Bharatiya Vidya Bhavan Library, Mumbai
Ananda Lahari (granthank-2)
Front matter
Bhsratte-Mandiram Sanskrit Series
No. 2.
Ananda
Lahari
(the quintessence of Srikantha Bhashya)
BY
Appayya Dikshita
WITH HIS OWN COMMENTARY CALLED
Chandrika.
EOITID AND PUBLISHED HI
Pandit R. KALABYANATHI BABTRY,
Santhrat Pandil, Yahire High School, kunt utan
SRIRANGAM
SRI VAXI VILAS PRISS.
1903.
Coryright lineral.
Price Ils. 1-9-17.
Bharatee-Mandiram Sanskrit Saries,
No. 2.
Ananda
Lahari
(the quintessence of Srikantha Bhashya)
BT
Appayya Dikshita
WITH HIS OWN COMMENTARY CALLED
Chandrika.
EDITED AD FUBLISKON RS
Pandit R. HALASYANATHX 8ASTRY,
Sans ut Pandit, Nature High School, kumbaronan
SRIRANGAM
SRI VANI VILAS TRESS
1908.
Copyright Registered]
(Price Rs. 1-6.0
श्रीमदानन्दवल्लीयमम्पयाध्वरिणा कृता ।
फलति ब्रह्मविज्ञानफलं बुद्धिजालालुता ॥
। ओम् ॥
"भारतीमन्दिरसंस्कृतग्रन्धावलिः"
ग्रन्थांकः २.
श्रीमदप्पयदीक्षितकृता
॥ आनन्दलहरी॥
श्रीकण्ठभाष्यपरमतात्पर्यनिर्णयरूपा
तत्कृतया
चन्द्रिकाख्यया व्याख्यया सहिता।
कुम्भघोणस्थ
स्वदेशीयहूणवाणीमहापाठशालागीर्वाणवाण्यध्यापकेन
रा. हालास्यनाथशास्त्रिणा
बहीः प्रतिकृतीस्संपाद्य परिशोधिता ।
श्रीरङ्गश
श्रीवाणीविलासमुदायन्त्रालये
संमुदिता।
१९०८.
अस्य मूल्यं साध रूप्यमेकम ।
(अस्य प्रन्थस्य पुनर्मुद्रणाधिकारः प्रकटयित्रा रा. हालास्यनाथशास्त्रिणा राजकीयनियमानुसारेण स्वायत्तीकृतः) ॥ भूमिका ॥ १. आयमिश्राः सहृदयाः विदितचरमेव तत्र भवतां, यदहं बहोः कालाइप्यमानप्राचीनप्रबन्धप्रकटने धृतव्यवसायासहदयानां साहाय्यन रसिकरजनीटीकासहितं कुवलयानन्दमुज्ज्वलासंव- लितमापस्तंवधर्मसूत्रप्रवन्धं च सम्मुद्य प्रकटीकृत्य पात्रतामनयमा- त्मनो जन्म सहृदयकुलाशीर्वचसामिति । २. अनन्तरमाकलय्य श्रीमदप्पयदीक्षितेन्द्रविरचितानां शताधिकानां प्रबन्धानामतिलुप्तानां विरलमातृकतया प्रचाराभावं पु. स्तकदौर्लभ्यं च तेषां प्रकटने धृतव्यवसायश्शुभकद्वत्सरे मार्गशीर्ष मासि डिल्लीनगरमवर्तितराजाधिराजमहनीयगुणाभिरामडेडभि- ख्यास्माककरुणार्णवभरतखण्डचक्रवर्तिपट्टाभिपेकमहोत्सवदिने प्राति. ठिपं प्राक्तनग्रन्थमथनालयं भारतीमन्दिराभिख्यम् । ३. तत आरभ्य ततो मया प्रनारयितुमुपक्रान्तायां भार- तीमन्दिरसंस्कृतग्रन्थावली प्रथमतः श्रीमदप्पयदीक्षितकृतया शिवामणिदीपिकया सहितं श्रीमच्ट्रीकण्ठीयं ब्रह्ममूत्रमाप्यं नयमणिमालया मनियद्धया ब्रह्ममूत्रार्थचन्द्रिकया च सह सना- यीकृत्य परिष्कृत्य सम्मुद्य पदभि[संचिकाभिरियता कालेन समपूरयं पृष्ठपदातीपरिमितं प्रथमसंपुटम् । यस न द्वितीयं संपुटमपि संमुद्रयमाणं न चिरारिसृभिः संनिकाभिः परिपूर्यत ।
४. तस्य ग्रन्थस्य मुम्बानगरे मुद्रयमाणतया अपरिहार्य- कालातिपाततामवधाय विपुलस्य तस्य ग्रन्थस्य समाप्तेः पूर्वमेव श्रीकण्ठभाष्यणस्थानानुसारिणः श्रीमदप्पयदीक्षितकृतानन्दलहरी- शिवातिनिर्णयप्रभृतीन्प्रबन्धानसम्मुद्रय प्रकटीचिकी द्वितीयतया श्रीरङ्गस्थश्रीवाणीविलासमुद्रणालये ‘चन्द्रिकाख्यया व्याख्यया सहितां श्रीकण्ठभाष्यपरमतात्पर्य प्रतिपादिनीमानन्दलहरी सम्मु- द्रय प्रकटयितुं प्रावृतम् । ५. अस्याश्च कृतेरतिलुप्तप्रचारतया विरलमातृकतया संप्र- तिपन्नपण्डितकुलैरप्यविदिततया च नष्टकल्पाया अन्वेषणे धृतव्यव- सायस्य मम श्रीमता सहृदयकुलमूर्धन्येन श्रीमदप्पयदीक्षितेन्द्रवंश्य- माम काश्रयभूतसुप्रसिद्धाप्पुशास्त्रिसमनन्तरसोदरेण पाडिवाकपदमधि- तिष्ठता महादेवशास्त्रिणा श्रीमन्मध्यार्जुनक्षेत्रस्थश्रीमन्महालिंग- श्वरदिव्यालयप्रतिष्ठापितपुस्तकालयात्तदध्यक्षस्य (तिरुवावडुतुरै नामक) श्रीगोमुक्तिक्षेत्रविराजमाननन्दिकेशाधिष्ठितशैवमठाधिपतेरंवलवाणदे- शिकस्याज्ञया समानीय विलेखिता नागराक्षरमयी काकितरूपा मातृका तन्मूलभूता ताळपत्रमयी मातृका चेत्युभयरूपा मातृकैकैव प्रथमगो- चरतयैतन्मुद्रणप्रवृत्तिनिदानतया च महोपकारिणी समभूत् । ६. अनन्तरमान्तं तां सश्रद्धं परिशीलयतश्चिरागौतमदधी- च्यादिशापसंजातशांभवोत्कर्षविद्वेषकलुपम्बान्तवैष्णवमन्यैः कैश्चिद- न्यैश्च शुद्धाद्वैतमतैकतानताममिनयद्भिरनवगताद्वैतमतसिद्धान्तरसूया- परैः पण्डितमन्यैश्चोदीरितान् श्रीमद्वैतविद्याचार्याणामप्पयदीक्षिते- न्द्राणामपि तान्त्रिकशैवसिद्धान्तानुयायितां विष्णुविद्वेषितां च रुशतो वितण्डावादाकारुन्तुदान्श्रावायं विषण्ण चेतस्कतया तदात्व सु- धारसाभिवणेव गिशिरितान्त:करणम्य मम न चिरादस्याः कृतेः प्रकटने समुदगृदृढतरा लालसा । यदम्यां कृतौ सुम्पष्टं श्रीकण्ठभा- प्यग्रस्थानम्यापरित्यक्तशुद्धाद्वैततया भगवत्पादीयभाप्यप्रम्यानादनति- भिन्नता सगुणोपासननिरूपणस्य निर्गुणोपासनप्रथमसोपानतां च व्य- वस्थापयन्तः स्वस्य विष्णुविद्वेषलेशराहित्यं शुद्धाद्वैतमतैकतानतां च कण्ठोक्त्यैव विवृण्वन्तम्ते दीक्षितेन्द्रास्तानुभयानपि वैतण्डिकान्यालि. शान् चपेटाघातेन तूप्णीभावमापाद्य श्रीकण्ठाचार्याणामपि शुद्धाद्वैते परमतात्पर्याभिव्यक्तिं तदाप्यवाक्यैरेव व्यवातिष्ठिपन् । ९. ततश्च तां मे लालसा परिपूरयितुं मया कृताभ्यर्थनो म- न्मुखादसकृत्समाकर्णितेदंग्रन्थपरमार्थतया समनुमोदितमामकीनाशयः श्रीमानुदारधीः प्रभुमणिः श्रीनिवासपिल्लनामा विरचितद्रव्यसाहा- ग्यश्चिन्तनीयो मया कार्तव्येन सर्वोद्यमेपु विशेषतश्चेदंग्रन्थप्रथनो- योग इति निवेदये सहृदयान् । १०. अनन्तरं द्वितीयमातृकान्वेषिणा मया चिलूनगरस्थ- (मतपूर्व) सचिदानन्दशाम्बिगृहकोगान्महता प्रयासेन संपाद्य मुहन्म- गिना कुलित्तल नगरस्थप्राष्टिवाकस्थललेखकोद्योगमधितिष्ठतारङ्गस्या- म्यार्येण प्रहिता तालपत्रमयी मातृका सहादरमुररीकृता या चात्र स. चिहिता। ११. मन्या च श्रीमत्पश्चनदस्थलाभिजनमामकग्राझविद्यगुरु- चरणमर्वतोमुखमहावतविश्वजिद्याजि श्रीबालकृष्णमाखिराजसमनु- गृहीता सप्रणाममुररीकृता नृतीया मातृकापि ग चिहिता महोपकारिणी। १२. अपरा च तासंस्थानस्मिततालवन (निरूपन- न्दाल) वमटालयम्यपुस्तककोगगता तदध्यक्षेण कामिवासि- सोमसुन्दरतस्विरान्प्रभुणा वितीर्णा सीतालतालपत्रमयी तुरीया मातृका चात्र ह चिहिता। १३. एताश्चतस्रो मातृका उपजीव्य परिशोध्य मुद्रणाय सजीकृत्यापि द्रव्यसाह्यप्रतीक्षितया व्यलंबिपि कंचित्कालम् । १४. तदानामेतादृशमदीयव्यवसायप्रोत्साहकस्य तञ्जान- गरस्थप्राष्टिवाकस्थलन्यायवादिनो महाशयस्य श्रीनिवासपिल्लना- म्नस्सहृदयमणेम्सुहृन्मणेस्साहाय्यमेवास्य प्रबन्धस्य संमुद्रणे हस्ताव- लंघप्रदानेन प्रोत्साहकमभूदिति कार्तश्यतस्समभ्यर्थयेऽनुदिनमस्मस्कु- लदेवतस्यैन्दवकिशोरशेखरस्य सन्निधाने तदीयमभ्युदयम् । १५. पद्यपष्टिपरिमिता चन्द्रिकाख्यव्याख्यासहितेयमणीयसी कृतिः श्रीकण्ठभाप्याधिकरणकतिपयशंकासमाधाननिर्णयात्मकतया श्रीकण्ठभाप्योपोद्धाततामंचतीतीयमवश्यं परिशीलनीया श्रीकण्ठमा- प्यपठितृणां सहृदयानामिति निवेदये सुहृदः । १६. इदंग्रन्थपरिशोधने कचित्कचित्संशयाविष्टस्य मम संशयान्निरसितुं कृतक्षणतामवलंब्य प्रसेदुषे विषयसूचिनीलेखनेन च सायकृते श्रीमन्महामहोपाध्यायराजुशास्त्र्यपरमामधेय (भूतपूर्व) त्यागराजमखिराजचरणसेवासमासादितपणनीयपाण्डित्याय प. गण- तिशास्त्रिणे धृतकातश्यम्समर्पयामि बहीविनतीः । १७. इदंव्यवसाये मातृकाप्रदानादिना विहितोपकारेभ्यः पूर्वोद्दिष्टनामधेयेभ्योऽभिरूपोखरेभ्य. प्रत्यर्पयामि यथोचितं परस्स- हसं प्रणामानाशिषश्च ॥ १८. यद्यप्ययं प्रवन्धो मुद्रणकालेऽसकृत्परिशोधित एव । तथापि नात्र म्यादशुद्धिः कियत्यपीति वक्तुं न पारयामि तत्रभवताम- (५) भिज्ञानां पुरस्तात् । मदीयेन व्युत्पत्तिमान्द्यादिदोषेण अनवधानन च समापतिता अक्षरच्युतिप्रभृतयोऽतिविरला दोषासुबोधा एव सुदृशा- मिति नाहमयूयुज शुद्धाशुद्धपत्रीम् । यदि म्युरन्येऽप्यसंशोधिता दो- पास्तानन्विप्य विलिख्य प्रेषणेनानुग्राह्योऽहमित्यभ्यर्थये सुहन्मणी- नावेदये च तान्परिशोधयिप्यामि द्वितीयसंस्करण इति । १९. अन्यच्च । इदंग्रन्थसमाप्तौ श्रीमदप्पयदीक्षितकृतिमरु- णाचलेश्वरप्रणयिन्या अपीतकुचांधिकायाः स्तुतिमपि सहृदयमनः समाहादनकृते संमुद्य प्राचीकशम् । २०. अस्यां ग्रन्थावलौ मया संमुद्यमाणमिमं प्रबन्धं प्रक- टीचिकीर्पितानन्यांश्च समाकर्ण्य परमानुग्रहसंप्रसादाभिव्यञ्जनेन मयि भृशं प्रासीदन् श्रीमत्परमहंसपरित्राजकेत्यादिविरुदावल्यक्रिताः श्रीम- न्तोऽच्याजकरुणानिधयो महामहिमभरिताश्शृंगगिरिस्थजगद्गुरुपीठा- धिपाः श्रीमत्सचिदानन्दशिवाभिनवनरसिंहभारतीस्वामिन इत्यतो द्विगुणीकृतोत्साहस्सांप्रतमर्पितकर्मभरम्सद्गुरुसन्निधाने मुदृढ़ विश्वसिमि निरंतरायमम्या ग्रन्थावलेरविलंबं प्रचारमितः परमिति शिवम् । इत्थं सहृदयचरणांवुजदासः रा. हालाम्यनाथशास्त्री. ii ॥ श्रीः॥ ॥ आनन्दलहरीविषयसूचिका ॥ E- प्रथमश्लोके १.-'ब्रह्मविदाप्नोती' त्याद्यानन्दवल्ल्या मान्नवर्णिक परम व्योम पारमेश्वरी चिच्छक्तिरेव, सेव आनन्दमय इत्युपरिष्टादुपपाद्यते इति निरूपणम् । द्वितीये २.-आनन्दमयपद न प्रचुरानन्दविशिष्ट कचिद्धर्मिणमाह, किंतु प्रचुर- मानन्दमेव । स च उक्तचिच्छक्तिरूप एव । अत्र चार्थे 'यदेष आकाश आनन्दो न स्यात्' इति वाक्यशेषोऽपि प्रमाणमिति । तृतीये ३.-आनन्दशब्देनानन्दमात्रग्रहणे कस्यायमानन्द इति जिज्ञासायां ब्रह्मणः परमेश्वरस्येति पुच्छवाक्यादिव स एको ब्रह्मण आनन्द' इति वाक्यादपि लभ्यत इति कथनम् । चतुर्थे - पूर्वार्धन आनन्दमयो ब्रह्मति पक्षेऽनुपपत्तिप्रदर्शनम् , उत्तरार्धन तस्माद्वा एतस्मात्' इत्यादिना निरूपितजगत्कारणत्वस्यात्मत्वस्य चानुपपत्तिरिति सप्रमाणं कथनम्। पञ्चमे ५ ---'यो विज्ञाने तिछन् । 'य आत्मनि तिष्ठन् ' इति शाखाद्वयानातान्त. यामिवाक्यतदर्थनिर्णायकब्रह्मसूत्रादिभिः श्रुत्वन्तरैश्च सोपवृहणैः शिव- चिच्छक्तः ज्ञातृस्वव्यवस्थापनम् । पष्ठे ६.-ज्ञानरूपायाश्चिच्छक्तनिवत्त्वरूपज्ञातृत्वमनुपपन्नम् । अतः ज्ञानरूपा चिच्छक्तिरन्या । ज्ञात्री च पार्वती देव्यन्या । इति शंकायां सप्रमाणयुक्तिक तयोरेकत्वं चिच्छक्तेख़तृत्वं चौपपाद्यते । सप्तमे ७.--शिवाधितत्वेन चिच्छतः शिव प्रति आयतनत्व 'परमे व्योमन् ' इति मत्रवर्णोक्तं कथमिति शकायो क्षित्याश्रितस्यापि पर्वतस्य क्षितिधरत्ववन् प्रमाणसिद्धत्वान् अत्सद्धतत्वाच नानुपपत्तिलेशोऽपीति प्रतिपादनम् ।
अष्टमनवमदशमलोकैः ८.--१०-विकारिण्या आकाशशब्दितायाः शिव- शक्तरेव जगत्कारणत्वं स्वारसिक नतु निर्विकारम्य साक्षान्छिवस्येति 'आकाशो ह वै नामरूपयोर्निर्वहिते' त्यादि छान्दोग्यश्रुत्सर्थवर्णनम् । एकादशे -'यदा तम' इत्यादिश्वेताश्वतरमत्रस्य शिवतच्चिच्छर त्योर्नि: विकारत्वसविकारित्वप्रतिपादनपूर्वक शिवस्यापि विकारिभूनस्वचिन्छ क्तिद्वारव जगत्कारणत्वमित्यर्थपरत्वोपपादनम् । द्वादश त्रयोदशयोः१२. १३.--उक्तार्थ एव तत्रयमन्त्रान्तरप्रदर्शनपूर्वक 'मायां तु प्रकृति विद्यात् ' इत्यादिमन्त्रेण नारायणस्य शिवशक्यंशत्व शिवस्य च तादृशक्तिमत्त्वमिति शिवविष्ण्वोश्रुतिषु जगत्कारणत्ववचन सर्वमुक्तक्तिमूलकमेवेत्यर्थःव्यवस्थाप्यत इति अनेकश्रुत्यन्त रोपबृहणा. द्यनुसारेण निरूपणम् । चतुर्दशे १४ ---ब्रह्मणशिवस्य स्वाक्सिद्धकार्यावस्थाश्रयत्वमात्र रूपमुपादा नत्व परिणामित्व तु शक्तिद्वारकमेवेत्यर्थपरत्व प्रकृत्यधिकरणस्य । पञ्चदशे १५ ---तदनन्यत्वाधिकरणोक्तमपरिणामिशिवानन्यत्व प्रपञ्चस्य कथ मितेि शकायामपृथक्सिद्धत्वरूपमेवानन्यत्वमिति तस्समाधान तथा जन्मा- दिसूत्रतन्मूलश्रुतिभ्यामुक्तस्य जगत्कारणत्वलक्षणस्य शक्तिविशिष्टमेव ब्रह्मलक्ष्य शक्तिरपि वेति नासभवोऽतिव्याप्तिर्वेति च । पोडशादिश्लोकपञ्चकेन १६ -२०.-शक्तिविशिष्टशिव एव शास्त्रस्य विषय इति न तत्र शक्तिनिरूपणमसगतमिति प्रतिपादनम् । एकविंशाधेकशिान्तैः श्लोकः-शक्तिविशिष्टः शिव एवं पर ब्रह्मति स्थित शक्त्यशभूतस्य विष्णोरपि ब्रह्मकोरिप्रदेशापत्तौ तस्य जीवत्वग्राह- कानेकप्रमाणन्याकोप इति शकानिरूपणम् । तत्र एकविंशद्वाविंशाभ्याम् २१. २२... विष्णुपदस्य शतपथ ब्राह्मणादिश्रु- तिभिः शिवपुराणादिवचनेच कर्मफलत्वनिरूपणम् । धयोचिंशचतुर्विशाभ्याम् २३. २ ४-मोक्षधर्मादिषु विष्णोर्ब्रह्मभावोक्तिः जगलालनरूपकार्यार्थतया तस्मिन्ब्रह्मांशाभिव्यक्तिविशेषमलिकव नान्य- यति सोपपत्तिक निरूपणम् ।
(९ ) सप्तविंशान्तरलोकत्रयेण २५.- २७.-- गीतानुगीतावचनपालोचनयापि पूर्वोक्तव्यवस्थैव न्याय्या नान्यथेति सकलशकानिराकरणपूर्वक विस्तरेण कथनम् । अष्टाविंशे २८. -विष्णुपुराणे प्रथमांशावमाने ‘स परस्सर्वशक्तीनां ब्रह्मणस्सम- नन्तर' इति विष्णोः परब्रह्मानन्तरत्वोक्तिरपि जीवभावे प्रमाणमिति । एकोनत्रिशे २९.-जीवत्वेन संप्रतिपनो यश्चतुर्मुसस्तद्भावस्य विष्णौ बहुशः प्रतिपादनादपि तस्य जीवत्वनिश्चय इति । त्रिशैकत्रिंशाभ्यम् ३०.३१.-जावभूतगुणिरुद्राद्भेदेन तुर्गयपरशिवसद्भाववत् गुणिविष्णोरन्यतुरीयविष्णुसद्भावमाशक्य परिहारपूर्वक तत्र प्रमाणाभाव- कथनम्। द्वात्रिंशादिश्लोकत्रयेण ३२.--३४.- एव पूर्वपक्षे प्राप्ते ब्रह्मकोटिप्रविष्ट शक्यंशत्व विष्णोर्न जीवभावविरोधि जीवान्तराणामप्येव भावाभ्युपगमेऽपि न कश्चिद्दोष इति भट्टभास्करानुयायिनामेकदेशिनां मतनिरूपणम् । पञ्चविंशे ३५.-भगवानारायणः परवह्मकोटिप्रविष्ट एव नान्यथेति खसिद्धान्त- कथन, सर्वत्र भारतादिषु तुरीयशिवातिरिक्तदेवतावधिक एद विष्णोरु- स्कर्ष उच्यते इति व्यवस्थापन च । पट्त्रिंशसप्तत्रिंशयोः ३६ ३७.-'अग्नि देवानामवम' इत्यादि श्रुतेाय- विचारपूर्वक तात्पर्यनिरूपणम् । अष्टत्रिशे ३८.-विष्णोजीवभावग्राहकवचनानामपरविष्णुविषयकन्व पर एव तु विष्णु: ब्रह्मकोटिप्रविष्ट इति अविरोधेन समाधानार्थ नारायणस्य परापर - भेदेन द्वैविध्यं श्रुतिस्मृतिसिद्धमिति निरूपणम् । अथ श्लोकत्रयेण ३९ –४१.--वाराहपुराणादिवचनैरपि विष्णोद्वैविध्य तत्र च परस्य विष्णोदशक्त्यशत्वमित्युभयमपि सिद्यतीति विस्तरतो निरूपणम् । द्विचत्वारिंशे ४२.--त्रिमूर्त्यन्तर्गत एव विष्णुशक्त्यशः तस्य जीवत्वग्राहकवच. नानि तु लोकानुग्रहार्थ तदभिनीतायांनुवादमात्रपराणीति पक्षान्तरप्रदर्शनम् । त्रिचत्वारिंशे ४३.-तदेव शक्यंशभूतविष्णोर्ब्रह्मत्वे विरोधाभावेन शक्तिवि- शिष्टांशवात्मा ब्रह्मैव ब्रह्ममीमामाशात्रम्य विषय इति प्रमशब्दार्थक्दशश- (१०) क्तिविचारोऽपि तत्र सुसगत इति भाष्य तत्र तत्राधिकरण शक्तिपरत्ववर्ण- नमित्यवान्तरोपसहारः। चतुश्चत्वारिंशश्लोके ४४ ~~-तत्र सर्वलोकगत्याकाशदहराकाशवाक्ययो- श्विच्छक्तिपरत्वं तत्तदधिकरणे कण्ठत एवोक्तम् । तथा जन्मादिसूत्रे 'आकाशी ह वै नामरूपयो' रिति वाक्यस्यानन्दमयवाक्यस्य च तत्परत्वं म्फुटमुकम् । तत्रोक्तन्यायेन तथाविधेपु वाक्यान्तरेष्वपि चिच्छक्तिपरत्व- माचार्याणामुन्ने यमिति वर्णनम् । ततः श्लोकद्वयेन ४५.४६.--शक्तिविशिष्टशिवज्ञानस्यैव श्रुतिषु मोक्षहेतुत्वो- के: शिवस्वरूपमिव शक्तिस्वरूपमपि मोक्षार्थे बह्ममीमांसाशास्त्रे निरूपणी- यम् । तथा परब्रह्मानन्दरूपशिवशक्तरेव मुक्तभोग्यतया फलरूपत्वादपि तनिरूपणम् । तथा सर्वजगत्कारणस्वस्याद्वितीयत्वोपपादकस्यापरिणामिनि शिवको परिणामिशक्तिद्वारेवोपपादनायत्वेन तदर्थतयापि तनिरूपणमा- वश्यकमिति । ततः श्लोकदयेन ४७ ४८. - निर्विशेषप्रत्यगभिन्नाद्वितीयब्रह्मसिद्धान्तरूले शुद्धाद्वैतवाद एव श्रुतिस्मृलादीनामिव ब्रह्मसूत्राणामपि परम तात्पर्यमिति अयपि सिद्धान्तः श्रीकण्ठाचार्यन्तत्रतत्रोदाटित एव न परित्यक्त इति निरूपणम् । अथ श्लोकत्रयेण ४९-५१ विशिध्य तत्तदधिकरणगतभाध्यवाक्यो- दाहरणपूर्वक शुद्धाद्वैतसिद्धान्तानुगुणस्य निर्गुणब्रह्मविदामुरकान्त्याद्यभावस्थ जड़ानां ब्रह्मविवर्तवादस्य जीवब्रह्माभेदस्य चेत्सादेरर्थस्य स्फुटीकरणम् । तदनु श्लोकढयेन ५२ ५३ –निर्विशेषब्रह्मरादरूपपरमसिद्धान्ते श्रीभग. चत्पादभाध्येण समत्वेऽपि भाध्यान्तरकरणमाचार्याणां सविशेषपरशिवस्वरूप भक्त्यतिशयसिद्ध्यर्थमुपनिषदामवान्तरनार्यमादाय सूत्राणां तत्परत्व. वर्णनार्थमिति। अनन्तरश्लोकदयेन ५४ ५५ -- नन्वयि महावाक्यस्य जीवनह्मणो- दशरीरिशरीरभावसबन्धमूलकाभेदपरत्ववर्णनम् 'अशो नानाव्यपदेशात् ' इत्यधिकरणे कृत कयमुपपद्यतामिति शंकायामहंग्रहोपासने श्रवणादिषु चानाधिकृनाना मदाना परपरया मोक्षफलक दासमार्ग प्ररोचयितु तद्- । र्णनं कृतम् । दृष्ट चाधिकारिभेदानुसारेण कल्पितमार्गनिरूपणमपि श्रुति- म्मृत्योरिति । उपरिननश्लोकेन ५६. श्रीभगवत्पादाचारपि स्वभाध्ये ब्रह्मसूत्राणां निर्गुण इव सविशेषब्रह्मणि तात्पर्य, मविशेष च ब्रह्म परशिवात्मक, मुक्तस्य च मविशेषब्रह्मभावोऽस्तीत्याद्यर्थजातमाविष्कृतम् । आचार्यास्तु सूत्राणां सविशेषमात्रपरत्वमुपाम्तिमार्गदाळकृते निरूपयन्तः निर्विशेष ब्रह्मतत्त्व तत्र तत्र म्यवाक्यैर्व्यञ्जयामासुरितीयानेव भेद इति कथनम् । नतः श्लोकडयेन ५७. ५८.--रामानुजमध्वभाष्ययोरपि एव प्रणाड्या शुद्धा- द्वैतसिद्धान्तपर्यवमायित्वमस्विति शङ्कायां तत्तत्भाध्योक्तिप्रदर्शनपूर्वकम- संभवनिरूपणम् । अन्तिमश्लोकढयेन च ५९.६० ---श्रीकण्ठाचार्यभाध्यमपि नाद्वैतपर्यवसायि यतम्तत्र जीवब्रह्मणोर्मुक्तिदशायामपि नित्यशेषशेषिभावोऽनुवर्तत इति 'तस्य च नित्यत्वात् ' इति सूत्रे प्रतिपादितमिति शङ्कायां तनिराकरणपूर्वक निष्प्रपञ्चप्रत्यगभिन्नपरमात्मरूपे महातात्पर्यमवान्तरतात्पर्यविषये च सवि- गेषे ब्रह्मणि दुर्वादिजनजल्पितकुक्ल्पनानवकाशीकरणेन तत्र शाङ्करभा- ध्यानधिगताकाव्ययाद्यनेकगुणगणनीलकण्ठत्वादिविशिष्टमूर्तिविशेषपरमा- काशशब्दितोमाशक्तिकालकूटनिगरणादिलीलाविशेषतदुपासनप्रकारतरफ- लीभूतपरविष्णुलोकान्तमकलभुवनानीतपरमानन्दमहाकैलासपदतत्प्रापका- तिवाहिकमार्गादिबहुविधविशेषाशप्रतिपादकत्वेनागतार्थत्व च श्रीमदाचा- यभाष्यम्येति मर्वग्रन्थार्थोपमहार इति परिपूर्णमखिलम् ॥ इत्यमत्यन्तमक्षेपादानन्दलहरीगतान् । विषयानलिख तेन विश्वेश: प्रीयतां शिव. ॥
॥ श्रीः॥ ॥शिवाभ्यां नमः॥ श्रीमदप्पयदीक्षितकृता ॥ आनन्दलहरी॥ तत्प्रणीतया चन्द्रिकाख्यव्याख्यया सहिता। सोऽयं मदीयाशयरंगमध्ये सायन्नटस्ताण्डवमातनोतु । पादारविन्दाभरणे यदीये दधाति नीलोपलतां मुरारिः ॥ १ ॥ आनन्दलहरी विद्यामस्माभिरनुसंहिताम् । व्याख्यास्यामो वयं शैवीं व्याससूत्रानुसारिणीम् ॥ २ ॥ अस्ति तावदनतिशयानन्दरूपा शैवी चिच्छक्तिरखिलोपनिष- तदुपबृह्मणप्रसिद्धा । तत्प्रतिपादकानामुपनिषद्भागानां संभावितसकल- शंकापरिहारद्वारा तदुपपादकत्वोपपादनार्थमिदं प्रकरणमारब्धम् । अत्र तावतैत्तिरीयाणामुपनिषदि ब्रह्मविदाप्नोति परम्' इत्युपक्रम्यानाताया- मानन्दवल्ल्यामन्नमयादिक्रमेण 'तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर १. 'स्यामि स्फुर्टाकर्नु' इति ख पाठः । २. 'निरासेन' इति व पाठः ।
आनन्दलहरी :- आत्मानन्दमय' इत्यानन्दमयान्नानस्य चिच्छक्तिप्रतिपादकत्वोपपादनं क्रियते । तदनुबन्धनवान्येपामपि केषाञ्चिदुपनिषद्वाक्यानां तत्पति- पादकानामन्यपरत्वं निराकरिप्यते । तत्रायमाधः श्लोकः- सत्यज्ञानादिमन्त्रोदितमखिलमपि व्यावरीतुं प्रयत्ता कृत्स्नाप्यानन्दवल्लीत्यवगतमुपरि ग्रन्थतः सूत्रतश्च.। तस्मादानन्त्यविद्याफलगुहवदिह व्यावृतं पारिशेप्यात् व्योमापीत्येतदानन्दमय इति समालोचयामो गुहास्थम् ।। १॥ अस्यानन्दमयवाक्यस्य विवरणाथै ब्रह्ममीमांसायाम् ' आनन्द- मयोऽभ्यासा' (ब्र. अ.१.पा. १.सू. १३.) दित्यधिकरणं प्रवृत्तम् । अस्य तावत् पूर्वपक्षे सिद्धान्ते च आनन्दमयो जीवस्तत्पुच्छत्वेनोक्तं तत्प्रतिष्ठारूपं ब्रह्मेति समानं, किं त्वानन्दमयोपासनापरेयमानन्दवल्लीति पूर्वपक्षः । तत्प्रतिष्ठारूपज्ञेयब्रह्मप्रतिपत्तिपरेत्यद्वैतवादिभिरुक्तः सिद्धा- न्तः । आनन्दमयो ब्रह्म तत्प्रतिष्ठारूपं ब्रह्मापि परिपूर्णानन्दरूपं ब्रह्मैव । अनन्यतिष्ठत्वज्ञापनाय स्वस्य स्वप्रतिष्ठत्वोक्तिरिति विशिष्टाद्वैतवादि- भिणैववैरुक्तम् । श्रीकण्ठाचार्यैरेव आनन्दमयो ब्रह्मतत्प्रतिष्ठारूप इति स पन्था दर्शितः । किं च भेदे पुच्छपुच्छवद्भावनिर्देशोन सामञ्जस्यम- इनुते । 'स्वे महिम्नि प्रतिष्ठित' इत्यादिवत् स्वशब्दादिकं विहायानन्दम- . 'व्या- १. 'तत्प्रतिपादकत्वोपपादन करिष्यते।' इति ख पाठः । २. वरीतव्यमेव' इति ख पाठ. । ३. प्रतिपत्तिरेवेति सिद्धान्त इत्यद्वत- वादिभिरुतम् ।' इति ख पाठः । 'प्रतिष्ठत्वव्यवस्थापनाय' इति ग पाठः। ५. श्रीकण्ठाचार्यस्तु ब्रह्मेवानन्दमय दर्शितः, इति कपाटः । ६ पुच्छपुच्छिवद्भेदन' इति ग पाठ । ४. ......
चन्द्रिकासहिता । . यस्य 'ब्रह्म प्रतिष्ठा' इति शब्दभेदेनाधाराधेययोः श्रुत्या ग्रहणात् स्वप्र- तिष्ठत्वोक्तिरित्यपि न स्फुटं प्रतीयत इत्यभिप्रेत्य पुच्छवाक्ये ब्रह्मशब्दः प्रणवपर इति प्रतिपादितम् । तदनन्तरं 'अत्र केचित्' इत्यादिग्रन्थे- नानन्दमयश्चिच्छक्तिः तत्प्रतिष्ठा शिवास्न्यं परं ब्रह्मेति स्वाभिप्रायो दर्शितः । तथ्याख्याने शिवादित्यमणिदीपिकायामानन्दमयो जीव इति पूर्वपक्षनिरासेन चिच्छक्तिरिति सिद्धान्तव्यवस्थापनार्थतया तदधि- करणयोजनाप्रकारः प्रपञ्चेन दर्शितोऽस्माभिः । इहानन्दमयश्चिच्छ- क्तिरिति ब्रह्मपक्षेऽनुपपत्त्युद्धाटनेन चिच्छक्तिपक्षेऽनुपपत्तिनिरासेन च व्यवस्थाप्यतेऽनेन । अस्य श्लोकस्यायमर्थः । ‘ब्रह्मविदामोति परम्' इत्यानन्दवल्ल्यां प्रतिपाद्यस्य कृत्तस्याप्यर्थस्य संग्राहकं सूत्रम् । तत्र किं तत् ब्रह्म कथं च तद्वेदनं किञ्च तद्वेदनप्राप्यं परमुत्कृष्टं फल- मित्याकांक्षायां तत्रितयं स्पष्टीकर्तु ‘तदेषाभ्युक्ता' इति ब्राह्मणस्यो- तार्थप्रतिपादकत्वनावतारणपुरस्सरं तदनुव्याख्यानरूपः 'सत्यं ज्ञानम्' इत्यादिमन्त्र आन्नातः । तत्रापि कथं ब्रह्मणः त्रिविधपरिच्छेदराहित्य- रूपमानन्त्यमित्याकांक्षायां तदानन्त्यायुपपादनार्थः कृत्वोऽप्यनुवाकशेष इति तस्माद्वा एतस्मादात्मन आकाशस्संभूत' इत्याद्युत्तरसन्दर्भपर्या- लोचनया 'मान्त्रवर्णिकमेव च गीयत' इति (व. अ. १ पा. १. सू. १६.) ब्रह्मसूत्रपर्यालोचनया च ‘यदानन्त्यं प्रतिज्ञाय श्रुतिस्तसिद्धये जगौ। तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय' इत्यभियुक्तोक्त्या चाव- गतम् । ततश्च कथं ब्रह्मणस्त्रिविधपरिच्छेदराहित्यरूपमानन्त्यं तस्य- हि नित्यत्वेन विभुत्वेन कालतो देशतश्च परिच्छेदराहित्येऽपि वस्त्वन्त- रव्यावृत्तत्वाद्वस्तुपरिच्छेदराहित्यं न संभवतीत्याशंकायां तदुष्पादनार्थ 'स्वप्रतिष्ठत्वोक्तिरपि न सप्रतीयत' इति ख पाठः । १.
आनन्दलहरा 'तस्माद्वा एतस्मादात्मन' इत्यादि सोऽकामयत बहु स्यां प्रजायेय' इत्यादि च कारणवाक्यम् । तेन द्विविधेनापि कारणवाक्येन चेतना- चेतनात्मकसकलप्रपञ्चोपादाननिमित्तभूतं स्वापृथक्सिद्धसकलप्रपञ्चवि- शिष्टं ब्रह्मकमेव यथा पत्रपुप्पफलादीनामान्तर्गणिकभेदसत्त्वेऽपि तद्विशिष्टो वृक्ष एक इति । एवं ब्रह्मणः स्वपृथक्सिद्धवस्त्वन्तराभावेन तथाभूतवस्तुपरिच्छेदराहित्यं लभ्यते । यथा च कस्यां गुहायां ब्रह्मे- त्यज्ञानाजिज्ञातायां 'उपवरे गिरीणां संगमे च नदीनां धिया विमो अजायत' इति मन्त्रे गिरिगहरे विप्रस्य ब्रह्मविद्याजननोक्तः गिरि- गुहा विवक्षितेति भ्रान्तिप्रसक्तावन्नमयादिका गुहेति तद्विवरणार्थमन्न- मयादिकोशनिरूपणे, यथा चोष्ट्रकोकिलादिजातिभेदेन ग्रीष्महेमन्ता- दिकालभेदेन च भोग्यानां सर्वेषां कामानां कथं युगपद्धोग इति शंकायां तदुपपादनार्थ 'सैषानन्दस्य मीमांसा' इत्यादि । तेन ब्रह्मा- नन्दम्यैव सकलवैषयिकसुखात्मना विद्यमानतोक्त्या सर्वान् कामान्' इत्यनेन सर्वकामात्मना विद्यमानस्स एवोच्यत इति विवरणेन तदुप- पादनं कृतं भवति । यद्यपि वैषयिकसुखानां सर्वेषां मिलितानामपि अखण्डब्रह्मानन्दलेशरूपत्वात् ब्रह्मानन्दानुभवो युगपत् सर्ववैषयिक- सुखाप्तेरत्यन्तमतिरिच्यते, तथापि मुक्तं प्रति सर्वात्मनाभिव्यक्त ब्रह्मानन्देऽनुभूयमाने वैषयिकसुखात्मना विद्यमानास्तदंशास्सर्वेऽप्यनु- भूयन्त एवेति तस्य युपगत् सर्वकामावाप्तिविवरणरूपतोपपत्तिः । यथैवमानन्त्यादिकं विवृतमेव गुहान्ततिप्रसिद्धव्योमविलक्षणं किं तत् परमं व्योमेत्याकांक्षायां तदपि विवरणीयम् । अतस्तद्विवरणार्थमानन्द- मयवाक्यमित्येवं परिशेपादानन्दमयः पुराणादिषु परमाकाशशब्दन प्रसिद्धा शेवी चिच्छक्तिरवसीयत इति ॥ १ ॥ .
चन्द्रिकासहिता । अथ परिशेषप्रमाणोपोबलक प्रमाणान्तरमाह-- को ह्येवान्यात्क इत्याद्युपरिपठनमप्युक्तमर्थ व्यनक्ति प्राचुर्य पाक्तदर्थे फणितमुदितमानन्दमीमांसयाग्रे । एवं चाग्रानुसारान्मयडवधि पदं तत्मकृत्यर्थमात्रे द्ध्यर्थं हि व्याकृतं तत्प्रकृतवचन इत्यादि सूत्रं महः ।।२।। उत्तरसन्दर्भ 'को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आ- नन्दो नस्यात्' इत्यानन्दशब्दस्य प्रकृतानन्दमयविषयस्य व्योमशब्दप- र्यायाकाशशब्दसामानाधिकरण्यं दृश्यते। तेनाप्यानन्दमयस्य परमाका- शशब्दितचिच्छक्तिरूपतावसीयत इत्यर्थः । नन्वानन्दमये मयडर्था- धिक्यात् तद्विषयत्वमस्यानन्दशब्दस्य न युक्तमित्याशंक्याह--पाचु- यमिति । मयडर्थो हि प्राचुर्यं तदस्यानन्दस्य 'सैपानन्दस्य मीमांसे' त्यारभ्य प्रवृत्तया 'ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्द' इत्यानन्दमीमांसया स्फुटीक्रियते । अतो नार्थभेदः प्रसज्यत इत्यर्थः । ननु · अन्नमयो यज्ञ' इत्यादिरीत्या प्राचुर्येणानन्दोऽस्मिन्नि- त्यानन्दमयशब्दः आनन्दधर्मिविपयः, 'यदेष आकाश अनन्द' इत्यादिस्तु सन्दर्भः आनन्दमात्रविषय इत्यर्थभेदो न निवार्यत इत्या- शंक्याह---- एवञ्चेति । 'तत्प्रकृतवचने मय' डिति प्राचुर्यविषये मयड्धिायकं पाणिनिसूत्रमिदं वृत्तिकारादिभिर्द्वधा व्याख्यातम् । तदिति प्रथमासमर्थात् प्राचुर्येण प्रस्तुतमित्यर्थे वर्तमानात् स्वार्थे मयट्प्रत्ययो भवतीत्येकोऽर्थः। तस्य 'अन्नमयं यवागूमयी' इत्याद्युदाहरणम् । प्राचुर्येण 'द्यर्थ तत्' इति स पार । प्रस्तुन आनन्दोऽस्मिन्' . १ इति व पाठः।
आनन्दलहरी प्रस्तुतमन्नं प्राचुर्येण प्रस्तुता यवागूरित्यादिस्तदर्थः। यद्यपि प्रकृतशब्दः प्रस्तुतमात्रवाची न तु प्राचुर्यविशिष्टप्रस्तुतवाची । तथापि प्रकृत इत्ये- तावति वक्तव्ये वचनग्रहणादयं विशेपो लभ्यते । वचनग्रहणं हि लोके यादशस्य प्रकृतस्य मयटा प्रत्यायन प्रसिद्धं तत्र यथा स्यादित्येवम- थम् । लोके च मयडन्तैरत्नमयादिशब्दैः प्राचुर्येण प्रकृतस्य प्रत्यायनं प्रसिद्धमिति । अपरस्त्वर्थः, प्रकृतं प्रस्तुतमुच्यतेऽस्मिन्निति प्रकृतवच- नम् । तदिति प्रथमासमर्थात् प्रकृतवचनेऽर्थे मयत्प्रत्ययो भवतीति। अस्य च 'अन्नमयो यज्ञ' इत्याधुदाहरणम् । प्रकृतमन्नमस्मिन् यज्ञ इत्यादिस्तदर्थः । अस्मिन्नर्थे प्रकृत्यर्थादर्थान्तरे प्रत्यय इति । एवञ्चात्र 'यदेष आकाश आनन्द' इत्यादिवाक्यशेपानुसारेणात्र मयडन्तपदस्य प्रथमार्थः परिग्राह्य इत्यर्थः ॥ २ ॥ नन्वानन्दमयशब्दो यदि प्रचुरानन्दमेव ब्रवीति न तु तद्धर्मि- गमपि तदा कस्यायमानन्द इति बोद्धव्यमिति शंकामुद्भाव्य 'ब्रह्म पु- च्छं प्रतिष्ठा' इति ब्रह्मसन्निधानात् 'तस्य प्रियमेव शिर' इत्यत्र श्रुतस्य तस्येतिशब्दस्य पुच्छशब्देनेव प्रतिष्ठाशब्देनापि अनुषंगेणान्वयादा- नंदमीमांसायां स एको ब्रह्मण अनन्द' इति साक्षादेव ब्रह्मान्वयश्र- वणात् 'सोऽश्नुते सर्वान् कामान् सह ' इति मुक्तस्य योगपद्येन सर्व- कामावाप्तिवाक्यस्य सकलवैपयिकसुखकणिकामहासमुद्रायमाननिरति- शयानन्दानुभवपरस्य सह ब्रह्मणा विपश्चितेति वाक्यशेपानुसारेण 'स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य' इति वाक्यो- क्तार्थप्रतिपादकत्वाच्च ब्रह्मण इति बोद्धव्यमिति प्रतिपादयति---- कस्यानन्दोऽयमानन्दमय इति यदि ब्रह्मणस्सन्निधाना- सस्य ग्रहा प्रतिष्ठेति च नदनुगुणात्तस्य शब्दानुपंगात् ।
चन्द्रिकासहिता । .. ब्रह्मानन्दो य इत्याधुपरि शतगुणोत्कर्षवाक्येऽभिधाना. त्तेनैक्याचार्थगत्या सहफणितियुजस्सर्वकामाप्तिवाचः॥३॥ एवमानन्दमयश्चिच्छक्तिरिति पक्षे उपपत्तिः प्रदर्शिता । अथ ब्रह्मेति पक्षे अनुपपत्तिप्रदर्शनपूर्वकं चिच्छक्तिपक्षेऽनुपपत्तिनिरासः क्रियते- एवं सत्येव तस्यैप इति मुघटितात् स्याचदात्मान्तरोक्तिः भेदोक्तिः पुच्छिपुच्छाद्यवयवविधया ब्रह्मणस्तस्य चान्या। एतस्मादात्मनोऽन्यत्सकलयभवदित्युक्तिरत्रोपपन्ना छान्दोग्य कारणसं श्रुतमिह बृहदारण्यके देवतात्वम् ।।४॥ प्राणमयादिपर्यायचतुष्टयेऽपि 'तम्यैप एव शारीर आत्मा । यः पूर्वस्य' इति प्रतिपर्यायं श्रूयते । तस्य प्राणमयस्यैष आत्मा यः पूर्वस्यान्नमयस्येत्यादिस्तत्रतत्र पर्याये तस्य वाक्यस्यार्थः । एवञ्चानन्द- मयपर्याये तस्यानन्दमयस्यैप आत्मा यः पूर्वस्य विज्ञानमयस्येत्यर्थः पर्यवस्यति । एवमानन्दमयं प्रत्यात्मान्तरोक्तिरानन्दमयश्चिच्छक्तिरिति पक्ष एव युज्यते । न तु ब्रह्मेति पक्षे । तस्मिन् पक्षे प्राणमयादिपर्या- येपु तस्य वाक्यस्यात्मान्तरप्रतिपादकत्वमानन्दमयपर्याय तस्य स एवात्मेत्यनन्यात्मप्रतिपादकत्वमिति वैरूप्यं स्यात् । अपिचानन्दमयस्य ब्रह्म पुच्छमिति श्रूयते । तत् ब्रह्म न प्रणवः । असन्नेव स भवति' इत्यन- तरलोके तदमत्त्वं मन्यमानस्य निन्दाश्रवणात् प्रणवस्य प्रत्यक्षसिद्ध- त्वेन तम्यामत्त्वगंकानाम्पदत्वात् । न च पूर्वपर्यायश्लोकानां पुच्छवद्विप- यत्यादयं श्लोकः पुच्छवदानन्दमयविषयो न तु पुच्छनमविषय इति .
आनन्दलहरी - . शंकनीयम् । श्लोकगतब्रह्मश्रुतिभ्यां प्रायपाठवाधात् 'अन्नाद्वै प्रजाः प्रजा- यन्ते' यतो वाचो निवर्तन्त' इति श्लोकयोः अन्नमयमनोमयविषय- त्वाभोवन प्रायपाठासिद्धेश्च । एवञ्च पुच्छवदानन्दमयोऽपि चेत् ब्रह्म, तदा तस्यैव तत्पुच्छत्वनिर्देशोऽसमन्जसः स्यात । न चान्नमयपर्याये 'तस्येदमेव शिर' इत्यादिना स्वस्मादनतिरिक्तैः स्वावयवैः शिरः- पक्षपुच्छादिमत्त्वकल्पना तदा दृष्टेति वाच्यम् । तनावयवावयविभा- वौपाधिकसंस्थानविशेषकृतभेदसद्भावादिहानन्दमयस्य ब्रह्मत्वे तन्मात्र- रूपस्यापि पष्ठयालंबनस्य भेदस्याभावात् । एतेन खस्मादनतिरि- तेष्वेव शिरःपक्षादिरूपणपरमिदं प्रकरणमिति कल्पना सुदूर- मपास्ता । 'अथर्वागिरसः पुच्छं प्रतिष्ठे' त्यादौ तदसिद्धेश्चेति भावः । अथोत्तरार्धेन चिच्छक्तिपक्षे अनुपपत्तिनिरासः क्रियते । एवमिह शंको- तिष्ठति। आनन्दमयादिपर्यायपञ्चकात् प्राक् 'तस्माद्वा एतस्मादात्मन इत्यादिनोपक्रान्तं जगत्कारणत्वं यथान्नमयादिकमतिकामति तथा नानन्दमयमतिकामति । नापि तत्प्रतिष्ठारूपे ब्रह्मण्यन्वेति। किं त्वानन्द- मय एवान्वेति । कुतः । तदनन्तरं 'सोऽकामयत' इत्यादिना प्रागुप- क्षिप्तजगत्कारणत्वप्रपञ्चने स इति पुल्लिङ्गेनानन्दमयपरामर्शात् । न च ब्रह्मण्यपि तस्यैष एव शारीर आत्मा' इति वाक्ये पुलिंङ्गस्यात्म- शब्दस्य श्रवणात्तदपेक्षया पुलिंगमुपपद्यत इति वाच्यम् । तस्यैष' इति वाक्यस्य सर्वपर्यायसाधारणत्वात् प्रकृतपरामर्शिना सर्वनाम्ना असाधारण्येन प्रकृतसमर्पकं यत् प्रधानपदं तदीयलिंगापेक्षणस्यैयोचि- तत्वात् । अपिचोत्तरानुवाके भृगुवल्ल्या 'यतो वा इमानि भूतानि जायन्ते' इत्यादिनोपक्षिप्तस्य जगत्कारणत्वम्यान्नप्राणादिपर्यायचतुष्टयातिलंघनेन पञ्चमपर्यायाम्नात आनन्द एव 'आनन्दायेय खल्विमानि भूतानि जा- .
चन्द्रिकासहिता। .. यन्त' इत्यादिना श्रुत्यैचान्वयप्रदर्शनादिहापि पञ्चमपर्यायसाम्येन स्था- नप्रमाणादानन्दमय एव जगत्कारणत्वान्वयोऽवसीयते। तम्मादेव स्था- नप्रमाणात् भृगुवल्ल्युक्त आनन्दः आनन्दवल्ल्युक्त आनन्दमय एवे- त्यप्यवसीयते। अतः कारणत्वान्वयादानन्दमयो ब्रह्मति युक्तम्। सद्विद्या- दिपु ब्रह्मणः कारणत्वप्रसिद्धः जन्मादिसूने तन्मूलश्रुतौ च कारणत्वस्य ब्रह्मलक्षणत्वोक्तेः प्रकृत्यधिकरणे च ब्रह्मणा जगदुभयकारणत्वव्यवस्था- पनाच । तस्माद्वल्लीद्वयस्यैकार्थ्यादानन्दवल्ल्युक्त आनन्दमयो भूगु- वल्ल्युक्त आनन्दश्च ब्रह्मेत्येवांगीकर्तु युक्तम् । अत एव खलु भृगुवल्ल्यामानन्दमयवृतेरानन्दशब्दम्य 'आनन्दो ब्रह्मेति व्यजानात्' इति ब्रह्मपदसामानाधिकरण्यं दृश्यते । न चानन्दवल्ल्यां स एको ब्रह्मण आनन्दः' ' आनन्दं ब्रह्मणो विद्वान्' इत्यादिनास्यानन्दस्य ब्रह्मव्यतिरेकश्रवणात् । सोऽकामयत' इति सर्वनाम्ना परामृष्टमानन्द- मयमेव 'रसो वै सः।' एप ह्येवानन्दयाति।' यदेय आकाश आनन्द' इति सर्वनामभिः परामृश्य कीदृशं तस्यानन्दमयशब्दितस्यानन्दस्य प्राचुर्यमित्याकांक्षायां तन्निरतिशयत्वरूपमिति निणेतुमानन्दमीमांसा प्रस्तुत्य, ततः स एको ब्रह्मण आनन्द' इत्यादिना तस्यैव ब्रह्मधर्मत्वप्र- तिपादनेनायमानन्दमय आनन्दमयात् ब्रह्मणोऽन्यस्तदीयानन्द इति यो. जयितुं शक्यत्वात् प्रथमश्रुतभेदव्यपदेशानुसारेणाभेदव्यपदेशो गौणः स्यादिति वाच्यम् । श्रुतिसूत्रसिद्धब्रह्मलक्षणनिर्वाहार्थमभेदव्यपदेश- स्यानुरोद्यत्वेन प्रथमश्रुतम्यापि भेदव्यपदेशस्यैव 'राहोशिशर' इति- वौपचारिकत्वेन नेयत्वादिति । इयं चिच्छक्तिपक्षे कारणत्वान्वयानुप- पत्तिस्तावदेका ! 'आत्मन आकाश' इत्यादिश्रुतावात्मशब्दान्वयानुप- पत्तिरपरा । आत्मशब्दो हि ज्ञातृवाची। न च धर्मज्ञानरूपायाश्चिच्छक्तेः आनन्दलहरी . ज्ञातृत्वं संभवतीतीयमाशकोत्तरार्धेन निरस्यते। तन्निरासप्रकारस्त्वयम्-- छान्दोग्ये 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त' इत्याकाशसंज्ञितायाश्चिच्छतेस्सर्वभूतकारणत्वं श्रुतम् । न चात्राकाश- शब्दो भूताकाशपरस्तद्देवतापरो वा । तयोस्सर्वभूतकारणस्वाभावात् । नापि ब्रह्मपरः । वेदे प्रयुक्तस्य कस्यचित् शब्दस्य लोकप्रसिद्धार्थग्रह- णासंभवे हि वेदतदुपबृह्मणयोरन्यत्र यस्मिन् प्रयोगो दृष्टस्तस्य ग्रहणं युक्तम् । वेदे चान्यत्र - आकाशशरीरं ब्रह्म' यदेष आकाश आनन्दो न स्यात्' इत्यादौ ब्रह्मणश्शरीरानन्दादिरूपायां शक्तौ प्रयोगो दृष्टः । वेदोपवृह्मणे च श्रीकूर्मपुराणे 'यस्य सा परमा देवी शक्तिराकाश- संज्ञिता । अनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ॥' इति तस्या आकाशशब्दवाच्यत्वमुक्तम् । अतश्छान्दोग्ये तस्याः कारणत्वं श्रुत- मिति युक्तमेव । तथा बृहदारण्यके 'यदिदं सर्वमप्स्वोतञ्च प्रोतञ्च कस्मिन्नु खल्वाप ओताश्च प्रोताश्च' इति ‘वायौ गार्गि' इत्यादि गार्गि- याज्ञवल्क्यप्रश्नोत्तरपरम्परया पृथिवीसलिलबारव्यन्तरिक्षलोकादिपरब्रह्म- लोकान्तानां लोकानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्नोतप्रोतत्ववर्णनानन्तरं 'कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्च' इति पृष्टेन याज्ञवल्क्येन परब्रह्मलोकस्योतप्रोतत्वं परब्रह्मशक्तौ वर्णनीयम् । सा परतत्त्वभूता गुरूपसदनादिशिष्यकृत्यमर्यादामतिक्रम्य न प्रष्टव्येति तत्प्रश्ननिवार- णार्थ गार्गि मातिप्राक्षार्मा ते मूर्धाव्यपतत् अनतिप्रश्नां वे देवतामति- पृच्छसि मातिप्राक्षीः' इति वाक्ये तस्यामात्मत्वान्तरविशेषधर्मरूपं देवतात्वं श्रुतम् । न च तद्देवतात्वश्रवणं परमेश्वरविषयमिति शनी- यम् । तदानीं निवारितस्य परब्रह्मलोकान्तर्वलोकोतत्वप्रोतत्व- १. 'सकलजगदाधारप्रश्नस्य' इति ख पाठः । ----- चन्द्रिकासहिता। प्रश्नस्य ‘यदूर्ध्व याज्ञवल्क्य दिवो यदक्पृिथिव्या यदन्तरा द्यावा- पृथिवी इमे यद्भूतञ्च भवञ्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतञ्च प्रोतञ्च' इति पुनरवतारणे सति 'आकाश एव तदोतं च प्रोतं च'इति तदुत्तरवाक्ये चिदम्बरशक्तिविषयाकाशशब्दश्रवणात् तदनन्तरं कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च' इति प्रश्नान्तरस्योत्तरेण 'एतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति' इत्यादिना 'एतस्मिन्नु खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च' इत्यन्तेन सन्दर्भेण तस्याकाशम्याक्षरशब्दोदितपरब्रह्माश्रित- त्वप्रतिपादनाच्च । तम्माञ्चिदंबरशक्तावात्मत्वस्य कारणत्वस्य चान्वये न काचिदनुपपत्तिरिति ॥ ४ ॥ अथ श्रुत्यन्तरोदाहरणेनापि ब्रह्मचिच्छक्तेातृत्वमुपपादयति- तस्मिन्विज्ञानमन्तर्यमयितृविपये ब्राह्मण तनियम्य मोक्तं नत्तां स एवार्हति न तदितरा तस्य भाः काचिदेध्यां। तस्मिन्माध्यन्दिनास्तद्विपयगतमनुश्रावयन्त्यात्मशब्दं शक्तिनिक्रियात्मा बलमिति विविधाश्रूयते सेति चान्ये ।।५।। तस्मिन्नेव बृहदारण्यके अन्तर्यामित्राझणे पृथिव्यादिक्रमेण ब्रह्मणम्सर्वप्रपञ्चान्तर्यामित्वनिरूपणप्रस्तावे 'यो विज्ञाने तिष्ठन्विज्ञा- नादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष आत्मापहतपाप्मान्तर्याभ्यमृत' इति तेनान्तर्यामिणा नियम्यं विज्ञानं किञ्चित् काण्वाः पठन्ति, तद्विज्ञानं कस्येत्याकांक्षायां सन्निधा- नातस्यैवान्तर्यामिणः परब्रह्मण इति युक्तम् । तस्य हि सर्वावभास- 7. 'तदितरस्तस्य भासायभास्यः।' इति क पाठः ।
१२ आनन्दलहरी कतया नित्यं सर्वव्यापकञ्च विज्ञानं 'तस्य भासा सर्वमिदं विभाति' इति श्रुत्यन्तरप्रसिद्धम् । तथाभूतब्रह्मविज्ञानञ्च ब्रह्मासाधारणधर्मत्व- नानेकश्रुतिप्रसिद्धः प्रसिद्धाकाशविलक्षणः परमाकाश इत्येवांगीकर्तुमु- चितम् । आकाशो विज्ञानं चेति ब्रह्मणि पृथग्धर्मद्वयांगीकारे गौरवात्त- दीयविज्ञाने नित्यविभुत्वेन प्रसिद्धाकाशसादृश्येन 'असमन्तात् काशत' इति योगेन च आकाशशब्दस्य वृत्युपपत्तेश्च । तस्मिन् वृहदारण्यके समानप्रकरणे ‘य आत्मनि तिष्ठन्नात्मनोऽन्तर' इत्यादि माध्यन्दिनाः पठन्ति । अत्र पर्यायैक्यात् स्थानप्रमाणेन विज्ञानात्मशब्दयोरेकार्थत्वं वाच्यमिति ब्रह्मचिच्छतेरात्मत्वसिद्धिः । यद्यपि विज्ञानशब्दस्य भाव- ल्युडन्ततया नन्दादिल्युट्प्रत्ययान्ततया वा भावकर्मकरणाधिकरणक- तृरूपानेकार्थत्वं संभवति, तथापि घटपटादियत्किञ्चिद्विषयावच्छि- न्नायां ज्ञप्तौ ज्ञानगव्दम्य लोके प्रयोगात् उत्सर्गतम्तस्य तादर्थ्यमेव ग्राह्यम् । अत एव वंदवाक्येपु जीवे दृष्टस्य ज्ञानशब्दस्य नन्यादि- ल्युट्प्रत्ययान्ततया ज्ञातृपरत्वेन वा स्वप्रकाशतया ज्ञप्तिरूपतापि जीवस्यास्तीति तदर्थकत्वेन वा निर्वाहसंभवेऽपि तद्गुणसारत्वात्तु तद्यपदेशः प्राज्ञवत्' इति (ब्र. २. पा. ३. सू. २९.) ब्रह्मसूत्रे ज्ञानमि- च्छादिसकलव्यवहारहेतुतया प्राचुर्येण सदानुवमानो आवस्य सार- भूतो गुण इति तद्यपदेशशब्देनाम्यौपचारिको व्यपदेशः, 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिषु ब्रह्मणस्तेन व्यपदेश इति निर्वाहः कृतः । यतु ' यावदात्मभावित्वाच्च न दोपस्तद्दर्शनात्' इति तदनन्तर (व.२. पा. ३. सू. ३०.) सूत्रेण ज्ञानस्य यावद्र्व्यमाविधर्मत्वात् तद्य- १. “तस्मिन्नव विज्ञानपर्याय' इति स पाठः । 'प्रसिद्धथति- शयात्' इति ख पाठः। यथा चन्द्रिकासहिता । . तद- क्तिपर्यन्ततायां न दोपः, गोत्वादिवाचिनां गवादिशब्दानां व्यक्तिप- यन्तत्वदर्शनादिति तत्र निर्वाहान्तरमुक्तम् । तदभ्युच्चयमात्रम् । 'शुक्लमधुरञ्जलं' इत्यादिवत् 'अहं ज्ञानम् ' इति कदाचिदपि लाके व्यवहारस्यादर्शनेन रूपरसगोत्वादिशब्दानामिव ज्ञानशब्दस्यापि निष्कृष्टधर्मवाचित्वावगमात् नीलादिशब्दानां यावद्रव्यधर्मवाचित्वेऽपि द्रव्यपर्यन्तत्वस्य गोत्वादिशब्दानां यावद्व्यभाविधर्मवाचित्वेऽपि भावस्य च दर्शनेन यावदात्मभावित्वस्यासाधकत्वाच्च । एवमुक्तरीत्या यदा केवलम्य ज्ञानशब्दस्यैव विषयान्तरावच्छिन्नज्ञप्तावौत्सर्गिकत्वं तदा तत् सुतरां विज्ञानशब्दस्य व्युपसर्गेण विविधत्वप्रतीतेः 'अर्थेनैव विशेषो हि निराकारतया घियाम्' इति न्यायेन विज्ञाने विविधत्वस्य नानाविपय- त्वरूपतापर्यवसायित्वात् । एवञ्चात्र काण्वशाखायां विज्ञानशब्देन विविधविषयावच्छिन्नज्ञानरूपतयावगतम्यैव कस्य चित् परमेश्वरनिय- म्यस्य माध्यन्दिनशाखायामात्मगब्देन ज्ञातृरूपतोक्तेत्यतोऽपि तत्पारमे- श्वरी चिच्छक्तिरिति पर्यवम्यति।जीवचिच्छक्तीनां ज्ञातृत्वाभावात् परमे- श्वरस्य नियम्यत्वासंभवाच तदीयचिच्छक्तातृज्ञानोभयरूपत्वस्य पुराणागमेपु च बहुषु प्रसिद्धत्वाच्च ‘ब्रह्मणा विपश्चिता' इति श्रुतौ आणि विपश्चित्त्वविशेषणेन विगिप्य तस्या विविधविषयष्टिरूपत्वस्य प्रसिद्धत्वाच । ननु 'यो विज्ञाने तिष्ठन्य आत्मनि तिष्ठन्' इति पर्यायो जीवविषय इति युक्तम् । अन्तर्याम्यधिकरणे जीवोऽन्तर्यामीति पूर्व- पक्षनिराकरणार्धतया प्रवृत्तन 'उभयेऽपि हि भेदेनेनमधीयत' इति (व. १. पा. २. म्. २१.) मूत्रणोभये काण्वमाध्यन्दिनानमन्त- यामिणं यो विज्ञान तिष्ठन्य आत्मनि निष्ठन्' इति जीवात् भेदे- १. चिच्छकीनां जवानों विविधांवरयानन्याभावात्' इनि ग पाठः आनन्दलहरी नाधीयते । अतो न जीवोऽन्तर्यामी नियम्यस्य नियामकत्वायोगादिति तस्य पर्यायस्य जीवविषयत्वापुटीकरणात् । आत्मशव्दम्य जीवे स्वार- स्यात् विज्ञानशब्दस्यापि 'विज्ञानं यज्ञं तनुत' इत्यादिषु श्रुतिपु तत्र तत्र दृष्टप्रयोगत्वाच्चेति चेदुच्यते जीवपूर्वपक्षनिराकरणार्थत्वं तस्य सूत्रस्य न युक्तम् । तथा पूर्वपक्षासंभवात् । तथाहि है-कः खलु जीवोऽन्तर्यामीति पूर्वपक्षः स्यात् । न तावत्तदुपासकजीवः । परिछिन्ने तत्र पृथिव्यादि- स्थितितन्नियन्तृत्वयोरसंभवात् । किमन्तर्यामिणं वेत्थ' इति गन्धर्वेण पृष्टस्य काप्यस्य ' नाहं तं भगवन्वेद' इत्युत्तरासामञ्जस्यप्रयोगाच्च । यज्ञविद्याविदः काप्यस्य कर्मफलभोक्तृदेहातिरिक्तजीवज्ञानावश्यम्भा- यात् । नापि पृथिव्याद्यभिमानी जीवः । श्रोतारमुद्दालकं प्रति पराभूते तस्मिन् ‘एप त आत्मा' इति तदात्मत्वोपदेशायोगात पृथिव्यादिष्व- प्यभिमानिजीवस्य प्रत्येकं भिन्नतया ‘सर्वाणि भूतानि योऽन्तरो यम- यति' इत्युपक्रान्ताया एतस्य सर्वनियन्तृताया अनन्वयप्रसङ्गाच्च । नापि जीवसमुदायः । तस्य पृथिव्यादिस्थत्वतन्नियन्तृत्वयोरभावेन ' यः पृथिव्यां तिष्ठन्' इत्यादेरनन्वयात् । न च सर्वभूतवाक्ये जीवसमु- दायः पृथिव्यादिवाक्ये तत्तदभिमानी जीव इति वैरूप्यकल्पनं युक्तम् । न वा तदपि निर्वोढुं शक्यम् । 'एप आत्मा' इत्युपदेशायोगस्य उक्त- त्वात् । अपि चोपासको जीव इति पृथिव्याघभिमानी जीव इति सर्व- जीवसमुदाय इति पक्षत्रयमपि भेदव्यपदेशाच्चान्य' इत्यनेनान्तरादि- त्यविद्याधिकरणगुणसूत्रेणैव निरस्तम् । तेन हि सूत्रेणादित्यान्तर्वर्ती हिरण्मयः पुरुषो जीव इति पूर्वपक्षनिराकरणे हेतुरुक्तः ‘य आदित्ये तिष्ठन्नादित्यादन्तर' इत्यादिभेदव्यपदेशादादित्यजीवादन्योऽयमादित्या- न्तर्वर्ती हिरण्मयः पुरुष इति स हेतुरुपासकजीवोऽन्तयोमीत्यादिपक्षत्र- चन्द्रिकासहिता। यनिराकरणेऽपि तुल्यः । 'एप आत्मायं पृथिवी न वेद यं सर्वाणि भूतानि न विदुः' इत्यादिभेदव्यपदेशसत्त्वात् । तस्मान्निरालंबनो जीवपूर्वपक्ष इति न तन्निराकरणार्थमिदं सूत्रं, किन्तु 'न च स्मार्तमतद्धर्मामिलापा- च्छारीरश्चं' इति (. अ. १. पा. २.) सूत्रेण शारीरो नारायणो नान्तर्यामीति प्रतिपादित तर्हि नारायणस्यापि प्रकृतिभूता शैवी चिच्छक्तिरन्तर्यामिण्यस्त्विति शंकायां तन्निराकरणार्थम् । नारायणोऽ- प्यन्तर्यामी भवितुमर्हतीत्युक्त्यनन्तरं तर्हि यः कश्चित् प्राकृतजीवो- ऽन्तर्याम्यस्त्विति शंकानुत्थानात् । भाप्यं तु जीवपूर्वपक्षनिराकारणार्थ- खेनापि सूत्रं योजयितुं शक्यमित्येवंपरम् । भाप्ये जीवपदं वा 'जीव- यति' इति व्युत्पत्त्या चिच्छक्तिपरमिति न विरोधः। किञ्च श्वेताश्वतर- शाखिनोऽपि ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबल- क्रिया च' इति ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणै- निगूढाम्' इति च ब्रह्मणश्शक्तिरेव तस्य ज्ञानं बलं क्रिया चेति वर्णयन्ति । शक्तिः स्वयमात्मेति च वर्णयन्ति । न च ततात्मशब्दस्य देवशब्देन समासः । अनात्मरूपदेवाभावेन तदन्वयवैयर्थ्यप्रसंगात् । शक्त्यन्वये जडशक्तिव्यावर्चकत्वेन सार्थकत्वात् 'ते ध्यानयोगानुगताः प्रापश्यन् शक्तिमेश्वरीम् । पाशविच्छेदिकां साक्षान्निगूढां स्वगुणै- भृशम् ॥ तया विचछिन्नपाशास्ते सर्वकारणकारणम् । शक्तिमन्तं महादेवमपश्यन्दिव्यचक्षुपा ॥' इति वायुसंहितायां पाशविच्छे- दकत्वविशेषणेन 'समेत्य ते महात्मनो मुनयो ब्रह्मवादिनः । विते. निरे बहून् वादान् ज्ञानविज्ञानसंश्रयान् ॥ किमस्य जगतो मूलमात्मा वास्माकमेव हि । कोऽपि स्यात्सर्वभावानां हेतुरीश्वर एव च । इत्येवं मन्यमानानां ध्यानकर्मावलंबिनाम् । आविरासीन्महादेवी गौरी गिरि- आनन्दलहरी . वरात्मजा ॥ निरीक्षितास्ते परमेशपल्या तदन्तरे देवमशेषहेतुम् । पश्यन्ति शम्मु कविमीशितारं रुद्रं वृहन्तं पुरुषं पुराणम्॥' इति कूर्म- पुराणवचनजातेन च तदुपवृक्षणेन तम्यादिशवशक्तस्सकलपाश- विच्छेदकगौरीरूपत्वावगमाच्च । अपि च । त एव श्वेताश्वतर- शाखिनो विविधा श्रूयत' इत्याद्युदाहृतज्ञानत्यादिप्रकारव्यतिरेकेण 'स एको ब्रह्मण आनन्द' इत्यादिश्रुतिषु आनन्दाद्यनेकप्रकारवती श्रूयत इति च वर्णयन्तीत्यर्थः । यद्वा । 'विविधा श्रूयते सा' इत्यस्य सैव शक्तिरानन्दवल्ल्यां विविधा पक्षिप्रकारा श्रूयत इत्यर्थः। विशब्दो हि लोकवद्वेदेऽपि पक्षिणि प्रयुक्तो दृश्यते । यथा ' वयस्सुपर्णा उपसे- दुरिन्द्रम्' इति । विविधैव श्रूयते ज्ञानवल क्रियारूपा च भवतीति ज्ञानत्वादिभिः प्रकारविशेपैस्समुचितमर्थ समर्पयतो हि विविधत्यस्य ज्ञानादिशब्दवदेव प्रकारविशेषसमर्पकत्वं युक्तम् । विविधा बहुप्रकारेत्युक्त्वा कैः प्रकारैर्बहुप्रकारेत्याकांक्षायां ज्ञानत्वादिप्रकार- रित्युच्यते इति योजनायाञ्च शब्दाम्वारस्य विविधत्यस्य व्यर्थ- कल्पता च । ब्रह्मशक्तेर्बहुप्रकारत्वस्य उपनिषदन्तरेषु प्रतिपादना- दर्शनेन 'श्रूयत' इत्यस्यानन्वयापत्तिश्च । व्युष्टीष्टकोपधानमन्त्रे 'प्वेका सती बहुधोपो व्युच्छसि' इति श्रवणेऽपि वैदि- कस्य श्रूयत इत्यस्य वैदिकत्वप्रत्यासक्त्या वैदिकग्राहकत्ववदौ- पनिषदत्वप्रत्यासक्तया ततोऽप्यन्तरंगोपनिषदश्रुतिग्राहकत्वं युक्तम् । परास्य शक्तिः' इति ब्रह्मधर्मत्वेन श्रुतायाश्शक्तेः स एको ब्रह्मण आनन्द' इति तद्धर्मत्वेन श्रुतस्यानन्दस्य च भेदानुक्तेरैक्ये लाधव- मस्तीत्यवतरतो लाघवतर्कस्यानुग्राह्यत्वप्रमाणाकांक्षायां तदाकांक्षितप्र. माणरूपतया योजनच 'विविधे त्यस्य युक्त्यन्तरमित्ययमर्थः पण्डितानां 6 चन्द्रिकासहिता। १७ हृदयंगमः ॥ ५॥ ननु, शिवस्य धर्मज्ञानरूपा चिच्छक्तिश्चैतन्यरूपैव न चेतनरूपाणि । चेतनत्वे तदीयज्ञानेच्छादिव्यवहारार्थ तत्रापि जीवे- विव चिच्छक्त्यन्तरस्यांगीकरणीयत्वापत्तेः । तत्परिणामरूपाणां ज्ञान. च्छादिवृत्तीनां धर्मिभूतशिवज्ञानेच्छादिरूपत्ववत् तदीयज्ञानेच्छादिरू- पत्वस्याप्यंगीकारे जीवचिच्छक्तीनामपि तयैव रीत्या ज्ञातृत्वापत्तेः । अत शिशवमहिपीत्वेन प्रसिद्धा 'गौरी शिवा सर्वमंगळा' इत्यादि नामवती शक्तिश्शिवधर्मरूपायाश्चिच्छक्तरन्या। न तु तद्धर्मरूपा। पुराणादिषुत- स्याश्शिवधर्मत्वप्रसिद्धिस्त्वयुतसिद्धधर्मवन्नित्यसंबंधित्वेनानपायित्वसा- म्यात् । अत एव पाश्चरात्रतन्त्रेषु महालक्ष्म्याः परवासुदेवपरमाहन्ता- रूपतया तद्धमत्वप्रतिपादनेऽपि तत् सर्वमौपचारिकमिति म्वतन्त्रचेत- नान्तरत्वमेव वैष्णवैरङ्गीकृतम् । उक्तं हि लक्ष्मीतन्त्रदिपु 'स वासुदेवो भगवान् क्षेत्रज्ञः परमो मतः । विष्णुर्नारायणो विश्वो विश्वरूप इती- यते । अहन्तया समाक्रान्तं तम्य विश्वमिदं जगत् । वम्त्ववस्तु च तन्नास्ति यन्नालीढमहन्तया । तम्य या परमा गक्तिोत्नेव हिम- दीधितेः । सर्वावस्थागता देवी म्बात्मभूतानपायिनी । अहन्ता ब्रह्मण- स्तम्भ साहमम्मि सनातनी । वासुदेवः परं ब्रह्म नराणामयनम्महत् । तस्याहं परमा शक्तिरहन्तानन्दचिन्मयी' इत्यादिवचनहन्तादिन्पपर- वासुदेवधर्मत्वं लक्ष्म्याः । तथापि न्यायमिद्धाञ्जनादिषु लक्ष्मी प्रकृत्य- शक्तित्ववादास्तु पनीत्वादिरूपेण विशेषणत्वाभिप्रायाः । 'इच्छा संवि. दन्तहन्ता' दिव्यपदेगा अपि प्रणयानुविधेयत्वम्वयंप्रकागत्वम्परूपान- पायित्वादिविशेषपरा द्रष्टच्या इति तेषां वचनानां गति मुक्त्वा. तम्या: स्वतन्त्रतनान्तरत्वमेवाङ्गीकृतम् । एक्श देवात्मगतिम्' इति १. 'म्यम्पकामिनि म पाठः। १. 'मुनमुनि ग पाठ: 3 १८ आनन्दलहरी श्वेताश्वतरमन्त्रस्यात्मविशेषणानुसारेण उपबृह्मणानुसारेण च स्वतन्त्र- शक्तिरूपगौरीविषयत्वेऽप्यानन्दमयवाक्यस्य शिवधर्मरूपचैतन्यसुखा- त्मकचिच्छक्तिविषयत्वाङ्गीकारात् तनात्मशब्दो न सङ्गच्छते । अन्त- र्यामिब्राह्मणे विज्ञानात्मपर्यायो यथाकथञ्चित् जीवविषयो योजनीयः । ब्रह्मचिच्छक्तिविषयत्वेऽपि तस्यामात्मशब्द औपचारिको नेतव्यः । गार्गिब्राह्मणे तस्यां देवताशब्दोऽपि तथैव नेतव्य इतीमां शङ्कां निरा- करोति- ऐकायें चिन्तिते तां सवितुरिति मनोयुष्टिमन्त्रैर्बुधानां या गौरी सैन शंभोस्सुमतिरिति भवत्येव निस्संशया धीः । तद्योग्यवृत्तिभेदैर्मतिरपि मतिमत्येव कैश्चित्स्वनिः स्वाम्यहरेव कैश्चित्स्वकरगतधनैर्भोगवान् खल्बमात्यः ।।६।। यजुर्वेदमागे 'तां सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमति विश्व- जन्याम् । यामस्य कण्वो अदुहत् प्रपीनां सहस्रधारां पयसा महीं गाम्' इत्याम्नायते मन्त्रः । अत्र सवितुर्वरेण्यश्शिवः। ' यदा तम' इति मन्त्रे 'तदक्षरं तत्सवितुर्वरेण्यम्' इति श्रवणात् । तस्य च सुमतिस्तदीया चिच्छक्तिः, सोत्तरार्धे 'या प्रथमा व्यौच्छत् सा धेनुरभवद्यमे। सा नः पयवती धुक्ष्वोत्तरामुत्तरों समाम्' इति व्युष्टीष्टकोपधानमन्त्रेप्वाम्नातस्य मन्त्रस्यार्थेन विशेषिता। व्युष्टीप्टकोपधानमन्त्राश्च 'इयमेव सा या प्रथमा ब्यौच्छत्' इत्यारभ्य प्रवृत्ताः पञ्चदशापि वधूर्जजान नवगज- नित्री सूर्यपत्री विचरतः प्रजानती' इत्यादिमन्त्रलिंगेन देवीसूक्तत्व- प्रसिद्धया च गौरीविपया इति स्पष्टमेव । अस्मिन्नर्थे पुराणवचनान्यप्यने दयिष्यन्ते । अतश्शिवस्य चिच्छक्तिरेव गौरीति श्रुतिपुराणप्रति- चन्द्रिकासहिता। १९ पन्नोऽर्थः कुयुक्तिभिर्न वाधमर्हति । ब्रह्मधर्मत्वेनावतिष्ठमानाया एव चिच्छक्तेः स्वयमपि चेतनान्तरत्वेनाप्यवस्थाने कानुपपत्तिः । तदीयाः केचन ज्ञानेच्छादिपरिणामाः शिवस्य ज्ञानेच्छादयो भवन्ति । केचन शिवसङ्कल्पानुसारेणैव शक्तेर्ज्ञानेच्छादयो भवन्ति । यथा राज्ञा- मात्यवशे स्थापितेषु वस्त्राभरणादिषु केचन राज्ञः केचन राजसङ्कल्पां- नुसारेणामात्यस्य च भोग्या भवन्तीति हि समर्थयितुं शक्यम् । वैष्णवै- रपि लक्ष्मीनारायणयोरेवमेवाहन्ताहमर्थरूपत्वे समर्थयितुं शक्ये किमर्थ तल्लक्ष्मीतन्त्रादिवचनजातमुपेक्षितमिति न विद्मः । अस्माकं तु पाञ्च- रात्रप्रमाण्ये अभिनिवेशाभावात् यद्यपि तन्नावश्यं समर्थनीयम् । अथापि तदभ्युपगमेऽपि न कश्चिद्विरोधः । चिच्छक्तेनारायणात्मता प्राप्ताया एव हि प्रपञ्चाकारतापत्तिरस्माभिरिप्यते। तथा च चिच्छक्ते- रिव नारायणस्यापि प्रपञ्चे तादात्म्येन नियन्तृत्वनिबन्धनशरीरशरीरि- भावेन चाहंभाव उपपद्यते । इयांस्तु भेदः । नारायणस्य प्रतिब्रह्माण्डं भेदात्तस्य तद्ब्रह्माण्डावच्छिन्नप्रपञ्चमात्रविषयोऽहंभावः । चिच्छक्ते- स्सकलब्रह्माण्डावच्छिन्नतद्वहिर्भूतसनारायणसकलप्रपञ्चविषयो ऽहंभाव इति । शिवस्य तु सचिच्छक्तिसनारायणसकलप्रपञ्चविषयोऽहंभावः । स तु शिवस्य शरीरशरीरिभावमात्रनिवन्धनः । चिच्छक्तिनारायणयोः तादात्म्यशरीरशरीरिभावोभयनिवन्धनः। तयोः स्वोपादानके प्रपञ्चे निय- न्तृत्वेन तच्छरीरकत्वस्यापि सद्भावात् । एतदभिप्रायमेव लक्ष्मीतन्त्रेऽपि वचनं दृश्यते- 'कश्चित्केपाश्चिदात्मा स्यात् तस्यान्येपाञ्च कश्चन । तस्याप्येवमितीत्थं तु यत्रैप व्यवतिष्ठते । अद्धा तमद्धनः पारं परमात्मा- नमूचिरे ॥' इति ॥ ६ ॥ एवं ब्रह्मधर्मज्ञानरूपायाश्चिच्छक्तेः स्वय- मपि ज्ञातृतायां न काचिदनुपपत्चिरित्युक्तम् । अमुमेवार्थ दृढीकुर्वन् २० आनन्दलहरी . आनन्दवल्ल्यां यत्परमं व्योम आयतनत्वेनोक्तं तदेवानन्दमयः ‘स एको ब्रह्मण आनन्द' इति श्रवणात् ब्रह्मधर्मश्चेत्यनुपपन्नेयं योजना, आयतनस्यायतनवद्धर्मत्वायोगादिति शङ्कान्तरमपि निराकरोति- शंभो नक्रियेच्छावलकरणमनश्शान्तितेजश्शरीर- स्वर्लोकागारदिव्यासनवरमहिषीभोग्यवर्गादिरूपा। सवरेतैरुपेता स्वयमपि च परब्रह्मणस्तस्य शक्तिः सर्वाश्चर्यकभूमिमुनिभिरभिनुता वेदतवाभियुक्तः ॥७॥ परब्रह्मणश्शिवस्य शक्तिरेव तस्य ज्ञानेच्छाकृतिबलतेजःप्रभृ- तिगुणरूपेण शरीरेन्द्रियमनःप्राणरूपेण विविधभोग्यभोगस्थानोपकर- णरूपेण सह भोक्तुर्दिव्यमहिपीरूपेण च तमासेवते । म्वयमपि ज्ञाने- च्छादिभिरुक्तैस्सर्वैरप्युपेता पुरुषरूपेण दिव्यमहिषीयुक्ता च भवति । आहुश्चाभियुक्ताः- 'शक्तिश्शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया करणमासनजालमिच्छा। ऐश्चर्यमावरणमायतनानि च त्वं किं तन्न यद्भ- वसि देवि शशाङ्कमौले ॥ योऽयं चकास्ति गगनार्णवरत्नमिन्दुर्योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वाममर्धमिदमन्तकसूदनस्य देवि त्वमेव तदिति प्रतिपादयन्ति ॥' इत्यादि । परास्य शक्तिविविधैव श्रूयत' इत्यादिमन्त्रोऽप्यमुमर्थ क्रोडीकरोति । 'आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मनआनन्दम् । शान्तिसमृद्धममृतम्' इति श्रुतिरप्युक्तमर्थ- माविष्करोति । 'यदेष आकाश आनन्द' इति श्रुत्युक्ता चिच्छक्ति- रेव ब्रह्मणश्शरीर तयैव सत्तया तत्सत्यात्म । 'को ह्येवान्यात् कः शण्यात् ' इति श्रुतेः । प्रपञ्चस्य बस्यापि प्राणभूतायो तस्यामेवारामः क्रीडास्य । तयैव मनसा तपयुक्तानन्दानुभवोऽस्य । तयैव शान्त्या ।
चन्द्रिकासहिता। २१ तदानन्दानुभवप्रयुक्तविषयवैराग्यरूपया समृद्धञ्च ब्रह्मेति श्रुतेस्ताप- यम् । एवं सर्वाश्चर्यनिधानभूतायां तस्यां न किश्चिदनुपपन्नमिति ज्ञानत्वेऽपि ज्ञातृत्वमुपपद्यते । शिवानन्दरूपायास्तस्याः स्वयश्चेतना- न्तरत्वेनानन्दानुभवितृत्वमप्युपद्यते । यथा खलु शिवः स्वात्मरूपं स्व- कोयचिच्छक्तिरूपं तवृत्तिजालरूपञ्चानन्दमनुभवति एवं शक्तिरपि स्वाश्रयशिवरूपं स्वात्मरूपं स्वकीयकतिपयवृत्तिजालरूपञ्चानन्दमनु- भवतीत्यङ्गीकारे न काचिदनुपपत्तिः। तथा शिवाश्रितायाश्शक्ते- शिशवासनत्वं क्षित्याश्रितस्य शोलस्य क्षितिधरत्वमिवोपपद्यते इति तत्रापि नानुपपचिरिति सर्व समन्जसम् ।। ७ ।। एवं तावच्छक्तो कारणत्वान्वयानुपपत्तिः परिहृता । अथ चिच्छ क्तावेव कारणत्वमार्जवेनान्वेति न ब्रह्मणीति प्रतिपादयितुमुपक्रमते-- अस्यामानन्दवल्ल्यामुपरि च भणितं युज्यते कारणत्वं नाधारेऽस्याविकारे भगवति विमले ब्रह्मणि श्रीमद्देशे । आकागोऽयं विकारी स तु परमशिवो निविकारश्च सम्यक् छन्दोगैर्नामरूपान्वितमतदायितं चामनद्भिविविक्तः ॥ ८॥ . 'आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तो 'ति च्छन्दोगा आकाशं नामरूपप्रपश्चान्वितं तदाधारपरब्रह्मरूपं शिवमत- दयितं नामरूपम्पर्शरहितचामनन्ति । तैराकागो विकारित्वेन शिवो निर्विकारत्वेन च विविक्त इत्यर्थः ॥ ८ ॥ नन्दाकामो नामरूपयोनियादृत्येन श्रुतः न तु तदात्मना वि- कारित्वेनेत्याशंक्याह- 1. भिवान हिनिय पाठः।
२२ आनन्दलहरी आकाशे दृश्यते निर्वहित पदमिदं लोकसिद्ध मसिद्ध्या स्वारब्धामाशु पारं गमयति महतीं यः क्रियां तत्र शक्तम् । तत्राभावात् क्रियायाः क्वचिदुपचरितं कारणत्वेऽन्तरंगे पाच्यं तत्कार्यरूपाप्युपचयमहितं तद्विकारित्वमेव ॥ ९॥ आकाशे यन्निहितृपदं श्रूयते तदारब्धमहाक्रियासमापयित. रूपकर्तृविशेषवाचितया प्रसिद्ध लोके । ' समापयत्ययत्नाद्यः प्रारभ्य मह- ती क्रियाम् । स हि निर्वाहको लोके विद्वद्भिर्व्यपदिश्यते' इति । इह तु क्रियानुपादानान्मुख्यार्थो नान्वेतीति निहितेत्यस्य लक्ष्योऽर्थः परिणा- ह्यः । स विहाभ्यर्हितहेतुत्वरूप इति युक्तम् । आरब्धमहाक्रियासमा- पयितृरूपमुल्यार्थीतरंगसादृश्यरूपत्वात् अन्तरंगसादृश्यग्रहणसंभवे च बहिरंगसादृश्यस्योपचारनिमित्तत्वेन ग्रहणायोगात् । अभ्यर्हितहेतुत्वं च निमित्तापेक्षयोपादानस्य कार्ये तादात्म्येनानुवर्तमानतयान्तरंगकारणस्य सर्वसंप्रतिपन्नमिति कारणस्य कार्यावस्थारूपोपचयमाप्तिरूपं तद्विकारि- त्वात्मकं तदुपादानत्वमेव 'निर्वहिते' त्यस्यार्थः पर्यवस्यतीत्यर्थः ।। एवमाकाशवाक्येन विकारित्वमुच्यत इत्युपपादितम् । अथ ब्रह्मवाक्येन निर्विकारत्वमुच्यत इत्येतदुपपादयति- एवञ्च ब्रह्मणो यत्तदुपरि जगदस्पर्शवाक्यं प्रवृत्तं तद्बुद्धिस्थं निपेत् परगगनगुणं तद्विकारित्वरूपम् । एवं सत्यात्मताया न विहतिरमृतत्वस्य चोक्तेः कृता स्राव सूत्रेऽप्यान्तरसग्रहणमिदमभिप्रायमद्धा कृतं म्यात् ॥१०॥ १. 'वाची । तथा लोके प्रसिद्धेः !' इति व पाटः ।
चन्द्रिकासहिता। २३ 'ते यदन्तरा तब्रह्मे' त्यत्रान्तराशब्दम्य नामरूपमध्यवर्तित्वं मुख्यार्थः । सोऽपि मुख्यार्थोऽत्र न संभवति । न हि नामरूप परस्प- रासंवलिते कचिद्विभक्तावस्थाने वर्तेते । न वा तयोर्मध्ये गुरुशिष्ययोर्मध्ये कमण्डुलवत् ब्रह्म वर्तते । अतोऽत्र तद्विषये औदासीन्यरूपं तदुभयसंब- न्धराहित्यमन्तराशब्देन माध्यस्थ्यवाचिना लक्षणीयम्। 'अभ्यर्थनाभङ्ग- भयेन मानी माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थ' इत्यादिपु हि मध्यस्थशब्द- नौदासीन्यरूपमभ्यर्थनासंबन्धराहित्यं लक्ष्यत इति दृष्टम् । एवञ्चान्तरा- शब्दो नामरूपसंवन्धं ब्रह्मणो निषेधन प्राचीनवाक्ये प्रस्तुतं विकार- विकारिभावरूपमेव निषेधेत् , न तु सम्बन्धसामान्यं सम्बन्धान्तरं वा । बुद्धिस्थस्यैव निषेधप्रतियोगित्वेनान्वयौचित्यात् । एवं सत्येव तदमृतं स आत्मा' इति ब्रह्मण्यात्मशब्देनोच्यमानस्य जगदन्तर्यामित्वरूपस्य नामरूपप्रपञ्चेन सह नियम्यनियामकमावसम्बन्धस्य न विहतिः। अ- मृतत्वस्य च सर्वात्मना विनाशाभावरूपस्य च न विहतिः । अन्यथा ब्रह्मणः कार्यात्मना विकारित्वे कार्यनाशस्तस्यैव नाश इत्यमृतत्वस्य विहतिर्भवेत् । एवं सत्येव च आकाशोऽर्थान्तरत्वादिव्यपदेशा' दित्येतद्वाक्यार्थनिर्णायक (ब्र. १. ५.३. सू.४२.) सूत्रे अर्थान्तरत्व- ग्रहणमुक्तार्थपरतया समञ्जसं कृतं भवेत् । तत्र ह्यान्तरत्वशब्देन 'ते यदन्तरे ' त्यस्यार्थोऽनूदितः। अर्थान्तरत्वञ्च भिन्नत्वम् । ततश्च नाम- रूपाभ्यां विकारविकारिभावेन तादात्म्यसम्बन्धराहित्यरूपं भिन्नत्वं ते यदन्तरे' त्यस्यार्थ इत्येतदभिप्रायमर्थान्तरत्वग्रहणं समञ्जसं भवेत् । अन्यथा भिन्नत्ववाचिनोऽर्थान्तरत्वशब्दस्य नेह सामञ्जस्य भवेदित्यर्थः । एवं सति सौत्रहेतोरयमर्थः पर्यवस्यति । अर्थान्तरत्वस्य भिन्नत्वस्य नामरूपाभ्यां विकारविकारिभावेन तादात्म्यसम्बन्धराहित्यरूपस्यादिः आनन्दलहरी पूर्वनिर्दिष्टं तत्प्रतियोगिभूतं विकारविकारिमावेन तादात्म्यं तब्धपदे- शात् 'नामरूपयोनिहिता' इति तस्य व्यपदिष्टत्वादाकाशश्चिच्छक्ति- रिति ॥ १० ॥ एवं ब्रह्मणो निर्विकारत्वे शक्तेर्विकारित्वे च छन्दो- गोपनिषद्वाक्यमुदाहृतम् । अथ श्वेताश्वतरोपनिषन्मन्त्रमुदाहरति-- मज्ञाशक्त प्रसारं क्षरणरहितता विश्वकर्तुश्शिवस्य वाचक्षाणं यदेत्यादिकमतिपहितं मन्त्रमप्यामनामः । येनाशेपं जगत्कारणविपयवचो वैदिकं विप्रकीर्ण तात्पर्यादन्वितार्थ विवरणविधयाकारि गौरीसहाये ॥११॥ 'यदा तमस्तन्न दिवा न रात्रिन सन्न चासच्छिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी' इति मन्त्रे प्रज्ञाशक्तेः ततः प्रपञ्चसृष्टिसङ्कल्परूपेण प्रपञ्चात्मना च प्रसरणरूपं विकारित्वं ब्रह्मणः क्षरणराहित्यरूपमविकारित्वं च स्पष्टमेवाम्नातम् । अयं मन्त्रस्सर्वकारणवाक्यानां सद्रामादिसाधारणपदयुक्तानां प्रजापति. नारायणादिदेवतान्तरवाचिपदयुक्तानां चाविशेषेण शिवे पर्यवासानं प्रदर्शयितुं प्रवृत्त इत्यस्माभिश्शिवतत्वविवेकादिषूपपादितम् ! तत्र कथं कारणवाक्यानां शिवे पर्यवसानं सङ्गच्छते परब्रह्मणस्तस्य कौटस्थ्यश्र- वणादित्याकाबायां 'तदक्षर'मित्यनेन अथ परा यया तदक्षरमधि- गम्यत' इत्याद्यक्षरपदयुक्तकारणवाक्यानां शिवे पर्यवसानं प्रदर्शयता शिवस्य सर्वविधक्षरणाभावकीर्तनात् कार्यात्मना क्षरणाभावरूपं निर्वि- कारत्वमप्युक्तं भवतीति कोटम्यश्रुतिप्राप्तं निर्विकारत्वमनुमन्यैव 'प्रज्ञा च तस्मात्प्रसूता पुराणी' इत्यनेन तदक्षत' सोऽकाममत' इत्यादीनां जगत्सृष्टिसङ्कल्पप्रसरणप्रतिपादककारणवाक्यानां 'आत्मन चन्द्रिकासहिता। २५ आकाशम्सम्मूत' इत्यादीनां वियदादिप्रपञ्चप्रसरणप्रतिपादककारण- वाक्यानां च शिवे पर्यवसानं प्रदर्शयता नित्यसिद्धप्रज्ञारूपायाः शि- वचिच्छक्तेम्सृष्टिसङ्कल्पसृज्यपदार्थरूपेण विकारित्वं शिवस्य तु तद्वारकं विकारित्वं साक्षान्निर्विकारत्वेन न विरुध्यत इत्यतः कौटस्थ्य- श्रवणाविरोधेन सकलकारणवाक्यपर्यवसानभूमित्वश्रवणमुपपद्यत इति प्रतिपिपादयिपितार्थोपपादकतया अभ्याप्यर्थय विवक्षितत्वात् प्रकृता- र्थोदाहणविषये तात्पर्यवत्वादत्यर्थमहितोऽयं मन्त्रः । तस्मादुदाहृतम- न्त्रानुसारेणापि शक्तिशिवयोर्विकारित्वाविकारित्वव्यवस्थाङ्गीकरणीयेति भावः ॥ ११ ॥ श्वेताश्वतरोपनिषद्येव मन्त्रान्तरमुक्तार्थे प्रमाणमुदाहरति-~ मन्त्रश्छन्दांसि यज्ञाः क्रतत्र इति परव्योम्न एवास्य जन्म स्रष्मृत्वं केवलश्च प्रथयति तदधिष्ठातुरेणांकमौले । मायां वित्यादिमन्त्रस्तदुपरि पठितस्तस्य चार्थ विवृण्वन् तस्मान्नारायणत्वं समधिगतवतो विश्वजन्मेति चाह ॥१२॥ 'छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च देवा वदन्ति। तस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सन्निरुद्धः।' ' मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतेन व्याप्तं सर्वाचराचरम् ।' इत्यानायते । 'ऋचो अक्षरे परमे व्योमन्' इति तत्पूर्वमन्त्रप्रकृतां परमव्योमशब्दितां शैवी शक्ति परामृश्य पञ्चम्या तस्याम्समस्तजगदुपादानत्वप्रतिपादनात् तम्या मृद इव विकारित्वं सृजत इति पदेन शिवस्य निमित्तत्वं प्रतिपादयता तम्य फुलालबद- विकारित्वं प्रतिपाद्यते । द्वितीयमन्त्रे 'मायां तु प्रकृति विद्यात्' इत्यनेन पूर्वमन्त्रोपवर्णितोऽयमेवार्थः स्थिरीक्रियते । तत्र मायाशब्द- 4 आनन्दलहरी यतः शिवशक्तिपरः । तम्य माया वयुनं ज्ञानम्' इति वैदिकनिखण्टौ ज्ञानपर्यायत्वेन परिगणनात् कूर्मपुराणे 'कैया भगवती देवी शङ्करा- र्धशरीरिणी' इति प्रश्नोत्तरे तम्य तत्र सर्वजगरसूतिशक्तिर्मायेति विश्रुता । तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ।' इति मायाश- ब्दस्य शैवचिच्छक्तौ प्रसिद्धत्वपतिपादनाच्च । तथाच मायां शैवीं प्रकृतिमेव तत्र तत्र प्रपञ्चप्रकृतित्वेन प्रतिपाद्यमानां विद्यादित्यर्थः । अनेन, क्वचित् परमव्योमगब्देन जगत्प्रकृतिः प्रतिपाद्यते प्रसूता जगतः प्रसूती' इत्यत्र जगत्प्रकृतिशब्देन 'अजामेकां लोहि- तशुक्लकृष्णाम्' इत्यत्राजाशब्देन । तेषां भिन्नार्थत्वे विरोधः स्यादिति शंका सर्वेषामपि तेषां मायैकविषयत्वविभावनया निरस्ता भवति ॥१२॥ नन्वेवमपि न विरोधशंकानिरासः । तदैक्षत बहु स्यां प्रजायेय' इत्यादिश्रुतिषु हि शिवस्य जगत्प्रकृतित्वं प्रतिपाद्यते । नारायणा- नुवाकादिपु नारायणस्य । न च शिववाचिनो नारायणवाचिनो वा शब्दस्य शैवी चिच्छक्तिरों भवितुमर्हतीति शंका अवशिष्टपाद- त्रयेण निरस्ता । तत्र ' मायिनम्' इति नित्ययोगे मत्वर्थीयप्रत्ययः । ततश्च महेश्वरं मायिनमेव विद्यादित्यनेन शिवस्यापृथसिद्धका- विस्थाश्रयत्वरूपमेव प्रकृतित्वं तेन तेन श्रुत्यन्तरेण प्रतिपाद्यते न तु परिणामित्वरूपमिति विभावितम् । उत्तरार्धन सकलजगदुपादान- तया सबाह्याभ्यन्तरसकलजगद्यापकत्वेन यञ्च किञ्चिजगत्सर्व दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' इत्यादिश्रुतिपु प्रसिद्ध नारायणमनूद्य तम्य चिच्छक्त्यंशत्वमन्यतो प्राप्त विधानेन चिच्छश्त्यै जगदुपादानत्वं तम्याः नारायणावस्था- प्राप्तिद्वारकमिति तदेव नारायणम्य जगदुपादानत्वं प्रतिपादयद्भिः , चन्द्रिकासहिता। २७ . श्रुत्यन्तरैः प्रतिपाद्यत इति विभावितम् । ननु तस्यावयवभूतेन' इत्यत्र सर्वनाम्नः पूर्वाधप्रकृतमहेश्वरपरत्वौचित्यात् तदवयवत्वमेव • कम्य चित् प्रतिपाद्यत इति प्रतीयते । तदपि नारायणस्य प्रतिपाद्यत इति स्पष्टं न प्रतीयत इत्याशंकानिरासाय तम्य स्वोक्तार्थग्रहणौपयिक मन्त्रान्तरानुग्रहं दर्शयति- यमन्त्रव्राह्मणेश्व स्मृतिवचनशतैरप्यभिव्यञ्जितार्थः तद्विष्णोर्मन्त्रवर्यः परमपदमिति श्रावयत्यच्युतस्य । सर्वोपादानभावात्सकलजगदभिव्यापकोऽन्तर्वहिश्च व्योम्नस्तस्यात्र मन्त्रेऽवयव इनि स एवोक्त इत्युनयामः ।। 'तद्विप्योः परमं पदं सदा पश्यन्ति सूर्य । दिवीव चक्षुरा- ततम्' इति वेदत्रयेऽप्यानायते मन्त्रः । अयं मन्त्रः शिवशक्तिं विष्णोः परमप्राप्यमूलरूपत्वेन प्रतिपादयतीति मन्त्रब्राह्मणरूपश्रुत्यन्तरार्थप्र- त्यभिज्ञानेन उपबृह्मणस्मृतिवचनानुसारेण चावसीयते । कथम् । उपबृह्मणानि कूर्मपुराणे दृश्यन्ते । तत्र हि 'कैपा भगवती देवी शंक- रार्धशरीरिणी। शिवा सती हैमवती यथावहि पृच्छताम्' इति ऋषी- णां प्रश्नानन्तरं वचनम् । तेषां तद्वचनं श्रुत्वा ऋषीणां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम्' इति । अत्र कूर्मरूपिणा विष्णुनोपदेष्टव्यत्वेनौचित्यात् ध्यानविषयतया प्राप्तायां शिवशक्ती 'स्वं परमं पद'मिति विशेषणेन विष्णुं प्रति तम्याः परमपदत्वमुक्तम् । तत्रैव तपश्चर्यया शिवमाराध्य प्रत्यक्षीभूतेन शिवेन सह कैलासे शिवभवनं गत्वा शिवासन एवामासविधे निविष्टं कृष्णं दृष्ट्वा विम्मिता देवकन्याः प्रति गिववचनम् । 'एप धाता विधाता च कारणं कार्यमेव च । कर्ता कारयिता चैव भुक्तिमुक्तिफलप्रदः। भोक्ता पुमानप्रमेय- २८ आनन्दलहरी . -- सिंहर्ता कालरूपभृत् । स्रष्टा पाता वासुदेवा विश्वात्मा विश्वतोमुखः । कूटस्थो ह्यशरो व्यापी योगी नारायणाहयः । तारकः पुरुषो ह्यात्मा केवलं परमं पदम् । सैपा माहश्वरी गौरी मम शक्तिनिरञ्जना । 'शान्ता तस्यां सदानन्दा परं पदमिति श्रुतिः ॥' इति । अत्र केवलं परमं पदम्' इत्यन्तेन कृष्णमहिमवर्णनानन्तरं कथमयं परमं पदं शक्तिर्हि तथा श्रुतिप्रसिद्धा इति शंकायां 'सैपा माहेश्वरी' इति श्लोकः । स पूर्वोक्तः कृष्णः एषा परिदृश्यमाना माहेश्वरी गौरी मम शक्ति. तत्यां परमं पदमिति श्रुतिरस्तीत्येतदभेदात् कृष्णोऽपि परम पदमित्युक्तिरुपपद्यत इति भावः । न च विष्णुं प्रति परमपदत्वं श्रुत्योच्यते तत्तु तदभेदे सत्यपि विष्णौ व्यपदेष्टमशक्यमिति शं- क्यम् । ' तद्विष्णोः परमं पदम्' इति श्रुतौ सकलजीवांशभूतं विष्णु प्रति परमपदत्योक्त्या तदंगान् जीवान्प्रत्यपि परमपदत्वमर्थसिद्ध- मम्तीत्यर्थसिद्धम्य तम्य विप्णावपि व्यपदेष्टुं शक्यत्वात् । तथैव कृ- प्णतपश्चर्यानन्तरं शिवेन सह प्रत्यक्षीभूताया शक्तेः कृष्णं प्रति वच- नम् । 'वत्स जाने तथानन्तां निश्चलां सर्वदाच्युत । अनन्यामीश्वरे भ- क्तिमात्मन्यपि च केशव । त्वं हि नारायणम्साक्षात्सर्वात्मा पुरुषोत्तमः । पार्थितो दैवतै पूर्व सञ्जातो देवकीसुतः । पश्य त्वमात्मनात्मानममलं परमं पदम् । नावयोर्विद्यते भंद ऐक्यं पश्यन्ति सूरयः इति । अत्रापि त्वं खलु परमं पदमिति श्रुतिप्रसिद्धा कथमह परमं पदमिति कृष्ण- म्याकांक्षायां ' नावयोर्विद्यते भेद' इत्याद्युक्तम् । एवमादिभिरुपवृह्मण- स्मृतिवचनैरस्मिन्मन्त्रे प्रथमपादस्य शिवशक्तिविपयत्वं स्पष्टमवसीयते । 'आदित्प्रनम्य रेतसो ज्योतिः पश्यन्ति वासरं परो यदि द्युते दिवि' १, भंद मत्येव विणी व्यपदेशु शक्यमिति' इति ख पाठः । - चन्द्रिकासहिता। .. उद्वयं तमसम्परि पश्यन्तो ज्योतिरुत्तरं देवं देवत्रासूर्यमगन्म ज्योति- रुत्तमम्' इति मन्त्रार्थप्रत्यभिज्ञया पादान्तरयोस्तद्विषयत्वमवसीयते । पत्नस्य रेतसः प्राचीनस्य कारण य ज्योतिर्दीप्तिरूपा शक्तिः तद्वासरं वासरवन्मरीचिनिचयव्याप्तं पश्यन्नि तद्दर्शनयोग्या मुक्ताः । दिवः परं सम्यक् दीप्यत इति दिवुपरिस्थितमादित्यादिज्योतिरपेक्षयोत्कृष्टं परमा- नन्दात्मकपरमाकाशरूपं ज्योतिर्वत् पश्यन्तो वयं सर्वोत्कृष्टं परमव्योम सूर्यरूपं परमशिवज्योतिः प्राप्ता इति च मन्त्रद्वयार्थः । तथा 'मनसै- तान् कामान् पश्यन्त्रमते य एतं ब्रह्मलोक' इति छन्दोगोपनिषद्वाक्या- र्थो द्वितीयपादे प्रत्यभिज्ञायते । तत्खलु वाक्यं युगपन्मिळितसर्ववैष- यिकसुखात्मकब्रह्मानन्दानुभवं मुक्तानां प्रतिपादयति । इह द्वितीयपादो- ऽपि तमेवार्थ प्रतिपादयति यतस्तत्र सूरिशब्दो मुक्तपरः । 'विश्लोका यन्ति पथ्येव सूरा' इति श्वेताश्वतरमन्त्रे सूरिशब्दप्रयोगदर्शनात् । 'सदा पश्यन्ती' इति नित्यानुभाव्यत्वोक्त्या मुक्तानुभाव्यस्थिरपुरुषार्थब्रह्मान- न्दरूपत्वं परमपदस्याविस्कृतम् । तस्य वैष्णवस्थानविशेषरूपत्वे ब्रह्मान- न्दवन्नित्यानुभाव्यत्वायोगात् । तथा · यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वत.पृष्ठेप्वनुत्तमेषत्तमेषु लोकेषु' इति श्रुतिज्योति- शब्दोक्तपरब्रह्मदीप्तिरूपायाश्शक्तेर्दिव उपरिभागस्थितेप्वप्राकृतलोकेषु व्यापनं प्रतिपादयति तदर्थोऽत्र तृतीयपादे प्रत्यभिज्ञायते । एवं श्रुत्य- न्तरोपबृह्मणवलान् ‘तद्विष्णोः' इति मन्त्रदिशवशक्तेर्विष्णुं प्रति परमपदत्वं प्रतिपादयतीति निर्णये सति तदनुरोधेन 'तस्यावयवभूतेन' इत्यत्र पष्ठयन्तं पदं पूर्वमन्त्रप्रकृतव्योमपरामर्शीति समर्थनीयम् । तदवयवत्वं च नारायणस्य प्रतिपादयतीत्युपपादनीयम् । न्याय्यश्चैतत् । उत्तरार्धन हि सर्वचराचरत्र्याप्तिम्नदवयवत्वञ्चत्युभयं न विधीयते ।
आनन्दलहरी . एकवाक्यत्वप्रतीतः। अतसंभवत्प्राप्तिकानुवादेनाप्राप्तांशविघिरेष्टव्यः । अन्यत प्रातिश्च 'व्याप्तं सर्व चराचरम् ' इत्यस्याम्ति । 'अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थित' इति हि श्रूयते । तदवयवत्वस्य तु नैवं कुतश्चित प्राप्तिम्संभवतीति । एवं शिवग्य चिच्छक्तिमत्वं तदीय- चिच्छक्त्यशत्वं नारायणस्य च शंकरभगवत्पादानामप्यभिमतमित्यु- नीयते । तैः खलु शिवभुजंगप्रयातस्तोत्रे 'चिदाकारमेकं तुरीयं त्व- मेयम्' इति शिवस्य चिच्छक्तिधर्मकत्वमुक्तम् । विष्णुभुजंगप्रयात- स्तोत्रे 'चिदंशं विभुं निर्विकल्पम्' इति नारायणस्य चिच्छक्त्यं गत्व- मुक्तम् । आभ्रणीसूक्तमन्त्रमप्युक्तार्थे साक्षिणमग्रे प्रदर्शयिप्याम.॥१३॥ नन्वेवं ब्रह्मणः प्रपञ्चाकारेण परिणामित्वाभावे तदीयचिच्छक्तरेव नारायणरूपस्वांशद्वारा तदाकारेण च परिणामित्वे प्रकृत्यधिकरणं किं व्यवस्थापयितुं प्रवृत्तमिति समर्थनीयम् । न तावच्छक्तेः परिणामित्वं व्य- वस्थापयितुमिति । सद्विद्यायाः सत्तारूपशक्त्याश्रयब्रह्मविषयत्वस्येक्षत्य- धिकरणभाष्ये दर्शिततया तदनुरोधेन सद्विद्यागतप्रतिज्ञादृष्टान्तोदाहरण- वतोऽस्याधिकरणम्य ब्रह्मविषयत्वावगमात् । नापि ब्रह्मणः स्वापृथक्- सिद्धकार्याश्रयत्वरूपं प्रकृतित्वं व्यवस्थापितुमिति । ब्रह्मशक्तेः परिणामि- त्वे ब्रह्मणि तदपृथसिद्धाश्रये तथाभूतप्रकृतित्वस्य स्वत एव सिद्धः 'परिणामात्' इति (व्र. १. ४. २७.) मूत्रविरोधाच स्मृति- पादे ब्रह्मणः परिणामित्वं सिद्धं कृत्वा तत्र वैलक्षण्यादिबाधकोद्धारा) प्रवृत्तः 'न विलक्षणत्वा' द्यधिकरणेंविरोधाच्चत्याशंक्याह- विश्वोपादानभावः थुतिषु पशुपते विकारित्वरूपः प्रोक्तः कौटस्थ्यभंगादपि तु तदपृथसिद्धकार्याश्रयत्वम।
चन्द्रिकासहिता। ' . इत्य निर्वाडमेतत्मकृतिनयकृतिस्तत्परीणामितोक्ता चिच्छक्तिद्वारिकैव स्मृतिचरणविचारास्तु तन्मात्रनिष्ठाः । प्रकृत्यधिकरणं ब्रह्मणो विश्वप्रकृतित्वश्रुतयः स्वापृथक्सि- द्धकार्यावस्थाश्रयत्वमात्रपरा न तु परिणामित्वपराः कौटस्थ्यश्रुति- विरोधादिति व्यवस्थापयितुं प्रवृत्तम् । तत्र 'परिणामात्' इति (७०-१-४-२७) सूत्रं ब्रह्मणः स्थास्यसिद्धकार्याश्रयत्वमुपपाद- यितुं ब्रह्मणश्शक्तिद्वारकपरिणामित्वनिरूपणपरम् । ब्रह्मशक्तरेव वा परि- णामित्वनिरूपणपरम् । अस्मिन् पक्षे 'परिणामात्' इत्यत्र आत्म- कृतेः' इति सूत्रमनुवर्तनीयम् । आत्मनः स्वस्य कृतिः करणं वा शक्तिः 'स्वाभाविकी ज्ञानबलक्रिया च' इति तस्याः क्रियात्वश्रव- णात् 'स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् । ईश्वरस्सर्व- भूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मा. यये' इत्यादिश्रुतिस्मृतिषु ब्रह्मणः संसारभ्रमणादिव्यापारे तस्याः कर- णत्वश्रवणाच्च । तथा च स्वक्रियारूपाया वा स्वकरणरूपाया वा नित्य- संवन्धिन्याश्शक्तेः परिणामात् स्वापृथसिद्धशक्त्यभिन्नचेतनाचेतनात्म- कसकल कार्यावस्थाश्रयत्वरूपं वेदान्तेषु श्रुतं प्रपञ्चप्रकृतित्वं ब्रह्मणः को- टस्थ्यश्रुत्यविरोधेनोपपद्यत इत्युपपादितं भवति । यत्तु स्मृतिपादे 'न विलक्षणत्वादस्य तथात्वञ्च शब्दात् ' (०२-१-४-सू) इत्यधि- करणं ब्रह्मणश्शियस्य वियदादिजडप्रपञ्चात्मना परिणामित्वसिद्धान्तं सिद्धं कृत्वा तन्न संभवति चेतनाचेतनत्वेन ततो वैलक्षण्यादिति शंका- मुत्पाद्य तरसमाधानार्थ प्रवृत्त, यच्च ‘कृत्स्नपसक्तिनिरवयवत्वशब्द- फोपो था' (०-२-१-२६-स्) इत्यधिकरणं ब्रह्मणः कास्न्येन प्रप- - ३२ आनन्दलहरी . .. ञ्चात्मना परिणामे ब्रह्मस्वरूपाभावप्रसंगः एकदेशेन परिणामे यत्प्र. देशावच्छिन्नैकदेशपरिणामस्तत्र प्रदेशे ब्रह्माभावप्रसंगस्तन्निरवयवत्व- श्रुतिव्याकोपश्चेति शंकामुत्पाद्य तत्समाधानार्थ प्रवृत्तं, तद्यद्यपि न साक्षाच्छक्तिविषयत्वेन योजयितुं शक्यते । न विलक्षणत्वाधिकरण- गतस्य सर्वनाम्ग प्रकृत्यधिकरणपर्यन्तानुवृत्तब्रह्मपरामर्शित्वात् निर- वयवत्वव्याकोपस्यापि निरंशब्रह्मविषयत्वात् । तथापि तथाभूते ब्रह्म- ग्यपि परिणामित्वांगीकारे तत्र बाधकत्वेन शंक्यमानाः कुयुक्तय. स्तापयलिंगान्वितश्रुतिविरोधादिभिराभासीभवन्ति किमुत शक्तः परि- णामित्वांगीकार इति तत्सर्व कैमुतिकन्यायेन शक्तरेव श्रुतं परिणा- मित्वमुफ्पादयितुं प्रवृत्तं तद्विपयमेवेति न कश्चिद्विरोध इति श्लोकार्थः ।। नन्वेवमपि तदनन्यत्वमारंभणशब्दादिभ्य ' व्र०२. १. १५. सू] इत्यधिकरणविरोधः स्यात् । तत्र हि सद्विधागतारं- भणशब्दादिभि प्रपञ्चस्य ब्रह्मानन्यत्वमेवोच्यते न तु ब्रह्मशक्त्यन- न्यत्वमित्याशंकापरिहारपूर्वकं शक्तिशिवयोर्विकारित्वाविकारित्वन्यव- म्यां समर्थितामुपसंहरन्नेव जन्मादिवाक्यसूत्रतद्विषयवाक्यविरोध- शंका निरस्यति -- यह्मानन्यतोक्तं तदपि तदप्यक्मियभिप्रायमीक्ष्यं देवादिप्रयोगाः खलु बहुळनरास्तस्य तत्रापि दृष्टाः । तस्माच्छक्तिर्विकारिणयविकृतिरधिभूब्रह्मणो लक्ष्म सौत्रं शैवं चिन्छक्तिकं वाप्युचिनघटनया युज्यते कारणत्वम् ।। अन्त्यभिन्न इवापृथकासद्धेऽप्यनन्यशब्दः अन्यस्सन्व्याप्तितोऽ- नन्यः कर्ता कर्मानुमारत.' 'अनन्या राघवेणाहं भास्करण प्रभा यथा' अनन्यापि विभिन्नातश्शंभोस्सा समवायिनी । म्वाभाविकी च सन्मूला चन्द्रिकांसहिता । प्रभा भानोरियामला' इत्यादिदैवार्पपौरुषप्रयोगदर्शनात् । तदिहाप्यन- न्यशब्दस्यापृथक्सिद्धार्थो ग्राह्यः । तस्मादविकारश्शिवः, विकारिणी • तच्छक्तिरिति व्यवस्था युक्तैव इति सर्व समञ्जसम् । इयमेका शंका- वभिप्यते । शक्तिरेव परिणामिनीत्यगीकारे ब्रह्मलक्षणानुप्रविष्टं कारणत्वं परिणामित्वं चेदसंभवः । अपृथक्सिद्धकार्यावस्थाश्रयत्वं चेत्तस्य शक्तिसाधारण्यादतिव्याप्तिः । न च निमित्तत्वविशेषणेन तन्निरासः । शक्तेरपि पञ्चकृत्यकारित्वाभ्युपगमादिति । अत्रायं परिहारः । शक्तिविशि- प्टरिशवो ब्रह्मशब्दार्थ इत्यग्रिमश्लोकमारभ्य पञ्चभिः श्लोकैरुपपादयिप्यते तत्र कारणत्वरूपं लक्षणं यदि शिवगतं शक्तिसाधारणमपृथक्सिद्ध- कार्यावस्थाश्रयत्वं यदि वा शक्त्यसाधारण परिणामित्वमुभयथापि तद्वि- शिएनिष्ठं न भवति । तथा च विशिष्टतदेकदेशसंबन्धेनाद्यं विशिष्टविशे- षणसंबन्धेन द्वितीयं ब्रह्मणस्तटस्थलक्षणं भविष्यतीति न कश्चिद्दोपः । विशिष्टगतं किञ्चिद्धर्म संपाद्य तस्य लक्षणीकरणेऽपि संवन्धान्तरेणान्य- त्रापि तस्य वृत्तेरतिव्याप्तिवारणाय संसन्धविशेषविवक्षावश्यं कार्या । लक्षणमात्र एवेयं रीतिः । अन्यथा ज्ञानशब्दादिकमप्यात्माकाशा- दिलक्षणं न भवेत् । 'घटे ज्ञानं' वने मिहनाद' इत्यादिप्रतीत्या तस्यान्यत्रापि वृत्तः। तस्माद्विशेपणविशेप्योभयसाधारणं विशेषणमात्रगतं वा कारणत्वं विशिष्टस्य ब्रह्मणो लक्षणमित्येतदुपपद्यत इति भावः॥१५॥ अथ ब्रह्मविचारशास्त्रं गतेन आनन्दमयोऽभ्यासात्' इत्यधिकर- णेन विचार्यमाणस्यानन्दमयवाक्यस्य शक्तिविषयतया योजनमयुक्तमि- त्याशंकामुद्धाश्च निराकर्तुमुपक्रमत- शास्त्रं ब्रह्माधिकारं कथमिव घटते गक्तिवाक्यस्य चिन्ते. त्येवं शंकाकलंके शृणु तदवहितः शास्त्रसिद्धान्ततत्त्वम् ।
१४
आनन्दलहरी
शंभुं शक्त्या विशिष्टं प्रथयति परमं ब्रह्म वेदान्तराशि-
नियंशी विचिन्त्यौ तदिह समरसीभावमान्ये विशिष्टे ॥
यथा 'दानानि पात्रसाकुर्यात्' इत्यादिविधिषु ब्राह्मणे पात्र-
शब्दप्रवृत्तौ विद्यादिकं विशेषणं, यथा वा 'इन्द्राय राज्ञे पुरोडाशम्'
इत्यादिविधिपु इन्द्रदेवताशब्दप्रवृत्तौ राजत्वादिकं विशेषणं, तथा
'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिविधिषु शिवे ब्रह्मशब्दप्रवृत्तौ
शक्तिविशेषणमिति विशेषणवद्विशेप्यस्यापि ब्रह्मशब्दार्थान्तर्भावात्
विचार्यत्वमविशिष्टम् । अथापि न विचार्येत यदि मोक्षार्थेषु ध्यान-
पूजादिषु शक्तिरन्विता न स्यात् । नन्वेवं शिवशक्तिमेळनात्मकं
सामरस्येनान्वितं विशिष्टमेव मुमुक्षुभिर्ध्यानपूजादिभिर्माननीयं न तु
विशेष्यमात्रम् । 'तम्मात्सह तया शक्त्या हृदि पश्यन्ति ये शिवम् ।
तेषां गाश्चतिकी सिद्धिनेंतरेषामिति श्रुतिः । यथा देवस्य देव्याश्च
कुर्यात्स्नानादिकं तथा। न तु कश्चिद्विशेषोऽम्ति तत्र तौ सदृशौ यतः।
प्रथमं देवमुद्दिश्य कुर्यात् स्नानादिकां क्रियाम् । पश्चाद्देव्यै प्रकुर्वीत
देवदेवस्य शासनात् ।' इत्यादिवचनप्रामाण्यात् । तस्मात् ध्यानपूजा-
दिसिद्धये शक्तितत्त्वमपि ज्ञातव्यमिति तद्ज्ञानाय तद्विपयाणामपि
वाक्यानामत्र विचारम्संगत इति भावः ।। १६ ॥
विशिष्टं ब्रह्म इति वेदान्तराशिः प्रथयति" इत्युक्तमथै कतिपय
वाफ्योदाहरणेन म्फुटयति-
ब्रह्मेत्यवाविशिष्ट प्रकटयति ऋतं सत्यमित्यादिमन्त्र-
शंभु नस्मिन्विशेष्यं प्रथयति च युजे वामिति ोप मत्रः।
अंबा मेपा उपा इत्ययमपि च मनुः स्पष्टयत्सन्यमशं
ब्रह्मेत्युक्ताननोऽन्तहिरपि पुरुषात् सेयमाकाशरूपा ॥१७॥
चन्द्रिकासहिता । ३५ . . ऋतं सत्यम्' इति मन्ने कृष्णपिङ्गलं परं ब्रह्मेत्युक्तिमिलितं शिवं पिङ्गलं परं ब्रह्मेति प्रकटयति । तयोर्ब्रह्मभावे मेलनं विशेषण- विशेप्यभावनेत्यमुं विशेष 'युजे वां ब्रह्म पूर्य नमोभिर्विश्लोका यन्ति पथ्येव सुरेः । शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तम्थुः । इति श्वेताश्वतरोपनिषदाम्नातमन्त्रश्रुतपूर्व्यत्वलिङ्गमवगमयति । मन्त्रम्यायमर्थः । वां युवयोश्शिवशक्त्योर्मध्ये पूर्व्य पूर्व स्वार्थे यत् . प्रत्ययः । विशेप्यतया प्रधानभूतं ब्रह्म शिवरूपं नमोभियुजे युनज्मि ! छान्दसो विकरणव्यत्ययः । शिवम्य सर्वनमस्कारपर्यवसानभूतत्वात् तं नमस्कारांकितेश्यलोकैर्भजामीत्यर्थः । नमस्कार श्लोका विशेष्यन्ते । सूरे. विदुपश्शिवस्वरूपाभिज्ञस्य तद्ज्ञानान्मुक्ति प्राप्तम्य मम श्लोका वा- चिक्रशिवनमस्कारसन्दर्भरूपाः · अहं श्लोककृत् ' इति मुक्तकृत्यत्वेन अतिप्रसिद्धाः । पथ्येव पथि हिताः त्वरितनिर्विकारमार्गगमनाः सदश्वा इव वियन्ति निर्गलप्रवाहतया निर्गच्छन्ति । पथ्यशब्दात् 'मुपां मुलुक्' इत्यादिसूत्रेण जस आकारांदशः। विश्वे सर्वेऽप्यमृतस्य गिवस्य 'एतानि ह वा अमृतस्य नामधेयानि' इति श्रुतिप्रसिद्धयामृतनामधेयम्य पुत्राः 'दिव्या गणा बहुरूपाः पुराणाः' इत्यादिश्रुतिपसिद्धाः स्कन्द-. नन्दिकेश्वरादयः शृण्वन्ति मम श्लोकानादरेणाकर्णयन्ति । अमृतपुत्रा विशेप्यन्ते । ये दिव्यानि दिवि भवानि चिदाकामरूपे नित्यकलासे स्थितानि धामानि भवनान्यातस्थुः आथितयन्त इति । अत्र मन्त्रे यद्यपि सर्वनमम्कारपर्यवसानभूमितया नमस्कारविषयवलिङ्गोपन्सापिते शिव पूर्व प्रोत्युक्त्या अध्यकोटावपूर्वमपि किश्चिदम्त्वन्नीत्यतावदेवाव- गम्यते । न तु मा शक्तिरिति । तथापि एपी उपा अपूा व्युच्छति प्रिया दिव' इति मामवेदारानमन्त्र गमावपूर्वत्वचिंगपणं सेव ब्रह्म- A - आनन्दलहरी .. . प कोटौ विशेषणभूता द्वितीयत्यवगमयति । तत्र हि मन्त्र महापळयरूपनि- शावसानेषु स्वोन्मेषेण तमोनिरासं कुर्वती प्रथमोपःकालरूपेत्येवं 'इय- मेव सा या प्रथमाव्याच्छत् ' इति याजुर्वेदिकसूक्तप्रसिद्धा जगतां जन- यित्री ब्रह्मविष्णुरुद्वैस्त्रिभिरप्यासेव्या पराशक्तिरेव उपा उच्यते । न- त्विदानींतन उपःकालः । दिव. प्रियेति विशेषणानन्वयात् । तेन हि दिवः स्वर्गलोकस्य महाकैलासाव्यस्य तद्वर्तिनः परब्रह्मणः शिव- स्य नं प्राप्तस्य मुक्तवर्गस्य च भोग्यतया प्रियेत्युच्यते। यद्यपि एत- स्यैवानन्दम्यान्यानि भूतानि मात्रामुपजीवन्ति' इति सर्वभूतमोग्यत्व- श्रुतेस्सर्वस्यापि प्रिया भवति ब्रह्मानन्दरूपा शक्तिस्तथाप्यतिक्षुद्रं दुःखसमानमिति हैरण्यगर्भपर्यन्तवैषयिकसुखजातमविगणयतश्शियस्य मुक्तवर्गस्य च भोग्यतया निरतिशयानन्दरूपत्वं ख्यापयितुं 'दिव' इति विशिष्योक्तिः । एवञ्च यद्यप्यपूर्योपा इत्युक्त्या प्राक्तनीमुषसमपे- क्ष्य भिन्नदानीतन्युपा प्रतीयते। तथापि विशेषणान्तरानुरोधेन 'युजे वा ब्रह्म पूर्व्यम् ' इति मन्त्रे शिवस्य ब्रह्मकोटौ पूर्वत्वोक्त्यां तत्र द्वि- तीयाकांक्षानुरोधेन ब्रह्मकोटौ पूर्व शिवमपेक्ष्यापूर्वस्वमपूर्वेत्यनेनोच्यत इत्येवाभ्युपगन्तुं युक्तम् । एवं शिवविशेषणत्वेन शक्तेब्रह्मशब्दान्त- भर्भावादेव छन्दोगोपनिपदि गायत्रीविद्यायां यद्वै तद्ब्रह्म' इति इदं वाव तद्योऽयं वहिर्धा पुरुपादाकाशो यो वै स बहिर्धा पुरुपादाकाशोऽयं वाव स योऽयमन्त पुरुष आकाशो यो वै सोऽन्तःपुरुष आकाशोऽयं स योऽयमन्तर्हदय आकाश इति सकलजगदाधारत्वेन पुरुषाद्वहिरन्तः स्थितायाः परमाकाशरूपायाश्शक्तेः ब्रह्मरूपत्वमुक्तम् । तम्माद्विमिष्टं ब्रह्मेति युक्तमित्यर्थः ॥ १७ ॥ वाव चन्द्रिकासहिता। ३७ इतोऽप्येवमित्याह- ब्रह्मानन्दत्वमुक्त्वा प्रथममिह जगत्कारणस्यायवल्ल्यां तस्यैव ब्रह्मतापि प्रकटमभिदधे ब्रह्मवल्ल्यां पुनर्यत् । जानीमस्तद्वयोरप्युपनिषदि परब्रह्मकोटित्वमुक्तं ब्रह्मांशत्वात्तथात्वव्यवहृतिरुपचारोक्तिरित्युनयामः ॥१८॥ इहैव तैत्तिरीयाणामुपनिषद्यकवाक्यतामापन्नयोरानन्दवल्ली- गुवल्ल्योर्मध्ये प्रथमवल्ल्यां ' स एको ब्रह्मण आनन्द ' इति परमाकाश- रूपायाश्शक्तेब्रह्मधर्मानन्दत्वमुक्त्वा द्वितीयवल्ल्या मानन्दो ब्रह्मेति व्य- जानात् ' इति तम्या एव ब्रह्मत्वमुक्तम् । तेन द्वयोरपि ब्रह्मशब्दा. न्तर्भावेन ब्रह्मकोटित्वमिष्टमवगम्यते । ब्रह्मशब्दार्थैकदेशत्वेऽपि व- मांशत्वनिमित्तत्वादुपचारादेवानन्दो ब्रह्मेति व्यवहार इत्यप्युन्नीयत इत्यर्थः ॥ १८ ॥ छन्दोगोपनिषद्युपकोसलविद्यागतं वाक्यमप्युक्तार्थे प्रमाणमुदाहरति- प्राणो ब्रह्मति जानाम्यथसुखगगने ब्रह्मणी द्वे तु नेति प्रश्नं प्रत्युत्तरत्वं भजति खलु तयोरैक्यमात्रोपदेशः। तस्याभिप्रायमित्यं विवरितुमुचितं पश्यतानन्दवल्ल्या- माकाशानन्दशब्दोदितमभवदिहाप्येकमेव द्विधेति ॥ १९ ॥ रात्यकामे ब्रह्मचर्य वसतस्तदीयानग्नीन्परिचरत उपकोसलस्य परिचर्यया प्रतिस्तदीयैरमिभिरुपकोसलं प्रति ब्रह्मोपेदशः कृतः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इति । तदनन्तरमुपकोसलस्वेदममीन्प्रति प्रश्नवा- क्यम् । · विजानाम्यवाहं यत् प्राणो ब्रह्म इति । कञ्च खञ्च न विजानामि' इति । तरयायमागयः । 'प्राणोऽस्मि प्रज्ञात्मा प्राणस्य ३८ आनन्दलहरी - , प्राणम्' इत्यादिपु प्राणशब्देनोपदिष्ट वस्तु ब्रह्मेति जानामि के सुखं वं गगनं ब्रह्मेति ततोऽन्यत् ब्रह्मद्वयं न जानामि यदेष आकाश आन- न्दो न स्यात् ' इत्याकाशानन्दशब्दाभ्यामुक्तमकमेव खलु आनन्दो ब्रह्म' इति श्रुतं न तु शिवादन्यत्सुखं गगनं चेत्येवं ब्रह्मद्वयमस्तीति । तदनन्तरमनीनामिदमुत्तरवाक्यं 'यद्वाव कं तदेव खं यदेव खं तदेव कम्' इति । तस्यायमाशयः। न ह्यस्माभिः कखशब्दोक्तं ब्रह्मद्वयमुपदिष्टं किं त्वेकमेवोपासनाकालेप्वाकाशरूपसुखत्वेन सुखरूपाकाशत्वेन च तद्ब्रह्म द्वेधोपासनीयमित्येतदर्थ द्वेधोपदिष्टमित्युत्तरवाक्यार्थः । श्रुतिस्तथैवोप- सञ्जहार 'प्राणञ्च हास्मै तदाकाशञ्चोचुः' इति । ब्रह्मोपदेशमपेक्षमाणा- योपकोसलाय प्राणात्मकं प्राणशब्दोक्तशिवाख्यं तद्धर्माकाशात्मकं च ब्रह्मोपदिदिशुरित्यर्थः । तस्मादुदाहृतश्रुत्यनुसारेणापि शिवशक्त्योयो- रपि ब्रह्मशब्दार्थान्तर्भावोंऽगीकरणीय इति भावः ॥ १९ ॥ नन्वस्मिन्विषये यावत्यः श्रुतय उदाहृतास्ताभिस्सर्वाभिरपि शक्ति- शिवयोः प्रत्येकमेव ब्रह्मभावः स्फुरति । न तु विशेषणविशेप्यभावेन । 'द्वे ब्रह्मणी वेदितव्ये परश्चापरञ्च' इति श्रुत्यन्तरमपि तदनुरोधि दृश्यते। अतस्तत्स्वारस्यात् तथैव किमिति नांगीक्रियत इत्याशंकायामाह--. प्रत्यकं ब्रह्मभावः स्फुरति यदनयोरेवमाद्यः प्रमाणः नाहत्येवैतदंगीकृतिमपि च ऋतं सत्यमन्त्रोक्तमेव । नो चेत् ब्रह्मश्रुदर्थानमुगतिरखिलाद्वैतशास्त्रप्रकोपो नैकाधीन्यश्च सर्गादिपु परनभसश्चेशधर्मत्वभंगः ॥ २० ॥ तथांगीकारे शिवारव्ये परब्रह्मणि प्रवर्तमानस्य ब्रह्मशब्दस्य निविधपरिच्छेदराहित्यरूपार्थहानिम्तम्मिन् प्रवर्तमानस्य ब्रह्मशब्दस्या- चन्द्रिकासहिता। ३९ - र्थात् बहिर्भूतस्यापि कस्यचिद्वस्तुनोऽगीकारे श्रुतिस्मृतिपुरणाममादि- रूपाद्वतशास्त्रविरोधः । स्वतन्त्रब्रह्मद्वयांगीकारे सर्गानामेकाधीनत्वभंगः । परमाकाशस्य स्वातंत्र्यांगीकारे शिवधर्मत्वश्रुतिविरोधश्चेति बहुदोषाप- विशिष्टब्रह्मवाद एव ऋतं सत्यादिमन्त्रानुमतः स्वीकरिणीय इति भावः ॥२०॥ गक्तिविशिष्टः शिवः परं ब्रह्म न तु केवल इत्यभ्युपगमेऽनिष्ट- माशंकते-- नन्वेवं कैटभारेः कथमिव घटतामंशशक्त्यशता ते ब्रह्माद्याः पञ्च जीवा इति हि समुदितं शैवपौराणिकायैः । विष्णोः स्वस्थानसिद्धिः क्रतुफलमुदितं वाजिनां ब्राह्मणे च छन्दोगानाश्च मन्त्रे तमनुवदति ऋग्येन देवा इतीयम् ॥२१॥ शिवपुराणे वायुसंहितायां 'शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः । संसारवैद्यस्सर्वनः परमात्मेत्युदाहृतः । नामाष्टकमिदं पुण्यं शिवम्य प्रतिपादकम् । आद्यं तु पञ्चकं तत्र शान्त्यतीताद्यनुक्रमात् । संज्ञा सदाशिवादीनां पंचोपाधिपरिग्रहात् । उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते । पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः । पदानां परिवृत्तिः म्यात् मुच्यन्ते पदिनो यतः । परिवृत्त्यन्तरे भूयस्तत्पद; माप्त्युपाधिना । आत्मान्तराभिधानं स्यात् यदायं नामपञ्चकम्।' इति वचनानि पट्यन्ते । पभिर्वचनश्शिवमहेश्वररुद्रविष्णुपितामहसंज्ञाः संजिनां मदाशिवादीनां पदमावस्यद्रादिपदवनित्यत्वं तेषामनित्यत्वञ्च मुक्तिभाक्त्वं तन्नाम्नामिन्द्रादीनामिव तत्तत्पदाधिकारोपाधिकवच प्रतिपादयद्भिरिन्द्रादिवत्तेषां जीवत्वं स्पष्टीकृतम् । शैवपाशुपतादि.
४० आनन्दलहरी . । भिरप्येवमेवांगीकृतम्। वाजसनेविशाखायां शतपथबामणे पुरुषो हवे नारायणोऽकामयतातितिष्ठेयं सर्वाणि भूतान्यहमेवेदं सबै स्यामिति । स एतं पुरुषमेधं पञ्चरात्रं यज्ञक्रतुमपश्यत् तमाहरत्तेनायजत तेनेप्वात्यति- प्ठत् सर्वाणि भूतानीदं सर्वमभवत्' इति । अनेन अत्यतिष्ठदशांगु- लम्' इति 'पुरुष एवेदं सर्वम्' ' इति पुरुषसूक्तोक्तमहिमशालि वैष्णवं पदं यज्ञानुष्ठानफलमिति स्पष्टं प्रतिपादितम् । छन्दोगानामृग्मन्थे 'सोमं राजानं वरुणमग्निमन्वारभामहे आदित्यान्विष्णुं सूर्य ब्रह्माणं हस्पतिम्' इति मन्त्रानन्तरं इत एत उदारुहन् दिवः पृष्ठान्यारुहन् प्रमर्जयो यमा। पाथो यथांगिरस उद्ययुः इति मन्त्र आम्नायते । तत्रैत इत्यनेन पूर्वमन्त्रप्रकृतान् सोमवरुणादीन् परामृश्य तेषामितः क्षिति- त ऊर्ध्वमारोहणमुक्त्वा किमारुक्षन्नित्याकांक्षायां तदधिकारानुसारेण दिव उपरिभागानारुक्षन्नित्युक्तमर्थ विशदीकृत्य 'यथांगिरस उद्ययुः' इति दृष्टान्तकथनेन 'अंगिरसो वै सत्रमासत । अंगिरसः सुवर्ग लोकं यन्तः । अंगिरस इमे सलमासते ते। सुवर्ग लोकं न प्रजानन्ति । तेभ्य इदं ब्राह्मणं ब्रूहि' इत्यादिश्रवणात् अंगिरसो यथा यज्ञानुष्ठानेन स्व- र्गमारुक्षन्नेवमेतेऽपीत्ययमर्थ प्रतिपादितः । प्रभञ्जय इति विशेषणेन प्रकर्षेन यजेन हविषां भर्जनं कृतवन्त इत्यर्थ केन च एते देवा यज्ञानुठानेन द्यामारुक्षन्नित्ययमों दर्शितः । उदाहृतमन्त्रब्राह्मणोक्तमर्थ 'येन देवा ज्योतिषा; उदायन्येनादित्या वसवो येन रुद्राः । येना- गिरसो महिमानमानशुम्तेनैतु यजमानः म्मस्ति' इति यजुर्वेदानाता ऋगनुवदति । अत्र हि यच्छन्दयोगेनानूद्यमानस्यार्थस्य पाप्तिसापेक्षल्वा- 'दित एत उदारुहन्' इति मन्त्रः पुरुषमेधवामणञ्च प्रापकमेष्टव्य- मिति तदनुमारेण देवगन्दः सोमवरुणविष्ण्वादिपरः । देवा' इत्य- चन्द्रिकासहिता । नेन संभवद्रहणानामादित्यवसुरुद्रगणानां पृथग्रहणम् । आदित्या- विष्णु सूर्यम्' इति पुरोवादगतादित्यशब्दो नैकस्य सूर्यम्य वाच- कः । सूर्यशब्देन तस्य पृथग्रहणात् । किन्त्वादित्यगणवाचकः । एकवचनं तु बहुपत्नीकेष्टिप्रयोगे पत्नी सन्नह्य' इति मन्त्रगतं पत्नी- मित्येकवचनमिव प्रत्येकगतैकत्वाभिप्रायम्। आदित्यगणग्रहणञ्च श्रुत्य- न्तरपु तत्सममिन्याहृतत्वेन प्रसिद्धयोर्वसुरुद्धगणयोरप्युपलक्षणमिति स्त्यापनार्थम् । तत्रादित्यशब्दम्यादित्यगणपरत्वं 'आदित्यान् विष्णुं सूर्यम्' इति ऋग्यजुःपाठेनाप्यवगम्यते । गणान्तरोपलक्षणत्वं तु 'अग्ने यन्मे तनुवा ऊनं तन्म आपृण' इति मन्त्रस्य यन्मे प्रजायें पशूनामूनं तन्म आपूरयेति वावैतदाह' इति व्याख्यानेन स्वकीयोनग्रहणस्य प्रजापशूनोपलक्षणत्ववद्यास्त्याने वावगन्तव्यम् । ज्योतिः पदमग्निपरम् । 'येन देवा ज्योतिपोर्खा उदायन्' इत्यस्य मन्त्रस्योख्यामिसमिन्धने विनियुक्तत्वात् । तथा च 'आहवनीया- ग्निसाध्येन कर्मणा ऊर्ध्वलोकगमनद्वाराग्निसाध्यं भवति' इत्यनेन मन्त्रेण सोमादिदेवपदानां यज्ञानुष्ठानफलत्वमेवादाहृतब्राह्मणप्रतिप- नमनूद्यते । तस्मात् पुराणादीनां मन्त्रब्राह्मणवाक्यानाश्च उपबृह्मणो- पवृह्मणीयभावापन्नतया वनसिमन्यायेन मानतर्कन्यायेन चान्योन्यानु- गृहीततया प्राबल्यात्राप्तं विप्णोर्जीवत्वमनिवार्यमिति भावः ॥ २१॥ विष्णुपदस्य कर्मफलत्वे प्रमाणान्तराण्यप्युदाहरति- विष्णुलप्राप्तये च ऋतुजपविधयचोदितास्तत्र तत्र स्वैश्वर्य विष्णुनाप्तं बहुविधतपसा भारतेऽप्येवमुक्तम् । यद्यप्यकैकमात्रात्क्रतुजपतपसां तत्पदं न प्रसिद्धयेत् पशाब्रह्मपीवन खलु समुदिनस्तत्ससिविरोधः ।। २२ ।। .
४२ आनन्दलहरी . . वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वमान् लो- कानभिजयति' इति 'यद्विष्णुक्रमान्क्रमते विष्णुरेव भूत्वा यजमान- श्छन्दोभिरिमान् लोकाननपजय्यमभिजयति' इति यजुर्वेदे समाम्ना- यते । “मयि वर्च' इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानास्त्रयाणां लोकानामाधिपत्यं गच्छन्ति" इति सामवेदे समाम्नायते । अत्र त्रैलो. क्याधिपत्यं विष्णुपदमेव । 'विष्णुरेव भूत्वमान् लोकान् जयति' इति तस्य विष्णुधर्मत्वश्रवणात् । विष्णुना स्वैश्चर्य शिवाराधनरूपेण बहु- विधेन तपसाप्तमिति 'तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विप्णोरुपमन्निधायि तेन पासि गुह्यन्नामगानाम् ' 'रौद्रं लिंग महाविष्णुभक्त्या शुद्धं. शिलामयम् । चारु चित्रं सम- भ्यर्च्य लब्धवान् परमं पदम्' इत्यादिश्रुतिपुराणवचनैरवगतम् । काशीखण्डेऽपि विष्णुपट्टाभिषेकाध्याये स्पष्टं प्रतिपादितम् । भार- तेऽप्येवमुक्तम् । 'ततो गच्छेन्सुपर्णाक्षं त्रिषु लोकेषु विश्रुतम् । यत्र विष्णुः प्रसादार्थ रुद्रमाराधयत्पुरा । वरांश्च सुबहून् लेभे दैव- तैरपि दुर्लभान् । उक्तञ्च त्रिपुरग्नेन परितुष्टेन भारत । ममान्येभ्यः प्रियतरो लोके कृष्ण भविष्यसि । त्वन्मुखञ्च जगत्सर्व भाविष्यति न संशयः ।' अयमारण्यपर्वण्युक्तोऽर्थः सौपुप्तिके पर्वणि शिववचनेन म्मारितः । 'सत्यशौचार्जवत्यागैस्तपसा नियमेन च । क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा। अहं यथावदाराध्यः कृष्णेनाक्लिष्टकर्मणा। तस्मादिष्टतमः कृष्णादन्यो मम न विद्यत' इति । हरिवंशेऽपि शिव- वचनेनोक्तार्थो दृढीकृतः। इति संस्तूयमानस्तु भगवान् कृपभध्वजः । प्रसार्य दक्षिणं हतं वासुदेवमथाब्रवीत्। मनापितानामर्थानां प्राप्तिस्तेऽस्तु सुरोत्तम । परिजातस्य हामि माभूत्ते मनसो व्यथा । पुरा मैनाकमा- चन्द्रिकासहिता। ४३ 'श्रित्य तपस्त्वमकरोर्यदा। तदा मम वचः कृष्ण संस्मृत्य स्थैर्यमाप्नुहि । अवध्यस्त्वमजय्यस्त्वं मत्तश्शूरतरस्तथा। भवितासीत्यवोच यत्तत्तथा न तदन्यथा' इति । एवं श्रुतिपुराणाद्यवगतं विष्णोर्जीवत्वं प्रत्याख्यातु- मशक्यम् । यद्यपि विष्णुत्वप्राप्त्यर्थत्वेन विहितानां तादयेन विष्णु- नानुष्ठितानां च ऋतुजपतपःप्रभृतिकर्मणां मध्ये एकैकेन कर्मणा तत्पदप्राप्तिः न संभवति । तथापि यथा 'तमेतं वेदानुवचनेन ब्राह्मणा विविदन्ति यज्ञेन दानेन तपसा नाशकेन' इति श्रुतौ यज्ञादिषु प्रत्येकं तृतीयाश्रवणेऽपि किञ्चिद्यज्ञानुष्ठानमात्रेण ब्रह्मज्ञानासिद्धेस्समुदिताना चिरकालाभ्यस्तानामव यज्ञादीनां ब्रह्मज्ञानसाधनत्वं तथा विष्णुभा- वप्राप्त्यर्थ विष्णुनानुष्ठितत्वेन तत्प्राप्तिसाधनत्वेन च श्रुतानां सर्वेषां कर्मणां समुदितानां यथावच्चिरकालमभ्यस्तानाञ्च तत्प्राप्तिसाधनत्वं भविष्यतीति न काचिदप्यनुपपत्तिः ॥ २२ ॥ ननु.. भारत एव भगवद्गीतासु मोक्षधर्मगते नारायणीयेऽन्यत्रापि तत्र तत्र प्रदेशे विष्णुपुराणादिषु च विष्णोः परब्रह्मभावः प्रकटित. म्मर्वेषामप्याम्तिकानामनुमतश्च तस्य का गतिरित्याकांक्षायामाह- विष्णोर्या तत्पुराणागमवचनशतेप्वास्तिकानामभीष्टा गीता नारायणीयमभृतिषु च परब्रह्मभावप्रसिद्धिः। ब्रह्माभिव्यक्तिभेदाइलमथनमुखालभ्यतस्सोपपाद्या लोकेशस्यान्धकाररपि बहुषु यथा तत्पुराणेषु दृष्टा ॥२३ ।। सत्यमस्ति विष्णोः परब्रह्मभावप्रसिद्धिः । ब्रह्मरुद्रयोरप्य- स्त्येव सा ब्राह्मशैवपुराणागमादिसिद्धा । सा तयोः सृष्टिसंहाररूप- जगद्व्यापारार्थादिन्द्रादेवतान्तरापेक्षयातिशयितात् परब्रह्माभिव्यक्तिभे-. १ ४४ आनन्दलहरी . दादुपपादनीया । तथेयमपि पालनरूपजगद्व्यापारार्थात्तदभिव्यक्ति- भेदादुपपादनीयेत्यर्थः ।। २३ ॥ एवमेवास्योपपादनमवश्यं कार्यमित्याइ-. एवं सत्येव तस्मिन्नखिलमवरतापादक दोपजातं सांगत्यं प्रापितं स्यात्तदपि हि विहितं भारतादिभ्य एव । न्यायेनैपा व्यवस्था समुपनिपतिता प्राक्तनानामपीटा साक्षाचैपा सरोजप्रभवसमुदिता मारुतनोपदिष्टा ।। २४ ॥ अस्य परब्रह्मभाव इव जननमरणभयक्रोधशोकाज्ञानादिरूप- म्सांसारिकदोषविलासोऽपि भूयान् भारतरामायणविष्णुपुराणादिभ्य एवावगतः । तदुभयं परब्रह्मशक्त्यधिष्ठितजीवविशेषत्वाभ्युपगम एवा- विरोधेनोपपद्यते । न चैच्छिकत्वेन विरोधपरिहारः । हेयेषु जननमर- णादिप्विच्छाया अपि कर्मकृतत्वात् । उक्तं हि वायुसंहितायां न हि स्वेच्छाशरीरत्वं स्वातन्त्र्यायोपपद्यते । इच्छैव तादृशी पुंसां यस्मा- कर्मानुसारिणी । स्वीकर्तु स्वेच्छया देहं हातुच्च प्रभवन्ति हि ! ब्रह्मादयः पिशाचान्ता किं ते कर्मातिवर्तिनः । न च शोकाज्ञाना- दीनामभिनयमानसिद्धत्वाङ्गीकारणाविरोधः । तथा सति रामावतारे 'न मे दुःखं प्रिया दूरे न मे दुःख हृतेति च । तदेतदनुशोचामि वयोऽस्या ह्यतिवर्तते ।। इत्यादितदीयवचनानां कृष्णावतारे सौभव- सवृत्तान्तवर्णनगततदीयशोकाज्ञानादिवचनानां च अनृतत्वापत्त्या 'सत्यवाक्यो दृढव्रतः, 'सत्यसन्धो जितेन्द्रियः' 'धर्मात्मा सत्यस. न्धश्च रामो दाशरथिर्यदि । यदि मे ब्रह्मचर्य म्यात्सत्यं च मयि तिष्ठति' इत्याद्यनेक्रवचनविरोधापत्तेः । तम्मादुक्तरीत्यैवाविरोधोपपा- चन्द्रिकासहिता। A दनं कार्यम् । एवमेषा व्यवस्था शंकरभगवत्पादैर्वृहदारण्यकभाप्ये 'आत्मैवेदमग्र आसीत्पुरुषविध.' इत्यादि सृष्टिप्रकरणे ‘स यः पूर्व- स्मात्सर्वस्मात्पाप्मन औषतस्मात्पुरुषः' इति वाक्यव्याख्याना- यसरे कथं परब्रह्मणः पाप्मसंबन्ध इत्यादिशङ्कामुद्भाव्य हिरण्य- गर्भकर्तृका सृष्टिरलोच्यते न तु, साक्षात्परब्रह्मकर्तृका । हिरण्यग- भी हि ब्रह्मशक्त्यधिष्ठितो जीवविशेष इति समादधानैर्दर्शिता । प्रकृ- तविषयेऽप्येषा योजनीया। न्यायसाम्यात् । साक्षाच्च तेनैव हिरण्यग- भैण दर्शिता ऋषीन् प्रति वायुनोपदिष्टा । 'लोकानुग्रहणायैव शि-. वन परमेष्ठिना । सदाशिवादयम्सर्वे मूर्त्यात्मानो ह्यधिष्ठिताः । अय- म्यग्नौ समाविष्टे दाहोऽमेरेव नायसः । मूर्त्यात्मम्वेवमैश्वर्यमीश्वरस्यैव नात्मनाम् । न हि काष्ठो ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ । काष्ठस्यां- गारता नाग्नेरेवमत्रापि योज्यताम् । मूर्त्यात्मस्वपि रागाद्या दोषास्स- न्त्येव वस्तुतः । तथापि तेषामेवैते न शिवस्य तु सर्वथा । अग्नावपि समाविष्टे तानं खलु सकालिकम् । इति नासिरसौं दूप्यताम्रसंसर्ग- कारणात् । नामेरशुचिसंसर्गादशुचित्वमुपेयते । अशुचेस्त्वमिसंयो- गात् शुचित्वमुपजायते । एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् । शिवसंसर्गतस्त्वेष शोध्यात्मैव विशुध्यति' इति । तस्मात् न्यायानु- गृहीतवचनबलादेवं व्यवस्थाङ्गीकरणेति भावः ॥ २४ ॥ अथैवं व्यवस्थाभ्युपगमापादकं विष्णोः जीवभावे प्रमाणं दर्शयति- गीतास्वायं प्रपद्ये पुरुषमिति वचो यद्धि कृष्णस्य दृष्टं योगारूढेन पूर्व प्रकथितमिति यच्चानुगीतासु वाक्यम् । यच्च स्वस्खान्तबुद्ध्यध्यवसितगुरुशियोक्तिभंगीपक्लुप्तो- पाख्यानाख्यानमेतैरपि च ममुचिता भाति सैपा व्यवस्था।
आनन्दलहरी . . गीतासु ततः परं तत्परिमार्गितव्यं यस्मिन्गता न निवर्त्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणी' इति भगवतः कृष्णस्य वचनं दृश्यते । अत्राथमिति विशेषणेन 'द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरम्सर्वानि भूतानि कूटस्थोक्षर एव च । उत्तमः पुरुषम्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः' इति यः क्षराक्षरपरत्वेन गीतासूपदिष्टः उत्तमपु- रुषस्स एवोच्यत इति स्मारितम् । 'यस्मिन्मता न निवर्तन्ति भूयः।' • इति विशेषणेन 'ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभू. तानि यन्त्रारूढानि मायया । तमेवं शरणं गच्छ सर्वलोकमहेश्वरम् । तत्प्रसादात्परां शांति स्थान प्राप्स्यसि शाश्वतम्' इति यत्प्रपदनात् परमवैराग्यरूपोपायलाभपूर्वकमनिवर्तनस्थानप्राप्तिरुपदेक्ष्यते स एवेह ईश्वरशब्देन पुरुषशब्देन खप्रपदनीयो निर्दिष्ट इति स्मारितम् । तेनैव खप्रपत्तिरियं स्वस्य तथाभूतस्थानप्राप्त्यर्थेत्यपि सूचितम् । तदर्थ स्वप्र- पदनीय ईश्वराख्य'आद्यः पुरुषः शिव एवेति ' यदातमो' मन्त्रचतुर्थ- पादार्थानुवादकेन ‘यतः प्रवृत्तिः प्रसूता पुराणी' इति विशेषणेन द्योतितम् । तत्र प्रवृत्तिशब्देन 'प्रज्ञा च तस्मात्प्रसृता पुराणी' इति 'यदातमो' मन्त्रचतुर्थपादोपन्यस्ता प्रवोच्यते । स्वाभाविकी ज्ञानव- लक्रिया च ' इति तस्याः क्रियारू स्यापि श्रुनत्वात् । ननु, गीता स्वी- श्वरम्सर्वभूतानां' इत्याधुक्त्यनन्तरं 'सर्वगुह्यतमं भूयः शृणु मे परमं वचः' इत्युपक्रम्य 'सर्वधमान्परित्यज्य मामकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षीयप्यामि मा शुच' इत्युपदिश्य तस्य रहस्योपदेश- विश्रान्तिभूमित्वमभिप्रेत्य तदनन्तरमेव गीताशास्त्र, समापितम् । अर्जुनेनापि तच्छ्रवणानन्तरमेय ‘स्थितोऽस्मि गतमन्देहः फरिप्ये वचनं चन्द्रिकासहिता। . . तव' इति तदुपदिष्टार्थः खानुष्ठेयत्वेनाङ्गीकृतः। तदेतत्सर्व कृष्णस्यैव मुक्त्यर्थ प्रपदनीयत्वे संगच्छते। कृष्णस्यैव गीतासुपरब्रह्मभाव- स्तत्र तत्राध्याये बहुभिः प्रकारैः प्रपञ्चितः । स मुक्त्यर्थ सर्वप्रपदनीय- परब्रह्मभूतः स्वयमन्यं मुक्त्यर्थ प्रपन्न इति कथमिदं श्रद्धेयम् । न च वाच्यं 'कामैस्तैस्तैर्हतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्' इत्यादिकं कृष्णस्य स्वेतरदेवताभजननिन्दा- . वचनजातं श्रुत्वापि सर्वधर्मान् परित्यज्य' इत्यन्तिमोपदेशानन्तरं 'स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव' इति प्रतिज्ञायाप्यर्जुनः शिवभजनपर एव यावज्जीवमवर्तत। अतस्तदनुसारेण कृष्णविषयपर- ब्रह्मभावमुक्त्यर्थप्रपदनीयत्वपरगीतावचनानां शिवपर्यन्ततात्पर्य कल्प- नीयमिति उपदिष्टार्थविस्मरणेन देवतान्तरभजनोपपत्तेः । अत एवा- 'श्वमेधिके पर्वणि युद्धारंभसमयोपदिष्टार्थो विस्मृत इति पुनः पृष्टवन्त- मर्जुनं प्रति भगवता कृष्णेन पुनरपि सोऽर्थ उपदिष्ट इत्यनुगीता- यां श्रूयते । तस्मात् कृष्णस्यान्यप्रपत्तिवर्णनमनुचितमिति चेदुच्यते । अनुगीतावचनान्यपि काम्न्येन गीतासु भगवद्वचनानां शिवपर्यन्त- तात्पर्यगमकानि तमेव चाद्यं पुरुषं प्रपद्य' इति वचनस्वरसप्रतिपन्ना- र्थानुगुणानि चैव दृश्यन्ते । तथाह्यनुगीतोपक्रमे ह्येवं प्रस्तावः । विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते । माहात्म्यं देवकीपुत्र तच्च ते रूपमैश्व- रम् । यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् । तत्सर्वं पुरुषव्याघ्र नष्टं मेव्यप्रचेतसः। मम कौतूहलं त्वस्ति तेप्वर्थेषु पुनः पुनः ।भवांश्च द्वारकां गन्ता,न चिरादेव केशव' इति पृष्टवन्तमर्जुनं प्रति श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्। धर्मखरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् । अबुद्धया यन्न गृहीथास्तन्मे सुमहदप्रियम् । नूनमश्रद्दधानोऽसि दुर्मेधा- ४८ आनन्दलहरी . श्वासि पाण्डव । स हि धर्मस्युपर्याप्तो ब्रह्मणः पदवेदने । न शक्यं तन्मया वक्तुं तथा भूयोऽप्यशेषतः । परं हि धर्म कथितं योगयु- तेन तन्मया ।' इति अत्र पूर्व पारमेश्वरं योगमास्थाय तदेकाग्र- मनसा मया तत्स्वरूपमुपवर्णितमिदानी बहिर्मनसा तथा वक्तुं न शक्यत इति यत्कृष्णेनोक्तं तेन ज्ञायते कृष्णेन म्वस्य यावान् पर- ब्रह्मभावगमकः परो महिमा वर्णितः यच्च म्वस्य भक्त्यानन्ययोपास्य- त्वमुक्तं तत्सर्व शिवाहंभावनारूपं योगमास्थाय प्रवर्तितं शिवपर्यन्तं 'प्राणोऽस्मि प्रज्ञात्मा तम्मामायुरमृतमुपास्म्व' इति इन्द्रवर्णितस्व- महिमजातस्योपास्यत्ववदिति । इदं तु गीतासु ‘एवमुक्त्वा ततो राजन्महायोगीश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम्' इति 'महायोगीश्वर' इति कृष्णविशेषणेन प्रदृश्यमाने रूपे ऐश्वरत्व- विशेषणेण च प्रदृश्यमानरूपवद्वर्णितवर्णयिष्यमाणपरब्रह्मभावगम. कमहिमादिकमपि शिवाहंभावभावनया म्बीयत्वेन वर्णनाविषय- भूतं वस्तुतः शैवमेवेत्यनया भंग्या सूचितम् । अत एव कूर्मपुराणे 'ज्ञानं तदैश्वरं दिव्यं यथावद्विदितं त्वया । स्वयमेव हृषीकेशः प्रीत्योवाच सनातनम् । गच्छ गच्छ म्वकं स्थानं न शोकं कर्तुमर्हसि । भजख परया भक्त्या शरण्यं शरणं शिवम्' इति अर्जुनं प्रति व्यासवचनेन तत्रैव ‘नारायणोऽपि भगवान्देवकीतनयो हरिः । अर्जु- नाय स्वयं साक्षाद्दत्तवानिदमुत्तरम्' इतीश्वरगीतान्ते कृत्स्नस्यापि भगवद्गीताशास्त्रस्य शिवविषयत्वं म्पष्टमेवोक्तम् । अनुगीतासु 'म शक्यं तन्मया भूयस्तथावक्तुमशेषतः' इत्युक्त्यनन्तरं भगवान् कृष्णः केन चित् मिद्धपुरुषेणायमेवार्थ: काश्यपनाम्ने ब्राह्मणायोपदिष्टों मया श्रुतोऽस्ति तद्बलात्तमहं पुनरुपदेक्ष्यामीति प्रतिज्ञाय ‘कथं शरीरा- चन्द्रिकासहिता। ञ्चयवते कथञ्चैवोपपद्यते । कथं कप्टाच्च संसारात् संसारी परिमु- च्यते' इत्यादिना काश्यपसिद्धपुरुषप्रश्नोत्तररूपेण इतिहासन वैश- ग्यार्थ पूर्वदेहपरित्यागदेहान्तरप्रवेशप्रकारमिह परत्र च संसारिणो दुःखबाहुल्यं वैराग्यदृढीकरणार्थभावनाविशेषान्विरक्तस्य संसारान्मोक्षो- पायं योगचोपदिश्य 'कञ्चिदेतत्त्वया पार्थ श्रुतमेकामचेतसा । तदापि च रथस्थस्त्वं श्रुतवानेतदेव हि' इत्युपसंहृतम् । तदनन्तरं कृष्णसिद्धपुरुषोपदिष्टमर्थजातं मनसा सप्रपञ्चमालोच्य सर्वमिदमर्थ- मेवेति निश्चिकायेत्ययमर्थः, कयोश्चित् ब्राह्मणदंपत्योर्गुरुशिप्यभावक- ल्पनया प्रवृत्तेन 'ब्राह्मणी ब्राह्मणं कं चित् ज्ञानविज्ञानपारगम् । दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्' इत्यादिनेतिहासविस्तरेण दर्शितः । तदवसाने • यदिदं ब्रह्मणो लिंगं क्षेत्रज्ञ इति संज्ञितम् । ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तद्वदः' इति बन्धमुक्तिफलमाज- श्शरीरातिरिक्तस्य क्षेत्रज्ञस्य ग्रहणोपायपश्नमवतार्य भर्तृकृतस्तदुपायो- पदेशोऽपि दर्शितः । 'क्कनु सा ब्राह्मणी कृष्ण कचासौ पुरुषर्षभः । याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत' इति अर्जुनेन पृष्टस्य कृष्णस्य उत्तरमुपवार्णतं मनो मे ब्राह्मणं विद्धि बुद्धि में विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तम्सोऽहमेव धनञ्जय' इति । अनेनेतिहासकल्पनाभिप्रायः म्फुटीकृतः । तदेतत् सर्वमर्थजातं श्रुत्वा मुक्त्यर्थ वेद्यं ब्रह्म बुभुत्समानस्यार्जुनस्य तदनन्तरमेव प्रश्नः 'ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि । भवतो हि प्रसादेन सुसूक्ष्मे रमते मनः' इति तस्मै परब्रह्मस्वरूपमुपदेष्टुकामेन कृष्णेन शिप्या- चार्यसंवादरूपः कश्चन कल्पितेतिहासः प्रवर्तितः । तत्र 'कंचिद्राम- णमासीनमाचार्य संशितव्रतम् । शिप्यः पप्रच्छ मेधावी किं स्वित्पर- 7 ५० आनन्दलहरी - . तरं तव' इत्युपक्रम्य 'कुतश्चाहं कुतश्च त्वं तत्सर्व ब्रूहि यत्परम् । कुतो जातानि भूतानि स्थावराण्यवराण्यपि । केन जीवन्ति भूतानि तेषां स्यात्कुत्र वा लय' इत्यादिना केचन प्रश्नाश्शिप्यकृता उपन्य- स्ताः। तेषामुत्तरं वस्तुकामस्याचार्यस्य 'ब्रह्म प्रोक्तमिदं धर्ममृपिप्रवर- सेवितम् । वेदविद्यासमावाप्तं तत्वमूतार्थभावनम् । भूतभव्यभविष्या- दिधर्मकामार्थनिश्चयम् । सिद्धसंघपरिज्ञातं पुराकल्यं सनातनम् । प्रवक्ष्यामि महाप्राज्ञ पदमुत्तममद्य ते । बुद्धवा यदिह संसिद्धा भविप्य- न्ति मनीषिणः ।' इति तदुत्तरोक्तिप्रतिज्ञामुपन्यस्य तत्र श्रोतुरत्या- दरसिद्धये महर्षीणाश्चतुर्मुखस्य च संवादरूपमत्र विपये मह- दुपाख्यानमाचार्येणोपदिष्टमिति तदुपाख्यानमुपक्रान्तम् । 'उपगम्य- पंय. पूर्व जिज्ञासन्तः परस्परम् । वृहस्पतिर्भरद्वाजो गौतमो नारद- स्तथा । वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च । मार्गान् सर्वान् परिक्रम्य परिश्रान्ताः स्वकर्मभिः । ऋषिमांगिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः ! ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मपम् । तं प्रणम्य महात्मानं सुखासीनं महर्षयः । पप्रच्छुविनयोपेता निःश्रेयसमिदं परम्' इत्यादिना ऋषीणां प्रश्नानुपन्यस्य ब्रह्मणस्तदुत्तरवचनप्रपञ्चेन सप- रिकरं परब्रह्मणः स्वरूप निरूपितम् । तदवसान 'एतच्च सर्वमाख्यातं मया विप्रर्पिसत्तमाः । एवमा रत क्षिप्रं ततम्सिद्धिमवाप्स्यथ । इत्युक्ता गुरुणा ते तु ब्रह्मणा मुनयस्तथा । कृतवन्तो महात्मानस्ततो लोकानवामुवन् । स्वमप्येवं महाभाग यथोक्तं ब्रह्मणो वचः। सम्यगा- चर शुद्धात्मा ततम्सिद्भिमवाप्म्यसि । इत्युक्तम्स तदा शिप्यो गुरुणा धर्ममुत्तमम् । चकार सर्व कौन्तेय ततो माक्षमवाप्तवान् । कृतकृत्यश्च स तदा शिप्यः कुरुकुलोदह । तत्पदं समनुप्राप्तो यत्र गत्वा न
चन्द्रिकासहिता ।
34573 ५१
शोचति । त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः । सम्यगाचर
शुद्धात्मा ततस्सिद्धिमवाप्स्यसि इति' बृहस्पत्यादिसंवादस्य गुरु-
शिप्यसंवादस्यार्जुनं प्रति कृष्णवचनस्य समापनानन्तरं 'को न्वसौ
ब्राह्मणः कृष्ण कश्च शिप्यो जनार्दन । श्रोतव्यं यन्मयैतद्वै तन्ममा-
चक्ष्व हे विभो । इत्यर्जुनस्य प्रश्ने 'अहं गुरुमहाबाहो मनश्शिप्यं हि
विद्धि मे । त्वत्प्रीत्या गुह्यमेतच्च कथितं वै धनंजय । मयि चेदस्ति ते
प्रीतिर्नित्यं कुरुकुलोद्वह । अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ।
ततस्त्वं सम्यगाची% धर्मेऽस्मिन् कुरुनन्दन । सर्वपापविशुद्धात्मा
मोक्षं प्राप्स्यसि केवलम् । पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते ।
मया तव महाबाहो तस्मादल मनः कुरु' इति भगवता कृष्णेन
गुरुशिप्यसंवादरूपेतिहासकल्पनाभिप्रायमाविष्कृत्य तदर्थ एव पूर्वम-
पि गीतोपदेशकाले प्रदर्शित इति तदैकार्थ्य स्थिरीकृतम् । एवं च
गीतासु 'मुक्त्यर्थं शिवं प्रपन्नोऽहम् ' इति कृष्णवचनात् वयं मुक्त्यर्थ-
मन्यं प्रपन्नस्य गीतास्वेव तत्रतत्र कथं परभाववर्णनमिति शंकानिरा-
सकादनुगीतासु 'परं हि धर्म कथितं योगयुक्तेन ते मया।' इति तद्वच-
नात् तदनन्तरं सिद्धपुरुषोपदिष्टम्सर्वोऽपि विरक्तिमार्गस्सम्यड्मनसा
समालोच्य बुद्ध्येदमित्थमिति निश्चित इत्येतदर्थयोतकात् खबुद्धिमन-
समारोपितबाह्यणदंपतिसंवादरूपेतिहासविषयात्तद्वचनात्तदनंतरं मया
ब्रह्मवरूपं सम्यगालोच्य तद्ज्ञानांगकर्माण्यप्यनुष्ठाय तद्ज्ञानं लकवा
सिद्धिः प्राप्तेत्येतदर्थद्योतकात् स्वात्मस्वीयमनम्समारोपितगुरुशिप्य-
संवादरूपेतिहासविषयात्तद्वचनाच्च तम्य जीवभावनिश्चयात् जीव एव
तस्मिन् ब्रह्माभिव्यक्तिविशेषकृतं कचित् कचित्तस्य ब्रह्मभाववर्णन
मित्येव व्यवस्थांगीकरणीयेति युक्तम् ॥ २५ ॥
आनन्दलहरी ननु, विष्णोः परब्रह्मभावे गीतावचनान्येव सर्वैः प्रमाणीक्रि- यन्ते । कथं तान्यपराणि म्युः । कथञ्च तासु किञ्चिद्वचनं तस्य मुक्त्यर्थमन्यप्रतिपत्तिं ब्रवीतीति वचश्श्रद्धेयमित्यनुशयं निरस्यति- योगारूढेन गीताविव परविषयं नानुगीतासु वाक्यं कृष्णेनोक्तं ततस्तद्विपयमिव तदाभासते नैव तासु । विष्णोरायस्य तासु कचिदपि महिमा वर्णितो यत्र दृष्ट- स्तत्रैव व्यक्तमुक्तं कमलभुव इव ब्रह्ममृज्यत्वमस्य ।। २६ ॥ अयमर्थः । आपातदर्शिनां शिवयोगमास्थाय प्रवर्तितानि गी- तावचनानि कृष्णम्यैव साक्षात्परभावप्रतिपादकानीव भासन्ते । अनु. गीतावचनानि तु तेषामपि तथा न भासन्ते । किं तु काश्यपसि- द्धपुरुषसंवादादिरूपेतिहासत्रयमात्रश्रवणेन यत्कृष्णेन प्रेप्सितं खरू- पप्रमाणसाधनफलैम्सह श्रुतं मतञ्च ज्ञानार्थकर्मानुष्ठानेन सहोपासि- तञ्च तदन्यदेव कृष्णात् परं ब्रह्मेति प्रतीयते । अतो गीतावचनाना- मप्यत्रैव तात्पर्य सर्वैरभ्युपगन्तव्यम् । अर्जुनेन गीतार्थ एव पुनः पृष्टेऽनुगीतावतरणात् अनुगीताबसाने अयमेवार्थस्तुभ्यं प्रागुपदिष्ट इत्युपसंहृतत्वाच । एव च गीतासु परभावप्रतिपादनं कचिवचिद्ध- गवद्विषयमिव क्वचित्वचिदन्यविषयमिव च स्फुरितम् । भगवतः पुनः पुनः स्वयं योगारूढत्वोपन्यासेनान्यविषयकोटेरुत्कटत्वेऽपि तत्तथा भ- गवन्मुखादेव विविच्याचगन्तव्यम् । तदर्थ तदा विविच्य प्रष्टुमव- सरो नासीत् । तदिदानी प्रष्टव्यम् । तस्य चागृहीतत्योद्घाटना- यामुपदेशायोग्यत्वधीः स्यात् । इत्याशयवतार्जुनेन निगृह्य युद्धारम्भ- व्यग्रेण चेतसा गृहीतत्याद्विम्मृतं गीतार्थजातं पुनरुपदेष्टव्यमिति प्रश्नः चन्द्रिकासहिता । कृतः । तदाशयाभिज्ञेन च भगवता पूर्वमतिसूक्ष्मोऽर्थः समाधि- मास्थायोपदेष्टन्य इति योगारून मयोपदिष्टोऽर्थः त्वया मन्माहा- रम्यश्रद्धावैकल्यात् मयि धूर्वहे जाग्रति किमपि वैयग्र्यं नास्थेयमिति अजानता स्वैनेव युद्धं निर्वहणीयमिति दुर्बुद्धिशालिना तत एव तद्वैयग्र्याक्रान्तमनसा नाञ्जसा गृहीतः । इदानीं योगमार्ग विसृज्या- हम्भावासंवलितस्सोऽर्थ उपदिश्यत इति प्रतिज्ञाय सिद्धपुरुपकाश्यप- संवादाद्यवतरणेनाहंभावास्पृष्ट एव सोऽर्थ उपदिष्ट इत्यनुगीतावतरणा- भिप्रायोऽवसीयते । नन्वनुगीतासु गीतास्विव यद्यपि कृष्णेन स्वस्य परभावो न प्रतिपादितः । तथापि गुरुशिष्यसंवादान्तर्गतैश्चतुर्मुख- वचनैः · सर्वेषामपि भूतानामहं ब्रह्ममयो महान् । भूतं परतरं मत्तो विष्णोर्वापि न विद्यते । राजाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान् । ईश्वरं तं विजानीहि स विभुम्स प्रजापतिः । देवदानवभू- तानां पिशाचोरगरक्षसाम् । नरकिन्नरमुख्यानां सर्वेषामीश्वरः प्रभुः । आदिविश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् । ततः परतरं नास्ति त्रिषु लोकेषु किञ्चने' त्येवंरूपैर्विष्णोः परब्रह्मभावः प्रतिपा- दितो दृश्यत इति चेन्न । तदीयवचनेषु 'ब्रह्ममय' इति मयटा विष्णोर्ब्रह्मसृज्यत्वस्यैव प्रतिपादनात् मयटम्तत्र नैरर्थक्यायोगेनार्था- न्तरासंभवन चतुर्मुखविषयब्रह्मसृज्यत्वपरब्रह्ममयशब्दप्रायपाठेन 'कुत श्थाहं कुतश्च त्वम्' इति समारोपितगुरुशिप्यभावकृष्णतदीयमनः- संवादरूपेतिहासोपक्रमगतशिप्यप्रश्नानुसारेण च विकारार्थत्वावश्यंभा- वात् तस्मादनुगीतासु नारायणादन्यदेव परं ब्रह्म प्रतिपाद्यमिति निश्चयात्तदनुरोधेन गीतासु कृष्णवचनानि तस्य परभावप्रतिपादकत- यावभासमानानि योगारूढवचनत्वात् 'वृष्णीनां वासुदेवोऽम्मि' इति आनन्दलहरी कृष्णम्य नारदादिवत् विभूतिषु परिगणनलिंगाच्च ब्रह्माहंभावभावना. प्रयुक्तानि तव्यतिरिक्तब्रह्मपर्यवसयीनीति स्थिते तद्वयतिरिक्तं ब्रह्म शिव एवेति पर्यवस्यति । महायोगेश्वरेण तेन प्रदर्शितस्य विश्वरूपविग्रहस्य प्रतिपादकेपु 'परमं रूपमैश्वरम्' इत्यादिवचनेप्वैश्वरत्वविशेषणेन विश्वरूपविग्रहप्रदर्शनसमये ‘मयेवेते निहताः पूर्वमेव निमित्तमात्र भव सव्यसाचिन्' इति कृष्णेन स्वनिहतत्वेनोक्तानां रिपूणां पश्चात् स्वरूपमास्थायार्जुनेन संभाषमाणस्य तस्य वचनेषु निहतांस्तेन पूर्व त्वं हतवानसि वै रिपून् । अप्रमेयप्रभावं तं देवदेवमुमापतिम् । भजस्व नित्यं प्रयतो विश्वेशं हरमव्ययम्' । इति मोक्षधर्म पठितेषु शिवनि- हतत्वप्रतिपादनात् उदाहृतवचनोपदिष्टप्रकारेणार्जुनस्य सर्वदा शिव- भजनपरत्वेनैवावस्थानाच्च ॥ २६ ॥ ननु, 'तमेव चाद्यं पुरुपं प्रपद्य' इति गीतावचनस्य प्रतीतार्थो न ग्राह्य । महाभारत एवाश्वमेधिके पर्वणि वैष्णवधर्मशास्त्रे विष्णुभक्तैरनुष्ठेयान् धर्मान् पृष्टवन्तं युधिष्ठिरं प्रति भगवता कृष्णेनैव यावत्पृष्टवैष्णवधर्मोपदेशानन्तरम् 'अनाश्रित्योच्छ्यो नास्ति मुरव्यमा- श्रयमाश्रयेत् । रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मा- माश्रितो राजन्नाहं कञ्चिदुपाश्रित' इति स्वस्यान्यभजनामावस्योप- दिष्टत्वादित्याशंक्याह- नाहं कश्चिद्भजामीत्यभिहितममुना यत्तु धर्मात्मजाय प्राची तस्यात्मभक्तिं प्रथयतुमनसोऽमुष्य सात्मप्रशंसा । तस्मिन् संवाद एवं हाभिहितममुना शंभुभक्तेः स्वभक्त्या साम्यं सर्वत्र तत्वं पुनरनुसरता वर्णितश्चाधिकत्वम् ।।२७॥
चन्द्रिकासहिता। वैष्णवधर्मशास्त्रे त्वद्भक्ताय मह्यं त्वद्धर्मविशेषा उपदेष्टव्या इति पुनः पुनः पृष्टवन्तं युधिष्ठिरं प्रति भगवता वैष्णवधर्मा उपदिष्टाः । ततः प्रभृति ' न बुद्धिभेदं जनयेत्' इति न्यायेन तस्य प्राक्सिद्धां स्व- स्मिन् भक्तिमधिकां कर्तुमित्थमात्मप्रशंसा कृतेति प्रशंसारूपोऽयं 'मुख्य- माश्रयमाश्रयेत्' इति विधेः स्वाश्रयपर्यवसायित्वं सूचयितुमयमर्थ- वादः । यतम्तस्मिन्नेव भगवद्युधिष्ठिरसंवादरूपे वैष्णवधर्मशास्त्रे युधि- ष्ठिरेण वैष्णवधर्मेप्वेव पुनः पुनः पृच्छयमानेप्वपि तैम्सह शैवधर्मा अपि तुल्यविकल्पतया तुल्यफलतया च दर्शिता । यथा 'निवेशयति मन्मूर्त्या आत्मानं मां ततश्शुचिः । रुद्रं दक्षिणमूर्त्या वा चतुर्दश्यां विशेषतः । सिद्धैः ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः । गन्धर्वैर्भू- तसंधैश्च गीयमानो महातपाः । प्रविशेत् स महातेजा मां वा शंक- रमेव वा । न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा । विषुवे स्नपनं यस्तु मम कुर्याद्धरम्य वा । अर्चनञ्च यथान्यायं तस्य पुण्यफलं शृणु । दशजन्मकृतं पापं तम्य मद्यो विनश्यति । दशा- नामश्वमेधानामिष्टानां लभते फलम् । विमानं दिव्यमारूढः काम- रूपी यथासुखम् । दिव्यवर्षसहस्राणां कोटिमेकां तु मोदते । तत-. श्चापि च्युतः कालादिह लोके द्विजोत्तमः । चतुर्णामपि वेदानां पारगो वेदविद्भवेत् । चन्द्रसूर्यग्रहे धाग्नि मम वा शंकरस्य वा। गायत्री मामिकां वापि जपेद्यः शंकरस्य वा.। शंखतूर्यनिनादैश्च कांस्यघण्टास्वनैरपि । कारयेत्तु ध्वनि भक्त्या तस्य पुण्यफलं शृणु । एकादश्यामुपोप्याथ द्वादस्यामर्चयेत्तु माम् । विप्रानपि यथा. लाभं पूजयेद्भक्तिमान्नरः। स गच्छेद्दक्षिणामूर्ति मां वा नात्र विचारणा' इति । एवं सर्वत्र स्वभजनशिवभजनयोस्साम्यं वर्णितवतापि पुनर्व- आनन्दलहरी स्तुतत्त्वमनुसरता तत्रैव शिवभजनस्याधिक्यमप्युक्तम् । तत्र हि 'विशेषतीर्थ सर्वेषामशक्तानामनुग्रहात् । भक्तानां तारणाथै वै वक्तुम- हसि धर्मत' इति साक्षाद्भगवत्सेवां कर्तुमशक्तानां भक्तानां तद- नुकल्पतया सेवनीयं तीर्थ किमिति प्रश्ने 'सत्यं हि वचनं तीर्थम- हिंसा तीर्थमुच्यते 1 तपस्तीर्थ दया तीर्थ शीलं तीर्थ युधिष्ठिर । मद्- क्तस्सकलं तीर्थ शंकरस्य विशेषतः ।' इति स्वभक्तापेक्षया शिव. भक्तस्य विष्णुभक्तान्प्रत्यधिकतीर्थत्वमुक्तम् । एवंविधोपक्रमविरोधा- दोपसंहारिकं तद्वचनं स्वभक्तप्ररोचनार्थमर्थवादतया नेतव्यमिति न तद्विरोधः । तमेव चाद्यं पुरुषं प्रपद्य' इति वचनेन गणनीय इति भावः ॥ २७ ॥ एवं गीतानुगीतादिपर्यालोचनया उक्तव्यवस्थांगीकरणीयेत्यु- पपादितम् । अथ विष्णुपुराणपर्यालोचनयापि सांगीकरणीयेत्युप- पादयति- 'विष्णोरुत्कर्षमेव प्रथयति बहुधा भक्तिसिद्धयै यदस्मि- नुत्कर्प शंकरस्य स्थगयति कथया नत्र तत्र प्रसक्तम् । तस्मिन्नप्यर्थतत्वं किमाप गमयितुं वैष्णवाख्ये पुराणे . ब्रह्मानन्तर्यमस्याभिहितमिति ततोऽप्येवमेव व्यवस्था॥२८॥ विष्णुपुराणे विष्णोरेवोत्कर्षः प्रतिपादितश्शिवस्योत्कर्षस्तत- स्कथाप्रसंगेन वर्णनीयतया प्रसक्तोऽपि विष्णावैकान्तिकभक्तिसिद्ध्यै स्थ- गितः । न हि यथा भागवतादिप्वमृतमथन कथाप्रसक्तं कालकूटसंहरणं सर्गवर्णनाप्रसक्तं दक्षाध्वरध्वंसनमित्येवमादि वर्णिनं कालकूटज्वालाश्रा- न्तानां शिवं शरणं प्रपन्नानां देवानां 'म ते गिरिचाखिललोकपाल -
चन्द्रिकासहिता।
.
विरिञ्चवैकुण्ठसुरेन्द्रमृग्यम् । ज्योति परं यत्र रजस्तमश्च सत्वं न यद्ब्रह्म
निरस्तभेदम्' इत्यादिवचनैश्शिवस्य ब्रह्मविष्ण्वाद्यपरिच्छेद्यपरब्रह्मभाव-
रूपो महिमा वर्णितः । दक्षाध्वरध्वंसे च नाहं न यज्ञो न च यूय-
मन्ये ये देहभाजो मुनयश्च तत्वम् । विदुः प्रमाणं बलवीर्ययोर्वा
तस्यात्मतन्त्रस्य क उद्विधित्से' त्यादिभिः पितामहादिवचनैस्तस्य
तथाभूतमहिमाविष्कृतः । एवं न हि विष्णुपुराणे क्वचिदपि शिवम-
हिमा प्रख्यापिनोऽस्ति । किं त्वमृतमथनादिप्रसंगे सत्यपि काळकूटसं-
हरणादिकथांशत्यागेन तस्य महिमा निगूहितः । एवंभूतेऽपि विष्णु-
पुराणे कचिद्वस्तुतत्वं किञ्चित्प्रकाशनीयम् । अन्यथा विष्णुभक्तिसि-
ध्यै सर्वथा तत्वार्थनिगृहने कृते तत्परवेदोपवृह्मणता न स्यादित्यभि-
प्रेत्य प्रथमांशावसाने पुराणप्रतिपाद्यं महाविष्णु प्रस्तुत्य ‘स परस्सर्व.
शक्तीनां ब्रह्मणस्समनन्तरः' इति ब्रह्मविभूतिभूतसर्वजीवापेक्षया महा-
विष्णुः पर इत्युक्तत्वादेव परब्रह्मणस्त्वयं कनीयानिति तस्य ब्रह्मकोटि-
बहिर्भावेन प्रथमजीवभावो दर्शितः । प्रदेशान्तरेषु तस्य परभावो
वर्णित इत्युभयाविरोधार्थ जीवरूप एव तम्मिन्परब्रह्माभिव्यक्तिविशेषात
परब्रह्मभाववर्णनमित्युक्तव्यवस्थावश्यमगीकरणीयेत्यर्थः ।। २८ ॥
अथ बहुषु पुराणेप्वेवं विष्णोरेव चतुर्मुस्वभावप्रतिपादनात्
चतुर्मुखस्य जीवत्वसंप्रतिपत्तेस्तस्य जीवत्वमभ्युपगन्तव्यमित्युपपाद-
यति-
जीवस्तावत्मसिद्धस्सरसिरुहभवस्मृज्यसंहार्यतादे-
राम्नाये धर्मशास्त्रे स इरिरिति पुराणेषु चातिमसिद्धम् ।
कुर्वन्वाराहकल्पे द्रुहिणकृतिमतस्सोच्यते तस्य नाम्ने
त्युक्तिर्धान्तस्य कल्पान्तरविपयपुराणेवापि येवमुक्तम् ॥२९॥
आनन्दलहरी बिरिश्चस्तावत् जीवः सूज्यत्वसंहार्यत्वादिश्रवणादिति विष्णुब्रम- वादिमिरप्यभ्युपगम्यते । विरिञ्च एव विष्णुरिति श्रुतिस्मृतिपुराणे- प्ववगतम् । तथा हि-यजुम्मंहितायां तावत् ' आपो वा इदमग्रे स- लिलमासीत्तम्मिन् प्रजापतिर्वायुर्भूत्वाचरत् स इमामपश्यत्तां वराहो भूत्वाहरत्तां विश्वकर्मा भूत्वा व्यमार्ट' इति प्रजापतिशब्दोक्तम्य चिरिच्चम्यैव वराहमावापत्तिः पुनम्तम्यैव विश्वनिर्मातृविरिच्चभावापत्ति- श्व श्रूयते । एवमाधानमन्त्रेष्वपि यस्य रूपं बिभ्रती मामविंदत् । गुहां प्रविष्टां सरिरस्य मध्ये । तस्येदं विहतमारभन्तोऽच्छंबट्कार- मस्यां विधेम' इति वराहविहितसंभरणमन्त्रे विरिञ्चस्त्र चराहरूपग्रहणं श्रूयते । यद्यपि तस्मिन्मन्त्रे तन कर्तृनिर्देशो नास्ति । तथापि प्रजापति- सृष्टानां प्रजानामिति पूर्वमन्त्र प्रजापतिशब्दोक्तो विरिंच एव गृह्यते। कपेक्षायां सन्निहितग्रहणौचित्यात् “आपो वा इदमग्रे सलिल- मासीत्तेन प्रजापतिरश्राम्यत्कथमिदं स्यादिति सोऽपश्यत् पुष्कर- पर्णमतिष्ठत् सोऽमन्यत अस्ति वैतद्यस्मिन्निदमधितिष्ठतीति स वराहो रूपं कृत्वोपन्यमन्जत् स पृथिवीमथार्छत् तम्या उपहूत्योदमजत्' इति तद्राह्मणवाक्यानुरोधाच्च । वराहरूपं वैष्णवमित्यसन्दिग्धम् । 'उद्धृ- तासि वराहेण कृष्णेन शतबाहुना' इति श्रवणात्सकलपुराणैकक- एट्याच्च । तथा मानवे धर्मशास्त्रे 'ततः स्वयंभूभगवानव्यक्ती व्यञ्ज- यन्निदम् । महाभूतादिवृत्तौजा प्रादुरासीतमोनुदः । सोऽभिध्याय शरीरातात्सिसक्षुर्विविधा प्रजा. । अप एव ससर्जादौ तासु वीर्यम- पासृजत् । तदण्डमभवढेम सहस्रांशुसमप्रभम् । तम्मिञ्जज्ञे म्वयं ब्रह्मा सर्वलोकपितामहः । आपो नारा इति प्रोक्तास्तेन नारायणः स्मृतः ॥' इति नारायणस्य म्बयमेव विरिश्चरूपेण जनिरुक्ता । पुराणे- .
चन्द्रिकासहिता। ५९ प्वपि स्क्रान्दे सूतसंहितायां विष्णोराहावतारकृत्यमुक्त्वा 'वाराहं रूपमुत्सृज्य स्वयं ब्रह्माभवद्धरिः' इति तस्यैव ब्रह्मभावापत्तिरुक्ता। वि- प्णुपुराणे च एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिश- व्यागतश्शते त्रैलोक्यनासहितः । जलस्थैयोगिभिर्देवश्चिन्यमानोऽ- जसम्भवः ।' इति कमलसम्भवस्य विरिश्चस्यैव नारायणात्मना समु- द्रशायित्वमुक्तम् । कूर्मपुराणेऽपि । ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिण. | सुप्वाप योगशयन एकीभूतोऽथ विष्णुना ।' इति तस्य देहान्तरोपाधिकभेदमपहाय विष्णुनैकीभूय समुद्रशयनमुक्तम् । एव. मन्येप्वपि बहुषु पुराणेप्वयमर्थो वर्ण्यते। विस्तरभयान्नेह लिख्यते । अत्र कश्चिदाह--- चाराहकल्पे स्वयमेव भगवान् ब्रह्मकृत्यं जगत्स- ट्यादिकं करोति तद्विपयाण्येतानि पुराणादिवचनानीति । तत्तुच्छम् । लक्ष्मीकल्पादिवृत्तान्तप्रतिपादकेषु पुराणेषु कूर्मपुराणादिष्वपि तथा श्रवणात् । वराहकल्पमधिकृत्य प्रवृत्ते विष्णुपुराणेऽपि कल्पादिकाल- मारभ्य वाराहकल्पवृत्तान्तं वर्णयितुं तदुपोद्धाततया पात्मकल्पवृ- तान्तवर्णनावसर एव एकार्णवे तु त्रैलोक्य' इत्यादिश्रवणात् वारा- हकल्पविषयेऽपि तम्मिन्पुराणे पुराणान्तरेष्विव ब्रह्मण एव सकलसु- प्टिकर्तृत्वप्रतिपादनाच्च । अतस्सम्प्रतिपन्नजीवभावविरिञ्चाभेदादपि विष्णोर्जीवत्वमवश्यमङ्गीकरणीयमिति भावः ॥ २९ ॥ . ननु, यथा संप्रतिपन्नजीवभावात् संहाररुद्रात् अन्यः परम- शिव इत्यभ्युपगम्यते, तथा पालनाधिकृतात् जीवरूपाद्विप्णोरन्यः पराशक्त्यंश आदिनारायण इत्यभ्युपगम्यताम् । सर्वमविरोधेनोप- पद्यत इत्याशंक्याह- आनन्दलहरी शंभोस्संहाररुद्रादिय भुवनपतेरादिनारायणस्थ स्वीकारे भिन्नताया भवति मुघटिता ब्रह्मशक्त्यंशतास्य । तत्स्वीकारे प्रमाणं न तु किमपि दरीदृश्यते निर्विशंकं शंभोरशैवेष्विवास्य कचिदपि गुणितो नान्यतोक्तिः पुराणे ।। अभ्युपगच्छेम तथा यदि तत्रानन्यथासिद्धं किञ्चित्प्रमाणं दृश्येत । न तु तदृश्यते । न हि शैवपुराणेवैकमत्येन गुणिरुद्रात्प- रमशिवस्य भेद इब गुणिविष्णोरादिनारायणम्य भेदो बैष्णवपुराणे कचिदुक्तोऽस्तीत्यर्थ ॥ ३० ॥ ननु वृहन्नारदीयोपपुराणे ब्रह्मविष्णुरुद्राम्त्रयोऽपि नारायणेन सृष्टा इति क्वचित् क्वचित् लिखितमस्ति । एतादृशमिह प्रमाणं भवेदि- त्याशंक्याह- यत्र काप्यस्ति चत्सा प्रमथकुलपतेरब्जयोनेर्यथैवं स्त्रव्यूहापेक्षया स्पान तु परगुणमूर्युत्तरत्वे प्रमाणम् । न ह्यस्त्यस्यादिशंभोरिव परगुणिनः स्वस्य सृष्ट्यादिकर्तृ- व्यूहैर्युक्तात्रयोऽपि कचिदपि कथिताः सन्ति शेषा इतीदम् ।। शिवस्य रुद्रविष्णुचतुर्मुखा इच तेषामपि सन्ति व्यूहाः जग- तो हरणभरणोत्पादनेप्यधिकृता वायुसंहितादिप्रसिद्धा. ब्रह्मणो विराट- कालपुरुपाख्या. त्रयः विष्णोम्संकर्षणप्रद्युम्नानिरुद्धाख्यास्त्रयः रुद्रस्य हरमृडभवाख्याः एते च दक्षमन्वन्त कादिवत् सृष्टयादिप्ववान्तराधि- कारिणः । एवञ्च विष्णोत्रिमूर्तिपरत्ववचनानि स्वव्यूहत्यपराण्युपप- द्यन्ते । तद्वयूहानामपि सृष्टयााधिकारसाम्यात् ब्रह्मादिव्यपदेशोपपत्ते । एका भागवती मूर्ति नम्पा शिवामला । वासुदेवाभिधाना सा .
चन्द्रिकासहिता। । . A गुणातीता सुनिष्कळा | द्वितीया रुद्रसंज्ञा स्यात्तामसी शेषसंज्ञिता । विहन्ति सकलञ्चान्या वैष्णवी परमा तनुः । सत्वोद्रिक्ता तृतीयान्या प्रद्युम्नेति च संज्ञिता । जगत्स्थापयते सर्व सा विष्णुप्रकृतिर्बुवा । चतुर्थी वासुदेवस्य मूर्तिब्रह्मेति संज्ञिता । राजसी चानिरुद्धाख्या पुरुषस- प्टिकारिका' इति तेषां तव्यपदेशदर्शनाच्च । एवं ब्रह्मगस्त्रिमूर्तिपरत्ववच- नानामपि गतिरुन्नेया। वायुमंहितायां तदाण्डेऽस्मिन्विवृद्धोऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञित' इति ब्रह्माणं प्रस्तुत्य · त्रिधा विभज्य चात्मानं त्रैलो- क्ये संप्रवर्तते । सृजते ग्रसते चैव रक्षते च त्रिभि. स्वयम् ।' इत्या- दिना तद्व्यूहान् प्रदर्य · सत्त्वं रजश्च ब्रह्मत्वे कालत्वे च तमो रजः । विष्णुत्वे केवलं सत्त्वं गुणमूर्तिनिधा विभोः' इति तेषा गुणविभागश्लोक तेष्वपि ब्रह्मादिशब्दप्रयोगाच्च । ननु तद्देवमेव शिवम्य त्रिमूर्तिपरत्ववच- नान्यपि संहाररुद्रव्यूहभूतभवमृडहरपराणि म्युरिति संहाररुद्रात् भिन्नः परमशिवो न मियेदिति चेत् सिद्ध्येदेव । 'सृजत्यशेषमीशस्य शास- नाच्चतुराननः । तिभिर्मूर्तिभिश्चैव पाति चान्ते निहन्ति च । विष्णुः पालयत विश्वं विश्वयोनेर्नियोगतः । सृजते असते चापि त्रिधा भिन्नस्तु रक्षति' इति शिवपुराणे स्वस्वव्यूहसहितानां ब्रह्मविष्णुरुद्राणां शिव- नियोगेन स्वम्वकृत्ये प्रवृत्त्युपन्यासात् तत्रैव योगेश्वराख्यपूजादिपु स्यम्वव्यूहावरणानां तेषां शिवावरणत्वेन पूजाविधानात्तदनन्तरं पश्चा- वरणस्तोत्रे स्वम्वव्यूहावरणानां तेषां शिवावरणनिविष्टतया स्तोत्रदर्शनात् कूर्मपुराणे 'मर्वासामेव शक्तीनां ब्रह्मविष्णुशिवात्मिकाः । प्रधानाम्सं. स्मृता देवाश्शक्तयः परमात्मनः । आभ्यः परस्तात् भगवान् परमात्मा सनातनः। गयिते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः । इति प्रधानभूतेभ्य एव ब्रह्मविष्णुरुद्रेभ्यः परमशिवस्य परत्वप्रतिपादनांच्च । .
आनन्दलहरी अस्मिन्नर्थ साधकानि वचनानि सर्वेप्वपि शैवपुराणेपु सन्ति भूयांसि । तानि प्रायश्शिवतत्वविवेकादिपु लिखितानि विस्तरभयान्नेह पुनर्लि- ख्यन्ते । एवं ब्रह्मविष्णुरुद्राप्रयोऽपि स्वस्वव्यूहत्रयसहिताश्शेषभूता इति क्वचिदपि वैष्णवपुराणेषु न श्रुतं प्रत्युत भागवतादिषु प्रतिपाद्य- स्य विष्णोः सात्विकतया राजसतामसाभ्यां ब्रह्मरुद्राभ्यामुत्कर्षप्रति- पादनेन त्रिमूर्त्यन्तर्गत एव विष्णुर्वैप्णवपुराणेपु पतिपादित इति विभावितं दृश्यत इति भावः । ॥ ३१ ।। एवमुक्तप्रमाणः प्राप्तं विष्णो ब्रह्मत्वं प्रत्याख्येयमिति शक्ते. ब्रह्मकोट्यन्तर्भावे तदंशत्वं विष्णोर्न घटत इति शंका सप्तभि श्लोकै- रुपपादिता । अत्र भट्टभास्करमतानुसारिणां समाधानमाह- अत्रके वर्णयन्ति दृहिणगिरिशवज्जीवभावोऽस्तु विष्णो- चिच्छकत्यंशवमस्य व्यपनयति ततो नोद्भवकोऽपि दोपः। पत्रिंशत्तत्त्ववर्गो भवति जडतयात्यन्तवैरूप्यशली सोऽयंशः खल्वमुष्याः किमिति खलु भजेञ्चेतनो नांशभावम् ।। विष्णोर्जीवत्वं शक्त्यंशत्वमित्युभयमप्यन्तु, न कोपि दोपः । न च शक्त्यंशम्य जीवत्वे शक्तेब्रह्मकोट्यन्तर्भावविरोधः । अचिद्रूपो हि शिवसत्यादि म्यन्त पनिशत्तत्त्ववर्ग चिपायाश्शक्तरंशोऽभ्यु- पगम्यते । तदुपपादनार्थमेव खलु · न विलक्षणत्वा' धिकरणम् । तथैव शक्तेर्ब्रह्मकोटित्वेऽपि विष्णोर्जीवम्य तदंशत्वमुपपद्यत इति न कश्चिद्विरोध इत्यर्थः ॥ ३२ ॥ नन्वनया रीत्या सर्वेषामपि जीवानां शक्त्यंशताभ्युपगम्य- ताम् । किमर्धजरतीयन्यायनेत्याशंक्य तथैवाभ्युपगम्यत इत्याह- .
चन्द्रिकासहिता। - जीवास्सर्व तदंशाः स्युरिति यदि तथैवास्तु का नः भतिः स्यात् कार्यत्वं नास्ति तेपामिति न तदकृताभ्यागमादिप्रसक्तिः। इप्यन्ते ह्यञ्जसास्य प्रतिभवनियतानाद्यवस्थांशभेदाः कार्यन्वं वास्तु तेषां भवविहतिभयाधुज्यतेऽनादितापि ॥३३॥ मर्वेषां जीवानां शिवशक्त्यंशत्वाभ्युपगमेऽपि नास्ति कश्चि- दोषः । न च तथा सति सत्त्ववर्गवत् कार्यत्वापत्तेरकृताम्यागगरू- पोऽतिप्रसङ्गः स्यादिति वाच्यम् । अकार्यागत्वाभ्युपगमोपपत्तेः । न चांगानां कार्यत्वनियमः । मलद्रव्यस्याविद्याजनादिशब्दितस्य सर्वेषां जीयानामावरणार्थमभ्युपगतम्यकत्वेन कस्यचिज्जीवम्य मुक्तो तन्निवृत्त्या सर्वेषां जीवानामपि मुक्तिप्रसंगपरिहाराय तत्तजीवावार- कत्वेनाभ्युपगतानामवस्थाविशेषरूपाणामंशानामकार्यत्वसंप्रतिपत्तेः अथवा शक्त्यंशरूपाणां जीवानां कार्यत्वमेवास्तु । कार्यत्वेऽपि मुक्तिवदनाद्यन्तत्वमुपपद्यत इत्यर्थः ।। ३३ ॥ मुक्तिदृष्टान्तमुपपादयति-- जन्मस्थित्यादिरीत्या भवविहतिरपि म्यादनादिप्रवाहा- ज्जीवानन्त्येन नेदंप्रथमभवतया कालभेदे नियम्या । तस्मात्माकोटिदृष्टया नियतवितिरप्यमीताकारभावा सा तत्वज्ञानसाध्या भवनि भवति चानादिरित्यभ्युपेयम् ३४ यथा म्बल्बनादौ मंसारे चेतनांचतनकरवितम्याम्य प्रप- शम्य जन्मस्थितिभंगाः अनादिप्रवाह तयानुवन्त तथा मुमुक्षणां तत्त्वज्ञानसाग मुक्तिरप्यनुवर्तत इत्यभ्युपेयम् । न तु कश्चिक म्पमारभ्यदंप्रथमतया प्रवृत्तत्यभ्युपगन्तुमुचितम् । तत्र नियामकामा- आनन्दलहरी अन्यथा प्रसज्यत वात्। 'तद्यो देवानां प्रत्यबुध्यत तथा ऋषीणां तथा मनुष्याणाम् ' इति देवर्षिमनुष्येषु प्राड्मक्ताः केचिदासन्निति प्रतिपादयन्त्याः श्रुतेरतीते- प्वनन्तेषु कालेषु सर्वेप्वेकरूपत्वाच्च । एवञ्च प्राड्मुक्तानां मध्ये केषाश्चिन्मुक्ति. प्राकोटिसृष्टिरहितेत्यप्यंगीकर्तव्यम् । सर्वेषामपि मुक्ते. कालविशेषमारभ्य प्रवृत्तत्वेन तत पूर्व कस्या- पि मुक्तिर्नासीदिति तत्प्रवाहानादित्वमंगप्रसगात् तत.पूर्व 'तद्यो देवानां प्रत्यबुध्यत' इत्यादिश्रुतेरर्थशून्यत्वभंगप्रसंगाच । एव- ञ्चेतः प्राङ्युक्तानां मध्ये केषाञ्चिन्मुक्ते. प्राकोटिदर्शनं केनापि प्रमा- णेन भवन्नास्तीति सा तत्त्वज्ञानसाध्या भवति चानाद्यनन्तत्यकामेनापि अङ्गीकरणीयम् । इत्थमेव जीवरूपाणां शक्त्यशानां कार्यत्वेऽनाद्यन्त- स्वमुपपद्यत इति न कृतहानिरकृताभ्यागमो वा इत्यर्थः ॥ ३४ ॥ इत्थं विष्णुर्जीव इति पक्ष केपाश्चिदुपपादितः । स्वसिद्धान्तं दर्शयति--- आस्माकीना तु सैद्धान्तिकसरणिरियं यत्परब्रह्मकोटि: श्रीमानारायणस्सन्महित इति महाभारतादिमसिद्धः । तस्मात्तेप्यादिशंभुः कचिदपि विषये वर्णितो नापकृष्टः किंतु स्थाशुर्विशालाक्ष इति समुदितो लोकसंहर्तुरीशः ॥३५॥ वेदविभागार्थमेवावतीर्णेन सकलवेदतात्याभिजेन सर्वज्ञशि- खामणिना भगवता येदव्यासेन पुलस्त्यवरदानलब्धदेवतापारमार्यने- दनेन श्रीपराशरेणान्यैश्च महर्षिभियंदोपवृह्मणार्थ प्रणीतेषु श्रीमहा- भारतविष्णुपुराणादिषु निश्चितपरब्रम्प्रभावम्य सद्भिः सर्वैरप्यविभागेन अथ चन्द्रिकासहिता। । परब्रह्मेत्येव पूजितम्य श्रीनारायणस्य कचित्कोणे निविष्टमन्त्रार्थ- वादपुराणवचनादिलेशमलव्य जीवभावं वक्तुं नामजिहा प्रवर्तते । तथा चेन्मूर्द्धा च शतधा भवति । वेदवैदिकद्रोहो देवताद्रोहश्च जायते । अतो नारायणः परब्रह्मकोटिरित्येवास्माकं सिद्धान्तः । ननु भारतादिपु शिवस्य नारायणात् क्वचित्कचिदपकर्षः प्रतिपादितोऽ स्तीति सोऽप्यादरणीयः स्यादिति चेदाद्रियत एव । न हि तेपु त्रिमूर्यु- तीर्ण परमशिवं शृङ्गग्राहिकया निर्दिश्य तम्य नारायणादपकर्षः क- चिदुक्तोऽस्ति। मामान्यवचनानि तु मंहाररुद्रतदंशविपयतया चरिता- नि । अस्ति हि संहाररुद्रस्य चतुर्मुखान्नारायणाच्चापकर्पः कल्पभेद- प्रवृत्तः । स एव तदीयेषु पुराणेषु तदनुसारिषु भारतप्रदेशादिपु च वर्णितः। यथाह भगवान्वायु:- त्रयस्ते कारणात्मानो जातास्साक्षा- न्महेश्वरान् । चराचरम्य विश्वस्य सृष्टिस्थित्यन्तहेतवः । पित्रा निय- मिताः पूर्व त्रयोऽपि त्रिपु कर्मसु । ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे पुनः । तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिनः । तपसा तोषयित्वा तं पितरं परमेश्वरम् । ब्रह्मनारायणौ पूर्व रुद्रः कल्पान्तरेऽसृजत् । कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः । विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः । नारायणं पुनर्ब्रह्मा ब्रह्माणञ्च पुनर्भवः। एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः । परस्परस्माज्जायन्ते परस्परजयैषिणः । तत्तत्कल्पान्तवृत्तान्तमधिगम्य महर्षिभिः। प्रभावः कथ्यते तेषां परम्प- रसमुद्भवात् ॥' इति । 'ततरकल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः तानि तानि प्रणीतानि विद्वांस्तत्र न मुद्दति । अयं परम्त्वयं नेति संरम्भा- भिनिवेशिनः । यातुधाना भवन्त्येव पिमाचाश्च न संशयः॥ इति च । एवं शिवस्य विष्णोश्चतुर्मुखाचापकर्षवचनानि कानिचित् संहाररु- 9 आनन्दलहरी द्रस्य कादाचित्कापकर्षविषयाणि । प्रायेणैयु भारतादियु दृष्टानि तु तथा- भूतानि वचनानि विष्णुचतुर्मुखावितसंहाररुद्रांशयिषयाणि । सन्ति हि प्रत्यवान्तरकल्पं सृष्टयभिवृद्धयादिना लोकानुग्रहाय विष्णोश्च- तुर्मुखाच्याविर्भूताः महाकल्पादौ ताभ्यां सह परमशिवादुत्पन्नस्य संहा- ररुद्रस्यांशविशेषाः । यद्विषयाणि पुराणभारतवचनान्युपलभ्यन्ते । यथा सूतसंहितायाम्-- तताप परमं घोरं ततो विपाश्चतुर्मुखः । सृष्टयर्थ ब्रह्मणस्तस्य भ्रुवोर्माणस्य मध्यतः । अविमुक्ताभिधाद्देशात् स्वकीयात्तु विशेषतः । त्रिमूर्तीनां महेशम्य द्विजा वेदान्तवित्तमाः । अंशभूतो महादेवः सर्वदेवनमस्कृत । अर्धनारीश्वरो भूत्वा प्रादुरा- सीत्कृपानिधिः ।।' इति । वायुसंहितायां निर्दिष्टः परमेशेन महेशो नील- लोहितः । पुत्रो भूत्वानुगृह्णालि ब्रह्माणं ब्रह्मणोऽनुजः।' इति । लिंग- पुराण ‘तस्य हृत्कमलस्थस्य नियोगादंशजो विभोः । ललाटं तस्य निर्भिद्य प्रादुरासीत्प्रभार्महान् ॥' इति । अंशः परमशिवस्य संहाररुद्र- स्ततो जातस्तदंशभूत इत्यर्थः । 'अनादिनिधनो देवश्चैतन्यादिस- मन्वितः । ज्ञानानि च वशे यस्य तारकादीन्यशेषतः । अणिमादि- गुणोपेतमैश्वर्यं न च कृत्रिमम् । सृष्टयर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः ।' इति महाभारतवचनमप्युदाहृतपुराणवचनानुसारेण संहाररु- दांशाविर्भावपरम् । एवम् 'अथ पुनरेव नारायणम्सोऽन्यत्कामो मनसा- ध्यायत। तस्य ध्यानान्तम्थस्य ललाटाव्यक्षश्शूलपाणिः पुरुपोऽजायत विभ्रत्सत्यं ब्रह्मचर्य तप' इत्यादिश्रुतिप्रतिपादितदिशवस्य नारायणा- दाविर्भावोऽपि संहाररुद्रांशाविर्भावरूपः । महाभारते 'तत. पार्थे वृषा- इस्य ब्रह्मचारी व्यतिष्ठत । पिंगाक्षस्तपसा श्रेष्ठो बलवान्नीललोहितः।। इति तस्य कैलासे श्रीकण्ठपार्थेऽवस्थानोक्त्या कूर्मपुराणे नारायणं प्रति , चन्द्रिकासहिता। १७ . अहश्च भवतो वक्त्रात् कल्पान्ते घोररूपधृत् । शूलपाणिर्भविप्यामि कोधजम्तव पुत्रकः॥' इति संहाररुद्रोक्त्या चैच्छिकतदंशावतारत्वावि- प्रकरणात् । एवंभूतविशेषांशविषयाण्येव ‘ब्रह्मनारायणौ पूर्व रुद्रः कल्पान्तरेऽसृजत् ।' इत्यादीनि प्रागुदाहृतानि वायुसंहितावचनानि । एवंभूतसंहाररुद्रांशविषयत्वं भारतादिपु दृष्टानां रुद्रस्य चतुर्मुखा- नारायणाच्चापकर्षवचनानां तत्तद्वचनेप्येय प्रायश्थूयमाणैः स्थाणुवि- शालाक्षादिशब्दराविष्क्रियते । यथा महाभारते- 'ब्रह्मा सुरगुरुः स्थाणुर्मनुश्च परमेष्ठिजः। ' इत्यादौ 'ब्रह्मा स्थाणुर्मनुर्दक्षः' इत्यादी च 'एकविंगतिरुत्पन्नास्ते प्रजापतयः स्मृताः । तस्य देवस्य मर्यादा पूजयन्ति सनातनीम्' इति नारायणकृतमर्यादापरिपालकत्वेनोक्तानां प्रजापतीनां परिगणने । यथा च तत्रैव सुन्दोपसुन्दाख्याने 'तत्र विष्णु- महादेवन्तत्राभिर्वायुना सह' इत्यारभ्य ‘ऋषयम्सर्व एवते पितामह- मुपासत' इत्यन्तेन विष्ण्वादिसकलदेवतानामृप्यादीनाञ्च पितामह- मुपासीनानां तत्मभास्थितिवर्णनानन्तरम् ‘इन्द्रः स्थाणुश्च भगवान्य त्यक्त्वा प्रतिष्ठितौ' इति एवञ्चतुर्मुखः स्थाणुमहादेवोऽभवत्पुरा' इति मुन्दोपसुन्दवधार्थ पितामहेन । सृष्टायास्तिलोत्तमाया दर्शनलोभेन रुद्रस्य परितोमुखचतुष्टयकीर्तने यथा वा मृत्युसम्भवोपाख्याने 'ततो हरी जटी म्याणुः' इति रुद्रं प्रस्तुत्य तम्य ब्रह्माणं प्रति · भवता हि नि- युक्तोऽहं प्रजानां परिपालन' इति म्यस्य तन्नियुक्तत्वोपन्यासे । एवमा- दिन्थलेषु म्याणुशब्दग्रहणेन रुद्रविमतिविगेपरूपत्वं स्न्याप्यते । 'सा- स्मजैरेव तैरुद्रनिवृत्तात्मा व्यतिष्ठन । म्याणुत्वं तम्य तेनामीदेवदेवस्य शूलिन' इति कौमें. 'तनः प्रभृति देवोऽमौ न प्रसूते शुभाः प्रजाः। अध्वरेताः स्थिनः म्याणुविद्राभूतमप्लवम्' इति वायुमंहितायां, · तनः " .
६८ आनन्दलहरी प्रभृति विश्वात्मा न प्रसूते शिवाः प्रजाः। स्थाणुवन्निश्चलो यस्मात् स्थितः स्थाणुरतः स्मृत' इत्यादित्यपुराणे च ब्रह्माङ्गभुवं तेन 'प्रजाः सृज' इति निर्दिष्टं स्वसमानगुणाकृत्युपेतान् जननमरणहीनानसंख्यातान् रुद्रान् सृष्टवन्तं एवंभूताः प्रजा मा साक्षीः' इति ब्रह्मवचनेन सृष्टिव्यापारान्नि- वृत्तं रुद्र प्रस्तुत्य तेनैव प्रवृत्तिनिमित्तेन स्थाणुशब्दस्य तन्नामत्वप्रतिपा- दनात् । महाभारतेऽपि भीष्मपर्वाण सभापर्वणि च यत्र भूतपतिः सृष्ट्वा सर्वलोकान् सनातनः । उपास्यते तिम्मतेजा वृतो भूतैस्सह- स्रशः ।।' इति मैनाकपर्वते उपास्यम्य शिवस्य सन्निधानमुक्त्वा · नर- नारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः । उपासते यत्र परं सहस्रयुग- पर्यये॥' इति तदुपासकपरिगणनपरे अनन्तरश्लोके राजधर्मे ' भूयस्स भगवान् ध्यात्वा चिरं शूलवारायुधः । तस्य तम्य निकायस्य चका- रैकैकमीश्वरम् । देवानामीश्वरञ्चके देवं दशशतेक्षणम् । यमं वैवस्वत- श्चैव पितॄणामकरोत्पतिम् ।' इत्युपक्रम्य ‘रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः । महात्मानं महादेवं विशालाक्षं सनातनम् ' इति शिवनियम्येषु परिगणनेन च स्थाणुशब्दितस्य रुद्रस्य विभूतिरुद्र- त्वस्फुटीकरणाच्च । राजधर्मे विशालाक्षशब्देन स्थाणुरेवोच्यते । संव प्रदेशान्तरे ब्रह्मप्रणीतां नाति प्रस्तुत्य 'ततस्ता भगवान्नीतिं पूर्व जग्राह शंकरः। बहुरूपो विशालाक्ष शिव. स्थाणुरुमापतिः।' इति तत्र तम्य दृष्टप्रयोगत्वात । ‘स देवः सर्वभूतात्मा महादेवस्सनातनः । असंख्यातं सहस्राणां रुद्राणां स्थानमव्ययम् । युगानामायुपो हासं विज्ञाय भगवान् शिव. । सञ्चिक्षेप नतश्शास्त्रं महार्थ ब्रह्मणा कृतम् । वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत ।। इति तत्प्रणीते नीतिशास्त्रे वैशालाक्षसमाख्याकी- तनाच । अत एव काळिदामेनापि कुमारसंभवकाव्ये 'ब्रह्मांगभूमणि ।
चन्द्रिकासहिता । , योजितात्मा' इति विशेषणेन ब्रह्मपुत्ररुद्रविषयतया व्यजिते ' या नः प्रीतिर्विशालाक्ष त्वदनुध्यानसंभवात् । सा किमावेद्यते तुभ्यमन्तरात्मा हि देहिनाम्' इति सप्तर्षीणां तं प्रति वचने 'विशालाक्ष' इति संबोधनं कृतम् । यत्र स्थाणुविशालाक्षनामनी न स्तः तत्रापि शिव- स्यापकर्षवचनेषु तमोगुणोपाधित्वसंहारकारित्वहरिविरिञ्चकोधललाट- संभवत्वादिप्वन्यतमं परमशिवव्यावृत्तं किञ्चिद्विशेषणं भवत्येव । यथा 'सत्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः पर. पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चहरेति सज्ञां श्रेयांसि तत्र खलु सत्त्वतनो- नृणां स्युः । एतौ द्वौ विवुधश्रेष्ठौ प्रसादक्रोधजौ मम । मया दर्शि- तपन्थानौ सृष्टिसंहारकारको' इत्यादिपु यत्र तदपि नास्ति तत्रापि विधातुर्विष्णोर्वा परमशिवादुत्कर्षस्यासंभवात् परैरपि त्रिमूर्युत्तीर्णस्य तस्याभ्युपगमेऽनभ्युपगमे च रुदनिकर्षवचनानां संहाररुद्रतदवतारा- दिविषयत्वम्यावश्यं वक्तव्यत्वात् 'वैष्णवेषु पुराणेषु योऽपकर्पस्तु दृश्यते । रुद्रस्यासौ हरस्यास्य विभूतेरेव केवलम्' इत्यादिपराशरपुराणा- दिवचनदर्शनाच्च तथैव व्यवस्थावसीयत इति भावः ॥ ३५ ॥ ननु ‘अग्नि देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता' इति ब्रहृचत्रामणे विप्णोत्सर्वोत्कृष्टत्वं देवतान्तराणां सर्वेपा- मपि तदपेक्षयापकृष्टत्वं चाहत्याम्नातमतस्तदनुसारेण वेदोपबृह्मणेषु पुराणभारतादिपु दृष्टान्यपि विष्णोरुत्कर्षवचनान्यसंकोचेन सर्वदेवतो- कर्पविषयाण्येव वर्णनीयानि न तु शिवं विहाय तदितरदेवतोत्कर्ष- विषयाणीत्याशंक्याह- अग्नेः प्राथम्यमेव ह्युदितमवम इत्यन्यवाक्यानुरोधा- द्विप्णोरप्येवमुक्तं परम इति गिरा देवतास्वन्तिमत्वम् ।
७० आनन्दलहरी . . यष्टव्याश्शंसनीया अपि स्खलु विदिता देवतास्साङ्गसोमे विष्ण्वन्ताश्चाग्निमुख्या इति कथयति कोऽप्यर्थवादस्तमर्थम् ।। अग्नेस्तावत्सर्वदेवतापकृष्टत्वमयुक्तम् । 'अनिर्मुखं प्रथमो देव- तानाम् ' ' अग्निरने प्रथमो देवतानाम् ' 'अग्निरेतु प्रथमो देवता- भ्यः' 'अग्निम्सर्वा देवताः ।' राजानौ वा एतौ देवतानां यदनी- पोमौ' : अग्निमुखा वै देवा.' इत्यादिश्रुतिभिः यथाभिर्देवतानां स्याह- तूनां कुसुमाकर ! द्विपदां ब्राह्मणः श्रेष्ठ' इत्यादिस्मृतिभिः 'हुताशन- पुरोगमा' इत्यादिविष्णुपुराणादिवचनैश्चानेरुत्कर्षप्रतीतेरतोऽग्निरवम' इत्यशे कांश्चिद्देवताविशेषान् प्रत्यमेवमत्वपरतया संकुचितार्थवाद- त्वस्यासदालम्बनार्थवादरूपत्वम्य वावश्यं वक्तव्यतया तत्समभिव्या- हृते 'विष्णुः परम' इत्यंशेऽपि तथात्वमेव वक्तुं युक्तम् । तत्र संकु- चितार्थत्वकल्पनाप्रकार इत्थम् । अवमपरमशब्दौ प्रथमोत्तमपरौ । 'सर्वा देवता' इति शव्दः प्रकरणबलात् सांगाग्निष्टोमे यष्टव्यसर्वदे- वतापर । अमिष्टामाङ्गम्तोत्रेषु शंसनीयसर्वदेवतापरो वा । सप्तसंस्थ- ज्योतिष्टोमाङ्गेषु शस्त्रेषु वा शंसनीयसकलदेवतापरः। तत्र सांडगेऽग्नि- प्टोमे प्रथमानुष्ठयायां दीक्षणीयेष्टौ अनाविप्ण्यन्तर्गतोऽग्निः प्रथमं यष्ट- व्यः । सर्वोत्तमाया उदवसानीयष्ट्या. म्थाने वैष्णवी पूर्णाहुति- वाजसनेयिभिराम्नाता । तम्यां विष्णुर्यष्टव्यः । तथामिष्टोमे द्वादशसु शस्त्रपु आज्यमस्त्रं प्रथमम् । तत्र · भूरग्निज्योति ' इत्यामिरानातः । अनिमा- रुतशस्त्रमुत्तमम् । तत्र 'विष्णोर्नु कम् ' इति विष्णुरानातः । सप्तसंस्थज्यो- तिष्टोमशनदेवतास्वप्युक्तरीत्यैवामे प्राथम्यम् । अन्तिमसंस्थायामप्तार्या- माख्यायामंतिम शस्त्र वैष्णवमिति विष्णोरुत्तमत्वम् । एवमयमर्थवादो यष्टन्यत्वेन शंसनीयवेन वैकम्मिन्नमिष्टोमसम्थे वा ज्योतिष्टोमे चा चन्द्रिकासहिता। संगतासुदेवताखनाविष्ण्वोः प्रथमोत्तमभावं ब्रवीति नतु सर्वदेवतापेक्षया निकोको । तथांगीकारे ‘अग्निरने प्रथमो देवतानाम् । संयाताना- मुत्तमो विष्णुरासीत् । यजमानाय परिगृह्य देवान् । दीक्षयेदं हवि- रागच्छतं नः' इति दीक्षणीयानुवाक्यामन्त्रोऽप्यैकार्थ्यं लभते। तस्माद- यमेवार्थोऽस्यार्थवादम्येति भावः ॥ ३६ ॥ ननु 'अग्नि देवानामवम' इत्यादिश्रुतेरुक्तरीत्या संकुचितार्थ- त्वस्यासदालंबनार्थवादत्वस्य वा कल्पनमयुक्तम् । अधिकरणविरोधात् । पूर्वतन्त्र हि प्रसंगाध्याये 'ग्रहणार्थञ्च पूर्वमिष्टेस्तदर्थत्वात् ' (जै० अ० १२) इत्यधिकरणे सोमांगभूतास्विप्टिप्वग्न्यन्वाधानं कार्य वेति संशये 'ममाग्नेर्वर्च' इति पूर्वममिं निगृह्णाति देवता एव पूर्वेचुर्ग- हीत्वा श्वो भूते यजत' इति प्रकृतौ तस्य देवतापरिग्रहार्थत्वोक्तेस्ता- स्वपि यक्ष्यमाणदेवतापरिग्रहार्थ तत्कर्त्तव्यमिति पूर्वपक्षं कृत्वा सिद्धा- न्तितम् 'आमावैष्णवमेकादशकपालमैन्द्रं दधि निर्वहीक्षिष्यमाणो- ऽग्निरवमो देवतानां विष्णुः परमो देवता एव तदुभयतः परिगृह्य दीक्षित' इति दीक्षणीयाया यक्ष्यमाणसकलदेवतापरिग्रहार्थत्व श्रवणा- तया कृतकार्यमग्न्यन्वाधानं न कार्यम् । न च 'दीक्षा सोमस्य' इति तस्याः प्रधानभूतसोमयागार्थत्वश्रवणात् सोमयागान्वितसकलदेवता- परिग्रहार्थेव सा न तु तदंगेष्टिदेवतापरिग्रहार्थापि । अत इष्टिषु देव- तापरिग्रहार्थमन्वाधानं कार्यमिति वाच्यम् । 'वैश्वदेवं गृह्णातीति' विहितविश्वेदेवोद्देश्यकमहसाध्यस्सोमयागाभ्यामः श्रुतिविदितयावत्कर्मा- न्वितसर्वदेवतोद्देश्यक न तु विश्वेदेवाख्यगणदेवतोद्देश्यकः तथामू- तगणदेवतासद्भाचे प्रमाणाभावेन विश्वेदेवगन्दम्य क्वचित् क्लप्तरू- दिरहितस्य यौगिकार्थताया एवोचितत्वात् । तथा च तस्मिन् सोम- , ७२ आनन्दलहरी यागाभ्यासे सर्वदेवतासमवायाचदर्थ सर्वदेवतापरिग्रहं कुर्वन्त्या दीक्ष- णीयाप्रसंगात्तदंगेष्टिदेवतापरिग्रहस्यापि सिद्धेस्तया कृतकार्यमन्वा- धानमिष्टिषु न कार्यमिति यदि ‘अग्नि देवानामवम' इत्यादिवाक्यं संकुचितार्थमसदर्थवादमात्र वा स्यात्तदा तदधिकरणविरोधः प्रायणी- यादिप्वप्यग्न्यन्वाधानानुष्ठानप्रसंगश्च म्यादित्याशंक्याह- दीक्षासंस्कारसिद्धिः खलु फलमुदितं दीक्षणीयाभिधेष्टे- रन्यार्थत्वान्न तस्याः फलमितरदुरीकर्तुमर्ह न यज्ञैः । यागवाद्यन्तयोः स्यात्कथमपि न परिग्राहको देवतानां तस्मात्तत्त्वार्थसिद्धय न भवति विदुपामीगर्थोऽर्थवादः ।। दीक्षणीया यक्ष्यमाणपुरुषगतदीक्षाख्यादृष्टसंस्कारार्था । 'आ- सावैष्णवमेकादशकपालं निर्बपेद्दीक्षिप्टरमाण' इति श्रुतौ 'तुमुन् ण्वुलौ क्रियार्थायाम् ।' (पा ३-३ १०) इत्यधिकारपठितेन 'लट्शेपे च' इति (पा ० ३-३-१३ ) सूत्रेण क्रियार्थायां क्रियायामुपपदे विहितल्ट आदेशभूतया शानच श्रुत्या तस्या दीक्षार्थत्वाभिधानात् । दीक्षणीयेति समाख्यायाश्च करणार्थविहितकृत्यप्रत्ययान्ततया तादा- वगमात् । अत एव पूर्वतन्त्रे ‘परेणावेदनात्' इत्यधिकरणे दीक्षणी- याया दीक्षासंस्कारार्थत्वं सिद्धं कृत्वा दीक्षणीयामात्रेण दीक्षासंम्कारो भवति उत दंडमेखलादिभिरपीति विशेषचिन्ता कृता । एवं श्रुति- समाख्यायामन्यार्थत्वेनावगतायाम्तम्याः नार्थवादावगतं देवतापरिम- हरूपं फलान्तर न्यायविद्भिरंगीकर्तु युक्तम् । अत एवेष्टिप्वन्वाधा- नम्यानीनामानुपूर्येण बलवदिन्धनाधानरूपस्य वस्तुसामर्थ्यलिंगे- नामिधारणे दृष्ट प्रयोजनमवगतमिति तेनैव नैराकांक्ष्यात् 'इमामूर्ज चन्द्रिकासहिता। ७३ । पञ्चदशी ये प्रविष्टास्तान्देवान्परिगृहामि पूर्वम् ' 'यो वैदेवताः पूर्व परि- गृह्णाति स येनाश्वो भूते यजत' इति मन्त्रार्थवादावगतं देवतापरिग्रह- रूपं फलान्तरं नोपेयते । एवं वस्तुसामर्थ्यरूपलिंगमात्रावगतफलपरि- ग्रहेण मन्त्रार्थवादप्रतीतफलपरित्यागे किमु वक्तव्यं श्रुतिसमाख्याभ्यां 'दीक्षामस्मै यजमानाय धत्तं दीक्षयेदं हविरागच्छतं न' इति दीक्ष- णीयेटियाज्यानुवाक्यामन्त्रलिंगाभ्यामप्यवगतम्य फलम्य सत्त्वेन ते- नैव नैराकांक्ष्यादिह मन्त्रार्थवादप्रतीतं फलान्तरं नोपेयमिति । किंच । आद्यन्तदेवतयोोगेन मध्यवर्तिदेवता न परिगृहीता भवेयुः । न हि- पारिभाषिकप्रत्याहारग्रहणन्यायोऽत्र प्रवर्तते । न वा यागः करिष्यमाण- यागोद्देश्यदेवतानिमन्त्रणात्मकस्तत्परिग्रहो भवति । न चान्वाधानस्येव स्वाङ्गमन्त्रद्वाराव यागस्य देवतापरिग्रहार्थत्वं कल्पयितुं शक्यम् । यज- मानाय परिगृह्य. देवान्' इति मन्त्रे अग्नाविष्णुकर्तृक एव हि देवता- परिग्रहः श्रुतः न यजमानकर्तृकः । देवतापरिग्रहम्याङ्गत्याङ्गीकारे च य- जमानकर्तृकस्यै(म्यैव) तम्याङ्गत्वमेष्टव्यम् । प्रकृतौ मन्त्रार्थवादाभ्यां तथा भूतस्यैव तस्याङ्गतायाः कल्पनीयत्वात् । यद्यपि प्रसङ्गसिद्धकार्येषु किश्चिद्वैगुण्यं न दोपः । तथापि कर्तृभेदे नाम्ति प्रसङ्गः । अत एव चातुर्मास्येषु वरुणप्रपासेषु अध्वर्युप्रतिप्रम्थातृभ्यामुत्तरदक्षिणविहार- कर्तव्ययोरिष्टयोः पत्नीसंयाजानां गार्हपत्यरूपाग्न्येकत्वेऽपि आध्वर्य- वेण तदनुष्ठानेन प्रतिप्रस्थातृकर्तृकायां मारुत्यामिष्टौ कर्तृभेदात्तेषां प्र- सङ्गतस्सिद्धिर्नाम्तीति मारुत्यर्थं प्रतिप्रस्थातृकर्तृकमपि तदनुष्ठानं व्य- वस्थापितं पूर्वतन्त्र । यद्यप्यग्नाविष्णुकर्तृकेणापि देवतापरिग्रहेण प्रस- ङ्गासिद्धकार्वतया यजमानकर्तृकदेवतापरिग्रहार्थमन्वाधानमनुष्ठातव्य- मिति समयंत तथापि येषु प्रायणीयोपंसदादिप्विष्टिपशुप्वग्निर्विष्णुर्वी . 10 ७४ आनन्दलहरी r देवता तेषु तत्परिग्रहार्थमन्वाधानमनुष्ठेयं स्यात् । ती हि मध्यवर्तिना देवतान्तराणामेव परिपाइको स्याता न तु खात्मनोरपि । तस्माद्दीक्ष- णीयाया देवतापरिग्रहार्थत्वार्थवादः तत्समानप्रकारान्वाधानार्थवादश्च न तत्वार्थसिध्यै प्रभवतीति न ताभ्यां कस्यचिदर्थस्य निर्णयो युक्तः । ग्रहणार्थश्च पूर्वम् (जै.) इत्यधिकरणं तु अभ्युपेत्यवादमात्रम् । धारणार्थत्वात् सोमेऽग्न्यन्वाधानं न विद्यत इति प्राचीनाधिकरणे हि सौमिकीविष्टिप्वन्वाधानं कर्तव्यभङ्गत्वादिति पूर्वपक्षं कृत्वा अ- न्वाधानस्यानिधारणार्थत्वात् सोमे सोमाथै विहृतस्याग्नेर्धारितम्य सत्त्वे- न प्रसङ्गसिद्धखकार्य तन्न कार्यमिति दृढन्यायोपन्यासेन तासन्वाधा- नाननुष्ठानं समर्थितमेव । तथाप्यविवक्षितार्थमन्वाधानार्थवादमवलंब्य यदि कश्चिदग्निधारणस्य सिद्धत्वेऽपि देवतापरिग्रहार्थ प्रतीष्टयन्वाधा- नमनुष्ठेयमिति चोदयेत्तं प्रति · अहृदयवाचामहृदया एवं प्रतिवाचो भवन्ति' इति न्यायेन तथाभूतमेव दीक्षणीयार्थवादमवलम्व्य समा- धान कार्यमिति न्यायव्युत्पादनार्थ तदधिकरणं प्रवर्तितम् । एवं तस्या- धिकरणम्याभ्युपेत्यवादत्वं मीमांसकैरपि दर्शितमेव । तस्मादुदाहृत- श्रुतिविरोधाभावात् विष्णूत्कर्षपरपुराणभारतादिवचनामां प्राग्वर्णितया रीत्या शिवातिरिक्तविषयत्वव्यवस्थापनं युज्यत एवेति भावः ॥ ३७ ।। श्रुत्यन्तरविरोधपरिहाराम्तु शिवतत्वविवेकादिषु अपश्चितात- त्रैवानुसन्धेयाः । ननु यदि विष्णो ब्रह्मकोटित्वमिप्यते तदा जीवत्वग- मकानां प्रागुदाहृतानां का गतिरित्याकांक्षायामाह- शक्त्यं सर्वतत्वात्मनि पर इति यद्भेदक तैत्तिरीय- श्रुत्यंशो वक्ति तेनाधिगमितमपरोऽप्यम्ति नारायणोऽन्यः ।
चन्द्रिकासहिता। सोऽयं जीवस्तिमृर्त्यन्तरगतपुरुपस्तत्कलाविष्टमूर्ति- दे॒धा संहाररुद्रो परमशिवकलावेशवन्तो स्मरन्ति ।। ३८ ॥ 'नारायणं परं ब्रह्म तत्वं नारायणः परः' इति श्रूयते । अ- स्वार्थः । पूर्वानुवाके दहरपुण्डरीकोपाम्यत्वेन प्रस्तुतं शिवाख्यं परं ब्रह्म नारायणापेक्षया परमुत्कृष्टम् । यस्मात्परो नारायणस्तत्वं शिवत- त्वादि भूम्यन्तसकलतत्वात्मको भवति । अतः उपादानस्य स्वतन्त्रक- र्तृकशिवेच्छाधीनतत्तदाकारपरिणामादिव्यापारवत्त्वात् मृदपेक्षया कुला- लस्येव नारायणापेक्षया शिवस्य परत्वं युक्तमिति । इदञ्चाग्रे शिवस्य नारायणोपास्यत्वं प्रतिपादयिष्यत इति तदुपपादकतयोक्तम् । अत्र जगदुपादाने नारायणे पर इति विशेषणादपरोऽपि कश्चन तदनुपा- दानभूतो नारायणोऽस्तीत्यवसीयते । स तु त्रिमूर्तिमध्यगतः पालना- धिकृतो जीव इति तद्विपयतया प्रागुदाहृतानां जीवत्वगमकानामुप- पत्तिः । तस्मिन्नेवावगतजीवभावे यत्पुराणादिषु परभाववर्णनं दृश्यते तत्सर्वस्मिन्परनारायणकलाविर्भावप्रयुक्तमिति तम्याप्युपपतिः । न च संहाररुद्र इव तस्मिन्नपि परब्रह्मणश्शिवस्याभिव्यक्तिविशेषात्परभाव- वर्णनमित्येवास्त्विति वाच्यम् । यतश्शिवसमाननामरूपवेषादिमति सं- हाररुद्रे शिवाभिव्यक्तिविशेषवत् परनारायणसमाननामादिमति त. स्मिन् तत्कलाविर्भावविशेषम्यवांगीकारो युक्तः। अत एव स्मरन्त्याश्व: लायनाचार्याः ‘सिसृक्षुरेक एवाग्रे समासीनश्शिवः स्वयम् । सृष्ट्वा गुणमयीं मायां सूत्ररूपामपाकरोत् । तया तदात्मकं विष्णुं सृष्ट्वा पालं दिवौकसाम् । स्वयं ब्रह्माभवद्रुद्रो रुद्रश्वास्य क्षयाय सः' इति । गु- णमयी त्रिगुणाभिमानिनी मायां स्वकीयां ज्ञानशक्तिं प्रळयदशा- यामविभक्तनया स्थिताम् । मूत्ररूपां जगदुपादानतावस्थापन्नां .
आनन्दलहरी अत्र कार्योन्मुखी सृष्ट्वा अपाकरीत् विभक्तावस्थामकरोत् । तया मायया कारणभूतया तदात्मकं विष्णुं म्वकीयज्ञानशक्तिरूपं नारायणं दिवौकसां पालं सकलकार्यनिर्वर्तनेन जगद्रक्षकं सृष्ट्वा स्वयमेव ब्रह्माभवत् अस्य प्रपञ्चस्य संहाररुद्रश्चाभवदित्यर्थः । शिवस्य ब्रह्मरुद्रात्मना भावस्तदन्तर्यामिरूपेण तयोरभिव्यक्तिविशेष एव विवक्षित इति तत्समभिव्याहारात् 'सृष्ट्वा पालं दिवौकसाम्' इत्यत्रापि परनारायणं पालनाधिकृतापरनारायणान्तर्यामिभावे व्यवस्था- प्येत्यर्थो ग्राह्यः । तस्माद्विप्णोर्जीवत्वगमकानामन्यविषयत्वाज्जगदुपा- दानस्य परनारायणस्य ब्रह्मकोटितायां न कश्चिद्विरोध इति भावः । एवमुदाहृतमन्त्रे परत्वविशेषणमिव 'बृहत्ते विष्णो सुमतिं भजामहे' 'नमो विष्णवे बृहते करोमि' इत्यादिमन्त्रेषु बृहत्त्वविशेषणमपि बृहदबृहत्तया विष्णुद्वैविध्ये प्रमाणमिति द्रष्टव्यम् ।। ३८ ॥ उदाहृतमन्त्रार्थोपवृक्षणं वराहपुराणे प्रपञ्चितमुदाहरति-- संकल्पादादिविष्णोस्समुपनतवपुस्तेन चानुप्रविष्टो विष्णुस्तइत्तलक्ष्मीमणिगरुडगदाशंखचक्रादियुक्तः । नाभीनाळीकदीव्यहिणकृतनुतिर्देवकार्याणि कर्ता वाराहाख्य पुराणे खलु समभिदधे तत्र शक्त्यंश आद्यः३९ वराहपुराणे एकत्रिंशाध्याये विष्णुद्वैविध्यं प्रतिपादितम् । • मनोनामकतत्वञ्च यदतत्परिपठ्यते । प्रयोजनवशाद्विष्णुरसावेव तु मूर्तिमान् । योऽसौ नारायणो देवः परात्परतरो विभुः । तस्य चिन्ता समुत्पन्ना सृष्टि प्रति नरोत्तम । सृष्टा चैव मया सृष्टिः पालनीया मयैव हि । कर्मकाण्डममूर्तेन कर्तु नैवेह शक्यते । तस्मा- न्मूर्ति मृजाम्येका यया पाल्यमिदं जगत् । एवञ्चिन्तयतम्तस्य सत्या- चन्द्रिकासहिता । भिध्यायिनो नृप । वाक्सृष्टं यन्मनो राजन्मूर्तिमत्तत्पुरो बभौ । पुराभूते ततस्तमिन्देवो नारायणः स्वयम् । प्रविशन्तं ददर्शाथ लैलोक्यं तस्य देहतः । ततम्सस्मार भगवान् वरदानं पुरात- नम् । वागादीनां ततस्तुष्टः प्रादात्तम्मै पुनर्वरम् । सर्वज्ञः सर्वक- र्ता त्वं सर्वलोकनमस्कृतः । त्रैलोक्यवशगश्च त्वं भव विष्णुः सनातनः । देवानां सर्वकार्यश्च कर्त्तव्यं ब्रह्मणम्तथा । सर्वज्ञत्वं च भवतु तव देव न संशयः । एवमुक्त्वा परो देवः प्रकृतिस्थो वभूव ह । विष्णुरप्य- धुना पूर्व बुद्धिं सम्मार च प्रभुः । तया सञ्चिन्त्य भगवान्योगनिद्रा महातपाः । तां समाम्थाय भगवानिन्द्रियार्थाद्भवप्रजाम् । ध्यात्वा- म्तरणरूपेण तत्र सुप्वाप वै विभु. । तम्य सुप्तस्य जठरात् महत् पञ विनिःसृतम् । सप्तद्वीपवती पृथ्वी ससमुद्रा सकानना । तम्य पद्मस्य विस्तारः पाताळं नाळसंज्ञितम् । कर्णिकायां तथा मेरुस्तन्मध्ये ब्रह्मणो भवः । एवं दृष्ट्वा परम्तम्य अपरम्याम्य संभवम् । मुमुदे त- च्छरीरस्थः स्वम्थो वाचञ्च सोऽमृजत । अविद्याविजयं चेमं शंखरू- पेण धारय । अज्ञानच्छेदनार्थाय खड्गम्तेऽस्तु सदा करे । कालचक्र- मिदं घोरं चक्रवद्धारयाच्युत । अधर्मराजघातार्थ गदा स्थापय केशव । भूपत्वमेतत्परमं यज्ञांग मुसलं तथा । माययं भूतमाला ते कण्ठे तिष्ठतु सर्वदा । श्रीवत्मकौस्तुभौ चेमी चन्द्रादित्यौ विधारय । मारु- तस्ते गतिौर गरुत्मान्स च कीर्तित । त्रैलोक्यगामिनी देवी लक्ष्मी- म्तेऽस्तु सदा प्रिया' इति । 'कर्मकाण्डममूर्तन कर्तुं नैवेह शक्यते' इत्यनेन पालनोपयुक्तमसुरवधादिकममूर्तेन कर्तुं न शक्यत इति पर- विष्णोश्चिन्तीपवर्णनातम्यापरमूतीवेव मन्निधानात प्राक् पृथक्व्यक्तम्- तिपरिग्रही नाम्तीत्यवमायने । अन एव वगहपुराणे नवमाध्यायऽपि ७८ मानन्दलहरी प्रथमं नारायणः प्रणवं तेनाकारादींश्च सृष्ट्वा तदनन्तरं मनस्तत्वाभि- मान्यपरविष्णुमूर्ति सृष्ट्वा तम्यां सन्निदध इत्यादि सृष्टिवृत्तान्त प्रतिपा- दितम् । शून्याँल्लोकानिमान्सृष्ट्वा सिसृक्षुर्मूर्तिमुत्तमाम् । क्षोभायत्वा मनो धाम तत्राकारं समाश्रितः ।' इति 'इन्द्रियार्थोद्भवप्रजाम् । ध्या- स्वास्तरणरूपेण' इत्यनेन शेषपर्यकसंकल्प उक्तः । भगवन्नक्षविषयाः कथं मूर्तिमुपागता । नागा बभूवुः कुटिला. एतदाख्यातुमर्हति' इत्या- दिना वराहपुराण एव नागानामिन्द्रियार्थमूर्तित्वस्योक्तत्वात् ।। ३९ ।। ननूदाहृतवराहपुराणवचनैः परापरविष्णद्वैविध्यमानं प्रतीयते। न तु परविष्णोश्शक्त्त्यंशत्वमित्याशंक्य वराहपुराणवचनान्तरेव तसिद्धिमाह- जीवेन्द्रताभिधानात्परमपदमिति व्याहृतेस्तस्य तत्र स्थाणुं शक्तेस्थितायाः परनरमहिमावेदनात्सर्वतोऽपि । वापायाच तस्या हरिकमलभवेशानमालगीते- इशक्तेरंशस्स तत्राभिमत इति वुधैर्ज्ञायते मूक्ष्मदृष्ट्या ।।४० ।। बराहपुराण एव प्रजापालनसत्यतपन्संपादनरूपोपाख्याने 'सर्वे देवास्सपितरो ब्रह्माण्डाः काण्डमध्यगाः । विष्णोम्सकाशादुत्पन्ना इतीय वैदिकी श्रुतिः' इति विष्णोर्ब्रह्मादिसकलदेवतास्रष्टत्वमुक्त्वा तदनन्तर- मेवमुपाख्यायेत 'जाठराग्निः प्राणापानी वाक् शरीरगतनानासुषिर- रूपमाकाशं शरीरधातवोऽहकारः शारीरज्योतिः कामक्रोधलोभमोहमद- मात्सर्यपैशुन्यासूयाष्टकरूप: कामादिगणो मोहजननी माया श्रोत्ररूपा दिशो वायुर्मनो धर्मो महत्तत्त्वं तन्मात्रा इति पञ्चदश देवता नारायण- . १ 'तन भूगदाच' हान-ख. पाठः ।
चन्द्रिकासहिता। । - सृष्टस्य हिरण्यगर्भस्य शरीरे संभूतास्तासु प्रत्येकं स्वानुप्रविष्टविष्णु- हिरण्यगर्भशरीरस्यावस्थानमहमेव प्रधानभूतेति परम्परं विवदमानाः स्वस्वप्राधान्यप्रकाशनार्थ मर्वा अपि क्रमेण शरीरान्निश्चक्रमुः । तासु निकान्तास्वपि तदानन्दरूपेण सोमायेन परमेश्वरेणाप्यायमानं शरीरं यथापूर्वमुत्थाय सञ्चरदवर्तिष्ट ततोऽन्यादयः पञ्चदशापि देवा लजिताः परित्यक्तस्वस्वप्रधान्याभिमानास्तम्याप्रसादात् पुनरपि शरीरे म्बस्वस्थानान्यमीप्सन्तः तमेव परमेश्वरं 'त्वमग्निम्त्वं तथा प्राणम्त्व- मपानम्सरस्वति' इत्यादिना सर्वात्मत्वेन स्तुत्वा · अस्माभिरपयातैस्तु कयमेतद्भविष्यति । इति मत्वा शरीरं तु त्यक्तमम्माभिरेव तु । तत्परं भवता देव तदवस्थं प्रपाल्यते । स्थानभंगो न नः कार्यः स्वयं सृष्ट्वा प्रजापते' इति प्रार्थयामासुः । ततः परितुष्टम्स देवो लीलार्थ भवन्त उत्पादिताश्शरीरधारणार्थमन्यार्थ वा नास्ति मे भवदपेक्षा । तथापि लीलार्थ भवतां मूर्तामूते द्वे रूपे प्रयच्छामि प्रोणिनां शरीरेप्वमूर्तेन रूपेण तिष्ठत मूर्तेन रूपेण तु देवलोकेप्वाधिकारिकरूपेण तिष्ठत तत्र 'अनिवैश्वानरः प्राणांपानावश्विनो वाक्पार्वत्याकारो विनायकश्शरीरधा- तवो नागा अहकारः म्कन्दः शारीरज्योतिरादित्यः कामादिगणो ब्राझी माहेश्वरी कौमारी वैष्णवी वाराही माहेन्द्री यमदण्डघरा योगेश्वरी' इति क्रमण ब्रशम्फन्दविष्णुवराहेन्द्रयममृष्टाम्सप्त शिवफोधसमुद्भूतमुख- ज्वालात्मिका योगेश्वरी चेत्येवंभूतो मातृगणशरीरमाया दुर्गा दिगो दशकन्याः प्राच्यादिरूपाः वायुः कुबेरो मनो विष्णुधर्मो यमो महत्तत्वं रुदः तन्मात्राः पितर इत्येवं देवविशेषा भविष्य अहं तु सोमो भूत्वा सर्वान्भवतो रक्षामीत्यवमुवानेति तदनन्तरं देवैरियममिष्टुतो वरदाता प्रागाना'नि-ग. पटः । .
८० आनन्दलहरी । क्षेत्रज्ञो विष्णुरित्युपसंहृतम् । एवं वेदान्तपुरुषः प्रोक्तो नारायणा- स्मक. । शरीरदेवता. सर्वाम्तम्य स्तुतिपराभवन् । एवंप्रभावो देवो- इसौ वेदवेद्यो जनार्दनः। कथितो नृपते तुभ्यं किमन्यत् श्रोतुमिच्छसि' इति । तदनन्तरं कथममेम्समुत्पत्तिरश्विनोर्वा महामुने । गौर्या गण- पतेर्वापि नागानां पण्मुखम्य च । आदित्यम्य च मातॄणां दुर्गाया वा दिशां तथा । धनदम्य च विष्णोश्च धर्मम्य परमेष्ठिनः । शंभोर्वाथ पितॄणां वा तथा चन्द्रमसो मुने । शरीरदेवता ह्येताः कथम्मूर्तत्व- मागताः ।' इति प्रजापालपृष्टेन सत्यतपसा न्यादिपित्रन्तानामुत्प- त्तिप्रकारं दर्शादिप्रतिपदन्ततिथिपूज्यत्वञ्चोक्त्वा आदिसौत्पन्नस्य सो- मस्य सप्तविंशतिदक्षकन्यापरिणेतु केवलरोहिण्यासक्तच्या कुपितम्य दक्षस्य शापात् क्षयव्याधिना मृतस्य क्षीरोदमथनेन पुनर्जननमु. क्त्वा ' तस्मिंस्तु मथिते जातः पुनम्सोमो महीपते । योऽसौ क्षेत्रज्ञसंज्ञो वै देहेऽस्मिन्पुरुप पर. । स एव सोमो मन्तव्यो देहिनां जीवसंज्ञितः । परेच्छया स मूर्ति तु पृथक् सौम्यां प्रपेदिवान् । तमेव देवा मनुजा- प्पोडशेमाश्च देवता' । उपजीवन्ति वृक्षाश्च तथैवोषधयश्शुभाः । रुद्रस्तम्यैव शकल दधार शिरसा तदा । तदात्मिका भवन्त्यापो विश्व- मूर्तिरत. स्मृतः । तम्य ब्रह्मा ददौ प्रीत. पौर्णमासी तिथिं विभुः ॥' इति तस्य देहिनां देहे जीवरूपत्व पौर्णमासीपूज्यत्वञ्चोक्तम् । अत्र यद्यपि यस्य सकलकारणत्वेन प्रतिज्ञातस्य नारायणस्य महिम- ख्यापनार्थमिदमुपाख्यानमुपक्रान्तम् । तम्य तत्रोपाख्यानवर्णितेन प्र- तिशरीरं व्यवस्थितन जीवसामान्यरूपेण जीवविशेषात्मकेन सोम- रूपेण वाग्न्यादिसकलदेवतालहत्वं तदुत्कृष्टत्वं तैम्सर्वैरपि स्तुत्यत्वं तेभ्यो वरप्रदातृत्वं सोममण्डलमधिष्टाय तत्पालयतृत्वं भूतकाये- चन्द्रिकासहिता। , प्वमूर्तेन देवलोकेषु मूर्तिमान् । तिष्ठध्वं मयि कालान्ते विलयश्चापि नामृतम्' इति तेषां कालान्तरे खस्मिन् लयवचनमित्यादि संगच्छते। न च तत्र श्रुता जीवक्षेत्रज्ञसोमशब्दाः परमपुरुषपरा एव सन्त्विति वाच्यम् । तेषां संज्ञारूपेण जीवसामान्य जीवविशेषे च प्रसिद्ध- तराणां क्लेशेनान्यत्र नयनायोगात्। 'योऽसौ क्षेत्रज्ञसंज्ञो वै देहेऽस्मिन् पुरुषः पर' इत्यादिश्लोके 'क्षेत्रज्ञसंज्ञित' इति ‘जीवसंज्ञित' इति च शब्दाभ्यां यत्र क्षेत्रज्ञजीवशब्दयोः संज्ञारूपेण प्रवृत्तिः तयोरेव प्रतीतेः सोमस्य दक्षशापप्रयुक्तव्याधिमरणोक्तेश्च । तथापि तस्य परम- पुरुषस्य जीवसामान्यरूपेण सर्वेषां देहिनां देहेषु स्थितस्य जीवविशे- पात्मना प्रकृतसोममूर्ती स्थितस्य च स्वरूपेण परिगणितदेवतासष्मृत्वा- दिकं संभवतीति न तदन्वये काचिदनुपपत्तिः । 'योऽसौ क्षेत्रज्ञ- संज्ञो वै' इत्यादिश्लोकार्थस्त्वयम्-~~-योऽसौ प्राक् जगत्कारणत्वेनो- पक्रान्तः परमपुरुषो विष्णुर्जीवक्षेत्रज्ञसंज्ञितो जीवसामान्यरूपेण देहिनां देहेषु वर्तते स एव सोमाख्यजीवविशेषरूपेणापि वर्तते स परमपुरुषः परेच्छया परमशिवस्येच्छया पृथक् केनचिद्रूपेण पृथग्भूतस्सन् सौम्यां सोमान्यजीवविशेषसंबंधिनी मूर्ति प्रपेदि. वान्, देवमनुप्यादयोऽग्न्यादिसोमान्ताः षोडश शरीरदेवताश्च तमेव सोममूर्त्यनुपविष्टं परमपुरुषमुपजीवन्ति न तु सोममण्डलाभिमानिनं जीवविशेषम् । रुद्रस्तस्यैव सोममण्डलानुपविष्टस्य कलाश्चिद्रूपां चूडा- मणिरूपेण शिरसा दधार । आपस्सुघामय्यश्चन्द्रमण्डलात् सवन्त्योऽ- न्याश्चापस्तदात्मिकाः प्रकृतपरमपुरुषस्वरूपाः । अत 'आपो वा इदं सर्वम्' इत्यादिश्रुतो सवोत्मत्वेन श्रुतानामपां तद्रूपत्वादयं परमपुरुषो विष्णुर्विश्वमूर्तिरिति । यद्यपि 'योऽसौ क्षेत्रज्ञसंज्ञित' इत्यादिश्लोका दिर- ८२ आनन्दलहरी . . एयगर्भविपया इत्यपि प्रतिभाति । तत्र परिगणितदेवतास्रष्मृत्वादिसंभवात् म्वशरीरोगतानामधिकारनिवृत्तौ स्वशरीरे लयस्याप्युपपत्तेः स्थानभंगो न नः कार्यः स्वयं सृष्ट्वा प्रजापत ' इति तत्संबोधनस्य गजवक्रोत्पत्त्य- ध्याये ‘यच्चोक्तं ब्रह्मणा पूर्व सशरीराशरीरता' इति मूर्तामूर्तरूपवरद्वयस्य ब्रह्मदत्तत्वोक्तेश्च सामञ्जस्याच्च । तथापि सर्वे देवास्सपितर' इति विष्णुमाहात्म्यवर्णनं प्रस्तुत्योपक्रान्तस्योपाख्यानस्य हिरण्यगर्भमाहा- म्यवर्णनपरत्वे तदेवोपाख्यानमकाण्डताण्डवं स्यात् । 'एवं वेदान्तपु- • रुषः प्रोक्तो नारायणात्मकः । शरीरदेवतास्सर्वास्तस्य स्तुतिपराभवन् ।' इति तदुपसंहारोऽप्यसमजसः स्यात् । अतस्सोममूर्राविव हिरण्यग- र्भमूर्तावनुप्रविष्टस्य विष्णोर्महिमवर्णनपरमिदमुपाख्यानमित्येव संगम- यितव्यम् । एवं जीवेन्द्रत्वाभिधानाद्धेतोस्तावद्विष्णुः परस्याश्शक्तरं- शोऽभिमत इति ज्ञायते । चिच्छक्तिरेव जीवसामन्यरूपेण वर्तत इति ‘सोऽकामयत बहु स्यां प्रजायेय' इत्यादिश्रुतिखारस्येन कूर्म- पुराणादिदृष्टतदुपबृह्मणवचनजातेन चावगतम् । तदुभयार्थतत्त्ववि- द्विश्श्रीकण्ठाचार्यैरपि भाप्ये तस्यास्समम्तचिदचित्प्रपञ्चाकारत्वं बहुषु प्रदेशेषूपन्यस्तम् । तथा सोममूर्ती चिच्छक्तिस्सन्निधत्त इति 'अहममिशिरोनिष्ठः त्वं सोमशिरसि स्थिता । अमीषोमात्मकं विश्व- मावाभ्यां समधिष्ठितम्' इत्युमा प्रति शिववचनेनान्यैश्चैतादृशैश्शिव- पुराणादिवचनैरवगतम् । उमा शिवस्य ज्ञानशक्तिरेव न ततोऽन्ये- त्युमायास्सोममूर्ती सन्निधानोक्तिश्चिच्छ क्तरेव सदुक्तिः । तथा हि- वराहपुराण एव विनायकोत्पत्त्यध्याये आकाशदेवतायाः विनायका- स्मनोत्पत्तौ कारणगणनप्रस्ताचे वचनम् 'ज्ञानशक्तिमुमां दृष्ट्वा यदृष्टं 'जीवाविपत्वाभिधानात्' इति ग पाठः । , १.
चन्द्रिकासहिता। - व्योम शंभुना । यच्चोक्ता ब्रह्मणा पूर्व सशरीराशरीरता' इति । तम्मिन्नेव त्रिशक्तिमाहात्म्यप्रकरणे वचनम् एषा त्रिशक्तिरुद्दिष्टा न- यसिद्धान्तगामिनी । एपा ज्ञानात्मिका शक्तिम्सर्ववेदान्तगामिनी ।' इति । एपा गैवी परा शक्तिर्नयसिद्धान्तास्ये शिवशाम्ने प्रतिपाद्यमा- ना सती सृष्टिपालनसंहारोपकरणतया ब्रामो वैष्णवी रौद्रीति वि. यात्रिशक्तिरिति व्यपदिष्टा । एपेव सर्वेषु वेदान्तेषु प्रतिपाद्यमाना सती तेषु ज्ञानशक्तिरिति व्यपदिष्टेत्यर्थः । यद्यपि ब्रह्मविष्णुरुद्राणां परम्परनिरीक्षणादाविर्भूतत्वेनोक्तपा त्रिशक्तिरुमारूपत्वेन पूर्व नोक्ता. तथापि प्रकरणम्योपक्रमानुसारेण शिवमाहात्म्यविषयत्वान् ‘य इमं शृणुयात्सर्ग त्रिशक्त्याः परमं शिवम् । सर्वपापविनिमुक्तः परं निवा- णमाप्नुयात् । यश्चैनं शृणुयाद्भक्त्या नवम्यां नियतः स्थितः । स राज्य. मतुलं लभ्या भयेभ्यश्च प्रमुच्यते । यम्यतलिखितं गेहे सदा तिष्ठति धारणे । न तम्यामिभयं घोरं मर्पचारादिजं भवेत् । यश्चैतत्पूजय- द्भवत्या पूजने स्थापितं युधः। तेन यष्टं भवेत्सर्व लोक्यं सनरानरम् । जायन्ते पनवः पुत्राः धनधान्यादयः मियः । रमान्यश्वा गजा भृत्या प्रामाधागु भवरपुन । यम्यद निष्ठने गहे नम्य ममिदं भवेत् ।। इति मिशवरयुत्पतिथयणादिफलकीननानन्तरम् 'एतदेवरहर्म्य ते कीनि भूतभागिन्द्रम्ग मन मादाम्यं समले कीर्तिनं मया॥' इनि হিষমারাশঙ্কাননবায সমান সাল না- सानु नागुन्हा दा भिटा व्यवन्धिनाः । या गैद्री तामी जिम्मा मामुन्हा मीनिंना अष्टादम नया फोटयों मन्या भेद अपने । या मागु गजमी शान्तिः पानिनी और यम्मी ! या प्रमानि गत्लन्या मानना निता । अनि माययम्यायान्नाभदायाला ।
आनन्दलहरी . . 'एतेषु सर्वभेदेषु पृथगकैकशो धरे। सर्वासां भगवान् रुदः सर्वगत्वा- पतिर्भवेत् । यावन्त्यस्या महाशक्त्यास्तावद्रूपाणि शंकरः | कृतवां- स्तास्तु भजते पतिरूपेण सर्वदा । यश्चाराधयते तास्तु तस्य रुद्रेऽतितो- पिते । सिध्यन्ति तास्सदा देव्यो मन्त्रिण्यो नात्र संशयः ।।' इति सर्वस्यापि त्रिशक्तिप्रपञ्चस्य शिवपतित्वाभिधानाच उमारूपैव सा विवक्षितावसीयते । 'नयसिद्धान्तगामिनी' इति नयसिद्धान्ताख्याशिव- शास्त्रप्रतिपादितत्वोक्त्या च तथावसीयते । एवम् 'अथवा ज्ञानश- क्तिस्सा महिषोऽज्ञानशक्तिमान् । अज्ञानं ज्ञानसाध्यश्च भवतीति न संशयः ।।' इति महिषासुरमर्दिनी त्रिशक्त्यन्तर्गतशक्ति ज्ञानशक्ति- रिति प्रतिपादयदपि वराहपुराणवचनमुमायास्तथात्वे प्रमाणम् । वराह- पुराण एव 'परमात्मा यथा देव एक एव त्रिधा स्मृतः । प्रयोजन- वशाच्छक्तिरेकैव त्रिविधाभवत् ।' इति ‘सर्वगेयं वरारोहा एकैव त्रिविधा स्थिता।' इति च परशक्तरुमाया एव त्रिशक्तिरूपत्ववर्णनात् । तस्मात् साधूक्तं सोममूर्ती सन्निधानं शिवचिच्छक्तेः प्रसिद्धमिति । तथा तस्या एवांशभेदं चूडामणिरूपेण शिवो धत्त इति 'ज्ञानचन्द्रक- लाचूडं दशदिग्बाहुमण्डलम्।' इत्यादिभिश्शिवागमगतशिवध्यानप्रकर- णपठितवचनैः प्रसिद्धम् । वराहपुराणेऽपि भवान् पुमान् शक्तिरिय गिरेस्सुता स्वबोधरूपा भगवंस्तथा त्वयि । त्रिशूलरूपेण गुणत्रयं कर स्थितं त्रिनेत्रेषु महाग्मयस्त्रयः । जटास्वरूपेण समस्तसागराः कुलाच- लाम्सिधुवहाश्च सर्वशः । शशी परिज्ञानमिदं तव स्थितं न देव पश्यन्ति कुदृष्टयो जनाः ॥' इति सेनान्यर्थ शिवं स्तुवतां देवानां वचनेन तथावगतम् । तथापत्वश्रवणादपि विष्णोश्शक्त्यभेदोऽवग- म्यते । तथाहि 'आपो वा इदं सर्व विश्वाभूतान्यापः प्राणा वा आपः ..
चन्द्रिकासहिता। पशव आपोऽन्नमापोऽमृतमापस्सम्राडापो विराडापश्छन्दास्यापोज्यो- ती ५ प्यापो यजू प्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवरापः ।' आपो वा इदमन आसुः । तास्सत्यमसृजन्त' इत्यादिप्वपां सर्वात्म- त्वसर्वकारणत्वादिमहिमा श्रूयमाणः तासां स्वतोऽसंभवन्नेवभूतमहिम- युक्तस्य शिवस्य सर्वशक्तेर्वा कस्य चित् ब्रह्मांशस्य तासु सन्निधान- विशेषं सामान्यतो गमयति । कम्य तासु स्वसन्निधानविशेष इत्याकां- क्षायाम् ‘इयमेव सा या प्रथमा व्यौच्छत्' इति देवीसूक्ते देव्याश्शक्तरं- शविशेषाणामपि कृत्यविशेषप्रपञ्चनपरे श्रूयते- 'अपामेका महिमानं विभर्ति' इति । काचन परस्याश्शक्रंशभूता देव्यप्सु सन्निहिता सती तासां 'आपो वा इद सर्वे' इत्यादिश्रुतिप्रसिद्धं महिमानं पुप्य- तीत्यर्थः। एवं शक्तिधर्मत्वेनावगतमप्सु सन्निधानविशेषरूपमत्रूपत्वमिह विष्णोश्रूयते । तथा विष्णौ परमपदमिति व्यवहारो वराहपुराणे त्रिमूर्तिगुणविभागप्रकरणे दृश्यते- 'यत्सत्त्वं स हरिवो यो हरिस्त- त्परं पदम् । ये सत्त्वरजसी ते तु ब्रह्मा कमलसंभव' इति । शक्तिरेव परमं पदं तदभेदान्नारायणोऽपीति हि प्राक् कूर्मपुराणवचन- मुदाहृतम् । तथा वराहपुराणे शिवाश्रितायाश्चिच्छक्तेः परभावा- दिवृत्रासुरसंहारप्रकरणे त्रिशक्तिमाहात्म्यप्रकरणेऽन्यत्रापि तत्रतत्र सर्वकारणत्वादिरूपो बहुधा प्रपञ्चितः । गौरीविवाहप्रकरणेऽपि परशक्तिरूपतयैव गौर्या महामहिमा वर्णितः-'इतीरितेयं तव राज- सत्तम प्रसूतिरेपा न विदुम्तु यां मुराः । सा कारणं पत्मजदक्षशैलत- स्त्रिजन्मभिस्संगमिता स्वमायया।' इति । प्रसूतिः 'यतः प्रसूता जगतः प्रसूती' इति श्रुतिप्रसिद्धा पराशक्तिः । तद्रूपा गौरी स्वयं जगत्कार- णभूतापि स्वकीयमायया पत्मसंभवात् दक्षपतेहिमवतश्च जन्मत्रयेण .
आनन्दलहरी संयोजिता स्वयं वस्तुतो जन्मरहितापि परमोहिन्या स्वमायया ततस्ततो जन्मवती स्वां दर्शितवतीत्यर्थः । प्रथमं चतुर्मुखसकाशा- द्वाग्रूपा देवी गौरीनाम्ना संभूता सा तेन रुद्राय दत्ता । रुद्रे चिरं जले निमज्य तपश्चरति ब्रह्मणा सा स्वांगे संयोजिता सैव दक्षाद्धिमवत- श्वाविर्भूतेति वराहपुराणे कथा । तदनुसारेण जन्मत्रयोक्तिः । तथा वामूपायाः परशकेस्सकाशाद्विप्णोस्ततश्चतुर्मुखस्य ततो रुद्रस्य चोत्प- त्तिसंसूचनेन तम्यास्सर्वमातृत्वं वराहपुराणे प्रख्यापितम् । प्रियव्रतना- रदसंवादे 'आश्चर्यमेतदृष्टं मे तच्छृणुष्व प्रियव्रत । श्वस्तनेऽहनि राजेन्द्र श्वेताख्यं गतवानहम् । द्वीपं तत्र सरो दृष्टमुरुपंकजसंकुलम् । सरस- स्तस्य तीरे तु कुमारी पृथुलोचनाम् । दृष्ट्वाहं विस्मयापन्नस्तां कन्या- मायतेक्षणाम् । कासि भद्रे कथञ्चासि किं वा कार्यमिह त्वया । कर्त- व्यं चारुसागि तन्ममाचक्ष्व शोभने । एवमुक्ता मया सा हि मां दृष्ट्वा- निमिपेक्षणा । स्मित्वा तूप्णी स्थिता यावत् तावन्मे ज्ञानमुत्तमम् । विस्मृतं सर्ववेदाश्च सर्वशास्त्राणि चैव हि । योगशास्त्राणि शीक्षा च वेदानां स्मृतयम्तथा । सबै दृशैव मे राजन् कुमार्यापहृतं क्षणात् । ततोऽहं विस्मयाविष्टश्चिन्ताशोकसमन्वितः । तामेव शरणं गत्वा यावत् पश्यामि पार्थिव । तावदिव्यः पुमांस्त- म्याश्शरीरे समदृश्यत । तस्यापि पुंसो हृदये अपरस्तस्य चोरसि । अन्यो रक्तेक्षणश्रीमान् द्वादशादित्यसन्निभः । एवं दृष्टा मया पूर्व त्रयः कन्याशरीरगाः । क्षणेन तावत्कन्यैका न तान्पश्यामि सूनृतान् । ततः पृष्टा मया देवी सुकुमारी कथं मम । वेदा नष्टा ममाचक्ष्व भद्रे प्रब्रूहि कारणम् । कन्या। माताहं सर्ववेदानां सावित्री नाम नामतः । मां न जानाति येन त्वं ततो वेदा हृता मया । एवमुक्ते मया राज- चन्द्रिकासहिता। विस्मयेन तपोधना । पृष्टा क एते पुरुषाः एतान् कथय शोभने । कन्या। य एव मच्छरीरस्थाम्सोगैश्चारुलोचनाः । एष ऋग्वेदनामा तु देवो नारायणः स्वयम् । वहिभूतो दहत्याशु पापमुच्चारणादनु । एतस्य हृदये योऽयं दृष्ट आसीन्ममात्मजः । स यजुर्ब्रह्मरूपेण वायु- वदुनुते मलान् । तस्याप्युरसि संविष्टो य एपोऽत्यन्तमुज्वलः | स सामवेदनामा तु रुद्ररूपी व्यवस्थितः । एप आदित्यवत्पापं नुदते ध्वान्तवत्सदा । एते त्रयोऽग्नयो ब्रह्मन्नते देवास्त्रयः स्मृताः । एते वर्णा अकाराद्याः सवनान्यत्र वै द्विज । एतत्सर्व समासेन कथितं ते द्विजोत्तम । गृहाण वेदान् शास्त्राणि सर्वज्ञत्वञ्च नारद ॥' इति । अत्र 'परो नारायणो देवस्तस्माजातश्चतुर्मुखः । तस्माद्द्रोड- भवद्देवि स च सर्वज्ञतां गतः ॥' इत्यादिषु बहुषु प्रदेशेषु स्रष्ट्रसृज्य- भावेनोक्तानां नारायणचतुर्मुखरुद्राणां पूर्वपूर्वस्यांगे उत्तरोत्तरस्य दर्शनोक्त्या तत्प्रायपाठात् सावित्र्यंगे दृष्टस्य नारायणस्य तया सृष्ट- त्वमभिमतमित्युन्नीयते । अत एव 'माताहं सर्ववेदानाम्' इति नारदं प्रति तदुक्तिदृश्यते । ननु तत्र बहुधा सर्वोत्तरत्वेन प्रतिपादितस्य नारायणम्य कथमन्यसृष्टत्वमभिमतमिति कल्पयितुं शक्यमिति चेदु- च्यते । तत्र त्रिमूर्तिमध्ये तम्य परत्वं निर्धारितम् । न तु सर्वात्मना सर्वोत्तरत्वम् । 'परमात्मा शिवः पुण्य इति केचिद्भवं विदुः । अपरे हरिमीशानमन्ये केचिच्चतुर्मुखम् । एतेषां कतमो देवः परमः कोऽथ वापरः। एतदेव ममाचक्ष्व परं कौतूहलं हि मे।' इति धरणीप्रश्न परो नारायणो देव' इत्याद्युत्तरमुक्तम् । एवम् 'आद्यो नारायणो देवस्त- म्मामा ततोऽभवत् । भवः स्वायंभुवश्चान्ये मरीच्याद्याश्च सर्वशः॥' इत्यादिप्रदेशान्तरेप्वपि त्रिमूर्तिमध्य एव परत्वं निर्धारितम् । तदपि ८८ आनन्दलहरी . कचिद्ब्रह्मा कचिद्विष्णुः कचिद्रुद्रः प्रशस्यते । नानेन तेषामाधिक्यं न्यूनत्वं वा कथंचन । तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः । तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति ॥' इति शिवपुरणोक्त- रीत्या कादाचित्कमेव त्रिमूर्तिमध्ये विष्णोः परत्वम् । वैष्णवपुराण- त्वात् 'परो नारयणो देव' इत्यादिप्रदेशेषु सार्वकालिकमिव विभावितम् । अत एव तस्मिन्नेव पुराणे 'भवान् ब्रह्मा च विष्णुश्च त्रयमेपो लयी स्मृता । वेदामिद्विजसंयोगवशास्त्रेषु सर्वगाः । कस्मिन्प्रधानो भगवान् काले कस्मिन्नधोक्षजः । ब्रह्मा वा सर्वमाच- क्ष्व मम देव त्रिलोचन' इति रुद्रं प्रत्यगस्त्येन त्रयाणामन्योन्याधिक्यं वरगोष्ठीन्यायेन कादाचित्कमिति सामान्यतो निश्चित्यैव तत्तदाधि- क्यकालविशेषप्रश्नः कृतः । यद्यपि तदुत्तरे 'विष्णुरेव परं ब्रह्म' इति विष्णोम्सार्वकालिकाधिक्येनोपक्रान्तम् । तथापि तदनन्तरं 'मनुष्य- भावमाश्रित्य स मां स्तौति युगे युगे। लोकमार्गप्रवृत्त्यर्थ देवकार्यार्थसि- द्धये । अहञ्च वरदस्तस्य द्वापरे द्वापरे द्विज | अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे । सृष्टिकाले चतुर्वक्त्रं स्तौमि बालो भवामि च। ब्रह्मा देवासुरैः स्तौति मां सदा तु कृते युगे । लिंगमूर्तिञ्च मां देवा यजते भोगकांक्षिणः।' इति कादाचित्काधिक्योपन्यासेन फलतस्साम्यमेवावि- प्कृतम् । अत एव तस्मिन् पुराणे त्रिमूर्तिसाम्यमेव बहुधा प्रपञ्चितम् । यथा तावत् सौभाग्यव्रताध्याये ‘या श्रीम्सा गिरिजा प्रोक्ता यो हरिस्स त्रिलोचनः । एवं सर्वेषु शास्त्रेषु पुराणेषु च पठ्यते । एतस्मा- दन्यथा यत्तु ब्रूते शास्त्रं पृथग्विधम् । तद्राजसानां मानां काव्यं शास्त्रं न तद्भवेत् । विष्णुरुद्रान्तरं ब्रूयाद्यः श्रीगौर्योश्च पार्थिव । तन्ना. स्तिकानां मानां काव्यं ज्ञेयं विचक्षणः । इति । नन्वस्तु नारायणस्य .
चन्द्रिकासहिता । त्रिमूर्तिमध्ये नियतं परत्वं त्रयाणां फलतम्साम्यं वा तथापि नाराय- णात्परं वस्तु तस्यापि स्रष्ट्र किञ्चिदस्तीति वराहपुराणाभिप्रायः कल्प- यितुमयुक्तः । 'परमात्मा शिवः पुण्य' इत्यादिधरणीप्रश्ने 'एतेषां कतमो देवः परः को वाथवापरः।' इति त्रयाणां मध्ये कः पर इति प्रश्नानन्तरम् अथवैतद्वयतिरिक्तः कश्चित् परोऽस्ति चेत् स को वेत्यपि पृष्टे परो नारायणो दव' इत्युत्तरस्य प्रवृत्तत्वेन ततस्तस्मात् परो नास्तीत्यस्यार्थस्यावगतत्वादिति चेन्न । तदनन्तरं स च सर्वज्ञतां गत' इति रुद्रं प्रस्तुत्य ‘तम्याश्चर्याण्यनेकानि विविधानि धराधरे । शृणु सर्वाणि चावगि कथ्यमानानि गोभने ।' इति तन्माहात्म्यवर्णनं प्रस्तुत्य तन्माहात्म्यपर्यवसायिनि त्रिशक्तिवर्णनप्रकरणे ‘परमात्मा यथा देव एक एव त्रिधा स्थितः । प्रयोजनवशाच्छक्तिरेकैव त्रिवि- धाभवत् ॥' इति · सर्वगेयं वरारोहा एकैव त्रिविधा स्थिता।' इति च त्रिशक्तिमूलभूतायाः परस्याश्शक्तेः तस्याः पत्युः परमात्मनश्च 'या- वन्त्यस्या महाशक्त्यास्तावद्रूपाणि शंकरः । कृतवांस्ताश्च भजते पति- रूपेण सर्वदा ।।' इति अग्रेऽपि म्फुटीकृतम्य तम्मिन्नपि पुराणे अभि- मतत्त्वावगमात् । ननु परमात्मा शिव. पुण्य' इत्यादिना सर्वतः परतत्वं किमिति पृष्टवती धरणी प्रति 'परो नारायणो देव' इति नारायण एव सर्वतः परतत्वमित्युपदिष्टवता वराहरूपिणा भगवता नारायणस्यैव माहात्म्ये प्रपञ्चनीये तदपहाय तदुत्पन्नचतुर्मुखोत्पन्नतया प्रतिपादितम्य तत एवाभित्र्यमिततदवरावरभावस्य रुद्रम्य माहात्म्य- मपृष्टमेव कया संगत्या ‘तम्याश्चर्याण्यनेकानि' इत्यारभ्य प्रपञ्चित- मिति चेदुच्यते । तत्र धरणीवराहप्रश्नोत्तरयोर्नारायणस्य परत्वनिर्णया- र्थत्वे यत सप्तभिरध्यायः क्रियमाणमिदं रुद्रमाहात्म्यप्रपञ्चनं न संग- 12 आनन्दलहरी च्छते । अतो रुद्रस्य परत्वनिर्णयार्थमित्येव मन्यामहे । अत एव सप्तमाध्यायान्ते 'रुद्रस्य खलु माहात्म्यं सकलं कीर्तितं मया।' इति धरणीप्रश्नमारभ्य सर्वस्याप्यस्य प्रकरणस्य रुद्रमाहात्म्यपरत्वमुक्तम् । अनन्तरमपि 'अथ रुद्रव्रतोत्पत्ति प्रवक्ष्यामि धराधरे । येन ज्ञातेन पापेभ्यो मुच्यते भुवि मानवः ।' इत्यारभ्य रुद्रचरितोपन्यासपूर्वकं रुद्रव्रतोत्पत्तिमुक्त्वा 'मां पुरस्कृत्य देवास्त्वां यक्ष्यन्ते विधिनाच्युत । शास्त्राणि तानि सर्वेषां कथयिप्यसि सुव्रत ॥' इति चतुर्मुखवचनेन रुद्रानुष्टि तत्रतप्रकारेण तस्य चतुर्मुखादिसकलदेवताराध्यत्वमुक्त्वा रुद्र- माहात्म्यप्रकरणं समापितम् । एवं सति 'परो नारायणो देवस्तस्मा- जातश्चतुर्मुखः । तस्माद्बद्रोऽभवद्देवि' इति परावरभावक्रमकीर्तनं कथ- मुपपादनीयमिति चेदुच्यते । अजदशरथश्रीरामचन्द्राणामिव जन्मतः परावरभावकीर्तनं न तु वस्तुत इत्युपपादनीयम् । अत एव रुद्रमा- हात्म्यप्रकरणरूपनवमाध्यायान्ते 'शतरुद्रस्य माहात्म्यं मया ते परि- कीर्तितम् । चरितं यख देवम्य व्रतं समभवद्भुवि । कोऽन्यस्त्वभ्यधि- कम्तस्मान्मुक्त्वा नारायणं प्रभुम् ॥' इति नारायणव्यतिरिक्तानां सर्वेषामपि ततोऽधिकत्वं निषिद्धम् । परो नारायणो देव' इति श्लोकोक्तप्रक्रमादरणे हि चतुर्मुखेनापि ततोऽधिकेन भाव्यम् । 'मुक्त्वा नारायण प्रभुम्' इत्येतत्तु वैष्णवपुराणत्वात् विष्णुप्रशं- सार्थमित्युपपादनीयम् । यद्वा । —परो नारायणो देव' इत्यादिश्लोके त्रयाणां कल्पविशेषप्रयुक्तः स्वरूपत परावरभाव उक्तः । श्चर्याणि धन्यानि' इत्यारभ्य रुद्रे परमशिवाभिव्यक्त्त्यतिशयप्रयुक्त' परभाषः प्रपश्चित इत्यविरोध उपपादनीय. । अत एव यथा देव' इत्यादिश्लोकेन त्रिमूर्युत्तीर्णम्य परमशिवम्य शक्तेश्च . , तस्या- . परमात्मा चन्द्रिकासहिता । सद्भावसूचनं संगच्छते । स्कन्दोत्पत्त्यध्याये च · नासीद्यदाकाण्डमिदं त्रिलोचन प्रभाकरेन्दुद्रविणाधिपाः कुतः । तदा भवानेव निरुद्धलो- चनः प्रमाणगन्धादिविवर्जितः स्थितः ॥ इति रुद्रं प्रति देवानां स्तुति- वचनं यदातमो' मन्त्रार्थसंस्पर्शि संगच्छते । सोमोत्पत्त्यध्याये च 'परेच्छया स मूर्ति तु पृथक् सौम्यां प्रपेदिवान् ।' इदि सविष्णुका- ग्न्यायनुक्रान्तसकलदेवतानियन्तृत्वेनोक्तम्यादिविष्णोरपि परमशिवे- च्छया सोममण्डलाधिष्ठानवचनमपि संगच्छते । अतम्सकलचेतनरूप- त्वस्य देवमनुष्याद्युपजीव्यसोमरूपत्वस्य शिवावतंससोमरूपत्वस्य सलि- लरूपत्वस्य परमपदत्वम्य चान्यत्र चिच्छक्तिधर्मत्वेन प्रतिपन्नस्य विप्णी व्यपदेशात् चिच्छक्तेश्च परमेश्वराश्रिताया बहुशः परभावगम- कविष्णुतुल्यमहामहिमप्रतिपादनात् साक्षाच्च सावित्रीरूपायाम्तस्याः विष्ण्वादिसकलदेवलष्टत्वाभिधानाच चिच्छक्तैरंशम्तथाभूत आदि. विष्णुरिति वराहपुराणाभिप्राय उन्नीयते । यद्यप्युक्तहेतुभिश्चिच्छक्त्य- शभेदमात्रं तस्यावगन्तुं शक्यं, तथापि यम्यप शक्तिशकले सकलस्स- माप्तः' या तम्य पार्श्वगा बाला सा पार्वत्यंशजो हरिः ।' इत्यादि- शिवपुराणादित्यपुराणादिवचनकाऱ्यांन तदंशोऽयमिहाप्यभिमतो नि. श्वीयत इति भावः ॥ ४० ॥ ननु विष्णुपुराणभागवतादिषु पुराणप्रतिपाद्यस्य विष्णोत्रिमूर्त्य. न्तर्गतस्यैव ब्रह्मरुद्राभ्यां तत्समृत्वतनियन्तृत्वादिभिहेंतुभिम्सात्विकतया श्रेयःप्रदत्वेन चाधिक्यवर्णनं प्रायो दृश्यते । न तु शिवपुराणादिपु शिवस्येव तेषु त्रिमूर्युतीर्णम्य तम्य महिमवर्णनं तथा दृश्यते । वराहपुराणेऽप्युक्तमकारेणैव म्वप्रतिपाद्यम्य विष्णोन्नाभ्यामाधिक्य- प्रतिपादनं दृश्यते । यत्तु वराहपुराणे विष्णूत्पत्त्यध्यायवचनजातमुदा- आनन्दलहरी हृतं यच्च विष्णुपुराणबृहन्नारदीयादिपु कचित्क्कचिदादिविष्णोखिमू- तीर्णत्वप्रतिपादनच्छायापन्नं वचनं तत्सर्वं तत्तत्पुराणगतैरेव बहुभि- वचनैर्विरुद्धत्वान्न खार्थव्यवस्थापनक्षममित्याशंकामपाकरोति-- प्रायो विष्णुः पुराणैर्जगदवनकरो वर्णितस्सत्त्वशाली स्वीकार्यशंभुशक्तेः प्रथमपरिणतिर्विष्णुराधोपि विज्ञैः। नो चेद्वेदेषु मन्त्रैर्बहुभिरभिनुतो विक्रमविष्टपाना- मादित्यान्तर्गतः स्याददितिजठरजो विष्णुरेवादिविष्णुः ४१ यदि प्रायो वैष्णवपुराणेषु सत्त्वगुणयुक्तो जगद्रक्षाकरः त्रिमूर्त्यन्तर्गता विष्णुरेव बहुशः प्रतिपाद्यत इति तम्य मूलभूतो म- महाविष्णुर्नोच्यत इति तदा 'त्रीणि पदा विचक्रमे विष्णुर्गोपा अदा- भ्यः' इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्' अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे त्रिदेवः प्रथिवीमेष एताम् ।' 'विचक्रमे श- तर्चसं महित्वा विचक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुमनुषे दशस्यन् ।' 'यो अस्कभायदुत्तर सधस्थं विचक्रमाणस्नेधोरुगायः ।' 'विष्णुरुरुगायो विचक्रमे महीं दिवं पृथिवीमन्तरिक्षम्' इत्यादिमिर्वेदि- कैर्मन्त्रैः प्रायस्त्रिविक्रमरूपम्यैव विष्णोर्महिमा अपश्चित इति स एवा- दिविष्णुर्भवेत् । अवताराणां मूलभूतो महाविष्णुर्न सिध्येत् । यदि त्रिविक्रमम्य विष्ण्ववतारत्वप्रसिद्धः वैदिकमन्त्रेषु बहुशो दृष्टयापि त्रिविक्रमस्तुत्या विरोधाभावात् वराहपुराणे 'योऽसौ नारायणो देवः परमात्मा सनातनः । स भवान् सर्वभावेन उताहो नेति संशयः।' इति धरणीप्रश्न 'मत्म्यः कूमों वराहश्च नरसिमश्च वामनः। रामो रामश्च . १. 'स्वाद्विारभिदवरजी' इति -स. पाटः ।
चन्द्रिकासहिता । . रामश्च कृष्णः कल्कीति ते दश ! एतास्तेजोऽधिकास्तस्य मूर्तयो भूतधारणि । दर्शनं प्राप्तुमिच्छूनां सोपानानीव शोभने । यत्तस्य परम रूपं तन्न पश्यन्ति देवताः । अम्मदादिस्वरूपेण पूजयन्ति ततो धृतिः।।' इति श्रीवराहस्योत्तरदर्शनात् पुराणान्तरेप्वपि तदविसंवादात् विष्णो- रवतार एव काश्यपाददित्यां वामनरूपेण जातस्त्रिविक्रम इीर्यते, तदा 'तत्त्वं नारायणः परः' ' महत्ते विष्णो सुमतिं भजामहे । 'बृहत्ते विष्णो मयि शर्म भद्रम् ।' 'नमो विष्णवे बृहते करोमि' इति मन्त्र- गतपरत्वमहत्वबृहत्त्वविशेषणरूपवैदिकलिंगदर्शनात् विष्णूत्पत्त्यध्याय- गतवचनजाताद्युपबृंहितात् बहुभिरपि त्रिमूर्त्यन्तर्गतविष्णुमहिमप्रति- पादकवचनैर्वस्तुतो विरोधरहितात् चित्शक्त्यंशभूतस्यादिविष्णोराविर्भा- वविशेषयुक्तस्तदवतारभेदस्त्रिमूर्त्यन्तर्गतो विष्णुरित्येव युक्तमिति भावः । एवं त्रिमूर्युत्तीर्ण आदिविष्णुरिति समर्थितम् ॥ ११ ॥ अथ त्रिमूर्त्यन्तर्गत एव शक्त्यंशभूतम्स इति पक्षान्तरमुप- न्यस्यति- यद्वा शक्तत्यंश एव स्वयमयमत एवाभ्रणी ब्रह्मरुद्र- स्रष्ट्री स्वात्मानमेव प्रकटमकथयत्सिन्धुमध्ये शयानम् । कर्माण्येतस्य जैवान्यभिनयनविधास्तत्समाकर्णनोत्कान कृत्वा नानारसाकर्णनकुतुकवतो लीलयामुग्रहीतुम् ।। ४२ ।। अयं त्रिमूर्त्यन्तर्गतो विष्णुः म्वयमेव शक्त्यंश आदिविष्णुः । अत एव खल्वभ्रणीसूक्ते सूक्तप्रतिपाद्यस्य म्वमहिम्नः स्वयमेव वक्त्री महरभ्रणम्य दुहितृत्वेनावतीर्णा देवी चिच्छक्तिः 'अहं रुद्रेभिर्यमुभिश्चराम्यहमादित्यरुत विश्वदेवैः' इत्युपक्रम्य खमहिमवर्ण- नमम्ताव 'यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं मुमे. .
९४ आनन्दलहरी - धाम्' इति स्वेच्छया ब्रह्मरुद्रसट्टत्वेन खात्मानं वर्णयित्वा 'मम योनिर- म्वन्तम्समुद्र' इति समुद्रसलिलशायिविष्णुरूपत्वं खात्मनोऽभिदौ । ससुद्रे शयानश्च विष्णुस्त्रमूर्त्यन्तर्गत इति विष्णूत्पत्त्यध्यायवचन- जातेनाप्यवगतम् । तथा कूर्मपुराणहरिवंशादियचनैः प्रागुदाहृत- स्त्रिमूर्त्यन्तर्गतविष्ण्ववतारत्वेन प्रसिद्धस्य कृष्णस्य चिच्छक्त्यंशभूता- दिविष्णुरूपत्वमवगतम् । तस्मात् त्रिमूर्त्यन्तर्गतविष्णुरेवादिविष्णुः । वै. दिकानि परत्वमहत्त्वविशेषणानि तस्मिन्नेवावताराद्यपेक्षया परत्वादिवि- घयतया योजनीयानि । मनस्तत्वाभिमानिनो विष्णोरादिविष्णुना सृष्टत्वं तत्प्रसादलब्धशंखचक्रादिमत्वमित्यादि यदुक्तं तदभेदे सत्ये- वादिविष्णोत्सर्वातिशायिमहिमप्रकटनार्थमभिनयमालपरमिति योजनी- यम् । तस्य श्रुतिपुराणप्रतिपन्नानि यानि यानि जीवत्वगमकानि कर्माणि शोकाज्ञानादीनि च तान्यभिनयमालसिद्धानि । तदभिनयश्च शृगारहास्यकरुणादिरसेषु यो यद्रसाकर्णनकुतुकी तं तद्रसभरितस्वम- हिमविषयेतिहासपुराणादिप्रबन्धाकर्णनेन स्वाभिमुखीकृत्यानुग्रहीतुमिति योजनीयम् । तथैव भागवतवचनमपि । 'भजते तादृशीं क्रीडां यां श्रुत्वा तत्परो भवेत्' इति । न च सत्यवाक्यत्ववचनजातविरोधः । तम्याधर्मरूपानृतवर्जनपरत्वात् । भगवत्कथाकर्णनप्रवर्तनवैराग्यादिसं- पादनफलकम्य च तस्य तथात्वात् । वैष्णवा अपि त्रिमूर्त्यन्तर्गत- विष्णुरेवादिविष्णु न तदुत्तीर्ण वैष्णवं तत्त्वान्तरमन्तीति मन्यन्ते । अत एव सर्वाणि कारणवाक्यानि विष्णुविषयाणीत्यभिमानेन 'सर्व- मिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सप्रसूयन्ते सर्वाणि चेंद्रियाणि सह भूतैः न कारणं कारणानां ध्याता कारणं तु ध्येयम्सर्वेश्वर्यसंपन्नस्सर्वेश्वरश्शं- भुराकाशमध्ये' इत्यथर्वशिखाश्रुतमपि कारणवाक्यं विष्णुविषयतयां यो- चन्द्रिकासहिता। ९५. जयितुं प्रयतमानास्तत्र कार्यवर्गप्रतिपादकावान्तरवाक्ये श्रुतं विष्णुशब्द प्रद्युम्नादिपरं कल्पयन्ति । निरस्तश्चानभिमतपक्षान्तरैस्सह त्रिमूर्युत्तीर्ण- तत्त्वसद्भावपक्षोऽपि तत्त्वमुक्ताकलापे 'एकं त्रेधा विभक्तं त्रितयसमधि- कं तत्त्वमीशास्त्रयस्ते विष्ण्वन्या मूर्तिरीष्टे प्रभवननियमः कल्पभेदात्त्रया- णाम् । इन्द्रादीनामिव स्यानिजसुकृतवशादीश्वराणां प्रवाहः स्यादेक- म्येश्वरत्वं प्रतिफलनमिवेत्यादि चैवं पराम्तम् ।।' इति । एवं पक्षद्वयमुप- न्यस्तं यदत्र युक्तं तद्राह्यम् । आद्यपक्षे त्वश्रणीयसूक्ते चिच्छक्तिब- रुद्रयोः सप्नी स्वयमेव विष्णुरूपेति विशेषोक्तिरसिद्धा। यं कामये' इत्यादिमन्त्रे 'ऋपि' मिति 'सुमेधा' मिति च शब्दयोर्गुण विशेषवाचि तया तत्प्रायपाठादुअब्रह्मशब्दावपि गुणविशेषसमर्पकौ । तत्र उप्रश- ब्दः 'उग्रोऽस्युमोऽह सजातेषु भूयासम्' इति मंत्र इव श्रेष्ठत्वरूपोत्त- रत्वसमर्पकः । ब्रह्मशब्दस्तु चतुर्मुखतुल्यगुणसमर्पकः । 'मम योनिर- प्स्वन्तम्समुद्र' इति समुद्रशायिन्यां त्रिमूर्त्यन्तर्गतविष्णुमूर्तावादिवि- प्णोस्सन्निधानात्तदभेदकृतं वचनम् । एवं कूर्मपुराणादिदृष्टं कृष्णाद्य- भेदवचनमपीति योजनीयम् । द्वितीयपक्षे विष्णुप्रजापत्योः पृथिव्यु- द्धरणार्थ वराहरूपपरिग्रहविषयं श्रुतिद्वयं कल्पभेदव्यवस्थया योजनी- यम् । अत एव सनत्कुमारसंहितायां हिरण्याक्षवधार्थ विष्णुना गृही- तं वराहरूपं प्रस्तुत्य 'पुरा स्वयंभूभगवानुद्धरिप्यन्महीमिमाम् । राज- ते तेन रूपेण दीप्तिमान्मधुसूदनः ।।' इत्यादिपु प्राजापत्यं वाराहरूपं तस्मिन्नुपमानत्वेन निबद्धम् । 'म्वयं ब्रह्माभवद्धरिः' इत्यादि वचनं तच्छरीरानुप्रवेशपरतया योजनीयम् ॥ ४२ ॥ एवं विष्णुविषयचिन्ताप्रपञ्च प्राकृतशंकापरिहारेण संगमय- न्नुपसंहरति- .
आनन्दलहरी तस्मान्नास्त्यत शंका यदखिलचिदचिद्रूपशक्त्या विशिष्टः शंभुर्ब्रह्मत्यतोऽशद्वयमपि मुनिनाव शाखे विचार्यम् । इत्यभ्यासादिहेतोः स्वरसविषयमानन्दवाक्यादिकस्या प्यालोच्य ब्रह्मशक्तरधिकरणगणास्तत्वविद्भिर्विविक्ताः ४३ आनन्दमयवाक्यं शिवचिच्छक्तिविषयं न तु शिवविषयम् । आनन्दमयाधिकरणमपि शिवचिच्छक्तिविषयवाक्यविचारात्मकमिति प्राक्साधितेऽर्थे ब्रह्ममीमांसायां शिवरूपब्रह्मविषयवाक्यविचारार्थ एव संगतः, न तु तच्छक्तिविषयवाक्यविचार इति शंकायामु. स्थितायां, शक्तिविशिष्टश्शिवो ब्रह्म न तु केवलः । अतो विशिष्टरूप- अझैकदेशविषयत्वाविशेपात् विशेष्यांशविषयवाक्यविचारवत् विशेषणां- शवाक्यविचारोऽप्यत्र संगत इति परिहारे कृते पुनश्शंकोत्थिता कथं शक्तेर्ब्रह्मकोटित्वमुपपद्यते । शक्त्यंशत्वेन प्राक् समर्थितस्य विष्णोर्जीव- त्वादिति । तत्र विष्णोर्जीवत्वेऽपि तदंशभूतायाश्शक्तेर्ब्रह्मकोटित्वमुपपन्न- मित्येकदेशिना समाधानं कृतम् । स्वसिद्धान्तानुसारेण तु शक्त्यंशभूत आदिविष्णुब्रह्मकोटिरेव विष्णोर्जीवत्वगमकानि श्रुतिपुराणादिवचनानि त्रिमूर्त्यन्तर्गतविष्णुविषयाणीति कश्चित्परिहारः कृतः । अथवा त्रिमूर्त्य- न्तर्गतविष्णुरेवादिविष्णुरिति स न जीवः। तत्र जीवत्वगमककर्मानु- ठानतत्फलानुभवशोकाज्ञानादिवचनमाभिनयमात्रसिद्धार्थमनुवादकमि- त्यन्यः परिहारः कृतः । एवं सर्वविधोऽप्ययं परिहारांशस्तस्मादित्यनेनानू- दितः । एनं हेतुमनूद्य तत्साध्यं पूर्वार्धनोपसंहृतम् । एवमंशद्वयमप्यत्र शास्त्रे विचार्यमित्येतदालोच्य श्रुतिशास्त्रतत्वविद्भिः श्रीकण्ठाचार्यः आनन्दमयाधिकरणप्रभृतिप्वधिकरणेषु यत्रयत्राधिकरणे सौत्रहेतुविषय. वाक्ययोर्विगेपणांविषयत्वे वारम्यं दृष्टं तत्सर्व तद्विषयमिति एवं चन्द्रिकासहित।। शक्तिविषयाधिकरणगणो विविच्य प्रदर्शित इत्युत्तरार्धेनोक्तम् ।।४३।। नन्वाचायरेतावन्त्यधिकरणानि शक्तिविषयाण्येतावन्त्यन्यवि. पयाणीत्याहत्य विभागः क्वचिदपि कृतो न दृश्यते । आनन्दमयाधिकर- णस्य शक्तिविषयत्वमप्येकदेशिमतत्वेनोपन्यस्तम्। तस्मिन्मते सौत्रह- तोविषयवाक्यम्य वा स्वारस्यमपि न स्फुटीकृतम् । कथं 'तत्वविद्भिर्वि- विक्त' इत्युक्तमित्यागंक्याह- नोक्तं तैस्तत्रतत्र स्फुटमधिकरणे शक्तिवाक्यत्वमिष्टं व्यक्तं शंकोत्तराभ्यां सकलभुवनगत्यान्तराकाशभाजि । स्पष्टं जन्मादिमूत्रे व्यवहृतमिदमाकाशवाक्यान्तरेऽपि न्यायोऽन्यत्रापि तुल्यस्तदनुमत इति ज्ञायते तेन धीरैः ।। सत्यं शक्तिवाक्यविषयेषु सर्वेप्वप्यधिकरणेषु तत्रतत्राधिकरणे स्थित्वैतद्विपयवाक्यस्य शक्तिवाक्यत्वं स्वाभिमतमित्येवं प्रत्यधिकरणं कण्ठतो नोक्तमिति । तथापि 'आकाशस्तल्लिङ्गात्' (व्र. १.१.२३.) इत्यधिकरणे अन्य लोकम्य का गतिरित्याकाश इति होवाच' इति तद्विपयवाक्यस्य शक्तिविषयत्वं कण्ठत उक्तमेव । तत्र भाप्ये हि 'आकाशस्तलिंगात् । • अत एव प्राण' इति सूत्रद्वयम् आकाश इति होवाच' 'प्राण इति होवाच' इति विषयवाक्य. द्वयच युगपद्विलिख्य आकागो भूताकाशः प्राणः प्राणवायुरिति पूर्वपक्षप्राप्तौ प्राण आकाशश्च परमेश्वर इति सिद्धान्तयित्वोपसंहृतं • तन्मात्मर्वभूतफारणत्वं न भूताफागपाणयोः इति सिद्धान्त' इति । तदनन्तरं स्वपदानि न वर्ण्यन्त' इति भाप्यलक्षणानुसारात् शंको- जगभ्यां भूतपदव्यावर्त्यप्रदर्शनव्याजेन अधिकरणम्य शक्तिविषयत्व- मायिकृतं 'ननु भूताकाग इत्युपपदग्रहणेन किमिति चेत् परमा- . . . 18 आनन्दलहरी . . काशस्य परप्रकृतिरूपस्य सर्वभूतकारणत्वसद्भावात् सप्रयोजनम् । तर्हि परमेश्वर इति कथं निर्णयः तदभेदादिति सिद्धम् ' इति । यद्यप्यत्र परमेश्वर इति साध्यनिर्देशं कृत्वौपचारिकशक्त्यभेदाश्रयणेनाधिकरणस्य शक्तिविषयत्वपर्यवसानसंपादनं क्लिष्टमित्ति साक्षाच्छक्तिरित्येव साध्य- निर्देशो युक्तः । न च 'तत्तु समन्वयात्' इति (ब्र०. १. १. ४.) सूत्रात् ब्रह्मेति साध्यख लाभोऽस्ति न तु शक्तिरिति साध्यस्येति वैष- म्यं शंकनीयम् । तत्र तच्छब्दस्य विशिष्टपरत्वेन तत एव विशेप्यां- शवद्विशेषणांशस्यापि तत्रतत्र यथायोग्यं साध्यतया लाभसंभवात् 'सर्वोपेता च तद्दर्शनात्' इति (७० २.१.३०.) सूत्रात् शक्तिरि- त्यस्यावश्यकनाध्याहारेण तत्र सतश्शब्दम्य सिद्मावलोकनन्यायेन शक्तिविषयाधिकरणेषु साध्यसमर्पकत्वसंभवाच्च । तथापि भाप्यस्य प्रसन्नगभीरत्वसिद्धये तन्त्रतत्र संसूचनेनैव शक्तिविषयाधिकरणवि. भागः प्रदर्शनीयः । शिवशक्त्योरविनाभावकमत्याभ्यामभिन्नकल्पत्वञ्च ज्ञापनीयमित्यभिप्रेत्येयं सरणिराश्रिता। तथा 'दहर उत्तरेभ्य' इति (ब० १.३.१४.मू.) अधिकरणे ‘अथ यदिदमम्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽम्मिन्नन्तराकाशस्तम्मिन्यदन्तम्तदन्वेष्टव्यं तद्वाव विजिज्ञा- सितव्यम्' इत्यन्तराकाशवाक्यम्य तद्विषयम्य तम्याधिकरणस्य च श- क्तिविषयत्वं शंकोत्तराभ्यां कण्ठत उक्तम् । ननु दहरपुण्डरीकमध्ये दहराकाशान्तर्वतित्वेनोपाम्यत्वं य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वम्य घशी सर्वस्येशान' इत्युपनिषदन्तरे प्रसिद्ध परमेश्वरम्येह दहराकाशत्वेनेति विरोध इति चेत् अत्रापि दहराकाशमध्यवर्ती परमेश्वर उपास्यः किं तु दहराकाशे परमेश्वरधर्माणामपहतपाप्मत्वादीनां संव- न्धपततिदेहराकागत्वमपि चिदंबररूपतयेति न विरोध' इति । इत्थं सर्व- चन्द्रिकासहिता। ९९ - . लोकगत्याकाशवाक्यस्येवान्तराकाशवाक्यस्येव वा नामरूपोपादाना- काशवाक्यस्यापि चिच्छक्तिविषयत्वं जन्मादिसूत्रमाप्ये 'आकाश- शरीरं ब्रह्म' इति श्रुतिव्याख्यानावसरे स्पष्टं व्यवहृतम् । 'आकाशत इत्याकाशश्चिदंबरमुच्यते । न भूताकाशः । विशेषाभावात् । निखिल- जगदण्डपण्डयुद्धदनिकुरुंबजलधिस्थानीया परमकृतिरूपा परा शक्तिाह चिदंबरमुच्यते। तत्म्वरूपं ब्रह्माकाशशरीरम् । परप्रकृतित्वं चिदाका- शस्य 'सर्वाणि ह वा इमानि भूतान्याकागादेव समुत्पद्यन्ते आका- शं प्रत्यस्तं यन्ति । आकाशो ह वै नामरूपयोर्निहिता' इत्यादिश्रुति- सिद्धम् ' इति । तथा 'यदेष आकाश आनन्दो न स्यात्' इत्यान- न्दाकाशपदसामानाधिकरण्यात् आकाशवाक्यरूपस्यानन्दमयवाक्य- म्यापि चिच्छक्तिविषयत्वं जन्मादिसूत्रमाप्य एव नित्यतृप्तत्वविवरणस- मये व्यवहृतम् । “ निरस्तसमस्तोपप्लवकळंकनिरतिशयानन्दपरिपूर्ण- त्वमिह नित्यतृप्तत्वम् । अत एव 'आनन्दो ब्रह्म' इति श्रूयते । यः खल्वन्योऽन्तर आत्मानन्दमय' इति प्रस्तुत्य 'सैषानन्दम्य मीमांसा भवति' इत्यारभ्याभ्यासानिरतिशयशिरस्कत्वेन ' स एको ब्रह्मण आन- न्द' इति निरूपितः । परब्रह्मधर्मत्वेन च स एव 'आनन्दो ब्रह्म' इति प्रचु- रत्वात् ब्रह्मत्वेनोपचर्यते । तादृशानन्दभोगरसिकं ब्रह्म नित्यतृप्तमित्यु- च्यते" इत्यानन्दमयाधिकरणस्य चिच्छक्तिविषयत्वपक्ष एव स्वामिमत इत्यपि म्फुटीकृतम् । अस्मिन्पक्षे विषयवाक्यस्य स्वारस्यं प्रागेवोपपादि- तम् । अभ्यासहेतुम्बारम्यं तु गिवादित्यमणिदीपिकायां प्रपश्चितम्। 'वि. कारगन्दान्नेति चन्न प्राचुर्यात्' इति (७०.१. १. १४.) मूत्रस्या- पि तस्मिन्नेव पले म्वारम्यम् । " स एको ब्रह्मण आनन्दः । आनन्द ब्रमणो विद्वान्' इति निरतिशयाभ्यासेन हेतुना स एवानन्दः आनन्दलहरी चिच्छक्तिर्भवेत् न त्यानन्दमयः । तत्र मयटोऽन्नमयादिप्रायपाठेन विकारार्थत्वात् चिच्छक्तेश्च स्वविकारस्वायोगात्" इति शंकायाः पूर्व- सूत्रनिर्दिष्टहेतूत्थापितत्वेन तत्संगतायाश्च तत्सूत्रार्थत्वलाभात् मयटः प्राचुर्यार्थत्वेन परिहारस्यापि प्रचुरानन्दरूपायां तस्यामेच संगतः । तद्ध- मिपरत्वे प्राचुर्यार्थानन्वयात् । 'तप्रकृतवचने मयट्' इति पाणिनि (५. ४.२९.) सूत्रस्य 'प्रकृत्यर्थे मड्डिधायकत्व एव प्राचुर्येण प्रस्तु. तमिदमिति विशेपलाभः । प्रकृत्यर्थादर्थान्तरे तद्विधायकत्वे तु प्रस्तु- तमिदमस्मिन्नित्येतावानेव तदर्थः । न तु प्राचुर्यार्थान्वयोऽस्तीति न्या- सादिषूक्तत्वात् । एवमुदाहृतवाक्यत्रयस्य येन न्यायजातेन चिच्छक्ति विषयत्वं तत्साम्यं यत्र यत्र वाक्यान्तरे दृश्यते तस्य सर्वस्यापि चिच्छक्तिविषयत्वं भाष्यकाराभिमतमिति धीरैर्ज्ञायत एव । तथा हि-सर्वलोकगत्याकाशवाक्यस्य भूताकाशविषयत्वमपास्य ब्रह्मवि- पयत्वव्यवस्थापने लिंगं 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यम्तं यन्ति' इति सर्वभूतोत्पत्त्युपादानत्वं सर्वभूतलयस्थानत्वरूपं सर्वकारणत्वमिति सूत्रभाप्याभ्यामवगतम् । तत्तु प्रपञ्चाकारपरिणामिन्यां शक्तावेव साक्षादन्येति न तु शिव इति वियपयवाक्यगतलिंगम्य सौत्रहतोश्च विषयवाक्याधिकरणयोर्ब्रह्म- विशेषणांशविषयत्व एव स्वारम्यम् । कर्मपुराणेऽप्यस्य वाक्यस्य शक्ति- विषयतयोपहणं कृतम् । तत्र हि सैषा माहेश्वरी गौरी मम शक्तिनिरञ्जना' इत्यारभ्य प्रवृत्तेपु गिवयाक्येपु पठ्यते । 'अम्याः सर्वमिदं जातमन्त्रय लयमेष्यति । एषैव सर्वभूतानां गतीनामुत्तमा गतिः । तयाई संगतो. देव्या केवलो निष्कलदिशवः । पश्याम्यशेषम- वेदं यस्तद्वेद स मुच्यत' इति । अत्राद्यश्लोकेन सर्वलोकगत्याकाग- . चन्द्रिकासहिता। १०१ 39593 वाक्यस्य तदर्थोपन्यासेन शक्तिविषयत्वं विभावितम् । द्वतीयश्लोके केवलो निष्कळ' इत्यनेन शिवस्यापरिणामित्वविभावनया तस्य वाक्यस्य शिवविपयत्वेऽनुपपत्तिर्दर्शिता । नन्वस्य वाक्यस्य शक्तिविषयतायां 'आकाशादेव समुत्पद्यन्त' इत्यवधारणं नोपपद्यते । अवधारणम्य गृहमेधीयपरिसंख्याधिकरणन्यायेन उपा- त्तसजातीयव्यवच्छेदकतया आकाशस्योपादानत्वेन सफलजगन्मूल- कारणत्वप्रतिपादने कर्तृतया प्रसक्तस्य मूलकारणान्तरस्य व्यवच्छे- द्यत्वात् शक्त्यतिरिक्तस्य मूलकर्तुरीश्वरस्य सद्भावन तयवच्छदायो- गादिति चेन्न । अवधारणस्यात्यन्तसजातीयपरिणामिमूलकारणान्तर- व्यवच्छेदकत्वोपपत्तेः । सजातीयग्रहणप्रसक्तावत्यन्तसजातीयस्यैव ग्रा. ह्यत्वात्। ननु तथापि ' आकाश एवैभ्यो ज्यायन्' इत्यवधारणं शक्ति- विषयतायां नोपपद्यते । ब्रह्मणोऽपि ज्यायस्त्वात् । ब्रह्मविषयतायामपि नोपपद्यत एव । शक्तेरपि ज्यायस्त्वात् । ज्यायस्त्व हि 'तावानस्य महिमा ततो ज्यायांश्च पुरुष. ।' 'ज्यायान् दिवो ज्यायानन्तरिक्षात्' दिवैदिकपयोगानुमारेग देशाधिक्यरूपसर्वगतत्वपर्यवसायि पाणि- नीयानुसारेण कालाधिक्यरूपनित्यत्वपर्यवसायि च । तदुभयं शिव- शक्त्यो योरप्यविशिष्टम् । प्रत्युत आकाशवत्सर्वगतश्च नित्य' इति श्रुतौ शिवम्य सर्वगतत्वनित्यत्वयोर्दृष्टान्तीकरणाच्छक्तरेव तदुभयं प्रसिद्धतरम् । प्रसिद्ध ह्यप्रसिद्धस्योपमानं भवति । न च तत्राकाश- शब्दो भूताकागपरः । प्रतिकल्पं प्रत्यण्डञ्च मिन्ने तम्मिनित्यत्वसर्व- गतत्वयोरभावन तम्य शक्तिपरत्वावश्यंभावात् । यद्युच्येत शक्तिवि- शिष्टशिवाभिप्रायेणावधारणं शिव संगच्छत इति तर्हि शिवाश्रितश- क्त्यभिप्रायेण तम्यामपि तत्संगच्छत इनि तुल्यम् । शक्तिशिवयोपि. . ' इत्या- .
आनन्दलहरी शेषणविशेप्यभावस्य ब्रह्मशब्दार्थतायां व्यवस्थितत्त्वेऽप्यन्यन्त्राव्यवस्थि- तत्वात् । • यथा शिवस्तथा देवी यथा देवी तथा शिवः । नानयोर- न्तरं विद्याञ्चन्द्रचन्द्रिकयोरिव । चन्द्रो न खलु भात्येव यथा चन्द्रिकया विना । न भाति विद्यमानोऽपि तथा शक्त्या विना शिवः । एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थितिः । न शिवेन विना शक्तिर्न शक्त्या च विना शिवः । शक्तो यथा शिवो नित्यं भुक्तौ मुक्ती च देहिनाम् । यामाहुरखिलेशस्य तैस्तैरनुगतैर्गुणैः । समानधर्मिणीमेव शिवस्य परमात्मनः ॥' इत्यादिपुराणवचनैरुभयोस्साम्यागमात् । एतेन ‘स एषोऽनन्त' इति श्रुतं त्रिविधपरिच्छेदराहित्यरूपमान- त्यं शक्तौ न संगच्छत इति शंकापि निरस्ता । शक्तिविशिष्ट- तया शिव इव शिवविशिष्टतया शक्तावपि तदुपपादनसंभवात् 'आकाशवत्सर्वगतश्च नित्य' इति श्रुतौं नित्यत्वसर्वगतत्वयोरेवाकाशस्य दृष्टान्तीकरणदर्शनात्तदनुसारेण देशकालपरिच्छेदराहित्यमात्ररूपमा नन्त्यमिह विवक्षितमिति वक्तुं शक्यत्वाञ्च । अपि च भूता- काशादन्यो वाक्यशेषश्रुतलिंगान्वयाहश्च यदि कश्चिद्वेदान्तप्रसिद्धः शिवादन्यत्वेनाप्यवगत आकाशो न स्यात् तदा यथाकथञ्चिदभ्यस्ता- काशश्रुत्यनुसारेण भूताकाशो वा वाक्यशेपश्रुतलिंगानुसारेण शिवो वानेन वाक्येन प्रतिपाद्य आकाश इति कल्प्येत । अस्ति तु नित्यः सर्वगतः प्रपञ्चाधारोऽतिरहस्यः परदेवतारूपः सर्वप्रपञ्चकारणपरमान- न्दात्मकोऽपहतपाप्मत्वादिगुणकोऽत एव भूताकाशाद्विलक्षणस्तत्र तत्र तद्वैलक्षण्यार्थप्रयुक्तविशेषणेनापि तद्विलक्षणतया म्फुटीकृतः शिव- प्टान्तीकरणादिना शिवात् पृथनिर्देशेन च ततोऽपि विभिन्नतया म्फुटीकृतः कश्चिदलौफिक आकाशः । तथाहि --'आकागवत्सर्व- . .
चन्द्रिकासहिता। १०३ . . गतश्च नित्य' इत्यनुपदोदाहृतश्रुतौ तावदृष्टान्तीकरणसामर्थ्यात् नि- त्यसर्वगतः कश्चिदाकाशोऽस्तीत्यवगतम् । स च सर्वप्रपञ्चाधार इत्ये- तत् 'यदूर्ध्व गार्गि दिव' इत्यादिप्रागुदाहृताक्षरब्राह्मणवाक्येनावगतम् । तम्यातिरहस्यदेवतारूपत्वञ्च तस्याप्याधारं पृष्टवती वाचावी प्रति 'गार्गिमातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्नां वै देवतामतिपृच्छसि' इति याज्ञवल्क्यवाक्येनावगतम् । तस्य सर्वप्रपञ्चकारणपरमानन्दरूपत्वं 'यदेष आकाश आनन्दो न स्यात्' इति तैत्तिरीयश्रुत्यावगतम् । तम्यापहतपाप्मत्वादिगुणवत्त्वं 'दहरोऽस्मिन्नन्तराकाश' इति प्रकृ- त्याम्नातेन 'एप आत्मापहतपाप्मा विरजो विमृत्युर्विशोको विजि- घत्सोऽपिपासम्सत्यकामम्सत्यसंकल्प' इत्यादिच्छन्दोगोपनिषद्वा- क्येनावगतम् । एवमाम्नातैर्नित्यत्वादिविशेषणैरेव तस्य भूताकाशा- द्वैलक्षण्यं सिद्धम् । साक्षाच्च भूताकाशपरत्वशंकानिराकरणार्थ प्रयुक्तेन 'यो वेद निहितं गुहायां परमे व्योमन्' इत्यादिश्रुति परमत्व- विशेषणेन ‘नभो दिव्यं गच्छ स्वाहा' इत्यादिश्रुतिषु दिव्यविशेषणेन 'तत्रापि दहूं गगनं विशोक' इति श्रुतौ विशोकत्वविशेषणेन चेतनत्वविशेषणेन च भूताकाशवलक्षण्यमवगमितम् । 'आकाशवत्' इति श्रुतौ शिवं प्रति दृष्टान्तीकरणेनाक्षरब्राह्मणे 'एतस्मिन् खल्वक्षरे गार्गि आकाश ओतश्च प्रोतञ्च इति शिवाश्रितत्ववचनेन चानन्दवल्ल्यां ‘स एको ब्रह्मण आनन्द' इति शिवधर्मत्वकथनेन दहरविद्यादिषु शिवा- सनत्वकथनेन उपकोसलविद्यायां प्राणश्चास्मै तदाकाशं चोचुः' इति प्रा. णशब्दोक्ताच्छिवात्पृथनिर्देशेन 'आकाशोवै नाम' इत्यादिश्रुतौ ना- मरूपादिस्रष्टुः शिवात् पृथनिर्देशेन च तस्य शिवाद्वैलक्षण्यमपि स्फुटी- कृतम्। न चोदाहृतश्रुतिप्वाकाशशब्दानां तत्पर्यायाणाञ्च भिन्नार्थत्वं शं. .
आनन्दलहरी कनीयम् । प्रसिद्धाकायविलक्षणानेकाकाशाभ्युपगमस्य गौरवपराहतत्वेन तेषामेकार्थपर्यवसानावश्यंभावात् । एवञ्च सकललोकगत्याकाशवाक्य- स्य तथामूतालौकिकाकाशविषयत्वाभ्युपगमेनाकाशश्रुतीनां कारणत्या- दिलिंगानाश्चाबाधनसंभवे किमर्थ शिवविषयत्वस्य भूताकाशविषय- त्वस्य वाभ्युपगमेनान्यतरबाधनं कार्यम् । अलौकिकाकाशविषयत्वा- भ्युपगमे ह्याकाशश्रुतीनामपि न वाधः । ' यस्य सा परमा देवी शक्ति- राकाशसंजिता । अनन्तैश्चर्ययोगात्मा महेशो दृश्यते हि स' इत्यादि- पुराणवचनेप्वाकाशशब्दस्य तत्पर्यायाणाञ्च तत्संज्ञारूपेण वृत्तेरुक्त- त्वात् । किञ्च परब्रह्मपरेपु पुराणभागेप्वाकाशादिशब्दानां तत्संज्ञात्व- कयनं तदुपबृंहणीयेषु वेदान्तभागेषु श्रुतानां तेषामुत्सर्गतस्तद्विषयत्वमे- वाभ्युपगन्तव्यं न तु भूताकाशपरत्वमित्येतद्ज्ञापनकायोजनम् । प्रयो- जनान्तराभावात् । एवञ्च प्रकृतवाक्यस्यालौकिकाकाशपरत्वमाकाशश्रु- त्यैवाभ्युपगन्तव्यम् । अयं न्याय ‘आकाशस्तलिंगात्' (ब्र. १. १. २३. मू) इत्यधिकरणे ‘भेदव्यपदेशाच्चान्य' इति पूर्व (प्र.१.१.२२.) मूत्रानुवृत्त्या सूत्रकारेणापि दर्शित. । तम्यात्रानुवृत्तम्यायमर्थः--- काशवत्सर्वगतश्च नित्य' इत्यादिश्चतिषु भूताकाशवलक्षण्यव्यपदेशात् अस्ति ततोऽन्य कश्चित्सर्वकारणत्वादिशाल्यलौकिकाकाशः। स्तद्विपयत्वे- न श्रुतिलिंगानां सर्वेषामप्यवाधनसंभवात् लिंगबाधनेन भूताकाशपरत्वं न कल्पनीयम् । वेदान्तभागप्वाकाशशब्दम्यालौकिकाकाशपरत्वोत्सर्गो. ऽपि न त्यक्तव्य इत्ययं न्यायो जन्मादिसूने भाप्यकृद्भिरपि दर्शितः । तत्र हि 'आकाशशरीरं ब्रह्म' इति श्रुतौ आकाशब्देन चिदंबरमुच्यत इति प्रतिनाय 'न भूताकाशो विशेषाभावात्' इत्युक्तम् । तत्र 'विशेषाभावात्' इत्यनेन मर्वशरीरगम्य ब्रह्मणो विशिष्य मृता- आ- चन्द्रिकासहित।। १०५ काशशरीरत्वोक्त्या न कश्चिदतिशयो लभ्यत इति यद्यप्यर्थो भवति, तथाप्यर्थान्तरमपि तेन विवक्षितं, वेदान्तभागेप्वाकाशशब्दस्य क्लसवैदिकरूढ्यनुसारेणालौकिकाकाशपरत्वमौत्सर्गिकम् । यत्र भूता- काशग्रहणे हेतुर्विशेषोऽस्ति यथा 'आत्मन आकाशस्संभूतः' 'आकाशा- द्वायुः' इत्यादौ तत्रैव तस्य ग्रहणं न्याय्यम् । इह तु तथाभूतो विशेपो नास्तीति अनुवृत्तसूत्रगतेन चकारेण शिववैलक्षण्यस्य श्रत्यन्तरेषु व्यपदेशात् शिवादप्यन्योऽयमलौकिकाकाश इति समुच्चीयते । नन्वि- स्थमाकाशवाक्ये दर्शितस्य न्यायस्य यत्रयतानुवृत्तिः तस्य सर्वस्यापि वाक्यस्य शक्तिपरत्वाङ्गीकारे प्रागुदाहृतं प्राणवाक्यमपि तत्परं स्यात् । ततः 'सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशंति प्राणमभ्युजि- हत' इति सर्वभूतसंवेशनोद्गमनावधित्वस्य सर्वोपादानत्वरूपस्य तल्लि- गस्याम्नानादिति चेत् । अस्तु को दोपः। संभवति हि प्राणशब्दस्यापि तत्र वृत्तिः। 'को ह्येवान्यात्कः प्राण्यात्' इति तस्यास्सर्वप्राणनहेतुत्वश्र- वणात् ‘सत्यात्म प्राणारामम्' इति श्रुतौ प्राणशब्दम्य तत्परत्वेन भाप्ये व्याख्यातत्वाच्च । एवमस्य वाक्यस्य शक्तिविषयत्वादेव एतद्विचारा- स्मकमधिकरणं शक्तिविषयेणाकाशाधिकरणेनैकीकृत्य लिखितं भाष्ये । न चातिदेशत्वाधिकरणमात्रत्वमेकीकरणे कारणम् । एतेन योगः प्र- त्युक्त' इत्या(न.२.१.३.सू)घधिकरणानामतिदेशाधिकरणत्वेऽपि पूर्वा- धिकरणैरेकीकृत्यालिखितत्वात् । किंत्वतिदेशाधिकरणत्वाभावे न्यायवै- लक्षण्यात् शक्तिविषयत्वे पौर्वापर्ये च सत्यप्येकीकृत्य लिखितुं शक्यत इति तदप्येकीकरणोपयोगि । नन्वेवं सद्विद्यापि शक्तिविपया स्यात्, तम्यां बहु म्यां प्रजायेय' इत्यारभ्य सर्वोपादानत्वप्रतिपादनात् 'तद्यथा सोम्यैकेन मृत्पिण्डेन' इत्यादिपरिणाम्युपादानदृष्टान्तीकर- आनन्दलहरी . णस्य चाधिक्यस्य सत्त्वादिति चेत् , सत्यं, तथापि तत्त्वमसि' 'तस्य सावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य' इत्युपासनातत्फलवचनानु- सारेण तस्याश्शक्तिविशिष्टशिवविषयत्वमङ्गीकर्तव्यमिति 'तनिष्ठस्य मोक्षोपदेशात्' इति (ब्र० १.१. ७.) सूत्रेणाभिव्यञ्जितम् । ईक्षत्य- धिकरणभाप्येऽपि तदनुसारेण शक्तिविशिष्टशिवपरत्वं सच्छब्दस्योप- पादितम् । ननु, वेदान्तेप्वाकाशशब्दस्य शक्तिविषयतोत्सर्गिकत्वाङ्गी- कारे गायत्रीविद्यायां 'यद्वतद्ब्रह्म' इति 'इदं वाव तद्योऽयं बर्हिी पुरुषादाकागः' इत्याकाशपदसामानाधिकरण्यात् सापि शक्तिविषयां- गीकर्तव्या स्यादिति चेत् । अंगीक्रियत एब । शक्तरेव हि — गायत्री वा इदं सर्व भूतं वाग्वै गायत्री' इति श्रुतं गायत्रीरूपत्वं वायूपत्वं च वराहपुराणादिपु प्रसिद्धम् । गायत्रीविद्याप्रकरणे तदेतदृचाभ्यनूक्तम् । तावानस्य महिमा । ततो ज्यायाश्च पूरुपः । पादोऽस्य सर्वा भूतानि । त्रिपादस्यामृतं दिवि' इत्युदाहृतमन्त्रे तस्याः परमपुरुषात्मकं यद्रूपं तेन सर्वात्मतापत्तिः पादत्रयेणोच्यते । तस्य रूपम्य सर्वभूतात्मतापहाणे यदात्मतापति तत्तस्य प्राप्यं मूलं रूपं तद्विष्णोः परमं पदम्' इति मंत्रप्रसिद्धं चतुर्थपादेनोच्यत इति सर्व संगच्छते । नन्वेव सति गायत्री- विद्यानन्तरं 'यदतः परो दिवो ज्योतिर्दीप्यत' इत्यारभ्य पठिता ज्यो- तिर्विद्यापि तद्विपया स्यात् , तयोरेकविषयत्वस्य ज्योतिश्चरणाभिधा- नात्' इत्य (७०.१.१.२६. सू.) धिकरणे व्यवस्थापनादिति चेत् । अन्तु, तथापि न कोऽपि दोपः। यत् 'त्रिपादस्यामृतं दिवि ' इति पूर्वो- दाहृतमन्त्रभागोक्तममृतत्र्यंशात्मकं तम्य रूपं जाठरामावुपासनान्तर विधानार्थ ज्योतिर्विद्याप्रवृत्तेत्युपपद्यत एव। एवं तर्हि ज्योतिर्विद्यानन्तरं सर्य बल्विदं ब्रह्म' इत्यारभ्याम्नाता शाण्डिल्यविद्यापि शक्तिविपया स्या- ।
चन्द्रिकासहिता। १०७ , दिति चेत् । नेति ब्रूमः । तत्र 'मनोमयः प्राणशरीर आकाशात्मा' इति विशेषणैः 'आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम्' इति शिवविषयश्रुत्यन्तरगतविशेषणार्थस्यानूद्यमानतया तेनाकाशव्यतिरेका- वगमात् । यद्वा । गायत्रीविद्या ज्योतिर्विद्येत्येतद्विद्याद्वयमपि शिव- विषयमेवास्तु । तत्र 'यद्वैतब्रीं' ति 'इदं वाव तद्योऽयं बहिर्धा पुरुषादा- काश' इत्याकाशपदसामानाधिकरण्यं हृदयस्तुत्यर्थमस्तु । अग्रिमखण्डे हि 'तस्य हवा एतस्य हृदयस्य' इत्यादिना हृदयसुपिरपञ्चके आदि- त्यादिद्वारपालोपासनं विधास्यते । तत्र बाह्याकाशं ब्रह्मतयोपचर्य 'अथ यो वै बहिर्धा पुरुषादाकाशोऽयं वाव स योऽयमन्तः पुरुष আন্ধাহাগ योऽवै सोऽन्तः पुरुष आकाशोऽयं वाव स योऽयमन्तर्हृदय आकाश इति क्रमेण हृदयाकाशस्य ब्रह्मतोपचारे हृदयमेव स्तुतं भवति । इहा- काशशब्दस्य भूताकागपरत्ववादेऽपि हि ब्रह्माकाशंपदसामानाधि- करण्यमुक्तक्रमेण हृदयस्तुत्यर्थमित्येवोपपादनीयम् । एवमनया दिशा शिवशक्तिविषयाधिकरणानामाचार्याभिमतो विभागो मनीपिभिरु- नेयः ॥ ४४ ॥ . ननु, शक्तेर्ब्रह्मशब्दार्थकदेशत्वेऽपि शास्त्रे तद्विचारो न कर्त- व्यः । यम्य ज्ञानान्मोक्षस्तद्विचारार्थमिदं शास्त्रं प्रवृत्तम् । सर्वतरपरि- त्यागेन शिवस्यैव ज्ञानान्मोक्षः • शिव एको ध्येयश्शिवकरः मर्वमन्य- त्परित्यज्य' इति श्रुतेः । अतोऽत्र शक्तिविषयाधिकरणविभागनि- न्तनमस्थानपिभितभित्याशंका निराकरोति- तत्तवावेदने तत्समरसभिवनिध्यानटेतोरलाभा- न्मुक्तिप्राप्तानुभाव्यस्थिरफलमहिमालोचनस्याप्यभावात् । -- १०८ आनन्दलहरी । . शास्त्रं स्याहचर्थकल्पं न सकलविषयं सार्धवक्तव्यशेपं तस्मात्तत्तत्वचिन्ताप्यविकलविपया सर्वथैवात्र कार्या ।। 'उमासहायं परमेश्वरं प्रभु' 'पुरुष कृष्णपिंगळम् ।' 'तस्मा- त्सह तया शक्त्या हृदि पश्यन्ति ये शिवम् । तेषां शाश्वतिकी सि- द्विनेतरेषामिति श्रुतिः ॥' इत्यादिश्रुतिस्मृतिवचनैश्शक्तिविशिष्टस्यैव शिवस्य ज्ञानं मोक्षहेतुः न केवलस्येत्यवगतम् । तदनुरोधेन 'सर्वमन्य- परित्यज्य' इति श्रवणं शिवादन्यस्य स्वातन्त्र्येण ध्येयत्वव्यवच्छे- दपरम् । अपि च । मुक्ति प्राप्त ग्यं शाश्वतं फलं परमानन्दरूपा शिवशक्तिरेव । ' स एको ब्रह्मण आनंदः । श्रोत्रियस्य चाकाम- हतस्य' इत्यादिश्रवणात् । एवञ्च शक्तितत्त्वज्ञानानिरूपणे शक्तिविशिष्टशिवोपासनाहेतोरलाभात् मुक्तप्राप्यफलस्वरूपज्ञानासंभ- बाच्च स्वरूपप्रमाणसाधनफलैरसह ब्रह्मनिरूपणार्थ प्रवृत्तमिदं शास्त्रं सकलविषयं शिवांश निरूपणाच्छक्त्यंशानिरूपणाचार्द्धन वक्तव्यशेषेण युक्तं सत् व्यर्थप्रायं भवेत् । ततस्साकल्येन शक्तितत्त्वनिरूपणमप्य- स्मिन् शास्त्रे कार्यमेवेत्यर्थः ॥ ४५ ॥ इतोऽपि शक्तिस्वरूपनिरूपणमिह कार्यमित्याह- शास्त्रे चास्मिन्महेशे श्रुतिशिखरगिरामन्वितखं प्रदर्य तास्त्वद्वैतप्रधानास्तदिह न घटते शक्तियोगानपेक्षे । तस्माच्छक्तनिरूप्यं सकलचिदचिदाकारशालि स्वरूपं तात्पर्य नेन तासां भवति सुघटितं तत्र शक्त्या विशिष्टे ।। इह शास्त्रे सर्वेषां वेदान्तानां शिवे तात्पर्येण समन्वयः 'तत्तु समन्वयात्' इति (३०. १. १.४.) सूत्रदर्शितः समर्थनीयः । - -- चन्द्रिकासहिता । १०९ वेदान्ताश्चाद्वितीयत्वं ब्रह्मणः प्राधान्येन प्रतिपादयन्ति । तच्च शिवस्य परब्रह्मणस्सगुणम्यापरिणामिना सर्वविकारस्पृष्टेन स्वरूपेण नोपपद्यते । अतस्सकलचेतनाचेतनात्मकप्रपञ्चाकारपरिणामिशक्तेः स्वरूपमप्यत्र निरूपणीयम् । तथा सति शिवस्य स्वरूपेणासंभवदपि अद्वितीयत्वं ब्रह्मशब्दार्थभूतशक्तिविशिष्टेन रूपेण संभवतीति तत्र ब्रह्माद्वैतपराणां वेदान्तवाक्यानां तात्पर्यमुपपादितं भवति । अतस्तदर्थमपि शक्तित- त्त्वनिरूपणमिह कार्यमित्यर्थः ।। ४६ ॥ ननु, शुद्धाद्वैत एव सर्वेषां वेदान्तानां पुराणाद्युपबृंहणानाञ्च महातात्पर्यम् । ब्रह्मसूत्राण्यपि विचार्यमाणानि तत्रैव तात्पर्येण पर्यव- सानवन्ति । यथा चैतत्तथास्माभिश्शङ्करभगवत्पादनिरूपितेन प्रकारेण न्यायरक्षामणौ समर्थितम् । तथाभूतं शुद्धाद्वैतं त्यक्त्वा किमिति विशिष्टाद्वैतं भाप्यकारैराश्रितम् । न हि यथाकथञ्चिदद्वैतसमर्थन- मात्रेण वेदान्तानां सन्तोपः । किं तु स्वकीयमहातात्पर्यविषयाद्वैतनि- रूपणेनैवेत्याशंक्याह-- शुदाद्वैते हि सर्वश्रुतिशिखरगिरामागमानाञ्च निष्ठा साकं सर्वैः पुराणस्मृतिनिफरमहाभारतादिप्रबन्धः । तत्रैव ब्रह्मसूत्राण्यपि च विमृशतां भान्ति विश्रान्तिमन्ति त्यक्तं तद्भाप्यकारैरिह कथमिति चेन्नैव तत्यक्तमायः ।। कथं न त्यक्तमित्याकाङ्क्षायां तदुपपादयति- उक्ता खल्वत्र मुक्तिर्गतिमुपरि विना निर्गुणोपासकानां जीवाभेदावलम्बा सगुणपरशिवोपासनाप्यत्र भाप्ये । सत्तामत्यक्षबुद्धर्जगति च विषयो वर्णितस्सत्यनान्यः शुद्धं ब्रह्माद्विनीयं मतमिति बहुधाविष्कृतं तावदेवम् ।।
आनन्दलहरी . अस्मिन्माप्ये 'अनियमस्सर्वेपामविरोधश्शब्दानुमानाभ्यां' इ- (ब्र. ३. ३.३२. सू) त्यधिकरणे ‘सर्वेषां ब्रह्मोपासकानामर्चिरा- गिदतिस्साधारणी न तु केषाञ्चिदेवेति व्यवतिष्ठते' इत्यधिकरणार्थ प्रदर्य तदनन्तरं 'केचिदाहुः अनियमस्सर्वेषामुपासकानामचिरा- दिगतौ नियमाभावस्तथा सति श्रुतिस्मृतिभ्यामविरोधः' इत्य- चिरादिगतेस्सर्वब्रह्मोपासकसाधारण्याभावमेव सूत्रार्थतया केचन योजयन्ती'त्युक्त्वा तत्रापि न दोषः । निरन्वयोपासकानां तदपे- क्षाभावात्' इति निर्गुणोपासकानामचिरादिगत्यनपेक्षाहेतुना स्वयं तदुपापादनं कृतम् । तदापीतेस्संसारव्यपदेशात्' (ब्र. ४. २, ८. सू) इत्याधिकरणे सर्वेषां ब्रह्मोपासकानामपि शरीरपातसमये प्राणानां जीवाविश्लेषेणोत्क्रान्तिरस्ति । तत्पूर्विका गतिश्चेति सिद्धान्तप्रदर्शनार्थ प्रवृत्ते ‘अचिरादिना तत्प्रथितेः' (ब्र. ४. ३. १. सू) इत्यधिकरणे सर्वेषां ब्रह्मोपासकानामचिरादिगतिरेकैव न तु मार्गान्तरमस्तीति निर्णयार्थ प्रवृत्ते च निरन्वयोपासकानां नोक्रान्ति प्यचिरादिगतिः' इत्येतन्मतान्तरमुपन्यस्तम् । एवं यत्रयत्र गत्युक्रान्त्योस्सर्वोपासकसा- धारण्योक्तिः प्रसक्ता तत्र सर्वत्रापि निर्गुणोपासकसाधारण्यशंकापरि- हारार्थमस्य मतस्योपन्यासात् स्वयं तदुपपादनाचास्य स्वाभिमतत्वमुन्नी- यते । तथा 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च' इत्य (०.४.१. ३.सू.)धिकरणे सगुणब्रह्मोपासनापि जीवाभेदविषयेति व्यवस्थापितम् । तादर्येनैव तदधिकरणं प्रवर्तितम् । तथा जन्माधिकरणारंभाधि- करणयोः ‘सन् घट' इत्यादिप्रत्यक्षस्य प्रपञ्चसत्यत्वविषयत्वं परिहृत्य 'मृद्धट' इत्यादिप्रत्यक्षवदुपादानतादात्म्यविषयत्वं प्रदर्शितम् । एवमादिभिः बहुभिः प्रकारे वाभिन्नं निष्प्रपञ्चं ब्रह्मेति भाप्यका- .
क्तिगर्भितो हि शिवः केवलो भवति । पुनः स्वात्मिकां तादृशीं शक्ति पू- र्वदशाविरोधिस्थूलत्वयुक्तनामरूपविभागार्हदचिद्रूपां वहिविस्तारयति' इति च ब्रह्मशक्तेम्सकलचेतनाचेतनप्रपञ्चाकारत्वमुक्तम् । एवमन्ये- चन्द्रिकासहिता। -- रैश्शुद्धाद्वैतं स्वाभिमतत्वेनाविष्कृतमेव । न तु तत्त्यक्तमित्यर्थः॥४८॥ अत्रैव गमकान्तराण्युदाहरति- चिञ्चक्ति ब्रह्मणो यत्सकलचिदचिदाकारशालिस्वरूपा सत्तां तस्य स्वरूपं यदापि गुणगणं यच्च तन्निर्विकारम् । आचार्याः प्रोचुरेतैर्दृढमधिगमितं निर्विशेष तदिष्टं जीवास्तेनैक्यभाजो वियदनिलमुखास्तद्विवर्ता इतीदम् ।। इह भाप्ये ब्रह्मणश्चिच्छीक्त सकलचेतनाचेतनप्रपञ्चाकारापन्नस्वरूपां तामेव ब्रह्मणः स्वरूपभूतां शिवशंभुशंकरादिसकलनामधेयप्रवृत्तिनिमि- तपर्यंततीयनिखिलगुणगणात्मिकां ब्रह्म च निर्विकारमाचार्याः प्रति- पादयामासुः । तद्यथा-प्रथमसूत्रमाप्ये तावत् 'ततस्सकलचिदचित्पप- चाकारपरमशक्तिविशिष्टाद्वितीयवैभवस्य सकलनिगमसाररहम्यनिधा- नस्य भवशिवशर्वपशुपतिपरमेश्वररुदशंभुप्रभृतिपर्यायवाचकशब्दसार- प्रकाशितपरममहिमविलासस्य म्वशेषभूतसकलचेतनसमुपासनानुगुण- समुदितनिजप्रसादसमर्पितपुरुषार्थसार्थस्य परब्रह्मणः प्रतिपादकमुप- निपच्छास्त्रं विचारणीयम्' इति शक्तस्सकलचेतनाचेतनप्रपञ्चाकरत्वमु- क्तम् । तथा जन्मादिसूत्रभाप्ये निखिलजगदण्डपण्डबुद्बदनिकुरुंबज- लाधिस्थनीया परप्रकृतिरूपा परमशक्तिर्हि चिदंबरमुच्यते । तस्वरूपं ब्रह्माकाशशरीरम्' इति ईक्षत्यधिकरणभाप्ये स्थूलसूक्ष्मचिदचित्प्रपञ्च- रूपशक्तिविशिष्टः परमेश्वर एव कार्यकारणरूपसत्पदविषय' इति आ. रंभणाधिकरणमाप्ये स्वाभिन्ननामरूपविभागानई सूक्ष्मचिदचिद्रूपपरश- ११२ आनन्दलहरी प्वपि बहुपु प्रदेशेवयमर्थ उद्घोषितः । तथा शस्तब्रह्मस्वरूपात्म- कत्वम् 'ईक्षतिकर्मव्यपदेशात्सः (ब्र. १. ३. १२.सू ) इत्यधिकरणे वर्णितम् । तत्र हि 'एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोंकारः' इत्या- दिसत्यकामप्रश्नोत्तरसन्दर्भे एकमात्रप्रणवोपासनस्य तत्प्रथममात्रात्मक- ऋक्पापणीयमनुष्यलोकप्राप्तिफलं द्विमानप्रणवोपासनस्य तद्वितीय- मात्रात्मकयजुःप्रापणीयान्तरिक्षलोकप्राप्तिफलञ्चाभिधाय यदाम्नायते 'यः पुनरेतं त्रिमात्रेणैवोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते एवं हवै स पाप्मना विनि- र्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरि- शयं पुरुषमीक्षते' इति । तत्र ब्रह्मलोकः परब्रह्मणश्शिवस्य लोकस्तस्मि- निरीक्षणीयः पुरुषशिशव इति सिद्धान्तोऽभिमतः । तदर्थमिह ब्रह्मलोको विष्णुलोकः 'ऋग्भिरेतं यजुभिरंतरिक्षं स सामभिर्यत्तत्कवयो वेदयन्त' इत्युक्तार्थसंग्राहके तदनन्तरमन्त्रे तद्विष्णोः परमं पदम्' इति मन्ले- ण विष्णुलोके प्रतिपन्नम्य विद्वदनुभवविषयत्वस्य तस्मिन्ब्रह्मलोके प्रत्यभिज्ञायमानत्वात् । अतस्तस्मिन्निरीक्षणीयः पुरुषो विष्णुरेवेति पू- र्वपक्षमुपन्यस्य सिद्धान्ते तदनुवादपूर्वकं तन्निरास इत्थं कृतः 'यदुक्तं तद्विप्णोः परमं पदं' इति तत्र प्रपञ्चाकारत्वमन्तरेण यन्निरति- शयानन्दस्वभावं विष्णोः परमं पदं रूपं तदेव शिवाभिधेयं परं- ब्रह्मेत्यविरोधः । अतो विष्णुशिवयोरुपादाननिमित्चयोरवस्थाभेदमन्त- रेण स्वरूपभेदो नास्ति' इति । अत्र शिवलोके 'तदिप्णोः' इति मन्त्रार्थ- प्रत्यभिज्ञानसंघटनाथ तस्य मन्त्रस्य शिवलोकविषयत्वमेव वक्तुं युक्तम् । न तु शिवविषयत्वम् । अत एव 'सोऽध्वनः पारमामोति । तद्विष्णोः परमं पदम्' इति मन्त्रस्य शिवलोकाविषयत्वं कार्य ।
चन्द्रिकासहिता। - वादरिरस्य गत्युपपत्तेः' (ब्र. ४. ३. ६.सू ) इत्यधिकरणभाप्ये वर्णि- तम् । 'तद्विष्णोः' इति मन्त्रस्यैतद्भाप्यदर्शितार्थावलंबनेन शिव- विषयत्वमुपपादयितुमप्यशक्यम् । न हि प्रपञ्चाकारेणावस्थितस्य विष्णोशिशवस्साक्षात् स्वरूपमिति भाष्यकारसिद्धान्तः । किं तु शिव- शक्तिरूपः परमानन्दस्तस्य साक्षात्स्वरूपमिति । तस्य शिवशक्त्य- वस्थारूपत्वमेव हि प्रकृत्यधिकरणभाप्यादिषु प्रतिपादितम् । तस्मादि- स्थमस्य भाप्यस्यार्थो वर्णनीयः । 'प्रपञ्चाकारत्वमन्तरेण यन्निरतिश- यानन्दस्वभावं विष्णोः परमं पदं रूपम्' इत्यनेन जगदाकारपरिण- तविण्यवस्थाप्रकृतिभूता चिच्छक्तिरुच्यते । सैव परमशिवलोकत- यापि वर्तत इति तेन तद्विष्णोः' इति मन्त्रस्य शिवलोकविषयत्वं दर्शितं भवति । 'तदेव शिवाभिधेयं परं ब्रह्म' इति तस्याश्शिवस्व- रूपाभिन्नत्वमुच्यते । ननु, प्रत्यभिज्ञानाविरोधसंघटनार्थ तद्विष्णोः' इति मन्त्रस्य शिवलोकाकारतापन्नचिच्छक्तिमानविषयत्वं वक्तव्यम् । चिच्छक्तश्शिवस्वरूपाभिन्नत्ववचनं तु तत्र नोपयुज्यत इत्याशंक्य शंकाविशेषनिरासेन तदुपयोग सूचयितुं यतश्शिवविष्णोः' इत्यादिवा- क्यम् । इयमत्र शंकोत्तिष्ठति । विष्णोः परमं रूपं शिवशक्तिरित्ययुक्तम्। पुराणेतिहासादिषु विष्णोशिशवाभिन्नत्वस्यैव बहुधा प्रतिपादितत्वा- दिति । तत्रायं परिहारोऽनेन वाक्येन सूचितः । यतो विष्णोश्शिवात् स्वरूपभेदो नास्ति तत एव विष्ण्ववस्थाप्रकृतिभूतायाः शक्रपि शिवात्स्वरूपभेदो नेप्यते। कूर्मपुराणादिषु शिवस्य शक्तर्विष्णोश्चैक्य- प्रतिपादनदर्शनात् । कूर्मपुराणे-'दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च । प्रणम्य देवमीशानं पृष्टवत्यो वराङ्गनाः । कस्त्वं विभ्राजसे कान्त्या (१) 'लाशंकाविशेष' इति स, पाठः । 15 आनन्दलहरी - केयं बाला रविप्रभा । को न्वयं भाति वपुपा पङ्कजायतलोचनः । निश- म्य वचमं तासां वृपेन्द्रवरवाहनः । ब्याजहार महायोगी भूताधिपति- रव्ययः। अयं नारायणो देवी जगन्माता सनातनी। विभज्य संस्थिता देवी स्वात्मानं बहुधेश्वरम् । न मे विदुः परं तत्त्वं देवाद्या न मह- र्पयः । एकोऽहं वेद विश्वात्मा भवानी विष्णुरेव च । अहं हि नि- क्रियो धाता केवलो निप्परिग्रहः। मामेव केवलं देवमाहुर्देवीमथा- म्बिकाम् ॥' इत्यादिपु बहुपु प्रदेशेषु शिवम्य शक्तर्विष्णोश्चैक्यं प्रति पादितम् । यत्तु 'त्रिविधां भावनां ब्रह्मन्प्रोच्यमानां निबोध में । एका माद्विषया तत्र द्वितीयाव्यक्तसंश्रया । अन्या तु भावना ब्राह्मी विज्ञेया सा गुणातिगा । आसामन्यतमां वापि भावनां भावयेद्बुधः । अशक्तस्संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः' इतीन्द्रद्युम्न प्रति भगव- द्वचने 'योगी च निविघो ज्ञेयो भौतिकस्सांख्य एव च । तृतीयो- ऽत्याश्रमी प्रोक्तो योगमुत्तममाश्रितः। प्रथमा भावना पूर्व सांख्ये त्वक्षरभावना । तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी' इत्युत्तरो- सरोत्कृष्टत्रिविधयोगिसंन्यासिविभागे च विष्णुशक्तिशिवभावनाना- मुत्तरोत्तरोत्कृष्टत्वमुक्तम्। यच्चन्द्रद्युम्नस्य बहुकालं नारायणमुपासितवतः 'संप्राप्य भावनामन्त्यां ब्राझीमक्षरपूर्विकाम् । अवाप परमं योगं येनैक परिपश्यति । यं विनिद्रा जितश्वासा- कांक्षन्ते मोक्षकाशिणः ।' इति तदनन्तरमक्षरशब्दोक्ताशक्त्युपासनपूर्वकेन परमेश्वरोपासनेनाद्वितीय त्र- मसाक्षात्कारोपयोगितन्निदिध्यासनानुष्ठानमुक्तम् । तेन सर्वेणाप्येकस्यैव परब्रह्मणश्शिवशक्तिविष्णुरूपेण स्थितस्य तेन तेन रूपेणोपासना- मानस्य फलभेदेन भेदस्सियतीति नैतावता तेषां परस्परभेदः शङ्कनी. यः । एवमादित्यपुराणादिप्वपि तेषामैक्यप्रतिपादनमुदाहर्तव्यम् । एवं . .
चन्द्रिकासहिता । तावत् 'तदेव शिवाभिधेयं परं ब्रह्म' इति ईक्षतिकर्माधिकरणभा- प्येण शक्तश्शिवस्वरूपात्मकत्वमुक्तम्। तथा शक्तश्शिवस्वरूपात्मकत्वं तदीयसकलगुणगणरूपत्वञ्च सर्वत्र प्रसिद्धोपदेशात्' इत्यधिकरण- भाप्ये प्रपञ्चितम् । श्रुतिस्मृतीतिहासपुराणाभियुक्तसूक्तिप्रामाण्यात् सकलचिदचित्रपञ्चमहाविभूतिरूपा महासविदानंदसत्ता देशकालादि- परिच्छेदशून्या स्वाभाविकी परमशक्तिः परब्रह्मणश्शिवस्य स्वरूपञ्च गुणश्च भवति । तद्वयतिरेकेण ब्रह्मणस्सर्वज्ञत्वसर्वशक्तित्वसर्वनियन्तृ- त्वसर्वोपास्यत्वसर्वानुग्राहकत्वसर्वपुरुषार्थहेतुत्वादिकं सर्वगतत्वञ्च न संभवति । किञ्च, महेश्वरशिवमहादेवरुद्रादिपरमाख्यानामभिधेयत्वञ्च न संभवतीति । परब्रह्मणो निर्विकारत्वं प्रकृत्यधिकरणे शंकोत्तराभ्यां प्रपञ्चितम् । तत्र हि 'नन्वज्ञानविकारास्पदहेयप्रपञ्चरूपेण प्रकृतिभावेन कथं वर्तते निरस्तसमस्तदोषकळंको निस्सीममंगळगुणरत्नाकरो निरंकु- शनित्यसिद्धवैभवः प्रपञ्चातीतः परमशिव' इत्याशंकोत्तरत्वेनावता- रितम्य 'परिणामात्' इति (न. १. ४. २६.) सूत्रस्य व्याख्या- नावसरे नित्यशुद्धानन्दस्य निरतिशयमंगळस्वभावस्यापि निमित्तस्य परमशिवस्य प्रकृतित्वेन जगदाकारत्वं युक्तमेव चिदचिदाकारेण परि- णामात्' इति सौनहेतुवचनम्य शब्दार्थ प्रदर्य 'हन्त कारणविकार- रूपो हि परिणामः पूर्वरूपपरित्यागेन रूपान्तरापतिः परिणाम इति कथं परमेश्वरोऽनर्थधर्मात् परिभ्यते' इति तत्र शंकामुद्भाव्य 'यथा निमित्तस्य प्रकृतित्वेऽपि न विकारादिस्पर्शः. तथा परिणामस्संभवति' इति गूदाभिसन्धितयोत्तरमुक्त्वा कोऽयमपूर्वः परिणामः कुतूहलिनो वयं तच्छवणे विविच्यताम् इति पुनराकांक्षामुद्भान्य शृणु विवेचयाम' इति तदुत्तरोक्ति प्रतिज्ञाय ' यदातमो' मन्त्रार्थविवरणपूर्वकं शिवम्य आनन्दलहरी परब्रह्मणः प्रज्ञारूपचिच्छक्तिद्वारकः परिणामस्स तु न स्वरूपतो निर्वि- कारत्वस्य विरोधीयुक्तम्। एवं जन्मादिसूखभाप्यादिप्वपि ब्रह्मणो नि- विकारत्वमुक्तं द्रष्टव्यम् । इत्थंभूतैरानार्यवचनम वस्तुतो निर्गुणमेव तेपामभितं जीववर्गस्तदभिन्नो गगनपवनादिजडवर्गस्तद्विवर्त इत्ये- व निर्गुणं जीवाभिन्नं निष्प्रपञ्चं शुद्धाद्वैतरूपं ब्रह्म तेषां मतमिति दृढमवगमितम् । चिच्छतेब्रह्माभेदे तदीयसकलधर्मरूपत्वे च ब्रह्म हि वस्तुत. स्वव्यतिरिक्तधर्मरहितं निर्धर्मकमित्येव सिद्ध्यति । तथा सकलचेतनप्रपञ्चाकारायाश्चिच्छतेब्रह्माभेदे चेतनवर्गस्यापि तदभेद- स्सिद्ध्यति। ब्रह्माभिन्नायाश्चिच्छक्तेम्सकलचेतनप्रपञ्चाकारत्वस्याभ्युपग- मेऽपि ब्रह्मणस्तदभेदो न सिद्ध्यति । तस्या नित्यवियदादिप्रपञ्चाकार- ताभ्युपगमे निर्विकरत्वाभ्युपगमविरोधापत्ते. । किञ्च प्रपञ्चस्य ब्रह्मविव- तत्वमेव सिद्ध्यति । न च ब्रह्मचिच्छक्त्योस्तात्त्विकाभेदेऽपि गार्गिब्राह्म. णदहरविद्यानन्दवल्ल्यादिसिद्धस्य धर्मधर्मिभावासनासनिभावादिकृतभे- देव्यपदेशम्याप्यवश्याभ्युपगन्तव्यादद्वैतवादे जीवब्रह्मणोरभेदेऽपि व्य- वहारिकभेदाभ्युपगमेन कर्तृत्वभोक्तृत्वतदभावव्यवस्थावत् ब्रह्मचिच्छ- क्त्येनिर्विकारत्वसविकारत्वव्यवस्था सिद्ध्यति, अतो न ब्रह्मनिर्विका- रत्वाभ्युपगमेन प्रपञ्चस्य ब्रह्मविवर्तत्वसिद्धिरिति वाच्यम् । तथापि परमुक्तिदशायां व्यावहारिकभेदनिवृत्त्या जीवगतकर्तृत्वभोक्तृत्वादिवत् चिच्छक्तिगतजडप्रपञ्चस्यापि निवृत्तेरवश्यवक्तव्यत्वेन ब्रह्मविवर्तत्वसि. द्वयनिवारणात् । चेतनप्रपञ्चस्य तु जडप्रपञ्चवद्ब्रह्मविवर्तत्वं न सिद्धय- ति । तथात्वे तम्य मुक्तिफलभाक्त्वाभावप्रसंगात् नित्यस्य तस्य ब्रह्मा- भेदे ब्रह्मनिर्विकारत्वबोधाप्रमंगाच्च । एवञ्च ब्रह्माद्वैताभ्युपगमविषये शं- १ दिनु' इति स. पारः । २ 'व्यावहारिकभदख' इति स्व. पाटः ।
चन्द्रिकासहिता। ११७ कोक्तः करभगवत्पादीयमतादाचार्यमते न कश्चिद्विशेषः। तन्मतेपि हि ब्रह्मणश्चै- तन्यरूपा जगदाकारपरिणामिनी चिच्छक्तिम्तावदस्ति । 'चिच्छक्तिः परमेश्वरस्य विमलं चैतन्यमेवोच्यते तस्यैवास्य जडापरा भगवतश्शक्ति- स्त्वविद्यात्मिका। संसर्गाच मिथस्तयोर्भगवतश्शक्त्योर्जगजायते सच्छ- क्त्या सविकारया भगवता चिच्छक्तिरित्युच्यते ॥' इति संक्षेपशारीर- । सा च न ब्रह्मव्यतिरिक्ता व्यावहारिकभेदमात्रवती । तदन- न्तरमेव 'इत्ययं कथयन्ति केचिदपरे श्रद्धाळवस्तत्पुनः कस्याश्चिद्भुवि सम्मतच विदुपां नेष्टञ्च भूभ्यन्तरे । कर्मोपास्तिविधानभूमिपु तथा तत्संमतं निर्गुणे तत्त्वे तत्परवेदयाक्यविषये त्यालोचित नेप्यते' इति संक्षेपगारीरकोक्तेः । तथा तन्मतेऽपि ब्रह्मणो धर्मास्सन्ति व्यवहारद- शायां प्रथग्भूताः । 'आनन्दो विषयानुभयो नित्यत्वचेति सन्ति धर्माः अपृथरत्वेऽपि चतन्यापृथगिवायभामन्त' इति पञ्चपादिकोक्तः । तथा तैरपि व्यवहारसियर्थ प्रसक्तप्रतिपधसियर्थ च प्रपञ्चाय परिणामि- ताभ्युपगमपूर्वकमेव विवर्ततापर्यवमानं कृतम्। यथोरतं सक्षपशारीरके 'आरम्भसंहतिविकारविवर्तवादानाश्रित्य यादिजनता सलु यावीति । आरम्भमंहनिमते परिहत्य वादी द्वायत्र संग्रहपदं नयते मुनीन्द्रः ॥ तत्रापि पूर्यमुपगम्य विकारयादं भोक्त्रादिस्यमयतार्य विगधनुत्यै । पायर्गत व्यवाहने. परिरक्षणाय धर्मादिगोनविधायुपयोगहेतोः ।। साक्षा- दिहामिमनमेव विवर्सवादमादत्य त्रयनि पूर्वमुपेक्षमाणः । आरम्भणा- दियननेन वियरवादं मपनौनि वानुमुदिन परिणामयाद ॥ आग्य भनिमपगामिनगधिगद् गानानि मामार कारणहार्यभायम् । उकया पुग परिजनितिपादन मंन्यपोहनि विकारमपात्यगिद्ध। गियारम्परिपूर्णमिदानमा परिनामवादः । व्यन्मिनेऽस्मिन् ११८ आनन्दलहरी परिणामवादे स्वयं समायाति विवर्त्तवादः ॥ उपायमातिष्ठति पूर्वमुच्चै- रुपेयमाप्तुं जनता यधैवम् । श्रुतिर्मुनींद्रश्च विवर्तसिद्धय विकारवाद वदतस्तथैव ॥ अहं प्रजायेय बहु स्वयं स्यामित्यादिनादौ परिणाममुक्त्वा। विकारमिथ्यात्वमथ ब्रुवन्ती वित्तर्वादं श्रुतिरानिनाय !!' इति ॥ ४९।। अथ जीवानां ब्रह्माभिन्नत्वम्य जडानां ब्रह्मविवर्त्तत्वस्य चोपपादके सकलचेतनाचेतनप्रपञ्चाकारायाश्चिच्छक्तब्रह्माभेदे भाप्यसंप्रतिपत्तौ ग- मकान्तरमुदाहरति- आध्यानादिक्रियायां परमशिवपदं प्रेप्सतामान्तराणां ध्येयत्वं वारयित्वा त्यजति विधिबलात्तद्विरोधप्रशान्त्यै । पागानन्दाधिकारे परमशिवमिव ध्येयमुक्तं विमुक्त्यै चिच्छक्त्यात्मानमानंदमयमभिदधुर्भाष्यकारास्तमेव ।। ५० ॥ अत्रेयं विषयशुद्धिः । आनन्दादय. प्रधानस्य' (ब्र. ३.३.११.) इत्यधिकरणे ‘यन्निरतिशयज्ञानानन्दादिगुणजातं कृष्णपिंगळत्वविरू- पाक्षत्वादिविशिष्टदिव्यमंगळविग्रवैशिष्टयं च परब्रह्मणः खरूपलक्षण- मिप्यते । तद्ब्रह्मविष्ण्वादिसकलेतरविलक्षणपरब्रह्मप्रतिपत्तये सर्वास्वपि विद्यासु प्रकरणभेदेऽप्युपसंहार्यम्' इति प्रसाध्य तदनन्तरं 'प्रियशिर- म्त्वाद्यप्राप्तिः' इत्य(व. ३.३.१२. सू.)धिकरणे 'ब्रह्मधर्मनिरतिशयज्ञा- नोपसंहृतौ तदवान्तरविशेषाणां सत्यसंकल्पत्वादीनामियानन्दमयश- ब्दोक्तनिरतिशयानंदोपसंहारे तदवान्तरविशेषाणां प्रियशिरस्वादी- नामप्युपसंहारः कार्य' इत्याशंक्य प्रियादीनामानन्दविशेपत्वेऽपि तेषां शिरस्त्वादेब्रह्मानन्दगतनिरतिशयत्वप्रतिपत्तिसौकर्याथै कल्पितत्वान्न ते- पामुपसंहार' इति प्रसाधितम् । तदनन्तरम् ' आध्यानाय प्रयोजना- १२० आनन्दलहरी मासहायत्वमपि तस्य ध्यानकालेऽनुसन्धयं नस्यात् । सर्वेतरपरित्याग- विरोधात् सर्वमन्यत्परित्यज्य' इत्यन्यशब्देनैव प्रकृतग्रह्मविष्णुरुद्रेन्द्रप्र- हणसंभवे अधिकस्य सर्वशब्दस्य शिवतरसर्वदेवतापरित्यागविध्यर्थला- त्। न चान्नमयशब्दोक्तचिच्छक्त्यात्मिकाया उमायाशिवाभिन्नत्वात् परित्यागविधेर्न तद्विपयत्वप्रसक्तिरिति वाच्यम् । 'अन्योऽन्तर आत्मा इत्यादावन्नमयादिषु श्रुतस्यात्मशब्दस्यानन्दमयेऽप्यविशेषेण सद्दान- न्दमयस्यापि जीवत्वौचित्यात् । अन्यथात्मश्रुत्यविशेषेणान्नमयादीना मपि शियाभेदप्रसङ्गादित्याशङ्कानिराकरणार्थ 'आत्मगृहीतिरितरवदुत्त- रात्' (न. ३.३. १६. सू) अन्वयादिति चेत्स्याढवधारणा(प्र.३.- ३. १७. सू)दिति तस्मिन्नेवाधिकरणे गुणसूत्रद्वयं कृतम् । आद्यसूत्र स्यायमर्थः, आनन्दमये आत्मग्रहणं परमात्मविषयम् 'आत्मन आ काशम्सम्भूत' इति जगत्कारणे आत्मग्रहणवत् । न त्वन्नमयादिविव जीवविषयम् । उत्तरसन्दर्भात् । उत्तरत्र ह्यन्नमयादिकमुपसङ्क्रान्तस्येवान- न्दमयमुपसंक्रान्तम्य उपसंक्रमितव्यान्तरोक्त्यभावेन तत्प्राप्तेर्मुक्तिरूप- त्वमवगम्यते । तथा च जीवपरसाधारणग्यात्मशब्दस्य तत्र तत्र यथा- हमर्थग्रहणं युक्तम् । अत्रात्मशब्दस्य जीवविषयत्वं नियतं दृष्टमिति प्रायपाठाशंका तु 'इतरवत्' इति सौत्रपदनैव निरस्ता । तस्मादुमाया शिवाभिन्नत्वात् शिवध्यानकाले तदनुसन्धानं न विरुध्यत इति । नन्वेवमन्नमयादिशब्दोक्तानां ब्रह्मादीनामपि पूर्वापरवाक्ययोः परमा- त्मपरतया क्लप्तेनात्मशब्देनान्वयात्तेपामपि शिवध्यानकालेऽनुसंधान भवेदिति शंकानिराकरणाथै द्वितीयसूत्रम्। तस्याप्ययमर्थः। 'अन्योऽन्तर आत्मानन्दमय' इत्यानन्दमयस्य शिवाभिन्नस्यान्नमयादिभ्यो भिन्नत्वा- वधारणात् अन्नमयादीनां शिवाभेदो नोपपद्यते । नन्वानन्दमयश. .
चन्द्रिकासहिता। ब्दोक्तायास्सकलचेतनाचेतनप्रपञ्चाकारायाः शक्तेशिवाभेदेन तद- मिन्नानां प्रकृतब्रह्मादिशब्दोक्तचेतनानामपि शिवाभेदः स्यादेवेति तेषां परित्यागोक्तिरर्धजरतीयन्यायावलंबनैवेति चेन्न । 'सर्वमन्यत्प- रित्यज्य' इत्ववधारणदर्शनात् । तस्यावधारणस्य प्रकृतब्रह्माद्यविषयत्व हि कस्तस्य विषयः स्यात् । नाचेतनवर्गः प्रकृतब्रह्मादिन्यतिरिक्तचेतन- वर्गों वा । अन्यशब्दस्य सर्वनामशक्तिस्वाभाव्येन प्रतियोगिभूतशिव- सदृशबुद्धिस्थब्रह्मादिचेतनपरत्वावश्यंभावात् चेतनान्तराणामपि ब्रह्मादि- वत् शिवाभिन्नत्वेन तद्विषयत्वेऽप्यनुपपचितौल्याच। तस्माद्वस्तुतः शिवा- भिन्नस्य चेतनस्य परित्यागोऽत्र न विधेयः । किं तु शिवात् भेदेन प्रतीय- मानस्य । अत एव ब्रह्मविद्यासु शिवोऽहमिति शिवाभेदेनानुसन्धेयस्य स्वात्मनो न परित्यागः । अतः प्रतिपर्याय 'अन्योऽन्तर आत्मा' इति श्रवणादन्नमयादीनां शिवात् परस्परम्माच्च भेदप्रतीतेस्तेषां परित्यागः । उमायास्तु यद्यपि “परमे व्योमन्' इति स एको ब्रह्मण आनन्द इति च भेदः प्रतीयते । तथाप्यासनरूपेण निरतिशयानन्दरूपेण च सा भेदपतीतिर्न त्वविकात्मकचेतनरूपेण । तेन तु रूपेणाभेद एव प्रतीयते । 'पुरुष कृष्णपिंगळम्' इत्यस्य सर्वविद्यासूपसंहतेरानन्दाधिकरणे सम- थितत्वेन 'कृष्णपिंगळम्' इत्यनेन शिवस्यैवांविकामूर्त्या कृष्णवर्णत्वं पुरुषमूर्त्या रुक्मवर्णत्वमिति शिवशक्त्यभेदगर्भीकरणात् । तस्मादुमाया इवानमयादीनां शिवघ्यानकालेऽनुसन्धानं न कार्यमिति । एवमिहान- न्दमयरुपा चिच्छक्तिः परमात्मा शिव एव ततो न भियते इत्याचा- *: आत्ममहीतिसूत्रार्थत्वेन वर्णितम् । न च तद्भाप्यमानन्दमयः परमात्मा शिव इत्यानन्दमयाधिकरणप्रथमपक्षमाश्रित्यानन्दमयस्य पर- मात्मत्वमापनपरं न वानन्दमयदशक्तिरिति तदधिकरणद्वितीयपक्ष- . ..
१२२ आनन्दलहरी . माश्रित्य शक्तेः परमात्माभेदसाधनमिति वाच्यम् । प्रथमपक्षाश्रयणे आनन्दमयः परमात्मेत्यस्वार्थस्यानन्दमयाधिकरण एव सिद्धत्वेन तत्र तत्साधनस्यानपेक्षितत्वादानन्दमयाधिकरणद्वितीयपक्ष एव भाष्यकारा- भिमत इति जन्मादिसूत्रमाप्येण स्पष्टमवगतत्वाच्च । तस्मादाध्याना- धिकरणे भाप्यकारैश्शक्तश्शिवामेदः प्रसाधितः समञ्जस एव ॥५०॥ अथ जीवब्रह्मामेदो भाष्यकाराभिमत इत्यत्र गमकान्तरमुदाहरति- आचार्यास्तत्र तत्र व्यधुरधिकरणे पूर्वपक्षावलंब जीवनमाविभेदममितिकरवरस्तखमस्यादिवाक्यः । तत्सिद्धान्तप्वकार्पः कथमपि न पुनस्तत्र तात्पर्यभंग प्रत्याचख्युस्तमंशाधिकृतिकृतमथाहंग्रहाधिक्रियायाम् ।। ५१ जीवब्रह्माभेदप्रमाणमूर्धन्यानि 'तत्त्वम'स्यादिवाक्यानि केषुचि- दधिकरणेषु पूर्वपक्षावलंबनस्वेन भाष्यकारैरुदाहृतानि । यथा-प्रथमा- धिकरणे ‘जीव एव ब्रह्म स च सर्वेषामसन्दिग्धाविपर्यस्तप्रत्यक्षानुभव- सिद्ध इति तम्याविचारणीयत्वात् ब्रह्मविचारात्मकं शास्त्रं नारंभणी- यमिति पूर्वपक्षस्य, तृतीयपादाकाशाधिकरणे 'नामरूपनिर्वोदृत्वेन श्रुत आकाशो न भूताकाशो जीवो वा किंतु परमेश्वर' इति निर्णयार्थ प्रवृत्ते जीवातिरिक्तपरमेश्वराभावात् निर्विषयम्सिद्धान्त' इति पूर्वपक्षस्य ‘सुपु- प्युत्क्रान्त्याभेदेन । (न. १. ३. ४३. सू.) पत्यादिशब्देभ्यः (न. १. ३. ४५. सू.) इति गुणसूत्राभ्यां निवर्तनीयस्य, आरंभणाधिक- रणे वेदान्तेषु जीवस्य ब्रह्मानन्यत्वत्र्यपदेशात् ब्रह्मणो जगत्सष्मृत्वां- गीकारे स्वाभिन्नस्य जीवम्य जगत्सृष्टिहिता जगत्सृष्टिरहितेति जान- तस्तम्य हिताकरणमहितकरणञ्च' प्रसज्येते' ति पूर्वपक्षस्य 'इतर- न्यपदेशादिताकरणादिदोषप्रसक्तिः' इति (न. २. १. २१.) सूत्रेण .
चन्द्रिकासहिता। . . उद्भाव्य अधिकं तु भेदनिर्देशात् (व.२.१.२२. सू) अश्मादिवञ्च तदनुपपत्तिः' इति (व. २. १. २३.) सूत्राभ्यां निवर्तनीयस्य, पुरु- पार्थाधिकरणे जीव एव ब्रह्मेति तद्ज्ञानस्य कर्तृसंस्कारद्वारा क्रत्वर्थत्वा- त् 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादितत्फलश्रवणं 'यदाके चक्षुरेव भ्रातृव्यस्य वृझे' इति दीक्षितांजनफलश्रवणमिवार्थवाद' इति पूर्वप- क्षम्य 'शेषत्वात्पुरुषार्थवादो यथान्येप्विति जैमिनिः' इति (ज. ३. ४. २.) सूत्रेणोद्भाव्य ‘अधिकोपदेशात्तु बादरायणस्यैवं दर्श- नात्' इति (प्र. ३. ४. ८.) सूत्रेण निवर्तनीयस्य चावलंघनत्वेन पूर्वपक्षमाप्येषु महावाक्यान्युदाहृतानि । तचसिद्धान्तभाप्येषु तु तानि जीवब्रह्माभेदपराणि न भवन्ति किंतु 'ब्राह्मणो विद्वान्' इतिवदपृथक् सिद्धपराणि 'वाचं धेनुम् ' इतिवदुपासनापराणि वेति न क्वाप्युक्तम् । यद्यपि 'अंशो नानाव्यपदेशात्' (व. २. ३. ४२. सू) इत्यधि- करणे ब्रझैवोपाधिवशात् जीवभावमापद्यत इति पूर्वपक्षनिराकरणार्थ प्रवृत्ते "तत्त्वमसि' 'अयमात्मा ब्रह्म' इत्यादिकाद्यपदेशात् तयो- जीवनह्मणोाप्यव्यापकभावेनानन्यत्वम्' इति सिद्धान्तभाष्येण योगिशरीराणां व्यापीयानां तद्व्यापकस्येव योगिनश्च यथा व्याप्य- व्यापकभावेनाथसिद्धिरुपमनन्यत्वं तथा जीवानां ब्रह्मणश्चेत्यर्थन महावाक्यान्यन्यपराणि न तु जीवब्रह्माभेदपराणीत्युक्तमेव । तथापि 'आत्मेति तूपगच्छन्ति पाहयन्ति च' (ब्र. १. १. ३. सू.) इत्यह- ग्रहाधिकरणे महावाक्यानामभेदपरत्वव्यवस्थापनेनाचार्यरेव तत्मत्या- ज्यातम् । तत्र हि 'विश्वाधिको रुद्रो महर्षिः' । अधिकं तु भेद- निर्देशात्' इत्यादिश्रुति (ब्र. २. १. २२.) सूत्रेषु प्रत्यगात्मनः पेशा वात्पत्युः परममणोऽधिकत्वेन निरूपितत्वादशलसर्वज्ञात्वादि- . . ।
१२४ आनन्दलहरी . गुणैयूँनाधिकभावस्य संप्रतिपन्नत्वाच मुमुक्षुभिब्रह्मोपासनं स्वशेषित्वा- दिप्रकारेण स्वभिन्नतयैव कार्य न तु स्वात्मतयेति पूर्वपक्षनिराकरणार्थ प्रवृत्ते सिद्धान्तभाप्ये 'यद्यपि जीवदाधिकमेव शिवाल्यं परं ब्रह्म तथाप्युपासिता “अहं ब्रह्मास्मि' इति तदुपासीत, यतः पूर्वेऽप्युपा- सितारः 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' इत्या- स्मेत्येवावगच्छन्ति । उपासितुरन्तरत्वेऽपि तानुपासितॄननुगृह्णाति स्वखरूपतया परं ब्रह्म, ते च पुनः खात्मतया ग्राहयन्ति च परानपि शिप्यान् 'तत्त्वमसि' इत्यादिना" इति । अत्र 'तत्त्वमस्या' दिवा- क्यानामभेदार्थत्वप्रदर्शनेन प्रागुक्तं शरीरशरीरिभावकृतापृथसिद्ध्य- र्थत्वं प्रत्याख्यातमिति स्पष्टमेव । तदुपपादनार्थमेव त्वं वा अहमस्मि' इति जाबालवाक्यमुदाहृतम् । यदि शरीरशरीरिभावनिबन्धनं सामा- नाधिकरण्यं तदानीम् अहं वै त्वमसि' इति निर्देश एवोपपद्यते । त्वंशब्दनिर्दिष्टे परमेश्वरे स्वशरीरकत्वपर्यन्तस्याहंशब्दस्य वृत्त्युपपत्तेः । 'त्वं वा अहमस्मि' इति निर्देशस्तु नोपपद्यते । अहंशब्दनिर्दिष्टे परमेश्वरशरीररूपे स्वस्मिन्परमेश्वरवाचिनस्त्वंशब्दस्य वृत्त्यनुपपत्तेः | शरीरवाचिनां हि शरीरिपर्यन्तत्वं व्युत्पत्तिसिद्धं न तु शरीरिवाचिन शरीरपर्यन्तत्वम् । अतो भेदाभेदशंकानिराकरणेनाभेददायार्थ परस्परा- एवात्र बोध्य । न च वाक्यद्वयेऽपि त्वंशव्दौ प्रस्तुतगुणविशिष्टपर- मेश्वरविषयौ अहंशब्दौ म्वशरीरकत्वविशिष्टपरमेश्वरविषयाविति वाक्य- द्वयमपि एकरूपार्थपरमिति वाच्यम् । तदानीं त्वं वा अहमस्मि' 'अहं वैत्वमसि' इति व्यवस्थितयुष्मदस्मच्छब्दपौर्वापर्यास्म्यसिशब्दप्रयोग- कृतवाक्यद्वयवैलक्षण्यवैयापत्तेः, एकेनैव वाक्येन स्वान्तर्यामिणः पर- मेश्वरस्य चाभेदसिद्धौ वाक्यान्तरवैयऱ्यांपत्तेश्च । न चाभेदप्रतिपचिदा. ।
चन्द्रिकासहिता। १२५ ार्थ वाक्यद्वयं, जीवपरमेश्वरयोरिवान्तर्यामिपरमेश्वरयोर्भेदान्त्य- भावेन तद्दाळपादनस्यानपेक्षितत्वात् इत्येवं प्रकारेण तत्र जीव- परमेश्वराभेदार्थकत्वं स्पष्टम् । अतस्तदनुसारेण तत्त्वमस्यादि- वाक्यानामप्यभेदार्थकत्वमेव युक्तमित्येवं तदुपपादनं कृतं भवति । किञ्च । तत्त्वमसिवाक्यच्छाययापि तस्याभेदार्थकत्वमवसीयते । तर्हि त्वंशब्दनिर्दिष्टे प्राग्वर्णितजगत्कारणत्वादिविशिष्टपरमेश्वराभेदो बोयत इत्यसिशब्दान्वयस्वारस्यादवसीयते । अतस्तत्र त्वंशब्दस्संवोध्य- जीवमात्रपरः न तु तदन्तर्यामिपर इत्यभ्युपगन्तव्यम् । संबोध्यं प्रति स्वात्मन इव स्वान्तर्यामिणः स्वानुभवेन प्राचीनोपदेशेन वा प्रसिद्धत्वाभावेन तस्य तं प्रत्युद्देश्यतानर्हत्वात् प्रकृतस्य सद्रूपस्य परमेश्वरस्य प्रागुपदिष्टत्वसमर्थने तत्र तद्भेदशंकानुदयेन तदभेद- बोधानपेक्षणात् । अतस्तत्त्वमसिवाक्यं जीवब्रह्माभेदपरमित्येव युक्तम् । एतत्सर्वमभिप्रेत्यैव भाप्याकारास्तस्मिन्नधिकरणे ते च पुनः स्वात्मतया ग्राहयन्ति परानपि शिप्यान् 'तत्त्वमसि' इत्यादिने- त्येतदनन्तरं 'निरवधिकपरमानन्दमयनिष्कळंकशिवत्वप्राप्तिर्हि मुक्तिः। शिववत्वप्राप्तिरात्मनः पशुत्वनिवृत्तिमन्तरेण न भवति । पशुत्वनिवृ- तिश्च न तद्भावनां विना । अतो निरन्तरं शिवोऽहमिति भावनाप्र- वाहेण शिथिलितपाशतयापगतपशुभावः उपासकरिशव एव भवति' इति ग्रन्थसन्दर्भेण शिवाभेदभावनां विना न मुक्तिरिति व्यवस्थाप- पयामासुः । अत एव तदन्यस्य मुमुक्षुध्येयत्वं निषिध्यते 'शिव एको ध्येयश्शिवंकरम्सर्वमन्यत्परित्यज्य' इत्यादिश्रुतिपु' इति ग्रन्थेना- शाधिकरणे प्रदर्शितं तत्वमसिवाक्यार्थमवलंब्य खशेषित्वादिप्रकारेण खभिन्नत्वेन ब्रह्मोपासना कार्येति शंकामितरपरित्यागश्रुतिविरोधेन .
१२६ आनन्दलहरी - निराचाः । तत्त्वमस्यादिवाक्यानां शरीरशरीरिभावार्थकत्याभावेऽप्या- रोपितभेदोपासनाविधिपरत्वमस्त्विति शंकाञ्च निवृत्तब्राह्मणादिदेहाभि- 'मानमयपशुभावम्य निरतिशयस्वरूपानन्दसाक्षिस्वप्रकाशशिवरूपपरा- हंभावापत्तिर्मुक्तिः' इति ग्रन्थेनारोपितार्थास्पर्शिन्यां मुक्तबुद्धावप्युपास- नाकालाभ्यस्ताभेदभावनाप्रकर्षजवासनाढ्यप्रयुक्तशिवाहंभावानुवृत्त्यु - क्त्या निराचक्रुः । तस्मात् जीवब्रह्माभेदेऽप्याचार्याणां संप्रतिपत्ति- रसन्दिग्धा ॥ ५१ ॥ नन्वेवमाचार्याणां व्यवहारदृष्टया परिणामाभ्युपगमस्य तत्त्व- दृष्टया विवर्तीभ्युपगमस्य जीवब्रह्माभेदाभ्युपगमस्य चाद्वैतवादिमता दविशेषे किमर्थः प्रस्थानान्तरतया पृथग्भाष्यारंभ इत्याशंक्याह-- शुद्धं ब्रह्माद्वितीयं कथमपि हृदयं नाधिरोहेत्सुसूक्ष्म तत्र स्थैर्याय बुद्धस्तनुगुणमहितं तचिरं ध्येयमादौ । इत्याक्तिसिद्धये सगुणमिह परं ब्रह्म नान्यत्ततोऽस्ती- त्येवं वेदान्तवाक्यैस्सह तदनुगुणं योजितं सूत्रजातम् ।। निर्विशेषं ब्रह्म साक्षात्काराय ध्यातव्यमतिसूक्ष्मत्वात् पुरुषप्र- यत्नेन कथञ्चिदपि हृदयं नाधिरोहेदिति तत्र बुद्धिस्थैर्य दृढभक्तिपू. कचिरनिरन्तरोपासनाराधितस्यानन्तमङ्गळगुणविशिष्टविग्रहविशिष्टस्य. सांबशिवरूपस्य तस्यैव प्रसादेन लंभनीयम् । स नो बुद्ध्या शुभया संयुनक्तु' इति श्रुतेः 'ईश्वरात् ज्ञानमन्विच्छेत्' इति स्मृतेः 'ईश्व- रानुग्रहादेषां पुंसामद्वैतवासना । महाभयकृतत्राणा द्वित्राणामेव जा- यते' इत्यभियुक्तोक्तेश्च । अतस्तत्र भक्त्यतिशयसिद्धये 'तदेव परं ब्रह्म नापरमम्य तात्विक रूपमस्ति' इति प्रतिपादनार्थ प्रवृत्राचार्यस्त- दानुगुण्येन वेदान्तवाक्यानां ब्रह्मसूत्राणां च योजना प्रदर्शयितुमिदं चन्द्रिकासहिता । १२७ भाप्यं प्रवर्तितमित्यर्थः ॥ ५२ ॥ ननु, शङ्करभगवत्पादैरुपपादितया रीत्या वस्तुतो निर्विशेषं ब्रह्मेत्य- भ्युपगतं चेत् वेदान्तानां सविशेषपरतया योजनमयुक्तम् । सर्वेषां वेदा- न्तानामद्वैते निर्विशेषे ब्रह्मणि तात्पर्यमित्येव तैरंगीकृतत्वात् तव्यतिरेकेण तस्मिन्प्रमाणान्तराभावात् सविशेषपरतया योजनं भक्त्यर्थे कल्पितार्थ- विषयमर्थवादमात्ररूपमित्यभ्युपगतश्चेत् ध्यानास्पदसविशेषब्रह्मांगीकर- णमयुक्तं, वेदान्तव्यतिरेकेण तत्रापि प्रमाणान्तराभावादित्याशंक्याह- यद्यानमक्रियायां न पठितमथ यन्निर्गुणप्रक्रियायां दिव्यं देहं गुणान्या श्रुतिषु कथयति ब्रह्मणो वाक्यजातम् । तात्पर्य तेषु तस्यान्तरमभिदधते देशिकेन्द्रास्ततस्ते शुद्धाद्वैतपि साध्ये स्वयमधिकृतिषु ब्रह्मलिंगान्यवोचन् ।। सत्यं सर्वेषां वेदान्तानां निर्विशेषे ब्रह्मणि महातात्पर्यमिति, तथापि सगुणविद्याप्रकरणेषु ध्यानार्थ परब्रह्मणो यहिव्यविग्रहप्रति- पादनं यच्च दिव्यमंगळगुणप्रतिपादनं यच्च निर्गुणविद्याप्रकरणेषु तस्य स्तुत्यर्थ प्रतिपत्त्यर्थ वा तदुभयप्रतिपादनं तस्य सर्वम्यापि तदुभय- विषयमवान्तरतात्पर्यमस्त्येव । अत एव 'अन्तस्तद्धर्मोपदेशात् ' इति (व. १. १.२१. सू) अधिकरणे ‘स्यात्परमेश्वरस्यापीच्छावशा- न्मायामयं रूपं साधकानुग्रहार्थम्' इति भाप्येण " 'हिरण्यश्मश्रुर्हिरण्य- केशः आपणखात्सर्व एव सुवर्णः तस्य यथा कप्यासं पुंडरीकमेव- मक्षिणी' इत्यादिवाक्यप्रतिपन्नविग्रहसद्भाव प्रतिपादयता 'व्यतिहारो विशिषन्ति हीतरवत्' (प्र. ३. ३.३६. सू) इत्यधिकरणे 'ध्यानार्थेs- पि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति' इति भाष्येण 'एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो विपिपासम्सत्य- .
१२८ आनन्दलहरी . . कामस्सत्यसंकल्प' इत्यादिवाक्यप्रतिपन्नगुणगणसद्भाव प्रतिपादयताच तेषां वाक्यानां ब्रह्मध्यानप्रकरणपठितानामपि ब्रह्मणो विग्रहगुणगणयो- रवान्तरतात्पर्यमस्तीति भगवत्पादैविभावितम् । तुल्यन्यायतया निर्गुणप्र- करणेषु जीवादिव्यावृत्तं तत्प्रतिपत्त्युपायत्वेन तस्तुत्यर्थत्वेन बा गुणादि- समाम्नानस्यापि 'सर्वस्य वशी सर्वस्येशान' इत्यादेस्ततावान्तरतात्पर्य मस्तीत्यंगीकृतमेव। अत एव 'अक्षरमंबरान्तधृतेः।' (ब्र. १.३.९.सू) 'आनन्दमयोऽभ्यासात्' (प्र. १. १. १३. सू) 'सुषुप्त्युत्क्रान्त्यो- भेदेन ।' (ब्र.१.३.४३. सू) 'अत्ता चराचरग्रहणात् ।' (ब्र. १. २.९. सू) 'अदृश्यत्वादिगुणको धर्मोक्तेः' (व्र. १. २. २२. सू) इत्याद्यधिकरणेवानन्दवल्ल्यादीनां जीवपरत्वादिव्यवच्छेदेन निर्विशे- पब्रह्मपरत्वनिर्णयार्थ प्रवृत्तेषु सर्वस्रष्टुत्वसर्वप्रशामितृत्वसर्वाधिपतित्व- संहर्तृत्वादीनि जीवादिन्यावृत्तानि ब्रह्मलिंगानीति तैरेवोपन्यस्तम् । यथा “अन्तस्तद्धर्मोपदेशात् ।' (ब्र. १. १. २१. सू) 'अन्तर उपपत्तेः' (ब्र. १. २. १३. सू.) इत्याद्यधिकरणेषु अन्तरादित्यादि- विद्यानां जीवपरत्वादिव्यवच्छेदेन सविशेषब्रह्मपरत्वनिर्णयार्थ प्रवृत्चेषु निरंकुशैश्वर्यवामनीत्वभामनीत्वादीनि निवृत्तब्रह्मलिंगानीत्युपन्यस्तम् । एवमादिभिराचार्यव्यवहारैम्सविशेषप्रतिपादकवाक्यानां तत्रावान्तरता: त्पर्य तदभिमतमित्येव उन्नीयते । तेषां निर्विशेषब्रह्मणि महातात्पर्य संक्षेपशारीरके व्यवस्थापितम्---‘सगुणवाक्यमपीह समन्वितं भवति निर्गुणवस्तुनि सर्वशः। न खलु निर्गुणवस्तुसमन्वयं न सहते सगुणे - म्य समन्वयः ॥ सत्यासत्यवपुस्तथाहि सगुणं ब्रह्मास्य विद्या तथा तद्वत्त- द्विषयस्य वेदवचसस्तात्पर्यमेवंविधम् । तेनावान्तरमस्य वेदवचसस्ता. पर्यमन्यादृशम्चान्यन्निर्गुणवस्तुतत्त्वविषयं संकीर्त्यते भागशः॥' इति ।
चन्द्रिकासहिता । तस्मात् सर्वेषां वेदान्तानां महातात्पर्येण तात्विकस्य निर्विशेषस्य ध्यानप्रकरणगतानां निर्गुणप्रकरणगतानाञ्च सगुणवाक्यानामवान्तरता- त्पर्येण तात्त्विकातात्विकवपुपस्सविशेपस्य च सिद्धेर्युक्त एव भाष्यकारा- णां सविशेपनिर्विशेषोभयरूपनमाभ्युपगमः ॥ ५३ ॥ ननूक्तरीत्या सगुणवाक्यानां सविशेषेऽवान्तरतात्पर्यमस्तीति तेषां तत्परतया योजनां प्रदर्शयन्ति भाप्यवाक्यान्युपपद्यन्तां नाम । सगुणवाक्यानां यदेकवाक्यतया निर्विशेपे महातात्पर्य समर्थनीयं, तेषाम् ‘एकमेवाद्वितीयम्' 'वाचारम्भगं विकारो नामधेयं मृत्तिके- त्येव सत्यम्' ' अथात आदेशो नेति नेति' 'न ह्येतस्मादिति नेत्य- न्यत्परमस्ति' इत्यादिवाक्यानां सविशेषपरतया योजनमिह भाप्ये कृतं दृश्यते । तत्कथमुपपादनीयम् । तत्सर्व सगुणविषयभक्तिदाय- प्रयोजनकौपचारिकमर्थवादमात्रमित्युपपाद्यते चेदस्तु तथा । तथापि 'तत्त्वम' स्यादिमहावाक्यानां शरीरशरीरिमावरूपस्वस्वामिमावोऽर्थ इति तदर्थवर्णनाय मार्गान्तरकल्पनमयुक्तम् । दहराद्युपासनानां जीवब्रह्माभेदगोचरत्वस्यैव सिद्धान्तसम्मतत्वात् । यद्यपि तत् पश्चा- दभेदार्थकयनेन प्रत्याख्यातं, तथाप्यंशाधिकरणव्यवस्थापितार्थोपपा- दनावसरे कृतम्य तथार्थफल्पनम्य किश्चित् फलं वक्तव्यमित्याकां. क्षायामाह- नर्गुण्यादिश्रुतीनां सगुणपरतया योजनं भाक्तमस्तु म्वखामिसापयाविरचनमफलं तत्वमस्यादिवाचाम् । जीयस्य ब्रह्मणय एदितपभिदयोपासनं सत्यमंतन स्थूलानां दासमार्गप्रपदनरुचर्य नेपु वक्तव्यमुक्तम् ।। ५४ ॥ येषां मोक्षः परमपुरुषार्थ इत्ययगम्य तं प्राप्नुमभिलपतामपि - 17 १३० आनन्दलहरी . साक्षान्मोक्षोपयोगितत्वावबोधार्थे श्रवणमनन पूर्वके निर्विशेषे निदिध्या- सने तदपेक्षितात्यर्थचित्तकाग्र्यादिसंपादनद्वारा तदुपयोगिनि दहर- विद्यादिरूपे सविशेषोपासने वा सामर्थ्यादिरूपस्य लौकिकस्य शास्त्री- यस्य वा अधिकारिविशेषणस्य वैकल्यान्नाधिकारपोप्कल्यं तानधिकृत्य प्रवर्तितो दासमार्गः । येन मार्गेण शिवं प्रपन्नानां शिवप्रसादखीकरणं योग्यम् । अत एवोक्तं कामिके शिवप्रसादखीकरणमधिकृत्य- मच्चिह्न- धारिणो लोके देशिका मत्परिग्रहाः । मदेकशरणास्तेषु योग्यं नैवान्य- जन्तुषु । स्वाद्यानि चादनीयानि पेयान्यन्यानि यानि च । देयानि तानि वै शंभोरश्नीयाद्दासभावतः । दासमार्गप्रपन्ना ये शैवे पाशुपते स्थिताः । तैरेव पेयं भोज्यञ्च प्रातव्यञ्च मुमुक्षुभिः ।।' इति । वायुसंहितायामपि निवेदितं वा भुञ्जीत तच्छेषं वात्मशुद्धये' इत्यधिकृत्योक्तं 'न तु तत्र शिवोऽस्मीति वुद्धिं कुर्याद्विचक्षणः' इति । एवञ्च येन केनापि प्रकारेण येषां शिवभजनं नास्ति तैस्सर्वैश्शिवप्रसादस्वीकरणं न कार्यम् । 'योग्यं नैवान्यजन्तुषु' इति निषेधात् । ये त्वभेदोपासनादिरूपे दासमा- र्गादुत्तमाधिकारे स्थितास्तैरष्यन्तःकरणशुद्धयर्थ रोगापमृत्युनिवृत्त्याद्यर्थ वा शिवप्रसादस्वीकरणं तस्यां दशायां दासभावनयैव कार्यम् 'न तु तत्र शिवोऽस्मीति बुद्धिं कुर्याद्विचक्षण' इति विशिष्य तस्यां दशायामभे- दभावनानिषेधेन उपासनादिसमयेवभेदभावनावतामपि प्रसादस्वीक- रणानुमितिविभावनात् , शिवं प्रति पशुत्वरूपस्य शिवदास्यस्याजान- सिद्धस्याभेदभावनाविरोधात् विद्यानुष्ठानकालेप्वननुसन्धीयमानस्यापि आमोक्षमनुवृत्तेश्च। एवमुपासनाद्यनधिकृताः स्थूलबुद्धयोऽस्मिन् दास- मार्गे प्रवर्तनेनानुमाह्या इति तेषां रुचिमुत्पादयितुं दासमार्ग एव सर्वस्यापि मोक्षशास्त्रस्यार्थ इति तदाचार्यैस्तेपु यद्वक्तव्यमस्ति तदपि .
चन्द्रिकासहिता १३१ कचित् प्रदर्शनीयमित्यभिप्रेत्य तत्त्वम' स्यादिवाक्यानां शरीरशरीरिभा- वरूपस्वस्वामिभावोऽर्थ इति मार्गान्तरमंशाधिकरणे कल्पितम् । ननु, मोक्षशास्त्ररूपेऽस्मिन् भाप्ये दासमार्गस्य दहरायुपासनामार्गस्येव मो- क्षोपयोगित्वमस्तीति चेत्तत्र रुच्युत्पादनाय तस्य सकलवेदान्तार्थत्व- प्रदर्शनप्रकारकल्पनं युज्यते । न तु तस्य तदस्ति । तत्क्रतुन्यायेन तस्य 'गीतिज्ञो यदि योगेन न गच्छेत्परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥' इति स्मृत्युक्तप्रकारेण चित्तैकाग्र्यसंपादनद्वारा योगानुष्ठाने पर्यवसानं प्राप्तस्य गीतिपरिज्ञानस्येव गाणापत्यादिरूप- हिमगिरिकैलासादिरूपस्थानगतशिवकर्यपदप्राप्तिफलहेतुत्वात् तस्क- तुन्यायविरोधेन दासभावनया दास्यकर्मणस्तनिवृत्तिरूपमुक्तिफलक- त्वासंभवादिति चेन्मैवम् । तत्क्रतुन्यायेन दासमार्गप्रपत्त्यातदनुगुणगा- णापत्यादिफलप्राप्त्यनंतरं तत्रैवोपासनादिक्रमेण मोक्षप्राप्तिसंभवात् । न चायमैकान्तिको नियमः 'दासकर्म दास्यनिवृत्तिहेतुर्न भवति' इति । 'यो वैषां स्वामिनं कश्चिन्मोचयेत् प्राणसंशयात् । स दासत्वाद्विमुच्येत पुत्रभावं लभेत वा ॥' इति दासकर्मण एवं स्वामिनः प्राणसंरक्षणस्य दास्यनिवृत्तिहेतुत्वस्मरणात् । तस्माद्युक्तमुक्तं 'दासमार्गप्रपदनरुचये तत्त्वमस्यादिवाचामर्थान्तरकल्पनम्' इति ॥ ५४ ॥ ननु, सगुणोपासने तदास्ये वा प्रपदनार्थ तत्र रुच्युत्पादन कार्यश्चेत् पुराणेतिहासादिपतिपादितेन प्रकारेण सगुणस्य परमेश्वरस्य विविधो महिमा प्रख्यापनीयः । साक्षान्मोक्षकारणभूतनिर्विशेषब्रह्मा- वयोधोपयोगितया च तदुपासनादिकं प्रशंसनीयम् । एवं सत्यमार्गा- वलंबने कर्तुं शक्ये किमर्थ 'सगुणमेव ब्रह्म ततः परं निर्गुणं तत्वान्तरं नास्ति तत्रैव सर्वेषां वेदान्तानां ततदर्थनिर्णायकशोरारकसूत्राणचा .
आनन्दलहरी तात्पर्य तबिरुद्धाभ्युपगमश्चायुक्त' इति कल्पितमार्गाथयणं कृतमि त्याशक्य पूर्वेपामप्यूषीणामेवं शैली दृष्टेत्याह- कर्मानुष्ठानभूम्ना भवभयहरिणी चित्तशुद्धिर्भवेदि- त्येप्वादावादरार्थ खल्लु परिहरणं मोक्ष्यमाणाश्रमाणाम् । पन्नादिर्पिवाक्यैस्तदनुगुणनयैस्साधितं कल्पसूत्रे तद्वद्भाष्येऽत्र योज्यं गुणवहुमतये दूपणं निर्गुणस्य ।। ५५ ।। यज्ञादिकर्मानुष्ठानार्थ कल्पसूत्रं प्रणीतवद्भिरापस्तंबाचार्यज्ञा- धनुष्ठानरहितस्य सन्यासाद्याश्रमान्तरस्य श्रुतिस्मृतिन्यायोदाहरणपूर्व- कमतियत्नेन दूपणं कृतं दृश्यते । तत्र तावत् 'अथ पुराणे श्लोका- बुदाहरन्ति-अष्टाशीतिसहस्राणि ये प्रजामीपिर ऋषयः । दक्षिणेना- र्यम्णः पन्थान ते श्मशानानि भेजिरे ।' (प्र० २.५० ९. ख० २३. सू० ३.) 'अष्टाशीतिसहस्राणि ये प्रजा नेपिर ऋषयः । उत्त- रेणार्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते।' (सू० ६.) 'इत्यूर्ध्वरेतसां प्रशंसा । (सू० ५.) 'अथापि संकल्पसिद्धयो भवन्ति' (सू० ६.) 'यथा वर्ष प्रजा दानं दूरेदर्शनं मनोजवता यच्चान्यदेवं युक्तम् ।' (सू० ७.) 'तस्माच्छृतितः प्रत्यक्षफलत्वाञ्च विशिष्टानाश्रमानेतानेके ध्रुवते।' (सू० ८.) इति गार्हादुत्कृष्टान्याश्रमान्तराणीति पूर्वपक्षः कृतः । ततः ‘विद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते । (सू० ९.) 'ब्रीहियवपश्वाज्यपयःकपालपनीसंबन्धान्युचैनींचैः कार्यमिति तविरुद्ध आचागेऽप्रमाणमिति मन्यन्ते' (सू० १०.) इति सन्दर्भण सर्वेषु वेदेषु सर्वासु शाखास तात्पर्यतो विधीयमानाना- ममिहोत्रादिकर्मणां गार्हस्थ्य एव सद्भावात् तत्त्यागवानाश्रमान्तराचार- सकलश्रुतिविरुद्धत्वादप्रमाणमिति वैदिकानां मर्यादेति स्वसिद्धान्तमु.
चन्द्रिकासहिता । १३३ . . पक्षिप्य 'ते श्मशानानि भेजिरे' इति गार्हस्थ्ये तदुद्भावितस्य दूषणस्य निराकरणार्थमुक्तं यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते पुरुषसं- स्कारो विधीयते' (सू० ११.) ततः परमनन्तं फलं स्वय॑शब्दं श्रूयते' (सू० १२.) इति न गृहस्थानां श्मशानेऽपि केवलं प्रतिक्षेपः श्रूयते न वा ते पिशाचा भूत्वा श्मशानं सेवन्ते । किंतु नानाकर्मणा- ममिहोत्रादीनामन्ते श्मशाने पितृमेधाख्यः पुरुषसंस्कारः क्रियते । तस्य कर्मणोऽनन्तरं तेषामक्षय्यं स्वर्गशब्दवाच्यं महाफलं श्रूयते इत्यनेनो- क्तम् । अनेनोर्ध्वरेतस एवामृतत्वाय कल्पन्त इति यदुक्तं तस्यापि प्रतिक्षेपः कृतः । पुनरपि तेषामेवामृतत्वमिति पूर्वपक्षप्रतिक्षेपाय प्रमा- णान्तरं वक्तुमारब्धम् अथाप्यस्य प्रजातिममृतमाम्नाय आह । प्रजामनु प्रजायसे तदुते मामृतमिति (ख० २४. सू० १) अने- नोदाहृतेनाम्नायेन मनुप्यं प्रति प्रजायां जायमानायां तद्रूपेण त्वमेव जायसे, अतो न त्वं नियसे, किन्तु प्रजारूपेणानुवर्तसे तदेव तवामृ- तत्वमित्युक्तम् । तदनन्तरमस्याम्नायस्यानुप्राहकन्यायः स्वयं सूत्रका- रैर्दर्शितः। 'अथापि स एवायं विरूढः पृथक्प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत्' (सू० २.) इति स एव पिता पुत्ररू- पेण पृथग्भूतोऽयं सर्वैरपि दृश्यते । अत एव हि द्वयोरपि सारूप्यं दृश्यते दहमानं भिन्नमिति । पितुः पुत्ररूपेणानुवृत्तौ सारूप्यमनेन युक्ततयोपन्यम्तम् । अस्तु पुत्ररूपेणानुवृत्तिः किमेतावतेत्याकांक्षाया- मनन्तरमुक्तं ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्ति स्वर्ग च वर्धयन्ति' (सू० ३.) एवमवरोऽवरः परेपाम् ' (सू० ४.) 'आभूतसंप्लवाते म्वर्गजितः' (सू० ५.) 'पुनरस्वर्ग बीजार्था भव- न्तीति भविष्यपुराणे' (सू० ६.) इति । ते पुत्रपौत्रादयश्चादि- .
आनन्दलहरी 1 तश्राद्धादिकर्मानुष्ठाननिरताः पूर्वेषां पितृपितामहादीनां साँपरायेण परलोकेनान्वितानां कीर्ति स्वर्ग च वर्धयन्ति । अस्यायं पुत्र इत्या- दिप्रसिद्धिभिः श्राद्धादिना कीर्ति च स्वर्ग च वर्धयन्ति । एवं तत्पु. त्रतत्पुत्रादिरपि पूर्वेषां कीर्ति स्वर्ग च वर्धयति । एवं ते पुत्रपौवा- पुत्रपौत्रादिपरंपरावंतः आप्रळयं वर्गवन्तो भवन्ति । प्रळयानन्तरं पुनस्सर्गे सृष्ट्यर्थाः प्रजापतयो भवन्तीति भविष्यत्पुराणे पठ्यत इत्यनेनोक्तम् । तदनन्तरमाश्रमान्तरनिन्दापरं ब्रह्मणो वचनमुदाहृतम् । ' अथापि प्रजापतेर्वचनम्' (सू० ७.) त्रयीं विद्यां ब्रह्मचर्य पजाति श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित्सह मो रजो भूत्वा ध्वसतेऽन्यत्प्रशंसन्निति । (सू० ८.) वेदत्रयाध्ययनं तदर्थ ब्रह्मचर्य प्रजोत्पादनं वैदिककर्मस्वास्तिक्यमुपवासादिकं सोमयागादिकं अंतर्वेदि बहिर्वेदि च दानमित्येतानि कर्माणि ये कुर्वते तैरेव सह वयं स्म । तेषामस्मल्लोकप्राप्तिरस्तीति तैरेव सह वसामः । अन्यत्राश्रमा- न्तरं प्रशंसन् स्तुतिमालेणाप्यंगीकुर्वन् पांसुर्भूत्वा नश्यतीत्यनेनोक्तम् । तदनन्तर यथा विहितकर्मसु वर्तमाना' पुत्रादयः कीर्ति स्वर्ग च वर्ध- यन्ति तथा प्रतिषिद्धेषु वर्तमानास्ते अकीर्ति नरकञ्च वर्धयेयुः इत्या- शंकायामुक्तम्-'तत्र ये पापकृतस्त एव ध्वंसन्ति न परान हिंसन्ति । यथा पर्ण वनस्पतेः । (सू० ९.) नास्यास्मिन् लोके कर्मभिस्संबन्धो विद्यते तथा परस्मिन् कर्मफलैः (सू० १०) तदेतेन वेदितव्यम् । (सू० ११.) प्रजापतेर्ऋषीणामिति सर्गोऽयम् (सू ० १२) तत्र ये पुण्यकृतस्तेषां प्रकृतयः परा ज्वलत्य उपलभ्यन्ते (सू० १३) इत्य- नेनेदमुक्तं प्रजासन्ततो पापकृत एव नश्यन्ति न पित्रादीनाशयन्ति यथा वृक्षस्य पर्ण कीटादिभिपितं चेत् तदेव पतति न वृक्षं वा शाखा चन्द्रिकासहिता। १३५ वा पातयति तस्मात् पित्रादीनां दुप्पुत्रादिकृतैः कर्मभिरिह लोके पर- लोके वा तत्फलैः संबन्धो न विद्यते । तदेतेनोदाहरणेन वेदितव्यम् । हिरण्यगर्भस्य दक्षादीनां चायं सर्गः । ते स्वपजापरंपरायां सत्स्वपि पापकृत्सु सुखेनाद्यापि वर्तन्ते । तत्र हिरण्यगर्भस्य दक्षादीनांच सर्गे ये पुण्यकृतो वसिष्ठादयस्तेषां शरीराण्यपि दीप्यमानानि दृश्यन्ते सप्तर्षि- मंडलादिषु । न तत्सन्ततौ कस्य चित्पापेन तेषां पतनं दृश्यत इति । तदनन्तरं पूर्वपक्षोक्तस्य 'अथापि संकल्पसिद्धयो भवन्ति' इत्यादि- युक्त्यन्तरस्य परिहार उक्तः ‘स्यात्तु कर्मावयवेन तपसा वा कश्चित् सशरीरोऽन्तवन्तं लोकं जयति संकल्पसिद्धिश्च स्यान्न तु तज्ज्यैष्ठय- माश्रमाणाम्' (सू० १४.) इति । गृहस्थोऽन्यो वा यः कश्चिदपि कर्मादिलेशेन 'ग्रीप्मे पञ्चामिमध्यस्थ' इत्याद्युक्तरूपेण तपसा वा संकल्पसिद्धत्वादिकं लभत इति नाश्रमान्तराणामेव तल्लाभो नियतः । अतस्सर्वसाधारणोऽयमाश्रमविशेषाणां जैष्ठ्ये न हेतुरित्यनेनोक्तम् । एवञ्च यथा कल्पसूत्रे यज्ञादिकर्मणां ‘धर्मेण पापमपनुदति देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् दिवि ज्योतिरजरमारभेताम्' इत्यादि- श्रुतिप्रामाण्यादतःकरणशुद्ध्यादिप्रणालिकया मोक्षफलकत्वेऽपि मोक्षक- फलकस्यान्तःकरणशुद्धितत्पूर्वकदृढवैराग्यद्वारा कर्मानुष्ठानेनैव प्राप्यस्य सन्यासस्य महता यत्नेन पूर्वोत्तरपक्षाभ्यां दूपणं सन्यासफलश्रवणमा- असन्तुष्टः कश्चिददृढवैराग्येण तत्र प्रवृत्तो मा पप्तत् । गार्हस्थ्य कर्मा- नुष्ठानसद्भावात् ततश्चित्तशुद्धयतिशयं तेन दृद्धवैराग्यञ्च लब्ध्वा तद- नन्तरं सन्यस्तव्यश्चेत् सन्यस्यत्वित्यभिप्रेत्य, न तु सर्वथा सन्यासनि- पेधमभिप्रेत्य । चत्वार आश्रमाः गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थ्य- मिति' (आप. प्र. २. प. ८.व. २१. सू. १.) तेषु सर्वेषु यथोपदे- .
१३६ आनन्दलहरी शमव्ययो वर्तमानः क्षेमं गच्छति' (सू.२.) इति तत्रैव चतुर्णामप्याश्रमा- णां महाफलत्वेनाङ्गीकृतत्वात् । तथात्र भाष्ये 'न स्थानतोऽपि परस्यो- भयलिंगं सर्वत्र हि। (व्र० ३. २. ११. सू) प्रकृतैतावत्त्वं हि प्रति- पेधति ततो ब्रवीति च भूयः (ब्र० ३. २. २१. सू) इत्यायधिकर- णेषु सूत्रार्थकथनमुखेन ईक्षत्यधिकरणादिषु स्ववचनेन च ब्रह्मणो निर्गुणस्वनिप्प्रपञ्चत्वादिदूषणं 'तत्वमस्या' दिमहावाक्यार्थाकर्णन- मानसन्तुष्टः कश्चिन्निविशेषब्रह्मप्रवृत्त्युचितचित्तस्थैर्याभावेऽपि तात्का- लिकश्रद्धामात्रेण तत्र प्रवृत्तस्सन् उभयभ्रष्टो मा भूत् सगुणोपासन- महिला तदुचितचित्तस्थैर्य प्राप्य तदनन्तरं तदुपासने प्रवर्तितव्यञ्चेत् प्रवर्ततामित्यभिप्रेत्य, न तु सर्वथा निर्गुणनिषेधमभिप्रेत्य । तत्रैव तदभ्युपगमस्यापि दर्शितत्वादिति भावः । एवञ्च निर्गुणब्रह्माभ्युपग- मेन तत्परत्वेन वक्तव्यान्यपि वेदान्तवाक्यानि कथं तत्र तत्र सगुण- परत्वेन योजितानीत्यपि शंका निरस्ता । तेषां सगुणे तात्पर्यभावेऽपि तत्रादरातिशयसिद्ध्यर्थ तत्र तात्पर्यमारोप्य तदर्थतया वर्णनोपपत्तेः 'प्रजामनुप्रजायसे तदु ते मामृतम्' इत्याद्यर्थवादानां तात्पर्याविषये- ऽप्यर्थे प्रवर्त्यरुच्युत्पत्त्यर्थं प्रमाणतयोपन्यसनदर्शनात् , निर्गुणे महा- तात्पर्यवतां वेदान्तवाक्यानां तदन्तर्गततत्तत्पदप्रवृत्तिनिमित्तगुणविशि- टतया प्रथमप्रतीते णेऽप्यवान्तरतात्पर्यसद्भावाच ।। ५५ ॥ नवम्त्वेवमेतत्तथापि निर्गुणब्रह्मनिर्णयार्थ भगवता बादराय- णेन प्रणीतानि ब्रह्मसूत्राणि कथं सगुणब्रह्मनिर्णयार्थत्वेन भाप्यकारै- योजितानि तदपि किं सूत्रकाराविविक्षितार्थकल्पनमित्याकांक्षायामाह- । १. 'यत्' इति व पाठः।
चन्द्रिकासहिता । मूत्राणामेतदर्थान्तरमधिगमितं मृत्रकाराशयस्थं केपां चित्तप्वभीष्टं गुणवति विगुणऽप्यन्वयं दर्शयद्भिः। शुद्धनौकनिष्टैराप शुचिहृदयउशंकराचार्यपादैः श्रीकण्ठायैस्तु भाप्ये तदिह सुविहिनं सर्वमत्रार्थरूढम् ॥ अनेकार्थविवक्षया सूत्रप्रणयनं तावत् संभवत्येव । 'सारवद्वि. श्वतोमुखम्' इति लक्षणानुसारात् पाणिनिजैमिन्यादिसूत्रेषु योगवि- भागानुवृत्तिवर्णकान्तरकरणादिनानेकार्थपरिग्रहस्य सर्वसप्रतिपन्नत्वाच्च । ब्रह्मसूत्राणां निर्गुणस्वरूपप्रमाणसाधनफलनिर्णयार्थत्वेनामिमतानां सगुणब्रह्मस्वरूपादिनिर्णयार्थत्वमपि विवक्षितमिति पूर्वाचार्याणामभि- मतं न वेत्येतावदेवावगन्तव्यम्। तदपि निर्गुणस्वरूपादिनिर्णयार्थत्वेन तानि व्याख्यातुं प्रवृत्तैश्शंकरभगवत्पादैरेव तेषु केपाञ्चित्सूत्राणां नि- गुणस्वरूपादिनिर्णयार्थत्वं केषांचित्सगुणस्वरूपनिर्णयार्थत्वं च केपा. श्चिदुभयपरत्वञ्च प्रदर्शयद्विराविष्कृतम् । तत्र प्रथमाध्याये तावत् * अन्तम्तद्धर्मोपदेशात् (व्र. १. १. २१. मू.) सर्वत्र प्रसिद्धो. पदेशात् (ब्र. १. २. १. सू.) दहर उत्तरेभ्यः (न. १. ३. १३. सू.) इत्यादिसूत्राणि दिव्यमंगळविग्रहयुक्तस्य सत्यसं- कल्पत्वादिकल्याणगुणयुक्तस्य • सकलप्रपञ्चसृष्टिपालनमंहारकर्तुनिरति- शयैश्वर्यशालिनम्सगुणस्य परमेश्वरस्य म्वरूपनिर्णयार्थत्वेन व्याख्या- तानि । द्वितीयाध्याये तस्यावाप्तकामस्य सर्वभूतेष्वेकरूपतया दयादि- गुणयनः प्रपञ्चसप्त्वं सुखदुःखादिकरवितविषमभूतजातस्रष्ट्रत्यञ्च न संभवतीति विरोधशंकासमाधानार्थत्वेन ‘न प्रयोजनवत्त्वात् । (२.२. १. ३२. सू.) लोकवत्तु लीलाकैवल्यम् । (व. २. १. ३३. सू.) बंगम्य पृण्ये न सापेक्षत्वात्तथाहि दर्शयति' इत्यादि (प्र. २. १. ३४.) . 18 आनन्दलहरी सूत्राणि व्याख्यातानि ! सगुणः परमेश्वर एव जगदुपादानमपि न तु विशुद्धनिम्मानमिति पक्षे 'न विलक्षणत्वादि ' सूत्राण्यपि सगुणविष- याण्येव । तृतीयाध्याये ‘फलमत उपपत्ते.' इत्यादि (प्र. ३.२.३७.) सूत्राणि सगुणस्य परमेश्वरस्य कर्मोपासनादिफलप्रदतया भोगमोक्षयो- म्साधकतमत्वप्रतिष्ठापकत्वेन व्याख्यातानि । तस्मिन्नध्याये गुणोपसं- हारपादे निर्गुणविद्योद्गीथविद्यादिविषयाणि सप्ताष्टान्यधिकरणानि विहाय मर्वाण्यप्यधिकरणानि तत्तद्विद्योपासनीयपरमेश्वरगुणविशेषनिर्णयार्थत्वेन व्याख्यातानि । एते च गुणा न ध्यानार्थ वाग्धेनुत्वादिबदुपासकेन कल्पनीयाः । किंतु परमेश्वरे खतस्सिद्धा इत्येतत् 'व्यतिहारो विशिषन्ति हीतरवत् ' (३. ३. ३६. सू.) इत्यधिकरणे ‘तद्योऽहं सोऽसौ यौs- सौ सोऽहम्' इत्यैतरेयवाक्यार्थविचारे तेन वाक्येन ध्यानार्थ जीवब्रह्म- जोरभेदे प्रतिपाद्यमानेऽपि तात्त्विकाभेदम्मिद्ध इत्युक्ता यथाध्यानार्थेऽ- पि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरस्सिध्यतीति तत्र दृष्टान्ततयोपा- दानादाविष्कृतम् । चतुर्थाध्याये द्वितीयतृतीयपादयोः 'प्रतिषेधादिति चेन्न शारीरात् ।' (ब्र. ४. २. १२. सू.) 'कार्य बादरिरस्य गत्युप- ३. ६. सू.) इत्यधिकरणद्वयं विना सर्वाण्यप्यधिक- रणानि सगुणोपासकानां तत्माप्त्यर्थोत्क्रान्तिगतिनिरूपणार्थतया तद्वि-. पयत्वेनैव व्याख्यातानि। चतुर्थपादेऽप्यादावधिकरणत्रयं विना 'संक रूपादेव तु तच्छुते ' (ब्र. ४. ४. ८. सू.) इत्यारभ्य सगुणोपासना- फलनिरूपणार्थतया सर्वाण्यप्यधिकरणानि व्याख्यातानि । कानि चिद. धिकरणानि सगुणनिर्गुणोभयसाधारणतया व्याख्यातानि । यथा चतु. [: पत्ते' (ब्र. ४. . १ 'विषयत्वेन' इति न पाठ ।
चन्द्रिकासहिता। १३९ . र्याध्यायस्य प्रथमे पादे 'आवृत्तिरसकृदुपदेशात् ।' (त्र. ४. १.१.) 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च।' (ब्र. ४. १. ३. सू.) 'आसीनस्संभवात् ।' (ब्र. ४. १. ७. सू.) 'यत्रैकाग्रता तत्राविशेषात् (व. १. १. ११. सू.) 'तदधिगम उत्तरपूर्वाघयोरश्लेपविनाशो तव्यपदेशात् (ब्र. ४. १. १३. सू.) इत्यादीनि । क्वचित् क्वचित् वर्णकभेदेन सगुणनिर्गुणोभयपरतया व्याख्यानं दृश्यते । यथा 'शास्त्र- योनित्वात्' इति (ब्र. १. १. ३.) सूत्रं सगुणसावश्यव्यवस्थापनार्थ निर्गुणोपनिषदतत्त्वव्यवस्थापनार्थ चेति समासभेदेन द्वेषा व्याख्यातम् । तथा 'अमिहोत्रादि तु तत्कार्यायैव तदर्शनात' इति चतुर्थाध्याय- (व. ४. १. १६.)सूत्रे कल्पतरौ द्वेधा व्याख्यातम् । अग्निहोत्रादिकं तम्मै ‘तदधिगम उत्तरपूर्वाधयोः' इति सूत्रे तदधिगमशब्देन पम्तु- ताय निर्विशेषब्रह्मापरोक्षज्ञानरूपाय कार्यायैव । • विविदिषन्ति यनेन' इत्यादिश्रुतिदर्शनात् । समम्तकर्मवृन्ददाहकत्वेन कर्मजातिविरो- धिनोऽपि तस्य ज्ञानस्य नित्ययज्ञादिकर्मविशेषकार्यत्वं नायुक्तम् । समस्तवनदाहकस्यापि दावदहनम्य बनान्तर्गतवेवादिकार्यत्वदर्शना. दिति निर्गुणविषयकं व्याख्यानम् । अमिहोत्रादि तम्य सगुणब्रह्माधि- गमम्य कार्यायव । सगुणविदां केकयादीनां यज्ञाद्यनुष्ठानदर्शनात् । निर्गुणविद्याफलम्येव सगुणविद्याफलस्य कर्मकार्यत्वं नायुक्तम् । ब्रह्मा- लौकिकमोगरूपम्य तस्य सातिगयत्वदर्शनादिति तत्कार्यगन्दे ममा- मान्तरमाश्रित्य मगुणविषयं द्वितीयत्र्याध्यानम् । निर्गुणविषयप्वष्य. धिकरणेषु सगुणप्रसाः प्रायो न त्यक्तः । तेप्यपि जीवादिविषयपूर्व- पक्षप्रतिक्षेपाय ब्रह्मलिंगोपन्यासाथ तत्तन्निर्गुणप्रकरणगतवाक्यविशेषा- णामवान्नरतात्पर्यविषयम्मगुणः परमेश्वरः •मा न प्रगामनान ' पत्या- .
आनन्दलहरी . दिशन्देभ्य' इत्यादिसूत्रपरामृष्टतया वर्णित एव । किं बहुना । निर्गुण साक्षात्कारा मुक्तिरपि सत्यकामत्वादिगुणयुक्तसगुणेश्वरैक्यापत्ति- रूपा तत्रतत्र प्रतिपादिता। तथा हि प्रथमाध्याय दहराधिकरणे दहराकागो वाक्यशेषश्रुतैरपहतपाप्मत्वादिगुणः परमेश्वर इति प्रसा. ध्य प्रजापतिविद्यायां जीवेऽप्यपहतपाप्मत्वादिगुणानां श्रवणान्न तेषां परमेश्वरलिंगस्वमित्याशंकामुद्भाव्य तत्परिहारार्थ प्रवृत्तस्य 'उत्तराञ्चे- दाविर्भूनस्वरूपस्तु' इति (ब्र. १. ३. १८.) सूत्रस्य मुक्तौ जीवस्य परमेश्वरभावापत्त्यैवापहतपाप्मत्वादिगुणाविर्भाव इति न तेषां ब्रह्मलिं- गत्वे काचिदनुपपत्तिरिति तात्पर्यमुक्तम् । तम्मादविद्यापत्युपस्थापितं पारमार्थिकञ्चैव रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनकानर्थ- योगि तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं रूपं विद्यया प्रतिपद्यत इति । द्वितीयाध्यायेऽपि 'अंशो नानाव्यपदेशात्' (ब्र. २. ३. ४२. सू.) इत्यधिकरणे जीवम्येश्वसंशत्वाभ्युपगमे तदीयेन ससारदुःखभोगेन ईश्वरस्यापि दु ख. स्यात् । यथा लोके हस्तपादाद्य- न्यतमांगांशगनेन दुखेनांशिनो देवद सस्यापि दुःखित्वं तद्वत् । ततश्च तत्र प्राप्तानां महत्तरं दु खं प्राप्नुयात् अतो वरं पूर्वावस्थस्संसार एवा- स्त्विति सम्यग्ज्ञानानर्थक्यप्रसग इति शंकाग्रन्थेन विवप्रतिबिंबभाव.. कृतासंकरमवलंब्य समाहितन मुक्तम्य विवभूतेश्वराभावापत्तिः स्पष्टी- कृता। तृतीयाध्यायऽपि सन्ध्ये सृष्टि राह हि' इत्य(ब्र. ३.२.१.सू.) धिकरणे परमेश्वगभिन्नम्य जीवम्यैश्वर्यवशात् म्वप्ने सांकल्पिकी स्थादिसृष्टिभविष्यतीति गंकोत्तरत्वेनावतारितम्य पराभिध्यानातु तिसंहितं ततो ह्यम्य बन्धविपर्ययो' इति (ब्र. ३. २. ४.) सूत्रम्य तात्पर्यकथनावमरे जीवेषग्योन्मत्यप्यंगांगिन्ये प्रत्यक्षमेव जीवम्य . . 6 चन्द्रिकासहिता। ईश्वरविपरीतधर्मत्वम् । किं पुनर्जीवस्येश्वरसमानधर्मत्वं नास्त्येव । न नास्त्येव । विद्यमानमपि तु तत्तिरोहितमविद्यादिव्यवधानात् । तत्पुन- स्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानम्य जन्तोर्विधूतध्वा- न्तस्य तिमिरतिरस्कृतेन दृक्छिक्तिरौषधवीर्यादीश्वरप्रसादात्संसिद्धस्य कस्य चिदेवाविर्भवति' इति ग्रन्थसन्दर्भेण मुक्तस्यापहतपाप्म- त्वादिगुणकेश्वरभावापत्तिर्वर्णिता । चतुर्थाध्यायेऽपि 'स्वेन रूपे- णाभिनिप्पद्यत' इति मुच्यमानविषयायां श्रुतौ केन रूपेणा- भिनिष्पत्तिर्विवक्षितेति बुभुत्सायां 'ब्राह्मण जैमिनिरुपन्यासादिभ्य' इति (अ. ४. ४. ५) सूत्रेण यद्रामं रूपमपहतपाप्मत्वादि सत्यसं- कल्पत्वावसानं सर्वज्ञत्वसर्वेश्वरत्वादि च तनाभिनिष्पत्तिः ‘य आत्मा- पहतपाप्मा' इत्याद्युपन्यासेन · स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा' इत्याद्यैश्वर्यावेदनेन चेति जैमिनिमतं 'चिति तन्मा- त्रेण तदात्मकत्वादित्यौडुलोमि ' इत्यनन्तर (प्र. ४. ४. ६.) सूत्रेण 'एवं वा अरे अयमात्मानन्तरोऽबाह्य कृत्स्न प्रज्ञानघन एव इत्यादिश्रुत्या चैतन्यमात्रमात्मन स्वरूपमित्यवगतम्तन्मात्रेणाभिनिष्प- त्तिरिति मतान्तरं चोपन्यस्य तदनन्तरपठितस्य ' एवमप्युपन्यासात्पूर्व- भावादविरोधं बादरायण' इति सिद्धान्त (ब्र. ४. ४. ७.) सूत्रस्य "एवमपि पारमार्थिकचैतन्यम्वरूपत्वाभ्युपगमेऽपि व्यवहारापेक्षया पूर्व- स्याप्युपन्यासादिभ्योऽवगतम्य ब्राह्मस्यैश्वर्यरूपस्याप्रत्याख्यानादविरोध यादरायण आचार्यो मन्यत' इति तात्पर्यकथनेन मुक्तम्य निरतिशयै- श्वर्यशालिसगुणेश्वरापत्तिः स्फुटीकृता । निर्गुणब्रह्मपादे तद्भावापत्तिरेय मुक्तिरिति वक्तव्ये कथं सगुणेश्वरभावापचिमुक्तिरुच्यत इति शंका च समाहिना । गम्तुदृष्टया मुक्तम्य चैतन्यमानन्वेऽपि बिचभूतपरमे- . .
१४२ आनन्दलहरी । श्वरभावं प्राप्तम्य परमेश्वरवदेव बुद्धपुरुषव्यवहारदृष्टया यावत्सर्व- मुक्ति निरतिशयमैश्वर्य पारमेश्वरत्वन प्रसिद्धम् अन्यच्च सकलं धर्म- जातं संभवतीति । अयमर्थः सिद्धान्तसंग्रहेऽप्यस्माभिः प्रपश्चित इति । एवञ्च यथा चतुर्वपि वेदेषु सर्वप्राण्यनुग्रहार्थं ब्रह्मभावावाप्तिरूपमहा- पुरुषार्थप्रतिपादनैदंपर्येणैव प्रवृत्तेषु तदुपयोम्यन्तःकरणशुद्धिजनकक- मनिरूपणार्थ एव भूयान् प्रपञ्चः ब्रह्मनिरूपणार्थो वेदान्तभागस्तु निरूपणीयबाहुळ्याभावात् स्वल्पः। तथा भगवत्पादीये भाप्ये निर्विशे- पब्रह्मभावावाप्त्यर्थ तन्निदिध्यासनापेक्षितचित्तस्थैर्याधुपयोग्युपासनाराध- नीयसगुणेश्वर प्रसंग एव भूयान्निर्गुणखरूपविचारांशस्तु निरूपणीय- बाहुळ्याभावात् म्वल्प. । एव निरूपितम्सगुणश्च शिव एव न तु विष्णुरित्यपि शंकरभगवत्पादानामाशय उन्नीयते । अन्तरादि- त्यविद्याधिकरणेषु सगुणप्रसंगे सर्वत्र प्रायश्शिवासाधारणेन परमेश्वरश- ब्देन तद्व्यवहारात् दहराधिकरणे ‘परमेश्वर एवात्र दहराकाशो भवि- तुमर्हति न भूताकाशो जीवो वा' इति सिद्धान्तमुपक्रम्य "यदिदमस्मिन् ब्रह्मपुर' इति पूर्ववाक्ये ब्रह्मशब्देन जीव उच्यते तस्य देहरूपपुर- म्वामित्वादतः प्रामकृतस्स एव दहराकाशो भवितुमर्हति' इति शंकापरिहारप्रस्तावे 'अथवा जीवपुर एवास्मिन् ब्रह्म सन्निहितमुपल- क्ष्यते यथा सालग्राम विष्णुस्सन्निहित' इति स्वाभिमतस्य परब्रह्मणो विष्णोश्च दृष्टान्तदान्तिकभावेन भेद निर्देशाच्च । तम्मिन्नेव ह्यधिक रणे • यद्यप्यांकाशशब्दो भूताकाशे रूढम्तथापि तेनैव तस्योपमा नोपपद्यत' इति 'भूताकाशम्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानो. पमेयभावाद्यसंभवान्न ग्रहीतव्य इति च पूर्वापरप्रन्थयोः यावान्वा एषो- ऽन्तहृदय आकाश' इत्युसमानोपमेयभावनिर्देशात् न दहराकाशी ।
चन्द्रिकासहिता। भूताकाश' इत्युक्तम् । स्वयमेव तस्मिन्नेव संदर्भ उपमानोपमेय- भावनिर्देशं भेदकमुक्त्वा कथं ब्रह्मणो विष्णोश्च भेदानुमितौ तयोरुपमानोपमेयभावं निर्दिशेयु: । यत्तु यावदधिकाराधिकरण- भाष्यम् 'अपान्तरतमा नाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोम्सन्धौ कृष्णद्वैपायनम्संबभूव । सनत्कुमारोऽपि ब्रह्मणो मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव' इति तत्प्रवृत्तिभंग्या विष्णोरुत्कर्ष प्रतीयमानम्संहाररुद्रांशभूताद्विधातुः प्रा- दुर्भूतान्नीललोहितरुद्रादेव । कुमारसंभवोपाख्यानस्य तद्विषयत्वात् न तु मायोपाधिकसगुणब्रह्मरूपात् परमशिवादिति न विरोधः । एवं शुद्धाद्वैतप्रतिष्ठापनैकनिष्ठैरपि शुद्धहृदयतया स्वमतविरुद्धत्वेन मन्द- धियामापातत. प्रतीयमानं सगुणमपच्छाध तद्विषयतयापि कानि- चित् सूत्राणि योजितवदिशंकराचार्येस्सर्वेषां सूत्राणां सगुणनिर्गुणो- भयपरत्वमपि संभवतीति ब्रह्मविचारप्रतिज्ञापराद्यसूत्रे श्रुतब्रह्मशब्दस्य अस्ति तावद्ब्रह्म नित्यशुद्धवुद्धमुक्तस्वभावं सर्वशक्तिसमन्वितं च । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्त' इति सगुणनिर्गणोभयपरत्ववचनेन कचिच्छास्त्रयोनिसूत्रे म्थालीपुला- कन्यायात्सगुणनिर्गुणोभयपरयोजनाद्वयेन च प्रदर्शितम् । एतां सरणिमास्थाय सर्वेषामपि सूत्राणां सगुणेश्वरविषयतयापि योजनान्तरं सूत्रकाराभिमतमिति पूर्वाचार्यपरंपरापाप्तमुपदेशमपि प्रमाणीकृत्य श्री- फण्ठाचार्याम्सर्वसूत्राधिरूढं मगुणविषययोजनं प्रदर्शयन्ती भाप्यमिदं प्रणिन्यु । इयोस्तु विशेषः । शंकराचार्येम्सगुणमपि ब्रह्म तत्र तत्र सूत्राधिरूढं कृतम् । श्रीकण्ठाचार्यस्तु निर्गुणं कचिदपि सूत्राधिरूढ़ न कृतं प्रत्युत निर्गुणविषयतया म्पष्टं प्रतीयमानान्यपि सूत्राणि यत्तेन .
१४४ भानन्दलहरी सगुणविषयतया योजितानि । भाप्ये स्ववाक्यच्छायया परं क्वचित् क्वचित् निर्गुणाभिप्रायो द्योतितः । तत्र प्रयोजनमुक्तमेव । तामेव शैलीमनुसृत्यास्माभिरपि निर्गुणद्योतकानि भाष्यवाक्यानि प्रायम्सगुणा- नुकूलतया यनेन शिवादित्यमणिदीपिकायां योजितानि । इहापि विशिष्टा- द्वैतनिरूपणप्रकरणे सैव रीतिरनुसृता । इह तु शुद्धाद्वैतमताविष्करण- प्रकरणे तानि भाष्यवाक्यानि शुद्धब्रह्मस्वरूपाविष्करणार्थतयाञ्जस्येन योजितानीति सर्व समञ्जसम् ॥ नवाचार्यभाष्यवद्रामानुजमाप्यस्यापि शुद्धाद्वैते पर्यवसानमु- क्तरीत्यैव वक्तुं शक्यम् । अविशिष्टं ह्युभयत्रापि स्थूलचिदचिद्वस्तुवि- शिष्टं ब्रह्म कार्य सूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणमिति कार्यकारणोभ- यावस्थं ब्रह्म विशिष्टाद्वैतरूपं सगुण रूपवत् परशक्त्युपेतं नित्यमुक्तेन भजनेन प्रपञ्चोत्तीर्णलोकावस्थिततत्सालोक्यप्राप्तिर्मुक्तिरित्यादि सिद्धा- न्तवर्णनमित्याशंक्याह - श्रीकण्ठाचार्यभाष्योक्त्यनुकृतिमरणिः कापि भाष्ये परेप पायो दृष्टा विशिष्टाद्वयपरगुणितावर्णनादिभपथे । साम्येऽप्येवं न शुद्धाद्वयसमुपगतिश्शक्यते तत्र वक्तुं तस्यालिंगस्य वक्तुर्न खलु कियदभिव्यञ्जनं कापि दृष्टम् ।। सत्यमेतत्तथाप्याचार्यभाष्य इव रामानुजभाष्ये शुद्धाद्वैतं परमसिद्धान्त इत्यभ्युपगमसूचकं नास्ति व्यञ्जितमपि लिंगम् । न हि तत्र प्रपञ्चम्य निर्विकारब्रह्मविवर्ततात्पर्यावसानाभ्युपगमसूचकं प्रपञ्चपरिणामिन्याश्शक्तब्रह्माभिन्नत्वमभ्युपगतम् । प्रकृतिरूपा जड. शक्तिः प्रपञ्चपरिणामिनीत्येव तत्र वर्णितत्वात चिच्छक्तेः प्रपञ्चपरि- . भवन्ति । एवं भगवतत्त्वज्ञानभक्तिभ्यां सन्मुक्ति प्राप्ताः म्बयमप्यान. चन्द्रिकासहिता। १४५ णामित्वस्य तत्र निराकृतत्वात् चिच्छक्तेब्रह्माभिन्नत्वस्याप्यनभ्युपग- माञ्च । न वा तत्र जीवब्रह्माभेदाभ्युपगमसूचकं स्वाभेदेनोपासनं मुक्तावपि ब्रह्माभेदवोधानुवृत्तिरित्याद्यभ्युपगतमस्ति । उपासनावस्थायां मुक्त्यवस्थायाञ्च जीवब्रह्मणोश्शेषशेपिभावबोधानुवृत्तरेवाभ्युपगतत्वात् । 'नापि सन्घट' इत्यादि प्रत्यक्षं ब्रह्मसत्ताविषयम् ' अहं सुखी' इत्यादि प्रत्यक्षं स्वस्वबुद्ध्यवच्छिन्नब्रह्मानन्दविषयं 'म्फुरति घट' इत्यादि प्रत्यक्षं घटाद्यवच्छिन्नब्रह्मस्फुरणविषयं निरन्वयोपासकानामिहेव मुक्तिः' इत्यादि शुद्धाद्वैताभ्युपगमानुगुणार्थप्रतिपादनमम्ति सर्वत्र तद्भाप्ये शुद्धाद्वैतव्यवस्थापनस्यैवाभ्युपगमसूचकम् । यतस्तैर्भेदे सत्येव तम्य मुक्तं प्रति पुरुषार्थत्वसाधनाय बहुधा प्रयम्तम् । किं वहुना । मुक्तौ स्वस्वामिभावरूपभेदानुसन्धानपूर्वकं भगवद्भाग- वतकर्यमपि प्राभाकरैनियोगनिवर्त्तनमिव तैः स्वतः पुरुषार्थत्वेन साधितम् । भागवतानामन्योन्यशेषत्वं न विरुद्धमित्यपि महता यलेन साधितम् । तथा माध्वरुक्तमपि तन्न शुद्धाद्वैताभ्युपगमसूचकम् । यतस्तैर्मुक्तावपि भेदं प्रमाणमंगीकृत्य सन्मुक्तिरसन्मुक्तिरिति मुक्तौ भेदञ्च कल्पयित्वा देवास्सन्मुक्ति प्राप्ताः परब्रह्मणो नारायणस्य शरीरे लीनाम्सन्तस्तदीयैरेव कर्मेन्द्रियज्ञानेंद्रियैस्तत्तदिन्द्रियसाध्यान् भुञ्जाना विहरन्ति । मनुष्यादयस्तु, मुक्तास्तच्छरीरे लयमप्राप्य वस्वशरीरेन्द्रियै- रेव विषयान् भुञ्जाना विहरन्ति । सर्वेऽपि ब्रह्मानंदमपि परमपुरुषार्थ- तयानुभवन्तः स्वखाधिकारानुगुणोपास्यगुणोपासनाकालोपासनासहका- रिकर्मवृन्दोपासनासाध्यसाक्षात्कारानुष्ठेयकर्मवृन्दमुक्त्यनन्तरफालम्ब च्छन्दानुष्ठितोपासनाकर्मवृन्दतारतम्यानुसारतारतम्यमेव ब्रह्मानन्दमनु- . 19 आनन्दलहरी त्वात् । तथैव न्दरूपस्वात्मानन्ददर्शनमनुभवन्ति । तस्मात् किञ्चित्सारूप्यमात्रेणा- चार्यभाष्यवत्तदनुकरणेन प्रवृत्तस्य रामानुजभाष्यस्य शुद्धाद्वैते पर्यव- सानमशक्यमुपपादयितुमित्यर्थः ॥ ५७ ॥ ननु रामानुजभाष्ये जीवब्रह्माभेदाभ्युपगमसूचकमपि किश्चि- दुक्तमस्ति । तत्र हि संसारदशायां ब्रह्मानन्दस्य जीवभोग्यत्वानुक्ता- वपि मुक्तिदशायां तस्य तद्भोग्यत्वमाचार्यभाष्ये समधिगतमुक्तम् । तत्तयोरभेदाभ्युपगमसूचकम् । अन्यानन्दस्यान्यं प्रति अपुरुषार्थ- प्येऽप्युक्तम् । तत्र जीवगतस्य बन्धस्य मिथ्या- त्वं ब्रह्मगतम्य जीवगतव्यावर्तकगुणजातस्य धर्मभिन्नस्य राहित्य ब्रह्मणश्च मुमुक्षुज्ञेयस्यानुपास्यत्वं जीवस्य ब्रह्मपतिबिंबत्वं ज्ञाननि- वयंभावरूपाविद्यासत्वमित्यादि जीवब्रह्माभेदोपोहलकमधिकमुक्तम् । अतस्तयोरपि शुद्धाद्वैतपर्यवसायित्वमुपपादयितुं शक्यमित्याशंक्य तामुद्भाव्य परिहरति- ब्रह्मानन्दस्य तस्मिन्निह समधिगतं मुक्तभोग्यत्वमुक्तं तज्जीवब्रह्मभेदप्रतिहतिकरणश्चान्यदन्यत्र भाष्ये । तत्स्यव्याहत्यदृष्टया कथमपि न तयोस्ताविकाभेददृष्टया बद्धद्वेपा हि शुद्ध गुणवति च शिवे ते दधीचादिशप्ताः ।। रामानुजीयैर्माध्वैश्च ब्रह्मानन्दस्य मुक्तभोग्यत्वं यदुक्तं तन्न शुद्धाद्वैतसूचकम् । तेहि भगवत्तत्त्वज्ञानभक्तिभ्यां सन्मुक्ति प्राप्ताः ब्रह्मा- नन्दं वैषयिकानन्दच्चानुभवन्तो न कदाचिन्निवर्तन्ते । भगवन्मिथ्या- ज्ञानदोपाभ्यामसन्मुक्ति प्राप्तास्तु महानरकेषु त्रिपु निपतिताः स्वय- मपि दु खैकरूपाः म्वात्मदु खं नरकदुःखञ्चानुभवन्तो न कदाचिन्न- रकेभ्य उत्तिष्ठन्तीति मुक्तिस्वरूपं वर्णितम् । न चास्मान्मुक्तिद्वया.
नन्वेवं रामानुजभाप्यमिवाचायभाप्यमपि सगुणमात्रपर्यव- यि किं न स्यात् । तन्निरूपणमेव तत्र तत्र सूत्रारूढतया तत्र न जीवानां ब्रह्मण धानपायिमुक्तावप्यनुवर्तमानश्शेषशेषिभावोऽपि र्णित इति मन्दशंकानिराकरणाथै प्राक् प्रपञ्चितरामानुजभाप्यादि- १४७ चन्द्रिकासहिता। I निर्विशेषब्रह्मभावावाप्तिरूपा मुक्तिः श्रीकण्ठाचार्येरिव तैरु- पे कचिदप्यंगीकार्यत्वेन व्यञ्जिता । यत्तु माध्वैरभ्युपगतं बन्ध- त्वादिकमद्वैतानुगुणमिव प्रतिभाति तदपि तैरेवाद्वैताभ्युपगमर्शका- रार्थ तदननुगुणत्वेन समर्थितम् । तथाहि- बन्धस्य जीवे उत्वेऽपि अंतःकरणे सत्यत्वं ब्रह्मगुणानादिधर्माणामिहाभेदेऽपि घविशेषस्यापि सत्वं मुमुक्षुभिब्रह्मसाक्षात्कारार्थ वस्तुतो भिन्नस्यैव चित् अंतःकरणस्य तत्प्रतिवियोपास्यत्वं ब्रह्मजीवयोर्मुखप्रतिमुखा- योश्च विवपतिबिंबयोर्वस्तुतो भिन्नत्वं ज्ञाननिवल्या भावरूपा- यास्सत्यत्वमित्यादि समर्थितम् । यद्यप्यन्यानंदस्यान्यं प्रति पुरु- त्वमशक्यमित्यादिहेतोब्रह्मानन्दो मुक्तभोग्य इत्याधुररीकरणमद्वै- वसानापादकतया म्वव्याघातकं, तथापि अनिवार्यपातनस्वव्या- दृष्टया तैरिदं नाद्वैताभ्युपगमदृष्टया । आचार्यभाप्य इव तदी- प्यादिग्रन्थे शुद्धाद्वैताभ्युपगमम्याभावात् । तदीयभाप्यकारप- सेभिरद्यतनपर्यन्तैर्विविधैरपि गौतमदधीच्युपमन्युनन्दिकेश्वरादिशाप- वातशुद्धाद्वैतपरमशिवोत्कर्षद्वेषकलुपैः परमशिवोत्कर्षस्येव वैष्णव यैर्निर्विशेषब्रह्माद्वैतस्यापि बहुधा विनिद्यमानत्वस्यैव दर्शनाचेति वः ॥ ५८॥ तं दृश्यते । तस्य च नित्यत्वादिति (२० २. ४. १६.) सूत्रार्थ- विम्यं बुद्धिसौकर्याय संकलय्य स्मारयति- १४८ आनन्दलहरी योद्धव्यं यद्विशेषोऽभिमतमतमिदं निर्गुणब्रह्मरूपं यचोपास्यं निरादीनदनिखिलगुणं नीलकण्ठं त्रिनेत्रम् । स्वस्वामित्वाभिदाभ्यां द्विविधमभिमनं तस्य चोपासनं य- चत्सर्व भाप्यरत्ने स्फुटमाथि खलु श्रीमदाचार्यपादैः ॥ यादेवमाशंकावकाशवती, यद्याचार्यभाप्ये निर्गुण निष्प्रपञ्चं ज्ञेयं ब्रह्म तस्य चाभेदेन निदिध्यासनमभेदावबोधस्य मुक्तावप्यनुवृत्ति- रित्यादिकं म्वमतत्वेन न प्रतिपादितम् । तदपि प्रतिपादितमिति बहु- विधोदाहरणमुखेन प्राक्प्रपञ्चितम् । अतः पूर्वोक्तदिशैव द्विविधाना- मपि भाप्यवाक्यानां व्यवस्थापितत्वादिति सूत्रार्थतया शेषशेषिभावस्य नित्यत्वकथनमपि चातुर्मास्यसुकृतस्याक्षय्यत्वकथनवत् आपेक्षिकार्थ- विषयतया योजनीयमिति भावः ॥ ५९ ।। नन्वेवं तर्हि शंकरभगवत्पदभाप्याछायापनमेवेदमपि भाष्य- मित्यायातं, सस्मिन् जाग्रति किमनेनेति मंदशंकानिराकरणाय प्राक्प्रप- ञ्चितान्यसाधारणप्रयोजनानि वुद्धिसौकर्यार्थ संकलय्य स्मारयति सर्व- मर्थ प्रकरणप्रतिपिपादयिषितत्वेन संगमयति च--- यसूक्तरेव बोध्यास्सगुणगुणवपुर्मुक्तिलीलाविशेषा- स्तस्योपास्तिप्रकाराससफलसरणयस्सूत्रतात्पर्यभेदाः । वेदान्तानां व्यवस्था परशिवपरमाकाशयोस्तखभाष्ये तद्भाष्यं दुर्मनीनां प्रभवति विदधद्वैदिकश्रीसमृद्धिम् ।। श्रीमदप्पय्यदीक्षितकातेरानन्दलहरी संपूर्णा ॥ मत्यं शंकरभगवत्पदभाप्यानुसाउँवेदनाचार्यभाष्यं तथापि तम्मिन्माप्ये मायोपाधिकसगुणब्रह्मास्तित्वमवगतं न तु तम्य पडं. .
.सताम्' इति श्रुतेर्वेदिकानां या श्रीत्रिवेदी तस्यास्समृद्धिर्महातात्पर्यावा- वैदिकमार्गप्रतिष्ठापनरूपं संविधानं तत्परिपन्थिकुदृष्टिकुलजल्पितष- मानवकाशीकरणं तन्मतदूषणश्च कुर्वदिदं भाप्यं सार्थकमेव । यद्य- प्यस्मिन्माप्ये परापादितदूषणोद्धरणं कण्ठोक्त्या कृतं न दृश्यते, तथापि यथा महान् प्रभुः स्वराज्यरक्षणार्थ चोरप्रवेशानवकाशीकरणं तेषां निग्रहश्च स्वकीयभूक्षेपफिकरैः कर्त्तव्यमिति सप्रकारं भूसंजया व्यञ्जयति १४९ चन्द्रिकासहिता। गदशाव्ययादिगुणाः, नीलकण्ठत्वादिविशिष्टमूर्तिरुमाशक्तिः, काल- कूटनिगरणादयो लीलाः, म्वस्वामिभेदेनाभेदेन च उपासनार्थ- प्रकारविशेषपरमशक्त्युमाशावल्यनीलकण्ठत्वविरुपाक्षत्वादीनां सर्व- विद्यासूपसंहारः, सर्वे.. चेतनपरित्याग इत्याद्याः पर- मानन्दमहाकैलासप्राप्तिरूपेण परविष्णुलोकमप्यातिवाहिककोटौ निवेश्य निरूपणीयेन तत्प्रापकमार्गेण च सहिताः, सर्वेप्वप्येतेप्वर्थेषु नमसूत्राणां महातात्पर्यावान्तरतात्पर्यभेदास्सगुणब्रह्मविषयावान्तरता- त्पर्यवत्सु वेदान्तवाक्येषु केयाञ्चिद्विशिष्टरूपम्य सगुणब्रह्मणो विशे- प्यांशे जीवे तात्पर्य केपाश्चिद्विशेषणांशे जीवे तात्पर्यमित्येवं व्यव- स्थाश्चावगताः । ते सर्वेऽप्यम्यैव भाप्यस्य सूक्तिभिरेवावगन्तव्याः। यद्यप्यस्मिन्भाप्ये समुदाहृतः श्रुतिस्मृतिपुराणागमेतिहासवाक्यस्ते प्रति. पादिताः । तैरवगतिसंभवे च सूत्राणामवान्तरतात्पर्योपगमेन भाप्यान्तरं न प्रवर्तनीयम् । शिवपरमाकाशपरसगुणविषयवेदान्तभागव्यवस्वाश्च तद्विषयकूर्मपुराणादिवचनानुसारेणावगन्तुं शक्या न कर्तव्याः। तथापि न तैः निर्धारणरूपावगतिम्सभवति । तेषां कुदृष्टिभिरन्यथानीयमानतया ततो वैदिकानामपि चित्तक्षोभसंभवात् । अतः • सा हि श्रीरमृता न्तरतात्पर्यविषयार्थतत्वावयोधनयोग्यतदर्थानुष्ठापनतत्फलप्रापणैरुपचयं आनन्दलहरी तथा विद्यासाम्राज्यसिंहासनारूढमहासमुकल्पमिदं भाप्ये तत्सर्व व्याख्यातृभिः कर्तव्यमित्युक्तिभंग्यैव सप्रकारं व्यञ्जयति ॥ ६० ॥ श्रीमहेश्वराय नमः ॥ श्रीमदतविद्याचार्यपर्यभारद्वाजकुलजलधिकौस्तुभ श्रीरंगराजाध्वरीन्द्रतनयश्रीमदप्पय्यदीक्षित कृतिषु आनन्दलहरीव्याख्या चन्द्रिका समाप्ता॥
॥
॥ अपीतकुचाम्बास्तवः ॥
आनन्दसिन्धुलहरीममृतांशुमोले-
रासेविनाममृतनिर्मितवर्तिमक्ष्णोः
आनन्दवल्लिविततेरमृतागुच्छ-
मम्ब स्मराम्यहमपीतकुचे वपुस्ते ॥१॥
निनिंद्रकोकनदकोमलकान्तमम्ब
नित्यं सुधानिकरवर्षि पदं त्वदीयम् ।
मूर्खाकरज्वररुजा मम तापितस्य
मूर्ध्नि क्षणं सकृदपीतकुचे निधेहि ॥ २ ॥
शीतांशुकोटिसुपुमाशिशिरैः कटाक्ष-
रब्याजभूतकरुणारसपूरपूर्णः।
कर्पूरधूलिमिव दिक्षु समाकिरद्भि-
रम्ब क्षणं नपय मामरुणाद्विमान्य ॥३॥
आविर्भव क्षणमपीतकुचे पुरस्ता-
दम्ब ज्वरेण महता मम तापितस्य ।
येन त्वदभिरुचिजालसुधामवाहे
मनस्तदेव तनुतापममुं त्यजेयम् ॥ ४ ॥
अपीतकुचाम्बास्तवः । नानाविधर्नलिनजातलिपिपक्लुप्त- रानीनमुर्छमधिकं क्षुभिर्वगः । आश्वासय क्षणमपीतकुचे करान- क्रीडाकनत्कनकहल्लकसारभेण ॥ ५॥ कण्ठे विपं विपमुचो भुजगाः कपर्दे पार्षे च भूतपतयः प्रमथाश्च भीमाः । शोणाचलेशमुपसृत्य भजत को वा न स्यात्तवाम्ब सविधे यदि संनिधानम् ॥ ६ ॥ शक्तिर्जगजननपालनभञ्जनेषु भोगेपु दिव्यमहिपी तरुणेन्दुमोले । मिद्धिः करमणयिनी तव संनिधानं यत्नासि तस्य तदपीतकुचे न जाने ।। ७ ।। त्वं साक्षिणी प्रलयभैरवताण्डवानां खं शेपिणी सहरिधावचराचराणाम् । त्वं मोचिनी सकलसंमृतिजालकानां त्वां ब्रह्मसंविदपपीतकुचे नमामि ॥ ८॥ इति श्रीमदद्वैतविद्याचार्य चतुरधिकशतप्रबन्ध- निर्वाहक श्रीमदप्पय्यदीक्षितेन्द्र- कृतिषु अपीतकुचाम्बास्तवः समाप्तः। ऑ शिवाभ्यां नमः ।
॥ श्रीः ॥ आनन्दलहरीस्थ पद्यानामकारादिक्रमेण पत्रपृष्ठसंख्यासूचिनी ॥ पृष्टांकः १०७ ११ २ १२९ २४ पृष्टांकः अनः प्राथम्यमेव ६९ तत्तत्त्वावेदने अत्रके वर्णयन्ति तम्मानास्त्यत्र अस्यामानन्दवल्ल्यामुपरि च तम्मिन्विज्ञानमन्तः आकाशे दृश्यते निर्वहितृपद २२ दीक्षासम्कारसिद्धिः आचार्यास्तत्र तत्र १२२ नन्वेवं कैटभारः आध्यानादिक्रियायाम् ११८ नाह कचिद्भजामीत्यभिहित आम्माकीना तु सैद्धान्तिकसरणिः ६४ नैगुण्यादिश्रुतीनाम् उक्ता वल्वत्र मुक्तिर्गतिमुपरि १०९ नोक्त तैम्तन तन्न एव च ब्रह्मणो यत्तदुपरि .२ प्रज्ञाशक्तः प्रसारम् प्रत्येक ब्रह्मभावः एवं सत्येव तस्मिन्नखिल प्राणी ब्रह्मेति जानामि ऐकायें चिन्तित ताम् १८ प्रायो विष्णुः पुराणे कर्मानुष्ठानभूम्ना १३२ चोद्धव्यं यद्विशेषो कस्यानन्दोऽय । ब्रह्मानन्दत्वमुता को रवान्यात्क इत्या ब्रह्मानन्दस्य तम्मि गीतास्वाद्य प्रपये ४५ ब्रह्मेत्यंचाविशिष्टम् चिन्छक्ति ब्रह्मणो यत् १११ मन्त्रश्छदामि यज्ञाः जन्मस्थित्यादि ६३ यत्सूकैरेव बोदया जीवस्तावत्प्रसिद्धः यत्र काप्याम्नि चेन्सा जीवात्मा तदशाः ६३ यथानप्रक्रियायाम् जीवेन्द्रत्वाभिधानात् ७८ यहयानन्यतोत्तम् एव सत्येव १४८ १४८ १२७ .
(२)
ठाकः
यद्वा शक्त्यश
यन्मनबाह्मणश्च
योगाम्टेन गीतास्तिव
विश्वीपादानभावः
विष्णुत्व प्राप्तये च
विष्णोरुन्कर्षमेव प्रथयति
पृष्टांकः
९३ शम्भीरमहाराहादिय
२७ शास्त्रे चाम्मिन्महेश
५२ शास्त्र ब्रह्माधिकारम्
३. शुद्धावते हि
शुद्ध ब्रह्माद्वितीयम्
५६ श्रीकण्याचार्यभाग्यो
१३ सत्यज्ञानादिमत्रोदित
७८ संकल्पादादिविष्णोः
२० सूत्राणामेतदर्थान्तर
१४४
विष्णार्या तत्पुराणा
शक्त्यशे सर्वतत्वात्मनि
शम्भोजानक्रियेच्छा