Sringeri Sharada Peetham
Maitra Madhuryam
Front matter
मैत्र-मार्यम्
लेखक :
दर्शनशास्त्राध्यापक-श्री-द्विजेन्द्रलाल-शर्म-पुरकास्थ
एम. ए., काव्यतीर्थः
(अवकाशप्राप्त प्राचार्यः राजकीय महाविद्यालयस्य)
जयपुरम्-फरवरी 1987
प्रकाशकः
श्री द्विजेन्द्रलाल शर्मा पुरकास्थ
डी-117, कृष्ण मार्ग, बापूनगर, जयपुर
प्रथमं संस्करणम्
सर्वाधिकार: संरक्षितः
मूल्यम्-एकादश रुप्यकाणि (Rs. 11/-)
मुद्रक :
गर्ग प्रिन्टर्स
जयपुर-3
4. मैत्र-माधुर्याम् प्रथाद्यः सर्गः कृष्णप्रेममयात्म-प्रत्ययमति ल्याद् विनीतोऽभयो धीमान् ब्राह्मणं-सूनुरर्क इव वाऽऽत्ताभ्रः सुदामा वजे । पत्नी चानुरतां सतीमनुदधत् पद्मां यथा माधवो दोधू दैन्यप्रमदितो दमघनोऽदामाऽद् तोऽविद्यत ।।1।। कायक्लेश-शतैरकर्कश-कृति भिक्षान्न-कुक्षिभरि- र्जीर्णेऽपूर्णकृते विवर्ण-भवने वर्षातप विनिते। कृच्छ जीवन-यापनं प्रतिदिनं निन्दन स्वदैन्यार्दनं प्रायः प्रेमपयोनिधि प्रियसखं विप्रोऽस्मरत् प्रीतिदम् ॥ 2 ।। ग्रामान्तेऽप्यधनागमाग्र-सुभगः पत्रार्घ्य-रागग्रहै- ब्रघ्नांशो दिवेसेऽपि बाधितदिव श्छायान्ध्यदे दुःस्थले । रात्री तामस-शैत्य-जन्तुभिरतो व्युत् पीडिते वै स्वत आवासोऽस्य समोऽभवद् गततृषां श्रीश्रान्ति-मिश्राश्रमैः ।। 3 ।। कान्तारान्तगते नितान्तनिभृते कान्तिच्युतेऽन्ता हे पल्या रत्न-भया प्रयत्नपरया प्रत्लानुशंस-किया। एकस्मिन् दिवसेऽवसादगमितो दारिद्र य-दीर्ण-त्रपो- वारं वारमनन्तपारमवशोऽभावाब्धिमब त सः ।। 4 ।। विद्यामुद्धृतिदायिनीं विदधतोऽप्यु त्कृष्ट-सत्वान्वितां निर्वित्ता अवहेलितात्मकृतयःसद्वृत्तिमन्तोऽपि वा। कालेऽलालित-पल्लवालितरुवल्लावण्य-रिक्ता नरा लुप्ताभा अवरा भवेयु रवनी संभाविता वै कुतः ॥ 5 ॥ ( 1 ) प्रथमः सर्ग: प्रायः प्राशन-शून्य-शुष्कवदनैः संक्षीण-देहै नतै- र्भक्ष्याभक्ष्य-विवेचना-विरहित हीनात्मधी-व्याधितः । तै-श्चांचल्यत आतिसंहति-सहै मर्गिस्थ-धूल्योद्धृति- भिक्षान्नं यदि वाप्यतेऽपि किमित स्तत् क्षुच्छमेऽस्त्यक्षमम् । 6 - केशा कंटकि-कुन्तला सचिकिला स्तैलं बिनाऽचिक्कणा देहो दंड इम इवाऽविमंडकठिनः शुण्डाकृति विक्षतः । प्लुष्टः कर्पट एवपाटितपटो गात्र-त्रपा-त्रासनो वित्ताऽभाव-प्रभाव-बाधित-गते र्नु र्भाग्यमेवं विधम् ॥ 7 ॥ कंठेऽकुठित-कूट-कुभवहनो ना किं तरेदम्बुधि पक्षी पक्षमृतेऽन्तरिक्षगमने स्यादत्र किं सक्षमः । ऊद्ध र्वं स्थातुमनात्त-साधनधनोऽप्यद्रिः कुतोऽर्हेद्वत दैन्यार्ता भुवि वंचित-व्यवसिता व्यर्था भवेयुर्न राः ।। 8 ।। दारिद्र यं धिगितोऽधिकं च धरणौ धिग् दैन्यदग्धान् नरान् भोज्यांऽगावृति-साधनार्जनकृतौ सम्मार्जनीजर्जरान् । सर्वानेव य आत्मप्रत्यहृता श्चान्याश्रिता लांछिता: स्वल्प: सज्जन-साधुभि ( वि विना कस्तान् पुनः पृच्छति ॥ ॥ मित्र श्चाप्यवधीरितोऽमित मितोऽकस्माद् यदि क्वेक्षितो ज्ञात स्तै न तदाप्यनागत इवाऽवज्ञात अास्थाच्युतः । पश्यन्न त्सुक एव तान् पथिचितान् दैन्यच्छदाक्षोऽप्यह किन्न्वाप्नोमि परां तथाऽर्थ र हितो ब्रह्मात्मतुल्यां गतिम् ।।101 ( 2 ) मैत्र-माधुर्यम् दुर्व्याधिक्षयिनेऽथवा ऽन्त्यजनये व्यर्थार्थ-निक्षेपवन्- मत्त ल्याय जनाय तुच्छचितयेऽप्यस्तुत्य-सत्तावते । केचिद् भक्ष्यतनून अभक्ष्यतुलितान् वोपेक्षितान् तंडुलान् यच्छन्त्यत्र धनाऽस्मिताऽऽतपतता वाऽवांछितान् हेलया॥11॥ स्वस्थाने धृतवास-सौख्य-चरिताः स्वल्पश्रमेऽवस्थिता गायन्तः क्वच नर्तनात्तचरणा प्रानन्द-धन्याः स्वयम् । प्रारण्या पशवो विहगमगणाः स्वछन्द-चाराजितं खादन्ति स्व क-खाद्यमाधि-रहिता श्चादैन्य-पण्यं सदा ॥12॥ मत्त ल्या मनुजा महाश्रम-दमा मन्दाश्च निन्द्यस्मिता दौर्भाग्याद् गत-भाति-बोध-विभवा भव्योपभोगच्युताः । सर्वापत्ति-प्रदां च दुर्दमविधि धृत्वोदितां दीनतां लोकेऽधः-पतिता स्तु तामस-वृतास्तिष्ठन्तु पृथ्व्यां कथम् ।। 13 ।। शीत-ग्रीष्म-प्रभाव-बाधित-बपु वर्षाम्बु-सिक्तो भृशम् एतेषां शम-साधन विरहितो भूयोऽवसादावृतः । नित्यं व्यर्थमति स्तथाप्यनियते यत्नः शत रक्लमो ग्राह-ग्रासित-विग्रहस्य नुरिव प्राप्नोम्यहं दुर्गतिम् ॥ 14 ।। त्वां पत्नीमतुलां गुणाकृतिधृतां प्रीत्यर्थ-दीप्तां स्वतः प्राणेभ्योऽपि प्रियामतुल्य-प्रतिभामापन्न-पुण्यां रताम् । वस्त्रान्न रपि तोषणाक्षम इतो कक्षे विभंगक्षते नित्यं कुत्सित-कृत्य-तापतुदितः संतापयाम्यातिभिः ।। 15 ।। ( 3 ) प्रथमः सर्ग आकांक्षा स्त्वदकांक्षिता अपि धृताः सुप्ताः किलाऽपेक्षिता जानन्नक्षम एव पूर्तिकरणे तासामहं क्षेमदे । भव्यास्वादबुधा हृदि स्वयमपि श्रेष्ठ-स्वभावा स्त्वपि पत्युः प्रमवसुश्रिता बहु-सुख-स्वप्न-श्रियः स्युः स्त्रियः ।।16।। एक वै सुहृदं प्रियात् प्रियतरं बाल्याच्चिरं वत्सलं मैत्राभ्यर्थित एव गोपवसतो क्रीडासु पाठेष्वपि । कृष्णं दुःख निवारणक्षममहं सांस्मर्य ईड्यं परं प्रीति-प्लावितमद्भुतात्मचरितं दैन्यान्तकं सार्थकम् ॥ 17 ।। प्रार्तान् यः सततं तु तारयति तान् भ्रान्तान् भ्रमान्मोचयन् प्रज्ञानानपि हीनवृत्ति-पतितां श्चोद धारयत्यन्त्यजान् । नीचैःस्थान् प्रति मित्रताऽऽदर-धरः सद्-भाव-प्रेमाम्बुधिः कृष्णोऽस्त्येक इहाऽमरैरपि सदा संवन्द्यमानः स्वयम् ॥18॥ पूतात्मा प्रणयार्णव स्त्वरिरिपुः कंसादि-दुर्वृत्तभित् कृष्णः स्नेहनिधिः सुघोत्तमवदै र्वक्वेन्दु-विस्यन्दितैः । गोपालान् किल कृष्ण-लिप्सु-सकलान् सर्वानशक्तान् सखीन् साधून् सच्चरितांश्च दुःख-बिदरान् नृन् सादरं नन्दयेत् ॥ 19 ।। कारुण्याऽम्बुधिरेव विग्रह-धरो यस्मिन्ननन्तोऽतटो वैचित्र्यात् खलु लीलयाऽल्पप्रणयं लब्ध वापि लालित्यवान् । कृष्णोऽसौ पुरुषभो हि विषमेऽर्थाऽभावशीर्षे भवे सर्वान् प्लावति प्रभूतप्रणयः प्रमाथिनोऽमामृतः ॥ 20 ।।
.Prof. मैत्र-माधयम क्लेशार्तानिह दैन्य-पीडित-मतीनस्वस्थतात्तव्यथान् मर्मज्ञः सुमनाः प्रवीण-प्रतिभस्तान-प्रीणयन् सर्वथा। सम्यक् सान्त्वयति व्रतीव सततं नथ्यों करोत्युत्थितं कृष्णप्र मममयो विमोहक-मुखः संमर्दयन दर्पितान् ॥ 21 ॥ सत्प्रमांजन पार्जवाजितजयो जीवस्य वज्रोरसोऽ- सौ नीलोत्पल-कोमलोऽल्पकलुषं लोकेऽवलीलाच्छलैः । सम्भोजालि-सुदुर्लभादपि मुहु नम्रत्ववत्वाच्च तच्- चित्त प्रीति-सितं तथाऽप्यतितृषं संप्रापयत्यद्भुतम् ।।221 भूयो भूय इतो विवक्र-विचरे व्यक्तातिवृत्त भवे आश्वस्तान् धृत-प्रत्ययान् तु नितरामस्मान सदाऽप्रीणयत् । कृष्णो बाल्यसखोऽप्यसंख्य विपदो निःशंकिकन्नश्च तं संस्सर्येऽहमिहायुतायुधधरादिन्द्रादपीष्टप्रदम् ॥ 23 ।। कृष्ण-स्नेह-सुशोभमाद्यदिवसं सौख्यास्पदं सुस्मितं क्रीड़ा-पाठ-कृतेष्वनल्पमधुरं चापूर्वमात्तादरम् । जीवाजीवभजं च साम्य-सुषमं सौभाग्य-भोगाभयं बाल्यं जीवनमद्भुतप्रभमहो भूयः स्मराम्यव्रणम् ॥ 24 ।। वंशीवादन-पाटवादभिनवं वेदाऽधरं सुस्वरं सर्व रेव वरेण्यमभ्रमबुधः सम्मोहन पावनम् । शृण्व झि भुवि विस्मयावधिदर संस्मार्यमासी दितो नित्यं तद् व्रजवासिभि विदधतो मुग्धव॑तं तस्य वै ।। 25 ।। ( 5 ) प्रथमः सर्गः नारी गोपवधूरबोघहृदया बाधाभिभूत्यापदो मुक्ताः स व्यदधात् सदादरधरा धन्याश्च नन्दास्पदम् । वृक्षान् पुष्प-सुशोभितांश्च विहगान् भृगान् पतंगान् मृगान् कृष्णः सोऽकृरुतानिशं च विलसन् स्नेहाभिषकाप्लुतान् ।।26।। कृष्णो नीलमणि स्त्वनन्त-सुषमो वाक्यामृतैः प्रेमभि- वंशीवादन-पाटव रविरतं सर्वान् समाकर्षयन् । श्यामोऽप्येवमशेष-भेदरहित श्चांगीकरोत्यादृतान् स्वात्मन्यात्तमैत्रप्रीति-ममतान् नामार्थमाप्नोत्यतः ॥ 27 ।। कृष्णो जीवकुलं कलंक-दलनोऽप्यम्लान-लालित्यवान् सर्वं तद्गतमेव वैक्लवधृतं संकल्पयन्नक्लमम् । उत्पातोत्प्लव-घात-विघ्नविहतान् सद्भाव-वाहान्न रान् कुर्वाणो भव-वार-बाध-रहितान् नित्यं च सोऽनन्दयत् ।।28।' रासे नृत्य इतः स गोपवनिता-संवेष्टितोऽतन्द्रित- स्ताभिस्त्यक्त-प्रतीतिभिः पतिसुतास्मित्वोज्झिताभिः स्वतः । प्रेमानन्त-रतिनिकुज विपिने किं वा मधूद्यानके सर्वा स्ता अभिनन्दिता स्त्वनुगता अप्रीणयत् सर्वथा ॥ 29 ।। कृष्णः सोऽप्यधुना सुदूर-सदने द्वारावती-धाम नि सौन्दर्येऽद्भ त-दीप्ति-दर्पित इतो देवेन्द्र-पुर्योत्तमै । वन्द्यो यादववृन्द-बांधव-धरः सद्मोत्सदोऽरिन्दम- स्तिष्ठत्यस्मदनल्पवैभव-पणः क्लेशाह-मार्गात्यये ।। 30 ।। - ( 6 ) मैत्र-माधुर्यम् एकोऽहं भुवि वंचितो व्यवहितः सौहार्य वद्-वन्धुना कृष्णरोह सुदैन्य-नम्रनयनोऽनन्याश्रयोऽनन्दितः । क्षीणे कक्षतले च लक्ष्यरहितः प्रेक्षेऽहमुत् क्षुब्धधी- विश्वं चाप्युपपद्य वित्तमनिशं स्वत्वच्युतं वाऽप्यसत् ।: 31 ।। कृष्णेऽस्मिन् मथुरापुरे निवसति स्वस्थेऽन्तिके तद्गतः प्रेमाधारित-चित्त-वृत्ति-कृतिभि त्विन्त्यजातैरपि । अस्माभिश्च नरैः परातितुदितैः संगम्य आसीद् द्रुतं क्वाऽद्यासावति-दूर-प्रस्थिति-परः प्रत्याप्यतां मे पुनः ॥32 तस्यां दूरगतौ प्रभूत-विभवोऽप्यव्याहत-व्याहृतो रम्यायाम मितद्य तावधिकृतेः स द्वारकायां स्थितः । नो जानाम्यधुनापि मां व्यवहितं दैन्यातमात्मापितं तत्प्रेयांसमसंशयं सखिवरं किंवा स्मरेद् वाऽस्मरेत् ॥ 33 ॥ दुःस्थस्याद्य भयव्यथावृतमते व्यर्थस्य मे प्रेयसि स्वं शान्ते स्वपतेः स्वतः समुचितं ब्रूयाश्च मनिर्भरे । कर्तव्यं खलु कर्कशं श्रमकरं वा दुष्करं चिन्तये- दैन्याब्धौ पतितस्य भीत-प्रकृते मैंऽतोऽन्ततः किंचन ।। 34 । सुदाम-वक्वेन्दु-विनिः सृतं तथा सती सुधारधार मिवाजल्पितम् । निशम्य दुःखाकुलिताऽनुकम्पया समानुभूत्याऽभवदथुलोचना ॥ 35 ॥ ( 7 ) प्रथमः सर्गः अनिन्द्य-वर्या दयितार्थमुत्सुका क्षणं मृगाक्षी क्षणभेव भामिनी। सतीह तूष्णीमभवत् सवेदना ततोऽद्र तं वक्तुमियं समुद्यता ।। 36॥ इति दर्शन-शास्त्राध्यापक-श्रीमद्-द्विजेन्द्रलाल-शर्म-पुरकायस्थ- विचरते मैत्र-माधुर्य लघुकाव्ये मित्रानुस्मरणं नाम प्रथमः सर्गः ।। ( 8 ) मैत्र-माधुर्यम् मथः द्वितीयः सर्गः संबोधिता प्रियतमत्थमनल्पजला: प्रीताऽथ तत्परतयाऽवददिन्दु-वक्त्रा। प्राश्लेषितं पतिमितः परितापवन्तं सोबुद्धधीः सहृदया मधुवादमाद्यम् ।।। -. क्षीराब्धिजाऽक्षयमतिः कमला मृगाक्षी विष्णु यथा निगदति प्रतिभा-ततश्रीः। पत्नी तथैव विनताऽवददुद्धृताथ- स्तं सान्त्वयन्त्यप्रतिमा प्रतिपत्ति-दीप्ता ॥2॥ "ब्रू हि त्वमेव यदि तद्व्यवधान-दुःस्थं तदर्शनार्थमधनं समुपस्थितं त्वाम् । द्वारावतीश-वसतो पथि-कृच्छतात संभावयेत् स गमने तत उद्यतः स्याः ॥ 3 ॥ भूयो विचार-विवृति बहुधा धरन्ती त्वां स्वामिनं श्रमशत-व्यथिताऽग्रयाने । प्रोत्साहितं कथमहं करवामि सद्य- स्त्वां ते सखाऽस्मृतिवशाद् यदि नाऽऽद्रियेत ।। 4 ।। मार्ग:सुदीर्घ-पदनोऽदम-विघ्नवगै'- दु:खात्यय स्तव कथं त्वतिवाह्यतां वा। इत्यन्तरे पुनरहं परिचिन्तयन्ती संवेग-वेदन-दराऽस्म्यमिताऽनुतप्ता ।।5।। ( 9 ) द्वितीयः सर्गः क्लेशर शेष-निशितैः कृश-सत्व-शक्ते- वित्तच्युतस्य नितरां क्षुधितोदरस्य । का ते गतिः पथि तथापतितार्तिवृत्ती गन्तुर्भ-वेदिति परं परिशोचनीयम् ॥6॥ काले सुदीर्घविततौ त्विह रिक्त-सत्ता क्लिष्टं पथिश्रितगति चिरमर्चयन्ती। त्वामेव प्राणप्रतिमं तनु-मात्रमूर्ति- रेकाकिनी, कथमपि प्रतिसंधिमीहे ॥7॥ त्वं वै सहाय-रहितोऽपि सखिच्युतः सन् वित्तादृते गतिपथेऽमितविघ्न एकः । सर्पन्नशान्तमनसाऽनिशमात्त-सादः क्लेश-श्रमायु पशमं कथमादधीथाः ॥8॥ के संशयं च विषमं यदि शंसिते तद्- द्वारावती-गतिपथे त्वमनात्त-सात्वत् । प्राप्नोषि तर्हि स कथं तव वार्यतां वा- अत्तीति मां घुण इत स्तु यथाऽऽर्त-काष्ठम् ॥9॥ दुर्लध्य-लंघनमपि प्रसरं विलंध्य द्वारावतीपुरगतो यदि बाधितो वा। त्वत्स्वागतं सखिचरै रकृतं प्रतीत्य किंवा करिष्यसि तदा विषमस्थिति-स्थः" ।।10।। ( 10 ) मैत्र-माधुर्यम् उक्त स्तथा दयितया स्थिरधीः सुदामा विश्वासमात्ममनसोऽशममुद्धरन् वै । आश्लेषितामकुरुताऽप्रतिमां स्वपत्नी प्रोत्साह-भास-विशदै र्वचनै स्तपास्याम् ॥ ll It पत्नी-समक्षमचिराद् विधृतात्म-सत्व- उबुद्ध-प्रत्ययतया व्यथितोऽप्यशंसत् । साश्वासनं भृशमितः स्वक-निश्चयं स निःशंक एव सुमति धूत-धैर्य-धामा ॥12॥ "कृष्णे ममाऽमितमतावनुरक्तबुद्ध- निःसंशयं श्रमवत स्ततप्राप्त ईड्ये । मत्स्वागतं समुचितं तदुपस्थितस्याऽ- वश्यं भवेदकृपणं त्विति निश्चितं मे ॥13॥ प्रेम र्णवे हित कृति प्रतिपन्न वित्ती सख्यो स्वतो यदुपतावपि मेऽमितार्थे । विश्वासमाद्यमनिशं त्वशमं विधृत्य गच्छेयमद्य सपदि त्वरयादिशे मम् ।। 14 ।। श्र त्वा प्रिया प्रियवचःप्रतिपादितार्थ सा निश्चयं सखि गृहोपगमोत्सुकस्य । पत्युः सृताश्रु-तरलापि तथोद्गताशा तूष्णीं स्थिता कथमपि क्षणमेकमासीत् ॥ 15 ।। ( 11 ) द्वितीयः सर्गः इत्थंगतां द्रुतमतिः परिवीक्ष्य तो स नानाविधं बुधि विधु-द्रव-वाक्यमाद्रः । भूयोऽवदद् भ्रम-भयं दधतीं कथंचिद्- पाश्वस्ततामप्रमितामभिसिच्य तस्याम् ॥16॥ कालं विलम्बितमपि प्रमितं तु कंचिन्- नेष्याम्यहं पथि यथात्त-प्रवास-खेदः। त्वं चापि दुःसहमिहाऽऽवृतधर्य-बोधा विच्छेद-दुःखमदमं दयिते सहस्व ॥ 17 ॥ नित्यं गृहेऽपि निवसन् बहुदुःख-भारं निकृष्टजीवनमिहाऽशममावहामि । नूनं वरं सकृदतोऽधिक-खेद-वृन्दं क्लेशापनोदन-कृतावचिरात् स्वजेऽहम् ॥18॥ त्वामत्र पीडितमति दयिते गृहस्यां संस्मृत्य कान्त-रहितामधिकाति-तप्ताम् । क्लिश्यन् यथाहमघुना गतवान् प्रवास त्वं वै तथा कथमपि प्रसहस्व दुःखम् ॥ 19 ॥ नान्या गतिः प्रियतमे विरतेः परातः कापि क्ववाऽस्त्यत इहाभिमतं ममेति । त्वं पापि सन्मतिचरे सुविचार-चारो संचिन्त्य चन्द्रवदने चर वोचितं तत् ।। 20॥ ( 12 ) मैत्र-माधुर्यम् पर्याधृतो हि निहिता सुदिनागमाशा तत्रैव दैन्यशमनं क्व च संभवेद् वा । यत्ने कृतेऽपि यदि वाऽस्ति न कार्य-सिद्धि- र्दोषोऽत्र कश्च भवतीति प्रवाद-वाक्यम् ॥ 21 उत्कुष्ट-कष्ट-सहमं कमपीष्ट-निष्ठो यत्नं ततोऽहम मितं श्रम-कृत्स्न-रत्नः। कतुं प्रियेऽस्मि सुचिति स्त्वधनो धनार्थों त्वं चादिशेः सखिगृहे गमनाय मोत्कम् ।। 22 ।। संत्रासिताऽऽशु-निशितै विरहैः सती सा पुष्पावलि सुललिताब्जदले विरच्य। भक्तं तु तंडुलमपि प्रविधाय तूणं पत्य स्वतोऽपितवती प्रमितं तदन्नम् ॥ 23 ।। वस्त्रांचलेऽस्य पिहितं दयिता समाल्यं प्रीत्युपहारमिव तत् प्रमितान्नमय॑म् । कृष्णार्थमर्पितवती प्रणयेण पत्य संवेग-वेग-विनताऽवददावृताक्षी ॥ 24 ।। "प्रेम्णाऽमिताति-प्रणताऽपि सखिप्रिया ते स्नेहार्द्र-सत्व-सुसितं धृतदैन्य-भारा। क्षुद्र कदन्नमपि तेऽर्पयति प्रपन्ना गृह,णीष्व मित्र कृपया सुकृते' वदेस्तम् ॥25॥ ( 13 ) द्वितीयः सर्गः क्लिष्टाऽविभा विरहतो विवशा विविक्ता कालं त्वकालमिव वै मलिनं प्रलम्बम् । नेष्याम्यनन्यशरणाऽप्यनु चिन्तयन्ती त्वामेव प्रेममधुरं मम प्राण-कान्त ॥ 28 ।। प्रत्यागतिं पुनरितोऽप्यति-तांत-तीर्थां पूर्णाश-भास-विशदां शुभदामविघ्नाम् । सर्वक्षणं स्वनयनं ननु नान्यलक्ष्य साकांक्षमस्तु मम ते तु प्रतीक्षमाणम् ॥ 27 ॥ स्वास्थ्यं सुलक्षण मिदं तव रक्ष नित्यं कामं च मार्गगमने स्वयमेकक स्त्वम् । विष्णु स्मरन् सर सुखं स्वमितः प्रवास गत्वा च सत्वरमिह प्रतिवर्तितः स्याः" ॥ 28॥ कान्तं तथान-गमनोद्यतमेव सद्य- आश्वासितापि तुदितात्त-वियोग-भारा। विघ्नघ्न-विष्णु-शरणं बहुशः श्रयन्ती संश्लेष-चुम्बन-भृतिः पतिमत्यजत् सा ॥ 29 ।। विष्णु-गणेश इति नुः शिव-शंसति श्च सन्नाम-संस्मृतिर पि शुभ-साधिकाऽस्तु । पन्थाः स्वतोऽस्तु सुखितो हृतविघ्न आशु तेषामनिष्टशमनः स्मरणैः शिवश्च ।। 30:: ( 14 ) मैत्र-माधुर्यम् उत्साह-सद्म-सरसं स्मरणं पुराणां सर्वेषु सत्सु विसनन् स्वत इष्टकृत् सत् । विश्वासकर्मसु सुहृन्नर एत्यनातिम् इत्याद्यप्रत्ययप्रभोऽप्यदधात् सुदामा ॥ 31 ॥ अलमललितलीला स्वान्तरेऽशान्त-चिन्ता श्लथमतिर तिगत्य विप्रलम्भस्य पत्याः । शम-सुख-रस-सत्तां साऽपि तत् सत्यसन्धाम् असनदगद-गंगां मंगलांगानुपंगाम् ।। 32 ।। घृतमतिकृतिप्रीतिः संश्रितास्थः स्वमित्रे हृतरति-दयितां तच् चत्वरान्ते त्यजन् सः। स्मृतगणपतिरार्तोऽप्याप्तशक्तिस्त्वशान्तोऽ- व्रजदनियत-तृष्ण स्तान्त-तीर्थात्म-यात्राम् ।। 33 ॥ DONATED Lt. PADMASHREE Prof. V. VENKATACHALA.M VARANASI इति दर्शन-शास्त्राध्यापक-श्रीमद्-द्विजेन्द्रलाल-शर्म-पुरकायस्थ- विर चिते मैत्र-माधुर्ये लघुकाव्ये पति-पत्नी-संवादो नाम द्वितीयः सर्गः।। ( 15 ) मैत्र-माधुर्यम् अथ तृतीयः सर्गः आशादीपं हृदि सदुदयं धारयन् मन्द-दावं सन्तापातॊ दयितरहितः कृष्ण-मैत्रोद्धृतात्मा। सन्देहान्दू-दल-धृतिरतो दीर्घ-पद्य दुरन्ते मंदं मंदं पथि दृढपदोऽपद्यताग्रे सुदामा ॥ 1 ॥ पत्नीमेकाममितमनुमां छेद-दग्षां तदास्थां क्षुद्र कक्षे क्षयततिदरे निक्षिपन् भक्ष्यहीनाम् । दीने देहे श्रम-धृति-वृते बद्ध-विश्वास-वृत्त नित्यं चित्तेऽपि भयचकिते सत्यगच्छत् स मातः ।। 2 ।। : मार्ग वक्र ह्यसममसुखं बन्धुराद्रिच्छदान्धं कुत्राप्या क्व धृतरजसं चोष्ण-धूलि-प्रलेपम्। क्लेश-क्लान्तिप्रदलदमित रौद्र-दाहाद-देहं वर्षा-क्लिन्न शिशिर-निशितं सोऽतरन् मैत्र-मग्नः ॥3॥ संकल्पाढ्यः श्रम-वृति-धन श्चाधनोऽप्याद्य-बोधो विश्वासाशा-सुलव-विभबो बिभ्रदव्यर्थ-वृत्तिम् । भूयः पृच्छन्नविरतगतिः पश्चिमायां दिशीतो मन्दं सोऽद्याऽद्रवदथ तथा भूतनाथो यथाद्रौ ॥ 4 ॥ काले क्राम्यन् क्लमकर-चरः कृत्य- कार्याककायो वन्धु-प्रेम्णाऽप्यदमित धिया मन्दधामा सुदामा। मन्दं मन्दं पुनरविरतं पद्यमानोऽध्वनीन: सद्योऽगच्छत् क्षणविरतये पुष्करं स्नानपुण्यम् ।। 5 ।। ( 16 ) मैत्र-माधुर्यम् दत्तात्रेयाश्रम उपगतः सोऽव॑दाद्रो सुतुगे साकांक्षाणां प्रथम-शरणं शीतलेऽनन्त-शान्तो। तिष्ठन् तत्र क्षण-कतिपयं प्रार्थितात्म-प्रतोषेऽ- प्यग्रेऽगच्छद् गुरुगति-गुणो दक्षिणस्यां दिशीतः ॥8॥ कामं कृष्णो मनसि च मुखे संघृतो मित्रमीप्सो- मार्गे गन्तोरमलिनमते श्चामृतं क्रान्त-मूल्यम् । धावन्नद्याः सजवमुदकं पद्मवृन्दं यथेह बन्धु-प्रेमाऽमित बलधरं तं तथाऽवाहयद् वै ॥7॥ काठिन्यं तत् कटि-तट-पटे पाठितं स्पष्टदृष्टी क्लेशांकांश्चांकित-निकषवत् स्वीय-काय-स्थितां श्च । संख्यातीतानपि भृशमतोऽमन्यताऽप्यन्यथाऽसो पान्थे रन्यैः क्व पथि मिलितः प्रीयमाणः सुदामा ॥8॥ दूराद् यद्वाऽऽर्जवधरमदो बोधितं वक्रमद्धा पद् वाऽम्भोभृद्भ्रमभर-दृशि व्यर्थ-दृश्यं तदाप्तौ ॥ किं वाऽरण्यं सुघन-विटपि भ्रान्तदृष्ट्यात्र दूरात् पार्वे गन्तो स्तदपि विरलानोकहं प्राप्यते सत् ॥ 9 ॥ वापीतोयं क्व च पथि पिवन् प्राप्ततोषः पिपासु- भक्ष्यं भिक्षा-सुलभमलभं किंच तत्र क्वचिद् वा । प्रश्नन् भाग्यं सुवृहददधाद् दीर्ण-देहः सुदामा मैत्रावद्धोऽधिकदरपदोऽपद्यताऽनादृतोऽपि ।। 10 ।। ( 17 ) तृतीयः सर्गः झंझावात झटिति जगले जर्जरो जाड्यजूति- र्जीण वस्त्र व तमवयवं व्यात्तवृत्ति श्च विभ्रत् । मार्गे भूयो बहुविध-दरे बाधिते विघ्नवृन्दैः कृष्णप्रेमाश्रय-तरि-तरः सोऽस्मरत्त सुदामा ॥11॥ क्लेशाधिक्यादटन-कठिनः कृच्छयाक्रान्तकाय: पत्नीत्यक्त स्ततपथगतो क्वापि चिन्ताश्रितात्मा। ऋक्षोऽनक्षः खपथ इव वा प्रावजत् सोऽध्व-वित्तः पक्षच्छेदक्षतपदतनू पक्षिवत् प्रेक्ष्ययाणः ।। 12 ॥ वृष्टिस्नातः क्व च गतिपथे क्वाऽऽतपाद् धर्म-सिक्तः शीत तिः शिथिलप्रगतिश्चाचलत् तीर्थ-कल्पम् । अम्बास्थानं प्रकृति-तरूणं शान्त-तापोऽमृतं वै अास्थाऽऽश्वस्तोऽनमदवनतोऽग्रे चरन् तत् सुदामा ।। 13 || आशामुग्धो विषम-गमनेऽव्याहतात्म-प्रतीति- म्यिन् भूयो विवशवपुषा प्रावहन वर्म-वर्त.। विघ्न-क्लेशान मित विततानागतान् तत्-स्थितान् वा कृष्ण-प्रेम्णा जव-लव-वहोऽपद्यताऽय-स्तरीवत्।। 14 ।। अध्वन्यग्रे मघु-रसवती जी वितान् सान्त्वयन्ती चोष्मा-तृष्णा-व्यथित-सिकता : स्रोतसा तर्पयन्तीम् । सोऽपश्यद् वै प्रसर-सरितं सावमत्याह्वयां तां भूकल्याण-प्रकृति-सुकृतिः कर्षकाकर्षिका या।। 15 ।। ( 18 ) मैत्र-माधुर्यम् अग्रे गच्छन् विततविपिनं नालिकेरावृतं तत् ताली-स्तीर्ण सततमतुलं चित्र-चन्द्रातपं वा । तत्राऽपश्यत् पथि धृतगतिः शान्ति-संतोष-तृप्तः स्निग्धेऽनुष्णे धनतरुतलेऽशेत सद्यः सुदामा ॥ 16 ।। विश्रामान्ते पुनस्पसृत-स्वाप उत्साहितः सन् गच्छन्नग्रे सुगहनगिरि गौरव-ग्राम-तुगम् । सिंहाध्यासं सरसमसमं गवि-गि रमन यं सोऽपश्यत्तत् प्रतिपदमपि प्राप्त-प्रत्याशितार्थः ॥ 17 ॥ गन्तोरित्थं विततप्रगतेस्तत्सुदामाह्वयस्य । चित्त वित्तापनमतिगतेः कान्ततापश्रमार्तेः । चित्रं दृश्यं पथि ततमिदं नेत्र-सार्थक्य-दातृ प्राश्वास वै शमसितमते श्चामृतं सिंचति स्म । 18 ।। मात्तोत्साहोऽन्तिक उपगतो मित्रवासस्थलस्य शस्यक्षेत्र फलितमतरं पीतवस्त्रास्तृतं वा । मन्दान्दोलं मृदु सुमधुरं बोधनं धारयन्तं वातापातं वन उपवने सोऽग्न प्राप्नोत् सुदामा ॥ 19 ।। स्तीर्णं भूम्या उर इव बृहत् प्रान्तरं वर्तमान पुष्पाच्छन्न वनमुपवनं नूनमन्त्यं मनोज्ञम् । रम्योद्यानं क्व च पथि पुरोऽपक्व-पक्वान्न-धान्यं- सोऽपश्यत्तत् प्रततमतुलं क्लान्ति हन्तृ त्वनन्तम् ।।201 ( 19 ) तृतीयः सर्गः मार्गे मार्गन् सुभम-गिरि भि ाम-संच गुणाग्र य- मित्र-स्थानं स्वचिति च ततश्चिन्तयन् कान्त-कृष्णम् । रम्यं राज्यं सरसमशमं स्वामि-शंसान्वितं च प्रत्यासन्न विलसितमतोऽप्यग्र प्राप्नोत् सुदामा ॥ 21 ॥ दूरादात्ताऽयुत विधुनिधीवाप्यनाद्यप्रदीप्ति संख्यातीतावसति-विशदं सज्जितं स्वर्णकायम् । सौधोत्संगं विविध-सदनं द्वारकाहपुरं वै सोऽपश्यत् तद्गमन-सफलो हर्ष-शीतांशु-भासः ॥221 सह्याद्र यन्ते विपुल उपले पश्चिमाम्भोधि-प्रान्ते पादाम्भोज जलनिधिजलयंस्य नित्यं प्रधौतम् । हेमामंडं मदन-मुदितं हैH-मक्षं मवत्तद् रत्नैर्यत्न विखचित-शिखं पद्मगन्धं तदासीत् ।। 23 ।। क्षीराब्धौ श्री विबुध-मददा दिव्यधामा यथासीत् साक्षाल्लक्ष्या सदुदयनिधि ोतधाराप्रधौता। धर्मोदृप्ता मधु-मद-मुदा द्वारकेयं तथैव धन्याऽऽदर्श स्वहृदि दधती भद्रमादृश्यमाना ।।24।। अम्भोधिस्थं स्मितसरसिज दिव्यदीप्ति-प्रबोध लक्ष्मी विभ्रत् त्रिदिव-मदनां मन्थनश्चाप्यनिन्द्याम् । देवा दैत्या अनिमिष-दृशाऽलोकयन् वै यथादौ सोऽपश्यत्तत् सपदि हि तथा द्वारकाह वं पुरं तत् ।। 25 ।। ( 20 )
मैत्र-माधुर्यम्
मन्दो वायु जलधिजलधृक् जातु जाता-जल्पः
पान्थानां वै विदमितजवं व्यात्तबाधं विवर्णम् ।
कुर्याद् भूयोऽवयवमवशं चापि संजीवनीव
प्राश्वस्तं तत् मुबलविभवं वृत्तिभावानुवर्तम् ॥ 26 ।।
संचित्रांगा लघुगतिमृगा मार्गभागे सगर्वा
नृत्यन्त श्च त्वरितचरिता अग्रतोऽभंग-रंगाः ।
पान्थान् क्लान्तान् पथि गतिमतोऽतोषयन् येऽत्र
तप्तान्
हर्षापन्नोऽप्रतिहतगति स्तानपश्यत् सुदामा । 27 ॥
काम मेघाः स्वयमपि मिता: क्वाप्यकस्मादनिन्द्या
मन्दान् विन्दून् घृतमृदुमदा प्रादधाना मुदर्थम् ।
सर्वेषां वै व्यवसितवपु भीवितं वीतबाधं
प्राकुर्वन् तत् क्लम विरहितं स्वस्थमाश्वासितं च ।।28।।
नानावर्णा नयनरमणा खे खगा गीतकंठा
आकृत्यापि प्रकृतिचरितै श्चित्रसत्ता श्चरन्तः ।
भृगा गुल्मे गहनग-मदा गुजनाग्र या उदग्राः
प्राज्यान् पान्थान् पिककुलमितोऽप्रीणयन् नृन् प्रपन्नान् ॥ 29 ।।
यत्नायत्ताः सुनियतयति-प्रायतांगा मयूरा-
श्चित्रैः पिच्छे मुदुदय-मदा नृत्यवन्तः समन्तात् ।
कन्दत्तिो द्रुतदर-शरश्चेव प्रादारयं स्तान्
कान्तात्यक्तान् प्रतिहतरतीन् नृन् सुदामादिसर्वान् ।।30॥
( 21 )
ततीयः सर्गः उच्चरभ्र खचर-खचिते चाभ्रखंडेरखंडे चित्रं दृश्यं सहृदयहृदि ह्लादकं चानवद्यम् । नानावणं क्वचन नयनानन्दमध्यायदाद्य द्वारावत्या विततमुपरिच्छत्रमूर्व सुदामा ।। 31 ॥ क्रान्त क्लेश: क्लमशतगतेः कर्कशाकर्षकान्ते सत्संकल्पः सुचिमचरितैः शंसितं सौख्यदं सत्। सार्थक्यं वै सितमिह सकृत् साधु साश्वास-सत्वैः सोत्साहोऽसौ सुसमय-वशादग्र प्राप्नोत् सुदामा ॥ 32 ॥ अब्धरनल्प-सलिलं ललितेव हंसी संचारिणी सुनियता बृहती तरीसार। संतीर्य पारमनयत् पथिकान् पुरार्थ सर्वान् समुत्सुकमतीन् सह वै सुदाम्ना ॥ 33 ॥ इति दर्शन-शास्त्राध्यापक-श्रीमद्-द्विजेन्द्रलाल-शर्म पुरकायस्थ- विरचिते मैत्रमाधुयें लघुकाव्ये प्रवासाभियानं नाम तृतीयः सर्गः ॥ ( 22 ) मैत्र-माधुर्यम् अथ तुरीयः सर्गः द्वारावती-पुर-पुरः समुपस्थितोऽथ द्वारेऽस्य पूर्व-दिशि चाशु प्रवेश-मुख्ये । दौवारिक-प्रतिहतो द्विज प्रात्तधैर्यो दैन्यावधी रित-पद स्त्ववदत् सुदामा ।। 1 ।। "दूरात् समागत इतः स्थल-दर्शनार्थी दीनो द्विजोऽहमदम-श्रम-दीर्ण-देहः । कारुण्यतः कुरु कृतिं कृपया त्वमा कां चोचितां पुरचर प्रतिचिन्त्य चित्त ।।2।। श्रु त्वेति वृत्तिनिरतो द्विज-वक्त्र-मुक्तम् मात विनीतकथनं पुरपालक स्तत् । संभावितं तम तिथिं प्रणत स्तथाप्तम् अन्तःप्रवेश-कृतयेऽन्वमिनोत् प्रसन्नः ॥ 3 ॥ गच्छन् ततोऽग्र उदितः प्रतिपन्न-वित्ति- मार्ग : सुरम्य-मसृणै द्रुम-पद्म-सज्जैः । सायं स राज-भवमान-प्रवेश-वर्म हर्षादुपैदविहत-प्रगतिः सुदामा ॥ 4 ॥ दौवारिकोऽदय उदायुध उद्धृतांग- स्तत्रस्थित स्त्वरित कृद् घृतवेत्र-दंडः । संत्रासकाकृतिमति धूत-भीतिसत्व- आसीत्तथास्य तु यथोग्र-कृतान्त-दूतः ।।।। ( 23 ) तुरीयः सर्गः संकोच-कुचित-घर श्चितचारु-वाच्यं चैतन्यचंचुरचिरं शुचि चाऽवदत् सः। "दूरादुपस्थित इतः प्रतिपन्न-मैत्रः संदर्शनाय नृपतेः स्तुत-सत्त्वमूर्तेः ॥ 6।। तस्मात्त्वमुत्तममते मम मैत्रवृत्त - रन्तःप्रवेश-कृतयेऽनुमति दधत्तु दीनं सुदीर्घ-पदनं क्लमदीर्णमद्य कृष्णावलोकनकृतौ कुरु सार्थकं माम् ।। 7।। उच्च विहस्य सहसा स सुरक्षि-मख्यो विद्वेष-विक्रम-वृतं वच उच्च-कंठः । तं चार्त मागतमितोऽवददद्भ तश्री- "र्न त्वं नृपस्य सदने गमनाह एव" ॥४॥ भूयो विनीत विबुधो बहुभि वचोभिः कार्पण्य-कुठितमति तमतर्कयन्तम् । संभावयन् अविभवो भवन-प्रवेशे सोऽयाचताप्यनुमति नतिमान सुदामा ॥ 9 ॥ क्र रश्च कर्कशकृतिः क्रम-शंकितांको कृत्याधिपत्य वितते धुतकृत्य-शक्तिः । संरोधयन्नकथयत् त्वदयः स रक्षी "नाद्य क्वचित्तव गति भविता गृहान्त: ॥ 10 1। ( 24 ) मैत्र-माधुर्यम् सायं प्रशासन-सभा-सद पाद्यमेव सम्पन्न-साध्य-सुमतिः सपदि प्रसन्नः । त्वक्त्वात्र रिक्तमसितं दयिताश्रितश्री- रावतीपतिरतो रतितृष्ण आस्ते ॥ 11 ।। तन्नाधुनाऽद्य तु कदाप्यधिकार-दृप्तो हैर्यप्रवेशमसहं गमनोत्सुकाय । विश्रामविघ्न-भयतोऽहम विभ्रमस्त- अर्हामि दिष्टुमधुना त्वमपेहि दूरम्" ।। 12 ॥ धीमानसावकथयद् दमितः सुदामा भूयो विनीतवचनै रभिवन्द्य भृत्यम् । स्वामि-प्रसन्न-सदने गमनाय बाद संयाचमान उचितं चिरचंडवाचम् ॥ 13 ॥ "भूपोऽस्ति वो व्यवहितः प्रभुवृत्ति-वर्तोऽ- प्याबाल्यवन्धुरबुध प्रतिवेदितव्यः । तन्मित्रमत्वरमतोऽनुप्रवेशये मर्मा मिथ्येव तेऽत्र सुकृतो स्वत प्रात्म-तंकः" ॥14॥ प्रोक्त स्तथाऽप्यनुचितार्थकृतेः कृतेऽस्य संबोधनेन च ननु प्रणय-च्युतेन । अत्यन्त-कोप-प्रवणः कुपितः प्रभूतं वेत्ररताडयदमुं गतधीरतीव ॥15॥ ( 25 ) तुरीयः सर्गः कृष्णो गृहेऽपि सहसातिरवं प्रकुर्वन् रक्त-स्रवं स्वकतनौ क्षतमंकितं तत् । स्त्री रुक्मिणीमुपगतां व्यथितः प्रभूतं संदर्शयन् द्रुतगति बहिरागतः सः ।। 16 ।। तत्काल आतितरल स्त्वरितात्तघात- आयादितः पुरपतिः प्रतिरोध्य वेत्रम् । संतर्य भृत्यम मितं च स ताडयन्तं कृष्णः सुदाम-सखमस्वजतार्तमाशु ।। 17 ॥ दौवारिक स्तददम भयविस्मयाब्धौ संमज्जितो हृतजयो जवतः सलज्जः । मित्रद्वयं तु युगपद् यत-युग्म-हस्तो भूयोऽनमद्-धरिमिव स्वयमेण एव ॥18॥ प्रेमाश्र-पाततरलं द्वयमेतयो स्तद्- वक्षोघृतं ह्य भयतोऽप्युभयात्तवेगम् । प्रासादमाद्य-सुखदं समगच्छदाशु व्यात्तप्रभौ हरिहराविव वीतभेदम् ॥ 19 ।। देवीमुदग्रवदनां दधतीं सदऱ्या कक्षाबहि वरवधू द्वयमग्रवृत्ताम् । लक्ष्मीमलक्षयदतोऽक्षयभां हि साक्षात् क्षीराब्धितोऽक्षततनूं त्विव रुक्मिणी तत् ।। 20 ।। ( 26 ) मैत्र-माधुर्यम् तत् सादरं मधुवदं मिथुनं मुदा मित्रोत्तमं रतमति ह्यतिथि तदाद्यम् । नन्दाद् विमुग्धहृदयं धु मणीन्दुवत् तं दीर्घं दिनैः समुदितं सदनेऽनयद् वै ॥ 21 ॥ स्मेरानना सुनयना नलिनांजलिः सा तत्प्रेम-मोद-मधुराऽमित-मान-मूर्तिः । पंचोपचारचरित द्विजमचितं तं सा स्वागतं तदवदत् सपदि प्रसन्ना ॥ 22 ॥ स्वर्णासने सरसिजास्तरणे समृद्ध हृद्य निवेश्य सुहृदं पदधावनान्ते । पत्युः सखायमतुलं धृतप्रीतिमाप्तं सा रुक्मिणी तदकरोन्मृदुवीजन च ।। 23 ॥ * कृष्णः प्रसाद-विशदः स्फुरदुद्धृतश्री- मित्रांगमात्मकरतोऽप्यकरोत् सुशान्तम् । भूयश्च मित्रमसकृत् कुशलं त्वपृच्छत् स्वास्थ्यं च सौख्य-सुषमामपि तत्-स्त्रियाश्च ॥ 24।। स्वादूत्तमं त्वमृतजिद्धितकृत् सदन्न पद्मव पनकरतः परिपक्तमाद्यम् । प्रादाय दुग्ध-मधुरं चहि रुक्मिणीतः प्रीत्याप्लताऽर्पयदथ प्रभवे च सख्ये ।। 25 ।। ( 27 )
तुरोयः मर्ग:
मित्रोत्तरीय-पिहितं किमपि प्रबद्ध
दृष्ट्वैव हृष्टहृदयोऽन्तरवेद ईड्यः ।
कृष्णः सदाग्रहधरोऽवददात्म मित्र
स्वान्तस्तलेऽप्यवमतं धृत-संशयं च ।। 26 ।।
"पल्या स्तवाप्युपहृतं किमितस्त्वतुल्यं
सख्या मदर्थमपि यत्तव तत् सुगुप्तम् ।
वस्त्रांचलेऽत्र पिहितं चिरप्रेप्सितं मे
सन्दर्य देहि तदिदं द्रुतमादृतं त्वम्” ॥ 27 ।।
संगोप्य गूढमपि तद् गतगृह्यतं वा
चित्त त्वचिन्तयदसौ च चिरं मुचेताः ।
'संजितं बहुदिन दरतंडुलं तद्-
एश्वर्य-शौर्य-शिर सि कथमानिवेद्यम् ।। 28 ।।
क्षुद्रान् कदन्न-कणिकान् यदि दर्शयेयं
किन्न वेनयो भवतु वा अवमाननं वा ।
भूयोऽत्र वैभववतां प्रवरे प्रवृत्त
नो मे निषेधविधृतावुचिता मतिर्वा' ।। 29 ।।
सद्यो द्विधाऽऽघृतधियं द्विजमात्मवन्धं
कृष्णस्तदा-हृदयोऽवददग्र य-बोधः ।
"विश्वास एव विहतो मयि किन्न वा ते
कि बाल्य-मैत्रमथवा व्यवधान-मन्दम् ।। 30 ॥
( 28 )
मैत्र-माधुर्यम्
गन्धन पद्मविदलः शरदः प्रसादः
शब्दै रवेद्य उदितोऽपि च बुध्यते ।
सन्मित्रयो १ दिगतोऽकथितोऽप्यथासीद्-
वेग-प्रभाव उभयोरुभयानुभूतः ॥ 31 ।।
संकोच-संशयवतोऽपि ततः सुदाम्नो
हस्तादुपात्तम चिरान्मतमप्यतुल्यम् ।
संजितं ह्य पहृतं दृततंडुलाशं
कृष्ण: सप्रेममनसाऽऽददुपात्तमोदः
।। 32 ॥
दृष्ट्वेति हृष्टहृदयोत्सुकतां प्रकृष्टां
सा रुक्मिणी तमवदद् दधती स्वनाथम् ।
"मह्य च देहि कतमं तत-तंडुलशिं
प्रमाद्य-पावनविभं त्वमृताधिकं त्वम् ॥ 33 ।।
सस्त्रीक-मित्रमतुलं च प्रशस्य कामम्
अानन्द-कन्द उदितो धृतविग्रहो वै ।
प्रेम्णात्तमन्नममृतप्रति मं प्रतीत्य
भूयश्च भूय उभयं त्वनिवारमाश्नात् ॥ 34 ।।
प्रोत्युत्सुका द्रुतमतिः पुनरुत्तम-श्री;
सच्या प्रदत्तमगदं कियदन्नमाद्यम् ।
पादच्च प्रार्थयत सा पतिमात्ततृष्णा
प्रेम्णो महत्वममृतं समतैक्यधातृ ॥ 35 ।।
(29)
तुरीयः सर्गः
प्रेमार्णवः सकरुणो नवमेघ-कृष्णो
मित्रार्थमपितमतीरतिकान्तमूर्तिः ।
शुद्धः सुधाऽधरवदोऽधन-दीनवन्धुः
संभावित श्च नितरामभवत् सुदाम्ना । 36 ।।
संचिन्त्य चिन्तनमणि चरितैरचिन्त्यम्
प्राश्चर्य-चित्त-विचयं चिति चारुचर्चम् ।
दैन्यापनोदवदनाद् विरतस्तदासीत्
तूष्णीं स्थित श्च मनसि प्रशमः सुदामा । 37 ।।
मंत्रामृतेन ममताप्लव-विस्मितात्मा
मुग्धः समादर धियाप्यधनः सुदामा ।
त्यक्तास्मितोऽस्मृत-मतिस्थित-कांक्षित स्तद्-
राद्धोऽवसत् त्विह तयोः कृतिभिः कृतार्थः ।। 38 ।।
'क्वेतः पवित्रमतुलोत्तम-सत्कृतित्वं
क्वाऽत्रास्ति दैन्यविरति-प्रतिपत्ति-तृष्णा ।
क्वोदारताऽमितरतिः स्तृत-मित्रताऽस्य
तुच्छा क्व प्रार्थनमति मम वित्त-वृत्तिः ॥ 39 ।।
घिड' मां हि मन्दमननं च प्रमाद-मुग्धं
हेयं सुतुच्छमपि मे धन-प्रार्थनं तत् ।
चित्त चिरं च र चितं स्तृतमचितं च
सद्यः सुधांशु-सदनेऽप्युदितं तमो धिक् ।।.40 ॥
( 30 )
मैत्र-माधुर्यम् प्रेमाप्लुते स्वमन सि प्रति पन्नमानेऽ. प्यर्थि-प्रार्थनमतः परिलीयतां मे । मैत्रामृताम्बुधिजले प्रणयात्मके तत् स्वार्थ-प्रचिन्तनविडं स्वयमस्ति लुप्तम् ।। 41 ।। कृष्ण-प्रसाद-विशदै रनुरोधबन्धैः शुद्धाग्रहै गृहपतेः सकलत्रकस्य । प्रेमादरै रदमित र्दमितोद्यमः सन् मित्रालयेऽलसदतो दिन-सप्तकं सः ॥ 42॥ इत्थं प्रतोषमतुलं गत-तारतम्यम् प्रातिथ्यमद्भ तमिदं नितरामवाप्य । स्वस्थःस्वतोऽप्यविदितापरकृत्य-चिन्त- स्तत्राऽवसत् प्रमुदितः प्रणयः सुदामा ।। 43 ।। नित्यं कथोपकथनः स्मृतितोऽप्यतीत- नाविनोद-निगण नयनाभिरामैः । दृश्य श्व खाद्यमदम-स्वदमन्वदच्च सौम्योऽवसत् सुसमताऽऽसवपः सुदामा ।। 44 ॥ चर्चाचित श्व वचन श्चरितार्थ-वित्तो वांछाच्युत श्चिति चिरं दिन-सप्तकं च । स्वच्छ श्चरन् क्षणमिव प्रमितं प्रतीत्य सोऽकर्तयद् द्र तमतिः सुखदं दरिद्रः ॥ 45 ।। ( 31 )
तुरीयः सर्गः
दुःखे हि यः प्रविततः प्रभवेत्प्रतीतः
कालः सुख स भवतु
त्वरिताऽत्ययो वै।
किं चिद विचित्र-चरितं चित चिन्तनं नु-
स्तथ्यं त्वसत्यमिव तन् नयतीति चित्रम् ।। 46 ।।
कालक्रमे क्रमकृतिः स्वकुटीर-गन्तुः
कृष्णेऽभिप्रायमवदत् स विचार दक्षे ।
चित्त विचिन्त्य प्रचुरं ह्यु चितं सुचारू
खिन्नौं गतावदिशतां-सखि-दम्पतीतः । 47 ।।
तत्-सारथि तु नृपति स्त्वरयाऽऽहुतं तं
सोऽबोधयत् समुचितं गति-वृत्ति-कृत्यम् ।
पथ्यान्न-यान-सहितात्मरथापनाय
कृष्णो वियोग-दमितोऽदिशवर्थवेदम् ॥ 48 ।।
नाथोऽवदत् तमुदितं कृति-सार्थकं तद्-
"धृत्वाप्तमात्ममनसि प्रचरे यथोक्तम् ।
ग्रामोपकण्ठमपि तन्मथुराप्रदेशे
यत्नस्त्वमापय रथस्थितमद्य मित्रम्" ॥ 49 ।।
प्रणय-विभवमाप्त्वाऽथित्वरिक्तात्मचित्तो
कतिपय-दिवसान्ते स्वीय-कान्तां स्मरन् सः ।
स्वगृहमभगमप्यभ्यस्तवासं प्रसादि
मुहुरपि मुहुरद्याऽपद्यतानर्घमय॑म् ॥ 50 ।।
( 32 )
---- DONATED मैत्र-माधुर्यम् प्रियतम-दयिताद् वै कृष्ण-संगाद् वियुक्तो द्रुतगति-रथ-यानारूढ ए दात्मवासम् । सखिचरमपवार्याऽपि प्रशंसन् सदात्मा स्वक-गृहमभितोऽतोऽपद्यताग्र सुदामा । 51 ।। BY Lt. PADMASHREE Prof. V. VENKATACHALAM VARANASI MAN । इति दर्शन-शास्त्राध्यापक-श्रीमद्-द्विजेन्द्रलाल-शर्म-पुरकायस्थ- विचरते मैत्र-माधुर्ये लघुकाव्ये मित्र-संगमो नाम चतुर्थः सर्गः ॥ ( 33 : ) मैत्र-माधुर्यम् अथान्त्यः सर्गः "विलंध्य दुर्लंघ्य-विभंग-कापथं सकाननानन्त-जघन्य-जन्तुकम्। तथाऽऽदृतोऽहं गृहमागतोऽधनः कथं स्वपत्नी मित सान्त्वयेयम् ।। 1 ।। वृथा गतिम मथुरात आतिदा ततोऽधिकाधिप्रद-निर्दयाऽऽगतिः । स्थिति स्तथैवास्ति गति वृथा यथा ललाट-लेखां किमु लंघयेन्नरः” ॥2 ।। स्वमैत्र-मत्तो मति-मदित-क्रमः कृतोद्यमोऽपि भ्रम-मोहिताम्बकः। क्लमामित-प्रश्रम-धर्म-मन्थर: स्वभाग्य-भंग ह यभगोऽभरद् भृशम् ॥ 3 ॥ श्रमेण कर्मोद्यम-धैर्य-दोहन- श्चरित्र-चारुत्व-चयश्च चचितः । अशेष-यत्नरपि वित्त-संचिते- रयान्न सोऽत्र प्रतिपत्तिमर्थिताम् ॥ 4 ।। विलु ठितः कुठित-कंठ-पाटवः स कंटकाऽऽगुठितवत् कटत्रपः । अपण्डितो दंडन-मंडित स्त्विव. स्वयं विषण्णः सद प्रासरत् स्वकम् ॥5॥ ( 34 ) मैत्र-माधुर्यम् गृहांगनाग्रे ऽग्रसरःस मार्गनः स्थितः स्वतो विस्मित-नेवत स्ततः । सुरम्यहैयं महदुत्तमं नवं विदन् सुदामादममैत् तु संशयम् ।। 6 ।। विचिन्त्य सन्देह सुदात्तनु घृतं किमु प्रमादं स्मृति-मान्द्यमुन्मदम् । क्व मे कुटीरं क्व मह निकेतनं मृषेत्यसत् स्वप्नसमं हि सोऽदधात् ॥ 7 7॥ भ्रम: किमु काम्यत एवमात्मनः किमु स्वमायाऽप्रमितेह मायिनः । स्थलान्तरे वाऽऽगत आतिमदितोऽ- प्यचिन्तयत् सोऽचिरमुच्चल श्चिति ॥ 8 ॥ 'तरू स्तमालोऽत्र तथैव वर्तते तथा तडागोऽत्र यथाऽभवत् ततः । वनं च नूनं घन-पर्ण-नन्दनं न भिन्न-भानं भवनान्तिके मम' ।।9। क्षणान्तरे स्वान्तर आचितोच्च स कलत्रचिन्ता-चकित स्ततोऽचिरम् । स्थलं तदेवेति स तर्कयनित: स्थितस्तथा स्थाणुरिहाऽऽश्मनो यथा ।। 10 ।। ( 35 ) अन्त्यः सर्गः तथास्थितं नाथमुपागतं सती विमुग्धतायामधिदुःखितं पथि । अनिश्चितार्थ मति-वंचितं स्वत- स्तमाह वयत् साऽट्टकटी-गवाक्षतः ॥11॥ द्रुतं हि सौधादवतीर्य नन्दिताs- प्यलिन्द-चन्द्रातप-मादनाधृते । गृहांगनाग्रे ऽग्र य-भगांऽगनाऽऽगता पति तमालिंग्य च साऽनयत् सदः ॥ 12 ॥ तदा सुदामा दयितामुरोधृता- मपृच्छदाद्यां मधुरां सुवादिनीम् । समुत्सुको विस्मय-मूल-मापनः "क्व तत्कुटीरं क्व च वोत्कटोऽट्टकः ॥ 13 ।। कुतो गतं मे क्षयि कक्ष-भृद् गृह विशाल-सौधागम एव वा कथम् । वदेः प्रिये त्वं कथमत्र तिष्ठसि ससेबका कः पतिरस्ति सम्पदाम् ।। 14 ।। सती स्मितास्या स्वपति तदाह सा "पति स्त्वमासां हि समस्त-सम्पदाम् । भ्रमो न च स्वप्न इतो न विस्मयो गृहाण तत्कृष्ण-कृपैव कारणम् ।। 15 ।। ( 36 ) मैत्रः माधुर्यम् चरश्च वै तादृश आचरनितः समागतः सन् द्रुतमात्तवैभवः । नृपस्य कृष्णस्य प्रतिश्रुतिश्रितः समस्तमेतद् व्यदधात् स प्राशुधीः ॥ 16 ।। ऋतं च तथ्यं नितरां सविस्तरं वदन्त्यसौ सादरमर्पयत्तदा। प्रतिश्रुति साक्षरका क्षरणेऽक्षयां स्मितात्र पत्युः करपंकजाय ताम् ॥ 17॥ प्रदत्तमर्थं सुप्रियेण मैत्रतोऽ प्यनथितं तन्मतिसंवृतं द्रुतन् । स्वतोऽधनायाद्य धनाथिने तथा छलैः सुदाम्नेऽदमप्रेमसम्पदा ।। 18 ॥ ततः सुदामाऽमनुताऽत्ममानसे 'प्रतीतमित्रप्सित प्राप्तधीः सखा। छलेन दारिद्र य-विभंजनं मम दयानिधानो व्यदधादसौ रहः ॥ 19 ॥ बुधा न धात्रिन्द्र-वृषध्वजादयो विदन्ति गोविन्दकृते स्त्वतन्द्रिताः। अचिन्त्यचर्या चिरचितां च याम् अमेयमायां किमु वेदिन तामहम् ।। 20 ।। ( 37 ) अन्त्यः सगः बिचित्रचारा चिरचारुचिन्तना सुमैत्र-माहात्म्यमितिःसुमायिनः । प्रियास्ति कृष्णस्य हि प्रमिणोऽक्रमाऽ- मितात्ममायेतिमतं मुहुर्मम' ॥ 21 ।। प्रभावितो वैभववान् विभान्वितः स मित्र-मैत्रात् कुमुदो यथेन्दुतः । महत्वान्मधुरं मुर द्विषो- भवे भवेद् वाऽपरमस्तु कि ततः ।। 22 ।। प्रियं सखायं प्रतिशंसितं भृशं स्मरंश्च चिन्तामणिमन्तरेऽन्ततः। विचिन्त्य सोडवोचदचिन्त्य-चितं प्रति स्वपत्नी पतिरात्त-वैभवः ।। 23॥ "प्रियेऽत्र यातु प्रथमा नमस्कृति- रितस्तु नौ सप्रति सम्पदापनात् । सुदीर्घ-दारिद्र य-निदारुणाईते- विमुक्तिमत्वात् सखि-कृष्ण-मायिनम् ।। 24 ।। अवाप्य सौभाग्यमथाऽग्रतः सुखि प्रियेऽधुना धन्यमधद्वहि प्रियम् । स्वजीवनं जीवन योग्यमुज्ज्वलं वसु-प्रशस्तं सरलं सुसज्जितम् ॥ 25 ।। ( 38 ) मैत्र-माधुर्यम् यतः सुखाप्ति स्त्वमिततदावयोः सुसार्थकं जीवितमर्थ-संतति । ततो हि सर्व स्वयमर्पयाम्यहं स्मृताय सख्य वनमालिने नमन् ।। 26 ॥ अविरत-नति-भक्ति-प्रेम-सत्व-प्रपत्तिः सुनियत-कृति-वृत्त संनिवेद्य व कृष्णे। मखि-तिकृतिमाप्त्वाऽतुल्य-रत्नां च हैमीं वृतरतिमति रस्तोत् तत् स्वपल्या सुदामा ॥ 27 ।। सहृदय उदितार्थो दान-धर्मो दयाो- प्यभयमुभय उर्वी-संभवान् संप्रसाद्य। अकल-सकल-लोकान् पालयन् प्रेमलग्न- श्चिरमिह विचरं श्चासीत् तथैवाथ पृथ्व्याम् ।। 23।। चाय -- 'कृष्णण स्वधियैव सदयं मैत्रामृतादद्वयाद्- दारिद्र याति-विदारणाद् द्रुतमिदं ऋद्ध च मज्जीवनम् । सर्वाभीष्ट-विशिष्ट-मिष्टमघुनाऽत्युत्कृष्टमदृष्टतः कृष्ण-प्रेममयं समृद्धिमुदितं तस्मै भवेर्पितम् ।। 29 ।। इत्यालोच्य फलाभिलाष-रहितः संकल्प-बन्धोन्नतं सद्भावै श्च सुवृत्ति-साम्य-चरितः सर्वेषु जीवेष्वतः । धर्मादर्श-सुदान-पुण्य-तरुणं संगच्युतं सत्यधृद्- धन्यं शुद्धधियाऽऽदृतं भुवि चिरं सज्जीवनं सोऽदधात् । 30 ।। इति दर्शन-शास्त्राध्यापक-श्रीमद्-द्विजेन्द्रलाल-शर्म-पुरवाय थ- विरचिते मैत्र-माधुर्ये लघुकाव्ये गृह-प्रत्यागमनं नाम अन्त्यः सर्गः ।। ( 39 )