Poorna Prajna Vidya Pheeta Banglore

Sangrahartha Sangraha

Narayanacharya · 22/7/2004

PDF Proofread

Front matter

MYSORE ।। श्रीः॥ -- meas- ॥ श्री गोपीजनवल्लभाय नमः ।। संग्रहार्थसंग्रहः memoms. पडमुन्नरु श्री नारायणाचार्यैः mum. श्रीमन्मध्वसिद्धान्तप्रबोधिनीसंस्कृतमहापाठशालायाः बहुकालमनुभूतन्यायवेदान्तप्रधानपण्डितपदैः न्यायमहाविद्वान् तर्ककेसरी, न्यायवेदान्तवाचस्पतिरित्यादिविरुदविराजमानैः विरचितः । । . प्रकाशकाः meet जगद्गुरुश्रीमदानन्दतीर्थभगवत्पादाचार्यपीठाधिरूढाः श्रीअदमारुमठाधीशाः श्री १०८ श्रीविबुधेशतीर्थश्रीमचरणाः । १९५६

No text on this page.

॥ श्रीः ।।
॥ श्री गोपीजनवल्लभाय नमः ॥
X********
संग्रहार्थसंग्रहः
*KKK***************
पडमुन्नरु श्री नारायणाचार्य:
श्रीमन्मध्वसिद्धान्तप्रबोधिनीसंस्कृतमहापाठशालायाः
बहुकालमनुभूतन्यायवेदान्तप्रधानपण्डितपदै न्यायमहाविद्वान
तककेसरी, न्यायवेदान्तवाचम्पतिरित्यादिबिरुदविराजमान
विरचितः
प्रकाशकाः
जगद्गुरुश्रीमदानन्दतीर्थभगवत्पादाचार्यपीठाधिरूढाः
श्रीअदमारुमठाधीश्री रन्ट
श्रीविधेशताश्रामवरणात

No text on this page.

श्रीमज्जगद्गुरुश्रीमदानन्दतीर्थभगवत्पदाचार्यसम्थानश्रीश्रीरूमठाधीशा- श्रीमत्परमहं पपरित्राजकाचाययत्वादिबिरुद्राकिला श्री १०८ श्रीमल्लदमीन्द्रतीर्थ श्रीपादाः उपोद्धातः एते हि महानुभावा इतः पञ्चोत्तरषष्टितमा भगत्पूर्व प्रतीची- त्रिशतेति (पडमुन्नूरु) प्रसिद्ध ग्रामे पण्डितोत्तमानां श्रीमदनन्ताचार्येति सुगृहीतनामधेयानां सकाशात् श्रीमन्यां पद्मावतीनामिकायां विकृतिसंव. त्सरम्य पुष्यामायुक्तचतुर्दश्यां जन्म प्राप्य वाल्य एव दैवदुर्विपाकात् मातापितृभ्यां वियुक्ताः धर्मशास्त्र ज्योतिश्शाने साहित्यालङ्कारादौ च प्रथमपरिगणनीयतयाऽतिप्रथितानां रामाचार्यतिन्जुगृहीतनामधेयानां माता महानां गृह एव श्रीकावेरीति नामालङ्कृतया भाग्यवत्या मातामह्या सुत- निर्विशेष लालितास्तत्रैवान्नपानादिना पुष्टाश्च विद्याहीनोऽपि मत्पुरत: आ- स्तामिति लोकगाथामनुसृत्य मातामह्या पोषितत्वावादशवत्सरपर्यंतमक्षर. परिचयेनापि शून्या आसन्निति विदितमेतत्तत्परिचयवताम् । तदनु अस- हिष्णुदेवेन भाग्यदैवतरूपया तादृश्या मातामह्याऽपि वियोजिताः अनाथे स्वगृहे अंधन्तमसीव सर्वतः शून्यमेव पश्यन्तः स्वयमप्यनाथा: देवेन प्रेरिताः गृहान्निगत्य केनाप्यविदिताः देशान्तरं गता इति पूर्वतनी दशा। ततो देशान्तरेऽपरिचितत्वाज्जनानुरागसंपादनाकौशलात्कथंकथंकारमप्ये- कभुक्त्यैव दिनान्यतिवाहयित्वा एवं द्वित्रेषु वर्षेषु गतेषु दैवयोगात्काञ्चि- - २ - व्यवस्थितिमालम्ब्य साहित्यन्यायवेदान्तशास्त्राण्यभ्यस्य महीशूरपुया प्रच- लितविद्वत्परीक्षायां न्यायशास्त्रे उत्तमकक्षायामुत्तीर्णाः । तदनु रजतपीठपुरे श्रीमत्यरमहंसेत्यादिविरुद्धविराजमानैः श्रीमद्विवुधप्रियतीर्थेत्यन्वर्थनामव- द्भिरपि नामशेषैः पण्डिनमण्डलीमण्डनायमानमहोदार : प्रातसम्मरणीय- नामभिः श्रीमच्चरणर्वेदान्तमहापाठशालां प्रारिप्लुभिराहूता. इतरेषां श्रीश्रीमच्चरणानामैकमन्येनमे आठित एव न्यायप्रधानाध्यापकपद- वीमधिराहिताः। तदनु सोदामठाधीशे. कीर्तिशेषैः श्रीमद्विश्वेन्द्रतीथश्रीमच्चरणैः स्व- सुतनिर्विशेषाणामस्माकं कृते अध्यापकतया एने नियोजिताः । एवमेव श्रीवित्रुवप्रियनाथश्रीमच्चरणैरपि स्वशिष्यफलिमारुम्वामिनां पर्यायमहोत्सव- काले स्वीयामेव नवां काञ्चन परमहंसपाठशालेति प्रथितां शालां कृष्णमठे निर्माय तत्र फलिमारुमठीयरघुमान्यतीर्थश्रीमञ्चरणानां पुत्तिकामठाधीश- मुज्ञानेन्द्रतीथश्रीमच्चरणानां, पेजावरमठाधीशविश्वमान्यतीथश्रीमच्चरणानां च पाठकतया नियोजिता: एवमेव पश्चात श्रीमद्विवुधप्रियतीर्थश्रीमचरणेषु नामशेपेषु तत्व- दाधिरूढानां तत्करकमलसञ्जातानां श्रीविवुधमान्यतीर्थानां पाठनेऽपि तन्मठाधिपरिम एव स्थापिता इति प्रथितमेवैतत्सर्वेषाम् । एवमेवोत्तरत्रादमारुमठीयपदाधिरूढानां श्रीविबुधेशतीर्थश्रीमच्चर- णानां मांप्रतिकपर्यायपीठाधिरूढानामपि पाठनाय फलिमारुमठीययशोमात्र. शेषग्वुमान्यनाथश्रीमच्चरणैनियोजिता इतीदमेवामीषां प्रत्यहं वर्धमानां प्रथां प्रकटयतीति नास्माकमधिक वक्तव्यमस्ति । अत एवाद्यतने पर्याय- - - महोत्सबारंभकाले श्रीपर्यायपीठाधिरूढाः इतरैम्सर्वे : श्रीमचरणसभूया मीत्रां प्रशस्तिपत्रिका प्रादुरितीदं श्रीमच्चरणानां कर्म सर्वश्ला- चाम्पद को नाम नाभिनंदेन । अमीभिः प्रकृतैराचार्य: रचितेषु त्रिषु निबन्धेषु 'न्यायामृतकुल्या या प्रथिताऽस्ति, सा बाल्य एव नाम विद्या- किंदमायामेव रचिता. अदमारुमठीयश्रीमद्विवुधप्रियतथिमहोदारैः प्रचा- लिलायां सभायामय प्रवन्धः प्रागेव सम्यक् परीक्ष्य मानितः संभाविताश्चामी। द्वितीयः पञ्चसरव्याख्यानामकः प्रबन्धस्तु यशश्शरीराणां सोदा- मठाधीशानामस्मद्गुरुवरेण्यानां श्रीश्रीविश्वेन्द्रतीर्थश्रीमञ्चरणानामाज्ञयैव वि- रचितः । महानुभावैस्तैरेव श्रीमञ्चरणैः प्रकाशितश्च । तृतीयस्तु तृतीयप्रव- न्धोक्तरीत्या श्रीमन्निईबरु नारायणबल्लाळपाथनानुसाग्ण रचित इति. अयंतु प्रकृतपर्यायपदाधिरूलै प्रकाशितः । उर्वरितः आदिमस्तु प्रबन्धः अम्माभिरेव प्राकाश्यं नीत इति तदन्थद्राणां स्फुटनेवेति न पृथग्यक्त. व्यम् । एतेषां विद्यमानसार्वत्रिकाण्डित्ये एते प्रबन्धास्साक्षिभूता इति नाम्मदीयतया किमप्यधिकमत्रावेदितमिति परिकलयतु सहृदयाः । एव- मेवेमे बहुकालं विद्यार्थिनां विद्यादाननोपकुवतम्म्युरिति तदधममीषामा- युरारोग्यादिसर्वश्रेयोदानेन श्रीमन्मध्वान्तर्यामिश्रीकृष्णविठ्ठलावस्मदारा- ध्यावनुगृह्णीतामिति तावेव देवौ पौनःपुन्येन प्रार्थयामः । श्रीरूप्यपीठपुरम् शा. शके १८७९ तमे मन्मथान्द्रीय पुप्यबळ पञ्चम्यां वुववासरे

No text on this page.

|| श्रीः ॥ : इयमेकाऽपूर्वाऽपि पूर्वोक्तिः । एतद्न्थकर्तृगां परिचयम्तावत् एतत्प्रकाशनं स्ववचोऽमृतेनानु- गृहीतवद्भिः श्रीश्रीलक्ष्मींद्रतीर्थनीमचरणैरुपोद्धातावसर एव सम्यनिरूपिन इति तत्राचीनत्वादस्माकं न समीचीनं ज्ञानमिति च न तत्र वयं प्रयतामहे । न्यायशास्त्राध्ययनारंभे नकसंग्रहाध्ययनकाले इदानी प्रकाश नीयमानेयं कृतिमहतीमस्माकमुपकृति कृतवतीति तदानीमेव विचिंतितम- स्माभिः यदस्य ग्रन्थस्यावश्यं प्रकाशः कर्तव्य इति । न केवलमेतत्- किंतु यद्न्थकर्तृणां समीप एवाम्माकं तर्कशास्त्राद्यभ्यासः । अतोऽपि आम्माकीनोऽयं प्रकाशनप्रयत्नः कृतज्ञताप्रर्दशनप्रयत्न एवेति मन्यामहे । अत्र यद्यस्ति कोऽपि दोषो मुद्रणसमये समापतितः यथा तृतीयपुटे नवमपङ्तो रूपासमानाधिकरणत्वस्येति स्थाने रूपासमानाधिकरणवृति- स्वस्येत्यबद्धं पतितमस्ति. तादृशाः दोषा• अवश्यं मूच्यतां सुहृद्भिः साधुजनैरिति । श्रीमज्जगद्गुरुश्रीमदानन्दतीर्थभगवत्पादाचार्यसंस्थान श्रीपर्यायश्रीमददमारुमठाधीमाः श्रीमत्परमहंसेत्यादिविरुदविराजमाना: श्री १०८ श्रीविबुधेशतीर्थ श्रीपञ्चरणा:

। ग्रन्थकर्तृविज्ञतिः अत्र समये इनमकन्नुवया न्थ तुं ना सहनेऽस्मदीयं मनः । बदम्मामु श्रीश्रीमन मिन्ट बीकानां नमान्द्रतीय श्रीमचरणानां यावान प्रेमातिशयः स वाचानगीचर अम्मदनुभवकवेद्य : एनेहि श्रीमच्चरणाः न्यायामृतकुल्येतिनामकमम्मद्विरचितनितम्बाथनादिकं विना स्वयमेव व्ययभारमृहा मुद्रगादिना प्राकाश्यं नीतबन्त इतीइमेकमेवामीपां श्रीमञ्चग्णानामम्मानु विद्यमान प्रेमातिगयं द्योतयति. यतोहि श्रीमञ्चरणा- ना प्रायः बाल्यावस्थायां मन्यामतीमानः प्रानेव ग्रन्थोऽयमस्माभीरचित इति याने नाव पयतमविदित रवासीत् इदानीमेव विदित । नव्यवहितोनरक्षण एवं प्रकाशित इनि ! एवमेवान्दिन्ननुवमपर्यायद्वयबो-वेन कल्पनातीतव्ययकरणसमयेऽ- प्यम्य महासङ्ग्रहम्य मुद्रणादिविषये सवमपि भारं किमपि मनोवैक्लव्य मनासाद्य स्वयमृदा इत्तहम्नावलम्बानां श्री अदमारुमठीयश्रीविवुधेशीर्थ- श्रीमच्चग्णानां विद्यापनपातिता अम्माम्वभिमानातिशयश्च नास्माशैर्वाचा वक्तुं शक्यः योग्यशब्दसमुदायादर्शनात् । अत केवलं ललाटतटचुम्बदञ्जलिपुटं देवदेवं श्रीकृष्णं तेषां श्रीश्रीलक्ष्मीन्द्रतीयश्रीमच्चर गानां, श्रीश्रीविवुधेशतीथश्रीमच्चरणानां चायुरा- रोग्यज्ञानभक्तिवराग्यादिदानेन नान गुरुवरेण्यान् वधयत्विति संग्रार्थ्य प्रणमामः । सप्तकालमनतिक्रम्य मम्यक् मुद्रापयित्वाऽम्मत्कायनिवहितमा मजिष्टिक् प्रेम् अधिकारिणां तकमकराणां च देवः श्रेयआदिदानेना नुगृहात्विति आशाम्महे ।

। श्रीगोपीजनकलभाय नमः । ॥ श्रीमध्वेशाय नमः ॥ अथ संग्रहार्थसंग्रहः निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबांधाय क्रियते तर्कसंग्रहः । द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः। गोपीजनेशकृपया नारायणपदी कृती । तनुले संग्रहार्थस्य न किमपि कौतुकन् ॥ अथ पदार्थाः सप्तेतिवाक्यात् पट्टाभिरामोक्तरीत्या पदाशेपु सप्तप्रकारान्यतमबदभेदलामेऽपि सप्तपदं किमर्थमिति विचार्य- ने। अन्न केचित् पदाथत्वं सप्तान्यतमत्वव्याप्यमिति व्याप्तिलाभाये- न्यूचिरे । तन्त्र पर क्षमन्ने । यतो हि द्रव्याद्यभावान्तपदम्य द्रव्य वाद्य- न्यतमवदर्थकत्वेन तम्याभेदेन पदार्थेष्वन्वयादेव उद्देश्यविवेयभावमहिम्ना व्याप्तिलाभः संभवति । न्यूनाधिकसंख्याव्यवच्छेदायेति तु स्वयमेवा- हान्नभट्टो दीपिकायाम् । अत्रापीयमनुपपत्तिरवतरति । यद्यपि पदाथ- पदोत्तरजसा दारा इत्यत्रेव व्यथत्वासंभवेन सप्तत्वसंख्याबोधस्य संभव इति नोपपद्यते । जसो बहुत्वमात्रार्थकत्वात् । अन्यथा घटाः मन्तीति वाक्य श्रतवतो नियमेन सप्तत्वस्य जसा बोधनात् कति घटा इति मन्देही 1 २ संग्रहार्थसंग्रह नावतरेत् । तथापि द्रव्यगुणकर्ममामान्यविशेषसमवायाभावा इत्यत्नत्य- जसा सप्तत्वबोधने बाधकामावान् । द्वन्द्वोत्तरश्रूयमाणप्रत्ययस्य द्वन्द्ध- घटकयावत्पदाथार्याप्तसंख्याबोधकत्वनियमन तादृशसंख्यायाः प्रकृते- सप्तत्वरूपत्वात् । विभागवाक्यघटकसंख्यावाचकपदस्य न्यूनाधिकसंख्या- निराससहितसंख्या विशेषार्थकत्वेन प्रकृने विभागवाक्यत्वेनाभावपदो- उरजसैव न्यूनाधिकसंख्या निरामसहितसप्तत्वसंख्याबोधसंभवे सप्तपदं व्यर्थमिनि । वयन्तु ब्रूम । अयमाशयोऽन्नभट्टम्य । यद्विशेषणपदोत्तर- विभक्तेनिरर्थकत्वस्याभेदार्थकत्वस्य वा व्युत्पत्तिवादादौ व्यवस्थापिततया प्रकृते अभावपदोत्तरजसो विशेषणपदोत्तरविभक्तित्वेन निरर्थकत्वमभे- दार्थकत्वं वेति सप्तत्वबोधाय पृथगेव सप्तपदमावश्यकमिति । आस्तां तावमेतत् । कोऽयं न्यूनाधिकसंख्यानिरासो नाम । नचाभाव एव नि- रास: । पदार्थेषु प्रत्येक न्यूनभूतैकत्वसंख्याया अनन्तत्वेनाधिकसंख्या- याश्च सत्त्वात्कथं तयोरभावः पदार्थेषु संभावितः । अपि चैकत्वाधिकाया अष्टत्वन्यूनायाः सप्तत्वसंख्यायाः स्वयमभ्युपगमात्कथं तदभावः । तथाच सप्तपदम्य विगतार्थत्वाभावेऽपि विरुद्धार्थत्वरूपवैयर्थ्य दुष्परिहरमिति । अथ स्वापेक्षया न्यूनत्वस्याधिकत्वस्य च विवक्षितत्वात् न्यूनामधि- कां च सप्तत्वसंख्यामादाय नोक्तदोषः । परस्परासमानाधिकरणवृत्तित्वस्य विवक्षणाच्च संख्यायां, पदार्थानामानन्त्येनाष्टत्वादिसंख्यामादायाप्युक्तस्य दोषस्य नावकाशः । ईदृशी च संख्या सप्तपदेन पदार्थविभाबकोपाधिष्वेव बोध्यते । तथाच पदार्थानामानन्त्येऽपि विभाजकोपाधीनां सप्तत्वात् तत्रा. ष्टत्वाद्यधिकसंख्याभावो न बाधितः । सप्तत्वस्य च स्वापेक्षया न्यूनाधि:

प्रत्यक्षखड: कत्वाभावात् न तदादायापि दोषः । घटत्वादिसाहित्येन पदार्थविभाज- कोपाधिषु विद्यमानाप्यष्टत्वादिसंख्या न परस्परासमानाधिकरणवृत्तिः । द्रव्यत्वघटपटत्वादीनां परस्परं समानाधिकरणत्वात्परस्परसमानाधिकरण- वृत्ति यद्यत् तद्भिन्नत्वरूपासमानाधिकरणवृत्तित्वस्य विवक्षितत्वान्न "भक्षि- तेऽपि लशुन"इति न्यायावसरः । अन्यथा घटत्वसाहित्येनोपाधिषु विद्य- मानाया अष्टत्वसंख्यायाः परस्परासमानाधिकरणद्रव्यत्वगुणत्वादिवृत्ति- त्वेनोक्तकथन्ताऽनिवृत्त्यापत्तेः । नचैवमपि गगनसाहित्येनोपाधिष्वष्टत्व- संख्यावत्सु तदभावासंभवः । गगनेऽपि परस्परसमानाधिकरणं यद्यत्त- दन्यत्वरूपासमानाधिकरणवृत्तित्वस्य सद्भावादिति वाच्यम् । धर्मविशि- ष्टान्याधिकसंख्याशून्यत्वस्य विवक्षितत्वात् । धर्मवैशिष्टयं च स्ववि- शिष्टधर्मवृत्तित्वस्वसमानकालीनप्रमेयत्वविशिष्टयत्किचिद्वयक्तिवृत्तित्वान्य- तरसम्बन्धेन । धर्मे स्ववैशिष्टयं च स्वभिन्नत्वस्वसमानाधिकरणत्वोभयसम्ब- न्धेन । यत्किचियक्तौ प्रमेयत्ववैशिष्टयं च स्वाधिकरणनिरूपितवृत्तित्वा- भावसम्बन्धेन । अत्रान्यतरसम्बन्धनिवेशात् घटसाहित्येन गगनसाहि- त्येन वा उपाधिष्वष्टत्वसंख्यामादाय नोक्तदोष इति चेदेवमपि सप्त- वाधिकत्वस्य सप्तत्वव्यापकत्वरूपत्वेन स्वस्मिन् स्वव्यापकत्वसभवात सप्तत्वरूपस्वाधिकतादृशसंख्यामादाय बाधस्य को निवारयिता । किंच पदार्थविभाजकोपाधिगतसप्तत्वसंख्याया अपि धमविशिष्टत्वेन तदन्य- त्वाभावेनासंभवस्य कः परिहारः। तथा हि धर्मपदेन घटत्वादिकमुपा- दाय स्वभिन्नत्वस्वसमानाधिकरणत्वोमयसम्बन्धेन तद्विशिष्टद्रव्यत्वादि- वृत्तित्वेनान्यतरसम्बन्धेन धर्मविशिष्टान्यत्वाभावात् । तथाच सप्तपदस्य संग्रहार्थसंग्रहे विरुद्धार्थत्वं दुर्वारमिति । अवदं समाधानमाकलनीयम् । स्वाधिकवं नाम स्वाश्रययावयक्तिवृत्तित्वम्वानाश्रयवृत्तित्वोभयसम्बन्धेन स्वविशिष्ट- वम् । अतः मप्तत्वस्य ताहासप्तत्वाधिकत्वाभावान्नाधिकसंख्यापदेन सप्तत्वमुपादायोक्तबाधः । पूर्वोक्तानुगमे धर्मविशिष्टान्यत्यत्र धर्मपदेन पदा- थविभाजकोपावेग्य प्रणात् न घटत्वादिकमुपादाय स्वभिन्नत्वम्वसमाना- धिकरणत्वरूपोक्तोभयसंबन्धेन घटत्वविशिष्टद्रव्यत्वादिवृत्तित्वेन सप्तत्वस्ये- त्युक्तासंभवः । इतः परमेकत्वादिन्यूनसंख्यामादाय बाधकैकोवरिता । तथापि न्यूनाधिकसंख्याभावपदेन पदार्थविभाजकोपाधित्वसमनियतन्यूना- घिकसंख्याभावमर्थ विवक्षित्वा सर्वाः शङ्काः परिहाणीयाः । तथाहि । घटत्वादिसाहित्येन विद्यमानाष्टत्वादिसख्यायाम्तादृशोपाधित्वव्याप्यत्वा- भावात् । उपाधित्वाभाववति घटत्वादावपि ताशाष्टत्वसंख्याया: मत्त्वात् । एकत्वादिसंख्यायाश्च तादृशोपाधित्वव्यापकत्वाभावात् । यद्यपि सर्वेषू गधिषु एकत्वत्वेन रूपेणकत्वस्य सत्त्वादेकरवे उपधित्व. व्यापकत्वाभावकथनमयुक्तमिव प्रतिभाति । तथापि तत्तव्यक्तित्वेन रूपेण व्याप्यव्यापकमावस्येह विवक्षितत्वात् कस्या अप्येकत्वव्यक्तर्या- वदुपाषिवृत्तित्वाभावेन व्यापकत्वायोगात् । नचैवं सति पदार्थविभा- जकोगधित्वसमनियतन्यूनाधिकसंख्याभावसहितसप्तत्वसंख्यावव्यत्वाद्य- न्यत्तमक्दमिन्नाः पदार्था इति पर्यवसितम् । तथाच तादृशोपाधित्व- समनियतन्यूनाधिकसंख्यायाः प्रमितत्वे तत एवाप्रमितत्वे प्रतियोगि- प्रमित्यभावाचन्निरासासंभव इति वाच्यम् । न्यूनाधिकसंख्यायामन्यत्र प्रमितायां पदार्थविभाजकोपाधित्वसमनयत्यनिषेधे तादृशार्थस्य तात्पर्यात ।

प्रत्यक्षवड: ता- "विशिष्टे विधीयमानौ विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुप- संक्रामत"इति न्यायम्य प्रकृतेऽपि साम्यात् । अथवा उद्देश्यतावच्छे- दकव्यापिका उद्देश्यतावच्छेदकन्यूनवृत्तिमात्रवृत्तिः वस्तुमदन्या च संख्या विभाजकवाक्यघटकसंख्यावाचकपदार्थः । भवति च दृशी संख्या प्रकृते सप्तत्वरूपा यावदुषाधिवृत्तिः । तथाहि । व्यापकत्वं संख्यायाः स्वाश्रयाश्रयत्वसंबन्धेन विवक्षितम् । तथाचेद्देश्यतावच्छे. दकपदार्थत्ववति सर्वत्रोक्तसंबन्वेन सप्तावसंख्यायाः सत्त्वाध्यापकत्वोप पत्तिः । सप्तत्वसंख्यायाः दव्यत्वाद्युपाधिमात्रवृत्तित्वेनोद्देश्यतावच्छेदक- न्यूनवृत्तिमात्रवृत्तित्वस्याप्युपपत्तिः । वस्तुमदन्येत्यत्र वस्तुमत्त्वं स्ववृत्तित्व- स्वविशिष्टवृत्तित्वोभयसंबन्धेन विवक्षितम् । स्ववैशिष्टयं च स्वभिन्नत्व. स्वसमानाधिकरणत्वोभयसंबन्धेन । तथाच । पदार्थविभाजकोपाधि- गतसप्तत्वसंख्यायाः परस्परसमानाधिकरणवृत्तित्वरूपवस्तुमत्त्वाभावात् वस्तुमदन्यत्वम् । इत्थंचोद्देश्यतावच्छेदकव्यापिका उद्देश्यतावच्छेदक. न्यूनवृतिमात्रवृत्तिः वस्तुमदन्या च संख्येत्यत्र प्रत्येकमेकत्वादिसंख्या - मादाय पूर्वोक्तदोषवारणाय व्यापकत्वनिवेशः ! गगनसाहित्येनाप्टत्वादि- संख्या मादायोत्तदोषवारणाय न्यूनवृत्तिमात्रवृत्तित्वनिवेशः । दिसाहित्येनाष्टत्वादिसंख्यामादायोक्तदोषवारणाय वस्तुमदन्यत्वनिवेशः । विस्तरभिया नेह लिख्यते । सूधीभिराकल. नीयः । एवमन्यत्रापि संख्यावाचकपदस्य विगतार्थत्वविरुद्धार्थत्वरूप- द्विविधवैययं परिहरणीयमित्यलं पल्लविनेन । अथ पदार्थविभाजकशक्ति- स्वरूपोपाधिसाहित्येनोपाधित्वसमनियताष्टत्वसंख्याया उपाधिषु सद्धावा घटा- वारणप्रकारश्च 2 ६ संग्रहाथसंग्रह नाधिकसंख्यानिरासो युज्यत इति चेन्मेवमविचारितरमणीयं भाषिष्ठाः । "सति धर्मिणि धर्माश्चिन्तनीया' इति हि नियमः । प्रकृते शक्तिसद्भाव एव न मानम् । सत्यपि तस्मिन्नातिरिक्तत्वं तम्यावगच्छामः । यद्यपि मणिदाहानुकूलधर्मनाशकः दाहानुत्पत्तिकारणत्वात् यद्यदनुत्पत्तिकारणं तत्तदनुकूलबर्मनाशकं यथा दारुदहनविभागः । स हि दाहानुत्पत्तिकारणं दाहानुकूलसंयोगात्यधर्मनाशकश्च ईशसामान्यमुख्या व्याप्च्या तद्व- ताऽनुमानेन वा दाहानुकूलधर्मरूपशक्तिसिद्वौ तृप्तातिरिक्तत्वं च परि- शेषानुमानासिध्यति । तत्प्रकारश्च शक्तिरतिरिक्त पदार्थः द्रव्याद्यनन्तर्भू नत्वे सति पदार्थत्वादिति । अत्र विशेप्यासिद्धिशङ्का पूर्वानुमानेन परि- हृता । विशेषणासिद्धिम्तु शक्तिद्रव्याद्यनन्तभूना षड्भावानन्तर्भूनन्वे सत्यभावानन्तभूतत्वात् । अत्रापि विशेष्यविशेषणासिद्धिशङ्के तु मुक्ता- वल्युक्त दिशा निरसनीये इति शक्तिसद्भावे संभवति प्रमाणम् । तथा- पि ग्रन्धकारम्त्वप्रयोजक मन्यमानः पर्यत्याक्षीदनुमानमिदम् । निरा- काचान्यव । तथाहि । तिष्ठतु दाहानुत्पत्तिकारणत्वं मा भूद्दाहानुकूल. धर्मनाशकत्वमित्यप्रयोजकत्वशङ्कायां किमुत्तरम् । ननु दाहानुत्पत्तिकारण- त्वम्यान्यथानुपपत्या निर्मूलेयं शङ्कव नावतरतीति चेत् न । दाहानुत्प- त्तिकारणत्वस्य दाहप्रतिबन्धकत्वेनाप्युपपत्त्याऽन्यथानुपपत्तेरभावात् । ननु विषमोऽयमुपन्यासः। दाहप्रतिबन्धकत्वस्य दाहानुकूलधर्मनाशकत्वरूप- त्वादिति चेद्धान्तोऽसि । नहि प्रतिबन्धकत्वमीदृशं येनोपन्यासवैषम्य स्यात् किं नाम कारणीभूताभावप्रतियोगित्वम् । नन्वस्तु तावदेवं । तथाऽपि प्रतारणामात्रमिदं वचः । न वस्तुतत्वमवलंब्याभिहितम् ।

प्रत्यक्षखंडः यतो हि दाहानुत्पत्तिकारणत्वं दाहानुकूलधर्मनाशकत्वेन दाहप्रतिवन्ध- कत्वेन बोपपन्नमिति वदत. उभयमपि प्रयोजकत्वेनोरीकुर्वतः एकम्यैव प्रयोजकत्वे नियामकमप्रदर्शयतः इदं शक्तेन साधकं अन्यथाऽप्युपपन्नत्वा- दिति वचसि कः श्रद्धत्ताम । विनिगमनाविरहेण शक्तेरपि सिद्धिसंभवा- दिति चेन्मैवम् । अम्-यत्राभिप्रायविशेष । दाहानुत्पत्तिकारणत्वं प्रति दाहप्रतिवन्धकत्वमेव प्रयोजकम् । नतु दाहानुकूलधर्मनाशकत्वम् । तथात्वे गौरवात् । तथाहि । वन्हिगता शक्तिर्न तावन्नित्या। मणि- सत्त्वेऽपि दाहापत्तेः । मणे शकत्वानुपपत्तेश्च । अतोऽनित्येत्यवश्य- मभ्युपेयम् । तथाच तादृशानित्यशक्ते कारणं वह्निश्व । तथाच वह्नि रूपकारणसद्धावात् मणिनैकगक्तिनाशेऽप्युत्पन्नापरशक्त्या स्यात् । उत्पन्नाऽप्यपरा शक्तिः मणिना नश्यतीति चेन्नश्यतु । पुनरुत्पन्नया शक्त्या भवतु दाहः । यावती वन्हौ शक्तिपरंपरोत्पद्यते तावती सर्वाs- पि नाशकबलान्नश्यतीति चेदिदमेकमनन्तशक्तिकल्पनाप्रयुक्तगौरवम् । किंच मणिः शक्तिनाशक इति वदन् प्रष्टव्यो भवति । शक्तिनाशकत्वं च मणे: किं ममित्वेनोत शक्तिमन्मणित्वेन नाऽद्यः । उत्तेजकदशायामपि नाशकतावच्छेदकीभूतमणित्वाकान्तमणिरूपनाशकसद्भावाद्दाहानापत्तिः । द्वितीय तूतेजकबलान्मणिगतशक्तिनाशेऽपि मणिरूपकारणबलादुत्पन्नया शक्त्या विशिष्टमणिसद्भावाबाहानापत्ति: । यावती शक्तिसत्पद्यते मणौ सा सर्वाऽभ्युत्तेजकान्नश्यतीति चेदिदमपरमनन्तशक्तितद्धंसतत्प्रागभाव- कल्पनापयुक्तगौरवम् ।। एवमुत्तेजकस्याप्युत्तेजकत्वेन मणिगतशक्ति नाशकत्वं का शक्तिमदुत्तेजकत्वेन का । नाऽऽद्यः । उत्तेजकस्यापि किं ८ संग्रहार्थसंग्रहे चितु प्रतिवन्धकदशायां दाहो न भवति । स्यात् । मणिगतशक्तिनाशक- ताऽवच्छेदकोत्तेजकत्वाकान्तस्य सत्त्वात् । न द्वितीयः । प्रतिबन्धकवशा- दुत्तेजके एकशक्तिनाशेऽपि शक्त्यन्तरोत्पादादाहापत्तिः । सर्वाऽप्युत्पन्ना शक्ति नश्यतीति चेदिदमन्यदनन्तशक्ति तद्वंसतत्प्रागभावकल्पनाप्रयुक्तं गौरवमित्यन्यत्र विस्तरः । सर्वमिद"मनेनैव सामञ्जस्ये अनन्तशक्ति- तद्वंसक्तत्प्रागभावकल्पनाया अन्याय्यत्वादिति वदन् विश्वनाथपश्चान- नभट्टाचार्योऽप्यभिपैति । अत उपाधिषु सप्तत्वस्य निर्बाधत्वात्सूक्तं मूलकृता सप्तेति सर्वमनवद्यम् । ॥ विशेषास्त्वनन्ता एव ॥ अत्र किं नामानन्तत्वम् । न तावत्संख्याशून्यत्वं संख्यायाः पदार्थ- त्वव्यापकत्वेन तच्छून्यत्वे पदार्थत्वमेव भज्येत । नापि व्याप्यसंख्या- शून्यत्वं तस्य दुर्वचत्वात् । परार्धत्वाद्यन्यतमासु संख्यासु तद्विगुणित त्रिगुणितदशगुणितादिसंख्यासद्भावेपि पराधत्वादिव्याप्यसंख्या नास्ती- त्यस्य शते पञ्चाशन्यायेन व्याप्यसंख्याया अपि सत्त्वेन वक्तुमशक्य- त्वात् । नापि परिच्छिन्नसंख्याशून्यत्वं तत् । परिच्छिन्नत्वस्य परि- माणविशेषायत्तस्य निष्परिमाणसंख्यायामसंभवात् । अत्र पट्टाभिरामः । संख्यात्वव्याप्यधर्मावछिन्नप्रकारकजीवीयनिश्चयविशेष्यताशून्यत्वमनन्तत्व- मिति पिहितचक्षुरिवाह । अत्राप्यनुपपत्तेर्जागरूकत्वात् । तथाहि । संख्यात्वव्याप्योकत्वत्वं तदवच्छिन्ना एकत्वसंख्या तत्प्रकारको जीवीयो निश्चयः एकैकसिन् परमाणावेकैको विशेष इत्याकारकः । तद्विशेष्यत्वस्य विशेषेषु सत्त्वेन तच्छून्यत्वस्याभावात् । क्यन्तु ब्रूमः - प्रत्यक्षखंडः -- अयमाशयः पट्टाभिरामस्य । यत् विशेषत्वव्यापकत्वं संख्यात्वव्याप्यधर्मा- वच्छिन्ने प्रविष्टमिति । तथाच विशेषत्वव्यापकसंख्या वव्याप्यधर्मा- वच्छिन्नपकारकजीवीयनिश्चयविशेष्यताशून्यत्वमिति विवक्षणान्न पूर्वो- क्तदोषावकाशः । विशेषेषु एकत्वप्रकारकपूर्वोक्तजीवीयनिश्चयविशेष्यता सद्भावेऽपि तदेकत्वम्य विशेषत्वव्यापकत्वाभावात्कम्याप्येकत्वम्य तत्त व्यक्तित्वेन यावद्विशेषवृत्तित्वाभावात् । एतेनैकत्वत्वेन रूपेणैकत्वात्य केवलान्वयित्वादेकत्वे विशेषत्वव्यापकत्वाभावोक्तिरयुक्तेति पराम्तम् । एकत्वत्वेन, तयापकत्वेऽपि ततव्यक्तित्वेन तदव्यापकत्वात् तेनैव रूपेण च व्यापकत्वस्य ,लक्षणे प्रवेशात् । अथात्र तादृशनिश्चयविशेष्यत्वस्य अमितत्वे निषेधायोगः । अप्रमिततत्वेऽपि तथा प्रतियोगिप्रमितेरभावात् निषेधायोग एव इति चेत् । विशेषविशेष्यकजीवीयनिश्चयप्रकारीभूत संख्यात्वव्याप्यधर्मावच्छिन्ने विशेषत्वव्यापकत्वस्य पदार्थत्वादौ प्रमि- तस्य निषेधस्य विवक्षितत्वादिति परिकलय । विशेषत्वस्य व्याव- कत्वाभाववज्जीवीयनिश्चयविषयसंख्यात्वव्याप्यधर्मावच्छिन्नवत्त्वमिति तु तत्वम् । ॥ समवायस्त्वेक एव॥ तुशब्दस्य पूर्वस्माद्विशेषोऽर्थः । स च समवायत्कव्याप्यविभाजक- धर्मशून्यत्वम् । समवाये समवायत्वरूपविभाजकोपाधिसत्त्वेऽपि तम्य तदव्याप्यत्वात् । अन्यस्य चोपाधेरभावात् । एकपदस्य स्वसजातीय द्वितीयरहितोऽर्थः । तदेकदेशराहित्यान्वयिअप्रामाण्यशङ्काऽविषयत्वं मेवकारार्थः । तथाच पूर्वस्माद्व्यादित उक्तविशेवान् समवायः अप्रामाण्य- 3 १० संग्रहार्थसंग्रहे शङ्काविषयताशून्यस्वसजातीयद्वितीयराहित्यवदभिन्न इति विशिष्ट- वाक्यार्थः । नन्वत्र समवायम्यापि पदार्थत्वादिना स्वसजातीयघटादि- द्वितीयसाहित्यात्कथमेकत्वोपपत्तिः पदार्थविभाजकोपाधिना साजात्य विवक्षित्वा घटादेस्तादृशस्वसजातीयत्वाभावेन वारणेऽपि तादृशस्वसजा- तीद्वितीयाप्रसिद्धिः । स्वसजातीयद्वितीयसहितं यत्तदन्यत्वस्य तदर्थत्वे यद्यपि नाप्रसिद्धिः । पूर्व स्वपदार्थस्यानुयोगिकोटौ प्रवेशात् । अधुना तु प्रतियोगिकोटौ प्रविष्टत्वात् । तथाच स्वसजातीयद्वितीयसहितं यद्धटा. दिकं प्रसिद्धमेव । तदन्यत्वस्य समवाये अबाधात् । तथापि स्वसजा- तीयद्वितीयसहितं यद्धटादिकं तदन्यत्वस्य पटादावपि सत्त्वात्स्वपदस्य बुद्धिम्थतत्तव्यक्तिमानपरत्वेनाननुगतत्वेन स्वपदेनैकैकव्यक्तिमुपादाया- न्यस्यां व्यक्तौ तदन्यत्वसंभवात् । ईदृशैकत्वस्य सार्वत्रिकत्वेन सम- यायस्त्वेक एवेति विशिष्य कथने बीजाभावात् । अतः स्वसजातीय द्वितीयसहित यद्यत्तत्तद्भेदकूटवत्त्वं विवक्षित्वा घटादेर्यद्यदन्त:पातित्वेन तत्तदन्यत्वाभावान्नैतादृशैकत्वम् । किन्तु समवायस्यैवेति पूर्वोक्तापत्ति- वारणीया । एवं च सजातीयपदार्थानामानन्त्येन तत्तद्भेदकूटवत्त्वं प्रति- योग्यज्ञानाहुद्देयमिति शिष्यबोधाय कृतोऽपि अन्धः असर्वज्ञदुर्जेयतामा- पेति अहो प्रतिपादनचातुरीति चेन्मैवम् । पदार्थविशिष्टान्यत्वमेकत्वम् । वैशिष्टयं च स्वभिन्नत्व स्ववृत्तिपदार्थविभाजकोपाधिमत्त्वोभयसंबन्धेन । अथवा स्वेतरावृत्तिपदार्थविभाजकोपाधिमत्त्वमेकत्वम् । यद्वा पदार्थ- विभाजकोपाधिवृतित्वमेकत्वम् । वृत्तित्वं च स्वनिष्टावच्छेदकताकप्रति- योगिताकमेदवत्त्वसंबन्धावच्छिन्नम् । स्वनिष्टावच्छेदकता च स्वेतर- प्रत्यक्षखंडः ११ वृत्तित्वसंबन्धावच्छिन्ना । यत्र पदार्थविमाजकोपाधिवृत्तित्वं विवक्षित तत् स्वपदग्राह्यम् । तथाच समवायत्वरूपपदार्थविभाजकोपाधेः 'समवाय- रूपस्वम्मादितरवृत्तित्वाभावेन स्वेतरवृत्तित्वसंबन्धेन समवायत्वरूपपदार्थ- विभाजकोपाधौ समवायवान्नेति प्रतीतिसाक्षिकमेदस्य सत्त्वात् । स्वेतर- वृत्तित्वसंबधावच्छिन्न स्वनिष्टावच्छेदकताकप्रतियोगिताकभेदवत्त्व संब- न्धेन समवायत्वरूपपदार्थविभाजकोपाधिवृत्तित्वस्य समवाये सत्त्वाल्लक्षण- समन्वयः । अत्र गगनत्वादिरूपद्रव्यविभाजकोपाधिवृत्तित्वस्योक्तसंबन्धेन गगनादौ सत्त्वादतिव्याप्ते समवायऽभावादसंभवस्य च वारणायोपाधौ पदार्थविभाजकत्वोत्कीर्तनम् । एवमेव तच्चैकमित्यादिस्थले गगनादिगतैक- त्वानि पदार्थपदस्थाने द्रव्यपदं निवेश्य द्रव्यविशिष्टान्यत्वं स्वेतरावृत्ति- द्रव्यविभाजकोपाधिमत्त्वम्। उक्तसंबन्धेन द्रव्यविभाजकोपाधिवृत्तित्वमिति रीत्या परिष्करणीयानीति कृतबुद्धयो विदांकुर्वन्तु । ॥ रूपरहितस्पर्शवान्वायुः ॥ नन्वम्य लक्षणस्य घटादावतिव्याप्तिः । तत्र "उत्पन्नं द्रव्य क्षण- मगुणमक्रियं च तिष्टती"ति न्यायादाद्यक्षणावच्छेदेन रूपराहित्यस्य द्वितीय क्षणावच्छेदेन स्पर्शवत्त्वस्य च सत्त्वात्। यद्यप्येकक्षणावच्छेदेनोभयवत्त्वं निवेश्यातिव्याप्तिर्वायत इति शक्यते वक्तुम् । तथापि प्राथमिको य एकक्षणः द्वितीयो य एकक्षणः तदवच्छेदेन घटे उभयोः सत्त्वेनाति- व्याप्तिर्दुर्वा रैवेति चेन्न । रूपाभावनिष्ठाधेयताविशिष्टस्पर्शनिष्टाधेयतानि- रूपकत्वस्य लक्षणत्वेनोक्तौ दोषाभावात् । आधेयतायामाधेयतावैशिष्टयं च स्वावच्छेदकक्षणावच्छिन्नत्वस्वनिरूपकनिरूपितत्वोभयसंबन्धेन । घटा- १२ संग्रहासग्रह दिस्पर्शनिष्ठाधयतायाश्च घटनिरूपित रूपाभावनिष्ठाधेयतावैशिष्टयम्य म्वा- वच्छेदकक्षणावच्छिन्नत्वाभावेनाभावान्नातिव्याप्तिः। अथवा रूपववृत्ति- स्पर्शवत्वं लक्षणम् | अधुना मूलम्थरूपरहितपदम्य रूपासमानाधिकरण- मर्थः । घटादौ च पशम्य रूपवत्तित्वेन रूपववृत्तिम्पर्शाभावान्नाति- व्याप्तिः । अथात्र लक्षणेऽसंभवः । वायुर्गुणवानिति प्रमासद्भावाद्वायौ गुण- त्वावच्छिन्नाधयतानिरूपिताधिकरणता विद्यते साचाधेयता रूपनिष्ठा । सामान्यधर्मावच्छिन्नस्याधयत्वादेस्सामान्याश्ययावयक्तिवृत्तित्वाभ्युपग- मात् । अन्यथा न्यूनवृत्तित्वेन गुणत्वादिसामान्यधर्मस्यानवच्छेदकत्व प्रसङ्गात् । तथाच रूपनिष्ठाधेयतापदेन गुणत्वावच्छिन्नां तामुपादाय तन्निरूपिताधिकरणत्वस्य वायो सद्भावेन वायवीयस्पर्शी रूपवत्ति- रेवासीदिति रूपवदवृत्तिस्पशवत्त्वं वायौ नास्तीति । रूपवत्त्वं नाम । रूपनिष्टाधेयतानिरूपिताधिकरणतावत्वम् । आधेयता च रूपत्वावच्छि- न्ना विवक्षिता । तथाच गुणत्वावच्छिन्नां तामुपादायोक्तासंभवम्य नावकाश इति वाच्यम् । जन्यमानं कालोपाधिरिति नियमात् वायौ कालिकसंबन्धेन रूपसद्भावात् रूपत्वावच्छिन्नाधेयतानिरूपिताधिकरण- तायाः अपि वायौ सत्त्वेनोक्तासंभवस्य दुर्वास्त्वात् । नच रूपत्वावच्छि- बाधेयतायां समवायसंबन्धावच्छिन्नत्वनिवेशात्कालिकसंबन्धावच्छिन्ना- घयतामादाय नासंभव इति वाच्यम् । एवमपि जन्यमात्रस्य कालोपा- वित्वेन स्पर्शे रूपत्वस्य कालिकसंबन्धेन सत्त्वात् रूपत्वावच्छिन्नसम- वायसंबन्धावच्छिन्नाधेयतापदेन स्पशनिष्ठतादृशाधेयतामादाय तन्निरूपि- ताधिकरणत्वम्य वायौ सत्त्वेनोक्तदोषानुद्धारात । नच जन्यमानस्य प्रत्यक्षखंडः १३ कालोपाधित्वानङ्गीकारान्नोक्तदोष इति वाच्यम् । एवमपि “क्रियामात्रा कालोपाधि रित्यस्मिन्नविवादात् क्रियायां कालिकसंबन्धेन रूपत्वसद्भावा- दूपत्वावच्छिन्नसमवायसंबन्धावछिन्नाधेयतापदेन क्रियानिष्ठां तामादाय तन्निरूपिताधिकरणत्वस्य वायौ सत्त्वादसंभवो दुर्वार एवेति चेन्न आधेयतायां रूपनिष्ठत्वनिवेशात क्रियानिष्ठां तामुपादाय नोक्तदोषाव काशः। आधेयतायां रूपनिष्ठत्वोत्तया रूपत्वनिष्ठावच्छेदकतायां समवाय- संबन्धावच्छिन्नत्वम्य विवक्षणात्कालिकसंबन्धावच्छिन्नरूपत्वनिष्ठावच्छे- दकताकक्रियानिष्ठाधेयताया न संग्रहः । अथैवमपि रूपवत्त्वांशे भंग्य- न्तरविवक्षया प्रतिपादितासंभवदोषासंभवेऽपि ताशरूपवढवृत्तिम्पर्शवत्वं गगनेऽप्यन्तीत्यतिव्याप्तिः। तथाहि स्पर्शवत्वं नाम म्पर्शनिष्ठाधेयतानि- रूपिताधिकरणत्वम् । गगने च गुणवदितिप्रतीतिमाक्षिकगुणत्वावच्छि- नाधेयतां स्पर्शनिष्ठामादाय तन्निरूपिताधिकरणत्वसत्त्वात् । गुणत्वा- वच्छिन्नाधेयतायाः स्पर्शनिष्ठत्वं च पूर्वमेवोपपादितप्रायमिति नात्र पुनः प्रपंच्यते । स्पर्शत्वावछिन्नत्वं विवक्षित्वोक्तदोषवारणेऽपि कालिंकसंबन्धेन स्पर्शत्वस्य कालोपाधौ सत्त्वेन स्पर्शत्वावच्छिन्नकालिकसंबन्धावच्छिन्ना- धेयतानिरूपिताधिकरणत्वं काल इत्यतिव्याप्तिः। आधेयतायां समवाय- संबन्धावच्छिन्नत्वं निवेश्य तद्वारणे स्पर्शत्वं विषयतासंबन्धेन ज्ञाने ज्ञानं च समवायेनात्मनि विद्यत इति स्पर्शत्वावच्छिन्नसमवायसंबन्धावछिन्ना- धेयतापदेन ज्ञाननिष्ठां तामुपादायात्मन्यतिव्याप्तिः । विषयतायाः वृत्त्य- नियामकत्वे ज्ञानस्य जन्यत्वेन तत्र कालिकसंबन्धेन स्पर्शत्वं विद्यत इत्युक्त एव दोषः । जन्यमात्रस्य कालोयाधितानभ्युपगमे ज्ञाने कालिकेन 4 १४ संग्रहार्थसंग्रह । स्पर्शत्वाभावेऽपि क्रियायां कालिकन स्पर्शत्वसत्त्वात् तस्याश्च समवायेन मनसि सत्त्वात्म्पशवावच्छिन्नाधेयतापदेन क्रियानिष्ठां तामुपादाय मनस्य. तिव्याप्तिरिति ।मैवम् स्पशनिष्ठत्वम्य म्पशत्वनिष्ठावच्छेदकतायां समवाय. संबन्धावच्छिन्नत्वतास्यकम्य विवक्षणेनोक्तसकलदोषवारणसभवात् । अथ समवायसंबन्धावच्छिन्नरूपत्वनिष्ठावच्छेदकताकसमवायसंबन्धावच्छि- नावेयतानिरूपिताधिकरणतावदवृत्तिम्पर्शत्वनिष्ठसमघायसंबन्धावच्छिन्ना - वच्छेदकताकसमवायसंबन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वमितिप- रिष्कृतलक्षणस्य म्पर्शेऽतिव्याप्तिः। तथाहि। स्पर्शनिष्ठाधेयतायाः स्पोऽधि- करण अधिकरणता स्पर्शे सा चाधेयतारूपाधेयनिरूपिता भवतीति । मैवम् । तादृशाधेयतानिरूपकाधिकरणत्वस्य लक्षणत्वेन विवक्षितत्वात् । तथाचाधि- करणताधेयतयोः परस्परं निरूप्यनिरूपकभावः। आधेयाधिकरणतयोस्तु नैवम् । किनामाऽऽधेयनिरूपितैवाधिकरणता। अधिकरणतानिरूपकमेवाss धेयमिति। तथाच स्पर्शनिष्ठाधेयतायाः आधेयरूपत्वेन तन्निरूपितैवाधिकरण- ता स्पर्श न तन्निरूपिकेति स्पर्श नातिव्याप्तिः। अथवा पशनिष्ठाधेयतानि- रूपिताधिकरणतास्थाने तादृशाधेयताविशिष्टाधिकरणता निवेश्यते। वैशिष्टय च स्वनिरूपितत्वस्वनिष्ठाधेयत्वानिरूपितत्वोभयसंबन्धेन । स्पर्शनिष्ठाधि- करणतायामाधेयतानिष्ठाधेयतानिरूपितत्वस्यैव सत्त्वेनोभयसंबन्धेनाऽऽधेय. ताविशिष्टत्वाभावान्न स्पर्शेऽतिव्याप्तिः । ईशैव रीतिः पूर्वोत्तरलक्षणे- ध्वप्यतिव्याप्तिवारकत्वेनानुसन्धेयेति संक्षेपः। अथ रूपवदवृत्तिस्पशव. त्त्वस्योत्पन्नविनष्टवायावव्याप्तिरिति चेत् रूपासमानाधिकरणस्पर्शसमाना- धिकरणजातिमत्त्वे तात्पर्येण दोषाभावात् । नन्वत्र कालिकसंबन्धेन प्रत्यक्षखंडः १५ कालादौ तादृशजातिमत्त्वमादायातिव्याप्तिवारणाय समवायेनेति विवक्ष- णीयम् । तथाचान्यतरत्वादिधर्ममादाय दोषासंभवेन जातिपदं व्यर्थमिति चेत् अत्र केचित् । तादृशसमयावंसंबन्धतात्पर्यग्राहक तत्पदमित्याहुः। तच्चिन्त्यम् । लक्षणघटकपदानां दोषवारकत्वेनैव सार्थक्यनियमात् । परे तु समवायेन तादृशवायुगगनसंयोगमादाय गगनेऽतिव्याप्तिवारणाय जातिपदमिति प्राहुः । एवं सर्वत्र दोषत्रयवारकत्वेन विशेषणानि नि- वेश्य लक्षणानि परिष्करणीयानीति नोत्तरत्रैतादृशी रीतिराद्रियत इति । अथात्र किंचित्प्रसङ्गानिरूप्यते । केयमतिव्याप्ति म किंच तल्लक्ष्यम् । ननु क: सन्देहः । लक्ष्यालक्ष्यवृत्तित्वमतिव्याप्तिः । गोर्लक्षणकथनद- शायां द्रव्यत्वं तल्लक्ष्यमिति चेत् अस्ति महान् सन्देहः । अतिव्याप्तत्वेन प्रसिद्धगित्वपरित्यागे बीजाकथनात् । नच यावल्लक्ष्यवृत्तित्वे सत्य- लक्ष्यवृत्तित्वस्य तदर्थत्वेन शृंगित्वे तदभावात । यावल्लक्ष्यान्त पातिव- त्सगवि उत्पन्नविनष्टगवि च श्रृंगित्वाभावेन शृंगित्वम्य परित्यागात् । नचोत्पन्नविनष्टा गौरेव नास्ति वत्सायां गवि च यदा कदाचित श्रृंगित्वं वर्तत एवेति वाच्यम् । तथासति उत्पन्नविनष्टघटादावव्याप्ति- वारकतया कृतस्य जातिघटितलक्षणस्य बहुग्रन्थेषु दृश्यमानस्य गलहस्ति- तत्वापातेन महदसमंजसं स्यादिति वाच्यम् । तर्हि बहुषु ग्रन्थेषु पक्ष- पाती भवान बहुकोशेषु दृश्यमानस्य श्रृंगित्वस्य लक्ष्यत्वेन परित्यागे असामंजस्य किमिति न मनुते । किंच लक्ष्यालक्ष्यवृत्तित्वमित्यत्र याव- लक्ष्यवृत्तित्वमर्थं , स्वयमेवाङ्गीकृत्य सिद्धशृगित्वासिद्धद्रव्यत्वयो. परि- त्यागस्वीकारयोरकौशलव्यंजकत्वादिति चेदुच्यते । यावल्लक्ष्यवृत्तित्व- -- १६ संग्रहार्थसंग्रहे रूपोऽर्थोऽवश्यमभ्युपेयः । अन्यथा लक्ष्यतावच्छेदकसमनियतत्वमिति दीपिकास्थलक्षणलक्षणव्याख्यानावसरे व्यापकत्वमात्रोपादानेऽतिव्याप्ते अतिव्याप्तिरिति वदतो नीलकण्ठस्य वचनविरोधापातात् । अपि- चातिव्याप्त नाम व्याप्तमतिक्रम्य वर्तमानं तच्च व्याप्तसास्त्रादिमत्त्वाद्य- पेक्षयाधिकदेशवृत्तिरूपमिति । अतिव्याप्तिशद्वार्थोऽप्युक्तरीत्या याव- लक्ष्यवृत्तित्वघटित एव । तथाच यावलक्ष्यवृत्तित्वाभावात शृंगित्वं परित्यज्य द्रव्यत्वमूरीकृतमिति । नन्वेवसति तत्रैव दीपिकायामति- व्याप्तलक्ष्यनिरूपणावसरे यथा शृंगित्वमित्युक्तेः का गति प्रदर्शयिष्यते भवनेति चिरं विमृशन्तोपि वयं न खलु तत्वमत्र निर्णतुं प्रभवामः । किंच सिद्ध,गित्वपरित्यागे किं बीजमित्यस्यानुत्तरितत्वात् । नचं नील कण्ठवचनविरोध एव बीजमिति वाच्यम् । यस्य कस्यचित ग्रन्थकृत उक्तिविरोवापेक्षया मूलकारोक्तिविरोधस्य बलीयम्त्वेन पूर्वोक्त बीजस्य विचारासहत्वादिति चेदत्र कश्चित् । दीपिकाकारस्य वचन- मपरामर्शमूलकमित्याह । तच्चिन्त्यम् । तम्याज्ञत्वप्रकटनापेक्षया स्वम्यै- वाजताप्रकटनं वरमिति । वस्तुतस्तु शृंगित्वमप्यतिव्याप्तलक्ष्य भवितु- मर्हति । नच पूर्वोक्तदोषः । व्यापकत्वस्यापि सत्वात् । तथाहि गो शृंगित्वं लक्षणमित्यभिदधतो यदि संयोगसमवायादिः लक्षणताघटक- संवन्धत्वेनाभिमत- म्यात् म्यात्तदोक्तदोषः । नचैवम् । म्वसमानाधिकर- पजातिमत्त्वं लक्षणताघटकसंबन्धः । अनेन च संबन्धेन शृंगित्वमपि व्यापकं भवति । श्रृंगित्वसमानाधिकरणद्रव्यत्वपशुत्वादिजातिमत्त्वस्यो- त्पन्नक्निष्टादिगवि सत्त्वात् । नन्वेव सति ईदृशसंबन्धेनैकगफवत्त्वनील- प्रत्यक्ष वंड १ न रूपवत्त्वादिकमपि लक्ष्यतावच्छेदकव्यापकं भवतीति तदप्यतिव्याप्त म्यादिति न्यायशास्त्रपाण्डित्यं सम्यक् प्रकाशितं म्यादिति चेदम्न्यत्रा- भिप्रायविशेषः । स्ववृत्तिजातिमत्त्व लक्षणताघटकसंबन्धत्वेनाभिमतम् जातौ म्ववृत्तित्वं च स्वसमानाधिकरणलक्ष्यतावच्छेदकविशिष्टत्वसंबन्धेन । वैशिष्टयं च म्बसमानाधिकरणत्वम्वाभावसमानाधिकरणत्वोमयसंबन्धेन । प्रथमसंवन्धनिवेगादेकशफवत्त्वादावतिच्याप्तिनिरासः । द्वितीयसंबन्ध- निवेगान्त्रीलरूपबत्त्वादावतिन्याप्तिनिरासः । अनेन संबन्धेन गोत्वव्या- पकत्वरूपयावलक्ष्यवृत्तित्वम्य शृंगित्वादन्यत्र नीलम्पादावभावात् । यन्नीलरूपे गोत्वसमानाधिकरणत्वं तत्र तदभावसामानाधि- करण्यम् । अन्यस्मिन्न गोत्वसामानाधिकरण्यम् । रूपम्याननुगतत्वादिति ध्येयम् । अथवा म्ववृत्तिजातिमत्त्वं संबन्धः । जातो म्बवृत्तित्वं च म्वसमानकालीनलक्ष्यतावच्छेदकविशिष्ट वसंबन्धेन । लक्ष्यतावच्छेदक- वैशिष्ट्यं च स्वसमानाधिकरणत्वम्वाभावसमानाधिकरणत्वस्वाभाव- समानाधिकरणाभावप्रतियोगित्वैतत्त्रितयसंबन्धेन । अत्र पूर्वापेक्षयाऽधि. कस्य तृतीयसंबन्धस्य निवेशात्प्रमेयत्वादेरतिव्याप्तिलक्ष्यतया क्वाप्यपदर्शि- तत्वेन तस्याप्युपपत्तिः । एवमन्यत्रापि परैरननुशीलिताः परिष्कारस्य पंथानो द्रष्टव्या इत्यलमतिविम्तरेण । ॥ त्वगिन्द्रियं सर्वशरीरवृत्ति ।। सर्व शरीरम्य सर्वशरीरमिति प्रथमात पुरुषः । नतु कर्मधारय. तथासति शरीरे सर्वावयवावच्छेदेन त्वगिन्द्रियसत्त्वासिद्धिप्रसङ्गात् । गरी- रपदस्यैवावयवपरत्वे लाक्षणिकत्वप्रसङ्गात् । सर्वपदस्य यावदवयवोऽर्थः । 5 मंग्रहार्थमंग्रह १८ षष्ठ्यर्थः आरंभकन्यम् । तत्र निरूपितत्वसंवन्धेन प्रकृत्यर्थस्यान्वयः । आरंभकत्वम्याऽऽश्रयतासंबन्धेन मवपदार्थेऽन्वयः । तथाच शरीरनिरूपि तारंभकत्वाश्रययावदवयवः सर्वगरीरशद्वाथः । तथाच यावच्छरीरावयव- वृत्तित्वलाभेन विवक्षितसिद्धिः । ॥ शरीरान्तःसंचारी वायुः प्राणः ।। शरीरस्यान्तः संचरतीति शरीरान्तःसंचारी किंचिदवच्छिन्ना- काशमंत शब्दार्थः । शरीरम्येत्यत्राभेदः षष्टयथः अन्त पदार्थैकदेशे किंचि- दर्थेऽन्वेति | सचारपदार्थ नानादेशसंयोगानुकूलक्रिया । आश्रयतावान् णिनिप्रत्ययार्थः । अन्तःपदार्थस्याधेयतासंबन्धेन संचारपदार्थघटकसंयो- गेऽन्वयः । तथाच प्राण. शरीराभिन्नकिंचिदवच्छिन्नाकागनिष्ठनानादेशा- वछिन्नसंयोगानुकूलक्रियानिरूपिताश्रयतावदभिन्नवायवभिन्न इति विशिष्ट- बोधः । । म चैकोऽप्युपाधिभेदात्प्राणापानादिनानासंज्ञां लभते ।। लभधात्वर्थः प्राप्तिः । सा च वाचकतासंबन्धावच्छिन्न धेयतारूपा। संज्ञा द्वितीयाथ: अविकर गता। आख्य ताथ आश्रयत्वम् । प्राणापानादी- त्यम्य तादृशानुपूर्वीविशिष्टोऽर्थः । संज्ञापदस्य आनुपूर्वीविशेषावछिन्नसंकेती- यविशेप्यतावानर्थः । तथाच प्राणापानाद्यानुपूर्वीविशिष्टाभिन्नविभिन्नसंज्ञा- निष्ठाधिकरणतानिरूपितवाचकत.संबन्धावछिन्नाधेयता निरूपिताश्रयतावान् प्राण इति महावाक्याथबोधः । ॥ शब्दगुणकाकाशम् ॥ अत्र गुणपदं शब्द एवाकाशे विशेषगुण इति द्योतनायेति बहवः ।

प्रत्यक्षरखंडः १९ शब्दस्य द्रव्यत्वाभ्युपगन्तृमतनिराकरणाय तदिति वयम् । आकागसि- ध्यर्थं च कप्रत्ययः । तेन च प्रत्ययेनाश्रयायिभावबोधनाच्छब्दरूप- गुणाश्रयीभूतमाकाशरूपं किंचिंव्यमितरेषां बाधासिध्यति । सिद्धि- प्रकारश्च मुक्तावल्यायुक्तो द्रष्टव्यः । ॥ तच्चैक विभु नित्यं च ॥ अत्र विवेक नित्यमित्याद्यन्यक्रमेण किमिति नोक्तमित्याशंका म्वतन्त्रेच्छस्येत्यादि नियमबलात्केचि समादधने । वस्तुतस्तु व्याप्यमेक- त्वादिकं "व्याप्यम्य वचनं पूर्व व्यापकस्य ततः पर"मिति वचनबलात्पथ. मतो निर्दिष्टवान् ग्रन्थकार । व्याप्यव्यापकभावश्चेत्थम् । आकाश विभु सर्वदेशावच्छेदेनोपलभ्यमानगुणाश्रयत्वे सति एकत्वात् व्यतिग्केण घटा- दिवत् । अत्र च वायौ व्यभिचारवारणाय हेतौ विशेष्यभागः । समवाया- दौ व्यभिचारवारणाय विशेषणभागः । नचैकत्वमात्रबोधकमूलात्कथं वि- शिष्टहेतुलाभ इति वाच्यम् । तच्चेत्यत्र विशेषणममुच्चायकचशब्दसद्भावेन विशिष्टहेतुलाभसंभवात् । एवं सिद्धं विभुत्वं हेतूकृत्य नित्यत्वं साध- नीयम । यथा । आकाशं नित्यं विभुत्वादात्मवदिति । अत्र च दृष्टा- न्तसमुच्चायको नित्यं चेति चशब्दः । तथाच नित्यत्वं विभुत्वस्य तत्पति चैकत्वस्य हेतुत्वेन पूर्वपूर्वनिर्देशः सङ्गतः। उत्तरत्र च कालादौ ईदृशव्याप्यव्यापकभावासंभवेऽपि प्रथमखीकृतक्रमपरित्यागे बीजाभा- वादेव तथैव निर्देशः कृत इत्यवधेयम् । अत्रैकत्वं पूर्वनिरुक्तम् । विभुत्वं च सर्वमूर्तद्रव्यसंयोगित्वम् । अत्र घटादावतिव्याप्तिवारणाय सर्वपदम् । सर्वान्तःपातिगुणादिसंयोगाप्रसिध्या असंभववारणाय द्रव्यपदम् । पुनः संग्रहार्थसग्रहे सर्वव्यान्त पातिविभुद्रयसंयोगानङ्गीकारात्म एव दोष इति मूर्तपदम् । क्रियावन्मूनम् । दत्ते च मूर्तमदे मृत द्रव्यमेवेति म्वरूपकीर्तनपरं द्रव्य- पदम् । अथ किं मवमूर्तद्रव्यसंयोगित्वं नाम ! न तावत् सर्वमूर्तद्रव्य- प्रतियोगिको य. संयोगम्तद्वत्त्वम् । तादृशकसंयोगापसिद्धेः । न तावत्त न्मूर्तप्रतियोगिकसंयोगवत्त्वे सत्येतन्मूतपतियोगिकसंयोगवत्त्वे सत्यन्य मूर्तप्रतियोगिकसंयोगवत्वादिरूपं तत् । ईदृशम्यासर्वज्ञदुर्जेयतया शिष्य. बोध्यके ग्रन्थेऽनिवेश्यतापत्तेः । नापि मृतत्वव्यापकत्वम् । गगनाभावम्य केवलान्वयित्वेन गगने मृतत्वममानाधिकरणात्यन्ताभावप्रतियोगि वेन तदप्रतियोगित्वरूपव्यापकत्वाभावेनासंभवापत्तेः । द्रव्यत्वादावतिव्याप्-या- पत्तेश्च । द्रव्यत्वादावपि मृतत्वव्यापकत्वानपायात् । मैवम् । स्वानुयो. गिकसंयोगप्रतियोगित्वसंबन्धन व्यापकतायाः समवायेन व्याप्यतायाश्च विवक्षणेनोक्तदोषाभावात् । तथाहि । गगनं सर्वमपि मृत संयुनक्तीति स्वानुयोगिकसंयोगप्रतियोगित्वसंबन्धेन मूर्त वसमानाधिकरणाभावीयप्रति. योगिता न गगनादावपि तु घटादावेवेति नासंभवः । द्रव्यत्वादौ चो. क्तसंबन्धेन ताहाप्रतियोगितवास्तीति नातिव्याग्निः । नन्वेवमप्यसंभवो दुर्वारः । गगनमूर्तयोराधाराधेयभावाभावेन स्वानुयोगिकसंयोगप्रतियो- गित्वसबन्धेनापि गगनस्य मूर्ते वृत्तेरसंभवादिति चेत् अत्र प्रष्टव्यम् । किमियमाशंका आधाराधेयभाव एवं प्रतियोग्यनुयोगिभाव इत्यभेदाभि- प्रायेण उत प्रतियोग्यनुयोगिभावस्तव्याप्य इत्याशयेन वा । नाद्यः । तादाम्येन घटसंबद्धो घट: घटस्य स्वरूपमित्यादौ घटप्रतियोगिकतादा- त्यानुयोगी घटः घटानुयोगिकाभेदप्रतियोगिस्वरूपमित्यादिप्रतीतेः प्रति- प्रत्यक्षखडः २१ योग्यनुयोगिभावविषयिण्या आधाराधेयभावाविषयिण्याश्च दशनेन तयो- रैक्यासंभवात् । अत्रैव व्यभिचारान्न द्वितीयोऽपि । किंच गगनसंवन्धि त्वं मूतॆ तावत्सार्वजनीनम् । तत्र प्रतियोग्यनुयोगिभावातिरिक्तं संन्धित्व पारिभाषिकमिति यद्युच्यते तर्हि तदप्याचाराधेयभावनियतमित्याचारा धेयभावाभावे पूर्ववत्तस्यापि प्रत्याख्यानसंभवेनाधाराधेयभावविरहन्थले संबन्धित्वपदार्थम्यात्यन्तमलीकत्वापत्तेः । अथैवमप्यास्तां प्रतियोग्यनु- योगिभावोऽतिरिक्तः । तथापि आधाराधेयभावम्थले आधारोऽनुयोगी आधेयस्तु प्रतियोगीतिवत्प्रकृते नियामकाभावेन गगनमतुयोगि इतर- चतरदिति विनिगन्तुमशक्यत्वेन म्यानुयोगिकसंयोगप्रतियोगित्वसंबन्धेन गगनं मूर्ते अस्ति वा स्वप्रतियोगिकसंयोगानुयोगित्वसंबन्धन मूर्ते गगनमस्ति वति निर्णयाभावेन लक्षणम्य अज्ञानरूपासिद्धिरिति चेन्म- वम् । यत्क्रियया यत्संयोग समजनि तक्रियाधिकरणं प्रतियोगि अन्य. दनुयोगीति प्रतियोग्यनुयोगिभावे क्रियाधिकरणत्वतदभावरूपनियामक- भावेन निष्क्रिये च गगने कमपि संयोग प्रति प्रतियोगित्वासंभवेन म्वानुयोगिकसंयोगप्रतियोगित्वम्यैव संबन्धवनिश्चयेन लक्षणासिद्धेश्यो गात् । नचोक्तम्यापि नियामकत्वं नोपपद्यते । तथात्वे मल्लमेषादिसंयोगे। उभयक्रियाजन्ये प्रतियोग्यनुयोगिभावस्यानियतत्वापातादिति वाच्यम् तत्र क्रियाद्वयजन्यस्य संयोगद्वयम्याङ्गीकारान्नियमनोपपत्तेरित्यलम् । {। अतीतादिव्यवहारहेतुः कालः ॥ अतीतादिव्यवहारहेतुत्वं कालम्य लक्षणम् । अत्रचादिपदस्य वर्तमानादिकालाव्याप्तिवारकतया सार्थक्यं यथाश्रुते वक्तव्यम् । तच्चानुप- 6 २२ संग्रहार्थसंग्रहे पन्नमिवाभाति । आदिपढदानोत्तरं नादृशत्यवहारत्रयहेतुत्वलाभेन कम्या- पि कालम्य ताहाव्यवहारत्रितयहेतुन्वासंभवेनासंभवात् । यद्यपीयमाशङ्का ताशव्यवहारान्यतमहेतुत्वं व्यवहारहेतुत्वान्यतमं वा लक्षणत्वेन विवक्षि- त्वा शक्यने वारयितुं । तथापि सर्वव्यवहारहेतुज्ञाने ताल्वोष्ठपुटसंयोगादौ कार्यमामान्यकारणे दिशि चातिव्याप्तिः । किंच सत्यपि धने धनित्व- ज्ञानविरहदगायां धनीतिव्यवहाराभावेनासत्यपि धने सति च धनित्वज्ञाने धनीतिव्यवहारभावेनान्वयतो व्यतिकतश्च व्यभिचारेण न व्यवहर्तव्यता- वच्छेदक व्यवहारकारणमपितु तत्ज्ञानमेवेति व्यवहर्तव्यतावच्छेदकज्ञान- विधया कालज्ञानम्य कारणत्वेऽपि कालन्यातथात्वालक्षणासंभव इति केचित् मूलमुन्मूलयन्ति । अत्रेद समाधानमवधेयम् । अतीतादिव्यव हारहेतुत्वं कालम्य लक्षणम् । वन्हे: धूमो हेतु: घटस्य दण्डो हेतुरिति द्विविधव्यवहारबलात् हेतुत्वमपि ज्ञापकत्वत्वकारकत्वत्वाभ्यां द्विविध- मित्यवसीयते । तत्र प्रकृते किमुपादेयमित्याकांक्षायां कारकत्वरूपस्य पूर्वपक्षिणवातिव्याप्त्यसंभवाम्यां दूषितत्वेन व्यवहर्तव्यतावच्छेदकज्ञानम्य कारणत्वोपपादनेन प्रकृतेऽपि ज्ञापकत्वरूपहेतुत्वम्य मूलार्थतया विवक्षणे दोषाभावात् । सत्यपि कारणादिपदे हेतुपदमुपाददानो ग्रन्थकृदपीम मेवार्थमभिप्रेति । ज्ञापकत्वं च जनकज्ञानविषयत्वमिति तादृशन्यवहार- जनकज्ञानविषयत्वस्य काले सत्त्वेनासंभवासंभवातू । ज्ञानताल्बोष्ठपुट. संयोगदिगादीनां तु स्वरूपसतामेव कारणत्वेन तादृशव्यवहारजनक- त्वेऽपि जनकज्ञानविषयत्वाभावान्नातिव्याप्तिरिति किमनुपपन्नम् । अथेद- मनुपपन्नम् । अतीतो घट: जातिश्च समवेता इत्यादिसमूहालंबनतान- प्रत्यक्षवंडः २३ व्यवहारजनकज्ञानीयविषयतायाः जात्यादी विद्यमानतया जात्यादावति- व्याप्ति । नच तादृशज्ञानं न ताहाव्यवहारजनकम् । अधिकन्विति न्यायेन तज्ज्ञानस्याधिकविषयकत्वेऽपि न जनकत्वं निन्होतुं शक्यत इति । मैवम् । तादृशव्यवहारजनकतावच्छेदकविषयताश्रयत्वस्य लक्षणत्वेन सामंजस्यात् । जातिनिष्ठताशसमूहालंबनज्ञानीयविषयता तु न ताहम- व्यवहारजनकतावच्छेदिका । कथमिति चेत् । अस्य ज्ञानस्यातीतादि- व्यवहारजनकत्वे न जातिविषयकत्वं प्रयोजकम् । जातिविषयकत्वे सत्य- पि जातिरित्याकारकज्ञानादतीतादिव्यवहारानुत्पत्ते. । अपितु कालविष. यकत्वं प्रयोजकमिति कालनिष्ठविषयतैवावच्छेदिका भवितुमर्हतीति न जातावतिव्याप्तिः । नन्वेवमप्यतीतो घट इति व्यवहारे व्यवहर्तव्यतावच्छे दककालस्यव व्यवहर्तव्यघटस्यापि ज्ञानं कारणमिति घटादावतिव्याति- रिति चेत् । तादृशव्यवहारजनकतावच्छेदकीभूतप्रकारतावत्त्वं लक्षणमिति परिकलय । नचैवं घटत्वेऽतिव्याप्तिः । तस्यापि तज्ज्ञाने प्रकारत्वादिति वाच्यम् । धर्मितावच्छेदकताभिन्नत्वेन प्रकारतायाः विशेषणात अथवा तदपि न देयं । घटत्वादेरसार्वत्रिकत्वेन जनकतानवच्छेदकत्वात् । तथाचातीतादियवहारान्यतमजनकतावछेदकप्रकारतावत्वं पूर्वोक्तरीत्या प्रकारतान्यतमवत्त्वं वा कालम्य लक्षणमिति फलितम् । एवं सर्वाधारत्वं सर्वनिमित्तकारणत्वं च कालस्य लक्षण ध्येयम् । ननु दिश्य- तिव्याप्तिः । तस्या अपीहशत्वात् । नच कालिकसंबन्धेन सर्वाधारत्वं निमि- त्तकारणत्वं च विवक्षितमिति वाच्यम् । कालिकसंबन्धन सर्वाधारत्वस्य च दिश्यभावेनातिव्याप्तिवारणसंभवेऽपि कालिकसंबन्धेन कार्यसामान्य २१ मंग्रहार्थसंग्रह प्रति कालिकेन वा म्वाश्रयसंयुक्तसंयोगेन वा अदृष्टादेनिमित्तकारणत्वेन तत्रातिव्याप्ते । मैत्रम् । कालिकसंवन्धावच्छिन्नकार्यवावच्छिन्नकार्य- तानिरूपिततादात्म्यसंवन्धावच्छिन्नकारणताया विवक्षनातिव्याप्तरभा. वात् । दिङ्निष्ठ कारणताया. कालिकसंबन्धावछिन्नकार्यतानिरूपितत्वा- भावात् । अष्टादिकारणतायाश्च तादाम्येनानवच्छेदात् तत्र तत्र नाति- व्याप्तिः । अत्रेदमवधेयम् । कार्यत्वव्यापकत्वं कालस्य लक्षणम् । व्यापकत्वं तादात्म्यसंबन्धावच्छिन्नम्वनिष्ठकारणतानिरूपितकालिकसंबन्धाव- च्छिन्नकार्यतासंबन्धन । व्याप्यता म्वरूपसंबन्धेन । एतत्सूचनायैव च प्राक् कार्यतायां कार्यत्वावछिन्नत्वनिवेश । अन्यथा तद्वैयर्थ्यापत्ते । कृत्यन्तु पूर्ववदेव एवं सर्वाधारस्वमित्यवापि सर्वनिष्ठाऽऽधेयतका न प्रसिध्यतीति सर्वत्वव्यापकत्वं वक्तव्यम् । तत्र व्याप्यत्वं स्वरूपसंबन्धेन । व्यापकत्वं च स्वनिरूपितकालिकसंबन्धावच्छिन्नावेयतासंबन्धेन । इत्यादिक बहुतरमूहनीयम् ! विम्तरमिया नह तन्यते । ॥ ज्ञानाधिकरणमात्मा ॥ अत्राधिकरणपदं कुन उपात्तमिति चेदत्र केचित् । व्यर्थ मदि- ठिन्यायेन समवायेन ज्ञानवत्ताबोधकमिति । वयन्तु बम ! मुक्तात्मन्य- व्याप्तिवारणाय तत् । मुक्तात्मनां गरीराभावेनाव्याप्यवृत्तिज्ञानम्यासंभ वेऽप्यधिकरणम्वरूपाधिकरणताया. व्यायवृत्ते सत्त्वेनादोषान् । !! प्रतिशरीरं भिन्नः ॥ शरीर शरीर प्रतिशरीरमित्यव्ययीमावः । वीप्मा प्रत्यर्थ । साच व्याप्ति । “माकल्यवत्सजातीयव्याप्यत्वं वीप्सयोच्यते, इत्यमि- प्रत्यक्षखंड: २५ धानात् । शरीर इत्यत्र शरीरपदस्य शरीरभेदोऽर्थः । वृत्तित्वं सप्तम्यर्थः । व्याप्तेर्निरूपकत्वसंबन्धेन भिन्नपदार्थैकदेशे भेदेऽन्वयः । तथाच गरीर- भेदवृत्तिव्याप्तिनिरूपकभेदप्रतियोग्यात्मेति वाक्यार्थ । तथाचानेकगरीर- व्याप्तिमानिति लभ्यते । अथवा प्रति शरीरमिति भिन्नं पदम् । शरीर- मिति द्वितीयान्तं । "लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपयनवः" इति सूत्रेण लक्षणार्थकप्रतिपदयोगाच्छरीरपदोत्तरं द्वितीया । तथाच ज्ञानज्ञाप्यत्वरूपं लक्षणं प्रत्यर्थः । शरीरपदस्य शरीरभेदोऽर्थः । विषयत्वं द्वितीयार्थः । भिन्नपदस्य भेदप्रतियोग्यर्थः । तथाच शरीरभेदविषयक- ज्ञानज्ञाप्यभेदप्रतियोग्यात्मेति शाब्दबोधः । अनेनच आत्मानः अनेके प्रतिशरीरं भिन्नत्वात् मनोवत् । नचाप्रयोजकत्वं स्वरूपासिद्धिर्वा । आत्मानः परस्परं भिन्ना. विरुद्धधर्मवत्त्वात् जलानलवत् । अथवा चैत्रो मैत्राद्भिन्नः मैत्रवृत्तिदुःखानुसंधानरूपधर्मविरुद्धसुखानुसंधानरूप- धर्मवत्त्वात् । यो यदृत्तिधर्मविरुद्धधर्मवान् स तस्माद्भिन्न यथा जलवृत्ति- शैत्यविरुद्धोष्णत्ववाननलो जलाद्भिन्नः । अथवा परिदृश्यमानतरीरा- वच्छिन्नभोगवानात्मा तच्छरीरावच्छिन्नभोगवद्भिन्नः तच्छरीरावच्छिन्न- भोगाभाववत्त्वात् व्यतिरेकेण तच्छरीरावच्छिन्नात्मवत् । अथवा एत च्छरीरं तच्छरीरावच्छिजीवभिन्नजीवावच्छेदकं तच्छरीरभिन्नशरीत्वात् व्यतिरेकेण तच्छरीरवत् । नच बाल्ययौवनादिशरीरे योगिगृहीतशरीर च परस्परं भिन्नत्वे सत्यपि विभिन्नजीवावच्छेदकत्वाभावाध्यभिचार इति वाच्यम् । एतच्छरीरविशिष्टशरीरत्वस्य हेतुत्वेन विवक्षणात् । शरीरवैशि- ष्टयं च स्वभिन्नत्वस्व समानकालिकत्वस्वजनकयोगजधर्माजन्यत्वत्रितय- -- 7 संग्रहार्थसंग्रहे संबन्धेन । बाल्यादिशरीरस्य समानकालिकत्वविरहात योगिशरीरे च योगजधर्माजन्यत्वविरहात् अस्मदादिशरीरे च विभिन्नत्वविरहात् तत्र तत्र तत्तच्छरीरावच्छिन्नजीवभिन्नजीवावच्छेदकत्वविरहेऽपि न व्यभिचार इति। यद्वा मिन्नपदस्य भेदप्रतियोम्यबोधकत्वे शरीरपदस्य शरीरभेदाबोधक- खेच भिन्नपदस्य भेदनिरूपिताश्रयतावानर्थः । शरीरपदस्यापि मुख्यं शरीर- मेवार्थः । प्रत्यर्थों वीप्सा सा च व्याप्तिः । तस्याः निरूपकत्वसंबन्धन भेदेऽन्वये व्यापकत्वं लभ्यने । तथाच शरीरव्यापकभेदनिरूपिताश्रयतावा- निति पर्यवस्यति । मेदे शरीरव्यापकत्वं तादाम्येन व्याप्यत्वं च स्वाव- च्छिन्नजीवनिष्ठप्रतियोगितानिरूपकत्वस्वभिन्नशरीरावच्छिन्नजीवनिष्ठानु योगितानिरूपकत्वोभयसंबंधेनेति न कोऽपि दोषगन्धः (१) । यद्वा भेदभ्य व्यापकत्वं पूर्ववतादात्म्येन । शरीरस्य व्याप्यत्वं च स्वाव- च्छिन्नानुयोगितानिरूपकत्वस्वमिन्नशरीरावच्छिन्नप्रतियोगितानिरूपकत्व- तदुभयसंबन्धेन (२) । अथवा शरीरस्य व्याप्यत्वं तादात्म्येन व्यापकत्वं च स्वानुयोग्यवच्छेदकत्वस्वप्रतियोग्यवच्छेदकशरीरभिन्नत्वोभयसंबन्धन (३)। आहोखित शरीरस्य व्याप्यत्वं पूर्ववत्तादात्म्येन । भेदस्य व्यापकत्वं च स्वप्रतियोग्यवछेदकत्वस्वानुयोम्यवच्छेदकशरीरभिन्नत्वैतदुभयसंब- न्धेन (8)। सर्वत्र समन्वयप्रकारः स्क्यमूह्यः । विस्तरभिया नेह प्रपंच्यते । अथ निरन्तेषु कल्पेषु तृतीयचतुर्थयोर्भूताविष्टमैत्रशरीरे व्याप्तिभङ्गः । तथाहि । तादात्म्येन व्याप्यभूतं शरीरं यत्र यत्रेत्युक्तौ- भूताविष्टमैत्रशरीरे। तत्र च स्वानुयोग्यवच्छेदकत्वस्वप्रतियोग्यवच्छेदक- भिन्नत्वोभयसंबन्धेन मेदो नास्ति । कथमिति चेत् स्वं नाम मैत्रजीवे विद्य- प्रत्यक्षखंड: २७ मानः भूतमेदः तदनुयोगी मैत्रः तदवच्छेकत्वं यद्यपि मैत्रशरीरऽस्ति तथापि द्वितीयसंबन्धो नास्ति । स्वं भूतभेदः म्वप्रतियोगी पिशाचः । तदवच्छेदकमेव मैत्रशरीरं अतस्तद्भिन्नत्वं नास्तीति व्याप्त्यभावः । एवं चतुर्थकल्पेऽपि तादाम्येन शरीरं यत्र तत्र पिशाचे विद्यमानः मैत्रमेदो नास्ति । यथा स्वं पिशाचवृत्तिभेद: स्वप्रतियोगी मैत्रः तदवच्छेदकत्वं अस्ति तथापि स्वं तादृशभेद: म्यानुयोगी पिशाचः तदबच्छेदकमेव मैत्र- शरीरमिति तद्भिन्नत्वं नास्तीति व्यभिचारः । न च पिशाचस्य विजातीय- वायवीयविभिन्नशरीरवत्त्वात् कथं तदवच्छेदक मैत्रशरीरं । अन्यथा तस्य पृथक् शरीरवैयापातादिति वाच्यम् । यतो हि अवच्छेदकत्वं नाम भोगसाधनत्वं भोगश्च सुखदुःखान्यतरसाक्षात्कारः । तत्र दुःख- साक्षात्काराय पृथक् तच्छरीरं । सुखसाक्षात्काराय च मैत्रशरीरमपि भवितुमर्हति । अन्यथा तत्र पिशाचस्य प्रवेशेच्छाया एवानुपपत्तेः । अतो नोक्तानुपपत्तिः । न वा व्यभिचारः परिहृत इति । मैवम् । न यस्माभिरात्मवृत्तिसर्वभेदानामेकस्मिन्नेव शरीरे व्याप्तिः प्रतिज्ञाता । येनैव- मुपलभेमहि । किन्तु शरीरव्यापकत्वं भेदस्योक्तम् । नाधुना व्यभिचारः प्रसज्यते । मैत्रशरीरे मैत्रवृत्तिपिशाचभेदस्य पिशाचवृत्तिमैत्रभेदस्य वोक्त- संबन्धद्वयेनासत्त्वेऽपि चैत्रभेदस्योक्तसंबन्धेनाबाधितत्वात् कथं व्यभिचार- प्रसक्तिः । अन्यथा किं पिशाचग्रस्तत्वचिन्तयाऽपि । मैत्रशरीर एव स्वानु- योग्यवच्छेदकत्वसंवन्धेन मैत्रप्रतियोगिकचैत्रवृत्तिभेदस्य स्वप्रतियोग्यव- च्छेदकत्वसंबन्धेन मैत्रवृत्तिभेदस्यासत्वेन व्यभिचारः कुतो न शङ्कित इत्यलम् । आत्मन्याकागवतु विभुत्वसाधक एकत्वविशिष्ठसर्वदेशावच्छे- ।

२८ संग्रहार्थसंग्रहे देनोपलभ्यमानगुणवत्त्वहेतुः नाभिमतः स्वरूपासिद्धिपसङ्गात् । अपि तु अन्यम्मादेव विभुत्वं साधनीयम् । तथाहि । आत्मा विभु परम- महत्परिमाणवत्त्वात् गगनादिवत् । न च म्वरूपासिद्धिः । आत्मा परमम- हृत्परिमाणवान् तदन्यपरिमाणशून्यत्वे सति परिमाणवत्त्वात् । यो यद- न्यपरिमाणशून्यत्वे सति परिमाणवान् स तत्तरिमाणवान् यथा संमत इति सामान्यतो वा गगनादिविशेषदृष्टान्तेन वा परिशेषात्तसिद्धः । न च परिशेषे विशेप्यासिद्धिः । आत्मा परिमाणवान् द्रव्यत्वात् घटवत् । द्रव्यत्वं च आत्मा द्रव्यं गुणवत्त्वात घटवत् । गुणवत्त्वं च गुणवत्त्वेन प्रमीयमाणत्वात् । प्रमा च घटमहं जानामि सुखादिकमनुभवामीत्या- धनुभवसाक्षिका । विशेषणासिद्धिपरिहारस्तु । आत्मा नाणुः सर्वशरीरा- वच्छेदेनोपलभ्यमानयुखाद्याश्रयत्वात् व्यतिग्केण परमाणुवत् । अप्रयोज- कत्वशङ्कायान्तु सर्वशरीरावच्छेदेनोपलभ्यमानसुखाद्याश्रयत्वमेव न स्या- दिति हेतूच्छित्तिरूपबाधकतर्क उन्नेयः । न च तेजसा आत्मनः शरीरे व्याप्त्यङ्गीकारेऽपीदमुपपद्यत इति अप्रयोजकता शंक्या । वेदा- न्तिमतवन्नैयायिकमने आत्मनो ज्ञानरूपत्वाभावेन दीपवत्पभया व्याप्त्ययो- गात् । एवमात्मा न मध्यमपरिमाण: नित्यत्वात् परमाणुवत् । अत्राप्य- प्रयोजकता न शक्या । तथात्वे यन्मध्यमपरिमाणं तदनित्यमिति व्या- रात्मनोऽप्यनित्यत्वापत्तेः । न चेष्टापत्तिः कृतहानाकृताभ्युपगमप्रसङ्गात् जीवनादृष्टाभावापत्तेश्च । अन्यदीयादृष्टस्य अन्यकार्यकारिवायोगाच । पूर्वानुभवाहितसंस्काराभावेनेष्टसाधनतास्मृत्यनुदयन प्रवृत्यनुपपत्या एवं वदतो बालम्य शुष्ककण्ठतया मरणापत्तश्चेति । अत्र बहवो बहुधा प्रत्यक्षखंडः २२. -- वर्णयन्ति । तथाहि शरीरमेवात्मेति केचित् । तेषां मते गौरोऽहं कृष्णोऽहमित्याद्यनुभवः प्रमाणम् । तदुपोहलितानि चाहमिति पदं गरीर- बोधक शरीरनिष्ठधर्मावच्छिन्नबोधकपदसमानाधिकरणत्वात्, यद्यनिष्ठ- धर्मावच्छिन्नबोधकपदसमानाधिकरणं तत्तम्य वोधकं यथा घटनिष्ठधर्माव- च्छिन्नबोधकनीलादिपइसमानाधिकरण, घटपदं घटबोधकम् । अत्रच सामानाधिकरण्यं द्विविध विद्यते, विभिन्नप्रवृत्तिनिमित्तकानां शब्दाना- मेकस्मिन्नर्थ वृत्तिः समानविभक्तिकत्वं चेति, किंच शरीरं चेतनं शरीरत्वात् व्यतिरेकेण घटवदित्यादीनि साधकानि प्रमाणानि । इन्द्रियाण्यवात्मेति स्वतंत्राः । अत्र च शरीरस्य चैतन्यपक्षे योऽयं मृतशरीरादौ व्यभिचारः प्रदर्शयिप्यते स नास्तीत्यभिमान एव मानम् । श्वासोछासावेवात्मेत्यपरे । अत्र किं तत्वमिति विचारणायामाद्यः कल्पस्तावन्न शोभते । तथाहि । शरीरमात्मेति वदन् प्रष्टव्यो भवति । किं शरीरं पदार्थान्तरं वा पांचभौतिक वा । नाद्यः पांचभौतिकत्वेन शतशो ह्यनुभूयमानस्य सहस्रशः श्रुतिपुरा- णादिषु गीयमानस्य कोटिया कविभिवर्ण्यमानस्यानुपपत्तिप्रसङ्गात् । अतोऽभ्युपेयो द्वितीयः कल्पः । अस्मिन् पक्षे च प्रत्येक पंचभूतेषु अदृश्यमानस्य चैतन्यस्य मिलितेऽपि शरीरे कथमुत्पत्तिरिति शङ्का दुरु- द्धरा । अत्रच तन्मतानुयायिनः हरिद्रासुधयोः प्रत्येकमविद्यमानस्यापि रक्तिन्नो यथा संयोगविशेषात् मिलिते उत्पत्तिः एवमेव पंचभूतेष्वपि मिलितेषु संयोगविशेषाच्चैतन्योत्पत्तिरिति ब्रुवते । विषमोऽयमुपन्यासः । एवमापादयतस्तस्यानयैव चिन्तया कदाऽपि सति शरीरे मृतिन स्यादिति कुशला वयं तर्कयामः । यतो हि मिलिते उत्पन्नस्य रक्तिन्नो यथा यावद्दव्यं । 8 ३० संग्रहार्थसंग्रहे नास्ति नाशः । तथा चैतन्यस्यापि नाशाभावप्रसङ्गात् । अनुमानन्तु मम शरीरमित्यादिभेदानुभवबाधितम् । अतएवाऽऽबालवृद्धं परिदृश्यमानं मृत शरीरमुद्दिश्य जीवो गतोगतो जीव इति प्रतीति व्यवहारावबाधितायुपपद्यते। अनेन मम शरीरमिति प्रतीतिव्यवहारौ राहोः शिर इति वत् गौणत- योपपद्यते । सत्यपि शरीर संयोगविशेषाज्जातरक्तिन्नोऽपि नाश उपपद्य- ताम् । नहि सुधाहरिद्रयोः सतोसंयोगविशेषात् जातरक्तिनो नाशाभावे अनेनापि चैतन्येन सति शरीर नाशशून्येन भाव्यमित्यत्र राज्ञामाज्ञाऽस्ति । न हि दृष्टान्ते सर्वसाम्यमपेक्षितम् । तथात्वे पर्वतत्वशून्यस्य महानस- स्याप्यदृष्टान्तत्वापातेन बहसमंजसं स्यादिति विषमोऽयमुपन्यास इत्याद्युक्तं दुरुक्तमित्यपास्तं । उक्तानुभवस्य गत्यन्तरशू-यस्य जागरूकत्वात् । किंचेत्याधुक्तशरीरत्वानुमाने च मृतशरीरे व्यभिचारः। इदंच “शरीरस्य न चैतन्यं मृतेषु व्यभिचारत''इत्यादिवदता विश्वनाथपंचाननभट्टाचार्य गापि प्रत्यपादि । अपिच चैतन्यं न शरीरवृत्ति । शरीरावच्छेदककाल- त्वव्यापकाधेक्ताशून्यत्वात् व्यतिरेकेण शरीरत्ववत् । इति सत्प्रतिपक्षितं च पूर्वानुमानम् । इदमपि च सूचितं "शरीरस्य न चैतन्यमित्यादिना । किंच शरीरस्यात्मत्वकल्पे कृतहानाकृताभ्यागमप्रसङ्गोऽपि नैव वारितो भवतीति । स्वतन्त्राणामिन्द्रियात्मत्वपक्षोऽपि न युक्तिपथमवगाहते । वोऽहमद्राक्षं सोऽहमिदानी स्पृशामीत्यनुभववाधितत्वात् स्पष्टुर्दष्टश्चैक्य- मवगाहमानोऽयमनुभवः भिन्नयोश्चक्षुस्त्वचोरात्मत्वं नानुमनुते । आस्ता- मयमनुभवविचारः । बहिरेव तावदिन्द्रियात्मत्वकल्पो न शोभते । तथाहि । किं प्रत्येकमिन्द्रियस्थाऽऽत्मत्वं प्रतिजानीष मिलितानां वा प्रत्यक्षखंडः नाद्यः । कस्यात्मत्वमिति केनचित् पृष्टः किमङ्ग बयाः । इदमिन्द्रिय- मात्मेत्यत्र एकत्र पक्षपातिन्या युक्तेरभावात् । किंच विना निनिगमकं तुप्यतुन्यायेन चक्षुरात्मेत्यभ्युयगच्छामः । तथापि यदि नाम शास्त्रवि- रुद्धभाषिणः अतएव जातादुरदृष्टादान्ध्ये तव समुपगते तच्छरीरस्य मृत- शरीरप्रायत्वाहाहादिसम्कारः करणीयः स्यादिति यत्किचिदेतत् । न द्वितीयः । मिलितानामात्मत्वं वदन् किमेकैकत्रात्मत्वमभ्युपैति न वा । आये आद्योक्तदोषः । द्वितीये मिलिनेषु विद्यमानात्मत्वमेकैकेन्द्रियनाशे- प्यपयाति न वा । नाद्यः । यतश्चक्षुर्नाशे सति जीवत्येव त्वयि उक्तं दाहप्रसङ्गं स्मृत्वा तूष्णीमासितव्यम् । द्वितीय तु एकैकेन्द्रियनाशेऽप्युव- रितकैकेन्द्रिये विद्यमानमात्मत्वं न मिलितेषु पर्याप्तम् । अपि तु एकैक- मेव पर्यामुयादिति स एव दुरात्मा प्रथमकल्पोक्तदोषः । अपि च शरीरा- धिष्ठातृणां बहूनामङ्गीकारे अस्मन्मत इवाधिष्ठातुरेकाभिप्रायवतोऽभावात् । तेषां बहूनां च प्रायः अभिप्रायैक्यासंभवान्नानादिक्षु विद्यमानैः पुरुषैरा- कृष्यमाणस्य पटस्येव काश्यादिजिगमिषुभिरिन्द्रियैरधिष्ठातृत्वेन संमतैरा- कृप्यमाणस्य शरीरस्य विदारणं स्यात् । स्याच्च नियमेनकत्राप्रवृत्तिः । एकस्य मनसस्तथात्वे तु “मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेतु" इत्युक्तसुखाद्यप्रत्यक्षत्वापत्तिदूषणं बोध्यम् । श्वासोच्छासावेवात्मेत्यपि न प्राज्ञसमतम् । तथात्वे श्वासमहं बध्नामि उत्सृजामीत्यादिबद्धत्वबन्ध- कत्वादिविरुद्धधर्मावगाहनुभवविरोधापातात् । किंच सभायां तावल्लौ- किकी रीतिमनुरुध्य वक्तव्यं । नचेद्वहिष्कार्यः स्यात्सभातः । प्रकृते च खुप्तिकाले सकलेन्द्रियाणामुपरमेऽपि श्वासोछासयोः प्रवृत्तिर्दृष्टा । न ह्येवं ३२ संग्रहार्थसंग्रह लौकिकानामनुभवः । यतोऽभिजनवतो गृहस्थम्य गृहे पूर्वमुप्तिः तदनु भृत्यानामिति । एवमेव मावलिकोऽप्यनुभवः । यन्नियम्यव्यापारनिवृत्ति- नियामकन्यापारनिवृत्युत्तरकालिकीति । न तु कदाऽपि नियामके व्याप्रिय- माणे सति नियम्याः मुखासीना भवन्तीति। प्रकृते तु विपरीतम् । यजमानस्य सर्वदा प्रवृत्ति भृत्यत्वेनाभिमतानामिन्द्रियाणान्तु स्वछन्दं सुषुप्तिरिति । अतः मुळूक्तं जीवस्तु प्रतिशरीरं भिन्नो विभुनित्यश्चेति । अत्र प्रथमतोऽ- विभक्तस्येश्वग्म्य प्रथमं लक्षणकरणे किं बीजम् । न तावत्प्राधान्यम् । तथासति विभागेऽपि पूर्वमुक्त्यापत्तेरिति चेत् सूचीकटाहन्यायेनेश्वरः प्रथमं लक्षित इति विज्ञायताम् । विभागे पूर्वपातित्वाभावस्तु महामल्ल- भङ्गन्यायानुसारेण बोध्यः । नन्वाभ्यामेव न्यायाभ्यां वैपरीत्यं किं न स्यादिति चेदस्त्यत्र नियामकान्तरम् । जीवस्य बहुवादिसंमतत्वात प्रथमतो निर्देशः । उक्तन्यायात्प्राधान्याच्च प्रथमतः ईश्वरस्य लक्षणकर- णमिति । ईश्वरसत्त्वे प्रमाणन्तु कार्यत्वानुमानम् । तेन सामान्यत: सकर्तृ- कत्वे सिद्ध क्षित्यकुरादिकमस्मदाद्यतिरिक्तकर्तृक बाधितास्मदादि- कर्तृकत्वे सति सकर्तृकत्वात् । यहाधितयत्कर्तृकत्वे सति स कर्तृक तत्तदतिरिक्तकर्तृकं यथा बाधितकुलालकर्तृकः सकर्तृकः पटः कुलाला- तिरिक्तकुविन्दकर्तृक इति परिशेषादतिरिक्तेश्वरसिद्धिरिति । मनःसत्त्वे प्रमाणन्तु सुखादिसाक्षात्कारः सकरणकः क्रियात्वात घटसाक्षात्कार- वत् । अनेन सकरणकत्वे सिद्ध सुखादिसाक्षात्कारः चक्षुराद्यतिरिक्त- करणक: बाधितचक्षुरादिकरणकत्वे सति सकरणकत्वात् कुठारादि. करणकछिदिक्रियावत् । चक्षुरादिकरणकत्वबाधस्तु अन्धबधिरादीनामपि प्रत्यक्षखंडः मुखा दिसाक्षात्कारानुभवातु । अनेन किमुक्तं म्यादिति चेदेवमवे. हि । मुम्वादिसाक्षात्कार. न चक्षुःकरणकः चक्षुयभिचारित्वादन्धगम- नादिक्रियावत् । एवमन्येप्वपीन्द्रिवेषु व्यभिचारो बोध्यः । ननु मुम्वमा- क्षात्कारस्य चक्षुराधकरणकत्वेऽपि त्वकरणकत्वाङ्गीकारे न किमपि बाधक पश्यामः । चक्षुरादिशून्यवन् न हि कश्चिदपि त्वगिन्द्रियशून्यः सुख- मनुभवन् दृष्टः । अतो न मन मिद्धिरिति चेत्तयनयैव स्वकाणकन्न चिन्तया म्याचक्षुषो निनिमेषत्वम् । यतम्त्वगिन्द्रियस्य सर्वशरीरज्या पित्वेन तसंयोगरूपव्यापारम्य चात्मनि सर्वदा सत्त्वेन ज्ञानधाराप्रसङ्गेन सुप्त भावापत्तेः । न ह्यस्मन्मत इव पुरीतन्न ब्यतिरिक्तदेशावच्छेदेन संयोग कारणमिति वदन् कृती म्यात् । त्वगिन्द्रियम्य व्यापित्वोक्ते । अत- म्त्वगिन्द्रियम्य करणम्य सत्त्वेऽपि सुप्तिकाले सुवादिसाक्षात्कारा- ननुभवेनान्वयव्यभिचारात्त्वकरणकत्वासिद्ध्याऽतिरिक्तमेव करणं मन सिध्यतीति । तच्चाणु । तदितरपरिमाणशून्य वे मति परिमाणवत्त्वात् परमाणुवन् । परिमाणवत्त्वं च द्रव्यत्वात् सेत्स्यति । तच्च क्रियावत्त्वात् । सा च मनस्तत्र गतं इदानीं नास्तीत्यनुभवान् सिध्यति । ननु कथमि. तरपरिमाणशून्यत्वं । तथाहि । मनो विभु स्पर्शरहितत्वे सति द्रव्य- त्वात् गगनवत् । अत्र च क्रमेण घटरूपयोर्यभिचारवारणाय मत्यन्तवि- शेष्यभागावितिन्न । यतो हि अनुकूलतर्कसनाथा एव हेतवो हेतवः । प्रकृते तदभावादप्रयोजकता । अन्यथा गन्धवव्यं न पृथिवी मूर्तत्वात् जलादिवत् । गगनं वा न शब्दवत् विभुत्वादिगादिवदित्यादिकं स स्यात् । स्याच्च आत्मा भवान्वा न ज्ञानी विभुत्वात् भवत्त्वाद्वा 9 संग्रहार्थसंग्रह ३४ गगनवत् व्यतिरकण मद्वेति । सर्वमिदं वस्तुतत्वमनवलंव्याभिहि- तम् । वस्तुतस्तु आत्मनो विभुत्वस्य पूर्वमुपपादितत्वात् । मनसोऽपि विभुत्वाङ्गीकारे विभुद्वयसंयोगाभावेनात्ममनसो संयोगरूपम्य ज्ञानकारण- स्याभावप्रसङ्गेन आत्मा न ज्ञानीत्याधुक्तानुमानम्य तकसनाथत्वापत्ति. ! विभुद्वयसंयोगांगीकारेऽपि अनित्यसंयोगसामान्यस्य क्रियाकारणकत्वेन विभ्वोम्तयोश्च क्रियाशून्यतया जन्यसंयोगासंभवे नित्यसंयोगप्रसङ्गेन पुनः सुषुप्त्यभावप्रसङ्गो दुर्वार इति बाधकतर्कसंभवान्न विभु मन. । नापि मध्यमपरिमाणं तथात्वेऽनित्यत्वप्रसङ्गात् । न चेष्टापत्तिः । तात्ममनसोः कार्यकारणभावज्ञाप्यज्ञापकभावाद्यभावेन मनःशून्योऽप्यत्मा कचिदनु- भूयेत । तम्य चानुभवासंम्पर्शनाप्रामाणिकतयाऽङ्गीकर्तुमशक्यत्वात् अनुभवश्व सार्वत्रिक मनसैवाहं व्यज्ञासिषं मनसैव तमर्थमस्पाक्ष नेनैवचात्याक्षमित्यादिमन.साहित्येनैवात्मानं गोचरयति । नचेदानी मन्मनो नासीदित्यादेः मनःशून्यतयाप्यात्मविषकानुभवस्य जागरूक- तया पूर्वोक्त विभीषिकामात्र न बाधनक्षममिति वाच्यम् । यतो ह्यस्मिन् विषये मम मनो नासात किन्तु अन्यत्र गतमित्याद्यनुभवेन विषयविशेषे मनः शून्यस्याप्यात्मनो विषयान्तरे तत्साहित्येनैव विषयतया विषयविशेष- मन्तरा सर्वथा मन शून्यतयाऽऽत्मनोऽनुभवस्यालीकत्वात् । तथाच मनो न मध्यमपरिमाणं नित्यत्वात् गगनादिवत् उक्तः सोऽपि हेतूच्छित्तिरूपः विपक्षे बाधकम्तक इति । तथाच हेत्वसिद्धिशङ्काविरहसहितेन पूर्वोक्तपरि- शेषानुमानेन मनसोऽणुत्वसिद्धिः । मुक्तावल्यान्तु “अयोगपद्याज्ञानाना" मित्यादिना मूलेन युक्त्यन्तरमेवोपन्यातम् । अधिकमन्यत्रानुसन्धेयमित्थलं ।

प्रत्यक्षखंड: ३५ || चक्षुर्मात्रग्राह्यो गुणो रूपम् ॥ अत्र मात्रपदार्थः इतरत् अभावश्च । जन्यत्वं तृतीयार्थः । चक्षु:- पदार्थम्य प्रतियोगितासंबन्धेनेतरपदार्थकदेशभेदेऽन्वयः । इतरस्य नि- रूपितत्वसंबन्धेन तृतीयार्थजन्यत्वे। तस्य स्वनिष्ठप्रतियोगितानिरूपकत्वसंब- न्धेन अपरमात्रपदार्थाभावें । चक्षुषो निरूपितत्वेन तृतीयार्थजन्यतायां । तम्या: अभावस्य चम्वरूपेण ग्रहधात्वर्थेऽन्वय । तथाच चक्षुरितरनिरूपितज- न्यत्वाभाववच्चक्षुर्निरूपितजन्यतावत्ज्ञाननिरूपितविषयतावदभिन्नगुणाभिन्नं रूपमिति बोधः । अस्मिन्नथे संख्यायामतिव्याप्तिः संख्याविषयकचाक्षुष- ज्ञाने चक्षुजन्यत्वतदितातराजन्यत्वयोः सत्त्वात्तादृज्ञानविषयतावद्गुणत्वस्य संख्यायामबाधादिति कल्पान्तरमेव केचिन्समाश्रितवन्तः । तथाहि । मात्रादिपदानामर्थः पूर्ववत् । तत्र चक्षुषोऽनुयोगितासंबन्धेन इतरपदा- थैकदेशे भेदे इतरस्य जन्यतायां तस्याः ज्ञाने तस्य विषयतायां तस्याः अपरमानपदार्थाभावें । एवं चक्षुषो जन्यतायां तस्याः ज्ञाने तस्य विषय- तायां तद्वतोऽभेदेन गुणे इत्यादि पूर्ववत् । तथाच चक्षुरितरनिरू पितजन्य- तावत्ज्ञाननिरूपितविषयत्वाभाववच्चक्षुनिरूपितजन्यतावत्ज्ञाननिरूपितविष- यताचदभिन्नगुणाभिन्न रूपमिति । अत्रच कल्पे द्वीन्द्रियग्राह्यसंख्यायां चक्षुरितरेन्द्रियजन्यतावत्ज्ञाननिरूपितविषयत्वाभावाभावात न पूर्वोक्ताति- व्याप्तिः । अस्मिन् कल्पेऽपि 'सकृदुच्चरितः शब्दः सकृदेवार्थ गमयति' 'एकत्र विशेषणत्वेनोपस्थितस्य अन्यत्र विशेषणत्वेनान्वयायोगात' 'प्रत्य- यानां प्रकृत्यान्वितम्वार्थबोधकत्व'मित्यादिबहुन्यायविरुद्धत्वादप्रामाणि- कत्वं दुर्वारम् । तथाहि सकृदुच्चरितम्य चक्षुःपदस्य द्विवारमन्वयार्थं संग्रहार्थसंग्रह । द्विरुपस्थितिकल्पना । एवमितरपदार्थैकदेशभेदे विशेषणत्वेनान्वितम्य चक्षुषः तृतीयार्थजन्य वे विशेषणत्याऽन्वयः । ग्राह्येत्यत्र यत्प्रत्ययार्थविषय- नायाः प्रकृत्यर्थभिन्ने मानपदार्थाभावेऽन्वयः । एवं विषयतावद्रूपविशि ष्टार्थमध्ये विषयतारूपमेकदेश विभज्यान्यनान्वयकल्पनाप्यप्रामाणिकीति । अतोमुमपि कल्पं विहायान्येऽन्यमेवोपाददुः । तथाहि । केलं चक्षुः चक्षुर्मात्रमिति मयूरव्यंसकादित्वादस्वपदविग्रहः । तत्र कैवल्यं मात्र- पदार्थः । कैवल्यं च स्वभिन्नत्वप्रकारकतात्पर्यविषयनिरूपितसंबन्धवि- शेषावच्छिन्नकिंचिनिष्ठाभावीयप्रतियोगित्वम् । तम्य म्वरूण चक्षुप अन्वयः । चक्षुषो निरूपितत्वेन जन्यत्वे तम्य ज्ञाने इत्यादि पूर्ववत् । एवंच निरुक्तकैवल्यवच्चक्षुर्निरूपितजन्यतावत्ज्ञाननिरूपितषियतावन- भिन्नगुणाभिन्न रूपमिति विशिष्टवाक्यार्थः संपन्नः । समन्वयप्रकारग्तु स्वपदेन चक्षुष उपादाने म्वभिन्नत्वपकारकतात्पर्यविषयम्त्वगादि तन्नि रूपितसंबन्धविशेषो नाम ग्राह्यत्वरूपः तेन संवन्धन चल रूपे नास्तीति । किंक्पिदेन रूपोपादाने तन्निष्ठाभावः चक्षुष इति ईशाभावीयनिरुक्त. संबन्धावच्छिन्नप्रतियोगित्वरूपं कैवल्यं चक्षुषीति । अत्र केचन पूर्वपक्ष यन्ति । तथाहि । चक्षुर्मिन्नाग्राह्यत्वे सति चक्षुह्यत्वं पर्यवसितार्थ नचेदं रूपे संभवति । रूपस्य चक्षुभिन्नसन्निकर्षग्राह्यत्वात् । एवं चक्षु- मिन्नरूपग्राह्यत्वाच्च । रूपस्यापि स्वप्रत्यक्ष प्रति विषयविधया कारणत्वेन रूपग्राहकत्वात् । 'नच स्वसजातीयस्वभिन्नाग्रह्यत्वे सति चक्षुह्यन्त्रम्य तदर्थत्वान्नेयमापत्तिः । साजात्यं च इन्द्रियत्वेन विवक्षितम् । तथाच सन्निकर्षादीनांप्रमेयत्वादिना स्वसाजात्येऽपीन्द्रियत्वेन तदभावान्नतबाह्यत्व- प्रत्यक्षवंड: ३७ - मादायासंभवः संभवतीति वाच्यम् । तथापि इन्द्रियत्वेन सजातीयचक्षु- भिन्नमनोग्राह्यत्वमादायासंभवम्य दुरित्वात् । तथाच स्वभिन्नमनोग्राह्य त्वसंबन्धन चक्षू रूपे वर्तत इति तदभावाभावाल्लक्षणानुपपत्तिरिति । समा दधने चेतरे । चक्षुभिन्नत्वगाद्यग्राह्यत्वस्य तदर्थत्वान्नोक्तासंभवः । नच सामान्यव्यवच्छेदकम्य मात्रपदस्य त्वगादियत्किचिन्यवच्छेदकत्वे गगनादियत्किचियावृत्तत्वेन रूपं पृथिवीमात्रवृत्तीति प्रयोगापत्ति । नचेष्टा- पत्तिः । तथाप्रयोगस्यानानुभविकत्वात् । अतः सामान्यव्यवच्छेदकत्वम्य वाच्यत्वे मनसोऽपि चक्षुभिन्नपदेन संग्रहादुक्तदोषो दुर्वार इति वाच्यं । गृहे रामकृष्णौ विद्यते नवा इति पृष्ठे राममालो वर्तते इत्यादिव्यवहार स्य सांव्यवहारिकत्वेन यत्किचियवच्छेदकत्वस्यापि सत्त्वात् । नच प्रश्नसमभिव्याहृतमात्रशब्दम्य यत्किचियावर्तकत्वेऽपि प्रकृते प्रश्नासम- भिव्यवहारात्कथं यत्किचिच्यावर्तकत्वमिति वाच्यम् । ग्रन्थस्यापि गुरुशिष्ययोः प्रश्नोत्तररूपत्वात् प्रकृतेऽपि प्रश्नसमभिव्याहारादिति । अथवा चक्षुरितरयत्किचिदिन्द्रियवत्वावच्छिन्नजनकतानिरूपितजन्य- तानवच्छेदिका चक्षुर्जन्यतावच्छेदिका या विषयिता तन्निरूपकत्वे सति गुणत्वं रूपस्य लक्षणम् | नाधुना मनोग्राह्यत्वेऽप्यसंभवः । रूपनिरूपित. विषयिताया मनोजन्यतायामनवच्छेदकत्वात् । रूपनिरूपितविषयिताया मनोजन्ययावत्ज्ञानेष्वसत्त्वेन न्यूनवृत्तितया न्यूनवृत्तेरनवच्छेदकत्वादिति । तदुभयमपि परे प्रत्याख्यातवन्तः । तथाहि यदि गुरुशिष्ययोः प्रश्नोत्तर- रूपत्वाद्न्यस्य प्रश्नसममिव्याहृतत्वमुपपाद्य यत्किचिदिन्द्रियाग्राह्यत्वा- थकतां व्याख्यायासंभवः परिहियते तदा गन्धनिरूपणावसरे पृथिवीमात्र- 10 संग्रहाथसंग्रहे ३८ । वृत्तिरित्युक्तावपि अस्याप्युक्तन्यायेन गन्धः पृथिव्यां जले वेति शिन्य. प्रश्नसमभिन्याहृत वसंभवेन जलमात्रन्यावृत्तत्वनिश्चयेऽपि गगनादिवृत्ति त्वसंदेशानिवारणप्रसङ्गान् । नचेष्टापत्तिः । लोके तथा संदेहस्यानानुभविक त्वात् । द्वितीयसमाधानन्त्वतीव तुच्छम् । यदि निखिलज्ञानेषु अविद्य- मानत्वाद्र्पविषयिता न मनोजन्यतायामवच्छेदिका तर्हि का सा विषयिता याऽवच्छेदिका भवेत् । कम्या अपि विषयितायाः यावज्ज्ञानवृत्तित्वा- भावात् । तथाचाप्रसिद्धिः। एवं न्यूनवृत्तितया संख्यानिरूपितविषयि- ताऽपि न त्वरजन्यतावच्छेदिकति संख्यायामतिव्याप्तिः । न च चक्षु- जन्यतावच्छंदकत्वम्य संख्याविषयितायामभावान्नेयमतिव्याप्तिरिति वा- च्यम् । तथासत्यसंभवापत्तेः । नहि रूपविषयिता चक्षुजन्येषु याव ज्ज्ञानेषु विद्यत इति न्यूनवृत्तितया साऽपि न चक्षुजन्यतावच्छेदिकेति । अतस्तदुभयमप्यसदित्युक्त्वा व्याख्यातवन्तश्च लक्षणमन्यथैव । तथाहि । चक्षुरितरेन्द्रियाग्राह्यत्वं नाम चक्षुभिन्नेन्द्रियसन्निकर्षविशिष्टविषयता- शून्य वम् । वैशिष्टयं च म्वसामानाधिकरण्यस्वप्रयोज्यत्वोभयसंबन्धेन । अतो नासंभवः । भिन्नन्द्रियपदेन मनसो ग्रहणेऽपि सामानाधिकरण्य- वटितोमयसंबन्धेन मन-सन्निकर्षवैशिष्टयस्य रूपविषयतायामभावात् । नातिव्याप्तिश्च संख्यायां । तद्विषयतायाश्चक्षुभिन्नत्वगिन्द्रियसन्निकर्षवि शिष्टत्त्रात् । अत्र सामानाधिकरण्यमात्रनिवेशे रूपमनसोरुदासीनं सन्नि कर्ममादाय रूविष्यतायां मनःसन्निकर्षवैशिष्ट्यस्य सत्त्वादसंभवः । एवं प्रयोज्यत्वमात्रनिवेशेऽपि ज्ञान कारणीभूतात्ममनःसन्चिकर्षमादाय तद्वैशि- ध्यम्य रूपविषयतायां सत्वात्स एव दोष इति संबन्धयोपादानम् ।

प्रत्यक्षखंडः एवंच परमाणुरूपादावव्याप्तिवारणाय चक्षुर्भिन्नेन्द्रियसन्निकर्षविशिष्टविष- यतावदवृत्तिचक्षुःसन्निकर्षविशिष्टविषयताबद्वत्तिजातिमद्गुणत्वमिति लक्षणं परिष्करणीयमिति प्राहुः । एतेन ननु स्त्रीसौभाग्येऽतिव्याप्तिः । चक्षुर्मि- नाग्राह्यत्वपदेन चक्षुर्भिन्नेन्द्रियजन्यपत्यक्षाविषयत्वम्येदंरूपबत् त्वम्वत्त्वा दित्याद्यनुमानजन्यज्ञानविषयरूपे असंभववारणाय विवक्षणीयतया अदृष्टा- परपर्यायसौभाग्यम्यापि चक्षुर्भिन्नेन्द्रियजन्यपत्यक्षाविषयत्वात् । इयं भा- ग्यवती एणाक्षित्वात् व्यतिरेकेणास्मद्गृहिणीवदित्यादिचक्षुरूपानुमान जन्यज्ञानविषयत्वाच्च भाम्यस्य । न च चक्षुजन्यज्ञानपदेन प्रत्यक्षरूप. ज्ञानस्य विवक्षितत्वान्नेयमतिव्याप्तिरिति वाच्यम् । तथाऽप्यन्धकारे त्वचा पुस्तकज्ञानदशायां स्वसंयुक्तसंयुक्तात्मवृत्त्युद्धद्धसंस्काररूपालौकिकप्रत्या. सत्त्या त्वचा रूपस्यापि ग्रहणादसंभवः । अत्याप्तिर्वा । स्वभिन्न न्द्रियजन्यप्रत्यक्षपदेन लौकिकप्रत्यक्षविवक्षणेऽपि स एव दोषः । तस्या- पि त्याचप्रत्यक्षस्य पुस्तकांशे लौकिकत्वात् । यदिच चक्षुर्भिन्नेन्द्रियः जन्यतावच्छेदकविषयतायां लौकिकसन्निकर्षप्रयोज्यत्वं निवेश्य पुस्तक- विषयताया लौकिकसन्निकर्षप्रयोज्यत्वेऽपि रूपविषयतायास्तदभावेन नोक्तदोष इति क्भिाव्यते तदा स्त्रीभाग्येऽतिव्याप्ति । तम्यातीन्द्रियत्वेन चक्षुभिन्नन्द्रियजन्यतावच्छेदकीभूतलौकिकसन्निकर्षप्रयोज्यविषयताशून्य त्वेन सत्यताक्रान्तत्वात् । चक्षुजन्यप्रत्यक्षविषयत्वाच्च । नचातीन्द्रियस्य कथं प्रत्यक्षत्वमिति वाच्यम् । भाग्यवतीयमेणनयना इति नायनप्रत्यक्षेण पूर्वोक्तानुमित्यात्मकालौकिक्सन्निकर्षेण जन्येन, तज्जन्यसंस्कारेण जन्ययाऽलौकिक्या स्मृत्या वा तत्र भाग्यस्य विषयीकरणात्। यदि नाम संग्रहार्थसंग्रहे । चक्षुर्जन्यतावच्छेदकीभूतविषयतायामपि लौकिकसन्निकर्षप्रयोज्यत्वं नि- वेश्याताहविषयतावति भाग्येऽतिव्याप्तिर्वायते । तदा वार्यतामय दोषः । तथापि सार्पशब्दे अतिव्याप्तिदुर्वारा । सर्पम्य चक्षुःश्रवस्त्वेन श्रोत्राभावेन चक्षुषेव शब्दप्रत्यक्षजननात् । नच तत्रेन्द्रियान्तरं शक्यम् । चक्षुषी एव श्रवसी यस्येति विग्रहविरोधात् । नचैवमेव विग्रह कर्तव्य इति न हि राज्ञामाज्ञाऽस्ति । चक्षुप्येव श्रवसी यम्येति विग्रहम्यापि संभवादिति वाच्यत् ! संभवति समानाधिकरणबहुव्रीहौ व्यधिकरण- बहुव्रीहे: जघन्यत्वेनानादरणीयत्वाम् । “धर्मिकल्पनातो धर्मकल्पना लघी- यसीति' न्यायेन चक्षुषि इन्द्रियान्तरकल्पनापेक्षया चक्षुष एव शब्दग्राह- कत्वकल्पनायाः लघीयम्त्वाच्च । नचादृष्टकल्पनापेक्षया दृष्टधर्म्यन्तरकल्प- नव लघीयसीति वाच्यम् । चक्षुषि इन्द्रियान्तरस्याप्यदृष्टत्वेनादृष्टकल्प- नायाः उभयत्र तौल्ये धर्मिकल्पना परमतिरिच्यते भवताम् । अन्यथा मार्जारस्याऽऽलोकासहकारेऽपि रूपवव्यग्रहणसमर्थमिन्द्रियान्तरं घूकस्य रात्रावेव रूपवव्यग्रहणसमर्थमपरमिन्द्रियं कल्पनीयमिति धर्मिकल्पना- प्रयुक्त बहिन्द्रियकल्पनाप्रयुक्त चेति गौरवद्वयापत्तेरिति चेदत्र केचित् ! चक्षुषि अष्टशद्वग्राहकत्वकल्पनापेक्षया दृष्टकल्पनायाः गौरवं भूषणमेव । तथाच तव तत्र पृथगिन्द्रियाणि कप्ल्यन्त इति नोक्तदोषा- वकाश इति समादघिरे । यद्यप्यत्र गुणदोषचिन्तायां मार्जारघकादि- प्यन्यवादृष्टेन्द्रियान्तरतत्तत्पदार्थग्राहकत्वरूपधर्मधर्म्युभयकल्पनासद्भावात् पूर्वोक्तधर्मकल्पना पेक्षया दृष्टकल्पनस्यैव गुरुत्वं प्रतिभाति । तथापि अदृष्टयमकल्पनाया विचारासहत्वादिदं भूषणमित्यभिहितम् । तथाहिं ।

प्रत्यक्षांवडः । चक्षुप एव शब्दग्राहकवं वदन् पष्टव्यो भवति । किं चक्षुः संवद्धं शब्द. प्रीतिं जनयति । उतासंबद्ध। आधे संबन्धः कः संयोगः समवायो चा । नाद्य द्रव्यद्रव्ययोरेव संयोग इति नियमात् । नान्न्यः शब्दम्य चक्षुरगुणत्वेन प्रत्युताकाशगुणत्वेन शब्दचक्षुषोः समवायाभावात् । न द्वि- तीयः । असंबद्धस्य चक्षुषो ग्राहकत्वे विटेशस्थघटादिग्रहणप्रसङ्गात् । सर्वमिदं मनसि निवाय गौरवं भूषणमित्यंग्यकार्पः । परे तु चक्षुभिन्न न्द्रियाग्राह्यत्वे सति चक्षुर्ग्राह्यत्वमित्यत्र चक्षु पदं शब्दाग्राहकचक्षु परम् । तथाच शब्दाग्राहकचक्षुभिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति चक्षुर्जन्य- प्रत्यक्ष विषयत्वमिति फलितम् । इत्थं च सत्यन्ताक्रान्तत्वाभावात् नातिव्याप्तिः । शब्दाग्राहकचक्षुर्भिन्नेन्द्रियपदेन सर्पचक्षुषोऽपि ग्रहण. संभवेन तद्ब्राह्यत्वस्यैव सर्पश्रुतमब्दे सद्भावादित्याहुरित्यादि सर्व कोला- “हलजातमपास्तं । परमाणुरूपेऽव्याप्तिवारणाय जातिघटितलक्षणस्यावश्य वाच्यत्वात्तत एव सर्पश्रुतशब्देऽतिव्याप्तेरभावेन पूर्वोत्तरपक्षयोरनवका- शात् । स्त्रीभाग्येऽतिव्याप्तिशङ्का नोदेति । सन्निकर्षविशिष्टविषयतेत्यत्र सन्निकर्षपदेन लौकिकसन्निकर्षस्य विवक्षितत्वादिति सुन्दरः पन्थाः । । रसनाग्राह्यो गुणो रसः ।। अयं सुकृती मधुरग्राहकरसनेन्द्रियवत्त्वादिति शिरोगतपित्तवि- कृतजिह्वपुरुषसमवेतरसनेन्द्रियजन्यानुमितिविषय सुकृतेऽतिव्याप्तिवारणाया- लौकिकसन्निकर्षमादाय गुडादावप्यतिव्याप्तिवारणाय लौकिकपत्यक्षपर- तया ग्रहधातोर्विवक्षणेऽपि गुडादिप्रत्यक्षे रसांशे लौकिके भातगुडादौ पुन- तिव्याप्तिवारणाय रसनाग्राह्यपदं रसनेन्द्रियजन्यज्ञानीयलौकिकसन्निकर्ष 11 संग्रहार्थसंग्रह ४२ । प्रयोज्यविषयता बनर्थकत्वेन व्याख्येयम् ! अथ परमाणुरसेऽव्याप्तिवारणाय श्सनेन्द्रियजन्यप्रत्यक्षविषयजातिमदर्थकत्वेन त-पदम्य पुनरपि व्याख्येय तया तत एव रमत्वेऽननिव्याप्तेर्गुणपर्ट व्यथमिति चन । रसनेन्द्रियजन्य प्रत्यक्षविषयगुणत्यसत्ताजातिमादाय रूपादावतियाप्तिवारणाय जातौ गुण- विव्याप्यत्वपर्यवसितार्थकम्य गुणपदस्यावश्यकत्वात्। गुणत्वादेः रासनावि- षयरूवातावपि सद्भावान्न रासनविषयत्वमिति नु भ्रम । तथासति रम. त्वम्यापि रासनाविषयपरमाणुरसे सद्भावेन रामनाविषयत्वं स्यादित्यति. व्याप्तिवारणप्रका म्यासंभवसंपादकत्वायत्तेरित्यवधेयम् । !! वििन्द्रयमात्रग्राह्यो गुणः स्पर्शः । अत्र बावश्चक्षुर्मात्रेयादिवत् । स्वगितरेन्द्रियजन्यपत्यक्षविषय- त्वे सति त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वमिति फलितार्थः । अत्र प्रत्यक्ष पदप्रयोजनं मन आदाय प्राप्तासंभववारणं च रूपलक्षा इव प्रदशनी- यम् । रूपादीनां भूतमात्रात्मकत्वेन पृथिव्यादिषु यथायथमन्तर्भाव इति मतनिरासाथ गुणपदम । इदंच समाधानं पूर्वमुत्तरत्रापि संभवति । यद्वा प्राचीनमते वायोम्त्वाचपत्यक्षत्वेन वायावतिव्याप्तिवारगाय गुण- पदम् । परमाणुम्पर्शेऽव्याप्तिवारणायावश्यकरणीये जातिघटितलक्षणे तु वायुत्वजातिमादाय वायावतिव्याप्तिवारणाय गुणपदम् । एतेन रसत्वे जातिघटितलक्षणाभावादतिव्याप्तेरसंभवेन गुणपदं व्यर्थमित्यपाम्तम् । मतविशेषनिरासाय वा वायावनतिव्याप्तये वा तत्पदस्योपात्तत्वादिति । वस्तुतस्तु सयोगसंख्यादावतिव्याप्तिवारणाय गुणपदम् । तथाहि । तत्रापि त्वगिन्द्रियमात्रग्राह्यसंयोगत्वसंख्यात्वादिजातिमादायातिव्याप्तः प्रत्यक्षखंडः ४३ शक्योपपादनत्वात् । न च संयोगादेवीन्द्रियग्र ह्यन्वेन संयोगत्वादौ स्वगिन्द्रियमात्रग्राह्यत्वं नास्तीति वाच्यम् । यथा हि लोक जानेऽहं चैत्र- स्येय लिपिन मैत्रस्य तम्य तु विलक्षणा इत्यादि प्रतीतित्यवहाराभ्यां तत्तत्कृतिजन्यतावच्छेदिका तत्तल्लिपित्वादिर्जाति नैवेति मार्वजनीनम् । एवमेव यत्र दशादिसंयोगादयः केवलं त्वचैव गृहीताः नेषु दशादिषु विद्यमाना इमे तु इतरसंयोगापेक्षया विलक्षणा इति प्रतीच्या संयोग- त्वव्याप्यजातिरङ्गाक्रियने । प्रकृते तां जातिमादाय संयोगादावतिव्याप्ते- रुक्तत्वात् । अतएव प्राचीनः स्वग्रन्थे चैत्रादिजन्यतत्तद्बटादिषु विद्यमाना घटत्वव्याप्या विभिन्ना एव जातयोऽङ्गीकृताः । नच विलक्षणति प्रती- तिन वैजात्यविषयिणी किन्तु परस्परभिन्नत्वविषयिणीति न जात्यन्तर- सिद्धिरिति वाच्यं । यतो हि परस्परं भेदश्चत्रलिपिध्वपि विद्यते । अत- श्चैत्रलिपिष्वपीय लिपिम्तल्लिपितो भिन्नति परम्परं विलक्षणेति प्रतीति- वारणाय वैजात्यमेव प्रतीनिविषय इत्यङ्गीकरणीयम् । किंचैककर्तृका- स्वनेकासु लिपिषु विद्यमान पारस्परिक भेदमनवगाह्माना मुक्ताफल- मिवादसीया लिपिः चैत्रलिपिजातिरन्यैव मैत्रलिपिजातिस्त्वितरैवे त्या द्याकारिकी प्रात्यक्षिकी प्रतीति पन्होतुं शक्या । अतस्तत्रतत्र संयो- गादौ तादी जातिमादायातिव्याप्तिवारणाय गुणपदम् । नच संयोगादौ गुणत्वस्य गुणपदस्य गुणत्वव्याप्यजात्यर्थकत्वेऽपि तादृशोक्तजातेः सत्त्वे- नातिव्याप्ति. पविपातायिनेति वाच्यम् । गुणपदस्य गुणविभाजकोपा- ध्यर्थकत्वात् । तथाच त्वगिन्द्रियमात्रग्राह्यगुगविभाजकोपाधिमत्त्वं लक्षणं पर्यवस्यति । तथाच संयोगादौ नातिव्याप्ति । संयोगत्वस्य त्वगिन्द्रिय- संग्रहाथसंग्रह मात्राग्राह्यत्वात् । संयोगत्वादिव्याप्योक्तजातिषु च गुणविभाजकोपाधि- स्वाभावात् । अभिप्रेति चानुमथ नीलकण्ठोऽपि । अन्यथा त्वङ्मात्र- ग्राह्यगुणविभाजकोपाधिमत्त्वमिति फलितार्थ इत्युपाविघटितत्वेन लक्षण परिष्कुर्वन व्यर्थभाषी स्यात् । अस्मदुक्तां रीतिमनवलंब्य गुण. विभाजकोपाधिमत्त्वन प्रवेशनस्य प्रयोजनाभावात् । नन्वेवं सति "एकामापत्तिं परिहरतो द्वितीयापत्तिरि"तिन्यायेन चक्षुर्मात्रग्राह्यप्रभाभि- चिसंयोगादौ संयोगत्वव्याप्यजातरुक्तन्यायसाम्यादङ्गीकरणीयतया जाति- घटितमपि रूपलक्षणं संयोगादावतिव्याप्नोतीति चोद्यस्य कः परिहतैति चेत् । तत्रापि गुणपदस्य गुणविभाजकोपाधिमत्त्वे तात्पर्यमित्याकलनी- यम् । ॥ रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च ॥ रूपमादियेषां यच्छब्दार्थः रसादिः षष्ठयों घटितत्वम् । आदिपदार्थः समुदायघटकवस्तुविषयकप्रतीतिप्रागभावकालीनप्रतीति विषयः । निरूपितत्वसंबन्धेन प्रकृत्यर्थविशेषितस्य षष्टयर्थघटितत्वस्य स्वरूपसंबन्धेत आदिपदार्थैकदेशे समुदायेऽन्वयः । आदिपदार्थस्याभेदेन रूपेऽन्वयः । तथाच रूपं रसादिनिरूपितघटितत्ववत्समुदायघटकवस्तु- विषयकप्रतीतिप्रागभावकालीनप्रतीतिविषयाभिन्नमिति विग्रहार्थ विग्रहवाक्याद्याहशविशेषणविशेष्यभावापन्नस्य बोधः । समासवाक्यात तद्विपरीतविशेषणविशेष्यभावापन्नस्य बोधः । यथा पीतांबरो हरिरित्यत्र पीताभिन्नमंबरं यासंबन्धीति विग्रहवाक्यात अंबरविशेष्यकयदर्थविशेषण- कबोधजननात् । समासवाक्यात्तु बहुव्रीहेरन्यपदार्थप्राधान्येन पीतांबरवा- - प्रत्यक्षग्वंडः व्याप्यव्यापक- तथाच नित्यंवर विशेषणकयदर्थविशेष्यकबोधजननान । तद्वत्मकृतेऽपि रूपवि- षयकप्रतीत्युत्तरकालिकप्रतीतिविषयवस्तुघटितसमुदायनिष्ठघटितत्वनिरूप - को रसादिरिति समासार्थः । पाकजमनित्यमित्यत्र पौर्वापर्ये "व्या- प्यस्य वचनं पूर्वमिति नियमो निमित्तम् । भावश्चेत्थं यत्रयत्र पाकजत्वं तत्रतत्रानित्यत्वमिति । पृथिव्यां रूपादिचतुष्टयमनित्यं पाकजत्वादिति । नन्विदमसङ्गतम् ! यदि पृथिव्यां रूपादिचतुष्टयस्यानित्यत्वं पाकजस्वप्रयोज्यं स्यातर्हि प्रयोजकाभावादपाकजगुणानां नित्यत्वप्रसङ्गः । नचेष्टापत्तिः । पृथिव्यामपाक जगुणानङ्गीकारादिति वाच्यम् । अपाकजत्वेनाभ्युपगताना पटीयगुणानां नित्यत्वस्यानिष्टत्वादिति चेन्न । पाकपदम्य प्रकृते पाकावयवगुणान्यतरपरत्वान् । नन्वेवमपि पाकावयवगुणान्यतरजन्यत्व- स्य वसं प्रति प्रतियोगिनः कारणत्वमिति रीत्या अवयवगुणध्वंसे पा- कजन्ये रूपध्वंसे च सत्त्वेन तत्रानित्यत्वरूपसाध्याभावाव्यभिचारः ! नच तत्र ध्वसप्रतियोगित्वरूपानित्यत्वाभावेऽपि प्रागभावप्रतियोगित्वरूप तदस्त्येवेति न व्यभिचारावकाश इति वाच्यम् । तथासति हेतुसाध्य- योरैक्यप्रसङ्गात् । नचावयवगुणजन्यत्वघटकीभूतजनकतायां तादात्म्य- संबन्धानवछिन्नत्वं वा स्वसमवायिसमवेतत्वसंबन्धावच्छिन्नत्वं वा अथवा जन्यतायां प्रतियोगितासंबन्धानवच्छिन्नत्वं स्वाश्रयप्रतियोगिक समवायानुयोगित्वसंबन्धावच्छिन्न वं वा समवायसंबन्धावच्छिन्नत्वं वा निवेश्य व्यभिचारः परिहियत इति वाच्यम् । तथापि पाकजन्यगुणध्वंसे व्यभिचारापरिहारादिति चेदन केचित् । पाकजन्यत्वघटकीभूतजन- 12 १६ संग्रहाथसंग्रहे कतायामपि ममवायसंबन्धावच्छिन्नत्वनिवेशात् । ननु विलक्षणतेज: संयोगात्मकपाकस्य रूपध्वंसादेश्वेत्थं कार्यकारणभावः । म्वरूपसंबन्धन घटे रूपादिध्वसं प्रति समवायसंबन्धेन तादृशपाकः कारणमिति । तथाच पाकनिष्ठसमवायसंवन्धावच्छिन्नजनकतानिरूपितजन्यत्वम्य रूपादिध्वसे सत्त्वात्कथं व्यभिचारपरिहार इति चेत् । जन्यतायामेव स्वरूप- संबन्धानवच्छिन्नत्वस्य समवायसंबन्धावच्छिन्नत्वम्य वा निविष्टत्वादि- ति । तथाच पृथिवीवृत्तिरूपादिचतुष्टयं ध्वंसप्रतियोगि पाकनिष्ठसम- वायसंबन्धावच्छिन्नजनकतानिरूपितस्वरू संबन्धानवच्छिन्नजन्यत्वपाक- निष्टजनकतानिरूपितसमवायसंबन्धावच्छिन्नजन्यत्वैतदन्यतरावयवगुणनि- ष्ठतादात्म्यसंबन्धानवच्छिन्नजनकत्वसमवायस्वसमवायिसमवंतत्वान्यतर- संबन्धावच्छिन्नजनकत्वैतदन्यतरनिरूपितप्रतियोगित्वसंबन्धानवच्छिन्नत्व स्वाश्रयप्रतियोगिकसमवायानुयोगित्वसमवायान्यतरसंबन्धावच्छिन्नत्वान्य- तरवजन्यत्वैतदन्यतरवत्वादित्यनुमानं फलितमित्याहुः । परे तु प्रागभाव- प्रतियोगित्वमेव साध्यं । नच साध्यावैशिष्टयं हेतोः । आद्यक्षणसंबन्धरूपा- या उत्पत्तेः हेतुत्वेन प्रागभावप्रतियोगित्वस्य साध्यत्वेनावैशिष्टयशङ्कानु- दयादितीम प्रयास नानुमेनिरे। तदुभयमपि न सत् । प्रथमतः पूर्व, पक्ष एवायं नावतरति । येन समाधान सङ्गच्छेत । पाकपदस्यान्यतर. परत्व न कल्पनीयम् । नच पटीयगुणानां नित्यत्वप्रसङ्गः । कोऽयं व्या- माहः । यतो हेत्वभावात् साध्याभाव आपाद्यते । व्यापकाभाववति व्याप्याभावं प्रतिजानते लौकिकाः परीक्षकाश्च । नतु व्याप्वाभाववर्ति क्वचिदपि व्यापकाभावम् । परं समव्याप्तहेतुस्थले म्यादिदमापादनम् ।

प्रत्यक्षखंड: ४७ नचैवं प्रकृते । किन्तु यत्र पाकजत्वं तत्रानित्यत्वमिति । तथाच हेत्व- भावात्साध्याभावमाधने धूमाभावेन वन्ह्यभावसाधन इव निर्बीजत्वे- नोन्मत्तमलपितत्वापत्त्या उत्तरानहत्वात् । एवं साध्यापकानित्यपदस्य प्रागभावप्रतियोगित्वार्थवर्णनमपि न चारु । अनित्यपदात्स्वरसतस्तादृशा- प्रितीतेः । ध्वमप्रतियोगिवेव बहुलं तादृशप्रयोगात् । अत एव ध्वंसोऽ नित्य इति न सार्वजनीनो व्यवहारः । किंच पार्थिवगुणानां ध्वंसप्रति- योगित्वासिद्धया उद्देश्या सिद्धेश्च । अतो यथाश्रुतमेव चार्वित्यलं पल्लवि- नेन । अनित्यं चेत्यत्र चशब्दस्य लिङ्गविशेषज्ञाप्यत्वप्रकारकजिज्ञासा- विषयत्वमर्थः । तस्य स्वरूपसंबन्धेनानित्यपदार्थैकदेशानित्यत्वेऽन्वयः । ॥ अन्यत्रापाकज नित्यमनित्यं च ।। अपाकजमिति हेतुगर्भमिदं विशेषणम् । उत्तरपदार्थे द्वैवि- ध्ये वक्ष्यमाणरीत्या हेतुरिति बोध्यम् । रूपादिचतुष्टयमित्यनुवर्तते । तथाचान्यनिरूपितवृत्तितावद्रूपादिचतुष्टंयमिति निष्पन्नम् । तच्च बाधि- तम् । रूपादिचतुष्टयेऽन्यवृत्तित्वाभावात् । जलतेजोवायूनां गन्धरसरूप- स्पर्शमध्ये क्रमेणैकद्वित्रयशून्यत्वादित्यतश्चतुष्टयपदं रूपादिघटितसमु- दायघटकपरत्वेन व्याख्येयम् । अतो न बाधः । नित्यमनित्यं चेति द्विविधमिति शेषः । तथाचान्यनिरूपितवृत्तितावपादिघटितसमु- दायघटकमपाकजत्वज्ञानज्ञाप्यनित्यत्वानित्यत्वाभिन्नविभाजकधर्मद्वयान्य- तरवदिति विशिष्टवाक्यार्थः । । एकादिव्यवहारहेतुः संख्या ।। एकादिव्यवहारजनकतावच्छेदकप्रकारतावत्त्वमिति लक्षणं परि- ४८ संग्रहाथसंग्रह प्करणीय कालादिलक्षणवत् । कृत्यं स्वयमूहनीयम् । विम्तरभया- नात्र लिख्यते । ॥ एकत्वादिपरार्धपयन्ता ॥ अत्र समुदायघटकवस्तुविषयकप्रतीतिप्रागभावकालीनप्रतीतिविषय आदिपदार्थः । समुदायघटकवस्तुविषयकप्रतीतिध्वंसकालीनप्रतीतिविषयः पर्यन्तांत्यादिपदार्थः । यद्यप्ययमर्थः आद्यन्तादिपदघटितवाक्यघटकमध्यग- पदार्थोऽपि भवति । तथापीदानी तत्साधारण्यं सम्मतमित्येवमभिहितम् । यदा “समवायस्त्वेक एवे"त्यादौ एकत्वं समवायमानसाधारणं प्राक्ष- र्यकारि एवमत्राप्याद्यन्तपदार्थमात्रसाधारण मध्यगपदार्थावृत्ति च विवक्षितं चेत्तदा समुदायधटकवस्तुविषयकप्रतीतिध्वंसासमानकालीन- प्रतीतिविषयत्वमादित्वं । एवं समुदायघटकवस्तुविषयकप्रतीतिप्रागभा- वासमानकालिकप्रतीतिविषयत्वमंत्यत्वमित्यववेयम् । इत्थं चैकत्वमादि- यस्या इति विग्रहवाक्ये यच्छब्दार्थः संख्या घटितत्वं षष्ठयर्थः । यच्छ- व्दाथस्य निरूपितत्वसंबन्धेन षष्ठयर्थघटितत्वेऽन्वयः। घटितत्वस्य म्व- रूपसंबन्धेनाऽऽदिपदार्थघटकसमुदाये आदिपदार्थम्याभेदेनकत्वे चान्वयः। एवं चैकत्वं संख्याघटितसमुदायघटकवस्तुविषयकप्रतीतिप्रागभावकाली- नप्रतीतिविषयाभिन्नमिति विग्रहार्थः । एवं परापर्यंत यस्या इत्य- त्राप्यों वर्णनीयः । समासार्थस्तु एकत्वविषयकप्रतीत्युत्तरकालिकप्रती- तिविषयवस्तुघटितसमुदायघटकाभिन्ना परावविषयकप्रतीत्यधिकरणका- लावृत्तिप्रागभावप्रतियोगिप्रतीतिविषयवस्तुघटितसमुदायघटकाभिन्ना च संख्येति ध्येयम् । एवं द्वितीयार्थेऽपि वाक्यार्थः स्वयमूहनीयः ।

प्रत्यक्षखंडः ।। संयोगनाशको गुणो विभागः ।। अत्र विभक्तव्यवहारहेतुविभाग इति व्यवहारघटित लक्षणं पूर्वोत्तरलक्षणवत्कुतो न कृतम् । नच विभागलक्षणम्य विभागघटितत्वे आत्माश्रयप्रसङ्ग इति तथा नामाणीति वाच्यम । तथासति पूर्वोत्तर- लक्षणयोरपि दुष्टत्वापत्ते । अपिच "यश्चोभयोः समो दोष तत्र नैक पर्यनुयोज्य 'इति न्यायेनास्यानाशङ्कनीयत्वादिति चेदुच्यते । विभागम्य बहुभिर्वादिभिरनङ्गीकारान् भेदेऽन्तर्भावितत्वाच्च तां विप्रतिपत्तिमपनि नीषुलक्षणान्तरं प्रागैषीत् ग्रन्धकृत् । तथाच संयोगनाशजनकतावच्छे- दकतया सिद्धविभागत्वनातेः क परिहतति तदाशयः । अत्र क्रियाया- मतिव्याप्तिवारणाय गुणपदम् । नत्र दत्तेऽपि गुणपदे संयोगेऽतिव्याप्तिः शक्या । प्रतियोगितासंबन्धानवच्छिन्नत्वेन जन्यतायास्समवायसंबन्धा- वच्छिन्न वेन जनकताया वा तादात्म्यसंबन्धानवच्छिन्नत्वेन वा तम्या निविष्ट वात् । एवं सत्यपि क्रियायामतिव्याप्तिवारणाय गुणपदं साथ- कम् । न चैवं सति "संयोगनाशत्वावच्छिन्ननिरूपितसमवायावच्छिन्न- कारणत्वमिति निष्कर्षः । एतत्तात्पर्यग्राहक गुणपदमिति नीलकण्ठीय गुणपदाघटितनिकृष्टलक्षणकथनं दुष्ट स्यादिति वाच्यम् । यतो हि तम्यायमाशयः । यत् प्रथमतः क्रिया क्रियातो विभागः विभागात पूर्वदेशसंयोगनाशः इत्यादिनियमेन संयुक्तहस्तद्वयस्थले हस्तान्तरक्रियया विभागद्वारा संयोगनाशो भवतीत्यङ्गीकारे संयोगनागम्तु हस्तान्तरेऽभूत क्रिया चेतरस्मिन् हस्त इति तयोस्तामानाधिकरण्याभावात् स्वरूप- संबन्धेन संयोमनाशं प्रति स्वजन्यविभागवत्तासंबन्धेन क्रियाया कारणत्वे 13 संग्रहार्थसंग्रहे वाच्य समवायसंबन्धावच्छिन्नकारणतायाः क्रियायामभावान्न तत्राति- व्याप्तिरिति । नच संयोगम्य द्विष्ठत्वेन तन्नाशोऽपि नियामकाभावात् उभयत्रोपेय इति हस्तान्तरेऽपि संयोगनाशस्य सत्त्वेन क्रियासामाना- धिकरण्यप्राप्त्या समवायनैव कारणत्वं क्रियायास्संभवतीति वाच्यम् । यतो हि यनयत्र कार्य तत्रतत्र कारणमिति दैशिकी व्याप्ति । अन्यथा नियतत्वघटितस्य कारणत्वम्यैवानुपपत्तेः । तथाच संयोगनाश- रूपकार्यस्य हस्तद्वयेऽपि सत्त्वेन तत्र क्रियारूपकारणस्य समवायेनाभा- वात्स्वजन्यविभागवत्तासंबन्धेनैव कारणत्वं वक्तव्यमित्येतदभिप्रायकतया नीलकण्ठवाक्यम्योन्नेयत्वान्न तद्विरोधः। ॥ आधपतनासमवायिकारणं गुरुत्वम् ।। असमवायिकारणं नाम समवायसंबन्धावच्छिन्नकार्यतानिरूपित- समवायसंबन्धावच्छिन्नकारणतावत् । तदेकदेशकार्यतायां षष्टयर्थाधेय- त्वान्वयः । यथा तालफले गुरुत्वं समवायेन विद्यमानं सत्समवायेन आद्यपतनरूपं कार्यमुपजनयतीति । अत्र चूतादिफलाद्यपतनकारणीभूते उत्क्षिप्तपाषाणसंयोगे वा वायुसयोगे वा दण्डसंयोगे वा वृक्षारूढमाणवक- हस्तसंयोगे वा वानरादिसंयोगे वा अतिव्याप्तिः । अतः पतनविशिष्टा- न्यत्वं कारणतायां देयं । वैशिष्टयं च स्वसमानाधिकरणवृत्तित्वस्वान- धिकरणवृत्तिवृत्तित्वोभयसंबन्धेन । तथाच सर्वस्याप्युक्तसंयोगस्य या कारणता सा उक्तोभयसंबन्धेन पतनविशिष्टवेति तत्र तदन्यत्वभावान्नाति- व्याप्तिः । अत्र प्रथमसंबन्धमात्र निवेशे गुरुत्वनिष्ठकारणतायाः अपि पतनविशिष्टत्वेन तदन्यत्वाभावादसंभवः । अतो द्वितीयसंबन्धनिवेशः ।

प्रत्यक्षखंडः तन्मात्रनिवेशेऽपि अन्यगतपतनविशिष्टत्वमादाय स एव दोष इत्युभय- संबन्धोगदानम् । तथाचाद्यपतननिष्ठसमवायसंबन्धावच्छिन्नकार्यतानि- रूपितपतनविशिष्टान्यसमवायसंबन्धावच्छिन्नकारणतावत्वं गुरुत्वस्य लक्ष- णमिति फलितम् । पतने आद्यत्वं च पतनविशिष्टान्यत्वं । वैशिष्टय च स्वसमानाधिकरणत्वस्वप्रतियोगिकध्वंससमानकालिकत्वोभयसंबन्धेन । अत्र समानाधिकरणत्वानुपादाने फलान्तरगतपतनप्रतियोगिकध्वंससमान- कालिकत्वमादायासंभव । स्वसमानाधिकरणत्वमात्रोपादानेऽपि स्ववैशि- ध्यमादायासंभव इत्यत उभयमुपात्तम् । अथवा पतनध्वंसविशिष्टान्यत्वमाद्य- खं । वैशिष्टयं च स्वप्रतियोगिसमानाधिकरणत्वस्वसमानकालिकत्वोभय- संबन्धेन । यद्वा ध्वंसविशिष्टान्यत्वं तत् । वैशिष्टयं च स्वप्रतियोगिपतन- समानाधिकरणत्व स्वसमानकालिकत्वोमयसंबन्धेन । अत्र कृत्यं पूर्ववत् स्वयमूहनीयम् । अत्र कारणतायां समवायसंबन्धावच्छिन्नत्वानुपादाने तादात्म्यसंबन्धावच्छिन्नकारणतावति फलेऽतिव्याप्तिः । कार्यतायां सम- वायसंबन्धावच्छिन्नत्वानुपादाने उपरिचरवसोरदृष्टेऽतिव्याप्तिः । तत्रादृष्टं उपरिचरवसौ समवायेन विद्यमानं सरस्वजन्यभोगवत्तासंबन्धेनाऽऽद्यपतन- रूपं कार्यमुपजनयतीति । तथाच तत्र कार्यतायाः स्वजन्यभोगवत्ता- संबन्धावच्छिन्नत्वेन समवायसंबन्धावच्छिन्नत्वाभावान्नातिव्याप्तिरिति । ॥ श्रोत्रग्राह्यो गुणः शब्दः ॥ अत्र लक्षणे सर्पदृष्टरूपेऽतिव्याप्तिः पूर्वोक्तन्यायेनेन्द्रियान्तरस्य स्वीकाराद्वा रूपाग्राहकश्रोत्रग्राह्यत्वस्य विवक्षणेन वा वारणीया । नचैव सार्पशब्देऽव्याप्तिः । तस्य रूपग्राहकश्रोत्रग्राह्यत्वादिति वाच्यम् । वने मंग्रहाथसंग्रहे अत: जायमानाश्रुतशब्देऽन्याप्तिवारणाय रूपाग्राहकश्रोत्रग्राह्यजातिमत्त्वस्य वि. वक्षितत्वेन तादृशजाते. सार्पशव्देऽपि सत्त्वेन व्याप्तेरनवकाशात् । नच जा तिघटितलक्षणस्य शब्दातिरिक्त प्रसक्त्या गुणपदं व्यर्थमिति वाच्यम् । उक्तन्यायेनाधिकवृत्तिनातेरपि श्रोत्रग्राह्यत्वेन तादृशगुणत्वादिजातिमादा यान्यनातिव्याप्तिवारकम्य जातो गुणत्वव्याप्यत्वतात्पर्यकस्य गुणपदस्य वैफल्याभावात 1 नच शब्दो द्रव्यं उत्तरदेशसंयोगानुकूलक्रियावत्वात घटादिवदित्यनुमानविरुद्धत्वादुक्तलक्षणमसंभवि । नचासिद्धो हेतुः श्रोत्र- स्याकाशरूपत्वेन तत्र गमनाभावम्य सर्वसंमतत्वेन शब्दस्यापि गमना भावे देशान्तरम्थशब्दवत्सर्वस्यापि शब्दम्य प्रायशोऽसंबद्धतया अग्र- हणपसङ्गेन गुर्वाद्यक्तेरश्रुतत्वेन तव शिप्यस्य बाधियं स्यात् । शब्दम्य गमनावश्यंभावान्नासिद्धो हेतुरिति वाच्यं । वीचीतरङ्गादिन्याया- नुसारिशब्दस्य श्रोत्रदेशावच्छेदेन शब्दान्तरजनकत्वसंभवेन क्रियाभावेऽ- पि श्रोत्रसंवन्धानुपपत्त्यभावेनानुमानस्यासिद्धिदुष्टत्वेन द्रव्यत्वासिध्या नोक्तलक्षणमसंभवीति । अथैकम्माच्छब्दात् शब्दान्तरोत्पत्तिः किमेक- देशावच्छेदेन उत दशदिगवच्छेदेन । आये देशान्तरस्थम्य पुंसः शब्द- प्रत्यक्षानुपपत्तिः । द्वितीये दशस्वपि दिक्षु शब्दधाराया उत्पत्त्या कस्मिन् देशे समुत्पन्नोऽयं शब्द इति नियमेन संन्दिह्येत । तथाच कस्या- पि कापि निश्चयो न स्यादिति चेदुच्यते । द्वितीय पक्षमभ्युपगच्छामः । नचोक्तदोषः । यस्य श्रोत्रं यः शब्दः यद्देशावच्छेदेन समवैति स तद्देशा- वच्छेदेन तं शब्दं प्रत्येतीत्यङ्गीकारे काऽनुपपत्तिः । नचैवमप्यक्रोशपरि- मितः शब्दः इत्यादिप्रत्यक्षानुपपत्तिर्दुरिव । सर्वस्यापि शब्दस्य सन्नि- प्रत्यक्षवंड. ५३ हितम्यैव प्रत्यक्षत्वेनाप्रत्यक्षेऽसन्निहितशब्दे नियतदूरत्वादिप्रत्यक्षासंभवा- दिति वाच्यम् । कोहि नाम स्वस्थात्मा शब्दादूरत्वप्रत्यक्षमनुमनुते । किंनाम तारत्वमन्द्रत्वादिवैचित्र्यलिंगिका शब्दे दूरत्वादिविषयिणी व्युत्पन्नानामनुमितिरेव । अथवा सन्देहो वा स्यात् । अत एव म्वरस वाही लोकानामनुभवः । तत्रत्यः स्यादयं शब्दः क्रोशपरिमितः म्यादि. त्याद्याकारक इति । । सर्वव्यवहारहेतुर्गुणा बुद्धिर्ज्ञानम् ॥ अत्र सर्वेषु व्यवहारः सर्वेषां व्यवहार इति तत्पुरुषो वा कर्मधारयो वा । नाद्यः । मन्ति:पातिभ्रान्तकर्तृकव्यवहारस्य बुद्धि- हेतुकत्वाभावात् । अत एव न द्वितीयतृतीयौ । ताल्बोष्ठपुटसंयोगेऽति- व्याप्तेश्च । गुणत्वस्यापि तत्र जागरूकत्वात् । किंच कस्मिन् ज्ञाने सर्व- व्यवहारहेतुत्वं चैवीय वा मैत्रीये वा । एकैकस्य सर्वव्यवहारहेतुत्वे यदीयज्ञानस्य सर्वव्यवहारहेतुत्वं तदीयज्ञानविरहदशायामन्येषामपि व्यव- हारानुत्पत्तिप्रसङ्गः । मिलितस्य तथात्वे कदापि मेलनासंभवेन व्यवहारसामान्यानुत्पत्ति-सङ्गः । किंचेश्वरेच्छादृष्टादिप्वतिव्याप्तिः । अत एव ज्ञानपदमुपात्तमिति तु मन्दम् । ज्ञानवुद्धिपदयो पर्याय- त्वेन लक्षणलक्ष्यतावच्छेदकयोरैक्यप्रसक्त्या उपनयवाक्यात शाब्दबो- धानुपपत्तिप्रसङ्गः । बुद्धिपदवाच्यम्य लक्ष्यत्वमित्युक्त्या लक्षणलक्ष्य- तावच्छेदकयोस्क्यपरिहारेऽपि “ज्ञानपदन्तु संज्ञान्तरकरणायेति ग्रन्थान्त- रीयलक्षणाघटकत्वस्फोरकवाक्यविरोधात् । “नहि कम्यचित् ग्रन्थकृतो विपरीतलेखनमि''त्यादिन्यायाङ्गीकारेऽपि शेषवैयर्थ्य दुरिमेव । किंच । 14 संग्रहाथसंग्रह । सर्वव्यवहारहेतुत्वघटितज्ञानत्वस्य लक्षणत्वे ज्ञानवजातिमत्त्वम्य शेषा- घटितम्य लक्षणत्वप्रतिपादकदीपिकाथुक्तिविरोधः । किंच कार्यमामान्य- कारणे ईश्वरज्ञान एव सर्वव्यवहारहेतुत्वगुणत्वज्ञानत्वानां संभवेऽपि जैव- ज्ञानेष्वव्याप्तेश्चेति चेदुच्यते । सर्वत्वव्यापकधर्मवत्त्व लक्षणम् । व्यापकत्वं च स्वावच्छिन्नकारणतानिरूपितकार्यत्वसंवन्धेन । व्याप्यत्वं च म्वावच्छिन्न- विषयकव्यवहारत्वसंवन्धेन । अतो नासंभवः । स च धर्मो ज्ञानत्वमेव । सर्वव्यवहारं प्रति ज्ञानत्वेन कारणत्वात् । न चैवमुद्देश्यासिद्धिः पर्व- मिति व्यवहारं प्रति ज्ञानम्य कारणत्वलाभेऽपि घट इत्याद्याकारकव्यव- हारकारणत्वालाभादिति वाच्यम् । म्वव्याप्यधर्मावच्छिन्नविषयकव्यव- हारत्वस्य व्याप्यताघटकसंवन्धन्वेन विवक्षितत्वात् । तथाच घटत्वादेरपि सर्वत्वव्याप्यतया स्वव्याप्यघटत्वादिधर्मावच्छिन्नविषयकव्यवहारं प्रत्य- पि कारणत्वलाभान्नोद्देश्यासिद्धिः । नच धर्मे व्याप्यत्वम्य न्यूनदेशवृत्ति- त्वरूपस्य विवक्षितत्वे स्वस्मिन् स्वन्यूनवृत्तित्वाभावात् सर्व इति व्यव- हारकारणत्वालाभेन पुनरुद्देश्यासिद्धिः । तदभाववदवृत्तित्वरूपस्य तस्य विवक्षितत्वे सर्वत्वस्य केवलान्वयितया तदभावाप्रसिद्धयाऽसंभव इति वाच्यम् । स्वाभाववद्वतित्वसंबन्धावच्छिन्नम्वनिष्ठ प्रतियोगिताकाभाव. बद्धर्मावच्छिन्नविषयकव्यवहारत्वस्य संबन्धतया विवक्षितत्वेन दोषाभा- वात् । एतद्धटकस्योक्तसंबन्धस्य व्यधिकरणसंबन्धत्वेन संयोगेन प्रमेय. स्वाभाववत् नेन संबन्धन सर्वत्वाभावस्य संभवादसंभवासंभवात् । अथ. वा म्वव्यापकतत्कत्वरूपं व्याप्यत्वं विवक्षितमिति न कुचोद्यावकाशः । नचैवमपीश्वरेच्छादृष्टादावतिव्याप्तेरपरिहार इति वाच्यं । तत्रैव स्वव्या- प्रत्यक्षखंड: . यधर्मावच्छिन्नविषयकव्यवहारत्वत्वसंबन्धेन सर्वत्वं प्रति स्वावच्छिन्नकार- णतानिरूपितकार्यतावच्छेदकत्वसंबन्धेन धर्मभ्य व्यापकताया विवक्षित- स्वेन कार्यमामान्यकारणेऽदृष्टादौ तादृशव्यवहारत्वावच्छिन्नकार्यताघटित- व्यापकधर्मवत्त्वाभावादतिव्याप्त्ययोगात् । तथाच सर्वत्वव्याप्यधर्मा- वच्छिन्नविषयकव्यवहारत्वत्वव्यापकावच्छेदकताककार्यतानिरूपितकारण. तावच्छेदकगुणत्वव्याप्यधर्मवत्त्वस्य विवक्षिततयोक्तदोषाणामनवकाशात्। नचैवमपि कण्ठताल्वाभिघाते व्यवहारसामान्यकारणे अतिव्याप्तः कः परिहार इति वाच्यम् । अत एव गुणपदं सार्थकम् । तम्य विशेषगुण- परत्वेनोक्तातिव्यामिवारकत्वात् । अन्यथा तद्वैफल्यं दुर्वारमित्यव- धेयम् । वस्तुतस्तु व्यापकताघटकसंबन्धे कार्यता स्वप्रयोजककृतिमत्त्व- संबन्धावच्छिन्ना निवेशनीया । तथाच नातिव्याप्तिः । तथाहि । अवच्छे- दकतासंबन्धेन व्यवहारं प्रति समवायसंबन्धेन कण्ठतालवाद्यभिघातः कार- णमिति शरीरनिष्ठपत्यासत्त्या तयोः कार्यकारणभावः ज्ञानशब्दयोस्तु स्व- प्रयोजककृतिमत्त्वसंबन्धेन शब्द प्रति समवायेन ज्ञानं कारणमित्यात्मनिष्ठ- प्रत्यासत्त्या कार्यकारणभावः । तथाचावच्छेदकतासंबन्धावच्छिन्नकार्यता- निरूपितकारणताया: कण्ठताल्वाद्यभिधाते सत्त्वेऽपि स्वप्रयोजककृतिमत्त्व- संबन्धावच्छिन्नकार्यतानिरूपितकारणताया अभिधातेऽभावान्नातिव्याप्तिः। नचैवमपि स्वप्रयोजककृतिमत्त्वसंबन्धेन शब्द प्रति स्वाश्रयावच्छिन्नत्व- संबन्धेनामिघातः कारणमिति विनिगमनाविरहप्राप्तमात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावमूरीकृत्योक्तसंबन्धावच्छिन्न कार्यतानिरूपितकारणताया अप्यभिघाते सत्वादतिव्याप्तिस्तदवस्थेवेति वाच्यम् । कारणतायामपि संग्रहार्थसंग्रहे समवायसंवन्यावच्छिन्नत्यम्य निवेगान् । अभिघातनिष्ठकारणतायान्तु म्बाश्रयावच्छिन्नत्वसंवन्धनावच्छेदादतिव्याप्तेरनवकाशादिति । इन्थंच सर्वस्वव्याप्यधर्मावच्छिन्नविषयकव्यवहारत्वत्वयापकावच्छेदकताकस्वप्र. योजककृतिमत्त्वसंवन्धावच्छिन्नकार्यतानिरूपितममबायसंबन्धावच्छिन्न कारणतावच्छेदकगुणत्वव्याप्यधर्मवत्त्वमिति पर्यवसितार्थ । नचैवमप्यु- न्मत्तप्रलापादिषु वुद्धिपूर्वकत्वाभावादसंभवो दुर्वार । तत्परित्यागे सर्व- व्यवहारकारणत्वालाभेनासङ्गतिवेति वाच्यम् । व्यवहारम्य प्रयत्नपूर्वक स्वेन प्रयत्नम्य च ज्ञानेच्छापूर्वकत्वनियमेन तत्रापि पूर्व बुद्धेस्सत्त्वादिति केचिन्मूलं व्याख्यातवन्तः । अत्रचतादृशवुद्धेः कारणत्वाङ्गीकारे समान न्यायन तज्जन्येच्छाकृत्योरपि कारणत्वापत्त्याऽतिव्याप्तिः। अपिचेच्छा- कृत्योः कार्यसामान्य प्रति कारणत्वेन तद्वत्ज्ञानस्यापि कार्यसामान्यका. रणत्वौचित्येन व्यवहारसामान्यमात्रकारणत्वाभावाद् । किंचार्थ बुध्या वा क्यरचनेति न्यायेनार्थज्ञानस्यैव व्यवहारसामान्यकारणत्वमसंभवभिया वाच्यम् । तथाचोन्मत्तप्रलापादिकमादायोक्तामङ्गतिर्दुरिव । अपिच धर्मे गुणत्वव्याप्यत्वपरगुणपदवैयऱ्या गौरवं चेत्यनुशयवान ज्ञानमिति लक्षणा- न्तरद्योतक पदमुपादात् ग्रन्थकारः । नायमाशयस्तम्येति स्वकपोलक ल्पितः । किन्तु स्वमूलव्याख्याता स्वयमेव दीपिकाकार ज्ञानत्वजाति- मत्त्वरूपं लक्षणान्तरं कण्ठत एवोद्धप्य तादृशजातौ प्रमाणाकांक्षायामनु. व्यवसायगम्येत्येतावतांशेन तामपि निवारितवान् । अत एवं ज्ञायते । लक्षणकथनवेलायां सर्वव्यवहारहेतुरित्यादेर्लक्षणपरत्वेन वा लक्षणज्ञापक- परत्वेन वा न कोऽप्युपयोग इति । अन्यथा तादृशव्यवहारजनकतावच्छे.

प्रत्यक्षखंडः इकनया ज्ञानवजातिसिद्धिमप्रतितायानुव्यवसायगम्यत्वपर्यन्तानुधावनम्य निर्बीजत्वात् । अत्रानुव्यवसाये जातिभानं कथमिति चेदिन्थम् ! प्रता- त्यनुगतिम्तावदेकवमिविषयकत्वैकधर्मावच्छिन्नविषयकन्यान्यतर प्रयोज्येति नियमान, पटं जानामि घटं जानामीत्याद्याकारिका ज्ञानांगे अनुगता प्रतीतिविभिन्नज्ञानरूपधर्येक्यायोगेन ज्ञानवरूपैकधर्मावच्छिन्नविषयक- त्वेनैवोपपद्यत इत्यनुगतज्ञानत्वसिद्धिः । तम्य बाधकाभावाज्जातित्वं च। इमामेव प्रतीत्यनुगतिमनुरुध्य "येनेन्द्रियेण या व्यनिगृह्यत''इत्यादिनिय- मोऽपि प्रवर्तते । प्रतीतावनुगतवं च समानानुपूर्वीकगब्दोल्लेख्यत्वमिति कृतं पल्लवितेन । ॥ संस्कारमात्रजन्यं ज्ञानं स्मृतिः बोधः पूर्ववत् । अत्र सम्कारेतरसामान्याजन्यत्वनिवेशे म्मृतेरपि मनोजन्यत्वादसंभवः। बहिरिन्द्रियाजन्यत्वविवक्षायां आन्तर "सोऽहं सुखी- त्यादिप्रत्यभिज्ञायामतिव्याप्तिरिति चेदत्र केचित् । संम्कातिर विशिष्टान्य. त्वं तदर्थः । वैशिष्ट्यं च स्वजन्यत्वस्वसामानाधिकरण्योभयसंबन्धेन । तथाच न मनोजन्यत्वमादायासंभवः । इतरपदेन मनसो ग्रहणेऽपि सत्यपि म्मृतौ तजन्यत्वे "अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यत''इन्युक्तत्त्वात्तद्- धिकरणाप्रसिद्धया सामानाधिकरण्यसंबन्धेन तद्विशिष्टत्वाभावात् । ना- पि सोऽहं सुखीत्यादिप्रत्यभिज्ञायामतिव्याप्तिः । उक्तोभयसंबन्धेन तत्र संयुक्तसमवायरूपसन्निकर्षविशिष्टत्वेन संस्कातिरविशिष्टान्यत्वाभावादि- त्याहुः । तदपरे न क्षमन्ते । तबीजन्तु मन उपादायासंभवा संभवेप्यऽनुभवमादायासंभवस्य न परिहार इति । परंतु संस्कारेतर- । 15 संग्रहार्थसंग्रह सन्निकर्षाजन्यन्वमिन्यूचिरे। तत्र यद्यपीतरत्वेन सन्निकर्षम्यैव विशिप्य धृत- स्वेन मन आदाय न संभवः । सोऽहं सुखीतिप्रत्यभिज्ञायान्तु संम्कातिर संयुक्तसमवायरूपसन्निकर्षजन्यत्वेन तदजन्यत्वाभावादतिव्याप्तिश्च शक्य परिहारा । नापि शब्दार्थोलंघनदोषः । मात्रपदस्थले स्वसजातीयमेव स्वे. तरबोध्यत इति पूर्वमुक्त वेन सम्कारस्यापि सन्निकषत्वेन तत्सजातीयेतर- सन्निकर्षम्य बोधसभवात् । अथवा म्बभिन्न वमकारकतात्पर्यविषयेत्याद्यर्थ म्य मात्रपदे पूर्वमुक्ततया तात्पर्यविषयतया सन्निकर्षन्यैव ग्रहणसंभवाच्च । तथाप्यात्ममनः संयोगरूपसंम्कातिरसन्निकर्षजन्यत्वम्य म्मृतौ सत्त्वेना- संभवो दुष्परिहर एव । इतरे तु संम्कारेतरसाक्षादजन्यत्वं तदर्थः । साक्षात्त्वं चाव्यवधानम् । तथाच म्मृतेरुद्ध द्वसंस्कारे सत्यव्यवधानेनैव जननात् तदितरस्मिन् मनः संयोगानुभवादिके जाग्रद्दशायां सदा सत्य प्यव्यवधानेनाजनमात् संस्कारतरेग केनापि साक्षाजन्यत्वाभावान्ना- संभवः । नाप्यतिव्याप्तिः । संस्काग्तरसंयुक्तसमवायादिरूपसन्निकर्षे सत्यव्यवधानेन प्रत्यभिज्ञा जननादिति प्राहुः । अथव सिंस्कारेतरेन्द्रियार्थ- सन्निकर्षविशिष्टान्यत्वं संस्कारमावजन्यत्वम् । वैशिष्टयं च म्बप्रयोज्यत्व- म्वसामानाधिकरण्योभयसंबन्धेन । तथाच संयुक्तसमवायरूपेन्द्रियार्थसन्नि- कर्षवैशिष्टयम्य सोऽहं सुखीत्यादिप्रत्यभिज्ञायामुक्तोभयसंबन्धेन सत्त्वा. नानिव्याप्तिः । नापि मनः संयोगमादायासंभवः । मनसि सन्निकर्षत्वम्य तत्संयोगे च अथसन्निकर्षवस्याभावात् । तादृशसन्निकर्षविशिष्टान्यत्वस्य स्मृतौ सभवात् । यद्यप्यत्र लाघवादुक्तोभयसंबन्धेन संस्कारेतरेन्द्रिय- विशिष्टान्यत्वमव वक्तुमुचितम् । सामानाधिकरण्यनिवेशेन मन आदा- प्रत्यक्षखंडः - यन्द्रियत्वनिवेशाच्च । तत्संयोगमनुभवंवाऽऽदायासंभवानवकाशात् । तथाऽऽप्यान्तरोक्तप्रत्यभिज्ञायामतिव्याप्तिभिया न तथा पर्यष्कारीत्यादयः परिष्कारस्य पंथानो द्रष्टव्या इति सर्वमवदातं । ॥ तद्वति तत्प्रकारकोऽनुभवो यथार्थः ।। सोऽस्यास्ति । अत्र तच्छन्दार्थः घटत्वादिधर्मः प्रकारीभूतः । अभ्येत्यत्रेदपदार्थो विशेप्यो घटादिः, षष्टयर्थोऽधिकरणता, तम्या प्रकृत्यर्थस्याऽऽधेयतासंबन्धनान्वयः। अस्धात्वर्थ: आधेयता, आख्या- ताथ आश्रयत्वं, षष्टयर्थस्य धात्वर्थे, धात्वथम्य चाख्याताईं नि- रूपितत्वसंबन्धेनान्वयः । आख्यातार्थम्य स्वरूपसंबन्वेन तच्छब्दार्थ धर्मेऽन्वयः । तथाच तनिष्टाधिकरणतानिरूपिताधेयता निरूपिताश्रयता- स इति विग्रहार्थः । तन्निष्ठाधेयतानिरूपिताधिकरणतावान् घटादिरिति समासार्थः । सप्तम्यर्थो विशेष्यत्वं, तत्र प्रकृत्यर्थम्याधेयता- संवन्धनान्वयः । स प्रकारो यस्य यत् पदार्थोऽनुभवः, षष्टयर्थः प्रकारिता तत्र प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः । तस्या निरूपितत्वसंबन्धेन प्रका- रपदाथैकदेशे प्रकारत्वेऽन्वयः। तथाच यनिष्ठप्रकारितानिरूपितप्रकार- तावान् स इति । विपरिवर्तने च तन्निष्ठपकारता निरूपितप्रकारितावान य इति बोधः । तत्र प्रकारतायां निरूपितत्वसंबन्धेन सप्तम्यर्थविशेष्यत्व- स्यान्वयः । तथाच तन्निष्ठावेयतानिरूपिताधिकरणतावन्निष्ठविशेष्यतानि- रूपिततन्निष्ठप्रकारतानिरूपितप्रकारितावदनुभवत्वमिति यथार्थानुभवस्य यथाश्रुतं लक्षणं । अत्र विशेष्यस्वप्रकारत्वयोनिरूप्यनिरूपकभावनिवेशेन रङ्गरजतादिसमूहालंबनभ्रमेऽतिव्याप्तिविरहेऽपि विशेष्यत्वप्रकारत्वाद्यनि- वान् संग्रहार्थसंग्रहे रूपके निर्विकलाकप्रत्यक्षेऽव्याप्तिरित्यतो विशेष्यावृत्त्यप्रकारकत्वं लक्षण- तया विवक्षणीयम् । तच्च विशेष्यावृत्तिप्रकारकं यद्यत् तत्तदन्यत्वम् । अत एकभ्रमात् विशेऱ्यावृत्तिप्रकारकादन्यत्वस्य भ्रमान्तरे सत्वेऽपि नातिच्या. प्तिः । असर्वज्ञदुयत्वादिकन्तूत्तरत्र निवक्ष्यमाणानुगमान्निवारणीयम् । अत्र जाति तिमतीत्यादिभ्रमेऽतिव्याप्तिः । तथाहि । विशेष्यावृत्तिप्रकार- कत्वं नाम विशेष्यनिरूपितवृत्तित्वाभाववन्निष्ठप्रकारनानिरूपकत्वं । तत्र च वृत्तित्वं नहि येन केचिन्संवन्धेन । तथासति दो वन्हिमानिति भ्रमस्य प्रमात्यापत्तिः । तत्र प्रकारीभूतवन्हे: कालिकादिसंबन्धेन ह्रदरूपं. विशेष्यवृत्तित्वेन तदभाववन्निष्ठप्रकारतानिरूपकत्वाभावात् । अतः प्रकारतावच्छेदकसंबन्धेन विशेष्यवृत्तित्वं वाच्यम् । इत्थं च प्रकृते प्रकारतावच्छेदकीभूतसमवायसंबन्धेन जातिरूपविशेष्यवृत्तित्वाप्रसिद्धया तदभावायोगेन विशेष्यावृत्तिप्रकारकं यद्यदित्यत्र यत्पदेनास्योपादातुम- शक्यत्वादन्यभ्रममादाय तदन्यत्वस्याल सत्त्वादिति । अतो विशेष्यनि- रूपित्तवृत्तित्वसामान्यस्य प्रकारतावच्छेदकसंबन्धावच्छिन्नवृत्तित्वप्रतियो- गिकस्वरूपसंबन्धेनाभावमादायातिव्याप्तिः परिहरणीया । स च संबन्धः प्रकृने व्यधिकरण इति संयोगेन गुणाद्यभाववत्तेन संबन्धेन जातिवृत्ति- त्वसामान्याभावः प्रसिद्ध एवेति नातिव्याप्तिः । यद्वा प्रकारताविशिष्ट- विशेष्यत्वानिरूपकानुभवत्वं प्रमात्वं । वैशिष्टयं च स्वनिरूपितत्वस्वा- वच्छेदकधर्मावच्छिन्न स्वावच्छेदकसंबन्धावच्छिन्न प्रतियोगितानिरूप- कामाववद्वृत्तित्वोभयसंबन्धेन । जातिर्जातिमतीत्यादिश्रमे नातिव्याप्तिः । तत जातिनिष्ठप्रकारताविशिष्टविशेष्यतायाः सत्त्वात्। कथमिति चेदित्थम् ।

प्रत्यक्षवंडः जातिनिष्ठप्रकारतावर निरूपितत्य वन्वेन जातिनिठविशेप्यतायां मत्तन- विप्रतिपन्नम् ! द्वितीयसंवन्धश्च स्वं जानिनिष्टा प्रकाम्ना म्बावच्छेइक जातित्वं स्वावच्छेदकसंबन्धः समवायः नदुभयावच्छिन्नप्रतियोगिता कश्च ममवायेन जातिनास्तीति प्रतीतिमाक्षिकोऽभाव तद्वती जातिः तवृत्ति विशेष्यतायामिति प्रकारताविशिष्ट विशेष्यता निम्पकत्व निर्वाहः । न चैव सतीदरजतमिति संसर्गभ्रमेऽतिव्याप्तिः। तत्र प्रकारताया निरवच्छिन्न त्वेन म्बावच्छेदकधर्माप्रसिद्ध्या तत्प्रकारताया उपाचममक्यत्वेनान्य प्रकारताविशिष्ट विशेष्यत्वानिरूपकत्वस्य तत्र सत्त्वादिति वाच्यम् । स्ववि शिष्ट प्रतियोगितानिरूपकाभाववद्वतित्वम्य द्वितीयसंबन्धत्वेन विवक्षित त्वात् । प्रतियोगितायां स्ववैशिष्टयं च म्बावच्छेदकसंबधावच्छिन्नत्व- म्वानवच्छेदकानवच्छिन्न वसामानाधिकरण्यैतत्त्रितयसंबन्धेन । तथा- चोक्तम्थलेऽप्रसिद्वद्या प्रतियोगितायां म्वावच्छेदकावच्छिन्नवासंभवेऽपि म्वानवच्छेदकानवच्छिन्नत्वसंभवान्नातिव्याप्तिः । नच स्वानवच्छेदकत्वं स्वावच्छेदकभिन्नत्वं तथाचाप्रसिद्धिनिवन्धनो दोषो न निवारित इति वाच्यम् । स्वानवच्छेदकत्वपदेनावच्छेदकतासंबन्धेन म्वाभाववत्त्वविवक्ष णेन तम्य व्यधिकरणसंबन्यत्वेन दोषाभावात् । न चैवमपि रजतत्वनिष्ठ - प्रकारताया निरवच्छिन्नत्वेन प्रतियोगितायाश्चावच्छिन्नत्वनियमेन स्वा- नवच्छेदकावच्छिन्नत्वस्यैव प्रतियोगितायां सत्त्वेन तदनवच्छिन्नत्वाभा- वात्ताशप्रतियोगित्वाप्रसिद्धया म्बपदेन रजतत्वप्रकारताया उपादाना संभवेनान्योपादाने तद्विशिष्टविशेष्यत्वानिरूपकत्वस्यास्मिन् भ्रमे सत्त्वात् अतिव्याप्तिर्दुरैिवेति वाच्यम् । उकत्रितयसंबन्धेन प्रकारताविशिष्टत्व- 16 संग्रहायसंग्रह स्थाने प्रकारत वृत्तित्वस्य निवेशनन दोषाभावात । प्रकारतानवच्छेदका- नवच्छिन्नत्वस्य प्रतियोगितायामभावेऽपि प्रतियोगितानवच्छेदकानवच्छि- नत्वम्य प्रकारतायामबाधात् । अथवा धर्मविशिष्टविशेप्यत्वानिरूपकानु- भवत्वं प्रमात्वम् । वैशिष्टय च स्वसमानाधिकरणप्रकारतानिरूपितत्व- प्रकारतावच्छेदकसंबन्धावच्छिन्नम्बावच्छिन्नप्रतियोगिताकाभावववृत्ति स्वोभयसंबन्धेन । आहोस्वित् ! विशेप्यताविशिष्टप्रकारत्वानिरूपकत्वं तत् । वैशिष्टंध च स्वनिरूपितत्वम्बसमानाधिकरणाभावीयप्रतियोगिताविशिष्ट- त्योभयसबन्धेन । प्रतियोगितावैशिष्टय चोक्तत्रितयसबन्धेन । अथवा धर्म- विशिष्ट प्रकारत्वानिरूपकवं प्रमात्वं । वैशिष्टयं च स्वावच्छिन्नविशेप्यता- निरूपितत्वस्वसमानाधिकरणाभावीयप्रतियोगिता विशिष्टत्वोभयसंबन्धेन । प्रतियोगितावैशिष्टयं च पूर्ववत् । अत्र धर्मपदेन विशेष्यतावच्छेकधर्मो ज्ञेयः । यह ससर्गविशिष्टान्यप्रकारत्वानिरूपकानुभवत्वं तत्। वैशिष्टय च म्वानुयोगिनिष्ठविशेष्यतानिरूपितत्वस्वप्रतियोगिनिष्ठत्वस्वनिष्ठसंसर्गता- निरूपितत्त्वैतत्त्रितयसंबन्धेन । अथवा संसर्गताविशिष्टविशेष्यत्वानिरूप- कानुभवत्वं तत् । वैशिष्टय च स्वनिरूपितत्व, म्वाश्रयानुयोगिभिन्ननिष्ठ-व- म्वाश्रयप्रतियोगिभिन्ननिष्ठप्रकारतानिरूपितत्वैतदन्यतरो,भयसंबन्धेन । अथ- वा धर्मविशिष्टप्रकारत्वानिरूपकानुभवत्वं तत् । वैशिष्टयं च स्वावच्छिन्न ससंगतानिरूपितत्व, स्वावच्छिन्ननिरूपितानुयोगिताऽसमानाधिकरण वि. शेष्यतानिरूपित्तत्वस्वावच्छिन्ननिरूपितप्रतियोगित्वासमानाधिकरणत्वैतद. न्यतरो, भन संबन्धेनेत्यादिकं सकलभ्रमवारकं निखिलप्रमासंग्राहक लक्षणं परिष्करणीयम् । एवं विशेष्यावृत्तिप्रकारकं यद्यत्तदन्यत्वमिति प्रथमत प्रत्यक्षवंड: ६३ उनम्य विशेष्यवृत्तित्वनिष्ठप्रकाग्तावच्छेदकसंबन्धावच्छिन्नवृत्तित्वप्रति- योगिकम्वरूपसंबन्धावच्छिन्नप्रतियोगिताकाभाववन्निष्ठ कारता कान्यत्वेन परिष्कृतम्याप्यनुगमः संभवति । तथाहि । ज्ञानविशिष्टान्यानुभवत्वं तत् । वैशिष्टयं तादात्म्यम्वविशेष्यवृत्तित्वनिष्ठस्वीयप्रकारतावच्छेकसंब. न्धावच्छिन्नवृत्तित्वप्रतियोगिकस्वरूपसबन्धावच्छिन्नप्रतियोगिताकाभाव- वन्निष्ठ कारताकत्वोभयसंबन्धनेत्यलम् । तत्र दिङ्मात्रप्रदर्शनाय प्रथमोक्त- प्रकारताविशिष्टबिशेष्यत्वानिरूपकानुभवत्वकल्पे पदानां कृत्यं विचार्यते । अत्र वैशिष्टयं स्वनिरूपितत्वस्वावच्छेदकावच्छिन्नप्रतियोगिताकाभावव- दृत्तित्वोभयसंबन्धेनेत्युक्त । तत्र प्रश्रमसंबन्धानिवेशेऽसंभवः । अयं घट इति प्रमायां अयं पट इति प्रमीयपटत्वनिष्ठप्रकारताविशिष्टविशेष्यत्व- निरूपकत्वस्यैव सत्त्वात् । तथाहि । स्वं पटत्वनिष्ठाप्रकारता स्वावच्छे- दकं पटत्वत्वं तदवच्छिन्नप्रतियोगिताको योऽभावः पटत्वनास्तीति प्रतीतिसाक्षिकाभाव. तद्वानथं घट इत्यत्त्रेदंपदार्थः तवृत्तित्वस्य विशे- प्यतायां तन्निरूपकत्वस्य च प्रमायां सत्त्वात् । स्वनिरूपितत्वनिवेशे चाय पट इति ज्ञानीयपटत्वनिष्ठप्रकारतानिरूपितत्वस्यायं घट इति ज्ञा- नीयविशेष्यतायामभावेनोक्तोभयसंबन्धेन विशेष्यतायां प्रकारतावैशिष्टया- भावान्नोक्तदोषः । म्वनिरूपितत्वमाननिवेशेऽपि अयं घट इति प्रमायां इदनिष्ठविशेष्यतायां घटत्वनिष्ठप्रकारताविशिष्टत्वस्य सत्त्वात्पुनः स एव दोष इत्युभयोपादानम् । एवमप्रसिद्धिवारणार्थ स्वावच्छेदकाव- च्छिन्नप्रतियोगिताकाभावस्थाने निवेशितस्ववृत्तिप्रतियोगिताकाभावघटि- तलक्षणे यथाश्रुतोऽयं समन्वयप्रकारः । अत्र वृत्तित्वं स्वानवच्छेदकान- संग्रहार्थसग्रहे वच्छिन्नत्व स्वावच्छेदकसंवन्धावच्छिन्नत्व स्वसामानाधिकरण्यैतत्त्रितय- संबन्धेनेत्युक्तम् । यत्र वृत्तित्वं विवक्षितं तदेव प्रतियोगित्वं स्वपदार्थः । तथाच प्रकारतापदेनेदं रजनमिति ज्ञानीया रजतत्वनिष्ठा प्रकारता नद्विशिष्टा इदनिष्ठा विशेष्यता तन्निरूपकत्वं तन्मे अनिरूपकत्वं प्रमा- यामिति । प्रकारतावैशिष्ट्यमपि इदंनिष्ठविशेष्यतायां विद्यते । रजतत्व निष्ठप्रकारतानिरूपितत्वं तावत्सर्वसंमतं । द्वितीयसंबन्धोऽप्येवमुपाद- नीयः । तथाहि । स्वं रजतत्वनिष्ठः प्रकारता तत्तिर्या प्रतियोगिता सम- बायेन रजतत्वं नास्तीति प्रतीतिसाक्षिकाभावीया तन्निरूपकाभाववानि. दमर्थम्तवृत्तित्वं विशेष्यतायामिति । प्रतियोगितायां म्ववृत्तित्वं कथ मिति चेदित्थम् । स्वं प्रतियोगित्वं स्वावच्छेदक रजतत्वत्वं तदन- वच्छेदकमुदासीनं तदनवच्छिन्नन्वं रजतत्वनिष्ठपकारतायां, एवं स्वं प्रतियोगित्वं, तदच्छेदकसंवन्धः समवायः, तदवच्छिन्नत्वं प्रकार- तायां । एवं प्रकारत्वप्रतियोगित्वयोरजतत्वरूपैकाथनिष्ठत्वेन सामा- नाधिकरण्यं सुतरामेव वर्तते । तथाचोक्तत्रितयसंबन्धन प्रतियोगि- तायां प्रकारतावृत्तित्वमक्षतमिति । एवमन्यत्रापि । अत्र म्बानव- च्छेदकानवच्छिन्नत्वस्वावच्छेदकसंबन्धावच्छिन्नत्यसामानाधिकरण्यानां त्रयाणां संबन्धानां मध्ये प्रथमसंवन्धानिवेशेऽयं घट इति प्रमायामति व्याप्तिः । तथाहि । अत्र घटत्वनिष्ठपकारता निरूपितत्वेन विशेष्यतायां विद्यते ! एवं स्वं घटत्वनिष्ठाप्रकारता तवृत्तिश्च समवायेन घटत्वपट- त्वोभयं नास्तीति प्रतीतिसाक्षिकाभावीया प्रतियोगिता तन्निरूपकाभाव. वदिद पदार्थवृत्तित्वाच्च विशेष्यताया इति । प्रतियोगितायां प्रकारता- प्रत्यक्षखंडः वृत्तित्वं वेथम् । स्वं उभयाभावीयप्रतियोगिता तदच्छेदकसंबन्धः मम- वाय: तदवच्छिन्नत्वं घटत्वनिष्ठप्रकारतायां । एवं प्रतियोगिताया उभय- निष्ठत्वेन घटत्वेऽपि सत्त्वेन सामानाधिकरण्यमप्यस्ति । अतः प्रथम- संबन्धनिवेशः । यद्यपि प्रकारताया निरवच्छिन्नत्वेन स्वपदग्राह्यप्रतियो- गितानवच्छेदकानवच्छिन्नत्वमप्यस्तीत्युक्तदोषतादवाथ्यम् । तथाऽपि स्वा- नवच्छेदकानवच्छिन्नत्वपदेन म्बपर्याप्यधिकरणापर्याप्तधर्मपर्याप्यधिकर- णावृत्तित्वम्य विवक्षिततया दोषाभावात् । प्रकृते म्वं प्रतियोगिता तत्पर्याप्तत्यधिकरणमुभयं तत्रापर्याप्तो यो धर्मः घटत्वत्वरूपस्तत्पर्याप्य- धिकरणं घटत्वं तद्वृत्तित्वम्यैव प्रकारतायां सत्त्वेन तदवृत्तित्वायोगेन दोपाभावात् । द्वितीयसंबन्धानिवेशेऽयं घट इत्यादिप्रमास्वसंभवः । तथाहि । प्रकारतानिरूपितत्वं विशष्यतायां विद्यते । एवं स्ववृत्तिप्रति- योगितानिरूपकाभाववद्वृत्तित्वमपि । बं घटत्वनिष्ठप्रकारता स्ववृत्तिर्या प्रतियोगिता संयोगेन घटत्वं नास्तीति प्रतीतिसाक्षिकाभावीया तन्निरूप- कोऽभावः सयोगेन घटत्वं नास्तीतिप्रीतिसाक्षिक तद्वानिदमर्थः तवृत्ति- त्वं विशष्यत्तायां तन्निरू कित्वं प्रमायामिति । तादृगप्रतियोगितायां प्रकारतावृत्तित्वमित्थम् । म्वं प्रतियोगिता तम्याः घटत्वनिष्ठत्वेन सामा- नाधिकरण्यं विद्यते । एवं प्रकारताया निरवच्छिन्नत्वेन स्वानवच्छेद- कानच्छिन्नत्वमपि वर्तन इत्यतो द्वितीयसंबन्धनिरः । निविष्टे च तस्मिन् म्बपदग्राह्यप्रतियोगितावच्छेदकीभूतसंयोगसंवन्धावच्छिन्नत्वस्य समवायावच्छिन्नायामस्यां प्रकारतायामभावादिति । तृतीयसंबन्धानि- वेशऽप्यसंभवः । तथाहि । अयं घट इति ज्ञानीय निष्ठविशेष्यतायां संग्रहार्थसंग्रहे । घटत्वनिष्ठपकारतानिरूपितत्वं विद्यते । एवं म्ववृत्तिप्रतियोगितानिरूप. काभाववत्तित्वमपि वर्तते । कथमिति चेदित्यम् । म्वं घटत्वनिष्ठा प्रका- रता स्ववृत्तिश्च समवायेन पटवनास्तीतिमक्षिकाभावीया प्रतियोगिता तन्निरूपकाभाववद्वत्तित्वम्यापि विशेष्यतायां सत्त्वेन संबन्धद्वयेन प्रका- रताविशिष्टविशेष्यता निरूपकत्वस्याप्यम्यां प्रमायां सत्त्वात् । पटत्वनिष्ठ- प्रतियोगिताया. घटत्वनिष्ठप्रकारतावृत्तित्वं कथमिति चेदेवम् । स्वपद- ग्राह्य ग्टत्वनिष्ठ प्रतियोगितावच्छेदक समवायसंबन्धावच्छिन्नत्वम्य घटत्व- निष्ठपकारतायां सत्त्वात् । एवं स्वानवच्छेदकानवच्छिन्नत्वमपि । स्वं पटत्वनिष्ठा प्रतियोगिता तदवच्छेदक पटत्वत्वं तदनवच्छेदकमुदासीन तदनवच्छिन्नन्वमपि घटत्वनिष्टप्रकारताया निरवच्छिन्नत्वेनास्तीति स्वा- नवच्छेदकानवच्छिन्नत्वस्वावच्छेदकसंवन्धावच्छिन्नत्वोभयसंबन्धेन पट- त्वनिष्ठप्रतियोगिता घटत्वनिष्ठप्रकारतावृत्तिर्भवतीति सामानाधिकरण्यरूप- तृतीयसंबन्धनिवेशः । तथाच पटत्वनिष्ठप्रतियोगितासामानाधिकरण्यस्य घटत्वनिष्ठप्रकारतायामभावान्नासंभवः । पटत्वनिष्ठप्रतियोगितायाः उक्त- त्रितयसंबन्धेनोक्तरीत्या घटत्वनिष्ठप्रकारतावृत्तित्वाभावादिति । अत्र म्वा- नवच्छेदकानवच्छिन्नत्वपदेन विवक्षितस्वपर्याप्तयधिकरणापर्याप्तधर्मपर्या- प्यधिकरणावृत्तित्वम्य निवेशे तेनैव पटत्वनिष्ठप्रतियोगितामादायासंभव- वारणसभवेन तत्कल्पे सामानाधिकरण्यं न देयमेव । तथाहि । स्व पटत्व- निष्ठा प्रतियोगिता तत्पर्याप्तयधिकरण पटत्वं तत्र पर्याप्त पटत्वं अप- र्याप्तो धर्मः घटत्वत्वं तत्पर्यात्प्यधिकरण घटत्वं तद्वृत्तित्वस्यैव प्रकार- तायां सत्त्वेन तादृशधर्मपर्याप्यधिकरणावृत्तित्वरूपद्वितीयसंबन्धाभावेन प्रत्यक्षखंडः घटत्वनिष्ठप्रकारतावृत्तित्वस्य पटत्वनिष्ठप्रकारतायामभावेन सामानाधि- करण्याभावेऽपि दोषतयोक्तासंभवम्य वारितत्वादिति विभावनीयमिति- दिक् । एवमन्यान्यलक्षणसमन्वयप्रकारस्तद्धटकपदानां कृत्यानि च स्वय- मूद्यानि । ग्रन्थगौरवभिया नेह तानि प्रदर्शितानीत्यवधेयम् । अत्र वि- शेष्यावृत्यप्रकारकत्वलक्षणे दीपिकायामभिहिता घटे घटत्वमिति प्रमाया- मव्याप्तिः प्रकारताविशिष्टविशेष्यत्वानिरूपकत्वादिलक्षणे वृक्षः कपि- संयोगीति प्रमायामव्याप्तिश्च प्रसज्यते । सा च विशेष्यावृत्तित्वस्थाने विशेष्यानुयोगिकसंवन्धाप्रतियोगित्वस्योत्तरलक्षणे च प्रकारतावैशिष्टय - घटकसंवन्धघटकीभूताभावे प्रतियोगिवैयधिकरण्यस्य च निवेशाद्वारणी. या। घटे घटत्वमित्यत, प्रकारीभूतघटस्य विशेष्यावृत्तित्वेऽपि विशेष्या- नुयोगिकसंबन्धाप्रतियोगित्वाभावात् । कपिसंयोगाभावस्य प्रतियोगि- वैयधिकरण्याभावाच्च नाव्याप्तिः । प्रतियोगिवैयधिकरण्यपरिप्कारश्चा- न्यत्रोक्तोऽनुसन्धेय इति सर्वं चतुरस्रम् । ॥ तदभाववति तत्प्रकारकानुभवोऽयथार्थः ।। अत्र विशेष्यावृत्यप्रकारकत्वस्थाने विशेष्यावृत्तिप्रकारकत्वं प्रकारताविशिष्टविशेष्यत्वानिरूपकत्वस्थाने तादृशविशेष्यत्वनिरूपकत्वं निवेश्यानुभवत्वसहितं सर्वमप्युक्तमेव लक्षणतया ज्ञेयम् । अथ वृक्षः कपिसंयोगीति प्रमायामतिव्याप्तिः । तत्र विशेष्ये वृशे प्रकारीभूतसंयोगा- भावस्य सत्त्वादिति । यदि संयोगाभावस्य प्रतियोगिवैयधिकरण्याभा- वात् संबन्धघटकाभावे च प्रतियोगिवैयधिकरण्यं निवेश्योक्तातिव्याप्तिः वार्यते तदा मूलावच्छिन्नो वृक्षः कपिसंयोगी उत्पत्तिकालीनो घटो संग्रहार्थसंग्रहे गन्धवानित्यादिभ्रमेऽव्याप्तिः । तत्र लक्षणघटकीभूताभावन्य प्रतियोगि- वैयधिकरण्याभावादिति चेदत्र केचित् । प्रकारताविशिष्टविशेष्यत्वनि- रूपकानुभवत्वमेव लक्षणम् । वैशिययं स्वनिरूपितत्वम्वावच्छेदकावच्छि- नप्रतियोगिताकाभावविशिष्टत्वोभयसंवन्धेन । अभाववैशिष्टयं स्वाव- च्छेदकदेशावच्छिन्नत्वस्वसामानाधिकरण्योभयसंबन्धेन । तथाचाभावे प्रति- योगिवैयधिकरण्यानिवेगानोक्ताव्याप्तिः । अभावावच्छेदकावच्छिन्नत्वस्य विशेष्यतायां निवेशेन न वृक्षः कपिसयोगीति प्रमायामतिव्याप्तिः । तत्र वृक्षनिष्ठविशेष्यतायाः कपिसंयोगाभावावच्छेदकमूलानवच्छिन्नत्वादि- ति । नचैवं सति निरवच्छिन्नविशेष्यताघटितभ्रमेष्वव्याप्तिः । तत्र संबन्धघटकीभूतस्वावच्छेदकावच्छिन्नत्वसंबन्धेनाभाववैशिष्टयायोगादिति वाच्यम् । तत्र पूर्ववत् अभाववैशिष्टयाघटितमेव लक्षणं करणीयमिति न दोषः । नच लक्षणभेदापत्तिः । इष्टापत्तेः । अत एव मुक्तावलीकारा- दयोऽपि भ्रमनिरूपणावसरे एवमेव लक्षणद्वय परिष्कृत्य लक्ष्यभेदेन लक्षणभेदस्येष्टापत्तिमभ्युपयन्तीत्याहुः । तच्चिन्त्यम् । स्वावच्छेदकाव- च्छिन्नत्वघटितसंबन्धेनाभाववैशिष्टयाघटितलक्षणस्य वृक्षः कपिसंयोगीति- प्रमायामतिव्याप्तेरवारणात् । म्वावच्छेदकावच्छिन्नत्वस्थाने लक्षणान्तरे अभावे प्रतियोगिवैयधिकरण्यं निवेश्य तदुभयान्यतरवत्त्वस्य लक्षणत्व- विवक्षणेऽपि अन्यतरत्वस्य भेदद्वयावच्छिन्नप्रतियोगिताकभेदवत्त्वरूपत्वेन भेदद्वयमध्ये कस्य प्रथमतो निवेश इत्यत्र नियामकाभावेन गुरुतरलक्षण- द्वयापत्तेः । अतः स्वावच्छेदकावच्छिन्नत्वस्थाने स्वानवच्छेदकानवच्छि- नत्वं निवेश्यैकमेवोभयसाधारण लक्षणं करणीयम् । अत्र स्वानवच्छेद- प्रत्यक्षखंडः कानवच्छिन्न वनिवेशेऽपि दोषशङ्कायां साऽपि पूर्ववन्निरसनीयेत्यादिक बहुतरमूहनीयम् । । यथार्थानुभवश्चतुर्विधः ॥ नन्विदमसङ्गतं । प्रत्यक्षादेर्यथार्थानुभवप्रभेदत्वे "इंदरजतमिति प्रत्यक्षस्य "हूदो वन्हिमानि"त्यनुमितेः “अग्निना सिंचती"ति वाक्यज- न्यबोधस्य एवमगवये गवयपदवाच्यत्वज्ञानरूपाया उपमितेश्च प्रत्यक्षादि. ज्ञानप्रभेदत्यानुपपत्तिः । यथार्थायथार्थानुभवेप्वपरिगणितत्वादिति चेत् भ्रान्तोऽसि । यथार्थानुभवस्य चातुर्विध्ये अयथार्थानुभवस्यापि चातुर्विध्य तुल्यन्यायेन सेत्स्यतीति ग्रन्थकार उझांचकार । ॥ यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् ॥ अव कार्यपदानुपादाने उद्देश्यविधेयभावमहिम्ना उद्देश्यतावच्छेद- कीभूते यत्समवेतत्वे विधेयीभूतोत्पतिव्याप्यत्वं लभ्यते तम्यच बाघः स्यात् । तथाहि । अत्र वाक्ये यत्समवेतमुद्दिश्य उत्पत्तिविघीयत इति उद्देश्यतावच्छेदकीभूतयत्समवेतत्त्वे उत्पत्तिव्याप्यत्वलामे यनयत्र यत्सम . वेतत्वं तत्रतत्रोत्पत्तिरिति नियमपमक्तौ यत्समवेतत्वम्य कपालस्वादिजाती सत्त्वेऽप्युत्पत्तेरभावेन व्याप्यत्वभङ्गः स्यादिति कार्यपदोपादानम् । तथाच कार्यत्वस्याप्युद्देश्यतावच्छेदकत्वेन जातौ उद्देश्यतावच्छेदकत्वस्यैवाभावेन न नियमानुपपत्तिः । यद्यपि “उद्देश्यविधेयभावस्थलेऽसति बाधके उद्देश्यतावच्छेदके विधेयव्याप्यत्वं भासत" इति नियमात बाधकाभाव एवं व्याप्यत्वं भासते नेतरथा। तथाच प्रकृने बाधकसद्भावात्सामानाधि- करण्यमानं भासते न व्याप्यव्यापकभाव इति कार्यपदं व्यर्थम् । तथापि 18 ७० संग्रहार्थसंग्रहे १ स्फुटपतिपत्यर्थकतया वाऽकायें उत्पत्तिर्नास्तीति प्रदर्शनार्थतया वा व्या- ख्याय कथंचित्सार्थक्यमुपपादनीयमित्यववेयम् । “यत्समवेतं कार्यमि" त्यस्य। स्वानुयोगिकसमवायप्रतियोगित्वसंवन्धेन यद्विशिष्टं कार्यमित्यर्थः । उत्पत्ति माऽऽद्याक्षणसंबन्धः । स चाऽऽद्याक्षणवृत्तित्वरूपः विधेयीभूतता- दृशोत्पत्ताबुद्देश्यतावच्छेदकीभूतयन्निष्ठावच्छेदकतानिरूपकत्वमुद्देश्यविवेय भावमहिमलभ्यमिति यन्निष्ठावच्छेदकताकाधक्षणनिरूपितवृत्तितावत्कार्य- मिति वाक्याथ. संपद्यते । आद्यक्षणरूपकालवृत्तित्वे यत्पदार्थावच्छिन्नत्व च "देशे वृत्तौ कालस्यावच्छेदकत्वं काले वृत्तौ देशम्यावच्छेदकत्वं इति नियमसिद्धमिति कपालरूपदेशम्यावच्छेदकत्वं नानुपपन्नम् । वि. परिवर्तने च घटादिरूपकार्यनिष्ठाद्यक्षणवृत्तित्वनिरूपितस्वानुयोगिक- समवायपतियोगित्वसंबन्धावच्छिन्नावच्छेदकतावत्त्वं समवायिकारणस्य लक्षणमिति पर्यवसितम् । अत्रावच्छेदकतायां स्वानुयोगिकसमवाय- प्रतियोगित्वसंबन्धावच्छिन्नत्वानुगदाने घटादिरूपकार्यनिष्ठकालनि- रूपिताधेयतायां स्वानुयोगिकसंयोगप्रतियोगित्वसंबन्धेन भूतलादेरप्यव- च्छेदकतया भूतलादावतिव्याप्तिस्म्यादतम्तत्संबन्धनिवेश: । नच "उत्पन्न द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठती"ति न्यायेनाद्यक्षणे भूतलघटयोः गुणात्मकसंयोगसंबन्धायोगेनासंबद्धे भूतलेऽवच्छेदकत्वाभावान्नातिव्या- प्तिरिति वाच्यम् । तर्हि स्वानुयोगिककालिकप्रतियोगित्वसंबन्धेन काल- स्याप्यवच्छेदकतया तत्रातिव्याप्तिप्रसङ्गात्, अतः तत्संबन्धो निवेशित इति सन्तोष्टव्यम् । ॥ यथा तन्तवः पटस्य ।।

प्रत्यक्षखंडः उदाहरणं यथापदार्थः । तच्चोक्तरूपप्रकारकनिश्चयविशेष्यता- वन् । उक्तरूपं च तादृशावच्छेदकतावत्त्वम् । पटस्येति षष्ठयर्थ कार- णत्वं । तस्य तन्तुष्वन्वयः । तथाच पटनिरूपितकारणतावन्तस्तन्तवः यथा पटनिष्ठाद्यक्षगवृत्तितानिरूपितत्वानुयोगिकसमवायप्रतियोगित्व- संबन्धावच्छिन्नावच्छेदकत्वरूपोक्तरूपप्रकारकनिश्चयविशेष्यतावदभिन्ना इति वाक्यार्थः । कार्येण कारणेन वा सहकस्मिन्नर्थे समवेत सत्कारणमसमवायिकारणम् । कार्यप्रतियोगिकभेदकारणप्रतियोगिकभेदोभयावच्छिन्नप्रतियो- गिताकभेदवद्यत् किंचिदर्थनिरूपितममवायघटितसामानाधिकरण्यवदभि- नकारणतावान् असमवायिकारणमिति व्यवहारविषय इति विशिष्ट- वाक्यजन्यो बोधः । असमवायिकारणलक्षणं तावद्विविधम् । समवाय- संबन्धावच्छिन्नकार्यतानिरूपितसमवायसंबन्धावच्छिन्नकारणत्वरूपम् । समवायसंबन्धावच्छिन्नकार्यतानिरूपितम्वसमवायिसमवेतत्वसंबन्धाव- च्छिन्नकारणत्वरूपं चेति । प्रथमकल्पे कार्यतायां समवायसंबन्धाव- च्छिन्नत्वानिवेशे भगीरथप्रयत्नादावतिव्याप्तिः । स्वजनकादृष्टवत्वसंबन्धन गङ्गावतरण प्रति समवायसंबन्धेन तत्प्रयत्नस्य हेतुत्वात् । तथाच तत्र कार्यतायाः स्वजनकादृष्टवत्त्वसंबन्धावच्छिन्नत्वेन समवायसंबन्धावच्छि- नत्वाभावान्नातिव्याप्तिः । समवायसंबन्धावच्छिन्नकार्यतानिरूपित तादा- म्यसंबन्धावच्छिन्नकारणतावति समवायिकारणेऽतिव्याप्तिवारणाय कार- णतायां तन्निवेशः । द्वितीयकल्पे कारणतायां स्वसमवायिसमवेतत्वसंब- न्धावच्छिन्नत्वानिवेशे समवायिकारण एवातिव्याप्तिः । कार्यतायां सम- ७२ संग्रहार्थसंग्रह वायसंबन्धावच्छिन्नत्वानिवेशे इन्द्रियावयव विषयावयवसयोगेऽतिव्या- प्तिः । तथाहि । प्राचीनमते प्रत्यक्षसामान्य प्रति तम्यापि कारणत्वात्। कार्यकारणयोश्च सामानाधिकरण्यावश्यभावात् । तथाच विषयतासंब- न्वेन प्रत्यक्षं प्रति स्वसमवायिसमवेतत्वसंबन्धेन तत्संयोगः कारणम् । उक्तसंबन्धेन कार्याधिकरणे विषये तेन संबन्धेन स विद्यते । यथा । स्वं इन्द्रियावयव विषयावयवसंयोगः म्वसमवायी विषयावयवः तत्समवेतत्वं विषये। कारण येन संबन्धेन कार्याधिकरणे विद्यते तत्संबन्धस्यैव कारण- तावच्छेदकत्वात् । अतस्तत्रातिव्याप्तिवारणाय कार्यतायां समवायसंबन्धाव- च्छिन्नत्वनिवेशः । तथाच तदीयकार्यतायाः विषयतासंबन्धावच्छिन्नत्वेन समवायसंबन्धावच्छिन्नत्वाभावान्नातिव्याप्तिः । अत्र तुरीतन्तुसंयोगादा. वतिव्याप्तिवारणप्रकारः मुक्तावल्यादौ द्रष्टव्य इत्यवधेयम् । । तदुभयभिन्न कारणं निमित्तकारणम् ।। नच निमित्तकारणत्वेनाभिमतेषु प्रागभावादिषु कस्याप्यसमवा- यिसमवायिकारणत्वयोरभावेन लक्षणसमन्वयेऽपि घटादिनिमित्तका- रणेषु दण्डादिप्वव्याप्तिः । स्वगतरूपसमवायिकारणत्वस्य तत्र सत्त्वेन तद्भिन्नत्वायोगात् । किंच समवायिकारणकपालादावतिव्याप्तिः । एक नोभयमिति प्रतीत्या घटे घटपटोभयभेदवत् प्रकृतेऽपि समवायिकारणा- समवायिकारणोभयभेदस्य कपाले सत्त्वात् । घटसमवायिकारणभिन्नत्वे सति घटासमवायिकारणभिन्नत्वे सति घटकारणत्वमिति विशिष्य लक्ष- णविवक्षयोक्तदोषवारणे पुनरननुगम इति वाच्यम् । समवायिकारणता- भिन्नासमवायिकारणताभिन्नकारणत्वं तत् । नचैवमुक्तदोषः । यथा प्रत्यक्षखंडः ७३ पुस्पैक्येऽपि तद्गतयोरित्वचोरवयो परम्परं भेदः । एवं दण्डनिष्ठयो। घटकारणत्वस्वगतरूपकारणत्वयोरपि भेदान् । अथवा किंचियक्ति- विशिष्ट निमित्तकारणत्वं । वैशिष्टयं च म्बनिबपितसमवायिकारण- त्वशून्यत्वस्वनिरूपितासमवायिकारणत्वशून्यत्वम्वनिरूपितकारणत्वैतत्त्रि - तयसंबन्धेन । यद्वा किंचिद्धर्मविशिष्टत्वं तत् । वैशिष्टयं च स्वाव- च्छिन्न कार्यतानिरूपितसमवायिकारणत्वसंबन्धावच्छिन्नम्वनिष्ठावच्छेद- कताकप्रतियोगिताकभेटवत्त्वम्बावच्छिन्न कार्यतानिपिता ममत्रायिकार- णत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकमेदवत्त्वम्वाव- च्छिन्नकार्यतानिरूपितकारणतावत्त्वैतत्त्रितयसंबन्धेन । अत्र समवायि- कारणासमवायिकारणोदासीनेषु यथाक्रममतिव्याप्तिवारणाय त्रयाणां संवन्धानां निवेशः । अत्र धर्मपदेन कार्यतावच्छेदकीभूतघटत्वादिधर्मो ग्राह्यः । भेदश्च स्वावच्छिन्न कार्यतानिरूपितसमवाथिकारणत्वादिसंवन्धेन स्ववन्नेति प्रतीतिमाक्षिको ज्ञेयः । समन्वयप्रकारश्च सुगम इति न प्रदृश्यते । ॥ तदेतत्त्रिविधकारणमध्ये यदसाधारण कारण नदेव करणम् ।। अत्र तानि च तानि एतानि च तदेतानि । तदेतानि च तानि त्रिविधकारणानि चेति विग्रहः । उक्तरूपवबुद्धिस्थत्रिविधकारणमध्ये इति तदर्थः । त्रिविधानि त्रित्वसंख्या विशिष्टविभाजकधर्मनिष्ठाधेयता- निरूपकानि षष्ठ्यर्थः घटितत्वम् । समुदायघटकं मध्यशब्दार्थः । अभेदः सप्तम्यर्थः । तथाच त्रिविधकारणनिरूपितघटितत्ववत्समुदायघटका- भिन्नमसाधारणकारणमिति समग्रार्थः । यत्पदस्य तत्पदोपस्थाप्यतावच्छे- 19 संग्रहार्थसंग्रहे दकरूपवानर्थः । तत्पदस्य बुद्धिविषयतावच्छेदकरूपवानथः । असाधार- णकारणेतरावृत्तित्वमेवकारार्थः । करणपदस्य तत्पदवाच्यतावानर्थः । तदेकदेशे वाच्यत्वे एवकारार्थान्वयः । तथाच तत्पदोपस्थाप्यतावच्छे- दकरूपवदभिन्नासाधारणकारणं बुद्धिविषयतावच्छेदकरूपवदभिन्नासा- धारणकारणेतरावृत्तिकरणपदवाच्यतावदभिन्नमिति बोधः । [। तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ॥ अत्र करणत्वस्य दण्ड ज्ञानकरणत्वम्यानुमानादौ प्रत्यक्षकरण- स्वस्य प्रत्यक्षपदग्राह्येन्द्रियावयवे प्रत्यक्षज्ञानकारणत्वस्यादृष्टादौ यथाक्रम- मतिव्याप्तत्वात् प्रत्यक्षज्ञानकरणमित्युक्तम् । नचैवमुक्तेऽपि सन्निकर्तेऽति- व्याप्तिः शक्या । व्यागरवत्त्वेनापि विशेषणात् । व्यापारत्वं च स्वजनकत्व- स्वकारणजन्यत्वोमयसबन्धन कार्यविशिष्टत्वमिति । अत्र व्यापारवत्त्वं व्यापारतावच्छेदकसंबन्धेन बोध्यम् । तेन सन्निकर्षरूपव्यापारस्यापि तादात्म्यसंबन्धेन व्यापारवत्त्वेऽपि नातिव्याप्तितादवस्थ्यम् । तथाच व्यापारतावच्छेदकसंबन्धावच्छिन्नव्यापारनिष्ठाधेयता निरूपिताधारतावत्त्वे सति प्रत्यक्षज्ञानत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वमिति फलि- तम् । इदं च प्राचीनमतरीत्या । नवीनमते तु सन्निकर्षातिव्याप्तिवारकव्या- पारवत्त्वं न निवेशनीयम् । न च तदनिवेशे तत्रातिव्याप्तिः । तस्यापि लक्ष्यत्वात् । अत्र नव्यमतमेव युक्तिसहमिति प्रतिभाति । तथाहि । प्रत्यक्षकरणं तावत्रिविधम् । क्वचिदिन्द्रियं वचिन् सन्निकर्षः क्वचित ज्ञानं चेति । नच सर्वेषु नेषु व्यापारवत्त्वासंभवान्न करणत्वमिति वा- च्यम् । तस्याप्युपपादनात् । यथा घटत्वनिर्विकल्पके इन्द्रियं करणं प्रत्यक्षखंडः ७५ संयुक्तसमवायरूपः सन्निको व्यापारः । क्वचित् सन्निकर्षः करणं । यथा घटत्वसविकल्पके। तत्र संयुक्तसमवायरूपः सन्निकर्षः करण निर्विकल्पक- ज्ञानं व्यापार । कचित् ज्ञानं करण । यथा हानादिबुद्धिं प्रति निर्विकल्पक- ज्ञानं करणं सविकल्पकज्ञानं व्यापारः । दुःखसाधनत्वज्ञानं हानम् । सुख- साधनत्वज्ञानमुपादानम् । उभयासाधनत्वज्ञानमुपेक्षा । तत्र कंटकत्व- मविकल्पके तन्निर्विकल्पकाजाते दु.खसाधनत्वज्ञानरूपं हान जायते । एवं मनोरमत्वनिर्विकल्पकातु तत्सविकल्पके जाते सुखसाधनत्वज्ञानरूपमुपा- दानं जायते । एवं तृणत्वनिर्विकल्पकान तत्सविकल्पके नाते उभयासाधन- त्वज्ञानमुपेक्षा जायत इति । तथाच व्यापारवत्त्वविशेषणे दत्तेऽप्यतिव्याघर- वारणात्तदघटितमेव लक्षण परिष्कृत्य नेषु लक्ष्यन्वाङ्गीकरणमेव वरमिति नव्यमतमेव बहवः समाश्रितवन्तः । ॥ प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड़िधः ॥ अत्र हेतुपदमसाधारणकारणपरम् । तेन साधारणकारणकालादिषु नातिव्याप्तिः । एवं व्यापारिभिन्नत्वेनापि विशेषणीयम् । तेनेन्द्रियादिषु नातिव्याप्तिः । यद्यप्युक्तरीत्या सन्निकर्षम्यापि व्यापारवत्त्वेन व्या- पारिभिन्नत्वाभावादव्याप्तिः । तथापि व्यापारिपदार्थघटकव्यापारे ज्ञानेतरत्वं निवेशनीयम् । उक्तस्थले च निर्विकल्पकज्ञानस्य सन्नि- कर्षव्यापारत्वेन ज्ञानेतरव्यापारवदन्यत्वस्य सन्निकर्षेऽक्षतत्वेनाव्या- प्त्यनवकाशात् । नच सविकल्पकज्ञानरूपन्यापारवति ज्ञानेतरव्यापार- वदन्यस्मिन् हानोपादानादिप्रत्यक्षासाधारणकारणे निर्विकल्पकेऽतिव्या- प्तिरिति वाच्यम् । ज्ञानेतरत्वविशेषणघटकीभूतज्ञाने निर्विकल्पकत्वस्य ७६ संग्रहार्थसंग्रह विशेषितत्वात् । तथाच निर्विकल्पकेतरव्यापारवदन्यत्वे सति प्रत्य- क्षासाधारणकारणत्वं सन्निकर्षम्य लक्षणम् । इन्द्रियेषु निर्विकल्पकतर- सन्निकर्षरूपच्यापारवत्सुनातिव्याप्तिः। निर्विकल्पके चनिर्विकल्पकतरसवि. कल्पकरूपव्यापारवति तदन्यत्वाभावान्नातिव्याप्तिः । सन्निकर्षे च निर्वि- कल्पकरूपस्यैव व्यापारस्य सत्त्वेन तदितरव्यापारवदन्यत्वसंभवान्नाव्याप्ति- रिति विभावनीयम् । इन्द्रियार्थयोः सन्निकर्षः। षष्ठ्यर्थः प्रतियोगित्वं अनु- योगित्वं च । तथाचेन्द्रियप्रतियोगिकार्थानुयोगिकः सन्निकर्ष इति फलिं- तोऽर्थः । नन्विदमसङ्गतम् । यत् पूर्वमिन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्ष. मिति सन्निकर्षघटित प्रत्यक्षलक्षणमुक्तवा इदानी प्रत्यक्षघटितस्य सन्निकर्ष- लक्षणस्य कथनेऽन्योन्याश्रयापत्तेरिति चेन्मैवम् । चक्षुर्मावग्राह्यो गुणो रूप- मिति चक्षुर्घटितत्वाद्रूपलक्षणस्य रूपग्राहकमिन्द्रियं चक्षुरिति रूपघटित- त्वाञ्च चक्षुर्लक्षणस्य तत्रापि लक्षणे परस्पराश्रयत्वदुष्टत्वापत्तेः । ननु शब्दस्य प्रतिशब्दमात्र नेदमुत्तरम् । नहि तस्य दुष्टत्वमानणैतददुष्ट भवतीति चेदनधिगताशयोऽसि । नहि वयं तदुष्टत्वमेवैतददुष्टत्वमिति प्रतिजानीमः । किंनाम तद्वारणप्रकारोऽत्राप्यनुसतव्य इति । रूप- लक्षण एवान्योन्याश्रयपरिहारः कथमिति चेदित्थम् । चक्षुषो नेद लक्षण । किंन्तु पार्थिवमिन्द्रियं तदिति । तद्वत्प्रकृतेपि प्रत्यक्षस्य नेन्द्रि- यार्थसन्निकर्षजन्यज्ञानत्वं लक्षणं किंनाम स्वरूपकीर्तनमेव तत् । अन्य- था ईश्वरज्ञानेऽव्याप्तिप्रसङ्गात् । प्रत्यक्षलक्षणन्तु ज्ञानाकरणकज्ञानत्वं । अत एव कचित्संग्रहपुस्तकेऽप्येतदर्थक पाठान्तरं प्रहश्यते । अथवा मुक्तावल्याद्युक्तदिशा जातिविशेष एव लक्षणम् । सर्वमुक्तं तद्वयंजकं ।

प्रत्यक्षखंड: यद्वा षडन्यतमत्वं सन्निकर्षस्य लक्षणमिति परस्पराघटितत्वान्नान्योन्या- श्रयाघवकाशः । एवमन्येष्वपि लक्षणेषु प्रसक्तदोषनिवारणप्रकारः स्वय. मूहनीय इति कृतं पल्लवितेन । इति तर्कसंग्रहार्थसंग्रहे प्रत्यक्षपरिच्छेदः समाप्तः ॥ अथानुमानं निरूप्यते कार्यकारणभावापरपर्यायोपजीव्योपजीवक- भावसंगत्या प्रत्यक्षानन्तरमनुमानं निरूपयितुमारभते । ॥ अनुमितिकरणमनुमानम् । परामर्शजन्य ज्ञानमनुमितिः ।। अन्योन्याश्रयमिया अनुमानजन्यत्वाघटित लक्षणमाह । परा- मर्शजन्यमिति । अनुमाननिरूपणावसरेऽनुमितिनिरूपणं कुत इति चेत् । घटितज्ञान प्रति घटकज्ञानस्य कारणत्वात् प्रकृतोपपादकतयेति गृहाण । अपिच अनु पश्चान् मितिकरणत्वस्योपमानादिसाधारणतयाऽनुमितेवि- जातीयत्वप्रदर्शनाय लक्षणान्तरकरणम् । तत्रानुमितिलक्षणे परामशध्वंसेऽ तिव्याप्तिवारणाय ज्ञानपदम् । अथ प्रतियोगितासंबन्धेन ध्वंसं प्रति ता- दाल्येन प्रतियोगिनः कारणतया तनातिव्याप्तिवारणाय परामर्शनिष्ठकार- मतयां तादात्म्यसबन्धानवच्छिन्नत्वं समवायसंबन्धावच्छिन्नत्वं वा तन्नि- रूपितजन्यतायां प्रतियोगितासंबन्धानवच्छिन्नत्वं समवायसंबन्धावच्छिन्न- त्वं का निवेश्यते । तथाचातएवातिव्याप्तेर्वास्तित्वात् ज्ञानपदं व्यर्थम्। किंच कारणतायां कार्यतायां का संबन्धविशेषानिवेशे परामर्शानुव्यवसायेऽति- व्याप्तिः । तस्य परामर्शरूपव्यवसायजन्यत्वात् ज्ञानत्वाच । तथाच ज्ञानपदोपादानेऽपि 'परामर्शप्रत्यक्षेऽतिव्याप्तिवारणाय संबन्धविशेषाव- 20 संग्रहाथसंग्रहे । च्छिन्नत्वेऽवश्य निवेशनीये किं ज्ञानपदोपादानेन । सबन्धनिवेशे न तत्रा- तिव्याप्तिः । विषयतासंबन्धेन प्रत्यक्ष प्रति तादाम्येन विषयस्य कारण- स्वात् । एतेन मूलोक्तं ज्ञानपदं परित्यज्य संवन्धविशेष निवेशयता कि- मधिकमाचरितमित्यपास्तम् । ज्ञानपदोपादानेऽपि संबन्धनिवेशावश्य- कताया उपपादितत्वात् । मैवम् ! संस्कारेऽतिव्याप्तिवारणाय ज्ञानपदो- पादानात् । तथाहि । समवायसंबन्धेन परामर्शात्मकप्रत्यक्षानन्तरं सम- वायेनात्मनि संम्कारः संजायत इति तं प्रति परामर्शस्य समवायेनैव कारणतया जन्यजनकतयोः संबन्धविशेषावच्छिन्नत्वं निवेश्य तत्राति- व्याप्तिवारणासंभवेन तत्रातिव्याप्तिवारणाय ज्ञानपद न्यवीविशत् । नचैव- मपि वन्हिव्याप्यघूमपर्वतवानयं देश इति विशिष्टवैशिष्ट्याक्गाहि- बुद्धावतिव्याप्तिः । तत्र विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्व- नियमेन परामर्शजन्यत्वस्य च सत्त्वात् । एवं दीपिकोक्तपरामर्गानन्तर- प्रत्यक्षेऽप्यतिव्याप्तिानपदोपादानेऽपि न निवारिता भवतीति वा- च्यम् । पक्षताजन्यत्वेनापि विशेषणात् । पक्षताजन्यत्वस्यानुमितावेंव सत्त्वेनान्यत्रातिव्याप्तेरप्रसक्तेः । नचैव वसे संस्कारे वा तत एवाति- व्याप्तेरितत्वात ज्ञानपदं पुनरजागलस्तनायितमिति वाच्यम् । इच्छा- विशेषेऽतिव्याप्तिवारणाय तन्निवेशात् । तथाहि । परामर्शः पक्षता च मम भवतु इत्याकारकेच्छां प्रति विषयविधया परामर्शपक्षत्वयोः द्वयोर- पि कारणत्वे परामर्शजन्यत्वे सति पक्षताजन्यत्वस्य ज्ञानपदस्य सार्थक्यात् । न च जन्यतायां जनकतायां वा समवाय- संबन्धावच्छिन्नत्वादिनिवेशादप्युक्तातिव्याप्तिवारणसंभवात् ज्ञानपदं व्य- तत्र सत्त्वेन प्रत्यक्षखंडः र्थमेवेति वाच्यम् । संबन्धविशेषमनिवेश्य यथाश्रुतमूलानुसारेण ज्ञान- पदसार्थक्यकरणात् । अन्यथा पक्षतायाः संबन्धविशेषेणानुमितिं प्रत्येच कारणतया परामशजन्यत्वस्यापि वैयापातात् । न चातिलाघवादिष्ट मेव तदिति वाच्यम् । लक्षणस्य लक्षणान्तरं न दोषायेति लक्षणान्तर- परतया मूलस्य सार्थक्यसंभवे तद्वैयर्थ्यकथनस्यानुचितत्वात् । संशया- नन्तरप्रत्यक्ष प्रति परामर्शस्य विशेषदशनत्वेन कारणतया परामर्शत्वा- वच्छिन्नजनकतानिरूपितजन्यताया उक्तेषु सर्वेप्वपि स्थलेप्वभावादेव सर्वातिव्याप्तिवारणसंभवे पक्षताजन्यत्वस्यापि वैयपितेः । अतो दीपि- काकारोऽपि पक्षताजन्यत्वं विशेषणमुपाददानः रीत्यन्तरेण मूलमपरिष्कु- वन् विशेषणान्तरप्रक्षेपापेक्षया मौलपदपरित्यागदोष गरीयांस प्रतिजाना- तीवेति सर्वमकलंकम् । ॥ चन्हिव्याप्यधृमवानय पर्वत इति ज्ञानं परामर्शः ।। अत्र इतिपदस्याऽऽकारोऽर्थः । स च वन्हिनिरूपितव्याप्तिनिष्ठ- प्रसारतानिरूपितधूमत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितपर्व- तत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यितारूपः । तस्य ज्ञानेऽन्वयः । तथाच तादृशाकारवज्ज्ञानं परामर्शदवाच्यमित्यर्थः । परामशस्तु द्विविधः वन्हिव्याप्यधूमधानयं पर्वत इति पक्षविशेष्यकः। पर्वते वन्हिव्याप्यधूम इति पक्षप्रकारकश्चेति । तत्र पक्षविशेष्यकपरामर्शात् पक्षविशेष्यिका पर्वतो वन्हिमानित्याकारिकाऽनुमितिः । पक्षप्रकारकात्तु परामर्शात्। पक्षप्रकारिका पर्वते वन्हिरित्याकारिकाऽनुमितिरिति प्रांच: । यद्यप्यतैकैकविधपरामर्शा- कत्त्वेऽपि अन्यान्यविंधानुमितेरुत्पत्त्या परस्परं व्यभिचारावन्वयतो व्यतिरेक- संग्रहार्थसंग्रहे तश्च प्रसज्यते । तथापि स्वाव्यवहितोत्तरत्वसंबन्धेन पक्षविशेष्यकपरामर्श- विशिष्टानुमिति प्रति केवलपक्षविशेष्यकानुमितिं प्रति वा पक्षविशेष्यकपरा- मशः कारणम् । एवमुक्तसंबन्धेन पक्षप्रकारकपरामर्शविशिष्टानुमिति प्रति पक्षप्रकारकानुमितिं प्रति वा पक्षप्रकारकपरामर्शः कारणमिति कार्यकारण- भावमङ्गीकृत्य व्यभिचारः परिहरणीयः । नव्यास्तु अनुभवानुरोधेनोमय- विधादपि परामर्शात्पक्षविशेष्यिकैवानुमितिरिति प्राहुः । यद्यपि तन्मते परामर्शसामान्यस्य न तावत्साध्यनिरूपितव्याप्तिनिष्ठप्रकारतानिरूपित- धूमत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छि- अविशेष्यताशालिनिश्चयत्वं लक्षणम् । पक्षप्रकारकपरामशेऽव्याप्तः। नापि साध्यनिरूपितव्याप्तिनिष्ठप्रकारतानिरूपितधूमत्वावच्छिन्नविशे- व्यत्वावच्छिन्नविशेष्यतानिरूपितपक्षतावच्छेदकावच्छिन्नप्रकारताशालि. निश्चयत्वं तत् । पक्षविशेष्यकपरामर्शाव्याप्तेः । तथापि प्रथमोक्तमेव लक्ष- बतयांऽङ्गीक्रियते । न चोक्ताव्याप्तिदोषः । तत्राप्यस्य लक्षणस्य तुल्यवित्ति- वेवत्वन्यायेन सत्त्वेनाव्याप्तेरभावात् । तथाहि । प्रत्यक्षे विशेषणविशेष्य- मासकसन्निकर्षादिघटितसामग्रीणां साम्यात्परस्परं पदार्थद्वयमपि विशेष्य विशेषणं च भवतीति । यथा नीलो घट इति प्रत्यक्ष नैल्यप्रकारक नैल्यविशेष्यकं च भवतीति तन्नियमाङ्गीकर्तृमतसिद्धम् । विशेष्यविशेष- मासकसामग्रीतल्यात् । तद्वत्प्रकृते वन्हिव्याप्यघूमवान् पर्वत इति अत्यावं वन्हिव्यायधूमप्रकारकं धूमविशेष्यकं वा भवति । एवमन्योऽपि परामर्श उमयविधो भक्तीति नाव्याप्त्यवकाशः । एवं तर्हि वन्हि- निरूपितव्याप्तिनिष्ठपकारवानिरूपितधूमत्वावच्छिन्नविशेष्यत्वावच्छिन्न- प्रत्यक्षखंडः विशेष्यतानिरूपितपक्षतावच्छेदकावच्छिन्नप्रकारताशालिनिश्चयत्वमपि लक्षणं संभवतीति चेत् किं नश्च्छिन्नम् । तदपि भवतु लक्षणान्तर तुल्यवित्तिवेद्यतामतरीत्या । तुल्यवित्तिवेद्यत्वशब्दार्थस्तु तुल्या समाना वित्तिनि तन्निरूपिता वेद्यता विषयता । तथाच ज्ञाननिरूपित विषयत्वं विशेषणविशेष्ययोः समानमुक्तरीत्येत्यर्थः । प्रकारताविशिष्टविशे- ष्यत्वं तुल्यवित्तिवेवयमिति फलितम् । वैशिष्ट्यं च स्वनिरूपितत्व- म्वावच्छिन्नविशेष्यता निरूपितप्रकारतावच्छिन्नत्वोभयसंवन्धेन । तन्मते विशेष्ये विशेषणे च प्रकारत्वविशेष्यत्वयोडियोविषयतयोस्सत्त्वेन तयो- श्चैकनिष्ठत्वेन परम्परमवच्छेद्यावच्छेदकभावाल्लक्षणसमन्वयः । अथवा विशेष्यताविशिष्टप्रकारत्वं तत् । चैशिष्टयं च म्वनिरूपितत्वस्वावच्छिन्न- प्रकारतानिरूपितविशेष्यत्वावच्छिन्नत्वोभयसंबन्धेन । यद्वा विषयता- विशिष्टविषयत्वं तत् । वैशिष्टयं च स्वनिरूपितत्वस्वविशिष्टविषयत्वाव- च्छिन्नत्योभयसंबन्धेन । विषयतायां म्ववैशिष्टय च स्वावच्छिन्नविषयता- निरूपितत्वस्वसाजात्योभयसंबन्धन । साजात्यं च स्ववृत्तिप्रकारतात्व- विशेष्यतात्वान्यतररूपेण । लक्षणसमन्वयः पूर्ववदित्यलं प्रसक्तानु- प्रसतया । ननु तुल्यवित्तिवेद्यताया नवीनैरनुपगमात्तन्मतरीत्या लक्षणपरि- प्करणवेलायां प्राचीनमतसिद्धन्यायमवलंब्य लक्षणानुगतिकरणमरण्यरो- दनप्रायम् । अपिच "भक्षितेऽपि लशुने"इत्यादिन्यायात्तन्मतादरणेऽपि शाब्दपरामशेऽव्याप्तेरपरिहारश्च । तत्र विशेष्यविशेषणभासकसामय्य, नियतत्वेन प्रत्यक्षवद्विशेष्यत्वप्रकारत्वयोः कामचारित्वाभावात । एवं नियतसामग्रीकानुमानिकपरामर्शेऽपि द्विविध विषयतयोः कामचारि- 21 संग्रहाथसंग्रहे स्वाभावात्परम्परमव्याप्तिर्बोध्येति चेत् भवतु तावदेवम् । तर्हि साध्य. निरूपितव्याप्तिनिष्ठपकारतानिरूपितधूमत्वावच्छिन्नविशेष्यत्वावच्छिन्न. विषयतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयताशालिनिश्चयत्वं परामश- सामान्यलक्षणमिति । अस्यायमनुगमः | किचिद्धर्मविशिष्टविषयतानि रूपितपक्षतावच्छेदकावच्छिन्नविषयताशालिनिश्चयत्वमिति । किंचिद्धर्म- वैशिष्टयं च विषयतायां म्वावच्छिन्नत्वस्वावच्छिन्नप्रकारतानिरूपित- विशेष्यत्वावच्छिन्नव्यापकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नसा- ध्यनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नसामानाधिकरण्यनिष्ठप्रकारता- निरूपितविशेष्यत्वावच्छिन्नत्वोभयसंबन्धेन । अत्र धर्मपदेन हेतुतावच्छे- दकीभूतो धर्मो ग्राह्यः । लक्षणसमन्वयप्रकारः स्वयमूहनीयः । ॥ यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः ।। अम्यानुपूर्व्यवच्छिन्नवाक्यमर्थः । तम्य प्रतिपाद्यतासंबन्धेन साह. चयनियमेऽन्वयः । व्याप्ति मानुमितिजनकतावच्छेदकपक्षनिष्ठविशेष्यता. निरूपितपकारतानिरूपितपकारताश्रयः । तथाचोक्तरूमा व्याप्तिः उक्तानु- पूर्व्यवच्छिन्नवाक्यप्रतिपाद्यतावत्साहचर्यनियमाभिन्नति वाक्यार्थः । साह. चर्यनियमशब्दार्थस्तु सह चरत इति सहचरौ सहशब्दार्थः परस्पराधि- करणं चरधात्वर्थ आधेयता । यद्यप्ययं धातुः गतिभक्षणयोर्विद्यते । तथापि “क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातव" इति प्रमाणबलादाधेयतार्थकत्वमपि प्रकृते नानुप- पन्नम् । आख्यातार्थ आश्रयत्वं । तथाच परस्पराधिकरणनिरूपिताधेय- तानिरूपिताश्रयतावन्ताविति विग्रहार्थः। आख्यातार्थस्थाने आश्रयतावतो प्रत्यक्षखंडः ८३ डप्रत्ययार्थत्वमभ्युपेत्य सहचराविति शब्दादप्ययमेवाथों बोध्यः । तयो- र्भावः साहचर्य । परस्पराधिकरणनिरूपिताधेयतावत्वं सामानाधिकरण्य- पर्यवसितम् । नियमो नामाभाववदवृत्तित्वम् । साहचर्यस्येति षष्ठ्यर्थ, सामानाधिकरण्यम् । तस्य नियमेऽन्वयः । अभावे च योग्यतया साध्य- प्रतियोगिकत्वं लभनीयम् । तथाच परस्पराधिकरणनिरूपितवृत्तित्वसमा. नाधिकरण साध्याभाववदवृत्तित्वं व्याप्तिरिति फलितं । अथवा नियमो नाम व्यापकत्वम् । साहचर्यस्येति षष्ठ्यों निरूपकवृत्तित्वम् । तथाच साहचर्यनिरूपकवृत्तिव्यापकत्वं व्याप्तिरिति निष्पन्न । यथा साध्यनि- रूपितं सामानाधिकरण्यं चेत् तन्निरूपकं साध्यं तद्वृत्ति च व्यापकत्व- मिति सिद्धान्तपूर्वपक्षीयव्याप्त्योः साहचर्यनियमशब्दप्रतिपाद्यता । पर- स्परत्वं नाम विधेयविशिष्टोद्देश्यतावच्छेदकवत्त्वम् । वैशिष्टयं च स्व. समानाधिकरणत्वस्वसमानाधिकरणाभावप्रतियोगित्वोभयसंबन्धेन । यथा चैत्रमैत्रयोः परस्परं मैत्रीत्यादौ मैत्रीरूपविधेयविशिष्टं चैत्रत्वादिरूपमु- द्देश्यतावच्छेदकं भवति । तत्र चैत्रत्वं विधेयीभूतमैव्यधिकरणचैत्रवृत्ति । एवं मैव्यधिकरणमैत्रवृत्यभावप्रतियोगि चेत्युभयसंबन्धेन विधेयविशिष्टं तद्भवति । एवं मैत्रत्वेऽपि विधेयविशिष्टत्वमुपपादनीयम् । एवमन्यत्रापि परस्परत्वमुपपादनीयम् । ॥ लिंग त्रिविधम् ॥ अनुमानविध्यं तन्निरूपणावसरेऽनुक्त्वा लिंगवैविध्यकथनन्तु तत्त्रैविध्यस्यैतत्वैविध्याधीनत्वात्प्रकृतानुकूलतयेत्यवसेयम् । । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि ॥

संग्रहार्थसंग्रह अन्वयः साध्यं व्यतिको नामाभावः सहचारग्रहग्राह्यत्वं तृती- याथः । तथाच साध्यसहचारग्रहग्राह्यव्याप्तिमत्त्वे सति व्यतिरेकसहचार. ग्रहग्राह्यव्याप्तिमत्त्वं अन्वयव्यतिरेकिलिंगम्य लक्षणम् । || अन्वयमात्रव्याप्तिक केवलान्वयि ।। अत्र साध्येतरसहचारग्रहग्राह्यव्याप्तिशून्यत्वे सति साध्यसह- चारग्रहग्राह्यव्याप्तिमत्त्व लक्षणमिति फलितम् । नन्विदमसंभवि । घटोs- भिधेयः प्रमेयत्वादित्युदाहरणं ग्रन्थकृता प्रादर्शि । तत्र साध्य- मभिधेयत्वं तदितरत् ज्ञेयत्वं तत्महचारग्रहग्राह्यव्याप्तेः प्रमेयत्वे सत्त्वा दिति । नचेतरपदेनाभावो विवक्षितः । तत्सहचारग्रहग्राह्यव्याप्तिशून्य- त्वमेव मात्रपदेन विवक्षितमिति नासंभव इति वाच्यम् । प्रमेयत्वे कपि संयोगाभावस्य संयोगेन गुणाद्यभावस्य वा सहचारग्रहग्राह्यव्याप्तिमत्त्वम्य सत्त्वेन तथाविवक्षणेऽप्यसंभवापरिहारात् । नचेतरपदेन साध्याभाव एव विवक्षित इत्युदासीनाभावनिरूपितव्याप्तिसत्त्वेऽपि साध्याभावनिरूपित व्याप्तेरभावान्नासंभव इति वाच्यम् । साध्याभावः प्रमितो न वा। आये तद्वति वर्तमानो हेतुः साध्य व्यभिचरेत् । अवर्तमानम्त्वन्वयव्यति- रेक्येव । द्वितीय साध्याभावाप्रसिध्या तन्निरूपितव्याप्तिशून्यत्वमप्य- प्रसिद्धमिति पुनरसंभव एवेति चेन्मैवम् । साध्यनिरूपितव्याप्तिमत् तदभावनिरूपितव्याप्तिमच्च यद्यत्तत्तदन्यत्वस्य विवक्षितत्वेन तादृशोभय. व्याप्तिमत्प्रसिद्धधूमाद्यन्यत्वमादाय लक्षणसत्त्वोपपादनेनासंभवाभावात् । नचासर्वज्ञदुर्जेयतेति वाच्यम् । स्वनिरूपितव्याप्तिमत्त्वस्वाभावनिरूपित- व्याप्तिमत्त्वैतदुभयसंबन्धेन किंचिवदार्थविशिष्टान्यत्वस्य तदर्थत्वेन वि- अनुमानग्वंड । वक्षणेनादोषात् । अथवा साध्याभावनिरूपितव्याप्तिशून्याने सति साध्य- निरूपितव्यातिमत्त्वमेव नलक्षणम् ! नचोक्ताप्रसिद्धिदोष । साध्याभाव- निरूपितव्याप्तिशुन्यत्वं नाम म्वाभावनिरूपितव्याप्तिमत्त्वसंवन्धावच्छिन्न- साध्यनिष्ठप्रतियोगितानिरूपका भाववत्त्वमित्यर्थविवक्षणेन दोषाभावात् । अन्यत्र धूमादौ प्रसिद्धम्याम्य संवन्धम्य व्यधिकरणसंवन्धत्वादिति अत्र प्रथमकल्पे म्वाभावनिरूपिनव्याप्तिमत्त्वं नाम म्वाभावव्यापकीभूता- भावप्रतियोगित्वरूपं विवक्षितम् । अन्यथा प्रमेयत्वादावसंभवापत्तेः । तथाहि । प्रमेयत्वे कपिसंयोगाभावनिरूपितव्याप्तेः कपिसंयोगाभावः संयोगेन नास्तीति प्रतीतिसाक्षिककपिसंयोगाभावाभावनिरूपितव्याप्तश्च सत्त्वात् यत्र यत्र प्रमेयत्वं तत्र तत्र कपिसंयोगाभावः । एवं यत्र यत्र प्रमेयत्वं तत्र तत्र संयोगेन कपिसयोगाभावो नास्तीति प्रतीतिमाक्षिका- भावश्चेति प्रतीतिबलात्मत्त्वेनोक्तोभयसबन्धेन कपिसंयोगाभावरूपकि. चित्पदार्थविशिष्टत्वेन तदन्यत्वायोगादिति । सांप्रतिकविवश्वायान्तु कपिसंयोगाभावाभावनिरूपितव्याप्तेः प्रमेयत्वव्यापकताहशाभावसा- मानाधिकरण्यरूपायाः मत्त्वेऽप्यत्यन्ताभावाप्रतियोगिनि प्रमेयत्वे तादृशकपिसंयोगाभावाभावव्यापकीभूताभावप्रतियोगित्वरूपायाः व्याप्तेर- भावेनासंभवानवकाशात । तत्र व्यापकीभूताभावपदेनान्याभावप्रतिप्रहे तत्प्रतियोगित्वस्य प्रमेयत्वेऽभावेनाप्रसिद्धया च प्रमेयत्वाभावपरिग्रहायो- गेनोक्तोभयसंबन्धेन किंचित्पदार्थविशिष्टान्यत्वस्य तत्राव्याहतत्वादिति । एवं व्यापकीभूताभावप्रतियोगिता हेतुतावच्छेदकसंबन्धावच्छिन्नत्वेन निवेशनीया । अन्यथा संयोगेन प्रमेयत्वं नास्तीति प्रतीतिसाक्षिक 22 संग्रहार्थसंग्रह तादृशाभावव्यापकीभूताभावमादाय पुनरसंभवापत्ते. । एवं हेतुतावच्छेद- कावच्छिन्नत्वेनापि प्रतियोगिता निवेश्या । अन्यथा व्यापकाभावपदेन स्वरूपेण प्रमेयत्वगगनोभयं नास्तीति प्रतीतिसाक्षिकाभावमादायोक्तदोष- तादवस्थ्यात् । नच हेतुतावच्छेदकपदेन प्रकृतहेतुतावच्छेदकविवक्षायां प्रकृतहेतुतावच्छेदकावच्छिन्नहेतुतावच्छेदकसंबन्धावच्छिन्नप्रतियोगि- त्वाप्रसिद्धिः । तदविवक्षणे प्रमेयत्वगगनोभयत्वस्यापि कचिद्धतुतावच्छेद- कत्वात् पुनरुक्तासंभवपिशाचिका समास्कन्दतीति वाच्यम् । हेतुताव च्छेदकविशिष्टान्यहेतुतावच्छेदकवत्त्वमन्वयमात्रव्याप्तिकत्वम् । हेतुताव- च्छेदके तद्वैशिष्टयं च स्वावच्छिन्नव्यापकसाध्यसामानाधिकरण्यावच्छेद- कत्वस्वावच्छिन्नव्यापकसाध्याभावव्यापकाभावप्रतियोगितावच्छेदकत्वैत- दुभयसंवन्धेनेति । तथाच तदुभयसंबन्धन धूमत्वादिरूपहेतुतावच्छेदक- वैशिष्टयस्य धूमत्वादौ प्रसिद्धस्यापसिध्या प्रमेयत्वत्वादावसंभवेन तद- न्यत्वसत्त्वाल्लक्षणसमन्वयः । अधिकमन्यत्रानुसन्धेयम् । नचैवमुभयव्या- प्तिशून्योदासीनपदार्थेऽतिव्याप्तिरिति वाच्यम् । किमेवमेवेयं प्रतिज्ञा वा तादृशं स्थलं प्रदयते वा । नाद्यः । अप्रामाणिकतयाऽनादरणीयत्वात् । अन्यथा सर्वत्राप्येवं प्रतिज्ञाकरणसंभवेन लक्षणमात्रम्य दुष्टत्वापत्ते । द्वितीये न खलु तादृशं वस्तु विद्यते । यदुभयव्याप्तिशून्यं विना केवला- न्वयीति | यथा घटादीनामपि घटत्वतदभावादिनिरूपितायाः उक्त- रूपाया व्याप्तेः कपालतदभावादिनिरूपितायाश्च तादात्म्यसमवायादिसंब- न्धभेदेन सत्त्वेन तादृशवस्तुनः शशशृंगायितत्वात् । यावांश्च तादृशः कपिसंयोगाभावादिः केवलान्वयी स सर्वोऽपि लक्ष्य एवेति। नचैवमप्यु- अनुमानखंड: भयव्याप्तिशून्ये केवलव्यतिरेकिण्यतिव्याप्तिरिति वाच्यम् । तस्रोभयव्या- प्तिशून्यत्वस्यैवाभावात् । तथाहि । “पृथिवी इतर भिन्ना गन्धवत्त्वादिति वक्ष्यमाणगन्धरूपकेवलव्यतिरेकिणि गन्धव्यापकतरभेदसामानाधिकरण्य- रूपान्वयव्याप्तेः सत्त्वात् । यतो हि नायं हेतुर्व्यभिचारी । नवा बाधित: येनान्वयतो व्याप्तिभज्येत । व्यतिरेकन्या प्तिश्च ग्रन्थकृतैव प्रदर्शयिष्यत इति नाम्माभिः प्रयतनीयम् । तथाच व्याप्तिद्वयसत्त्वेनातिव्याप्तेरनवतारात् । नचैवमुत्तरत्र वक्ष्यमाणकेवलव्यतिकिलक्षणस्यासंभवः । तत्र व्यतिरेक- मात्रव्याप्तिकत्वरूपलक्षणस्याभिधास्यमानत्वेन तम्यापि व्याप्तिद्वयसत्त्वे तदयोगादिति वाच्यम् । मा स्वरम्ब । यथा नासंभवः तथाऽनुपदमेव परिप्क्रियमाणत्वादित्यलम् । । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि ।। साध्यनिरूपितव्याप्तिप्रकारकनिश्चयविशेष्यत्वाभाववत्वे सति साध्याभावनिरूपितोक्तव्याप्तिमत्त्व लक्षणम् । अतो नोक्तासंभवः । व्या. प्तिसत्त्वेऽपि तदाहकस्थलाभावेन तत्पकारकनिश्चयाभावेन तद्विशेष्यत्वा- भावात् । अत्र तादृशनिश्चयनिरूपितविशेष्यतायाः प्रमित्यपमितिभ्यां नि. षेधासंभवदोषवारणाय स्वप्रकारकनिश्चयविशेष्यत्वरूपव्यधिकरणसंबन्धेन तादृशव्यात्प्यभाववत्वे तल्लक्षणपर्यवसानं बोध्यम् । नचैवमपि साध्यनि- रूपितव्याप्तिरूपप्रतियोगिप्रमित्यपमितिभ्यामेवोक्तदोषो दुरपन्हव इति वाच्य । स्वनिरूपितव्याप्तिप्रकारकनिश्चयविशेष्यत्वसंबन्धेन साध्याभाव- स्यैव लक्षणतात्पर्यविषयतया दोषाभावात् । साध्याप्रमितिकृतो दोषस्तु ग्रन्थकृतैव दीपिकादौ वारित इति तत्रैवानुसन्धेयम् ।

८८ संग्रहार्थसंग्रहे ॥ सन्दिग्धसाध्यवान् पक्षः ॥ साध्यपकारकसन्देहविशेष्यत्वं लक्षणम् । नतु यथाश्रुतं सन्देह- विषयसाध्यवत्त्वम् । हूदो वन्हिमानित्यादौ हूदे साध्याभावेनाव्याप्तिप्रस ङ्गात् । नचाक्षरालभ्यत्वदोषः । सन्दिग्धः साध्यो यत्रेति विग्रहात् यद्वि. शेष्यकसन्देहप्रकारीभूतं साध्यमिति लाभे समासात् साध्यप्रकारक. मन्देहविशेष्यत्वस्य शब्दत एव लाभात् । नच बहुव्रीहिकरणे मतुपो वैयर्यम् । यथार्थतार्थपरित्यागकाले यथाअतानुपूर्वोघटकमतुपोऽपि त्याज्यत्वात् । यद्यप्यनुमित्युद्देश्यत्वरूपलघुलक्षण संभवतीति घनगर्जित- मेघानुमानादिम्थलीयाव्याप्तिवारणाय प्रवृत्तसिद्धान्तीयसिषाधयिषेत्यादि- गुरुतरलक्षणारंभो विफलः । तथाऽप्युक्तरीत्याऽनुमितिलक्षणस्य पक्षता- घटितत्वेन पक्षतालक्षणेऽप्यनुमितेघटकतायामन्योन्याश्रयतेति ग्रन्थकृल्लघु. लक्षणं पर्यत्याक्षीत् । सद्धेतुप्रसङ्गात्तत्वनिर्णयविजयादिप्रयोजकत्वाच्च सद्धेतुनिरूपणा- नन्तरं हेत्वाभासान्निरूपयति । ॥ सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पंच हेत्वाभासाः ।। तत्र प्रसङ्गो नाम स्मृतिविषयतावच्छेदको द्वेषविषयतानवच्छेदको धर्मः । स च प्रकृते स्वगतव्याप्तिपक्षधर्मताविरहरूपः । स्वपदं च सद्धेतु परम् । व्याप्तिपक्षधर्मतावद्धतुनिरूपणे “एकसंबन्धिज्ञानमिति रीत्या तद्विरोधिदुष्टहेतोः स्मरणात् । विजयो नाम पराहकारखण्डनम् । अहंकारो नाम स्वोत्कृष्टत्वप्रकारकज्ञानम् । तस्य खण्डनं नाम मध्यस्थस्य तादृश- ज्ञानविशेष्यकाप्रामाण्यप्रकारकज्ञानसंपादनम् । तथाच हेत्वाभासानां अनुमानखंडः स्वज्ञानद्वारा परोक्तहेतौ दोषोदावनेन परपराजयहेतुत्वम् । एवं स्वज्ञान- द्वारा खोक्तहेतौ तदभावोद्भावनेन समीचीनत्वज्ञानहेतुत्वाच्च विजयप्रयो- जकत्वम् । यद्रूपावच्छिन्नविषयताव्यापिका प्रकृतानुमितिप्रतिबन्धकता तद्रूपावच्छिन्नत्वं दोषसामान्यस्य लक्षणम् । यद्रूपपदं दोषतावच्छेदक- परम् । तथाच बाधत्वव्यभिचारत्वादिकं यद्रूपपदेन धर्तव्यम् । एवंच वन्यभाववदत्वरूपयद्रूपावच्छिन्नविषयता यत्र यत्रेत्युक्तौ वन्ह्यभाववान इद इति ज्ञाने तत्र हृदो वन्हिमानिति प्रकृतानुमितिप्रतिबन्धकता विद्यत इति लक्षणसमन्वयः । एवं घूमाभाववद्वृत्तिवन्हित्वावच्छिन्नवि- षयता यत्र यत्नेत्युक्तौ घूमाभाववद्वृतिवन्हिरित्याकारकज्ञाने तत्रापि प्रकृता- नुमितिप्रतिबन्धकता विद्यत इति । एवमन्यत्रापि लक्षणसमन्वयप्रकारः स्वयमूह्यः । नच व्यभिचारादीनामनुमित्यप्रतिबन्धकत्वादव्याप्तिरिति वा- च्यम् । प्रकृतानुमितिपदेन पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेत्याका- रकसमूहालंबनानुमितेविवक्षिततया तत्र प्रकृतपरामर्शस्यापि प्रविष्टतया तादृशानुमितिं प्रति व्यभिचारज्ञानस्यापि प्रतिबन्धकतया न काप्यव्या- प्तिः । लक्षणस्य यत्तदादिघटितत्वेनाननुगतत्वशङ्कायां प्रतिबन्धकतावृत्ति- रूपवत्त्वरूपमनुगतलक्षणं करणीयम् । रूपे वृत्तित्त्वं च स्वसमानाधिकर- णमेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रति- योगिताकभेदवत्त्वसंबन्धेन । तंत्र स्वाधिकरणत्वं स्वावच्छिन्नविषयता- शालिनिश्चयत्वसंबन्धेन । भेदप्रतियोगितावच्छेदकत्वं स्वरूपसंवन्धेन । रूपपदं दोषतावच्छेदकपरम् । रूपपदेन वन्यभाववध्दत्वादिकं धर्त- व्यम् । तथा च स्वावच्छिन्नविषयताशालिनिश्चयत्वसंबन्धेन तदधिकरण 23 संग्रहार्थसंग्रहे वन्यभाववान् हूद इति निश्चयः । तत्र स्वरूपेण प्रतिबन्धकता विद्यत इति वन्ह्यभाववद्भदत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकत्वं न प्रति- बन्धकतायामिति तेन संबन्धेन वन्यभाववदत्ववान्नेति प्रतीतिसाक्षिक- स्य म्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदम्य प्रतिबन्धकतायां सत्त्वेन तवृत्तित्वं रूपस्य नानुपपन्नमिति लक्षणसमन्वयः । एवमन्यत्रापि ! अत्र लक्षणे ह्रदो वन्ह्यभाववान्न वा इति संशये वन्यभाववान हूद इति ज्ञानमप्रमेत्यप्रामाण्यज्ञानास्कन्दिते वन्हिमान् ह्रदो वन्ह्यभाववानिति स्वविरुद्धधर्मधर्मितावच्छेदककाहायें च वन्यभाववद्धदत्वावच्छिन्नविषय- तायाः सत्त्वेऽपि प्रतिबन्धकताया अभावेन प्रतिबन्धकतायां व्यापकत्व. भङ्गादसंभववारणाय यद्रूपावच्छिन्नविषयतापदेनानाहार्याप्रामाण्यज्ञानाना- स्कन्दितनिश्चयवृत्तित्वविशिष्टयद्रूपावच्छिन्नविषयता धर्तव्या । तथाचोक्त- ज्ञानेश्वेतादृशविशिष्टविषयताया अभावेन न व्यापकत्वक्षतिरिति । अनुगमे च स्वाधिकरणत्वं स्वावच्छिन्नविषयताशालिनिश्चयत्वसंबन्धेने- त्युक्तम् । तत्र स्वावच्छिन्नविषयताशाल्यनाहार्यप्रामाण्यज्ञानानाम्कन्दित- निश्चयत्वसंबन्धेनेति विवक्षणीयम् । लक्षणसमन्वयप्रकारस्तु यद्रूप- पदेनवन्धभाववदत्वस्वीकारे तदवच्छिन्नविषयतापदेन वद्भदत्वावच्छिन्नविषयतामादायास्या विषयताया अनाहार्याप्रामाण्य- ज्ञानानास्कन्दितनिश्चये सत्त्वेन तत्र प्रतिबन्धकताऽपि विद्यत इति वन्ह्यभाववद्भदत्वरूपतद्रूपावच्छिन्नत्वं बन्यभाववद्धदरूपबाधे विद्यत इति लक्षणसमन्वयः । एवं व्यभिचारे यद्रूपं धूमाभाववद्वृत्तिवन्हित्वं तदवच्छिन्नविषयता धूमाभाववद्वृत्तिवन्हित्वावच्छिन्नविषयता सा प्रति- वन्ह्यभाव- अनुमानखंड: ९१ बन्धकता च धूमाभाववत्तिः वन्हिरित्युक्तविशेषणाक्रान्ते निश्चय इति तद्व्यापिका प्रतिबन्धकता भवतीति घूमाभावववृत्तिवन्हित्वरूपतद्रूपाव- च्छिन्नत्वं धूमाभावववृत्तिवन्हाविति लक्षणसमन्वयः । हूदो वन्हिमान् धूमादित्यादौ धूमाभाववद्भूदरूपस्वरूपासिद्धौ यद्रूपं धूमाभाववढ्दत्वं तदवच्छिन्नविषयता घूमाभाववद्धदत्वावच्छिन्नविषयता सा प्रतिबन्धकता च धूमाभाववान् हूद इत्युक्तरूपे निश्चय इति तादृशविषयताव्यापिका प्रतिबन्धकता भवतीति धूमाभाववध्दत्वरूपतद्रूपावच्छिन्नत्वं धूमाभाव- वध्द इति । इदो वन्हिमान् जलादित्यादौ वन्यसमानाधिकरणजल. रूपविरोधे तद्रूपं वन्ह्यसमानाधिकरणजलत्वं तदवच्छिन्नविषयता वन्यसमानाधिकरणजलत्वावच्छिन्नविषयता सा प्रतिबन्धकता च वन्य- समानाधिकरण जलमिति निश्चय इति तादृशविषयता व्यापकत्वात् प्रतिबन्धकताया इति वन्यसमानाधिकरणजलत्वरूपतद्पावच्छिन्नत्वं विरोध इति । एवमत्रैव वन्यभावव्याप्यजलवध्दरूपसत्प्रतिपक्षे यद्रूपावच्छिन्नविषयता नाम वन्यभावव्याप्यजलवदूदत्वावावच्छिन्नविषय- ता सा प्रतिबन्धकता च वन्ह्यभाववव्याप्यजलवान् इद इत्युक्तरूपे निश्चय इति तद्रूपावच्छिन्नत्वं तत्र । एवं साधनाप्रसिध्यादिष्वप्यूहनीयम् । अत्र सुबोधाय प्रतिबध्यप्रतिबन्धकमावो वित्रियते । अत्र हुदो वन्हि. मानित्यादौ हूदत्वावच्छिन्नविशेष्यतानिरूपितसंयोगसंबन्धावच्छिन्नव- न्हित्वावच्छिन्नप्रकारताशाल्यनाहायबुद्धित्वावच्छिन्ना प्रतिबध्यता तन्निरूपिंता च हूदत्वावच्छिन्नविशेष्यतानिरूपितसंयोगसंबन्धावच्छिन्न- वन्हित्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नस्वरूपसंबन्धावच्छिन्न- ९२ संग्रहार्थसंग्रहे प्रकारताशाल्यनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयत्वावच्छिन्नप्रतिब- न्धकतेति बाधे प्रतिबध्यप्रतिबन्धकभावः । सत्प्रतिपक्षे प्रतिबध्यप्रति- बन्धकभावश्च ह्रदत्वावच्छिन्नविशेष्यतानिरूपितसंयोगसंबन्धावच्छिन्नव- निहत्वावच्छिन्नप्रकारताशाल्य नाहार्यबुद्धित्वावच्छिन्नप्रतिबध्यतानिरू- पिताहूदत्वावच्छिन्नविशेष्यतानिरूपित संयोगसंबन्धावच्छिन्नवन्हित्वाव- च्छिन्नप्रतियोगिताकामावल्याप्यजलत्वावच्छिन्नप्रकारतागाल्यनाहार्याप्रा- माण्यज्ञानानास्कन्दितनिश्चयत्वावच्छिन्नप्रतिबन्धकतेति । असिद्धौ स च ह्रदत्वावच्छिन्नविशेष्यतानिरूपितसंयोगसंबन्धावच्छिन्नधूमत्वावच्छि- नप्रकारताशाल्यनाहायबुद्धित्वावच्छिन्नप्रतिघध्यतानिरूपिता ह्रदत्वाव- च्छिन्नविशेष्यतानिरूपितसंयोगसंबन्धावच्छिन्नधूमत्वावच्छिन्नप्रतियोगि- ताकाभावत्वावच्छिन्नम्वरूपसंबन्धावच्छिन्नप्रकारताशालिनिरूक्तनिश्चय- त्वावच्छिन्ना प्रतिबन्धकतेति । एवं कांचनमयहूदः कांचनमयवन्हिमान् कांचनमयधूमादित्यादौ कांचनमयत्वाभाववध्दूमादिरूपसाधनाप्रसिद्धौ स च धूमत्वावच्छिन्नविशेष्यतानिरूपित कांचनमयत्वत्वावच्छिन्नप्रकारता- शाल्यनाहार्यबुद्धित्वावतिछन्नप्रतिबध्यतानिरूपिता घूमत्वावच्छिन्नविशे- ष्यतानिरूपित कांचनमयत्वाभावत्वावच्छिन्नप्रकारताशाल्युक्तनिश्चयत्वा- वच्छिन्ना प्रतिबन्धकतेति । एवं साध्याप्रसिध्यादाक्प्यूहनीयाः । व्यभि- चारे स च । वन्हित्त्वावच्छिन्नविशेष्यतानिरूपित धूमाभाववत्तित्वा- भावत्वाच्छिन्नस्वरूपसंबन्धावच्छिन्नप्रकारताशाल्यनाहार्यबुद्धित्वावच्छि- प्रतिबध्यतानिरूपिता वन्हित्त्वावच्छिन्नविशेष्यतानिरूपित धूमाभावव- दृत्तित्वत्वावच्छिन्नप्रकारताशाल्युक्तनिश्चयत्वात्वच्छिन्न प्रतिबन्धकतेति ।

अनुमानखंड: वन्हिमान जलादित्यादिन्थलीयबन्धसमानाधिकरण जलरूपविरोधेस च जलवावच्छिन्नविशेप्यता निम्पितवन्हिसामानाधिकरण्य-चावच्छिन्न- प्रकारताशालिबुद्धित्वावच्छिन्नमतिबध्यतानिरूपिता जलवावच्छिन्नवि- शेप्यतानिरूपितवन्हिसामानाधिकरण्याभावत्वावच्छिन्नप्रकारताशालिनि. श्चयत्वावच्छिन्न प्रतिबन्धकनेति । एवमन्यविधव्यभिचारविरोधादिप्वपि प्रतिबध्यप्रतिबन्धकभावो द्रष्टव्यः। अथ दोषाणां म्वरूपं निरूप्यत । तत्र साध्याभाववत्पक्षः साध्यवदन्यपक्ष: पक्षवृत्ति साध्याभावः पक्षवृत्ति- साध्यवदन्यत्वं वा पक्षावृत्तिसाध्य वा पक्षनिष्ठाभावप्रतियोगि साध्यं वा बाध: साध्याभावव्याप्यवान् पक्षः पक्षवृत्तिसाध्याभावव्याप्यं वा सत्प्रति- पक्षः । साध्यासमानाधिकरणो हेतुः साध्यसामानाधिकरण्याभावव्याप्य- वान हेतु: हेतुनिष्ठं साध्यासामानाधिकरण्यं तद्वयाप्यं वा प्राचां मने विरोधः । नवीनमते तु साध्यव्यापकीभूताभावप्रतियोगित्वं विरोधः । हेत्वभाववान हेत्वभावव्याप्यवान् हेतुमदन्यः हेतुमदन्यत्वव्याप्यवान् वा पक्षः पक्षवृत्तिः ताशाभावादिर्वा स्वरूपासिद्धिः । अन्यत्रापि वैपरीत्य- मूह्यम् । पक्षतावच्छेदकाभाववान् तद्व्याप्यवांश्च पक्ष: पक्षाप्रसिद्धिः । साध्यतावच्छेदकाभाववत् तद्व्याप्यवद्वा साध्यं साध्याप्रसिद्धिः । हेतुता- वच्छेदकाभाववान् तव्याप्यवान्वा हेतुः साधनाप्रसिद्धिः । स्वसमाना धिकरणव्याप्यतावच्छेदकान्तरघटितहेतुतावच्छेदकवत्त्वं ब्याप्यत्वासि द्धिः । साध्याभाववद्वृत्तिर्हेतुः पूर्वपक्षीयव्यभिचारः ! साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वं सिद्धान्तीयव्यभिचारः । इत्युभावन्वकयभिचारी। साध्याभावाच्याफ्काभावप्रतियोगित्वं न्यति- 24 संग्रहार्थसंग्रह रेकन्यभिचारः साधारणात्मकः । केवलान्वयिपक्षकत्वमनुपसंहारित्वमिति प्रांचः । अत्यन्ताभावाप्रतियोगिसाध्यकत्वं हेतुवृत्त्यन्ताभावाप्रतियोगित्वं वाऽनुपसंहारित्वमिति नवीनाः । सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः हेतुरसाधारण इति प्रांचः । साध्यतदभाववदवृतिहेतुः स इति तु नवीनाः । अमीषां मते गगनाद्यवृत्तिपदार्थ एव लक्षणलक्ष्यः । अत्र प्रमो. दाय वृद्धसमतासाधारणगतपदानां कृत्यं विचार्यते । ।। सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः ।। अत्र मात्रपदं काार्थकम् । सर्वपदं च सपक्षे विपक्षे चान्वे. ति । तथाच सर्वसपक्षव्यावृत्तः सर्वविपक्षव्यावृत्तः सर्वपक्षवृत्तिर्हेतुरसा- धारण इति फलितं । अत्र सपक्षव्यावृत्तत्वानुपादाने एतत्पर्वतो वन्हि- मान् धूमादित्यादौ हृदादिरूपसर्वविपक्षव्यावृत्त सर्वपक्षवृत्तौ धूमादिरूप. सद्धेतावतिप्रसङ्गः । अतः सपक्षव्यावृत्त इति । पुनरयोगोलकादियत्कि- चित्सपशव्यावृत्ते तत्रैवातिव्याप्तिवारणाय सर्वसपक्षेति । एतत्पर्वतरूपे पक्षे सर्वत्वं बाधितमितिचे वृक्षः कपिसयोगी एतदृक्षत्वावृक्षांतरवदि. स्यादौ दोषो द्रष्टव्यः । तत्रापि भूतलादिरूपयत्किचित्सपक्षव्यावृत्तिमा- दाय दोषवारकतया सर्वपदसार्थक्यस्य वृक्षे पक्षे अनेकत्वस्य च सत्त्वेन सर्वत्वाबाधस्य च संभवान् । एवं विपक्षव्यावृतत्वानुपादाने हुदो वन्हि- मान् जलादित्यादौ विरुद्ध सर्वपक्षवृत्तौ पर्वतमहानसादिरूपसर्वसपक्षव्या- वृत्ते जलादिहेतावतिव्याप्तिः ! अतो विपक्षव्यावृत्तत्वनिवेशः । तत्रापि गुणकर्मादिरूपयत्किचिद्विपक्षव्यावृत्तत्वसत्त्वेनोक्तदोषतादवस्थ्यवारणाय सर्वपदम् । सर्वान्तःपात्युदधिव्यावृत्तत्वाभावान्नातिव्याप्तिः । न ।

अनुमानखडः चास्यापि लक्ष्यत्वमेवेति वाच्यम् । तथासत्यसंकीणोदाहरणाभावेन पृथ- ग्दोषत्वाभावापत्तेः । पर्वतो वन्हिमान् गगनादित्यत्र मवमपक्षविपक्षव्या- वृत्ते स्वरूपासिद्धेऽमाधारणतया वृद्धासमतेऽतिव्याप्तिवारणाय पक्षवृत्ती- ति। वृक्षः कपिसंयोगी एतत्त्वादित्यादौ तादृशेऽसाधारणतया तैर- नङ्गीकृतेऽतिव्याप्तिवारणाय सर्वपदम् । तस्य च भागासिद्धत्वात सर्व- पक्षवृत्तित्वाभावात् नातिव्याप्ति । ताहाच हेतुः शब्दोऽनिन्यः शब्द- स्वादित्यत्र शब्दत्वरूपः । अस्य चासाधारणत्वं दशाविशेष एव । अत एवाम्यानित्यदोषत्वं प्राचीनसंमतम् । यतः पक्षे साध्यनिश्चयदशायां पक्षरूपसपक्षव्यावृत्तवाभावेनासाधारण्याभावादिति । अत्र प्रसङ्गसङ्गत्या सर्वपदार्थो विचार्यते । अनेकत्वसहितमशेष- त्वं सर्वपदप्रवृत्तिनिमित्तम् । अनेकावं च सर्वपदसमभिव्याहृतपदार्थताव. च्छेदकसमानाधिकरणभेदप्रतियोगित्वम् । अशेषत्वं चोद्देश्यतावच्छेदक- व्यापकविधेयव्याप्यधर्मवत्त्वम् । यथा सर्वाणि द्रव्याणि गुणवन्तीत्यादौ सर्वपदसमभिव्याहृतं द्रव्यपदम् । तदर्थतावच्छेदक द्रव्यत्वं तदधिकरणं पटस्तद्वृत्तियों भेदो घटो नेति प्रतीतिसाक्षिकः तत्पतियोगित्वं घटरूपद्रव्ये । एवमुद्देश्यतावच्छेदक द्रव्यत्वं तद्ध्यापक: गुणवत्त्वरूपविधेयव्याप्यः यो धर्म: यावर्व्यगतयावत्त्वरूपो धर्मः तद्वत्त्वं द्रव्ये इति सर्वत्ववन्ति द्रव्या- णि भवन्ति गुणवदभिन्नानि । एवमन्यत्रापि । अत्र सर्वपदेऽनेकत्व- मानस्य प्रवृत्तिनिमित्तत्वाङ्गीकारे यावद्दव्येषु रूपवत्त्वाभावेऽप्यनेकेषु रूपक- त्त्वाबाधात्सर्व द्रव्यं रूपवदिति प्रयोगम्यावाघितार्थकतया प्रामाणिकत्वा- पतिः । अशेषत्वमात्रम्य प्रवृत्तिनिमित्तवाङ्गीकारे सर्व गगनं शब्दवदिति संग्रहार्थसंग्रहे ur 1 प्रयोगम्य प्रामाणिकत्वापत्तिरिति । अतः उभयावच्छिन्ने सर्वपदम्य एकैव शक्तिरिति नैकैकधर्म मरित्यागादपरधर्ममानबोध इति नोक्तापत्तिरि- त्यलम् । एतादृशसद्धेतुरपि दशाविशेषेऽसद्धेतुर्भवतीत्यत्र राजाज्ञाद्य- भावेनाम्य लक्षणस्यानादरणीयतयाऽन्यदेवासाधारणलक्षणतयोर्यकाए. नव्याः । गौरवभिया यथाश्रुतमात्रं परि कृन्य विरमति लेखनी । इति तर्कसंग्रहार्थसंग्रहे अनुमानपरिच्छेदः ।। शाब्दबोधम्य शक्तिज्ञानजन्यत्वेन शक्तिज्ञानम्योपमित्यात्मकत्वेन फलत. कार्यकारणभावादुपमानानन्तरं शब्दं निरूपयति । ॥ आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता ।। प्रयोगहेतुभूतयथार्थज्ञानवत्त्वमाप्तस्य लक्षणम् । “अर्थ बुध्वा वा- क्यरचने"तिन्यायेन प्रमाणशब्दप्रयोग प्रत्यर्थप्रमायाः हेतुत्वात् । उन्मत्तविप्रलंभकादिव्युदासाय यथार्थपदम् । तथाचान्यस्य वैयर्थ्यात् यथार्थज्ञानजन्यवाक्यत्वं शब्दम्य लक्षणम् । ज्ञानध्वंसेऽतिव्याप्तिवारणाय वाक्यलोपादानम् । अनाप्तवाक्येऽतिव्याप्तिवारणाय जन्यत्वान्तं । नच लक्ष्यतावच्छेदकाक्रान्तानाप्तगव्दे लक्षणाभावादव्याप्तिरिति शङ्कनीयम् । मूलम्थशब्दपदेन प्रमाणशब्दम्यैव लक्ष्यतयाऽवधारणात् । तथाच प्रमाण- शब्दत्वमेव लक्ष्यतावच्छेदकमिति नोक्तदोषः । अत्रायं क्रमः । पदज्ञानं करणम् । वृत्तिरूपसंबन्धज्ञानद्वारा पदजन्यपदाथोंपस्थितिापारः शाब्दबोधः फलम् । वृत्तिश्च शक्तिलक्षणान्यतररूपा । तत्र शक्तिरीश्वरे- च्छारूपेति मूल एव स्पुटम् । सा चैकविधैव । लक्षणा तु द्विविधा बहती अजहती चेति । तृतीयातु नैयायिकैरनभ्युपगमान्न विभक्ता शब्दखंडः वैशिष्टय च तत्र शक्यमर्थ जहती नाम तदविषयकशानबोधजनितीयमन्वर्था संज्ञा । एवमजहतीत्यपि सज्ञा । तत्र जहल्लक्षगान्वं नान लक्ष्यविशिष्टयतीति - जनकत्वम् । प्रतीतौ वैशिष्टयं च म्वनिष्ठलक्ष्यत बच्छेदका वच्छिन्न - षयतानिरूकत्वम्बभिन्न क्याथनिष्ठविषय वानिस्पकत्वोमयसंवन्धन । अत्र द्वितीयसंवन्धनिवेशादजहल्लक्ष गायां नातिव्याप्तिः । प्रथमसंबन्धनि- वेशान्न शक्तावतिव्याप्तिः । तत्रापि विषयतायां लक्ष्यतावच्छेदकल्पाच- च्छिन्नचनिवेशात्प्राचीननतरीत्या वेदान्तिनतरी या वा न जहद जहला- णायामतिव्याप्तिः । तम्याः तत्त्वमसीन्यानो धर्मपरित्यागेन चिनात्र- बोधकत्वात् । अजहल्लक्षगावं नाम लक्ष्वविशिष्टपतीतिजनक । स्वनिष्ठलक्ष्यतावच्छेदकावच्छिन्नविषयतानिक 4- भिन्नशक्यार्थनिष्ठविषयतानिरूमकवैतदुभयसंबन्धेन । प्रथमसंवनि- वेशान्न शक्तावतिव्याप्ति । द्वितीयसंबन्धनियेशान्न जहल्लक्षणायामति- व्याप्तिः । काकेभ्यो दधि रक्ष्यतामित्यादौ दध्युमघातकत्यरूपलक्ष्यताव- च्छेदकरूपेण शक्यकाकतदितरबिडालादिबाव कन्यालक्षणसमन्वयः इयमेव लक्षगा शास्त्रे तत्र तत्रोपलक्षणतया गीयते । अतो वृत्त्यन्तराभावान्न- विभागव्याघातः । आकांक्षादित्रयस्य शाब्दहेतुत्वमभिहित मूले । तच्चा न स्वरूपसत एव तस्य । अपरिज्ञाताकांक्षाकस्य पुंस. शाब्दबोधा- नुदयात् । असत्यामप्याकांक्षायां तज्ज्ञानाच्छाब्दबोधोदयाच्चान्वयव्यति. रेकाभ्यां तज्ज्ञानमेव तद्धतुरित्यवसीयने । तथाचाऽऽकांक्षा नाम अव्यव- हितोतरत्वसंबन्धावच्छिन्न यत्पदनिष्ठप्रकारताकयत्पदविशेष्यकनिश्चया- भावः शाब्बोधाभावपयोजकः तेन संबन्धेन तत्पदे तत्पदवत्त्वम् । यत्तदा- 25 संग्रहार्थसंग्रहे दिघटितत्वादननुगमाशङ्कायां शाब्दबोधाभावप्रयोजकाभावप्रतियोगि- ज्ञाननिरूपितप्रकारता विशिष्टविशेष्यतावत्त्वमाकांक्षा । वैशिष्टय च स्वावच्छेदकसंबन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावत्पदनिष्ठत्वस्वनि- रूपितत्वोभयसंबन्धेन । इयं च शाब्दप्रमाकारणीभूताकांक्षा । भ्रमसाधा- रणी तु सा तादृशज्ञाननिरूपितयत्किचित्पदनिष्ठप्रकारतानिरूपितविशेष्य- तावत्त्वमेवेत्यवधेयम् । ।। अर्थाबाधो योग्यता ॥ अर्थबाघनिश्चयाभाव इत्यर्थः । बाधनिश्चयो नामासंसृष्टत्वज्ञा- नम् । तदभावश्च स्वरूपसन्नेव हेतुः । नहि शाब्दबोधे संसृष्टत्वज्ञानं कारणम् । शाब्दबोधम्यैव संसृष्टत्वज्ञानरूपत्वात् । स्वस्य स्वकारणत्वा- योगात् । असंसृष्टत्वज्ञानस्य च प्रतिबन्धकतया तदभावस्य हेतुत्वे कस्यापि विवादाभावात् । प्रतिबन्धकाभावकारणतायाः सिद्धान्ते अङ्गी. कारात् । अस्य च ज्ञानस्य तदभाववत्ता निश्चयत्वेन प्रतिबन्धकत्वात् । प्रतिबन्धकाभावस्य च स्वरूपसत एव कारणत्वात् । नहि कार्यसामान्य प्रतिबन्धकाभावज्ञानमपेक्षत इति । ॥ अविलंबेनोच्चारणं सन्निधिः ॥ अत्र पदानामविलंबितत्वं सन्निधिः । उच्चारणन्तु तदुपयोगित- याऽभिहितमिति बोध्यम् । अविलंबितत्वं च पदयोः परस्परं पूर्वापरवृत्ति- त्वम् । इदमपि ज्ञातमेव कारणम् । तेष्वव्यवहितत्वज्ञानेन शाब्दबोधोदय- दर्शनादिति । इति तर्कसंग्रहार्थसंग्रहे शब्दपरिच्छेदः ।।

गुणखंड: ।। एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्टयावगादि ज्ञानं संशयः ।। किनाम संशयस्य लक्षणम् । नचैकमिविशेष्यकत्वे सति विरुद्ध- नानाधर्मप्रकारकत्वं तत् । इमौ घटपटावित्यादिसमूहालंबनज्ञानेऽति. व्याप्तेः । घटपटाधनेकधर्मिविशेप्यकत्वेऽपि तत्र "शने पंचाशदिति- न्यायनकर्मिविशेष्यकत्वस्यापि सत्त्वात् । नच किंचिद्धर्मिविशिष्टान्य- त्वमेकधर्मिविशेष्यकत्वम् । वैशिष्टयं च स्वविशेष्यकत्वस्वभिन्नविशेष्यक- स्वैतदुभयसंबन्धेन । तथाचोक्तोभयसंवन्धेन किंचिद्धर्मिविष्टत्वान्न स- मूहालंबनेऽतिव्याप्तिरिति वाच्यम् । तथासत्यात्मा नित्यो न वा स्थाणुः पुरुषो नवेत्यादिसंशयेप्वव्याप्तिप्रसङ्गात् । तत्रात्मत्वस्थाणुत्वादि- रूपेण निखिलानामात्मनां स्थाणूनां च विशेष्यत्वेन स्वपदेन यत्किचि- दात्मव्यक्त्युपादाने तद्विोप्यकत्वतद्भिन्नात्मविशेष्यकत्वयोः सत्त्वादुक्तो- भयसंबन्धेन किंचिद्धर्मिविशिष्टत्वेन तदन्यत्वाभावात् । एवं स्थाणुविशे- प्यकसंशयेऽपि । न च किंचिद्धर्मविशिष्टान्यत्वं तदर्थः । वैशिष्टयं च स्वावच्छिन्नविशेष्यकत्वस्वभिन्न धर्मावच्छिन्नविशेष्यकत्वोभयसंबन्धेन । नाधुनाऽव्याप्तिः । आत्मत्वेन रूपेण नानात्मनां विशेष्यत्वेऽपि विशेष्य- तावच्छेदकधर्मद्वयाभावान्नोभयसंबन्धेन धर्मविशिष्टत्वमिति वाच्यम् । एवमप्यात्मगगनोभयं नित्यं नवेत्यादिसंशयेऽव्याप्तेरनिवारणात् । तत्र विशेष्यतावच्छेदकस्यात्मत्वगगनत्वोभयस्य सत्त्वेन स्वपदेन प्रत्येकमेकैक- धर्मोपादाने चोक्तोभयंसंबन्धेन तद्वैशिष्टयस्यैव सत्त्वात् । न च विशेष्य- ताविशिष्टान्यत्वं तदर्थः । वैशिष्टय च स्वनिरूपकत्वस्वभिन्नविशेष्यता- निरूपकत्वोभयसबन्धेन । एवं च नोक्तस्थलेऽव्याप्तिः । तथाहि । आत्मा संग्रहार्थसंग्रह नित्यो नवेत्यादावात्मत्वेन रूपेण निखिलात्मनां विशेष्यत्वेऽपि सा वि- शेप्यता एकैव । सामान्यधर्मावच्छिन्नविषयताया एकम्या एव मामा- न्याश्रययावयक्तिवृत्तित्वात् ! समूह लंबन पर विशेष्यतःभेदाङ्गीकागत् । अन्यथा समूहालंबनात्संशयम्य वैलक्षण्यं न म्यात् । अत एवामगगनो- भयं निन्य नवत्यादावपि नाव्याप्तः । तत्रोमयत्वावच्छिन्नविशेष्यताया एकत्वादिति वाच्यम् । तथापि घटो द्रव्यमित्यादिनिश्चयेध्वतिव्यातिः । तत्र प्रकारीभूतदव्यत्वस्य गुणवविद्धन्वेन विरुद्ध कारकन्वाद्धटत्व- रूपैकधर्मावच्छिन्नविशेयकवाच्च । विरुद्ध धर्मप्रकारकमिति मूलम्बार म्याद्विरोवविषयकत्वमपि संगये निवेश्यते । अबका संशये सर्वत्र वि. रोधो भासने नेतरत्रेतिवाऽभ्युपगम्योक्ता तिव्याप्तिवार मेऽपि गुगत्तविरुद्ध द्रव्यत्ववान् घट इति निश्चये प्रकारकोटिप्रविष्टतया विरोधविषयकत्व - स्यापि सत्त्वेनातिव्याप्तेदुष्परिहरत्वात् । नच नानाधर्मापकारकन्वान्ना- तिव्याप्तिरिति वाच्यम् | नानाधर्म कारकत्वं हि नानात्वाश्रयधर्मप्रकार- कत्वम् । द्रव्यत्वस्यापि घटत्वगुणत्वादिसाहाय्येन द्विबिलादिरूपना- नात्वाश्रयत्वात् । यदि नानाधर्मप्रकारकत्वं नाम किंचिद्धर्मविशिष्टन्यम् । वैशिष्टयं च म्वप्रकारकत्वस्वमिन्नधर्मप्रकारकत्वोभयसंबन्धेन । तथाचोक्त- निश्चये द्रव्य-वरूपैकधर्मप्रकारकत्वान्नातिव्याप्तिः । संगये नियमेन धर्म- द्वयम्य प्रकारवादिति विभाव्यते तदा रूपी घट इत्यादिनिश्चयेष्वति- व्याप्तिः । तत्र घटरूपैकधर्मिविशेष्यकत्वसत्त्वात्किचिद्धर्मविशिष्टत्वाच्च । तथाहि । तन्त्र रूपत्वेन रूपेण निखिलरूपाणां प्रकारतया भानेन किंचि- द्धर्मपदेन यत्किचिद्रूपपरिग्रहे स्वपदग्राह्यतत्प्रकारकत्वतद्भिन्नधर्मप्रकार- । ।

गुणखंडः १०१ कन्वयोः सत्त्वेनोक्तोभयसंबन्धेन किचिद्धर्मवैशिष्टयम्याव्याहतत्वादिति । नच स्वावच्छिन्न प्रकारतानिरूपकन्यस्वभिन्न धर्मावच्छिन्नप्रकारतानिरूप. कत्योभयसंबन्धन किंचिद्धवैशिष्टयय विवक्षित वेन घटो रूपीत्या- दिनिश्चयेषु च प्रकारतावच्छेद कीभूतस्पत्यम्यैक्येनातिव्याप्तरभावादिति वाच्यम् । घटो रूपम्पशोभयवानित्यादिनिश्चयेप्यतिव्याप्तेम्तथापि बार- णासंभवात् । तत्र रूपत्वम्पर्शत्वरूपानेकप्रकारतावच्छेदकधर्मसद्भावेन किंचित्पदेन रूपत्वादिधर्मपरिग्रह स्वावच्छिन्नप्रकारताकत्वम्वभिन्नस्पर्श- त्वधर्मावच्छिन्नप्रकारताकन्वोभयसंवन्वेन किंचिद्धर्मवशिष्ट्यम्य सत्त्वात । अपि चैवं विवक्षणे घटो द्रव्यं न वा स्थाणुर्वा पुरुषो वाऽयमित्यादि- संशयेष्वव्याप्तिः । तत्र पुरुषत्वादिप्रकाराणां जातित्वेन स्वरूपतो मान- संभवेन किंचिद्धर्मावच्छिन्नत्वस्य प्रकारतायामभावादिति संशयलक्षणमेव संशयग्रस्तमिति । अत्र वयं ब्रूमः ! प्रकारताविशिष्टविशेष्यलानिरूपक ज्ञानत्वं संगयत्वम् । वैशिष्ट्यं च स्वनिरूपितत्वस्वभिन्नप्रकारतानि- रूपितत्वोभयसंवन्धेन । तथाच नोक्तदोषाणामबकाशः । तथाहि । रूपी घटः रूपस्पर्शोभयवान् घट इत्यादिनिश्चयेवनेकेषां प्रकाराणां भानेऽपि तावद्धता प्रकारता एकैवेति प्रकारताद्वयनिरूपितत्वम्य विशेष्यतायाम- भावान्नातिव्याप्तिः । एवं समूहालंबने प्रकारताद्वयसद्भावेऽपि विशेष्य- ताया अपि द्वित्वेन प्रकारताद्वयनिरूपितत्वस्यैकस्यां विशेष्यतायामभा- वान्न तत्राप्यतिव्याप्तिः । संशये च प्रकारताद्वयनिरूपिता एकैव वि. शेष्यता भवतीति नाव्याप्तिः । नवा प्रकारतायाः क्वचिन्निरवच्छिन्नत्वेन किंचिद्धर्मावच्छिन्नत्वविरहप्रयुक्त उक्तो दोषः । प्रकारतायामवच्छिन्नत्वस्य 26 १०२ संग्रहार्थसंग्रह प्रकृतेऽनिवेशात् । एकत्र द्वयमिति रीत्या जायमाननिश्चयात्मकज्ञाने अतिव्याप्तिवारणाय मूले नानाधर्मप्रकारकत्वमानमनिवेश्य विरुद्रपदनि वेशः । नेन विरोधविषयकवं लभ्यत इति विरोधाविषयकोक्तनिश्चये ना- तिव्याप्तिः । एवं च एकधर्मीत्यादिमूलोक्तं लक्षण सुम्थमिति । एतेन निश्चयान्यज्ञानत्वं संशयत्वमिति वक्तुं सुशकवेनेयानायासो ग्रन्थकृतो व्यर्थ इत्याशङ्का पराम्ता । तथासति संशयान्यज्ञानम्य निश्चयतयाऽन्योन्याश्रय- तापत्तेः । नच निश्चिनोमीन्याद्यनुव्यवसायसिद्धजातिमत्त्वमेव निश्चयत्व. मित्यन्योन्याश्रयत्वप्रसक्तेरेवाभावेन लाघवात्तद्भिन्नज्ञानत्वमेव संशयत्व- मिति वक्तमुचिनमिति वाच्यम् । तथासति सन्देरीत्यनुव्यवसायसिद्ध- जातिमत्त्वमेव संगयत्वमिति तद्भिन्नज्ञानत्वं निश्चयत्वमित्यपि विनिगमना- विरहात् वक्तुं शक्यत्वेन एकत्र पक्षपातिन्या युक्तेरभावेनान्योन्याश्रयतायाः दुष्परिहरत्वादिति साधूत मूलकृता एकधर्मीत्यादीति संक्षेपः । ।। व्याप्यारोपेण व्यापकारोपस्तकः ।। साध्याभावरूपच्याप्यपकारकाहायज्ञानजन्यहेन्वभावरूपव्यापक- प्रकारकाहायज्ञानं तर्कः । । सर्वेषामनुकूलतया वेदनीयं सुखम् ।। अत्र तृतीयार्थः प्रकारत्वम् । वेदनीयमित्यत्र विदज्ञाने इत्य- म्मात् कर्मणि अनीयर्पत्ययो विषयतावदर्थकः । तथा चानुकूलत्वपका. स्कज्ञानविषयत्वं लक्षणम् । अनुकूलत्वं चेष्टत्वम् । नन्विदं लक्षणं "सहधर्मिणीयमम्यानुकूला"इत्यादिसर्वजनानुभवबलेन योषिदादावतिव्या तमिति चेत्सत्यम् । “ज्ञानेच्छाद्वेषदुःखेषु दु खहेतौ च वेदने"त्यनुशासन- गुणखंड: १०३ बलाद्वेदनापदस्येच्छावाचितया तदुपरि विषयतावदर्थकप्रत्ययविधाने च इच्छाविषयीभूतं वेदनीयमिति लभ्यते । तत्र चेच्छायां तृतीयार्थवैशिष्टय. स्यान्वयः । प्रकृने अनुकूलत्वं इच्छानधीनत्वम् । तथाचेच्छानधीनेच्छा- विषयत्व सुखस्य लक्षणं फलितम् । फलेच्छातो भवत्युपायेच्छा फले. च्छा तु न कस्यचिदर्थम्येच्छातः संपद्यत इति नासंभव । न वा यो. षिदादिष्वतिव्याप्तिः । योषिदादिविषयकेच्छायाः सुखरूपफलेच्छाधीन तयेतरेच्छानधीनत्वाभावादिति । सर्वेषामिति षष्ठयर्थः समवेतत्वं । तच्चे. च्छायामन्वेति । नन्विदं लक्षणमव्याप्तं । अन्यायार्जितद्रव्योपभोगजन्ये योषिदादिजन्ये वा सुखे सर्वान्तःपातिविरक्तेच्छाविषयत्वाभावादिति चेदत एव स्वमूलव्याख्याता स्वयमेवान्नंभट्टो दीपिकायां सुख्यहमित्यनु- भवसिद्धजातिमत्त्वमिति लक्षणान्तरं प्राणैषीत् । एतेन कम्यामपीच्छायां सर्वसमवेतत्वाभावादसंभववारणाय तत्परिष्कारायास: केषांचिदपास्तः । तदघटितस्यैव लक्षणस्य करणादिति । एवमितरद्वेषानधीनद्वेषविषयत्वं दुःखस्य लक्षणम् । तत्रापि सर्वेषामिति सत्त्वेन दु खस्य समदुःख- सुखयोगिद्वेषाविषयत्वेनाव्याप्तिपरिहाराय दुःखीत्यायनुभवसिद्धजातिमत्त्वं लक्षणमित्याकलनीयम् ॥ ।। संस्कारस्त्रिविधो वेगों भावना स्थितिस्थापकश्चेति ॥ यद्यपि संस्कारविभागावसरे सामान्यलक्षणाकथनेन मूलस्य न्यून- ता तथापि संस्कारत्वजातिमत्त्वं तस्य लक्षणम् । मूलस्य तु तादृशजात्यव- च्छिन्नवाचकपदप्रयोगादेव तत्सिद्धेन न्यूनता । एवं भावनास्थितिस्था- पकयोलक्षणस्य पृथग् वक्ष्यमाणतया वेगस्य च पृथग् लक्षणस्यानुक्तत्वात १०४ संग्रहार्थसंग्रह वेगत्वजातिमत्त्वं तस्य लक्षणमिति ज्ञेयम् । [! अनुभवजन्या स्मृतिहेतुर्भावना ॥ अत्र संम्कारस्य फलनाश्यतया स्मृत्युत्पत्तौ संस्कारनाशे स्मृत्य- न्तरानुत्पत्तिः । तदर्थं संस्कारान्तरकल्पनेऽनुभवाभावेनाकारणकार्योत्प- त्तिप्रसङ्गः । स्मृतेः कारणत्वाङ्गीकारेऽनुभवजन्यत्वघटितलक्षणस्याव्या. प्तिरित्यादिदोषनिरासाय स्मृत्यनुभवसाधारणज्ञानत्वावच्छिन्नपरमनुभव- पदमिति ज्ञेयम् । । अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः ।। अन्यथेत्यस्य प्रकारान्तरेणेत्यर्थः । तच्च स्वसंयुक्तदेशभिन्नदेश- संयोगः । तृतीयार्थः विधेयत्वम् । कृतत्वं कृत्युद्देश्यत्वम् । प्रतियोगित्वं षष्ठ्यर्थः । तस्य तदवस्थापदाथैकदेशे संयोगेऽन्वयः । तदवस्था तद्देश- संयोगः । तदापादकत्वं तज्जनकत्वं । तथाच किंचिद्वस्तुनः स्व- संयुक्तदेशभिन्नदेशसंयोगविधेयककृत्युद्देश्यस्य तद्देशसंयोगजनकत्वे सति संस्कारत्वं स्थितिस्थापकत्वम् । देशविशिष्टसंयोगजनकत्वे सति संस्कारत्वं तल्लक्षणमिति पर्यवसन्नम् । वैशिष्टयं च स्वभिन्नदेशसंयोगविधेयक- कृत्युद्देश्यनिष्ठपतियोगितानिरूपकत्वस्वानुयोगिकत्वोभयसंबन्धेन ! ॥ नित्यमेकमनेकानुगतं सामान्यम् ॥ नन्विदं लक्षणं नित्यसंयोगाङ्गीकर्तृमतेऽतिव्याप्तम् । तत्र नित्यत्वे सत्यनेकसमवेतत्वसत्त्वात् । अपिचासंभवः । अनेकत्वस्य संख्यारूपत्वेन गुणादौ तदभावेन गुणत्वादावनेकवृत्तित्वाभावात् । द्रव्यत्वादौ च संख्यारूपैकत्वाभावात् । अपिच प्रलयकाले घटादीनां नाशे आश्रयाभावेन गुगवंड: घटत्वादीनां निराश्रितन्वेन ममवनवाभावप्रमङ्गश्चति चेन्मैवम् । नित्यसंयोगाङ्गीकर्तृमने तत्रातिव्यानिवारणायैव मूले एकपदमुपात्तम् । अन्यथा तद्वैयर्थ्यात् । तम्यचकविधामन्यथः । ऐकविध्यं च निन्यन्न । तथाच विशेषविधानम्य शेषनिषेधफलकत्वेन नित्यत्वे विहिनेऽनित्यत्वा- भावोऽपि गम्यते । तथाचानित्यत्वाभाववत्त्वे सत्यनेकसमवेतत्व लक्ष- गम् । तथाच संयोगे नित्यानित्योभयात्मकेनित्यत्वम्यापि सत्त्वेन तद- भावाभावान्नातिव्याप्तिः । एतेनैकमित्यम्य संख्यावर्थकत्वे संयोगेऽति- व्याप्तिरेव । अपेक्षावुद्धिविशेषविषयत्वरूपाया. असंभववारणाय विवक्षि- तायाम्तत्रापि सत्त्वात् । म्बसजातीयद्वितीयरहितार्थ कल्वे चासंभवः । सामान्यम्यापि घटत्वपटत्वादिरूपम्वसजातीयद्वितीयवत्वादिति पराम्तम् । अन्याहशैकत्वम्य परिष्करणात् । अत एव संयोगेऽतिव्याप्तिवारणाया- श्रुतसंयोगभिन्नत्वं प्रवेश्य श्रुतैकत्वपरित्यागः केषांचिन्नादरणीयः । यच्चा- शंकित गुणादावनेकत्वाभावाद्गुणत्वादावव्याप्तिरिति । तदपि न । अने- कसमवेतपदम्य किचिद्वस्तुविशिष्टार्थकत्वेनादोषात् । वैशिष्टयं च । स्वसमवेतत्वस्वभिन्नसमवेतन्वोभयसंवन्धेन । अथवा भेदविशिष्टत्वं तत् । वैशिष्ट्यं च । स्वप्रतियोगिसमवेतत्वस्वानुयोगिसमवेतत्वोभयसंबन्धेन । यच्चोक्तमाश्रयघटादिनाशे जातेरवृत्तित्वप्रसङ्ग इति । तदप्यचारु ! पदा- र्थानां न्याश्रयत्वेन घटाद्यनित्याश्रयनाशेऽपि नित्यकालरूपाश्रये कालिकन वृत्तेरबाधात् । ननु विषमोऽयमुपन्यासः । संयोगमामान्ये यद्यतिव्याप्ति- रुच्येत तदा नित्यानित्योभयात्मके तत्रैकविधत्वं नास्तीति वक्तुं शक्यते । नचैवम् । किनाम विभुद्वयसंयोग एवातिव्याप्तिरभिहिता । तम्य चैकविध- 27 संग्रहार्थसंग्रहे त्वादतोऽतिव्याप्तिस्तत्र दुप्परिहति चेदम्त्यत्राभिप्रायविशेषः । अनि- त्यावृत्तिवन्तुविशिष्ट्बृतिविभाजकोपाधिमत्वस्य तदर्थत्वात् । वस्तु- वैशिष्ट्यं च स्वसमवेतत्वम्बभिन्न समवेतत्वोभयसंबन्धेन । तथाच संयोग- त्वरूपविभाजकोपाधकपदोषमन्दानलभ्यानित्यावृत्तित्वाभावान्नातिव्या- प्ति । अथवाऽनकसमवेतत्वं विशेषेप्यतिव्याप्तमिति तत्रातिव्याप्तिवार- णायकपदप्रक्षेत्रः । इदं चैकं सदनेकसमवेतमिति क्रियाविशेषणम् । तथाचा नेकसमवेतं यदेककमित्यर्थलाभादेकै बनेकसमवेतत्वाभावान्ना- तिव्याप्तिः । एकैकम्या एव घटत्वादिरूपाया: जातेरनेकसमवेतत्वान्ना- संभवः । तदर्थश्च वस्तुविशिष्टत्वं भेदविशिष्टवं वा। संबन्धश्चोक्त एव । एतेन निन्यसंयोगानङ्गीकर्तृमते मूलोक्तमेकमिति पदं व्यर्थमिति न कुचो- द्यावकाश इन्युक्तं भवति । विशेषेप्वतिव्याप्तिवारकतया तत्सार्थक्यात् । अनित्यावृत्त्यनित्यसमवेतवृत्तिपदार्थविभाजकोपराधिमत्त्वं सामान्यलक्ष- णम् । अनित्यावृत्तित्वनिवेशात् द्रव्यत्वादिकमादाय द्रव्ये नातिव्या- प्तिः । अनित्य समवेतवृत्तित्वनिवेशान्न विशेषत्वमादाय सा । नेषां नि- त्यमानसमवेतत्वात् । तत्रापि समवेतत्वनिवेशात् न समवायत्वमादाय सा समवायत्वस्य “समवेतत्वाभावात् सर्वमिद लक्षणं जातिरूपसामान्यस्यै- वेत्यवधयम् । अतो जगदीशसमतोपाधिरूपसामान्ये नोक्तलक्षणस्या- व्याप्तिशङ्का । तेन जगदीशेन "सामान्यं द्विविधं जातिरूपमुपाधिरूपं चेति । तत्र जातिलक्षणमभिहितम् । उपाधिलक्षणन्तु स्वरूपसबन्धाव- च्छिन्नवृत्ति वे सति समवायभिन्नत्वे सति भावत्वम् । अभावेऽतिव्या- तिवारगाय भाववनिवेशः । “उपाधिद्विविधः । अखण्डः सखण्डश्चेति ।

गुण खंडः १०७ अनुगनः पदार्थत्वादिरखंडः प्रत्येकविश्रान्तः तत्तभ्यक्तित्वादिः सखण्ड, इति निरूपितम् । जातिरूपसामान्य त्रिविधम् परमपरं परापरं चेति । तत्र स्वभिन्नत्वस्वव्याप्यत्योभयसंबन्वेन जातिविशिष्टान्यजातिवं परजा- तिलक्षणम् । म्वभिन्नत्वम्वव्यापकत्वोभयसंवन्धेन जातिविशिष्टान्यजातित्व अपरजानेलक्षणम् । स्वभिन्नजातिव्यापकन्व स्वभिन्नजातिव्याप्यत्व ता- दात्म्यत्रितयसंबन्धन जातिविशिष्टज्ञातित्वं परापरजानेलक्षणम् । बाधका. भावादनुगतप्रतीतिबलाच्च जातिः सिध्यतीति स्थिते वाधकानि निरूप्यन्ते । व्यक्तेरभेदस्तुल्यत्वं संकरोष्थानवस्थितिः । रूपहानिरसंबन्धो जातिवाधकसंग्रहः । इत्यत्र जातिपदं जाति नातित्वान्यतरपरं। जानेः षष्ठयर्थः ज्ञान निष्ठ प्रतिबध्यत्वं । बाधकत्वं च प्रतिबन्धकतावज्ज्ञान विषयत्वम् । तथाच जातिजातित्वान्यतरविषयकज्ञाननिष्ठपतिवध्यतानिरूपितप्रतिवन्धकताव- ज्ज्ञानविषयविषयकज्ञानजनकसंकुचितशब्दइति जातिबाधकसंग्रह- पदार्थः । तत्र व्यक्तेरभेदो नाम स्वाश्रयव्यक्तेरैक्यम् । तच्च स्ववृत्तित्व- स्वभिन्नवृत्तित्वोभयसंबन्धेन किंचिद्वस्तुविशिष्टान्यत्वं स्वप्रतियोगिवृत्ति- स्वस्वानुयोगिवृत्तित्वोभयसंवन्धेन भेदविशिष्टान्यत्वं वा । अतो व्यक्ते. क्यस्य स्वाश्रयगतत्वेन साधनीयजातित्वाभावम्य गगनत्वादिगतत्वेन हेतुसाध्ययोवैयधिकरण्यशङ्काऽपास्ता । अनुमानं च गगनत्वं न जातिः वस्तुविशिष्टान्यत्वात् भेदविशिष्टान्यत्वाद्वा व्यतिरेकेण घटत्वादिवत् । तुल्यत्वं च समनियतव्यक्तिकत्वं । तच्च स्वव्याप्यत्वस्वव्यापकत्वोभय- संबन्धेन जातित्वेनाभिमतधर्मविशिष्टत्वम् । अत्रापि कलशत्वं न घट- १०८ संग्रहार्थसंग्रह स्वभिन्नजातिः घटत्वममनियतत्वात व्यतिरेकेण पटत्वादिवत् । अत्रा- प्रयोजकत्वमङ्कायां घटवकलयात्वादिनानाजातिम्वीकारे विनिगमना- विरहेणैकशेषीकतुमशक्यतया अनेकेषां घटपद शक्यतावच्छेदकत्वकल्प- नाप्रयुक्तं गौरवं म्यादिति वाधकमुन्नेयम् एवमनेकधर्मेषु कार्यतावच्छे. दकत्वकल्पनाप्रयुक्तमपि गौरवं वोध्यम् । अपिचानेकधर्मेषु म्वगतरूपा- दिकारणतावच्छेदकत्वकल्पनाप्रयुक्तं तदित्यपि ध्येयम् । संकरः परस्प - रात्यन्ताभावसमानाधिकरणयोधमधारकत्र समावेगः। एकत्र समावेशो नाम सामानाधिकरण्यम् । तथाच जातित्वेनाभिमतधमविशिष्टत्वं संकरत्वम् । वैशिष्टंय च स्वसमानाधिकरणत्व म्वसमानाधिकरणाभावप्रतियोगित्य- स्वाभावसमानाधिकरणत्वत्रितयसंबन्धेन । जानित्वेनाभिमतिनिवेशान्मूत- खादे तित्वमनङ्गीकुर्वतां मने जातिविशिष्टत्वम्य भूतत्वेऽभावातम्य सांकर्य न म्यादितिशङ्का परास्ता। सामानाधिकरण्यनिवेशान्न घटत्वा- दिना पटत्वादेः संकरः । तृतीयसंवन्धनिवेशाच्च न द्रव्यत्वादिना पृथि- वीत्वादेः स इति । अत्र भूतत्वादिकं न जातिः जातित्वेनाभिमतधर्म- विशिष्टत्वात् व्यतिरेकेण पटत्ववदिति त्रीणि जातित्वबाधकानि । उत्तरन्तु त्रितयं जातिबाधकम् । एतादृशविशेषसूचनायैव मूले “संकरोड थानवस्थिति"रित्यत्र मध्धेऽथपदम् । अनवस्था अप्रामाणिकसजातीया- नन्तपदार्थकल्पनाविश्रान्त्यभावः । अथवा स्वजनकज्ञानत्वव्यापकविशेष- णज्ञानजन्यताकत्वम् । इयं चानवस्था जातीनां जातिमत्त्वे बाधिका। तथाहि । अनुमानम् । सामान्यं न जातिमत् सामान्यत्वात् व्यतिरेकेण पटवत् । अत्राप्रयोजकत्वशङ्कायां विपक्षेऽनवस्थारूपस्तकों बाधकः ।

गुणखंडः १०९ अत एव घटो न जातिमान घटवान व्यतिरेकेण पटवदित्याभास- समानयोगक्षमता निरस्ता । अत्राप्रयोजकत्वशङ्कायां विपक्षेऽनवम्था- दिरूपबाधकतर्काभावेन तत्र तत्सद्भावनामयोः साम्याभावादिति । अपि- चोक्तजात्यभावसाधकानुमानम्य मंशादिप्रमाणान्नरमद्भावाच्च नाभाससा- म्यम् । यद्यत्सामान्यं न नत्सामान्यवृत्ति यथा घटत्वद्रव्यत्वसत्वाति । व्याप्न्यनुग्राहकस्य सामान्यत्वं न जातिः सामान्यवृत्तित्वात् व्यति- रेकेण पटवादिवदित्यनुमानान्तरस्य संभवादिति । रूपहानिः । रूपम्य लक्षणस्य हानिरभावः । तथाहि । निस्सामान्यत्वे सति सामान्यभिन्नन्व सति समवेतत्वं हि विशेषाणां लक्षणम् । तत्र जान्यङ्गीकारे तम्य लक्षण- स्य अभावप्रसङ्ग इति केचिन्समादधिरे । तन्न मनोरमम् । प्रमाणानुसाग्ण प्रमेयं कल्प्यम् । ननु स्वकपोलकल्पितलक्षणाख्यप्रमेयानुसारेण प्रमाण- कल्पना । अतिप्रसङ्गात् । “मानाधीना मेयसिद्धिरि"ति न्यायेन तल्ल- क्षणपरित्यागस्यैव न्याय्यत्वादिति । अतो रूपस्य स्वतो व्यावर्तकत्वम्य हानिरभावः स्यादिति व्याख्येयम् । स्वतो व्यावर्तकत्वं च तद्व्यक्तित्वेनेतर- भेदानुमापकत्वम् । तद्यक्तित्वं च तादात्म्येन । सैव व्यक्तिः । तथाच तादात्म्यसंबन्धावच्छिन्नम्बावच्छिन्नेतरभेदानुमापकत्वं तदित्युक्त स्यात् । एवंच विशेषेषु जात्यङ्गीकारे तादृशस्वतो व्यावर्तकता न स्यात् । जात्या- श्रयनिष्ठाया व्यावर्तकतायाः जात्यवच्छिन्नत्यनियमात् । न च परित्य- ज्यतां स्वतो व्यावर्तकत्वं जात्यैव चाङ्गीक्रियतां व्यावर्तकत्वमिति वा- च्यम् । तथासति विशेषो विशेषान्तराद्भिद्यते विशेषदिति हेतूकृते विशेषत्वाश्रये तादात्म्यसंवन्धनान्यस्यां व्यक्तौ वर्तमाने व्यभिचारापत्तेः । 28 ११० संग्रहाथसंग्रह नच तद्विशेषो हेतूक्रियताम् । तत्वविशिष्टविशेषत्वजातिश्च हेतुतावच्छेदि- केति तद्विशेषत्वाश्रयरूपस्य तादात्म्येन व्यक्त्यन्तरे अभावेन न व्यभि चारः। नवा विशेषत्वजानेरपि अवच्छेदकेऽनुप्रवेगात्सामान्याश्रयनिष्ठ. व्यावर्तकताया: सामान्यावच्छिन्नत्वनियमभङ्ग इति वाच्यम् । तथासति ध्याप्यत्वासिद्धयापत्तेः । तत्वरूपस्वसमानाधिकरणव्याप्यतावच्छेदकान्तर- घटितत्वादिति । सामान्यवत्त्वं वा परित्याज्यं स्वतो व्यावर्तकत्वं वा हेयम् । तत्र म्वतो व्यावर्तकत्वपरित्यागे परमाणुभेदासिद्धिः । अव्या- वृत्तानां विशेषाणां व्यावर्तकत्वायोगान् । व्यावर्तकान्तराङ्गीकारे चानव- स्थापातात् । अतः सामान्यवत्त्वपरित्याग एव गरीयानि-युक्तमेव युक्तं ! तथा चानुमानम् । विशेषो न जातिमान् स्वतो व्यावर्तकत्वाध्यतिरेकेण पटादिवदिति । अव सामान्याश्रयस्येत्याधुक्तनियमसमर्थनमन्यत्रोक्तरीत्याऽ वसेयम् । असंबन्धः । जात्यतिरिक्तप्रतियोगिकत्वविशिष्टसमवायस्य स्वनिरूपितप्रतियोगित्वानुयोगित्वान्यतरसंबन्धावच्छिन्नप्रतियोगिताका- भावस्तदर्थः । तथाच यत्र जात्यतिरिकप्रतियोगिकममवायः प्रतियोगि- तानुयोगितान्यतरसंबन्धेन नास्ति तत्र जातिर्नास्तीति फलितम् । अत्र जात्यतिरिक्तपतियोगिकत्वनिवेशादभावत्वस्य जातित्ववादिमते तस्य समवायनैवाभावे वृत्यङ्गीकारात् । अभावत्वरूपजातिसमवायस्य अमावे अनुयोगितासंबन्धेन सद्भावेन तदभावाभावात्तत्र जात्यभावो न स्यादिति शङ्का निरम्ता । अभावत्वरूपजात्यङ्गीकर्तृमतेऽपि तदतिरिक्तस्य कस्यापि धर्मम्य समवायेनाभावेऽनङ्गीकाराज्जात्यतिरिक्तप्रतियोगिकसमवायाभाव उभयसमत एव । तथाचानुयोगितासंबन्धेन जात्यतिरिक्तप्रतियोगिकसम- गुणखंडः चायाभाववति रूपादौ जात्यभावो माभूदिति प्रतियोगित्वसंबन्धेन ता- शसमवायाभाववति गगनादौ जात्यभावो माभूदिति अनुयोगित्वनि- वेशः । एवं चाभावो न जातिमान् अन्यतरसंबन्वेन जात्यतिरिक्तपति- योगिकसमवायाभावात् व्यतिरेकेण पटादिवदिति । ॥ नित्यसंबन्धः समवायः ।। संबन्धत्वं च प्रकारताविशेष्यतान्यविषयतावत्त्वम् । संयोगादि- वारणाय नित्येति । गगनादिवारणाय संबन्ध इति । नचैवमपि गगनेड तिव्याप्तिः । नित्यत्वम्योभयसंमतत्वात् । संबन्धत्वस्यापि सद्भावात् । तथाहि । प्रकारताविशेष्यतान्यविषयतावत्वं तदिति पूर्वमेवाभ्यधायि । निर्विकल्पकेच तुरीयविषयताङ्गीकारेण गगनविषयकनिर्विकल्पकमादाय प्रकारताद्यन्यतदीयविषयतावत्त्वस्य तत्र सत्त्वादिति वाच्यम् । निर्विकल्प- कस्य प्रत्यक्षविशेषत्वेन गगनस्याप्रत्यक्षत्वेन तन्निर्विकल्पकस्यैवाप्रामा- णिकत्वात् । नचैवमपि घटत्वेऽतिव्याप्तिदुष्परिहरा । तस्य प्रत्यक्षत्वेन तन्निर्विकल्पकमादाय तदीयप्रकारताद्यन्यविषयताया नित्यतायाश्च घटत्वे सत्त्वादिति वाच्यम् । प्रकारताद्यन्यकिंचिद्विषयतानिरूपितविषयतावत्त्व- स्य तदर्थत्वात् । न चोक्तातिप्रसङ्गः । निर्विकल्पीयविषयतायाः विषयता- न्तरानिरूपितत्वात् । नचैव स्वरूपसंबन्धेऽतिव्याप्तिः। तस्य भूतलादि- स्वरूपस्यानित्यत्वेऽपि गगने विद्यमानघटत्वाभावसंबन्धस्य प्रतियोग्यनु- योगिनोनित्यत्वेन तदभिन्नस्य तस्यापि नित्यत्वात् । संवन्धिभिन्नत्वं नि- वेश्य वार्यते चेदसंभवः । समवायस्यापि प्रमेयत्वादिसंबन्धित्वेन तद्भिन्न- वायोगादिति वाच्यम् । अनित्यावृत्तिसंसर्गविभाजकोपाधिमत्त्वस्य दल- संग्रहार्थसंग्रह द्वयार्थत्वेनादोषात् । तथाहि । संसर्गविभाजकम्वरूपवरूपोषाधेरनित्य- स्वरूपेऽपि विद्यमानत्वान्नातिव्याप्तिः । नापि नित्यसंयोगे सा। संयोग- त्वेऽनित्यावृत्तित्वम्य नित्यसंयोगवे संसर्गविभाजकत्वम्य चाभावान् । नाप्यसंमवः । समवायत्वम्य नित्यमात्रवृत्तित्वात संसर्गविभाजकोपाधि- वाच्चेति । अथवा संवन्धिभिन्नत्वं निवेश्याप्यसंभवः शक्यपरिहारः । तथाहि । वुद्धिविशिष्टत्वं लक्षणघटकदलद्वयाभिप्रेतोऽर्थः । वैशिष्ट्यं च म्वनिरूपितप्रकारताविशेष्यतान्यतरवदवृत्तिम्वनिरूपितविषयतावत्वस्वस- मानकालिकनित्यताश्रयत्वोभयसंबन्धेन । तादृशान्यतरवदवृत्तिश्च समवाय- निष्ठसांसर्गिकविषयता भवति । वुद्धिपदेन घटो रूपीति बुध्युपादाने तन्नि- रूपितप्रकारतावद्रूपं तदवृत्तिः तन्निरूपितविशेष्यतावान् घटः तदवृत्तिश्च समवायविषयतेति नासंभवः । उक्तरीत्या एतादृशसंबन्धिभिन्नत्वम्य तत्र सत्त्वात् । नवा स्वरूपेऽतिव्याप्तिः । स्वरूपम्य प्रकारविशेष्यान्यतरम्ब- रूपत्वेन तन्निष्ठसांसर्गिकविषयतायाः नियमेन प्रकारताविशेष्यतान्यतरव- दृत्तितया तदवृत्तित्वाभावात् । नापि निर्विकल्पकज्ञानमादाय घटत्वेऽति- व्याप्तिः तन्निरूपितविशेष्यत्वाप्रसिध्या स्वपदेन तदुपादानासंभवात् । इदंच लक्षणं नित्यसंयोगानङ्गीकारेण । अन्यथा तनातिव्याप्त्यापत्तेरि- त्याकलनीयम् । ॥ ययोर्द्वयोमध्ये एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ ॥ ननु किनामायुतसिद्धत्वमित्याशङ्कायां यनिष्ठकालनिरूपिताधेय. तासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वं तदिति मूलं पर्यष्का(न्याय- गुणखंडः ११३ बोधिनीकारः । अत्र बहवो दोषा- परिम्फुरन्तिः । तत्र हि जातिनिष्ठा- धेयतासामान्यान्तःपातिनि प्रलयकालनिरूपिताधेयत्वे घटाभावेन तदव- च्छिन्नत्वायोगात्तयोरयुतसिद्धत्वं न म्यान् । एवं शृंगाभावनिष्ठका- लनयनिरूपिताधेयताया अपि शशावच्छिन्नत्वेन शृंगाभावशशयोरयुत- सिद्धत्वापत्तिः । न च शृंगामावनिष्ठाधेयतासामान्यान्त:पातिनि मूत- लावच्छिन्नाधेयत्वे शशावच्छिन्नत्वं नास्तीति नातिपमङ्ग इति वाच्यम् तथासति तुझ्यन्यायेन कालनिरूपितघटनिष्ठावेयतासामान्यांत:पातिनि भूतलावच्छिन्नाधेयत्वे कपालावच्छिन्नत्वाभावात्तयोरपि घटकपालयोरयु- तसिद्धत्वं न स्यात् । अपिच शृगाभावस्य शशादन्यत्र सद्भावेज शशेतरभेदस्य शशमात्रवृत्तितया तनिष्ठाधेयतासामान्यम्य शशावच्छिन्नत्व- नियमेन तयोरयुतसिद्धत्वं स्यात् । किंच गगनादेविषयितासंबन्धेनेश्वरे- च्छाज्ञानादौ सत्त्वेन गगनादिनिष्ठविषयितासंबन्धावच्छिन्नकालनिरूपि- ताधेयतासामान्यस्येश्वरज्ञानेच्छाधवच्छिन्नतया गगनेश्वरज्ञानयोरयुतसिद्धत्वं स्यात् । एवमेव सर्वेषामेव पदार्यानामविनश्यदवस्थस्वसत्तापर्यन्तं वि- पयितासंबन्धेनेश्वरेच्छाद्याश्रिततया अयुतसिद्धत्वं केवलान्वयि म्यात् । एवं कालिकादिसंबन्धमादायाप्युक्तापत्तिरूोति । अत्र केचित् । कालिकविषयत्वस्वरूपादिसंबन्धानवच्छिन्नत्वमाधेयतायां निवेश्यते । अतो नोक्तातिप्रसङ्ग इति वदन्ति । तन्न मनोरमम् । तथासत्यपि पल- यकालनिरूपितजातिनिष्ठाधेयतायाः घटावच्छिन्नत्वाभावेन तयोरयुतसि- द्वत्वं नस्यादित्युक्तदोषावारणात । कालिकसंबन्धावच्छिन्नत्वात्साऽs धेयता धर्तुं न शक्यत इति चेतदानीं जातेरयुतसिद्धत्वाभावप्रसङ्गः । 29 ११४ संग्रहार्थसंग्रह वयंतु वमः । समवायसंवन्धावच्छिन्न वमाधेयतायां दीयते । अतो नोकातिप्रसक्तयः । नच जातिघटयोम्तत्त्वं दुरुपपादमिति वाच्यम् । वक्ष्य- माणानुगमानुमारेण तत्रापि सूपपादत्वात् । नचैत्र सति समवायज्ञानं प्रत्ययुतसिद्धत्वज्ञानस्यापेक्षितत्वेनायुतसिद्धत्वज्ञानं प्रति समवायज्ञा नापेक्षणेऽन्योन्याश्रय इति वाच्यम् । "लक्षणप्रमागाभ्यां वस्तुसिद्धिरिति न्यायेन समवायज्ञानार्थ लक्षणादिज्ञानापेक्षासद्भावेऽप्ययुतसिद्धत्व ज्ञानम्यानपेक्षितत्वात् । न युतसिद्धत्वमेव समवायस्य लक्षणं । येनोक्त- दोष: स्यात् । किंनाम नित्यसबन्धत्वादिकमन्यदेव । प्रमाणमपि वि. शिष्टबुद्धित्वादिकमन्यत्रोक्तं पृथगेव विद्यते इति न कोऽपि दोषः पद- मादधाति । किंचाश्रयीभूतायुतसिद्धत्वज्ञानमपेक्षमाणोऽपि समवायस्तद्धट- कश्चेदन्योन्याश्रयदोषदुष्टः स्यादिति वदन प्रष्टव्यो भवति । किं समवा- यज्ञानार्थमाश्रयज्ञानापेक्षा इति विशेषनियम । उताश्रितपदार्थज्ञानसा मान्यं प्रत्याश्रयज्ञानं कारणमिति सामान्यनियमो वा । नाद्यः । अन्यत्रा- बष्टत्वेन बाधकानिरूपणाचापयोजकतया तादृशविशेषनियमानंगीकारात् । नापि द्वितीयः । तथासति पृथिव्यादिज्ञानार्थ लक्षणतयाऽवश्यापेक्षणीय- गन्धादिज्ञानस्याश्रयीभूतपृथिव्यादिज्ञानसापेक्षत्वापत्त्या सर्वेषां लक्षणानाम- न्योन्याश्रयदुष्टत्वापत्त्या महदसमंजस स्यात्। प्रामाणिकत्वान्नान्योन्याश्रय दोषततेति चेत्समः समाधिः । “यश्चोभयोः समो दोषः तत्र नैकः पर्यनु. योज्या" इति न्यायात् । तथाचाधिकरणताविशिष्टाधिकरणतावत्त्वमयु. तसिद्धयोलक्षममिति फलितम् । अतो न यत्तदादिघटितत्वेनाननुगत- त्वशङ्का । अधिकरणतायामधिकरणता वैशिष्टयं च तादात्म्यव्यापकत्वो- गुणखंडः ११५ भयसंवन्धेन । व्यापकत्वं च स्वसमानाधिकरणभेदप्रतियोगितावच्छे- दकत्वसंबन्धावच्छिन्नम्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसंब- न्धेन । स्वाधिकरणत्वं च स्वाश्रयाधिकरणकालत्वसंबन्धेन । भेदप्रति- योगितावच्छेदकत्वं च म्वाश्रयावच्छिन्नम्वनिरूपकनिष्ठसमवायसंबन्धाव- च्छिन्नाधेयतानिरूपकत्वसंबन्धेन । अत्र स्वपदार्थः कालादिनिष्ठ- घटायधिकरणता । तथाच म्वाश्रयकपालाद्यधिकरणकालेषु स्वाश्रयक- पालाधवच्छिन्नम्वनिरूपकघटादिनिष्ठसमवायसंबन्धावच्छिन्नाधेयतानिरू- पकत्वसंबन्धेन स्वस्य सद्भावाल्लक्षणसङ्गतिः । उत्तरत्राधिकरणतावत्त्वं स्वाश्रयत्वस्वनिरूपकत्वान्यतरसंबन्धेन । अतः कपालादिघटाद्योयोयो- रपि तादृशाधिकरणतावत्त्वनिर्वाहादयुतसिद्धत्वसंभवः । अत एव न पूर्वोक्तदोषः । घटाधिकरणेषु यावत्सु कालेषु घटादिनिष्ठजातिनिरूपिता- धिकरणताया उक्तसंबन्धेन सत्त्वादिति । नन्वेवमपि कपालाधधिकर- णेषु यावत्सु कालेषु घटादिसत्ता आवश्यकीत्यनुगमस्य निगलितार्थः । तथाच कपालाद्यधिकरणयावत्कालान्त पातिनि घटोत्पत्तेः पूर्वकाले घटाभावादव्याप्तिः । एवं पृथिवीपरमाणुरूपयोरयुतसिद्धत्व' न म्यात् । परमाण्वधिकरणयावत्कालेषु कस्यापि रूपस्याभावात् । एवं पाकजरूप- स्थलेऽपि घटे पूर्वरूपस्य नाशात् घटस्योत्तरकालेऽपि सत्वात् । तत्रा- प्युक्तदोष इत्यादि कथमत्र परिहर्तव्यमिति चेत् । अत एव स्वाधिकर- णकालत्वस्ववृत्तिनिष्ठम्वावच्छिन्नाधेयतानिरूपकत्वसंबन्धाभ्यामवच्छेदक- वाधिकरणत्वे निवेश्य पूर्वोकस्वसेत्यादिभेदवत्त्वसंबन्धेन पदार्थवि. शिष्टत्वमित्यननुगमय्याधिकरणताविशिष्टाधिकरणतावत्त्वमित्यनुगमः संग्रहार्थसंग्रह कृतः । तस्यायमाशयः । नन्तोः पटादधिककालवृत्तित्त्वेऽपि पटा- धिकरणत्वविशिष्टभ्य तस्याविककालवृत्तित्वाभावात् । एवमेव पाक- जम्थले रूपाद्युत्पत्तेः पूर्वमुत्तरं च घटादेः सत्त्वेऽपि रूपाधिकरणता- विशिष्ठम्य तम्याभावात् । स च घटो रूपाधिकरणकाल एवेति नोक्तदोषः । एवमेव परमाणुरूपादावीन्यलं पल्लवितेन । अथात्रेदमनुष- पन्नम् । किमनुपपन्नम् । यापूर्व जाल्यादिनिष्ठाधेयतायां कालनिरूपितायां समवायसंवन्धावच्छिन्नन्वमतिप्रयङ्गवारणाय न्यवेशि । तदेवानुपपत्ति- ग्रस्तम् । यतः यदि कालनिरूपितापि घटत्वघटरूपादिनिष्ठाधेयता सम- वायसंबन्धमछिंद्यात् । तदा घटत्वघटरूपादिकं काले समवेयात् । तच्च बाधितमिति । सत्यम । न ह्याधेयतायां समवायसंबन्धावच्छिन्नत्वं नि- वेशयामः यनैवमुपलभेमहि । किनामानुगमघटकीभूतसंबन्धप्रविष्टम्वा- श्रयावच्छिन्नम्वनिरूपकनिष्ठसमयायसंबन्धावच्छिन्नाधेयतेत्यत्र । स्वाश्रय- निष्ठावच्छेदकतायां समवायसंबन्धावच्छिन्नत्वं निवेश्यते । तथा चोक्तानु- गमे भेदप्रतियोगितावच्छेदकत्वं स्वाश्रयनिष्ठसमवायसंबन्धावच्छिन्ना- वच्छेदकतानिरूपकस्वनिरूपकनिष्ठाधेयतानिरूपकत्वसंबन्धेन । तथाच नोक्तदोषः । कालनिरूपितायां घटादिनिष्ठाधेयतायां कपालादेः समवायें- नैवावच्छेदकत्वात् । समन्वयप्रकारः पूर्वोक्त एवेति न कस्याप्यनुप- पत्तिः । अथवाऽधिकरणताविशिष्टाधिकरणतावत्त्वमेवायुतसिद्धत्वम् । अत्र वैशिष्ट्यं च अधिकरणतावत्त्वं च पूर्वोक्तसंवन्धेरेव ! परन्तु स्वाधिकर- णत्वं स्वाश्रयस्वनिरूपकोभयाधिकरणत्वसंबन्धेन । यद्वा स्वाश्रयाधिकर- पत्वस्वनिरूपकाधिकरणत्वोभयसबन्धेन । एवं च कपालादेः घटायधि- गुणखंडः ११७ ककालवृत्तित्वेऽपि न पूर्वोक्तदोषः । म्बाश्रयाधिकरणत्वमानस्य संबन्ध- तयाऽनिवेशात् । स्वनिरूपकाधिकरणत्वस्यापि पवेगात् । उभयाधिकरण- त्वं चोभयसत्तादशाया मेवेति। अधुना स्वाश्रयाधिकरणत्वस्थाने पूर्वोक्त- दोषवारणाय स्वाश्रयत्वविशिष्टाधिकरणत्वं निवेश्य तत्परिष्काराय प्रयासो नादरणीय इति । तन्तुनाशात्पटनाशकाले विनश्यदवस्थं पटादिकमेकस्मिन् तन्तुनाशक्षणे अपरानाश्रितमपि तिष्ठतीत्यतोऽविनश्यदवस्थामति । अवि- नश्यदवस्थत्वं च विनश्यदवस्थाशून्यत्वं । तच्च नागविशिष्टान्यत्वं । वैशिष्टयं च स्वप्रतियोगित्वस्वप्रागभावाधिकरणक्षणप्रागभावाधिकरण क्षणप्रागभावानधिकरणक्षणवृत्तित्वोभयसंबन्धेन । अनेन विनश्यदवस्था क्षणद्वयसाधारणीत्युक्तं स्यात् । तेन यत्र तन्तुनाशात्तन्तुद्वयसंयोगनाशः ततः पटनाशः तत्र क्षणद्वयं विनाश्रयं पटावस्थानेऽपि न दोषः । तदानी विनश्यदवस्थावत्त्वेनाविनश्यदवस्थत्वाभावात् । अविनश्यद म्थत्वदशा- यां चापराश्रितत्वानपायात् । समन्वयस्तु । स्वं पटनाशः स्वप्रतियोगित्व पटे । एवं स्वप्रागभावाधिकरण क्षण- पटनागाव्यवहितपूर्वक्षणः तत्प्राग- भावाधिकरणं क्षण ततोऽपि पूर्वक्षणः पटनागाव्यवहितपूर्वद्वितीयक्षणः । उक्तस्थले च तन्तुनाशक्षणः । तत्पागभावाधिकरणं क्षण: पूर्वतृतीयक्षणः । तदनधिकरणत्वं द्वितीयप्रथमयोरिति तन्तुनाशकाले विद्यमानोऽपि पटः नाविनश्यदवस्थ इति न कोऽप्यतिप्रसङ्ग इत्यवधेयम् । अथात्र ययोर्दयो- मध्ये एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठत इत्यत्र विद्यमानैवकारः अजागलस्तनायितः । यतोऽपराश्रितमित्यत्राश्रितत्वं समवायसंबन्धेनेति कण्ठत एवोदघोषि । यदीतरसंबन्धावच्निाधेयतावदप्यपरानाश्रितं स्यात् ।

११८
संग्रहार्थसंग्रह
तदा संबन्धविशेषलामायापराश्रितमेवेत्युक्तिः मङ्गच्छेत । नचैवमपि तर्हि
आधेयतावद्यद्यत्तत्तदपराश्रितमेव नतु कचिदपि बाश्रितम् । तथाचैवकारो
विफलः । एवमनुगमे सामानाधिकरण्यमात्रमनिवेश्य व्यापकत्वनिवेशो व्यर्थ
इति । उच्यते । यतः कालिकसंयोगादिसंबन्धन तन्तुषु पटो वा स्यात्
पटे तन्तुर्वा स्यादित्यपराश्रितमेवेति न । किन्तु परम्पराश्रितत्वं ।
समवायसंवन्धन तु द्वयोद्वयोम-ये एकमपराश्रितमेव । न तु परम्पराश्रित-
मिति समवायसंवन्धलाभायैवकारः। अत एवान्यलभ्यत्वादपरसमवेतमिति
नावादीदन्थकृत् । किंच "यु मिश्रणामिश्रणयो' 'रिति धातोः कर्तरि क्त-
प्रत्यये युतममिश्रितमिति लभ्यते । तन्नेत्ययुतं सर्वदा मिश्रित कदापि
मिश्रणाभाववन्नेत्यर्थः । तयोर्द्वयोर्मध्ये अपरपरित्यागेन एकस्य वृत्तिर्नेति
लभ्यते । इदं च समवायसंबन्धेन वृत्तित्त्वविवक्षायामेवोपपद्यते ।
कालिकसंयोगादिसंबन्धेन कपालघटयोमध्ये घटः कपालं परित्यज्या-
न्यत्रापि भूतलादौ विद्यत इति । समवायसंबन्धेन तु द्वयघटकापरक-
पालाश्रितमेवावतिष्ठने नतु भूतल. याश्रितमिति । तथाचायुतं सत् सिद्ध-
मिति नजद्वयघटिततत्पदार्थनिर्वचनपरे मूले एवकारप्रयोगः । तदर्थवर्णनपरे
चानुगमे व्यापकत्वस्य संबन्वतया प्रवेश इति सर्वं चतुरस्त्रम् ।।
नारायणेति सन्नाम्नां पश्चिमालयवासिनाम् ।
बल्लाळोपपदानान्तु प्रार्थनानुसृतेः कृते ।
कल्पवृक्षगुहावर्तिदेवालयकृतस्थितेः ।
देवदेवस्य पुरतः चन्दचूडमहात्मनः ॥ २ ॥

गुणखंडः तद्दयारचितस्सोऽयं संग्रहार्थस्य संग्रहः । गोपीजनेशपदयोः भक्त्यादरसमर्पितः ॥ ३ ॥ प्रीयेतां तेन देवेशौ भारतीकमलाप्रियौ । अनन्तकारुण्यनिधी अनन्ततनुजन्मनः ॥ ४ ॥ नारायणेतिसन्नाम्नस्त्रिशतग्रामवासिनः । दद्यास्तामनवद्यां तां हृद्यां विद्यां विमुक्तिदाम् ॥ ५ ॥ ।। श्रीकृष्णार्पणमस्तु ।। पु. ८८. प. ८. त्याज्यत्वादित्यतः परं यद्यपीत्यतः प्राक् इदं वाक्यं मुद्रणदोषात्पतित पठनीयम् । अथवा सन्दिग्धं च तत् साध्यं चेत्येवविग्रहः । न तु बहुव्री- हिः । तत. परं मतुप् । आधारतावानेव मतुबर्थः । नचोक्तदोषः । स्व- प्रकारकसंदेहविशेष्यत्वसंबन्धावच्छिन्नत्वादाधारतायाः । अनेन संब. धन वन्ह्याधारत्वस्य ह्रदेऽपि सत्त्वात् । एतत्सूचनार्थमेव संदिग्धेति साध्ये विशेषणमित्यस्मत्प्रदर्शितार्थविवरण मूललभ्ययेवेति न वैयर्थ्य, नाप्यक्षरालभ्यत्वदोषः । नच "न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थ- प्रतिपत्तिकर" इति न्यायविरोधः । “कृष्णसर्पवद्विल"मिति प्रयोग प्रदर्शयता फणिमहाभाष्यकारेणैव तन्नियमस्यानियतत्वसूचनात् । संदि- ग्धश्चासौ साध्यवांश्चेत्येव कर्मधारयः । अर्थस्तूक्त एव । अतो नोक्तदोषः इत्यपि केचित् ।

No text on this page.

एतद्न्यकर्तृभिव विरचितौ मुद्रापयित्वा प्राकाश्यं नीतीचेतरौ ग्रन्थौ ।
१) श्रीभाविसमीरश्रीमद्वादिराजपूज्यचरणविरचितपञ्चसरव्याख्या.
२) न्यायामृतकुल्या चेति.
य
Printed by K Raghavendra Rao, at Majestic Press, Udipi &
Published by Sri Vibudhesha Thirtha Swamiar of Admar
Matt, Udipi. Author Sri P. Narayana Acharya Nyaya
Vidwan, Udipi. 4-2-1956

Sangrahartha Sangraha

Author
Narayanacharya
Title
Sangrahartha Sangraha
File name
Sangrahartha Sangraha
Text
OCR done
Citation
1956
Published
22/7/2004
Publisher
Majesticpress, Udipi
Language
Sanskrit
Pages
131
Library
Poorna Prajna Vidya Pheeta Banglore
DLI number
383105
Barcode
2040100046996.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Udl Ttd Tirupati
VMLT id
l8sWv4Ywoxp
Download PDF

Sangrahartha Sangraha