Sringeri Sharada Peetham

Sukthi Shatakam Part 2

J.harihara · 2005/03/10

PDF Proofread

Front matter

जरा
१
सूक्ति-शतकम्
(द्वितीयो भागः)
[ काशी हिन्दू विश्वविद्यालय के चतुर्वर्षीय उच्चतर माध्यमिक
पाठ्यक्रम के अनुसार कक्षा १२ के लिए
निर्धारित पाठ्य पुस्तक]

॥ श्रीः॥
हरिदास संस्कृत ग्रन्थमाला
२६३
॥श्रीः ॥
सूक्ति-शतकम्
द्वितीयो भागः)
हरिहर झा
एम० ए०, बी० एड्०, व्याकरणाचार्य, साहित्याचार्य,
अध्यापक, सेंट्रल हिन्दू स्कूल, काशी हिन्दू विश्वविद्यालय
चौरवम्बा संस्कृत सीरीज आफिस वाराणसी-१

प्रकाशक : चौखम्बा संस्कृत सीरीज आफिस, वाराणसी.
मुद्रक
:विद्याविलास प्रेस, वाराणसी.
संस्करण : प्रथम, संवत् २०१९.
मूल्य
:०-७५
© Chowkhamba Sanskrit Series Office,
P. O. Box 8, Varanasi.
( INDIA)
1962
Phone : 3146

L मनोविज्ञान के जीवन्त शरीर, प्रशिक्षण के प्रकाण्ड- पण्डित, शिक्षा-शास्त्र के अन्यतम उन्नायक अपने टीचर्स ट्रेनिंग कालेज के प्रधान तथा स्कूल-बोर्ड के महा-निधान डॉ० पी० एन० राजदान को हरिहर - निवेदन संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम् । सूक्तं दधति सुवर्ण कल्याणमनर्घमिह पान्थाः ।। आज के बालक ही कल राष्ट्र के संचालक होंगे। ऐसे उत्तरदायित्व पूर्ण भार वहन करने देने के पूर्व अतीत भारत के देदीप्यमान हीरकों और सदा-बहार साहित्यिक सम्पदाओं से उनके शिशु-मस्तिष्क और मधुर-हृदय को सुसज्जित, समृद्ध और रसाप्लावित करना आवश्यक है। बड़े हर्ष का विषय है कि हमारी अक्षय-सम्पत्ति-संस्कृत वाड्यय- के सार्वभौम समादर और लोकोत्तर वैभव का चमत्कार देखकर हमारे राष्ट्रनायकों की भी रुचि इधर आकृष्ट हुई है। आत्म-प्रत्यभिज्ञान की वर्तमान वेला में हमारे राष्ट्रनायक और शिक्षा विभाग ने संस्कृत पठन- पाठन के प्रति जो जागरूकता एवं दत्तचित्तता दिखलाई है, वह सराहनीय है। यद्यपि विशाल संस्कृत वाङ्मय 'अनन्तपारं किल शब्दशास्त्रम्' है । किन्तु उसे सर्वजनग्राह्य और लोकप्रिय बनाने के बाद ही हमारे देश के सामान्य-जन भी उससे लाभान्वित हो सकेंगे। इसी दृष्टिकोण से प्रस्तुत पुस्तिका में संस्कृत एवं संस्कृति के उषःकाल से लेकर उनके विकास के मध्याह्न तक के सावांशिक रूप एवं प्रकारों के नमूने सजाये गये हैं। अपने राष्ट्र, साहित्य एवं विकास की एक मनोरम झाँकी प्रस्तुत की गई है।

( २ )
-
सूक्तियों का यह अक्षय शतक संस्कृतानुरागियों के निमित्त, साहित्यिक
गोष्ठियों में, पॉकेट-खर्च के लिए संचित किया गया है । क्योंकि-
सुभाषितमयैव्यैः संग्रहं न करोति यः ।
सोऽपि प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥
नवोदित राष्ट्र के किशोरों में भारतीयता की गरिमा जागरित करने
के अरुणोदय-काल में यह शतक उद्बोधन-मन्त्र बने, यही मेरी कामना है।
अपने पूज्य गुरुदेव पं० श्री प्रद्युम्न पाण्डेय जी का चरणस्पर्श करता
हुआ अपने सभी सहयोगियों, मित्रों, सहपाठियों, सहकर्मियों तथा चौखम्बा
परिवार के सदस्यों को मैं धन्यवाद देता हूँ और चाहता हूँ कि-
या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् ।
हृदि नः सन्निधत्तां सा सूक्तिधेनुः सरस्वती।
-हरिहर

विषय-सूची ... २ " ३ ४ सुभाषितानि १. वन्दना २. सुभाषित-प्रशंसा ३. काव्य-प्रशंसा ४. कवि-प्रशंसा ५. वाल्मीकि-प्रशंसा ६. व्यास-प्रशंसा '७. विद्वत्प्रशंसा ८. उदार-प्रशंसा ६. सन्तोष-प्रशंसा १०. मनस्वि-प्रशंसा ११. संहति-प्रशंसा १२. विनय-प्रशंसा १३. स्वभाव-वर्णनम् १४. वाग्वर्णनम् १५. शीलम् १६. गृहस्थाश्रमः १७. ऋष्याश्रमः १८. सूर्योदय-वर्णनम् १६. मारुतः अन्योक्तयः :: ५ " " ६ " ० .. .. २०. मयूर २१. वृक्षः :: २२. चन्दनः ( २ ) ६ १२ " " १३ ८ २३. आम्रः २४. इक्षुः २५. कमलम् २६. सकलङ्कः चन्द्रः २७. किं महत् कष्टम् २८. पण्डितः किं किं करोति २६. कीदृशं दानं फलदं भवति ३०. देवाः कथं रक्षन्ति ३१. सुखदुःखानि कथमायान्ति ३२. कः लोकपर्यायवृत्तान्तं जानाति ३३. कर्मकर्तारौ कथं सुसम्बद्धौ ३४. सेवकः कथम् उन्नतिम् अभिवाञ्छति ३५. किं जन्म-साफल्यम् ३६. किं धर्मसर्वस्वम् ३७. सुवृत्तानां विपत्तयः कीदृश्यः भवन्ति ३८. का गरीयसी ३६. कः परिहर्तव्यः ४०. आत्मानं कथं जानीयात् ४१. सतां किं व्रतम् ४२. कः न विमृशति ४३. किम् असह्यम् ४४. कीदृशी क्रिया कार्या ४५. योजयितुः किं भवति ४६. कुतः प्रजा सुखं भवति ४७. किं गुरुत्वं लघुत्वं वा प्रापयति ४८. विज्ञानविधिः कं गुणं न करोति ४६. कः कं हन्ति ५०. मनस्विनां कुत्र अनास्था भवति " " १४ . " ... १६

..
"
५१. स्मृतौ हतायां किं न दृश्यते
५२. के पराभवं व्रजन्ति
५३. भ्रमरस्य का लीला जले दृश्यते
५४. किं तोषयितुम् अशक्यम्
५५. कं प्रति विक्रमी वैरायते
५६. कानि सकृत् विधीयन्ते
५७. अनुरक्तजनस्य किं चिह्नम्
विरक्तजनस्य किं लक्षणम्
५६. दुर्जनसर्पयोः किं वरम्
६०. कीदृशं शेषं न शेषयेत्
६१. के जयन्ति
उपसंहारः
"
५८.
१८
.

सूक्ति-शतकम् (द्वितीयो भागः) धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः। उञ्चित्य सूक्तिकुसुमानि सतां विविक्त- वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ "Why are not more gems from our great authors scattered over the country ? Great books are not in every body's reach; and though it is better to know them thoroughly than to know them only here and there, yet it is a good work to give a little to those who have neither time nor means to get more," -Colridge सुभाषितानि वन्दना- - आशासु राशीभवदङ्गवल्ली- भासैव दासीकृतदुग्धसिन्धुम् । मन्दस्मितैर्निन्दितशारदेन्दु वन्देऽरविन्दासनसुन्दरि ! त्वाम् ॥ १॥ सुभाषित-प्रशंसा- नायं प्रयाति विकृति विरसो न यः स्या- न क्षीयते बहुजनैनितरां निपीतः । जाडयं निहन्ति रुचिमेति करोति तृप्ति नूनं सुभाषितरसोऽन्यरसातिशायी ॥२॥ काव्य-प्रशंसा- कान् पृच्छामः सुराः स्वर्गे, निवसामो वयं भुवि । किं वा काव्यरसः स्वादुः, किं वा स्वादीयसी सुधा ॥ ३॥ सद्भिर्भाव्ये हिते काव्ये वृथा दुर्जनगर्जनम् । चण्डीशाङ्गीकृते चन्द्रेऽरुन्तुदः किं विधुन्तुदः ॥४॥ याता यान्ति च यातारो लोकाः शोकाधिका भुवि । काव्यसम्बन्धिनी कीर्तिः स्थायिनी निरपायिनी ॥५॥ रे रे खलाः! शृणुत मद्वचनं समस्ताः स्वर्गे सुधास्ति सुलभा न तु सा भवद्भिः ।

( २ )
कुर्मस्तदत्र भवतामुपकारकारि
काव्यामृतं पिबत तत्परमादरेण ॥६॥
न ब्रह्मविद्या न च राज्यलक्ष्मी-
स्तथा यथेयं कविता कवीनाम् ।
लोकोत्तरे पुंसि निवेश्यमाना
पुत्रीव हर्ष हृदये करोति ॥ ७ ॥
कवि-प्रशंसा-
साध्वीव भारती भाति सूक्तिसद्बतचारिणी ।
ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः ॥ ८॥
जयन्ति ते पञ्चमनादमित्रचित्रोक्तिसन्दर्भविभूषणेषु ।
सरस्वती यद्वदनेषु नित्यमाभाति वीणामिव वादयन्ती॥९॥
यत् सारस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं
तल्लभ्यं कविनैव नैव हठतः पाठप्रतिष्ठाजुषाम् ।
कासारे दिवसं वसन्नपि पयःपूरं परं पङ्किलं
कुर्वाणः कमलाकरस्य लभते किं सौरभं सैरिभः॥१०॥
वाल्मीकि-प्रशंसा-
सदूषणापि निर्दोषा सखरापि सुकोमला ।
नमस्तस्मै कृता येन रम्या रामायणी कथा ॥११॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥१२॥

( ३ )
-
व्यास-प्रशंसा-
नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥१३॥
विद्वत्प्रशंसा-
रोहणं सूक्तिरनानां वन्दे वृन्दं विपश्चिताम् ।
यन्मध्यपतितो नीचः काचोऽप्युच्चैर्महीयते ॥१४॥
प्राज्ञो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥१५॥
न पण्डिताः साहसिका भवन्ति
श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति
स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥१६॥
स्थिरा शैली गुणवतां खलबुद्धया न बाध्यते ।
रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते ॥१७॥
अन्या जगद्वितमयी मनसः प्रवृत्ति-
रन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृतिराकृतिरङ्गहृया
विद्यावतां सकलमेव गिरां दवीयः ॥१८॥
उदार-प्रशंसा-
वृणां धुरि स एवैको यः कश्चित् त्यागपाणिना ।
नेाष्टिं प्रार्थनापांसुधूसरं मुखमर्थिनाम् ॥१९॥

( ४ )
कियती पञ्चसहस्री कियती लक्षापि कोटिरपि कियती।
औदार्योन्नतमनसां रत्नवती वसुमती कियती ॥२०॥
उत्पादिता स्वयमियं यदि सा तनूजा
तातेन वा यदि तदा भगिनी खलु श्रीः ।
यद्यन्यसङ्गमवती च तदा परस्त्री
तत्त्यागबद्धमनसः सुधियो भवन्ति ॥२१॥
सन्तोष-प्रशंसा-
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते,
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलमुनिवराः क्षपयन्ति कालं,
सन्तोष एव पुरुषस्य परं निधानम् ॥२२॥
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या,
सम इह परितोषो निर्विशेषो विशेषः ।
स हि भवति दरिद्रो यस्य तृष्णा विशाला,
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः॥२३॥
मनस्वि-प्रशंसा-
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणमायाति नानलो याति शीतताम् ॥२४॥
दूर्वाङ्कतणाहारा धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥२५॥
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।
अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः॥२६॥

( ५ ) संहति-प्रशंसा- संहतिः श्रेयसी राजन् विगुणेष्वपि बन्धुषु । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥२७॥ अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नध्यन्ते मत्तदन्तिनः ॥२८॥ बहूनामल्पसाराणां समवायो दुरत्ययः । तृणैर्विधीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥२९॥ विनय-प्रशंसा- तिष्ठतां तपसि पुण्यमासृजन संपदोऽनुगुणयन् सुखैषिणाम् । योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः॥ स्वभाव-वर्णनम्- निम्नोन्नतं वक्ष्यति को जलानां विचित्रभावं मृगपक्षिणां च । माधुर्यमिक्षौ कटुतां च निम्बे स्वभावतः सर्वमिदं हि सिद्धम् ॥३१॥ व्याघ्रः सेवति काननं सुगहनं सिंहो गुहां सेवते, हंसः सेवति पद्मिनी कुसुमितां गृध्रः श्मशानस्थलीम् । साधुः सेवति साधुमेव सततं नीचोऽपि नीचं जनं, या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ॥३२॥ वाग्वर्णनम्- विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् । २सू० श०२ --

प्रवर्तते नाकृतपुण्यकर्मणां
प्रसन्नगम्भीरपदा सरस्वती ॥ ३३ ॥
तथ्यं पथ्यं सहेतु नियमितमृदुलं सारवन्यहीनं
साभिप्रायं दुरापं सविनयमशठं चित्रमल्पाक्षरं च ।
बह्वर्थं कोपशून्यं स्मितयुतघनदाक्षिण्यसंदेहहीनं
वाक्यं ब्रूयाद्रसज्ञः परिषदि समये सप्रमेयाप्रमत्तम् ॥३४॥
शीलम्-
वह्निस्तस्य जलायते, जलनिधिः कुल्यायते तत्क्षणाद्
मेरुः स्वल्पशिलायते, मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते, विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥३५॥
ऐश्वर्यस्य विभूषणं सुजनता, शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधस्तपसः, क्षमा बलवतां धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूपणम् ॥३६॥
गृहस्थाश्रमः-
-
यदि रामा यदि चरमा यदि तनयो विनय-धीगुणोपेतः।
तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥३७॥
सानन्दं सदनं सुताश्च सुधियः कान्ता न दुर्भापिणी,
सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः ।
आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे,
साधोः सङ्गमुपासते हि सततं धन्यो गृहस्थाश्रमः ॥३८॥

७ )
ऋष्याश्रमः
मधुरमिव वदन्ति स्वागतं भृङ्गनादै-
नतमिव फलननैः कुर्वतेऽमी शिरोभिः ।
ननु ददत इवाघ पुष्पवृष्टिं किरन्तः
कथमतिथिसपर्या शिक्षिताः शाखिनोऽपि ॥३९॥
वासोऽर्थ दययैव नातिपृथवः कृत्तास्तरूणां त्वचो-
भग्नानेकजरत्कमण्डलु नभःस्वच्छं पयो नैझरम् ।
दृश्यन्ते त्रुटितोज्झिताश्च बटुभिर्मोज्यः कचिन्मेखला
नित्याकर्णनया शुकेन च पदं साम्नामिदं गीयते ॥४०॥
सूर्योदय-वर्णनम्-
मञ्जिष्ठारुणदीधितिर्मधुकरैर्माङ्गल्यगीतिस्ततः
कोकालादपटुः सरोरुहवनं प्रीत्या समुज्जृम्भयन् ।
लोकालोककरः करैश्च तमसां स्तोमं समुत्सारय-
नारोहत्युदयाचलं रविरयं
रविरयं बन्धूकगुच्छच्छविः ॥४१॥
मारुतः-
सन्ना नाविकधोरणी निपतिता मध्येजलं क्षेपणी
पन्थाः पर्वतदुर्गमो धनघनच्छन्नश्च तारापथः ।
हंहो मारुत! दुस्तरो जलनिधिः शीर्णा च नौः साम्प्रतम्
मध्ये मज्जय वा तटं गमय वा हस्ते तवास्ते द्वयम् ॥४२॥

- अन्योक्तयः मयूर- अहमस्मि नीलकण्ठस्तव खलु तुष्यामि शब्दमात्रेण । नाहं जलधर ! भवतश्चातक इव जीवनं याचे ॥४३॥ अये नीलग्रीव ! क नु खलु सखे तेऽद्य मुनयः परं तोषं येषां तव रवविलासो वितनुते । अमी दूरात् ऋराः क्वणितमिदमाकर्ण्य सहसा त्वरन्ते हन्तुं त्वामहह शबराः पुडितशराः ॥४४॥ वृक्षः- कश्चिन्नवं पल्लवमाददाति कश्चित् प्रसूनानि फलानि कश्चित् । परं करालेऽस्य निदाघकाले मूले न दाता सलिलस्य कश्चित् ॥४५॥ आमोदैमरुतो मृगः किसलयैर्लम्बैस्त्वचा तापसाः पुष्पैः षट्चरणाः फलैः शकुनयो धर्मादिताश्छायया । स्कन्धैर्गन्धगजाश्च विश्रमरुजाः शश्वद्विभक्तास्त्वया प्राप्तस्त्वं द्रुमबोधिसत्त्वपदवीं सत्यं कुजाताः परे ॥४६॥ चन्दनः- अयि मलयज ! महिमायं कस्य गिरामस्तु विषयस्ते । उद्विरतो यद्गरलं फणिनः पुष्णासि परिमलोदारैः॥४७॥ -

मूलं भुजङ्गैः शिखरं प्लवङ्गैः
शाखा विहङ्गः कुसुमानि भृङ्गैः ।
नास्त्येव तचन्दनपादपस्य
यन्नाश्रितं सत्त्वभरैः समन्तात् ॥४८॥
कति न सन्ति महीषु महीरुहः
सुरभिपुष्परसालफलालयः।
सुरभयन्ति न केऽपि च भूरुहा-
निति यशोऽस्ति परं तव चन्दन ! ॥४९॥
आम्रः-
-
कति कति न वसन्ते वल्लयः शाखिनो वा
किसलयसुमनोभिः शोभमाना बभूवुः ।
तदपि युवजनानां प्रीतये केवलोऽभू-
दभिनवकलिकालीभारशाली रसालः ॥५०॥
त तादृक् कर्पूरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तव मिलति यादृक्परिमलः ।
परं त्वेको दोषस्त्वयि खलु रसाले यदधिकः
पिके वा काके वा लघुगुरु विशेषं न मनुषे ॥५१॥
गर्व मा कुरु शकरे तव गुणाजानन्ति राज्ञां गृहे
ये दीना धनवर्जिताश्च कृपणाः स्वमेऽपि पश्यन्ति नो ।
आम्रोऽहं मधुकूपकैर्मम फलैस्तृप्ता हि सर्वे जना
हे रण्डे तव किं गुणा मम फलैस्तुल्यं न किंचित्फलम् ॥५२॥

( १० )
कुन्दे कदम्बे कुमुदेऽरविन्दे
यथाकथंचित्समयं नयन्ति ।
प्राप्ते वसन्ते पुनरुत्तरङ्गा
रसाल ! जानीहि तवैव गाः॥५३॥
-
इक्षुः
कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि,
किं चासि पञ्चशरकार्मुकमद्वितीयम् ।
इक्षो ! तवास्ति सकलं परमेकमनं
यत्सेवितो भजसि नीरसतां क्रमेण ॥५४॥
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो,
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
न संप्राप्तो वृद्धि यदि स भृशमक्षेत्रपतितः,
किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥५५॥
कमलम्-
अन्तश्च्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य नाभूवन्भगुरा गुणाः ॥५६॥
मालती मुकुला याताः कुन्दा मन्दायितास्तथा ।
पङ्कज ! त्वामिदं ब्रूमः कुत्र यातु मधुव्रतः ॥५७॥
पङ्कज ! जलेषु वासः प्रीतिमधुपेषु कण्टकैः सङ्गः ।
यद्यपि तदपि तवैतचित्रं मित्रोदये हर्षः ॥५८॥

,
कमलिनि मलिनीकरोषि चेतः
किमिति कैरवहेलितानभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते
जगति भवन्तु चिरायुषो मिलिन्दाः ॥५९॥
रे पमिनीदल ! तवात्र मया चरित्रं
दृष्टं विचित्रमिव यद्विदितं ध्रुवं तत् ।
यैरेव शुद्धसलिलैः परिपालितस्त्वं
तेभ्यः पृथग्भवसि पङ्कभवोऽसि यस्मात् ॥६०॥
अयि दलदरविन्द ! स्यन्दमानं मरन्द,
तव किमपि लिहन्तो मञ्जु गुञ्जन्तुभृङ्गाः ।
दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्
परिमलमयमन्यो बान्धवो गन्धवाहः ॥६१॥
सकलङ्कः चन्द्र:-
शिवभालानलोत्थेन धूमयोगेन कालिमा ।
विधौ शुक्लतरे किं वा, इति मन्मानसाशयः ॥६२॥
मयं पुरः पार्वणशर्वरीशः किंदर्पणोऽयं रजनीरमण्याः ।
तस्तदीयं प्रतिविम्बमस्मिन्संलक्ष्यते लाञ्छनकैतवेन ॥६॥
नेदं नभोमण्डलमम्बुराशि-
नैताश्च तारा नवफेनभङ्गाः ।
नायं शशी कुण्डलितः फणीन्द्रो
नासौ कलङ्कः शयितो मुरारिः॥६४॥

( १२ )
अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मि-
बाह्लादकारिणि सुधावति पूर्णबिम्बे ।
धाता विचिन्त्य मनसाखिलदृष्टिपातं,
हतु चकार किमु कज्जलबिन्दुयोगम् ॥६५॥
किं महत् कष्टम् ?
अहो बत महत्कष्टं विपरीतमिदं जगत् ।
येनापत्रपते साधुरसाधुस्तेन तु यति ॥६६॥
पण्डितः किं किं करोति ?
तिष्ठत्येकेन पादेन चलत्येकेन पण्डितः ।
नापरीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥६७॥
कीदृशं दानं फलदं भवति ?
न्यायेनोपार्जिता दत्ता काकिण्यपि महाफला ।
अन्यायेनार्जिता दत्ता न परार्थाः सहस्रशः ॥६८॥
देवाः कथं रक्षन्ति ?
न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥
सुखदुःखानि कथमायान्ति ?
अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखानि च तथा मन्ये दैन्यमत्रातिरिच्यते ॥६९॥
कः लोकपर्यायवृत्तान्तं जानाति ?
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥७॥

a
( १३ )
कर्मकर्तारौ कथं सुसम्बद्धौ ?
यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् ।
तथा कर्म च कर्ता च सम्बद्धौ सर्वजन्तुषु ॥७१॥
सेवकः कथम् उन्नतिम् अभिवाञ्छति?
सेवकादपरो मूर्खस्त्रैलोक्येऽपि न विद्यते ।
दिने दिने नमन्मोहादुन्नति योऽभिवाञ्छति ॥७२॥
किं जन्म-साफल्यम्
एतावजन्मसाफल्यं यदनायत्तवृत्तिता ।
ये पराधीनजन्मानस्ते चेञ्जीवन्ति के मृताः ॥७३॥
किं धर्मसर्वस्वम् ?
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥७४॥
सुवृत्तानां विपत्तयः कीदृश्यः भवन्ति ?
पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः ।
प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥७५ ।।
का गरीयसी?
सर्वस्यैव हि लोकस्य बहुमानं यदात्मनि ।
विष्णोर्मायासहस्रस्य इयमेका गरीयसी ॥ ७६ ॥
कः परिहर्तव्यः?
दुर्जनः परिहर्तव्यो विद्यया भूषितोऽपि सन् ।
मणिनालङ्कृतः सर्पः किमसौ न भयङ्करः ॥ ७७ ॥

( १४ ) आत्मानं कथं जानीयात् ? जनापवादमात्रेण न जुगुप्सेत चात्मनि । जानीयात् स्वयमात्मानं यतो लोको निरङ्कुशः ॥७८॥ सतां किं व्रतम् ? किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्, किं वा नास्ति परिश्रमो दिनपतेरास्ते न यनिश्चलः। किंत्वङ्गीकृतमुत्सृजन् कृपणवच्छ्लाघ्यो जनो लज्जते, निर्वाहः प्रतिपन्नवस्तुषु सतामेकं हि गोत्रव्रतम् ॥७९॥ कः न विमृशति ? कुले लज्जायाञ्च स्वयशसि च माने च विमुखः, शरीरं विक्रीय क्षणिकधनलाभाद् धनवति । तदाज्ञां कुर्वाणो हितमहितमित्येतदधुना, विचारातिक्रान्तः किमिति परतन्त्रो न विमृशति ॥८॥ किम् असह्यम् ? इतरपापफलानि यथेच्छया, विलिखितानि सहे चतुरानन !। अरसिकेषु कवित्वनिवेदनं, शिरसि मा लिख मा लिख मा लिख ॥८१॥ कीदृशी क्रिया कार्या? एको मुनिर्दर्भकुशाग्रपाणि- राम्रस्य ले सलिलं ददातिमू ।

( १५ )
आम्राश्च सिक्ताः पितरश्च तृप्ता
एका क्रिया द्वयर्थकरी प्रसिद्धा ॥८२॥
योजयितुः किं भवति?
कनकभूषणसंग्रहणोचितो,
यदि मणिस्त्रपुणि प्रणिधीयते ।
न स विरौति न चापि न शोभते,
भवति योजयितुर्वचनीयता ॥ ८३ ॥
कुतः प्रजा-सुखं भवति ?
कुराजराज्येन कुतः प्रजासुखं
कुमित्रमित्रेण कुतोऽभिनिवृतिः।
कुदारदारैश्च कुतो गृहे रतिः
कुशिष्यमध्यापयतः कुतो यशः ॥ ८४॥
किं गुरुत्वं लघुत्वं वा प्रापयति ?
न कस्यचित्कश्चिदिह स्वभावाद्
भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां वा
स्वचेष्टितान्येव नरं नयन्ति ॥८५॥
विज्ञानविधिः कं गुणं न करोति ?
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि।
अन्धस्य किं हस्ततलस्थितोऽपि,
प्रकाशयत्यर्थमिह प्रदीपः ॥८६॥

( १६ )
कः कं हन्ति ?
मुदं विषादः शरदं हिमागम-
स्तमो विवस्वान् सुकृतं कृतघ्नता
प्रियोपपत्तिः शुचमापदं नयः
श्रियः समृद्धा अपि हन्ति दुर्नयः ॥८॥
मनस्विनां कुत्र अनास्था भवति ?
किमप्यहिंस्यस्तव चेन्मतोऽहं
यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानां
पिण्डेष्वनास्था खलु भौतिकेषु ॥८८॥
स्मृतौ हतायां किं न दृश्यते ?
विद्या-तपोवित्त-वपुर्वयः-कुलैः,
सतां गुणैः षड्भिरसत्तमेतरैः।
स्मृतौ हतायां भृतमानदुर्दशः,
स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥८९॥
के पराभवं व्रजन्ति?
ब्रजन्ति ते मूढधियः पराभवं,
भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधा-
नसंवृताङ्गान्निशिता इवेषवः ॥९॥

( १७ ) भ्रमरस्य का लीला जले दृश्यते ? कमलं भवनं रजोऽङ्गरागो मधुपानं मधुराः प्रियाः प्रलापाः । शयनं मृदु केसरोपधानं भ्रमरस्याम्भसि का न राजलीला ॥९१॥ कं तोषयितुम् अशक्यम् ? निमित्तमुद्दिश्य हि यः प्रकुप्यति, ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि मनस्तु यस्य वै, कथं जनस्तं परितोषयिष्यति ॥९२॥ कंप्रति विक्रमी वैरायते सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषा- तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते । दावेव असते दिनेश्वरनिशाप्राणेश्वरौ भासुरौ त्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥९३॥ कानि सकृत् विधीयन्ते ? अकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । पकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥९४॥ अनुरक्तजनस्य किं चिह्नम् ? मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी ।

( १८ )
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य चिह्नम् ॥१५॥
विरक्तजनस्य किं लक्षणम् ?
अतुष्टिदानं कृतपूर्वनाशन-
ममाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृति-
विरक्तभावस्य जनस्य लक्षणम् ॥१६॥
दुर्जनसर्पयोः किं वरम् ?
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः।
सो दशति कालेन दुर्जनस्तु पदे पदे ॥१७॥
कीदृशं शेष न शेषयेत् ?
अत्यादरपरो विद्वानीहमानः स्थिरां श्रियम् ।
अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥९८॥
के जयन्ति ?
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये जरामरणजं भयम् ॥९९॥
उपसंहारः
खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा
श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति ।
अज्ञाञ् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समथों भवेत्
कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः संग्रहः ॥१०॥

, सुज्ञान धर्म १ काशी हिन्दू विश्वविद्यालय का कुलगीत मधुर मनोहर अतीव सुन्दर, यह सर्वविद्या की राजधानी । यह तीन लोकों से न्यारी काशी और सत्यराशी। बसी है गंगा के रम्य तट पर, यह सर्वविद्या की राजधानी। नये नहीं हैं यह ईंट पत्थर , है विश्वकर्मा का कार्य सुन्दर । रचे हैं विद्या के भव्य मन्दिर, यह सर्वसृष्टि की राजधानी । यहाँ की है यह पवित्र शिक्षा , कि सत्य पहले फिर आत्म-रक्षा । बिके हरिश्चन्द्र थे यहीं पर, यह सत्यशिक्षा की राजधानी। वह वेद ईश्वर की सत्यवानी , बने जिन्हें पढ़ के ब्रह्मज्ञानी । थे व्यास जी ने रचे यहीं पर, यह ब्रह्म-विद्या की राजधानी। वह मुक्तिपद को दिलानेवाले , सुधर्म-पथ पर चलाने वाले । यहीं फले फूले बुद्ध शङ्कर, यह राज-ऋषियों की राजधानी । सुरम्य धाराएँ वरुणा अस्सी, नहाए जिनमें कबीर तुलसी। भला हो कविता का क्यों न आकर, यह वागविद्या की राजधानी । विविध कला अर्थशास्त्र गायन , गणित खनिज औषधि रसायन । प्रतीचि-प्राची का मेल सुन्दर, यह विश्वविद्या की राजधानी । यह मालवी की है देशभक्ति यह उनका साहस यह उनकीशक्ति। प्रगट हुई है नवीन होकर, यह कर्मवीरों की राजधानी। मधुर मनोहर अतीव सुन्दर, यह सर्व विद्या की राजधानी । D

Sukthi Shatakam Part 2

Author
J.harihara
Title
Sukthi Shatakam Part 2
File name
Sukthi Shatakam Part 2
Text
OCR done
Published
2005/03/10
Publisher
Chaukhamba Sanskrit Series Office Varanasi
Language
Sanskrit
Pages
29
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495699
Barcode
1990030070616.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
l7jcZoPqv46
Download PDF

Sukthi Shatakam Part 2