Bharti Bhawan Library Allahabad

Prabandhprakasha

Shrimandaldev Shastri

PDF Proofread

Front matter

प्रबन्धप्रकाशः अर्थात् संस्कृतनिबन्धरचनापक्रियायाः प्रतिपादकः, संस्कृतनिबन्धानामुपयोगिसुभाषितानां च संग्रहात्मको ग्रन्थः एम० ए०, डी० फ़िल० ( अॉक्सफ़ोर्ड) इत्याद्युपाधियुक्तेन; 'तुलनात्मकभाषाशास्त्र प्रभृतिग्रन्थनिर्मात्रा; प्रिंसेस ऑफ़ वेल्स गवर्नमेण्ट संस्कृत लाइब्रेरी, सरस्वती- भवन, बनारस, इत्यस्याध्यक्षेण बोर्ड ऑफ़ संस्कृत स्टडीज़, यू० पी०, इत्याख्य- राजकीयसंस्थायाश्च मन्त्रिणा डाक्टर श्रीमङ्गलदेव शास्त्रिणा विनिर्मितः श्रीयुक्त ए. सी० वुल्नर, M. A., C. I. Et, ( Principal, Oriental College, Lahore, & Vice-Chancellor, University of the Punjab) महोदयैः प्राक्कथनेन समलंकृतश्च सन् १६४१ षष्ठं संस्करणम् [मूल्यम् १)

Published by
K. Mittra.,
at The Indian Press, Ltd.,
Allahabad.
१९३२ ई.
प्रथमं संस्करणम्
द्वितीयं संस्करणम्
तृतीयं संस्करणम्
चतुर्थ परिवर्धितं संस्करणम् १९३८ ई०
पञ्चमं परिवर्धितं संस्करणम् १६३६ ई०
षष्ठं संस्करणम्
१६४१ ई०
Printed by
A. Bose,
at The Indian Press, Ltd.,
Bnares-Branch.

महामहोपाध्याय श्री. पं. गोपीनाथ कविराज, एम० ए० ( Late Principal, Government Sanskrit College, Benares, and Superintendent of Sanskrit Studies, U. P.) महोदयानां सम्मति:- गवर्नमेंट संस्कृत कालेज, बनारस प्राचामभिनवानां च विदुषां गीर्वाणभाषयोपनिबद्धान निब- धान् तत्तद्विषयभेदगर्भितान् संगृह्य संकलितोऽयं प्रबन्धप्रकाशो नाम ग्रन्थो डा० श्रीमङ्गलदेवशास्त्रिणा। सेोऽयं वस्तुवैचित्र्येण गुम्फनसौष्ठवेन च श्लाघनीयां लेखसरणिं प्रदर्शयन् सचेतसां मनसि मोदमादधाना देवभाषायां रचनापाटवमधिजिगमिषूणां विद्यार्थिनां भृशमुपकरिष्यतीति संभावयन्तो ग्रन्थस्यास्योपादेयत्वे श्रद्दधाना वयं शतशो धन्यवादैन्थकत न सभाजयामः । कविराजोपाहगोपीनाथशर्माणः २०1८।१६३० अध्यक्षाः

विद्वद्वर्य श्री डा० लक्ष्मणसरूप, एम० ए०, डी० फिल०,
महोदयानां
सम्मति:-
I have looked through the Prabandha Prakāśa of
Dr. M.D. Shastri. It is a collection of essays in Sanskrit
on various subjects. Written in easy simple Sanskrit
and replete with apt quotations from classical authors,
it is suited to the needs of Sanskrit students of Oriental
Titles Examinations. I believe, it is the only book of its
kind and will supply a long-felt want. I hope, the author
will get the encouragement he deserves so well.
LAKSHMAN SARUP,
M. A., D. Phil. (Oxon.),
11th June, 1930.
}
University Professor of Sanskrit,
University of the Punjab.
Lahore.

सुप्रसिद्ध श्री. पं० ईश्वरीदत्तदौर्गादत्ति शास्त्रि, एम० ए०, एम० ओ०
एल०, ( Superintendent, Sanskrit Studies,
Bihar and Orissa) महोदयैः कृतं.
प्रबन्धप्रकाशशुभाशंसनम्
विद्याभिरनवद्याभिर्विविधाभिविभूषितैः ।
कविताकान्तकान्तार-केलिलालसमानसैः ॥ १॥
प्रज्ञाऽऽकरैः परद्रोहदिवाभीतदिवाकरैः ।
श्रीमन्मङ्गलदेवाख्य-शास्त्रिभी रचित: शुभः ॥ २ ॥
सहजैरपि सश्रीकैः सरसैः सरलैरपि ।
मितैर्मश्च महितः शब्दैः संस्कारशालिभिः ॥ ३ ॥
पदे पदे प्रशंसाहरस्पृष्टः पुनरुक्तिभिः ।
युक्त्या समर्थितैरथैः प्रापितः स्पृहणीयताम् ॥ ४॥
सुभाषितैश्च सुरभिर्भव्यैर्भावैविभूषितैः ।
रीत्या रञ्जनमचर्या मजुतां काञ्चिञ्चितः ॥ ५ ॥
विद्यार्थिचातकबात-नीलनूतननीरदः ।
अध्यापकपिकानां चाऽनन्तो वासन्त उत्सवः ॥ ६॥
विद्ववृन्दमिलिन्दानामरविन्दवनं नवम् ।
दिव्यवाङ्मयसङ्कोचभुजङ्गमभुजङ्गभुक् ॥ ७ ॥

SHEMAMMALE ( ख ) लेखदुर्बलताऽऽवर्त-परीक्षातटिनीतरीम् । रचनाचातुरी चार्वी गीर्वाणगिरि चाऽर्पयन् ॥ ८॥ निबन्धोऽयं सदा भूयाद् भावबन्धाय धीमताम् । भारते वसतामन्तेवसतां च विभूतये ॥ ९ ॥ ईश्वरीदत्तदौर्गादत्तिः।

FOREWORD My friend and former pupil, Dr. Mangal Deva Shastri, has put together what I am sure will prove a very useful little book on Essay writing in Sanskrit. The majority of the essays given as examples are written by himself in an excellent natural style. Others selected from standard authors or from contemporary writers have been judiciously chosen. At the end of the book there are some useful collections of quotations and pithy sayings that can be used to adorn an essay or to provide subjects for others. August, 1930, } A. C. WOOLNER. Vice-Chancellor, University of the Punjab, Lahore.

No text on this page.

विषय-सूची पृष्ठतः १० उपोद्घात: प्रबन्धाः १ वरमद्य कपोतः श्वो मयूरात् २ मर्कटस्य सुरापानं ततो वृश्चिकदंशनम् ३ उद्योगः... ४ भगवती भवितव्यता १३ १५ ... ... ५ धैर्यम् ... २७ ... ३५ ... ६ इन्द्रजालमञ्जूषा पुरुषार्थचतुष्टयम् ( उपमितिभवप्रपञ्चाख्यकथायाः) परोपकारः ९ का हि पुगणना तेषां येऽन्यशिक्षाविचक्षणाः १० सत्सङ्गतिः (आर्यशूरविरचितजातकमालाया: ) ११ इयमुदरदरी दुरन्तपूरा ४८ ... ६६ ... ७२ ... ... १३ क ईप्सितार्थस्थिरनिश्चयं मनः प्रतीपयेत् १४ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः १५ नैष्ठिकानां सर्वपथीना मतिः ८३ २६ व्रतपालनम् (म० म० श्रीविधुशेखरभट्टाचार्य महोदयस्य ) ८७ ( २ ) ९७ ... ... ... पृष्ठतः १७ कन्यापितृत्वम (म० म० श्रीविधुशेखरभट्टाचार्य- महोदयस्य) ९२ १८ गीर्वाणवाण्या अभ्युदयोपायाः १९ कोकिल तावद्विरसान् यापय दिवसान्वनान्तरे निवसन् ११३ अयि दलदरविन्द ! ११८ २१ वाराणसीवैभवम् (साहित्याचार्यश्रीनारा- यणशास्त्रिखिस्तेमहोदयस्य) १२३ २२ भगवतो बुद्धस्य चरितमुपदेशश्च (म० म० श्री. गोपीनाथकविराजमहोदयस्य) १३३ २३ वेदानां संस्कृतपठनपाठनप्रणाल्यां स्थानम् १४४ २४ देववाण्या अवनतिरस्माकं कर्तव्यं च १५३ सुभाषितसंग्रहः १ सुभाषितपद्यावली २ सुभाषितपद्यखण्डमाला ३ सुभाषितगद्यावली ४ लौकिकन्यायाञ्जलिः ... ... . ... ... ...

RSSliminariasanewsaitisatishala प्रबन्धप्रकाशः उपोद्घातः जयत्यमन्दमादधन्मुदं मनःसु सन्ततम् । सतामुदात्तकर्मणां निरञ्जनः परः प्रभुः। प्रबन्धरचनायाः स्वरूपम् अथातः प्रस्तूयते प्रबन्धरचनायाः प्रक्रियादिविषयमधिकृत्य किञ्चिद्वक्तुम् । प्रबन्धः, प्रस्तावः, रचना, संदर्भः, निबन्ध इत्येते शब्दा: समानार्थत्वेनैवाद्यत्वे व्यवहियन्ते । तत्रैतैः शब्दै- रस्मिन् प्रसङ्ग किमभिप्रेयत इति प्रश्ने संक्षेपत एवमेव वक्तव्यं यत्कमपि प्रतिपाद्यविषयमवलम्ब्य तत्स्वरूपोपयोगमहत्त्वादिप्रदर्शन- पुरःसरमुपपत्तिपूर्वकं च हृदयग्राहिण्या भाषया तद्विषयकस्वा- भिमतार्थप्रतिपादनमेव तदर्थः । प्रबन्धरचनाया उपयोगः प्रबन्धरचनाया अभ्यासस्य क उपयोग इति जिज्ञासाया- मुच्यते । प्रथमं तावदस्योपयोगः स्वबुद्धिविकासार्थ भाषायां गतेदािर्थ च । तथा चास्मद्विचारशक्तः परिमार्जनं विकास:

२ प्रबन्धप्रकाशः परिपुष्टता च यथा प्रबन्धरचनाया अभ्यासेन जायते न तथान्येन केनाप्युपायेन । एवं भाषायां गतिः प्रतिष्ठा च यथा प्रबन्धलेखनेन सुदृढा सम्भवति न तथान्यथा । द्वितीयं, स्वविचारप्रचारार्थमप्यस्यो- पयोगः। सार्वजनिकदृष्ट्यावश्यकानामुपयोगिनां च तत्तद्विषयाणां सम्बन्धे स्वविचारप्रचाराय सामयिकपत्रादिषु प्रवन्धलेखनमेवात्यु- त्तमोऽभ्युपायः। इत्यादिकारणैरेवाद्यत्वे तत्तत्परीक्षासु प्रबन्धरचना- विषयस्य प्रायः प्राधान्येन समावेश: कृतो दृश्यते। अस्मिन् प्रसङ्ग एतदप्यवधार्य परोक्षार्थिभिर्यत्प्रबन्धरचनाभ्यासेो न केवलं स्वविषय एव समुत्तार्णतासाधनम् , किन्त्वन्यविषयेष्वपि भाषापाटव- साधकत्वेन महोपकारकः। अस्य विषयस्येतिहासः सोऽयं विषय आपाततो नवीनत्वेन प्रतीयमानाऽपि न हि वस्तुतः सर्वथा नवीनः। सत्यं, प्राचीनसमये प्रबन्धरचनेति- विशिष्टनाम्ना नहि कश्चिद्विषयः प्रायेण पठनपाठनविधेरङ्गमा- सीत्। तथापि प्राचीनदर्शनशास्त्रेषु तत्तदधिकरणरूपेण, नीत्यादि- ग्रन्थेषु कथाख्यायिकादिभिः, पुराणेतिहासादिग्रन्थेषु तत्तद्- दृष्टान्तसहकारेण च भिन्नभिन्नप्रकारैरेकार्धप्रतिपादनं दृश्यत एव । धर्मशास्त्रादिविषयकानानुद्दिश्य लिखिताः प्राचीना "निबन्धाः" प्रसिद्धा एव। कौटिलीयाथशास्त्र (अधिकरण १५), सुश्रुते ( उत्तरतन्त्रऽध्याय: ६५), चरके ( सिद्धिस्थानेऽध्यायः १२) च तन्त्रयुक्तिप्रकरणम्, पूर्वोत्तरमीमांसयोरधिकरणस्वरूपप्रतिपादaapaHIRSANATAKARISMAKAMPAINTVAHARARIKAASHARMORADAINHRCIANTERNET मwwam प्रबन्धप्रकाशः कानि वाक्यानि, अन्येषु च शास्त्रेषु समानार्थप्रतिपादकानि वच- नानि प्रकारान्तरेण प्रबन्धरचनाप्रक्रियाप्रतिपादकान्येव सन्ति । सत्यध्येवमद्यत्वे विशेषरूपेण विशिष्टविषयत्वेन च प्रबन्धरचनाया विषये ध्यानं दीयत अाधुनिकपठनपाठनपरिपाट्याम् । एताव- देवान्तरं प्राचीननवीनपरिपाट्योः । मारी Eare vinatandan प्रबन्धरचनायाः प्रकारा: यद्यपि प्रतिपाद्यविषयाणामानन्त्यात् प्रबन्धक बुद्विवैचिच्याच इथाग कतिप्रकार: प्रबन्धा इति विशेषतो निर्दष्टु न शक्यते, तथापि सामान्येन त्रिप्रकारत्वं तेषामभ्युपगम्यते-निरूपणात्मकाः,श्राख्या- नात्मकाः, आलोचनात्मकाश्चेति ।' तत्र कमपि चेतनमचेतनं वा पदार्थमधिकृत्य तत्स्वरूपादि निरूपणपराः प्रबन्धा निरूपणात्मका ( Descriptive Essays) वननदीपर्वतोषःकालसायङ्कालवायुयानादेनि- रूपणम् । कामप्यतिहासिकी सामयिकी वा घटनां वृत्तान्तं वाधिकृत्य तदाख्यानपरा: प्रबन्धा आख्यानात्मका ( Narrative Essays) उच्यन्ते। यथा देशदेशान्तरतीयोदियात्राया आत्मनाऽन्यस्य वा जोवनचरितादेश्च वर्णनम् । यथा । १ श्रायमेव विभागो वस्तुवणनात्मका वृत्तान्तवर्णनात्मका विचारात्मकाश्च यद्वा वस्तुमूलका वृत्तान्तमूलका विचारमूलकाश्चेति शब्दान्तरैरपि निर्देष्टु शक्यते ।

प्रबन्धप्रकाशः कमपि गूढं विमर्शसापेक्षं विषयमवलम्ब्यालोचनात्मकदृष्ट्या यथावश्यकं पक्षप्रतिपक्षनिर्देशेन च तद्गुणदोषादिविवेचनपराः प्रबन्धा आलोचनात्मका ( Reflective Essays ) उच्यन्ते । अस्मिन्विषये प्रविविक्षणां दृष्ट्या सामान्यरूपेणैव ह्यष विभागः प्रबन्धानामिति द्रष्टव्यम्। वस्तुतस्तु नैष ऐकान्तिको विभागः । तथा च दृश्यते हि विभिन्नभाषासु प्रसिद्धलेखकानां प्रबन्धध्वेषां भेदानां परस्परं संकरः संसृष्टिश्च । । प्रबन्धरचनायाः प्रक्रिया तत्र निरूपणात्मकानामाख्यानात्मकानां च प्रबन्धानां विषये नहीह बहु वक्तव्यमपेक्ष्यते । प्रथमं तावत्संस्कृतपरीक्षास्वालोचना- त्मका एव प्रबन्धाः प्रायेणापेक्ष्यन्ते। किञ्च द्वयोरप्याद्ययाः प्रकारयोर्बहून्युदाहरणानि पुराणादिग्रन्थेषु महाकाव्येषु च दृश्यन्ते । इत्यादिकारणैरत्र प्राधान्येनालोचनात्मकप्रबन्धानामेव विषये किञ्चित् संक्षेपेणोच्यते। आलोचनात्मकप्रबन्धरचनाया: प्रक्रियाविषयेऽनेकानि प्राची- नानि नवीनानि च मतानि दृश्यन्ते । तेषु कानिचिदेवात्र प्रदर्श्यन्ते । पूर्वोत्तरमीमांसाशास्त्रयोर्हि तत्तद्विषयकप्रबन्धानामधिकरणसंज्ञा प्रसिद्धा। एकार्थप्रतिपादको विषयसंशयपूर्वपक्षसिद्धान्तनिर्णया- त्मकपञ्चाङ्गबोधकवाक्यसमुदायो न्यायोऽधिकरणमिति हि पूर्वमीमां- सायां तल्लक्षणम् । - तथा चोच्यते- प्रबन्धप्रकाशः विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम् ॥ इति । "तत्र विचाराह वाक्यं विषयः। तस्यार्थविषये विशय इदमित्थं नवेति विकल्पः। तत्र संदिह्यमानयोः पक्ष योरसत्पक्षे युक्तिप्रदर्शन- वाक्यं पूर्वपक्षवाक्यम् । पूर्वपक्षोक्तां युक्ति खण्डयित्वा सत्पते युक्तिप्रदर्शनवाक्यं सिद्धान्तः । ततश्चेत्याधमिलापेन सिद्धान्त- सिद्धार्थोपसंहारकं वाक्यं निर्णायकवाक्यमिति ।" उत्तरमीमांसायां तु "तत्रैकैकमधिकरणं पञ्चावयवम् । विषयः संदेहः संगतिः पूर्वपक्षः सिद्धान्तश्चेति पञ्चावयवाः ।" इति विशेषः । (वाच- स्पत्येऽधिकरणशब्दोऽत्र द्रष्टव्यः)। इत्येतदनुसारं प्रबन्धरचनाया अपि विषयादीनि पञ्चाङ्गानीति युक्तम् । यद्वा "प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः१” (न्याय- सूत्रे १११।३२ ) इति न्यायसूत्रोक्तविधया प्रबन्धानां प्रतिज्ञादि- पञ्चावयवात्मकत्वमपि प्रतिपादयितु शक्यते । एवमेवान्यान्यपि मतान्यत्र विषये दृश्यन्ते । परन्तु विषयभेदाद् लेखकानां रीतिवैचित्र्याच संभवत्यप्ये- तेषां सर्वेषामवयवानामनेकेषु स्थलेषु प्रबन्धरचनाया अङ्गत्वे नाकान्ततस्तेषां सर्वत्र समानावश्यकता ।। सर्वविधेष्वपि १ प्रतिज्ञाद्यवयवानां लक्षणादीनि तु न्यायसूत्र एव द्रष्टव्यानि । २ निरूपणात्मकानामाख्यानात्मकानां चापि प्रबन्धानामेतान्येव उप- क्रमोपपत्त्युपसंहाररूपाणि त्रीण्यङ्गानि। केवलमेतावानेव भेदो यदेतयोः प्रका- रयोः प्राधान्येन ( वस्तुवृत्तान्त ) वर्णनात्मकत्वादत्र तेषामङ्गानां स्वरूपमपि यथायथं किञ्चिद् भिद्यते ।

READIN ६ प्रबन्धप्रकाशः प्रबन्धेषु समानत्वेनैकान्ततश्चावश्यकान्यङ्गानि तु त्रीण्येव संभ- वन्ति । तानि चैतानि-उपक्रमः, उपपत्तिः, उपसंहारश्चेति । सत्यप्यावश्यकत्वेऽन्येषामङ्गानां तेषामेतेष्वेव यथायथमन्तर्भाव: कल्पयितुं शक्यते। तत्रापक्रमे तावत्सामान्यरूपेण विषयप्रस्तावना विषयस्वरूपोद- शस्तदुपयोगिता चेत्यादि प्रदर्शनायम् । उपपत्त्यां तत्तद्विषये साधकबाधकयुक्ति प्रमाणापन्यासपूर्वक विभिन्नसिद्धान्तानामनेकदृष्टीनां च समालोचनया विचारणं स्वाभिमतार्थस्य च प्रतिपादनं विधेयम् । यथावश्यक प्रसिद्ध- समुचितदृष्टान्तैरपि स्वाभिमतार्थस्य पोषणं कर्तव्यम् । किं बहुना, यदपि प्रसङ्गागतं सङ्गतं च तद्विषय आवश्यकं भवेत्तदत्र विचारणीयम् । उपसंहारे तु पूर्वोक्तानां प्रधानहेत्वादीनां संक्षपेणानुवादपूर्वक- मथवानुवादमन्तरेणैव प्रतिपाद्यविषयस्योपसंहारः कर्तव्यः । प्रबन्धरचनायामुपयोगिनः केचिनियमाः। बहिरङ्गनियमा: प्रबन्धरचनाया उपक्रमात्पूर्व सामान्येनैते नियमा अनु- सरणीयाः। (१) प्रथमं तावत् प्रतिपाद्यविषयस्वरूपस्यावधारणं कर्तव्यम् । विषयस्वरूपं सम्यगनवधायैव प्रायशः प्रवर्तन्ते रचनां कर्तु विद्या- र्थिनः। ततश्च रचनायामसङ्गत्यादिदोषा अपरिहार्या भवन्ति । SHTRA प्रबन्धप्रकाशः (२) ततश्च तत्सम्बन्धिविचाराणां स्वयं विमर्शश्चिन्तनं च विधेयम्। एष स्वयंविमर्श एव बुद्धिविकासे मुख्य कारणम् । (३) तदनन्तरं तद्विशिष्टविषयोपयोगिविचाराणां कृतेऽन्य- ग्रन्थानामनुशीलनं विधातव्यम् । (४) सामान्येन, सामयिकपत्राणामितिहासादेः काव्यग्रन्थ- रत्नानामन्यस्य चैवंविधसाहित्यस्याध्ययनं तथा तत्तद्विषयोपयोगि- सुभाषितादीनां कण्ठस्थीकरणञ्च निबन्धरचनावसरे प्रासङ्गिक- विचाराणां संस्फुरणाय तेषामुद्धरणाय चावश्यकम् । (५) विषयोपयोगिनां प्रस्तुतरचनाङ्गभूतानामवान्तरविषयाणां प्रथमं संस्फुरणक्रमेणैवैकत्र समासतो लेखनं विधेयम् । मर्थानुपूर्येण शृङ्खलाबद्धाः सूत्ररूपेणैव ते लेखनीयाः। एवं रचनो- पक्रमात् पूर्वमेव समासतो रचनायाः स्थूलरूपेणाकारो लेख्यः। एवं प्रधानाङ्गानां लेखनानन्तरं तेषामौचित्यानौचित्यादि विचार्य, साक- ल्येन च रचनास्वरूपमवधार्य पश्चाद्रचना विधेया। अनन्तर- अन्तरङ्गनियमाः । (१) समस्तप्रबन्धस्य यथावश्यकं त्रिष्वधिकेषु वा खण्डेषु विभागः कार्यः। ते च खण्डा: पृथक् पृथक स्वातन्त्र्येण लेखनीयाः तत्र प्रथमे खण्डे विषयस्योपक्रमः, मध्यमे मध्यमयोर्मध्यमेषु वा विषयस्योपपत्तिः, अन्तिमे चोपसंहारः कर्तव्यः । (२) अत्रेदमवधेयं यत्र प्रतिपादितान् साधारणनियमान वर्जयित्वा नहि रचनाशैलीविषये निश्चिता व्यवस्थिता वा नियमाः प्रबन्धप्रकाशः , । सन्ति। प्रधानप्रतिपाद्यविषयस्य रक्षां कुर्वन् , भाषाया औचित्यं चापरिहरन् प्रबन्धलेखको येन केनापि प्रकारेण स्वेच्छया रचनाकरणे स्वतन्त्रः। (३) विचारेषु स्वोपज्ञता आषायां च स्वाभाविकतावश्यकी। अलङ्कारशास्त्रप्रतिपादितानां गुणानामपि रचनायां यथोचितः समावेशः कर्तव्यः। (४) रचनायां यावदुपपत्तिप्रकारस्य प्राधान्यं न तावत् तत्तद्विषयकसिद्धान्तविशेषाणाम् । रचनाप्रकारो हृदयग्राही युक्ति- युक्तश्चेत् तत्तद्विषये यस्य कस्यापि सिद्धान्तस्य प्रतिपादने लेखक: स्वतन्त्रः। शब्दान्तरेषु, 'किं प्रतिपाद्यते' इत्यस्यापेक्षया 'कथं प्रति. पाद्यते' इत्यत्रैवाधिक ध्यान देयम् । (५) रचनायाः परिमाणापेक्षया तस्याः प्रकार: शैली चाधिक- मावश्यकौ। शोभनप्रकारेण रचिताऽस्पतरपरिमाणोऽपि निबन्धो- ऽशोभनप्रकारेण रचितादत्यधिकमादरास्पदम् ! (६) पुनरुक्तव्याघातादि दोषा अन्ये चाप्यलङ्कारशास्त्रप्रति- पादिता दोषाः परिवजनीयाः । (७) यथा प्रसङ्गोचितसुभाषितादिवचनोल्लेखो रचनायाः शोभामावहति, तथैवात्यधिकोऽप्रासङ्गिको वा तेषामुल्लेखो रचना- सौन्दर्यमपहरति । किञ्च नैवं मन्तव्यं यदेतादृशः परवचनापन्यास: सर्वथावश्यक एव रचनायाम् । (८) नैव कश्चिद्व्यवस्थितः प्रकारो रचनाया उपक्रमस्य विषये। बुद्धीनां रुचीनां च वैचित्र्याद् वैचित्र्यमत्र दुर्वारम् !

SHARE SwaraltaraNICAUKHistianomiaasikasikasisamarpaiyan प्रबन्धप्रकाशः ९ नैव सर्वेषु विषयेषु समान एवोपक्रमप्रकारः समुचितः। प्रति- पाद्यविषयानुकूलनैव रचनाया उपक्रमेण भवितव्यम् । (९) उपसंहारप्रकारोऽपि नहि सर्वत्र समानः। अत्रापि लेखकादिभेदेन विभिन्नताऽनिवार्या । तथा हि कदाचित्पूर्व- मुक्तानां हेत्वादीनां समासेन पुनरावृत्तिद्वारैव समाप्तिः क्रियते । कदाचित्पुनरावृत्तिमन्तरेणैव । एवमन्येऽपि भेदा उपसंहार- प्रकारे दृश्यन्ते। एवमन्येऽपि नियमा दर्शयितुं शक्यन्ते ते पुनः प्रसिद्ध- लेखकानां प्रबन्धानामनुशीलनेन स्वयमेव छात्रै निर्धारणीयाः। उपसंहारः सन्ति । एव एवमत्र संक्षेपेणैव प्रबन्धरचनायाः प्रक्रियादि प्रदर्शितम् । तन्निदर्शनभूताश्च केचित्प्रबन्धा अस्मिन्प्रन्थे संनिवेशिताः रुचिवैचित्र्येण शैलीवैचित्र्यस्य प्रद्योतनार्थ च न केवलं स्वकतृका किन्त्वन्यप्रसिद्धलेखकनिबद्धा अपि प्रबन्धाः, यथावश्यकं तदधिकारिणामनुज्ञयैव, सधन्यवादमात्र संगृहीताः। किंच, यद्यप्यालोचनात्मकनिबन्धानामेव प्रायशोऽ. पेक्षितत्वेन तेषामेवात्र प्राधान्येन समावेशः कृतस्तथाप्यन्य- प्रकारका निबन्धा न सर्वथैवोपेक्षिताः । ग्रन्थान्ते पुन: सुभाषि- तानां लौकिकन्यायानां च प्रबन्धरचनायामुपयोगितामाकलय्य चतुर्भिः प्रकरणैस्तान्यपि संगृहीतानि ।।

MaitianRIANARTHDRANE वरमय कपोतः श्वो मयूरात् खलु नानाविधचिन्तासन्तानसन्दानितमानवकुलसंकुले संसारे किन्नु मनुष्याणां दुःखस्य निदानं किं वा तत्प्रतीकार इति मीमांसाव्यतिकरे समाहितमित्थं केनचिन्नीतिज्ञधुरन्ध- रेण विपश्चिता- वरमद्य कपोतः श्वो मयूगदिति । स्वल्पाक्षरं खल्विदं वचनम् । अर्थस्त्वस्यातीव गभीरः तथ्योपशप्रदः परमोपयोगी च। इह लोके हि नानाविधा मानवा दृश्यन्ते । तत्रैतादृश एवादीर्घदर्शिनी बहवो ये स्वीय- वर्तमानावस्थितावसन्तुष्टा उपस्थितश्रेयोऽवमानिनो भाविन्या: समुत्कृष्टतरावस्थायाः निरन्तरमितस्तता धावन्तः "आशाया ये दासास्ते दासाः सर्वलोकस्य”, “अाशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला, रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटो" इत्याधुक्तयनुरूपमामरणमेव चिन्तासन्तानसन्दानितहृदयाम्तृष्णा- समुद्भूतनासन्तोषेण च "अशान्तस्य कुतः सुखम्” इत्यनुकूलं सदैव दु:खिनः स्वजीवनकालमतिवाहयन्ति । अन्ततोऽपि ते सफलमनोरथाः सुखिनश्च भवन्तीति सन्देहास्पदमेव । Du PAPERTREATMASTI INSTAMASTIPATHIVARARAMMARI प्रबन्धप्रकाशः प्रायशः स्वीयसुखमयपूर्वावस्थातोऽपि परिभ्रष्टानां तेषां सकलं जीवन दुःखमयमेव जायते । अन्ये पुनः स्वीयवर्तमानावस्थायां सन्तुष्टाः परेशस्य धन्यवाद- पुरःसरं प्राप्त सुखमनुभवन्ति । तेषु केचिदत्यन्तं स्वीयभाव्युन्नति- निरपेक्षा भवन्ति । परन्तु ये बुद्धिमन्तस्ते तु वर्तमानेन सन्तुष्टा अपि भविष्यदर्थमपि प्रयतमाना भवन्ति । तत्र ये पूर्व विधा : मानवास्तानेव समुद्दिश्येदं नीतिवचनम्- वरमद्यत्यादि। एष एव समुन्नतिमार्गो यदधिगतस्य संरक्षणम् । प्राप्तस्य हि सम्यग्रक्षणे क्रमेण शनैः शनैरुत्तरोन्नतिः सम्भाव्यते। न केवलमधि- गतस्य स्वरूपेणैवोपयोगित्वं किन्तु भाविन्या अभीष्टाया अभ्युन्नतेः साधनत्वेनापि । यत्पूर्वमधिगम्यते तद्द्वारैव प्रायशो बुद्धिमद्भिः समुत्कृष्टतरस्यानागतस्य वस्तुनः प्राप्तिरुत्तरकाले साध्यते। अतो नहि भाविनीमाशामनुरुध्याधिगतस्यापि परित्यागः परिहारो वा समुचितः। अत एव नीतिविदः प्राहुः- "उपनतमवधीरयन्त्यमव्याः।" "वर्तमानन कालेन वतेयन्ति विचक्षणाः।" इति । ये पुनरतं नियम तिरस्कृत्य वर्तन्ते तेषां विषये हि "इतो भ्रष्टस्ततो भ्रष्टः", "इदं च नास्ति न परं च लभ्यते", "वृद्धिमि- टवतो मूलं विनष्टम्", "पुत्रलिप्सया देवं भजन्त्या भापि नष्टः", "एक सन्धित्सतोऽपरं प्रच्यवते” इत्यादिन्यायाश्चरि- तार्था भवन्ति । ..

१२ प्रबन्धप्रकाशः युक्तियुक्ता ह्यषा नीतिः । तथा हि अस्थापिते ह्यपर- स्मिन्पादे स्थितस्य चरणस्याप्युत्थापनं को नु विद्वान् समनुमन्येत ? आविन्याः श्येनाधिगत्या आशया को नु व्याधो जालमापन्नमपि कपोतजातं. परिहरन् स्ववृत्तिमा- चरन् सुखाभिलाषी भवेत् ? भाविनः कुजराधिगमस्याशा- मनुरुध्य मृगमुत्सङ्गागतमपि पर्यस्यतः केसरिणो वा कथंकारं प्राणाधारसम्भवः? ततश्च भाविनोऽर्थस्याशामवलम्ब्य प्राप्तमपि परित्यजन्नहि कोऽपि सुखमधिगन्तुमर्हति । प्रत्युत तद्विनाशनिदानमेवैतदन्ततः सञ्जायते। तत्र गीयते सुभाषितमेतत्- यो ध्रुवाणि परित्यज्य ह्यध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति ह्य ध्रुवं नष्टमेव तु ॥ ये पुनरेनां नोतिमनुवर्तन्ते त एवात्र जगति न केवलं सुखिन एव भवन्ति किन्तूत्तरोत्तरामुन्नतिं चाप्यासादयन्ति । न केवलं साधारणव्यवहार एव किन्तु महत्त्वयुक्त राज- नीत्यादिव्यवहारेऽप्येषैव नातिरवलम्ब्यते सुज्ञैः। राजनीतिज्ञा हि पदे पदे यदपि किञ्चिदल्पं बहु वा समयानुकूल्येन समु- पस्थितं भवति तदेव बहु मन्यन्ते। न तु भावि समुत्कृष्टतरं वस्त्वनुधावन्तस्तत्तुच्छ मत्त्वा परिहरन्ति । आयलैंण्डादिदेशानां पूर्णस्वतन्त्रतावाप्तितत्पराणामपि नियमितस्वतन्त्रतायाः स्वीकारोऽस्या एव नीतेर्निदर्शनम् । HAMPARACHINEATRE KARNER VatadiuessinilenimalHSANSAR प्रबन्धप्रकाशः अतो बुद्धिमन्तो ना पनतमवधीरयन्ति । किन्तु तत्सादरं सहर्ष च स्वीकृत्य तवारैव भाविन्या उन्नत्यै प्रयतन्ते । सम्यगेवोच्यते- वरमद्य कपोतः श्वो मयूरादिति ।। andestore । मर्कटस्य सुरापानं ततो वृश्चिकदंशनम् । तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥ इह खलु नानाविधकार्यकारणसम्बन्धनिबन्धने भुवने कोऽ- प्ययं नियमस्त्रिलोकीनाथेन भगवता निखिलजगद्वयापारनिवर्त- केन प्रवर्तितः संदृश्यते यत्स्वानुरूपसाहाय्यमासाद्य सर्वेऽपि भावाः प्रबला: संजायन्ते। एवं च यद्वस्तु स्वत एवानर्थकारि तद्यदि स्वानुरूपं साहाय्यमासादयेत्तर्हि भूयसेऽनर्थायैव प्रकल्पते । हि खलु वह्निः स्वभावेनैव पदार्थान् भस्मसात्करोति । स यदि कस्मिंश्चिदुटजे संदीप्तः स्यात्, उटजं चानार्द्रतृणप्रकल्पितं भवेत्, प्रचण्डमाण्डातपेनोष्णश्चण्डवेगश्च वायुः प्रवहेत्; तहिं तदेतदखिलं सहजानर्थकारिणो वह्नरेनुरूपं साहाय्यं महतेऽनर्थप्रवाहाय प्रभवति । तादृश्यामवस्थायामपरिमेयानर्थसन्ततिसम्भूतिशङ्का सुतरां स्वाभा- विकी। तदतदाशयवर्णनपरैव कस्यचित्कविप्रकाण्डस्य भणिति- रियम- मर्कटस्य सुरापानमित्यादि। । यथा RAMANASALAJArthritink.in प्रबन्धप्रकाशः अयं भावः। यथा हि प्रथमं तु मर्कटः स्वभावेनैव चपल इति महाननः । स यदि सुरापानं विवीत, वृश्चिकश्च तं दशेत् , ततोऽपि च प्रेतादिसंचारः स्यात्तस्रं तदनर्थचतुष्टयसमा- पतने यदपि भवेत्तदल्पमेवेति मन्तव्यम् । यतस्तस्यामवस्थायां को नु वक्तु समर्थो यदेतावत्येवानर्थसम्भूतिभविष्यति। एवमेव यत्रापि स्वतोऽनर्थकारिणोऽनुरूपसाहाव्यलाभस्तत्र कदा कोऽनर्थः समापतेदित्येतदवधारणं दुःशकम् । यथा हि खलु यत्र यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता इत्येतञ्चतुष्टयसद्भावस्तत्र यदप्यनर्थजातं समापतत्तदल्पमित्येवा- वगन्तव्यम्। नैव तत्रानर्थश्रेणिसमापतन इयत्तावधारणसंभवः । ततत्पद्य गोयते- यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता। एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ।। इति । तथ्यमियमेवावस्था समुपस्थितासीद् भारते वर्षे महाभारत- युद्धप्रवर्तनात्प्राक् । तस्मिन्नेव हि समये यदुर्योधनादिभिर्धनादि- मदोन्मत्तैर्भारतं समाक्रान्तं तेऽपि यौवनधनसंपत्त्यादिभिश्चतुर्भिर- प्यनर्थकारणैः समेता बभूवुः । तत एव तत्तन्महानर्थजातं भारत- स्योपरि समापतितं यस्य दुष्प्रभावेणाद्यापि प्रस्तं भारतमुन्नतिपथा- प्रस्खलति । किं बहुना, यस्मिन्नपि काले कस्याप्युद्दण्डतया निरंकुशा- चारेण च समुद्वेजितो लोक आसोत्तदैवमेवानर्थमूलानि नाना- विधकारणानि समुपस्थितान्यासन् ।

PROUTINATHMANTERNMaraiHVIRIA प्रबन्धप्रकाशः अनपरा- अद्यत्वेऽपि नानादेशेषु यत्रापि शासकानामत्याचारेण पीडिताः प्रजास्तत्रैवमेवानेकविधान्यनर्थानुरूपकारणानि संघ- टितानि दरीहश्यन्ते । तद्यथा 'कोरिया' देशस्योपरि 'जापान'- देशवासिनां शासकानामत्याचाराः। 'मरक्को देशे च 'फ्रांस'- देशवासिनाम् । एतादृशानां हि धनसम्पत्तितिरोहिता, प्रभुत्वमपि साक्षात् । अविवेकितापि प्रत्यक्षव । धिनां कारागारपातनमसमसमीक्षणमधिकारिभ्योऽप्यधिकारा- वितरणमित्यादि सर्व बहुविधचेष्टितं तेषामविवेककारितमेव । तत्रैवं नानानर्थकारणकलापसन्निधाने स्वदेशहितचिकीर्पूणां येऽपि कारागारावरोधप्रभृतयोऽनर्थप्रवाहाः समुपस्थिताः स्युस्ते स्वल्पा इत्येवावगन्तव्यम् । स्वार्थिनां लक्ष्मीवतां प्रभूणामविवे- किनामेताहशामधिकारे किं किमनर्थजातं समुपस्थितं भवेदिति तु वक्तु शक्नोति। एतादृशे ह्यवसरे सुतरां सङ्घटत उपरि निर्दिष्टा कस्यापि विद्वन्मणेभणितिरियम्- मर्कटस्य सुरापानं तता वृश्चिकदंशनमित्यादि ।। nuouTOR उद्योगः इह जगति सर्वेषामेव प्राणिनामियं स्वाभाविक्यभिवाञ्छा यत्कथमपि शुभमधिगच्छाम इति । सत्यप्येवं विरला एव ते ये THEkadase १६ प्रबन्धप्रकाशः स्वाभीष्टार्थाधिगतौ सफला भवन्ति । तत्र किं निदानमिति मीमांसायामेतदेव वक्तव्यं यद् बाहुल्येनालस्यमहाव्यालदष्टानां विमुग्धधियामुद्योगमहामन्त्रमाहात्म्यस्याज्ञानमेव तत्कारणम् । आल- स्यं हि शरीरिणां महान् रिपुरुद्यामश्च परमः सखेति कस्याविदितं सचेतसः। तथा चोच्यते- आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमा बन्धुः कृत्वा यं नावसीदति ॥ उद्योगो हि नाम स्वाभीष्टार्थाधिगत्यै दृढसङ्कल्पपूर्वकोऽगणित- विघ्नबाधाप्रहारो व्यापारः । अयमेव उद्यमः, पुरुषकारः, कर्म, अभ्यासः, तपः इत्यादिनामभिस्तत्तद्विषयभेदेन व्यवह्रियते । तथा च, एकेन वणिजा धनोपार्जनाय क्रियमाणो देशदेशान्तर- गमनागमनादिकष्टबहुला वाणिज्यरूपः समारम्भः, कृषीवलेन केनचित् “कृषिः क्लिष्टा वृत्तिः” इत्यनुसारं शीतोष्णादिकष्ट- परम्परामगणयता शस्योत्पादनार्थ क्रियमाणः कर्षणादिरूपः परिश्रमः, "सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्" इत्युक्तिमनुसरतो विसृष्टविषयभोगतृष्णस्य विद्याथिनो वा. कस्य- चिज्ञानसम्पादनाय विद्याभ्यासरूपो व्यापारः, योगिना वैकस्य निरस्तविषयवातस्य "चञ्चलं हि मनः कृष्ण! प्रमाथि बलवद् दृढम्" इति भगवदुक्त्यनुसारं दुर्दमनीयस्य मनसो वशीकरणार्थम "अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते” इत्यनुसारं यद्वा "अभ्यासवैराग्याभ्यां तन्निरोधः” इति पातञ्जलयोगसूत्रार्थमनु- मृत्य जपेश्वरप्रणिधानादिरूपोऽभ्यासः, तपस्विनो वा कस्यापि G HINHRAMusias प्रबन्धप्रकाशः १७ -- निखिलद्वन्द्व तितिक्षोर्वह्निसेवनोपवासादिरूपं तपः सर्वमेतद्वस्तुत उद्योगस्यैव निदर्शनम् । ततश्चायमुद्योगः सर्वेषामेव लौकिकानां पारलौकिकानां चार्था- नाम् , आधिभौतिकाधिदैविकाध्यात्मिकानां वाभीष्टपदार्थानामधि- गत्यै मुख्यं साधनम्। आपामरमाप्राज्ञं च सर्वेषामभीष्टार्थाधि- गतिरेनमन्तरेण नहि शक्या सम्पादयितुम् । अत एवाच्यते "इह जगति हि न निरीहदेहि श्रियः संश्रयन्ते श्रयांसि च सकलान्यनलसानां हस्ते नित्यसान्निध्यानि ।", "सोद्योगं नर- मायान्ति विवशाः सर्वसम्पदः ।", "उद्योगिनः करालम्ब करोति कमलालया।", "उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः।" इत्यादि । उद्योगशीलस्य हि जनस्य नानवाप्त किञ्चिद्वाप्तव्यमिह जगति । तथा चोक्तम्- नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् । व्यवसा याद्वितीयानां नाप्यपारो महादधिः ॥ किञ्च। अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः । इति । सत्यप्येवं "देवे निरुन्धति निबन्धनतां वहन्ति हन्त प्रयास- परुषाणि न पौरुषाणि", "देवं फलति सर्वत्र न विद्या न च पौरु- षम्”, “न केवलं मनुष्येषु देवं देवेष्वपि प्रभुः” इत्यादिवचोभि- विमूढधियोऽनेके प्रमादालस्यग्राहगृहीता दैवे पराग्वदनशालिनि जाते न किञ्चित्कार्य सम्पादयितु शक्यते, तस्मिन्ननुकूले तु स्वयमेव तत्सिध्येदिति किं प्रयासपरुषेण पौरुषेणेति चिन्तयन्तो भीता इवोद्योगाद् दूरतः पलायन्ते । तैः खल्वेवमवधारणीयं । २

प्रबन्धप्रकाशः
यत्प्रथमं तु यद्दवमिति कथ्यते तदपि पूर्वजन्मकृतकर्मण एव फलम् ।
द्वितीय, देवं हि प्रारब्धकर्मरूपं संचितकर्मरूपं वा नानन्तफलम् ।
स्वफलं निवर्त्य तत्स्वयं क्षयं याति । तत्र सर्वदैव क्रियमाणस्य
कर्मण उपयोगोऽनपवादश्च।
किञ्च नैवं मन्तव्यं यद्देवं पुरुषकारेण नान्यथा कर्तुं शक्यते ।
एवं चेत्क उपयोगोऽनिष्टवारणार्थ कृतानां दानजपोपवासादीनां
शास्त्रीयाणां कर्मणाम्।
तत्रैते श्लोका भवन्ति-
न देवमिति संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥
पूर्वजन्मकृतं कर्म तद्द वमिति कथ्यते ।
तस्मात्पुरुषकारेण विना दैवं न सिध्यति ।
यथा ह्य केन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ।।
वस्तुतस्तु मनुष्यस्य कर्मण्येवाधिकारः । कर्मफलं
तु परमे-
श्वराधीनम् । अतस्तस्य चिन्तनमनधिकारचेष्टितमेव ।
श्रुतिवचोऽमृतम्--
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतछ समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।
तच्चानूदितं भगवद्गीतासु-
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूमा ते सङ्गोऽस्त्वकर्मणि ॥
अत एव
--

AtARANASHIKARAN प्रबन्धप्रकाशः १९ AAR उतश्च कर्मणोऽनन्तरमेव न तु पूर्व यत्फलमुपतिष्ठते तदेव दैवमिति मन्तव्यम्। न केवलं श्रुतिस्मृतिप्रतिपादितत्वेनैवोद्योगस्य परमं माहात्म्यम् । किन्तु सूक्ष्मेक्षिकया समीक्षणे सर्वमेव चराचरात्मकं जगदुद्योगस्य परमोपयोगिता, सृष्टिकर्तुर्भगवतः परमेश्वरस्य सङ्कल्पानुकूल्यं च तस्य द्योतयति । तथा हि यत्रापि दृष्टिनिःक्षिप्यते तत्रैव सर्वमप्या- ध्यात्मिकाधिदैविकाधिभौतिकं वस्त्वेकान्ततः स्वस्वनियतकर्मपालनपर संदृश्यते । तथा च निशाकरदिवाकरयोः पर्यायेणेादयोऽस्तमयनं च, सूर्य रैर नवरतं रसादानं, सरितां सातत्येन सलिलप्रवाहः, पशुपक्षिणां सनियमं कर्मपरायणता, अस्मच्छरीरान्तर्गतानां हृदय- यकृतप्रभृतीनां सर्वेषामन्यवयवानां सर्वदैव स्वस्वकर्मपरता च सर्वमेतदुद्योगपरतैव जीवनस्य प्रथमो नियमः, सृष्टिकर्तुर्भगवतश्च परमोऽभिप्राय इति ख्यापयति। कस्याविदितं यच्छरीरपरिश्रमेणै- वास्माकं तानि तानीन्द्रियाणि सुस्थानि सबलानि च भवन्ति । एवमेव समुचितपरिश्रमेणैव मानस्यस्तास्ताः शक्तयः शक्तयः सुपुष्टाः संवर्धिताश्च जायन्ते। ततश्च मधुर मधुराक्षगे बीजमन्त्रोऽयमखिलसिद्धीनां य एष समुद्योगो नाम ॥ । । ।

२० प्रबन्धप्रकाशः । शुभं च विदधात्यशुभं च जन्तोः सर्वङ्कमा भगवती भवितव्यतैव ॥ देवपुरुषकारयोः कस्याधिकं प्राबल्यमित्येष चिरन्तनो विवादः । केचित्खलु उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- देवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः। किञ्च- पूर्वजन्मकृतं कर्म तद्दवमिति कथ्यते तस्मात्पुरुषकारेण विना दैवं न सिध्यति ।। न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः । अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ इत्यादिपक्षमवलम्बमाना दैवमुपेक्ष्य पुरुषकारस्यैव माहात्म्यमुद्- घोषयन्ति । अपरे पुनरैहिकपुरुषकारकारणं विनैव जन्मत एव कश्चित्सुखी कश्चिद् दुःखोत्यादिप्रकारं नानाविधभेदभावं पश्यन्तः, स्वल्पनैव परिश्रमेण कश्चिन्महत्फलमासादयति कश्चित्पुनरतिपरिश्रमं कृत्वापि विफलमनारथः केनचिदंशेनैव वा सफलमनोरथो भवतीत्यादि वैषम्यं चानुभवन्तो दैवस्यैव प्राधान्यमिति सिद्धान्तयन्ति । मनुसृत्यैव गीयते- । तन्मत- BHIMRAPARIENIPASHRATHIMIRITINGS SECOSMARAT प्रबन्धप्रकाशः २१ MPARADISom । गजभुजङ्गमयोरपि बन्धनं शशिदिवाकरयोग्रहपीडनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ अपि च- भग्नाशस्य करण्डपीडिततनोानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः। तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ तमेतमुत्तरपक्षमाश्रित्यैव कस्यचिद्विपश्चितः सुभाषितमिदम्- शुभं च विधात्यशुभं च जन्तोरित्यादि। कस्यैतविदितं यत्रापातरमणीये क्षणभङ्ग रे संसारेऽस्थिरे सुखिदुःखिनोः सुखदुःखे। क्षणेनैव जनो दुःखसागरे प्रक्षिप्यते, क्षणेन च सुखसम्पत्तिमासाद्य सुखी संजायते । योऽद्य मोदमान- स्तिष्ठति अन्येचुः सहसैव तस्योपरि महद् दुःखमापतति। चिराय महता कथंचित्कालमतिवाहयन्तो बहवोऽकस्मादेव सुखसम्पदमासादयन्ति । वस्तुतो नैवैकान्ततः कस्यचिद् दुःखा- धिगतिः सुखसमागमो वाकय॑ते । सर्वेषामपि ताभ्यां समा- गमोऽस्थिरः क्षणभङ्गुरश्च। तदेतत् शुभाशुभयोरकस्मादेव समुपस्थानं क्षणभङ्ग रत्वं च न केवलं साधारणमनुष्याणां विषये अद्यत्व एव वा दरीदृश्ते, किन्तु महामहिमशालिनामितिहासपुराणेषु प्रख्यातयशसां मह- तामपि विषये तयोस्ताहश्येव स्थितिः । तथा हि महाभागो राजराजो नलः प्रथमं पितृपितामहपरम्पराप्राप्तां राज्यसम्पत्ति- दुःखेन MPATIMES प्रबन्धप्रकाशः तामासाद्य मासाद्य नितरां शुभमन्वभूत। तदनन्तरं च सहसैव स्वसम्पत्ति. विरहितो महत्या दु:खश्रेण्या सङ्गतोऽरण्यादरण्यानीं भ्राम्यं- श्चिराय क्लेशमतिशयमासिषेवे । मुहुरपि च पूर्ववदेव सुखं भेजे । पाण्डवानां च महानृपतिसूनूनामपि क्रमेण शुभाशुभसमागमोऽतिरोहित एव । तदेतादृशं शुभाशुभयारस्थैर्य सहसैव च पुरुषकारादिसाक्षा- कारणमन्तरेणैव तयोरुपस्थितिः किकृते इति विचारे काचिल्लोकोत्तरा शक्तिरेव पृष्ठत इवागत्य कार्यनिर्वाहिकेति सपदि मनसि समायाति । सैव लोकोत्तरा शक्तिर्भवितव्यता विधिनियतिवमित्यादिशब्दैर- भिधीयते दृष्टप्रभावापि सा स्वयं प्रत्यक्षतो न दृश्यत इत्यत एक कैश्चिदृष्टनाम्नापि स्मयते। सा चेयं भगवती भवितव्यता देवी महाशक्तिसंपन्ना। एनया हि समाक्रान्तं समस्तं विश्वम्। भुवनत्रयेऽप्यनवरुद्धमकण्टकमस्याः शासनम् । गिरिगुरुगर्तदुर्गमे कान्तारे वा विविधव्यालकुलसमाकुले पाताले वा अगाधजलसंचारे सागरेऽपि वा स्थितो जनो न खलु नास्या दृष्टिगोचरः। न केवलमल्पशक्तियुक्ता मानवा अन्येऽवराः प्राणिन एव वा स्याः शासनमनुवर्तन्ते, किन्तु सर्वमेव जडचेतनात्मक- माब्रह्माण्डं जगदस्या वशे वर्तते । तामेनामघटितघटनापटीयसी भगवतीं भवितव्यतामेवोदि- श्योक्तं केनापि- काँश्चित्तुच्छयति प्रपूरयति वा काँश्चिन्नयत्युन्नति कॉश्चित्पातविधौ करोति च पुनः काँश्चिन्नयत्याकुलान् ।

FRAMAYamyanwryAwarya Rai प्रबन्धप्रकाशः अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थिति बोधय. न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ अपि च-- अवश्यंभाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ पुरुषः पौरुषं तावद्यावद्दवं तु सम्मुखम् । विपरीतगते दैवे पुरुषो न च पौरुषम् ॥ तदन स्मर्यतामखिलमेतद्विधिविलसितमिति पश्यतः कस्यापि कवेरिदं सुभाषितम्-- शुभं च विधात्यशुभं च जन्तोरित्यादि। - धैर्यम् इह खल्वव्याहतपरिवृत्तिशालिनि जगति कस्यापि सर्वदै- कावस्थायामेवावस्थितिर्नितरामसम्भवा। रात्रिदिवसयोरिव सुख- दुःखयोः पर्यायेण समुपस्थितिः कस्याविदिता। महाशक्ति- सम्पन्ना लोकात्तरप्रभावसंयुता अपि सुखदुःखपर्यायनियममति- क्रमितुमशक्ताः। तथा चोच्यते- चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च। किञ्च। कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नी.र्गच्छत्युपरि च दशा चक्रनेमिक्रमेण । इति । HAMARI प्रबन्धप्रकाशः MIRRORE ततश्चैतन्नियमानुसारेण सङ्कटेषु समुपस्थितेषु मनुजो धैर्य- मवावलम्व्य- कदर्थितस्यापि धैर्यवृत्ते- ने शक्यते धैर्यगुणः प्रमाष्टुम् । अधोमुखस्यापि कृतस्य वह्न नाधः शिखा यान्ति कदाचिदेव ।। छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः सन्तप्यन्ते न ते विपदा ॥ त्याज्यं न धैर्य विधुरेऽपि काले धैर्यात्कदाचिस्थितिमाप्नुयात्सः । जाते समुद्रऽपि हि पोतभङ्ग सांयात्रिको वाञ्छति ततु मेव ।। इत्यादिवचोऽनुरूपमहतोत्साहो दुःखोदधेः पार गन्तुपारयति । पर सङ्कटेषु समुपस्थितेष्वेव धैर्यस्यावश्यकतेति न व्यम् । प्रत्येकाभीप्सितकार्यस्य विशेषतश्च विशेषपरिश्रमापेक्षा- संपादनाय, तत्सिद्धौ विविधविघ्नबाधाबाधनायापि च धैर्यस्य महत्युपयोगिता । प्रत्येककार्यारम्भात्पूर्व हि तस्य विचा- रस्य प्रादुर्भावोऽस्माकं मनःस्वावश्यक एव । विचारस्यैवान्तःसमुद्- भूतस्य कालान्तरेण कार्यरूपेण परिणतिर्भवति कस्यापि विचारस्य कार्यरूपेण परिणत्यै च प्रायोऽनवरतपरिश्रमस्य नानाविधसामग्री- संयोजनस्य नैकविधप्रत्यूहनिवारणस्य चापेक्षा भवति। सर्व चैत- द्धर्येणैव साध्यम्। धैर्यधना हि मानवाः । वतः ।

प्रबन्धप्रकाशः २५ ते । यो यमर्थ प्रार्थयते यदर्थ घटतेऽपि च । अवश्यं तदवाप्नोति न चेच्छान्तो निवर्तते ॥ इत्युक्त्यनुकूलमाचरन्तो बहुलवित्रस्यापि प्रारब्धस्य सङ्कल्पितस्य वा कार्यस्यान्तं गच्छन्ति । ये पुनर्येण रहिताः; प्रथम तु उत्थायोत्थाय लीयन्ते दरिद्राणां मनोरथाः । इत्यनुसारं विघ्नभयेन किञ्चित् कार्यमेव नारभन्ते । प्रारब्धकार्या वा स्वल्पेऽप्यन्तराये समुपस्थिते तस्माद्विरमन्ति । तथा चोक्तम्- प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विनविहता विरमन्ति मध्याः । विघ्नैः पुन: पुनरपि प्रतिहन्यमानाः प्रारभ्य तूत्तमजना न परित्यजन्ति ॥ इति । धैर्यमाश्रित्यैव हि एको निर्धनः कृषीवला दुःसहसहस्रकिर- रणोष्णातापं, धारासारेण पतन्ती वृष्टिं, शैत्यमुष्णत्वं चाविग- णय्य रात्रिन्दिवं चिराय कृतभूरिपरिश्रमः कृष्युपयोगिसामग्री- संयोजनाय स्वसर्वस्वमपि विक्रीय बीजानि क्षेत्र उप्त्वा सफल- मनोरथा भवितुमर्हति । अनेकवारं च दैवदुर्विपाकेण नष्टेष्वपि शस्यक्षेत्रेषु स्वव्यापारान्नहि निवर्तते । एवमेव धैर्यसहाय ऐवैको विद्यार्थी विसृष्टविषयभोगतृष्णा ब्रह्मचर्यमास्थितः शीतोष्णादिद्वन्द्वतितिक्षुर्भूत्वा चिरकाले नैवा- धिगम्यां विद्यामुद्दिश्य अविरतमध्ययनतत्परो भवति । नैक- वारमनुत्तीर्णपरीक्षोऽन्यथा कथञ्चिदसफलमनारथा नैव स्वनिश्चितोह श्यसम्पादनाद्विरमति । वा २६ प्रबन्धप्रकाशः । । एममेवान्यान्येषु मानवीयव्यापारेषु सिद्धिधैर्याधीनैव । अद्यत्वे प्रसिद्धानामितिहासपुराणेषु च वर्णितानां लोकोत्तरचरितानां महा- पुरुषाणां यन्माहात्म्यं वस्तुतस्तद्रहस्यमेतद् धैर्यमेव । धैर्येणैव ते विनराशीन समुत्तीर्य दुरधिगममभीष्टमासाद्य लोकेषु लोकोत्तरां ख्यातिमासादितवन्तः। ततश्च धैर्यमन्तरेण प्रथमं तु कस्मिन्नपि व्यापारे विशेषतश्च- परिश्रमापेक्षावति प्रवृत्तिरेव दुर्लभा स्यात् । प्रवृत्तावपि स्वभा- वतोऽनायासेनैवोपस्थितासु बाधासु तासां वारणप्रयासोऽभीष्टार्था- दविरतिश्च नहि कथमपि सम्भाव्यते किं बहुना । धैर्येणैव मानवः सत्स्वपि महत्सूपरोधका- रणेषु निजकर्तव्यपराङ्मुखो न भवति । प्राणैरपि सम्पद्येत वियोगः, परं नैव साहसं परित्यजति । सपदि राजलक्ष्म्या- मपि विलेतुमुपस्थितायां सङ्कटाकीर्णमपि स्वकर्तव्यमेव कर्म सर्व- श्रयस्करं मन्यते तद्यथा श्रीरामचन्द्रादयो नृपचन्द्रा धैर्येणैव सहस्रश आप- स्वापतितासु स्वाभिप्रेतानां रावणवधादीनामनन्यकर्तव्यानां कर्मणामन्तमवापुः। अन्यैः सेोढुमशक्या अप्युपस्थिता आपदः सोढाः, परं नैव कर्तव्यपराङ्मुखा बभूवुः। तदेतदखिलं धैर्य- माहात्म्यमेव । तत एतद् धैर्य सकलश्रयःसम्पादकम् । ऐहिकामुष्मिक सर्वविधं सुखं धैर्येण मानवा आसादयितु शक्नुवन्ति। एतदेव धर्मानुष्ठाने महत्साधनम् । धैर्येणैव मनुजो धर्मपथादविच्युत ।

PHONE PATRIESWETASHAD PRERNATAKAMWAREKHA AMINATIONAKAPIRATIONAL प्रबन्धप्रकाशः २७ उत्तमोत्तमां गतिमधिगन्तुमर्हति । सर्वमेतत्समालोच्य जनैः धैर्य- धारणे यत्रो विधेयः। इन्द्रजालमञ्जूषा महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ! स खल्वासीत् साधारणसमितेर्वासरः । प्रधानामात्यप्रमुखा महत्पदमधिष्ठिता लघपदभाजस्तथान्ये कार्यकर्तारः सर्वेऽप्यासन्नु- पस्थिताः। निर्दिष्टमासीद् भूभुजा-"अद्यानिवार्यः प्रवेशः सर्व- साधारणस्य । यः कोऽपि समेत्यास्थानमण्डपमभिक्षोणिपतिं स्वमनेोऽनुरूपमावेदयतु वाञ्छितम् । नहि कश्चन परिचारको- ऽधिकरणमण्डपं प्रविशन्तमवरोर्बु क्षमः । सर्वोऽपि स्वमनस्तापम- भिदधातु। यतो विशां त्राणाय प्रकल्पेऽहम्” इति । पराभूतानेकनृपतिमण्डलपरिवृतस्तारागणैरिव भगवान् राका- पतिः, गोमेदहीरकादिरत्नकलापगुम्फितमध्यास्ते स्म हैममासनमतुल- वीर्यो महामतिर्महीपतिः । दक्षिणपार्श्व प्रधानामात्यो वाम- पार्श्व च चमूपतिरासन्दीमधितष्ठतुः । अन्येऽपि सानुक्रमं स्वं स्वमासनं भेजिरे। यथावारं सर्वेऽपि प्रार्थिनो महीभुजः पुरो निजावेदनमु- दीरयामासुः। स च सस्मितमनायासञ्च यथार्थ न्यायमनुतिष्ठं- .

२८ प्रबन्धप्रकाशः । स्तांस्तोषयामास । शुभेऽहनि तस्मिन् सुबहूनभि नन्दयन्ननेकेषा- माशिषां धन्यवादानाञ्च भाजनं बभूव भूपः। नातिदूरे नृपासनान्मलिनाम्बरः कश्चिदेको मानवो नरपते. रानने दत्तदृष्टिस्तस्थौ । सोऽपि महीपतेरभिमुखमावेदयितु साधारण- समिता किञ्चन समागात्, परमास्थानमण्डपस्यादृष्टपूर्वामनेका- भरणपरिच्छदैर्भास्वरां सुषमासम्पत्तिमवलोक्य चकितचकितो नैजमा- वेदनमपि विसस्मार । नहि क्षितिभत सविधे स यातः; नापि किमपि स प्रार्थितवान् । प्रसङ्गवशाद्धरापतिः प्रधानामात्यं सम्बोध्य ऊचे-“भद्र ! जगतो यात्रायां सुगमा निर्वाहाभ्युपायः कस्मा- दवगन्तव्यः” इति । प्रधानसचिवः सानुनयं भक्तिपुरस्सरं चाह- "देव! स्त्रियाः" इति । तत्क्षणमेव सवेशे समासीनस्य तस्याऽनिर्णिक्तवाससोऽपाय. तमास्यम् । सप्रश्रयं शनैश्चासाववादोत्-"सती पतिव्रता चेद्वर्तते स्त्रो, यतस्तस्याः सतीत्वाभावे पत्युरापत्परम्परा अवश्यं भवेयुः" इति । धराधिपतिरप्येतदशृणोत् । मुहुरपि च स सस्मितमन्व- युक्त महामात्यमेव-"आर्य ! संसारे किमत्यधिकमुपयुज्यते ?" इति । प्रत्युत्तरितं मन्त्रिणा-"देव ! दयापाथोनिधे ! धनमेवास्मिन् विषयेऽन्यानि वस्तून्यतिशेते" इति । भूयोऽपि-"धनं चेत्करगतं भवति, मनुजश्च यदि तदुप- योगरहस्यं वेत्ति । अन्यथा तद्भावाभावौ न विशिष्यते” इति स एव मलिनवासाः शनकैः सान्तस्तोष प्रौढमुवाच । महीपति- स्तद्वचोभिरतिशयेन तृप्तस्तदभिमुखं सामादमैक्षत । अनन्तरं च HWANTEERS SUHARRAMMARRITISANNUARivumanmammer प्रबन्धप्रकाशः २९ तमात्मसन्निधौ सादरं समाहूय प्रावोचत्--को भवान् ? किं प्रयोजनचात्र मदन्तिके समागमनम् ? सर्वोऽपि स्वमनोनुरूप- मस्मत्पुरो निवेद्य स्ववाञ्छितं लब्धवान् , परं नहि भवता किमपि समुदीरितं साम्प्रतं यावत् । किमत्र निदानम् ?" इति । एवमनुयुक्तो नरपतिपुङ्गवेन--"विदधातु परेशाऽरिष्टताति भवताम्। देव ! वसुन्धरापते ! अहमतिदरिद्रः, परं विद्वान् , भवतां राज्याधिवासी ब्राह्मणः, पुस्तकान्येव मे धनम् , निजभार्या- हेतोश्चात्रागतं वेत्तु भवान् माम् । सा हि मे प्राणेभ्योऽपि प्रेयसी धर्माचारवती सती भार्या । साद्धं तया सानन्द जीवनकालकला अतिवाहयतो निजपुस्तकस्वाध्याये दिवानिशं रममाणस्य धा साध्वीमवस्थां परिषेवमाणस्य नाद्य यावत् कदाचिदप्यवकाशं लब्धवती मे मानसे वित्तषणा लौकिक सुखैषणा वा । गतवासरात् सा तीत्रेण कठिनामयेन प्रस्ता। नहि मदन्तिके पानभोजनाय किञ्चित् , न चाप्यौषधपरिषेवण- सामर्थ्यम् । अतो भवतां सविधमुपस्थितोऽस्मि । तत: साहाय्य- दानेन देवो मामनुगृह्णातु, स्थापयतु च परलोकेऽपि साम्रा- ज्यम् । सन्ततं पुनर्निजविद्यया बुद्ध्या च भवतः सेवायै सन्नद्धो भविष्यामि । अय देवः प्रमाणम् ।"-इत्येवं स सविनयमावेद्य विरराम। क्षितिपतिस्तस्य सूनृतां वाचं निशम्य तदानने शं प्रख्यापयतः स्म हि तस्य चक्षुषी अनुपम तद्वैशारद्यम्। पातयामास 1 ३० प्रबन्धप्रकाशः अथ महीपतिः प्रधानामात्यमादिदेश-"अद्यप्रभृति इम- महं स्वपरिषदः सभास्तारपदे नियोजयामि । भवद्भिश्चास्य निखिला आवश्यकताः सम्पूरणीयाः" इति। अचिरादेव नृपा- देशमन्वतिष्ठत् सचिवः । समुपस्थितो भायो चिकित्सितु सद्गेहेऽगदङ्कारः। सा चाचिरादेव निरामयत्वं भेजे स चापि -मनीषी विप्रो नियमेन राजपरिषदं सभास्तारपदेनालञ्चकार । ततः प्रभृति न खलु कदाचित् सोऽदृश्यत पूर्वमिव मलिनाम्बरः। परमासीदच्छश्लक्ष्णवासाः । तथापि स पूर्ववदेव स्वाध्याय- निरतोऽभूत्। राजपरिषत्कार्याल्लब्धावकाशः शास्त्रचिन्तन एवा- सीत् सततं व्यासक्तमनाः। स हि तमायां क्षमया, धैर्ये च हिमवता सदृशः, परम- भागवतः सर्वेषामचिरादेव समादरभाजनं बभूव । महीपतिश्च सर्वदैव समादरेण तं सुबहु सत्कृतवान् । तस्य गेहिन्यपि यथा पूर्व दारिद्रयावस्थायां देवभावनया तं समर्चयामास, तथैव तदानी सम्पत्तिसद्भावेऽपि तं महात्मभावनया सम्भावयामास । नूनमैश्वर्यसम्पत्तावपि पूर्ववदेव सहजसरलस्यापरिवर्तितहन्म- स्तिष्कस्य तस्य जीवनयात्रायां केवलं शरीरवसनेष्वेव समदृश्यत परिवृत्तिलवो, न पुनराचारे स्वभावे वा । तथा खल्वेषोऽत्यु- दारैः स्वगुणैर्नरपतेर्मनो जग्राह यत् क्षोणिपतिरेतस्य निखिल- विद्यासु दाक्षिण्यं, सकलकलासु च वैचक्षण्यमालोक्य निरति- शयं प्रसन्न उत्तरोत्तरे पदे स्थापयन् क्रमेणामात्यपदे तं नियोजि- तवान् । समासाद्य तमधिकारं सततं स्वकर्तव्यस्य कर्मणः सत्य- प्रबन्धप्रकाशः ३१ भावेन तत्प्रवणतया चानुष्ठानेन समधत्त पदमाशु स प्रजाजन- चेतःशिलापट्टषु । राज्ञोऽन्येऽधिकारिण: संवीक्ष्य तस्याभ्युन्नतिं दिने दिने चाभि- वृद्धिमीयाकलुषितचेतसोऽचिन्तयन्--अहो, अयं दरिद्र एवं गुरु- पदमारूढा यदस्मानपि शास्तीति । आश्चर्यम् , अपरित्याज्यो हि दुःस्वभावों दुर्मतीनाम् ! ते हि तद्विरुद्ध कतु मुद्युक्ता मियो मन्त्रयाञ्चक्रिरे । अन्त- तस्तेषामेको रहसि कदाचन लब्धावसरो नरपतिमेवमुदीरया- मास "क्षमापते ! देव ! अयमतीव मायिको विप्रः । इन्द्र- जालेन ह्यनेन वशीकृतो भवान् । एवं हि जनप्रवादः--यद्भवद्- भिमुखमागमनात्पूर्वमयं नियतमेव निजगेहप्रकोष्ठे प्रविशति । स च सततमनपावृतद्वारको वर्तते । तत्रास्ते पुनरेका रजतमयी लवी मञ्जूषा। इन्द्रजालमयी च सा। तामुद्घाट्य किच्चि- तान्त्रिककृत्यमनुष्ठायैवायं भवतामभिमुखमायाति--इति । किञ्च न भवति यद्ययं मायावी, कथङ्कारमन्यथा झटित्येवामात्यपद- मारूढः । देव ! समवहितैर्भाव्यं भवद्भिः । नहि जात्वेता- दृशो दरिद्रा विशिष्टं कारणमन्तरेण सहसैतामवस्थामाप्तुं शक्नोति । नूनमेतस्या मञ्जूषाया एव विलसितं यद्भवान- प्येतद्वश्यः समजनि । झटित्येवायममात्यपदमारूढः, न ज्ञायते किमग्र भावि ? अतो मायामञ्जूषां प्रति सततमेव सावधान- स्तिष्ठतु भवान्" इति । ।

प्रबन्धप्रकाशः ३२ एवमाकर्ण्य तस्य वाग्जालं भूपः प्रथमन्तु सर्वमेतज्जाड्य- हेतुकं वा ईर्ध्याकारितं वा इत्येवामन्यत । परं यदानेकैरधि- कारिभिः स्ववंशसम्भूतैरपि च बन्धुभिर्बहुवारमेवं भणितस्तदा कश्चित्सन्देहलवस्तस्मिन् विषये तस्य मनसि प्रादुर्भूतः। सत्यमेवाच्यते-- सुजनानामपि हृदयं पिशुनपरिष्वङ्गलिप्तमिह भवति । पवन: परागवाही रथ्यासु वहन् रजस्वलो भवति ।। एवमेव गच्छति काले कस्मिंश्चिद् वासरे सततमेवं मिथ्या- वचाभिः स्वकर्णमापूरयस्तानखिलान् कर्णेजपान् समाहूय-- "नित्यं युष्माकं वांसि शृण्वन्नहं सजातोऽस्मि खिन्नचेताः। अद्य तद्गृहमेत्य सर्वेषामभिमुखं तामिन्द्रजालमञ्जूषामीक्षिष्ये” इत्येव- मब्रवीद् भूपतिः। जाताः सर्वेऽपि सज्जाः। राजा च समादाय तानखिलान् साकमात्मना समुपस्थितस्तस्यामात्यस्य गेहम् । स च बहुमानपुरस्सरं धन्यं मन्यः स्वागतमतिमात्रं महीपतेरन्वतिष्ठत् । अथ तेन सत्कृते समुपविष्टे च बहुमूल्यासनोपरि राजनि, अन्येषु च यथायोग्यमासनमधिष्ठितेषु तयो राजमन्त्रिणारेवमुक्ति- प्रत्युक्तिरूपः संवादे संववृते । राजा-आर्य ! साम्प्रतमेव मया साद्ध मास्थानमण्डपमेतु भवान्। अस्ति कस्मिंश्चिद् विषये मन्त्रणीयम् । मन्त्री-देव ! प्रसीदति चेद्भवास्तहि रहसि किञ्चित् क्षणं निर्धार्य भवतां पुरस्तादुपस्थिता भवामि । [ सर्वेऽप्येतदाकर्ण्य साभिप्रायं परस्परमिङ्गितं विदधुः।]

OHARTI प्रबन्धप्रकाशः राजा-मन्निन् ! कार्यस्य गुरुतया सपदि गटयमित्येत्र मदीय आदेशः । मन्त्री-सवितर्काशङ्क सविनयच ] महाराज ! क्षणं याव- द्रहसि गन्तुमाजालानातु । राजा-[ विविधविकल्पेषु निमज्जन् । रहसि किंनिमित्त गमनम् ? मन्त्री देव! क्षणं यावदेव प्रकोष्ठे गत्वा साकमार्येण परि- षत्प्रासादं यानि । [सर्वेप्यधिकारिण: पुलकितवदना बभूवुः ।। राजा-कास्तु । गच्छतु प्रकोष्ठे, परं मद्वितीयो भवान् ! मन्त्री-(सभयम् ) नरपते ! मा वाक्षीद् भवान् कष्टम् । नैष प्रकोष्ठो भवता गमनाय समुचितः। यत इहास्ते मामकीना मुख्या सम्पद् । सा च भवतो दृष्टयातिलध्वी। राजा-नूनमयमिन्द्रजालिक इत्यवितथो लेोकप्रवाद इति मन्यमानः ) मन्त्रिन् ! नूनं मयापि नियतमेव प्रकोष्ठाभ्यन्तरे गन्तव्यम्। मन्त्री-भवतु। यथाभिरोचते श्रीमते । अथ राजा सहान्यैर्निजाधिकारिभिरन्तः प्रविवेश । तत्र हि प्रकोष्ठे नासीदासनम्, नापि काचिदलङ्करणसामग्री, न चापि बहुमूल्यं किञ्चिदन्यत् । केवलं भित्तिनिखातालयेषु पुस्तका- न्यासन् संस्थितानि। एकत्र चत्वारो वेदाः। एकत्र चत्वारो वेदाः। एकत्र ब्राह्मणानि । अन्यत्र ह्य पनिषन्निबन्धाः । अपरत्र नाटकाख्यानकथादर्शन- ३ ।

प्रबन्धप्रकाशः ma प्रभृतिप्रबन्धाः। मध्येभाग चैका रजतमयी मजूषा स्थितासीत् । अनुयायिभिः ससङ्कतं बोधितो राजा तदुद्घाटनाय समादिष्टवान् । राजादेशानुसारं च यावदेव सोद्घाट्यते तावदेव स तस्यां मलिनानि छिन्नानि च चोवराणि वीक्ष्य साश्चर्य समयं चाह- किमेतत् ?--इति मन्त्री-देव ! पुरातनानीमानि मे दारिद्रयावस्थाया वासांसि; एतदर्थञ्च सुगूढं संरक्षितानि मया यदहमहरहो वीक्ष्यैतानि पुरा- तनी मामकीनामवस्थां स्मरेयम् । कदापि च न विस्मरयं पुरा कीदशोऽहमासमिति । नित्यमेव सभायामुपस्थानात् प्राक् क्षण- महमेतानि पश्यामि । कदाचित् परिधाम्यपि । कीदृश आस- महम् ? किं भवत्यैश्वर्ये ? किं जायते दारिद्रय केवलमेता- वत्स्मरणार्थमेव सयत्नमेतानि स्थापितानि । सत्यमयमेवाभ्युपायो येन "क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः”, सम्पत्तिसद्भावेऽपि च "कोऽर्थान प्राप्य न गर्वितः" इतिसाधारणनियममुल्लङ्घयानुत्सेकस्तेषां दृश्यते । एतादृशानेवोदिश्य महामतेत हरेः सुभाषितम्-- अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः । सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। इति ।। राजा साश्चर्य सस्नेहञ्च तद्वचा निशम्य सभायामेत्य सर्वा- स्तान् पिशुनास्तिरश्चक्र भत्सयामास च । अनन्तरं च स्वबन्धू- नब्रवीत्। उद्तेजयन्त हि मां भवन्तः सर्वदा तत्ताडनाय । अद्य दास्येऽहं तस्मै दण्डम् । तच्चैतद् यदद्यप्रभृति स मे प्रधानामात्य:

प्रबन्धप्रकाशः एवमुक्तवत्येव भवदेवे नागिला एतद्व्याजेनैवोपदेशावसरं मन्य- मानावोचत् । देव ! किं तथ्यमेवमेव मन्यसे । आहोस्वित्ते परोपदेश एव पाण्डित्यम्। किं पर्वते ज्वलन्तमग्निं पश्यसि न पुनरक्ष्णोः पुरस्तास्थितम् । यस्माद् बालन्तूपदिशति भवान् यदेकवारं त्यक्तं नैवादत्ते विद्वान् । परं पूर्व वर्जितां मां पुनप्रहीतु- कामोऽस्ति ! सत्यं सुखमुपदिश्यते परस्य ! अथवा किं नात्रैतत्सु- भाषितं चरितार्थ भवति- का हि पुङ्गणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षास्तेषां पुङ्गणना नृणाम् ।। इति ॥ अयं भावः। स्वभावेन परोपदेशकुशला एव बहुशो मानवाः समा- लोच्यन्ते संसारे । नाममात्रेणैव ते मानवाः। उपदेशानुगुणं स्वयमाचारमनाचरतां तेषामेतादृशं परोपदेशपाण्डित्यं केवलं वाचालत्वमेव ख्यापयति । स्वयमाचारविहीनानां तेषामुपदे- शोऽपि नहि परान् सदाचारमार्गावलम्बिनः सम्पादयितु प्रभवति । ये पुनः प्रथममात्मानं शिक्षयन्ति, पश्चात्तु निजानु- भवेन सत्यानृते विविच्य करुणाप्लावितचेतसः परानप्युपदिशन्ति धर्म त एव धन्याः सर्वजगत्पूजास्पदीभूता मानवजन्म सार्थकता नयन्ति ! अत एवोच्यते- परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्म स्वयमनुष्ठानं कस्यचित्तु महात्मनः ।। ome- ४८ प्रवन्धप्रकाशः । सत्सङ्गतिः सत्सङ्गतिः कथय किं न करोति पुंसाम् । श्रेयः समाधत्ते यथातथाप्युपनत: सत्सङ्गम इति सज्जनापाभ- येण श्रेयोऽर्थिना भवितव्यम् । तद्यथानुश्रूयते। बोधिसत्त्वभूतः किलायं भगवान्यशःप्रका- शवंशे गुणपरिग्रहप्रसङ्गा सात्मीभूतप्रजानुरागे प्रतापानतहप्तसा- मन्ते श्रीमति कौरव्यराजकुले जन्म प्रतिलभे। तस्य गुणशतकि- रणमालिनःसोमप्रियदर्शनस्य सुतस्य सुतसोम इत्येवं पिता नाम चक्रे । शुक्लपक्षचन्द्रमा इव प्रतिदिनमभिवर्धमानकान्तिलावण्यः, कालक्रमाद्वाप्य साङ्गषु सोपवेदेषु च वेदेषु वैचक्षण्यं, दृष्टक्रमः सोत्तरकलानां कलानां लोक्यानां', लोकप्रेमबहुमाननिकेतभूतः सम्यगभ्युपपत्ति सौमुख्यादभिवर्धमानादरात् परिपालननियमाञ्च बन्धुरिव गुणानां बभूव। अतश्चैनं स राजा लोकपरिपालनसामथ्योदक्षुद्रभद्रप्रकृतित्वाच यौवराज्यविभूत्या संयोजयामास । विद्वत्तया त्वासुध्रतीव तस्य प्रियाणि धाणि सुभाषितानि । आनचे पूजातिशयैरतस्तं सुभाषितैरेनमुपागमद्यः ।। कदाचित्स महात्मा कुसुममासप्रभावविरचितकि- सलयलक्ष्मीमाधुर्याणि प्रविकसत्कुसुममनोज्ञप्रहसितानि प्रवि- ततनवशाद्वलकुथास्तरणसनाथधरणीतलानि कमलात्पलदलास्तीर्ण १ प्रसङ्गः प्रसक्तिः । २ लाक्यानां लौकिकानाम् । ३ अभ्युपप- त्तिरनुग्रहः । ४ अासुरिति बभूवुरित्यर्थ तिङन्तप्रतिरूपकमव्ययम् । अथ प्रबन्धप्रकाशः निर्मलनीलसलिलानि भ्रमभ्रमरमधुकरागणोपगीतान्यनिभृतपरभृत- बहिंगणानि मृदुसुरभिशिशिरसुखपवनानि मन:प्रसादोद्भावनानि नगरोपवनान्यनुविचरन्नन्यतममुद्यानवनं नातिमहता बलकायेन परिवृतः कीडायमुपनिर्जगाम। स तत्र पुस्कोकिलनादिते वने मनोहरोद्यानविमानभूषिते चचार पुष्पानतचित्रपादपे प्रियासहायः सुकृतीव नन्दने । तन्त्रस्थं चैनमन्यतमः सुभाषिताख्यायी ब्राह्मणः समभिज- गाम, कृतोपचारसत्कारश्च तपशोभापहृतमनास्तत्रोपविवेश! इति स महासत्त्वो यौवनानुवृत्त्या पुण्यसमृद्धिप्रभावोपनतं क्रीडा- विधिमनुभवस्तदागमनादुत्पन्नबहुमान एव, तस्मिन् ब्राह्मणे सुभा- षितश्रावणादनवाप्तागमनफले, सहसैवोत्पतितं क्रोडाप्रसङ्गजनित- प्रहर्षोपहन्तृ प्रमदाजनभयविषादजननं कोलाहलमुपश्रुत्य ज्ञायतां किमेतदिति सादरनन्तःपुरावचरान्समादिदेश। अथास्य दैौवारिका भयविषाददीनवदनाः ससम्भ्रम द्रुततरमुपेत्य न्यवेदयन्त । देव ! पुरुषादः कल्माषपादः सौदासः साक्षादिवान्तको नरशत- कदनकरणपरिचयाद्राक्षसाधिकरतरमतिरतिमानुषवलवीर्यदर्पो रक्षः- प्रतिभय रौद्रमूर्तिमूर्तिमानिव जगत्संत्रास इत एवाभिवर्तते विद्रुतं च नस्तत्संत्रासग्रस्तधैर्यमुभ्रान्तरथतुरगद्विरदव्याकुलयोधं बलम् । यतः प्रतियत्ता भवतु देवः, प्राप्तकालं वा सम्प्र- धार्यतामिति १ प्रतिभयं भयङ्करम् । २ प्रतिकूलयतवान् । शत्रोः प्रतीकारार्थ यत्नवानित्यर्थः । ४ प्रबन्धप्रकाशः । अथ सुतसोमो जानानाऽपि तानुवाच । भोः क एष सौदासो नाम । ते तं प्रोचुः। किमेतद् देवस्य न विदितं यथा सुदालो नाम राजा बभूव। स मृगयानिर्गतोऽश्वेनापहृतो वनगहनमनु- प्रविष्टः सिंह्या साध योगमगमत् । श्रापन्नसत्त्वा च सा सिंही संवृत्ता, कालान्तरेण च कुमार प्रसुषुवे । स वनचरैगृहीतः सुदासायोपनीतः। अपुत्रोऽहमिति च कृत्वा सुदासेन संवर्धितः, पितरि च सुरपुरमुपगते स्वं राज्यं प्रतिलेभे। स भातृदोषादामिपे- ध्वभिषक्तः। इदमिदं रसवरं मांसमिति स मानुषं मांसमास्वाद्य स्वपोरानेव च हत्वा हत्वा भक्षयितुमुपचक्रमे। अथ पौरास्तद्वधा- योद्योगं चक्रुः । यतोऽसौ भोत: सौदासो नररुधिरपिशितबलि- भुग्भ्यो भूतेभ्य उपशुश्राव। अस्मात्सङ्कटान्मुक्तोऽहं राज्ञां कुमार- शतेन भूतयज्ञं करिष्यामोति । सेोऽयं तस्मात्सङ्कटान्मुक्त: । प्रसह्य प्रसह्य चानेन राजकुमारापहरणं कृतम्। सोऽयं देवमप्यपहतुमा- यातः । श्रुत्वा देवः प्रमाणमिति । अथ स बोधिसत्त्व: पूर्वमेव विदितशोलदोषविभ्रमः सौदासस्य कारुण्यात्तचिकित्सावहितमतिराशंसमानश्चात्मनि तच्छोलविकृतप्रश- मनसामर्थ्य प्रियाख्यान इव च सौदासाभियाननिवेदने प्रीतिं प्रति- संवेदयन्नियतमित्युवाच- राज्याच्च्युतेऽस्मिन्नरमांसलोभादुन्मादवक्तव्य इवास्वतन्त्रे । त्यक्तस्वधर्म हतपुण्यकोती शोच्यां दशामित्यनुवर्तमाने । को विक्रमस्यात्र ममावकाश एवंगताद्वा भयसम्भ्रमस्य । अयनसंरम्भपराक्रमेण पाप्मानमस्य प्रसभं निहन्मि ।।

NONNAPALENDANTASTRATERIRADAKE प्रबन्धप्रकाशः गत्वापि यो नाम मयानुकम्प्यो मद्गोचरं स स्वयमभ्युपेतः। युक्तं मयातिथ्यमतोऽस्य कर्तुमेवं हि सन्तोऽतिथिषु प्रवृत्ताः॥ तद्यथाधिकारमत्रावहिता भवन्तु भवन्त इति स तानन्तःपुराव- चराननुशिष्य, आश्वासनपूर्वकं विनिवर्त्य युवतिजनं, यतस्तत्को- लाहलं ततः प्रससार। दृष्ट्व च व्यायताबद्धमलिनवसनपरिकर वल्कलपट्टविनियतं रेणुपरुषप्रलम्बव्याकुलशिरोरुहं प्ररूढश्मश्रुजा- लावनद्धान्धकारवदनं रोषसंरम्भव्यावृत्तरौद्रनयनमुद्यतासिचर्माणं सौदासं विद्रवदनुपतन्तं राजबलं १ विगतभयसाध्वसः समाजुहाव । अयमहमरे सुतसोमः। इत एव निवर्तस्व । किमनेन कृपणजन- कदनकरणप्रसङ्गनेति । तत्समाह्वानशब्दाकलितदर्पस्तु सौदासः सिंह इव ततो न्यव- तत। निरावरणप्रहरणमेकाकिनं प्रकृतिसौम्यदर्शनमभिवीक्ष्य च बोधिसत्त्वमहमपि त्वामेव मृगयामोत्युक्त्वा निर्विशङ्कः सहसा संरम्भद्रुततरमभिमृत्यैनं स्कन्धमारोप्य प्रदुद्राव। बोधिसत्वोऽपि चैनं संरम्भदर्पोद्धतमानसं ससम्भ्रमाकुलितमतिं राजबलविद्रावणा- दुपरूढप्रहर्षावलेपमवेत्य नायमस्यानुशिष्टिकाल इत्युपेक्षां चक्रे । सौदासोऽप्यभिमतार्थप्रसिद्धथा परमिव लाभमधिगम्य प्रमुदितमना: स्वमावासदुर्ग प्रविवेश। हतपुरुषकलेवराकुलं रुधिरसमुक्षितरौद्रभूतलम् । परुषमिव रुषावभर्त्सयत्स्फुटदहनैरशिवैः शिवारुतैः ।। । १ विद्रवद्राजबलमनुपतन्तं सौदासं दृष्ट्वैवेति संबन्धः ।

प्रवन्धप्रकाशः समवतार्य च तत्र बोधिसत्त्वं तद्रूपसम्पदा विनिबध्यमाननयनः प्रततं वीक्षमाणे विशश्राम। अथ बोधिसत्त्वस्य सुभाषितोपायनाभिगतं ब्राह्मणमकृतसत्कार तदुद्यानविनिवर्तनप्रतीक्षिणमाशावबहृदयमनुस्मृत्य चिन्ता प्रादुर- भूत्। कष्टं भोः ! वाच। सुभाषितोपायनवानाशया दूरमागतः । स मां हृतमुपश्रुत्य विप्रः किं नु करिष्यति ॥ इति विचिन्तयतस्तस्य महासत्त्वस्य तदीयदु:खाभितप्तमनसः कारुण्य- परिचयादणि प्रावर्तन्त । अथ सौदासः साश्रुनयनमभिवीक्ष्य बोधिसत्त्वं समभिप्रहसन्तु- मा तावद्भोः ! धीर इत्यसि विख्यातस्तैस्तैश्च बहुभिगुणैः । अथ चास्मद्वशं प्राप्य त्वमप्यश्रूणि मुञ्चसि ।। सुष्ठु खल्विदमुच्यते- आपत्सु विफलं धैर्य शोके श्रुतमपार्थकम् । नहि तद्विद्यते भूतमाहतं यन्न कम्पते ।। इति । तत्सत्यं तावद् ब्रूहि- प्राणान्प्रियानथ धनं सुखसाधनं वा बन्धून्नराधिपतितामथवानुशोचन् । पुत्रप्रियं पितरमश्रुमुखान् सुतान्वा स्मृत्वेति साश्रुनयनत्वमुपागतोऽसि ॥ mmer प्रबन्धप्रकाशः ५३ अHAR बोधिसत्त्व उवाच- न प्राणान्पितरौ न चैव तनंयान्बन्धून्न दारान्न च नैवैश्वर्यसुखानि संस्मृतवतो वाप्पोद्गमोऽयं मम । आशावांस्तु सुभाषितैरभिगतः श्रुत्वा हृतं मां द्विजो नैराश्येन स दह्यते ध्रुवमिति स्मृत्वास्मि सास्र क्षणः ॥ तस्माद्विसर्जयितुमर्हसि तस्य याव- दाशाविघातमथितं हृदयं द्विजस्य । संमाननाम्बुपरिषेकनवीकरोमि तस्मात्सुभाषितमधूनि च सम्बिभर्मि । प्राप्यैवमानृण्यमहं द्विजस्य गन्तास्मि भूयोऽनृणतां तवापि । इहागमात् प्रीतिकृतक्षणाभ्यां निरीक्ष्यमाणो भवदोक्षणाभ्याम् ॥ सौदास उवाच - इदं त्वया बातमुच्यमानं श्रद्धेयतां नैव कथंचिदेति । को नाम मृत्योर्वदनाद्विमुक्त: स्वस्थः स्थितस्तत्पुनरभ्युपेयात् ।। दुरुत्तरं मृत्युभयं व्यतीत्य सुखे स्थित: श्रीमति वेश्मनि स्वे। किं नाम तत्कारणमस्ति येन त्वं मत्समीपं पुनरभ्युपेयाः ॥ बोधिसत्त्व उवाच। कथमेवं महदापि ममागमनकारणमत्रभवा- नावबुध्यते। ननु मया प्रतिपन्नमागमिष्यामीति। तदलं मां खलजनसमतयैवं परिशङ्कितुम्। सुतसोमः खल्वहम् । लोभेन मृत्योश्च भयेन सत्यं सत्यं यदेके तृणवत्त्यजन्ति । सतां तु सत्यं वसु जीवितं च कृच्छ,ऽप्यतस्तन्न परित्यजन्ति ।। । १क्षण उत्सवः।

५४ प्रबन्धप्रकाशः त्वत्तो भयं यदि च नाम ममाभविष्यत् सङ्गः सुखेषु करुणाविकलं मनो वा। विख्यातरौद्रचरितं ननु वीरमानी त्वामुद्यतप्रहरणावरणोऽभ्युपैष्यम् ॥ त्वत्संस्तवस्त्वयमभीप्सित एव मे स्यात् तस्य द्विजस्य सफलश्रमतां विधाय । एष्याम्यहं पुनरपि स्वयमन्तिकं ते नास्मद्विधा हि वितथां गिरमुगिरन्ति ॥ अथ सौदासस्तद्बोधिसत्त्ववचनं विकल्पितमिवामृष्यमाणश्चि- न्तामापेदे। सुष्ठु खल्वयं सत्यवादितया च धार्मिकतया च विकत्थते। तत्पश्यामि तावदस्य सत्यानुरागं धर्मप्रियतां च । किं च तावन्ममानेन नष्टेनापि स्यात् । अम्ति हि मे स्वभुज- वीर्यप्रतापाद्वशीकृतं शतमात्रं क्षत्रियकुमाराणाम्। तैर्यथोपयाचितं भूतयझं करिष्यामीति विचिन्त्य बोधिसत्त्वमुवाच। तेन हि गच्छ । द्रक्ष्यामस्ते सत्यप्रतिज्ञतां धार्मिकतां च । गत्वा कृत्वा च तस्य त्वं द्विजस्य यदभीप्सितम्। शीघ्रमायाहि यावत्ते चितां सज्जीकरोम्यहम् ॥ अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य स्वभवनमभिगत: प्रति- नन्द्यमानः स्वेन जनेन तमाहूय ब्राह्मणं तस्माद् गाथाचतुष्टयं शुश्राव । तच्छु त्वा सुभाषिताभिप्रसादितमना: स महासत्त्वः १ संस्तव: परिचयः। bo प्रबन्धप्रकाशः संराधयन्प्रियवचनसत्कारपुरःसरं साहसिकी गाथां कृत्वा समभि- लषितेनार्थेन तं ब्राह्मणं प्रतिपूजयामास । अथैनं तस्य पिताऽस्थानातिव्ययनिवारणाद्यतमति: प्रस्ताव- क्रमागतं सानुनयमित्युवाच । तात ! सुभाषितप्रतिपूजने साधु मात्रां ज्ञातुमर्हसि । महाजन: खलु ते भर्तव्यः, कोशसम्पदपेक्षिणी च राजश्रीरतश्च त्वां ब्रवीमि । शतेन सम्पूजयितु सुभाषितं परं प्रमाणं न ततः परं क्षमम् । अतिप्रदातुर्हि कियचिरं भवेद्धनेश्वरस्यापि धनेश्वरद्युतिः ।। बोधिसत्त्व उवाच । अर्घप्रमाणं यदि नाम कर्तुं शक्यं भवेद व ! सुभाषितानाम् । व्यक्तं न ते वाच्यपथं ब्रजेयं तनिष्क्रय राज्यमपि प्रयच्छन् । श्रु त्वैव यन्नाम मनः प्रसादं श्रेयोऽनुराग: स्थिरतां च याति । प्रज्ञा विवृद्धथा वितमस्कतां च क्रय्यं ननु स्यादपि तत्स्वमांसः ।। दीप: श्रुतं मोहतम:प्रमाथी चौराद्यहार्य परमं धनं च । संमोहशत्रुव्यथनाय शस्त्र नयोपदेष्टा परमश्च मन्त्री ॥ आपद्गतस्याप्यविकारि मित्रमपीडनी शोकरुजश्चिकित्सा । बलं महद् दोषबलावमर्दि परं निधानं यशसः श्रियश्च ।। गुणैरनेकैरिति विश्र तानि प्राप्तान्यहं प्राभृत 'वच्छ तानि । शक्तः कथं नाम न पूजयेयमाज्ञां कथं वा तव लवयेयम् ॥ यास्यामि सौदाससमीपमस्मादर्थो न मे राज्यपरिश्रमेण । निवृत्तसङ्कतगुणेपमर्दै लभ्यश्च यो दोषपथानुवृत्त्या ॥ १ 'प्रामृतं तु प्रदेशनम्' इत्यमरः । २ यश्च ( परिश्रमः) निवृत्त- ।

प्रवन्धप्रकाशः प्रथाप्यय- अथैनं पिता स्नेहासमुत्पतितसम्भ्रमः सादरमुवाच । तवैव खलु तात ! हितावेक्षिणा मयैवमभिहितम् । तदलमत्र ते मन्यु- वशमनुभवितुम् । द्विषन्तस्ते सौदासवशं गमिष्यन्ति । अथापि प्रतिज्ञातं त्वया तत्समीपोपगमनमतः सत्यानुरक्षी तत्सम्पादयितु- मिच्छसि। तदपि ते नाहमनुज्ञास्यामि। अपातकं हि स्वप्राणपरि- रक्षानिमित्तं गुरुजनार्थ चानृतमार्गो वेदविहित इति। तत्परिहार- अमेण तव कोऽर्थः। अर्थकामाभ्यां च विरोधिष्टं धर्मसंश्रय- मनयमिति व्यसनमिति च राज्ञां प्रचक्षते नोतिकुशलाः । तदल- मनेनास्मन्मनस्तापिना स्वार्थनिरपेक्षेण ते निर्बन्धेन । शस्यं धर्मविरोधि चेति प्रतिज्ञाविसंवादनमनुचितत्वान्न व्यवस्यति ते मतिः। एवमपीदं त्वद्विमोक्षणार्थ समुद्युक्तं सज्जमेत्र नो हत्य- श्वरथपत्तिकार्य सम्पन्नमनुरक्तं महद् बलम् । तदनेन परिवृत: समभिगम्यैनं वशमानयान्तकवशं वा प्रापय । एवमव्यर्थप्रतिज्ञता सम्पादिता स्यादात्मरक्षा चेति । वोधिसत्त्व उवाच। नात्सहे देव ! अन्यथा प्रतिज्ञातुमन्यथा कर्तुम् , शोच्येषु वा व्यसनपङ्कनिमग्नेषु नरकाभिमुखेषु सुहृत्सु स्वजनपरित्यक्तेष्वनाथेपु च तद्विधेषु प्रहतुम् । अपि च दुष्करं पुरुषादोऽसावुदारं चाकरोन्मयि । मद्वचःप्रत्ययाद्यो मां व्यसृजद्वशमागतम् ॥ संकेतगुणोपमर्दै ( सौदासेन सह कृतो यो निवर्तनस्य संकेतस्तस्य परिपालन- रूपो यो गुणस्तस्योपमर्द ) दोषपथानुवृत्त्या लभ्यस्तेनापि मे नार्थ इत्यर्थः । इममेवार्थम् 'तत्परिहारश्रमेण तव कोऽर्थः' इत्यनुपदमेवानुवदति तस्य पिता । अथवा 'निवृत्त' इति पाठः कदाचिदत्र भवेत् ।

SARVANANDHARMA प्रबन्धप्रकाशः लब्धं तत्कारणाच्चेदं मया तात ! सुभाषितम् । उपकारी विशेषेण सोऽनुकम्प्यो मया यतः ।। अलं चात्र देवस्य मदत्ययाशङ्गया । का हि तस्य शक्तिरस्ति मामेवमभिगतं विहिंसितुमिति । एवमनुनीय स महात्मा पितरं विनिवारणसाद्यमं च विनिवर्त्य प्रणयिजनमनुरक्तं च बलकायमेकाकी विगतमयदैन्यः सत्यानुरक्षी लोकहितार्थी सौदासमभिविनेष्यंस्तन्निकेतमभिजगाम । दूरादेवावलोक्य सौदासस्तं महासत्त्वमतिविस्मयादभिवृद्धबहु- मानप्रसादश्चिराभ्यासविरूढकरतामलिनमतिरपि व्यक्तमिति चिन्ता. मापदे। अहहह ! आश्चर्याणां बताश्चर्यमद्भुतानां तथाद्भुतम् । सत्यौदार्य नृपस्येदमतिमानुषदेवताम् ।। मृत्युरौद्रस्वभावं मां विनीतभयसंभ्रमः । इति स्वयमुपेतोऽयं ही धैर्य साधु सत्यता ।। अथ बोधिसत्त्वः समभिगम्यैनं विस्मयबहुमानावर्जितमान- समुवाच- प्राप्तं सुभाषितधनं प्रतिपूजितोऽर्थी प्रीतिं मनश्च गमितं भवतः प्रभावात् । प्राप्तस्तदस्म्ययमशान यथेप्सितं मां यज्ञाय वा मम पशुव्रतमादिश त्वम् ।। सौदास उवाच । नात्येति कालो मम खादितु त्वां धूमाकुला तावदियं चितापि । amana

प्रबन्धप्रकाशः
प्रथ
विधूमपक्वं पिशितं च हृद्यं शृण्मस्तदेतानि सुभाषितानि ॥
बोधिसत्त्व उवाच। कस्तवार्थ इत्थंगतस्य सुभाषितश्रवणेन ।
रक्षोविकृतवृत्तस्य संत्यक्तार्यपथस्य ते ।
नास्ति सत्यं कुतो धर्मः किं श्रुतेन करिष्यसि ।।
सौदासस्तामवसादनाममृष्यमाणः प्रत्युवाच । मा
तावद् भीः !
कोऽसौ नृपः कथय यो न समुद्यतास्त्रः
क्रीडावने वनमृगोदयितान्निहन्ति ।
तद्वन्निहन्मि मनुजान्यदि वृत्तिहेतो-
राधर्मिकः२ किल ततोऽस्मि, न ते मृगन्नाः ।।
बोधिसत्व उवाच।
धर्म स्थिता न खलु तेऽपि नमन्ति येषां
भीतद्रतेष्वपि मृगेषु शरासनानि ।
तेभ्योऽपि निन्द्यतम एव नराशनस्तु
जात्युच्छिता हि पुरुषा न च भक्षणीयाः ।
अथ सौदासः परिकर्कशाक्षरमप्यभिधीयमानो बोधिसत्त्वेन
तन्मैत्रीगुणप्रभावादभिभूतरौद्रस्वभावः सुखायमान एव तद्वचनमभि-
प्रहसन्नुवाच। भोः सुतसोम !
मुक्तो मया नाम समेत्य गेहं समन्ततो राज्यविभूतिरम्यम् ।
यन्मत्समीपं पुनरागतस्त्वं न नीतिमार्ग कुशलोऽसि तस्मात् ॥
१ अधर्म चरतीत्याधर्मिकः । “अधमीच्चेति वक्तव्यम्" इति ठक् ।

प्रबन्धप्रकाशः MANOHAR बोधिसत्व उवाच। नैतदस्ति । अहमेव तु कुशल नीतिमार्ग यदेनं न प्रतिपत्तुमिच्छामि। आतश्च नीतौ कुशलोऽहमेव त्यक्त्वानृतं योऽभिरतोऽस्मि सत्ये। न तत्सुनीतं हि वदन्ति तज्ज्ञा यन्नानुबध्नन्ति यशःसुखार्थाः ।। सौदास उवाच- प्राणान्प्रियान्स्वजनमश्रुमुखं च हित्वा राज्याश्रयाणि च सुखानि मनोहराणि । कामर्थसिद्धिमनुपश्यसि सत्यवाक्ये तद्रक्षणार्थमपि मां यदुपागतोऽसि ।। बोधिसत्त्व उवाच। बहवः सत्यवचनाश्रया गुणातिशयाः । संक्षेपतस्तु श्रूयताम्- माल्यश्रियं हृद्यतयातिशेते सर्वान रसान्स्वादुतया च सत्यम् । श्रमादृते पुण्यगुणप्रसिद्धथा तपांसि तीर्थाभिगमश्रमांश्च ।। कीर्तर्जगद्वयाप्तिकृतक्षणाया मार्गस्त्रिलोकाक्रमणाय सत्यम् । द्वारं प्रवेशाय सुरालयस्य संसारदुर्गोत्तरणाय सेतुः ।। अथ सौदास: साधु युक्तमित्यभिप्रणम्यैनं सविस्मयमभिवीक्ष- माण: पुनरुवाच अन्ये नरा मशगा भवन्ति दैन्यार्पणात् त्रासविलुप्तधैर्याः । सन्त्यज्यसे त्वं तु न धैर्यलक्ष्म्या मन्ये न ते मृत्युभयं नरेन्द्र ! ॥ १ एनं नीतिमार्गम् । यत उक्तम्-"ये नीतिमार्गप्रतिपत्तिधीराः प्रायेण ते प्रेत्य पतन्त्यपायान्” । २ क्षणोऽवसरः ।

प्रवन्धप्रकाशः -- बोधिसत्त्व उवाच- महतापि प्रयत्नेन यच्छक्यं नातिवर्तितुम् । प्रतीकारासमर्थन भयक्लैव्येन तत्र किम् ।। इति परिगणितलोकस्थितयोऽपि तु कापुरुषाः पापप्रसङ्गादनुतप्यमानाः शुभेषु कर्मस्वकृतश्रमाश्च आशङ्कमानाः परलोकदुःश्वं मर्तव्यसंत्रासजडा भवन्ति ।। चिरं विचिन्त्यापि च नैव पापे मनःपदन्यासमपि स्मरामि । विशोधितस्वर्गपथोऽहमेवं मृत्योः किमर्थ भयमभ्युपेयाम् ।। तदुपश्रुत्य सौदास: प्रसादाश्रुव्याप्तनयनः समुद्भिद्यमानरोमाञ्च- पिटको विस्मृतपापस्वभावतामिस्रः सबहुमानमवेक्ष्य बोधिसत्त्वमु- वाच । शान्तं पापम् । अद्याद्विषं स खलु हालहलं प्रजान- नाशीविषं प्रकुपितं ज्वलदायसं वा। मूर्धापि तस्य शतधा हृदयं च यायाद् यस्त्वद्विवस्य नृपपुङ्गव ! पापमिच्छेत् ॥ तदर्हति भवांस्तान्यपि मे सुभाषितानि वक्तुम् । अनेन हि ते वचनकुसुमवर्षणाभिप्रसादितमनसः सुष्ठुतरमभिवृद्धं च तेषु मे कौतू. हलम्। अपि च माः दृष्ट्वा मे चरितच्छायावैरूप्यं धर्मदर्पणे। अपि नामागतावेगं स्यान्मे धर्मोत्सुकं मनः ।।

प्रबन्धप्रकाशः सत्कृत्य ६१ अथैनं बोधिसत्त्व : पात्रीकृताशयं धर्मश्रवणप्रवणमानसमवेत्यो- वाच। तेन हि धार्थिना तदनुरूपसमुदाचारसौष्ठवेन धर्मः श्रोतु युक्तः। पश्य नीचस्तरासनस्थानाद् विबोध्य विनयश्रियम् । प्रीव्यर्पिताभ्यां चक्षुभ्यां बाङ्मध्वास्वादयन्निव ।। गौरवावर्जितैकाग्रप्रसन्नामलमानसः । धर्म शृणुयाद् भिषवाक्यमिवातुरः॥ अथ सौदासः स्वेनोत्तरीयेण समास्तीयोंच्चैस्तरं शिलातलं तत्र चाधिरोप्य बोधिसत्त्वं स्वयमनास्तरितायामुपविश्य भूमौ बोधिसत्त्वस्य पुरस्तादाननोदीक्षणव्यातनिरीक्षणस्तं महासत्त्वमुवाच । ब्रूहीदानी मार्षति अथ बोधिसत्त्वो नवाम्भोधरनिनदमधुरेण गम्भोरेणापूर यन्निव तद्वनं व्यापिना स्वरेणोवाच- यहच्याप्युपानीतं सकृत्सज्जनसंगतम् । भवत्यचलमत्यन्तं नाभ्यासक्रममीक्षते ॥१॥ तदुपश्रुत्य सौदासः साधु साध्विति स्वशिरः प्रकम्प्यागुली- विक्षेपं बोधिसत्त्वमुवाच । अथ बोधिसत्त्वो द्वितीयां गाथामुदाजहार- न सज्जनाद् दूरचरः क्वचिद्भवे- द्रजेत साधून्विनयक्रमानुगः । mariya ततस्ततः। १ मार्ष मारिष "आर्यस्तु मारिष:" इत्यमरः ।

प्रबन्धप्रकाशः SMRAHIM स्पृशन्त्ययत्नेन हि तत्समीपगं विसर्पिणस्तद्गुणपुष्परेणवः ॥ २ ॥ सौदास उवाच। सुभाषितान्यर्चयता साधो! सर्वात्मना त्वया। स्थाने खलु नियुक्तोऽर्थः स्थाने नावेक्षितः श्रमः ।। ततस्ततः। बोधिसत्व उवाच- रथा नृपाणां मणिहेमभूषणा वजन्ति देहाश्च जराविरूपताम् । सतां तु धर्म न जराभिवर्तते स्थिरानुरागा हि गुणेषु साधवः ॥३॥ ( सौदास उवाच) अमृतवर्ष खल्विदम् । अहो सन्तर्पिता: ततस्ततः। बोधिसत्त्व उवाच- नभश्च दूरे वसुधातलाच पारादवारं च महार्णवस्य । अस्ताचलेन्द्रादुदयस्ततोऽपि धर्मः सतां दूरतरेऽसतां च ॥४॥ अथ सौदास: प्रसादविस्मयाभ्यामावर्जितप्रेमबहुमानो बोधि- “सत्त्वमुवाच । चित्राभिधानातिशयोज्ज्वलार्था गाथास्त्वदेता मधुरा निशम्य । आनन्दितस्तत्प्रतिपूजनार्थ वरानहं ते चतुरो ददामि ।। तद् वृणीष्व यद्यन्मत्तोऽभिकाङ्क्षसीति । ।

प्रबन्धप्रकाशः अथैनं बोधिसत्त्वः सविस्मयबहुमान उवाच । कस्त्वं वर- प्रदानस्य। यस्यास्ति नात्मन्यपि ते प्रभुत्वमकार्यसंरागपराजितस्य । स त्वं वरं दास्यसि के परस्मै शुभप्रवृत्तेरपवृत्तभावः ।। अथ सौदासः किञ्चिद्रीडावनतवदना बोधिसत्त्वमुवाच । अल- मत्रभवतो मामेवं विशङ्कितुम । प्राणानपि परित्यज्य दास्यामि तानहं वरान् । विस्रब्धं तद् वृणीष्व त्वं यद्यदिच्छसि भूमिप ! ॥ बोधिसत्त्व उवाच। तेन हि सत्यव्रतो भव विसर्जय सत्त्वहिंसा बन्दीकृतं जनमशेषमिमं विमुञ्च । अद्या न चैव नरवीर मनुष्यमांस- मेतान्वराननवराश्चतुरः प्रयच्छ । सौदास उवाच- ददामि पूर्वान्भवते वरांस्त्रीनन्यं चतुर्थ तु वरं वृणीष्व । अवैषि किं न त्वमिदं यथाहमीशो विरन्तु न मनुष्यमांसात् ।। बोधिसत्त्व उवाच। हन्त तवैतत्संवृत्तम् । ननूक्तं मया कम्त्वं वरप्रदानस्येति । अपि च भोः सत्यव्रतत्वं च कथं स्यादहिंसकता च ते। अपरित्यजतो राजन्मनुष्यपिशिताशिताम् ॥ आह । ननूक्तं भवता पूर्व दास्याम्येतानहं वरान् । प्राणानपि परित्यज्य तदिदं जायतेऽन्यथा ।।

प्रबन्धप्रकाशः mamta सौदास उवाच- त्यक्त्वा राज्यं वने क्लेशो यस्य हेतोधृतो मया। . हतो धर्मः नता कीर्तिस्त्यक्ष्यामि तदहं कथम् ॥ बोधिसत्व उवाच । अत एव तद्भवांस्त्यक्तुमर्हति । धर्मादर्थात्सुखाकीर्तभ्रष्टो यस्य कृते भवान् । अनायतनं तादृक् कथं न त्यक्तुमर्हसि ।। तदलं ते पाप्मानमेवानुभ्रमितुम् । अवबोद्भुमर्हस्यात्मानम्। सौदासः खल्वत्र भवान्। चित्तस्य नाहसि नरेन्द्र ! वशेन गन्तु धर्मार्थयारनुपरोधपथं भजस्व । एको नृपान्युधि विजित्य समस्तसैन्यान मा चित्तविग्रहविधौ परिकातरो भूः।। लोक: परोऽपि मनुजाधिप ! नन्ववेक्ष्य- स्तस्मात्प्रियं यदहितं च न तनिषेव्यम् । यत्स्यात्तु कीर्त्यनुपरोधि मनाज्ञमार्ग तद्विप्रियं सदपि भेषजवद्भजस्त्र ।। अथ सौदास: प्रसादाश्रव्याप्तनयनो गद्गदायमानकण्ठः सम- भिमृत्यैव बोधिसत्त्वं पादयोः सम्परिष्वज्योवाच । गुणकुसुमरजोभिः पुण्यगन्धैः समन्ता- ज्जगदिदमवकीर्ण कारणे वद्यशोभिः । इति विचरति पापे मृत्युदूतोप्रवृत्ती त्वमित्र हि क इवान्यः सानुकम्पो मयि स्यात् ।। --- bo प्रबन्धप्रकाशः ६५ शास्ता गुरुश्च मम दैवतमेव च त्वं मूर्ना वचांस्यहममूनि तवार्चयामि । भाक्ष्ये न चैव सुतसेाम मनुष्यमांसं यन्मां यथा वदसि तच तथा करिष्ये ॥ नृपात्मजा यज्ञनिमित्तमाता मया च ये बन्धनखेदपीडिताः। हतत्विषः शोकपरीतमानसा- स्तदेहि मुञ्चाव सहैव तानपि ॥ अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य यत्र ते नृपसुतास्तेनावरुद्धा- स्तत्रैवाभिजगाम। दृष्ट्वैव च ते नृपसुताः सुतसामं हन्त मुक्ता वयमिति परं हर्षमुपजग्मुः । अथैनानभिगम्य बोधिसत्त्वः समा- श्वासयन्प्रियवचनपुरःसरं च प्रतिसम्मोद्य सौदासस्याद्रोहाय शपथं कारयित्वा बन्धनाद्विमुच्य साध सौदासेन तैश्च नृपतिपुत्रैरनुगम्य- मानः स्वं राज्यमुपेत्य यथाहकृतसंस्कारांस्तान् राजपुत्रान्सौदासं च खेषु स्वेषु राज्येषु प्रतिष्ठापयामास । तदेवं श्रेयः समाधत्त यथातथाप्युपनत: सत्सङ्गम इति अयो- ऽथिना सज्जनसमाश्रयेण भवितव्यम् ॥ [आर्य शूरविरचितजातकमालायाः ५ प्रबन्धप्रकाशः इयमुदरदरी दुरन्तपूरा यदि न भवेदभिमानभङ्गभूमिः । कथमपि न सहे भवादृशानां कुटिलकटाक्षनिरीक्षणं नृपाणाम् ।। "माने भग्ने कुतः सुखम्" इत्यादर्शमनुसरत: अपहरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुलज्जामित्यहं किं न वेद्मि। तदपि वद वदान्यं तं सदा प्रत्यहं मां जठरपिठरवर्ती वह्निरर्थीकरोति ।। इत्युक्त्यनुसारं दुर्भरोदरपूरणार्थमभिमानिनां प्रभूणां सेवया जीवन- वृत्त रुपार्जने कदर्थनामनुभवत: सर्वमेतदुदरहेतुकमिति चावगच्छतः कस्यचिन्मानधनस्य मनस्विनः सोपालम्भमुदरमहिमवर्णनपरो- क्तिरियम्- इयमुदरदरी दुरन्तपूरेत्यादि । तदत्रास्योदरस्य कीदृशं महत्त्वम् , कियांश्च प्रभावः, कथं च तत्पूरणार्थ मनुजा कर्तव्याकर्तव्यचिन्तामुत्सृज्य परवशा इव जगति नानाविधव्यापारेषु प्रवृत्ता भवन्तात्येवाधस्तात्सविशदं प्रति- पाद्यते। तथाहि- एतत्खलु त्रिभुवनप्रभवेणानन्तलीलानिलयेन भगवता परमे- ष्ठिना सृष्टं विविधकुतूहलाकुलमद्भुतं विशालं जगद्वीक्षमाणानां Home प्रबन्धप्रकाशः ६७ मनसि महान्तं विस्मयमावहति । अत्र खलु ये गिरिसरिद्वनादयो नेकविधा: प्राकृतिकसौन्दर्यावहा मनोरमा लोकोपकारिणश्च पदा- स्तेषामेकस्यापि याथार्थ्यन स्वरूपमवगन्तु को ब्रह्मर्षिकल्पोऽपि कल्पते । अहो! क्षणमेव तावद्विचारबुद्धथावधार्यतां यथा- देरेकस्यापि पदार्थस्य तत्त्वबुभुत्सयाऽऽजीवनं तपांसि तपन्तो ब्रह्मचर्यमाचरन्तो विसृज्य भोगसम्पदोऽरण्येषु विश्राम्यन्तोऽपि मनीषिणस्तत्तत्वज्ञानेऽवसीदन्ति । तत्रैवं तेन भगवतातिविस्मयास्पदीभूतेषु सृष्टेषु वस्तुषु विशे- षतो नितरामतिप्रभाववदेतदुदरम् । व्याप्त ह्यनेन जगदखिलम् । सर्वत्रैवानवरुद्धमकण्टकमेतच्छासनम् । न केवलमाबालवृद्धमाराज- रङ्कमापामरप्राज्ञं, किन्तु आकृमिकीटमपि, सर्व प्राणिन एतद्वश्याः। एष खलु निजमहिम्ना स्वप्रभावेण च महामहिम्नो देवानप्यति- शेते। सन्तु देवानामङ्ग लिनिर्देश्याः केचित्समुपासकाः, तेऽपि मानवेष्वपि केचिदेव नानाविधविपज्जालज्वाला- वलीसुदुःसहं मोहसलिलप्रचलदूमिमालाकुलं क्रोधादिमहाग्राहसङ्कल- मिमं संमृतिपाथोनिधिं दृष्ट्वा, तथा वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विषयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ एव हि मानवा एव ।

६८ प्रबन्धप्रकाशः इति विमृशन्तो देवानुपासते। परं कस्तादृशो यो जन्मासाद्य जठरवश्यो न भवेत् । जन्मारभ्य मरणपर्यन्तं न केवलं प्रतिदिनं किन्तु प्रतिक्षणमस्य प्रभावः केन नानुभूयते, महिमा वा यदि न शब्दद्वारा तर्हि व्यवहार- द्वारा केन न गीयते । वस्तुत एतदभावे संसारस्थितिरेव सुदुर्लभा। ततश्च विचित्रा हि वाङ्मनसयोरगोचरीभूता मायैतत्य, जिला- साहस्रथपि यां वर्णयितुमशक्ता । एवं च सति सिन्धुराननादीनां देवानां माहात्म्यवर्णनपरेषु परःशतेषु स्तोत्रकदम्बकेषु विद्यमानेषु महामहिम्नो लोकानखिलानवाप्तवतो जठरस्य स्तोत्राणामभावो नूनमेतस्य गुणगौरवपरम्परामपारयतो वर्णयितु कविमण्डलस्यैव धीमान्द्यप्रख्यापक इति मन्यामहे । एवं चातिप्रभाववदतिमहत्त्वयुक्तं चैतदुदरम्। एतद्धतुका एव हि सर्व लौकिका व्यवहाराः। तथा च लौकिकानामाभाणक: "सर्वारम्भास्तण्डुलप्रस्थमूलाः" इति। किं बहुना, सम्पत्तिशास्त्रस्य मूलभित्तिरुदरपूरणचिन्तैव । धर्मादिपुरुषार्थचतुष्टयावाप्तेमुख्य- साधनस्य शरीरस्य च धारणकारणमुदरमेव । परमेष महान्प्रभावो महिमा चोदरस्य न केवलं गुणपक्ष एव किन्तु तदितरपक्षेऽपि दृश्यते । स्वभाव एवैष परमेश्वरसृष्टौ प्रायः सर्वेषां पदार्थानां विशेषतश्चातिमहत्त्वयुक्तानां यत्तेषां प्रभावो न केवलं प्राणिनामभिमतानां प्रियाणां चार्थानां साधनत्वेनैव दृश्यते किन्तु नैककारणवशात्प्रायस्तत्प्रतिकूल- रूपत्वेनाप्यनुभूयते । एतन्नियमानुसारेणैव संसारस्थितेः प्रधानwand प्रबन्धप्रकाशः ६९ कारणस्यैतस्योदरस्य रौद्रमप्रियं च रूपमपि सर्वत्र दृष्टिगोचरतां यात्येव । तथा च । हा हन्त ! कस्यैतदविदितं यद् दुर्भिक्षकाले प्राणे. भ्योऽपि वल्लभतरं निजनयनचकोरचन्द्र "आत्मा वै पुत्रनामासि" इत्यादिश्रुतिशिरोवाग्भिरसकृद् गीयमानमात्मस्वरूपमात्मजं पितरावे- तस्यैव पापीयसो दग्धजठरस्य कृते विक्रीणाते ! ऐहिकामुष्मिकसुखदं सखायं धर्म च परित्यज्य विधर्मिणां शरणं यान्ति मानवाः निखिलमेतदेतस्यैव विलसितम् । उदव्याधिना खिन्नो हि मर्त्यः किं किन्नानुतिष्ठति ? गिरिगुरु- गर्तदुर्गमे कान्तारे वा, विविधव्यालकुलसमाकुले पाताले वा, अगाध- जलसञ्चारे सागरेऽपि वा नहि गम्यागम्यं विमृशति । नेयम- युक्तिः। कैनेडा, ट्रांसवाल, फ्रीजी इत्यादिषु सुदूरेषु प्रदेशेषूपनि- वेशेषु च जीवनवृत्तेरुपार्जनार्थमेव गतवतां नानाविधप्रतिकूल- परिस्थितिषु च कालमतियापयतां या खल्वस्मशीयानामवस्था दुरवस्था वा सा कस्याविदिता । आः! निखिलमेतज्जठरहतक- स्यैव क्रीडितम् । क्षुद्व्याधिना हि खिन्नस्य नहि धर्माधर्मविमर्शोऽपि कार्यावरोध- हेतुः। तथा चाहुरभियुक्ताः "बुभुक्षितः किं न करोति पापम्" इति । यत्खलु प्रायशः सर्वेष्वेव देशेषु जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। इत्यनुसारं जननासमानाया मातृभूमेरनिष्टं मानवापसदैर्दश- द्रोहिभिराचर्यते तदेतत्कारणादेव । केन हि न श्रुतानि यूरोपी- प्रबन्धप्रकाशः एवं । dan पीयमहायुद्धावसरे फ्रांसादिदेशेष्वनेकेषां देशद्रोहिणामेतादृशा- न्युदाहरणानि। अहो क्षुधातुराणां मानावमानविचारोऽपि दूरत धावति । यं खलु मानं "सतां माने म्लाने मरणमथवा दूरगम- नम्”-तथा हि न्यक्कारमुदरभरणे लब्ध्वा राहुर्जहावुदरमेव । इच्छति मानी मरणं न च गच्छति वैरिणः शरणम् ।। -इत्येवं बहुधाभिष्टुवन्ति सन्तः, तमपि मानं विसृज्य क्षुत्तामकण्ठो मानमहतामग्रसरोऽपि मानधन इमामुदरदरी कष्टात्कष्टतरं किं परगृहवास: परान्नं च । इत्याधुक्त्यनुसारं नितरामवज्ञाहेतुपरान्नयाचनरूपभिक्षाकारणत्वेन मानभङ्गभूमिं पूरयितु क्षुद्राणामविवेकमूढमनसामीश्वराणां वित्तव्या- ध्यविवेकसंकुलगिरः शृण्वन् द्वारं द्वारमटन् परसदननिविष्टः को लघुत्वं न याति । इत्यादिवचोऽनुरूपमवज्ञाभाजनं भवति । सर्वमेतदेतस्य पापीयसो जठरस्य लीलायितम्। तथा च महामतेत हरेः किञ्चित्परिवर्तितं पद्यम्- दीनादीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरां क्रोशद्भिः क्षुधितैर्निरन्नविधुरां दृष्ट्वा निजां गेहिनीम् । याच्याभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षर को देहीति वदेन्न दग्धजठरस्यार्थे प्रभूणां पुरः।

SH प्रबन्धप्रकाशः ३५ सजातः। अत अर्ध्वञ्च यदपि किञ्चित्स आदिशति तन्मदीय एवादेश इति कृत्वा सर्वैरङ्गीकतव्यम् । अयं भावः। उन्नतिपदाभिलाषिभिः स्वीया पूर्वावस्था नहि विस्मर्त्तव्या। अथवा, एतदेव महात्मनां लक्षणं यत्-- धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः ॥ ताशानेवाभिलक्ष्य गीयते- ये दोनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदो व्यग्रा ये च परोपकारकरणे दृष्यन्ति ये याचिताः। स्वस्थाः सन्ति च यौवनोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्भैरिव सुस्थितैः कलिभरक्लान्ता धरा धार्यते ।। इति । । । पुरुषार्थचतुष्टयम् इह चत्वारः पुरुषार्था भवन्ति तद्यथा अर्थः कामो धर्मो मोक्षश्चेति । तत्रार्थ एव प्रधान: पुरुषार्थ इति केचिन्मन्यन्ते । अर्थनिचयकलित: पुरुषो लोके जराजीर्णशरीरोऽपि उन्मत्तपञ्च- विंशतिकतरुणनराकारः प्रतीयते । अतिकातरहृदयोऽपि महा- समरसङ्घट्टनियूंढसाहसोऽतुलबलपराक्रम इति गीयते । सिद्ध. मातृकापाठमात्रशक्तिविकलबुद्धिरपि समस्तशास्त्रार्थावगाहनचतु- मतिरिति बन्दिभिः पठ्यते । कुरूपतया नितरामदर्शनीयोऽपि प्यते । दृश्यन्ते लाक, यदुत एके दायका अन्ये तु याचकाः, तथैके ३६ प्रबन्धप्रकाशः चाटुकरणपरायणैः सेवकनरैरवजितमकरकेतुरिति हेतुभिः स्था- अविद्यमानप्रभावगन्धोऽपि समस्तवस्तुसाधनप्रवरणप्र- भावोऽयमिति सर्वत्र तद्धनलुब्धबुद्धिभिः प्रकाश्यते । जघन्य- घटदासिकातनयोऽपि प्रख्यातोन्नतमहावंशप्रसूतोऽयमिति प्रणयि- जनैः स्तूयते । आसप्तमकुलबन्धुतासम्बन्धविकलोऽपि परम- बन्धुबुद्धया समस्तलोकगृह्यते । तदिदं समस्तमर्थस्य भगवतो विलसितम्। किञ्च-समाने पुरुषत्वे समसंख्यावयवाः पुरुषा यदेते - नरपतयोऽन्ये पदातयः, तथैके निरतिशयशब्दाद्युपभोगभाजन- मन्ये तु दुष्पूरोदरदरीपूरणकरणेऽप्यशक्ताः, तथैके पोषका अन्ये पोध्या इत्यादयो निःशेषविशेषा निजसद्भावासद्भावा- भ्यामर्थेनैव सम्पाद्यन्ते । तस्मादर्थ एव प्रधानः पुरुषार्थः। अत एवोच्यते- अर्थाख्यः पुरुषार्थोऽयं प्रधानः प्रतिभासते । तृणादपि लघु लोके धिगर्थरहितं नरम् ।। काम एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते । तथा हि। खलु ललितललनावदनकमलमकरन्दास्वादनचतुरचञ्चरीक- ताचरणमन्तरेण पुरुषः परमार्थतः पुरुषतां स्वीकुरुते। किञ्चार्थ- निचयस्य कलाकौशल्यस्य धर्मार्जनस्य जन्मनश्च वस्तुतः परमं फलम् । कामविकलैः पुनः किमेतैः सुन्दरैरपि कामासेवनप्रचणचेतसां पुरुषाणां तत्स- न काम एव क्रियते । अन्यञ्च ।

प्रबन्धप्रकाशः ३७ म्पादका धनकनककलत्रादयो योग्यतया स्वत एवोपतिष्ठन्ते सम्पद्यन्ते भोगिनां भोगा इति गोपालवालावलादीनां सुप्र- सिद्धमिदम् । अपि च-- स्मितं न लक्षण वा न कोटिभि- नं कोटिलक्षः सविलासमीक्षितम् । अवाप्यतेऽन्यैरदयोपगृहनं न कोटिकोट्यापि तदस्ति कामिनाम् ।। अतः किन्न पर्याप्त तेषाम् । तस्मात्काम एव प्रधान: पुरुषार्थः । अत एवाभिहितम्-- कामाख्यः पुरुषार्थोऽयं प्राधान्येनैव गीयते । नीरसं काष्ठकल्पं हि धिक्कामविकलं नरम् ।। धर्म एव प्रधान: पुरुषार्थ इत्यन्ये मन्यन्ते। तथा हि । तुल्ये जीवत्वे किमित्येके पुरुषाः कुलक्रमागतद्रविणेापचितेपु गुरुतरचित्तानन्दसन्दर्भधामसु निःशेषजगदभ्यहितेषु कुलेपूप- जायन्ते, किमिति चान्ये पुरुषा एव धनगन्धसम्बन्धविकलेषु समस्तदुःखभरभाजनेषु सर्वजननिन्दनीयेषु कुलेषूत्पद्यन्ते । तथा किमित्येकजननीजनकतया सहोदरयोर्यमलयोश्च द्वयोः पुरुष- योरेष विशेषो दृश्यते यदुतैकस्तयोर्मध्ये रूपेण मीनकेतनायते, प्रशान्ततया मुनिजनायते, बुद्धिविभवेनाभयकुमारायते, गम्भीर- तया क्षीरनीरेश्वरायते, स्थिरतया सुमेरुशिखरायते, शौर्येण धनञ्जयायते, धनेन धनदायते, दानेन कणोयते, नीरोगतया , प्रबन्धप्रकाशः कृपणतया वनशरीरायते, प्रमुदितचित्ततया महर्द्धिविबुधायते । ततश्चैवं निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो भवति । द्वितीयः पुनर्बीभत्सदर्शनतया भुवनमुद्वेजयति, दुष्टचेष्टतया माता- पित्तरावपि सन्तापयति, मूखशेखरतया पृथ्वी विजयते, तुच्छ- तयार्कशाल्मलीतूलमतिशेते, चपलतया वानरलीलां विडम्बयति, कातरतया मूषककदम्बकमधरयति, निर्धनतया रौरवाकारमाविभर्ति, ढकजातीयानतिलङ्घयति, महारोगभराक्रान्ततया विक्लवं क्रन्दमाना जगतोऽप्यात्मनि कारुण्यमुत्पादयति, दैन्याद्वेगशोकाद्युपहतचित्ततया घोरमहानरकाकारं सन्तापं स्वीकुरुते । ततश्चैवं समस्तदोषभाजनतया लोकैः पापिष्ठो दुष्टोऽयमिति निन्द्यते । अन्यच्च-द्वयोः -द्वयोः पुरुषयोरनुपहतसत्त्वबुद्धिपौरुषपराक्रमयो- नि:शेषविशेषैस्तुल्यकक्षयोरर्थोपार्जनार्थ प्रवर्तमानयोः किमित्येको यद्यदारभते कृषि पाशुपाल्यं वाणिज्यं राजोपसेवामन्यद्वा तदथ कर्म तत्तत्सफलतामुपगच्छति । इतरस्य पुनस्तदेव कर्म न केवलं विफलं सम्पद्यते, किन्तर्हि पूर्वपुरुषोपार्जितमपि धनलवं वैपरीत्या- पत्त्या प्रत्युत निःशेषयति । अन्यच्चेदमपि चिन्तनीयं यदुत द्वयोरेव पुरुषयोनिरुपचरिताः पञ्चप्रकाराः शब्दादिविषयाः क्वचिदुपनमन्ते । तत्र तयोरेकः प्रबलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति । द्वितीयस्य पुनर- काण्ड एव किमिति कापण्यरोगादिकं कारणमुत्पद्यते येन वाञ्छ- नपि तानेव भक्तुि न शक्नोतीति ।

प्रबन्धप्रकाश: तद्यथानुश्रूयते । कस्मिंश्चिद् प्रामे ब्राह्मण एकः प्रतिवसति स्म। तस्य भवदत्तभवदेवनामानौ द्वौ सूनू अभूताम्। कालेन तयोर्यायान् भवदत्तो बौद्धसंन्यासिनामुपदेशेन गृहीतक्षपणकवेश- स्तैरेव साई गतः, नितरां विरक्तश्चाभूत् । एकदा तेषां क्षपणकानामेकः स्वमठाधीशादेशेन नामान्तरं गतः। तत्रैव तस्य भ्रातापि निवसति स्म। स्वभ्रातुरन्तिकं तस्य क्षपणकत्वापादनार्थमुपस्थितः स भ्रात्रात्यन्तं न्यक्कृतः खलीकृतश्च । एवं विफलमनोरथः स स्त्रमठं प्रत्यागतोऽखिलं तत्स्वभ्रातृवृत्तं कुलाधी- गुशाय निवेदितवान्। उपहसितश्चासावतिशयेन तद्भातृगहरणापरैः भोसर्वैः क्षपणकैः। यति अथ गोष्ठीप्रसङ्गन भवदत्तस्तैरभिहितः । किं भवानपि- न स्वभ्रातुः क्षपणकत्वापादन एवमेवासमर्थ इति। तेनोक्तम्। नाह- मशक्तः। प्रतिजाने च यदवश्यमेव स्वभ्रातरं नपणकतामाने- ध्यामीति। तत एकदा कुलाधीशेन सह पर्यटन् भवदत्तो यात्राप्रसङ्गन स्वाभिजनप्रामसमीपमेवाध्युषितः । तदादेशेन च प्रतिज्ञातार्थसम्पा- दने दृढमतिर्निजभ्रातृभवनं तस्य साक्षात्करणाय गतवान् । तत्र च तस्य विवाहस्तस्मिन्नेव वासरे निवृत्त आसीत् । अथा- स्थानुजो भवदेवः स्वभ्रातरं समागतमालोच्य यथोचितोत्थाना- दिशिष्टाचारैः सत्कृतवान् । प्रस्थितं च तमनुसरन् बहुदूरं तु यावन्मठाधीशान्तिकमुपस्थितः। प्रत्यक्षतः सफलमनोरथश्च भव- भ दत्तः कुलाधीशेन पृष्टः । किमयमानीतः नपणकतामहणार्थ- प्रबन्धप्रकाशः । मिति । भवदत्तेन च बाढमित्यभिहितम् । भवदेवोऽप्येतमर्थ पृष्टोऽब्रवीत् । अस्तु एवमेव, मा पुनर्मे भ्राता मृषावादी भूदिति । एवं भवदत्तेन स्वानुजो भवदेवः क्षपणकतामानीतो गृहीत- क्षपणकवेशस्तैरेव सार्द्ध निवसन्नस्मरन्नेव चाबलां स्वभार्या चिरकालं निनाय। कालेन तस्य ज्यायान् भ्राता भवदत्तः स्वर्गपथमारूढः । भवदेवस्तु तदनन्तरं यस्य सत्यवादित्वरक्षणाय मया क्षपणकताङ्गी- कृता सोऽधुना पञ्चत्वं गत इति विचार्य, हन्त ! सा वराकी, या मयातिनिष्ठुरेण विवाहदिवस एव परित्यक्ता, साम्प्रतं तुहिना- विलेव पद्मिनी मरुमध्यगतेव च मराली ननु कां महती कष्टां दशा- मनुभवन्ती स्यादिति जिज्ञासयैकदा केनचिदपदेशेन स्वग्रामं गतः। प्रतीक्षमाणश्च तां स्वभवनद्वारि स्थितः। क्षणेन च तस्माद् गेहाद् बहिनिर्गच्छन्त्यौ द्वे स्त्रियौ तेन पृष्टे । किं परिचिता भवत्यो गिला (इदमेव तस्य पत्न्या नामासीत् )। परिचिता चेत्कां दशामनु- भवति सेति। तयोरेका नागिलैवासीत् । सा च कृताधोमुखी सविनय- मब्रवीत्। सा हि वियोगवासरादेव देवदेवं भगवन्तमुमापति निध्यायन्ती कालमतिवाहयति । अहमेव च सा नागिलास्मोति । एतस्मिन्नेवान्तरे कश्चिद् बाल श्राक्रन्दन् गृहान्निर्ययो। साग्रह चाब्रवीद् यदहं स्ववान्तं भक्षयिष्यामि । तं सान्त्वयन्भवदेव आह। सौम्य ! नहि वान्तं पुनरादत्ते कश्चित् । महद् गर्हणीयं हि तदिति । । ।

प्रबन्धप्रकाशः प्रदेशगमनान्मुखं निन्नगादीनां पयो महान्ति कान्ताराणि स्थलानि वा प्रतीपयितु नहि पारयन्ति। अन्यद् वा किञ्चिन्नैव जातु तत्सर्वथा निरोद्ध क्षमम् । तद्धि समुत्खाय समूलमनकषानपि तरून् कान्तारपरम्परा अपि नाशयति । गुरुग्रावपरम्परादुर्गमेषु गिरिगर्भेषु च स्वमार्ग सम्पादयति । एवमेव ये निश्चयात्मानः सत्यसन्धाः साधवो महीयांसोऽतिमानमहिमान धीरास्तेऽपि स्वाभीप्सितार्थमासादयितु प्रवृत्ता विनरतिमानं ताड्यमाना अपि नहि स्वनिश्चितव्यापाराद्विरमन्ति । कस्यैतदविदितं यत् "मनोरथानामगतिनं विद्यते”. इत्यनुसारं नानाविधमनोरथरतमानवकुलसंकुलेऽस्मिन् भुवने नैजवाञ्छिता- नुरूपं तत्तत्कार्यसम्पादनपरा विविधव्यापारव्यापृताः यान्ति दृष्टिपथमशेषा मानुषाः। परं स्वस्वव्यापारपराणां तेषां नियतिवशान्नियतमेव प्रायशा जायते प्रचुरविनसन्ततिसमुद्भूतिः । तत्र ये लघीयांसोऽधीरभीरवस्तेऽसहमाना विपत्परम्परास्त्यज- न्त्येव स्वाभीष्टाधिगतेः प्रत्याशाम् । ये तु सत्यसन्धा अप्रति- हतप्रतापा महानुभावाः प्राणोपहारेणापि प्रतिश्रु तादादविरमण- शीला धैर्यकञ्चुका मानवास्त एव स्वाभीप्सितार्थेषु साफल्यं लभन्ते । सोत्साहपने हि वोरहृये न जातु खेदेोऽधैर्य वाव- काशं लभते । तादृशानेव दृढसङ्कल्पान् मानवकुलतिलकानुद्दिश्य गीयतें- उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः ।

प्रबन्धप्रकाशः " विकसति यदि पद्म पर्वताय शिलायां न भवति एनरुक्तं भाषितं सज्जनानाम् ।। किञ्च । अङ्गनवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य वीरस्य ॥ सत्यमेवंविधा एव महासत्वा विपत्परम्पराः समापतन्तु, सपदि राज्यलक्ष्मीविलयमेतु, शिरस उपरि कृपाणधारा: पतन्तु, किं बहुना, प्राणात्ययेऽप्यभीप्सितमर्थमसाधयित्वा न निवर्तन्ते । विपत्समागमं स्वपरीक्षणार्थमेवोदितं मन्यन्ते । कनकस्य निकषोपल इव तेषां परीक्षणार्थमेव व्यसननिकोपलादयः। तदत्र स्मृतिपथ- मायाति तत्रभवतो भत हरेः पद्यमेतत्- आरभ्यते न खलु विन्नभयेन नीचैः प्रारभ्य विन्नविहता विरमन्ति मध्याः। विघ्नः सहस्रगुणितैरपि हन्यमानाः प्रारभ्य चोत्तमजना न परित्यजन्ति ॥ सार्वकालिक सार्वत्रिकं चैतद् वृत्तं मानवकुलावतंसानाम् । इति. हासपुराणेषु तावत् शतशो गाथा एतदर्थनिदर्शनीभूताः श्रूयमाणा आह्लादयन्ति नश्चेतांसि। यथा हि भगवति कैलासाधिपता तपस्तपस्यति समाधिभङ्गार्थ- मतिमात्रं मन्मथेन प्रयत्ने कृतेऽपि नहि समाधिभेदाय कोऽप्यन्तरायः प्रभुर्बभूव । तथा चाकर्यते- अ ताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ।।

प्रबन्धप्रकाशः यथा वा भगवत्युमा सर्वेश्वरेण हरेण साकं विवाहार्थ कृताध्यवसाया तदर्थ कृच्छ तपस्तपस्यन्ती त्वग्वासांसि धारयन्ती मात्रा मेनया बहुविधं स्वाभीप्सितादान्निवार्यमाणापि च व्रतभङ्ग- मकुर्वती तत्परैवासीत् । एवमेव पृथ्वीराजप्रभृतिभिः साकं तद्गुणोत्कर्षाकर्णनजनित- प्रेमातिशयगृहीतपाणिग्रहणव्रतानां संयोगिताप्रभृतीनों महिलावतं- सानाम्, क्लिष्टातिक्लिष्टप्रतिज्ञापालनपराणां भीष्महरिश्चन्द्ररामचन्द्रा- दीनां च राजर्षीणां बह्वयो गाथा: । अद्यत्वेऽपि वाष्पयानविद्युद्यन्त्रव्योमयानप्रभृतिविषयिका यापि चेतोविस्मापन्यवर्णनीया समन्तत: समुन्नति: समालोक्यते सापि चारु- चरित्रचर्चितानां स्वाभीष्टार्थादविरमणशीलानां मानवकुलतिलकाना- मेव कृतिः। अहरहो वा स्वाभीप्सितार्थस्थिरनिश्चयानामनेकेषां व्योमयानादिविद्यासमुन्नत्यै कृतप्राणपरित्यागानां संवादाः कस्य सहृदयस्य हृदये विस्मयादिभावान् न जनयन्ति । तस्मादवितथमेवेदमुच्यते-- क ईप्सितार्थस्थिरनिश्चयमित्यादि ।

NOTELEVe प्रबन्धप्रकाशः भिद्यते हृदयग्रन्थिश्चियन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्ट परावरे ॥ कथं नु खलु नानाविधविपज्जालज्वालावलीसुदुःसहस्य संसार- सागरस्यैतत्य पारं गन्तु सान्द्रानन्दसदनं परमेश्वरं च प्राप्तु प्रभ- वति मनुष्य इति मीमांसायां अतिशिरोवागियं समुल्लसति-- भिद्यते हृदयग्रन्थिरित्यादि। एष एवार्थोऽधोवर्णितया हृदयङ्गमया कल्पिताख्यायिकया विशदीक्रियते। कदाचिदेको महीपतिमृगयाप्रसङ्गन सुदूरमध्न् सर्वानुचर- गणैवियुक्त एकाको शुभभाग्यवशाल्कस्यचिन्महर्षराश्रमपदं प्राप । तत्र तेन मुनिना दत्तैः फलजलैह तक्लमः पर्यटन्नाश्रमादनतिदूरे बृहतीमेकां गुहामनाक्षीत् । गुहां प्रविश्य तस्यामेकमुन्तमं मन्दिर दृष्ट्वा संजातकौतुको यावज्जालगवाक्षैस्तदभ्यन्तरमवलोकयितु प्रवृ- त्तस्तावत्पश्यति यत्तत्र कापि योषित् सभृङ्गक चक्रमेक भ्रामयन्ती तिष्ठति । तदनन्तरं ते भृङ्गास्तत्र स्थितौ वृषमेकं गर्दभञ्च समा- श्रिताः। ताभ्यां च वृषगर्दभाभ्यां मुक्तौ क्षीरामृफेनौ पीत्वा ते भृङ्गाः सिता असिताश्च भूत्वा स्वविष्ठाभिर्जालकारका जाताः । ततस्तैर्द्विविधैर्विविधाः सुपुष्पैर्विषपुष्पैश्च संयुता जालपाशाः कृताः। ते च जालकारकास्तेषु पुष्पेषु यथासुखं संस्थिताः प्रबन्धप्रकाशः अथ ते श्वेतकृष्णोभयमुखेन सर्पणैकेन समेत्य दष्टाः पुनस्त- थैव तान् पाशांश्छित्त्वा यथायथं स्थिताः। अथ विषज्वालया तत्पुष्पजालस्थेष्वारटत्सु अन्येऽप्यजालस्था: क्रन्दितु प्रवृत्ताः। तेन तेषां रोदनध्वनिना भग्नसमाधिस्तत्रस्थः कोऽपि दयालुस्तापसस्तान् जालादमोचयत् । ततो निर्दग्धपाशास्ते कस्यापि द्रुमस्य विवरं प्रविष्टाः सूर्यतेजसि विलीना अभवन् । तावच सा योषित्सचक्र- वृषगर्दभा क्वापि गता। एतदालोक्य स महीपतिराश्रमपदं गत्वा तन्महदाश्चर्य तस्मै महर्षयेऽवर्णयत् । स च तद्रहस्यमेवमुघाटयत्। सौम्य ! या त्वया तत्र स्त्री दृष्टा सा माया। तामितं च यच्चक्रं तत्संसारचक्रम् । ये भृङ्गास्ते तत्र जन्तवः। यौ च वृषगर्दभौ दृष्टौ तौ धर्माधर्मी विद्धि। ताभ्यां वान्तं च यद् दुग्धमस्मृक् च ते उभे सुकृतदुष्कृते। ये च जालपाशा निर्मिता- स्ते सुतादयः। सुपुष्पाणि विषपुष्पाणि च यानि तानि सुख- दुःखानि । कालेन यथास्वं तेषु तेषु ते संसक्ताः । वत्स! इत्थं शुभाशुभफलमुखेनाहिरूपेण कालेन हता: प्राणिनस्तया स्त्रीरूपया मायया नानायोनिषु क्षिप्ताः। ते च तुल्यासु पतिताः श्वेताः, अतुल्यासु कृष्णाः । इत्थं द्विविधाः पुत्रादिजालपाशेषु सुख- दुःखानुबन्धिषु संसक्ता जायन्ते । ततो निजैर्जालैः कृष्टा बद्धाश्च दुःखविषार्दिताः परमुद्विग्नाः ऋन्दितु प्रवृत्ताः शरण्यं परमेश्वर- माह्वयन्ति । ततः प्रबुध्य तेन तापसरूपिणा देवेन ज्ञानाग्निज्वालया सर्वे दग्धपाशा: कृताः। ततश्च ते द्रुमरूपादित्य-मण्डलं प्रविष्टाः । ६ SH

प्रबन्धप्रकाशः
एवमेव वत्स
परमं धाम ययुः। सा च माया चक्राकारेण संसारेण वृषगर्दभा-
कारधर्माधर्माभ्यां च सहिता क्वापि प्रणष्टा ।
स्वकर्मभिः शुक्लाः कृष्णाश्च जन्तवोऽस्मिन् संसारे भ्रमन्ति ।
ईश्वराराधनसंजातज्ञानाग्निना च दग्धपाशा मुच्यन्ते संसारसङ्कटात् ।
तद् गीयते-"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन' इति ।
अयमेवार्थस्तव मोहनिवृत्तये परमेश्वरेण सन्दर्शितस्योक्तेन्द्रजा-
लस्य। तथा च श्रुति:-
भिद्यते हृदयग्रन्थिरित्यादि ।

प्रवन्धप्रकाशः ८३ समर्थाः । ध्यानमयदृष्टिपातप्रमुषितकालाध्वविप्रकर्षेषु । विषयेषु नैष्ठिकानां सर्वपथीना मतिः क्रमते ॥ इह खलु मोहसलिलप्रचलर्मिमालाकुले विषयवासनामहाग्राह- समाकुले संमृतिपयोनिधौ केचिदेव विषयवासनाग्राहान् वशमानाय ब्रह्मज्योतिःप्रभासितान्तःकरणास्तपोनिष्ठाः पारेगन्तारः समालो. च्यन्ते । अन्यथा प्रायः सर्वऽपि प्रस्ता विषयवासनायाहैरज्ञान- विमोहितधियोऽन्धा इव सत्यासत्यमनवेक्षमाणा इहैव निमन्जन्ति नैव ते कस्यापि वस्तुनस्तत्त्वमवगन्तु पारयन्ति । ये तु वशिनो ब्रह्मनिष्ठास्तपोधनास्त एव सर्वमतीतमनागतं वर्तमानं चावगन्तु इममेवार्थमभिप्रेत्य कस्यापि कविशिखामणेभणि- तिरियम्- ध्यानमयदृष्टिपातेत्यादि। स्थिर प्रज्ञानां निष्ठावतां सुनोनां सर्वमार्गप्रवर्तिनी बुद्धि- निमयदृष्टिपातेन कालाध्वनोविप्रकर्ष दूरीकृत्य विषयमाने स्फुरतीत्यर्थः । अयं भावः। इह भुवने “पराच्चि खानि व्यतृणत्स्वयम्भूस्तस्मात् पराङ् पश्यति नान्तरात्मन्" ( कठोपनिषद् ४।१ ) इति श्रुत्यनुसारं विषयविमोहितधियः सामान्या इन्द्रियवशं गताः प्रायश इहैव मोहपूरवाहिनि संसारसागरे निमज्जन्तोऽन्धा इव किमपि वस्तु- तत्त्वमवगन्तुमसमर्थाः । तेषां विषये कालाध्वविप्रकृष्टवस्तुनः का BANNEL ।

प्रबन्धप्रकाशः SOD . ये पुनः वार्ता। सन्निहितानां प्रत्यक्षाणामप्यर्थानां याथार्थ्यतो ज्ञाने तेषां बुद्धिः स्खलति। तादृशानामेव विषये भगवदुक्तिरियं समुल्सति- भोगैश्वर्यप्रसक्ताना तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ (भ० गी० २।४४)। "कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुर मृतत्व- मिच्छन्” ( कठोपनि० ४.१) इति श्रुतेरनुशासनमनुसरन्त:, यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थभ्यस्तस्य प्रज्ञा प्रतिष्ठिता भ० गी०२५८)। एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । (भ० गी० २।७२)। इति भगवदादेशं च मनसि कृत्वा निश्चला या स्थितिस्तत्रासक्ता ब्रह्मज्योतिर्भासितान्त:करणा विषयवासनाग्राहान्वशमानीय संमृति- सागरस्य पारेगन्तारो ब्रह्मनिष्ठा नैष्टिकास्त एव कालतो देशतश्च व्यवहिताव्यवहितविषयाणामशेषताऽवगन्तारो भवन्ति । विषयेभ्यः प्रत्यावर्त्य चेतो ये परब्रह्मणि तत्परा भवन्ति नैव तेषाम- विदितं किमपि त्रिलोक्यां भवितुमर्हति । तदाह कविशिखामणि- भवभूतिरुत्तररामचरिते-"साक्षात्कृतब्रह्माण महर्षयस्तेषामृतम्भ- राणि भगवतां परोरजांसि प्रज्ञानानि न क्वचिद्वयाहन्यन्त इत्यन- भिशङ्कनीयानि" इति । बाह्य- प्रबन्धप्रकाशः खलु परमं SAR तस्य सासा युक्तियुक्तं चतत् । यतस्तस्य ज्योतिषां परमज्योतिषः परब्रह्मणो भासा भासितेऽन्तःकरणे कुतस्तत्त्वज्ञानविरोधिमोहावकाशो ब्रह्म- निष्ठस्य, येन किमपि वस्तु तस्याविदितमवशिष्यते। तद्धि ज्योतिः। तथा च श्रुतिशिरोवागियं समुज्जम्भते- न तत्र सूर्यो भाति न चन्द्रतारक नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व सर्वमिदं विभाति॥ ( कठोपनि० ५। १५)। किञ्च तस्मिन् परब्रह्मणि ब्रह्माण्डव्यापिनि साक्षात्कृते तद्वथाप्यमिदं जगत्कथङ्कारमशेषतो विदितं न स्यात् । तद्धि धाम . तेजसा सकलमिदं विश्वं सर्वत आविश्य वर्तते। तथा चेदं श्र तिवाक्यम्- ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्व च प्रसृतं ब्रह्मेवेदं विश्वमिदं वरिष्ठम् ॥ (मुण्डकोपनिषद् २।२।११)। ततश्च ब्रह्मनिष्टस्य ज्ञानस्य सर्वत्र सर्वदाऽप्रतिहता गतिः । तस्मिन् ब्रह्मणि साक्षात्कृते तस्य भासा सर्वमिदं भूतजातं दृष्टि- गोचरं भवति। तथा चाह महामुनिः पतञ्जलियोगसूत्रेषु "बहि- रकल्पिता वृत्तिमहाविदेहा तत: प्रकाशावरणक्षयः (३ । ४३)। सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्व सर्वज्ञातृत्वं च

प्रबन्धप्रकाशः
RAMA
(३।४९)। प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञान
(३।२५)
स्मर्यतां चात्र कविवरस्य मुरारेभणितिरियम्-
अविद्याबीजविध्वंसादयमार्येण चक्षुषा !
कालो भूतभविष्यन्तौ वर्तमानमत्रीविशत् ।।
अन्यच्च। आविभतप्रकाशानामनुपप्लुतचेतसाम्।
अतीतानागतज्ञानं
प्रत्यक्षान्न विशिष्यते
तस्मात्सत्यमेतद् यत् स्थिरप्रज्ञानां ब्रह्मनिष्टानां नैष्टिकाना-
मतीतानागतवर्तमानेषु कालेषु व्यवहिताव्यवहितेषु च प्रदेशेषु
ज्ञानमनिरुद्धमेव । सर्वेष्वेव विषयेषु चाप्रतिहता तेषां बुद्धिः
स्फुरति। तस्मात्सर्वथा शोभनमुक्तम्-
ध्यानमयदृष्टिपातेत्यादि।
॥
Mmme

प्रबन्धप्रकाशः म् व्रतपालनम् वङ्गषु नवद्वीपमण्डलान्तर्गते सुप्रथितनामधेये कृष्णनगरे वर्ष- मेकमतीतं प्रमथनाथो नाम कश्चिद् ब्राह्मणः स्वयमनिच्छन्नपि केवलं बहुतनयवियोगविधुरायाः सहधर्मिण्याः प्रियंवदाया निबन्धातिशयेन विवाहोचिते वयस्यवर्तमानेनापि निजात्मजेन चन्द्रनाथेन इन्दु- मतीत्यभिधानाया: कस्याश्चिदष्टवर्षीयायाः कन्यकाया: पाणिग्रहणम- कारयत् । लब्धं यल्लब्धव्यम्, दृष्टं च यद् द्रष्टव्यमिति नववधू विलोकयन्ती प्रियंवदा प्रकामं प्रमोदस्रोतस्विन्यां प्लवमानेव सानन्दं वर्षमेकमतिवाहितवती। निदाघसमये दिधक्षन्निव भुवनमण्डलं दहनशलाकिकासमूहैखि दुर्विषहैस्तीक्ष्णतरैः किरणकलापैः समुद्भासमानो मध्यमम्बरमधिरोहन् सहस्रकिरणः काञ्चिदभिनवामेव मूत्तिं दधाति । समग्रमपि भुवनं निष्प्राणमिव स्तिमितगम्भीरं कथं कथमिव प्रतिभाति । कानि- चिदिनानि कृष्णनगरं सुविषमेण विसूचिकामयेनाक्रान्तमिति सर्वोऽपि नागरिकजनो भीतभीतो गृहमध्य एवावतिष्ठते । ते खलु नियतं पौरजनसङ्घातसम्मद संकुलाः कृष्णनगरस्य पन्थानो जन- शून्या निरुद्वगं निद्राणा इव विद्यन्ते । अन्तरान्तरा भीति- विधुरहृदयानां शववाहकानां गद्गदकण्ठास्फुटो "हरिः हरिरिति कातरो ध्वनिरुद्भवति । काकनिकराश्च शुष्कपादपशिरःसु कर्णकटु रटन्तो भीतानपि पौरान् पुनरुक्तं भीषयन्ति । मारुतोऽपि च कथं कथमिव कठोरस्पर्शो जनानां शुष्कं हृदयं पुनरपि शोषयति ।

८८ प्रबन्धप्रकाश अस्मिन्न व समये प्रमथनाथगेहाद हाहाध्वनिरुदतिष्ठत् । चन्द्रनाथ विसूचिकयाक्रान्तः । प्रतिहता शक्तिश्चिकित्सकानाम् । प्रतिबद्धः प्रभावो मणिमन्त्रौषधीनाम् । पश्यत एव चन्द्रनाथो विषमाम- वस्थामापन्नः । भस्मीभूतः सुखभोग: प्रियंवदायाः । गतश्च- न्द्रनाथः स्वस्थानं सफलयितुमिव स्वं दैवलेखम् । पूर्णश्च कामः कुलिशकठोरस्य विधातहतकस्य । अहो इन्दुमति ! अनाथासि, मुषितासि हताशे ! शून्यं जीर्णा- रण्यं खल्वयं ते जीवलोकः। चिराय हन्तास्तमितस्ते सुखादित्यः । साम्प्रतमन्धतमसाच्छन्नं ते जीवनम् । इयं दुःखवेदनैव तेऽद्य- प्रभृति प्रियसहचरी। फलितमिदानी देवेन। अहो प्रसादवैमुख्यं देवानाम् । कष्टमतिदारुणो ग्रहकोपः। मृतश्चन्द्रनाथः । मूढे इन्दुमति, त्वमपि किं न मृतासि। अनात्मज्ञे, कथमिदानी कठोर- मतिकठोरं दुःखं सहेथा:? अहो सुखमयं शैशवम् । सर्वथैवालौकिकीयं सृष्टिभंगवतो यत्र न दशाविपासो लेशतो जनान् पीडयति । यत्र च न द्वेषादयो हृदयमाक्रम्य जनान् पशूक क्षमन्ते । न जानातीन्दुमती स्मत्तु मपि शोच्यमात्मनोऽवस्थान्तरम् । सा क्षणमप्यचिन्तयद् यद् दैवचौरो जोवनमपि तस्या हृदयादचोरय- न वा सावबोद्ध मचेष्टतापि यत् किं नु खल्वेते हाहा- कारेण सारस्ताडं रुदन्तीति । कथमिमे 'हा चन्द्रनाथ, हा इन्दुमति' इत्यसकृदाक्रुश्यानुशोचन्तीति ज्ञातुमसमर्थापीयं केवलं तेषां ताह- शीमवस्थामवलोक्य तद्वदेव रोदितुमारभत । विश्वसृजः। दिति ।

प्रबन्धप्रकाशः ८९ -- क्षणेनैवेन्दुमत्याः सह भागधेयेन वेशोऽपि पर्यवर्तत। मृष्टः सीमन्तमूलादचिरारोपितो बिन्दुः सिन्दूरस्य । उन्मुक्तानि सह शङ्खायसवलयाभ्यां* सर्वाण्यपि समुल्लसन्ति अचिरार्पितान्या- भरणानि । दूरीकृतो रक्तपटः । परिधापितन्तु नयनविषादा- वहमरक्तं वासः । सा वनात्मज्ञा अनेनापि चिरवहनीयेन वैर्भािग्यपिशुनेन सुदुद्दर्शन वेशविपर्यासेन नाबिभेत् , न व्यषीदत्, न वा लेश- तोऽप्यकम्पत । प्रियंवदा तु हा चन्द्रनाथ, हा स्नेहसर्वस्व, हा मातृवत्सल, हा पुत्र' इति रात्रिन्दिवमाक्रन्दन्ती मूर्त्तिरिव करुणस्य दीनाद्दीन- तरामवस्था प्रतिपद्यमाना मुहुमुहुर्विलपन्ती प्रतिपदिन्दुलेखेवातिक्षीणा कथञ्चिदुच्छ्वसिति। नगा विसूचिकायाः प्रकोप उत्तरोत्तरं प्रवर्द्धते। प्रतिगृहमेव स्वजनवियोगव्याकुलानां मर्मच्छेदोचितो हाहाध्वनिराकण्यते । सर्वथा अवितथमिदं यद् विपद् विपदमनुसरतोति । यद् हन्त ईशमपि दशाभोगं भुजानेषु प्रमथनाथपरिवारेष्वपरापि विपत्तिरुदपद्यत । कष्टम् , इन्दुमत्यपि विसूचिकयाक्रान्ता । ज्ञात्वै- वेदं सर्वे परं व्यषीदन् । व्याधिर्वद्धितुमारभत । निमेषादिव द्वित्रा अगदङ्काराः समायाताः । व्यवस्थापितं तैर्भेषजम् । परन्त्वहो कष्टम्, किं नाम तेन क्रियताम् ? का खलु भेषजं पिबेत् ? अभितो ध्वनिरुदतिष्ठत्-"अद्य हि तिथिरेकादशी नाम । इन्दुमती च * वङ्गषु एतत् सर्वं सभतृ कत्वलक्षणम् । SAMPARANAMASTARA HARINA प्रबन्धप्रकाशः विधवा। न साद्य भेषजं पातुमर्हतीति"। विषमावस्था। परि- पृष्टः पण्डितैस्तदेव प्रत्युक्तम्--"न खलु धर्मशास्त्रमीहशेष्वपि समयेषु विधवानां जलबिन्दुमात्रस्यापि पानं विदधातीति"। "ननु विषमोऽयमामयः । दुर्लभा ह्यनेनाक्रान्तानां प्राणाः । तन्न तदर्थ भेषजं पिबन्ती विधवाप्येषा दृष्येदिति” बहुशः प्रत्युक्तोऽपि कैश्चित् सहृदयैः, कस्तच्छृणुयात् ? नहि नश्वराणां प्राणानां कृतेऽविनश्वरो धर्मः परित्यक्तु शक्यते । रोगो द्विगुणमवर्द्धत । पिपासा च तां बलवदबाधत। जलम् , जलम् , जलम्, इत्य- सकृत् सकरुणं सविनयं च जलं याचमानस्तस्याः क्षीणः शुष्कश्च कण्ठः शृण्वत्स्वपि पश्यत्स्वपि च बहुषु न केनाप्य- न्वकम्प्यत । न बिन्दुरपि सलिलस्य पातितः केनापि तस्या अोष्ठाधरयोरुपरि । को नु जनस्तया तदर्थ नाभ्यर्थितः ? न कः करुणार्थिना तरलतरलेन लोचनयुगलेन निरीक्षित: ? कोऽथवा उत्थितपतितेनातिदुर्बलेन करपल्लवेन नाहूतः ? अहो न तथापि व्यचलत् कस्यचिद् हृदयम् ? नालभतेन्दुमती बिन्दुमपि जलस्य । न वा पायिता सा भेषजम् । "वत्से, सहस्व कथञ्चित् कांश्चित् क्षणान् । किं कुर्याः ? निरीक्षस्व भगवन्तं धर्म। समाह्वय देवं मधुसूदनम् । स ते सर्वा बाधां निराकरिष्यति । वत्से, विधवासि । कथमेकादश्यां जलं प्रार्थयसे ? तन्मैवं विक्लवा भूः । अचिरादेव गच्छति रात्रिः। तूर्णमेवोदयति देवो विभावसुः। प्रभूतं ते जलं दास्यामि । तन्नयने निभील्य तूष्णीमारस्व । धर्मस्त्वां रक्षिष्यती'त्यादि प्रबन्धप्रकाशः ९१ विविधं प्रबोधवचनमन्तरा नान्यत् किश्चित् तदानीमिन्दुमतीभाग्य तस्या उपहतु प्राभवत्। अहो प्रशस्यो धर्मरक्षणप्रकारः ! नूनं तथापतितां तामालेाक्य प्रावाप्यभेत्स्यत्, लौहमपि व्यद्रोष्यत्, वज्रमपि च शतधा व्यद्- रिष्यत् । न तु तत्रत्यैर्मनागपि विचलितम् ! न विभाता विभावरी, न वा समुदितो भगवान सहस्रकिरणः । इन्दुमती सुष्टु खलु बान्धवानामुपदेशवचनमनुस्मृतवती । निरीक्षितस्तया भगवान् धर्मः, आहूतो देवो मधुसूदनः । निमीलितं चिराय लोचनयुग- लम् । अवलम्बितं च सुमहन्मानम्। किञ्च जलं जलमिति न पुनस्तया बान्धवो जन उद्वेजितः ॥ कश्चिद्वङ्गीयः प्रकाशानन्दशर्मा । * -- * मित्रगोष्ठीपत्रिका, द्वितीयवर्षे (शक० १८२७) पृ० १३-१६ ।

९२
प्रबन्धप्रकाशः
तथा-
कन्यापितृत्वं खलु नाम कष्टम् !
श्रीप्रभावतीदेव्या लेखः
भद्र सम्पादक, अहमस्मि काचिदन्त:पुरिका ।
नगरतो
दूरवर्तियां कस्याञ्चित् पल्ल्यां मे निवासः--यत्र नाद्यापि ना-
गरिकप्रभावो जनानां चेत:सु सम्यक् स्फुरणाबकाशमलभत ।
अते मादृश्याः कुलीनाङ्गनायाः वृत्तान्तपत्रिकासु किञ्चिल्लेखन
नामातितमां साहसमिति न खलु नाहमपि विजानामि ।
प्यद्य कारणगौरवादिह प्रवृत्तास्मि ।
मन्ये नेदं जातु भवत
उद्वेगाय भवेत्। अस्ति खलु तपस्विनीषु स्त्रीषु तत्रभवतां कश्चित्
पक्षपात इति भवलम्पादितां पत्रिका गृहकोणावस्थानेन पठन्त्या
मया नाविदितम् । अन्यञ्च कन्यकानां विषये किञ्चिदद्य मया
कथनीयम् । तत्र च पाषाणकर्कशहदयानां वः पुरुषाणामेका-
न्तेनैवानुत्साहमालोक्य श्रीमतां करुणाकणं कामयमानैः स्त्रीजनै-
रस्माभिरगतिकगतित्वेन यावच्छक्यं स्वयमेव किञ्चिदनुक्त्वा
किं नामापरं क्रियतामिति भवन्त एव विचारयन्तु ।
भद्र सम्पादक, यूयं खलु पुरुषा अस्माकमाश्रया:, स्त्रियो
वयमाश्रिताः। यूयमुपजीव्याः, वयमुपजीविन्यः। कि बहुना
सर्वथा युष्माकमेव करतलायत्तमस्माकं जीवनमपि
तथा सति
यदेते यूयमस्मास्वनुचितमाचरथ, अवज्ञानदृष्टयास्मान् पश्यथ,
अकथनीयमपि च कथयथ, तत् किमेतद् धर्मस्य वा, शिक्षाया वा,
विद्याया वा, ज्ञानस्य वा, सभ्यत्वस्य वा विलसितमिति न ज्ञायते ।
।

प्रबन्धप्रकाशः ९३ । किमस्माभिः स्त्रीभिः पुरुषाणां वो वदनविवरादादनकवल- माच्छिद्य गृह्यते, आहोस्वित् पाकोन्मुखानां शालिकलमानां क्षेत्रेषु पुनरप्यकाण्डे हलसञ्चारः क्रियते यद् हन्त आश्रिता अपि वयं युष्माकं दहनदृष्टौ लिपतिताः। जीवानां पुरुषत्वेन स्त्रीत्वेन वा जन्मग्रहणं नाम न जातु तदायत्तम्, कर्म वा ईश्वरो वात्र प्रभवति । एवञ्च कोऽयमस्माकमपराधो येनापत्यत्वे समानेऽपि तनय एक पितुः स्नेहसर्वस्वमधिकरोति, न तु कन्यका। पुत्रजन्मनि पितुहर्षातिशयः शरीरेऽपि न मीयते, कन्योत्पत्तौ तु वज्रणेव तस्य मस्तकं पीड्यते, दिशः शून्याः प्रतिभान्ति, जगच्च सर्व विषादपरिपूरितमिव दृश्यते । पृथिव्यपि कन्यकाया भारेण. साईत्रिहस्तमधोगच्छतीति वदन्ति । किमुच्यते, कन्यकाया मृत्यु- रपि पितुर्हर्षायैव सम्पचत इत्यपि पश्यामः। अहा कष्टम् , गृह- पालितस्य कस्यचिद् विहङ्गस्यापि कुक्कुरस्यापि च मरणे गृहाधिपतेः कातयं दृश्यते, न तु कन्यकानां मरणे ! तिर्यग्भ्योऽपि कन्याकानां जीवितं हेयतरम् । सम्पादक महाशय, अस्मान् प्रति पुरुषाणां यदतितमां विद्वेषो न तत्र प्रमाणाभावः। शास्त्रमिदं सर्व तेषामेव वशंवदम्। यस्य कस्याप्येकस्य ग्रन्थस्य यत् किमप्येकं पत्रमुद्घाट्य दृश्यताम्, तत्रैवास्माकं हृदयमर्मभेदिनो निन्दावादा उपलभ्येरन् । आवे- दमासाहित्यं च सर्वत्रैवास्माकं विगानम् । क्षणं नेत्रमुन्मील्य दृश्यताम्-ऐतरेयब्राह्मणे महता प्रबन्धेन पुत्राणां गुणराशि- मुपवयं व्यर्थमेवास्माकं कन्याकानां हृदये सपदि निशितं शूलं MAH JAmita CARDING ९४ प्रबन्धप्रकाशः Rastm । प्रवेशितम्। तद्यथा, महर्षिनारदो हरिश्चन्द्रेण "किंस्वित् पुत्रेण विन्दत” इत्याचेकया गाथया पृष्टो दशभिर्गाथाभिः पुत्रगुणान कथयन् अकाण्डेऽवोचत्- "अन्न ह प्राणः, शरणं ह वासो, रूपं हिरण्यं पशवो विवाहाः। सखा ह जाया कृपणं ह दुहिता, ज्योतिह पुत्रो परमे व्योमन् ॥' दृष्ट महाशय सम्पादक, "कृपणं ह दुहितेति"-दुहिता हि केवलं दुःखकारित्वाद् दुःखहेतुर्भवति । इत्थमेव तद्वाक्य- स्यार्थ इति श्रीसायणाचार्योऽभिप्रैति। दुहितणां दर्भािग्येऽन्य- दपि स्मय॑ते- "सम्भवे स्वजनदुःखकारिका, सम्प्रदानसमयेऽर्थहारिका। यौवनेऽपि बहुदोषकारिका दारिका हृदयदारिका पितुः॥” इति || दुहितणां पितृधनाधिकारोऽपहृतो युष्माभिः शास्त्रानुशासन व्याजेन । तावतापि श्रीमतां न सन्तोषः । यदस्माभिरन्तरा- न्तरा पितृसकाशे किञ्चित् प्रार्थ्यते, तत्रापि युष्माकमक्षमा । तदिदमवलम्ब्य उपहासादपि यूयं न विस्मथ । तेन हि "दुहित" पदस्यापि युष्माभिरभिनवोऽर्थः कल्पितः । उक्तं यास्केन- * ऐतरेयब्राह्मणे तृतीयेऽध्याये प्रथम खण्डम् । अत्रैव सायणेन धृतोऽयं श्लोकः ।

प्रबन्धप्रकाशः ९५ तथा च जन्म- IA "दुहिता दुहिता, दूरे हिता, दोग्धेर्वति” ।* तदिह दोग्धेरिति सूत्रमवलम्ब्य युष्माभिरुच्यते-“सा हि ( दुहिता ) नित्यमेव पितुः सकाशाद् द्रव्यं दाग्धि, प्रार्थनापरत्वात्। अतो दुहि- तेति । अहो ये खलु पितुः सवं धनमधिकुर्वन्ति, न ते पितु- दोग्धारः, परन्तु ता एव तपस्विन्य: या हि सर्वधनवञ्चिता अन्त- रान्तरा द्वित्रं वसनखण्डादिकं प्रार्थयन्ते ! जन्ममात्र एवास्माकं पिता गुरुणेव भारेण दूयमाना महान- नर्थः प्राप्त इति शङ्कमानो, यथाकथमप्यस्तु, गेहताऽस्मान् बहि- कत्त मिच्छति । तेनैव हि तस्य चेतसः प्रसादः । दिनप्रभृत्येव कुरैनां नयामोति पिता न खिद्यते। तेन चास्माकं 'कन्येति' अपरमेकमभिधानमुत्पन्नम् । -"कन्या-क्वयं नेतव्या भवतीति” युष्माभिरेवेदं कृतं निर्वचनम् । अपरोऽपि कश्चिद् युष्मासु कथयति- जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महान् वितर्कः दत्ता सुखं यास्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम् ।। पार्वतीपरिणयकारेणाप्यस्यैव प्रतिध्वनिरुत्थापित:-'कन्यापितृत्वं खलु गृहमेधिनामधिकतरं दु:खमावहतीति'। * नि०३ अ० १ पा० ४ ख० । + निरुक्तम् ३ अ० १ पा० ४ ख० दुर्गाचार्यव्याख्या । निरुक्तम् ४ अ० २ पा० ३ ख०-कन्या कमनीया भवति, क्वेयं नेतव्येति वा, कनतेर्वा स्यात् कान्तिकर्मणः । । ।

2yASTRIANTA प्रबन्धप्रकाशः . ९६ भद्र सम्पादक, विवाह एवास्माकं सर्वानर्थमूलम् । कन्यकानां वरलाभार्थमेव पितरो दूयन्ते । तेनैव चैषामस्मासु वैमनस्य दृश्यते । किन्तु पृच्छामि-किं नु खलु कन्यका ह्य वात्रापरा- ध्यन्ति ? जानीषे यत्र क्वापि धनिकाय वा, निर्धनाय वा, विज्ञाय वा, मूढाय वा, सुरूपाय वा, कुरूपाय वा, कुलीनाय वा, अकुलीनाय वा, अनुमताय वा, अननुमताय वा यस्मै कस्मैचिदपि प्रदीयमानापि न जातु युष्माकं कन्यका प्रकाशं किञ्चिदन्यथा ब्रवीति; न सा विवाहसमये इयद्धनं देयमिति निबन्धेनापि पितुर्धन- मधिकत्तु मिच्छति। सा खलु युष्मन्नियोगेन आबाल्यं परिचितानि आत्मीयत्वेनाभिमतानि सर्वाण्यपि वस्तूनि सपदि परिहाय कस्मिं- श्चिदचिन्तितपूर्व प्रदेशे सर्वथापरिचितैरभिनवैर्जनैः चिरं स्थातुमपि गच्छति । किं बहुना यदेव किञ्चिजनक इच्छति, तदेव कन्यका करोति । एवमपि न प्रसीदति वो हृदयमिति सर्वथा दुःखसंवेदनायैवास्माकं जीवनम् । पतिगृहे सुखं भवेन्नवेति दूर- मास्ताम् , हन्त पितुगृहेऽप्यवस्थाने नास्माकं सुखम् । अस्मद्विवाह- सम्पादनभारखिन्नानां विषादकवलितवदनानां पित्रादीनां चित्त- ग्लानिमालोक्य कस्य नाम चेतसि सुखमुदेतु । सम्पादक महा- शय, ईदृश एव युष्माकमस्मासु अनुग्रहप्रकारः । अथवा अलं विस्तरेणेति शिवम् ॥ [मित्रगोष्ठीपत्रिका, द्वितीयवर्षे पृ० १००-१०३] .

प्रबन्धप्रकाशः
९७
* गीर्वाणवाण्या अभ्युदयोपायाः
तापत्रयाबलिविमूच्छितचेतनाना-
मात्मस्वरूपमवमत्य सदा स्थितानाम् ।
अज्ञाननाशनपटूनवबोधहेतून्
वेदान्विकासयति यस्तमहं नतोऽस्मि ॥
विनयभाववशेन नतेन तं
त्रिभुवनाधिपति शिरसा ततम् ।
अमितमोदयुतं करुणानिधि-
मविदितं परितोषयितुं यते ॥
अयि भो! अशेषशास्त्रतत्त्वानुशीलनसञ्जातनिर्मलशेमुषीका:
सामाजिकाः ! श्रीमतां समक्षं देववाण्याः समुन्नतेरुपायमधि-
कृत्योपन्यसितु प्रवृत्तस्य यत्सत्यं वेपत इव मे हृदयम् । तथाहि-
नानाशास्त्रविचक्षणोऽपि प्रथमं प्राप्तः सभां मानव:
सम्यक्पारयते न भावकथने सङ्कोचवश्यः सदा ।
चित्रं नो यदि वेपनं मम हृदः सञ्जायते सम्प्रति
यस्मान्नास्मि विचक्षणः, पुनरियं संसत्सतां नूतना ॥
अथापि श्रीमतामादेशरूपं महान्तमनुग्रहं शिरसा बिभ्राण:
चन्द्रोदये तु सत्यपि द्विजवृन्दं किन्न भासते गगने
तद्वद्विदुषां मध्येऽप्रौढोऽपि न दोषभाकथने ॥
* २८ । ११ । १६१३ ईस्वीतियां "काशीसंस्कृतसमितौ” पठि-
तोऽयं लेखो ग्रन्थका।
aunpnee
?
Emaatipasa

Easurennaissansar प्रबन्धप्रकाशः । wale इत्यस्मिन्नर्थे च श्रद्दधानः नीरसमपि मम वचनं कृत्वा करुणां सुशोलसंभूताम् । आकर्णयन्तु भव्याः सन्तस्तुष्यन्ति परभणितो॥ इत्येवं तत्रभवतामवधानं दीयमानमभ्यर्थये सभ्याः ! अद्य खलु कथं नु देववाण्याः समुन्नतिर्भवेदित्य- स्मिन्विषये किञ्चिदावेदयितु समादिष्टोऽहं श्रीमद्भिः । महानेष गभीरो विषयः-विशेषतो मादृशां विषये-नैकशास्त्रनैकभाषा- परिशीलनापेक्षी च। उन्नत्यवनतिव्यवहारस्य सापेक्षत्वेन कस्या अपि भाषाया उन्नत्यवनत्योरवधारणाय नकभाषाणां तारतम्य- परीक्षणस्यावश्यकत्वात् तद्विषयकज्ञानस्यास्मिन्विषये नितरामा- वश्यकत्वम्। कस्या अपि भाषाया वस्तुस्थितेरवगत्यै च तद- न्तर्गतनानाशास्त्राणामवस्थाया अपि ज्ञानमपरिहार्यमिति नैकशास्त्र- परिशीलनस्याप्यावश्यकत्वं स्फुटमेव । तथापि यथामति विषयेऽ. स्मिन् भवतां पुरः किञ्चिद्वक्तुमुपक्रमे । इह खलु परिवृत्तिशालिनि जगति, तत्रापि जाग्रत्यतिमानमहिम्नि काले, कस्यापि सर्वदैकरसेनैवावस्थितिर्नितरामसम्भवा । सर्वमपि वस्तु परवशं चक्रनेमिक्रमेण नानावस्थाः समुपभुक्त। यत्र दिन तत्र रात्रिः, यत्र च रात्रितत्र दिनं पर्यायानुसारमाविर्भवति । एतन्नियमानुरूपमेव चिराज्जगदिदमुन्नतिपथानुगं सम्प्रति समालोच्यते । उदयाचलमारूढा भगवान् ज्ञानभास्वान् भुवन- माभासयितु प्रवृत्तः । सर्वोऽप्यविद्यातमिस्रापगमे मोहनिद्रा- मुन्मुच्य स्वीयस्वीयपदार्थजातपरीक्षणपरो दृष्टिपथमायाति ।

प्रबन्धप्रकाशः ९९ अनुसरन्त एवैतन्नियम चिरादस्मद्देशीया देववाण्याः स्वरूप- मालोचयितुमुद्यतास्तदुन्नत्युपायपरिमार्गणपराः सन्ति । न च उन्नतेरुपायचिन्तनमवनतिमादौ स्थापयति । तत्र "सति कुड्य चित्रम्” इति न्यायेन देववाण्या अवनतेरेवाभावात्तदुन्नत्यु- पायचिन्तनस्यामूलकत्वं वैयर्थ्यापत्तिश्चेति वाच्यम् । तदवनतेः साम्प्रतं साक्षात्त्वात् , सर्वैः स्वीकृतत्वाच। तत्रैते श्लोका भवन्ति- दैवा वाणी पुरा यासीदुन्नतेरासने स्थिता। दौर्भाग्येणास्य देशस्य दुर्दशामद्य सा गता ।। या प्राचीननिबन्धेषु लोकभाषेति वर्णिता । भारतान्येषु देशेषु कम्बोजादिषु भाषिता ।। सैकस्यापि नरस्याद्य न भाषात्वेन गण्यते । अथापि मृतभाषेति लोकहीं ! सातिनिन्द्यते ॥ विस्तरः क्वान्यभाषाणां तदवस्था च सम्प्रति । क्व चैषा देववाणी, हा! महान् भेदः प्रतीयते ॥ भोजविक्रमवत्कोऽपि न तस्याः पोषक: कचित् । प्रष्टारः सन्ति सर्वत्र ह्यन्यासां कोऽत्र संशयः॥ कूपोदकं यथा तद्वद् रुद्धं बद्धं च वाङ्मयम् । पुरावन्नाद्य विद्वांसो दृश्यन्ते भारते क्वचित् भव्याः ! नेयमत्युक्तिः। यत्रास्मात्कालात् स्थूलदृष्टथा चतु- देशशतसंवत्सरेभ्यः प्रागपि- पुरा विद्वत्तासीदुपशमवतां क्लेशहतये गता कालेनासौ विषयसुखसिद्धथै विषयिणाम् । Hom- प्रबन्धप्रकाशः इदानीं तु प्रेक्ष्य क्षितितलभृतः शास्त्रविमुखान् अहो कष्ट! सापि प्रतिदिनमधोऽधः प्रविशति ।। इत्येवं राजर्षिणा भत हरिणा तस्या अवनतिः प्रदर्शिता, तत्राद्य सम्यक् प्रवृत्ते सर्वथा प्रतिकूले वर्तमाने काले, सम्प्रतिष्ठिते चान्यभाषाणां साम्राज्ये, तस्यां अवनति प्रति नहि भवितुमर्हति संशयलेशावकाशः । तदेवं पूर्वमेवोन्नतिसद्भावात्तदुन्नते पेक्षि- तत्वमिति वदन्तः परास्ताः । ततश्च दृष्ट्वाप्येतां सर्वलोकविदितां देववाण्या अवनतिम् , स्मृत्वापि तस्या नाम्नैव समाख्यातं त्रिलोक्यामसाधारणं पूर्व- कालिकं परमं यशः को नाम भारतबन्धुर्धर्मधुरीणे धीमांस्तदुन्न त्युपायसमालोचने मन्दप्रयत्रो भविष्यति ? तत्र "प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते” इति न्याया- नुसारेणैतत्तावद्विचारणीयं यत् किन्नु खल्वस्मिन प्रसङ्ग उन्नति- शब्देनाभिप्रेयते, कथं च तत्स्वरूपनिर्णय: कतुं शक्यत इति । एतद्विचारानन्तरमेव तस्या उन्नत्युपायचिन्तनमवसरप्राप्तत्वेन समु- पयुज्यते। तत्साधनार्थं च प्रयतितुं शक्यते । तदत्र प्रथममेतदेवा- धस्ताद्विचार्यते । अद्यत्वे तावत्कस्याश्चिद्भाषाया उन्नतिस्वरूपनिर्णये प्रवृत्तेना- नेकविषयेषु दृष्टेरनुधावनमाकाक्ष्यते । शब्दान्तरेष्वयमेवार्थ एवं वक्त शक्यते यत्कस्याश्चिद् भाषाया उन्नतिस्वरूपपरीक्षणायैते तावधोनिर्दिष्टा विषयाः समालोचनीयाः- (१) प्रथमं तावत्तस्या भाषाया भाषिणां संख्या। AURA प्रबन्धप्रकाशः १०१ (२) द्वितीयं देशापेक्षया तस्या विस्तृतिः। अर्थात् कियान् देशः, का देशः, कति देशा वा तां भाषां भाषन्ते । तद्यथा 'इंग्लिश'भाषाभाषिणां संख्या सामान्येन पञ्चदश- कोटिपरिमितास्ति। स्थूलदृष्ट्या सप्तसु अष्टसु वा देशेषु, अग- णितषु प्रदेशेषु द्वीपेषु च सा भाष्यते । परमर्थद्वयमप्येतदद्यत्वे भाष्यमाणानां भाषाणां विचारप्रसङ्ग एव समीक्षितु शक्यते । प्राचीनभाषाणामथवा तासां भाषाणां विषये तु, याः सम्प्रति कुत्रापि न भाष्यन्ते, अपि तु पुराकाल एव याः कस्मिन्नपि देशे भाषिता आसन्, नैतद्विचारणीयं भवति । यतो नाद्यत्व एकोऽप्येतादृशो मानबो यस्यैकापि तासां स्वभावतो मातृभाषा भवेत् । दौर्भाग्येणास्माकं देववाण्यप्येतद्वितीयकोट्या- मेव पतिता भवति। साप्यद्यत्वे न क्वापि केनापि स्वभावतो मातृभाषात्वेन भाष्यते । (६) तृतीयं तदीयसाहित्यस्य विस्तर उपयोगिता ( उपादेयता) वर्तमानकालप्रवाहस्तद्ध्ययनाध्यापनसौलभ्यं च । अस्यार्थस्य हि समीक्षणं प्राचीनोत्कृष्टभाषाणामाधुनिकभाषाणां च स्वरूपावधारणे समानत्वेनोपयोगि। अत एव च प्रधानम्। युक्त चैतत् । साहित्येनैव हि कस्याश्चिद् भाषाया गौरवं महिमा प्रतीयते । साहित्यमेव । भाषायाः स्थिरा सम्पत्तिरनन्तः शेवधिश्च । सभ्यताया उत्कर्षापकों, दुपणे रूपमिव, सद्यः साहित्य एव प्रतिबिम्बीभावमापद्यते। साहित्यद्वारैव पूर्वपूर्वऋ- षिभिर्महर्षिभिमुनिभिराचार्यैः कविभिश्च "साक्षात्कृतधर्माण च वस्तुतः MOMENTIANE प्रबन्धप्रकाशः । । वर्जनं वा । ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्सम्प्रा. दुरुपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेम ग्रन्थं समानासिषु- र्वेदं च वेदाङ्गानि च" ( निरुक्त १ । २० ) इति, "किं पुनराप्तानां प्रामाण्यम् ? साक्षात्कृतधर्मता भूतदया यथाभूतार्थ- चिख्यापयिषेति आप्ताः खलु साक्षात्कृतधर्माण इदं हात- व्यमिदमस्य हानिहेतुरिदमस्याधिगन्तव्यमिदमस्याधिगमहेतुरिति भूतान्यनुकम्पन्ते । तेषां खलु वै प्राणभृतां स्वयमनवबुध्यमा- नानां नान्यदुपदेशादवबोधकारणमस्ति । न चानवबोधे समीहा न वाकृत्वा स्वस्तिभावः, नाप्यस्यान्य उपका- रकोऽप्यस्ति । हन्त वयमेभ्यो यथादर्शनं यथाभूतमुपदिशामः, त इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्त्यधिगन्तव्यमेवाधिगमि- प्यन्तीति । एवमाप्तोपदेशः ।। ( न्यायभाष्ये २।१।६८ ) इत्याद्यनुसारमनुकम्पापरैः प्रज्वालितं ज्ञानज्योतिः स्थूलसूक्ष्मा- द्यनेकविधपदार्थजातविषयकं तेषामनुभवं विचारं च प्रख्यापयत् सहस्रशो वर्षेष्वतीतेष्वपि उत्तरोत्तरं विवर्धमानमद्याापि समुद्भा- समानं संदृश्यते। यद्विषये हि ब्रह्मादयो विश्वहिताय तप्त्वा पर:सहस्रा: शरदस्तपांसि । एतान्यपश्यन्मुनयः पुराणाः स्वान्येव तेजांसि तपोमयानि ।। इति किञ्चित्परिवर्तिता महाकविभवभूतेरुक्तिर्वक्तुरभिप्रेतप्रसङ्गभङ्गऽपि सम्यक् सङ्गच्छते । ततश्च कस्या अपि भाषायाः स्वरूपनिर्णय एतदेव मुख्यतो विचारणीयं भवति यदस्ति किञ्चित्सर्वमनोहारि निखिलपुरुषार्थ- प्रबन्धप्रकाशः १०३ कस्य साधकमखिलदुरितापहारक च तत्सारभूतं साहित्यं तस्यां भाषायाम्। सत्यपि च तस्मिन् विषयाणां समष्टिव्यष्टिदृष्ट्या कियांस्तस्य विस्तरः कियञ्च गाम्भीर्यम्। अथवा भिन्नभिन्नदेश- कालेषु वर्तमानाभिर्मनुष्यजातिभिः प्रचारितेषु समुन्नतिपदं च नीतेषु नानापुरुषार्थोपयोगिषु दर्शनविज्ञानधर्मशास्त्रकाव्यसङ्गीता- दिविषयकेषु शास्त्रषु तदवस्थायास्तारतम्यदृष्टया कस्य शास्त्रस्य केन केन च परिमाणेन प्रचारणं समुन्नतिश्च सम्पादिते तस्यां भाषायाम् । सत्स्वपि च नानाविषयकगूढगम्भीरनिब- न्धेषु कियती तेषामुपयोगिता उपादेयता च। उपादेयतासद्भा- वेऽपि, एतदपि समीक्षणीयं यदद्यत्वे कोशी तस्य साहित्यस्य गति:-उन्नतिमुखी कि वावनतिमुखी। अथवा नानादेशीय- शास्त्राणामुन्नतेरपेक्षया तस्य गतिः सन्तोषावहा न वा। एतदपि विचारणीयं यत्तत्साहित्यज्योति:प्रकाशोऽन्तरायमन्तरेण • साधारणजनतां यावदधिगन्तुं शक्नोति न वा। शब्दान्तरेषु तध्ययनाध्यापनसौलभ्यमपि वर्तते न वा। देववाण्याः साहित्यस्य तावदतिविस्तृतत्वे परमोत्कृष्टत्व उपादेयतायां च दिष्टया नहि कस्यचिद्विवादः । संसारे नहि काचिदेताहशी भाषा यस्याः साहित्यं प्राचीनतादृष्टयास्याः साहित्यस्य समतामासादयेत् । विस्तृत्यपेक्षयापि 'ग्रीक' 'लैटिन' इत्यादिपरमप्रसिद्धप्राचीनोत्कृष्टभाषाणां कयोरपि द्वयोः साहि- त्यमेकत्रीकृतमपि न तावद्विस्तृतं यावद्देववाण्याः । देववाणीसाहित्यं साकल्येनाद्य यावत् समुपलभ्यते। पर: सह- न चापि प्रबन्धप्रकाशः '- , वतम, स्राणां ग्रन्थानां ग्रन्थकाराणां च केवलं नाममात्रेणैवोल्लेखा नानाग्रन्थेषु दृश्यते । निरन्तरं च प्रकाश्यन्ते नूतननूतनग्रन्थ- रत्नानि प्राचीनसंस्कृतग्रन्थोद्धारतत्पराभिःकसंस्थाभिः। तदेतत्सर्व देववाण्याः साहित्यस्य निरुपमा विस्तृतिमेव ख्यापयति । द्योत- यति च "कला नाहन्ति षोडशीम्" इत्यस्य चरितार्थतां संस्कृ- तापेक्षया उपयुक्त 'लैटिन' आदिभाषाव्यतिरिक्तप्राचीनभाषाणां विषये। अर्थगाम्भीर्यभावसौन्दर्याद्यपेक्षयापि संसारभाषाणां- न केवलं प्राचीनानां किन्तु आधुनिकीनामपि-शिरोमणीभूतैव नो देववाणी। उपनिषदो, भगवद्गीता, दर्शनशास्त्राणि, भाग- शाकुन्तलम्, उत्तररामचरितम् इत्याद्यलौकिकसाहित्य- रत्नरलंकृता सा सहसैवान्या भाषा अतिक्रामति । एकैकमपि हि एतादृशं साहित्यरत्नं कस्या अपि भाषायाः सौभाग्यसम्पा. दनायालं गौरवास्पदं च। धर्मार्थकाममोक्षाख्यानखिलानेव च पुरुषार्थान् लक्ष्यीकृत्य प्रवृत्तं तत्साहित्यम् । अत सर्वाङ्गसम्पूर्णम् । न केवलमेतावतैव तस्याः प्राधान्यम् । अतिप्राचीनत्वेनास्या वेदादिरूपसाहित्यभागस्य नानाविषयाणां तुलनात्मकदृष्टयाव्य- यन्ऽप्यतीवोपयोगिनी देववाणी । अस्याः शब्दरचनायाश्चाति- स्पष्टतया चिरकालादेव च लोकोत्तरप्रतिभानवद्भिराचार्याक- तत्वेन निरुक्तत्वेन च स्वपरिवारसम्बन्धिनीनां 'इंग्लिश', 'जर्मन', 'ग्रीक', 'लैटिन', प्रभृतीनां भाषाणामध्ययने चास्याः परमो- पयोगित्वं भाषाशास्त्रवेदिनः कस्य न विदितम् । अत एव G प्रबन्धप्रकाशः 'जर्मनी', 'अमरीका' इत्यादिसुदूरनानादेशेषु शतशोऽध्यापकाश्चा. त्राश्च तध्ययनाध्यापनतत्पराः अ यन्ते भारतवर्षीयान् प्रति तु तस्या उपयोगित्वप्रतिपादनं केवलं पुनरुक्तिरेव । न केवलं तेषामतिप्राचीनेतिहासा नितान्त देव- वाण्या अध्ययनादेवावगम्यते । तेषां सभ्यताया धार्मिकविश्वा- सानां च प्रासादस्य मूलभित्तिरपि संस्कृतसाहित्य एवावतिष्ठते । आधुनिक हिन्दी', 'बङ्गाली' प्रभृतिभाषाणामप्यन्ततः संस्कृत- मेवोत्पत्तिभूमिः । बहुना जन्मप्रभृति मरणपर्यन्तं तेषा- मभ्युदयनिःश्न यससाधनतत्परा सततं स्वसाहित्यसरोरसामृतेन तानाप्याययन्ती सर्वथा मङ्गलमयी मातृकल्पैव भारतीयानां देववाणी । सत्यपि सत्य एतस्मिंस्तद्विषयकवृत्तान्ते महानेष परितापविषयो यत् तस्या आधुनिकप्रवाहो न सन्तोषावहः । सत्यं प्राचीन- ग्रन्थोद्धारः प्रतिदिनं क्रियमाण: श्रुतिपथमायाति । सत्यं यत्तस्या अध्ययनाध्यापनं सुदूरदेशदेशान्तरेषु क्रियते । यशश्च प्रतिदिनमुत्तरोत्तरं विवधमानं सान्त्वयति नो भारती- यानां चेतांसि । तथापि सर्वमेतत्प्राचीनसाहित्यमात्रविषयकम्। अद्यत्वे तस्याः साहित्यस्य गतिरवनतिमुखी एवेत्यत्र' नहि कस्य- चिद्विवादः। चिरादेव नानाशास्त्रषु नूननविचाराणां सृष्टिस्तद्- द्वारा तस्याः साहित्यस्य समुन्नतिश्चावरुद्धा दृश्यते । सन्तु केचिदङ गुलिनिर्देश्याश्चर्वितचर्वणपिष्टपेषणकारिणष्टीकाटिप्पणी कर्तारः, परन्तु वस्तुतः स्वोपज्ञविचारविचारकाणां नूतनग्रन्थनिर्मातणां तस्या गौरवं १०६ प्रबन्धप्रकाशः सर्वथाऽभाव एव । ज्यौतिषदर्शनवैद्यकप्रभृतिशास्त्राणां प्रायशः सर्वेषामेव विषये समानेयमवस्था । न चापि तस्या अध्ययनाध्यापनसौलभ्यं प्रचारबाहुल्यं च यथाभीष्टं विद्यते । पुरा खल "महान् हि शब्दस्य प्रयोग- विषयः। सप्तद्वीपा वसुमती त्रयो लोकाः..." किञ्च "शवति- र्गतिकर्मा कम्बोजेष्वेव भाषिता भवति । विकार एनमार्या भाषन्ते शव इति । ( महाभाष्ये पस्पशा ह्रके) इत्यादिप्रमाणेभ्यो न केवलं भारतवर्ष एव किन्त्वस्माद् बहिरपि तस्याः प्रचार आसी. दित्यवगम्यते। "तत्रायमप्यर्थ इदमपि सिद्धं भवति प्राजितेति। किञ्च भो इष्यत एतद्रूपम् ? बाढमिष्यते । एवं हि कश्चिद्वै. याकरण आह। कोऽस्य रथस्य प्रवेतेति। सूत आह। आयु- घमन्नहं प्राजितेति। वैयाकरण आह। अपशब्द इति । सूत आह । प्राप्तिज्ञो देवानांप्रियो न विष्टिज्ञ इध्यत एतद्रूपमिति । वैयाकरण आह। आहो खल्वनेन दुरुतेन बाध्यामह इति । सूत आह । न खलु वेबः सूतः सुवतेरेव सूतो यदि सुवतेः कुत्सा प्रयोक्तव्या दुःसूतेनेति वक्तव्यम्” ( महाभाष्ये २। ४। ५६)। "उदहारि भगिगि या त्वं कुम्भं हरसि शिरसानड्वाह साचीनमभिधावन्तमद्राक्षीरिति” ( महाभाष्ये १ । १। ५८)। किश्च । विप्रोऽपि यो भवेन्मूर्खः स पुराद् बहिरस्तु मे । कुम्भकारोऽपि यो विद्वान् स तिष्ठतु पुरे मम ॥ (भोजप्रबन्धे) प्रबन्धप्रकाशः १०७. काव्यं करोमि न हि चारुतरं करोमि यत्नात्करोमि यदि चारुतरं करोमि । भूपालमौलिमणिमण्डितपादपीठ ! हे साहसाङ्क ! कवयामि वयामि यामि ॥ ( भोजप्रबन्धे भोज प्रति कुविन्दत्यैकस्य वचनम् ) इत्यादिसाक्ष्यानुसारं न केवलं मनुस्मृत्यादिधर्मशास्त्राणामादेश- मनुसृत्य द्विजेष्वेव तस्याः प्रचार आसीत्, किन्तु द्विजातिव्यति- रिक्तैः सूतकुविन्दकुम्भकारादिभिरपि साधीयते स्म । "प्रत्यभि- वादेऽशूद्रे” इति पाणिनिसूत्रेऽशूद्रग्रहणेन, निरुक्तेऽष्टाध्याय्यां च तस्या भाषात्वव्यवहारेण च तस्याः प्राचीनकाले सार्वजनीनः प्रचार एव द्योत्यते । किच मुनीनां दशसाहस्र योऽन्नदानादिपोषणात् । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥ इत्यनेन कुलपतिलक्षणेन इतिहासप्रसिद्धानां नालन्दातक्षशिलादि- विश्वविद्यालयानामद्यतनीयानामपि विदुषां विस्मयोत्पादन वृत्तान्तेन च देववाण्याः पुरा प्रचारातिशय एवानुमीयते । भारतवर्षेऽप्यनुपलब्धानामनेकेषां संस्कृतग्रन्थानां चीनतिब्बत- प्रभृतिदेशीयभाषासूपलब्धैरनुवादग्रन्थैरपि देववाण्याः सैव गुरणगाथा एवं सति, अद्यप्वे विस्तर दृष्टयाऽन्यथा वा सर्वथा संकुचितगात्रा होना दीना च दृश्यमाना सा कथं न कदर्थयेदस्माकं चेतांसि । न केवलं द्विजातिव्यतिरिक्तैः कुविन्दादिभिर्ब्राह्मणव्यतिरिक्तैः क्षत्रि- गीयते।

प्रबन्धप्रकाशः म यादिभिरेव वा तस्या अध्ययनाध्यापनं परित्यक्तम्, किन्तु ब्राह्म. णेष्वपि अत्यल्पा संख्यैव तस्या अध्ययनाध्यापनपरा दृश्यते । तत्रैतस्याः प्रत्यक्षाया अवनतेः कानि कारणानि, कथं च तस्याः पुनरपि प्रचारबाहुल्यं सम्भवतीति विचारणीयम्। प्रथम तावदवनतिकारणानि संगृह्यन्ते। अवनतिकारणनिर्देशप्रसङ्ग एतत्तावदवधारणीयं यदुक्ताव- नते: कारणानां द्वैविध्यं वर्तते । प्रथमं खलु तानि कारणानि सन्ति येषां विषये संस्कृतभाषाभ्युन्नतिं चिकीर्षवो वयं चिर- कालादेव निरुपाया विवशाश्च संवृत्ताः स्मः। तद्यथा विदेशीय. राजशासनम्, विदेशीयसभ्यताप्रचारः अाधुनिकभारतवर्ष विभि- नानां नूतनधर्माणामुदयो विभिन्नधर्मिणां सङ्घर्षश्च । नियतमेव सत्स्वेतेषु सर्वथा नूतनकारणेषु संस्कृतभाषायाः पुनरपि प्राक्कालीना समुन्नतिरसाध्या । परमुक्तकारणभिन्नानि यानि तदवनतिकार- णानि तेषां प्रतीकारविषये सर्वथैव स्वाधीना: परमुखानपेक्षिणश्च वयम्। अत एवात्र प्रसङ्ग तेषामेव निर्देशः समुचित: कारणानि चैतानि- (१) लेखशैल्या: काठिन्यम् । प्राचीनग्रन्थानां विषये सर्व- विदितमेवैतद् वृत्तं यत्तेषां लेखशैली स्वाभाविकी अत एव सरला प्रसादगुणबहुला च विद्यते । नूतनग्रन्थानां पुनरन्यथैव गाथा । मूलग्रन्थानामपेक्षया टोकाग्रन्थानामधिकतरं काठिन्यं विदितम् । चैतादृशं वृत्तमन्यासामुन्नतानामाधुनिकीनां भाषाणां विषये। । ताहश- कस्या- भारती प्रबन्धप्रकाशः गद्यपद्या- ( २ ) अर्थगौरवमन्तरेण शब्दाडम्बरेऽत्योदरः त्मकेषु काव्यग्रन्थेषु प्रसिद्धमेवैतत् । प्राचीनानां कवीनामा- लङ्कारेषु यादृशः समादरो न तादृशः शब्दालङ्कारेषु । कालवर्तिनां कवीनां तु विषय एतद्विपरीतमेव । एतादृश्येवः दशान्यविषयकग्रन्थेष्वपि विद्यते । ( ३ ) विचाराणामनुदारता सङ्कीर्णता च । प्राचीनदर्श- नादिग्रन्थानामनुशीलनेन स्पष्टमेतत्प्रतीयते यत्तेषां कर्तारः स्व- विरुद्धमतानामपि सम्यगेवाध्ययनं मननं च कृत्वैव तेषां खण्डनाय प्रवृत्ता आसन्। ज्यौतिषादिविषयेषु यवनाद्याचार्याणामपि सिद्धा- न्तान् सम्यगधीत्य तद्विषये स्वभाषायां निबन्धान निबध्य तेषां प्रचारं कृतवन्तः । जैनादिनिर्मितानामप्यमरकोशादिग्रन्थरत्नानां सादरमध्ययनाध्यापनं प्राचीनकाले क्रियते स्म। या च परिपाटी अद्यापि दिष्टया न सर्वथा समुच्छिन्ना। समुचितमेव चैतदाचरण- मासीत्। विरुद्धविचाराणां सङ्घषत एव, द्वयोर्मल्लयोः परस्पर- मल्लयुद्धेन तयोर्बलस्येव, ज्ञानस्योन्नतिरुत्कर्षश्च जायते । अन्यथा कूपमण्डूकवदाचरन्ताऽनुदारविचारा: सङ्कीर्णहृदयाश्च मानवा अव- नतेमुखमवश्यं पश्यन्ति । अद्यत्वे चिरकालादेव सर्वथानुदारा एतस्मिन् विषये संस्कृतभाषाध्ययनाध्यापनकर्तारः सञ्जाताः । केवलं नूतनपाश्चात्यविचाराणामेव विषये तेषामेतादृशी सङ्कीर्णा मति:, किंतु स्वदेशीयविरुद्धमतानामपि विषये । (४) तस्याः शिक्षणेऽनुदारता। उपरि निर्दिष्टमेव यत्पुरा- काले भारते सर्वसाधारणजनतायां देववाण्याः प्रचार आसीत् ।

प्रबन्धप्रकाशः । परमद्यत्वे संस्कृताध्यापकानामतीवानुदारा मतिरस्मिन् विषये । प्रास्ता तावद् द्विजातिव्यतिरिक्तानां शूद्राणामध्यापनम् । द्विजाना- मपि सर्वेषामध्यापने महान्तं सङ्कोचमनुभवन्त्यद्यतनीया विद्वांसः । हिन्दूजात्यन्तर्गतानामपि जैनादीनां त्वध्यापनवातेव प्रायस्तेषां शिरःसु पीडां समुत्पादयति । ( ५ ) असहिष्णुता । प्राय: संदृश्यते यत्संस्कृतविद्वां- सोऽतीवासहिष्णवो न हि तथा परस्परं सौहार्दन सांमनस्येन च वर्तितु समर्था भवन्ति यथेंग्लिशादिभाषाणामध्येतारः। एकस्मि- न्नेव विद्यालयेऽध्यापनकार्यमाचरत्सु तेषु परस्परमीयोदिबाहुल्य- मालोक्यते । अर्थतस्यां हृदयविदारिकायामवस्थायां समुपस्थितायां कथं पुन- रपि तस्याः प्रचारबाहुल्यं सम्भाव्यते किं च तामुन्निनीषुभिस्तदर्थ कर्तव्यमित्यधस्तात् संक्षेपेणैव द्योत्यते। यद्यप्यवनतिकारणविचा- रणयैव सामान्यतोऽर्थादापद्यते के क उपायास्तस्या उन्नतरिति, तथापि विस्पष्टार्थमन्येऽपि केचिदुपाया निर्दिश्यन्ते । एतेषामुपायानां विचारेण केषाञ्चित्पूर्वमनुक्तानामवनतिकारणानामपि भानमर्थापत्त्या भविष्यति। उन्नतेरुपायाश्चैते- १ ) पठनपाठनशैल्याः संस्कारः । अद्यत्वे छात्राणां तत्तद्विषयेषु तत्तद्ग्रन्थेषु चाधिकारित्वानधिकारित्वनिर्णयं योग्य- त्वायोग्यत्वविचारं चान्तरेणैव तत्तद्ग्रन्थांस्तानध्यापयितु प्रवतन्त प्रायशः संस्कृताध्यापकाः । उदाहरणार्थमनेके छात्राः संस्कृत- वाक्यरचनामप्यजानन्तो लघुकौमुदी वैयाकरणसिद्धान्तकौमुदी - StaMMAR प्रबन्धप्रकाशः १११ अध्या- वा रघुवंशादिकाव्यानि च पठितु प्रवृत्ता जायन्ते एवं च तेषां परिश्रमस्य समयस्य च व्यर्थमेव नाशो भवति । (२) उपयोगिग्रन्थसञ्चारः। उक्तहेता: संस्कृतभाषायां तत्त- द्विषयेषु प्रविविक्षणां हितदृष्ट्योपयोगिबालपाठावल्यादीनां तत्त- द्विषयेष च बालोचितपाठ्यपुस्तकानां निर्माणमावश्यकम् । (३) प्राचीनग्रन्थानां विशेषत आकरग्रन्थानामुद्धाराय तेषां पठनपाठनप्रचारोऽत्यावश्यकः । नवीनग्रन्थानां वस्तुतोऽर्थावगमाय तत्तच्छास्त्राणामितिहासस्य ज्ञानार्थ चाप्युक्तार्थस्यावश्यकता । अन्यथा "मूले शुष्क नैव पत्रं न पुष्पम्” इति न्यायेन नवीनग्रन्थाना- मपि हासोऽनिवार्यः। ( ४ ) शिक्षण विधौ दक्षाणामध्यापकानामावश्यकता । पनकार्ये विशेषतश्च बालानामध्यापने दक्षाणामध्यापकानामतीवोप- योगिता। एवमेव सुलभोपायेनाल्पसमयेनानायासेन च बालानां तत्तच्छास्त्र षु प्रवेशः कर्तु शक्यते । ततश्च यथावश्यकमध्ययना- ध्यापनविधौ परिनिष्ठिता अध्यापका यथा सम्पद्यरंस्तथा विधेयम् । (५) संस्कृतज्ञ'षु सौहार्ददाढाय तत्तद्विद्यालयेषु पाठशालासु च विद्यापरिषदामावश्यकता यत्र विभिन्नविषयानुद्दिश्य प्रमपुर:- सरं लेखद्वारान्यथा वा वादविवादव्यवस्था भवेत् । एवमेव च सभा- सञ्चालनकुशला वक्तृताशक्तिसम्पन्नाश्च संस्कृतभाषाध्येतारो भवितु प्रभवन्ति । (६) संस्कृतभाषया सहोपयोगिनामन्येषां विषयाणामप्य- ध्ययनं विधेयम् । तद्यथा गणितस्येतिहासस्य भूगोलविद्यायाश्च । ।

११२ प्रबन्धप्रकाशः . अनेनैवोपायेन संस्कृताध्येतृषु सामान्यव्यवहारबुद्धेः समुत्पत्तिः सम्पादयितुं शक्यते । अपि शास्त्रषु कुशला लोकाचारविवर्जिताः। सर्वे ते हास्यतां यान्ति यथा ते सूर्खपण्डिताः ।। इत्युक्त्यनुसारं साम्प्रतमित्र सदा व्यवहारबुद्धिशून्याः संस्कृताध्येतारः प्रायेणोपहास्यतामेव यास्यन्ति । (७) नूतनपाश्चात्यविद्यानां स्वदेशीयप्राचीन विद्यानां च सम- न्वयार्थ याथार्थ्येन तासां गुणदोषविवेचनार्थ च समालो- चनाबुद्धः प्रादुर्भावः परिमार्जनं च संस्कृतज्ञेष्वतीवावश्यके। एवमेव ते प्राचीनाचार्या इव तत्तद्विद्यासु नूतनविचाराणां सृष्टौ. समर्था भवितुमर्हन्ति । नान्यथा । त एते समासत एव गीर्वाणवाण्या अभ्युदयोपाया निर्दिष्टाः । अाशासे गुणदोषविवेचका माननीयास्तत्रभवन्तः सामाजिकास्तदेतत्सर्व विचार्य यदत्रानुपयोगि सदोषं वा तदपहाय यदुपयोगि गुणयुक्तं च तदङ्गीकरिष्यन्ति । यतो हि "गुणगृह्या वचने विपश्चितः। ततश्चान्ते सविनयं ममैषाभ्यर्थना- सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुमध्यात् ।। इति ॥ Jitenasana प्रबन्धप्रकाशः ११३ कोकिल तावद्विरसान् यापय दिवसान्वनान्तरे निवसन् । यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ इह खल्वव्याहतपरिवृत्तिशालिनि जाति जाग्रति निखिल- भूतजातजरयितरि समाक्रान्ताखिलभुवने काले नहि खलु कस्य- चन सर्वदैकावस्थायामेवावस्थितिः संभवति । ततश्चानेन नित- रामतिनृशंसतमेन कालेन ह्य पंस्थापितायामापदि किं नु विधे- यमापन्निम्नगानिमग्नैरिति मीमांसाव्यतिकरे समाधित्सुः कश्चि- द्धीरधुरीणः शेमुषीमद्वरिष्ठ: कविकुलमूर्धन्यः कोकिलान्योक्त्या समुपदिशन्नाह- कोकिल तावद्विरसानित्यादि। अयं भावः। इह खलु नानाविधविपज्जालज्वालावलीसुदुःसहे भुवनतले कालः खल्वेषोऽतिप्रबलः। विचित्रा ह्य तस्य कृतिः। नहि कश्चि- देताहशो दृग्गोचरो यो जन्मासाद्य नैनेन कवलीकृत: स्यात् । एष हि स्वर्भानोरपि क्रूरतरो महीयांश्च येन कोटिशो भूभृदि- न्दवो विकरालदंष्ट्रया चर्विता विलयं गताः। समेषां खल्वेष जरयिता। योऽद्य महत्पदमधितिष्ठति, अतिशयसुखसौभाग्य- सम्पदमनुभवति, स एवान्येद्युः कालमहिम्ना तामनुकम्पनीयां दशामापद्यते । एष खलु–य एकदा महांस्तेजस्वी त्रिभुवन- ८ प्रबन्धप्रकाशः भूषणः प्रख्यातकीर्तिरमितबलश्चासोत्, यस्मात्प्रोत्खाताराति- कुलकाननाद्वित्रस्ता भीतिचकिता विपक्षा नान्यं स्वमाश्रयं त्राणं वामन्यन्त-तमपि महीयांसं राजराजपदमुपभुञ्जानं सहसारण्याद- रण्यानी भ्रामयति। तदेतां कालविहितां भीषणामवस्थामवेक्षमाणः को नु प्रज्ञावान् सर्वदा कस्याप्येकैवावस्था स्थास्यतीति वक्तुं शक्नोति ? नैव खल्वेवमेनेन समाक्रान्ते भुवने कस्याप्येकरसेनैवावस्थितेश्चिराय संभवः। नूनं योऽद्य मोदमानस्तिष्ठति, अन्येद्युस्तस्योपरि महद् दुःखं समापतति । ततश्चैकरसेनावस्थितेः सततमसम्भवादापदाप- गाप्रवाहपतितेन किमवलम्ब्य दुःखाधेः स्वात्मा परित्रातव्य इति विचारणायामयमेवार्थः प्रमितित्वेन वक्तव्यो यद् धैर्यमवलम्ब्य निजदुःखसन्ततेरनित्यतामवगच्छता भाविन्याः सुखसम्पत्तिसन्तति- सम्भूतेः प्रत्याशयैव तेन निजप्राणत्राणं विधेयमिति। महाजनपरि- गृहीतो ह्यष मार्गः। एनमनुसरन्त एव सन्तः संसारयात्रायां सफला भवन्ति । इह लोके हि ये निराशावादिनोऽश्रद्दधाना अधी- रास्ते हि विपत्पाते न केवलं स्वाभीप्सितकार्यसाधनादेव भ्रष्टा जायन्ते, किन्तु प्रायो निजजीवनधारणमपि दुर्वहं भारमिव मन्य- मानाः स्वप्राणत्यागोन्मुखा अपि भवन्ति । अथवा महता दैन्येनैव तमापत्समयमतिवाहयन्ति । ये पुनराशावादिनः श्रद्दधाना धैर्यधनास्ते हि कदर्यसेवितमकीर्ति- करमस्वयं च पूर्वोक्तं पन्थानमुत्सृज्य “आशावतामयं लोकः", "श्रद्धावान् लभते सिद्धिम्”, SinghSRTAIRSHASH प्रबन्धप्रकाशः ११५ । संपदो महतामेव महतामेव चापदः । वर्धते क्षीयते चन्द्रो न तु तारागण: क्वचित् ॥ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम्। सुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते ॥ इत्येवं चिन्तयन्तः, इह संसारयात्रायामपरिहार्यः खल्वापदां समागम:, आगमापायिनोऽनित्याश्चैते कष्टापाता इति च विश्वसन्तोऽनायासे- नैव तं समयमतिवाह्य स्वाभीष्टमासादयन्ति । किश्चात्रैतदपि विचारणीयं यत् कालः खल्वेष चक्रनेमिक्रमे- णैव जगदुखिलं शास्ति । तथा च, अस्थिरे हि सुखिदु:खिना: सुखदुःखे। क्षणेनैव जनो दुःखसागरे प्रक्षिप्यते, क्षणेन च सुख- सम्पत्तिमासाद्य सुखी सजायते नितरां मोदमानाः क्षणेनैवानु- कम्पनीयदशामासादयन्ति । बहवश्च चिराय महता दुःखेन काल- मतिवाहयन्तः सहसैव महती सुखसम्पदमधिगच्छन्ति। नैवैकान्ततः कस्यचिद् दुःखाधिगति: सुखसमागमो वाऽऽकर्ण्यते । सर्वेषामपि तयोरन्यतरेण समागमोऽस्थिरः क्षणभङ्गुरश्च । ततश्चैवं चक्रनेमि- क्रमेण जगच्छासति काले नियतमेव सर्वोऽपि कदाचन कष्टमापद्यते, कष्टमधिगत्य च सुखी भवति इति नियमानुरोधेनोपस्थितास्वपि कदाचिदापत्सु-येनेयमवस्थोपस्थापिता नूनं तेन कालेन मुहुरपि प्रथमावस्था प्रापयिष्यते-इति प्रत्याशया त्याज्यं न धैर्य विधुरेऽपि काले धैर्यात्कदाचित्सुखमाप्नुयात्सः॥ इत्यादेशानुरूपं बुद्धिमता धैर्य संरक्षणीयम् । यतः सन्तो हि- MMAR ११६ प्रबन्धप्रकाशः , अपि स्फुटति विन्ध्याद्री वाति वा प्रलयानिले । नापदि ग्लानिमायान्ति हेमपद्म यथा निशि ॥ केन खलु मनस्विनास्य सिद्धान्तस्य सत्यतोपयोगिता च न प्रत्यक्षीकृता स्वानुभवेन। केन वा महात्मचरितामृतपानरसिकेनेति. हासविदा एतत्पोषकाण्यनेकानेकवृत्तानि नाधीतानि । तथा हि, कस्य खलु भगवत्याः प्रात:स्मरणीयायाः सीता- याश्चरितं तिरोहितम्। सा हि जनकनन्दिनी दशवदनेन नीता हन्त ! तुहिनाविलेव पद्मिनी, मरुमध्यगतेव मराली, निदाघतप्तेव वल्ली, यूथभ्रष्टेव हरिणी, पाशबद्धव च शारिका कष्टां दशामागता भगतमानसा दुःखोदधौ भविरहानलेन दह्यमाना आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि । इतिवचोऽनुरूपमात्मानं रक्षन्ती, अनेकवारं निजप्राणत्यागार्थ कृताध्य- वसायापि विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् । तस्मात्प्राणान् धरिष्यामि ध्रुवो जोवति सङ्गमः ॥ तथा “जीवन्नरो भद्रशतानि भुङ्क्त" इत्यनुसारं च धारयन्ती प्राणान्, भगवत प्राञ्जनेयादवगम्य भत्त रुदन्तं-मुहुरप्यचिरादेव प्राणनाथं सम्प्रेक्ष्य भविताऽहमधन्या धन्या-इत्यवधारयन्ती सहसा कथितवती- कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥

प्रबन्धप्रकाशः ११७ यथा वा, महाभागो राजराजो नलश्चक्रवर्तिराज्याद्विच्या- वितः कालपांसनेनारण्यादरण्यानी श्रमन्नपि महत्कष्टजातं सह- मानोऽपि विपदि धर्यमथाभ्युदये क्षमा प्रकृतिसिद्धमिदं हि महात्मनाम् ।। न मृतो जयति शत्रून् जीवन् भद्राणि पश्यति । मृतस्य भद्राणि कुतः। कालः समविषमकर: परिभवसम्मानकारकः कालः । इत्यादिवचोऽनुकूलं कालविहितमापत्समयं भाविन्याः सुखसम्भूतेः प्रत्याशया निनाय। एवमेवान्येऽपि सहस्रशो दृष्टान्ता आबाल- प्रसिद्धाः । तस्मादवितथमेवेदं यदापदापगाप्रवाहपतितेन धैर्यमवलम्ब्य निज- दुःखसन्ततेरनित्यतामवगच्छता भाविन्याः सुखसम्पत्तिसन्तति- सम्भूतेः प्रत्याशया निजप्राणत्राणं विधेयमिति । तदन स्मर्यतामेत- दखिलमालोचयतः कस्यचिद्विपश्चितामपाश्चात्यस्येदं सुभाषितम्- कोकिल तावद्विरसानित्यादि ।

११८ प्रबन्धप्रकाशः अयि दलदरविन्द स्यन्दमानं मरन्द तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः । दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन् परिमलमयमन्यो बान्धवो गन्धवाहः ॥ इमं खलु मोहसलिलप्रचलदूमिमालाकुलं बहुविधविपज्जाल- ज्वालावलीसुदुःसहं संमृतिपायोनिधिम, जाग्रत्यपि निखिलभूत- जातजरयितरि सततमखिलजगद्ग्रसनसमुन्मुखेऽतिदारुणे कराल- कालग्राहपांसने, सुधीरधुरन्धरोऽपि बलिनां बलिष्ठोऽपि इतर- साहाय्यनिरपेक्षः कोऽन्वेकाकी समुत्तितीर्घः पारं गन्तु पारयति । नहि जातु कश्चित्सुधीरपरसाहाय्यनिरपेक्ष: क्षणमपि तदुत्तितीर्षासङ्कल्पं मनाङ् मनस्याकलयिष्यति । सत्यप्येवं कोऽपि मेषमुग्धस्तत्सरलं विभाव्य यदि तद्वयापारव्यापृतो वर्तेत, नूनं स्वात्मा तस्य न प्रियः, यदेवं जानन्नप्यसौ स्वयमेव पादा कुठारघातं हन्ति । ध्रुवमसावेव- मेव वक्तव्यो यदनेनाबोधान्धान्धौ निमग्नेन “कृपाणेन स्वेन प्रहृत- मिदमात्मन्यकरुणम्” इति । तदेवं को नु प्रेक्षावानवगच्छन्नप्येन- मतिदुस्तरं संसारार्णवम् , जगति लघिष्ठान्यपि कार्यजातानि पर- साहाय्यमन्तरेण कर्तुमपार्यमाणानि चावलोकयन् , एकाकिना परसाहाय्यमन्तरेण तरणीयमभिधातुमुत्सहिष्यते । ततश्चाभिहितगुणमेनं नितान्तदुस्तरं संसारार्णवं समुत्तिती- पुणा यात्रिणा किन्नु वस्तु समाश्रयणीयं यदवलम्ब्यासी समुत्तर- न्नमु संसारसागरं नानाविधविपज्जालज्वालाभ्यः स्वात्मानं त्राय- प्रबन्धप्रकाशः ११९ माणः, करालकालग्राहादात्मानं रक्षन्, मोहसलिलप्रचलदूमिमाला- स्वपि कुशली संसारयात्रामतियापयितुमलं भवेदिति मीमांसायां विचारपथमवतीर्णायामयमेवार्थः प्रमितित्वेन वक्तव्यो यन्निरुपधि- सुहृत्सौहार्दपोतमारुह्य संसारार्णवं समुत्तरीतु वाञ्छावताऽकुतो- भयेन संसृतियात्रापरेण भवितव्यम् । स्वल्पपरिणाहमप्येतद्वचो रत्नमिवार्थसारवत्, तथ्योपदेशधारि पर- मोपकारि च। तथा च, यथा हि कश्चिदध्वनीनो महान्तमति- तरलतरङ्गभङ्गसमाकुलमध्युषितविकरालनक्रचक्रवालं व्याप्तवाडवानलं पारावारमवेक्षमाणः, एकाकी गन्तु पारमपारयन्, कश्चित् पर- विपत्तिखेदाकुलमनभिसन्धायैव स्वार्थ सततमितरहितार्थबद्धपरिकरं सम्पदापत्सहायं करुणावरुणालयं कर्णधारमाश्रितस्तत्पोतमारुह्य निखिलापदाभ्यो निर्विशङ्कः सकुशलं यात्रामतिवाह्य पारेसागरं याति । तादृशो हि कर्णधार उपस्थितायामप्यापदि नहि जातु यात्रिणां सङ्गत्यागं विधाय तत्साहाय्य सम्पादनाद्विरमति, परं पर- प्राणत्राणाय प्राणानप्युपहारीकरोति। यस्तु अभिसन्धाय स्वार्थ द्रव्यादिलाभरूपं कश्चित् यात्रिणस्तारयति, नहि तत्पोतमारुह्यापि कश्चिनिर्विशङ्कः गन्तु पार पारयति यावत्सम्पत्तिकालमसौ भवतु तेषां सहायः। विपदः पुनर्नामापि श्रुत्वा दूरतस्तत्सङ्ग त्यक्त्वा स्वात्मत्राणार्थ ब्रजति । एवमेवेह संसारपारावारेऽभिहितबहलापत्परम्परापरिपूर्णे नैकाको कश्चिजातु पारगमनाय प्रभवति, यावन्नासौ परसाहाय्यमादत्ते । तत्रापि चेदभिसन्ध्याय स्वार्थम् ।

marrinewsANKARIRamirpramLanwarनागाहामा प्रबन्धप्रकाशः कार्यापेक्षी जनः प्रायः प्रीतिमाविष्करोत्यलम् । लोभार्थी शाण्डिकः शष्पैर्मेषं पुष्यति पेशलैः॥ इत्याद्यनुरूपं यावत्समृद्धिमनुकूलं प्रियमधुरभाषिणं च कञ्चित् स स्वीयसाहाय्यार्थमाश्रयति, न तर्हि एतत्तच्छ यसे। नूनमेताह- शोऽसौ सहायो नहि विपत्परम्परापाते सहायः । सम्पत्तावपि यावत्स्वार्थसिद्धिमेवासौ प्रियं मधुरं मुहुमुहुर्भाषमाणाऽपि सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ।। इत्याद्यनुरूपं नैव हितं ब्रवीति । ततश्च निरुपधिपरोपकारः कोऽप्युच्चैःस्थायिनां भारः। सन्तो नहि समीक्षन्ते स्वार्थ परहिते रताः। उपकर्तु प्रियं वक्तु कर्तु स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ।। एके सत्पुरुषाः परार्थघटका: स्वार्थ परित्यज्य ये। इत्यादिवचोऽनुकूलं निरपेक्षपरहितपालनपरायणमेव सम्पदाप- सहायं सखायमकृत्रिमं समाश्रित्य स तत्सौहार्दपोतमारुह्य सक्षम संसारयात्रामतिवाह्य तमुत्तरीतु प्रभवति । एतादृशनिरुपधि- सुहृत्सौहार्दपोतमारूढा नूनं सम्पत्ताविव विपत्स्वपि निर्विशङ्कः यत एतादृशो हि सखा पापानिवारयति योजयते हिताय गुह्य च गृहति गुणान् प्रकटीकरोति । स्थातुमुत्सहते।

प्रबन्धप्रकाशः १२१ पथ्यस्य प्रत आपद्गतं न च जहाति ददाति काले. सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ।। सम्पत्तौ च विपत्तौ च यस्तिष्ठति स बान्धवः । तन्मित्रमापदि सुखे च समक्रियं यत् । इत्यादिवचसामनुरूपं सम्पत्ताविव विपदास्वपि सहाय: प्राण- पणैरपि परप्राणत्राणं विदधाति । नासा मुधैव स्वीयमना- रथसंसाधनायाहितमपि हितमिव वर्णयन् सततं मधुरैर्वचाभिरेव स्वमित्रं रजयितु चेष्टते; प्रत्युत-"अप्रियस्य च चक्ता श्रोता च दुर्लभ: इत्यनुसारमप्रियमपि हितं ब्रवीति । न पुनर्जातु प्रियमहितम् । एतादृशमेव सुहृदमाश्रितः तत्सौहार्द- पोतमारुह्य मर्त्यः सुखेन संसारपारावारमुत्तरीतु प्रभवति । एवोच्यते- आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चिद्योऽत्र मित्रविवर्जितः ॥ नैवात्र संशयलेशावकाशः । मन्ये एतमेवार्थमनुवदितु विस्तृ- तोऽसौ भुवि भारतीयेतिहासतन्त्रगिरां सन्दर्भः, यतः समस्तेष्वपि सूक्ष्मेक्षिकया समालोच्यमानेवितिवृत्ततन्त्रेषु अयमेवार्थो धनीभाव- मापन्नो नवनीतायते। तथाहि, कस्य तावद् दुर्योधनेतिवृत्तमविदितम् , यदसौ भीष्म- विदुरौ निरुपधिसुहृदावनादृत्य कर्णादीन् समाश्रितोऽन्तकान्तिकं समूलं प्रस्थितः। केन वा राक्षसराजो लोकरावण रावण न श्रतः, योऽसौ निरुपधिमित्रं १२२ प्रबन्धप्रकाश: अयं च राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः। अन्वास्यते राक्षसनाशनार्थे तीक्ष्ण: प्रकृत्या ह्यसमीक्ष्यकारी॥ सुनीतं हितकामेन वाक्यमुक्तं दशानन । न गृहन्त्यकृतात्मानः कालस्य वशमागताः॥ इत्येवमवबोधयन्तमपि विभीषणं तिरस्कृत्य प्रहस्तादीनि कपटमित्राणि स्वार्थपराणि समाश्रित्य प्रणाशं गतः । यस्तु पुनर्निरुपधिसुहृत्सौहार्दपातमारूड: संसारयात्रापरो भवति नूनमसौ विपत्स्वपि कुशली स्वाभीष्टं याति । यथा हि भगवान् श्रीरामचन्द्रो हनुमन्तं लक्ष्मणं सुग्रीवं च समाश्रितः समस्ता दुस्तरा अप्यापद: समुत्तीर्य मुहुः स्वाभिलषितं लेभे। यथा वा धर्मसूनुरजातशत्रुभगवन्तं श्रीदेवकीनन्दनं समाश्रित्य सर्वापदः समुत्तीर्णवान् । ततश्चावितथमेवैतद्यन्निरुपधिसुहृत्सौहार्दपोतमारुह्य व मानवोs- शेषापदः सकुशलं समुत्तीर्य, सुखेन च संसारयात्रामतिवाह्य स्वाभीष्टं लभते । तदेतदखिलमालोचयतः कस्यचिद्विपश्चिच्छिरोमणेरिदमरविन्दा- न्याक्तिरूपं सुभाषितं वचः स्मर्यमाणमतितरामभिरामं मनो हरति- अयि दलदरविन्द स्यन्दमानं मरन्दमित्यादि ।

प्रबन्धप्रकाश: १२३ वाराणसीवैभवम् सकलभुवनललामभूतेयं समस्तपुण्यपुरोसम्राज्ञी वाराणसी न केवलं भूतल एव, अपि तु लोकत्रयेऽपि, पवित्रतातिरेकसम्पादिके- तिप्रथितकीर्तिः, भगवतो नवचन्द्रमौलेस्त्रिशूलेोपरि विराजमाना, मुक्तिप्रदायिनीति प्रथितयशोऽवदाना, सकलतीर्थानामेकमायतनम् , विद्याश्रियोर्मातृसदनम् , भवनं वैभवस्य, आस्पदं साधुतायाः, कुलभवनं तपस्याया:, आकरो ज्ञानस्य, निधानं वैचित्र्यस्य कस्य वा न विदिता सचेतसः। अस्या महिमानमुपवर्णयन्तो न विरमन्ति परमपूरुषनिःश्व- सितात्मका अबाधिता अक्षयाश्चत्वारो वेदाः पुराणानि सेति- हासानि च। इयमेव हि पुरा कृतयुगे राजर्षेर्दिवोदासस्य राजधानीत्वमा- सेदुषी सौभाग्यसम्पत्समृद्धिभिर्दिवैौकसामपि स्पृहणीया बभूव । अथानेकप्रकारैः कपटैः कूटनीतिपाटवैश्च निर्वासिते ऋजुस्वभावे भूपता दिवोदासे देवगणैः सम्भूय समभ्यर्थिता भगवान महादेवो विश्वनाथस्त्रिलोकीकल्याणकामनां चेतसाकलयन् विहाय कैलास- मस्यामेव वसति चक्रे। प्रार्थनापूर्तिमुदितान्तरा निर्जरा अपि परमोत्सवपुरःसरं मुक्तिसाम्राज्यसिंहासने भगवन्तं विश्वनाथ- मभिषिच्य साम्राज्यसुव्यवस्थासम्पादनाय कालभैरवढुण्ढिदण्ड- पाणिप्रभृतीन् नियोजयामासुः । आदिकेशवकेदारादिखण्डानि साम्राज्यान्तर्गतस्वायत्तशासनानि पृथगवतस्थिरे । मुमुक्षुभ्यो ______ प्रबन्धप्रकाशः मुक्तहस्तं पायसान्न वितरन्ती मूर्तिमती माङ्गल्यदेवता शैलाधि- राजदुहिता श्रीविश्वनाथदयिता भगवत्यन्नपूर्णाऽपि साकं स्वपरि. वारेणात्रैव समागत्य मुक्तिसाम्राज्यसम्राज्ञीपदं समलंचकार । सर्वे देवाः सवाहनाः सायुधाः समागत्य स्वस्वाधिकारानुरूपां भगवतो विश्वनाथस्य सेवां विदधाना विस्मृतस्वर्गा अत्रैव वसति चक्रिरे। भगवान विश्वनाथोऽपि विनश्वरतनूमूल्येन सर्वोपायदुर- वापामपि मुक्तिमाकीटमापामरं समानभावेन विक्रीणानः कति कति वा न सुकृतिनो मुक्तिभाजो विदधे । अत्र हि केवलं शरीरपात एव मुक्तिलाभाय प्रभवति । इयं च भगवतो विश्वनाथस्यानन्दकाननमिति व्यवह्रियमाणा सत्य- मेवानन्दकाननं संलक्ष्यते । भगवती जह्न तनयापि पापिन: समुद्धतुकामा गङ्गाधरस्य कपर्दबन्धान्निष्क्रम्य विश्वेशितू राज- धान्या अस्या वाराणस्याः पादमूलं क्षालयन्ती सुधासमधिक- स्वादुना स्वपाथःप्रवाहेण तृषार्तानां परमां तृप्तिमातन्वती समुद्धरती पातकिनः प्रौढेव विगतचापल्या शान्तात्मनाऽत्र प्रवहति । सत्यमूर्तिमहाराजहरिश्चन्द्रोऽपि गाधिनन्दनेन राज्यमपहृत्य निर्वासितः सन् चण्डालराजे आत्मानं विक्रीय तदनुचरीभवन्न- त्रैव केदारखण्डे भागीरथीतटे प्रभारर्थे प्रेतवस्त्राणि सञ्चिन्वन्न- राजत । तेन प्रतिष्ठापिता हरिश्चन्द्रेश्वरोऽद्यापि जनैः सभक्त्यु- न्मेषमवलोक्यते । अष्टादशपुराणानां निर्मातापि कृष्णद्वैपा- यनो व्यासो दुण्ढिगणपतेः कपटबटुवेषपाटवेन प्रतारितः सन्नितो प्रबन्धप्रकाशः १२५ निर्वासितो भूत्वा गङ्गायाः परतीरे मगधेषु वासं कल्पितवान् । केवलं कृष्णचतुर्दश्यां भगवन्तं विश्वनाथं द्रष्टुमनुमतस्तावतैवात्मानं धन्यं मन्यते । अत्रैव भगवतो विष्णोरंशभूतेन भगवता धन्वन्तरिणापि आयुर्वेदविद्यासम्प्रदायः प्रवर्तितः। वृद्धकालेश्वरनिकटे 'धन्वन्तरि- कूप' इति प्रसिद्धः सकलामयोपसर्गदूरीकरणपटुरद्यापि स कूपो भक्तिमद्भिर्जनैः सादरमवलोक्यते निषेव्यते च । यत्प्रभावेण सर्वे रोगाः सहसैव दूरमपसरन्तीति विश्वसन्ति परमास्तिकाः सज्जनाः। मुक्ताभियुक्तजनतापरिभूषितायामस्यामेव वाराणस्यां भगवतो नवजलधरातेर्विष्णास्तल्पसङ्कल्पसम्पादनसमर्पितवपुषो नागराजस्य शेषस्यावतारभूतो भगवान पतञ्जलिराविभूय महाभाष्यं प्रणिनाय । तदावासभूते नागकूपेऽद्यापि श्रद्धालवो जनाः शब्दशास्त्रनैपुण्यकाम- नया स्नान्ति जपन्ति पूजयन्ति च । श्रावणशुक्ले नागपञ्चम्यां प्रतिवर्ष पण्डितानां विद्यार्थिनां च शास्त्रार्थकोलाहलः कामपि कमनीयां कोटिं प्रकटयति। अष्टमे शतके लब्धजन्मना काश्मीर- केण कविपुङ्गवेन दामोदरगुप्तेन स्वकीये कुट्टिनीमत इयमेव काशी सविशेषं वर्णिता वर्तते। बौद्धसाहित्येऽपि जातकेषु प्रायो वाराणसीतिनाम्नास्या एव काशिकायाः सौभाग्यसम्पत्समृद्धिः सातिशयं वर्णिता दृश्यते । काश्या निकट एव सम्प्रति 'सारनाथ' इतिनाम्ना प्रसिद्धं स्थानं बौद्धकाले 'मिगदाव' इतिनाम्ना प्रसिद्धमासीत् ।

१२६ प्रबन्धप्रकाशः यञ्च जातकानुसारेण मृगरूपेणावतीर्णस्य भगवतो बुद्धस्य निवास- स्थानमिति पवित्रतीर्थात्मना बौद्धैरद्यापि सम्मान्यते । तत्रैव तदनु सन्नाजाशोकेन निखातः स्तम्भोऽद्यापि समतीतसार्द्ध- द्विसहस्रसंवत्सरमैतिह्यमितिहासरसिकानां समुपस्थाप- यति । इदमेव हि लोकोत्तरत्वमस्याः काशिकाया यदसौ सनातनधर्मस्य मातृगृहभूतापि बौद्धजैनादिधर्माणामपि प्रसार- लीलाभूमिर्बभूव । इदमेव हि धर्मचक्रप्रवर्तनस्थानं बौद्धानाम् । प्रसद्धानेकतीर्थङ्करलीलाभूमिश्च जैनानाम् । बौद्धयुगे च गङ्गायां नौकाद्वारा व्यापारस्य केन्द्रभूतमिदं नगरमासीत् । जातकेषु अत्रत्या धनिना महाजनाः 'सेटि' नाम्ना व्यपदिष्टाः सन्ति तदानीं काशिकं वस्त्र द्वीपान्तरेष्वपि रत्नमिव परि- गण्यते स्म । अथ बौद्धप्रभावादस्तमितप्रायं सनातनधर्ममुहिधीपुः शङ्करा- वतारो भगवान् शङ्कराचार्योऽपि केरलेषु लब्धजन्मा काश्यामुप- गतो चाण्डालवपुर्धारिणा भगवता व्यासेन स्पृष्टः सन्नात्मान- मशुचिं मन्वानो तेन परिबोधित एव तत्त्वज्ञानमवाप्तवान् । अन्वभूच्च सपदि ज्ञानोत्पादनमाहात्म्यं काशिकायाः । मेवान्येऽप्याचार्याः सम्प्रदायप्रवर्तकाः काशीनिवासमहिम्ना लब्ध- परिशुद्धावबोधा एव जनानुपदेष्टु मोक्षमार्ग प्रवर्तयितुञ्च प्राभवन् । वैष्णवेषु श्रीवल्लभाचार्यस्य काश्यां सुचिरं निवास आसीदिति तु शतशः प्रमाणजातैरपरोक्षमेव प्रेक्षावताम् । वङ्गोय- वैष्णवसम्प्रदायप्रधानप्रवर्तकः श्रीमान् चैतन्यदेवोऽपि काश्यां एक- प्रबन्धप्रकाशः १२७ --- नाम प्रायः सर्वत्रव निवसन्नेव सनातनमुपदिदेश । अत्रत्यः प्रसिद्धः संन्यासी प्रकाशानन्दोऽपि तेनानुगृहीतस्तस्य शिष्यो भूत्वा प्रेबोधानन्द नाम्ना प्रसिद्धिमुपाजगाम। : काशिकापतेर्भगवतो विश्वनाथस्य मन्दिरमधिकृत्य कापि चित्तमुद्वेजयन्ती कथा प्रथिता वर्तते । प्राचीनेतिहासेषु काश्या अविमुक्तक्षेत्रमिति, काशीपतेरविमुक्तेश्वर इति च समुपलभ्यते। 'काशी विश्वेश्वर' इति नामनी तु नाति- तमां प्राचीने इत्यपि शक्यं वक्तुम् । 'कालापहाड' इतिनाम्ना प्रसि- द्वेन यवनराजसेनापतिना सर्वादौ श्रीविश्वनाथमन्दिरं निपातित- मासीत् । ततः परमास्तिका मणिकर्णिकातीर्थ एव श्रीविश्वनाथं भावयन्तः पूजयन्तः कथमपि चेतांसि समादधिरे। वैक्रमपञ्च- दशशतके प्रादुभूतेन भट्टनारायणेन स्वप्रभावचमत्कृतटोडरमल्ल- महीपालद्वाराकबराख्ययवनसम्राजोऽनुग्रहमासाद्य लक्षसुवर्णमुद्रा- व्ययेन रमणीयतममत्र लिहशिखरं नवं मन्दिर निर्माय पुन: प्रतिष्ठा- पितो विश्वनाथः काशिकायाम् । ततः परमकबरप्रपौत्रेण मूर्तिम- तेव हिन्दूनां दुर्भागधेयेन औरङ्गज बनाम्ना तात्कालिकेन यवन- सम्राजा स्वकीयेन सुयशसा सहैव तन्मन्दिरं पुनर्निपातितम् । अथ पेशवाख्यस्य दाक्षिणात्यब्राह्मणराजस्य सौभाग्यवृद्धये काश्यां तप- श्चरणमनुतिष्ठता तपोमूर्तिना सिद्धिसमृद्ध न पाटणकरनारायण- दीक्षितेन स्वप्ने भगवदादेशमासाद्य पुनः प्रतिष्ठापितो भगवान् विश्वनाथः। मन्दिरं च जगत्प्रसिद्धदातृतामहिम्ना साध्वीकुलल- लामभूतया 'अहिल्याबाई' इतिप्रसिद्धया 'इन्दोर'-महाराझ्या निर्मा- १२८ प्रवन्धप्रकाशः प्रायः - पितम्। सौवर्णशिखरं च शूरशिरोमणिना रणजीतसिंहेन संघ- टितम् । तदेवेदं मन्दिरम्, स एव च भगवान् विश्वनाथः परमा- स्तिकानां संकल्पकल्पनाय कल्पतरुरिव विराजमानोऽद्यापि हिन्दूनां गौरवमक्षुण्णमिव रक्षति । सर्वेष्वेव शास्त्रषु तत्तच्छास्त्रीयनिबन्धनिर्मातारः प्रधानपण्डिता अपि स्वस्वनिवासेनेमां काशिकां समलंचक्रिरे। तत्र व्याकरणे पतञ्जलिरत्रैव नागकूपे निवसन् महाभाष्यं प्रणिनायेति किंवदन्ती जागति । काशिकाकारौ वामनजया. दित्यावपि कञ्चित्कालं काशीमेवालङ्क रुतः स्म । अर्वाचीनेषु प्रक्रियाकौमुदीकारो रामचन्द्राचार्यः, सर्वतन्त्रस्वतन्त्रो महावैया- करणोऽनेकप्रबन्धनिर्माता श्रीशेषकृष्णः, सिद्धान्तकौमुद्यादिनिर्माता श्रीभट्टोजिदीक्षितः, नागेशभट्टश्च काशिका एवासन् । ततः परं तच्छिष्यानुक्रमे पायगुण्डेबालंभट्टस्तच्छिष्यः शम्भुदेवो गाडगी- लोपनामको जनार्दनः काशीनाथशास्त्री राजारामशास्त्री बाल- सरस्वतीतिप्रथितो बालशास्त्री च सर्वेऽप्यमी दाक्षिणात्या अपि काशिकाशिशव एव प्रथिता अभूवन् । श्रीबालशास्त्रिशिष्येषु प्रसिद्धयशोगौरवा महामहोपाध्यायादिपदाङ्किता राजप्रजोमय- समुपार्जितसम्माना: श्रीगङ्गाधरशास्त्रि, दामोदरशास्त्रि, शिव- कुमारशास्त्रि, तात्याशास्त्रिणोऽपि तथाविधा एव समभूवन् । तच्छिष्यपरम्परास्वेव सम्प्रत्यपि महामहोपाध्यायश्रीनित्यानन्द- पन्तपर्वतीय प्रभृतयो महावैयाकरणा विराजन्ते । साहित्य- १ स्वर्ग गतोऽसौ महाभागः १९८८ वैक्रमाब्दे ।

प्रबन्धप्रकाशः दर्शनादिशास्त्रेषु नव्यप्राच्यन्याययोश्च प्रौढप्रगाढपाण्डित्याः श्रीमद्- गोस्वामिदामोदरशास्त्रिरणेऽपि तादृशा एव । वेदान्तेऽपि, शङ्करभगवत्पादानन्तरं तच्छिष्याः पद्मपादाचार्याः काशिका एवासन्। ततः परं मध्ययुगे मधुसूदनसरस्वतीस्वामिना- ऽपि वङ्गीया अपि चरमे वयसि काश्यामेव न्यवसन्। नृसिंहा. श्रमस्वामिनोऽपि काशिका एव । स्वयंप्रकाशयतयः, काष्ठजिह्व- स्वामिनः, पूर्णाश्रमास्तारकाश्रमाश्च सर्वेऽप्यमी वेदान्तदान्ताशया यतिपुङ्गवाः काशिका एवासन् । न्यायेऽपि, भवानन्दसिद्धान्तवागीशाः, महादेवदिनकरभार- द्वाजौ, कृष्णभट्टो, विद्यानिवासभट्टाचार्यो, विश्वनाथपञ्चाननः, पुण्यस्तम्भकरमहादेवो, गङ्गारामजडी च वैदेशिका अपि काश्यां चिरमवात्सुः । . महामहोपाध्यायकैलासचन्द्रशिरोमणिभट्टाचार्यश्च काशीमेव चिरं निषेव्य विससजें तत्रैव वपुः । तच्छिष्येषु प्रमुखा महामहोपाध्यायश्रीवामाचरणभट्टाचार्यो ऽद्यापि काशिकराजकीय- पाठशालायां मुख्याध्यापकपदे विराजमानस्तपस्विनी न्यायविद्यां संरक्षति । धर्मशास्त्रऽपि भट्टभट्टवंश्येषु प्रथमगण्याः श्रीनारायणभट्टाः, शङ्करभट्टः, कमलाकरभट्टो, नीलकण्ठभट्टो, दिनकरभट्टश्च; धर्मा- धिकारिवंश्येषु प्रख्यातकीर्तयो नन्दपण्डिताः; शेषवंश्येषु शेषश्री- कृष्णाश्च प्रसिद्धा एव ग्रन्थकर्तारः समभवन् । सांख्येऽपि विज्ञान- भिक्षवो, भावेगणेशदीक्षिताः। मीमांसायामपि, खण्डदेवाः, कवि- १ हन्त ! दिवं गतोऽसौ महाशयः १६८८ वैक्रमाब्द। १ ९ प्रबन्धप्रकाशः १३० मण्डनशम्भुभट्टा भट्टवंश्याश्च । पुराणे नीलकण्ठचतुर्धराः । ज्योतिष कमलाकररङ्गनाथमुनीश्वरा नीलकण्ठदैवज्ञप्रभृतयश्च । ततः परं ज्योतिर्विद्यावतारा: श्रीमन्महामहोपाध्याय सि० आई० ई. इत्यादिपदवीविभूषिताः श्रीमद्वापूदेवशास्त्रिणस्तच्छिष्याः महामहोपा- ध्यायश्रीसुधाकरद्विवेदिनश्चन्द्र देवशर्माणः स्वधर्मधुरन्धरा ज्योति:- शास्त्रपारदृश्वानो वेतालविनायकशास्त्रिणा घाटेमहादेवशास्त्रिया- ऽन्ये च समभूवन्। तन्त्रे प्रेमनिधिभास्कररायादयः । अलङ्कारे पण्डितराजजगन्नाथप्रभृतयश्च । सर्वेऽप्यमो वैदेशिका अपि चिरं काशीमलङ्कुर्वन्तस्तांस्तान् प्रबन्धान् प्रणयन्ति स्म। तेषु बहूनां वंश्या अद्यापि स्वपूर्वजगौरवेण समाजे लब्धपूजाः पूज्यत्वेन जाग्रति । महानैयायिको मिथिलालङ्कारः शङ्करमिश्रोऽपि चरमे वयसि काशीमेव सेवते स्मेति प्रसिद्धमस्ति । सिद्धपुरुषविषयेऽपि काशिकागौरवमसामान्यमेव । अत्र हि मुक्तिपुर्या देवदेवं विश्वेशं निषेवितुकामाः प्रायः सर्वेऽपि सिद्ध. पुरुषा निवासं भेजिरे। प्रसिद्धो रामभक्तो गोस्वामितुलसीदासो- ऽपि काशिक एवासीत् , अत्रैव च विससर्ज पार्थिवं वपुः । परमप्रख्यातयशसः कबीरस्यापि काशिकैव जन्मभूः । लोकोत्तर- सिद्धिशाली परमहंसस्तैलङ्गस्वाम्यपि .काशिक एव । स्वामी भास्करानन्दोऽपि नन्दनः काशिकायाः। महापण्डितो वशीकृता- नेकनरपतियोगिराट् स्वामी विशुद्धानन्दोऽपि वाराणसेय एव । नास्तिक्यप्रचुरप्रचारविषमेऽपि वर्तमानसमये यादृशी धर्मचर्चा, यादृशश्च सदाचारः, यावच्च शास्त्राणां परिशीलनम् , प्रबन्धप्रकाशः १३१ यावन्तश्च धार्मिकाः काश्यामुपलक्ष्यन्ते न तथान्यत्रेति काशीमाहा- स्यमेवात्र प्रभवति । अत्रत्यों राजकीयः संस्कृतमहाविद्यालयः प्रतिवर्षमसंख्यान विदुषः परीक्षापाथोधिपरतीरप्रापणेन लब्धप्रतिष्ठान वितन्वन् सुरभारतीमविरतं निषेवते। अत्रत्या अध्यापका अद्यापि प्राचीनगौरवमक्षुण्णं रक्षन्ति । काश्याः परभागेऽसीसङ्गमतीर्थोत्तरप्रदेशे श्रीमतामसामान्य- गुणगणानां लोकोपकारावरदीक्षितानां श्रीमन्मदनमोहनमालवीय- महोदयानां कीर्तिराशिरिव मूर्तिमान् हिन्दूविश्वविद्यालयो नयन- गोचरीभवति । यत्र सर्वा विद्याः सर्वाः कलाश्च सविशेष शिक्ष्यन्ते । तत्तद्विषयविशेषज्ञाश्च तं तं विषयं सविशेषमध्या- पयन्ति । इत्थमेव दानशूरस्य निर्भयताप्रथितकोत: सरलहृदो धनकुबेरस्य श्रीशिवप्रसादगुप्तमहोदयस्यार्थसाहाय्येन संस्थापितं काशीविद्यापीठ- मपि राष्ट्रियशिक्षाप्रचारैकलक्ष्यं सुलक्षणं संलक्ष्यते । यत्र महादार्शनिका देशकार्यकरणप्रसिद्धा गम्भीरताभूमयो डॉ० भगवानदासमहोदयाः कुलपतिपदे विराजन्ते । तेषामधीनत्वे प्रभूता विद्वांसस्तानि तानि शास्त्राणि सरहस्यं सप्रयोगं चाध्यापयन्ति । V/राजमहाराजैः श्रेष्ठिभिश्च व्यक्तिशः संस्थापितानां विद्यालयानां संख्या तु सम्प्रत्येव शतत्रयादुपरि गच्छन्ती कालक्रमेण भवन्ती तेषामभिवृद्धिं द्योतयति । विद्यार्थिनोऽपि नानादेश्याः समागत्य धनिभी राजमहाराजैः प्रतिष्ठापितेषु सहस्राधिकेष्वन्नसत्रेषु मुञ्जाना धर्मशालासु छात्रावासेषु च विहितवसतयोऽधीयते ।

१३२ प्रबन्धप्रकाशः उदरमिव जगन्निवासस्य भगवता विष्णोः काशिकापि सर्वदेश्य- सर्वविधजनतासमावृता कामप्यनुपमां सुषमां वहति । तत्तत्प्रान्ता. भिजनैरवत्यैर्जनैः स्वस्ववीथीषु तथा व्यवस्था विरचिता वर्तते यथा दशाश्वमेधप्रान्ते वङ्गीयानां सविशेषं निवासात्स प्रदेशो वङ्गदेश इव लक्ष्यते । एवं हनुमद्घट्टभागे मद्रासप्रान्तीया एव निवसन्तीति स विभागो मद्रासप्रान्त इव । एवं महाराष्ट्रीयाणां मैथिलानां च वसतिप्रदेशो महाराष्ट्रभूमिथिला च संलक्ष्यते । काशिकायाः पादमूलं क्षालयन्त्या भगवत्या जाह्नव्या अवतार- तीर्थेषु पङ्क्तिशोऽवस्थिता अनेकमहीपालसुयशःस्वरूपाः पाषाण- निर्मिता:शताधिका घट्टास्तु सकलभूतलविलक्षणसुषमा अनन्यसामान्या पञ्चगङ्गातीर्थनिकटे औरङ्गज बनिर्मापितमस्जिदमध्यवर्ती समुन्नततमो दूरवीक्षणयूपसौधो (माधोलाल का धरैरा ) बाहुरिख काशिकायाः समाह्वयन्निव धार्मिकान् संलक्ष्यते । एवंविधानामसंख्यानामाश्चर्यभूम्नां प्रसवभूरियं वाराणसी केन वा साकल्येन वर्णयितु शक्येत । सर्वाङ्गीणविशेषविभूषिताया अस्याः प्रत्यङ्गमनेके विशेषाः सविशेष लक्ष्यन्ते; तेषां सर्वेषां वर्णन वाक्पथातीतमेव । असाध्यमेव मादृशामल्पमेधसाम्। केवलमत्यन्तं संक्षेपेण सामान्याकारेण सङ्कलितमिदं वाराणसीवैभवमविशेष- विदां यदि किञ्चिदुपकुर्यात्तर्हि सफलो मे परिश्रम इति ॥ / [ साहित्याचार्यश्रीनारायणशास्त्रिखिस्तेमहोदयस्य एव ।

प्रबन्धप्रकाशः १३३ । भगवतो बुद्धस्य चरितमुपदेशश्च अद्यत्वे प्रचरत्सु धार्मिकसमयेषु श्रीशाक्यसिंहप्रवर्तितस्य सद्धर्म- चक्रस्य कालमहिम्ना मन्दीभूतवेगतयापचीयमानप्रभावस्यापि बहु- मतत्वाद्वा सिद्धान्तवैशिष्ट्याद्वा सर्वोत्तरं गौरवमवलोक्यते । तस्यास्यैव परमप्रसिद्धधर्मस्य प्रवर्तकस्य महापुरुषस्य चरितमुपदेशं चोद्दिश्य किञ्चिदत्र संक्षेपेण निगद्यते । धर्मस्यास्य प्रवर्तको गौतमाख्यः कश्चित् क्षत्रियः कुमार आसीत् । स राजकुल उत्पद्य संसाराद् विरज्यमान उग्र तपश्चरन् सम्यक्सम्बोधिमधिगतवान्। मनुष्योपि स तपःप्रभावेण प्राप्तदेव- भाव उत महान् देव एव जगदुद्धारसंकल्पेन विहितावतारो मानुषी तनुमाश्रित इति विप्रतिपन्नम् । एवं श्रूयते किल सुमेधा नाम कश्चिद् ब्राह्मणे वेदपारगो दीप- करबुद्धकाले वर्तमान आसीत्। संसारे चिरं संसरन् दुःखान्तं गवेषमाणः स दानादिकमनुतिष्ठन् शीलनैष्कम्यप्रज्ञादीन् पूरया- मास । सर्वाः पारमिता: साक्षात्कृत्य पूर्णत्वमासादितवान् । मरणोत्तरं स तुषिताख्ये देवावासे देवराड्पेण दिव्यदेहमास्था- याविरभूत्। तत्र दीर्घकालं स्वीयपुण्यसंचारसमुचितां महीयसी सम्पदं भुजानो देवैः सम्प्रार्थितः सन्नात्मन: सम्बोधिकालः समागत इत्युपलभ्य स्वेच्छया स्वावतरणयोग्यं कालदेशादिकं निर्णीय भारते वर्षे कपिलवस्तुनगरे शाक्यवंशे राज्ञः शुद्धोदनस्य महिष्या मायादेव्या कुक्षावागत्य तस्यै श्वेतहस्तिरूपेण स्वात्मानं प्रबन्धप्रकाशः स १३४ स्वप्ने प्रदर्शयन् यथाकालं वैशाखमासस्य पूर्णिमातिथौ लुम्बिनीवने शालतरुमूले भूमिष्ठो बभूव । यस्मिन् देशे यस्मिन् काले च धर्मस्य ग्लानिर्भवति तत्र तदैव जगत्संरक्षिणी महती शक्तिराविभूय विप्लुतं धर्म पुनः संस्थापयति । तथा च तुषितस्वग तदधिपति- रूपमाश्रित्य यो देवराट् शुद्धभोगान् नित्यमुपभुञ्जानो विराजते स एव साक्षाद्वा, निर्माणकार्य निर्माय तदधिष्ठानेन वा, कामलोके कामहतसत्त्वानामचक्षुष्कानां मार्गप्रदर्शनार्थमात्मानं प्रकटयति । नात्र किमपि चित्रम् । आबाल्यं लालितो भोगसुखेन विलासोपकरणैश्च परिवृतोऽपि क्षत्रियोचितशस्त्रादिचर्चायां विविधविद्यासु चतुःषष्टिकलासु च परं नैपुण्यमलभत । षोडशवर्षदेशीय एव स दारपरिग्रह विदध इति स्मयते । तस्य लोकोत्तरा वैचित्र्यशालिनी शक्तिः सर्वत्र शैशवादेव प्रकटिताभूत् । कदाचित् प्रवृत्ते मधुमासवैभवे स उद्यानविहारार्थमवरोधेन साकमुपवनमगच्छत् । तदैव प्रबोधकाल: समागत इति देवास्तस्य पूर्वस्मृतिमुत्पादयितु बोधि- लाभार्थ महाभिनिष्क्रमणे मतिं जनयितुञ्च जरारोगमृत्युभिराक्रा- न्तान् पुरुषान् तस्मै दर्शयामासुः। तदर्शनेन सारथ्युपवर्णितं सत्त्व- मात्रस्य जरादिविकारावश्यं भावपीडनमाकर्ण्य च भृशं तस्य मनः विषण्णमभवत् । तत एव सेोऽकृतोद्यानविहारो निर्विरणहृदयो व्यरमत् । अनन्तरं देवानुभावेन पथि शान्तचेतास्तप्तकाञ्चन- सन्निभः समुद्भासितप्रसन्नवक्त्रमण्डलः प्रज्ञायाः करुणायाश्च लोकोत्तरो विग्रह इव कश्चित्तापसस्तस्य दृष्टिगोचरमायातः । दृष्ट्वा तस्य Du BHARA प्रबन्धप्रकाशः १३५ च तं तथाविधं ज्ञात्वा च तं निस्तीर्णभवसागरं लञ्चितजरादि- विकारजातं ताशमेव स्वात्मानमपि विधातुकाम: प्रव्रज्यायै मन- श्चक्र। वीतस्पृहं कुमारमवलोक्य पितुर्मनसि प्रकृत्यैव महती चिन्ता पद्मकृत । पुत्रस्य भोगाकाङ्क्षासंजननार्थ निखिलोऽपि पितुर्यनो निष्फलो बभूव। वह्निप्रदीप्ते गृहे स्थितिर्यथा दुःशका तथैव संविग्नमनसो गौतमस्य संसारावस्थानमपि प्रत्यभात् । निर्वदे क्रमेण घनीभूते दृढीभूते च गृहत्यागसंकल्पे कदाचित् स निशीथे सुप्तेषु पौरजानपदेषु, निःशब्दे च राजकुले, महाभिनि- क्रमणाय प्रतस्थे । सद्योजातस्तनयः, सुरूपा गुणवती भार्या, स्नेहानुबन्धी जनकः, प्रभूतमैश्वर्य, नवं वयः, कान्तं वपुः- किमपि तस्येप्सिताभिमुखं मनः प्रतीपयितु तर्पयितुच नाशकत् । राजोचितं वस्त्रभूषणादिकं परित्यज्य केशवपनं विधाय धृत- श्रमणवेशो भिक्षां चरन् देशाद् देशान्तरं पर्यटन्नासीत् । अन्तरा- न्तरा मारस्य प्रलोभनमप्यजायत। परन्तु तस्य वज्रसारे चेतसि कथमपि लेशोऽपि विकारस्य नाश्यत। यस्य शमस्य सम्पत्तये स संसारस्य स्नेहपाशं छित्त्वा, अभुक्तामपि सुविशाला राज्य- श्रियं परित्यज्य, प्रव्रज्यामाश्रितः, न तु स केवलं प्रव्रज्यया समधिगन्तुं शक्यते, अपि तु योगादिसाधनं विविधं दुश्चरं तपोऽपि च तत्रापेक्ष्यते इति विजानानो योगोपदेष्टुर्मार्गोपदर्शन- समर्थस्य कस्यापि देशिकस्यान्वेषणमकरोत् । तथा कुर्व श्च कालाय- सगोत्रस्याऽऽराडाख्ययोगिनः प्रसिद्धि योगसमृद्धि चावगत्य तत्र गत्वा तदाश्रमे कियत्कालमवसत् । तदनुज्ञया च तत्र ध्यानादि- प्रबन्धप्रकाशः विहारेषु तत्प्रदर्शितदिशा चिरं चित्तं दधे। गुरोः सामर्थ्येन स्वस्य च महनीयेन संरम्भेण चत्वारि रूपध्यानान्युपलभ्य ततो निवृत्तोऽरूपभूमौ तृतीयायामाकिञ्चन्याख्यायां यथावत् प्रकर्षम- गच्छत् । एतादृशध्याने निष्णात: क्षेत्रज्ञो देहं विसृज्य विमुच्यत इति श्रुत्वापि तत्र तस्य हार्दिको रागो नाजायत । तस्मादपि ध्यानात् चित्त व्युत्तिष्ठतीति संदृश्य तदपि चित्तस्य प्रशमनाय नालमिति मत्वा च तदुत्तरभूमेर्जयाथै गुर्वन्तरं रामपुत्रं रुद्र- काह्वयमगच्छत् । तत्रापि तदनुग्रहेण "नवसंज्ञानासंज्ञि" भूमि- पर्यन्तमेव तस्य साक्षात्कारो जात:। जातेऽपि तादृशे साक्षा- त्कारे पूर्ववत् चित्तस्यैकान्तिकी निवृत्तिमपश्यन् तदाश्रयं विहाय उरुबिल्वायां गत्वा निरञ्जनातीरे शुचौ प्रदेशे कस्यचिदश्वत्थवृक्षस्य मूले पूर्णबोधिलाभाथै नानाप्रकारैरुपवासादिकृच्छ्रविधिभिरात्मनः कार्य सम्पादयन् विहितासनबन्धो दुष्कराणि तपांसि समारेभे। षड्वर्षाणि मारेण युद्ध्यन् पारमिताविश्वासबलेन तं पराभूय परमां सिद्धिमवाप। तथा हि ध्यानरतस्य तस्य रात्रः प्रथमे यामे प्राक्तनीनां जातीनां तदुद्भवसंस्काराणां चानुभवपर्यन्तमनुस्मरणमजायत । संजातप्राक्स्मृति: स आत्मनः पूर्वावस्थापरम्परामस्मरत, भता- मपि तां संनिकृष्टामिव साक्षादकरोच्च । आदिसर्गमारभ्य लिङ्गमेकमेव वासनाभेदैरधिवासितं भोगार्थ के के नाम देह नाश्रितवत् ? अनियताकारमपि तत् प्रारब्धकर्मणामुपभोगार्थ- मुपादीयमानदेहानुरोधेन के कमाकारं नासादितवत् ? संस्कार.

प्रबन्धप्रकाशः १३७ साक्षात्करणेन पूर्वस्मृतीनामुदये तस्यानुभूतपूर्वभागानां तत्सं- पृक्तविषयभुवनव्यवहारादीनां च सर्वेषामपि समुल्लेख: स्फुटमेव हृधुपाजायत । संनिहितमृत्योर्जनस्यातिक्रम्यमाणजीवनस्येव संजातबोधाभासस्य सुस्मूर्षोस्तस्य निखिलानामेव जन्मन स्मरणमभूत् । आसन्नचेतनस्य निमेषायुषः कीटस्य दुशामिव कल्पान्तस्थायिनां देवानामपि दशामजानात् । तथा जानन् जगति दुःखानामेवोत्कर्षमपश्यत् । आनन्दभूयिष्ठेऽपि जन्मनि दुःखसत्तामवेत् । अथ द्वितीये यामे दिव्यं चक्षुरुदपद्यत येन निखिललोकस्य दर्पणप्रतिबिम्बितनगरस्येव स्फुटं दर्शनमभूत् । षाटकौशिकादि- देहेन तादात्म्यबुद्धथा वस्तुतस्तद्विविक्तोऽपि व्यवहारेण तदव- च्छिन्नरूपस्तदाश्रितेन्द्रियग्रामैर्विषयेषु प्रचरन् जीवो निबिडमोह- पाशबद्धः समन्ताद् दृष्टिं प्रसारयितुं न शक्नोति । महाविदेहां धारणां शीलयतो मनसः कर्मनिमित्तां देहप्रतिष्ठां शिथिलीकृत्य तस्य विशुद्धिं स्वेच्छया बहिः संचारं च सम्पादयत: समुद्भूत- प्रज्ञालवस्य गुरुकटाक्षक्षपितमलस्य किमिव न दृष्टिपथमृच्छति ? व्योम्नि नक्षत्रपङ्क्तिरिव, अलाबुलतायां तत्फलानीव, सावित्र- रश्मौ त्रसरेणव इव, अनादिनिधनायां भगवच्छक्तौ प्रकृत्यावरणे कोटिशा ब्रह्माण्डानि, प्रतिब्रह्माण्डं च कोटिशो लोकाः प्रतिभा- सन्ते। ते सर्व एव भोगाधिकरणरूपा उच्चावचभोगसाधनै- विषयैः पूर्णाः। भोगाश्च सुखप्राया अपि नैकान्तेन दुःखाविना- कृता इति दुःखरूपा एव। एवं भोगस्य देशविस्तारं पश्यन् , --- १४० प्रबन्धप्रकाशः जातिनिबन्धनम् । जातिश्च देहोपलम्भः । तस्यां सत्यां जरा वा रोगो वा मरणं वा सर्वमेव दुःखकारणं सम्भवति। तन्निरोधे च दुःखोत्पादस्य मूलमेव च्छिद्यते। मरणेन देहनिवृत्त्या दुःख- विगमो न सम्भवति; देहारम्भकसंस्कारादिसत्त्वात् पुनरपि तस्य परिग्रहो भवत्येव । देवदेहो वा भवतु, तिर्यग्देहो वा, सर्वत्रैव पुनदु:खानुबन्धः संलक्ष्यते । जन्मनः कारणं भवः, स खलु उपा- दानात्सञ्जायते। यद्बाह्य वस्तु उप समीपे आदत्ते तदुपादानम् । उपादानस्यासम्भवे भवोदयासम्भवात् जातिरपि न सम्भवति । उपादानस्य निमित्तभूता तृष्णा; यावत्सा न शाम्यति तावत् संतोषाभावात् बाह्यपरिग्रहाकाङ्क्षा तिष्ठत्येव । तृष्णायाः कारणं वेदनाख्या विषयानुभूति:, वेदनायाश्च कारणमिन्द्रियार्थसन्निकर्षः स्पर्शः। स्पर्शः षडायतनादुत्पद्यते । षडायतनं नाम ज्ञानेन्द्रिय- पञ्चकं मनश्चेति षड्वर्गः । षडायतनं नामरूपाभ्यां समुत्पद्यते । तत्र नाम संज्ञासंस्कारविज्ञानानां संवातः । नामरूपे एकीभूय पञ्चस्कन्धं घटयत: । नामरूपयोनिमित्तं विज्ञानम् । विज्ञानस्य हेतुः संस्काराः । संस्काराश्च सर्व एवाविद्यामूलकाः। अवि- द्यायाः पुनर्मूलं न किमपि दृश्यते । सैव सर्वानर्थनिदानमिति तस्या उन्मूलनमेव पुरुषार्थस्वरूपम् । तच्चाष्टाङ्गयोगमार्गपरि- शीलनलब्धप्रज्ञया साध्यते । एतानि द्वादश निदानानि सौगतानां ग्रन्थेषूपलभ्यन्ते । समुच्चयेन प्रतीत्यसमुत्पादोऽयमेव । तदिदमनिशमावत्तमानं दुःखचक्रं कदापि निवृत्तं भवितुम- हति नवेति शङ्कायां सम्भवत्येव तन्निरोध इति तत्प्रशमस्वरूपा- प्रबन्धप्रकाशः १४१ ७ न विष्करणरूपं तृतीयं सत्यम् । अयमेव दु:खनिरोधः प्रस्थानभेदेन मोक्षनिर्वाणापवर्गामृतनिःश्रेयसादिपदैव्य॑पदिश्यते। यदिदं दाडम्बरं परिदृश्यते, तच्चाविद्याया एव विजृम्भितमिति प्रागेवोक्तम् । अविद्यानिरोधेन दुःखपर्यन्तस्य तत्कार्यचक्रस्यापि. निरोधे सति जगदभावे यदवशिष्यते तदमृतं निर्वाणमिति कथ्यते। तदेव च शून्यपदभाक्। नहि निवाणं वस्तुतोऽभावरूपमिति विज्ञेयम् । वा व्यावहारिकभाववदपि; तादृशभावानां प्रज्ञोदयेऽसत्त्वात्। निर्वा- रणम् "असंस्कृत" धातुत्वात् शाश्वतं शिवं द्वन्द्वातीतं प्रपञ्चोपशमरूपं परमं सुखम् । निर्वाणममृतपदम्। तदस्ति, तत्प्राप्त्युपायश्चाप्यस्ति । कः स उपाय: ? अष्टाङ्गयोग इति बुद्धदर्शनम्। वस्तुतस्तु ज्ञानेनैवा- विद्यानिवृत्तिर्भवति । । तस्यां निवृत्तायां क्रमेण संस्कारादिनिवृत्त्या दुःखं निवर्त्तते । ज्ञानसम्पत्तये चाष्टाङ्गयोगमार्ग एव शरणम् । योगाङ्गानि तावत्-सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यगाचारः, सम्यगाजीवः, सम्यगवीर्यम्, सम्यकस्मृतिः, सम्यक्- समाधिश्च । बहूनां जन्मनामन्ते कस्यचिदेव भाग्यवत: समाधिमनुशील- यता मनसि प्रज्ञायाः समुदयो भवति। उदितायां तस्यां बन्धन- कारका दशविधाः पाशाः संयोजनाभिधाः क्षीयन्ते। मार्गस्यास्य चतस्र एव भूमयः। प्रथमा तावत्-स्रोतआपत्तिभूमि:, तामधि- गतस्यार्यस्य सत्कायदृष्टिविचिकित्साशीलव्रतपरामर्शरूपं संयोजनत्रयं विनश्यति । स पृथिव्यां वा, कस्मिन्नपि देवावासे वा, कर्मानुगुण- - ।

प्रबन्धप्रकाशः । १४२ फलभोगार्थ जायते। परन्तु मार्गाश्रयादपुनरावृत्तिस्तस्य नियतैव सप्तसु जन्मसु तन्न्यूनेषु वा निर्वाणमवश्यं भावि। द्विताया भूमिः सकृदागामिपदव्यपदेश्या, तामारूढस्य देवलोके उपपद्य पृथिव्यां सकृदेव जन्म भवतीति केषाञ्चिन्मतम्। देवलोके जन्मे- त्यपरेषां मतम्। तदेव तस्य चरमं जन्म । तदैव प्रज्ञोत्कर्षा- निवोणमधिगम्यते। अस्यां भूमौ 'कामरागः' 'प्रतिव'श्चेतिसंयो- जनद्वयं निवर्तते । अनागाम्याख्या भूमिस्तृतीया। तस्यां काम- रागाभावात् पृथिव्यादौ वा तदन्यस्मिन् कामस्वर्गादा कामलोके वा थुनरावृत्तिर्न सम्भवति। अनागामी ब्रह्मलोके सकृदेवाविर्भवति तत्रैव च प्रज्ञाशुद्धिं लब्ध्वा विमुच्यते। स कस्मिन् ब्रह्मलोके जायत इति रागोच्छेदतारतम्यमपेक्ष्य समाधेयम् । यस्य रूपरागो विद्यते स रूपब्रह्मलोके, तदितरस्तु अरूपब्रह्मलोके स्वात्मानमावि- अरूपरागच्छेदेऽरूपब्रह्मलोके नोद्भवः सम्भवी मानौद्धत्याविद्याख्यसंयोजनत्रयस्य निवृत्तेबन्धनकारणत्रयस्य रहि- तत्वात् निर्वाणं भवति । तच्च सत्यपि देहे संजायते । तदेव चाहत्त्वं जीवन्मुक्त्याख्यम्। देहपातानन्तरं परमं निर्वाणमवशिष्यते, तञ्च परमार्थः । तदा प्रभृति जनपदेषु सर्वत्र परिभ्रमन् स सद्धर्म प्रचारया- मास । केचिद् गृहे निवसन्त उपासका बभूवुः। केचिच्च गृह त्यक्त्वा भिक्षवः। पुरुषवत् स्त्रियोऽपि तस्य शिष्यमण्डले प्रावि- शन् । क्रमेण विहारसङ्घारामादि स्थाने स्थाने निर्मितमभूत्। सङ्घस्य परिचालनोपयोगिनो नियमा निबद्धा जाताः। ब्राह्मणा , र्भावयति । -- SHARAJGARNUARNAVAMINouaman RADIJNUTER JALAICHINAINAARIHARANA प्रबन्धप्रकाशः १४३ केचित्त, राजानः श्रष्टिनो वेश्या अपि त्रिरत्न-बुद्ध धर्म सङ्घ च-शरण- मुपागच्छन् !* तदुपदेशमाहात्म्येन बहवोऽहद्भावं गताः, वहवश्च स्रोतापत्त्यादिभूमिषु प्रविष्टाः । मौद्गलायनवद् ऋद्धिमन्तोऽपि संवृत्ताः। बहवस्तस्य विरोधिनोऽपि विरोधं परि- हाय तस्य सेवकत्वं गृहीतवन्तः। नानाविश्वासार्ह किमपि लक्ष्यते । महीयसां महता प्रभावेण सर्वमेव संभाव्यते ।। इत्थं चत्वारिंशदधिकवर्षकालं धर्ममुपदिशन् जीवानुद्धरन् स कृतकृत्यः पश्चिमे वयसि कुशीनगराख्ये स्थाने देहं मुमोच ॥ [वाराणसेयराजकीयसंस्कृतविद्यालयभूतपूर्वाध्यक्ष श्रीगोपीनाथकविराजमहोदयस्य * त्रिशरणं खलु बुद्धस्य तत्प्रवर्तितधर्मस्य तद्धर्मावलम्बिसंघस्य च दैनिकी स्तुतिः-'बुद्धं शरणं गच्छामी'त्यादिरूपा । । स्थूलदृष्टया बौद्धो धर्मः शीलानुष्ठानपर इति शीलमधिकृत्य किंचि- दुच्यते । भिक्षुभिहस्थैश्च पञ्चशीलमनुष्ठेयम् । तत्तु प्राणिहिंसा- ऽदत्तादानव्यभिचारमृषावादमद्यपानविरतिरूपम् । अष्टशीलं तु प्रागुक्तं शीलपञ्चकं तेन संयोजितं नियमत्रयं च । नियमत्रयं नाम विकालभोजन- विरतिः, माल्यधारणगन्धद्रव्योपयोगविरतिः, उच्चमहाशयनाभ्यां विर- तिश्च । अष्टशीले व्यभिचारविरतिस्थलेऽब्रह्मचर्यविरतिर्बोध्या शीलेन सह नियमद्वययोजनेन दशशीलं भवति । नृत्यगीतादि- विरति: स्वर्णरजतप्रतिग्रहविरतिश्चेति नियमद्वयम् । दशशीलं भिक्षन् पञ्चशीलं च गृहस्थानुद्दिश्य प्रवृत्तम् । शोलाचरणेन शमा लभ्यते,तदना- चरणेनात्मनो मूलमपि नश्यति । गृहस्थैर्भिक्षुभिश्चानुष्ठेयेषु बहुविधेषु धर्मेषु बुद्धेनोपदिष्टेषु शीलोपदेश एव सर्वसामान्येन प्रधानः । अष्ट- SATSANEMATION ASSONAKStaMONTINEN १४४ प्रबन्धप्रकाशः वेदानां संस्कृतपठनपाठनप्रणाल्यां स्थानम् वेदानां महत्त्वम्। कस्याविदितं सचेतसा यदस्माकं भारतीयानामार्याणां वाङ्मये निरतशयेन सर्वोत्कृष्टं हि स्थानं वेदानाम् । न केवलं विभिन्नरूपेण प्रचरत आर्यधर्मस्य मूलस्रोतस्त्वेनोपजीव्यत्वेनैव च तेषामुत्कृष्टत्वम्, किन्त्वन्यान्यदृष्ट्यापि । भारतीयसंस्कृतेर्भारतीयानां भाषाणाम्-आर्यभाषाणां तदितर- भाषाणाम्-च तात्त्विकदृष्ट्याध्ययनायानुशीलनाय च वेदानां वैदिकभाषायाश्चानुशीलनं नितरामावश्यकम्। अन्यदेशीयभाषा- संस्कृत्याद्यनुशीलनापेक्षयापि तेषामतीवोपयोगित्वमिति तु नात्र प्रकृतमिति न तद्विषये किञ्चित्प्रस्तूयते । अत एवास्माकं धार्मिकग्रन्थेषु तत्र तत्र शतशः प्रकारैर्व- दानां महत्त्वमुदाष्यते । तथा च भगवान् मनु:- वेदोऽखिलो धर्ममूलम् ।। २।६।। सर्वषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १।२१ ।। यः कश्चित्कस्यचिद् धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २७ ॥ पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम्। अशक्यं, चाप्रमेयं च वेदशास्त्रमिति स्थितिः।। १२।९४ ॥

प्रबन्धप्रकाशः १४५ तथाच- चातुर्वण्ये त्रयो लोकाश्चत्वारश्चाश्रमा: पृथक् । भूतं भव्यं भविष्यं च सर्व वेदात्प्रसिध्यति ।। १२ । ९७ ॥ प्राचीनकाले वेदानां पठनपाठनप्रणाल्यां स्थानम् तदेवं सर्वतोमुखीं वेदानामत्युपयोगितामाकलव्यैव अस्माकं साक्षात्कृतधर्मभिराचार्यः प्राचीनकाले पठनपाठनप्रणाल्यां मुख्यत्वेन स्थानं वेदानां निर्धार्यते स्म । तपाविशेषैर्विविधैर्ऋतैश्च विधिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहत्या द्विजन्मना ।।२।१६५।। वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः । वेदाभ्यासेा हि विप्रस्य तपः परमिहाच्यते ।।२।१६६|| योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥२१६८॥ शूद्रेण हि समस्तावद् यावद्वेदे न जायते ।।२।१७२।। षट्त्रिंशदाब्दिकं चर्य गुरौ त्रैवेदिकं व्रतम् । तदधिकं पादिकं वा ग्रहणान्तिकमेव वा ।। ३।१॥ वेदानधीत्य वेदा वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३२ ॥ इत्यादिमानवधर्मशास्त्रोक्तैरन्यैश्चैवंप्रकारैः शतशः प्रमाणैर्न केवलं द्विजैस्तेषामध्ययनमेवातीवावश्यकत्वेन प्रतिपाद्यते, किन्तु वेदाध्य- यनस्यैव प्राधान्येन द्विजत्वसंपादकत्वमप्याख्यायते । कस्यैतदविदितं यत्प्रायः सर्वेषां शास्त्राणामध्ययनाध्यापनस्य, वेदानामखिलपुरुषार्थसाधनतया, वेदाभ्यासा वेदानुशीलनं वेद- १० १४६ प्रबन्धप्रकाशः उत त्वः। रक्षा चैव परमप्रयोजनमिति तेषु तेषु शास्त्रेष्वेवासकृद् गायले सप्रयत्नं स्थाप्यते च। उदाहरणार्थ पातजलमहाभाष्ये एव शब्दानुशासनस्य प्रयो- जननिर्देशप्रसङ्ग प्रायो वेदनिबन्धनेनैव "रक्षोहागमलघ्वसन्देहाः प्रयो- जनम्” इति, "तेऽसुराः । दुष्टः शब्दः । यद्धीतम् । यस्तु प्रयुङ्क्ते । अविद्वांसः । विभक्तिं कुर्वन्ति । यो वा इमाम् । चत्वारि। सक्तमिव । सारस्वतीम् । दशम्यां पुत्रस्य । सुदेवो असि वरुण"। इति च प्रयोजनानि प्रतिपादितानि । निरुक्तेऽपि, “अथापीदमन्तरेण मन्ष्वर्थप्रत्ययो न विद्यते । अर्थमप्रतियतो नात्यन्तं स्वरसंस्कारोदशः ।", "अथापीदमन्तरेण पदविभागो न विद्यते ।", "अथापि याज्ञे दैवतेन बहवः प्रदेशा भवन्ति तदेतेनोपेक्षितव्यम् ।", "अथ ज्ञानप्रशंसा भवत्यज्ञाननिन्दा च ।” इत्युपक्रमैर्वदाध्ययनमुद्दिश्यैव तत्प्रयोजनान्यभिहितानि । किं बहुना, अतिगम्भीरस्य वेदस्य साक्षात्परम्परया वा अध्य- यनोपकारायैव प्रायेण विभिन्नशास्त्राणि प्रवृत्तानि । तथा चोक्तं यास्काचार्येण निरुक्ते- "साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्संप्रादुः । उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणा- येम ग्रन्थं समाम्नासिषुर्वेदं च वेदाङ्गानि च ।” इति । व्याकरणादीनाम् 'अङ्गत्वेन' मीमांसादिशास्त्राणाम् 'उपाङ्गत्वेन' सर्वविदितं वर्णनमपि वेदानामपेक्षयैव । अत एव पाणिनीय- शिक्षायामुच्यते- - bu प्रबन्धप्रकाशः छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ४१।४२ ॥ मीमांसादिशास्त्राणामपि वेदार्थज्ञानार्थमुपयोगस्तत्र स्मयते। तथा हि- पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।। इतिहासपुराणाभ्यां वेदं समुपबृहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ।। इत्यादीनि बहुप्रमाणानि अत्र विषये। वेदाङ्गत्वेन वेदोपाङ्ग- वेन च प्रसिद्धशास्त्राणि विहायापि अक्षुण्णतया वेदसम्प्रदाय- परिरक्षणाय ये नानाविधा उपायाः समस्तपृथिव्यामन्यधर्मा- वलम्बिनामश्रुतचरा अस्माकमाचाराविष्कृताः प्रचारिताश्च न केषान्ते विस्मयावहाः । पदक्रमजटाद्यष्टविकृतीनां परिकल्पना पदगाढ-बैठ-प्रातिशाख्यादीनां पादादिविषयकविविधानुक्रमणीनां च निर्माणं सर्वमेतद्वेदानां रक्षणार्थमेव । अत एव पर:सहस्रपु वर्षष्वतीतेष्वपि पदशः स्वरशोऽक्षरशश्च वैदिकसंहितानां सम्प्रदाया- विच्छेदोऽद्यत्वे न कानाश्चर्यचकितान्विद्धाति । असन्तुष्टा इवास्मान्महतोऽपि प्रयत्नात् त एवाचार्या ब्राह्मण- समाजस्य द्विवेदत्रिवेदचतुर्वेदादिविभागमपि सुदृढं वेदानां परि- रक्षणार्थमेव चक्रुरिति प्रतीयते।

१४८ प्रबन्धप्रकाशः तदेतत्सर्व प्राचीनकाले पठनपाटनप्रणाल्यां वेदानामत्युत्कृष्टमन- न्यसाधारणं च स्थानं द्योतयति आधुनिकी अवस्था परं कां दशामनुप्रपन्ना वयमद्यत्वेऽस्मिन्विषये । वेदानामध्य- यनाध्यापनं विलुप्तप्रायमेवास्माकं दौर्भाग्येण । केचिदेव विरला अङ्ग लिनिर्देश्याः सर्वभावेन वेदाध्ययनपरायणा दृष्टिपथं प्रयान्ति । न चेयमाधुनिकी एव प्रवृत्ति: । चिरकालादेवैतादृग्दुर्दशाग्रस्ता वयम् । वैदिकत्वेन प्रसिद्धान् काँश्चिद् ब्राह्मणानन्तरेण केवलं नाममात्रेणैव वैदिकाः सर्वे संवृत्ताः। कस्याविदितं प्राचीनग्रन्था- नुसन्धाननिरतस्य यन्नानाशास्त्रज्ञानां पण्डितानां गृहेष्वपि अन्यान्य- विषयकप्राचीनहस्तलिखितग्रन्थेषूपलभ्यमानेष्वपि वैदिकग्रन्थानां विशेषतश्च वैदिकसंहितादिग्रन्थानां प्रायोऽभाव एव दृश्यते । सर्वमेतद्वेदविषये तेषामनास्थामेव वस्तुतो द्योतयति । वैदिकत्वेन प्रसिद्धानां मध्येऽपि केचिदेव प्रविरला एतादृशो ये- स्थाणुरयं भारहार: किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ।। यद् गृहीतमविज्ञातं निगदेनैव शब्द्ययते । अनग्नाविव शुष्कैयो न तज्ज्वलति कहिंचित् ।। (निरुक्ते १।१८) उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्त्र जायेव पत्य उशती सुवासाः॥ (ऋ० १०७१।४) प्रबन्धप्रकाशः इत्यादिश्रुतीः स्मरन्तोऽनुसरन्तश्चार्थदृष्टयापि वेदानामभ्यासमनु- तिष्ठन्ति । विद्यमानाप्येषा चिरकालादेव वेदविषयेऽस्माकमुदासीनता साम्प्रतमतिमात्रं वृद्धिं गता । अत एव प्रविरलसंस्कृतप्रचाराणां सामान्यप्रदेशानां तु का कथा, विद्यायाः केन्द्रीभूतस्थानेष्वपि सत्स्वप्यन्यान्यशास्त्रीयविषयविशेषज्ञेषु वस्तुतो वैदिकानां विदुषां प्रायोऽभाव एव दृश्यते । येऽपि विभिन्नविषयेषु पारोवर्यविदो विद्वांसस्तेऽपि वेदविषयेऽनभिज्ञा एव प्रायशः। वेदानामध्ययनेन न तेषां किञ्चित्प्रयोजनमितीव तेषां धारणा। महाभाध्यानुसारं वेदरक्षार्थ प्रवृत्तस्यान्यान्यसंस्कृतव्याकरणापेक्षया विशेषतो वैदिक- प्रक्रियाप्रतिपादकस्य पाणिनीयव्याकरणस्य कर्णधारेषु वा, वेदानां प्रामाण्याप्रामाण्यं पुरस्कृत्य साग्रहं विवदमानेषु नैयायिकपञ्चा- ननेषु वा, वेदप्रतिपाद्यधर्मस्वरूपविचारचातुरीधुरीणेषु मीमांसा- प्रवीणेषु वा, धाधर्म्यव्यवस्थापकेषु धर्मधुरन्धरेषु पदवाक्य- प्रमाणपारावारीणेषु वा, 'अस्य महतो भूतस्य निःश्वसितमेतद् यह- खेदः' इत्याद्यर्थपरक 'वेद + अन्त' मधीयानेषु वेदान्तिधौरेयेषु वा वस्तुत। 'ऽनेकविद्यास्थानापबृहितस्य प्रदीपवत् सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य महत ऋग्वेदादेः" अनुशीलनस्य प्रवृत्तेरभाव एव प्रायो दृष्टिपथमापतति । एतस्या दुरवस्थाया एव एष परिणामो यद्वैदिकत्वाभिमानिनोऽपि वयं केवलं नाममात्रेणैव वेदानुयायिनः संवृत्ताः। अतएव- १५० प्रबन्धप्रकाशः विश्वदानी सुमनस: स्याम । पश्येम नु सूर्यमुच्चरन्तम् ॥ ऋ० ६॥५२॥५॥ मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै। मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ।। ऋ० ७।१।१९।। अस्मे धेहि अवो बृहद् द्युम्नं सहस्रसातमम् । इन्द्र ता रथिनीरिषः । ऋ० १९८॥ उदियु दिहि सूर्य वर्चसा माभ्युदिहि । याँश्च पश्यामि याँश्च न तेषु मा सुमतिं कृधि अथर्व० १७११७॥ पुमान् पुमांसं परि पातु विश्वतः ॥ ऋ०६७५॥१४॥ इन्द्र खोतास आ वयं वज्र घना दद्दीमहि । जयेम सं युधि स्पृधः ॥ ऋ० १२८॥३॥ वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् । सासह्याम पृतन्यतः ॥ ऋ०१॥८॥४॥ अदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥ यजु०३६।२४।। भद्रं जीवन्तो जरणामशीमहि ॥ ऋ० १०॥ ३७॥ ६॥ पश्येम शरदः शतम् ।। जीवेम शरदः शतम् ॥ बुध्येम शरदः शतम् ॥ रोहेम शरदः शतम् ॥

प्रबन्धप्रकाशः पुष्येम शरदः शतम् ॥ भवेम शरदः शतम् ।। भूषेम शरदः शतम ।। भूयसीः शरदः शतात् ॥ अथर्व० १९।६७१-८॥ यतो यतः समीहसे ततो ना अभयं कुरु ।। यजु०३६॥२५॥ अश्मा भवतु नस्तनूः ॥ ऋ०६७५॥१२॥ वीर्यमसि वोर्य मयि धेहि । बलमसि बलं मयि धेहि। यजु० १९।९॥ मदेम शतहिमाः सुवीराः॥ अथव० २०६३॥३॥ इत्यादीनामाशाभावभरितानां वीरतारसपरिप्लुतानामुदात्त- विचाराणाम्, “यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः", "तद्व- चनादानायस्य प्रामाण्यम्” इत्यादिप्रमाणानुरूपमभ्युदयनिःश्रे- यससाधनस्य वैदिकसदाचारस्य वैदिककर्मकाण्डस्य च सर्वथाs- भाव इव सर्वतो दृश्यते । अत एवास्माकं समाजस्य शिथिला शीर्णा च दशा, नि:श्रीका निस्तेजस्काश्च वयं संवृत्ताः। प्राचीनाः सर्व एव समुन्नता आदर्शा विलुप्तप्रायाः स्मृतिगर्भ विलीना: संजाताः। अस्माकं कर्तव्यम् समुपस्थितायामेतादृश्यां परिणामदुरन्तायां वैदिकसाहित्य- विषयकोपेक्षायां सरस्माभिर्वैदिकैः समयानुसारेण यथा- संभव पुनरपि वैदिकसाहित्यानुशीलनस्य प्रवृत्तेरुज्जीवनाय ।

१५२. प्रबन्धप्रकाशः प्रयत्नों विधेयः। प्रयतनीयं च तथा यथा तत्तद्विषयानधीयाना अपि संस्कृतच्छात्रा:- वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ मनु० ३।२ ॥ उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ।। एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ।। मनु० २।१४०-१४१ ॥ "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च" ( महाभाष्ये ) इत्याद्यादर्शमनुसरन्तो वेदाभ्यासाऽस्माकं निष्कारणो धर्म इति मन्यमाना वेदमप्यभ्यस्येयुरनुशीलयेयुश्च । कथमेतत्सर्व सम्पादयितुं शक्यते, कथं च वेदाध्ययनं द्विजमात्रैविशेषतश्चार्य- जातेः पुरोयायिभित्राह्मणैः क्रियते, कथं चास्मिन् विषये आधु- निकी प्रचलिता पठनपाठनप्रणाली साधिका भवितुमर्हति, इत्यादि- विचारणार्थमेव वेदानामनुरागिणामनुयायिनां च पुरस्तादेष प्रबन्धः समुपस्थापितोऽस्माभिः।' १ संस्कृतरत्नाकरस्य वेदाङ्क पूर्व प्रकाशितोऽयं लेखः किञ्चित्परि- वांत्र समुद्भियते।

प्रबन्धप्रकाशः -१५३ पुस्तका ® देववाण्या अवनतिरस्माकं कर्तव्य मान्या विद्वद्वर्याः प्रियच्छात्रगणाश्च, महत: प्रमोदस्यायमवसरो यदद्य सर्वेपि वयं नानी प्रदेशाध्यः समागत्य अस्माकं माननीयाया विश्ववन्द्याया देववाण्याः नतिं कामयमाना आनन्दकन्दस्य नन्दनन्दनस्य भगवतः श्रीकृष्णस्य जन्मभूम्यां पुण्यपुर्या मथुरायामिह संसदि समवेताः स्मः । एषा हि खलु देववाणी शैवशाक्तवैष्णवजैनबौद्धादिनाना- संप्रदायेषु विभक्तानां विभिन्नमतिजुषाम् आपाततः परस्परविरुद्ध- स्वेन प्रतीयमानानामपि, तेषु तेषु संप्रदायेषु तेषु तेषु मतेषु च । एको रसः करुण एव निमित्तभेदान भिन्नः पृथक् पृथगिवाश्रयते विवर्तान् । आवर्तबुद्बुदतरङ्गमयान् विकागन् अम्भो यथा सलिलमेव हि तत्समस्तम् ।। इत्याद्यनुरूपमेकसूत्ररूपेण अोतप्रोतया एकयैव व्यापिन्या भारतीयमौलिकसंस्कृत्या परस्परं सम्बद्धानां सर्वेषामप्यस्माकं भारतीयसंस्कृत्यभिमानिनामतीव माननीया । संस्कृतभाषा हि भारतीयार्यधर्म इव सर्वेषामप्यस्माकमार्य- धर्मावलम्बिनां वरिष्ठः शेवधिर्वस्य च विषयः । एको हि आर्यधर्मवृक्षोऽसंख्यशाखाप्रशाखारूपेणातिविस्तृतः, * १६, २०१८१६३६ ईस्वीतिथ्योः संयुक्तप्रान्तीयसंस्कृतच्छात्र- संमेलनस्य श्रीमथुरापुर्या द्वितीयाधिवेशने सभाध्यक्षस्य ग्रन्थकतु रभि- भाषणम्।

प्रबन्धप्रकाशः तस्य सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिधं सर्वतः स्मृत्वात्यतिष्टदशाङ्ग लम् ।। इत्यादिश्रुतिभिर्गीयमानविराटपुरुष इव, नानारूपैः पल्ल- वितः पुष्पित: फलितश्च साम्प्रतं समन्ताद्भारतभूमिमलंकरोति । एतदृष्टया हि सोऽपि “एकोऽश्वत्थः सनातनः' इत्येवं वर्ण- यितु शक्यते । शैववैष्णवप्रभृतयः सर्वेऽपि भारतीयधर्मा- स्तम्यैव शाखाप्रशाखारूपाः । भारतीयसंस्कृतीत्यपरनामा एक एव जीवनरसस्तान् सर्वानाप्याययति परिपोषयति च। तेषां सर्वेषामन्यधर्मेभ्यः किञ्चिदनिर्वचनीयं वैशिष्ट्य संपादयति । खलु भारतीयसंस्कृतीत्यपरनामधेयस्य भारतीयजीवनायामृतकल्पस्य जीवनरसस्य सर्वकामदुधा दोन्ध्रीवेयमस्माकं मातृरूपा देववाणी । परिपोषणेनैव भारतीयसंस्कृतेः परिपुष्टिस्तदनुयायिनां सर्वे- पामार्यधर्मावलम्बिनामस्माकं ते । सर्वाङ्गीणा समुन्नतिश्च संभवति। कस्यैतदविदितं सवषामप्यार्यधर्मावलम्बिना धार्मिक साहित्यं प्राचुर्येण देववाण्यामेव विद्यते । प्रायेण सर्वेषामपि आर्यधर्माणामनुयायिभिः आजीवनं तपांसि तप- द्भिराचार्यः संग्रथितानि ग्रन्थरत्नानि देववाण्या: साहित्य- समृद्धि सम्पादयन्ति । प्रायेण सर्वासामेव भारतीयभाषाणा- मुद्गमस्थानभूता चैषा देववाणी । एतद्द्वारैव विभिन्नदेशेषु लैटिन, ग्रीक, इंग्लिश, जर्मन, फ्रेंच-इत्यादिरूपैरुपलभ्य- अत एव तस्याः यत्प्रायः प्रबन्धप्रकाशः मानया आर्यभाषयास्माकं संबन्धः भुवि सर्वत्र विश्रुतः । अस्यामेव सभ्यजगतः प्राचीनतमं साहित्यं समुपलभ्यते । तदेतादृशैरनन्य- साधारणैगुणगणैरुपलक्षिता इयमस्माकं देववाणी कस्य नाम नाभिवन्दिता स्यात् । देववाण्याः प्राचीनकाले समुन्नतिः आसीत्स समयो यदा खलु साभ्युदयसीमामनुभवन्ती अभ्युन्नतिशिखरे संस्थिता सर्वत्रापि स्वप्रभावमहिम्ना सर्वेषां समादरभाजनं बभूव, नानादेशेषु बभूव, नानादेशेषु च विस्तृता भारतवर्षस्य यशः समन्तात्पृथिव्यां प्रसारयति स्म । कस्याविदितं यन्न केवलं भारतवर्ष एव किन्तु भारतेतर- देशदेशान्तरेष्वपि प्रचार आसीत् प्राचीनकाले । केनेतिहासविदा श्रुतो भवेत्सुदूरवर्तिनि एशिया माइनर' प्रदेशेऽपि परः सहस्रवर्षेभ्यः प्रागपि 'बोगाजकाई ( Boghaskoi) स्थाने समुपलब्धप्राचीनलेखेषुल्लिखितैः 'इन्द्र', 'वरुण', 'मित्र इत्यादिभिर्वैदिकदेवतावाचिशब्दैः स्पष्टमनुमीयमान- एशियामध्यप्रदेशेषु इण्डोचाइनाप्रभृतिदेशेषु महासमुद्रान्त:संस्थितेषु सुदूरवर्त्तिषु 'बालि' प्रभृतिद्वीपेषु च अद्य- त्वेपि समुपलभ्यमानैः प्राचीनैर्भारतीयैः संस्कृतग्रन्थरत्नैर्दवालयखण्डैः संस्कृतशिलालेखैर्वापि तस्या एव प्रचारातिशयस्तेषु तेषु स्थानेषूद्- घोष्यते । भारते विलुप्तानां परःशतानां ग्रन्थरत्नानामद्याप्यनु- वादरूपेण चीनतिब्बतादिदेशेष्ववस्थितिरपि देववाण्या एव प्राचीन- तस्याः स्तस्याः प्रचारः।

प्रबन्धप्रकाशः भारतवर्ष तस्या कालिकं भुवि विश्रुतं यशः प्रख्यापयति । किं बहुना, "शव- तिर्गतिकर्मा कम्बोजेष्वेव भाषिता भवति । विकार एवैनमार्या भाषन्ते शव इति', 'महान् हि शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती, त्रयो लोकाः......" महाभाष्यादिग्रन्थेषूपलभ्यमानैरे- तादृशैः प्रमाणैरपि तस्याः प्राक्कालिक: प्रायेण सार्वदेशिकः प्रचारा- तिशय एव स्पष्टमनूद्यते। तु प्राचीनकाले अत्युत्कृष्टप्रभावस्य प्रचारातिशयस्य च विषये किमु नाम वक्तव्यम्। आबालवृद्ध- माराजरङ्कमापामरमाझं तस्याः सार्वजनीनप्रचारविषये नहि कस्यापि सन्देहलेशस्याप्यवकाशः । साम्प्रतिकहिन्दी- प्रभृतिभाषाणामिव प्राचीनकाले 'अन्वध्यायं भाषायाम् ( निरुक्ते ), 'भाषायां सदवसश्रवः' (अ० ३।२।१०८), 'प्रथमायाश्च द्विवचने भाषायाम्' ( अष्टा० ७।२।८८ ), 'सख्य- शिश्वीति भाषायाम्' (अष्टा० ४।१।६२ ) इत्यादिप्रमाणे - षात्वेन व्यवहार एव तस्याः सार्वजनीनं प्रचारं द्योतयति । "प्रत्यभिवादेऽशूद्र' इति पाणिनिसूत्रेऽशूद्रग्रहणेन, नाटकेषु संस्कृतभाषाभाषिभिः संस्कृतज्ञपात्रः सहासंस्कृतभाषिणामपि नीचपात्राणां वार्तालापेन, "उदहारि भगिनि या त्वं कुम्भ शिरसानड्वाह साचीनमभिधावन्तमद्राक्षीरिति" ( महाभाष्ये ११११५८ ) इत्यादिप्रमाणैश्च तस्याः प्रचारो न केवलं शिक्षितेष्वेव किन्तु प्राकृतजनेष्वपि अविहतगतिरासीदिति स्पष्टमेवोद्घोष्यते। हरसि प्रबन्धप्रकाशः १५७ वैदिकेषु ऋषिषु त्रसदस्युप्रभृतीनां राजन्यानां वसुकर्णादि- वैश्यानां विश्ववाराप्रभृतीनां स्त्रीणामुपलब्धिः, उपनिषत्सु राज्ञा- मृषिभ्यो ब्रह्मज्ञानस्योपदेष्टत्वेन प्रसिद्धिः, महाभारते भीष्मपिता- महादेर्नीतिशास्त्रप्रवक्तृत्वेन वर्णनमित्यादि सर्वमपि तस्याः प्रचारस्य व्यापकत्वमेवानुमापयति । तस्मिन्हि प्राचीने प्राचीनतमे च समये जीवनयात्रायाः प्रत्येकविभागे देववाण्या एवाप्रतिहतं साम्राज्यं सुस्थित- मासीत् । सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ।। (मनु० १२।१००) दशावरा वा परिषत् यं धर्म परिकल्पयेत् । त्र्यवरा वापि वृत्तस्था तं धर्म न विचालयेत्॥ विद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिण: पूर्व परिषत् स्याद्दशावरा ॥ ऋग्वेदविद्यजुर्विच्च सामवेदविदेव परिषज्ज्ञया धर्मसंशयनिर्णये॥ (मनु० १२।११०-११२) इत्यादिप्रमाणैरयमेवार्थः स्पष्टीक्रियते । छान्दोग्योपनिषदादिगतैः "ऋग्वेदं भगवोऽध्येमि यजु- वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधि वाकवाक्यमेकायनं देव- । त्र्यवरा ।

१५८ प्रबन्धप्रकाशः MARA विद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद् भगवोऽध्येमि" ( छान्दोग्योपनिषद् ७१ ) इत्यादिप्रमाणैः, शुक्रनीत्यादौ : आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। विद्याश्चतस्र एवैताः.. वर्णाः सर्वाश्रमाश्चैव विद्यास्वासु प्रतिष्टिताः । इत्येवं सवषां वर्णानामाश्रमाणां च कृते तत्तदुपयोगितामाकलय्य चतमृणां विद्यानां प्रतिपादनेन, यद्यत्स्याद्वाचिकं सम्यक कर्म विद्याभिसंज्ञकम् । शक्तो मूकोऽपि यत्कतुकलासंज्ञं तु तस्मृतम् ।। इत्येवं लक्षितानां द्वात्रिंशद्विद्यानां चतुःषष्टिकलानां च भेदानुप- क्रम्य विभिन्नप्रस्थानस्तत्तद्वेदसंबद्धैर्धनुर्वेदायुर्वेदार्थवेदादिभिः सह संबन्धविधया विभज्य तत्तत्कलानां प्रदर्शनेन च न केवलं प्राचीन- काले देववाण्या वाङ्मयस्य तत्तद्विद्यानां कलानां च भेदेनाति- विस्तृतत्वं किन्तु सर्वस्यापि लोकव्यवहारस्य जोवनयात्रा- याश्च कार्यनिर्वहणक्षमत्वमखिलपुरुषार्थसाधनोपयोगित्वं च सुस्पष्टं प्रतीयते । तदेवं प्राचीनकाले न केवलं भारतवर्षे एव किन्तु भारताद् बहिरपि विभिन्नदेशेषु प्रचारातिशयमुपभुजाना सर्वासामपि जीवन- यात्रानिर्वाहिकाणां विद्यानामाश्रयीभूता अखिलपुरुषार्थसाधनो- पयोगिविस्तृतवाङमयेन च समेता समुन्नतिशिखरमधिष्ठिता आसी- देषास्माकं देववाणी ।

प्रबन्धप्रकाशः देववाण्या अद्यत्वेऽवनतिः भ्रष्टा या वा परं हा हन्त ! सैव देववाणी अद्यत्वे सर्वथा संकुचित- गात्रा जीर्ण शीर्णा च दृश्यते । चिरादेव स्वकीय प्राचीनो- त्कृष्टपदाद् सा शनैः शनैर्वर्तमानामधोगतिमनुप्राप्ता । साम्प्रतिकजगति जीवनयात्रायां तस्याः संस्कृतज्ञानां वावस्थितिः कस्य खलु न सा खेदावहा भवेत् । नहि तस्याः पुरातनसमय इव सामान्यजनतायां प्रचारः, उपयोगो वा सामान्यलोकव्यवहारे । नहि जीवनयात्रायां राष्ट्रस्य विभिन्नविभागेषु संस्कृतज्ञानस्य काचिद्विशेषापेक्षा । विलुप्त- प्रायमेव तस्या नानाविधविद्यानामाश्रयीभूतमनल्पमनवधि च प्राचीनं साहित्यम् । नहि संस्कृतज्ञानां प्राचीनकाल इव सर्वथा सुखेनैव जीवननिर्वाहः । नापि जनतायाः पुरोयायित्वं नेतृत्वं वा। न चापि तेषां विशिष्टविधया किञ्चिदपि स्थानं राज्य- व्यवस्थापिकासु संसत्सु। प्रास्तां पुनरे तेषां पुरातनं लोक- राष्ट्रकर्णधारत्वं, सेनापतित्वं प्रधानामात्यत्वं, सान्धिविग्रहिकत्वं, प्राड्विवाकत्वं, कुलपतित्वं, पृथिव्यां सर्वेषां मानवानां सदाचारोपदेष्त्वं, नानाविधानां विद्याना- मुपज्ञातृत्व, सम्राजां पुरोहितत्वं, दूरवर्तिदेशदेशान्तरेषु महा- समुद्रान्तवर्तिद्वीपपरम्परासु च भारतीयसभ्यताया भारतीय- सदाचारस्य भारतीयसाहित्यस्य भारतीयपौराणिकगाथानां भारतीयानां नदीनां नगराणां च नाम्नां संस्थापकत्वम् । परमेतादृशैः नायकत्वं, #MAHAKAMANARTHtilathan १६० प्रबन्धप्रकाशः । पुरावृत्तोद्गारैरलम्। पर्याप्तमेतावद्वर्णनं तस्या वर्तमानामसाधारणी- मवनतिमस्माकं हृद्गतां कर्तुम् । देववाण्या अवनतेः कारणानि कानि पुनर्देववाण्या अवनतेः कारणानि ? प्रायेणैष विचार एतादृशस्थलेषु बहुभिरुपस्थाप्यते यद्राजशक्तः स्वसंस्कृतेः पोषिकाया अभाव एवास्माकं देववाण्या वा उत्तरोत्तरमभि- वर्धमानाया अवनतेः कारणमिति । 'राजा कालस्य कारणम्' इत्यादिवचनान्यप्यत्र विषये प्रमाणीक्रियन्ते। परं वस्तुतो विचार- णायां तु कार्यकारणभावस्य वैपरीत्यमेवात्र नः प्रतिभाति । कस्यापि देशस्य राजशक्ती राजनैतिकावस्था वा न स्वयमकार- रणत एव समुत्पद्यते । वस्तुतः सापि तत्तद्देशवासिनां शिष्टानां शिक्षितानां जननायकानां जनतायाः प्रतिनिधिरूपाणां पुरोयायिनां पुरोहितानां वा प्रजाः प्रति स्वकर्त्तव्यस्य पालना- पालनमूलिकैव । एकञ्च तत्तत्काले संदृश्यमाना भारते या राजनैतिकी दुरवस्था नैषास्माकं दुरवस्थाया: कारणम्, प्रत्युत वयमेव स्वकर्तव्यपालनाद्विमुखा जनताया: पुरोयायिपदाद् भ्रष्टास्तस्याः कारणतामुपगताः । एतादृशमेव तत्तद्विषयक- कार्यकारणभावे मतिवैपरीत्यमन्येष्वपि विषयेषु प्रायेणास्माक- मुपदृश्यते । तदाधारेणैव च जनताया वास्तविकलाभालाभ- विचारमुपेक्ष्य तास्ता दृष्टी: प्रजासु प्रचारयन्तो वस्तुतः स्वात्म- कचनामेव बहवो जनाः कुर्वन्ति । वा ba प्रबन्धप्रकाशः लोकप्रगते.कावस्थितेश्चोपेक्षा ततश्च न हि राजशक्तोनिः राजनैतिकदुरवस्था वा संस्कृतभाषाया अवनतेर्मूलकारणम्, किन्तु यन्मूलकारणं तत्कृतैव राजशक्तानिरपि । तञ्च लोकप्रगतेः, लोकव्यव- हाराद्, लोकावस्थितेश्च संस्कृतज्ञानां विराग उपरतिः, तेषामुपेक्षा च । लोकप्रगतिर्हि नदीव सततमग्रगामिनी न जातु एकावस्था- यामेव संतिष्ठते । ऋतूनामिव तस्या अपि आनुरूप्येण वर्तनं जीवनस्य सफलजीवनयात्रायां वा प्रथमं लक्षणम् । लोक- प्रगतिमनुरुध्यैव प्रवर्तमानास्तत्तद्दे शनिवासिन्यो जातयो जगति स्वयशः समन्तात् प्रसारयन्ति । अन्यास्तु कालकवलतामा. वस्तुतो लेोकप्रगतिमूलिकैव तत्तद्युगादिकल्पना । युगरूपानुसारतश्च धर्माणां भेद इति वै शास्त्रविदां मतम् । तथाहि- अन्ये कृतयुगे धर्मास्त्रेतायां द्वापर युगे। अन्ये कलियुगे नणां युगरूपानुसारतः ।। युगेष्वावर्तमानेषु धर्मोऽप्यावर्तते पुनः । धर्मेष्वावर्तमानेषु लोकोऽप्यावर्तते पुनः ।। श्रुतिश्च शौचमाचारः प्रतिकालं विभिद्यते । नानाधर्माः प्रवर्तन्ते मानवानां युगे युगे। इत्येवं तासु तासु स्मृतिषु स्मर्यते । ११ पद्यन्ते । MARAT प्रबन्धप्रकाशः सर्वेष्वपि देशेषु सर्वेष्वपि च कालेषु सर्वेऽपि कर्ममार्गाः सर्वमेव कर्मकाण्डं च लोकप्रगतिमनुरुध्यैव वस्तुतः प्रजाहित. दृष्ट्यैव च प्रचारितं सत् साफल्यं लभते । लोक एव याथार्थ्यन ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पझ्या, शूद्रो अजायत । इत्येवं गीयमानस्य भगवतो विराटपुरुषस्य प्रत्यक्षमूर्ति रिव सर्वेषामेव मार्गाणां धर्माणां कर्मणां वा सत्यत्वासत्यत्वयो- रुपयोगित्वानुपयोगित्वयोर्वा परीक्षणाय सत्यं तत्त्वनिकषयावेव वर्तते । अमुमेवाथै प्रख्यापयन्ती 'विशि राजा प्रतिष्ठित:' इत्येषा अतिर्गीयते। अयमेवार्थः 'स्त्रीभ्यः सर्ववणेभ्यश्च धर्मशेषान् प्रतीयात्' (प्रा० धर्म० २।११।२९।१५) इत्यापस्तम्बधर्मसूत्रवचनेन पुष्टि समश्नुते । एतदेव रहस्यं यत्कालक्रमेण केऽपि धर्मा विलुप्ता जायन्ते, परम्परागता: प्राचोनशास्त्रेषु समुद्गीयमानाः कर्मपथाः खिली- भवन्ति । अन्ये च नूतनास्तेषां स्थानमधितिष्ठन्ति । एतदेव कारणं प्राचीननवीनसंस्कृत्यास्तिरोभावाविर्भावयोः । तामेतां लोकप्रगतिमनुरुध्यैव लोकावस्थितिञ्चावेक्ष्य लोक- व्यवहारविदो विद्वांसः प्रजाहितदृष्ट थैव कर्मसु प्रवर्तमाना: सर्वेषां समादरभाजो जायन्ते । तत्तत्कार्येषु पुरोयायिनः पुरोहिता ( पुरोऽय हिताः स्थापिताः ) मार्गप्रदर्शका एव प्रबन्धप्रकाशः मनुष्येषु नायकत्वपदवीं नेतृत्वपदवी वासादयन्ति । चक्षुषा- मिव नेतणां शिक्षितानां शिष्टानां वा एतत्कार्य यत्खलु मार्ग- प्रदर्शनं जनतायाः। एतन्मूलकमेव खलु नयनयानयनत्वम् । पशुषु पुनरन्यथैवैतत् । तेषां प्राजिता हि पश्चादेति दण्ड- साहाय्येनैव च तानने यापयति । अत एव प्राचीनकाले ऋषयो धर्मसंकटेषु प्रजोपालवेषु चौपस्थितेषु संभूय विचार्य च लोकावस्थानुसारत एव कर्तव्यमार्गनिर्धारणं कुर्वन्ति स्म । लोकावस्थाया उपेक्षयैव पुनः प्रवर्तमाना: पश्चादृष्टयो जनाः शोकमापद्यन्ते । ततश्चास्माकं देववाण्याः संस्कृतज्ञानां वा विदुषां चिरादेव क्रमशो हासमुपगच्छन्त्या अवस्थाया वास्तविक मूलकारणं लोक- प्रगतेर्लोकावस्थितेश्च अथवा प्रजाया: सामान्यजीवनस्योपेव, ततस्तेषां पार्थक्यं च। लोकस्य लोकयात्रायाश्च प्रात्यहिकीनामा- वश्यकतानामुपेक्षयैवास्माकं जीवनोपयोगिनीनां विद्यानां कलानां च नानाविधानां तिरोभावः समजनि । लोकप्रगतरुपेक्षणेन सर्वैरुपेक्षिता इव शनैः शनैः संस्कृतज्ञा दृश्यन्ते । नेतृत्वं च शनैः शनैस्तेषां हस्तात्प्रस्खलितमिव प्रतिभाति । स्वाभ्युदयकाले पुनदेववाण्या वाङ्मयस्य जीवनयात्राया विभिन्न- विभागानामानुरूप्येणैव नैके विभागा विभिन्ना: शाखाश्चावर्तन्त । सभ्यसमाजस्य प्रत्येकावश्यकतानुसारमेव तास्ता विद्याः कलाश्च समुहिश्य संस्कृतवाङ्मयं तदा प्रवृत्तमासीत्। आसीच समाजस्य जनताया प्रबन्धप्रकाशः M राष्ट्रस्य वा सर्वेष्वप्यङ्गषु समाना कल्याणबुद्धिः प्राचीनानामाचा- र्याणां शिष्टानां जनताया: पुरोयायिनाम् । अत एव च तत्र तत्र पुराणादिषु- पठन्द्विजो वागृषभत्वमीयात् स्यात्क्षत्रियो भूमिपतित्वमीयात् । वणिग्जन: पण्यफलत्वमीयाज जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ (वा० रा० १११।१००) शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः । ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति ।। (अग्निपुराणे ३८३।२३) इत्येवं राष्ट्रस्य सर्वेष्वप्यङ्गषु अङ्गाङ्गिभावरूपो घनिष्ठः संब- न्धोऽत एव चैकस्यापि दुरवस्थयोपेक्षया वा सर्वेषामपि हानिनियतेति च सिद्धान्तानुरूपं सर्वेषामप्यङ्गानां कल्याणकामना श्रूयते । अत एव च प्रजाया विभिन्नानामङ्गानामावश्यकतानुरूपम् “आन्वी- क्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती" इत्येवं विद्यानां चातु- विध्यमाम्नायते । "चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति । आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेनेति' (महाभाष्ये), "आचार्य: सर्वचेष्टासु लोक एव हि धामतः", "कृत्स्ना हि लोको बुद्धिमतामाचार्यः । शत्रुश्चाबुद्धिमताम्" (चरके ), "बुद्धिहीना विनश्यन्ति यथा ते मूर्खपण्डिताः” (पञ्चतन्त्रे) Do प्रबन्धप्रकाशः १६५ " इत्याद्यभियुक्तोक्तिभिः, महाभाष्यादिप्राचीनग्रन्थेषु पदे पदे "तद्यथा लोके" इत्येवं लोकव्यवहारस्य समादरेण, सांख्यादिषु नानाविधलौकिकदृष्टान्तसाहाय्येन शास्त्रार्थप्रतिपादनेन प्राचीनानां विदुषां दृष्टौ लोकबुद्धेर्लोकप्रगतेर्व्यवहारज्ञानस्य च महत्त्वमेव स्पष्टीक्रियते। प्राधान्येन सामान्यजनतायाः शिक्षणार्थ विनिर्मितेषु सर्वेषां माननीयेषु विभिन्नएराणेषु राजशास्त्रस्य, भुवनकोशस्य, महा- द्वीपादेः, वास्तुलक्षणस्य, रत्नादिपरीक्षायाः, वृक्षायुर्वेदस्य, नैकेषां राजवंशानाम्, अश्वचिकित्सायाः, गजचिकित्सायाः, अन्येषां चैवंविधानां लोकोपयोगिविषयाणां सप्रपञ्चं वर्णनादिकमपि 'लोकसंग्रहमेवापि संपश्यन्तु मर्हसि' इति भगवदाज्ञानुरूपं न प्राचीनाचार्याणां लोकसंग्रहचेष्टाया लोककल्याणबुद्धे- श्चैव निदर्शकं किन्तु तेषां स्वयमपि लोकोपयोगिविद्यासु परम- प्रावीण्यस्य ख्यापकं स्पष्टतः प्रतीयते । परमद्यत्वे संस्कृतज्ञा भीता इव समुद्विग्ना इव दूरतः परि- त्यजन्ति व्यवहारोपयोगिनीनां लोकप्रगतेश्च परिचायिकानां भूगोलेतिहासगणितराजशास्त्रादिविद्यानामध्ययनम् । हन्तैता- दृक्प्रवृत्तिमूलकैव संस्कृतभाषायाः संस्कृतज्ञानां च जीवनयात्रा- संबन्धिषु विभिन्नव्यापारेषु राष्ट्रत्य तत्तदावश्यकविभागेषु चानिशं संवर्द्धमानानुपयोगिता । तदेवं प्रपञ्चितमस्माभिरस्मन्मतानुसारेण देववाण्या अव- नतेर्मूलकारणम् अन्यानि कारणानि वस्तुतोऽस्यैव मूल- प्रबन्धप्रकाशः तथापि कारणस्य व्याख्यारूपाणि । कानिचिदन प्रतिपाद्यन्ते । वैशद्यार्थ तान्यपि । भारतीयमौलिकसंस्कृतेरपरिज्ञानम् आपाततः परस्पर विरुद्धत्वेन प्रतीयमानेष्वपि शैवशाक्तवैष्णव- जैनबौद्धप्रभृतिषु नानासंप्रदायेषु एकसूत्ररूपेण व्याप्ताया भारतीय- मौलिकसंस्कृत्याः संक्षेपेण स्वरूपमुपवर्णितमेव पुरस्तादस्माभिः । तस्या एतस्या: संस्कृतेरपरिज्ञानमननुभवश्चापि एकतमं कारणं देववाण्याः सांप्रतिक्या अवनतेः। एतदपरिज्ञानमूलकमेव संस्कृत- ज्ञेषु तद्द्वारा साधारणजनेषु च समुपलभ्यमानं परस्परासहिष्णुत्वं परस्परं कलहश्च दृश्यते। भारतवर्ष हि खलु सांप्रदायिकासहिष्णुताया जन्मभूमि- रिवाद्यत्वे प्रतीयते । आर्यधर्मावलम्बिध्वपि पुनरतितरामुप. लभ्यमाना सा कदर्थयति देशहितैषिणां चेतांसि । 'वयमा- स्तिका यूयं नास्तिकाः', 'वयं वैदिका यूयमवैदिकाः', 'अस्माकं सम्प्रदायः प्राचीनतमो युष्माकं पुनर्नवीन: किञ्चि- कालादेव प्रचलितः' इत्येवं परस्परमधिक्षिपन्त: साम्प्रदायिकाः केन न श्रुता भवेयुः । तत्तत्संप्रदायनामोल्लेखपूर्वकं तत्तत्सि- द्धान्तखण्डनप्रवृत्तानां ग्रन्थानां नामसु 'मुखभङ्गः', 'कर्णमर्दनम्', 'मुखचपेटिका' इत्यादिपदविन्यासेाऽपि तादृश्या एवासहिष्णु- ताया लज्जास्पदं निदर्शनम् । वर्तमाने काले तेषु तेषु समुन्नतदेशेषु तत्तत्संकीर्णसाम्प्रदा- ।

प्रबन्धप्रकाशः १६७ एष यिकभावनासु प्रतिदिनमुपक्षीयमाणासु, 'जर्मन', 'इटैलियन', 'अरेबिक' प्रभृतिरूपेण तत्तद्देशीयमौलिकसंस्कृतिभावनासु पुष्टिं नीयमानासु तद्द्वारा च तत्तज्जानिषु संघशक्तिसम्पादनपुरःसरं स्वस्वोत्कर्षसाधनतत्परास्वपि जातिभ्रंशकरोऽसहिष्णुताया भावोऽस्मासु कस्य नाम देशहितैषिण आर्यधर्माभिमानिनो मन- स्तापं न तनुते । इतिहासविदामतिरोहितं यत्कालक्रमेण तत्तदवस्थावश्यकतानु- रूपं प्राकृतिकनियमानुसारेण नूतना नूतनाः सम्प्रदायाः सर्वेषु देशेषु प्रवर्तन्ते । परम्परागतमर्यादाया विरोधित्वभावना तेषु किञ्चित्कालपर्यन्तमेव जनताया जायते । किञ्चित्कालाति- पाते पुनस्तेषां तस्यामेव मर्यादायामन्तर्भावः समावेशश्च प्रायः सर्वत्र क्रियते । ततश्च साम्प्रदायिकी असहिष्णुता सर्वथा अविचारमूला । अत एव तत्त्वविदो विचारशीला विद्वांसः 'परोक्षप्रिया हि देवाः प्रत्यक्षद्विषः', "ये तत्र ब्राह्मणाः सम्मशिनेा युक्ता आयुक्ता अलूक्षा धर्मकामाः स्युः, यथा ते तत्र वर्तेरन् तथा तत्र वर्त्तथाः” इति श्रुत्यादेशमनुसरन्तस्तेषु तेषु सम्प्रदायेषु व्यापिन्या एकस्या भारतीयसंस्कृत्या भावनयैव भावितचित्ता उदारहृदयाः परस्परं सहिष्णुताभावस्यैव प्रचार कुर्वन्ति । ईश्वरानीश्वरवाद, वेदपौरुषेयत्वापौरुषेयत्ववाद, वाममार्ग, दक्षिणमार्गादिभेदेन नानारूपायाः शैवशाक्तवैष्णवादिसंप्रदाय- बहुलायाः सांख्यवेदान्तजैनबौद्धप्रभृतिनैकदर्शनपद्धतीरनुसरन्त्या ___ १६८ प्रबन्धप्रकाश: भारतीयार्यजातेर्वाचकस्य 'हिन्दुजातिः' इति पदस्य व्यवहारः सर्वैरप्यस्माभिः प्रतिदिनं क्रियते । सर्वेऽपि तस्या अन्यधर्मानु- वर्तिभ्यो विवेकं पार्थक्यं च कतु मनायासेनैव क्षमाः । परं विद्वांसोऽपि तस्याः कस्मिन्नेकस्मिन्नेव लक्षणेऽन्तर्भावप्रदर्शने स्खलितपदा दृश्यन्ते भारतीयसंस्कृतिरेव वेदान्तिनां मायेव स्वयमनिर्वचनीयापि सती व्यवहारतः प्रत्यक्षं सर्वैरनुभूय- माना तस्या एकमात्रं लक्षणम् । सैषा संस्कृतिहि राजनीतिसंघ इव वस्तुतो भारतीयानां संप्रदायानां संघः। स्वसंप्रदायेऽनुराग: पर- संप्रदायेषु च समादरबुद्धिरित्येव खलु तस्या मुख्यो नियमः । चात्र कश्चिद्विरोधः । नहि स्वमातापित्रोरनुरागातिशयः स्त्रप्रतिवेशिनो मातापितरौ मातापितरौ प्रति समादरबुद्धया कदाचि- द्विरुध्यते । वस्तुतत्त्वज्ञानस्यापेक्षा कस्याविदितमेतद् यदद्यत्वे जगति येयमभूतपूर्वा नानाविधा समुन्नति श्यते, नानारूपा आविष्काराश्चानवरतं क्रियमाणा: सर्वानाश्चर्यचकितान् कुर्वन्ति, विविधविद्यासंबन्धिविज्ञानानां यः समुत्कर्षो दृष्टिपथमायाति तस्य सर्वस्य मूलकारणं तत्त्वज्ञानदृष्टया तत्तत्प्रमेयाणां वास्तविकी जिज्ञासा, 'मूढः पर- प्रत्ययनेयबुद्धिः' इत्यभियुक्तोक्त्यनुसारं परम्परागतानां द्विषयकविश्वासानां स्वयमनुभवेन प्रायोगिकपरीक्षापुरःसरं विनिर्णयस्य च प्रवृत्तिरेव विद्यते । सैषा प्रवृत्तिः सुतरामासीद- तत्त- प्रबन्धप्रकाशः १६९ स्मद्द शेऽपि प्राचीनाचार्येषु। स्वानुभवेन प्रयोगपूर्वकं च वस्तु- स्वरूपविनिर्णयप्रवृत्तिकारणादेव प्राभवंस्ते नानाविधपदार्थ- विषयकपरिज्ञानपूर्णान् भारतीयनदीदेशनगरपामकूपारण्यप्रभृति- भूगोलेतिहासादिविशिष्टज्ञानपुरःसरं कौटिल्यार्थशास्त्रपाणिनीया- प्राध्यायीसदृशान्यसाधारणानि लोकविदितानि ग्रन्थरत्नानि निर्मातुम् । वैशेषिके, आयुर्वेदे, ज्यौतिषे, गणिते, अन्येषु चैवंविधेषु प्रायोगिकपरीक्षणसापेक्षेषु शास्त्रषु स्वानुभवेन वस्तुतत्त्वपरीक्षण- पुरःसरं या तेषां समुन्नतिरद्यापि सास्माकं भारतीयानां गर्वस्यास्पदम् । 'परीक्ष्यकारिणो हि कुशला भवन्ति', 'नापरीक्षितमभिनि- विशेत्', 'सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा । व्यापच्चासम्यक्प्रयोगनिमित्ता' ( इत्यादि चरके ), 'श्राप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । साक्षात्करणमर्थस्याप्तिस्तया प्रवर्तत इत्याप्तः । ऋष्यार्यम्लेच्छानां समानं लक्षणम् । व्यवहाराः प्रवर्तन्ते' ( इति न्यायसूत्रवात्स्यायनभाष्ये शब्दलक्षणप्रकरणे ), 'मनुष्या वा ऋषिपूत्क्रामत्सु देवानब्रुवन् को न ऋषिर्भविष्यतीति । तेभ्य एतं तर्कमृषि प्रायच्छन्' ( इति निरुक्ते ) सर्वाणि चैतानि प्रमाणानि तमेव पूर्वोक्तमर्थ द्रढयन्ति । किं बहुना, धर्मविषयेऽपि तेषामासीदियं धारणा यत्- आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तकरणानुसंधत्तं स धर्म वेद नेतरः ।। तथा च सर्वेषां ।

प्रबन्धप्रकाश वस्तुतः शब्दप्रमाणस्य प्रामाण्यमनुभवपूर्वकपरीक्षासह- कृतमेवेति पूर्वनिर्दिष्टवात्स्यायनवचनेन 'अनुभवेन वस्तुतत्त्वस्य काय॑न याथार्थ्यज्ञानवानाप्तः इत्याप्तलक्षणेन प्रतीयते । परं चिरकालादेवैषा स्वयमनुभवेन वस्तुतत्त्वपरीक्षणमुखी प्रवृत्तिस्तिरोहितेव संस्कृतज्ञेषु इति प्रतीयते । अद्यत्वे तु तस्याः प्रतिकूला प्रवृत्तिरेव चरमां सोमां यातेति कस्याविदितं भवेत् । भवतु नामावश्यको शब्दैकप्रमाणपरता श्रुत्यादिविहितेषु पारलौकिके- प्वदृष्टेषु विषयेषु। परन्त्वनुभवगम्येषु प्रायोगिकपरीक्षणसहेषु लौकिकेषु विषयेषु तु सा सर्वथैवाक्षम्या । वर्तमानकाले संस्कृतपठनपाठनपद्धतेरयमेको महान् दोषो यत्प्रथमं तु छात्रेषु कस्मिन्नपि विषये स्वाभाविकविशिष्ट- जिज्ञासाबुद्धरनुदय एव । उदयेऽपि अभ्यस्यमानग्रन्थप्रमाण- बलादेव सबलात्कारं तस्या उपशमः क्रियते । अभ्यस्यमान- ग्रन्थोक्ताः पदार्थास्तत्तद्ग्रन्थे यथा प्रतिपादितास्तथैव वस्तुतत्त्व ज्ञाननिरपेक्षया ग्राह्यन्ते । उदाहरणरूपेणान्यथा वा समागतानां शब्दानां केऽर्थाः, काव्यादियूपवर्णितानां तत्त- त्पदार्थानां वा वस्तुतो लोके किं स्वरूपम् , पुराणेतिहासादिपु वर्णितानां पर्वतानां देशानां नद्यादीनां च वस्तुत: कुत्र स्थितिः कानि च तन्नामानि इदानीन्तने भारतेऽन्येषु वा देशेषु, ज्यौतिपे वा सविस्तरमुपवर्णितानां नक्षत्राणां वस्तुतः खगोले कुत्र कीदृशी स्थितिरित्येवंविधानां जिज्ञासानामनुदय एवाद्यत्वे संस्कृतज्ञेषु । व्याकरणे " प्रवन्धप्रकाशः १७१ उदयेऽपि कति नाम ता: समाधातु प्रयत्नपरा दृश्यन्ते। दर्शन- शास्त्रषु अंशतोऽनूदितान् दर्शनान्तरपदार्थान् यथाकथंचित्प- ठित्वैव सन्तुष्टा नहि चेष्टन्ते केऽपि प्रायेण वस्तुतस्तत्तदर्शनान्तर- पदार्थस्तान संवादयितुम् । सैषातिमात्रं शब्दप्रमाणपरता अस्थाने प्रयुक्ता नूनं देववाण्या अवनतावेकतमं मुख्य कारणम् । एषैवास्माकं विचारसंकीर्णताया नूतन विज्ञानानां संग्रहेऽनुदारताया अपि मुख्य कारणम् । 'नोचा- दप्युत्तमा विद्याम्' इति वचने सत्यपि, भारतीयज्यौतिषे यवना- चार्याणां, प्रासादनिमोणविद्यायां मयासुरादीनां प्रभावे स्पष्टेऽपि एषास्माकमनुदारता न हि सर्वथा श्लाघनीया । उपरिनिर्दिष्ट- प्रवृत्तिवशादेव संस्कृतज्ञा अस्मिन्समुन्नतिमुखे काले असामयिका गण्यन्ते । प्रायेण उपरिनिर्दिष्टकारणबातवशादेव शनैः शनैश्चिराया- वनतिमुखी देववाणी सांप्रतिकी खेदावहां दशां वहति । एतन्मू- लक एव देववाण्याः स्वाभ्युदयकाले विनिर्मितेषु प्राचीनग्रन्थेषु नूतनग्रन्थेषु च महान् प्रभेदः । केन खलु विदुषा न स्वीक्रियेत प्रायेण प्रत्येकस्मिन् साहित्यविभागे प्राचीननवीनग्रन्थयाभदः। अयमेव खलु प्राचीनाचार्यग्रन्थेषु नवीनग्रन्थेषु च महान् भेदो यत्प्राचीनाचार्यास्तु लोकप्रवृत्ति लोकप्रगति वस्तुतत्त्वं चाव- गत्य प्रजाकल्याणकामन्यैव प्रेरिताः स्वग्रन्थान् प्रणयन्ति स्म । महाभाष्यादिषु पदे पदे लोकव्यवहारचर्चा, चरकादिषु प्रयोग- पूर्वकं वस्तुतत्त्वपरीक्षणाय प्रोद्बोधनम् , भूतदयामुद्दिश्यैव ग्रन्थ- १७२ प्रबन्धप्रकाशः प्रथने प्रवृत्तिश्चात्र स्पष्टं प्रमाणम् । तथा च वात्स्यायनभाष्य "किं पुनराप्तानां प्रामाण्यम् ? साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति । आप्ताः खलु साक्षात्कृतधर्माण इदं हातव्यमिदमस्य हानिहेतुरिदमस्याधिगन्तव्यमिदमस्याधि- गमहेतुरिति भूतान्यनुकम्पन्ते ।" (न्यायभाष्ये २।१।६८ )। नूतनग्रन्थकारेषु तु पुनः प्रायेण तद्विपरीतैव प्रवृत्तिः । लक्षणस्य वस्तुतत्त्वानुभवमूलकत्वमुपेक्ष्य प्राधान्येन शब्दप्रमाण- तत्परत्वम् , वास्तविकी प्रजाहितप्रवृत्तिमनादृत्य अहमहमिका- भावेन अज्ञानां विवेकरहितानां लक्ष्मीपतीनां राजादीनां परि- तोषपूर्वकं वाग्वितण्डया वा निःसारशब्दावल्या वा स्वविपक्षा- नधःकृत्य स्वार्थसाधनमित्येव प्रायेण नूतनग्रन्थप्रणयनपरिपाट्या रहस्यं वृत्तञ्च । तान्येतानि देववाण्याः संस्कृतज्ञानां चावनते: संक्षेपेणा- स्मन्मतेन कतिचित् कारणानि । देववाण्याः संस्कृतज्ञानां च तीवः समुन्नत्यभिलाष एव न: प्रेरयति अत्र विषय आत्म- परीक्षणाय । आत्मपरीक्षणं हि नाम मिथ्याभिनिवेशरहितेन निश्छद्मना च मनसा विहितं समुन्नतः प्रथम साधनमिति समा- मनन्ति सन्तः । अस्माकं कर्तव्यम् परं प्रसन्नताया विषयो यत्पुनरपि देववाण्यास्तद्वारा च भारतीयसंस्कृतेरभ्युत्थानाय सप्रयत्ना वयम् । उदयाचलमारूढो प्रबन्धप्रकाशः भगवान् ज्ञानभास्वान् भुवनमाभासयितु प्रवृत्तः । अविद्या- तमिलापगमे सर्वेऽपि मोहनिद्रामुन्मुच्य स्वसमुन्नत्यै चेष्टापरा इतस्ततो दृश्यन्ते। एषा संसदपि तस्या एव प्रत्यक्षं प्रमाणम् । प्रतिवर्ष पर:सहस्राणां छात्राणां संस्कृतपरीक्षासु प्रवेशः, पर:शतानां पाठशालानां च यत्र तत्र स्थापनम् -सर्वमेतदा- शावहम् । संस्कृतच्छानेषु तु एतादृशो नूतन एव जागर: परमसन्तोषावहः। वस्तुतो न हि कथञ्चिदप्यस्माकं निराशाया अवसरः । त्वेऽपि संस्कृतच्छात्रषु संस्कृतविद्वत्सु चान्यत्राश्रुतचरा नैके विशिष्टा गुणा दृश्यन्ते। तपस्या, कष्टसहिष्णुता, गुरुशिष्यभावः, 'अस्मि- नार्यावर्त निवासे ये ब्राह्मणा: कुम्भीधान्या अलोलुपा अगृह्य- माणकारणाः किञ्चिदन्तरेण कस्याश्चिद् विद्यायाः पारङ्गतास्तत्र- भवन्तः शिष्टाः' ( महाभाष्ये ६।३।१०९) इत्यादर्शानुसारमनन्य- भावेन निष्कामभावनया च विद्याया: पाठनम् , वस्तुतोऽकृत्रिमः स्वदेशप्रेमा, भारतीयसंस्कृतेरभिमान: स्वधर्मपरायणता, कर्मनिष्ठता, आस्तिक्यबुद्धिः, देवभक्तिः, शुचिता भारतीयशीलसदाचारानु- वर्तित्वम्, विशेषतश्च देववाणी प्रत्यनन्यप्रेमभावना-सत्सु एतादृशेषु अद्यत्वेऽपि अन्येषु सभ्यताभिमानिदेशेष्वपि प्रायेणा- दृश्यमानेषु गुणेषु निश्चितं देववाण्या भविष्याभ्युदयविषये न हि कस्याप्यनास्थया भवितव्यम् । नूनं स समयः पुरस्तात्समुपस्थित इव दृश्यते यदा संस्कृत- भाषा भूयोऽपि सर्वषामादरास्पदमुन्नतिशिखरारूढा च भवि- १७४ प्रबन्धप्रकाशः ध्यति । दृष्ट्या च सांप्रतिकी खल्ववस्थिति: सर्वथा अस्वाभाविकी अन्यदेशेषु यथा स्वदेशसंबन्धिप्राचीनोत्कृष्टभाषाणां समादरः संदृश्यते, तथैवास्मद शेऽपि अस्मिन्नभ्युत्थानयुगे देववाण्याः समुत्कर्षण समादरेण च नूनं भाव्यम् । सत्यं संस्कृतज्ञा असामयिकत्वेन आधुनिकशिक्षितानां दृष्ट्या न तथा समादराहा मन्यन्ते यथा तैभवितव्यम् । वस्तुतस्तु आधुनिकशिक्षा- दीक्षितसमाजस्य संस्कृतज्ञसमाजस्य शिक्षिताशिक्षितत्व- नहि कश्चिन्मौलिको भेदः । आधुनिकशिक्षिता जानन्तोऽपि साम्प्रतिकीमवस्थितिमितिहास राजनीति भारतीयप्राचीनसंस्कृतिज्ञानापेक्षया अज्ञा एव । तच्चैतदन्यथा संस्कृतज्ञेषु । तेऽपि भारतीयप्राचीनसंस्कृत्या परिचिता अघि साम्प्रतिकावस्थाज्ञानापेक्षयैव ततश्चाधुनिकशिक्षितः सह समानेऽपि तेषां दोषे संस्कृतज्ञानामयमेव गुरुतरो दोषो यत्तेऽसामयिकाः । नास्त्यत्र संदेहलवोऽपि यत्समयोपयोगि- ज्ञानापार्जनेन संस्कृतोत्कृष्टपाण्डित्यस्य प्राचीनमर्यादाया: संरक्षणेन संपोषणेन च पूर्वमेव पूर्णरूपेण भारतीयभावभावितास्ते वस्तुतः समुत्कृष्टपदं लप्स्यन्ते । एतादृशगुणगणालंकृताः संस्कृतज्ञा वस्तुतो भारतीयजनताया नेतृत्वधुरां वोढुमर्हाः । तदेतद्यथा नातिचिरेण संपद्यते तथैवास्माभिः सर्वैः सर्वथा प्रयतनोयम्। सर्वेषां छात्राणां गुरूणामन्येषां च भारतीय- संस्कृत्यनुरागिणां सहयोगेनैवैतत्संभाव्यते । छात्रश्च विशे- अज्ञाः । एव प्रवन्धप्रकाशः पतः प्रयतितव्यम् । कस्यापि देशस्य भविष्यं युवस्वेव तिष्ठति । यूनामेवोद्योगेन कर्तव्यपरायणतया आशावादितया सोत्साहन कर्मणा च तत्तद्देशाः समुन्नताः स्वयश:पताका जगति प्रसारयितु प्राभवन् प्रभवन्ति च । तेषामेवास्महे शेऽपि विशेषत एतत्कर्तव्यं यत्पूर्वोक्तानां दोषाणां परिमार्जनं विधाय शुद्धाचरणेन ब्रह्मचर्येण श्रद्धया गुरुभक्त्या देशप्रेम्णा च नानाशास्त्राण्यधीयाना देशप्रगति जगतोऽवस्थितिञ्चावगच्छन्ता भारतीयसंस्कृत्या आद- नि ऐक्यभावनां च लोकेषु संस्थापयन्तः परस्परं सौहार्दन, जन्मप्रभृति मरणपर्यन्तं भारतीयानामभ्युदयनिःश्रेयससाधनतत्प- रायाः सततं स्वसाहित्यसरोरसामृतेन तानाप्याययन्त्याः सर्वथा मङ्गलमय्या भारतीयानां मातृकल्पायाः देववाण्याः समुद्धाराय बद्धपरिकरा भवेयुरिति । दैन्यभावस्य च परित्यागो विशेषता विधेयः । दैन्यभाव आशावादिता च नैकत्रावस्थानं सहेते । आशावादिता हि अस्माकमार्यधर्मावलम्बिना मुख्य आदर्शः । दैन्यं चानार्य- जुष्टोऽस्त्रग्योऽकीर्तिकरश्च गुणः । वेदमन्त्रेषु यत्र तत्रापि दृश्यते आशावादिता दैन्यराहित्यं चैव श्रेष्ठ आदर्शः प्रतीयते । अस्माकमध:पतितावस्थाकाले दास्यकाले च निर्मिताद् 'असार: संसारः, सर्वथैव हेयः, कारागारसदृशो बन्धस्थानम् , जीवन दुःखमयम् अभ्रमध्ये च पश्यन्ति चञ्चलां विद्युतां गतिम् । क्षणं दृष्ट्वा च नश्यन्ति तथा संसारिणो जनाः ।।

१७६
प्रबन्धप्रकाशः
यथा हि कूपमध्ये च घटमाला भ्रमन्ति च ।
गमागमौ हि पश्यामि तद्वत्संसारिणे जनाः ।।
जले च बुबुदो यद्वत्तद्वत्संसारिणो जनाः ।
इत्यादिनिराशाजनकभावपोषकसिद्धान्तैाप्तात्संस्कृतसाहित्याद्वि-
परीतमेव नो वैदिक साहित्यम्। तत्र हि
विश्वदानी सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् ।
(ऋ०६५२।५)
अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीरिषः ॥ ( ऋ० १९८)
इन्द्र वातास आ वयं वज्रं घना ददीमहि ।
जयेम सं युधि स्पृधः ॥ (ऋ० १।८।३)
अदीनाः स्याम शरदः शतं भूयश्च शरदः शतात्।
( यजु० ३६२४)
भद्रं जीवन्तो जरणामशीमहि (ऋ० १०॥३७६)
पश्येम शरदः शतम्। जीवेम शरदः शतम् ।
बुध्येम शरदः शतम्। रोहेम शरदः शतम् ।
पुष्येम शरदः शतम्। भवेम शरदः शतम् ।
भूषेम शरदः शतम् । भूयसीः शरदः शतात् ।।
( अथर्व० १९॥६७।१-८)
इत्यादिरूपाभिः प्रार्थनाभिराशावादितैव जातिदृष्ट्या व्यक्ति.
दृष्ट्या च जीवनस्य मुख्य आदर्शः, अभ्युदयस्य निःश्रेयसस्य च
प्रथमं कारणमिति स्पष्टं प्रतीयते। एतदृष्ट्या हि जगदेतत्सुन्दरो-
ba

प्रबन्धप्रकाशः १७७ पवनसदृशं विधात्रा करुणापरवशेनास्माकमभ्युदयाय ईश्वर- प्रदत्तशक्तीनां च पूर्णरूपेण परिपुष्टथै परिपुष्टिक्रमेण चामृतत्व- पदप्राप्त्यै एव सृष्टम्, अत एव च न सर्वथा हेयत्वेन विभावनीयम् । वयं हि भारतीयाः ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः। धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्रयदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाचित्ता ॥ इत्येवं सततं स्तूयमानाया भगवत्या महाशक्त्याः समुपासकाः 'तुष्टिरस्तु, पुष्टिरस्तु' इत्येवमहर्निशं प्रार्थयमानाश्च कथमिव निराशाया दैन्यभावस्य च पात्रं भवितुमर्हामः । ततश्च धृत्युत्साहसमन्वितैः, 'स्वदेशभविष्यस्य वयमेव निर्मातारः' इत्येवं दृढं विश्वसद्भिः, लोकप्रगतिमवगच्छद्भिः, किञ्चित्कालादेव नानादेशैर्या अभूतपूर्वा समुन्नतिरासादिता तां पश्यद्भिः, 'वयमपि भारतीयमहापुरुषसन्ताना भारतीयसंस्कृत्य- भिमानिनो भारतस्य भूयोऽभ्युत्थानं करिष्यामः, भारतीय- जनताया निरभिमानबुद्धथा सेवां कृत्वा तस्यां परस्परं स्नेह- १२

प्रबन्धप्रकाशः
भावं च वर्धयन्तो वास्तविकं पुरोयायिपदमवाप्स्यामः' इति
दृढं निश्चित्य सर्वाभ्युदयनिःश्रेयससाधनभूताया देववाण्याः समुन्नत्यै
समुत्थातव्यमस्माभिः।
प्रार्थना च विधेया,
ओं सह नाववतु सह नौ भुनक्तु सह वीर्य करवावहै ।
तेजस्त्रि नावधीतमस्तु मा विद्विषावहै ।।
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥
॥ इति शम् ।।
Do

सुभाषितसंग्रहः NAN- सुभाषितमयद्रव्यसंग्रहं न करोति यः । स तु प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ कथमिह मनुष्यजन्मा संप्रविशति सदसि विबुधगमितायाम् । येन न सुभाषितामृत- माहादि निपीतमा तृप्तेः॥ द्राक्षा म्लानमुखी जाता शर्करा चाम्लतां गता। सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥

No text on this page.

१-सुभाषितपद्यावली
नियतिर्विधाय पुंसां प्रथमं सुखमुपरि दारुणं दुःखम् ।
कृत्वालोकं तरला तडिदिव वज्रनिपातयति ॥१॥
अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् ।
वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य वीरस्य ॥२॥
भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य ।
वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्योतः ॥ ३ ॥
हस्त इव भूतिमलिनो यथा यथा लद्धयति खलः सुजनम् ।
दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥ ४॥
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवनमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥५
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ
यदा।
विरहः किमिवानुतापयेद्वद् बाह्यविषयैर्विपश्चितम् ॥ ६॥
अबन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्दन न विद्विषादरः ॥ ७ ॥
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ ८॥
स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥ ९॥

प्रबन्धप्रकाशः -- यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ १० ॥ शरदम्बुधरच्छायागत्वों यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ ११ ॥ तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः पुरुषस्तावदेवासौ यावन्मानान्न होयते ॥ १२ ॥ सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः। कृतकृत्या विधिमन्ये न वर्धयति तस्य ताम् ॥ १३ ॥ प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यत: करसहस्रमपि ॥ १४ ॥ अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥१५॥ निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा । घनाम्बुना राजपथे हि पिच्छिले क्वचिद् बुधैरप्यपथेन गम्यते ॥१६॥ भवन्ति नम्रास्तरवः फलोद्गमै- वाम्बुभिर्दूरविलम्बिनो घनाः। अनुद्धता: सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ १७ ॥ पुराणमित्येव न न चापि काव्यं नवमित्यवद्यम् । परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ।। १८ ॥ साधु सर्व सन्तः

प्रबन्धप्रकाशः
१८३
सुखं हि दुःखान्यनुभूय शोभते
घनान्धकारेष्विव दीपदर्शनम् ।
सुखात्तु यो याति नरो दरिद्रता
धृतः शरीरेण मृतः स जीवति ॥ १९ ॥
छायाथ ग्रीष्मसंतप्तो यामेवाहं समाश्रितः ।।
अजानता मया सैव पत्रैः शाखा वियोजिता ॥ २० ॥
यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।
अपन्थानं तु गच्छन्तं सादरोऽपि विमुञ्चति ॥ २१ ।।
पतति व्यसने देवादारुणादारुणात्मनि ।
वर्मयति वज्रण धैर्येण महतां मनः ।। २२ ।।
आरोप्यते शिला शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ २३ ।।
यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम् ।
न हि कस्तूरिकामादः शपथेन विभाव्यते ॥ २४ ॥
आशाया ये दासास्ते दासाः सर्वलोकस्य ।
आशा येषां दासी तेषां दासायते लोकः ॥ २५ ॥
आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला ।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गु वत् ।। २६ ।।
अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम् ।
सद्भ्यो न रोचते साऽसन्तस्तस्यै न रोचन्ते ॥ २७ ॥
नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् ।
छिद्यन्ते सरलास्तत्र कुजास्तिष्ठन्ति सर्वदा ॥ २८ ॥

१८४ प्रबन्धप्रकाशः नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्नधुनान्यः कुलबतं पालयिष्यति कः ।। २९ ॥ वनानि दहतो वह्न : सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ।। ३०॥ अधोऽधः पश्यतः कस्य महिमा नोपचीयते। उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ।। ३१ ।। न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ३२ ॥ गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ ३३ ।। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ३४ ॥ यदि समरमपास्य नास्ति मृत्यो- भैयमिति युक्तमितोऽन्यत: प्रयातुम् । अथ मरणमवश्यमेव जन्ताः किमिति मुधा मलिनं यश: क्रियेत ॥ ३५ ॥ लाभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च । द्वेषक्रोधादिजनको लाभ: पापस्य कारणम् ॥ ३६ ।। शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः । बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ॥ ३७ !! अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे । परापवादभीरूणां दूरतो यान्ति संपदः ॥ ३८ ॥ ।

प्रबन्धप्रकाशः
१८५
किन्नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति संचिन्त्य मनसा प्राज्ञः कुर्वीत वा न वा ॥ ३९ ॥
उचितमनुचितं वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्ते-
भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ४० ॥
अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् ।
यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि ॥ ४१ ।।
पण्डिते चैव मूर्ख च बलवत्यपि दुर्बले ।
ईश्वरे च दरिद्रे च मृत्याः सर्वत्र तुल्यता ॥ ४२ ॥
अवज्ञास्फुटितं प्रेम समीकर्तुं क ईश्वरः ।
संधिं न याति स्फुटितं लाक्षालेपेन मौक्तिकम् ॥ ४३ ।।
बहूनामल्पसाराणां समवायो दुरत्ययः ।
तृणैर्विधीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥ ४४ ।।
तदेवास्य परं मित्रं यत्र संक्रामति द्वयम् ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ ४५ ॥
इक्षोरणात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
तद्वत्सज्जनमैत्री विपरीतानाञ्च विपरीता ॥ ४६॥
आत्मायत्ते गुणग्रामे नैगुण्यं वचनीयता ।
दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ॥ ४७ ।।
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥ ४८ ॥

प्रबन्धप्रकाशः । यो यमर्थ प्रार्थयते यदर्थ घटतेऽपि च । अवश्यं तदवाप्नोति न चेच्छान्तो निवर्तते ॥ ४९ ॥ धनमस्तीति वाणिज्य किञ्चिदस्तीति कर्षणम् । सेवा न किञ्चिदस्तीति भिक्षा नैव च नैव च ॥ ५० ॥ बजत्यधः प्रयात्युच्चैर्नर: स्वैरेव चेष्टितैः । अध: कूपस्य खनक ऊर्ध्व प्रासादकारकः ॥ ५१ ।। उत्क्षिप्य टिट्टिभः पादावास्ते भङ्गभयादिवः । स्वचित्तकल्पितो गर्वः कस्य नात्रापि विद्यते ॥ ५२ ।। सकृत्कन्दुकपातेन पतत्यार्यः पतन्नपि । तथा पतति मूर्खस्तु मृत्पिण्डपतनं यथा ॥ ५३ ।। सिद्धं वा यदि वाऽसिद्ध चित्तोत्साहो निवेदयेत् । प्रथमं सर्वजन्तूनां तत्प्राज्ञो वेत्ति नेतरः ॥ ५४॥ काला हि सकृदभ्येति यन्नरं कालकाक्षिणम् । दुर्लभः स पुनस्तेन कालकर्माचिकीर्षता ॥ ५५ ॥ दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः । अन्तगूढविषो बहिर्मधुमयश्चातीव मायापटुः को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ ५६ ।। आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति सम्पदः ।। ५७ ॥ अफलानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः ॥ ५८ ।। ।

प्रबन्धप्रकाशः । सुहृदिव प्रकटय्य सुखप्रदः प्रथममेकरसामनुकूलताम् । पुनरकाण्डविवर्तनदारुणा विधिरहो विशिनष्टि मनोरुजम् ।। ५९ ॥ बज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को नु विज्ञातुमर्हति ।। ६० ॥ व्यतिषजति पदार्थानान्तरः कोऽपि हेतु. न खलु वहिरुपाधीन प्रीतयः संश्रयन्ते । विकसति हि पतङ्गायोदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ ६१ ॥ विषमावस्थिते दैवे पौरुषेऽफलतां गते । विषादयन्ति नात्मानं सत्त्वापाश्रयिणो नराः ॥ ६२ ।। चलन्तु गिरयः कामं युगान्तपवनाहताः। कृच्छेऽपि न चलत्येव धीराणां निश्चितं मनः ॥ ६३ ॥ भो दारिद्रय ! नमस्तुभ्यं सिद्धोहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥ ६४ ॥ गुरुषु मिलितेषु शिरसा प्रणमसि लघुपून्नता समेषु समा । उचितज्ञासि तुले ! किं तुलयसि गुञ्जाफलैः कनकम् ॥ ६५ ।। लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् । शेषे धराभराक्रान्ते शेते नारायणः स्वयम् ।। ६६ ।। अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तोपं यान्ति सन्तः सुशान्ताः । निजघनमकरन्दस्यन्दपूर्णलवालः कलशसलिलसेक नेहते कि रसालः ।। ६७ ॥

१८८ प्रबन्धप्रकाशः इयमुन्नतसत्त्वशालिनां महतां कापि कठोरचित्तता। उपकृत्य भवन्ति दूरतः परत: प्रत्युपकारशङ्कया ॥ ६८ ॥ यन्त्रे निवेश्य सुतरामपि पीड्यमान- स्तृष्णागृहीतहृदयैः सहसे त्वमिक्षो ! यच्छन्नसं मधुरमेव नितान्तमेषि मृत्यु ततस्त्वदपर : क इवात्र धन्यः ॥ ६९ ।। कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके ख्याति प्रयाति न हि सर्वविदस्तु सर्वे । किंकेतकी फलति किं पनस: सुपुष्पः किं नागवल्ल्यपि च पुष्पफलैरुपेता।। ७० ॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिध्यति पङ्कजालिः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त ! नलिनी गज उजहार ॥ ७१ ।। .. । जीवन्तु मे शत्रुगणा: सदैव येषां प्रसादात्सुविचक्षणोऽहम् । यदा यदा मे विकृतिं लभन्ते तदा तदा मां प्रतिबोधयन्ति ।। ७२ । यदि नामात्य देहस्य यदन्तस्तद् बहिर्भवेत् । दण्डमादाय लोकोऽयं शुन: काकांश्च वारयेत् ।। ७३॥ दु:खमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते । दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ।। ७४ ।। bo प्रवन्धप्रकाशः १८९ उद्घाटितनवद्वारे पश्चरे विहगोऽनिलः । यत्तिष्ठति तदाश्चर्य प्रयाणे विस्मयः कुतः ।। ७५ ।। अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ ७६ !! वदनं प्रसादसदनं सदयं हृदयं सुधामुचा वाचः । करणं परोपकरणं येषां केषां न ते वन्द्याः ॥ ७७ ।। रविरपि न दहति तादृग्याक्संदहति वालुकानिकरः । अन्यस्माल्लब्धपदो नीचः प्रायेण दुःसहो भवति ॥ ७८ ।। वस्तुनि चिराभिलषिते कथमपि दैवात्प्रसक्तसङ्घटने । प्राक्प्राप्तान्यपि बहुशो दुःखानि परं सुखानि जायन्ते ॥ ७९ ॥ आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरणवेन । क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ।। ८० ॥ नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृतापि सेवा । भाग्यानि पूर्वतपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ।। ८१ ।। दुष्प्राप्याणि च वस्तूनि लभ्यन्ते वाञ्छितानि च। पुरुषैः संशयारूढेरलसैन कदाचन ॥ ८२ ॥ दुरधिगमः परभागो यावत्पुरुषेण साहसं न कृतम् । जयति तुलामधिरूढा भास्वानिह जलदपटलानि ।। ८३ ।।

प्रबन्धप्रकाशः
प्राथमिकी घनवृष्टिः प्राप्ता शिखिनो निदाघतप्तस्य।
आकस्मिकेन सा पुनरपनीता क्वापि पवनेन ।। ८४ ।।
दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् ।
अल्पक्लेशं मरणं दारिद्रयमनन्तकं दुःखम् ।। ८५ ॥
किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रमाः ।। ८६ ॥
न किञ्चिदपि कुर्वाण: सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ।। ८७ ।।
सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता ।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जना जनः ॥ ८८ ॥
बलिभिर्मुखमाक्रान्त
पलितैरङ्कितं शिरः।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ।। ८९ ॥
धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु ।
अतृप्ता मानवाः सर्वे याता यास्यन्ति यान्ति च ॥ ९॥
अकृत्वा परसन्तापमगत्वा खलमन्दिरम् ।
अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद् बहु ॥ ९१ ॥
आत्माधीनशरीराणां स्वपतां निद्रया स्वया।
कदन्नमपि मानाममृतत्वाय कल्पते ॥ ९२ ॥
सर्वत्र सम्पदस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चावृतैव भूः॥ ९३ ॥
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते ॥ ९४ ॥

प्रवन्धप्रकाशः
EE
अम्भोजिनीवननिवासविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ ९५ ॥
नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः ।
येषां भुवनलाभेऽपि नि:सीमानो मनोरथाः ।।९६ ॥
सम्पदा महतामेव महतामेव चापदः ।
वर्षते क्षीयते चन्द्रो नतु तारागण: क्वचित् ॥ ९७ ॥
आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न सम्पत्सु ।
अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ॥ ९८ ॥
उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम् ।
यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ९९ ।।
एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ।। १००॥
कुसुमस्तवकस्येव द्वे गती स्तो मनस्विनाम् ।
मूनि वा सर्वलोकस्य विशीर्यंत वनेऽथवा ॥ १०१ ॥
सर्व यत्र विनेतारः सर्वे पण्डितमानिनः ।
सर्वे महत्त्वमिच्छन्ति तद् वृन्दमवसीदति ।। १०२ ।।
काष्ठादग्निर्जायते मध्यमानो भूमिस्तोयं खन्यमाना ददाति ।
सोत्साहानां मास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः
फलन्ति ॥ १०३॥

प्रबन्धप्रकाशः उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः । पडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥ १०४ ॥ जलमभ्यासयोगेन शैलानां कुरुते क्षयम् । कर्कशानां मृदुस्पर्श किमभ्यासान्न साध्यते ॥ १०५ ।। जनापवादमात्रेण न जुगुप्सेत चात्मनि । जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ॥ १०६ ।। गोतसूक्तिरतिक्रान्ते स्तोता देशान्तरस्थिते । प्रत्यक्षे तु कवौ लोक: सावज्ञः सुमहत्यपि ॥ १०७ ।। प्रत्यक्षकविकाव्यं च रूपं च कुलयोषितः । गृहवैद्यत्य विद्या च कस्मैचिद्यदि रोचते ॥ १०८ ।। मासि मासि समा ज्योत्स्ना पक्षयोः शुक्लकृष्णयोः। यशः पुण्यैरवाप्यते ॥ १०९॥ नगरी नगरस्येव रथस्येव रथी सदा । स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत् ॥ ११० ॥ तत्रैक शुक्लतां यातो 00 २-सुभाषितपद्यखण्डमाला ' रघुवंशात् हेम्न: संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥ १ ॥ १० ॥ न पादपोन्मूलनशक्तिरंहः शिलाच्चये मूर्च्छति मारुतस्य ।। २।३४ ॥ क्रिया हि वस्तूपहिता प्रसीदति ।। ३ । २९ ॥ यशस्तु रक्ष्यं परतो यशोधनैः ॥ ३ । ४८ ॥ पदं हि सर्वत्र गुणैनिधीयते ॥ ३ ॥ ६२ ॥ आदानं हि विसर्गाय सतां वारिमुचामिव ॥४॥ ८६ ।। पर्यायपीतस्य सुर्हिमांशाः कलाक्षयः श्लाध्यतरो हि वृद्धः ।।५।१६॥ उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥५॥५४॥ भिन्नरुचिहि लोकः ॥ ६॥ ३५ ॥ रत्नं समागच्छतु काञ्चनेन ॥६॥ ७९ ॥ प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ।। ८।४० ॥ अभितप्तमयोऽपि मादेवं भजते कैव कथा शरीरिषु ।। ८१४३ ॥ विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ।। ८१४६॥ धिगिमां देहभृतामसारताम् ॥ ८॥ ५१ ॥ अपथे पदमर्पयन्ति हि अतवन्तोऽपि रजोनिमीलिताः ॥ ९।७४ ॥ तेजसां हि न वयः समीक्ष्यते ॥११॥१॥ १३ प्रबन्धप्रकाशः अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥१४॥३५॥ आज्ञा गुरूणां ह्यविचारणीया ॥१४॥४३॥ -- कुमारसम्भवात् क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥ १।१२ ॥ विकारहेता सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥११५९॥ प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥३२८॥ अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ ४।४३ ॥ क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् । शरीरमाद्य खलु धर्मसाधनम् ॥ ५ ॥ ३३ ॥ न रत्नमन्विष्यति मृग्यते हि तत् ॥ ५॥ ४५ ॥ अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ ५। ७५॥ प्रायः प्रत्ययमाधत्ते स्वगुणेषुत्तमादरः ॥ ६ ॥ २० ॥ मेघतात् याज्ञा माधा वरमधिगुणे नाधमे लब्धकामा ।। १ । ६ ॥ आशाबन्धः कुसुमसदृशं प्रायशा ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १॥ १० ॥ रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ १ ॥ २० ॥ आपन्नातिप्रशमनफलाः सम्पदो छु त्तमानाम् ॥ १ । ५३ ॥ ba

BREMENTARRAMRATAARAMBINIRTAINMEONEPARAMEETITIONARIANTRAPARINEERAMANA-SOCISMISTANT MAITRINAMANSLAMPAINTERNATIONAMEERANAMPARANTEE
Hapoor
प्रबन्धप्रकाशः
१९५
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ २ । ४६ ।।
किरातार्जुनीयात्
नहि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ १।२॥
हितं मनोहारि च दुर्लभं वचः ॥ १ ॥ ४ ॥
ब्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः॥१॥३०॥
विचित्ररूपाः खलु चित्तवृत्तयः ॥ १ ॥ ३७॥
परैरपर्यासितवीर्यसम्पदा पराभवोऽप्युत्सव एव मानिनाम् ॥ १ ॥ ४१॥
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ।। २ । ५ ॥
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः॥२॥ १५ ॥
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ॥२॥३०॥
स क्षत्रियस्खाणसहः सतां यः॥३।४८ ॥
न होणितज्ञोऽवसरेऽवसीदति ॥ ४ । २० ॥
किमिवावसादकरमात्मवताम् ॥६॥ १९॥
सा लक्ष्मीरुपकुरुते यया परेषाम् ॥ ७ ॥ २८ ॥
आत्मवर्गहितमिच्छति
सर्वः ॥९। ६४ ॥
प्रेम पश्यति भयान्यपदेऽपि ॥ ९ । ७० ॥
उपनतमवधीरयन्त्यभव्याः ॥ १०।७१ ॥
विमलं कलुषोभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥ १३॥ ६॥
प्रकृत्यमित्रा हि सतामसाधवः ॥ १४ । २१ ॥
सहापकृष्टैमहतां न सङ्गतं भवन्ति गोमायुसखा न दन्तिनः ॥१४॥२२॥

१९६
प्रबन्धप्रकाशः
शिशुपालवधात्
श्रेयसि केन तृप्यते ॥ १ ॥ २९॥
ऋते रवेः क्षालयितु क्षमेत कः क्षपातमस्काण्डमलीमलं नमः ॥१॥३८॥
सदाभिमानैकधना हि मानिनः ॥ १।६७ ॥
ज्ञातसारोऽपि खल्वेक: संदिग्धे कार्यवस्तुनि |॥ २ ॥ १२ ॥
महीयांसः प्रकृत्या मितभाषिणः ॥२॥ १३ ॥
इन्धनौषधगप्यग्निस्त्विषा नात्येति पूषणम् ॥ २ ॥ २३ ॥
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ॥ २ ॥ २७ ॥
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ॥२॥ ३८ ॥
कथापि खलु पापानामलमश्रेयसे येतः ।। २ । ४०॥
मा जीवन्यः परावज्ञादुःखदग्धोऽपि जीवति ॥ २ ॥ ४५ ॥
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥२। ६२ ॥
सर्वः स्वार्थ समीहते ॥२ । ६५ ।।
उपायमास्थितस्यापि नश्यन्त्याः प्रमाद्यतः ।। २ । ८० ॥
अयथाबलमारम्भो निदानं क्षयसम्पदः॥२।९४॥
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ॥२॥ १० ॥
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥ ४।१७ ।।
समय एव करोति बलाबलम् ॥ ६ । ४४॥
स्फुटमभिभूषयति स्त्रियस्त्रपैव ।। ७ । ३८ ।
...अस्तसमयेऽपि सतामुचितं खलूच्चतरमेव पदम् ॥ ९॥ ५॥
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।।१६ । २६ ।।
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ॥ १६ ॥ ४३ ॥

प्रबन्धप्रकाशः नैषधात् कार्य निदानाद्धि गुणानधीते ॥ ३ । १७ ॥ अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ॥३९३।। पित्तेन दूने रसने सितापि तिक्तायते... ॥ ३ ॥ ९४ ।। तदुदितः स हि यो यदनन्तरः ॥ ४ ॥३॥ कर्म कः स्वकृतमत्र न भुङ्क्ते ॥ ५॥ ६॥ आर्जवं हि कुटिलेषु न नीतिः ॥ ५ ॥ १०३ ।। मितं च सारं च वचो हि वाग्मिता ॥९॥८॥ चकास्ति योग्येन हि योग्यसङ्गमः ॥ ९ । ५६ ॥ दैवे निरुन्धति निबन्धनतां वहन्ति हन्त प्रयासपरुषाणि न पौरुषाणि ॥ ११ ॥ ५५ ॥ देवा हि नान्यद्वितरन्ति किन्तु प्रसद्य ते साधुधियं ददन्ते ॥ १४॥९॥ प्रेत्यास्मि कीहरभवितेति चिन्ता सन्तापमन्तस्तनुते हि जन्ताः ॥ १४ । ७४ ॥ अदोषतामेव सतां विवृण्वते द्विषां मृषादोषकणाधिरोपणाः ॥१५॥४॥ PARDA कथासरित्सागरात् अकाण्डपातोपनता न कं लक्ष्मीर्विमोहयेत् । अकालमेघवद्वित्तमकस्मादेति याति च । अचिन्त्यो बत दैवेनाप्यापात: सुखदुःखयोः । अन्तरापाति हि श्रेय: कार्यसम्पत्तिसूचकम् । अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः । ।

HalkaromeRENSaatwww
प्रबन्धप्रकाशः
अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।
असारेऽस्मिन्भवे तावद्भावा: पर्यन्तनीरसाः।
अहो अतीव भोगाशा कं नाम न विडम्बयेत् ।
अहो दैवाभिशप्तानां प्राप्तोऽप्यर्थः पलायते ।
आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
आरब्धा ह्यसमाप्तैव किं धीरैस्त्यज्यते क्रिया।
एकचित्ते द्वयोरेव किमसाध्यं भवेदिति ।
कदर्याणां परे प्राणाः प्रायेण ह्यर्थसञ्चयाः ।
करुणार्द्रा हि सर्वस्य सन्तोऽकारणबान्धवाः ।
कष्टा हि कुटिलश्वश्रू परतन्त्रवधूस्थितिः।
कस्य नोच्छृङ्खलं बाल्यं गुरुशासनवर्जितम् ।
कामं व्यसनवृक्षस्य मूलं दुर्जनसङ्गतिः ।
को हि वित्तं रहस्यं वा स्त्रीषु शक्नोति गुहितुम् ।
जितक्रोधेन सर्व हि जगदेतद्विजीयते ।
ज्ञानमार्ग
यहङ्कारः
परिघो दुरतिक्रमः।
त्यजन्त्युत्तमसत्त्वा हि प्राणानपि न सत्पथम् ।
ददाति तीव्रसत्त्वानामिष्टमीश्वर एव हि ।
दुःखान्धा हि पतन्त्येव विपच्छ्वभ्रषु कातराः।
दैवमेव हि साहाय्यं कुरुते सत्वशालिनाम् ।
न काचस्य कृते जातु युक्ता मुक्तामणे: क्षतिः ।
न स्वेच्छं व्यवहर्तव्यमात्मनो भूतिमिच्छता।
पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि

प्रबन्धप्रकाशः
१९९
प्राणिनां हि निकृष्टापि जन्मभूमिः परा प्रिया ।
प्राणेभ्योऽप्यर्थमात्रा हि कृपणस्य गरीयसी।
यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
रत्नव्ययेन पाषाणं को हि रक्षितुमर्हति ।
वक्ति जन्मान्तरप्रीतिं मनः स्निह्यदकारणम् ।
सत्त्वानुरूपं सर्वस्य धाता सर्व प्रयच्छति ।
सर्वश्चित्तप्रमाणेन सदसद्वाभिवाञ्छति ।
हितोपदेशो मूर्खस्य कोपायैव न शान्तये।
অনানু
लोके हि धनिनां परोऽपि स्वजनायते ।
किं तया क्रियते धेन्वा या न सूते न दुग्धदा।
कृषिः क्लिष्टा, विद्या गुरुविनयवृत्त्यातिविषमा ।
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः।
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ।
जठरं को न बिभर्ति केवलम् ।
अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते।
उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना।
षटकर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
पैशुन्याद्भिद्यते स्नेहः।
तृणानि नोन्मूलयति प्रभञ्जना मृदूनि नीचैः प्रणतानि सर्वतः ।

प्रबन्धप्रकाशः
महान् महत्स्वेव करोति विक्रमम् ।
तुल्ये बले तु बलवान् परिकोपमेति ।
उपायेन हि यत्कुर्यात् तन्न शक्यं पराक्रमैः ।
यस्य बुद्धिर्वलं तस्य निर्बुद्धि स्तु कुतो बलम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ।
कृपणानुसारि च धनम् ।
मेघा गिरिदुर्गवर्षी च।
सेवाधर्मः परमगहना योगिनामप्यगम्यः ।
मृदुना सलिलेन खन्यमानान्यवघृष्यन्ति गिरेरपि स्थलानि ।
दी? बुद्धिमतो बाहू।
तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति ।
यद्भविष्यो विनश्यति।
अनिर्वेदः श्रियो
बहूनामप्यसाराणां समवायो हि दुर्जयः ।
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः।
गतानुगतिको लोक: न लेोकः पारमार्थिकः ।
घातयितुमेव नीच: परकार्य वेत्ति न प्रसाधयितुम् ।
नाश्मनि स्यात् क्षुरक्रिया।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ।
अत्यादरः शङ्कनीयः।
पण्डितोऽपि वरं शत्रु न मूल् हितकारकः।
अद्य वाब्दशतान्ते वा मृत्यु प्राणिनां ध्रुवः ।
मूलम् ।

प्रबन्धप्रकाशः
अकृतोपद्रवः कश्चिन्महानपि न पूज्यते ।
सम्पत्तौ च विपत्तौ च महतामेकरूनता।
कालः सर्वजनान् प्रसारितकरो गृह्णाति दूरादपि ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ।
सतां साप्तपदं मैत्रम् ।
कोऽतिभारः समर्थानाम् ?
किं दूरं व्यवसायिनाम् ?
को विदेशः सुविद्यानाम् ?
कः परः प्रियवादिनाम् ?
हेतुरत्र भविष्यति ।
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् ।
सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य ।
हस्ततुलयाऽपि निपुणा: पलप्रमाणं विजानन्ति ।
यदस्मदीयं न हि तत्परेषाम् ।
आच्छादिते रवी मेधैराच्छन्नाः स्युर्गभस्तयः ।
वाञ्छाविच्छेदनं प्राहुः : स्वास्थ्यं शान्ता महर्षयः ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्।
क्षते प्रहारा निपतन्त्यभीक्षणम् ।
छिद्रेष्वना बहुलीभवन्ति ।
नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ।
POST

२०२
प्रबन्धप्रकाशः
कृशे कस्यास्ति सौहृदम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
बलीयसा हीनबला विरोधं न भूतिकामो मनसापि वाञ्छेत् ।
भिन्नलिष्टा तु या प्रीतिर्न सा स्नेहेन वर्धते ।
अनागतं यः कुरुते स शोभते ।
स शोच्यते यो न करोत्यनागतम् ।
सन्तापयन्ति कमपथ्यभुजं न रोगा: ?
कं श्रीन दर्पयति ?
कं न निहन्ति मृत्युः ?
लुब्धस्य नश्यति यशः, पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्मः,
विद्याफलं व्यसनिनः, कृपणस्य सौख्यम् ।
कण्टकेनैव कण्टकम् ।
अपि शत्रुप्रणम्यापि रक्षेत् प्राणान् धनानि च ।
सर्वनाशे समुत्पन्ने अर्द्ध त्यजति पण्डितः ।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ।
मौनं सर्वार्थसाधनम् ।
अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।
दुष्टे दुष्टं समाचरेत् ।
अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः ।
bo

प्रबन्धप्रकाशः
यादृशी भावना यस्य सिद्धिर्भवति ताहशी।
।
हितोपदेशात्
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
काचः काञ्चनसंसर्गाद्वत्ते मारकतीद्युतीः ।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः ।
ज्ञानं भारः क्रियां विना ।
न गणस्याग्रतो गच्छेत् ।
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ।
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा ।
अन्धस्य किं हस्ततलस्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ?
कायः सन्निहितापायः।
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
काच: काचा मणिमणिः।
अनुहुकुरुते धनध्वनिं न हि गोमायुरुतानि केसरी।
अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ।
(स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः।)
मुक्तो द्वादशभिर्वर्षेः श्वपुच्छः प्रकृतिं गतः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ।

प्रबन्धप्रकाशः
चरकसंहितायाः
धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् ।
सम्यकप्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम् ।
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ।
आत्मानमेव मन्येत कर्तारं सुखदुःखयोः ।

३-सुभाषितगद्यावलो
दशकुमारचरितात्
जलबुबुदसमाना विराजमाना संपत् तडिल्लतेव सहसै-
वोदेति, नश्यति च।
अवज्ञासोदर्य दारिद्रयम् ।
आत्मानमात्मनानवसाचैवोद्धरन्ति सन्तः ।
न हलमतिनिपुणोऽपि पुरुषो नियतिलिखितां लेखामति-
क्रमितुम्।
सेयमाकृतिन व्यभिचरति शीलम् ।
इह जगति हि न निरीहदेहिनं श्रियः संश्रयन्ते ।
श्रेयांसि च सकलान्यनलसाना हस्ते नित्यसांनिध्यानि ।
दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिपु च
विषयेषु शास्त्र नामाप्रतिहतवृत्ति ।
दैव्याः शक्तः पुरो न बलवती मानवी शक्तिः ।
हर्षचरितात
निसर्गविरोधिनी चेयं पयःपावकयोरिव धर्मक्रोधयारकत्र वृत्तिः ।
अतिरोषणश्चक्षुष्मानप्यन्ध एव जनः ।
कुपितस्य प्रथममन्धकारीभवति विद्या, भ्रुकुटिः।
ततो भ्र

प्रबन्धप्रकाशः २०६ जनयन्ति च विस्मयमतिधीरधियामप्यदृष्टपूर्वा दृश्यमाना जगति स्रष्टुः सृष्टथतिशयाः। सतां हि प्रियंवदता कुलविद्या। न किंचिन्न कारयत्यसाधारणी स्वामिभक्तिः। न सन्त्येव ते येषां सतामपि सतां न विद्यन्ते मित्रोदासीन- शत्रवः । स्वैरिणो विचित्राश्च लोकस्य स्वभावा: प्रवादाश्च । धनाष्मणा म्लायत्यलं लतेव मनस्विता भुजे वीर्य निवसति न वाचि। संपत्कणिकामपि प्राप्य तुलेव लघुप्रकृतिरुन्नतिमायाति । सोऽयं कुरङ्गकैः कचग्रहः केसरिणः । हरिणार्थमतिह पण: सिंहसंभारः । न च स्वप्नदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः। स्थायिनी यशसि शरीरधीर्वीराणाम् । सज्जनमाधुर्याणामभृतदास्यो दश दिशः । उपयोगं तु न प्रीतिर्विचारयति । अतिद्रुतवाहिनी चानित्यतानदी। Memon कादम्बाः अतिकष्टास्वप्यवस्थासु जीवितनिरपेक्षा न भवन्ति खलु जगति सर्वप्राणिनां प्रवृत्तयः।

प्रबन्धप्रकाशः । सर्वथा न कंचिन्न खलीकरोति जीविततृष्णा। प्रायेणाकारणमित्राण्यतिकरुणाद्रोणि च सदा खलु भवन्ति सतां चेतांसि। अपुत्राणां किल न सन्ति लोकाः शुभाः। जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुषस्येह जन्मनि । नहि शक्यं दैवमन्यथाकर्तुमभियुक्तेनापि ! धर्मपरायणानां सदा समोपसंचारिण्यः कल्याणसंपदो भवन्ति। आवेदयन्ति हि प्रत्यासन्नमानन्दमग्रपातीनि शुभानि निमित्तानि। सत्योऽयं लोकवादो यत्संपत्संपदं विपद्विपदमनुबध्नातीति । आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव । अहो जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्ता- न्तान्तराणि । अहो दुर्निवारता व्यसनोपनिपातानाम् । सर्वथा न कञ्चन न स्पृशन्ति शरीरधर्माणमुपतापाः । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति जनम् । सर्वथा दुर्लभं यौवनमस्खलितम् । सुखमुपदिश्यते परस्य। नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । बहुप्रकाराश्च संसारवृत्तयः। प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि, आयत- स्वभावानि च दुःखानि। GAURARAN

प्रबन्धप्रकाशः
दुर्लभो हि दाक्षिण्यपरवशो निनिमित्तमित्रमकृत्रिमहृदयो
विदग्धजनः ।
स्वप्न इवाननुभूतमपि मनोरथो दर्शयति ।
बहुभाषिणे न श्रद्दधाति लोकः ।
आजन्मक्रमाहिता बलवान् जननीस्नेहः ।
केन कदावलोकिता ज्योत्स्नारहितश्चन्द्रमाः ।
एतत्खलु प्रदीपेनाग्नेः प्रकाशनम् ।
मिथ्यापि तत्तथा यथा गृहीतं लोकेन ।
यस्यामेव वेलायां चित्तवृत्तिः, सैव वेला सर्वकार्येषु ।
भृत्या अपि त एव ये संपत्तेर्विपत्तौ सविशेष सेवन्ते ।
अनतिक्रमणीया हि नियतिः ।
लोकेऽपि च प्राय: कारणगुणभाज्येव कार्याणि दृश्यन्ते ।
.
अभिज्ञानशाकुन्तलात्
सर्वः कान्तमात्मीयं पश्यति ।
स्निग्धजनसंविभक्तं खलु दुःखं सह्यवेदनं भवति ।
अतिस्नेहः पापाशङ्की।
अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् ।
न कदापि सत्पुरुषाः शाकपात्रात्मानो भवन्ति ।

प्रबन्धप्रकाशः
२०९
विक्रमोर्वशीयात्
अनुत्सेक: खलु विक्रमालङ्कारः ।
नास्त्यगतिर्मनारथानाम् ।
छिन्नबन्धे मत्स्ये पलायिते निविण्णो धीवरो, भणति धमो
मे भविष्यति ।
उत्तररामचरितात्
एते हि हृदयमर्मच्छिदः संसारभावाः येभ्यो बीभत्समाना:
सन्त्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः ।
प्रसवः खलु प्रकर्षपर्यन्तः स्नेहस्य, परं चैतदन्योन्यसंश्ले-
षणं पित्रोः।
स्नेहश्च निमित्तसव्यपेक्षश्चेति विप्रतिषिद्धमेतत् ।
साक्षात्कृतधर्माणो महर्षयस्तेषामृतंभराणि भगवतां परोरजांसि
प्रज्ञानानि न क्वचिद्वथाहन्यन्त इत्यनभिशङ्कनीयानि ।
मृच्छकटिकात्
गुणः खल्वनुरागस्य कारणं न बलात्कारः।
साहसे श्रीः प्रतिवसति ।
न चन्द्रादातपो भवति
अहो धिग्वैषम्यं लोकव्यवहारस्य ।

प्रबन्धप्रकाशः पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः। ईशो दासभावो यत्सत्यं कमपि न प्रत्याययति । RELA- काव्यमीमांसायाः प्रायः प्राणभृतां प्रमाणमन्तरेण नान्यद् बन्धनमस्ति । अविच्छेदेन शीलनमभ्यासः। स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते । यादृश (शा) कारश्चित्रकरस्ताहशाकारमस्य चित्रमिति प्रायोवादः। पक्षपातो हि गुणदोषौ विपर्यासयति । न च दृप्येत् । दर्पलवोऽपि सर्वसंस्कारानुच्छिनत्ति । परैश्च परीक्षयेत् । यदुदासीनः पश्यति न तदनुष्टातेति प्रायोवादः। अनियतकालाः प्रवृत्तयो विप्लवन्ते सम्यक्स्वापो वपुषः परमारोग्याय । पुरुषरत्नानामेक एव राजोदन्वान् भाजनम् । महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति । मतिदर्पणे कवीनां विश्वं प्रतिफलति । कथं नु वयं दृश्यामह इति महात्मनामहंपूर्विकयैव शब्दार्थाः पुरो धावन्ति । WO प्रबन्धप्रकाशः २११ । चरकसंहितायाः ज्ञानवतापि च नात्यर्थमात्मनो ज्ञानेन विकस्थितव्यम। आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्ति अनेके । कृत्स्नो हि लोको बुद्धिमतामाचार्यः। शत्रुश्चाबुद्धिमताम् । ज्ञानपूर्वकं कर्मणां समारम्भं प्रशंसन्ति कुशलाः । परीक्ष्यकारिणे हि कुशला भवन्ति । हेतावीषुः, फले नेयुः। नान्यदोषान् ब्रूयात्। नान्यरहस्यमागमयेत् नासंवृतमुखा जृम्भां क्षवधुं हास्यं वा प्रवर्तयेत् । न नियमं भिन्द्यात् । न सर्वविश्रम्भा, न सर्वाभिशङ्को । न कार्यकालमतिपातयेत् । न सिद्धावौत्सुक्यं गच्छेत् । नासिद्धौ दैन्यम्। नापरीक्षितमभिनिविशेत् । प्रत्यक्षं ह्यल्पमनल्पमप्रत्यक्षमस्ति । न ह्यतः पापात्पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः । पुरुषोऽयं लोकसम्मितः। यावन्तो हि मूर्तिमन्तो लोके भाव- विशेषास्तावन्तः पुरुष, यावन्तः पुरुषे तावन्तो लोके । सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा । सम्यक्प्रयोगनिमित्ता। तद्विद्यसंभाषा हि ज्ञानाभियोगसंहर्षकरी भवति । वैशारद्यमपि चाभिनिवर्तयति। वचनशक्तिमपि चाधत्ते। यशश्चाभिदीपयति । व्यापचा- ।

२१२ प्रबन्धप्रकाशः पूर्वश्रुते च संदेहवतः पुनः श्रवणात् श्रुतसंशयमपकर्षति । श्रुते चासन्देहवतो भूयोऽध्यवसायमभिनिवर्तयति । अश्रुतमपि च कश्चिदर्थ श्रोत्रविषयमापादयति । निरुक्तात् नैष स्थाणोरपराधो यदेनमन्धो न पश्यति । पुरुषापराध: स भवति । यथा जानपदीषु विद्यातः पुरुषविशेषो भवति, पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति । कस्तद्वेद यदभूतम् ? बहुप्रजाः कृच्छ्रमापद्यत इति परिव्राजकाः । नित्यं ह्यविज्ञातुर्विज्ञानेऽसूया। साक्षात्कृतधर्माण ऋषयो बभूवुः । तेऽवरेभ्योऽसाक्षात्कृत- धर्मभ्य उपदेशेन मन्त्रान्संप्रादुः। उपदेशाय ग्लायन्ताऽवरे बिल्म- ग्रहणायेम ग्रन्थं समाम्नासिषुर्वेदं च वेदाङ्गानि च । मनुष्या वा ऋषिपूक्रामत्सु देवानब्रुवन्को न ऋषिर्भविष्य- तीति। तेभ्य एतं तर्कमृषि प्रायच्छन् । यदेव किंचानूचानोऽभ्यूहत्यार्ष तद्भवति । आचार्य आचारं ग्राहयति । सैषा पुरुषगर्दा, न शास्त्रगीं। अप्येकः ( अविद्वान् ) पश्यन् न पश्यति वाचम्। अपि च शृण्वन् न शृणात्येनाम् ।

प्रबन्धप्रकाशः
२१३
।
ऋग्वेदसंहितायाः
अप्स्वन्तरमृतमप्सु भेषजम् । (११२३।१९)।
आपश्च विश्वभेषजीः । (१२३।२०)।
सविता...अपामीवां बाधते । ( ११३५।९)।
( सविता अमीवां रोगादिवाधामपबाधतेऽपाकरोतीत्यर्थः) ।
न दुरुक्ताय स्पृहयेत् । (१।४११९ ).!
(दुष्टं वाक्यं न कामयेदित्यर्थः)।
नमो न रूपं नरिमा मिनाति । (११७१।१०)।
(नभ इव जरा रूपं हिनस्ति)।
पश्यदक्षणवान् न वि चेतदन्धः। (११६४।१६)।
(ज्ञानदृष्टयुपेत एव वस्तुतत्त्वं जानाति, अन्धः स्थूलदृष्टिस्तु
न विजानातीत्यर्थः)।
बहुप्रजा निऋतिमा विवेश (१११६४।३२)।
पुलुकामो हि मर्त्यः । (१११७९१५)।
( मनुष्यः खलु कामेन निरुद्ध एव वर्तत इत्यर्थः)।
जायेदस्तम् । (३।१३।४)।
(=जाया इत् अस्तम् = जायैव गृहं भवतीत्यर्थः) ।
न ऋते श्रान्तस्य सख्याय देवाः। (४।३३।११)।
(श्रमयुक्ताहते परिश्रममन्तरेणेति यावत् देवाः सख्याय न
भवन्तीत्यर्थः)।
यादृश्मिन् धायि तमपस्यया विदत् । (५।४४८)
Rurat

२१४
प्रबन्धप्रकाशः
( याशे कामे मनो धत्ते तादृशं काममपस्यया
कर्मणा विन्दते इत्यर्थः)।
य उ स्वयं वहते सो अरं करत् । (५१४४८)।
। य एव स्वयमनन्यप्रेरितोऽनुतिष्ठति सोऽत्यर्थ कुर्यात् ।
न ह्यन्येन कारितं फलबद्भवतीत्यर्थः)।
अनुब्रुवाणा अध्येति, न स्वपन् । (५:४४।१३)
(अनुसंकीर्तयन्नेव स्मरति न तु स्वपन्नित्यर्थः)।
यो जागार तमृचः कामयन्ते यो जागार तमु सामामि यन्ति ।
(५।४४।१४)।
विद्वान् पथः पुरएता ऋजु नेषति । ( ५।४६।१ )।
(विद्वान् मार्गाभिज्ञ एव पुरएता पुरतो गन्ता सन् पथो
मार्गान् ऋजु यथा स्यात्तथा प्रापयतीत्यर्थः)।
न दुष्टुती मो विन्दते वसु । ( ७।३२.२१ ) ।
(मो दुष्टुत्या धनं न विन्दते इत्यर्थः )।
न धन्तं रयिर्नशत् । (७३२।२१)।
(ोधन्तं हिंसन्तं स्वकर्माण्यकुर्वन्तमिति यावत् रयिधनं
न नशत् न प्राप्नोतीत्यर्थः)।

४-लौकिकन्यायाञ्जलिः अजाकृपाणीयन्यायः। यथा हि खलु कण्डूयनार्थ स्तम्भादौ ग्रीवां प्रसार- यन्त्या अजाया यदृच्छया पतता कृपाणेन ग्रीवा छिद्यत, एवं यत्राकस्मादेवानाद्यापतेत्तत्र, अकस्मादेवाश्चर्यमय्या घट- नायाः स्थले वायं न्यायः। अणुरपि विशेषोऽध्यवसायकरः । अनिषिद्ध हनुमतं भवति । अन्धकवर्तकीयन्यायः (अथवा-अन्धचटकन्यायः) हिन्दी - "अन्धे के हाथ बटेर"। अन्धगजन्यायः॥ यथैक एव गजः करपादादिरूपेण केनचिदवयवविशे- षेण प्रज्ञापितोऽन्धैः सर्परूपः स्तम्भरूप इत्येवं नानारूपेण एवमेव यत्रैकमेव वस्तु अज्ञानवशाद् बहुशः कल्प्यते तत्रायं न्यायः । अन्धपरम्परान्यायः (अथवा-अन्धेनैव नीयमाना यथान्धाः । यद्वा-अन्धस्येवान्धलग्नस्य विनिपात: पदे पदे ।) अन्धदर्पणन्यायः । तथा हि । यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दपणः किं करिष्यति ॥ कल्प्यते ।

Manuary प्रबन्धप्रकाशः । अयमपरो गण्डस्योपरि स्फोटः। अरण्यरोदनन्यायः। अक्के चेन्मधु विन्देत किमर्थं पर्वतं ब्रजेत् । अयं भावः। अल्पान्महतश्च कर्मणः समं फलं जायेत चेत्ततोऽल्पेनैव सिद्ध कार्ये महति न कश्चित्प्रवर्तत । अशक्तास्तत्पदं गन्तु ततो निन्दां प्रकुर्वते । हिन्दी-"अङ्ग र खट्टे हैं।" अशक्तोऽहं गृहारम्भे शक्तोऽहं गृहमखने । अथवा-घातयितुमेव नीचः परकार्य वेत्ति न प्रसाधयितुम् । अस्त्रमस्त्रेण शाम्यति ( अथवा--वज्र वज्रण भिद्यते)। आकाशमुष्टिहननन्यायः। मुष्टिभिव्योमताडनवन्निष्फलेऽसंभवे च कर्मणि न्याय- स्यास्य प्रयोगः। आम्रसेकपितृतर्पणन्यायः (अथवा--एका क्रिया द्वयर्थकरी प्रसिद्धा । म्राश्च सिक्ताः पितरश्च प्रीणिताः।) हिन्दी-“एक पन्थ दो काज। आन्नान्पृष्टः कोविदारानाचष्टे । इतो भ्रष्टस्ततो भ्रष्टः । उभयत:पाशा रज्जुः। कस्यचित्करणेऽकरणे च तथा भावेऽभावे च दोषापत्तिरित्यर्थः काकतालीयन्याय: ( = अजाकृपाणीयन्यायः)। -- प्रबन्धप्रकाश: २१७ काशकुशावलम्बनन्यायः । नद्यादौ पतितस्य सन्तरणानभिज्ञस्य हि काशकुशाव- लम्बनमनर्थकं भवति । कुड्यं विना नचित्रम्। अथवा-सति कुड्य चित्रम् । कूपमण्डूकन्यायः। कूपयन्त्रघटिकान्यायः। तथा हि-एष क्रीडति कूपयन्त्रबटिकान्यायप्रसक्तो विधिः । क्रिया हि विकल्प्यते न वस्तु । अयं भावः। कर्तुमकतु मन्यथा वा कर्तुं शक्यं हि कर्म। यथाश्वेन गच्छति, पद्भ्यामन्यथा वा, न वा गच्छ- तीति । न तु वस्त्वेवं नैवमन्ति नास्तीति वा विकल्प्यते । क्वास्त: क्व निपतितः । क्षते क्षारमिव । खल्वाटबिल्वीयन्यायः (= काकतालायन्यायः)। गतानुगतिको लोको न लोकः पारमार्थिकः । चुणाक्षरन्यायः। तत्र वर्धमान: ( ३११९५ )-घुणोत्किरणात्कथंचिन्नि- रूपन्नमक्षरं घुणाक्षरम् । तदिव यद्कुशलेन दैवात् निष्पद्यते तद् घुणाक्षरीयम्। चिन्तामणिं परित्यज्य काचमणिग्रहणन्यायः । तुष्यतुदुर्जनन्यायः ।

२१८ प्रबन्धप्रकाशः । यत्र प्रतिवाद्युक्तपक्षं दुष्टमपि अङ्गीकृत्य वादी दूषणा- न्तरं ददाति तत्रायं न्यायः । त्यजेदेकं कुलस्यार्थे । अथवा-सर्वनाशे समुत्पन्ने अर्ध त्यजति पण्डितः। नष्टाश्वदग्धरथन्यायः। परस्परापेक्षावतोयोः सहयोगेन यत्र कार्य निष्पाद- यितु शक्यते तत्रायं न्यायः । नहि कठोरकण्ठीरवस्य कुरङ्गशावः प्रतिभटो भवति । नहि भवति तरक्षुः प्रतिपक्षो हरिणशावकस्य । नहि वरविघाताय कन्याद्वाहः । नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, न च मृगाः सन्तीति यवा नाप्यन्ते । न हि सर्वः सर्व जानाति । न हि करकङ्कणदर्शनायादर्शापेक्षा । हिन्दो--"हाथ कंगन को आरसी क्या"। न हि गोधा सर्पन्ती सर्पणादहिर्भवति । न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवतीत्यर्थः । न ह्यष स्थाणोरपराधो यदेनमन्धो न पश्यति । पङ्कप्रक्षालनन्यायः। अथवा-प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । पवन्धन्यायः । ( नष्टाश्वदग्धरथन्यायः )।

प्रबन्धप्रकाशः
२१९
पर्जन्यो यावदूनं पूर्ण च सर्वमभिवर्षति ।
अथवा-मेघो गिरिजलधिवर्षी च।
पश्यस्यद्रौ ज्वलदग्निं न पुनः पादयोरधः ।
पिष्टपेषुणन्यायः ।
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
भक्षितेऽपि लशुने न शान्तो व्याधिः ।
भस्मन्याज्याहुतिः। ( = अरण्यरोदनन्यायः)।
मारणाय गृहीतोऽङ्गच्छेदं स्वीकरोति ।
य एव करोति स एव भुङ्क्ते ।
योगाद्रूढिर्बलीयसी।
लक्षणप्रमाणाभ्यां वस्तुसिद्धिः ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ।
वरं सांशयिकान्निष्कादसांशयिकः कार्षापणः ।
वरमद्य कपोत: श्वो मयूरात् ।
विषकुम्भं पयोमुखम् ।
विषस्य विषमौषधम् ।
वृद्धिमिष्टवतो मूलमपि ते नष्टम् ।
वृश्चिकभिया पलायमान आशीविषमुखे निपतितः ।
शिरसि मसीपटलं दधाति दीपः ।
शीर्षे सपो देशान्तरे वैद्यः ।
श्व:कार्यमद्य कुर्वीत ।
सहैव दशभिः पुत्रैर्भारं वहति गर्दभी।

२२०
प्रबन्धप्रकाशः
.
सूची कटाहन्यायः।
स्थालीपुलाकन्यायः ।
स्वभावो दुरतिक्रमः।
॥ इति श्रीमन्मङ्गलदेवशास्त्रिविरचितः
प्रबन्धप्रकाशः समाप्तः ॥

);
是不是
安全
全书
美。
客
一
三是

Prabandhprakasha

Author
Shrimandaldev Shastri
Title
Prabandhprakasha
File name
Prabandhprakasha
Text
OCR done
Citation
1941
Language
Sanskrit
Pages
217
Library
Bharti Bhawan Library Allahabad
DLI number
272944
Barcode
5990010894272.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
lKoZTaJswYP
Download PDF

Prabandhprakasha