Uttarpara Jaykrishna Public Library, Hooghly
Sahridayananda
Front matter
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
Sahridayanandas
Canton ! Lo .
with
C019. nenPY
1
3
CSATAKOPACHARIAR,
mnocar, Shiman only
>
We
SRIRANGAM
en al VANI 11. AM IRC
1907,
Copyright Registered.
No text on this page.
॥ श्री॥ ॥ सहृदयानन्दम् ॥ ॥ ver प्रथमः सर्गः। काध्य यदिन्द्रियाणां विपयत्वमेति लोकेषु यत्तत्त्वमतीन्द्रियं च । कृत्स्नस्य तस्य प्रतिपत्तिहेतु- र्वाग्देवता सा मगि सन्निधत्ताम् ।। १ ॥ इह खल सकलकविकुलसार्वभौम श्रीमान् श्रीकृष्णानन्दसूरिः यशसेऽर्थकृत व्यवहारविदे शिवंतरक्षतये । सद्यः परनिवृतये कान्तासम्मितत. योपदेशयुजे.॥ इत्याद्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयस्माधनतां, काव्यालापांश्च वर्जयेत्” इत्यस्य निषेधशास्त्रस्य असत्काव्यविषयतां च पश्यन् , श्रीनलचरित्रपवित्रित सहृदयानन्दाख्यं महाकाव्य चिकीर्षुः, चिकीर्षितार्थाविघ्न- परिसमाप्तिमंप्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टेष्टदेवतानमस्कारस्य शिष्टा- चारपरिप्राप्तत्वात् , “आशीर्नमस्किया वस्तुनिर्देशो वापि तन्मुखम् ।" इति आशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात् च, तत्र आदौ ऐहिकामुध्मिक- फलावाप्तिहेतुभूनायाः भगवत्याः वाग्देव्याः प्रार्थनारूपं मङ्गलं उपनिबध्नाति ॥ यत् इति ॥ यत् तत्त्वं, लोकेषु भुवनेषु, इन्द्रियाणां वाक्चक्षुःश्रोत्रादीनी पश्चाना हषीकाणां, विषयत्वं गोचरत्व, एति गच्छति; यत् , तत्त्व पदार्थजात, तक्रान्तं इन्द्रियाणि अतीन्द्रियं इन्द्रियागोचरं च, (वर्तते); कृत्मस्य समस्तस्य,
२
सहृदयानन्दे
तस्य तत्त्वस्य प्रत्यक्षस्य लौकिकव्यवहारस्य, वेदशास्त्रादिगम्यस्य अप्रत्यक्षस्य
खर्गमोक्षादिरूपस्य व्यवहारस्य च इत्यर्थः, प्रतिपत्तिहेतुः प्रतिपत्तेः ज्ञानस्य -
मनस्य इति यावत् हेतुः कारणभूता, वाचां देवता वाग्देवता वागधिष्ठातृदेवता सर"
स्वतीदेवी इत्यर्थः, मयि एतन्महाकाव्यनिर्मिमित्सौ मयि, सानिधत्तां सन्निहिता
भवतु ॥ अस्मिन् सर्गे प्रायेण वृत्तं उपजातिः ॥ तल्लक्षणं तु-“ 'स्यादिन्द्रवना
ततजास्ततो गौ ।' 'उपेन्द्रवज्रा जतजास्ततो गौ 'अनन्तरोदीरितल-
क्षमभाजी पादौ यदीयावुपजातयस्ताः' ॥” इति ॥ १ ॥
हत्येन्द्रमेकं करजेरनेकै-
विदारयन्त्रीडमिव प्रपन्नः।
स्वच्छेषु रत्नेष्वनुविम्बदम्भात्
कुर्वन्ननेकं जयतान्नृसिंहः ॥ २ ॥
संप्रति कविः स्वप्रबन्धप्रत्यूहविदलनार्थ विदलितहिरण्यकशिपुवक्षसं
भगवन्तं श्रीनृसिंह अभिष्टौति ॥
दैत्येति ॥ एकं एकाकिन सहायान्तररहितं इत्यर्थः, दैत्यानां इन्द्रः त
दैत्येन्द्र हिरण्यकशिप्वाख्यं असुरपति, अनेकैः बहुभिः दशभिः इत्यर्थः, करे
जायन्ते इति तैः करजैः कररुहै: नखैः इति यावत् ("पुनर्भवः कररुहो नखोऽस्त्री
नखरोऽस्त्रियाम् ।” इति अमरः), विदारयन् विदलयन् सन् , बीडं लजां ('ब्रीड-
शब्दः पुंल्लिोऽपि वर्तते' इति अमाटीकाकारः), प्रपत्रः प्राप्तः इव, खच्छेषु निर्मलेषु,
रत्नेषु स्वाभरणस्थमणिषु, (रकेषु' इति पाठे असुरविदारणसमये तद्वक्षसः
निस्मृतेषु स्वीयाङ्गुल्यग्रलमेघु रुधिरेषु इत्यर्थः), अनुबिम्बं हिरण्यकशिपोः प्रति-
बिम्बं तस्य दम्भात् व्याजात् , एकः न भवति इति तं अनेकं बहुरूपं इत्यर्थः,
कुर्वन विदधत् , न च असौ सिंहः च नृसिंहः नरकेसरी, जयतीत् सर्वोत्कर्षण
वर्तताम् ॥ २॥
दोषोदये तोषमपि प्रपन्नः
खेलस्तुलामेति न कौशिकस्य ।
पूर्वस्य सर्वत्र विपक्षतास्ति
निसर्गतोऽन्यस्य सपक्षतैव ॥ ३ ॥
प्रथमः सर्गः ।
अथ कविः लोकद्वयेन दोषैकदृशः स्खलान् विनिन्दति ॥
दोषोदये इति ॥ दोषोदय दोषाणां आलताना उदये आविर्भावे
विषये (दोषाया: रजन्याः उदये आगम इति कौशिकपक्षे), तोष सन्तोष,
प्रपन्नः अपि गतः अपि, खल: दुर्जनः, कौशिकस्य उलूकस्य (“उलकस्तु
वायसारातिपेचकौ । दिवान्धः कोशिको घूकः" इति अमरः), तुलां उपमा
गाम्य इति यावत् , न एति न प्राप्नोति । तत्र हेतु आह पूर्वस्य आद्यस्य खल-
घ. सर्वत्र सर्वेपि जनेषु, निसर्गतः स्वभावात् एब, विपक्षता विरुद्धः पक्षः
अस्य इति विपक्षः तस्य भावः विपक्षता शत्रुत्व द्वेषः इति यावत् (विगती
पक्षी गरुतो यम्य तस्य भावः विपक्षता पक्षावहानत्व इति च गम्यत), अस्ति
वर्तते । अन्यस्य अपरस्य कौशिकस्य तु गर्वत्र सर्वदा इत्यर्थः, निसर्गतः
स्वभावतः ।व, पक्षाभ्यां मह वर्तते इति सपक्षः तस्य भावः सपक्षता एव
पक्षविशिष्टत्वं एव ( उलकस्य पक्षिजातिवात इत्यर्थः) (पक्षपातित्व इति
च गंम्बते ). अस्ति इति शंप. । दोषाविर्भाव सन्तोषभजनेन यद्यपि दुर्जन-
कोशाती. साम्य अनि . तथापि निगगनः तया. विपक्षतामपक्षताभेददर्श-
नात् दुर्जना उलकः एव श्रेयान दात तात्पर्यम् ॥ ३ ॥
धात्रा खलानां च सतां च किश्चि-
द्विवेचनार्थ क्रियते न चिह्नम् ।
परस्य दोषेष गुणेषु चामी
प्रमोदलाभात्प्रकटीभवन्ति ।। ४ ॥
धात्रा इति ॥ खलानां च दुर्जनानां च, मतां च मजनानां च, विवेचनार्थ
भेदज्ञानाथै, भात्रा ब्रह्मणा. फिचित किमपि, चित्र लक्ष्म. नक्रियने न विधीयते ।
(तथापि), अमी एते दुर्जनाः सन्नानाच, (क्रमात ) परस्य अन्यस्य, दोषेषु
स्खलितेषु, गुणेषु च उत्कर्पेषु च, प्रमोदलाभात् प्रमोदस्य सन्तोपातिगयस्य
लाभात् उपलभान हेता. दुर्जनानां परस्य दांपेषु प्रमोदलाभात् सजानानां परस्म
गुणेषु प्रमोदलाभात् च इत्यर्थः, प्रफटीभवन्ति प्रकाशीभवन्ति व्यक्तीभवन्ति
इति यावत् ॥ ४॥
सहृदयानन्द रत्नस्य काव्यस्य च नूतनस्य तुल्यः स्वभावः प्रतिभासते मे । मृजाभिरत निपुणैः कृताभिः समश्नुवाते हि गुणान्तराणि ॥ ५ ॥ अनेन श्लोकेन कविः नवीन काव्यं नूनेन रत्नन उपमिमीते ॥ रत्नस्य इति ॥ नूतनस्य अभिनवस्य, रत्नस्य मणः, नूतनस्य नवीनस्य, काव्यस्य च प्रवन्धस्य च, स्वभावः अवस्था स्थितिः इति यावत् , तुल्यः सदृशः, (अस्ति); (इति), मे मा , प्रतिभामते प्रतिभाति । हि यस्मात , एते रत्न काव्य च इति इमे द्व अपि, निपुणे: अतिसमथैः परीक्षकैः (ग्नपरीक्षकैः काव्यपरीक्षकश्च इत्यर्थः), कृताभिः विहिताभिः, मृजाभिः परिशोधनैः, अन्य गुणा: गुणान्तराणि गुणविशेषाः तानि विशिष्टगुणान् इति यावत् , समश्नुवात संप्राप्नुतः ॥ ५ ॥ ता एव नूनं सफलोदयाः स्यु- मुक्ताः प्रसन्नाः कविमूक्तयश्च । गुणोपपत्त्या कमनीयगुम्फाः कण्ठे सतां याः पदमामुवन्ति ॥ ६॥ अस्मिन् पद्ये कविः सत्कविसूक्ति मुक्ताहारसमां अभिधत्ते ॥ ताः इति ॥ याः मुक्ताः कविसूक्तयश्च, गुणोपपत्त्या गुणानी सूत्राणां तन्तूनां इति यावत् उपपत्तिः अनुषङ्गः तया ( इति मुक्तापक्षे) गुणाः माधुर्योजः- प्रसादादयः काव्यगुणाः तेषां उपपत्त्या उपयोगेन (इति कविसूक्तिपक्षे), कमनीयः मनोज्ञः गुम्फः ग्रथनं यासां ताः (इति मुक्तापक्षे) कम- नीयः मनोहरः गुम्फः शब्दार्थयोः सम्यक् रचनं यासां ताः (इति सूक्तिपक्षे) (“वाक्ये शब्दार्थयोः सम्यक् रचना गुम्फना मता। इति लक्षणात्) तथाविधाः सत्यः, सतां साधूनां, कण्टे ग्रीवायां ( इति मुक्तापक्षे) कण्ठाभ्यन्तरे हृदयाभ्यन्तरे इति यावत् (इति सूक्तिपक्षे), पदं स्थिति, आप्नुवन्ति लभन्ते ; ताः तादृश्यः, प्रसन्नाः खच्छाः विशदाः इति यावत् , मुक्ताः एव मौक्तिकानि एव, कवीनां काव्यकर्तृणां सूक्तयः प्रबन्धाश्चैव, प्रथमः सर्गः । ५ . , नूनं ध्रुवं, सफल: सप्रयोजनः उदयः उत्पत्तिः यासां ताः तथाविधाः, स्युः भवेयुः ॥ यथा सूत्रेषु हाररूपेण सम्यक गुम्फितानां मौक्तिकानां साधुभिः निजकण्ठे धारणेन साफल्यं भवति ; तथैव माधुर्यादिगुणयुतत्वेन सम्यक रचितानां अनः एव सद्भिः मुपठितानां मनसि धृतानां च सूक्तीनामेव निर्माण सफलं भवेत् इति तात्पर्यम् ॥ ६ ॥ अतिवृत्ते रचिते प्रबन्धे क्रुद्धो सुधा मास्तु कविः पुराणः । न स्पर्धया व्योनि सहस्रधानः खद्योतकः स्वां द्युतिमातनोति ॥ ७॥ • सप्रति कविः श्रीवेदव्यासकृत श्रीमहाभारत विद्यमानस्य नलचरितस्य स्वप्रबन्धऽपि उपात्तत्वात् तत्र विषय व्यास प्रति स्वनच्यानुसन्धानं करोति ॥ अत्र इति । अत्र अस्मिन , प्रबन्धे काव्ये, चित वर्णिते, इतिवृत्ते कथावस्तुनि विषये, पुराणः पुरातनः, मुनिः व्यासमहर्षिः इत्यर्थः, मुधा वृथा, (मा). क्रुद्धः कुपितः 'अम्मत्कृतमहाभारतस्थमेव नलंचरित अय कुकविरपि अम्म- स्पर्धया स्वप्रबन्ध वर्णयति' इति कोपं प्रपन्नः इत्यर्थः, मास्तु माभूत् । तत दृष्टान्त आह -- आकाशे द्योतत प्रकाशन इति खद्योतः ज्योनिरिणः प्रभाकीट: इति यावत् अल्पः खद्योतः खद्योतकः (अल्पार्थ कन् स्वार्थे वा ), सहस्रं धामानि किरणाः यस्य गः सहस्रधामा तस्य महस्रधाम्नः सूर्यस्य, स्पर्धया प्रतिद्वन्द्वितया हेतुना, व्योम्नि आकाशे, स्वां निजा, द्युति कान्ति, न आतनाति न आस्तृणोति ।। इन्द्रवज्रा वृत्तम् ॥ तल्लक्षण तु "स्यादिन्द्रवज्रा ततजास्तता गौ"॥ आसीदसीम्ना सहजेन धाम्ना निषिद्धशत्रुनिषधेष्वधीशः। अनन्यसाधारणवीरसेनं यं वीरसेनं सुधियो वदन्ति ॥ ८ ॥ कविः इदानी खप्रबन्धकथां प्रस्तौति ॥ आसीत् इति ॥ निषधेषु निषधानां जनपदः निवासः निषधाः तेषु निषधदेशे इत्यर्थः ("तस्य निवासः" ६ सहृदयानन्दे .. C इति अण् प्रत्यये प्राप्ते, “जनपदे लुप्" इति बस्य लोपः), न विद्यते सीमा यस्य तेन असीम्ना अनन्तेन अपरिमितेन इति यावत् , सहजेन खतस्सिद्धेन, धाम्ना तेजसा, निषिद्धशत्रुः निषिद्धाः निराकृताः दूरीकृताः इति यावत् शत्रवः अरयः येन सः तादृशः, अधीशः अधिपतिः, आसीत् वर्तते स्म । अनन्यसाधारणवीर- सेनं अन्यैः साधारणाः न भवन्ति इति अनन्यसाधारणाः अनन्यसामान्याः लोकोत्तराः इति यावत् तादृशाः वीराः शूराः सेनायां यस्य तादृशं, यं निषधेश्वरं, सुधियः प्राज्ञाः, वीरसेनं वीरसेननामानं, वदन्ति कथयन्ति ॥ ८ ॥ मध्यन्दिने म्लायति कृष्णवा दिनावसाने रविरस्तमेति । यस्य प्रतापः प्रतिपार्थिवानां दिवानिशं दुर्विषहो बभूव ॥ ९ ॥ अथ कविः षभिः श्लोकैः तं नृपं विशिनष्टि । मध्यन्दिने इति ॥ कृष्णं वम मार्गः यस्य सः कृष्णवत्मी अग्निः (“बर्हिः शुष्मा कृष्णवर्मा शोचिष्केश उषर्बुधः ।” इति अमरः), दिनस्य मध्यं तस्मिन् मध्यन्दिने मध्याह्ने दिवा इति यावत् (मध्यन्दिनशब्दः उत्सादिपु पठितः), म्लायति म्लानिं गच्छति निस्तेजस्कः भवति इत्यर्थः । रविः सूर्यश्च, दिनावसाने दिनस्य अवसानं तस्मिन् दिनान्ते सायंकाले इति यावत् , अस्तं अस्तमयं, एति गच्छति । यस्य वीररोननृपतेः, प्रतापः पौरुषं तु ("प्रतापी पौरुषातपौ”। इति यादवः), प्रतिपार्थिवानां शत्रुराजानां, दिवा च निशायां च दिवानिशं रात्रिन्दिवं सर्वदा इत्यर्थः, दुःखेन विसोढुं शक्यः दुर्विषहः अतिदुस्सहः, बभूव अभवत् । दिवा अनेः तेजसः मालिन्यं भवति; रात्रौ सूर्यस्य तेजसः मालिन्यं जायते । अस्य नृपतेः प्रतापस्य तु सदा दुस्सहत्वात् अग्निसूर्याभ्यामपि उत्कर्षः व्यज्यते ॥ ९ ॥ शरनिशानाथमरीचिगौरै- विसृत्वरैर्यस्य यशःप्रवाहैः। प्रक्षाल्यमानेऽपि जगत्यरीणां मलीमसान्येच मुखान्यभूवन् ॥ १० ॥ " प्रथमः सर्गः। - शरदिति ॥ शरदि शरत्काले यः निशानाथः चन्द्रः तस्य मरीचयः किरणाः तद्वत् गौराः अवदाताः तैः : शरच्चन्द्रमयूखवत् अतिस्वच्छैः इत्यर्थः, विसृत्वरैः विसरणशीलैः (" इण् नशजिसर्तिभ्यः करप्" इति सूधातोः शीलार्थे करप् प्रत्ययः), यस्य वीरसेनस्य, यशःप्रवाहै: यशांसि एव प्रवाहाः जलौघाः तैः, जगति भुवने, प्रक्ष्याल्यमाने निर्मलीक्रियमाणे सत्यपि, अरीणां तच्छत्रूणां, मुखानि वदनानि, मलीमसानि एव मलिनानि एव, अभूवन आसन् (सर्वत्र तत्कीर्तिप्रसरणं दृष्ट्वा शत्रवः सर्वे विषण्णवदनाः अभवन् इति भावः) ॥ १० ॥ युगान्तवातैस्तरलीकृतोर्मि- बेलामतिकामति तोयराशिः। द्विषां जयरुन्नतिमागतोऽपि न लयामास नृपः स्थितिं यः ॥ ११ ॥ युगान्तेति ॥ तोयानां राशिः तायराशिः जलनिधिः, युगान्ते युगप्रलय ये वाताः प्रचण्डानिला: तैः, तरलीकृतोर्मि: तरलीकृताः चञ्चलीकृताः ऊर्मयः वीचयः यस्य सः तथाभूतः सन् , वेलां तीरं मयीदां वा, अतिकामति उल्लङ्घयति । यः, नृपः वीरसेनराजः तु, द्विषां स्वशत्रूणां, जयः पराजयः, उन्नति औनत्य, आगतः अपि प्राप्तः सन् अपि, स्थिति स्वमर्यादा, न लङ्घयामास न अतिचकाम ॥११॥ दोर्दण्डदर्पस्तपनो यदीय- स्तमो निरस्यन्नपि लोकवर्ति । प्रत्यर्थिपृथ्वीपतिमण्डलस्य निमीलयामास मुखाम्बुजानि ॥ १२ ॥ दोरिति ॥ यस्य अयं यदीयः यत्संबन्धी, दोर्दण्डदर्पः दोषी भुजी दण्डौ इव दोर्दण्डौ भुजदण्डौ तयोः दर्पः अवलेपः (तद्रूपः), तपनः सूर्यः, लोके ताच्छील्येन वर्तते इति लोकवर्ति भुवनस्थं ('लोकवृत्ति' इति पाठे लोके अस्तिः वर्तनं यस्य तत् इति व्याख्येयं), तमः पापरूपं अन्धकार, निरस्यन् अपि उत्सारयन् अपि, प्रत्यार्थपृथ्वीपतयः प्रतिपक्षनृपाः तेषां मण्डलं समूहः तस्य, ८ सहृदयानन्दे . मुखानि एव अम्बुजानि पद्मानि वदनकमलानि, निमीलयामास मुकुलयांचकार । प्रसिद्धः सूर्यः लोकस्थितं तमः निरस्यति अम्बुजानि च विकासयति । अस्य भुज- दण्डदर्परूपः सूर्यस्तु पापरूपं तमः दूरीकुर्वन्नपि शत्रुनृपतिमुखाम्बुजानि न विकास- यति प्रत्युत मुकुलात इति अहो अस्य वैलक्षण्यं इति फलितार्थः ॥ १२ ॥ कचिन्न या रज्यति भुज्यमाना गाढानुरागैरपि मेदिनीन्द्रः। सैव क्षितिर्य पतिमभ्युपेत्य पतिव्रतानां व्रतमन्वतिष्ठत् ॥ १३ ।। क्वचित् इति ॥ या क्षितिः, गाढानुरागैः गाढः अत्यन्तः अनुरागः प्रीतिः येषां तैः तथोक्तैः, मेदिनीन्द्रैः मेदिन्याः इन्द्राः तैः क्षितीशेः अन्यैः नृपतिभिः इति यावत् , भुज्यमाना अनुभूयमाना अपि, क्वचित् कुत्रचिदपि नृपे, न रज्यति अनुरक्ता न भवति; सा एव, क्षितिः भूमिः, यं वीरसेनं, पतिं भतीरं, अभ्युपेत्य लब्ध्वा, पनिसेवा एव व्रतं यासां ताः (पत्यो व्रतं यासां ताः, पत्या सह व्रतं यामां ता: वा) पतिव्रताः तासां पतिव्रतानां साध्वीनां, व्रतं नियम, अन्वतिष्ठत् आचरत् (यः अनन्यशासनं यथा तथा भुवं शशास इति भावः) ॥ १३ ॥ निजेन धाम्ना जगतोऽखिलस्य दोषापनोदाय समुद्यतस्य । द्वीपेषु सप्तस्वपि निर्विशेषः करोदयो यस्य रवेरिवासीत् ॥ १४ ॥ निजेन इति ॥ निजेन स्वकीयेन स्वतः सिद्धेन वा, धाम्ना प्रतापेन पौरुषेण इति यावत् , अखिलस्य समस्तस्य, जगतः लोकस्य प्रजानां इति यावत् , दोषापनोदाय दोषाणां स्खलितानां छिद्राणां वा अप- नोदः उत्सारणं तस्मै, समुद्यतस्य जागरूकस्य, यस्य वीरसेनस्य, करो- दयः करस्य' बलेः षष्ठांशरूपस्य राजस्वस्य इति यावत् उदयः उपचयः इत्यर्थः, निजेन स्वीयन, धाम्ना तेजसा, आखिलस्य कृत्नस्य, जगतः विश्वस्य, प्रथमः सर्गः। दोषापनोदाय दोषाणां तमसां पापानां च अपनोदाय दूरीकरणाय, समुद्यतस्य जाग्रतः, रवेः सूर्यस्य, करोदयः इव कराणां किरणानां उदयः आविर्भावः इव, सप्तसु अपि जम्बूप्लक्षशाककौञ्चादिसप्तसंख्याकेषु अपि, द्वीपेषु अन्तरीपेषु (“द्वीपोऽस्त्रियामन्तरीपं" इत्यमरः), निर्गतः विशेषः यस्मात् सः निर्विशेषः तुल्यः, आसीत् अभूत् ॥ १४ ॥ अपि प्रभुः शास्त्रनियन्त्रितत्वा- द्धर्मार्थकामानिव तुल्यवृत्तिः। पौरानसौ जानपदांश्च नित्य- मन्योन्यबाधारहितं बभार ॥ १५ ॥ अपि इति ॥ असौ वीरसेनः, प्रभुः अपि सर्वेषां नियन्ता सन् अपि, शास्त्रनियन्त्रितत्त्वात् शास्त्रैः मनुस्मृत्यादिभिः नियन्त्रितः वशीकृतः तस्य भावः तस्मात् अनुचितशास्त्रमर्यादत्वात् हेतोः इत्यर्थः, तुल्यवृत्तिः तुल्या समाना वृत्तिः वर्तनं परिपालनपरिपाटी इत्यर्थः यस्य सः तथाभूतः सन् , पुरे भवाः तान् पौरान् स्वपुरवासिनः, जनपदे भवाः तान् जानपदान् च ग्रामवासिनश्च, धर्मश्च अर्थश्च कामश्च तान् धर्मार्थकामान् इव त्रिवर्ग यथा, नित्यं सदा, अन्योन्यबाधारहितं अन्योन्यं परस्परं बाधा व्याघातः तया रहितं विहीनं यथा तथा, बभार पुपोष परिपालयामास इति यावत् । (यथा अर्थकामसाधनयोः दण्डविवाहयोः लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेन अनुष्ठा- नात् अर्थकामौ अपि धर्मशेषतां आपादयन् परस्परबाधारहितं यथा तथा पुपोष ; तथा पौरान जानपदांश्च पक्षपातरहितं यथा तथा पालयामास इत्यर्थः) ॥१५॥ दिशामधीशैः पुरुहूतमुख्यै- रपि प्रकामं स्पृहणीयलक्ष्मीः । ततः क्षितीन्द्रात्तनयोऽधिजज्ञ क्षीराम्बुराशेरिव कल्पवृक्षः ॥ १६ ॥ दिशां इति ॥ पुरुहूतमुख्यैः पुरुहूतः इन्द्रः मुख्यः येषां तैः इन्द्रादिभिः इति यावत् ("वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः ।" इत्यमरः), दिशां १० सहळ्याकडे ककुभां अधीशैः अधिपतिभिः दिक्पालकैः अपि इति यावत्, प्रकामं भूखं, स्मृह- णीयलक्ष्मीः स्पृहणीया लोभनीया लक्ष्मीः श्रीः यस्य सः तादृशः, तनयः सुतः, क्षाराम्बुराशेः क्षीरसमुद्रात् , कल्पवृक्षः इव सुरतरुः इव, ततः तस्मात् , क्षिती- न्द्रात् वरिसेननृपात् , अधिजज्ञे संबभूव ॥ १६ ॥ तस्मिन्क्षणे प्राङ्गणसीम्नि राज्ञः प्रसूनदृष्टिनभसः पपात । नीरन्ध्रमासादितया समन्ता- घया हसन्तीव मही विरेजे ॥ १७ ॥ तस्मिन् इति ॥ तस्मिन् , क्षणे पुत्रजननसमये पुत्रजननरूपोत्सव वा (“ निर्व्यापारस्थितौ कालविशेषोत्मवयोः क्षणः ।" इत्यमरः), राज्ञः वीरसेन- नृपतेः, प्राङ्गणसीम्नि प्राङ्गणस्य गृहचत्वरस्य सीम्नि पर्यन्तप्रदेशे (" अङ्गणं चत्वराजिरे।' इत्यमरः), प्रसूनानां पुष्पाणां वृष्टिः वर्षे ("प्रसून कुसुम सुमं” इत्यमरः), नभसः आकाशात् (“ नभोऽन्तरिक्षगगनं" इत्यमरः), पपात पतति स्म। समन्तात् समन्ततः विष्वक् इति यावत् , नीरन्धं अविरलं यथा तथा, आसादितया प्राप्तया, यया प्रसूनवृष्टया, मही भूमिः, हसन्ती इव स्मयमाना इव, विरेजे बभौ ॥ १७ ॥ वसुन्धरे सागरमेखलां खा- मनन्यसाधारणमेष भोक्ता । इतीव नादैः प्रथयांबभूवु- बृन्दानि बृन्दारकदुन्दुभीनाम् ॥ १८ ॥ वसुन्धरे इति ॥ बृन्दारकदुन्दुभीनां बृन्दारकाणां देवानां (“बृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ।" इत्यमरः) दुन्दुभीनां भेरीणां (“ भेरी स्याहन्दुभिः पुमान्" इत्यमरः) तत्पुत्रजननसमये देवैः ताडितानां इत्यर्थः, बृन्दानि समूहाः, नादैः स्वध्वनिभिः वसुन्धरे हे वसुधे (“ वसुधोर्वी वसुन्धरा।” इत्यमरः), एषः अयं वीरसेनतनयः, सागरः मेखला रशना यस्याः सा सागरमेखला तां तादृशीं समुद्रपर्यन्तां इत्यर्थः, त्वां भवती, मथमः सर्गः। . 'अनन्यसाधारणं 'एव अनन्यसामान्यं यथा तथा एव, 'भोक्ता पालयिता (भुज पालने इति धातोः कर्तरि लुटि प्रथमपुरुषेकवचनं)।" इति इत्थं, 'प्रथ- यांबभूवुः इव उद्घोषयामासुः इव ॥ १८ ॥ तदा कुमारोदयमङ्गलश्री- रास्थानभाजः पृथिवीश्वरस्य । न्यवेदि पूर्व सुरपुष्पवर्षे- ोषिनियुक्तैश्चरमं तु चारैः ॥ १९ ॥ तदा इति ॥ तदा तस्मिन् समये, आस्थानं सभामण्डपं भजति इति आस्थानभाक् तस्य आस्थानभाजः सभागृहस्थस्य, पृथिव्याः ईश्वरः तस्य पृथि- वीश्वरस्य वीरसेनमहीपतेः, (निकटे इति शेषः), कुमारोदयमङ्गलश्रीः कुमारस्य पुत्रस्य यः उदयः जननं तदेव मङ्गलं तस्य श्रीः समृद्धिः, सुरपुष्पवः सुराणां देवानां पुष्पवर्षाणि कुसुमवृष्टयः तैः, पूर्व प्रथम, न्यवेदि आख्यायि । यो- पिनियुक्तैः योषिद्भिः अन्तःपुरस्त्रीभिः नियुक्त प्रेषितैः, चारैः तु प्रणिधिभिः गूढचरैः दूतैः पुनः इति यावत् (“ चारस्तु गूढपुरुषः” इत्यमरः), चरम पश्चात् , (न्यवेदि) ॥ १९ ॥ दुःखैरसंभिन्नगुरुप्रमोदा दोषेऽप्यनास्वादितदण्डभीतिः । सङ्कल्पमात्रोपनतार्थसिद्धि स्तदाभवढ्यौरिव राजधानी ॥ २० ॥ दुःखैः इति ॥ तदा तस्मिन् समये, धीयते अस्यां इति धानी राज्ञः धानी राजधानी प्रधाननगरी, दुःखैः व्यसनैः, असंभिन्नः अमिश्रितः गुरुः अपरिमितः च इत्यर्थः प्रमोदः आनन्दः यस्यां सा तादृशी, दोषे प्रजाकृतापराधे सत्यपि, अनास्वादिता अननुभूता दण्डात् राजकृतशिक्षणात् भौतिः भयं यस्यां सा तादृशी, सङ्कल्पमात्रेण इच्छामात्रेण यथेच्छं इत्यर्थः उपनतः लब्धः अर्थस्य द्रविणस्य कार्यस्य वा सिद्धिः लाभः यस्यां सा तादृशी च सती, (अतः एव), द्यौः इव स्वर्ग- लोकः इव, अभवत् बभूव ॥ (राज्ञः पुत्रजननात् तत्पुरवासिनः सर्वे अमन्दा. .
१२
सहृदयानन्दे
.
नन्दभरिताः आसन् ; राजा च तद्धर्षातिरेकात् दण्डाहनिपि न अदण्डयत् ;
अर्थिजनेभ्यः भूरिद्रविणदानं च कृतवान् इति भावः) ॥ २० ॥
अन्तःपुरस्थोऽपि नरेन्द्रसूनु-
रानन्दयामास विशां मनांसि ।
पूर्वाद्रिशृङ्गान्तरितोऽपि भास्वान्
प्रसादयत्येव दिशां मुखानि ॥ २१ ॥
अन्तःपुरस्थः इति ॥ नरेन्द्रसूनुः नरेन्द्रस्य वीरसेननृपतेः सूनुः
तनयः, अन्तःपुरस्थः अवरोधे वर्तमानः मन्नपि (“ घ्यगारं भूभुजामन्तः-
पुरं स्यादवरोधन । शुद्धान्तश्चावरोधश्च" इत्यमरः), विशां नराणां (“द्वौ विशौ
वैश्यमनुजौ” इत्यमरः), मनांसि चेतांसि, आनन्दयामास सन्तोषयाश्चकार ।
तत्र दृष्टान्तं आह- भासः अस्य सन्ति इति भास्वान् सूर्यः, पूर्वाद्रेः उदयपर्व-
तस्य शृङ्गैः शिखरैः अन्तरितः आवृतः मन्नपि, दिशां ककुभां, मुखानि वदनानि
दिक्पुरोभागान् इत्यर्थः, प्रसादयति एव विशदीकरोति खलु ॥ २१ ॥
ततो नियोगादवनीश्वरस्य
पुरोधसा निर्मितजातकर्मा ।
स राजमूनुः सुतरां विरेजे
नीहारनिर्मुक्त इवोष्णरश्मिः ।। २२ ॥
.
ततः इति ॥ ततः अनन्तर, अवनेः पृथिव्याः ईश्वरः तस्य अवनीश्वरस्य
वीरसेननृपतेः, नियोगात् शासनात् , पुरोधसा पुरोहितन, ("पुरोधास्तु
पुरोहितः” इत्यमरः), निर्मितं कृत जातकर्म जातस्य कर्तव्यसंस्कारविशेषः
यस्य सः तादृशः, सः, राज्ञः सूनुः राजसूनुः राजकुमारः, नीहारेभ्यः हिमभ्यः
(“अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।" इत्यमरः) निर्मुक्तः विमुक्तः
अनवरुद्धः इति यावत् , उष्णाः रश्मयः यस्य सः उष्णरश्मिः सूर्यः इव,
सुतरां अत्यन्तं, विरेजे बभौ ॥ २२ ॥
प्रथमः सर्गः। १३ . विलोकमानः कमनीयरूपं कुमारमारोप्य तमदे। निमेषचेष्टामपि पक्ष्मपङ्कयो- श्चिरं विसस्मार महीमहेन्द्रः ।। २३ ॥ विलोकमानः इति ॥ मह्याः महेन्द्रः महीमहेन्द्रः बीरसेनक्षितीशः, कमनीयं मनोझं रूपं आकृतिः यस्य तं, तं तादृशं, कुमार पुत्रं, भादेशे उत्सझे, आरोप्य निवेश्य, विलोकमानः निरीक्षमाणः सन् , पक्ष्मणां पङ्क्ती तयोः पक्ष्मपतयोः पक्ष्मराज्योः, निमेषचेष्टां अपि निमीलनस्पकर्मापि पक्ष्म- सङ्कोचमपि, चिरं बहुकालपर्यन्तं, विसस्मार विस्मृतवान् आसीत् । तं कुमारं निर्निमेषं यथा तथा चिरं निरीक्षितवान् इत्यर्थः ॥ उपेन्द्रवज्रा वृत्तम् ॥ तलक्षणं तु-- 'उपेन्द्रवज्रा जतजास्ततो गौ ॥' ॥ २३ ॥ लब्ध्वार्थकामार्जनकोविदत्व- मयं न लीयेत कदापि पापे। इतीव निश्चित्य गुरुनिमित्तै- श्वकार नाम्ना नलमात्मजं तम् ॥ २४ ॥ संप्रति कविः राज्ञा स्वतनयस्य अन्वर्थ नाम कृतं इति आह- लब्ध्वा इति ॥ 'अयं एषः पुत्रः, अर्थश्च कामश्च अर्थकामौ तयोः अर्जने संपादने कोविदः प्रवीण: तस्य भावः तत्, लब्ध्वा प्राप्य, कदापि कुत्रचित् समयऽपि, पापे दुष्कृते, न लीयेत लीनः न भवेत् ।' इति एवं, निमिचैः हेतुभिः, निश्चित्य इव निश्चयं कृत्वा इव, गुरुः पुरोहितः पिता वा (“गुरू गीष्पतिपित्राद्यो” इत्यमरः), तं, आत्मनः जायते इति तं आत्मजं सुतं, नाना अभिधानेन, नलं नलनामानं इत्यर्थः, चकार कृतवान् ॥ २४ ॥ तस्यानिमित्तस्मितचन्द्रिकाभि- यथा यथा जृम्भितमर्मकस्य ।
१४ सहृदयानन्दे M 3; तथा तथासीदवनीश्वरस्य प्रमोदवारांनिधिरुत्तरङ्गः ॥ २५ ॥ तस्य इति ॥ तस्य तादृशस्य, अर्भकस्य शिशोः ("पोतः पाकोऽर्भ- को डिम्भः पृथुकः शाबकः शिशुः ।" इत्यमरः), नास्ति निमित्तं येषां तानि अनिमित्तानि अकारणानि तादृशानि स्मितानि मन्दहासाः तानि एव चन्द्रिकाः ज्योत्स्नाः ताभिः, यथा यथा येन येन प्रकारेण, जृम्भितं आविर्भूयतेस्म इत्यर्थः ; तथा तथा तेन तेन प्रकारेण, अवनीश्वरस्य भूपतेः, प्रमोदवारांनिधिः प्रमोदः अत्यन्तहर्षः सम्मदः इति यावत् सः एव वारांनिधिः जलनिधिः, उत्तरङ्गः उद्भूताः तरङ्गाः यस्मिन् सः तादृशः अत्यन्तं क्षुब्धः इत्यर्थः, आसीत् अभूत् ॥ २५ ॥ पद्भयां हरिद्रारसरञ्जिताभ्यां स्पृष्टा मही यत्कमलाङ्किताभूत् । तेनैव तस्मिन्कमलोद्भवायाः सान्निध्यमुच्चैः प्रथयांबभूव ॥ २६ ॥ पद्भयां इति ॥ यत् येन कारणेन, मही भूमिः, हरिद्रारसरञ्जिताभ्यां हरिद्रायाः निशाख्यायाः पीतायाः इति यावत् (निशाख्या काश्चनी पीता हरिद्रा वरवर्णिनी।' इत्यमरः) रसः द्रवः तेन रजितौ चर्चितो ताभ्यां, पद्भयां शिशोः चरणाभ्यां, स्पृष्टा स्पर्श प्रापिता सती इत्यर्थः, कमलाङ्किता कमले: तत्पादस्थपद्माकाररेखाभिः इत्यर्थः अङ्किता चिह्निता सञ्जातचिह्ना इति यावत् , अभूत् बभूव ; तेन कारणेन एव, ( सा मही), तस्मिन् नले, कमलोद्भवायाः कमले उद्भवः यस्याः तस्याः पद्मसंभवायाः लक्ष्म्याः इति यावत् , सन्निधेः भावः सानिध्यं सन्निधानं आभिमुख्यं इति यावत् , उच्चः भृशं, प्रथयांबभूव प्रकटीच- कार ॥ इन्द्रवज्रा वृत्तम् ॥ २६ ॥ बाल्यादनाविष्कृतवर्णभेदै- वैचोभिरर्बोच्चरितैस्तदीयैः । राज्ञः प्रमोदः प्रथमं व्यधायि लिङ्गैस्तु पश्चात्कथितस्तदर्थः ॥ २७ ॥ .
प्रथमः सर्गः। १५ बाल्यात् इति ॥ बालस्थ भावः बाल्यं तस्मात् बाल्यात् शैशवात् हेतोः, अनाविष्कृतः अस्पष्टीकृतः वर्णाना अक्षराणां भेदः व्यत्यासः येषु तैः ता- दृशैः, अर्घोच्चरितैः असमग्रं यथा तथा उदीरितैः, तस्य इमानि तदीयानि तैः तदीयैः तत्संबन्धिभिः, वचोभिः जल्पितैः, प्रथमं पूर्व, राज्ञः वीरसेनभूपतेः, प्रमोदः प्रहर्षः, व्यधायि अतानि । तदर्थः तेषां वचनानां अर्थः अभिधेयं तु, पश्चात् त- दनन्तरं, लिङ्गः संज्ञाभिः संकेतैः वा, कथितः निवेदितः (आसीत् ) ॥ २७ ॥ निर्मीयमाणा निपुणैर्नृपस्य नेपथ्यलक्ष्मीन तथा प्रियासीत् । यथा यदृच्छारसिकस्य तस्य विलुप्यमाना करपल्लवेन ॥ २८ ॥ निर्मीयमाणा इति ॥ निपुणैः अतिसमर्थैः प्रसाधकैः, निर्मीयमाणा कि- यमाणा, नेपथ्यलक्ष्मीः चन्दनकुसुमतिलकादिस्वालंकारशोभा, नृपस्य राज्ञः वीर- सेनस्य, तथा तेन प्रकारेण, प्रिया सन्तोषकरी, न आसीत् ; यहच्छारसिकस्य य- इच्छायां स्वाच्छन्द्य स्वैराचरणे इति यावत् रसिकस्य उत्सुकस्य, तस्य बालस्य, रपल्लवेन करः पल्लवः इव तेन पाणिकिसलयेन, विलुप्यमाना विनाश्यमाना विक्रि- यमाणा सती, यथा येन प्रकारेण, (प्रिया आसीत्)॥ १८ ॥ संस्पर्धमानेव नराधिपस्य प्रमोदलक्ष्मी मुहुरुल्लसन्तीम् । दिने दिने तस्य शरीरयष्टि- नवां नवां वृद्धिमुपारुरोह ॥ २९ ॥ संस्पर्धमाना इति ॥ तस्य नलस्य, शरीरं यष्टिः इव शरीरयष्टिः गात्र- लता तनुतरं गानं इत्यर्थः, मुहुः पुनः पुनः, उल्लसन्ती प्रवर्धमानां इत्यर्थः, नराधिपस्य वीरसेननृपतेः, प्रमोदलक्ष्मी प्रहर्षसंपत्ति, संस्पर्धमाना इव संघर्षन्ती इव विजिगीषमाणा इव इत्यर्थः, दिने दिन प्रतिदिनं, नवा नवां अतिनूतनां, वृद्धि उपचयं, उपारुरोह उपजगाम ॥ २९ ॥ अभ्यासहेतोः क्षिपतः पृषत्कान् ज्याकृष्टिजन्मा ध्वनिरस्य योऽभूत् ।
१३ सहायानन्दे . तेनैव दर्पः प्रतिपार्थिवानां धनुर्धता दूरतरं निरस्तः ॥ ३० ॥ अभ्यासहेतोः इति ॥ अभ्यासहेतोः अनुशीलनार्थ परिचयार्थ इति या- वत् , पृषत्कान् बाणान् ('पृषत्कबाणविशिखाः' इत्यमरः),क्षिपतः अस्यतः, अस्य नलस्य, ज्याकृष्टिजन्मा ज्यायाः मौाः आकृष्टिः आकर्षण तस्मात् जन्म उत्पत्तिः यस्य तादृशः धनुषि गुणारोपणेन जातः इत्यर्थः, यः ध्वनिः शब्दः, अभूत् उद- भवत; तेन एव तादृशेन ध्वनिना एव, धषि बिभ्रति इति धनुर्भूतः तेषां धनु भृतां धानुष्काणां धनुर्विद्याविशारदानां इत्यर्थः, प्रतिपार्थिवानां प्रत्यर्थिनृपाणां, दर्पः धनुर्विद्याकौशलजनितः अहंकारः, दूरतरं अतिदूरं, निरस्तः अपाकृतः, (आसीत्) ॥ ३०॥ न केवलं लोचनवर्त्मवर्ति शराः शरव्यं जगृहुस्तदीयाः। शब्देन दूरादनुमीयमानं विचिन्त्यमानं मनसापि भेजुः॥ ३ ॥ न इति ॥ तस्य इमे तदीयाः नलसंबन्धिनः, शराः बाणाः, लोचनयोः नयनयोः वर्त्मनि गार्गे वर्तते इति लोचनवर्त्मवर्ति दृश्य इत्यर्थः, शृणाति इति शरुः (=शरशिक्षा); शरवे हितं शरव्यं लक्ष्य केवलं ('उगवादिभ्यो यत्' इति यत् प्रत्ययः) ('लक्ष्य लक्षं शरव्यं च' इत्यमरः), न जगृहुः न अवियन् इत्यर्थः; (अपितु), दूरात् दूरप्रदेशात् , शब्देन ध्वनिना, अनुमीयमानं ऊयमानं, (तथा), मनसा चित्तेन, विचिन्त्यमानं आलोच्यमानं, शरव्यं अपि, भेजुः प्रापुः आविध्यन् इत्यर्थः । तस्य बाणा: न केवलं दृश्यलक्ष्यवेधिनः ; अपि तु शब्दवधूिनः चिन्तित- वेधिनश्च अभवन् इति भावः ॥ ३९ ॥ आतिथ्यमक्ष्णोः क्षणमभ्युपैति सौदामनी व्योनि विजृम्भमाणा। कृपाणपाणेधूतचर्मणस्तु नलस्य मालक्षि मतिर्जन ॥ ३२ ॥ %3 आतिथ्यं ति ॥ व्यानि आकाशे ('न्योमपुष्करमम्बरम् ।' इत्यमरः), विजृम्भमाणा आविर्भवन्ती, सुदामा अद्रिणा सह एकदिक् सौदामनी विद्युत् ('तटित् सौदामनी विद्युत् ' इत्यमरः), क्षणं क्षणकालं अपि, अक्ष्णो: नयनयोः, अतिथये इदं आतिथ्यं ('अतिथेयः' इति ध्यप्रत्ययः) नयनगोचरत्वं इत्यर्थः, अभ्युपैति प्राप्नोति । कृपाण: करवाल: खगः इति यावत् सः पाणी यस्य तस्य कृपाणपाणेः करधृतखड्गस्य इत्यर्थः, धृतं चर्म फलकः येन तस्य धृत- चर्मणः करगृहीतचर्मणः इत्यर्थः ('फलकोऽस्त्री फलं चर्म' इत्यमरः), नलस्य, गनिः तु मार्ग: पुनः योधनप्रकारः पुनः, जनन लोकैः, न आलाक्षि न दृश्यते स्म । शस्त्रयुद्ध तस्य हस्तलाघव विद्युनोऽपि वेगवत्तरं इति भावः ॥३२॥ विद्यासु सर्वासु तथा चकार परिश्रमं राजसुतः क्रमेण । निश्चायकं संशयितेऽर्थतत्त्वे मेने यथैनं निवहो गुरूणाम् ॥ ३३ ।। विद्यासु इति ॥ गुरूणां पूज्यानां महता इति यावत् , निवहः समूहः, संशयिते सदिग्धे संजातसंशये इति यावत्, अर्थतत्त्वे अर्थस्य शास्त्रार्थस्य तत्त्वे याथायें विषये, एन इम नल, निश्चायक निर्णायकं, यथा, मेन मन्यते स्म; तथा, राज्ञः सुतः राजसुतः वीरसेनतनयः नलः, सर्वासु समस्तासु अपि, विद्यासु शास्त्रेषु इत्यर्थः, क्रमेण कालक्रमण गच्छता कालेन इत्यर्थः, परिश्रम परिशीलन परिचयं इति यावत्, चकार कृतवान् ॥ ३३ ॥ अथौषधिः कान्तिविशेषवृद्धेः साम्राज्यलक्ष्मीः स्मरपार्थिवस्य । नीराजना विक्रमकुञ्जरस्य नलं सिषेवे नवयौवनश्रीः ॥ ३४ ॥ अथ इति ॥ अथ विद्यापरिशीलनानन्तरं, कान्तिविशेषवद्धः कान्ति- विशेषस्य लावण्यातिशयस्य वृद्धः उपचयस्य, ओषधिः दिव्यौषधिः तत्तुल्या इत्यर्थः, स्मरः एव पार्थिवः तस्य स्मरपार्थिवस्य मन्मथराजस्य, साम्राज्यलक्ष्मीः सम्राजः भावः साम्राज्यं तस्य लक्ष्मीः श्रीः इव स्थिता, विक्रमकुजरस्य विक्रमः .
१८
सहृदयानन्दे
पराक्रमः एव कुञ्जरः गजः तस्य, नीराजना नीराजनाख्यं शान्तिकर्म आरात्रिक
इति यावत् तद्वत् स्थिता इत्यर्थः, नवयौवनश्रीः यौवनस्यः श्रीः यौवनश्री: नवा च
सा यौवनश्रीश्च अभिनवतारुण्यसमृद्धिः इत्यर्थः, नलं वैरसेनि, सिषेवे भेजे ।
नल: यौवनं आरोढुं आरभत इति भावः ॥३४ ॥
पीयूषरश्मेरपहाय मध्यं
भजेदुपान्तं यदि लक्ष्मलेखा।
चवोदितश्मश्रुलताभिरामं
तदोपमीयेत मुखं नलस्य ॥ ३५ ॥
अथ कविः पञ्चभिः श्लोकः तस्य यौवनलक्षणं आह ॥
पीयूषेति ॥ पीयूषमयाः अमृतमयाः रश्मयः किरणाः यस्य तस्य
पीयूषरश्मेः सुधांशोः चन्द्रस्य इति यावत् , लक्ष्मलेखा लक्ष्मणः अङ्कस्य लेखा
रेखा लेखारूप लक्ष्म इत्यर्थः, मध्यं तन्मण्डलमध्यभाग, अपहाय विहाय मुक्त्वा
इति यावत्, उपान्त तन्मण्डलपर्यन्तदेशं, भजत् यदि गच्छति चेत , तदा
तर्हि, नवोदिता प्रत्यप्रोत्पत्रा या श्मश्रलता मुखरामवल्ली ( 'तनूरुहं रोम लोम
तवृद्धौ श्मश्रु पुमुखे ।" इत्यमरः) तया अभिराम मनोज्ञ, लस्य, मुख वदन,
उपमीयेत इन्दुना सदृशीक्रियेत ॥ ३५ ॥
महीभुजां संयति निर्जितानां
श्रियः करिष्यन्ति निवासमस्मिन् ।
इतीव निश्चित्य विधिश्चकार
प्रकामविस्तीर्णममुष्य वक्षः ॥ ३६ ।।
महीभुजां इति ॥ 'सयति युद्ध ('समवायः स्त्रियां संयत् समित्याजि-
समिथुधः ।' इत्यमरः), निर्जितानां पराजितानां अभिभूतानां इति यावत् , मही-
भुजां राज्ञां, श्रियः राजलक्ष्यः, आस्मन् एतस्मिन् नले, निवासं निवसतिं
स्थिति इति यावत्, करिष्यन्ति विधास्यन्ति ।' इति एवं, निश्चित्य इव निर्धाय
इव, विधिः स्रष्टा, अमुष्य अस्य नलस्य, वक्षः उरःस्थल, प्रकामविस्तीर्ण अत्यन्त-
विशालं, चकार कृतवान् ॥ उपेन्द्रवज्रा वृत्तम् ॥ ३६ ॥
प्रथमः सर्गः।
.
नरेन्द्रमनुः क्रशिमातिरेकात्
परं न मध्येन जिगाय सिंहान् ।
हप्तारिवीरद्विपदारणेन
नैसर्गिकेणापि पराक्रमेण ।। ३७ ॥
नरेन्द्रेति ॥ नरेन्द्रसूनुः वीरसननृपतितनयः नल:, कशिमातिरेकात् क-
शिनः कृशत्वस्य अतिरेकात् आधिक्यात् मध्यस्य अत्यन्तकार्यात् हेतोः इत्यर्थः,
मध्यन परं अवलमेन एव केवलं मध्येन एकेन एव इत्यर्थः ('मध्यमं चावलग्नं च
मध्योऽस्त्री' इत्यमरः), सिंहान् केसरिणः, न जिगाय न पराजिग्य । (किन्तु),
दृप्ताः द प्राप्ताः गर्विताः इति यावत् ये अरिवीराः शूराः शत्रवः इत्यर्थः ते एव
द्विपाः गजाः तान् दारयनि विदलयति हात तथोक्तन, नैसर्गिकेण निसर्गात् सि-
द्धन स्वाभाविकेन इत्यर्थः, पराक्रमण अपि विक्रमेण च, (सिंहान् जिगाय)॥
(सिंहानां मध्यमं अतीव कृशं इति प्रसिद्धम् । नल: न केवलं अतिकृशेन स्वमध्येन
सिंहान् अतिशिश्य ; अपि तु विरोधिनृपरूपमत्तगनविदारकेण स्वपराक्रमेणापि,
तान् अतिशेते स्म इति भावः) ॥ ३ ॥
मौर्वीकिणश्यामिकया कृताङ्क-
माजानु दीर्घ भुजयुग्ममस्य ।
विलोकमानः परिपन्थिलोकः
स्वे भाविनि श्रेयसि निःस्पृहोऽभूत् ॥ ३८ ॥
मौर्वीति ॥ मौीकिणश्यामिकया मौाः ज्यायाः धनुर्गुणस्य इति यावत्
('मौर्वी ज्या.शिश्विनी गुणः ।' इत्यमरः) किण: क्षताङ्कः ज्याघातचिहं इति
यावत् तस्य श्यामिकया कालिना, कृतः अङ्गः यस्मिन् तत् कृताचं संजातचिह्न
इत्यर्थः, आजानु जानुपर्यन्त दीर्घ आयतं आजानुलंबि इत्यर्थः, अस्य नलस्य,
भुजयुग्मं बाहुयुगलं (कर्म), विलोकमान: निरीक्षमाणः, परिपन्थिलोकः शत्रु-
समूहः (' अभियातिपरारातिप्रत्यर्थिपरिपन्थिनः ।' इत्यमरः), भाविनि भविष्यति
आगामिनि इति यावत् , स्वे स्वकीये, श्रेयसि क्षेमे सुस्थितिविषये इति अर्थः,
निःस्पृहः स्पृहारहितः निरपेक्षः इति यावत् , अभूत् बभूव ॥ ३८ ॥
२० सहदयानन्दे . गाम्भीर्यमन्धि स्थिरता नगेन्द्र प्रभा दिनेशं कमनीयतेन्दुम् । अप्येकमेन निखिलो गुणौधः परस्परस्पर्धितयेव भेने ॥ ३९ ॥ गांभीर्य इति ॥ गंभीरस्य भावः गांभीर्य गंभीरस्वभावः अगाधता च, अन्धि समुद्र, भेजे प्राप । स्थिरस्य भावः स्थिरता स्थैर्य, नगेन्द्र पर्वतश्रेष्ठं हिमवन्तं इत्यर्थः ('स्थैर्य च हिमवानिव' इत्युक्तत्वात्) (भेजे)। प्रभा कान्तिः, दिनेशं. सूर्य, (भेजे) : कमनीयता मनोहरत्वं सौम्यत्वं इति यावत् , इन्दु चन्दं (भेज)। (एवं एकैकगुणस्य एकैकः एव आश्रयः आसीत् इति भावः) । एकं अपि, एन नलन्तु, निखिल: समस्तः, गुणोधः गाम्भीर्यादिगुणसमूहः, परस्परस्पर्धितया इव अन्योन्यसङ्कर्षित्वेन इव, भंजे प्राप ॥ (अब्ध्यादौ एकैम्मित्रपि गांभी- यादिः एकैकः एव गुणः दृश्यते । तस्मिन् नलं तु समस्त: अपि गुणनिवहः मिलितः दृष्टः इति भावः ॥ ३९ ॥ ततः स्वदोर्दैर्घ्यपरीक्षणाय कदाचिदभ्याशजुषां मुखेन । शस्त्रेण साध्यं पृथिवीन्दसूनुः किंचिद्विधेयं पितरं ययाचे ॥ ४० ॥ ततः इति ॥ ततः यौवनप्रादुर्भावानन्तरं, कदाचित् कस्मिंश्चित् ममये, पृथिवीन्द्रसूनुः राजकुमारः नलः, स्वदोर्दैघ्यपरीक्षणाय स्वस्य दोष्णोः भुजयोः ('भुजबाहू प्रवेष्टो दोः' इत्यमरः) दैव्य॑स्य दीर्घत्वस्य वीर्यस्य इत्यर्थः परीक्षणाय परिशोधनाय निजबाहुवीर्य परीक्षितुं इत्यर्थः, शस्त्रेण आयुधेन ('आयुधं तु प्रहरणं शस्त्रमन्त्रमथास्त्रियाम् ।' इत्यमरः), साध्यं साधनीयं निष्पाचं इति यावत् , चित् किमपि, विधेयं कार्य (उद्दिश्य), अभ्याशजुषां अभ्याशं समीपं जुषन्ते भजन्ते इति अभ्याशजुषः तेषां तत्समीपवर्तिनां मन्यादीना इत्यर्थः, मुखेन द्वारा, पितरं जनक, ययाचे अभ्यर्थयामास ॥ ४० ॥ अथ क्षिति वीक्ष्य जितामशेषां स्वेनैव धान्ना निषधाधिनाथः । .
प्रथमः सर्गः । २१ दोर्दण्डकण्डूमपनोदयिष्यन् दिदेश सूनोदृगयाविहारम् ॥ ४१ ॥ अथ इति ॥ अथ अभ्यर्थनानन्तरं, निषधाधिनाथः निषधेश्वरः वीरसेनः, अशेषां समस्तां, क्षितिं पृथिवीं, स्वेन निजेन, धाम्ना एव तेजसा एव प्रतापेन एव इति यावत् , जितां निर्जितरिपुं इत्यर्थः, वीक्ष्य आलोक्य, सूनोः तनयस्य नलस्य, दोर्दण्डकण्डू दोषौ दण्डौ इव दोर्दण्डौ बाहुदण्डौ तयोः कण्डूं कण्डयां ('कण्ड्ः खर्जूश्च कण्ड्या' इत्यमरः) स्ववीर्यप्रकटनस्पृहां इत्यर्थः, अपनोदयिष्यन् निराक- रिष्यन् सन् , मृगयाविहारं आखेटकोडां ('आखेटो मृगया स्त्रियां' इत्यमरः), आदिदेश अनुजज्ञ मृगयां कर्तुं अनुमेने इत्यर्थः ॥ ४१ ॥ आपांसुकेलि प्रतिपन्नसख्यै- रुपाचशस्त्रैः सह मत्रिपुत्रैः। बिभ्रद्धनुः पार्थनिषक्ततूणः स वाहमारुह्य वनं प्रतस्थे ॥४२॥ आपांसुकेलीति ॥ सः नलः, धनुः चापं, बिभ्रत् वहन् , सन् पार्श्व पार्श्वभागे निषक्तः निबद्धः तूणः तूणीरं यस्य सः तादृशश्च सन् , आपांसुकेलि पांसुक्रीडायाः आरभ्य प्रतिपन्नं प्राप्त सख्यं स्नेहः येषां तैः तादृशैः, उपात्तशस्त्रैः उपात्तानि गृहीतानि शस्त्राणि आयुधानि यैः तैः तादृशैः, मन्त्रिपुत्रैः सह सचिवकुमार साकं, वाहं अश्वं ('वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरः), आरुह्य आधिरुष, वनं अरण्यं प्रति, प्रतस्थे प्रययौ ॥ ४२ ॥ पतिः पृथिव्यास्तमनुभयातुं चमूचरानाटविकान्दिदेश। स केवलं तान्पितृगौरवेण न कार्यबुध्द्यानुचरांश्चकार ॥ ४३ ॥ पतिः इति ॥ पृथिव्याः भुवः, पतिः नायकः वीरसनमहीपतिः इत्यर्थः; तं सुतं, अनुप्रयातुं अनुगन्तुं, अटव्यां चरन्ति इति आटविकाः तान् वनसंचार. कुशलान् इत्यर्थः, चम्बां सेनायां चरन्ति इति तान् चमूचरान् योधान् , दिदेश
२२
सहृदयानन्दे
आदिदेश आज्ञातवान् इति यावत् । सः ननः तु, पितरि गौरवं तेन पितृगौरवेण
केवलं स्वपितृवाक्ये गौरवबुद्ध्या एव, तान् , अनुचरान् अनुगन्तॄन् , चकार वि-
दधे । (परं तु), कार्यबुद्ध्या साहाय्यबुद्ध्या, न (चकार) ॥ उपेन्द्रवज्रा
वृत्तम् ॥ ४३ ॥
नेत्राञ्चलैरेव मृगेक्षणानां
निपीयमानाननचन्द्रलक्ष्मीः।
पुरीमतिक्रम्य नगोपकण्ठे
खेलत्कुरङ्गं स्थलमाससाद ॥ ४४ ॥
नेत्राञ्चलैः इति ॥ (सः ), मृगाणां हरिणानां इत्र ईक्षणे नेत्रे यासा
तासां मृगेक्षणानां मृगदृशां अङ्गनानां इति यावत् , नेत्राश्चलैः नयनोपान्तैः अ-
पाङ्गैः इति यावत् , निपीयमाना सतृष्णं अवलोक्यमाना इत्यर्थः आनन चन्द्रः
इव आननचन्द्रः वदनेन्दुः तस्य लक्ष्मीः सौन्दर्यशोभा यस्य सः तादृशः सन् एव,
पुरीं स्वनगरी, अतिक्रम्य अतीत्य, नगोपकण्ठे नगस्य पर्वतस्य (वृक्षस्य वा)
उपकण्ठे समीपे, खेलत्कुरंग खेलन्तः क्रीडन्तः कुरङ्गाः हरिणाः ('मृगे कुरड्ग-
वातायुहरिणाजिनयोनयः ।' इत्यमरः) यस्मिन् तत् तादृशं, स्थलं वनप्रदेश
इत्यर्थः, आससाद उपययौ ॥ ४४ ॥
तथा स चक्रे भुवि मण्डलानि
सव्यापसव्यानि तुरङ्गमेण ।
यथा मृगैरप्यनवाप्य मार्ग
तन्मध्य एव भ्रमिता व्यधायि ॥ ४५ ॥
तथा इति ॥सः नलः, तुरङ्गमेण अश्वन, भुवि वनभूमी, सव्यापसव्यानि
प्रदक्षिणाप्रदक्षिणानि, मण्डलानि मण्डलाकारगतीः वर्तुलगतीः इति यावत् ;
तथा तेन प्रकारेग, चक्रं कृतवान् । यथा येन प्रकारेण, मृगैः अपि हरिणैः अपि,
मार्ग बहिनिगमनपथं, अनवाप्य अनासाद्य, तन्मध्ये एव तेषां मण्डलानां मध्ये अ-
भ्यन्तरे एव, भ्रमः अस्य अस्ति इति भ्रमी तस्य भावः अमिता परिभ्रमणशीलत्वं,
व्यधायि अकारि ('अन्वभावि' इति पाठे अनुभूयते स्म इत्यर्थः) ॥ ४५ ॥
प्रथमः सर्गः। २३ विहाय तेषां सरणिं से भूयो हयं तथा तीवरयं चकार । दूरं प्रयातानपि तानतीत्य यथा निवृत्तषुभिराजघान ॥ ४६ ॥ विहाय इति ॥ सः नल:, तेषां मृगाणां, सरणिं मार्ग, विहाय मुक्त्वा तान् यथेष्टगतीन् कृत्वा इत्यर्थः, भूयः पुनरपि, हयं खतुरगं, तथा तेन प्रकारेण, तीवरयं तीव्रः क्षिप्रः रयः वेगः यस्य तं तादृशं, चकार विदधे ; यथा येन प्र- कारेण, दूरं बहुदूरं, प्रयातान् अपि विद्रुतान् अपि, तान् तादृान् मृगान् , अतीत्य अतिक्रम्य, निवृत्तेषुभिः निवृत्तैः प्रत्यागतैः इषुभिः बाणैः, आजघान . आहतवान् ॥ ४६ ।। इतस्ततो विद्रवतां मृगाणां येषां विषाणानि नलवकर्त। संरोप्यमाणैर्विशिखैः शिरःसु पुनः सशृङ्गानिव तांश्चकार ॥ ४७ ॥ इतः इति ॥ नलः, इतः ततः सर्वतः इत्यर्थः, विद्वतां प्रधावतां, येषां, मृगाणां कृष्णसाराणां वनमहिषादीनां वा, विषाणानि शृङ्गाणि, चकर्त चिच्छद; तान् तादृशान् मृगान् , शिरस्सु मूर्धसु, संरोप्यमाणैः सम्यक् निखातैः इत्यर्थः, विशिखैः शरैः, पुनः भूयः अपि, सशृङ्गान् इव विषाणसहितान् इव, चकार कृतवान् ॥ ४७ ॥ ततस्तुरङ्गोद्धतधूलिचक्र स्थलं परिक्षीणमृगं विहाय । अग्रेसरैः कैश्चन कृष्णसारै- रादिष्टवमेव वनं स भेजे ॥४८॥ ततः इति ॥ ततः तदनन्तरं, सः नलः, तुरः अश्वैः अश्वखुरैः इत्यर्थः उद्धतं उध्दूतं विकीर्ण इति यावत् धूलिचक्रं पांसुपटलं यस्य तत् तादृशं, १ २४ . सहदयानन्दे . (तथा), परिक्षीणाः प्रविनष्टाः शून्यीकृताः' इत्यर्थः मृगाः यस्मिन् तत् तादृशं, स्वलं प्रदेश, बिहाय विसृज्य, अग्रे पुरःसरन्ति इति अग्रेसराःतैः अप्रतः गच्छाद्भिः कैश्चन कैश्चित्, कृष्णसारैः कृष्णेन नीलवर्णेन साराः श्रेष्ठाः कृष्णसाराः तैः हरिण. विशेषैः ('कृष्णसाररुरुन्यहरशम्बररौहिषाः ।' इत्यमरः), आदिष्टवा इव आदिष्टं दर्शितं वर्त्म मार्गः यस्य सः तादृशः इव, वन विपिनं, भेजे प्राप ॥४८॥ इतः शोकद्वयं एकान्वयम् ॥ कुरस्कैः कीर्णनिकुञ्जगर्भ भुजङ्गमैः शंसितभूमिरन्ध्रम् । . शाखामृगैर्लडिन्ततु शाख खगैः समासादितपादपायम् ॥ ४९ ॥ कुरङ्गकैः इति ॥ कुरङ्गकैः हरिणैः, कीर्णनिकुंजगर्भ कीर्णः संकुलः नि- कुजानां लतामण्डपानां ('निकुञ्जकुजौ वा क्लीबे लतादिपिहितोदरे।' इत्यमरः) गर्भः अन्तःप्रदेशः यस्य तत् तादृश, भुजं कुटिलं गच्छन्ति इति भुजङ्गमाः तैः भुजङ्गमैः सधैंः, शंसितानि सूचितानि भूमिरन्ध्राणि भूविवराणि यस्मिन् तत् तादृशं, (तथा), शाखाचारिणः मृगाः तैः शाखामृगैः वानरैः ('कपिप्लवङ्गप्लव- गशाखामृगवलीमुखाः ।' इत्यमरः), लङ्घिततुङ्गशाखं लङ्घिताः उत्प्लुताः तुङ्गाः उन्नताः शाखाः तरुविटपाः यस्य तत् तादृशं. (तथा), खे आकाशं गच्छन्ति इति तैः खगैः पक्षिभिः, समासादितपादपा पादैः मूलैः पिबन्ति इति पादपाः तेषां अग्राणि पादपाग्राणि समासादितानि संश्रितानि पादपाग्राणि तरुशिखराणि यस्य तत् तादृशम् ॥ ४९ ॥ सिंहैः समानान्तदरीविशेष तरक्षुभिः काहितसान्द्रकक्षम् । विगाहमानं परितो नलेन 'विनीतवत्काननमावभासे । ५० । सिंहः इति ॥ सिंहै: केसरिभिः, समाकान्तदरीविशेष समाकान्ताः अध्युषिताः दरीविशेषाः गिरिकन्दरविशेषाः यस्य तत् तादृशं ('दरी तु कन्दरी
प्रथमः सर्गः।
२५
वा स्त्री' इत्यमरः), (तथा), तरभुभिः मृगादनैः क्षुद्रव्याघ्रविशेषैः इति यावत्
("तरभुतु मृगादनः।' इत्यमरः), काक्षितसान्द्रकक्षं काक्षिताः अभिवाञ्छिताः
सान्द्राः निबिडाः अविरलाः इति यावत् कक्षाः तृणानि वीरुधः वा यस्य तत्
तादृशं ('कक्षौ च तृणवीरुधौ' इत्यमरः), काननं वनं, नलन, परितः समन्ततः,
विगाह्यमानं सञ्चर्यमाणं सत्र, विनीतन तुल्यं विनीतवत् शमितक्रौर्ये इव,
आवभासे आबभौ ॥ ५० ॥
प्रतिस्वनाक्रान्तदिगन्तरेण
ज्यावृष्टिघोषेण गणो मृगाणाम् ।
तमेव सर्वत्र विशङ्कमानः
पाशैविना बद्ध इवावतस्थे । ५१ ॥
प्रतिखनेति ।। मृगाणां हरिणानां, गणः निवहः, प्रतिस्वनाक्रान्तदिगन्त-
रेण प्रतिस्वनेन प्रतिध्वानंन आक्रान्तानि आपूरितानि दिशां ककुभां अन्तराणि
अभ्यन्तराणि यस्य तन तादृशन, ज्याकृष्टिघोषेण ज्यायाः मौयाः आकृष्टिः आ.
कर्षण तस्याः उत्पन्नः घोषः नादः तेन नलधनुष्टकारशब्देन, सर्वत्र सर्वासु दिक्षु
इत्यर्थः, त नल एव, विशंकमानः आशंकमानः सन, पाशैः विना वागुराभिः
विना एव, बद्धः इव, नियत्रितः इव, अवतस्थे निश्चल: तस्थौ इत्यर्थः ॥ ५१ ॥
प्रवेष्टुकामानिव भीतिवेगात्
क्षिति मुखैरुल्लिखतो वराहान् ।
फूत्कारघोषेण निवेद्यमानान्
द्वदर्श दूरादवनीन्द्रसूनुः ॥ ५२ ॥
प्रवेष्टुकामान् इति ।। अवनीन्द्रसूनुः महीपतिपुत्रः नलः, भीतिवेगात्
भयाधिक्यात् हेतोः, क्षितिं भुवं, प्रवेष्टुं कामः येषां तान् प्रवेष्टुकामान् इव प्रवि-
विक्षन् इव, मुखैः मुखाप्रैः पोः इति यावत् ('मुखाग्रे कोडहलयोः पोत्रं' इति
अमरः), (क्षिति), उल्लिखतः विदारयतः, फूत्कार घोषेण फूत्कृतिशब्दन,
निवेद्यमानान् सूच्यमानान् प्रकटीक्रियमाणान् इत्यर्थः, वराहान् सूकरान ,
दूरात् दूरप्रदेशादेव, ददर्श अवलोकयामास ॥ ५२ ॥
सहृदयानन्दे
तरखिना तेन नृपात्मजेन'
विकृष्य चापं कुतुकाद्विमुक्तैः।
नीरन्ध्रमङ्गेषु शरैर्निखातैः
मापुः श्रियं शल्लकिनां बराहाः ॥ ५३ ।।
तरस्विना इति ॥ वराहाः सूकराः, तरः बलं अस्य अस्ति इति तेन
तरस्विना बलवता, तेन, नृपात्मजेन राजकुमारेण नलेन, कुतुकात् कौतुकात्
औसिक्यात् इति यावत्,
चापं धनुः, विकृष्य समाकृष्य, नीरन्ध्र अविरलं यथा
तथा, मुक्कैः तिसृष्टैः, अङ्गेषु गात्रेषु, निखातैः प्रवेशितैः, शरैः बाणैः, शालकिना
सल्लकीनां गजभक्ष्याख्यतरुविशेषाणां ('गजभक्ष्या तु सुवहा सुरभीरसा। महरणा
कुन्दुरुकी सलकी हादिनीति च ।' इत्यमरः) ('शल्लकिना' इति शल्लकिन् शब्द
चिन्त्यः), श्रियं शोभा, प्रापुः भेजिरे ॥ ५३ ॥
धनु ता तेन शरो विमुक्तः
शिक्षाविशेषादविशीर्णवेगः।
प्रदीर्घपति कचिदकपद्या-
मेकोऽपि यूथं बिभिदे मृगाणाम् ॥ ५४ ॥
धनुर्भूता इति ॥ धनु ता धानुष्केण, तेन नलेन, विमुक्तः विसृष्टः,
शिक्षाविशेषात् विशेषपरिचयात् हेतोः, अविशीर्णवेगः अविशीर्ण: अपरिक्षीण.
वेग: रयः यस्य सः तादृशः, शरः बाणः, एकः अपि एकः एव सन् अपि,
क्वचित् कुत्रचित् , एकपद्यां एकपुरुषमात्रसंचारयोग्ये मार्गे, प्रदीर्घपतित प्रदीर्घा
अत्यायता पङ्क्तिः श्रेणिः यस्य तत् तादृशं, मृगाणां हरिणानां, यूथं कुल,
बिभिदे भिनत्तिस्म आजधान इति यावत् ॥ ५३ ॥
वाइद्विषां निष्पतता पुरस्ता-
विषाणचक्रं स तथा चकर्त।
अभ्याशभाजोऽपि विलोक्य वाहान्
द्वेष यथैते सफलं न कुर्युः ॥ ५५ ॥
प्रथमः सर्गः।
वाहद्विषां इति ॥ सः नलः, पुरस्तातू अग्रतः अभिमुख इति यावत्,
.निष्पतता निष्कामता, वाहानां अश्वानां द्विषः शत्रवः वाहद्विषः तेषां वाहद्विषां
महिषाणां ('लुलायो महिषा वाहद्विषत्कासरसरिभाः।' इत्यमरः), विषाणचक्र
शृंगसंचयं चक्राकाराणि शृङ्गाणि वा, तथा तेन प्रकारेण, चकर्त चिच्छेद ; यथा
येन प्रकारेण, एते वाहद्विषः, अभ्याशभाजः अपि स्वसमीपवर्तिनः अपि,
वाहान् अश्वान् , विलोक्य निरीक्ष्य, द्वेषं वैरं, सफलं सप्रयोजनं, न कुर्युः
न विदध्युः ॥ ५५ ॥
स बाणवर्त्मन्यपि वर्तमानान्
कपीनमुञ्चत्करुणाईचेताः।
संरक्षतः स्वावयवानुपेक्ष्य
कण्ठेषु डिम्भानवलम्बमानान् ॥ ५६ ॥
सः इति ॥ करुणाईचेताः करुणया कृपया आई क्लिन्नं पूर्ण इत्यर्थः चेतः
मनः यस्य सः तादृशः, सः नलः, कण्ठेषु गलेषु, अवलंबमानान् विलमान् ,
डिभान् शिशून् , स्वावयवान् निजशरीराणि अपि, उपेक्ष्य, अवगणय्य, संरक्षतः
पालयतः, कपीन् वानरान् , बाणवमनि निजशरपथे, वर्तमानान् अपि, स्थितान्
अपि, अमुश्चत् पर्यहरत् न हिंसितवान् इत्यर्थः ॥ ५६ ॥
निकुञ्जलीनः क्षुधितस्तरक्षुः
विक्रम्य जग्राह मृगं न यावत् ।
नृपात्मजस्तावदुपेत्य वेगा-
दुध्य कुन्तेन तमुदभार ॥ ५७ ॥
निकुओति ॥ क्षुधितः बुभुक्षितः क्षुधापीडितः इति यावत् , (अतः एव),
निकुंजलीनः निकुंजे लतागुल्मे लीनः संछन्नः, तरक्षुः मृगादनः, विक्रम्य विक्रम
कृत्वा, यावत् यावता कालेन इत्यर्थः, मृगं हरिणं, न जग्राह न गृहतिवान् ;
तावत् तावता कालेन, नृपात्मजः राजकुमारः नलः, वेगात् जवेन, उपेत्य उपा-
गम्य, कुन्तेन प्रासायुधेन, तं तरक्षु मृगं वा, उथ्य उद्वन्ध्य निर्भिद्य इति
यावत् , उदभार उचिक्षेप ॥ ५७ ॥
२८
सहृदयानन्दे
अलक्षितः कापि जवातिरेका-
चमूचरैः सान्द्रमहीरुहेषु ।
भ्रमन्वनान्तेषु मृगानुसारी
पनाकरं कञ्चिदसौ ददर्श ॥ ५८ ।।
अलक्षितः इति ॥ असौ नलः, जवातिरेकात् वंगातिशयात् हेतोः, च-
मूचरैः स्वयोधः, काप कुत्रापि, अलक्षितः अनवलोकितः सन् , मृगान् अनु-
सरति इति मृगानुमारी अनुसृतमृगः, सान्द्रमहारुहषु सान्द्राः निबिडाः मयां रो-
हन्ति इति महीरुहाः वृक्षाः येषु तेषु तादृशेषु, वनान्तेषु विपिनोपान्तेषु, भ्रमन
पर्यटन् सन् , कंचित् कर्माप, पद्माकरं कमलाकर तटाकं इति यावत् ('पद्मा-
करस्तटाकोऽस्त्री' इत्यमरः), ददर्श ईक्षांचके ॥ ५८ ॥
किञ्चिनिपीतक्लमवारिबिन्दुः
सरोजसंसर्गवतानिलेन ।
स तस्य तीरे सुखसुप्तहंसे
नरेन्द्रसूनुः सुचिरं चचार ॥ ५९ ॥
किंचिदिति ॥ सः, नरेन्द्रसूनुः नृपतनयः नलः, सरोजसंसर्गवता सरास
जायन्ते इति सरोजानि तेषां संसर्गः संपर्कः अस्य आस्ति इति तेन तादृशेन, अनि-
लेन वायुना मन्दमारुतेन इत्यर्थः, क्लमेन उत्पन्नानि वारीणि क्लमवारीणि श्रमजलानि
स्वदजलानि इत्यर्थः तेषां बिन्दवः पृषताः ( ‘पृषन्ति बिन्दुपृषताः' इत्यमरः)
लवाः इत्यर्थः किंचित् ईषत् निपीताः शोषिताः इत्यर्थः क्लमवारिबिन्दवः यस्य सः
तादृशः सन् , सुखसुप्तहंसे सुखेन सुप्ताः निद्रिताः हंसाः यस्मिन् तस्मिन् तादृशे,
तस्य पद्माकरस्य, तीरे तटे, सुचिरं बहुकालं, चचार संचरितवान् ॥ ५९ ॥
-
मुखे प्रियायाः प्रणयानुबन्धा-
द्वालं मृणालाङ्कुरमर्पयन्तम् ।
सरोजिनीपत्रनिषण्णमेकं
हिरण्मयं हंसमसौ ददर्श ॥ ६० ॥
प्रथमः सर्गः। मुखे इति ॥ अमो नलः, प्रणयानुबन्धात् प्रणयस्य प्रीत्याः अनुबन्धः सश्लेषः तस्मात् प्रेमाधिक्यवशात् हेताः इत्यर्थः, प्रियायाः सहचर्याः हंस्याः इत्यर्थः, मुखे वदनकुहरे चंचूपुटे इत्यर्थः, बालं अतिकोमलं इत्यर्थः, मृणालाङ्कुरं मृणालख्य बिसस्य ('मृणालं बिसमब्जादि ' इत्यमरः) अङ्कुरः प्ररोहः तं, अर्प- यन्तं ददानं, सरोजिन्याः नालन्याः पत्रेषु दलेषु निषण्णं उपविष्टं, एकं कञ्चित् , हिरण्मय सुवर्णमय, हम मरालं, ददर्श अवालोकयत् ॥ ६ ॥ तं धारयिष्यमविपन्नमेव संमोहनास्त्रं स समाददे च । लताश्रितानां वनदेवतानां शुश्राव वाक्यं च मनोज्ञमेतत् ॥ ६१ ।। नं इति ॥ मः च नलश्च, त हंसं, अविपन्नमव अहिसितमेव, धायिष्यन् प्रहाध्यन ग्रहीतुकामः सन् इत्यर्थः, संमोहनानं ममोह्यन्ते जनाः अनेन इति ममोहन तत् च तत् अस्त्रं च मोहोत्पादकं बाणविशेष, समाददे करे जग्राह । लताधितानां लताधिष्टितानां, वनदेवतानां अरण्याधिष्टानदेवतानां, मनोझं मञ्जुल हृदयङ्गम इति यावत , एतत् वक्ष्यमाणं, वाक्यं वचनं अशरीरिवचनं इत्यर्थः, शुश्राव च आकर्णितवान च ॥ (अत्र चकारी तदनसमादानवनदेवता. वचनश्रवणयोः अविलंबाएँ) ॥ ६१ ॥ चापादपाकृष्य नरेन्द्रमूनो शिलीमुखं तूणमुखे निधेहि । संपादयिष्यत्ययमीप्सितं यत् नवानुरूपं तनुरूपलक्ष्म्याः ॥ ६२ ॥ चापात् इति ॥ " नरेन्द्रसूनो हे नृपकुमार, शिलीमुखं बाणं ('अलि. बाणी शिलीमुखौ' इत्यमरः), चापात् कार्मुकात् , अपाकृष्य निगृह्य, तूणस्य मुख तस्मिन् तूणमुखे तूणीरान्तः, निधेहि निवेशय प्रक्षिप इति यावत् । यत् यस्मात् कारणात् , अयं एषः हंसः, तव ते, तनुरूपलक्षम्याः तनोः अवयवस्य रूपलक्ष्मीः सौन्दर्यममृद्धिः तस्याः, अनुरूपं सदृशं, आप्तुं इष्टं ईप्मितं अभि- लषितं, संपादयिष्यति साधयिष्यति ॥ ६२ ॥ . .
सहृदयानन्द ततस्तदाकर्ण्य वचः कुमारः सविस्मयं तद्विदधे तथैव । उपेत्य हंसः सुविदूर एव निषेदिवानित्थमुदाजहार ॥ ६३ ॥ ततः इति ॥ ततः अनन्तरं, कुमारः नृपसुतः नलः, तत् तादृशं, वचः अशरीरिवचनं, आकर्ण्य श्रुत्वा, सविस्मयः विस्मयेन सहितः सन् ( 'सविस्मयं' इति पाठे आश्चर्यसहितं यथा तथा), तथा एव तद्वचनप्रकारेणैव, तत् चापा- पाकर्षणं, विदधे चके । हसः श्वेतगरुत् च ( ' हंसास्तु श्वेतगरुतः' इत्यमरः), उपेत्य नलं उपगम्य, सुविदूरे एव सुतरां दूरतः एव, निषेदिवान् निषण्णः उप. विष्टः सन् इत्यर्थः ('भाषायां सदवसभ्रवः' इति निपूर्वकषदिल् धातोः क्रम- प्रत्ययः), इत्थं एवं वक्ष्यमाणप्रकारं, उदाजहार व्याजहार उवाच इति यावत् ॥ उपेन्द्रवज्रावृत्तम् ॥ ६३ ॥ मधुद्विषो नाभिसरोजजन्मा निर्माणशिल्पी जगतां त्रयाणाम् । त्रयीलतोन्मीलनमूलकन्दः करोतु देवस्तव मङ्गलानि ॥ ६४ ॥ मधुद्विषः इति ॥ मधोः मधुनामकासुरस्य द्विद् शत्रुः तस्य मधुद्विषः विष्णोः ('पद्मनाभो मधुरिपुः' इत्यमरः), नाभिसरोजजन्मा नाभौ नाभिप्रदेशे स्थित यत् सरोजं पद्मं तत्र जन्म उत्पत्तिः यस्य सः तादृशः, त्रयाणां, जगतां भुवनानां भुवनत्रयस्य इत्यर्थः, निर्माणशिल्पी निर्माणे सर्जनविषये शिल्पी कारुः ('कारुः शिल्पी' इत्यमरः) जगत्रयनिर्माता इत्यर्थः, (तथा), त्रयी त्रिवेदी एव लता वल्ली तस्याः उन्मीलनं उदयः आविर्भावः इति यावत् तस्य मूलकन्दः मूलकारणं लोके चेदानां प्रथमप्रवृत्तिहेतुभूतः इत्यर्थः, देवः ब्रह्मदेवः, तव ते, मङ्गलानि कल्याणानि शुभानि इति यावत् , करोतु विदधातु ॥ ६४ ॥ प्रैलोक्यभर्तुः कमलासनस्य विमानधुर्याधिपतित्वलाभात् . + प्रथमः सर्गः । ___३१ सयक्षरक्षःसुरकिन्नरेषु लोकेषु पूज्या मम तातपादाः ॥ ६५ ॥ त्रैलोक्येति ॥ मम मे, तातपादाः नातमिधाः पूज्यः जनकः इत्यर्थः (पादशब्दः अत्र पूज्यवाचकः), त्रैलोक्यभर्तुः त्रयः लोकाः त्रैलोक्यं त्रिभुवन तस्य भर्तुः नाथस्य, कमल आसन यस्य तस्य कमलासनस्य ब्रह्मणः ('विरिश्चिः कमलासनः' इत्यमरः), धुरं भारं वहन्ति इति धुर्याः धूर्वहाः भारवाहिनः इत्यर्थः ('धूर्वह धुर्यधौरे यधुरीणाः सधुरन्धराः ।' इत्यमरः) विमानधुर्याः विमानं व्यो. मयान तस्य धुर्याः वाहकाः तेषां अधिपतिः अध्यक्षः मुख्यः इत्यर्थः तस्य भावः विमानधुर्याधिपतित्वं तस्य लाभः प्राप्तिः तस्मात् हेतोः, सयक्षरक्षस्सुरकिन्नरेषु यक्षाश्च रक्षांसि च सुराश्च किन्नराश्च तैः सह वर्तन्ते इति तेषु तादृशेषु, लोकेषु भुवनेषु, पूजयितुं योग्याः पूज्याः पूजार्हाः, (सन्ति)॥ ५ ॥ स्वकर्म मां शिक्षयता विमाने पित्रा नियुक्तं क्षणमप्यवेक्ष्य । निजासनाम्भोरुहकेसर, श्रमापनोदं कुरुते विरिश्चिः ॥ ६६ ॥• स्वकर्म इति ॥ मां मह्यं इत्यर्थः, स्वस्य कम खकर्म ब्रह्मविमानवहनरूपं निजकृत्य, शिक्षयता अभ्यासयता, पित्रा मम जनकेन, विमाने व्योमयाने, क्षणमपि किश्चित्कालमपि, नियुक्त नियोजितं अधिकृतं इति यावन् , अवश्य दृष्ट्वा, विरिचिः ब्रह्मा ('विरिश्चिः कमलासनः' इत्यमरः). निजासनांभोरुहकेसरैः निज स्वकीयं यत् आसनरूपं अंभोरुहं पद्म तस्य केसरैः किञ्जल्कैः, म मम, श्रमापनोदं श्रमस्य विमानभारवहनजनितक्लमस्य अपनोदं अपनयनं दूरीकरणं इति यावत् , कुरुते विदधाति ॥ (निजासनपद्मकिञ्जल्कैः स्वविमानवहनपरिश्रान्तं मां वीजयति इति भावः) ॥ ६६ ॥ स्नानोन्मुखीनां मुरमुन्दरीणां काश्मीरपकैः परिपिञ्जरेषु ।
३२ सहृदयानन्दे .. अद्रमन्दारतरुपमनः समीरमुक्तैः सुरभीकृतेषु ॥ ६७ ॥ वक्ष्यमाणं श्लोकद्वयं एकान्वयम् ।। खानेति ॥ (अहं), स्नानोन्मुखीनां स्नानं कर्तुं उद्युक्तानां इत्यर्थः, सुरसुन्दरीणां देवस्त्रीणां, काश्मीरपः कुङ्कुमकर्दमैः कुडमलपैः इति यावत् , परि- पिजरेषु अरुणितेषु, (तथा ), समीरमुक्तैः समीरेण वायुना मुक्तानि पातितानि तैः, अदूग्मन्दारतरुप्रसूनः अदूरे समीप स्थिताः ये मन्दारतरवः कल्पकतरु- विशेषाः तेषां प्रसूनानि कुसुमानि तैः, सुरभीकृतेषु. सुगन्धीकृतेषु परिमलितेषु इति यावत् ॥ ६७ ॥ दिक्कुञ्जराणामविरामपाते- मंदाम्बुभिः करितादरेषु । चरामि सार्ध सहचारिणीभिः स्वर्गापगायाः पुलिनान्तरेषु ॥ ६८ ।। दिगिति ॥ (तथा) अविरामपात: अविरामं अविरतं यथा तथा सन्ततं इति यावत् (अविरामः अविरतः वा) पातः पतनं येषां तानि न: तादृशः मन्ततं सवद्भिः' इत्यर्थः, दिक्कुञ्जराणां दिशागजानां, मदांबुभिः मदजलेः, कर्बु- रितोदरेषु कर्बुरितं शबलीकृतं नानावर्णीकृतं इत्यर्थः उदरं मध्यप्रदेशः येषां तानि तादृशेषु, स्वर्गापगायाः खर्ग स्थिता आपगा नदी स्वगोपगा तस्याः सुरनद्याः आकाशगङ्गायाः इत्यर्थः, पुलिनान्तरेषु संकतप्रदेशेषु इत्यर्थः, सहचारिणीभिः सार्ध सहचरीभिः हंसीभिः सह, चगमि पर्यटानि ।। ६८ ॥ कौमारमारभ्य सुताः सुराणां जयन्तमुख्या अपि बद्धसख्याः । तथापि भूयास्तव दर्शनोत्थ- चित्तेऽपि समाति न मे प्रमोदः ।। ६९ ॥ कौमारं इति ॥ जयन्तमुख्याः जयन्तः तदाख्यः देवेन्द्रसुतः ('जयन्तः पाकशासनिः' इत्यमरः) मुख्यः आधः येषां ते तादृशाः, सुराणां देवानां, . D प्रथमः सर्गः । ३ सुना: अपि तनयाः अपि, कौमार आरभ्य बाल्यात् प्रभृति, (मया), बद्धसख्याः . मख्युः भावः सख्यं बद्धं कृतं इत्यर्थः संख्यं स्नेहः यः ते तादृशाः, (सन्ति)। तथापि, तव ते, दर्शनोत्थः दर्शनेन उत्पन्नः, भूयान् अत्यधिकः, प्रमोदः सन्तोषः, मे मम, चित्त अपि मनमि अपि, न संमाति पर्याप्त अवकाशं न लभते इत्यर्थः ॥ ६९॥ न मानसे नैव सुमेरुशृङ्ग न नन्दने नापि गृहे विरिश्चेः । न कापि गन्तुं वलते मनो में त्वया सनाथामवनीं विहाय ॥ ७० ॥ न इति ॥ मे मम, मनः चित्तं, त्वया भवता, नाथेन सह वर्तते इति तां सनाथां नाथवती, अवनी पृथ्वी मर्त्यलोक इत्यर्थः, विहाय विसृज्य, मानसे हंसावासभूत मानसाख्ये सरसि इत्यर्थः, गन्तुं, न वलते न त्वरते न उत्सुकं भवति इत्यर्थः ; सुमेरुशृङ्गे सुमेरोः सुरालयभूतस्य हेमाद्रेः ("मरुः सुमेरुहेमाद्रिः रत्न सानुः सुरालयः' इत्यमरः) शृङ्गे शिखरे अपि, नैव (वलते); नन्दने नन्द- नाख्ये इन्द्रोद्याने अपि ('नन्दनं वनम्' इत्यमरः), न (वलते): विरिश्चः ब्रह्मणः, गृहे अपि सदने अपि मत्यलोके अपि इत्यर्थः, न ( वलते); क्वापि कुत्रापि, (गन्तुं), न (वलते) ॥ ७० ॥ संख्यं त्वया साधयितुं ततो मां स्पृहातिरेकस्तरलीकरांति । पुष्पेषुपुष्पाकरयारिवास्तु तंदावयोः स्याद्यदि कौतुकं ते ॥ ७१ ॥ सख्यं इति ॥ ततः तस्मात् कारणात् त्वया भवता सह, सख्यं स्नेह मैत्री इति यावत , साधयितुं निवर्तयितु कर्तुं इत्यर्थः, म्पृहातिरेक स्पृहायाः वाञ्छाया : अतिरेक: आतशयः आधिक्यं इति यावत् , मां, तरलीकरोति तरलयति चपलीकरोति इत्यर्थः । ते तव, कौतुकं अस्मन्मैत्रीकरण औत्सुक्यं, स्यात् यदि भवेत् चेत्, (तर्हि ), पुष्पेषुपुष्पाकरयोः इव पुष्पाणि एव इषवः सहदयानन यस्य सः पुष्पेषुः कुसुमबाण: मन्मथः हाते यावत् पुरुपाणां आकरः पुष्षाकरः वसन्तः तयोः इव, आवयोः, तत् तादृशं, सख्यं अस्तु भवतु ॥ १॥ ततः समास्थाय स मौनबन्धं मन्दाकिनीपुष्करगन्धभाजा। अमार्जयत्पक्षपुटानिलेन तदङ्गलमानि रजांसि हंसः ॥ ७२ ।। ततः इति ॥ ततः भाषणानन्तरं, सः, हंसः मरालः, मौनबन्ध मौन- मुद्रां तूष्णीभाई इत्यर्थः, ममास्थाय अवलम्ब्य अङ्गीकृत्य इत्यर्थः, मन्दाकिनी आकाशगङ्गा तस्याः पुष्कराणि पद्मानि ('बिसप्रसूनराजीवपुष्कररांभारुहाणि च ।' इत्यमरः) तेषां गन्धः सौरभ तं भजति इति तेन तादृशेन, पक्षपुटानिलेन पक्ष- पुटयोः गरुतोः अनिलेन वायुना, तदङ्गलमानि तस्य नलस्य अङ्गेषु अवयवेषु लमानि स्थितानि, रजांसि पासून भूधूलीः इति यावत् , अमार्जयत् अशोधयत् अपनीतवान् इत्यर्थः ॥ ७२ ॥ भवादृशानां मनुजेषु सख्य मनोरथानामपि दूरवर्ति । तदद्य संपादयतो विधातु- रहेतुकोऽयं मयि पक्षपातः ॥ ७३ ।। भवादृशानां इति ॥ 'मनुजेषु मनुष्येषु विषये, भवादृशाना स्वादशाना, सख्यं सखित्वं स्नेहः इति यावत् , मनोरथानां अपि संकल्पानां अपि कामानां अपि इति यावत् , दूरे वर्तते इति दूरवर्ति अतिदुर्लभत्वात् मनसा चिन्तयितुं अपि असाध्यं इत्यर्थः । तत् तादृशं भवत्सख्यं, अद्य संप्रति संपादयतः उत्पाद- यतः कारयतः इति यावत् , विधातुः विधेः, मयि मम विषये इत्यर्थः, अयं एषः, पक्षपातः आदरः स्नेहः इति यावत् , अहेतुकः निर्हेतुकः यादृच्छिकः इति यावत, (भवति.) ॥ उपेन्द्रवजावृत्तम् ॥ ७३ ॥ मृगार्थमित्थं भ्रमतो बनेषु देवादभूधस्त्वयि सख्यबन्धः ।
प्रथमः सर्गः। स एष पाषाणकणाजिशोः करोदरे मौक्तिकपुञ्जपातः ।। ७४ ।। मृगार्थ इति ॥ मृगार्थे मृगयाविहारार्थे इत्यर्थः, इत्थं एवं, वनेषु अ. रण्येषु, श्रमतः पर्यटतः, ( मे), दैवात् अदृष्टवशात् , त्वयि भवद्विषये, यः, सख्यबन्धः बेहानुबन्धः, आसीत् अजायत ; सः तादृशः, एषः अयं सत्यबन्धः, पाषाणानां अश्मना कणाः शाकलानि तान् पाषाणकणान् शिलाशकलानि ('पाषाण- प्रस्तरप्रावोपलाश्मानः शिला दृषत् ।' इत्यमरः), ग्रहीतुं इच्छुः जिक्षुः तसा जिघृक्षोः आदित्सोः प्रहीतुं इच्छतः जनस्य इत्यर्थः, करस्य उदरं लसिन् करोदरे हस्ताभ्यन्तरे, मौक्तिकपुञ्जपातः भौक्तिकानां मुक्तामणीनां यत् पुर्ण सञ्चयः तस्य पातः पतनं अधिगमः मुक्ताफलप्राप्तिसदृशः भवति इत्यर्थः ॥४॥ अद्य प्रभृत्येव सखा त्वमेकः प्रेमास्पदं स्वादपि जीवितान्मे । इति ब्रुवन्नेव नरेन्द्रसूनुः करेण कण्ठे खगमाममर्श ॥ ७५ ।। अद्य इति ॥ अद्य प्रभृति अस्मात् दिनात् आरभ्य, त्वं एकः एव भवान् एकः केवलं (न तु अन्यः कश्चित् इत्यर्थः), खात् स्वर्कायात् मंदीयात् इत्यर्थः जीवितात् प्राणेभ्यः अपि, प्रेमास्पदं प्रेम्णः बहस्य आस्पद स्थान अत्यन्तप्रीति- भाजनं इत्यर्थः, मे मम, सखा वयस्थः मित्रं इति यावत् , (भवसि)।' इति एव, नरेन्द्रसूनुः नृपकुमारः नलः, ब्रुवन् एव वदन् सन् एव, करेण खपाणि. तलेन, खगं विहगं हंसं इत्यर्थः, कण्ठे प्रीवायां, आममर्श परामृष्टवान् ॥ ७५ ॥ इत्थं प्रसादाभिमुखेन धात्रा निर्यनमावर्जितसल्यबन्धौ। तौ तस्थतुस्तत्र मुहूतमात्र परस्पराभाषणकौतुकेन ॥ ७६ ॥ इत्थं इति ॥ प्रसादाभिमुखेन अनुमहोन्मुखेन, धात्रा विधिना देवेन इति यावत् , इत्थं एवं, निर्यनं प्रयत्नं विनैव निहेतुकं यथा तथा इति यावत् ,
३६
सहृदयानन्दे
दृशौ वयस्य
आवर्जितसख्यबन्धी आवर्जितः उत्पादितः इत्यर्थः सख्यवन्धः नेहानु-
बन्धः ययोः तौ तादृशौ, तौ नलहंसौ, परस्पराभाषणकौतुकेन अन्योन्या- .
लापप्रत्या, तत्र सरस्तीरे, मुहूर्तमात्रं क्षणमात्र, तस्थतुः स्थितवन्तः ॥ ७६ ॥
स्वस्त्यस्तु ते संपति सापयामि
निवेदितं यदनदेवताभिः।
संतपयष्यामि
भूयस्तवालोकरसायनेन ।। ७७ ।।
स्वस्ति इति॥ 'वयस्य हे सखे, ते तुभ्यं, स्वस्ति मङ्गलं, अस्तु भवतु ।
मप्रति अधुना, वनदेवताभिः, यत् , निवेदितं 'संपादयिष्यत्ययमीप्सित यत्त
वानुरूपं तनुरूपलक्ष्भ्याः' इत्येव प्रकारेण उक्त ; (तत्), साधयामि निर्वर्तयामि ।
भूयः पुनरपि, तव भवतः, आलोकरसायनेन आलोकः दर्शनं रमायन इव तेन
त्वदर्शनामृतेन इत्यर्थः ('नीरसाना हि धातूनां लाभोपायो रसायन' इति रसा-
यनं ) रसायनवत् अत्यन्ताप्यायनकरेण त्वद्दर्शनेन इति भावः, दृशौ मम नयने,
सन्तर्पयिष्यामि सम्यक प्रीणयिष्यामि भूयोऽपि त्वां दृक्ष्यामि इति भावः ॥ ७७॥
जाता दिनश्रीर्जरती तदेष
गृहानुपैतुं समयस्तवापि ।
इत्थं वचः कर्णपथाभिराम-
मुदीर्य हंसो वियदुत्पपात ।। ७८ ।।
जाता इति ॥ दिनश्रीः दिनस्य दिवसस्य श्रीः शोभा, जरती जार्णा,
जाता अभवत् इत्यर्थः (सन्ध्यासमयः प्रवृत्तः इत्यर्थः) । तत् तस्मात् हेतोः. तव
अपि भवतः च, गृहान् निजवसतिं ( 'गृहाः पुंसि च भूम्न्येव निकाय्यनिलया.
लयाः।' इत्यमरः) उपैतुं उपगन्तुं, एषः अयं, समयः उचितः कालः, (अस्ति)।
इत्थं एवं, कर्णयोः पन्थाः कर्णपथः कर्णपथस्य अभिरामं कर्णपथाभिरामं श्रवण-
मनोहरं, ४ .न्तश्राव्य इत्यर्थः, वचः बचनं, उदीर्य उक्त्वा, हंसः मानसौकाः,
वियत् आकाशं (विद्विष्णुपदं वा तु पुंस्थाकाशविहायसी।' इत्यमरः), उत्पपात
उज्य ॥ ७ ॥
प्रथमः सर्गः। अतीतहग्वनि हेमहसे क्रमादुपेतेषु चमूचरेषु। शरीरमात्रेण पुरं प्रतस्थे नलोऽन्वगच्छन्मनसा तमेव ॥ ७९ ॥ अतीतेति ॥ हेमहंसे वर्णहंसे, अतीतहग्वम॑नि दृशोः नेत्रयोः वर्त्म मार्गः तत् अतीतः (अतीतं दृग्वर्त्म येन सः इति वा) अतीतहग्वा तस्मिन् अतीतदृग्वम॑नि नयनविषयं अतिक्रान्ते सति इत्यर्थः, (तथा), चमूचरेषु सैनि- केषु च, क्रमात् क्रमशः कालक्रमेण इत्यर्थः, उपेतेषु निजसमीपं उपगतेषु सत्सु, नलः, पुरं खनगरी, शरीरमात्रेण देहेनैव केवलं, प्रतस्थे प्रस्थितवान् । मनसा हृदयेन तु, तं हंस एव, अन्वगच्छत् अनुससार ॥ हंसानुगतमनस्कत्वात् शून्य- हृदय एव पुरं ययौ इति भावः ॥ उपेन्द्रवज्रावृत्तम् ॥ ७९ ॥ प्रेम्णाहयन्तीमिव दीर्घदीधैः प्रदोषशङ्खध्वनिभिर्विदूरात् । । सन्ध्याशुदम्भादनुबद्धरागा नलः प्रपेदे कुलराजधानीम् ।। ८० ।। प्रेम्णा इति ॥ नलः, सन्ध्यांशुदंभात् सन्ध्याकाले विद्यमानाः ये अं- शवः सूर्यकिरणाः तेषां दंभात् व्याजात् सन्ध्यारक्तातपव्याजात् इत्यर्थः, अनुबद्ध- रागां उत्पन्नानुरागां, (अतः एव), दीर्घदीधैः अत्यन्तदीधैः अतिगंभीरैः इत्यर्थः, प्रदोषशंखध्वनिभिः सन्ध्याकालावदकशंखनादैः (करणैः), विदूरात् अतिदूरात् एव, प्रेम्णा अत्यन्तप्रीत्या, हयन्ती (आह्वयन्ती वा) इव आकारयन्ती इव आह्वानं कुर्वती इव स्थितां इत्यर्थः, कुलराजधानी कुलकमागतां निजप्रधान- नगरी, प्रपेदे आससाद ॥ ८० ॥ तदद्भुतं तस्य वनान्तवृत्तं सुहृत्सु शंसत्सु परस्परेण । स्मरन्मुहुः वर्णविहङ्गमस्य निशामनैषीभिषधेन्द्रसूनुः ॥ ८१ ॥ .
सहृदयानन्दे तत् इति ॥ सुहृत्सु तस्य मित्रेषु, अद्भुतं आश्चर्यकरं, तत् तादृशं, तस्य नलस्य, बनान्तवृत्तं वनान्ते अरण्यमध्ये प्रवृत्तं यत् वृत्तं दिव्यहंससख्यरूपःवृत्ता- न्तः तत् , परस्परेण अन्योन्यं, शंसत्सु कथयत्सु सत्सु, निषधेन्द्रसूनुः निषधराज- कुमारः नलः, स्वर्णविहङ्गमस्य स्वर्णमयहंसाक्षणः स्वर्णहंसं इत्यर्थः ("अधीगर्थ- दयेशां कर्मणि" इति कर्मणि षष्ठी), मुहुः पुनः पुनः, स्मरन् उत्कण्ठापूर्वकं चि- न्तयन् सन् एव, निशां रात्रि, अनैषीत् गमयामास ॥ उपेन्द्रवज्रावृत्तम् ॥ वनेषु तस्याचरितं चरेण विज्ञाय राज्ञो भृशमुत्सुकस्य । प्रत्यूषकृत्यं विधिवद्विधाय मूर्धा ववन्दे चरणौ कुमारः ॥ ८२ ।। वनेषु इति ॥ कुमारः राजसुतः नलः, प्रत्यूषे प्रभाते कर्तव्य कृत्य कर्म प्रत्यूषकृत्य प्रातस्सन्ध्यावन्दनादिकं इत्यर्थः, विधिवत् यथाविधि , विधाय कृत्वा, ( अनन्तरं ), वनेषु अरण्येषु, तस्य स्वस्य इत्यर्थः, आचरितं दिव्यहंस- सख्यरूपं कृत्यं, चारेण चारमुखात् इत्यर्थः, विज्ञाय विदित्वा, भृश अत्यन्त, उत्सु- कस्य उत्कण्ठितस्य स्वपुत्रदर्शनाकाइक्षिणः इत्यर्थः , राज्ञः पितुः वारमेननृपतः, चरणौ पादौ, मूनी शिरसा, ववन्दे ननाम ॥ ८२ ॥ अथाभिनन्द्यात्मजमादरेण दोभ्यां परिष्वज्य पतिः पृथिव्याः। मौलेष्वमात्येषु दृशौ निवेश्य प्रमोदवाष्पाकुलमित्युवाच ।। ८३ ।। अथ इति ॥ अथ पुत्रवन्दनानन्तरं, पृथिव्याः पतिः भूपतिः, आत्मज खतनयं, अभिनन्द्य प्रशस्य, आदरेण प्रीत्या प्रीतिपूर्व इत्यर्थः, दो| बाहुभ्यां, परिष्वज्य आलिङ्गय, मूलात् आगताः (मूले भवाः वा) तेषु मौलेषु अन्वयागतेषु आप्तेषु इत्यर्थः, अमात्येषु मन्त्रिषु, दृशौ नेत्रे खनयनयुगं इत्यर्थः, निवेश्य निक्षि- प्यं तान् निरीक्ष्य इत्यर्थः, प्रमोदबाष्पाकुलं प्रमोदेन हर्षभरेण उत्पन्नानि यानि बाष्पाणि अश्रूणि तैः आकुलं परिप्लुतं यथा तथा आनन्दबाष्पगद्गद यथा तथा इत्यर्थः, इति वक्ष्यमाणप्रकारेण, उवाच अवदत् ॥ ८३ ॥ .
प्रथमः समः। . , -गुणैरुदारैर्विनयावतंस निरस्तसाम्येन भुजौजसा च । आरोपितोऽहं धुरि पुत्रभाजां वत्स त्वयाविष्कृतपौरुषेण ॥ ८४ ॥ गुणैः इति ॥ ' वत्स हे पुत्रक, उदारैः उत्तमैः, विनयः प्रहृता एव अ- वतंमः शिरोभूषणं येषां तैः विनयावतंसैः विनयभूषितैः इत्यर्थः , गुणैः सौशील्या- दिभिः, (तथा), भुजौजसा भुजयोः ओजः पराक्रमः तेन भुजौजसा बाहुवीर्येण च, निरस्तं दूर्गकृतं साम्यं समत्वं येन तेन निरस्तसाम्येन निरुपमेन, (तथा), आ- विष्कृतपौरुषेण आविष्कृतं प्रकटीकृतं पौरुषं पराक्रमः येन तेन तादृशेन, त्वया अहं, पुत्रभाजां पुत्रिणां सत्पुत्रवतामित्यर्थः, धुरि अग्रे, आरोपित: प्रतिष्ठापितः, (अस्मि) ॥ ८४ ॥ अद्य प्रभृत्येव नरेन्द्रलक्ष्मी- र्मयानुशिष्टास्तु वशंवदा ते I. श्रेयस्तपःसाधनमेव राज्ञां ज्ञातानुभावेषु तनूद्भवेषु ॥ ८५ ॥ अद्य इति ॥ अद्य प्रभृति एव अस्मात् दिनात् आरभ्य एव, नरेन्द्रलक्ष्मी: राजश्रीः , मया, अनुशिष्टा अनुज्ञाता सती, ते तव, वशंवदा वशवर्तिनी त्वदा- यत्ता इत्यर्थः, अस्तु भवतु (त्वमेव राजा भव इति भावः)। (यतः), तनूद्भवेषु म्वपुत्रेषु, ज्ञातानुभावषु ज्ञातः विदितः प्रकाशीभूतः इत्यर्थः अनुभावः माहात्म्यं येषां तेषु तादृशेषु सत्सु, राज्ञां नृपाणां, तपस्साधनं तपसः साधनं तपश्चरणं एव, श्रेयः श्रेयस्कर. (भवति)॥ ८५ ॥ तदेष रक्षाविधये प्रजानां नक्तंदिवं जाग्रदवाप्तखेदः। धुरं धरित्र्यास्त्वयि सन्निवेश्य चिराय विश्राम्यतु वीरसेनः ॥ ८६ ॥ नत् इति ॥ तत् तस्मात् हेतोः, प्रजानां प्रकृतिजनानां, रक्षाविधये ..
सहृदयानन्दे
परिपालनकरणाय, नक्तदिवं रात्रिन्दिवं अहोरात्रं इत्यर्थः, जाग्रत् जागरूकः,
(अतः एव), अवाप्तखेदः अवाप्तः अनुभूतः खेदः श्रमः येन सः तादृशः, एषः
अयं, वीरसेनः (वीरसेननामा अहं इत्यर्थः), धरित्र्याः पृथिव्याः, धुरं भारं, त्वयि
तव उपरि इत्यर्थः, संनिवेश्य निक्षिाय, चिराय चिरकालं, विश्राम्यतु विधान्तः
भवतु विश्राम अनुभवतु वा इत्यर्थः ॥ ८६ ॥
निवार्यमाणोऽपि मुहुः प्रणम्य
नलेन बद्धाञ्जलिसंपुटेन ।
निवेश्य तस्मिन्नवनीन्द्रलक्ष्मी-
मुपाददे लक्ष्म तपोधनानाम् ॥ ८७ ।।
निवार्यमाणः इति ॥ बद्धाजलिसंपुटेन बद्धं अजलिसंपुटं येन तेन
तादृशेन कृताञ्जलिबन्धेन इत्यर्थः, नलेन, मुहुः पुनः पुनः बहुशः इत्यर्थः, निवार्य-
माणः अपि निषिध्यमानः अपि, (सः वीरसेनः), तस्मिन् नले, अवनीन्द्रलक्ष्मी
राजलक्ष्मी, निवेश्य निक्षिप्य, तपोधनानां तपः एव धनं येषां तेषां तपखिनां
मुनीनां इति यावत् , लक्ष्म चिह्नं चीराजिनजटादिकं इत्यर्थः, उपाददे धृतवान् ॥
उपेन्द्रवज्रावृत्तम् ॥ ८ ॥
स बाष्पमोक्षैरपि न क्षमोऽभूत्
पितुः समारम्भनिवर्तनाय ।
विपर्ययं नैति महात्मनां हि
प्रतिश्रुतोऽर्थः प्रतिबन्धकेन ।। ८८ ॥
सः इति ॥ सः नल:, बाष्पमोक्षैः अपि शोकाश्रुमोचनै अपि, पितुः
स्वजनकस्य, समारभनिवर्तनाय समारंभात् वनगमनप्रयत्नात् निवर्तनं निवारण
तस्मै तद्वनगमनरूपप्रयत्नं निवारयितु इत्यर्थः, क्षमः समर्थः, न अभूत् न बभूव ।
हि यस्मात् कारणात् , महान् आत्मा येषां तेषां महात्मनां उत्तमस्वभा-
वाना, प्रतिश्रुतः प्रतिज्ञातः, अर्थः कार्य, प्रतिबन्धकेन उपरोधनेन, विपर्ययं विप-
सिं व्यतिक्रमं इति यावत् , न एति न गच्छति न प्राप्नोति इत्यर्थः ॥ उपेन्द्र-
वज्रावृत्तम् ॥ ८८॥
प्रथमः सर्गः। ४१ अनुपयातः सह पौरंवगैं- नेलेन पर्यश्रुविलोचनेन । चीरातः क्ष्मातिलकः प्रतस्थे तपोवनं निर्विषयाभिलाषः ॥ ८९ ॥ अनुप्रयातः इति ॥क्ष्मातिलकः क्षमा पृथ्वी ('क्ष्मावनिर्मेदिनी मही।' इत्यमरः) तस्याः तिलकः तिलकवत् स्थितः महीभूषणायमानः इत्यर्थः, (सः वी- रसेनः), चीरावृतः चीरं द्रुमवल्कलं तेन आवृतः आच्छादितः धृतचीरवासाः इत्यर्थः, निर्विषयाभिलाषः निर्गतः विषयंषु इन्द्रियार्थेषु अभिलाषःस्पृहा यस्मा- त सः तादृशश्च सन् विषयविमुखः सन् इत्यर्थः, पर्यश्रुविलोचनेन पर्यश्रुणी अश्रु- परिप्लुते विलोचने नयने यस्य तेन तादृशेन, नलेन, पौरवगैः सह पुरजननि- वहैः समं, अनुप्रयातः अनुसृतः सन् , तपोवनं तपस्साधनयोग्य अरण्यं, प्रतस्थ प्रययौ ।। ८९ ॥ शोकाग्निवेगं वचनामृतेन चिरान्मृदूकृत्य नृपः सुतस्य । तं पौरमुख्यैः स्वपुरं प्रवेश्य चकार वन्येन शरीरवृत्तिम् ॥ ९० ॥ शोकाग्नीति ॥ नृपः वीरसेनः, सुतस्य तनयस्य नलस्य, शोकाग्निवेग शोकः स्ववियोगजं दुःखं सः एव अमिः अनल: तस्य वेग: सन्तापाधिक्यं तं, वचनामृतेन वचनं सान्त्ववादनरूपं निजवाक्यं तदेव अमृतं सुधा तेन, चिरात् सुचिरं कालं कथंचित् इत्यर्थः, मृदूकृत्य लघूकृत्य तदुःखशमनं कृत्वा इत्यर्थः, तं सुतं, पौरमुख्यैः पौरेषु मुख्याः तैः सह, स्वपुरं निजनगरी, प्रवेश्य संप्रेष्य, वने भवं वन्यं तेन वन्येन वनजातेन कन्दमूलफलादिना, शरीरवृत्तिं देहपोषणं, च. कार कृतवान् ॥ १० ॥ वैखानसैर्मुनिजनैरभिनन्धमानः संसिद्धिमाप तपसः किल वीरसेनः ।
४२ सहृदयानन्दे तपसः भेजे नलस्त्वखिलपार्थिवमौलिरत्न- राज्यमानचरणः पृथिवीन्द्रलक्ष्मीम् ।। ९१ ॥ वैखानसैः इति ॥ वरिसेनः, वैखानसैः वानप्रस्थाश्रमस्थैः इत्यर्थः, मुनि- जनः तपस्विनिवर्हः, अभिनन्द्यमानः सादरं अभ्युपगम्यमानः सन् , तपश्चर्यायाः, संसिद्धिं निष्पत्तिं चारितार्थ्य इत्यर्थः, आप किल प्राप्तवान् खलु । नल: तु, अखिलपार्थिवमौलिरत्नः अखिलाः समस्ताःयं पार्थिवाः नृपाः तेषां मौलयः किरीटानि तेषु विद्यमानानि रत्नानि तेः, नीराज्यमानचरण: नीराज्यमानी नाग- जनाख्यं शान्तिकर्म प्रापिता चरणौ यस्य मः तादृशः सन् गमस्तसामन्तनृपव न्दितचरणः मन् इत्यर्थः, पृथिवीन्द्रलक्ष्मी राजलक्ष्मी, भज प्राप ॥ ९१ ॥ , . इति श्रीसान्धिविग्रहिकमहापात्र श्रीकृष्णानन्दकृती सहृदयानन्द महाकाव्य नलचरिते नलसाम्राज्यलाभो नाम प्रथमः सर्गः॥ VE
द्वितीयः सर्गः।
ततोऽभ्यषिश्चन् विधिवनलं द्विजाः
सतां प्रमोदात्तरलं मनोऽभवत् ।
चकार लक्ष्मीः पदमस्य वक्षसि
प्रपेदिरे संपदमूर्जितां प्रजाः ॥ १ ॥
ततः इति ॥ ततः वीरसनवनगमनानन्तरं, द्विः जायन्त इति द्विजाः
ब्राह्मणाः, नलं, विधिवत यथाविधि, अभ्याषिञ्चन् अभिषेकजलस्नानं अकुर्वन ।
तदा), सतां साधूनां. मन: मानमं, प्रमोदात् नलपट्टाभिषेकजनितहर्षातिरेकात
हेताः, तरलं लाल अत्यन्तपरवशं इत्यर्थः, अभवत् अभूत् । अस्य नलस्य, वक्ष-
मि उरसि, लक्ष्मीः राजधाः, पद आश्रयं. चकार कृतवती । प्रजाः प्रकृतयश्च, ऊ-
जितां उत्कृष्टां अत्यधिकां इति यावत् , संपदं धनधान्यादिसमृद्धि , प्रपंदिरे
प्रापुः ॥ अस्मिन सर्गे वशस्थं वृत्तम् ॥ तलक्षणन्तु ‘जतौ तु वंशस्थ-
मुदीरितं जरौ ॥१॥
नरेन्द्रलक्ष्म्याः परिरम्भसंभवां
तथा न भेजे मुदमूर्जितां नलः ।
पितुः सपर्याविरहेण संभृतां
'यथोपलेभे परितापसंपदम् ॥ २ ॥
नरेन्द्रेति ॥ नलः, पितुः जनकल्य, सपर्याविरहेण सपर्यायाः पूजायाः
शुश्रूषायाः इति यावत् विरहण राहित्येन, संभृतां संजातां, परितापसंपदं परि.
तापस्य मनस्सन्तापस्य संपदं आधिक्यं, यथा येन प्रकारेण, उपलेभे प्राप ; तथा
तेन प्रकारेण, नरेन्द्रलक्ष्म्याः राजलक्ष्म्याः, परिरंभसभवां संश्लेषजनितां, ऊर्जिता
अत्यधिकां, मुदं प्रमादं, न भेजे न लेभे ॥२॥
सहृदयानन्द अपि स्वयं पार्थिवनीतिपारंगः स मत्रिणां संमतिमन्ववर्तत । विधूदयासादितवृद्धिरम्बुधि- न जातु वेलामभिलय गच्छति ॥ ३ ॥ अपि इति ॥ सः नलः, स्वयं स्वतः एव, पार्थिवानां नीतयः तासां पार गच्छति इति पार्थिवनीतिपारगः अपि राजनीतिनिपुणः सन् अपि, मत्रिणां धी- सचिवानां, संमति अनुज्ञां, अन्ववर्तत अनुमसार । (तत्र दृष्टान्तं आह)- अम्बूनि धीयन्ते अस्मिन् इति अम्बुधिः समुद्रः, विधूदयासादितवृद्धिः विधाः चन्द्रस्य उदयात् आविर्भावात् आसादिता प्राप्ता वृद्धिः येन सः तथोक्तः सन अपि, जातु कदाचिदपि. वेलां कूलं (“ वेला कूलेऽपि वारिधः '' इति विश्वः), अभिलङ्घय अतिक्रम्य, न गच्छति न याति ॥ ३ ॥ धृतोदये सीदति कैरवं रची तुषारभानो कमलं निमीलति । अशेषमुच्चैर्मुदमाददे जग- निषेव्यमाणे तु नले नृपश्रिया ॥ ४ ॥ धृतोदये इति ॥ रवी सूर्ये, धृतः उदयः येन सः तस्मिन् धृतोदये कृताविर्भावे सति उदिते सति इति यावत् . कैरवं कुमुद (सिते कुमुदकैरवे' इत्यमरः), सीदति म्लानि गच्छति निमीलित भवति इत्यर्थः । तुषाराः शीतलाः भानवः किरणाः यस्य सः तुषारभानुः तस्मिन् तुषारभानी चन्द्रे ('तुषारः शीतल: शीतः' 'भानुः करो मरीचिः स्त्रापुंसयोर्दीधितिः स्त्रियाम् ।' इति च अमरः), (धृतोदये सति), कमल पन, निर्मालति संकोचं प्राप्नोति। नले, नृपश्रिया राजलक्ष्म्या, निषेव्यमाणे तु उपाश्रीयमाणे सति तु. अशेष समस्तं अपि, जगत् भुवनं, उच्चैः अत्यधिका (उच्चैः नितरां इति क्रियाविशेषणं वा), मुदं प्रमोदं, आददे स्वीचकार अवाप इत्यर्थः । (सूर्यस्य चन्द्रस्य वा उदय सति केषांचित् हर्षः केषांचित् व्यसनं च जायते । नलस्य उदये सति कृत्वं जगत् हर्षवशं अभूत् । अतः नलः सूर्यचन्द्रावपि अतिशय्य बभौ। इति भावः) ॥ .
द्वितीयः सर्गः । नवोदयेनेव सहस्रमानुना स्वमण्डलं तेन समन्वंरज्यत । अमुष्य तेजस्तु विसारि सर्वतः परं द्विषामेव बभूव दुःसहम् ॥ ५॥ नवोदयेन इति ॥ नवः उदयः यस्य तेन नवोदयेन अचिरोदितेन, सहस्रं भानवः किरणाः यस्य तेन सहस्रभानुना सूर्येण, स्वमण्डलं इव निजबिम्ब इव, नवोदयन अचिरप्राप्तराज्यसंपदा, तेन नलेन, स्वमण्डलं निजप्रकृतिचक्र प्रकृतिसमूहः इति यावत् , समन्वरज्यत अनुरक्तं कृतं इत्यर्थः (सूर्यमण्डलपक्षे तु रक्तवर्ण क्रियते इति अर्थः बोध्यः)। सर्वतः समन्ततः, विसारि विसृत्वरं, अमुष्य अस्य नलस्य, तेजः तु प्रतापः पुनः, द्विषां शत्रूणां एव, परं अतितरां, दुस्सहं असा, बभूव । (सूर्यतेजः सर्वेषामपि जनानां दुस्सहं भवति ; अस्य नलस्य तेजस्तु स्वशत्रूणामेव दुस्सहं आसीत् । इति अतः सूर्यादपि नलः उत्कृष्टतरः अभूत् इति भावः) ॥ ५॥ शरीरभाजां करणीयसाक्षिणः परेषु मित्रेषु च तुल्यवृत्तयः। विचेरुरेतस्य दिने दिने चराः करास्तुषारेतरदीधितेरिव ॥६॥ शरीरभाजामिति ॥ एतस्य अस्य नलस्य, चराः चारा. गूढसंचारिणः दूताः इत्यर्थः, तुषारेतरदीधितेः तुषारतराः अशीतलाः उष्णाः इत्यर्थः दाधितयः किरणाः यस्य तस्य ('भानुः कगे मरीचिस्त्रीपुसयोर्दीधितिः स्त्रियाम् ।' इत्यमरः) सूर्यस्य इत्यर्थः; कराः इव किरणाः इव, शरीरभाजां शरीरिणां देहिनां, करणीय- साक्षिण: करणीयानां कृत्यानां साक्षिणः साक्षात् द्रष्टारः प्रत्यक्षदर्शिनः, (तथा), परेषु शत्रुषु, मित्रेषु च सुहृत्सु च, तुल्यवृत्तयः तुल्या वृत्तिः येषां ते तथोक्ताः समव्यवहाराः च सन्तः, दिने दिन प्रतिदिन, विचरः ममचरन, ॥ ६ ॥ प्रविश्य रन्ध्राणि तनून्यपि द्विषा- मुदीरयामास स वृत्तिमौरगीम् ।
१६ सहृदयानन्दे शिरांसि तुङ्गान्युपनीय नम्रता वितेनिरे तत्र परे तु वैतसीम् ॥ ७॥ प्रविश्य इति ॥ सः नल:, तनूनि अपि अतिसूक्ष्माणि अपि, द्विषां शत्रूणां, रन्ध्राणि छिद्राणि, प्रविश्य सम्यक अवगत्य इत्यर्थः, उरगस्य सर्पस्य इयं औरगी तां औरगी उरगसंबन्धिनी, वृत्तिं स्वभावं, उदीरयामास प्रकटी- चकार (यथा उरगः अतिसूक्ष्माण्यपि द्वाराणि गूढं प्रविश्य समये प्राणिनः द. शन्ति ; एवं सः नलः आप स्वशत्रूणां व्यसनादिकं अन्तश्च्छिद्रं चारैः गूढं अव- गत्य अवसरे तेषु प्रहरति इति भावः)। परे तु तस्य शत्रवः पुनः, तत्र तस्मिन् नले. तुङ्गानि उन्नतानि, शिरांमि निजशीर्षाणि, नम्रतां प्रहत्वं, उपनीय प्रापप्य, वेतसस्य इय तां वैतसा वेतमसबन्धिनी, (वृत्ति), वितनिरे चक्रुः। (यथा वेतसाः नम्रत्वं उपगम्य प्रबलतरात् वायोः आत्मानं रक्षन्ति ; तद्वंदव प्रबलतर- स्य नलस्य अग्रे प्रणम्रशिरसः भूत्वा आत्मानं ररक्षुः इति भावः) ॥ ७ ॥ अपि त्रिलोकी विजहार लीलया निरर्गलं दोविणार्जितं यशः । अमुष्य मनस्तु कदाचिदाययौ न कर्णमूलान्यापि पार्श्ववर्तिनाम् ॥ ८ ॥ अपि इति ॥ दोविणार्जितं दोष्णोः बाह्वोः द्रविणं बलं ('द्रविणं तु बले धने' इत्यमरः) तेन अर्जितं संपादितं भुजपराक्रमलब्धं इत्यर्थः, अमुष्य एतस्य नलस्य, यश: कीर्तिः, निरर्गलं नियन्त्रण यथा तथा स्वेर इत्यर्थः, त्रयाणां लोकानां ममाहारः त्रिलोकी तां त्रिलोकी अपि भुवनत्रये अपि इत्यर्थः, लीलया मलालं अनायासेन, विजहार सचचार । ( अमुष्य ), मन्त्रः तु विचारः पुनः वेदभेदे गुप्तवादे मन्त्रः' इत्यमरः, पार्श्व समापे वर्तन्त इति तेषां पार्श्ववर्तिनां अपि समीपस्थानां अपि, कर्णमूलानि श्रवणोपकण्ठानि, कदाचित् जातु अपि, न आयया न आजगाम ॥ ८ ॥ यथेन्द्रियाणां निवहो निजं निज विहाय नान्यं विषयं निषेवते । ७ द्वितीयः सर्गः। " तथा जनस्तेन कृतानुशासनः पयः स्वकीयादपरं न शिश्रिये ॥ ९ ॥ यथा इति । यथा यद्वत् , इन्द्रियाणां हृषीकाणां, निवहः समूहः पञ्चे. न्द्रियाणि इत्यर्थः, निजं निजं खं खं, विषयं गोचरं पदार्थ, विहाय मुक्तवा, अन्य अपरं (विषयं ) विषयान्तरं इत्यर्थः, न निषेवते न संश्रयत; तथा तद्वदंव, तेन नलन, कृतं अनुशासन आज्ञा यस्य सः कृतानुशासनः अनुशिष्टः इत्यर्थः, जनः नरः, स्वकीयात् खीयात् , पथ: मार्गात् , अपरं अन्यं पन्थानं. न शिश्रिये न भजत स्म ॥ ९ ॥ निरूपिते वर्त्मनि शास्त्रचक्षुषा पदं वितन्वन्नकृताङ्गपीडनः। अणीयसोऽपि प्रकटीकृताङ्कुरा- नलुण्ठयक्ष्मातिलकः स कण्टकान् ॥ १० ॥ निरूपिते इति ॥ क्ष्मातिलकः भुवनभूषायमाणः, सः नलः, शास्त्र एव चक्षुः तेन शास्त्रचक्षुषा नृपनातिशास्त्रनयनेन, निरूपिते दर्शित, वर्त्मनि मार्गे, पदं चरण प्रवृत्ति इत्यर्थः, वितन्वन् कुर्वन् , ( अतः एव ), अकृताङ्गपाडनः अङ्गानां खाम्यमात्यसुहृदादीनां सप्तानां राज्याङ्गानां अवयवानां च पाडनं हिंमन अङ्ग- पीडन न कृतं अकृतं अकृतं अङ्गपीडन येन सः तादृशः सन , प्रकटीकृताङ्कुरान प्रकाशीकृतप्ररोहान् , अणीयमः अल्पायमः अपि, कण्टकान् क्षुद्रशत्रून् द्रुमन खान् च ‘सूच्यग्रे क्षुद्रशत्री च रोमहर्षे च कण्टकः ।' इत्यमरः, अलुण्ठयत् अपाहरत् । (यथा कश्चित् पथिकः खगन्तव्यमार्गे सम्यक्प्रेरितदृष्टिः अत्यल्पा- नपि कण्टकान् उन्मूलयन् सन् स्वावयवेषु अकृतव्रण: व्रजेत् एवं सः नलोऽपि नृपनीतिपरिज्ञानेन न्यायमार्गे प्रवर्तमानः राज्याङ्गभूतानां अमात्यादीनां मनः- क्लेशं अकुर्वनेव अत्यल्पानपि निजशत्रून् उन्मूलयामास । इति भावः।)॥१०॥ निरर्गलं शैलवनाभिगामिनी- मपीडयन्नेव करेण गामसौ। वृषं पुरस्कृत्य समीहितं दुह- अदृष्टपूर्वी स्फुटमाप गोपताम् ॥ ११ ॥ .
४८ सहृदयानन्दे आप , निरर्गलं इति ॥ असौ नलः, निरर्गलं निष्प्रतिबन्ध यथा तथा (स्वैरं इति गोपक्षे), शैलवनाभिगामिनी अनेकगिरिकाननोपेतां इत्यर्थः (गिरिषु वनेषु च संचरन्तीं इति गोपक्षे ), गां पृथिवीं (धेनुं च ), ("स्वर्गेषुपशुबाग्वजदिड्नेत्र- घृणिभूजले । लक्ष्यदृष्टयोः स्त्रियां पुंसि गौः" इत्यमरः), करेण षष्ठांशभूतेन ब- लिना (हस्तेन च), अपीडयन् एव अक्लेशयन् सन् एव (ऊधसः निष्पीडनं अकु- वन्नेव इति गोपक्षे), वृषं धर्म वृषभं च, 'वृषः स्याद्वासवे धर्मे सौरभेये च शुक्लजे।' इति विश्वः, पुरस्कृत्य अवलंब्य (अग्रे निधाय इति गोपक्षे), समीहितं स्वाभिलषितं पदार्थजातं यथेष्टं दुग्धं च, दुहन् आददानः सन् , अदृष्टपूर्वी पूर्व न दृष्टा अदृष्ट- पूर्वा तां इतः पूर्व अनवलोकितां अतिविलक्षणामित्यर्थः, गां पाति इति गोपः भूपः गोपालश्च तस्य भावः तां गोपतां भूपालत्वं गोपत्वं च, स्फुटं व्यक्त, लेभे ॥ लोके तावत् गोपाः दोहनकाले धेनु गोठे रज्ज्वादिभिः बध्वा वत्सं पुरस्कृत्य तस्याः आपीनं करेण निष्पीज्य दुग्धं आददत । अयं तु धेनौ शैलवना- दिषु स्वैरं संचरन्त्यां सत्यामेव तस्याः पुरः वृषभं संस्थाप्य तस्याः आपीनं स्वपा- णिना अनिष्पीडयन् सन् एव दोहन करोति । अतः एव लोके अदृष्टपूर्वः अति- विलक्षणः कापि गोपः । इति श्लेषार्थः । वास्तविकार्थस्तु- असो नल: विगत- कण्टकां विविधगिरिकाननादिममेतां भुवं, करग्रहणेन स्वप्रजाः अपीडयनेव धर्मेण पालयामास । तस्मात् अतिविलक्षणः अयं भूपाल: । इति ॥ ११ ॥ न केवलं दण्डभयाज्जनोऽखिल- स्तदाभवत्तत्करदानसमुखः । अभून तादग्विषयोऽपि देहिनां मनोरथो येन जगाम वन्ध्यताम् ॥ १२ ॥ न इति ॥ तदा नलराज्यपरिपालनसमये, अखिलः समस्तः, जनः नराः इत्यर्थः, दण्डभयात् निग्रहभीत्या, तत्करदानसंमुखः केवलं तस्य नलस्य कर- दाने षष्ठांशभूतबलिप्रदाने संमुखः उद्युकः एव केवलं, न अभवत् न आसीत् । (किन्तु), येन विषयेन, देहिनां प्राणिना, मनोरथः वाञ्छा, वन्ध्यतां विफलतां निष्प्रयोजनत्वं इति यावत् , न जगाम न प्राप; तादृक् तादृशः, विषयः अपि अपि, न अभूत् न बभूव ॥ १२ ॥ ।
द्वितीयः सर्गः। ४९ निरशस्तस्य यशोमतकाजः प्रतापसिन्दूररजोरुणाननः। निरस्य यन्तारमितस्ततश्चर- भरिद्विपानां समशोषयन्मदम् ॥ १३ ।। निरङ्कुशः इति ॥ निरङ्कुशः अङ्कुशरहितः दुर्निवारः इत्यर्थः, (तथा ), प्रतापसिन्दूररजोरुणाननः प्रतापः पराक्रमः एव सिन्दूररजांसि नागसंभवचूर्णानि तैः अरुणं रक्तवर्ण आननं वदनं यस्य सः तथाभूतः, तस्य नलस्य, यशोमतङ्गजः यशः कीर्तिः एव मतंगजः कुञ्जरः 'मतगजो गजो नागः कुञ्जरो वारणः करी।' इत्यमरः, यन्तारं निरोधकं, निरस्य निर्धूय, इतः ततः सर्वत्र, चरन् पर्यटन् सन् , अरिद्विपानां अरयः शत्रवः एव द्विपाः गजाः तेषां, मदं दर्प, अशोषयत् शोषं प्रापयत् ॥ १३ ॥ इति व्यपास्य व्यसनान्यनारतं . प्रपास्यतस्तस्य महीं महीभुजः । उपायनीकर्तुमिवावनीरुहां प्रसूनकोषानुदभूनवो मधुः ॥ १४ ॥ . इति इति ॥ इति इत्थं, व्यसनानि पानद्यूतादिदोषान् ‘व्यसनं विपदि भ्रंश दोषे कामजकोपजे ।' इत्यमरः, व्यपास्य विहाय, अनारतं अजस्रं सर्वदा इति यावत् , महीं पृथिवीं, प्रपास्यतः परिपालयिष्यतः, तस्य, महीभुजः राज्ञः नलस्य, अवन्यां रोहन्ति इति अवनीरुहः तेषां अवनीरुहां वृक्षाणां, प्रसूनकोषा- (शा)न् प्रसूनानां पुष्पाणां कोषाः कुड्मलाः एव कोषाः धनराशयः तान् 'कोषोऽस्त्री कुयले खङ्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः, उपायनीकर्तुं इव प्रा- भृतीकर्तुं इव 'प्राभृतं तु प्रदेशनम्। उपायनं' इत्यमरः, नवः प्रत्यप्रः, मधुः वसन्त- ऋतुः, उदभूत् प्रावर्तत ॥ १४ ॥ शरीरभाजां जनयिष्यतो मुदं निदेशलाभादिव मेदिनीपतेः। 5 सहृदयानन्दे न बासरस्तीव्रतरातपोभर्व- निशापि नावीव तुषारदूषिता ॥ १५ ॥ शरीरमाजां इति ॥ शरीरभाजां देहिना, मुदं हर्षे, जनयिष्यतः उत्पादयिष्यतः, मेदिनीपतेः राज्ञः नलस, निदेशलाभात् इव आज्ञाधिगमात् हेतोः इव, वासरः वसन्तदिवसः इत्यर्थः, तीव्रतरातपः तीव्रतरः प्रचण्डतरः आतपः सूर्यकान्तिः यस्मिन् सः तथाभूतः, न अभवत् न मासीत् । (तथैव), निशा अपि वसन्तरात्रयः अपि इत्यर्थः, अतीव अत्यन्तं, तुषारदूषिता तुषारैः हिमैः दूषिता क्लिष्टा अभिभूता इति यावत् , न (अभवत्)॥ १५ ॥ अनुप्रतस्थे मलयाद्रिमारुत- स्त्विषांपतिं प्रस्थितमुत्तरां दिशम् । विहाय मार्ग महनीयतेजसां निजेच्छया चेष्टितुमुत्सहेत कः ॥ १६ ।। अनुप्रतस्ये इति ॥ मलयाद्रिमारुतः मलयाद्रेः मलयपर्वतस्य मारुतः वायुः मन्दमारुतः इत्यर्थः, उत्तरां उदीची, दिशं ककुभं उत्तरायणं इत्यर्थः, प्रस्थित प्रयान्त, त्विषांपतिं सूर्य, अनुप्रतस्थे अनुसृत्य प्रस्थितवान् । कः को वा नरः, महनीयं तेजः येषां तेषां महनीयतेजसां श्लाथनीयप्रतापानां जनानां, मार्ग मरणि, विहाय मुक्त्वा, निजेच्छया खेच्छया खेच्छानुरूपं इत्यर्थः, वेष्टितुं व्यव- हर्नु, उत्सहेत शक्नुयात् ॥ कोऽपि न उत्सहेत इत्यर्थः ।। १६ ॥ सरोरुहाणां सुहृदा पराभवा- दवासविद्वेष इचानुवासरम् । क्रमेण संपादितपाटवैः करै- जहार नीहारपरम्परां रविः ॥ १७ ॥ रोरुहाणां इति । रकिः सूर्यः, सुहृदां मित्राणां सुहृद्भूतानां इत्यर्थः, सरोकांनी पनाना, पराभवात् (हिमकृतात्) अभिमवात् , अनुवासरं अनुदिन, माती उपगतः विद्वेषः वेर येन सः अवाप्त विद्वेषः संजातवैरः इव, कमेण काल-
द्वितीयः समः ।
.
कमेण, संपादितपाटवैः पटोः भाव पाटवं सामथ्र्य संपादितं पाटवं यः ते तथा-
भूतैः, करैः समयूखैः (हस्तैः इति च गम्यते), नीहारपरंपरां नीहाराणां हिमानां
अवश्यायस्तु नीहारतुषारतुहिन हिमम् ।' इत्यमरः परंपरा संहति, जहार
अपहृतवान् ॥ १७॥
विलोक्य रत्नाकरमेखला भुवं
खवंशकेतावनुरागिणी नले।
प्रमोदलाभादिव शीतदीधितिः
प्रसादसंपत्तिमवाप कामपि ॥ १८ ॥
विलोक्य इति ॥ शीतदीधितिः शीतकिरणः चन्द्रः इति यावत् , रत्ना-
करमेखला समुद्ररशनां उदधिपरिवेष्टिता इत्यर्थः, भुवं भूमि, खवंशकेतौ स्वस्थ
वंशस्य चन्द्रकुलस्य इत्यर्थः केतुः चिह्न केतुवत् व्यावर्तकः इत्यर्थः मुख्यः इति
यावत् तस्मिन् तादृशे, नले विषये, अनुरागिणी प्रीतिमती, विलोक्थ, प्रमोद-
लाभात् इव प्रहर्षाधिगमात् हेतोः इव, कामपि अनिर्वचनीयां, प्रसादसंपत्ति
प्रसन्नताधिक्यं अधिकनैमल्यं इत्यर्थः, अवाप लेभे ॥१८॥
हितं प्रजानां सततं विधित्सतः
क्षणपदानार्थमिवास्य भूपतेः।
निरस्य रात्रेः परिणाहसंपदं
रविर्दिनं द्रापयितुं प्रचक्रमे ॥ १९ ।।
हितं.इति ॥ रविः सूर्यः, सततं सर्वदा, प्रजानां प्रकृतीनां स्वराज्यस्थ-
जनानां इति यावत् , हितं मंगल क्षेमं इति यावत् , विधातुं इच्छन् विधित्सन्
तस्य विधित्सतः चिकीर्षतः, अस्य, भूपतेः नलमहाराजस्य , क्षणप्रदानार्थ इव
अधिकावकाशदानाय इव, रात्रेः रजन्याः, परिणाहसंपदं परिणाहः विशालता दैर्घ्य
इति यावत् तस्य संपदं समृद्धिं दैाधिक्यं इत्यर्थः, निरस्य अपोख, दिनं दिवसं
दिवाकालं इत्यर्थः, दाधयितुं दीर्घतरं कर्तु, प्रचक्रमे आरेभे ।। (वसन्तकाले रात्रयः
स्वाः दिवसाय दीर्घाः भवन्ति इति प्रसिद्धम्) ॥ १९ ॥
सहृदयानन्दे क लताः परीरम्भमवाप्य निर्भर नभस्वतश्चन्दनशैलंजन्मनः। समुल्लसभूतनपल्लवच्छला- व्यजृम्भयनरागमिवान्तरं बहिः ॥ २० ॥ लताः इति ॥ लताः वल्ल्यः 'वल्लीतु व्रततिर्लता' इत्यमरः, चन्दनशैल- जन्मनः चन्दनप्रधानः शैल: चन्दनशैल: मलयगिरिः इत्यर्थः तत्र जन्म उत्पत्तिः यस्य तस्य तादृशस्य, नभस्वतः वायोः 'नभस्वद्वातपवनपवमानप्रभञ्जनाः' इत्यम- रः, मन्दमारुतस्य इत्यर्थः, निर्भर गाढ, परीरंभं सश्लेष, अवाप्य लब्ध्वा, समुल्लस- न्ति समुदितानि यानि नूतनपल्लवानि नवकिसलयानि तेषां छलात् व्याजात् , अन्तः भवः आन्तरः त आन्तर अन्तर्गत, रागं अनुरागं, व्यāभयन् इव प्रक- व्यकुर्वन् इव ॥ २०॥ विचुम्बनेऽपि क्षमतामनागता वितन्वती केवलमुत्सवं दृशोः । बभूव मुग्धा सहकारमञ्जरी पिकस्य मौनव्रतभञ्जने पटुः ॥ २१ ।। विचुम्बने इति ॥ विचुबने अपि पुष्परसास्वादने अपि (अधरपाने अपि इति च), क्षमतां सहिष्णुत्व, अनागता अप्राप्ता, अतः एव, दृशोः केवल चक्षुषोः एव पर, उत्सवं सन्तोषं, वितन्वती उत्पादयन्ती, मुग्धा अतिमनोज्ञा (मुग्धस्व- भावा च), सहकारमजरी सहकारस्य आनविशेषस्य ‘आम्रश्चूतो रसालोऽसो सहकारोऽतिसौरभः।' इत्यमरः, मजरी स्तबकः (तदाख्या काचित् नायिका च), पिकस्य कोकिलस्य (कस्यचित् नायकस्य च), मौनव्रतभंजन मोनव्रतस्य तूष्णी- भावस्य भजने नाशने कूजितकरणविषये इत्यर्थः (सल्लापकरणविषये च), पटुः समर्था, बभूव ॥२१॥ मयैव कृत्स्नं जमदद्य निर्जितं बयस्य दूरेऽस्तु शरव्ययस्तव ।
द्वितीयः समः। ५३ इतीय पुंस्कोकिलकूजितच्छला- दुदीरयामास मधुर्मनोभवम् ॥ २२ ॥ मया इति ॥ 'वयस्य हे मित्र, अद्य संप्रति, कृत्यं समरतं, जगत् भुवनं, निर्जितं स्ववशीकृतं इत्यर्थः; (तस्मात् ), तव भवतः, शरव्ययः बाणमोक्षणं इत्यर्थः, दूरे अस्तु मा अस्तु इत्यर्थः ।' इति एवं, मधुः वसन्तः, पुस्कोकिल- कूजितच्छलात् पुस्कोकिलस्य पिकयूनः कूजितस्य शब्दस्य छलात् व्याजात्, मनोभवं मन्मथं, उदीरयामास इव उवाच इव ॥ २२ ॥ प्रसूनसौरभ्यहरं समीरणं नियन्तुमभ्युत्सुकतामुपागताः । विलोलपुष्पन्धयमण्डलीमिषा- दुदक्षिपन्पाशमिवायसं द्रुमाः ॥ २३ ॥ प्रसूनेति ।। द्रुमाः वृक्षाः, प्रसूनसौरभ्यहरं प्रसूनानां कुसुमानां सौरभ्यं परिमलं हरति गृह्णाति इति तं तथोक्तं, समीरणं पवनं, नियन्तुं बन्धु, अभ्यु- त्सुकतां अभ्यौत्सुक्यं तत्परता इति यावत् , उपागताः प्राप्ताः सन्तः, विलोलाः चञ्चलाः भ्रमणशीलाः इत्यर्थः ये पुष्पन्धयाः षट्पदाः तेषां मण्डली समूहः तस्याः मिषात् व्याजात् , अयमः विकारः तं आयसं अयसा निर्मितं इत्यर्थः लोहमयं इति यावत् , पाशं जालं, उदक्षिपन् इव उपरि व्यस्तारयन् इव ॥ २३ ॥ परागपूरैः करिकेसरोद्भवैः पिशङ्गिताङ्गः समदो मधुव्रतः। चिरं वितन्वनापि चाटुचातुरी विमृश्य दीर्घ प्रिययान्वगम्यत ॥ २४ ॥ परागपूरैः इति ॥ करिकेसरोद्भवैः नागकेसरकुसुमोत्परैः, परागपूरैः परागाणां पुष्परजसा पूरैः निकरैः, पिशङ्गितं कपिशवर्णीकृतं अजं शरीरं यस्य सः पिशङ्गिताः, समदःमदेन सहितः, मधु पुष्परसं व्रतयति (भुङ्क्ते) इति मधुव्रतः अलि: 'मधुव्रतो मधुकरो मधुलिण्मधुपालिनः।' इत्यमरः, चाटुचातुरीं चाटूनां सहदयानन्दे... प्रियोकीनां चातुरीं चातुर्य नैपुण्यं इति यावत् , चिरं चिरकाल बितवान् कन् अपि, प्रियका स्वसहर्या अमर्या, वीर्ष चिरं, विसश्य विचार्य, अवगम्यत अन्वनियत ॥ २४॥ लताः परिष्वज्य ठानभस्वता विमुच्यमानाः प्रतिलोलपल्लवाः। मधुव्रतौघेश्वपलविरे जिरे विमर्दमुक्तैः कबरीभरैरिव ॥ २५ ॥ लताः इति ॥ नभस्वता वायुना, हठात् बलात्कारेण, परिष्वज्य समा- श्लिष्य, विमुच्यमानाः विसृज्यमानाः, (अतः एव), प्रतिलोलपालवाः प्रतिलोलानि चञ्चलानि पल्लवानि किसलयानि यासां ताः तथाभूताः, लताः वल्ल्यः, चपलैः चञ्चलैः परितः भ्रमद्भिः इत्यर्थः, मधुव्रतौधैः मधुव्रतानां भृङ्गाणां ओघाः समूहाः तैः, विमर्दमुक्तः विमर्दै सुरतकाले मुक्तः विश्लथैः, कबरीभरैः इव कवर्याः केश वेशस्य 'कबरी केशवेशोऽथ', इत्यमरः, केशबन्धस्य इति यावत् भरैः भारैः (उपलक्षिताः) इव, विरेजिरे बभुः ॥ २५॥ परिप्लवा मूर्ति लवङ्गवीरुधः शिलीमुखालिः मुतरां व्यराजत । नभस्वता चन्दनशैलतश्विरा- दुपेत्य मुक्ता किमु वेणिरायता ॥ २६ ॥ परिप्लवा इति ॥ लवङ्गवीरुधः लवालतायाः, मूर्ध्नि शिरसि उपरि- भागे इत्यर्थः, परिप्लवा परिभ्रमन्ती, शिलीमुखालिः शिलीमुखानां भ्रमराणां आलि: श्रेणिः सन्दोहः इति यावत्, नभखता मन्दमारुतेन इत्यर्थः, चिरीत् चिरप्रवा- सानन्तरं इत्यर्थः, चन्दनशैलतः मलयपर्वतात् , उपेत्य आगत्य, मुक्ता विश्लथी- कृता, आयता दीर्घा, बेणि; किमु प्रवेणीबन्धः किम् ; (इतीव), मुतरां सुभृशं, व्यराजत. अशोभत ॥ २६ ॥ निसर्गशोललितः सपल्लवै- नवरशोक स्तबकरशोभत ।
द्वितीयः सर्गः। ५५ -- 'निचीयमानः श्वासितर्वियोगिनां मनोमवामिः किमु राशितां गतः ॥ २७ ॥ निसर्गेति ॥ ललितः मोक्षः, अशोकः अशोकवक्षः, निसर्गशोगैः नि- सर्गेण खभावेन शोणाः लोहिताः रकवर्णाः इति यावत् तैः तादृशैः, (तपा), पालवैः सहिताः तैः सपालवैः किसलयसहितैः, नवैः प्रत्यप्रैः, स्तबकैः कुसुममजरी- भिः, वियोगिनां विरहिणां, श्वसितैः निश्वासवातैः, निचीयमानः समिध्यमानः प्रोद्दीप्यमानः इति यावत् , (अतः एव), राशितां पुजीमावतां, गतः प्राप्तः, मनो- भवामिः किमु मन्मथानलः किम् । (इतीव), अशोभत बभौ ॥ २७ ॥ निराकृतः कण्टकमालया बहिः समाहृतः सौरभसंपदान्तिकम् । बभूव रोलम्बयुवा न चुम्बितुं प्रभुर्विमोक्तुं च सुवर्णकेतकीम् ॥ २८ ॥ निराकृतः इति ॥ बहिः पहि.प्रदेशे, कण्टकमालया शूकसमूहेन (क्षुद्रशत्रुसमूहेन इति च गम्यते), निराकृतः निरुद्धः, सौरभसंपदा सौरभाणां परिमलानां संपदा समृद्ध्या, अन्तिक समीपे इत्यर्थः, समाहृतः समाकृष्टः, रोलंब- युवा भ्रमरयुवा एव युवा तरुणः, सुवर्णकेतकी रक्तकेतकीकुसुमं (युवती इति च व्यज्यते), चुम्बितुं पुष्परसं पातु (अधरपानं कर्तुं इति च), प्रभुः समर्थः, न ( अभवत् ); विमोक्तुं च विस्रष्टुं च, ( प्रभुःन अभवत् ) ॥ २८ ॥ इति प्रगल्भे सुरभी निरङ्कुशं पिकस्वनैर्गायति मन्मथस्तवम् । हिरण्मयं पत्रिणमेव तं स्मर- भरंस्त भावेषु न केषुचिनलः ॥ २९ ॥ इतीति । इति एवं, प्रगल्भे अतिप्रौढे, सुरभी वसन्ते, 'सुरभिर्ना जातिफले वसन्ते चम्पक दुमे ।' इति त्रिकाण्डशेषः, पिकस्वनैः कोकिलरवैः, मन्मथस्तवं अनभवं, निरहु निरर्यलं यथा तथा, गायति गानेन वर्णयति ५६ सहृदयानन्दे सति, नलः, तं पूर्वोक, हिरण्मयं सौवणे, पत्रिणं एव पक्षिणं इंसं एव, स्मरन् सदा चिन्तयन् सन् , केषुचित् केवपि, भावेषु पदार्थेषु, न अरंस्त प्रीति न अभजत् इत्यर्थः ॥ २९॥ अपाकरिष्यत्रय मानसीं रुजं नृपः कदाचिठ्ठहदीर्घिकां ययौ। जवातिरेकादवितर्कितागतिः स चोपतस्थे पतगोत्तमः पुरः ॥ ३० ॥ अपाकरिष्यन्निति ॥ अथ अनन्तरं, कदाचित् एकदा, नृपः नल- भूपतिः, मनसः इयं तां मानसी हृदयस्थितां इत्यर्थः, रुजं व्यथां, अपाकरिष्यन् निराकरिष्यन् सन् दूरीकर्तुकामः सन् इत्यर्थः, गृहे स्थिता दीर्घिका तां गृहदीर्घिकां भवनवापी ‘वापी तु दीर्घिका' इत्यमरः, ययौ आससाद । अवितर्कितागतिः अवितार्कता अचिन्तिता आगतिः आगमनं यस्य सः तादृशः, सः तादृशः, पतगोत्तमः च पक्षिश्रेष्ठः च, जवातिरेकात् अत्यन्तवेगेन, पुरः अग्रे नलसमक्ष इत्यर्थः, उपतस्थे उपस्थितवान् ॥ ३० ॥ ससंभ्रम तौ नयनातिथीकृती परस्परं कल्पितबन्धुसक्रियौ। मिथः कथालापरसायनैरुभौ निषेदतुः कापि निकुञ्जमन्दिरे ॥ ३१ ॥ ससंभ्रमं इति ॥ ससंभ्रमं साभिनिवेशं यथा तथा, नयनातिथीकृती नेत्रगोचरीकृतौ लब्धदर्शनौ, तौ, उभी नलहंसौ इत्यर्थः, परस्परं अन्योन्यं, कल्पितबन्धुसत्कियौ कल्पिता विरचिता बन्धुसत्क्रिया सुहृत्सत्कारः याभ्यां तो तादृशौ सन्तौ, मिथः एकान्ते परस्परं वा, कथालापरसायनैः नानाविधसँल्लापामृतैः, कापि कुत्रचित्, निकुञ्जमन्दिरे लतागृहे, निषेदतुः उपविविशतुः । कुत्रचित् लतानिकुञ्ज उपविश्य तौ उभी अपि मिथः विसंभालापं चक्रतुः इत्यर्थः ॥ ३१ ॥ सुरापगाशीकरसङ्गशीतलं पजमुत्सङ्गतले निवेशयन् । .
द्वितीयः सर्गः।
विशांपतिः प्रेमवशाहिसारं
करेण तस्याधिमुखं न्यवेशयत् ॥ ३२ ॥
सुरापगेति ॥ विशांपतिः नलमहाराजः, सुरापगायाः आकाशगङ्गायाः
शीकराः अम्बुकणाः तेषां सङ्गेन संबन्धन शीतलः शीतलस्पर्शः तं तादृशं, पतङ्गं
हंसपक्षिणं, उत्सगतले अङ्कप्रदेशे, निवेशयन् निदधत् , प्रेमवशात् प्रीत्यतिश-
यात् हेतोः, करेण निजहस्तेन, तस्य हंसस्य, अधिमुखं मुखे चञ्च्यां इत्यर्थः,
बिसाङ्कुरं मृणालाङ्करं, न्यवेशयत् न्यक्षिपत् ॥ ३२ ॥
अनन्तरं स्मेरसरोजसोदरे
मुखे नरेन्द्रस्य निवेश्य लोचने ।
सुधारसस्यन्दि मनोहरं क्षणा-
दवोचदित्थं वचनं विहङ्गमः ॥ ३३ ॥
अनन्तरं इति ॥ अनन्तरं अथ, विहङ्गमः हसपक्षी, स्मेरसरोजसोदरे
स्मेरं विकचं यत् सरोज पद्मं तस्य सोदरं सदृशं इत्यर्थः तस्मिन् तादृशे, नरे-
न्द्रस्य नलमहाराजस्य, मुखे वदने, लोचने स्वनयने, निवेश्य निक्षिप्य तन्मुखं
अवलोक्य इत्यर्थः, इत्थं वक्ष्यमाणप्रकारेण, सुधारसस्यन्दि अमृतरसवर्षि, मनो-
हरं हृदयङ्गम, वचनं वाक्यं, क्षणात् शीघ्रं इत्यर्थः, अवोचत् अब्रवीत् ॥ ३३ ॥
अवाप नूनं परिपाकसंपदं
वसुन्धरायाश्विरमश्चितं तपः।
पुरन्दरं द्यौरिव येयमीश्वरं
'सखे भवन्तं समुपस्थिता स्वयम् ॥ ३४ ॥
अवाप इति ॥ सखे हे मित्र, वसुन्धरायाः पृथिव्याः, चिरसश्चितं चिर-
कालार्जितं, तपः कायक्लेशादिनियमः, परिपाकसंपदं परिणामसमृद्धिं विशेषपरि-
णति इत्यर्थः, नूनं ध्रुवं, अवाप लेभे । या, इयं एषा वसुन्धरा, ईश्वरं प्रभु. भवन्तं
त्वां, द्यौः स्वर्गः, पुरन्दरं इव इन्द्रं इव, स्वयं स्वतः एव, समुपस्थिता समाश्रिता,
(अभवत् ) ॥ ३४॥
५८ . सादयानन्द दिने दिने किभरसुन्दरीजनैः सुखोषितैः कल्पमहीरहामपः। अनन्यसामान्यतया सकौतुकं सुधांशुशुभ्रं तव गीयते यशः ॥ ३५ ॥ दिने दिने इति ॥ कल्पमहीमहां कल्पवृक्षाणां, अधः मूलप्रदेशे, सुखो- षितैः सुखेन निषण्णैः इत्यर्थः, किन्नरसुन्दरीजनैः किम्पुरुषाजमानिवहैः, सुधांशु- शुभ्रं सुधांशुः चन्द्रः तद्वत् शुभ्रं धवलं, तव भवतः, यशः कीर्तिः, अनन्यसामा- न्यतया अन्येषां असाधारणत्वेन हेतुना, दिने दिने प्रतिदिनं, सकौतुकं साभिनि. वेशं यथा तथा, गीयते गानरूपेण वर्ण्यते ॥ ३५ ॥ कथाप्रसङ्गेन वयस्य भूभुजां गुणोत्तरं पृच्छति वृत्रवैरिणि । उदाहरन्ति प्रथमं सकौतुकाः पुनः पुनस्त्वां सुरसिद्धचारणाः ॥३६ ॥ कथाप्रसङ्गेन इति ॥ वयस्य हे मित्र, वृत्रवैरिणि वृत्रशत्रौ इन्द्रे इति यावत् , कथाप्रसङ्गेन कथायोगेन भूलोकवृत्तान्तप्रसक्त्या इत्यर्थः, भूभुजा नृपाणां मध्ये, गुणोत्तर गुणैः सोशील्यादिभिः उत्तर श्रेष्ठ (नृप), पृच्छति अनु- युजाने सति, सुरसिद्धचारणाः सुराश्च सिद्धाश्च चारणाश्च, सकौतुकाः साभिनिवेशाः सन्तः, पुनः पुनः मुहुः मुहुः, स्वां भवन्तं एव, (भूभुजां), प्रथमं आय श्रेष्ठ इत्यर्थः, उदाहरन्ति निदर्शयन्ति ॥ ३६ ॥ अहं च साम्राज्यसुखेऽपि निःस्पृह मनस्त्वदीयं मयि दूरवर्तिनि । विदबपि त्वामपहाय यश्चिरं चरामि दूरे शृणु तत्र कारणम् ॥ ३७॥ अहं इति ॥ किच, मयि, दूरवर्तिनि हरस्थिते सति, साम्राज्यबुखे अपि राज्यभोगेषु निःस्पृहं मासचिरहित, तव इदं त्वदीयं तापक, मनः हृदयं, विदन् . ,
५९
जानन् अषि, अहं, वो भवन्तं, अपहार विहाब, चिरं चिरकालं, रे दूरदेश,
बामि पर्यटामि ; (इति) बत् तत्र वालिन् विषये, कारणं हेतु, शृणु आकर्णय ॥
यदैव पूर्व वनदेवतायरी-
न्यवेदयं सापयितुं स्वदीप्सितम् ।
तदैव लोकोचररूपशालिनी
तवोपनेतुं महिषीमचिन्तयम् ॥ ३८ ॥
यदा इति ॥ पूर्व पुरा, यदा एव यस्मिन् समये एव, वनदेवतामुखैः
वनदेवताद्वारा इत्यर्थः, (अहं), त्वदीप्सितं भवदभिलाषं, साधयितुं निष्पाद-
यितुं, न्यवेदयं प्रत्यजानां इत्यर्थः ; तदा एव तस्मिन् समये एव, लोकोत्तररूप
शालिनी अत्युत्तमसौन्दर्यवती, महिषी भार्यो, तव भवतः, उपनेतुं संपादयितु
विवाहयितुं इत्यर्थः, अचिन्तयं अमन्ये ॥ ३८ ॥
ततोऽनुरूपां तव रूपसंपदः
पुरन्दरस्यापि पुरे मृगीदशम ।
अपश्यतः स्वीकृतभाशङ्किनः
कृतं पदं चेतसि चिन्तया मम ॥ ३९ ॥
ततः इति ॥ ततः तदनन्तरं, तव भवतः, रूपसंपदः सौन्दर्यातिशयस्य,
अनुरूपां सदृशी, मृगीदृशं हरिणलोचनां स्त्रियं इति यावत् , पुरन्दरस्य इन्द्रस्य,
पुरे नगरे अपि अमरावत्यां अपि इत्यर्थः, अपश्यतः अनवलोकयतः, (अतः एव)
स्वीकृतस्य प्रतिज्ञातस्य भङ्गं शकते इति तस्य स्वीकृतभाशदिनः प्रतिज्ञाभङ्ग-
भौरोः, मम मे, चेतसि मनसि, चिन्तया उत्कण्ठया, पदं चरणं, कृतं निहितं मे
मनः चिन्ताकान्तं अभूत् इत्यर्थः ॥.३९ ॥
कदापि सेवावसरे दिवौकसां
मनोभवं माञ्जलिमप्रतः स्थितम् ।
उपास्यमानः सुरसुन्दरीजनैः
कुतूहलादित्यमुवाच वासवः ॥ ४० ॥
सहृदयानन्दे
कदापि इति ॥ कदापि कदाचित् ; दिवौकसां देवानां, सेवावसरे उप-
स्थानसमये, सुरसुन्दरीजनैः देवत्रीसमूहैः, उपास्यमानः उपसेव्यमानः, वासवः
इन्द्रः, अग्रत: पुरः, प्राजलिं बद्धाजलिपुटं, स्थितं तिष्ठन्तं, मनोभवं मन्मथं,
कुतूहलात् कौतुकात् , इत्थं एवं वक्ष्यमाणप्रकारेण इत्यर्थः, उवाच आह स्म ।।
जगत्रयेऽस्मिनितरेतराधिकाः
सहस्रशः सन्ति मनोरमाः स्त्रियः ।
वशंवदं विश्वममूर्वितन्वते
त्वयोपदिष्टैस्तु विलासचेष्टितैः॥४१ ।।
जगत्रये इति ॥ अस्मिन् एतस्मिन् , जगत्रये भुवनत्रितये, इतरेत-
राधिकाः परस्परविशिष्टाः, मनोरमाः कमनीयाः, स्त्रियः अगनाः, सहस्रशः
सहस्रसङ्ख्यया बहुशः इति यावत् , सन्ति वर्तन्ते । किन्तु परन्तु, अमूः एता-
स्त्रियः, त्वया भवता, उपदिष्टैः शिक्षितैः, विलासचेष्टितैः विभ्रमव्यापारैः शृङ्गार-
चेष्टाभिः एव इति यावत् , विश्वं भुवनं, वशवद वशीकृतं स्वायत्तीकृतं इत्यर्थः,
वितन्वते कुर्वते ॥४१॥
ततः प्रसूनाशुग वामचक्षुषां
विशेषितत्वं त्वमवैषि केवलम् ।
निरस्य दाक्षिण्यमुदाहरस्व तां
गुणैः स्वरूपेण च या विशिष्यते ॥ ४२ ॥
ततः ति ॥ ततः तस्मात् कारणात् , प्रसूनानि कुसुमानि एव आशुगाः
बाणाः यस्य तत्संबोधनं प्रसूनाशुग हे पुष्पबाण है मन्मथ इति यावत् , त्वं केवलं
भवान् एकः एव, वामे मनोज्ञे चक्षुषी नयने यासां ताः वामचक्षुषः तासां
वामचक्षुषां वामलोचनानां प्रमदानां इति यावत् , विशेषितत्वं विशिष्टतां उत्कृष्ट-
त्वं इति यावत् , अवैषि जानासि । (तस्मात्), या यादृशी नारी, गुणैः आत्म-
धमैंः, स्वरूपेण च स्वाकृत्या च, विशिष्यते विशिष्टा वर्तते ; तां तादृशी ललना,
दाक्षिण्यं पक्षपातित्वं, निरस्य विहाय, उदाहरस्व कथय ॥ ४२ ॥
. . निने रूपातिशयेषु संशय प्रयाति वृन्दारकसुन्दरीजने। कुतूहलेनोत्तरलेषु नाकिना गणेष्वनाः शतमन्युमब्रवीत् ॥ ४३ ॥ निजेषु इति ॥ बृन्दारकसुन्दरीजने सुरस्त्रीनिवहे, निजेषु स्वीयेषु, रूपा- तिशयेषु अवयवसौन्दर्यविशेषेषु विषये, संशयं सन्देह, प्रयाति प्राप्ते सति, (तथा), नाकः स्वर्गः एषां अस्ति इति तेषां नाकिनां दिवौकसा, गणेषु समूहेषु, कुतूहलेन औत्सुक्येन, उत्तरलेषु चञ्चलहृदयेषु सत्सु इत्यर्थः, अनङ्गः मदनः, शतमन्यु इन्द्र, अब्रवीत् प्रलभाषत ॥ ४३ ॥ जगत्रये किञ्चिदपीह विद्यते न ते सहस्राक्ष परोक्षतां गतम् । तथापि यन्मामनुयोक्तुमीहसे विधेयतां मे सफलीकरोषि तत् ।। ४४ ॥ जगत्रये इति ॥ सहस्र अक्षीणि यस्य सः तत्संबाद्ध. सहस्राक्ष हे इन्द्र, इह अस्मिन् , जगत्रये त्रिभुवन अपि, ते भवतः, परोक्षता अप्रत्यक्षतां, गतं प्राप्तं त्वया अदृष्टपूर्व इत्यर्थः, किश्चित् किमपि वस्तु, न विद्यते न आस्ति । तथा सति अपि, यत् यस्मात् , (वं), मां, अनुयोक्तुं प्रष्टुं, ईहसे वाञ्छसि;तत् तस्मात् , मे मम, विधेयता यथोक्तकारितां प्रेष्यत्वं इति यावत् विधेयो विनयप्राही वचने स्थित आश्रवः ।' इत्यमरः, सफलीकरोषि सप्रयोजनीकुरुषे ॥ ४४ ॥ पुरी विदर्भा विदितैव ते विभो 'निजैर्गुणैर्या विजिगीषते दिवम् । भुनक्ति तां वैरिषु भीमविक्रमः प्रभु वो भीम इति प्रथां गतः ॥४५॥ पुरी इति ॥ विभो हे प्रभो, या पुरी, निजैः स्वकीयैः, गुणैः उत्कः इत्यर्थः, विवं स्वर्ग अपि, विजिगीषते विजेतुं इच्छति अतिशेते इत्यर्थः; (सा), विदर्मा विदर्भाख्या, पुरी नगरी (कुण्डिनपुरी इति अपरं नाम), ते तब, विदि- 6 सहृदयानन्दे , , ता एव ज्ञाता खलु । तां तादशी पुरी, वैरिघु शत्रुषु विषये, भीमविक्रमः भीमः भयानकः विक्रमः शौर्य यस्य सः तादृशः, (तथा), भीमः. इति, प्रथां प्रसिद्धिं, गतः प्राप्तः, भुवः प्रभुः क्षितीशः, भुनक्ति प्रशास्ति ॥ ४५ ॥ सुतां स लेभे कमनीयविग्रहां प्रसाद्य भक्त्या दमनाइयं मुनिम् । अतोऽस्य नाम्नैव कृतोपलक्षणा जनेन साभूद्दमयन्त्युदीरिता ॥ ४६ ॥ सुतामिति ॥ सः भीमराजः, दमनाह्वयं दमननामानं, मुनिं ऋषि, भक्त्या अत्यन्तादरेण, प्रसाद्य सन्तोष्य, कमनीयः मनोहरः विग्रहः शरीरं यस्याः तां कमनीयविग्रहां अतिसुन्दरावयवसंपन्ना, सुतां तनयां, लेभे अवाप । अतः अस्मात कारणात् एव दमनमुनिप्रमादलब्धत्वात् हेतोः इत्यर्थः, सा भीमतनया, अस्य एतस्य दमनमुनेः, नाना एव आख्यया एव, कृतं उपलक्षणं संज्ञा यस्याः सा कृती- पलक्षणा विहितसंज्ञा सती, जन्न प्रजाभिः, दमयन्ती, (इति), उदीरिता आहूता, अभूत् आसीत् ॥ ४६ ॥ असौ जगन्नेत्रचकोरचन्द्रिका विसारिलावण्यतरङ्गदीर्घिका.। अलङ्कृता नातिचिरात्कृशोदरी वयोविशेषेण मदेकबन्धुना ॥ ४७ ॥ असौ इति ॥ जगन्नेत्रचकोरचन्द्रिका जगतः लोकस्य जनानां इत्यर्थः नेत्रे लोचने एव चकोरौ जीवजीवाख्यपक्षिविशेषो तयोः चन्द्रिका कौमुदी (यथा चन्द्रिका चकोरपक्षिणा सतृष्ण आस्वाद्यते तथा एषा अपि सकलजननयनैः साभिलाष अवलोक्यते इत्यर्थः), विसारि विसृत्वरं यत् लावण्यं “मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥” इत्यु- तदेहकान्तिविशेषः तत् एव तरङ्गः ऊर्मिपरंपरा इत्यर्थः तस्य दीर्घिका वापी इव स्थिता इत्यर्थः, असौ एषा, कृश उदरं यस्याः सा कृशोदरी तनुमध्या दम- यन्ती, नातिचिरात् अचिरेण स्वल्पकालात् आरभ्य इत्यर्थः, अहं एव एकः बन्धुः सुहृत् यस्य तेन (मम एकः मुख्यः बन्धुः तेन वा) मदेकबन्धुना मदेकसहाय- द्वितीयः सर्गः। . भूतेन, बयोविशेषेण विशेषवयोऽवस्थया यौवनेन इत्यर्थः, अलङ्कृता भूषिता, (वर्तते) ॥ ४७ ॥ कुतूहलेनोत्तरलो यदा विधिः शिरीषपुष्पादपकृष्य मार्दवम् । करिष्यते काश्चनयष्टिगोचरं वपुस्तदास्यास्तुलनामुपैष्यति ।। ४८ ॥ कुतूहलेन इति ॥ यदा यस्मिन् समये, विधिः ब्रह्मा, कुतूहलेन दम- यन्तीशरीरसदृशवस्त्वन्तरनिर्माणकौतूहलेन, उत्तरल: आकुलितहृदयः सन् इत्यर्थः, शिरीषपुष्पात् ( अत्यन्तमृदोः) शिरीषकुसुमात् , मृदोः भावः तत् मा- दवं सौकुमार्य, अपकृष्य अपहत्य, काञ्चनयष्टिगोचरं सुवर्णलताधिष्टितं, करिष्यते विधास्यति ; तदा तस्मिन् समये एव, अस्याः एतस्याः दमयन्त्याः, वपुः शरीरं, तुलनां उपमां सादृश्यं इति यावत् , उपैष्यति प्राप्स्यति (दमयन्त्याः गात्रं मार्दवे शिरीषकुसुमवत् , शोभायां सुवर्णवत् , तनुत्वे लतावत् च वर्तते इति भावः) ॥ निसर्गसौरभ्यदरिद्रतां यदा कलापिनः पिच्छभरो विमोक्ष्यति । मृगीदृशोऽस्याश्चिकुरोत्करश्रिय- स्तदोपमानं सुलभं भविष्यति ॥ ४९ ॥ इतः द्वादशभिः कविः दमयन्ती आकंशपादं वर्णयितुकामः अस्मिन् श्लोके तस्याः कचभारं वर्णयति- निसर्गेति ॥ कलापिनः मयूरस्य, पिच्छभरः बहभारः बहत्तोमः इत्यर्थः, निनर्गसौरभ्यदरिद्रता स्वभावसिद्धं स्वपरिमलदारिद्रयं स्वपरिमलराहित्यं इत्यर्थः, यदा यस्मिन् काले, विमोक्ष्यति परित्यक्ष्यति ('निसर्गसौरभ्यदरिद्रता यदा कलापिनः पिच्छभरं विमोक्ष्यति ।' इति पाठान्तरं); तदा तस्मिन् काले एव, अस्याः अमुष्याः, मृगीदृशः हरिणाक्ष्याः दमयन्त्याः, चिकुरोत्करश्रियः कच- भारशोभायाः, उपमानं सादृश्यं, सुलभं सुप्रापं अश्रमसाध्यं इत्यर्थः, भविष्यति स्थात् (तस्याः कचभारः निसर्गपरिमलवत्त्वेन मयूरपिच्छभरमपि अतिशिश्ये इति भावः)॥ ४९॥ - सहवमानन्दे . १ सुधामयूखेऽपि कलादूषित प्रदोषसोचिषु पङ्कजेष्वपि । विलज्जितः शिल्पमदोबुरो विधि- wधत्त तस्याः कमनीयमाननम् ॥ ५० ॥ सुधेति ॥ शिल्पमदोद्धरः निर्माणविद्यामदोद्धतः, विधिः विधाता, सुधा- मयूखे अमृतांशौ चन्द्रे इति यावत् , कलादूषिते कलरून अडून दूषिते कलुषी- कृते सति, (तथा), पङ्कजेषु अपि कमलेषु च, प्रदोषसंकोचिषु प्रदोषे सायकाले निशागमे इत्यर्थः संकुचन्ति मुकुलीभवन्ति इति तादृशेषु सत्सु, विलजितः विशे- षेण सजातलज्जः सन् , कमनीयं निष्कलकत्वात् सदाविकासित्वात् च अतीव रुचिरं, तस्याः दमयन्त्याः, आननं वदनं, व्यधत्त निर्ममे ॥ ५० ॥ शरैर्मदीयैरपि कुण्ठता श्रिता वशीकृतान्तःकरणेषु केषुचित् । मृगीहशोऽस्यास्तु हगन्तविभ्रमः करोति तेषामपि धैर्यविच्युतिम् ॥ ५१ ॥ शरैः इति ॥ वशीकृतान्तःकरणेषु वशीकृतं अन्तःकरणं यैः तादृशेषु जितात्मसु इत्यर्थः, केषुचित् योगिषु विषये इत्यर्थः, मदीयैः मामकैः अपि, शरैः बाणैः, कुण्ठता कुण्ठितत्वं मोषत्वं इत्यर्थः, श्रिता प्राप्ता । अस्याः, मृगीदृशः मृगाक्ष्याः दमयन्त्याः, दृगन्तविभ्रमः तु अपाङ्गविलासः पुनः, तेषां अपि तादृशानां योगिनां अपि, धैर्यविच्युतिं मनस्स्थैर्यहानि, करोति उत्पादयति ॥५१॥ कुरमुत्सङ्गशयं शरद्विधु- विधूय धत्ते यदि तदृशौ परम् । मृगेक्षणायाश्चटुलाशमाननं तदा निकामं तुलनामुपैष्यति ॥ ५२ ॥ कुरामिति ॥ शरदि विधः शरद्विधुः शरत्कालचन्द्रः, उत्सङ्गे अहं शेते इति तं उत्साशवं तं खोत्सावर्तिन, कर हरिणं, विधूय व्यपनीय, तदृशौ परं तखाः दमयन्त्याः दृशौ नयने केवलं, धत्ते यदि धारयति चेत् , तदा तर्हि, .
द्वितीय
.
बटुले बनले अक्षिणी यस तत् चलाक्षं बबललोचनं,मायामयन्त्याः,
आननं मुखं, निकामे मृशं, तुलनां सादृश्य, उपैष्यति प्राप्यति ॥ ५२ ॥
निमीलयन्त्यारुणरत्नदीधिति
विलजयन्त्या नवपल्लवश्रियम् ।
समुल्लसन्त्याधरकान्तिसंपदा
विकासि बन्धूकमधःकरोति सा ॥ ५३ ।।
निमीलयन्त्या इति ॥ सा दमयन्ती, अरुणरत्नदीधिति अरुणरत्नस्य
प्रचरागमणे: दीधिति कान्ति, निमीलयन्त्या निमज्जयन्त्या अधःकुर्वत्या इत्यर्थः,
(तथा), नवपल्लवश्रिय प्रत्यप्रकिसलयशोभा, विलज्जयन्त्या पाविशिष्टां कुर्वत्या
अपहसन्त्या इति यावत् , समुल्लसन्त्या समुज्ज्वलन्त्या, अधरकान्तिसंपदा
अधरयोः ओष्ठयोः कान्तिसपदा शाभासमृख्या, विकासि विकसनशीलं, बन्धूकं
बन्धुजीवककुसुमं 'रक्तकस्तु बन्धूको बन्बुजीवकः।' इत्यमरः, अधःकरोति धिक्-
कुरुते अतिशेते इत्यर्थः ॥ ५३॥
इसौ मृदू निर्भरमस्मि कर्कशं
स्थितिः सहाभ्यां मम नैव सांप्रतम् ।
इतीव तस्याः परिणाहसंपदा
भुजौ विदूरं नुदति स्तनद्वयम् ॥ ५४॥
इौ इति ॥ 'इमौ एतौ भुजौ, मृदू मार्दवसंपन्नो, (स्तः)। (अहं तु),
निर्भरं नितान्तं, कर्कशं कठिनं, अस्मि । (तस्मात्), आभ्यां सह एताभ्यां
मृदुभ्यां भुजाभ्यां साकं, मम मे, स्थितिः संवासः, नैव सांप्रतं युक्ता न खलु ।'
इति हेतोः इव, तस्याः दमयन्त्याः,स्तनद्वयं कुचयुग्मं, परिणाहसंपदा परिणाहस्य
विशालतायाः वैपुल्यस्य हात यावत् संपदा अतिशयेन, भुजौ तस्याः बाहू, विदूरं
अतिदूरं अत्यन्त इत्यर्थः, नुदति प्रेरयति क्षिपति इति यावत् ॥ ५४ ॥
तदीयमालोहितपाणिपल्लवं
शिरीषमालामृदुलं भुजव्यम् ।
विडम्बयद्भाति मृणालकाण्डयो-
रषोमुखस्मेरसरोजयोः श्रियम् ॥ ५५ ॥
सहृदयानन्दे
तदीयमिति ॥ आलोहितपाणिपालवे आलोहिती पाणिपल्लवी यस्य तत्
तादृशं आरक्तहस्तकिसलयं, (तथा), शिरोषमालामृदुलं शिरीषकुसुमनिर्मितहारवत्
अत्यन्तमार्दवयुक्तं, तस्याः दमयन्त्याः इदं तदीयं, भुजद्वयं बाहुयुगलं (कर्तृ),
अधोमुखस्मेरसरोजयोः अधोमुख अधोनिक्षिप्ताप्रभागे स्मेरे विकचे सरोजे ययोः
तौ तादृशयोः मृणालकाण्डयो: बिसदण्डयोः, श्रियं शांभा, विडम्बयत् परिहसत्
सत् , भाति प्रकाशते ॥ ५५ ॥
विधाय मध्यं सुतनोस्तथा तनुं
बभूव तद्भङ्गभयाकुलो विधिः ।
यदेष पश्चात्रिवलीमिषादमुं
चकार हैमैवलयैर्वृतं त्रिभिः ॥ ५६ ॥
-
विधायेति ॥ विधिः विधाता, सुतनोः शोभनाङ्गयाः दमयन्त्याः, मयं
अवलनं 'मध्यमं चावलग्नं च मध्योऽस्त्री' इत्यमरः, तथा तादृक्प्रकारेण, तनुं
कृशं, विधाय कृखा, तद्भङ्गभयाकुल: तस्य मध्यस्य भाः छेदः तस्मात् भयं तेन
आकुल: व्याप्तः पीडितः वा, वभूव आसीत् । यत् यस्मात् कारणात् , एषः
विधिः, पश्चात् तदनन्तरं, अमुं एतं मध्यं, त्रिवलीमिषात् वलित्रयव्याजात् ,
त्रिभिः, हैमैः स्वर्णमयः, वलयः मण्डलै: आवेष्टनैः इति यावत् , वृतं वेष्टित,
चकार विदधे ॥ ५६ ॥
परस्परस्यास्पदलनैषिणो-
निवारणाय स्तनयोगीदृशः।
तनूरुहश्रेणिमिषानवं वयः
करोति सीमानमिवानयोरधः ॥ ५७ ।।
परस्परस्येति ॥ परस्परस्य इतरेतरस्य, आस्पदलङ्घनैषिणोः स्थानाति-
क्रमणासक्तयोः, मृगीदृशः दमयन्त्याः, स्तनयोः कुचयोः, निवारणाय निरोधाय
स्तनौ निवारयितुं इत्यर्थः, नवं वयः तारुण्यं इत्यर्थः (कर्तृ), तनूरुहश्रेणिमिषात
रोमावलीव्याजात् , अनयोः एनयोः स्तनयोः, अधः अधस्तात् अधःप्रदेशे इति
यावत् , सीमानं अवधि, करोति इव विरचयति इव ॥ ५७ ॥
द्वित्तीय समः। किमुच्यतेऽस्याः प्रथिमा नितम्बयो- र्यदत्र दृष्टिः परिता विलासिनाम् । चिरं परिभ्रम्प कुतूहलादृशं श्रमादिवान्यत्र न गन्तुमिच्छति ॥ ५८ ॥ किं इति ॥ अस्याः दमयन्त्याः, नितम्बयोः कटिपश्चाद्भागयोः, प्रथिमा पृथुत्वं वैपुल्यं इति यावत् , किं कीदृक् । कथं वा), उच्यते वर्ण्यते इत्यर्थः । यत् यस्मात् , अत्र अस्मिन् नितम्बे, पतिता क्षिप्ता, विलासिनां विलसनशीलानां कामिना इति यावत् , दृष्टिः नयनं, कुतूहलात् औत्सुक्यातिशयात् , चिरं चिरकालं, परिभ्रम्य विलुव्य, भृशं अत्यन्त, श्रमात् इव श्रान्त्या इव, अन्यत्र नितम्बव्यति- रिक्कावयवे, गन्तुं यातुं अन्य अवयवं द्रष्टुं इत्यर्थः, न इच्छनि न अभिलषति ॥ निरस्तरम्भानरुरामणीयकं तदीयमूरुद्वितयं विचिन्तयन् । अनादरोऽहं विषयान्तरे मुहुः करोम्यम्याकुटिलक्षणां रतिम् ।। ५९ ॥ निरस्तेति ॥ निरस्तरंभातरुरामणीयकं निरस्तं दूरीकृत रंभातरोः कदली- वृक्षस्य रामणीयकं सौन्दर्य येन तत् तादृश, तदीयं दमयन्तीसम्बन्धि, ऊरु- द्वितयं सक्थियुगलं (कर्म), विचिन्तयन संस्मरन् , अहं, अन्यः विषयः विष. यान्तरं तस्मिन् विषयान्तरे अन्यस्मिन् पदार्थे, अनादरः आसक्तिरहितः सन् , रति मत्प्राणवल्लभां रतिदेवी, मुहुः पुनः पुनः, असूयाकुटिलेक्षणां असूयया ईय॑या (स्पर्धया वा ) कुटिले वक्रे ईक्षणे यस्याः तां तादृशी, करोमि विदधे ॥ ५९ ॥ विकस्वरोहितपङ्कजैस्सम विलोक्य पादद्वितयं दमस्वसुः। गुणाधिकं कर्तुमिदं समुत्सुक- श्वकार धाता नखोक्तिकाङ्कितम् ॥ ६० ।। विकस्वरैः इति ॥ धाता ब्रह्मा, दमो नाम दमयन्तीभ्राता तस्य स्वसा भगि। तस्याः दमस्वसुः दमयन्त्याः, पादद्वितयं चरणयुगलं विकस्वरः विक-
सितैः, लोहितपाः रजकमलैः, समं सह, विलोक्य अमेय सात इम.
यन्तीपादद्वितयं, गुणाधिक उतधगुणशालि, क विधातुं, महत्सुक साभि-
लाषः सन् , नखमौक्तिकाक्तिं नखाः नखराः एव मौकिकानि मुशाफलानि ते
अङ्कितं चिहितं, चकार कृतवान् ॥६॥
अशेषलावण्यनिधानभाजनं
जगत्त्रयीमोहनसिदभेषजम् ।
प्रजासृजः शिल्पमहीरुहः फलं
वपुस्तदीयं प्रतिभाति मे हृदि ।। ६१ ॥
अशेषेति ॥ तदीयं तस्याः सबन्धि, वपुः शरीरं, अशेषलावण्यनिधान-
भाजन अशेष समस्त यत् लावण्य सौन्दर्यशोभा तस्य निधानभाजन निक्षेपपात्र,
जगत्रयीमोहनसिद्धभेषज जगत्रय्याः त्रिभुवनस्य मोहन चित्तश्रान्तिकारक सिद्ध-
भेषज सिद्धौषधं, प्रजाः प्राणिनः सृजति इति प्रजासृट् तस्य प्रजासृजः विधातुः,
शिल्पमहीरुहः निर्माणकलातरोः, फल फलरूप च, मे मम, हृदि चित्ते, प्रतिभाति
सलक्ष्यते ॥' ॥६१॥
इति स्वयं तां स्मृतिजन्मना स्तुतां
विचिन्तयन्तः पृथिवीन्द्रनन्दिनीम् ।
स्वधैर्यबन्धेष्वभवअनीश्वराः
पुरन्दरायाः ककुभामधीश्वराः॥ ६२ ॥
इति इति ॥ इति पूर्वोक्तप्रकारेण, स्मृतौ जन्म यस्य तेन स्मृतिजन्मना
मनोभवेन, खय खतः एव, स्तुतां वर्णिता, तां तादृशी, पृथिवीन्द्रनन्दिनी भीम
राजतनयां दमयन्ती, विचिन्तयन्तः ध्यायन्त. सन्तः, पुरन्दराद्याः इन्द्रादयः,
ककुभां अधीश्वराः दिक्पालकाः, स्वधैर्यवन्धेषु निजमनास्थैर्यनियन्त्रणेषु विषये,
अनीश्वराः अशकाः, अभवन् आसन् ॥ ६ ॥
तथागतांस्तानवलोक्य दिक्पतीन्
विमृश्य वाक्यं रतिवल्लभस्य च ।
परस्परस्यापि मुखावलोकन
बिलजमानाः सुरसुध्रुवोऽभवम् ॥ ६३ ॥
• ६९
#
-
तथागतान् ति ॥ तवागतान् ताशी अवस्था आपमान , तान्
दिक्पतीन् दिशापालान् , अवलोक्य समवेक्ष्य, रतिवालमस्य मन्मथस्य, वाक्यं
वचने, विमृश्य व पर्यालोच्य च, सुरसुनुवः सुरत्रियः, परस्परस्य अन्योन्यस्य,
मुखावलोकने अपि बदननिरीक्षणे अपि, विलज्जमानाः संजातलज्जाः,अभवन् ॥६३॥
शरतुषारघुतिबिम्बसोदर
रिलोत्तमायास्तमसा वृतं मुखम् ।
स्वदेहसौन्दर्यविशेषसंभृतो
मदालसायाः शिथिलोऽभवन्मदः ॥ ६४ ॥
सुरसुन्दरीणां लज्जाप्रकारमेव आह-
शरदिति ॥ शरदि शरत्काले यः तुषारयुतिः शीतकिरण: चन्द्रः इति
यावत् तस्य बिम्बस्य मण्डलस्य सोदरं सदृशं इत्यर्थः शरश्चन्द्रनिभं, तिलोत्तमायाः
तन्नाम्न्याः अप्सरस्त्रियाः, मुखं वदनं, तमसा अन्धकारेण मालिन्येन इत्यर्थः,
वृतं व्याप्तं, (अभवत्)। (तथा), खस्य देहस्य यः सौन्दर्यविशेषः शोभातिशयः
तेन संभृतः समुत्पन्नः, मदालसायाः तदाख्यायाः सुराङ्गनायाः, मदः दर्पः,
शिथिल: विश्लथः विशीर्णः इति यावत्, अभवत् जातः ॥६४ ॥
अभूदभिध्यानपरेव निश्चला
तुलोचना मुद्रितलोचनोत्पला ।
प्रदीर्घनिःश्वासविधूसराधरा
स्थिता सखीमध्यगता मुमध्यमा ॥ ६५ ॥
अभूत् इति ॥ सुलोचना सुलोचनाख्या अपरा सुराङ्गना, निश्चला निश्चेष्टा
स्तब्धा इति यावत् , (तथा), मुद्रिते निमीलिते लोचनोत्पले नयनकमले यस्याः
ला तथा भूता च सती, अभिध्यानपरा इव योगनिष्ठातत्परा इब, अभूत् आसीत् ।
सुमध्यमा तत्रानी काचित् सुराङ्गना, सखीमध्यगता सखीनां आलीनां मध्य--
गता मध्यवर्तिनी सती, प्रदीर्घनिःश्वासविधूसराधरा प्रदीर्धेः अस्यायतैः निः-
श्वासैः निश्वासितैः विधूसरौ आपाण्डू निःश्वसिताना अत्युष्णतया विवों इत्यर्थः
अधरी रदनच्छदौ यस्याः सा तथाभूता, स्थिता अवर्तत, ॥६५॥
सहृदयानन्द 4 अपि त्रिलोकीबहुमानभाजनं न मेनकामानयदात्मनो वपुः । निवेश्य नेत्रद्वितयं स्वपादयो- रलम्बुसालम्बत पार्श्वगां सखीम् ॥ ६६ ॥ अपि इति ॥ मेनका तदाख्या स्वर्वेश्या, त्रिलोकीबहुमानभाजनं अपि त्रिभुवनस्यापि अभिनन्दनपात्रं अपि, आत्मनः खस्याः, वपुः शरीरं, न अमा- नयत् न बहुमेने । अलम्बुसा तदाख्या अप्सरस्त्री, नेत्रद्वितयं नयनयुगलं, खपादयोः निजचरणयोः, निवेश्य निक्षिप्य लज्जाधिक्यात् अधोदत्तदृष्टिः सती इत्यर्थः, पार्श्वगां खसमीपस्थां, सखी वयस्यां, आलम्बत अवष्टभ्य स्थिता ॥६६॥ अनिन्ददाशु त्रिदशाभिनन्दितं कलावती केलिकलासु कौशलम् । अशेषबृन्दारकदृष्टिबन्धन सुविभ्रमा विस्मरति स्म विभ्रमम् ॥ ६७ ॥ अनिन्दत् इति ॥ कलावती नाम सुराङ्गना, त्रिदशाभिनन्दितं त्रिदशैः देवैः अभिनन्दितं अभिष्ठतं, कलिकलासु. लीलाकलासु, कौशलं खनैपुण्यं, आशु शीघ्रं, अनिन्दत् अगर्हयत् । सुविभ्रमा तन्नाम्नी सुरस्त्री, अशेषबृन्दारकदृष्टिबन्धनं समस्तसुरनेत्रनिरोधकं तनयनाकर्षकं इत्यर्थः, विभ्रमं विलासं शृङ्गारचेष्टितं इत्यर्थः, विस्मरति स्म व्यस्मरत् ॥ ६ ॥ कपोलबिम्ब परिघर्णितालक निधाय पङ्करुहसोदरे करे। चिराय चित्रार्पितयेव निश्चलं स्थितं सखीसंसदि चित्रलेखया ॥ ६८ ॥ कपोलंबिम्ब इति ॥ चित्रलेखया चित्रलेखाख्यया सुरयुवत्या, परि- घूर्णितालकं परिघूर्णिताः परिस्पन्दमाना: चञ्चलाः इति यावत् अलकाः चूर्ण- कुन्तलाः यस्मिन् तादृशं, कपोलबिम्बं गण्डमण्डलं, पकेहसोदरे कमलसदृशे, करे पाणितले, निधाय निक्षिप्य, सखीसंसदि आलिनिवहमध्ये, चित्रार्पितया - - द्वितीयः सर्गः । इव चित्रे आलेख्ये अर्पितया लिखितया इव, निश्चलं निश्चेष्टं यथा तथा, चिराय चिरकालं, स्थितं अस्थायि ॥ ६८ ॥ निरायताभिः श्वसितानिलोर्मिभि- विधुन्वती केलिसरोरुहं मुहुः । हृतेव कासारजलात्कुमुद्वती शशिप्रभासीत्तरसैव निष्पमा ॥ ६९ ॥ निरायताभिः इति ॥ शशिप्रभा तदाख्या काचित् अपरा, निरायताभिः अत्यन्तदीर्घाभिः, श्वसितानिलोमिभिः निःश्वासपवनपरम्पराभिः इत्यर्थः, केलि- सरोरुहं स्वहस्तधृतं क्रीडाप , मुहुः पुनः पुनः, विधुन्वती कम्पयन्ती सती, का- सारजलात् कासारस्य सरसः जलात् सलिलात् , हृता उद्धृता, कुमुद्वता इव कैर- विणी इव कुमुदबृन्दमिव इत्यर्थः, तरसा एव क्षिप्रं एव, निष्प्रभा निस्तेजस्का विवर्णवदना इत्यर्थः, आसीत् बभूव ॥ ६९ ॥ अधारयवासवधैर्यलोपिनी न जीवितेऽपि स्मरजीविता मनः । अहारयत्व्यम्बकचित्तहारिणी विदग्धतां गीतिषु मजुगीतिका ॥ ७० ॥ अधारयत् इति ॥ वासवधैर्यलोपिनी इन्द्रमनस्थैर्यविनाशिनी, स्मरजी- विता तदाख्या अपरा, जीविते अपि स्वप्राणधारणे अपि, मनः चित्तं, न अधा- रयत् न धारयामास स्वजीवनिरपेक्षा आसीत् इत्यर्थः । त्रीणि अम्बकानि नवाणि यस्य सः त्र्यम्बरः रुद्रः तस्य चित्तं हरति इति त्र्यम्बकचित्तहारिणी शिवस्तवन- काले स्वगीतिमाधुर्येण तस्य मनः अपि वशीकुर्वती इत्यर्थः, मञ्जुगीतिका तन्ना- प्री सुराङ्गना, गीतिषु गानेषु विषये, विदग्धतां स्ववैदग्ध्यं स्वनैपुण्यं इति यावत् , अहारयत् अमोचयत् पर्यत्यजत् इत्यर्थः ॥ ७० ॥ लास्येष्वप्सरसां निरस्य कुतुकं सश्चिन्त्य भैमी मुहुः स्वं स्वं धाम पुरन्दरप्रभृतयः सर्वे ययुनिर्जराः। ॥
७२ सहदयानन्दे त्वत्कार्य हृदये निधाय सपदि मातस्त्वरा भूयसी क्षोणीन्द्र त्रिदिवादवातरमहं रम्बा विदर्भामनु ।। ७१ ॥ लास्येषु इति ॥ क्षोणीन्द्र हे नलमहीपते, पुरन्दरप्रभृतयः इन्वादयः, सर्वे समस्ताः, निर्जराः देवाः, भैमी भीमराजसुतां दमयन्ती, मुहुः पुनः पुनः, संचिन्त्य संस्मृत्य, असरसा पूर्वोक्तानां सुराजनाना, लास्येषु नृत्येषु, कुतुक औ- त्सुक्य, निरस्य विहाय, ख ख निज निज, धाम निलय, ययुः जग्मुः । अहं अपि, त्वत्कार्य त्वद्विषये मया कर्तव्य कर्म इत्यर्थः, हृदये मनसि, निधाय निवेश्य सं- चिन्त्य इत्यर्थः, सपदि क्षिप्रं, भूयसी अत्यधिका, स्वरां वेग, प्राप्तः उपगतः सन् . तृतीयः दिवः लोकः त्रिदिवः तस्मात् त्रिदिवात् वर्गलोकात् 'खरव्ययं स्वर्गनाक- त्रिदिवत्रिदशालयाः' इत्यमरः, रम्यां रमणीयां, विदर्भो अनु कुाण्डनपुरी प्रति तत्समीपं वा, अवातरं अवारोहम् ॥ शार्दूलविक्रीडितं वृत्तम् । तल्लक्षण तु- 'सूर्याश्वर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् ॥' इति ॥ १॥ इति श्रीसांधिविग्रहिकमहापात्रश्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते हंसदर्शन नाम द्वितीयः सर्गः ॥ ८ तृतीयः सर्गः। " तास्तास्ततो दिविषदामवगाय वीथी: पाथोमुचामपि पथस्तरसावतीर्य । सौषैः सुधांशुधवलैत्रिदिवं हसन्ती दृष्टा मया नरपते नगरी विदर्भा ।। १ ।। ता: इति ॥ नरपते भोः नलमहाराज, ततः अनन्तर, ताः ताः बहुविधाः इत्यर्थः, दिविषदां देवानां, वीथी: मार्गान् इत्यर्थः, अवगाह्य प्रविश्य, पाथः जल 'कबन्धमुदक पाथः' इत्यमरः मुञ्चन्ति वर्षन्ति इति पाथीमुचः मेघाः तेषां,पथः मार्गान अपि मेघमण्डलमपि इत्यर्थः, तरसा वेगेन शीघ्र वा, अवतीर्य अवगाह्य,मया(की), मुधांशुधवलैः चन्द्रवत् अतिशुत्रैः, सौधेः राजमदनैः ‘सौधोऽस्त्री राजसदन' इत्यमर., प्रामादैः इति यावत् , त्रिदिव स्वर्गलोक, हसन्ती अपहसन्ती अतिश. याना इत्यर्थः, विदर्भा विदर्भाग्व्या, नगरी पुरी कुण्डिनपुरी इत्यर्थः, दृष्टा अदर्शि ।। अस्मिन् सर्गे प्रायण वसन्ततिलकावृत्तम् ।। तल्लक्षणन्तु- तिलका तभजा जगौ गः' इति ॥ १ ॥ भैमीविलोकनसमुत्सुकमानसेन तस्यां मया विचरता कचिदप्यदर्शि । मध्ये विलाससरसः स्फटिकावनद्धं नातिप्रभूतपरिचारमगारमेकम् ॥ २ ॥ मैमी इति ॥ भैमीविलोकनसमुत्सुकमानसेन भैम्याः दमयन्त्याः विलो- कने दर्शने समुत्सुकं अत्यासक्तं मानस मनः यस्य तेन तादृशेन (भैमीविलो- कनसमुत्सुकं च तत् मानसं च तेन इति वा) (अतः एव ), तस्यां विदर्भायां, विचरता पर्यटता, मया, कचित् कुत्रचित् प्रदेशे, विलाससरसः केलीकासारस्य, मध्ये अभ्यन्तरे, स्फटिकावनद्धं स्फटिकशिलानिर्मितं, नातिप्रभूतपरिचारं नाति- उक्ता वसन्त- 7 ७४ सहृदयानन्दे प्रभूताः नातिबहवः परिमिताः इत्यर्थः परिचाराः बेव्यः इत्यर्थः यस्मिन् तत् तादृशं, एक किपि, अगारं गृहं "निशान्तवस्त्यसदनभवनागारमन्दिरम् ।' इत्यमरः, अदर्शि अवाकोकि ॥ २ ॥ आकल्पशून्यवपुष मणिभूषणेषु विद्वेषिणी प्रियसखीभिरुपाहतेषु । आलेख्यवफलकमेव निरीक्षमाणां तां तत्र भीमनृपतेस्तनयामपश्यम् ॥३॥ आकल्पेति ॥ (अहं), तत्र तस्मिन् गृहे, आकल्पशून्यवपुषं आकल्पैः अलकारैः शून्यं रहितं वपुः शरीर यस्याः तांतादृशी विरहवेदनाजनितया अरत्या अनलंकृतशरीरां इत्यर्थः, (तथा), प्रियसखीभिः प्रियवयस्याभिः, उपाहृतेषु उप- नीतेषु, मणिभूषणेषु रमाभरणेषु विषये, विद्वेषिणी अत्यन्तद्वषवती अनासका इत्यर्थः, (तथा), आलेख्यं चित्रं अस्मिन् अस्ति इति आलेख्यवत् , फलक एव चित्रफलकं एव, निरीक्षमाणां अवलोकयन्ती, लां तादृशी, भीमनृपतेः भीमरा- जस्य, तनयां सुता दमयन्ती, अपश्यं अद्राक्षम् ॥ ३ ॥ आकर्णिताधिकगुणामवलोक्य भैमी भूषां विनापि नयनोत्सवमावहन्तीम् । संभावितं हृदि मया मदनस्य जाड्यं लावण्यवर्णनविधौ वरवर्णिनीनाम् ॥ ४ ॥ आकर्णितेति ॥ आकर्णिताधिकगुणां श्रुताधिकगुणसंपन्नां ये दमय- न्तीगुणाः कामेन इन्द्रसमक्षं उपवार्णिता. मया श्रुताः तेभ्योऽपि अधिकगुणसंपनां इत्यर्थः, ( तथा ), भूषां विनापि मण्डनं बिहायापि आभरणैः विनापि इत्यर्थः, नयनोत्सवं नेत्रानन्द, आवहन्तीं विदधती, भैमी दमयन्ती, अवलोक्य वीक्ष्य, मया, वरवर्णिनीना उत्तमस्त्रीणां वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी' इत्य- मरः, लावण्यवर्णनविधौ सौन्दर्योपवर्णनरूपकर्मणि, मदनस्य मन्मथस्य. जाड्यं बुद्धिमान्य, हदि मम हृदये, समात्रितं अभ्यूहितम् ॥ ४ ॥ विचिद्विषण्णबदनामिव तां विभाव्य सजावमिनिवसरवारयिष्यन् ।
आसमपकानवनेषु निबद्धनीः मक्रीडितोऽस्मि सह व विलासहसः ॥ ५ ॥ किश्चित् इति ॥ तो दमयन्ती, किश्चित् मनाक , विषाणहृदयां इव विषण्णं विषादयुकं हृदयं मनः यस्याः ता तादृशी इव खिन्नमनस्कां इव इति यावत् , विभाव्य आशय, इशितलबैः इङ्गितानि निगूढभावावबोधकचेष्टाः ('चेष्टा निगूढभावावबोधिका कथितेङ्गितम् ' इति आलङ्कारिकाः) तेषां लवाः एक- देशाः तैः, तद्भावं तस्याः दमयन्त्याः भावं अभिप्रायं, अवधारयिष्यन् अवगमि- रुयन् सन् अवजिगमिषुः सन् इत्यथैः, ( अहं ), तत्र सरसि, आसन्नपङ्कजवनेषु समीपवर्तिपद्मपण्डेषु, निबद्धनीडै: निबद्धानि निर्मितानि नीडानि कुलायाः यैः तैः तादृशैः 'कुलायो नीडमस्त्रियां' इत्यमरः, विलासहंसैः सह विलासार्थ क्रीडार्थ हंसाः विलासहंसाः तैः साकं, प्रक्रीडितः विहृतवान् , अस्मि आसं इत्यर्थः भूतार्थ लद । यद्वा-अस्मि इति अहमथें अव्ययं ॥ ५ ॥ मन्दादरा मधुरभाषिणि केलिकीरे निष्कौतुका कलरुतास्वपि शारिकासु । आसाब मां वचसि मानुषनिर्विशेष किञ्चित्कुतूहलवती माय सा तदासीत् ॥ ६ ॥ मन्दादरा इति ॥ मधुरं भाषते इति तस्मिन् मधुरभाषिणि मनोज्ञभा- पणशीले, कैलिकीरे क्रीडाशुके कीरशुको समौ' इत्यमरः, मन्दः आदरः यस्याः मा मन्दादरा अल्पाभिलाषा आसक्तिरहिता इत्यर्थः, कलानि अन्यक्तमधुराणि रुतानि कूजितानि यासां तासु कलरुतासु, शारिकासु अपि पक्षिविशेषेषु च, निष्कौतुका विगताभिलाषा, सा दमयन्ती, तदा तस्मिन् समये, वचसि वाचि भाषणविषये इत्यर्थः, मानुषनिर्विशेषं मानुषात् मात् निर्विशेषः भेदरहितः तं मानुषनिर्विशेष मनुष्यसदृशं इत्यर्थः, मां, आसाद्य उपगम्य, मयि विषये, किंचित् मनाक् , कुतूहलवती कौतुकाविष्टा, आसीत् अभवत् ॥ ६॥ अत्रान्तरे सरभसं समुपेत्य काचि- दन्तर्विजृम्भितविषादवबदायाः ।
सहृदयानन्दे तस्याः क्षितीन्द्रदुहितुः सविधं प्रपन्ना प्रेमानुबन्धमधुरां गिरमित्यवादीत् ॥ ७ ॥ अत्रान्तरे इति ॥ अत्रान्तरे अस्मिन् समये, काचित् काचन सखी, सरभस सत्वर, समुपत्य समुपगम्य, अन्तः हृदये विभितः प्रवृद्धः यः विषादः व्यसन तस्य वशवदायाः वशीभूतायाः, तस्याः, क्षितीन्द्रदुहितुः भीमराजसुतायाः, सविध अन्तिकम् , प्रपन्ना प्राप्ता सती, इति वक्ष्यमाणां, प्रेमानुबन्धमधुरां प्रेम्णः प्रीतेः अनुबन्धः अनुश्लेषः तेन मधुरा मनोज्ञा ता तादृशी, गिरं वाचं, अवादीत् अवोचत् ॥ ७॥ शून्या कुरङ्गमदपत्रविशेषकेण गण्डस्थली परिणमल्लवलीवपाण्डुः । नैषा कथं विषहते विरहं कृशाङ्गि शोणारविन्दसुहृदः करपल्लवस्य ॥ ८ ॥ शून्या इति ॥ कृशानि अगानि यस्याः सा तत्सबुद्धिः कृशागि हे तनु- गात्रि दमयन्ति, कुरङ्गमदपत्रविशेषकेण कुरङ्गमदः मृगमदः (गन्धद्रव्यविशेषः) कस्तूरी इति यावत् 'मृगनाभिर्मृगमदः कस्तूरी' इत्यमरः तेन विरचितः यः पत्रविशेषकः मकरिकादिपत्ररचना तेन, शून्या विहीना, (तथा) परिणमल्लवली- विपाण्डः परिणमन्ती पक्कता गच्छन्ती या लवली लताविशेषः तद्वत् विपाण्डुः पाण्डुरवर्णा, एषा इयं, गण्डस्थली तव कपोलप्रदेशः, शोणारविन्दसुहृदः रक्त- पकेरुहमदृशस्य, करपल्लवस्य त्वत्पाणिकिसलयस्य, विरह वियोगं, कथ कुतः, न विषहते न क्षमते । किमर्थं त्व सदैव करतलकलितकपोला विषण्णा इव लक्ष्यसे इति भावः ॥८॥ भावर्जितैर्निजकरण सखि त्वदीयै- भृङ्गारवारिभिरभूदभिवार्धता या । उज्जृम्भमाणमुकुला नवमालिकापि नवा कथं वितनुते नयनोत्सवं ते ॥९॥ आवर्जितैः इति ॥ सखि हे वयस्ये, या (नवमालिका ), निजकरेण म्वहस्तेन एव, आवर्जितैः सिक्तः, त्वदीयैः तावकैः, मृङ्गारवारिभिः कनकमयक. .
तृतीयः सर्गः। %3B लशविशेषस्थजलै: 'भृङ्गारः कनकालुका' इत्यमरः, अभिवर्धिता परिपोषिता, अभूत् आसीत् ; (सा), एषा इयं पुरोवर्तिनी इत्यर्थः, नवमालिका सप्तलाख्यमल्लिका- लताविशेषः ‘सप्तला नवमालिका' इत्यमरः, उज्जृभमाणमुकुला अपि विकस. स्कुबला अपि, ते तव, नयनोत्सवं नेत्रानन्दं, कथं कस्मात् कारणात् , न वि. तनुते न उत्पादति ॥९॥ आलक्ष्यमुग्धमुकुलां सहकारशाखां तन्वी निपीडयति निष्करुणः पिकोऽयम् । व्यालोलमजुवलयस्वनमांसलाभि- नैनं निवारयसि किं करतालिकाभिः ॥ १० ॥ आलक्ष्यति ॥ अयं एषः, पिकः कोकिल: (युवा च व्यज्यते), निष्क- रुण: निर्दयः सन् , आलक्ष्यमुग्धमुकुलां आलक्ष्याणि ईषत् दृश्यानि मुग्धानि मुन्दराणि मुकुलानि कुङ्मलानि यस्याः तां तादृशी (किंचिदृश्यमानस्तनकु. डमलां अतिमुग्धस्वभावा इति च गम्यते ) ; तन्वी अतिकृशां (तन्वङ्गी इति च गम्यते । सहकारशास्त्रां सहकारस्य अतिसौरभचूतवृक्षस्य — सहकारोऽतिसौरभः' इत्यमरः, शाखां विटपं स्त्रियं इति च गम्यते, निपीडयति नितरां क्लेशयति गाढा- लिङ्गनादिना धर्षयति इति च गम्यते । अत्र केनचित् निष्करुणेन दृष्टयूना अनति- परिणतकुचकुझ्यलायाः अतिमुग्धायाः अङ्गनायाः बलात्कारेण धर्षणं व्यज्यते । एवं एतादृशं पिकं, (त्वं ), व्यालोलाः व्याघूर्णमानाः ये मजुवलयाः मनोज- करणानि तेषां स्वनः शब्दः तेन मांसलाः अतिघनाः अतिगम्भीराः इति यावत् ताभिः तादृशीभिः, करतालिकाभिः करास्फोटशब्दैः, किं किमर्थे, न निवारयसि न निषेधयसि ॥१०॥ आमोदलोलुपतया परिहत्य पुष्पं पुष्पन्धयाः सरभस समुपेत्य दात् । पर्याकुलाः पुनरमी विनिवर्तमानाः संसूचयन्ति तव निःश्वसितेषु तापम् ॥ ११ ॥ आमोदेति ।। अमी एते, पुष्पन्धयाः भ्रमराः, आमोदलोलुपतया त्व- निःश्वासपरिमलासकतया, पुष्पं कुसुमानि (जाती एकवचनं), दूरात् दूरतः, .
परिहत्य संमज्य, सरभस सत्वरं यमुत्ल (वन्मुखकमलं ) उपगम्य, अवांकुलाः उद्विमाः, पुनः भूयोऽ , निवर्तमानाः अवगच्छन्ता अन्तः, तब भवत्याः, निःश्वसितेषु निःश्वासेकु, तापं अत्यन्ती, संसूचयन्ति आवंदयन्ति प्रकाशय- न्ति इत्यर्थः ॥११॥ उत्तंसितेष्वपि तमालदलेषु लोल- मालोक्य यं सखि कुतूहलमातनोषि । त्वां वीक्ष्य खिमदयां निहितं मुखेऽपि दर्भाङ्करं त्यजत एष कुराशावः ॥ १२ ।। उसंसितेषु इति ॥ सखि हे वयस्ये, उत्तसितेषु कर्णावतीकृतेषु, त- मालदलेषु अपि तमालपर्णेषु अपि, लोलं सतृष्ण हरितनवदर्भारशझ्या तद्भक्षणे अत्यन्तासत इत्यर्थः, यं कुरगशावं, आलोक्य अवक्ष्य, कुतूहलं कौतुकं, आत- नोषि प्राप्नोषि; (सः) एषः अय, कुराशावः हरिणशिशुः, त्वां भवती, खिन्न हृदयां विषण्णचित्ता, वीक्ष्य आलोक्य, मुखे स्ववदनकहरे, निहितं न्यस्त अपि भक्षणार्थ दत्तं अपि इत्यर्थः, दर्भाकुर दर्भस्य कुशस्य (तृणविशेषस्य ) अङ्कर प्ररोह, त्यजते उत्सृजति ॥ १२ ॥ कौतूहलात्करतले विनिवेश्य मुग्धं वैदग्ध्यभविषु गिरां सखि यं व्यनैषीः। त्वां मौनमास्थितवतीमवलोक्य सोऽयं क्रीडाशुकोऽपि नवबद्ध इवास्ति मूकः ॥ १३ ॥ कौतूहलात् इति । सखि अथि बक्स्बे, मुग्ध सुन्दर, क्रीडाशुक, त्व, कौतूहलात् औत्सुक्यात् , करतले स्वपाणितले, विनिवेश्य निधाय, गिरा वाचा, वैदग्ध्यभमिषु वैदग्थ्यख नैपुलस्य मशिपु रीतिषु विषये, व्यवैषीः अशिक्षयः; सः तादृशः, अयं एषः, कगायक अपि लीलाशुकः च, (सम्प्रति ) त्वां भवनी, मौन मूकता, आलियसपती भापत्रां, अवलोक्य दृष्ट्वा, नवबद्धः इब नव नूतन मा त अविवार " इति यावत् बद्धः पजरे कदः इव, मूकः निश्शन्दः, 'इत्व,
तृतीय।
--
,
उत्कृजितेन मधुरेण समाजयन्ती-
भने गतां सहचरीमपि नानुयाति ।
घटे तक करेण समय॑माणं
मुग्धे मृणालमभिकाइति केलिहंसः ॥ १४ ॥
उत्कृजितेन इति ॥ मुग्धे हे सुन्दरि दमयन्ति, केलिहसः तव क्रीडा-
हंसः,मधुरेण मनोझेन, उत्कूजितेन ध्वनिना, समालयन्ती, आह्वान कुर्वती अने, पुर
समक्ष इति यावत् , गतो स्थिती, सहचरी अपि निजप्रिया हसी अपि,न अनुयाति
न अनुसरति । (अपि तु), चञ्चूपुटे चञ्वाः बोव्याः 'चञ्चुरोटिरुमे स्त्रियों
इत्यमरः, पुटे अन्तरे मुखाने इति यावत् , तव भवत्याः, करेण हस्तेन, समार्य
माणं दीयमान, मृणाल विसं, अभिवाञ्छति अभिलषति ॥ १४ ॥
नैसर्गिकी कनकचम्पकसोदरी ते
कान्ति विलुम्पति कुतः सखि पाण्डुतेयम् ।
तन्वि स्वमेषि पुनरेव कुतस्वनुत्वं
कुल्येव भानुकिरणैः कलिता निदाघे ॥ १५ ॥
नैसर्गिकीं इति ॥ सखि वयस्ये दमयन्ति, इय एषा तब शरीरे पार-
दृश्यमाना इत्यर्थः, पाण्डुता पाण्डुवर्णत्वं पाण्डिमा इति यावत् , नैसर्गिकी नि-
सर्गसिद्धां खाभाविकी अकृत्रिमा इत्यर्थः, कनकचम्पकसोदरी कनक सुवर्ण चम्पक
चम्पककुसुमं तयोः सोदरी सहशी, ते तव, कान्ति शरीरशोभा, कुतः कस्मात् ,
बिलुम्पति अपहरति । तन्वि हे तनुगाति, निदाघे ग्रीष्मकाले, भावकिरणैः सूर्या-
शुभिः, कलिता सृष्टा शोषिता इत्यर्थः, कुल्या इव कृत्रिमा सरित् इव 'कुल्याल्पा
कृत्रिमा सरित्' इत्यमरः, त्वं भवती, पुनः एव भूयः अपि, तनुत्व कृशता, कुत
कस्मात् , एषि याति प्रापोषि इत्यर्थः ॥ १५ ॥
इस्पं तया निमदिते शतशोऽपि सख्या
नाल्यायि किश्चिदपि तत्र नरेन्द्रपुत्र्या।
अन्वा तु भावमुपलब्धवती नदी
काविषयवेदयदिदं वचनं यस्या ॥ १६ ॥
सहृदयानन्दे इत्थं इति ॥ इत्थं एवं पूर्वोक्तप्रकारेपा. इत्यर्थः, तवा, सख्या आल्या, शतशः अनेकशः इत्यर्थः, निगदिते उक्के सत्यपि, नरेन्द्रपुत्र्या भैम्या, तत्र तस्मिन् समये, किश्चित् अपि किमपि उत्तरं, न आख्यायि न अभ्यधीयत । किन्तु, तदीयं तस्याः दमयन्त्याः अयं तं, भावं अभिप्राय, उपलब्धवती अवगतवती, अन्या अपरा, काचित् काचन, वयस्या सखी, इदं वक्ष्यमाणं. वचनं वाक्यं, न्यवेदयत् अब्रवीत् ॥ १६ ॥ रूपादिभिर्गुणगणैरनुरूपमस्या- स्तातश्विराय विमृशन्वरमात्मजायाः। आलेख्यकर्मकुशलैः फलकेषु कृत्स्ना- नालेखयक्षितिभुजः प्रथितान्ववायान ॥ १७ ॥ रूपादिभिः इति ॥ अस्याः एतस्याः दमयन्त्याः, तातः जनकः भीम- राजः इत्यर्थः, रूपादिभिः सौन्दर्यादिभि , गुणगणैः सद्गुणौधः, आत्मजायाः स्वदु हितुः दमयन्त्याः, अनुरूपं सदृशं. वरं पति इत्यर्थः, विमृशन् पर्यालोचयन् सन् . आलेख्यकर्मकुशलै: आलेख्यकर्मणि चित्रकर्मणि कुशलैः निपुणैः चित्रकारैः इत्यर्थः, प्रथितान्ववायान् प्रथितः प्रसिद्धः अन्ववायः वंशः येषां तान् प्रख्यातवंशसमु- दूतान् ‘वंशोऽन्ववायः सन्तानः' इत्यमरः, कृत्स्नान् समस्तान , क्षितिं भूमि भुञ्जन्ति इति तान् क्षितिभुजः महापतीन् , फलकेषु चित्रफलकेषु, आलेखयत् चित्रार्पितान् कारयामास ॥ १७ ॥ कौतूहलेन फलकेषु मयाहतेषु क्षोणीभृतो विलिखितानिपुणं निरूप्य । आसीदियं त्रिजगतामभिनन्दनीये कुत्रापि यूनि विनिवेशितचित्तवृत्तिः ॥ १८ ॥ कौतूहलेन इति ॥ कौतूहलेन कौतुकेन, मया, फलकषु चित्रफलकेषु. आहतेषु दमयन्तीसमीपं आनीतेषु सत्सु, इयं एषा दमयन्ती, विलिखितान् चित्रफलकेषु विन्यस्तान् , क्षोणीभृतः महीपतीन् , निपुणं सूक्ष्मदृष्टया सम्यक् इति यावत् , निरूप्य निरीक्ष्य, त्रिजगतां भुवनत्रयस्यापि, अभिनन्दनीये प्रशंसनाये, कुत्रापि कस्मिंश्चित् , यूनि तरुणे युवपुरुष, विनिवेशितचित्तवृत्तिः विनिवेशिता
तृतीयः सर्गः।
८१
निक्षिप्ता चित्तवृत्तिः मनःप्रवृत्तिः अभिलाषः इत्यर्थः यस्याः सा तादृशी, आसीत्
अभवत् ॥ १८ ॥
खेदोज्झितामपि तनूमवसादयन्ती
विश्वं निरावरणमेव तिरोदधाना ॥
निद्रां विनापि नयने विनिमीलयन्ती
चिन्ता पदं कृतवती हृदये ततोऽस्याः ॥ १९ ॥
खेदोज्झितां इति ॥ ततः तावदर्शनसमनन्तरं एव, खेदोज्झितां
अपि खदेन श्रमेण उज्झिता रहितां अपि, तनूं तच्छरीरं, अवसादयन्ती ग्लप-
यन्ती ग्लानिं आपादयन्ती इति यावत , (तथा), विश्वं भुवनं, निरावरणं एव
निराच्छादनं यथा तथा आवरणं विनैव इत्यर्थः, तिरोदधाना तिरोहयन्ती आच्छा-
दयन्ती, (तथा ), निद्रां विनापि खापं विनैव, नयने चक्षुषी, विनिमीलयन्ती
मुकुलयन्ती, चिन्ता काचित् भावना, अस्याः दमयन्त्याः, हृदये मनसि, पदं
कृतवती प्रादुरासीत् इत्यर्थः ॥ १९ ॥
एणीदृशः प्रबलतापभयादिवास्याः
श्वासानिलाः प्रतिमुहुः प्रसरन्ति दूरम् ।
बाष्पाम्बुवीचिषु निमजनकातरेव
निद्रा दृशोर्न सविधेऽपि पदं विधत्ते ।। २० ॥
एणीदृशः इति ॥ अस्याः एतस्याः, एणीदृशः हरिणलोचनायाः दम-
यन्त्याः, श्वामानिलाः निःश्वासमरुतः, प्रबलतापभयात् इव अत्यन्तसन्तापभीत्या
हेतुना इव, प्रतिमुहुः सुहुर्मुहुः, दूरं दीर्घ यथा तथा, प्रसरन्ति निस्सरन्ति ।
निद्रा वापः च, राष्पाम्बुवीचिषु अश्रुजलपरम्परासु, निमज्जनकातरा इव आप्लवन-
भीता इव, दशोः नेत्रयोः, सविधे अपि समापे अपि, पदं न विधत्ते न आगच्छति
इत्यर्थः ॥ २०॥
उजृम्भते भृशमुशीरविलेपनेन
धत्ते रुषं कमलिनीदलमारुतेन ।
अन्तःस्थमेव सुभगं सततं स्मरन्त्याः
संताप एष सुतनोर्बत दुर्निवारः ॥ २१ ॥
८२ १ उज्जृमते इति । अन्तास्वं निजहल्यान्ततिनं, सुमर्ग एव महानुभाव एव (सुन्दरपुरुष एव वा), सततं अनवरतं, स्मरन्खा: चिन्तयनयार, सतेनोरम- यन्त्याः, एषः अय,सन्तापः शरीरदाहः, उशीरविलेपनेन सत्योपचारा स्तनप्रदेशे न्यस्तेन नलदलेपनेन, भृशं अतितरां, उज्जृभते प्रवर्द्धते ; कमलिनीदलमारतेन नलिनीदलतालासमुद्भवेन पबनेन, रुषं प्रकोप, पत्ते भजते सन्तापः पूर्वाधि- कः भवति इत्यर्थः । (तस्मात् एषः मन्तापः ), दुर्निवारः दुर्निरोधः अप्रतीकार्यः इति यावत् (अस्ति) ॥ २१ ॥ ज्योत्स्त्रीषु चन्द्रमवलोकितुमक्षमेयं लोलेक्षणा नयनयुग्ममवाश्चयन्ती । वीक्ष्याननं स्तनतटे प्रतिबिम्बितं स्वं तच्छङ्कया सपदि वेपथुमातनोति ॥ २२ ॥ ज्योत्स्नीषु इति ॥ लोलेक्षणा चपलनयना, इय एषा दमयन्ती, ज्यो- स्त्रीषु चन्द्रिकायुक्तामु रात्रिषु 'रात्रिज्योत्स्नी चन्द्रिकयान्विता' इत्यमरः, चन्द्र इन्दु, अवलोकितुं वीक्षितुं, अक्षमा अशक्ता, (अतः एव ), नयनयुग्मं नेत्रयु- गलं,अवाश्चयन्ती अवाक् कुर्वती मुख अवनमयन्ती सती,स्तनतटे अतिविमले निज- कुचप्रदेशे, प्रतिबिम्बितं प्रतिफलितं, खं खकीयं, आननं मुखं, वीक्ष्य आलोक्य, तच्छङ्कया तस्य चन्द्रस्य शङ्कया सन्देहेन, सपदि तूर्ण, वेपथु कम्पं, आतनोति करोति भयत्रस्ता भवति इत्यर्थः ॥ २०॥ एषा निसर्गसुकुमारतनुर्विशेषात् क्षामा स्मरेण विषहेत कथं भरं मे । इत्थं विचिन्त्य किमु निर्गलितं कराभ्यां क्षोणीतले लुठति कणयुग्ममस्याः ॥ २३ ॥ एषा इति ॥ निसर्गसुकुमारतनुः स्वभावपेशलाही, विशेषात् विशेषतः, स्मरेण मदनेन मदनावस्थया इत्यर्थः, क्षामा कृशा क्षामाशी इत्यर्थः, एषा दमयन्ती. मे मम करणयुग्मस इत्यर्थः, मर भार, र केन प्रकारेण, विषहेत मोक्नुयात् ।' इत्य एवं, विचिन्तय किम अवार्य इत्यर्थः, अस्माः एचयाः दमयन्याः, कामदुम्नं वलयुगलं, कसभ्यो सत्पाणिद्वन्द्वात् , निर्मलितं विलस्ती सता, योगीतले भूतले, उठति परिवर्तते ॥ २३ ॥ नीरन्धमावणुत कैरविणीं समेताः श्रीमानलैः सरमसं समुपेत्य सख्यः । एचापि नाहमिव दाहवशंवदास्तु संपत्यपि प्रणयिनी हतचन्द्रिकासु ॥ २४ ॥ नीरन्नं इति ॥ 'सख्यः हे प्रियवयस्याः, (यूयं ), समेताः सङ्गताः सत्यः, सरभसं सत्वरं, समुपेत्य समागत्य, क्षौमाचलैः दुकूलप्रान्तः, कैरविणी कुमुदिनी कुमुदाकर इति यावत् , नीरन्ध्र निरवकाशं यथा तथा अविरलं इति यावत् , आवृणुत आच्छादयत। (यतः), हतचन्द्रिकासु हतासु अतितुच्छासु चन्द्रिकासु कौमुदीषु विषये, संप्रत्यपि इदानीमपि अद्यापि इति यावत् , प्रणयि नी प्रणयवती नेहवती इति यावत् , एषा अपि इय कैरविणी अपि, अह इव अहं यथा, दाहवशवदा सन्तापाभिभूता, मा अस्तु माभूत् ॥ २४ ॥ पानाय चन्द्रमहसामसकृतिलोल- श्वचपुटस्तव चकोर पुरेव मा भूत् । एतेषु संप्रति सुधामपसार्य सद्यः प्राणापहारि गरलं हि विधिय॑धत्त ॥ २५ ॥ पानाय इति ॥ चकोर हे जीवजीवपक्षिन् तव ते, चञ्चूपुटः त्रोटीपुट. मुखानं इति यावत् , पुरा इव पूर्व यथा, (सप्रत्यपि), चन्द्रमहसां इन्दुकिरणानां, पानाय आखादाय, असकृत् शश्वत् , विलोलः चपल: सतृष्णः इति यावत् , माभूत मा अस्तु । हि यस्मात् कारणात् , विधिः विधाता, संप्रति इदानी, एतेषु एषु चन्द्रमहस्सु, सुधा (इतः पूर्व स्थित)अमृतं, अपसार्य अपनीय, सद्यः सपदि, प्राणापहारि प्राणापहरणशीलं मरणोत्पादक इत्यर्थः, गरल विषं 'श्वेडस्तु गरल विषम् ' इत्यमरः, व्यवत्त विदधते स्म निहिवान् इत्यर्थः ॥ २५ ॥ मुञ्चन्ति मुर्मरकणान्यरुतस्त पुन वान्येव कोकिलस्वानि तुदन्ति कौँ ।
८४
सहृदयानन्दे
.
सख्यः किमेतदिति निःसहमालपन्ती
निद्रां न विन्दति नरेन्द्रसुता निशासु ॥ २६ ॥
मुश्चन्ति इति ॥ ते एव पूर्व ये मदरेषु शीतलाः अभवन् तादृशाः
एव, मरुतः मन्दानिलाः इत्यर्थः, (संप्रति ), मुर्मुरकमान् दुषामिशकलानि,
मुञ्चन्ति विसृजन्ति विकिरन्ति इति यावत् । तानि एव यानि इतः पूर्व कर्णमधुराणि
अभवन् तादृशानि एव, कोकिलरुतानि पिककूजितानि, (अधुना), कर्णौ मम
श्रोत्रयुग्म, तुदन्ति पीडयन्ति । सख्यः हे आल्यः, एतत् इदं, किं कुतः' इति
एवं, निस्सहं असह्यवेदनं यथा तथा इसर्थः, आलपन्ती वदन्ती सती, नरेन्द्र-
मुता भीमराजतनया, निशामु रजनीषु, निद्रां वापं, न विन्दति न लभते ॥२६॥
मेरेषु चन्द्रकिरणेवलभीगृहेषु
धौतेषु चन्दनरसैमणिकुट्टिमेषु ।
आरामसीमसु घनद्रुमशीतलासु
कुत्रापि निर्वृतिरभून विदर्भजायाः ।। २७ ।।
मेरेषु इति ॥ चन्द्रकिरणैः इन्दुमयूखैः, स्मेरेषु उज्ज्वलेषु इत्यर्थः, वल-
भीगृहेषु वलभ्यः गोपानस्यः ‘गोपानसी तु वलभी च्छादने वक्रदारुणि' इत्यमरः,
तत्समीपस्थानि गृहाणि तेषु प्रामादशिखरस्थमन्दिरषु इत्यर्थः चन्द्रशालासु इति
यावत् ,(तथा ), चन्दनरसः मलयजद्रवै. चन्दनवारिभिः इत्यर्थः, धौतेषु क्षालि
तेषु, मणिकुट्टिमेषु रत्ननिबद्धभूमिषु, 'कुटिमोऽस्त्री निबद्धा भूः' इत्यमरः, (तथा),
घनद्रुमशीतलासु घनाः निबिडाः ये दुमाः वृक्षाः तैः शीतलाः शिशिराः तासु
तादृशीषु, आरामसीमसु आरामाः उपवनानि 'आरामः स्यादुपवन' इत्यमरः,
तेषां सीमानः पर्यन्तप्रदेशाः तासु ‘सीमसीमे स्त्रियामुभे' इत्यमरः, कुत्रापि
(एतादृशस्थलेषु मध्ये ) क्वचिदपि, विदर्भजायाः विदर्भराजसुतायाः दमयन्त्याः,
नितिः सुख तापशान्तिः इत्यर्थः, न अभूत् न आसीत् ॥ ॥ २७ ॥
इत्थं रहस्यमभिधाय शनैर्वयस्या
तत्कालयोग्यमुपचारविधि विधित्सुः ।
आहत्य केलिसरसः सरसैदिष्टैः
पाथोजिनीकिसलयैः शयनं व्यवत्त ॥ २८ ॥
तृतीयः सर्गः। इत्थं इति ॥ इत्थं एवं, रहस्यं गुह्य मूहं तत्वं इति यावत् , शनैः मन्दं मन्दं, अभिधाय उक्का, बयस्था तत्सखी, तत्कालयोग्यं तत्समयोचितं, उपचारविधि शैत्योपचाररूपं कर्म, विधातुं इच्छुः विधित्सुः चिकीर्षुः सती. केलि- सरसः क्रीडाकासारात् , ( कमलकिसलयानि ), आहृत्य आनीय, सरसैः सार्दै, प्रदिष्टैः अत्यन्तसुकुमारैः, पाथोजिनीकिसलयैः नलिनीपल्लवैः, शयनं शय्यां सं- स्तरं इति यावत् , व्यधत्त निर्ममे ॥ २८ ॥ तस्मिन्निसर्गशिशिरेऽपि मृगीशोऽस्याः पाथोजिनीकिसलयास्तरणे लुठन्त्याः । आसीन निवृतिलवः शफराङ्गनायाः कुल्याम्भसीव रविदीधितिदीपितायाः ॥ २९ ॥ तस्मिन् इति ॥ निसर्गशिशिर स्वभावशीतले, तस्मिन् तादृशे, पाथो- जिनीकिसलयास्तरणे सरोजपल्लवनिर्मित शयने, लुठन्त्याः अपि परिवर्तनं कुर्वत्याः अपि, कुल्यांभसि कुल्यायाः क्षुद्रसरितः अंभसि जले, रविदीधिति- दीपितायाः सूर्यकिरणसन्तापितायाः, शफराङ्गनायाः इव शफरः मत्स्यविशेषः तस्य अङ्गाना स्त्री तस्याः शफाः इव (प्रोष्टी तु शफरी द्वयोः इत्यमरः), निवृतिलवः सुखलेशः अपि, न आसीत् न अभूत् ॥ २९ ॥ सान्द्रा मृणाललतिका स्मरविक्लबाया- -स्तस्याः सखीभिरधिकण्ठतटं न्यधायि । श्यामीकृता सपदि तापमरेण सापि स्निग्धेन्द्रनीलमणिहारतुलामयासीत् ।। ३० ॥ सान्द्रा इति ॥ स्मरविक्लबायाः स्मरण मदनेन विक्लबायाः विह्वलायाः मदनपीडितायाः इति यावत् , तस्याः दमयन्त्याः, अधिकण्ठतट कण्ठप्रदेशे, सान्द्रा निबिडा अतिघना इति यावत् , मृणाललतिका बिसवल्ली, सखीभिः वय- स्थाभिः, न्यधायि संतापशमनार्थ निक्षिप्ता । सा मृणाललतिका अपि, तापभरेण दमयन्तीशरीरसन्तापाधिक्येन, सपदि सद्यः एव, श्यामीकृता कृष्णवर्णीकृता सती, स्निग्धः मनोज्ञः यः इन्द्रनीलमणिहारः महानीलमणिमाला तस्य तुलां सादृश्यं, अयासीत् प्राप ॥ ३० ॥ 8 ७ इत्यं सखीविरचितः शिशिरोपचारै- दुरितापरभसामवलोक्य वालाम् । संवीजयन्किमपि पक्षघुटावलेन तापित्यवादिषमहं मृदुना स्वरेण ॥ ३१ ॥ इत्थ इति । इत्थं एव, सखीविरचितैः सखीभिः पयस्यामिः विरचितैः विहितः, शिशिरोपचारैः शैत्योपचरणैः अपि, दुर्वारतापरभसा दुनिरोधसन्तापोद्रेका, बाला युवती दमयन्ती, अवलोक्य समीक्ष्य, अहं, पक्षपुटाञ्चलेन मममक्षाप्रेण, किमपि किश्चित् , संवीजयन् वीजनं कुर्वन् , मृदुना मन्देन, स्वरेण ध्वनिना, (उप- लक्षितः), तां दमयन्ती, इति वक्ष्यमाणप्रकारेण, अवादिषं अबोचम् ॥ ६१ ॥ एकः स एव तरुणः स्पृहणीयजन्मा तस्यैव पुण्यनिवहः परिणाहशाली । चेतो वस्त्रिजगतीजयवैजयन्ति यः प्रेम पल्लवयितुं निपुणस्तवासीत् ॥ ३२ ॥ एकः इति ॥ चेतोभुवः मन्मथस्य, त्रिजगतीजयवैजयन्ति त्रिभुवन विजयपताकायमाने हे दमयन्ति, यः तरुणः, तब भवत्याः, प्रेम अनुराग, पल्लव- यितुं अङ्करयितुं उत्पादयितुं वर्धयितु वा इत्यर्थः, निपुणः समर्थः, आसार अभ- वत् ; सः तादृशः, तरुणः युवा, एकः एव एकः केवल, स्पृहणीयजन्मा स्पृहाय अभिलषणीयं जन्म उत्पत्तिः यस्य सः तादृशः, (अस्ति)। तस्य एव, पुण्य. निवहः सुकृतनिकरः, परिणाहशाली वैपुल्ययुक्तः, ( वर्तते ) ॥ ३२ ॥ तन्वन्ति ये त्वयि तनूदरि भाववन्धं धन्यास्त एव भुवनत्रितये युवानः । किं नाम तेऽपि मधुपाः स्मितलेशभाज सायन्तनीमनुसरन्ति न मल्लिका ये ।। ३३ ॥ सन्वन्ति इति । तबु अल्पं उदरं मध्यं इत्यर्थः यस्याः तत्संबुद्धिः तनू- हे कशोदरि, थे, युवानः तरुणा, त्वयि तब उपरि, 'भावबन्ध अनुराम, न्ति कुर्वन्ति ; ते एष, भुवनत्रितये त्रिभुबने अपि, धन्याः भाग्यशालिनः, तृतीयःमर्यः। . .. . (भवन्ति)। ये मधुपार, सितलेशमाज विधिसिता इत्यर्थ सायन्तनी सायाले भवां, मलिका मालती, न अनुसरन्ति न उपगच्छन्ति ; ते अपि साडशाः अपि अमराः, मधुपाः, किं नाम किमु ॥ ३३ ॥ त्वं श्लाध्यसे शतमखप्रमुखैरमत्यः कीग्विधेषु मनुजेषु मृगायताक्षि । अभ्यर्थितस्तु तव सुन्दरि दुर्लभो यः सोऽयं न कस्य हृदि विस्मयमातनोति ॥ ३४ ॥ त्वं इति ॥ मृगस हरिणस्य इव आयते दोघे अक्षिणी यस्याः सा तत्सं- बोधन मृगायताक्षि हे हरिणदीर्घलोचने, त्व भवती, शतमखप्रमुखैः शतमखः इन्द्रः प्रमुखः आदिः येषां तैः इन्द्रादिभिः इत्यर्थः, अमत्यैः देवैः 'अमा अमृता. न्धसः' इत्यमरः, श्लाघ्यसे अभिनन्यसे । हे सुन्दरि सौन्दर्यसंपन्ने, कीडग्विधेषु कीहकप्रकारेषु तुच्छेषु इत्यर्थः, मनुजेषु मनुष्येषु ( मध्ये), यः, अभ्यर्थितः (त्वया) प्रार्थितः सन् , तब ते, दुर्लभः दुरापः, ( भवेत् ); सः तादृशः, अयं एषः तु, कस्य, हृदि मनसि, विस्मयं आश्चर्य, न आतनोति न उत्पादयति सर्व- स्थापि हृदये विस्मयं आतनोति एव इत्यर्थः ॥ ३२ ॥ मध्येविलासविपिनं मणिमन्दिरेषु मन्दारदामभिरलङ्कृतकुट्टिमेषु । शच्यापि सार्धममराधिपतिर्विहर्तु मन्दादरो भवति सुन्दरि चिन्तया ते ॥ ३५ ॥ मध्य इति ॥ हे सुन्दरि, ते तव, चिन्तया स्मरणेन, अमराधिपतिः देवेन्दः, विलासविपिनल्य मध्ये मध्येविलासविपिनं (अव्ययीभावममासः) क्रीडाराममध्ये इत्यर्थः, मन्दारदामभिः तदाख्यकल्पद्रुमकुसुममालाभिः, अलं- कृतकृष्टिमेषु अलङ्कृताः भूषिताः कुटिमाः निबद्धभुवः येषां तेषु तादृशेषु, मणिमन्दिरेषु रत्नखचिनगृहेतु, शच्या अपि साकं इन्द्राण्या अपि सह, विहर्तुं क्रीडितुं, मन्दादरः विगताभिलाषा भवति वर्तते ॥ ३९ ॥ . दाक्षिण्यतः सुरमहीरुहमञ्जरीभि- रापिजराभिरवतंसयितुं प्रियायाः।
सहृदयानन्दे
अर्धप्रसारितकरोऽप्यमराधिनाथ-
स्त्वचिन्तया सुमुखि मन्थरतामुपैति ॥ ३६ ॥
दाक्षिण्यतः इति ॥ सुमुखि हे सुवदने, अमराधिनाथः
: इन्द्रः, दाक्षिण्य-
तः सौजन्यात् हेतोः उपचारात् हेतोः इत्यर्थः, आपिजराभिः आरक्ताभिः, सुर-
महीरुहमञ्जरीभिः कल्पतरुकुसुमस्तबकैः, प्रियायाः दयितायाः इन्द्राण्याः, अवत-
सयितुं अवतंसं कर्तुं, अर्धप्रसारितकरः अपि कियहूरोत्क्षिप्तहस्तः सन् अपि,
त्वचिन्तया तव भवत्याः चिन्तया स्मरणेन, मन्थरतां स्तब्धता, उपति
प्राप्नोति ॥ ३६॥
मध्येऽपि दुग्धजलधेः कलिताधिवासः
संवाह्यमानचरणोऽपि तरङ्गिणीभिः ।
अन्तर्विचिन्त्य भवतीमवनीन्द्रपुत्रि
तापोत्तरं वपुरपामधिपो बिभर्ति ॥ ३७॥
मध्ये इति ॥ अवनीन्द्रपुत्रि हे भैमि, दुग्धजलधेः क्षीरसागरस्य, मध्ये
अन्तःप्रदेशे, कलिताधिवासः कृतवसतिः अपि, (तथा), तरङ्गिणीभिः (निज-
पत्नीभिः) नदीभिः, संवाह्यमानचरण: मृद्यमानपादः सन् अपि, अपां अधिपः
अप्पतिः वरुणः च इत्यर्थः, भवतीं त्वां, अन्तः हृदयाभ्यन्तरे, विचिन्त्य स्मृत्वा,
तापोत्तरं तापप्रधान सन्तापबहुलं इत्यर्थः, वपुः शरीरं बिभर्ति वहति ॥ ३७॥
तन्वि त्वदर्थमनिशं परिपीड्यमानः
पश्चेषुणा धनपतिर्विनिमीलिताक्षः ।
सख्युः सकाशमुपसर्पति चन्द्रमौले-
स्तन्मौलिचन्द्रमहसः परिशङ्कमानः ॥ ३८ ॥
तन्वि इति ॥ तन्वि हे कृशाङ्गि, त्वदर्थ त्वन्निमित्तं त्वां उद्दिश्य इत्यर्थः,
पञ्चेषुणा मन्मथेन, अनिशं सन्ततं, परिपीड्यमानः परिक्तिश्यमानः, धनपतिः
कुबेरः, तन्मौलिचन्द्रमहसः तस्य चन्द्रमौलेः मौलौ चूडायां स्थितस्य चन्द्रस्य मह-
सः किरणात् , परिशङ्कमानः सन्त्रस्यन् सन् , ( अतः एव ), विनिमीलिताक्षः
मुकुलितनयनः सन् , सख्युः स्वमित्रस्य, चन्द्रः मौलौ यस्य तस्य चन्द्रमौले:
चन्द्रचूडस्य शिवस्य इति यावत् . सकाशं समीपं, उपसपैति उपगच्छति ॥३०॥
तृतीयः सर्गः। त्वां भावयन्कनककेचकगर्भगोरि मन्दादरः प्रणयिनीष्वपि पार्थमासु । पश्चाशुगेन सुहृदापि शिलीमुखानां लक्षीकृतः स्वमाप निन्दति रोचिरिन्दुः ॥ ३९ ।। त्वां इति ॥ कनककेतकगर्भगौरि कनककेतकस्य सुवर्णकेतकीकुसुमस्य गर्भः अन्तर्भागः तद्वत् गौरी पीतवर्णा तत्संबोधनं, इन्दुः चन्द्रः, त्वां भवती, सम्भावयन् चिन्तयन् , पार्श्वगासु अपि समीपवर्तिनीषु, अपि प्रणयिनीषु दयितासु अश्विन्यादिषु तारासु इत्यर्थः, मन्दादरः परिक्षीणाभिलाषः सन् , सुहृदा अपि निजप्रियवयस्येन अपि, पञ्च आशुगाः बाणाः यस्य तेन पञ्चाशुगेन पञ्चबाणेन मन्मथेन इति यावत् , शिलीमुखानां खशराणां, लक्षीकृतः शरव्यी- कृतः सन् , स्वं अपि आत्मीयं अपि, रोचिः किरणं, निन्दति ( मदनबाधावर्ध- कत्वात् ) अधिक्षिपति ॥ ३९ ॥ न्यस्तेक्षणस्तव तनौ स्तनबन्धुरात्रि रागान्ध्यमेत्य भगवानरविन्दवन्धुः । भ्राम्यन्मुहुः कनकभूधरमेखलाया- मार्गेडितानि वितनोति गतागतेषु ॥.४० ॥ न्यस्तेक्षणः इति ॥ स्तनाभ्यां बन्धुरं उन्नतानतं अङ्गं यस्याः तत्सं- बोधनं स्तनबन्धुराङ्गि 'बन्धुर तूनतानतं' इत्यमरः, भगवान् माहात्म्यसम्पन्नः, अरविन्दबन्धुः सूर्यः च, तव ते, तनौ शरीरे, न्यस्तेक्षण: निक्षिप्तनयनः सन् , रागान्ध्यं रागेण अनुरागेण आन्ध्यं अन्धत्वं मोहं इत्यर्थः, एत्य प्राप्य, कनक- भूधरमेखलायां कनकभूधरः मेरुपर्वतः तस्य मेखलायां नितम्बे 'मेखला ख- ण्डबन्धे स्यात् काञ्चीशैलनितम्बयोः' इति विश्वः, मुहुः पुनः पुनः, भ्राम्यन् परिभ्रमन् सन् , गतागतेषु गमनागमनेषु, बामेडितानि आवर्तनानि पौन:- पुन्यं इति यावत् ' आडितं दिस्त्रिरुकं' इत्यमरः, विननोति करोति ॥४०॥ सध्यातासपगतां गिरित्रस्य वीक्ष्य क्षोमीवरेन्द्रतनयायवनीन्द्रपुत्रि ।
me an सर्भवती त्वमसि चेद निर्विज्ञई त्वां दक्षिणामहमस्य करोमि सद्यः ॥ ११ सव्यातां इति ॥ अवनीन्द्रपुति है उसकमारि, त्वं भवती, गिरिः अस्य अस्ति इति गिरिश: तस्य गिरिशरय शिवस्य 'गिरीशी मिरिको मृङः इत्यमरः, सव्यापतां वामार्थत्वं शिवाजस्य वामाधत्व इत्यर्थः, उपगतां प्रपनों, क्षोधिरेन्द्रतनयां क्षोणीधराणां पर्वतानां इन्द्रः अधिपतिः क्षोभीधरेन्द्रः भूध-* रश्रेष्ठः हिमवान् इति यावत् तस्य तनया सुता तां पार्वती, बीक्ष्य मालोक्य, स्पर्धावती संघर्षवती, असि चेत् भवसि यदि, (तर्हि), बद कथय । अहं. निर्विशा निस्संशयं यथा तथा, वो भवती, सद्यः सपदि, अस्य गिरिशस्य, दक्षिणार्धे सव्येतरभागार्थरूपां इत्यर्थः, करोमि विधास्यामि इत्यर्थः ॥ ४१ ॥ किं विस्तरेण बचसामपरेण भूय- स्त्वं चेत्कुतूहलवती तरलायताक्षि । क्षीराम्बुराशितनयामपरामिव त्वा नारायणस्य हृदये विनिवेशयामि ॥ ४२ ॥ किमिति ॥ भूयः पुनरपि, अपरेण अन्येन, वचसा उक्तीना, विस्तरेण प्रपञ्चेन, किं प्रयोजन किं बहुना उकेन इत्यर्थः । हे तरलायताक्षि चञ्चलदीर्घनेत्रे. त्वं, कुतूहलवती चेत् कुतुकिनी यदि स्पृहावती भवसि यदि इत्यर्थः, (तर्हि), त्वां भवती, अपरां अन्या, क्षाराम्बुराशितनयां इव क्षीरसागरकन्यकां इव लक्ष्मीदेवीइव इति यावत् 'भार्गवी लोकजननी क्षीरसागरकन्यका' इत्यमरः, नारायणस्य श्री- महाविष्णोः, हृदये वक्षसि, विनिवेशयामि निक्षिपामि ॥ ४२ ॥ एते मया मखभुजः कथिताः पुरस्ते ये दुर्लभाखि जमत्सु विलासिनीभिः । अग्रेसरत्वमुपनेष्यति भाग्यमाजां त्वत्पाणिपीडनविषिः कतमं तदेतु ॥ ४३ ॥ यते इति । सामुगल खिषु यत्तु बिक्ने भुगनवा मावि इति यावत् , शिकामिनीभिः कामिनीकिशमिः इति यावा, पुर्वमा चरेण माया, .
तृतीयः सर्मः।
2.
(सन्ति); एते एताया, मम वे- बहिर्मुखा. मुजः' इत्यमरः, ते
भवरखा, पुरः अग्रे समय इति यावत् मया, कथिताः वर्णिता, (आसन्)।
तत् तस्मात् , एषु एतेषु देवेषु मध्ये, कतम क देव इत्यर्थः, त्वत्पाणिपीडनविधिः
स्वत्पाणिग्रहणविधिः विवाहविषिः इति यावत् , भाग्यभाजा भाग्यशालिनां सुकृ-
तिना इति यावत् , अग्रेसरत्वं पुरस्सरता अग्रणीत्व इति यावत् , उपनेष्यति
प्रापयिष्यति ॥ ४३॥
कर्णाभिरामंमिह मां बहु भाषमाणं
त्वं केलिकीरमिव सुन्दरि मावमंस्थाः।
वैमानिकोऽस्मि कमलप्रभवस्य तन्मे
लोकेषु सप्तसु न दुष्करमस्ति किश्चित् ।। ४४ ।।
कर्णाभिराममिति ॥ हे सुन्दरि सौन्दर्यसपन्ने दमन्ति, स्व भवती,
इह इदानी, कर्णाभिरामं श्रोत्रमनोहर यथा तथा, बहु अनेकवाक्यानि इत्यर्थ
(बहुप्रकारेण वा), भाषमाण वदन्त, मां, केलिकीर इव क्रीडाशुकवत् , मा अव-
मस्थाः मा अवधीरयख । (यतः), (अह), कमलप्रभवस्य पद्मसंभवस्य ब्रह्मणः इति
यावत् , वैमानिकः विमानवाहकः, अस्मि भवामि । तत् तस्मात् , सप्तसु लोकेषु
सप्तलोक्यां अपि, मे मम, दुष्कर दुस्साध असा य इत्यर्थ , किश्चित् किपि,
न अस्ति न वर्तते' ॥ ४४ ॥
इत्यं मया निगदिता बहुधा मृगाक्षी
सा निश्चयं कृतवती वचने मदीये ।
यत्रावलोकितवती तव देहलक्ष्मी
भूयोऽपि तत्फलकमेव हृदि न्यवत्त ॥ ४५ ॥
इत्थमिति ॥ इत्व एवं पूर्वोक्तप्रकारेण, मया, बहुधा अनेकथा, निग.
दिता उका, सा, मृगाक्षी हरिणलोचना दमयन्ती इत्यर्थः, मदीये मामके मया
भनिहिते इत्यर्थः, बचने वचसि, निधय निर्णय विश्वासं इति यावत् , सतवती
चकार । यत्र अस्मिन् चित्रफलके, तब भवतः, देहलक्ष्मी शरीरसौन्दर्य, अंक-
फिरावती विसरीक्षितपती 3 तत् तादृशं, फलकं न चित्रकलक एब, भूवः अपि
पुनः अपि, दिदयप्रदेश, त्यावर न्यवेशयत् ॥४५॥
९२ सहृदयानन्दे तस्मिन्सखे लिखितया तक देहलक्ष्मया त्वय्येकतानहृदयामवलोक्य बालाम् । आत्मानमाकलयता सफलमयासं भैमी प्रमोदतरलेन मयाभ्यधायि ॥ ४६॥ , तस्मिन् इति ॥ सखे हे मित्र नल, तस्मिन् चित्रफलके, लिखितया चित्रितया, तव भवतः, देहलक्ष्म्या गात्रशोभया हेतुना, बाला नवयौवनां दमयन्ती, त्वयि भवद्विषये, एकतानहृदयां एकाग्रमानसां, अवलोक्य आलक्ष्य, आत्मान मां इत्यर्थः, सफलप्रयास अवन्ध्यप्रयत्न, आकलयता मन्वानेन, (अतः एव), प्रमोदतरलेन हर्षपरवशेन, मया, भैी भीमराजतनया दमयन्ती, (एव), अभ्यधायि अभ्यभाष्यत आभिहिता इति यावत ॥ ४ ॥ त्वं माधवी मधुरसौ जगदेकवीर- स्त्वं कौमुदी कुमुदबन्धुरयं नरेन्द्रः । आस्तां निरस्तसदृशान्तग्योश्चिराय संबन्ध एष युवयोरभिनन्दनीयः ।। ४७ ॥ त्वमितिना है दमयन्ति, त्व भवती, माधवी वासन्ती लता तद्वत् असि इत्यर्थः । जगदेकवीरः जगति भुवने एकः अद्वितीयः धीरः शूरः, असौ अय नलः, मधुः वसन्तः वमन्तवत् वर्तते इत्यर्थः । (कि च) त्वं भवती, कौमुदी चन्द्रिका कौमुदीतुल्या इत्यर्थः । अय असौ नरेन्द्रः नलमहाराजः, कुमुदबन्धुः कुमुदबान्धवः चन्द्रः इति यावत् 'हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुद- बान्धवः ।' इत्यमरः, इन्दुतुल्यः इत्यर्थः । (तस्मात्), निरस्तुसदृशान्तरयोः उपमानान्तररहितयोः निरुपमयोः इत्यर्थः, त्व च सः च युवा तयोः युवयो: दमयन्तीनलयोः इत्यर्थः, चिराय चिरकालपर्यन्त, अभिमन्दनीयः श्लाघनीयः, एषः अयं, सम्बन्धः विवाहरूपसंबन्धः, आस्तां भवतु' ॥ ४७ ॥ आश्वास्य नापिति वचोमिरहं दिक्षु- स्त्वां यावदम्बरपथं न समुत्पतामि ।
तृतीयः सर्यः तावत्तया स्तनतटादपकृष्य हार: स्वेनैव पाणिकमलेन समर्पितोऽयम् ॥ ४८ ॥ आश्वास्येति ॥ इति एवंविधैः इत्यर्थः, वचोभिः वचनैः, तां दम- यन्ती, आश्वास्य सान्त्वयित्वा स्वस्थचित्तां कृत्वा इत्यर्थः, अहं, त्वां, भवन्तं, दिक्षुः द्रष्टुं इच्छुः सन् , यावत् यदवधि, अम्बरपथं आकाशमार्ग, न समुत्पतामि न उद्गच्छामि ; तावत् तदनधि, तया दमयन्त्या, स्तनतटात् स्वकुचतटात् , अपकृष्य अपनीय उद्धत्य इति यावत् , अयं एषः, हारः मौक्तिकमाला, स्वेन स्वकीयेन, पाणिकमलेन एव करपद्मन एव, (मह्यं), समर्पितः दत्तः (अभूत् )। द्राधीयसी हिमरुचेरपि निर्मलेयं वक्षोजकुडमरजोभिरुदीर्णरागा। तस्याः सखे हृदयतिरिव द्वितीया मुक्तालता हृदि तवास्पदमातनोतु ।। ४९ ॥ द्राधीयसी इति ॥ सखे भोः वयस्य, दापीयसी अत्यन्तदीर्घा, हिम- रुचेः अपि चन्द्रात् अपि, निर्मला स्वच्छा, (तथा), वक्षोजकुङ्कुमरजोभिः दम- यन्तीस्तनतटस्थघुसृणपरागैः, उदीर्णरागा संजातरक्तवर्णा (प्रवृद्धानुरागा च), (अतः एव ) तस्याः दमयन्त्याः, द्वितीया अपरा, हृदयवृत्तिः इव चित्तवृत्तिः इव, (स्थिता), इयं एषा, मुक्तालता मौक्तिकहारः, तव भवतः, हृदि हृदये क्षसि इत्यर्थः, आस्पदं स्थान स्थिति इति यावत् , आतनोतु करोतु ॥ ४९ ॥ मुक्ताकलापमथ तेन समर्प्यमाणं पश्चाबलः करतले कलयाञ्चकार । स्वेदोदबिन्दुचयदन्तुरितं समन्ता- पागेव तस्य वपुरुत्पुलकं बभूव ॥ ५० ॥ मुक्ताकलापमिति ॥अथ अनन्तरं, तस्य नलस्य, वपुः गात्रं, प्राक एव मुक्ताहाराङ्गीकारात् पूर्व एव, समन्तात् सर्वतः शरीरं. अभितः इत्यर्थः, खेदोदबिन्दुचयदन्तुरितं स्वेदोदबिन्दूनां स्वेदजलकणानां चयः निकरैः दन्तुरितं आकीर्णे इत्यर्थः, (तथा ), उत्पुलकं उद्गतरोमाञ्चं च, बभूव अभवत् । तेन .
+ M . दिव्यहसेन, समयमाणं दीयमानं, मुखकमा मौखिलाविया एकाहार तु इत्यर्थः 'कलापो भूषधे बहे' इत्यमरः, नलः, करतले प्राणितले. पश्चात् अनन्तरं स्वेदपुलकोद्गमानन्तरं इत्यर्थः, कलयांचकार जाह । दमयन्तीकृतमुक्काहारपर्श- समकालमेव नलः हर्षवशात् प्रखिन्नगानः पुलकातिशरीरंग आसीत् इति भावः ॥ ५० ॥ तेनोरसि प्रियसखेन निवेश्यमान- मापिञ्जरं मृगदृशः कुचकुमेन । हारं निरीक्ष्य कलितः कुसुमेषुबाण- रन्त=चिन्तयदिदं सुचिरं नरेन्द्रः ॥ ५५ ॥ तेनेसि ॥ नरेन्द्रः नलमहाराजः, प्रियश्च असौ सखा च प्रियसखः तेन प्रियसखेन प्रियसुहृदा, तेन हसेन, उरसि खवक्षःस्थले, निवेश्यमानं धार्यमाणं, मृगदृशः हरिणाक्ष्याः दमयन्त्याः, कुचकुमेन स्तनतटस्थघुसणेन, आपिजरं आरक्त, हार मुकादाम, निरीक्ष्य अवलोक्य, कुसुमेषुबाणैः मन्मथशरैः, कलितः विद्धः सन् इत्यर्थः, सुचिरं चिरकालपर्यन्तं, अन्तः हृदये खगत इत्यर्थः, इदं वक्ष्यमाणं, व्यचिन्तयत् चिन्तयामास ॥ ५१ ॥ सूचीमुखेन सकृदेव कृतवणस्त्वं मुक्ताकलाप लुठसि स्तनयोः प्रियायाः। बाणैः स्मरस्य शतशोऽपि निकृत्तमर्मा खमेऽपि तां कथमहं न विलोकयामि ॥ ५२ ।। सूचीमुखेनेति ॥ 'हे मुक्ताकलाप हे मुक्ताहार, त्वं, सूच्याः सेवन्याः मुख अन तेन सूचीमुखेन मूच्यप्रेण. सकृत् एव एकवारं एव, कृतवणः विहित- क्षतः विरचितरन्ध्रः इत्यर्थः सन् , प्रियायाः मद्दयितायाः दमयन्त्याः, स्तनयोः कुचयोः, लुठमि घूर्णसि। (तथा सति), सरस्व मदनस्य, बाणैः शरैः, तमः शतकत्वः, निकृत्तमा निकृतं छिन्नं मर्म मर्मप्रदेशः हृदयं इति अर्थः यख सः तादृशः सन् अपि, अह, कथ केव हेतुना, स्वप्ने अपि खापे अपि, तां प्रियां, न विलोकयामि न पश्यामि ॥ ५३॥ M .
तृतीय सर्वः। प्रत्यक्षरं क्षरदिवावनिरौष- माकर्ण्य कर्णमधुरं वचनं खगस्य । तं मौनमाजमसकृत्परिरभ्य दोर्ध्या मानन्दमन्थरमिदं नृपतिर्बभाषे ॥ ५३ ॥ प्रत्यक्षरमिति ॥ (अप), नृपतिः नलः, अक्षरं अक्षर प्रति प्रत्यक्षर एकैकस्मिन् अपि अक्षरे इत्यर्थः, अमृतनिझरोघं अमृतनिर्झरस्य सुधाप्रवाहस्य ओघ. मन्दोह तं, क्षरत् इव स्रवत् इव (स्थितं), (तथा), कर्णमधुरं श्रुति- मनोहर, खगस्य हसपक्षिणः, वचनं भाषितं, आकर्ण्य श्रुत्वा, मौनमाजं तूष्णी- भावं आश्रित, तं पक्षिणं, दोयो भुजाभ्यां, असकृत् शश्वत् पुनः पुनः इति यावत् , परिरभ्य आलिङ्गाय, आनन्दमन्धरं हर्षातिशयेन स्तिमित यथा तथा, इद वक्ष्यमाणं, आवभाष अवोचत् ॥ ७३ ॥ अभ्यर्थितं फलति कल्पतरुः प्रकामं चिन्तामणिर्दिशति चिन्तितमेवं भूयः । अप्रार्थितानि वितरनिह चिन्तितानि कीर्ति तयोरपि भवानधरीकरोति ॥ ५४ ॥ आभाषणप्रकारमेव आह- - . अभ्यर्थितमिति ॥ 'कल्पतरुः कल्पवृक्षः, अभ्यर्थित अथिभिः प्रार्थित एव वस्तु, प्रकाम भृशं, फलति प्रसूते प्रयच्छति इत्यर्थ । चिन्तामणिः वाञ्छिता र्थप्रदः दिव्यमणिविशेषः, चिन्तित एव ईप्सित एव वस्तु, भूयः भृश, दिशति प्रयच्छति । इह अस्मिन् लोके (अधुना वा), अप्रार्थितानि अयाचितानि, चिन्ति- तानि अभिलषितानि वस्तूनि, वितरन् यच्छन् , भवान् त्वं, तयोः कल्पतरु- चिन्तामण्योः अपि, कीर्ति अभिलषितार्थप्रदत्वप्रयुक्त यगः, अधरीकरोति तिर- स्कुरुते आतिशेते इत्यर्थः' ॥ ५४ ॥ अत्रान्तरे वियदशोभयदंशपूरैः पूर्णेन्दुसुन्दरमुखी दिवसान्तलक्ष्मीः। .
सहृदयानन्दे . लब्धोदयैस्त्रिषु जगत्सु गुणैरुदारे- भैमीव तस्य हृदयं पृथिवीपरस्य ॥ ५५ ॥ अत्रान्तरे इति । अत्रान्तरे एतस्मिन् अन्तरे, पूर्णेन्दुसुन्दरमुखी पूर्णेन्दुः पूर्णचन्द्रः राकाचन्द्रः इति यावत् तद्वत् सुन्दरं मुखं यस्याः सा तादृशी, भैमी दमयन्ती, त्रिषु जगत्सु भुवनत्रितये, लब्धोदयैः प्राप्तप्रसरैः, उदारैः गम्भीरैः, गुणैः, सौशील्यादिभिः, तस्य पृथिवीश्वरस्य नलभूपतेः, हृदयं चित्तं इव, पूर्णेन्दुसुन्दरमुखी पूर्णेन्दुना सुन्दरं मुखं अप्रभागः यस्याः तादृशी, दिव- सान्तलक्ष्मीः दिनावसानश्रीः प्रदोषशोभा इति यावत् , त्रिषु, जगत्सु, लब्धो- दयैः लब्धप्रसरैः, उदारैः अत्युज्ज्वलैः, अंशुपूरैः तेजःप्रवाहै:, वियत् आकाश, अशोभयत् अभूषयत् ॥ ५५ ॥ अथ सुहृदि सरोषे वैरसेनि जिघांसो विदधति विषमेषो चापमारोपितज्यम् । प्रथयितुमिव भूयस्तस्य साहाय्यमिन्दुः ककुभि बलभिदः स्वं बिम्बमाविश्वकार ॥ ५६ ॥ अथेति ॥ अथ प्रदोषागमनानन्तर, वीरसेनस्य अपत्यं पुमान् वैर- सेनिः तं वैरसेनि वीरसेनकुमार नल, हन्तु इच्छु: जिघांसुः तस्मिन् जिघांसी हन्तुकाम इत्यर्थः, (अतः एव), सरोष कोपसहिते, सुहृदि निजमित्रे, विषमेषा मन्मथे, चापं धनुः, आरोपितज्यं आततमौकिं, विदधति कुर्वति सति, इन्दुः चन्द्रः, तस्य स्वसुहृदः स्मरस्य, भूयः अधिकं, साहाय्यं उपकारं, प्रथयितु इव प्रकटयितुं इव, बलभिदः बलारातेः इन्द्रस्य इति यावत् 'वास्तोष्पतिस्सु रपतिर्बलारातिः शचीपतिः' इत्यमरः, ककुभि दिशि प्राचीदिशि इत्यर्थः, स्वं निज, बिम्ब मण्डलं, आविश्वकार प्रकटींचकार ॥ मालिनी वृत्तम् ॥ तल्ल- क्षणं तु- 'ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥ ५६ ॥ इति श्रीसांधिविग्रहिकमहापात्रश्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते हंसदर्शनं नाम तृतीयः सर्गः॥ .
चतुर्थः सर्गः। सुरपतेरपहाय दिशं विधु- विशदतां क्रमशः समुपाययौ । मनसि तां विनिवेश्य मृगीदृशं कलयति स्म नलस्त्वनुरागिताम् ॥ १॥ सुरपतेरिति ॥ विधुः चन्द्रः, सुराणां पतिः तस्य सुरपतेः इन्द्रस्य, दिशं ककुभं प्राचीदिशं इत्यर्थः, अपहाय त्यक्त्वा, क्रमशः कमेण शनैः शनैः इत्यर्थः, विशदतां वैशद्य नैर्मल्यं इति यावत् , समुपाययौ प्राप । नलः तु, तां, मृगीदृशं हरिणाक्षी दमयन्ती, मनसि हृदये, विनिवेश्य निधाय विचिन्त्य इत्यर्थः, अनुरागितां प्रणयित्वं, कलयति स्म प्राप इत्यर्थः ॥ अस्मिन् सर्गे प्राय: द्रुतविलम्बितं वृत्तम् । तल्लक्षणन्तु–'दुतविलम्बितमाह नभौ भरौ।' इति ॥ १॥ बहिरुदश्चति कैरवबान्धवे स्फुरति चेतसि मुग्धशो मुखे । समवलम्ब्य बलं सुहृदोईयो- रभिजघान शरैस्तमनन्यजः ॥ २ ॥ बहिः इति ॥ बन्धुः एव बान्धवः (प्रज्ञादित्वात् स्वार्थे अण् प्रत्ययः) कैरवाणां कुमुदानां बान्धवः तास्मन् कैरवबान्धवे चन्द्रे इत्यर्थः, बहिः उदश्चति आविर्भवति सति उदयगिरेः शिखरात् ऊर्ध्व गच्छति सति इत्यर्थः, (तथा), मुग्धदृशः वामलोचनायाः दमयन्त्याः इत्यर्थः, मुखे आनने, चैतसि नलहृदये, स्फुरति प्रकाशमाने सति, अन्यस्मात् न जायते इति अनन्यज: मदनः 'शंब- रारिमनसिजः कुसुमेधुरनन्यजः।' इत्यमरः, दूयोः चन्द्रस्य दमयन्तीमुखस्य च 9 सहदयानन्द AN इति उमयोः, मुझ्दोः मित्रयोः, बलं साहवं इत्यर्थः, समवलम्ब्य समष्टभ्य, शरः बाणैः, तं मलं, अभिजधान अमिहतवान् पीडयामास इत्यर्षः ॥ २ ॥ विचकिले मितशालि विकस्वर' सुरभितं कुमुदैः क्षणदामुखम् । दुरवलोकमभूदवनीभुजः मरशरज्वरकातरचेतसः ॥३॥ विचकिलैःइति ॥ विकस्वरैः विकसितैः (कुमुदः स्लखापि विशे- पणमेतत् ), विचकिलैः तदाख्यपुष्पविशेषैः, स्मितेन शालते इति .स्मितशालि सजातस्मितं इत्यर्थः, (तथा), कुमुदैः कैरवैः, सुरभितं वासितं सजातपरिमलं इत्यर्थः, क्षणदामुखं रजनीमुखं प्रदोषः इति यावत् , स्मरस्य मदनस्य शरैः बाणैः उत्पादितः यः ज्वरः पीडा तेन कातरं व्यथितं इत्यर्थः चेतः यस्य तस्य ताह- शस्य, अवनीभुजः नलमहाराजस्य, दुरवलोकं दुनिरीक्ष्यं, अभूत् जातम् ॥३॥ अपि निमीलितमति निशामुखे कुमुदमल्लसितश्रियमानशे। हृदयमस्य तदैव महीभुजः समधिकं विधुरत्वमुपाददे ॥ ४ ॥ अपि इति ॥ अहि दिवसे दिवाकाले इत्यर्थः, निमीलित मुकुलित अपि, कुमुदं कैरवं, निशामुखे रजनीमुखे, उल्लसितश्रियं अत्युज्ज्वलशोभा, आनशे लेभे । तदा एव तस्मिन्नेव काले, अस्य एतस्य, महीभुजः नलमहा- राजय, हृदयं मनः, समधिकं भृशं, विधुरत्वं विह्वलता, उपाददे अभजत् ॥४॥ स्थितिमा प्रथमोऽपि महाशयः पतिरपां रजनीरमणत्विषा । अवनिवासवसंभवया तया नल इवोत्तरलत्वमुपाययौ ॥५॥ सितिमतामिति ॥ स्थितिमता मर्यादापालकाना स्थैर्यवता वा, प्रथमः अग्रेसरः पा), महाशयः महान् विबुल: बाशयः मध्यप्रदेशः यस सः तथो- + - १९ - क रहा महत आपः भाशेते भनिन्, सब (हति सहपो) (सामानक इति नृपतिपक्षे), अपां पतिः अपि समुद्रः अपि, रजवीरमविया रजनीकमगल्य चन्द्रस्य विषा कान्या, अवनिवासरः महीन्द्रः भीमराजः इत्यर्थः तसा समय उत्पत्तिः ययाः तया भीमराजदुदिना, तया दमयन्त्या, नलःश, उत्तरलत्वं अस्थैर्यत्वं अधीरता इति यावत् , उपाययौ प्राप ॥ ५ ॥ अवकिरनमृतं परितः करैः असमरैरवृतयुतिरुज्ज्वलैः। मुदसुदश्चयितुं पृथिवीभुजा 'सरसिजस्य च नाभवदीश्वरः ॥ ६॥ अवकिरमिति ॥ अमृतमय्यः पुतयः मयूखाः यस्य सः अमृतयुतिः सुधांशुः चन्द्रः इति यावत् , प्रसमरैः प्रसृत्वरैः प्रसरणशीलैः इत्यर्थः ('सृघसदः क्मरच्' इति प्रपूर्वात् सूधातोः क्मरच्प्रत्ययः), (तथा), उज्ज्वलैः प्रकाशमानैः, करैः किरणैः, परितः सर्वतः, अमृतं सुधा, अवकिरन् वर्षन् अपि (अपकिरन्' इति पाठान्तरं), पृथिवीभुजः नलमहाराजस्य, सरसिजस्य पढेरुहस्य च, मुदं हर्षे (विकासं इति सरसिजपक्षे), उदश्चयितुं उत्पादयितुं इत्यर्थः, ईश्वरः समर्थः, न अभवत् न भासीत् ॥६॥ किसलयान्तरसन्धिषु पुञ्जितैः शशभृतः किरणैरपि भूरुहाः। असमयेऽपि कश्चिदुदश्चितैः सुमनसां स्तवकैरिव रेजिरे ॥७॥ किसलयेति ॥ भूरुहाः अपि वृक्षाव, किसलयान्तरसन्धिषु किसल- याना पल्लवाना अन्तरेषु अन्तरालेषु मध्यप्रदेशेषु ये मन्धयः रन्ध्राणि तेषु, पुजितैः राशीकृतैः, शशभृतः चन्द्रस्य, किरणैः मयूखैः, असमये अकाले भपि, कश्चित् इच्छात्, उदश्चितैः उत्पत्रैः प्रबैः वा, सुमनसा कुसुमाना, स्तबकैः इव गुग्छैः इव, रेजिरे बभुः ॥ ७॥ शशिरुचः परिपीय मुहुर्मुहुः सपदि तुन्दिलतां समुपेयुषी।
१.० १ गृहचकोरचनिजपञ्जरे पृथुतरेऽपि चिराय न संममौ ॥ ८ ॥ शशिरुचः इति ॥ गृहे विद्यमाना चकोरवधूः गृहचकोरवधूः क्रीडा- चकोरी इत्यर्थः, शशिरुचः इन्दुकिरणान् , मुहुः मुहुः पुनः पुनः शश्वत् इति यावत् , परिपीय निपीय, सपदि सद्यः, तुन्दिलता बृहत्कुक्षित्वं पीनत्वं इति यावत् , 'तुन्दिलस्तुन्दिभस्तुन्दी बृहस्कुक्षिः पिचण्डिल: ।' इत्यमरः, समुपेयुषी प्राप्तवती सती, पृथुतरे अपि अतिविशाले अपि, निजपजरे स्ववीतंसे, चिराय चिरकाल- पर्यन्तं, न संममौ न समाति स्म पर्याप्त अवकाशं न लेभे इत्यर्थः ॥ ८ ॥ शशिरुचा शशिकान्तगृहागणे पसरदम्बुभरे सरसीयति । उडुगणैः परितः प्रतिबिम्बितै- रुपहृतः कुमुदोत्करविभ्रमः ॥९॥ शशिरुचा इति ॥ शशिरुचा चन्द्रमरीच्या, प्रसरदंबुभरे प्रसरन् स्यन्दमानः अम्बुभरः जलनिवहः यस्मिन् तत् तादृशे, शशिकान्तगृहागणे शशिकान्तैः चन्द्रकान्तमणिभिः निर्मितं यत् गृहं तस्य अङ्गणं चत्वरं तस्मिन् , सरायति सरसी कासारः स व आचरति सति (' उपमानादाचारे' इति सरसीशब्दात् आचारार्थे क्यच्प्रत्ययः), परितः अभितः, प्रतिबिम्बितैः प्रति. फलितैः, उडुगणैः उडूनां नक्षत्राणां गणैः समूहैः, कुमुदोत्करविभ्रमः कुमुदानां कैरवाणां यः उत्करः निचयः तस्य विभ्रमः विलासः शोभा इति यावत् शका वा, उपहृतः उपनीतः प्राप्तः इत्यर्थः ॥ ९ ॥ उपहसभिव हंसकदम्बकं विचकिलं कलयभिव निष्पभम् । अपहरबिक हारलताश्रियं शशिरुचा निचयः समरोचत ॥ १० ॥ उपहसन् इति ॥ शशिश्चा इन्दुकिरणाना, निचयः समूहः, हंसकद- मकं हंससमूह, उपहसन् इव परिहसन् इव, विचकिलं तदाख्यं पुष्पविशेष, ..
चतुर्थः सर्गः । १०१ निष्प्रभ विगतशोभं, कलयन् कुर्वन् इव, (तथा), हारलताश्रियं हारलतानां मुकासराणां श्रियं शोभां, अपहरन् इव तिरस्कुर्वन् इव च, समरोचत प्रचकाशे ॥ कतिचिदम्बर एव तिरोदधे निजकरैरपराः परिषस्वजे । अभिससार परा अपि तारकाः सितरुचिर्विकिरन्वसुसंपदम् ॥ ११ ॥ कतिचित् इति ॥ सितरुचिः चन्द्रः, वसुसंपदं वसूनां किरणानां धना- नां च संपदं समृद्धिं 'देवभेदेऽनले रश्मौ वसूरत्ने धने वसु ।' इत्यमरः, · वसु- देवेऽग्निरम्योश्च वसु तोये धने मणौ ।' इति वैजयन्ती च, विकिरन् प्रसारयन् प्रवर्षन् च सन् , कतिचित् काश्चन, तारकाः नक्षत्राणि (दयिताः इति च गम्यते), अम्बरे एव आकाश एव वस्त्रे एव च, तिरोदधे आवृणोत् आच्छा- दितवान् इत्यर्थः । अपराः अन्याः काश्चित् तारकाः, निजकरैः स्वकिरणैः स्वपा- णिभिः च, परिषस्वजे आश्लिष्टवान् । (तथा), पराः इतराः काश्चित् तारकाः, अभिससार अभ्यगच्छत् सङ्केतपूर्व समगच्छत् इति च अर्थः ॥ ११ ॥ विकचकैरवसौरभलोलुपै- स्तत इतः कलगुञ्जितकैतवात् । स्मृतिभुवखिजगद्विजयार्जित यश इव भ्रमरैरुदगीयत ॥ १२ ॥ विकचेति ॥ विकचानि विकसितानि यानि कैरवाणि कुमुदपुष्पाणि तेषां सौरभं परिमलः तस्मिन् लोलुपाः अत्यन्तं आसक्ताः तैः तथाभूतैः, भ्रमरैः अलिभिः (कर्तृभिः), ततः इतः विष्वक् , कलगुजितकैतवात् , कलानि अव्यक्तमधुराण यानि गुञ्जितानि झङ्कारशब्दाः तेषां कैतवात् व्याजात्, त्रिज- गद्विजयार्जितं त्रयाणां जगतां समाहारः त्रिजगत् तस्य विजयेन अभिभवनेन अर्जितं संपादितं, स्मृतिभुवः मनोभवस्य मन्मथस्य इति यावत् , यशः कीर्तिः (कर्म), उदगीयत इव उचैः गानेन अवर्ण्यत इव ॥ १२ ॥ अथ हदि प्रसभं विहितास्पदैः स्मरचरैरिब कम्भितशाया ।
१०२ सहदयानन्दे सहजया स च धीरतयोज्झितः खगमिदं निजगाद नरेश्वरः ॥१३॥ अथ इति ॥ अथ अनन्तरं, सः, नरेश्वरः च बलमहाराजः अपि, हदि मनसि, प्रसभं बलात्कारेण, विहितास्पदैः विहितं कृतं आस्पदं स्थानं यैः तैः तथाभूतैः, स्मरशरैः इव मदनबाणैः इव, लंभिता प्रापिता शहा भयं यस्याः सा तथाभूतया, सहजया निसर्गसिद्धया अपि, धीरतया धैर्येण, उमितः परित्यकः सन् , वगं हंसपक्षिणं, इदं वक्ष्यमाणं, निजगाद उवाच ॥ १३ ॥ तव निपीय सखे वचनामृतं श्रवणयुग्ममभून्मम शीतलम् । तदवधि प्रसभं दहतीव मे हृदयमर्म कथं स्मरमुर्मुरः ॥ १४ ॥ तव इति ॥ 'सखे मित्र, तव भवतः, वचनामृतं वाक्सुधां अमृतवत् अतिमधुरं तव वचनं इत्यर्थः, निपीय आस्वाद्य, मम मे, श्रवणयुग्मं श्रोत्रयुगल, शीतलं शिशिरं सुखितं इति यावत् , अभूत् आसीत् । तदवधि तदारभ्य इत्यर्थः, स्मरमुर्मुरः स्मरः मन्मथः एव मुर्मुरः तुषामिः, मे मम, हृदयमम हृदयस्य मनसः मर्म जीवनाधारभूतं स्थानं, कथं कुतः, प्रसभं हठात् , दहति इव निर्दहति . 1 दहतु नाम सखे मलयानिलः कबलनात्फणिनां विषदूषितः । अमृतदीधितिरेष सुधामयै- रपि करर्दहतीति महाद्भुतम् ॥ १५ ॥ दहतु इति ॥ सखे हे वयस्य, फणिनां भुजङ्गानां (कर्तरि षष्टी) भुजः इत्यर्थः, कबलनातू भक्षणात् हेतोः (भुजगाः वाताशनाः इति सिद्ध), विषैः सर्पगरलैः दूषितः भाबिलीकृतः, (अतः एव ), मलयानिल: दल नाम (नाम इति अङ्गीकारे संभावनायो वा)। एषः भय, तिः सुधांशुः चन्द्रः इति यावत् , सुनामी अमृतमयुरैः अपि भति- सर्गः + शीतलः अपि इत्यर्थः, करैः किरणोः, (मा), दाति, इति,. (यत् , एतत्), महामृत अत्यन्ताश्चर्यकरम् ॥१५॥ ध्रुवमियं मलयानिलचारिणा फणभृतां वसितोर्मिपरम्परा । न पुनरेष स दक्षिणमारुत- स्तनुभृतां वितनोति सुखानि यः ॥ १६ ॥ भ्रवं इति ॥ इयं एषा, नूनं ध्रुवं, मलयानिलचारिणां मलयानिलं मन्दमारुतं ताच्छील्येन चरन्ति भक्षयन्ति इति तेषां मलयमरुद्भक्षणशीलानां इत्यर्थः, फणान् स्फटाः बिभ्रति इति फणभृतः तेषां फणभृतां फणिनां सर्पाणां इति यावत् 'स्फटायान्तु फणा द्वयोः' इत्यमरः, श्वसितोर्मिपरंपरा श्वसिताना निःश्वासवायूनां याः ऊर्मयः तरङ्गाः तासां परंपरा श्रेणिः, (भवति) । एषः पुनः अय तु, यः, तनुभृतां शरीरिणां, सुखानि सौख्यानि, वितनोति करोति । सः तथाविधः, दक्षिणमारुतः मन्दानिलः, न (भवति) ॥ १६ ॥ दहति मे हृदयं हिमदीधिति- स्तुदति चन्दनशैलसमीरणः । दलयति प्रसभं पिकपञ्चमः किमवलम्ब्य सखेऽस्तु मुखोदयः ॥ १७ ॥ दहति इति ॥ सखे हे मित्र हंस, हिमदीधितिः हिमांशुः चन्द्रः इति यावत् , मे मम, हृदयं मानसं, दहति सन्तापयति । चन्दनशैलसमीरणः चन्द- नप्रचुरः शैलः चन्दनशैलः मलयाचलः इत्यर्थः तस्मात् उद्भवन् समीरणः वायुः मन्दमारुतः इत्यर्थः, (मे हृदयं), तुदति पीडयति । (तथा), पिकपश्चमः पिकानां कोकिलानां पञ्चमः पञ्चमध्वनिः 'पुष्पसाधारणे काले पिकः कूजति पञ्चमं । इत्यमरः, प्रसमं प्रसह्य बलात्कारेण इत्यर्थः, (मे हृदयं), दलयति विदारयति । (एवं स्थिते सति), किं कीदृशं वस्तु वा, अवलम्व्य अवष्टभ्य, (मैं), सुखोदयः सुखलाभः, अस्तु भवेत् इत्यर्थः ॥ १७ ॥ ज्वलति भीतरुचित्रिपदाणे सपति दिए मरूपलयोद्भवः ।
सहदयानन्दे . किरति मर्मसु पञ्चशरः शान् मुखलवोऽपि सखे भम दुर्लभः ॥ १८ ॥ ज्वलतीति ॥ शीतरुचिः चन्दः, वियदङ्गणे वियतः आकाशस्य अङ्गणे अजिरे गगनाभोगे इत्यर्थः ‘अङ्गणं चत्वराजिरे' इत्यमरः, ज्वलति अभिवत् अत्युष्णः दीप्यते इत्यर्थः । मलयोद्भवः मलयाद्रिसंभवः, मरुत् वातः मन्दानिल: इत्यर्थः, दिक्षु आशासु विष्वक् इत्यर्थः, तपति दहति । (तथा), पञ्च शराः यस्य सः पञ्चशरः मन्मथः च, मर्मसु मम मर्मस्थानेषु, शरान् बाणान् , किरति वर्षति । (तस्मात् ), सखे भो वयस्य, सुखलवः अपि सौख्यलेशः अपि, मम मे, दुर्लभः दुष्प्रापः, (अस्ति) ॥ १८ ॥ स्मृतिभुवो यदि पञ्च शिलीमुखा यदि च ते कुसुमैरुपपादिताः। अविरतं निपतन्ति सहस्रशः कथममी हृदयं दलयन्ति च ॥ १९ ॥ स्मृतिभुवः इति ॥ स्मृतिभुवः मनोभवस्य, शिलीमुखाः बाणाः, पञ्च यदि पश्चसङ्कथाकाः एव चेत् , ते च पश्चापि बाणाः, कुसुमैः पुष्पैः, उपपादिताः यदि निर्मिताः चेत् , (तर्हि), अमी इमे पञ्चैव बाणाः, कथ कस्मात् हेतोः, अविरतं अजस्रं, सहस्रशः सहस्रसख्यया, निपतन्ति । (तथा), कथ, हृदयं मम चेतः, दलयन्ति च विदारयन्ति च ॥ (यदि तत्वतः मनोभवस्य पञ्चैव बाणाः, तर्हि तेषां प्रयोगे पञ्चकृत्वः एव पतनेन भाव्य न तु एवं सहस्र- संख्यया अविरतं तेषां पतन भवेत् । तस्मात् मनोभुवः बाणाः बहुसहस्र- संख्याकाः इति मन्ये । तथा मनोभवस्य बाणा: वस्तुतः यदि पुष्पैः निर्मिताः तर्हि कुसुममयैः अत एव अतिमृदुलै: तैः एवं मम मनोविदारणं दुश्शकं ; तस्मात् तैः वज्रनिर्मितैः भाव्यं इति मन्ये' इति भावः) ॥ १९ ॥ हिमरुचिर्दहतीति किमडुत बहिरसौ विशदः कलुषो हृदि । अबुध एष जनस्तु यदीशा- दपि सुखाधिगमाय समुत्सुकः ॥ २० ॥ PM - २ चतुर्कः मर्मः। १.५ हिमरुचिः इति ॥ हिमरुचिः शीतकिरणः चन, दहति तापयति ; इति, ( अन विषये), किं अद्भुतं किं आश्चर्य ( अस्ति ) न किमपि आश्चर्य अस्ति इत्यर्थः । (यतः), असौ एषः हिमरुचिः, बहिः बहिर्भागे एव, विशदः शुद्धः निर्मलः इति यावत् ; हृदि अन्तर्भागे तु, कलुषः कलयुजः, (अस्ति)। एषः परिदृश्यमानः इत्यर्थः, जनः तु लोकः पुनः, अबुधः ज्ञानशून्यः, (भवति)। यत् यस्मात् कारणात्, (एषः जनः ), ईदृशात् एतादृशात् बहिविपदत्वान्तः- कपत्वविशिष्टात् चन्द्रात् अपि, सुखाधिरामाय सुखप्राप्तये, समुत्सुकः समुत्कण्ठितः, (वर्तते) ॥ २०॥ तव सखे रचितोऽद्य मयाजालः शशधरः स तथा प्रतिबोध्यताम् । समधिरुष निजामृगं क्षणा- दयमुपैति यथास्तमहीघरम् ॥ २१ ॥ तव इति ॥ सखे मित्र, तव ते, अद्य संप्रति, मया, अजलि: अजलि. बन्धः, रचितः कृतः । यथा येन प्रकारेण, अयं एषः, शशधरः चन्द्रः, निजाक- मृगं खचिह्नभूतं हरिणं, अधिरुह्य अधिष्ठाय, क्षणात् क्षणकालात् शीघ्रं इत्यर्थः, अस्तमहीधरं अस्ताचलं, उपैति उपगमिष्यति इत्यर्थः ; तथा तेन प्रकारेण, सः शशधरः, ( त्वया), प्रतिबोध्यतां निवेद्यतां ज्ञाप्यतां वा ॥२१॥ शशिनमंसतटे विनिवेश्य वा 'नय सखे चरमाचलकन्दरम् । तव विरिञ्चिविमानकधुर्यता- मुपगतस्य भविष्यति कः श्रमः ॥ २२ ॥ शशिने इति ॥ सखे प्रिय हंस, वा अथवा, अंसतटे तव स्कन्धदेशे, शशिनं चन्द्र, विनिवेश्य निधाय आरोप्य इति यावत् , चरमाचलकन्दरं चर. माचलत्व अस्तगिरेः कन्दरं गुहां, नय प्रापय । विरिश्चिविमानकधुर्यतां विरिः ब्रह्मणः विमानकस्य व्योमयानस्य धुर्यतां धूर्वहतां वाहकता इत्यर्थः, उपगतस्य प्राप्तस्य, तव ते, (एतचन्द्रोद्वहने), क. श्रमः खेदः, भविष्यति न कोपि श्रमः भविष्यति इत्यर्थः ।। २२॥
उदयद्रिमषिमयितु सले सरय संमति वा दिनबल्लयन् । बमुसमृदिमदं शमयन्विधो- विरहिणां स भवत्ववलम्बनम् ॥ २३ ॥ उदयं इति ॥ ससे हे पयस्य, वा अषका, दिनवा दिवसेश्वरं सूर्य इति यावत् , सम्प्रति इदानी, उदय अनि उदयाचलं, अधियितुं अध्यासितुं, त्वरय शीघ्रं प्रेरय । (यतः), सः दिनवल्लभः, विधोः इन्दोः, वसुसमृद्धिमद बसु. समृधा किरणसम्पत्त्या जातः यः मदः गर्वः तं (धनसमृद्धया जात गर्व इति च गम्यते), शमयन् न्यपोहयन् सन्, विरहिणां वियोगिनां, अवलम्बन अवष्टंभन, भवतु ॥ २३ ॥ कथय किं नु कदापछतं मया कुलगुरोरपि चन्द्रमसः सखे । मयि निरस्तकृपः कथमन्यथा किरात जीवितहारि विष करैः ॥ २४ ॥ कथयति ॥ सखे मित्र, कुलगुरोः अपि, मदशकूटस्थस्य अपि, चन्द- मसः इन्दोः (विषये), मया, कदा कदाचित् इत्यर्थः, अपकृतं किं नु अपराध किंवा ; कथय वद । अन्यथा नोचेत् इत्यर्थः, (सः), मयि मम उपरि, निरस्त- कृपः बीतदयः सन् , करैः स्खकिरणैः, जीवितहारि प्राणापहरपशील, विष गरलं, कथं कस्मात् हेतोः, किरति वर्षति' ॥ २४ ॥ इदमुदीरयतः पृथिवीपतेः कथमपि प्रतिपय पदं शोः। सकृपयेव तदा किल निद्रया सनमदर्षि नरेन्द्रगुता पुरः ॥ २५ ॥ समिति । पृथिवीपतेः मलमहाराजस, इदं पूर्वोकं, उदारवतः मार। माणस्य सवा सापया नलोपरिसंजातानुकम्पया श्व, निदवा सापेन, बदा किल नविनम् सपने परी, शोः नलस्य लबनयोः, पद सानं माया, स्पषि %3 100 इति यावत्, अच्छाव, प्रतिपय अवाप्य, नरेनहता भीमराजवनमा दमकती वर्ष क्षण- कालं, पुस तस्व बग्रे, बर्षि वासिरिन (सहच्छण नि सवा दम- यन्तीमपि वर्ण खो अपश्यत् इति भावः) ॥ २५ ॥ अथ नला माविबुध्य ससंभ्रम बत इतो विनिवेश्य विलोचने । बियतमा सविधे नविलोकय- मिदमुवाच मनोभवकातरः ॥ २६ ॥ अथेति ॥ अथ खने दमयन्तीदर्शनानन्तरं, नलः, ससंभ्रमं सोद्वेगं यथा तथा, प्रतिबुध्य विगतनिद्रा भूत्वा, विलोचने नेत्रे, ततः इतः इतस्ततः सर्वतः विनिवेश्य विक्षिप्य, सविधे खसमीपे, प्रियतमा निजदयितां दमयन्ती, नविलोकयन् अपश्यन् सन् , (अतः एव), मनोमवकातरः मनो- भवेन मन्मथेन मदनबाधया इत्यर्थः कातरः उद्विमः सन् , इदं वक्ष्यमाणं, उवाच बभाषे ॥ २६ ॥ मम कृते मृदुलागि दवीयसी सरणिमाशु विलय यदागतम् । तदिदमाचरितं सुदति त्वया समुचितं प्रणयस्य गरीयसः ॥ २७ ॥ मम इति ॥ मृदुलानि कोमलानि अङ्गानि अवयवाः यस्याः तत्सं- बोधनं मदुलाङ्गि हे सुकुमारावयवे, शोभनाः दन्ताः यस्याः तत्संबोधनं सुदति मनोहरदन्तपकिविराजिते हे दमयन्ति, मम कृते मदर्थे मां उद्दिश्य इति यावत् , दवीयसी अत्यन्तविप्रकृष्टां अपि, सरणिं मार्ग, आशु शीघ्र, विलय अतिक्रम्य, त्वया भवत्या, आगतं इह प्रासं इति यत् , तत् , इदं एतत् त्वदागमनं, गरीयसः अतिमहतः, प्रणयस्य त्वदनुरागस्य, समुचितं अनुरूपं, आचरित वेशितम् ॥ २७॥ अपकृतं त्वमुना मम निर्भर अजयुगेन या परिणाहिना । -
१०८
सहदयानन्दे
बलयतां समुपेत्य निजान्तरे
त्वमसि यम चिराय निवेशिता ।। २८ ॥
अपकृतं इति ॥तु किन्तु, वृथा मुषा निष्प्रयोनं यथा तथा इत्यर्थः,
परिणाहिना परिणाहवता विशालेन इत्यर्थः, अमना अनेन, मम, भुजयुगेन
बाहुयुगलेन, अपकृतं अपराधं अपराधः कृतः इत्यर्थः । यत् यस्मात् कारणात् ,
(भुजयुगेन), वलयता मण्डलाकारतां, समुपेत्य प्राप्य, निजान्तरे स्वमध्यप्रदेशे
भुजान्तरे इति यावत् , त्वं, निर्भरं सुदृढं, चिराय सुचिरं, निवेशिता निक्षिप्ता
आलिहिता इत्यर्थः, न असि न भवसि ॥ २८ ॥
स्मितविकखरया दशनश्रिया
किमपि कन्दलिताधरपल्लवम् ।
पुनरुपैष्यति लोचनगोचरं
मम कदा तव सुन्दरि तन्मुखम् ॥ २९ ॥
स्मितेति ॥ सुन्दरि हे लावण्यवति दमयन्ति, स्मितविकस्वरया स्मितेन
मन्दहासेन विकस्वरया विकसितया विस्फुरन्त्या इत्यर्थः, दशनश्रिया दशनानां
दन्तानां श्रीः कान्तिः तया, किमपि अनिर्वचनीयं यथा तथा सुभृशं वा,
कन्दलिताधरपल्लवं कन्दलितः सजातकन्दल: अधरः पल्लवः इव अधरपल्लवः
यस्य तत् तादृशं, तत् तादृक् , तव ते, मुखं, कदा कस्मिन् समये, पुनः भूयः
अपि, मम मे, लोचनगोचरं नयनविषयं, उपैष्यति उपगमिष्यति ॥ २९ ॥
धृतकुरङ्गमदप्लुतालिकं
मम करं मकरीलिखनोन्मुखम् ।
तव कपोलतले पुलकोद्गमः
मुमुखि नेष्यति मन्थरतां कदा ॥ ३० ॥
धृतेति ॥ सुमुखि हे सुवदने, धृता गृहीता कुरङ्गमदेन मृगमदेन कस्तूर्या
इति यावत् प्लुता क्लिमा तूलिका कूर्चिका येन तं तादृशं, तव ते, कपोलतल गण्ड-
स्थल, मकरीलिखसोन्मुखं मकरीलिखने मकरीपत्ररचने उन्मुखः तत्परः तादृशं,
मम मे, करं हस्त र कर्म ), पुलकोद्गमः पुलकस्य रोमाश्वस्य उद्गमः उद्भेदः,
कादश कस्मिन् समये, मन्थरतां अलसतां, नेष्यति प्रापयिष्यति ॥३०॥
चतुर्मः सर्गः। स्परविमर्द विभूशलबन्धन ललितमंसतटे शिथिलत्रजम् । तव कदा सुतनो कबरीभरं निगडषिष्यति पाणियुगं मम ।। ३१ ।। सरेति ॥ सुतनो हे शोभनाशि, मम मे, पाणियुगं करयुगलं (कर्तृ.), स्मरविमर्दै मदनकदने सुरतसमये इत्यर्थः विश्थालं विश्लथं बन्धन बन्धः यस्य तं तादृशं, ( अतः एव ), अंसतटे स्कन्धदेशे, लुलितं विप्रकीर्ण, (तथा ), शिथिलस शिथिलाः स्रस्ताः प्रजः यस्य तं ताशं, तब ते, कबरीभर केशपाशं, कदा कस्मिन् काले, निगडयिष्यति उदयिष्यति ॥ ३१ ॥ कृतकरोषजुषस्तव यावके चरणयोर्नमता शिरसा हृते । विरचयन्परिकर्म सवेपथु- मेम कदा सुकृती भविता करः ॥ ३२ ॥ कृतकेति ॥ कृतकरोषजुषः कृतकरोष प्रणयकोपं जुषते भजति इति कृतकरोषजुद् तस्याः प्रणयकोपवत्याः इत्यर्थः, तव भवत्याः, चरणयोः पदयोः पादयुगले इति यावत् , नमता कोपशान्त्यर्थं प्रणाम कुर्वता, शिरसा मम शीर्षण, यावके त्वत्पादस्थालक्तकरसं. हृते अपहृते प्रमृष्टे सति इत्यर्थः, मम मे, करः पाणिः, संवेपथुः वेपथुना सहितः सकम्पः सन् , परिकम प्रसाधनं यावकरसरजनरूपं अलंकारं इत्यर्थः, विरचयन् कुर्वन् सन् , कदा कस्मिन् समये, सुकृती भाग्य- शाली, भविता भविष्यति इत्यर्थः ॥ ३२ ॥ नयनयुग्म जनुस्तव निष्फलं प्रणयिनी न चिराय यदीक्षसे । त्वमसि मानस पुण्यतमं यतः शशिमुखी सततं त्वयि खेलति ॥ ३३ ॥ नवनेति ॥ नयनयुग्म हे मनेत्रयुगलं, यत् यस्मात् कारणात् , प्रण- यिनी महयितां दमयन्ती, चिराय चिरकालपर्यन्तं, न ईक्षसे न पश्यसि ; (तत् तस्मात् कारणात्), तब ते (नयनयुग्मस इलार्षः), जनुः जन्म, निष्फलं निष्प्र- 10 ११० सहृदयानन्दे . योजनं वृथा इत्यर्थः, (अस्ति) ॥ मानस हे मम चित्त, त्वं, पुण्यतमं अत्यन्त- भाग्यशालि, असि भवसि ; यतः यस्मात् कारणात् , शशिमुखी इन्दुवंदना दम- यन्ती, त्वयि भवत्सकाशे, सततं सर्वदा, खेलति क्रीडति सन्निहिता वर्तते इत्यर्थः॥ तव कपोलतले विमलत्विषि प्रतिफलनविभावितमण्डलः । विलसदङ्कमृगस्तनुते शशी मृगमदद्रवपत्रविशेषताम् ॥ ३४ ॥ तव इति ॥ विमला विट यस्य तत् तस्मिन् विमलत्विषि निर्मलकान्ति- सपने, तव ते, कपोलतले गण्डप्रदेशे, प्रतिफलन् प्रतिबिम्बयन् , अविभावित- मण्डल: अविभावितं त्वद्गण्डस्थलकान्त्यतिशयात् अनालक्षितं मण्डल निजबिम्ब यस्य सः तादृशः, शशी चन्द्रः. विलसदङ्कमृगः विलसन कपोलतलकान्त्याः पर. भागतया प्रकाशमानः अङ्कमृगः खचिह्नभूतः हरिणः यस्य सः तादृशः मन , मृग- मदद्रवपत्रविशेषतां कस्तूगद्रवविरचितमकारकादिपनविशेषत्व, तनुते कुरुत भजते इत्यर्थः ॥ ३४॥ ध्रुवमसि त्वमिहेव तिरोहिता विरहपाण्डवपुः शशिरोचिषा । इदमिदं तव नूपुरशिञ्जितं श्रवणयोः सविधे मम जृम्भते ॥ ३५ ॥ ध्रुवं इति ॥ विरहपाण्डुवपुः विरहेण मम विश्लेषेण पाण्डु पाण्डुरवण वपुः शरीर यस्याः सा तादृशी, त्व, शशिगेचिषा चन्द्रकान्त्या, शशिरोचिषा चन्द्रकान्त्या, तिराहिता अन्त - हिंता सती, ध्रुवं नूनं, इहैव अत्रैव, असि वर्तसे । (यतः), इदं इदं पुनः पुनः श्रयमाणं एतत् , तव ते, नू पुरशिजितं नूपुरयोः मारयोः शिञ्जितं शिजितध्वनिः, मम मे, श्रवणयोः कर्णयोः, सविधे समीपे, जृम्भते वर्धते ॥ ३५ ॥ कते शिरीषाधिककोमलं वपुः क लडनं तन्वि दवीयसः पथः । निषीद तन्मे क्षणमङ्कसीमनि क्लमं कराभ्यां विनयामि पादयोः ।। ३६ ।।
चतुर्थः सर्गः। १११ . । क इति ॥ हे तन्वि हे कृशाङ्गि, शिरीषाधिककोमल शिरीषपुष्पादपि अत्यन्तसुकुमार, ते तव, वपुः शरीर, क। दवीयसः अत्यन्तदूरस्य, पयः मार्गस्य, लवन अतिक्रमणं गमन इति यावत् , क। (द्वौ कशब्दो महदन्तरं सूचयतः) । तत् तस्मात् हेतोः, में मम, अङ्कसीमनि उत्सङ्गप्रदेशे, क्षण किञ्चि- काल, निषीद उपविश । (यतः), कराभ्यां मम पाणियुगलेन, पादयोः त्वच- रणयोः. क्लम क्लान्ति दूरावगमनजनितम्वेद इत्यर्थः, विनयामि पादसवाहनेन अपनोदयामि इत्यर्थः । वंशस्थं वृत्तम -'जती तु वशस्थमुदीरित जरौ'। इति लक्षणात् ॥ ३६॥ अध्वक्लान्त्या मुकुलितमिदं द्वन्द्वमुन्मीलयाक्ष्णो- भूयो भूयः कुवलमयी दिश्यतां दिक्षु वृष्टिः । वीडाननं क्षणमपि नयोनम्रतामेतदास्य व्योनि स्मेरं भवतु कमलं पश्यतः शीतभानोः ॥ ३७ ॥ अध्वेति ॥ (हे प्रिये), अन्वक्लान्त्या मार्गश्रमेण, मुकुलित निमालिन, इदं एतत् , अक्षणोः इन्द्रं नव नयनयुगल, उन्मीलय उन्मिषित कुरु । दिक्षु मर्वामु दिशासु, कुवलयमयी नीलोत्पलमयी, वृष्टिः वर्ष, ( दृष्टिः इति पाटे दृष्टि- विक्षेप इत्यर्थ ). भूयो भूय मुहुर्मुहु असकृत् इति यावत , दिश्यता दीयतां क्रियतां इत्यर्थः । ( तथा), व्रीडानम्र वाडया लज्जया नम्र आनत, एतत् , आस्य तव वदन, क्षण अपि क्षणकालाप, उनम्रता उत्क्षिप्तत्व, नय प्रापय । (एतेन), व्यानि आकाशे, शीतभानो चन्द्रम्य, पश्यतः प्रेक्षमाणस्य सतः एव पश्यन्त शीतभानु अनादत्य इत्यर्थ , कमल पद्म (त्वन्मुखरूपपङ्कज इत्यर्थः ), म्मेर विकच, भवतु ॥ मन्दाक्रान्ता वृत्तम् ॥ तल्लक्षणन्तु ' मन्दाक्रान्ताम्बुधिग्मनग- मो भनौ तौ गयुग्मम् ॥ ३७ ॥ कथं कथं मामपहाय भाविनि त्वरावती त्वं पुनरेव गच्छसि । "निरागसि प्रेयसि केन हेतुना मयि क्षणं दक्षिणतां न रक्षसि ॥ ३८॥ कथं इति ॥ भाविनि हे प्रशस्ताभिप्राये. पुनरेव भूयोऽपि, मां, अप-
११२
सहृदयानन्दे
हाय विसृज्य, त्वरावती सत्वरा त्वरितगतिः सती इत्यर्थः, कर्ष कवं केन वा
हेतुना (अत्यादरसूचनार्थ द्विरुक्तिः), गच्छास यासि । हे प्रेयसि हे प्रियतमे,
मयि, निरागसि निरपराधे सत्यपि (या निरागसि मयि विषये), केन हेतुना
कस्मात् हेतोः इत्यर्थः, क्षणं किञ्चित्कालं, दक्षिणता दाक्षिण्यं अनुराग इति
यावत् , न रक्षसि न वहसि इत्यर्थः ॥ वंशवं वृत्तम् ॥ ३८ ॥
तथातिभूमि भवतैव लम्भित
कथं सखे सौहृदमाशु विस्मृतम् ।
इतः प्रयान्ती मम जीवनेश्वरी
प्रसाद्य यन्नैव निवर्त्यते त्वया ॥ ३९ ॥
तथा इति ॥ सखे हे मित्र हंस, भवता एव त्वया एव, तथा तेन
प्रकारेण, अतिभूमि पर कोटिं, लंभितं आरोपितं, सौहृदं आवयोः सख्यं, कथं
केन हेतुना, आशु शीघ्रं, विस्मृतं । यत् यस्मात् कारणात् , इतः अस्मात्
प्रदेशात् मत्सकाशात् वा, प्रयान्ती निर्गच्छन्ती, मम मे, जीवनेश्वरी प्राणेश्वरी,
प्रसाद्य परिसान्त्व्य, त्वया भवता, न निवत्यंते न प्रत्यानीयते। वंशस्थं वृत्तम् ॥
इतः प्रयाता पदवी दवीयसी-
मदृश्यतां यास्यति जीवितेश्वरी ।
अनुव्रजन्नाशु निवर्तयामि तां
सखे क्षणं पक्षयुगं प्रयच्छ मे ॥ ४० ॥
इतः इति ॥ इतः अस्मात् स्थानात् . दवीयसी अत्यन्तविप्रकृष्टां दूर-
तरां इति यावत् , पदवी मार्ग, प्रयाता प्रस्थिता, जावितेश्वरी मत्प्राणेश्वरी, अह-
श्यतां नयनागोचरत्वं, यास्यति गमिष्यति । (तस्मात् ), तां, अनुवजन् अनुग-
च्छन् सन् , आशु शीघ्रं, निवर्तयामि परावर्तयामि । सखे मित्र हंस, क्षणं
मुहूर्त, पक्षयुगं पक्षद्वयं, मे मह्यं, प्रयच्छ देहि शीघ्रगमनार्थं मां, त्वत्पक्षद्वयन
उद्वह इत्यर्थः॥ वंशस्थं वृत्तम् ॥ ४० ॥
आश्वासनार्थमिव मे कमले विधौ च
.: लक्ष्मीलवं तव मुखस्य विधिय॑वत्त ।
निद्राति पूर्वमनयोरपरस्तु जाय-
मार्माणि हन्त मम कुन्तति किं करोमि ॥४१॥
चतुर्थः सर्गः। माश्वासनार्थमिति ॥ (हे प्रियत्तमे), विधिः विधाता स्रष्टा इति यावत् , मे स्वद्विरहविह्वलस्य मम, आश्वासनार्थ इव मनोविनोदनार्थ इव, कमले पहजे, विधौ चन्द्र च, तव भवत्याः, मुखस्य वदनस्य, लक्ष्मीलवं लक्ष्म्याः शोभायाः सौन्दर्यस्य इति यावत् लवं लेशं एकदेशं इत्यर्थः, व्यवत्त असृजत् । अनयोः एतयोः कमलचन्दयोः मध्ये, पूर्व आय कमलं इत्यर्थः, निद्राति खपिति मुकुलितं वर्तते इत्यर्थः । अपरः तु द्वितीयः चन्द्रः पुनः इत्यर्थः, जाप्रत् बीतनिद्रः सन् प्रकाशमानः सन् इत्यर्थः, मम मे, मर्माणि मर्मस्थानानि, कृन्तति मिननि । किं, करोमि विधास्यामि इत्यर्थः । वसन्ततिलकं वृत्तम् ॥४१॥ इति विलपितमस्य मेदिनीन्दोः स्मरविधुरीकृतचेतसो निशम्य । प्रतिपदममृतद्रवं विमुश्चन् वचनमुवाच दाचितं विहङ्गः ॥ ४२ ॥ इतीति ॥ इति इत्थं, स्मरविधुरीकृतचेतसः मदनविह्वलीकृतचित्तस्य, अस्य एतस्य, मेदिनीन्दोः भूचन्द्रस्य महीपतेः नलस्य इत्यर्थः, विलपितं प्रलापं, निशम्य आकर्ण्य. विहङ्गः हंसपक्षा, प्रतिपद प्रत्यक्षरं इत्यर्थः, अमृतद्रवं सुधारसं, विमुचन विकिरन् सन् , दशोचितं तत्कालोचितं. वचनं वाक्यं, उवाच अब्र- वीत ॥ पुष्पिताग्रा वृत्तम् ॥ तल्लक्षणन्तु- अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताप्रा ।' ॥ ४२ ॥ कुवलयदृशि तस्यामेष भावानुबन्ध- स्तव निषधनरेन्द्र प्रीतये कस्य न स्यात् । भवति हि मधुलक्ष्म्याः साहचर्य प्रपन्नः समधिकमभिनन्द्यश्चन्दनाद्रेः समीरः ॥ ४३ ।। कुवलयेति ॥ निषधनरेन्द्र निषधदेशाधिपते नलमहाराज, कुवलयशि नीलोत्पलाक्ष्यां, तस्यां दमयन्त्या, एषः अयं, तव ते, भावानुबन्धः मनोबन्धः अनुरामः इत्यर्थः, कस्य जनस्य, प्रीतये सन्तोषाय, न स्यात् न भवेत् सर्वस्यापि सन्तोषाव भवेत् इत्यर्थः । हि यस्मात् कारणात् , मधुलक्ष्म्याः मधोः वसन्ततॊः लक्ष्माः शोभा समृद्धिः वा तस्याः, साहचर्य संसर्ग, प्रपन्नः संप्राप्तः, चन्दनाद्रेः मलयाचलस्य, समीरः मन्दमारुतः इत्यर्थः, समधिकं भृशं, अभिनन्द्यः श्लाघ- - ११४ सहृदयानन्दे नीयः, भवति ॥ मालिनी वृत्तम् । तल्लक्षणन्तु–'ननमयययुतेयं मालिनी भोगिलोकैः। ॥ ४३ ॥ धैर्य निधाय मनसि प्रतिपालयेदं क्ष्मावल्लभ क्षणमिव क्षणदावसानम् । प्रत्यूष एव भवतोऽभिमतार्थसिद्धे- रं भविष्यति विसङ्घटितापिधानम् ।। ४४ ॥ धैर्य इति ॥ मावल्लभ हे महीपते, मनसि चित्ते, धैर्य धीरता, निधाय निक्षिप्य, इदं एतत् , क्षणदावसानं क्षणदायाः रात्रेः अवसानं अन्तं अपगम इति यावत् , क्षणमिव क्षणकालमिव, प्रतिपालय प्रताक्षस्व । प्रत्यूर्षे एव, उषः- काल एव, भवतः तव, अभिमतार्थसिद्धः अभिमतः अभिलषितः यः अर्थः कार्य तस्य सिद्धिः निष्पत्तिः तस्याः, द्वारं अधिगमनमार्ग: इत्यर्थः. विसंघटितापि- धानं विसंघटितं विवृत उद्घाटित इति यावत् अपिधान आच्छादन आवरणं वा यस्य तत् तादृशं, भविष्यति ॥ वसन्ततिलकं वृत्तम् ॥ ४४ ।। इति वचनमुदीर्य मेदिनीन्द्र विरमति तत्र विरिश्चियानधुर्ये । अनुवदितुमिवास्य वाचमुच्चै- रुदचरदाशु निशान्तशङ्खनादः ॥ ४५ ॥ इति इति ॥ विरिञ्चियानधुर्ये ब्रह्मणः वाहनधूर्वहे हंस, इति एवं, मेदि. नीन्द्र नलमहाराज प्रति, वचनं वाक्यं, उीर्य उक्त्वा, विरमति विरत सति, तत्र तस्मिन् समये (तत्र - तस्मिन् इति हसविशेषणं वा ), अस्य हसस्य. वाच वचन, अनुवदितु इव अनुवक्तुं इव, निशान्तशङ्खनादः निशान्त राज्यव- सान यः शङ्खः तस्य नादः ध्वनिः, आशु क्षिप्र, उच्चैः अतिगंभीर यथा तथा, उदचरत् उदभूत् इत्यर्थः ॥ पुष्पिताग्रा वृत्तम् ॥ ४५ ॥ इति श्रीसान्धिविग्रहिकमहापात्रश्रीकृष्णानन्दकृती सहृदयानन्द महाकाव्ये नलचारते नलोन्मादो नाम चतुर्थः सर्गः॥ .
पञ्चमः सर्गः। . बहिर्विहाराय विशीर्णसक्थि- निषेदुषी गर्भगृहोदरेषु । नभस्तुषारांशुमुखं दधाना क्रमेण रात्रिर्जरती बभूव ॥ १॥ बहिरिति ॥ बहिर्विहाराय बहिस्सञ्चाराय बहिः सञ्चार कर्ते इत्यर्थः विर्णिसक्थिः विशाणे विकले सक्थिनी ऊरू यस्याः सा तादी बहिस्सञ्चारं कर्तुं अशक्ता इत्यर्थः (इति जरता पक्ष) (समासान्तविधनित्यत्वात · बहुव्रीही सक्थ्यक्ष्णाः स्वाङ्गात् षच ' इति षच न भवति), विगतः शर्णसक्थिः अनूरुः अरुणः इति यावत् यस्यां सा इति रात्रिपक्ष. (अतः एव), गर्भगृहोदरेषु गर्भ गृहाणां अन्तर्भवनानां उदरषु अभ्यन्तरेषु एव, निषेदुर्ष। तस्थुषी निषण्णा इति यावत् (शीतभीत्या जरत्याः, प्रभातप्रायत्वात् तमोरूपायाः रात्रेश्च भवनाभ्यन्तर एव स्थितिः), नभस्तुषारांशुमुखं नभसि आकाशे स्थितः यः तुषारांशुः चन्द्रः तस्य मुख बिम्ब प्रभातत्वात् निस्तेजस्क मण्डलाकारं इन्दु इति रात्रिपक्षे, नभसि आकाशे ये तुषाराः हिमानि यद्वा नभस्तुषाराः तुहिनशीकरा: तदर्थ (तनिवारणार्थ) अंशुः अंशुकं अवगुण्ठनवस्त्रं यस्य तत् तादृशं मुख वदन इति जरतीपक्षे, दधाना धारयन्ती, गत्रिः रजनी, क्रमेण शनैः शनैः, जरती जरा- जार्णा परिणतप्राया इति यावत , बभूव अभवत् ॥ उपेन्द्रवज्रा वृत्तम ॥ १ ॥ समुत्सुकः प्राप्तुमिवास्य लक्ष्मी नलस्य पञ्चेषुशराकुलस्य । 'विगाहमानः ककुभं प्रतीची बभूव चन्द्रः सविशेषपाण्डुः ॥२॥ समुत्सुकः इति ॥ चन्द्रः इन्दुः, पञ्चेषुशराकुलस्य पञ्चषाः मन्मथस्य सहदयानन्द शरैः बाणैः आकुलस्य पीडितस्य, अस्य एतस्य, नलस्य, लक्ष्मी विरहावस्यो- चितां शरीरशोभा पाण्डुतां इत्यर्थः, प्राप्तुं लधु, सबुत्सुकः इन साभिलाषः इब, प्रतीची पश्चिमा, ककुभं दिशं, विगाहमानः आश्रितः सन् , सविशेषपाण्डः अत्य- तपाण्डवर्णः, बभूव अभवत् । उपेन्द्रवजा वृत्तम् ॥ २ ॥ अनुद्यते भास्वति मन्दमासि विधौ किमप्याविरभूचमिस्रम् । आसाथ रन्ध्र महनीयधान्नां मलीमसः संपदमातनोति ॥ ३ ॥ अनुद्यते इति ॥ भास्वति सूर्ये, अनुद्यते अनुदिते अकृतोदये सति इत्यर्थः, विधौ चन्द्रे च, मन्दभासि मन्दा क्षीणा भाः कान्तिः यस्य तस्मिन् तारी सति, किमपि किश्चन, तमिस्र तमः अन्धकारः इति यावत् , आविरभूत् उदभवत् । (तथाहे) ; मलीमसः मलिनः पङ्किल: पापः पुरुषः इत्यर्थः, रन्ध्र छिद्रं, आसाद्य प्राप्य, महनीयधाम्नां महनीय धाम येषां तेषां श्लाघनीयतजसां, संपदं श्रियं, आतनोति अपहरति इत्यर्थः । यद्वा मलामसः महनीयधानां, रन्ध्र. आसाद्य, संपदं, आतनोति विस्तृणाति उपचिनोति इति यावत ॥ उपजातिः वृत्तम् ॥ ३ ॥ निद्रां विमुश्चत्सु सरोरुहेषु सौरभ्यलोलैर्निवहरलीनाम् । स्तोकावशेषोऽपि बभूव सान्द्रः पद्माकरेषु क्षणमन्धकारः ॥ ४ ॥ निद्रां इति ॥ सरोरुहेषु पङ्कजेषु, निद्रां खापं मुकुलीभावं इत्यर्थः, विमुश्चत्सु विसृजत्सु सत्सु विकसत्सु सत्सु इत्यर्थः, सौरभ्यलोलेः सौरभ्ये कमलपरिमले लोलैः आसः, अलीनां भ्रमराणां, निवहैः समूहः हेतुभिः). पद्माकरेषु कमलिनीषु, स्तोकावशेषः किश्चिदवशिष्टः अपि, अन्धकारः तमः, क्षणं आणकालं, सान्द्रः निबिडः घनीभूतः इनि यावत् , बभूव ।। इन्द्रवजा पनामः सर्गः ४ . संस्पृश्यमानैव बलाजहार वसूनि सर्वाग्यपि पश्चिमाशा । इन्दोः प्रकृत्या विमलस्य जात- स्तथापि तस्यामनुरागबन्धः ॥ ५ ॥ संस्पृश्यमाना इति । पश्चिमाशा प्रतीची दिक् (काचित् स्त्री च व्यज्यते), संस्पृश्यमाना एव तेन संस्पृष्टमात्रा एव (न तु तदनुभूतालिङ्गनचुम्बना- दिसुरतसुखा इति ध्वन्यते), प्रकृत्या स्वभावेन, विमलस्य निर्मलस्य परिशुद्धस्य इति यावत् , इन्दाः चन्द्रस्य ( कस्य चित् पुसः इति च व्यज्यते ), सर्वाणि अशेषाणि अपि, वसूनि किरणान् (धनानि च ) (‘रदमौ च वसु तोये धने मणौ' इति वैजयन्ती), बलात् प्रसभं बलात्कारेण इति यावत् , जहार हृतवती। तथा सति अपि, (तस्य), तस्यां पश्चिमाशायां, अनुरागबन्धः प्रेमबन्धः रक्तवर्ण- संबन्धः च, जातः अभवत् ॥ अस्मिन् सर्गे प्रायः उपजातिः वृत्तम् ॥५॥ दिशं प्रतीची परिरभ्य चन्द्रे दरीगृहं गच्छति पश्चिमाद्रः। बभार बालारुणरश्मिशोणं पाची मुखं कोपकषायितेव ॥ ६॥ दिशं इति ॥ चन्द्रे इन्दौ, प्रतीची पश्चिमां, दिशं ककुभं, परिरभ्य संश्लि- ध्य, पश्रिमाद्रेः अस्ताचलस्य, दगगृहं गुहामन्दिर, गच्छति याति सति, प्राची पूर्वा दिक् , कोपकषायिता इव कोपेन खमपत्नीसंभोगजनितेन क्रोधेन कषायिता इव कलुषिता इव, बालारुगरश्मिशाण बालारुणः बालसूर्यः तस्य रश्मिभिः किरणैः शोणं रक्तवर्ण, मुख पुरोभागं ( वदनं च ), बभार दधौ ॥ ६ ॥ . सरारु नातिमसुप्तेषु च कैरवेषु । करम्बितं सौरभमाददानः पालेयशीतः पवनश्चचार ॥७॥ अधेति ॥ सरोरुहेषु पयेषु, अर्धप्रबुद्धेषु किश्चित् विकसितेषु सत्सु, ११८ सहृदयानन्दे ( कैरवेषु कुमुदेषु च, नातिप्रसुप्तेषु नातिसंकुचितेषु सत्सु, करंबितं मिाश्रत, सौरभ परिमलं, आददानः बिभ्रत् , प्रालेयशीतः प्रालेयैः हिमैः शीतः शीतलस्पर्शः, पवनः वायुः, चचार वा ॥ ७ ॥ तथाविधां तस्य दशां नृपस्य निरीक्षितुं कातरतामुपेत्य । निद्राविरामध्वनिभिः खगाना- माहूय चन्द्रं रजनी जगाम ॥ ८ ॥ तथाविधां इति ॥ रजनी रात्रिः, तस्य, नृपस्य नलमहाराजस्य, तथाविधां तादृकप्रकारां दुनिरीक्ष्यां इत्यर्थः, दशां अवस्थां. निरीक्षितु अवलो कयितुं, कातरतां आकुलत्व, उपेत्य प्राप्य इव, खगानां पक्षिणां, निद्राविरामध्व- निभिः निद्राविरामे निद्रापगमे कृताः ये ध्वनयः शब्दाः तः पक्षिणां निद्रावसानो- द्भूतध्वनिव्याजेन इत्यर्थः, चन्द्र इन्दु, आहृय आकार्य, जगाम गतवती ॥ ८ ॥ पूर्वापरायोः शिखरानभाजौ द्वावेव माणिक्यमणिप्रकाशौ । परस्परस्य प्रतिबिम्बलक्ष्मी क्षणं प्रपन्नाविव पुष्पवन्तौ ।। ९ ।। पूर्वेति ॥ पूर्वापरायोः पूर्वाद्रिः उदयाचल: अपराद्रिः अस्ताचल: च तयोः, शिखरान शृङ्गार्वभागं भजतः इति शिखगग्रभाजी शृङ्गात्रस्थौ, माणि- क्यमणिप्रकाशी माणिक्यमणे. पद्मरागमणः प्रकाश. इव प्रकाशः ययोः तौ तादृशो, पुष्पवन्तौ सूर्यचन्द्रौ एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ' इति अमरः, द्वौ एव उभौ एव, क्षण क्षणकालं, परस्परस्य अन्योन्यस्य, प्रतिबिम्बलक्ष्मी प्रतिफलशोभा, प्रपन्नौ इव प्राप्ती इव, ( अलक्ष्येताम् ) ॥ ९ ॥ सुतैरिव स्वरुडुभिः सहैव नभोङ्गणे यामवतीमतीत्य । विहर्तुकामश्चरमाद्रिवेलां • शनैः प्रपेदे तुहिनांशुहंसः ॥ १० ॥ .
पञ्चमः सर्गः । ११९ सुतैः इति ॥ तुहिनांशुहंसः तुहिनांशुः चन्द्रः एव हंसः मरालः, स्वैः निजैः, सुतैः इव पुत्रैः इव हंसशिशुभिः इव स्थितैः इत्यर्थः, उडुभिः सह एव सत्रैः सार्ध एव, नभोङ्गणे गगनाङ्गणे, यामवती यामिनी रजनी इति यावत् , अतीत्य अतिक्रम्य, विहतुकामः क्रीडितुमनाः सन् , चरमाद्रिवेलां अस्ताचलतटं अस्ताचलसमीपस्थपश्चिमसमुद्रतीरं वा, शनैः क्रमेण, प्रपेदे प्राप ॥ उपे- न्द्रवज्रा वृत्तम् ॥ १०॥ विशीर्णताराकुसुमोत्करश्री- र्योत्स्नाविपाण्डुच्छदनान्यपास्य । बभार बालारुणरश्मिदम्भा- नभस्तरुतनपल्लवानि ॥ ११ ॥ विशीर्णेति ॥ ताराः नक्षत्राणि एव कुसुमानि पुष्पाणि तेषां उत्करः निचयः समूहः इति यावत् तेषां श्री शोभा विर्णाि विलुप्ता ताराकुसुमोत्क रश्रीः यस्य सः (नवकिसलयोद्भेदकाले वृक्षाः विर्णपुष्पाणि भवन्ति ; प्रभातसमये आकाशश्च विलुप्ततारागणः भवति इति अनुभवसिद्धं) तादृशः, नभन्तरुः नभः आकाशः एव तरुः वृक्षः, ज्योत्स्नाविपाण्डुच्छदनानि ज्योत्स्ना चन्द्रिका एव विपाण्डूनि शुष्कत्वात पाण्डुवर्णानि छदनानि पनि तानि, अपास्य अपाह्य, बालारुणरश्मिदभात् बालारुणः बालसूर्यः तस्य रश्मयः किरणाः तषां दंभात् व्याजात् प्रभातसूर्यकिरणमिषेण इत्यर्थः, नूतनपल्लवानि नवकिसल- यानि, बभार विभर्ति स्म ॥ ११ ॥ उपैष्यतश्चण्डरुचेमयूखै- निरस्यमानेऽपि घनान्धकारे । नलस्य भैमीविरहाग्निजन्मा जगाम वृद्धिं मदनान्धकारः॥ १२ ॥ उपैष्यतः इति ॥ उपेष्यतः उपगमिष्यतः गगनमध्यं आरुरुक्षोः इत्यर्थः, चण्डरुचेः उष्णरश्मेः सूर्यस्य इति यावत् , मयूखैः किरणैः, घनान्ध.. कार सान्द्रतमसि, निरस्यमाने तिरस्क्रियमाणे सत्यपि, नलस्य, भैमीविर- हामिजन्मा भैम्याः दमयन्त्याः यः विरहामिः वियोगानलः तस्मात् जन्म १२० सहृदयानन्दे उत्पत्तिः यस्य सः तादृशः, मदनान्धकारः सन्मयकृतमोह तमः, अदि उप- चयं सान्द्रत्वं इति यावत् , जगाम प्राप॥ उपेन्द्रवज्रा वृत्तम् ॥ १२॥ विकासलक्ष्मीः कमलं जगाम सोचमुद्रा कुमुदं प्रपेदे । संपद्विपदापि निसर्गलोला कुत्रापि न स्थैर्यमुरीकरोति ॥ १३ ॥ बिकासेति ॥विकासलक्ष्मी. विकसनश्रीः, कमल पम, जगाम प्राप। सको- चमुद्रा निमीलनरूपमुद्रणं, कुमुद कैरव प्रपेदे प्राप। निसर्गलोला निसर्गेण खभावेन लोला चपला, सम्पत् समृद्धिः, विपद्वापि आपद्वापि, कुत्रापि क्वचिदपि, स्थैर्य स्थिरत्वं, न उरीकरोति न भजते ॥ १७ ॥ मधूनि पीत्वा क्षणदामिदानी- मदक्षिणोऽयं नलिनीमुपैति । इतीव सेा निजकोषमध्ये कुमुद्धती कापि बबन्ध भृङ्गम् ॥ १४ ॥ मधूनि इति ॥ 'अय एष भृङ्गः (विटश्च गम्यते), क्षणदा सर्वो रात्रि इत्यर्थः ( — कालावनोरत्यन्तसयोगे' इति द्वितीया ), मधूनि मम मकरन्दान् पुष्परसानिति यावत् (अधरमधूनि इति च गम्यते), पीत्वा आस्वाद्य, इदानी अस्मिन् प्रभातसमये इत्यर्थः, अदक्षिणः मयि प्रीनिरहितस्सन् , नलिनी कमलिनी (अन्यां युवति इति च गम्यते), उपैति उपगच्छति ।' इति एव, ( मत्वा ), से| ईय॑या सहिता सासूया इव, कापि काचन, कुमुदती कैरविणी कुमुदिनी इति यावत् (काचित् युवती इति च गम्यते), निजकोषमध्ये स्वमालाभ्यन्तरे (निजकुचकुडालमध्ये इति च गम्यते), भृङ्ग भ्रमर (विट युवानं इति च गम्यते), बबन्ध बध्नाति स्म ॥ उपेन्द्रवजा इत्तम् १४ ॥ कश्चिदास्थाय स धैर्यबन्धं प्रत्यूषसन्ध्याविधिमन्वतिष्ठत् । महात्मनां हि व्यसनातिभारः क्रियाविलोपे प्रमुतां न याति ॥ १५ ॥ * पञ्चमः सर्गः १२१ कथश्चित् इति ॥ सः नलः कश्चित् कृच्छ्रात् महता प्रयासेन इत्यर्थः, धैर्यबन्धं धीरत्वं, आस्थाय अवलम्ब्य, प्रत्यूषसन्ध्याविधि प्रत्यूषे प्रातःकाले यः मन्ध्याविधिः सन्ध्यावन्दनरूपं अनुष्ठानं तं, अन्वतिष्ठत् अकरोत् । तथाहि । महात्मनां महानुभावानां. व्यसनातिभारः व्यसनस्य दुःखस्य अतिभारः प्रकर्षः अतिरेकः इति यावत् , क्रियाविलोपे सन्ध्यावन्दनाद्यवश्यकर्तव्यविधाते, प्रभुतां समर्थतां, न याति न आप्नोति ॥ १५ ॥ दशां तवेमां विनिवेद्य भैमी- माश्चासयिष्यामि निकामखिनाम् । श्रुतीऽपि खेदं शिथिलीकरोति पियानुरागः प्रमदाजनस्य ॥ १६ ॥ दशामिति ॥ तव भवतः, इमां ईदृशी, दशां अवस्थां, विनिवेद्य कथ. यित्वा. निकामखिन्नां निकाम नितान्तं खिन्नां व्यथितां वद्विरहातुरां इत्यर्थः, भैमी भीमराजसुतां दमयन्ती, आश्वासयिष्यामि सान्त्वयिष्यामि । (यतः ), प्रियानुराग: प्रियस्य दयितस्य अनुराग: प्रेम, श्रुतः अपि आकर्णितमात्रः मन् अपि, प्रमदाजनस्य युवतीनां इत्यर्थः, खेदं मनोव्यथां, शिथिलीकरोति अप- नोदयति ॥ १६॥ तदेष गच्छामि नराधिनाथ मुहूर्तमात्रेण पुरीं विदर्भाम् । विलोकयिष्यामि दिनैः कियद्भि- भैमीसनाथस्य मुखाम्बुजं ते ॥ १७ ॥ तदिति ॥ नराधिनाथ हे नलभूपते, तत् तस्मात् कारणात् , एषः अयं अहं, मुहूर्तमात्रेण क्षणमात्रेण घटिकाद्वयमात्रेण वा, विदर्भी विदर्भाख्यां, पुरी नगरी प्रति, गच्छामि यामि । (तथा), कियद्भिः कतिपयैः अतिस्वल्पः एव इत्यर्थः दिः दिवसः, भैमीसनाथस्य भैम्या दमयन्त्या सनाथस्य सहितस्य, ते तव, मुखाम्बुजं वदनारविन्दं, विलोकायध्यामि प्रेक्षिध्ये ॥ १७ ॥ इति ब्रुवन्नेव नरेश्वरेण दो परिष्वज्य खगो विमुक्तः । 11
१२२
~
लिम्पसभः काञ्चनपक्षकान्त्या
लिमं विदर्भाभिमुखो जगाम ॥ १८ ॥
इतीति ॥ इति पूर्वोक्तप्रकारेण, ब्रुवन् बदन एव, नरेश्वरेण नलम-
हाराजेन, दोभ्यो बाहुभ्यां, परिष्वज्य आलिङ्गय, मुक्तः विसृष्टः, खगः हंसपक्षी,
काश्चनपक्षकान्त्या काञ्चनमययोः पक्षयोः गरुतोः कान्त्या तेजसा, नमः आकाश,
लिम्पन् व्याप्त कुर्वन् सन् इत्यर्थः, क्षिप्रं दुत, विदर्भाभिमुख. विदर्भपुरी
उद्दिश्य इत्यर्थः, जगाम ययौ ॥ १८ ॥
अत्रान्तरे दूतमुखेन भीमः
स्वयंवरार्थ स्वतनूभवायाः।
प्राप्त विदर्भामवनीन्द्रबृन्दे
तं प्रीतिपूर्व नलमाजुहाव ।। १९ ॥
अत्रान्तरे इति ॥ अनान्तरे एतन्मध्ये, स्वतनूभवाया. निजसुताया.
दमयन्त्याः, स्वयवरार्थ स्वेच्छया पतिवरणार्थ, अवनीन्द्रबृन्द अवनीन्द्राणा मही
पतीनां बृन्दे समूह, विदर्भी विदर्भाख्यपुरी, प्राप्त आगते सति, भीमः तदाख्य
विदर्भाधिपतिः, दूतमुखेन दूतस्य वार्ताहरस्य मुखेन द्वारा इत्यर्थः, त प्रसिद्ध,
नल. प्रीतिपूर्व प्रीतिपुरस्सर सस्नेह यथा तथा इति यावत् . आजुहाव आहृत
वान ॥१९॥
ततः समासाद्य शुभ मुहूर्त
पुरोधसा संभृतमङ्गलश्रीः।
निमित्तसमूचितकार्यसिद्धि-
नलः प्रतस्थे नगरी विदर्भाम् ॥ २० ॥
ततः इति ॥ ततः भीमाह्वानसमनन्तर, नल., शुभ अतिप्रशस्त शुभावह
वा, मुहूर्ते लमं, समासाद्य प्राग्य, पुरोधसा पुरोहितेन, संभृतमङ्गलश्रीः संभृता
विरहिता मङ्गलश्रीः कल्याणसमृद्धिः यस्मै सः तादृशः सन् , निमित्ताशुभशकुन:
पिता आवेदिता कार्यसिद्धिः दमयन्तीप्राप्तिरूपकार्यस्स साफल्यं यस्य सः
ताल सन् , विदर्भा , नगरी पुरी, प्रतस्ये प्रस्थितवान् ॥ उपेन्द्रवजा
बम्॥ २०॥
. अधश्चरेणुभरस्य रेजे देतातपर्व निवषेश्वरस्थ । विलाय मेघाभिजवंशकेतु तं वीक्षितुं प्राप्त इवामृतांशुः ॥ २१ ॥ अधः इति ॥ चमूरेणुभरस्य चम्बाः सेनायाः य रेणवः धूलयः तेषां भरः पटलं तस्य सेनोत्थितधूलीपटलस्य इति यावत् , अधः अधोभागे, (धृतं), निषधेश्वरस्य नलमहाराजस्य, श्वेतातपत्रं श्वेतं धवलं आतपत्रं छत्रं (कर्तृ), मेघान् जलदान , विलअथ अतिक्रम्य, निजवंशकेतुं निजस्य खस्य वंशस्य चन्द्र- कुलस्य इत्यर्थः केतुः ध्वजः तद्वत् ब्यावर्तकः इत्यर्थः तं, तं नलं, वीक्षितुं अव- लोकयितुं. प्राप्तः उपागतः, अमृतांशुः इव चन्द्रः इव, रेजे बभौ ॥ २१ ॥ अमुष्य हस्ताम्बुजमभ्युपेत्य भैमी धुंव मे भविता सपनी। इतीव तस्य ध्वजिनीभरेण विश्वंभरा वेपथुमुद्धभार ॥ २२ ॥ अमुष्येति ॥ 'भैमी दमयन्ती, अमुष्य अस्य नलस्य, हस्ताम्बुजं कर- कमलं, अभ्युपेत्य आसाद्य, मे मम (विश्वंभरायाः इत्यर्थः), समानः पतिः यस्याः सा सपत्नी, ध्रुवं नूनं, भविता भविष्यति' । इति इव इत्थं मत्वा डच, विश्वंभरा पृथ्वी, तस्य नलस्य, ध्वजिनीभरेण ध्वजिन्याः सेनायाः भरेण भारेण, वेपथु कम्पं, उद्वभार प्राप्नोति स्म ॥ २२ ॥ मद्वंशजातानृपतीनतीत्य गुणेन भैमीमुपलप्स्यतेऽसौ। इतीव लज्जाविधुरो विवस्वा- •नन्तर्दधे तस्य चमूरजोभिः ॥ २३ ॥ मदिति ॥ असौ एषः नलः, गुणेन सौन्दर्यसौशील्यधैर्यवीर्यादिसद्गुण-. निवहैः इत्यर्थः, मद्वंशजातान् मम वंशः सूर्यकुलं इत्यर्थः तस्मिन् जाताः उत्पन्नाः तान् तादृशान् , अतीत्य अतिशय, भैमी भीमसुतां दमयन्ती, उपलप्स्यत , १२४ सहृदयानन्दे . .. प्राप्म्यति ।' इति एवं, (मत्वा), विवस्वान् सूर्यः, लज्जाविधुरः इव लगाया त्रपया विधुरः विह्वलः इव, तस्य नलस्य, चमूरजोभिः चम्वाः सेनायाः रजाभिः धूलिभिः, अन्तर्दधे तिरोहितः बभूव ॥ २३ ॥ मताजानां मदवारिसेकैः पराभवासादनशङ्कयेव। अमुष्य नासीरतटे तुरङ्गः क्षुण्णं रजः खं सहसोत्पपात ॥ २४ ॥ मतङ्गजानामिति ॥ अमुष्य अस्य नलस्य, नासीरतट नासारस्य मेना- ग्रभागस्य तटे प्रान्ते, (स्थितैः), तुरङ्गैः अश्वैः, क्षुण्ण चूर्णितं, रज. पांसुपटल इत्यर्थः, मतगजानां गजानां, मदवारिसेकैः मदवारीणां मदजलानां सेकैः खावैः, पराभवासादनशकया इव पराभवस्य अभिभवस्य आसादन प्राप्तिः तस्मात् शङ्का भयं तया इव तिरस्कारप्राप्तिभयेन इव इत्यर्थः, सहसा आशु, खं आकाश, उत्पपात उदगच्छत् ॥ २४ ॥ आभोगलक्ष्म्या पदवीष्वमान्ती विसृत्वरी विष्वगमुष्य सेना। वर्षाम्बुपूरेण विभिन्नसेतुः स्लोतस्वती वृद्धिमतीव रेजे ॥ २५ ॥ आभोगेति ॥ आभोगलक्ष्म्या आभोगस्य विस्तारस्य वैपुल्यस्य इति यावत् लक्ष्म्या समृद्ध्या हेतुना, पदवीषु मार्गेषु, अमान्ती अवकाश अलभमाना इत्यर्थः. (अतः एव), विष्वक सर्वतः, विमृत्वरी विमर्पणाला व्यापनशीला इति यावत् , अमुष्य एतस्य नलस्य, सेना चमूः, वर्षाम्बुपूरेण वर्षाम्बूनां वर्षासु वर्षाकाले विद्यमान यः अम्बुपूरः जलप्रवाहः तेन (यद्वा वर्षाम्बूनां वृष्टि- जलानां पूरेण समृद्ध्या), वृद्धिमती वृद्धि प्राप्ता, ( अतः एव), विभिन्नसेतुः विभिन्नः निर्भिन्नः भनः इति यावत् मेतुः धरण जलावरण इति यावत यस्याः सा तारशी, स्रोतस्वती स्रोतोवहा इव नदी इव इति यावत् , रेजे बभौ ॥२५॥ नस्य प्रयातुः पृतनाभरेण नीरन्ध्रतां वर्त्म तथा जगाम । . .
पञ्चमः सर्गः । १२५ . यथा रजोऽप्यश्वखुराधकीर्ण न चक्षमे व्योमविलॉनाय ॥ २६ ॥ तस्येति ॥ प्रयातुः प्रयाणं कुर्वतः, तस्य नलस्य, पृतनाभरण पृतनायाः सनायाः भरः आधिक्यं तेन, वर्त्म मार्गः, तथा तेन प्रकारेण, नीरन्ध्रतां निबिडत्वं अविरलत्वं इति यावत् , जगाम प्राप : यथा येन प्रकारेण, अश्वखु- रावकीर्ण अश्वानां तुरगाणां खुरैः शफैः अवार्ण उद्धृतं, रजः अपि रेणुः अपि, व्यामावलङ्घनाय व्योम्नः आकाशस्थ विलङ्घनं आक्रमणं तस्मै आकाशं गन्तुं इत्यर्थः, न चक्षमे समर्थ न अभूत् ॥ २६ ॥ दृशः पुरा निन्दति नः क्षितीन्दु- नेत्रश्रियं वीक्ष्य विदर्भजायाः । इतीच सश्चिन्त्य ययुर्विदूरं मृग्योऽध्वकुञ्जषु सुखं निषण्णाः ।। २७ ।। दृशः इति ॥ 'क्षितीन्दुः भूचन्द्रः नलः इत्यर्थः, विदर्भजायाः वेदाः दमयन्त्याः इति यावत् , नेत्रश्रिय नयनसौन्दर्य, वीक्ष्य अवलोक्य. नः अस्माकं मृगाणां इत्यर्थः), दृशः नयनानि, पुरा निन्दति निन्दिष्यति' (' यावत्पुरा- निपातयोर्लट' इनि पुरायोगन लडथै लट् ) इति इत्थं. मञ्चिन्त्य इव मत्वा इव, अवकुञ्जषु अध्वनि मार्गे स्थिताः ये कुन्नाः निकुञ्जाः लतागुल्मानि इति यावत वपु, सुख सुखेन विस्रब्ध यथा तथा इत्यर्थः, निषण्णाः उपविष्टाः, मृग्यः मृगाङ्गनाः हरिण्यः इति यावत् , विदूरं अतिदूरं, ययुः अगच्छन ॥ २७ ॥ उपायनान्यस्य तथोपनिन्ये पदे पदे जानपदो जनौघः । कृतोपयोगान्यपि तानि सैन्यै- • यथा न सङ्ख्याविषयत्वमीयुः ॥ २८ ॥ उपायनानि इति ॥ जनपदे भवः जानपदः जनपदनिवासी इत्यर्थः,. जनौघ: जनममूहः, पदे पदे प्रतिपद तत्तत्स्थानेषु इत्यर्थः, अस्य अमुष्य नलस्य नलाय इत्यर्थः, उपायनानि उपहारान् , तथा तेन प्रकारेण, उपनिन्ये . । .
१२६ * . आजहार ददी इत्यर्थः; यथा येन प्रकारेण, सैन्यैः अनाकः, कृतः उपयोग: येषां सानि कृतोपयोगानि अपि यथेष्टं विनियुक्तानि अपि, तानि उपायनानि, संख्याविषयत्वं गणनागोचरत्वं संख्येयता इत्यर्थः, न ईयुः न जग्मुः असंख्ये- यानि एव आमन् इत्यर्थः, ॥ २८ ७ मार्गेवखिनोऽपि चमूचराणां विश्रामहेतोर्वसतीः स भेजे । सथाविधानां चरितं न जातु श्रमातिरेकाय समाश्रितानाम् ।। २९ ॥ मार्गेषु इति ॥ सः नलः, मार्गेषु पथिषु, अखिन्नः अपि अश्रान्तः सन् अपि, चमूचराणां सैनिकानां, विश्रामहेतोः विश्रान्त्यर्थ श्रमापनोदनिमित्त इत्यर्थ., वसंततः सेनानिवेशनानि सनावस्थितीः इति यावत् , भेजे निषेवते स्म । (यतः). तथाविधानां तादृशाना नलसदृशानां महात्मनां, चरितं चेष्टितं आचरण वा. ममाश्रितानां खानुर्जाविना, श्रमातिरेकाय श्रमबाहुत्याय अत्यन्तश्रमाय इत्यर्थः, जातु कदाचिदपि, न ( भवति ) ॥ २९ ॥ जवादविज्ञातविलचितावा सचिन्तयनेव गुणान्प्रियायाः। विदर्भराजस्य पुरोपकण्ठे बबन्ध सेनाशिबिरं नरेन्द्रः ॥ ३०॥ जवात् इति ॥ नरेन्द्रः नलभूपतिः, प्रियायाः दयितायाः दमयन्त्या.. गुणान् सौन्दर्यादीन् , सश्चिन्तयन् एव भावयन एव, (अतः एव), जवात् वेगात् , अविज्ञातविलचिताध्वा अविज्ञात अगणित यथा तथा विलङ्कितः अति- कान्तः अधा मार्गः येन सः तथाभूतः सन् , विदर्भराजस्य विदर्भाधिपतेः भीमराजस्य इत्यर्थः, पुरोपकण्टे पुरस्थ नगरस्य उपकण्ठे समीपे, सेनाशिबिर सेनानिवेशं, बबन्ध कल्पयामास ॥ ३० ॥ अत्रान्तरे क्षोणितलादुपेत्य कलिपियः कामचरो महर्षिः। . -
पापः सर्गः।
१२७
निवेदयामास विदर्भजायाः
स्वयंवरस्यावसरं सुरेभ्यः ॥ ३१ ॥
अत्रान्तरे इति ॥ अत्रान्तरे अस्मिन् अवसरे, कामेन चरति इति
कामचरः स्वच्छन्दसञ्चारी, कलिप्रियः कलौ कलहे प्रियः प्रीतिमान् , महर्षिः
नारदमहामुनिः इत्यर्थः, क्षोणितलात् , महीतलात् उपेत्य (स्वर्गलोकं) आसाद्य,
सुरेभ्यः इन्द्रादिदेवेभ्यः, विदर्भजायाः भैम्याः दमयन्त्याः इत्यर्थः, स्वयंवरस्य,
अवसरं समयं, निवेदयामास कथयामास ॥ ३१ ॥
पागेव तस्यामनुबद्धभावाः
पुरन्दराद्याः ककुभामधीशाः।
पुरःसरीकृत्य मुनि तमेव
प्रतिस्थिरे तां नगरीं विदर्भाम् ।। ३२ ।।
प्रागिति ॥ प्राक एव पूर्व एव, तस्या दमयन्त्यां, अनुबद्धः भावः ये
ते अनुबद्धभावाः विहिताभिलाषाः, पुरन्दरः आय. येषां ते पुरन्दराद्याः इन्दा-
दयः, ककुभां दिशां अधीशाः अधिपतयः दिक्पालकाः इत्यर्थः, तं, मुनि एव
नारदमहर्षि एव, पुरस्सरीकृत्य अग्रेसरीकृत्य, ता, विदर्भी. नगरी पुरी (उद्दिश्य),
प्रतस्थिरे प्रस्थितवन्तः ॥ ३२ ॥
लावण्यलक्ष्मीजितपश्चबाणं
"विलोक्य ते वर्त्मनि वैरसनिम् ।
विदर्भजायां शिथिलीकृताशाः
परस्परं मनमिमं वितेनुः ॥ ३३ ॥
लावण्येति ॥ ते इन्द्रादिदिक्पालाः, वर्त्मनि मार्गे, लावण्यस्य सौन्द-
यस्य लक्ष्म्या समृद्धथा जितः अतिशयितः इत्यर्थः पञ्चबाणः मन्मथः येन तं
तादृशं, वीरसेनस्य अपत्यं पुमान् वैरमेनिः तं वारसनमहाराजतनयं नलं इत्यर्थः,
विलोक्य दृष्ट्वा, विदर्भजायां दमयन्त्यां विषये, शिथिलीकृताशाः शिथिलीकृता
भन्ना आशा दमयन्तीप्राप्तिमनोरथः येषां ते तादृशाः सन्तः, परस्परं अन्योन्यं,
इमं वक्ष्यमाणं, मन्त्रं आलोचना, वितेनुः चकुः ॥ ३३ ॥
१२८ सहृदयानन्दे उज्जृम्भते चेतसि तावदेव यूनां मदः कान्तिविशेषजन्मा। न यावदक्ष्णोर्विषयत्वमेति विश्वंभरालतिरेष वीरः ॥ ३४ ॥ उज्जृभते इति ॥ यावत् यावत्कालपर्यन्तं, विश्वंभरालंकृतिः विश्वंभ- रायाः वसुधायाः अलंकृतिः अलंकारभूतः, वीरः शूरः, एषः अयं नलः, अक्ष्णोः नयनयोः, विषयत्वं गोचरत्वं, न एति न प्राप्नोति यावत् नल: न प्रत्यक्षीक्रियते इत्यर्थः ; तावत् एव तावत्कालपर्यन्तं एव, यूनां युवपुरुषाणां, चेतसि चित्ते, कान्तिविशेषजन्मा कान्तिविशेषात् शोभाप्रकर्षात् जन्म उत्पत्तिः यस्य सः तादृशः सौन्दर्यातिशयजनितः इत्यर्थः, मद: गर्वः, उज्जम्भते वर्धते ॥ ३४ ॥ अस्माभिरेतेरविमृश्य नून- मङ्गीकृतः साहसिकत्वदोषः। मोहादनाहत्य नरेन्द्रमनं भैमीविलोलं यदकारि चेतः ॥ ३५ ॥ अस्माभिः इति ॥ यत् यस्मात् कारणात् , मोहात् अज्ञानात , एनं अमु नरेन्द्र नलमहाराज, अनादृत्य उपक्ष्य, चेतः अस्माकं) मनः, भैमाविलोलं भैम्यां दमयन्त्यां विलालं तृष्णं साभिलाष इत्यर्थः, अकारि क्रियते स्म : तन तस्मात् कारणात् ), एतः इदानी एतकार्यव्यापृतैः इत्यर्थः. अस्माभिः, अविमृश्य अप यालोच्य, साहसिकत्वदोषः माहसे प्रमृतः साहसिकः तस्य भावः साहसिकत्व असमीक्ष्यकारित्वं इत्यर्थः तपः दोषः प्रमादः स्खलितं वा. नूनं ध्रुव. अङ्गीकृतः प्राप्तः, (आसीत् ) ॥ ३५ ॥ अभ्यर्थनाभङ्गपराभवेण नवावतारेण विलज्जमानान् । प्रतिप्रयाताननवाप्य भैमी वक्ष्यन्ति किं किं सुरसुध्रुवो नः ॥ ३६ ।। अस्वर्थनेति ॥ नवावतारेण नवः नूतनः अपूर्वः इति यावत् अवतारः उदयः यस्य तेन अभिनवोद्धृतेन इत्यर्थः, अभ्यर्थनायाः दमयन्तीविषयकास्म- .'
पञ्चमः सर्गः
१२९
प्रार्थनायाः यः भगः विच्छेदः तेन जातः यः पराभवः परिभवः अपमानः इति
यावत् तेन दमयन्तीप्रार्थनाभङ्गजनितावमानेन इत्यर्थः, विलज्जमानान् संजात-
लजान् इत्यर्थः, भैमी दमयन्ती, अनवाप्य अलब्ध्वा, प्रतिप्रयातान् (स्वर्ग)
'प्रतिनिवृत्तान . नः अस्मान् , सुरसुभ्रवः देवस्त्रियः, किं किं किं वा, वक्ष्यन्ति
कायष्यन्ति ॥ ३६॥
अस्माकमप्यत्र यहच्छयैव
निपत्य दृष्टियदि नान्यमति ।
गुणानिरकेऽभिनिवेशवत्यास्तदा
'किमुच्येत विदर्भजायाः ॥ ३७ ॥
अस्माकं इति ॥ अस्माकमपि दिव्यरूपसम्पन्नानां देवजातीनां अस्मा-
कमपि, दृष्टिः नयनं, अत्र अस्मिन् नले, यदृच्छया एव अकस्मात् एव, निपत्य
पतित्वा, अन्य अतिसौन्दर्यशालिनं अपरं, न एति यदि न गच्छति चेत् न
निरीक्षते यदि इत्यर्थः, तदा तर्हि, गुणातिरेके सौन्दर्यादिगुणोत्कर्षे, अभिनिवे-
शवत्याः अत्यन्तासक्तायाः, विदर्भजायाः दमयन्त्याः. (दृष्टिः, अत्र नले, निपत्य,
अन्यं, न एति, इति), किं किमु, उच्येत कथ्येन किमु वक्तव्यं इत्यर्थः ॥३७॥
अस्माभिरभ्यर्थ्य तदेष एव
दमस्वसुर्दूतपदे विधेयः।
अस्मांस्तुवनेनमपास्य नून-
मन्यो हि लज्जाजडतामुपेयात् ।। ३८ ॥
अस्माभिः इति ॥ तत तम्मात् कारणात् , अस्माभिः, अभ्यर्थ्य प्रार्थ्य,
एषः एव अयं नल: एव, दमखसुः दमाव्यस्य भीमतनयस्य भगिन्याः दम-
यन्त्याः इत्यर्थः दूतपदे दूतस्य वार्ताहरस्य पदे स्थाने दूतकृत्ये इत्यर्थः, विधेयः
नियोक्तव्यः । हि यस्मात् कारणात् , एनं इम नल. अपास्य विहाय इमं नलं
विना इत्यर्थः, अन्यः दौत्ये नियुक्तः अपरः, अस्मान नलापेक्षया न्यूनगुणान्
नः, स्तुवन् दमयन्तीममक्ष प्रशंसन् सन् , लज्जाजडतां लजया हीनगुणवर्ण:
नजनितहिया जडतां जडिमानं मूढनां इति यावत् , नूनं ध्रुवं, उपेयात्
उपगच्छत् ॥ ३८॥
सहदयानन्द इत्वं विनिचित्य दिवौकमस्ते पृथक्पृथग्व्यञ्जितरूपचिहा। आशीर्भिरानन्ध मुहुः प्रणम्य बद्धाञ्जलिं नैषधमित्यवोचन् ॥ ३९ ॥ इस्थमिति ॥ ते. दिवौकमः इन्द्रादयः देवाः, इत्थं अनेन प्रकारेण. वि. निश्चित्य निर्णीय, पृथक पृथक प्रत्येक प्रत्येक, व्यजितरूपचिहाः म्यजितानि नलाय प्रकाशीकृतानि रूपाणि निजनिजवपूषि चिह्नानि लक्ष्माणि च यः ते नथा- भूताः सन्तः, मुहु. पुनः पुन., प्रणम्य इन्द्रादीन तान् देवान् नमस्कृत्य, बद्धा- अलि बद्धः अञ्जलि: येन त तादृशं कृताञ्जलिबन्ध इत्यर्थः, नैषध निषधाधिपति नल, मुहुः पुनः पुनः ( काकाक्षिगोलकन्यायेन मुहुश्शब्दः उभयत्रापि अन्वेति), आशीभिः आशीर्वचनैः, आनन्द्य अभिनन्ध सन्तोष्य वा, इति एवं वक्ष्यमाण- प्रकारेण इत्यर्थः, अबोचन् अवदन् ॥ ३९ ॥ तथा प्रसनैरपि नांशुपुरै- मालिन्यमिन्दुर्जगतां क्षिणोति । कुलावतंसत्वमुपेयुषस्ते यथा विशुद्धैर्यशसां वितानैः ॥ ४० ॥ देवानां उक्किप्रकारमेव आह- तथा इति ॥ ( हे नलभूपते), कुलावतमत्व कुलम्य निजवक्षस्य चन्द्र- वशस्य इत्यर्थः अवतसत्व शेखरत्व शिरोभूषणना इत्यर्थः, उपेयुषः उपजग्मुषः प्राप्तवतः इत्यर्थः, ते भवतः, विशुद्धः अत्यन्तनिर्मिले:, यशसा कीतीनां, वितानैः समूहैः, इन्दुः चन्द्रः, यथा ग्राहक, जगतां लोकानां, मालिन्य मलीमसत्व, क्षिणोति निरस्थति ; तथा ताहक, प्रसन्नैः अपि अतिखच्छैः अपि, अशुपूरैः अशूनां स्वकिरणानां पूरैः आघ. निजमयूखजालैः, (जगतां, मालिन्य), न क्षिणोति न निरस्यति ॥ ४० ॥ आसाथ पूर्वानपि पार्थिवांस्ते न कश्चिदर्थी विमुखः प्रयातः । - पचमः सर्गः। " . तु यास्त्वसामान्यामिदं लदीय यदर्यिभावं वयमभ्युपेताः ।। ४१ ॥ आसाच इति ॥ (हे नल), ते भवतः, पूर्वान् प्राग्भूतान् , पार्थिवान् अपि नृपान् अपि त्वत्पितृपितामहप्रपितामहादीन् अपि इत्यर्थः, आसाथ उपग- म्य, कश्चित् अर्थी कश्चिदपि याचकः, विमुखः पराङ्मुखः अलब्धमनोरथः इत्यर्थः न प्रयातः न निवृतः। (तथा सत्याप) तव इदं त्वदीयं तावकीनं, इदं एतत् , यशः कीर्तिः पुनः, असामान्यं असाधारणं लोकोत्तरं अतिविलक्षणं वा इत्यर्थः । यत् यतः, वयं स्वतः संपूर्णकामाः अन्येषां प्रार्थितवरदानसमर्थाः सुरश्रेष्ठाः अपि वयं इत्यर्थः, (त्वाय), अर्थिभावं आर्थित्वं याचकत्वं इनि यावत् , अभ्युपेताः प्राप्ताः (स्मः) ॥ ४१॥ कुलानुसारी सुरकार्यसिद्धा भवाहशानां भवति प्रयत्रः । तेनाद्य कुत्रापि समीहिनेऽर्थे नियोक्तुमिच्छन्ति दिवौकसस्त्वाम् ।। ४२ ॥ कुलेति ॥ सुरकार्यसिद्धी सुराणां देवानां यत् कार्य कर्तव्यं तस्य सिद्धिः निष्पादनं तस्यां देवकार्यसंपादने विषय इत्यर्थः, भवादृशानां त्वादृशानां, प्रयत्नः व्यवसायः, कुलानुसारी वंशक्रमागतः, भवति । तेन तस्मात् कारणात् , अद्य संप्रात, दिवौकसः देवाः (वर्यामत्यर्थः), माहित समभिकांक्षिते, कुत्रापि कचित् कस्मिंश्चित् इति यावत् , अर्थे कार्ये. त्वां भवन्तं, नियोक्तुं प्रवर्तयितु, इच्छन्ति अभिलषन्ति ॥ ४२ ॥ भीमात्मजायाः सविधे तथा त्व-. मंस्मानुपश्लोकय लोकवीर । अलङ्करोति त्रिदिवं यथेय- 'मेकस्य नः कस्यचिदेत्य हस्तम् ॥ ४३ ॥ तदेव खसमीहिलं कार्य विश्ण्वन्ति । भीमेति ॥ कबीर भुवनैकार हे नल, त्वं भवान् , भीमात्मजायाः .
१३२ सहृदयानन्दे ( भीमसुतायाः दमयन्त्याः, सविधे निकटे, अमान् इन्द्रादीन् देवान् नः, तथा तेन प्रकारेण, उपश्लोकय उपवर्णय इत्यर्थः : यथा येन प्रकारेण, इयं एषा दम. यन्ती, नः अस्माकं मध्ये, कस्यचित् एकस्य यस्य कस्यापि इत्यर्थः, हस्त करं, एत्य प्राप्य, त्रिदिवं स्वर्गलोक, अलङ्करोति भूषयेत् इत्यर्थः ॥ ४३ ॥ तदर्थमर्थी विदितोऽसि वत्स विसम्भभूमिस्तदपि त्वमेव । निजार्थसिद्धिष्वपि नियंपेक्षाः श्रेयः परेषां घटयन्ति सन्तः ॥ ४४ ॥ तदर्थ इति ॥ वत्स तात नल, (त्व ), सः च असौ अर्थः च तदर्थः त तदर्थ तमेव अर्थ दमयन्तीप्राप्तिरूपं प्रयोजन (यद्वा-तस्यै – तदर्थं दमयन्त्यर्थ एव) एव, अर्थी प्रार्थकः, विदितः अम्माभिः जातः, असि भवसि । तदपि तथापि इत्यर्थः, त्व एव भवान् एकः केवल, (नः), विखंभभूमिः (दमयन्तीसकाशे अस्मत्सन्देशहरणार्थ ) विश्वासपात्र, (वर्तमे) । (कथं स्वतः दमयन्तीलिप्सोः मम दमयन्तीनिकटे वः सन्देशनयन इति नलाभिप्राय अनुमाय अर्थान्तरन्यासेन त समादधते ) सन्तः इति । सन्तः माधवः, निजामिद्धिषु अपि स्वकार्यनिष्पाद. नेषु अपि, नियंपेक्षाः निस्पृहाः विमुखाः सन्तः इति यावत , परेषां अन्येषा, श्रयः हित, घटयन्ति सपादयन्ति ॥ ४४ ॥ प्रतिश्रुतं चेद्भवता तदेव- मसंशयं सेत्स्यति वाञ्छितं नः । संपाद्यमानं हि महानुभावैः स्पृशन्ति न पार्थितमन्तरायाः॥४५॥ प्रतिश्रुतमिति ॥ एव तथैव ( अस्तु ) ; (इति ), भवता त्वया, प्रति- श्रुतं चेत् प्रतिज्ञातं यदि, तत् तर्हि तदा इति यावत् , नः अस्माकं, वाञ्छित अभीप्सितं, असंशयं निस्सन्देह यथा तथा, सेत्स्यति संपत्स्यते सिद्धि प्रापयति इत्यर्थः । हि यतः, महानुभावः महात्माभः उत्तमपुरुषैः इति यावत् , संपायमानं साध्यमानं, प्रार्थितं अन्यैः अर्थित प्रयोजनं (कर्म ), अन्तरायाः प्रत्यूहाः विनाः इति यावत , न स्पृशन्ति न परामशन्ति न विनन्ति इत्यर्थः ॥ ४५ ॥ ; .
पञ्चमः सर्गः विधेर्वशात्कार्यविपर्ययेऽपि न तेऽपराधः परिशनीयः। प्रभुनियोगापनये नियोक्तु- राशास्यसिद्धेः प्रतिभू दूतः ॥४६ ॥ विधेः इति ॥ विधेः वशात् दैववशात विधिनियोगेन इत्यर्थः, कार्यविप- यये कार्यस्य भवदङ्गीकृतदौत्यरूपकर्मणः विपर्यये हानौ सत्यपि, (तत्र), ते भवतः, अपराधः दोषः, न परिशङ्कीयः न मन्तव्यः इत्यर्थः । ( यतः ), दूतः वार्ताहरः, नियोक्तुः नियोजकस्य प्रेरकस्य प्रभोः इति यावत् , नियोगापनये नियोगस्य निदेशस्य अपनये यथाक्ताचरणे विषये एव, प्रभुः शक्तः; (नियोक्तुः), आशायामद्धेः आशास्यस्य अप्मितार्थस्य सिद्धेः निष्पत्तः (विषये ), प्रति- भूः लमकः प्रतिनिधिः वा, न ( भवति)॥ ४६ ॥ नलः सखेदोऽपि गिरं सुराणां सत्त्वातिरेकाद्विदधे तथैव । अमुष्य यत्नेन विदर्भजा तु मा निश्चयाद्वारयितुं न शेके ।। ४७ ॥ नलः इति ॥ नलः, मखेदः अपि दमयन्त्यलाभविषय सव्यथः सन्नपि, मत्त्वातिकात् सतः भावः सत्त्वं महत्त्वं तस्य अतिरकः उत्कर्षः तस्मात् हेतोः, मुराणां देवानां, गिर वचनं, तथैव यथोक्त एव, विदधे चकार । सा विदर्भजा तु वैदर्भी पुनः, अमुष्य एतस्य नलस्य, यत्नेन देवसन्देशाहरणरूपव्यापारेण, नि- श्वयात् नल एव भतारं लभेय इत्येवंरूपात् स्वदृढसंकल्पात् , वारयितुं निरोद्ध, न शेके न शक्यते स्म शपया न अभूत् इत्यर्थः ॥ ४७ ॥ सुरास्तु तां निश्चितचित्तवृत्ति विशुद्धवृत्तं निषधेश्वरं च । वरैरुभौ प्रत्यभिनन्ध भूयो दिवं ययुर्लानमुखप्रकाशाः ॥ ४८ ॥ 12
१३४
सहदयानन्दे
सुराः इति ॥ सुराः तु इन्द्रादयः देवाः पुनः, निश्चितचित्तवृति निश्चिता
निर्णीता स्थिरीकृता इत्यर्थः चित्तस्य मनसः वृत्तिः स्थितिः यस्याः तां तादृशी, तां
दमयन्ती, विशुद्धं परिशुद्धं वृत्तं चेष्टित यस्य तं विशुद्धवृत्तं अतिविमलचरितं,
निषधेश्वरं नलं च, उभौ एतौ द्वौ अपि, वरैः अभीष्टवरप्रदानः इत्यर्थः, प्रत्य
भिनन्ध सन्तोष्य, म्लानमुखप्रकाशाः म्लानः विवर्णीभूतः मुखस्य वदनस्य
प्रकाश: कान्तिः येषां ते तथोक्ताः सन्तः दमयन्त्यलाभजनितलज्जया विवर्ण-
बदनाः सन्तः इत्यर्थः, भूयः पुनरपि, दिव स्वर्ग, ययुः जग्मुः ॥ ४८ ॥
अथात्मजा नैषधसक्तचित्तां
निशम्य शश्वन्मुद्रितोऽपि भीमः ।
दाक्षिण्यमात्रेण नरेश्वराणां
स्वयंवरं वर्तयितुं शशास ॥ ४९ ॥
अथ इति ॥ अथ अनन्तरं, भीमः भीमराजः, आत्मजां स्वसुतां दम-
यन्ती, नैषधसक्तचित्ता नैषधे नले सक्त अनुरक्तं चित्त मनः यस्याः ता
तादृशी नलानुरक्तहृदयां इति यावत् , निशम्य (खपत्नीसकाशात् दमयन्ती.
सखीसकाशात् वा) आकर्ण्य, शश्वत् असकृत् , मुदितः अपि सन्तुष्टः सन्नपि,
नरेश्वराणा स्वपुर आगतानां नृपतीनां, दाक्षिण्यमात्रेण चित्तानुवर्तननिमित्तेनैव
केवल, स्वंयवर स्वयवररूपमहोत्सवं, वर्तयितु विधातु, शशास आदिदेश ॥४९॥
अतो नियुक्तैः प्रभुणा समन्ता-
दलङ्कृता सा नगरी विदर्भा ।
मरुदिलोलैर्निवहे जानां
स्वयंवरायाह्वयतीव राज्ञः ।। १० ।।
अतः इति ॥ अतः एतदनन्तर, प्रभुणा राज्ञा भीमेन, नियुक्तः आदिष्टः
जनैः समन्तात् सर्वतः, अलङ्कृता परिष्कृता, सा, विदर्भा तदाख्या, नगरी
पुरी, मरुद्विलोलैः मरुता वायुना विलोलैः कम्पितैः इत्यर्थः, ध्वजानां पताकानां,
निवसमूहैः, स्वयंवराय स्वयंवराख्योत्सवाय, राज्ञः नृपतीन् , आह्वयति इव
यते इव ॥ उपेन्द्रवजा बलम् ॥ ५० ॥
पञ्चमः सर्गः। . अथानुकूलेऽहनि तत्र मचा- नास्थाय तस्थुः शतशः क्षितीशाः। अनुबुता बन्धुवधूजनेन भैमी च तं देशमुपाजगाम ॥ ५१ ॥ अथेति ॥ अथ पुरालारणानन्तरं, अनुकूले शुभावहे, अहनि दिवसे, क्षितीशाः भूपतयः, शतशः शनसङ्गयया बहुसङ्गथया इत्यर्थः, तत्र स्वयबर- मण्डपे इत्यर्थः, मश्चान् पर्यवान् राजार्हासनानि वा, आस्थाय आधिरुय, तस्थुः निषीदन्ति स्म। भैमी च दमयन्ती अपि, बन्धुवधूजनेन बन्धुश्च असो वधूजनश्च तेन स्वबन्धुभूतस्त्रीजनेन स्वसखीजनेन इत्यर्थः, अनुद्रुता अनुसृता सती, तं देश तदेव स्वयंवरस्थान, उपाजगाम आससाद ॥ ५१ ॥ अभ्याशभाजोऽपि नृपानपास्य सा नैषधे केवलमुत्सुकासीत् । ग्रहेषु सत्स्वप्यपरेषु नूनं विलोकते चन्द्रमसं चकोरी ॥ ५२ ॥ अभ्याशेति ॥ सा दमयन्ती, अभ्याशं समीपं भजन्ति इति तान् अभ्याशभाजः स्वनिकटवर्तिनः अपि, नृपान् नृपतीन् , अपास्य विहाय उपेक्ष्य इति यावत् , नैषधे केवलं नले एव, उत्सुका आसक्ता, आसीत् अभूत् । तत्र दृष्टान्तं 'आह १ चकोरी चकोर: जीवजीवाव्यः पक्षिविशेषः चकोरस्य स्त्री चकोरी चकोराङ्गना, अपरेषु चन्द्रात् अन्येषु, प्रहेषु सूर्यादिषु ज्योतिष्षु, सत्सु अपि स्थितेषु अपि, चन्द्रमसं इन्दु एकं एव, नून ध्रुवं, विलोकते स्वजीवनहेतु- भूत निरीक्षते ॥५२॥ तामन्तिकारतरं प्रयान्ती न केवलं दृष्टिरनुप्रयाता। श्वासोष्मणा म्लानमुखपभाणां नैसगिकी श्रीरपि पार्थिवानाम् ।। ५३ ।। तामिति ॥ अन्तिकात् निजसमीपात् , दूरतरं अत्यन्तदूरं, प्रयान्ती
१३६
३
सहृदयानन्द
.
..
-
गच्छन्ती, तां दमयन्ती, श्वासोष्मणा श्वालस्य दमयन्त्युपेक्षादुःखजनितनिःश्वा-
सस्य ऊष्मणा उष्णतया, म्लानमुखप्रमाणां म्लाना विवर्णीकृता मुखप्रभा वदन-
शोभा येषां तेषां तथाभूतानां, पार्थिवानां राजा, दृष्टिः केवलं नयनं एकं एव, न
अनुप्रयाता न अनुगता; (किन्तु), नैसर्गिकी स्वभावसिद्धा स्वाभाविकी इति
यावत् , ( तेषां), श्रीः अपि शोभा अपि, (तां अनुप्रयाता अनुसृतवती) ॥५३॥
नेदीयसो यानृपतीनमुञ्च-
द्वसन्तलक्ष्मीरिव सा कुमारी ।
तेषां तरूणामिव कान्तिरुच्चै-
रन्तर्निदाघेन जगाम शोषम् ॥ ५४॥
नेदीयसः इति ॥ सा. कुमारी राजकुमारी दमयन्ती, नेदीयसः अत्य-
न्तसमीपवर्तिनः, यान् , नृपतीन् नरेन्द्रान् , (तरून् ), वसन्तलक्ष्मीः इव वस-
न्तस्य वसन्ततॊः लक्ष्मीः शोभा इव, अमुञ्चत् व्यसृजत् । तेषां नृपतीनां. उच्चैः
अतिमहता, अन्तर्निदाघेन अन्तः हृदये उत्पन्नः यः निदाघः औष्ण्य मनस्सन्तापः
इत्यर्थः तेन, कान्तिः वदनशोभा शरीरशोभा वा, अन्तर्निदाघेन प्रीष्ममध्यकालेन,
तरूणां वृक्षाणां, कान्तिः शोभा इव, शोष शुष्कतां, जगाम प्राप ॥ ५४ ॥
आरोप्यमाणा रभसातिरेका-
गुणेन कर्णान्तिकमागतेन ।
इषुः शरव्यं सुभटोज्झितेव
जगाम दृष्टिर्नलमेव तस्याः ॥ ५५ ॥
आरोप्यमाणा इति॥ कर्णयोः अन्तिक कर्णान्तिक श्रोत्रसमीप, आग
तेन श्रुतेन इत्यर्थः (कर्णपर्यन्त आकृष्टेन इति मौर्वीपक्षे ), गुणेन नलस्य
सौन्दर्यादिसद्गुणेन (मौा च). रभसातिरेकात् संभ्रमाधिक्यात् सन्तोषाधि-
क्यात् वा (वेगातिशयात् इति इषुपक्षे), आरोप्यमाणा नलोपरि निवेश्यमाना
(आतन्यमाना इति इषुपक्षे), तस्याः दमयन्त्याः, दृष्टिः नयनं, सुभटोज्झिता
सुभटेन योधाग्रेसरेण धानुष्केण इत्यर्थः उज्झिता विसृष्टा क्षिप्ता इति यावत् ,
इषुः बाणः, शरव्यं लक्ष्यं इव, नलमेव, जगाम प्राप ॥ ५५ ॥
पश्चमः सर्गः। धात्री कापि विदर्भराजदुहितुर्भूलीलया व्यापृता पोप्पं दाम विजृम्भमाणपुलके कण्ठे नलस्यार्पयत् । अन्येषां तु महीभृतां प्रतिमुहुः श्वासोत्तरं ताम्यतां तापोत्सेकमधत्त चेतसि शरश्रेणी मनोजन्मनः ॥ ५६ ॥ धात्री इति ॥ विदर्भराजदुहितुः भीमसुनायाः दमयन्त्याः, कापि काचित्, धात्री उपमाता, भ्रूलीलया दमयन्त्याः भ्रूविक्षेपरूपसज्ञया, व्यापृता नियुक्ता मती, विमुंभमाणपुलके विजृभमाणः विवर्धमान. पुलकः रोमाञ्चः यस्मिन् तादृशे माल्बस्पर्शजनितानन्दातिशयेन सत्रातपुलके इत्यर्थः, नलस्य, कण्ठे ग्रीवायां, पुष्पाणां इद पाप कुसुमनिर्मित, दाम माला, आर्पयत् प्राक्षिपत् इत्यर्थः । प्रतिमुहुः मुहुर्मुहुः, श्वामोत्तर निःश्रासातिरेकपूर्वक यथा तथा, ताम्यतां खिद्यमानानां. अन्यषा अपरेषां नलव्यतिरिक्तानां इत्यर्थः, महाभृतां राज्ञां, चेतसि तु हृदये पुनः, मनोजन्मनः मनमिजस्य मदनस्य इति यावत् शरश्रेणी बाण- परपरा, तापोत्मक सन्तापाधिक्य, अधत्त अजनयत ॥ शार्दूलविक्रीडितं वृत्तम ॥ ५ ॥ चूडाग्रे पुरविद्विषः समुचित विन्यस्य लेखां विधो- लब्धां कीर्तिमलब्ध तां खलु विधिभैमी नलायार्पयन् । एतम्याः समवाप्तये प्रणयितां संपाद्य भूमीभुजा- मन्येषां विषमायुधस्त्वसदृशारम्भापवादं ययौ ।। ५७ ॥ चूडाने इति ॥ विधिः विधाता स्रष्टा इति यावत् , भैमी भीमसुतां दमयन्ती, नलाय, अर्पयन् प्रतिपादयन् सन् , विधो चन्द्रय, लेखां कलां, समुचिते अनुरूपे, पुरद्विषः त्रिपुरार: रुद्रख इति यावत , चूडाने केशाग्रे, विन्य- स्य निधाय, लब्धां सपादितां, तां तादृशी, कीर्ति यशः, अलब्ध खलु अवाप खलु । विषमायुधः तु पञ्चबाणः मन्मथः पुनः इति यावत् , अन्येषां इतरेषां, भूमामुनी राज्ञां, एतस्याः अस्याः दमयन्त्याः, समवाप्तये लाभाय, प्रणयितां विश्वस्तता अनुरागितां प्रार्थयितृत्व वा, संपाद्य उत्पाद्य, असदृशारंभापवाद. असदृशः अननुरूपः यः आरंभः उद्यमः तेन उत्पन्नं अपवाद अपयशः, ययौ प्राप ॥ वृत्तं पूर्ववत् ॥ ५७ ॥ .
१३८. सहदयानन्द - पौराणामिति वचनं निशम्य हुप्यन् प्रासादं निषषपतिः शनैर्जगाम | वैदाः परिणयमालाय भीमः संभारं रचयितुमुत्सुको बमूव ।। ५८ ॥ पौराणां इति ॥ निषधपतिः नलः, इति पूर्वोक्तप्रकारेण, पौराणां नागराणां पुरवासिनां इति यावत् , बचन वाक्यं, निशम्य आकर्ण्य, हृष्यन् सन्तुष्यन् सन् , शनैः कालक्रमेण, प्रासादं स्वस्मै निर्दिष्टं सौधं, जगाम ययौ । भीमः विदर्भराजश्च, वैदाः दमयन्त्याः, परिणयमङ्गलाय विकाहोत्सवनिर्वर्त- नाय इत्यर्थः, मंभारं सामग्री, रचयितुं सजीकर्तु, उत्सुकः तत्परः, बभूव अभ- वत् ॥ प्रहर्षिणी वृत्तम् ॥ तल्लक्षण तु-त्र्याशाभिर्मनजरगाः प्रहर्षीयम् ॥ . इति श्रीसान्धिविग्रहिकमहापात्रश्रीकृष्णानन्दकृती सहृदयानन्दे महाकाव्ये नलचरिते दमयन्तीस्वयंवरो नाम पञ्चमः सर्गः॥ SLE षष्ठः सर्गः। - - अथावरांधेषु विदर्भभूपते- वृतं कुमार्या निषधेश्वरं पतिम् । निवेदयन्त्यः परिवारसुभ्रवः समीहितादप्यधिकं प्रपेदिरे ॥ १ ॥ अथ इति ॥ अथ विवाहसम्भारसज्जीकरणानन्तरं, ज्जीकरणानन्तरं, परिवारसुध्रुवः पार- जनस्त्रियः, नल, विदर्भभूपते: भीमराजस्य, कुमार्या सुतया दमयन्त्या, पति भर्तारं पतित्वेन इत्यर्थः, वृतं अङ्गीकृत, अवरोधेषु अन्तःपुरस्त्रीषु, निवेदयन्त्यः आवेदयन्त्यः सत्यः, समीहितात् अपि अभिलषितात् वस्तुनः अपि, अधिक अतिरिक्त समान, प्रंदिरे लेभि । अम्मिन सर्गे प्रायः वंशस्थं वृत्तम् ॥१॥ नलेन सम्बन्धमुपाश्रितं नृपः कुलं स मेने सविशेषमुज्ज्वलम् । महार्णवं क्षीरमयं घनात्यये 'करण संस्पृष्टमिवामृतद्युतेः ।। २ ।। नलन इति ॥ स:. नृपः भीमराजः, नलेन निषधेश्वरण, सम्बन्धं अनु- बन्ध, उपाश्रितं प्राप्तं, कुल स्ववशं, घनात्यये वर्षाकालावसाने शरत्काले इत्यर्थः, अमृमयी युतिः यस्य तस्य अमृतयुतेः सुधांशोः चन्द्रस्य इति यावत् , करेण किरणेन, संस्पृष्ट परामृष्ट, क्षीरमयं दुग्धमयं, महार्णवं इव महोदाध इव दुग्धमहोदधि इव इत्यर्थः, सविशेषं सातिशयं, उज्ज्वलं प्रकाशमानं, मेने मन्यते स्म ॥२॥ प्रकामगुर्वीमपि संपदं नृप- स्तदा स मेनें नितरामणीयसीम् । . .
१४० सहृदयानन्दे नवं हि जामातरमर्चयिष्यतां समृद्धिभाजामपि शङ्कते मनः ॥ ३ ॥ प्रकामेति ॥ तदा तस्मिन् समये, सः, नृपः भीमराजः, प्रकामगुर्वी प्रकाम अत्यन्तं गुर्वी महती अपि, संपदं निजैश्वर्य, नितरां नितान्तं, अणीयसी अल्पायसी, मेने गणयामास । हि यस्मात् कारणात् , नवं नूतनं, जामातरं निजकन्याभर्तारं, अर्चयिष्यतां सत्करिष्यतां पूजयितुकामानां इत्यर्थः, समृद्धि- भाजां अपि संपन्नानां अपि महदेश्वर्यवतां अपि इति यावत् , मनः मानसं. शकते बिभेति ॥ ३ ॥ भविप्यतीयं महिषी महीपते- नलस्य लोकत्रयविश्रुतौजसः । विचिन्तयन्नित्थमपश्यदात्मजां स गौरवन्नेहकरम्बितं तदा ॥ ४ ॥ भविष्यतीति ॥ ' इय एषा मत्सुता दमयन्ती इत्यर्थः, लोकत्रयविश्रुती- जसः लोकानां त्रय लोकत्रयं लोकत्रय विश्रुतं ओजः यस्य तस्य त्रिभुवनविख्यात- पराक्रमस्य इत्यर्थः, नलस्य महीपतेः नलमहाराजस्य. महिषी भार्या राजपनी इति यावत् , भविष्यति । इत्थं एव, विचिन्तयन मन्वानः सन् , सः भीमः, तदा तस्मिन् समये, आत्मजां स्वतनयां दमयन्ती, गौरवस्नेहकरम्बितं गौरव बहुमानः स्नेहः प्रीतिः वात्मल्य इति यावम ताभ्यां करम्बित मिश्रित यथा तथा, अपश्यत् अद्राक्षीत् ॥ ४ ॥ पुरोहितेनाथ समं द्विजातिभि- विवाहलग्ने विनिवेदिते शुभे । दमस्वसुमाङ्गलिकेषु कर्मसु न्ययोजयद्वन्धुवधूजनं नृपः ॥ ५ ॥ पुरोहितेनेति ॥ अथ अनन्तरं, द्विजातिभिः समं द्विजैः सह, पुरोहितेन पुरोधसा, शुभे मङ्गले अतिप्रशस्ते इति यावत् , विवाहलमे उद्वाहमुहूर्ते, विनि- वेदिते विज्ञापिते सति, नृपः भीमराजः, दमस्वसुः दमभगिन्याः दमयन्त्याः,
षष्ठः सर्गः।
१४१
माङ्गलिकेषु मङ्गलं प्रयोजनं एषां तानि माङ्गलिकानि तेषु मङ्गलाबहेषु इत्यर्थः,
कर्मसु बिवाहकार्येषु इत्यर्थः, बन्धुवधूजनं बान्धवस्त्रीजनं, न्ययोजयत् प्रेरयामास ॥
गृहे गृहे न्यस्तनवीनतोरणा
पढ़े पदेऽलंकृतराजपद्धतिः।
मुहुर्मुहुर्मूच्छिततूर्यनिस्वना
श्रियं ययौ कामपि मा पुरी तदा ॥६॥
गृहे गृहे इति ॥ तदा तस्मिन् समये, गृहे गृहे प्रतिगृह, न्यत्तनवीन-
तोरणा न्यस्तीनि विर्गचतानि नवीनानि नूतनानि तोरणानि बहिराणि यस्यां
मा तथाभूता, पद पदे प्रतिपद, अलङ्कृतराजपद्धतिः अलडकृता परिष्कृता
राजपद्धतिः राजमार्गः यस्याः सा तादृशी, मुहुः मुहुः पुनः पुनः, मूञ्छिततूर्यनिस्वना
मूर्च्छितः प्रवृद्धः तूर्याणां भेरीणां निस्वनः शब्दः यस्यां सा तथाभूता, सा, पुरी
विदर्भानगरी, कामपि अनिर्वचनीयां, श्रिय शोभां, यया प्राप ॥ ६ ॥
ततः कुलाचारविदा पुरोधसा
कृताधिवासां तनयां महीपतेः।
विधाय सङ्गीतकमङ्गलं स्त्रियः
समेत्य तामस्नपयन्यथाविधि ॥ ७॥.
ततः इति ॥ ततः तदनन्तर, कुलाचारविदा कुलसप्रदायज्ञेन, पुरोधसा
पुरोहितेन, कृताधिवासां गन्धमाल्याद्यः कृतसस्कागं इत्यर्थः (“ सस्कारो गन्ध-
माल्यायैः यः स्यात्तदधिवामनम् । ' इत्यमरः), महीपतेः भीमराजस्य, सुतां
तनयां दमयन्ती, स्त्रियः नार्यः, समेत्य आमाद्य, सातकमङ्गल गानरूप मङ्गल
मङ्गलावह गान, इत्यर्थः, विधाय कृत्वा, तां दमयन्ती, यथाविधि विधि अनति-
क्रम्य विधिवत् इति यावत् , अनपयन् नापयामासुः ॥ ७ ॥
निसर्गतः काञ्चनयष्टिसच्छवि-
वितन्वती नानविधि नृपात्मजा ।
नवेन काश्मीररसेन रञ्जिता
न्यवेदि सौरभ्यभरैर्न तु श्रिया ॥ ८॥
१४२ सहृदयानन्द . निसर्गतः इति ॥ निसर्गतः स्वभावतः एव, काचनयष्टिसच्छविः कनकलतासमानकान्तिः, मानविधि स्नानक्रियां. वितन्वती कुर्वती, नृपात्मजा भीमराजतनया दमयन्ती, नबेन प्रत्यप्रेण नूतनेन इति यावत् , काश्मीररसेन कुङ्कुमद्रवेण, रजिता अनुलिप्ता सती, सौरभ्यभरैः काश्मीररसपरिमलातिशयैः एव, न्यवेदि इयं काश्मीररसरजिता इति संसूचिता आसीत् ; श्रिया काश्मीर- रसकान्त्या तु, न (न्यवेदि)। (निसर्गतः तदास्य काश्चनयष्टिसच्छायत्वात् इति भावः)॥ ८॥ ततोऽङ्गनाः क्षौमसमावृतैः करै- र्यथा यथाम्भःपृषतान्यमार्जयन् । तथा तथास्याः परिणाहशालिनी बभूव लावण्यमयी तरङ्गिणी.॥९॥ ततः इति ॥ ततः तदनन्तरं, अङ्गनाः स्त्रियः, क्षौमसमावृतैः क्षोमण दुकूलेन समावृतैः आच्छादितैः, करैः हस्तैः, अम्भःपृषतानि दमयन्तीशरीरस्थान् जलबिन्दून् , यथा यथा येन येन प्रकारेण, अमार्जयन् अपौहयन् इत्यर्थः; तथा तथा तेन तेन प्रकारेण, अस्याः एतस्याः दमयन्त्याः, लावण्यमयी सौन्दर्यरूपा ( 'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदोषु तल्लावण्यामि- होच्यते') तरङ्गिणी नदी, परिणाहशालिनी विस्तारशालिनी, बभूव ॥ ९ ॥ विडम्बयन्ती कनकं तनुश्रिया स्मितेन मुक्तामधरेण विद्रुमम् । कराङ्गुलीभिः कुरुविन्दमञ्जरी बभूव भूषान्तरनिस्स्पृहेव सा ॥ १० ॥ विडम्बयन्ती इति ॥ सा दमयन्ती, तनुश्रिया शरीरशोभया, कनक खणे, स्मितेन मन्दहासेन, मुक्कां मौक्तिकमाणि, अधरेण ओष्ठेन, विद्रुमं प्रवालं, कराडलीभिः करशाखाभि , कुरुविन्दमजरी तदाख्यपुष्पस्तबकं च पद्मरागमणि- संघातं च वा विडम्बयन्ती परिहसन्ती अतिशयाना सती इत्यर्थः, (अतः एव), भूषान्तरनिस्वाहा इव अन्याः भूषाः भूषान्तराणि आभरणान्तराणि तेषु निस्स्टाइन निरभिलाषा इव, बभूव ॥१०॥ , षष्ठः सर्गः। १४३ 4 अनन्तरं स्नानविधेर्नृपात्मजा पिनबालार्कनिभांशुका बभौ । घनाम्बुवर्षेण कृताभिषेचना लतेव नीरन्ध्रमुदीर्णपल्लवा ॥ ११ ॥ अनन्तरं इति ॥ नृपात्मजा भीमराजतनया दमयन्ती, स्नानविधः अभिषेककृत्यात् , अनन्तरं परं, पिनद्धबालार्कनिभांशुका पिनद्धं आच्छादित धारित इति यावत् बालार्कनिभं बालसूर्यसदृशं अशुकं यस्याः सा तादृशी सती, धनाम्बुवर्षेण मेघजलवृष्टया यद्वा घनं सान्द्रं यत् अम्बुवर्षे जलवृष्टिः नेन, कृता- भिषेचना कृतं अभिषेचनं यया सा विहितासेचना, नीरन्ध्र अविरलं यथा तथा, उदीर्णपल्लवा उद्गनकिसलया, लता इव वल्ली इव, बभौ शुशुभे ॥ ११ ॥ रराज कालागरुधूपलिप्सया विधुन्वती कुन्तलभारमायतम् । हिरण्मयी मन्मथकेतुयष्टिका मरुञ्चलनीलनिचोलिकेव सा ॥ १२ ॥ रराजेति ॥ सा दमयन्ता, कालागरुधूपलि'सया कालागरूणां यः धूपः परिमलधूमः तस्य लिप्सा (लब्धु इच्छा) ईप्सा तया हेतुना, आयत अतिदीघ, कुन्तलभारं कचभार, विधुन्वती चालयन्ती सती, मरुञ्चलनील- निचोलिका मरुता वायुना चलन्ती नीला श्यामवणी निचोलिका ध्वजपटः यस्याः सा तादृशी, हिरण्मयी स्वर्णमयी, मन्मथकतुष्टिका इव मन्मथस्य मदनस्य केतुयष्टिका इव ध्वजदण्डः इव, रराज बभौ ॥ १२ ॥ विनिर्मिमाणा करयोर्युगेन सा मनोभिरामां कबरी कृशोदरी । करम्ब्यमाणां करजांशुभिर्निजे- रयत्नमेनां विदधे सगर्भकाम् ॥ १३ ॥ विनिर्मिमाणा इति ॥ मनोभिरामां मनोज्ञा अतिरमणीयां इति यावत् , कबरी स्वकेशपाश, करयोः पाण्योः, युगेन युगलेन, विनिर्मिमाणा रचयन्ती ..
१४४ सहृदयानन्दे , परिष्कुर्वती इति यावत् , कृशोदरी तनुमण्या, सा दमयन्ती, निमः स्वीयैः, करजांशुभिः करजानां अकुलीनां अंशुभिः कान्तिभिः, करम्ब्यमाणां व्याप्तां, एतादृशी कबरी, अयत्न नियत्न यथा तथा यत्न विनैव इत्यर्थः, सगर्भकां गर्भकण माल्येन सहिता तां ताशी धृतपुष्पमालां इत्यर्थः, विदधे चके ॥ १३ ॥ खभावनः कोकनदानुकारिणी प्रसाधयन्त्यश्वग्णौ दमस्वसुः । अलक्तकं वीक्ष्य जिनं तयोः श्रिया क्षणं प्रपन्नाः करणीयमुग्धताम् ॥ १४ ॥ स्वभावतः इति ॥ स्वभावतः निसर्गात् एव, कोकनदानुकारिणी रक्तोत्पलसदृशी, दमस्वसुः दमयन्त्याः, चरणी पादी, प्रमाधयन्त्यः अलक्तकरसेन अलङ्कुर्वत्यः स्त्रियः, अलक्तक लाक्षारम, तयोः दमयन्तीचरणयोः, श्रिया शो भया, जित अभिभूत अतिर्शायत इत्यर्थः. वीक्ष्य दृष्ट्वा, क्षण क्षणकाल, करणीय मुग्धतां करणीये कर्तव्ये मुग्धता मूढतां, प्रपन्ना प्राप्ता. किंकर्तव्यतामूढा जाताः इत्यर्थः ॥ १४ ॥ चकार कालाञ्जनलेग्वयाश्चिते विलोचने यत्पृथिवीन्द्रनन्दिनी । ततस्तयोः श्रीरवतंसताजुषो- निरास नीलाम्बुजयोस्तुलाकथाम् ॥ १५ ॥ चकारेति ॥ यत् यतः इत्यर्थ. यस्मात् कारणात् , पृथिवीन्द्रनन्दिनी भीमराजसुता दमयन्ती, विलोचने वनयने, कालाञ्जनलेखया काल कृष्ण यत् अञ्जन कजल तस्य लेखा रेखा तया, अञ्चिते युक्ते अलइकृते इत्यर्थः । चकार विदधे : ततः तस्मात् कारणात् , तयोः विलोचनयोः, श्रीः शोभा, अवतंसता- जुषोः शेखरत्वं प्राप्तयो , नीलाम्बुजयोः नीलोत्पलयोः, तुलाकथां सादृश्या, निरास दूरीचकार ॥ १५ ॥ चकार कस्तूरिकया सकौतुकं वधूमुखे यत्तिलकं प्रसाधिका।
जिमाय तत्कान्तिविशेषसंपदा मधुव्रतं निचलमम्बुजे स्थितम् ॥ १६ ॥ चकारेति ॥ प्रसाधिका दमयन्त्याः भूषणाचलकारकारिणी बी, वधूमुखे वध्वाः नववध्वाः दमयन्त्याः मुखे बदने ललाटे इत्यर्थः, सकौतुकं सौत्सुक्यं यथा तथा, कस्तूरिकया मृगमदेन, यत् , तिलकं विशेषकं, चकार कृतवती; तत् तिलक, कान्तिविशेषसम्पदा विशेषशोभासमृध्या, अम्बुजे पने, निश्चलं निवेष्टं यथा तथा, स्थितं लग्नं, मधुव्रतं भ्रमरं, जिगाय अतिशिश्ये इत्यर्थः ॥ १६ ॥ तत कुमारी मुकुरेऽनुविम्बित विलोकयामास सकृत्रिंज मुखम् । मुहुर्मुहुः प्रैक्षत नैषधं तु सा 'निवेशितं चेतसि मन्मथेषुभिः ॥ १७ ॥ ततः इति ॥ ततः अलङ्करणानन्तरं, कुमारी भीमराजतनया, सा दम- यन्ती, मुकुरे दर्पणे, अनुबिम्बितं प्रतिफलितं, निजं स्वकीयं, मुखं वदनं, सकृत एकवारं एव, विलोकयामास निरीक्षाञ्चके । मन्मथेषुभिः मदनबाणैः, चेतसि निजहृदि, निवेशितं निहितं, नैषधं तु नलं पुनः, मुहुः मुहुः पुनः पुनः, प्रेक्षत अवलोकयामास ॥ • बधू- सर्वाङ्करमाकाम करेण यत्कौतुकसूत्रमग्रहीत् । हरिन्मणीनां किरणैर्विराजता तुलां दधे काञ्चनकङ्कणेन तत् ॥ १८ ॥ वधूः इति ॥ वधूः नववधूः दमयन्ती, सदूर्वाकुर दूर्वाख्यतृणविशेष- प्ररोहतहितं, (तथा), आईकुटुमं आट्टै सार्द्र कुङ्कुमं धुसृणं यस्मिन् तत् तादृशं, यत् , कौतुकसूत्रं मालतन्तुं, करेण हस्तेन, अग्रहीत् अधारयत्, तत् कौतुकसूत्र, हरिन्मगीनां इन्द्रनीलमणीना, किरणैः अंशुभिः, विराजता प्रकाशमानेन, नकाणेन स्वर्णमयवलयेन, तुला उपमा, दधे प्राप ॥ १८ ॥ 13 १४६ सहृदयानन्दे वधूर्विवाहोचितवेषपेशल प्रसाधिता कौतुकसूत्रधारिणी। अमन्यतान्तःपुरसुन्दरीजनै- रुपस्थिता मङ्गलदेवतेव सा ॥ १९ ॥ वधूः इति ॥ विवाहोचितवेषपेशलं विवाहाय उद्वाहाय उचितः अनुरूपः यः वेषः नेपथ्यं तेन पेशलं मनोहरं यथा तथा, प्रसाधिता अलंकृता, कौतुकसूत्र- धारिणी धृतमङ्गलप्रतिसरा, सा, वधूः दमयन्ती, अन्त:पुरसुन्दरीजनैः अन्त:- पुरे अवरोधे विद्यमानाः ये सुन्दरीजनाः रमणीजनाः तैः (कर्तृभिः), उपस्थिता सन्निहिता मूर्तिमती इत्यर्थः, मङ्गलदेवता इव माङ्गल्याधिष्टातृदेवी इव, अमन्यत संभाव्यते स्म ॥ १९॥ अथ प्रयुक्तं निपुणैः प्रसाधक- नलोऽपि यं वषविशेषमग्रहीत् । अवर्धयत्तस्य स कान्तिसंपदं तुषारभानोः शरदेव सङ्गमः ॥ २० ॥ अथ इति ॥ अथ अनन्तरं, नल: अपि, निपुणैः प्रसाधनविधिकुशले: प्रसाधकैः अलंकर्तृभिः सेवकै., प्रयुक्त रचित, य, वविशष नेपथ्यविशेष, अग्र- हीत् स्वीचकार : सः वेषविशेषः , तुषारभानोः शीतकिरणस्य चन्द्रस्य इति यावत् ,शरदा शरत्कालेन, सगम. इव सयोगः इव, तस्य नलस्य, कान्तिसपद शोभातिशयं, अवर्धयत् वर्धयामास ॥ २० ॥ निसर्गतो यस्तनुरूपसंपदा बभूव लोकस्य विलोचनोत्सवः । दमवसुः पाणिपरिग्रहोचिता प्रसाधनश्रीः किमिवास्य वर्ण्यते ॥ २१ ॥ निसर्गतः इति ॥ यः नलः, निसर्गतः खभावात् एव, तनुरूपसपदा शरीरसौन्दर्यातिशयेन, लोकस्य सकलजनस्यापि, विलोचनोत्सवः नेत्रानन्दकरः इत्मः, बभूव आसीत् : अस्य एतादृशस्य नलस्य (संबन्धिनी), दमखसुः
षष्ठः सर्गः।
१४७
,
दमयन्त्याः, पाणिपरिग्रहोचिता पाणिपरिग्रहाय विवाहाय इत्यर्थः उचिता अनुरूपा,
प्रसाधनश्रीः अलंकारशाभा, किमिव कथं ना, वर्ण्यते प्रशस्यते ॥ २१ ॥
ततो विदर्भाधिपतेः प्रशासना-
दमात्यमुख्याः सदसि स्थितं नलम् ।
विभो प्रभुनः सहितः सहजनैः
प्रतीक्षते त्वामिति सन्न्यवेदयन् २२ ॥
ततः इति ॥ ततः तदनन्तरं, विदर्भाधिपतेः भीमराजस्य, प्रशासनात्
आज्ञया इत्यर्थः, अमात्यमुख्याः भीमस्य मुख्यसचिवाः, सदसि सभायां, स्थित
निषण्णं, नलं प्रति, 'विभो हे नलमहाराज, न: अस्माकं, प्रभुः राजा, सुहृद्भिः
स्निग्धैः, सहितः उपेतः सन , त्वां भवन्तं, प्रतीक्षते दमयन्तीपाणिग्रहणाय
प्रतिपालयति ।' इति एवं, सन्न्यवेदयन् निवेदयामासुः विज्ञापयामासुः इति
यावत् ॥ २२ ॥
अथायमासन्नसमीहितोदयः
पुरोधसा संभृतमङ्गलक्रियः।
समन्ततो बन्धुजनैः समावृतः
प्रभुर्विदर्भाधिपतेहं ययौ ॥ २३ ॥ .
अथेति ॥ आसनसमाहितादयः आसन्नः संनिकृष्टः आसन्नवी इति
यावत् साहितोदयः मनोरथप्राप्तिः यस्य सः तथाभूतः. पुरोधसा पुरोहितेन,
मंभृतमङ्गलक्रियः संभृता संपादिता सज्जीकृता इति यावत् मङ्गलक्रिया विवाह-
मङ्गलविधिः यस्य सः तादृशः, अयं असो, प्रभुः नलमहाराजः, समन्ततः सर्वतः,
वन्धुजनैः बान्धनसमूहैः, समावृतः परिवृतः सन् , विदर्भाधिपतेः भीमराजस्य,
गृहं मन्दिरं, ययौ प्राप ॥ २३ ॥
सलीलमारुह्य मतङ्गजं नलः
स्वदेहलीमेव न यावदत्यगात् ।
अमुष्य तावत्पृतनाग्रसारणी
विदर्भराजस्य गृहानपूरयत् ॥ २४ ॥
१५८ सहद्दवानन्द - सलीलमिति ॥ नलः, सलील सविलासयमा तया, मला गज, भारु भास्थाय, यावत् याचता कालेन, स्वदेहली एव निजगृहद्वारदेशं एवं इत्यर्थः, अत्यगात् अतिचकाम ; तावत् तावता कालेन, अमुष्य अस्य नलस्य, पृतनाप्रसारणी पृतनायाः सेनायाः अग्रं अप्रभाग: सेनामुखं इत्यर्थः तत् एव सारणी नदी, विदर्भराजस्य मीमराजस्य, गृहान् मन्दिर, अपूरयत् पूरयामास (नलगृहद्वारात् आरभ्य भीमगृहपर्यन्तं व्याप्य नलसेना स्थिता; अतः अपरि- मिता नलसेना इति भावः) ॥ २४ ॥ विलोकमानाः पथि नैषधं जनाः परस्परं पीडितदेहयष्टयः। अशक्नुवन्तश्चलितुं पदात्पदं हृदा च दृग्भ्यां च परं तमन्वयुः ॥ २५ ॥ विलोकमानाः इति ॥ पथि राजमार्ग, नैषधं नलं, विलोकमानाः निरीक्षमाणाः, जनाः विदर्भनगरवासिनः जननिवहाः, परस्परं अन्योन्यं, पीडित- देहयष्टयः पीडिता जनसमर्दैन संघट्टिता देहयष्टिः शरीरयष्टिः यष्टिसदृशशरीर इत्यर्थः येषां ते तथाभूताः सन्तः, पदात् पदं एक पदमपि इति अर्थः, चलितु गन्तुं, अशक्नुवन्तः असमर्थाः सन्तः, हृदा मनसा, दृग्भ्यां च पर नेत्राभ्यां च केवलं, तं नलं, अन्वयुः अनुजग्मुः ॥ २५ ॥ स्तनैनितम्बैश्च नितान्तपीवरै- निवार्यमाणेषु समीपवर्तिषु । न मध्यभागे तनुमध्यमाः परं निपीडिताः पौरजनाहते पथि ॥ २६ ॥ स्तनैः इति ॥ तनु मध्यमं अवलनं यासां ताः तनुमध्यमाः कृशोदः, पौरजनावृते पौरजनैः पुरवासिजनैः आवृते संकुले, पथि राजमार्गे, नितान्तपी- नितान्तं अत्यन्तं पीवरैः पीनैः बृहद्भिः इति यावत् , स्वनैः कुचैः, नितम्बः श्रोणीभिश्च, समीपवर्तिषु खसमीपस्थितेषु जनेषु, निवार्यमाणेषु निरुध्यमानेषु सत्सु, मध्यभागे परं मध्यदेशे एव केवलं, (मध्यमागस्य अतिकृशत्वात् इत्यर्थः), निपीडिताः संमृदितः, न (अभवन् ) ॥ २६ ॥ .
बहः सर्गः। १४९ नरेश्वरे गच्छति राजवर्त्मना वपुःश्रियावर्जितविश्वलोचन । इति व्यचेष्टन्त मनोभवाज्ञया निरस्तनारीसुलभत्रपाः स्त्रियः ॥ २७ ॥ नरेश्वरे इति ॥ वपुषः श्रीः तया वपुःश्रिया शरीरशोभया, आवर्जित विश्वलोचने आवर्जितानि आकृष्टानि विश्वेषां सर्वेषां लोचनानि येन तस्मिन् तथाभूते, नरेश्वरे नलमहाराजे, राजवर्त्मना राजमार्गेण, गच्छति याति सति, स्त्रियः तत्रस्थाः नार्यः, मनोभवाझया मनोभवस्य मन्मथस्य आज्ञया शासनेन, निरस्तनारीसुलभत्रपाः निरस्ता त्यक्ता नारीणां स्त्रीणां सुलभा सुप्रापा योग्या इत्यर्थः त्रपा लज्जा याभिः ताः तथाभूताः सत्यः, इति वक्ष्यमाणप्रकारेण, व्यचे. टन्त समाचरन् इत्यर्थः ॥ २७ ॥ पथि प्रयान्तं निषधेन्द्रमीक्षितुं समुत्सुका दृष्टिमधःप्रसारिणीम् । तिरोदधत्तुमरोजयोयुग निनिन्द काचिद्वलभीगता वधूः ॥ २८ ॥ पथि इति ॥ पथि राजमार्गे, प्रयान्तं गच्छन्तं, निषधेन्द्रं नलमहाराज, ईक्षितुं द्रष्टुं, समुत्सुका सोत्कण्ठा, (अतः एव), वलभीगता वलभी गोपानर्स 'गोपानसी तु बलभी च्छादने वक्रदारुणि' इत्यमरः, गता प्राप्ता, काचित् काचन, वधूः नारी, अधःप्रसारिणी अधः अधस्तात् प्रसारिणीं प्रसरन्ती, दृष्टिं स्वदर्शनं, तिरोदधत् गृहत् , तुझं अत्युत्रतं, उरोजयोः स्तनयोः, युगं द्वन्द्वं, निनिन्द उपालेभे निन्दितवती इत्यर्थः ॥ २८॥ सह स्थिता जीवितबन्धुना परा निरीक्षितुं निर्भरमक्षमा नलम् । तदीयदेहमतिमाङ्कितं निर्ज मुहुर्मुहुः प्रेक्षत रनकरणम् ॥ २९ ॥ सह इति ॥ जीवितबन्भुना सह निजत्राणेश्वरेण सह भर्ना सह इति .
१५० सहृदयानन्दे G यावत् , स्थिता वर्तमाना इत्यर्थः, (अतः एव), नल, निर्भरं नितान्तं स्वैरं इति यावत् , निरीक्षितुं द्रष्टुं, अक्षमा असमर्था, परा ( अपरा वा) अन्या काचित् वधूः, तदीयदेहप्रतिमाङ्कितं तदीयस्य नलसबन्धिनः देहस्य शरीरस्य प्रतिमया प्रतिबिम्बेन अङ्कित चिह्नित, निजं स्वकीय, रत्नकङ्कणं मणिवलय, मुहुः मुहुः शश्वत् , प्रेक्षत निरीक्षाञ्चके ॥ २९ ॥ नलस्य कान्त्या हृतमानसापरा वधूर्विधित्सुर्मकरी कपोलयोः। तमेव शश्वल्लिखती ससंभ्रमं सखीजनैः पार्श्वगतैय॑षिध्यत ॥ ३० ॥ नलस्य इति ॥ कपोलयोः गण्डस्थलयोः, मकरी मकरिकापत्ररचनां इत्यर्थः, विधित्सुः विधातु इच्छु चिकर्षिन्ती इत्यर्थः, अपरा अन्या, वधूः स्त्री, नलख निपधेश्वरस्य, कान्त्या शरीरशोभया, हृतमानमा अपहृतचित्ता सती त एव नलं एव, शश्वत् पुनः पुनः, लिखता रचयन्ती सती, पार्श्वगतैः समी- पवर्तिभिः, सीजनैः आलीजनैः, ससभ्रम सभ्रमेण सहित यथा तथा, न्यषि- ध्यत न्यवार्यत ॥३०॥ कयापि मुग्धाङ्गनया नरेश्वरे प्रथाति वातायनसंमुखात्पथः । अपाङ्गयोरुत्पलपत्रदीर्घयो- रशिक्षि तिर्यक्चलनेषु चातुरी ॥ ३१ ॥ कयापि इति ॥ नरेश्वरे नलमहाराजे, वातायनसंमुखात् गवाक्षाभि- मुखात् , पथः राजमार्गात् , प्रयाति गच्छति सति, कयापि कयाचित् , मुग्धा- गनया सुन्दरस्त्रिया, उत्पलपत्रदीर्घयोः नीलोत्पलदलवत् आयतयोः, अपाङ्गयोः कटाक्षयोः, तिर्यक्चलनेषु तिरश्चीन भ्रमणेषु, चातुरी चातुर्य नैपुणी इति यावत् , अशिक्षि अभ्यस्यते स्म ॥ ३१ ॥ मृगेक्षणा काचन भावनावशा- द्विलोकयन्ती निषधेश्वरं पुरः।
षष्ठः सर्गः । १५१ . गतेऽपि तस्मिन्परिलाय दृक्पथं चिराय नैव स्वगृहं न्यवर्तत ॥ ३२ ॥ मृगेक्षणा इति ॥ काचन काचित् , मृगक्षणा हरिणलोचना, भावना- वशात् कल्पनावशात् अनवरततत्स्मरणवशात् हेतोः इत्यर्थः, निषधेश्वरं नल, पुरः पुरतः खाग्रतः इति यावत् , विलोकयन्ती सदैव पश्यन्ती सती, तस्मिन् नले, दृश्पथं नयनमार्ग, परिलक्ष्य अतीत्य, गते अपि याते सत्यपि, चिराय सुचिरं, खगृहं निजमन्दिरं प्रति, नैव न्यवर्तत नैव प्रत्याजगाम ॥ ३२ ॥ वभूदृशौ रञ्जयितुं समुत्सुका निवेश्य कालाञ्जनमङ्गुलीमुखे । त्वरावशात्तत् परिलिप्य गण्डयो- बहिर्गता कापि जनानहासयत् ॥ ३३ ॥ वधूः इति ॥ दृशौ नयने, रजयितुं अलंकर्तु, समुत्सुका तत्परा, कापि काचित् , वधूः नारी, कालान्ञ्जनं नीलकजलं, अङ्गुलीमुखे अगुल्याः करशाखायाः मुखे अग्रे, निवेश्य निक्षिप्य, त्वगवशात् नर्लानरीक्षणसंभ्रमवशात् हेतोः, तत् कालाअनं, गण्डयाः कपालयाः, परिलिप्य अनुलिप्य, बहिः गृहबहिर्भाग, गता याता सती, जनान् लोकान् , अहासयत् परिहामयामाग ॥ ३३ ॥ • ततः सुधालेपसितं निवेशनं विवेश भीमस्य नलः सुहृवृतः। ग्रहैः समन्तादुदितरनुदुत- •स्तुषारधामेव शरदूलाहकम् ॥ ३४ ॥ ततः इति ॥ ततः तदनन्तरं, नल:, सुहद्वृतः सुहृद्भिः स्निग्धजनैः वृतः परितः सम् , सुधालेपसितं सुधालेपेन चूर्णलेपेन मितं धवलं, भीमस्य विदर्भाधि- पतेः, निवेशनं गृहं, समन्तात् अभितः, उदितैः आविर्भूतैः, प्रहैः अङ्गारकादि- ग्रहः, अनुद्वतः अनुगतः, तुषारधामा चन्द्रः, शरदूलाहकं इव शरत्कालमेघं इव, विवेश प्राविशत् ॥ ३४॥ .
१५२ सइदयानन्द अथापयन्तुः प्रणयामहवप ननाम कन्या गिरिजां गुरोगिरा। प्रसाध तामेव भृशं समश्नुते वधूननः श्लाघ्यगुणोऽपि काङ्गितम् ॥ ३५ ॥ अथेति ॥ अथ अनन्तरं, कन्या कुमारी दमयन्ती, गुरोः पितुः भीमस्थ (पुरोहितस्य वा), गिरा वचनेन, उपयन्तुः परिणेतुः भर्तुः इति यावत् , भिवृद्धये अनुरागाभिवृद्ध्यर्थे, गिरिजां गौरी, ननाम ववन्दे । (यत.), श्लाघ्यगुणः अपि उत्कृष्टगुणः सत्रपि, वधूजनः नववध्वः इत्यर्थः, तां एव पार्वतीदेवी एव, प्रसाद्य प्रसन्नां कृत्वा, काक्षित अभीप्सित, भृश अधिक, समश्नुते सम- । प्रणया- वाप्नोति ॥ ३५ ॥ कुलाङ्गनानामभजद्विधेयता नलस्तदा माङ्गलिकेषु नर्मसु । सता समाचारमवारितं श्रुतो श्रुतं प्रपन्ना अपि नोज्झितुं क्षमाः ॥ ३६ ॥ कुलाङ्गनानामिति ॥ तदा तस्मिन् समये, नलः, मङ्गलाय हितानि माङ्गलिकानि तेषु माङ्गलिकेषु मङ्गलावहेषु, नर्मसु परिहासोक्तिषु विपये (कर्मसु इति पाठान्तर), 'कुलाङ्गनानां कुलस्त्रीणा, विधयतां परतन्त्रता, अभजत् प्राप । (यतः), श्रुतं शास्त्रज्ञानं, प्रपन्नाः अपि अधिगता: अपि, श्रुती वेदे, अवारित अप्रतिषिद्धं, सतां साधूनां, समाचार समुदाचार, उज्झितु परित्यक्तु, क्षमाः शक्ताः, न (भवन्ति)॥ ३६॥ ततो गतः कौतुकवेदिकान्तरं विदर्भराजेन नलः कृतार्चनः । समाहितान्तःकरणं समादधे : हुताशनं तत्र विवाहसाक्षिणम् ॥ ३७॥ ततः इति ॥ ततः तदनन्तरं, कोतुकवेदिकान्तरं कौतुकार्य विवाह मालमत्या वेदिका परिष्कृता भूमिः विवाहबंदिः तस्याः अन्तरं मध्यप्रदेश, षष्ठः सर्गः। . गतः प्राप्तः, नलः, विदर्मराजेन भीमेन, कृतार्थनः कृता विहिता अर्चना पूजा यस्मै सः तादृशः सन् , तत्र कौतुकवेदिकायां, समाहितान्तःकरणं सावधानचित्तं यषा तथा, विवाहसाक्षिणं विहाहस्य उद्वाहस्य साक्षिणं साक्षात् द्रष्टार, हुता; शनं अमिं, समादधे जुहाव होमादिना अप्रीणयत् इत्यर्थः ॥ ३७॥ नलस्य पाणौ विधिवद्वधूकरं विधाय यावत्र ददौ जलं गुरुः । परस्परस्पर्शवशात्तदैव तौ बभूवतुः स्वेदजलैः परिप्लुतौ ॥ ३८ ॥ नलस्य इति ॥ गुरुः दमयन्तीपिता भीमः, वधूकरं वध्वाः नवोढायाः दमयन्त्याः करं पाणि, नलस्य, पाणौ हस्ते, विधिवत् यथाविधि, विधाय निक्षिप्य, यावत् यावता कालेन, जलं दानजलं, ददौ प्रायच्छत् ; तदैव तावता कालेन एव, तौ दमयन्तीनलौ, परस्परस्पर्शवशात् अन्योन्यस्पर्शवशात् हेतोः, स्वेदजलैः धर्मोदकैः, परिप्लुतौ परिक्लिन्नौ आद्रौं इति यावत् , बभूवतुः ॥ ३८ ॥ ततो नलस्य प्रतिपादितः करे विदर्भराजेन दमस्वसुः करः। निनिन्द कान्त्या नितरां मनोज्ञया नभस्वनावर्जितमम्बुजेऽम्बुजम् ॥३९॥ ततः इति ॥ ततः तदनन्तरं, विदर्भराजेन भीमेन, नलस्य, करे पाणौ, प्रतिपादितः अर्पितः, दमस्वसुः दमयन्त्याः, करः पाणिः, नितरां भृशं, मनोज्ञया रमणायया, कान्त्या शोभया हेतुना, नभखता वायुना, अम्बुजे पद्म, आवर्जितं संश्लेषितं, अम्बुज प , निनिन्द परिहति स्म अतिशिश्ये इत्यर्थः । हुताशनस्तावुपशिक्षयनिव प्रदक्षिणप्रक्रमणं वधूवरौ। भृशं तथैवाभ्रमयन्मुहुर्मुहु- निजां शिखां लाजहविर्भिरर्चितः ॥ ४० ॥ हुताशन इति ॥ हुताशनः अमिः, लाजहविभिः लाजैः हविर्मिय १५४ सहृदयानन्दे लाजरूपैः हविभिचा, अर्चितः पूजितः सन , तौ, गपूरी दमयन्तीनलौ, प्रद- क्षिणप्रक्रमणं प्रदक्षिणप्रकार, उपशिक्षयन् इव उपदिशन् इव, निज स्वीयां, शिखां ज्वाला. मुहु. मुहुः शश्वत् , तथैव प्रदक्षिणं एव, भृशं नितरी, अभ्रम- यत् परिभ्रमयामास ॥४०॥ वधूर्विवाहानलघूमविक्लबा निमीलयन्ती क्षणमीक्षणद्वयम् । चकार कर्णार्पितयोरयत्नतः सपत्नशून्यामसिताब्जयोः श्रियम् ॥ ४१॥ वधूरिति ॥ विवाहानलधूमविक्लबा विवाहार्थ पाणिग्रहणार्थ यः अनल: अग्निः तस्य धूमेन विक्लबा विह्वला पीडिता इत्यर्थः, वधूः नवोढा दमयन्ती, ईक्षणद्वय नयनयुगल, निमीलयन्ती मुकुलयन्ती सती, कर्णार्पितयोः कर्णयोः श्रोत्रयोः अर्पितयोः निवेशितयोः, असिताब्जयोः नीलोत्पलयोः, श्रियं शोभां, क्षण किञ्चित्कालं, अयत्नतः यत्न विनैव, मपत्नशन्यां निस्सपत्नां शत्ररहितां इति यावत् , चकार विदधे ॥ ४१ ॥ नरेश्वरे सप्तपदीविधिन्सया करेण भैम्याश्चरणं जिघृक्षति । निरीक्ष्य साकूततरङ्गितेक्षणं सखीजनं नम्रमुखी बभूव सा ।। ४२ ।। इति ॥ नरेश्वर नलमहाराजे, सप्तपदीविधिन्सया सप्तानां पदानां बारः सप्तपदी विधाधु इच्छा विधित्सा सप्तपद्याः विधित्सा तया वि. वाहाङ्गभूतसप्तपदीनयनाख्यविधिचिकीर्षया, करेण स्वपाणिना, भैम्याः दमयन्त्याः, चरण पाद, जिघृक्षति ग्रहीतुं इन्छति सति, सा दमयन्ती, सखीजन स्ववयस्था. 'समूह, साकूततरङ्गिनेक्षणं साकूत साभिप्राय यथा तथा तरङ्गिते घूर्णिते ईक्ष नयने यस्य तं तथाभूत निरीक्ष्य अवलोक्य, नम्रमुखी अन्नतवदद बभूव ॥ ४२ ॥ ततः कुमारी गुरुणाभ्युदीरिता मनाक्षी ध्रुवमैक्षताम्बरे। . , . ANA
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.