Svi-ksri-chennai
Vivekamaatiind-d'a
Front matter
IN MEMORY
OF
G. A. NATESAN
(FOUNDER, G. A. NATESAN & co, & INDIAN REVIEW)
BORN 24-8-1873)
[DIED 10-1-1949
TRIVANDRUN SANSKRIT SERIEN
No. CXIX.
Śri Citrodayamanjari.
No. YIII.
THE
VIVEKAMĀRTĀNDA
OF
Visvarupadeva
EDITED BY
K. SAMBAŠIVA SĀSTRĪ
C'urator of the Department for the Publication
of Orientul Manuscripts, Trivandrum,
PUBLISHED UNDER THE AUTHORITY OFFIE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJA OF TRAVAXCOLI
TRIVANDRUM
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1935.
All Rights Reserved.]
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्क: ११९.
श्रीचित्रोदयमञ्जरी।
प्रन्थाङ्कः ८.
विश्वरूपदेवविरचितः
विवेकमार्ताण्डः
पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधितः ।
स च
अनन्तशयने
महोन्नतमहामहिमश्रीचित्रावतारमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितः ।
कोलम्बाब्दाः १११०. ऊस्ताब्दाः १९३५.
No text on this page.
॥श्रीः॥
श्रीमूलावनिपालमौलिमणिना सङ्कल्पितश्रीरिव
श्रीमूलात्मजनिस्तथा सहजया लक्ष्या च सम्भावितः।
स्वातिज्योतिरिवादितः समुदितश्चित्रावतारः स्वयं
मार्ताण्डाग्रसरो विराजति महाराजः स रामाभिधः
भास्ववर्णमणिः प्रवालमृदुला श्रुत्याधलङ्कारिणी
श्रीमद्वञ्चिवसुन्धरानवयशोराशिप्रकाशात्मिका ।
उत्फुल्लत्सुकृतिप्रसाधनधृतामोदोन्नदडिण्डिमा
श्रीचित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् ॥
के. साम्बशिवशास्त्री.
No text on this page.
PREFACE. There are This work is significantly titled Vivekamartanda as it explains various methods of acquiring true knowledge as the Sun awakes the world to its consciousness. six Prabodhas in this work, of which the first deals with the necessity of arriving at true knowledge as is proposed to be expounded in the laudatory stanzas of the poets; the second with the removal of illusion by means of discrimination; the third, with the destruction of volition and vacillation, the root cause of ever expanding worldly life, by means of true knowledge; the fourth, with the knowledge of time and deception thereof with discernment; the fifth, with the awaken. ing of the true nature of soul consequent on the removal of illusion; and the sixth, with the final emancipation of son] resulting from the observance of Yogic practice. The learned author himself has named the work as Vivekamārtanda As is evident from the following verses : "विवेकमार्ताण्डगिरेरशेष यदा महामोहतमो विनष्टम् । तदैव हस्तामलकप्रमाणं विराजते विश्वमिदं समस्तम् ॥" (P. 3. Sloka 80). "ट्वा विवेकमार्ताण्डमुत्कटानन्द मण्डलम् । सद् विन्दति पदं योगी यदप्राप्यं सुरासुरैः ॥" (P. 6. Sloka 48). "कृतं मया चित्तविनोदनार्थ विमोक्षशास्त्रं च मुदे गुरूणाम् । विवेकसम्पत्तिकरं नराणां विवेकमार्ताण्डमतो वदन्ति ॥" ( 77. From the concluding stanza, "अजानता यत् किल योगमार्ग प्रन्थो मयाकारि नवप्रबोधः । विवेकभानुः स मतो नराणां क्षन्तव्यमेतत् कविभिः समस्तम् ॥" (P. 77). it is evident that he was ixlso aware of the chapters being named as "Prabodhas." ..
2 The author. From the manner of treatirent and the gravity of subjects dealt with in this work, the author appears to be a great teacher well-yerved in various branches of knowledge. It has not been possible for me to learn anything about the date and other particulars of his life. From the closing stanza, however of the work, "भीमत्पराशरकुले महति प्रसूतो योऽयं कृती शतगुणो गुणिनां परिधः । तस्यात्मजोऽकृत रजन्धिपुराधिवासो gre T377 want ya fage: " (P. 76). it is seen that his name was Visvarūpa, that he belonged to the family of Parăsara, that his father was Sataguņācārya of great reputo and that he resided in Rajandhipura. From the word 'deva' attixed to the name Višvarūpa in the colopbon found at the close of cach chapter, "era straoraidaaz- श्रीविश्वरूपदेवविरचिते विवेकमार्ताण्डे qua: II" it can also be inferred that he belonged to u royal family. It is not known where this Rajandhipura is at present located and what modern name it bears. My friend, the Superintendent of the Bhandarkir Oriental Research Institute, Pouna, who was addressed on the subject wrote to me as follows :- "Rajandhipura mentioned in the verse from the colophon of Vivekamārtā ņda as quoted by you appears to be phonetically nearer to Radhanpur, the cheif town of the Radhanpur State of the Bombay Presidency". If this surmise is correct, the author inay be said to have flourished some 1000 years ago. The names of ancient cities were used without corrup. tion before the invasion of the Muhammadans; and it was aot till about the 10th century A. 1)., that Boinbay and other northern comuntries were subject to their onslaught. Besides, the work has an archaic simplicity pointing to a very old date of the author. I think Bhartphari and other great poets are indebted to the author, as the following Sloka of Visvarúpa, "आयुर्वर्षशतं तावत् तदर्ध निद्या गतम् । अर्धाधं मुग्धभावेन गतं शेषं जरादिभिः ॥" (P. 8. Sloka 13). is found en larved by Bhartplari in his Subhāşita thus:--- "मायुर्वर्षशतं नृणां परिमितं रात्रौ तदधं गतं तस्याधस्य परस्य चार्धमपरं वाढत्ववृद्धत्वयोः ।" (III Sloka 49).
It cannot be said that the author borrowed froin Bhartſhari; for the latter has evidently a modern look in common with the Kavya literature. Even ihe Adhyatmarāmāyaṇa, the authorship of which has not yet been definitely knwn, is found to have borrowed froin the present work. Compare, "दन्तशूकालग्रस्तदर्दुरस्य स्थितियथा।" (Viveka p. 9. Sloka 18.) with "यथा व्यालगलस्थोऽपि भको भोगानपेक्षते।" (Adhyatma Aranyakanda) Taking all these facts into consideration, I think that Viávarúpa connot, be placed later than 7th century A. D. The edition of this work is based on three palmleaf manuscripts. The first is an incomplete copy belonging to the library of Edlapalli Valia Raja. "The second is also an incomplete one obtained from the library of Brahmasri Muthu Sastrial, Kanyakumari. The third is a complete copy obtained from the library of Brahmasri Kulallur Brahmadattan Nambarippad. All the inanuscripts are about 200 years old and are preserved in good condition and our hearty thanks are due to the owners of the man-cripts. Hoping that the custodians of the inanus nuscripts will be helping us more and more, we place this work before the learned public. Trivandrun, 14-4-1111. K. SAMBASIYA SASTRI.
No text on this page.
சு (சு-4) ஆய ஆ 0 தகா தவ ம 2 வயிலிலிணாவாது தெகெெலவபவெபவ - நி | ஊஜஹா நா சு நவ நஉதி | வவவி.ஜ ஜூயபா உதாவாய்பா3| தெஷாஷொலுவதி | வவழி லொ நா நாயபா| [உங) லெஹொதா விஜ. ஷெவா சூரி காயெவல | .ெத.வி.ஜொரே வீரவன உகி! கடிவா ரயSI Ag 23 தரொகி வா ெெயவாக தாவஹஹ, வயதாயா உதி வெவாத வெyஷா மல்கி | யாழமாய் உது கெ10.592 உதவ கூாயஜி. ந ய ஹஹா பஹஹ ஸுயா | சு.நநஜா தஷை சொடி கி| நா நாவிஐகாரகம். ஞா நாய_கூழ | கஷள. ஆவணிதா உன் | வா யணைவாநஷாத 24 | தெஷாஷொவை அடைவா-5:24 p® ? மீகy | வவ பருவ வாழ3 | ஆரவாவ-பி கதரிவது வ க.தாஜமாத ஓஷதி || [20) வாகவோ (25) ப [Uன வ ய கதா தவா நாநாஸுயபாஸுயபா நவவ வ 'ஸவ பா! கெலை. நிவிதெ காட பபரொலிய காவு *பதெவராக | காவபாக தவ கா?| #el_q r su12 - .. ग्रन्थकारः । ८ "मजानता यत् किल शास्त्रमार्ग प्रन्थो मयाकारि *नवप्रबोधः । विवेकभानुः स मतो नराणां क्षन्तव्यमेतत् कविमिः समस्तम् ॥" इस्युपसंहारकारिकया ग्रन्थघटकानां प्रकरणानां प्रबोध इति नामकरणमभि- मतं प्रतीयते । बहुज्ञोऽयं परमाचार्यः प्रथितो ग्रन्थकार इति प्रतिपादनसरण्या प्रतिपादितवस्तुतत्त्वप्रक्रियया चावगम्यते । जीवितसम- यमन्यदन्यवादसीयं चरितमवगन्तुं न सन्ति विवृताः पन्थानः । ग्रन्थान्ते. "श्रीमत्पराशरकुळे महति प्रसूतो योऽयं कृती शतगुणो गुणिना वरिष्ठः । तस्यात्मजोऽकृत रजन्धिपुराधिवासो मन्थं शुभाय भविनां भुवि विश्वरूपः ॥" इति दर्शनाद् विवेकमार्ताण्डकर्तासौ पराशरवंशीयः सुप्रसिद्धशतगुणा- चार्यतनयो रजन्धिपुराधिवासः कश्चन विश्वरूपनामेति विज्ञायते मातृकायां तत्तत्प्रबोधपरिसमाप्तिवाक्ये -- "इति शतगुणाचार्यतनयश्रीविश्वरूपदेवविरचिते विवेकमार्ताण्डे योगसाधनं नाम षष्ठः प्रबोधः ॥" इत्यादौ देवोपपददर्शनात् स्यात् ; सम्भवेदयं विश्वरूपः कश्चिद् राजवंश्यः । रजन्धिपुरं च समुद्धृतपद्यघटकमद्यत्वे किनामकमिति निर्धार्य निरूपयितुं मास्ति प्रनलोपपत्तिः । अस्मत्सुहृदपि च पुण्यपुरीयप्राच्यग्रन्थाब्याध्यक्षो विषयममुं परिपृहः स्परमेवमाचष्टे- Rajandhipura mentioned in the verse from the colo. phon of Vivekamartanda as quoted by you appears to be phonetically nearer to Rad banpur, the chief town of the Rallhinpur State of the Bombay Presidency." * नवप्रबोधशन्दे नवशब्दो न सङ्ख्यापर। । षष्टप्रबोधपरिसमाप्ती "पकृदपि पठतीमं यः शृणोति प्रबन्ध म भवति भुवि भयो भाजनं भुविमुक्त्योः ।" इति फलश्रुतेः। .. :
३ THE KUPPIISWAMI SASTR RESELLESTITUTF MADFRAS.al यचयमभ्यूहो बलवानुपपत्तिसनाथः, काममसौ विश्वरूपदेवः सहस्र- संवत्सर्याः प्राक्तनः सम्भाव्यते । प्राचीनानां हि संज्ञाव्यवहाराणामासीत् स स समयो यो यो महम्मदीयाक्रमणात् पूर्वतनः । बाम्बेप्रभृतिषूत्तरभारतेषु च तदाक्रमणं क्रिस्त्वब्दीयसप्तमशतकसन्निहितं प्रथते । किञ्चार्षच्छायाप्यद- सायशय्यायाः प्राञ्चममुं विकृणोति । मन्ये भर्तृहरिप्रभृतयो महाकवयोऽप्यस्य छायायां विश्राम्यन्ति । यद् ---- "आयुर्वर्षशतं तावत् तदर्ध निद्रया गतम् । अर्धा, मुग्धभावेन गतं शेषं जरादिभिः ॥" (विवेक० पृ०८ लो०१३) "आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्घ गतं तस्यार्थस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।" (भर्तृहरि० वै० श० श्लो० ४९) नच शक्यं विनिगमनाविरहादुपजीव्यत्वं सुभाषितस्येति शक्तुिं, तत्राचीन- तास्फोरकसाहित्यगन्धस्यानिवार्यत्वात् । किमधिकेन, अद्ययावदनिश्चितकर्तृके- ऽध्यात्मरामायणेऽप्यस्योपजीव्यभावः शकास्पदं लगति । यत्किल- "दन्दशूकगलग्रस्तदर्दुरस्य स्थितियथा ।" (विवेक. पृ० ९. श्लो० १८) "यथा व्यालगलस्थोऽपि भेको भोगानपेक्षते ।" (अध्यात्मरामा० आरण्यकाण्डम्.) इति । सर्वथा क्रिस्त्वब्दीयसप्तमशतकादनर्वाचीनोऽयं विश्वरूपदेव इति सि. - - ध्यति । अस्य विवेकमार्ताण्डस्य प्रकाशावलम्बभूता मातृकास्तिसः । आसु प्रथमे असमने यथाक्रमम् इटप्पकिळवलियराजग्रन्थशालायाः, कन्याक- मारीब्रह्मश्रीमुत्तुशास्त्रिप्रन्थशालायाध स्वे । तृतीया च समग्रा कूटल्लूर ब्रह्मश्रीब्रह्मदत्तनम्पूतिरिग्रन्थशालीया । तिस्रोऽप्यमूरन्दद्विशतीपर्युषिता
उपयोगक्षमा इति बाढममी स्वामिनो मातृकाणामस्मत्कृतज्ञतावचनस्याईन्ति ।
तदिदमेतादृशं साहायकं तत्तेषां ग्रन्थस्वामिनामक्षयमभिवर्धतामिति प्रार्थयन्नमुं
मार्ताण्डं प्रकाशनायोपस्थापयामि सतां समक्षम् ॥
अनन्तशयनम् ,
१४- ४. १११।..
के. साम्बशिवशासी.
विषयानुक्रमणी। पृष्ठम् ३ ७ १२ . विषयः. प्रथमः प्रबोधः। मङ्गलाचरणम् । कविप्रशंसा। ग्रन्थारम्भप्रतिज्ञा । रागद्वेषादीनां निन्दा । विवेकप्रशंसा। द्वितीयः प्रबोधः। कालपरतन्त्राणां प्राणिनामवस्थावर्णनम् । वैषयिकसुखनिन्दा । क्षमादिविशिष्टगुणानां प्रशंसा । रागद्वेषादीनां हेयत्वप्रतिपादनम् । उपशमस्योपादेयता। दानप्रशंसा । लोभनिन्दा । तृष्णाया दूषणम् । अतिस्नेहे दोषः। अशुचिद्रव्यसम्पन्नस्य देहस्य गत्वम् । नश्वरस्यापि देहस्य योगसाधनत्वेन योगिनं प्रति महोपकारकारिता। तृतीयः प्रबोधः। सङ्कल्पविकल्पयोनिरूपणद्वारा तत्फलवर्णनम् । उपाधितत्त्वयोः प्रतिपादम् । समाधिलक्षणम् । आत्मनो बहिरन्तर्व्याप्य स्थितेरनुवर्णनम् । योगिन आत्मसाक्षात्कारप्रकारः । १३ १५ . १६ १७-२१ २२ २३, २४ २५ पृष्ठम् . २६, २७ २८, २९ १ - ३२ ३३ विषयः चतुर्थः प्रबोधः। कालशब्दव्युत्पत्तिः । वाझं कालमान श्वासोच्छ्वासमानं च । आन्तरं कालमानम् । इडादिनाडीनां प्रतिपादनम् । वामदक्षिणभागगतस्य श्वासचारस्य विषयभेदेन फलभेदप्रदर्शनम् । श्वास वारेण पञ्चतत्वानां प्रवृत्तिज्ञानं, तेन शुभाशुभ- परीक्षणं च । पूर्वापर क्षद्वयेऽपि श्वासचारक्रमः तत्फलं च । पक्षमासवत्सरादौ वायुचारवशात् स्वस्य क्षयकाल- परीक्षणम् । मर्मचेष्टया तत्परीक्षणम् । निमित्तान्तरैस्तत्परीक्षणम् । आयुःक्षयकाले विज्ञाते तत्प्रतीकारोपदेशः । पश्चमः प्रबोधः । आत्मादीनामाकाशादिमयत्वप्रतिपादनम् । पञ्चभूतानामुत्पत्तिक्रमादिकम् । क्षित्यादीनामधिष्ठानदेवताः । पृथ्व्यादीनां जयोपायः । हृत्पद्मप्रतिवादनम् । ज्ञानान्मुक्तिरिति स्थापनम् । षष्ठः प्रबोधः। योगप्रशंसा। आसनादीनि षड् योगानानि । बहुप्वासनभेदेषु सारभूतम् आसनद्वयम् । ३३-३८ ३८ ३९-४७ ४० ५३
கரு
14
0
ல்ஷ
(க.க) வூப ஆர.
வா (உ) சுவாஹா ஹய நபளவிராக Wஹி *
நரிவூவூரவொடிகா | (ச2) திஹல வா"
ஹாதிவர ஜ ேநாட
5 rao గా ఇంక
ஹவேதெெஜ
வ "வேப நாகவயூவாரொ | ஆ, வீரலெயாகவ
விஷ விதாவிதநக நுவலாதியாவ
T | வவஷவாவெவ வவவிதாரெவலொ
<Das I SY-5 ஆவி.தவlie Source
| சங) செநதிதநொதியொரு சூய யாது
பொக்.5P » | away. ரஜே.ச்ெ 8ெ)"> ெதா.க | -1
வொறாவேவாதிதசல்வதவொலி
தாக ெத) தம் 5
வவபா க ரி காபொ க ெத திவாசிகர - 728 1
தளஷொசு வி.நா | தெவனதெதுவே) பிவொ:
ஹம பத யாபே (சச தெயொரெமையாஹொ"
அ வரவியூாக 20; | Pவொராது கா சுவிவர,
20வ. தீவனவ வைதது | தயாரொ வா | சுழியாட்த
பேராதெவடய ரெசகசூரி | arurses |
தாரோகண தாசவிஷவே தீலைவலுவாக
இயரெ தலை குவெடி) aug |®39. 4
GJ
U
विषयः,
पृष्ठम्.
६८, ६९
७०, ७१
७२, ७३
७४
सोमकलामृतास्वादप्रकारः।
पृथ्व्यादिजयफलका धारणाभेदाः ।
षट्चक्रेषु क्षित्यादीनां ध्यानविशेषाः ।
नव ध्यानस्थानानि ।
प्रसनादुपाधितत्त्वयोनिरूपणम् ।
धारणादीनां कालमानम् ।
समाधिविवरणम् ।
प्रकृतप्रबन्धश्रवणफलम् ।
ग्रन्थकर्तुदशवर्णनादिकम् ।
७५
७६, ७७
-
॥ श्रीः॥ विवेकमार्ताण्डः। शतगुणाचार्यतनयविश्वरूपदेवविरचितः । प्रथमः प्रबोधः। व्याप्तं जगत्रयं येन बहिरन्तरविद्यया। योगगम्यं तमात्मानं वन्दे दुःखहरं परम् ॥ १ ॥ हा मित्रं मम हा कलत्रमुचितं हा मे गृहं हा धनं हा पुत्रो मम हा पिता मम गुरुक्षेत्रादिकं हा मम । इत्थं हा ममकोरबद्धमखिलं विश्वं सदेवासुरं यन्मायार्णवमग्नमस्ति सततं तस्मै नमो विष्णवे ॥ याकापि प्रकृतिः पुरा गुणमयी माया महामोहिनी कामक्रोधविवोधलोभजननी बीजं जगज्जन्मनः । क्षुब्धं मुग्धमिदं निबद्धमतुलं द्वन्द्वं समस्तं यया वन्देऽहं भवभावभूरिविभवभ्रंशाय कामेश्वरीम् ॥ अपनयति जनानां जाड्यमुग्रं समस्तं जनयति परमार्थज्ञानमानन्दितां च । रंभसममृतकुण्डोद्धाटने या समर्था जगति जयति वाणी सत्कवीनां वरा सा ॥ ४ ॥ १. 'मायया', २. 'तानुब', ३. 'चित्' व. पाठः. १. 'लद्वन्दैः स' क. पाठः. ५. 'मभ्रान्तता' ख. पाठः. ६. 'हदिमदमृ' क. पाठः. GP. T2320. 500. 25-9-1110. B विवेकमार्ताण्डे सुबद्धापि विमोक्षाय सगुणा(य ? पि) गुणच्छिदे । यद् भवेत् भारती लोके तच्चित्रमतुलं कवेः ॥ ५ ॥ आनन्दपितरो विश्वजीवितं भुवि सज्जनाः देवदानवसिद्धानां सत्कवीनामहनिशम् ॥ ६॥ वर्ग गता यद्यपि दिव्यरूपा न मृत्युभाजः कवयो वदन्ति । यद्वाक्यमन्त्रैर्भवभोगिर्दष्टा- नुत्थापयन्ते पतितान् मनुष्यान् ॥ ७॥ धन्यास्त एव कवयो ये मोहनिशाक्षयं समासाय । हृदये विरागभरिते पश्यन्त्युदितं विवेकार्कम् ॥ ८ ॥ मददावानलदग्धे नरगिरिनिकरे विवेकजलदो यः । विदितः स एव सुकविः स्यात् प्रेतकमारका ह्यन्ये॥९॥ यद् गुणत्रयबद्धानां नराणां बन्धकारणम्। तत् कार्य कः कृती कुर्यात् सततं प्रेतमारणम् ॥ १० ॥ बध्नाति सद्गिरामोघं यस्तु मोक्षाय देहिनाम् । उत्पादयति पीयूषं मृतानां जीवनाय सः ॥ ११ ॥ दन्तहीनो यथा बालो हृष्टो वक्तुमपेक्षते । योगिनां वल्लभं शास्त्रं कर्तुमिच्छाम्यहं तथा ॥ १२ ॥ सद्गुणैः सरसैर्वृत्तैर्मुक्तकैमौक्तिकैरिव । प्रथनं तत् करिष्यामि यन्मुक्ताकण्ठभूषणम् ॥ १३ ॥ १. 'बु', २. 'म' क. पाठः. ३. 'वक्रादुत्था' ख. पाठः.
प्रथमः प्रबोषः।
यानि वस्तूनि संसारे निगळा इव देहिनाम् ।
तानीह दूषयिष्यामि क्षन्तव्यं तन्मनीषिभिः ॥१४॥
रे दुर्वारविषादविभ्रमरते! रे शोकतृष्णे! प्रिये !
रेऽहङ्कार! समारमत्सरमदा! रे लोभदम्भादयः!।
त्यक्त्वा योगिनमेव मूढहृदयं दुर्ग प्रयाताधुना
नो चेन्नाशमुपागता हि यमिनां जातो विवेकोदयः
[॥ १५॥
चित्तोदयगिरि राप्ते सद्विवेकदिवाकरे ।
सुप्रभातमभूदद्य मोहरात्रिः क्षयं गता ॥ १६ ॥
परमार्थमपाहृत्य महामोहनिशागमे ।
उद्वेजयन्ति चेतांसि नृणामिन्द्रियतस्कराः ॥ १७ ॥
कालकूटसमो मोहो विवेकोऽमृतसन्निभः ।
एकः करोति देवत्वं त्रेतत्वमितरो नृणाम् ॥ १८ ॥
विरागयुक्तं विपुलं विशुद्धं
विवेकभानोरुदयं विलोक्य ।
(भु ? भ)जत्यलं सज्जनषट्पदाली
विकासितान्युक्तिसरोरुहाणि ॥ १९ ॥
विवेकमार्ताण्डगिरेरशेषं
यदा महामोहतमो विनष्टम् ।
तदैव हस्तामलकप्रमाणं
विराजते विश्वमिदं समस्तम् ॥२०॥
विवेकाख्यं महारत्नं हृदये यस्य तिष्ठति ।
कमस्ति तस्य धीरस्य दुर्लभं भुवनत्रये ॥ २१ ॥
विवेकमार्ताण्डे परं भवति तिर्यक्त्वं न विवेकस्य खण्डनम् । विवेकाद्धि दिवं प्राप्तं कपोतयुगलं पुरा ॥ २२ ॥ अन्तरं न विवेकस्य पशुत्वं परमस्तु वा । धेनुर्विवकिनी स्वर्ग जगाम कपिला पुरा ॥ २३ ॥ हृत्तापशमनी पुंसां विवेकाख्यां महौषधीम् । गृ(ह्य ?ह)तां सद्भिरानीतां वेदभूधरकन्दरात् ॥ २४ ॥ विमोहपटलान्धानां महाहृदयचक्षुषाम् । विवेको भेषजं दिव्यं दातव्यं देहिनामिति ॥ २५ ॥ चराचरद्विभावानामौषधीनां तु सर्वतः । रसो वीर्य विपाकश्च विवेकादेव लक्ष्यते ॥ २६ ॥ मणिमन्त्रौषधीनां तु योगानां विविधाः क्रियाः। योगिभिः सर्वमित्यादि विवेकादेव लक्ष्यते ॥ २७ ।। काष्ठे वह्निस्थिते तैलं जले मौक्तिकसम्भवः : पाषाण लाहामत्यादि विवेकादव लक्ष्यत ॥ २८॥ आकृष्टिः करणं प्रोक्ता भ्रमणं भ्रामके तथा । लोहस्य द्रावके द्रावो विवेकादेव लक्ष्यते ॥ २९ ॥ अविवेकोत्तु मानुष्यात् क्रमितास्तु विवेकिनि । देही विचारयोगेन स्वयं सिद्धि नवाप्नुयात् ॥ ३० ।। काष्टिकहारजन्या या पुण्यमायाति पूर्वजम् । जलदत्तं समादाय गता स्वर्ग विवकिनी ॥३१॥ सारात् सारं समालोक्य गृहगोधा विवेकिनी। १. 'किनि मा' ख. पाठः.
प्रथमः प्रबोधः । सम्प्रार्थ्य तमिदं शम्भुं या गता परमं पदम् ॥ ३२ ॥ पिब कर्णाञ्जलिं कृत्वा सद्विदकरसायनम् । येनामरपदप्राप्तिरचिरात् तव जायते ॥ ३३ ॥ यत् पुण्यं जीवघातेन यत् पुण् जीवरक्षणात । सखे ! महाहवादौ तु विवेकात -द्धि ल} ३४ ॥ कचित् सत्ये महत् पापं क्वचित् पुण्यं तथानते । सर्वदा सत्यमित्यादि विवेकादेव लक्ष्यते ॥ ३५॥ द्विजवृन्दं पदा येन याति सत्यं वद प्रभो!। इति पृच्छति जीवघ्नो विवेली बावरेन ॥ ३६॥ अविवेकी नरो नैव धर्मका नायनोमा ! आतः श्रुत्यादिसम्बन्धाद भविनय बिन ॥ ३७॥ अर्धः शशाङ्कोऽपि हि याति अद्धिं तमःक्षये लब्धकलान्तरोऽन्न । अर्धस्य चन्द्रस्य बलं न रेषा मूढा नरास्ते विपदं प्रयान्ति ।। ३८॥ लुब्धकं लब्धलक्षं तु प्रमार्जितगुणं हदान्। अविवेकिनमालोक्य मृगीव श्री: पलार ॥ ३९॥ नोचितज्ञो यदि स्त्रीणां सदनोऽपि न ३ दि। सुरतानन्दसंलब्धपुलकं कामिनीसुखः ॥ ४० ॥ विख्यातं शिवनिर्माल्यमस्थिम भस्मसङ्गुलम् । कुशलं जाह्नवीतोयं मन्यन्ते ह्यविवेकिनः ॥ ४१ ॥ १. 'दाहुः वि' क. पाठः. २. 'था', ३. 'वत्' ख. पाठः, ६ ܐ܀ विवेकमार्ताण्डे कुरुते नहि कर्माणि शिखासूत्रं न धारयेत् । इति कृत्वा सदा लूटो निःशूद्रवदाचरेत् ॥ ४२ ॥ विवेका प्राप्त ल मोका कामितं सुखम् । विवेका लागी कान्मुक्ति प्यते ॥ ४३ ॥ न जाती ": हि विवेकिनः। ऋश्यशृङ्गो को रवि नमस्यते।। ४४ ॥ न प्रधानं धन पाय न . नुव्यं सुरूपता ! सुरैरपि समेत मुनयोहि विवेकिनः ॥ ४५ ॥ यदप्राप्यं खगेन्द्रेण दिव्यं वर्षशतैरपि । तद् विवेकेल राम्रो साथि पङ्गुः परं पदम् ॥ ४६ ॥ दृश्यते न समर्थन होण यः फलम् । तर विवेकस्य मिलोला ४७॥ हवा विवेकमाण. तद् विन्दति योगी यात्रा सुरारेः ॥४८॥ सत्यं शौचमाहसता मालमता सदनहाच तपः शान्तिक्षान्तिकारि तिः द्रा तथा द्वादशी एतत् पुण्यकलाकलासाहन प्रज्ञारथर सदा ये पश्यन्ति विवेक ... दितं तेष, न मोहान्धता [॥ ४९॥ इति शत-रणा चित विवेकमार्ताण्डे १. 'मुह्यन्ते' ख. पा...
एतदेव परं सोख्यमेतदेव.', श्रुतिसज्जनसङ्गत्या यद् भोल्योहनिग्रहः ।। १ ।। एतदेव परं ज्ञानमेतदेव दिए । नृणां विवेकसभात्या पद् मोह अहः ॥ २॥ विवेकमानोरुत्येवि में पर दं योगिन जति विभोगशय्यामधिरु : सखे ! जियापि खसि ॥ ३ ॥ मोहाम्बुक जो नारती वो कित पाजालम् । आकृष्य कालोऽधिहि श्री चतुर्विधं भूतगणं निहान्त ॥ ४ ॥ हा हा कष्टभिदंष्टं कालसर्प दाणा। पुनरोति मृतावस्थः पुनः शति जीवितम् ॥५॥ देवदानवगन्धर्ववक्षराक्षसाल।। जनं कालभुजङ्गोऽयं यह सुध्यते ॥ ६ ॥ यद्यपि प्रत्यहं कोकः कालघाटन माछत्तः तथापि निद्रितो. स्मीति मन्यते न तु ध्यते ॥ ७॥ प्रत्यक्षमिति किं लोकः पश्यना पश्यति । ग्रसतीदं जगत् कालो बकः शारिकामिव ॥ ८॥ १. 'पुरं' क, पाठः.
विवेकमार्ताण्डे सुखगर्भस्थितं दुःखं दुःखगर्भस्थितं सुखम् । द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्कवत् ॥ २८ ॥ सुखाभावे तु यद् दुःखं दुःखाभावे तु यत् सुखम् । द्वयमेतद्धि जन्तूनामलभ्यं दिनरात्रिकम् ॥ २९ ॥ यदद्वयमहानन्दविह्वलत्वमखण्डितम् । तत् सुखं सद्भिराख्यातं न तु व्यापारसम्भवम् ॥ ३०॥ सुखं वैषयिकं चापि बहिस्सारं तु चञ्चलम् । दुःखगर्भितमालोक्य कूटद्रव्यमिव त्यजेत् ॥ ३१ ॥ स्वादुस्वायं निमेषाधू ताल्लुजिह्वाग्रसङ्गतम् । पुनः सर्वं हि सामान्यं कुभुक्तं किन्न रोचते ॥ ३२ ॥ सदन्नमपि यद् भुक्तं कदन्नमपि वा भृशम् । द्वयोरमेध्यनिष्पत्तिः कथमेकं न रोचते ॥ ३३ ॥ भुक्तं भक्तं कदशनमपि किं जीर्णं वासः सुवसनमपि किम् । सा चेन्निद्रा कुशयनमपि किं दुःखं नृणां मनसिजमखिलम् ॥ ३४ ॥ भिक्षाशी वा निजगृहभोजी स्त्रीयुक्तो वा भवतु वियोगी। एकाकी वा करिनरयुक्तः सन्तोषी यः स तु भुवि मुक्तः ॥ ३५॥ १. 'मकुटः ॥' ख. पाठः.
द्वितीयः प्रबोधः । ११ एका क्षमा भवतु किं बहुभिः समुद्रे- रेका मतिर्भवतु किं बहुभूषणैश्च । एका धृतिर्भवतु वा बहुभिर्विभोग- रेकं स्फुटं भवतु किं बहुभिर्विवादैः ॥ ३६ ॥ कलं यत्राश्वमेधानां देहत्यागं विना यशः । तत्सत्यममृतं त्यक्त्वा हाहा लोकोऽनृतं वदेत् ॥ ३७ ॥ असत्यं पापमालोक्य मेरुमन्दरसन्निभम् । अन्धा वियोगसंतप्ताः पशवो हि यतो गताः॥३८॥ भूरम्बु दहनो वायुरिन्दुभानुपुरोगमाः । पत्रैते साक्षिणो नित्यं तत्र दम्भो निरर्थकः ॥ ३९ ॥ पञ्चाशद्वर्णभेदेन वाङ्मयं ब्रह्म यत्कृतम् । तत्परं हि न जानाति वृथा पाण्डित्यविभ्रमः ॥ ४०॥ छन्दो व्याकरणं निघण्डु गणितं तर्कागमो ज्योतिष शीक्षासूक्तनिरुक्तवैदिकमलङ्कारस्तथा नाटकम् । निर्वाणाय नृणां न किञ्चिदनिशं यद्यप्यधीतं स्फुटं सर्व चैकविवेकदीपरहितं पालालभारायते ॥४१॥ धर्मे मतिः किं बहुभिः सुशास्त्रै- र्जीवे दया किं बहुभिर्वतौघैः । लोभक्षयः किं बहुभिस्तु यज्ञैः शान्तं मनः किं बहुभिस्तपोभिः ॥ ४२ ॥ १. 'भा' क. पाठः.
१० विवेकमाताण्डे सुखगर्भस्थितं दुःखं दुःखगर्भस्थितं सुखम् । द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्कवत् ॥ २८ ॥ सुखाभावे तु यद् दुःखं दुःखाभावे तु यत् सुखम् । द्वयमेतद्धि जन्तूनामलभ्यं दिनरात्रिकम् ॥ २९ ॥ यदद्वयमहानन्दविह्वलत्वमखण्डितम् । तत् सुखं सद्भिराख्यातं न तु व्यापारसम्भवम् ॥ ३०॥ सुखं वैषयिकं चापि बहिस्सारं तु चचलम् । दुःखगर्भितमालोक्य कूटद्रव्यमिव त्यजेत् ॥ ३१ ॥ स्वादुस्वायं निमेषाधू तालुजिह्वाग्रसङ्गतम् । पुनः सर्वं हि सामान्यं कुभुक्तं किन्न रोचते ॥ ३२ ॥ सदन्नमपि यद् भुक्तं कदन्नमपि वा भृशम् । द्वयोरमेध्यनिष्पत्तिः कथमेकं न रोचते ॥ ३३ ॥ भुक्तं भक्तं कदशनमपि किं जीर्णं वासः सुवसनमपि किम् । सा चेन्निद्रा कुशयनमपि किं दुःखं नृणां मनसिजमखिलम् ॥ ३४ ॥ भिक्षाशी वा निजगृहभोजी स्त्रीयुक्तो वा भवतु वियोगी। एकाकी वा करिनरयुक्तः सन्तोषी यः स तु भुवि मुक्तः ॥ ३५ ॥ १. 'मकुटः ॥' ख. पाठः.
११ द्वितीयः प्रबोषः। एका क्षमा भवतु किं बहुभिः समुद्रे- रेका मतिर्भवतु किं बहुभूषणैश्च । एका धृतिर्भवतु वा बहुभिर्विभोगे- रेकं स्फुटं भवतु किं बहुभिर्विवादैः ॥ ३६ ॥ फलं यत्राश्वमेधानां देहत्यागं विना यशः । तत्सत्यममृतं त्यक्त्वा हाहा लोकोऽनृतं वदेत् ॥ ३७ ॥ असत्यं पापमालोक्य मेरुमन्दरसन्निभम् । अन्धा वियोगसंतप्ताः पशवो हि यतो गताः॥३८॥ मूरम्बु दहनो वायुरिन्दुभानुपुरोगमाः । यत्रैते साक्षिणो नित्यं तत्र दम्भो निरर्थकः ॥ ३९ ॥ पञ्चाशद्वर्णभेदेन वाङ्मयं ब्रह्म यत्कृतम् । तत्परं हि न जानाति वृथा पाण्डित्यविभ्रमः ॥ ४०॥ छन्दो व्याकरणं निघण्डु गणितं तांगौ ज्योतिष शीक्षासूक्तनिरुक्तवैदिकमलङ्कारस्तथा नाटकम् । निर्वाणाय नृणां न किञ्चिदनिशं यद्यप्यधीतं स्फुटं सर्व चैकविवेकदीपरहितं पालालभारायते ॥ ४१ ॥ धर्मे मतिः किं बहुभिः सुशास्त्रै- र्जीवे दया किं बहुभिर्बतौधैः । लोभक्षयः किं बहुभिस्तु यज्ञैः शान्तं मनः किं बहुभिस्तपोभिः ॥ ४२ ॥ १. 'भा' क. पाठः.
१२ विवेकमार्ताण्डे ३ रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम् । तावुभौ याद न स्यातां तपसा किं प्रयोजनम् ॥ ४३॥ तपो वर्षसहस्रं तु यदुपार्जितमव्ययम् । तत् क्षणं दहति क्रोधो दवाग्निरिव पर्वतम् ॥४४॥ जल्पकं पात्रसम्पातैः सहायैः प्रकटीभवेत् । ग्रहोऽयं मानसः कोऽपि बद्धो येन समस्तवित् ॥४५॥ क्रोधाभिमलिनं चित्तं नहि शुध्यति वारिणा । अमेध्यभरितं कुम्भं बहिश्शौचेन किं भवेत् ॥ ४६ ।। अन्तः स्पृशति चण्डालो बहिः स्नानेन किं भवेत् । सद्वारिणा विनिर्मूढा मधुना नैव तुम्बकः॥४७॥ न क्रोधेन समो वैरी स्नेहतुल्यं न बन्धनम् । न सन्तोषसमं सौख्यं न दानेन समो निधिः ॥४८॥ अमृतसिन्धुरलं मथितोऽपि सन् हृतधनो हरिणा पुनरर्थितः । शयनमस्य ददौ जठरे मुदा न खलु वैरमहो महतां चिरम् ॥ १९ ॥ उपशमो हृदि यस्य स देहिना. मिह सुखी च कृती स हि वन्द्यते। अपि कलङ्कयुतस्तु निशाकरो भवति वल्लभ एव हि चन्द्रमाः॥५०॥ . १. 'वेश्य', २. 'त्र', ३. 'दि' क. पाठः. स, पाठ द्वितीयः प्रबोधः । अपि ददातु निरागसि कालिका खलु भविष्यति संसदि कालिमा । प्रतिवचो हि न चास्य विधीयता- मुपशमो महती स विभूषणम् ॥ ५१ ॥ मा मूढ दुस्सहागालिदेहयोगेन तद्विधिः । अपि स्तोकं तु यद् दानं सत्पात्रे ह्यतुलीभवेत् ॥ ५२॥ यत् फलं पात्रसम्पत्त्या लभ्यते तत् किमन्यथा । विषं स्याद् बिम्बसर्पास्ये माणिक्यं शुक्तिसम्पुटे॥५३॥ प्रियमेव प्रदातव्यं नाप्रियं प्रियमिच्छता । अवश्यमेव भोक्तव्यं कृतदानफलं भुवि ॥ ५४ ॥ प्रयातु गगनादूर्ध्वमधो वापि रसातलात् । आधावतु नरः पृथ्वी नादत्तमुपतिष्ठते ॥ ५५ ॥ उत्पत्तौ च विपत्तौ च मलधारी दिगम्बरः। किमन्यन्मलिनाङ्गेन वस्त्रंदण्डेन लज्जसे ॥ ५६ ॥ उत्पत्तौ च विपत्तौ च नानुगच्छन्ति कञ्चन। भूमिर्भार्या धनं चापि नृणां लोभो निरर्थकः ॥ ५७ ॥ धीरो विद्वान् को न नीचत्वमुच्चै- रापत्कालं प्राप्य याति प्रयोगात्। क्षीणो धत्ते वस्त्रतन्तोरपेक्षा सोमोऽस्माकं ब्राह्मणानां तु राजा ॥ ५८॥ १. 'ता सुविभूषितम् ।', २. 'स्यात् पिब स', ३. 'पश्चापि', ४. 'भुज्य' ख. पाठः. ५. 'वं बढ़ेन' क. पाठः.
१४
विवेकमाण्डे
आशासिन्धुरगाधोऽयं मनोरथजलाकुलः ।
लोभग्रहो मदावर्तो दुस्तरो विदुषामपि ॥५९ ॥
आशाबद्धमिदं विश्वं यतः स्थावरजङ्गमम् ।
स्वयमाशापरित्यागान्मुक्ता यान्त परां गतिम् ॥१०॥
दशना वदनभ्रष्टाः शिरोभ्रष्टाः शिरोरुहाः।
अस्थीनि चर्मभ्रष्टानि जन्तोस्तृष्णा न दृश्यते॥ ६१ ॥
तृष्णया बाधितं विश्वं न तृष्णा तेन बाध्यते ।
ईश्वरं कुरुते भिखं श्रीपतिर्याचते बलिम् ॥ ६२ ॥
अस्मद्भरिति यैरुक्तं तेऽद्यापि क्षितिदानवाः ।
विप्रभूरिति यैरुक्तं तेऽद्यापि क्षितिदा नवाः ॥ ६३ ॥
कथमन्योन्यमुन्मत्ता भूपा निघ्नन्ति संयुगे।
रामाद्योऽपि जनो नातो न कस्यापि हि मेदिनी ॥६४॥
गर्जद्गम्भीरनीरां करिनरनिकरस्यन्दनावर्तभीमा-
मुन्मीलत्खड्गनक्रां शरनिकरतरङ्गोच्चलच्छत्रफेनाम् ।
हा तृष्णाकृष्टचित्ता द्रविणकणधियो हल्लकल्लोलमाला-
मामज्जवंशशालीमिह समरनदीमाविशन्ति क्षिती.
[न्द्राः ॥६५॥
आशुष्ककण्ठो व्यसनाय तोयं
ज्वरी यथा वाञ्छति शीतलं च ।
दारानपत्यानि धनानि तद्वत्
तृष्णातुरो ध्यायति बन्धनाय ॥ ६६ ॥
द्वितीयः प्रमोषः ।
न प्राप्नोति यथा नीडं पक्षी पारयन्त्रितः ।
तथा तृष्णावृतं चेतो नहि तत्त्वं प्रविन्दति ॥ ६७ ॥
किमसौ सततं देही तृष्णया परितप्यते ।
विवेकामृतसम्पूर्णाः सरितः सन्ति सज्जनाः ॥६८॥
प्र(हर ? वह)न्ति न वा नद्यो यत्र विद्वन्मुखोद्भवाः ।
विवेकाख्येन तोयेन तत्र तृष्णा भयङ्करा ।। ६९ ॥
अन्योन्यं मत्सरग्रस्ताः प्रभुदण्डेन ताडिताः।
यन्त्रिताः स्नेहबन्धेन धिगन्धाः पशवो जनाः ॥७॥
मेहस्यातिशयः पुंसां प्रकोपाय न शान्तये ।
सम्प्राप्य न खलु स्नेहं क्षीयते मानसो ज्वरः ॥ ७१ ॥
तावद् बान्धवबन्धुवर्गगणना तावत् प्रियाः सजना-
स्तावन्मातृकलत्रपुत्रपितरोऽन्योन्यं हितं कुर्वते ।
यावत् क्रूरकृतान्तकिङ्करकृतैराकृष्यते नो हठाद
देही तैरपि दह्यते पुनरतिस्नेहप्रपञ्चो मुधा ॥७२॥
देहस्थैर्य भेषजैः सम्प्रयुक्तं
प्रायः पुंसां यद् भवेत् सा दुराशा ।
क्षीणाङ्गः स्यादोषधीशोऽपि यस्मात्
सोमोऽस्माकं ब्राह्मणानां तु राजा ॥७३॥
विष्ठास्थिभक्षकैर्यस्तु कृमिराशिभिरावृतः ।
तस्य देहस्य को लोभो विश्वासो विदुषामपि ॥ ७४॥
विवेकमाताण्डे आजन्म विविधैर्भक्ष्यैः कृत्याकृत्येन पोषितम् । तदन्ते जयते जन्तोः शरीरं भस्म केवलम् ॥ ७५ ॥ निपतति प्रलयानलतेजसा सुरगिरिः परिशुष्यति सागरः । भवति भस्मधरा सनगा यदा वपुषि कात्र कथा क्षणभङ्गुरे ॥ ७६ ॥ वपुरसारमपि क्षणिकं भवेत् सुकृतिनां परमार्थमुदाप्तये । अपि हि दुर्बलवल्कलगर्भिणी त्व(मु ? मृ)तरूपफला कदली न किम् ॥७७॥ वपुः स्मृतं यज्जरसन्धिजर्जरं ब्रजेन्नरस्तेन पदं च जर्जरम् । अनेकगात्रं शकटं सुबन्धनं महाभरे किन्नु भवेन्न साधनम् ॥ ७८ ॥ मलिनमस्थिकफादिभिरावृतं वपुरलं कृतिना भवलङ्घने । अपि हि घोरमनार्यजनाकुलं प्रवहणं हितमेव महार्णवे ॥ ७९ ॥ परधनं परयोषितमाग्रह परिहरेदिह दुर्जनसङ्गतिम् । शकटविग्रहयोरवनं हितं सुकृतिनों गतये नतु भञ्जनम् ॥ ८ ॥ १. 'नाशकये' ख. पाठः.
तृतीयः प्रबोधः। ययत् पुंसां भवति हि मुदे वस्तु संसारभाजां जाने पश्चाद् रुचिरमचिराद् दुःखबीजत्वमेति । तत्तज्जन्मप्रलयरचना नूनमेवं विदित्वा मुह्यन्त्यन्ये न खलु कृतिनोऽसारसंसारवृत्ते ॥ ८१॥ इति शतगुणाचार्यतनयविश्वरूपदेवविरचिते विवेकमार्ताण्डे मोहनिग्रहो नाम द्वितीयः प्रबोधः॥ अथ तृतीयः प्रबोधः। केवलोऽपि कृपूधातुः सामर्थ्य वर्तते यदा । उपसर्गद्वितीयो यत् तदारिः किं न बाध्यते ॥१॥ सङ्कल्पाख्यं विकल्पाख्यं मनसो बन्धनं दृढम् । भित्त्वा विज्ञानखड्गेन स्वयं मुक्तो भवेन्नर. ॥ २ ॥ सुखं वाप्यथवा दुःखं मनसैव प्रकल्पितम् । निर्विकल्पे गते चित्ते न बन्धः सुखदुःखयोः॥३॥ अन्यस्त्वमहमित्यादिभेदभिन्नं जगत्रयम् । दृश्यते सततं यस्माद् विकल्पः सोऽभिधीयते ॥४॥ चिद्रूपमन्यथातत्त्वं प्रतिभाति यदन्यथा । इन्द्रियाणां च वैकल्याद् विकल्पः सोऽभिधीयते ॥५॥ १. 'प्राप्याथ' ख. पाठः, D
१८
विवेकमाताण्डे
दृष्टादृष्टपदार्थस्य स्थापना हृदि यद् भवेत् ।
कदाचिदिच्छया नित्यं स सङ्कल्पोऽभिधीयते ॥ ६ ॥
यादृशो हृदि सङ्कल्पस्तादृशं तत्फलं स्मृतम् ।
प्राप्यते शर्करास्वादो न तथा निम्ब(स्य ?)भक्षणात्
[॥ ७॥
शिलायां देवतावेशो मन्त्रावेशो ग्रहादिषु ।
तीर्थेषु पुण्यनिर्देशः सङ्कल्पादेव जायते ।। ८ ।।
कर्ता स एव ते मन्त्रा वर्णास्तेनैव याजिताः ।
दृश्यते विविधं कर्म सङ्कल्पान्निर्विषादिकम् ॥ ९ ॥
न स्नानस्य न दानस्य तपसो न जपस्य वा ।
न, प्राप्नोति फलं किञ्चित् सङ्कल्परहितो यदि ॥१०॥
नादत्तपुण्यसङ्कल्पो नरः शुध्यति वारिणा ।
न पूतो धीवरस्तस्मात् कृतैः स्नानशतैरपि ॥११॥
अवगाह्य जलं माघे स्नातको दुरितं दहेत् ।
नतु तत्र स्थितो मीनः सङ्कल्परहितो यतः ॥ १२ ॥
समर्प्य कुसुमं भक्त्या शम्भवे न पुनर्भवेत् ।
पुष्पलक्षमपि त्यक्त्वा लब्धपुण्यो न मालिकः ॥ १३ ॥
पत्रपुष्पफलत्यागात् पुरुषो यद् दिवं ब्रजेत् ।
यदृक्षो न भवेत् स्वर्गी सङ्कल्पस्तत्र कारणम् ॥ १४ ॥
ब्रह्मचारी दिवं प्राप्तो हुत्वा दर्भशिखामपि ।
प्रज्वाल्य निखिलं कर्म किं षण्डो नरकं गतः ॥ १५॥
गिरिगवरशायी च जटी वल्कलधारकः ।
वानप्रस्थपदं प्राप्तः किं पुलिन्दोऽपि तादृशः ॥ १६ ॥
:
.
तृतीयः प्रबोधः
अमैथुनस्तु निर्वैरो नग्नो मलिनविग्रहः ।
बती या(ति) नरः स्वर्ग बालकः किं (न? नु) तादृशः
[॥१७॥
शीतातपसहो नित्यं जटिलो धूलिधूसरः ।
गर्दभो न गतः स्वर्ग सङ्कल्पस्तत्र कारणम् ।। १८ ॥
मुनिः प्रक्षाल्य कौपीनं महत् पुण्यमवाप्तवान् ।
किं (न ? नु) स्याद् रजको धर्मी धौतैर्वस्त्रशतैरपि॥१९॥
वह्निबीजमिदं रेफ द्विगुणं प्रजपन्नपि ।
नहि शुध्यति यद् भृङ्गः सङ्कल्पस्तत्र कारणम् ॥२०॥
एकमेव पशुं हत्वा दीक्षितो गतिमान् भवेत् ।
न कस्माल्लुब्धकः स्वर्गी हतैः प्राणिशतैरपि ॥ २१ ॥
ब्रह्मलोकं नरो याति सत्यमग्निपरिग्रहात् ।
किं कृतं लोहकारेण यतो यस्मादसौ गतिः॥ २२ ॥
सत्यमग्निप्रवेशेन लभ्यते परमा गतिः।
किमन्ये वह्निना दग्धा नरके हि परिस्थिताः ॥ २३ ॥
नासङ्कल्पितमाप्नोति कृतकर्मफलं पुमान् ।
पश्यन्नाकं व्रती याति नोपयासी बुभुक्षितः ॥ २४ ॥
संनिपत्य गिरेः शृङ्गाद् उभौ च पुरुषो मृतौ ।
व्रती त्रिदिवमायातो नरकं तृणलावकः ॥२५॥
संप्रविश्य महानद्या एककालमृता अपि ।
स्वर्ग++++++किमन्ये यमशासनम् ॥ २६ ॥
तुल्यो हि मृत्युसम्बन्धो नराणां समराङ्कणे ।
शूराः प्रपेदिरे स्वर्ग कथमन्ये यमालयम् ॥ २७ ॥
विवेकमार्ताण्डे
सदृशे कर्मसम्बन्धे फलमेवं पृथक् पृथक् ।
कुरुते सततं पुंसां सङ्कल्पो बलवान् नृणाम् ॥२८॥
जपहोमव्रतादीनां प्रतिभूरिव कर्मणाम् ।
निर्मलो यस्य सङ्कल्पो न तस्य फलवञ्चनम् ॥ २९ ॥
एते दैत्यवरा अमी ननु सुरा यक्षा इमे राक्षसा
एते सिद्धमुनीन्द्रकिन्नरगणा एते मनुष्यादयः ।
इत्येवं बहुधा विकल्पजनि(ता ? त)भ्रान्तिप्रभेदात्मनः
शीतांशोः पटलोपमादिव सदाभेदोऽस्ति नो सत्यतः
[॥३०॥
भाहाः श्वेतपटा विटाः क्षपणका बौद्धा बुधा बोधका-
श्चार्वाका जटिला विलासरहिताः संन्यासिनोऽन्येऽपि
[वा।
स्पर्धावर्धितवाग्विवाददहनज्वालाभितप्ता भृशं
भ्रान्ता ह्याहुरनेकधा शिवमजं हा हा विकल्पा कला
[॥ ३१॥
यद्वाक्पथमतीतस्य विष्णोरतुलतेजसः ।
एकस्य बहुधा
भाति विकल्पस्तत्र कारणम् ॥ ३२ ॥
विकल्पितमिदं विश्वं न विश्वं परमार्थतः ।
मरीचिकापयःपूरः किमाप्लावयति मेदिनीम् ॥ ३३ ॥
अयं गुरुरहं शिष्यो ध्येयमेकभनाभयम् ।
सिद्धिरेषा ममेत्यादि मनसा च विकल्पना ॥ ३४ ॥
मोहाद् बद्धभिवात्मानमबद्धमपि मन्यते ।
नलिकाभ्रमणभ्रान्तः पक्षीव विकलो जनः ॥ ३५॥
तृतीयः प्रवोधः ।
प्रसन्नता न स्तवनादिभिर्वा
(न ? नागादिदानादिभिरप्रसादः ।
दुःखं वियोगान्न सुखं विरागा-
दाकल्पितं स्यान्मनसैव सर्वम् ॥ ३६ ॥
उर्तिते कुङ्कुमचन्दनाभ्यां विष्ठादिना लेपकृते शरीरे।
बालो विषादं न मुदं विधत्ते प्रायो यतः कल्पनया
[विहीनः ॥ ३७॥
हृतं कथञ्चित् सहसैव चोरै-
हस्तस्थितं यस्य महानिधानम् ।
अजानतस्तस्य हि नास्ति दुःखं
ततो भवेत् कल्पितमेव सर्वम् ॥ ३८ ॥
मग्नं यदा पोतमिदं समुद्रे
गोत्रं मदस्तत्र तदा निमज्ज्य ।
श्रुत्वोक्तिमारोदिति चाशु मूढो
दुःखं हि सङ्कल्पितमत्र जन्तोः ॥ ३९ ॥
यदेव + + प्रभवत्यवश्यं सङ्कल्पितेनैव सुखं जनस्य ।
(हो ? हे)मोपलं प्राप्य परं न कस्माज्जात्यन्ध इष्टां
[मुदमादधाति ॥४०॥
हषों(नु ? न) लेपाद् वरचन्दनादे-
नं पङ्कविष्ठादिकृताद् विषादः ।
हानेन दुःखं न सुखं च लाभात्
सर्वं भवेत् कल्पितमेव पुंसाम् ॥ ४१ ॥
विवेकमााण्डे
न ते विजानो(?)ज्ञानेन ध्यानस्थानानि योगिनाम् ।
उपाधितत्वयुक्तानि कुर्वन्त्यष्टगणोदयम् ॥ ४२ ॥
उपाधिश्च तथा तत्त्वं इयमेतदुदाहृतम् ।
उपाधिः प्रोच्यते वर्णस्तत्वमात्माभिधीयते ॥ ४३ ॥
उपाधिरन्यथाज्ञानं तत्त्वसंस्थितिरन्यथा ।
यथान्यवर्णयोगेन + + + स्फाटिको मणिः ॥ ४४ ।।
समस्तोपाधिविध्वंसे सदाभ्यासेन योगिनाम् ।
मुक्तावच्छुक्तिभेदेन स्वयमात्मा प्रकाशते ॥ ४५ ॥
विरजाः पर आकाशादज आत्मा महानिति ।
स्तौति श्रुतिरहोरात्रं तवं तत् कवयो विदुः ॥ ४६ ॥
शब्दादीनां च तन्मात्रा यत् कण्ठादिषु (तु) स्थिता।
तावदेव स्मृतिध्यानं समाधिः स्यादतः परम् ॥ ४७ ॥
धारणा पञ्चनाडी च ध्यानं स्यात् षष्टिनाडिकम् ।
दिनद्वादशकेन स्यात् समाधिः प्राणसंयमात् ॥ ४८ ॥
अम्बुसैन्धवयोः साम्यं यथा भवति योगतः ।
तथात्ममनसोरक्यं समाधिः सोऽभिधीयते ॥ ४९ ॥
यदा संक्षीयते प्राणो मनश्च प्रविलीयते ।
तदा समरसत्वं यत् समाधिः सोऽभिधीयते ॥ ५० ॥
यत् समत्वं द्वयोरत्र जीवात्मपरमात्मनोः ।
समस्तनष्टसङ्कल्पः समाधिः सोऽभिधीयते ॥ ५१ ॥
२
३
तृतीयः प्रबोषः।
इन्द्रियेषु मनोवृत्तिरल्पापेक्षा निरन्तरम् ।
यस्तु सर्वाणि भूतानि पश्यत्यात्मनि संयमी ॥ ५२ ॥
आत्मानं सर्वभूतेषु स ततो नाभिलिप्यते ।
भूम्यम्ब्वग्न्यनिलाकाशाद बहिः किञ्चिन्न विद्यते॥५३॥
त(म ? प)सा तत् समं सर्वं योगिनां न तु कर्मिणाम् ।
एवं कृतं सारमसारमेवं
तावद्विवक्ष्येति मनुष्यलोकः ।
एवं नरो वेत्ति परं न तत्त्वं
ज्ञाते परे तत्त्वमिदं समस्तम् ॥ ५४ ॥
सर्वत्र शास्त्रागमशब्दजाल-
यत् कथ्यते ब्रह्म परं मुनींद्रैः ।
तत्त्वं यदा तद् भवति प्रसन्न
भूयः किमेतैः श्रमदैविवादैः ॥ ५५ ॥
उपाधिरन्यथा ज्ञानं तत्त्वसंस्थितिरन्यथा ।
(कु ? गु)ञानां पुजवद् भाति सन्निधौ स्फाटिको
[माणिः ॥ ५६ ॥
सन्मणीनां यथा हारे प्रत्येकं दृश्यते गुणः ।
बहिरन्तश्च भूतेषु तद्वदात्मा विराजते ॥ ५७ ॥
यथा काष्ठगुणे वह्निः कुम्भतोयेषु भास्करः ।
एकोऽप्यनेकधा भाति बहुधा भूतपक्तिषु ॥ ५८॥
वापीकूपतटाकादौ विवस्वानिव लक्ष्यते ।
आत्मा भूतगुणे भाति न तत्र परमार्थतः ॥ ५९ ॥
विवेकमार्ताण्डे अग्राह्यं गगनं भाण्डे बहिरन्तःस्थितं यथा । आब्रह्माण्डघटे तद्वत् परमात्मा विराजते ॥६० ॥ लीयते हि यथाकाशं घटे भिन्ने सहस्रधा । तथात्मा न क्षयं याति शरीरे प्रलयं गते ॥ ६१॥ आस्मा देहविनाशेऽपि निर्मलो निरुपद्रवः । महीकूपजलाभावे नाभावो विद्यते रवेः॥ ६२ ॥ क्षायन्त सर्वभूतानि परमात्मा न हीयते । काष्ठमेव भवेद् भस्म न तत्स्थः क्वापि पावकः ॥ ६३ ॥ तोये गते किन्नु गतो मृगाङ्को नीते (घटे) किं गगनं प्रयाति । आत्मा शरीरेषु चलेषु नित्यो निगद्यते निश्चल एक एव ॥ ६४ ॥ सृष्टिस्थितिप्रलयमति शरीरमेव नात्मा प्ररोहति न तिष्ठति न प्रयाति । जाता स्थिता हि विगता गगने घनाली नैवाम्बरं प्रचलितं वदतीह कोऽपि ॥ ६५॥ न गोपुरं बिम्बजलादिदृश्य व्योमेव तारकायुक्तं तद्वदनेकशरीरे समस्तको भाति परमात्मा (?) गवाक्षेष्वनेकेषु संवीक्ष्यमाणं यथैकं नभो भात्यनेकप्रकारम् । शिवः सर्वसंस्थः सदानन्दकन्दः स्थितो देहसंवेष्टने (को? सो)ऽयमात्मा॥६६ ॥ ।
तृतीयः प्रबोषः। निस्तरङ्गे जले यद्वदापादतलमस्तकम् । पश्यत्यभिन्नमात्मानं तद्वन्मनसि (संयमी) ॥ ६७ ॥ निर्मले दर्पणे यद्वत् प्रतिरूपं च पश्यति। विमले मानसे योगी तद्वदात्मानमात्मनि ॥ ६८ ॥ आत्मनो मनसि ध्यानं वाचि नैवात्मनः कथा । क्रियायामात्मनः कर्म कुर्वन्नात्ममयो भवेत् ॥ ६९ ॥ सत्त्वाख्यगुणसम्बन्धात् संस्थाप्य महतीं प्रभाम् । दृढमन्तःस्थितो योगी तमो हन्ति प्रदीपवत् ।। ७०॥ स्नेहक्षये गुणाढ्योऽपि तेजस्वी सर्वदर्शनः । न निर्वाणं गतो योगी व्यावर्तयति दीपवत् ॥ ७१ ॥ स्नेहसूत्ररहिता निरुद्यमाः कर्म युक्तिपुरसत्यवादिता ! के समीपमयुगेत्ययोगवान् पुत्रमित्रपशुपालवान् भवेत् (?) ॥७२ ॥ अन्धकारं निराचष्टे सामर्थ्येन हितं यथा । अज्ञानादसि संसारे ज्ञानान्मुक्तिस्तथात्मनि ।। ७३ ॥ यदा मनो नष्टसमस्तदोषं शान्तिं दधानं विषयावसानम् । त(थै? दै)व मुक्तिः कथिता मुनीन्द्रैः किं देहपातादपवर्गसिद्धिः ॥ ७४ ॥ इति शतगुणाचार्यतनयविश्वरूपदेवविरचिते विवेकमार्ताण्डे सङ्कल्पविकल्पच्छेदोनाम तृतीयः प्रबोधः ॥
२६ विवेकमार्ताण्डे अथ चतुर्थः प्रबोधः। अथ कालस्य विज्ञानं प्रवक्ष्यामि यथाश्रुतम् । जीवितं मरणं योगी यतो जानाति निश्चितम् ॥१॥ प्रोच्यते कलसलमाने विधिरेष यतो बुधैः । कलाकाष्ठानिलेषादिरतः कालोऽभिधीयते ॥ २॥ श्वासोच्छासात्मकः प्राणः पड्भिः प्राणैः फलं स्मृतम्। फलैः षष्टिभिरेव स्याद् घटिका कालसंङ्ख्यया ॥३॥ प्राणानामधिकं षष्टया घटिकायां शतत्रयम् । भवन्ति प्रहरे पूणे शतानां सतविंशतिः ॥ ४ ॥ घटिकाभिरहोरात्रं षष्टिभिः किल जायते दिनं त्रिंशद्भिाख्यातं निशा त्रिंशद्भिरुच्यते ॥ ५ ॥ मासस्त्रिंशदहोरात्रै रेको द्विमासिकः । ऋतुभिः षभिरब्दं स्यादयनं त्वृतुभिस्त्रिभिः ॥६॥ अह्नां षष्टयधिकानि स्युः शतानि त्रीणि वत्सरे । मासाः संक्रान्तयो वापि द्वादशैव प्रकीर्तिताः ॥७॥ एवं षट्शतयुक्तानि सहस्राण्येकविंशतिः। घटिका वर रे पूर्णे ब्रुवते कालवेदिनः ॥ ८॥ चतुस्सहस्रहीनानि लक्षाणीह त्रयोदश । घटिकानां प्रजायन्ते षष्टिवर्षगणैः शुभैः ॥ ९ ॥ अष्टादशघटील:रुक्तं चन्द्रसहस्रकम् । १. 'कन्यका' स. पाठः. ..
: चतुर्थः प्रबोषः धन्या जीवन्ति संसारे कुर्वाणाः सुकृतं सदा ॥ १०॥ चन्द्रलक्षश्च नाडीनां तथाष्टादशकोटयः । पश्यन्ति योगिनो धीराः परमानन्दचेतसा ॥ ११ ॥ नवाम्बुजानि जायन्ते त्रयस्त्रिंशच्च कोटयः । तथा द्वादशलक्षाणि घटिकानां कलौ युगे ॥ १२ ॥ अष्टादशाम्बुजानि स्युः षट्षष्टिरिह कोटयः । चतुर्विंशतिलक्षाणि घटिका द्वापरे स्मृताः ॥ १३ ॥ सप्तविंशतिरब्जानामेकोनशतकोटयः । षटत्रिंशदिह लक्षाणि त्रेतायां घटिकाः स्मृताः ॥१४॥ सप्तत्रिंशत्सरोजानि द्वात्रिंशच्छतकोटयः। अष्टौ लक्षाणि नाडीनां चत्वारिंशत् कृते युगे ॥ १५ ॥ मासो यस्तु मनुष्याणां भवेत् पक्षद्वयात्मकः । तत्पितॄणामहोरात्रं प्रवदन्ति मनीषिणः ॥ १६ ॥ यो वत्सरो मनुष्याणामयनद्वयसंयुतः । देवानां तदहोरात्रं चन्द्रसूर्यात्मकं विदुः ॥ १७ ॥ क्षीयन्ते मनवः सर्वे पतन्तीन्द्राश्चतुर्दश । प्रलयं यान्ति भूतानि ब्रह्मणो दिनमध्यतः ॥ १८ ॥ चतुर्युगसहस्रेण दिनं सृष्टिकरं भवेत् । एतावती निशा धातुः सर्वसंहारकारिणी ॥ १९ ॥ चतुर्युगसहस्राभ्यामहोरात्रं च शाश्वतम् । एवं ब्रह्मा जगत्कर्ता शतं वर्षाणि जीवति ॥ २० ॥ १. 'ळानि' ग. पाठः.
२८ विवेकमार्ताण्डे ब्रह्मणो जीविताब्देन वैष्णवं कथ्यते दिनम् । विष्णुरेवं महाभूतः शतं वर्षाणि जीवति ॥ २१ ॥ विष्णोरब्दशतेनैव रुद्रस्य दिवसो भवेत् । एवंविधो महादेवः शतं वर्षाणि जीवति ॥ २२ ॥ कल्पो ब्रह्मदिनं प्रोक्तं महाकल्पो दिन हरेः । आदिकल्पो दिनं शम्भोरेवं कालपरम्परा ॥ २३ ॥ अथ किं बहुनोक्तेन यावत् सङ्ख्या प्रवर्तते। तावत् कालभयं पुंसामिति शास्त्रस्य निश्चयः ॥ २४ ॥ उक्तं बाह्यमहोरात्रं यत् प्रमाणं मनीषिभिः । प्राणो घटी भवेत् प्राणैरहोरात्रं तु षष्टिभिः ॥ २५ ॥ षष्टिभिस्तैरहोरात्रैर्ऋतुराभ्यन्तरो मतः । वर्षे षडतवो ज्ञेया मासा द्वादश विश्रुताः ।। २६ ॥ सङ्क्रान्तयोऽपि तावत्यः कुलीरमकरादयः । चरस्थिरविभागाश्च मेषाद्या राशयः स्मृताः॥ २७॥ कुर्वन्ति सर्वकालेषु स्वनामसदृशं फलम् । घटीभिः पञ्चभिर्मासः पञ्चभिः संक्रमो भवेत् ॥ २८ ॥ ऋतुर्दशभिराख्यातस्त्रिंशद्भिरयनं तथा । अयनद्वयसंयुक्तं वर्ष स्यात् षष्टिनाडिकम् ॥ २९ ॥ चैत्रमासादितः कृत्वा क्रमेणैव विचारयेत् । पूर्वाह्ने चैत्रवैशाखौ वसन्तो घटिका दश ॥ ३०॥ १. 'षष्टचा शतत्रयेण स्याद् वत्सरोऽभ्यन्तरो मतः ।' ग. पाठः.
..
२९
चतुर्थः प्रबोषः।
ज्येष्ठाषाढौ तु मध्याह्ने ग्रीष्मकालोऽभिधीयते ।
नभोभाद्रपदौ वर्षा अपराह्ने घटिका दश ॥ ३१ ॥
आश्विनः कार्तिको मासः पूर्वरात्रेऽस्ति शारदः ।
मार्गशीर्षस्तथा पुष्यो हेमन्तो रात्रिमध्यतः ॥३२॥
शिशिरो रात्रिपर्यन्ते माघफाल्गुनसंयुतः ।
विषुवाख्यः सदा चैत्रे जायते मेषसंक्रमः ॥ ३३ ॥
वैशाखे मेषसंक्रान्तिज्येष्ठे मिथुनसंक्रमः ।
आषाढे कर्किसङ्क्रान्तिः प्रोच्यते दक्षिणायनम्
[॥ ३४॥
श्रावणे सिंहसङ्क्रान्तिः कन्यासक्रान्तिर्भाद्रपदे ।
आश्विने तुलासङ्क्रान्तिवृश्चिकाख्या तु कार्तिके॥३५॥
मार्गशीर्षे च धनुषः पुष्ये मकरसम्भवः ।
मकराख्या तु सङ्क्रान्तिरुत्तरायणसंज्ञिता ॥ ३६ ॥
माघे तु कुम्भसङ्क्रान्तिः फाल्गुने मीनसंक्रमः ।
मेषं च मिथुनं सिंहं तुलाकामुककुम्भकाः ॥ ३७ ॥
षडेते पिङ्गलामार्गे प्रवर्तन्ते यथाक्रमम् ।
वृषभः कर्कटः कन्या वृश्चिको मकरस्तिमिः ॥ ३८ ॥
एतेषामुदयो नित्यं वाममार्गेण जायते ।
यस्मिन् भासे तु यो राशिः स तत्रैवोदितः शुभः
[॥ ३९ ॥
अन्यथा दुःखितः स स्यादिति शास्त्रस्य निश्चयः ।
अष्टादशशतान्याहुः प्राणानां सङ्क्रभे सदा ॥१०॥
३० २ .. विवेकमाताडे तो षत्रिंशदुक्तानि त्रिगुणान्ययने तथा । पट्शतानि भवत्येवं लहस्राण्येकविंशतिः ॥४१॥ प्राणानामन्तरे वर्षे सङख्येयं कथिता बुधैः । बाह्यमाभ्यन्तरं चैव कालमानं द्विधा स्थितम् ॥ ४॥ चन्द्रभास्करचारेण ज्ञायते खलु नान्यथा । इडायां चन्द्रमाः प्रोक्तः पिङ्गलायां दिवाकरः ॥ ४३ ॥ सुषुम्नायां भवेद् वह्निरेक एव सदागतिः । इडाख्या चोत्तरा नाडी पिङ्गला दक्षिणा स्मृता ॥४४॥ सुषुम्ना मध्यमा सा तु यत्र सङ्क्रमते खगः । इडा विनिर्गमे श्रेष्ठा प्रवेशे पिङ्गला शुभा ॥ ४५ ॥ शस्यते मध्यमा नाडी सुषुम्ना योगसाधने । इडायां प्रमदा प्रोक्ता पिलाया च पूरुषः ॥ १६ ॥ नपुंसकं सुषुम्नायां प्रश्नकाले तु लक्षयेत् । नाडी यथोक्तलाभाय प्रोच्यते प्राणवाहिनी॥ ७॥ यतः प्राणो भवेत् पुंसामर्थनाशाय सर्वदा। सर्वासामपि नाडीनामहितः प्राणनिर्गमः ॥४८॥ प्रवेशोऽभिमतं कार्य साधयेत् पृच्छकस्य हि । अग्रतो वामतश्चोर्ध्व यं यं पृच्छति संस्थितः॥४९॥ तत् तथैवेति निर्दिष्टं सफलं हिमरश्मिना । अधो दक्षिणतः पृष्ठे स्थितः पृच्छति यः सदा ॥ ५० ॥ सत्सर्व सफलं कार्य जायते चण्डरश्मिना। यदन्यत्र चरेज्जीवा विशत्यन्यत्र साधकः ॥ ५१ ॥ १. 'स' ग. पा. २. 'प्राप्तः'. पाठः.
चतुर्थः प्रयोधः । तद् रिक्तं निष्फलं प्राहुरन्यथाचरितं शुभम् । यात्रा पूजा जपो यज्ञो विवाहो दानसुरसवः ॥ ५२ ॥ नियमः शान्तिक कर्म सौख्यं सौम्येन सिध्यति । विवादे सगरे द्यूते सन्नाहे जनमैथुने ॥ ५३ ॥ आहितोच्चाटने कार्ये दीप्तो भानुः प्रशस्यते । निर्गमे वा प्रवेशे वा कलहे शान्तिकेऽपि वा ॥ ५४ ॥ वर्जयेन्मध्यमाचारं विना विज्ञानसाधनम् । गृहाच्चन्द्रण निर्यातः प्रविष्टो भानुना रणे ॥ ५५ ॥ शून्याङ्गं वैरिणं कृत्वा कातरोऽपि जयी भवेत् । निष्क्रान्तो भानुना गेहात प्रविष्टः शशिना रणे ॥५६॥ जीवाङ्गो यस्य या वैरी स शूरोऽपि विनश्थति दस्यवः शत्रवो भूपाः कितवा व्यवहारिणः॥ ५७ ॥ एते शून्यगताः सौम्याः पूर्णस्याभयदाः स्मृताः । पूर्वामुदीची शशिनः प्रवाहे भानोः प्रतीची दि++क्षिणां च । प्रश्ने विधाय व्यसनाय युक्तः सर्वेषु कार्येषु जयं लभेत ॥ ५८ ॥ प्रवृत्तिः पञ्चतत्त्वानामेकैका घटिका स्मृता। इडापिङ्गलयोरेव वायुचारेण लक्षयेत् ॥ ५९ ॥ वायोराद्या द्वितीयाग्नेस्तृतीया घटिका भुवः । चतुर्थी वरुणस्यैव पञ्चमी नभसो भवेत् ॥ १०॥ - विवेकमाता अम्लश्च वर्तुलो नीलो मारुतश्चतुरङ्गुलम् । तिर्यग्वहति नासायां वर्जितः शुभकर्मसु ॥ ६१ ॥ त्रिको(णो) लोहितस्तीक्ष्णो वहिरष्टाङ्गुलो मतः । ऊचं वहति ना(नासा)यां शुभकर्मणि न स्मृतः॥ ६२ ॥ पीता ज्वाला चतुष्कोणा जगती द्वादशाङ्गुला । मध्ये वहति नासायां सिद्धिदा सर्वकर्मसु ॥ ६३ ॥ अर्धचन्द्रामृतं तोयं कषायं षोडशाङ्गुलम् । अधो वहति नासायां सर्वदा शान्तिकारकम् ॥ ६४॥ अप्रमाणमनाकारमवर्णमरसं शिवम् । कथ्यते सर्वसंख्याने सर्वकामक्षयङ्करम् ॥ ६५॥ आग्नेयं वायवं योगं नाभसं तु विवर्जयेत् । सर्वदा सर्वकार्येषु न विद्यादीप्सितं फलम् ॥ ६६ ।। बृहस्पतिः स्मृतो वायो शुक्रो वह्नौ बुधो भुवि । इन्दुरप्सु वसन्त्येते वाममार्गे शुभा ग्रहाः ॥६७ ॥ पवने राहुरस्त्यनौ कुजो भूमौ दिवाकरः। जले शनैश्चरो ह्येते घोरा दक्षिणतो ग्रहाः ॥८॥ शुभाः शुभेषु कार्येषु घोरा घोरेषु सिद्धिदाः । अन्यथा फलहन्तारो ग्रहाः सर्वे प्रकीर्तिताः ॥ ६९ ॥ गुरुशुक्रबुधेन्दूनां वारे स्याद् वामनाडिका । सिद्धिदा सर्वकार्येषु शुक्लपक्षे विशेषतः ॥७॥ १. 'प्य' ख. पाठः, : । चतुर्मः प्रबोधः । अमङ्गलसौरीणां वारे वै दक्षिणा स्मृता । फलदा सर्वकार्येषु कृष्णपक्षे विशेषतः ॥ ७१ ॥ इडायां पिङ्गलायां वा यत्र वायुः प्रवर्तते । आदौ तद् वादमुद्धृत्य यात्रायां लभते फलम्॥७२॥ शुक्लप्रतिपदि वामा कृष्णायां पिङ्गला वहाधसि । त्रीणि त्रीणि दिनानि च वायोरेवं गतिः शुभदा ॥७३॥ प्रत्यूषे क्वचिदथवा प्रवहति पवनश्च यस्य विपरीतः । योगवियोगसमुत्थं विन्दत्यचिरेण दुःखं सः ॥ ७ ॥ प्रथमे कलहप्राप्तिरर्थनाशो द्वितीयके । तृतीये तु प्रवासः स्याच्चतुर्थे मित्रखण्डनम् ॥७५ ।। पञ्चमे देहविध्वंसः षष्ठे देशाधिक्षयः । सप्तमे विरहक्लेशो जायते मृत्युरो ॥७६ ।। एवमेव विजानीयाद दशपञ्चदिनोदयम् । पक्षद्वयेऽपि मेधावी वामदाक्षिणमारुतात् ॥ ७७ ॥ मासादौ वत्सरादौ च पक्षादौ वा यदा तदा। क्षयकालं परीक्षेत वायुचारवशाद् बुधः॥७८ ॥ अहोरात्रं यदैकत्र वहते यस्य मारुतः। तदा तस्य भवत्यायुः सम्पूर्ण वत्सरत्रयम् ॥ ७९ ॥ अहोरात्रद्वयं यस्य पिङ्गलायां सदागतिः । तस्य वर्षद्वयं प्रोक्तं जीवितं कालदर्शिभिः ॥ ८ ॥ १. 'कोकारकसौ, २. 'घटते' ग. पाठः, , विवेकमााण्डे त्रिरात्रं वहते यस्य वायुरेकपुटे स्थितः । मासा द्वादश तस्यायुः प्रवदन्ति विपश्चितः ॥ ८ ॥ दशरानं यदा वाति भानुरेवं निरन्तरम् । तदा कालभयं पुंसां मासस्यान्ते भविष्यति : ८२ ॥ मासमेकं यदा वाति पिङ्गलायां प्रभञ्जनः । दिनमेकं ततो जीवेत् ततो याति यमालयम् ॥ ८३ ॥ प्राणो यस्य दशाहानि वामदक्षिणतः क्रमात् । संक्रान्त्या रहितो वाति तस्यानुः संक्रमावधि ॥ ८४॥ त्यक्तसंक्रमणो यायमासमेकं बत् खगः । मध्याहात् परतो ही स कालर मुखं विशेत् ॥८५॥ स्पन्दते विषुः यस्य युरपन्नयनाय । स सद्यो निननं शाति बहुवाधि *क्षितः ॥८६॥ संक्रान्त्यः शिशिरादीनां पडाद्या चाः प्रकीर्तिताः । ताभ्यः कालं परीक्षेत योगी पञ्चदिनावधि ॥ ८७॥ माघसंकान्तिमारभ्य पञ्चरात्रं समीरणः। पिङ्गलायां गतो लक्ष्येज्जीवितं वत्सरत्रयम् ॥ ८८ ॥ चैत्रमासं समारभ्य यस्य पञ्च दिनानि च । दक्षिणो वहति प्राणः षड् वर्षाणि स जीवति ॥ ८९ ॥ ज्येष्ठमासस्य संक्रान्तो पञ्चरात्रं दिवाकरः । वर्तते यस्य तस्योक्तं नव वर्षाणि जीवितम् ॥ ९॥ । १. 'सदागतिः' ग. पाठ:.
चतुर्थः प्रवाषः । यदा श्रावणसंक्रान्ती पञ्चाहं वर्तते रविः। तदा द्वादशवर्षान्तात् काष्ठशय्यां समाश्रयेत् ।। ९१ ॥ अथाश्विनस्य संक्रान्तौ पश्चाहानि च भास्करः। वहते यस्य तस्यायुः समाः पञ्चदश स्मृताः॥ ९२ ॥ मार्गशीर्षस्य संक्रान्तौ पञ्चाहानि खगेश्वरः । वहते यस्य तस्यायुरष्टादश सभाः स्मृताः ॥ ९३ ॥ यदैवं दैवयोगेन वहते रोहिणीपतिः । तदैवं विविधा पीडा जायते मरणं विना ॥ ९४ ॥ अनिर्दिष्टेषु मासेषु संक्रान्त्यो या भवन्ति षट् । एवं ताभ्योऽपि जानीयाश्चन्द्रेण क्षयमात्मनः ॥ ९५ ॥ जन्मऋक्षे यदा चन्द्रो भानुश्च समससके । तदा पोष्णो भवेत् कालो मृत्युनिश्चयकारकः ॥ ९६ ॥ तस्मिन् पोष्णे काले प्र(हर ? वह)त्येवं यदा भानुः। जीवेत् षोडशवर्ष दैवाद् देही न सन्देहः ॥ ९७ ।। यामद्वितयं पोष्णे काले यस्य प्रवर्तते सूर्यः । तस्य चतुर्दशवर्ष जवितमुक्त स्फुट तज्ज्ञः॥९८ ॥ यामचतुष्टयमथवा यदेव पौणे दिवाकरो वहति । जीवितमाहुः कृतिनो द्वादशवर्षं तादह नूनम्॥ ९९॥ काले पौष्णाभिधे तस्मिन्नहोरात्रं सदागतिः वहते दक्षिणो यस्य स जीवेद् दश वत्सरान् ॥१००॥ १. 'दा भवेद् भा' ख. पाठः.
विवेकमाताओं द्विदिनं त्रिदिनं वापि पिङ्गलायां सदा मरुत् । अष्टवर्ष सदा प्रोक्तं पडन्द जीवितं स्मृतम् ॥१०१॥ चतुरो दिवसान् पञ्च पिङ्गलायां ततोऽनिलः। चतुर्थे वत्सरेऽपूर्णे तृतीये मृत्युमाविशेत् ।। १०२ ॥ षड्दिनं वहले यस्य पोष्णयोगे दिवाकरः । चतुर्विंशत्यहोहीनं त्रिवर्षं तस्य जीवितम् ॥ १०३ ॥ रविः सतदिनं यस्य पोषण योगे प्रवर्तते । जीवे सोऽष्टादशाहानि नव मासान् समाद्वयम् ॥१०४॥ वायुरष्टदिन रास्वहित दक्षिणे पुटे । दे वर्ष तक माला श्रद दिनानि स जीवति ॥१०५॥ नवरात्रं दशाह वा दृश्यते यस्य भास्करः। विवर्ष सचतुर्मास जीवे. वत्सरयम् ॥ १०६ ॥ एकादशदिनं वायुर्वहते यस्य दक्षिणे। चतुर्विंशदहोहीनं स जीवेत् वत्सरहयम् ॥ १०७ ॥ एकदा द्वादशाहानि वहते यस्य दक्षिणे। वर्ष साष्टादशाहं तु नव मासान् स जीवति ॥ १०८ ॥ प्रयोदशदिनं यस्य वहते वायुरेकतः। ससमासाधिकं वर्षं स जीवेत् षड्दिनोत्तरम् ॥ १०९॥ वहते चतुर्दशाहानि पौष्णयोगे यदा रविः । चतुर्मासाधिकादब्दादूचं याति यमक्षयम् ॥ ११० ॥ १, 'हां पौष्णे योगे यदापि दक्षखगः।' ख. पाठः, । चतुर्थः प्रचोकः। पक्षमेकं वहेद् यस्य पौष्णे काले दिनाधिपः। स हि संवत्सरादूर्ध्व क्षणमेकं न जीवति ॥ १११॥ पवनः पिङ्गलामार्गे यस्य षोडशवालरान् । दिनद्वादशहीने तु वर्षान्ते तस्य संक्षयः॥ ११२॥ यस्य सप्तदशाहानि पिङ्गलायां समीरणः । तस्यैकादशमे मासे षदिनोने क्षयो भवेत् ॥ ११३॥ अष्टादशदिनं यस्य वहते दक्षिणानिलः । स द्वादशदिनन्यूनान् दश मासान् प्रजीवति ॥११४ ॥ अहामेकोनविंशत्या पवनः पिङ्गलागतः । कथयत्यष्टमे मासे निश्चितं मरणं नृणाम् ॥ ११५ ॥ यस्य विंशत्यहोरात्रं वहते पिङ्गलानिलः । स गच्छति यमस्थानं षण्मासान्ते न संशयः ॥११६॥ एकविंशत्यहोरात्रं वहते यस्य भास्करः । षदिनोनं तु षण्मासं स च जीवति मानवः॥११७॥ द्वाविंशतिदिनं यस्य दक्षिणे प्रबलोऽनिलः । दिनद्वादशसंयुक्तान् पञ्च मासान् स जीवति ॥ ११८॥ प्रयोविंशतिरात्राणि सूर्यो यत्र प्रवर्तते । तस्यायुः कथ्यते पञ्च मासाः षड्दिनवर्जिताः॥११९ ॥ चतुर्विशतिमहां तु पञ्चविंशतिवासरान् । वहते हि चतुर्मासं त्रिमासं जीवितं भवेत् ॥ १२० ॥ १. 'नान्ते' ख. पाठः.
विवेकमान अङ्गुल्या पीडितस्य स्फुरति न पविसा(?) वामनासाप्युपान्ते नैवोचं नासिकान्ते नतु किमपि चल- चक्षुषश्चान्द्रिकं स्यात् । षभिभ्यिां त्रिभिः स्यान्मरणमिह नृणा- मेकमासेन नूनं यथेवं भानुनेत्रे दिगनलशरभू- संख्यया वासराणाम् ॥ १४०॥ स्वच्छायामवलोक्य निश्चलहशा सोमार्कयोरुद्दमे संपश्येत् प्रचुरायुरम्बरतले शुद्धं समयं नरम् । निर्वाहुञ्च समायुग्म्बरगतं वर्षायुरधिं विना षण्मासायुरसंयुतञ्च शिरसा दोषाय कृष्णं विदुः [॥ १४१॥ जीवं विष्णुपदत्रयं सुरपदं षण्मातृकामण्डलं तारापुञ्जमरुन्धतीममृतगोः शुक्र ध्रुवं लाञ्छनम् । एतेष्वेकमतिस्फुटं तु पुरुषः पश्येन्न यः प्रेक्षितः सोऽवश्यं विशतीह कालसैदने संवत्सरादातुरः [॥ १४२॥ प्रभवति पटुदृष्टेः केसरालः कृशानुः शशधरसमबिम्बो यस्य वा भाति भानुः । १. 'सन्मात्रका ॥' ख. पाठः, २. व ग. पाठः.
चतुर्थः प्रबोधः। । विगलितसकलायुः प्रेतराजस्थ साक्षा- दतिथिरिह स देही मासि चैकादशे स्यात् ॥१४३॥ जनानमरजातीयान् गन्धर्वनगरान्नरः यः पश्यति विधौ वामे दश मासान् स जीवति ॥१४४॥ क्वचित् पश्यति यो दीप्तं सौवर्ण वृक्षकाननम् । विरूपाणि च भूतानि नव मासान् स जीवति ॥ १४५॥ स्थूलाङ्गो हि कृशः कृशो हि सहसा स्थूलत्वमाल- [म्बते श्यामो वा कनकप्रभो वा भवेत् कृष्णश्च गौरच्छविः । शूरो भीरुरघी च धर्मनिपुणः शान्तो विकारी पुमा- नित्यादि प्रकृतेरुशन्ति चलनं मासेऽष्टमे मृत्युदम् [॥ १४६॥ पीत्वा जलं यस्य न याति तृष्णा भुक्त्वा भृशं नो धृतिरस्ति यस्य । शक्तिक्षयो वा तनुवर्णलोपो मासेऽष्टमे तस्य हि कालघातः ॥ १४७ ॥ खण्ड भवंद्यस्य पद कदाचित पकाकुले वा पथि पांसुले वा । स सप्तमे मासि विहाय सर्व प्रयाति याम्यं सदन मनुष्यः ॥ १४८॥ 'स', ४. 'भूत्वा', १. 'सु', २. 'गौरस्तु कृष्णच्छ', ३. ५. 'भू' ग. पाठः.
विवेकमार्ताण्डे पीडा भवेत् पाणितले च जिह्वा- मूलं वेशूलं रुधिरं च कृष्णम् । वृद्धिर्न रोम्णामपि यत्र दृष्टो जीवेन्मनुष्यः स हि सप्त मासान् ॥ १४९ ॥ मध्याङ्गुलीनां त्रितयं न चक्र रोगं विना शुष्यति यस्य कण्ठः । मुहुर्मुहुः प्रस्रवणं च जाड्यं षड्भिः स मासैः प्रळयं प्रयाति ॥ १५० ॥ काकोलूककपोतसूकरखरध्वाक्षैः कथञ्चित् पुरा नुत्येनामिषलम्पटेन पटुना यो भक्ष्यते पक्षिणा । षण्मासात् पतितः स भीषणतरं पश्यत्यवश्यं यम यद् राधेण जटायुषा न किमसौ दृष्टः पुरा रावणः [॥ १५१ ॥ आच्छाद्यते कर्कशकाकपङ्क्त्या चापूर्यते वा घनपासुवृष्टया । आताड्यते यस्तु चिरं भ्रमर्या स्यात् पञ्चमे मासि गतायुरेव ॥ १५२ ॥ यस्य स्वदेशेऽपि दिशा विमोहो नो पूर्वदृष्टस्य निवेदनं स्यात् । दीपे प्रणष्टे नतु वेत्ति गन्धं मासैश्चतुर्भिनिधनं स गच्छेत् ॥ १५३ ॥ १. 'तु शू', २. 'टौ' ख. पाठः, चतुर्थः प्रबोधः । यस्य मस्तकमारुह्य सरटो बहुवर्णकः । दर्शयत्यपरं रूपं चतुर्मासं स जीवति ॥ १५४ ॥ यस्य न स्फुरति ज्योतिः पीडिते नयनद्वये । मरणं तस्य निर्देश्यं चतुर्थे मासि निश्चितम् ॥ १५५॥ छाया शिरस्यूर्ध्वगतापि तन्वी सूर्योदये वान्तरधूमवर्ती। या दृश्यते पञ्चदिनानि यस्य त्रिभिः स मासैनिधनं प्रयाति ॥१५६ ॥ ऋक्षाणि कष्टानि च यस्त्वकस्मा- च्छायां निजां पश्यति मूर्धहीनाम् । घण्टास्वनं यः शृणुते रतान्ते मासत्रयात् तस्य वदन्ति मृत्युम् ॥ १५७ ॥ तारा दिवा दिक्षु रजोनिपातं यो विद्युतं पश्यति खे निरभ्रे । इन्द्रायुधं वा स्वयमेव रात्रौ मासद्वयात् तस्य वदन्ति नाशम् ॥ १५८ ॥ पश्यत्यकस्माद् बककाकहंस- शिखण्डिनामागमनं नरो यः। दिवा महोल्कापतनं स नूनं मासद्वयादूर्ध्वमुपैति मृत्युम् ॥ १५९ ॥ न यस्य गन्धं न रसं न रूपं गृह्णाति नासा रसना च चक्षुः। 'कर' गपाठः, १.
.४४ विवेकमार्ताण्डे चलत्यकस्माद् वदनं प्रवक्तुं स मासतः प्रेतपतिं प्रयाति ॥ १६०॥ सूर्योदये फूत्कुरुले मनीषी वक्रेण नित्यं जलपरितेन । यदेन्द्रचापप्रतिमं न जो ज्ञेयस्तथा मृत्युर दूरवर्ती ॥ १६१ ॥ नेत्राग्रस्थितया यस्य काङ्गुल्यापि दृश्यते। उदितः पूर्णिमाचन्द्रो मारसमेकं स जीवति ॥ १६२ ॥ लोचनप्रन्थिका यस्य कराङ्गुलगा न लिप्यते । भाति भानुरमावास्यां मासमेकं स जीवति ॥ १६३ ॥ कनिष्ठिकाङ्गुलेः पर्व स्यात् कृष्णं मध्यमं यदा । तदायुः प्रोच्यते पुंसामयादशदिनावधि ॥ १६४ ॥ घृते तैले जले वापि दर्पणे यस्तु पश्यति । शिरोरहितमात्मानं पक्षमेकं स जीवति ॥ १६५ ॥ शैत्यं विदध्यात् तपनोऽपि यस्य सन्तापकारी ननु शीतरश्मिः । न वेत्ति यो वा तुहिनं न चोष्णं स पक्षमेकं खलु तिष्ठतीह ॥ १६६ ॥ छिद्रं धरण्यामथवार्कबिम्बे छायाश्रितं पश्यति यस्त्वकरमात् । तस्यैव पुंसो दशमेऽह्नि कान्ता शोकाकुला मुश्चति भूषणानि ॥ १६७ ॥ २. 'नु' ग. पाठः. २ 'ग' ख. पाठः.
चतुर्थः प्रबोधः । स्नातमात्रस्य यस्यैतद् वपुः शुष्यति तलक्षणात ' हृदयं हस्तपादं च दशरात्रं स जी-ति । १६८ ।। नासानं रसनानश्च वक्ष व प्रसा। यो न पश्येत् पुरा ह सप्ताका १६१ ।। अर्धं च शीतं वपुवती दृश्येत किञ्चिन्या. मुहुर्मुहुर्यस्य मुखेप शो जीवेत् स सर्वत्र दिनाने . १९१० ॥ यस्य स्वदेशाचलितो नणं वक्त्रं च नासा मृदलामुन । पश्येन्न यो भ्रूयुगलस्य मध्यं जीवेत् स मर्वत्र दिने सत ॥ १७१ ।। वायुना पीडितस्यापि सिक्तस्य नसा सुहः देहे यस्य न रोमाञ्चः पञ्चरा स जीवानि ॥ १७२ ॥ जिह्वा कृष्णा मुखं रक्तं गात्राको सनोना। कुहरस्थस्वरो यस्य स जीवेद् देवमया ॥ १७३ ॥ रक्तोदृष्टिरुष्णास्यः शीतनाभिः सदा ऊर्ध्वश्वासो भवेद यश्च ना ? विष ॥ १७ ॥ पश्येत् सर्पिषि भास्करं पयसि को नई यदा पूर्वतो याम्ये पश्चिमतोऽपि सौम्पदिशि वा छिद्रान्वितं [ मध्यतः। षण्मासाद् द्वितयात् तथा प्रथमतः पक्षाद् दशाहात् तथा पञ्चाहान्म्रियते तु धूमशिखया सौख्यं तु शुद्धे रवौ। १. 'दौ', 'सद्रि' ख. पाठः, २. 'चा', ३,
विवेकमार्ताण्डे
द्वौ पक्षी हस्तयुग्मे तदनु तिथिगणं सर्वपर्वप्रदेश
सङ्क(रूपो ? हप्या)यं स्वबुद्ध्या स्तवजपसहितः शम्भु-
[मभ्यर्च्य रात्री।
कुर्याल्लाक्षारसा करतलयुगलं प्रातरुत्थाय पश्येत्
कृष्णं यत् पर्व तस्मिन्नहनि च मरणं स्यात्सिते
[वासिते वा ॥ १७६ ॥
यस्य क्षुधामूत्रपुरीषशुक्ला-
न्येतानि पुंसो युगपद् द्रवन्ति ।
तस्यां तिथौ मासि च पक्षवर्षात्
प्राणप्रयाणं प्रवदन्ति तस्य ॥ १७७ ॥
हीनचन्द्रबलो यस्तु हंसकाकशिखण्डिनाम् ।
सम्पश्येन्मैथुनं क्वापि तस्य मृत्युरदूरतः ॥ १७८ ॥
यः स्वप्ने भक्ष्यते गृधैः काकजम्बुककुक्कुटैः।
स तु संवत्सरादर्वाङ् म्रियते नात्र संशयः ॥ १७९ ॥
नरः पश्यति यः स्वप्ने पतितं चन्द्रमण्डलम् ।
राहुग्रस्तं तु वा हंसं दश मासान् स जीवति ॥१८० ॥
महिषेण वराहेण कृष्णसारेण वा पुमान् ।
स्वप्ने विदारितो यस्तु स जीवेन्नवमासिकम् ॥ १८१ ॥
हसन्तमपि जल्पन्तं भीतं क्षपणंक मुहुः ।
यो नरः पश्यति स्वप्ने सोऽष्टमे मासि गच्छति ॥१२॥
यः खप्ने पुरुषैः कृष्णैर्नीयते दक्षिणां दिशम् ।
महिषोष्ट्रखरारूढः सप्त मासान् स जीवति ॥ १८३ ॥
: चतुर्थः प्रबोधः। अनाति यो नरः स्वप्ने सुवर्ण रजतं तथा । उद्विरत्यथवा यस्तु स षष्ठे मासि सीदति ॥ १८४ ॥ स्वप्ने लोहितपीठस्थो लोहिताम्बरभूषितः । रक्तचन्दनदिग्धाङ्गः पञ्च मासान् स जीवति ॥ १८५ ॥ ऋक्षवानरमारुह्य यो गच्छेद् दक्षिणामुखः । गीयमानो नरैः स्त्रीभिश्चतुर्मासान् स जीवति ॥१८६ ॥ लोहदण्डधरं भीमं पुरुषं कृष्णपिङ्गलम् । यः स्वप्ने पश्यति क्रुद्धं त्रिभिर्मासैःस गच्छति॥१८७॥ यः पश्येत् सागरं शुष्कं (शुक्लां?) गङ्गामपि सरस्वतीम् । जलस्थानानि चान्यानि द्वौ मासौ तस्य जीवितम् ॥ यः स्वप्ने पतितं वृक्षात् प्रासादात् पर्वतादपि । अन्धकूपेऽथवा जाले मासमेकं स जीवति ॥ १८९ ॥ तैलं पिबति यः स्वप्ने पश्येत् तैलमयं सरः । तैलाभ्यक्तशरीरस्तु पक्षमेकं स जीवति ॥ १९० ॥ भस्माद्यस्थिभिरङ्गारैराकीणां सर्पसकुलाम् । नदी पश्यति यः स्वप्ने दशरात्रं स जीवति ॥ १९१ ॥ यः शपेत पिशाचेन गुह्यकेनापि ताडितः। प्रत्यक्षमथवा स्वप्ने दशरात्रं स जीवति ॥ १९२ ॥ गर्ने चापूरिते वह्नौ प्रवि(ष्टे ? टो) वा जले गतः । न निर्गच्छति यः स्वप्ने स जीवति दिनत्रयम् ॥ १९३ ॥ यस्तु मग्नं महापङ्के निरुच्छ्वासं निराश्रयम् । आस्मानं पश्यति स्वप्ने दिनमेकं स जीवति ॥ १९॥ १. 'स स्वप्ने लोहपी' ग. पाठः. २. 'कृष्णं शुक्लां गङ्गां स' ख, गठः.
१८ विवेकमातों विज्ञाय निश्चित कालं लक्षणैरेवमादिभिः । न भूयो म्रियते येन विद्वान् कर्म समाचरेत् ॥ १९५ ॥ तीर्थस्नान दानेन तपसा सुहुतेन वा । जपेन ध्यानयोगेन जायते कालवञ्चनम् ॥ १९६ ॥ जप्त्वा मृत्युञ्जय बस्तु जुत्यादयुतत्रयम् । तिलैराज्य स कुर्यात् कालवञ्चनम् ॥ १९७॥ एकारान्तमि सबिन्दु कथितं सायं सषष्ठवरं बीजं बिन्दुविभूषितं च परं प्रोक्तं विसर्गान्वितम् । मध्ये नामपदं निधाय विधिना सव्यापसव्यं जपे- न्मन्त्रं योऽक्षरलसख्यविधिना मृत्युं जयत्येव सः [॥ १९८॥ इति शतगुणाचार्यतनयश्रीविश्व(रूप)देवविरचिते विवेकगाताण्डे कालविज्ञानं नाम तुर्थः प्रबोधः ॥ एतद् विमुक्तिसोपानमतत् कालस्य वञ्चनम् । यद् व्यावतं मनो भोगादासक्त परमात्मनि ॥१॥ वपुरुत्पद्यते लोक व पुरव प्रलीयते । न कश्चिउजायते यात्मा विरजो हि परो ध्रुवः ॥ २॥ आत्माकाशमयस्तावच्चित्तं प्राणमयं भवेत् । तेजोमयस्त्वहङ्गारस्तथा रसमयं भनः ॥ ३ ॥ १. 'धात्, 'तदाच' ग. पाठः.
पञ्चमः प्रबोधः । : पृथ्वीमयं शरीरं स्यादिन्द्रियाणि च तन्मयम् । तथेन्द्रियमयो लोको व्यापारः कर्म तन्मयम् ॥ ४॥ तत्कर्म कविभिः प्रोक्तं पुण्यं पापमिति द्विधा । पुण्यपापमयो बन्धो देहिनां दुरतिक्रमः ॥ ५॥ कर्मबन्धमयी सृष्टिः संहारश्चैव तन्मयः । सम्भूतिं च विनाशं च यो जानाति स वेदवित् ॥ ६ ॥ सर्वेषामादिराकाशं निश्चलं शब्दलक्षणम् । जायते वायुराकाशाच्चञ्चलस्पर्शलक्षणः ॥ ७ ॥ नभस्समीरणाभ्यां स्यात् तत् तेजो रूपलक्षणम् । एवमादित्रयादापः सम्भूता रसलक्षणाः ॥ ८॥ नभोवाताग्निवारिभ्यो मेदिनी गन्धलक्षणा । आधारः सर्वभूतानां प्राप्ता विश्वम्भरा ततः ॥ ९ ॥ पञ्चानामपि तत्त्वानामेकैकश्च निजो गुणः। अत्रैकद्वित्रिचत्वारो दृश्यन्ते योनिजा गुणाः ॥ १० ॥ मरुतो योनिराकाशं वहेरेतद् द्वयं भवेत् । एतत्रयमपां प्रोक्तं क्षितेरेतच्चतुष्टयम् ॥ ११ ।। एवमेकगुणं व्योम हिगुणो वायुरुच्यते । तथैव त्रिगुणं तेजो भवन्त्यापश्चतुर्गुणाः ॥ १२ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । एतत्पञ्चगुणा पृथ्वी ब्रह्मणा(तिष्ठ? धिष्ठि)ता पुरा ॥ क्षितौ ब्रह्मा जले विष्णुस्तथा रुद्रो हुताशने । ईश्वरः पक्ने देवो व्योनि देवः सदाशिवः ॥ १४ ॥ H
विवेकमार्ताण्डे
तावदाकाशसङ्कल्पो यावच्छब्दः प्रवर्तते ।
निशब्दं तत् परब्रह्म परमात्मा स गीयते ॥ १५ ॥
पृथ्वी शीर्णा जले मग्ना जलं ग्रस्तं महाग्निना ।
वायुना शमितं तेजो व्यानि वातो लयं ययौ ॥ १६ ॥
आकाशात् सर्वमुत्पन्नं जगदेतच्चराचरम् ।
लीयते पुनराकाशे तस्मादाकाशमाश्रयेत् ॥ १७ ॥
बहिरन्तःस्थितं शुद्धं निरालम्बं निरामयम् ।
भावयन्मनसा व्योम मुच्यते जन्मबन्धनात् ॥ १८॥
परमानन्दसंस्पर्शकारणं विश्वधारणम् ।
भावयन् जगतः प्राणं वायुवत् खेचरो भवेत् ॥ १९ ॥
अनलार्कशताकारं प्रज्वलद् भुवनत्रयम् ।
धारयन् हृदये तेजो वह्निना न स दह्यते ॥ २० ॥
पीयूषाकुलकल्लोलमालाप्लावितभूतलम् ।
हृदये भावयेत् तावत् तस्य वारिभयं कुतः ॥ २१ ॥
अभूतल(?)भराक्रान्तभूतलं भूतसङ्कुलम् ।
हृदये भावयन्नित्यं तस्य नो पार्थिवं भयम् ॥ २२ ॥
नित्यमभ्याससंयुक्तो हृदये विनिभावयेत् ।
स तन्मयत्वमाप्नोति (काष्ठ ? कोश)कारीव कीटकः ॥
धेनुः पृथ्वी जलं क्षीरं तेजो दधि समीरणः।
नवनीतं घृतं व्योम क्रमादेवं विभेदयेत् ॥ २४ ॥
हृदि कामाः समुत्पन्नाः स्वीयजीवेन कल्पिताः ।
पुनस्त एव बाधन्ते विज्ञानं तत्र भेषजम् ॥ २५ ॥
५१
पञ्चमः प्रबोधः ।
ऊर्ध्वं नाभेरधः कण्ठाद् वितस्तिर्यत्र पूर्यते ।
तत्रास्ति पङ्कजं दिव्यं दिव्यलिङ्गविभूषितम् ॥ २६ ॥
कन्दमध्यात् समुद्भूतं चतुरङ्गुलमुत्तरम् ।
द्वादशाङ्गुलनालं तु हृत्पद्मं योगिनो विदुः ॥ २७ ॥
अष्टपत्रमधोवळं कदलीकुसुमोपमम् ।
हृत्पद्मं जीवसंयुक्तं यो जानाति स योगवित् ॥ २८॥
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथा मतिः ।
धीरहङ्कार इत्यष्टौ तत्र सन्ति महामलाः ॥ २९ ॥
उत्पत्तिनिधनं निद्रा चिन्ता लज्जा क्षुधा तृषा ।
विस्मयो व्याधिरुद्वेगो दश दोषा हृदि स्थिताः॥३०॥
दाहः शोषो रतिः स्वेदः कोपः शोको दया भ्रमः ।
अष्टौ दोषा भवन्त्यन्ये हृत्पझे जीवसङ्गिनः ॥ ३१ ॥
अष्टादश महादोषा हृत्पद्मे सन्ति देहिनाम् ।
एभिर्विवर्जितो यस्तु स एव भुवि देवताः ॥ ३२ ॥
शृङ्गारः करुणो हास्यो रौद्रवीरभयानकाः।
बीभत्सो(ष्टम ? ऽद्भुत)नामाष्टौ हृत्पद्मे भावजा रसाः॥
क्षमा प्रज्ञा स्पृहा श्रद्धा दया दम्भो मदो धृतिः।
दैन्यं शुभादयो भावाः सन्ति पद्मदलाष्टके ॥ ३४ ।।
जाड्यमौत्सुक्यमौद्धत्यमुत्साहो मत्सरो मदः।
निन्दास्पर्धादयो भावा हृदि तिष्ठन्ति देहिनाम् ॥३५॥
निर्वेदो ग्लानिरालस्यं शौर्य स्नेहो विरागता ।
हिंसामूर्छादयो भावा ज्ञेया हृत्कमले स्थिताः ॥ ३६ ॥
विक्कमार्ताण्डे विश्वासो विस्मृतिः क्षोभो गर्वो विद्या विचारणा। कार्कश्यं मार्दवं चैते भावा हृदि शरीरिणाम् ॥ ३७ ॥ अष्टौ च स्थायिनो भावा बहुधा व्यभिचारिणः । सात्त्विको राजसो रौद्रो हृत्पने सन्ति देहिनाम् ॥ ३८॥ ज्ञानं वैराग्यमैश्वर्य धर्मो दिग्देवताष्टकम् । सुखदुःखादिकं सर्वं हृत्पने योगिनो विदुः ॥ ३९ ॥ भिद्यते हृदयग्रन्थिश्छियन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ४०॥ अभिमानस्त्वहङ्कारो ह्यभिला(म ? षो)ऽभिमानिता। मोहादयो विलीयन्ते तदा मोक्षमवाप्नुयात् ॥ ४१ । यदा सर्वे विलीयन्ते कामा ये च हृदि स्थिताः । अथ मयोऽमृतं भावमत्येति स्मृतिनिश्चयम्॥ ४२ ॥ ज्ञानादेव विलीयन्ते कामा ये च हृदि स्थिताः । अभावे सर्वकामानां स्वयं तत्त्वं प्रकाशते ॥४३॥ तच्च योगात्मकं ज्ञानं येन तत्त्वं प्रकाशते । स षडङ्गयुतो योगो यतो विज्ञानसम्भवः ॥४४॥ बद्धासनो नित्यमवक्रकायो यो मानसं प्राणसमं नियम्य। उबुद्धहृत्पङ्कजकर्णिकायां ध्यायत्ययं विश्वमयं स मुक्तः ॥ ४५ ॥ इति शतगुणाचार्यतनयश्रीविश्व(रूप)देवविरचित विवेकमार्ताण्डे पञ्चमः प्रबोधः ।।
अथ षष्ठः प्रबोधः। द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजत सत्तमाः! ॥१॥ एतन्मुक्तेश्च सोपानमेतत् कालस्य वञ्चनम् । यन्निवृत्तं मनो भोगादासक्तं परमात्मनि ॥२॥ षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् । स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः॥३॥ एकस्तम्भ नवद्वारं त्रिशून्यं पञ्च देवताः । स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः॥४॥ आसनं प्राणसंरोधः प्रत्याहारोऽथ धारणा। ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥५॥ आसनानि च तोवन्ति यावन्तो जीवजन्तवः। एतेषी लक्षणं भेदं विजानाति महेश्वरः ॥ ६ ॥ चतुराशीतिलक्षाणामेकमेकमुदाहृतम् । ततः शिवेन पीठानां षोडशोनं शतं कृतम् ॥ ७॥ आसनेभ्यः समस्तेभ्यो द्वयमेव विशिष्यते। एक सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥ ८॥ १. 'माः ।। आस', २. 'या', ३. 'त्यो', ४. 'जातयः ।, ५. 'षामतुलान् भेदान् वि', ६. 'कैकं समु', ७. 'शानां श', 'मेतदुदाहृतम् ।', ९. 'तावद् द्वि' ख, पाठः.
विवेकमार्ताण्डे योनिस्थानकमद्धिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ़े पादमथैकमेकहृदयो धृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद् ध्रुवोरन्तरं चैतन्मोक्षकवाटभेदजनक सिद्धासनं प्रोच्यते॥९॥ वामोरूपरि दक्षिणं च चरणं विन्यस्य वामं तथा याम्योरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढेम्। अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये- दन्तयाधिविकारहारियमिनां पद्मासनं प्रोच्यते ।। आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते ॥ ११ ॥ आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ॥१२॥ योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् । मस्तके मणिवद भिन्नं यो जानाति स योगवित्॥१३॥ तप्तचामीकराभासं तटिल्लेखेव विस्फुरत् । चतुरश्रपुटं वह्नधो मेदात् प्रतिष्ठितम् ॥ १४ ॥ स्वैशब्देन भवेत् प्राणो ह्यधिष्ठानं तदाश्रयः स्वाधिष्ठानाख्यया तस्मान्मेढ़मेवाभिधीयते ॥१५॥ १. पिण', २. 'त्या', ३. 'श्यन् श्रु', ४. 'संस्थाप्य ५. 'ढो', ६. 'घातहा', ७. 'चन्द्रिका ॥', ८. 'स्थित ९. 'कारं त' ख. पाठः, १०. "त्रिकोणं तत्पुरं बाहो?)रधो मेपदेशतः ।' क. पाठः. ११. 'स' ख. पाठः. १२. 'णः स्वाधि', १३. 'नमिति स्मृतम् ।' क. पाठः. १२ १३ वा, षष्ठः प्रबोधः। स्वाधिष्ठानमिदं चक्रं मेट्रूमेव निगद्यते । तेन्तुना मणिवत् प्रोतं पूर्यते यत्र वायुना ॥ १६ ॥ तन्नाभिमण्डले चक्र प्रोच्यते मणिपूरकम् । द्वादशारे महाचक्रे पुण्यपापविवर्जिते ॥ १७ ॥ तावज्जीवो भ्रमत्येव यावत्तत्त्वं न विन्दति । ऊर्ध्व मेदादधो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥१८॥ तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः। तेषु नाडीसहस्रेषु द्विसततिरुदाहृताः ॥ १९ ॥ प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः । इडा च पिङ्गला चैव सुषुन्ना च तृतीयका ॥ २० ॥ गान्धारी हस्तिजिहा व पूषा चैव यशस्विनी । अलम्बुसा कुहूश्चैव शखिनी च दश स्मृतः ॥२१॥ एवं नाडीमयं चक्रं ज्ञातव्यं योगिभिः सदा। सततं प्राणवाहिन्यश्चन्द्रसूर्याग्निदेवताः ॥ २२ ॥ इडा पिङ्गला सुषुम्ना तिस्रो नाड्य उदीरिताः । इडा वामे स्थिता भागे पिङ्गला दक्षिगे स्थिता ॥२३॥ सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः । प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥ २४ ॥ १. मतश्चक्रे मे'. २. भणिवत् तातुना यत्र वायुना पूर्यते ३. 'नियन्त्रिते. ४. विज्ञेयं यो', ५ 'तत्र : , ख. पाठः.
विवेकमार्ताण्डे नागः कूर्मोऽथ कृकलो देवदत्तो धनञ्जयः । हृदि प्राणो वसेन्नित्यमपानो गुदमण्डले ॥ २५ ॥ समानो नाभिदेशे तु उदानः कण्ठमध्यतः। व्यानो व्याप्तः शरीरे तु प्रधानाः पञ्च वायवः ॥ २६ ॥ प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवैः । नागो गृह्णाति चैतन्यं कूर्मस्तून्मीलने स्थितः ॥ २७ ॥ क्षुधं करोति कृकलो देवदत्तो विजृम्भणम् । मृते धनञ्जयः शब्दं क्षणमात्रं न विश्रमेत् ॥ २८ ॥ एवं नाडीसहस्रेषु वर्तन्ते जीवरूपिणः । प्राणापानवशाज्जीवो ह्यधश्चोर्ध्वं प्रधावति ॥ २९ ॥ वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते । आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः ॥ ३० ॥ प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् । रज्ज्वा बद्धो यथाश्येनो गतोऽप्याकृष्यते पुनः ॥ ३१ ॥ गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते । प्राणेनाकृष्यतेऽपानः प्राणोऽपानेन कृष्यते ॥३२॥ ऊर्ध्वं चाधः स्थितावेतौ यो जानाति स योगवित् । हकारेण बहिति सकारेण विशेत् पुनः ॥ ३३ ॥ १. 'मः कृकरसो दे', २. 'यः प्राणा', ३. 'ज्ञेया ना', 'वः । एवं', ५. 'ते', ६. 'ज्जु', ७. 'क्षिप्यते', ८. 'अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ।। खगौ रज्जुवदित्येतो', 'शत्यधः । ख. पाठः.
षष्ठः प्रबोधः। ५७ ३ हंसहंसेत्यतो मन्त्रं जीवो जपति सर्वदा । पेट्छतान्यप्यहोरात्रं सहस्राण्येकविंशतिः ॥ ३४ ॥ एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा । अजपा नाम गायत्री योगिनां मोक्षदायिका ॥ ३५॥ अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते । अनया सहशी विद्या बनया सदृशो जपः ॥३६॥ अनया सदृशं पुण्यं न भूतं न भविष्यति । कुण्डलिन्यां समुत्पन्ना गायत्री प्राणधारिणी ॥ ३७ ॥ प्रणवाद्यां तथा विद्यां यस्तां वेद स वेदवित् । कन्दोर्ध्वं कुण्डलीशक्तिरष्टधा कुटिलीकृता॥३८॥ ब्रह्मद्वारमुखं नित्यं मुखेनावृत्य तिष्ठति । येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥ ३९ ॥ मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी । विष्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा ॥ ४०॥ प्रतप्ता वायुना सार्धं प्रबोधं याति साग्निना। प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥ ४१ ॥ सूची गुणमादाय बजत्यूचं सुषुम्नया । उद्घाटयेत् कवाटं तु यथा कुञ्चिकया हठात् ॥ ४२॥ १, 'मुं', २. 'शतानि षड् दिवा रात्री स', १. 'ह्य', ५. 'चा', ६. 'ति', ७ 'योगवि', री । प्रबु', १०. 'मुखं समा', ११. 'या' ख. पाठः ८ ३. 'सदा ॥', ८. 'र', ९.
५८ विवेकमार्ताण्डे कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत् । कृत्वा सङ्घटितौ करो दृढतरं बद्ध्या चे पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायश्च तच्चेतसि । वारं वारमपानमूर्ध्वमनिलं प्रोच्चालयन् पूरितं प्रोणं मुञ्चति बोधमेति शनकै(श्चु ? इश)क्तिप्रबो- [धान्नरः ॥४३॥ अङ्गानां मर्दनं कुर्यात् स्वेदवारिनिवारणम् ॥ ४४ ॥ अङ्गानां मर्दनं कृत्वा श्रमसञ्जातवारिणा। कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥४५॥ ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दादूर्ध्वं भवेत् सिद्धिर्नात्र कार्या विचारणा ॥४६॥ कन्दोध कुण्डलीशक्तिरष्टधा कुटिलीकृता। बन्धनाय च मूढानां योगिनां मोक्षदायिका ॥४७॥ महामुद्रां नभोमुद्रामोड्याणं च जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी सिद्धिर्भाग् भवेत्॥४८॥ अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४२ ॥ पाणिभागेन संपीड्य योनिमाकुश्चयेद् गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धो निगद्यते ॥५०॥ १. 'वि', ३. 'मुञ्चन् प्राणमुपति बोधमखिला शक्ति प्रभावादतः ॥ अङ्गानां मर्दनं कृ', १. 'दो नात्र', सप्तामोक्षाय (?) योगिनाम् ।', ६. 'यस्ता वेत्ति स तत्त्ववित् ॥', 'डीयानां ज', ८. 'भाजनम् ॥', ९. 'धो यमुच्यते' ख. पाठः. २. 'थ', ५. 'क्तिः - षष्ठः प्रबोधः । उड्याणं कुरुते यस्मादविश्रान्तमहाखगः। उड्योणं च तदेव स्यात् तत्र बन्धो विधीयते ॥ ५१ ॥ उदरे पश्चिम भागे नाभेरूज़ निगद्यते । उड्योणोऽयं महाबन्धो मृत्युमातङ्गकेसरी ॥ ५२ ॥ बनाति हि सिराजालं ह्यधोगामिनभोजलम् । ततो जालन्धरो बन्धः कण्ठेदुःखौघनाशनः ॥ ५३॥ जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे। पीयूषं न पतत्यग्नौ नच वायुः प्रकुंप्यति ॥ ५४ ॥ कपालकुहरे जिह्वा प्रविष्टा विपरीतगा। भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ५५ ॥ न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । नच मूर्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ॥५६॥ पीड्यते नर्च रोगेण न लिप्येत कर्मणा । बाध्यते नचं शोकेन यो मुद्रां वेत्ति खे वरीम् ॥ ५७ ॥ चित्तं चरै(य ?)ति खे यस्माजिह्वा चति खे गता। तेनैषा खेचरी मुद्रा सर्वसिद्धै नमस्कृतः ॥ ५८ ॥ १. 'ड्डीयाणं त', २. 'मं तानं ना', ३. 'च करयत् ।', ४. 'ड्डीयाणो ह्यसौ ब', ५. 'ण्ठे', ५. 'ण्ठे', ६. 'धावति', ८. 'स', ९. 'ब', १०, ‘स कालेन यस्य मुद्रास्ति खेच- री॥' ख पाठः. ११. १२. 'ल' क, पाठः. १३. 'री नाम मुद्रा सि', १५. 'ता ॥ खे' ख. पाठः. १३ ७. 'न जरा तस्य न', ६० विवेकमार्ताण्डे गुदमूलं शरीराणां शिरस्तत्र प्रतिष्ठितम् । प्लावयन्तं (?) शरीराणामापादतलमस्तकम् ॥ ५९ ॥ खेचरीमुद्रितं येन विवरं लम्बिकोव॑तः । न तस्य क्षरते विन्दुः कामिन्यालिङ्गितस्य च ॥६॥ यावद् बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः । यावद् बद्धा नभोमुद्रा तावद् बिन्दुनै गच्छति ॥ ६१॥ चलितोऽपि यदा बिन्दुः सम्प्राप्तः स हुताशनम्। बजत्यूध तदा शक्त्या निवरो योनि नुद्रया ॥ ६२ ॥ स पतन्द्रिविधो बिन्दुः पाण्डुरो लोहितस्तथा । पाण्डुरं शुक्लमित्याहुलोहिताख्यो महारजः ॥ ६३ ॥ सिन्दूरद्रवसङ्काशं रविस्थाने स्थितं रजः । शशिस्थाने स्थितो विन्दुस्तयोरैक्यं सुदुर्लभम् ॥६४ ॥ बिन्दुः शिवो रजः शक्तिरिन्दुर्विन्दू रजो रविः । उभयोः सङ्गमादेव प्रौप्यते ह्यमृतं पदम् ॥ ६५ ।। वायुना शक्तिचोलेन प्रेरितं खे यदा रजः । याति बिन्दोः सहैकत्वं भवेद् दिव्यपुस्तदा ॥ ६६ ॥ १. 'या', २. 'म्बकोद्धृतम् । विन्दुः क्षरति नो तस्य कामि- न्याश्लेषित', ३. 'रो', ४. 'न्दुः क्व ग', ५. 'मोति हु', ६. ७. 'एवन्द्वि' ख. पाठः. ८. 'वह्निः पा' क. पाठः. ९. 'ग्यं', १०. 'विद्रुमद्र', ११. ११. योनिस्था', १२. 'वतेद् बि', १३. 'व्याप्यते परमं प' ख. पाठः. १४. 'पा' क. पाठः. 'जः । बिन्दारेकत्वमायाति वेदितव्यं व' ख. पाठः. ૬૨ 'गता श', - १५.
षष्ठः प्रबोधः। १ शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् । द्वयोः समरसैकत्वं यो जानाति स योगवित् ॥ ६७ ॥ शोधनं नोडिजालस्य चालनं चन्द्रसूर्ययोः । रसनाशोषणं चैव महामुद्रा च योऽभ्यसेत् ॥ ६८ ॥ वक्षोन्यस्तहनुः प्रपीड्य तरसा योनि च वामाघ्रिणा हस्ताभ्यामनुधारयन् प्रचलितं पादं तथा दक्षिणम्। आपूर्य श्वसनेन कुक्षिकुहरं बद्धासनो रेचयेत् सर्वव्याधिविनाशिनी सुमतिभिर्मुद्रा नृणां प्रोच्यते [॥ ६९ ॥ सूर्याङ्गेन समभ्यस्य चन्द्राङ्गेनाभ्यसेत् पुनः । . यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् [॥ ७० ॥ नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः। अपि भुक्तं विषं घोरं पीयूषमिव जीर्थति ॥ ७१ ॥ क्षयकुष्ठगुदावर्तगुल्मशूलज्व व्यथाः। रोगाः सर्वे क्षयं यान्ति महाभुद्रां च योऽभ्यसेत् ॥७२॥ कथितेयं महामुद्रा महासिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्यकस्यचित् ॥७३॥ २. 'सीभावं यो', ३. 'मलज', ४. 'घट्टनं च', ५. 'सम्यङ्म', ६. 'द्रानिबन्धनात् ॥ वक्त्रे न्यस्तहनुं निपीड्य सुचिरं या', ७. 'येत् प्रविततं', ८. 'द्ध्वा शनै रेचयेदेषा पातक- नाश(नी) ननु महामुद्रा नृणां प्राप्यते', ९. 'चन्द्रांशे तु स', १०. 'सूर्याशे पुनरभ्यसेत ।', ११. 'मपि जी', १२. 'जीर्णपुरोगमाः। वस्य दोषाः क्ष', १३. 'तु' ख. पाठः. १.
६२ विवेकमार्ताण्डे पद्मासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेकाकी जपेदोङ्कारमव्ययम् ॥७४ ॥ भूर्भुवः स्वरिमे लोकाश्चन्द्रसूर्याग्निदेवताः। त्रयो वेदाः स्थिता यत्र तत् परं ज्योतिरोमिति ॥७५॥ इच्छा क्रिया तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिरोमिति॥७६॥ अकारश्च उकारश्च मकारो बिन्दुलक्षणः । यो वर्णाः स्थिता यत्र तत् परं ज्योतिरामिति ॥७७॥ वचसा तज्जपेद्दीजं वपुषा तत् समभ्यसेत् । मनसा तत् स्मरेन्नित्यं यत् परंज्योतिरोमिति ॥ ७८ ॥ शुचिर्वाप्यशुचिर्वापि यो जयेत् प्रणवं सदा । स लिप्यते न पापेन पद्मपत्रमित्राम्भसा ॥ ७९ ॥ चले बाने चलं सर्व निश्चले निश्चलं तथा । योगी स्थाणुत्वमानोति तो वायुनिवन्धनात् ॥ ८॥ यावद्वायुः स्थितो देहे तावज्जीवि मुच्यते । मरणं तस्य शिकान्तो ततो वाघु निरोधयेत् ॥ ८१ ।। यावद् बद्धः . लद देहे यावञ्चितं निराश्रयम् । यावद् वीक्षा भ्रुवोर्मध्ये तावत् कालभयं कुतः ॥ ८२ ॥ अभूत् कालभयाद ब्रह्मा प्राणायामपरायणः । योगिनो मुनयश्चैव ततो वायुं निरोधयेत् ॥ ८३ ।। १. 'क्षरम्', २. 'वर्णाः स्थि', ३. त्रेधा मात्राः स्थि' ख. पाठः, जपेदाङ्कारमव्ययम्' क. पाठः. ५. 'निबन्धयेत्' ख. पाठ..
षष्ठः प्रबोधः । त्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते ॥ ८४ ॥ शुद्धिमेति यदा सर्वं नाडीचक्रमनाकुलम् । तदैव जायते योगी क्षनः प्राणनिरोधने ।' ८५ ॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति पुनः सूर्येण वो ॥ ८६ ॥ अमृतोदधिमध्यस्थं गोक्षीरधवलप्रभम् । ध्यात्वा चन्द्रमसो बिवं प्राणायामे सुखी भवेत्॥८७॥ प्राण सूर्येण चाकृष्य पूरयित्वोदरं शनैः । विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ ८८ ॥ प्रज्वलज्ज्वलनज्वालापुञ्जमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ।।८९॥ प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमलं बद्ध्वा त्यजेद् वामया। सूर्याचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायता शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः [॥ ९०॥ यथेष्ट धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ ९१ ॥ प्राणो देहे स्थितो बायुरनलस्य प्रदीपनः । एकश्वासमयी मात्राप्युद्धाताय नियोजनः ॥ ९२ ।। १. 'हायुरपानस्य निबन्धनः ।' ख. पाठः.
६४. विवेकमार्ताण्डे रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः। प्राणायामो भवेत् त्रेधा मात्राद्वादशसंयुतः ॥ ९३॥ मोत्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ । दोषजालं विनिघ्नन्तौ ज्ञातव्यौ योगिभिः सदा ॥ ९४ ॥ अधमे द्वादश प्रोक्ता द्विगुणा मध्यमे तथा । उत्तमे त्रिगुणा मात्रा प्राणायामस्य निर्णयः ॥९५ ॥ अधमे त्वेक उद्धातो द्वावुद्धातौ तु मध्यमे । उद्धातत्रितयं प्राहुः प्राणायामे तथोत्तमे ॥ ९६ ॥ अधमे च घनो धर्मः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे देहो बद्धपद्मासनो मुहुः ॥ ९७ ॥ बद्धपद्मासनो योगी नमस्कृत्वा गुरुं शिवम् । नासाग्रदृष्टिरकान्ते प्राणायामं समभ्यसेत् ॥ ९८ ॥ ऊर्ध्वमाकृष्य चापानवायुं प्राणेने योजयेत् । ॲपाने नियते प्राणः सर्वपापैः प्रभुच्यते ॥ ९९ ॥ द्वाराणां नवकं निरुध्य पवनं पीत्वा दृढं धारितं नीत्वाकाशमपानवह्निसहितं शक्त्या समुच्चालितम् । आत्मध्यानयुतः प्रणामविधिनावष्टभ्य मूर्ना भुवं यावत् तिष्ठति तावदायनगतं श्रेयःफलं विन्दति [॥१०० ॥ १. 'प्राणधारणा', २. 'प्राणायामस्वभावश्च मात्राद्वादश- कान्वितः । निर्दहन्मलजालानि बहिरन्तः गरीरिणाम् ॥', ३. 'नि', ४. 'मूर्धानमानयेत् तोयं स', ख. पाठः.
६५ षष्ठः प्रबोधः। प्राणायामो भवेत्येष पातकेन्धनपावकः । भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा ॥ १०१ ॥ आसनेन रुजं हन्ति प्राणायामेन पातकम् । विकारं मानसं हन्ति प्रत्याहारेण योगवित् ॥ १०२ ॥ धारणाया मनोधैर्य ध्यानादैश्वर्यमद्भुतम् । समाधेर्मोक्षमाप्नोति त्यक्त्वा कर्म शुभाशुभम् ॥ १०३॥ प्राणायामद्विषट्केने प्रत्याहारः स उच्यते । प्रत्याहारद्विषट्केन जायते धारणा शुभा ॥ १०४ ॥ धारणा द्वादश प्रोक्तं ध्यानं ध्यानविशारदैः । ध्यानद्वादशकेनैव समाधिरभिधीयते ।। १०५ ॥ यत्समाधिफलं ज्योतिः सर्वगं विश्वतोमुखम् । यस्मिन् दृष्टे क्रियायोगो यातायातान्निवर्त्तते ॥ १०६ ॥ सम्बध्यासनमज्रिमूलघटितं कर्णाक्षिनासापुट- द्वाराण्यङ्गुलिभिर्निर्यम्य यवनं वक्रेण चापूरितम् । धृत्वा वक्षसि वह्निवायुसहितं मूर्ध्नि स्थितं धारये- देवं याति शिवेन तत्र समतां योगी चिरं जीवति [॥ १०७॥ गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् । घण्टानिनादगम्भीरः सिद्धिस्तस्य न दूरतः ॥ १०८ ।। १. सेवितो यो', २. 'न जा', ३. 'नमेकबुद्धिरचलं क', 'पीड्य प', 'रं कार', ६. 'विनष्टामयः ॥' ख. पाठः.
विवेकमाताण्डे प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः ॥ १०९ ॥ हिका श्वासस्तथा कासः शिरःकर्णाक्षिवेदनाः। भवन्ति विविधा दोषाः पवनस्य व्यतिक्रमात् ॥ ११०॥ यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैश्शनैः । अन्यथा हन्ति योक्तारं तथा वायुरसेवितः॥ १११ ॥ यक्तं युक्तं यजेद् वायुं युक्तं युक्तं च पूरयेत् । युक्त युक्तं च बधीयादेवं शुद्धिनवाप्नुयात् ॥ ११२ ॥ चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत् प्रत्याहरणं तेषां प्रत्याहारः स उच्यते ॥ ११३॥ यथा तृतीयकालस्थो रविः संहरते प्रभाम् । तृतीयाङ्गे स्थितो योगी विकारं भानसं तथा ॥ ११४ ॥ यं यं शृणोति कणाभ्यां प्रियं वा यदि वाप्रियम् । तं तमात्मेति विज्ञाय प्रत्याहरति योगवित् ॥ ११५॥ अभोज्यमथवा भोज्यं यं यं वादति जिहया । तं तमात्मति विज्ञाय प्रत्याहरति योगवित् ॥ ११६ ॥ अगन्धमथवा गन्ध यं यं जिधति नासया । तं तमात्मोति विज्ञाय प्रत्याहरति योगवित् ॥ ११७॥ अरम्यमथवा रम्यं यं यं पश्यति चक्षुषा । तं तमात्मेति विज्ञाय प्रत्याहरति योगवित् ॥ ११८ ॥ सुखं यत् स्पार्शनं दुःखं त्वचा संस्पृश्यते तु यत् । तं तमात्मति विज्ञाय प्रत्याहरति योगवित् ॥ ११९ ॥ १. रंस्यति' ख. पाठः.
षष्ठः प्रबोधः । अङ्गमध्ये यथाङ्गानां कूर्मः सङ्कोचमाहरेत् । योगी प्रत्याहरेदेवमिन्द्रियाणि तथात्मनि ॥ १२० ॥ चन्द्रामृतमयीं धारा प्रत्याहरति भास्करः। तत् प्रत्याहरणं यतु प्रत्याहारः स उच्यते ॥ १२१ ॥ एका स्त्री भुज्यते द्वाभ्यामागता सोपमण्डलात् । तृतीयो यः पुनस्ताभ्यां स भवेदजरामरः ॥ १२२ ॥ नाभिमध्ये वसत्येष भास्करो दहनात्याकः । अमृतात्मा स्थितो नित्यं तालुरध्ये तु चन्द्रमाः॥१२३॥ वर्षयधोमुखश्चन्द्रो ग्रसत्यूर्ध्वमुखो रविः । ज्ञातव्यं कारणं तत्र येन पीयूषमाप्यते ॥ १२४ ॥ ऊर्ध्व नाभिरधस्तालु ऊर्व भानुरधः कारणं विपरीताम्यं गस्वामीन लभ्यते ॥ १२५ ॥ त्रिधा बद्धो वृषो बारवीति महास्वनः । अनाहतं तु तच्चक्रं योगिनो दृश्ये विदुः ॥ १२६॥ अनाहतमतिक्रम्य चाकृष्टो मणिपूरकात् । प्राप्तः प्राणो महापद्मं योगेनाममायते ॥ १२७ ॥ मूर्ध्नः षोडशपद्मपत्रगलितं प्राणादवाप्तं हठा- दूर्ध्वास्यो रसनां नियम्य विवरे शक्तिं परा चिन्तयन्। शशी। ३. वन" १. 'रामाहारयति भा', ५. सूर्यनाभिर'. २. 'या तयोरत्र स', ६. 'क्ष्य' ख. पाठः.
६८ विवेकमार्ताण्डे उत्कल्लोलजलामृत सुविमलं जीवाकुलं यः पिबे- निर्दोषः स मृणालकोमलवपुर्योगी चिरंजीवति॥१२८॥ काकचञ्चुवदास्येन शीतलं सलिलं पिबेत् । प्राणोपानविधानज्ञो योगी भवति निर्जरः ॥ १२९ ॥ रसनातालुमूलेन यः प्राणं सततं पिबेत् । अब्दार्धेन भवेत् तस्य सर्वरोगपरिक्षयः ॥ १३०॥ विशुद्धे परमे चक्र धृत्वा सोमकलामृतम् । तन्मार्गेण तु संयाति वश्चयित्वा मुखं रवेः ॥ १३१ ॥ विशब्देन स्मृतो हंसस्तन्मध्यं शुद्धिरुच्यते । अतः कण्ठे विशुद्धयाख्यं चक्रं चक्रविदो जगुः ॥ १३२॥ अमृतं कन्धरे धृत्वा नासान्तस्सुषिरे क्रमात् । स्वयमस्वलितं याति वञ्चयित्वा मुखं रवेः ॥ १३३ ॥ बध्या सोमकलाजलं सुविमलं कण्ठस्थलादूर्ध्वतो नासान्तस्सुषिरेण थाले गगनद्वारं ततः सर्वतः । ऊर्ध्वास्थो भुवि सन्निपत्य नितरामुत्तानगात्रः पिबे- देवं यो विदधे जितेन्द्रियमना नैवास्ति तस्य क्षयः [॥ १३४॥ ऊर्ध्वजिह्वस्ततो भूत्वा सोमपानं करोति यः । मासार्धन न सन्देहो मृत्युं जयति योगवित् ॥ १३५॥ १. 'कुलं च वि', २. 'शीतलं', ३. 'गाः प्राणवि' ख. पाठः. ४. 'सो नैर्मल्यं शु' क. पाठः. ५. 'द्धं', ६. 'यतं तेनागतं प्लावयत्येवं', ७. 'स्थि' ख. पाठः.
षष्ठः प्रबोधः ३ संपडिय रसनाग्रेण राजदन्तबिलं महत् । ध्यात्वामृतमयीं देवीं षण्मासेन कविर्भवेत ॥ १३६ ॥ बद्धमूर्ध्वबिलं येन नव बद्धानि तेन हि । न मुञ्चत्यमृतं क्वापि स यथा पञ्चधारकम् ॥ १३७ ॥ बद्धमूर्ध्वबिलं येन तेन विघ्नं निवारितम् । अजरामरमाप्नोति यथा पञ्चमुखो हरः ॥ १३८ ॥ सर्वद्वाराणि बध्नाति यदूर्ध्वं तु विलं धृतम् । न मुञ्चत्यमृतं क्वापि सम्पन्नाः पञ्च धारणाः ॥१३९ ।। चुम्बन्ती यदि लम्बिकानमनिशं जिह्वा रसस्यन्दिनी सक्षारा कटुकाथ दुग्धसदृशा नया बतुल्याथवा । व्याधीनां हरणं जरान्तकरणं शास्त्रागमोद्गीरणं तस्य स्यादमरत्वमष्टगुणक सिद्धानाकर्षणम् ॥ अमृतापूर्णदेहस्य योगिनो द्वित्रवत्सरात् । ऊर्ध्व प्रवर्तते तस्य ह्यणिमादिगुणोदयः ।। १४१ ।। नित्यं सोमकलापूर्ण शरीरं यस्य योगिनः । तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ १४२ ॥ इन्धनानि यथा वह्निस्लैलवति च दीपक तथा सोमकलापूर्ण देही येईन शुनि ॥ १४३ । आसनेन समायुक्तः प्राणायाने संयुक्तः । प्रत्याहारेण सम्पन्नो धारणां तु सान्यले ॥१४४ ॥ हृदये पञ्चभूतानां धारणं च पृथक् पृथक् । मनसो निश्चलत्वेन धारणा साभिधीयते ॥ १४५ ॥ १. 'रेतो ब', २. 'यम् ॥' ख. पाठः.
विवेकमार्ताण्डे या पृथ्वी हरितालहेमरुचिरा तवं लकारान्वितं संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी। प्राणं तत्र चिनीय पञ्च घटिकाश्चित्तान्वितं धारये- देषा स्तम्भकरी सदा क्षितिजयो कुर्यात् ततो धार- [णाम् ॥ १४६ ॥ अर्धेन्दुप्रतिमं च कुन्दधवलं कण्ठेऽम्बुतत्त्वं स्थितं यत् पीयूषवकारबीजसंहितं युक्तं सदा विष्णुना । प्राणं तत्र विनीय पञ्च घटिकाश्चित्तान्वितं धारये- देषा दुस्सहकालकूटजरिणी स्याद् वारुणी धारणा [॥ १४७॥ तॉलो संस्थितमिन्द्रगोपसदृशं तत्त्वं त्रिकोणान्वितं तेजो रेफमयं प्रवाळरुचिरं रुद्रेण तत्सङ्गतम् । प्राणं तत्र विनीय पञ्च घटिकौश्चित्तान्वितं धारये- देषा वह्निजयं तथा विदधती वैश्वानरी धारणा [॥ १४८॥ यद्भिन्नाञ्जनपुञ्ज सन्निभमिदं वृत्तं भ्रुवोरन्तरे तत्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता । प्राणं तत्र विनीय पश्च घटिकौश्चित्तान्वितं धारये- देषा खे गमनं करोति यमिनां सा वायवी धारणा [॥ १४९ ॥ १. निपीय', २. 'लं कु', ३. 'द् भुवो धा', ४. 'हरितं' ५. यत्तालुस्थि', ६. 'णोज्ज्वलत्तेजो', ७. 'युतं प्र', 'य', ९. 'कञ्चिन्तान्वि', १०. 'क', ११. 'नियम्य प', १२. 'क- श्चिन्तान्वि' ख. पाठः. ११ -- षष्ठः प्रबोधः । आकाशं शुचि शुद्धवारिसदृशं यद् ब्रह्मरन्ध्रे स्थितं तन्नादेन सदाशिवेन सहितं शान्त हकाराक्षरम् । प्राणं तत्र विनीय पञ्च घटिकौश्चित्तान्वितं धारये- देषा मोक्षकवाटभेदनपटुः प्रोक्ता नभोधारणा [॥ १५ ॥ स्तम्भिनी द्राविणी चैव दाहिनी भ्रमिणी तथा । शोषिणी च भवन्त्येता भूनानां पञ्च धारणाः ॥ १५१ ॥ कर्मजा माधुरी सर्वधारणाः पञ्च दुर्लभा । विज्ञातीः सततं येन सर्वपापैः प्रमुच्यते ॥ १५२ ॥ यस्मिन् यस्मिन् भवेदङ्गे व्यासेनामत्रसम्भवः(?) । तत्तदङ्गंधिया वाप्य धार्यते तत्र बाणा ॥ १५३ ॥ आग्नेयीं धारणां ध्यायेद गेगे वायव्यवारुणे। वायव्याग्नेयदोषे च विषदोष च सर्वतः ॥ १५४ ।। अमृतं चिन्तयेत् प्राज्ञः क्षुत्पिपासातुरस्तथा । अन्योन्याभिभवादेवं ज्ञात्वा युत धारणाम् ॥१५५॥ ध्यानेनैव प्रणश्यन्ति ये रोगा रोगसम्भवाः । भेषजै पहोमैश्च दानैरन्यैश्च कर्मजाः ॥ १५६ ।। , १. 'च मरीचिवा', २. 'थे' ख. पाठः. ३. 'युक्तं ह' क. पाठः. ४. 'न्वितम्', ५. 'णांस्तत्र नियम्य प', ६, 'कञ्चिन्तान्वि' ७. 'फलपटा च यमिनां प्रो', :. 'शमनी च', ९. 'मना + धराः स', १०. 'य ११. योगी सर्वदुःखः प्र' ख. पाठ, १२. 'ते॥ यत्तत्त्वे निश्च' क. पाठः.
विवेकमार्ताण्डे यथारण्यााजेन्द्रस्तु पुरुषैः सु ? स्त्व)प्रयोगतः । नाशयद्धार्यमाणस्तु तथा वायुरबुद्धिभिः ॥ १५७ ॥ ध्यति सर्वत्र चिन्नायां धातुरेष हि पठ्यते । सर्वचिन्तासमायुक्तं योगिनो हृदि वर्तते ॥ १५८ ॥ यत्तत्त्वे निश्चलं चेतस्तद् ध्यानं च प्रचक्षते । धृत्यै सर्वत्र चिन्ताया धारणैषा हि दृश्यते ॥ १५९ ॥ यच्चित्ते निश्चला चिन्ता तत्तु ध्यानं प्रचक्षते । द्विधा भवति तद् ध्यानं सगुणं निर्गुणं तथा ॥ १६० ॥ सगुणं वर्णभेदेन निर्गुणं केवलं विदुः । अश्वमेधसहस्त्राणि वाजपेयशतानि च ।। १६१ ॥ एकस्य ध्यानयोगस्य कला नाहन्ति षोडशीम् । अन्तश्चेतो बहिश्चक्षुराधिष्ठाथ सुखासनम् ॥ १६२ ॥ समत्वं च शरीरस्य ध्यानमुद्रोति कीर्तिता। आधारं प्रथ चक्रं तप्तकाश्चनसन्निभम् ॥ १६३ ॥ नासाग्रे दृष्टिमादाय ध्यात्वा मुञ्चति किल्बिषम् । स्वाधिष्ठानं द्वितीयं यत्तन्माणिक्यशिलोपमम् ॥ १६४ ॥ नासाग्रे दृष्टिमादार ध्यात्वा मुञ्चति किल्बिषम् । तरुणादित्यसङ्काशं चक्रं च नणिपूरकम् ॥१६५ ॥ नासाग्रे दृष्टिमादाय ध्यात्वा संक्षोभयेज्जगत् । हृदाकाशस्थितं चक्रं प्रसन्नरवितेजसम् ॥ १६६ ॥ १. रे', २. 'मे चक्रे द्रुतका', ध्यान्वा योगी सुग्बी भवेत्', ५. के ॥ 'रात्मानं ज्ञात्वा', ८. 'त् । विद्यु' ख. पाठः, ३. '', ' ४. 'रात्मानं 'के च म', षष्ठः प्रबोधः नासाये दृष्टिमादाय धात्या ब्रह्मयो भवेत् । विद्युत्प्रभं च हृत्पद्मे प्राणायामेन चेतता ॥ १६७ ॥ नासा दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् । सततं कर्णिकामध्ये विशुद्धं चक्रमुच्यते ॥ १६८॥ नासाग्रे दृष्टिमादाय ध्यात्वा दुःखातू प्रमुच्यते। स्रवत्पीयूषसम्पूर्ण लम्बिके चन्द्रमण्डलम् ॥ १६९ ॥ नासाग्रे दृष्टिमादाय ध्यात्वा मृत्यु प्रमुञ्चति । ध्रुवोर्मध्यस्थितं देवं शुद्धमौक्तिकसन्निभम् ॥ १७० ॥ नासाग्रे दृष्टिमादाय ध्यात्वानन्दमयो भवेत् । ध्यानेन लक्षयेन्नित्यं भ्रूमध्ये परमेश्वरम् ॥ १७१ ॥ आत्मानं विजितप्राणो योगी योगमवाप्नुयात् । निर्गुणं च शिवं शान्तं गगने सैर्वतोमुखम् ॥ १७२ ॥ भूमध्ये दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् । आकाशं यत् परं स्थानं यत्राज्ञाचक्रमुच्यते ॥ १७३ ॥ तत्रात्मानं शिवं ध्यात्वा योगी ज्ञानमयो भवेत् । निर्मलं गगनाकारं मरीचिजलप्सन्निभम् ॥ १७४ ॥ १. 'मैर्विमेदिते', २. 'न', ३. 'रात्मानं ध्या', ४. 'दीप- कप्रभम् ।', ५. 'ग्र', ६. 'रात्मानं ध्या', ९. 'रात्मानं ध्यात्वानन्दमवाप्नुयात् ।', १०. 'नं नीलनिभं नित्यं', ११. "विश्वतेजसम्' ख. पाठः. १२. 'रात्मानं ध्या', १३. 'त् । निक. पा.
विवेकमार्ताण्डे ७४ आत्मानं सर्वगं ध्यात्वा योगी योगमवाप्नुयात्। गुदं मेश्च नाभिश्च हृदयं चक्रमूर्ध्वतः ॥१७५॥ कर्णिका लम्बिकस्थानं भूमध्यं च नभोबिलम्। कथितानि नवैतानि ध्यानस्थानानि योगिनाम् ॥१७॥ उपाधितत्त्वयुक्तानि कुर्वन्त्यष्टगुणोदयम् । उपाधिश्च तथा तत्त्वं द्वयमेतदुदाहृतम् ॥ १७७ ॥ उपाधिः प्रे.च्यते वर्णस्तत्त्वमात्माभिधीयते। उपाधिरन्यथाज्ञानं तत्वसंस्थितिरन्यथा ॥ १७८ ॥ यथान्यवर्णयोगेन दृश्यते स्फाटिको माणः । समस्तोपाधिविध्वंसे सदाभ्यासेन योगिनाम् ॥ १७९ ॥ मुक्तापि शुक्तिभेदेन तद्वदात्मा प्रकाशते । विरजाः पर आकाशादन्तरात्मा महानिति ॥ १८० ॥ विरजं परमाकाशं यद्यदक्षरमव्ययम् । स्तौति श्रुतिरहोरात्रं तत्त्वं तत्त्वविदो विदुः ॥ १८१ ॥ शब्दादीनां च तन्मात्रं यावत् कर्णादिषु स्थितम् । तावयवस्थितं ध्यानं समाधिः स्यादतः परम् ॥१८२ ॥ धारणा पञ्चनाड्यस्तद्ध्यानं षट्कैव नाडिका । दिनँद्वादशकेन स्यात् समाधिः प्राणसंयमः ॥ १३ ॥ १. 'मुक्तिम', २. 'ण्ठि', ३. 'था ॥ सम' क. पाठः. ४. 'ते । विरज' क, पाठः. ५. 'स्कवयो वि', ६. 'देव स्मृतं' ख. पाठ:. 'नं तत्समाधिः परं नमः ।, 'नानां द्वादशेनैव क. पाठा 'मात् । ख. पाठ ८.
७५ पठः प्रबोधः । अम्बुसैन्धक्योः साम्यं यथा भवति योगतः । तथात्ममनसोरेक्यं समाधिः सोऽभिधीयते ॥ १८४ ।। यदा संक्षीयते प्राणो मानसं च विलीयते । तदा समरसैकत्वं समाधिः सोऽभिधीयते ॥ १८५॥ यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः । समस्तनष्टसङ्कल्पः समाधिः सोऽभिधीयते ॥ १८६ ॥ न्द्रियाणि मनोवृत्तिरपराक्षेपया हि सा। द्वयत्वं गते जीवे न मनो नेन्द्रियाणि च ॥ १८७ ॥ गन्धं न रसं रूपं नच स्पर्श नच स्वनम् । औत्मानं च परं वेद योगी युक्तः समाधिनो ॥१८८ ॥ नहि जानाति शीतोष्णं न दुःखं न सुखं तथा। माननं नावमानं च योगी युक्तः समाधिना ॥ १८९॥ खाद्यते नच कालेन बाध्यते नच कर्मणा। सांध्यते नच केनापि योगी युक्तः समाधिना ॥ १९० ।। अभेद्यः सर्वशस्त्राणामध्यः सर्वदेहिनाम् । अग्राह्यो मन्त्रास्त्राणां योगी युक्तः समाधिना॥१९१॥ युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु । युक्तस्वप्नावबोधश्च योगी तत्त्वं च विन्दति ॥ १९२ ॥ १. 'सदा समरसत्वं यत् स' ख. पाठः. 'ते ॥ इन्द्रि- येषु मनो' क. पाठः. ३. 'रत्रा पेक्षाद्वया', 'नत्मानं न परं वेत्ति यो' ख. पाठः. ५. 'ना। खा', ६. 'धार्यते', ८. 'यन्त्राणां', ५. 'रश्च सर्वत्र यु', १०. 'क्तनिद्राप्रबो', ११. 'त्वं स वि' ख. पाठः, ११ २. ४ 'वाच्यः स'.
विवेकमार्ताण्डे निरातङ्क निरालम्ब निष्प्रपञ्चं निराश्रयम् । निरामयं निराकारं तवं तत्त्वविदो विदुः ॥ १९३॥ निर्मलं निश्चलं नित्यं निर्गुणं निष्क्रियं महत्। व्योम विज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः ॥ १९४ । निरातङ्के निरालम्बे निराभासे निरामये । योगी योगविधानेन परे ब्रह्मणि लीयते ॥ १९५ ॥ दुग्धे क्षीरं घृते सर्पिरग्नौ वह्निरिवार्पितः । अद्वयत्वं ब्रजेदेवं योगी लीनः परे पदे ॥ १९६ ॥ भवननववह्निर्मुक्तिसोपानमार्गः प्रकटितपरमार्थो ग्रन्थगुह्यं च गुह्यम् । सकृदपि पठतीमं यः शृणोति प्रबन्धं स भवति भुवि भव्यों भाजनं भुक्तिमुक्त्योः [॥ १९७॥ इति शतगुणाचार्यतनयश्रीविश्वरूपदेवविरचिते विवेक- मार्ताण्डे योगसाधनं नाम पष्ठः प्रबोधः ।। श्रीमत्पराशरकुले महति प्रसूतो योऽयं कृती शतगुणो गुणिनां वरिष्ठः । १. 'म्नि ख. पाठः, २. 'दुः । दु' क. पाठः. ३. 'तम् तन्मयत्वं व्रजत्येवं ४. 'वभयवनवह्नि', ५. 'क्त', ६. 'थज्ञानगु': 'व्यं' ख. पाठः. , षष्ठः प्रबोधः । तस्यात्मजोऽकृत रजन्धिपुराधिवासो ग्रन्थं शुभाय भविनां भुवि विश्वरूपः ॥ कृतं मया चित्तविनोदनाथ विमोक्षशास्त्रं च मुदे गुरूणाम् । विवेकसम्पत्तिकरं नराणां विवेकमार्ताण्डमतो वदन्ति ॥ अजानता यत् किल शास्त्रमार्ग ग्रन्थो मयाकारि नवप्रबोधः । विवेकभानुः स मतो नराणां क्षन्तव्य(मस्तात् ? मेतत् ) कविभिः समस्तम् ।। आराध्य यन्म पदारविन्दं भक्तिप्रभावाह्वयमेतदासीत् । एकं मया श्लाध्ययशः कवीना- माधिस्तथान्या महती यतीनाम् ॥ प्रसरति हृदि तावद् घोरसर्पप्रभाव- प्रभवगरलजालं कालोतद्धि (साम् । श्रवणकुहरसंस्थः गर्भभूषा विरूपा न विशति कृतिरेषा विश्व परतु नावत(?) ॥ मं
No text on this page.
LIST OF SANSKRIT PUBLICATIONS FOR SALE. RS. AG. P. HAC Bhaktimanjari (Stuti) by H. H. Svati Sri Kāma Varma Mahārāja. 1 0 0 म्यानन्दूरपुरवर्णनप्रबन्धः Syanandurapuravarnanaprabandha (Kavya) by H. H. Svāti Sri Rāma Varma Mahārāja, with the commentary Sundari of Rājarā ja Varma Koil Tampuran. 2 0 0 Trivandrum Sanskrit Series. No. 1- Daiva (Vyakaraña) by Deva with Puruşakāra of Krşpalīlasukamuni (out of stock). 1 0 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ Abhinavakaustubhamala and Daksinamurtistava by Křşņalīlāśukamuni (out of stock). 0 2 0 No. 3-Tags: Nalabhyudaya (Kavya) by Vainana Bhatta Bāņa (second edition). 0 4 0 No. 4-faradtaufa: Sivalilarnava (Kavya) by Nīlakaạtha Dīkşita (out of stock). 2 0 0 No. 5-fareas: Vyaktiviveka (Alankara) by Mahima-Bhatta with commentary (out of stuck). 2 12 0 No. 6-style: Durghatavrtti (Vyakarana) by Saraṇadeva (out of stock). 200 No. 7--111 Brahmatattvapraka. sika (Vedānta) by Sadāsivendrasarasyati (out of stock). 2 4 0 No. 8--Targu Pradyumnabhyudaya! (Nataka) by Ravi Varma Bhopa (out of stock). 1 0 0 2 BS.AS. P. No. 9-विरूपाक्षपश्चाशिका Virupaksapanoasika (Vedāntay by Virūpākşanātha with the commentary of Vidyācakravartin (out of stock). 08 No. 10-a eta Matangalila (Gajalakşaņa) by Nīlakantha (out of stock). 08 0 No. 11--Mucircacur Tapatisamvarana (Nāțaka) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 2 40 No. 12-TartArtą Paramarthasara (Vedānta) by Adišeşa with the commentary of Rāghavā nanaa (out of stoch). 0 8 0 No. 13-सुभद्राधनञ्जयम् Subhadradhananjaya (Nāțaka) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 2 0 0 No. 14-tfarart: Nitisara (Nīti) by Kāmandaka, with the commentary of Sankarārya (out of stock). 3 8 C No. 15—HETHEFTH Svapnavasavadatta (Nā taka) by Bhāsa (second edition). 1 8 0 No. 16-afari Pratijnayaugandharayana (Nātaka) by Bhāsa (out of stock). 1 8 0 No. 17-TTTA Pancaratra (Nā taka) by Bhāsa (out of stock). 1 0 0 No. 18-tgrutera Narayaniya (Stuti) by Nārāyaṇa Bhatta with the commentary of Deśainangalavārya 4 0 0 (second edition), No. 19---ATHHIA: Manameyodaya (Mimāısa) by Narāyana Bhatta and Narayana Paņạita (out of stock). No. 20-farar Avimaraka (Nataka) by Bhāsa (out of stock). 1 8 0 No. 21m-cakar Balacarita (Nataka) by Bhasa (out of stock). 1 û 0 1 8 88. AS. P. No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारो- Chia Madhyamavyayoga-Duta - vakya-Dutaghatotkaca-Karnabhara and Urubhanga (Nāțaka) by Bliāsa (out of stock). 1 8 0 No. 23-araitureret: Nanartharnavasam ksepa (Kosil) by Keśavasvāmin (Part I, 1st and 2nd Kāņdas). (out of stock). 112 0 No. 24–316 iuftort: Janakiparinaya (Kavya) by Cakra Kavi (out of stock). 1 0 0 No. 25-Flugtata Kanadasiddhantacandrika (Nyāya) by Gangadharasūri (out of stock). 0 12 0 No. 26—971 1974 Abhisekanataka by Bhāsa (out of stock). 0 12 0 No. 27-Aretha: Kumarasambhava (Kavya) by Kálidāsa with the two commentaries, Prakāśikā of Aruņagirinātha and Vivaraņa of Nārāyaṇa Pandita (Part I, 1st and 2nd Sargas) (out of stock). 1 12 0 No. 28-- TETA: Vaikhanasadharmaprasna (Dharmasūtra) by Vikhanas (out of stock). 0 8 0 No. 29-ataterturaciety: Nanartharnayasam ksepa (Kośa) by keśavasvāmin (Part II, 3rd Kāņda) (out of stock). 2 4 0 No. 30-aregfaret Vastuvidya (Silpa) (out of stock 0 12 0 No. 31-atareiuraian: Nanartharnayasam ksepa (Kośc) by Keśavasyảmin (Part III, 4th, 5th and 6th Kāņdas). 1 0 0 No. 32-FATTHIHET: Kumarasambhava (Bāvya) by Kālidāsa with the two commentaries, Prakäsikä of Aruņagirinatha and 'Vivarana of Nārāyana Pandita (Part II, 3rd, 4th and 5th Sargas) (out of stock). % 8 0 4 RS. AS. P. Vandya- No. 33-arcare: Vararucasangraha (Vyākaraña) with the commentary Dipa prabha of Narayana (out of stock'). 08 0 No. 34--APOTEST: Manidarpana (Nyāya) by Rajacüdāmaņimakhin. 1 No. 35- APOTETT: Manisara (Nyāya) by Gopinātha. 1 8 0 No. 36-HITE Fha: Kumarasambhava (Kāvya) by Kālidāsa with the two commentaries, Prakāśikā of Aruņagirinātha and Vivaļaņa of Nārāyaṇa Pandita (Part III, 6th, 7th and 8th Sargas). 300 No. 37-eritarem Asaucastaka (Smrti) by Vararuci with commentary. 0 4 0 No. 38- THRESFIGUETH Namalinganusasana (Kośa) by Amarasimha with the commentary Tīkāsarvasva of ghatiya Saryānanda (Part I, 1st Kāņda). 2 0 0 No. 39-ETECU Carudatta (Nāțaka) by Bhāsa (out of stock). 0 12 0 No. 40.-RCHEH Alankarasutra by Rājānaka Ruyyaka with the Alankārasarvasva of Mankhuka and its commentary b; Samudrabandha (second edition). 2 8 0 No. 41-CHECH Adhyatmapatala (Ve. dänta) by A pastamba with Vivarana of Sri Sankara-Bhagavat-Pāda (out of stock). 04 0 No. 42-afCATACH Pratimanataka by Bhāsa "(out of stock). 180 No. 48--मामलिङ्गानुशासनम् Namalinganusasana (Koša) by Amarasimha with the two commentaries, Amarakośodghatana of KŞIrasvāmin and Tīkāsarvasva of Vandyaghatiya Sarvänanda (Part II, 2nd Kanda, 1-6 vargas). 28 0 No. 41-4 Tantrasuddha by Bhattaraka Vedottama. (out of stock). 04 0 5 RS. AS. P. 1 0 0 No. 45-9TH Prapancahrdaya. No. 46-THREA: Paribhasavrtti (Vyākaraņa) by Nīlakantha Dīkşita. 0 8 0 No. 47-ferta Sidhantasiddhanjana (Vedārta) by Kșşņānanda Sarasvati (Part I.) 1 12 0 No. 48–fr glateret Do. Do. (Part II). 2 0 0 No. 49–Tofan Goladipika (Jyotişa) by Parameávara. 0 No. 50-Tarrag*: Rasarnayasudhakara (Alankâra) by Singa Bhūpāla. 3 0 0 No. 51--ATAS Carta# Namalinganusasana (Kośa) by Amarasimha with the two commentaries, Amarakośodghātana of kşīrasvāmin and Tīkāsarvasva of Vandyaghatiya Sarvānanda (Part III, 2nd Kanda, 7-10 vargas). 2 0 0 No. 52-AhrergerEATH Namalinganusasana (Kośa) by Amarasimha with the commentary Tìkâsarvasva of Vandyaghatîya Sarvânanda (Part IV, 3rd Kâņda). 1 8 0 No. 53--Trefurr: Sabdanirnaya (Vedanta) by Prakâsâtmayatîndra. 0 12 0 No. 54-referraart: Sphotasiddhinyayavicara (Vyâkaraña). 0 4 0 No. 55—Ayra Mattavilasaprahasana (Nâțaka) by Mahendravikramavarman. (out of stock). 08 0 No. 56-Ahrtail Manusyalayacandrika (Silpa) (out of stock). 0 8 0 No. 57-Teicamah Raghuviracarita (Kavya). 1 4 0 No. 58-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vetlânta) by Krşņânanda Sarasvati (Part III). 2 0 1 RS. AS. P. No 59-ara# Nagananda (N&taka) by Harşadeva with the commentary Vimarsinf of Sivarâma (out of stock). 3 4 0 No. 60mgefa: Laghustuti by Laghubhattâraka with the commentary of Râghavânanda. 0 8 0 No 61-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vedânta) by K'rşņânanda Sarasvati (Part IV). 1 4 () No. 62-HEPHE: Sarvamatasangraha. (out of stock). 080 No. 63-Rectareath Kiratarjuniya (Kavya) by Bharavî with the commentary Sabdârthadīpika of Citrabhânii (1, 2 and 3 Sargas). 2 8 0 No. 64-hragt: Meghasandesa by Kâlidāsa wîth the commentary Pradīpa of Dakşiņâvartanātha. 0 12 0 No. 65–HATH Mayamata (Šilpa) hy Mayamuni (out of stock). 3 4 () No. 66%HET FASTA Maharthamanjari (Darsana) with the commentary Parimala of Maheśvarânanda. ? 4 0 No. 67—TTE: Tantrasamuccaya (Tantra) by Nârâyaņa with the commentary Vimarsinſ of Sankara (Part 1, 1-6 Patalās) (out of stock). 3 4 0 No. 68--pragatz: Tattvaprakasa (Agama) by Śrī Bhojadeva with the commentary Tâtparvadipikā of Śrī Kumāra 1 120 No. 69-aaraga areat: Isanasivagurudevapaddhati(Tantra)byĪsảnasivagurudevamisra Part I, Sâmányapâda 1 8 0 No. 70—37rfsesteet: Aryamanjusrimula. kalpa (Part I). 8 0 No. 71-- : Tantrasamuccaya(Tantra) by Nârâyaņa with the commentary Vimarsint of Sankara(Part II, 7-12 Patalās) (out of stock). 3 8 1 7 RS. AS. P. : No. 72-aparatua anafa: Isanasivagurudevapaddhati (Tantra) by Ibānasiragurudevamisra (Part II, Vantrapada). 4 0 0 No. 73-utaraft: Isvarapratipattiprakasa (Vedānta) by Madhusūdanasarasvati. 0 4 0 No. 74-preala: Yajnavalkyasmrti with the commentary Balakridâ of Visvarûpâcârya. (Part I - Âcara and Vyavahâra Adhyâyās). 3 40 No. 75-freecah Silparatna (Silpa) by Srikumara (Part I). 2 12 0 No. 76-artist 04: Aryamanjusrimulakalpa (Part II). 300 No. 77-arrerausfa Isanasivagurudevapaddhati (Tantra) by Iśānasiva. gurudevamisra (Part III, Kriyāpāda 1-30 Patalās). 3 0 0 No. 78.- PRAETH Asvalayanagrhyasutra with the commentary Anāvila of Haradattācārya. 2 6 0 No. 79--77fare Arthasastra of Kautalya with commentary by Mahā mahopadhyaya T. Ganapati Sastri (Part I, 1 & 2 Adhikaranas). 3 12 0 No. 80-PRETH Do. Do. (Part II, 37 Adhikaraņās). 4 0 0 No. 81-kruara:Yajnavalkyasmrti with the commentary Bâlakrida of Viúvarūpācārya (Part II. Prayascittadhyaya). 2 0 0 No. 82-leh Arthasastra of Kautalya with commentary by, Mabāmahopādhyāya T. Ganapati Sastri (Part III, 8-15 Adhikaraņās). 3 40 No. 83_raftagarefa: Isanasivagurudevapaddhati (Tantra) by Isanabivagurudevamiéra (Part IV, Kriyapada 31-64 Patalās and Yogapāda). 3 8 0 8 REAS. P. No. 84-rastaften: Aryamanjusrimula- 2 0 kalpa (Part III). 0 2 8 No 85-farar fear Visnusamhita (Tantra). 0 No. 86--aray Bharatacarita (Kâvya) by Kronakavi. 1 8 0 No. 87-ESIAETHTER: Sangitasamayasara (Sangita) of Sangſtâkara Pârávadeva. 1 2 0 No. 88-449127: Kavyaprakasa (Alankâra) of Mammațabhatta with the two commentaries the Sampradāyaprakāšinī of Śri Vidyācakravartin and the Sâhitynchidâmaņi of Bhattagopala (Part I, 1-5 Ullâsās). 3 0 0 No. 89—Fireff Sphotasiddhi (Vyākaraṇa) by Bharatamiśra. 0 8 0) No. 90-fthiertanfran Mimamsaslokavartika with the commentary Kädika of Sucaritamiśra (Part I). 2 8 0 No. 91-erah Horasastra of Varāhamihiracārya with the 'Vivarana of Rudra. 3 0 0 No. 92—etawa Rasopanisat. 2 0 0 No. 93-araufTater Vedantaparibhasa (Vedānta) of Dharmarajadhvarindra with the cornmentary Prakásika of Poddadīkşita. 1 8 0 No. 94-raft Brihaddesi (Sangita) of Matangamuni. 1 8 0 No. 95-Turf FT Ranadipika (Jyotisa) of Kumāraganaka. 0 4 0 No. 96-4fET Rksamhita with the Bhāsya of Skandasvāmin and the commentary of Venkatamadhavārya (Part I, 1st Adhyâya in 1st Astaka). 1 8 0 9 28. AL. P. So. 97—are ungefeat Naradiyamanasamhita (Smrti) with Bhāşya of Bhavasvamin. 2 0 0 No. 98-faretar Silparatna (Silpa) by Sri. kumāra. (Part II.) 2 8 0 No. 99—ATHIEPInelin Mimamsaslokayartika (Mīmāmsā) with the commentary Kāśikā of Sucaritamiára (Part II). 2 0 0 No. 100-499127: Kavyaprakasa (Alankara) of Mammațabhatta with the two commentaries, Sampradāyaprakasini of Srividyācakravartin and Sahityacudāmaņi uf Bhattagopāla. (Part II, 6--10 Ullasās). 5 0 0 No. 101-reira Aryabhatīya (Jyotiņa) of Āryabhatācārya with the Bhāşya of Nīlakaạthasomasutyan (Part I. Gapitapāda). 2 8 0 No. 102-- ferest Dattila (Sangīta) of Dattilamuni, 0 4 0 No. 103-AHAT: Hamsasandesa (Vedanta) with cominentary. 0 8 0 No. 104-Erfaqsarfiyat Sambapancasika (Stuti) with commentary. 1 No. 105-aftruata: Nidhipradipa of Siddhasrikanthaśambhu. 0 4 0 No. 106-affe Prakriyasarvasva. (Vyakarapa) of Sri Narayana Bhatta with commentary (Part I.) 1 0 C No. 107–1egtay Kavyaratna (Kavya) of Arhaddāsa 0 12 0 No. 108-acaratustarry Balamartandavijaya. (Năţaka) of Devarājakavi. 1 No. 109-errert: Nyayasara with the commentary of Vasudevasari, 1 8 0 10 RS. 14. P. No. 110_azrat Aryabhatiya (Jyotişā) of Aryabhatācārya with the Bhåęya of Nilakapțhasomasutvan.(Part II. Kālakriyāpāda) 1 0 0 No. 111 - Elec: Hridayapriya (Vaidyaka) by Parameśvara, 3 0 0 No. 112-कुचेलोपाख्यानम् अजामिलोपाख्यानं च । Kucelopakhyana and Ajamilopakhyana. (Sangita) by H. H. Svāti Sri Rama Varma Maharaja. 040 No. 113-etapa: Sangitakrtis (Gāna) of H. H. Svati Sri Rama Ÿarma Māharaja. 1 0 0 No. 114-ARTHTHIFT Sahityamimamsa (Alankāra) 1 0 0 No. 115-milent Rksamhita (with the Bhāşya of Skandasvāmin and the commentary of Veňkaļamādhavārya) (Part II) 2nd Adhyaya in Ist Astaka. 1 S 0 No. 116-T Vakyapadiya (Vyakaraṇa) with the commentary Prakirņakaprakāba by Helaraja son of Bhutiraja. (Part I). 1 8 0 No. 117--Ecrant.USTATUR Sarasvatikantabharana (Vyākarņa) by Bhojadeva with the commentary of Sri Nārayaņa Dandanatha, 1 8 0 No. 118-IGSTTATTA Balaramabharata (Nāțya) by Balarāma Varma Vanci Maharaja. 2 8 0 No. 119-aaralius: Vivekamarthanda (Vedanta) of Viswarupadeva 0 8 0 Apply to: The Superintendent, Government Press, Trivandrum.
IN MEMORY
OF
G. A. NATESAN
(FOUNDER, G. A. NATESAN & co, & INDIAN REVIEW)
BORN 24-8-1873)
[DIED 10-1-1949