Tms
Jaanakiiparind-aya
Front matter
No text on this page.
TRIVANDRUM SANSKRIT SERIES
VO. SIIV.
TIE
JÁNAKIPARINAYA
CHAKRAKAVI
EDITET
al.38951
1989
BY
! GANAPATI SÁSTRÍ
IRINRIN
S. 4476
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE,
TRIYANDRUM
PRINTEIT THE TRAJSTORE INTEREST I'.
1913,
(All Rights Reserved.)
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः,
ग्रन्थाङ्क: २४.
जानकीपरिणयः
चक्रकविप्रणीतः
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षण
त. गणपतिशास्त्रिणा
मंशोधितः ।
5.9476
म च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनन
राजकीयमुद्रणयन्त्रालय
मुद्रयित्वा प्रकाशितः ।
कोळम्बाब्दाः १०८८, ऊस्ताब्दाः १९.१३.
No text on this page.
PREFACE. Jânakiparinaya is a kavya written by Chakra Kari. Ir is gathered from the portion of the worst the end of the surgis of this Navya that his parents were mami Lokanath:- udhi, that his son Ramachara Wits well-trend in all sama Vanlit, that he will poenie venus line from lois Ipana yaliit Schment loin wirli wala mirna lori Pänava and (beral kings and also by Vilakanth: Whvariided that loro pote two other lián Vita nimeel, Rukminiprinan: :lol l'ul'altipurinavit. (hitr:rawak:, il liorkealing witli Sözlelalunkin's contains the following on "रुक्मिणीजानकीगौरी द्रोपदीपरिणीतयः । कृतयो यम्य तम्यपा कृनिश्चक्रकवः शुभा ॥" . which don't lie bebida itlo lilloin tuo porikin, niineli, Chitraurtikan and spirit. It is probable that Nillkamtha lithvir'i refor116 in this work in the will is the famonds Silakantha Dikshita, the uthor of Sivalilarnava, Silakanthavijaya and other works. Hence the author, Chakrakavi malo il contemporary of Nilakantha Dilinhoitar who lived in the first half of the 17th century A. I). * 'यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः मुधी: च्यातं चक्रकविं सनीसमुदयः मम्मानिताम्बाभिधा। 'यत्पुत्रो भुवि वेत्ति सामनिगमं श्रीरामचन्द्रोऽखिलम्' (८ सर्गः) 'साविच्या सममेव यं श्रितवती वाग्देवता सादरम्' (३ सर्गः । 'पाण्ड्यमहीभुजा बहुमते नव्ये तदीये महाकाव्ये' (२. गर्गः) 'रावनीवासवश्लाघासीमनि' (४ सर्गः) 'श्रीनीलकण्ठाध्वरिभाघासीमनि (मर्गः 'रुक्मिणीपरिणयध्रातरि' (५ गर्ग:) 'पार्वतीपरिणयत्रातरि' (७ सर्ग:)
2
The edition of this work is based on a single correct m
cript obtained from Mr. Sankaranarayana Pillai. Nalek
Mannar.
Trivandrum.
T. GANAPATI SASTRI.
निवेदना। अस्य जानकीपरिणयनाम्नः काव्यम्य प्रणेता अम्बा-लोकनाथ- सुधियोः सूनुर्निखिलसामनिगमवेदिनः श्रीरामचन्द्रस्य पिता चक्रकविर्नामेति, उपनयनात् प्रभृति कवित्वमस्य समुल्लसितमासीदिति, अस्य काव्यं पाण्ड्यभूपति- चेरावनीन्द्र -नीलकण्ठावरिभिभृशं श्लाधितमिति, अनेनान्ये द्वे काव्ये रुक्मि- णीपरिणय-पार्वतीपरिणयाभिधाने निर्मित इत्येतावदेतत्काव्यसर्गान्तिमपद्यां- शेभ्यो ज्ञायते । "रुक्मिणीजानकीगौरीद्रौपदीपरिणीतयः । कृतयो यस्य तस्यैषा कृतिश्चक्रकवेः शुभा ॥" इति चित्ररत्नाकरस्य शब्दचित्रपरस्यारम्भ कथनात चित्ररत्नाकर - द्रोपदी- परिणयावपि चक्रकविना प्रणीतावित्यवगम्यते । अत्र परामृष्टा नीलकण्ठा- वरी सुप्रसिद्धः शिवलीलार्णव नीलकण्ठविजयादिकर्ता संभाव्यते । तेन तत्समानकालोऽयं चक्रकविर्भवन् कैम्ताब्दीयम्य सप्तदशशतकस्य पूर्वार्धे स्थित इति शक्यमुन्नेतुम् । * यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधाः ख्यातं चक्रकवि सतीसमुदयः संमा. निताम्बाभिधा। 'यत्पुत्रो भुवि वत्ति सामनिगमं श्रीरामचन्द्रोऽखिलम्' (८ सर्गः) 'सावित्र्या सममेव यं श्रितवती वाग्देवता सादरम्' (३ सर्गः) 'पाण्ज्यमहीभुजा वहुमते नव्यं तदीये महाकाव्य' (२ सर्गः) 'चरावनीवासवश्लाघासामनि' (४ सर्गः) 'श्रीानिलकण्ठावरिश्लाघासीमान' (: सर्ग:) 'रुक्मिणीपरिणयभ्रातरि' (५ सर्गः) 'पार्वतीपरिणयभ्रातरि' (७ सर्ग:) * नीलकण्ठावरिणस्त कालः शिवलीलार्णवस्य निवेदनायां प्रष्टव्यः ।
२
अम्य काव्यस्य शुद्ध एक आदश: झरनागयणपिल्ल (नालेकाडु) महा-
शयादासादितः । तदाधारणाम्य मुद्रण निर्मितम् ।
अनन्तायनम.
न. गणपतिशास्त्री.
॥श्रीः॥ चक्रकविप्रणीतः जानकीपरिणयः। सन्ततं दृढसंसक्तं वन्दे इन्हें चिरन्तनम् । आदर्शे केवलं पश्यदाननाभां परस्परम् ॥ १ ॥ ऐक्यं भजेते भुवनेप्वर्थतः शब्दतश्च यौ । भूयास्तामनिशं तौ मे भूयसे श्रेयसे शिवी ॥२॥ गजरत्नं चिरत्नं तदद्भुतं श्रेयसेऽस्तु यत् । पश्चाननो लालयति 'क्षोणीभृद्भगुहाश्रयः ॥ ३ ॥ क्षमाभिनन्दितौ श्यामावनसूयाविभूषितौ । जनकानन्दनौ वन्दे जानकीरघुनन्दनौ ॥ ४ ॥ मुखेपु वेधसो वाणी विहरन्तीमुपास्महे । विडम्बयन्तीमब्जेपु क्रीडन्ती कमलालयाम ॥५॥ वन्दे कविं तं प्रथमं निपतन्तीं त्रिविष्टपात् । भागीरथीमिव हरो भारती वहति स्म यः॥ ६॥ भजे पराशरसुतं पञ्चमं वदनं विधेः। उदभूनिगमो यस्मात् पञ्चमो भारतात्मना ।। ७ ॥ . पचाननः शिवः सिंहश्च । बायो यस्य सः। पार्वतीस्कन्दयोराश्रयः, अपच पर्वतभूमिक्ष २ जानकीपरिणये कलये कालिदासं तं कविराजिशिखामणिम् । यतन्ते द्यापि यन्मार्गमनुमत् कवीश्वराः ॥ ८ ॥ मिताजनिष्ट हसिता साक्षाद् द्राक्षा पराजिता । माघस्यान परमया वाचा माचा च धिकृता ॥ ९॥ भोजो जयति भजे यदर्शनात् कवितां जनः। श्रमं विनव काव्येषु देवतोपासनं विना ॥ १० ॥ मधुजित्पदजातापि जिता भागीरथी ध्रुवम् । भारन्या भवभूतेम्तत् सभङ्गाद्यापि दृश्यते ॥११॥ सारस्वतमुधासारमन्तर्पितवुधावलिः । मुराग्मिमतां धने मुरारिः कविकेसरी ॥ १२ ॥ माधुर्यधुर्या वाणम्य भारती भासते यया । सम्भाविता नीरतया मरन्दो मन्दतां दधौ ॥ १३ ॥ श्रीलोकनाथं जनकं भजे बुधशिखामणिम् । असङ्ख्योऽपि जनो येन सङ्ख्यावानाहितोऽद्भुतम् ॥ श्रीराम चन्द्रं श्रीकण्ठभक्तं वन्दे तमग्रजम् । यत्सकाशान्मया सेयं संप्राप्ता साहितीसुधा ॥१५॥ अग्रेसरं कवीन्द्राणामग्रजं तं पतञ्जलिम् । भजे यन्मुखचन्द्रस्य शारदा चन्द्रिकायते ॥ १६ ॥ गुणं खल जनः मृर्दोषत्वेनाभिपश्यति । सौरं ध्वान्ततयालोकमुलूको हि विलोकते ॥ १७ ॥ नीरतया जलत्वेन निर्गतरेफत्वेन च । पण्डितः ससंख्यश्च ।
प्रथमः सर्गः । ३ चकार प्रतिसृष्टिं किं वाचोऽपि कुशिकात्मजः । अनिशं दुष्कविमुखे वापा वर्तते हि सा ॥ १८ ॥ निर्गता दुष्कविमुखाद वाणी दोपलहिला। विशदीक्रियते भूयः सभ्यानां हसितः मिः ॥ १९ ॥ चिकीर्पति प्रबन्धं यो विना व्याकरणे श्रमम् । स शक्नोति स्रज बन्धुं पुप्पसम्पादनं बिना ॥ २० ॥ भ्रूविक्रियां शिरःकम्पं सस्मितं न स्तवं मुहुः । अज्ञः करोति किं ब्रूमः कवेः सूक्तियभिज्ञायत् ॥ २१ ॥ प्राणान् जनानां हरतः प्रवः परुपैनिजः । कविपाशानहं मन्ये कालपाशान दुरासदान् ॥ २२ ॥ कविम्मन्यपुरोभागिशुष्कताकिकझाकर । जगत्यम्मिन् मृदुपदा कथं वाणि! चरिप्यमि ॥ २३ ॥ वाल्मीकरिव वाचं मे वाचमङ्गीकरिष्यति । रामः क्षोममिवावस्त कदाचिद वल्कलं न किम् ॥ २४ ॥ लसद्रामचरित्रा मे वागपि स्यात् सतां मुदे। धृतमुक्ताफला शुक्तिन किमाद्रियते जनैः ॥ २५ ॥ अस्ति भूपा भुवो गन्धहरितवाजिविराजिता । अयोध्या नाम नगरी श्रियो नर्तनरङ्गभः ॥ २६ ॥ चन्द्राश्मसालगलितैनीरौत्स्नीपु पूरिता । प्रतीक्षते यत्परिखा न घनान् न च सारिणीः ॥ २७॥ त्या:।
जानकीपरिणये गन्धवाहाः स्वनामार्घ हित्वा वाहाश्वकासति । पुरस्कुर्वन्ति तैस्त्यक्तं यत्र गन्धपदं गजाः ॥ २८ ॥ यदारामद्रुमा भान्ति व्याधूता मलयानिलैः । उदङ्मुखाश्चैत्ररथं जेतुं संप्रस्थिता इव ॥ २९ ॥ यत्र यूनोः सदाश्लेषाद् व्यक्तेः कस्याः कुचाविमौ । इति संशयमुष्णतुरसोढालिङ्गनोऽहरत् ॥ ३० ॥ यत्र कान्ता रतिश्रान्ताः सौधेपूच्चेष्वनुक्षपम् । शयानाश्चन्द्रिका सान्द्रां सेवन्तेऽनन्यसेविताम् ॥ ३१ ॥ स्थिरा यत्र वसन्तीति श्रियोऽतिचपला अपि । विद्युतो वनिता भूत्वा वर्तन्ते गतचापलाः ॥ ३२ ॥ क्षौमाणि सुध्रुवां नानारत्नवेश्मजरश्मिभिः । लिप्तानि चित्रपटवद् भासन्ते यत्र सन्ततम् ॥ ३३ ॥ आतपेऽर्कशिलाश्मन्ते विन्यस्तेऽग्निं विमुञ्चति । यत्पुरन्ध्रीजनास्तस्मिन् पचन्त्यन्नमनिन्धनम् ॥ ३४ ॥ मरुताभिहता स्वर्गगङ्गाम्भःकणवर्षिणा । शीतार्तवोच्चसौधस्था पताका यत्र कम्पते ॥ ३५ ॥ सौधेपु यत्र नारीणां वीक्ष्य पुम्भावसंभ्रमान् । अभ्यस्यन्तीव तटितस्तानद्यापि चलाचलाः ॥ ३६ ॥ दिवानिशं चुम्ब्यमानाः कान्तैर्यत्प्रमदाधराः । हेमन्तसमये यान्ति विश्रान्तिमुदितव्रणाः ॥ ३७॥ सूर्यकान्तबुल्ल्याम् ।
प्रथमः सर्गः। सकुण्डलैः कञ्चकिभिः स्फुरन्मणिविभूषितः । भुजङ्गैर्भोगसंपन्न ति भोगवतीव या ॥ ३८ ॥ सदानिमिषसंपर्कधन्यैरुत्कलिकान्वितैः । भासतेऽप्सरसां सङ्घः पुरन्दरपुरीव या ॥ ३९ ।। यत्र कालागुरुभवैधूपैरुच्चलितैः सदा । आहितां श्यामतामभ्रमद्यापि न विमुञ्चति ॥ ४० ॥ प्रभा दिक्षु प्रसर्पन्तीयंत्र हीराश्मवेश्मनाम् । चञ्च्चञ्चलैर्जिघृक्षन्ते चकोराचन्द्रिकाधिया ॥ ४१ ॥ दैवज्ञैरपि दुर्जेयमर्केन्दुडुपथान्तरम् । उच्चसौधारमारूढा निश्चिन्वन्ति यदङ्गनाः ॥ ४२ ॥ यज्जनालोकनवतां लुब्धः कल्पकपादपः । पामरो वासवगुरुर्दरिद्रो निधिनायकः ४३॥ नूतनोऽपि जनो गन्धान् घ्रायं घ्रायं प्रसर्पतः। यत्र गन्धापणं याति यथालिः पुप्पितं द्रुमम् ॥ ४४ ॥ शङ्के यत्सिन्धुरेन्द्राणां पुलाका नीलनीरदाः । अतो मरुद्भिनीतास्ते भ्रमन्ति हरिदन्तरे ॥ ४५ ॥ अध्यतिष्ठदयोध्यां तां राजा दशरथः पुरीम् । अलकामिव यक्षेशो मघवेवामरावतीम् ॥ ४६ ॥ क्षिप्तक्षीराब्धिकल्लोलशरच्चन्द्रमरीचिभिः । यत्कीर्तिपूरकपूरैरासीदामोदितं जगत् ॥ ४७ ॥ * पुलाकास्तुच्छधान्यानि बुसप्रायाणि पवनहार्याणि । सारधान्यस्थानीयले गवानी जानकीपरिणये उदिते सति यहाहाशौर्यसूर्ये रणाङ्गणे । अजायत गतच्छायं तत्क्षणाद् राजमण्डलम् ॥ ४८ ॥ प्रतापवन्तं सद्देति तरसाहितपावकम् । महाहवविधिज्ञो यश्चके प्राग्यसमिडुतम् ॥ ४९ ॥ हता येन स्थिताः स्वर्गे हिषो यं वीक्ष्य धन्विनम् । असुरान् हन्तुमायान्तं त्रासं तत्रापि भेजिरे ॥ ५० ॥ असेवन्त हता येन देवभूयं गता द्विषः । हरेरर्धासनस्थं यं स्वपुत्राणां हितैषिणः ॥ ५१ ।। अहर्निशं दानजलेररिक्तो यत्करोऽभवत् । तहतिरेखामत्स्यानामन्यथा जीवनं कुतः ॥ ५२ ॥ पर्वताः सागरत्वेन पर्वतत्वेन सागराः । यस्योन्नतत्वे गाम्भीर्य चिन्तिते सति निश्चिताः ॥ ५३ पञ्चशाखान्वितं यस्य भुजाकल्पकभूरुहम् । अधिरूढा क्षितिलता फलानि समदर्शयत् ॥ ५४॥ यः पुमर्थानतन्द्रीको यथाकालमसेवत । सर्गरक्षान्तसमयेष्वात्मा मायागुणानिव ॥ ५५ ॥ एकमेव जयन् कामं क्रोधेनाभूजितो हरः। जिगाय यः काममुखान् वीरः षडपि विद्विषः ॥ ५६ साम्नोऽसाध्येष्वभूद् दानमसाध्येषु तयोभिंदा । तेषामसाध्येषु पुनः प्रयुक्तं तेन दण्डनम् ॥ ५७ ॥ अजयद् द्विषतः स्कन्दः शक्तिमेकां वहन्नपि । किमद्भुतं जिगायेति यः शक्तित्रयवान् द्विषः ॥ ५८
प्रथमः सर्गः ।
स कोसलेश्वरसुतां तनयां केकयस्य च ।
पुत्रीं च मगधेन्द्रस्य सपत्नीरकरोद् भुवः ॥ ५९ ॥
अन्याश्च वरसौजन्या धन्या राजन्यकन्यकाः ।
पर्यग्रहीत् स माधुर्यधुर्याः सौन्दर्यशालिनीः ॥ ६ ॥
धरणीधारणे तस्य मन्त्रिणोऽष्टौ महीपतेः ।
सहायभावमभजन भोगीन्द्रस्येव दिग्गजाः ॥ ६१ ॥
ऋषिदेवऋणान्मुक्तो ब्रह्मचर्येण यागतः ।
प्रजाभिधधनालाभाद् बहः पितृऋणेन सः ॥ ६२ ॥
पुत्रार्थ भूपतौ तस्मिन्नश्वमेधं चिकीर्षति ।
सुमन्त्रो मन्त्रितिलको मिथस्तमिदमब्रवीत् ॥ ६३ ॥
ऋश्यशृङ्गप्रभावात ते भविष्यन्ति सुता इति ।
सनत्कुमारो भगवानब्रवीत् सुरसंसदि ॥ ६४ ॥
राजन्नागमनात् तस्य सन्तानं ते भविष्यति ।
पुराङ्गविषयस्येव वर्ष सन्तापवारणम् ॥ ६५ ॥
इति तद्भाषितं श्रुत्वा रोमपादान्तिकं गतः ।
अयोध्यामानयामास शान्ताकान्तं धरापतिः ॥ ६६ ॥
यज्ञशाला विशालाभूत् सरयूवाहिनीतटे ।
सम्भाराः सम्भृता मुक्तो हयश्च सपुरोहितः ॥ ६७ ।।
ऋश्यशृङ्गं पुरस्कृत्य वसिष्ठप्रमुखा डिजाः ।
प्रावर्तन्त क्रतुं कर्तुं तुरङ्गे पुनरागते ॥ ६८ ॥
बिभ्रञ्चलशिखाजिह्वां धूमश्मश्रुचयं दधत् ।
बुभोज भव्यहव्यानि बहिर्मुखमुखं शिखी ॥ ६९ ॥
जानकीपरिणये मखधूमो हविर्गन्धी पावनः पवनेरितः । विचित्रमात्मसंसर्गाद् विदधे निर्मलान् जनान् ॥ ७० ॥ मन्त्रपूतं हुतवहे धाय्याकृतसमिन्धने । ऋत्विजस्तत्य जुर्हव्यद्रव्यमुद्दिश्य देवताम् ॥ ७१ ॥ हव्यैः मुरास्तथा म्फीतास्तदाराः पुनरागतान् । नानुक्तचित्रवचनैः श्रद्धास्यन्ति यथा पतीन् ॥ ७२ ॥ ब्रह्मा तस्मिन मखे विभ्रचतुराननतामपि । श्रुतीश्चतम्रोऽधिमुख यद् वभार तदद्भुतम् ॥ ७३ ॥ होता क्रतुवरे तम्मिन्नञ्चचागेच्चकैर्कचः । यजुर्वेदविदध्वर्युर्जुहाव ज्वलने हविः ॥ ७४ ॥ उद्गाता सप्तधा भिन्नं साम मामविशाग्दः । उजगी ज्ञापयन्नुच्चरङ्गुलीवलनैः स्वरान् ॥ ७९ ॥ अन्नदिवसम्पन्नः प्राज्यगव्यश्च पायसैः । सूपरपूपैर्दधिभिस्तत्र सन्तर्पिता जनाः ॥ ७६ ।। जनानां भोजनेप्यान्यवर्षमाकर्ण्य तत्क्रती । षडब्धिमध्यमाज्याब्धिः स्वरक्षार्थ विवश किम् ।। ७७ ॥ दिशति क्षितिपे तस्मिन्नृत्विग्भ्यो यागदक्षिणाम् । दक्षिणा न दिगकैव सर्वा अपि तथाभवन् ॥ ७८ ॥ विसृज्य राज्यं ते तस्मिन्नशक्ताः परिपालने । तहत्तममितं वित्तमभजन्नापमित्यकम् ॥ ७९ ॥ तबाभवन दक्षिणा जाना: कृत्यराज्यदानादित्यर्थः । अपमिल्य याचितकं विनिमान.
निर्वतिते ती तम्मिशियमुवीं शतक्रतोः । इष्टिं विधातुं एत्री यामुष वा मरे हिजाः ॥ ८० ॥ विधिवत क्रियमाणायामि का महर्षिभिः । गवणोपप्लुता देवा नेजः झापामन्यतम ।। ८१ ॥ उन्मीलकैतकाद्यत्पग्मिलमितिनी दिकरमाली- च्छायाजम्रप्रचारापचित जां मांभमन्यगन्धवाहः । शान्ताध्वश्रान्तयः श्रीराहना पनि किन कानक्षमाणाः क्षीराम्भोगशितीरं विनियमाणः परं भजिर ते ॥ ८२ ॥ यं सूनुं जनयाम्बभूव महितः श्री प्रकनाथः सुधीः ख्यातं चक्रकविं सतीममा मानिनाम्बाभिधा । सर्गस्तस्य कृतो निगलांगा ना मालडकिया- मान्नै श्रीमति जानकीन बाध्यभायानि ॥ ८३ ॥ प्रथमःमः
अथ द्वितीयः सर्गः।
अथ प्रपेदे त्रिदिवालयानां
क्षीरोदधिलाचनगोचरत्वम् ।
प्रत्युत्थितं क्षिप्रमिवादधान-
स्तेषाममन्दाचलितैस्तरङ्गैः ॥ १ ॥
कोणे कचिन्निर्मथितेऽपि लक्ष्मी-
सुधामुधांशुप्रमुबैर्वभवे ।
कृत्स्ने पुनर्यत्र मतः पदार्थान्
को वा विशिष्टानवगन्तुमीष्टे ॥ २ ॥
मणीपु काचिद् रमणीपु काचि-
लब्धात्र भूयोऽपि तथाविधाः स्युः।
इतीव ता हर्तुमना यदन्त-
र्जागर्ति देवो न करोति निद्राम् ॥ ३ ॥
कलत्रभावं कमलेक्षणस्य
चुडामणित्वं पुरशासनस्य ।
जीवातुभ्यं विबुधावलीनां
विभ्रत्यहो यत्पयसां विवर्ताः ॥ ४ ॥
ऐरावताच्चैःश्रवसौ सुधां च
कल्पद्रुमानप्सरसोऽखिलाश्च ।
मुदा ददानेन दधाति येन
व्युत्पादितं वर्पतिरिन्द्रशब्दम् ॥ ५ ॥
द्वितीयः सर्गः । त्रिविष्टपं यत्र खलु स्थितानां शक्यं तरङ्गैरधिरोढुमुच्चैः । आवर्तपालीसुपिरैरंगाधैः शक्यं प्रवेष्टुं फणिविष्टपं च ॥ ६ ॥ येनानिशं सन्निहितादधीतं सायुज्यविश्राणनमच्युतात् किम् । आसाद्य यं मुक्तजलस्वरूपाः क्षीरात्मतां यत् सरितो भजन्ते ॥ ७ ॥ नेता नदीनां ननु बाडबेन" कुक्षावकारीति पुराणवाणी । शुचिं ज्वलन्तं जटर वितन्वन् विराजते वाडवमन्वहं यः ॥ ८ ॥ मुक्ताफलैः पाकविदीर्णशुक्ति- मुक्तैस्तरङ्गोत्करशीकैश्च । समुत्थितैः सत्वरमन्तरिक्ष तनोति यस्तारकितं दिवापि ॥ ९ ॥ कर्पूरधूलीशरदभ्रशुभ्रे शखावली यत्र भृशं सवर्णा आलक्ष्यतामञ्चति सान्द्रसान्द्र चन्द्रातपे तारकमण्डलीव ॥ १० ॥ प्रामणेनागस्त्यनाना । बाइ वाइवानि ब्राह्मण च ।
जानकापारणय विक्षुण्णपक्षा मकगर्भकाणां वालावलीनां वलनेन यत्र । जम्भारिदम्भोलिविलूनपक्षान् धगधरेन्द्रा बहुमन्वनऽद्रीन् ॥ ११ ॥ कल्लोलमाली स्फटिकावदातो वहलिखा बावशुप्मणा यः । सावितस्यानुकरोति शम्भी- भन्माङ्गगगम्य जटाधरम्य ॥ १२ ॥ निर्माकनिर्माचननाचरन्ती तनुं फणीन्द्रस्य विडम्बयन्ती । विराजते यत्र तरङ्गखा फे.नागदां शुभ्रचि क्षिपन्ती ।। १३ ।। क्षीराणि यस्मिन् सलमानि तभ्यः सम्पादयन्तो दधिमर्पिपी च । पार्श्वये यस्य जना वमन्तो गाः पञ्चगव्यार्थमवन्त्यजस्रम् ॥ १४ ॥ गावो वितीर्णा भुवि यैडिजेभ्यः क्षीराणि दत्तानि च यः शिशुभ्यः । यैस्तर्पिताः पायसतो हिजेन्द्रा- स्तेषां भवेद् यत्सविधे निवासः ॥ १५ । आदाय दुग्धानि यतो यदीय- पार्थहयद्वीपमहीधरे।
द्वितीयः सर्गः। वर्षेण तेषां जनयन्ति धारा- धराः सदा क्षीरमयीः स्रवन्तीः॥ १६ ॥ तुङ्गाः प्रकामं धरणीधरेन्द्रा- स्तेभ्यः पुनस्तुङ्गतरास्तरङ्गाः । तिमिङ्गिलास्तुङ्गतमाश्च तेभ्यो यत्र स्थिति सन्ततमाश्रयन्ते ॥ १७ ॥ तत्रामरास्तामरसालयायाः कान्तं निवासं जगतामपश्यन् । तल्पे पयःसिन्धुतरङ्गकल्पे वातूलतूलैभरिते शयानम् ॥ १८ ॥ फणीन्द्रनिःश्वासमरुत्तरङ्गैः. प्रतिक्षणक्षिप्तकुचानरीयाम् । वक्षःस्थलस्थां कमलां कटाक्ष- परम्पराणां पदमादधानम् ॥ १९ ॥ उरस्तटे कौस्तुभनामधेय- मम्भोविवर्त मणिमुद्दहन्तम् । अघीतकाठिन्यमिवाब्धिकन्या- पयोघराभ्यां परिरम्भणेषु ॥ २०॥ निविष्टमाराभिजवैजयन्ती सौरम्यलोमादिव चबलीकम् । बाजूले मातसमूहरेष दूलैः भरिते पूरिते। तल्पभूतस्य शेषस्वभावाचनलायक जानकीपरिणये श्रीवत्ससंझं दधतं विशाले वक्षःस्थले लक्ष्म विराजमानम् ॥ २१ ॥ नाभीसरोजानिशबोधनार्थ बालातपेनेव समागतेन । पीताम्बरेणाश्चितमभ्रनीलं सन्ध्याघनाश्लिष्टमिवाञ्जनाद्रिम् ॥ २२ ॥ सदाधिकण्ठस्थलि वैजयन्ती समार्दवां श्यामरुचिं वहन्तम् । गगण कण्ठग्रहणं वितन्वद् भुवो भुजहन्डमिव प्रियायाः ॥ २३ ॥ नाभीसरोजेऽद्भुतमुहहन्तं चतुर्मुखं कश्शन चञ्चलीकम् । सङ्कारिणं निष्कपटैर्वचोभिः कुन्देन्दुगौरभ्रमरीसमेतम् ॥ २४ ॥ लक्ष्मीमुवोर्वभयोरजस्र- मालिङ्गनानि क्रममन्तरेण । विधातुमिच्छन्तमिव स्फुरन्तं मुजैश्चतुर्भिर्धतरलभूषैः ॥ २५ ॥ भोगीन्द्रफूत्कारमरुहितीणे- र्नामिप्ररूढाजभवैः परागैः। पिशङ्गितेनेव विहङ्गाराजा संसेवितं साझलिना पुरस्तात् ॥ २६ ।।
द्वितीयः सर्गः । : १५ वेषं स्वयं पौरुषमुद्दहद्भि- निजायुधानां निवहैः समन्तात् । उपस्थितं साञ्जलिभिः पठड़ि- देतेयराजीविजयापदानम् ॥ २७ ॥ श्रिया समेतं नवकञ्जनाभ दयालसन्मानसमञ्जनाभम् । गुणाकरं पत्ररथे शयानं फणाधराणां प्रवरे शयानम् ॥ २८ ॥ (एकादशाभिः कुलकम्) यावत् प्रपेदे त्रिदशावली सा क्षीरोदधिं तावदवाप बोघम् । तदर्शनोदित्वरलज्जयेव द्राङ् निद्रया कैटभजिद् विमुक्तः ॥ २९ ॥ अथामरास्तं प्रणिपत्य देवं सुराहितोज्जासनजागरूकम् । प्राचीनवाचामपि गोचरत्व- मनश्नुवानं विभुमस्तुवंस्ते ॥ ३० ॥ नमो जगन्निर्मितिकर्मठाय नमो जगद्रक्षणदीक्षिताय । नमो जगन्निग्रहसाग्रहाय नमस्त्रिधाकल्पितमूर्तये ते ॥ ३१ ॥ जगन्ति सर्वाणि जगनिवास ! कर्तुं च धर्तु च तथापहर्तुम् ।
जानकीपरिण वेधा हरिः शम्भुरिति त्वमेको भिदा गुणराकरिता विभर्षि ॥ ३२ ॥ बोडा च बोधश्च तथैव वाध्यं यष्टा च यागश्च हरे ! तथेज्यम। भोक्ता च भुक्तिश्च नथैव भोज्यं वक्ता वचो वाच्यमपि त्वमेव ॥ ३३ ॥ म्तुत्यं कथं वा कथयन्ति वाचा- मगोचरत्वं दधतं भवन्तम् । ध्येयं च धीराः कथमामनन्ति पारे भवन्तं मनसां म्फुरन्तम् ॥ ३४ ॥ अनीश्वरत्वं च तथेश्वरत्व- मनुत्तमत्वं पुनरुत्तमत्वम् । अनादितां किञ्च तथादितां च धत्से विचित्रं कमलेक्षण ! त्वम् ॥ ३५ ॥ पितेति गीतः पुरुषोत्तम ! त्वं माता कथं वा जगतां पुगभृः । किं चादितेः पुत्र इति प्रतीतः 'पुत्री कथं वा विधिना त्वमासीः ॥ ३६ ॥ त्रिस्रोतसं त्वञ्चरणारविन्द त्रयीं पुनस्ते वदनारविन्दम् । विधिना नियत्या हेतुना अध च ब्रह्मणा पुत्री तनया अपने पुत्रवान । अमेषा तृतीया।
वितीयः सर्गः। त्वमाभिरूढं च तथारविन्दं विश्वस्य कर्तारमसूत देवम् ॥ ३७ ॥ इति स्तुतिं निर्जरसां निशम्य पीताम्बरे प्रीतिभरं प्रपन्ने । आरेभिरे शंसितुमाशराणा- मुपप्लवं ते रभसेन तम्मै ॥ ३८ ॥ लङ्कापुरे तिष्ठति निर्विशङ्को रात्रिश्चरो गवणनामधेयः । बर्हिर्मुखैरिन्द्रमुग्वरजन- मुपामितश्चण्डभुजप्रतापः ॥ ३९ ॥ उरस्तटे तम्य दृढ निपन्य यदा विशीर्ण शतकांटिधाभूत । वज्रं तदारभ्य पुरन्दरम्य बिभर्ति नूनं शतकोटिमंज्ञाम् ॥ ४० ॥ तं सङ्गतः सङ्गररङ्गभूमौ देवस्य सूनुर्दिवसेश्वरस्य । अकीर्तिपङ्केन यदानुलिप्त- स्तदादि तं काल इतीरयन्ति ॥ ४१ ॥ स्थातुं तदने समराङ्गणेषु प्रमुर्न यस्मादभवत् प्रचेताः ।
१८ जानकीपरिणये तस्मादभूत् तस्य किलाप्प्रभुत्व व्याकुर्वते तत् परथानभिज्ञाः ॥ ४२ ॥ तेनाददानेन समस्तमर्थ- मकिञ्चनत्वं गमितः कुबेरः । सखानुरूपी भवति म्मगर- विगय भिक्षाहरिदम्बरम्य ॥ ४३ ॥ आमोदिताद गन्धममर्पणन गृह्णाति तम्मात पवनाऽनुवेलम् । तदङ्गलमं सुरतान्तजात- म्बदाम्बुबिन्दुत्करभारहारम ॥ ४४ ॥ उपाम्यते भृमिमुरैः सदा यद धत्ते मुखत्वं दनुजहिपा यत् । हविर्यदनाति च मन्त्रपूतं तेजश्च तत सम्प्रति सेवते तम् ॥ ४५ ॥ सेवां सदा मन्मथशासनस्य कुर्वन् क्षयं नोज्झति शीतभानुः । उपासनं तम्य पुनर्वितन्वन् क्षयं न जानाति कदापि चन्द्रः ॥ ४६ ॥ दुर्दर्शतां न श्रयते न तापं तनोति न स्वेदकणान् विधत्ते भप्रभुत्व जलप्रभुत्वम् अपनाशक्तन्वम् । भषान्नो 'मनाच' (८. ४. ४७) परसबोपपतिः ।
द्विर्तायः सर्गः । नखंपचं नातनुते च वर्त्म तस्य प्रसादं तपनोऽभिकाजन् ॥ ४७ ॥ सुधान्धसस्तं विधुमाश्रयन्तं सदा समग्रं सविध निरीक्ष्य । सेवागता वह्निमुखाः सतृष्णा- स्तिष्ठन्ति लीढोभयमुक्वजिह्वाः ॥ ४८ ॥ बन्दीकृतानां सुरसुन्दरीणां करस्फुरच्चामरमारुतेन । तदुष्णनिःश्वाससमेधितन म मेव्यते पञ्चशरञ्चगर्नः ॥ ४९ ॥ दिगन्तदन्तावलदन्तकुन्त- निग्न्तगहट्टननिष्टुंग्ण । उरस्तटेन प्रधने कगति स कुण्ठिनाश्रीणि मुगयुधानि ॥ ५० ॥ इत्थं समस्तानभिभूय देवान निजप्रतापेन निशाचरेन्द्रः । उपेक्षितो व्याधिविधमानः पीडामजस्रं जगतां विधत्तं ॥ ५१ ।। सबन्धुवर्ग जहि रावणं त्वं सक्रामभूमौ शरधोरणीभिः तपस्विहिंसाकलितादरं तं दारान् परेषां प्रसभं हरन्तम् ।। ५२ ॥
जानकीपरिणये इतीग्ति खेचरमण्डलाभि- मुखान्मुराग्ग्जनिष्ट वाणी । यथारविन्दान्मकरन्दधाग यथा मुधा मण्डलनः मुधांशाः ॥ ५३ ॥ उपप्लुतानि क्षणदाचंग्ण जाने समम्तानि जगन्ति तेन । वरप्रदानात कमलामनस्य क्षान्तं मया हन्त चिरं तथापि ॥ ५४ ॥ पितामहं प्रीततमं तपाभिः स यातुधानापयशदा ययाचे । अवध्यतां तावदमयं जात- गर्वण कुर्वन् मनुजेप्ववज्ञाम् ॥ ५५ ॥ भवनहं दाशरथिनृशंस- निशाचरमाणमीग्णन । सन्तर्पणं मायकपन्नगानां बुधा! विधास्यामि ममीकभूमौ ॥ ५६ ॥ दशाननेनोहहता कृपाणं शुभ मुहूर्त स्वयमात्ममूर्भाम् । आरब्धमासील्लवनं पुरा यत् समापयिष्यामि शरैरहं तत् ॥ ५७ ॥ गोप्ताशराणां कुहनाप्रगल्भः क्षेप्ता गिरेरन्तकशासनस्य ।
द्वितीयः सर्गः ।
भेत्ता स्थितीनां निजदुर्विनीते-
भोक्ता फलानां भविता स युरे ॥ ५८ ॥
हवींषि भूयः सवनेषु भुध्वं
कल्पद्रुपुष्पाणि कचेषु धद्ध्वम् ।
मुरा! विमानेषु विशङ्कमाध्वं
चित्तानुरोधेन वधूरुपाध्वम् ॥ ५९ ॥
आधूसरानाशरचक्रवाल-
विनाशमंकुचनधूमकेतून् ।
चिरेण बद्धान् सुरलोकबन्दी-
वेणीभगन् मोक्ष्यथ निर्विशङ्कम् ॥ ६॥
इति प्रतिज्ञाय निशाचराणां
वधं सुधासारमुचात्मवाचा ।
आश्वास्य वृन्दारकवृन्दमारा-
दन्तर्दधे मत्वग्मव्जनाभः ॥ ११ ॥
अहार्यधैर्ये सुरकार्यधुर्ये
तिरोहिते देवतमार्वभौमे ।
आशा वितन्वन् मुखराश्चतस्र.
श्चतुर्मुखो वाचसिमामुवाच ॥ १२ ॥
आश्चर्यचर्याननिवार्यवीर्यान्
गाम्भीर्यचातुर्यनिधीन् सधैर्यान् ।
देवीषु ऋक्षीषु च वानरीषु
प्लवङ्गरूपस्तनयान् प्रसूवम् ॥५॥
जानकीपरिणये आत्मेति पुत्रं श्रुतयो यदाहु- स्तत् पुत्ररूपं दधतो भवन्तः । सहायभूयं कलयन्तु भूमी कार्य चिकीर्भिवतां मुरारेः ॥ ६४ ॥ प्रागेव भल्लूकवरो बलेन विजृम्भमाणोऽजनि जृम्भतो मे । त्रिविकमम्य त्रिगुणानि सप्त प्रदक्षिणानि प्रकटं व्यधाद् यः ।। ६५ ॥ तथेति तच्छामनमादितयाः शिगंभिगदाय विनातिनमः । अजीजनन्नात्मसमान कुमारान् सौजन्यधन्यान् बलिनो वदान्यान् ॥ ६६ ॥ शतकनुलिनमुग्रवीय सुग्रीवमर्को वरुणः सुषेणम् । वायुईनमन्तममन्दवेग वह्निश्च नीलं जनयाम्बभूव ॥ ६७ ॥ इत्थं मुतैर्देवमहर्षिसिद्ध- गन्धर्वविद्याधरकिन्नराणाम् । प्लवङ्गरूपैः सवनाचला भू- राच्छादिताभूज्जलदैरिव द्यौः ॥ ६८ ॥ अनुदात्तवलक्षणस्मात्मनेपदस्थानित्यवान् परस्मैपदम् ।
द्वितीयः सर्गः।
अथाविरासीत् क्षितिभर्तुरिष्टे-
रन्ते पुमान् कश्चन वीतिहोत्रात् ।
पात्रं दधानः परमान्नपूर्ण
स्फुरत्सुधासारमिवेन्दुबिम्बम् ॥ ६९ ॥
पत्नीरिदं प्राशय भूपते ! ने
पुत्रांदयस्तासु भविष्यतीति ।
वदन् ददौ क्षोणिभुजे स तृण-
मनुप्रविष्टं हरिणा तदन्नम ॥ ७० ॥
पयश्वर भूपतय वितीर्य
तदाहितां च प्रतिगृह्य पृजाम् ।
ऋत्विम्भिरालोकितमादगत त.
दन्तर्दधे भूतमभूतपूर्वम ॥ ७१ ॥
प्राजापत्येऽथ तस्मिन् गतवति पुरुप पायमं तद विभज्य
प्रीतामधेन चक्रे क्षितिपतितिलकः कोमलाधीशपुत्रीम् ।
अर्धस्यार्धन कन्यां मगधनरपतेः केकयन्द्रात्मजां तां
शिष्टस्यान भूयो मगधपतिमुतामष्टमांशन चामौ ॥७२॥
आम्वाध पायसमकृत्रिममिन्दुबिम्ब-
निर्यत्ननिर्यदमृतीघलसद्रमश्रि ।
भूमीपुरन्दरपुरन्ध्रिजनेन गर्भः
क्षेमाय सर्वजगतां बिभरांबभूवे ॥ ७३ ॥
जानकीपरिणये यं सूनुं जनयांबभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा । सर्गः पाण्ड्यमहीभुजा बहुमते नव्ये तदीये महा- काव्ये दीव्यति जानकीपरिणये चारुद्धितीयोऽजनि ॥७॥ इति जानकीपरिणये द्वितीयः सर्गः।
अथ तृतीयः सर्गः।
अथावनीपालवधूपु दौहृद-
व्यथासमाश्लिष्टशरीरयष्टिपु ।
विशेषतः कोसलभूपजा बभौ
सितासु राकारजनीव रात्रिषु ॥ १ ॥
कुचहयेनासितचूचुकश्रिणा
स्फुरच्छरस्तम्बरुचा मुखन च ।
नितम्बिनी स्निग्धतरेण चक्षुषा
विनाक्षरं व्याहरति म्म दोहदम् ॥ २ ॥
तनोर्यदाहुः समवायिकारणं
भुवं ततो गर्भजुपो मधुहिपः ।
नरेन्द्रभार्या वपुषः मिसृक्षया
मुदा मृदाम्वादनमाचरद् ध्रुवम ॥ ३ ॥
स्तनद्वयी भूपतिसुध्रुवोऽमिता
मुखे बभौ श्रीदयिताय शैशव
चिराय पातुं जतुमुद्रिता सुधा-
घटद्वयीव प्रहितादरात सुरैः ॥ ४ ॥
प्रियां निजोत्सङ्गभुवो विभृपणं
विधाय पप्रच्छ तदीप्सितं मिथः ।
समुन्नमय्य त्रपया नतं मुखं
मुदा समानाय च मेदिनीश्वरः ॥ ५ ॥
जानकीपरिणये तदक्षयं शोकहरं सुखावहं मनोवचोगोचरतामनाश्रितम् । भवत्प्रसादान्मयि वस्तु वर्तते किमर्थयेयान्यदनीदृशं विभो! ॥ ६ ॥ इति वाणामभिनन्द्य वल्लभां चुचुम्ब मृद्गन्धि तदीयमाननम् । तदुक्तिसारं म सुधीः पदे पदे विनिस्सरन्तं तरसालिहन्निव ॥ ७ ॥ अपाङ्गमेवासितमब्जचक्षुषो वतंसनीलोत्पलभावमानशे। श्रमादबिन्दृत्कर एव हारतां भृशालमायाः प्रतिकर्मकर्मणि ॥ ८ ॥ हरिर्विसस्मार वधूदरे वसन् फणाधराधीश्वरभोगमायतम् । तपोधनानामपि पावनं मनो वद्रुमस्यापि च मञ्जुलं दलम् ॥ ९ ॥ क्रमेण पुष्टिः क्षितिपालसुध्रुव- स्तथा प्रतीकैरखिलैः समाददे । अदृश्यतायाः प्रथमं निकेतनं विलममक्ष्णोविषयो यथा भवेत् ॥ १० ॥ वधूदरे गर्भभरात् सगौरवे गभीरतामुमति नाभिगहरे ।
तृतीयः सर्गः।
२७
बभौ स्थिता तत्र चिरात् प्रधाविनी
तमश्छटेवोपरि रोमवल्लरी ॥ ११ ॥
चकार कर्माणि यथाविधि क्रमाद्
विधानवित् पुंसवनादिकानि सः ।
प्रणीतसंस्कारतया विशेषतो
रराज गर्भश्च नरेन्द्रसुभ्रवः ॥ १२ ॥
अणोरणीयस्त्वमधत्त यत् पुरा
तदा महत्त्वं महतो बभार यत् ।
वधूदरे तत्र चिरस्थिते हगै
ततोऽभिसंक्रान्तमवैमि
तद् हयम् ॥ १३ ॥
विलम्बिनीमभ्रघटामिवाम्भसा
फलौघभारेण नतां लतामिव ।
ननन्द गर्भेण सगौरवेण तां
विराजितां वीक्ष्य विशामधीश्वरः ॥ १४ ॥
असूत तारेऽदितिदैवते सुतं
नरेन्द्रपत्नी प्रथमा सुखेन सा ।
तिथौ नवम्यां स्फुटमुञ्चगेषु च
ग्रहेषु पञ्चस्वधिकर्किलमकम् ॥ १५ ॥
अरिष्टदीपास्तदनल्पवर्चसा
क्षणादभूवन्नभिभूततेजसः ।
तदन्वयाधीश्वरभानुरोचिषा
ग्रहा इवान्ये गगनाङ्गणस्थिताः ॥ १६ ॥
२८ जानकीपरिणये अजीजनद् वैजनने सुतं ततो निरामनस्याश्वपतेः कुमारिका । त्रयीव धर्म खनिभूरिवोज्ज्वलं मणिं दिगैन्द्रीव मयूखमालिनम् ॥ १७ ॥ शुभे मुहूर्ते सुपुवेऽथ मागधी यमौ सुतौ विद्विषतां यमोपमौ । यथादितिर्वासवदानवहिपौ यथाश्विनी निर्जरसां चिकित्सकौ ॥ १८ ॥ तथोच्चकर्मङ्गलमृचकः श्रुति- प्रहर्षदोऽजृम्भत तूर्यनिस्वनः । नभस्तले निर्जरदुन्दुभिध्वनि यथा जनोऽमन्यत तत्प्रतिध्वनिम् ॥ १९ ॥ प्रहर्षता वारविलासिनीजनाः स्फुटं नटन्ता जननोत्सवे हरेः । सताण्डवा नूतननारदोदये शिखण्डिनीनामिव मण्डला बभुः ॥ २० ॥ प्रदक्षिणाकारशिखः प्रसन्नता प्रशान्तधूमौघतया प्रकाशयन् । मुखं सुराणां स्फुरति स्म तन्मुख- प्रसादममिः कथयन्निव स्वयम् ॥ २१ ॥ सुरैर्विमुक्ता सुरभूरुहोद्भव- प्रसनवृष्टिद्रुतमासदद् भुवम् ।
तृतीयः सर्गः ।
२९
महोत्सवे तत्र वधूमुखेरितः
क्षणादुलूलुध्वनिरानशे दिवम् ॥ २२ ॥
निधाय रहोभरमञ्जनोड्वे
सुते समस्तं सुरकार्यसिद्धये ।
चचार सामोदमितम्ततः शन-
ध्रुवं नभस्वानुदये जगपतेः ॥ २३ ॥
असौ यशश्चन्द्रिकयाग्रजः शिशु:
क्षणेन नम्तापमपाकरियति ।
भुजप्रतापोदितमाशग्रप्रभा-
रिति प्रसन्ना हरिताभियंन्तदा ॥ २४ ॥
जनाय पुत्रोदयशंमिन मुदा
तथा वमृनि प्रददी धगपतिः ।
धनाधिनाथोऽपि तदर्थसम्पद
यथानुवेलं म्पृहयत विम्मिनः ॥ २५ ॥
विशामधीशो विहितावगाहनः
सितांशुगौरं मिचयं नवं दधत ।
विभूषितश्रन्दनचर्चितः स्रज
वहन्
हिजः
सङ्कुलमाप
मन्दिरम ॥ २६ ॥
सुताननाम्भोजचतुष्टयां मुहु-
नैनन्द पश्यन्नवनीपुरन्दरः ।
विलोकयन् दानवमुदनो यथा
चतुर्मुखीं नाभिभुवः स्वयम्भुवः ॥ २७ ॥
जानकीपरिणय अनुष्ठिते ब्रह्ममुवा महर्षिणा कृतप्रजाशर्मणि जातकर्मणि । विशेषतो राजसुता विरेजिरे यथा सुधांशोः शरदागमे कराः ॥ २८ ॥ धरासुरेभ्यः प्रदिशन् धरापतिः सुवर्णभूषाम्बररत्नसञ्चयान् । मसर्ज बह्वीरपवर्जनोदकैः सखीः सरय्वा जितकल्पपादपः ॥ २९ ॥ बिहायनीोणदुघाः सतर्णकाः प्रभुर्हिजेभ्यः प्रदिदेश नैचिकीः । महोत्सवे तत्र भुवश्च भूयसीः फलान्वितोच्चावचसस्यमालिनीः ॥ ३० ॥ धनस्तदाशा वसुधासुधान्धसां न केवलं पूरयति स्म भूपतिः । यशोभिराशा अपि निन्दितेन्दुभिः शचीपतिप्रष्ठसुधान्धसामहो ॥ ३१ ॥ श्रुतेन यागेन ऋणाद् विमोचित- श्चिरादृषीणां मरुतां च पार्थिवः । ऋणात् पितॄणां च विसर्जितस्तदा विराजते स्म प्रसवेन देववत् ॥ ३२ ॥ अथाभिधां राम इति क्षितीश्वर- श्वकार मूनोः प्रथमस्य धर्मवित् ।
तृतीयः मर्गः ।
:
अघौधतूलावलिपावकार्चिषं
पुमर्थविश्राणनकल्पवल्लरीम् ॥ ३३ ॥
ततः सुतेषु त्रिपु वल्लभो भुवो
निनाय कश्चिद् भरताभिधार्थताम ।
तथेतरं लक्ष्मणशब्दवाच्यतां
परं च शत्रुमपदाभिधेयताम् ॥ ३४ ॥
निपीय धात्रीवदनाद विनिर्गतां
चिरेण गीतिं मणिमञ्चशायिनः ।
सुखं निदद्रुः शिशवो मुहुर्मुहुः
सरोदनारम्भमुदश्चितस्मितम् ॥ ३५ ॥
हयेन जान्वीः कनकाङ्गणे कर-
हयीसहायेन निरुढचक्रमाः ।
विजहिरे ते नरपालबालका-
स्तटे सुमेरोरिव सिंहशाबकाः ॥ ३६ ॥
वचांसि धात्रीकथितानि दारका
धरापतेरन्ववदञ्छुका इव ।
जनस्य सिश्चन्त इव श्रुतीः मुधा-
रसेन वर्णग्नतिस्फुटोदितैः ॥ ३७ ।।
दृढं गृहीत्वा जननीकराङ्गुलीः
समर्पयन्ति स्म पदानि कानिचित् ।
शनैश्शनैरङ्गणमेदिनीपु ते
पदकणत्काशनकिङ्किणीगणाः ॥ ३८ ॥
३२ जानकीपरिणये विजहिर वीथिषु वालकैः समं नृपालबालाः क्षितिग्णुमपिताः । वनीषु दीव्यत्कुममामु पटपदाः प्रमूनधूलीपग्धृिसग इव ॥ ३९ ॥ प्रणीतीलः प्रचलच्छिखण्डकः कुमाग्वाँऽक्षग्वेदिकां गतः । लिपिं समम्तां जगृहे न केवलं धियां विलामह दयं गुरोरपि ॥ ४० ॥ अथोपनीता विधिवत पुरोधमा धृतापीताजिनदण्डमेखलाः । चकामति म्म प्रथमाधमस्य त यथावताराः क्षितिपालनन्दनाः ॥ ४१ ॥ वसिष्टता ब्रह्मविदां वरिष्टत- स्त्रयीं तद ममः-यगीपत । अनहमाल्पन च तपदिर नथा समम्तासु कलामु कौशलम् ॥ ४२ ॥ मुधन्वनो त्राणि ममुम्बलानि ते मुग्वादशिक्षन्त सुता महीक्षितः । प्रकाशिताम्नरभवन दुगसदाः प्रभाकगेरिव धर्मवासराः ॥ ४३ ॥ दृढव्रतैर्धर्मरतैर्यशस्विभि- दयालुभिर्दानपरैर्विचक्षणः ।
३३ ३ तृतीयः सर्गः । बहुश्रुतैः सज्जनसम्मतैः स तैः सुतैश्चतुर्भिः शुशुभे महीपतिः ॥ ४४ ॥ उवास रामेण विना न लक्ष्मणः क्षणं न चोवास स तं विना पुनः । वसेत् प्रसादो विधुमन्तरेण किं विना प्रसादेन बसेद विधुश्र किम ॥ ४५ ॥ परस्परं ती भरतश्च लक्ष्मणा- नुजच सौहार्दमुभावपुप्यताम । यथा शचीवल्लभकेटभडिपो यथाश्विनी मास्तपावको यथा ॥ १६ ॥ अथासदत तं क्षितिपाकशामनं विकल्पपङ्कमहमम्भवो मुनिः । अभूत त्रिशङ्कोम्बिादेवाधिगेहणे यदीयवाणी प्रगुणाधिगहणी ॥ ४ ॥ अनर्घ्यमादिभिरीश्वरः क्षित- स्तमर्चयित्वा विधिवत तपोधनम् । प्रहष्टचेताः कुशपूनविष्ट निविष्टमाचष्ट वमिप्रमन्निधौ ॥ १८ ॥ अनुग्रहोऽयं मयि दर्शितम्त्वया ततः प्रतिष्ठां गतमद्य मत्कुलम् । विहान विभामित्र इयर्थः ।
जानकीपरिणये
मुने ! निकेतं परिपूतमद्य मे
जनिर्मदीया च फलान्विताजनि ॥ ४९ ॥
त्वया यदुद्दिश्य मुनीन्द्र ! भूरियं
पदारविन्दार्पणमानिताधुना ।
तदर्पयिष्यामि रयादसंशयं
विहाय शङ्कामभिधहि वाञ्छितम् ॥ ५० ॥
इति प्रहपादनुकलवादिनं
धगधिनाथं मुनिरभ्यभाषत ।
भवान हरिश्चन्द्रनृपश्च वीक्षितो
मनाः कुले ठाविह सन्यमङ्गगै ॥ ५१ ॥
अहं विधिमः सवनं महीपते !
तदन्तगयप्रशमाय पूर्वजम् ।
कुमारमानेतुमिहागताऽम्मि ते
सहायवन्तं धनुषा प्रयच्छ तम् ॥ ५२ ॥
मुबाहमुन्दप्रभवो दुगमदी
निशाचगवध्वविन्नकारिणी।
निहन्तुमीष्टे मुत एव ते रणे
हिमान्धकागविव चण्डदीधितिः ॥ ५३ ॥
इतारयित्वा विरतं मुनीश्वरं
गतप्रहर्षः पतिव्रवीद् भुवः ।
क मे कुमार: मुकुमारविग्रहो
निशाचगः कर्कशमूर्तयः क्व वा ॥ ५४ ॥
नृतायः ममः। ३५ अशिक्षितास्त्रः मकलास्त्रकाविद रपतमायः कपटाहवप्रियः । अवाहिनीको ध्वजिनीयुतैः कथं निशाचरैयुद्धमा करिष्यति ॥ ५ ॥ न दीयते वत्स इति त्वदग्रता विभमि वक्तुं तदय मुनीन्द्र ! म । स्वयं विदित्वाशयमत्र दारक दयस्व लब्ध विविधतर्मया ॥ १६ ॥ इतीरित भृतलशीतलत्विया तथा म जञ्चाल तपोधनः क्रुधा । भयन मन तमिमं यथा जना जगद दिधधुं प्रलयाशुशुणिम ॥ ५० ॥ चचाल भूमिर्जलधिः प्रचुक्षुभ शिखी न जम्वाल वा न मामतः । प्रपदिर वासभर मुधान्धम- स्नपाधन क्रोधवशं गत मति ॥ ८ ॥ अथाब्रवीदग्रसरतपस्विना- महं गमिष्यामि पुनर्यथागतम । चिरं भवाञ्जीवतु भूपत ! न च. न्मृपा प्रतिज्ञा भुवि कः करिष्यति ॥ ... ॥ उदीरितायामिति वाचि तत्क्षणा- दमर्षिणा गाढतरं महर्षिणा ।
जानकीपरिणये
अरुन्धतीजानिमवाच मानसी
व्यथां विधून्वन्नवनीबिडौजसः ॥ ६० ॥
कुले मनारश्रुतपूर्वमर्थिभि-
ब्रवीति नास्तीति पदं कथं भवान् ।
ननु प्रतिष्ठा भुवनेषु विश्रुता
वदान्यतापज्ञममुष्य भूपते ! ॥ ६१ ॥
महीपत ! नूतनवेधसे विना
विचारलेशं तनयं त्वमर्पय ।
अयं क्षमो राक्षमनिग्रहे स्वयं
तथापि भाग्याद् भवतः स चागतः ॥ ६२ ॥
त्रिशङ्कसंस्थापनमातनोज्जग-
वयं विनिर्मातुमिवायमादितः ।
विधूय च क्षात्रमसौ तपश्चयः
समासदद् ब्रह्मऋपित्वमञ्जसा ॥ ६३ ॥
पुरा मदीयस्तनयः सहात्मनः
सुताननेनाकलितोऽपि निग्रहः ।
कृतोऽमुना किञ्च तथा त्रिशङ्कुना
समं शुनःशफमनुग्रहोऽस्पृशत् ॥ ६४ ॥
इत्थं वसिष्ठवचनैरपनीतशोक-
भूमा प्रसन्नहृदयः कुशिकात्मजाय ।
रामं धनुर्धरमदान्मदनाभिरामं
राजा गृहीतधनुषा सह लक्ष्मणेन ॥ ६५॥
तृतीयः सर्गः । सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा। सावित्र्या सममेव यं श्रितवती वाग्देवता सादरं तत्कान्येऽत्र हि जानकीपरिणये सर्गस्तृतीयोऽजनि ॥ ६६ ॥ इति जानकीपरिणये तृतीयः सर्गः।
अथ चतुर्थः सर्गः । पुग्मुरिद्रतश्वजमुदग्रतारणं कदलीतरुक्रमुकपण्डमण्डितम । जलसिक्तमुक्तकुसुमप्रतोलिक तदभून्नगेन्द्रसुतयोर्विनिर्गमे ॥ १ ॥ अभिवाद्य मातृजनमश्रुशीकरै- रहिमस्तदक्षिगलितैः समुक्षितौ । पितरं प्रणम्य च पुगंधसा मम सविधं मुनग्भजतां क्षणन तो ॥ २ ॥ अथ गमलक्ष्मणममतपार्श्वभू- निरगान्नरेन्द्रभवनात् तपोधनः । सविधे सुगसुरपुगंधी दधत् प्रथमाचलादिव तुपारदीधितिः ॥ ३ ॥ समवाकिरन् सपदि लाजसञ्चयः पुरयोषितः क्षितिपतेः कुमारको । कुसुमैर्वनेषु चिरिबिल्वशाखिका मधुमाधवाविव समुझितैर्निः ॥ ४ ॥ सरयूजलाचमननिर्मलात्मने रघुनन्दनाय सकनीयसे मुनिः । अदिशद् बलामतिबलां च विद्ययो- रनुभावतः स न तयोः क्लमं ययौ ॥ ५ ॥ स: सकनीयान् रामः ।
चतुर्थः सर्गः ।
सरयूतटे विततयागकर्मणां
तपनान्ववायधरणीभुजाममी।
अधिवेदि यूपकुलमालुलोकिरे
पुलकाङ्कुरौघमिव हर्षजं भुवः ॥ ६ ॥
विषयेषु वा गिरिपु वा नदीषु वा
पथि यद्यदक्षिसरणीमगाहत ।
विनयेन तत्तदभिधामपृच्छतां
मुनिमात्मजौ नरपतेः कुतूहलात् ॥ ७ ॥
सरसैः फलैः क्षितिरुहा विहङ्गमाः
कलनिवनैः कुमुमसञ्चयैलताः ।
हरिणीगणाश्च तरलैविलोकितैः
समपूजयन सपदि गजनन्दनी ॥ ८ ॥
तरसा तमाश्रमममी प्रपदिर
हरकोपदग्धव पुषो मनोभुवः ।
वहता पगगचयमङ्गभस्मनां
मरुता विमोहितमृगहिजबजम ॥ ५ ॥
अयमाश्रमः पशुपतेस्तदक्षिभू-
शिखिदग्धमङ्गमिह पुष्पधन्वनः ।
अपतत तदाप्रभृति दिवसी पुनः
प्रथतेतगं जनपदाङ्गसंज्ञया ॥ १० ॥
जानकीपरिणये रजनीचरी वसति काचिदत्र तां जहि सायकेन निशितेन ताटकाम् । रघुवंशरत्न! भवतामनामयौ विषयौ करूशमलदाभिधाविमौ ॥ ११ ॥ इति वाचमृचिषि तपस्विनां वरे धनुगततज्यमतनिष्ट तत्क्षणात् । हरितां मुखानि मुखराणि शिञ्जिनी- जनितेश्रकार च स भैरवै रवैः ॥ १२ ॥ धनुषः स्वनं रघुपतेर्घनाघन- ध्वनिगर्वचर्वणचणं निशम्य सा । कलुषा रुषा परुषभाषणापतत् पुरुषादिनी विषमवेषभीषणा ॥ १३ ॥ दधतीभचर्मपरिधानमायतं स्तनमण्डलार्पितकपालमालिका । नररक्तचन्दनरसेन रूषिता शवभस्मकल्पितकपोलमण्डना ॥ १४ ॥ प्रलयान्धकारपटलैरिवोद्गतै- (वनत्रयोदुरितसञ्चयैरिव । अयशोभरैरिव कुलम्य रक्षसां द्रुहिणेन मेचकरुचिर्विनिर्मिता ॥ १५ ॥ चलदमिकुण्डनयना विशङ्कट- भ्रुकुटीविटङ्कितभयङ्करानना ।
चतुर्थः सर्गः ।
चपला कडारचिकुरोत्करा जव-
द्रुतपातितद्रुमविकीर्णपद्धतिः ॥ १६ ॥
रदनान्तरेषु चिरलमजाङ्गल-
ग्रहणेच्छया विदधती विलोलनम् ।
रसनाश्चलेन मुहुरास्यगह्वरे
विकटाट्टहासमुचि विस्रगन्धिनी ॥ १७ ॥
अथ राघवोऽध्वनि निरीक्ष्य राक्षसी
प्रजिहीर्षयोद्यतभुजाग्रमायतीम् ।
वहता शरेण यमदण्डचण्डतां
जगदापदा सह निनाय तां क्षयम् ॥ १८ ॥
रघुनन्दनः समतनोन्निशाचरी-
कदनं प्रयासलवमन्तरेण यत् ।
समशिश्रियत् सपदि पूर्वरङ्गतां
क्षणदाचरोन्मथननाटकस्य तत् ॥ १९ ॥
अथ ताटकानिधनहर्षितान्मुने-
रधिगम्य तावखिलमन्त्रमण्डलम् ।
रघुनन्दनावभवतां दुरासदौ
शिखिभास्करौ प्रचुरतेजसाविव ॥ २० ॥
अभजन्त ते तदनु वामनाश्रम
श्रमहारिशाखितलवर्तितापसम् ।
कुशवल्कलाजिनविराजितोटज-
प्रकरं प्रशान्ततरसत्त्वसङ्कुलम् ॥ २१ ॥
जानकीपरिणये अथ तत्र गाधितनुभृस्तपोवने विधिवत् समाग्भत कर्तुमध्वरम् । प्रथमानभव्यरसहव्यतर्पित- त्रिदिवालयोज्झितमुधारसादरम् ॥ २२ ॥ अथ रामलक्ष्मणभुजाभिरक्षिते महिते मुनेश्चलति यज्ञकर्मणि । वपुषा विडम्बितवलाहकैरभूत क्षणदाचरनिबिडमम्बरं क्षणात् ॥ २३ ॥ विततप्रयोगमाधिवेदि ऋत्विजां कुलमाकुलं विदधतो निशाचराः । क्षतजं पुरैव मुमुच ग्वृहह- प्रहितञ्चल हिशिखजालघट्टनात् ॥ २४ ॥ दधिरे मग्वोपकरणानि शोणतां रुधिरेण तेन पतता नभस्स्थलात् । नयनाञ्चलानि नरपालबालयो- रभजत् क्षणादरुणताममर्षतः ॥ २५ ॥ समधत्त यत् पवनदेवतं दुरा- सदमस्त्रमुटजवं शरासने । रघुनन्दनः सपदि तेन ताटका- तनुजं जले जलनिधेरपातयत् ॥ २६ ॥ अदहत् सुबाहुमपि पावकास्त्रतो रजनीचरं सरभसं रघृहहः ।
चतुर्थः सर्गः । अथ रक्षसां तदखिलं बलं भया- दभजद् दिशासु लघु कान्दिशीकताम् ॥ २७ ॥ इति राघवक्षपितविघ्नमध्वरं निरवर्तयत् सपदि ऋत्विजां गणः । प्रमदाश्रुभिः प्रथममाप्लुतः शनै- मुनिरातनोदवभृथाप्लवं ततः ॥ २८ ॥ शुभसूचकाक्षरमनोज्ञया गिरा कलयन् प्रमोदभरितं रघूहहम् । अवदन्मुनिः कुशिकभूनिमन्त्रितो मिथिलाधिपेन सवनं विधित्सुना ॥ २९ ॥ अयि राम! सिहमिह तं प्रभावतः कतुकर्म शर्म च विनिर्मितं मम । जनकाज्ञया विहितधर्मवर्धनी भवताद् भवान् क्षितिजयान्वितोऽचिरात् ॥ ३० ॥ जनकश्चिकीर्षति मखं विलोकित तमहं व्रजामि मिथिलाभिधां पुरीम् । धनुरैश्वरं त्वमपि तत्र वीक्षितुं समुपेहि पार्थिवमुत! क्षणादिति ॥ ३१ ॥ अथ निर्ययौ मुनिवरस्तपावना- न्मिाथिलापुरं प्रति संगमलक्ष्मणः । सि.नजय..न्वतः जनकस्य पितुः अथच तमाम कम विदागा अजया । हीविजयोपेतः अथन सीतापेतः ।
जानकीपरिणये
अनुजग्मुरध्वनि सुदूरमाकुला
हरिणाभकाः परिचिताश्चिरेण तम् ॥ ३२ ॥
विषयान् पुराणि विपिनानि पर्वतान्
सरितः सरांसि च विलङ्घय ते जवात् ।
वसुपालितां वसुमती प्रपेदिरे
धनधान्यरत्नपशुजालसंकुलाम् ॥ ३३ ॥
कथयन् कुशान्वयचरित्रमद्भुतं
मुनिपुङ्गवो रघुवराय सादरम् ।
अचलाधिराजतनयामुदन्वतो
महिपीमवाप मरुतां तरङ्गिणीम् ॥ ३४ ॥
अवदन्मुनिम्तदनु दिव्यवाहिनी-
चरितं बुभुत्सति नरेन्द्रनन्दने ।
तनयाहयं हिमवतोऽभवत तयोः
प्रथमां नदी सुरगणोऽनयद् दिवम् ॥ ३५ ॥
स्मरशासनाय तनयां कनीयसी
प्रदिदेश हर्षभरितो महीधरः ।
शिवयोश्चिरं मिलितयोः परस्परं
धरणी बभार खलु वीर्यमाहितम् ॥ ३६ ॥
ज्वलने क्षमा सपदि वोढुमक्षमा
विससर्ज तत् स च सुधान्धसां पुनः ।
निदधे जवात् सरिति सा च तीरभू-
प्रभवे जहौ शरवणे हिरण्मये ॥ ३७ ॥
५५ चतुर्थः सर्गः। अजनिष्ट तत्र किल धाम षण्मुखी- परिपीतभव्यरसकृत्तिकास्तनम् । दनुजावलीदलनकेलिसादरं प्रणतार्तिभञ्जनकलाविशारदम् ॥ ३८ ॥ अथ राघवे कथमगाहत क्षितिं विबुधापगेति विनयेन पृच्छति । उपचक्रमे निगदितुं मुनिर्मरु- सरितोऽवतारचरितं यथाक्रमम् ॥ ३९ ॥ अजनिष्ट कश्चन पुरा धरापतिः सगराभिधस्तरणिवंशभूषणम् । स विधित्सुरध्वरशिखामणिं हयं विससर्ज धन्विनिकुरुम्बरक्षितम् ॥ ४० ॥ अथ कीर्तिसञ्चयमिवावनीपते. हरिदन्तरेषु कृतचङ्गमक्रमम् । हरति स्म धन्विनिवहैरलक्षितो हयपुङ्गवं मखभुजामधीश्वरः ॥ ४१ ॥ हयरत्नमध्वनि विनष्टमञ्जसा हयरक्षिणः क्षितिभुजे न्यवेदयन् । स च मार्गणाय तुरगस्य सत्वरं निखिलेन पुत्रनिवहानचुचुदत् ॥ ४२ ॥ सरितः सरांसि विपिनानि पर्वतान् विषयान् पुराणि विविधाश्च मेदिनीः ।
जानकीपरिणये
सहसा विचित्य ददृशुर्न कुत्रचित्
सगरात्मजा हययापहारिणौ ॥४३॥
अहरत् तुरङ्गमयमैप मोपक-
स्तुरगस्य वाजिनममावचुचुरत् ।
इति जमुरध्वनि समस्ततो जनां-
श्वरतः क्रुधा सगरभूपतेः मुताः ॥ ४४ ॥
क्षितिमण्डले तमनवेक्ष्य वाजिनं
विचिचीपवम्तदनु त रमातले ।
अवदारणं विदधिरे तथा क्षितेः
स्थितिमाशशाङ्करवि तद्यथा भजेत् ॥ ४५ ॥
अथ ते निमीलितविलोचनं शन-
रवलोकयन्तभधिचित्तमीश्वरम ।
विलुलोकिर कपिलमुग्रतजसं
तुरगं च तम्य विचरन्तमन्तिक ॥ ४६ ॥
अयमत्र तिष्ठति तुरङ्गतम्करो
लघु बध्यतां झटिति वध्यतामिति ।
कटुभाषिणः कपिलरोपपावक
सुमतेः सुताः शलभतां प्रपदिर ॥ ४७ ॥
समचोदयत् तदनु वाजिलिप्सया
सगरोंऽशुमन्तमसमञ्जसम्भवम् ।
स च तान् निक्ष्यि भुवि भस्मसात्कृतान्
सलिलं प्रदातुमुदयुङ्ग दुःखितः ॥ ४८ ॥
चतुर्थः सर्गः । अमरापगाजलनिवापतो गतिः सुलभा भवपितृकुलस्य नान्यतः। भज यत्नमङ्ग! कुलदीप! तत् स्वयं सुरनिम्नगानयनकर्मणि द्रुतम् ॥ ४९ ॥ इति वैनतेयवचसा जलाञ्जली शमितादरः प्रतिनिवृत्य वाजिना । निरवर्तयन्निजपितामहक्रतुं स महीं ररक्ष च वनं गते नृपे ॥ ५० ॥ स दिलीपनाम्नि तनुजे धुरं क्षिते. निदधेऽभजच्च तपसे तपोवनम् । स भगीरथे निजमुते महारथे विनिवेश्य भाग्मवनर्वनं यया ॥ ५१ ॥ चरितं निशम्य सगरात्मजन्मनां विनिवेश्य च क्षितिधुगं स मन्त्रिषु । अवतारणाय सरितः सुपर्वणां चरितुं समाग्भन दुश्चरं तपः ॥ ५२ ॥ तपसा प्रसन्नमवनीपतिर्मरु- त्तटिनीमयाचत सरोजविष्टरम् । स च वाहिनीमनुशशाम तां पुन- स्त्वमलकुरुष्व तरमा रमामिति ॥ ५३ ॥ क्षितिपं जगाद मुग्वाहिनी स्मयात् त्वमितो निवर्तय मनो मनोरथात् ।
जानकीपरिणये
अवलोकयेऽद्य तमहं न कुत्रचि-
जवमुद्भटं जगति यः सहेत मे ॥ ५४॥
तदनु स्मयं शमयितुं विधिर्मरु-
त्सरितोऽवदत् क्षितिपते! त्वमञ्जसा ।
तपसा प्रसादय कपर्दिनं स ते
फलितं करिष्यति मनोरथद्रुमम् ॥ ५५ ॥
इति चोदितो नरपतिः स्वयम्भुवा
तपसा प्रसन्नमकरोत् पिनाकिनम् ।
धरणीभुजे त्रिदिवसिन्धुधारणं
प्रभुणा च तेन दयया प्रतिश्रुतम् ॥ ५६ ॥
अपतत् सगर्वभरमभ्रवाहिनी
हरमूर्तिं तं झटिति हर्तुमुद्यता।
समशिश्रियत् स्वयमदृश्यतां जटा-
पटले भ्रमीर्विदधती चिरं प्रभोः॥ ५७ ।।
सुरनिम्नगां क्षितिपुरन्दरस्तुतो
विससर्ज बिन्दुसरसि स्मरान्तकः ।
अभवंस्ततः सपदि सप्त सिन्धवः
शरदिन्दुकुन्दघनसारबन्धवः ॥ ५८ ॥
अथ तासु वासवहरिद् विभूषिता
तिसृभिर्दिशा च तिसृभिः प्रचेतसः ।
रथमन्वगात् सपदि काचिदापगा
सजवं भगीरथमहीशतक्रतोः ॥ ५९ ॥
चतुर्थः सर्गः। लघु जलुरध्वरभुवं विनुहृता- मवलोक्य दिव्यसरिता ज्वलन् रुषा । पिबति स्म तां क्षितिभुजा समीडितो विजहौ पुनः श्रवणवर्त्यांना क्षणात् ॥६० ॥ जलसेकशुद्धनिजदेहभस्मनो नरपालनिर्मितनिवापकर्मणः । त्रिदिवातिथीन् सगरजान् विधाय ता- नभजत् सुपर्वसरिदम्भसां निधिम् ॥ ६१ ॥ पुरमाससाद सुरलोकवाहिनी तपसा विधाय नरलोकवाहिनीम् । रथमास्थितः सरभसं महारथ- चरितार्थतामधिगतो भगीरथः ॥ ६२ ।। इति राघवौ मुनिमुखेन्दुनिःसृतां परिपीय निर्जरनदीकथासुधाम् । वसता चिरादधिविशालमादरा- दभिपूजितौ सुमतिना महीभुजा ॥ ६३ ।। अभजन्त ते तदनु कश्चिदाश्रम सुरराजदुश्चरितगूढसाक्षिणम् । शिथिलोटजं द्विरदभमपादपं चिरलुप्तकुम्भजलसेकवल्लिकम् ॥ ६४ ॥ असता इत्यस स्थाने 'मुरिती इति पायं भाति ।
जानकीपरिणये
अथ तत्र गौतमकलत्रसंश्रयां
मुनिपुङ्गवे कथयति स्वयं कथाम् ।
उदभूत् तपोधनवधूः शिलात्मता-
मपहाय राघवपदार्पणक्षणात् ॥ ६५ ॥
अजनिष्ट गौतमवधृविनिर्मिती
रघुवीरपादरज एव कारणम् ।
सुधियो रजः सकलसर्गकारणं
प्रवदन्ति यद् भवति किं तदन्यथा ॥ ६६ ॥
रघुनाथपादरजसामनुग्रहा-
दखिलः क्षणादवयवैः समुज्झितम् ।
उपलत्वमुञ्चतरकर्कशस्तन-
हयमन्तरण मुनियोपितोऽहुतम् ॥ ६७ ॥
द्रुतमागतेन निजमाश्रमं वधू-
सहितेन दीर्घतपसाभिपूजिताः ।
अभजन्त ते निखिलसम्पदां पदं
मिथिलाभिधां जनकपालितां पुरीम् ॥ ६८ ॥
उत्पन्ना वसुधातलादिह वरा सीताभिधा कन्यका
किञ्च ब्रह्मविदां शिखामणिरिह क्षोणीपतिवर्तते ।
अत्रास्ते खलु चण्डमन्तकरिपोः कोदण्डमित्यादराद्
गमस्तां नगरीमवक्षत मणिप्रासादरुद्वाम्बराम् ॥६९॥
चतुर्थः सर्गः । यं सूनुं जनयाम्बभूव माहितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः सम्मानिताम्बाभिधा। सर्गस्तस्य कृतौ निरर्गलगिरश्चेरावनीवासव- श्लाघासीमनि जानकीपरिणये तुर्योऽतिवोऽजनि ॥७॥ इति जानकीपरिणये चतुर्थः सर्गः।
अथ पञ्चमः सर्गः।
अथ राघवदर्शनोत्सुकाः
प्रमदाः सौधगवाक्षनिर्गतैः ।
विशिखा विदधुः सतोरणा
मिथिलायां निजलोचनांशुभिः ॥१॥
किमिमी मधुपु पसायको
किमिमौ निर्जरसां चिकित्सको।
किमिमौ हरिणाङ्कभास्करा-
विति ती पोरजनाः शशङ्किरे ॥ २॥
विधिवजनकप्रणीतया
समतुप्यत् स महर्षिरर्चया ।
सुजनैः स्वयमादग्ण यत्
क्रियत तत् कुरुते मुदं सताम् ॥ ३ ॥
रघुनन्दनरूपदर्शन-
प्रभवानन्दनिमममानसः ।
तमपृच्छदिदं धराधिभू-
रुपविष्टं कुशविष्टरे मुनिम् ॥ ४ ॥
मुनिपुङ्गव! शंस काविमौ
सुखयन्तौ हृदयानि दारको ।
वियदध्वचरौ मणिक्षिता-
विह दस्रौ प्रतिबिम्बिताविव ॥५॥
१ पक्षमः सर्गः। निजरूपनिरस्तमन्मथौ भुजतेजोविजितप्रभाकरौ। गतिधिकृतगन्धसिन्धुरी मतिनिधूतमरुत्पुरोहितौ ॥६॥ प्रचलत्तपनीयकुण्डलौ मुखभासा जितचन्द्रमण्डलौ शतपत्रसमानलोचनौ वचसा माक्षिकगर्वमोचनौ ॥७॥ जनचित्तहरस्फुरद्रुची नवजीमूतसमुल्लसत्कचौ। समुपस्थितयौवनावुभौ तनुमन्माधवचित्तभूनिभौ ॥ ८ ॥ भुवनत्रयरक्षणे क्षमौ युवकण्ठीरवचण्डविक्रमौ । खलनिग्रहणोत्सुकौ क्षिता- ववतीर्णो त्रिदिवादिवामरौ ॥९॥ ( पञ्चभिः कुलकम्) किमुभौ सुरराजनन्दना वुत गन्धर्वपतेः कुमारको। अथवा निजयानरंहसा भुवि सिद्धौ वियदध्वनश्च्युतौ ॥ १० ॥ स्फुरति स्फुटमेनयोरयं कतरः श्यामलकोमलच्छविः ।
जानकीपरिणये
तरसा हृदयं विलीयते
दृढमस्मिन् परमात्मनीव मे ॥ ११ ॥
अपरो द्रुतहाटकप्रभो
विनयी कुञ्चितनीलकुन्तलः ।
वयसा गुणतः प्रमाणतः
सदृशस्तम्य चकास्ति नन्वमौ ॥ १२ ॥
विविधेषु कुलंपु जन्मना
कुलमाभ्यां किमभृदलढकृतम ।
समसूत च कः पुमानिमा
जलधिः कौस्तुभकल्पकाविव ।। १३ ।।
भुवन पदयोः कयाग्मिा-
वदधातामभिधेयतामुभी ।
भुवमाचरतां किमात्मनाः
पदविन्यासपविवितामिमाम॥१४॥
इति संसदि तन गाधिभू-
रनुयुक्तां धरणीविडोजमा ।
अवदत् तमकहदा मुनिः
स्मितभासा जितचन्द्रदीधितिः ॥ १५ ॥
मनुवंशमणी महाभुजा
तनयौ पतिरथावनीभुजः ।
प्रथितौ भुवि रामलक्ष्मणा-
विति सर्वास्त्रविशारदाविमौ ॥ १६ ॥
पञ्चमः सर्गः । निजधान शितेन ताटकां विशिखेन प्रथमोऽयमेनयोः । अवधीच्च सुबाहुमम्बुधे- लघु मारीचमपातयज्जले ॥ १७ ॥ निजपादपरागपावित- प्रमदासङ्गतगौतमार्चितः । विलुलोकिषयैव धूर्जटे- धनुपः सत्त्वनिधिः समागतः ॥ १८ ॥ अयि दर्शय चापमैश्वरं रघुवीराय विदेहभूपते। तदसौ पुनराततज्यतां भुजवीर्येण ग्यण नेप्यति ॥ १९ ॥ धनुरस्तु तदैन्दुशेम्वरं नरपालैरपर्दुरानमम् । तदयं स्ववशं करिष्यति प्रसभं सर्पमिवाहितुण्डिकः ॥ २०॥ धनुषोऽयममुक्तशैशवः कथमारोपणमाचरिष्यति । इति चेदयि शङ्कम श्रुता न कथा वामनसंश्रया त्वया ॥ २१ ॥ भुजवीर्यममुन्य शाम्भव धनुषि व्यक्ततरं भविष्यति ।
जानकीपरिणये
वितरिष्यति वीर्यशुल्कतो
मुदितोऽस्मै तनयां भवानपि ॥ २२ ॥
इति शंसति संसदि द्विजे
जनकश्छिन्नसमस्तसंशयः।
धनुरानयनाय पार्श्वगान्
पुरुषान् प्रेषयति स्म भूरिशः ॥ २३ ॥
अथ ते विशिखासनं घनं
धरणीपालसमे तदानयन् ।
सुरराजशरासनप्रभं
भुजगाधीश्वरभोगभीषणम् ॥ २४ ॥
धनुरुग्रतरं तदग्रही-
दनयच्च हुतमाततज्यताम् ।
विचकर्ष च विस्मयान्वितान्
विदधानो रघुनन्दनो जनान् ॥ २५ ॥
दलितात् तदमन्दघर्षणा-
हनुषोऽजायत भैरवो रवः ।
विपुलेषु दिगन्तदन्तिनां
श्रुतिरन्धेषु पदं समर्पयन् ॥ २६ ॥
इति दर्शितवीर्यसम्पदं
रघुवीरं पुरमिछरासने ।
प्रशशंस तरङ्गितो मुदा
जनकः संसदि सत्यसकारः ॥ २७ ॥
पञ्चमः सर्ग: अथ राजनिदेशतः सखी- निकुरुम्बैः सममायती सभाम् । रघुनाथविलोचनातिथि- मिथिलाधीशसुता बभूव सा ॥ २८ ॥ रुचिशालि पुरैव यद्वपुः पुनरुक्ताभमभूत सयौवनम् । स्वत एव हि रत्नमुल्लसद्- द्युति शाणोल्लिखितं तु किं पुनः ॥ २९ ॥ निखिलावयवा धराभुवो निजसौन्दर्यसुधापयोनिधौ । रघुवंशमणेरमज्जयन् द्वयमणोरनिमेषमादरात् ॥ ३० ॥ समता कथमस्तु यत्कचै- रलिनां निन्दितचारुचामरैः । भजतां कुसुमौघमन्वहं कुसुमौघेन सदा निषेवितैः ॥ ३१ ॥ अभिभूतमभूद् घनश्रिया ननु यत्केशभरेण चामरम । अत एव तदन्वितं ह्रिया चमरीपृष्ठत एव तिष्ठति ॥ ३२ ॥ दधतानिशमकरूपता तुलितोऽयं निटिलेन चन्द्रमाः ।
५८ जानकीपरिणये भविता क्षयवृद्धिवर्जितः स चतुर्थीगत एव चेत् सदा ॥ ३३ ॥ अपि यं प्रतिपद्गतं जनो नमतीन्दु गतदोषमादरात । यदलीकमचर्मलीमुचं न चतुर्थीगतमीक्षते हि तम् ॥ ३४ ॥ वदनं वनिताशिखामणे- विग्गजान्वयि रेखया भ्रुवोः । दयितन ग्तेः सुधाकरः सुहृदा न्यस्तमिवोहहन् धनुः ॥ ३५ ॥ विललास यदानने सुधा- मरमि भ्रलमदञ्जनच्छविः । म्फुटमुञ्चलितव वीचिका नवशैवालकुलेन मकुला ॥ ३६ ॥ क्षयमुज्झति नो न लक्ष्मणा रहितो भाति न वा दिवानिशम् । अमुवावयवा मुखेन तत मदृशः म्यात सुदृशः कथं शशी ॥ ३७ ॥ अजयत स्वयमब्जयो ईयं युगली लोचनयोर्न केवलम् । अजयोः पय::. अधन पचन्दयोः ।
पञ्चमः सर्गः। ५९ अपि निर्भरविभ्रमावली- सदनं तद् वदनं नतध्रुवः ॥ ३८ ॥ भजता श्रवणावतंसतां ध्रुवमन्ते वसता सदा दृशोः । सुषमाधिगता सुखादभू- दसिताब्जेन धरातनूभुवः ॥ ३९ ॥ रमणीमणिकर्णपाशयो- विरराज प्रचुरश्रियोईयी। युगली परिवेषयोरिख स्फुटताटङ्कसुधांशुबिम्बयोः ॥ ४० ॥ सुदतीशुभकर्णकुण्डल- स्फुरदुद्दाममणीगणश्रियः । अभजन्त कपोलमण्डली- मधि कर्णे क नु भूषणश्रियः ॥ ४१ ।। मकरण बभौ मनःशिला- कलितेन क्षितिभृकपोलभः । मुकुरो मकराङ्कमुद्रितः कथयन्मान्मथतामिवात्मनः ॥ ४२ ॥ वनितामणिनासिका ध्रुवं शरधिः पुष्पशरस्य काश्चनी । अधि कर्णे श्रोत्र इत्यर्थः । 'अधिपग अनर्थका' (1. 4.3) इति अंधेः कमप्र. बता । अपच अधिकर्ण इल्येकं पदम् । अधिकम ऋण यस्य तस्मिन् गाम्ने अने दर्भः ।
जानकीपरिणये तत उच्चलिताः ससौरभा बहवः श्वासमया यदाशुगाः ॥ ४३ ॥ तुलितः सुधया सह ध्रुवं सुदतीदन्तपटः स्वयम्भुवा । अधरत्वमवाप गौरवा- दधरं तत् कथयन्ति तं जनाः ॥ ४४ ॥ मुहितानतनिष्ट यः पुरा मुधया निर्जरसः पुरं गतम् । विदधे क्षितिजाधरं विधिः मुध्या तर्पयितुं तमच्युतम् ॥ ४५ ॥ दधतः परिमृष्टरागता- मपि मुख्या हिजभावमाश्रिताः । शुचयोऽधिगताश्च दान्तता ननु मुक्ताः प्रमदामणे रदाः ॥ ४६ ॥ शुभदन्तजवर्णसम्पदा युवतेौक्तिककुन्दनिर्जयात् । अतुलत्वजुषापि यद् दधे 'सतुलत्वं न किमेतदद्भुतम् ॥ ४७ ॥ सुतनार्मुखभाषितस्मितै- विजिताश्चन्द्रसुधौघचन्द्रिकाः। तुलायामारोप्य परीक्षित इस्पर्थः । + आशुगा वायवो याणाथ। वर्गलकारारमत्वामान विरोधपरिहारः । सकारत पञ्चमः सगः । अमिलनधिकेन कुत्रचिद् विजितानामुचितं हि मेलनम् ॥ ४८ ॥ अतनिष्ट समध्यमां सितां वचनं केन वसुन्धराभुवः । अकरोच्च मरन्दमञ्जसा निजमाधुर्यभरैरमध्यमम ॥ ४९ ॥ महिलास्वरमाधुरी यदा कपटेनापजहार वल्लकी। सुधियः परिवादिनी तदा- प्रभृति क्षोणितले वदन्ति ताम् ॥ ५० ॥ कवयश्चिबुकं कथं धरा- तनुजायाः कथयन्ति निस्तुलम् । अनिशं दधदात्मनस्तुलां प्रतिबिम्बस्य च भासुरश्रियः ॥ ५१ ॥ रमणीरमणीयकण्ठतो हृतलक्ष्मीः समयं विलोकयन् । ननु निर्गमनेषु भूभुजां पुरतः क्रोशति कम्बुरुश्चकैः ॥ ५२ ॥ युवतेः करभूषिताश्चला दधती कोमलतां भुजद्वयी । केन भझातेन कारणेन, अथच ककारेण ।
६२ जानकीपरिणये विरराज शिरीषमालिका- युगलीवाग्रनिबद्धपल्लवा ॥ ५३ ॥ अजनिष्ट करेण मेदिनी- तनुजाया जलजं विनिर्जितम् । तमसेवत तन्निरन्तरं ननु लिखात्मकतामतोऽवहत् ॥ ५४ ॥ मिथिलावनिपालकन्यका- कुचपङ्केरुहकुड्मलद्वयी । न कदापि विकासमासदद् वदनेन्दोरिव सन्निधानतः ॥ ५५ ॥ अभिषेक्तुमनल्पविष्टप- त्रयराज्ये रतिपुष्पसायको । नवयौवनशिल्पिना ध्रुवं कलिती हेमघटौ वधूकुचो ॥ ५६ ॥ धरणीमघवत्कुमारिका- स्तनयोः सङ्गतयोरहर्निशम् । रजनीष्वपि चकवाकयो- मिथुनं चेन्मिलितं समं भवेत् ॥ ५७ ॥ सुषमामृतपूरपूरिते सुमुखीनाभिबिलेऽधियौवन म् + पप्ररेखाम्मकब देवास्मकन्वं च
पञ्चमः सर्गः
: ।
असिता भुजगी तदुद्गता
नियतं रोमलतापदेशतः ॥ ५८ ।।
स्फुटया नवरोमरेखया
क्षितिजामध्यवियत्प्ररूढया ।
पिशुनेन निशाचरावली-
विपदोऽभूयत धूमकेतुना ॥ ५९ ॥
मणिभूषणभूषितानि य.
निखिलाङ्गानि निरीक्ष्य यौवनम ।
अकरोदुदरं धराभुवः
स्त्रिवलीकाञ्चनभूषणाश्चितम् ।। ६० ।।
जगतो
यदुवाच
गौतमः
परमाणुं समवायिकारणम् ।
अणुता नियतं तदुद्भव
समभूद् भूमिसुतावलग्नके ॥ ६१ ॥
मणिकाश्चिमयूखशैवलं
वलिसोपानपथे पदार्पणात ।
अपतञ्जनलोचनानि भू-
तनुभूनाभिसरोवर
मुहुः ॥ ६२ ॥
अभजन्त गभीरतास्पद
प्रमदानाभिबिलेऽन्धकारताम ।
अवलमनिबद्धमेखला
विलसज्जम्भभिदश्मरश्मयः ॥ ६३ ॥
६५ जानकीपरिणये. दृढमात्मपटुत्वमक्षर- च्युतके किं विववार यौवनम् । जघनं विदधे घनं यत- स्तनुजाया मनुजाधिभूमणेः ॥ ६४ ॥ कुचयोर्युगमेव केवलं न करोति स्म रथाङ्गविभ्रमम् । दुहितुर्धरणीबिडौजसो विपुलं तच्च नितम्बमण्डलम् ॥ ६५ ॥ घनपङ्कभरेण रूषितो यदि जम्बूसरिदम्बुखलने । वलभित्करिणः करो व्रजेत् सुदतीपीततरोरुचारताम ॥ ६६ ॥ मृदुशीतलमूरुरम्भयो- ईयमाश्लिप्य दृढं चलभ्रवः । हरलोचनपावकार्चिषा जनितं तापभरं जहौ स्मरः ॥ ६७ ॥ स्मरयौवनयोः सचापयोः कुटिलभ्रूयुगलेन योषितः । अतनोदिषुधिहयश्रियं युगलं वल्गु तदीयजङ्घयोः ॥ ६८ ॥ क्षितिपालसुतापदद्वयं युगलं नीरजयोरसंशयम् ।
पञ्चमः सर्गः मधुरस्वरहसकस्थितिः परथा तत्र कुतो भवेत् सदा ॥ ६९ ॥ केशादारभ्य पादावधि नलिनमुखीमेवमेषोऽनिमेषं पश्यन् सानन्दमुच्चैः स्मरपरवशतां चेतसा संश्रितोऽपि । कुर्वनाकारगुप्तिं रघुकुलतिलकः सन्निधाने महर्षे- स्तस्थौ रोमाञ्चपुजैः समजनि विवृता चित्तवृत्तिस्तदीया ॥७०॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा। सर्गोऽसौ जनकात्मजापरिणये नव्ये तदीये महा- काव्ये चारुणि रुक्मिणीपरिणयभ्रातर्यभूत् पञ्चमः ।। ७१ ॥ इति जामक्रीपरिणये पश्चमः सर्गः।
अथ षष्ठः सर्गः। अथ सुतां प्रणमय्य तपस्विने जनकभूमिपतिस्तदनुज्ञया । दशरथानयनाय पुरोहितं सपदि संप्रहितो* धरणीसुरम् ॥ १ ॥ स खलु यावदवाप न मेदिनी- शतमखं जनकस्य पुरोहितः । उपहरन् कुसुमानि सिषेविषु- स्तमिव तावदभून्मधुवासरः ॥ २ ॥ समसमुन्मिषितैः कुसुमोत्कर- मलयशैलभवैर्मरुदर्भकैः । श्रुतिसुखैरपि कोकिलकृजिते. रनुमितस्तरसा समभून्मधुः ॥ ३ ॥ अधिगतस्य दिशं शमनास्थितां स्फुटमुदेति निरूप्मलता मम । इति विचिन्त्य खरांशरुपेक्ष्य ता. मुदचलद् धनदस्य दिशं प्रति ॥४॥ मलयनिर्झरशीकरशीतलो मुषितपाण्ड्यवधूकचसौरभः । कतरितः।
षष्ठः सर्गः।
६७
निबिडचोलविलासवतीस्तन-
स्खलनमन्दगतिमरुदाववौ ॥ ५ ॥
प्रचलपल्लवकेतुपटाञ्चला
भ्रमरराजिमनोहरतोरणाः ।
मधुझरोदकसिक्ततरा बभु.
मधुसमागमने वनवीथयः ॥ ६ ॥
मलयशैलभवेन नभस्वता
रचितगाढलसत्परिरम्भणा ।
समजनिष्ट लतावलिरुन्मिप-
न्मुकुलपालिमिषात् पुलकान्विता ॥ ७ ॥
तुवरचूतनवाङ्करचर्वणाद्
विशदकण्ठपुटा पिकमण्डली ।
श्रवणयोर्निजकोमलपञ्चम-
स्वरभिषेण ववर्ष सुधाझरीम् ॥ ८ ॥
मधुसखोऽधिगतो विपिनस्थली
कुसुमभारनमत्तरुमण्डलाम् ।
विशिखशून्यतरामिपुधिं चिराद्
विकचपुष्पशरैः समपूरयत् ॥ ९ ॥
मधुरसं परिपीय वनेषु तं
बहुतयान्तरमान्तमिवोद्गिरन् ।
मधुरनादमिषाद् भ्रमरोत्करः
कुसुमितां वनभूमिमभूषयत ॥ १०॥
जानकीपरिणये सुरभिलो वकुलप्रसवोल- न्मधुरसस्वपितो मलयानिलः । रतिपतेः पथिकासुसमीरण- ग्रहणदीपकभावमशिश्रियत् ॥ ११ ॥ प्रियजनेन चिरेण पिपासितं विरतमझुलवेणु चलगुवाम् । अधरबिम्बमजायत चुम्बन- क्षममपेतहिमोपहितवणम् ॥ १२ ॥ प्रमदया खलु यः प्रियदुर्लभैः स्फुटमपूजि यदा पदताडनैः । भुवि तदाप्रभृति प्रमदाचितं तरुमशोक इति प्रवदन्ति तम् ॥ १३ ॥ स किल धन्यतमस्तरुषु दुमो युवजनेन चिरादभिकाक्षितम् । सपदि यः समशिश्रियदाना- घनतरस्तनमण्डलघट्टनम् ॥ १४ ॥ विविधरत्नमयूखविराजित- त्रिदिववर्त्मसु सासु सत्स्वपि । उपवनेषु रतिः समभून्मघौ विकचपुष्पचयेषु विलासिनोः ॥ १५ ॥ भ्रमरलोचनमुत्थितमुक्कैः किमहितः शिशिरो गत्वानिति ।
षष्ठः सर्गः।
सरसि तद्विलुलोकिषयाब्जिनी-
मुखमिवोममित्तं जलजं बमौ ॥ १६ ॥
अथ सुखादनुभूय ऋतूत्सवा-
नुपवनेषु समं प्रमदाजनैः ।
क्षितिमहेन्द्रमवाप सभागतं
जनकराजपुरोहितभूसुरः ॥ १७ ॥
क्षितिभुजा विधिवद् विहितार्चनः
समुपविश्य सुखं कुशविष्टरे ।
इदमुदीरयति स्म तदाशयं
प्रमदमेदुरमाकलयन् द्विजः ॥ १८ ॥
अयि भवन्तमपृच्छदनामयं
जनकभूमिपतिर्जगतीपते ।
पुनरुदीरयति स्म च तद्वचः
शतमखस्य सखे! शृणु मन्मुखात् ॥ १९ ॥
तनुभुवा भवतो धनुरैश्वरं
दलयता विजिताजनि मे सुता।
त्वमुभयोरमुयोरनुरूपयो-
रनुमनुष्य विवाहमिहागतः ॥ २०॥
इति भवन्तमभाषत मैथिलो
नरपतिर्मवदागमनोत्सुकः ।
कलय तस्य मनोरयभूरहं
सफलमागमानेन परापते!॥ २१ ॥
जानकीपरिणये इति तदाननचन्द्रसुधां गिरं श्रुतिपुटेन निपीय विशां पतिः । सरयमोमिति वाचमुदीरय- झिगमिषामभजन्मिथिलां प्रति ॥ २२ ॥ अथ समाप्य विधिं निखिलं सुधी- दिनमुखोचितमह्नि शुभंयुनि । जवनवाजियुतं रथमास्थितो दशरथो मिथिलामभि निर्ययौ ॥ २३ ॥ जिगमिषोनरपालशिखामणे- रुदचलत् पटहध्वनिरुच्चकैः । विघटिताचलसन्धिरनुक्षण- क्षुभितसागरमन्द्ररवैधितः ॥ २४ ॥ रचितमक्षिपिधानमहि द्विषो रजसि नेत्रनिरोधिनि जृम्भिते । अपिदधे किमहिप्रभुरुत्थिते श्रुतिकटौ पटहारटिते दृशः ॥ २५ ॥ तदनु लाजचयैः समवाकिरन् क्षितिपतिं किल पौरपुरन्ध्रयः। नभसि नीरदसंहतयो धरा- धरमिवाभिनवैरुदबिन्दुभिः ॥ २६ ॥ उपरि भूमिपते?तमुहृतं विशदमातपवारणमावभौ.।
.१
षष्ठः सर्गः।
उदयभूमिधरोपरि सत्वरं
कुमुदिनीपतिबिम्बमिवोदितम् ॥ २७ ॥
उभयपार्श्वगते धरणीपते-
विलसतः स्म शुभे सितचामरे ।
निजभुजायुगलेन समार्जिते
तनुमती यशसी इव पाण्डरे ॥ २८ ॥
क्षितितलाद् द्रुतमुच्चलिताम्बरे
प्रविललास परागपरम्परा ।
वसुमतीव नरेन्द्रवरूथिनी.
श्रियमिवेक्षितुमुच्चपदं गता ॥ २९ ॥
मणिमयीः पिहिताःप्रतिसीरया
प्रसभपूरित(?)पूरुषसंहतीः ।
अधिगताः शिबिका धरणीपते.
रुदचलन्नवरोधवधूजनाः ॥ ३० ॥
उपरि केतुभिरुल्लिखिताम्बरा-
वटुलचक्रविदारितभूतलाः ।
घनतरध्वनिरुद्धदिगन्तराः
समवलन्त शताङ्गचया रयात् ॥ ३१ ॥
भुजगलोकतमोभिरिवोद्गतै-
जलभरादिव खात्
पतितैर्घनैः।
अचलतामपहाय समागतैः
क्षितिधरैरिव हस्तिचयैर्यये ॥ १२ ॥
जानकापरिणये नभसि दुःखतरं विचरन्तु मा दिनमणेस्तुरगा निजबन्धवः । इति चमूतुरगैः प्रहिता ध्रुवं खुररजोमिषतः क्षितिरुच्चकैः ॥ ३३ ॥ करलसन्मुसलासिलताधनु:- परिघतोमरशक्तिपरश्वधाः । दृढविशङ्कटकङ्कटधारिणः प्रययुरुहटशौर्यभुजा भटाः ॥ ३४ ॥ विघटिताखिलपर्वतसन्धिनि प्रसभकम्पितभूमितले बले। चलति भारनतैः फणमण्डलै- मुंवमधत्त कथश्चन भोगिराट् ॥ ३५ ॥ विसमरैरनुलोममरुञ्चल- ध्वजपटप्रभवैः पवनैर्मुहुः। इतविनीततरश्रमखेचरा दशरथस्य चचाल वरूथिनी ॥ ३६॥ दशरथः समतीतमहापथो वननदीतटमाप दिनात्यये। चरमसानुमतस्तटमंशुमा- नपि विलय वियत्सरणी ययौ ॥ ३७ ॥ विपुलतामधिजग्मुषि सन्ततं त्रिदशवमनि सन्माणाविव ।
षष्टः सर्गः। अरुणतामधिपादमशिश्रियत् परिणतौ दिवसस्य दिनेश्वरः ॥ ३८ ॥ निमिषदब्जविनिर्गतया रुचा दृढतरं परिरब्ध इव क्षणात् । कमलबन्धुरभूद् दिवसाञ्चले स्फुटजपाकुसुमस्तबकोपमः ॥ ३९ ॥ श्रुतिवधूपदपङ्कजयावकै- विगलितैर्निजमण्डलखेलनात् । सपदि रञ्जितमूर्तिरिवाबभौ दिनमणिद्वैतहाटकसन्निभः ॥ ४० ॥ मसृणिता घुसृणैरिव दिग्वधू- गिरितटीः कुनटीभरिता इव । किसलयैश्छुरितानिव पादपान् दिनमणेररुणाः किरणा व्यधुः ॥ ४१ ॥ विलपतो मिथुनस्य रथाङ्गयो- विरहविह्वलतामभिवीक्षितुम । दधदिवाक्षमतां दिवसेश्वरः कचिददर्शनमाप दिनात्यये ॥ ४२ ॥ घुसृणयावकविद्रुमदाडिमी- कुसुमपल्लवलोहितकश्रिया । नटी मनश्शिला ।
जानकीपरिणये
स्फुटमुपासितया द्विजमण्डलै-
श्वरमया समभूयत सन्ध्यया ॥ ४३ ॥
पिशितकीटफलाङ्कुरतण्डुल-
प्रमुखभक्षणवन्ति यथोचितम् ।
सपदि सायमधिष्ठितमर्भकैः
खगकुलानि कुलायमशिश्रियन् ॥ ४४ ॥
चरमसानुमतः शिखराजवा-
जलनिधौ पतिते रविमण्डले ।
सरभसोञ्चलितोदकशीकर-
भ्रममुडुप्रकरा विदधुर्दिवि ॥ ४५ ॥
भरितमुटमन्दरघूर्णनो-
चलितपायससैन्धवशीकरैः ।
गुरु विडम्बयति स्म वपुहरे-
रुडुकदम्बकरम्बितमम्बरम् ॥ ४६ ॥
अनिशसङ्गमशालि रथाङ्गयो-
विघटितं कलयन् मिथुनं मिथः ।
न खलु वेद्मि चिरं दिवसात्ययः
क नरके निपतिष्यति निर्दयः ॥ ४७ ॥
सरभसं समभूदभिसारिका-
जनचिरन्तनपुण्यफलं तमः ।
जरठवारवधूपलितासिती-
करणसिद्धरसायनसेवनम् ॥ ४८ ॥
षष्ठः सर्गः दिनविरामनभस्यघनाघनै- वियदरण्यतमालमहीरुहैः। स्मरधरापतिबन्धुरसिन्धुरै- झटिति सन्तमसैरुदभूयत ॥ ४९ ॥ युवतिभिर्विहिता दयितं प्रति स्मितकटाक्षमुखा निजविभ्रमाः । समभवन् वनचन्द्रिकया समा- स्तमसि नेत्रनिरोधिनि जृम्भिते ॥ ५० ॥ जलनिधेर्जठरात् कुमुदोत्करैः सह चकोरमनांसि विकासयन् । उदयति स्म विधुर्नलिनैः समं निखिलचक्रमनांसि निमीलयन् ॥ ५१ ॥ मकुटतां प्रथमस्य महीभृतो वदनतां हरिदिग्वनितामणः । चषकतां पुनरुत्पिबसंहते- रवहदुत्पलिनीपतिमण्डलम् ॥ ५२ ॥ कुमुदिनीपरिषत्कुलदैवतैः कमलिनीसदसामपमृत्युभिः । स्मरविलासविजृम्भणहेतुभिः शशधरस्य विनिःसृतमंशुभिः ॥ ५३ ॥ उत्पिबानां चकोराणां सहते।
जानकीपरिणये विमलतामभजद् भुवनं क्षणात् कुमुदबन्धुमहःकतकार्पणात् । निबिडपङ्क इवास्य घनीभवन् स्फुटमधः समलक्ष्यत भूतलम् ॥ ५४ ॥ भ्रमरसङ्गमशोभि विपाण्डरं जलजमाकलयन्नवधीरितम् । उडुपतिविरराज सलाञ्छनो दधदिवाङ्कभुवि क्षणदां प्रियाम् ॥ ५५ ॥ इति वियत्सरणौ शशिमण्डले स्फुरति यामवतीमणिकुण्डले । तरुणसंसदभूत् सकुतूहला युवतिभिः सममासवसेवने ॥ ५६ ॥ चषकमिन्दुमुखीवदनाभिधं मणिमयाच्चषकादपि कामिनाम् । अधिकमिष्टमभून्मधुसेवने न किमकृत्रिमकृत्रिमयोर्भिदा ॥ ५७ ॥ मुखसुरं भवदीयमपेक्षते वकुलभूरुह एप नितम्बिनि! । इति वदन्तमभीकमपाययद् युवतिरिङ्गितविद् वदनासवम् ।। ५८ ॥ विदलतः स्मरगाढविकर्षणाद् रसमिव स्रुतमिक्षुशरासनात् ।
सर्गः ': ।
७.
प्रणयराशिमिव द्रवतां गतं
मधु वधूराभिकाः समपाययन् ॥ ५९ ।।
कलितहासमहेतु चरन्मुहुः-
स्खलितमञ्जुलमस्फुटमालपत् ।
मधुमदे सति यौवतमाबभौ
पुनरिवागतशैशवचेष्टितम् ॥ ६० ॥
मदभरेऽभ्युदिते मधुसेवया
नयनयोयुगलं कुटिलभ्रुवाम् ।
अजनि घूर्णनवद् वपुषा समं
निबिडरागमभून्मनसा सह ॥ ६१ ॥
मधुरसद्रुतमृष्टघनत्रपा-
कलुषजालतया विशदे सति ।
अभजदनमुखीहृदयाम्बरे
झटिति रागभरो दृढलग्नताम ॥ ६२ ॥
मधुरसेन हिमेन विलासिनोः
प्रविशतान्तरिवाहितसेचनः ।
निबिडया रहितः खलु तन्द्रया
प्रबुबुध तरसा हृदयेशयः ॥ ६३ ॥
अधिगतान्युपधानसनाथतां
बहुपरिच्छदभाञ्जि मृदृनि च ।
प्रणयिनो रभसादभजन समं
युवतिभिः शयनानि रिरंसवः ॥ ६ ॥
जानकीपरिणये रतिपतेरपि विस्मयकारि यद् विटजनैरपि यन्न विचारितम् । कविगिरां च न यत् खलु गोचर- स्तदुदभूद् वनिताभिकयो रतम् ॥ ६५ ॥ अपहृते रभसेन कुचांशुके प्रणयिना सुदृशः करयोईयम । शिशिरधर्मजलैः किल सात्त्विकैः समभिषिक्तमिवाजनि तत्पदे ॥ ६६ ॥ लघु निरस्य पटं जघनस्थला- निहितचक्षुषि मन्मथमन्दिरे । प्रियतमे स्वविलोचनमीलनं समतनोत् तददर्शनमिच्छती ॥ ६७ ॥ विविधचुम्बनमाचरतो रतौ प्रणयिनी मधुरत्वमुपागताः। वरतनोरधरादविशेषता- मवयवा निखिलाः समशिश्रियन् ॥ ६८ ॥ विरचिता इव शर्करया सुधा- रसचिरस्नपिता इव सुभ्रवः । अवयवाः सुरते परिचुम्बिता विदधिरे दयितस्य न सौहितीम् ॥ ६९ ॥ जलधरैः स्थगितं शशिमण्डलं नटनशालि युगं च रथाङ्गयोः ।
षष्ठः सर्गः सरुतहंसमभूत् कमलद्वयं वपुषि नर्मविशेषपुषि स्त्रियाः ॥ ७० ॥ त्वमसि मे कलभाषिणि ! जीवितं त्वमसि मे नयनहयचन्द्रिका । त्वमसि मे निधिसम्पदिति प्रिय- श्रटुगिरा समुदं विदधे वधूम् ॥ ७१ ॥ सुरभिनिःश्वसितैरधरामृतै- स्तनुरुचां निचयै रतिकूजितः । युवतयो निबिडैः परिरम्भणैः प्रणयिनामहरन् करणावलीम ॥ ७२ ॥ विषमसायककेलिपु भृषणे- विगलितै रहितं कुटिलभ्रुवाम । नखपदैः कमितुर्दशनक्षतै- रखिलमङ्गमशोभत भूपितम् ॥ ७३ ॥ विपुलनिःश्वमितप्रचलत्कुचं गलितभूषणमाकुलकुन्तलम् । श्रमपयःकणतारकितं रते- रवसितौ वनितावपुगबभौ ॥ ७४ ॥ इत्थं स्मरोत्सवसुखं तरुणेषु साकं कान्ताजनैरनुभवत्सु विभावरी सा ।
८० जानकीपरिणये लिप्ता सुधाकरकरैर्घनसारगौरै- र्याता निमेषवदमीषु समत्सरेव ॥ ७५ ॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः सम्मानिताम्बाभिधा । सर्गः षष्ठ इहाजनिष्ट मधुरः श्रीनीलकण्ठावरि- श्लाघासीमनि जानकीपरिणये काव्ये तदीये नवे ॥७॥ इति जानकीपरिणये षष्ठः सर्गः।
अथ सप्तमः सर्गः।
अथाधिभूरुत्तरकोसलानां
तल्पे शयानः शरदभ्रशुभ्रे ।
वैतालिकैरश्चितवाग्विलासैः
प्रबोधितोऽभूत् क्षणदावमाने ॥ १ ॥
धरामरुत्वन् ! विरता निशाभू-
निद्रामिमामक्षिगतां जहीहि ।
प्रतीक्षमाणा कमलालया ते
विलोचनाम्भोजविकासमान्त ॥ २ ॥
पतिष्यतीन्दौ सति तारकाभि-
रन्तर्हितं चन्द्रिकयापयातम् ।
शान्तं निशा मीलितमुत्पलिन्या
क भर्तुराः सुखमाश्रितानाम ॥ ३ ॥
रथाङ्गन्यूनां विरहाकुलानां
बाष्पेण निःश्वासमरुद्भवन ।
किं प्रापितो धूसरतां प्रचेतो-
हरिद्वधूदर्पण एष चन्द्रः ॥ ४ ॥
यस्मिन्नसंकीर्णतया प्रसिडि-
ईस्वस्य दीर्घम्य तथा प्लुतस्य ।
स श्रूयते सम्प्रति वामतेयी-
विरामशमी पततो विरावः ॥ ५ ॥
८२ जानकीपरिणय उद्यन्ननूरुः प्रसभं तमिस्र दुरे समुत्सारयति क्षणेन । अम्भोनिधेग्म्भ इव प्रयुक्तः पुरा कुठारो भृगुनन्दनेन ॥ ६ ॥ यावन्न मृष्टं निखिलं तमोऽर्क- सृतेन यावन्न बहिर्जनेन । विनिर्गतं तावदलम्भि गेहं सङ्केतदेशादभिसारिकाभिः ॥ ७ ॥ सगीति मश्नन्ति दधीनि गोप- वध्वश्रलकेशगलत्प्रसृनाः । मुहुर्मुहुः सम्तकुचोत्तरीयाः कराग्रवल्गहलयावलीकाः ॥ ८ ॥ विनिद्रपङ्केरुहसान्द्रगन्ध- धुरन्धरो नर्तितवल्लरीकः । आचान्तकान्तासुरतान्तजात- स्वेदोदको वाति विभातवातः ॥ ९ ॥ त्रयीमयं सुप्तसमस्तलोक- चैतन्यसंपादनजागरूकम् । हिजबजैराकलितार्घ्यमुच्चै- रैन्द्रीं दिशं ज्योतिरलङ्करोति ॥ १० ॥ अम्भोरुहैः सार्धमशीतभानु- रुन्मीलयल्लोकविलोचनानि ।
सप्तमः सर्गः
८५
नीहारजालेन समं समन्तात्
सान्द्रं तमिस्रं शमयन्नुदेति ॥ ११ ॥
अलक्तकस्येव रसैः प्रसिक्ता
लिप्तेव पद्धैर्नवकुङ्कुमानाम।
कीर्णव पूर्वाचलधातुचूर्णैः
प्राची नवैरर्ककरैर्विभाति ॥ १२ ॥
बालातपेनोषसि रूषितानि
विभान्ति पङ्केरुहकाननानि ।
क्रीडद्रमापादतलच्युतन
लाक्षारसेनेव समुक्षितानि ॥ १३ ॥
न केवलं योजयति प्रियाभि-
चक्रान् प्रभात सविता वियुक्तान् ।
अपि हिरेफानरविन्दकाशाद्
विमोचितानंशुविधूतनिद्रात् ॥ १४ ॥
इति प्रजानामधिपा वचाभि-
भ्रतालिकानां गतसुप्तिगसीत् ।
प्रातः सरोज कुमुदाद् गतानां
स्वैरलीनामिव गजहंमः ॥ १५ ॥
उत्थाय तल्पादुषसि क्षितीशी
निर्वर्त्य सन्ध्यानियमं समम्नम् ।
रथं समास्थाय रयादयासीत्
पुरी विदेहेन्द्रभुजाभिगुमाम् ॥ १६ ॥
जानकीपरिणये साधं वसिष्ठेन समं वधूभि- स्तमागतं साकमनीकिनीभिः । प्रत्युज्जगाम प्रमदोत्तरङ्गः पुरस्सरस्तत्त्वविदां नरेन्द्रः ॥ १७ ॥ प्राप्तो चिगदर्शनजं प्रहर्ष विदेहराजोत्तरकोसलेन्द्रौ । परस्परं तौ परिषस्वजाते सदहबन्धाविव मोक्षधर्मो ॥ १८ ॥ अथार्घ्यपाद्यप्रमुखामशेषां पूजां प्रणीतां सपुरोहितेन । विदेहभूमीपतिना वसिष्ठः प्रत्यग्रहीद् ब्रह्मविदां वरिष्ठः ॥ १९ ।। विदेहराजो निजगजधानी प्रावेशयत प्राग्रसरं रघृणाम् । मतारणाली जलसिक्तराज- पथां नभस्वत्प्रचलत्पताकाम् ॥ २० तत्रोपकार्या विविधोपदाभिः पूर्णी प्रदिष्टां मिथिलाधिपेन । वितानसंशोभितकायमानां रघुप्रवीरः सुखमध्युवास ॥ २१ ॥ अधिष्ठितां ब्रह्मविदां समूहैः सभां प्रभाते मिथिलेश्वरस्य ।
सप्तमः सर्गः ।
पुरोधसा गाधिभुवा च साकं
विवेश तिग्मांशुकुलप्रदीपः ॥ २२ ॥
मुनिद्वये विष्टरभाजि तस्मिन्
रघुप्रवीरस्तदनुज्ञयागत् ।
तेन प्रदिष्टं क्षितिवल्लभेन
रत्नासनं भास्वरमध्यतिठत ॥ २३ ॥
महर्षिणा ब्रह्मभुवा रघूणां
वंशावलौ संसदि कीर्तितायाम ।
विदेहराजः कथितात्मवंश-
क्रमो रघूणामृषभं बभाषे ॥ २४ ॥
भवत्सुतो भनपुरारिचापा
गृह्णातु सीताकरमप रामः ।
अथार्मिलापाणिमये नग्न्द्र !
गृहातु पुत्रस्तव लक्ष्मणाऽपि ॥ २५ ॥
इतीरितायां गिरि मैथिलन
कुशध्वजो राघवमाबभाष ।
दिशामि काश्चिद् भरताय कन्या-
मन्यां कनिष्ठाय च लक्ष्मणस्य ॥ २६ ।।
इति प्रतिज्ञामुभयानिशम्य
प्रीतो बभाष रघुनन्दनस्ती ।
अद्यास्मि धन्योऽहमियान् भवद्भ्यां
प्रदर्शितो यन्मयि पक्षपातः ॥ २७ ॥
जानकीपरिणये सम्बन्धतो या भविता भवद्भयां कुलस्य भानोर्महती प्रतिष्ठा । नाभृदुदन्वत्खननाखिलस्व- प्रदानगङ्गानयनादिभिः सा ॥ २८ ॥ इति ब्रुवन्तं मिथिलाविडोजाः सखायमूचे वलशासनस्य । न वक्तुमित्थं नरपाल! युक्तं महाकुलीनस्य महीयसस्ते ॥ २९ ॥ सम्बन्धमिच्छन्ति समस्तभृपाः साकं त्वया सत्कुलसम्भवेन । मया स लब्धा निधिराद्रियत न कर्भजेत् कश्चन भाग्यतस्तम् ॥ ३० । विधाय गोदानविधिं सुतानां श्वः प्रातरागत्य सबन्धुवर्गः । निर्वतयपां विधिवद् विवाह- महोत्सवं गजशिखामणे! त्वम् ॥ ३१ ॥ इत्थं वदन्तं मिथिलाधिराज- मापृच्छय राजा स निजोपकार्याम् । भेजे पुरस्कृत्य गुरुं रघूणा- मानन्दरत्नाकरमग्नचेताः ॥ ३२ ॥ गोदानकर्माकलयत् मुतानां धराधिराजा धरणीमुरेभ्यः ।
सप्तमः सर्गः । - वसूनि रत्नानि वराम्बराणि ददौ गवां लक्षचतुष्टयं च ॥ ३३ ॥ करोल्लसत्कौतुकसूत्रबन्धाः कालाञ्जनोद्भासितलोचनाब्जाः । शरत्तुषारांशुमयूखरेखा- विपाण्डगन क्षौमपटान वमानाः ॥ ३४ ॥ काश्मीरजन्मागुरुगन्धसार- कस्तूरिकापङ्कविलिप्तगात्राः । माणिक्यमुक्तागरुडाश्मवज्र- वैदृर्यनीलोत्पलभूषिताङ्गाः ॥ ३५ ॥ कुरङ्गनाभीतिलकानुबन्ध- तरङ्गितश्रीकविशालफालाः । निबद्धचूडामणयः महार- केयूरहस्ताभग्णाङ्गुलीयाः ॥ ३६ ॥ नरेन्द्रपुत्रा निजदृष्टिमृष्टि- फलं भजन्ति म्म मनाभवाभाः । आत्मानुबिम्बं मुकुरषु दर्श- दर्श विवाहोचितचामवपाः ॥ ३ ॥ ( चालकम) न भूषिता यावदमी कुमाग- स्तावद् विदहाधिपकन्यकानाम ।
८८
जानकीपरिणये
प्रमाधिकाभिः प्रतिकर्म कर्तु-
मन्तःपुरेऽभूयत सङ्गताभिः ॥ ३८ ॥
अभ्यज्य तैलेन सुगन्धिना
सीताजनिष्ट म्नपिता वधूभिः ।
पतिव्रताभिः शुचिना जलेन
क्षाणीव वर्षामु घनावलीभिः ॥ ३९ ॥
म्नात्वा दुकूलं विशदं वमाना
मा प्रामुखी भास्वररत्नपीठे ।
निवेशिता भूषयितुं वधृभिः
सपत्यपत्याभिरशोभतोयैः ॥ ४० ॥
तदङ्गसङ्गे सति भूषणानां
शोभाविशेषो भवितति वध्वः ।
आसज्जयामासुग्नल्पशाभे
गात्र तदीये किल भूषणानि ॥ ४१ ॥
अङ्गे तदीये हरितालगोरे
भवेदलक्ष्या तपनीयभूषा ।
इति स्त्रियस्ताः परभागभाभि-
ग्भृषयन ग्नविभूषणैस्ताम् ॥ ४२ ॥
पित्रादरेण प्रहितं मणिं सा
चूडापदे राजसुता बभार ।
प्रदाहशक्तिप्रतिबन्धकत्वं
रामस्य यो यास्यति शोकवतः ॥ ४३ ॥
सप्तमः सर्गः । फाले तदीये तिलकं प्रणीतं कस्तूरिकापङ्कमयं कयाचित । तदानतभूरतिकान्तचापात् समुत्पतन्ती गुलिकेव रेजे ॥ ४४ ॥ प्रसाधिका किश्चन पक्ष्मलाच्या विलोचनं साञ्जनमाकलय्य । आदाय भूयोऽञ्जनमक्षमाभूद विलोचनं ज्ञातुमनञ्जनं सा ॥ ४५ ॥ जले तपःस्फूर्तिभिस्टकार्य सारूप्यमिच्छन्नयनम्य तम्याः । नीलाब्जमासाद्य वतंसनां त- सारूप्यरूपं भजति म्म भद्रम ॥ ४६ ॥ चिन्तामणिच्छायमुपा निम्म्त- बालार्कभासा जितकॉम्तुभन । विराजमानं तग्लेन हारं काचित सरवी तत्कुचयांग्कापीत ॥ ४७ ।। पदं रुचेदीव्यति नायकम्य गाढानुरागस्य कुचहयं ने । इति ब्रवीति म्म सम्वी महामं रज्यत्कुचां तां तरलप्रभाभिः ॥ ४८ ॥ वधूमणेराकलितः कयाचित काशीकलापोऽधिनितम्बविम्बम ।
जानकीपरिणये
नीलाश्मगरिमच्छरितो नितम्ब-
म्पर्शात सगेमाञ्च इवाबभासे ॥ ४९ ॥
चकार काचिच्चरणारविन्द-
इन्हं तुलाकोटियुतं तदीयम् ।
ममानवम्त्वन्तरदुर्विधत्वात
तथापि तन्निम्तुलतां प्रपदे ॥ ५० ॥
मखीजना निजम्पप-
विलोकननानिशमार्जिताभृत् ।
आत्मानमादर्शतले सभूप-
मालोक्य तां प्रीतिमवाप सीता ॥ ५१ ॥
तथापरासामपि कन्यकानां
निर्वर्तिताभ्यञ्जनमजनानाम ।
आसजितानि प्रमदाभिगमन
गावपु नानामणिभपणानि ॥ ५२ ॥
विभूषणश्रेणिविराजिताभि-
म्ताभिर्धरित्रीदुहिता परीता ।
रसालवल्लीव बी लताभि-
मधौ प्रसूनावलिशालिनीभिः ॥ ५३ ॥
जलोक्षितामभयपाश्चदेश-
निखातरम्भाक्रमुकद्रुमासु ।
मरुच्चलच्चेलपताकिकामु
वीथीषु दीव्यन्मणितोरणासु ॥ ५४ ॥
सप्तमः सर्गः । ९१ पुरन्ध्रिवर्गनिबिडप्वगार- द्वारेषु नीराजनपात्रहस्तैः । संपूर्णकुम्भासु सदीपिकामु प्रतोलिकापार्श्ववितर्दिकासु ५५ ।। पक्षे क्लर्क्ष दिवस शुभंया युक्ते तिथावुत्तरफल्गुनीभिः । मुहूर्तविद्भिर्विहित च शुद्ध- जामित्रिक सन्निहिते मुहत ।। ५६ ॥ निजादगारान्निरगाददभ्र- मभ्रं विभिन्दन् पटहम्बनेन । राजा सुतानां तरसा विवाहं निर्वर्तयिष्यन् मनुवंशदीपः ॥ ५५ ॥ (चाटकम) पुत्रैः कलत्रैश्च पुरोहित मित्रैस्तथा बन्धुजनः पर्गतः । अलङ्कृतां तां पुरमीक्षमाणः स मैथिलस्यालयमासमाद ।। ८ ।। स तत्र काश्चिन्निविडा जनधिः क्रमण कक्ष्याः समतीय गच्छन । चक्षुषि मुष्णन्तमिवात्मभासा वैवाहिकं मण्डपमालुलोके ।। ५५ ॥
जानकीपरिणय
प्रवालमुक्ताफलपद्मराग-
नीलाश्मराजीखचितस्थलीकम् ।
कर्पूरधूलीकृतभक्तिरेखा-
समुल्लसच्चन्दनपङ्कलेपम् ॥ ६ ॥
विताननीलाम्बरलम्बमान.
विशुद्धमुक्तास्तबकाभिरामम् ।
हिरण्मयः स्फाटिकसालभञ्जी-
विराजितैः स्तम्भचयैरुपेतम् ॥ ६१ ॥
मुग्भिः सुवैः काञ्चनपालिकाभिः
कुशैः समिद्भिः कुसुमरुपेतम् ।
युक्तं च गन्धाक्षतलाजधूप-
प्रदीपसर्पिर्मधुपर्कपात्रैः ॥ ६२ ॥
अधिष्ठितं श्रोत्रियधोरणीभिः
स तं समासाद्य सुतैः समेतः ।
जग्राह पूजां जनकप्रणीतां
मुदा सखा जम्भनिसूदनस्य ॥ ६३ ॥
(चकलकम्)
अरुन्धतीबन्धुमुखे समस्त-
ब्रह्मर्षिसङ्घ प्रथमोपविष्टे ।
अथोपविष्टे जनकद्वये च
रामः ससीतो निषसाद पीठे ॥ ६ ॥
सप्तमः सर्गः तत्राबभौ हाटकपीठवर्ती रामो विदेहेन्द्रसुतासमेतः । पार्श्वस्फुरत्कल्पकवल्लरीक- स्तमालशाखीव सुमेरुसानों ।। ६५ ।। हुतं वसिष्ठा विधिवद् विवाहे हुताशनं साक्षिणमाकलय्य । ब्रीडाजडान्योन्यकटाक्षमाक्षा संयोजयामास वधूवगै तौ ।। ६६ ।। विदेहभूवासवजप्तकन्या- प्रदानमन्त्रस्थितविष्णुशब्दः । गमे न भेजे किल गौणवृत्ति- मर्थप्वमुख्येपु हि तत्प्रवृत्तिः ॥ ६७ ॥ विभूषणं हेममयं ससूत्रं धरासुतायाः स बबन्ध कण्ठे । दिनादयो रश्मिनिवडमिन्द्र- दिशो वेर्बिम्बमिवोपकण्ठे ॥ ६८ ॥ करण जग्राह करं तदीयं रत्नाङ्गुलीयच्छविजितेन । रामो नलिन्या नलिनं प्रभात करण भास्वानिव पाटलन ॥ ६ ॥ प्रदक्षिणप्रक्रमणानि वह्न- म्तन्वनकाशे मिथुनं तदुचः ।
जानकीपरिणये
नीराजनासु भ्रमतः समन्तात्
क्षणादृणं तस्य किलापनेतुम् ॥ ७० ॥
पदं न्यधत्ताश्मनि भक्तिरेखा-
विराजिते कान्तकरोघृतं सा ।
विडम्बयन्ती कमलां मुरारे-
रुरस्तटारोहणमाचरन्तीम् ॥ ७१ ॥
विभावसौ प्रज्वलिते समिहि-
मुमोच लाजावलिमुत्पलाक्षी ।
सधातुरागे चरमाद्रिसानौ
प्रभातवेलेव घटामुडूनाम् ॥ ७२ ॥
मामाश्रितानां पदमीदृशं स्या-
दिति प्रभावं प्रथयन्निव स्वम् ।
ध्रुवं विदेहेन्द्रभुवे खलूच्चैः-
स्थानस्थितं दर्शयति स्म रामः ॥ ७३ ॥
यां व्योम्नि पश्यन्ति नवान्यवध्वो
यत्नाद् विवाहे रमणैर्नियुक्ताः ।
पार्थे वसिष्ठस्य निषेदुषीं ता-
मरुन्धती सा सुखमालुलोके ॥ ७४ ॥
मधूकपुष्पग्रथितानि दूर्वा-
युक्तानि दामानि मिथोऽधिकण्ठम् ।
नर्मोत्तरैबन्धुजनैनियुक्ती
तौ दम्पती चिक्षिपतुः प्रहर्षात् ॥ ७५ ॥
सप्तमः सर्गः। ०५ स्फीतानि गीतानि तदुत्सवर्द्धि- शंसीनि पङ्केरुहलोचनानाम् । वधूवरौ कर्णपुटैः पिबन्ती दोलाविहारं सुखमन्वभूताम् ॥ ७६ ॥ आक्षतारोपणकैतवेन जनस्तमानर्च वधूसनाथम् । निशाचराणां कदनाय भूमौ कान्तं रमायाः कलितावतारम् ॥ ७७ ॥ अथोपये प्रथमः सुमित्रा- पुत्रः किलान्यां जनकस्य कन्याम । तौ रामरामानुजयोः कनिष्ठी धन्ये कुमारों च कुशध्वजस्य ॥ ७८ ॥ इत्थं विवाहविधिमात्मभुवां चतुर्णा निर्वर्त्य दत्तमखिलं मिथिलाधिपेन । आदाय यौतकधनं विपुलं समं तै- रान्वितैर्दशरथः स्वपुरं प्रतस्थे ॥ ७९ ॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा। सर्गोऽसौ मिथिलाधिराजतनुजापाणिग्रहे तन्महा- काव्ये चारुणि पार्वतीपरिणयभ्रातर्यभृत सप्तमः ॥ ८० ॥ इति जानकीपरिणये सप्तमः सर्गः।
अथ अष्टमः सर्गः।
आदरादनुजगाम सबन्धु-
मैथिलो दशरथं पथि यान्तम् ।
व्योमसीम्नि वलमानमिवाग्रे
गन्धवाहनिवहं घनसङ्घः ॥ १ ॥
बन्धुवत्सलतयाध्वनि दृरं
तं वजन्तमनुगम्य नरेन्द्रम ।
मैथिलो निववृते तनयाभि-
वीक्षितोऽनुपदमश्रुमुखीभिः ॥ २ ॥
क्षोभयन् क्षितिपतेरथ सेना-
माजगाम पवनः प्रतिकूलः ।
यत्नमश्वनिवहस्य शताङ्गा-
कर्षणेषु विफलं विदधानः ॥ ३ ॥
तादृशप्रलयपावकनिर्य-
हीमधूममदभ्रमहरेण ।
धृसराणि रजसा समभूवन
दिङ्मुखानि तरसा निग्विलानि ॥ ४ ॥
उत्थितं करभकायनिकाय-
च्छायमुग्रनिजरूपमुदयम् ।
अम्बरे जलमुचां निकुरुम्बं
स्फारघोरतरघोषविशेषम ॥ ५॥
अष्टमः सर्गः । अन्तरा प्रतिभयं परिवेषं क्षीणदीधितिरलक्ष्यत भानुः । केतुनेव परुषेण समन्ताद् वेष्टितः सरभसग्रसनाय ॥ ६ ॥ तर्पयन्तमवनीपतिमांसै- र्वीक्ष्य भार्गवमिवागतमारात् । सङ्कुलं सरभसापतिताभिः श्येनसंहतिभिरम्बरमासीत् ॥ ७ ॥ तिष्ठति स्म खलु यत्र विवस्वान् दिङ्मुखं तदभिपूरितमुच्चैः । भैरवैझटिति फेरवयूथ- कन्दितैः समभवत् प्लुतरूपैः ॥ ८ ॥ इत्थमुत्थितमुदीक्ष्य समन्ताद् दुनिमित्तशतमाकुलचित्तम् । पार्थिवं न विपदस्ति दुरन्ता मुश्श शोकमिति तं गुरुरूचे ॥ ९ ॥ अग्रतोऽथ विकट कुटीकः प्रादुरास धृतघोरशरासः। भार्गवः परुषरोषकठोरः क्षचियक्षतिपटिठकुठारः ॥ १० ॥ गर्जदर्जुनभुजावनराजि- ध्वंसदावदहनीभवदोजाः ।
९८ जानकीपरिणये योऽलुनात् परशुना युधि वारान् सन्ततिं क्षितिभुजामुपविंशान् ॥ ११ ॥ रेणुकावधभुवा दुरितानां मार्जनाय किल यस्य कुठारः । भूभुजां गलगलद्रुधिराम्भो- निर्झरेष्वविरताप्लवनोऽभूत् ॥ १२ ॥ जन्मभूर्जगति यः पितृभक्तेः साहसस्य परमस्य निधिर्यः । पात्रमिन्दुमहसां यशसां यो विक्रमस्य च विहारगृहं यः ॥ १३ ॥ 'सिन्धुबन्धुवलयेन परीतां काश्यपाय दिशति स्म भुवं यः । किञ्च खण्डपरशोरुपकण्ठात् प्राप चापनिगमं निखिलं यः ॥ १४ ॥ वल्कलं वपुषि बिभ्रदजिह्म- ब्रह्मचर्यनिधिरुज्ज्वलतेजाः । क्षत्रगात्ररुधिरेण पितॄणां तर्पणं कलयति स्म पुरा यः ॥ १५ ॥ स्कन्धसीम्नि परशुं शितधारं दक्षिणेतरकरे च शरासम् । मिन्धुबन्धनां समुद्राणां बलयेन ।
अष्टमः सर्गः।
आशुगं दधदवामकरेयः
क्रूरताजितयुगान्तकृतान्तः ॥ १६ ॥
उज्झितं मघवता कुलिशं यत्-
पक्षमात्रदलनं किल चके ।
आयुधं दलयति स्म यदीयं
कौञ्चभूधरमुदग्रतरं तम् ॥ १७ ॥
तं निरीक्ष्य तरसा मुनिमारा-
दुग्रविग्रहमुदग्रकुठारम् ।
तस्य भूशतमखस्य दुरन्ता
प्रादुरास किल चेतसि चिन्ता ॥ १८ ॥
यस्य निष्ठुरकुठारविलूना
क्षत्रजातिरखिला
बहुवारान् ।
न प्ररोहति मनागधुनापि
भ्रूणहा क पुनरापतितोऽसौ ॥ १९ ॥
उद्दतः परशुपावकदग्ध-
क्षबसन्ततिरमर्पभरेण ।
पापमेष कलयिष्यति किं वा
शैशवाविरहितेषु सुतेषु ॥ २० ॥
चिन्तयन्तमिति
भूपमपश्य-
नर्घ्यमय॑मिति तं कथयन्तम् ।
राममेव भृगुसूनुरयासी-
दाहितेश्वरशरासनिरासम् ॥ २१ ॥
१०. जानकीपरिणये आगते सति मुनौ क्षितिपाल- त्रासकम्पमभजन्न तु रामः । कम्पते क्षितिरुहः पवमाने वाति तिष्ठति हि पूर्ववदद्रिः ॥ २२ ॥ सश्चरन्तमिव सद्गुणराशि मूर्तिमन्तमिव कीर्तिपदार्थम् । अक्षिलक्षितमिवार्जवसारं चेतनान्वितमिवाखिलधर्मम् ॥ २३ ॥ पश्यति स्म जमदग्निकुमारः कोसलेन्द्रसुतमेकनिकेतम् । शौर्यधैर्यविनयप्रियवाद- क्षान्तिशान्तिनयसत्यदयानाम् ॥ २४ ॥ (युग्मम्) भीतिगन्धरहितं गतशङ्क मुक्तविक्रियमनाकुलचित्तम् । अब्रवीद् रघुपतिं यमदंष्ट्रा- कारघोरपरशु गुसूनुः ॥ २५ ॥ क्षबडिम्भ! जरठो जनकरते मुक्त एष निरपत्य इति प्राक् । सूदितो यदि तदैव कुतस्त्वं तत् कुतो हरधनुर्दलनं वा ॥२६॥ हेहयक्षितिभुजो भुजवंशान् केवलं न खलु घोरतरोऽसौ ।
अष्टमः सर्गः।
अञ्जसा क्षितिभुजामपि वंशान्
निर्बिभेद समरे परशुमें ॥२७॥
अस्त्रमन्त्रमखिलं भवते यो
बालिशाय तरसोपदिदेश ।
लोकविप्रियकरं बत विश्वा-
मित्रमाहुरत एव जनास्तम् ॥ २८ ॥
यञ्चिरादपरिशीलनतोऽभू-
निष्पतधुणगणव्रणरेणु ।
तस्य रुद्रधनुषो मथनात् ते
क्षत्रियाक! कियानवलेपः ॥२९॥
एकविंशतिमहीपतिवंशो-
न्मूलनेन शमितां भुजकण्डूम् ।
उत्थितां पुनरिमां रघुवंश.
च्छेदनात् प्रशमितां कलयामि ॥ ३०॥
ताटकाहरशराससुबाहु-
ध्वंसनात् समुदितं हृदये ते ।
अस्मदीयपरशुः स्वयमद्यो-
न्मूलयिष्यति रयादवलेपम् ॥ ३१ ॥
पौरुषोहटभुजेन मया चेद्
इन्द्वयुद्धमधुना कलयेथाः ।
क्षवदारक! यशो भवतः स्या.
दस्तु संयति जयोऽपजयो वा ॥ ३२ ॥
२ जानकीपरिणये विस्रसौषधिबलेन पिता ते रक्षितोऽजनि मदीयकुठारात् । ओषधि नतिमयीं कलयंस्त्वं प्राणरक्षणविधिं रचयास्मात् ॥ ३३ ॥ किं मया समरमाचरसि त्वं किं तनोषि धनुरेतदधिज्यम् । किं करोषि शिरसा प्रणिपातं तत् कुरु त्रिषु यदिष्टतमं ते ॥ ३४ ॥ एवमूचुषि मुनौ भृगुसूनौ रोषशोणतरलोचनकोणे । राघवस्य हृदयं न जगाम क्षोभमीषदपि सिन्धुगभीरम् ॥ ३५ ॥ सङ्गरे सति भवेद् द्विजहिंसा कीर्तिहानिरहितप्रणिपाते। नात्र दोषकणिकेति स चापा- रोपणे निहितधीनिजगाद ॥ ३६ ॥ क्षषवंशदलनार्जुनबाहा- खण्डनादि वदता निजशौर्यम् । रेणुकेय! जननीवधशौर्य विस्मृतं कथमिदं भवताभूत् ॥ ३७ ॥ क्षिप्तमायुधमिदं पितृघाती- सर्जुने सरभसं भवता चेत् ।
अष्टमः सर्गः।
शस्त्रमुज्ज्वलतरं त्वयि तह-
न्मातृघातिनि कुतो न विसृष्टम् ॥ ३८ ॥
भूसुरोऽयमिति जातविशङ्का-
नप्रयुक्तविविधास्त्रसमूहान् ।
त्वदृधात् क्षितिभुजो विनिवृत्तान्
का स्तुतिः कथय संहरतस्ते ॥ ३९ ॥
आजघान पितरं भवतो यः
स त्वयैव समरे निगृहीतः ।
मातरं निहतवान् खलु यस्ते
तस्य निग्रहमहं कलयामि ॥ ४०॥
शक्तिमान् दलयति स्म कुमारः
क्रौञ्चमद्रिमिति मत्सरतस्त्वम् ।
ख्यातिमाप्तुमभिनः शकुनि त-
तुल्यसंज्ञमपशक्तिरये किम् ॥ ४१ ॥
ब्राह्मणे त्वयि जिते सति शस्त्रैः
क्षत्रियस्य न यशो जगति स्यात् ।
शंस राम! समरे यशसो में
का प्रसक्तिरजिते त्वयि दैवात् ॥ ४२ ॥
अग्रहीदिति वदन रघुवीर-
स्तत्करान्मधुनिसूदनचापम् ।
तत्क्षणाद् भृगुपतिर्गततेजा-
चण्डभानुरुपरक्त इवासीत् ॥ १३ ॥
१०१ जानकीपरिणये दुर्निरीक्षतरतां प्रतिपेदे राघवोऽधिगतभार्गवतेजाः । सायमग्निरिव भानुसकाशात् सत्वरापतितनिर्भरधामा ॥ ४४ ॥ मुक्तदर्पभरमुज्झितयुद्धो- त्साहमस्तमितभीषणरोषम् । क्षीणतेजसमुपागतदैन्यं वीक्ष्य राममवदद् रघुवीरः ॥ ४५ ॥ आयुधानि विमुखानि रघूणां ब्राह्मणेषु यदतस्तरसा ते । लुम्पतु त्रिदिववर्त्म गतिं वा संहितो धनुषि सायक एषः ॥ ४६ ॥ शंसतीति रघुवंशवतंसे व्याजहार जमदमिकुमारः। अध्वरार्जितमनेन जहि त्वं नाकलोकमिषुणा न गतिं मे ॥ ४७ ।। दीनदीन इति शंसति तस्मि- नुज्झितो दशरथस्य सुतेन । मार्गणो झटिति भार्गवतादृक्- स्वर्गमार्गविपुलार्गलमासीत् ॥ ४८ ॥ किं फलं प्रहरणग्रहणेन. ब्राह्मणस्य दुरहक्रियया वा।
भष्टमः सर्गः।
शान्तिमान् भव समस्तजनेषु
त्वं दयां कलय गच्छ यथेच्छम् ॥ ४९ ॥
व्याहरन्निति ननाम स रामो
राममाप्तशममुज्झितदर्पम् ।
उद्धतेष्वनुचितः प्रणिपातो
युक्ततां व्रजति शान्तिमितेषु ॥ ५० ॥
राघवेण विहितानुमतिः सन्
भार्गवो द्रुतमवाप महेन्द्रम् ।
खं पुरं दशरथोऽपि सदारै-
रकैरनुगतो भजति म्म ॥ ५१ ॥
तोरणावलिविराजितमम्भ-
रिसक्तराजपथमुच्चपताकम् ।
तत् पुरं जनघनं परिपश्य-
न्नाससाद भवनं क्षितिपालः ॥ ५२ ॥
राघवश्व भरतश्च सुमित्रा-
नन्दनौ च पितरं प्रणिपत्य ।
शासनात् तदनु तस्य सदारा
भेजिरे निजनिजावसथानि ॥ ५३ ॥
मैथिलस्य च कुशध्वजनाम्नः
कन्यकाः क्षितिमुजोरुभयोस्ताः ।
लालनाभिरनिशं दयिताना-
मस्मरन् न जनकौ मनसापि.॥ ५४ ॥
जानकीपरिणये रूपधेयमधुरास्तरुणिना भूषिता दशरथस्य कुमाराः । ताभिरुज्ज्वलतराभिरजस्रं सङ्गताः सुखमभुञ्जत भोगान् ॥ ५५ ॥ क्रीडति स्म मणिधाम्नि कदाचि- न्मन्दिरोपवनसीम्नि कदाचित् । कलिभूमिधरमूर्ध्नि कदाचित् सीतया सह सुखेन स रामः॥ ५६ ॥ तं विना क्षणमुवास न सीता तां विना स च नरेन्द्रकुमारः। कौमुदी विरहिता हिमभासा किं वसेद् विरहितः स तया वा ॥ ५७ ॥ भक्तिमान् गुरुषु बन्धुजनेषु प्रीतिमांश्च कृपणेषु कृपावान् । रोषवान् प्रतिभटेषु रणेषू- त्साहवान् समजनिष्ट स वीरः ॥ ५८ ॥ स स्मरन्नुपकृति लघुमेकां नास्मरद् गुरुतरानपकारान् । ईरितासु परुषोक्तिषु रुष्टै- राह नोत्तरमपि प्रतिभावान् ॥ ५९ ॥ राघवः प्रदिशति स्म धनौचं भूरिशः खलु तथार्थिजनाय ।
अष्टमः सर्गः। सन्ततावपि न तस्य यथा स्याद् दुर्गतिः प्रभवभूर्दुरितानाम् ॥ ६ ॥ तादृशेन भुजविक्रमभूम्ना केवलं न जमदग्निकुमारम् । श्लाघनीयतरया पितृभक्त्या- प्यत्यशेत रघुवंशवतंसः ॥ ६१ ॥ निष्ठुराक्षरमलीकमसारं ग्राम्यमुद्धततरं कृपणं वा। उज्झिताबमधर्म्यमयुक्तं व्याजहार न वचो रघुवीरः ॥ ६२ ॥ वीक्षणेन सदयेन सुधौघं वर्षतेव वचसा मनसा च । प्रेमभूमभरितेन रघूणां नायको निखिलचित्तमहार्षीत् ॥ ६३ ॥ राजसूनुषु चतुर्वपि रामः सम्मतोऽजनि जनस्य विशेषात् । एक एव हि विशिष्य पुमर्थे- प्वर्चितो भवति मोक्षपदार्थः ॥ ६४ ॥ जानकीपरिणयोत्सवशंसि- ग्रन्थनिर्वहणसर्वधुरीणम् । हर्षितं समतनोत् कविचक्र राघवः प्रवितरन् सदभीष्टम् ॥ ६५ ॥ $ कविचकं कविसमूहम् , अथच प्रकृतकाव्यकारं चक्राम्यं कविम् ।
जानकीपरिणये इत्थं सद्गुणरञ्जिताखिलजनं गाम्भीर्यधैर्यक्षमा- शौर्योत्साहविनीतिशान्तिकरुणाविश्राणनैकाश्रयम् । रामं सत्वरमन्ययेव चकमे विश्वंभराकन्यया संयोक्तुं दिवस शुभे दशरथस्तं यौवराज्यश्रिया ॥ ६६ ॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः सम्मानिताम्बाभिधा । यत्पुत्रो भुवि वेत्ति सामनिगमं श्रीरामचन्द्रोऽखिलं काव्ये तस्य हि जानकीपरिणये सर्गोऽजनिष्टाष्टमः ॥६॥ दृप्यन्मन्मथगाढकर्षणदलत्पर्वक्षुचापक्षर- त्सारस्फाररसोर्मिनिर्मितरणक्रीडा यदीया गिरः । यत्कार्त्तिः शरदिन्दुसुन्दरमहःसन्दोहसन्देहदा सोऽयं चक्रकविर्विभाति विनयी सौजन्यसम्पन्निधिः।। ६८ । गुरूणां चरणाम्भोजं यस्यां दिशि विराजते । तस्यै दिशे नमस्कुर्मः कायेन मनसा गिरा ॥ ६९ ॥ इति जानकीपरिणये अष्टमः सर्गः। समाप्तश्चायं ग्रन्थः । शुभ भूयात् ।
No text on this page.