Scl

Panchatantram Vol Ii

Pandit Bhanu Dattshastri

PDF Proofread

Front matter

No text on this page.

||श्रीः॥ - हरिदास-संस्कृत-ग्रन्थमाला १३ श्रीविष्णुशर्मसङ्कलितं पञ्चतन्त्रकम् परीक्षानिर्धारितं निषिद्धाऽश्लीलांशवम् । पण्डित भानुदत्तशास्त्रिणा कृतया विषमस्थल- बोधिन्या विवृत्त्या सहितम् (द्वितीयं संस्करणम्) PANCH चौखम्बा-संस्कृत-पुस्तकालय, बनारस-१ सन् १९५२ ha

प्रकाशक
जयकृष्णदास हरिदास गुप्ता,
चौखम्बा-संस्कृत-सीरिज आफिस,
पो० बाक्स नं०८ बनारस।
(सर्वाधिकाराः प्रकाशकाधीनाः)
JAYA KRISHNA DAS HARI DAS GUPTA
The Chowkhamba Sanskrit Series Office.
P. 0. Box 8, Ba.na.ras.

प्राक्कथन संस्कृत के प्रेमियों एवं विद्यार्थियों से यह कहने की विशेष आवश्यकता नहीं कि संस्कृतसाहित्य में पञ्चतन्त्र कितना उपयोगी और महत्वपूर्ण समझा जाता है। उपयोगिता तथा महत्ता के कारण ही उसको भारत की सभी सरकारी और स्वतन्त्र संस्कृतशिक्षा-संस्थाओं की अनेक परीक्षाओं में स्थान प्राप्त हो चुका है। भाषा की सरलता, रोचक-वर्णनशैली ये दोनों गुण एक स्थान पर प्रायः देखने में नहीं आते किन्तु इस ग्रन्थ के कुशल सङ्ग्रहकार ने उक्त दोनों गुणों का एकत्र समावेश जिस कुशलता एवं सफलता के साथ किया है उसका परिचय पाठकों को आदि से अन्त तक मिलेगा। थोड़े से शब्दों में सुगमता के साथ नीति जैसे गढ़ विषय और अतिजटिल लोकव्यवहार के मर्म को प्रकट करने में तो यह ग्रन्थ अपना जोड़ नहीं रखता। यद्यपि इस की उपादेयता में किसी को सन्देह नहीं तथापि इसका अश्लील गय- पद्यभाग बालकों के लिये अत्यन्त अनिष्टकारी होने के कारण शिक्षा के अनुभवी विद्वानों को बहुत खटकता था। सम्भवतः यही समझ कर काशीस्थ राजकीय संस्कृत- कालेज के अधिकारियोंने भी उक्त भाग को पाठ्यविधि से निकाल दिया है। अत एव प्रस्तुत ग्रन्थ का एक ऐसा संस्करण अपेक्षित था जो अश्लीलतादोष से उन्मुक्त होने के साथ साथ राजकीय संस्कृतकालेज की पाव्यविधि के अनुकूल हो । यह संस्करण ऊपर की दोनों बातों को ध्यान में रखकर निकाला गया है। हमें अपने कार्य में सफलता कहाँ तक हुई है इसका अनुमान तो अल्प समय में इसका द्वितीय संस्करण प्रकाशित होने से ही हो रहा है । आशा है संस्कृत के शुभचिन्तक तथा प्रेमी पाठक इस प्रन्थ को और भी विशेष अपना कर हम को सरस्वतीसेवा का अधिकाधिक अवसर प्रदान करेंगे। विनीत प्रकाशक AM विषयानुक्रमाणिका ३ १४९ कथामुखम् १ अतिदाख्यसर्पकथा १३७ मित्रभेदे हरिदत्ताभिधब्राह्मणकथा वणिग-वृषभकथा चित्ररथनाम्नो नरपतेः कथा १४२ गोमायुनामक शृगालकथा १६ कपोतदम्पतीकथा १४३ वायसदम्पतीकथा २४ द्रोणाख्यबाह्मणकथा १४७ बककुलीरकथा २५ देवशक्तिनामधेयनरपतिकथा भासुरकायसिंहकथा २८ कुलपतियाज्ञवल्क्यपोषितमूषिकाकथा मन्दविसर्पिणीयूकाकथा सिन्धुकाख्यपक्षिकथा चण्डरवनामकशृगालकथा खरनखरनाम्नः सिंहस्य कथा मदोत्कटसिंह कथा मन्दविषनामकसर्पकथा ४९ १६० टिट्टिभदम्पतीकथा लब्धप्रणाशे कम्बुग्रीवाख्यकूर्मकथा ५० वानरमकरकथा १६५ अनागतविधात्रादिमत्स्यत्रयकथा गङ्गादत्ताख्यमण्डूकराजकथा १७० चटकदम्पतीकथा ५४ युधिष्ठिराख्यकुम्भकारकथा १७४ वज्रदंष्ट्रसिंहकथा ६१ / सिंहदम्पतीकथा १७६ वानरयुयकथा ६७ शुद्ध पटनाम्नो रजकस्य कथा शमीवृधस्थचटकदम्पतीकथा उज्ज्वलकनामकरथकारकथा १८० धर्मबुदिपापबुद्धिकथा महाचतुरकाख्यशृगालकथा १८३ बकनकुलकथा ७२ चित्राङ्गनामधेयस्य सारमेयस्य कथा १८५ जीर्णधनाख्यवणिकपुत्रकथा ७३ अपरीक्षितकारके नरपतिवानरयोः कथा ७५ मणिभद्रष्ठिकथा १८६ मित्रसम्प्राप्ती देवशर्मब्राह्मणकथा १९० काकूर्ममृगमूषिककथा ७९ चतुर्णी ब्राह्मणपुत्राणां कथा १९२ ताम्रचूडपरिव्राजककथा पुनश्चतुणी ब्राह्मणपुत्राणां कथा १९६ शाण्डिलीकथा ९४ चतुर्णी ब्राह्मणानां कथा १९७ पुलिन्दकथा ९५ शतबुद्धिसहस्रबुद्धिनामकयोमत्स्ययोःकथा१९९ सोमिलककथा १०२ उद्धताख्यस्य गर्दभस्य कथा २०१ तीक्ष्णविषाणाख्यवृषमकथा १०५ मन्थरकनाम्नः कौलिकस्य कथा काकोलूकीये स्वभावकृपूणनामधेयब्राह्मणकथा वायसराजमेघवर्णोलूकराजारिमर्दनकथा ११७ चन्द्राभिधभूपतिकथा २०७ चतुर्दन्तनामकमहागजकथा १२८ भद्रसेननाम्नो राशः कथा २१२. शशकपिालकथा १३१ | भारण्डाख्यपक्षिकथा २१४ मित्रमबामणकथा ब्रह्मदत्तनामकारणकया - ॥श्रीः॥ 'पञ्चतन्त्रकम् कथामुखम् ब्रह्मा रुद्रः कुमारो रविवरुणयमा वहिरिन्द्रः कुबेर- श्चन्द्रादित्यौ सरस्वत्युदधियुगनगा वायुरु/ भुजङ्गाः। सिद्धा नद्योऽश्विनौ श्रीदितिरदितिसुता मातरश्चण्डिकाद्या वेदास्तीर्थानि यज्ञा गणवसुमुनयः पान्तु नित्यं ग्रहाश्च ॥१॥ मनवे वाचस्पतये शुक्राय पराशराय ससुताय । चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥२॥ सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशमदम् । तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥ ३ ॥ तद्यथाऽनुश्रूयते-अस्ति दाक्षिणात्ये जनपदे महिलारोष्यं नाम न- गरम् । तत्र (२)सकलार्थिकल्पद्रुमः (३) प्रवरमुकुटमणिमरीचि- मञ्जरीचचिंतचरणयुगलः (४)सकलकलापारङ्गतोऽभरशक्तिर्नाम राजो तस्य त्रयः पुत्राः (५)परमदुर्मेधसो बहुशक्तिरुप्रशक्तिरनन्त- शक्तिश्चेति नामानो बभूवुः। श्रथ राजा ताशास्त्रविमुखानालोक्य सचि- घानाहय प्रोवाच-भोः' झातमेतद्भवद्भिर्यन्ममैते पुत्राः शास्त्रविमुखा विवेकरहिताश्च तदेतान्पश्यतो मे महदपि राज्यं न (६)सौख्यमा- बभूव। वहति। Ramakrainine १. पञ्चानां तन्त्राणां समाहार इति विग्रहः, पञ्च तन्त्राणि नीतिसिद्धान्ता वा यत्र तत्तथोक्कमिति वा। (२)सकलानामर्थिनां याचकानां कल्पद्रुमः सकला- र्थिमनोरथपूरक इति भावः। (३) प्रवराणां श्रेष्ठानां नृपाणां मुकुटमणीनां किरीटग- तमुक्कादीनां मरीचिमारीभिः किरणसमूहैः अचिंतं पूजितं चरणयुगलं पादद्वयं अस्य सः। (४) सकलानां कलानां चतुष्पष्टिप्रभेदानां पारङ्गतः पण्डितः । (५) अतिदुर्बुद्धयः । (६) सुखं ददाति ।

२ पञ्चतन्त्रके- अथवा साध्धिदमुच्यते- अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावजीवं जडो दहेत् ॥४॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा। कोऽर्थः पुत्रेण जातेन यो न विद्वान भक्तिमान् ॥ ५॥ गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमा यस्य । तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ॥ ६॥ तदेतेषां यथा बुद्धिप्रकाशो भवति तथा कोऽयुपायोऽनुष्ठीयताम् । अत्र च महत्तां वृत्ति भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति। ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयताम् इति । तत्रैक: प्रोवाच-'देव ! द्वादशभिर्वयाकरणं श्रूयते ततो धर्मशास्त्राणि मन्वादोनि, अर्थशास्त्राणि चाणक्यादीनि, कामशास्त्राणि वात्स्यायना- दीनि । एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते ततः (१)प्रतिबो- धनं भवति । अथ तन्मध्यतः सुमति म सचिवः प्राह-(२)अशा- श्वतोऽयं (३) जीवितव्यविषयः प्रभूतकालज्ञेयानि शब्दशास्त्राणि तत्संक्षेपमात्रंशास्त्रं किञ्चिदेतेषांप्रबोधनार्थ चिन्त्यतामिति।उक्तंचयतः- अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवच विघ्नाः। सारं ततो ग्राह्यमपास्य फल्गु हंसर्यथा क्षोरमिवाम्बुमध्यात् ॥ ७॥ तदनास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमछात्रसं- सदि लब्धकीनिः। तस्मै समर्पयतु एतान् । स नूनं (४)द्राक्प्रबुद्धा- करिष्यति इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच-मो भगवन् ! मदनुग्रहार्थमेतानर्थशास्त्रं प्रति द्राग्यथा अनन्यसदृशान्विद- धासि तथा कुरु तदाहं (५)त्वां शासनशतेन योजयिष्यामि ।' अथ विष्णुशर्मा तं राजानमूचे-'देव ! श्रूयतां मे तथ्यवचनम् नाह वि- द्याविक्रयं शासनशतेनापि करोमि। पुनरेतांस्तव पुत्रात्मासषटकेन यदि नोतिशास्त्रशान्न करोमि ततः स्वनामत्यागं करोमि । किं बहुना श्रूयतां ममैष सिंहनादः । नाहमर्थलिप्सुब्रवीमि । ममाशीतिवर्षस्य (१)तत्तद्विषयको बोधः। (२) नश्वरः स्वल्प इति भावः। (३) आयुः । (४) शीघ्रम्। (५)पारितोषिकरूपेण ग्रामशतं तुभ्यं प्रदास्यामीत्यर्थः ।

३ मित्रभेदः। (१)व्यावृत्तसन्द्रियार्थस्य न किञ्चिदर्थेन प्रयोजनम् । त्वत्प्रार्थ- नासिद्धयर्थ (२) सरस्वत विनोदं करिष्यामि तल्लिख्यतामद्यतनो दिवसा, यद्यहं षण्मासाभ्यन्तरे तव पुत्रान्नयशास्त्रं प्रत्यनन्यसदृशान्न करिष्यामि, ततो नार्हति (३) देवो देवमार्ग सन्दर्शयितुम् । अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान्कुमारान्समयं परां निर्वृतिमा- जगाम । विष्णुशर्मणापि तानादाय तदर्थ मित्रभेद-मित्रप्राप्ति-काका- लुकीय-लब्धप्रणाश-अपरीनितकारकाणि चेति पञ्च तन्त्राणि रचयि- त्वा पाठितास्ते राजपुत्राः। तेऽपि तान्यधीत्य मासषटकेन यथोक्ताः संवृत्ताः। ततःप्रभृत्येतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थ भूतले प्रवृत्तम्। कि बहुना अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च । न पराभवमाप्नोति शक्रादपि कदाचन ॥८॥ इति कथामुखम् । मित्रभेदः अथात: प्रारभ्यते मित्रमेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमश्लोक:- वर्षमानो महान्स्नेहः सिंहगोवृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१॥ तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे महिलारोग्यं नाम नगरम् । तत्र (४)धर्मोपार्जितभूरिविभवो वर्धमानको नाम चणि- पुत्रो बभूव तस्य कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना-य- प्रभूतेऽपि वित्ते(५)ऽर्थोपायाश्चिन्तनोयाः कर्तव्याश्चेति । (१) विषयवासनारहितस्य । (२) सरस्वत्या आराधनम् । (३) ईश्वरः सद्गतिं न ददास्वित्यर्थः । (४) धर्मेण न्यायेन उपार्जितः सश्चितः भूरिः प्रभूतः विभवः येन सः। २) वित्तप्राः साधनानि । AN ४ पञ्चतन्त्रके- यत उक्तश्च-न हि तद्विद्यते किञ्चिद्यदर्थेन न सिद्धयति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥२॥ यस्यार्थास्तस्य मित्राणि यस्यास्तस्य बान्धवाः । यस्यार्थाः स पुमाल्लोके यस्यार्थाः स च पण्डितः ॥३॥ न सा विद्या न तदानं न तच्छिल्पं न सा कला। न तत्स्थैर्य हि धनिनां याचकर्यन्न गीयते ॥४॥ इह लोके हि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ ५ ॥ अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥ ६॥ पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । पन्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ ७ ॥ अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि। एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ ८ ॥ अर्थार्थो जीवलोकोऽयं श्मशानमपि सेवते । त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥ ६ ॥ गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः। अर्थन तु ये हीना वृद्धास्ते यौवनेऽपि स्युः॥ १०॥ स चार्थः पुरुषाणां षड्भिरुपायैर्भवति-भिक्षया, नृपसेवया, कृ. षिकर्मणा, विद्योपार्जनेन, व्यवहारेण, वणिक्कर्मणा वा। सर्वेषामपि तेषां वाणिज्येनातिरस्कृतोऽर्थलाभः स्यात् । उक्तं च यतः- कृता भिक्षानेकैबितरति नृपो नोचितमहो कृषिः क्लिष्टा, विद्या गुरुविनयवृत्त्यातिविषमा। कुसीदादारिद्रयं परकरगतग्रन्थिशमना- न मन्ये वाणिज्यात्किमपि परमं वर्तनमिह ॥११॥ उपायानां च सर्वेषामुपायः पण्यसंग्रहः । धनार्थं शस्यते ोकस्तदन्यः संशयात्मकः ॥१२॥ तञ्च वाणिज्य सप्तविधमर्थागमाय स्यात् । तद्यथा-(१)गान्धि- (५) गन्धद्रव्याणां वासिततैलादीनां यो व्यापारः सः। - ५ मित्रमेदः। कव्यवहारः, (१) निक्षेपप्रवेशः, (२) गोष्ठिककर्म, (३) परिचि- तग्राहकागमः, (४) मिथ्याक्रयकथनम् , . (५) कूटतुलामानम् , (६) देशान्तरागाण्डानयनं चेति। उक्तं च- पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः । यत्रैकेन च यत्क्रीतं तच्छतेन प्रदीयते ॥ १३ ॥ निक्षेपे पतिते हयें श्रेष्टी स्तौति स्वदेवताम् । निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् ॥ १४ ॥ गोष्ठिककर्मनियुक्तः श्रेष्ठी चिन्तयति चेनसा हृष्टः। वसुधा वसुसम्पूर्णा मयाद्य लब्धा किमन्येन ॥ १५ ॥ परिचितमागच्छन्तं ग्राहकमुत्कण्ठया विलोक्यासौ। हृष्यति तद्धनलुब्धो यद्वत्पुत्रेण जातेन ॥ १६ ॥ अन्यच्च-पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् । मिथ्याऋयस्य कथनं प्रकृतिरियं स्याकिरातानाम् ॥ १७ ॥ अन्यच्च-द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः। प्राप्नुवन्त्युद्यमाल्लोका दूरदेशान्तरं गताः ॥१८॥ इत्येवं सम्प्रधार्य मथुरागामीनि भाण्डान्यादाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मङ्गलवृषभौ संजी. वकनन्दकनामानौ गृहोत्पन्नौ पूर्वोढारौ स्थितौ। तयोरेकः संजीव- काभिधानो (७) यमुनाकच्छमवतीर्णः सन् (८) पङ्कपूरमासाद्य (8) कलितचरणो युगभङ्गं विधाय (१०) निषसाद । अथ तं तदव- स्थमालोक्य वर्धमानः परं विषादमगमत् । तदर्थं च स्नेहाहृदयस्त्रि- (१) एतावति काले गते मया स्वकीयं धनादिकं ग्रहीष्यत इति नियमेन यत् स्वधनादेः कस्यचिद् धनवतः समीपे स्थापनं तदेव निक्षेपः तस्य प्रवेशःप्राप्तिः। (२) गवादीनां क्रयविक्रयरूपो व्यवसायः । (३) परिचितानां ग्राहकाणा- मागमनम् । परिचितग्राहका हि भूयो भूयो मूल्यं नैव पृच्छन्ति तेषां पुरतो यदे- वोच्यते तेनैव क्रेयं क्रीणन्तीति तत्सकाशादधिकलामसम्भवः । (४) अल्पमूल्येन क्रीतस्य वस्तुनः केतृणां पुरतः समधिकमूल्यकथनम् । (५) तुलया विक्रेयवस्तूनां कपटपूर्वकं न्यूनाधिकभावेन तोलनम् । (६) अन्यस्माद् देशाद् विक्रेयवस्तूनां स्वल्पमूल्येन स्वदेशे आनयनं प्रभूतेन मूल्येन विक्रयः । (७) यमुनातटम् । (८) कर्दममयप्रदेशमित्यर्थः । (१) कर्दमप्रोतपादः। (१०) उपविष्टः ।

६ पञ्चतन्त्रके- रात्रं (१) प्रयाणभङ्गमकरोत् । अथ तं विषण्णमालोक्य (२) सार्थिकैरभिहितम्-भोः श्रेष्टिन् , किमेवं वृषभस्य कृते (३) सिं- हव्याघ्रसमाकुले (४) बह्वपायेऽस्मिन् वने समस्तसार्थस्त्वया (५ सन्देहे नियोजितः। उक्तं च- न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः। एतदेवात्र पाण्डित्यं यत्स्वल्पाद् भूरि रक्षणम् ।। अथासौ तवधार्य सञ्जीवकस्य रक्षापुरुषान्निरूथ्याशेषसाथ नो- त्वा प्रस्थितः। श्रथ रक्षापुरुषा अपि बह्नपायं तदनं विदित्वा सञ्जी- वकं परित्यज्य पृष्ठतो गत्वान्येद्युस्तं सार्थवाहं मिथ्याहुः-स्वामिन् , मृतोऽसौ सजीवकः। अस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृत इति । तच्छुत्वा (६ ) सार्थवाहः कृतज्ञतया स्नेहा- हृदयस्तस्यौदेहिकक्रिया वृषोत्सर्गादिकाः सर्वाश्चकार। सजी- वकोऽप्यायुःशेषतया यमुनासलिलमिथैः शिशिरतरवातैराण्यायित. शरीरः कथञ्चिदष्युत्थाय यमुनातटमुपपेदे । तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन्कतिपयरहोभिहरवृषभ इव पोनः ककुद्मान्बल- वांश्च संवृत्तःप्रत्यहं वल्मीकशिखरामाणि शृङ्गाभ्यां विदारयन्गर्जमान प्रास्ते । साधु चेदमुच्यते-- अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपिवने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति॥२०॥ अथ कदाचिपिङ्गलको नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थ यमुनातटमवतीर्णः सञ्जीवकस्य गम्भीरतररावं दूरादेवा- शृणोत् । तच्छुत्वातीव व्याकुलहृदयः (७)ससाध्वसमाकारं प्रच्छा- घ घटतले चतुर्मण्डतावस्थानेनावस्थितः। चतुर्मण्डलावस्थानं त्वि- दम्-सिंहः, सिंहानुयायिनः, काकरवाः, किंवृत्ता इति । अथ तस्य करटकदमनकनामानौ दो शृगालो मन्त्रिपुत्रौ भ्रष्टाधिकारौ सदानु- (१) गमनावरोधम् । (२) सहचरैः । (३) हिंसकजन्तुपरिपूर्ण इत्यर्थः । (४) विपद्बहुले। (५)सङ्कटे। (६) वणिक् । () भीताकृतिं संगोप्य निर्भयतां प्रकाश्य इति भावः । 4 now मित्रभेदः। यायिनावास्ताम् । तौ च परस्परं मन्त्रयतः। तत्र दमनकोऽब्रवीत्- 'भद्र करटक, अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थ यमुनाकच्छमवतीर्य स्थितः। स कि निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनां विधाय (१) दौमनस्येनाभिभूतोऽत्र घटतले स्थितः। करटक आह-भद्र ! श्रावयोक्षितशेष आहारोऽस्त्येव तकिमनेन व्यापारेण। दमनक श्राह-ततिक भवानाहारार्थी केवलमेव तन युक्तम् । उक्तं च-सुहृदामुपकारकारणाद्विषतामण्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठर को न बिभर्ति केवलम् ॥ २१ ॥ किञ्च-यस्मिञ्जीवति जीवन्ति बहवः सोऽत्र जीवतु । वयांसि किं न कुर्वन्ति चञ्च्चा स्वोदरपूरणम् ॥ २२ ॥ तथा च-यजीव्यते क्षणमपि प्रथितं मनुष्य विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २३ ॥ यो नात्मना न च परेण च बन्धुवर्ग दीने दयां न कुरुते न च मर्त्यवर्ग। किं तस्य जीवितफलं हि मनुष्यलोके काकोऽपि जीवति चिराय बलि च भुङ्क्ते ॥ २४ ॥ सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ २५ ॥ किञ्च-परिवर्तिनि संसारे मृतः को वा न जायते । जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥ २६ ॥ किञ्च-जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम् । यत्सलिलमजनाकुलजनहस्तालम्बनं भवति ॥ २७ ॥ तथा च-स्तिमितोन्नतसञ्चारा जनसन्तापहारिणः। जायन्ते विरला लोके जलदा इव सजनाः ॥ २८॥ (1)उद्विग्नः।

पञ्चतन्त्रके- निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः । यत्कमपि वहति गर्भ महतामपि यो गुरुर्भवति ॥ २ ॥ अप्रकटीकृतशतिः शक्तोऽपि जनस्तिरस्क्रियां लभते । वसनन्तरणि लवयो वह्निर्न तु ज्वलितः ॥ ३० ॥ करटक आह-आवां' तावदप्रवानौ तत्किमावयोरनेन व्या- पारेण । उक्तं च-अपृष्टोऽत्राप्रधानो यो व्रते राज्ञः पुरः कुधीः । न केवलमसम्मानं लभते च विडम्बनम् ॥३१॥ तथा च-वचस्तत्र प्रयोकव्यं यत्रोक्तं लभते फलम् । स्थायी भवति चात्यन्तं रागः शुक्लपटे यथा ॥ ३२ ॥ दमनक पाह-'मा मेवं वद। अप्रधानः प्रधानः स्यात्सेवते यदि पार्थिवम् । प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः॥ ३३ ॥ तथा च--कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः। प्रारोहन्ति शनैः पश्चाधुन्वन्तमपि पार्थिवम् ॥ ३४ ॥ विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् । सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना ॥ ३५ ॥ ये जात्यादिमहोत्साहान्नरेन्द्रानोपयान्ति च। तेषामामरणं भिता प्रायश्चित्तं विनिर्मितम् ॥ ३६ ॥ ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः। प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः॥३७॥ सन्व्यिाघ्रान्गजान्सिहान्दृष्टोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ ३८॥ राजानमेव संश्रित्य विद्वान्याति परां गतिम् । विना मलयमन्यत्र चन्दनं न प्ररोहति ॥ ३६॥ धबलान्यांतपत्राणि वाजिनश्च मनोरमाः। सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ ४०॥ करटक अाह-'श्रथ भवान्किकर्तुमना।' सोऽब्रवीत् -'श्रद्यास्म- । स्वामी पिङ्गलको भीतोभीतपरिवारश्च वर्तते। तदेनं गत्वा भयका- है .

- मित्रभेदः। रणं विज्ञाय (१)संधि-विग्रह-यान-शासन संश्रय-द्वैधीभावानामेकतमेन संविधास्ये ।' सोऽब्रवीत-ज्ञेयं किमत्र । यत उक्तं च-उदीरितोऽर्थः पशुजापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः। अनुनमध्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः॥ ४१ ॥ तथा च मनुः-आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥ ४२ ॥ तद्यैनं भयाकुलं प्राग्य स्वबुद्धिप्रभावेण निर्भयं कृत्वा वशीकृत्य च निजां (२)साचिव्यपदवीं (३)समासादयिष्यामि। करटक आह- 'अनभिज्ञो भवान्सेवाधर्मस्य तत्कथमेनं वशीकरिष्यति ।' सोऽत्र- वीत्-'कथमहं सेवानभिज्ञः। मया हि (४)तातोत्सङ्ग क्रीडता अभ्या- गतसाधूनां नोतिशास्त्रं पठतां यच्छ्रुतं सेवाधर्मस्य सारभूतं हृदि स्थापितम् । श्रृयताम् तच्चेदम्- सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम ॥ ४३ ॥ सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः । आश्रयेत्पार्थिवं विद्वांस्तारेणैव नान्यथा ॥ ४४ ॥ यो न वेत्ति गुणान्यस्य न तं सेवेत पण्डितः। न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥ ४५ ॥ द्रव्यप्रकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः। भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥ ४६॥ अपि स्थाणुषदासीनः शुष्यन्परिगतः क्षुधा। न त्वेवानात्मसम्पन्नावृत्तिमीहेत पण्डितः॥४७॥ (१) विरोधवतां परस्परं मेलनं सन्धिः । अरिराज्ये दाहलुण्ठनादिकरणं विग्रहा, शत्रु प्रति विजिगीषोर्गमनं यानम्, शक्तिप्रतिबन्धेसति दुर्गादिकं कृत्वा तत्र स्थितस्य कालप्रतीक्षा आसनम् । शत्रुणा बाध्यमानस्य तदपेक्षया बलवत आश्रयणम् आश्रयः, प्रबलैः सह सन्धिः निर्बलैः सह युद्धकरणम् 'वैधीभावः' सन्देहेनावस्थानं वा। (२) मन्त्रिपदम् । (३)प्राप्स्यामि। (१) पितुः क्रोडे।

१० पञ्चतन्त्रके- - सेवकः स्वामिनं देष्टि कृपणं परुषाक्षरम् । श्रात्मानं किंसन द्वेष्टि सेव्यासेव्यं न वेत्ति यः॥४८॥ यमाश्रित्य न विश्राम तुधार्ता यान्ति सेवकाः। सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्पफलोऽपि सन् ॥ ४६॥ राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥ ५० ॥ जीवेति प्रब्रुवन्प्रोक्तः कृत्याकृत्यविचक्षणः। करोति निर्विकल्पं यः स भवेद्राजवल्लभः।। ५१ ॥ अन्तःपुरचरैः सार्ध यो न मन्त्रं समाचरेत् । न कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः ॥ ५२ ॥ घृतं यो यमदूताभं हालां हालाहलोपमाम् । पश्येद्दारान्वृथाकारान्स भवेद्राजवल्लभः॥ ५३॥ युद्धकालेऽग्रगो यः स्यात्सदा पृष्ठानुगः पुरे। प्रमोाराश्रितो हर्ये स भवेद्राजवल्लभः॥ ५४॥ सम्मतोऽहं विभानित्यमिति मत्वा व्यतिक्रमेत् । कृच्छेष्वपि न मर्यादां स भवेद्राजवल्लभः॥ ५५ ॥ द्वेषिद्वेषपरो नित्यमिष्टानामिष्टकर्मकृत् । यो नरो नरनाथस्य स भवेद्राजवल्लभः॥ ५६ ॥ प्रोक्तं प्रत्युत्तरं नाह विरुद्धं प्रभुणा चं यः। न समीपे हसत्युच्च स भवेद्राजवल्लभः ॥५७॥ यो रणं शरणं तदन्मन्यते भयवर्जितः। प्रवासं स्वपुरावासं स भवेद्राजवल्लभः॥५॥ न कुर्यानरनाथस्य योषिद्भिः सह सङ्गतिम् । न निन्दा न विवादं च स भवेद्राजवल्लभः॥५६॥ करकट श्राह-'भवांस्तत्र गत्वा किं तावत्प्रथमं वक्ष्यति तत्ताघदु- च्यताम् दमनक श्राह- उत्तरादुत्तर वाक्यं वदतां सम्प्रजायते । सुवृष्टिगुणसम्पन्नाद्वीजादीजमिवापरम् ।। ६०॥

मित्रभेदः। ११. अपायसन्दर्शनजां विपत्तिमुपायसन्दर्शनजां च सिद्धिम् । मेधाविना नीतिगुणप्रयुक्तां पुरः स्फुरन्तीमिव वर्णयन्ति ।। ६१ ॥ एकेषां वाचि शुकवदन्येषां हदि मूकवत् । हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः॥२॥ न चाह(१)मप्राप्तकाल वक्ष्ये । प्राकर्णितं मया नीतिसारं पितुः पूर्व- मुत्सङ्गं हि (२)निषेवता। अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बह्ववज्ञानमपमानं च पुष्कलम्' ।। ६३ ।। करकट आह-'दुगराध्या हि राजानः पर्वता इव सर्वदा । व्यालाकीर्णाः सुविषमाः कठिना दुष्टसेविताः॥ ६४ तथाच-सोगिनः कञ्चुकाविष्टः कुटिलाः क्रूरचेष्टिताः। सुदुष्टा मन्त्रसाध्याधराजानः पन्नगा इव ॥६५॥ द्विजिताः क्रूरकर्माणोऽनिष्टाश्छिद्रानुसारिणः । दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥६६॥ स्वल्पमध्यपकुर्वन्ति येऽभीष्टा हि महीपतेः। ते वह्नाविव दह्यन्ते पतङ्गाः पापचेतसः ॥ ६७ ।। दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम् । स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति ॥ ६॥ दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः। तिष्टन्त्याप इवाधारे चिरमात्मनि संस्थिताः ॥ ६ ॥ दमनक श्राह-'सत्यमेतत्परम् । किन्तु यस्य यस्य हि यो भावस्तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ ७० ॥ भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् । राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥ ७१ ॥ सरुषि नृपे स्तुतिवचन तदभिमते प्रेम तद्भिषि द्वेषः । तहानस्य च शंसा अमन्त्रतन्त्रं वशीकरणम् ॥ ७२॥ mndwww (१)कालप्रतिकूलम् । (२)अधितिष्ठता।

पञ्चतन्त्रके- - करटक आह-'यद्येवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु यथा- भिलषितमनुष्ठीयताम् ।' सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे । अथागच्छन्तं दमनकमालोक्य पिङ्गलको द्वास्थमनवीत्-'अप- सार्यतां वेत्रलता । श्रयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनको:- व्याहतप्रवेशः। तत्प्रवेश्यतां द्वितीयमण्डलमागी' इति । स ाह- 'यथावादीद्भगवान्' इति । अथोपसृत्य दमनको निर्दिष्ट श्रासने पिङ्ग- लकं प्रणम्य प्रातानुज्ञ उपविष्टः। स तु तस्य नखकुलिशालंकृतं दक्षि- णपाणिमुपरि दत्त्वा मानपुरःसरमुवाच-'अपि शिवं भवतः ? कस्मा- च्चिराद् दृष्टोऽसि ।' दमनके आह-'न किञ्चिदेवपादानामस्मा- भिःप्रयोजनम् परं भवतां प्राप्तकालं वक्तव्यम्, यत उत्तममध्यमा- धमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तं च-दन्तस्य निष्कोषणकेन नित्यं कर्णस्य कण्डूयनकेन वापि। तृणेन कार्य भवतोश्वराणां किमङ्गवाग्धस्तवता नरेण ॥७३॥ तथा वयं देवपादानामन्वयागता भृत्या आपत्स्वपि पृष्ठगामिनो यद्यपि स्वमधिकारं न लभामहे तथापि देवपादानामेतद्युक्तं न भवति । उक्तञ्च-स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च । नहि चूडामणिः पादे प्रभवामीति बध्यते ॥ ७४॥ यतः-अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते । धनाढयोऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥ ७५ ॥ उक्तञ्च-असमैः समीयमानः समैश्च परिहीयमाणसत्कारः। धुरि यो न युज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ७६ ॥ यच्च अविवेकितया राजा भृत्यानुत्तमपदयोग्यान्हीनाधमस्थाने 'नियोजयति, न ते तत्रैव तिष्ठन्ति, स भूपतेर्दोषो न तेषाम् । उक्तञ्च-कनकभूषणसंग्रहणोचितो यदि मणिनपुणि प्रतिबध्यते। न स विरोति न चापि स शोभते भवति योजयितुर्वचनीयता ॥ यच्च स्वाम्येवं वदति 'चिराद् दृश्यते', तदपि श्रृयताम्- सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः। कस्तत्र क्षणमण्यार्यों विद्यमानगतिर्वसेत् ॥ ७८ ॥ - मित्रमेदः । काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते । न तेषां सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥ ७ ॥ परीक्षका यत्र न सन्ति देशे नार्धन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैविपणन्ति गोपाः ॥ लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् । यत्र नास्ति कथं तत्र क्रियते रत्नविक्रयः ॥१॥ निर्विशेषं यदा स्वामी सम भृत्येषु वर्तते । तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥ ८२ ॥ न विना पार्थिवो मृत्यैर्न भृत्याः पार्थिवं विना । तेषां च व्यवहारोऽयं परस्परनिबन्धनः ॥ ३ ॥ भृत्यैर्विना स्वयं राजा लोकानुग्रहकारिभिः। मयूखैरिव दतांशुस्तेजव्यपि न शोभते ॥ ८४ ॥ अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः। स्वामिसेवकयोरेवं वृत्तिचक्र प्रवर्तते ॥ ५ ॥ शिरसा विघृता नित्यं स्नेहेन परिपालिताः। केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः॥८६॥ राजा तुष्टो हि भृत्यानामर्थमात्रं प्रयच्छति । ते तु सम्मानमात्रेण प्राणरप्युपकुर्वते ॥ ८७ ॥ एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः। कुलीनाः शौर्यसंयुक्ताः शक्ता भक्ताः क्रमागताः॥ ८८ ॥ यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम्। लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥८६॥ यस्मिन्कृत्यं समावेश्य निविशंकेन चेतसा । श्रास्यते सेवकः स स्यात्कलत्रमिव चापरम् ॥१०॥ योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा । पृष्टः सत्यं मितं ब्रूते स भृत्योऽर्हो महाभुजाम् ॥ ११ ॥ अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः। यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥ १२ ॥ ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा। .

पञ्चतन्त्रके-
यो न चिन्तयते पापं स भृत्योऽर्हो महीभुजाम् ॥ ६३ ॥
न गर्व कुरुते माने नापमाने च तप्यते ।
स्वाकार रक्षयेद्यस्तु स भृत्योऽह महीभुजाम् ॥ १४ ॥
न क्षुधा पीडयते यस्तु निद्रया न कदाचन ।
न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥ १५ ॥
श्रुत्वा सांगामिकी वातो भविष्यां स्वामिनं प्रति ।
प्रसन्नास्यो भवेद्यस्तु स भृत्योऽहों महीभुजाम् ॥ १६ ॥
सीमा वृद्धि समायाति शुक्लपक्ष इवोडुराट ।
नियोगसंस्थिते यस्मिन्स भृत्योऽर्हो महीभुजाम् ॥ १७ ॥
सीमा सङ्कोचमायाति वह्नौ चर्म इवाहितम् ।
स्थिते यस्मिन्स तु त्याज्यो भृत्यो राज्यं समीहता ॥१८॥
तथा शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यद्यवशा
क्रियते, तदप्ययुक्तम् । उक्तञ्च यतः-
कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमतः
पङ्कात्तामरसं शशाङ्क उधेरिन्दीवरंगोमयात्।
काष्ठादग्निरहेः फणादपि मणिऎपित्ततो रोचना
प्राकाश्यं स्वगुणादगेन गुणिना गच्छन्ति किं जन्मना REET
मूषिका गृहजातापि हन्तव्या स्वापकारिणी।
भक्ष्यप्रदानर्मार्जारो हितकृत्प्रार्थ्यते जनैः ॥ १०० ॥
एरण्डभिण्डार्कनलैः प्रभूतैरपि सञ्चितैः।
दारुकृत्यं यथा नास्ति तथैवाः प्रयोजनम् ॥ १०१ ॥
किं भक्तनासमर्थन किं शक्तनापकारिणा ।
भक्तं शक्तं च मांराजन्नावज्ञातुं त्वमसि ॥ १०२ ॥
पिङ्गलक आह-'भवत्वेवं तावत् । असमर्थः समर्थो वा चिरन्तन-
स्त्वमस्माकं मन्त्रिपुत्रः । तद्विष्टब्ध बेहि यत्किञ्चिद्वक्तुकामः' मनक
आह-'देव' विज्ञाप्यं किञ्चिदस्ति । पिङ्गलक पाह-'तनिवेदयाभिप्रे-
तम् । सेोऽब्रवीत्-
'अपि स्वल्पतरं कार्य यद्भवेत्पृथिवीपतेः।
खन्न वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥ १०३ ॥

१५ मित्रभेदः। (१)तदैकान्तिके मद्विज्ञाप्यमाकर्णयन्तु देवपादाः । यतः- षटकर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् । तस्मात्सर्वप्रयत्नेन षटकर्ण वर्जयेत्सुधीः ॥ १०४ ।। अथ (२)पिङ्गलकाभिप्रायज्ञा व्याघ्रदीपिवृकपुररसराः सर्वेऽपि तद्- चः समाकर्ण्य संसदि तत्क्षणादेव(३)दूरीभूताः। ततश्च दमनक श्राह- 'उदकग्रहणार्थ प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम् ? ।' पिङ्ग- लक प्राह (४)सविलक्षस्मिताम्-'किञ्चिदस्ति ।' सोऽब्रवीत्-'देव' !(५) यद्यनाख्येयं तत्तिष्ठतु । उक्त च- दारेषु किञ्चित्स्वजनेषु किश्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित् । युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुराधात् ॥१०॥ तच्छुत्वा पिङ्गलकश्चिन्तयामास-'योग्योऽयं दृश्यते। तत्कथया- म्येतस्यान आत्मनोऽभिप्रायम् । उक्तं च- सुहृदि निरन्तरचित्ते गुणवति भृत्येऽनुवर्तिनि कलत्रे। स्वामिनि सौहृदयुक्त निवेद्य दुःखं सुखी भवति ॥ १०६ ।। भो दमनक, शृणोषि शब्दं दूरान्महान्तम् । सोऽब्रवीत् -'स्वामिन् ऋणामि ततः किम्' पिङ्गलक पाह-'भद्र अहमस्मादनाद्न्तुमि- च्छामि ।' दमनक आह-कस्मात् ।' पिङ्गलक पाह-'यतोऽद्यास्मद्धने किमध्यपूर्व (६)सत्त्वं प्रविष्टं यस्यायं महाशब्दः श्रूयते तस्य च शब्दा- नुरूपेण पराक्रमेण भाव्यम्' इति । दमनक आह-- यच्छन्दमात्रादपि भयमुपगतः स्वामी, तदभ्ययुक्तम् । उक्तञ्च-अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः । पशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ॥ १०७ ॥ तन्न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुं यतो मेरीवेणुवोणा- मृदङ्गतालपटहशङ्खकाहलादिभेदेन शब्दा अनेकविधा भवन्ति तन्न केव- लाच्छन्दमात्रादपि भेतव्यम् । (१)निर्जनस्थाने। (२)ज्ञातान्यनगमनसंकेता इत्यर्थः । (३)अन्यत्रगताः। (४)सलज्जास्मितम्। (५)अवाच्यं गोपनीयमिति यावत् । (६)जन्तुः।

- १६ पञ्चतन्त्रके- उक्तं च-अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते । धैर्य यस्य महीनाथो न स याति पराभवम् ॥ १०८ ॥ दर्शितभयेऽपि धातरि धैर्यध्वंसो भवेन धीराणाम् । शोषितसरसि निदाधे नितरामेवोद्धतः सिन्धुः ॥ १०६ ॥ तथा च-यस्य न विपदि विषादः सम्पदि हर्षों रणे न भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ ११० ॥ तथा च-शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघोयसः। जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ १११ ॥ अपि च-अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति । जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥ ११२ ॥ तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्दमात्राद्- भेतव्यम्। पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा। अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥ ११३ ॥ पिङ्गलक पाह-'कथमेतत् ।' सेोऽब्रवीत् । कथा (२) कश्चिद्गोमायुर्नाम शृगालः सुरक्षामकण्ठ इतस्ततः परिभ्रमन्वने सैन्यद्वयसंग्रामभूमिमपश्यत् । दुन्दुमेः पतितस्य वायुपशाद(१)ल्ली- शाखा(२)हन्यमानस्य शब्दमणात् । श्रथ (३)भितहृदयश्चिन्त- यामास-'अहो, विनष्टोऽस्मि तद्यावन्नास्य प्रोच्चारितशब्दस्य दृष्टि- गोचरे गच्छामि, तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव- भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान स सन्तापमाप्नुयात् ॥ ११४ ॥ तत्तावजानामि कस्यायं शब्दः । धैर्यमालम्ब्य (४)विमर्शयन्या- वन्मन्दं मन्दं गच्छति तावद् दुन्दुभिमपश्यत् । स च तं परिशाय समीपं गत्वा स्वयमेव कौतुकादताडयत्। भूयश्च हर्षादचिन्तयत्- (१) वल्लीनां लतानां शाखाः प्रतानानि तासामप्रैः। (२)ताड्यमानस्य। (३) भयमापनः। (४)विचारयचित्यर्थः। - - १ मित्रभेदः। अहो विरादेतदस्माकं महद्भोजनमापतितं तन्नूनं प्रभूतमांसदो- ऽमृग्भिः परिपूरितं भविष्यति । ततः(१)परुषचर्मावगुण्ठितं तत्कथमपि विदायैकदेशे छिद्रं कृत्वा संहृष्टमना मध्ये प्रविष्टः। परं चर्मविदार- णतो(२) दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस्तदारुशेषमवलोक्य श्लोकमेनमपठत्-'पूर्वमेव मया झातम्' इति। अतो न शब्दमात्राद्भे- तव्यम् , पिङ्गलक श्राह-भोर, पश्यायं मम सर्वोऽपि (३) परिग्रहो भयव्याकुलितमनाः पलायितुमिच्छति तत्कथमहं (8) धैर्यावष्टम्भं करो मि । सोऽब्रवीत्-स्वामिसदृशा एव भवन्ति भृत्याः। उक्तं च- अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च। पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ ११५ ॥ तत्पौरुषावष्टम्भ (५) कृत्वा त्वं तावदत्रैव प्रतिपालय यावदहमेत- च्छब्दस्वरूपं ज्ञात्वा आगच्छामि ततः पश्चाद्यथोचितं कार्यम् इति । पिङ्गलक आह-'किं तत्र भवान् (६) गन्तुमुत्सहते' । स ाह-किं स्वा. म्यादेशात्सुभृत्यस्य कृत्याकृत्यमस्ति । उक्तंच- स्वाम्यादेशात्सुभृत्यस्य न भीः सञ्जायते क्वचित् । प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ॥ ११६ ॥ तथाच-स्वाम्यादिष्टस्तु यो भृत्यः सम विषममेव च । मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ॥ ११७ ॥ पिङ्गालक श्राह-भद्र ! यद्येवं तद्गच्छ शिवास्ते पन्थानः सन्तु इति । दमनकोऽपि तं प्रणम्य सञ्जीवकशब्दानुसारी प्रतस्थे। अथ दमनके गते भयव्याकुलमनाः पिङ्गालकश्चिन्तयामास अहो न शोभनं कृतं मया यत्तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः। कदा- चिद्दमनकोऽयमुभयवेतनो (७) भूत्वा ममोपरि दुष्टबुद्धिः स्याद् भ्रष्टा- धिकारत्वात् । उक्तञ्च- ये भवन्ति महीपस्य संमानितविमानिता। यतन्ते तस्य नाशाय कुलोना अपि सर्वदा ॥ ११८ ॥ (१) कर्कशचर्माच्छादितम् । (२) दशनभङ्गः। (३) अनुचरवर्ग इत्यर्थः । (४) धैर्य धारयामि । (५)पुरुषार्थमवलम्ब्येत्यर्थः । (६)गन्तुमिच्छतीत्यर्थः। (७)प्रभोः शत्रोश्च वेतनग्राही। - २५० पञ्चतन्त्रके- - - तत्तावदस्य (१) चिकीर्षितं वेत्तुं स्थानान्तरं गत्वा प्रतिपालयामि कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिख्छति । उक्तं च- न बध्यन्ते त्यविश्वस्ता वलिभिबला अपि विश्वस्तास्त्वेव वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ ११६ ॥ बृहस्पतेरपि प्राज्ञो न विश्वास व्रजेन्नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥ १२० ॥ शपथैः संधितस्यापि न विश्वासं व्रजेद्रिपोः। राज्यलोभाद्यतो वृत्रः शक्रण शपथैर्हतः ॥ १२१ ॥ न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासात्त्रिदशेन्द्रण दितेर्मो विदारितः ॥ १२२ ।। एवं (२) संप्रधार्य स्थानान्तरं गत्वा दमनकमार्गमवलोकयन् (३). एकाको तस्थौ। दमनकोऽपि संजीवकसकाशं गत्वा वृषभोऽयमिति · परिक्षाय हृष्टमना अचिन्तयत्-श्रहो शोभनमापतितम् (४)। अने- नैतस्य संधिविग्रहद्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च- न कोलीनान सौहार्दान्नृपो वाक्ये प्रवर्तते । मन्त्रिणां यावदभ्येति व्यसनं शोकमेव च ॥ १२३॥ सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् । अत एव हि त्वाञ्छन्ति मन्त्रिणः सापदं नृपम् ।। १२४ ।। यथा नेच्छति नीरोगः कदाचित्सुचिकित्सकम् । तथापनहितो राजा सचिवं नाभिवाञ्छति ।। १२५ ॥ एवं विचिन्तयन्पिङ्गलकाभिमुखः प्रतस्थे। पिङ्गलकोऽपि तमा- यान्तं प्रेक्ष्य (५) स्वाकारं रक्षन्यथापूर्वमवस्थितः। दमनकोऽपि पिङ्ग- लकसकाशं गत्वा प्रणम्योपविष्टः। पिङ्गलक आह-'किं दृष्टं भवता तत्सत्वम् ? दमनक श्राहदृधं (६) स्वामिप्रसादात्' पिङ्गलक श्राह- 'श्रपि सत्यम् ?' दमनक आह-किं स्वामिपादानामग्रेऽसत्यं विज्ञाप्यते। उक्तंच- (१) अभिप्रायमिति यावत् । (२) विचार्येत्यर्थः । (३) तिरोहितः सन् स्थित इति भावः।(४) सञ्जातम् (५) निर्भीकतां प्रकटयन्नित्यर्थः । (६) भव- दनुग्रहादिति भावः।

मित्रभेदः। अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् । देवानां च विनश्येत स द्रुतं सुमहानपि ॥ १२६ ॥ तथा च-सर्वदेवमयो राजा मनुना संप्रकीर्तितः। तस्मात्तं देववत्पश्येन व्यलोकेन कहिचित् ॥ १२७ ॥ सर्वदेवमयस्यापि विशेषो नृपतेरयम् । शुभाशुभफलं सद्यो नृपादेवाद्भवान्तरे ॥ १२८॥ पिङ्गलक पाह-सत्यं दृष्टं भविष्यति भवता, न दीनोपरि महान्तः कुप्यन्तोति न त्वं तेन (१) निपातितः। यतः- तृणानि नोन्मूलयति प्रभजनो मुनि नीचैः प्रणतानि सर्वतः । स्वभाव एवोन्नतचेतसामयं महान्महत्स्वेव करोति विक्रमम् ॥१२६।। अपि च- गण्डस्थलेषु मदवारिषु बद्धराग- मत्तभ्रमभ्रमरपादतलाहतोऽपि । कोपं न गच्छति नितान्तबलोऽपि नाग- स्तुल्ये बले तु बलवान्परिकोपमेति ॥ १३० ॥ दमनक शाह-अस्स्वेवं स महात्मा वयं (२) कृपणाः तथापि स्वामी यदि कथयति ततो (३) भृत्यत्वे नियोजयामि। पिङ्गलक प्राह (४) सो- च्छ्वासम्-किं भवाञ्छश्नोत्येवं कन् ? दमनक आह-किमसाध्य बुद्धरस्ति । उक्तं च- न तच्छस्त्र नागेन्द्रेन हयैर्न पदातिभिः । कार्य संसिद्धिमभ्येति यथा बुद्धया प्रसाधितम् ॥ १३१ ॥ पिङ्गलक पाह-यद्येवं (३) उर्बमात्यपदेऽध्यारोपितस्त्वम् अद्यप्र- भृति प्रसादनिग्रहादिकं त्वयंव कार्यमिति निश्चयः। अथ दमनकः सत्वरं गत्वा (६) साक्षेपं तमिदमाज-रोहीतो दुष्टवृषभ ! स्वामी पिङ्गलकस्त्वाम् :-) आकारयति किं निःशङ्को भूत्वा मुहुर्मुहुर्नदसि वृथा इति। तच्छुत्वा संजीवकोऽब्रवोत्-भद्र ! कोऽयं (१)मारितः। (२) दीना दुर्बला इति यावत् । (३) सेवकपदे स्थापयामी- स्यर्थः । (४) सनिश्वासम् । (५) मन्त्रिपदे नियुक्तः। (६) अपमानसहितं यथा तथा। (७) आह्वयति।

२० पञ्चतन्त्रके--- पिङ्गलकः? दमनक प्राह-किं स्वामिनं पिङ्गलकमपि न जानासि, तत्क्षणं प्रतिपालय फलेनैव ज्ञास्यसि, नन्वयं सर्वमृगपरिवृतो वटतले स्वामी पिङ्गलकनामा सिंहस्तिष्ठति । तच्छुत्वा (१) गतायुषमिवात्मानं मन्यमानः संजीवकः परं विषामगमत् । श्राह च-मद्र! भवान् (२) साधुसमाचारो वचनपटुश्च दृश्यते तद्यदि मामवश्यं तत्र नयति तदभय- प्रदानेन स्वामिनः सकाशात्प्रसादः कारयितव्यः । दमनक आह-भोः सत्यमभिहितं,भवता नीतिरेषा, यतः- पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि । न कथञ्चिन्महीपस्य चित्तान्तः केचित्क्वचित् ।। १३२॥ तत्त्वमत्रैव तिष्ठ यावदहं तं समये दृष्ट्वा ततः पश्चात्त्वामानयामि इति । तथानुष्ठिते दमनकः पिङ्गलकसकाशं गत्वेदमाह-स्वामिन् ! न तत्प्राकृतं सत्त्वं स हि भगवतो महेश्वरस्य वाहनभूतो वृषभ इति । मया पृष्ट इदमूचे-महेश्वरेण परितुष्टेन (३)कालिन्दीपरिसरे शष्पाग्राणि भक्षयितुं समादिष्टः, किंबहुना मम प्रदत्तं भगवता क्रीडार्थ वनमिदम् । पिङ्गलक आह सभयम्-'सत्यं ज्ञातं मया अधुना न (४)देवताप्रसाद विना शप्पभोजिनो (५)व्यालाकीणे एवंविधे बने निाशकं नदन्तो भ्रम- न्ति, ततस्त्वया किमभिहितम् ? दमनक आह-स्वामिन् ! एतदर्भािहतं मया यदेतदनं चण्डिकावाहनभूतस्य मत्स्वामिनः पिङ्गलकनाम्नः सिंह- स्य(६)विषयीभूतम् , तद्भवान् (७)अभ्यागतः प्रियोऽतिथिः । तत्तस्य सकाशंगत्वाभ्रातृस्नेहेनैकत्र भक्षणपानविहरणक्रियाभिरेकस्थानाश्रयेण कालो नेय इति, ततस्तेनापि सर्वमेतत्प्रतिपन्नम् (८)उक्तं च सहर्षम्- स्वामिनः सकाशादभयदक्षिणा दापयितव्या इति तदत्र स्वामी प्रमाणम्। ते त्वा पिङ्गलक आह-साधु सुमते ! साधु (E)मन्त्रिश्रोत्रिय ! साधु मम हृदयेन सह संमन्व्य भवतेदमभिहितं, तद्दत्ता मया तस्याभय- दक्षिणा, परं सोऽपि मदर्थेऽभयदक्षिणां याचयित्वा द्रुततरमानीयताम् इति । अथ साधु चेदमुच्यते- (१)निष्प्राणं मृतमिवेत्यर्थः। (२) सज्जन इत्यर्थः। (३) यमुनातटे। (४)देवकृपाम् । (५) सिंहव्याघ्रादिपूर्णे। (६) अधिकारान्तर्गतम् । आगतः।(6) अङ्गीकृतम् । (१) चतुरमन्त्रिन् । -- -- मित्रभेदः। अन्तःसारेरकुटिलरछि सुपरीक्षितः। मन्त्रिभिर्धार्यते राज्यं सुमुस्तम्भरिव मन्दिरम् ॥ १३३ ॥ तथा च-मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके। कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वान पण्डितः ॥ १३४ ॥ दमनकोऽपि तं प्रणम्य संजीवकसकाशं प्रस्थितः सहर्षचिन्तयत्- अहो प्रसादसम्मुखो नः स्वामी वचनवशगश्च संवृत्तः। तन्नास्ति धन्यतरो मम । उक्तं च- अमृतं शिशिरे पहिरमृतं प्रियदर्शनम् । अमृतं राजसम्मानममृतं क्षीरभोजनम् ॥ १३५ ॥ अथ संजीवकसकाशमासाद्य (१) सप्रश्रयमुवाच-'भो मित्र ! प्रा- र्थितोऽसौ मया भवदर्थे स्वाम्यभयप्रदानं तद(२)विश्रब्धं गम्यतामिति । परं त्वया राजप्रसादमासाद्य मया सह (३)समयधर्मेण वर्तितन्यं न गर्वमासाद्य स्वप्रभुतया विवरणीयम् । अहमपि तव सङ्केतेन सर्वा (४)राज्यधुरममात्यपदवीमाश्रित्योद्धरिष्यामि। एवं कृते द्वयोरप्यावयो राज्यलक्ष्मीभोग्या भविष्यति । आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणाम् । नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥ १३६ ॥ संजीवक आह-भद्र ! एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यम् इति। एवमभिहिते दमनकस्तमादाय पिङ्गलकसकाशमगमत् । श्राह च-देव ! एष मया श्रानोतः स संजीवकः। अधुना देवः प्रमा- णम् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः। पिङ्गल- कोऽपि तस्य (५)पीनायतककुद्मतो(६)नखकुलिशालकृतं दक्षिणपाणि- मुपरि दत्त्वा मानपुरन्सरमुवाच-(७)अपि शिवं भवतः ? । कुतस्त्व- मस्मिन्वने विजने समायातोऽसि ? तेनाप्यात्मवृत्तान्तः कथितः। यथा वर्धमानेन सह वियोगः संजातस्तथासर्व निवेदितम्।तच्छुत्वा पिङ्गलका (१) सस्नेहम् । (२) निर्भयं यथा तथा। (३)नियमक्रमेण । (४) राज्य- सञ्चालनहेतुभूतं मन्त्रिपदम् । (५) पीना परिपुष्टा आयता सुदीर्घा च ककुद् अस्य अस्ति स तस्य । (६)तीक्ष्णनखयुक्तम् । (७) सकुशलोऽसि किमिति भावः । .

२२ पञ्चतन्त्रके-- OM सादरतरं तमुवाच-क्यस्य ! न भेतव्यं (१)मद्भुजपअरपरिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्समीपतिनाभाव्यम्। यतः कारणाद् (२)बह्वपाय (३)रौद्रलत्वनिषेवितं वनं गुरूणामपि सत्त्वा- नामसेव्यम् , कुतः शष्पभोजिनाम् ।' एवमुक्त्वा सकलमृगपरिवृतो यमुनाकच्छमवतीर्योदकग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः। ततश्च करटकदमनकनिक्षितराज्यभारः संजीवकेन सह सुभाषितगो- ष्ठीमनुभवन्नास्ते । अथवा साध्विमुच्यते-- यदृच्छयायुपनतं सकृत्सजनसङ्गतम् । भवत्यजरमत्यन्तं नाग्यासक्रममीक्षते ॥ १३७ ।। सञ्जीवकेनाप्यनेकशास्त्रावगाहनादुत्पन्नवुद्धिप्रागल्भ्येन स्तोकौवा- होमि(४)मूढमतिः पिङ्गलको धीमांस्तथा कृतो यथारण्यधर्माद्वियोज्य ग्राम्यधर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलकसंजीवकावेव केवलं रहसि मन्त्रयतः। शेषः सर्वोऽपि मृगजनो दूरीभूतस्तिष्ठति करटकदमनकावपि प्रवेशं न लभते । अन्यच्च सिंहपराक्रमाभावात्स- वोऽपि मृगजनस्तौ च शृगालो (५) नुधाव्याधिबाधिता एका दिशमा- श्रित्य स्थिताः। उक्तंच- फलहीनं नृपं भृत्याः कुलीनमपि चोन्नतम् । सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः॥ १३८ ॥ तथा च-अपि संमानसंयुक्ताः कुलीना भक्तितत्पराः। वृत्तिभङ्गान्महीपालं त्यजन्त्येव हि सेवकाः ॥ १३६ ॥ अन्यच्च-कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः। कदाचित्तं न मुञ्चन्ति भत्तिा अपि सेवकाः ॥ १४० ॥ तथा न केवलं सेवका इस्थम्भूता यावत्समस्तमप्येतजगत् परस्पर भक्षणार्थ (६)सामादिभिरुपायैस्तिष्ठति । तद्यथा- देशानामुपरि माभृदातुराणां चिकित्सकाः। वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः ॥ १४१ ॥ (1) मम बाहुबलसुरक्षितेनेत्यर्थः । (२) विपबहुलम् । (३) हिंसकप्राणिन्या- सम् । (४) निर्बुद्धिः । (५) बुभुतापीडिता इत्यर्थः। (६) सामदानभेददण्डैरित्यर्थः । - २३ - मित्रभेदः सामादिसजितैः पाशैः प्रतीक्षन्ते दिवानिशम् । उपजीवन्ति शक्त्या हि जलजा जलदानिव ॥ १४२ ।। अथवा साध्विमुच्यते- सर्पाणां च खलानां च परद्रव्यापहारिणा । अभिप्राया न सिद्धयन्ति तेनेदं वर्तते जगत् ॥ १४३ ॥ अत्तुं वाञ्छति शाम्भवो गणपतेराखु जुधातः फणी तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाशनम् । इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद् अहे तत्रान्यस्य कथं न भावि जगतो यस्मात्स्वरूपं हि तत् ॥ १४ ॥ ततः स्वामिप्रसादरहितौ नुक्षामकण्ठौ परस्परं करटकदमनको मन्त्रयेते । तत्र दमनको ब्रूते-आर्य करटक ! आवां तावप्रधानतां गतौ। एष पिङ्गलकः सञ्जीवकानुरक्तः स्वव्यापारपराङ्मुखः सखा- तः। सर्वोऽपि परिजनो गतः। तत्कि क्रियते ? करटक पाह-याप स्वदीयवचनं न करोति तथापि स्वामी (१)स्वदोषनाशाय वाच्यः। उक्तं च-अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः । यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ १४५ ॥ तथा च-मदोन्मत्तस्य भूपस्य कुअरस्य च गच्छतः। उन्मार्ग वाच्यतां यान्ति महामात्राः समीपगाः ॥ १४६ ॥ तत्त्वयैष शष्पभोजी स्वामिनः सकाशमानातः। तत् (२)स्वहस्ते- नाङ्गाराः कर्षिताः । दमनक श्राह-सत्यमेतत् । समायं दोषो न स्वामिनः। करटक आह-एवंविधे (३)व्यतिकरे किं कर्तव्यमावयोः? दम- नकोऽब्रवीत्-एवंविधेऽपि समये मम (४) वुद्धिस्फुरणं भविष्यति येन संजीवकं प्रभो(५)विश्लेषयिष्यामि । उक्तं च यत:- एक हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता। बुद्धिर्बुद्धिमतः सृष्टा हन्ति राष्ट्र सनायकम् ॥ १४७ ॥ है - (१)निजनिन्दारूषदोषपरिहारायेत्यर्थः (२) स्वयमेव विपदानीतेति भावः । (३) दशायाम् । (४) बुद्धिविकास इत्यर्थः । (५)वियोजयिष्यामि ।

२४ पञ्चतन्त्रके- तदहं (१) मायाप्रपञ्चेन गुप्तमाश्रित्य तं (२)स्फोटयिष्यामि । कर- टक आह-भद्र ! यदि कथमपि तव (३)मायाप्रवेशं पिङ्गलको ज्ञास्यति संजीवको चा, तदा नूनं (४)विधात एव । सोऽब्रवीत्-तात ! मैवं वद (५)गूढवुद्धिभिरापत्काले (६)विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या नोद्यम- स्त्याज्यः। कदाचिद(७)धुणाक्षरन्यायेन वुद्धेः साम्राज्यं भवति। उक्तश्च- त्याज्यं न धैर्य विधुरेऽपि देवे धैर्यात्कदाचित्स्थितिमानुयात् सः। याते समुद्रेऽपि हि पोतभङ्ग सांयात्रिको वाञ्छति कर्म एव ॥ १४८ ॥ तथा च-उद्योगिनं सततमत्र समेति लक्ष्मी- दैवं हि देवमिति कापुरुषा वदन्ति । देवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः ॥ १४६ ॥ तदेवं ज्ञात्वा (E)लुगूढवुद्धिप्रभावेण यथा तौदावपि न शास्यतः, तथा मिथो वियोजयिष्यामि । तच्छुत्वा करटक श्राह-भद्र ! अस्त्येवं परं तथापि महन्मे भयम् यतो बुद्धिमान्संजीवको रौद्रश्च सिंहः। यद्यपि ते बुद्धिप्रागल्भ्यं तथापि त्वं पिङ्गलकात्तं वियोजयितुमसमर्थ एव । दमनक आह-भ्रातः ! असमर्थोऽपि समर्थ एव । उक्तञ्च- उपायेन हि यत्कुर्यात्तन्न शक्यं पराक्रमः। काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ १५० ॥ करटक आह-कथमेतत् । सोऽब्रवीत्- कथा (३) अस्ति कस्मिश्चित्प्रदेशे महान् (E)न्यग्रोधपादपः। तत्र वायसदम्पती (१) कपटचातुरीविस्तारेण । (२)वियोजयिष्यामि । (३)कपटव्यापारम् । (४)महाननर्थ एव इति भावः । (५) दीर्घदर्शिभिः । (६) प्रतिकूलतां गतेऽपी- त्यर्थः । (७) धुणो हि नाम दारुतक्षकः कीटभेदः स च यदा काष्ठं कृन्तति तदा काष्ठे कृन्तनजातानि विवराणि दैवाद् अक्षरतुल्यानि प्रतीयन्ते मन्दाश्च खलु घुणेनैव कृता- न्यक्षराणीति विश्वसन्ति स एष धुणाक्षरन्यायः। (८) नीतिचातुर्येणेति भावः । (९) वटतरुः। w- २५ - - मित्रभेदः। प्रतिवसतः स्म । अथ तयोः प्रसवकाले वृक्षविवरान्निष्क्रम्य कृष्णसर्पः सदैव तदपत्यानि भक्षयति । ततस्तौ(१)निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वोचतु:-भद्र ! किमेवंविधे संजात आवयोः क- र्तव्यं भवति ? एवं तावद् दुष्टात्मा कृष्णल वृक्षविवरान्निर्गत्याव- योलिकान्भक्षयति, तत्कथ्यतां (२)तद्रक्षार्थं कश्चिदुपायः। उक्तं च-सर्पयुक्ते गृहे वासो मृत्युरेव न संशयः। यनामान्ते वसेत्सर्पस्तस्य स्यात्प्राणसंशयः ॥ १५१ ।। अस्माकमपि तत्र स्थितानां प्रतिदिन (३)प्राणसंशयः। स ाह- नात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स(४) लुब्धो नोपायम- न्तरेण वध्यः स्यात् । उपायेन जयो यादग्निपोस्ताङ नाहेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ १५२ ॥ तथा च-भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् । अतिलौल्याद् बकः कश्चिन्मृतः कर्कटकग्रहात् ।। १५३ ॥ तावूचतु:-कथमेतत् ? सोऽत्रवीत्- कथा (४) अस्ति कस्मिश्चिद्धनप्रदेशे नानाजलचरसनाथं महत्सरः । तत्र च कृताश्रयो बक एको वृद्धभावमुपागतो मत्स्यानध्यापादयितुमसमर्थः। ततश्च नुत्क्षामकण्ठः सरस्तीर उपविष्टो (५)मुक्ताफलप्रकरसदृशेरश्रु- प्रवाहेर्धरातलमभिषिञ्चरोद । एकः कुलीरको नानाजलवरसमेतः समेत्य तस्य दुःखेन दुखितः सादरमिदमूचे-'माम ! किमद्य त्वया न (६)श्राहारवृत्तिरनुष्ठीयते केवलमश्रुपूर्णनेत्राभ्यां सनिःश्वासेन स्थी- यते ? स ाह-वत्स ! सत्यमुपलक्षितं भवता, मया हि (७)मत्स्यादनं प्रति परमवैराग्यतया साम्प्रतं(८) प्रायोपवेशनं कृतम् , तेनाहं समीप- गतानपि मत्स्यान्न भक्षयामि । कुलीरकस्तच्छुत्वा प्राह-'माम ! किं (१) अपत्यविनाशजन्यदुःखादित्यर्थः । (२) अपत्यरक्षार्थमित्यर्थः । (३) मृत्युसम्भावना। (४) दुष्टइति भावः। (५)अजस्त्रं निपतद्भिरितिभावः । (६) भोजनम् । (७) मत्स्यभक्षणं प्रति । (८) अनशनव्रतमित्यर्थः ।

पञ्चतन्त्रके- - तद्वैराग्यकारणम् ? स प्राह-वत्स! अहमस्मिन्सरसि जातो वृद्धि गतश्च, तन्मयैतच्छुतं यद् (१)द्वादशवार्षिक्यनावृष्टिः(२) सम्पद्यते (३)लग्ना। कुलीरक आह-कस्मात्तच्छ्रुतम्? वक श्राह-दैवज्ञमुखात्। एषः शनैश्चरो हिरोहिणीशकट भित्वा भौमं शुक्र र प्रयास्यति । उक्तं च वराहमिहिरेण- यदि भिन्ते सूर्यसुतो रोहिण्याः शकटमिह लोके । द्वादश वर्षाणि तदा नहि वर्षति वासवो भूमौ ॥ १५४ ॥ तथा च-प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा। भस्मास्थिशकलकीणों कापालिकमिव ब्रतं धत्ते ॥ १५५ ॥ तथा च-रोहिण.शकटमर्कनन्दनश्चेद्भिनत्ति रुधिरोऽथवा शशो। किं वदामि तदनिष्टसागरे सर्वलोकमुपयाति सङ्ख्यः ॥ १५६ ॥ रोहिणीशकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः। क्वापि यान्ति शिशुपाचिताशनाः सूर्यतप्तभिदुराम्बुपायिनः ॥१५७॥ तदेतत्सरः(8) स्वल्पतोयं वर्तते शीघ्रं शोषं यास्यति । अस्मिञ्शु- के यैः सहाहं वृद्धि गतः सदैव क्रीडितश्च ते सर्वे तोयाभावान्नाशं यास्यन्ति। तत्तेषां वियोगं द्रष्टुमहमसमर्थः । तेनैतत्प्रायोपवेशनं कृतम् । सांप्रतं सर्वेषां स्वल्पजाशलयानां जलचरा गुरुजलाशयेषु स्व- स्वजनै(५)ीयन्ते केचिञ्च (६)मकरशिशुमारजलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति तेनाहं विशेषाद्रोदिमि यद् (७) बीजशेषमात्रमष्यत्र नोद्धरिष्यति । ततः स तदाकान्येषामषि जलचराणां तत्तस्य वचनं निवेदयामास । अथ ते सर्व भयत्रस्तमनसो मत्स्यकच्छपप्रभृतयस्तमभ्युपेत्य पप्रच्छुः-माम ! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति ? बक श्राह-अस्त्य स्य जलाशयस्य नातिदूरे प्रभूतजलसनाथं सर:-(८) पद्मिनोखण्ड- मण्डितं यच्चतुर्विंशत्यापि वर्षाणामनावृष्टया न शोषमेष्यति, तद्यदि (१) द्वादशवर्षव्याया। (२) वर्षाप्रतिबन्धः। (३) क्रमेण प्राप्ता । (४) अल्पजलमित्यर्थः । (५)प्राप्यन्ते। (६) मकाराधा महान्तो जलचरा इति भावः। (७) जलचरवंशस्य समूलनाशो भविष्यतीति तात्पर्यम् । (८) कम- लिनीनां समूहैरलङ्कृतम् ।

२७ मित्रभेदः। मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि। अथ ते तत्र विश्वास- मापन्नाः तात ! मातुल ! भ्रातः! इति ब्रुवाणाः 'अहं पूर्वमहं पूर्वम् इति समन्तात्परितस्थुः। सोऽपि दुष्टाशयः क्रमेण तान्पृष्ठ आरोग्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्याम् (१) आक्षिप्य स्वेच्छया भक्षयित्वा भूयोपि जलाशयं समासाद्य जलचराणां (२) मिथ्यावासिंदेशकैर्मनांसि रञ्जयन्नित्यामिवाहारवृत्तिमकरोत् । अन्य- स्मिन्दिने च कुलीरकेणोक्त:-माम ! मया सह ते प्रथमः (३) स्नेह- संभाषः संजातः। तत्कि मां परित्यज्यान्यानयसि ? तस्मादध में प्राण- पाणं कुरु । तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान्-निविण्णोहं मत्स्यमांसादनेन तदद्यैनं कुलीरकं व्यञ्जनस्थाने करोमि इति विचिन्त्य तं पृष्ठे समारोग्य तां वध्यशिलामुद्दिश्य प्रस्थितः। कुली- रकोऽपि दूरादेवास्थिपर्वतं (४) शिलाश्रयमवलोक्य मत्स्यास्थीनि परिज्ञाय तमपृच्छत्-माम ! कियद्रे स जलाशयः ? मदीयभा- रेणातिश्रान्तस्त्वं तत्कथय । सोऽपि मन्दधीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाह-कुलीरक ! कुतोऽन्यो जलाशयः ? मम प्राणयात्रेयं तस्मात्स्मर्यतामात्मनोऽभीष्टदेवता। वा. मध्यस्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्युक्तवति तस्मि- न् तेन स्ववदनदंशद्वयेन (५) मृणालनालधवलायां मृदुग्रीवायां स गृहीतो मृतश्च । अथ स तां बकग्रीवां समादाय शनैः शनैस्त- जलाशयमाससाद । ततः सर्वैरेव जलचरैः पृष्टः--'भोः कुलीरक ! किं निवृत्तस्त्वम् ? स मातुलोऽपि नायातः। तत्कि चिरयति। वयं सर्वे सोत्सुकाः (६)कृतक्षणास्तिष्ठामः। एवं तैरभिहिते कुलीरकोऽपि विहस्योवाच-मूर्खाः सर्वे जलचरास्तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिष्य भक्षिताः। तन्मया आयुशेषतया तस्य विश्वासघातकस्याभिप्रायं ज्ञात्वा ग्रीवेयमानीता। तदलं (७)संभ्रमेण । अधुना सर्वजलचराणां क्षेमं भविष्यति । अतोहं ब्रवीमि-भक्षयित्वा (१) निपात्येत्यर्थः। (२) असत्यालापैरिति भावः। (३) प्रेमालापः। (४) शिलास्थितमित्यर्थः। (५) अत्यन्तशुभ्रायाम् । (६) प्रतीक्षमाणाः । (७) भीत्या।

पञ्चतन्त्रके-- . बहून्मत्स्यान्' इति । वायस बाह-भद्र ! तत्कथय कथं स दुष्टसो वधमुपैष्यति ? शृगाल आह-गच्छतु भवान्किश्चिनगरं (१)राजाधिष्टा- नम्। तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत्कोटरे प्रक्षिपतु येन सर्पस्ताहणेन वध्यते । अथ तत्क्षणात्काकः काकी च तदाकण्यत्मेिच्छयोत्पतितौ। ततश्च काकी किश्चित्सरः प्राध्य यावत्पश्यति, तावत्तन्मध्ये कस्यचिद्राशो- (२)ऽन्तःपुरं जलासन्नं न्यस्तकनकसूत्रं (३)मुक्तमुक्ताहारवस्त्राभरणं जल- क्रोडां कुरुते । अथ सा वायसी कनकसूत्रमेकमादाय स्वगृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्षधराश्च तन्त्रीयमानमुपलक्ष्य (४)गृहीतल- गुडाः सत्वरमनुययुः। काक्यपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिष्य उद्द- रमवस्थिता । अथ यावदाजपुरुषास्तं वृक्षमारुह्य तत्कोटरमवलोक- यन्ति, तावत्कृष्णसर्पःप्रसारितभोगस्तिष्ठति, ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः। वायसदम्पती अपि ततः परं सुखेन वसतः। अतोऽहं ब्रवीमि-'उपायेन हि यत्कुर्यात्' इति ॥ तन्न किचिदपि वुद्धिमतामसाध्यमस्ति । उक्तञ्च-यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः॥ १५८ ॥ करटक आह-कथमेतत् ? स ाह- कथा (५) कस्मिश्चिद्धने भासुरको नाम सिंहः प्रतिवसति स्म। अथासौ (५)वीर्यातिरेकान्नित्यमेवानेकान्मृगशशकादीन् (६)व्यापादयन्नोपर- राम । अथान्येधुस्तदनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः-स्वामिन् ! किमनेन सकलमृगवधेन नित्यमेव यत- स्तवैकेनापि मृगेण तृप्तिर्भवति तक्रियतामस्माभिः सह (क)समयधर्मः। श्रद्यप्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थ (१) राजधानीमित्यर्थः। (२) अन्तःपुरस्थो जन इति भावः। (३) त्य- कमुक्ताजटितवसनालङ्कारम् ।। (४) लगुडधारिणः । (५) बलदर्पादित्यर्थः । (६)हिंसन् । (७) प्रतिज्ञेति यावत् । ।

२६. मित्रभेदः। समेष्यति । एवं कृते तावत् (१)प्राणयात्रा क्लेशं विनापि भविष्यति, अस्माकं च पुनः (२)सर्वोच्छेदनं न स्यात्। तदेष राजधर्मोऽनुष्ठीयताम् । उक्तञ्च-शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथावलम् । रसायनमिव प्राशास पुष्टिं परमां व्रजेत् ॥ १५ ॥ विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥ १६० ॥ प्रजानां पालनं शस्यं स्वर्गकोशस्य वर्धनम् । पीडनं धर्मनाशाय पापायायशसे स्थितम् ॥ १६१ ॥ गोपालेन प्रजाधेनोर्वित्तदुग्धं शनैः शनैः। पालनात्पोषणादु ग्राह्य न्याय्यां वृत्ति समाचरेत् ॥ १६२ ।। अजामिव प्रजा मोहाद्यो हन्यात्पृथिवीपतिः। तस्यैका जायते तृप्तिन द्वितीया कथञ्चन ॥ १६३ ॥ फलार्थी नृपतिर्लोकान्पालयेद्यत्नमास्थितः। दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥ १६४ ॥ नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि । श्रान्तरस्थैर्गुणैः शुभ्रर्लक्ष्यते नैव केनचित् ॥ १६५ ॥ यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा। सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥ १६६ ॥ यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः। फलप्रदो भवेत्काले तल्लोकः सुरक्षितः ॥ १६७ ॥ हिरण्यधान्यरत्नानि यानानि विविधानि च । तथान्यदपि यत्किचित् प्रजाभ्यः स्यान्महीपतेः ॥ १६८ ।। लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः। लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः॥ १६६ ॥ तेषां भासुरक आह-अहो सत्यमभिहितं भवद्भिः, परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः (३) श्वापदः समागमिष्यति तन्नूनं सर्वानपि भक्षयिष्यामि। श्रथ तथैव प्रतिज्ञाय (१) उदरपूर्तिरिति भावः । (२) वंशनाश इत्यर्थः। (३) बन्यजन्तुः । प्रथ तदचनमाकर्ण्य पञ्चतन्त्रके- (१) निर्वृतिभाजस्तत्रैव बने निर्भयाः पर्यटन्ति। एकश्च प्रतिदिनं (२)क्रमेण याति । वृद्धो वा, वैराग्ययुक्तोवा,शोकप्रस्तो बा, पुत्रकलत्र- नाशभीतो वा, तेषां मध्यात्तस्य भोजनार्थ मध्याह्नसमय उपतिष्ठते । अथ कदाचिजातिक्रमाच्छशकस्य (३) अवसरः समायातः । स समस्तमृगैःप्रेरितोऽनिच्छन्नपि मन्दं मन्दंगत्वा तस्य वधोपायं चिन्त- यन् (४) वेलातिक्रमं कृत्वा व्याकुलितहृदयो यावद्गच्छति ताव- न्मार्गे गच्छता कूपः संदृष्टः। यावत्कूपोपरि याति तावत्कूपमध्य आत्मनः प्रतिबिम्बं ददर्श दृष्ट्वा च तेन हृदये चिन्तितम्-यद्भव्य उपायोऽस्ति अहं भासुरकं प्रकोष्य स्वबुद्धयास्मिन्कूपे पातयिष्यामि । अथासौ (५) दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोऽपि बेलाति- क्रमेण जुत्तामकण्ठः कोपाविष्टः (६) सृकणी परिलेलिहन् व्यचि- न्तयत्-अहो प्रातराहाराय (७) निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याने स्थितः। अथ तं () प्रज्वलितात्मा भासुरको भर्त्सयन्नाह-रे शशकाधम ! एक- तस्तावत्त्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण, तदस्मादपराधात्त्वां नि- पात्य प्रातः सकलान्यपि मृगकुलान्युच्छेदयिष्यामि । अथ शशकः सविनयं प्रोवाच-स्वामिन् ! नापराधो मम, न च सत्त्वानाम् । तच्छ: यतां कारणम्' । सिंह श्राह-सत्वरं निवेदय यावन्मम दंष्ट्रान्तर्गतो न भवसीति । शशक आह–स्वामिन् ! समस्तमृगैरद्य जाति- क्रमेण मम लघुतरस्य (6) प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः समं प्रेषितः । ततश्चाहमागच्छन्नन्तराले महता केनचिदपरेण सिंहेन विवरान्निर्गत्याभिहितः-रे क्व प्रस्थिता यूयम् ? अभीष्टदे- वतां स्मरत। ततो मयाभिहितम्-'वयं स्वामिनो भासुरकसिंहस्य सकाश अाहारार्थं समयधर्मेण गच्छामः । ततस्तेनाभिहितम्-'यद्येवं तर्हि मदीयमेतद्वनम्। मया सह. समयधर्मेण समस्तैरपि. श्वापदै- (१)सानन्दा इत्यर्थः। (२) नियमेनेत्यर्थः। (३) समयः क्रम इत्यर्थ । (४) विलम्बमिति भावः। (५) सायङ्काले । (६) ओष्ठप्रान्तौ पुनः पुनरपि लिहन् । (७)प्राणिशून्यम्.। (८) अत्यन्तक्रुद्धः । (९) भवतः समीपे बागम- नक्रमं वारमित्यर्थः - ३१ । मित्रभेदः। वर्तितव्यं चौररूपी स भासुरकः। अथ यदि सोऽत्र राजा ततो (१)वि- श्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्छ येन यः कश्चिदावयोर्मध्यात्पराक्रमेण राजा भविष्यति स सर्वानेतान्भक्षयि- यति' इति । ततोऽहं तेनादिष्टः स्वामिसकाशमभ्यागतः । एत- द्वेलाव्यतिक्रमकारणम् । तदत्र स्वामी प्रमाणम् ।' तच्छुत्वा भासुरक श्राह-'भद्र ! यद्येवं तत्सत्वरं दर्शय मे तं चौरसिंह येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तञ्च भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ॥ १७ ॥ यत्र न स्यात्फलं भूरि यत्र च स्यात्पराभवः। न तत्र मतिमान्युद्धं समुत्पाद्य समाचरेत् ॥ १७१ ॥ शशक श्राह-स्वामिन् ! सत्यमिदम् । (२)स्वभूमिहेतोः (३)परि- भवाच्च युध्यन्ते क्षत्रियाः। परं स दुर्गाश्रयः। दुर्गानिष्क्रम्य वयं तेन (४)विष्कम्भिताः। ततो दुर्गस्थो दुःसाध्यो भवति रिपुः। उक्तञ्च-न गजानां सहस्रेण न च लक्षण वाजिनाम् । यत्कृत्यं साध्यते राज्ञां दुर्गेणैकेन सिद्धयति ॥ १७२ ॥ शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः। तस्माद् दुर्ग प्रशंसन्ति नीतिशास्त्रविचणाः ॥ १७३ ॥ पुरा गुरोः समादेशाद्धिरण्यकशिपोभयात् । शक्रेण विहितं दुर्ग प्रभावाद्विश्वकमणः ॥ १७४ ॥ तेनापि च वरो दत्तो यस्य दुर्ग स भूपतिः। विजयी स्यात्ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥ १७५ ॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः। सर्वेषां जायते वश्यो दुर्गहीनस्तथा नपः ॥ १७६ ॥ तच्छ्रुत्वा भासुरक श्राह-भद्र ! दुगस्थमप दर्शय तं चौरसिंह येन व्यापादयामि । उक्तञ्च- (१)विश्वासार्थमित्यर्थः । (२) स्वदेशरक्षाकारणा देति भावः । (३) अरिभिः कृतादपमानात् । (४)अवरुद्धाः।

पञ्चतन्त्रके- . जातमात्रं न यः शत्रु रोगं च प्रशमं नयेत्। महाबलोऽपि तेनैव वृद्धि प्राप्य स हन्यते ॥ १७७ ॥ तथा च-उत्तिष्टमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता। समौ हि शिष्टराम्नातौ वय॑न्तावामयः स च ॥ १७८ ॥ अपि च-उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वाप्रथमंततोऽसावसाध्यतां व्याधिरिव प्रयाति। तथा च-आत्मनः शक्तिमुद्रीक्ष्य मानोत्साहञ्च यो ब्रजेत् । बहून्हन्ति स एकोऽपि क्षत्रियान्भार्गवो यथा ॥ १८० ॥ शशक श्राह-श्रस्त्येतत् तथापि बलवान् स मया दृष्टः। तन्न युज्यते स्वामिनस्तस्य सामर्थ्यमविदित्वा गन्तुम् । उक्तञ्च- अविदित्वात्मनः शक्ति परस्य च समुत्सुकः। गच्छन्नभिमुखो नाशं याति वह्नौ पतङ्गवत् ॥ १८१ ॥ यो बलात्मोन्नतं याति निहन्तुं सबलोऽप्यरिम् । विमदः स निवर्तेत शीर्णदन्तो गजो यथा ॥ १८२ ॥ भासुरक आह–'भोः किं तवानेन व्यापारेण? दर्शय मे तं दुर्गस्थ- मपि। अथ शशक आह-यद्येवं तागच्छतु स्वामी। एवमुक्त्वाने (१)व्यवस्थितः। ततश्च तेनागच्छता या कूपो दृष्टोऽभूत्तमेव कूपमासाद्य भासुरकमाह-स्वामिन् ! कस्ते प्रतापं सोढुं समर्थः। त्वां दृष्ट्वा दूरतो- ऽपि चौरसिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ येन दर्शयामीति । भासु- रक श्राह-'दर्शय मे दुर्गम् तदनु दर्शितस्तेन कूपः। ततः सोऽपि मूर्खः सिंहः कूपमध्य आत्मप्रतिबिम्ब जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच। ततः(२)प्रतिशब्देन कूपमध्याद् द्विगुणतरो नादः समुत्थितः। अथ तेन तं शत्रु मत्वात्मानं तस्योपरि प्रक्षिष्य प्राणाः परित्यक्ताः। शशकोऽपि हृष्टमनाः सर्वमृगानानन्ध तैः सह (३)प्रशस्यमानो यथा- सुखं तत्र बने निवसति स्म । अतोऽहं ब्रवीमि-'यस्य बुद्धिर्बलं तस्य' इति ॥ तद्यदि भवान्कथयति तत्तत्रैव गत्वा तयोः स्वबुद्धिप्रभावेण (४)मैत्रीमेदं करोमि । करटक आह-भद्र! यद्येवं तर्हि गच्छ शिवास्ते पन्थानः सन्तु, यथाभिप्रेतमनुष्ठीयताम्। (१)प्रचलितः । (२) प्रतिध्वनिना । (३) स्तूयमानः । (४)मित्रताविनाशनम् ।

मित्रभेदः। ३३ अथ दमनकः सजीवकवियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणाल्याने समुपविष्टः । पिङ्गलकोऽपि तमाह-भद्र ! कि चिराद् दृष्टः १ दलनक आह-न किश्चिद् देवपादानामस्माभिः प्रयोजनम् तेनाहं नागच्छामि । तथापि (१) राजप्रयोजनविनाशमवलोक्य (२) सन्दह्यमानदयो व्या- कुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तञ्च- प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाऽशुभम् । अपृष्टोऽपि हितं याद्यस्य नेच्छेत्परामयम् ॥ १३ ॥ अथ तस्य साभिप्रायं वचनमाकर्ण्य पिङ्गलक माह-'किंवत्तमना भवान् । तत् कथ्यताम् यत्कथनीयमस्ति?' स प्राह-देव! संजीवको युष्मत्पादानामुपरि (2) द्रोहवुद्धिरिति (४) विश्वासगतस्य मम विजन इदमाह-भो दमनक ! दृष्टा मयाग्य पिङ्गलकस्य (५) सारासारता। तदहमेनं हत्वा सकलमृगाधिपत्यं त्वत्साचित्यपदवीसमन्वितं करिष्या- मि । पिङ्गलकोऽपि तद् (६) वज्रसारप्रहारसदृशं दारुणं वचः समाकर्ण्य मोहमुपगतो न किञ्चिदप्युक्तवान् । दमनकोऽपि तस्य तमाकारमालोक्य चिन्तितवान्-श्रयं तावत् (७) संजीवकनिबद्धरागः, तनूनमनेन मन्त्रि- णा राजा विनाशमवाप्स्यति इति । उक्तञ्च- एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदादास्थेन निर्विद्यते। निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्यूहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणेष्वभित्रुह्यते ॥ १८४॥ तकिमत्र युक्तम इति । पिङ्गलकोऽपि ) चेतना समासाद्य कथ- मपि तमाह-सञ्जीवकस्तावमाणसमो भृत्यः स कथं ममोपरि द्रोहबुद्धिं करोति ? दमनकाह- देव! भृत्योऽभृत्य (E) इत्यनैकान्तिकमेतत्। उक्तञ्च-न सोऽस्ति पुरुषो राक्षां यो न कामयते बियम् । अशक्ता एव सवत्र नरेन्द्रं पर्युपासते ॥ १८ ॥ (१) भवदीयकार्यहानिम् । (२) दुःखितमनाः। (३) अनिष्टं कर्तुं व्यवसित इति भावः। (५)विश्वासपात्रस्य । (५) बलाबलत्वम् । (६) अतिकठोरम् । (७) सञ्जीवकानुरक्त इत्यर्थः। (८) विचार्येत्यर्थः। (९) अनिश्चितम् असङ्गत- मिति भावः।

३४ पञ्चतन्त्रके- - पिङ्गलक श्राह-मद्र! तथापि मम तस्योपरि (१) चित्तवृत्तिर्न विकृति याति । अथवा साध्विदमुच्यते- अनेकदोषदुष्टोऽपि कायः कस्य न बमः। कुर्वन्नपि व्यलोकानि यः प्रियः प्रिय एव सः ॥ १८६ ॥ दमनक आह-अत एवायं दोषः। उक्तञ्च- यस्मिन्नेवाधिक चक्षुरारोपयति पार्थिवः । अकुलीनः कुलीनो वा स श्रियो भाजनं नरः ॥ १८७ ॥ अपरं केन गुणविशेषेण स्वानी सञ्जीवकं (२) निर्गुणकमपि निकटे धारयति । अथ देव! यद्येवं चिन्तयसि (३) महाकायोऽयम् । अनेन रिपून्व्यापादयिष्यामि । तदस्मान्न सिध्यति, यतोऽयं (४) शष्पभोजो। देवपादानां पुनः शत्रवो मांसाशिनः। तद् (५) रिपुसाधनमस्य साहा- य्येन न भवति । तस्मादेनं दूषयित्वा हन्यताम् , इति । पिङ्गलक श्राह- उक्तो भवति यः पूर्व गुणवानिति संसदि । तस्य दोषो न वक्तव्यः प्रतिज्ञाभङ्गभीरुणा ॥ १८८ ॥ अन्यच्च । मयास्य तव ववनेनाभयप्रदानं दत्तम् । तत्कथं स्वयमेव व्यापादयामि। सर्वथा सञ्जीवकोऽयं सुहृदस्माकम् । मतं प्रति कश्चिद् (६) मन्युरस्ति । उक्तंच- इतः स दैत्यः प्राप्तश्रीनेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ १८६ ।। श्रादौ न वा प्रायनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः। उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लजां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ १० ॥ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः। अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ११ ॥ तद् द्रोहबुधेरपि मयास्य न (७) विरुद्धमाचरणोयम् । दमनक (१)चित्तमन्यथा न भवतीत्यर्थः। (२)गुणहीनं कार्याक्षममिति यावत् । ३) विशालकायो बलवानित्यर्थः । (४)तृणभक्षकः। (५) शत्रुविनाशः । ३) क्रोधः। (७) नानिष्टं करिष्यत इत्यर्थः । - CE मित्रमेदः। आह-स्वामिन् ! नैष राजधर्मो यद्रोहशुद्धिरपि क्षम्यते' उक्तं च- तुल्यार्थ तल्यलामथ्र्य मर्मज्ञं व्यवसायिनम् अर्धराज्यहरं भृत्यं यो न हन्यारल हन्यते ॥ १२ ॥ अपरं त्वयास्य सखित्वात्सोऽपि राजधर्मः परित्यक्तः। राजध- माभावात् सर्वोऽपि विरक्तिं गतः । स सञ्जीवकः शष्पभोजी, भवान्मां- सादः, तव (१)प्रकृतयश्च । यत्तवावन्ध्यव्यवसायबाह्य(२) कुतस्तासां मांसाशनम् । यद्रहितास्तास्त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव।अस्य सङ्गत्या पुनस्ते न कदाचिदाटके ३) मतिभविष्यति। उक्तंच- यादृशैः सेव्यते भृत्यदिशांश्योपसेवते कदाचिनात्र सन्देहस्ताक्भवति पूरुषः ॥ १६ ॥ तथा च-सन्तप्तायसि संहिएतस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते। स्वाती लागरशुक्तिकुक्षिपतितं तजायते मौक्तिकम् प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ।। १६४ ॥ तथा च-असता सङ्गदोषेण सायवो यान्ति विक्रियाम् । दुर्योधनप्रसङ्गेन भीष्मा गोहरणे गतः ॥ १६५ ।। अत एव (४)सन्तो नीचसङ्ग वर्जयन्ति । उच- न ह्यविज्ञातशीलस्य प्रदातव्यः प्रतिशयः। मत्कुणस्य च दोषेण हतासन्दविसर्पिणो ॥१६॥ पिङ्गालक श्राह-कथमेतत् । सेोऽब्रवीत् -- कथा (६) अस्ति कस्यचिन्महीपतेः कस्मिाश्चित्स्था मनोरम शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता न्यूका प्रतिवसति स्म । सा च तस्य नहीपते रामास्वादनन्ती सुखेन(५)कालं नयमाना तिष्ठति । अन्येाश्च तत्र शयने कुतश्चिद् भ्राम्यन्नग्निसुखो नाम मत्कुणः समायातः। अथ तं दृष्ट्वा सा (६)विषण्णवदना प्रोवाच-भो (.) सेवकादयश्चेत्यर्थः। (२)हिंसाया अकरणात् तवोद्योगेन दुष्प्रापमिति यावत् । (३) मृगयायाम् । (४) सजनाः। (५) अतिवाहयन्तीत्यर्थः (६)खि- नचित्तेति भावः। .

३६ पञ्चतन्त्रके अग्निमुख! कुतस्त्वमत्रानुचितस्थाने सनायातः? तद्यावन्न कश्चित्पश्यति, तावच्छीनं गम्यताम्' इति स श्राह-भगवति ! गृहागतस्यासाधोरपि नेताज्यते वक्तुम् । उक्तञ्च- एह्यागच्छ समावसासनमिदं कस्लाच्चिराद् दृश्यले का बात न्वतिदुर्योऽसि कुशलं प्रीतोऽस्मि ले दर्शनात् । एवं नीचजनेऽपि युज्यति गृहं प्राप्त सतां सर्वदा धर्मोऽयं गृहमेधितां निगदितः स्मातेर्लधुः स्वर्गदः ॥ १७ ॥ अपरं मयानेकमानुषाणामनेकविधानि रुधिराण्यास्वादितान्याहा- रदोषात्कटुतिक्तकषायाम्लरसास्वादानि । न च मया कदाचिन्मधुररक्त समास्वादितम् । तद्यदि त्वं प्रसादं करोषि, तदस्य नृपते(१)विविध अनानपानचोष्यलेह्यस्वाद्वाहारवशादस्य शरीरे यन्मिष्टं रक्त सञ्जा- तम् , (२)तदास्वादनेन सौख्यं सम्पादयामि जिह्वायाः, इति । उक्तञ्च रङ्कस्य नृपतेर्वापि जिहासौख्यं समं स्मृतम् । तन्मात्रं च स्मृतं सारं यदर्थ यतते जनः ॥ १८ ॥ यद्येवं न भवेल्लोके कर्म जिह्वाप्रतुष्टिदम् । तन्न भृत्योभवेत्कश्चित्कस्यचिदशगोऽथवा ॥ १६ ॥ यदसत्यं वदेन्मयो यहाऽसेव्यं च सेवते । यद् गच्छति विदेशं च तत्सर्वमुदरार्थतः ॥ २० ॥ तन्मया (३)गृहागतेन बुभुक्षया पीडयमानेन त्वत्सकाशाद्भोजनमर्थ- नीयम्(४) तन्न त्वयैकाकिन्यास्य भूपते रक्तभोजनं कर्तुं युज्यते । तच्छु- त्वा मन्दविसर्पिण्याह-भो मत्कुण ! अहमस्य नृपतेनिंद्रावशं गतस्य रक्तमास्वादयामि । पुनस्त्वमग्निमुखश्चपलश्च । ताद मया सह रक्त- पानं करोषि तत्तिष्ठ । अभीष्टतरं रक्तमास्वादय । सोऽब्रवीत्-भगवति ! एवं करिष्यामि । यावत्वं नास्वादयसि प्रथमं नृपरक्तम् , तावन्मम(५) देवगुरुकृतः शपथ: स्यात् , यदि तदास्वादयामि । एवं तयोः परस्पर (१) षड्विधरसमयाहारकरणादित्यर्थः। (२) मधुररक्तपानेनानन्दमनुभवा- मीति भावः। (३) अतिथिनेत्यर्थः। (४) याचनीयम् । (५) देवान् गुरूंश्योहि- श्य कृत इत्यर्थः।

- मित्रभेदः । वदतोः स राजा तच्छयनमालाद्य प्रसुतः। अथासौ मत्कुणो (१)जिह्वा- लौल्यप्रकृष्टौत्सुक्याजाग्रतमपि तं महीपतिमदशत्। अथवा साधि- दमुच्यते- स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥ २०१॥ यदि स्याच्छीतलो वह्निः शीतांशुर्दहनात्मकः। न स्वभावोऽत्र मानां शक्यते कर्तुमन्यथा ॥ २०२ ॥ अथासौ महीपतिः सूच्याविद्ध इव तच्छयनं त्यक्त्वा तत्क्षणादेवो- त्थितः-'अहो, ज्ञायतामत्र प्रच्छादनपटे मत्कुणो यूका वा नूनं ति- ष्ठति येनाहं दृष्टः' इति । अथ ये (२)कञ्चुकिनस्तत्र स्थितास्ते स- त्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मदृष्टया वीक्षाञ्चक्रुः । अत्रान्तरे स मत्कु- पश्चापल्यात्खट्वान्तं प्रविष्टः । सा मन्दविसपिण्यपि वस्त्रसन्ध्यन्तर्गता तैर्दृष्टा, व्यापादिता च । अतोऽहं ब्रवीमि-न विज्ञातशीलस्य' इति । एवं ज्ञात्वा त्वयैष वध्यः । नो चेत्त्वां व्यापादयिष्यति उक्तं च- त्यक्ताश्चाभ्यन्तरा येन बाह्याश्वाभ्यन्तरीकृताः। स एव मृत्युमाप्नोति यथा राजा ककुद्रुमः ॥ २०३ ॥ पिङ्गलक पाह-कथमेतत् । सोऽब्रवीत्- कथा (७) कस्मिश्चिद्धनप्रदेशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित्क्षुधाविष्टो जिह्वालोल्यान्नगरान्तरे प्रविष्टः। अथ तं नगरवा- सिनः (३)सारमेया अवलोक्य सर्वतः शब्दायमानाः (४)परिधाव्य तीक्ष्णदंष्ट्राप्रैक्षितुमारब्धाः। सेोऽपि तैर्भक्ष्यमाणः प्राणभयात्प्रत्यासन्न- रजकगृहं प्रविष्टः । तत्र च नीलीरसपरिपूर्ण महाभाण्डं सजीकृतमासी- त् । तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः। अथ यावन्निष्क्रान्त- स्तावन्नीलवर्णः सातः। तत्रापरे सारमेयास्तं शृगालमजानन्तो यथा- भीष्टां दिशं जग्मुः। चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं (१) रक्तपानोत्कण्ठातिशयादिति यावत् । (२) अन्तःपुरचारिणो वृद्धा भृत्या इति भावः। (३)श्वानः। (४)समन्ताद्धाविस्वेत्यर्थः। - Cha पञ्चतन्त्रके- प्रतस्थे। न च नीलवर्णेल कदाचिद् (२)निजरङ्गस्त्यज्यते उक्तं च- वज्रलेपस्य सूर्खस्य नारीणां कर्कटस्थ च! एका ग्रहस्तु मीनानां नीलीमद्यपयार्यथा ॥ २०४ ॥ अथ तं ()हरगलगरलतमालसमाधमपूर्व सत्त्वमवलोक्य सर्वे सिंहव्यानाडीपिकप्रकृतयारयलिवालिन भयव्याकुलचित्ताः सम- तात्पलायनक्रियां कुर्वन्ति। कथयन्ति च- ज्ञायतेऽस्य कीदग्विचे- ष्टितं पौरुषं च । तद् दूरतरं गच्छामः । उक्तं च न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छछियमात्मनः ॥ २०५ ॥ चण्डरवोऽपि तान्भय याकुलितान्विज्ञायेदमाह-'भो भोः (३) श्वापदाः! किं यूयं मां दृष्ट्वैव सन्त्रस्ता ब्रजथ। तन्न भेतव्यम् । अहं ब्रह्मणाद्य स्वयमेव सृष्ट्वाभिहितः-'यच्छ्वापदानां मध्ये कश्चिद्राजा नास्ति । तत्त्वं मयाद्य सर्वश्वापदप्रभुत्वेऽभिषिक्तः (४)ककुद्रुमाभि- धः। ततो गत्वा क्षितितले तानसन्परिपालय' इति ततोऽहमत्रागतः। तन्मम (५)छत्रच्छायायां सर्वैरेव श्वापदेवर्तितव्यम् । अहं ककुद्रुमो नाम राजा त्रैलोक्येऽपि संजातः। तच्छुत्वा सिंहव्याघ्रपुरःसराः श्वाप- दाः स्वामिन् ! प्रभो ! समादिश' इति वदन्तस्तं परिवत्रुः। अथ तेन सिंहस्यामात्यपदवी प्रदत्ता। व्याघ्रस्य शय्यापासत्वम् । दीपिनस्ता- बूलाधिकारः। वृकस्य द्वारपालकत्वम् । ये चात्मीयाः शृगालास्तैः सहालापमात्रमपि न करोति । शृगालाः सर्वेऽप्यर्धचन्द्र(६) दत्त्वा निःसारिताः। एवं तस्य राज्यक्रियायां वर्तमानस्य ते सिंहादया मृगा- व्यापाद्य तत्पुरतः प्रक्षिपन्ति । सोऽपि प्रभुधर्मेण सर्वेषां तान्प्रविभज्य प्रयच्छति । एवं मच्छति काले कदाचित्तेन समागतेन दूरदेशे शब्दा- यमानस्य गालवृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा (७)पुल- (१) स्वकीयो वर्णः। (२) हरस्य शिवस्य गले कण्ठे यद् गरलं कालकूटं तथा तमालं तमालतरुपुष्पमिति यावत्तयोः समा तुल्या प्रभा कान्तिर्यस्य तं नितान्तकृष्ण- वर्णमिति भावः। (३) वन्यजन्तव इत्यर्थः । (४) कागुमनामकः । (५) आधि- पत्येऽधीनतायामिति भावः। (६) गलहस्तं दत्वेत्यर्थः। (७) रोमाञ्चितगात्रः ।

मित्रभेदः। किततनुरानन्दाश्रुपरिपूर्णनयन उत्थाय तारस्वरेण(१) विरोतुमारब्ध- वान् । अथ ते सिंहादयस्तं तारस्वरमाकर्ण्य शृगालोऽयमिति मत्वा सलजमधोमुखाः क्षणमेकं स्थित्वा मिथः प्रोचुः-भोः,(२)वाहिता वय- मनेन जुद्रश्गालेन । तद्वध्यताम्' इति । सोऽपि तदाकर्ण्य पलायितु- मिच्छंस्तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश्च। अतोऽहं ब्रवीमि-त्यक्ताश्चाभ्यन्तरा येन, इति ॥ तदाकय पिङ्गलक आह-सो दमनक! कः (३)प्रत्ययोऽत्र विषये यत्स ममोपरि दुष्टबुद्धिः स पाह- 'यदद्य ममाने तेन निश्चयः कृतो यत्प्रभाते पिङ्गलकं वधिष्यामि, तदव प्रत्ययः। प्रभाते(४)अवसरवेलायाम्(५)आरक्तमुखनयनः स्फुरिताधरा दिशोऽवलोकयन्ननुचितस्थानापविष्टस्त्वां क्रूरदृष्टया विलोकयिष्यति । एवं ज्ञात्वा यदुचितं तत्कर्तव्यम्।' इति कथयित्वा सञ्जीवकसकाशं गतस्तं प्रणम्योपविष्टः। सञ्जीवकोऽपि(६)साढ़ेगाकारं मन्दगत्या समा. यान्तं तमुद्रीक्ष्य सादरतरमुवाच-'भा मित्र ! स्वागतम् । चिराष्टोऽ- सि | अपि शिवं भवतः ? तत्कथय येनादेयमपि तुभ्यं गृहागताय प्रय- च्छामि । उक्तं च- ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थ सुहदो जनाः ॥ २०६॥ दमनक पाह-भोः कथं शिवं सेवकजनस्य। सम्पत्तयः परायत्ताः सदा चित्तमनिवृतम्। स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥ २० ॥ तथा च-सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढेस्तदपि हारितम् ॥ २०८ ॥ तावजन्मातिदुःखाय ततो दुर्गतता सदा। तत्रापि सेवया वृत्तिरहो दुःखपरम्परा ॥ २०६ ॥ जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिदो व्याधितो मूर्खः प्रवासी नित्यसेवकः॥ २१ ॥ (१) शब्दं कर्तुमित्यर्थः। (२) प्रतारिताः कर्म कारिता इति यावत् । (३) प्रमाणमित्यर्थः। (४) भवत्समीपागमनकाले। (५) अत्यन्तक्रुद्ध इति भावः। (६)उद्विग्नं समयमित्यर्थः ।

पञ्चतन्त्रके-- नाश्नाति स्वेच्छयौत्सुक्याद्विनिद्रो न प्रबुध्यते । ननिःशंकं वचो ब्रूते सेवकोऽन्यत्र जीवति ।। २११ ॥ सेवा श्ववृत्तिराख्याता यस्तैमिथ्या प्रजल्पितम्। स्वच्छन्दं चरति श्वात्र सेवकः परशासनात् ॥ २१२ ॥ भूशय्या ब्रह्मचर्य च कृशत्वं लघुभोजनम् । लेखकस्य यतेतद्विशेषः पापधर्मजः ॥ २१३ ॥ शीतातपादिकष्टानि सहते यानि सेवकः । धनाय तानि चाल्पानि यदि धर्मान्न मुच्यते ॥ २१४ ॥ मृदुनापि सुवृत्तेन सुमिष्टेनापि हारिणा । मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥ २१५ ॥ संजीवक अाह--'श्रथ भवान्किवक्तुमनाः।' सोऽब्रवीत्-'मित्र ! सचिवानां(१)मन्त्रभेदं कर्तुं न युज्यते' उक्तं च- यो मन्त्रं स्वामिनो भिन्द्यात्साचिव्ये संनियोजितः। स हत्वा नृपकार्य तत्स्वयं च नरकं ब्रजेत् ॥ २१६ ॥ येन यस्य कृतो मेदः सचिवेन महीपतेः । तेनाशस्त्रवधस्तस्य कृत इत्याह नारदः ॥ २१७॥ तथापि मया तव (२)स्नेहपाशबद्धन मन्त्रमेदः कृतः। यतस्त्वं मम वचनेनात्र राजकुले विश्वस्तः प्रविष्टश्च । उक्तं च- विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन । तस्य हत्या तदुत्था सा प्राहेदं वचनं मनुः ॥ २१८ ॥ तत्तवोपरि पिङ्गलकोऽयं दुष्टबुद्धिः। कथितं चाद्यानेन मत्पुरतश्च- तुष्कर्णतया(३)-'यत्प्रभाते संजीवक हत्वा समस्तमृगपरिवारं चिरा- त्तृति नेष्यामि' ततः स मयोक्त:-'स्वामिन् !, न युक्तमिदं यन्मित्रद्रोहेण जीवनं क्रियते । उक्तञ्च- अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति । तदर्हेण विचीर्णेन न कथञ्चित्सुहृद्रुहः' ॥ २१६ ॥ (१) रहस्यमयीं वार्ता प्रकटीकर्तुमित्यर्थः। (२) प्रेमपरवशेन हितचिन्तकेनेति यावतु । (३) षट्को भिद्यते मन्त्रः' इति न्यायेन केवलं मया सह मन्त्रणां वि- धाय, रहसीति भावः। - मित्रभेदः। ततस्तेनाहं (१) सामर्षेणोक:-भो दुष्टबुद्धे ! सञ्जीवकस्तावच्छ- पभाजी, वयं मांसाशिनः, तदस्माकं स्वाभाविकं वैरम्' इति कथं रिपुरुपेक्ष्यते । तस्मात्सामादिभिरुपायैहन्यते । न च हते तस्मिन्दोषः स्यात् । उक्त च- दत्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता। अन्योपायरशक्यो यो हते दोषो न विद्यते ॥ २२० ॥ कृत्याकृत्यं न भन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥ २२१ ॥ तदहं तस्य निश्चयं ज्ञात्वा स्वत्सकाशमिहागतः। साम्प्रतं मे नास्ति विश्वासघातकदोषः । मया सुगुप्तमन्त्रस्तव निवेदितः। अथ यत्ते (२) प्रतिभाति तत्कुरुष्व' इति । अथ सञ्जीवकस्तस्य तद्वज्रपातदारुणं वच- जं श्रुत्वा (३)मोहमुपागतः। अथ चेतना लब्ध्वा सवैराग्यमिदमाह- भोः, साध्विमुच्यते- दुर्जनगम्या नार्यः प्रायेणास्नेहवान्भवति राजा। कृपणानुसारि च धनं मेघो गिरिदुर्गवर्षों च ॥ २२२ ॥ अहं हि संमता राज्ञोय एवं मन्यते कुधी। बलोवर्दः स विशेयो विषाणपरिवर्जितः ॥ २२३ ॥ वरं वनं वरं भक्षं वरं भारोपजीवनम् । वरं व्याविर्मनुष्याणां नाधिकारेण सम्पदः ॥ २२४ ॥ तदयुक्त मया कृतं यदनेन सह मैत्री विहिता। उक्त च- ययोरेव समं वित्तं ययोरेच समं कुलम् । तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ २२५ ॥ मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः। मूर्खाश्च मूखैः सुधियः सुधीभिः समानशीलव्यसनेषु सत्यम् २२६ तद्यदि गत्वा तं (४) प्रसादयामि, तथापि न (५) प्रसादं यास्यति । (१) प्रकुपितेन । (२) रोचते। (३) मूछितः। (४) अनुनयामि। (५) अनुकूलो भविष्यतीत्यर्थः ।

४२ पञ्चतन्त्रके- उक्तं च-निमित्तमुद्दिश्य हि यः प्रकुष्यति , ध्रुवं स तस्यापगमे प्रशाम्यति । अकारणद्वेषपरो हि यो भवे- कथं नरस्तं परितोषयिष्यति ॥ २३७ ॥ अहो, साधु चेदमुच्यते- भक्तानामुपकारिणां परहितव्यापारयुक्तात्मनां सेवासंव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि । व्यापत्तिः स्खलितान्तरेषुनियता सिद्धिर्मद्वान वा तस्मादम्बुपतेरिवावनिपतेः सेवा सदाकिनी ॥२२॥ तथा च-भावस्निग्धरुपकृतमपि द्वेप्यतां याति लोके साक्षादन्यैरपकृतमपि प्रीतये चोपयाति । दुर्ग्राह्यत्वान्नृपतिमनसां नैकमावाश्रयाणां सेवाधर्मः परमगहनो योगिनामध्यगम्यः ॥ २२६ ॥ तत्परिज्ञातं मया यत्प्रसादमसहमानैः समीपवर्तिभिरेष पिङ्गलका प्रकोपितः। तेनायं (१)ममादोषस्याप्येवं वदति । उक्तं च- प्रभोःप्रसादमन्यस्य न सहन्तीह सेवकाः। सपल्य इव संक्रुद्धाः स्वपल्याः सुकृतैरपि ॥ २३०॥ भवति चैवं यत् (२) गुणवत्सु समीपवर्तिषु गुणहीनानां न प्रसादो भवति! उक्तं च-- गुणवत्तरपात्रेण च्छाधन्ते गुणिनां गुणाः । रात्रौ दीपशिखाकान्तिन भानावुदिते सति ॥ २३१ ॥ दमनक आह-भो मित्र! यद्येवं तन्नास्ति ते भयम् । प्रकोपितो- ऽपि स दुर्जनस्तव वचनरचनया प्रसादं यास्यति। स आह-'भोः, न युक्तमुक्तं भवता। लघूनामपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं नन्ति । उक्तं च- बहवः पण्डिता क्षुद्राः सर्वे मायोपजीविनः । कुर्युः कृत्यमकृत्यं वा उष्ट्र काकादयो यथा ॥ २३२ ॥ दमनक आह-कथमेतत् ? सोऽब्रवीत्- (१) निरपराधस्यापीति भावः। (२)गुणवतां हि सन्निधाने सति निर्गुणानां समादरो न भवतीत्यर्थः । - मित्रमेदः। SC कथा (८) कस्मिश्चिद्धनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति स्म। तस्य चानुचरा अन्ये (१)द्धीपिवायसगोमायवः सन्ति । अथ कदाचितैरि- तस्ततो भ्रमद्भिः (२)सार्थभ्रष्टः क्रथनको नामोष्ट्रो दृष्टः। अथ सिंह श्राह-अहो अपूर्वमिदं सत्त्वम्। तज्ज्ञायतां (३)किमेतदारण्यक (४)ग्रा. म्यं वा' इति । तच्छुत्वा वायस पाह-'भो स्वामिन् ! ग्राम्योऽयमुष्ट- नामा जीवविशेषस्तव भोज्यः। तद्वयापाद्यताम् । सिह पाह-नाहं गृहमागतं हन्मि उक्तंच- गृहे शत्रुमपि प्राप्त विश्वस्तमकुतोभयम् । यो हन्यात्तस्य पापं स्याच्छतब्राह्मणघातजम् ॥ २३३ ॥ तभयप्रदानं दत्त्वा मत्सकाशमानीयतां येनास्यागमनकारणं पृच्छा- मि । अथासौ सवैरपि विश्वास्याभयप्रदानं दत्वा मदोत्कटसकाशमा- नीतः प्रणम्योपविष्टश्च । ततस्तस्य पृच्छतस्तेनात्मवृत्तान्तः (५) साथ- भ्रंशसमुद्भवो निवेदितः। सिंहेनोक्तम्-भोःक्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहनकष्टभागी भूयाः। तदवारण्ये निर्विशङ्को मरकत- सदृशानि शप्पामाणि भक्षयन्मया सह सदैव वस।' सोऽपि तथा' इत्युक्त्वा तेषां मध्ये विचरत्न कुतोऽपि भयमिति सुखेनास्ते । तथान्ये- धुर्मदोत्कटस्य महागजेनारण्यचारिणा सह युद्धमभवत्। ततस्तस्य दन्त- मुशलप्रहारैर्व्यथा साता व्यथितः कथमपि प्राणैर्न वियुक्तः। अथ शरीरासामर्थ्यान्न कुत्रचित्पदमपि चलितुं शक्नोति । तेऽपि सर्वे काकादयो(६)अप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः। अथ तान् सिंहः प्राह-'भोः, अविष्यतां कुत्रचित्किञ्चित्सत्त्वं येनाहमेतामपि दशां प्राप्तस्तद्धत्वा युष्मद्भोजनं सम्पादयामि। अथ ते चत्वारोऽपि भ्रमितु- मारब्धा यावन्न किञ्चित्सत्त्वं पश्यन्ति तावद्वायसशृगालौ परस्परं मन्त्र- यतः। शृगाल अाह-'भो वायस ! कि (७)प्रभूतभ्रान्तेन । अयम- (१)शार्दूलकाकभृगालाः । (२) स्वयूथात्प्रच्युतः। (३) वन्यम् । (४) ग्रामवासि । (१) यूथप्रच्युतिसम्बन्धीत्यर्थः। (६) निजाहारप्रापणासमर्थत्वेन । (७)इतस्ततोऽधि- केन प्रमणेनेत्यर्थः।

पञ्चतन्त्रके- स्माकं प्रभोः ऋथनको विश्वस्तस्तिष्ठति । तदेनं हत्वा प्राणयात्रां कुर्मः। वायस श्राह-'युक्तमुक्तं भवता परं स्वामिना तस्याभयप्रदानं दत्तमास्ते न वध्योऽयमिति। शृगाल श्राह-'ओ वायस! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति। तत्तिष्ठन्तु भवन्तोऽत्रैव यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चागच्छामि। एवमभिधाय स- त्वर सिंहमुद्दिश्य प्रस्थितः। अथ सिंहमालायेदमाह-स्वामिन् ! सम- स्तं वनं भ्रान्त्वा वयमागताः। न किञ्चित्सत्वमालादितम् । तत्किं कुर्मो वयम्। सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचलितुं न शक्नुमः । दे- वोऽपि (१)पथ्याशी वर्तते । तद्यदि देवादेशो भवति तत्(२)क्रथन- कपिशितेनाद्य (३)पथ्यक्रिया क्रियते । अथ सिंहस्तस्य तदारुणं वन- नमाकर्ण्य सकोपमिदमाह-'धिक् पापाधम ! यद्येवं भूयोऽपि वदसि, ततस्त्वां तत्क्षणमेव वरिष्यामि । यता मया तस्याभयं प्रदत्तम् , तत्क- थं व्यापादयामि । उक्तंच- न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम्। यथा वदन्तीह बुधाः प्रधानं सर्वप्रदानेष्वभयप्रदानम् ॥ २३४ ॥ तच्छ्रुत्वा शृगाल श्राह-स्वामिन् यद्यभयप्रदानं दत्वा वधः क्रियते तदैष दोषो भवति । पुनर्यदि देवपादानां भक्त्या स आत्मनो जीवि- तव्यं प्रयच्छति तन्न दोषः। ततेा यदि स स्वयमेवात्मानं बधाय (8) नियोजयति तद्वध्यः। अन्यथास्माकं मध्यादेकतमो वध्य इति । यता देवपोदाः पथ्याशिनः (५)क्षुनिरोधादन्यां दशां(६) यास्यन्ति। तत्कि- मेतैः प्रारीरस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चादण्यस्माभि- ह्निप्रवेशः कार्यः, यदि स्वामिपादानां किंचिदनिष्टं भविष्यति । उक्तंच- यस्मिन्कुले यः पुरुषः प्रधानः स सर्वयत्नैः परिरक्षणीयः । तस्मिन्विनष्टे कुलसारभूते न नाभिभङ्गे हरका वहन्ति ॥ २३५ ॥ (१)पथ्यं रोगिणो हितकरं भोजनं तद् अश्नाति भक्षयतीति स तथोक्तः । (२) उष्ट्रस्य मांसेन । (३) रोगिहितकरं भोजनम् । (४) अपयति । (१) बुभुक्षा- समये भोजनाकरणादिति भावः । (६)मृत्युमित्यर्थः । . .

Gane मित्रभेदः। तदाकर्ण्य मदोत्कट आह-'यद्येवं तत्कुरुष्व यद्रोचते। तच्छुत्वा स सत्वरं गत्वा तानाह-भोः स्वामिनो (१)महत्यवस्था वर्तते । तत्कि(२)पर्यटितेन । तेन विना कोऽत्रास्मारक्षयिष्यति तद्गत्वा तस्य (३)क्षुद्रोगात्परलोकं प्रस्थितस्यात्मशरीरदानं कुर्मः, येन स्वामि- प्रसादस्यानृणतां गच्छामः। उक्तञ्च-- श्रापदं प्राप्नुयात्स्वामी यस्य भृत्यस्य पश्यतः। प्राणेषु विद्यमानेषु स भृत्यो नरकं भजेत् ॥ २३६ ॥ तदनन्तरं ते सर्वे (४)वाष्पपूरितदृशो मदोत्कटं प्रणम्योपविष्टाः । तान्दृष्ट्वा मदोत्कट आह-भोः, प्राप्तं दृष्टं वा किञ्चित्सत्त्वम् ? अथ तेषां मध्यात्काकःप्रोवाच-स्वामिन् ! वयं तावत्सर्वत्र पर्यटिता। परं न किञ्चित्सवमासादितं दृष्टं वा। तदद्य मां भक्षयित्वा प्रोणा- धारयतु स्वामी, मेन देवस्थाश्वासनं(५) भवति मम पुनः स्वर्गप्राप्ति- रिति। उक्त स्वास्यथै यस्त्यजेत्प्राणान्भृत्यो भक्तिसमन्वितः। परं स पदमाप्नोति जरामरणवर्जितम् ॥ २३७ ॥ तच्छ्रुत्वा शृगाल ग्राह-भोः (६)स्वल्पकायो भवान् तव भक्षणा- स्वामिनस्तावत्प्रायात्रा न भवति। अपरो दोषश्च तावत्स्समुत्पद्यते । उक्तञ्च-काकमांसं शुनोबिछष्टं स्वल्पं तदपि दुर्लभम्। भक्षितेनानिकि तेवतियन न जायते ॥ २३८ । तद्दर्शिता स्वामिमनिर्भवता। ()गतं चानृण्यं भर्तृपिण्डस्य । प्राप्तश्चोभयलोके (साधुवादः। तदपसराग्रतः । अहं स्वामिनं.विज्ञा- पयामि । तथानुष्टिते गालः सारे प्रणम्योपविष्टः-स्वामिन् ! मा भक्षयित्वाद्य प्राणयात्रां विधाय ममोभयलोकप्राप्ति कुरु । उक्तञ्च- स्वाम्यायत्ताः सदा प्राणा भृत्यानामजिता धनैः। यतस्ततो न दोषोऽस्ति तेषां ग्रहणसम्भवः ॥ २३६ ॥ (१) दयनीया दशा। (२) भ्रमणेन । (३) बुभुक्षया मृतप्रायस्येत्यर्थः । (४)वाष्पैः पूरिता दृशो येषां ते रुदन्त इति भावः। (५) जीवनरक्षेत्यर्थः।। (६) अतिलघुरिति यावत् । (७) प्रभुकृतात्पोषणरूपाद् ऋणादात्मा मोचितः प्रभुभक्तिप्रदर्शनेनेति भावः । (८) धन्यवादः ख्यातिरिति भावः । - ४६ বন্ধুবক- श्रथ तच्छुत्वा बीमाह-भोः साधूक्तं भवतः पुनर्भवानपि स्वल्पकायः स्वजातिश्च । जखायुधत्वादभक्ष्य एव । उक्तञ्च- नाभक्ष्यं भक्षयेत्प्राज्ञः प्राणैः कण्ठगतैरपि । विशेषातदपि स्तोक लोकद्वयविनाशकम् ।। २४० ॥ तहर्शितं त्वयात्मनः (६)कोलीन्यम् । अथवा साधु चेदमुच्यते- एतदर्थ कुलीनानां कृताः कुर्वन्ति संग्रहम् । आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ २४१ ॥ तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटमाह-स्वामिन् ! क्रियतामय मम प्राणः प्राणमा- मा दीयतामक्षयो वासः स्वर्गे। मम विस्तार्यतां तितितले प्रकृततरं यशः। तन्नात्र (२)विकल्पः कार्यः। उक्तञ्च- मृतानां स्वामिनः कार्य भृत्यानामनुवर्तिनाम् । भवेत्स्वर्गेऽक्षयो वासः कीर्तिश्च धरणीतले ॥ २४२ ॥ तच्छुत्वा क्रथनकश्चिन्त शमाल-एतैस्तावत्सर्वैरपि शोभनानि वा- क्यानि प्रोक्तानि । न चैकोऽपि स्वामिना विनाशितः। तदहमपि प्रा- सकालं विज्ञापयामि, येन मम वचनमेते त्रयोऽपि (३)समर्थयन्ति । इति निश्चित्य प्रोवाच-भोः सत्यमुक्तं भवता। परं भवानपि नखायुधः। तत्कथं भवन्तं स्वामी भक्षयति । उक्तञ्च- मनसाऽपि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्येव इह लोके परत्र च ॥ २४३ ॥ तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथन- कोऽग्रेस्थित्वा प्रणम्योवाच-स्वामिन् ! एते तावद्भक्ष्या भवताम् । तन्मम प्राणैः प्राणयात्रा विधीयताम् , येन ममोभयलोकप्राप्तिर्भवति। उक्तञ्च-न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः। यां यान्ति प्रोभितप्राणाः स्वाम्यर्थे सेवकोत्तमाः॥२४४॥ (१)सद्धशजातत्वम् । (२)मारयामि न वेत्यात्मक सन्देहः । (३)प्रमाण- यन्ति अनुमोदेरबित्यर्थः।

मित्रभेदः। एवमभिहिते ताभ्यां (१)शृगालचित्रकाम्यां (२)विदारितोभयकुतिः ऋथनकः प्राणानत्याक्षीत् । ततश्च तैः तुद्रपण्डितैः सर्वैर्भक्षितः । अतोऽहं ब्रवीमि–'बहवः पण्डिताः क्षुद्राः, इति । तद्भद्र ! (३)क्षुद्रप- रिवारोऽयं ते राजा मया सम्यग्ज्ञातः सतामसेव्यश्च । उक्तञ्च-- अशुद्धप्रकृतौ राशि जनता नानुरज्यते । यथा गृध्रसमालन्नः कलहंसः समाचरेत् ॥ २४५ । तथा च-गृध्राकारोऽपि सेव्यः स्याद्धंसाकाः सभासदैः। हंसाकारोऽपि सन्त्याज्यो शुभ्राकारैः स तैर्नृपः ॥ २४६।। तन्नूनं ममोपरि केनचिद् दुर्जनेनायं प्रकोपितः, तेनैवं वदति श्र- थवा भवत्येतत् ! उक्तञ्च- मृदुना सलिलेल खन्यमानान्यववृष्यन्ति गिरेरपिस्थलानि । उपजापविदां च कर्णजापैः किमु चेतांसि मृनि मानवानाम् ॥२४॥ कर्णविषेण च भन्नः किं किं न करोति बालिशो लोकः। क्षपणकलामपि धत्ते पियति सुरां नरकपालेन ॥ २४८ ॥ अथवा साध्विमुच्यते- पादाहतोऽपि दृढदण्डसमाहतोऽपि यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः। कोऽप्येष एव पिशुनोग्रमनुष्यधर्मः कण परं स्पृशति हन्ति परं लसूलम् ॥ २४६ ॥ तथा च-अहो खलभुजङ्गस्य विपरीतो ववक्रमः। कणे लगति चैकस्य प्राणैरन्यो वियुज्यते ॥ २५० ॥ तदेवं गतेऽपि किं कर्तव्यमित्यहं त्वां सुहद्भावात्पृच्छामि । दमन- क आह-तद्देशान्तरगमनं युज्यते। नैवंविधस्य कुस्वामिनः सेवां विधातुम् । उक्तञ्च- गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ २५ ॥ (१) ऋगालशार्दूलाभ्याम् । (२) विपाटित कुक्षिद्वयः। (३)बुद्रो नीच- स्वभावः परिवार अमात्यादिः सहचरवर्ग इति यावत् यस्य सः।

पञ्चतन्त्रक---- Pon २ सञ्जीवक पाह-अस्माकदुपरि स्वालिनि कुपिते गन्तुं न शक्यते न चान्यत्र गतानामपि (१)निविर्भवति । उत्तञ्च- महतां योऽपराध्येत वृहस्टोऽस्मीति नाश्वलेत् । दीघौं बुद्धिमतो वाई तान्यां हिसति हिलकम् ॥ २५२ ।। तद्युद्धं मुक्त्वा से नान्यदस्ति (२)श्रेयस्करम् । उत्तञ्च- न तान् हि तीर्थस्तपसा च लोका- स्वगैषिणो दानशतैः सुतः क्षणेन यान्यान्ति रणेषु धीराः प्राणान्समुज्झन्ति हि ये सुशीला ॥ २४३ ॥ मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिरुत्तमा । तदुभावपि शूराणां गुणावेतौ सुदुर्लभौ ॥ २५४ ॥ ललाटदेशे रुधिरं नवत्तु शूरस्य यस्य प्रविशेच्च वपत्रे। तत्सोमपानेन समं भवेच्च संग्रामयज्ञे विधिवत्प्रदिष्टम् ॥ २५५ । तथा च-होमाविधिवत्प्रदानविधिना सद्विप्रवृन्दार्चने- यज्ञैर्भूरिसुदक्षिणैः सुविहितैः सम्प्राप्यते यत्फलम् । सत्तीर्थाश्रमवासहोमनियमैश्चान्द्रायणायैः कृतः पुंभिस्तत्फलमाहवे विनिहतः सम्प्राध्यते तत्क्षणात् ॥२५॥ तदाकर्ण्य दमनकश्चिन्तयामास-युद्धाय कृतनिश्चयोऽयं दृश्यते दुरात्मना। तद्यदि कदाचित्तीदणङ्गाभ्यां स्वामिनं प्रहरिष्यति तन्म- हाननर्थः (३)सम्पत्स्यते । तदेनं भूयोऽपि स्वबुद्धया प्रबोध्य तथा करोमि यथा देशान्तरगमनं करोति । आह च-भो मित्र! सम्यग- भिहितं भवता। परं किन्तु कः स्वामिभृत्ययोः संग्रामः ? उक्तञ्च- बलवन्तं रिपुं दृष्ट्वा नैवात्मानं प्रकोपोत्। बलवद्भिश्च कर्तव्या शरच्चन्द्रप्रकाशता ॥ २५७ ॥ अन्यच्च-शत्रोविक्रममज्ञात्वा वैरमारभते हि यः। स.पराभवमाप्नोति समुष्टिट्टिभाद्यथा ॥ २५ ॥ सञ्जीवक पाह-कथमेतत् । सोऽब्रवीत्- (१)कल्याणम् । (२) हितकरम् । (३) भविष्यति । - कथा (९) कस्मिश्चित्समुद्रतीरैकदेशे रिट्टिभदम्पती प्रतिवसतः स्म । ततो गच्छति काले (१)ऋतुसमयमासाद्य टिटिभी गर्भमाधत्त। अथास- नप्रसवा सती साटिट्टिभमूचे-'भोः कान्त ! मम प्रसवसमयो वर्तते। (२)तद्विचिन्त्यतां किमपि (३)निरुपद्रवं स्थानम् , येन तत्राहमण्डक- विमोक्षणं करोमि' टिट्टिभः प्राह-भद्रे! स्योऽयं समुद्रप्रदेशः । तत्रैव प्रसवः कार्यः' सा आह-'अत्र पूर्णिमादिने (४)समुद्रवेला (५)चरति सा मत्तगजेन्द्रानपि समाकर्षति तद् दूरमन्यत्र किञ्चि- स्थानमन्विप्यताम्' तच्छुत्वा विहस्य टिट्टिभः प्राह-भद्रे! युक्त- मुक्तं भवत्या। का (६)मात्रा समुद्रस्य यो मम ()दूषयिष्यति (८)प्र- सूतिम् । किं न श्रुतं भवत्या- बद्धाम्बरचरमार्ग व्यपगतधूमं सदा महद्भयदम् । मन्दमतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः॥ २५६ ॥ मत्तेभकुम्भविदलनकृतश्रमं सुप्तमन्तकप्रतिमम् । यमलोकदर्शनेच्छुः सिंहं बोधयति को नाम ॥ २६० ॥ को गत्वा यमसदनं स्वयमन्तकमादिशत्यजातभयः। प्राणानपहर मत्तो यदि शक्तिः काचिदस्ति तव ॥ २६१ ॥ प्रालयलेशमिश्रे मरुति प्राभातिके च वाति जडे । गुणदोषज्ञः पुरुषो जलेन कः शीतमपनयति ॥ २६२ ॥ तस्माद्(६)विश्रब्धात्रैव गर्भ मुश्च । उक्तञ्च- या पराभवसन्त्रस्तः स्वस्थानं सन्त्यजेन्नरः। तेन चेत्पुत्रिणी माता तद्वन्ध्या केन कथ्यते ॥ २६३ ॥ तच्छुत्वा समुद्रश्चिन्तयामास-अहो गईः (१०)पक्षिकोटस्यास्य । अथवा साध्विमुच्यते- (१) गर्भधारणानुकूलकालं प्राप्येत्यर्थः । (२) अन्विष्यतामित्यर्थः । (३)निरापत् । (४)सागरसलिलम् । (ज्वारभाटा) (१) वृद्धिं गच्छति चन्द्रो- दयादिति भावः। (६) शक्तिः। (७)नायिष्यतीत्यर्थः। (८)सन्ततिम् । (९)निर्भया। (१०) तुच्छस्य पक्षिण इत्यर्थः। - ४प० पञ्चतन्त्रके- उत्क्षिप्य टिट्टिमः पादावास्ते भङ्गभयादिवः । स्वचित्तकल्पितो गर्वः कस्य नानापि विद्यते ॥ २६४ ॥ तन्मयास्य (१)प्रमाणं (२)कुतूहलादपि द्रष्टव्यम्। किं ममेषोऽ. ण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः। अथ प्रसवा- नन्तरं प्राणयात्रार्थ गतायाष्टिट्टिभ्याः समुद्रो (३)वेलाव्याजेनाण्डान्य- पजहार | अथायाता सा टिटिभी प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिटिममूचे-भो मूर्ख ! कथितमासीन्मया ते यत्समुद्रवेलयाण्डानां विनाशो भविष्यति। तदरतरं बजावः। परं मूढतयाहङ्कारमाश्रित्य मम वचनं न करोषि, अथवा साध्विमुच्यते- सुहृदां हितकामानां न करोतोह यो वचः। स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥ २६५ ॥ टिटिभ आह-कथमेतत् । साब्रवीत्- कथा (१०) अस्ति करिमधिजलाशये कम्घुग्रोवो नाम कच्छपः। तस्य च सङ्कटविकटनाम्नी मित्र हंसजातीये (४)परमस्नेहकोटिमाश्रिते नित्य- मेव सरस्तीरमासाद्य तेन सहानेकदेवर्षिमहर्षाणां कथाः कृत्वा (५)अस्तमयवेलायां (६)स्वनीडसंश्रयं कुरुतः। श्रय गच्छता कालेना- वृष्टिवशात्सरः शनैः शनैः शोषमगमत्। ततस्तद्दुःखदुःखितौ तावू- चतुः-भो मित्र ! (७)जम्बाल रोषमेतत्सरः सजातम् । तत्कथं भवा- भविष्यतीति व्याकुलत्वं नो हृदि वर्तते । तच्छुत्वा कम्बुग्रीव श्राह- भोः साम्प्रतं नास्त्यस्माकं (८)जीवितव्यं जलाभावात् । तथाप्युपाय- चिन्त्यतामिति । उक्तश्च- त्याज्यं न धैर्य विधुरेऽपि काले धैर्यास्कदाचिद् गतिमाप्नुयात्सः। यथा समुद्रेऽपि च पातभङ्गे सांयात्रिको वाञ्छति तर्तुमेव ॥ २६६ ॥ (1) बलमित्यर्थः । (२) मनोविनोदादिहेतोरपीत्यर्थः। (३) सलिल. द्विरूपेग छलेनेति यावत् । (४) अत्यन्तमनुरके। (१) सायकाले । (निजनीरे निवसत इत्यर्थः। (७) कर्दममात्रावशेषम् । (८)प्राणरक्षा।

मित्रभेदः। अपरञ्च-मित्राथै बान्धवाथै व बुद्धिमान्यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥ २६७ ॥ तदानोयतां काचिदृढरज्जुर्लघु काष्ठं वा। अन्विष्यतां च (१) प्रभूतजलसनाथं सः, येन मया मध्यप्रदेशे दन्तैर्ग्रहीते सति युवा (२)कोटिभागयोस्तत्काष्ठं मया सहित (३)संगृह्य तत्सरो नयथः' ताधूचतु:-भो मित्र ! एवं करिष्यावः। परं भवता (४)मौनव्रतेन स्था- तव्यम्। नोचेत्तव काष्ठात्पातो भविष्यति । तथानुष्ठिते गच्छता क- म्बुग्रीवेण (५)अधोभागव्यवस्थितं किञ्चित्पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्यसविस्मयमिदमूचुः-'अहो चक्राकार किमपि पतिभ्यां नीयते पश्यत पश्यत' अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह-भोः किमेष कोलाहलः' इति वक्तुमना अर्कोक्तिप- तितःपौरखण्डशाकृतश्च । अतोऽहं ब्रवीमि-'सुहृदां हितकामानामिति। तथा च-अनागतविधाता च प्रत्युत्पन्नमतिस्तथा। द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ २६८ ॥ टिट्टिभ आह-कथमेतत् । साब्रवीत्- कथा (११) कस्मिचिजलाशयेऽनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचितं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्य- जोविभिरुक्तम्-यदहो बहुमत्स्योऽयं हृदः । कदाचिदपि नायम- स्माभिरन्वेषितः(६)। तदद्य तावद्(७)आहारवृत्तिः साता। सन्ध्या- समयश्च संवृत्तः। ततःप्रभातेऽत्रागन्तव्यमिति निश्चयः। अतस्तेषां (5)तत्कुलिशपातोपमं वचः समाकानागतविधाता सर्वान्मत्स्याना- हूयेदमूचे-अहो श्रुतं भवद्भिर्यन्मत्स्यजाविभिरभिहितम् ? तद्रात्रावपि गम्यतां किंञ्चिन्निकटं सरः, उक्तञ्च- (१) बहुजलमित्यर्थः। (२) अग्रभागयोः। (३) सम्यग्धृत्वेत्यर्थः। (४) तूष्णीभावेन। (५) नीचैः स्थितम् । (६) मत्स्यार्थं जालं निपात्य नालोडित इति भावः। (७) भोजनरूपकार्यनिर्वाहः। (८) वज्रप्रहारतुल्य- मतिकठोरमिति यावत् ।

पञ्चतन्त्रके- Dad ना अशलिल शत्रोः कर्तव्यं प्रपलायनम् । संथितव्योऽथवा दुर्गा नान्या तेषां गतिर्भवेत् ॥ २६६ ॥ तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्यम त्स्यसंक्षयं क- रिष्यन्ति । एतन्मम मनसि वर्तते । तन्न युक्तं साम्प्रतं क्षणमध्यत्राव- स्थातुम् । उक्तञ्च- विद्यमाना गतिर्थषामन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देहभङ्ग कुलक्षयम् ॥ २७० ॥ तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह-अहो सत्यमभिहितं भवता । ममायभीष्टमेतत् । तदन्यत्र गम्यताम्' इति । उक्तञ्च- परदेशभयाशीता बहुमाया नपुंसकाः । स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥ २७१॥ यस्यास्ति सर्वत्र गतिः स कस्मात्स्वदेशरागेण हि याति नाश । तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति ॥ २७२ ॥ अथ तत्समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच-अहो न भवद्भया (१)मन्त्रितं सम्यगेतदिति यतः किं (२)वाङ्मात्रेणापि तेषां (३, पितृपैतामहिकमेतत्सरस्त्यक्तुं युज्यते । यदि(४)श्रायुःतयोऽस्ति तदन्यत्र गतानामपि मृत्युभविष्यत्येव । उक्तश्च- अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितःकृतप्रयत्नोऽपि गृहे विनश्यति२७३ तदहं न यास्यामि । भवा च यत्प्रतिभातित कर्तव्यम् । श्रथ तस्य तं निश्चयं ज्ञात्वानागतविधाता प्रत्युत्पन्नमतिश्च निष्क्रान्ती सह परिजनेन । अथ प्रभाते तैमत्स्यजीविभिर्जालस्तजलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यतां नीतम् । अतोऽहं ब्रवीमि-'अना- गतविधाता च' इति । तच्छुत्वा टिटिभ श्राह-भद्रे ! किं मां यद्भविष्य- सदृशं (५)सम्भावयसि । तत्पश्य मे बुद्धिप्रभावं यावदेनं दुष्टसमुद्रं स्वचञ्च्या शोषयामि । टिट्टिन्याह-अहो कस्ते समुद्रेण सह विग्रहः। तन्न युक्तमस्योपरि कोपं कर्तुम् । उक्तञ्च- (१)विचारितम् । (२) कथनमात्रेणैवेत्यर्थः । (३) पितृपितामहक्रमायातं लपरम्परागतमिति यावत् । (४)जीवनकालो नास्तीत्यर्थः। (१)जानासि ।

मित्रमेदः। पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः। पिठरं ज्वलदतिमात्रं निजपार्थानेव दहतितराम् ॥ २७४ ॥ तथा च-अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः। गच्छन्नभिमुखो नाशं याति वह्नौ पतङ्गवत् ॥ २७५ ॥ टिट्टिभ पाह-प्रिये ! मा मैवं वद । येषाम्(१)उत्साहशक्तिर्भवति ते स्वल्पा अपि (२)गुरूविक्रमन्ते । उक्तञ्च- विशेषात्परिपूर्णस्य याति शत्रोरमर्षणः । श्राभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥ २७६ ॥ तथा च-प्रमाणादधिकस्यापि गण्डश्याममदच्युतेः। पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ॥ २७७ ॥ तथा च-बालस्यापि रवेः पादाः पतन्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ २७ ॥ हस्ती स्थूलतरः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशः दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः। वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रो गिरि- स्तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः २७६ तदनया चञ्च्वास्थ सकलं तोयं (३)शुष्कस्थलतां नयामि । टि- ट्टिभ्याह-भोः कान्त ! यत्र जाह्नवी नवनदीशतानि गृहीत्वा नित्यमेव प्रविशति तथा (४)सिन्धुश्च, तत्कथं त्वमष्टादशनदीशतैः पूर्यमाणं तं (५)विपुषवाहिन्या चञ्च्वा शोषयिष्यसि । तत्किमश्रद्धयेनोक्तन । टि- ट्टिभ श्राह-प्रिये ! अनिर्वेदः श्रियो मूलं चञ्चूर्मे लोहसन्निभा। अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यात ॥ २८० ॥ दुरधिगमः परभागो यावत्पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलदपटलानि ॥ २८१ ॥ टिट्टिभ्याह-'यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् , (१) पराक्रमादिनोवतीच्छेत्यर्थः। (२) बलवतोऽपि पराजयन्त इत्यर्थः । (३) शोषयामीत्यर्थः। (४) तदाख्यः कोऽपि नदविशेषः। (१) जलबिन्दुधारिण्या।

पञ्चतन्त्रके- तदन्यानपि (१)विहङ्गमानाहूय सुहजनसहित एवं समाचर। उक्तञ्च- बहुनामयसाराणां समचायो हि दुर्जयः। तृणैरावेष्टयते रज्जुर्यन नागोऽपि बद्धयते ॥ २८२ ॥ तथा च-चटका काष्ठकूटेन मक्षिका दर्दुरस्तथा। महाजनविरोधेन कुञ्जरः प्रलयं गतः ॥ २८३॥ टिट्टिम आह-कथमेतत् । सा प्राह- कथा (१२) कस्मिधिदनोद्देशे चटकदम्पती (२) तमालतस्कृतनिलयौ प्रतिव- सतः स्म। अथ तयोर्गच्छता कालेन सन्ततिरभवत्। अन्यस्मिन्नहनि प्रमत्तो धनगजः कश्चित्तं तमालवृक्ष (३) घर्तिश्छायार्थी समाश्रितः ततो (४) मदोत्कर्षात्तां तस्य शाखां चटकाश्रितां (५) पुष्कराग्रेणाकृष्य बभा । तस्या भङ्गेन चटकाण्डानि सर्वाणि (६) विशीर्णानि । आयु:- शेषतया च चटको कथमपि प्राणैर्न वियुक्तौ। अथ चटका (७) स्वा- ण्डभङ्गाभिभूता (८) प्रलापान्कुर्वाणा न किञ्चित्सुखमाससाद । अत्रा- न्तरे तस्यास्तान्प्रलापाश्रुत्वा काष्टकूटो नाम पक्षी तस्याः परमसुह- त्सद्दुःखदुःखितोऽभ्येत्य तामुवाच-भगवति ! किं वृथा प्रलापेन । उक्तञ्च-नष्टं मृतमतिकान्तं नानुशोचन्ति पण्डिताः। पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥ २४ ॥ तथा च-अशोच्यानीह भूतानि यो मूढस्तानि शोचति । स दुःखे लभते दुःखं दावनौँ निषेवते ॥ २८५॥ अन्यञ्च-श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुक्ते यतोऽवशः। तस्मान्न रोदितव्यं हि क्रियाः कार्याश्च शक्तितः ॥ २८६ ॥ चटका पाह-अस्त्वेतत् । परं दुष्टगजेन (8) मदान्मम सन्ता- नक्षयः कृतः। तद्यदि मम त्वं सुहृत्सत्यस्तदस्य (१०) गजापसदस्य कोऽपि वधोपायश्चिन्त्यताम्' यस्यानुष्ठानेन मे सन्ततिनाशदुःखम- पसरति (११)। उक्तञ्च- (१) पक्षिणः। (२)तमालवृक्षकृतनीडौ। (३) आतपसन्तप्तः। (४)मदातिरे कात् (५)शुण्डाया अग्रभागेन । (६) भग्नानि । (७) निजाण्डविनाशदुःखिता। (८).रुदन्तीत्यर्थः। (१) बलाभिमानादित्यर्थः (१०) दुष्टगजस्य । (११) नश्यति ।

मित्रभेदः। - - श्रापदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ २८७ ॥ काष्ठकूट श्राह-भगवति ! सत्यमभिहितं भवत्या। उक्तञ्च- स सुहृद्व्यसने यः स्यादन्यजात्युद्भवोऽपि सन् ॥ वृद्धौ सर्वोऽपि मित्रं स्यात्सर्वेषामेव देहिनाम् ॥ २८८ ॥ स सुहृद्व्यसने यः स्यात्स पुत्रो यस्तुभक्तिमान् । स भृत्यो यो विधेयज्ञः साभार्या यत्र निर्वृतिः ॥ २८६ ॥ तत्पश्य मे बुद्धिप्रभावम् । परं ममापि सुहृद्भूता वीणारवा नाम मक्षिकास्ति । तत्तामाहूयागच्छामि, (१) येन स दुरात्मा दुष्टगजो वध्यते। अथासौ चटकया सह मक्षिकामासाद्य प्रोवाच-भद्रे ! मम (२) इष्टेयं चटका केनचिद् दुष्टगजेन (३) पराभूताण्डस्फोटनेन । तत्तस्य वधोपायमनुतिष्टतो मे साहाय्यं कर्तुमर्हसि । मक्षिकाण्याह- भद्र ! किमुच्यतेऽत्र विषये। उक्तञ्च- पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत्पुनर्मित्रमित्रस्य कार्य मित्रैर्न किं कृतम् ॥ २० ॥ सत्यमेतत् । परं ममापि मेको मेघनादो नाम मित्रं तिष्ठति। तम- प्याहूय यथोचितं कुर्मः। उक्तञ्च- हितैः साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः। कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ २६१ ॥ अथ ते त्रयोऽपि गत्वा मेघनादस्याग्रे समस्तमपि वृत्तान्तं निवेद्य तस्थुः । अश स प्रोवाच-(४)कियन्मात्रोऽसौ चराको गजो (५) महा- जनस्य कुपितस्याग्रे तन्मदीयो मन्त्रः कर्तव्यः। मक्षिक! त्वं गत्वा मध्याह्नसमये तस्य मदोद्धतस्य गजस्य कर्णे वोणारवसदृशं शब्द कुरु येन स (8) श्रवणसुखलालसो (७) निमीलितनयना भवति । ततश्च काष्ठकूटचञ्च्वा स्फोटितनयनोऽन्धीभूतस्तृषार्तो मम (5) गर्ततटा- (१) मक्षिकाया आगमनेन हेतुनेत्यर्थः। (२) मित्रभूता। (३) पीडिता। (४) अतितुच्छ इति भावः। (५)प्रबलस्येति तात्पर्य्यम् । (६) सुमधुरशब्दश्र- वणोत्सुकः।(.) मुद्रितचक्षुः । (८) गर्तसमीपस्थितस्य ।

पञ्चतन्त्रके- श्रितस्य (१) सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा (२) समभ्येति । ततो गर्तमासाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैरसाधनं भवति । अथ तथानुष्ठिते स मत्तगजो (३) मक्षिकागेयसुखानिमोलितनेत्रः काष्ठकूटहृतचक्षुर्मध्याह्नसमये भ्राम्य- मण्डूकशब्दानुसारी गच्छन्महती गर्तामासाद्य पतितो मृतश्च । अतो- ऽहं ब्रवीमि-'चटका काष्टकूटेन, इति । टिटिभ आह-भद्रे! एवं भवतु सुहृद्वर्गसमुदायेन समुद्रं शोषयिष्यामि। इति निश्चित्य बकसारसम- यूरादीन्समाहूय प्रोवाच-भोः पराभूतोऽहं समुद्रेणाण्डकापहा- रेण । तञ्चिन्त्यतामस्य शोषणोपायः। ते सम्मन्त्र्य प्रोचुः-अशक्ता वयं समुद्रशोषणे । तत्किं वृथाप्रयासेन । उक्तञ्च- अवलः प्रोन्नतं शत्रु यो याति मदमोहितः । युद्धार्थ स निवर्तेत शोर्णदन्तो गजो यथा ॥ २६२॥ तदस्माकं स्वामी वैनतेयोऽस्ति । तत्तस्मै सर्वमेतत्परिभवस्थान (४) निवेद्यताम् , येन स्वजातिपरिभवकुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं (५) करिष्यति तथापि नास्ति वो दुःखम् । उक्तञ्च- सुहृदि निरन्तरचित्ते गुणवति भृत्येऽनुवर्तिनि कलत्रे। स्वामिनि शक्तिसमेते निवेद्य दुःखं सुखो भवति ॥ २६३ ॥ (e) तद्यामो वैनतेयसकाशं यतोऽसावस्माकं स्वामी। तथानु- ष्ठिते सर्वे ते पक्षिणो (७) विषण्णवदनाः बाप्पूरितदृशो वैनतेयसका- शमासाद्य करुणस्वरेण (5) फूत्कर्तुमारब्धाः-अहो (E) श्रब्रह्मण्यम- ब्रह्मण्यम् । अधुना (१०) सदाचारस्य टिभिस्य भवति नाथे सति समुद्रेणाण्डान्यपहतानि तत्प्रनष्टमधुना पतिकुलम् । अन्येऽपि स्वेच्छ- या समुद्रण व्यापादयिष्यन्ते । उक्तञ्च- एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । गतानुगतिको लोको न लेोका पारमार्थिकः ॥ २६४ ॥ (१)सहचरसहितस्य । (२) आगमिष्यतीति यावत् । (३) मधिकाशब्दज- नितसुखादित्यर्थः। (४) कटवृत्तान्त इत्यर्थः। (५) अहङ्कारम् । (६) गच्छामः। (७) अत्यन्तदुःखिता इति यावत्। (८)विलपितुमित्यर्थः। (१)महाननों जात इति भावः। (१०) सजनस्य । m मित्रभेदः। तथा च-चाटुतस्करदुर्वृत्तैस्तथा साहसिकादिभिः। पीडयमानाः प्रजा रक्ष्याः कूटच्छमादिभिस्तथा ॥ २६५ प्रजानां धर्मषड्भागो राज्ञो भवति रक्षितुः। अधर्मादपि षड्भागो जायते यो न रक्षति ॥ २६६ ॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ २१७ ॥ राजा वन्धुरवन्धूनां राजा चक्षुरचक्षुषाम् । राजा पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥ २६८ ॥ फलार्थी पार्थिवो लोकान्पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥ २६ ॥ यथा वीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः। फलप्रदो भवेत्काले तल्लोकः सुरक्षितः ॥ ३०० ॥ हिरण्यधान्यरत्नानि यानानि विविधानि च। तथान्यपि यत्किञ्चित्प्रजाभ्यः स्थान्नुपस्य तत् ॥ ३०१ ॥ अथैवं गरुडः समाकर्ण्य तद्दुःखदुःखितः कोपाविष्टश्च व्य- चिन्तयत्-अहो सत्यमुक्तमेतैः पतिभिः। तदद्य गत्वा तं समुद्र शोषयामः । एवं चिन्तयतस्तस्य बिष्णुदूतः समागत्याह-भो गरुत्मन् ! भगवता नारायणेनाहं तव पाश्च प्रषितः। देवकार्याय भगवानमरावत्यां यास्यतोति तत्सत्वरमागम्यताम् तच्छ्रुत्वा गरुडःसाभिमानं प्राह-भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद्गत्वा तं वद यदन्यो भृत्यो वाहनायास्मत्स्थाने क्रियताम् । मदीयो नमस्कारोवाच्यो भग- चतः। उक्तश्व- यो न वेत्ति गुणान्यस्य न तं सेवेत पण्डितः। न हि तस्मात्फलं किंचित्सुकृष्टादृषरादिव ॥ ३०२॥ दूत आह–भो वैनतेय ! कदाचिदपि भगवन्तं प्रति त्वया नैतदभि- हितमीहक् तत्कथय किं ते भगवता(१)अपमानस्थानं कृतम्' गरुड आह-'भगवदाश्रयभूतेन समुद्रणास्मट्टिट्टिभाण्डान्यपहतानि । तद्यदि (१)अनिष्टमित्यर्थः।

- पञ्चतन्त्रके- तस्य(१)निग्रहं न करोति तदहं भगवतो न भृत्य इत्येष निश्चयस्त्वया वाच्यः।तद्रुततरंगत्वा भवताभगवतः समीपे वक्तव्यम्' अथदूतमुखे- न प्रणयकुपितं वैनतेयं विज्ञाय भगवांश्चिन्तयामास-अहो (२)स्थाने कोपो वैनतेयस्य । तत्स्वयमेव गत्वा संमानपुरःसरं तमानयामि । उक्तञ्च-भक्तं शक्तं कुलीनं च न भृत्यमपमानयेत् । पुत्रवल्लालयेन्नित्यं य इच्छेच्छियमात्मनः ॥ ३०३ ॥ अन्यच्च-राजा तुष्टोऽपि भृत्यानामर्थमात्रं प्रयच्छति। ते तु संमानितास्तस्य प्राणेरप्युपकुर्वते ॥ ३०४ ॥ इत्येवं संप्रधार्य(३)रुक्मपुरे चैनतेयसकाशं सत्वरमगमत् । पैन- तेयोऽपि गृहागतं भगवन्तमवलोक्य (४)पाधोमुखः प्रणम्योवाच-- भगवन् ! त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यस्याण्डान्यपहृत्य ममा- पमानं विहितम् । परं (५)भगवल्लजया मया विलम्बितम् । नोचेदे- नमहं (६)स्थलान्तमद्यैव नयामि । स्वामिभयाच्छुनोऽपि प्रहारो न दीयते । उक्तं च- येन स्याल्लघुता वाथ पीडा चित्ते प्रभोः क्वचित् । प्राणत्यागेऽपि तत्कर्म न कुर्यात्कुलसेवकः ॥ ३०५ ॥ तच्छुत्वा भगवानाह-भो वैनतेय ! सत्यमभिहितं भवता। उक्तंच- भृत्यापराधजो दण्डः स्वामिनो जायते यतः । तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥ ३०६ ॥ तदागच्छ येनाण्डानि समुद्रादादाय टिट्टिभं ()सम्भाधयायः । अमरावती च गच्छावः। तथानुष्ठिते समुद्रो भगवता निर्भाग्नेयं शरं सन्धायाभिहितः-भो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नो चेत्स्थलतां त्वां नयामि। ततः समुद्रेण सभयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिमेनापि भार्यायै समर्पितानि । अतोऽहं ब्रवीमि- () दण्डम् । (२) युक्त उचित इति यावत् । (३) तनाम्नि नगरे। (४) लज्जावमतमुखः। (५) भगवदाश्रितोऽसौ तस्यापमानेन भगवतोऽपि लज्जा स्यादिति ब्रासेनेति भावः। (६) स्थलमात्रावशेषतां नयामि शोषया- मीत्यर्थः । (७) सत्कुर्वोऽनुनयाव इति भावः। m मित्रमेद। 'शत्रोबलमविज्ञाय' इति ॥ तस्मात्पुरुषेणोद्यमो न त्याज्यः। तदाक- र्य सञ्जीवकस्तमेव भूयोऽपि पप्रच्छ-भो मित्र ! कथं ज्ञेयो मयासो दुष्टबुद्धिरिति । इयन्तं कालं यावदुत्तरोत्तरस्नेहेन प्रसादेन चाहं दृष्टः। न कदाचित्तद्विकृतिदृष्टा तत्कथ्यतां येनाहमात्मरक्षार्थ तद्- धायोधमं करोमि' दमनक आह-भद्र ! किमत्र ज्ञेयम् । एष ते (१)प्र- त्ययः। यदि रक्तनेत्रस्तिशिखां भ्रुकुटि दधानः (२)सक्किणी परिले- लिहन् त्वां दृष्ट्वा भवति, तद्दुष्टबुद्धिः। अन्यथा (३)सुप्रसादश्चति , तदाज्ञापय माम् । स्वाश्रयं प्रति गच्छामि। स्वया च यथायं (४)म- न्त्रमेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि (५)तद्देशत्यागः कार्यः। यतः- त्यजेदेकं कुलस्याथै ग्रामस्याथै कुलं त्यजेत् । ग्रामं जनपदस्याथै आत्मार्थ पृथिवीं त्यजेत् ॥ ३० ॥ आपदर्थे धनं रक्षेदारान्रक्षेद्धनरपि । श्रात्मानं सततं रक्षेद्दाररपि धनैरपि ॥ ३०८ ॥ बलवताभिभूतस्य विदेशगमनं (६)तदनुप्रवेशो वा नीतिः। तदुद्दे- शत्यागः कार्यः । अथवात्मा (७)सामादिभिरुपायैरभिरक्षणीयः। उक्तं च-अपि पुत्रकलर्धा प्राणान्रक्षेत पण्डितः। विद्यमानैर्यतस्तैः स्यात्सर्वं भूयोपि देहिनाम् ॥ ३० ॥ तथा च-येन केनाप्युपायेन शुभेनाप्यशुभेन वा। उद्धरेद नमात्मानं समर्थो धर्ममाचरेत् ॥ ३१० ॥ यो मायां कुरुते मूढः प्राणत्यागे धनादिषु । तस्य प्राणाः प्रणश्यन्ति तैनष्टनष्टमेव तत् ॥ ३११ ॥ एवमभिधाय मनकः करटकसकाशमगमत् । करटकोऽपि तमा- यान्तं दृष्ट्वा प्रोवाच-'भद्र !कि कृतं तत्र भवता' दमनक आह-'मया (१) विश्वासहेतुः प्रमाणमित्यर्थः। (२) ओष्ठप्रान्तौ पुनः पुनर्लिहन् । (३)प्रसन्नश्चेति भावः। (४) रहस्यभेदः। (५) तस्य देशः परित्याज्य इति. यावत् । (६) तस्य बलवतोऽनुप्रवेशः शरणग्रहणमित्यर्थः। (७)साम= सन्धिः तत् आदिर्येषां ते सामादयः सामदामभेददण्डास्तैः । - पञ्चतन्त्रके- - सावन्नीतिबीजनिर्वापणे' (१)कृतम् , परतो दैवविहितायत्तम् । उक्तं च यतः-पराङ्मुखेऽपि देवेऽत्र कृत्यं कार्य विपश्चिता । श्रात्मदोषविनाशाय स्वचित्तस्तम्भनाय च ॥ १२ ॥ तथा च-उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैवं हि देवमिति कापुरुषा वदन्ति । देवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ३१३ ।। करटक पाह-'तत्कथय कीदृक्त्वया नोतिवीजं निर्वापितम् ? सोऽब्रवीत्-'मयाऽन्योन्यं ताभ्यां(२) मिथ्याप्रजल्पनेन (३)भेदस्तथा विहितो यथा भूयोऽपि मन्त्रयन्तावेकस्थानस्थितौ न द्रक्ष्यसि । कर- टक पाह-अहो न युक्तं भवता विहितं यत्परस्परं तौ स्नेहाहृदयौ सुखाश्रयो (४)कोपसागरे प्रक्षिप्तौ । उक्तं च- अविरुधं सुखस्थं यो दुःखमार्गे नियोजयेत् । जन्मजन्मान्तरं दुःखी स नरः स्यादसंशयम् ॥ ३१४ ॥ अपरं त्वं यद्भेदमात्रेणापि तुष्टस्तदप्ययुक्तम् , यतः सर्वोऽपि जनो (५)विरूपकरणे समर्थो भवति नोपकर्तुम् । उक्तं च- घातयितुमेव नीचः परकार्य वेत्ति न प्रसाधयितुम् । पातयितुमस्ति शक्तिर्वायोवृक्षं न चोन्नमितुम् ॥ ३१५ ॥ दमनक आह-अनभिज्ञो भवानोतिशास्त्रस्य तेनैतद् ब्रवीति । उक्तं च यत:- जातमात्रं न यः शत्रु व्याधि च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धि प्राप्य स हन्यते ॥ ३१६ ॥ तच्छत्रुभूतोऽयमस्माकं (६)मन्त्रिपदापहरणात् । उक्तं च- पितृपैतामहं स्थानं यो यस्यात्र जिगीषते । स तस्य सहजः शत्रुरुच्छेद्योऽपि प्रिये स्थितः ॥ ३१७ ॥ moramma (१) नीतयो बीजानीव तन्निर्वापणं नीतिः प्रयुक्तेत्यर्थः । (२) अनृतकथनेन कपटचातुर्येणेति यावत् । (३) उपजापो मनोभङ्ग इत्यर्थः । (४) विपदं प्रापिता- विति भावः। (५) अनिष्टकरणे । (६) मन्त्रिपदाच्च्यावनादिति भावः ।

मित्रमेदः। ६१ - तन्मया स उदासीनतया समानोतोऽभयप्रदानेन यावत्तावदहम. पि तेन साचिव्यात्प्रच्यावितः। तेन मया तस्योपरि बधोपाय एष विरच्यते। देशत्यागाय वा भविष्यति । तच्च त्वां मुक्त्वान्यो न ज्ञास्यति । तद्युक्तमेतत् (१)स्वा- ऑयानुष्ठितम् । उक्तं च यतः- निस्त्रिंशं हृदयं कृत्वा वाणी तुरसमोपमाम । विकल्पोऽत्र न कर्त्तव्यो हन्यात्तत्रापकारिणम् ॥ ३१८ ॥ अपरं, मृतोऽप्यस्माकं भोज्यो भविष्यति। तदेकं (२)तावद्धरसा- धनम् , अपरं (३)साचिव्यञ्च भविष्यति (४)तृप्तिश्च' इति । तद्गुणत्र- येऽस्मिन्नुपस्थिते कस्मान्मां दूषयसि त्वं (५)जाडयभावात् ? उक्तश्च- परस्य पीडन कुर्वन्स्वार्थसिद्धि च पण्डितः। मूढबुद्धिर्न भक्षेत वजे चतुरको यथा ॥ ३१६ ।। करटक श्राह-कथमेतत् । स ाह- कथा (१३) अस्ति कस्मिश्चिद्धनोद्देशे वज्रदंष्ट्रो नाम सिंहः। तस्य चतुरकर- व्यमुखनामानौ शृगालवृको भृत्यभृतौ सदैवानुगतो तत्रैव वने प्रति- वसतः। अथान्यदिने सिंहेन कदाचिदासनप्रसवा प्रसववेदनया स्व. यूथाद् भ्रष्टोष्ट्रयुपविष्टा कस्मिश्चिद् (६)वनगहने समासादिता। अथ तो व्यापाद्य यावदुदरं (७)स्फोटयति, ()तावजीवलघुदासेरकशिशु-, निष्क्रान्तः। सिंहोऽपि (8)दासेरक्याः (१०)पिशितेन सपरिवारः परां तृप्तिमुपागतः। परं स्नेहाद्वालदासेरकं त्यक्तं गृहमानीयेदमुवाच- भद्र ! न तेऽस्ति मृत्योर्भयं मत्तो नान्यस्मादपि, ततः स्वेच्छयात्र वने भ्राम्यताम्' इति । यतस्ते शङ्कुसदृशौ कणौं ततः शङकर्णो नाम भवि प्यति' एवमनुष्ठिते चत्वारोऽपि त एकस्थाने विहारिणः परस्परम- (१) स्वार्थसाधनाय कृतमित्यर्थः। (२) वैरनिर्यातनं प्रतिहिंसनमित्यर्थः । (३) मन्त्रिपदप्राप्तिरिति भाकः। (४) भोजनलाभेन मनसस्तुष्टिश्चेति यावत् । (१) अज्ञानवशादित्यर्थः। (६) सघने वन इत्यर्थः । (७) विदारयति । (८) उष्ट्रशावकः। (६) उष्ट्रयाः। (१०)मांसेन । - पञ्चतन्त्रके- नेकप्रकारगोष्ठीसुखमनुभवन्तस्तिष्ठन्ति । शङ्कुकर्णोऽपि (१)यौवनपद- वीमारूढः क्षणमपि न तं सिंह मुञ्चति । अथ कदाचिद्धज्रदंष्ट्रस्य केन- चिदन्येन मत्तगजेत सह युद्धमभवत् । तेन मवीर्यात्स दन्तप्रहारैस्त- था क्षतशरोरो विहितो यथा प्रचलितुं न शक्नोति । तदा सुत्क्षाम. कण्ठस्तान्प्रोवाच-भोः अन्विष्यताम् किञ्चित्सत्वं येनाहमेचंस्थितो- ऽपि तं व्यापायात्मनो युष्माकं च (२)तुत्प्रणाशं करोमि ! तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्याकालं यावद् भ्रान्ताः परं न किञ्चित्सत्वमासा- दितम् । अथ चतुरकश्चिन्तयामास-यदि शङ्कुकर्णोऽयं व्यापाद्यते ततः सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति । परं नैनं स्वामी मित्रत्वाद् (३)आश्रयसमाश्रितत्वाच्च विनाशयिष्यति । अथवा बुद्धिप्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति। उक्तञ्च- श्रवध्यं चाथवागम्यमकृत्यं नास्ति किञ्चन । लोके बुद्धिमतां बुद्धस्तस्मात्तां विनियोजयेत् ॥ ३२० ॥ एवं विचिन्त्य शंकुकर्णमिदमाह-भोः शङ्ककर्ण! स्वामो तावत्पथ्यं चिना नुधया परिपीडयते । स्वाम्यभावादस्माकमपि ध्रुवं विनाश एव। ततो वाक्यं किञ्चित्स्वाम्यर्थे वदिष्यामि । तच्छृयताम् । शङ्क- कर्णाह-भोः शीघ्र निवेद्यतां येन ते वचनं शीघ्रं (४)निर्विकल्पं करो. मि। अपरं स्वामिनो हिते कृते मया' (५)सुकृतशतं कृतं भविष्यति । अथ चतुरक आह-भो भद्र ! श्रात्मशरीरं द्विगुणलाभेन स्वामिने प्रयच्छ येन ते द्विगुणं शरीरं भवति, स्वामिनः पुनः प्राणयात्रा भवति । तदाकर्ण्य शङ्कुकर्णः प्राह-भद्र ! यद्येवं तन्मदीयप्रयोज- नमेतदुच्यतां स्वाम्यर्थः क्रियतामिति । परमत्र धर्मः (६)प्रतिभूः ।' इति ते विचिन्त्य सर्वे सिंहसकाशमाजग्मुः। ततश्चतुरक आह- देव ! न किञ्चित्सत्वं प्राप्तम्। भगवानादित्योऽप्यस्तं गतः। तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति ततः शङ्कुकर्णोऽयं द्विगुणवृद्धया स्व- शरीरं प्रयच्छति धर्मप्रतिभुवा' सिंह आह-भोः यद्येवं तरसुन्दरतरम् । (१)तरुणताङ्गत इत्यर्थः। (२) बुभुक्षानिवृत्तिम् । (३) शरणागतवाद् गृहागतत्वाद्वा। (४) निःसंशयम् । (५) बहुपुण्यमित्यर्थः। (६) विश्वास- कारणीभूतः (जामिन) इति भाषायाम् । क मित्रमेदः। व्यवहारस्यास्य धर्मः प्रतिभूः क्रियताम्' इति । अथ सिंहववनानन्तरं वृकगालाभ्यां विदारितोभयकुतिः शङ्ककर्णः पञ्चत्वमुपागतः। अथ वज्रदंष्ट्रश्चतुरकमाह-भोः चतुरक ! यावदहं नदीं गत्वा स्नान, देवा- चनविधिं कृत्वा श्रागच्छामि, तावत्वयात्राप्रमत्तेन (१)भाव्यम्' इत्यु: क्त्वा नद्यां गतः। अथ तस्मिन् गते चतुरकश्चिन्तयामास-कथं ममै- काकिनो भोज्योऽयमुष्ट्रो भविष्यति' इति विचिन्त्य क्रव्यमुखमाह- भोः क्रब्यमुख ! तुधालुर्भवान् तद्यावदसौ स्वामी नागच्छति ताव- त्वमस्योष्ट्रस्य मांसं भक्षय । श्रहं त्वां स्वामिनो निर्दोषं प्रतिपादयि- ष्यामि । सोऽपि तच्छुत्वा यावकिञ्चिन्मांसमास्वादयति तावञ्चतुरके- णोक्तम्-भोः क्रव्यमुख ! समागच्छति स्वामी तत्त्यक्त्वैनं दूरे तिष्ठ येनास्य भक्षणं न (२)विकल्पयति । तथानुष्ठिते सिंहः समायातो याव. दुष्ट्र पश्यति तावद्रितीकृतहृदयो (३) दासेरकः । ततो भृकुटि कृत्वा (४)परुषतरमाह-श्रहो केनैष उष्ट्र उच्छिष्टतां नीतो येन तमपिव्यापा- दयामि । एवमभिहिते क्रव्यमुखश्चतुरकमुखमवलोकयति किल । तद्वद किञ्चिद्येन मम शान्तिर्भवति अथ चतुरको विहस्योवाच-भोः माम- नादृत्य पिशितं भक्षयित्वाऽधुना मन्मुखमवलोकयसि ! तदास्वादय तस्य (५)दुर्णयतरोः फलम्' इति । तदाकर्ण्य कन्यमुखो जीवनाश- भयाद् दूरदेशं गतः । एतस्मिन्नन्तरे तेन मार्गेण(६) दासेरकसार्थो (७) भाराकान्तः समायातः। (८)तस्याग्रसरोष्ट्रस्य कण्ठे महती घण्टा बद्धो तस्याः शब्दं दूरतोऽध्याकर्ण्य सिंहो जम्बुकमाह-भद्र ! ज्ञायतां किमेष रौद्रः शब्दः श्रूयतेऽश्रुतपूर्वः। तच्छ्रुत्वा चतुरकः किश्चिदनान्तरं गत्वा सत्वरमभ्युपेत्य प्रोवाच-'स्मामिन् ! गम्यतां गम्यतां यदि शक्नोषि गन्तुम् ।' सोब्रवीत्-'भद्र! किमेवं मां (E)व्याकुलयलि, तत्कथय किमेतत्' इति । चतुरक श्राह-स्वामिन् ! एष धर्मराजस्तवो. परि कुपितः यदनेनाकाले दासेरकायं मदीयो व्यापादितः। तत्सहस्त्र- (१)सावधानेन रक्षणपरेणेति भावः (१) संशयं करोति। (३) वृकेण भवितहस्पिण्ड इति यावत् । (४) सकर्कशस्वरं यथा तथेत्यर्थः। (५) दुष्कृत. फलमिति भावः। (६) उष्ट्रयूथम् । (७) धृतभारः। (८) अग्रगामिन उष्ट्रस्येत्यर्थः।। (९) उद्विग्नं करोषि ।

पञ्चतन्त्रके-- गुणसुष्ट्रमस्य सकाशाद् ग्रहीष्यामि' इति निश्चित्य (१)बृहन्मानामादा. यासरस्योष्ट्रस्य श्रीवायां घण्टा बद्ध्वा (२)वध्यदासेरकसत्तानपि पितृपितामहानादाय वैरनिर्यातनार्थमायात एव । सिंहोऽपि तच्छुत्वा सर्वते दरादेवावलोक्य मृतमुष्ट्र परित्यज्य प्राणभयात्प्रणतः । चतुर- कोऽपि शनैः शनैस्तस्योष्ट्रस्य मांस भक्षयामास अतोऽहं ब्रवीमि- 'परस्य पीडनं कुर्वन्' इति ॥ अथ दमनके गते संजीवकश्चिन्तयामास- 'अहो किमेतन्मया कृतम् , (३)यच्छष्पादोऽपि मांसाशिनस्तस्यानुगः संवृत्तः । अथवा साध्विमुच्यते- अगम्यान्यः पुमान्याति नसेव्यांश्च निषेवते । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ३२१ ॥ तत्कि करोमि । क्व गच्छामि। कथं मे शान्तिर्भविष्यति । अथवा तमेव पिङ्गलकं गच्छामि कदाचिन्मां शरणागत रक्षति । प्राणैर्न वि. योजयति । यत उक्तश्च- धर्मार्थ यततामपीह विपदा देवाद्यदि स्युः क्वचि- तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः। लोके ख्यातिमुपागताऽत्र सकले लोकोक्तिरेषा यतो दग्धानां किल वह्निना हितकरः सेकोऽपि तस्याद्भधः ॥३२२॥ तथा च-लेोकेऽथवा तनुभृतां निजकर्मपाक नित्यं समाश्रितवतां सुहितक्रियाणाम् । भावार्जितं शुभमथायशुभं निकामं यद्भावि तद्भवति नात्र विचारहेतुः ॥ ३२३॥ अपरं चान्यत्र गतस्यापि मे कस्यचिदुनसत्त्वस्य मांसाशिनः स- काशान्मृत्युभविष्यति । तदरं सिंहात् । उक्तं च- महद्भिः स्पर्धमानस्य विपदेव गरीयसी । दन्तभङ्गोऽपि नागानां श्लाघ्यो गिरिविदारणे ॥ ३२४ ॥ तथा च-महतोपि क्षयं लब्ध्वा श्लाघ्यं नीचोऽपि गच्छति । दानार्थी मधुपा यदद्गजकर्णसमाहतः ॥ ३२५ ॥ - (१) महतीमित्यर्थः। (२) निहतोष्ट्रसम्बन्धिनः । (३) तृणभोजी - मित्रभेदः। ६५ एवं निश्चित्य स स्खलितगतिर्मन्दं मन्दं गत्वा सिंहाश्रयं पश्य- नपठत्-श्रो साध्विदमुच्यते- अन्तर्लीनभुजङ्गमं गृहमिव ज्वालाकुलं वा वनं ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः। नानादुष्टजनैरसत्यवचनासक्तैरनावृतं दुःखेन प्रतिगम्यते प्रचकितै राज्ञां गृहं वार्धिवत् ॥३२६॥ एवं पठन्दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा (१)प्रचकितः (२)संवृत- शरीरा दूरतरं (३)प्रणामकृति विनाप्युपविष्टः । पिङ्गलकाऽपि तथा विधं तं विलोक्य दमनकवाक्यं श्रद्दधानः कोपात्तस्योपरि पपात । अथ संजीवकः (४) खरनखर विकर्तितपृष्ठः शृङ्गाभ्यां तदुदरम् (५) उल्लिख्य कथमपि तस्मादपेतः (६) शृङ्गाभ्यां हन्त मिच्छन्युद्धायावस्थितः। अथ दावपि तौ (s) पुष्पितपलाशप्रमितौ परस्परवधकाङक्षिणौ दृष्ट्वा करट- को दमनकमाह-'भो मूढमते ! अनयोविरोधं वितन्वता त्वया साधुन कृतम् , न च त्वं नीतितत्त्वं वेत्सि । नीतिविद्भिरुक्तं च- कार्याण्युत्तमदण्डसाहसकलान्यायालसाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः । निःसाराल्पफलानि ये त्वविधिना वाछन्ति दण्डोद्यम- स्तेषां दुर्णयचेष्टितैनरपतेरारोप्यते श्रीस्तुलाम् ॥ ३२७ ॥ तद्यदि (5) स्वाम्यभिघातो भविष्यति ततिक स्वदोयमन्त्रबुद्धया क्रियते । अथ संजीवको न वध्यते तथाऽप्यभव्यम् (8)। यतःप्राणसंदे- हात्तस्य च ६धः । तन्मूढ ! कथं त्वं मन्त्रिपदभिलषसि (१०) साम- सिद्धि न वेत्सि तद् वृथा मनोरथोऽयं ते दण्डरुचेः। उक्त च- सामादिदण्डपर्यन्तो नयः प्रोयंभुवा । तेषां दण्डस्तु पापीयास्तं पश्चा. नियोजत् ॥ ३२८ ॥ (१) भीतः । (२) भयेन संकोचितावयवः । (३) नमस्कारम् । (४)खरैर्नखरैस्तीक्ष्णैर्नविकतितं विदारितं पृष्टं यस्य सः। (५) उद्धृष्य आहत्येत्यर्थः। (६)दूरं स्थितः सनिति भावः। (७) रुधिरानुलिप्तगात्राविति यावत् । (८)प्रभोविनाशः। (९)अनुचितम् । (१०) सन्धिना कार्यसिद्धिम् । ५प० पञ्चतन्त्रके-- तथा च-साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः। पित्तं यदि शरया शाम्यति कोऽर्थः पटोलेन ? ॥ ३२६ ॥ तथा च-श्रादौ साम प्रयोलव्यं पुरुषेण विजानता। सामसाध्यानि कार्याणि विकियां यान्ति न क्वचित् ॥३३०॥ न चन्द्रेण न चौषध्या न सूर्येण न वह्निना। साम्नैव विलयं याति विवेषिप्रभवं तमः ॥ ३३१ ॥ तथा यत्त्वं मन्त्रित्वमभिलषसि, तदष्ययुक्तम् । यतस्त्वं मन्त्रिप्रति न वेत्ति । पञ्चविधो हि मन्त्रः। स च (१) कर्णणामारम्भोपायः, (२) पुरुषद्रव्यसम्पत् , (३) देशकालविभागः (४) विनिपातप्रतीकारः, (५) कार्यसिद्धिश्चेति । सोऽयं स्वाम्यभात्ययोरेकतमस्य किं वा द्वयोरपि (8) विनिपातः समुत्पद्यते लग्नः। तद्यदि काचिच्छक्तिरस्ति तद्विचि- त्यतां विनिपातप्रतीकारः। (७) भिन्नसंधाने हि मन्त्रिणां बुद्धिपरी- क्षा तन्मूर्ख ! तत्कमलमर्थस्त्वं, यता विपरीतबुद्धिरसि। उक्तं च- मन्त्रिणां भिन्नसंघाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे का वान पण्डितः॥ ३३२॥ अन्यञ्च-घातयितुमेव नीचः परकार्य वेचि न प्रसाधयितुम् । पातयितुसेव शक्ति खोरुद्धर्तुमन्नपिटम् ॥ ३३३ ॥ अथवा न ते दोषोऽयम् । स्वामिनो दोषः, यस्ते वाक्यं श्रद्दधा. ति। उक्तंच- नराधिपा नीचजनानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये। विशन्ति ते दुर्गममार्गनिर्गमें समस्तसम्बाधमनर्थविक्षरम् ॥३३४॥ तद्यदि त्वमस्य मन्त्री भविष्यसि तदान्योऽपि कश्चिन्नास्य समीपे साधुजनः समेष्यति। उक्तंच- (३) सन्धिविग्रहादीनां प्रयोगनैपुण्यम् । (२) कर्मचारिणां धनानाच समू- द्विकरणम् । (३) अत्र स्थाने सामप्रयोगः, अत्र समये च दण्डस्य प्रयोग इत्येव- मादिना देशकालयोः व्यवस्थाकरणम् । (४)विनिपातो नाम कार्यहानिस्तस्य प्रती- कारः स पुनर्यथा नापतेत्तथा कार्यकरणम् । (५) सन्धिप्रभृतीनामुपायानां कार्या- नुगुणं फलसमर्पकत्वम् । (६) द्वयोरपि विनाश उपस्थित इत्यर्थः। (७) अशक्य- साधने कर्मणीत्यर्थः। .

-- मित्रमेदः। ६७ गुणालयोऽप्यसन्मत्री नृपति धिगम्यते । प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा हृदः ॥ ३३५ ॥ तथा शिष्टजनरहितस्य स्वामिनोऽपि नाशो भविष्यति। उक्तं च -चित्रास्वादकथैर्भूत्यैरनायासितकार्मुकैः। ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ ३३६ ॥ तत्कि मूर्योपदेशेन ?। केवलं दोष एव न गुणः। उक्तं च- नानाम्यं नमते दारु नाश्मनि स्यात्तुरक्रिया। सूचीमुखं विजानीहि नाशिष्यायोपदिश्यते ॥ ३३७ ॥ दमनक अाह-कथमेतत् । सोऽब्रवीत्- कथा (१४) अस्ति कस्मिंश्चित्पर्वतैकदेशे वानरयूथम् । तच्च कदाचिदुधेम न्तसमये(१)अतिकठोरवातसंस्पर्शवेपमानकलेवरं (२)तुषारवर्षोद्धत- प्रवर्षधनधारानिपातसमाहतं न कथञ्चिच्छान्तिमगमद् । अथ केचि- द्वानरा वह्निकणसदृशानि गुञ्जाफलान्यवचित्य वह्निवाञ्छया फूत्कु- र्वन्तः समन्तात्तस्थुः। श्रथ सूचीमुखो नाम पक्षी तेषां तं वृथाया- समवलोक्य प्रोवाच-भोः सर्वे मूर्खा यूमम् । नैते वह्निकणा, गुलाफलानि एतानि । तत्कि वृथा श्रमेण नैतस्माच्छीतरता भवि- यति । तदन्विष्यतां कश्चिन्निर्वातो वनप्रदेशो गुहा वा गिरिक- न्दरंपा। अद्यापि (३)साटोपा मेघा दृश्यन्ते। अथ तेषामेकतमो वृद्धवानरस्तमुवाच- भो मुर्ख ! किं तवानेन व्यापारेण । तद्गम्यताम् । उक्तं च- मुहुर्विनितकर्माणं द्यूतकारं पराजितम् । नालापयेद्विवेकशो यदीच्छेरिसद्धिमात्मनः ॥ ३३८ ॥ तथा च-आखेटकं वृथाक्लेशं भूर्ख व्यसनसंस्थितम् । श्रालापयति यो मूढः स गच्छति पराभवम् ॥ ३३६ ॥ (१)अतिकठोरेण प्रबलवेगेन वातसंस्पर्शेन वायुसम्बन्धेन हेतुना वेपमानं- कम्पमानं कलेवरं गात्रं यस्य तत्तथाभूतम् । (२) तुषारवर्षवत् हिमवृष्टिरिव उद्धतेन उत्कटेन प्रवर्षाणां सततवर्षिणां धनानां मेवानां धाराया जलप्रवाहस्य निपा- तेन पतनेन समाहतं पीडितम् (३) सवेगा वर्षोन्मुखा इत्यर्थः ।

पञ्चतन्त्रके- MER - सोऽपि तमनाहत्य भूयोऽपि वानराननवरतमाह-भोः किं वृथा क्लेशेन । अथ यावदसौन कथञ्चित्प्रलपन्विरमति तावदेकेन वानरेण व्यर्थश्रमत्वात्कुपितेन पक्षाभ्यां गृहीत्वा शिलायाम(१)प्रास्फालित (२)उपरतश्च । अतोऽहं ब्रवीमि-नानाम्यं नमते दारु' इत्यादि । तथा च-उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयः पानं भुजङ्गानां केवलं विषवर्धनम् ॥ ३४० ॥ अन्यच्च-उपदेशो न दातव्यो याद तादृशे जने । पश्य वानरमूर्खेण सुगृही निर्ग्रही कृतः॥ ३४१ ॥ दमनक आह-कथमेतत् । सोऽब्रवीत्- कथा (१५) अस्ति कस्मिंश्चिद्वनोद्देशे शमीवृतः। तस्य लम्बमानशाखायां कृतावासावरण्यचटकदम्पती वसतः स्म । श्रथ कदाचित्तयोः (३) सुखसंस्थयोहेमन्तमेघोमन्दं मन्दं वर्षितुमारब्धः। अत्रान्तरेकश्चिच्छाखा- मृगो(४) वातासारसमाहतः(५) प्रोद्धूषितशरीरो(६) दण्डबीणां चादयन्वेपमानस्तच्छमीमूलमासाद्योपविष्टः। अथ तं तादृशमवलो- क्य चटका प्राह-भो भद्र ! हस्तपादसमोपेतो दृश्यसे पुरुषाकृतिः। शीतेन भिद्यसे मूढ ! कथं न कुरुषे गृहम् ॥ ३४२ ॥ एतच्छुत्वा तां वानरः सकोपमाह-अधमे ! कस्मान स्वं मौनव्रता भवसि । अहो, धाष्टयंमस्याः। अद्य मामुपहसति । एवं विचिन्त्य तामाह-मुग्धे! किं तव ममोपरि चिन्तया । उक्तञ्च-वाच्यं श्रद्धासमेतस्य पृच्छतश्च विशेषतः। प्रोक्तं श्रद्धाविहीनस्य अरण्यरुदितोपमम् ॥ ३४३॥ तकि बहुना तावत् ।' इदानीम् अनुभव निजस्य धार्थस्य फल- (१) पातितः। (२) मृतश्चेति यावत् । (३) सुखेन स्थितयोरित्यर्थः । (1) वानरः। (५) वातासारेण सवायुवृष्टिधारया समाहतः क्लेशितः। (६) वर्षाजलाशरीरः। - ६६ मित्रसेदः। मित्युक्त्वा यावत् (१)कुलायस्थितया तयाभिहितः स तावत्तां शमी- मारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि- 'उपदेशो न दातव्यः, इति ॥ तन्मूर्ख ! (२)शिक्षापितोऽपि न शिक्षित- स्त्वम् । अथवा न ते दोषोऽस्ति, यतः साधो शिक्षा गुणाय संपद्यते, मालाधोः। उक्तञ्च- किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् । अन्धकारप्रतिच्छन्ने घटे दीप इनाहितः ॥ ३४४ ॥ तद्वयर्थपाण्डित्यमाश्रित्य मम बचनमण्वनात्मनः शान्तिमपि वेत्सि तन्नूनम् (३)अपजातस्त्वम् । उकञ्च- जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च। अपजातश्च लोकेऽस्मिन्मन्तव्यः शास्त्रवेदिभिः ॥ ३४५ ॥ मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ ३४६॥ अध्यात्मनो विनाशं गणयति न खलः परव्यसनहष्टः । प्रायो मस्तकनाशे समरमुखे नृत्यति कबन्धः ॥ ३४७॥ अहो साध्विदमुच्यते- धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थपाण्डित्यात्पिता धूमेन घातितः ॥ ४४८ ॥ दमनक श्राह-कथमेतत् । सोऽब्रवीत्- कथा (१६) कस्मिश्चिदधिष्टाने धर्मबुद्धिः पापबुद्धिश्चेति द्वे मित्रे प्रतिवसतः स्म । अथ कदाचित्पापबुद्धिना चिन्तित-अहं तावन्मृ॰ दारि- योपेतच, तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वास्याश्रयेणार्थोपार्जन कृत्वैनमपि वञ्चयित्वा सुखी भवामि । अथान्यस्मिनहनि पापबुद्धि- धर्मबुद्धि प्राह-भो मित्र ! वार्धकभावे किं त्वमात्मविचेष्टितं स्मरसि? देशान्तरमदृष्ट्वा कां शिशुजनस्य वार्ता कथयिष्यसि । उक्तञ्च- (१)नीडवर्तिन्या। (२) दत्तोपदेशोऽपीति भावः। (३) अतिनीचः।

CHAURATION पञ्चतन्त्रके देशान्तरेषु बहुविधभाषावेशादि येन न ज्ञातम्। भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥ ३४६ ।। तथा च-विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् । यावद् प्रजति न भूमौ देशादेशान्तरं हृष्टः ॥ ३५० ॥ श्रथ तस्य तद्वचनमाकर्ण्य प्रष्टमनास्तेनैव सह गुरुजनानुज्ञातः शुमेऽहनि देशान्तरं प्रस्थितः। तत्र च धर्मबुद्धिप्रभावेण भ्रमता पाप- बुद्धिना (१)प्रभूततरं वित्तमासादितम् । ततश्च द्वावपि तौ(२)प्रभूतो- पार्जितद्रव्यो प्रहृष्टौ स्वगृहं प्रत्यौत्सुक्येन निवृत्तौ। उक्तञ्च-प्राप्तविद्यार्थशिल्पानां देशान्तरनिवासिनाम् । कोशमात्रोऽपि भूभागः शतयोजनवद्भवेत् ॥ ३५१ ॥ अथ स्वस्थानसमीपवर्तिना पापबुद्धिना धर्मबुद्धिरभिहितः भद्र! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते। यतः कुटुम्बिनो बान्ध- घाश्च() प्रार्थयिष्यन्ते । तदत्रैव वनगहने क्वापि भूमौ निक्षिप्य किञ्चि- मात्रमादाय गृहं प्रविशावः। भूयोऽपि प्रयोजने सजाते(४) तन्मात्रं समेत्यास्मात्स्थानान्नेष्यावः। उक्तञ्च- न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमध्यहो। मुनेरपि यतस्तस्य दर्शनाञ्चलते मनः ॥ ३५२ ॥ तथा च-यथामिषं जले मत्स्यैर्भयते श्वापदैर्भुवि । आकाशे पतिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ३५३ ॥ तदाकर्ण्य धर्मबुद्धिराह-भद्र ! एवं क्रियताम् ।' तथानुष्ठिते द्वा. वपि तौ स्वगृहं गत्वा (५)सुखेन संस्थितवन्तौ । अथान्यस्मिन्नहनि पापबुद्धिनिशीथेऽटव्यां गत्वा तत्सर्वं वित्तं समादाय गर्ने पूरयित्वा स्वभवनं जगाम । अथान्येधुर्धर्मबुद्धिं समभ्येत्य प्रोवाच-सखे ! बहु- कुटुम्बा वयं वित्ताभावात्सीदामः(६) तद्गत्वा तत्र स्थाने किञ्चिन्मात्र धनमानयावा' सोऽब्रवोत्-'भद्र ! एवं क्रियताम्' अथ द्वावपि गत्वा तत्स्थानं यावत्खनतस्तावद्रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः (१) अतिप्रचुरम् । (२) उपार्जितबहुधनौ । (३) याचिष्यन्ते । (४) प्रयोजनोपयोगि। (५)सानन्दं स्थिताविति भावः (६)कष्टमनुभवामः ।

मित्रभेदः। शिरस्ताडयन्प्रोवाच-'भो धर्मबुद्धे ! त्वया हतमेतद्धनम् , नान्येन । यतो भूयोऽपि गर्तापूरणं कृतम् । तत्प्रयच्छ में तस्यार्धम् । अथवाह राजकुले निवेदयिष्यामि' स आह-भो दुरात्मन् ! मैवं वद ! धर्मबु- द्धिः खल्वहम् । नैतञ्चौरकर्म करोमि । उक्तंच- मातृवत्परदाराणि परद्रव्याणि लोष्टवत् । आत्मवत्सर्वभूतानि वीक्षन्ते धर्मवुद्धयः ॥ ३५४ ॥ एवं द्वावपि तौ विवदमानौ (१)धर्माधिकारिणं गतौ। प्रोचतुश्च परस्परं दूषयन्तौ। अथ धर्माधिकरणाधिष्ठितपुरुषैदिव्याथै (२)यावनि- योजितौ तावत्पापवुद्धिराह-अहो न सम्यग्दृष्टोऽयं(३) न्यायः । उक्तं च-विवादेऽविष्यते पत्रं तदभावेऽपि साक्षिण। साक्ष्यभावात्ततो दिव्यं प्रवदन्ति मनीषिणः ॥ ३५५ ॥ तत्रं विषये मम वृक्षदेवताः साक्षीभूतास्तिष्ठन्ति । ता अप्यावयो- रेकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैरभिहितम्-'भोः ! युक्तमुक्तं भवता । उक्तं च- अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते । न तत्र विद्यते दिव्यं किं पुनर्यत्र देवताः ॥ ३५६ ॥ तदस्माकमण्यत्र विषये महत्कौतूहलं वर्तते । (४)प्रत्यूषसमये युवा- भ्यामप्यस्माभिः सह तत्र वनोद्देशे गन्तव्यम्' इति । एतस्मिन्नन्तरे पापबुद्धिः स्वगृहं गत्वा स्वजनकमुवाव-'तात ! प्रभूतोऽयं मया- थों धर्मबुद्धेश्चोरितः। स च तव वचनेन (५)परिणति गच्छति, अन्य- थास्माकं प्राणैः सह यास्यति' स ाह-'वत्स ! द्रुतं वद येन (६) प्रोच्य तद् द्रव्यं स्थिरतां नयामि । पापबुद्धिराह-तात ! अस्ति तत्प्र- देशे महाशमी। तस्यां महत्कोटरमस्ति। तत्र त्वं साम्प्रतमेव प्रविश । ततः प्रभाते यदाहं (७)सत्यश्रावणं करोमि, तदा त्वया वाच्यं यद् "धर्मबुद्धिश्चौरः” इति । तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिधर्मबुद्धि- (१)न्यायाधीशम् । (२)शपथकरणायेत्यर्थः। (३) विचारो निर्णय इति भावः। (४)प्रातःकाले। (५) अस्मदीयभोगरूपपरिणामम् । (६)सायं प्रदायेत्यर्थः । (७) द्वयोर्मध्ये कश्चौर इत्यस्मिन्विषये यथार्थतां प्रकटयितुं वनदेवतामाराधयामीत्यर्थः।

७२ पश्चतन्त्रके- - पुरस्सरो धर्माधिकरणका सह तां शमीमभ्येत्य तारस्वरेण प्रोवाच- श्रादित्यचन्द्रावनिलोऽनलश्च द्योभूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये, धर्मश्च जानाति नरस्य वृत्तम् ॥३५७॥ भगवति वनदेवते ! श्रावयोर्मको यश्चौरस्तं कथय ? अथ पापत्रु- द्धिपिता शमीकोटरस्थः प्रोवाच 'भोः ! ऋणुत शृणुत धर्मबुद्धिना हृतमेतद्धनम्' । तदाकर्ण्य सर्वे ते राजपुरुषा (१)विस्मयोत्फुल्ललोबना यावद्धर्मबुद्धेवित्तहरणोचितं निग्रहं शास्त्रदृष्टयावलोकयन्ति तावद्धर्म- बुद्धिना तच्छमीकोटरं (२)वह्निभाज्यद्रव्यैः परिवेष्टय वह्निना संदीपि- तम् । अथ ज्वलति तस्मिञ्शनीकोटरेऽर्धदग्धशरीरः स्कुटितेक्षणः क- रुणं (३)परिदेवयन्पापबुद्धिपिता निश्चक्रान । ततश्च तेः सर्वैः पृष्टः- भोः किमिदम् ? इत्युक्ते स (४) गपबुद्धिविचेष्टितं सर्वमिदं निवेदयि- त्वोपरतः। अथ ते राजपुरुषाः पापबुद्धि शमीशाखायां (५)प्रतिलम्ब्य धर्मवुद्धिं प्रशस्येदमूचुः--अहो ! साध्विदमुच्यते- उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् । पश्यतो वकमूखस्य नकुलेन हता बकाः ॥ ३५ ॥ धर्मबुद्धिः प्राह-कथमेतत् ते प्रोचुः- कथा ( १७) अस्ति कस्मिंश्चिदनोद्देशे बहुबकसनाथो वटपादपः। तस्य कोटरे कृष्णसर्पः प्रतिवसति स्म । स च बकबालकानजातपक्षानपि सदैव भक्षयन्कालं नयति स्म । अथैको बकस्तेन भक्षितान्यपत्यानि दृष्ट्वा(६) शिशुवैराग्यात्सरस्तीरमासाद्य (७)बाप्पपूरपूरितनयनोऽधोमुखस्तिष्ठ- ति, तं च ताडक्चेष्टितमवलोक्य कुलीरकः प्रोवाच-माम ! किमेवं रुद्यते भवताद्य ? स श्राह-'भद्र ! किं करोमि मम मन्दभाग्यस्य बालकाः कोटरनिवासिना सर्पण भक्षिताः, तदुःखदुःखितोऽहं रोदि- मि तत्कथय मे यद्यस्ति कश्चिदुपायस्तद्विनाशाय' तदाकर्ण्य कुलीर- १) साश्च- इति भावः (२) काष्ठप्रभृतिभिः। (३)विलपन् । (४)पाप- बुद्धिकृत्यम् । (५) बवा।(६)शिशुविनाशजनितदुःखात् । (७) रुदन्चि त्यर्थः । - F मित्रभेदः। कश्चिन्तयामास-'श्रयं तावदस्मजातिसहजवैरी(१) अतः तथोपदेशं प्रयच्छामि सत्यानृतं, यथान्येऽपि बकाः सर्वे संक्षयमायान्ति' । उक्तं च-नवनीतसमां वाणों कृत्वा चित्तं तु निर्दयम् । तथा प्रबोध्यते शत्र: सान्वयो नियते यथा ॥ ३५ ॥ श्राह च-'माम ! यद्येवं तन्मत्स्यमांसखण्डानि नकुलस्य विलद्वा- रात्सर्पकोटरं यावत्प्रतिप यथा नकुखस्तन्मार्गेण गत्वा तं दुष्टस विनाशयति ।' अथ तथानुष्ठिते मत्स्यमांसानुसारिणा नकुलेन तं कृष्ण- सर्प निहत्य तेऽपि (२)तवृक्षाश्रयाः सर्वे वकाश्च शनैक्षिताः । अतो वयं ब्रूमः-'उपायं चिन्तयेत् ॥ तदनेन पापबुद्धिना उपायश्वि- तितो नापायः। ततस्तत्फलं प्राप्तम् ।' अतोऽहं ब्रवीमि-'धर्मबुद्धिः कुबुद्धिश्च' इति ॥ एवं मूढ ! त्वयाप्युपायश्चिन्तितो नापायःपापबुद्धिवत्। तन्न भवसि त्वं सजना, केवलं पापबुद्धिरसि। ज्ञातो मया स्वामिन प्राणसंदेहानयनात् । प्रकटीकृतं त्वया स्वयमेवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्विदमुच्यते- यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् । यदि जलध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ ३६० ॥ यदि त्वं स्वामिनं एनां दशां नयसि तदस्मद्विधस्य का गणना। तस्मान्ममासन्नेन (३)भवता न भाव्यम् । उक्तं च- तुलां लोहसहस्त्रस्य यत्र खादन्ति भूषिकाः। राजस्तत्र हरेच्छयेनो बालकं नात्र संशयः॥ ३६१॥ दमनक आह-कथमेतत् । सोऽब्रवीत्- कथा (१८) अस्ति कस्मिंश्चिदधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः स च (५) विभवक्षयादेशान्तरगमनमना व्यचिन्तयत्- यत्र देशेऽथवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः । तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः ॥ ३६२॥ (१) मत्स्यादीनां स्वभावशनः। (२)वटवृक्षवासिनः। (३) समीपवर्तिना। (४) दरिद्रतावशात् । - पञ्चतन्त्रके- - तथा च-येनाहंकारयुक्तेन चिरं विलसितं पुरा। दोनं वदति तत्रैव यः परेषां स निन्दितः ॥ ३६३ ॥ तस्य च गृहे(१) लोहमारघटिता (२)पूर्वपुरुषोपार्जिता तुलासीत् ता च कस्यचिच्छेष्टिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठि- नमुवाच-भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला' स आह-भोः नास्ति सा त्वदीया तुला । मूषिकैक्षितेति।' जीर्णधन श्राह-भोः श्रे- ष्ठिन् ! नास्ति दोषस्ते यदि मूषिकर्मक्षितेति । ईडगेवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थ गमिष्यामि । तत्त्व- मात्मीयं शिशुमेनं धनदेवनामानं मया सह (३)स्नानोपकरणहस्तं प्रेषय इति । सोऽपि चौर्यभयात्तस्य शङ्कितः स्वपुत्रमुपाच-'वत्स ! पितृ व्योऽयं तव स्नानार्थ यास्यति तद्गम्यतामनेन सार्धं स्नानोपकरणमा दाय, इति । अहो ! साध्विदमुच्यते- न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः। मुक्त्वा भयं प्रलोभं वा कायकारणमेव वा ॥ ३६४ ॥ तथा च-अत्यादरोभवेद्यत्र कार्यकारणवर्जितः। तत्र शंका प्रकर्तव्या परिणामे सुखावहा ॥ ३६५ ॥ अथासौ वणिशिशुः स्नानापकरणमादाय प्रहृष्टमनास्तेनाभ्याग- तेन सह प्रस्थितः। तथानुष्ठिते स वणिक्स्नात्वा तं शिशुं नदोगुहायां प्रक्षिष्य तदारं बृहच्छिलयाच्छाद्य सत्वरं गृहमागतः पृष्टश्च तेन व- णिजा-'भोः अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदों गतः' इति । स ाह-'नदीतटात्स श्येनेन हतः' इति । श्रेष्ष्ठयाह- मिथ्यावादिन् ! किं क्वचिच्छयेनो बालं हर्तुं शक्नोति । तत्समर्पय मे सुतम्। अन्यथा राजकुले निवेदयिष्यामि' इति । स ाह भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोहमा- रघटितां तुलां न भक्षयति तदर्पय मे तुलाम् , यदि (४) दारकेण (१) लोहमयी द्विसहस्रपललोहघटिता वा । (२) कुलपरम्परायातेति यावत् । (३) हस्तदत्तस्नानीयवस्तुसम्भारम् । (४) पुत्रेण ।

मित्रभेदः। प्रयोजनम् ।' एवं तौ विवदमानौ द्धावपि राजकुलं गतौ। तत्र श्रेष्ठी तारस्वरेण प्रोवाच-'भोः (१)अब्रह्मण्यमब्रह्मण्यम् । मम शिशुरनेन चौरेणापहृतः' अथ धर्माधिकारिणस् तमूचुः-'भोः समर्म्यतां श्रेष्ठि- सुतः १ स आह-किं करोमि। पश्यतो मे नदीतटाच्छयेनेनापहृतः शिशुः। तच्छुत्वा ते प्रोचुः-भोः न सत्यमभिहितं भवता। किं श्येनः शिशुं हर्तुं समर्थो भवति ? स आह-'भोभोः, श्रूयतां मदचः- तुला लोहसहस्रस्य यत्र खादन्ति मूषिकाः। राजस्तत्र हरेच्छयेनो बालक नात्र संशयः ॥ ३६६ ॥ ते प्रोचुः–'कथमेतत् ततः श्रेष्ठी सम्यानामन श्रादितः सर्व वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं सम्बोध्य (२)तुलाशिशुप्रदानेन सन्तोषितौ। अतोऽहं ब्रवीमि–'तुलां लोहसह- स्त्रस्य' इति । तन्मूर्ख ! (३)सञ्जीवकप्रसादमसहमानेन त्वयैतत्कृतम् ! अहो, साध्विदमुच्यते- प्रायेणात्र कुलान्वितं कुकुलजाः श्रीवल्लभं दुर्भगा दातारं कृपणा ऋजूननुजवो वित्त स्थितं निर्धनाः । बैरूभ्योपहताश्च कान्तवपुषे धर्माश्रयं पापिनो नानाशास्त्रविचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ ३६७ ॥ तथा च-मूर्खाणां पण्डिता द्वेष्या निधनानां महाधनाः। वतिनः पापशीलानामसतीनां कुलस्त्रियः ॥ ३६८ ॥ तन्मूर्ख ! त्वया (४)हितमध्यहितं कृतम् । उक्तं च- पण्डितोऽपि वरं शत्रुर्न मूर्यो हितकारकः। वानरेण हतो राजा विप्राश्चौरेण रक्षिताः ॥ ३६६ ॥ दमनक श्राह-कथमेतत् । सोऽब्रवीद्- कथा (१९) कस्यचिद्राको नित्यं वानरोऽतिभक्तिपरोऽ(५)ङ्गसेवकोऽन्तपुरेऽ - (१) महाननर्थो जात इति भावः । (२) अन्योन्यं तुलायाः शिशोश्च प्रदानेनेत्यर्थः (३) सञ्जीवककृतां कृपाम् । (४) हितकरमपि हितप्रतिकूलं गणित- मिति यावत् । (५)शरीरसेवाकारी ।

७६ पञ्चतन्त्रके- (१)प्रतिषिद्धप्रसरोऽ(२)तिविश्वासस्थानमभूत् । एकदा शाज्ञो निद्रा गतस्य वानरे व्यजनं नीत्वा वायु विद्धति राज्ञो वक्षःस्थलोपरि मक्षिकोपविष्टा । (३)व्यजनेन मुहुर्मुहुनिषिध्यमानापि दुनःपुनस्तत्रे योपविशति। ततस्तेन स्वभावचापलेन सूक्ष्ण वानरेण कुद्रेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता। तेन शितधारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्माञ्चिरायुरिच्छता नृपेण सूर्योऽनुचरो न रक्षणीयः। अपर मेक- स्मिन्नगरे कोऽपि विप्रो महाविद्वान् परं पूर्वजन्मयोगेज चोदो वर्तते । स तस्मिन्पुरेऽन्यदेशादागतांश्चतुरो विप्रान्वहुनि वस्तूनि विक्रीणतो- हृष्टा चिन्तितवान्-'अहो केनोपायेनैषां धनं लमे' इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचः नानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवां कर्तुमारब्धा । अथ तस्मिन्सेवां कुर्वति तैविप्रैः सर्ववस्तूनि विक्रीय बहुमूल्यानि रत्नानि क्रीतानि । ततस्तानि जङ्घामध्ये तत्समदं प्रक्षिप्य स्वदेश प्रति गन्तुमुद्यमो विहितः। ततः स धूर्तविप्रस्ताविप्रान् गन्तुमुद्यता न्प्रेक्ष्य (४)चिन्ताव्याकुलितमनाः सञ्जातः। अहो धनमेतन्न किश्चिन्मम (५)चटितम् । अथैभिः सह यामि । पथि क्वापि विपं दत्त्वैतानिहत्य सर्वरत्नानि गृह्णामि। इति विचिन्त्य तेषामग्रे सकरुणं विलयेदमाह- भो ! मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः, तन्मे मनो भव- द्भिः सह स्नेहपाशेन बद्धं भवद्विरहनाम्नेवाकुलं सञ्जातं यथा पूर्ति क्वापि न धत्ते यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत । तद्वचः श्रुत्त्वा ते करुणाचित्तास्तेन सममेव स्वदेशंप्रति प्रस्थिताः। अथाध्वनितेषां पञ्चानामपि (६)पल्लीपुरमध्येन बजतां (७)वाडा कथ. यितुमारब्धाः-रे रे (८)किराताः! धावत धावत (E)सपादलक्षधनिनो यान्ति एतानिहत्य धनंनयत'ततःकिरातैवचनमाकर्ण्य सत्वरंगत्वा (१) अनिवारितप्रवेशः । (२) अत्यन्तविश्वासपात्रमित्यर्थः। (३)ताल- वृन्तेन (पंखा) इति भाषायाम् । (४) कथमेषां रतानि हरेयमितिचिन्तापरः । (५) प्रदत्तम् । (६) व्याधानां नगरमध्येनेत्यर्थः। (७)वायसाः । (6)भ्याधाः (९)महाधनिका इति भावः । रा- H मित्रसेदः। ते विप्रा लगुडप्रहारैर्जर्जरीकृत्य वस्त्राणि मोचयित्वा विलोकिताः परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभिहितम्-'भोः पान्थाः ! पुरा कदापि वाङ्गवचनमनृतं नासीत् ततो भवतां सन्निधौ वापि धनं विद्यते तदर्पयत अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्ग प्रेक्ष्य धनं नेष्यामः' इति । तदा तेषामीदृशं वचनमाकर्ण्य चौरविप्रेण मनसि चिन्तितम्-'यदेषां विप्राणां वधं विधायानं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततोऽहं पूर्वमेवात्मानमरत्न(१) सम- प्यतान्मुञ्चामि(२), । उक्तं च- मृत्योर्बिभेषि किं बाल ! न स भीतं विमुश्चति । अद्य वाब्दशतान्ते वा मृत्युर्वं प्राणिनां ध्रुवः ॥ ३७० ॥ तथा च-गवाथै ब्राह्मणार्थ च प्राणत्यागं करोति यः। सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥३७१॥ इति निश्चित्याभिहितम्-भोः! किराताः यद्येवं ततो मां पूर्व निहत्य विलोकयत इति । ततस्तैस्तथानुष्ठिते तं धनरहितमवलोक्यापरे चत्वा- रोऽपि मुक्ताः । अतोऽहं ब्रवीमि-'पण्डितोऽपि वरंशत्रुः' इति । अथैवं (३)संवदतोस्तयोः सञ्जीवकः क्षणमेकं पिङ्गलकेन सह युद्धं कृत्वा तस्य (४)खरनखरप्रहाराभिहतो (५)गतोसुवेसुन्धरापीठे (६) निपपात। अथ तं गतासुमवलोक्य पिङ्गलकस्तद्गुणस्मरणाद्रहृदयः(७) प्रोवाच- 'भोः! अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता यतो विश्वास- घातादन्यन्नास्ति पापतरं कर्म । उक्तंच- मित्रद्रोही कृतनश्चः यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ॥ ३७२ ॥ भूमिक्षये राजविनाश एव भृत्यस्य वा बुद्धिमतो विनाशे। नो युक्तमुक्तं ह्यनयोः समत्वं नष्टापि भूभिः सुलभा न भृत्याः ३७३ तथा मया सभामध्ये स सदैव प्रशंसितः। तकि कथयिष्यामि (१) रनरहितं प्रदयेति यावत् । (२) व्याधेभ्यो मोचयामीत्यर्थः । (३) वार्तालापं कुर्वतोः। (४) तीक्ष्णनखप्रहारैराहत इत्यर्थः। (५) मृतः समित्यर्थः । (६) भूमौ । (७) सञ्जीवकगुणानां स्मरणेन जातदयः।

पञ्चतन्त्रके- - । - तेषामग्रतः। उक्तं च- उत्तो भवति यः पूर्वं गुणवानिति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञामङ्गभीरुणा ॥ ३७४ ॥ एवंविधं (१)प्रलपन्तं दमनकः समेत्य सहर्षमिदमाह-देव ! (२) कातरतमस्तवैष (३) ल्यायो यद् द्रोहकारिणं (४)शष्पभुजं हत्वेत्थं शोचसि तन्नैतदुपपन्न(५)भूभुजाम् । उक्तं च- पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् । प्राणद्रोहं यदा गच्छेद्धन्तव्यो नास्ति पातकम् ॥ ३७५ ॥ तथाच- राजा घृणी ब्राह्मणः सर्वभतो स्त्री चात्रपा दुष्टमतिः सहायः। प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या अमी यश्च कृतं न वेत्ति ॥३७६॥ अपि च-सत्यान्ता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या। भूरिव्यया प्रचुरवित्तलमागमा च । वेश्याङ्गनेव नृएनीतिरनेकरूपा ॥ ३७७ ॥ अपि च-अकृतोपद्रवः कश्चिन्महानपि न पूज्यते । पूजयन्ति नरा नागान तायं नागघातिनम् ॥ ३७८ ॥ तथा च-अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः॥ ३७६ ॥ एवं तेन (६)संबोधितः पिङ्गलकः संजीवकशोकं त्यक्त्वा(७)दमन- कसाचिव्येन राज्यमकरोत् । इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रके मित्रभेदो नाम प्रथमं तन्वं समाप्तम्। (१)विलपन्तम् । (२) अत्यन्तमनुचितः । (३) व्यवहारो विचार इति यावत् । (४) तृणभोजिनम् । (१) न युक्तमित्यर्थः । (६) शोकापनोदाय कृतनीतिशिष इत्यर्थः। (७.) दमनक मन्त्रिणं विधाय तत्साहाय्येनेति भावः ।

- मित्रसम्प्राप्तिः अथेदमारभ्यते मित्रसम्प्राप्ति म द्वितीयं तन्त्रम् । यस्यायमादिमः श्लोकः- असाधना अपि प्राना बुद्धिमन्तो बहुश्रुताः । साधयन्त्याशु कार्याणि काकाखुमृगकूर्मवत् ॥१॥ तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नग. रम् । तस्य नातिदूरस्था (१) महोच्छायवान् (२) नानाविहङ्गोपभुक्तफलः (३) कीटैरावृतकोटरश्छायाश्वासितपथिकजनसमूहो (४) न्यग्रोधपादपो (५) महान् । अथवा युक्तम्- छायासुममृगः शकुन्तनिव है विध्वग्विलुप्तच्छदः कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाध्यः स एव द्रुमः सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽपरः॥२॥ तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्प्राण- यात्रार्थ पुरसुद्दिश्य प्रचलितो यावत्पश्यति तावज्जालहस्तोऽतिकृष्णतनुः स्फुटितचरण ऊर्ध्वकेशो (६) यमकिङ्कराकारो नरः सम्मुखो बभूव | अथ तं दृष्ट्वा शङ्कितमना व्यचिन्तयत्—'यदयं दुरात्माद्य (७) ममाश्रयवटपा- दपसम्मुखोऽभ्येति तन्न ज्ञायते किमद्य वटवासिनां विहङ्गमानां (4) संक्ष- यो भविष्यति ?' एवं बहुविधं विचिन्त्य तत्क्षणानिवृत्य तमेव वटपादपं गत्वा सर्वान्विहङ्गमान्प्रोवाच-भोः ! अयं दुरात्मा लुब्धको जालतण्डु- लहस्तः समभ्येति तत्सर्वथा तस्य न विश्वसनीयम् ; एष जालं प्रसार्य तण्डु- (१)अत्युनतः। (२) नानाविहङ्गैः अनेकैः पक्षिभिः उपभुक्तानि भक्षितानि फलानि यस्य सः । (३) चुदजन्तुभिाप्तकोटरः। (४) छायया आश्वासितः आनन्दितः पथिकजनसमूहः पान्थवृन्दं येन सः। (५) वटवृक्षः। (६) भयङ्कर इत्यर्थः। (७) आवसभूतवटतरून्मुखः। (८)विनाशः। ६५० - - लान्प्रक्षेप्स्यति ते तण्डुला भवद्भिः सर्वैरपि (१) कालकूटसदशा द्रष्टव्याः । एवं वदतस्तस्य स लुब्धकस्तत्र वटतल आगत्य जालं प्रसार्य सिन्दुवार- सहशांस्तण्डुलान्प्रक्षिप्य नाति दूरं गत्वा (२) निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थितास्ते (३) लघुपतनकवाक्यालया निवारितास्तांस्तण्डु- लान् (४) हालाहलाङ्कुरानिव वीक्षमाणा निभृतास्तस्थुः । अत्रान्तरे चित्र- ग्रीवो नाम कपोतराजः (५) सहस्रपरिवारः प्राणयात्रार्थ परिभ्रमंस्तांस्त- डुलान्दूरतोऽपि पश्यंल्लघुपतनकेन निवार्यमाणोऽपि (६) जिह्वालौल्याद् भक्षणार्थम् (७) अपतत् सपरिवारो निबद्धश्च । अथवा साध्विदमुच्यते- जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम् । अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥ ३ ॥ उक्तं च-पौलस्त्यः कथमन्यदारहणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्यासम्भवो लक्षितः । अक्षश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥४॥ तथा च कृतान्तपाशबद्धानां देवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ ५ ॥ अत्रान्तरे लुब्धकरतान्बद्धान्विज्ञाय प्रहृष्टमनाः (८) प्रोद्यतयष्टिस्तद्व- धार्थ प्रधावितः । चित्रग्रोवोऽप्यात्मानं सपरिवारं वद्धं मत्वा लुब्धकमा- यान्तं दृष्ट्वा तान्कपोतानूचे-अहो न भेतव्यम् । उक्तं च- व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति तत्प्रभावादसंशयम् ॥ ६॥ सम्पत्तौ च विपत्तौ च महतामेकरूपता । उदये सविता रक्तो रक्तश्चास्तमये तथा ॥७॥ (१)विषसमानाः। (२)तिरोहितः सन्निति भावः। (३) लघुपतनकस्य तन्नामकस्य काकस्य वाक्यमेव अर्गला कपाटावष्टम्भकदा- रुदण्डविशेषः तया, तधुपतनकेन निषिद्धा इत्यर्थः । (४)विषाजकुरानिव। (५) बहुकपोतसहित इत्यर्थः । (६) तण्डुलभक्षणलोभादिति यावत् । (७)नीचैरागतः। (८) उस्वितदण्डः।

मित्रसम्प्राप्तिः । -- HAND तत्सर्वे वयं (१) हेलयोड्डीय सपाशजाला अस्यादर्शनं गत्वा (२) मुक्तिं प्राप्नुमः ! नो चेद्भयविक्लवाः सन्तो हेलया (३) समुत्पातं न करिष्यथ ततो मृत्युमवाप्स्यथ । उक्तं च- तनवोऽप्यायता नित्यं तन्तवो बहुलाः समाः। बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ ८ ॥ तथानुष्टिते लुब्धको जालमादायाकाशे (४) गच्छतां तेषां पृष्ठतो भूमि- स्थोऽपि पर्यधावत् । तत ऊनिनः श्लोकमेनमपठत् जालमादाय गच्छन्ति संहताः पक्षिणोऽप्यमी । यावञ्च विवदिष्यन्ति पतिष्यन्ति न संशयः ॥ ६ ॥ लघुपतनकोऽपि प्राणयात्राक्रियां त्यक्त्वा किमत्र भविष्यतीति कुतूह- लात्तत्पृष्ठतोऽनुसरति । अथ (५) दृष्टेरगोचरतां गतान् विज्ञाय लुब्धको निराशःश्लोकमपठन्निवृत्तश्च । नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ।। १० ।। तथा च-पराङ्मुखे विधौ चेत्स्यात्कथंचिद् द्रविणोदयः । तत्सोऽन्यदपि संगृह्य याति शङ्खनिधिर्यथा ।। ११ ।। तदास्तां (६) तावद्विहङ्गामिषलोभो यावत्कुटुम्बवर्तनोपायभूतं (७) जालमपि मे नष्टम् । चित्रग्रीवोऽपि लुब्धकमदर्शनीभूतं ज्ञात्वा तानुवाच- भोः ! निवृत्तः स दुरात्मा लुब्धकः । तत्सर्वैरपि स्वस्थैर्गम्यतां महिलारो- प्यस्य प्रागुत्तरदिग्भागे तत्र मम सुहृद्धिरण्यको नाम मूषकः सर्वेषां () पाशच्छेदं करिष्यति । उक्तं च- सर्वेषामेव मानां व्यसने समुपस्थिते । वाङमात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ।। १२ ।। एवं ते कपोताश्चित्रग्रीवेण (९) सम्बोधिता महिलारोप्ये नगरे हिर- (१) अवज्ञया युगपदेवेति भावः । (२) प्राणसङ्कटादुद्धारम् । (३) उड्डयनम् । (४)उड्डीयमानानाम् । (१) दृष्टेस्तिरोहितानित्यर्थः । (६) पक्षिमांसस्य लोभः। (७)परिवारस्य जीविकोपार्जनसाधनीभूतम् । (८)बन्धनच्छेदनम् । (९) उक्का इत्यर्थः।

पञ्चतन्त्रके- एयकबिलदुर्ग प्रापुः ! हिण्यकोऽपि सहस्रबिलदुर्ग प्रविष्टः सन्नकुतोभयः (१) सुखेनास्ते । अथवा साध्विदमुच्यते- अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः । अबसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥ १३ ॥ दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥ १४ ॥ तथा च-न गजानां सहस्रेण न च लक्षण वाजिनाम् । तत्कर्म सिध्यते राज्ञां दुर्गेणैकेन यद्रणे ॥ १५ ॥ शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । तस्माद् दुर्ग प्रशसन्ति नीतिशास्त्रविदो जनाः ॥ १६ ॥ अथ चित्रग्रीवो बिलमासाद्य तारस्वरेण प्रोवाच-भो ! भो ! मित्र ! हिरण्यक ! सत्वरमागच्छ महती मे (२)व्यसनावस्था वर्तते । तच्छ्रुत्वा हिरण्यकोऽपि बिलदुर्गान्तर्गतः सन्प्रोवाच-भोः ! को भवान् ? किम- र्थमायातः ? किं कारणम् ? कीहक् ते व्यसनावस्थानम् ? तत्कथ्यताम् इति । तच्छुत्वा चित्रग्रीव आह-भोः ! चित्रग्रीवो नाम कपोतराजोऽहं ते सुदृत् तत्सत्वरमागच्छ, (३)गुरुतरं प्रयोजनमस्ति । तदाकण्य(४) पुल- किततनुः प्रहृष्टात्मा स्थिरमनास्त्वरमाणो(५) निष्क्रान्तः । अथवा साध्विदमुच्यते- सुहृदः स्नेहसम्पन्ना लोचनानन्ददायिनः । गृहे गृहवतां नित्यमागच्छन्ति महात्मनाम् ॥ १७ ॥ आदित्यस्योदयस्तात! ताम्बूलं भारती कथा | इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥ १८ ॥ सुहृदो भवने यस्य समागच्छन्ति नित्यशः । चित्ते च तस्य सौख्यस्य न किश्चित्प्रतिमं सुखम् ॥ १६ ॥ अथ चित्रग्रीवं सपरिवारं पाशबद्धमालोक्य हिरण्यकः (६)सविषा- (१)निभयः। (२)विपत्प्राप्तिः। (३) आवश्यक कार्य विद्यत इत्यर्थः । १) मित्रागमनश्रवणेन सानन्द इति भावः । (५)सीघ्रतां कुर्वन् । (६) सदुःखम् । ।'

मित्रसम्प्राप्तिः । दमिदमाह-भोः ! किमेतत् ? स आह-भोः ! जानन्नपि किं पृच्छसि । उक्तं च यतः- यस्माच येन च यदा च यथा च यच्च यावञ्च यत्र च शुभाशुभमात्मकर्म । तस्माच तेन च तदा च तथा च तच्च तावच्च तत्र च कृतान्तवशादुपैति ॥ २०॥ तत्प्राप्तं मयैतद् बन्धनं जिह्वालोल्यात् । सांप्रतं त्वं सत्वरं (१)पाश- विमोक्षं कृरु । तदाकर्ण्य हिरण्यकः प्राह- अर्धार्धाद्योजनरातादामिषं वीक्षते खगः । सोऽपि पार्श्वस्थितं देवाद् बन्धनं न च पश्यति ॥ २१ ॥ तथा च- रविनिशाकरयोग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमतां च निरीक्ष्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ २२ ॥ तथा च- व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि । दुर्णीतं किमिहास्ति किञ्च सुकृतं कः स्थानलाभे गुणः कालः सर्वजनान्प्रसारितकरो गृह्णाति दूरादपि ॥ २३ ॥ एवमुक्त्वा चित्रीवस्य पाशं छेत्तुमुद्यतं स तमाह-भद्र ! मा मैवं कुरु प्रथमं भृत्यानां पाशच्छेदं कुरु तदनु ममापि च | तच्छु त्वा कुपितो हिरण्यकः प्राह-भोः ! न युक्तमुक्तं भवता यतः (२) स्वामिनोऽनन्तरं भृत्याः।' स आह-भद्र ! मा मैवं वद । (३) मदाश्रयाः सर्व एते(४) वराकाः अपरं स्वकुटुम्बं परित्यज्य समागताः (५)तत्कथमेतावन्मात्रमपि सम्मानं न करोमि | उक्तं च- यः सम्मानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्रा ते त्यजन्ति न कर्हि चित् ॥ २४ ॥ (१) बन्धनखण्डनम् । (१) प्रभो रक्षणानन्तरमेव भृत्या रक्षितव्या इति भावः । (३)ममाश्रिताः। (४) दीना दयनीया इति यावत् । (५) रक्षणमात्रमपीत्यर्थः। -- पञ्चतन्त्रके- तथा च-विश्वासः सम्पदा मूलं तेन यूथपतिर्गजः । सिंहो मृगाधिपत्येऽपि न मृगः परिवार्यते ।। २५॥ अपरं मम कदाचित्पाशच्छेदं कुर्वतस्ते दन्तभङ्गो भवति । अथवा दुरात्मा लुब्धकः समभ्येति तन्नूनं मम नरकपात एव । उक्तं च- सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः । सुखी स्यान्नरकं याति परत्रेह च सीदति ॥२६॥ तच्छ्रुत्वा प्रदृष्टो हिरण्यकः प्राह-भोः ! वेद्यहं राजधर्मम् , परं मया तव परीक्षा कृता । तत्सर्वेषां पूर्व पाशच्छेदं करिष्यामि । भवानीन विधिना(१) (२)बहुकपोतपरिवारो भविष्यति । उक्तं च- कारुण्यं संविभागश्च यस्य भृत्येषु सर्वदा । सम्भवेत्स महीपालखैलोक्यस्यापि रक्षणे ॥ २७ ॥ एवमुक्त्वा सर्वेषां पाशच्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाह-मित्र ! गम्यतामधुना स्वाश्रयं प्रति भूयोऽपि (३)व्यसने प्राप्ते समागन्तव्यम्' इति । तान्सम्प्रेष्य पुनरपि दुर्गं प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्रयमग- मत् । अथवा साध्विदमुच्यते- मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः । तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥ २८ ॥ लघुपतनकोऽपि वायसः सर्व तं चित्रग्रीवबन्धमोक्षमवलोक्य विस्मि- तमना व्यचिन्तयत्-अहो ! बुद्धिरस्य हिरण्यकस्य (४)शक्तिश्च दुर्गसा- मग्री च । (५)तदीगेव विधिविहङ्गानां बन्धनमोक्षात्मकः । श्रहं च न कस्यचिद्विश्वसिमि (६)चलप्रकृतिश्च । तथाप्येनं मित्रं करोमि । उक्तं च- अपि सम्पूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥ २६ ॥ एवं (७)सम्प्रधार्य पादपादवतीर्य बिलद्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवान्-एोहि भो ! हिरण्यक ! एहि । तच्छब्दं श्रुत्वा (१.) आश्रितरक्षणेनेत्यर्थः । (२) बहुसहायकसम्पन्नः। (३) कष्टप्राप्तौ। (४) दुःखविमोचनसामर्थ्यमिति यावत् । (५) एवंविधैरेव सह सख्यसम्पादनं कर्तव्यमिति भावः। (६)चपलस्वभावः । (७) विचार्य। -- - मित्रसम्प्राप्तिः। हिरण्यको व्यचिन्तयत्-'किमन्योऽपि कश्चित्कपोतो (१)बन्धनशेषस्तिष्ठ- ति येन मां(२) व्याहरति' आह च-भोः! को -भोः! को भवान् ? स ाह-अहं लघुपतनको नाम वायसः । तच्छुत्वा (३)विशेषादन्तानो हिरण्यक आह-भोः ! द्रुतं गम्यतामस्मात्स्थानात् । वायस आह-अहं तव पार्वे गुरुकार्येण समागतः तत्किं न क्रियते मया सह दर्शनम् ? हिरण्यक आह-'न मेऽस्ति त्वया सह संगमेन प्रयोजनम्' इति । स आह-भोः ! चित्रग्रीवस्य मया तव सकाशात्पाशमोक्षणं दृष्टम् । तेन मम महती प्रीतिः संजाता तत्कदाचिन्ममापि बन्धने जाते तव पाश्र्वान्मुक्तिर्भविष्यति तरिक्र- यतां मया सह मैत्री। हिरण्यक आह-अहो ! त्वं भोक्ता अहं ते भोज्य- भूतः तत्का त्वया सह भम मैत्री । तद्गम्यताम् , (४)मैत्री विरोधभावात्क- थम् ! उक्तं च- ययोरेव सम वित्तं ययोरेव समं कुलम् । तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ ३०॥ तथा च-यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः । हीनं वाप्यधिकं वापि हास्यतां यात्यसौ जनः ।। ३१ तद्गम्यताम्' इति | वायस आह-भो हिरण्यक ! एषोऽहं तव दुर्ग- द्वार उपविष्टः, यदि त्वं मैत्रीं न करोषि ततोऽहं (५)प्राणमोक्षणं तवाये करिष्यामि । अथवा (६)प्रायोपवेशनं मे स्यात्' इति । हिरण्यक आह- भोः ! त्वया वैरिणा सह कथं मैत्री करोमि । उक्तं च- वैरिणा न हि संदध्यात्सुश्लिष्टेनापि संधिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ३२ ॥ वायस आह-भोः ! त्वया सह (७)दर्शनमपि नास्ति कुतो वैरम् ! त. त्किमनुचितं वदसि । हिरण्यक आह-द्विविधं वैरं भवति-(८)सहज (९)कृत्रिमं च | तत्सहजवैरी(१०) त्वमस्माकम् | उक्तं च- (१)जालबद्धः। (२) आह्वयति । (३) बिलाभ्यन्तर्गतः। (४) शत्रुत्वात्त्वया सह मम सख्यमसङ्गतमिति भावः। (५) उद्वन्धनादिना प्राणत्यागम् । (६)निराहारव्रतम्। ७) परस्परं साक्षात्कारोऽपोत्यर्थः। (८) जन्मसिद्धम् । (९) केनापि कारणेन जातम् । (१०) जन्मत-शत्रुः। - ८६ पञ्चतन्त्रके- जलव- -- कृत्रिमं नाशमभ्येति वैरं द्राक् कृत्रिमैर्गुणैः । प्राणदानं विना वैरं सहजं याति न क्षयम् ।। ३३॥ वायस आह-भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छामि तत्क- थ्यताम् ? । हिरण्यक आह-भो! कारणेन निर्वृत्तं कृत्रिमम् , (१)त- त्तदोपकारकरणागच्छति । स्वाभाविकं पुनः कथमपि न गच्छ- ति तद्यथा-'नकुलसर्पाणाम् , शष्पभुङ्नखायुधानाम् , योः, देवदैत्यानाम् , सारमेयमार्जाराणाम् , ईश्वरदरिद्राणाम् , सपत्नी- नाम् , सिंहगजानाम् , लुब्धकहरिणानाम् , श्रोत्रियभ्रष्टक्रियाणाम् , मूख- पण्डितानाम् , पतिव्रताकुलटानाम् , सज्जनदुर्जनानाम् , न कश्चित्केनापि व्यापादितः तथापि प्राणान्सन्तापन्ति । वायस आह-भोः ! अकारण- मेतत् । श्रूयतां मे वचनम्- कारणान्मित्रतां याति कारणादेति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥ ३४॥ तस्मात्कुरु मया सह समागम मित्रधर्मार्थम् । हिरण्यक आह-भोः ! श्रूयतां (२) नीतिसर्वस्वम्- सकृद् दुष्टमपीष्टं यः पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ३५।। अथवा गुणवानहम् , न मे कश्चिद्वैरयातनां (३) करिष्यति, एतदपि न (४) सम्भाव्यम् । उक्तं च- सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिने- र्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनि जैमिनिम् । छन्दोज्ञाननिधि जघान मकरो वेलातटे पिङ्गल- मज्ञानावृतचेतसामतिरुषां कोऽर्थस्तिरश्चां गुणैः ॥ ३६ ।। वायस पाह-अस्त्येतत् । तथापि श्रूयताम्- उपकाराच लोकानां निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां मैत्री स्यादर्शनात्सताम् ।। ३७ ।। (१) बैरकारणविनाशोचितकार्यकरणात् । (२) नीतेस्तत्त्वम् । ::, (३)शत्रुभावेन परिपीडनम् । (४)न मन्तव्यमित्यर्थः। - मित्रसम्प्राप्तिः। - मृद्धट इव सुखभेद्यो दुःसंधानश्च दुर्जनो भवति । सुजनस्तु कनकघट इव दुर्भेदः सुकरसंधिश्च ।। ३८ ॥ इक्षोरणात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः । तद्वत्सज्जनमैत्री विपरोतानां तु विपरीता ।। ३९ ।। तथा च-बारम्भगुवी क्षयिणी क्रमेण लध्वो पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपराधभिन्ना छायेव मैत्री खलसज्जनानाम् ।। ४० ॥ तत्साधुरहम् । अपरं त्वां शपथादिभिनिर्भयं करिष्यामि । स आह- न मेऽस्ति ते शपथैः (१) प्रत्ययः । उक्तं च- शपथैः सन्धितस्यापि न विश्वासं ब्रजेद्रिपोः । श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ।। ४१ ।। न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ।। ४२ ।। अन्यच्च-बृहस्पतेरपि प्राज्ञस्तस्मान्नैवात्र विश्वसेत् । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ।। ४३ ।। तथा च-सुसूक्ष्मेणापि रन्त्रेण प्रविश्याभ्यन्तरं रिपुः । नाशयेच्च शनैः पश्चात्प्लवं सलिलपूरवत् ।। ४४ ।। न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ।। ४५ ॥ न वध्यते ह्यविश्वस्तो दुर्बलोऽपि मदोत्कटैः । विश्वस्ताश्चाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ।। ४६ ॥ सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च । बृहस्पतेरविश्वासो नीतिसंधिस्त्रिधा स्थितः ॥४७॥ तथा च-महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु सुविरक्तासु तदन्तं तस्य जीवितम् ।। ४८ ॥ तच्छ्रुत्वा लघुपतनकोऽपि निरुत्तरश्चिन्तयामास-अहो ! (२) बुद्धि- प्रागल्भ्यमस्य नीतिविषये । अथवा अत एवास्योपरि (३) मैत्रीपक्षपातः । स आह-भो हिरण्यक! (१)विश्वास इत्यर्थः। (२) चातुर्यमिति यावत् । (३) मित्रताकरणाग्रहः।

पञ्चतन्त्रके- सतां साप्तपदं मैत्रमित्याहुर्विबुधा जनाः । तस्मात्त्वं मित्रतां प्राप्तो वचनं मम तच्छृणु॥४६॥ (१)दुर्गस्थेनापि त्वया मया सह नित्यमेवालापो (२)गुणदोषसुभाषि- तगोष्ठीकथाः सर्वदा कर्तव्याः, यद्येवं न विश्वसिषि । तच्छ्रुत्वा हिरण्य कोऽपि व्यचिन्तयत्-(३) विदग्धवचनोऽयं दृश्यते लघुपतनकः सत्यवा- क्यश्च तद्युक्तमनेन मैत्रीकरणम् | परं कदाचिन्मम दुर्गे चरणपातोऽपि न कार्यः। तच्छ्रुत्वा वायस आह-'भद्र ! एवं भवतु' ततः प्रभृति द्वौ तावपि सुभाषितगोष्टीसुखमनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनकोऽपि (४)मांसशकलानि मेध्यानि (५)बलिशेषाण्यन्यानि (६)वात्सल्याहृतानि पक्कान्नविशेषाणि हिरण्यकार्थमानयति । हिरण्यकोऽपि तण्डुलानन्यांश्च भक्ष्यविशेषांल्लघुपतनकार्थं रात्रावाहृत्य तत्कालायातस्यार्पयति । अथवा युज्यते द्वयोरप्येतत् । उक्तञ्च- ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति | भड़े भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ५० ॥ नोपकारं विना प्रीतिः कथञ्चित्कस्यचिद्भवेत् । उपयाचितदानेन यतो देवा अभीष्टदाः ॥ ५१ ॥ तावत्प्रीतिर्भवेल्लोके यावदानं प्रदीयते । वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥ ५२ ॥ पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारणम् । यत्प्रभावादपि द्वेषी मित्रतां याति तत्क्षणात् ।। ५३ ।। पुत्रादपि प्रियतरं खलु तेन दानं मन्ये पशोरपि विवेकविवर्जितस्य । दत्ते खले नु निखिलं खलु येन दुग्धं नित्यं ददाति महिषी ससुतापि पश्य ।। ५४ ॥ (1) बिलमध्यस्थितेनैवेत्यर्थः । (२) गुणाश्च दोषाश्च तेषां सुभाषितेन या गोष्टीकथाः सम्भूयालापास्ताः। ३.) विदग्धस्य चतुरस्येव वचनं यस्य स वाकचतुर इति यावत् । (४) मांसखण्डानि। (१) पूजनादवशिष्टानि। (६)स्नेहेन आनीतानि ।

मित्रसम्प्राप्तिः । ! किं बहुना- प्रीति निरन्तरां कृत्वा दुर्भेद्यां नखमांसवत् । मूषको वायसश्चैव गतौ कृत्रिममित्रताम् ।। ५५ ॥ एवं स मूषकः (१) तदुपकाररञ्जितस्तथा विश्वस्तो यथा तस्य पक्षमध्ये प्रविष्टस्तेन सह सर्वदैव (२) गोष्ठीं करोति । अथान्यस्मिन्नहनि वायसोऽ- श्रुपूर्णनयनः समभ्येत्य सगद्गदं तमुवाच-भद्र ! हिरण्यक ! विरक्तिः संजाता मे साम्प्रतं देशस्यास्योपरि तदन्यत्र यास्यामि । हिरण्यक आह- भद्र ! किं विरक्तेः कारणम् ? स आह–भद्र ! श्रूयताम | अत्र देशे मह- त्यानावृष्टया दुर्भिक्षं संजातम् । दुर्भिक्षत्वाज्जनो बुभुक्षापीडितः कोऽपि (३) बलिमात्रमपि न प्रयच्छति | अपरं गृहे गृहे बुभुक्षितजनैविहङ्गाना (४) बन्धनाय पाशाः (५) प्रगुणीकृताः सन्ति । अहमप्यायुःशेषतया पाशेन बद्धः (६) उद्घारितोऽस्मि । एतद्विरक्तेः कारणम् । तेनाहं विदेशं चलित इति बाष्पमोक्षं करोमि । हिरण्यक आह-अथ भवान् क स्थितः? स आह-अस्ति दक्षिणापथे (७) बनगहनमध्ये महासरः । तत्र त्वत्तोऽ. धिकः परमसुहृत्कूर्मो मन्थरको नाम । स च मे मत्स्यमांसखण्डानि दास्य- ति । तद्भक्षणात्तेन सह सुभाषितगोष्ठी मुखमनुभवन्सुखेन कालं नेष्यामि नाहमत्र विहङ्गानां पाशबन्धनेन क्षयं द्रष्टुमिच्छामि ! उक्तञ्च- अनावृष्टिहते देशे सस्ये च प्रलयं गते । धन्यास्तात ! न पश्यन्ति देशभङ्गं कुलक्षयम् ॥ ५६ ॥ कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ ५७ ॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥ ५८ ॥ हिरण्यक आह-यद्येवं तदहमपि त्वया सह गमिष्यामि ममापि महद् दुःखं वर्तते । वायस आह-भोः ! तव किं दुःखम् ? तत्कथय । हिरण्यक आह-भो! बहु वक्तव्यमस्त्यत्र विषये । तत्रैव गत्वा सर्व (१) तस्य सत्कारेण प्रसन्न इति यावत । (२)सम्भूयालापरूपाम् । (३)पूजोत्तरं काकेभ्यो देयमन्नभागमपीति यावत् । (४)पक्षिणाम्। (५) प्रसारिताः। (६) कथमपि मुक्त इत्यर्थः। (७) गहने वन इत्यर्थः ।

पञ्चतन्त्रके- सविस्तरं कथयिष्यामि ! वायस आह-अहं (१)तावदाकाशगतिः, तत्कथं भवतो मया सह गमनम् ? स आह-यदि मे प्राणान् रक्षसि तदा स्व- ष्ठमारोप्य मां तत्र प्रापच, नान्यथा मम गतिरस्ति । तच्छुत्वा सानन्द वायस आह-यधेवं तद्धन्योऽहं यद्भवतापि सह तत्र कालं नयामि | अहं (२) सम्पातादिका नष्टावुड्डीनगतिविशेषान्वेझि तत्समारोह मम पृष्ठम् , येन सुखेन त्वां तत्सरः प्रापयामि । हिरण्यक आह-उड्डीनानां नामानि श्रोतुमिच्छामि । स आह- सम्पातं विप्रपातं च महापातं निपातनम् । वर्क तिर्यक् तथा चोर्ध्वमष्टमं लघुसंज्ञकम् ॥ ५६ ॥ तच्छ्रुत्वा हिरण्यकस्तत्क्षणादेव तदुपरि समारूढः । सोऽपि शनैः शनैस्तमादाय (३) सम्पातोड्डीनप्रस्थितः सन् क्रमेण तत्सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्टितं विलोक्य दूरतोऽपि (४) देशकालविदसामान्य- काकोऽयमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीर- स्थतरकोटरे हिरण्यकं (५) मुक्त्वा शाखाग्रमारुह्य तारस्वरेण प्रोवाच- भो ! मन्थरक ! आगच्छागच्छ तव मित्रमहं लघुपनको नाम वायसश्चि- रात्सोत्कण्ठः समायातः । तदागत्यालिङ्गन्य माम् । उक्तं च- किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः । सर्वे ते मित्रगात्रस्य कलां नाहन्ति षोडशीम् ॥ ६० ॥ तथा च-केनामृतमिदं सृष्टं मित्रमित्यक्षरद्वयम् । आपदां च परित्राणं शोकसन्तापभेषजम् ॥ ६१ ।। तच्छत्वा निपुणतरं परिज्ञाय सत्वरं सलिलानिष्क्रम्य पुलकितत- नुरानन्दाश्रुपूरितनयनो मन्थरकः प्रोवाच-एह्येहि मित्र ! आलिङ्गय माम् (६) चिरकालान्मया त्वं न सम्यक्परिज्ञातः तेनाहं सलिलान्तः प्रविष्टः । उक्तं च-यस्य न ज्ञायते वीर्य न कुलं न विचेष्टितम् । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥ ६ ॥ (१) गगनचारी। (२)सम्पातप्रभृतीन् उड्डयनप्रकारान् । (३) सम्पाताख्येनोड्डयनभेदेनेत्यर्थः । (४) देशकालज्ञः सुचतुरे इति यावत् । (५) उपवेश्येत्यर्थः। (६) बहोः कालात्पूर्व दृष्टत्वादिति भावः । - मित्रसम्प्राप्तिः । 8 - - एवमुक्ते लवुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्वि- दमुच्यते- अमृतस्य प्रवाहैः किं कायक्षालन सम्भवैः । चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥ ६३ ॥ एवं द्वावपि तौ विहितालिङ्गनौ परस्परं पुलकितशरीरौ वृक्षादधः समुपविष्टौ प्रोचतुरात्मचरित्रवृत्तान्तम् (१) । हिरण्यकोऽपि मन्थरत्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं तमालोक्य मन्थरको लघुपतनकमाह-भोः ! कोऽयं मूषकः ? कस्मात्त्वया भक्ष्यभूतोऽपि पृष्ठ- मारोप्यानीतः ? तन्नात्र स्वल्पकारणेन भाव्यम् । तच्छ्रुत्वा लघुपतनक आह-भोः! हिरण्यको नाम मूषकोऽयं मम सुहृद् द्वितीयमिव जीवि- तम् । तत्किं बहुना- पर्जन्यस्य यथा धारा यथा च दिवि तारकाः। सिकतारेणवो यद्वत्संख्यया परिवर्जिताः ॥ ६४॥ गुणाः संख्यापरित्यक्तास्तद्वदस्य महात्मनः । परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ।। ६५ ।। मन्धरक आह–'किमस्य वैराग्यकारणम् ?' वायस आह-पृष्टो मया परमनेनाभिहितम् , यद् बहु वक्तव्यमस्ति तत्तत्रैव गत्वा कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र ! हिरण्यक ! इदानी निवेद्यतामुभयोरप्याव- योस्तदात्मनो वैराग्यकारणम् । सोऽब्रवीत्- कथा (१) अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नाति- दूरे (२)मठायतनं भगवतः श्रीमहादेवस्य । तत्र च ताम्रचूडो नाम(३) परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राणयात्रां समाचरति । भिक्षाशेषं च तत्रैव भिक्षापात्रे निधाय तद्भिक्षापात्रं (४) नागदन्तेऽवलम्व्य पश्चाद्रात्रौ स्वपिति । प्रत्यूषे च तदन्नं कर्मकराणां दत्वा (1)वं स्वं वृत्तान्तम् । (२) आलयो मन्दिरमित्यर्थः। (३) सन्यासी । (४) वस्त्रादिस्थापनार्थ गृहभित्तिनिखाते दारुमये दण्डे (खूटी) इति लोके ।

पञ्चतन्त्रके- सम्यक् तत्रैव देवतायतने (१)सम्मार्जनोपलेपनमण्डनादिकं समाज्ञापय- ति । अन्यस्मिन्नहनि मम बान्धवैनिवेदितम्-स्वामिन् ! मठायतने सिद्ध मन्नं मूषकभयात्तत्रैक भिक्षापात्रेनिहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरगम्यं किमपि नास्ति । तत्कि वृथाटनेनान्यत्र | अद्य तत्र गत्वा यथेच्छं भुञ्जामहे प्रसादात् । तदाक- यहिं सकलयूथपरिवृतस्तत्क्षणादेव तत्र गतः । उत्पत्य च तस्मिन् भिक्षा- पात्रे समारूढः । तत्र भक्ष्यविशेषाणि सेवकानां दत्त्वा पशास्वयमेव भक्षयामि । सर्वेषां तृतौ जातायां भूयः स्वगृहं गच्छामि | एवं नित्यमेव तदन्नं भक्षयामि | परिव्राजकोऽपि यथाशक्ति रक्षति परं यदेव (२)निद्रा- न्तरितो भवति तदाहं तत्रामयात्मकृत्यं करोमि | अथ कदाचित्तेन मम त्रासार्थ महान्यत्नः कृतः । जर्जरवंशः समानीतः तेन सुपोऽपि मम भया. दभिक्षापात्रं ताडयति । अहमप्यभक्षितेऽप्यन्ने प्रहारभयादपसमि | एवं तेन सह सकलां रात्रिं (३)विग्रहपरस्य कालो ब्रजति । अथान्यस्मिन्नहनि तस्य मठे बृहत्स्फिङनामा परिव्राजकस्तस्य सुहत तीर्थयात्राप्रसङ्गेन पान्थः (४)प्राधुणिकः समायातः। तं दृष्ट्रा प्रत्युत्थानविधिना (५)सम्भाव्य (६)प्रतिपत्तिपर्वकम(७)अभ्यागतक्रियया नियोजितः। ततश्च राबावेकत्र (८)कुशसंस्तरे द्वावपि प्रसुप्तौधर्मकथा कथयितमारब्धौ । अथ बृहत्स्फिक- थागोष्ठीषु स ताम्रचूडो मृषकत्रासार्थं ()व्याक्षिप्तमना जर्जरवंशेन भिक्षा- पात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति तन्मयो न किश्चिदुदाहरति । अथासावभ्यागतः परं कोपमुपागतस्तमुवाच-भोस्ताम्रचूड ! परिजात- स्त्वं सम्यङन सुहत् तेन मया सह साह्लादं न जल्पसि तद्रात्रावपि त्वदी- यं मठं त्यक्त्वान्यत्र मठे यास्यामि । उक्तं च- एह्यागच्छ समाश्रयासनमिदं कस्माञ्चिराद् दृश्यसे का वार्ता यतिदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान्प्रणयिनः प्रह्लादयन्त्यादरा- त्तेषां युक्तमशङ्कितेन मनसा हाणि गन्तुं सदा ॥ ६६ ॥ (.)सम्मार्जनादीनि कार्याणि कतमित्यर्थः । (३) युद्धं कुर्वतः। (४) अतिथिः। (५) सत्कृत्य । (६) आदरपूर्वकम् ७) अतिथिसमुचितसत्कारेण । (0) कुशनिर्मितविष्टरे। (९) धाकृष्टमानसः ।। WHENimbarami NEPARAmerimens- (२)सुप्ता मित्रसम्प्राप्तिः । ६३ गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः। तत्र ये सदने यान्ति ते शृङ्गरहिता वृषाः ॥ ६७ ॥ नाभ्युत्थानक्रिया यत्र नालापा. मधुराक्षराः। गुणदोषकथा नैव तत्र हर्थे न गम्यते ।। ६८ ॥ (१)तदेकमठप्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्स्नेहः । नैतद्वेत्ति य- त्त्वया मठाश्रयव्याजेन (२)नरकोपार्जनं कृतम् । उक्तं च- नरकाय मतिस्ते चेत्पौरोहित्यं समाचर । बर्षं यावकिमन्येन मठचिन्तां दिनत्रयम् ॥ ६६ ॥ तन्मूर्ख ! शोचितव्यस्त्वं गर्व गतः। तदहं त्वदीयं मठं परित्यज्य- यास्यामि। अथ तच्छत्वा भयत्रस्तमनास्तानचूडस्तमुवाच-भो ! भगवन् ! मैवं वद न त्वत्समोऽन्यो मम सुहृत्कश्चिदस्ति परं तच्छुयतां (३)गोष्टीशै- थिल्यकारणम्-एष दुरात्मा मूषकः प्रोन्नतस्थाने धृतमपि भिक्षापात्रमुत्प्लु- त्यारोहति । भिक्षाशेषं च तत्रस्थं भक्षयति (४)तद्भावादेव मठे (५)माज- नक्रियापि न भवति । तन्मूषकत्रासार्थमेतेन वंशेन भिक्षापात्रं मुहुर्मुहु- स्ताडयामि नान्यत्कारणमिति । अपरमेतत्कुतूहलं पश्यास्य दुरात्मनो य- न्मार्जारमर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन । बृहत्स्फिगाह-अथ ज्ञा- यते तस्य बिलं कस्मिंश्चित्प्रदेशे ? । ताम्रचूड आह -भगवन् ! न वेनि सम्यक् । स आह-नूनं (६)निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूदते । उक्तञ्च-ऊमापि वित्तजो वृद्धिं तेजो नयति देहिनाम् । किं पुनस्तस्य सम्भोगरत्यागकर्मसमन्वितः ॥ ७० ॥ तथा च-नाकम्माच्छाण्डिली मातर्विक्रीणाति तिलैस्तिलान् | लुश्चितानितरैर्येन हेतुरत्र भविष्यति ॥ ७१ ॥ ताम्रचूड आह-कथमेतत् स आह- ? - (.) एकस्य मन्दिरस्याधिपत्येनैवेत्यर्थः । (३) परस्परवार्तालापविरक्तेः कारणम् । (५)सम्मार्जनादिकार्यमिति भावः। (२) नरकस्य प्राप्तिः। (४)मूषकस्यावस्थानादेवेत्यर्थः । (६)निधेः।

पञ्चतन्त्रके कथा (२) यदाहं कस्मिंश्चित्स्थाने (१)प्रावृटकाले व्रतग्रहणनिमित्तं कश्चिद् ब्राह्मणं वासार्थं प्रार्थितवान् । ततश्च (२)तद्वचनात्तेनापि (३)शुभूषितः सुखेन देवार्चनपरस्तिष्ठामि | अथान्यस्मिन्नहनि प्रत्यूषे प्रबुद्धोऽहं ब्राह्मणब्राह्मणी- संवादे (४)दत्तावधानः शृणोमि । तत्र ब्राह्मण आह-ब्रह्मणि ! प्रभाते दक्षिणायनसंक्रान्तिरनन्तदानफलदा भविष्यति तदहं प्रतिग्रहार्थ ग्रामा- न्तरं यास्यामि | त्वया ब्राह्मणस्यैकस्य भगवतः (५) सूर्यस्योद्देशेन किञ्चि- भोजनं दातव्यम् इति । अथ तच्छुत्वा ब्राह्मणी परुषतरवचनस्तं (६)भर्स- यमाना प्राह-कुतस्ते दारिद्रयोपहतस्य भोजनप्राप्तिः ? तत्किं न लज्जस एवं ब्रुवाणः । अपि च न मया तव (७)हस्तलग्नया क्वचिदपि लब्धं सुखम् , न मिष्टान्नस्यास्वादनम् , न च हस्तपादकण्ठादिभूषणम् , तच्छ्रुत्वा भयत्र- स्तोऽपि विप्रो मन्दं मन्दं प्राह-बामणि ! नैतयुज्यते वक्तुम् । उक्तञ्च- प्रासादपि तदर्धं च कस्मान्नो दीयतेऽर्थिषु । इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ ७२ ॥ ईश्वरा भूरिदानेन यल्लभन्ते फलं किल । दरिद्रस्तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ॥ ७३ ॥ दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्धथा। कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः ।। ७४ ॥ तथा च-अकृतत्यागमहिम्ना मिथ्या किं राजराजशब्देन । गोतारं न निधीनां कथयन्ति महेश्वरं विबुधाः ॥ ७५ ॥ अपि च सदा दानपरिक्षीणः शस्त एव करीश्वरः । अदानः पीनगात्रोऽपि निन्द्य एव हि गर्दभः ।। ७६॥ सुशीलोऽपि सुवृत्तोऽपि यात्यदानादधो घटः। पुनः कुब्जापि काणापि दानादुपरि कर्कटो ।। ७७ ।। यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य । (१) वर्षाकाले (२) मम प्रार्थनावचनादित्यर्थः । (३) आदृतः। (४) दत्तचित्त इति भावः। (५) सूर्यदेवप्रीत्यर्थमित्यर्थः । (६)तर्जयन्ती। (७)गृहागतयेत्यर्थः मित्रसम्प्राप्तिः। - नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः ।।७८ ॥ एवं ज्ञात्वा दारिद्रयाभिभूतैरपि स्वल्पात्स्वल्पतरं काले पात्रे च देयम् । उक्तश्च- सत्पात्रे महती श्रद्धा देशे काले यथोचिते। यहीयते विवेक स्तदानन्त्याय कल्पते ।। ७६ ॥ तथा च–अतितृष्णा न कर्त्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥ ८० ।। ब्राह्मण्याह-कथमेतत् । स आह- कथा (३) अस्ति कस्मिंश्चिद्वनोदेशे कश्चित्पुलिन्द :(१) । स च (२)पापर्द्धि कर्तुं वनं प्रति प्रस्थितः। अथ तेन (३) प्रसर्पता (४) महानञ्जनपर्वतशि- खराकारः (५) क्रोडः समासादितः । तं दृष्ट्वा (६) कर्णान्ताकृष्टनिशित- सायकेन (७) समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दुद्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुभूतले न्यपतत् । अथ लुब्धकं व्यापाद्य शूकरोऽपि (5) शरप्रहारवेदनया (6) पञ्चत्वं गतः । एतस्मिन्न- न्तरे कश्चिदासन्नमृत्युः शृगाल इतस्ततो निराहारतया पीडितः परिभ्रमंस्तं प्रदेशमाजगाम | यावद्वराहपुलिन्दौ द्वावपि पश्यति तावत् प्रहृष्टो व्यचि- न्तयत्-भोः ! (१०) सानुकूलो मे विधिः । तेनैवैतदचिन्तितं भोजनमुप- स्थितम् । अथवा साध्विदमुच्यते- अकृतेऽप्युद्यमे पुंसामन्यजन्मकृतं फलम् । शुभाशुभं समभ्येति विधिना संनियोजितम् ।। ८१ ।। तथा च-यस्मिन्देशे च काले च वयसा सादृशेन च । कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ॥२॥ तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राणयात्रा भवति तत्तावदेनं स्नायुपाशं धनुष्कोटिगतं भक्षयामि | (१) म्लेच्छजातीयो मनुष्यों लुब्धक इति यावत् । (२) आखेटमित्यर्थः। (३) वने विचरता। (४) कृष्णवर्णमहाकायः । (५) शूकरः । (६) कर्णपर्यन्ताकृष्टतीचणशरेण । (७)प्रहृतः। (४)शरप्रहारजनितकष्टेनेत्यर्थः। (९) मृतः।। (१०) सकरुणं इत्यर्थः । ७प० - पञ्चतन्त्रके- उक्तं च-शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव प्राज्ञ हेलया न कदाचन ।। ८३ ॥ इत्येवं मनसा निश्चित्य (१) चापचटितकोटि मुखमध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः, ततश्च त्रुटिते पाशे तालुदेशं विदार्य चापकोटि- मस्तकमध्येन निष्क्रान्ता | सोऽपि तद्वेदनया तत्क्षणान्मृतः । अतोऽहं ब्रीवीमि-'अतितृष्णा न कर्त्तव्या' इति । स पुनरप्याह-ब्राह्मणि ! न श्रुतं भवत्या आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ८४॥ अथैवं सा तेन प्रबोधिता ब्राह्मण्याह-यद्येवं तदस्ति मे गृहे (२)स्तो- कस्तिलराशिः। ततस्तिलान् (३) लुश्चित्वा तिलचूर्णेन ब्राह्मणं भोजयि- ष्यामि' इति । ततस्तद्वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः। सापि तिलानुष्णो. दकेन समर्थ कुटित्वा सूर्यातपे दत्तवती। अत्रान्तरे तस्या गृहकर्मव्यग्रा- यास्तिलानां मध्ये कश्चित्(४) सारमेयो मूत्रोत्सर्ग चकार । तं दृष्ट्वा सा चिन्तितवती-अहो ! नैपुण्यं पश्य पराङ्मुखीभूतस्य (५) विधेः, यदेते तिला अभोज्याः कृताः। तदहमेतान्समादाय कस्यचिद् गृहं गत्वा लुश्चि- तैरलुञ्चितानानयामि सर्वोऽपि जनोऽनेन विधिना प्रदास्यति' इति । अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस्तत्र गृहे सापि तिलानादाय प्रविष्टा विक्रयं कर्तुम् । आह च-'गृह्णातु कश्चिदलुश्चितैलृश्चितांस्तिलान्' | अथ तद्गृह- गृहिणी गृहं प्रविष्टा यावदलुश्चितै श्चितान् गृह्णाति तावदस्याः पुत्रेण (६)कामन्दकीयशास्त्रं दृष्ट्वा व्याहृतम्-'मातः । अग्राह्याः खल्विमे तिला नास्या अलुञ्चितैलश्चिता ग्राह्याः। कारणं किञ्चिद्भविष्यति तेनैषाऽलुश्चि- तैलचितान् प्रयच्छति' । तच्छुत्वा तया परित्यक्तास्ते तिलाः । अतोऽहं ब्रवीमि-'नाकस्माच्छाण्डिली मातः' इति । एतदुक्त्वा स भूयोऽपि प्राह-अथ ज्ञायते तस्य (७) क्रमणमार्गः ? ताम्रचूड आह-भगवन् ! ज्ञायते यत . एकाकी न समागच्छति किंत्वसंख्ययूथपरिवृतः पश्यतो मे (१)धनुषः खण्डितमग्रभागम् । (२) भल्पास्तिला इत्यर्थः। (३)कण्डयित्वा। (४)श्वा। (६)भाग्यस्य। (६)नीतिशास्त्रमित्यर्थः । (७)आगमनस्य पन्था।

मित्रसम्प्राप्तिः। - परिभ्रमन्नितस्ततः सर्वजनेन सहागच्छति याति च | अभ्यागत आह- अस्ति किंचित् (१) खनित्रकम् ? स आह-बाढमस्ति । एषा सर्वलोहमयी (२) स्वहस्तिका | अभ्यागत आह-तर्हि प्रत्यूषे त्वया मया सह स्थातव्यं तेन द्वावपि (३) जनचरणामलिनायां भूमौ तत्पदानुसारेण गच्छावः मयापि तद्वचनमाकये चिन्तितम्-अहो ! विनष्टोऽस्मि यतोऽस्य (४) साभिप्रायवचांसि श्रूयन्ते । नूनं यथा (५) निधानं तथा दुर्गमप्यस्माकं ज्ञास्यति । एतदभिप्रायादेव ज्ञायते । उक्तश्च- सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति ॥ ५॥ वाञ्छैव सूचयति पूर्वतरं भविष्य पुंसां यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसरन् सरसः कलापी ॥ ८६॥ ततोऽहं भयत्रस्तमनाः सपरिवारो दुर्गमार्ग परित्यज्यान्यमार्गेण गन्तुं प्रवृत्तः सपरिजनो यावदग्रतो गच्छामि तावत्सम्मुखो बृहत्कायो मार्जारः समायाति । स च मूषकवृन्दमवलोक्य तन्मध्ये सहसोत्पपात | अथ ते मूषका मां कुमार्गगामिनमवलोक्य (६)गर्हयन्तो हतशेषा (७)रुधिरप्ला- वितवसुन्धरास्तमेव दुर्गं प्रविष्टाः । अथवा साध्विमुच्यते- छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः कूपान्तः पतितः करोतु विधुरे किंवा विधौ पौरुषम् ॥ ८७॥ अथाहमेकोऽन्यत्र गतः, शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्टपरिव्राजको (८)रुधिरबिन्दुचर्चितां भूमिमवलोक्य तेनैव दुर्गमार्गे- णागत्योपस्थितः । ततश्च स्वास्तिकया खनितुमारब्धः। अथ तेन खनता (१)भूखननसाधनं लोहमयम (कुदाली)। (२)खनित्रम् । (३) लोकानां पादप्रक्षेपैरक्षुण्णायां जनसञ्चारात्पूर्वमेवेत्यर्थः । (४) भावविशेषसूचकानि । (५)निधिः । (६) निन्दन्तः । (७) रक्कसिकममयः। (८)निपतितरकबिन्दुम् ।

१८: पञ्चतन्त्रके- प्राप्तं तन्निधानं यस्योपरि सदैवाहं कृतवसतिर्यस्योष्मणा(१) महादुर्गमपि गच्छामि । ततो हृष्टमनास्ताम्रचूडमिदमूचेऽभ्यागतः-'भो भगवन् ! इदानी स्वपिहि निःशङ्कः; अस्योऽमणा मृषकस्ते जागरणं सम्पादयति' । एवमुक्त्वा निधालमादाय मठाभिमुखं प्रस्थितौ द्वावपि । अहमपि याव- निधानरहितं स्थानमागच्छामि, तावदरमणीयद्वेगकारक तत्स्थानं वी- क्षितुमपि न शक्नोमि । अचिन्तयश्च-'किं करोमि क गच्छामि कथं मे स्यान्मनसः प्रशान्तिः'। एवं चिन्तयतो महाकष्टेन स दिवसो व्यति- क्रान्तः । अथास्तमितेऽर्के सोद्वेगो निरुत्साहत्तस्मिन्मठे सपरिवारः प्रविष्टः। (२)अथास्मत्परिग्रहशब्दमाकर्ण्य तानचूडोऽपि भूयो भिक्षापात्रं जर्जरवंशेन ताडयितुं प्रवृत्तः । अथासावभ्यागतः प्राह-'सखे ! किमद्यापि निःशको न निद्रां गच्छसि ?' स आह-भगवन् ! भूयोऽपि समायातः सपरिवारः स दुष्टात्मा मूषकः । तद्भयाजजरवंशेन भिक्षापात्रं ताडयामि ।' ततो विहस्याभ्यागतः प्राह-सखे ! मा भैषीः वित्तेन सह गतोऽस्य कूर्द- नोत्साहः । सर्वेषामपि जन्तूनामियमेव स्थितिः । उक्तं च- यदुत्साही सदा मर्त्यः पराभवति यजनान् । यदुद्धतं वदेद्वाक्यं तत्सर्व वित्तजं बलम् ।। ८८ ।। अथाहं तच्छुत्वा कोपाविष्टो भिक्षापात्रमुद्दिश्य विशेषादुत्कुर्दितोऽप्राप्त एव भूमौ निपतितः । तच्छ्रुत्वासौ मे शत्रुर्विहस्य ताम्रचूडमुवाच-भोः! पश्य पश्य कौतूहलम् ! आह च- अर्थेन बलवान् सर्वोऽप्यर्थयुक्तः स पण्डितः । पश्यैनं मूषकं व्यर्थं स्वजातेः समतां गतम् ॥ ८६ || तत् स्वपिहि त्वं गतशङ्कः । यदस्योत्पतनकारणं तदावयोहस्तगतं जा- तम् । अथवा साध्विदमुच्यते- दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । तथार्थेन विहीनोऽत्र पुरुषो नामधारकः ॥ ९० ।। तच्छ्रुत्वाहं मनसा विचिन्तितवान् यतोऽङ्गुलिमात्रमपि. कूर्दनाशक्ति नास्ति तद्धिगर्थहीनस्य पुरुषस्य जीवितम् । उक्तं च-- - ४ (१)प्रभावेणेत्यर्थः । .. .:. (२) अस्मदीयसहचराणां शब्दम् ।

६६ मित्रसम्प्राप्तिः। अर्थेन च विहीनस्य पुरुषस्याल्पमेधसः । उच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ६१ ॥ यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः । नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः ॥ ६२ ॥ सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः ! आदित्य इव भूतानां श्रीगुणानां प्रकाशिनी ॥ ९३ ॥ न तथा बाध्यते लोके प्रकृल्या निर्धनो जनः । यथा द्रव्याणि सम्प्राप्य तैविहीनः सुखे स्थितः॥ १४ ॥ शुष्कस्य कीटखातस्य वह्निदग्धस्य सर्वतः । तरोरप्यूपरस्थस्य वरं जन्म न चार्थिनः ॥ ९५ ॥ शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुमपि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥ ६६ ॥ व्यक्तेऽपि वासरे नित्यं दौर्गत्यतमसावृतः । अतोऽपि स्थितो यत्नान्न केनापीह दृश्यते ॥ ९७ ॥ एवं विलयाहं भग्नोत्साहस्तन्निधानं (१)गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्ग प्रभाते गतः । ततश्च मद्धृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति-अहो ! असमर्थोऽयमुदरपूरणेऽस्माकम् । केवलमस्य (२)पृष्ठलग्नानां (३)बिडा- लादिविपत्तयः । तत्किमनेनाराधितेन । उक्तं च-- यत्सकाशान्न लाभः स्यात्केवलाः स्युर्विपत्तयः । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥ ९८ ॥ एवं तेषां वचांसि श्रुत्वा स्वदुर्गं प्रविष्टोऽहम् । यावन्नो कश्चिन्मम सम्मुखेऽभ्येति तावन्मया चिन्तितम् ‘धिगियं दरिद्रता'। एवं मे चिन्ययतस्ते भृत्या मम शत्रूणां सेवका जाताः । ते च मामे- काकिनं दृष्ट्वा (१)विडम्बनां कुर्वन्ति । अथ मयैकाकिना (५)योगनिद्रा गतेन भूयो विचिन्तितम्-यत्तस्य कुतपस्विनः (६)समाश्रयं गत्वा १) कपोलाधोभागे निहितं परिव्राजकेनेति शेषः । २) एनमनुगच्छतामस्माकमिति भावः। (३) मार्जारादिकृताक्रमणजाता आपदः (४) उपहासं तिरस्कारं वा । (५) निद्राया अभावेऽपि नयने निमीलयता। (६) वासस्थानम्। . .

पञ्चतन्त्रके- (१)तद्गण्डोपधानवर्तिकृतां (२)वित्तपेटां शनैः शनैर्विदार्य तस्य निद्रावश- गतस्य स्वदुर्गे तद्वित्तमानयामि, येनभूयोऽपि मे वित्तप्रभावेणाधिपत्यं पूर्ववद्भविष्यति । उक्तं च- व्यथयन्ति परं चेतो मनोरथशतैर्जनाः। नानुष्ठानैर्धनींनाः कुलजा विधवा इव ॥१६॥ दौर्गत्यं देहिनां दुःखमपमानकरं परम् । येन वैरपि मन्यन्ते जीवन्तोऽपि मृता इव ॥ १०० ॥ दैन्यस्य पात्रतामेति पराभूतेः परं पदम् । विपदामाश्रयः शश्वद्दौर्गत्यकलुषीकृतः॥ १०१ ॥ लज्जन्ते बान्धवास्तेन सम्बन्धं गोपयन्ति च । मित्राण्यमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥ १०२॥ मूर्त लाघवमेवैतदपायानामिदं गृहम् । पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ।। १०३ ।। अजाधूलिरिव त्रस्तैर्मार्जनीरेणुवजनैः । दीपखद्योतजायेव त्यज्यते निर्धनो जनः॥ १०४ ॥ शौचावशिष्टयाप्यस्ति किंचित्कार्य कचिन्मृदा ! निर्धनेन जनेनैव न तु किश्चित्प्रयोजनम् । अधनो दातुकामोऽपि सम्प्राप्तो धनिनां गृहम् । मन्यते याचकोऽयं धिग् दारिद्रयं खलु देहिनाम् ॥ १०५ ॥ अतो वित्तापहाविदधतो यदि मे मृत्युः स्यात्तथापि शोभनम् । उक्तश्च-स्ववित्तहरणं दृष्ट्वा यो हि रक्षत्यसून्नरः । पितरोऽपि न गृह्णन्ति तदत्तं सलिलाञ्जलिम् ॥ १०६ ॥ तथा च-गवार्थे ब्राह्मणार्थे च स्त्रीवित्तहरणे तथा । प्राणांस्त्यजति यो युद्धे तस्य लोकाः सनातनाः ॥ १०७॥ एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशमुपागतस्य पेटायां मया छिद्रं कृतं यावत् , तावत्प्रबुद्धो दुष्टतापसः। ततश्च जर्जरवंशप्रहारेण शिरसि ताडितः कथञ्चिदायुःशेषतया निर्गतोऽहम् , न मृतश्च । (१)परिव्राजकस्य कपालाधः स्थिताम् । (२) वित्तपेटिकाम् ।

मित्रसम्प्राप्तिः । तदेतत्सकलं सुखदुःखमनुभूय परं विषादमुपागतोऽनेन मित्रेण त्वत्स- काशमानीतः; तदेतन्मे वैराग्यकारणम् । मन्थरक आह-भद्र ! भवति (१) सुहृदयमसन्दिग्धं, यत् क्षुत्क्षामोऽपि शत्रुभूतं (२)त्वांभक्ष्यस्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः- विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात्सर्वकाले च कारयेन्मित्रमुत्तमम् ॥ १०८ ॥ विद्वद्भिः सुहृदामत्र चिह्नरेतैरसंशयम् । परीक्षाकरणं प्रोक्तं होमाग्नेरिव पण्डितैः ॥ १०६ ।। तथा च-आपत्काले तु सम्प्राप्ते यन्मित्रं मित्रमेव तत् । वृद्धिकाले तु सम्प्राप्ते दुर्जनोऽपि सुहृद्भवेत् ॥ ११० ॥ तन्ममाप्यद्यास्य विषये विश्वासः समुत्पन्नो यतो (३)नीतिविरुद्धेयं मैत्री मांसाशिभिर्वायसैः सह जलचराणाम् । अथवा साध्विदमुच्यते- मित्रं कोऽपि न कस्यापि नितान्तं न च वैरकृत् । दृश्यते मित्रविध्वस्तात्कार्याद्वेरी परीक्षितः॥ १११ ॥ तत्स्वागतं भवतः । स्वगृहवदास्यतामत्र सरस्तीरे। यच्च वित्तनाशो विदेशवासश्च ते सञ्जातस्तत्र विषये सन्तापो न कर्तव्यः । उक्तश्च- सुसञ्चितैर्जीवनवत्सुरक्षितैर्निजेऽपि देहे न नियोजितैः कचित् । पुंसो यमान्तं व्रजतोऽपि निष्ठुरैरेतैर्धनैः पञ्चपदी न दीयते ॥ ११२ ॥ अन्यच्च-यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पतिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ११३ ॥ निर्दोषमपि वित्ताढ्यं दोषोजयते नृपः। निर्धनः प्राप्तदोषोऽपि सवत्र निरुपद्रवः ।। ११४॥ अर्थानामजने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगान् कष्टसंश्रयान् ॥ ११५ ।। अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥ ११६ ॥ १) एष काकस्तव मित्रमित्यत्र नास्ति कोऽपि संदेह इत्यर्थः । (२) आहारभूतम् । (३) असमतेति यावत् ।

- .१०२ पञ्चतन्त्रके- अपरं विदेशवासजमपि वैराग्यं त्वया न कार्यम् । यतः- को धीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यदंष्टानखलाङ्गुलप्रहरणैः सिहो वनं गाहते तस्मिन्नेव हतविपेन्द्रलधिरस्तृष्णां छिनत्त्यात्मनः ॥ ११७ ।। अर्थहीनः परे देशे गतोऽपि यः प्रज्ञावान् भवति स कथंचिदपि न सी- दति । उक्तंच- कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ ११८ ॥ (१)तत्प्रज्ञानिधिर्मवान् न (२)प्राकृतपुरुषतुल्यः । अथवा- उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञ व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहदं च लक्ष्मीः स्वयं याति निवास हेतोः ॥ ११९॥ अपरं प्राप्तोऽप्यर्थः (३)कर्मप्राप्त्या नश्यति । तदेतावन्ति दिनानि त्व- दीयमासीत् । मुहूर्तमप्यनात्मीयं(४)भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापह्रियते (५)। अर्थस्यीपार्जनं कृत्वा नैव भोगं समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ १२० ॥ हिरण्यक आह-कथमेतत् स ाह- कथा (४) कस्मिंश्चिदधिष्ठाने सोमिलको नाम (६)कौलिको वसति स्म । स चा- नेकविधपट्टरचनारञ्जितानि पार्थिवोचितानि (७)वस्त्राण्युत्पादयति । परं तस्य चानेकविधपट्टरचनानिपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथम- प्यर्थमात्रं सम्पद्यते । अथान्ये तत्र सामान्यकौलिकाः (८)स्थूलवस्त्रसम्पा- दनविज्ञानिनो (E)महद्धिसम्पन्नाः | तानवलोक्य स स्वभार्यामाह- - (१) अत्यन्तबुद्धिमान् । (२) साधारणजन इवेत्यर्थः । (३) अशुभकर्मवशादिति यावत् । (४) परकीयम् । (५) आच्छिद्यत इति भावः । (६) तन्तुवायः। (७) वयति। ८) साधारणवस्त्रनिर्माणकारिणः । (१)महाधनाः सञ्जाताः। .

+ मित्रसम्प्राप्तिः । १०३ प्रिये ! पश्यैतान् स्थूलपट्टकारकान् (१)धनकनकसमृद्धान् (२)तधारणकं ममैतत्स्थानम् । तदन्यत्रोपार्जनाय गच्छामि । सा प्राह-भोः ! प्रिय- तम ! (३)मिथ्याप्रलपितमेतद्यदन्यत्र गतानां धनं भवति स्वस्थाने न भव- तीति | उक्तं च- उत्पतन्ति यदाकाशे निपतन्ति महीतले । पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति ।। १२१ ।। तथाच- न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति चस्य तु भवितव्यता नास्ति ।। १२२ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥ १२३ ॥ शेते सह शयानेन गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठत्यथ सहात्मना ।। १२४॥ यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥ १२५ ।। तस्मादत्रैव(४) व्यवसायपरो भव | कौलिक आह-प्रिये ! ल सम्य- गभिहितं भवत्या । व्यवसायं विना कर्म न (५)फलति । उक्तञ्च यथैकेन न हस्तेन तालिका सम्प्रपद्यते । तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम् ।। १२६ ।। पश्य कर्मवशात्प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यम विना वक्त्रे प्रविशन्न कथञ्चन ॥ १२७ ॥ तथा च-उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैवं हि दैवमिति कापुरुषा वदन्ति | दैवं निहत्य कुरु पौरुषमात्मशक्तचा यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः ।। १२८॥ तथा च-उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथाः। नहि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः॥ १२९ ॥ (१)समृद्धिशालिनः । (२)धनप्राप्तेरयोग्यमित्यर्थः । (३) असत्यमिति यावत् । (४)परिश्रमपरः। (५) फलं ददाति। - पञ्चतन्त्रके- -- ?? स आहा उद्यमेन विना राजन्न सिद्धयन्ति मनोरथाः। कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ १३०॥ स्वशक्तया कुर्वतः कर्म न चेसिद्धि प्रयच्छति । नोपालभ्यः पुमांस्तत्र देवान्तरितपौरुषः ॥ १३१ ।। तन्मयावश्यं देशान्तरं गन्तव्यम् , इति निश्चित्य वर्धमानपुरं गतः। तत्र च वर्षत्रयं स्थित्वा सुवर्णशतत्रयोपार्जनं कृत्वा भूयः स्वगृहं प्रस्थि- तः। अथार्धपथे गच्छतस्तस्य कदाचिटव्यां पर्यटतो भगवान् रविरस्तमु- पागतः। तदासौ (१)व्यालभयात्स्थूलतरवटस्कन्धमारुह्य यावत्प्रसुप्तस्ताव- न्निशीथे(२) स्वप्ने द्वौ पुरुषौ (३)रौद्राकारौ परस्परं प्रजल्पन्ताव- णोत् । तत्रैक आह-भोः ! (४)कर्त्तः त्वं किं सम्यङ् न वेत्सि यदस्य (५)सोमिलकस्य भोजनाच्छादनाम्यधिका समृद्धिर्नास्ति ? तत्किं त्व- यास्य सुवर्णशतत्रयं प्रदत्तम् -भोः ! कर्मन् ! मयावश्यं दातव्यं (६)व्यवसायिनाम् । तत्र च तस्य (७)परिणतिस्त्वदायत्तेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्थिमवलोकयति तावद्रिक्तं पश्यति । ततः (८) साक्षेपं चिन्तयामास-अहो ! किमेतत् ! महता कष्टेनोपार्जितं वित्तं (६) हेलया कापि गतम् । तद्वयर्थश्रमोऽकिञ्चनः (१०) कथं स्वपत्न्या मित्राणां च मुखं दर्शयिष्यामि, इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्षमात्रेणापि सुवर्णशतपञ्चकमुपाय॑ भूयोऽपि स्वस्थानं प्रति प्रस्थितः। यावदर्धपथे भूयोऽटवीगतस्य भगवान् भानुरस्तं जगाम | अथ सुवर्णनाश- भयात्सुश्रान्तोऽपि न विश्राम्यति । केवलं (११) कृतगृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृशौ दृष्टिदेशे समागच्छन्तौ जल्पन्तौ चाशृणोत् । तत्रैकः प्राह-भोः ! कर्तः ! किं त्वयैतस्य सुवर्णशतपञ्चकं प्रद- त्तम् ? तत्किं त्वं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किचिन्नास्ति । साह-भोः ! कर्मन् ! मयावश्यं देय व्यवसायिनाम् । तस्य परिणाम- (1) व्याघ्रादिहिंसकप्राणिभयात् । २)अर्धरात्रे। (३) भयानको। (४) भगवन् । (५)सोमिलकस्य भाग्य इत्यर्थः । (६) उद्यमवताम् । ७) परिणामो भोग इति यावत् । (८)सदुःखम् । (९) सहसेत्यर्थः। (१०)धनहीनः। (११) गृहं गन्तुमुत्सुकः मित्रसम्प्राप्तिः। १०५ - स्त्वदायत्तः, तत्कि मामुपालम्भयसि (१)। तच्छुत्वा सोमिलको यावद् प्रन्थिमवलोकयति तावत्सुवर्ण नास्ति । ततः परं दुःखमापन्नो व्यचिन्त- यत्-अहो ! किं मम धनरहितस्य जीवितेन । तदत्र वटवृक्ष आत्मान- मुद्वध्य प्राणांस्त्यजामि । एवं निश्चित्य (२) दर्भमयी रज्जु विधाय स्वकराठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत्प्रक्षिपति तावदेकः पुमाना- काशस्थ एवेदमाह-भो ! भोः ! सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारकः । न ते भोजनाच्छादनाभ्यधिकां वराटिकामपि सहामि, तद्गच्छ स्वगृहं प्रति । अन्यञ्च भवदीयसाहसेनाहं तुष्टः । यथा मे न स्या- द्वयर्थ दर्शनं (३) तत्प्रार्थ्यतामभीष्टो वरः कश्चित् । सोमिलक आह-'यद्येवं तद्देहि मे प्रभूतं धनम्' स आह-भोः ! किं करिष्यसि भोगरहितेन धनेन? यतस्तव भोजनाच्छदनाभ्यधिका प्राप्तिरपि नास्ति । सोमिलक आह-यद्यपि तस्य धनस्य भोगो नास्ति तथापि तद्भवतु | उक्तं च- कृपणोऽप्यकुलीनोऽपि सज्जनैर्वर्जितः सदा । सेव्यते स नरो लोके यस्य स्याद्वित्तसंचयः ॥ १३२ ।। तथा च-शिथिलौ च सुबद्धौ च पततः पततो न वा | निरीक्षितौ मया भद्रे ! दश वर्षाणि पञ्च च ॥ १३३ ।। पुरुष आह -किमेतत् सोऽब्रवीत्- कथा (५) कस्मिंश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महावृषभः प्रतिवसति स्म । स च मदातिरेकात्परित्यक्तनिजयूथः शृङ्गाभ्यां नदीतटानि विदारयन् स्वे- च्छया मरकतसहशानि शष्पाणि भक्षयन्नरण्यचरो(४) बभूव । अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित्स्वभा- र्यया सह नदीतीरे सुखोपविष्टस्तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव (५)पुलिनमवतीर्णः। ततश्च तस्य लम्बमानौ (६) वृषणा- (१)उपालभसे निन्दसीति यावत् । (२) कुशमयीम् । (३) त्वया लब्धं मे दर्शनमित्यर्थः । (४) अरण्ये विचचारेत्यर्थः। (१)जलोत्थितं प्रदेशं तटमिति यावत् । (६)अण्डकोषो। - १०६ पञ्चतन्त्रके- - r - ववलोक्य शृगाल्या शृगालोऽभिहितः-स्वामिन् ! पश्यास्य वृषभस्य मां- सपिएडौ लम्बमानौ यथास्थितौ तदेतौ क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता (१)पृष्टानुयायिना भाव्यम् । शृगाल आह–प्रिये ! न ज्ञायते कदाचिदेतयोः पतनं भविष्यति वा न वा । तत्किं वृथा श्रमाय मां नियोजयसि । अत्रस्थस्तावज्जलार्थमागतान् मूकान भक्षयिष्यामि समं त्व- या, मार्गोऽयं यतस्तेषाम् । अपरं यदि त्वां मुक्त्वास्थ तीक्ष्णविषाणस्य वृष- . भस्य पृष्ठे गमिष्यामि, तदा (२) आगत्यान्यः कश्चिदेतत्स्थानं समाश्र- 'यिष्यति । नेताज्यते कर्तुम् । उक्तं च- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ।। १३४ ॥ शृगाल्याह-भोः ! (३)कापुरुषस्त्वम् । यत्किचित्प्राप्तं तेनैव सन्तोषं करोषि | उक्तं च- सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १३५ ॥ तस्मात्पुरुषेण सदैवोत्साहवता(४) भाव्यम् | उक्तं च- यत्रोत्साहसमारम्भो यत्रालस्यविहीनता | नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥ १३६ ॥ तदेवमिति संचिन्त्य त्यजेन्नोद्योगमात्मनः । अनुयोगं विना तैलं तिलानां नोपजायते ॥ १३७ ।। अन्यच्च-यः स्तोकेनापि सन्तोषं कुरुते मन्दधीजनः । तस्य भाग्यविहीनस्य दत्ता श्रीरपि मार्यते ॥ १३८ ।। यञ्च त्वं वदसि, एतौ पतिष्यतो न वेति तदप्ययुक्तम् । उक्तं च- कृतनिश्चयिनो वन्द्यास्तुङ्गिमा न प्रशस्यते । चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥ १३६ ॥ अपरं मूषकमांसस्य (५)निर्विरणोऽहम् । एतौ च मांसपिण्डौ (३) पृष्ठगामिना। (२) अत्र आगतेत्यर्थः ३)अलसः। (४) उद्योगिना। ५)निरन्तरं मूषकमांसस्य भक्षणेन सम्प्रति तत्र मे रुचिर्नास्तीति भावः । -- मित्रसम्प्राप्तिः। १०७: (१)पतनप्रायौ दृश्येते, तत्सर्वथा नान्यथा कर्तव्यमिति। अथासौ तदाकर्य मूषकप्राप्तिस्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथवा सा- विदमुच्यते- तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं प्रभुः । स्त्रीवाक्याङकुशविक्षुण्णो यावन्नो ह्रियते बलात् ॥ १४० ॥ अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते.भक्ष्यं स्त्रीवाक्यप्रेरितो नरः॥ १४१।। एवं स तस्य पृष्ठतः सभार्यः परिभ्रमँश्चिरकालमनयत्(२) । न च तयोः पतनमभूत् । ततश्च (३)निर्वेदात्पञ्चदशे वर्षे शृगालः स्वभार्यामाह- शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे ! दश वर्षाणि पञ्च च ॥ १४२ ॥ तयोस्तत्पश्चादपि पातो न भविष्यति तत्तदेव स्वस्थानं गच्छावः । अतोऽहं ब्रवीमि-'शिथिलौ च सुबद्धौ च' इति । पुरुष आह-यचेवं तद्गच्छ भूयोऽपि वर्धमानपुरम् । तत्र द्वौ वणिकपुत्रौ वसतः । एको (४) गुप्तधनः, द्वितीयः (५) उपभुक्तधनः । ततस्तथोः (६)स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनमभक्षितेन ततस्त्वामपि गुप्तधनं करो- मि । अथवा दत्तभोग्येन धनेन ते प्रयोजनं तदुपभुक्तवनं करोमीति । एवमुक्त्वाऽदर्शनं गतः । सोमिलकोऽपि विस्मितमना भूयोऽपि वर्धमान- पुरं गतः। अथ संध्यासमये श्रान्तः कथमपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन् कृच्छाल्लब्ध्वा अस्तमितसूर्य प्रविष्टः। अथासौ भार्यापुत्रसमेतेनगुप्त- धनेन (७)निर्भय॑मानो हठाद् गृहं प्रविश्योपविष्टः । ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किंचिदशनं दत्तम् । ततश्च भुक्त्वा तत्रैव यावत्सुप्तो निशीथे पश्यति तावत्तावपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह- भोः ! कर्तः! किं त्वयास्य गुमधनस्यान्योऽधिको,(८)व्ययो (E)निर्मितो (१) सद्यः पतन्ताविवेत्यर्थः । (२) बहुकालमतिवाहितवान् । (३) खेदात् । (४) दानभोगाद्यभावेन सञ्चितधनः । (५) दानभोगादिना व्ययितवित्तः । (६)भावमवस्थामिति भावः । (७)तिरस्क्रियमाणः। (८) सम्पदित्यर्थः। (९) निश्चितः।

पञ्चतन्त्रके- - यत्सोमिलकस्यानेन भोजनं दत्तम् ? तदयुक्तं त्वया कृतम् । स आह- भोः ! कर्मन् ! न ममात्र दोषो मया पुरुषस्य लाभप्राप्तितिव्या तत्परि- णतिः पुनस्त्वदायत्तेति । अथासौ यावदुत्तिष्ठति तावद् गुप्तधनो (१)विषू- चिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्दोषेण कृतोपवासः संजातः सोमिलकोऽपि प्रभाते तद्गृहानिष्क्रम्योपभुक्तधनगृहं गतः। तेनापि चाभ्युत्थानादिना सत्कृतो (२)विहितभोजनाच्छादनसंमा- नस्तस्यैव गृहे भव्यशय्यामारुह्य सुष्वाप | ततश्च निशीथे यावत्पश्यति ता- वत्तावेव द्वौ पुरुषौ मिथो मन्त्रयतः । अथ तयोरेक आह-भोः! कर्त्तः ! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः। तत्कथय कथमस्य (३)उद्धारकविधिर्भविष्यति । अनेन सर्वमेतद्(४)व्यवहारकगृहात्समानी. तम् । स आह-भोः ! कर्मन् ! मम कृत्यमेतत् । परिणतिस्त्वदायत्तेति । अथ प्रभातसमये राजपुरुषो राजप्रसाद वित्तमादाय समायात उपभु- क्तधनाय समर्पयामास । तद् दृष्ट्वा सोमिलकश्चिन्तयामास-सञ्चयरहि- तोऽपि वरमेष उपभुक्तधना नासौ कदर्यो (५)गुप्तधनः। तद्विधाता मां दत्तभुक्तधनं करोतु । न कार्य मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतोऽहं ब्रवीमि-अर्थस्योपार्जन कृत्वा' इति । तद्भद्र ! हिरण्यक ! एवं ज्ञात्वा धनविषये संतापो न का- र्यः । अथ विद्यमानमपि धनं (६) भोज्यवन्ध्यतया तदविद्यमानं (७) मन्तव्यम् । उक्तं च- गृहमध्यनिखातेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ।। १४३ ॥ -तथा च-उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ १४४॥ दातव्यं भोक्तव्यं धनविषये संचयो न कर्तव्यः । पश्येह मधुकरीणां संचितमर्थं हरन्त्यन्ये ॥ १४५ ।। अन्यच्च-दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । .)रोगविशेषेण। (२) भोजनाच्छादनादिना कृतसत्कार। (३) उद्धारविधानम्। (") व्यवसायिनो गृहात् ।। (५) कृपणः । ६) मोमशक्यत्वेन । () नष्टमेवेति भावः।

मित्रसम्प्राप्तिः। यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ १४६ ।। एवं ज्ञात्वा विवेकिना न (१) स्थित्यर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् | उक्तंच- धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशया । तप्ता श्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥ १४७ ॥ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ।। १४८॥ संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १४९ ।। पीयूमिव सन्तोषं पिबतां निर्वृतिः परा । दुःखं निरन्तरं पुंसामसन्तोषवतां पुनः ॥ १५० ॥ निरोधाच्चेतसोऽक्षाणि निरुद्धान्यखिलान्यपि । आच्छादिते रवौ मेघेराच्छन्नाः स्युर्गभस्तयः ॥ १५१ ॥ वाञ्छाविच्छेदनं प्राहुः स्वास्थ्यं शान्ता महर्षयः । वाञ्छा निवर्तते नाथैः पिपासेवाग्निसेवनैः ॥ १५२ ॥ अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः । स्वापतेयकृते माः किं किं नाम न कुर्वते ॥ १५३ ।। धर्मार्थ यस्य वित्तेहा तस्यापि न शुभावहा । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १५४ ॥ दानेन तुल्यो निधिरस्ति नान्यो लोभाञ्च नान्योऽस्ति रिपुः पृथिव्याम् । विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥ १५५ ॥ दारिद्य्स्य पराभूतिर्यन्मानद्रविणाल्पता जरद्वधनः शर्वस्तथापि परमेश्वरः ॥ १५६ ॥ (१) सत्रयार्थम् ।

पञ्चतन्त्रके- सकृत्कन्दुकपातेन पतत्यार्यः पतन्नपि । तथा पतति मूर्खस्तु मृत्पिण्डपतनं यथा ॥ १५७ ।। एवं ज्ञात्वा अन् ! त्वया सन्तोषः कार्यः' इति । सन्थरकवचनमाक- : ये वायस आह-मन्थरको यदेवं वदति तत्त्वया चित्ते कर्त्तव्यम् । अ- थवा साध्विदमुच्यते- सुलभाः पुरुषा राजन् ! सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १५८ ॥ अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥ १५९ ॥ अथैवं जल्पतां तेषां चित्राङ्को नाम हरिणो (१)लुब्धकत्रासितस्तस्मि- न्नेव सरसि प्रविष्टः। अथायान्तं ससम्भ्रममवलोक्य लघुपतनको वृक्ष- मारूढः । हिरण्यको निकटवर्तिनं (२)शरस्तम्ब प्रविष्टः । मन्थरकः सलि- लाशयमास्थितः । अथ लघुपतनको मृगं सम्यक्परिज्ञाय मन्थरकमुवाच- एोहि सखे ! मन्थरक ! मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः, तस्य शब्दोऽयं न मानुषसम्भव इति । तच्छुत्वा मन्थरको देशकालोचित- माह-भो ! लबुपतनक ! यथायं मृगो दृश्यते (३)प्रभूतमुच्छासमुद्वहन्नुद्- भ्रान्तहरुट्या(४) पृष्ठतोऽवलोकयति तन्न तृषार्त एषः, नूनं लुब्धक- त्रासितः । तज्ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वा इति । उक्तंच- - भयत्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः । दिशोऽवलोकयत्येव न स्वास्थ्यं ब्रजति क्वचित् ॥ १६० ।। तच्छुत्वा चित्राङ्ग आह-भो ! मन्थरक ! ज्ञातं त्वया सम्यङ्मे त्रा- सकारणम् । अहं लुब्धकशरप्रहारादुद्धारितः(५) कृच्छेणात्र समायातः । मम यूथं तैलुब्धकैयांपादितं भविष्यति, तच्छरणागतस्य मे दर्शय कि- ञ्चिदगम्यं स्थानं लुब्धकानाम् । तदाकर्ण्य मन्थरक आह-भोश्चित्राङ्ग ! श्रूयतां नीतिशास्त्रम्- (१) व्याधेनानुसृत इत्यर्थः। (२) शरनामकतृणसमूहम् । (३)निःश्वासम्। (४)चकितहष्ट्या। (५)विमुक्तः। - मित्रसम्प्राप्तिः । द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रुदर्शने । हस्तयोश्चालनादेको द्वितीयः पादवेगजः ॥ १६१॥ तद्गम्यतां शीघ्र सघन वनम् , यावदत्रापि नागच्छन्ति ते दुरात्मानो लुब्धकाः । अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाच-भो ! मन्थरक ! गतास्ते लुब्धकाः स्वगृहोन्मुखाः प्रचुरमांसपिण्डधारिणः । तच्चित्राङ्ग! त्वं (१)विश्रब्धो वनाद्वहिर्भव । ततस्ते चत्वारोऽपि मित्रभावमाश्रितास्तस्मिन् सरसि मध्याह्नसमये वृक्षच्छायाया अधस्तात्सुभाषितगोष्ठी तुखमनुभ- वन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते- सुभाषितमयद्रव्यसंग्रहं न करोति यः । स तु प्रस्तावयज्ञेयु को प्रदास्यति दक्षिणाम् ।। १६२ ॥ तथा च-सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य सम्पुटिका नास्ति कुतस्तस्य सुभाषितम् ॥ १६३ ।। अथैकस्मिन्नहनि गोष्ठीसमये चित्राङ्गो नायातः। अथ ते व्याकुली- भूताः परस्परं जल्पितुमारब्धाः-अहो ! किमद्य सुन्न समायातः। किं सिंहादिभिः कापि व्यापादितः, उत लुब्धकः, अथवा अनले प्रपतितो (२) गतविषमे वा (३)नवतृणलौल्यादिति । अथवा साध्विदमुच्यते- स्वगृहोद्यानगतेऽपि स्निग्धैः पापं विशङ्कयते मोहात् । किमु दृष्टबह्वपायप्रतिभयकान्तारमध्यस्थे ।। १६४॥ अथ मन्थरको वायसमाह- -भो! लघुपतनक ! अहं हिरण्यकश्च ता- वद् द्वावप्यशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद्गत्वा त्वमरण्यं (४) शोधय यदि कुत्रचित्तं जीवन्तं पश्यसि । तदाकण्र्य लघुपतनको नाति- दूरे यावद्गच्छति तावत्पल्वलतीरे(५)चित्राङ्गः (६)कूटपाशनियन्त्रितस्ति- ष्ठति । तं दृष्ट्वा (७)शोकव्याकुलितमनास्तमवोचत्-भद्र ! किमिदम् ? ! चित्राङ्गोऽपि वायसमवलोक्य विशेषेण दुः। खितमना बभूव । अथवा युक्तमेतत- (१) निःशङ्कः। (२)निम्नोन्नतप्रदेशे। (३)सद्योजाततृणभक्षणलोभादित्यर्थः । (१) अरण्यं गत्वाऽन्वेषयेत्यर्थः । (५)जलाशयतटे। (६) कपटजाले बद्धः। (७) दुःखितचित्तः। ८प०.

पञ्चतन्त्रके- - Oman तत्तन्त - अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात् । प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥ १६५ ।। ततश्च बाष्पावसाने चित्राङ्गो लघुपतनकमाह-भो ! मित्र! सञ्जातोऽयं तावन्मम मृत्युः । तद्युक्तं सम्पन्न (१)यद्धवता सह मे दर्शनं सञ्जातम् । उक्तं च-प्राणात्यले समुत्पन्ने यदि स्यान्मित्रदर्शनम् । तद् द्वाभ्यां सुखदं पश्चाज्जीवितोऽपि मृतस्य च ॥ १६६ ।। तत्क्षन्तव्यं यन्मया प्रणयासुभाषितगोष्ठीवभिहितम् । तथा हिरण्य- कमन्धरको मम वाक्याद्वाच्यौ- अज्ञानाजज्ञासको शापि दुरुक्तं यदुदाहृतम् । ने कृत्वा प्रोतिपरं मनः ।। १६७ ।। तच्छुत्वा ल .. हि-भद्र ! न भेतव्यमस्मद्विधैर्विद्यमानैः । यावदहं द्रुततरं हिरण्यकं गृहीत्वा आगच्छामि | अपरं ये सत्पुरुषा भवन्ति ते (२) व्यसने न (३)व्याकुलत्वमुपयान्ति । उक्तं च- सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ।। १६८ ।। एवमुक्त्वा लघुपतनकश्चित्राङ्गमाश्वास्य यत्र हिरण्यकमन्थरको तिष्ठ- तस्तत्र गत्वा सर्व चित्राङ्गपाशपतनं कथितवान् | हिररण्यकञ्च चित्राङ्ग- प्राशमोक्षण प्रति (४)कृतनिश्चयं पृष्ठमारोप्य भूयोऽपि सत्वरं चित्राङ्गसमीपे गतः । सोऽपि मूषकमवलोक्य किश्चिज्जीविताशया (५)संश्लिष्ट आह- आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चिद्योऽत्र मित्रविवर्जितः ॥१६६ ।। हिरण्यक आह-भद्र ! त्वं तावन्नीतिशास्त्रज्ञो (६)दक्षमतिः तत्कथ- मत्र कूटपाशे पतितः ? | स आह-भोः ! न कालोऽयं विवादस्य तन्न या- वत् स पापात्मा लुब्धकः समभ्येति तावद् द्रुततरं कर्तयेमं मत्पाशम् । तदाकर्ण्य विहस्याह हिरण्यकः-किं मय्यपि समायाते लुब्धकाद्विभेषि ! ततः शास्त्रं प्रति महती मे(७)विरक्तिः सम्पन्ना यद्भवद्विधा अपि नीतिशा- (१) उचितं जातम् । (२)आपदि। (३) अधीरताम् । (४)कृतप्रतिज्ञम् । (६)सुचतुरः। (७) अश्रद्धा। ? (६) युक्तः।

मित्रसम्प्राप्तिः। -un- स्त्रविदः (१)एनामवस्थां प्राप्नुवन्ति तेन त्वां पृच्छामि | स आह-भद्र ! कर्मणा बुद्धिरपि हन्यते । उक्तं च- कृतान्तपाशबद्धानां देवोपहतचेतसाम् । बुद्धयः कुब्जगाभिन्यो भवन्ति महतामपि ॥ १७० ।। विधात्रा रचिता या सा ललाटेऽक्षरमालिका । न तां मार्जयितुं शक्ताः स्वबुद्धयाप्यतिपण्डिताः ॥ १७१ ।। एवं तयोः प्रवदतोः (२)सुव्यसनसंतप्तहृदयो मन्थरकः शनैः शनैः स्तं प्रदेशमाजगाम | तं दृष्ट्वा लघुपतनको हिरण्यकमाह-अहो !, न शो- भनमापतितम् (३)। हिरण्यक आह-कि ल लुक मायाति? स आह-आस्तां तावल्लुब्धकवार्ता । एष अन्थरकः । । (४)तद- नीतिरनुष्टितानेन यतो वयमस्य कारणान्न इनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति तदहं तावत्खमुत्पतिष्यामि(६)। त्वं पुनर्बिलं प्रविश्यात्मानं रक्षयिष्यसि चित्राङ्गोऽपि वेगेन दिगन्तरं या- स्यति । एष पुनर्जलचरः स्थले कथं भविष्यतीति व्याकुलोऽस्मि । अत्रा- न्तरे प्राप्तोऽयं मन्थरकः । हिरण्यक आह-भद्र ! न युक्तमनुष्ठितं भवता यत्र समायातः । तद्भूयोऽपि द्रुततरं गम्यतां यावदसौ लुब्धको न समा. याति । मन्थरक आह-भद्र! किं करोमि न शक्नोमि तत्रस्थो (७)मित्रव्यसनाग्निदाहं सोढुम् । तेनाहमत्रागतः। अथवा साध्विमुच्यते- दयितजनविप्रयोगा वित्तवियोगाश्च केन सह्याः स्युः । यदि सुमहौषधिकल्पो वयस्यजनसंगमो न स्यात् ।। १७२ ॥ वरं प्राणपरित्यागो न वियोगो भवाशैः। प्राणा जन्मान्तरे भूयो भवन्ति न भवद्विधाः ॥ १७३ ।। एवं तस्य प्रवदतः (5)आकर्णपूरितशरासनो लुब्धकोऽप्युपागतः तं दृष्ट्वा मूषकेण तस्य स्नायुपाशस्तत्क्षणात्खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठमवलोकयन्प्रधावितः । लघुपतनको वृक्षमारूढः । हिरण्यकश्च समीपवर्तिबिलं प्रविष्टः । अथासौ लुब्धको मृगगमनाद्विषण्णवदनो व्य- (१) दुर्दशामित्यर्थः । (२) मित्रविपदः श्रवणेन दुःखितः। (३)जातम् । (४) अनुचितं कार्यम् । (५)विनाशम् । (६) उड्डयिष्ये। (७) सुहृत्कष्टम्। (८) कर्णपर्य्यन्ताकृष्टचापः।

पञ्चतन्त्रके- - . र्थश्रमस्तं मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्टवान् अचिन्तयञ्च- यद्यपि (१)कुरङ्गो (२)धात्रापहृतस्तथाप्ययं कूर्म आहारार्थं संपादितः । तयास्यामिपेण से कुटुम्बस्याहारनिर्वृत्तिर्भविष्यति । एवं विचिन्त्य त दभैः संच्छाच धनुषि समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रा- न्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः (३)पर्यदेवयत्-कष्टं भोः ! कष्टमापतितम् । एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारभिवार्णवस्य ! तावद् द्वितीयं समुपस्थितं मे छिद्रेष्वना बहुलीभवन्ति ।। १७४ ।। तावदस्खलितं यावत्सुखं याति समे पथि । - स्खलिते च समुत्पन्ने विषमं च पदे पदे ॥ १७५ ॥ यन्ननं सरलं चापि तच्चापत्सु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं शुद्धवंशजम् ॥ १७६ ।। न मातरि न दारेषु न सोदर्ये न चात्मजे। विश्रम्भस्तादृशः पुंसां यादृमित्रे निरन्तरे ॥ १७७ ।। यदि तावत्कृतान्तेन(४) मे धननाशो विहितस्तन्मार्गश्रान्तस्य मे (५)विश्रामभूतं मित्रं कस्मादपहृतम् । अपरमपि मित्रं परं मन्थरकसमं न स्यात् । उक्तंच- असंपत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्विमोक्षणं चैव मित्रस्यैतत्फलत्रयम् ।। १७८ ॥ तदस्य पश्चान्नान्यः सुहृन्मे । तत्किं (६)ममोपर्यनवरतं व्यसनशरैर्व- र्षति हन्त विधिः। यत आदी तावद्वित्तनाशः ततः (७)परिवारभ्रंशा, ततो देशत्यागः, ततो मित्रवियोग इति । अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां जीवितधर्मस्य च । उक्तं च- कायः संनिहितापायः संपदः क्षणभङ्गुराः । समागमाः सापगमाः सर्वेषामेव देहिनाम् ।। १७६ ॥ (१)मृगः॥ (२)विधात्रा। (३)व्यलपत्। (४) दैवेन। (५) परमसहायभूतम्। (६) विपतिपदमनुधावतीत्यर्थः । (७)परिवारनाशः।

मित्रसम्प्राप्तिः। तथाच- - अन्यच्च- - क्षते प्रहारा निपतन्त्यभीक्ष्णं धनक्षये दीप्यति जाठराग्निः । आपत्सु वैराणि समुल्लसन्ति छिद्रध्वना बहुलीभवन्ति ॥ १८० ।। अहो ! साधूक्तं केनापि- प्राप्त भये परित्राणं प्रीतिविम्भभाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १८१॥ अत्रान्तरे चाक्रन्दपरौ(१) चित्राङ्गलघुपतनको तत्रैव समायातौ। अथ हिरण्यक आह–अहो ! किं (२)वृथा प्रलपितेन । तद्यावदेष मन्थरको दृष्टिगोचरान्न नीयते तावदस्य (३)मोक्षोपायश्चिन्त्यतामिति । उक्तं च- व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति ।। १८२ ।। केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः । तस्योच्छेदसमारम्भो विषादपरिवर्जनम् ॥ १८३ ।। अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च सङ्गमार्थम् । आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥१८४।। तच्छुत्वा वायस आह-भोः ! यद्येवं तक्रियतां मद्वचः । एष चित्रा- ङ्गोस्य मार्गे गत्वा (४)किंचित्पल्वलमासाद्य तस्य तीरे(५)निश्चेतनो भूत्वा पततु। अहमप्यस्य शिरसि समारुह्य मन्दैश्चञ्चप्रहारैः शिर उल्लेखयिष्यामि येनासौ दुष्टलुब्धकोऽमुं मृतं मत्वा मम(६) चञ्चप्रहरणप्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थं परिधाविष्यति । अत्रान्तरे त्वया दर्भमयानि पा- शानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति । चित्राङ्ग आह-भोः ! भद्रोऽयं त्वया दृष्टो (७)मन्त्रः । नूनं मन्थरकोऽयं मुक्तो मन्तव्य इति । उक्तं च- सिद्धं वा यदि वाऽसिद्धं चित्तोत्साहो निवेदयेत् । प्रथमं सर्वजन्तूनां तत्प्राज्ञो वेत्ति नेतरः॥ १८५ ।। (.) रुदन्तौ। (२) व्यर्थं रोदनेन। (३) प्राणरक्षोपायः। (४)जलाशयम् । (५)निश्चेष्टः। (६) चक्षुप्रहारेण हेतुना मृतोऽयमिति जातविश्वासेन ।(७) उपाय : - पञ्चतन्त्रके- तदेवं क्रियतामिति । तथानुष्टिते स लुब्धकस्तथैव मार्गासन्नपल्वलती- रस्थं(१)चित्रा वायससनाथमपश्यत् । तं दृष्ट्वा हषितमना व्यचिन्तयत्- नूनं पाशबन्धनबेदनया वराकोऽयं मृगः (२)सावशेषजीवितः पाशं त्रोट- यित्वा कथमध्येतद्धनान्तरं यावत्प्रविष्टस्तावन्मृतः । तदृश्योऽयं से कच्छपः (३)सुयन्त्रितत्वात् । तदेनमपि तावद् गृह्णामि । इटावधार्य कच्छपं भूतले प्रक्षिप्य मृगपाद्रवन् । एतस्मिन्नन्तरे हिरण्यकेन(४)वज्रोपमदंष्ट्राप्रहरणेन तदर्भवेष्टन(५) खण्डशः कृतम् । मन्थरकोऽपि तृणमध्यानिष्क्रम्य समीपवर्तिनं पल्वलं प्रविष्टः चित्रा- ङ्गोऽप्यप्राप्तस्य (६)अपि (७)तस्य (८)तल उत्थाय वायसेन सह पला- यितः । एतस्मिन्नन्तरे (६)विलक्षो (१०)विषादपरो लुब्धको निवृत्तो यावत्पश्यति तावत्कच्छपोऽपि गतः । ततश्च तत्रोपविश्येमं श्लोकमपठत्- प्राप्तो बन्धनमप्ययं गुरुमृगस्तावत्त्वया मे हृतः संप्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः । क्षुत्क्षामोऽत्र वशे भ्रमामि शिशुकैस्त्यक्तः समं भार्यया । यच्चान्यन्न कृतं कृतान्त ! कुरु ते तच्चापि सह्यं मया ॥ १८६ ॥ एवं बहुविधं विलप्य स्वगृहं गतः। अथ तस्मिन्व्याचे दूरतरं गते सर्वेऽपि ते काककूर्ममृगमूषिकाः परमानन्दभाजः परस्परमालिङ्गय पुनर्जा- तमिवात्मानं मन्यमानास्तदेव सरः संप्राप्य महासुखेन सुभाषितकथागोष्ठी विनोदेन कालं नयन्ति स्म | एवं ज्ञात्वा विवेकिना मित्रसंग्रहः कार्यः । न च मित्रेण सह व्याजेन वर्तितव्यमिति | उक्तं च यतः- यो मित्राणि करोत्यत्र न कौटिल्येन वर्तते। तैः समं न पराभूतिं संप्राप्नोति कथञ्चन ।। १८७ ।। इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रके मित्रसंप्राप्तिर्नाम द्वितीयं तन्त्रं समाप्तम् । .. (१)मार्गसमीपस्थजलाशयतटे स्थितम् । (२) आसन्नमृत्युः। (३)सुदृढबद्धत्वात् । (४) अतिकठोरेण दंष्ट्राया आघातेनेति यावत् । ५)/कुशनिर्मितबन्धनम् । (६) अनागतस्यैवेत्यर्थः। (७) लुब्धकस्य । (८)तलादित्यर्थः। (९) सलजः। (१०) अतिदुःखितः।

१ काकोलूकीयम् अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रं यस्यारमाधः श्लोकः- न विश्वसेत्पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य । दग्धां गुहां पश्य उलूक पूर्णा काकप्रणीतेन हुताशनेन ॥ १!! तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नग- रम् । तस्य समीपस्थः (२)अनेकशाखासनाथोऽतिघनतरपत्रच्छन्न (३) न्यग्रोधपादपोऽस्ति । तत्र च मेघवर्णो नाम वायसराजोऽनेककाकपरि- वारः प्रतिवसति स्म | स तत्र (४)विहितदुर्गरचनः सपरिजनः कालं नयति स्म । तथान्योऽरिमर्दनो नामोलूकपरिवारो (५)गिरिगुहादुर्गाश्रयः प्रतिवसति स्म । स च रात्रावभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात्प- रिभ्रमति । अथोलूकराजः (६)पूर्व विरोधवशाद्यं कञ्चिद्वायसं समासाद- यति तं व्यापाद्य गच्छति । एवं नित्याभिगमनाब्छनैः शनैस्तन्न्यग्रोधपा- दपदुर्ग तेन समन्तानिर्वायसं(७) कृतम् । अथवा भवत्येवम् । उक्तंच- य उपेक्षेत शत्रु स्वं प्रसरन्तं यहच्छया । रोगं चालस्यसंयुक्तं स शनैस्तेन हन्यते ॥२॥ तथा च-जातमात्रं न यः शत्रु व्याधिं च प्रशमं नयेत् । अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥ ३ ॥ अथान्येयुः स वायसराजः सर्वान्वायससचिवानाहूय प्रोवाच-भो ! (८)उत्कदस्तावदस्माकं शत्रुरुद्यमसंपन्नश्च(E) कालवशान्नित्यमेव निशा- गमे समेत्यास्मत्पक्षकर्तन(१०) करोति तत्कथमस्य (११)प्रतिविधानम् ? वयं तावदात्रौ न पश्यामः, न च तस्य (१२)दिवा दुर्ग विजानीमः, येन गत्वा प्रहरामः । तदत्र विषये किं युज्यते संधिविग्रह-यान-पासन-संश्रय-द्वधी- १. काकश्च उलूकश्च काकोलूको तयोः समाहारः काकोलूकं तदधिकृत्य कृतं तन्त्रं काकोलूकीयम्। (२) बहुशाखः। (३) अतिघनः पणैः पूर्णः। (४) कृतनीड इत्यर्थः । (५) कन्दराकृतनीडः । (६) पूर्वजातवैरकारणात् । (७) सर्वथा काकशून्यम् । (८) प्रबलः। (९)सोत्साहः। (१०) अस्मत्पक्षीयानां प्राणिनां नाशम् । (११)प्रतीकारोपायः। (१२) दिने, अव्ययमिदं दिनार्थे ।

पञ्चतन्त्रक- - भावानामेकतमस्य क्रियमाणस्य । तद्विचार्य शीघ्रं कथयन्तु भवन्तः । अथ ते प्रोचुः-युक्तमभिहितं देवेन यदेष प्रश्नः कृतः । उक्तं च- अपृष्ठेनापि तव्यं सचिवेनात्र किंचन | पृष्टेन तु ऋतं पथ्यं वाच्यं च प्रियमप्रियम् ॥ ४ ॥ यो न पृष्टो हितं ते परिणामे सुखावहम् । सुमन्त्री प्रियवत्ता च केवलं स रिपुः स्मृतः ।। ५ ।। तस्मादेकान्तमासाद्य कार्यो मन्त्रो महीपतेः। येन तस्य वयं कुर्मो निर्णय कारणं तथा ॥ ६ ॥ अथ स मेघवर्णः (१)अन्वयागत-उज्जीवि-संजीवि-अनुजीविप्रजीवि- चिरञ्जीविनाम्नः पञ्च सचिवान्प्रत्येकं प्रष्टुमारब्धः। तत्रैतेषामादौ तावदु- ज्जीविनं पृष्ठवान-भद्र ! एवं स्थिते किं मन्यते भवान् ? | स आह- राजन् ! बलवता सह विग्रहो न कार्यः। यथा स बलवान्कालाहर्ता(२) च । उक्तं च यतः- बलीयसे प्रणमतां काले प्रहरतामपि । संपदो नापगच्छन्ति प्रतीपमिव निम्नगाः॥७॥ तथा च-संत्याज्यो धार्मिकश्चार्यों भ्रातृसंघातवान्बली । अनेकविजयी चैव संधेयः स रिपुर्भवेत् ॥ ८॥ संधिः कार्योऽप्यनार्येण विज्ञाय प्राणसंशयम् । प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥ ६ ॥ येनानेकयुद्धविजयी स तेन विशेषात्संधेयः(३) । उक्तं च- अनेकयुद्धविजयी सन्धानं यस्य गच्छति । तत्प्रभावेण तस्याशु वशं गच्छन्त्यरातयः॥ १० ॥ संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि । सांशयिकं कुर्यादित्युवाच बृहस्पतिः॥ ११ ॥ संदिग्धो विजयो युद्धे जनानामिहयुध्यताम् । उपायत्रितयादूचं तस्माद्युद्धं समाचरेत् ॥ १२ ॥ (1) वंशपरम्परायातान् उज्जीव्यादीन् मन्त्रिणः । २) शत्रोर्बलाबलं विज्ञाय समयानुसारेण प्रहर्ता । (३) संधिवोग्यः।

काकोलूकीयम्। असंधानो मानद्यः समेनापि हतो भृशम् । आमकुम्भ इवान्येन करोत्युभयसंक्षयम् ॥ १३ ॥ समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे | दृषत्कुम्भं यथा भित्वा तावत्तिष्ठति शक्तिमान् ॥ १४॥ अन्यच्च-भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां विग्रहं न समाचरेत् ॥ १५ ।। खनन्नाखुबिलं सिंहः पाषाणशकलाकुलन् । प्राप्नोति नखभङ्गं वा फलं वा खूषको भवेत् ।। १६ ॥ तस्मान्न स्यात्फलं यत्र दुष्टं युद्धं तु केवलम् । न तत्स्वयं समुत्पाद्यं कर्त्तव्यं न कथञ्चन ।। १७ ।। बलीयसा समाक्रान्तो वैतसीं वृत्तिमाचरेत् । वाञ्छन्नभ्रंशिनी लक्ष्मी न भौजड़ीं कदाचन ॥ १८ ॥ कुर्वन्हि वैतसीं वृत्ति प्राप्नोति महतीं श्रियम् । भुजङ्गवृत्तिमापन्नो वधमर्हति केवलम् ।। १६ ॥ कौम सङ्कोचमास्थाय प्रहारानपि मर्षयेत् । काले काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥ २० ॥ आग्रहं विग्रहं मत्वा सुसाम्ना प्रशमं नयेत् । विजयस्य ह्यनित्यत्वाद्रभसं च समुत्सृजेत् ॥ २१ ॥ तथा च-बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं नहि घनः कदाचिदुपसर्पति ।। २२ ॥ एवमुज्जीवी (१)साममन्त्रं (२)सन्धिकारं (३)क्लुप्तवान् । अथ तच्छुत्वा सञ्जीविनमाह-भद्र ! (४)तवाभिप्रायमपि श्रोतुमि- च्छामि | स आह-देव ! न ममैतत्प्रतिभाति यच्छत्रुणा सह संधिक्रि- यते । उक्तं च यतः- शत्रुणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ २३ ॥ (१)साम्नोमन्त्रम् । (२) सन्धिकरणोचितम् । (३) निश्चितवान् वर्णितवानिति यावत् । (४)तव मतमपीत्यर्थः ।

অনক अपरं च स यूरोऽत्यन्तलुब्धो धर्मरहितः । तत्त्वया विशेषान्न सन्धयः । उक्तं च यतः- सत्यधर्मावहीनेन न्न सन्दध्यात्कथञ्चन ! सुसन्धितोऽप्यसाधुत्वादचिरावाति विक्रियाम् ॥ २४ ॥ तस्मात्तेन सह योद्धव्यमिति मे (१) अतिः । उक्तं च यत:--- क्रूरो लुब्धोऽलसाऽसत्यः प्रमादी भोलरस्थिरः । मूढो युद्धावमन्ता च सुखोच्छेद्यो भवेद्रिपुः ।। २२ ।। अपरं तेन पराभूता वयम् । तद्यदि (२)संधानकीर्तनं करिष्यामः स भूयोऽत्यन्तं कोपं करिष्यति । उक्तं च- चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ।। २६॥ साभवादाः सकोपस्य शत्रोः प्रत्युत दोपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ।। २७ ॥ यदेवैतद्वदति रिपुबलवान् , तदप्यकारणम् (३) उक्तं च यतः- सोत्साहशक्तिसम्पन्नो हन्याच्छत्रु लघुर्गुरुम् । यथा कण्ठीरवा नागे सुसाम्राज्यं प्रपद्यते ।। २८ ।। मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये । यथा स्त्रीरूपमास्थाय हतो भीमेन कीचकः ।। २९ ॥ तथा च-मृत्योरिवोपदण्डस्य राज्ञो यान्ति वशं द्विषः । शष्पतुल्यं हि मन्यन्ते दयालुं रिपवो नृपम् ।। ३० ।। न याति शमनं यस्य तेजस्तेजस्वितेजसा । वृथा जातेन किं तेन मातुयौवनहारिणा ॥ ३१ ॥ या लक्ष्मी नुलिप्ताङ्गी वैरिशोणितकुङ्कमैः । कान्ताऽपि मनसः प्रीति न सा धत्ते मनस्विनाम् ॥ ३२ ॥ रिपुरक्तेन संसिक्तारिस्त्रीनेत्राम्बुभिस्तथा । न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीवने ॥ ३३ ॥ एवं सञ्जीवा विग्रहमन्त्रं विज्ञापयामास । (१) सम्मतिरिति भावः। (२) सन्धिचर्चाम् । (३) अयुक्तमित्यर्थः ।

- काकोलूकीयम् । १२१ अथ तच्छ्रुत्वाऽनुजीविनमपृच्छन्-भद्र ! त्वमपि स्वाभिप्रायं निवे- दय । सोऽब्रवीत्-देव ! दुष्टः स बलाधिको (१)निर्मर्यादश्च । तत्तेन सह संधिविग्रहौ न युक्तौ । केवलं (२) यानमहं स्यात् । उक्तं च- बलोत्कटेन दुष्टेन मर्यादारहितेन च । न सन्धिविग्रहौ नैव विना यानं प्रशस्यते ॥ ३४ ॥ द्विधाकारं भवेद्यानं भयत्रस्तप्ररक्षणम् । एकमन्यजिगीषोश्च यात्रालक्षणमुच्यते ॥ ३५ ॥ कार्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते । यानमुत्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा ॥३६ ॥ अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः । व्यसने वर्तमानस्य शत्रोश्छिद्रान्वितस्य च ।। ३७ ॥ स्वस्थानं सुदृढं कृत्वा शूरैश्चाप्तैर्महाबलैः । परदेशं ततो गच्छेत्प्रणिधिव्याप्तमग्रतः ॥ ३८ ॥ अज्ञातविविधासारतोयसस्यो व्रजेत्तु यः । परराष्ट्र स नो भूयः स्वराष्ट्रमधिगच्छति ॥ ३९ ॥ तत्ते युक्तं कर्तुमपसरणम्(३)। अन्यञ्च- न विग्रह न सन्धानं बलिना तेन पापिना । कार्यलाभमपेक्ष्यापसरणं क्रियते बुधैः ॥ ४० ॥ उक्तं च यतः- यदपसरति मेषः कारणं तत्प्रहां मृगपतिरपि कोपात्सङ्कुचत्युत्पतिष्णुः । हृदयविहितवैरा गूढमन्त्रोपचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ ४१॥ अन्यच्च-बलवन्तं रिपुं दृष्ट्वा देशत्यागं करोति यः । युधिष्ठिर इवाप्नोति पुनर्जीवन्स मेदिनीम् ॥ ४२॥ युद्धयतेऽहंकृतिं कृत्वा दुर्बलो यो बलीयसा । स तस्य वाञ्छितं कुर्यादात्मनश्च कुलक्षयम् ।। ४३ ॥ १) अत्याचारी चेत्यर्थः । (२) याननामकोपायप्रयोग उचित इत्यर्थः । (३) यानमिति यावत् । .

૨૨૨ पञ्चतन्त्रके- A तद् (१)बलवताभियुक्तस्य(२)अपसरणसमयोऽयं न सन्धेविग्रहस्य च ! एवमनुजीविमन्त्रोऽपसरणस्य । अथ तस्य वाक्यं समाकर्य प्रजीविनमाह-भद्र ! त्वमप्यात्मनो. ऽभिप्रायं वद । सोऽब्रवीत्-देव ! मम सन्धिविग्रहयानानि त्रीण्यपि न प्रतिभान्ति । विशेषतश्चासनं(३) प्रतिभाति । उक्तं च यतः- नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षांत । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥४४॥ अन्यञ्च-अभियुक्तो बलवता दुर्गे तिष्ठेत्प्रयत्नवान् । तत्रस्थः सुहृदाह्वानं प्रकुर्वीतात्ममुक्तये ॥ ४५ ॥ यो रिपोरागमं श्रुत्वा भयसन्त्रस्तमानसः । स्वं स्थानं सन्त्यजेत्तत्र न स भूयो वसेन्नरः ॥ ४६ ॥ दंष्टाविरहितः सर्पो मदहीनो यथा गजः । स्थानहीनस्तथा राजा गभ्यः स्यात्सर्वजन्तुषु ॥ ४७ ॥ निजस्थानस्थितोऽप्येकः शतं योद्धं सहेन्नरः । शक्तानामपि शत्रूणां तस्मात्स्थानं न सन्त्यजेत् ॥ ४८ ॥ तस्माद् दुर्ग दृढं कृत्वा सुभटासारसंयुतम् । प्राकारपरिखायुक्तं शस्त्रादिभिरलंकृतम् ।। ४९ ।। तिष्ठ मध्यगतो नित्यं युद्धाय कृतनिश्चयः । जीवन्सम्प्राप्स्यसि क्ष्मान्तं मृतो वा स्वर्गमेष्यसि ॥ ५० ॥ अन्यञ्च-बलिनापि न बध्यन्ते लघवोऽप्येकसंश्रयाः। विपक्षणापि मरुता यथैकस्थानवीरुधः ॥५१॥ महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः । प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥ ५२ ॥ अथ ये संहता वृक्षाः सर्वतः सुप्रतिष्ठिताः । न ते शीघ्रण वातेन हन्यन्ते ह्येकसंश्रयात् ।। ५३ ॥ एवं मनुष्यमेकं च शौर्येणापि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥ ५४॥ (१)प्रबलेन शत्रुणा आक्रान्तस्य । (२) याननामकोपायप्रयोगकालः। (३)तदाख्य उपायः।

- काकोलूकीयम् । १२३ एवं प्रजीविमन्त्रः । इदमासनसंज्ञकम् । एतत्समाकर्ण्य चिरञ्जीविनं प्राह-भद्र ! त्वमपि स्वाभिप्रायं वद । सोऽब्रवीत्-देव ! (१) षाड्गुण्यमध्ये मम (२) संश्रयः सम्यक् प्रतिभाति तत्तस्यानुष्ठानं (३) कार्यन् । उक्तं च- असहायः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥ ५५ ॥ सङ्गतिः श्रेयसी पुसां स्वपक्षे च विशेषतः । तुरैरपि परिभ्रष्टा नं प्ररोहन्ति तण्डुलाः ॥ ५६ ।। तदन्नैव स्थितेन त्वया कश्चित्समर्थः समाश्रयणीयः, यो विपत्प्रती- कारं करोति | यदि पुनस्त्वं स्वस्थानं त्यक्त्वान्यत्र यास्यसि तत्कोऽपि ते वाङमात्रेणापि सहायत्वं न करिष्यति । उक्तं च यतः- वनानि दहतो वह्नेः सखा भवति मारुतः। स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ ५७ ।। अथवा नैतडेकान्तम् (४) यद् बलिनमेकं समाश्रयेत् । लघूनामपि संश्रयो रक्षायै एव भवति । उक्तं च यतः-- संघातवान्यथा वेणुनिबिडो वेणुभिर्वृतः । न शक्यः स समुच्छेत्तुं दुर्बलोऽपि तथा नृपः ॥ ५ ॥ यदि पुनरुत्तमसंश्रयो भवति तत्किमुच्यते । उक्तं च- महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।। ५९ ।। तदेवं संश्रयं विना न कश्चित्प्रतीकारो भवति । तस्मात्संश्रयः कार्य इति मेऽभिप्रायः । एवं चिरञ्जीविमन्त्रः । अथैवमभिहिते स मेघवर्णो राजा चिरन्तनम् (५) पितृसचिवं दीर्घा- युषं सकलनीतिशाखपारङ्गतं स्थिरजीविनामानं प्रणम्य प्रोवाच-तात ! यदेते मया पृष्टाः सचिवास्तावदत्रस्थितस्यापि तव, (६) तत्परीक्षार्थम् । (१) सन्धिविग्रहयानासनद्वैधीभावाश्रयणां मध्ये। (२)तदाख्य उपायः। (३) संश्रयाख्यस्योपायस्य प्रयोगः । (४)सिद्धान्तभूतं युक्तियुक्तमिति यावत्। (५)पितुर्मन्त्रिणम् । ६)कर्त्तव्याकर्तव्यनिर्णयार्थमित्यर्थः ।

१२४ पञ्चतन्त्रके- येन त्वं सकलं श्रुत्वा यदुचितं तन्मे समादिशसि । तद्यद्युक्तं (१) भवति तत्समादेश्यप(२) । स ाह-वत्स ! सर्वैरप्येतैः(३)नीतिशाखा- श्रयमुक्तं सचिवैः । तदुपयुज्यते (४)स्वकालोचितं सर्वमेव । परमेष द्वैधी. भावस्य कालः । उक्तं च- अविश्वासं सदा तिष्ठेत्सन्धिना विग्रहेण च । द्वैधीभावं समाश्रित्य नैव शत्रौ बलीयसि ॥ ६॥ तच्छत्रु विश्वास्य(५)अविश्वस्तैर्लोसं दर्शयद्भिः सुखेनोच्छिद्यते(६) रिपुः । उक्तं च- उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकंदा । गुडेन वर्धितः श्लेष्मा सुखं वृद्धथा निपात्यते ।। ६१ ॥ उक्तं च कृत्यं देवद्विजातीनामात्मनश्च गुरोस्तथा । एकभावेन कर्तव्यं शेषं द्वैधं समाश्रितम् ।। ६२ ॥ तद् द्वैधीभावं संश्रितस्य तव स्वस्थाने वासो भविष्यति । लोभाश्रयाच्च शत्रुमुच्चाटयिष्यसि | अपरं यदि किञ्चिच्छिद्रं तस्य पश्यसि तद्गत्वा व्या- पादयिष्यसि(७)। मेघवर्ण आह-तात ! मया सोऽविदितसंश्रयः(द)। तत्कथं तस्य छिद्रं ज्ञास्यामि ! स्थिरजीव्याह-वत्स ! न केवलं स्थातम् , छिद्राण्यपि तस्य प्रकटीकरिष्यामि (8)प्रणिधिभिः । उक्तं च- गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः । चारैः पश्यन्ति राजानश्चक्षुामितरे जनाः ॥ ६३ ॥ उक्तश्चात्र विषये- यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः । गुप्तैश्चारैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात् ॥ ६४ ॥ मेघवणे आह-तात ! कानि(१०) तीर्थान्युच्यन्ते कतिसंख्यानि च, कीदृशा गुप्तचराः, तत्सर्वं निधेद्यतामिति । स आह-अत्र विषये भगवता (१) तस्माद् यन्नीतिसम्मतं भवति । (२) कर्तुमाज्ञापयितव्यम् । (३) नीतिशास्त्रानुकूलम् । (४) स्वप्रयोगकाले प्रयुक्तमित्यर्थः । (५)स्वयं शत्रुमविश्वसद्भिः (६) लोभपारवश्यादिति भावः । ७)हनिष्यसि। (८ अविदितः संश्रयो वासस्थानं यस्य सः। (९) गुप्तचरैरित्यर्थः। (१०) मन्त्राद्यष्टादश स्थानानि । - - e- काकोलूकीयम्। १२५ नारदेन युधिष्ठिरः प्रोक्तः । यच्छत्रुपक्षेऽष्टादश तीर्थानि, स्वपक्षे पञ्चदश । त्रिभित्रिभिर्गुप्तचरैस्तानि ज्ञेयानि | तैतैिः स्वपक्षः परपक्षश्च वश्यो भवति । उक्तञ्च नारदेन युधिष्ठिरं प्रति- कञ्चिदष्टादशान्येष स्वपक्षे दश पञ्च च | त्रिभित्रिभिरविज्ञातैत्सि तीर्थानि चारकैः ॥६५॥ तीर्थशब्देनायुक्तकर्माभिधीयते(१) तयदि तेषां कुत्सितं भवति तत्स्वा- मिनोऽभिघाताय भवति । प्रधानं भवति, तद् वृद्धये स्यादिति । तद्यथा मन्त्री, पुरोहितः , सेनापतिः, युवराजः, (२)दौवारिकः, (३)अन्तर्वेशिका (४)प्रशासकः, (५ समाहर्तृ-सन्निधातृ-प्रदेष्ट्र-ज्ञापकाः, साधनाध्यक्षः गजाध्यक्षः, कोषाध्यक्षः(६) दुर्गपाल-करपाल-सीमापाल-प्रोत्कटभृत्याः । एषां (७)भेदेन द्राग्रिपुः साध्यते(८) । स्वपक्षे च-(E)देवी, जननी, (१०)कञ्चुकी, (११)मालिकः, (१२)शय्यापालकः, (१३)स्पर्शाध्यक्षः, (१४)सांवत्सरिकः, भिषक् , जलवाहकः, ताम्बुलवाहकः, आचार्यः, ( १५)अङ्गरक्षकः, स्थानचिन्तकः, छत्रधरः (१६)विलासिनी । एषां वैरद्वा- रेण स्वपक्षे विघातः । वैद्यवात्सरिकाचार्याः स्वपक्षेऽधिकृताश्चराः । यथाहितुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥ ६६ ॥ (१) अयुक्तं शत्रुजयार्थं गूढं क्रियमाणं कर्म सचिवादीत्यर्थः । (२)द्वारपालः। (३) रक्षार्थमन्तःपुरे नियुक्तः कोऽपि पुरुषः । (४)सकलशासकानामध्यक्षः । (५) समाहर्ता = करसंग्रहकारी, सन्निधाता=संगृहीतकराणां यथायथं स्थाप- यिता, प्रदेष्टा-प्रथप्रदर्शकः, ज्ञापक-संवाददाता ते च ते तथोक्ताः। (६) दुर्गपालः = दुर्गरक्षकः, करपाल: = राजस्वसंरक्षकः, सीमापाल: =सीमावे- क्षकः, प्रोत्कटः कोऽपि प्रभावशाली कर्मचारी ते च ते भृत्याः। (७) परस्परवैमनस्योत्पादनेनेत्यर्थः । (८)वशमानीयते । ९) पट्टमहिषी। (१०) अन्तःपुरचारी कोऽपि वृद्धो विप्रः। (११) मालाकारः (माली) (१२) शयनागाररक्षकः। (१३) राजकीयगन्धद्रव्याणां व्रबन्धकः । (१४) दैवज्ञः। (१५) शरीररक्षकः। (१६) वेश्या।

१२६ पञ्चतन्त्रके- १ तथा च-कृत्याकृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः ।। ६७ ।। एवं मन्त्रिवाक्यमाकात्रान्तरे मेघवर्ण आह-तात! अथ किंनि- मित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वरम् । स ाह-वत्स ! कदाचिद्धस-शुक-बक-कोकिला-चातक-उलूक-रूपोत-पारावत-विष्किर- प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः-अहो! अस्मारकं तावद्वैनतेयो (१) राजा । स च बालुदेवभक्तः । न कामपि चिन्तामस्माकं करोति । तत्कि तेन वृथा स्वामिना, यो लुब्धकपाशैनित्य निबध्यमानानां न रक्षां विधत्ते । उक्त च- यो न रक्षति वित्रस्तान्पीड्यमानान्परैः सदा । जन्तून् पाथिवरूपेण स कृतान्तो न संशयः ॥ ६ ॥ यदि ल स्यानरपतिः सम्यङनेता ततः प्रजा । अकर्णधारा जलधौ विप्मवेतेह नौरिव ।। ६६ ॥ षडिमान् पुरूषो जयाद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ।। ७० ।। अरक्षितारं राजानं भायों चाप्रियवादिनीम् । ग्रामकामञ्च गोपालं वनकामं च नापितम् ।। ७१ ॥ तत्सञ्चिन्त्यान्यः कश्चिद्राजा विहङ्गमानां क्रियतामिति । अथ तैः (२) भद्राकारमुलूकमवलोक्य सर्वैरभिहितम्-'यदेष उलूको राजास्माकं भविष्यति तदानीयन्तां नृपाभिषेकसम्बन्धिनः (३) सम्भराः' इति । अथ (४)साधिते विविधतीर्थोदके (५)प्रगुणीकृ. तेऽष्टोत्तरशतमूलिकासंघाते, प्रदत्त सिहासने, वर्तिते सप्तद्वीपसमुद्र- भूधरविचित्रे धरित्रीमण्डले प्रसारिते व्याघ्रचर्मणि, आपूरितेषु, हेम- कुम्भेषु, दीपेषु वाद्येषु च, सज्जीकृतेषु दर्पणादिषु माङ्गल्यवस्तुषु, पठत्सु बन्दिमुख्येषु, वेदोच्चारणपरेषु समुदितमुखेषु ब्राह्मणेषु, गीतपरे युवती- जने, आनीतायामग्रमहिष्यां(६) कृकालिकायाम् , उलूकोऽभिषेकार्थं याव- (१) गरुडः। (२) शोभनाकृतिम् । (३) वस्तूनि । (४)आनीते। (५)सम्यक् प्रकारेण संख्याते। (६) प्रधानमहिष्याम् ।

काकोलूकीयम् । सिंहासन उपविशति, तावत्कुतोऽपि वायसः समायातः । सोऽचिन्तयत्- अहो ! किमेष सकलपक्षिसमागमो महोत्लबश्व ?। अथ ते हटा लिथः प्रोचुः-पक्षिणांमध्ये वायसश्चतुरः श्रूयते । उक्तं च- नराणां नापितो धूर्तः पक्षिणां चैव वायसः । ट्रॅट्रिणां च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम् ।। ७२ ॥ तदस्यापि वचनं ग्राह्यम् ! उक्तं च- बहुधा बहुभिः साधं चिन्तिताः सुनिरूपिताः । कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ७३ ॥ अथ वायसः समेत्य तानाह--अहो ! किं महाजनसमागमोऽयं परममहोत्सवश्च ? | ते प्रोचुः-भोः ! नास्ति कश्चिद् विहङ्गभानां राजा तदस्योलूकस्य विहङ्गराज्याभिषेको (१)निरूपितस्तिष्ठति समस्तप- क्षिभिः । तत्त्वमपि स्वमतं देहि । (२)प्रस्तावे समागतोऽसि | अथासौ काको विहस्याह-अहो ! न युक्तमेतत् , यन्मयूर-हंस-कोकिल-चक्र- वाक-शुक-कारण्डव-हारीतसारसादिषु पक्षिप्रधानेपु विद्यमानेषु (३)दि- वान्धस्यास्य (४)करालवक्त्रस्याभिषेकः क्रियते । तन्नैतन्मम मतम् ! यतः- वक्रनासं सुजिह्माक्षं क्रूरमप्रियदर्शनम् । अक्रुद्धस्येदृशं वक्त्रं भवेत्क्रुद्धस्य कीदृशम् ।। ७४ ॥ तथा च-स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम् । उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति ।। ७५ ॥ अपरं वैनतेये स्वामिनि स्थिते किमेष दिवान्वः क्रियते राजा। तद्यद्यपि गुणवान्भवति तथाप्येकस्मिन्स्वामिनि स्थिते नान्यो भूपः प्रशस्यते । एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ।। ७६ ।। गुरूणां नाममात्रेऽपि गृहीते स्वामिसम्भवे । दुष्टानां पुरतः क्षेमं तत्क्षणादेव जायते ।। ७७ ॥ तथा च-व्यपदेशेन महतां सिद्धिः सञ्जायते परा । (१) कर्तुं निश्चित इति भावः। (२) राज्याभिषेकस्यारम्भे। (३) उलूकस्य । (४) भीषणाकृतेः।

पञ्चतन्त्रके- - MD शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ।। ७ ।। त ऊचुः कथमेतत् स आह- कथा (१) कमिश्विद्वने चतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन्महत्यनावृष्टिः (१) संजाता प्रभूतवर्षाणि यावत् । तया तडा- गहृदपल्बलसरांसि शोषमुपगतानि | अथ तैः समस्तगजैः स गजराजः प्रोक्तः-देव ! पिपासाकुला गजकलमा सुतप्रायाः, अपरे मृताश्च तदन्वि- ष्यतां कश्चिज्जलाशयो यत्र जलपानेन स्वस्थतां ब्रजन्ति । ततश्चिरं ध्यात्वा तेनाभिहितम्-अस्ति महाह्रदो विविक्ते प्रदेशे स्थलमध्यगतः पातालगङ्गा. जलेन सदैव पूर्णः । तत्तत्र गम्यताम्' इति । तथानुष्ठिते (२) पञ्चरात्रमु. पसद्भिः समासादितस्तैः स हृदः। तत्र स्वेच्छया जलमवगाह्मास्तमन- वेलायां (३) निष्क्रान्ताः । तस्य च हृदस्य समन्ताच्छशकबिला असंख्याः सुकोमलभूमौ तिष्ठन्ति । तेऽपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः (४) परिभग्नाः। बहवः शशका भग्नपादशिरोग्रीवा विहिताः । केचिन्मृताः, केचिज्जीवशेषा जाताः । अथ गते तस्मिन्गजयूथे शशकाः सोद्वेगा (५) ग- जपादक्षुण्णसमावासाः केचिद्भग्नपादाः, अन्ये जर्जरितकलेवरा रुधिर- प्लुताः, अन्ये हतशिशवो (६) बाष्पपिहितलोचनाः समेत्य मिथो मन्त्रं , चक्र:-अहो विनष्टा वयम् । नित्यमेवैतद्गजयूथमागमिष्यति यतो नान्यत्र जलमस्ति तत्सर्वेषां नाशो भविष्यति । उक्तं च- स्पृशन्नपि गजो हन्ति जिवन्नपि भुजङ्गमः। सहन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ ८६ ॥ तचिन्त्यतां कश्चिदुपायः । तत्रैकः प्रोवाच-गम्यतां देशत्यागेन । किम- न्यत् । उक्तं च- त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥८०॥ (१) बहुकालिकीतियावत् । (२) पञ्चरात्रिपर्यन्तमित्यर्थः । (३)सायङ्काले। (४)विनाशिताः। (५) हस्तिनां चरणप्रक्षेपैनष्टबिलाः। (६) रुदन्त इत्यर्थः।

काकोलूकीयम् । १२६ क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजेन्नपो भूमिमात्मार्थमविचारयन् ।। ८१ ।। आपदर्थे धनं रक्षेदारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेदारैरपि धनैरपि ॥ ८२ ॥ ततश्चान्ये प्रोचुः-भोः ! पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तु- म् | तक्रियतां तेषां कृते काचिद्विभीषिका (१) । यत्कथमपि दैवान्न समा- यान्ति | उक्तं च- निर्विषेणापि सर्पण कर्तव्या महती फटा । विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥ ८३ ॥ अथान्ये प्रोचुः-यद्येवं ततस्तेषां महद्विभीषिकास्थानमस्ति, येन नाग- मिष्यन्ति । सा च (२) चतुरदूतायत्ता विभीषिका । तत्र विजयदत्तो नाम राजास्मत्स्वामी शशकश्चन्द्रमण्डले निवसति । तत्प्रेष्यतां कश्चिन्मिथ्यादूतो यूथाधिपसकाशं यच्चन्द्रस्त्वामत्र हृद आगच्छन्तं निषेधयति । यतः(३)अ- स्मत्परिग्रहोऽस्य समन्ताद्वसति । एवमभिहिते श्रद्धेयवचनात्कदापि निव- तते । अथान्ये प्रोचुः-ययेवं तदस्ति लम्बको नाम शशकः । स च (४)वचनरचनाचतुरो दूतकर्मज्ञः । स तत्र प्रेष्यतामिति । उक्तं च-साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणः । परचित्तावगन्ता च राज्ञो दूतः स इष्यते ॥ ८४ ॥ अन्यञ्च-यो मूर्ख लौल्यसंपन्न राजद्वारिकमाचरेत् । मिथ्यावादं विशेपेण तस्य कार्य न सिध्यति ।। ८५ ॥ तदन्विष्यतां (५) यथास्माद् व्यसनादात्मनां (६) सुनिर्मुक्तिः (७)। अथान्ये प्रोचुः-अहो ! युक्तमेतत् । नान्यः कश्चिदुपायोऽस्माकं जीवि- तस्य | तत्तथैव क्रियताम् । अथ लम्बको गजयूथाधिपसमीपे () निरू- (१) भयप्रदर्शनं विपत्सम्भावनेत्यर्थः। (२) चतुरस्य निपुणस्य दूतस्य आयत्ता अधीना तदेकसाध्येतियावत् । (३) अस्मदीयानुचरवर्ग इत्यर्थः । (४)वाकचतुरः। (५) ज्ञायतां क्रियतामिति भावः। (६)स्वकीयशशकानाम् । (७) अनायासेन मोचनस्योपाय इति यावत् । (८)गमनाय सनिश्चितः ।

merupeesmeraprem A TA IDumi AK.DAIRED दिलो पलट लाऽजिलजमार्गमास माहा संजय सोर देतीला निशातयात्र चन्द्रन अ तक निकायवाति तदाकार्यविलित मला मार कल्याइह लाल शशक. प्रतं सरकार बन्जला तब पाक प्रहितो दूरः । जाभवान् यथार्थवाहिलो तक न होगः (१)जलीयः ! दूला हि जान लव एक उक्तंच- उद्यतेऽशनि शले बन्धुवर्णकापि । परवाएयपि जल्पान्तो क्या दूता न भूभुजा ।। ८६ ? तच्छुत्वा स आह-भो! शशक! तत्कथय भगवतश्चन्द्र जसः सन्देशम् , येस सत्वरं क्रियते । स ाह-भवतातीतदिवसे यूथेन सहा- गच्छता प्रभूताः शशका निपातिताः तत्किं न वेत्ति भवान् , यन्मम परि- ग्रहोऽयम् । लद्यदि जीवितेन ते प्रयोजनम्' तदा केनापि प्रयोजनेनात्र हृदे नागन्तव्यनिति सन्देशः । गज आह-अथ क वर्तते भगवान्स्वामी चन्द्रः ? ल आह-अत्र हृढे साम्प्रतं शशकानां भवाथमथितानां हतशे- षाणां समाश्वासनाय समायातस्तिष्ठति । अहं पुनस्तवान्तिकं प्रेषितः । गज आह-यद्येवं तदर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि । शशक आह-भोः ! आगच्छ मया सहैकाकी येन दर्शयामि । तथानुष्ठिते शशको निशासमये तं गज ह्रदतीरे नीत्वा जलमध्ये स्थितं चन्द्रबिम्बम- दर्शयत् । आह-च मोः ! एष नः स्वामी जलमध्ये (२)समाधिस्थस्तिष्ठति । तलिभृतं प्रणम्य सत्वरं व्रजेति ! नो चेत्समाधिभङ्गाद्भूयोऽपि प्रभूतं कोई करिष्यति । अथ गजोऽपि त्रस्तमनास्तं प्रणम्य पुनर्गमनाय प्रस्थितः । शशकाश्च तहिनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिन्ति स्म । अतोऽहं ब्रवीमि-'व्यपदेशेन महताम्' इति ।। अपि च क्षुद्रमलसं कापुरुषं व्यसनिनमकृतज्ञं पृष्टप्रलपनशीलं स्वामित्वेन नाभियोजयेज्जी- वितकामः । उक्तं च- क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ । (१) मन्तव्य इत्यर्थः। (२) ध्यानावस्थितः।

काकोलूकीयम् ! उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ।। ८७ १] ते प्रोचुः कथमेतत् । स बाह- कथा (२) कविश्विवृक्षे पुराहमवसम् । तत्राधस्तात्कोटरे कपिललो लामा चटक प्रतिवसति स्म । अथ सदैवास्तमनवेलायाम(१) (२)भागतयोद्वैयो- रनेकलुभाषितगोष्ठथा देवर्षिब्रह्मर्षिपुराणचरितकीर्तनेन च (३)पर्यटनदृष्टा- नेकौतूहलप्रकथनेन च परमसुखमजुभवतोः कालो ब्रजति ! अथ कदा. चित्कपिञ्जलः प्राणयात्रार्थमन्यैश्चटकैः सहान्यं पक्कशालिमायं देशं गतः । ततो यावन्निशासमयेऽपि नायातस्तावदहं (४)सोद्वेगमनास्तद्वियोगदुःखित- श्चिन्तितवान्-अहो ! किमद्य कपिञ्जलो नायातः । कि केनापि पाशेन बद्धः । आहोस्विरकेनापि व्यापादितः सर्वथा यदि कुशली भवति तन्मां विना न तिष्ठति । एवं मे चिन्तयतो वहून्यहानि व्यतिक्रान्तानि । ततम्ब तत्र कोटरे कदाचिच्छीघ्र गोदाम शशकोऽस्तमनवेलायामागत्य प्रविष्टः । मयापि कपिञ्जलनिराशत्वेन न निवारितः । अथान्यस्मिनहनि कपिञ्जलः शालिमकणादतीव पीवरतनुः स्त्रमाश्रयं स्मृत्वा भूयोऽपि तत्रैव लमायातः । अथवा साध्विदमुच्यते- न ताहग्जायते सौख्यमपि स्वर्गे शरीरिणाम् । दारिद्रयेऽपि हि याहस्यात्स्वदेशे स्वपुरे गृहे ।। ८८ ।। अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा (५)साक्षेपमाह-भोः ! शशक ! न त्वया सुन्दरं कृतं यन्ममावसथस्थाने (६) प्रविष्टोऽसि । तच्छीत्र निष्क्रम्यताम् । शशक आह-न तवेदं गृहम् । किंतु ममैव, तत्किं मिथ्या परुषाणि जल्पसि । उक्तं च- वापीकूपतडागानां देवालयकुजन्मनाम् । उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ८९ ॥ (१)सायङ्काले। (२) आवयोरित्यर्थः। (३) भ्रमणकाले दृष्टानां विस्मयकरीणां घटनानां वर्णनेनेत्यर्थः । (४)व्याकुलः । (५) अनादरपूर्वकम् । (६) वासस्थाने बिल इत्यर्थः ।

mano तथा वा---प्रत्यहं यस्य यदुक्तं क्षेत्राचं दश वत्सरान् ! . सत्र सुतिः प्रमाण स्थान साक्षी नाक्षराणि वा ॥ १० ॥ मानुपापासायं न्यायो मुनिभिः परिकीर्तिताः । तिर वा विहान मानलेव समाश्रयः ॥ ९१!! तमतद, गृह जता इति । कपिजल काह-भोः ! यदि स्मृति प्रमाणीकरोति तनावच्छ मया सह, बेन(१) स्तिपाठक पृष्टया स राख्या ददाति का गृहातु तथानुष्टिते अयाषि चिन्तित-किलत्र भविष्यति । मया द्रष्टव्योऽयं (न्यायः । ततः कौलुकादहमापे (३)तापनु प्रस्थितः । अत्रान्तरं तीक्ष्मदंट्रो नामारण्यमाजारस्तयोविवादं श्रुत्या मागासन्नं नदी- तटमासाच (४) कृतकुशोपग्रहो निमीलितनयन ऊर्ध्वबाहुरर्वपादस्पृष्ट- भूमिः श्री भिमुख इमां (५)धमापदेशनामकरोत्-अहो ! असारोऽयं संसारः । क्षणभङ्गुराः प्राणाः । स्वप्नसहशः प्रियसमागमः । इन्द्रजालव- स्कुटुम्बपरिग्रहोऽयम् । तद्धर्म मुक्त्वा नान्या (६)गतिरस्ति । उक्तंच- अनित्यानि शरीराणि विभवो नैव शाश्वत्तः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ।। ६२ ॥ यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसनपि न जीवति ।। ६३ ।। नाच्छादयति कौपीनं न दंशमशकापहम् । शुनः पुच्छमिव व्यर्थं पाण्डित्यं धर्मवजितम् ।। ६४ ॥ अन्यच्च-पुलाका इव धान्येषु पूतिका इव पक्षिषु । मशका इव मर्येषु येषां धर्मो न कारणम् ॥ १५ ॥ श्रेयः पुष्पं फलं वृक्षाधनः श्रेयो घृतं स्मृतम् । श्रेयस्तैलं च पिण्याकाच्छेयान्धर्मस्तु मानुषात् ।। ६६ ।। सृष्टा सूत्रपुरीषार्थमाहाराय च केवलम् । धर्महीनाः परार्थाय पुरुषाः पशवो यथा ॥ ७ ॥ स्थैर्य सर्वेषु कृत्येपु शंसन्ति नयपण्डिताः । (१)धर्मशास्त्रिणम् । (२)विचारः। (३)तयोःपश्चादितियावत् । (४) सद्भावबोधनाय कुशहस्त इत्यर्थः । (५) धर्मशास्त्रोपदेशम् । (६) आश्रयः सहायक इति भावः ।

काकोलूकीयम्। बह्वन्तराययुक्तस्य धर्मस्य त्वारिता गतिः ।। १८ संक्षणात्कथ्यते धर्मो जनाः। किं विस्तारेण बः ! परोपकारः पुण्याय पापाय परपीडनम् ।। ६६ !! श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।। १०० ।। अथ तस्य तां धर्मोपद्देशनां श्रुत्वा शशक माह-भोः भोः ! कपि- अल ! एष नदीतीरे तपस्वी धर्मवादी तिष्ठति। तदेन पृच्छावः । कपिञ्जल आह-ननु स्वभावतोऽस्माकं शत्रुभूतोऽयमस्ति तद् दूरे स्थिती पृच्छावः । कदाचिदत्या प्रतवैकल्यं संपधेत । ततो दूस्थितावूचतु:- (१) भोः ! भोस्त स्विन् ! धर्मोपदेशक ! प्रादयोविवादो वतते । तद्धर्म- शानद्वारेणास्माकं निर्णयं कुरु यो(२) हीनबादी स ते भक्ष्य इति । स माह-सद्रौ ! मा मैवं वदतम् । निवृत्तोऽहं (३)नरकपातकमार्गात् । अहिंसैन धर्ममार्गः । उक्तं च- अहिंसापूर्वको धर्मा यस्मात्सद्भिदाहृतः। यूकमत्कुणदंशादीस्तस्मातानाप रक्षयेत् ।। १०१ ।। हिंसकान्यपि भूतानि यो हिलति स निघणः । स याति नरकं घोरं किं पुनर्यः शुभानि च ।। १०२ ॥ एतेऽपि ये याज्ञिका यज्ञकर्मणि पशून्व्यापादयन्ति, ते मूर्खाः (४) परमार्थ श्रुतेर्न जानन्ति | तत्र किलैतदुत्तमजैर्यष्टव्यम् । अजा ब्रीहयस्तावत्सप्तवार्षिकाः कथयन्ते न पुनः पशुविशेषाः । उक्तं च- वृक्षांश्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग नरक केन राम्यते । १०३ ।। तन्नाहं. अक्षयिष्यामि । परं जयपराजयनिर्णयं करिष्यामि । किन्त्वहं वृद्धो दूराचुवायोआषान्तर(५) सम्यङ् न शृणोमि । एवं ज्ञात्वा मम समीपवर्तिनो भूत्वा ममाग्रे . (६)न्यायं वदतम् । येन विज्ञाय (१)महालन्नित्यर्थः। (२)अनृतवादी पराजित इर: यावत। (३)नरकप्राप्तिकरारपथः । (४) तात्पर्यम् । (५) वाक्यभेदमभिप्रायमिति यावत् । (६) यथार्थतामिति भावः ।

PORN (१)विवाद परमार्थ, बचो वहतो (२)परलोकवायो न भवति । E मानावा यादिवालोमाक्रोधादर यदि बा मच्यात। को ब्यायसन्यथा तेल याति लरकं नरः ।। १०४ ॥ जन पश्चते हन्ति दशा हन्ति गवानृते । शतं कल्यानृते हन्ति सहस्री पुरुषानुते ।। १०५ 11 उपविष्टः समामध्ये यो न वक्ति छुटं बचाः । तस्माद् दूरेण ल त्याज्यो वायं वा कीतयेहतम् ।। १०६ !! तस्माद्विश्रब्धौ(३) मम कर्णोपान्तिके स्फुट निवेदयतम् । किंबहुना तेन (४)झुद्रेण तथा तौ तूर्ण विश्वासितौ यथा तस्योत्सङ्गवर्तिनौ सञ्जातौ । ततश्च तेनापि समकालमेवैकः पादान्तेनाकान्तः, अन्यो दंष्ट्रानकचेन(५) च । ततो गतप्राणौ भक्षिताविति । अतोऽहं ब्रवीमि-'क्षुद्रमर्थपति प्राप्य, इति । अवन्तोऽप्येनं दिवान्धं क्षुद्रमर्थपतिमासाच रात्र्यन्धाः सन्तः शश- कपिञ्जलमार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं तद्विधेयमतः परम् । अथ तस्य तद्वचनमाकये 'साध्वनेनाभिहितम्' इत्युक्त्वा 'भूयोऽपि पार्थिवार्थं समेत्य मन्त्रयिष्यामहे' इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः। केवलमवशिष्टो भद्रासनोपविष्टोऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च-'कः कोऽत्र भोः ! किमद्यापि न क्रियते ममाभिषेकः' ? इति श्रुत्वा कृकालिकयाभिहितम्-भद्र ! तवाभिषेके कृतो- ऽयं विघ्नो वायसेन, गताश्च सर्वेऽपि विहगा यथेप्सितासु दिनु । केवल- मेकोऽयं वायसोऽवशिष्टः केनापि हेतुना तिष्ठति । तत्त्वरितमुत्तिष्ठ येन त्वां स्वाश्रयं प्रापयामि । तच्छुत्वा सविषादमुलूको वायसभाह-भो ! भो ! दुष्टात्मन् ! किं मया तेऽपकृतम् , यद्राज्याभिषेको मे विनितः । तदद्यप्र- भृति (६)सान्वयमावयोर्वैरं सञ्जातम् | उक्तञ्च- रोहति सायकैर्विद्धं छिन्नं रोहति चासिना । (१)विवादस्य यथार्थताबोधकमित्यर्थः। (२)स्वर्गप्रतिबन्धो दोष इति यावत् । (३) निर्भयौ। (४) दुष्टेन। (५) दंष्ट्राघातेनेति भावः । (६) कुलक्रमागतं स्वाभाविकमिति यावत् ।

काकोलूकीयम्। वचो दुरुक्तं बीसत्सं न प्ररोहति वाक्क्षतम् ।। १०७ ॥ इत्येवमभिधाय कालिका सह स्वाश्रयं गतः । अथ अयव्याकुलो वायसो व्यचिन्तयत्-अहो ! अकारण वैरसासादितम्(१) मया किमिदं व्याहृतम्(२)। उक्तं च- अदेशकालज्ञललायतिक्षमं यदप्रियं लाघवकाहि चात्मनः । योऽत्राब्रवीत्कारणवर्जितं वचो न तद्वचःल्याद्विषमेव तद्वचः ।।१०८॥ बलोपपन्नोऽपि हि बुद्धिमान्नरः परं नयेन्न स्वयमेव वैरिताम् । भिवङ्ममास्तीति विचिन्त्य भक्षयेत् अकारणात्को हि विचक्षणो विषम् ।। १०९ ॥ परपरिवादः परिषदिल कथञ्चित्पण्डितेन वतव्यः । लत्यमपि तन्न वाच्यं यदुशमसुखावहं भवति ॥ ११० ।। सुद्भिराप्तैरसकहिचारितम् स्वयं च बुद्धया प्रविचारिताश्रयन् । करोति कार्य खलु यः स बुद्धिमान स्म एक लदल्या यशस च भाजनम् ।। १११ ॥ एवं विचिन्त्य काकोऽपि प्रयातः ! तदा प्रभृत्यस्माभिः सह (३)कौशि- कानामन्चयगतं वैरमस्ति । मेघवर्ण आह-तात ! एवं पते अस्माभिः किं कृतमस्ति । स ाह-वरल ! एवं गनेऽपि (४)वाडण्यापरः (५)स्थूलोऽ- भिप्रायोऽस्ति ! तमडीकृत्य स्वयमेवाहं तद्विजयाय यास्यामि | रिपून्वञ्च- यित्वा अधिष्यामि । उच्च यतः-- बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटान् । शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलादिव ।। ११२ ।। मेघवर्ण आह-कथमेतत् । सोऽब्रवीत्- कथा (३) कस्मिंश्चिदधिष्ठाने मित्रशमी नाम ब्राह्मणः (६)कृताग्निहोत्रपरिग्रहः (१)उत्पादितम् । ३)उलूकानाम् । (४) संधिविग्रहप्रभृत्युपायषटकात् । (शु)श्रेष्ट उपाय इति भावः। (६) अग्निहोत्री।

সুবিলি হ ই কন্দলাভ ?ী তিন সন্যাতি, অ- मादिते गागने मन सन्दं प्रवति (२)पाजन्ये, पशुभार्थनाय विचिन पालान्तरं गत्वा शिवाजमान याचित:--यो। जमाल ! मामिल्या- समावास्यावामहं यस्यासि वझं तदेहि सशुभकन् । अथ तेन तत्या शाखोरः (कोपीयरलः पशुः प्रदन्त : सोऽपि तं (8)समलित वेलच गच्छन्तं विहाय स्कन्धे कृत्वा सत्वर स्वापुरा मिटलाः प्रत। अथ तस्य गच्छतो भयाणे यो पूर्ताः क्षुत्क्षामकण्ठाः मम्मुखाबः । तैश्च तादृशं पीकरत रुकन्ध भारु ढमवलोक्य मिथोऽभिहित-अहो ! अस्य पो. भक्षणाचतानीयः(५) हिमपात:() व्यर्थता नीयते । तदेन अन्त्रिता पशुमादाय शीतत्राणं कुर्मः। अथ तेषानेकतमो वेषपरिवर्तनं विधाय सन्म- खो भूत्वापमार्गण(७) ()तसाहितारिदमूचे-भो ! भो ! (E)बालाग्निहो- त्रिन् ! किमेवं जनविरुद्धं हास्यकार्यमनुष्ठीयते । यद्देष(१०)सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते। उक्तं च यतः- श्वानकुक्कुटचाण्डालाः समस्पर्शाः प्रकीर्तिताः ! रासभोष्ट्रौ विशेषेण तस्मान्तान्नैव संस्पृशेत् ॥ ११३ ॥ ततश्च तेन (११) कोपाभिभूतेनाभिहितम्-अहो ! किमन्धो भवान् यत्पशुं सारमेयं प्रतिपादयसि । सोऽब्रवीत्-ब्रह्मन् ! कोपस्त्वया न कार्यः। यथेच्छं गभ्यताम्' इति । अथ यावत्किञ्चिदध्वनोऽन्तरं गच्छति तावद् द्वितीयो धूर्तः सम्मुखे समुपेत्य तमुवाच-भो! ब्रह्मन् ! कष्टं कष्टम् । यद्यपि बल्लमोऽयं ते मृतवत्सः, तथापि स्कन्धमारोपयितुमयु- क्तम् । उक्तं च यतः- तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत्कुधीः । पञ्चगव्येन शुद्धिः स्यात्तस्य चान्द्रायणेन वा ।। ११४ ॥ अथासौ सकोपमिदमाह-भोः ! किमन्धो भवान् यत्पशुं मृतवत्सं (१) मन्दे वायौ। (२) मेधे। (३) पुष्टगानः। (४) यागोचितं बलिष्ठं वा। (५) अद्यभवः। (६)शीतमित्यर्थः । ) विप्रागमनमार्गाद भिन्न मार्गेणेत्यर्थः। (८) अग्निहोत्रिणम् । १) मूर्खाग्निहोनिन् । (१०) कुक्कुरः। (११) कुपितेन । ७ काकोलूकीयम् । वदसि । सोऽब्रवीत् भगवद ! सा कोपं कुरु । अज्ञानान्मयाभिहितम् । तत्वमात्मरुचिं समाचर(१) इति । अथ यावत्स्तोक(२) वनान्तरं गच्छति तावत्तृतीयोऽन्यवेषधारी धूर्तः सम्मुखः समुपेत्य तमुनाच-सोः ! चुन्त- मेतत् । यत्त्वं (३)राला स्कन्धाधिरूढं नयति । तत्याहयतामेषः । उक्तंच- - यः स्पृशेद्रासमं मत्यो ज्ञानादज्ञानतोऽपि वा। सचैल स्नानमुदिष्टं तस्य पापप्रशान्तये ।। ११२ ।। तत्त्यजैनं यावदन्यः कश्चिन्न पश्यति । अथालौ तं पशुं रालमं मन्य- मानो भयाद् भूमौ प्रक्षिप्य स्वगृहनुद्दिश्य प्रपलायितः । ततस्ते त्रयो मिलि- त्वा तं पशुमादाय यथेच्छया भक्षितुमारब्धाः । अतोऽहं ब्रवीमि-'बाहुबु- द्धिामायुन्ताः' इति । अथवा साथिबदमुच्यते- अभिनवसेवकविनयः प्राधुणिकोक्तैर्विलासिनीलदितैः । धूर्तजनवच नकरैरिह कश्चिदवञ्चितो नास्ति ॥ ११६ ।। किञ्च दुर्बलैरपि बहुभिः सह विरोधो न युक्तः । उक्तं च- बहयो न विरोद्धव्या दुर्जया हि महाजना: । स्कुरन्तमपि नागेन्द्र भक्षयन्ति पिपीलिकाः !! ११७ ।। मेघवर्ण पाह-कथमेतत् । स्थिरजीवी कथयति - कथा (४) अस्ति कस्मिंश्चिद्वल्मीले महाकायः कृष्णसर्पोऽतिदर्यो नाम । स कदा- चिद्विलानुसारिमार्गमुन्सृज्यान्येन लद्वारेण निष्क्रमितुमारब्धः । निष्का- मतश्च तस्य महाकायत्वादेववशतया लघुविवरत्वाच्च शरीरे ब्रणः समु. त्पन्नः। अथ(४) व्रणशोणितगन्धानुसारिणोभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च | कति व्यापादयति, कति वा ताडयति । अथ प्रभू. तत्वाद्विस्तारितबहुव्रणः(५) क्षतसर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः । अतोऽहं ब्रवीमि-'बहवो न विरोद्धव्याः' इति । तत्रास्ति किञ्चिन्मे वक्तव्यमेव । तवधार्य यथोक्तमनुष्ठीयताम् । मेघवर्ण आह-तत्समादेशय तवादेशो (१) यथेच्छसि तथा कुवित्यर्थः । (२) किञ्चित् । (३) गर्दभम्। (४) वणजातरुधिरगन्धमनुगच्छन्तीभिरित्यर्थः । ६)वर्धितव्रणः। .

पश्चतपत्रके- नान्यथा कर्तव्यः स्थिरजीवी प्राह-वत्स ! समाकर्णय तर्हि । सामा- दीनतिक्रम्य यो मयाह पञ्चम उपायो निरूपितः तन्मा (१)विपक्षभूतं कृत्वा- तिनिष्ठरवचनैनिर्भय, यथा (२)विपक्षणिधीनां (३)प्रत्ययो भवति तथा (४)समाहृतलधिरैरालिप्यास्यैव व्यग्रोधल्याधस्ता प्रक्षिप्य मा गस्यता पर्व- तमध्यमूकं प्रति ! सत्र सपरिवारस्तिष्ट, यावदहं समस्तान्सपत्नान्युप्रणीतेन विधिना(४) विश्वास्या निमुखान्कृत्वा कृतार्थो ज्ञातदुर्गमध्यो दिवसे तान- न्धतां प्राप्तान ज्ञात्वा व्यापादयामि । ज्ञातं मया सम्यक् । नान्यथास्माकं सिद्धिरिति । यतो दुर्गप्रेतदपसाररहित(६) केवलं वधाय भविष्यति । उक्तं च यतः - अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते । अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम् ॥ ११८ ।। न च त्वया मदर्थं कृपा कार्या । उक्तं च- अपि प्राणसमानिष्टान्पालितांल्लालितानपि । भृत्यान्युद्धे समुत्पन्ने पश्येच्छुकमिवेन्धनम् ॥ ११६ ।। तथा च-प्राणवद्रक्षयेद् मृत्यान्स्वकायमिव पोषयेत् । - सदैकदिवसस्यार्थे यत्र स्याद्रिपुसङ्गमः ॥ १२० ।। तत्वयाहं नात्रविषये (७)प्रतिपेधनीयः । इत्युक्त्वा तेन सह शुष्ककलहं कर्तुमारब्धः । अथान्ये अस्य भृत्याः स्थिरजीविनम्(८) उच्छृखलवचनैर्ज- ल्पन्तमवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः-अहो! निवर्तध्वं यूयम् । अहमेवास्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यामि । इत्यभिधाय तस्योपरि समारुह्य लघुभिश्चञ्चुप्रहारैस्तं प्रहृत्य, आहतरुधिरेण प्लावयित्वा, तदुपदिष्टमृष्यमूकपर्वतं सपरिवारो गतः । एतस्मिन्नन्तरे कृकालिकया (६)द्विषत्प्राणधीभूतया तत्सर्वं मेघवर्णस्यामात्यस्य(१०)व्यस- नमुलूकराजस्य निवेदितम् । 'यत्तवारिः सम्प्रति भीतः कचित्प्रचलितः (१)शत्रु मत्वेति यावत् । (२) शत्रोर्गुप्तचराणाम् । (३) विश्वासः। (४) कुतोऽप्यानी रक्तैः। (५) सम्यकप्रकारेणेत्यर्थः। (६) निर्गमनमार्गशून्यम् । (७) निवारणीयः। (८) अशिष्टशब्दैः। (१) अरिपक्षीयगुप्तचरभूतया। (१०)विपत् । . . (विपत् ।

काकोलूकीयम् । सपरिवारः' इति । अथोलूकाधिपस्तदाकरितमनवेलाया सामात्यः सप- रिजनो वायसवधार्थ प्रचलितः । प्राह च-वर्यतां त्वर्यता भीत: शत्रुः पलायनपरः पुण्यैलभ्यते । उक्तं च- शत्रोः प्रचलने छिद्रमेकमन्यच्च संश्रयन् । कुर्बाणो जायते श्यो व्यग्रत्वे राजलेबिनाम् ।। १२१ ॥ एवं ब्रुवाणः समन्तानन्यग्रोधपादपमधः परिवेश्या व्यवस्थितः । यावन्न कश्चिद्वायसो दृश्यते, तावच्छाखाप्रमधिलढो दृष्टसला वन्द्रिभिः (१)अभिष्टूयमानोऽरिमर्दनस्तान्परिजनान्प्रोवाच-अहो ! ज्ञायतां तेषां मार्गः । (२)कतमेन मार्गेण (३) प्रनष्टाः काकाः। तचाबन्न दुर्गं समाश्र- यन्ति, तावदेव पृष्ठतो गत्वा व्यापादयामि । उक्तं च- वृत्तिमप्याश्रितः शत्रुरवध्यः स्याजिगीपुरणा । किं पुनः संश्रितो दुर्ग सामग्रथा परया युतम् ।। १२२ ॥ अथैतस्मिन्प्रस्तावे(४) स्थिरजीवी चिन्तयामास-यदेतेऽस्मच्छत्रवो- ऽनुपलब्धात्मवृत्तान्ताः(५) यथागतमेव यान्ति । ततो मया न किञ्चि- स्कृतं भवति । उक्तब्ध- अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम्। प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ।। १२३ ।। तद्वरमनारम्भः; न चारम्भविघातः । तदहमेताशब्दं संश्राव्यात्मानं दर्शयामि' इति विचार्य मन्दं मन्दं शब्दमकरोत् । तच्छुत्वा ते सकला अप्युलूकास्तधाय जग्मुः । अथ तेनोक्तम्-अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री | मेघवर्णेनैवेदशीमवस्था नीतः। तन्निवेदयतात्मस्वाम्यो । तेन सह बहु वक्तव्यमस्ति । अथ तैर्निवेदितः स उलूकराजो विस्मयाविष्टस्तत्क्षणान्तस्य सकाशं गत्वा प्रोवाच-भो ! भोः ! किमेतां दशां गतस्त्वम् ! । तत्कथ्यताम् । स्थिरजीवी प्राह-देव ! श्रूयतां तदवस्थाकारणम् । अतीतदिने स दुरात्मा मेघवर्णो युष्मद्व्यापादितप्रभूतवायसानां पीडया युष्माकमुपरि कोपशो- (३) स्तूयमानः। (२) केनेत्यर्थः। (३)प्रपलायिता। (४)प्रसङ्गे। (५) अनुपलब्धोऽज्ञातोऽस्माकं वृत्तान्तो वृत्तं यैस्तेऽस्मदीयं वृत्तमजानन्त इति भावः।

, कस्तो युद्धाथ प्रचलित आसीत् । ततो मयाभिहितम-स्वामिन् ! न युक्त भवतस्तदुपरि गन्तुम्(१) बलवन्त एते, बलहीनाच क्यम् ! उलंच- बलीयला हीनवलो विरोधम् न भूतिकामो मन्नसापि वान्छेत् । न बध्यतेऽत्यन्तबलोहियरमाद् व्यक्तं प्रणाशोऽस्ति पतवृत्तेः ।। १२४ ।। तत्तश्योपायनप्रदानेन(२) सन्धिरेव युक्तः । उक्त - बलवन्तं रिपुं हवा सर्वस्वमपि बुद्धिमान् । दत्त्वा हि रक्षयेत्प्राणान्रक्षितस्तैर्धने पुनः ।। १२५ ।। तच्छुत्वा तेन दुर्जनप्रकोपितेन त्वत्पक्षपातिनं मामाशङ्कमानेनेमां दशां नीतः । तत्तव पादौ साम्प्रतं ने शरणम्(३)। किं बहुना विज्ञप्तेन । यावदहं प्रचलितुं शक्नोमि, तावत्त्वां तस्यावासे नीत्वा (४)सर्ववायसक्षयं विधास्यामि' इति । अथारिमर्दनस्तदाकये (५)पितृपितामहक्रमागतमन्त्रिभिः सार्ध मन्त्रयाञ्चके । तस्य च पञ्च मन्त्रिणः । तद्यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश्चेति । तत्रादौ रक्ताक्षमपृच्छत्-भद्र ! एष ताव- त्तस्य रिपोर्मन्त्री(६) मम हस्तगतः । तत्किं क्रियताम्' इति । रक्ताक्ष आह-देव ! किमत्र चिन्त्यते । अविचारितमयं हन्तव्यः । यतः- हीनः शत्रुनिहन्तव्यो यावन्न बलवान्भवेत् । प्राप्तस्वपौरुषबलः पश्चाद्भवति दुजेयः ।। १२६ ।। कि च स्वयमुपागता श्रीस्त्यज्यमाना शपतीति लोके (७)प्रवादः। उक्तं च-कालो हि सकृदभ्येति यन्नरं कालकाङ्गिणम् । दुर्लभः स पुनस्तेन कालकर्माचिकीर्षता ।। १२७ ।। श्रूयते च यथा- चितिकां दीपितां पश्य फटां भग्नां ममैव च । (१) आक्रमितुमित्यर्थः। (२) उपहारार्पणेन । (३)साम्प्रतं त्वमेव मम रक्षकोऽसीत्यर्थः। (४)समस्तकाकविनाशम् । (५) कुलक्रमागतैरिति यावत् । (६)मदधीन इत्यर्थः। (७) किंवदन्ती। - - -- काकोलूकीयम् । भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्धते ।। १२८ ।। अरिमर्दनः प्राह-कथमेतत् । रत्ताक्षः कथयति- कथा (५) अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषि कुर्वतः सदैवः (१)निष्फलः कालोऽतिवर्तते(२)। अथैकस्मिन्दिवसे ल ब्राह्मण उष्णकालावसाने घर्तिः स्वक्षेत्रमध्ये वृजच्छायायां प्रसुतोऽन- तिदूरे वल्मीकोपरि प्रसारितं बृहत्फटायुक्तं भीषणं सुजङ्गमं दृष्ट्वा चिन्तया- मास-नूनमेषा क्षेत्रदेवता मया कदाचिदपि न पूजिता । तेनेदं मे कृषि- कर्म विफलीभवति । तदस्या अहं पूजामद्य करिष्यामि । इत्यवधार्य कुतोऽपि क्षारं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपागम्योवाच- भो! क्षेत्रपाल ! सचेतावन्तं कालं न ज्ञातं यत्त्वमत्र वससि तेन पूजा न आत्ता तत्साम्प्रतं नामास्व' इति । एनमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् ! अथ प्रात्याबदागत्य पश्यति ता (३) दीनारको शरावे दृष्ट- वान् । एवं च प्रतिदिनमेकाको समागत्य ताम क्षीरं ददाति । एकैकं च दीनारं गृहाति। अथैकस्मिन्दिबसे वल्मीके क्षीरनयनाय पुत्रं (४)निरूप्य ब्राह्मणो ग्रामान्तरं जगाम | पुत्रोऽपि क्षारं तत्र नीत्वा संस्थाप्य च पुनर्गुहं समायातः । दिनान्तरे तत्र गत्वा दीनारसेकं च दृष्ट्वा गृहीत्वा च चिन्ति तवान्-नूनं सौवर्णदीनारपूर्णो वल्मीकः । तदेनं हत्या सर्व लेकवारं ग्रही- ध्यामि । इत्येवं सम्प्रधार्यान्येधुः क्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडितः । ततः कथमपि दैववशादमुक्तजीवित(५) एव रोषात्तमेव तीव्रविषदशनैस्तथाऽदशत् , यथा स सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठसञ्चयैः संस्कृतः(६)। अथ द्वितीयदिने तस्य पिता समायातः । स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च- भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान् । भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा ॥ १२६ ॥ (१)सस्यलाभाभावेन व्यर्थ इत्यर्थः । (२) व्यतीतो भवतीति यावत् । (३) स्वर्णमुद्राभेदम् । (मोहर) (४) नियुज्य । (१)न मृत इत्यर्थः। (६) दग्धः।

पुरुम्कियोता ! नामणः कथयति-- अस्ति काटिनेचरको बाल तथा योकि सुरक्ष्य- भावं पझल लाल लालिटीले ! लनाचा प्रसूताः (१ज्याम्बूलदमया हंसा स्तिष्ठन्ति । एमालेषिच्छकं परित्यजन्ति : अथ लन्न सरसि सौवों वृहत्पक्षी समायातः । तैयोक्तः - अस्माकं मध्ये त्वया न वास्तव्यम् , येन कारणेनामाभिः परमासान्ते पिच्छेकैकदानं कृत्वा गृहीततत्सरः । एवं च कि बहुना परस्परं (२)द्वैधनुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत- देव ! एते पक्षिण एवं बन्ति यदस्माकं राजा किं करिष्यति ! न कत्या- प्यावासं दमः । मया चोक्तम्-न शोभनं युष्माभिरभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् । ततो राजा भृत्यानत्र. वीत्--भो ! भोः ! गच्छत सान्पक्षिणः (३)गतासून्कृत्वा शीघ्रमानयत ! राजादेशानन्तरमेव(४) प्रचेलुस्ते । अथ लगुडहस्तान्राजपुरुषान्दृष्ट्वा तत्रै केन पक्षिणा वृद्धेनोक्तम्-भोः ! स्वजनाः ! न शोभनमापतितम् । ततः सर्वैरेकमतीभूय शीघ्रमुत्पतितव्यम्(५) । तैश्च तथानुष्ठितम् । अतोऽहं ब्रवीमि-'भूतान्यो नानुगृह्णाति' इति । इत्युक्त्वा पुनरपि ब्राह्मणः (६)प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तारस्वरेण सर्पमस्तोत्(७) । तदा सर्प- श्चिरं बल्मीकद्वारान्तर्लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभादत्रागतः पुत्र- शोकमपि विहाय । अतः परं तव मम च प्रीतिर्नोचिता। तव पुत्रेण (८)यौवनोन्मदेनाहं ताडितः । मया स दष्टः । कथं नया लगुडप्रहारो विस्मर्तव्यः, त्वया च पुत्रशोकदुःखं कथं विस्मर्तव्यम्' इत्युक्त्वा बहुमूल्यं हीरकमणि तस्मै दत्त्वा 'अतः परं पुनस्त्वया नागन्तव्यम्' इति पुनरुक्त्वा विवरान्तर्गतः । ब्राह्मणश्च मणि गृहीत्वा पुत्रबुद्धिं निन्दस्वगृहमागतः । अतोऽहं ब्रवीमि-'चितिका दीपितां पश्य' इति । तदस्मिन्हतेऽयत्नादेव (१)कनकमयाः। (२) वैरम् । (३) मारयित्वेत्यर्थः। (४) प्रस्थानं कृतवन्तः। (५) उड्डयितव्यम् । (६)प्रातःकाले। (७) सर्पस्य स्तुतिः कृतेत्यर्थः । (८) यौवनोन्मत्तेनेत्यर्थः ।

R- काकोलूकीयम् । राज्यमकण्टक(१) भक्तो भवति । तस्यैतद्वचनं श्रुत्वा ऋराक्षं पप्रच्छ- भद्र ! त्वं तु किं मन्यसे । सोऽब्रवीत्-देव ! (२)निर्दयमेतत् यदनेनाभि- हितम् । यत्कारणं शरणागतो न वध्यते । सुष्ठु खल्विदमाख्यातम्(३) । श्रूयते हि कपोतेन शत्रुः शरणमागतः । पूजितश्च यथान्यायं स्वैश्च मांसैनिमन्त्रितः ॥ १३०॥ अरिमर्दनोऽब्रवीत्-कथमेतत् । क्रराक्षः कथयति- कथा (७) कश्चिक्षुद्रसमाचारः प्राणिनां कालसन्निभः । विचचार महारण्ये घोरः शकुनिलुब्धकः ॥ १३१ ।। नैव कश्चित्सुहृत्तस्य न सम्बन्धी न बान्धवः । स तैः सर्वैः परित्यक्तस्तेन रौद्रेण कर्मणा ।। १३२॥ अथवा- ये नृशंसा दुरात्मानः प्राणिनां प्राणनाशकाः । उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ १३३ ॥ स पञ्जरकमादाय पाशं च लगुडं तथा । नित्यमेव वनं याति सर्वप्राणिविहिंसकः ॥ १३४ ॥ अन्येद्युमतस्तस्य वने कापि कपोतिका | जाता हस्तगता तां स प्राक्षिपत्पञ्जरान्तरे ॥ १३५ ।। अथ कृष्णा दिशः सर्वा वनस्थस्याभवन्धनैः । वातवृष्टिश्च महती क्षयकाल इवाभवत् ॥ १३६।। ततः स त्रस्तहृदयः कम्पमानो मुहुर्मुहुः । अन्वेषयन्परित्राणमाससाद वनस्पतिम् ॥ १३७ ।। मुहूर्तं पश्यते यावद्वियद्विमलतारकम् । प्राप्य वृक्ष वदत्येवं योऽत्र तिष्ठति कश्चन ।। १३८ ।। तस्याहं शरणं प्राप्तः स परित्रातु मामिति । शीतेन भिद्यमानं च क्षुधया गतचेतसम् ॥ १३६ ।। (१)शत्रुरहितं निर्बाधमिति यावत् । (२) अत्यन्तमनुचितमिति भावः । (३) उक्तम्। १०प० বন্ধ- अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः । मार्याविरहितस्तिष्ठन्बिललाप सुदुःखितः।। १४० ।। बातों महालातीन चागच्छति से प्रिया । तथा विरहितं होतच्छूल्यसक गृहं बस।। १४१ ॥ আল হাসান প্রভু: খ্রিস্থ হয়। यस्था स्यादीहशी भाई धन्यः स पुरुषो भुवि !! १४२ ॥ न गृह गृहमित्यामुहिणी गृहमुच्यते । गृहं हि गृहिणीहीन मरण्यसहशं मतम् ।। १४३ ।। पञ्जरस्था ततः श्रुत्वा भर्तुःखान्वितं वचः । पोतिका सुसंतुष्टा वाक्यं ने जमथाह सा ॥ १४४ ॥ न सा सीत्यभिमन्तव्या यस्यां भता न तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ।। १४५ ॥ दावाग्निना विदग्धेव सपुष्पस्तबका लता । भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ।। १४६ ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ १४७ ।। पुनश्चाब्रवीत्- शृणुष्वावहितः कान्त ! यत्ते वक्ष्याम्यहं हितम् । प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥ १४८॥ एष शाकुनिकः शेते तवावासं समाश्रितः । शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥ १४९ ।। श्रूयते च- यः सायमतिथि प्राप्तं यथाशक्ति न पूजयेत् । तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ।। १५० ॥ मा चास्मै त्वं कृथा द्वेषं बद्धानेनेति मत्प्रिया। स्वकृतैरेव बद्धाहं प्राक्तनैः कर्मबन्धनैः ॥ १५१ ।। दारिद्रयरोगदुःखानि बन्धनव्यसनानि च । आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।। १५२ ॥ तस्मात्वं द्वेषमुत्सृज्य मबन्धनसमुद्भव म्।

१४५ काकोलूकीयम् । धर्मे मनः समाधाय पूजयैनं यथाविधि ।। १५३ ॥ तस्यास्तद्वचनं श्रत्वा धर्मयुक्तिसमन्वितम् । उपगम्य ततोऽपृष्टः कपोतः प्राह लुब्धकाम् ॥ १५४ !! भद्र ! सुस्वागतं तेऽस्तु बेहि किं करवाणि ते! सनापश्च न कर्तव्यः स्वगृहे वर्तते अवान् ॥ १५५ ॥ तस्य तद्वचनं श्रुत्वा प्रत्युवाच मिहङ्गमम् । कपोत ! खलु शीतं हिलत्राणं विधीयतामा १५६ ।। स गत्वाकारकं नीत्वा पालयामास पावरून् । ततः शुधशेषु पर्गेषु तमाशु खसदीपयत् ।। १२७ ।। सुसन्दीप्तं ततः कृत्वा तमाह शरणागतम् । संतापयस्व विन्ध स्वगात्राएचत्र निर्भयः ।। न चारित विसवः कश्चिन्नाशये येन ते क्षुधम् १५८ सहरू भरते कश्चिछतमन्यो दशापरः । सम त्वकृतपुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ।। १५६ ॥ एकस्याप्यतिबन्नं यः प्रदातुं न शक्तिमान् । सस्थानेकपरिक्लेशे गृहे किं वसतः फलम् ॥ १६० ।। तत्तथा साधयाम्येतच्छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि नास्तीत्यर्थिसमागमे ।। १६१ ।। स निनिन्द किलात्मानं न तु तं लुब्धकं पुनः। उवाच तर्पयिष्ये त्वां मुहूर्त प्रतिपालय ॥ १६२ ।। एवमुक्त्वा स धर्मात्मा प्रहटेनान्तरात्मना । तमग्नि संपरिक्रम्य प्रविवेश स्ववेश्मवत् ॥ १६३ ॥ ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् । कपोतमग्नौ पतितं वाक्यमेतदभाषत ॥ १६४॥ यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः। अात्मना हि कृतं पापमात्मनैव हि भुज्यते ॥ १६५ ॥ सोऽहं पापमतिश्चैव पापकर्मरतः सदा । पतिष्यामि महाघोरे नरके नात्र संशयः ॥ १६६ ॥ नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः ।

पञ्चतन्त्रके प्रयच्छता स्वमांसानि कपोतेन महात्मना १६७ ।। अवप्रभृति देहं स्वं सर्वभोगविवर्जितम् । तोयं स्वल्प यथा ग्रीधमे शोषयिध्यान्यहं पुनः ।। १६८ ।। शीतवातातपसहः कृशाङो मलिनस्तथा । उपदासर्वहुविधैश्चरिष्ये धर्ममुत्तमम् ।। १६९ ।। ततो यष्टिं शलाकां च जालकं पञ्जरं तथा। बभञ्ज लुब्धको दीनां कपोती च मुमोच ताम् ॥ १७० ।। लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् । कपोती विललापार्ता शोकसंतप्तमानसा ।। १७१ ।। न कार्य्यमद्य मे नाथ ! जीवितेन त्वया विना । दीनायाः पतिहीनायाः किं नार्या जीविते फलम् ॥ १७२ ।। मनोदपस्त्वहङ्कारः कुलपूजा च बन्धुषु । दासभृत्यजनेष्वाज्ञा वैधव्येन प्रणश्यति ॥ १७ ॥ एवं विलप्य बहुशः कृपणं भृशदुःखिता। पतिव्रता सुसन्दीप्तं तमेवाग्नि विवेश सा ॥ १७४ ॥ ततो दिव्याम्बरधरा दिव्याभरणभूषिता । भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥ १७५ ॥ सोऽपि दिव्यतनुर्भूत्वा यथार्थमिदमब्रवीत् । अहो ! मामनुगच्छन्त्या कृतं साधु शुभे! त्वया ।।१७६।। तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ १७७ ।। कपोतदेहः सूर्यास्ते प्रत्यहं सुखमन्वभूत् । कपोतदेहवत्सासीत्प्राक्पुण्यप्रभवं हि तत् ॥ १७८ ।। हर्षाविष्टस्ततो व्याधो विवेश च बनं धनम् | प्राणिहिंसां परित्यज्य बहुनिर्वेदवान्भृशम् ॥ १७६ ॥ तत्र दावानलं दृष्ट्वा विवेश विरताशयः । निर्दग्धकल्मषो भूत्वा स्वर्गसौख्यमवाप्तवान् ।। १८० ॥ अतोऽहं ब्रवीमि-'श्रूयते हि कपोतेन' इति तच्छ्रुत्वारिमर्दनो दीप्ताक्ष पृष्टवान्-एवमवस्थिते किं भवान् मन्यते ।

काकोलूकीयम् । - - सोऽब्रवीत्-देव ! न हन्तव्य एवायम् । चौरस्याप्युपकारिणः(१) श्रेयश्चिन्त्यते किं पुनर्न शरणागतस्य | अपि चायं तैर्विप्रकृतः(२)अस्माकमेव पुष्टये भविष्यति तदीयरन्ध्रदर्शनाय चेति । अनेककारणेनायमवध्यः' इति ! एतदाकयारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! सांप्रतमेवंस्थिते किं कर्तव्यम् । सोऽब्रवीत्-देव ! अव. ध्योऽयम् । यतः- शत्रवोऽपि हितायैव विवदन्तः परस्परम् । चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥१८१॥ अरिमर्दनः प्राह-कथमेतत् | वक्रनासः कथयति- कथा (८) अस्ति कस्मिंश्चिदधिष्टाने दरिद्रो द्रोणनामा ब्राह्मणः (३)प्रतिग्रहधनः सततं विशिष्टवस्त्रानुलेपनगन्धमाल्यालंकारताम्बूलादिभोगपरिवर्जितः (४)प्ररूढ केशश्मश्रुनखरोमोपचितः शीतोष्णवातवर्षादिभिः (५)परिशोषि- तशरीरः । तस्य च केनापि यजमानेनानुकम्पया शिशुगोयुगं दत्तम् । ब्राह्मणेन च बालभावादारभ्य याचितवृततैलयवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच्च दृष्ट्या सहसैव कश्चिच्चौरश्चिन्तितवान्-अहमस्य ब्राह्मणस्य गोयुगमिदपहरिष्यामि । इति निश्चित्य निशायां बन्धनपाशं गृहीत्वा याव- प्रस्थितः, तावदर्धमार्गे(६) प्रविरलतीदणदन्तपङ्किः(७)उन्नतनासावं. शः(८)प्रकटरक्तान्तनयन(६)उपचितस्नायुसंततिर्नतगात्रः शुष्ककपोलः (१०)सुहुतहुतवहपिङ्गलश्मश्रुकेशशरीरःकश्चिदृष्टः । दृष्ट्वा च तं तीव्रभयत्र- (१) मङ्गलम् । (२) तिरस्कृतोऽपकृत इत्यर्थः। (३) दानोपजीवी । (४) क्षौरकर्माभावेन वृद्धि प्राप्तैः केशैः श्मश्रुभिः नखै रोमभिश्च व्याप्त इत्यर्थः । (५) कृशगात्रः। (६) प्रविरला अत्यल्पातीक्ष्णा च दन्तानां पङ्कितर्यस्य स स्वल्पदन्त इति यावत् । ७) उन्नतनासिकः। (८)रक्तनयन इति भावः । (६) उपचिता कृशत्वेन हेतुना देहाबहिः निर्गता स्नायुसन्ततिः नाडीनां समूहः यस्य सः। (३०) सुहुतोऽतिशयेन तर्पितो हुतवहो येन सोऽत एंव पिङ्गलानि कपिशवर्णानि श्मश्रुकेशशरीराणि यस्य सः।

पञ्चतन्त्रके- स्तोऽपि चौरोऽब्रवीत्-को भवान् ! इति । स आह-'सत्यवचनोऽहं ब्रह्म- राक्षसः ! अवानप्यात्मानं निवेदयतु ।' सोऽब्रवीत् अहं भरकर्मा चौरः। दरिद्रनामस्य गोयुग हतु प्रस्थितोऽस्मि ! अथ जातप्रत्ययो राक्षसोऽत्र- वीव-भाद्र ! (१)पालकालिकोऽहम् ! अतस्तमेव ब्राह्मणमा सदायि. ज्यामि । सत्सुन्दरमिदम् । एककार्यावाचाम् । अथ तो तन्त्र गत्वौकान्ते(२ कालसन्देषयन्तौ स्थितौ । प्रसुम्ने च ब्राहाणे तद्अक्षणार्थ प्रस्थितं राक्षस दृष्टवा चौरोऽब्रजीत-भद्र ! नै न्यायः, यतो गोयुगे भयापहते पश्चान्त्वमेनं ब्राह्मणं अक्षय !' सोऽब्रवीत्-कदाचिदयं ब्राह्मणो गोशब्देन बुध्येत, तदानर्थकोऽयं ममारम्भः स्यात् । चौरोऽप्याब्रवीत्-तवापि यदि भक्षणायो- पस्थितस्यान्तर एकोऽप्यन्तरायः(:) स्यात् , तदाहमपि न शक्नोमि गोयु- गमपहर्तुम् । अतः प्रथमं मयापहृते गोयुगे पश्चात्त्वया ब्राह्मणो भक्षयि- तव्यः । इत्थं चाहमहमिकया(४) तयोविवदतोः समुत्पन्ने(५) द्वैधे प्रतिर- ववशाद् ब्राह्मणो जजागार | अथ तं चौराऽब्रवीत्-ब्राह्मण ! त्वामेवायं राक्षसो भक्षयितुमिच्छति इति । राक्षसोऽप्याह-ब्राह्मण ! चौरोऽयं गोयुगं तेऽपहर्तुमिच्छति ! एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वा (६)इष्टदेवतामन्त्रध्यानेनात्मानं राक्षसादुद्गूगलगुडेन(७) च चौराद्गो- युगं ररक्ष । अतोऽहं ब्रवीमि-'शत्रवोऽपि हितायैव' इति ॥ अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकारकर्णमपृच्छत्- कथय किमत्र मन्यते भवान् । सोऽब्रवीत्-देव ! अवध्य एवायम् , यतो रक्षितेनानेन कदाचित् परस्परप्रीत्या कालः सुखेन गच्छति । उक्तञ्च- परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः। त एव निधन यान्ति वल्मीकोदरसर्पवत् ॥ १२॥ अरिमर्दनोऽब्रवीत्-कथमेतत् । प्राकारकर्णः कथयति- (१) अह्नः षष्टो भाग इति षष्ठाह्नः स एव कालः षष्ठाहकालः तत्र भुङ्क्तेयः स तथाभूतः दिनस्य षष्ठे प्रहरे कृतभोजननियम इति भावः । (२) प्रतीक्षमाणौ। (३) बाधा। (४) अहं पूर्वमहं पूर्वमिति कथनोपकथनेन इति भावः । (५) कलहे । (६) इष्टाया देवताया मन्त्रध्यानेन मन्त्रोच्चारणपूर्वकं स्मरणेन। ७)उत्क्षिप्तेन दण्डेनेत्यर्थः। - कथा (९) अस्ति कस्मिंश्चिनगरे देवशक्तिनाम राजा । तस्य च पुत्रो (१)जठर- वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यऑक्षीयते । (२)अनेकोपचारैः सद्वैधैः सच्छास्त्रोपदिष्टौषधयुक्त्यापि चिकित्स्यमानो न स्वाथ्यमाप्नोति । अथासौ राजपुत्रो (३)निर्वेदादेशान्तरं गतः । कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिनाम राजास्ते । तस्य च द्वे दुहितरौ यौवनस्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादा. न्तिकमागत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात्सर्व सुखं लभ्यते । द्वितीया तु (४)विहितं भुव महाराज ! इति ब्रवीति । तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो ! मन्त्रिन् ! एनां दुष्ट- भाषिणी कुमारिका काचरैदेशिकस्य(५) प्रयच्छ । येन निजविहितमि- यमेव भुङ्क्ते । अथ तथा' इति (६)प्रतिपद्य अल्पपरिवारा सा कुमारिका मन्त्रिभिस्तस्य देवकुलाश्रितराजपुत्रस्य प्रतिपादिता। साऽतिप्रहृष्टमानसा तं पति देववत्प्रतिपद्यादाय चान्यविषयं(७) गता | ततः कस्मिंश्चिद् दूरत. रनगरप्रदेशे तडागतटे राजपुत्रमावासरक्षायै निरुप्य(5) स्वयं च घृत- तैललवणतण्डुलादिक्रयनिमित्तं सपरिवारा गता। कृत्वा च क्रयविक्रय यावदागच्छति तावत्स राजपुत्रो वल्मीकोपरि कृतमूर्धा प्रसुप्तः । तस्य च मुखाद् भुजगः फणां निष्क्राम्य वायुमश्नाति तत्रैव च वल्मीकेऽपरः सो निष्क्रम्य तथैवासीत् । अथ तयोः परस्परदर्शनेन क्रोवसंरक्तलोचन- योर्मध्यावल्मीकस्थेन सर्पणोक्तम्-भो ! भो ! दुरात्मन् ! कथं सुन्दरस- वाङ्ग राजपुत्रमित्थं (६)कदर्थयसि । मुखस्थोऽहिरब्रवीत्-भो ! भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कमिदं दूषितं (१०)हाटकपूर्ण कलशयुगलम् । इत्येवं परस्परस्य मर्माणयुद्धाटितवन्तौ । पुनर्वल्माकस्थोऽ- ! (१)जठरमेव वल्मीकं जठरवल्मीकं तदेव आश्रयो यस्य स तेन उदरस्थितेनेति यावत्। (२) बहुभिः प्रतीकारोपायैः। (३) खेदात् । (४) कृतकर्मफलम् । (५) अन्यदेशीयस्य जनस्य । (६) स्वीकृत्य । (७) अन्य देशम् । (८) नियुज्येत्यर्थः। (९) पीडयसि। (१०) स्वर्णपूरितम्।

पञ्चतन्त्रक- हिरवीन्-भो ! दुरात्मन् ! भेषजमिदं ते किं कोऽपि न जानाति (१)य- जीर्णात्फालितकाञ्जिकराजिकापानेन भवान्विनाशम्पयाति । अथोदर- स्थोऽहिरवत्रीत्-'तवाप्येतद् भेषजं किं कश्चिदपि न वेत्ति, यदुष्णतैलेन वा महोष्णोदकेन तव विनाशः स्यात्' इति । एवं च सा राजकन्या (२)विटपान्तरिता तयोः परस्परालापानमर्ममयानाकर्ण्य नथैवानुटतवति । विधायाव्यङ्गनीरोगं भर्तारं निधि च परमासाद्य स्वदेशाभिमुखं (३)प्रा. यात् । पितृमातृस्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखनावस्थिता । अतोऽहं ब्रवीमि-'परस्परस्य मर्माणि' इति । तच्च श्रुत्वा स्वयमरिमर्दनोऽ- प्येवं (४)समथितवान् । (५)तथा चानुष्ठितं दृष्ट्वान्तीनं (६)विहस्य रक्ताक्षः पुनरब्रवीत्-कष्टं! विनाशितोऽयं भवद्भिरन्यायेन स्वामी । उक्तं च- अपृज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुभिक्षं मरणं भयम् ।। १८३ ॥ तत्सर्वथा मूलोत्खाता(७) वयं विनष्टाः स्मः । सुष्ठ खल्विदमुच्यते- मित्ररूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः । ये हितं वाक्यमुत्सृज्य विपरीतोपसेविनः ।। १८४ ॥ तथा च-सन्तोऽप्यर्था विनश्यन्ति देशकालविरोधिनः । अप्राज्ञानमन्त्रिणः प्राप्य तमः सूर्योदये यथा ॥ १८५ ।। ततस्तद्वचोऽनाहत्य सर्वे ते स्थिरजीविनमुत्क्षिप्य (८)स्वदुर्गमानेतुमा- रब्धाः । अथानीयमानः स्थिरजीव्याह-देव ! अद्य(द)अकिञ्चित्करेणैत- दवस्थेन किं मयापसंगृहीतेन(१०) यत्कारणमिच्छामि दीप्तं वह्निमनुप्रवेष्टुम् । तदर्हसि मामग्निप्रदानेन (११)समुद्धर्तुम् । अथ रक्ताक्षस्तस्यान्तर्गतभावं ज्ञात्वात्रवीत्-किमर्थमग्निपतनमिच्छसि ? । सोऽत्रवीत्-अहं तावद्युष्म- . १)जीर्णयोः पुरातनयोः उत्फालितयोः सम्यक्प्रकारेण मिश्रितयोः काञ्जिकरा- जिकयोः पानेन । (२) शाखान्तरालस्थिता । (३) अगच्छदित्यर्थः। (४)निर्णीतवान् । (५) शरणायातकाकस्य रक्षणं दृष्ट्वेत्यर्थः । (६) अस्पष्टम् । (७) समूलं विनाशिता इत्यर्थः । (८) उत्थाप्य । (९) किमपि कर्तुमसमर्थेन । (१०) साग्रहं गृहीतेन । (१) रक्षितुम् ।

काकोलूकीयम्। १५१ दर्थे इमामापदं मेघवर्णेन प्रापितः । तदिच्छामि तेषां वैरयातनार्थसुलूक- त्वम् (१)इति । तच्च श्रुत्वा राजनीतिकुशलो रक्ताक्षः प्राह-भद्र ! कुटि- लस्त्वं कृतकवचनचतुरश्च । तत्त्वमुलुकयोनिगतोऽपि स्वकीयामेव वायस- योनि बहुमन्यसे | श्रूयते चैतदाख्यानकम् (-)- सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारत गिरिम् । स्वजाति मूषिका प्राप्ता स्वजातिईरतिक्रमा ॥ १८६ ।। मन्त्रिणः प्रोचुः कथमेतत् । रक्ताक्षः कथयति- कथा (१०) अस्ति (३)विषमशिलातलस्खलिताम्बुनिर्घोषश्रवणसंत्रस्तमत्स्यपरि- वर्तनसञ्जनितश्वेतफेनशबलतरङ्गाया गङ्गायास्तदे (४)जपानयमतपःस्वा- ध्यायोपवासयोगक्रियानुष्ठानपरायणैः (५)परिपूतपरिमितजलजिवृक्षुभिः (६)कन्दमूलफलशैवलाभ्यवहारकर्थितशरीरैः(७)वल्कलकृतकौपीनमात्रप्र- च्छादनैस्तपस्विभिः (८)आकीर्णम्(E)आश्रमपदम् । तत्र याज्ञवल्क्यो नाम(१०) कुलपतिरासीत् । तस्य जाह्नव्यां स्नात्वोपस्प्रष्टुमारब्धस्य(११) कर- तले श्येनमुखात्परिभ्रष्टा मूषिका पतिता। तां दृष्ट्वा न्यत्रोधपत्रेऽवस्थाप्य (१) उलूकस्य जन्मेत्यर्थः । (२) इतिवृत्तं कथेति यावत् । (३) विषमेषु नतोन्नतेषु शिलातलेषु प्रस्तरेषु स्खलितानां पतितानाम् अम्बूनां जलानां निर्घोषस्य कलकलस्य श्रवणेन सन्त्रस्ताः भीता ये मत्स्यास्तेषां परिवर्तन सननिताः श्वेताः शुक्ला ये फेनास्तः शवलाश्चित्रिता मिश्रिता इति भावः तरङ्गा यस्याः सा तस्याः। (४)जपः मन्त्रोच्चारणम् , नियमः= इन्द्रियनिग्रहः, तपः= चान्द्रायणादि, स्वाध्यायः = वेदस्य अध्ययनम् , उपवासः = अनाहानियमः, योगः= चित्तवृत्तिनि- रोधः, क्रिया होमादिका आसाम् , अनुष्ठानम् = करणम् , परम् प्रधानम्, अयनम्- आश्रयो येषां तैः। (५) स्वल्पजलपायिभिः । (६) कन्दानां मूलविशेषाणां मूलानां मूलकादीनां फलानां कदलीप्रभृतीनां शैव- लानाञ्च अभ्यवहारेण भोजनेन कदर्थितानि शोषितानि शरीराणि यैस्तैस्तथाभूतैः । (७) वल्कलेन वृक्षत्वचा कृतं निर्मितं यत् कौपीनं तदेव तन्मानं प्रच्छादनं वस्त्रं येषां तैः। (८) व्याप्तम् । (१) तपोवनम् । (१०) बहुतापसाधिपतिरित्यर्थः। (११) आचमितुमुपक्रान्तस्येति यावत् । , पञ्चतन्त्रके- पुनः स्नात्वोपस्पृश्य च प्रायश्चितादिक्रियां कृत्वा च मूषिकां तां स्वतपोब- लेन कन्यकां कृत्वा समादाय स्वाश्रमानिनाय । अनसत्यां च जायामाह- भद्रे ! गृह्णातामिणं तब दुहितोत्पन्ना प्रयत्नेन संवर्धनीयेति। ततस्तया संब- धितालालिता पालिता बाबद द्वादशवर्षा सञ्जज्ञे। अथ विवाहयोग्यां तां दशा भतारले जायोबाचा-मो मतः किमिदं नावबुध्यसे यथाश्याः स्वदुहितुविवाहसमयातिक्रमो भवति ? । असामाह-साधूक्तम् । अतोऽ. हमेन सदृशाय प्रयच्छामि, नान्यस्मै ! उक्तं च- ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोविवाहः सख्यं च न तु पुष्टविपुष्टयोः ।। १८७ ।। तथा च-कुलं च शीलं च सनाथता च विद्या च वित्तं च वपुर्वयश्च । एतान्गुणान्सप्त विचिन्त्य देया कन्या बुधैः शेषमचिन्तनीयम् ॥ १८८ ।। तद्ययस्या रोचते तदा भगवन्तमादित्यमाहूय तस्मै प्रयच्छामि ! सा प्राह-इह को दोषः, क्रियतामेतत् । अथ मुनिना रविराहूतः । वेदमन्त्रा. मन्त्रणप्रभावात्तत्क्षणादेवाभ्युपगम्यादित्यः प्रोवाच-भगवन् ! किमहमा- हूतः.? । सोऽत्रवीत्-'एषा मदीया कन्यका तिष्ठति योषा स्वां वृणोति तर्युद्वहस्व' इति । एवमुक्त्वा स्वदुहितरमुवाच-पुत्रि ! किं तव रोचत एष भगवस्त्रैलोक्यदीपको (१)भानुः १ । पुत्रिकाब्रवीत्-तात ! अतिदह- नात्मकोऽयं, नाहमेनमभिलषामि । तदस्मादन्यः (२)प्रकृष्टतरः कश्चिदाहू- यताम् । अथ तस्यास्तद्वचनं श्रुत्वामुनिस्किरमुवाच-भगवन ! त्वत्तोऽ- प्यधिकोऽस्ति कश्चित् ? । भास्करः प्राह-अस्ति मत्तोऽप्यधिको मेघो येनाच्छादितोऽहमहश्यो भवामि । अथ मुनिना मेघमप्याहूय कन्याभि- हिता-पुत्रिके ! अस्मै त्वां प्रयच्छामि ? | सा प्राह-कृष्णवर्णोऽयं (३) जडात्मा च । तदस्मादन्यस्य प्रधानस्य कस्यचिन्मां प्रयच्छ । अथ मुनि- ना मेघोऽपि पृष्टः-भो! मेघ ! त्वत्तोऽप्यधिकोऽस्ति कश्चित् ? । मेधे- (१)त्रिभुवनप्रकाशकारी। (२) श्रेष्ठ इति भावः। (३) अचेतनः यद्वा डलयोरैक्याजलमयत्वेन शीतल इत्यर्थः ।

काकोलूकीयम्। नोक्तं,-मत्तोऽपि अधिकोऽस्ति वायुः । वायुना (१)हतोऽहं सहस्रधा यामि । तच्छुत्वा सुनिना वायुराहतः । आह च-पुत्रिके ! किमेष वा. युस्ते विवाहायोत्तमः प्रतिभाति ?। सावीत्-तात ! अतिचपलोऽयम् । तदस्मादप्यधिकः कश्चिदानीयताम् । मुनिराह-वायो ! त्वत्तोऽप्यधिकोऽ- स्ति कश्चित् ? ! पवनेनोक्तम्-मत्तोऽप्यधिकोऽस्ति पर्वतः, येन (२)सं. स्तभ्य बलवानप्यहं ध्रिये | अथ मुनिः पर्वतमाहूय कन्यामुवाच -पुत्रिके ! त्वामस्मै प्रयच्छामि ?। सा प्राह तात! कठिनात्मकोऽयं (३)स्तब्धश्च ! तदन्यस्मै देहि माम् । मुनिना पर्वतः पृष्टः-भोः ! पर्वतराज ! त्वत्तोऽप्य- धिकोऽस्ति कश्चित् ? । गिरिणोक्तम्-मत्तोऽप्यधिकाः सन्ति मूषिका ये मच्छरीरं बला द्विदारयन्ति । ततो मुनिसृषिकमाहूय तस्या अदर्शयत् ! आह च-पुत्रिके ! त्वामस्मै प्रयच्छामि किसेष प्रतिभाति ते मूषिक- राजः ? | सापि तं दृष्ट्वा स्वजातीय एष इति मन्यमाना (४)पुलकोद्भूषि- तशरीरा उवाच-तात! मां मूषिकां कृत्वास्मे प्रयच्छ येन स्वजातिवि. हितं गृहधर्ममनुतिष्ठामि । ततः सोऽपि स्वतपोबलेन तां मूषिकां कृत्वा तस्मै प्रादात् । अतोऽहं ब्रवीमि-'सूर्यं भर्तारमुत्सृज्य' इति । अथ रक्ताक्ष- वचनमनाहत्य तैः स्ववंशविनाशाय स स्वदुर्गमुपनीतः। नीयमानश्चा- तीनमवहस्य स्थिरजीवी व्यचिन्तयत्- हन्यतामिति येनोक्तं स्वामिनो हितवादिना । स एवैकोऽत्र सर्वेषां नीतिशास्त्राथतत्त्ववित् ॥ १८९॥ तद्यदि तस्य वचनमकरिष्यन्ते ततो न स्वल्पोऽप्यनर्थोऽभविष्यदेते- षाम् । अथ दुर्गद्वारं प्राप्यारिमर्दनोऽब्रवीत्-भो! भोः! हितैषिणोऽस्य स्थिरजीविनो यथासमोहितं स्थानं प्रयच्छत । तच्च श्रुत्वा स्थिरजीवी व्य- चिन्तयत्-मया तावदेतेषां वधोपायश्चिन्तनीयः, स मया(५)मध्यस्थेन न साध्यते । यतो मदीयमिङ्गितादिकं (६)विचारयन्तस्तेऽपि सावधाना भ- विष्यन्ति । तद् दुर्गद्वारमधिश्रितोऽभिप्रेतं साधयामि इति निश्चित्यो- (१) खण्डित इत्यर्थः। (२) निर्जित्येति भावः। (३) निश्चयः। (४)पुलकेन हर्षजनितेन रोमाञ्चेन उद्भूषितं शरीरं यस्याः सा । (५) उदासीनेन निरुद्योगेनेति यावत् । (६) मनोभावादिकं चेष्टादिमिति भावः ।

पतन- लूकपतिमाह-देव ! युक्तमिदं यत्स्वामिना प्रोक्तम् । परमहमपि नीतिज्ञ स्तेऽहितश्च ! यद्यप्यनुरतः शुचिस्तथापि दुर्गमध्ये (१)आवासो (२)नाहः। तदहमत्रैव दुमद्वारस्थः प्रत्यहं (भवत्पादपारजःपवित्रीकृततनुः सेवा करिष्यानि ! 'तथा' इति (४)प्रतिपन्ने प्रतिदिनमुलकपतिसेव कास्ते प्रका- ममाहारं कृत्वोलकराजादेशात्प्रकृष्टमांसाहार स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैरेवाहोभिर्मयर इव स बलवान्संवृत्तः । अथ रक्ताक्षः स्थिर- जीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रिजनं राजानं च प्रत्याह-अहो ! मूर्योऽयं मन्त्रिजनो भवांश्चेत्येवमहमवगच्छामि । उक्तं च-- पूर्व तावदहं मूो द्वितीयः पाशबन्धकः । ततो राजा च मन्त्री च सर्व वै मूर्खमण्डलम् ।। १९० ॥ ते पाहुः कथमेतत् । रक्ताक्षः कथयति- कथा (११) अस्ति कस्मिंश्चित्पर्वतैकदेशे महान्वृक्षः। तत्रचसिन्धुकनामा कोऽपि पक्षी प्रतिवसति स्म । तस्य (५)पुरीषे सुवर्णमुत्पद्यते । अथ कदाचित् तमुद्दिश्य व्याधः कोऽपि समाययौ । स च पक्षी तदअत एव पुरीषमुत्ससर्ज । अथ (६) पातसमकालमेव तत्सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमन्–अहो ! मम शिशुकालादारभ्य (७)शकुनिबन्धव्यसनिनोऽशीतिवर्षाणि समभू- वन् । न च कदाचिदपि पक्षिपुरीपे सुवर्ण दृष्टम् । इति विचिन्त्य तत्र वृक्ष पाशं बबन्ध । अथासावपि पक्षी मूर्खस्तत्रैव विश्वस्तचित्तो यथापूर्वमुप- विष्टः । तत्कालमेव पाशेन बद्धः । व्याधस्तु तं पाशादुन्मुच्य पञ्जर के संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास-किमनेन (८)सापायेन पक्षिणाहं करिष्यामि । यदि कदाचित्कोऽप्यमुमीदृशं ज्ञात्वा राज्ञे निवेद- यिति तन्नूनं ()प्राणसंशयो मे भवेत् । अतः स्वयमेव पक्षिणं राज्ञे (१)अवस्थितिः। (२) नोचित इत्यर्थः। (३) भवतां पादपद्मरजोभिः चरणकमलधूलिभिः पवित्रीकृता तनुः शरीर (४) स्वीकृते सति । (५) विष्टायाम्। (६) पतनकाल एवेत्यर्थः। (७) पक्षिबन्धनैककर्मणः। (८) विपज्जनकेन । (९)महासङ्कट इत्यर्थः । यस्य सः।

G - काकोलूकीयम् । निवेदयामि | इति विचार्य तथैवानुष्ठितवान् । अथ राजापि तं पक्षिणं दृष्ट्वा (१)विकसितनयनवदनकमलः परां तुष्टिमुपागतः । प्राह चैवम्-हंहो रक्षापुरुषाः ! एनं पक्षिणं यत्नेन रक्षत | अशनपानादिकं चास्य यथेच्छं प्रयच्छत | अथ मन्त्रिणाभिहितम्-किमनेनाश्रद्धेयव्याधवचनप्रत्ययमा- त्रपरिगृहीतेन(२) अण्डजेन(३), किं कदाचित्पक्षिपुरीषे सुवर्ण सम्भवति ! तन्मुच्यतां पञ्जरबन्धनादयं पक्षी । इति मन्त्रिवचनाद्राज्ञा मोचितोऽसौ पक्ष्युन्नतद्वारतोरणे समुपविश्य सुवर्णमयी विष्ठां विधाय 'पूर्व तावदह मूर्खः' इति श्लोकं पठित्वा यथासुखमाकाशमार्गेण प्रायात् । अतोऽहं ब्रवीमि–'पूर्व तावदहं मूर्खः, इति । अथ ते पुनरपि (४)प्रतिकूलदैवतया हितमपि रक्ताक्षवचनमनाहत्य भूयस्तं प्रभूतमांसादिविविधाहारेण पोषया. मासुः । अथ रक्ताक्षः स्ववर्गमाहूय रहः प्रोवाच-अहो ! एतावदेवास्म- द्भपतेः कुशलं दुर्ग च । तदुपदिष्टं मया यत्कुलक्रमागतः(५) सचिवोs- भिधत्ते । तद्वयमन्यत्पवतदुर्ग सम्प्रति समाश्रयामः । उक्तं च यतः- अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् । वनेऽत्र सस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता ।। १९१ ॥ ते प्रोचुः कथमेतत् । रक्ताक्षः कथयति- कथा (१२). कस्मिंश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म | स कदा. चिदितश्चेतश्च परिभ्रमन्क्षुत्क्षामकण्ठो न किञ्चिदपि (६)सत्त्वमाससाद । ततश्चास्तमनसमये(७) महतीं गिरिगुहामासाद्य प्रविष्टश्चिन्तयामास-- नूनमेतस्यां गुहायां रात्रौ केनापि स वेनागन्तव्यम् । तन्निभृतो भूत्वा तिष्ठामि । एतस्मिन्नन्तरे तत्स्वामी दधिपुच्छो नाम शृगालः समायातः । (१) अतिप्रसन्न इति भावः । (२) अश्रद्धेयं विश्वासानहं यद् व्याधस्य वचनं तस्य प्रत्ययमात्रेण विश्वासेनैव परिगृहीतेन तेन। (३) पक्षिणा। (४) दुर्भाग्यतया । (५) वंशपरम्परागतः। ६) प्राणिनम् । (७) सायङ्काले।

पाहतमत्र- सच यावत् पश्यति, तावसिंहपदपद्धतिः(१) गुहायां प्रविष्टा न च निष्क्र- जणं गता। ततश्चाचिन्तयत-अहो! विनष्टोऽल्मि! नूनमस्यामन्तर्गतेन लिहेल आव्याम् । तस्कि करोमि । कथा ज्ञास्यामि । एवं विचिन्त्य द्वारस्थः ()ऋत्कर्तुमारब्धः-अहो जिल! अहो बिल ! इत्युक्त्वा तूष्णीम्भूय अयोऽपि तथैव प्रत्यभापता-भोः ! किन स्मरति यन्मया त्वया सह (३)समयः कृतोऽस्ति । यन्सया वाह्यात्समागतेन त्वं (४)वत्तव्यः । त्वया बहसाकारणीयः(५) इति । तद्यदि मनाइयति ततोऽहं द्वितीयं विलं यास्यामि । अथ तच्छत्वा सिहश्चिन्तितवान्-जूनपा गुहास्य समागतस्य सदा समाजानं करोति परमच मद्भयान्न किश्चिद् ते! अथवा साध्विदमुच्यते- भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः। प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत् ।। १६२ ॥ तदहमस्याहानं करोमि येन तदनुसारेण प्रविष्टाऽयं मे भोज्यतां यास्य- ति । एवं सम्प्रधार्य सिहस्तस्यावानमकरोत् । अथ सिहशब्देन सा गुहा (६)प्रतिरबसम्पूर्णा अन्यानपि दूरस्थानरण्यजीवांस्त्रासयामास ! शृगालो- ऽपि पलायमान इमं श्लोकमपठत्- अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् । वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता ।। १९३ ।। तदेवं मत्वा युष्माभिर्मया सह गन्तव्यमिति । एवमभिधायात्मानुया- यिपरिवारानुगतो(५) दूरदेशान्तरं रक्ताक्षो जगाम | अथ रक्ता गते स्थिरजीव्यतिहृष्टमना व्यचिन्तयत्-अहो ! कल्या- णमस्माकमुपस्थितं यद्रक्ताक्षो गतः। यतः स दीर्घदर्शी। एते च मूढम- नसः । ततो मम (८)सुखघात्याः सञ्जाताः । उक्तं च यतः- (१)सिंहस्य चरणचिन्हम् । (२)आह्वातुम् । (३)प्रतिज्ञा। (४)आलपितव्यः। (५) आह्वातव्यः (६) प्रतिध्वनिपूर्णा । (७) स्वानुचरैः सहित इत्यर्थः । (८)सुखेन हन्तव्याः।

-- काकोलूकीयम् । न दीर्घदर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः । क्रमायाता ध्रुवं तस्य न चिरात्स्यात्परिक्षयः ।। १६४ ॥ अथवा साध्विदमुच्यते- मन्त्रिरूपा हि रिपवः सम्भाव्यन्ते विचक्षणः । ये सन्तं नयमुत्सृज्य सेवन्ते प्रतिलोमतः ॥ १६५ ॥ एवं विचिन्त्य (१)स्वकुलाय एकैकां (वनकाष्टिकां गुहादीपनार्थ दिने दिने प्रक्षिपति | न च ते सूर्खा उलूका विजानन्ति, यदेष कुलायम स्मदाहाय वृद्धिं नयति । अथवा माध्विमुच्यते-- अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ।। १६६ ।। अथ (३)कुलायव्याजेन दुर्गद्वारे कृते काष्ठनिचये सजाते सूर्योदयेऽ- न्यता प्राप्तेपूल केषु सत्य स्थिरजीजी शी गत्वा मेघवर्णमाह--स्वामिन् ! (४)दाहसाध्या कृता रिपुगुहा । तत्सपरिवारः समेत्यैकैकां वनकाष्ठिका ज्वलन्ती गृहीत्वा गुहाद्वारेऽस्माकुलाचे प्रतिप येन सर्वे शत्रवः (५)कुम्भी- पाकनरकप्रायेण दुःलेन निरन्ते ! तच्छुत्वा प्रहृष्टो मेघवर्ण आह-तात ! कथयात्मवृत्तान्तम् । चिरादध दृष्टोऽसि । स ाह-वत्स! नायं कथनस्य कालः । यत' कदाचित्तस्य रिपोः कश्चित्(६)प्रणिधिर्ममेहागमनं निवेदयि- व्यति, तज्ज्ञानादन्धोऽन्यत्रापसरणं करिष्यति । तत्वर्यताम् | उत्तञ्च- शीघ्रत्येषु कार्येषु विलम्बयति यो नरः । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ।। १६७ ॥ तथा च-यस्य यस्य हि कायस्य फलितस्य विशेषतः । क्षिप्रमक्रियमाणस्य कालः पिबति तत्फलम् ॥ १९८॥ तद् गुहायामायातस्य ते हतशत्रोः सर्व सविस्तारं (७)निर्व्याकुलतया कथयिष्यामि । अथासौ तद्वचनमाकर्ण्य सपरिजन एकैकां ज्वलन्तीं वन- काष्ठिकां चञ्च्वग्रेण गृहीत्वा तद् गुहाद्वारं प्राप्य स्थिरजोविकुलाये (१)निजनीडे। (२) वन्यकाष्ठम् । (३) नीडबृद्धिच्छलेन। (४)दाहेन विजेतव्या। (५) कुम्भीपाकाख्यनरकतुल्येन महता कष्टेनेति भावः । (६)गुप्तचरः। (७) निर्भयतया। --- पञ्चतन्त्रके- प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्षवाक्यानि स्मरन्तो द्वारस्य(१)श्रा- वृतत्वादनिःसरन्तो गुहामध्ये(२) कुम्भीपाकन्यायमापन्ना मृताश्च । एवं शत्रून्निशेषता नीत्वा यूयोऽपि मेघवर्णस्तदेवन्यग्रोधपादपदुर्ग जगाम | ततः सिंहासनस्थो सूत्वा समामध्ये प्रमुदितमलाः स्थिरजीविनमपृच्छत्- तात ! कथ त्वया शत्रुमध्ये गतेनैतावत्पर्यन्तं कालो नीतः। तदत्र कौतु- कमस्माकं वर्तते । तत्कथ्यताम् । यतः- वरमग्नौ प्रदीप्ते तु प्रपातः पुण्यकर्मणाम् । न चारिजनसंसर्गो मुहूर्तमपि सेवितः ।। १६६ ॥ तदाकण्य स्थिरजीव्याह-भद्र! आगामिफलवाञ्छया कष्टमपि सेवको न जानाति | उक्तं च यतः- उपनतमयैर्यो यो मार्गो हितार्थकरो भवेत् स स निपुणया बुद्धया सेव्यो महान्कृपणोऽपि वा। करिकरनिभौ ज्याघाताकौ महाविशारदौ रचितवलयैः स्त्रीवद्वद्धौ करौ हि किरीटिना ॥ २०० ।। शक्तनापि सदा नरेन्द्रविदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वाक्यवज्रविषमे क्षुद्रेऽपि पापे जने । दीव्यग्रकरेण धूममलिनेनायासयुक्तेन च । . भीमेनातिबलेन मत्स्यभवने कि नोषितं सूदवत् ।।२०१।। यद्रा तद्वा विषमपतितः साधु वा गर्हितं वा । कालापेक्षी हृदयनिहितं बुद्धिमान्कर्म कुर्यात् । किं गाण्डीवस्फुरदुरुघनास्फालनक्रूरपाणि- नासील्लीलानटनविलसन्मेखली सव्यसाची ॥ २०२॥ सिद्धि प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैवविधिषु स्थैर्य प्रकार्य क्रमात् । देवेन्द्रद्रविणेश्वरान्तकसमैरप्यन्वितो भ्रातृभिः किं क्लिष्टः सुचिरं त्रिदण्डमवहच्छीमान्न धर्मात्मजः ! ॥२०॥ रूपाभिजनसम्पन्नौ कुन्तीपुत्रौ बलान्वितौ । (१) काष्टैरवरुद्धत्वात् । (२) दह्यमाना इति भावः ।

काकोलूकीयम् । गोकर्मरक्षाव्यापारे विराटप्रेष्यतां गतौ ।। २०४ ॥ रूपेणाप्रतिमेन यौवनगुणैः श्रेष्ठे कुले जन्मना कान्त्या श्रीरिव यात्र सापि विदशां कालक्रमादागता । सैरन्ध्रीति सगवितं युवतिभिः साक्षेपमज्ञातया द्रौपद्या ननु मत्स्यराजभवने धृष्टं न किं चन्दनम् ! ॥ २०५॥ मेघवर्ण आह-तात ! (१)असिधाराव्रतमिदं मन्ये, यदरिणा सह संवासः। सोऽब्रवीत्-देव! एवमेतत् । परं न ताहङ मूर्खसमागमः (२)क्कापि मया दृष्टः । न च महाप्रज्ञमनेकशास्त्रेष्वप्रतिमबुद्धिं रक्ताक्षं (३) विना (४)धीमान् । यत्कारणं तेन मदीयं यथास्थितं चित्तं ज्ञातम् । ये पुनरन्ये मन्त्रिणस्ते महामूर्खा (५)मन्त्रिमात्रव्यपदेशोपजीविनोऽतत्त्व. कुशलाः(६), यैरिदमपि न ज्ञातम् । यतः- अरितोऽभ्यागतो भृत्यो दुष्टस्तत्सङ्गतत्परः। अपसर्प्य स धर्मत्वान्नित्योद्वेगो च दूषितः ।। २०६॥ आसने शयने याने पानभोजनवस्तुषु । दृष्टादृष्टप्रमत्तेपु प्रहरन्त्यरयोऽरिपु ।। २०७ ॥ तस्मात्सर्वप्रयत्नेन त्रिवगनिलयं बुधः आत्मानमाहतो रक्षेत्प्रमादाद्धि विनश्यति ॥ २०८ ॥ साधु चेदमुच्यते- सन्तापयन्ति कमपथ्यभुजं न रोगाः दुमन्त्रिणं कमुपयान्ति न नीतिदोषाः। कं श्रीन दर्पयति कं न निहन्ति मृत्युः कं स्त्रीकृता. न विषयाः परिपीडयन्ति ॥ २०६ ।। लुब्धस्य नश्यति यशः पिशुनस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः। विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ २१०॥ (१) असिधाराचलनव्रतसदृशं महदेव कठिनमित्यर्थः। (२) मूर्खमण्डलम् । (३) विहायेतिभावः। (४)बुद्धिमान् आसीत् तत्रेति शेषः। (५) मन्त्रिनामधारका इत्यर्थः । (६) नीतितत्वानभिज्ञाः।

पञ्चतन्त्र- , तद्राजन् ! असिधाराव्रतं मया(१)आचरितमरिसंसर्गादिति यद्भव- तोक्तं, तन्मया साक्षादेवानुभूतम् । उक्तं च-अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ २११ ।। स्कन्धेनापि कहेच्छत्रु कालमासाद्य बुद्धिमान् | महता कृष्णसर्पण मण्डूका बहवो हताः ।। २१२ ।। मेघवर्ण आह-कथमेतत् । स्थिरजीवी कथयति- कथा (१३) अस्ति वरुणाद्रिसमीप एकस्मिन्प्रदेशे (२)परिणतवया मन्दविषो नाम कृष्णसर्पः । स एवं चित्ते सञ्चिन्तितवान्-कथं नाम मया (३)सुखोपाय- वृत्त्या वर्तितव्यम् (४) इति । ततो बहुमण्डुकं हृदमुपगम्य (५)धृतिपरीत. मिवात्मानं दर्शितवान् । अथ तथा स्थिते तस्मिन्नुदकप्रान्तगतेनैकेन मण्डू- केन पृष्टः-माम ! (६) किमद्य यथापूर्वमाहारार्थं न विहरसि ?(७)। सोऽ- ब्रवीत्-भद्र ! कुतो मे मन्दभाग्यस्याहाराभिलाषः । यत्कारणमद्य रात्री प्रदोष एव मयाहारार्थ विहरमाणेन दृष्ट एको मण्डूकः । तद्ग्रहणार्थ मया (८)क्रमः सन्जितः । सोऽपि मां दृष्ट्वा मृत्युभयेन (६)स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तः(१०) न (११)विभावितो मया कापि गतः । (१२) तत्सदृशमोहितचित्तेन मया कस्यचिद् ब्राह्मणस्य सूनोह्रदतटजला. न्तास्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः । अथ तस्य पित्रा दुःखितेनाहं शप्तः । यथा-दुरात्मन् ! त्वया निरपराधो मत्सुतो दष्टः । तदनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि । तत्प्रसादलब्धजीविकया वर्तिष्यसे(१३) इति । ततोऽहं युष्माकं वाहनार्थमागतोऽस्मि । तेन च सर्व मण्डूकानामिदमावेदितम्(१४) । ततस्तैः प्रहृष्टमनोभिः सर्वैरेव गत्वा जल- (१) विहितम् । (२) अतिवृद्धः । (३) अनायासलभ्यजीविकया। (४)जीवननिर्वाहः कर्त्तव्य इत्यर्थः । (५) अतिधैर्यशालिनमिव । (६)मातुल!। (७)भ्रमसि । (८)प्रयासः कृतः। (९) वेदपाठसंलग्नानाम् । (१०) मध्येन पलायितः। (११) ज्ञातः। (१२) मण्डूकसमानभ्रान्तचितेन। (१३)जीविष्यसि । (१४) कथितम् ।

काकोलूकीयम्। पादनाम्नो द१रराजस्य विज्ञप्तम् । अथासावपि मन्त्रिपरिवृतोऽत्यद्भुत- मिदमिति मन्यमानः ससंभ्रमं हृदादुत्तीर्य मन्दविषस्य फणिनः फणाप्रदेश- मधिरूढः । शेष अपि (१)यथाज्येष्ठं तत्पृष्ठोपरि समारुरुहुः। किं बहुना । तदुपरि स्थानमप्राप्तवन्तस्तस्यानुपर्द(२) धावन्ति । मन्दविषोऽपि तेषां तुष्टयर्थमनेकप्रकारान्गतिविशेषानदशयत् । अथ जलपादो लब्धतदसं- स्पर्शसुखस्तमाह -- न तथा करिणा यानं तुरगेण रथेन वा । नरयानेन वा यानं यथा मन्द विषेण मे ।। २१३ ॥ अथान्येधुर्मन्दविषश्छद्मना मन्दं मन्दं (३)विसर्पति । तच्च दृष्ट्वा जल- पादोऽब्रवीत्-भद्र ! मन्दविष ! यथापूर्व किमद्य साधु नोह्यते । मन्द- विषोऽब्रवीत्-देव ! (४)अद्याहारवैकल्यान्न मे वोढुं शक्तिरस्ति । अथा- सावत्रवीत्-भद्र । भक्षय क्षुद्रमण्डूकान् । तच्छुत्वा प्रहर्षितसर्वगात्रो मन्द- विषः ससंभ्रममत्रवीत्-ममायमेव विप्रशापोऽस्ति । तत्तवानेनानुज्ञावच- नेन प्रीतोऽस्मि । ततोऽसौ नैरन्तर्येण मण्डूकान्भक्षयन्कतिपयैरेवाहोभिर्व- लवान्संवृत्तः । प्रहृष्टश्चान्तीनमवहस्येदमब्रवीत्- मण्डूका विविधा ह्येते छलपूर्वोपसाधिताः । कियन्तं कालमक्षीणा भवेयुः खादिता मम ।। २१४ ॥ जलपादोऽपि मन्दविषेण (५)कृतकवचनव्यामोहितचित्तः-- किमपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्णसर्पस्तमुद्देशं समायातः । तं च मण्डूकैवाह्यमानं दृष्ट्वा विस्मयमगमत् , आह च-वयस्य ! यदस्मा- कमशनं (६)तैः कथं वायसे (७)विरुद्धमेतत्()। अथ मन्दविषोऽन्तर्लीनमवहस्य पुनरपि "मण्डूका विविधा ह्येते” इति तमेवमब्रवीत् । अथ जलपादस्तच्छ्रुत्वा सुतरां (९)व्यग्रहृदयः किमनेना- भिहितम्' इति सम्यङनावगम्य(१०) तमपृच्छत्-भद्र ! किं त्वयाभिहित- मिदं विरुद्धं वचः ? । अथासावाकारप्रच्छादनार्थं (११) 'न किञ्चित्' इत्य- (१) प्रधानानुसारेण । (२) पश्चात् । (३) गच्छति । (४) भोजनाभावात् । (५) कपटवचनैर्विमुग्धचित्तः। (६) भोजनम् । (७) वाहनीक्रियसे। (८) अनुचितमित्यर्थः । (९) व्याकुलचित्तः। (0) अज्ञात्वा। (११) मनोभावस्य गोपनार्थम् ।

पञ्चतन्त्रके- ब्रवीत् । तथैव कृतकवचनव्यामोहितचित्तो जलपादस्तस्य (१)दुष्टाभिसंधि नावबुध्यते । किंबहुना तथा तेन सर्वेऽपि भक्षिता यथा (२)बीजमात्रमपि नावशिष्टम् । अतोऽहं ब्रवीमि-'स्कन्धेनापि वहेच्छत्रम्' इति । अथ राजन् ! यथा मन्दाविपेण बुद्धिबलेन मण्डूका निहताः, तथा मयापि सर्वे- ऽपि वैरिण इति । साधु चेदमुच्यते- बने प्रज्वलितो वह्निर्दहन्मूलानि रक्षति । समूलोन्मूलनं कुर्याद्वायुर्यो मृदुशीतलः ।। २१५ ।। मेघवर्ण आह-तात! सत्यमेवैतत् ये महात्मानो भवन्ति ते (३)महा- सत्त्वा आपद्गता अपि प्रारब्धं न विसर्जयन्ति । उक्तं च यतः- महत्त्वमेतन्महतां नयालङ्कारधारिणाम् । न मुञ्चन्ति यदारब्धं कृच्छेऽपि व्यसनोदये ॥ २१६ ।। तथा च-प्रारभ्यते न खल विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः सहस्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ।। २१७ ॥ तत्कृतं निष्कण्टकं मम राज्यं शत्रून्निशेषतां नयता त्वया । अथवा युक्तमेतन्नयवेदिनाम्(४)। उक्तं च यतः- ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च । 'व्याधिशेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥ २१८ ॥ सोऽब्रवीत्-देव ! भाग्यवांस्त्वमेवासि, यस्यारब्धं सर्वमेव संसि- ध्यति(५) । तन्न केवलं शौर्य कृत्यं साधयति, किंतु प्रज्ञया यत्क्रियते तदेव विजयाय भवति । उक्तं च यतः- शस्त्रेहता न हि हता रिपवो भवन्ति प्रज्ञाहतास्तु रिपवः सुहता भवन्ति। शस्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥ २१६ ॥ तदेवं (६)प्रज्ञापुरुषकाराभ्यां युक्तस्यायत्नेन कार्यसिद्धयः सम्भ- (३)दुर्विचारम् । () कुलप्रचालक एकोऽपि मण्डूक इत्यर्थः। (३) अतिधीराः। (४)नीतिविदाम् । (५)सिद्धिप्रदं भवतीत्यर्थः । (६) बुद्धिपुरुषार्थाभ्याम् ।

- काकोलूकीयम् । वन्ति । उक्तंच- प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः स्वयमुपनयन्नर्थान्मन्त्रो न गच्छति विप्लवम् । स्फुरति सफलस्तर्कश्चित्तं समुन्नतिमश्नुते भवति च रतिः श्लाध्ये कृत्ये नरस्य भविष्यतः ॥२२०॥ तथा च नयत्यागशौर्यसंपन्ने पुरुषे राज्यमिति । उक्तं च- त्यागिनि शूरे विदुषि च संसर्गरुचिर्जनो गुणी भवति । गुणवति धनं धनाच्छीः श्रीमत्याज्ञा ततो राज्यम् ॥ २१॥ मेघवर्ण आह-नूनं (१)सद्यःफलानि नीतिशास्त्राणि, यत्त्वयानुक- त्येन(२)अनुप्रविश्य(३)अरिमर्दनः सपरिजनो(४) निःशेषितः । स्थिरजीव्याह- तीक्ष्णोपायप्राप्तिगस्योऽपि योऽर्थस्तस्याप्यादौ संश्रयः साधुयुक्तः । उ गापः सारभूतो वनानां मान्याभ्यर्च्यश्छिद्यते पादपेन्द्रः॥ २२२ ।। अथवा स्वामिन् ! किं तेनाभिहितेन यदनन्तरकाले क्रियारहितमसु. खसाध्यं वा भवति । साधु चेदमुच्यते- अनिश्चितैरध्यवसायभीरुभिः पदे पदे दोषशतानुदर्शिभिः । फलैर्विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥ २२३॥ न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः(५)कार्यः । यतः- शक्ष्यामि कतुमिदमल्पमयत्नसाध्यमत्रादरः क इति कृत्यमुपेक्षमाणाः । केचित्प्रमत्तमनसः परितापदुःखमापत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥२२४॥ तदद्य जितारे:(६)मद्विभोर्यथापूर्वम्(७)निद्रालाभो भविष्यति । उच्यते चैतत्- निःसर्प बद्धसर्प वा भवने सुप्यते सुखम् । सदा दृष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते ।। २२५ ।। तथा च-विस्तीर्णव्यवसायसाध्यमहतां स्निग्धोपभुक्ताशिषां कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् । (१) शीघ्रसिद्धिप्रदानि । (२) मतानुसारिणा। (३)स्नेहास्पदीभूत्वेत्यर्थः । (४) विनाशितः। (५) उपेक्षा। (६)मम स्वामिनः। (७) निश्चिन्ततालाभः। - पञ्चतन्त्रके- - मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं नितिः ।। २२६ ।। तदवसितकार्यारम्भस्य(१)विश्राम्यतीव मे हृदयम् । तदिदमधुना नि- हतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमेणाचलच्छनास- नश्रीश्चिरं भुव । अपि च--- प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः । अजागलस्तनस्येव तस्य राज्यं निरर्थकम् ।। २२७ ॥ गुणेषु रागो व्यसनेष्वनादरो रतिः सुभृत्येषु च यस्य भूपतेः । चिरं स भुते चलचामरांशुकां सितातपत्राभरणां नृपश्रियम् ॥२२॥ न च त्वया प्राप्तराज्योऽहमिति मत्वा (२)श्रीमदेनात्मा(३)व्यंसयित- व्यः यत्कारणं चला हि राज्ञो विभूतयः, (४)वंशारोहणवद्राज्यलक्ष्मीर्दुरा. रोहा, (५)क्षणविनिपातरता प्रयत्नशतैरपि धार्यमाणा दुर्धरा, (६)प्रशस्ता- राधिताप्यन्ते (७)विप्रलम्भिनी, वानरजातिरिव (८)विद्वत्तानेकचित्ता, पद्मपत्रोदकामवाघटितसंश्लेषा(६) पवनगतिरिवातिचपला, (१)अनार्य- संगतमिवास्थिरा, (११)आशीविष इव (१२)दुरुपचारा, (१३)संध्याभ्रलेखेव मुहूर्तरागा, जलबुद्बुदावलीव स्वभावभङ्गुरा, (१४)सीरप्रकृतिरिव (१५)कृतघ्ना, स्वप्नलब्धद्रव्यराशिरिव क्षणष्टनष्टा | अपि च- यदैव राज्ये क्रियतेऽभिषेकस्तदैव बुद्धिर्व्यसनेषु योज्या । घटा हि राज्ञामभिषेककाले सहाम्भसेवापदमुगिरन्ति ॥ २२६ ॥ (१)समाप्तारब्धकार्यस्य । (२) राज्याहङ्कारेण । (३)वञ्चयितव्यः। (४) वंशे यथा दुष्करमारोहणम् । (५) क्षणभङ्गुरेत्यर्थः। (६) योग्यैः सेविता अपि । (७) प्रवञ्चनशीला। (6)विदुतानि चञ्चलीकृतानि अनेकेषां चित्तानि यया सा। (९) अकृतसम्बन्धा। (१०) दुर्जनमैत्रीव । (११)सर्प इव । (१२) दुःखेन सेवनीया। (१३) संध्यायां सायङ्काले जायमाना या अभ्रलेखा मेघपंक्तिः सा इव मुहूर्त क्षणं रागोऽनुरागः पक्षे लौहित्यञ्च यस्याः सा । (१४)सीरस्य हलस्य प्रकृतिरिव स्वभाव इव । (१५) उपकारविस्मरणशीला अन्यत्र कृष्टस्य क्षेत्रस्य पुनः कर्षणकारिणी । , लब्धप्रणाशम्। न च कश्चिदनधिगमनीयो(१) नामास्त्यापदाम् । उक्तं च- रामस्य ब्रजनं बलेनियमनं पाण्डोः सुतानां वनं वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । नाट्याचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लकेश्वरे सर्व कालवशाजनोऽत्र सहते कः कं परित्रायते ॥ २३०॥ क स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्गतः क्व स जलनिर्वेलां बध्वा नृपः सगरस्तथा । क्व स करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनु- ननु बलवता कालेनैते प्रबोध्य निमीलिताः ।। २३१ ॥ मान्धाता क्व गतस्त्रिलोकविजयी राजा क सत्यव्रतो देवानां नृपतिर्गतः क्व नहुषः सच्छास्त्रवान्केशवः। मन्यन्ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः ।।२३२॥ अपि च स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि काननवनानि । स च ते च ताश्च तानि कृतान्तवष्टानि नष्टानि ॥ २३३ ।। एवं मत्तकरिकर्णचञ्चला राज्यलक्ष्मीमवाप्य (२)न्यायकनिष्ठो भूत्वोप- भुव ॥ इति विष्णुशर्मविरचिते पञ्चतन्त्रके काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम्। 3 लब्धप्रणाशम् अथेदमारभ्यते लब्धप्रणाश नाम चतुर्थ तन्त्रम् । यस्यायमादिमः श्लोकः-समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते । स एव दुर्गं तरति जलस्थो वानरो यथा ॥१॥ तद्यथानुश्रूयते-अस्ति कस्मिंश्चित्समुद्रोपकण्ठे महाञ्जम्बूपादपः (४) सदाफलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च (१) अगम्य इत्यर्थः। (२)न्यायपरायणः। ३. लब्धस्य प्राप्तस्य प्रणाशो विनाशो यत्र तल्लब्धप्रणाशम् । (४)सर्वदा फलवानित्यर्थः।

पञ्चतन्त्रके- । तस्य तरोरधः कदाचित्करालमुखो(१) नाम मकरः समुद्रसलिलानिष्क्रम्य (२)सुकोमलबालुकासनाथे तीरोपान्ते न्यविशत(३) । ततश्च क्तमुखेन स प्रोक्तः-ओ! भवान्समभ्यागतोऽतिथिः । तद्भक्षयतु मया दत्तान्यमृत. तुल्यानि (४)जम्बूफलानि । उक्तं च- प्रियो वा यदि वा द्वेष्यो मूर्यो वा यदि पण्डितः । वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्गसंक्रमः ॥ २ ॥ न पृच्छेञ्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ३॥ दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम् । अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४॥ अपूजितोऽतिथिर्यस्य गृहाद्याति विनिश्वसन् । गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः ।। ५ ।। एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनमगात् । एवं नित्यमेव तौ वानरमकरौ जम्बूच्छायास्थितौ (५)विविधशास्त्रगोष्ठ्या कालं नयन्तौ सु- खेन तिष्ठतः । सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्व- पत्न्याः प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः-नाथ ! क्वैवं विधान्यमृतफालानि प्राप्नोषि ? | स आह-भद्रे ! ममास्ति परम सुहृद्रक्त- मुखो नाम वानरः। स प्रीतिपूर्वमिमानि फलानि प्रयच्छति । अथ तया- भिहितम-यः सदैवामृतप्रायाणीशानि फलानि भक्षयति तस्य हृदयम- मृतमयं(६) भविष्यति । तद्यदि मया भार्यया ते प्रयोजनम् , ततस्तस्य हृदयं मह्यं प्रयच्छ । येन तद्भक्षयित्वा जरामरणरहिता त्वया सह भोगा- न्भुनज्मि । स आह-भद्रे ! मा मैवं वद । यतः स (७)प्रतिपन्नोऽस्माकं भ्राता । अपरं फलदाता | ततो व्यापादयितुं न शक्यते । ,तत्त्यजैनं (८)मिथ्याग्रहम् । उक्तं च- (१) भीषणवदनः। (२) अतिमृदुबालुकायुक्त। (३) उपविष्टः। (४) अतिमधुराणीत्यर्थः । (५) विविधानां शास्त्राणां वेदादीनां विचारेणेत्यर्थः । (६) अमृतपूर्णम् । (७)स्वीकृतः। (८) अनुचिताग्रहम् । -- लब्धप्रणाशम् । द ७ एकं प्रसूयते माता द्वितीयं वाक्प्रसूयते । वाग्जातमधिकं प्रोचुः सोदर्यादपि बन्धुवत् ॥ ६ ॥ अथ मकर्याह त्वया कदाचिदपि मम वचनं नान्यथा कृतम् । तन्नूनं सा वानरी भविष्यति, यतस्तया अनुरागतः सकलमपि दिनं तत्र(१)गमयसि । तत्त्वं ज्ञातो मया सम्यक । अपरं सा यदि तव वल्लभा न भवति, तत्कि मया (२)भणितेऽपि तां न व्यापादयसि । अथ यदि स वानरस्तत्कस्तेन सह तव स्नेहः । तत्कि बहुना | यदि तस्य हृदयं न भक्षयामि, तन्मया (३)प्रायोपवेशनं कृतं विद्धि । एवं तस्यास्तं निश्चयं ज्ञात्वा चिन्ताव्याकुलितहृदयः(४)सः प्रोवा- च । अथवा साध्विमुच्यते- वज्रलेपस्थ मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमधपयोस्तथा ॥ ७ ॥ तक् िकरोमि । कथं स मे वध्यो भवति । इति विचिन्त्य वानरपार्श्व- मगमत् । वानरोऽपि चिरादायान्तं तं सोद्वेगमवलोक्य प्रोवाच-भो ! मित्र ! किमद्य (५)चिरवेलायां समायातोऽसि । कस्मात्साह्लादं नालपसि । न सुभाषितानि पठसि । स आह-मित्र ! अहं तव भ्रातृजायया निष्ठुर- तरर्वाक्यैरभिहितः-भोः! कृतन्न ! मा मे त्वं स्वमुखं दर्शय, यतस्त्वं प्रतिदिनं मित्रमुपजीवसि न च तस्य पुनः प्रत्युपकारं गृहदर्शनमात्रेणापि करोषि । तत्ते प्रायश्चित्तमपि नास्ति । उक्तं च-ब्रह्मध्ने च सुरापे च चौरे भग्नव्रते शठे । निष्कृतिविहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ८॥ तत्त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थ गृहमानत । (६)नो चेत्त्वया सह मे परलोके दर्शनमिति । तदहं तयैवं प्रोक्तस्तव सकाशमागतः । तदद्य तया सह त्वदर्थे (७)कलहायतो ममेयती(८) वेला(९) विलग्ना। तदागच्छ (१)व्यतीतं करोषि। (२) उक्तेऽपि । (३) अनशनरूपं वतम् , आहारमकृत्वा मरिष्यामीति यावत् । (४) खिन्नचित्तः। (१) बहुदिनानन्तरमित्यर्थः । (६) अहं मरिष्यामीति भावः । (७) कलहं विदधतः । (८) एतावान् समयः । (९) व्यतीतेति भावः ।

पञ्चतन्त्रके- -- मे गृहम् । तव भ्रातृपत्नी (१)रचितचतुष्का (२)प्रगुणितवस्त्र-णिमाणि- क्याधुचिताभरणा द्वार देशबद्धवन्दनमाला सोत्कण्ठा तिष्ठति । मर्कट आह-भो ! मित्र ! युक्तमभिहितं मद्भातृपल्या । उक्तं च- वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः संमुखं नित्यं य आकर्षति लोलुपः ॥ ६॥ . तथा च ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षडविधं प्रीतिलक्षणम् ॥ १० ॥ परं वय वनचराः, युष्मदीयं च(३)जलान्ते गृहम् । तत्कथं शक्यते तत्र गन्तुम् । तस्मात्तामपि मे भ्रातृपत्नीमत्रानय येन प्रणम्य तस्या आशी- दिं गृह्णामि | स आह-भो ! मित्र ! अस्ति(४) समुद्रान्तरे सुरम्ये (५)पुलिनप्रदेशेऽस्मद्गृहम् । तन्मम पृष्ठमारूढः सुखेनाकृतभयो (६)गच्छ। सोऽपि तच्छ्रुत्वा सानन्दमाह-भद्र! यद्येवं तत्कि विलम्ब्यते । त्वयताम् । एषोऽहं तव पृष्ठमारूढः । तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरःप्रोवाच-भ्रातः ! शनैः शनैर्गम्यताम् । (७)जलकल्लोलैः (E)प्लाव्यते मे शरारम् । तदाकर्ण्य मकरश्चिन्तयामास-असावगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्पृष्ठगतस्तिलमात्रमपि चलितुं न शक्नोति। तस्मात्कथयाम्यस्य निजाभिप्रायम् , येनाभीष्टदेवतास्मरणं करोति । आह च-मित्र ! त्वं मया वधाय समानीतो भार्यावाक्येन विश्वास्य । तत्स्मर्य तामभीष्टदेवता । स आह-भ्रातः! किं मया तस्यास्तवापि चापकृतं येन मे वधोपायश्चिन्तितः ? | मकर आह भोः! तस्यास्तावत्तव हृदयस्यामृत- मयफलरसास्वादनमृष्टस्य (६)भक्षणे (१०)दोहदः सञ्जातः । तेनैतदनुष्ठितम् , (१) रचितं निर्मितं तवोपवेशानार्थं चतुष्कं चत्वरं मण्डपं चतुःस्तम्भमयं वा (२) प्रगुणितानि बहुमूल्यानि वस्त्रमणिमाणिक्यादीनि उचितानि उपयुक्तानि आभरणानि यस्याः सा बहुमूल्यैरलङ्कारैरलंकृतेत्यर्थः । (३) जलमध्ये। (४) सागराभ्यन्तरे। (५) जलनिर्गतभूभागे। (६)गतभयः। (७)सलिलोमिभिः। (८) आक्रियते । (९) अमृतमयानां सुमधुराणां फलानां रसास्वादनेन मृष्टस्य अमृतपूर्णस्य इति भावः। (१०)प्रबलेच्छा। ययासा।

लब्धप्रणाशम्। प्रत्युत्पन्नमतिर्वानर आह-भद्र ! यद्येवं तत्किं त्वया मम तत्रैव न व्याह. तम् । येन स्वहृदयं (१)जम्बूकोटरे सदैव मया (२)सुगुप्तं कृतत् , तद्भात- पल्या अर्पयापि । त्वयाहं शून्यहृदयोऽत्र कस्मादानीतः ? । तदाकर्य मकरः सानन्दमाह-भद्र ! यद्येवं तदर्पय मे हृदयम् । येन सा दुष्टपत्नी तद्भक्षयित्वानशनादुत्तिष्ठति । अहं त्वां तमेव जम्बूपादपं प्रापयामि । एव- मुक्त्वा निवर्त्य जम्बूतलमगात् । वानरोऽपि कथमपि (३)जल्पितविविध- देवतोपचार पूजस्तीरमासादितवान् । ततश्च (४)दीर्घतरचक्रमणेन तमेव जम्बूपादपमारुढश्चिन्तयामास-अहो! लब्धास्तावत्प्राणाः । अथवा सा- विदमुच्यते- न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ११ ॥ तन्ममैतदद्य पुनर्जन्मदिनमिव सञ्जातम् । इति चिन्तयमानं मकर आह-भो ! मित्र ! अर्पय तहृदयं यथा ते भ्रातृपत्नी भक्षयित्वानशना• दुत्तिष्ठति । अथ विहस्य (५)निर्भसंयन्वानरस्तमाह-धिग्धिमूर्ख ! वि- श्वासघातक ! कि कस्यचिद् हृदयद्वयं भवति ! तदाशुगम्यतां जम्बूवृक्ष- स्याधस्तान्न भूयोऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः सकृदुष्टं च यो मित्रं पुनः संधातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरो यथा ।। १२ ।। तच्छुत्वा मकरः सविलक्षं चिन्तितवान्-अहो ! मयातिमूढेन किम- स्य स्वचित्ताभिप्रायो निवेदितः, तद्यद्यसौ पुनरपि कथञ्चिद्विश्वासं गच्छति, तद्भूयोऽपि विश्वासयामि | आह च-मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किंचित्तव हृदयेन प्रयोजनम् । तदागच्छ(६) प्राघुणिक- न्यायेनास्मद्गृहम् । तव भ्रातृपत्नी सोत्कण्ठा वर्तते । वानर आह-भो! दुष्ट ! गम्यताम् । अधुना नाहमागमिष्यामि । उक्तं च- (१)जम्बूवृक्षविवरे। (२)सुगोप्य स्थापितम् । (३)जल्पिता= यदि प्राणसङ्कटादस्मादहं कथमप्युत्तीर्णो भवेयं तदा युष्मान् पूजयेपमित्येवं सङ्कल्पिता विविधानां उपचारसहिता पूजा येन सः। (४) वेगेनोत्प्लुत्येति भावः। (५)तिरस्कुर्वन् । (६)अतिथिरूपेण ।

१७० पञ्चतन्त्रके बुभुक्षितः कि न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गादत्तः पुनरेति कूपम् ।। १३ ॥ मकर आह-कथमेतत् । स ाह- कथा (१) कस्मिंश्चित्कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म । स कदा- चिद् दायादैः(१) उद्वेजितः (१)अरघट्टघटीमारुह्य निष्क्रान्तः। अथ तेन चिन्तितम्-यत्कथं तेषां दायादानां मया (३)प्रत्युपकारः कर्तव्यः । उक्तञ्च-आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ १४ ॥ एवं चिन्तयन्बिले प्रविशन्तं कृष्णसर्पमपश्यत्। तं दृष्ट्वा भूयोऽप्यचि- न्तयत्-यदेनं तत्र कूपे नीत्वा सकलदायादानामुच्छेदम्(४) करोमि । उक्तं च-शत्रुभिर्योजयेच्छत्रं बलिना बलवत्तरम् । स्वकार्याय यतो न स्यात्काचित्पीडात्र तस्तये ॥ १५ ॥ तथा च-शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीदणेन शत्रुणा । व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ॥ १६ ।। एवं स (५)विभाव्य बिलद्वारं गत्वा तमाहूतवान्-एह्येहि प्रियदर्शन! एहि । तच्छ्रुत्वा सर्पश्चिन्तयामास-य एष मामाह्वयति स स्वजातीयो न भवति । यतो नैषा सर्पवाणी। अन्येन केनापि सह मम मत्यलोके (६)संधानं नास्ति । तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति । उक्तं च यस्य न ज्ञायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ।। १७ ।। कदाचित्कोऽपि मन्त्रवाद्यौषधचतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित्पुरुषो वैरमाश्रित्य, कस्यचिद्भक्षणार्थे मामाह्वयति । आह च भोः! को भवान् ?। स आह-अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्सकाशे (१) सजातीयैः बन्धुभिरितियावत् । (२) कूपाज्जलनिःसारणार्थं दारुरचितयन्त्रविशेषः तत्रस्थलघुघटम् । (३) अनिष्टम् । (१) विनाशम् । (५) विचार्य । (६) परिचय इत्यर्थः । ३ लब्धप्रणाशम् । (१) मैत्र्यर्थमभ्यागतः । तच्छ्रुत्वा सर्प आह भोः ! (२) अश्रद्धेयमेतत् , यत्तृणानां वह्निना सह सङ्गमः । उक्तं च- यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन | न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि ॥१८॥ गङ्गदत्त आह-भोः ! सत्यमेतत् । (३)स्वभाववैरी त्वमस्माकम् परं (४) परपरिभवात्प्राप्तोऽहं ते सकाशम् । उक्तं च- सर्वनाशे च सञ्जाते प्राणानामपि संशये । अतिशत्रु प्रणम्यापि रक्षेत्प्राणान्धनानि च ।। १९ ॥ सर्प आह-कथय कस्मात्ते परिभवः ? स आह-'दायादेभ्यः ।' सोऽप्याह-क ते(५) आश्रयो वाप्यां कूपे तडागे हदे वा। तत्कथय स्वाश्रयम् । तेनोक्तम्-(६) पाषाणचयनिबद्धे कूपे । सर्प आह-अहो ! (७)अपदा वयम् । तन्नास्ति तत्र मे (८)प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस्तव दायादान्व्यापादयामि । तद्गम्यताम् । उक्तं च-यच्छक्यं ग्रसितुं यस्य प्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ २० ॥ गङ्गदत्त आह-भोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति । तत्र स्थितस्त्वं (E)लीलया दायादान्व्यापादयिष्यसि । तच्छ्रुत्वा सो व्य- चिन्तयत्-अहं तावत्परिणतवयाः,(१०) कदाचित्कथञ्चिन्मूषकमेकं प्राप्नो- मि |तत्सुखावहो जीवनोपायोऽयमनेन (११)कुलाङ्गारेण मे दर्शितः । तद्- गत्वा तान्मण्डूकान्भक्षयामि' इति । अथवा साध्विदमुच्यते- यो हि प्राणपरिक्षीणः सहायपरिवजितः । स हि सर्वसुखोपायां वृत्तिमारचयेद् बुधः ।। २१ ॥ (१) सख्यं कतुम् । (२) अविश्वसनीयमिति यावत् । (३) जन्मवैरीत्यर्थः । (४) अन्यकृतादपमानातोरित्यर्थः । (५) वासस्थानं बिलमित्यर्थः । (६) पाषाणानां चयः समुदायः तेन निबद्धे विरचिते । ७) चरणरहिता गन्तुमशक्ता इति भावः। (८)गमनमित्यर्थः (९) प्रयासं विनैव सुखेनेति भावः। (१०) अत्यन्तं वृद्धः । (११)वंशविनाशकेन । - पञ्चतन्त्रक , एवं विचिन्त्य तमाह-भो ! गङ्गादत्त ! यद्येवं तदने भव । येन तत्र गच्छावः । गङ्गदत्त अाह-भोः ! प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि। परं त्वयास्मत्परिजनो रक्षणीयः । केवलं यानहं तव दर्शयिष्यामि त एक अक्षणीयाः' इति । सर्प आह--- सांप्रत त्वं मे मित्रं जातम् । तन्न क्षेतव्यम् । तव वचनेन भक्षणीयास्ते दायादाः । एवमुक्त्वा बिलान्निष्क्रम्य तमा लिङ्य च तेनैव सह प्रस्थितः । अथ कूपमासाचारघट्टघटिकामार्गेण सर्पस्तेनात्मना(१)स्वालयं नीतः । ततश्च गङ्गादत्तेन कृष्णसर्प कोटरे धृत्वा दशितास्ते दायादाः। ते च तेन शनैः शनैर्भक्षिताः । अथ मण्डूकाभावे सर्पणाभिहितम्-भद्र ! (२)निः शेषितास्ते रिपवः। तत्प्रयच्छान्यन्मे किञ्चिद्भोजनम् । यतोऽहं त्वयात्रा- नीतः । गङ्गदत्त आह-भद्र ! कृतं त्वया(३) मित्रकृत्यम् । तत्सांप्रतम- नेनैव घटिकायन्त्रमार्गेण गम्यताम्' इति । सर्प आह-भो ! गङ्गदत्त ! न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि । मदीयबिलदुर्गमन्येन (४)रुद्धं भविष्यति । तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीय प्रयच्छ । नो चेत्सर्वानपि भक्षयिष्यामि' इति । तच्छत्वा गङ्गादत्तो व्यचिन्तयत्- अहो ! (५)किमेतन्मया कृतं सर्पमानयता । तद्यदि निषेधयिष्यामि तत्स- निपि भक्षयिष्यति । अथवा युक्तमुच्यते- योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति न संदेहः स्वयं हि विषभक्षणम् !! २२ ॥ तत्प्रयच्छाम्यस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च- सर्वस्वहरणे युक्तं शत्रु बुद्धियुता नराः। तोषयन्त्यल्पदानेन वाडवं सागरो यथा ॥ २३ ॥ यो दुर्बलोऽणूनपि याच्यमानो बलीयसा यच्छति नैव साम्ना । प्रयच्छते नैव च दर्श्यमानं खारी स चूर्णस्य पुनर्ददाति ॥ २४ ॥ तथा च-सर्वनाशे समुत्पन्ने अर्द्ध त्यजति पण्डितः। अर्द्धन कुरते कार्य सर्वनाशो हि दुस्तरः ॥२५॥ (१)निजवासस्थानम् । (२) विनाशिता इत्यर्थः । (३) उपकारः। (१) अधिकृतमिति यावत् । (५)न युक्तं विहितमित्यर्थः । - तथा च- D- - ! लब्धप्रणाशम्। १७३ न स्वल्पस्य कृते भूरि नाशयेन्मतिमानरः । एतदेव हि पाण्डित्यं यत्स्वल्पाद् भूरिरक्षणम् ।। २६ ।। एवं निश्चित्य नित्यमे कैकमादिशति(१)। सोऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साध्विदमुच्यते- यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवित्तस्तु वित्तशेषं न रक्षति ॥ २७ ॥ अथान्यदिने तेनापरान्मण्डूकान्भक्षयित्वा गङ्गदत्तसुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस्तारस्वरेण(२) (३)धिग्धिग इतिप्रलाप- परः कथंचिदपि न विरराम । ततः स्वपत्न्याभिहितः- किं क्रन्दसि दुराक्रन्द ! स्वपक्षक्षयकारक ! । स्वपक्षस्य क्षये जाते को नखाता भविष्यति ॥२८॥ तयापि विचिन्त्यतामात्मनो (४)निष्क्रमणम् , अस्य वधोपायं च । अथ गच्छता कालेन सकलमपि (५)कवलितं मण्डूककुलम् । केवलमेको गङ्गदत्तस्तिष्ठति । ततः प्रियदर्शनेन भणितम्-भो ! गङ्गदत्त! बुभुक्षितोऽ- हम् । निःशेषिताः सर्वे मण्डूकाः । तद्दीयतां मे किञ्चिद्भोजनं यतोऽहं त्वया- त्रानीतः। स आह-भो! मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कायो। तद्यदि मां प्रेषयसि ततोऽन्यकूपस्थानपि मण्डूकान्विश्वा- स्यात्रानयामि । स आह-मम तावत्त्वमभक्ष्यो भ्रातृस्थाने(६)। तद्ययेवं करोषि तत्सांप्रतम्(७) पितृस्थाने भवसि । तदेवं क्रियताम् इति | सोऽपि तदाकारघट्टघटिकामाश्रित्य (८)विविधदेवतोपकल्पितपूजोपयाचितस्त- स्मात्कूपाद्विनिष्क्रान्तः । प्रियदर्शनोऽपि तदाकाङ्क्षया तत्रस्थः प्रतीक्षमाण- स्तिष्ठति । अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनी गोधामुवाच-भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश्चिरपरिचितस्ते गङ्ग- (१) भक्षयितुतिस्मै ददातीत्यर्थः । (३) उच्चैरिस्यर्थः। (३) विलपन्निति भावः । (४) निर्गमनोपायम् । (५)भक्षितम् । (६) भ्रातृवन्मान्य इत्यर्थः। (७) पितृतुल्योऽसीत्यर्थः । (4) विविधाभ्योऽनेकाभ्यो बहुभ्य इति यावत् देवताभ्य उपकल्पिता सङ्कल्पि- ता या पूजा तया स्वकल्याणार्थम् उपयाचितं सत्परित्राणं प्रार्थितं येनस प्रार्थितविविधदेव इति भावः।

पञ्चतन्त्रके- १७४ D - - · दत्तः । तद्गत्वा तत्सकाशं कुत्रचिजलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यतामेकाकिनापि भक्ता द्रुततरं यद्यन्ये मण्डका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यद्यहं तव (१)विरुद्धमा- चरामि तत्सुकृतमन्तरे मया विकृतम् । गोधापि तद्वचनाद् गङ्गदत्तं द्रुतत- रमन्विष्याह-भद्र ! गङ्गादत्त ! स तव मुहृत्प्रियदर्शनस्तव मार्ग समीक्ष माणस्तिष्ठति । तच्छीव्रमागम्यतामिति | अपरञ्च तेन तव (२)विरुद्धकरणे सुकृतमन्तरे धृतम् । तन्निःशङ्केन मनसा समागम्यताम् । तदाकर्ण्य गङ्ग- दत्त आह- बुभुक्षितः कि न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥ २६ ॥ एवमुक्त्वा स तां विसर्जयामास । तद्भो! दुष्टजलचर ! अहमपि गङ्गदत्त इव त्वद्गृहे न कथञ्चिदपि यास्यामि । तच्छ्रुत्वा मकर आह- भो ! मित्र ! नैतद्युज्यते। सर्वथैव मे कृतघ्नतादोषमपनय मद्गृहागमनेन । अथवात्राहमनशनात्प्राणत्यागं तवोपरि करिष्यामि | वानर आह- मूढ ! किमहं मूर्खः । कथं (३)दृष्टापायोऽपि स्वयमेव तत्र गत्वात्मानं व्यापादयामि । तन्मूर्ख ! कपटं कृतं त्वया ! परं युधिष्ठिरेणेव सत्यवचनेन विनाशि- तम् । अथवा साध्विदमुच्यते- स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्दधीः । स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः ।। ३०॥ मकर आह-कथमेतत् । स आह- कथा (२) कस्मिंश्चिदधिष्टाने कुम्भकारः प्रतिवसति स्म । स कदाचित् (४)प्रमा- दादर्धभग्नघटखर्परतीक्ष्णाग्रस्योपरि महता वेगेन धावन्पतितः । ततः (1)अनिष्टं करोमीत्यर्थः। (२) अनिष्टकरणे। (३) सम्भाविता- त्मविनाशोऽपीति भावः। (४) प्रमादात् अनवधानात् , , अर्धभग्नो यो घटस्तस्य यत् खपरं खण्डं तत्ती- चणाग्रस्य निशिताग्रभागस्य । - लब्धप्रणाशम्। (१)खर्परकोच्या पाटितललाट: (२)रुधिरप्लाविततनुः कृच्छादुत्थाय स्वा- श्रयं गतः । ततश्चापथ्यसेवनात्ल प्रहारस्तस्य (३)करालतां गतः कृच्छेण च नीरोगतां नीतः । अथ कदाचिद् दुर्भिक्षपीडिते देशे स कुम्भकारः क्षुत्क्षा- मकण्ठः कैश्चिद्राजसेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहारक्षतं हटा चिन्तयामास- यद्वीरः पुरुषः कश्चिदयं नूनम् | तेन ललाटपट्टे सम्मुखप्रहारः। अतस्तं सम्मानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्रसादेन पश्यति स्म । तेऽपि राजपुत्राः तस्य तं (४)प्रसादातिरेकं पश्यन्तः परमीाधर्म वहन्तो राजभयान्न किञ्चिदूचुः । अथान्यस्मिन्नहनि तस्य भूपतेर्वीरसम्भावना- याम(५) क्रियमाणायाम् , (६)विग्रहे समुपस्थिते, (७प्रकल्प्यमानेषु गजेषु, (८)संनयमानेषु वाजिपु, योधेषु (६)प्रगुणीक्रियमाणेषु, तेन भूभूजा स कुम्भकारः (१०)प्रस्तावानुगतं पृष्टो निर्जने-भो! राजपुत्र! किं ते नाम का च जातिः ? कस्मिन्संग्रामे प्रहारोऽयं ते ललाटे लग्नः । स आह- देव ! नायं शस्त्रप्रहारः ! युधिष्ठिराभिधः कुलालोऽहं, प्रकृत्या (११)मद्- गेहेऽनेकखर्पराण्यासन् | अथ कदाचिन्मद्यपानं कृत्वा निर्गतः(१२)प्रधा- वन् खर्परोपरि पतितः । तस्य प्रहारविकारोऽयं मे ललाट एवं विकरालतां गतः । तदाकर्ण्य राजा सत्रीडमाह-अहो ! वञ्चितोऽहं राजपुत्रानुकारि- णानेन कुलालेन । तद्दीयतां द्रागेतस्य(१३)चन्द्रार्धः । तथानुष्ठिते कुम्भकार आह-मा मैवं कुरु ! पश्य मे रणे हस्तलाघवम् । राजा प्राह-भोः ! सर्व- गुणसम्पन्नो भवान् । तथापि गम्यताम् । उक्तंच- शुरश्च कृतविद्यश्च दर्शनीयोऽसि पुत्रक ! | यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ।। ३१ ।। कुलाल आह-कथमेतत् । राजा कथयति--- (१) खपरस्य अग्रभागेन । (२) रक्तलिप्तगात्रः। (३) भयङ्करताम् । (४) कृपातिशयम् । (५) अयं वीरो नवेति परीक्षायाम् । (६)युद्धे । (७) सज्यमानेषु। (८) उद्योज्यमानेषु । (९) युद्धयोग्यतां प्राप्यमाणेषु । (१०)अवसरानुरूपम् । (११) स्वभावत इत्यर्थः । (१२) धूर्णमाणः। (१३) गलहस्तः। १२ - " १७६ पञ्चतन्त्रके- ! A कथा (३) कस्मिंश्चिदुद्देशे(१) सिंहदम्पती प्रतिवसतः स्म । अथ सिंही पुत्रद्वय- मजीजनत (२) । सिंहोऽपि नित्यमेव मृगान्व्यापाद्य सिझै ददाति । अथा- न्यस्मिन्नहनि तेन किमपि नासादितम् ! ये भ्रमतोऽपि तस्य रविरस्तं गतः। अथ तेन स्वगृहमागच्छता गालशिशुः प्राप्तः । स च बालकोs- यमित्यवधार्य यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंहँ जीवन्तमेव समर्पितवान् । ततः सिंह्याऽभिहितम्-भोः कान्त ! त्वयानीतं किंचिदस्माकं भोजनम् १ । सिंह आह-प्रिये ! मयायेनं शृगालशिशुं परित्यज्य न किंचित्लत्त्वमा- सादितम् । स च मया बालोऽयमिति मत्वा न व्यापादितो विशेषात्स्वजा. तीयश्च(३)। उक्तं च- स्त्रीविप्रलिङ्गिबालेषु प्रहर्तव्यं न कर्हिचित् । प्राणत्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥ ३२ ॥ इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत्किञ्चिदुपार्जयि- ज्यामि । सा प्राह-भोः। कान्त ! त्वया बालकोऽयं विचिन्त्य न हतः । तत्कथमेनमहं (४)स्वोदरार्थे विनाशयामि । उक्तं च- अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ।। ३३ ।। तस्मान्ममायं तृतीयः पुत्रो भविष्यति । इत्येवमुक्त्वा तमपि (५)स्वस्त- नक्षीरेण परां पुष्टिमनयत् । एवं ते त्रयोऽपि शिशवः परस्परमज्ञातजाति- विशेषा(६)एकाचारविहारा बाल्यसमयं(७)निर्वाहयन्ति । अथ कदाचित्तत्र वने भ्रमन्नरण्यगजः समायातः । तं दृष्ट्वा तौ सिंहसुतौ द्वापि कुपिताननौ तं प्रति प्रचलितो यावत् , तावत्तेन शृगालसुतेन अभिहितम्-अहो ! गजोऽयं युष्मत्कुलशत्रुः । तन्न गन्तव्यमेतस्याभिमुखम् एवमुक्त्वा गृह प्रधावितः । तावपि (5)ज्येष्ठबान्धवभङ्गानिरुत्साहतां गतौ। अथवा साध्विदमुच्यते- (१)स्थाने। (२) उत्पादयामास। (३) पशुजातीयश्चेत्यर्थः। (४) निजोदरभरणार्थम् इति यावत् । (५) स्वदुग्धप्रदानेनेत्यर्थः। (६)कः किआतीय इत्यजानन्तः। (७) यापयन्ति। (८) ज्वेष्ठस्य बान्धवस्य मातुरिति यावत् , भङ्गात् पलायनात् ।

लब्धप्रणाशम् । एकेनापि सुधीरेण सोत्साहेन रणं प्रति । सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥ ३४ ॥ तथा च-अत एव हि वाञ्छन्ति भूपा योधान्महाबलान् । शूरान्दीरान्कृतोत्साहान्वर्जयन्ति च कातरान् ॥ ३५ ॥ अथ तौ द्वादपि गृहं प्राप्य पित्रोरपतो विहसन्तौ ज्येष्ठभ्रातृचेष्टितमू- चतुः । यथा 'गजं दृष्ट्वा दूरतोऽपि नष्टः' । सोऽपि तदाकर्ण्य कोपाविष्ट- मनाः (१)प्रस्कुरिताधरपल्लवस्ता लोचनः(२)त्रिशिखां भृकुटिं कृत्वा तौ निर्भयन्परुषतरवचनान्युवाच | ततः सिंौकान्ते नीत्वा प्रबोधितोऽसौ- वत्स ! मैवं कदाचिज्जल्प | भवदीयलयुभ्रातरावेतौ । अथासौ प्रभूतको. पाविष्टस्तामुवाच-किमहमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनो येन मामुपहसतः । तन्मयावश्यमेतौ व्यापादनीयौ। तदाकार्य सिंही तस्य जीवितमिच्छन्त्यन्तर्विहस्य (३)प्राह शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक ! | यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥ ३६॥ तत्सम्यक शृणु वत्स! त्वं शृगाली सुतः कृपया मया स्वस्तनक्षीरेण पुष्टिं नीतः । तद्यावदेतौ मत्पुत्रौ शिशुत्वात्त्वां शृगालं न जानीतः, तावद् द्रुततरं गत्वा (४)स्वजातीयानां मध्ये मिलितो भव । नोचेदाभ्यां हतो मृत्युपथं समेष्यसि | सोऽपि तद्वचनं श्रुत्वा (५)भयव्याकुलमनाः शनैः शनैरपसृत्य स्वजात्या मिलितः । तस्मात्त्वमपि यावदेते राजपुत्रास्त्वां कुलालं न जानन्ति, तावद् द्रुततरमपसर | नोचेदेतेषां सकाशाद्विडम्बनां प्राप्य मरिष्यसि | कुलालोऽपि तदाकर्ण्य सत्वरं(६)प्रनष्टः। अतोऽहं ब्रवीमि-'स्वार्थमुत्सृज्य यो दम्भी' इति । धिङ मूर्ख ! यत्त्वया स्त्रियोऽर्थ एतत्कार्यमनुष्टातुमारब्धम्। तद्भो ! दुष्टमकर ! त्वं स्त्रीवश्यः । ततो भद्र ! आगतेन त्वया मां प्रति वोपायप्रयासः प्रारब्धः, परं स्ववाग्दोषेणैव प्रकटीभूतः । अथवा साध्वि- दभुच्यते- (१)कम्पिताधरः। (४) ऋगालानाम् । (२) रक्तनेत्रः। (३)मनसि हासं कृत्वेत्यर्थः । (५) उद्विग्नः । (६)पलायितः।

पञ्चतन्त्रले- आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ।। ३७ ।। तथा च-मुगु रक्ष्यमाणोऽपि दर्शयन्दारुणं वपुः । व्याघ्रचर्मप्रतिच्छन्नो वाक्कृते रासभो हतः ।। ३८ ॥ मकर अाह-कथमेतत् । वानरः कथयति- कथा (४) कस्मिंश्चिदधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म। तस्य च गर्दभ एकोऽस्ति । सोऽपि घासाभावादतिदुर्बलतां गतः । अथ तेन रजके. नाटव्यां परिभ्रमता मृतव्याघ्रो दृष्टः । चिन्तितं च-अहो ! शोभनमाप. तितम् । अनेन व्याघ्रचर्मणा(१)प्रतिच्छाद्य रासभं रात्रौ यवक्षेत्रेषूत्र- क्ष्यामि(२)। येन व्याघ्र मत्वा समीपवर्तिनः क्षेत्रपाला एनं न निष्कास- यिष्यन्ति । तथानुष्ठिते रासभो यथेच्छया यवभक्षणं करोति । प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः (३)पीव- रतनुर्जातः । कृच्छाद् बन्धनस्थानमपि नीयते । अथान्यस्मिन्नहनि स मदोद्धतो दूराद्रासभीशब्दमशृणोत् । तच्छवणमात्रेणैव स्वयं शब्दायितु. मारब्धः । अथ ते क्षेत्रपाला रासभोऽयं(४) व्याघ्रचर्मप्रतिच्छन्न इति ज्ञात्वा लगुडशरपाषाणप्रहारैः तं व्यापादितवन्तः । अतोऽहं ब्रवीमि- 'सुगुप्त-रक्ष्यमाणोऽपि' इति । अथैवं तेन सह वदतो मकरस्य, जलचरे- जैकेनागत्याभिहितम्-भो! मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि(५) चिरयति प्रणयाभिभवाद्विपन्ना(६)। एवं तद्वज्रपातसदृशवचनमाका- तीव(७) व्याकुलितहृदयः(८)प्रलपितमेवं चकार-अहो ! किमिदं संजातं मे मन्दभाग्यस्य । उक्तंच- माता यस्य गृहे नास्ति भार्या च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथागृहम् ।। ३६ ॥ (१) आच्छाद्य। (२) यवान् भक्षयितुं मोक्ष्यामि।.. (३) परिपुष्टशरीरः। (४) व्याघ्रचर्मावृत इत्यर्थः । (५)विलम्बमाने सति । (६) मृत्यु प्राप्ता। (७) खिन्नचित्तः। (८) विलापम् । - মহাসু। तन्मित्र ! क्षम्यताम् । सया तेऽपराधः कृतः । संप्रत्यहं तु स्त्रीवियो- गाद्वैश्वानरप्रवेशं करिष्यामि । तच्छुत्वा वानरः प्रहसन्प्रोवाच---भोः ! ज्ञातं मया प्रथम नेव यत्त्वं बीवश्यः स्त्रीजितश्च । सांप्रतं च प्रत्ययः संजातः । तन्मूढ ! आनन्देऽपि जाते त्वं विषादं गतः । ताहग्भार्यायां मृतायामुत्सवः कतु युज्यते । उक्तं च यतः- या भार्या दुष्टचारित्रा सततं कलहप्रिया । भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥ ४० ॥ यदन्तस्तन्न जिह्वायां यजिह्वायां न तद्बहिः । यद्बहिस्तन्न कुर्वन्ति विचित्रचरिताः खियः ॥ ४१ ॥ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः। गुञ्जाफलसमाकाराः स्वभावादेव योषितः ॥ ४२ ॥ ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः । न वशं योषितो यान्ति न दानैर्न च संस्तवैः ॥ ४३ ॥ आस्तां तावकिमन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापि घ्नन्ति पुत्रं स्वकं रुषा ॥४४॥ रूक्षायां स्नेहसद्भावं कठोरायां सुमार्दवम् । नीरसायां रसं बालो बालिकायां विकल्पयेत् ।। ४५ ।। मकर आह-भो ! मित्र ! अस्त्वेतत् । परं किं करोमि । ममानर्थ- द्वयमेतत्सञ्जातम् । एकस्तावद् गृहभङ्ग, अपरस्त्वद्विधन मित्रेण सह चित्तविश्लेषः । अथवा भवत्येवं दैवयोगात् । एवं तस्य कथयतः पुनरन्येन जलचरेणागत्य निवेदितम्-यदहो ! त्वदीयं गृहमप्यपरेण महामकरेण (१)गृहीतम् । तच्छुत्वासौ अतिदुःखि- तमनास्तं गृहानिःसारयितुमुपायं चिन्तयन्नुवाच अहो ! पश्यतां मे (२) देवोपहतत्वम् । मित्रं ह्यमित्रतां यातमपरं मे प्रिया मृता। गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ॥ ४६॥ अथवा युक्तमिदमुच्यते-- क्षते प्रहारा निपतन्त्यभीक्ष्णमन्नक्षये वर्धति जाठराग्निः । (१)अधिकृतम् । (२) दुर्भाग्यताम् ।

पञ्चतन्त्रके- आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वमिदं नराणाम् ॥ ४७ ॥ तत्किं करोमि ! किमनेन सह युद्धं करोमि । किं वा साम्नैव सम्बोध्य गृहानिःसारयामि! किं वा भेदं दानं वा करोमि । अथवामुमेव वानर मित्रं पृच्छामि । उक्तं च- यः पृष्ट्वा कुरुते कार्य प्रष्टव्यान्स्वहितान्गुरून् । न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥ ४८ ॥ एवं सम्प्रधार्य भूयोऽपि तमेव जम्बूवृक्षमा रुढं कपिमपृच्छत्-भो! मित्र! पश्य मे मन्दभाग्यताम् । यत्सम्प्रति गृहमपि मे बलवत्तरेण मकरेण रुद्धम् । तदहं त्वां प्रष्टुमभ्यागतः । कथय किं करोमि । सामादी- नामुपायानां मध्ये कस्यात्र विषयः ? । स आह-भोः ! कृतघ्न ! पापचा. रिन् ! मया निषिद्धोऽपि किं भूयो मामनुसरसि ? । नाहं तव मूर्खस्योप- देशमपि दास्यामि । तच्छुत्वा मकरः प्राह-भो ! मित्र ! सापराधस्य मे पूर्वस्नेहमनुस्मृत्य हितोपदेशं देहि । वानर आह–नाहं ते कायष्यामि । यद्भार्यावाक्येन भवताहं समुद्रे प्रक्षेप्तुं नीतः। तदेवं न युक्तम् । यद्यपि भार्या सर्वलोकादपि वल्लभा भवति तथापि न मित्राणि बान्धवाश्च भार्यावाक्येन समुद्रे प्रक्षिप्यन्ते । तन्मूर्ख ! मूढत्वेन नाशस्तव प्रागेव निवेदित श्रासीत् । यतः- सतां वचनमादिष्टं मदेन न करोति यः । स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ।। ४९ ॥ मकर आह-कथमेतत् । सोऽब्रवीत्- कथा (५) कस्मिंश्चिदष्ठिधाने(१) उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्रयोपहतश्चिन्तितवान्-अहो ! धिगियं दरिद्रतास्मद्- गृहे । यतः सर्वोऽपि जनः स्वकर्मणैव रतस्तिष्ठति । अस्मदीयः पुन- व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्वलोकानां (२)चिरन्तनाश्चतु- भूमिका(३) गृहाः सन्ति । मम एकमपि तन्नास्ति । तत्किं मदीयेन (७)स्थाने। (२)प्राचीनाः कुलपरम्परागता इत्यर्थः । (३) चतुःप्रकोष्ठकाः। - लब्धप्रणाशम्। रथकारत्वेन प्रयोजनम् । इति चिन्तयित्वा देशान्निष्क्रान्तः । यावत् किंचिद्वनं गच्छति तावद्गह्वराकारवनगहनमध्ये(१) सूर्यास्तमनवेलायां स्वयूथाद् भ्रष्टां प्रसववेदनया पीड्यमानामुष्ट्रीमपश्यत् । स च (२)दासे- रकयुक्तामुष्ट्रीं गृहीत्वा स्वस्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जूं गृहीत्वा तामुष्ट्रीकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः कृते पल्लवानयनार्थं पर्वतैकदेशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि छित्त्वा शिरसि समारोप्य तस्या अग्रे निचिक्षेप। तया च तानि शनैः शनैक्षितानि ! पश्चात्पल्लवभक्षणप्रभावादहर्निशं (३)पीवरतनुरुष्ट्री सञ्जाता | सोऽपि दासेरको महानुष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्वकुटुम्ब परिपालयति | अथ रथकारेण वल्लभत्वादासेरक- ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद्रथकारो व्यचिन्तयत्-अहो । किमन्यैर्दुष्कृतकर्मभिः(४) यावन्ममैतस्मादेवोष्ट्रीपरिपालनादस्य कुटुम्बस्य (५)भव्यं सञ्जातम् । तत्किमन्येन व्यापारेण | एवं विचिन्त्य गृहमागत्य प्रियामाह-भद्रे ! समीचीनोऽयं व्यापारः। तव सम्मतिश्चेत्कुतोऽपि धनिकात्किञ्चिद् द्रव्यमादाय मया गुर्जरदेशे गन्तव्यं करभग्रहणाय । तावत्त्वयैतौ यत्नेन रक्षणीयौ । यावदहमपरामुष्ट्री नीत्वा समागच्छामि | ततश्च गुर्जरदेशं गत्वोष्ट्रीं गृहीत्वा स्वगृहमागतः । किं बहुना । तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्रयः करभाश्च सम्मिलिताः। ततस्तेन महदुष्ट्र- यूथं कृत्वा रक्षापुरुषो धृतः । तस्य वर्ष प्रति वृत्त्या करभमेकं प्रयच्छति । अन्यच्चाहनिशं दुग्धपानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेवो- ष्ट्रीकरभव्यापारं कुर्वन्सुखेन तिष्ठति । अथ ते दासेरकाः (६)अधिष्ठानो- पवन आहारार्थं गच्छन्ति | कोमलवल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तनसमये मन्दं मन्दं लीलया गृहमागच्छन्ति । स च पूर्वदासेरको मदातिरेकात्पृष्ट आगत्य मिलति । ततस्तैः कल- भैरभिहितम्-अहो ! मन्दमतिरयं दासेरको यथा यूथाद् भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्नागच्छति । यदि कस्यापि दुष्टसत्त्वस्य मुखे (१) सघनवनमध्ये। (२) उष्ट्रशिशुसहिताम्। (३) परिपुष्टगात्री । (४.) कष्टसाध्यैः कर्मभिः । (५) कल्याणम् । (६)नगरसमीपवर्तिनि कानने ।

पतिष्यति तन्नूनं मृत्युमवाप्स्यति । अथैकदा तैः (१)असकृदेव निषिद्धः सन्नपि स तचने कर्णमदत्वैव मदातिरेकाद् घण्टां वादयन् वनं प्रविष्टः । इत्थं तस्य तद्वनं (२)गाहमानस्य तत्रस्थः कश्चित्सिहो घण्टारवमाकर्ण्य शब्दानुसारेण दृष्टिं निपात्य अवलोकयति यदुष्ट्रीदासेरकाणां यूथं गच्छति । स तु पुनः प्रतिदिवस मिव पृष्ठे क्रीडां कुर्वन्वल्लरीश्वरन्यावत्ति- ष्ठति, तावदन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः। ततः सोऽपि बनानिष्क्रम्य(३) यावदिशोऽवलोकयति तावन्न कञ्चिन्मार्ग पश्यति वेत्ति वा । यूथाद् भ्रष्टो मन्दं मन्दं बृहच्छब्दं कुर्वन्यावत्कियदूरं गच्छति, तावत्तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा(४) निभृतोऽग्रे व्यवस्थितः । ततो यावदुष्ट्रः समीपमागतः तावसिंहेन (५)लम्फयित्वा, ग्रीवायां गृहीतो मारितश्च । अतोऽहं ब्रवीमि-'सतां वचनमादिष्टम्' इति । अथ तच्छुत्वा मकरः प्राह-भद्र! प्राहुः साप्तपदं मैत्रं जनाः शास्त्रविचक्षणाः । मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु।। ५० ।। उपदेशप्रदातॄणां नराणां हितमिच्छताम् । परस्मिन्निहलोके च व्यसनं नोपपद्यते ।। ५१ ॥ तत्सर्वथा कृतघ्नस्यापि मे कुरु प्रसादमुपदेशप्रदानेन । उक्तं च- उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ५२ ।। तदाकर्य वानरः प्राह-भद्र ! यद्येवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च- हतस्त्वं प्राप्स्यसि स्वर्ग जीवन्गृहमथो यशः । युद्धयमानस्य ते भावि गुणद्वयमनुत्तमम् ॥ ५३॥ उत्तम प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥ ५४॥ मकरः प्राह-कथमेतत् । सोऽब्रवीत्- (१) पुनः पुनः। (२) प्रविशतो भ्रमत इति यावत् । (३) इतस्ततः पश्यति। (४)तिरोहितः सन्नित्यर्थः। (५) उत्प्लुत्येति यावत् ।

कथा (६) आसीत्कस्मिश्चिद्वनोदेशे महाचतुरको नाम शृगालः । तेन कदाचिद- रण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात्परिभ्रमति परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसरे इतश्चेतश्च विचरन् कश्चित्सिंहस्तत्रैव प्रदेशे समाययौ । अथ सिंह समागतं दृष्ट्वा स (१)क्षिति- तलविन्यस्तमौलिमण्डलः (२)संयोजितकरयुगलः सविनयम् उवाच स्वामिन् ! त्वदीयोऽहं (३)लागुडिकः स्थितस्त्वदर्थं गजमिमं रक्षामि । तदेनं भक्षयतु स्वामी । तं प्रणतं दृष्ट्वा सिहः प्राह-भोः ! नाहमन्येन हतं सत्त्वं कदाचिदपि भक्षयामि । उक्तं च- वनेऽपि सिंहा मृगमांसभक्ष्या बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीतिमार्ग परिलङ्घयन्ति ।। ५५ ।। तत्तवैव गजोऽयं मया (४)प्रसादीकृतः। तच्छुत्वा शृगालः सानन्दमाह- युक्तमिदं स्वामिनो निजभृत्येषु । उक्तञ्च यतः- अन्त्यावस्थोऽपि महान्स्वामिगुणान्नो जहाति शुद्धतया । न श्वेतभावमुज्झति शङ्खः शिखिभुक्तिमुक्तोऽपि ॥ ५६ ॥ अथ सिंहे गते कश्चिद्व्याघ्रः समाययौ । तमपि दृष्ट्वासौ व्यचिन्तयत्- अहो ! एकस्तावद् दुरात्मा प्रणिपातेनापवाहितः (५)। तत्कथमिदानीम् एनमपवाहयिष्यामि (६) । नूनं शूरोऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः-- न यत्र शक्यते कर्तुं साम्ना दानमथापि वा । भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः ।। ५७ ॥ किंच, सर्वगुणसंपन्नोऽपि भेदेन बध्यते । उक्तं च यतः- अन्तःस्थेन विरुद्धेन संवृत्तेनातिचारुणा। अन्तर्भिन्नेन संप्राप्तं मौक्तिकेनापि बन्धनम् ॥ ५८ ॥ एवं (७)संप्रधार्य तस्याभिमुखो भूत्वा गर्वादुन्नतकन्धरः ससंभ्रममु- (१ क्षितितले भूमौ विन्यस्तं स्थापितं मौलिमण्डलं मस्तकमडलं येन सः प्रणमन्नित्यर्थः । (२) बद्धाञ्जलिरित्यर्थः । (३) यष्टिधारी सेवक इत्यर्थः । (४) सानुग्रहं प्रदत्तः । (५) दूरीकृतः । (६) दूरीकरिष्यामि। (७) विचार्य ।

पञ्चतन्त्रके- क वाच-माम ! कथमत्र भवान्मृत्युमुखे प्रविष्टः । येनैष गजः सिहेन व्यापादितः । स च मामेतद्रक्षणे नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्-यदि कश्चिदिह व्याघ्रः समायाति, त्वया सुगुप्तं ममावेदनीयम् । येन वनमिदं मया निर्व्याघ्र कर्तव्यम् । यतः पूर्व व्याणैकेन मया व्यापादितो गजः शून्ये मक्षयित्वोच्छिष्टता नीतः । तदिनादारभ्य व्याघान्प्रति प्रकुपितोऽस्मि । तच्छुत्वा व्याघ्रः संत्रस्तस्तमाह- भो ! भागिनेय ! (१)देहि मे प्राणदक्षिणाम् | त्वया तस्यात्र चिरायाया- तस्यापि मदीया कापि वार्ता नाख्येया । एवमभिधाय सत्वरं पलायांचके। अथ गते व्यावं तत्र कश्चिद् (२)द्वीपी समायातः । तमपि दृष्ट्वासौ व्यचिन्तयत्-दृढदंष्ट्रोऽयं (३)चित्रकः । तदस्य पार्थादस्य गजस्य यथा चर्मच्छेदो भवति तथा करोमि | एवं निश्चित्य तमप्युवाच-भो ! भगिनीसुत ! किमिति चिराद् दृष्टोऽसि । कथं च बुभुक्षित इव लक्ष्यसे । तदतिथिरसि मे। एष गजः सिंहेन हतस्तिष्ठति । अहं चास्य तदादिष्टो रक्षपालः । परं तथापि यावसिंहो न समायाति, तावदस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं ब्रज । स आह-माम ! यद्येवं तन्न कार्य . मे मांसाशनेन, यतः 'जीवन्नरो भद्रशतानि पश्यति ।' उक्तं च- यच्छक्यं ग्रसितुं शस्तं ग्रस्त परिणमेच्च यत् । हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ।। ५९ ।। तत्सर्वथा तदेव भुज्यते यदेव (४)परिणमति । तदहमितोऽपया- स्यामि(५) । शृगाल आह-भो ! अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतोऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते द्वीपिना(६) भिन्नां (७)त्वचं विज्ञाय जम्बूकेनाभिहितम्-भो ! भगिनीसुत ! गम्यताम् । एष सिंहः समायाति । तच्छुत्वा चित्रको दूरं प्रनष्टः । अथ यावदसौ (e)तभेदकृतद्वारेण किञ्चिन्मांसं भक्षयति तावदतिसंक्रुद्धोऽपरः शृगालः समाययौ । अथ तमात्मतुल्यपराक्रमं दृष्ट्वैनं श्लोकमपठत्- (१) मां रक्षेति भावः। (२) व्याघ्रविशेषः । (३) शार्दूलः (चीता। (४) परिपाकं गच्छति (५) पलायिष्ये । (६) विदारिताम् । (७)चर्म । (८)तस्याः त्वचो यो भेदो विदारणं तेन कृत यद् द्वारं छिद्रं तेनेत्यर्थः । -- लब्धप्रणाशम् । १८५ उत्तम प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ।। ६० ॥ ततश्च (१)तदभिमुखकृतप्रयाणः स्वदंष्ट्राभिस्तं विदार्य (२)दिशोभागं कृत्वा स्वयं सुखेन चिरकालं हस्तिमांसं बुभुजे । एवं त्वमपि तं रिपुं स्वजातीयं युद्धेन (३)परिभूय दिशोभागं कुरु । नो चेत्पश्चाद(४) बद्धमूलादस्मात्त्वमपि विनाशमवाप्स्यसि । उक्तञ्च यतः-सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम् ।। ६१ ॥ सुभिक्षाणि विचित्राणि शिथिलाः पौरयोषितः । एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते ।। ६२ ।। मकर आह-कथमेतत् । वानरोऽब्रवीत्- कथा (७) अस्ति कस्मिंश्चिदधिष्ठाने चित्राओ नाम (५)सारमेयः । तत्र च चिरकालं दुर्भिक्षं पतितम् । अन्नाभावात्सारमेयादयो (६)निष्कुलतां गन्तुमारब्धाः । अथ चित्राङ्गः (७)क्षुत्तामकण्ठस्तद्भयादेशान्तरं गतः । तत्र च कस्मिंश्चित्पुरे कस्यचिद् ()गृहमेधिनो गृहिण्याः प्रमादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन्परां तृतिं गच्छति । परं तद्गृहाबहि- निष्क्रान्तोऽन्यैर्मदोद्धतसारमेयः (१)सर्वदिक्षु परिवृत्य सर्वाङ्ग दंष्ट्राभि- विदार्यते । ततस्तेन विचिन्तितम्-अहो ! वरं स्वदेशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च कोऽपि युद्धं करोति । तदेवं स्वनगरं ब्रजामि' इत्यवधार्य स्वस्थानं प्रति जगाम | अथासौ देशान्तरात्समायातः सर्वैरपि स्वजनैः पृष्टः-भोश्चित्राङ्ग! कथयास्माकं देशान्तरवार्ताम् । कोहरदेशः ! (१)तस्य शृगालस्य अभिमुखे कृतं प्रयाणं युद्धाय गमनं येन सः। )दिग्देवताभ्यो बलिं प्रदायेत्यर्थः । (३) पराजित्येति भावः । (४) बहुकालाधिकारेण दृढमूलादिति भावः । (५) श्वा । (६) परस्मरमनपेक्ष्य यथेच्छमितस्ततो गन्तुं प्रवृत्ता इत्यर्थः । )बुभुक्षित इति भावः । (८) गृहस्थस्येत्यर्थः । ९)सर्वतो वेष्टयित्वा (घेर कर) पञ्चतन्त्रके- M किं चेष्टितं लोकस्य । क श्राहारः । कञ्च व्यवहारस्तत्र' इति । स आह- कथ्यते विदेशस्य (१)स्वरूपविषयः । सुभिक्षाणि विचित्राणि शिथिलाः पौरयोषितः । एको दोषो विदेशस्य स्वजातियविरुध्यते ॥ ६३ ।। सोऽपि मकरस्तदुपदेशं श्रुत्वा कृतमरणनिश्चयो वानरमनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्वगृहप्रविष्टेनाततायिना(२) सह विग्रहं कृत्वा (३)दृढसत्त्वावष्टम्भनाञ्च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिरकाल- मतिष्ठत् । अतः साध्विदमुच्यते- अकृत्वा पौरुषं या श्रीः किं तयापि सुभोग्यया । जरद्वः समश्नाति दैवादुपगतं तृणम् ।। ६४ ॥ इति विष्णुशर्मविरचिते पञ्चतन्त्रके लब्धप्रणाशं नाम चतुर्थं तन्त्रं समाप्तम् । - अपरीक्षितकारकम् । अथेदमारभ्यतेऽपरीक्षितकारकं नाम पञ्चमं तन्त्रम् , यस्यायमादिमः श्लोकः कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥ १॥ तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च (५)धर्मार्थकाममोक्ष- कर्माणि कुर्वतो (६)विधिवशात्(७) धनक्षयः सञ्जातः । ततो विभवक्षया- (१) वर्णनमित्यर्थः । (२) अरिणा। (३) दृढस्य सत्त्वस्य बलस्य धैर्यस्य वा अवष्टम्भनाद् अवलम्बनाच्चेत्यर्थः । (४) अविद्यमानाः परीक्षितकारकाः परीक्षापूर्वकं कार्यकर्तारो यत्र तत् । (५) धर्मः = यागादिः, अर्थः-धनम् , कामः= विषयानुभवः, मोक्षः = मुक्तिः, एषां कर्माणि = साधनात्मिकाः क्रियाः। (६) दुर्भाग्यवशात् । (७) धननाशो दरिद्रतेत्यर्थः।

OOD अपरीक्षितकारकम् । १८७ दपमानपरम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तश्चिन्तितवान् अहो ! धिगियं दरिद्रता । उक्त च- शीलं शौचं शान्तिर्दाक्षिण्यं मधुरता कुल्ले जन्म | न विराजन्ति हि सर्वे वित्तविहीनस्य पुरुषस्य ।। २ ॥ मानो वा दो विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्व प्रणश्यति समं वित्तविहीनो यदा पुरुषः ॥३॥ प्रतिदिवसं याति लयं वसन्तवाताहतेव शिशिरश्रीः । बुद्धिबुद्धिमतामपि कुटुम्बभरचिन्तया सततम् ।। ४ ।। नश्यति विपुलमतेरपि वुद्धिः पुरुषस्य मन्दविभवस्य । घृतलवणतैलतण्डुलवस्त्रेन्धनचिन्तया सततम् ॥५॥ गगनमिव नष्टतारं शुष्कमिव सरः श्मशानमिव रौद्रम् । प्रियदर्शनमपि रूक्षं भवति गृहं धनविहीनस्य ।। ६॥ न विभाव्यन्ते लघवो वित्तविहीनाः पुरोऽपि निवसन्तः । सततं जातविनष्टाः पयसामिव बुद्दाः पयसि ॥ ७॥ सुकुलं कुशलं सुजनं विहाय कुलकुशलशीलविकलेऽपि । आव्ये कल्पतराविव नित्यं रज्यन्ति जननिवहाः ॥ ८ ॥ विफलमिह पूर्वसुकृतं विद्यावन्तोऽपि कुलसमुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां यान्ति ।।४॥ लघुरयमाह न लोकः कामं गर्जन्तमपि पति पयसाम् | सर्वमलज्जाकरमिह यत्कुवन्तीह परिपूर्णाः ॥ १० ॥ एवं (१)सम्प्रधार्य भूयोऽप्यचिन्तयत्-तदहमनशनं कृत्वा प्राणानुत्सृ- जामि । किमनेन नो (२)व्यर्थजीवितव्यसनेन । एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने (३)पद्मनिधिः क्षपणकरूपी(४) दर्शनं दत्त्वा प्रोवाच- भोः ! श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस्तव (५)पूर्वपुरुषो- पार्जितः। तदनेनैव रूपेण प्रातस्त्वद्गृहमागमिष्यामि । ततः त्वयाहं लगु- (१)निश्चयं कृत्वा। (२) व्यर्थन = प्रयोजनरहितेन जीवितव्यसनेन =जीवनममतयेति भावः । (३) तन्नामकनिधिः। (४) बौद्धसन्यासिवेषधारीत्यर्थः । (५) पूर्वजैः सञ्चितः।

१६८ पञ्चतन्त्रके- 10 डप्रहारेण शिरसि ताडनीयः, येन कनकमयो भूत्वाऽक्षयो भवामि अथ प्रातः प्रबुद्धः सन्स्वप्नंस्मरन (चिन्ताचक्रमालढस्तिष्ठति-अहो! सत्योऽयं स्वप्नः किंवा असत्यो भविष्यति, न ज्ञायते अथवा नूनं मिथ्या माव्यम् , यतोऽहं केवलं वित्तमेव (२)चिन्तयामि । एतस्मिन्नन्तरे तस्य भार्यया कश्चिन्नापितः पादप्रक्षालनायाहूतः। अत्रान्तरे च यथानिर्दिष्टः क्षपणकः सहसा (:)प्रादुर्बभूव । अथ स तमा- लोक्य प्रहृष्टमना आसन्नकाष्ठदण्डेन तं शिरस्यताडयत् । सोऽपि सुवर्ण- मयो भूत्वा तत्क्षणाद् भूमौ निपतितः । अथ स श्रेष्ठी निभृतं स्वगृहमध्ये कृत्वा नापितं संतोष्य प्रोवाच-तदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण भद्र ! पुनः कस्यचिन्नाख्येयो(४) वृत्तान्तः । नापितोऽपि-स्वगृहं गत्वा व्यचिन्तयत्-'नूनमेते सर्वेऽपि नग्नकाः शिरसि दण्डहताः काञ्चनमया भवन्ति । तदहमपि प्रातः प्रभूतानाहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशा अतिचक्राम । अथ प्रभातेऽभ्युत्थाय बृहल्लगुडमेक (५)प्रगुणीकृत्य (६)क्षपणकविहारं गत्वा (७)जिनेन्द्रस्य प्रदक्षिणत्रयं विधाय जानुभ्यामवनिंगत्वा (5)वक्त्रद्वारन्य- स्तोत्तरीयाञ्चलः (६)तारस्वरेणेमं श्लोकमपठत्- जयन्ति ते जिना येषां केवलज्ञानशालिनाम् । आजन्मनः स्मरोत्पत्तौ मानसेनोपरायितम् ॥ ११ ॥ अन्यच्च-सा जिह्वा या जिनं स्तौति तञ्चित्तं यजिने रतम् | तावेव च करौ श्लाघ्यौ यो तत्पूजाकरौ करौ।। १२॥ एवं संस्तुत्य ततःप्रधानक्षपणकमासाद्य (१०)क्षितिनिहितजानुचरणः, 'नमोस्तु वन्दे' इत्युञ्चार्य (११)लब्धधर्मवृद्धयाशीर्वादः (१२)सुखमालिकानु- १) चिन्तामग्नः। (२)ध्यायामि। (३) समक्ष प्रकटोऽभूदित्यर्थः । (४)नैव कथनीयः। (५) तैलादिमर्दनपूर्वकं सज्जीकृत्येत्यर्थः । (६) बौद्धसन्यासिनां मठम् । (७) बौद्धाचार्यस्य । (८) वस्त्रेण पिहिताननः । (९) उच्चैः। (१०)क्षितौ भूमौ निहितजानुचरणः इत्तजानुपादः । (११) लब्धः क्षपणकात्प्राप्तः धर्मघृद्धये पुण्यवर्धनाय आशीर्वादः 'पुण्यं ते वर्ध- ताम्' इत्याशीर्वचनं येन सः। (१२) सुखा आनन्दकरी या मालिका वक्त तदर्पणमिति भावः तया योऽनुग्रहः कृपादृष्टिः तेन लब्धावताय नियमाय आदेशः दीक्षा येन सः।

अपरीक्षितकारकम् ग्रहलब्धव्रतादेशः (१)उत्तरीयनिबद्धप्रन्थिः (२)सप्रश्रयमिदमाह-भगवन् ! अद्य(३)विहरण क्रिया समस्तमुनिसमेतेनास्मद्गृहे कतव्या । स आह- भोः ! (४)श्रावक धर्मज्ञोऽपि किमेवं वदसि । किं वयं ब्राह्मण ससानाः यतः (५)आमन्त्रणं करोषि । वयं सदैव (६)तत्कालपरिचर्यया भ्रमन्तो भक्तिभाज श्रावकमवलोक्य तस्य गृहे गच्छामः । तेन (७)कृच्छादभ्य- थितास्तद्गृहे प्राणधारणमात्रामशनक्रियां कुर्मः। तद्गम्यताम् । नैवं भूयोऽपि वाच्यम् । तच्छुत्वा नापित आह-भगवन् ! वेम्यहं युष्मद्ध- मम् । परं भवतो बहुश्रावका आह्वयन्ति साम्प्रतं पुनः पुस्तकाच्छादनयो- ग्यानि कपटानि बहुमूल्यानि (5)प्रगुणीकृतानि | तथा पुस्तकानां लेखनाय लेखकानाञ्च वित्तं सञ्चितमास्ते । तत्सर्वथा कालोचितं कार्यम् । ततो नापितोऽपि स्वगृहं गतः । तत्र च गत्वा खदिरमयं लगुडं सज्जीकृत्य कपाटयुगलं द्वारि समाधाय सार्धप्रहरैकसमये भूयोपि (E) विहारद्वारमा- श्रित्य सर्वान्क्रमेण निष्क्रामतो (१०)गुरुप्रार्थनया स्वगृहमानयत् । तेऽपि सर्वे कर्पटवित्तलोभेन भक्तियुक्तानपि परिचितश्रावकान्परित्यज्य प्रहृष्टम- नसस्तस्य पृष्टतो ययुः । अथवा साध्विदमुच्यते- एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि संवाह्यते लोके तृष्णया पश्य कौतुकम् ।। १३ ।। जीर्यन्ते जीर्यतः केशा दन्ता जीन्ति जीर्यतः । चक्षुःश्रोत्रे च जीर्येते तृष्णैका तरुणायते ॥ १४ ॥ अपरं गृहमध्ये तान् प्रवेश्य द्वारं (११)निभृतं पिधाय लगुडप्रहारैः शिरस्यताडयत् । तेऽपि ताड्यमाना एके मृताः, अन्ये भिन्नमस्तकाः (१२)फू- स्कर्तुमुपचक्रमिरे । अत्रान्तरे(१३) तमाक्रन्दमाकर्ण्य(१४) कोटरक्षपालैरभि- (१) उत्तरीयेण प्रावारकेण निबद्धः ग्रन्थिः येन सः। (२) विनयपूर्वकम् । (३) भोजनक्रियेत्यर्थः। (४) गृहस्थ !। (५) निमन्त्रणमिति यावत् । (६) भोजनकालोचितसेवया । (७) साग्रहं प्रार्थिता इति यावत् । (८)संगृहीतानि । (6) बौद्धानां मठस्य द्वारशे स्थित्वा। (१०) महत्या प्रार्थनयेति यावत् । (११) शनैरिति तात्पर्य्यम् । (१२) कोलाहलञ्चक्रुः। (१३)तं कोलाहलम् । (१४) नगररक्षकैः पुरुषैः ।

१६० पञ्चतन्त्रके- हितम्--भोः! भोः किमयं महान्कोलाहलो नगरमध्ये तदन्यतां गम्यताम्। ते च सर्वेतदादेशकारिणस्तत्साहिता वेगात्तद्गृहं गता यावत्पश्यन्ति, तावत् (१) रुधिर प्लावितदेहाः पलायमानाः (२) नग्लका दृष्टाः । पृष्टाश्च-भोः ! किमेतत् ? ! ते प्रोचुर्यथावस्थितं नापितवृत्तान्तम् । तैरपि स नापितो बद्धो हतशेषैः सह धर्माधिष्ठानं नीतः । तै पितः पृष्टः-भोः ! किमेत- द्भवता कुकृत्यमनुष्ठितम् ? । स आह-कि करोमि मया श्रेष्ठिमणिभद्रगृहे दृष्ट एवंविधो (३)व्यतिकरः । सोऽपि सर्वं मणिभद्रवृत्तान्तं यथादृष्टमक- थयत् । ततः श्रेष्ठिनमाहूय (४)भणितवन्तः-भोः ! श्रेष्ठिन् ! किं त्वया कश्चित्क्षपणको (५)व्यापादितः । ततस्तेनापि सर्वः क्षपणकवृत्तान्तः तेषां निवेदितः । अथ तैरभिहितम् -- अहो ! शूलमारोप्यतामसौ दुष्टात्मा (६)कुपरीक्षितकारी नापितः । तथानुष्ठिते तैरभिहितम्- कुष्टं कुरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ।। १५ ।। अथवा साध्विमुच्यते- अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति सन्तापो ब्राह्मण्यां नकुलार्थतः ।। १६ ।। मणिभद्र आह-कथमेतत् । ते धर्माधिकारिणः प्रोचुः-- कथा (१) कस्मिंश्चिदधिष्टाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतमजनयत् । तस्मिन्नेव दिने नकुली नकुलं प्रसूता | अथ सा सुतवत्सला (७)दारकवत्तमपि नकुलं (८) स्तन्यदानाभ्यङ्गमर्दनादिभिः पुपो- ष । परं तस्य न विश्वसिति । अपत्यस्नेहस्य (६)सर्वस्नेहातिरिक्ततया सत- तम् एवमाशङ्कते यत्कदाचिदेष स्वजातिदोषवशादस्य दारकस्य विरुद्धमा- चरिष्यति । उक्तंच- १) रुधिरेण = आपलाबितदेहा रक्तसितशरीरा रक्तस्नाता इत्यर्थः । (२) क्षपणकाः। (३)व्यवहारः। (४) उक्तवन्तः। (५) हतः। (६) अविमृश्यकारी। (७)पुत्रवत् । (८) दुग्धदानतैलमर्दनप्रभृतिभिः। (९)सकलस्नेहश्रेष्ठतयेत्यर्थः । wayawtions त अपरीक्षितकारकम्। कुपुत्रोऽपि भवेत्पुंसां हृदयानन्दकारकः । दुर्विनीतः कुरूपोऽपि सूर्योऽपि व्यसनी खलः ॥ १७ ॥ एवं च भाषते लोकश्चन्दनं किल शीतलम् । पुत्रगानस्य संस्पर्शश्चन्दनादतिरिच्यते ॥ १८ ॥ सौदस्य न वाञ्छन्ति जनकस्य हितस्य च । लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥ १६ ॥ अथ सा कदाचिच्छय्यायां पुत्रं शायित्वा जलकुम्भमादाय पतिमु वाच-ब्राह्मण ! जलार्थमहं तडागे यास्यामि, त्वया पुत्रोऽयं नकुलाद्रक्ष- णीयः । अथ तस्यां गतायां पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थ कचिन्निगतः । अत्रान्तरे दैववशात्कृष्णसर्पो बिलान्निष्क्रान्तः । नकुलोऽपि तं स्वभाववैरिणं मत्वा भ्रातू रक्षणार्थं सर्पण सह युवा सर्प खण्डशः कृतवान् | ततो (१)रुधिराप्लावितदनः सानन्दं (२)स्वव्यापार प्रकाशनार्थं मातुः संमुखे गतः । मातापि त (३)रुधिरक्लिन्नमुखमवलोक्य शङ्कितचित्ता 'यदनेन दुरात्मना दारको भक्षितः' इति विचिन्त्य कोपा- त्तस्योपरि तं जलकुम्भ चिक्षेप । एवं सा नकुलं व्यापाद्य यावत्प्रलपन्ती(४) गृह आगच्छति तावत्सुतस्तथैव सुप्तस्तिष्ठति समीपे कृष्णसर्प खण्ड- शः कृतमवलोक्य पुत्रवधशोकेनात्मशिरो वक्षःस्थलं च ताडयितुमारब्धा । अत्रान्तरे ब्राह्मणो (५)गृहीतनिर्वापः समायातो यावत्पश्यति तावत् (६)पुत्रशोकाभितप्ता ब्राह्मणी प्रलपति-भो ! भो ! लोभात्मन् ! लोभाभि- भूतेन त्वया न कृतं मद्वचः । तदनुभव साम्प्रतं पुत्रमृत्युदुःखवृक्षफलम् । अथवा साध्विमुच्यते- अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ॥२०॥ ब्राह्मण आह-कथमेतत् | सा पाह- (१) रुधिरेण = रक्तेन आप्लावितम् = लिप्तम्, वदनम् = मुखं यस्य सः। (२) स्वस्य =आत्मनः = व्यापारस्य ब्राह्मणकुमारक्षार्थं सर्पण साकं युद्ध- रूपस्य कार्यस्य प्रकाशनार्थम् । (३) रक्तसिक्तमुखम् । (४) विलपन्ती। (५)लब्धभिक्ष इति भावः। (६) नकुलमरणदुःखितेति भावः ।

कथा (२) कस्मिश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रतां गता वसन स्म । ते चापि दारियोपहताः मन्त्रं चक्र:-अहो ! धिगियं दरिद्रता । उक्तंच- वरं वनं व्याघ्रगजादिसेवितं जनेन हीनं बहुकण्टकावृतम् । तृणानि शय्या परिधानवल्कलं न बन्धुमध्ये धनहीनजीवितम् ॥२१ तथा च- स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्वान्धवाः । राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः । भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपितविक्रमारयपि नृणां येषां न हि स्याद्धनम् ॥ २२ ॥ शूरः सुरूपः सुभगश्च वाग्मी शस्त्राणि शास्त्राणि विदांकरोतु । अर्थ विना नैव यशश्च मानं प्राप्नोति मर्योऽत्र मनुष्यलोके ।। २३ तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव | अर्थोष्मणा विरहितः पुरुषः स एव । बाह्यः क्षणेन भवतीति विचित्रमेतत् ॥ २४॥ तद्गच्छामः कुत्रचिदर्थाय । इति १)संमन्त्र्य स्वदेशं पुरं च स्वसुत त्साहितं बान्धवयुतं गृहं च परिप्यज्य प्रस्थिताः । अथवा साध्विदमुच्यते- सत्यं परित्यजति मुञ्चति बन्धुवर्गम् शीघ्र विहाय जननीर्माप जन्मभूमिम् । संत्यज्य गच्छति विदेशमभीष्टलोकं चिन्ताकुलीकृतमतिः पुरुषोऽत्र लोके ।। २५ ॥ एवं क्रमेण गच्छन्तोऽवन्ती (क)प्राप्ताः । तत्र (३)सिप्राजले कृतस्नान (४)महाकालं प्रणम्य यावनिर्ग छन्ति तावद् भैरवानन्दो नाम यो (१)मन्त्रणां कृत्वेत्यर्थः। (२)ज्जयनीम्। (३) उजयनीसमीपस्थायास्तन्नामिकाया नधा जले। (४) उज्जयनीस्थां महाकालाख्यां भगवतः शङ्करस्य प्रतिमामित्यर्थः ।

- अपरीक्षितकारकम् । संमुखो बभूव । ततस्तं ब्राह्मणोचितविधिना (१)संभाव्य तेनैव सह तस्य मठं जग्मुः। अथ तेन ते पृष्टाः--कुतो भवन्तः समायाता क यास्यथ किं प्रयोजनम् ? । ततस्तैरभिहितम्-वयं (२)सिद्धियात्रिकाः । तत्र यास्यामो यत्र धनाप्तिमृत्युर्वा भविष्यतीत्येव निश्चयः । उक्तं च- दुष्प्राप्याणि बहूनि च लभ्यन्ते बाञ्छितानि द्रविणानि । अवसरतुलिताभिरलं तनुभिः साहसिकपुरुषाणाम् ॥ २६॥ पतति कदाचिन्नमसः खाते पातालतोऽपि जलमेति । देवमचिन्यं बलवद् बलवान्न तु पुषकारोऽपि ।। २७ ।। अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण । दैवांमति यदपि कथयसि पुरुषगुणः सोप्यदृष्टाख्यः ॥ २८॥ भयमतुलं गुरुलोकात्तणमिव तुलयन्ति साधु साहसिकाः । प्राणानद्भुतमेतञ्चरित चरितं खुदाराणाम् ।। २६ ।। क्लेशर गङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते । मधुभिन्मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम् ॥ ३०॥ तस्य कथं न चला स्यात्पत्नी विष्णोर्नसिंहकस्यापि । मासांश्चतुरो निद्रां यः सेवति जलगतः सततम् ॥ ३१ ॥ दुरधिगमः परभागो यावत्सरुषेण साहसं न कृतम् । जर्यात तुलामधिरूढो भास्वानिह जलदपटलानि ॥ ३२॥ तत्कथ्यतामस्माकं कश्चिद्धनोपायो (३)विवरप्रवेश-शाकिनीसाधन- श्मशानसेवन-महामांसविक्रय-साधकवर्तिप्रभृतीनामे कतम इति | अद्भुत- शक्तिर्भवाश्रूयते । वयमप्यतिसाहसिकाः । उक्तं च- (१) पूजयित्वा । (२) स्वकार्यसिद्धये यात्राकारिणः । (३) विवरप्रवेशः = धनप्राप्त्यर्थं पातालं प्रति प्रयाणम्, शाकिनीसाधनम् = तनामिकायाः कस्याश्चिद्योगिन्याः साधनम् = अनुष्ठानविशेषेण वशीकरणम्, शा. नसेवनम् = रात्रौ श्मशानभूमौ स्थित्वा निजाभिप्राथसिद्धये मन्त्रादीनां साधनम् । महामांस वक्रयः महामांसस्य, नरमांसस्य बलिप्रदानोचितस्य पुरुषस्येति यावत् विक्रयः = मूल्येन दानम, साधकवतिः= भूगर्भस्थानधेः सूचिका वतिः = वतिका, यस्या बलेन भूमिस्थस्य निधेः सुखेनान्वेषणं भवतीत्यर्थः, एतदादीनां मध्यादेक- तमः = अन्यतमः कोप्युपायः कथनीय इति भावः । - antasammaanaam way पञ्चतन्त्रके- PM । महान्त एक महतामर्थं साधयितुं क्षमाः । ऋते समुद्रादन्यः को बिभर्ति वडवानलम् ।। ३३ ।। भैरवानन्दोऽपि तेषां सिद्धयर्थ बहूपायं सिद्धवर्तिचतुष्टयं कृत्वार्पयत् । प्राह चल्यतां हिमालयदिशि । तत्र सन्मानानां यन्त्र बतिः पतिष्यति तत्र निधानसमन्दिग्धम(३) प्राप्स्यथ । तत्र स्थानं खनित्वा निधि गृहीत्वा (२)व्याधुट्यताम् । तथानुष्टिते तेषां गच्छतामेकतमस्य हस्ताहर्तिनिपपात | अथासौ यावत्तं प्रदेश खनति तावत् तात्रमयी भूमिः । ततस्तेनाभि- हितम्-अहो ! गृलतां स्वेच्छया ताजम् । अन्ये प्रोचुःभो ! मूढ ! किमनेन क्रियते । तत्प्रभूतमपि दारिद्रयं न नाशयति । तदुत्तिष्ठ । अग्रतो गच्छामः । सोऽब्रवीत्-यान्तु भवन्तः । नाहमये यास्यामि । एवमभिधाय तात्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः । ते त्रयोऽप्यग्रे प्रस्थिताः । अथ किञ्चिन्मानं गतस्याग्रेसरस्य(३) वर्तिनिपपात । सोऽपि यावत्खनितुमार- ब्धस्तावद्(४)रूप्यमयी क्षितिः । ततः प्रहर्षितः प्राह यद् भो ! भोः ! गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् । तावूचतुः-भोः ! पृष्ठतस्ता. प्रमयी भूमिः, अग्रतो रूप्यमयी तन्नूनमने सुवर्णमयी भविष्यति । तदनेन प्रभूतेनापि दारिद्यनाशो न भवति । तदावामये यास्यावः । एवमुक्त्वा द्वावप्यने प्रस्थितौ। सोऽपि स्वशक्त्या रूप्यमादाय निवृत्तः। तयोरपि गच्छतोरेकस्याने वर्तिः पपात | सोऽपि प्रहृष्टो यावत्खनति तावत्सुवर्ण- भूमिं दृष्ट्वा द्वितीयं प्राह-भोः ! गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णादन्यन्न किचिद् उत्तम भविष्यति । स प्राहमूढ ! न किञ्चिद्वेत्सि । प्राक् ताम्रम् , ततो रूप्यम् , ततः सुवर्णम् । तन्नूनमतःपरं रत्नानि भविष्यन्ति । येषामेकतमेनापि दारिद्रयनाशो भवति । तदुत्तिष्ठ । अग्रे गच्छावः । किमनेन भारभूतेनापि प्रभूतेन । स आह-गच्छतु भवान् । अहमत्र स्थितस्त्वां(५) प्रतिपालयिष्यामि । तथानुष्ठिते सोऽपि गच्छन्नेकाकी (6)ग्रीष्मार्कप्रतापसन्तप्ततनुः (७)पिपासाकुलितः सिद्धिमार्गच्युत इतश्चे- (१) अवश्यम्। (२) प्रत्यागम्यताम् । (३) अग्रगामिनः। (१)रजतमयीत्यर्थः। (५) तव प्रतीक्षां करिष्यामीत्यर्थः । (६) ग्रीष्मास्य-निदाघकालिकस्य रवेः प्रतापेन = सम्यकतपनेन सन्तप्ता = प्राप्तसन्तापा तनुः-गात्रं यस्य स तथोक्तः। (७) अत्यन्तं पिपासुरित्यर्थः ।

o अपरीक्षितकारकम् । तश्च बभ्राम | अथ भ्राम्यस्थलोपरि पुरुषमेकं (१)रुधिरप्लावितगात्रं (२)भ्रमचक्रमस्तकमपश्यत् । ततो द्रुततरं गत्वा लमबोचर-भोः ! को भवान् । किसेवं चक्रेण भ्रमता शिरसि तिष्ठसि । तत्कथय मे यदि कुत्रचिजलमस्ति । एवं तस्य प्रवदतस्तचक्रं तत्क्षणात्तत्य शिरसो ब्राह्मण मस्तके (३)चटितम् । स आह-भद्र ! किमेतत् ? । स आह-ममाप्ये- वमेवैतच्छिरलि चटितम् । स आह-तत्कथय कदैतदुत्तरिष्यति(४) महती मे वेदना वर्तते । स आह-यदा त्वमिव कश्चिद् धृसिद्ध- बतिरेवमागत्य त्वामालापयिष्यति(५) तदा तस्य मस्तके चटिष्यति । स श्राह- -कियान्कालस्तवैवं स्थितस्य । स आह-साम्प्रतं को राजा धरणीतले ?i स आह-वीणावत्सराजः। स आह-अहं तावत्काल- संख्यां न जानामि । परं यदा रामो राजासीत्तदाहं दारिद्योपहतः सिद्ध- वर्तिमादायानेन पथा समायातः। ततो मयान्यो नरो मस्तकधृतचक्रो दृष्टः पृष्टश्च ततश्चैतजातम् । स ाह-भद्र ! कथं तवैवं स्थितस्य भोजन- जलप्राप्तिरासीत् । स आह-भद्र ! धनदेन निधानहरणभयात्सिद्धाना- मेतच्चक्रपतनरूपं भयं दर्शितम् । तेन कश्चिदपि नागच्छति। यदि कश्चि- दायाति स क्षुत्पिपासानिद्रारहितो जरामरणवर्जितः केवलमेवं वेदना- मनुभवतीति । तदाज्ञापय मां स्वगृहाय । इत्युक्त्वा गतः । अथ तस्मिंश्चि- रयति(६) स सुवर्णसिद्धिस्तस्यान्वेषणपरस्तत्पदपङ्ग्या यावत्किञ्चिद्वना- न्तरमागच्छति तावदुधिरप्लावितशरीरस्तीक्ष्णचक्रण मस्तके भ्रमता सवेदनः(७) कणन्नुपविष्टस्तिष्ठति । तत्समीपवर्तिना भूत्वा सबाष्पं पृष्टः- भद्र! किमेतत् । स आह-(८)विधिनियोगः । स आह-कथं तत् । कथय कारणमेतस्य | सोऽपि तेन पृष्टः सर्वं चक्रवृत्तान्तमकथयत् । तच्छ्रुत्वासौ तं विगर्हयन्निदमाह भोः ! निषिद्धस्त्वं मयानेकशो न शृणोषि (१) रुधिरेण = रक्तेन प्लावितं = सिक्तं गात्रं यस्य तम् । (२) भ्रमत् = अमि कुर्वत् चक्रं यत्र तादृशं मस्तकं शिरो यस्य तम् । (३)आपतितम् । (४) अपगमिष्यति दूरीभविष्यतीति यावत् । (५) त्वया सह वार्तालापं करिष्यति। ६) विलम्बं कुर्वति सतीत्यर्थः । (७) विलपन् । (6) दुर्दैवस्य फलमित्यर्थः।

पञ्चतन्त्रके- - - m- से वाक्यम् । तत्किं क्रियते । विद्यावानपि कुलीनोऽपि बुद्धिरहितः । अथवा साध्विदमुच्यते-- वरं बुद्धिर्न सा विद्या विद्याया बुद्धिमत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिहकारकाः ।। ३४॥ चक्रधर पाह-कथमेतत् । सुवर्णसिद्धिराह- कथा (३) कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रभावमुपगता वसन्ति स्म । तेषां त्रयः शास्त्रपारङ्गताः, परन्तु (१)बृद्धिरहिताः एकस्तु बुद्धिमान् , केवलं शास्त्रपराङ्मुखः। अथ तैः कदाचिन्मित्रैमन्त्रितम्- को गुणो विद्याया येन देशान्तरं गत्वा भूपतीन् परितोष्यार्थोपार्जना(२) क्रियते । तत्पूर्वदेशं गच्छामः । तथानुष्टिते किञ्चिन्मार्ग गत्वा तेषां ज्येष्ठतरः प्राह-अहो ! अस्माकमेकश्चतुर्थो मूढः केवलं बुद्धिमान् । न च राजप्रतिग्रहो बुद्धथा लभ्यते विद्यां विना। तन्नास्मै स्वोपाजितं दास्यामि तद्गच्छतु गृहम् । ततो द्वितीयेनाभिहतम्-भोः ! सुबुद्ध ! गच्छ त्वं स्वगृहे, यतस्ते विद्या नास्ति । ततः तृतीयेनाभिहितम्-अहो ! न युज्यत एवं कर्तुम् । यतो वयं बाल्यात्प्रभृत्येकत्र क्रीडिताः। तदागच्छतु (२)महा- नुभावोऽस्मदुपाजितवित्तस्य समभागी भविष्यतीति । उक्तं च- अयं निजः परोवेति गणना लघुचेतसाम् | उदारचरितानां तु वसुधैव कुटुम्बकम् ।। ३५।। तद् आगच्छतु एषोऽपि इति । तथा अनुष्ठिते, तैः मार्गाश्रितः अटव्यां मृतसिहस्यास्थीनि दृष्टानि । ततश्च एकेन अभिहितम्-अहो ! अद्य (४)विद्याप्रत्ययः क्रियते । किञ्चिदेतत्सत्त्वं मृतं तिष्ठति, तद् विद्या. प्रभावेण जीवनसहितं कुर्मः, अहम् अस्थिसञ्चयं करोमि | ततश्च तेन औत्सुक्याद् अस्थिसञ्चयः कृतः। द्वितीयेन चर्ममांसरुधिरं संयोजितम् । तृतीयोऽपि यावज्जीवनं सञ्चारयति, तावत्सुबुद्धिना निषिद्धः-भोः ! तिष्ठतु भवान् । एष सिहो निष्पाद्यते यद्यनं सजीवं करिष्यति ततः सर्वा- .)अनुभवहीना इति भावः । (२)धनप्राप्तिः। (३)वराक इति भावः। (४)विधापरीक्षेत्यर्थः। ।

- अपरीक्षितकारकम् । नपि व्यापादयिष्यति(१) । इति तेनाभिहितः स ाह-धिङ् मूर्ख ! नाहं विद्याया विफलतां करोमि । ततस्तेनाभिहितम्-तहिं (२)प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि । तथानुष्टिते यावत् सजीवः कृतस्तावत्ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः। स च पुनवृक्षादवतीर्य गृहे गतः । अतोऽहं ब्रवीमि-'वरं बुद्धिर्न सा विद्या' इति । अतः परमुक्तं च- अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः । सर्वे ते हास्यतां यान्ति यथा ते मूखपण्डिताः ॥ ३६ ॥ चक्रधर आह-कथमेतत् ! सोऽब्रवीत्- कथा (४) कस्मिश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्ना वसन्ति स्म । (३)बालभावे तेषां मतिरजायत-भोः ! देशान्तरं गत्वा विद्याया उपार्जनं क्रियत इति । अथान्यस्मिन्दिवसे ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपाजनाथ कान्यकुब्जे गताः। तत्र च (४)विद्यामठे गत्वा पठन्ति । एवं द्वादशाब्दान् यावदेकचित्ततय विद्याकुशलास्ते सर्वे सजाताः । तत- स्तैश्चतुभिमिलित्वोक्तम्-वयं सर्वविद्यापारे गताः। तदुपाध्यायमुत्कलाप- यित्वा(५)स्वदेशे गच्छामः । एव मन्त्रयित्वा ब्राह्मणा उपाध्यायमुत्कला- पयित्वानुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिता यावकिश्चिन्मार्ग यान्ति तावद् द्वौ पन्थानौ समायातौ दृष्ट्वा उपविष्टाः सर्वे । तत्रैकः प्रोवाच- केन मार्गेण गच्छामः । एतस्मिन्समये तस्मिन्पत्तने कश्चिद्वणिक्पुत्रो मृतः । तस्य दाहार्थे (६)महाजनो गतोऽभूत् । ततश्चतुर्णा मध्यादेकेन पुस्तकमव- लोकितम्- 'महाजनो येन गतः स पन्थाः' इति । तन्महाजनमार्गेण गच्छामः । अथ ते पण्डिता यावन्महाजन- मेलापथिकेन(७) सह यान्ति तावद्रासभः कश्चित्तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकमुद्धाट्यावलोकितम्- (१)हनिष्यति। (२)प्रतीक्षां कुरु। (३) शैशवे । (४)विद्यालये। (५)प्रसाद्य । (६) जनसमुदाय इत्यर्थः । (७) महाजनानां बहूनां जनानां मेला सङ्घः स एव पथिकः पान्थस्तेन जन- समुदायेन सहेत्यर्थः।

पञ्चतन्त्रके ONDON उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठिति स बान्धवः।। ३७ ।। तदहो! अयमस्मदीयो बान्धवः । ततः कश्चित्तस्य ग्रीवायां लगति । कोऽपि पादौ प्रक्षालयति । अथ यावते पण्डिताः (१)दिशामवलोकन कुर्वन्ति, यावत्कश्चिदुष्टो दृष्टः तैश्चोक्तम्--एतत्किम् ! । तावत्तृतीयेन पुस्त- कमुद्घाटयोक्तम्- 'धर्मस्य त्वरिता गतिः तन्नूनमेष धर्मस्तावत् । चतुर्थेनोक्तम्- 'इष्टं धर्मेण योजयेत्' तद् बान्धवोऽयमस्माकं धर्मेण नियुज्यताम् । अथ तैश्च रासभ उष्ट्र- ग्रीवायां बद्धः । तत्तु केनचित्तत्स्वामिनो रजकस्याने कथितम् श्रुत्वा च यावद्रजकस्तेषां मूर्खपण्डितानां प्रहारकरणाय समायातः तावत्ते (२)प्रनष्टाः । ततः यावदने किञ्चित्स्तोक(३) मार्ग यान्ति, तावत्काचिन्नदी समासादिता । तत्तस्या जलमध्ये (४)पलाशपत्रमायातं दृष्ट्वा पण्डितेनै- केनोक्तम्- 'श्रागमिष्यति यत्पत्रं तदस्मांस्तारयिष्यति' एतत्कथयित्वा तत्पत्रस्योपरि पतितो यावन्नद्या नीयते, तावत्तं नीय- मानमवलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्- सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्य सर्वनाशो हि दुःसहः ॥३८॥ इत्युक्त्वा तस्य शिरश्छेदो विहितः। अथ तैश्च पश्चाद्गत्वा कश्चिद् ग्राम आसादितः । तेऽपि ग्रामीणैर्निमन्त्रिताः पृथक्पृथग्गृहेषु नीताः । तत एकस्य (५)सूत्रिका घृतखण्डसंयुक्ता भोजने दत्ता । ततो विचिन्त्य पण्डि- तेनोक्तम्-यत्- 'दीर्घसूत्री विनश्यति' (1) इतस्ततः पश्यन्तीत्यर्थः। (२)पलायिता इति यावत् । (३) किञ्चिदित्यर्थः। (४) किंशुकास्यस्य वृक्षस्य पर्णम् । ५) सूत्रखण्डम् (सेवई) इति भाषा। - - अपरीक्षितकारकम् । एवमुक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य (१)मए डकाः दत्ताः । तेनाप्युक्तम्- 'अतिविस्तारविस्तीर्ण तद्भवेन्न चिरायुषम्' स च भोजनं त्यक्त्वा गतः । अथ तृतीयस्य (२)वटिकाभोजनं दत्तम्। तत्रापि पण्डितेनोक्तम्- 'छिद्रेष्ना बहुलीभवन्ति' एवं ते त्रयोऽपि पण्डिताः ()क्षुत्तामकण्ठा लौकस्यिमानास्ततः स्थानात्स्वदेश गताः । अथ सुवर्णसिद्धिराह-यत्त्वं लोकव्यवहारमजान- न्मया वार्यमाणोऽपि न स्थितः, तत ईशीमवस्थामुपगतः। अतोऽहं ब्रवीमि-'अपि शास्त्रेषु कुशलाः' इति ।। तच्छ्रुत्वा चक्रधर आह-अहो ! (४)अकारणमेतत् । सुबुद्धयोऽपि नश्यन्ति दुष्टदेवेन नाशिताः । स्वल्पधीरपि तस्मिस्तु कुले नन्दति सन्ततम् ।। ३६ ॥ उक्तं च-अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ ४० ॥ तथा च-शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ।। ४१॥ सुवर्णसिद्धिराह-कथमेतत् । स आह- कथा (५) कस्मिंश्चिजलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निवसतः स्म | अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः। एवं ते त्रयोऽपि (५)वेलायां कञ्चित्कालं सुभाषितगोष्ठीसुखमनुभूय भूयोऽपि सलिलं प्रविशन्ति । अथ कदाचित्तेषां (६)गोष्ठीगतानां जालहस्तधीवराः (१) मिष्टान्नविशेषाः। (२) पिष्टकविशेषः (बड़ा)। (३) बुभुक्षिता इत्यर्थः। (४) अयुक्तमिति यावत् । (५)जलाशयतटे। (६) परस्परं संलपतामिति भावः ।

पञ्चतन्त्रके -- प्रभूतैर्मत्स्यैापादितैर्मस्तके विधृतैरस्तमनवेलायां (१) तस्मिञ्जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचः-बहुमत्स्योऽयं हृदो दृश्यते, स्वल्पसलिलश्च। तत्प्रभातेऽत्रागमिष्यामः । एवमुक्त्वा स्वगृह गताः। मत्स्याश्च विषण्णवदना मिथो सन्त्रं चक्रः। ततो मण्डूक आह भोः ! शतबुद्धे ! श्रतं धीवरोक्तं भवता ! तत्किमत्र युज्यते कर्तुम् । पलायनसवष्टम्भो(-) वा। यत्कर्तुं युक्तं भवति तदादिश्यतामद्य । तच्छुत्वा सहस्रबुद्धिः प्रहस्य आह-भो ! मित्र ! मा भैषीः। यतो वच- नस्मरणमात्रादेव भयं न कार्यम् । उक्तञ्च- साणां च खलानां च सर्वेषां दुष्टचेतसाम् । अभिप्राया न सिध्यन्ति तेनेदं वतते जगत् ।। ४२ ।। तत्तावत्तेषामागमनमपि न सम्पत्स्यते । भविष्यति वा तर्हि त्वां बुद्धिप्रभावेणात्मसहितं रक्षयिष्यामि । यतोऽनेकां (:)साललगति- चर्यामहं जानामि । तदाकर्ण्य शतबुद्धिराह-भाः ! युक्तमुक्तं भवता सहस्रबुद्धिरेव भवान् । अथवा साध्विदमुच्यत- बुद्धेर्बुद्धिमतां लोके नाम्त्यगम्यं हि किंचन । बुद्ध्या यतो हता नन्दाश्चाणक्येनासिपाणयः ॥ ४३ ॥ तथा च--न यत्रास्ति तिर्वायो रश्मीनां च विवस्वतः । तत्रापि प्रविशत्याशु बुद्धिबुद्धिमतां सदा , ४४ ॥ ततो वचनश्रवणमात्रादपि (४)पितृपर्यायागतं जन्मस्थानं त्यक्तुं न शक्यते । उक्तं च- न तत्स्वर्गेऽपि सौख्यं स्यादिव्यस्पर्शनशोभने । कुस्थानेऽपि भवेत्पुसां जन्मनो यत्र सम्भवः ॥ ४५ ॥ तन्न कदाचिदपि गन्तव्यम् | अहं त्वां सुबुद्धिप्रभावेण रक्षयिष्यामि । मण्डूक आह-भद्रौ ! मम तावदेकैव बुद्धिः पलायनपरा । तदहमन्यं जलाशयमचैव सभार्यो यास्यामि | एवमुक्त्वा स मण्डूको रानावेवान्य- (१) सूर्यास्तसमये। (२) गुप्तरूपेणावस्थानम् । ३)बहुविधं जलगमनप्रकारमिति भावः । (४) कुलक्रमागतम्। -- अथवा अपरीक्षितकारकम् । २०१ जलाशयं गतः। (१)धीवरैरपि प्रभात आगत्य(२) जघन्यमध्यमोत्तम जलचरा मत्स्यकर्ममण्डूककर्कटादयो गृहीताः । तावपि शतद्धसहाबुद्धी सभायौँ पलायमानौ चिरमात्मानं गतिविशेषविज्ञानः कुटिलचारेण रक्षन्ती अपि जाले पतितौ व्यापादितो च । अथापराह्नसमो प्रष्टास्ते धीवराः स्वगृहं प्रति प्रस्थिताः । गुरुत्वाच्चैकेन शतबुद्धिः स्कन्धे कृतः । सहस्रबुद्धिः प्रलम्बमानो नीयते ततश्च(३) वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वाभिहिता स्वपत्नी-प्रिय ! पश्य, पश्य- शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ॥ ४६ ।। अतश्च 'वर बुद्धिर्न सा विद्या' इत्यादि यद् भवता उक्त, तत्रेयं मे मतिः यत् नैकान्ते(४) बुद्धिपि प्रमाणम् । सुवर्णासाद्धः प्राह-यद्यपि एतदस्ति, तथापि मित्रवचनं न लङ्घनायम् । पर कि क्रियते, निवा- रितोऽपि मया न स्थितोऽतिलौल्यात् विद्याहकाराच्च । साध्विदमुच्यते। साधु मातुल ! गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽयं मणिबद्धः सम्प्राप्तं गीतलक्षणम् ।। ४७ ॥ चक्रधर आह-कथमेतत् । सोऽब्रवीत्- कथा (६) कस्मिंश्चिदधिष्ठान उद्रतो नाम गर्दभः प्रतिवसति स्म । स सदैव रजकगृहे भारोद्वहनं कृत्वा रात्री स्वेच्छया पर्यटति | ततः प्रत्यूषे बन्धनभयात्स्वयमेव रजकगृहमायाति । रजकोऽपि ततस्तं बन्धनेन नियुनक्ति । अथ तस्य रात्री पर्यटतः क्षेत्राणि कदानिच्छगालेन सह मैत्री संजाता। स च(५) पीवरत्वात् (६) वृतिभङ्ग कृत्वा कर्कटिकाक्षेत्रे (१) मत्स्यजीविभिः ( मल्लाह) इतिख्यातैः । (२)जवन्या:नीचाः, मध्यमाः= साधारणाः, उत्तमाः= उत्कृष्टजातीयाः, जलचराः, जलचारिणः । (३) वाप्या=दीर्घिकायाःकण्ठोपगतेन-समीपवर्तिना। (४) एकान्ते =एकान्ततः सर्वथेतिभावः । (५) स्थूलकायत्वात् । (६) क्षेत्राणां समन्तादन्नादिरक्षणार्थ काष्ठादिभिः कृतं वेष्टनं भवेत्यर्थः ।

पञ्चतन्त्रके-- शृगालसहितः प्रविति । एवं तौ यदृच्छया (१) चिटिकामक्षणं कृत्वा प्रत्यहं (२)प्रत्यूपे स्वस्थानं ब्रजतः। अथ कदाचित्तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शनालोऽभिहितः-भो ! भगिनीसुत ! पश्य पश्य, अतीव निर्मला रजनी । तदहं गीतं करिध्यामि । तत्कथय कतमेन (३)रागेण करोमि । स आह-माम ! किमनेन वृथानर्थप्रचालनेन(४)। यतश्चौरकर्मप्रवृत्तावावां निभृतेश्च(५) चौरैरत्र(६) स्थातव्यम् । उक्तं च- कासयुक्तस्त्यजेच्चौर्य निद्रालुश्चेत्स चौरिकाम् । जिह्वालौल्यं रुजाक्रान्तो जीवितं योऽत्र वाञ्छति ॥४८॥ अपरं त्वदीयं गीतं न मधुरस्वरम् । शङ्खशब्दानुकारं दूरादपि श्रूयते । तदत्र क्षेत्रे रक्षापुरुषाः सुप्ताः सन्ति । त उत्थाय वधं बन्धं वा करिष्यन्ति । तद्भक्षय तावदमृतमयीश्चिर्भटीः । मा त्वमत्र गीतव्यापारपरो भव तच्छुत्वा रासभ आह-भोः ! वनाश्रयत्वात्त्वं गीतरसं न वेसि । तेनैतद् ब्रवीषि । उक्तं च- शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ। धन्यानां विशति श्रोत्रे गीतझङ्कारजा सुधा ॥ ४६॥ शृगाल आह-माम ! अस्त्येतत् । परं न वेत्सि त्वं गीतम् । केवल- मुन्नदसि(७)। तत्किं तेन (८)स्वार्थभ्रंशकेन । रासभ आह-धिग्धिङ्- मूर्ख ! किमहं न जानामि गीतम् ! । तद्यथा तस्य भेदाः, शृणु- सप्त स्वरात्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः । तालास्त्वेकोनपश्चाशत्तिस्रो मात्रा लयास्त्रयः ॥ ५० ॥ स्थानत्रयं यतीनाञ्च षडास्यानि रसा नव । रागाः षट्त्रिंशतिर्भावाश्चत्वारिंशत्ततः स्मृताः ॥ ५१ ॥ पञ्चाशीत्यधिकं ह्येतद् गीताङ्गानां शतं स्मृतम् । स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥ ५२ ॥ नान्यद् गीतात्प्रियं लोके देवानामपि दृश्यते। शुष्कस्नायुस्वराह्नादात्यक्षं जघ्राह रावणः ॥ ५३॥ (१)चि टिकायाः ककड़ी' इति ख्याताया भक्षणम् । (२)प्रभाते। (३)स्वरभेदविशेषेण । (४)निष्प्रयोजनव्यापारेण । (६) अस्मिन् संसार इत्यर्थः। (७) कर्णकर्कश रेकसे। (८) स्वार्थनाशकेनेत्यर्थः । (५) नीरवैः अपरीक्षितकारकम्। २०३ तत्कथं भगिनीसुत ! मामनभिज्ञ बदनिवारयसि । शृगाल आह- माम ! यद्येवं तदहं तावद् वृतेारस्थितः क्षेत्रपालमवलोकयामि | त्वं पुनः स्वेच्छया गीतं कुरु । तथानुष्टिते (१)रासभरटनमा कार्य (२)क्षेत्रपः क्रोधादन्तान्धर्षयन (३)प्रधावितः । यावद्रासभो दृष्टस्तावल्लगुडप्रहारैस्तथा- हतः, यथा प्रताडितो भूपृष्ठे पतितः । ततश्च सछिद्रमुलूखलं(४) गले वद्ध्या क्षेत्रपालः प्रलुप्तः । रासभोऽपि स्वजातिस्वभावाद् गतवेदनः क्षणेनाभ्यु- त्थितः उक्तं च- सारमेयस्य चाश्वस्य रासभस्य विशेषतः । मूहूर्तात्परतो न स्यात् प्रहारजनिता व्यथा ।। ५४ ।। ततस्तमेवोलुखलमादाय वृति चूर्णयित्वा पलायितुमारब्धः । अन्नान्तरे शृगालोऽपि दूरादेव तं दृष्ट्वा सस्मितमाह- साधु मातुल ! गीतेन मया प्रोक्तोऽपि न स्थितः। अपूर्वोऽयं मणिबद्धः संप्राप्तं गीतलक्षणम् ॥ ५५ ।। तद्भवानपि मया वार्यमाणोऽपि न स्थितः(५) । तच्छुत्वा चक्रधर आह-भो ! मित्र ! सत्यमेतत् । अथवा साध्विमुच्यते- यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थरकौलिकः ।।५६ ॥ सुवर्णसिद्धिराह-कथमेतत् । सोऽत्रवीत्- कथा (७) कस्मिंश्चिदधिष्ठाने मन्थरको नाम (६)कौलिकः प्रतिवसति स्म | तस्य कदाचित् (७) पट्टकर्माणि कुर्वतः (८)सर्वपट्टकर्मकाष्ठानि भग्नानि । ततः स कुठारमादाय वने काष्ठार्थं गतः । स च समुद्रतटं यावद् भ्रमन्प्रयातः, तावत् तत्र (९)शिशपापादपस्तेन दृष्टः । ततश्चिन्तितवान्-महानयं वृक्षो (१)रासभशब्दम् । (२) क्षेत्रस्वामी । (३) दशन्निति भावः । (४) उलूखलं हि नाम धान्यादिकण्डनकारणीभूतं दारुनिर्मितं पात्रम् । (५) गानरूपकर्मणो विरतो नाभूदित्यर्थः । (६) तन्तुवायः (जुलाहा) इति प्रसिद्धः । (७) वसनवयनरूपाणि कार्याणि । (८) वस्त्रवयनसाधनीभूततुरीवेमादीनि । (१)शिंशपावृतः (सीसो) इति ख्यातः।

पञ्चतन्त्रके- . - दृश्यते । तदनेन कत्तितेन प्रभूतानि (१) पट्टकर्मोपकरणानि भविष्यन्ति । इत्यवधार्य तस्योपरि कुठारम् उत्क्षिवान । अथ तत्र वृक्षे कश्चिद्वचन्तरः(२) समाश्रित आसीत् । अथ तेनाभिहितम्-भोः ! मदाश्रोऽयं पादपः सर्वथा रक्षणीयः, यतोऽहमत्र महासौख्येन तिष्ठामि (3) समुद्रकल्लोलस्प- र्शनाच्छीतवायुनाप्यायितः(४)। कोलिक आहोः ! किमहं करोमि । दारुसामग्री विना मे कुटुम्बकदम्बं(५) बुभुक्षया पीड्यते । तस्मादन्यत्र शीघ्रं गम्यताम् | अहमेनं कर्त्तयिष्यामि । व्यन्तर आह-भोः ! तुष्टस्त- वाहम् | तत्प्रायंतामभीष्ट किञ्चित् । रक्षनं पादपमिति । कौलिक आह- यद्येवं तदहं स्वगृहं गत्वा स्वमित्रं स्वभार्यां च पृष्टवागमिष्यामि ततस्त्वया देयम् । अथ 'तथा' इति प्रतिज्ञाते व्यन्तरेण स कौलिकः प्रहृष्टः स्वगृह प्रतिनिवृत्तः । यावदने गच्छति तावद् ग्रामप्रवेशे निज मुहृदं नापितमप- श्यत्। ततस्तस्य व्यन्तरवाक्यं निवेदयामास-यदहो मित्र ! मम कश्चिद्वय- न्तरः सिद्धः । तत्कथय किं प्रार्थये । अहं त्वां प्रष्टुमागतः । नापित आह-- भद्र ! यद्येवं तद्राज्यं प्रार्थय । येन त्वं राजा भवसि, अहं त्वन्मत्री च । द्वावपीह सुखमनुभूय परलोकसुखमनुभवावः । उक्त च- राजा दानपरो नित्यमिह कीर्तिमवाप्य च । तत्प्रभावात्पुनः स्वर्गे स्पर्धते त्रिदशैः सह ।। ५७ ॥ कौलिक आह-अस्त्येतत्परम् , तथापि गृहिणीं पृच्छामि । स आह-भद्र! शास्त्रविरुद्धमेतद्यस्त्रिया सह मन्त्रः, यतस्ताः स्वल्पमतयो भवन्ति । उक्तं च- यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता । तद् गृहं क्षयमायाति भार्गवो हीदमब्रवीत् ॥ ५८ ॥ तावत्स्यात्प्रसन्नास्यस्तावद् गुरुजने तिः। पुरुषो योषितां यावन्न शृणोति वचो रहः ॥ ५६ ।। एताः स्वार्थपरा नायः केवलं स्वसुखे रताः। न तासां वल्लभः काऽपि सुतोऽपि स्वसुखं विना ।। ६०॥ (१) पट्टकर्मणः पटवयनरूपकार्यस्य उपकरणानि =साधनानि । (२)प्राणिविशेषो देवयोनिावशेषो वा। (३)सागरतरगाणां सम्पर्काता (४)परिवधितः। (५) परिवारवर्गः। - -- - अपरीक्षितकारकम् । २०५ कौलिक आह-तथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं तामपृष्टवाहं न किञ्चित्करोमि । एव तमभिधाय सत्वर गत्वा तामुवाच- प्रिये ! अधास्माकं कश्चिद्वयन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तदहं त्वां प्रष्टुमागत. | तत्कथय किं प्राथये। एर तावन्मम मित्रं नापितो वदत्येवं यदाज्यं प्रार्थयम्व सा आह-आयपुत्र ! का मतिनापितानाम् । तन्न कार्य तद्वचः । उक्तं च- चारणैर्बन्दिभिर्नीचै पितैर्बालकैरपि । न मन्त्रं मतिमान्कुयात्साध भिक्षुभिरेव च ॥ ६१ ॥ अपरं महती (१)क्लेशपरम्परैषा (२)राज्यस्थितिः सन्धिविग्रहयाना- सनसंश्रयद्वैधीभावादिभिः कदाचित्पुरुषस्य सुखं न प्रयच्छतीति । यतः- यदेव राज्ये क्रियतेऽभिषेकस्तदैव याति व्यसनेषु बुद्धिः । घटा नृपाणामभिषेककाले सहाम्भसैवापदमुद्रिन्ति ॥ ६२ ।। तथा च-रामस्य ब्रजनं वने निवसनं पाण्डोः सुतानां वनं वृष्णानां निधनं नरस्य नृपते राज्यात्परिभ्रंशनम् । सोदासं तदवस्थमर्जुनवधं संचिन्त्य लंकेश्वरं दृष्ट्वा राज्यकृते विडम्वनगतं तस्मान्न तद्वान्छयेत् ॥ ६३ ।। अपि वाञ्छन्ति ये निजाः । वधं राज्यकृतां राज्ञां तद्राच्यं दूरतस्त्यजेत् ॥ ६४ ॥ कौलिक आह-सत्यमुक्त भवत्या । तत्कथय किं प्रार्थये । सा आह- त्वं तावदकं पटं नित्यमेव निष्पादयसि तेन सवा (३)व्ययशुद्धिः सम्पद्यते । इदानीं त्वमात्मनोऽन्यद्वाहुयुगलं द्वितीयं शिरश्च याचस्व । येन पटद्वयं सम्पादसि पुरतः पृष्ठतश्च । एकस्य मूल्येन गृह यथापूर्व व्ययं सम्पादयिष्यसि । द्वितायस्य मूल्यन विशेषकृत्यानि करिष्यसि । एवं सोख्य न स्वजातिमध्ये (४)श्लाघ्यमानस्य कालो याति । (५)लोक- द्वयस्योपार्जना भविष्यति । सोऽपि तदाकर्ण्य प्रदृष्टः प्राह-साधु ! पतिव्रते ! साधु ! युक्तमुक्तं भवत्या । तदवं करिष्यामि । एष मे (१) बहुक्लेशप्रदेत्यर्थः। (२) राज्यपरिपालनमिति यावत् । (३)व्ययानर्वाहः कार्यसिद्धिरिति भावः। (४) प्रशस्यमानस्येत्यर्थः । (५) लोकपरलोकयोरित यावत् । यदर्थं भ्रातरः पुत्रा २०६ Pro- पञ्चतन्त्रके- निश्चयः । ततोऽसौ गत्वा व्यन्तरं प्रार्थयाञ्चके-भोः ! यदि ममेप्सितं प्रयच्छसि तद्देहि मे द्वितीयं बाहयुगलं शिरश्च । एवमभिहिते तत्क्षणादेव द्विशिराश्चतुर्बाहुश्च सञ्जातः । ततो दृष्टमना यावद् गृहमाच्छति तावल्लोकै राक्षसोऽयमिति मन्यमानैलगुडपाषाणप्रहारस्ताडितो मृतश्च । अतोऽहं ब्रवीमि-'यस्य नास्ति स्वयं प्रज्ञा' इति । चक्रधर आह-भोः ! सत्यने- तत् । सर्वोऽपि जनो (१)अश्रद्धेयामाशापिशाचिकां(२) प्राप्य हास्यपदवीं याति । अथवा साध्विदमुच्यते केनापि- अनागतवती चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुरः शेते सोमशर्मपिता यथा ॥६५॥ सुवर्णसिद्धिराह-कथमेतत् । सोऽत्रवीत्- कथा (८) कस्मिंश्रिन्नगरे कश्चित्स्वभावकृपणो नाम ब्राह्मणःप्रतिवसति स्म। तेन भिक्षार्जितः सक्तुभिर्मुक्तशेषैः(३) कलशः सम्पूरितः । तं च घट (४)नागदन्तेऽवलम्ब्य तस्याधस्तात्खट्वां निधाय सततमेकदृष्ट्या तमवलो- कयति । अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामास-यत्परिपूर्णोऽयं घटस्तावत्स- क्तुभिर्वर्तते । तद्यदि दुर्भिक्षं भवति तदनेन (५)रूपकाणां शतमुत्पद्यते । ततस्तेन मया अजाद्वयं ग्रहीतव्यम् । ततः पाण्मासिकप्रसववशात्ताभ्यां यूथं भविष्यति । ततोऽजाभिः प्रभूता गा ग्रहीष्यामि । गोभिर्महिषीः । महिषीभिर्वडवा (६) । वडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात्प्रभतं सुवर्ण भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पद्यते । ततः कश्चिद् ब्राह्मणो मम गृहमागत्य कन्यां दास्यति । तत्सकाशात्पुत्रो मे भविष्यति । तस्याहं सोमशर्मेति नाम करिष्यामि । ततस्तस्मिक्षानुचल- नयोग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्वशालायाः(७) पृष्ठदेश उपविष्टस्तदव- धारयिष्यामि(८) । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाज्जानुप्र- (१)विश्वासानर्हाम्। (२) तृष्णारूपपिशाचीम्। (३) भक्षणादवशिष्टैः। ) वस्त्रादिलम्बनार्थ गृहभित्तिलग्ने दारुदण्डविशेषे 'खूटी' इति भाषायाम् । ५)रूप्यकाणां शतमित्यर्थः । (६) अश्वाः (घोड़ी) इति भाषायाम् । वाजिशालायाः[अस्तबल] इति भाषा। (८) पठिष्यामि २०७ - अपरीक्षितकारकम् । चलनपरोऽश्वखुरासन्नवर्ती मत्समीपमागमिष्यति । ततोऽहं ब्राह्मणी कोपा- विष्टोऽभिधास्यामि-गृहाण तावद्वालकम् | सापि गृहकर्मध्यप्रतयास्म- द्वचनं न श्रोष्यति । ततोऽहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि । एवं तेन ध्यानस्थितेन तथैव पादप्रहारो दत्तो यथा स घटो भग्नः सक्तभिः पाण्डुरतां गतः । अतोऽहं ब्रवीमि-'अनागतवती चिन्ताम्' इति । सुवर्ण- सिद्धिराह-एवमेतत् । कस्ते दोषः। यतः सर्वोऽपि लोभेन विडम्बितो बाध्यते । उक्तश्च- यो लौल्यात्कुरुते कर्म नैवोदकमवेक्षते । विडम्बनामवाप्नोति स यथा चन्द्रभूपतिः ॥६६॥ चक्रधर आह-कथमेतत् । स आह- कथा (९) कस्मिंश्चिनगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर- क्रीडारता वानरयूथं नित्यमेवानेकभोजनभक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानरयूथाधिपो यः स (१) औशनस-बाईस्पत्य-चाणक्यम- तवित्तदनुष्ठाता(२) च तान्सर्वानप्यव्यापयति स्म । अथ तस्मिन्राजगृहे (३)लघुकुमारवाहनयोग्यं मेषयूथमस्ति । तन्मध्यादेको जिह्वालौल्यादहर्निशं निःशङ्क(४)महानसे प्रविश्य यत्पश्यति तत्सर्वं भक्षयति । ते च(५) सूप- कारा यत्किंचित्काष्ठं मृण्मयं भाजनं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति तेनाशु ताडयन्ति । सोऽपि वानरयूथपस्तद् दृष्ट्वा व्यचिन्तयत्-अहो ! मेषसूपकारकलहोऽयं वानराणां क्षयाय भविष्यति, यतो (६) अन्नास्वाद- लम्पटोऽयं मेषः, महाकोपाश्च सूपकारा यथासन्नवस्तुना(७) प्रहरन्ति । (१) उशनसा=शुक्राचार्येण, बृहस्पतिना-देवाचार्येण, चाणक्येन च प्रोक्तानि मतानि = सिद्धान्तान् नीतिशास्त्राणीतिभावः, वेत्ति जानातीति तथोक्तः, ज्ञातविविधनीतिशास्त्रतत्त्व इत्यर्थः । (२) नीतिशास्त्रानुसारकार्यकारी। (३) बालकानां यानोपयुक्तम् । (४)पाकगृहे। (५) पाचकाः (रसोई बनानेवाला।) (६) अन्नस्य भक्कादेः, आस्वादे भक्षणे, लम्पटः= लोलुपोऽत्यन्तमिछुक (७) निकटवर्तिना येन केनचिदपि वस्तुना । । इत्यर्थः।

पञ्चतन्त्रके- Na तद्यदि वस्तुनोऽभावात्कदाचिदुल्मुकेन(१) ताडयिष्यन्ति । तदोर्णाप्रचु- रोऽयं मेषः स्वल्पेनाऽपि वह्निना प्रज्वलिष्यति । तदह्यमानः (२)पुनरश्व- कुटयां समीपवर्तिन्यां प्रवेक्ष्यति । सापि तृणप्राचुर्याज्ज्वलिष्यति। ततोऽश्वा वह्निदाहमवाप्स्यन्ति ! (३)शालिहोत्रेण पुनरेतदुक्तम्-४)यद्वानरवसया- श्वानां वहिदाहदोषः प्रशाम्यति । तन्नूनमेतेन भाव्यमत्र निश्चयः । एवं निश्चित्य सर्वान्वानरानाहूय रहसि प्रोवाच, यतः- मेषेण सूपकाराणां कलहो यत्र जायते । स भविष्यत्यसन्दिग्धं वानराणां क्षयावहः ॥ ६७ ॥ तस्मात्स्यात्कलहो यत्र गृहे नित्यमकारणः । तद् गृहं जीवितं वाञ्छन्दूरतः परिवर्जयेत् ॥ ६८ ।। तथा च-कलहान्तानि हाणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ ६ ॥ तन्न यावत्सर्वेषां संक्षयो भवति, तावदेतद्राजगृहं सन्त्यज्य वनं गच्छामः। अथ तत्तस्य वचनमश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-भोः! भवतो वृद्धभावाद् (५)बुद्धिवैकल्यं सआतं, येनैतद् ब्रवीषि । उक्तं च-- वदनं दशनीनं लाला स्रवति नित्यशः । न मतिः स्फुरति कापि बाले वृद्धे विशेषतः ॥ ७० ॥ न वयं स्वर्गसमानोपभोगान्नानाविधान्भक्ष्यविशेषाराजपुत्रैः स्वहस्त- दत्तानमृतकल्पान्परित्यज्य तत्राटव्यां कषायकटुतिक्तक्षाररूक्षफलानि भक्ष- यिष्यामः । तच्छुत्वाश्रुकलुषां(६) दृष्टि कृत्वा स प्रोवाच-रे रे मूर्खाः ! यूयमेतस्य सुखस्य परिणामं न जानीथ I. किं न (७)पापरसास्वादनप्राय- मेतत्सुखं परिणामे विषवद्भविष्यति ? । तदहं कुलक्षयं स्वयं नावलोकयि प्यामि । सांप्रतं वनं यास्यामि । उक्तं च- (१)ज्वलता काष्ठेन। (२) अश्वशालायाम्। (३) अश्वविद्याविशारदेन किंवा अश्वचिकित्साशास्त्रप्रवर्तकेनेत्यर्थः । (a) वानरमेदसा। (५) बुद्धेनशिः। (६) नेत्राम्बुभिः पूर्णा कृत्वा । पापस्य - दुष्कर्मणः, यो रसः अनुभवः फलभोग इति यावत, तस्य यद् मास्वादन स्वादस्तस्त्रायं तसशमित्यर्थः परिणामेऽतिविरसमिति यावता अपरीक्षितकारकम् २०९ मित्रं व्यसनसंप्राप्तं स्वस्थानं परपीडितम्। धन्यास्ते ये न पश्यन्ति देशभङ्ग कुलक्षयम् ॥ ७१ ॥ एवमभिधाय सर्वास्तापरित्यज्य स यूथाधिपोऽटव्यां (१) गतः । अथ तस्मिन्यतेऽन्यस्मिनहनि स मेषो महानले प्रविष्टो यावत्लपकारेण नान्य- किञ्चित्समासादितम् ; तावदर्धज्वलितकाष्ठेन ताड्यमानो जाज्वल्यमान- शरीरः शब्दायमानोऽश्वकुटयां (२)प्रत्यासन्नवर्तिन्यां प्रविष्टः । तत्र तृण- प्राचुर्ययुक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वहिज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुटितलोचनाः (३)पञ्चत्वं गताः, केचिद् बन्धनानि नोटयित्वार्धदग्धशरीरा इतश्चेतश्च (४)द्वेषायमाणा धावमानाः सर्वमपि जनसमूहमाकुलीचक्रुः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्या- नाहूय प्रोवाच-भोः ! प्रोच्यतामेषामश्वानां कश्चिदाहोपशमनोपायः । तेऽपि शास्त्राणि विलोक्य प्रोचुः-देव ! प्रोक्तमत्र विषये भगवता शालि- होत्रेण यत्- कपीनां मेदसा दोषो वहिदाहसमुद्भवः । अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥७२॥ तक्रियतामेतचिकित्सितं द्राक् , यावदेते न दाहदोषेण विनश्यन्ति । सोऽपि तदाकर्ण्य समस्तवानरवधमादिष्टवान् । किं बहुना सर्वेऽपि ते वानरा (५)विविधायुधलगुडपाषाणादिभिर्व्यापादिता इति । अथ सोऽपि वानरयूथपस्तं पुत्रपौत्रभ्रातृसुतभागिनेयादिसंक्षयं ज्ञात्वा परं विषाद मुपागतः । स त्यक्ताहारक्रियो वनाद्वनं पर्यटति । अचिन्तयच्च-कथमहं तस्य (६)नृपापसदस्यानृणताकृत्येनापकृत्यं करिष्यामि । उक्तञ्च- मर्षयेद्धर्षणां योऽत्र वंशजां परनिर्मिताम् । भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः ॥७३॥ अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता (७)पद्मिनीष- (१) वने। (२)निकटवर्तिन्याम् । (३) मृता इत्यर्थः । (४) हेषारवं कुर्वाणाः। ५) विविधैः = नानाप्रकारैः, आयुधैः = प्रहरणैः, लगुडैः = दण्डैः, पाषाणैः प्रस्तरादिभिश्चेति यावत् । (६) कुत्सितस्य राज्ञ इत्यर्थः । (७) कमलिनीनां षण्डेन = समूहेन मण्डितं शोभितम् । - २१० पञ्चतन्त्रके- -भोः! अत्र ण्डमण्डितं सरः समासादितम् । तद्यावत् (१)सूक्ष्मेक्षिकयावलोकयति तावद्वनचरमनुष्याणां पदपतिप्रवेशोऽस्ति, न निष्क्रमणन् । तश्चिन्ति- तम् नूनमत्र जलान्ते दुष्टप्राहेण भाव्यम् । तत्पझिनीनालमादाय दूरस्थोऽपि जलं पिबामि । तथानुष्ठिते तन्मध्याद्राक्षसो निष्क्रम्य (२)रत्नमालाविभूषितकण्ठस्तमुवाच यः सलिले प्रवेशं करोति स मे भक्ष्य इति । तन्नास्ति धूर्ततरस्त्वत्समोऽन्यो यः, पानीय- मनेन विधिना पिबति । ततस्तुष्टोऽहम् । प्रार्थयस्व हृदयवांच्छितम् । कपिराह-भोः ! कियती ते भक्षणशक्तिः ? । स आह-शतसहस्रा. युतलक्षायपि जलप्रविष्टानि भक्षयामि । (३)बाह्यतः शृगालोऽपि मां दूषयति । वानर आह-अस्ति मे केनचिद् भूपतिना सहात्यन्तं वैरम् , यद्येनां रत्नमालां मे प्रयच्छसि तत्सपरिवारमपि तं भूपतिं वाक्प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि । सोऽपि श्रद्धेयं वचः तस्य श्रुत्वा रत्नमालां दत्त्वा प्राह-भोः ! मित्र ! यत्समुचितं भवति तत्कर्तव्यमिति । वानरोऽपि रत्नमालाविभूषितकण्ठो वृक्षप्रसादेषु परिभ्रमञ्जनदृष्टः, पृष्टश्च-भो ! यूथप ! भवानियन्तं कालं कुत्र स्थितः ? | भवतेयत्नमाला कुत्र लब्धा, या दीप्त्या सूर्यमपि तिरस्करोति । वानरः प्राह-अस्ति कुत्रचिदरण्ये गुप्ततरं महत्सरो धनदनिमितम् । तत्र सूर्येऽोदिते रवि- वारे यः कश्चिन्निमज्जति, स (४)धनदप्रसादादीप्रत्नमालाविभूषितकण्ठो निःसरति । अथ भूभुजा तदाकर्ण्य स वानरः समाहूतः, पृष्टश्च-भो! यूथाधिप ! किं सत्यमेतत् । रत्नमालासनाथं सरोऽस्ति कापि । कपिराह-स्वामिन् ! एष प्रत्यक्षतया मत्कण्ठस्थितया रत्नमालया (५)प्रत्ययस्ते । तद्यदि रत्नमालया प्रयोजनं तन्मया सह कमपि प्रेषय येन दर्शयामि । तच्छ्रुत्वा नृपतिराह-यद्येवं तदहं सपरिजनः स्वय. मेष्यामि | येन प्रभूता रत्नमालाः सम्पद्यन्ते | वानर आह-एवं (१) विचारमय्या दृष्टया । (२) कण्ठे धृतरत्नमयमाल इति भावः। (३)स्थले तु ऋगालोऽपि मां पराभवितुं शक्नोतीत्यर्थः । (.)भनदस्य - कुबेरस्य प्रसादात् = अनुग्रहात, ईशा एवंभूतया रत्न- मालया-रस्नजडितस्वजा, विभूषितकण्ठः = अलङ्कृतग्रीवः । ५) विश्वासः।

अपरीक्षितकारकम् । - क्रियताम् । तथानुष्ठिते भूपतिना सह रत्नमालालोभेन सर्वे कलत्रभृत्याः प्रस्थिताः। वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्ग आरोपितः(१) सुखेन प्रीतिपूर्वमानीयते । अथवा साध्विमुच्यते- तृष्णे! देवि ! नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥ ७४ ।। तथा च---इच्छति शती सहस्रं सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते ॥ ७५ ॥ जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीर्यतश्चक्षुषी श्रोत्रे तृष्णका तरुणायते ॥ ७६ ।। अथ तत्सरः समासाद्य वानरः प्रत्यूषसमये राजानमुवाच-देव ! अत्राोदिते सूर्येऽत्र प्रविष्टानां सिद्धिर्भवति । तत्सर्वोऽपि जन एकदैव प्रविशतु । त्वया पुनर्मया सह प्रवेष्टव्यं येन पूर्वदृष्टस्थानमासाद्य प्रभूतास्ते रत्नमाला दर्शयामि । अथ प्रविष्टास्ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु (२)चिरायमाणेषु राजा वानरमाह-भो ! यूथाधिप ! किमिति (३)चिरायते मे जनः ? । तच्छत्वा वानरः सत्वरं वृक्षमारुह्य राजानमुवाच-भो ! दुष्टनरपते ! राक्षसेनान्तःसलिलस्थितेन(४) भक्षि- तस्ते परिजनः । साधितं मया कुलक्षयजं वैरम् । तद् गम्यताम् | त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तश्च- कृते प्रतिकृति कुर्याद्धिसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि दुष्टे दुष्टं समाचरेत् ॥ ७७ ॥ तत्त्वया मम कुलक्षयः कृतः, मया पुनस्तव इति । अथैतदाकर्ण्य राजा कोपाविष्टः पदातिरेकाकी (५)यथायातमार्गेण निष्क्रान्तः । अथ तस्मिन्मू- पतौ गते राक्षसस्तृप्तो जलान्निष्क्रम्य सानन्दमिदमाह-- हतः शत्रुः कृतं मित्रं रत्नमाला न हारिता । नालेन पिबता तोयं भवता साधु वानर ! ।। ७८॥ अतोऽहं ब्रवीमि-'यो लोल्यात्कुरुते कर्म' इति । एवमुक्त्वा (१)उपवेशितः। (२)विलम्ब कुर्वत्सु । (३)विलम्बं करोति । (४)जलमध्यवर्तिना। (५) येन मार्गेण आयातस्तेनैव मार्गेण निर्गत इत्यर्थः । - २१२ HAR पञ्चतन्त्रके- भूयोऽपि स चक्रधरमाह-भो ! मित्र ! प्रेषय मां येन स्वगृहं गच्छामि | चक्रधर आह-भद्र ! आपदर्थे धनमित्रसंग्रहः क्रियते तन्मामेवंविधं त्यक्त्वा क यास्यसि । उत्तच--- यस्त्यक्त्वा सापदं मित्रं याति निष्ठरतां सुहृत् । कृतघ्नस्तेन पापेन नरके यात्यसंशयम् ॥ ७९ ॥ सुवर्ण सिद्धिराह-भोः ! सत्यमेतद्यदि (१)गम्यस्थाने शक्तिर्भवति । एतत्पुन 'नुष्याणामगम्यस्थानम्(२) । नास्ति कस्यापि त्वामुन्मोचयितुं शक्तिः । अपरं यथा यथा चऋभ्रमवेदनया तव मुखविकारं पश्यामि, तथा तथाहमेतजानामि यद् द्राग्गच्छामि मा कश्चिन्ममाप्यनर्थो(३) भवेदिति । यतः- याशी वदनच्छाया दृश्यते तव वानर !। विकालेन गृहीतोऽसि यः परैति स जीवति ॥ ८ ॥ चक्रधर आह-कथमेतत् । सोऽब्रवीत्- कथा (१०) कस्मिंश्चिन्नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व- लक्षणसम्पन्ना रत्नवती नाम कन्यास्ति | तां कश्चिद्राक्षसो (४)जिहीर्षति । परं (५)कृतरक्षोपधानां हर्तुं न शक्नोति । सापि तत्समये रक्षःसान्निध्य- जामवस्थामनुभवति कम्पादिभिः । एवमतिकामति(६) काले कदाचित्स राक्षसो मध्यनिशायां गृहकोणे स्थितः । सापि राजकन्या स्वसखीमुवाच- सखि ! पश्यैष विकालः समये नित्यमेव मां (७)कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधापायः कश्चित् ! । तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्- नूनं यथाहं तथान्योऽपि कश्चिद्विकालनामास्या हरणाय नित्यमेवागच्छति परं सोऽप्येनां हतुं न शक्नोति । तत्तावदश्वरूपं कृत्वाश्वमध्यगतो (१)शक्तिसाध्ये कर्मणि शक्तेः प्रयोगो युक्त इति भावः । (२)मनुयाणां शक्कितो बहिर्भूतमिति यावत् । (३)अनिष्टप्राप्तिरित्यर्थः। (४)हमिच्छति। (५) राक्षसनिवारणाय शिरोदत्ताभिमन्त्रितौषधपूर्णोपधानाम् । (१)गच्छति सतीत्यर्थः। (७)पीडयति।

२१३ अपरीक्षितकारकम् । निरीक्षयामि किंवपः न किम्प्रभावश्चेति । एवं राक्षसोऽश्वरूपं कृत्वाश्वानां मध्ये तिष्ठति । तथानुष्ठिते (१)निशीथसमये राजगृहे कश्चिदश्वचौरः प्रविष्टः । स च सर्वानश्वानवलोक्य तं रानसमवलमं विज्ञायाधिरूढः । अत्रान्तरे राक्षसश्चिन्तयामास-तृनमेष विकालनामा मां चौरं मत्वा कोपानिहन्तुमागतः । तत्किङ्करोमि । एवं चिन्तयन्सोऽपि तेन (२)खलीनं मुखे निधाय (३)कशाघातेन ताडितः । अथालौ भयत्रस्तमनाः प्रधावितु- मारब्धः । चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्धवान् । स तु केवलं वेगाद्वेगतरं गच्छति । अथ तं तथा अगणितखलोनाकर्षण(४) मत्वा चौरश्चिन्तयामास-अहो ! नैवंविधा वाजिनो भवन्त्यगणित- खलीनाः । तन्नूनमनेनाश्वरूपेण राक्षसेन भवितव्यम् । तद्यदि कञ्चि- त्पांशुल (५)भूमिदेशमवलोकयामि, तदात्मानं तत्र पातयामि । नान्यथा मे (६)जीवितव्यमस्ति । एवं चिन्तयत इष्टदेवतां स्मरतस्तस्य सोऽश्वो वटवृक्षस्य तले निष्क्रान्तः। चोरोऽपि वटप्ररोहमासाद्य तत्रैव विलग्नः । ततो द्वावपि तौ पृथग्भूतौ परमानन्दभाजी जीवितविषये लब्धप्रत्याशी सम्पन्नौ। अथ तत्र वटे कश्चिद्राक्षस मुहद्वानरः स्थित आसीत् । तेन राक्षसं त्रस्तमालोक्य व्याहृतम्-भो ! मित्र ! किमेवं पलाय्यतेऽलीकम- येन(७) त्वद्भक्ष्योऽयं मानुषः । भक्ष्यताम् । सोऽपि वानरवचो निशम्य स्वरूपमाधाय शङ्कितमनाः स्खलितगतिर्निवृत्तः । चौरोऽपि तं वानराहूत ज्ञात्वा कोपात्तस्य लालं लम्बमानं मुखे निधाय चर्वितवान् , वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान्न किञ्चिदुक्तवान् केवलं(5)व्यथार्ता निमीलितनयनस्तिष्ठति राक्षसोऽपि तंतथाभूतमवलोक्य श्लोकमेनमपठत्- याशी वदनच्छाया दृश्यते तव वानर !। विकालेन गृहीतोऽसि यः परैति स जीवति ।। ८१ ।। उक्त्वा प्रनष्टश्च । तत्प्रेषय मां येन गृहं गच्छामि | त्वं पुनरनु- (१) अर्धरात्रे। (२) कविकाम् । (लगाम) इति प्रसिद्धाम् । (३) अश्वादीनां ताडनोपकरणेन (चाबुक) इति ख्यातेन । ४) खलीनाकर्षणमुपेक्षमाणमित्यर्थः । (५) धूलिबहुलम् । (६)जीवनरक्षेत्यर्थः (७) वृथाभयेन। (८) पीडितः। ।

पञ्चतन्त्रके- - - भुदवात्र स्थित एव लोभवृक्षफलम् । चक्रधरः प्राह-भो ! अकारण- मेतत् । दैववशात्सम्पद्यते नृणां शुभाशुभम् । उक्तञ्च- दुर्गनिकूटः परिखा समुद्रो रक्षांसि योधा धनदा वित्तम् । शानं च यस्योशनसा प्रणीतं स रावणो देवशाद्विपन्नः ॥२॥ सुवर्णसिद्धिराह-भो! सत्यमेतत् । दैवानुकूलतया सर्व कल्याणं सम्पद्यते । तथापि पुरुषेण(१) सतां वचनं कार्यम् । न पुनरेवमेव असं- हतेन कदाचिदपि भवितव्यम् | यः खलु एवमेव वर्तते स त्वमिव नूनं. विनश्यति । तथा च- एकोदरा पृथग्ग्रीवा अन्योन्यफलभक्षिणः। असंहता विनश्यन्ति भारएडा इव पक्षिणः ॥ ८३ ॥ चक्रधर आह-कथमेतत् । सोऽब्रवीत्- कथा (११) करिमश्चित्सरोवरे भारण्डनामा पक्ष्येकोदरःपृथग्ग्रीवःप्रतिवसति स्म । तेन च समुद्रतीरे परिभ्रमता किश्चित्फलममृतकल्पं तरङ्गाक्षिप्तं सम्प्राप्तम् । सोऽपि भक्षयन्निदमाह-अहो ! बहूनि मया (२)अमृत- प्रायाणि (३)समुद्रकल्लोलाहृतानि फलानि भक्षितानि । परमपूर्वोऽस्या- स्वादः । तत्कि पारिजातहरिचन्दनतरुसम्भवम् । किं वा किञ्चिदमृत. मयफलमव्यक्तेनापि विधिना पतितम् । एवं तस्य अवतो द्वितीयमुखेनाभि- हितम्-भोः यद्येवं तन्ममापि स्तोक(४) प्रयच्छ, येन (५)जिबासौख्य मनुभवामि । ततो विहस्य प्रथमवक्त्रेणाभिहितम्-आवयोस्तावदेक- मुदरम् , एका तृप्तिश्च भवति ततः किं पृथग्भक्षितेन । वरमनेन शेषेण प्रिया तोष्यते । एवमभिधाय तेन शेषं भारण्डयाः प्रदत्तम् । सापि तदा- स्वाद्य प्रहृष्टतमा बभूव द्वितीयं मुखं तद्दिनादेव प्रभृति सोद्वेगं सविषादं च तिष्ठति । अथान्येद्युः द्वितीयमुखेन विषफलं प्राप्तम् । तद् दृष्ट्वापरमाह- भोः ! (६)निविंशपुरुषाधम ! (७)निरपेक्ष ! मया विषफलमासादितम् । (१)वृद्धानां वचनं मन्तव्यमित्यर्थः । (२)सुमधुराणीत्यर्थः। (३)सागरतरङ्गैरानीतानि । (४) अल्पम् । (५) भास्वादयामीत्यर्थः। (६)कठोरहृदय इति भावः। (७)निर्मम !! - (१)समीपात् । (२) कुलीरकम् (केकड़ा) इति भाषायाम् । अपरीक्षितकारकम् । - काकिना न गन्तव्यम् । उक्तञ्च-- एकः स्वादु न भुञ्जीत नैकः सुप्तेषु जागृयात् । एको न गच्छेदध्वानं नैकश्चार्थान्प्रचिन्तयेत् ।। ८४ ।। अपि च-अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः । सुवर्णसिद्धिराह-कथमेतत् । सोऽब्रवीत्- कृते द्वयोरपि विनाशो भविष्यति । अथैवं वदता तेनापमानेन फलं तत्तवापमानाद्भक्षयामि । अपरेणाभिहितम्-मूर्ख! मा मैवं कुरु । एवं भक्षितम् । किं बहुना | द्वावपि विनष्टौ । अतोऽहं ब्रवीमि-'एकोदराः पृथग्ग्रीवाः' इति ।। चक्रधर आह-सत्यमेतत् । तद्गच्छ गृहम् । परमे- कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ।। ८५ ॥ वशाद् ग्रामे प्रस्थितः स्वमात्राभिहितः-यद्वत्स! कथमेकाकी व्रजसि । तद- कस्मिंश्चिदधिष्ठाने ब्रह्मदत्तनामाब्राह्मणः प्रतिवसति स्म। स च प्रयोजन. विष्यतां कश्चिद् द्वितीयः सहायः । स आह-अम्ब ! मा भैषीः। निरुपद्र- वोऽयं मार्गः । कार्यवशादेकाकी गमिष्यामि | अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थवाप्याः (१)सकाशात् (२)कर्कटमादाय मात्राभिहितः-वत्स ! अवश्यं यदि गन्तव्यं तदेष कर्कटोऽपि सहायो भवतु। तदेनं गृहोत्वा गच्छ । सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां तं संगृह्य कपूरपुटिकामध्ये निधाय पात्रमध्ये संस्थाप्य शीघ्र प्रस्थितः। अथ गच्छन्त्रीष्मोष्मणा सन्तप्तः कश्चिन्मार्गस्थवृक्षमासाद्य तत्रैव प्रसुप्तः । अत्रान्तरे वृक्षकोटरा- परित्यज्य वस्त्रं विदार्याभ्यन्तरगतां कर्पूरपुटिकामतिलौल्यादभक्षयत् । सोऽपि कर्कटस्तत्रैव स्थितःसन् सर्पप्राणानपाहरत् । ब्राह्मणोऽपि यावत्प्र- (३)कर्पूरसुगन्धसहजप्रियत्वातं - कथा (१२) . - निर्गत्य सर्पस्तत्समीपमागतः। स च (३) स्वभावतः कर्पूरसौरभप्रियत्वात् ।

२१६ पञ्चतन्त्रकम्। - , बुद्धः पश्यति तावत्समीपे मृतः कृष्णसर्पो निजपावें कपूरपुटिकोपरि स्थितस्तिष्ठति तं दृष्ट्वा व्यचिन्तयत्-'कर्कटेनायं हतः' इति प्रसन्ने भूत्वाब्रवीत्-भोः ! सत्यमभिहितं मम मात्रा यत्पुरुषेण कोऽपि सहाय कार्यः, नैकाकिना गन्तव्यम् । यतो मया (१)श्रद्धापूरितचेतसा तद्वचनमः नुष्ठितम् , तेनाहं कर्कटेन सर्पव्यापादनाद्रक्षितः अथवा साध्विदमुच्यते- क्षीणः सवति शशी रविवृद्धौ वर्धयति पाथसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये । ८६ ॥ मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । याशी भावना यस्य सिद्धिर्भवति ताशी ॥७॥ एवमुक्त्वासौ ब्राह्मणो (१)यथाभिप्रेतं गतः । अतोऽहं ब्रवीमि- 'अपि कापुरुषो मार्गे' इति । एवं श्रुत्वा सुवर्णसिद्धिस्तमनुज्ञाप्य स्वगृह (३)प्रतिनिवृत्तः॥ इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रकेऽपरीक्षितकारक नाम पञ्चमं तन्त्रं समाप्तम् । समाप्तमिदं पञ्चतन्त्रकम् । . (१)श्रद्दधतेति यावत् । (२) यथेच्छस्थानं गत इत्यर्थः । (३)प्रतिगतः।

No text on this page.

उत्तररामचरित-नाटकं-चन्द्रकला टीका चन्द्रकला-विद्योतिनी-संस्कृत-हिन्दीटीका संस्कृत-हिन्दीकथासारा ( Notes ) श्रादि विविधपरिशिष्ट सहित । सभी प्रान्त के शिक्षा-संस्थाओं के पाठ्य-गन्थों में निर्धारित इस ग्रन्थ की ऐ सारविवेचिनी सुविस्तृत व सरल संस्कृत-हिन्दी टीका आजतक प्रकाशित नहीं थी जिससे विद्याथियों का विशेष लाभ हो। इसकी विस्तृत व्याख्या में पूर्व प्रकाशि सभी टीकायें गतार्थ हो चुकी हैं । प्रत्येक विषय का इतना सुन्दर और सरल रीति स्पष्ट प्रतिपादन किसी भी अन्य टीकाओं में मिलना दुर्लभ है । नैषधमहाकाव्यम् १-५ सर्ग मूल्य ३ 'जीवातु' 'प्रबोधिनी' टीकाद्वयोपेतम् । शास्त्री प्रथम खण्ड परीक्षा निर्धारित इस ग्रन्थ की परीक्षोपयोग सरलसंस्कृत-हिन्दी टीका यह प्रथम ही प्रकाशित हुई है। म. म. मल्लिना कृत दूष्प्राप्य अति प्राचीन विशुद्ध 'जीवातु' टीका के साथ २ इस "प्रबोधिनी' नामक विस्तृत भाषा टीका ने तो गागर में सागर भर दि है । इस संस्करण को देखते ही आप प्रसन्न हो उठेगे । १-३ सर्ग । (संपूर्ण ग्रन्थ छप रहा है) काव्यदीपिका 'मयूख'-'किरण' संस्कृत-हिन्दी टीका सहित । लेखक-कान्तिचन्द्र विद्यारत्न भट्टाचार्य । अलंकार ग्रंथों में यह सर्वोपरि संग्र ग्रंथ है । इस ग्रंथ में काव्यप्रयोजन, लक्षण, अभिधा-लक्षण,-व्यंजनानिरूपण, का भेद-रस-ध्वनिभेद निरूपण, नाटकोपयोगि निरूपण, दोष, गुण, रीति, अलंकार अर्थालंकार निरूपण आदि का सरल तथा सुबोध शब्दों में विवेचन किया गया परीक्षा में जितने अलंकार निर्धारित हैं वे सब इस ग्रंथ में पाये जाते इसकी सारविवेचिनी संस्कृत और हिन्दी टीका हो जाने से यह ग्रंथ परीक्षा के लिये और भी सुलभ और उपादेय हो गया है । प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस-१

No text on this page.

था मध्यसिद्धान्तकौमुदी 'सुधा"इन्दुमती' संस्कृत-हिन्दीटीका विभूषित गणपाठ, सूत्रसूची,उणादिसूची,वार्तिकसूची, धातुसूची, प्रश्नोत्तर लेखन प्रकारादि परिशिष्ट सहित इसकी 'सुधा' संस्कृत टीका में प्रत्येक प्रयोग तथा धातुरूपों की परीक्षोपयो साधनिका तथा सूत्रार्थोकी अति सरल व्याख्या की गई है। इस टीका का अध्यय करने से परीक्षार्थियों को 'प्रभोत्तरी' की भी आवश्यकता नहीं पड़ेगी। सभी प्रयो की व्याख्या प्रश्नोत्तर लेखन के रूप में ही की गयी है। इसकी 'इन्दुमती' नाम हिन्दी टीकामें टीकाके साथ ही साथ 'नोट्स' देकर संस्कृत व्याकरण का भी सर रूपसे ज्ञान कराया गया है जो आजतक किसी भी संस्करण में प्रकाशित नहीं हुई। ग्रन्थ के अन्तमें विविध प्रकार के परिशिष्ट भी दिये गये हैं। मूल्य ६ भट्टिकाव्यम् 'चन्द्रकला' 'विद्योतिनी' टीकाद्धयोपेतम् परीक्षोपयोगी संपूर्ण विषयों से विभूषित 'चन्द्रकला' तथा 'विद्योतिनी' दो टीकाओं से युक्त भट्टिकाव्य' का दूसरा कोई भी संस्करण नहीं है। गवर्नमें संस्कृत कालेज काशी के परीक्षा बोर्ड के माननीय विद्वानोंने मुक्तकंठ से इस संस्करण की प्रशंसा की है। विद्यार्थियों के लिये यही संस्करण नियत है। आपने अभी तक नहीं खरीदा हो तो शीघ्र खरीद लिजीये। अन्यथा द्विती संस्करण की प्रतीक्षा करनी होगी। १-६ सर्ग ३॥) ७-११ सर्ग ३॥ पूर्वार्ध १ से ११ सर्ग का १२ से २२ सर्ग का उत्तरार्द्ध भाग भी शीघ्र प्राप्त होगा कादम्बरी 'चन्द्रकला' 'विद्योतिनी' टीकाद्वयविभूषित । संस्कृत-हिन्दी दो टीकाओं से विभूषित परीक्षोपयोगी सुपरिष्क यह संस्करण प्रथम बार ही प्रकाशित हुआ है । 'हाथ कंगन को आरस क्या' काशी-गवर्नमेंट संस्कृत कालेज की शास्त्री परीक्षा के लिये 'जावाल्याश्रमवर्णन' पर्यन्त कथामुख पर्यन्त ३॥ पूर्वार्ध संपूर्ण ग्रन्थ भी शीघ्र प्राप्त होगा। प्राप्तिस्थानम्-~-चौखम्बा संस्कृत पुस्तकालय, बनारस-१ ३)

No text on this page.

No text on this page.

No text on this page.

Panchatantram Vol Ii

Author
Pandit Bhanu Dattshastri
Other authors
Ccl
Title
Panchatantram Vol Ii
File name
Panchatantram Vol Ii
Text
OCR done
Citation
1952
Publisher
Chowkhamba Sanskrit Series Office
Language
Sanskrit
Pages
228
Library
Scl
DLI number
326337
Barcode
2020010006672.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
lXkbdcQx2fT
Download PDF

Panchatantram Vol Ii