१२॥
भिन्नधर्मेषु राजत्सु किं न राजा स्थितिं गतः ।
तस्माद्धर्मविनाशन लोकस्योत्पीड़न तथा ॥ १३ ॥
राज्यमेतन्नरेशानां महतां तपसां फलम् ।
तपोनाशे विनष्टं स्यात्तपःसत्त्व विराजते ॥ १४ ॥
अतीता बहवो भूपा भवन्ति बहवोऽपि च ।
भाविनो बहवस्तस्मात् कितिरेका चिरं स्थिरा॥१५॥
येन नोत्पीडाते लोक: खखधर्माविरोधतः ।
स राजा पालको लोके तोऽपि चिरजीवनः ॥१६॥
तस्मिन् मृतेऽमि तद्राज्ये विनष्टे समयादपि ।
भजन्ते तल्कुलं लोकास्तद्भक्तिकृतबन्धनाः ॥ १७ ॥
(४०)
रतिः सर्वस्य तत्र स्यान्नष्टराज्यं चरेत् पुनः ।
सर्वेषां लोकचक्राणामसाध्यं किं प्रवर्तते ॥ १८ ॥
यतोऽभ्युदयसंसिद्धिस्तदेव शुभमाधनम् ।
इति विज्ञाय मुनिभिः कता धर्मस्थिति: पुरा ॥१६॥
अतएव यथाकालं यथादेशं यथावयः ।
यथासात्यं यथाजानं यथारूचि यथोदयम ॥ २० ॥
तथैव जनसंघानां धर्मतत्व व्यवस्थितम् ।
नानारूपभृता नानादेशेषु परमात्मना ॥ २१ ॥
ये यथा धर्मवतारो लोककल्याणसाधनाः ।
ते सर्वे प्राकृतानैव देवदेवस्य भूतयः ॥ २२ ॥
यद्यविभूतिमत् सत्त्व श्रीमदूर्जितमेव वा ।
तत्तदेव हि विजेयं भगवद्भूतिकल्पितम् ॥ २३ ॥
अयमेव परो धर्मो नान्यः श्रेयान् मतिस्त्वियम् ।
भान्तानामेव को विद्याद धर्मतत्त्व' सुदुर्गमम् ॥२४॥
ये यथा यं प्रपदान्ते येन भावेन मानवाः ।
सर्व एव परं देवं भजन्ते तं न चापरम् ॥ २५ ॥
अणुस्वा स्थूलरूपम्वा व्यापकम्वा निराकृतिम् ।
को जानाति परं देवं यन्मायामोहितं जगत् ॥२६॥
नावस्त्यन्तो जगतो यस्य दुर्निरूप्याकृतिः सदा।
कर्ताऽस्य कीदृशः कस्य मतिरेषाभवेत् स्थिरा ॥२७॥
( ४१ ) कया शक्त्येन्द्रियाणौत्यं गृह्णन्ति विषयान् सदा । वैपरीत्यान्न गृह्णन्ति यो द्रष्टा स कथं मतः ॥ २८ ॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः । न विज्ञाता हि विज्ञातर्विज्ञेयः स्यात् कथञ्चन ॥२६॥ सम्बन्धबन्धी लोकानां महानीतिर्महाफला। स एव धर्मसम्मूलो धम्म : कर्मानुगः सदा ॥ ३० ॥ देशज्योतिष्कपानान्नपवनादिसमाश्रितम् । पवित्रं देहभृत् कम बुधैः पूर्व व्यवस्थितम् ॥३१॥ वर्तमाने खात्मनो वा मुखमात्रमवेक्ष्य यः । कुरुते धर्म विद्रोहं कुलघाती स राक्षसः ॥ ३२ ॥ चिरसम्वाहिसम्प्रौतिखाधीन्यवास्थारक्षकः। कुलादिभेदे धर्माणां विशेषः कथितः पुरा ॥ ३३ ॥ अज्ञानाद्यदि वा द्वेषादनुरागान्निषेवणात् । पक्षपातऽपि चैकत्र तत्त्वाही विविच्यताम् ॥३४॥ मिलित्वा भिन्नधम्म स्तु अकापश्येन भाषयन् । फलहेत्वादि सम्पश्यन् धर्म रक्षेत् सनातनम् ॥३५॥ धर्मोच्छेदिदण्डः। धर्मनाशे हि ये दोषास्ते पुरा परिकीर्तिताः । अतस्तन्नाशका दण्डया: सर्बोपद्रवकारिणः ॥ १ ॥ आपाततो यदि प्रीतिईम लोपेऽवलोक्यते । विचारे चरमे तत्र परं दोषो न वै गुणः ॥ २ ॥ ६
( ४२ )
।
धर्मनाशे जातिनाशो जातिनाशे यथा तथा ।
उहाह्य मानवाः कामाज्जनयन्त्यबलान् मुतान् ॥३॥
ये हीनवी- दुश्चेष्टा दुर्बोधा दुष्टचेतसः ।
अयथायु:समायुक्ता जाता नश्यन्ति वा पुनः ॥ ४ ॥
लवणे वोषरक्षेचे मृदी नीत्यादमहति ।
मृहीक्षेत्रे न वाकेन्दुर्जायते यत्नसञ्चयैः ॥ ५ ॥
जातो वा नाशमायाति जीवितो वा न वीर्यवान् ।
वीर्यवान् न फलं सूते सूते वा न फलं तथा ॥ ६ ॥
सिद्धक्षेत्रा सुप्रशस्ता एवं कुलपरम्परा ।
एतद्घातप्रवृत्ता ये घातकास्ते न कस्य वै ॥ ७॥
एवमन्नरसो लोक विहितो धर्मवेदिभिः ।
यथादेशं यथाशष्यं यथादेहं यथाऽनिलम् ॥ ८॥
एतन्नाशे महादोषा रोगेभ्यो वीर्यदूषणम् ।
दोषादौनवला लोका दुःखवन्तः पदे पदे ॥ ६ ॥
एतद्दया बुद्धिमद्भिदृष्ट्वा लोकेष्टसंस्थितिम् ।
धर्मो रक्ष्यः प्रयत्नेन ये यथा सन्ति यत्र वै ॥ १० ॥
धर्माचार्यरक्षणम् ।
ये यथा धर्मतत्त्वज्ञाः पूताः शान्तात्मवृत्तयः ।
विभज्य रक्षणीयास्ते धनमानार्चनादिभिः ॥१॥
नियुक्तास्ते यथा युरधिकारानुसारतः ।
धर्मतत्त्वं यथा लोकाः खधर्मस्था निराकुलाः ॥२॥
HER ( ४३ ) श्रेयान स्वधर्मो विगुणः परधर्मात् स्खनुष्ठितात् । खधर्मे निधनं श्रेयः परधर्मों भयावहः ॥ ३ ॥ अधिकारमनालोच्य यदि धर्म चरेन्नरः । क्षेमात् प्रच्युतिमासाद्य दुःखभाक् स्यात् पदेपदे ॥४॥ अतोऽधिकारं सन्त्यज्य यः कुर्याद् यश्च भाषते । स्थातामुभी दण्डनीयी लोक शकरौ खली ॥५॥ धर्माचार्य रक्षणीये सुलभी लोकसंग्रहः । विनायासं मुसिध्यन्ति सुविचाराश्च नित्यशः ॥ ६ ॥ यदि कश्चिच्चिराचारः समयान्न फलप्रदः । परिवोऽथवाल्याज्य एषा धर्माभृतां गतिः ॥ ७ ॥ युगे युगे मनुष्याणां धर्माचारादिकं पृथक् । परिवृत्तं कृतं त्यक्तं बहुशस्तत्त्वदर्शिभिः ॥८॥ विषयदर्शनम्। सर्वविद्यासु निपुणैः सर्वभाषार्थकोविदैः । सर्वेषां व्यवहारतः सत्तैः कुलशालिभिः ॥ १ ॥ अमात्यमन्त्रिभिर्धारैः सेनाध्यमहत्तमैः । प्राविधाकैर्यामिकैश्च शिष्टैश्च धनिभिर्वृतः ॥ २ ॥ सिंहासनसमासौनो वीरवेशसमुज्जलः । यथास्थाने निवेश्यैतानर्थान् सेवेत भूमिपः ॥३॥ केन किं क्रियते कार्य व्यवहारेषु तिष्ठताम् । रता वा सकला लोका विरक्ता वा स्वशासने ॥ ४ ॥ - ( ४४ ) उपद्रवो वईते वा प्रशान्तो वा जनाश्रयः । राज्याङ्गानां समृद्धि, विनाशो वा दिने दिने ॥५॥ खधर्मनियता लोकाः किम्वा धर्मा पराङ्मुखाः । शत्रुभिर्मिलिता: किम्वा किम्वा तन्नाशकामिनः ॥६॥ शठदस्युतस्कराद्या वर्धन्ते वा लयं गताः । सुविचारो जनपदे निर्विचारोऽथवा पुनः ॥ ७॥ अणिज्यकृषिकर्मादि प्रोजु लम्वाप्यनुज्जलम । पशुरत्नादिकं सर्व जायते वा न जायते ॥८॥ विद्यया वर्द्धिता लोका मूढा बालसवृत्तयः । शान्ता वा शत्रवो वृद्धा व्याधिर्वा शान्तिरेव वा ॥३ श्रवो नानुमानेन प्रत्यक्षेगा नराधिपः । तत्त्व विज्ञाय सर्वषां कुर्यात् कायं समाहितः॥१०॥ अत्रैव व्यवहारत्नैः कार्यार्थिभिरूपागतः प्रेरितैरन्यभूपेन व्यवहारं समाचरेत् ॥ ११ ॥ अनभिभूतिः । अनाक्रम्यो जनैर्भूयानृपतिः खानुजीविभिः । आक्रमः प्रभुशक्तीनां नाशक: सर्वनाशकृत् ॥ १ ॥ शक्तेर्नाश नरेशानस्तृणवल्लघुजीवनः । उत्मार्यते बलादेव बात्ययेव तृणं क्षणात् ॥ २ ॥ नानालिङ्गधरा दुष्टा नानाचातुर्यदर्शका: । नाना प्रीतिकरा नित्यं नाना साधनतत्पराः ॥३॥ ।
( ४५ )
मोहयन्ति नरेशानं साधयन्ति स्वसम्पदम् ।
तस्मात् कुत्रापि नो मोहं सहसा सञ्चरन्नृपः ॥ ४ ॥
यः सर्वदा खबुद्धीनां तत्त्ववेत्ता प्रदर्शकः ।
स बलान्मोहयेद् भूपं देवरूपो दुरासदः ॥ ५ ॥
तत्राभिभूतिर्भपानामिहचामुच भद्रदा ।
किन्त्वेवं दुलेभो लोके सर्वे विषयसङ्गिनः ॥ ६ ॥
प्रभुत्वरक्षोपायः।
खजने तादृशौं प्रौतिं विदध्यात सुसमाहितः
यथा ते प्रोद्धता न स्युर्वशे तिष्ठे युरोप्सिताः ॥ १ ॥
प्रौतिं कुर्य्याभयं दद्यान्न प्रीतिं न भयं परम् ।
अतिप्रीतिभयं दद्यादतिभीतिविनाशकृत् ॥ २ ॥
तथा सन्ताड़येच्चक्रं येन बद्धं न तद्भवेत् ।
चक्रवन्धो नरेशानां सर्वनाशकरः स्मृतः ॥ ३ ॥
प्रीतिं विधाय चक्रेषु परस्परनिरीक्षणे ।
परस्परं नियुञ्जीत गोपनात् सुसमाहितः ॥ ४ ॥
अहमेव मतो राज्ञो येन सर्वेषु धौरियम् ।
उत्पन्ना राजकार्यार्थं प्रत्येकं वशमानयेत् ॥ ५ ॥
अकार्य क्रियते चेन्मे ज्ञात्वा राजा परित्यजेत् ।
एवं भौतिः समुत्पन्ना सर्वदा ताड़येद् यथा ॥ ६ ॥
सम्भाषणं हिमतालोकः कार्येषु विनियोजनम् ।
मन्वणं दानमुत्माह उपाया लोकरञ्जने ॥ ७ ॥
विश्वासादिव्यवस्था। नाचरेदति विश्वासं नाविश्वासं समाचरेत् । द्वयमेव क्षितीन्द्राणां राज्यसम्पत्तिनाशकृत् ॥ १ ॥ यदि स्यादति विश्वासी प्रतीपः कालयोगतः । तदा निहन्याद्राज्येन प्राणानपि महीभृताम् ॥ २ ॥ शत्रुता मित्रता वापि खभावान्न व्यवस्थिता । कार्येण शर्मित्रं स्यान्मित्रम्बा शत्रुतामियात् ॥३॥ प्रायशो धरणीशानां हष्टारः सकला जनाः । इष्टालाभादवज्ञानात् सेवनात्ताड़नात्तथा ॥ ४ ॥ तथापि यत् प्रकुर्वन्ति कार्याणि शिष्टकृत्तयः । असामर्थ्याच्छन्नवृत्ता रुद्रा व्याघ्रा इवाचलाः ॥ ५ ॥ ये चापि मित्रतां यान्ति ते पुष्टा धनलाभतः । कार्याभावे धनालाभे को बन्धुर्धरणीभृताम् ॥ ६ ॥ नैवं कश्चिदवेक्षेत प्रायशो राजसेवकः । योऽसमक्षं न कुरुते हे षं कायस्य भूभृतः ॥ ७ ॥ अति विश्वासयोग्याश्चद्धनलुब्धा नरा: कथम् । न हरेयुः समग्राणि शान्तिः कस्य धनार्जने ॥ ८ ॥ अविश्वासे सदारानां न कश्चित् कार्यतो हितः । हिताभावेन राजैकः कथं सर्व सुसाधयेत् ॥ ६ ॥ शत्रुर्यदि भवेन्मित्रं कार्यतः समयात् क्वचित् । सर्वथा नैव विश्वास्यः शत्रुताऽनलदग्धहृत ॥ १० ॥ kA
( ४७ )
शत्रुता समयं प्राप्य
मैत्र
दग्धा विनाशयेत् ।
भस्मनाच्छादितो वह्निस्तृणं प्राप्य यथोज्जलः ॥ ११ ॥
मित्रं यदि भवेच्छचुन विश्वास्यस्तु तादृशम् ।
कदाचित् संस्मृता मैत्री शमयेबृदयाऽनलम् ॥ १२ ॥
सुवम वह्निदाहेन प्रकृतिं न परित्यजेत् ।
तत्कालमुष्णतामान्य पुनः शैल्येन युज्यते ॥ १३ ॥
मित्रव्यवस्था ।
खराज्ये परराज्ये वा स्वधर्मे वान्यधर्मके ।
संस्थिता व्यवहारज्ञाः क्रमादुन्नतिमाश्रिताः ॥ १ ॥
कुलौना जाततत्त्वा वा विहांसो वा बहुश्रुताः ।
अविगीता माननीया बहुता बहुकारिणः ॥ २ ॥
स्थिरप्रजा मन्त्रदक्षा धार्मिकाः पापशशिताः ।
ये भवन्ति नरश्रेष्ठा धनमानसमुज्जला: ॥ ३ ॥
रहस्तैर्मेलनं कृत्वा निःशाष्य मित्रतावशः ।
यावत् स्ववृत्तिमुद्भाव्य तेषां वृत्तिमुपाददत् ॥ ४ ॥
एकात्मभावमाश्रित्य नचान्यैांतसंस्थितिः।
ज्ञात्वा तत्त्वं समस्तानां परस्परविलोकितम् ॥ ५ ॥
गुणदोषी रहः सर्वैर्विचार्य समदृष्टितः ।
कुर्यात् कायं महीशानः खराज्यस्थितिलिप्सया॥६॥
एत एव महामात्या: साधनीयाः परोक्षया ।
यदेकस्य तदन्येषामस्मिन्नेव विराजते ॥ ७ ॥
( ४८ )
खबुद्धिबलसम्पन्ना यत्र तत्र स्थिता जनाः ।
उत्कृष्टाः सम्भभजन्ते ये न वास्तेि कथञ्चन ॥८॥
ते वहुजाः कार्यदक्षा नानोपायविलोककाः ।
बहुविघ्नहरा नित्यं बहसम्पदिवईकाः ॥ ६ ॥
तस्मात्तान् बहुमानाद्यैः सख्ये संयोजयेन्नृपः ।
राज्यमेतन्नचैकस्य सर्वेषां भाग्यशालिनाम् ॥ १० ॥
अन्येऽपि बहवोऽमात्या: स्वखकार्ये प्रकीर्तिताः ।
भवन्ति परिणश्यन्ति नैते नश्यन्ति कर्हि चित् ॥ ११ ॥
कार्पण्यादिव्यवस्था ।
न तथा कृपणो भूयान्नाति दाता भवेन्नृपः ।
द्वयमेव निषेवेत कार्याणामनुरोधत: ॥ १ ॥
व्यसनेऽन्यकृते शाष्ये कार्पण्यं सुसमाचरेत् ।
उत्साह लोककल्याणे दानं राज्ञां शुभावहम् ॥ २ ॥
लोकानुत्यौडा दानानि न्याय्यमग्राह्य दीनता ।
इयमेव नरेन्द्राणां कुशलं हन्ति सर्वथा ॥ ३ ॥
उत्पीड़नेन लोकानां सन्ताप उपजायते ।
सन्तापात् शत्रुतां प्राप्य यतन्ते राज्यनाशने ॥ ४ ॥
न्याय्यादाने जना विद्युऊर्य हानि महीभृताम् ।
न भजन्ते ततो दण्डान् दण्डाभाव कुतो नृपः ॥५॥
शायनिकादिव्यवस्था ।
शयने भोजने चैव सुविश्वस्तान् नियोजयेत् ।
ये प्रौतिधनसन्तुष्टाः पश्येयुः प्राणवन्नृपम् ॥ १ ॥
(४६)
चिकित्मकान् नियुञ्जीत विश्वस्तान् कुलजानन्हितान्।
ये हि लुब्धाः परैःप्रेष्या न हन्युनूपजीवनम् ॥ २ ॥
एतेषामेव इस्तेषु सुलभं नृपजीवनम् ।
तस्मात्तान् खच्छभावेन पालयेत् पृथिवीपतिः ॥ ३ ॥
तथापि शयनागारे खात्मरक्षां समाचरेत् ।
येन ते सहसा न स्युरीप्सितेऽपि विनाशकाः ॥ ४ ॥
स्वयं शस्त्रवतो नित्यं स्थापये टूरतो जनान् ।
कार्ये भवन्ति सुलभा खापे नाक्रामका यथा ॥ ५ ॥
भौषधं भोजनम्वापि परीक्ष्याग्रे जनार्पणात् ।
स्वयं भुञ्जीत कालेन नृपतिः शुभकाम्यया ॥ ६ ॥
अथवा जननीदारपरमाप्तकराश्रयात् ।
कुर्वीत भोजनं राजा निःशाठ्यं प्रीतिदर्शकः ॥ ७॥
नास्ति राज्यसमं भोग्यं नास्ति राज्यसमं विषम् ।
तत्र प्रीतिं यथा कुर्यात् तथा भौतिं समाश्रयेत् ॥८॥
शतशः प्राणहन्तारः क्रूरा:प्रच्छन्नत्तयः ।
बसन्ति विषये नित्यं ताड़िता: परिभाषिताः ॥६॥
अर्थसंग्रहः ।
एकतोऽशनिचेताः स्यादन्यतोऽथ प्रसाधयेत् ।
क्षणाभान्तिसमुत्पाद निर्याति कमला करात् ॥ १ ॥
ये ऽर्जका बहुवित्तानां तेभ्यो वित्तप्रसाधनम् ।
खल्पेऽपराधे तीक्षणेन विधिनाऽन्याय्यमुच्यते ॥ २॥
-
( ५० )
खभावानातवस्तूनां कर्तव्यो भूरिसङ्गमः।
श्रमेण जातवस्तूनां शान्तानां जीविकार्पणात् ॥ ३ ॥
वणिजां बहुवित्तस्य साधकानां बहुग्रहः ।
यतस्तेषां रक्षणाय राज्ञां यत्नशतं सदा ॥ ४ ॥
यत्र पश्येत्सुचतुराचातुर्याहहुसाधकाः ।
तत्र ग्राह्यं महद्वित्तं नाव कार्य्या विचारणा ॥५॥
एवं यथा यथा पश्येत् यथाहतुर्धनागमः ।
उत्पीड़नं विना राजा धनं ग्राह्यं ततस्तथा ॥ ॥
विपत्ती लोककल्याणे देशाध्यक्षैर्विचारयन् ।
समर्धाहनमादद्यात् न दीनान् पौड़येत् क्वचित् ॥७॥
खेच्छातो न धनं कश्चिद् दातुमर्हति मानवः ।
तस्मान्मैत्रेय मानेन मोहयन् धनमर्जयेत् ॥ ८
विना कार्य न कर्त्तव्यं केवलं कोषपूरणम् ।
यद्यत्रास्त्यखिलं तद्धि कार्यपाते महीभृतः ॥ ६ ॥
तस्मात् सम्योषयन् नित्यं धनमानादि सम्पदा ।
राज्यरक्षाकरं द्रव्यं विविच्य परिसाधयेत् ॥ १० ॥
पूर्णकोषेऽपि चैट्राजा हतराज्यो भवेत्तदा ।
किम्भवेत् कोषसम्पू. केवलं परहेतवे ॥ ११ ॥
भृत्यसञ्चालनम् ।
सेवयेत् सेविनं नित्यं कार्यिणं कारयेत् कृतिम् ।
तत्र तेषां क्रियां दृष्ट्रा त्यजेद्रक्षेच्चवईयेत् ॥ १ ॥
( ५१ )
-
खकार्येष्वलसत्याज्यो रक्ष्यः कार्यस्य पालकः ।
तत्र नैपुण्यदृष्ट्या तु वईनीयः शनैः शनैः ॥२॥
शिक्षादानं सकृद्दोषेदण्डरोधादिना नृणाम् ।
पौ नःपुन्ये परित्यागत्याग एष बहुमतः ॥ ३ ॥
उत्साहदानं लेख्येन तोषणं प्रियभाषणैः
समये च पुरस्कारो रक्षणं बहुधा मतम् ॥ ४ ॥
बईनं भूमिरत्नादि दानमुन्नतिवईनम् ।
तोषलेख्यार्पणं सभ्ये योजनं मानवर्द्धनम् ॥ ५ ॥
काय॑िणां चिरसान्निध्यं य इच्छति नराधिपः ।
स स्वकार्य स्वयं हत्वा चालयेच्चपलां श्रियम् ॥ ६ ॥
मन्त्रविधानम्।
सम्पत्ती वा विपत्तौ वा यदा यत्कर्तुमिच्छति ।
तदा मन्त्रो विधातव्यस्तत्कार्यानिपुणैरहः॥ १ ॥
तात्कालिको भाविभूती गुणदोषौ विचारयन् ।
गुणाधिक्ये विध्यात्तदोषाधिक्ये परित्यजेत् ॥२॥
कर्तव्येषु स्थिरो भूत्वा मण्डलेषु प्रवेदयेत् ।
तेषां तत्र मतं लब्धा नियमं चालयेन्नृपः ॥ ३ ॥
उद्भाव्यते दूषणञ्चेत्तत्रतैयुक्तिदर्शनात् ।
मन्त्रितान्यपि कार्याणि सन्त्यजेत् पृथिवीपतिः ॥४॥
नोद्भाव्यते खयं राजा प्रजाभिश्चेन्निवेद्यते ।
तदपि स्थापयेद् यत्नाद्वितकार्येष्वनाग्रही ॥ ५ ॥
( ५२ )
चलितान्यपि कार्याणि तोशाय यदि कालतः ।
व्यक्तव्यानि प्रयत्नेन तत्र नाग्रहमाचरेत् ॥ ६ ॥
विरुद्धमपि संसेव्यं यदि सर्वजनप्रियम् ।
अविरुद्धमपि त्याज्यं यदिस्यात्तापकं नृणाम् ॥ ७॥
नरा एव नरेन्द्राणां राज्यस्थापकनाशकाः ।
तस्मात्ते सततं रजाा दारैःपुत्रैर्धनैरपि ॥८॥
कालाहहनि कार्याणि फलन्ति विफलन्ति च ।
यस्मात् कालेन लोकानां वृत्तिभावादि चित्रता ॥६॥
वर्तमानेऽपि लोकेऽस्मिन् बाल्ययौवनवृवताः ।
जनयन्ति नवां वृत्तिं तेषु रागादिषु क्रमात् ॥ १० ॥
कालेन कर्षितं भूतं होनवीयं प्रजायते ।
हेतुशक्तिमुपाश्रित्य सर्व कार्य प्रवर्तते ॥ ११ ॥
यादृग् वृत्तिमवेक्षेत काले लोकस्य भूमिपः ।
तत्साधनसमर्थानि कार्याणि विनियोजयेत् ॥१२॥
मन्त्रप्रकाशी प्रच्छन्नो मन्त्रश्रोतास्य दूषकः ।
दण्डाल्लोभात् पक्षपातान्मन्त्रकारी विवर्यताम् ॥१३॥
गोपनात्साधिती मन्त्रः फलं दद्याद् यथेप्सितम् ।
प्रकाशे कार्यहानि: स्यात् तन्मन्त्रं न प्रकाशयेत्॥१४॥
कारणं काय॑मात्रस्य विरोधश्च विराजते ।
प्रकाशे साध्यते द्दिष्टै रोधो येन न तद्भवेत् ॥ १५ ॥
( ५३ )
शान्त्यादिव्यवस्था।
म शान्तः क्रोधनो भूयात् शान्तः क्रोधी भवेन्नृपः ।
तावुभौ नाशको स्यातां पालकी च महीभृताम् ॥१॥
क्रोधो दुष्टप्रतीपेषु शान्तिः शिष्टसुहृत्सु च ।
वैपरीत्यं न कर्तव्यं वैपरीत्याविनश्यति ॥ २ ॥
नियुक्तानां तथा वाक्ये न क्रुद्धः स्यान्महीपतिः ।
क्रोधे न तथ्य विज्ञेयं तथ्याभावे कुतः स्थितिः ॥३॥
न शान्तिः प्रोड़ते शत्री सर्वेषाच विरोधके ।
अवज्ञायिनि कार्यस्य दस्यौ चौर तथा शठे ॥ ४ ॥
कर्तव्यविधिः ।
सहसा न चरेत् कार्य वीक्ष्य कुर्य्याद्विवेकतः ।
असमीक्ष्य कृतो दोषाः समीक्ष्य कृतिनो गुणाः ॥१॥
मूढ़ानां ताड़नाद भूपः कार्यिणां व्यवहारतः ।
विदुषां प्रणयाद् भक्त्या साधयेत् कार्यमात्मनः ॥२॥
सक्नेव परीक्षेत कार्याणामवलोकनात् ।
परीक्ष्य गुणदोषौ हि ताड़येहापि वईयेत् ॥ ३॥
उदासीन इव स्वामी कार्ये संयोजयेज्जनान् ।
येन ते सततं विद्युः खातन्त्र स्वस्य सर्वदा ॥ ४ ॥
अस्माकमिहकर्तव्ये नाविश्वासो महीभृताम् ।
करवाम वयं यादृक् तथा सम्प्रत्ययेन्नृपः ॥ ५ ॥
एवं विश्वास्य कार्येषु परोक्षेण नराधिपः ।
पुनः पुनाततत्वस्तथ्यवित् स्थानिदेशिनाम् ॥ ६ ॥
( ५४ )
सन्त्येवं वहवो दुष्टाः कार्यार्थं साधुवृत्तयः ।
कार्य लब्धा सुविश्वस्ता जनयन्ति महद् भयम् ॥७॥
तस्मानियोज्य कार्येषु सर्वदादृष्टवृत्तिकः ।
भूयाद् येन सुविश्वस्ता जाततत्वा निराकुलाः ॥८॥
सत्यवृत्ता वञ्चका वा खकार्येषु नियोजिताः ।
इति ज्ञातुमना राजा नियम सञ्चरेदिमम् ॥ ६ ॥
परोक्षे तद्गृहे चारं प्रेषयन् प्रतिवेशिभिः ।
कार्योपयोगिनी बुद्धिरधिका वेति मन्यताम् ॥१०॥
अथवा गणिकागारे यूतागार मदालये ।
प्रेषयेत् तत्त्वमन्वेष्टुं मुविश्वस्तं चरं नृपः ॥ ११ ॥
आन्तरीणां हि वृत्तीनां यथावदवभासने ।
यथा कषोपलं हेमस्तथैतत् पदमीक्ष्यते ॥ १२ ॥
लोकानां वाक्यमात्रेण न जह्यात् खं निदेशिनम् ।
चरित्रमवगम्येत्य पालयेहा त्यजेत् पुनः ॥ १३ ॥
प्रायः प्रतिष्ठितं दृष्ट्वा विहिषन्ति जनाः सदा ।
चक्रवडा येन न स्यादचिरात् पदविच्युतः ॥ १४ ॥
गूढचारेण यः स्वामौ न तत्त्वं वेत्ति कार्यिणाम् ।
अचिरेणैव कालेन सम्पदः स च्युतो भवेत् ॥ १५ ॥
वहिः सवत्तिमालोक्य नविश्वासं समाचरेत् ।
प्रायशो वञ्चकाः पापा वहिः सवत्तिशालिनः ॥१६॥
( ५५ )
वञ्चका वादकुशला वागाड़म्वरतत्पराः ।
वञ्चयन्ति नरेशानं सदा मधुरभाषणैः ॥ १७ ॥
साधवो विफलालापविरता न्यायवादिनः ।
नाधिकाराय कल्प्यन्ते जड़वहोधिताः शठैः ॥ १८॥
गुप्तचारैण यः पश्येद् वृत्तं लोकस्य भूमिपः ।
साधून साधून विजानीयादृष्टान् दुष्ठान्नचान्यथा॥१६॥
गुणदोषी समालोक्य कार्यभारं समर्पयेत् ।
साधवे सत्यवृत्ताय दुष्टान् सन्ताडा यत्नतः ॥ २० ॥
सवृत्ते कार्यानिक्षेपो रत्नसंस्कारवत् क्षणात् ।
लभते परमां शोभां खामिनं भूषयत्यपि ॥ २१ ॥
कृत्वापि पदसंरूढ़ नित्यं नित्यं परीक्षयेत् ।
सद्वृत्तोऽपि धने लोभाद् दुर्वृत्तो जायते क्रमात्॥२२॥
सर्वथा गुणसम्पन्नो दुर्लभो विषयोत्सुकः ।
कार्योपयोगिनं तस्माद् गुणं दृष्ट्वा नियोजयेत् ॥२३॥
यं कुर्य्यादतिसम्पन्नं तस्मिन् सर्वं परीक्षयेत् ।
महाधिकारिणो दोषो महोपद्रवकारणम् ॥ २४ ॥
एकस्य वाक्यमादाय योऽन्यं ब्रूते नराधमः ।
तं त्यजेत् सूचकं राजा गुरुदण्डेन दण्डयन् ॥ २५ ॥
सर्पः क्रूरः खलः क्रूरः सात् क्रूरतरः खलः ।
कर्णमूले दशत्यन्यं हरत्यन्यस्य जीवनम् ॥ २६ ॥
परोचे कार्यहन्तारं प्रत्यचे प्रियवादिनम् ।
अमात्यं कार्य्यिणं वापि दासम्वा सन्यजन्नृपः ॥रणा
प्रत्यक्षे प्रखराभाषं परोक्षे कार्यतत्परम् ।
पालयेत् पृथिवीपालो जनमेवं न संत्यजेत् ॥ २८ ॥
प्रत्यक्षं प्रियंसम्भाषः परीचे कार्यतत्परः ।
दुर्लभो मानवो ह्येवं सर्वसम्पहिवईकः ॥ २६ ॥
ताड़ितोऽपि दुरतोपि यः प्रभु नावमन्यते ।
खदोषञ्चावलोकैत स वै भृत्योत्तमो मतः ॥ ३० ॥
यः प्रभु दैववत् पश्यन् यथानं साधयेत् कृतिम् ।
तव्यपालयन् यत्नात्तं विद्यात् पुत्रवन्नृपः ॥ ३१ ॥
नराः कुर्वन्ति कार्याणि प्रथमं भवसङ्खलाः ।
पुरातनाः सुविश्वस्ता निर्भयाः स्युभयङ्कराः ॥३२॥
यः केवलं स्वयं मुक्त स ज्ञातुं सुन्लभो भवेत् ।
मिलित्वा यस्तु संहर्ता दुर्विज्ञेयः स तस्करः ॥ ३३ ॥
नयेन वर्तनं पुंसां वर्द्धनं सुखसम्पदाम् ।
नौतिज्ञाश्चतुरश्रेष्ठाः कस्तान् वारयितुं क्षमः ॥३४॥
न केचिदिह संसारे धार्थ राजसेविनः ।
सर्व एव सुखाशंसाकर्षिता दास्ययोजिताः ॥३५॥
सर्वथा रक्षणं तस्माद् धनानां दुष्करं मतम् ।
अन्यान्यग्रहणाद्रक्षेद्राजामात्यादिसाधितात् ॥ २६ ॥
( ५७ )
सत्ये रतान् कार्य करांस्तेजीगाम्भीर्यभूषितान् ।
सन्तोषयेद्दनः प्रेम्णा कार्याथै पृथिवीपतिः ॥ ३० ॥
एवं नियुक्ताः पुरुषा यस्य पश्यन्ति सम्पदम् ।
स जौवेद दुष्टहस्तेभ्यो वहुधा कार्य्यिणाम्बलात्॥३८॥
अनुकूलानि मित्राणि भृत्या नित्यानुरागिणः ।
मन्त्रिणः कार्यतत्त्वज्ञा: सदा प्रभुहिते रताः ॥३६॥
परिपूर्णश्चिरं कोषो धनरत्नसमृद्धिभिः ।
प्रजाः स्वच्छन्दचारिण्यो नित्यहप्ता निरामयाः ॥४०॥
नौरोगो बलवान् देहः प्रिया कान्ता गुणोन्नता।
गुणिनां सन्निधिश्चैतन्महाभाग्यस्य लक्षणम् ॥ ४१ ॥
मण्डलनीतिः।
देशान् विभज्य नृपतियथावीर्य यथोदयम् ।
साध्यक्ष स्थापयेत् यत्नान्मण्डलं हि पृथक् पृथक् ॥१॥
खप्रभावं यदा राजा मण्डलेषु परीक्षयेत् ।
तदा शनैर्निजामाज्ञां चालयेत् सुसमाहितः ॥ २ ॥
मण्डलेषु कमप्यूर्जमादाय मंत्रयन् नृपः ।
प्रोत्साहयन् दानमानैर्विद्यात् सर्व तदाशयैः ॥३॥
एकमातापितं चस्यात् सुसिचं निरूपद्रवम् ।
पुनराजा विधातव्या क्रमादेवं सुमन्त्रणात् ॥ ४ ॥
एवं क्रमानमण्डलानां यदि स्यात् शिरसोनतिः ।
तदा विद्यान्नरेशानः खवीर्य छादकं नृणाम् ॥५॥
५८)
यदि केचिद् भवेन्नमा न परे सन्ति तादृशाः।
नमानादाय नमेषु योजयेत् पृथिवीपतिः ॥ ६ ॥
तीच्यामण्डलमध्येषु सुतीक्षा पातयन् बलात् ।
तत्र संयोजयेदन्यं य आज्ञाधीनतां व्रजेत् ॥ ७ ॥
खबलैः पोषयंस्तस्य राज्यं विज्ञातमण्डलः ।
दुष्टं संत्रासयेद्राजा साम्राज्यस्थितिलिप्सया ॥८॥
तस्मिन्नुपद्वं पश्येद यदि राजा विचेतसाम् ।
पुनः प्रेम्णा वशीकुर्यात् शान्तवृत्तः शनैः शनैः ॥६॥
एवं क्रमेण नमेषु राजसु चितिनायकः ।
एकैकमुडतं यत्नात् पातयेत् क्रमशो नृपः ॥ १० ॥
होनवीर्येषु राज्येतु मण्डलेषु नराधिपः ।
दासवञ्चालयन्नाज्ञां सुखमिच्छेदकण्टकम् ॥ ११ ॥
न रक्ष्यः शिष्टवत्तोऽपि मण्डलेषु महोज्जलः ।
स क्रुद्धो जनयेभौतिं कालान्मण्डलसम्वृतः ॥ १२ ॥
सत्सूदतेषु भूपेषु मण्डलं न वशं चरेत् ।
भवज्ञातं चरेत्तेषामाश्रयं स्वजनैतम् ॥ १३ ॥
मण्डले सैन्यशस्त्रादि तावद्रक्षितुमादिशेत् ।
एक हयं त्रयम्वापि मिलित्वा न हरेत् श्रियम् ॥१४॥
एकहित्रादिसंयोगः प्रायशः मुलभो नृणाम् ।
सर्वेषां मेलनं लोक बहुयत्नेन साध्यते ॥ १५ ॥
( ५६ )
सर्वे यदि समुद्युक्ता नृपं हन्तुं समुद्यताः ।
किं कुर्यात् सैन्यशस्वादि श्रियं विद्याञ्चचञ्चलाम्॥१६॥
तावत् शिक्षा मण्डलानां बलेषु विनियोजयेत् ।
नचातिवर्त्तते खोयं बलं बलविभूतिभिः ॥ १७ ॥
औन्नत्यादिविधानेन तथा कार्य खमण्डलम् ।
परस्परजिगीषायैर्येन रुष्टं परस्परम् ॥ १८ ॥
तथारोधो विधातव्यः परस्परसमीक्षणे ।
येनैक्यं भजतां तेषां क्रोधो न स्याद् भयावहः ॥१६॥
महाशस्त्रं महादुर्ग महारत्नं महापदम्
बलाहा कौशलात् प्रोत्या सव्वं ग्राह्यं खमण्डलात्॥२०॥
व्यापन्नानां मण्डलानां बालमादाय भूमिपः ।
पालयेत् शिक्षयेद्यत्नाद येन स्यात् स सुनौतिमान् ॥२१॥
स्वयत्नात् शिक्षितो ह्येष खजनैः खमतग्रहः ।
तिष्ठेत् खानाकरो नित्यं दासवन्मण्डलात्मजः ॥२२॥
चिरं तद्राज्यरक्षार्थं स्थापिता मानवा निजाः ।
तद्राज्यगतवृत्तान्तमवगच्छन्ति तत्त्वत: ॥ २३ ॥
मण्डलानां विलोकाथै कार्याणां धरणीपतिः ।
संयोजयेज्जनं स्वीयं ससैन्यं कार्यतत्परम् ॥ २४ ॥
न चिरं स्थापयेत् कञ्चिन्मण्ड लानामवेक्षणे ।
मिलित्वा सोऽपि कालेन भयमुत्यादयेत् क्वचित्॥२५॥
PERMANADASHIO
Rhines
( ६० )
मण्डलं वईयेद् दासैः शिष्टैः कार्यमुसाधकैः ।
प्रीत्या दानेन मानेन यदीच्छेत् शिवमात्मनः ॥ २६ ॥
अवक्ष्य कार्यसम्पातं मण्डलं वईयेन्नृपः ।
येन कार्य सुमिध्ये त् खं न पुनर्जेतुमर्हति ॥ २७ ॥
रक्षयेत्तै रणाङ्गानि स्वायत्तानि प्रयत्नतः ।
कार्यकाले फलं दद्युः क्रोधे नाईन्ति पातने ॥ २८ ॥
मण्डलं पोषयन् राजा स्ववीयं न परित्यजेत् ।
सुप्तसिंहमुखे किं न निर्भयं मक्षिका विशेत् ॥ २६ ॥
न कायं मानवृयादि केवलं विभवं विना ।
किं कुर्यान्मित्रभावेऽपि होनदंष्ट्रनखो हरिः ॥ ३० ॥
कुलेन यशसा पुष्ठा नावमान्याः कुलादिषु ।
तेषां नाशे किमिष्टं खमधिकः शत्रुतोदयः ॥ ३१ ॥
तस्माद् यथायथामाना यथाधर्मा यथोदयाः ।
रक्षितव्याः प्रयत्नेन येन य: सुखमर्हति ॥ ३२ ॥
वशीभावेऽपि नैकत्र मण्डलं मेलयेन्नृपः ।
परोचाट्परोक्षेण व्यवहारो भयङ्करः ॥ ३३ ॥
परोचे मेलनं चारैर्वहुयत्नेन साध्यते ।
क विश्वासो नरेन्द्राणां होनेषु हितवादिषु ॥ ३४ ॥
मण्डलं प्रौणयेन्नित्वं तेजसाच्छादयेत् सदा।
खाधिकारप्रदानेन निजाज्ञावशवर्त्तिना ॥ ३५ ॥
( ६१ )
भौषयेत् सैनिकमध्ये स्थापितैस्तीक्षापातनैः ।
नित्यं रणविधिप्रनित्यं शिक्षाहवोत्सुकैः ॥ ३६ ॥
तीक्षादण्डान्वितैर्नित्यं नित्यं प्रणयरञ्जितैः ।
समानैर्जातितो धौर्देशव्यवसितादिभिः ॥ ३७॥
क्रमान्मुख्यैरिदं ज्ञात्वा सैनिक योजयेन्नृपः ।
सर्वधर्माविरोधेन यः स्यात् पालनतत्परः ॥ ३८ ॥
सैन्यशिक्षासमातुष्टो गच्छन्नेव कृतार्थताम् ।
खयं नित्यं प्रकुर्वीत शिक्षां निस्तन्द्र निर्भयः ॥ ३९ ॥
खबञ्चत् सम्मुखासीमः कुर्थात् कार्य स्वसैनिके ।
वईन्तेऽतीववी-णि प्रभुवीर्यसभाश्रयात् ॥ ४० ॥
सहसाऽऽक्रमणे शतो न भवेद् दुष्टमानसः ।
व्यसनं न नवालस्यं जायते वीर्यशालिनाम् ॥४१॥
सर्वदा चालयेत् सैन्यं न चिरं स्थापयेत् क्वचित् ।'
चालनाईते वीर्य स्थापनादौनवीय्यता ॥ ४२ ॥
नियमाच्चालितं सैन्यं शत्रुहन्मईकं भवेत् ।
शतं करोति कार्याणि लक्षाणामपि दुष्करम् ॥४३॥
महामण्डलमध्ये च खराज्ये वान्यराज्यके ।
नदीपर्वतसिधूनां नगर स्थापयेत् तटे ॥ ४४ ॥
बलाद् दानात् सख्यतो वा स्वजनं स्थापयंस्ततः ।
नानोपायैर्विजानीयाल्लोकानां वृत्तिवैभवम् ॥ ४५ ॥
( ६२ )
वाणिज्यं कई ते तस्माद् बुद्धिवीर्य्यप्रदं नृणाम् ।
वाणिज्यादईते लक्ष्मी१ष्कृिया च विनश्यति ॥ ४६ ॥
मम प्रीतिकराः सर्वे मम सन्तानवत् प्रियाः ।
स्थाप्या मयैव दुःखेषु मयैवाः सुखोदये ॥४७॥
अपेक्षमाणा महक्कं हानी लाभे च नित्यशः ।
एवं विद्वान् नरेशानो जात्यादौन्न विचालयेत् ॥४८॥
दुर्लभो मन्त्र कोह्येवं प्रायो लोका वहिर्मुखाः ।
अनासक्ता महात्मान एको राजा किमाचरेत् ॥४६॥
मन्विणो देवलोके च गान्धर्वे कैनर तथा ।
ऋषयो मुनयः पूज्या लोकतत्त्वार्थकोविदाः ॥ ५० ॥
ये लोका नित्य निर्भीका नित्यप्तिपरायणाः ।
मण्डामण्डनभावेन प्रसन्ना नित्यसौहृदाः ॥ ५१ ॥
इन्द्रानिलयमादित्वं भुञ्जते निरूपद्रवम् ।
दुराक्रम्या महादुर्गेहिमगिर्यादिकल्पितैः ॥ ५२ ॥
यो मण्डलमहाप्रीत्या प्रजारचनतत्परः ।
निष्कण्टकं महाराज्यं स भुनक्ति नराधिपः ॥ ५३ ॥
यो मण्डलं होनबलं सर्वथा कुरुते नृपः ।
सोऽचिरेणैव कालेन भ्रष्टराज्यो विनश्यति ॥ ५४ ॥
चेन्मण्डलं होनबलं भुजङ्ग व निर्विषः ।
विपत्ती कः सहायः स्यादेको राजा किमाचरेत्॥५५॥
( ६३ )
यन्मण्डलं निजाचारादनासक्त विरोधकृत् ।
यत्नेन शमयेद्राजा शिक्षया वापि यत्नतः ॥ ५६ ॥
मेलयन् मण्डलं मानैः सादरैर्विनयाक्षरैः ।
आचार्यवत् प्रियं शिष्यं सशिक्षा मित्रतां नयेत्॥५७॥
सर्वत्रास्ति परा मैत्री किन्तु साध्या प्रयत्नतः ।
सर्वे यदि निरापन्नाः क विरोधः सुखात्मनाम् ॥५८॥
क्रूरता शठता खार्थजीविता मूढ़ता तथा ।
केवलं विषयामक्तिः कथं कुर्याद् वशे जनम् ॥ ५ ॥
न नरः केवलं राजा लोकविष्णुः सनातनः ।
स कथं भ्रष्टराज्यः स्यात् खांश जीवति सर्वतः ॥१०॥
ये तामसीमुपादाय प्रकृति भीगतत्पराः।
कथन्ते पृथिवीशत्वं भजन्ते खल्पसाधनाः ॥ ६१ ॥
यथापुण्यं तथाभुक्ता तमः प्रच्छन्नमानसाः ।
निपतन्ति महाघोर पुनः सन्तापसागरे ॥ ६२ ॥
सुखसच्चारयोग्यासु मण्डलान्तरभूमिषु ।
संस्थापयेन्नृपो यत्नात् खसैन्यं वीर्य सङ्गुलम् ॥ ६३ ॥
न कार्यो मण्डलोच्छेदः कदाचिदपि भूभृता ।
होनवीयं विधायैतत् पालयेत् पृथिवीपतिः ॥ ६४ ॥
मण्डलस्य परिच्छेदे यावत् संरक्षणं नयात् ।
नैकसाध्यं भवेत् कच्चित् कृत्वा यत्नशतान्यपि ॥६५॥
( ६४ )
एकस्य शासने चेत् स्यात् सर्वेषामिहशासनम् ।
कः शासनं समस्तानां कामयेत महीपतिः ॥ ६६ ॥
सामन्तहीनं राज्यञ्चेत् केवलं प्रजया वृतम् ।
साम्राज्यलक्ष्मी: कस्याग्रे भूषिता परिशोभते ॥६॥
सामन्तानामभिच्छेद निर्भयः पृथिवीपतिः ।
भोगं कामयते नित्यं यो भोगः सर्वनाशकृत् ॥ ६८ ॥
प्रयोजनं न सैन्यानामालस्यं तिष्ठतामपि ।
अन्याक्रमणमात्रेण इतराज्यो भवेन्नृपः ॥ ६६ ॥
मण्डलविभागः।
द्विविधा माण्डली नीति: खराज्यपरिरक्षणे ।
एका नित्यानवाङ्गीयं द्वितीया स्थिररूपिणी ॥१॥
यदायदाधिपत्यं स्यात् तदाकारप्रवर्तिनी।
वाद्येन व्यवहारण नवांगौयं विकाशते ॥२॥
एषा सम्भोगसन्तृप्ता वश्यं कृत्वा नराधिपम् ।
शोकमोहमयैनित्यं सभयं माधयेत् क्रियाम् ॥३॥
अपूर्वपरविज्ञानसन्धानपरिवर्जितः ।
तात्कालिकाभीगरक्तो वञ्चितो बिधिना नृपः ॥ ४ ॥
राज्यमेतन्नरेन्द्राणां बहूनां भाग्यवैभवैः ।
तदेको योऽस्य संहर्ता स पापात्मा कुलाधमः ॥ ५ ॥
द्वितीया चिरसंस्थानवेशभूषणरजिता ।
दौ नेवगूढ़संमक्ता चिरानन्दमयी शुभा ॥६॥
( ६५ )
एषापि द्विविधा या वौव्यसत्ताभियोगतः ।
यथादेशं यथापात्रं यथावीयं यथाकुलम् ॥ ७॥
राजसत्वेन वीर्यस्य कदाचिद् यदि वा भयम् ।
सत्वान्नमल्यविज्ञानैहितीया चिरजीविनी ॥८॥
राजसेनैव भावेन कदाचिदपि सिध्यति ।
साम्राज्यं किन्तुनै_राद्राज्यमेतन्महापदम् ॥ ८ ॥
साम्राज्ये सततं भीति त्रभौतेः कणोदयः ।
उचिताचाररतस्य को बलाइन्तुमिच्छति ॥ १० ॥
महासत्वोद्भवो यस्मिन् काले लोकस्य भाग्यतः ।
साम्राज्येऽपि तदा सत्वमन्यथा तीक्षाता सदा ॥११॥
नानारूपोत्र जगति सदावार्थपरायणे ।
सहसा को भवेद्देवो यदाज्ञावशताञ्चरेत् ॥ १२ ॥
साम्राज्यादपि संसिद्धिर्जायते मण्डलास्पद ।
साम्राज्यं कालतो नश्येन्मण्डलं सहसा न तु ॥ १३ ॥
महासत्वव्यवहारः ।
कार्य्यिभिः साधयेत् कार्य सर्वदा खार्थलोकनैः ।
निर्विरोधः सदा धरूय्य तेक्षणसमाकुलैः ॥१॥
आपत्सु विनयैर्दानैः शाठ्यै भक्त्या दयादरैः।
मार्जार इव प्रच्छन्ननखः स्पर्शप्रियः सदा ॥ २ ॥
स्पष्टतो न प्रसादं खं वहुधा न कदा वदेत् ।
गूढभङ्गया
चरेत कार्य येनात्मा नावकृष्यते ॥३॥
यो वेत्तेगितलेशेन बुड्डा भावं प्रसन्नधीः ।
न्यायचारी क्रियादक्षः एष मित्रं शनैः शनैः ॥ ४ ॥
ये तेन मोहसम्पन्नाः स्वार्थसाधन कामुकाः ।
ते मूढ़ा दासवत् पाल्या भयोत्साहादिभीषणैः ॥५॥
मण्डलप्रीतिः ।
यथाधिकारो यस्यास्ते तस्य तं सर्वदर्शने ।
निधिं शाठ्यनिौकात् योजयेत् पृथिवीपतिः॥१॥
सुशासनैर्धनैर्माने राज्यैः सम्वईयेत् प्रभुः ।
प्रशासने तदीयानां मतं नीत्वा विभौषयेत् ॥ २ ॥
कर्तव्ये कार्य्यमात्रे च मण्डलैः सह मन्त्रयेत् ।
नो वञ्चयेद् भीषयेहा प्रौणयेत् प्रियमित्रवत् ॥ ३ ॥
सवुद्धया योजयेन्नित्यं व्यसनादुद्धरेत् सदा ।
कुर्यात्वाणं विपत्पाते सम्पत्ती प्रीतिमाचरेत् ॥ ४ ॥
एवं कृत्वा महौशानो मण्डले कुशलां धियम् ।
इन्द्रत्वं लभते लोके निरावाधं सदोदयम् ॥ ५ ॥
लोकपीड़ादोषः।
प्रजा मज्जन्तु दुःखेषु निराहारा निराश्रयाः ।
राजकोषोऽस्तु सम्पूर्णौ रत्नैः शस्यैर्धनैः सदा ॥ १ ॥
यस्यैवं दुर्मते राजः स्वार्थभ्रान्तिरता मतिः ।
सोऽचिराद्राज्यविधष्टो महादुःखे निषौदति ॥ २ ॥
( ६७)
-
सर्वेषां रञ्जको भूयाद् यदि राजा सुमार्गगः ।
यथा तथास्तु यत् किञ्चित तत् सर्व धरणीभृतः॥३॥
लोकले शेन चेत् पूर्मः कोषो नासौ फलप्रदः ।
न धनं राज्यरक्षार्थ लोका राज्यस्य रक्षकाः ॥ ४ ॥
सर्वेषां प्रभुताबुद्धिः सर्वभोगस्य भोगिता ।
एतद्राज्यफलं राज्ञां न शाठ्यं न धनार्जनम् ॥ ५ ॥
राज्यरक्षोपायः ।
नदीपर्वतकान्तारमादिषु विचक्षणः ।
मार्ग संसाधयेदेवं येन सैन्यं सुखञ्चरेत् ॥ १ ॥
न रक्ष्यं तादृशं स्थानं यत्र यानं सुदुष्करम् ।
यत्तिष्ठेद् दुर्गमं स्थानं तदेव भयदं क्वचित् ॥ २ ॥
अन्यसाम्राज्यलोकानां न दातव्यं पदं क्वचित् ।
यदि दद्यात् तदा रक्षेद् विषयं सुसमाहितः ॥ ३ ॥
वाणिज्यार्थं विलोकार्थमन्यार्थम्वा य आगताः ।
तेषां द्रव्याणि कार्याणि गूढचारैः परीक्षयेत् ॥ ४ ॥
परीक्ष्य वजनाप्य तेषां कार्य समाप्य च ।
निष्काशयेत् खराज्येभ्यो राजग्राह्यं समाददत्॥ ५ ॥
दुश्चेष्टितं विलोक्येत यदि तेषां लवादपि ।
सर्वस्वमाददद वीर्य्याद गुरुदण्डेन दण्डयेत् ॥ ६ ॥
राजवृत्तिः प्रजात्तिर्वत्तिः सांग्रामिकस्य च ।
गुह्यस्थानं तथा शस्त्रं गोपनीयं प्रयत्नतः ॥ ७ ॥
HTRASSMS ( ६८ ) नानावृत्तिधरा: क्रूरा विषयच्छिद्रदर्शिनः । भ्रमन्ति सततं राज्ये तत्त्वान्वेषणतत्पराः ॥८॥ विशृङ्खलस्य राज्यस्य यदि तत्त्वं न गृह्यते । नाक्रमन्ति महान्तोऽपि हौनवीर्य नगधिपम् ॥ ६ ॥ सर्वे सर्वाङ्गसम्पन्नाः सर्वे विषयभोगिनः । वृत्तिरेव मनुष्याणां बईका नाशका श्रियः ॥ १० ॥ वृत्त्या सजायते वीर्य वृत्त्याऽऽलस्यं प्रजायते । गोपनीया प्रयत्नेन तस्माद् वृत्तिर्महीभृता ॥ ११ ॥ आरण्याः पार्वता वापि ये क्रूराः खरवृत्तयः । सर्वदैव शङ्कनीयास्त कालाद्राज्यहारकाः ॥ १२ ॥ सिंहव्याघ्रादिहिंसेग येषां वृत्तिनिरन्तरा । ज्ञातव्या कठिना वृत्तिस्तेषामेव रणाङ्गने ॥ १३ ॥ ये भोगिनः शान्त वृत्ताः कार्याकार्यविवेचकाः । तेभ्यः कदाचिन्न भयं राज्ञः संग्रामभूमिषु ॥ १४ ॥ यावहिवईते विद्या हिताहितविवोधिका । तावद् विज्ञायतां धीरै राजलक्ष्मीरचञ्चला ॥ १५ ॥ यावन्मूढ़ा दस्युवृत्ता वर्धन्ते निर्भया नराः । तावद् विज्ञायतां लक्ष्मीश्चञ्चलेयं नृपालये ॥ १६ ॥ महादस्युर्मतो राजा यो वौर इति गीयते । अन्यथा किं प्राणनाशाद्राज्यहारी स्त्रियं हरेत् ॥१७॥ ।
( ६६ )
यावत् कठोरवृत्तिः स्याद्राजा तीक्षाानलोपमः ।
वीरप्रियेयं धरणी तावत्तस्य वशं चरेत् ॥ १८ ॥
भाा वा तनयो वापि गुरुर्वा मित्रमेव वा ।
राजविद्रोहिणो बध्या नैव कार्या विचारणा ॥१६॥
सर्वेषां प्राणसंहारात् सर्वाकौतः प्रसाधनात् ।
सर्वपापसमायोगाद् राज्यं ग्राह्यं महीभृता ॥ २० ॥
सम्प्राप्ते पृथिवीशत्वे वायशः कापि कल्मषम् ।
लब्धा राज्यं विधातव्यो विचारो लोकरञ्जनः ॥ २१ ॥
मेलने दुष्टवृत्तीनां शिष्टाघातमाचरेत् ।
बुद्धिसम्प्रेरिते वीर्ये जायते सुमहद् भयम् ॥ २२ ॥
सीमायां दृष्टिरत्युग्रा विधातव्या प्रतिक्षणम् ।
जले वा पर्वते वापि कान्तार वा मरौ तथा ॥ २३ ॥
शृणुयान्न बच: कस्य प्रलोभनपरं क्वचित् ।
काय्य मात्रेषु भूमीशो दोषमये विचारयेत् ॥ २४ ॥
विचार सर्वथा पश्येत् प्रमाणानि विचक्षणाः ।
विचार्य दण्डयेद् योग्यं न भीतो न कृपापरः ॥२५॥
विचारेषु तटस्थः सन् निीयोक्त दिशा नृपः ।
उचितं दण्डयेट् दण्डयान् न कुर्य्यस्ते यथा तथा॥२६॥
आज्ञामुल्लंघयेट् यस्तु स्वल्पम्वा बहुलां च वा ।
तीक्षादण्डेन संदण्डयः स न चात्र विचारणा ॥२७॥
सम्पत्ती
वा विपत्ती
( ७० )
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डो जागर्ति सुप्तेषु दण्ड धम्म विदुर्बुधा: ॥ २८ ॥
अपराधिवचः साक्षिवचः श्रुत्वापराधिनः ।
विश्रुतिञ्चावगम्य स्वां भतिं दिव्यां समाश्रयेत् ॥२६॥
शिरसः पातनं हन्तुश्चौरहस्तविकतनम् ।
एवं यथा यथा पश्येत्तथा कुर्य्यादनातुरः ॥ ३० ॥
लोकानां कार्यदृष्ट्यर्थं सर्वेषामनुमोदनात् ।
विचारकान् ग्राममुख्यैर्जातिमुख्यैर्विचारयेत् ॥ ३१ ॥
वा कर्त्तव्यविधिनिश्चये।
मण्डलैर्देशमुख्यैश्च विचार्य कृतिमर्जयेत् ॥ ३२ ॥
सर्वेषां सम्म ते कार्य न कश्चिद् देषमर्हति ।
अकार्यमपि नो क्लेशं जनयेत् सर्वसम्मतम् ॥ ३३ ॥
विड्वाहिनं समारभ्य यावदुन्नतमण्डलम् ।
सर्वेषामधिदेवोऽस्ति सर्वे यन्मतगामिनः ॥ ३४ ॥
ते सर्वे यदि कार्येषु सहायाः स्युमहीभृताम् ।
सर्वेषां लोकसङ्घानां रञ्जनं सुलभं भवेत् ॥ ३५ ॥
यासु जातिषु यत्कायं तासां मुख्यैस्तदाचरन् ।
नाकात्तिं भजते भूभृद विचारसमुद्भवाम् ॥ २६ ॥
न कश्चित् सब जातिस्थकल्याकृत्यमतौ क्षमः ।
अज्ञानात् साधितं कायं न कदाचित् सुसिध्यति॥३७॥
( ७१)
दुर्लक्षणानि ।
भुक्तभोगं होनवीर्यमलसं वार्द्धषे पतिम् ।
त्यत्ता नवं कामयते पृथ्वीयं स्थिरयौवना ॥ १ ॥
येन कृत्वा शिरश्छदं तपसाराधितो हरिः ।
वौरः स साहसी वीाल्लभते पृथिवीमिमाम् ॥ २ ॥
प्रचला चञ्चला यत्र तत्र नित्यं विलोक्यते ।
राजाऽलसो भोगसतो व्य मनी दुष्टसम्वृतः ॥ ३ ॥
टुष्टाः प्रोत्साहदानेन वई यन्ते दुराशयम् ।
धनं हरन्ति कायस्था निर्भयाः कार्यतत्पराः॥ ४ ॥
राज्यं विचारहीनं स्यात् सर्वे स्युः प्रभवो जनाः ।
शाठां चौयं बलात्कारो दुर्वृत्तं बईतेऽनिशम् ॥ ५॥
सभायां दर्शको नास्ति राजा दुष्टैरलङ्कृतः ।
प्रजा उत्कण्ठिताः सर्वा राजविद्दषणे रताः ॥ ६ ॥
नाप्यते राजसंग्राह्यो भागो नाप्यभिमन्यते ।
व्यसने स्थायिनाशेन न्याय्यानामग्रहेण च ॥ ७॥
शून्यकोषान्न दीयन्ते समये वेतनादयः ।
साट् वृत्तयो जनाः सर्वे त्यजन्ति नृपमुद्दतम् ॥ ८ ॥
टुबत्तास्ते प्रवर्तन्ते राजग्राह्यं हरन्ति ये ।
यानासनच्छत्रदण्डरत्नं यत् तत्र वर्त्तते ॥ ६ ॥
सज्जना नाभिगच्छन्ति दुष्टा हि भयसङ्गुलाः ।
न बदन्ति हितं किञ्चिद् ये दुष्टा ग्रासकारिणः॥१०॥
( ७२ )
स्त्रियो भवन्ति प्रवला विद्द पिण्यः स्वभावतः ।
हरन्ति स्वामिनः प्राणान् प्रायशो दुष्टसाधनैः ॥११॥
जीवेट् यदि करात्तासां हतवीर्यो हतप्रभः ।
निर्वान्धवः सैन्यहीनो निर्धनो निर्णयो नृपः ॥ १२ ॥
उच्छृङ्खला जनाः सर्वे दुष्टैर्दुष्टतमा भृशम् ।
कामयन्तेऽन्यभूपालं कृत्वा साहाय्यमुत्तमम् ॥ १३ ॥
अन्यैर्वा खसामरिकलादाक्रम्यते यदा ।
तदेवोत्सायं ते राजा वात्ययेव तृणं यथा ॥ १४ ॥
यत्रैव राज्यनाशोऽभूद् भावी वा धरणीभृताम् ।
तत्र राजा भोगसतो विषयानीक्षकः सदा ॥ १५ ॥
एवं चिन्हं विलोक्येत यस्य राज्ये समुद्गतम् ।
स राजा सत्वरं नश्येन्नौतिजैरनुमीयताम् ॥ १६ ॥
सन्मन्विभिनयपरः कार्याकार्यविलोककः ।
यदि स्याद् भूपतिनित्यं कस्तद्राज्यं हरेत् पुनः ॥१७॥
राजमौर्ये कर्तव्यानि ।
जड़श्चेद् भूपतिर्भूत्वा न न्यायाद्रक्षितुं क्षमः ।
स्वकार्य धीरवृन्देषु न्य सेद्राज्यस्य रक्षणे ॥ १ ॥
खाजानदर्शनं पुंसां न जायेत कथञ्चन ।
साहङ्कारा जनाः सर्वे वस्वामिज्ञानसम्पदि ॥ २ ॥
विशेषतो नरेशानो मदोन्मत्तो विभूतिभिः ।
निकृष्टं खं विजानीयात् कथं खजनसंसदि ॥ ३ ॥
Halified
( ७३ )
सदा तोषकरैयुक्तो नित्यं भिक्षुभिरचितः ।
न दासस्तूचितं वक्तुं समर्थ: स्यात् कथञ्चन ॥ ४ ॥
यथा विभेति मूढ़ाडि न तथा ज्ञानिनो जनः ।
मूढ़ो मदोडतो नित्यं ज्ञानी न्यायान्न रोषभाक् ॥५॥
अन्यैश्चेत् कथितात्मास्याद विश्वासन भजेत् क्वचित्।
परं क्रोधपरो भूत्वा दण्डयेद् दोषवादिनः ॥ ६ ॥
तस्माद्यथाऽन्यकायार्थं जनान् संयोजयेन्नृपः ।
तथा ह्यात्मविवीधार्थ धौरान् रक्षेत् सभाजनम् ॥७॥
यः पूज्यते जनै रामः पूर्णब्रह्मखरूपतः ।
सोऽपि राजपदासको जनैर्दोषं व्यलोकयत् ॥ ८॥
तस्मात् खदोषं विज्ञाय शमयेत् पृथिवीपतिः ।
अन्यथा धौरवृन्देषु राजकार्य विनिक्षिपेत् ॥ ६ ॥
न क्षिपद्यदि वा कार्य मदोन्मत्तो विमागंगः ।
सर्वे मिलित्वा तं दुष्टं पातयेयुपासनात् ॥ १ ॥
लोकानां रञ्जनार्थाय राजा सृष्टोऽभिरक्षिता।
स चेतस्मिन्ननासक्तः कथं राजति गीयते ॥ ११ ॥
ऋषिभिः पातितः पूर्वं वेणनामा दुरात्मवान् ।
यः पूर्वं मोहसम्पन्नो लोकानां तापकोऽभवत् ॥१२॥
पुनः खाम्ये महातेजास्तत्संसय॑थवा परः ।
योजनीयः प्रयत्नेन प्रजाभिः क्षेमसिद्धये ॥ १३ ॥
( ७४ )
यत्रैवं सुस्थितिः पुंसां तत्र राज्यं न नश्यति ।
न्यायमार्गों जनान् सर्लान् वशे कुहिलादिह॥१४॥
राजवंशे भवेद्राजा मूढ़ो वा दुष्क्यिारतः ।
यत्रैवं संस्कृतिः पुंसां तत्र राज्यं विनश्यति ॥ १५ ॥
दुष्टो दुष्टैः समासक्तः शिष्टाः सन्तापतापिताः ।
विपत्तौ दुर्लभस्त्राता लोका दुर्नयदुःखिताः॥ १६ ॥
गुणरक्षादि।
नृत्यं गीतं तथा वाद्यं काव्यं शिल्पं वणिक्रियाम् ।
वाचालवं भण्डवृत्तिं व्यवहारेन्द्रजालिके ॥१॥
मल्लयुद्ध धनुर्विद्यां वक्तृतां कास्नैपुणम् ।
यत् किञ्चिदपि जानन्ति ये भवे नैपुणोत्थितम् ॥२॥
खनैपुण्यवशं कर्तुं ते सर्वे पृथिवीपतिम् ।
कामयन्ते सदा खेच्छाहानी विहेषमागताः ॥ ३ ॥
क्रूरोऽयं कृपणो दुष्टो ह्यगुणज्ञो मदालसः ।
एवं नानाभिलापेन दूषयन्ति महीपतिम् ॥ ४ ॥
तस्माद् यत्र महोपालो यत्र वीक्षेत गौरवम् ।
तं तथा पालयेत् प्रीत्या सर्वभोगकरो हि सः॥ ५ ॥
यतो यतोऽभिगृह्येत कुलतो देशतोऽपि वा ।
ततः स परिगृह्यत गुणवान्न विचारयेत् ॥ ६ ॥
दूषणादिह निर्याति पालनादईते गुणः ।
राजैव गुणदोषाणां पालको नाशकस्तथा ॥ ७॥
( ७५ )
।
गुणो यत्र मतिस्तत्र मतियंत्र धनं ततः ।
धनं यत्र सुखं तत्र तस्मात् पाल्यः सदा गुणः ॥८॥
न्यायानुरोधि तत्तेजः सहनीयं महीभृता।
गुणवानपि सन्त्याज्यो यदि न्यायान्न वर्त्तते ॥ ६ ॥
असन्तोषी रुचभाषी चपलः सूचकस्तथा ।
प्रभुशक्तिविनाशी च गुणवानपि हौयताम् ॥ १० ॥
वाणिज्यकृषिसंग्रामशिल्पकार्यजतादिषु ।
वुद्धात्साहकुलं दृष्ट्वा योजयेत् पृथिवीपतिः ॥ ११ ॥
निर्भयाध्यवसायस्थं वाणिज्ये विनियोजयेत् ।
मूढं ले शसह तहत् कृषिकर्मणि योजयेत् ॥ १२ ॥
शूरं साहसिकं तीक्ष्णं संग्रामे परिचोदयेत् ।
दुर्व्वलं स्थिरदृष्टिश्च शिल्पे सम्पालयेन्नृपः ॥ १३ ॥
बुद्धिमन्तं शठं कौलं व्यवहार नियोजयेत् ।
भोगे व्यसनिनं रक्षेद् ये तत्तत्त्वविलोककाः ॥ १४ ॥
धार्मिकं कुलजं धीरं वृद्धं सव्व प्रियं नृपः ।
महाधिकार संरक्षेद् यः सर्व परिपालयेत् ॥ १५ ॥
खधर्मो परधर्मे वा धर्मनिष्ठः प्रशस्यते ।
न हि धर्मरतात् कच्चिद् भवन्ति परमापदः ॥ १६ ॥
येषाम्मतेऽन्यधर्मोषु निरताना विनाशनात् ।
धर्मः सञ्जायते तेषां नाशनम्वापि ताड़नम् ॥ १७ ॥
( ७६ )
सा बुद्धिरथवा नाश्या वल कौशलयुक्तिभिः ।
अथवातिप्रीतियोगैनिःशाष्यं पालयेदितान् ॥ १८ ॥
सर्वेषामेकधर्मित्वसाधनं दुष्करं नृणां ।
देशकालस्वभावादिभेदासम्मः शुभावहः ॥ १६ ॥
विहेषण विना मुष्टिनं तिष्ठति कदाचन ।
तम्माविचित्रता वृत्तेर्तेया खाभाविको बुधैः ॥२०॥
यदि सर्व गुणैर्युक्तो नास्तिको न महीभृता ।
विश्वास्यः प्रवले कार्ये नाकार्य तस्य विद्यते ॥२१॥
समयं प्राप्य दुष्टात्मा खार्थसाधनकारणम् ।
कामोऽखिलं कर्म न भयं तस्य विद्यते ॥ २२ ॥
याबद्दण्डभयं तस्य तावत् तिष्ठेदशे स तु ।
तस्य नाशे प्रभोः प्राणान् हन्तं स्वच्छन्दतः प्रभुः २३॥
खार्थसता जनाः सर्वे यदि स्युधार्मिकाः पुनः ।
सर्वथा खामिनिपीते भीताः स्युः परलोकतः ॥ २४ ॥
तस्करी धार्मिको ग्राहः सत्यवादी न नास्तिकः ।
पन्त तो भवेदिधर्मानिर्भयान्तरः ॥ २५ ॥
पालयेन्न तथा कञ्चिद् भृत्यामात्येषु भूमिपः ।
यस्मिन सम्पालिते लोकः श्रद्धाहीनः प्रजायते ॥२६॥
खविचार गुणान् दोषान् द्रष्टुं धौरानियोजयेत् ।
सत्योक्तावभयं दत्वा शृणुयात् कार्यमात्मनः ॥२७॥
( ७७ )
तथादिशेत् प्रजासङ्घ गुणदोषनिरीक्षणे ।
वञ्चनीयो न वा स्वामी यथा तैस्तत्ववेने ॥ २८ ॥
प्रायशो मानवाः सर्वे भयाल्लोभान्महीपतिम् ।
श्रावयन्ति हितां वाती गोपयन्ति च टूषणम् ॥ २६॥
स्वराज्ये सन्ति यावन्ति सत्कम्माणि महीभृता ।
पालनीयानि यत्नेन मानदानादिसम्पदा ॥ ३० ॥
अन्यत्र यदि लभ्येत गुण: सम्पद्विवई नः ।
आदेयः सादरं राजा कृत्वा यत्नशतान्यपि ॥ ३१ ॥
विशेषतः सामरिक कौशलं यत्र दृश्यते ।
तदादेयं प्रयत्न न राज्यानां जीवनं हि तत् ॥ ३२ ॥
नियोजयेज्जनान् नित्यं समरद्रव्यसाधने ।
खल्ये लाभे महादानमचैव शुभदम्मतम् ॥ ३३ ॥
नित्य सुशिक्षयेद्राजा सैन्यं खम्वक्रियासु च ।
प्राणाधिकं विलोकेत तोषयेदर्पणादिना ॥ ३४ ॥
शिक्षणीयाः प्रजा: सर्जा नियमाद्रणकौशलम् ।
येन कार्याभिपतिताः सर्वाः स्युः समरीत्सकाः ॥३५॥
धनुः खड्गाग्निशम्वाणि कुन्ताः परशुपट्टिशाः ।
अभिरक्ष्याणि सर्वाणि शिक्षणौयानि यत्नतः ॥ ३६॥
विलोक्य बलवुद्धयादि शिक्षयंस्तानि मानवान् ।
विभज्य सैनिकान् कुर्य्याच्चतुरान् सर्वशस्त्रिगाः ॥३०॥
( ७८ )
दूर शस्त्राग्निवाणादेः समरः सन्निधौ पुनः ।
खड्गादेवालनं विद्याद विजयाय महीभृताम् ॥३८॥
दोषेऽपि सहसा सैन्यप्राणान् हन्यान्न भूमिपः ।
दण्डयेत्तीक्षा कार्येण यथावीयं प्रवईते ॥ ३९ ॥
एवं महत्तरं हन्यात् सहसा न महीपतिः ।
महान् हि प्रायशो बुद्धया न दोषेषु निमज्जति ॥४॥
यस्य नाशे महानिष्ट स न नाश्यः कथञ्चन ।
तिरस्कार्यो दण्डनीयो यथाऽमौ न प्रवर्तते ॥ ४१ ॥
सदा के शसहं कुर्य्यात् खसैन्यं वमुधाधिपः ।
गिरिदुर्गममक्षेत्रे साधयेत् सततं क्रियाम् ॥ ४२ ॥
एवमश्वगजादीनि कठोरैः कर्मभिः सदा ।
श्रान्तिदक्षाणि कार्याणि निर्भयानि तथा नृपः॥४३॥
सांगामिकवैषयिकलोकानां कार्यवीक्षणे ।
पृथक् पृथग् विधातव्या सभा दण्डादिसाधिका ॥४४॥
नास्त्युपेक्षा विषयिणां दोषेष्वल्पतरेष्वपि ।
न दोषपूचितो दण्डः सैन्यानां तत्समो भवेत् ॥४५॥
प्रजारक्षणम् ।
प्रजाः प्राणसमाः पश्येत् पक्षपातच्युतो नृपः ।
नोत्योड़येत् करग्राहैविमानैर्विशोषयेत् ॥ १।
प्रजाश्रेष्ठ समादाय राजा तत्त्वं विचारयेत् ।
समयं पालयेत्तासां नहि धर्माद् विचालयेत् ॥ २ ॥
( ७८ )
विवाद न्यायरक्षाथे प्रजाश्रेष्ठान् निवेशयेत् ।
ये यथाकायनिपुणा स्तैस्तत् कार्य प्रसाधयेत् ॥३॥
ये यथा सद्गुणोपिता स्तांस्तथैव प्रपालयेत् ।
पुण्यं प्रजाकृतं यत् स्याद्राजाऽपि तत्फलांशभाक्॥४॥
विना पुण्यं नैकगुणो लभ्य: पुंसां कदाचन ।
तस्माद् गुणवतां रक्षा सैन्यरक्षाऽधिका मता ॥ ५ ॥
एकोऽपि गुणवान् लोके सहस्राणां सुसंग्रहे ।
समर्थो विमती भने नानारूपधरो गुणौ ॥ ६ ॥
गुणे मुह्यन्ति पशवस्तथा क्रूरा भुजङ्गमाः ।
गुणिनां सन्निधानं हि महामन्तप्रसाधकम् ॥ ७ ॥
बहवो वञ्चकाः क्रूराः सतां धर्मेण लिङ्गिनः ।
महतां भागमादातुं वञ्चयन्ति महीभृतम् ॥ ८॥
सन्तः न शपरा भूत्वा विहिषन्तो नृपश्रियम् ।
क्रमादुत्पादयन्ताव विरोधं मानसं नृणाम् ॥ ६ ॥
काला विरोधी यो ववस्तृणगशिरिव क्रमात् ।
बध्यते राजमातङ्गः पतङ्गइव निश्छदः ॥ १० ॥
यदि चैकस्य दृष्टिर्न सर्वत्र परिगच्छति ।
प्रायशश्छादकाः क्रूरास्तत्त्ववित् स्यानरेश्वरः ॥ ११ ॥
तस्माद्राजा खयं देशानमात्यान् वापि चारयेत् ।
सतां धर्मोरतान् हवान् कुलजान् विदुषोऽखिलम्॥१२॥
समसद्भावचेष्टाद्यैः प्रजाभिश्चिरसंस्थितः ।
श्रुत्या च कर्मणा वाचा व्यवहारैः परीक्षयेत् ॥१३॥
परीक्ष्य गुणावदस्ते यथाज्ञानं तथादिशन् ।
इन्द्रत्वं लभते भयो जनैः स्वर्गनिवासिभिः ॥ १४ ॥
बहवः शाव्यसम्पन्ना महदेशधराः शठाः ।
उत्तापयन्ति दुर्वच्या ग्रामिकान् सरलान् जनान्॥१५॥
भयमैत्रवादियोगेन हरन्ति धनसञ्चयम् ।
तेभ्यो यत्नेन कर्त्तव्या प्रजारक्षा महीभृता ॥ १६ ॥
खार्थं पश्येत् सदा राजा किन्तु शाठ्यं विवर्जयेत् ।
खार्थे परार्थसंसिद्धिं साधयित्वा क्रियां चरेत् ॥ १७ ॥
प्रजानां परिपोषाय स्थाने स्थाने महीपतिः ।
स्थापयेत् कोषमात्मीयं काले दद्याद् धनानि च॥१८॥
भागहारण गृह्णीयात् शष्याणामुद्भवक्रमात् ।
नोत्यौड़येदुत्मृजेहा प्रजारञ्जनतत्परः ॥ १६ ॥
यावत् कार्यविभागोऽस्ति विभज्य तानि यत्नतः ।
यथालाभं व्ययेदर्थान् स्थाप्यो भागश्चतुर्थकः ॥ २० ॥
प्रणालौं मरुदेशेषु सेतुबन्ध जललवे ।
कृत्वा सम्वईयेत् शष्यं येन होनं न तद्भवेत् ॥ २१ ॥
हिंसकानाञ्च जन्तूनां नाशाय स्थापयेज्जनम् ।
पशुं शष्यं जनं रक्षेद् येन वाधा विनश्यति ॥ २२ ॥
( ८१ ) सञ्चारो वणिजां यत्र पथिकानां तथैव च । तं देशं यत्नतो रक्षेद् दस्युतो हिंस्रसत्त्वतः ॥ २३ ॥ अनाथानां धनं रक्षेत् समयाद् वृद्धिमर्पयेत् । वर्द्धयेद् वणिजा नित्यं पोषयेत् तान् निदेशिना॥२४॥ दुर्भिक्षपाते शष्याणां दाने रक्षेत् प्रजाः सदा । ग्रामाणां स्थापयेन्मध्ये नगरं सरितां तटे ॥ २५ ॥ उर्बरां धरणों दृष्ट्रा बने वा पर्वतान्तिके । ग्रामान् निवेशयेद्राजा वनशष्यादिकार्पणात् ॥ २६ ॥ न वनं सर्वथा छेद्यं रक्ष्य यत्नेन भूभृता । विहारे राजविद्रावे शरणं वनमेव हि ॥ २७ ॥ विशेषतो महानद्या: समुद्रस्य तटे वनम् । रक्षणीयं प्रयत्नेन टुष्टवातादिशान्तये ॥ २८ ॥ शष्यलोभन सत्क्षेचं लवणायैनं दूषयेत् । कालेन सकलान् देशान् दोषः कुर्य्यादतौजसः ॥२६॥ धनलोभन शष्यादौन न कुर्य्याद देशविच्युतान् । वैदेशिकान् समादद्याद् दत्त्वाऽपि विगुणं पणम्।३०॥ हस्त्युष्ट्रवषभादौनि वने वन्यैः प्रपालयेत् । साधयेद् योगजं वंशं तेषां वौर्यविलोकनैः ॥ ३१ ॥ स्थापयेत् फलपुष्यादिसाधनं तरुसञ्चयम् । नाशयेद् विषवृक्षादौन् फलमालोक्य यत्नतः ॥ ३२ ॥ ११
( २ )
अनुपद्रविनो भूपाः प्रायशः खार्थतत्पराः ।
खप्रजोत्पीड़ने रता भवन्ति मदमोहिताः ॥ ३३ ॥
य एवं मदसम्मत्ताः कुर्वन्ति खजनव्यथाम् ।
तेऽचिरेणैव कालेन हतराज्या हतोदयाः ॥ ३४ ॥
तस्मादकण्टकं राज्यं लब्धा नोन्मादसंयुतः ।
नोत्पीड़कस्तथा भूयाद् येन सर्वे विरोधिनः ॥ ३५ ॥
धर्मशाला पान्यशाला नगरं देवमन्दिरम् ।
विद्यालयं जलौकश्च मार्ग सेतुं तथैव च ॥ ३६ ॥
मध्ये मध्ये स्वराज्यस्य कारयेत् पृथिवीपतिः ।
येन साधारणाः प्रीताः प्रसन्नाः स्युर्महीभृति ॥३०॥
राज्यस्थितिव्यवस्था।
मरी च नगरे ग्रामे मार्गेऽरण्ये गिरी जले।
सर्वत्र स्थापयेत् सैन्यं सम्भवेद् यत्र बाधनम् ॥ १ ॥
खराज्यसीमा यत्रास्ते तत्र दुर्ग समाचरेत् ।
यत्र वाऽन्यस्य सञ्चारो जले वा पर्वते वने ॥२॥
तमुर्गमभिरक्ष्येत सैन्यैः शस्त्रधरैः सदा ।
तत्रातिकालं नाध्यक्ष स्थापयेन्न जनांस्तथा ॥३॥
तेऽपि कालात् सुखासक्ता दास्यत्तिपराङ्मुखाः ।
अन्येन सह सम्मन्त्रा खातन्त्रा कर्तुमुद्यताः ॥ ४ ॥
एवं यद्वैपरौल्येन राज्योपद्रवसम्भवः ।
न रक्ष्यः स चिरं दासः पदे कस्मिन् महीभृता ॥५॥
तत्र दाक्ष्यं समालोक्य स्थापयेत्तं खसंसदि ।
तत्तत्कार्यविवेकार्थं स स्थितो यत्र कर्माणि ॥ ६ ॥
यो न दक्षः सोऽपि राजा माननीयो धनादिना।
उच्चस्थो नीचतामाप्न न चाहेति कदाचन ॥ ७ ॥
स ज्ञाततत्त्वो राज्यानामवज्ञातो भवेद् यदि ।
वेषात् शात्रवमाश्रित्य राज्यं नाशयितुं क्षमः ॥ ८ ॥
एवं कमजयोगेन सभांला नराधिपः ।
कारयेत् कर्म राज्यस्य प्रोत्या यात्मानुरूपया ॥ ६ ॥
दुष्टाभिसन्धि सम्पश्येद् यदि तत्र नराधिपः ।
छलाद बलात् कौशलाहा तेषां बन्धोऽश्वा हतिः॥१०॥
न खतन्त्रो भवेद्राजा कार्याणां परिवीक्षणे ।
नैकस्याव्याहता बुद्धिः सर्वत्र परिचारिणी ॥ ११ ॥
शिक्षाविधिः।
प्राप्तवीधो नरेशानो भाषादिजानतत्परः ।
विषयेषु समासीनः शिक्षामेवं समाचरेत् ॥ १ ॥
खाधिकारेषु युक्तानां महतां सन्निधिक्रमात् ।
दानानः प्रियालापैरतोषयन् प्रीतिसंयुतः ॥२॥
देशजातिक्रियाविद्याधर्मव्यवहृतादिषु ।
यथातत्त्वं विजानीयादेकान्ते मित्रसंसदि ॥ ३ ॥
खोत्तमं प्रणयाद् भक्त्या पालनेन पवित्रधीः ।
विज्ञातानां चरेन्मूलं विषयो दुश्चरं वनम् ॥ ४ ॥
( ८४ )
चेष्टामपि च मर्चेषामौदासीन्येन लोकयन् ।
व्यवहारैः क्रियाभिश्च साधयंस्तत्त्वमाचरेत् ॥ ५ ॥
राज्यविभागादि।
खप्रजासभ्यतन्त्रत्वाद् राज्यं हि त्रिविधं स्मृतम् ।
लोकानां बुद्धिवैचित्रवाद व्यवस्थेयं पृथक् पृथक् ॥१॥
खतन्त्र स्वार्थसन्ध्यायी कमिन्याय्यमहति ।
स्वयं द्रष्टा यतो राजा को वा वारयितुं क्षमः ॥ २ ॥
प्रजातन्त्र यदिशेयो राजहीनतया पुनः ।
न तादृक् शोभते संसद् विधवा कामिनी यथा ॥३॥
प्रजातंत्रे महानेको दृश्यते सद्गुणोदयः।
आबालवृद्धवनिताः प्रजास्तष्क्षणोत्सुकाः ॥ ४ ॥
अपक्षपातः सभ्यानां यदि राज्ये प्रवर्तते ।
न प्रजातन्त्रतो हीनं सभ्यतन्त्र कथञ्चन ॥ ५ ॥
विलोक्यते सभ्यतंत्रे वरमेको महान् गुणः ।
न स्यात् सिंहासनं शून्यं धरणीनायकं विना ॥ ६ ॥
एवञ्चेद्राजतन्त्र स्यात्तदपि श्रेयसाम्पदम् ।
किन्वेवं ज्ञानवानको टुर्लभो जगतीतले ॥ ७॥
य एको वैभवाद् बुद्धेः सळसंग्रहकारकः ।
विजेता बाहुवीर्येण स देवः स खयं प्रभुः ॥ ८॥
य एको लोकचक्राणामधिष्ठाता दुराक्रमः ।
स यत् कुर्यात् तद्धि धम्य कोऽप्यस्य विनिवारक:॥६॥
( ८५ )
राज्य लब्धा होनवीयः प्रभुश्चेत् कुलजोऽपि वा ।
संरक्षणार्थ राज्यस्य कुरुते विविधां क्रियाम् ॥ १०॥
निर्वीर्ये कुलजे राजि एवं संश्रेयसे मतम् ।
कः शूरः समरोत्साही वशं गच्छेन्नृणामहो ॥ ११ ॥
एकः सर्वान् वशे कृत्वा नीतिज्ञान् कारयेत् कृतिम् ।
तत्तेजसाभिभूता: स्युः सर्वे स प्रभुरेककः ॥ १२ ॥
नाममात्र प्रजातन्त्र सभ्यतन्वं च तादृशम् ।
नियन्तारं बिना नैव तद्वयं सिद्धिमर्हति ॥ १३ ॥
यो नियन्ता भवेत्तेषां खबुद्धा
मर्वसम्मतः ।
स एव राजा विज्ञेयः सर्वभोक्ताखिलःप्रभुः ॥ १४ ॥
अभ्युदयकालापद्विवेकः ।
राज्यमेतद् यथानित्यं धर्मार्थकाममोचदम् ।
तथातिभयदं जेयं वैरिवाधासमन्वितम् ॥ १ ॥
बलवन्तो वीर्यवन्तस्तपसा लब्धविग्रहाः ।
यतन्ते शत्रदो नित्वं वलाज्जेतुं महौमिमाम् ॥ २ ॥
लोकाद् भयेष्ववेद्राजा रानो भौतौ क्व रक्षकः ।
तस्मान्नित्यं रिपोईस्तात् पृथिवी रक्षयेन्नृपः ॥ ३ ॥
दैवहीनं रिपुं जेतुं यायाट् दैवान्वितो नृपः ।
योज्या दैवान्वितामात्या दैवहीने तथात्मनि ॥ ४ ॥
व्यसनी नष्टधर्मा यस्त्रिविधोत्पात पीडितः ।
स दैवहीनो विजेयस्तदन्यो देवसम्वृतः ॥ ५ ॥
दैवञ्चालौकिकं विद्यादन्यजन्मक्रियोद्भवम् । शुभानां कर्मयहां वृया तहेवमनुमौयताम् ॥६॥ सापेक्षत्वादनादित्वाद् वैचित्रवाहिश्ववृत्तितः । प्रत्यात्मनियमाद भुक्तरस्ति हेतुरलौकिकः ॥ ७ ॥ यद् यत् कामयते राजा तदा तत् साधयेत् क्षणात्। तदा पौरुषसंयुक्तो ज्ञायतां पृथिवीपतिः ॥८॥ तथा कालोऽपि विजेयः सिद्धये कर्मणां बली। तस्मात् कालं प्रतीक्षेत जयं प्रेप्मुनराधिपः ॥६॥ दैवं पुरुषकारश्च कालः समुदितस्तथा । त्रयमेतन्मनुष्याणां पिण्डितं स्यात् फलावहम् ॥१०॥ कृषेष्टिसमायोगाद् दृश्यन्ते फलसिद्धयः । तास्तु काले प्रष्टश्यन्ते नैवाकाले कथञ्चन ॥ ११ ॥ आध्यात्मिक प्राधिदैव आधिभौतिक एव च । उत्पातस्विविधो न यो राज्यसम्पत्तिनाशकः ॥ १२ ॥ शरीरं मानसं व्याप्य यः लोश: परिजायते । आध्यात्मिकः स विज्ञेयो रोगचिन्तादिकः खलु ॥१३॥ ग्रहनक्षत्र भूतादेर्यस्तापः परिजायते । आधिदैव इति प्रोक्तः स उत्पातो मनीषिभिः ॥१४॥ पशुपक्षिपतङ्गादेयां वाधा दृश्यते यदा । आधिभौतिक उत्पातः स विज्ञ यस्तदा बुधैः ॥ १५ ॥ ॥
(८७)
सामादिव्यवस्था ।
उत्पाते च समुत्पन्ने मानवा द्वेषसंप्लुताः ।
यतन्ते नृपते राज्यमधिकर्तुमितिस्थितिः ॥ १ ॥
साम्ना दानेन भेदेन समस्तैरथवा पृथक् ।
विजेतुं प्रयतेतारीन् न युध्येत कदाचन ॥२॥
अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।
पराजयो हि संग्रामे तस्माद् युद्धं विवर्जयेत् ॥ ३ ॥
सामसन्धिः समाख्याता दानं भूम्यादिकार्पणम् ।
भृत्यामात्यप्रजादीनां विच्छेदो भेद उच्यते ॥ ४ ॥
तुल्येऽधिक तथा होने सामदानादिकं भवेत् ।
यो यथा स्यात्तथा योगैः शमनीयो रिपुर्नुपैः ॥ ५ ॥
स्पष्टतः प्रेषयेद् दूतं निर्भयं रिपुसंसदि।
राजा खाभीप्सितालेखैः सामादि परिसूचकैः ॥ ६ ॥
न प्रकाश्यं भयं तत्र न रूक्षं न च कोमलम् ।
परस्परहिते योग्यं नीतिमार्गेण रञ्जितम् ॥ ७॥
टूतप्रेषणादि।
टूतो वाग्मी सभादचो यः खयं कर्तुमर्हति ।
अथवा सम्प्रेषणीयो यावद्भाषितहारकः ॥ १ ॥
स्पष्टतो रुक्षसम्भाषी न टूतो दण्डभाग् भवेत् ।
टूतदण्डे यथातत्त्वविज्ञानं दुर्लभं भवेत् ॥ २ ॥
MIMPORTRAunter ( ८८ ) भयाहा प्रणयाहापि दूतः किञ्चिन्न गोपयेत् । गोपने कार्यहानिः स्याद दूतो दण्डाहतां चरेत्॥३॥ गूढचारप्रेरणादि। सम्प्रेष्य स्पष्टवी दूतं गूढं चारं नियोजयेत् । नानारूपधरं विज नानाभाषाविशारदम् ॥ १ ॥ भृत्यामात्यसैनिकानां प्रज्ञानां शुद्धचेतसाम् । अनुरक्तिं विरक्तिम्वा रिपोर्विद्यात्ततो नृपः ॥२॥ व्यसनासक्तचित्तो बा निस्तन्द्रो वा खसम्पदि । रिपुरित्यधिगन्तव्यं तेन प्रच्छन्नत्तिना ॥ ३ ॥ तेन स्थानं विजानीयाद रिपुराज्यस्य सर्चतः। प्रास्थानिकं थानयोग्य छादनाह सुदुस्तरम् ॥ ४ ॥ जलाशयं जलं कोषमन्नं दुर्ग मर गिरिम् । शस्वं यानं विजानीयात् तत एव महीपतिः ॥ ५ ॥ एष एव नरेन्द्राणां परमं चक्षुरुच्यते । तस्मादेतं प्रयत्नेन पालयेत् प्राणतोऽधिकम् ॥ ६ ॥ वरिष्ठो गूढचारेषु प्रायो लिङ्गी मतो बुधैः । यस्मादव्याहतं यानमस्य सर्वत्र दृश्यते ॥ ७॥ नौचैर्वा धनिभिर्वापि वालवृद्धैश्च पूज्यते । विशेषतो विप्लवेषु निरावाधगतिस्त्वयम् ॥ ८ ॥ तीर्थदेवादिसेवार्थं सर्वत्र सञ्चरन्नसी। खच्छन्दतो ज्ञातुमर्हेद् रिपोः स्थानं यथास्थितम् ॥६॥ -- ( ८८ ) सिद्धत्वादिमिषं स्वस्मिन् विधाय कपटान्तरः । उच्चाटनमारणादि कुर्यात् तत्त्वबुभुत्सया ॥ १० ॥ आबालवृद्धवनिताः प्रायो मुह्यन्ति देवतः । देववत् तं सेवमाना गुह्यवृत्तं वदन्ति च ॥ ११ ॥ भेदव्यवस्था। एष एव महादक्षी भेद शत्रीः प्रगीयते । अनेनैव साधनौयो भेदः खद्विषतान्ततः ॥ १ ॥ एष एव रिपो राज्ये गत्वा नियममाश्रितः । प्रविशेत् सम्मतो राजः सभायां यतिबत्तिभाक्॥२॥ उत्पादयेत् सुविश्वासं येन राजा विमुह्यति । स्नानानशनवैराग्यसम्पदा सिद्धतां गतः ॥ ३॥ सर्वैः सुसम्मतो भूत्वा सर्ववृत्तिनिरोधतः । गूढ़शाठ्येन सद्वृत्तं दूषयंस्ताड़येच्छलात् ॥ ४ ॥ दापयंस्तौषिक वस्तु रोषयन्नन्यमुद्दतम् । नृपं विद्वेषयंस्तौ तौ छलयेद् भूपतिं तथा ॥ ५ ॥ एकमुन्नमयन्नन्यं हासयन् द्वेषयन् परम् । टूषयंश्चलयन् नित्यं भेदयेदखिलान् जनान् ॥ ६ ॥ येन सम्प्रेषितो भूयाद् दूषयं स्तं प्रसङ्गतः । भीषयेत् तदुराचारात् कार्यसाधनतत्परः ॥ ७ ॥ दुर्वृत्तान् पालयेद् राजा तेषां वृत्तिप्रशस्तितः । तानप्युल्लासयेद भोगैर्मोहयन् भूपतिं सदा ॥८॥ १२
ARCitia
(१०)
मोहितोऽसौ यथा भोगैः कालं स्वच्छन्दतो नयेत् ।
प्रायशो भोगमुग्धा हि धनिनो भूभृतोऽपि च ॥६॥
शुक्रस्तम्भाद्यौषधादि दत्त्वा प्रौतिं विवर्द्धयेत् ।
काव्यसङ्गीतचर्चादि कारयेच्चित्तरञ्जनम् ॥ १० ॥
व्यसनोत्साहकान् दासान् प्रोत्या सन्तोष यन् सदा।
हारयेद्राजसंग्राह्यं तैर्दुष्टैः क्रमशश्छलात् ॥ ११ ॥
मन्त्रिणो वणिजः सैन्यं सर्वाण्युत्मारयेत् क्रमात् ।
देवकृत्ये समुत्साहं दद्याच्च सततं छलात् ॥ १२ ॥
राज्यादीनामस्थिरत्वं धर्मस्य चिरजीवनम् ।
दर्शयन् वञ्चयेद् भूपं येन राजा जड़ो भवेत् ॥ १३ ॥
मूर्खमात्रैः समावेश्य राजानं तोषयेत् सदा ।
ये सदा तोषवाक्येन तोषयन्ति तदाकृतिम् ॥ १४ ॥
मूखैः सदा समाकृष्टं वञ्चितं साधुवृत्तिभिः ।
विलोक्य भूपतिं गच्छेत् तीर्थादेश्छलतस्ततः ॥ १५ ॥
एवं कुर्य्यान्नृपो यत्नाल्लिङ्गिभिर्वञ्चनं रिपोः ।
खयञ्चावञ्चितो भूत्वा नीतिमार्गपरः स्थिरः ॥ १६ ॥
अथवा तरुणी रम्या नाट्यगीतिविशारदा ।
प्रषणीया प्रयत्नेन या क्षणात् स्यान्मनोहरा ॥ १७॥
तया व्यसनिनं कुर्य्यात्तथा शत्रु निरन्तरम् ।
यथा न पश्येद् विषयं भोगसंसक्तमानसः ॥ १८ ॥
( ६१ ) एवं यथायथोपायै रिपुः स्याद् व्यसनी सदा । तथोपायो विधातव्यो निस्तन्द्रण महीभृता ॥ १६ ॥ प्रतीप व्यसनासते तज्जनान् ववशं नयेत् । प्रोत्या दानेन मानेन लोभयन् स्वार्थसाधनः ॥ २० ॥ अबध्यो यदि वा चारो नैष तादृङ्मतो भवेत् । अस्य विज्ञानमात्रेण शिरश्छेदो विधीयते ॥ २१ ॥ एवं चारेण गूढस्थं वृत्तान्तमवलोकयन् । सामादिषु यथान्यायं विदधीत नराधिपः ॥ २२ ॥ दूतागमे कर्तव्यम् । समागतं तथा दूतं सम्भाष्य न्यायवमना । आलेख्यं प्रतिभूभत्तुंः प्रतिगृह्य विचारयेत् ॥ १ ॥ खष्टं परेष्टं लोकानां हिताहितविधि तथा । तथा खीयपरानिष्टं मन्त्रिमुख्यैः सुमंत्रयेत् ॥ २ ॥ सुविचार्य गुणो दोषी तथा मानापमान की। खवलानां बलं जाला तदुत्तरमथार्पयेत् ॥ ३ ॥ यस्मान्न वीर्यहानिः स्यानावमानः परस्य च । न शात्रवं न वा मैत्रं न भयं न च तर्जनम् ॥ ४ ॥ परदूताभिगमने राज्यं संस्कारयेत् तथा । येन सर्वे क्रियारता दिवाराचं कृतोद्यमाः ॥ ५ ॥ तेन संलापनं राजा महभिः सैनिकैर्वृतः । तीक्षावृत्तिर्भीमरूपः कुर्य्यानिर्भयमानसः ॥ ६ ॥ -
( २ )
सन्ध्यादिनियमः।
सर्वतः श्रेयसे सन्धिः सामदानादिकं परम् ।
सन्धिं कृत्वापि शत्रूणां भेदे यत्नं समाचरेत् ॥ १ ॥
दूरोऽस्तु द्विषतां वार्ता न विश्वास्यः सुहृत् पुनः ।
सर्वथा सर्वदा सव तत्त्व मन्वेषयेन्नृपः ॥ २ ॥
पुत्रोऽपि पितरं हन्ति शिष्यं हन्ति गुरुस्तथा ।
नहि राज्यकृते काचित् कार्याकार्यव्यवस्थितिः॥३॥
सामदानादिकं यह भूभृता सह जायते ।
तथा तमनुगच्छन्ति ये समर्थाः क्रियाविधौ ॥ ४ ॥
तथासन्धिर्न कर्त्तव्या क्रियायां यत्र मानवाः ।
कुर्वन्त्यवज्ञां स्वस्यापि वीयहानिः प्रजायते ॥ ५ ॥
दानं तथा न कर्तव्यं भूभृता यस्य दानतः ।
राज्यं होनबलं भूत्वा द्रुतं गच्छेदरः करम् ॥ ६ ॥
तथासन्ध्यर्पणाभ्यान्तु समरः श्रेयसाम्पदम् ।
राज्यनाशे माननाशे किं जीवैनंम्वरैर्भवेत् ॥ ७ ॥
उक्तेन गूढचारण मेलयेदन्यभूपतिम् ।
मैत्रैर्दानैर्भयालोके ये यथा स्युर्वशं गताः ॥८॥
जानौयादपि शत्रूणां तेन मित्रं रिपुं तथा ।
रिपुं सम्मेलयेन्मित्रं सामाद्यैर्वशमानयेत् ॥ ६ ॥
युद्धविधिः।
त्रयाणामप्युपायानां पूर्वोक्तानां परिक्षये ।
तथा युध्येत संयत्तो विजयेत रिपून् यथा ॥१॥
(६३)
संग्रामे साहसैः साध्ये टुर्बलो बलवान् भवेत् ।
साहसेन विना दौनो बलवानपि जायते ॥२॥
सोत्साहे समरे नाशो जायते कुशलास्पदम् ।
निरुत्साहस्य राज्यैर्वा भोगैर्वा किं फलं भवेत् ॥ ३॥
शरत्समागमे राजा निस्तापे स्वच्छजीवने ।
दृष्ट्वानुकूलं खं दैवं ब्रजेत् शत्रुविमईने ॥ ४ ॥
खरोदयमभिध्याय सूर्ये वहति मारुते ।
वजयन् सूर्यसाम्मुख्यं चरेटुग्रदिने नृपः ॥ ५ ॥
खराज्य रक्षयेद् यत्नाद् विश्वस्तैमन्त्रिसैनिकैः ।
निर्गतौ स्वस्य येनान्यो नोत्पातं कर्तुमर्हति ॥ ६ ॥
प्रवृत्ते रिपुसंग्रामे सर्वत्र पृथिवीपतिः ।
खवीर्य काशयेत् तीक्षा नित्यं निस्तन्द्रनिर्भयः ॥७॥
नित्यं लोकार्थतत्त्वतो नित्यं लोकानुरचकः ।
नित्यं धर्मपरोत्साही व्यमनेषु निरुत्सुकः ॥८॥
विरोधीत्येव मात्रेण शिरञ्छित्त्वा निपातयेत् ।
तीक्षणे दण्डविधौ दासान् साहसैरभियोजयेत् ॥ ६ ॥
यो लोकसंग्रह शक्तो यो वा शक्तो धनार्जने।
सांस्तान् यत्नतो रक्षेन्मन्बो न स्याद् यथोभयोः॥१०॥
सबै सामरिका लोका बलवन्तश्च ये पुनः ।
समुत्साहैोजनीया दानमानादिकार्पणैः ॥ ११ ॥
RAM515720P
( ६४ )
यावद् दुर्ग सुसंस्कार्यं कुर्य्यादस्वादिसाधनैः ।
पूरितं चानपानाद्यै नौतिमानवनीपतिः ॥ १२ ॥
देशेष्वन्न समारक्षेदन्यस्मादपि चानयेत् ।
दिवारा मन्त्रि मुख्य न्याय्यान्यायं विचारयेत् ॥१३॥
विभज्य सैन्यं सञ्चाल्य सशस्त्रान्न सनाथकम्
आवृत्य रिपुसाम्राज्यं स्थापयेन्मण्डलं महत् ॥ १४ ॥
यत्र यत्र यदा तिष्ठेद् भोज्यपाने सुरक्षयन् ।
परीक्ष्य कारयेत्तत्र तयोः संसेवनं नृपः ॥ १५ ॥
विरोधिनामन्नपाने गूढचारण सर्वदा ।
विषायैरभिसंयोज्य तत्त्व विद्यान्नराधिपः ॥ १६ ॥
खचक्रेऽन्याप्रवेशार्थं प्रतियामं नवं नवम् ।
सङ्घतमभिसम्पाद्य खवृत्तं गोपयेन्नृपः ॥ १७ ॥
सङ्केतचारिणां दद्यात् प्रवेशं निजमण्डले ।
अन्यथा ताड़येत्तस्मान्नाशयेहा महीपतिः ॥१८॥
अदूरोऽनेकतः स्थाने स्वराज्यावधिवर्तिनि ।
अन्नपाने क्रमाद्रक्षेत् ते एव जीवनं नृणाम् ॥ १६ ॥
अभावेऽन्नस्य तद्देशात् खदेशाडा परिग्रहः ।
तविरोधी निहन्तव्यो बलादनपरिग्रहैः ॥ २० ॥
न्यायान्यायो नेचितव्यो जाते हि समरोद्यमे
येन जौवेनिज सैन्यं स न्यायस्तच शाश्वतः ॥ २१ ॥
(६५)
वैदेशिकेषु विश्वासो न कार्यस्तत्र कुत्रचित् ।
विक्षेपमनुमालोक्य नाशनं श्रेयसे मतम् ॥ २२ ॥
उत्तमा निजराज्यस्था मित्राधीनाश्च मध्यमाः ।
उदासीनपदासौना अधमा: परिकीर्तिताः ॥ २३ ॥
कदाचिन्नैव रक्ष्याः स्युः शत्रुराज्यनिवासिनः ।
तेचेत्तद्विषयान् जास्तत्तान् यत्नेन पालयेत् ॥ २४ ॥
सर्वे खजनपोषार्थं दास्यादिषु नियोजिताः ।
खजनैयदि राज्यस्था भवेयुस्तभयं कुतः ॥ २५ ॥
तद्देशीयं यथालाभमौदासीन्येन मोहयन् ।
नानारूपधरं कृत्वा प्रेषयेद्रिपुमण्डले ॥ २६ ॥
यदा यदाक्रमेदाजा वलवन्तं छलैलैः ।
आक्रम्यखवशे कुर्य्याच्छिन्नपचविहङ्गवत् । २७॥
तेन संसाधयेदन्नं जनवा वाहिकादिकम् ।
अमतश्चेद्धनं हत्वा शिरश्छित्त्वा प्रताड़येत् ॥ २८ ॥
आनीय खवशे तस्मान्मैत्रोत्साहच्छलादिभिः ।
प्रतीपस्य बलं वीर्य विद्याद् वृत्तं च तत्त्वत: ॥ २६ ॥
न तत्र सैन्यं संग्राह्यं सैन्याभावेऽपि भूभृता ।
वरं प्रत्यागमः श्रेयान् न पुनस्तत्र संग्रहः ॥ ३० ॥
यदि तद्भपतेर्दोषाल्लोका विद्वेषकारिणः ।
तत्त्वं विद्यात्तदा तत्र कर्तव्यः सैन्यसंग्रहः ॥ ३१ ॥
(६६)
वृत्तं ज्ञात्वा तु तत्रत्यं न कुर्यात् सहसाश्रयम् ।
न पर: सहसा मैत्रं प्रयाति खच्छभावतः ॥ ३२॥
ज्ञातवृत्तो महाघोरनिशायां छद्मचारिणा ।
द्विषतां वृत्तिमुबुध्य कुर्यात् कार्य समाहितः ॥३३॥
यत्र संस्थापयेत् सैन्यं तत्यावें बहुदूरतः ।
चतुर्दिक्षु महाधौरं खचरं स्थापयेन्नृपः ॥ ३४ ॥
यो जाततत्त्वः शत्रूणां सम्वदेद् विविधां कृतिम् ।
येन वा सहसाकामि न भवेत् परसैनिकम् ॥ ३५ ॥
अरण्ये पर्वते जेयं तत्त्वं रात्री खसैनिकैः ।
व्याघ्रभल्लूकचर्मादिधरैः प्रच्छन्नत्तिकैः ॥ ३६ ॥
भिक्षुवेशधरैामे जले नाविकरूपिभिः ।
एवं यथा यथास्थानं तथा तत्र विधिं चरेत् ॥ ३७॥
वञ्चयेद् यदि तत्रत्यस्तं हन्याहारयेद् धनम् ।
येनान्यो न तथा वादी पुनर्वञ्चनतत्परः ॥ ३८॥
विश्वस्तोऽपि सुविश्वास्यः सर्वथा न रणोद्यमे ।
विश्वस्तै बहुभिः खामी वञ्चितः खार्थलिप्सया ॥३६॥
परस्परकृता चेष्टा जागर्ति रिपुसंसदि ।
सर्वे नयविदो भूपाः खार्थसाधनतत्पराः ॥ ४० ॥
भौतिमेवाचरेत् तस्मात् परतः परभेदवान् ।
यथा स्वयं छिद्रदर्शी न तथा कि परो भवेत् ॥ ४१ ॥
(६७) यस्य भ्रमो वालस्यं वा स नाशमधिगच्छति। तस्मादनलसो भूत्वा निस्तन्द्रः स्यान्महीपतिः ॥ ४२ ॥ चेद् दयोस्तुल्य उद्योगः सन्धिः करगता तदा । तस्मानित्यं समुद्युक्ती भुक्त राज्यमकण्टकम् ॥४३॥ एवं नीतिमुपाश्रित्य चक्र संस्थाप्य यत्नतः । यावदगन्तव्यदेशेषु स्थापयेद् यानमुत्तमम् ॥ ४४ ॥ तिष्ठतामन्यसाम्राज्ये न देयं सैनिक पदम् । दत्तेऽपि समरे प्राप्ते नैषामालम्बनं बलम् ॥ ४५ ॥ आलम्बनेऽपि तत्संघो न कर्त्तव्यः कदाचन । खजनैः संवृतं कृत्वा मनायां तं निवेशयेत् ॥ ४६ ॥ निवेश्यापि स्वगुह्यं तं बोधयेन्न कदाचन । जानन्तं रक्षयेद् यत्नादन्यसम्मेलनान्नृपः ॥ ४०॥ बहवो वञ्चिता भूपा मैत्राट् वैदेशिकः पुरा । सावधानेन सततं तेन भाव्यं महीभृता ॥४८॥ चक्रस्य पार्वती रक्षेत् स्थानं विस्तीर्ण मुज्जलम् । सम्मुखं सुमहत् स्थाप्यं यत् स्यात् सामरिकास्पदम् ४६ न सर्च सैन्यमादाय तत्र गच्छेत् कदाचन । सोपानमिव संस्थाप्य खराज्यात्तत्र सैनिकम् ॥५०॥ नित्यं गतागतस्तस्य भीषयेत्तान् जनान् सदा । ये गत्वा प्रतिभूपालं भीषयन्ति भयेक्षणैः ॥ ५ ॥ १३
(६८)
उत्साहो वीय्यसंघोषो वन्यस्त्रादिनियोजनम् ।
प्रतिक्षणं विधातव्यं येन शत्रुर्विषीदति ॥ ५२ ॥
रात्री प्रच्छन्नचारण सर्वतस्तत्त्वमाहरेत् ।
रक्षयेन्मण्डलं खस्य निशामु दिवसादपि ॥ ५३ ॥
स्रोतः पतनदेशेषु न तिष्ठेन्नौतिमान् नृपः ।
यतो गच्छति तत्रस्थो रुध्यादा विषमर्पयेत् ॥ ५४ ॥
न तिष्ठे हनपार्वेषु न वा पर्वतपार्श्वतः ।
तिष्ठेच्चत् पार्वतो रक्षेद् यतोऽन्यो न व्रजेद्रहः ॥५५॥
प्रच्छन्नवेशिनी दस्यून् प्रेषयेदरिमण्डले ।
ये गत्वा ग्रामदाहायैर्विद्रवन्ति जनान् सदा ॥ ५६ ॥
हारयेत् पथि भच्याणि नाशयेदग्निदाहनैः ।
योजयेदापि गरलैर्वाहिनी वा विनाशयेत् ॥ ५७॥
भेदयेद् दानभीत्याद्यैः संग्रामनिपुणान् जनान् ।
पलायन्ते यथा ते वै सन्तुष्टा वा भयाकुलाः ॥ ५८॥
एवं चेत् सामदानादि सिध्येत् तदपि मङ्गलम् ।
नैवञ्चेत् खबलैमत्तो हन्यात् शत्रूनतन्द्रितः ॥ ५ ॥
अनुकूलं दिनेशानं पवनं च विलोकयन् ।
व्यूह संयोजयेद् यत्नाचक्राकादिरूपिणम् ॥ ६ ॥
कालेऽस्मिन् धर्मयुद्धेन दुर्लभो विजयो यतः ।
छद्मना तेन युध्येत यथा कालस्तथा नृपः ॥ ६१ ॥
(६८) खयमश्वाधिसंरूढ़ो रणक्षेत्रपुरोगमः । प्रोत्साहयन् खसैन्यानि योद्धमाज्ञापयेन्नृपः ॥ ६२ ॥ नृपतियंत्र समये खयं न स्यात् पुरोगमः । कमपेक्ष्य प्रजाः सर्वाः प्राणांस्त्यक्तुं समुद्यता: ॥६३॥ प्रजा: सम्पाल्य धर्मेण चेद् गच्छेत् समरे पुरा । क एवं पामरी लोके यस्तदर्थं न सञ्चरेत् ॥६४ ॥ नैकदा सर्वसैन्यानां संग्रामः शुभदो भवेत् । सर्वेषु भ्रान्तियुक्तेषु को रक्षेन्नृपतिं तदा ॥६५॥ केचित् सांग्रामिकाः कार्याः केचित् पाश्र्वाभिरक्षकाः। कृतवेशास्तथा केचित् केचिच्चक्राभिरक्षकाः ॥ ६६ ॥ एवं जनेषु तिष्ठत्सु भ्रान्तानाकृष्य यत्नतः । अभ्रान्तान् योजयेत् तत्र संग्रामे धरणीपतिः ॥६॥ भयेन यदि संग्रामे तेषु कश्चित् पलायते । तत्क्षणादेव तं हन्यान्नान्यः स्याद् येन तादृशः ॥१८॥ तथाज्ञालचिनं हन्यादलसं च कुमन्त्रिणम् । दवयेन्मूच्छितं भीत्या रुग्न वा नयविन्नृपः ॥ ६६ ॥ भक्ष्यपानाद्यौषधाद्यं रक्षेत् पश्चात् समाहितैः । येन सामरिकाः श्रान्ता लभेरनिङ्गितादिभिः ॥७०। तत्र वाहाः सुसंरक्ष्यास्तेषां पार्वषु यत्नतः । खजनी घातमात्रेण येन दूरं प्रणीयते ॥ ७१ ॥ -
( १०० )
यथा खानहतान् विद्युः स्वजना द्विषतो हतान् ।
उपायमेवं कुर्वीत समुत्साहादिकार्पणैः ॥ ७२ ॥
न तिष्ठन् समरं कुर्य्याशाक्रमेद् बलपूर्वकम् ।
पाक्रमे नाशनं श्रेयस्तिष्ठतां विपदां चयः ॥ ७३ ॥
आक्रम्य रिपुसैन्यानि मध्ये सम्पत्य वेगतः
एकोऽपि साधयेत् कार्यं सहस्रण मुटुर्लभम् ॥ ७४ ॥
निर्भयत्वममोहित्वं प्रत्युत्पन्नमनीषिता ।
सबैष्वेवहि सम्पाद्या सैन्येषु विजयैषिणा ॥ ७५ ॥
खसैन्यं चिन्हितं कुर्यात् खखचिन्हेन भूमिपः ।
सम्मेलनेष्वचिन्हानां हन्ति खं स्वयमेव हि ॥ ७६ ॥
वृक्षाग्रं पर्वताय वा समारुह्योच्चमेव वा।
कर्तव्यं परसन्धानं कूटघाताभिलाषिणा ॥ ७७ ॥
दूरात् शब्दग्रहं यन्वं दूराद् वीक्षणसाधनम् ।
टूरात् स्पर्शग्रहं तादृक् दूराद् गन्धप्रसाधनम् ॥७८॥
आचरेयुः सदा युद्धे ये स्युर्योडप्रचालकाः।
द्रष्टुणां गुणदोषाभ्यां जयाजयफलोदयः ॥ ७ ॥
सम्मुखं कारयन् युद्ध पानाक्रामयन् रहः ।
निहन्यात् कूटयुद्धेन छलादरिवलं नृपः ॥ ८ ॥
एकं च समयं कृत्वा मनाइय सङ्गरे ।
पलायनेन शत्रूणां वई येज्जयसम्पदम् ॥८१ ॥
( १.१ )
निश्चेष्टांस्तान् विलोक्याथ जयलाभन हर्षितान् ।
विना समयमाक्रस्य नाशयेच्छमना नृपः ॥८२ ॥
अत: प्रतिमुखं दृष्ट्वा सहसा नाक्रमेन्नृपः ।
आक्रमेद् यदि खस्थानं रक्षयेद् वीर्य सञ्चयैः ॥ ८३ ॥
यत्र चक्र रिपोस्तत्र भूमध्यखननादिना ।
विलैरुत्पाटयेत् तद्धि तीक्षावाभियोजितैः ॥ ८४ ॥
तथावस्त्वभियोगेन वाष्पमुत्पाद्य यत्नतः ।
वायुना चालयेद् येन रिपवः स्यूमजाकुलाः ॥ ८५ ॥
अग्नास्त्रेषु तथावस्तु योजयेद् येन शत्रवः ।
स्पर्शगन्धादिना रुग्ना मूर्छिता निपतन्ति हि ॥८६॥
सम्मुखे रणभूम्यास्तु भित्तिराशींस्तथाचरेत् ।
यवस्था नाशकाः शत्रोन नाश्याः स्युनिंजा जनाः ८७
संस्थाप्य गोपने सैन्यं रणं त्यक्ता पलायितः ।
आक्रमन्तं रिपुं मध्ये पातयन् नाशयेच्छलात् ॥८८॥
पलायनपरान् शत्रून् पश्चादाक्रम्य वेगतः ।
ताड़यंश्छिन्नसंघांस्तान् कुर्यात् शस्त्रास्वविच्युतान् ८८
आक्रमे सर्वसैन्यानां न वेगः श्रेयसे मतः ।
कानिचिद् रक्षयेत् पश्चात् पश्चादाक्रमभौतिमान् ६०
ताड़िताः शत्रवश्चेत् स्युः श्रितदुर्गादयस्तदा ।
सम्भवश्वेच्चरन् पश्चात्तस्मिन्नप्याक्रमेद् बलात् ॥ १॥
( १.२ )
अन्यथा वहिरासीनो दुर्गवृत्तनिरोधवान् ।
भिदा हारं लंघयन् वा रिपूनुत्पाटयेद् बलात् ॥६२॥
टुराक्रम्यं रिपोर्दुर्ग यदि स्याद् दृढ़बन्धनैः ।
दुर्गपावं समाश्रित्य तिष्ठेद्राजा ससैनिकः ॥ ६३ ॥
येन तत्र वहि:स्थानां प्रवेशो नैव जायते ।
न वहिर्यान्ति तत्रस्थास्तथा कार्य प्रयत्नतः ॥६४ ॥
एवं क्रमेण तत्रस्था होनाना होनविक्रमाः ।
खयं नश्यन्ति निर्वीर्य्याः शरणं यान्ति वा क्रमात् ६५
अरण्ये पर्वते वापि मरौ वा टुरतिक्रमे ।
एवं नीतिरूपादेया द्विषतामभिमईने ॥ १६ ॥
यावत् ससैन्या रिपवस्तिष्ठन्त्यपि पलायिता:।
तावन्निष्कण्टकं विद्यान्न राज्यं पृथिवीपतिः ॥१७॥
संग्रामान्तकार्यम् ।
तस्माज्जित्वा रिपुं कुर्य्याहतास्वं हतसैनिकम् ।
सन्ध्याहा स्थापयेद्राज्ये बलाबलविलोकनात् ॥ १ ॥
कर्तुं समर्थः कालेन यः पुनर्लोकसंग्रहम् ।
रिपुसम्मेलनं वापि तं रुन्थ्याधीनमप्यरिम् ॥ २॥
यो जितः शरणं यातो दीनवृत्तिनिराश्रयः ।
पुनस्तं स्थापयेद्राज्ये खजनैरभिरक्षितम् ॥ ३ ॥
जितोऽपि यो दुराचारी दुश्चेष्टो दुर्मदः सदा ।
रुद्धोऽपि रक्षकद्रोही तं हन्यादा प्रवासयेत् ॥ ४ ॥
( १०३ )
धार्मिक स्वहितं धौनं क्वचिद्राज्ये निवेशयेत् ।
स लोकान् वयेत् प्रीत्या बोधयेच्च हिताहितम् ॥५॥
एवं जित्वा रिपुं राजा तद्राज्ये धनसंग्रहौ ।
तत्यजाः पालयेद् यत्नात् खप्रजा इव नीतितः ॥६॥
अथवा निजकार्याणां साधकं खमतानुगम् ।
संस्थापयेद् वीर्यवन्तं रिपुराज्ये विशारदम् ॥ ७॥
हृतं रिपुधनं राजा न स्वयं भीतुमर्हति ।
विभज्य सर्वसैन्येषु योजयेद् भागयोगतः ॥ ८॥
मृतानां समरक्षेत्र पुत्रापत्यसुहृज्जनान् ।
पालयेत् शिक्षयेत् प्रोत्या तोषयेन्मतिमान् नृपः ॥६॥
शिक्षितानां यथाजानं कायें संयोजयेत् ततः ।
वृद्धानां कर्महीनानां तथा सम्पालनं चरेत् ॥ १० ॥
खटुर्गे नगरे ग्रामे सर्वत्रोत्सवमाचरेत् ।
राजसूयादियतेन देवान् सम्पूजयन्नृपः ॥ ११ ॥
दद्यादन्न दरिद्राय योद्धृभ्यो मानजीविकाः ।
देवेभ्यो भूमिरत्नादि सर्वमेतत् शुभावहम् ॥ १२ ॥
खजनेन रिपुं रक्षेद् दानमानादिना टपः ।
हृतराज्योऽपि भूपो न दीनबत्तिमर्हति ॥ १३ ॥
दशानां पाल को योऽभूत् कथं भिक्षां लभेत सः ।
चिरशर्मोचिती यो वा कथं दुःखेन जीवति ॥ १४ ॥
( १०४ )
न जानाति क्रियामन्या लोकानां पालनं विना ।
कथं जीवद्धते राज्ये यासी नैव पाल्यते ॥ १५ ॥
प्रजानां पालको राजा धर्मात् सोऽपि प्रजा तदा ।
नौतिमान् धार्मिको
भूपः
कथं तं नैव पालयेत्॥१६॥
बलात्कारहृतश्रीकः खार्थाहा दोषती रिपुः ।
नैवं दोषस्तस्य कश्चिद् विनान्न येन नश्यति ॥ १७॥
न हरेत् स्त्रियमेतस्य न तस्या धनमाहरेत् ।
अबला किं विजानाति चापरं सुखजीवना ॥ १८ ॥
दुःखे दुःखं सुख शर्मा या पत्युभेजते परम् ।
सुखोचिता च या मित्यं कोऽवमन्येत तां स्त्रियम्१६
पूजिता यत्र तुष्यन्ति योषितो गृहदेवताः ।
देवतास्तत्र तुष्यन्ति कमला निश्चला चिरम् ॥ २० ॥
यत्र ता वेदनाग्रस्ता निःश्वसन्ति लवादपि ।
चञ्चला कमला तत्र विपदश्च पदे पदे ॥ २१ ॥
देवतासेवनं रक्ष्यं यथापूर्व प्रयत्नतः ।
देवताखामिकं वस्तु न कश्चित् प्राप्तुमर्हति ॥ २२ ॥
दासभृत्यै धर्मकृत्यै तोषायैर्वा यदर्पितम् ।
न तस्य हरणं कुर्यात् पूर्ववत् परिपालयेत् ॥ २३ ॥
यो यदा लभते यह खाम्यं तस्य तदानघम् ।
खामिना दत्तवस्तूनि कोऽन्यथा कर्तुमर्हति ॥ २४ ॥
PERS
।
( १०५ )
चञ्चलेयं सदा पृथ्वी नैकभोग्या चिरन्तनम् ।
खकराद् भ्रश्यमानायामन्योऽप्येवं विधास्यति ॥ २५ ॥
एवं विचिन्त्य धर्मात्मा न्यायाद्राज्यं प्रपालयन् ।
दूह कौतिं समासाद्य परत्र लभते सुखम् ॥ २६ ॥
आरण्याः पार्वता जेया विपत्तौ बान्धवोत्तमाः ।
तस्मात्तेषां सदा कार्य प्रोत्या पालनमुत्तमम् ॥२७॥
प्रत्यागमपथे पूर्व स्थापयेद् भूविलादिषु ।
विषाग्निजननं तीक्षा द्रव्यमन्येन दुश्चरम् ॥ २८ ॥
अन्याक्रमे खाक्रमे वा न जयो निश्चित: क्वचित् ।
तस्माद् युद्धसमारम्भे पदमेवं विलोकयेत् ॥ २६ ॥
सर्वशष्यसमायुक्त गिरिदुर्गादिवेष्टितम् ।
यवस्थितानि सैन्यानि जीवन्ति निरुपद्रवम् ॥ ३० ॥
तत्र स्थित्वा पुनर्वीय प्रदीप्तस्तत्त्वकोविदः ।
पुनरप्याक्रमेत् शत्रून् जितोऽपि पृथिवीपतिः ॥ ३१ ॥
यद्याक्रमासमर्थः स्यात् सदा विघ्नं समाचरेत् ।
येन सन्त्रासितः शत्रुन क्षणं मुखमाविशेत् ॥ ३२ ॥
अन्याक्रमणकाले च पुरा मार्ग निरोधयेत् ।
मार्गरोधो महानीतिर्विमार्गः को हि गच्छति ॥३३॥
विच्छिद्य पुलिनं मार्गे विनाश्यान्नादिसम्पदम् ।
निष्काश्य मानवांस्तस्मात् पानीय विषमर्पयन् ॥३४॥
( १.६ ) नौकाशकटयानादि विलोप्य वसुधाधिपः । विमुखोऽपि रिपुं हन्तुं समर्थः स्यात् सुनौतिमान्॥३५॥ रिपूणामाक्रमचेत् स्याद दुर्निवार्यो भवेत् पुनः । दुर्गाश्रयो न कर्त्तव्यः पुनः कल्याणमिच्छता ॥ ३६ ॥ दुर्गाशये पार्श्वतश्चेत् सन्तिष्टेदरिमण्डलम् । चिरमाक्रम्य तन्नश्येत् स्वयमेव विनादनम् ॥ ३७ ॥ चेदाश्रयेत्तदा पार्श्व पश्येत् प्रास्थानिकं नृपः । विपत्ती येन निर्गच्छेदनाक्रान्तो नाहतः ॥ ३८ ॥ आथित्व वौर्यसंयोगादुपटुत्य रिपून महत् । भूयाच्चेद् बिफलायास: सधनो निश्चरेत्ततः ॥ ३८ ॥ निर्गम्यारण्यमाश्रित्य बन्यान् संगृह्य यत्नतः । पुनरहौपये वैरं येन शत्रुविनश्यति ॥ ४० ॥ अथवाक्रमणे शत्रोधरणीमण्डलं श्रयेत् । सहायैरवसञ्चारै यदीच्छेत् शुभमात्मनः ॥ ४१ ॥ अनन्ता धरणीधेषा बनगिर्यादिवेष्टिता । न्यायतश्चरतः कः स्यादाक्रमे चम एव हि ॥ ४२ ॥ निष्कम्य मेलयन् भूपान् वीर्यमैत्रैश्छलैर्नृपः । रिपुमुद्दे जयेन्नित्यं नैकत्र स्थितिमाचरेत् ॥ ४३ ॥ एवं भ्रमन् धरामध्ये विद्रुत्य रिपुमण्डलम् । खोराज्योऽपि लभते राजलक्ष्मी पुनर्चपः ॥ ४४ ॥ भ्रट
( १०७ )
सदा विरोधिनं कश्चिन्न पराभवितुं क्षमः ।
जितोऽपि सततं कुर्याद् विरोधं साहसाश्रितः ॥४५॥
अथवा विषतां शत्रुः श्रयणीयः खबान्धवैः ।
तेन सम्पाद्य साहाय्यं पातनीयो रिपुः क्रमात् ॥४६॥
एवं यथा यथानिष्टं रिपोरीचेत भूमिपः ।
तथा तथा विधातव्यं निस्तन्द्रेण महीभृता॥ ४० ॥
प्रतिष्ठादानम्।
देवं वा मनुजं ग्राम नगरं पर्वतं वनम् ।
अभिगम्य समृडाव्य उचिताचारशोभितः ॥ १ ॥
दिने मासेऽथवा वर्षे वर्षान्त वा क्रियाविधौ ।
पूजयित्वा सदालापैः स्थित्वा सम्बईयेन्नृपः ॥ २ ॥
क्रियाखेतासु बहुलां सम्पदं लभते नृपः ।
लोकानुरागः सम्प्राप्तिरुभयोर्जीविजीव्ययोः ॥ ३ ॥
यथा भक्तिर्नरेन्द्रस्य तथात्र सम्पदुद्भवः ।
नास्त्येवं कृतिरवत्या या न सिद्धेन्नृपाश्रयात् ॥ ४ ॥
सर्वेषां स्थापको राजा सर्वेषां परिवर्द्धकः ।
सर्वेषां नाशकश्चैव राजा लोक महेश्वरः ॥ ५ ॥
कार्यातिपाते प्रीतेर्वा विवृद्धिपरिकामुकः ।
कुमारम्वाप्यमात्यं वा भृत्यं वा प्रेरयेन्मतम् ॥ ६ ॥
प्रेरणविधिः।
सम्भाव्यमानव्यापत्ती महत्यामात्मसम्मितान् ।
प्रसिद्धान् कार्यकुशलान् कूटाद् यत्नेन चालयेत् ॥१॥
( १०८)
त्यागै रौक्ष्मैर्वणिग्वृत्त्या निपुणान् प्रेष्य भूमिपः ।
अन्येषां तत्त्वमन्विच्छेद् भेददानादिलिप्सया ॥ २ ॥
दारापत्यहितादीनां ये समर्था निकृन्तने ।
ते समर्थाः परोभेदे भवन्ति कृतबुद्धयः ॥ ३ ॥
यथैको लोकते पापं तथा न्यः किं न लोकयेत् ।
तस्मात् क्रिया वद्धमूला भवन्ति चारभेदिनः ॥ ४ ॥
नियुक्तः सततं कार्य्यमात्मव्यापत्तिकल्पनम् ।
येन शत्रुकुलं विद्याद् विपन्न स्वामिविच्युतम ॥ ५ ॥
एवं कार्येषु युक्तानां सदा कूटनिषेविणाम् ।
काले मिध्यन्ति कार्याणि बहु यत्नेन धीमताम् ॥६॥
सविशेषविधानस्य ते जानन्ति य उद्यता:।
कठिनोऽयं राजमार्गी लोकनीयः प्रयत्नतः ॥ ७॥
कियदात्मीयत्तीनामुड़वे राजसम्पदः ।
भोक्तारो ये विजानन्ति ते नान्ये पार्श्वगामिनः ॥८॥
उक्तिरेका क्रियाह्ये का फलमन्यदौक्ष्यते ।
अत्रैव प्रकृतिर्देवी प्रायः पूर्ण कलेवरा ॥६॥
भोगविधिः
न भोगादधिकं किञ्चित् संसार विद्यते नृणाम् ।
तस्माद् यत्नेन भुञ्जीत विषयान् वसुधापतिः ॥ १ ॥
यदि भोगं न कुर्वीत किं राज्येन भवेत् तदा ।
यदर्थ शिरसश्छेदः सम्भाव्योऽस्ति पदे पद ॥ २ ॥
(१०६)
रसरूपगन्धशब्दस्पर्शाः स्युर्भोगसाधकाः ।
तस्मादेतान् प्रयत्नेन भुञ्जीत सुसमाहितः ॥ ३ ॥
मधुरादिरसभोगः ।
मधुराम्नकषायादिरसा ये स्युर्घरातले ।
पाकयोगादिभिनित्यं सेवेत समयोचितम् ॥ १ ॥
रसानामभियोगेन वायुपित्तकफादयः ।
हासविसमावस्था भजन्ते यत् शरीरिणाम् ॥ २ ॥
तस्माविषग्वरादेशाद् योगिनाम्बानि देशतः ।
कालं विभज्य भुञ्जीत रसान् करणपोष कान् ॥ ३ ॥
असम्यग्रससम्भोगाद्विगुणा धातवो नृणाम् ।
उत्पादयन्ति दुःखानि रोगचिन्तादिभिः सदा ॥ ४ ॥
रूपभोगः ।
जड़जङ्गमयोर्मध्ये दृश्यं यत् स्यादनुत्तमम् ।
तत्सर्वं सततं पश्येद् यथाकालं यथोदितम् ॥ १ ॥
नदीपर्वतकान्दारक्षेत्रारामगृहादिषु ।
दासमित्रवधूदासीपशुयानखगादिषु ॥ २.॥
बौरे भयकरी मुतिमधुरा सुरतोत्सवै ।
बात्सल्ये वत्सला जेया हास्यै हास्यमयी तथा ॥ ३ ॥
एवं रुपण लोकेषु यतस्याद् यद्रससाधनम् ।
शृङ्गारादिषु तत्सर्वं पश्येद्रूपं विभागतः ॥ ४ ॥
( ११०
गन्धभोगः।
खाभाविकं कृत्रिमञ्च रोचकं मोदकं तथा ।
मादक वईकं स्निग्धं निद्रालस्य करं तथा ॥ १ ॥
गन्ध सेवेत सततं भक्ष्ये पेये च वाससि ।
येनात्मप्रौति लाभ: स्यात् सगन्धः शुभदो मतः॥ २ ॥
शब्दभोगः ।
ध्वनिवर्णविभेदेन शब्दस्तु हिविधो मतः ।
ध्वनिः पतङ्ग वाद्ये च यन्ते चास्पष्टरूपभाक् ॥ १ ॥
स्पष्टशब्दो भवर्णी यः कण्ठे वर्त्तते नृणाम्।
रागभावादियोगेन नानाप्रीतिकरः सदा ॥ २ ॥
स्पर्शभोगः ।
पुष्पग्राव कोमलागी शय्यावातासनादिषु ।
सेवनीयः सदास्पर्श: कालयोगानुसारतः ॥१॥
यावद् यच्च यदाभोग्यं शब्दादिषु महीभृता ।
तावत् सौन्दर्य योगेन साधनीयं प्रयत्नतः ॥ २ ॥
वैधकामभोगः ।
धर्मार्थी साधयन् काले तेषुतेष्वधिकारिभिः ।
धर्मे पुरोधो विद्वांसो दण्डिनो ब्रह्मचारिणः ॥ १ ॥
अर्थे सुचतुरा नीती निपुणा बहुकारिणः ।
दण्डे तीक्ष्णा न्यायरता रणे क्रूरामदोद्धताः ॥ २ ॥
(१११) निश्चिन्तोऽमात्यसंयुक्तो निशिकामान् समाचरेत् । वेशालङ्कारसंयुक्तः प्रसन्नः सौरभान्वितः ॥ ३ ॥ उद्याने पर्वतेऽरण्ये तरण्यां मन्दिरे तथा । समरूपधरैर्मिचैविटचेटविदूषकैः ॥ ४ ॥ पुष्पैः परिमलै रत्नैः काव्यैः सङ्गीतसेवनैः । यन्त्रैर्हास्यरसै तैः पानभोजनसम्मदैः ॥ ५ ॥ तरुणीगणनृत्येन पतङ्गमधुरखनैः । एकान्तेऽई निशं यावद् भोगं कुर्य्यादनातुरः ॥ ६ ॥ तत्रोद्दीप्तमना भूत्वा रहः सेवेत भूमिपः । अमात्यानादरात्त्यक्ता प्रियबन्धुसमन्वितः ॥ ७ ॥ यो धर्मिष्ठः कलाभिज्ञो विश्वस्तश्चात्मवत् सुधीः । शुद्धान्तचारी तेन स्यादथवा खयमेव हि ॥८॥ विदूषकेण शुद्धान्तसम्भोग: श्रूयते यतः । तेन तत्सहयोगो हि न दोषाय महीभृताम् ॥ ६ ॥ न सहायमृते किञ्चित् कार्य सिध्यति भूभृताम् । तस्मात् तत्र क्रियासिबै सहायमनुसञ्चरेत् ॥ १० ॥ माने भेदादिकोपायः साधनीयो हि योषिताम् । स्त्रियः स्त्रीणां सहाया: स्युः पुरुषाः पुरुषस्य च॥११॥ वात्स्यायनोतमार्गेण भरताभिहितेन च । कैलिकौतुकनृत्यादियोगेन रमयेहधूः । १२ ॥
।
(११२)
सा तु
सेव्यासव्य स्त्रीलक्षणम् ।
नवयस्यधिकां तुल्या दुर्लक्षणसमन्विताम् ।
हौनाङ्गीमधिकाङ्गोच्च रुग्नां नैव भजनृपः ॥ १॥
प्रसन्ना रागसंयुक्ता सहभप्रभवा तथा ।
रूपयौवनसम्पन्ना लावण्यपरिभूषिता ॥२॥
क्षीणाङ्गो लक्षणयुता केलि कौतुककोविदा ।
सव्या
वधूगजा
वैधकाले यथाबलम् ॥ ३ ॥
सुरतव्यवस्था।
अतिमैथुनसक्तस्य नानारोगः प्रजायते ।
अकालमृत्युश्च यतस्तस्मात्तत् परिवर्जयेत् ॥ १ ॥
आसनं बन्धनं विद्यादौषधं न्यसनं तथा ।
येन प्रीति: समैव स्याटुभयोरपि रक्तयोः ॥ २ ॥
त्रिभिस्विभिरहोभिर्हि समीपाव्यमदां नरः ।
सर्वेष्वृतुषु धर्मेतु पश्चात्यक्षाभजेहुधः ॥ ३ ॥
प्रत्यूषे चाईरात्रे च मध्यान्हे यजयेद्रतिम् ।
तथा रुग्न: अमैर्युक्तो मुक्तो वा क्षुधयादितः ॥ ४ ॥
रतिं कृत्वा पयः पौत्वा वृतादिपरिमीलितम् ।
सुखशय्यासमासीनः सेवेत व्य जनानिलम् ॥ ५ ॥
सुरतान्ते स्निग्धयोग: कफादिपरिपोषकः ।
तस्मादिमं न सेवेत न जलं शीतलं पिवेत् ॥ ६ ॥
चमणविधिः ।
कालं विभज्य नृपतिश्चरेद्देशान् शनैः शनैः ।
यथासुखमालोक्य यथाशस्थाभियोगतः ॥१॥
शरत्काले नदीतौरे क्षेत्रे च मधुमासके ।
अरण्ये मृगयामिच्छन् चरेद् ग्रीष्मे हिमप्नु ते ॥ २ ॥
हासोन्नती स्वयंपश्ये दुझिदामाकरस्य च।
रत्नानाञ्च पशूनाच प्रस्तराणां महीरुहाम् ॥ ३॥
यथायोगं कर रहून् पश्यन् वृत्तिं निर्देशिनाम् ।
प्रजानामान्तरं तत्त्वं विजानीयात् समाहितः ॥ ४ ॥
सामन्तादीन् समामन्बा दानानैः सुभाषणैः ।
उत्सवैस्तोषयन् सर्वान् वशे कुर्य्यान्महीपतिः ॥ ५ ॥
समरे तु समारब्धे न स्वयं गन्तुमर्हति ।
अमात्यमात्मवत् प्रेष्य ज्ञाततत्त्वश्चरेक्रियाम् ॥ ६ ॥
भ्रमतो निजराज्येषुप्रजातुष्ठिर्धनागमः ।
बलौनत्यं खास्थ्यलाभ: खलहासः पदे पदे ॥७॥
एकत्रालस्थपूर्णस्य तिष्ठती व्यसने रतिः ।
दुष्टानामभिसम्बृद्धिः प्रजानां दुःखमेव च ॥८॥
शरीररक्षोपायः।
गौयन्तेसर्वकर्माणि देहमूलानि देहिनाम् ।
देहरक्षाकरी नीतिः कथ्यते तेन साम्प्रतम् ॥ १ ॥
ब्राह्म मुहूर्त उत्याय कृतदेवगुरुस्थितिः ।
खकार्यमनुसन्दध्यात् किम्बा देवे क्षिपेत् क्रियाम्॥२॥
( ११६ ) विश्रम्य खेदनिर्मुक्तो विदध्यादनुलेपनम् । धातूनामनुरूपेण द्रव्येण परिमौलितम् ॥ २३ ॥ सुखाले पाद् हद चक्षुः पौनगण्ड तथाननम् । अव्यङ्गपीड़क कान्तं भवत्यम्बुजसन्निभम् ॥ २४ ॥ पक्ष्मलं विशदं कान्तममलोज्जुलतारकम् । नेत्रमञ्जनसंयोगाद् भवेच्च चिरदर्शकम् ॥ २५ ॥ दोषघ्नमथचीजस्यं सौभाग्यकरमुत्तमम् । समनोऽम्बररत्नानां कुर्याद् धारणमादरात् ॥ २६ ॥ बायोरग्नेः समुत्पादे स्नेहाप्यायनकारिभिः । सद्योजातपयोमुख्य धातुयोग्यौषधादिभिः ॥ २० ॥ कृतक्रियं श्रान्तियुक्तं पूरयेद् देहयन्त्रकम् । येन स्निन मुलब्यान्नं चारयेत् खपदे पुनः ॥ २८ ॥ काश्मौरभूवंशसारशुण्ठिकनमदादिकम् । धनक्षौद्रादिकं नाना स्यादौषधमनुत्तमम् ॥ २६ ॥ तस्माजले समुद्भते पिवेत् पानीयमुत्तमम् । वर्ण दाहादिसंशुई निरावृत्तिपदोद्भवम् ॥ ३० ॥ गुग्गुलादिधूपधूमै धूपितेऽभिनवे मृदाम् । पात्र पवनसञ्चारैः शीतं वस्त्रादिशोधितम् ॥ ३१ ॥ चुलुकमृदां पात्रै र्धातुहेमसम्भवैः । यथालाभं पिवेद वारि सर्वमेतदनुत्तमम् ॥ ३२ ॥ D
( ११७ )
तदग्नियोगसन्तप्तं कालादन्न सुपोषितम् ।
जलयोगेन प्रक्लिय रसमुत्पादयेत् ततः ॥ ३३ ॥
जलात् पृथ्वीसमुत्पादे सुष्टुतल्पोपरिस्थितः ।
मुखं तिष्ठेद् येन यन्त्र स्निग्ध स्याद्रसपूरणैः ॥ ३४ ॥
स्निग्धे यन्त्र वाह्यरसे पुनराकाशसम्भवे ।
समर्थश्चेत् पुनस्तै लैः स्नानं कुर्य्यादनातुरः ॥ ३५ ॥
तैलं स्यात् सार्षपम्बापि तैलं वा पुण्यगन्धितम् ।
तादष्टगुणं तैलं मर्दनान च भक्षणात् ॥ ३६ ॥
पुनर्वायो समुत्पन्ने प्राणायाम चरेत् सुधीः ।
तदन्ते भोजनं कुर्य्याट् रसवीर्य विवईकैः ॥ ३७॥
भिषगबरादेशरतः खयम्वा बौक्ष्य तत्त्वतः ।
समयोचितयोगेन भुक्तिं कुर्यादनातुरः ॥ ३८ ॥
एवं क्रमेण तत्त्वानां समुत्पाते दिवानिशम् ।
स्नानपानादिकं कुर्यात् परमक्षेमकामुकः ॥ ३८ ॥
दिवारात्रिसमे काले घटिके हे क्रमात् कमात् ।
आकाशपवमानाग्निजलभूमिसमुद्भवः ॥ ४० ॥
पुनरस्मिन् रजश्चैव तमः सत्त्व प्रजायते ।
पञ्चपञ्चात्मको दण्डः कालो ह्येषां क्रमोदये ॥४॥
रजस्यौयं प्रकुर्चीत तमसि स्थितिमाचरेत् ।
सत्त्वे मोदकरं कायं दिवारावं यथास्थितम् ॥ ४२ ॥
( ११८ ) पुनरप्यत्र देहेषु दिवारात्रविभागतः । चन्द्रसूर्य्यादिसञ्चारो नासावायुप्रचारतः ॥ ४३ ॥ चन्द्रे स्नेहकरं द्रव्य सूर्ये तेजस्करं तथा । सङ्गमे ध्यानचिन्तादि कुाद योगिनिदेशतः ॥ ४४ ॥ यात्रायां शीतकिरणो प्रौतिवश्य करी क्रिया। सूर्ये तीक्षण प्रकुर्वीत तथा मैथुनमेव च ॥ ४५ ॥ काल योगेन प्रोत्यादसिवृद्धद्यादिकं भवेत् । तस्मात् तदानुकूलीन द्रव्यभुक्ति: प्रशस्यते ॥ ४६ ॥ वर्षा शरच्च हेमन्तः शिशिरो मधुतापकी । अस्मिन् तन्त्र षड़तवो जेया वाह्यादिवई काः ॥४७॥ भाद्रादिमासयुग्मेषु हौ हौ मासाहतुर्भवेत् । खभावाद् वायुपित्तादेहासवृवयादिकं ततः ॥४८॥ वर्षासु तरुणं द्रव्यमल्पवीयं तथा पयः । जलप्राया च धरणी नभो वारिधराकुलम् ॥ ४६ ॥ स्निग्धदेहस्य जीवस्य शीतवाताभियोगतः । विनष्टाग्न विदग्धान्न पित्तसञ्चयकारकम् ॥ ५० ॥ स खल्पमेधे शरदि व्योम्नि पङ्के प्रशष्यति । सूर्योत्तापसमायुक्तः पैत्तिकी जनयेद रुजम् ॥ ५१ ॥ तद्र्व्यं काल पाकेन हेमन्ते वीर्यसंयुतम् । जलं स्निग्धं प्रसन्नच गुरु मन्दकरो रविः ॥ ५२ ॥ ।
( ११६ )
पवनैः स्तब्धदेहानां सतुषारैः शरीरिणाम् ।
अविदग्ध तदन्न सत् स्नेहगौरवशैत्यतः ॥ ५३ ॥
उपले पाच जनयेत् श्लेष्मणां सञ्चयं पुनः ।
स सञ्चयो वसन्तेषु सूर्य्यरश्मिसमावृतः ॥ ५४ ॥
स्तब्धदेहस्य जीवस्य भिकौं जनयेद् रुजम् ।
तन्निदाघे रुक्ष्म लघुनिःसारं सलिलं तथा ॥ ५५ ॥
तापोपशुष्कदेहानां वैशद्याद्रौक्षलाघवात् ।
जनयेत् पवमानस्य सञ्चयं सेवितं पुनः ॥ ५६ ॥
स सञ्चयः प्राषि च जललिन्न धरातले ।
लिनदेहस्य वाताद्यैर्वातिकौं जनयेद् रुजम् ॥ ५७ ॥
वर्षा हेमन्तधर्मेषु दोषस्य सञ्चितस्य च ।
शरबसन्तप्राट् कष्टस्य च निवर्हणम् ॥ ५८ ॥
प्रत्यहं चैव विजेयं मधो: पूर्वान्ह एव च ।
मध्यान्हे ग्रीष्मकालस्य अपरान्ह च प्रावृषः ॥ ५८ ॥
प्रदोषे वार्षिकं लिङ्गमर्द्धरात्रे च शारदम् ।
प्रत्यूषः समये चैव च यं हैमन्तकं बुधैः ॥ ६० ॥
अव्यापन्नेषु ऋतुषु द्रव्य व्यापत्तिवर्जितम् ।
व्यापन्नेष्वन्यथैव स्थाद् यथा सुश्रुतभाषितम् ॥ ६१ ॥
( १२० )
अव्यापन लक्षणानि।
तत्र हेमन्तस्य ।
वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः ।
छन्नस्तुषारैः सविता हिमानवा जलाशयाः ॥१॥
दर्पिता वानखड्गाह्वमहिषोरभकुञ्जराः ।
रोधप्रियङ्गपुन्नागाः पुष्पिता हिमसातये ॥ २ ॥
शिशिरस्य।
शिशिर शौतमधिकं वातवृष्ट्याकुला दिशः ।
शेषं हेमन्तवत् सवं विजेयं लक्षणं बुधैः ॥ १ ॥
वसन्तस्य।
दिशो वसन्ते विमला: काननैरुपशोभिताः ।
किंशुकाम्भोजबकुलचूताशोकादि पुष्पितैः ॥ १ ॥
कोकिलाषट्पदगणैरुपगीता मनोहराः ।
दक्षिणानिलमम्बीताः सुसुखाः पल्लवोज्जला: ॥ २ ॥
ग्रीषस्य ।
ग्री तीक्षणांशुरादित्यो मारुतो नै तोऽमुखः ।
भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्जूलिता इव ॥ १ ॥
भ्रान्तचक्रावयुगला: पयःपानाकुला मृगाः ।
ध्वस्तवीरुत्तृणलता विपक्षितपादपाः ॥ २ ॥
प्रावषः ।
।
प्रावृष्यम्बरमान पश्चिमानिलकर्षितैः ।
अम्बुदैविद्युद्योतप्रसुतैस्तुमुलखनैः ॥ १ ॥
( १२१ )
कोमलश्यामशष्याठ्या शक्रगोपोज्जला मही ।
कदम्बनीपकुटजसज केतकिभूषिता ॥ २ ॥
तत्र वर्षासु नद्यम्भःपूरीद्भग्नतद्रुमाः ।
वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ॥ ३ ॥
भूरव्यक्तस्थलश्वधा बहुशष्योपशोभिता ।
नातिगर्जत्स्रवन्मेघनिरुद्दाकंग्रहं नमः ॥ ४ ॥
वभुरुषाः शरद्यर्कः वताभविमलं नमः ।
तथा सरांस्यम्बुरुहैर्भान्तिहंसांसघट्टितैः ॥ १ ॥
परशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषुभूः ।
वाणसप्ताहबन्धककाशासनविराजिता ॥२॥
ऋतुविपर्यासादिकर्तव्यम्।
खगुणरतियुक्तषु विपरीतेषु वा पुनः ।
विषमेष्वपि वा दोषाः कुप्यन्त्युतुषु देहिनाम् ॥ १ ॥
हरेद् वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत् ।
वर्षासु शमयेद् वायुं प्राविकारसमुच्छ्रयात् ॥ २ ॥
यस्मिन् यस्मिन्नृती ये ये दोषाः कुप्यन्ति देहिनाम् ।
तेषु तेषु सेवनीया रसास्तेषु विजानता ॥ ३ ॥
वर्षासु न पिवेत्तोयं पिवेत् शरदि मात्रया।
वर्षासु चतुरो मासान् मात्रावदुदकं पिवेत् ॥ ४ ॥
( १२२ )
उषा हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् ।
हेमन्ते च वसन्ते च सौध्वरिष्टौ पिवेन्नरः ॥ ५॥
गृहशीतं पिवेद ग्रीष्मे प्राट्काले रसं पिवेत् ।
यूषं वर्षति तस्यान्ते प्रपिवेच्छौतलं जलम् ॥ ६ ॥
स्वस्थ एवमतोऽन्यस्तु दोषाहारमतानुगः ।
स्नेहं सैन्धवचूर्णेन पिप्पलौभिश्च संयुतम् ॥ ७ ॥
पिवैदग्निविवाथै नच वेगान् विधारयेत् ।
अग्निदीप्तिकरं नृणां रोगाणां शमनं प्रति ॥८॥
प्राशरहसन्तेषु सम्यक् स्नेहादिमाचरेत् ।
कफे प्रच्छईनं पित्त विरको वस्तिरोरणे ॥६॥
शष्यते विष्वपि सदा व्यायामी दोषनाशनः ।
प्रवातं रौक्ष्यवैवर्खास्तम्भकृद् दाहपक्तिनुत् ॥१०॥
खेदमूर्छापिपासाघ्नमप्रवातमतोऽन्यथा ।
सुखं वातं प्रसेवेत ग्रीन शरदि मानवः ॥ ११ ॥
निवातं घायुषे सेव्यमारोग्याय च सर्वदा ।
आतपः पित्तटष्णाग्निखेदमूभिमासकृत् ॥ १२ ॥
दाहवैवर्ण्यकारी च छाया चैतानपोहति ।
विपर्यासाविपर्यासातूनां लोककर्मजी ॥ १३ ॥
विपर्यास महारीगो मरको वा भवेत् पुनः ।
पूजा होमस्तपो यज्ञः शान्त्यर्थं शिष्टभोजनम् ॥
खच्छदेशोद्भवं द्रव्यं सेव्यं वा स्थानमुत्सृजेत् ॥१४॥
( १२३ )
विषवल्लाऽदियोगेन कृत्यादेर्वाभियोगतः।
स्थानत्यागोऽथवा शान्तिर्विधेया पूर्ववत् सता ॥१५॥
दुष्टवारिगतद्रव्यपूतिगन्धादियोगजाः ।
मजस्त्यागेन नाशन शमनीयाः प्रयत्नतः ॥ १६ ॥
एवं यथायथोत्यातं पश्येदात्मनि वा जने ।
तैस्तैमन्तिभिकत्साही शमयल्लमते सुखम् ॥ १७ ॥
महाराज्यम्।
यावदस्ति नृणां कायं धर्माहा व्यवहारतः ।
तत् सर्च स्थाप्यते राज्ञा यदि सर्वानुमोदतः ॥ १ ॥
इष्टेऽनिष्टे सुखं दुःखं यदि कर्मानुरोधतः ।
भुनानाः सकला लोका निर्विमाः स्युरञ्चलाः ॥ २ ॥
नियमः सर्वसम्मत्या कल्पितः पाल्यते यदि ।
न कश्चित् खार्थमुद्दिश्य कत्तुमर्हद् यथेप्सितम् ॥ ३॥
सर्वे नियममाश्रित्य कायं कुर्युनिराकुलाः ।
न कश्चिद् देषमागच्छेदुन्नतिं वीक्ष्य कस्यचित् ॥ ४ ॥
गुणवृद्धा जानवृद्धाश्चेजनैरनुमोदिताः।
सर्वे निरलसाश्चेत् स्युः खाधिकारे दृढव्रताः ॥ ५ ॥
खकार्य मभिसम्बौक्ष्य सुखदुःखाविमोहिताः।
खीयान्ने प्रौतिसम्पन्नाः खभूमौ बद्धमुष्टयः ॥ ६ ॥
राजा वा श्रोत्रियो वापि धनी वा दीन एव वा ।
कार्यानुरूपं दण्डयः स्यात् पूज्यो वा जनसंसदि ॥७॥
।
( १२४ )
न कश्चित् कञ्चिदालोक्य विहसेत् प्रीतिमाचरेत्
लोकः कर्मानुसारेण चरेदुन्नतिमात्मनः ॥८॥
असमर्थाः जनैः पोष्याः समर्थाः शिक्षिता: क्रियाम् ।
न्याय्य सर्वे राजकोषखामिनः स्युर्यथोचितम् ॥ ६ ॥
एवं साधरणीनौतियंत्रास्ते जनमण्डले ।
मोषरभूमिर्वा भवेद रत्नमयौ क्षणात् ॥ १० ॥
चिरं तिष्ठति साम्राज्यं सुखराशिः पदे पदे ।
रिपवः संक्षयं यान्ति दुःखलेशी न दृश्यते ॥ ११ ॥
अनुबतिमार्गः।
साहतारा यत्र लोका: स्वविज्ञातेषु सर्वदा ।
खानुभूतपरामात्याः खोत्कर्षेष्वपि विहिषः ॥ १॥
खानुभूतार्थसंरक्षादृढ़बन्धा भयाकुलाः ।
यथातथाविधानेन स्वार्थलाभे निराकुलाः ॥ २ ॥
खजनानपि सम्पात्य स्वार्थलाभे दृढ़ब्रताः ।
विपत्तावात्मवन्धूनां सोत्साहा हतबान्धवाः ॥ ३ ॥
श्रमकमविधौ दीनाः पैत्रसम्पत्कृतेक्षणाः ।
सर्वेषां दोषसन्धाने सर्वदैव कृतश्रमाः ॥ ४ ॥
'चिरसंस्कारसम्बद्धा हितेष्वपि निराग्रहाः ।
व्यर्यवाग्जालसम्पन्ना व्यर्थकालातिपातिनः ॥ ५ ॥
विनायासन लब्धान्ना आत्मरक्षामहाब्रताः ।
तत्राचिरेण लोकानां महादुःखं प्रजायते ॥ ६ ॥
(१२५ )
प्रायशो मनुजैर्यत्र लभ्यतेऽन्नं बिना श्रमम् ।
एवं दु:खकरी वृत्तिर्जायते तत्र देहिनाम् ॥ ७ ॥
लोकवशीकारः।
सर्वे देहभृतः प्राय आत्मबोधाभिमानिनः ।
नित्यं कल्याणमिच्छन्ति स्वविज्ञान हेतुना ॥ १ ॥
न कश्चिद् कस्यचिद्वाक्ये विश्वासं सहसाचरेत् ।
यतः खार्थपराः सर्वे खार्थसाधनतत्पराः ॥२॥
तस्माद् यो बोधयोगेन लोकानामान्तरौं गतिम् ।
विज्ञाय युक्तियोगेन दुर्बोधशमने क्षमः ॥ ३ ॥
लब्धवोधान मुखौनत्यं दर्शयन् खापहारकः ।
स लोकान् वशमानीय लभते वाञ्छितं पदम् ॥ ४ ॥
यावहिषयसम्मोइस्तावदाव्यं शरीरिणाम् ।
अध्यात् स्खेष्टपराभूतिः सन्तापयति मानवान् ॥ ५ ॥
आन्थ्य विनाश्य यः पुंसामिष्टदः प्रीतिवर्द्धनः ।
कथं तस्य वशीभूतिं न गच्छेयुः सुखाशिनः ॥ ६ ॥
बान्धवाः सुखदातारो हिष्टा दुःखस्य साधका:
प्रौतिक्रोधमयी वृत्तिः खार्थास्वार्थभवा नृणाम् ॥ ७॥
तस्माद् यथायथोपायैर्ये भवन्ति ससम्पदः ।
देश कालं क्रियां द्रव्य वीर्य बुद्धिं प्रियाप्रिये ॥ ८॥
विलोकयन् क्रमालोकान् संयोजयति तादृशम् ।
सोऽचिरेणैव कालेन लोकानामधिपो भवेत् ॥६॥
( १२६ ) यदा राजा क्षीणपुन्यः श?ौहितमानसः । सदा भोगरत: स्वार्थजीवनो लोकदुःखदः ॥ १ ॥ तदैष परमो देवो लोककारुण्यचोदितः । उद्धाराय प्रतप्तानां गणैः सञ्चेष्टयेत् स्वयम् ॥ ११ ॥ यो लोकान् वशमानीय दत्त्वा क्षेममयौं मतिम् । नियमाच्चालयन् पृथ्वी साधयेदिष्टवैभवम् ॥ १२ ॥ अतएव नरेशानः परो देवो गयोः सह । उदितः कुरुते कायं सर्वकल्याणसाधनम् ॥ १३ ॥ सदा तिष्ठत्यसौ देवः सदामुक्तः सनातनः । लोकभाग्यं विना कस्मात् क्रियां कुर्य्यान्निरामयः १४ सुखखद्योतिका यस्मिन् कालेऽपि विलयं चरेत् । दुःखराशिभिरुत्पीडा दह्यतेऽहर्निशं जनः ॥ १५ ॥ मृत्युकामान् जनान् वीक्ष्य निरालम्बान् कृपामयः। रक्षाहतोः स्वसृष्टीनां चेष्टावान् भवति स्वयम् ॥१६॥ अथवा जातमात्राणां कार्याकार्यमजानताम् । उपदेशाय लोकानामेष देवः प्रकाशते ॥ १७॥ स एष परमो देव आदेष्टा लोकवम॑नाम् । नानारूपधरी भूत्वा स्वयं भक्त फलं सदा ॥ १८ ॥ पक्षावलम्बनम वीरप्रियेयं धरणी वीराः संग्रामकामुकाः । तस्मात् क्षणं न तिष्ठेत्तु रणशून्या वसुन्धरा ॥ १ ॥ ।
( १२० )
अन्येषामपि संग्रामे प्रवृत्ते वसुधाधिपः ।
न स्थैर्य लभमानः स्यात् कार्याकार्ये परीक्षयेत्॥२॥
जये यस्य स्खहानिः स्याद् वाधयेत् तं खसैनिकैः ।
सुहृत्सम्बन्धिनो ह्यते नेति कार्या विचारणा ॥३॥
खसंग्रामादपि यं परयुद्ध भयङ्करम् ।
खस्थाने ज्ञायते तत्त्व विधिस्तस्मात् सुसाधनः ॥४॥
परत्र दुर्मता लोकाः स्थानं यानं क्रियादिकम् ।
तत्र सम्बोधनं कर्तुं बहयत्नेन शक्यते ॥ ५ ॥
अन्येषामपि संग्रामेष्वादौ सध्यादिसाधनम् ।
अशक्ये तत्र कुर्वीत समरं स्वार्थसिद्धये ॥ ६ ॥
महासन्धिः ।
महायवलसस्पन्ना ये नित्यं नीतिमार्गगाः ।
समाजो वा महाराजास्तेषां सन्धिरथोच्यते ॥ १ ॥
खखार्थमभिसन्धाय सर्वे सर्वार्थदर्शिनः।
सब संरक्षितुं नित्यं यतैरन् नियमाश्रिताः ॥ २॥
एकाभिभूतावन्येन सर्वेषां यदि रक्षणम् ।
न कश्चित् कस्यचिद्धत्तुं विषयं सहसा क्षमः ॥ ३ ॥
अन्यायसाधने क्रोधे विनष्ट सर्वयत्नतः।
सर्वे भूत्वा निरापन्ना लभन्ते चिरसम्पदम् ॥ ४ ॥
एकाक्षराधे सर्वेण बोधो दासः सुनौतितः ।
अबोधे दमनं कायं येनासौ नी तथा भवेत् ॥ ५ ॥
( १२८ ) अथवा तत्र लोकाना मभिमत्या नृपान्तरम् । स्थापयेञ्चेदुराचाराः सर्वे दम्या नृपैस्तदा ॥ ६ ॥ सर्वेषामभि सम्मत्या तत्र योज्यं नृपान्तरम् । रक्षणीयं प्रयत्नेन येन दुष्टा वजन्त्यधः ॥७॥ एकानिष्टे विजानीषुः सर्वे खानिष्टमात्मनः । किन्वेष कठिना सन्धिहटान्नोदेति भूभृताम् ॥८॥ सर्वे खोन्मादविभ्रान्ताः स्वाधिक्यकारिकामुका। कायेन मनसा वाचा यतन्ते निजसम्पदि ॥६॥ खेल एष महादेव्याः प्रकृतेर्वीरसंसदि । अतीत्य प्रकृतीलां कः वयं कर्तुमर्हति ॥ १० ॥ साधनौया प्रयत्नेन चिरमेषा न तिष्ठति । यावत् तिष्टत् सुखं तावद यतनीयं ततो नृपैः ॥११॥ एवं यदि महासन्धिः पाल्यते नृप मण्डलैः । तदा वर्गादपि प्रीतिं लभन्ते सर्वमानवाः ॥ १२ ॥ यदि सर्वैर्न जायेत सन्धिरेष तदा नृपैः । खार्थसंसृष्टभूपैस्तु प्रीतिः कार्य्या सुबन्धनात् ॥ १३ ॥ मण्डलकतव्यम् । नियमात् स्थापिते मार्गे साम्राज्य व्यवहारतः । दानं वा पूजनं मानं यथाकालं प्रयोजयन् ॥ खाधिकारे समारूढ़चेतो निस्तन्द्रनिर्भयः । प्रजाक्षेममरैः कार्यैवंशयन्मधुरान्तरः ॥ २ ॥ ।
( १२६ ) धमा भोगं समागृद्य मित्रेण हितकारिणा। सूर्यानिलयमादित्वं भजवे मण्डलं सदा ॥३॥ चेदधीशो महादेवस्तदा देवं खमण्डलम् । परस्परगुणासङ्गादक्षया राजसम्पदः ॥ ४ ॥ चैदेकं साधुवृत्ति स्यादपरं दुष्टहत्तिकम् । सम्राजस्तीक्षातायुक्ता तत्र मैत्री भयप्रदा ॥ ५ ॥ प्रभोर्दीष्ट्ये मण्डलस्य क्रूरवृत्ति: शुभप्रदा। यथादेवस्तथासङ्गी यथासङ्गी तथा प्रभुः ॥ ६ ॥ यदेयं प्रकृतिर्देवी सूते पापमयं जगत् । तदायं विकृतो. भावी सम्राड्मण्डलमध्यगः ॥७॥ यदा पुण्यकृता सिविरुदेति वसुधातले । परस्परकृता प्रीतिस्तदा सन्तर्पयेद् भुवम् ॥ ८॥ किन्वेषा विरला भूतिः क्वचित् कालेन साध्यते । यस्मिन् देवः स्खविभवे रन्तुमिच्छति भूतले ॥६॥ भोगभाजो जनाःसङ्घ राज्येतु विषयः फलम् । विषयः क्लेशसंसर्गी केशः खार्थकरो नृणाम् ॥ १० ॥ तस्मादिषयसक्तानां दुर्लभं देववैभवम् । खखार्थ सततं काय कर्त्तव्यं तैः परस्परम् ॥ ११ ॥ उद्यमेन यथाकाले यःस्याद् यादृशवैभवः । स लभेत तथाभूतिमुद्यमः सम्पदः पिता ॥ १२ ॥ ।
( १३. )
हौनसम्पदमालोक्य नोद्यमादात्मनः पतेत् ।
बुद्धिःसत्कुल सम्पन्ना सर्व साधयितुं क्षमा ॥ १३ ॥
सम्भवेत्तु यथायोगैः सााये प्रीतिरुज्जला ।
तावत्कर्म विधातव्य सज्जनः साधुवृत्तिभिः ॥ १४ ॥
अस्थां महानाव्यभूमौ महाचैतन्यरङ्गके।
नानामूर्तिधरी देवी नित्यं खेलति नूतनम् ॥ १५ ॥
प्रजामण्डलभूनाथा: परस्परविभूषकाः ।
सर्वे सर्वार्थसंसिद्दा हेतुभूताःसनातनाः ॥ १६ ॥
तस्मात् परस्परप्रीतिः साधनीया परस्परैः ।।
परोच्छेदै निजोच्छेदो निजीच्छेदे परच्युतिः ॥ १७ ॥
राजधानी।
खराज्यधरणीमध्ये महाक्षेत्रसमुज्जले ।
महातरङ्गिणीतीरे दृढ़े भूम्यन्तरस्थले ॥ १ ॥
आशाखष्टासु मार्गेण राजसीमाभिगामिना।
युक्त महापार्श्वद्गैः शोभिते दूरभूषितैः ॥ २ ॥
महादुर्गसमाकोणे नानाकौशलरक्षिते ।
जनताचयसंकीर्णे सर्वभोग्यप्रपूरिते ॥ ३ ॥
सर्वशिल्पसमाकोणे सर्वशस्त्राभिरञ्जिते ।
तीक्षादण्डान्विते नित्यं सर्वविद्यासमन्विते ॥ ४ ॥
महारत्नसमाकोणे धरणीहृदये वसन् ।
भुञ्जीत परमं शर्म श्रीशितेव श्रियां नृपः ॥ ५ ॥
( १३१ )
अथवा धरणीप्रान्त महापर्वतसन्निधौ
नदीतीरे समुद्रस्य
तीरे
वा नगरं चरेत् ॥ ६॥
1 विधिरेष भयार्त्तानां खप्रजासु विरोधिनाम् ।
रक्षामार्गेण संयुक्तो राजश्रीहि प्रचञ्चला ॥ ७ ॥
सैन्य स्थानम्।
नगराणां सन्निकर्षे भीषणानाञ्च वैरिणाम् ।
नद्यादीनां तटायेषु महाक्षेत्र सुमारुते ॥ १ ॥
सुपानौयेऽन्नसंयुक्त दुर्गेण परिरक्षिते ।
देशान् विभज्य नृपतिः सैन्यस्थापन माचरेत् ॥ २ ॥
यावदङ्ग रणस्यात्र यावद्देहाभिरक्षकम् ।
यावत् स्थितिविधिस्तावद् यत्नेन परिसाधयेत् ॥३॥
विद्यास्थामम् ।
ययाधिकारिणो ये स्युः खबोधन शरौरिणाम् ।
तेषां तथाबोधलाभकारणं स्थानमाचरेत् ॥ १ ॥
सुप्रसन्नं निराबाधमन्नपानादिसङ्कुलम् ।
चित्र पुस्तकसङ्कीर्ण सुशिक्षकसुशोभितम् ॥ २ ॥
विचारस्थानम् ।
सैन्याभिरक्षितस्थानसन्निकर्षे महापदे ।
लोकाबाधकर भट्रे विचारस्थानमाचरेत् ॥ १॥
अत्रैव राजसंग्राह्यभागादानं प्रशस्यते ।
पृथग् दण्डविधिस्थानम् पृथग् दायविदां पदम् ॥२॥
( १३२ )
पृथग् ग्राह्यस्य चादानं सर्व कार्य पृथक् पृथक् ।
परस्पराविरोधेन साधयेत् पृथिवीपतिः ॥ ३ ॥
एतदाधीन्ययोगेन ग्रामादौ काय्यदर्शिनम् ।
योजयेटोन सर्वत्र राजदृष्टिस्थिता जनाः ॥४॥
प्रतिक्षणं समस्तानां तत्त्वज्ञात्वा प्रपालयेत् ।
दोषशान्या गुणीन्नत्वं सर्वदा परिसाधयेत् ॥ ५॥
यदा विद्यानरेशानो विवादो बहुधा नृणाम् ।
दुष्टचेष्टा तदालोके वर्धितेति विचिन्त्यताम् ॥ ६ ॥
तदव दमयेद्राजा विचारपदनायकान् ।
पुनरन्यान् समायोज्य गुणान् संसाधयन्नृणाम् ॥ ७ ॥
बहनामभियोगेऽपि यदि वादो न शाम्यति ।
अमात्यो वा खयं गत्वा तत्त्व विद्यान्नरेश्वरः ॥८॥
रक्षकाणामवेक्षेत यदि दोषान् महीपतिः ।
एतान्निष्काषयेत् कार्याद्गुरुदण्ड न दण्डयन् ॥६॥
प्रजाणां यदि दोषेश जानौयादुष्टचेष्टितम् ।
तदा ताः शिक्षयेद् यत्नाद्येन दोषः प्रशाम्यति ॥१०॥
न शाम्येत् प्रकृतेः शक्त्या यदि तासां तदा नृपः ।
दृष्टान् संत्रासयेद्दण्डैस्तथापि यदि तादृशम् ॥ ११ ॥
ग्रामानुत्पाव्य दुश्चेष्टान्नाशयेहा वनं नयेत् ।
पावलग्नो यतो वह्निः सर्वं दहति काननम् ॥१२॥
( १३३ )
विनैव पापवृत्तीनामु न विरोधिता।
सर्वस्मिन् वधने तुष्टे का पापं परिजायते ॥ १३ ॥
तस्मात् पापान्महीशानः प्रजा रचेदतन्द्रितः ।
तथासंयोजनात पुंसां स्थाने स्थाने महात्मनाम् ॥१४॥
मन्विकार्यम् ।
विभज्य विषयान् सर्वान् कर्तव्यमवलोकयन् ।
आत्मवत् साधयेत् कार्यं सर्वेषामनुमोदितः॥१॥
सदैव लोककल्याणे नियतः स्यादनातुरः ।
न क्षणं न्यायतो भश्येदात्मनाशेऽपि निर्भयः ॥ २ ॥
क्रुद्धेऽपि भूपे न क्रोधं भजेत प्रोतिमोहितः ।
तत्त्वं ज्ञात्वा भवेत् कार्यो बोधयन् प्रभुमादरात्॥३॥
द्विषत्वपि नयं कुर्यात् सुहृदोपि विचालयेत् ।
सदा निस्तन्द्रतामाण्य कार्याकार्ये विचारयेत् ॥ ४ ॥
व्यवहारं विना सबैः प्रोत्यांसङ्ग समाचरेत् ।
तत्रान्यायेषु संरतान् वोधयेहा परित्यजेत् ॥ ५॥
यथाधिकार ये युक्ता स्तथातान् बोधयेन्मुहुः
सहसा न क्रियां कुर्य्याद् दृष्ट्वापौर्वापरौं स्थितिम्॥६॥
पावित्रं यावदाप्येत तावद् गृहयेत यत्नतः ।
खल्पोपि दोषकलुषो मन्त्रिणं हन्ति तत्क्षणम् ॥७॥
राजोपि मन्त्रिण: श्रेष्ट्यं कथ्यते मन्नवेदिभिः ।
तद्दोषगुणसम्पाद्यौ हानिलामी शरीरिणाम् ॥ ८ ॥
॥ ( १३४ ) स चेद्देवगुणैर्युक्तस्तदा मन्त्रीति गीयते । अन्यथा नाममात्रेण क्रव्यात् पुण्यजनो यथा ॥ ६ ॥ स्वस्मिन् सर्वाधिकारपि खामिनं न विमानयेत् । स्वाम्यवीनाखिलप्राप्तिरिति नित्यं विचारयेत् ॥ १० ॥ यः सम्मुखौनः संग्रामेष्वेकः सर्वाभिभावुकः । नासौ प्राकृतलीको हि दुर्निवार्यो भयङ्करः ॥११॥ प्रजाकार्यम् । समये करसंदानमाज्ञायाः प्रतिपालनम् । न्याये निर्वादतानित्यमन्याये दोषकीर्तनम् ॥ १ ॥ आपत्काले सहायत्वं विशेषाइनमानवैः । सम्पत्सूत्साहसम्प्रीत्यौ दर्शने देवभाविता ॥२॥ विज्ञप्तिरात्मयापत्ते: कीर्तनं सुख सम्पदः । राजवश्य करो धर्मः प्रजानां परमार्थदः ॥ ३ ॥ यदि शाठ्यं नरेशान: कुल्लिोभसमन्वितः । कर्तव्याद्यात्मनो रक्षा प्रजाभिः शठतादिभिः ॥ ४ ॥ यथा कार्याभिसन्तोषी राजा स्यात् खीतपालकः । तथा बाह्येन सम्पाद्य कार्य कालप्रतीक्षणम् ॥ ५ ॥ अद्यवापि शतान्ते वा दुःखस्यान्तो भविष्यति । चिरवासेपि नी मैत्री परं वषोदयश्चिरम् ॥ ६ ॥ राजाजोचिताचारैनानागुणसमन्वितैः । चञ्चलेयं चलादेवी नीयते चिरबन्धनम् ॥ ७ ॥ ।
( १३५ )
साधारणी नोतिः।
तत्र विद्यास्तुतिः मूर्खनिन्दा।
यत् किञ्चिदर्तते लोके लोकानां शुभसाधनम् ।
नास्ति विद्यासमं किञ्चित् तस्मादिद्यां समभ्यसेत्॥१॥
पतितम्वा दुराचारं कुलं विद्या समुद्धरेत् ।
हीनोऽप्युन्नति मायाति विद्यारत्नस हायवान् ॥ २ ॥
कुटीरस्थोपि विद्यावान् यत्सुखं लभते सदा ।
तत्शतांशं न लभते मूर्खः साम्राज्यभागपि ॥ ३ ॥
भूमिस्थोपि स्वर्गवासी निर्धनोपि धरापतिः ।
दुष्कुलोपि सदैवा! विद्वाने को न चापरः ॥ ४ ॥
नेत्रहीनो न चान्धःस्यान्मूर्ख एवान्ध उच्यते ।
नेत्रहीनोपि चक्षुष्मान् विद्यानेत्रसहायवान् ॥ ५ ॥
विहान् यथातथास्थायी सर्व मौक्षितुमीश्वरः ।
वालिशः सर्व मालोक्य न किञ्चित्ति तत्त्वत: ॥६॥
निरामयः सदा विहांस्त्रिषु कालेषु शोभते ।
पदे पदे समुत्पत्तिर्मूढ़ानां विपदां सदा ॥ ७ ॥
लक्षेष्वेव हि मूर्खेषु विहानेकः प्रशस्यते ।
किम्भवेदश्मसङ्घन यत्र चिन्तामणिस्थितिः ॥८॥
विदुषा शत्रुता श्लाघ्या न च मूर्खेण मित्रता ।
सदा न्यायकरो विहान् सदाऽन्यायकरोऽपरः ॥६॥
( १३६ ) सम्पचुातोपि लभते विहांस्तां पुनरेवहि । मूर्खः सम्पदमासाद्य चणान्नायितुं क्षमः ॥ १० ॥ दया शान्तिः क्षमा प्रीति राजवं सुन्तं नयः । विश्वासः कुशलं मैत्रो सर्व विद्दत्सु वर्तते ॥ ११ ॥ क्रौय्यं शाठ्यं दुराचारी टुर्मतिर्न योऽनृतम् । अविश्वासः कृतघ्नत्व सर्व मूर्खेषु वर्तते ॥ १२ ॥ खदेश वा विदेश वा दुर्गमे दस्युसंप्लवे । सर्वत्र विदुषां मित्रं न कस्मिन् विपदां लवः ॥१३॥ खदेश पूज्यते राजा विद्वान् सव्वत्र पूज्यते । धनहीनो नृपस्तुच्छो माननीयः सदा बुधः ॥ १४ ॥ राज्ये रिपुभयं नित्यं धने चौरादितो भयम् । सर्व भौतिविनिर्मुक्त विद्यारत्नं न चापरम् ॥ १५ ॥ व्यवसाये ध्रुवा बुद्धिर्दाने च परिवईते । तस्मादिद्यासमं लोके न चान्यत् परमं धनम् ॥ १६ ॥ विना यत्नेन समयो विदुषामेव गच्छति । कृत्वा यत्नशतं मूढ़ो न सुखं जीवितुं क्षमः ॥ १७ ॥ कामक्रोधादयो दुष्टा रिपव: प्रवला यदा। तदा त्रातुं दुराचाराद् विद्यैव परमा सुहृत् ॥ १८ ॥ विच्छेदाहन्धुरनादेयंदा शोकः प्रवर्द्धते । विद्यैव बोधदानेन तदा जीवयितुं क्षमा ॥ १६ ॥ । ।
( १३७ ) किम्भवेज्जीवनैः पुंसां यदि विद्या न विद्यते । जायन्ते वा भवे कैचिन्मियन्ते वा न केचन ॥ २० ॥ परमिन्द्रियसन्तृप्तः पशुभ्यः किं विशिष्यते । जातमात्रेण जन्तूनां रूपादे गयोग्यता ॥ २१ ॥ विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वाइनमाप्नोति धनाइम्म ततः सुखम् ॥ २२ ॥ विद्याहीनो दुराचारः खकुलं नाशयेत् क्षणात् । अंशतो जायमानोपि यथा दावानलो बनम् ॥ २३ ॥ विद्याहीना न शोभन्ते सभायां भूषिता अपि । किं हेमबद्धचरणाः काका राजन्ति पिञ्चरे ॥ २४ ॥ विद्याशिक्षा। जातेऽधिकार वाक्यानां शिक्षयेद् वचनैः शिशून् । यथाप्रीतिक्रमान्नाम ज्ञातव्यानां शनैः शनैः ॥ १ ॥ व्यतीते पञ्चमे वर्षे गुरोर्यहमुपाचरन् । विनीतस्तदश तिष्टन्नभ्यसेट् बोधमुत्तमम् ॥ २ स यथाज्ञापयेन्नित्यं पालनीयं प्रयत्नतः । तदाताल विना शर्मा नेह वाऽमुत्र विद्यते ॥ ३ ॥ शुक्रशोणितदानेन भवेतां पितरी गुरू । तयोरप्यधिको यो ज्ञानदः परमो गुरुः॥ ४ ॥ एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । कत्तुं विनिमयं तस्य पृथ्वौं दत्त्वा न शकुयात् ॥ ५ ॥ २॥ १८
( १३८ )
:
यो गुरोस्ताड़नं प्राप्य कुशलं मन्यते सुधीः ।
स एव लभते विद्यां सर्वत्र शुभदायिनीम् ॥ ६ ॥
गुरुर्देवो गुरुवर्गकर्माता गुरुःपिता।
न गुरोरधिकः कश्चित् त्रिषु लोकेषु विद्यते ॥ ७॥
अल्पमयाचरंस्तस्य विमतं न फलं चरेत् ।
गुरोहितं प्रकर्त्तव्य वाङ्मन:कायकर्मभिः ॥ ८॥
माटवत् गुरुपनौं यः सोदरावत् तदात्मजाम् ।
स्वभावत् मुतांस्तस्य पश्येत्स फलमाप्नुयात् ॥ ६ ॥
खजनास्तस्य सम्मान्यास्तद्रिपुं खरिपुं स्मरेत् ।
तन्मित्रं मित्रवत् पश्येत् तद्धितं खहितं मतम् ॥१०॥
चापल्यं प्रभुतौहत्ये शाठ्यं दुर्नयवञ्चने ।
सर्वमेतद् गुरोरये वर्जयेद् यत्नतः सुधीः ॥ ११ ॥
काचिदर्थकरी विद्या काचित् तत्त्वार्थबोधनी।
हे एव शुभदे विदो अभ्यस्येते प्रयत्नतः ॥ १३ ॥
धनानि धर्महीनस्य विफलानि भवन्ति हि ।
धनहीनस्य धर्मोऽपि न सिध्यति कदाचन ॥ १३ ॥
यथाकुलं यथाचारं यथाबुद्धि यथानुपम् ।
अभ्यस्या धनदा विद्या प्रथमं शुभमिच्छता ॥ १४ ॥
यदि द्रव्यानुरोधेन विद्याप्यन्यापि सेव्यते ।
कर्तव्यं तदपि प्रेम्णा खखधर्माविरोधतः ॥१५॥
( १३६ ) विद्याभ्यासस्य समये दीनवृत्तिमुपाश्रयन् । त्यजेहिषयसम्प्रीतिं सा ह्यस्य परिपन्थिनी ॥ १६ ॥ तद्ध्यायी तज्जपेनित्यं तच्चित्तस्तत्परायणः । योऽभ्यसेत् सततं विद्यां तस्य ह्येषा प्रसीदति ॥१७॥ शास्त्रं सुसेवितमपि सेवनौयं पुनः पुनः । न विश्वासं चरेत् शास्ले यथाशास्त्र तथानुपः ॥१८॥ एकामपि चरेद विद्यामाद्यन्तपरिशोभिताम् । ततस्तां भूषयेद्धीमान् नानाशास्वैः सुभूषणैः ॥ १६ ॥ पल्लवग्राहि पाण्डित्यमोहाय निर्धनस्य च । वाग्वैभवञ्च मूर्खाणां सर्वमेतद् विडम्बना ॥ २० ॥ नैकाकी सेक्येहियां दशभिः सह चाभ्यसेत् । दशभिर्मेलने विद्या स्फूर्तिमायाति सत्त्वरम् ॥ २१ ॥ यत्र शिक्षा ततश्चोई खयं पश्येत् शनैः शनैः । पठित्वा को ह्यनन्तायाः पारं गच्छञ्चिरादपि ॥२२॥ कार्योपयोगिनौं विद्यां समभ्यस्य गुरोः कुलात् नित्यं नवायां कुर्वीत यावज्जीवं स्थिरां रतिम् ॥२३॥ यत्र यादृग् गुणं पश्येत् प्रणयात्तं समाश्रयन् । भामरौं वृत्तिमाश्रित्य सर्वस्मादभ्यसत् सदा ॥ २४ ॥ यथाधिकारे यत्प्राप्त लेख येत्तद् यथामति । नित्यं नवं नवं पश्येदेम्वा हयमेव वा ॥ २५ ॥ -
( १४० )
अभ्यासाज्जायते ज्ञानमभ्यास: कालसम्भवः ।
कालाभ्याससहायस्तु लभते देवसम्पदम् ॥ २६ ॥
यदीच्छेत् परमां विद्यां तदैवं सञ्चरेज्जनः ।
दुष्टा वा गुणिनो वापि मूर्खा वा दूरदर्शिनः ॥ २७ ॥
सर्वैः सम्मेलनं कुर्यात् प्रणयेन शनैः शनैः ।
यदि तत्र भवेद् दुःखं सह्यं तदपि यत्नतः ॥ २८ ॥
यत्र यलभ्यते किञ्चित् तऽतुं तत्फलं क्रमात् ।
प्रणिधानेन सम्पश्येन्न क्वचिन्मोहमाचरेत् ॥ २६ ॥
प्रणये किन्तु सर्वत्र प्रत्येक जनसंसदि ।
घोररूपा महारात्रिर्मीहं दद्यात् क्षणं क्षणम् ॥३०॥
यत्र तन्मोहकवले निपतेद् दृष्टिविच्युतः ।
यावज्जीव प्रयत्नान्न तस्मादुइर्तुमर्हति ॥ ३१ ॥
साहाय्येन गुरोस्तस्मात् क्षिपेत् पादौ शनैः शनैः ।
यो दृष्टपूर्वस्तट्यासादुत्ततार निरामयः ॥ ३२ ॥
अनादाविह संसारे न गुरुर्दुर्लभः कदा ।
किन्तु लभ्यः प्रयत्नेन श्रद्धापूजादिभिर्नृणा ॥ ३३ ॥
यघाविद्याभिलाभः स्यात्तथासम्पदविवहिनी ।
मोहयत्यात्मदासत्वे दृष्टिरोधं करोति वै॥ ३४ ॥
तत्रैव लब्धसन्तोषो रमते हतचेतनः ।
नान्यत् कामयते किञ्चित् स्यादपि श्रेयसे परम्॥३५॥
( १४१ )
यावत् खाज्ञातमत्रास्ते नोपेक्षां कुत्रचिच्चरेत् ।
प्रणिधानेन सम्पश्येद् यत्र यत् किञ्च लभ्यते ॥ ३६ ॥
यत्र यत् सञ्चरत् किञ्चित् तदादाय प्रयत्नतः ।
पश्येदात्मनि तत्सर्वं यथाहेतु यथाफलम् ॥ ३७ ॥
यथा मे येन भावेन या या वृत्तिरुपस्थिता ।
यत्फलं कुरुते सा हि सर्वत्र समरूपिणी ॥ ३८ ॥
एवं पश्यन् भुक्तसङ्घष्वान्तरं भावमादरात् ।
सर्वत्रातिदिशंस्तं तमैश्वयं लभतां भुवि ॥ ३६ ॥
यत्रास्ते प्रकृतिर्देवो तब चैतन्यमाश्रिता ।
हयोरेव हि योगेन सर्वमेतञ्चराचरम् ॥ ४० ॥
तारतम्य विलासोऽस्या यथाकर्म प्रजायते ।
यत्र देहो दयं तत्र नान्यदस्ति किमप्यहो ॥ ४१ ॥
यत्र देहस्तत्र भोगः शब्दादेन परस्य वै।
तत्रैव विषयासङ्गि कामक्रोधादिकं सदा ॥ ४२ ॥
विषयालभ्य लभ्यत्वात् कामादेविहीनते ।
कामादिकं परित्यज्य किन्तु ह्येष न तिष्ठति ॥ ४३ ॥
विलासं प्रकृतेरेवं वीक्ष्य चैतन्यसागरे ।
विराजते विराड्भूत्वा सर्वभुक् सर्ववर्जितः ॥ ४४ ॥
यावज्जीवो न लोकत सर्वमेतच्चराचरम् ।
तावन्न दुःखपाशेभ्यो विमुच्चेत कदाचन ॥ ४५ ॥
( १४२ )
यत्राज्ञानं भवेत्तस्मिन् दुःखमाप्नोति मानवः ।
राजा वा पण्डितो वापि साधुर्वा दुष्ट एव वा ॥४६॥
गुरुकत्तव्यम् ।
गुरुरप्यतियत्नेन शिष्यान् शास्यात् सुतानिव ।
सर्वदा दर्शयेनौति परिहासं विवर्जयेत् ॥ १॥
परीक्ष्य बोधसम्पत्तिं दृष्ट्वापि वयसां स्थितिम् ।
शिक्षायां योजयेत् शिष्यान् यथा गृह्णन्ति ते सुखम्॥२॥
राजा वा राजपुत्रो वा दोनो वा मुनिपुत्रकः ।
सव्व एव समं दृश्या गुरुणा पाठसंसदि ॥ ३ ॥
तोषयेत् तापसम्प्राप्ती ताडयेट् दुष्टवत्तितः ।
पोषयेद् भोजनाभावे रोषयेन कदाचन ॥ ४ ॥
न वञ्चयेत् खबोधेषु न चापल्यं समाचरेत् ।
नालस्यमाश्रयेत् पाठ्ये प्रीतिं मैत्रौं समाश्रयेत् ॥ ५ ॥
पाठोत्तरकर्तव्यम् ।
एवं गुरोः समभ्यस्य विद्यां तोषं विधाय च ।
खोकुर्य्यात् कुगलां भायां मनोरामां मुलक्षणाम्॥१॥
कृतदारो यथाविद्यं तथाभ्युदयशालिनाम् ।
वासन दृत्तिमालोक्य कृत्याकृत्यं समाचरेत् ॥
तावन्न फलदा विद्या पठितापि भवेन्नृणाम् ।
यावत्तयाभ्युदयिभिः सहवासो न जायते ॥ ३ ॥
( १४३ )
वाणिज्ये लभ्यते लक्ष्मौस्तदई कृषिकर्मणि ।
तदई राजसेवायां भिक्षायां नव लभ्यते ॥ ४ ॥
बाणिज्यविधिः
यदि वाणिज्य कामी स्यात् तर्हि तज्जीविभिः सह ।
मिलित्वा लोकयेद् वृत्तिं ये यथा सिदिमागताः ॥१॥
कस्य द्रव्यस्य किं नाम कस्मिन् वा जायते हि तत् ।
किंवा प्रयोजनं तस्य न वा परिगृह्यते ॥२॥
कदा वा खल्पमूल्य स्यात्कदा दुर्लभमूल्यभाक् ।
एवं वीक्ष्य स्वल्पमूल्यैः क्रौत्वा लाभेन सन्त्यजेत् ॥३॥
यत्र वा जायते यदि तत्र तत् क्रयमाचरन् ।
दुर्लभं तद्भवेटु यच तत्र विक्रयमाचरेत् ॥ ४ ॥
पल्लीग्रामे प्रजातानां विक्रयो नगरे शुभः ।
नगरे च प्रजातानां पल्लीग्रामे तथामतम् ॥ ५ ॥
विशेषतो जनैयंत्र स्थाप्यते नगरं नवम् ।
बाणिज्यं फलदं तस्मिन् अचिरेण शुभार्थिनाम् ॥६॥
समभावेन सर्वत्र जड़े वा चतुरेऽपि वा।
व्यवसायो विधातव्यः स्पष्टतः सत्यवार्तया ॥७॥
वञ्चनेऽधिकलामेऽपि न तत्कायें कदाचन ।
आपातरम्य चेत्तस्यात् वञ्चनं कालतोऽहितम् ॥८॥
सत्यवृत्तेषु विश्वासो जायते प्राणिनां ध्रुवम् ।
विश्वासाद् व्यवहाराणाम् सम्मृद्धिर्जायते क्रमात् ॥६॥
Asar
( १४४)
व्यवहारेषु वृहेषु वल्पलाभी बहुर्भवेत् ।
सर्वतो विन्दुपातेन मेधैः सम्पूर्यते महौ ॥ १० ॥
ग्राह्ये देये यदा वार्ता विधातव्या तदैव तु ।
वार्त्तानुसारात् सम्पाये तेन कार्यों व्यतिक्रमः ॥११॥
प्रथमं वक्ररेणैव स्वेक्षणेन सुसाधयेत् ।
फलवान् प्रतिभालाभाद् दासान् संयोजयेत् सुधीः १२
यदि हानिः कदाचित् स्यात् न तत्र भयमावत् ।
पुनस्तत् साधयन् यत्नात् खधनं परिपोषयेत् ॥ १३ ॥
वस्तुयन्नमृणावापी वाणिज्यमपरं हयम् ।
एते अपि महावृद्धा जायते वीक्ष्य कुर्वताम् ॥ १४ ॥
संगृह्य हेमरत्नादि भूमिलेख्येन वा पुनः ।
वृयादानावनानां तु नानाविधमृणार्पणम् ॥ १५ ॥
हेमादे झेक्षणं न्याय्यं द्रव्यदाने प्रशस्यते ।
अनेके कृत्रिमै व्यैर्वञ्चयन्त्युत्तमर्णकान् ॥ १६ ॥
भूमि संरक्ष्य देयञ्चेत्सा तस्येतिविचारयन् ।
मूलं संरक्ष्य लेख्येन दद्याइनमयार्थिने ॥ १७ ॥
केवलं लेख्ययोगेन यदि देयं तदा पुनः ।
अधर्मणस्य विषयं पश्येत् खशोधनक्षमम् ॥ १८ ॥
कालेन वृद्धग्रहणमत्यये वृद्धिवर्द्धनम् ।
देयस्य समयोल्लाप मूलमाकृष्य शोधनम् ॥ १६ ॥
( १४५ ) सर्वेषु व्यवहारेषु साक्षिसंरक्षणं हितम् । विशेषतो लेख्य दाने भूम्यादे रक्षणे तथा ॥ २० ॥ प्रमाणं विधिवद् ग्राह्यं देशकालादिचिन्तया । भ्रमन्ति वञ्चका यस्माद् वञ्चनाय सदा नृणाम् ॥२१॥ विश्वासिनो वा धनिनो योरव सुविद्ययोः । वस्तुयन्वं शुभाधानं साहसं किन्तु कारणम् ॥ २२ ॥ प्रथमं तदिनिर्माणे बहुट्रव्यव्ययो यतः । तस्मात्माहसयुक्तानां विवेकालकुर्वतां हितम् ॥ २३॥ खल्पद्रव्येऽपि विश्वासी यदिस्यात् परतोधनम् । संगृह्य कारयेद यन्त्र विश्वासान्नच्युतो भवेत् ॥२४॥ हिचिचतुःपञ्चभिर्वा मिलित्वा यदि साध्यते । तदा संरक्षणे खस्य प्रत्येक यनमाचरेत् ॥ २५ ॥ उदारो व्यवहारषु योऽलसो वाप्यनीक्षकः । स भवेवञ्चितो नित्यं वच्चकैः सुदुरात्मभिः ॥ २६ ॥ विदुषामपि वाणिज्यं हितालेख्येन जायते । निर्भयं लोककल्याणं धनमानादिवर्धनम् ॥ २७ ॥ यथा तत् साध्यते लोकैस्तेषां वृत्तिमनुस्मरन् । साधयेदात्मनः कायें सावधानं विलोककः ॥ २८ ॥ यत एव विघ्नचिन्ता तत्सर्वमवलोकयन् । प्रणिधानेन कुर्वीत येन हानेर्नचोदयः ॥ २६ ॥ १८ Free
( १४६ )
वाणिज्यं साहसं सूते चातुर्यवीयमेव च ।
वाणिज्यं कुर्वतः पुंसः साम्राज्यमपि सिध्यति ॥३०॥
कृषिकर्म ।
यस्मिन् देशे यदा यद् यज्जायते येन हेतुना ।
तत् सर्वमवलोक्यैव कृषिकर्म समाचरेत् ॥ १ ॥
ताड़येत्तोषयेद्दासान् कृषिकर्मनियोजितान् ।
नचैकमाश्रयेत्तेषु बुद्धिमान् फलसिद्धये ॥ २ ॥
ताड़ने जनयेद् भौतिं तोषणे प्रियतां ब्रजेत् ।
अताड़ने क्रियाहीनोयसन्तोषे रिपुर्भवेत् ॥ ३ ॥
येनोत्साही चरेत्कार्य तथा प्रीतिं समाचरेत् ।
येन हौनक्रियो न स्यात् तथा सन्ताड़येत् शनैः ॥४॥
बनान्युत्पाध्यदेशेषु निःशष्येषु चिराय च ।
नद्या वा तौरभूमिषु कृषिकर्म प्रशस्यते ॥ ५ ॥
यत्र यल्लभ्यते बीजं गौरवादिष्टसाधनम् ।
अन्य स्मादपि संराध रोपयेद् यत्नतः सुधीः ॥ ६ ॥
पशुभ्यः सततं रक्षा जनानां परिपोषणम् ।
समये कर्षणं भूगे' काले वौजस्य रोपणम् ॥ ७ ॥
उत्पाटनं हृणादीनां वइये सारयोजनम् ।
समये छेदनञ्चैव यत्नेन परिरक्षणम् ॥८॥
विक्रयः समये तादृग् वीजानामभिरक्षणम् ।
रोगानिमोचनं
यत्नान्मूषिका कादिनिवारणम् ॥ ६॥
( १४७ ) एवं विजाय तत्त्वेन दोषादोषी प्रयत्नतः । कुर्वतां कृषिकर्माणि विपुल: स्यात् फलोदयः ॥१०॥ दास्यम् ॥ सेवा तु कठिना वृत्तिदुःसाध्या योगिनामपि । तत्साधनसमर्थस्य नासाध्यं विद्यते चित् ॥ १ ॥ सेवनं सन्निकर्षण साधनं कश्मणान्तथा । विख्याता द्विविधा सेवा द्विधैव फालसाधनम् ॥ २ ॥ यः प्रभोः सन्निकर्षस्थो वाङ्मनःकायकर्मभिः । तोषयेत् तं दिवाराचं स सन्निकृष्टसेवकाः ॥ ३ ॥ स्वामिदत्तं खाधिकारं साधयेद् यः समाहितः । स दासः कार्यन्नाम टूरे वा निकट स्थितः ॥ ४ ॥ न सेव्य प्रभुसंग्राह्यं वेशभूषादिकञ्च यत् । नोत्तरं सविधे देयं तजितेनापि दारुणम् ॥ ५ ॥ सर्वदाज्ञापालनाय यतितव्य समाहितः । संशयेऽपि जीवितानां नाज्ञा लध्या कथञ्चन ॥६॥ विहेष्यः स्वामिविष्टा मान्योनेनाभिमन्यताम् । प्रेमाहः स यत्र हप्तस्तवृत्तिमनुसञ्चरेत् ॥ ७ ॥ क्क हिष्टः कुत्र वा प्रोत: प्रणिधानेन लोकयन् । द्दिष्टं द्विषन् प्रियं कुर्वन् स्वामिनं वशयेट् बलात् ॥८॥ न क्रोधं दण्डितो गच्छेत् खापायमनुशोचयन् । ताड़ितोऽपि हितं कुर्यात् खापराधमनुस्मरन् ६॥
( १४८ ) वईने खामिसम्यतर्भजेटुत्माइमादरात् । विनाशे केशवान् भूत्वा हितचेष्ठापरो भवेत् ॥ १० ॥ सर्वदा हितमन्विच्छन्नाहितं मनसा चरेत् । न प्रभो षिणामग्रे तिष्ठ लाभशतैरपि ॥ ११ ॥ गोपयेत् तिष्ठतो दोषानसतोऽपि गुणान् वदेत् । सर्वदा नमभावेन देववत् तं विलोकयेत् ॥ १२ ॥ तिष्ठतोऽनुजयातिष्ठे चापल्यं नाग्रतश्चरेत् । उत्तिष्ठतः पुरोत्तिष्ठेच्चरेत् पश्चादनुद्दतः ॥ १३ ॥ प्रभोः परिजनान् सर्वान् पश्येत् पित्रोः समान् सदा। साधयेत् प्रभुभोग्यानि खयं लोभविवर्जितः ॥ १४ ॥ नापृष्टः कथयेत् किञ्चित् पृष्ठः सत्यं वदेत् प्रियम् । समचे नाप्रियं किञ्चिद् ब्रूयात् पृष्टोऽपि तत्त्वतः॥१५॥ तज्जनानखिलान् प्रोत्या तोषयेत् सुसमाहितः । विद्दषं नैव कुर्चीत तेषु कुत्रापि भव्यकृत् ॥ १६ ॥ खामिनां पुरतः कस्य न कार्य सूचनं क्वचित् । शवोरपि हितं यादन्येषां किमु निन्दया ॥ १७ ॥ प्रतीपं स्वस्य यं पश्येवनमानादिसाधनैः । तमपि वप्रियं कुर्याद् य इच्छेदात्मनः शुभम् ॥१८॥ एकोऽपि शत्रु तव्यः सहसेष्वपि बन्धुषु । स्निग्धकाननमध्यस्थः किं न दाहकरोऽनलः ॥ १६ ॥ ।
( १४६ ) दोषं दृष्ट्वा गुणान् ब्रूयान्न दोषः कस्यचित् पुनः । निवृत्त्यै तं रहो या यदि पात्रं न चान्यथा ॥२०॥ सन्तोषाहत्तमादद्यात् स्वेच्छातो न हरेत् पुनः । आत्मार्थं न वदेत् किञ्चित् परार्थ यत्नमाचरेत् ॥२१॥ फलं वस्त्रं धनं रत्नं यत् स्वामी तोषतोऽयेत् । यत्नंतस्तत् समादद्याह हुमानपुरःसरम् ॥ २२ ॥ या श्रूयते यदा बार्ता सा न कथ्या कुतश्चन । नान्यसम्पदमालोक्य ग्लानिं गच्छत् सुखं चरेत्॥२३॥ न मन्त्रकाले स्थातव्य विना स्वामिमतं कदा । न रहः श्रवणं कार्य मन्त्रितस्य कदाचनः ॥ २४ ॥ मन्त्रकाले स्थितः कच्चिन्न दद्यादुत्तरं खयम् । पृष्टो ब्रूयाद् यथान्यायममतञ्चत् परित्यजेत् ॥ २५ ॥ वाक्यशेषो न यावत् स्यात् तावन्नोत्तरमाचरेत्। न वागाड़म्बरं कुर्य्याहदेहाचं सयुक्तिकम् ॥ २६ ॥ न च सम्मतिमादाय भुञ्जानं वा रह:स्थितम् । स्नातं नाभिचरेत् कञ्चित् सहस्रष्वपि कर्मसु ॥२७॥ तोषित: सेवया नित्यं तोषणीयः पुनः प्रभुः । विश्वासो नैव कर्तव्यः स्त्रीषु खामिकुलेषु च ॥२८॥ खेन साधितसत्कार्यं न खयं मुखतो वदेत् । द्रष्टा स्वामी खकार्याणां स्वयमेव फलप्रदः ॥ २६ ॥ ।
( १५० )
परैः प्रत्यभियुक्तोऽपि न क्रोधं सञ्चरेत् क्वचित् ।
अभियोगः सुवृत्तानां स्वत: कालेन नभ्यति ॥ ३० ॥
अधिकाराधिकं किञ्चिन्न कुर्य्यात् खयमेव हि ।
दर्शयेत् खां मतिं यस्मादधिकार: प्रबईते ॥ ३१ ॥
विश्वस्तादपि भेतव्य स्वसमाजे जनैः सदा ।
एकमुन्नतमालोक्य प्रायशो हेष्टि चापरः ॥ ३२ ॥
वदेद्रहस्यं मैत्रेण स्वामिनं न कदाचन ।
न तं वश्यं विजानीयात् खामिनं स्वामिनं पुन:॥३३॥
यथाधिकार ये तुष्टा माननीयास्तु ते तथा ।
अवज्ञातस्य दुश्चेष्टा चिरादपि न नश्यति ॥ ३४ ॥
खाम्युक्त निजतत्त्वोऽपि स्खच्छिद्रं न प्रकाशयेत् ।
प्रभोरवना तं हन्यात् स किं कत्तुं प्रभोः क्षमः॥३५॥
यथाधिकारे युक्ता ये निरालस्येन सा क्रिया ।
पालनीया प्रयत्न न नीतिमार्गेण तैः सदा ॥ ३६ ॥
एवं न्यायपरोतानां प्रभुकार्येषु तिष्ठताम् ।
दिने दिने वईते श्री: शुलपचे विधोरिव ॥ ३७ ॥
भिक्षा।
नास्ति भिक्षासमं किञ्चिद् दुःखं संसारिणामिह ।
वरं मृत्युरपि श्रेयान् नच भिक्षा कथञ्चन ॥ १ ॥
पण्डितो वा धार्मिकोऽपि कुलजोप्यपि रूपवान् ।
भिक्षया हीनतां प्राप्य तृणवत् परिभूयते ॥ २ ॥
( १५१ )
नास्ति भिक्षार्थिनां मित्रं नानुरत्तो जनः क्वचित् ।
घृणां कुर्वन्ति सकला नाट्रियन्ते सुता अपि ॥ ३ ॥
वृदस्य तक्षणी भायां भिक्षुकस्य सुखसहा ।
शाठ्येन मित्रतालिप्सा तिस्रः पुंसां विडम्बना ॥ ४ ॥
धनप्रशंसा।
टुत्तादाव्यतामाप्य जनो याति महत् पदम् ।
तस्माइनसमं किञ्चिलास्ति संसारिणामिह ॥ १ ॥
धनिनां शाठ्यतो तिचातुर्याय प्रकल्पाते ।
साध्वी वृत्तिनिर्धनानां जाडग्रषु परिणामिनी ॥ २ ॥
येषामन्तवमौदार्य कटुता स्पष्टवादिता ।
दुष्टता बुद्धिमत्ता च कस्तेषां साम्यमाचरेत् ॥ ३ ॥
येन तेन प्रकारेण सततं धनमर्जयेत् ।
धनस्य प्राप्तिमात्रेण नरो देवत्वमृच्छति ॥ ४ ॥
यो निई यः परोच्छ दौ कार्याकार्यविधिच्युतः ।
स राजा गीयते लोकैः सर्वदेवांशसम्भवः ॥ ५ ॥
दास्यदोषः ।
यावत कास्ति संसार मनःखेदकरं नृणाम् ।
न दास्यादधिकं किञ्चिद् वर्तते जगतीतले ॥ १ ॥
यदि हौनक्रियो भूयात् तदोच्चपदभागिनाम् ।
सहसाणां भृत्यभावेद खन समयच्युतिः ॥२॥
-
( १५२ )
चेदुच्चपदगामी स्थानीचानां हे षसम्भवैः ।
दुःखराशिभिरुत्पीडा दह्यते ऽहर्निशं तदा ॥ ३ ॥
विनैककामसङ्घातमात्मकामो न सिध्यति ।
यस्मालोकेषु पर्याप्ता: सर्वे कामा निरन्तरम् ॥ ४ ॥
यत्कामनिहतावात्मकाममितिः स वै परः ।
तहान्धवाश्च तत्नीत्या जायन्ते रिपवः क्षणात् ॥ ५ ॥
उन्नतास्तद्भयाद बैरं लभन्ते दुःबकर्षिताः ।
कामोऽपि टुस्तरो व्याधिन शान्तिमधिगच्छति ॥ ६ ॥
यावत् स लभ्यते यत्नात् तावदुच्चाभिलाषिता ।
क्रमाद् दुईर्षशत्रूणां कराल कबले गतिः ॥ ७ ॥
कर्मणां महतां सिद्धौ प्रभुर्दानभिया पुनः ।
नोत्साहं कुरुते किञ्चित् खधने गौरवं वहन् ॥ ८ ॥
तत्पदासहिचित्तैस्तु जनैश्छिद्रानुसारिभिः ।
मिथ्या वा सत्य एवास्तु दोष उद्भाव्यते सदा ॥ ६ ॥
सबंदा यस्य पार्वेषु वर्त्तते वैरिणां गणः ।
कथम्वा सम्पदस्तस्य तिष्ठन्ति चिरजीविताः ॥ १० ॥
चेल्लवादपराधी स्यात् सत्कार्य शतकार्यपि ।
तदैव खपदाद् भूत्वा च्युतो दुःखे निषीदति ॥११॥
सव्वदोचितकाबस्य सदा चित्ते प्रभोर्भयम् ।
न शाम्यति कदाचित्तु नित्यदोषाभिशड्दिनः ॥१२॥
( १५३ )
प्रायशोऽयं खभावः स्यात् प्रभूणां प्रथमादरः ।
ततस्तत्पातने चेष्टा सदा छिद्रानुसारिणाम् ॥ १३ ॥
यस्येष्टसिद्धिं नो कुर्यात् स शत्रुः स्वजनैः सह ।
तदिष्टसिद्धी चेद् यत्नः प्रभुः क्रोधपरस्तदा ॥ १४ ॥
सर्वेषामिष्टलाभो न कदाचिदपि सम्भवेत् ।
साक्षाद् दोषकृतोऽपि स्यात् शासन हे षकल्मषः॥१५॥
अशासने दोषकृतामक्षमत्व प्रभो!शि ।
विशझुरिव दुःस्थानो दास एव न चापरः ॥ १६ ॥
यन्मुखस्येक्षणं मृत्योरपि लोशस्य कारणम् ।
तस्यापि सेवा कर्तव्या दासैरेव न चापरैः ॥ १० ॥
भुक्तिकाले निशाखापे विपत्तावुत्सवे तथा ।
सर्वदैव प्रभोराजा दासानां शिरसो मणिः ॥ १८ ॥
प्राणः पणैः सुसिद्धानां खाधिकारी समर्पणम् ।
असिद्धावक्षमत्वेन विच्युतिः स्यात् पदात् क्षणात्॥१८॥
अरण्यं वा श्मशानं वा सागरः पर्वतोऽपि वा।
महर्वा दुर्गमं सर्व पदं दासस्य केवलम् ॥ २० ॥
अवजानाति चेत् खामी सर्वेऽवज्ञाकरास्तदा ।
चेदेष बहुमन्येत विहे षो जायते नृणाम् ॥ २१ ॥
विशेषत: सन्निकर्ष से विनां शतपाप्म नाम् ।
नास्त्यन्तो दुःखदावान हूँ शोर्धारा निरन्तरम् ॥२२॥
( १५४ ) सर्वदा सेवमानानां क्षणं चेत् समयच्युतिः । चिरसेवा लयं गच्छेत् तिरस्कारस्तु भूषणम् ॥ २३ ॥ यो जीवन् मृत्युमन्विच्छेत् सोऽस्तु सेवाकरोऽन्तिक । चिरावरुद्धतो भेदो नचास्त्यन्तिकसे विनाम् ॥ २४ ॥ दुर्लभा दारपुत्रादिप्रीतिरन्तिकसेविनाम् । सुप्ति तिर्मनः प्रीति: सास्तेषां विनश्यति ॥ २५ ॥ यदि खेच्छावशाहापि दोषतो वा पदच्युतिः । तदा यत् प्राप्यते दुःखं क्व साम्य तस्य वर्तते ॥२६॥ दूरेऽस्तु द्विषतां वार्ता ये स्थिता मित्रवृत्तयः । तेऽपि तापकरा भूत्वा हासैः प्राणहराः स्मृताः ॥२७॥ उत्पन्ना दारुणा चिन्ता हृपिञ्जरसमाश्रिता । पौत्वा मज्जाशोणिताद्यं प्राणान् संहरते क्षणात्॥२८॥ भिक्षया जीवनं धायं दिनान्ते भोजनं वरम् । उपवासो वरं श्रेयान् न च सेवा कथञ्चन ॥ २६ ॥ अन्येषां नेत्रयोरन्ते सुखिनः सेवका यदि । ते नानन्ति निजं दुःखं परे किं परवेदिनः ॥ ३० ॥ कृतज्ञस्तु यदि खामी कार्याकार्यविलोककः । दास्यं ग्राह्य प्रयत्नेन तदा सत्तिशालिभिः ॥ ३१ ॥ सेवाभिमहती वृद्धिानस्य विभवस्य च । सामाज्यस्थापि सम्प्राप्तिर्दास्यादपि सुसिध्यति ॥३२॥ चे ন न
( १५५ )
स्वाधीनता।
खाधीनताधिकं किञ्चित् सुखदं नास्ति भूतले ।
तस्मात् सर्वप्रयत्न न तदर्थं यत्नमाचरेत् ॥ १ ॥
वाणिज्येषु वर्तते सा कृषिकर्मणि वा पुनः ।
अथवा वीरतावृत्ती या राज्यमपि साधयेत् ॥ २ ॥
सख्यविधानम्।
मैत्र कार्य खतुल्येन नोत्तमेनाधमेन वा ।
विपरीतेन या मैत्री न सा कल्याणदायिका ॥ १ ॥
मैनं सर्वेण चेत् श्रेयो वाह्य सवैः समाचरेत् ।
नान्तरी वृत्तिरुद्भाव्या न मोहात् कुत्रचित् कदा॥२॥
मानापमानयोः खेन समता यत्र वर्तते ।
सर्वथा मित्रतायोग्यः सकक्षः स प्रकीयते ॥ ३ ॥
सर्वथा ह्यान्तरी शुद्धिदुर्लभा विषयैषिणाम् ।
सर्व एव मुखाशाभी रहोमलमुपासते ॥ ४ ॥
घृणा हेतुर्वहिस्थं स्यादन्त:स्थं नैव दोषकृत् ।
तस्माद् गोप्यं प्रयत्न न यथा विष्ठा तथा मलम् ॥५॥
मैत्रयाः स्वभावो निःशाठ्यं निःशाठ्यान्निर्भया क्रिया।
या प्रकाशमुपाश्रित्य तापं जनयति क्षणात् ॥ ६ ॥
उत्तमो निर्भयः प्रायो धनमानादिसम्पदा ।
न पापगोपनार्थाय यत्न चरति तादृशम् ॥ ७ ॥
( १५६ )
:
अधमः स्वमहत्त्वस्य जापनाय समुत्सुकः ।
यथातथाक्रियालोपानिन्दामुत्पादयेत् क्षणात् ॥८॥
शठन पापनिष्टनाकुल जेनास्थिरात्मना ।
मुर्खेण दस्युना खामिभृत्य मैत्रं न चाचरेत् ॥ ६ ॥
सकक्षः कृतमैत्रीऽपि तद्गुप्तौ यत्नमाचरेत् ।
यत् प्रकाशं गतं पुंसां विपुलं जनयेद् भयम् ॥ १० ॥
प्रथमं जायते मैत्री महाहर्षकरी नृणाम् ।
कालेन हौनतां गच्छन्त्यौदास्यं जनयेत् क्रमात् ॥११॥
खल्पदोषेण विच्छिन्ना जनयेद् भयसञ्चयम् ।
तस्मात् प्रथममित्रत्वे सावधानेन भूय ताम् ॥ १२ ॥
मैत्रागममहावेगे किञ्चित् शक्यं न गुप्तये ।
यावती मानसी वृत्तिः स्पष्टतामेति मित्रयोः ॥१३॥
कालेन शत्रुता माता वहि: समभिकाश्यताम् ।
उत्पादयति दुःखानि अनिवार्याणि यत्नतः ॥ १४ ॥
आत्मवद् यः खविघ्नानां प्रकाशे भयसङ्घल: ।
परीक्ष्य तेन कर्त्तव्य मैचं नान्येन कर्हि चित् ॥ १५ ॥
वहवो वञ्चका टुष्टा मैत्रं कृत्वा प्रयत्नतः ।
जात्वा तत्त्व भयं दत्त्वा हरन्ति धनसञ्चयम् ॥ १६ ॥
विशेषतो यौवनेषु वृत्तिभॊगकरी भवेत् ।
नात्कालिको मित्रता हि प्रायो दुष्टेन जायते ॥१७॥
। ( १५.७ ) तत्कालमात्मनो रक्षा कर्तव्यातिप्रयत्नतः । येन पश्चाद् भयं न स्याच्चिरतापविवर्धनम् ॥ १८ ॥ किं दुष्टदृष्ट्या मित्रस्य परिवारान् न लोकयेत् । समक्षेऽपि परोक्षस्य का कथा सख्यकामिनाम् ॥१६॥ न कुर्य्यादर्थसम्बन्धं न द्यूतं न छलादिकम् । न निन्दां शृणुयात्तस्य येनेच्छेदिपुलं सुखम् ॥ २० ॥ तत्पीती प्रीतिमन्विच्छेद् दुःखे दुःखं भजेत च । तज्जनानात्मवत् पश्येत् तद्गुणानभिरञ्जयेत् ॥ २१ ॥ विपत्तावात्मनाशेऽपि न पराङ्मुखतां व्रजेत् । न गोपयेत् कार्यवार्ता तेन सर्व विचारयेत् ॥२२॥ तच्छयूँ शत्रुवत् पश्येत् तन्मित्रं मित्रवत् स्मरेत् । एवं प्रीतिसमायुक्तो विशुद्धां मित्रतां चरेत् ॥ २३ ॥ हो वा चयो वा कर्तव्या एवमात्महितेरताः । अधिकस्तापदी यस्माद वहनां टुर्लभैकता ॥ २४ ॥ कुलजो ज्ञानवान् खस्थः सव्वत्तो धर्मतत्परः । मित्रत्वे नानुसम्धेयो न मुर्खः पृथिवीपतिः ॥ २५ ॥ सर्वेषां शुभदा मैत्री विदुषा सह जायते । पण्डितः क्रोधतप्तोऽपि नान्यायं कर्तुमर्हति ॥ २६ ॥ सर्वैरेव हिता मैत्री साधारण्येन सम्मता । व्यवहारः प्रियालापैरग है: सत्यत्तिभिः
( १५८ )
निन्दोन शतलाभेपि न मैत्रं शुभदं क्वचित् ।
निर्लाभेऽपि सतां मैत्री सर्वदा शुभदायिनी ॥ २८ ॥
सत्यत्तिः ।
नास्ति सत्यसमा वृत्तिरिह चामुत्र भव्यदा।
तस्मात् सर्वप्रयत्नेन सत्यत्तिमुपाश्रयेत् ॥ १ ॥
सत्यवत्तिप्रसक्तस्य चित्तदोषः प्रशाम्यति ।
जातोऽपि रिपुदौत्तात् क्षमाह:स्यात् स पापकृत्॥२॥
निर्भयः सत्यधर्मात्मा सर्वविश्वासभाजनम् ।
सबै मस्यः सततं सन्तृप्तः पूतमानसः ॥ ३ ॥
किन्वेषा कठिना वृत्तिर्दुष्करा झवलम्बितुम् ।
सर्वे विषयिणो यस्माद् विषयोऽनृतजीवनः ॥ ४ ॥
सहसा फलमाधातुं यथा मिथ्या प्रवृत्तिकृत् ।
न तथा सत्यवत्तिः स्यात् सत्यं तत्त्वार्थदीपनम् ॥ ५॥
सर्वे खार्थपरा लोकाः स्वार्थं सर्वार्थसाधकाः ।
दोषोक्ती स्वार्थविध्वंसशङ्काकवलिता जनाः ॥ ६ ॥
सत्कर्मणेष्टसंसिद्धिर्वहुयत्नमपेक्षते ।
यत्नं दुःखाय जानीयान्न दुःखे वर्त्तते जनः ॥ ७॥
काभावे फलाप्तीच्छा दुष्टसाधनसाधिका ।
यदुक्तौ भयमुत्पन्न मिथ्याचार नियोजयेत् ॥ ८ ॥
सत्कर्माधिकभोगेषु प्रत्तो यः कदाचन ।
न समर्थो भवेन्मिथ्यात्यागे भोगान्धलोचनः ॥ ६ ॥
( १५८ ) एत एव जगच्चक्रचालका राज्यरक्षकाः। निपतन्ति महाघोरे सदा सन्तापसागरे ॥ १० ॥ तस्मात् सत्कर्मणा लब्धं खजनैः सह सम्वसन् । यो मुक्ती स महासत्त्वः सत्यवाक् परिजायते ॥११॥ सत्कर्मनिरतानान्तु सदा सवत्तिशालि नाम् । मिथ्याचारो भवेत् कस्मादहतोर्न फलोदयः ॥ १२ ॥ मुनिरेष महाचेताः सत्कर्मफलभुङ् नरः । वहुना तपसा साध्यः सत्यधर्म समाश्रयः ॥ १३ ॥ नास्ति सत्यात् परो धर्मों नास्ति सत्यात् परं धनम्। नास्ति सत्यात् परं श्रेयस्तस्मात् सत्यं सदाचरेत्॥१४॥ मिथ्या। प्रायशो जड़चित्तानां खायान्यायसै विनाम् । अन्यायकथने भौल्या मिथ्याचारः प्रवर्त्तते ॥ १ ॥ मिथ्यासंसाधने दुष्टैः सङ्गो मिथ्याभिसेविभिः । यथासङ्गस्तथा वृत्तियथा वृत्तिस्तथा फलम् ॥ २ ॥ अविश्वासः सदा पुंसां मिथ्यासेविषु जायते । अविश्वासाद् विनश्यन्ति व्यवहारक्रियाः शुभाः ॥३॥ व्यवहाराद् बिना न्यायादर्थसिद्धिः सुदुष्करा। तदर्थं चौर्यशाठ्यादि दुष्टा व्यवहृतिः सदा ॥ ४ ॥ या सदा दुःखपङ्क षु निमज्जयति मानवान् । कुलान्यपि निमज्जन्ति दूषितानि दुराश्रयैः ॥ ५ ॥ ।
( १६.)
कामः।
कामो विषयसिद्धीच्छा क्रियासिद्धौ प्रयोजिका।
योजयत्यखिलान् लोकान् यथावत् तेषु कर्मसु ॥१॥
खाधिकारानुसारेण प्रवृत्तानां फलप्रदः ।
खासाध्ये यतमानानां कामः लेशकरः परम् ॥ २ ॥
तस्मात् स्वायत्तचेष्टाभिः प्रवर्तेत फलोत्सुकः ।
अस्वायत्तं त्यजेन्नित्यं शतलाभविलोक्यपि ॥ ३ ॥
विना विनाशमेकस्य न कामः सिद्धिमर्हति ।
अपर्याप्ता न वर्तन्ते येन कामाः कुतश्चन ॥ ४ ॥
तस्मात् वायत्तशान्तीनां विघ्नानां परिशोधनात् ।
कामं संसाध्य यत्नेन कृतवत्यो भवेन्नरः॥ ५ ॥
न दुःखेन विना शर्म संसारेऽस्ति शरीरिणाम् ।
सुखमात्र ध्रुवं कृत्वा दुःखाघातमुपेक्षयेत् ॥ ६ ॥
यावत् कामयते कामं तावत् कामः प्रवईते ।
तावज्जनयति केशं क्रमश: प्रागिनामिह ॥७॥
अनिवार्य गतिस्त्वेष देवैरपि सुटुस्तरः ।
यन्न कामयते ह्येष तद्धि कार्य न दृश्यते ॥८॥
एष एव जगन्मूलमेष मोचनकारणम् ।
यथाचेष्टं प्रवृत्तानां मूलमस्य सुदुश्वरम् ॥ ६ ॥
एवमेव परिज्ञाय क्रोधादीन् रिपुसञ्चयान् ।
सतां सङ्गप्रवृत्तेन भवितव्यं शुभेप्सुना ॥ १० ॥
( १६१ )
क्रोध ।
खेष्टहानिकरं यत् स्यात् क्रोधस्तद् द्वेषसंजितः ।
विना क्रोधं न दृश्यन्ते लोकाः सर्वे बहिर्मुखाः ॥१॥
यः कचिदिष्टमाधातुं यतते तस्य तत् स्थिरम् ।
स विघ्नं कुरुते तस्य स्वार्थः सर्वप्रियो यतः ॥२॥
एवं लोकेषु सततं हे षवह्निः समुद्गतः ।
सन्तापयति चेतांसि प्राणिनां तीक्षा दहनैः ॥ ३ ॥
द्दिष्टोच्छेदं विना कश्चिन्न लोक सिद्धिमहति ।
यतेत सततं तस्माद् हिष्टानामभिघातने ॥ ४ ॥
यत्र विष्टः समुच्छेत्तुं न शक्यः साधनैनिजैः ।
तत्र शान्तिर्विधातव्या सुधौभिस्तत्त्वदर्शिभिः ॥ ५ ॥
लोभः ।
अन्येषां सम्पदं दृष्ट्वा लाभेच्छा लोभ उच्यते ।
तत्रासक्तस्य दुईत्तिर्दुःखगशिश्च नित्यशः ॥ १ ॥
प्रायशो दुर्लभो लोके लोभहीनो महोदयः ।
भौत्या वा साधनाशक्त्या तं लोभ गोपयेज्जनः ॥ २ ॥
न कुर्यात् तत्फलाभौसा या नित्यं दुःखसाधिका ।
यदि कुर्य्याद्वीरवृत्त्या सिद्धिरस्य शुभप्रदा ॥ ३ ॥
मोहः ।
मोह: स्थाद्विषयाज्ञानमन्याय्येषु प्रवर्तकम् ।
अन्याय्ये यतमानानां क्रिया स्यादिफला नृणाम् ॥१॥
( १६२ )
काासिद्धी भवेद् द्वेषः । षाद् दुःखं प्रजायते ।
तस्माद् विज्ञाततत्त्व: सन् क्रियार्थं यत्नमाचरेत् ॥२॥
मदः।
शौर्य विद्याधनादीनां प्रभावैः स्वीच्चतामतिः ।
मद आख्यायते लोके यः करोति सदाऽन्धताम् ॥१॥
मदान्धतमसे मग्नः सर्वसत्त्ववृणाकरः ।
अचिरेणैव कालेन लोकैरुत्पाव्यते वलात् ॥ २॥
न दास: प्रीतिमायाति न बंधुः स्यादिते रतः ।
मदान्धी जगतां शत्रुरचिरेणैव नश्यति ॥ ३ ॥
मात्सर्यम्।
मात्मयं ई पसंदृष्टिगुणेष्वपि सदात्मनाम् ।
मात्सर्येषु प्रसतानां सतां सङ्गः सुटुर्लभः ॥ १ ॥
सर्वदा तापसंयुक्ता मत्सरादुष्टचेतसः ।
सतामुह जका
भूखा
लभन्ते
दुःखसञ्चयम् ॥ २ ॥
कामादिपालनम्।
कामादयो जगन्मूलं विनामूलं कुतो जगत् ।
कामादीनामनायत्या तस्माद दास्यं शरीरिणाम् ॥१॥
यावता खेष्टसिद्धिः स्याद् दुःखाघातो न दारुणः ।
तावद् विज्ञाततत्त्वेन साधनौयं प्रयत्नतः ॥ २ ॥
( १६३ )
व्यभिचारदोषः।
यावत् क्लेशकरा दोषा वर्तन्ते प्राणिनामिह ।
व्यभिचारसमः कश्चिन्न दोषो जगतीतले ॥१॥
यूतं चौथ्यं निष्ठुरत्वमालस्यं पापचित्तता।
सुरापानं टुराचारो दुष्टसङ्गः सदामयः ॥ २ ॥
टुकलत्वं सर्वनाशो विश्वासात् प्रच्युतिस्तथा ।
स्वजनन सहाप्रीतिय॑भिचारेऽखिलस्थितिः ॥ ३ ॥
श्रोत्रियोऽपि कुलोत्पन्नः शतमित्रः सहस्रदः ।
तृणवल्लघुतामेति केवलं व्यभिचारतः ॥ ४ ॥
लोकोत्तरचमत्कारं दर्शयन् मादयन् सदा ।
तरुणान् कुरुते दासानन्धान् कृत्वा स्वमायया ॥ ५ ॥
य एष व्यभिचाराख्यो दोषः सर्वविनाशकृत् ।
स एष कामचण्डाल प्रियपुत्रो भयङ्करः ॥ ६ ॥
व्यभिचारप्रसक्तानां विषामृतनिषेविणाम् ।
विसृज्य सकलं कायं नियतं रतिकामना ॥ ७॥
तत्काम्यसि मद्यादेमा सादेचोपयोगिता।
यन्नित्वं बईयेत् कामं दुष्टशर्म विवर्धनम् ॥८॥
धनं नश्यति भोगेन कार्यषः प्रजायते।
खजना द्वेषमायान्ति कुलं. दुष्कर्म तत्परम् ॥ ६ ॥
स्त्रियश्च व्यभिचारिण्यस्तिरस्कारः पदे पदे ।
दुष्टैः सङ्गः सदौहत्यं व्यभिचारात् प्रजायते ॥ १० ॥
( १६४ ) धननाशे त्यजेद्देश्या या पुरा प्राणतोऽधिका । दुराचारस्य दीनस्य भिक्षाऽपि भुवि दुर्लभा ॥ ११ ॥ हारे हारे सुता दारा भ्रमन्त्यवमताः सदा । अथवा दारुणै रोगैविनाशः ले यसञ्चयात् ॥ १२ ॥ खदारसेवागुण. । खदारनिरतानान्तु कान्तिर्लक्ष्मीः करेस्थिता। मोदते च कुलं नित्यं सन्तानः कुलभूषणैः ॥ १ ॥ पतिश्चेदेकभार्यः स्याद् भा-प्येकप्रिया भवेत् । परस्परभवा रतिरह तं जनयेत् सुखम् ॥ २ ॥ पतिर्थनाचिनुयाद् यत् तद्रक्षेदादरात् प्रिया । यत्नतो रक्षितं द्रव्यं न कालात् क्षयमर्हति ॥ ३ ॥ सर्वदा प्रियसम्भाषः सर्वदा प्रियदर्शनम् । सर्वदा प्रीतिसम्वृद्धा कृतिः स्यादान्तरी हयोः ॥ ४ ॥ न विवादो नच क्रोधो न शाठ्यं नच संशयः । सर्वदैव प्रसाद श्रीर्दम्पत्योर्वसति द्वयोः ॥ ५ ॥ जनानुरागो धर्माप्तिर्विश्वासी देहपोषणम् । न रोगो नाप्यनाचारो दम्पत्योरनुरक्तयोः ॥ ६ ॥ अरण्यमपि सम्प्रीत्यै भिक्षाऽपि सुखदायिनी। खदारनिरतानां तु लम्पटस्य कुतः सुखम् ॥ ७ ॥ एकाधिकाहादपूतौ शक्तिर्वा व्यापदागमे । एकाधिकपरिग्राही भजेतान्यां न केनचित् ॥८॥ न
( १६५ )
अन्ययोः परकीयायां संसक्तानां दुरात्मनाम् ।
निष्कृतिर्नेह नामुत्र मृत्युशङ्का पदे पदे ॥ ६ ॥
तत्रापि कुल नारीणामबुद्धीनां चलड़दाम् ।
वञ्चयन धर्मसंहर्ता दुरात्मा ह्येक उच्यते ॥ १० ॥
हठन पशुबुद्दीनां चेतः संलोभ्य पामराः ।
निक्षिपन्ति महादुःखे कालतो गतयौवनाः ॥ ११ ॥
अनिवार्यरिपोर्वेगा यदि स्याद् दुष्क्रियारतिः ।
कत्वापि यत्नतः पश्येन्नित्यं तत्र गुणागुणौ ॥ १२ ॥
विवेकाट् यदि दर्शी स्यात्तत्र दोषस्य नित्यशः ।
अवश्यं सन्त्यजेत् कालादन्यथा स्यादधोगतिः ॥१३॥
यावान् गुणकरोपाय: सर्बो हेष्य स्तदा भवेत् ।
खभावादस्य दुःशत्रोरन्धता स्यात् शरीरिणाम् ॥१४॥
प्रायशस्तारणी वृत्तिनिमज्जयति पातके।
तस्मान्नित्यं भाविभूती गुणदोषौ विचारयेत् ॥ १५ ॥
धिक्कारं सततं कुर्यादात्मनः पापकारिणः ।
कुर्य्याच्च साधुवृत्तीनां सङ्ग दुःसङ्गवर्जितः ॥ १६ ॥
शतदोषपरीतस्य यदौन्द्रियवशीकृतिः ।
बङ्गाविव णीधानां दोषाणां दहनं क्षणात् ॥ १७ ॥
एवं तत्त्वेन विज्ञाय साधुवृत्तिं समाश्रयन् ।
दृष्टां तां त्यतमोशः स्यादन्यथास्यादधोगतिः ॥१८॥
( १६६ ) वृत्तिप्रावल्यम्। या या वृत्तिर्यदोत्पन्ना सा चेतोवशकारिणी। तदोत्यादयति प्रौतिं प्रवर्तयति तत्कृतौ ॥ १ ॥ उत्तमाम्वाऽधमाम्वान्यां सा हे ष्यत्वेन दर्शयेत् । खभावसिद्धो जन्तूनां भाव एष सनातनः ॥ २॥ साहि वृत्तिविनष्टा चेत् पुनरन्यावभासते। नवा सैव प्रिया भूत्वा तां प्रियां दे षयेत् तथा ॥३॥ अत उत्पादमात्रेण नवत्तेर्दासतां चरेत् । खभावमवलोक्यैषां वर्जयेद्वाऽभिवईयेत् ॥ ४ ॥ खभावदर्शनं चास्यास्तदा पूर्व परत्र वा । दुष्करं स्यात्तदासत्तरेषा सम्मोहिनौ सदा ॥५॥ पूर्व खलाभसम्मोहस्तदा खामभवान्धताम् । पुनः स्मृत्यालभ्य मोहमुत्तरं वईयेत् तु सा ॥ ६ ॥ कदाचिदप्यन्यत्तिर्न चित्तेषपजायते । एकवृत्त्यागमे यादृग् ज्योतिराखनलो हिमम् ॥ ७ ॥ कदाचिद् यदि जायेत न तिष्ठति चिराय सा। स्थिताचेत् त्रिचतुर्मात्रा न फलाय प्रकल्पाते॥८॥ विपक्षस्याधिकारेषु कः पुनः स्थातुमर्हति । तिष्ठन्नपि न जीवेत कः समर्थः फलाजने ॥६॥ यद् दृष्टं तत्र लोभःस्यात् तच्चेष्टा तत्फलोदयः । तन्नाशः पुनराप्तोछा पुनर्भोगः पुनः फलम् ॥ १० ॥ व
वृत्तिसंस्कारचक्रेषु भ्राम्यतां सततं नृणाम् ।
वृत्तेत्त्यन्तरोत्पत्तिः कथं स्याद् विषयैषिणाम् ॥११॥
कथमेवं ममुद्भूतिः को वक्तुं शक्तिमान् भवेत् ।
यस्मादुत्पदा ते विश्वं सोऽस्या द्रष्टा न चापरः ॥१२॥
तथापि दृश्यते लोक सतां सङ्ग शुभोदयः ।
तस्मात् सर्व प्रयत्नेन स कार्य: शुभमिच्छता ॥१३॥
विषयः कण्टकामङ्गो नान्य चारोऽस्ति देहिनाम् ।
तत्सञ्चारे भवेदेव चरणं कण्टक क्षतम् ॥ १४ ॥
तस्मात् परिचरादासां न शातिर्य हमेधिनाम् ।
औदास्यादेव शान्तिः स्यात् किम्वान्तरनिरीक्षणात् ॥
अन्तर्विज्ञानसभावे तुच्छा स्याद् विषये रतिः ।
1 तम्मादान्तरवीक्षार्थ प्रयतेत समाहितः ॥ १६ ॥
सुखे वा दुःख हानौ वा सङ्कल्पी स्यात् क्रियापरः ।
सङ्कल्पानां हेतु कार्ये तस्माद् बौक्षेत यत्नतः ॥१७॥
तदर्शनसमर्थानाममार्गे न भवेद् गतिः ।
मार्ग प्रचरतां लोके वास्ति दुःखस्य सम्भवः ॥ १८ ॥
अन्तर्वृत्तिपरी निल्यं भोक्ता सालसम्पदाम् ।
तथापि नैव वन्धः स्याद् दुःखैर्विषयसम्भवैः ॥ १६ ॥
न शठो वञ्चने शतो न पापः पापवईने ।
न चौरो हर्तुमौशः स्यादन्तर्वृत्तिविलोकिनाम् ॥२०॥
( १६८ ) लोकदर्शनम् । विभज्य जगतौलोकान् क्रियाव्यवहृतादिषु । क्रियादेः फलहेतूनां क्रमाद् भावं विलोकयेत् ॥१॥ कथं साध्यं कथं वाध्यं किं कुर्यात् किं विधास्यति । किमकार्षीदिति प्रेक्ष्य बलावल विचारणा ॥ २ ॥ साधने धनरत्नादेः साध्यतामवलोकयन् । तत्कारिणां बुद्धिवले विजानीयात् समाहितः ॥३॥ क्लिष्टानां साधने वुद्धिं बहुदर्शनभाविताम् । तथान्यूनांन्यूनदृष्टिं विजानीयादिति क्रमात् ॥ ४ ॥ जिज्ञास्य व्यवहारादीन् क्रमाद् भावानुसारतः । आवापोहापविधिजा स्थिरं कुर्य्याज्जनाशयम् ॥ ५ ॥ तत्तदासङ्गिना बोगैमैत्रयेत् तत्त्वदर्शनः । शिक्षयापि वदेदात्मा क्रियातोऽधिकचेष्टितम् ॥ ६ ॥ ततः खकार्यमालोक्य तत्कायं मवलोकयन् । खकायें तत्कायं पाते तं विद्यात् कार्यसाधनम् ॥ खकायं मतिसम्वाद्य भवेद् यो बहुदर्शनः । तं सादरं सहारा वशयेन्यायवर्त्मना ॥८॥ दरिद्रः सेवया भक्त्या धनवान् सुखसाधनैः । प्रभुर्गा भीर्यसम्प्रीत्या यथालाभं समाश्रयेत् ॥ ६ ॥ एवं विज्ञाय तत्त्व न हिताहितकरौं क्रियाम् । साधयेन्मानवैः प्रौति क्रमादुन्नतिमाश्रयन् ॥ १० ॥ ।
( १६६) क्रोधफलम् । एवं क्रोधो दुराचारो जातः पापकरो भवेत् । यश्चात्मानं धनैर्मानैः क्षणान्नाशयितुं क्षमः ॥ १ ॥ यस्मिन् क्रोधे पराभूति: समता वोपजायते। तस्मिन् शान्तिर्विधातव्या न तस्य वशतां चरेत् ॥२॥ नाक्रोधनस्य वीर्य स्यात् तस्मात्तं पालयेत् तथा । येनात्मनो हानिरल्या वृहिनिष्कण्टका भवेत् ॥ ३ ॥ आत्मदोषेण विद्दषो जनानां यत्र जायते । तत्र क्रोधपरौहार: कार्यो न्यायानुसारतः ॥ ४ ॥ व्यर्थविषकारी चन्न शान्यः शान्त वृत्तिभिः । तमाततायिनं मत्वा दण्डयेदविचारयन् ॥ ५ ॥ दारहारी वृथाह षी धनहर्ता विषप्रदः । अग्निदः शस्त्रसङ्घाती तथा वृत्त्यपकर्षकः ॥ ६ ॥ एवं रिपोर्दोषगुणो दृष्टा सम्प्राप्तचेतनः । कुर्यात् कार्य प्रयत्नेन यदीच्छेत् शुभमात्मनः ॥ ७॥ शान्तिफलम् । नास्ति शान्तिसमा वृत्तिः प्राणिनां सुखदायिनी । तस्मान्नित्यं तदीय यत्न कुर्य्यात् समाहितः ॥१॥ शान्त्या सर्पो न दशति शान्त्या शत्रुः प्रसोदति । मनुष्यः शान्तिमाचे गृहस्थोऽपि मुनिर्भवेत् ॥ २ ॥ किन्त्वेषा कठिना वृत्तिः सहसा नैव साध्यते । सर्वथाऽपि न संसेव्या गृहस्थैः सर्वदाभयैः ॥ ३ ॥ २२
( १७०)
सामान्यतोगाईख्यनियमः ।
प्रतिवेशिजनैनित्यं कुर्य्यात् प्रौतिम कण्टकाम् ।
वजनादपि तान् विद्यादधिकक्षेमकारिण: ॥१॥
हत्वा निष्कृतिमायाति भवेद्धृत्वापि निर्भयः ।
प्रतिवेशिजनप्रीतो न कां वाधां समुत्तरेत् ॥ २ ॥
व्यवहारेषु नियतं सत्यत्तिं समाश्रयेत् ।
व्यवहारात् प्रच्युतानां लोकयुग्मं विनश्यति ॥ ३ ॥
विभूत्या सदृशं कुर्य्यात् कायं नाधिकमाचरेत् ।
खसामर्थ्यमतिक्रम्य वर्तते यः स नश्यति ॥ ४ ॥
प्रोत्साहयन्तो बहवः कार्येषु कपटान्तरः ।
पश्चात् तदेव निन्दन्ति दृष्ट्वा विच्युतसम्पदम् ॥ ५ ॥
सम्पत्ती वहवी लम्या बान्धवाः प्रियकारिणः ।
विपत्तौ यः प्रियस्तिष्ठेद बान्धवोऽमौ सुदुर्लभः ॥६॥
विपत्तिमहती कल्पाा परीक्षायां समाहितैः ।
राजहाररणक्षेत्रविप्लवादिस्तथा मता ॥ ७ ॥
विपत्ती कषपाषाणे या मैत्री शुद्धिमर्हति ।
सैवादेया प्रयत्नेन चिरकल्याणमिच्छता ॥८॥
विनयः सर्वसत्त्वानां वशोकार महौषधम् ।
विनयेन परीतानां नाहितं वर्त्तते क्वचित् ॥ ६ ॥
विनयाख्यं महारत्न यं भषयति नित्यशः ।
को न तं मानयेन्नित्यं शिरसा कृतपूजनम् ॥ १० ॥
।
-
--
(१०१ )
नदीतौरे महाक्षेत्रदेशे वजनसन्निधौ
निवास: शुभदः पुंसामन्यथा स्यादधोगतिः ॥ ११ ॥
नगर प्राप्तबुद्धीनां व्यवहारः प्रशस्यते ।
ग्राम्या नगरसम्बन्धविपन्नाः स्युः क्षणादिह ॥ १२ ॥
देशाटनं सतां मैत्री वेश्यागेहो नृपालयः
बहुशास्त्रेषु चाभ्यासश्चातुर्याय प्रकल्प्यते ॥ १३ ॥
प्रिया भायां सुतो वश्या मित्राणामनुकूलता ।
अर्थप्राप्तिररोगित्व नाल्पस्य तपसः फलम् ॥ १४ ॥
धर्मशाठ्यं सुहृत्क्रौर्यमविश्वासो महात्मनाम्
अभिमानो विना मूलं कलहः कारणं विना ॥ १५ ॥
वचोऽस्थैर्यमसन्तोषः पापासङ्गः स्वतन्त्रता ।
वृथाद्देषो व्यर्थ कर्म मानवानां विडम्बना ॥ १६ ॥
सततं गोपयेद् यत्नादात्मानं क्षेमकामुकः ।
आत्मप्रकाशी लोकेषु ढगावल्लघुसंस्थितिः ॥ १७॥
किमप्यद्भुतमालोक्य न मोहं सहसा चरेत् ।
बहवो वञ्जका: स्वार्थ नानाकौशल साधनाः ॥१८॥
नियमात् स्थापयेत् किञ्चित् प्राप्तानां के शभागपि ।
कदाचिदपि कालेषु दास्यादन्न सुटुर्लभम् ॥ १८ ॥
लालयेत् पञ्चवर्षाणि दशवर्षाणि ताड़येत् ।
प्राप्ते तु षोड़शे वर्षे पुत्रं मित्रवदाचरेत् ॥ २० ॥
( १७२ )
विषयाप्तिप्रमुग्धानां पुत्राणां ताड़नं विषम् ।
दर्शयंस्तत्र सन्मार्ग शनैर्वोधं समर्पयेत् ॥ २१ ॥
गुरोरप्यवलिप्तस्य वार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य न्याय्यो दण्डो विधीयते ॥ २२ ॥
वयःस्था कामिनी नित्यं रक्षगौया प्रयत्नतः ।
कस्यापि हस्ते विश्वासो न कर्तव्यो रह: पदे ॥ २३॥
सर्वदा गृहकार्यषु नियुञ्जीत स्त्रियं सुधीः ।
श्रावयेत् सप्तसं धम्म रोषयेन कदाचन ॥ २४ ॥
मित्रं स्वच्छतया भक्त्या गुरुन् दासान् प्रयत्नतः ।
सेवाभिः स्वामिनं नित्यं वशन्मतिमान् जनः ॥२५॥
वस्त्रपूतं पिवेत्तोयं दृष्टिपूतं पदं क्षिपेत् ।
वाक्यपूंतं चरेत् कार्य मनःपूतं समाचरेत् ॥ २६ ॥
नैकाको शयनं कुादमन्त्रौं न चरेत् क्रियाम् ।
शतस्वार्थाभिलाभेऽपि समाज न परित्यजेत् ॥ २७ ॥
जात्यादैकचिताचाराट् वृत्तिं नित्यं प्रसाधयेत् ।
नास्तीहामुत्र कल्याणं कदाप्युन्मार्गगामिनाम् ॥२८॥
श्रेवान् खधर्मो विगुणः परधर्मात् स्खनुष्ठितात् ।
खधर्मा निधनं श्रेयः परधर्मों भयावहः ॥ २६ ॥
एकाको न चरेद्देशं समृद्धो धनसम्पदा
परीक्ष्य कायं कुर्वीत विदेश नित्यशङ्कितः ॥ ३० ॥
( १७३ )
गृहच्छिद्रं सदा गोप्यं खयशो न स्वयं वदेत् ।
विना तथ्य किमप्यर्थं नोत्तरेण नियोजयेत् ॥ ३१ ॥
दोषं विज्ञाय कस्यापि न निन्दा सम्वदत् कचित् ।
ख कम्मवशगा लोका इति ज्ञात्वा स्थितिं चरेत्॥३२॥
सत्य
ब्रूयात्
प्रियं
ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।
सभा वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् ॥ ३३ ॥
यो ध्रुवाणि परित्यज्य चाध्रुवं परिषवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ ३४ ॥
नाश्रयं विपुलं प्राप्य स्वाश्रयं न त्यजेन्नरः ।
विषवृक्षोऽपि सस्वहा स्वयंच्छेत्तुमसाम्प्रतम् ॥ ३५ ॥
न्यायमार्ग परित्यज्य दुराशां न समाश्रतत् ।
न्यायान्नाशोऽपि भट्राय नान्यायाद् वृद्धिरिष्टदा॥३६॥
शतसञ्चययोगेऽपि नातःकार्यो व्ययः सदा ।
क्रमाद्विन्दुप्रपातेन न शून्यः स्याद् घट: किमु॥ ३७॥
नित्यं यत्नेन कुर्चीत कपईस्यापि सञ्चयम् ।
अणू नामपि संयोगात् क्रमात् पृथ्वी प्रजायते ॥३८॥
उत्पादकाले शष्याणां सञ्चय: शुभदो मतः ।
कपान्तऽपि संदृष्टिः कर्तव्या धनमिच्छता ॥ ३८ ॥
न ग्राम्योत्सवनाथ: स्यात्तटानां माधिपो भवेत् ।
न देवदिजदेयानामाधिपत्यं समाचरेत् ॥ ४० ॥
( १७४ )
दर्शयेत् फलितं कायं नोद्यमे चपलो भवेत् ।
शत्रोः शेषमृणाच्छेषं व्याधः शेषं न रक्षयेत् ॥ ४१ ॥
आत्मवत् सर्वभूतानि परद्रव्याणि लोष्ट्रवत् ।
माटवत् परदारान् यो लोकते स नरोत्तमः ॥ ४२ ॥
शरणागतरक्षासु दृढ़यत्नः सदा भवेत् ।
गृहे समागतान् प्रोत्या तोषयेद् द्विषतोऽपि च॥४३॥
तृणानि भूमिरुदकं वाक् चतुर्थी च सुन्ता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ४४ ॥
खकर्मणा फलं नेतुं प्रयतेत समाहितः ।
न कस्मै कश्चिदुद्रितो विनाकर्म फलार्प गो ॥ ४५ ॥
तथापि क्रियतां यत्नः सदा माधनमेलनैः ।
परस्परकृतो वन्धी लोकचक्रस्य नित्यशः ॥ ४६ ॥
अपमानं पुरस्कृात्य मानं कृत्वा च पृष्ठनः ।
खकायं साधयेत् प्राज्ञः कार्यभंशो हि मूर्खता॥४॥
स्वाज्ञानाहा खदोषाहा दृश्यते विपदुद्भवः ।
तथापि मूढ़ा जानन्ति स्वदोषं न कथञ्चन ॥ ४८ ॥
विपत्सु पतितं तस्मान्न परं निन्दयेत् क्षगाम् ।
खात्मदोषं समालोक्य शमयेद् वई यन् गुणम् ॥४६॥
यावन्न शिक्षा सम्पन्ना तावद् बन्धून् प्रपोषयेत् ।
शिक्षितान् कर्मणा खेन योजयेन्नियान्तरः ॥ ५० ॥
( १७५ ) खभावाद् विषयप्राप्तिः सर्वदोषस्य कारणम् । कर्मणा लभ्यमाना सा बुद्धिवीर्य सुख प्रदा ॥ ५१ ॥ धनानामर्जको यस्तु स जानाति धने भयम् । जन्मना लब्धमम्पत्तिः किं विद्याद् भोगतत्परः ॥५२॥ जन्मना लब्धसम्पत्तेः केवलं मूर्खता फलम् । ततो व्यसनिनो भूत्वा पतन्ति विपदर्णवे ॥ ५३ ॥ यदि दोषे प्रवृत्तिः स्यात् सङ्गदोषण वा धिया । सलज्जः सभयो नित्यं फलं तस्य विचारयेत् ॥ ५४ ॥ यथाधिकारे युक्तो यस्तथा तेन प्रसाधयेत् । यथाधिकारी यो भूयात् स तथा यत्नतश्चरेत् ॥ ५५ ॥ खकुलोचितमाचारं महताम्वा खवान्धवान् । शिक्षयेत् सततं गेही राजा वा मुनिरेव वा ॥ ५६ ॥ कुलाचारी महाविद्या विशेषान्महतां कुले। नाविभूत्या महान् वंश: कथञ्चिदपि जायते ॥ ५७ ॥ यदि धारा प्रवर्तेत महद्भिरपि शिक्षिता। कदापि नैव कालेषु पुंसां सम्पद् विनश्यति ॥ ५८ ॥ सवंदा खोत्तमो भक्त्या सेवनीयः प्रयत्नतः । महतां हि कृपापात्रं होनोऽप्यायाति सम्पदम् ॥५६॥ खजातीन् बईयेन्नित्यं खबन्धून् परिपोषयेत् । जातिहीनस्य निर्वन्धोः सुखाशा लयमच्छति ॥६॥ ।
( १७६ )
रहदाहे जलप्लावे मरकेषूत्सवे तथा ।
दुष्टेभ्यः स्वधनं रक्षेद् गृहमेधी प्रयत्नतः ॥ ६१ ॥
जात्याचारेषु लोकानां न विवादं वृथा चरेत् ।
अनादौ लोकचक्रेऽत्र स्वातन्वं नास्ति कस्यचित्॥६२॥
आत्मोचितां क्रियां सा धनैर्मानैः सुभाषणैः ।
व्यवहारैः सदा रक्षेद् जनेनान्येन सन्ततम् ॥ ६३ ॥
आशुकीर्तिकरोपायः ।
लोकमार्ग मतिक्रम्य चमत्काराभिभाषणात् ।
उपपत्तिकृता सिद्धिविरोधोक्तिनिवारणात् ॥ १ ॥
अनुरक्तिर्यदा यत्र लोकानामुपजायते ।
तस्य सम्वईनं यत्नादधिर्मसमन्वयात् ॥ २ ॥
प्रसिद्धगतसम्बन्धानवमार्गावलोकनात् ।
यतः स्वाच्छन्दिकोवृत्तिलॊकानामुपजायते ॥ ३ ॥
प्रतिष्ठावईका एत उपायाः सत्वरं नृणाम् ।
वित्तसंसाधिका ख्यातिर्वित्तात् सर्वसुखोदयः ॥ ४ ॥
लोकमार्गाद्यतिक्रान्तौ यदि निन्दापरा जनाः ।
त उपेक्ष्या हिता ग्राह्याः स्व कार्यमनुपश्यता ॥ ५ ॥
न सर्वः कस्यचिच्छत्रुर्न बा मिचं धरातले ।
वजनेषु कृतप्रीतिरहितं सन्त्यजेत् सुधीः ॥ ६ ॥
लोकोऽयं मूर्खभूयिष्ठस्तत्त्ववेत्ता रहःस्थितः ।
प्रायेण मूर्खा मुह्यन्ति चमत्कारावलोकनात् ॥ ७॥
( १७७ ) तिष्ठन्तु पण्डिता टूरे खल्या दीना मितोतयः । मूर्खाणां वञ्चनादेव ख्यातिरासिन्धुगामिनी ॥८॥ प्रवाहे वालिशाः प्रायः श्रेणिवद्धाः पतन्ति हि । मूर्खेषु देवभावस्य प्रकाशः सुलभो भवेत् ॥ ६ ॥ सम्बदो वाप्यसम्वदो यः स्थादाडम्वरो गिराम् । अन्तरा क्षेमसम्बन्धान्मूढ़ान् सम्मोहयेद् वलात्॥१०॥ अथवा लोककल्याणदर्शनात् खार्थसिद्धये । उद्यमः सत्यभावायैः ख्यातिसंसाधको गुणः ॥ ११ ॥ महौषधं महाविद्या महासत्त्वं महाक्रिया । सर्वमतन्मनुष्याणां सहसा वृद्धिकारणम् ॥ १२ ॥ बहूनां स्वस्य चापेक्षा जायते येन हेतुना । अधम्मो वापि धम्मो वा स विज्ञप्तिकरी नृणाम् ॥१३॥ धम्मात सुखं सदा कालेष्वधम्मद दुःखतो भयम्। यत्नं कुर्वीत मतिमान् तस्मादम्मास्य संग्रहे ॥ १४ ॥ अथवाऽयं वृथावादो यथा स्यात् प्रकृतेर्गतिः। अनायत्या तथा लोकाः प्रवर्तन्ते समुद्धताः ॥ १५ ॥ तथाप्येते यथावृत्ता भवेयुः प्रकृतेर्वशाः । तत्रापि मार्ग पश्येयुर्यः स्यात् सञ्चारमङ्गलः ॥ १६ ॥ प्रतिष्ठोदयसंरम्भ निस्पृहत्वमुदारता । दौनवृत्तिर्मिताहारोऽव्यभिचारः फलप्रदः ॥ १७ ॥ -- २३ HINDIAANTRIKISHORE ( १०८ ) लोकातिगसमारम्भः साध्यश्चेत् फलदः क्वचित् । असिद्धौ वहुसन्तापो दृष्ट्वारम्भं तदाचरेत् ॥ १८ ॥ प्रत्येकेऽस्मिन् समारम्भे बहुविघ्नः पदे पदे। तानतीत्य फलावाप्तिर्दुष्करा मूढचेतसाम् ॥ १६ ॥ ये यथावद् विनिम्मौकाटूई गन्तुं कृतोद्यमाः । यथा तथा विधानेन सफलास्ते नरोत्तमाः ॥ २० ॥ ये यथा भावसम्पन्नास्तांस्तथैव नियोजयन् । वईयन् लोककल्याणं वर्द्धते यः स वृद्धिमान् ॥ २१ ॥ शठहत्तिः। वसनैर्भूषणैः सौम्याः किम्वा काषायरञ्जिताः । किम्वा विवसनाः शान्ताः किम्वा मन्त्रमहौषधैः ॥१॥ नानालिङ्गधरा लोके खोचितक्रिययोजुलाः । वञ्चयन्तो जनान् नित्यं साधयन्ति भवक्रियाम् ॥ २ ॥ विरलाः साधवो देवास्तिष्ठन्तोऽपि सुदुर्लभाः । स्थिरप्रज्ञा निरालम्वा निर्मोहा लोभवर्जिताः ॥३॥ शठा अपि बहुभ्रान्तिं दत्त्वा सामात्यदर्शनात् । विज्ञायन्ते क्रामात् काले न दोषः स्याच्चिराकृतः ॥४॥ दर्शनात् खल्पतो लाभाद् विषयाणामसाधनात् । जातकामः समालधुं नानीपायान् समाश्रयेत् ॥ ५॥ य उपाया निरावाधा धम्मासम्पद्विवई काः । विद्यावाणिज्यकृष्याद्यास्ते साध्याः श्रमबुद्धिभिः ॥६॥ ।
: ( १७६ ) श्रमो भोगश्च नैकत्र विरोधाद वर्त्तते क्वचित् । भोगान्ध्यं वीर्यवत्त्वेन दृष्टेरावरणं भवेत् ॥ ७ ॥ आध्यादपायसम्भान्त्या तत् सौलम्ये मतिं ददत् । शाठ्यवृत्तौराशुफला गृह्णाति स्वार्थसाधनः ॥८॥ आपातत: प्रियालापाः प्रियालोकाः प्रियङ्कराः । अन्तर्गरल सम्पन्नाः सर्वघातनतत्पराः ॥ ६ ॥ अतिसतो भवेच्चौरः स्पष्टतो दस्यु घातको। स्वल्पसाधनसम्पन्नः स्यादन्तर्घाततत्परः ॥ १० ॥ खलवृत्तिः। खासाध्यत्वं सुखादीनांवीक्षमाणोऽन्यसाध्यताम् ! अप्राप्तिजनिताद् दुःखादाहतः सञ्जिहीर्षया ॥ १ ॥ तन्मूलपरशर्मादि साधनाघातवाञ्छया । असमर्थो वृथाबादाद् विघ्नकारी खलो मतः ॥ २ ॥ सर्वदा परहिंसाथ नानाकल्पनतत्पराः । मिलनैर्बहुभिर्नित्यं जनयन्ति मइद् भयम् ॥ ३ ॥ कुलजा निर्धना मूर्खा दरिद्रा व्यसने रताः । खला भूत्वा गृहस्थानां धनं गृह्णन्ति सर्वदा ॥ ४ ॥ संसारे स्थितवृत्तीनां को वा वारयितुं क्षमः । ये यथा सन्ति ते सन्तु तथारक्षात्मनो हिता ॥ ५ ॥ दृष्टितः प्रणतिं कुर्यात् मधुरक्षणभाषणैः । तथापि न खला: शान्तिं यान्ति कार्योचिता क्रियाद
( १८. )
दस्यादिवृत्तिः ।
उचित साधने लशं दृष्ट्वा कामावलोकनात् ।
तन्मोहान्धः शीघ्रत्त्या धनहारा हि दस्यवः ॥ १ ॥
एकाको चेद् भवेञ्चौरो मिलिता दस्युमंजिता: ।
मूर्खा दासा विषयिण श्चातसाधनसम्पदः ॥ २ ॥
आरण्यपावताद्यास्तु च्युतक्षेचमतिक्रिया: ।
खभावाद् दस्यवश्वोरा जाबन्ते देहपोषकाः ॥ ३ ॥
कदाचिदपि विश्वासं प्रागान्ते तत्र नाचरेत् ।
दया धर्मो मतिः प्रौति: सख्यं शान्तिनं दस्युषु ॥४॥
खभावस्यानिवार्यत्वाद् यदि दुष्टपथे गतिः ।
समाहितैः साधनीया दस्युचौरादिदुष्किया ॥ ५ ॥
आश्रित्य टुश्चरं देशं क्रूरैः सङ्गं समाचरन् ।
यातप्रास्थानिक मार्ग दृष्ट्वा दस्युत्वमाचरेत् ॥ ६ ॥
आहृत्य धनरत्नादि धनिनां भूभृतां तथा ।
ससनी भोगसन्तप्तो जनसंग्रहमाचरेत् ॥७॥
संगृह्य धनसङ्ग्यादि क्रमात् सञ्चितसाधनः ।
दुश्चरं देशमाकृष्य साम्राज्यमपि साधयेत् ॥८॥
एवं चौर्य मपि श्रेयः चातुर्येण शरीरिणाम् ।
प्रायशः कृतविद्यानां चौर्यमेतत् सुसिध्यति ॥ ६ ॥
चतुरवृत्तिः।
बहुसाधनसम्पन्नो महाप्रतिभयोज्जलः ।
प्रत्युत्पन्नमति/रश्चतुरो गौयते जनः ॥१॥
। ( १८१ ) चतुरस्य मतिनित्यं लोकावाधितसम्पदि । महाविघ्न विना ह्येष न दोषं कर्तुमुद्यत: ॥ २ ॥ चतुरेण सहावासो बुद्धिं वईयतेऽनिशम् । तेन सङ्ग प्रकुर्वीत सदा यत्नेन बुद्धिमान् ॥ ३ ॥ वेश्यावृत्तिः। अप्राप्तपतिसंसर्गा पुरुषान्तरदर्शिनी । दीना वा ताड़िता लुब्धा टुश्चरित्रा भवेद् बधूः ॥१॥ यत् किञ्च कुरुते कार्य वेश्या सन्तोषबर्धनम् । सर्वमेव धनाशाभिर्दर्शितं चान्तरं रहः ॥ २ ॥ धनदेऽपि च्युते तेन नास्या लज्जा दृशोरपि । सदा भोगोत्सुका क्रूरा राक्षसी सर्वनाशिनी ॥ ३ ॥ न कश्चिदस्ति वेश्यायाः प्रियो लोके धनं विना । कुलीनो रूपवान् वापि धनवान् वा बहुश्रुतः ॥ ४ ॥ चेदाशा जायतेऽन्यस्मादधिकप्राप्तिगोचरा । चिरपालकसन्त्यागे नक्षणं पक्षपातिता ॥ ५ ॥ शठो दस्युस्तस्करो वा किम्वा यश्चिरसंस्थितिः । कथञ्चिदपि संरक्तिस्तत्र नान्यत्र कुत्रचित् ॥ ६ ॥ न कश्चिदिह संसारे वेश्याया बन्धुरीक्ष्यते । यावद् प्रियवचो नृणाम् ॥ ७॥ तत्रापि शाठ्यतो भोगः प्रार्थ्यतेऽखिल मानवैः । प्राप्तेऽवकाशे तन्नाशादपि कश्चिन्न शङ्कितः ॥ ८॥ यौवनमतस्यास्तावत् ।
( १८२ ) एकाश्रयेऽपि यत्नेन प्रकुर्य्याद् धनसञ्चयम् । न कस्य प्रियया वाचा प्रीतिं कुर्यादथान्तरीम् ॥ ६ ॥ लम्पटवृत्तिः । सुखसम्प्राप्तविभवो गुरुसन्ताड़नोभितः । दुष्टासङ्गो भोगकामी लम्पटी जायते नरः ॥ १ ॥ निर्लज्जो नित्यनिर्भीको भोगमात्रसमुत्सुकः । वेश्यामूर्ति प्रौतिमयौं मदा पश्यति चेतसा ॥ २ ॥ यावत्तिष्ट निजायत्तं धनं तावत् प्रपूजयन् । चरमे द्यूतचौर्यादिक्रियासेवी विनश्यति ॥ ३ ॥ बधूर्वा भगिनी वापि तनया वा गुरुग्रजा। लम्पटस्य दृशोः प्रान्ते न काचित् परिहीयते ॥ ४ ॥ द्यूतं चौथ्यं दुराचारी मिध्यारोगः सुरादिकम् । अनीजस्यं तथा मौख्यं सर्व तिष्ठति लम्पटे ॥ ५ ॥ अनिवार्य रिपोर्वेगात् सद्भाद् वा दुष्टचेतमाम् । यदि जायेत लाम्पट्यं तदा न्यायपरो भवेत् ॥ ६ ॥ तोषयन् वचसा नित्यमन्त: शाठ्यं समाश्रयन् । मलवद् रेचयेद् वीर्य्यमनासत्तो यसङ्गवान् ॥ ७॥ सङ्गात् सञ्चायते कामः कामात् क्रोधोऽभिजायते । क्रोधाद् भवति सम्मोहः मम्मोहार' स्मृतिविभ्रमः॥८॥ स्मृतिभ्रंशाट् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति । तस्मात् सलज्जः सम्भौती निःसङ्गो दुष्कियां चरेत् ।
( १८३ ) जड़त्तिः। केषामपि च बौद्धानां साधनानामनीक्षकः । वाह्यक्रियालब्धभोगो जड़ इत्यभिधीयते ॥ १ ॥ राजा वा मुनिपुत्रो वा दोनो वा बधजीवन: केवलं वाद्यसम्भोगी सर्वे मूढ़ा न संशयः ॥ २ ॥ वसूनां तारतम्येन लब्धालब्धविशेषता । आत्मा विषयसंसर्गी सर्वेषामेकरूपता ॥३॥ यथैकस्य सुखं दुःखं कामक्रोधादयस्तथा । तथा परस्य विजेयं नास्त्येषां भिन्नरूपता॥ ४ ॥ सहसा क्रोधमायान्ति सहसा शान्तिमाश्रिताः । बौद्धकौशलमात्रेण मुग्धा भ्रान्ति भजन्ति च ॥ ५ ॥ वाद्यातिरिक्तवार्ताया न जानन्ति कथामपि । दारपुत्राद्यात्मबुद्धया निमज्जन्ति सदा धिषु ॥ ६ ॥ परसम्पदमालोक्य चमत्कारधियां वशाः । काऱ्यांकाय्य परिज्ञानसूढ़ाः कायक्रियारताः ॥ ७॥ जीवन्मुक्तोऽपि विश्वासो नास्ति लिङ्ग विना वहिः । वाह्यचिहावलोकन दस्यूनामपि सेवकाः ॥८॥ चिरसंस्कारसम्बद्धाः परानावशवर्तिनः । पराभिप्रायगन्धोऽपि नैषां चेतसि जायते ॥६॥ वाद्यानामविरोधेन य एषां फलसाधकः । सहि सञ्चालयन्नेतान् लभते देवसम्पदम् ॥ १० ॥ ॥
( १८४ ) ग्रहस्थवृत्तिः। लोकाविरुद्धमार्गेण कृषिशिल्पक्रियादिना । याज्येन विद्यया वापि निर्वाहो गृहमधिनाम् ॥ १ ॥ स्वायत्त स्वोचितद्रव्ये लब्ध प्राप्तव्यसै विनाम् । नौतिलज्जाभयादीनां दृष्ट्या प्रीति: स्ववैभवे ॥२॥ कामितेऽपि महाभोगे प्रवृत्तिनैव जायते । विषयो वासनाहेतुर्वासनाऽऽसक्तिमाधिका ॥ ३ ॥ आसक्त्या जायते चेष्टा चेष्टात: कार्यमुच्यते । कार्य्यस्य साध्यासाध्यत्वाद् गुणदोषोदयो भवेत् ॥४॥ असाध्ये सम्प्रवृत्तानां जायते क्लेशसञ्चयः । चौर्य्यात् शाठ्याद् दुराचाराट् द्यूताल्लोकविरोधिनः५ साध्योपाये तथालब्ध विषये प्रौतिभागिनाम् । खकर्मनिरतानांतु गृहस्थानां सदा सुखम् ॥ ६ ॥ तस्मात् खासाध्य कार्येषु तथा भोगेषु वा पुनः। न दध्यान्मतिमात्मीयो य इच्छेत् शुभमात्मनः ॥७॥ विश्वास्याः सज्जना एते द्रुतं नान्यायकारिणः । लोकरक्षाकरा नित्यं धार्मिका: कुलपोषकाः ॥८॥ एतेषु मुखदुःखानां तारतम्य प्रदर्शनात् । तारतम्य विजानन सन् व्यवहारं समाचरेत् ॥ ६ ॥ सत्सङ्गः साधनप्रीत्या लोकानामुपकारकः । यः कालं धर्मभोगाटी हरतोष महानरः ॥ १० ॥ :
( १८५ ) नृपन्नधनिसद्वृत्तभेदादेषोऽनुमन्यताम् । श्रयणीयो माननीयस्तोषणीयः समाहितैः ॥ ११ ॥ एवं तत्त्वानुसारेण विश्वासप्रौतिपूजनम् । कृत्वा गार्हस्थ्यधर्मेण कालहारी महानरः ॥ १२ ॥ खधर्मे वान्यधर्मे वा नीचो वा विपुलोदयः । दरिट्रो वा धनी वापि सर्वे सवृत्तिशालिनः ॥१३॥ सर्वे स्वकर्मयोगेन ह्रासबद्धान्मुखाः सदा । कर्महीनस्य नेहास्ति गतिरामुष्यिको तथा ॥ १४ ॥ यस्मिन् समाज खावासो विधातव्यो जनैः सदा । तत्कर्म यत्नतो ग्राह्यं कम धर्म विदुर्बुधाः ॥ १५ ॥ यदि योगी विकालतस्तत्त्वदर्शननिर्भयः । तथापि खननाचारं मनसापि न लवयेत् ॥ १६ ॥ धनिवृत्तिः। नियमाद् व्यवहारार्थी साहङ्कारो दुरासदः । सदाऽवज्ञाकरः पुंसां मधुरैर्भाषणैरपि ॥१॥ खबुद्धिसिद्ध सिद्धान्तं मन्यमान: क्रियापरः । खानुगे प्रीतिमापन्नो गुरौ वापि सुहृत्सु वा ॥ २॥ संकल्पविपरीतार्थं गुरुमम्यवलङ्घयेत् । कस्यापि तेक्षा लोकेषु न सहेत कदाचन ॥ ३ ॥ हीनभावेन लोकानां व्यवहारप्रियः सदा । नित्याविश्वाससंयुक्तो निर्भयो निर्टयान्तरः ॥ ४॥ २४
( १८६ )
सततं खसुख मत्तो दम्भवान् कुटिलान्तरः ।
निरपेक्षो भोगमात्र दृष्टिमान् लोकपालकः ॥ ५ ॥
खोपार्जित फलोत्साही साहकारो मदोद्दतः ।
कुलाभिमानी कुल जोऽदयो दम्भसमोदयः ॥ ६ ॥
एवं लोकेषु ये यत्र तत्र ते समवैभवाः ।
भोगानां तारतम्येन पुण्यापुण्यकथोज्जुला: ॥ ७ ॥
पण्डितहत्तिः ।
व्यवहारपरा: केचित् केचित् तत्त्वसमुत्सुकाः ।
केचिदद्दयरूपाः स्युस्विविधा विदुषां स्थितिः ॥ १ ॥
आद्याः खकम्मणा नित्यं जगतां कार्यसाधकाः ।
भुञ्जते विषयान् श्रेष्ठान् केवलं लोकदर्शनाः ॥ २ ॥
ख बोधेषु लब्धसत्त्वा अलोकगतिवर्जिताः ।
साहङ्कारा जगत्खास्थ्ये सर्वदा दत्तमानसाः ॥ ३ ॥
विफलारम्भविषाः स्वानुगे कृतमित्रताः ।
अन्यत्र जड़ताबुद्धया कृतहषा दुराक्रमाः ॥ ४ ॥
धनानामजनं रक्षां सुतादीनां प्रपालनम् ।
जानन्ति परमं श्रेयो बहिर्लोकानुगामिनः ॥ ५ ॥
पालंकाः स्वाश्रितानाच्च न्यायमार्गपरप्रियाः ।
वह्नमात्याः सदारम्भा विश्वास्याः सत्यवृत्तयः ॥ ६ ॥
उचिताचारसम्प्राप्तौ पक्षपातविवर्जिताः।
सदाविषयसम्यर्किचिन्ताचयपरायणाः ॥ ७॥
( १८७ )
सुप्रसन्नाः सुसम्पन्नाः सदा गम्भौरभाषिणः ।
स्वल्पवादा अलोकार्थतत्त्वविश्वासवर्जिताः॥८॥
हितीया विषये दोषदर्शिनो रागवज्जिताः ।
सदा धर्मपरोत्साहा धर्मकर्मपरायणाः ॥६॥
यथालाभेषु सन्तुष्टा लोकविद्दषवर्जिताः ।
सत्ये रताः शुभाशंसापूरितवान्तवृत्तयः ॥ १० ॥
तृतीया विफलारम्भा लोकवञ्चनतत्पराः ।
चिरसंस्कारदुर्वद्या वागाड़म्बरतत्पराः ॥ ११ ॥
साहङ्काराः खबोधेषु सदाछिद्राभिदर्शिनः ।
खोक्तरक्षाढ़ोत्साहाः सर्वदा सर्वदूषकाः ॥ १२॥
अतत्त्वलोका वाक्यानां विफलार्थप्रकल्पकाः।
येन केन प्रकरण पराभिभवकामुकाः ॥ १३ ॥
जगतां श्रेष्ट्यमात्मीयं पश्यन्तो वादतत्पराः।
तत्त्वातत्त्वविनिर्मोकात् सदा तकपरायणाः ॥ १४ ॥
स्थितेषु कृतविश्वासा नवीने दोषकल्पकाः ।
पवित्राचारसम्पन्नाश्चिरमार्गाभिगामिनः ॥ १५ ॥
विश्वास्याः पातकाभौताः सतां वृत्तिप्रदर्शकाः ।
भजन्ते विषयान् धर्मान् परत्र सुखकामुकाः ॥१६॥
निर्धनाः सततं लोभपरा: क्रोधपरायणाः ।
दातुः कौतिकरा नित्यमदातुर्दोषगायकाः ॥ १७ ॥
( १८८ )
सहसा कठिनालापाः खल्पलामे बहत्तयः ।
उक्तिभङ्ग्या च सततं खमहत्त्वप्रगायका: ॥ १८ ॥
अभ्यस्तबहुवाक्याश्च धनिनां प्रियवादकाः ।
माननामे सुसन्तुष्टाः क्षणात् सन्तोषभागिनः ॥१६॥
व्यवहारपरा भूत्वा केचिद् विद्याभिमाजिनः ।
एते दुरासदाः क्रूरा महादम्भसमन्विताः ॥ २० ॥
लुब्धाः खधनसम्प्राप्तौ सर्वकर्मपरायणाः ।
सर्वोच्छेदकरा नित्यं धनविद्यामदोहताः ॥ २१ ॥
धर्माधौभयोत्यतालेजोगाम्भीर्य्यदर्शिनः ।
हरन्ति धनिनां वित्तं बागाड़म्बरतत्पराः ॥ २२ ॥
उतिमात्रेषु सर्वत्र हीनभावाभिलोककाः ।
महाविषयिणो नित्य महाचारोचितक्रियाः ॥ २३ ॥
अविश्वास्याः सदाहजिगीषापूरितान्तराः ।
बहिबहुगुणालोका: पाषाणहृदयाः खलु ॥ २४ ॥
केचिदेषु शान्त वृत्त्या मधुरालापतत्पराः ।
सर्वेषामनुरोध्युक्त्या बहुरञ्चनकोविदाः ॥ २५ ॥
विरोधिनि बहिःप्रीता युक्त्या सर्वार्थनाशकाः।
खार्थस्यैवानुरोधेन परार्थपरिसाधकाः ॥ २६ ॥
नास्तिकाश्छन्नदुत्ता बहिःसद्वृत्तिशालिनः ।
भजन्ते विषयान् श्रेष्ठान् लोकेषु बहुमानिताः ॥२०॥
( १८८ ) केचित् तत्त्वार्थसम्पन्ना व्यवहारपरा बुधाः । सदा कल्याणदाः पुंसां सदा धर्मपरायणाः ॥ २८ ॥ सुविश्वास्याः सुसंसेव्याः सर्वसद्गुणशालिनः । भुक्ता देहोचितं धयं लभन्ते गतिमुत्तमाम् ॥ २६ ॥ किन्वते वञ्चिताः क्रूरैः खोचितार्थपराङ्मुखाः । लभन्ते प्रायशो दुःखं भजन्ते नापि सम्पदम् ॥ ३० ॥ अन्ये च बहवो दुष्टा विदुषां लिङ्गधारिणः । सदा दुष्कर्मणा खार्थं साधयन्ति भयङ्कराः ॥ ३१ ॥ यथा तथा सन्तु बुधा बुधा एव नचापरे । शतमूर्खपरित्यागादेकः सेव्यः सुखेप्सुना ॥ ३२ ॥ शतदुर्गुणसदभावो यदि विहत्म तिष्ठति । तथापि कश्चित् सम्प्राप्यो गुणस्तत्र शुभप्रदः ॥ ३३ ॥ कुत्रापि लब्धवोधेभ्यो नातिभौतिः प्रवर्तते । यथा तथा भवन्त्वेते लोकरक्षाकरा बुधाः ॥ ३४ ॥ सत्पुरुषहत्तिः । अविद्या वा सनिद्या वा धर्मभीता दयालवः । सर्वदा विहिताचारनिरता गुण लोभिनः ॥ १ ॥ सुविश्वास्याः प्रियालापाः परनिन्दापराङ्मुखाः । धम्य लाभमुसन्तुष्टा देवातिथिसमर्चकाः ॥ २ ॥ आश्रयाहाः सदाटप्ता मानामानिराकुला:। सर्वदा लोककल्याण कामुकाः प्रियदर्शनाः ॥ ३ ॥ 7 ( १६. ) शत्रोरपि गुणोत्साहा महतामनुगामुकाः । भवन्ति कुलजाः प्रायो विहांसो वा नरोत्तमाः ॥ ४ ॥ तत्त्वज्ञत्तिः। ये यथा कर्मसम्पन्नास्ते तयाफल साधनाः । इतिज्ञात्वा निरातका निर्विरोधा निराकुलाः ॥१॥ त्रिकालगतवृत्तान्तस्य सदा परिदर्शकाः । देहोचितक्रियारता अनासक्ता भवार्णवे ॥२॥ सर्वदात्मनि सन्तुष्टा महासत्त्वा महोदयाः । सततं तत्त्ववक्तारः प्रमादभ्रमवर्जिताः ॥ ३ ॥ यथालाभसुसन्तुष्टा यथागमनिषेविणः । सर्वसंशयहारः सर्वतत्त्वप्रभाषकाः ॥ ४ ॥ मानापमानयोस्तुल्या लाभालाभसमेक्षगाः । महाविपूवाससम्पन्ना महासन्तापहारकाः ॥ ५॥ शोकहीना निराक्रम्या: सरलाः कपटोत्तमाः । यथादयालवस्तादक कूरा भुवनरक्षणे ॥ ६ ॥ रिपूनपि गुणैः शान्तान् कुर्वन्तः से विनो वलात्.। गृहस्था अपि निःसङ्गा नीतिधर्मामयोक्तयः ॥ ७ ॥ निर्दम्भा अतिदम्भाश्च सम्राजोपि स्थिरान्तराः । अप्राप्य परिहीनाश्च सदा सर्वार्थसिद्धयः ॥८॥ जायन्तेऽखिलतत्त्वानां दर्शनान्मुनयो नराः । गृहस्था वा वनप्रस्था सन्यस्ता वा नराधिपाः ॥
( १६१ )
धनरक्षोपायः।
धनार्जनस्य समये मतिरुल्लासिनी नृणाम् ।
तथैव दर्शयेन्नित्यं सौलम्यं धनसञ्चये ॥ १ ॥
अज्ज को विपदो लेशं गणयेन्न कथञ्चन ।
तिष्ठत्यपि सदा विघ्ने धनागमविमोहितः ॥ २ ॥
तथैव सङ्गिनां लाभो येऽन्धा भोगसमुत्सुकाः ।
खयं भोगमदोन्मत्तः पश्चात् किञ्चिन्न लोकयेत् ॥३॥
सुतादीनपि भोगान्धान् कुरुते मदमोहितः ।
येऽनभिज्ञा भोगमत्ताः सदा व्यसनतत्पराः ॥ ४ ॥
कालेन विपदां पाते खजनहींनसाधनाः ।
निमज्जन्ति महादैन्ये निरुपाया निराश्रयाः ॥ ५ ॥
तस्मादजनकालेतु यत्नात् कुर्वीत सञ्चयम् ।
शिक्षयेत् खजनान् नित्यं भोगमाननिरुत्सुकः ॥ ६ ॥
शिक्षिताना ममुग्धानां विपत्यातो न जायते ।
पातेऽपि पुनरुद्धारो जायते शिक्षितात्मनाम् ॥ ७ ॥
यावान् सञ्चयमार्गोऽस्ति तत्र भूमिचयः शुभः ।
अन्येषां विपदी निलां भूमिरेषा चिरंस्थिरा ॥८॥
अन्यत्र शतलाभेऽपि सञ्चयेद् भूमिमादरात् ।
अन्याय्येनापि पण्येन नास्ति भूमिसमं धनम् ॥ ८ ॥
लब्धे समुचितान्नेतु विरमेत् टप्तमानसः ।
चेदाशा रक्षयन खान्न पुनर्यत्नं समाचरेत् ॥ १० ॥
( १८२ )
प्राप्ते धने तथा यत्नं न कुर्यात् तेन मोहितः ।
यन्नाशे सर्वनाशः स्यादिति नित्यं विचारयेत् ॥११॥
यावज्जीवं परायत्तं न कुर्यात् खधनं क्वचित् ।
भाा सुतः सुहृदापि सर्वे खार्थपरायणाः ॥ १२ ॥
देवानसिद्धिः।
अधीत्य विधिवद् विद्यामेकामपि सुशिक्षया ।
ब्रह्मचर्येण तपसा शाधितान्तः प्रसन्नधीः ॥१॥
अवोधानां ग्रामिकाणां मदा दुःखेषु तिष्टताम् ।
कल्याणाय निजश्रेयःकामुका ग्राममावसेत् ॥२॥
लोकानां भीषणे स्थाने किम्वा सर्वाभितर्पिते ।
पवित्रं गृहमासेव्य देवाराधनतत्परः ॥३॥
अन्नन शिक्षयंछात्रानतिथीन् परिपोषयन ।
ग्रामिकाणां हितं कुर्वन रक्षयन् विघ्ननाततः ॥४॥
निर्व्याजेन सतामन्नं गृहन् निर्विणमानसः ।
लोकानामधिपो देवो भूत्वा पृथ्वीहितं चरेत् ॥५॥
बहवो लम्पटा दुष्टा भागसाधनतत्पराः ।
बञ्चयन्ति गृहस्थानां चेतांसि नरराक्षसाः ॥ ६ ॥
लिनिनो ग्रहवेत्तारः सिद्धाः षट्कर्मतत्पराः ।
विभागे प्रायशो ह्येषां चिङ्गं विद्या कुलं वयः ॥ ७॥
देवत्वं यदि लभ्येत तदा रक्ष्य प्रयत्नतः ।
अर्जनाद्रक्षणं दुःखं तत्र विघ्नोदयी महान् ॥८॥
( १६३ )
-
।
यावल्लोकेषु सामान्यस्तावल्लोका न लोककाः ।
प्रवृद्धे दृष्टिसम्पात: सकृत् सर्वस्य जायते ॥ ६ ॥
सदा छिद्रपरा लोकाः सदा दुश्चेष्टिते रताः ।
कल्पयन्ति सदा कर्मा तस्य विघ्नकरं जनाः ॥१०॥
तस्माद् दुरासदो भूत्वा सर्वाच्छादकरौजसा ।
लभेत देवसम्पत्तिं यथा राज्यं तथैव सा ॥११॥
आपत्कर्त्तव्यम् ।
तत्र विप्लवे।
प्रवृत्त समरे घोरे राजभङ्गे त्वराजके।
शठतस्करदस्याद्याः प्रवृद्धाः स्युभयङ्कराः ॥ १ ॥
हरन्ति गृहिणां वित्तं दारान् मानं कुलं तथा ।
तस्मात् तदानीं संरक्षा कर्तव्यातिप्रयत्नतः ॥२॥
सधैः शस्वधरैर्भूत्वा प्राणदानकृतोद्यमैः ।
यथावीर्यं यथाबुद्धि यतनीयं खरक्षणे ॥ ३ ॥
क्रूराः शान्या न शाम्यन्ति तस्मात् क्रूरत्वमिष्टदम् ।
दारमानधनादौनां नाशे किं जीवनैर्नृणाम् ॥ ४ ॥
तस्मादनागते क्षोभे पुरा सबैः सुखार्थिभिः ।
रक्षणीयं वलं शस्त्रं साहसं गृहमेधिभिः ॥ ५ ॥
चञ्चलेयं चलादेवी नित्यं नवनवैषिणी ।
कटाक्षयति तारुण्यवीयंसाहाय्यभूषितम् ॥ ६ ॥
- ( १६४ ) सुखेन पालितैः सर्वैर्यदि शस्त्रादिभूषितैः । दूरेऽस्तु खधनादीनां रक्षा राज्यं सुरक्ष्यते ॥ ७ ॥ तस्माद्राजापि कर्त्तव्या दृष्टिरत्र शुभावहा । परस्परकृतप्रीतिश्विरशर्माविवईिनी ॥ ८॥ अथवा निर्भये राज्ये गच्छेत् खजनरञ्जितः । महाधनं समागृह्य भूम्यामन्यत् प्ररोग्य च ॥ ६ ॥ दुर्निवाऱ्यांसु तीक्ष्णासु राजसैन्याभिभूतिषु । प्रपद्य' शरणं कुर्यात् तेषामनुमतां क्रियाम् ॥ १० ॥ न राजा स्वाश्रितानान्तु प्रजानां नाशकः क्वचित् । प्रजानाशें कथं राज्यं भोक्तव्यं स्यान्महीभृता ॥११॥ प्रायणे। येषां यत्र सुखाशाऽऽस्ते तन्नाशे ते महाकुलाः । कर्तव्यज्ञानशून्याः स्युः खात्मरक्षापराङ्मुखाः ॥ १ ॥ बहालोकैर्बहुप्रत्तैः खजनैः सत्त्वत्तिभिः । सन्तोष्या बालकाः प्रेम्णा परे शान्तिप्रदर्शनैः ॥ २ ॥ अवितोदयो लोकस्तथानाशस्तथास्थितिः । गतं यत्नशतेनापि न लभ्य स्यात् कथञ्चन ॥ ३ ॥ एवं फलमुखैर्वाक्यैर्मुनिभिः परिचोदितैः । भोजनैः शीतलैः स्पशैंः शमनीयाश्च बन्धुभिः ॥ ४ ॥ शोकसञ्चारिणि प्राणे महानग्निः प्रवर्द्धते । तावनी मिलितौ नृणां कुरुतः प्राणसंशयम् ॥ ५॥ .
( १९५ )
अत्रापि दुष्टवृत्तीनामवकाशः प्रजायते ।
तस्मादग्रे खवस्तूनि रक्षणीयानि यत्नतः ॥ ६ ॥
ग्रामविधिः।
य इच्छेहनवानात्मपरमक्षेमसाधनम् ।
ग्रामान् संस्थापयेद् यत्नाल्लोकतत्त्वावलोकनात् ॥१॥
केनात्मसहचारित्वं लोका वाञ्छन्ति सवंदा ।
तद्भावमभिसम्वीच्य ग्रामान् संस्थापयेत् सुधीः ॥२॥
नदीतीरे महामार्गे नीचानामभिमध्यगे।
अथवा विपिन प्रान्ते मूढाकोर्सऽयवा पदे ॥ ३ ॥
तत्रत्यानां देहयात्रानिर्वाह दीप्तबोधताम् ।
अभिबोध्य गुरोः पार्श्वे वसेद धर्मपरायणः ॥ ४ ॥
मध्ये च महति क्षेत्र माकरसमन्विते ।
मरी संस्थाप्य वासांसि क्षेत्र सन्दोहयेत् सदा ॥ ५ .
फलैः पुष्पैस्तृणैः शष्यैरन्नै साधिवेशितम् ।
बहिः शष्यैः पावफलैर्यथास्थानं सुशोभितम् ॥ ६ ॥
सर्वेषां प्रौतिदं देवपाणिस्थानादिरञ्जितम् ।
दासनापितगोपालरजकादिसमन्वितम् ॥ ७ ॥
जातिबान्धवधर्माजवणिक्पश्वादिवासितम् ।
यावदावश्यकं लोके देहिनां देहधारणे ॥ ८॥
खधनस्तावदापाद्य प्रेम्णा लोकान् निवासयेत् ।
आत्मीयानपि तत्रैव दत्वा बहुपदान्यपि ॥ ६ ॥
( १८६ )
सनिकृष्टेजनैनित्यं चक्षुष्मान् ऋणदानकैः ।
प्रेम्णा सवत्तिदानेन व्यवहारं शनैश्चरेत् ॥ १० ॥
अथवा क्षेत्रिभिः कुर्याद् वणिभिर्वाऽखिलैर्जनैः ।
यथावृद्धि चरंस्तत्त्वं क्रमादाक्रमको भवेत्॥ ११ ॥
यथा कुलं यथा विद्या यथा द्रव्य यथा क्रिया ।
तथैव फलदः पुंसामेष मार्ग: सनातनः ॥ १२॥
धनिनी जाततत्त्वानामुपदेशेन साधयेत् ।
जाततत्त्वो वीक्ष्य कुर्य्यात् कालात साम्राज्यसम्पदम्१३
धर्मसेवा।
नानाफलं क्रिया नाना नानासाधनसाधितः ।
विरुद्धात्मा दुरुल्लद्ध्यो धर्म एष मनातनः ॥ १॥
पालनीयः प्रयत्नेन सदा कुशल कामिभिः ।
धर्महीनस्य नैवास्ते गतिरत्र परत्र वा ॥ २ ॥
विषम्बा विरोधस्बा मोहम्बा त्यज्य धीमता ।
जगच्चक्रसमालोकात् क्रियते धर्मसेवनम् ॥३॥
प्रतिक्षणं यदात्मीयं येन येन प्रलभ्यते ।
को भोक्ता कुतएवैतत् कः संसर्गः किमागमः ॥ ४ ॥
केन वा क्रियते कस्मै दुर्विज्ञेयो दुराक्रमः ।
लोक एष चिरावृत्तो नानारसकर: सदा ॥ ५ ॥
फलानियमसंदृष्ट्या पुरुषार्थप्रसाधनैः ।
तत् केनापि स्थिरीकत्तुं शक्यं न फलसाधनम् ॥६॥
( १६७ )
इमामालोक्य मुनिभिर्जगतां गतिमद्भुताम् ।
कार्यमाचे धर्मसेवा विहिता तत्त्ववेदिभिः ॥ ७ ॥
यथादेशं यथासात्मा यथाभावं यथोदयम् ।
धर्ममार्गो महानेष साधितः सत्त्वत्तिभिः ॥८॥
आपत्काले सहायोऽसौ सम्पदि प्रियबान्धवः ।
व्यवहारस्य जनकः सर्वशर्मसुसाधकः ॥ ६ ॥
सर्व एव शुभी धर्मों न कश्चिदवमन्यताम् ।
एकलक्ष्यगताः सर्वे नानामार्गप्रदर्शकाः ॥ १० ॥
देशकालखभादिभेदात् सवौं निराकुलः ।
तस्माद् देशादिसम्बन्धाद् धर्मा : सेव्यो नचापरः॥११॥
प्रीत्या वा लोभतो वापि विप्लवाद् दण्डतोऽपिवा।
धर्मान्तरसमायोगे पूर्वेष्टचयविच्युतिः ॥ १२ ॥
तदा तद्धर्मिभिः प्रीत्या स सेव्यो विधिचोदितः ।
यथा यथा विधिर्यादृक् तमुल्लथ्य क्रियावताम्॥१३॥
पापभावी लोकदृष्टौ जायते यो भयङ्करः ।
समाजाद् बिच्युतं कृत्वा पातयेद् दुःखसागरे ॥१४॥
सम्यक् संसेवितो धर्मों विधिना पुण्यभाजनैः ।
नानासम्पन्मयौं वृद्धिं विदधाति निरन्तरम् ॥ १५ ॥
सदाखजनसन्तृप्ता: खसम्पत्परिकामुकाः ।
सम्पत्ती वा विपत्तौ वा भवन्ति स्थिरमङ्गलाः ॥१६॥
( १९८ ) धर्मपरिवर्तनम् । य इच्छेद धर्ममार्गाणां विधातुं परिवर्तनम् । तदैवं नियमं यत्नात् पालयेत् स समाहितः ॥ १ ॥ राजा वा राजपुत्रो वा मुनि, योगसाधनः । देशं कालं तथा पात्रं वृत्तिमन्नं विलोकयेत् ॥ २ ॥ विलोक्य सुखतः सव्यं खमार्गे सुखसाधनम् । कायें स्वयं क्रियारतो लोकान् सन्तोषयेनयात् ॥३॥ खडूगाग्रे वर्त्तते धर्मो धर्मस्तिष्ठति भक्तिषु । भक्तिमार्गे कालसेवा खड़गे तात्कालिकं फलम् ४ खाभिप्रेतसुसिहाथ नानातकसमन्वितम । नानालोभकरैर्युक्त जनैः शास्त्रं प्रभाषयेत् ॥ ५ ॥ चलितेषु च मार्गेषु युक्त्या दोषान् विलोकयेत् । भीषयेत् तोषयेत् कायं साधयेच्चित्रयेत् सदा ॥६॥ चलितानां महास्थानं धर्माणामभिपातयेत् । निवन्धान् नाशयेत् तत्र सक्तान् संत्रासयेत् सदा ॥७॥ तत्रानानां समापत्तिं हासयेन्नयवर्मना । खमार्गे वईयेत् प्रीतिं दानैर्मानः सुभाषणैः॥८॥ खसम्वद्धोत्सवादीनां स्थानं नाना प्रकल्पयेत् । काले काले महोत्साहं देशे देशे प्रसाधयेत् ॥ ६ ॥ खमार्गनिरर्धीररत्नपानादिरञ्चितैः । सदा संसाधयेत् कार्य खजनान् प्रौणयेत् सुखैः १०
-
( १९६ )
एवं क्रमेण कालेषु प्रोत्या भीत्या च लोभतः।
सेवितः क्रमयोगेन धर्मी मार्ग समाचरेत् ॥ ११ ॥
यावत् प्राचीनसंसर्गौ तिष्ठेत् तावत् शनैः शनैः ।
तेषामभावे तारुण्यं लब्धा लोकान् प्रसारयेत् ॥१२॥
यह बहवो लोकास्तमादौ वशयेत् सुधीः ।
तहशे सकला वश्या भवेयुस्तस्य सेवकाः ॥ १३ ॥
अन्यथेयं धरादेवी अनन्ताऽनन्तमानवा।
प्रत्येक युक्तिमार्गेण वशयेत् कश्चिरादपि ॥ १४ ॥
शतानिष्टस्य सम्पाते नोदिजेद् धर्माचालकः ।
प्राणानप्यु भितुं शतो भूयाद् धर्मस्य साधने ॥१५॥
यथैवासीत् तथैवास्तु लोकोऽसौ भवसागरे ।
चरमे का गतिश्चेति देवो जानाति नापरः ॥ १६ ॥
सर्वेषामेकधर्मित्वं कदाचिन्नैव सिध्यति ।
प्रकृतेर्भावयोगन सृष्टिरीषा सनातनी ॥ १७ ॥
अनन्ता धरणीधेषा चानन्तजनसङ्खला ।
सर्वेषामेकभावलं कथं केन प्रसाध्यते ॥ १८ ॥
किन्तु सञ्चाल की देवो भूत्वा सर्वाभिपूजितः ।
खजनान् देवसामाज्ये शक्तो योजयितुं भवेत् ॥१६॥
एवं यदा यथा देवी प्रकृतिः परिणामिनी ।
तदा तथा भवेद्भावस्तथैवायोजनं नृणाम् ॥ २० ॥
( २०० )
यो यथा साधनैर्युक्तस्तथा कार्य प्रसाधयेत् ।
न्यूने न्यूनोऽखिले पूर्मो गतिरेषा सनातनी ॥ २१ ॥
कदा कश्चिद् भवेद् श्रेष्ठः कदा पतति पातके ।
नानारूपधरा शक्तिः सदा नृत्यति देहिषु ॥ २२ ॥
यदा यो वईते धर्मो यत्र स सेव्यतां तदा ।
प्रकृतेः परिणामोऽयमवायॊ यत्नसञ्चयैः ॥ २३ ॥
स एव शुभदः पुंसामिहचामुत्र कर्मिणाम् ।
अवज्ञानान्महापापे मज्जन्ति वजनैः सह ॥ २४ ॥
महन्मेलनम्।
कार्यिकं सैविकं चैव वैद्यिक मेलनं तथा ।
आटो आधौन्यसंयुक्ते परं खाधीनतास्पदम् ॥१॥
यन्मेलने भवेदिच्छा तत्काये विनियोजितः ।
प्रकापय्येन संसिद्धिं कुर्य्यादस्वार्थतत्परः ॥ २ ॥
अथवा स्वधनेनैव तमुद्दिश्य मुकर्मणाम् ।
साधकस्तं वशीकुर्यादेष मार्गी धनाश्रितः ॥ ३ ॥
सैविकं सेवया नित्यं बुद्धियोगेन साध्यते ।
खाधिकारमनुल्लङ्घ्य प्रभोरिष्टप्रसाधकम् ॥ ४ ॥
चिरेण सकला ह्येषा नृणां सिद्धिः प्रसीदति ।
अत्यापदि द्रुतं दद्यात् फलं कार्यप्रसाधनम् ॥ ५ ॥
यत्र ये तोषमायान्ति हर्ष यान्त्यथवा पुनः ।
इष्टसिया विष्टनाशो मेलयेदुपदेशकम् ॥ ६ ॥
( २०१ )
एकोऽपि वचसा तुष्टिं बहुकालात् प्रपद्यते ।
सहसा कस्यचिद्वाक्यं न कश्चिच्छ्रोतुमर्हति ॥ ७ ॥
यो यादृशैजनैरिच्छन्मेलनं सहसा वुधः ।
तेषां भावं समादाय फलहेतू विलोकयेत् ॥८॥
ततस्तत्पोषकैस्तत्त्वैः खबोधस्थानुगामुकः ।
निवन्ध रचयंस्तस्मै दत्त्वा सम्मेलयेद् वलात् ॥६॥
यो यस्य जनयेत् प्रीतिं येन केनापि कर्मणा ।
स वलात् तेन कार्येण तमिच्छति न संशयः ॥१०॥
राजानो वा महासत्त्वा दीना वा दस्यवस्तथा ।
सर्वं स्वार्थ समालोक्य द्विष्टा वाऽनुगता मताः॥११॥
सर्वत्र खानुगान् पश्येत् स्वकार्यपरिपोषकान् ।
श्रेयसे विरलं मित्रं वहुविघ्नं पदे पदे ॥ १२ ॥
सहसा न फलं वाञ्छेत् कालयोगमपेक्षयेत् ।
न कश्चित् कस्यचित् खार्थे सहसा दातुमिच्छति॥१३॥
अर्थेन सेवथा वाचा यो यं काले ऽभिभावयेत् ।
स तस्य वशमायाति मुनिर्वा धरणीपतिः ॥ १४ ॥
वन्धुविवादः ।
एकत्र विषये सत्ताः क्रमाद् यौवनमाश्रिताः ।
वार्थदर्शनसम्मत्ता विवदन्ते परस्परम् ॥ १ ॥
दर्शने भोजने यावत् प्रीतिमात्र शरीरिणम् ।
न तावद् द्वेषगन्धोऽस्ति प्राप्ते भोगे विपत्तयः ॥ २ ॥
। ( २०२ ) यावदर्थस्य सम्प्राप्तिस्तावद् भोगो विवईते । तदभाव भोगहानियंतो विषसम्भवः ॥ ३ ॥ एकत्र समवेतानां वुभुतगणां परस्परम् । यो वली सोऽर्थसंग्राही तदन्यो हषवान् भवेत् ॥४॥ विशेषत: स्त्रियो मूलं विवादस्य शरीरिणाम् । खान्योन्नत्यं दर्शयन्त्यो जनयन्ति पशिहिषम् ॥ ५ ॥ खभोगसाधने पुंसां स्वभावात् प्रौतिसम्भवः । खमोगसाधना लोक दारभृत्यसुतादयः ॥ ६ ॥ वजने कृतसम्प्रीतिस्तत्पोषासमुत्सुकः । इच्छेद् वञ्चनमन्यस्य सर्वेषां वृत्तिरीदशी ॥ ७ ॥ ततः सम्प्राप्तवयसां दायभागः शुभावहः । अन्यथा इषदावाग्निः सर्वं दहति निश्चितम् ॥ ८॥ भोगसंसक्तचित्तानां मूर्खाणां लब्धसम्पदाम् । प्रायशो जायते बैरं खखेष्टपरिलोकनात् ॥ ६ ॥ धनभागो धनाढ्यानां दारिद्युस्य निवन्धनम् । तस्माद् यत्नेन संरक्ष्य धनं न्याय्येन वर्त्मना ॥ १० ॥ सततं वजनैः सङ्को वाल्याविद्यासमजनम् । विलोक्य विषयाभोगान्नित्तिरतिसङ्गता ॥ ११ ॥ वर्तनं धर्ममार्गेण भागयोगेन सेवनम् । रक्षणं सर्वशाथै धनस्य परिवईनम् ॥ १२ ॥ Ma ( २०३ ) आपत्काले समा चेष्टा दुष्टानां ताड़नं सदा । भक्तिवात्सल्यसम्बन्धी वान्धवानां यथायथम् ॥ १३ ॥ सर्वैः कल्पितमार्गाणां न कदाचिद् विनाशनम् । एत एव महोपाया विवादा धनरक्षणे ॥ १४ ॥ दुर्लभा ह्यस्य सम्प्राप्तिः कदाचित् केन लभ्यते । तस्माद् रक्ष्य प्रयत्नेन धनं सर्वेष्टसाधनम् ॥ १५ ॥ इति श्रीकाशीश्वरशरणकाशीधर्मसभाध्यक्ष- वाशिष्ठसर्वदर्शनाचार्यश्रीताराचरणशर्मप्रणीता. नौतिदीपिका समाप्ता।
No text on this page.
शुद्धिपत्रम। पृष्ठम् अशुद्धम् १० त्याज्य ११ संसिध्ये संसिद्धी २२ संगह: नाचे संग्रहः नचिर २३ २७ ३ लोभापरा लोभपरा १८ थाय्या पृथावा २८ १३ देवाना देयाना घों 8 शास्त्र उत्कीचग्रहण किर्ति अयमेव उत्कोचाग्रहणं कीर्ति १६ १३ अयमेव ४५ १२ २ वक्रेषु शान्तिाः निःशायं सम्भभजन्ते भाष्ये भाषिता रोधादिना चक्रेषु शशिताः निःशाठ्य सम्भजन्ते शाग्ये भाविताः वोधादिना १२ ३ ( २ ) २२ ६४ संमला ४ सत्वा ट सत्वो सत्त्वी १. सख सत्य भक्त्या २ थाठा समरोमकाः समरोव्सुकाः ख्याती ख्याता ८८ १७ कलयन १. बलयन আম্মা छित्त्वा कर्तव्यः श्वित्त्वा ३ करगता समीपात् करमतम् समीयात घने रञ्चलाः साधरणी ५ रचश्वलाः साधारणी १२५ अव्यात् एकाक्षराधे আগ্রাম २. एकापराधे दासः दाप्यः १२६ ५ विजानीषुः विजानीयुः (३) २१ টিলা कठिनः कारिकामुका परिकामुकाः সভা प्रजाः क्षेममयः जायते जायेते भूमे भूमेः एकोपि शत्रुभैतव्यः यत्रो तव्यमेकमात सहस्त्रे १४६ ४८ १८ १४२ कदाचन सर्व शठेन पापनिष्ठे स्वाभिभवान्धता १५॥ ३ १३ ७१ सर्वा शठन पापनिटे स्वामभवान्धताम् मन्त्री অনান मिलने सम्यकि मन्त्रा १७३ समाश्रयेत मेखने सम्पर्क २१ १२ समेक्षणः समेक्षणा: १८१ सौलव्यं सौलस्यं १८५ वासांसि वासांच १८७ स्वभादि शरीरिणम् रीदशी खभावादि शरीरिणाम् रोशी २०२ १० Sap mam