Canegie Mellon Univeristy

Saatvata Tantrama~

Shiva · 2006/01/24

PDF Proofread

Front matter

No text on this page.

THE
CHOWKHAMBA SANSKRIT SERIES.
A
COLLEOTION OF RARE & EXTRAORDINARY SANSKRIT WORKS,
(Work No. 79 )
NO. 427.
THE
SĀTWATA TANTRAM
REVEALED BY NARAYANA AND
COMMUNICATED TO NĀRADA
By
SIVA
Edited with notes etc.,
By
PANDIT ANANTA S'ASTRI PHADKE
VYAKARANACHARYA & MIMAMSA TIRTHA
Professor. Govt. Sanskrit College, Benaros.
BENARES.
JAI KRISHNA DAS-HARIDAS CUPTA,
The Chowkhamba Sanskrit Series office,
1934,

[ Registered According to Act XXV of 1867,
All Rights Reserved by the Publisher.)
PRINTED, BY
JAI KRISHNA DAS GUPTA
Vidya Vilas Press,
Benares City,
1934,

चौखम्बा-संस्कृत-ग्रन्थमाला । (ग्रन्थ-संख्या ७९) सी० नं०४२७ श्रीनारायणेनाविर्भावितम् । श्रीशिवेन नारदायोपदिष्टम् । सात्वततन्त्रम्। तच्च- राजकीयपाठशालाध्यापकव्याकरणाचार्यमीमांसातीर्थफडके इत्युप- नामकानन्तशास्त्रिणा टिप्पण्यादियोजनापुरःसरं संशोधितम् । प्रकाशक:- जयकृष्णदास-हरिदास गुप्तः- चौखम्बा-संस्कृत-सीरिज़ आफिस, बनारस लिटी। १९९१. राजकीयनियमानुसारेणास्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः।

Dow * श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्यामशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतप्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २॥ स्तबक ४२७ OS इस कार्यालय द्वारा "चौखम्बासंस्कृतसरिज"के अलावा और भी ३ खारिज यथा “काशीसंस्कृतसारिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रन्यमालायें निकलती है तथा इन ४ सीरिजों के पश्चात् और भी विविध पान की पुस्तकें प्रकाशित की गई है तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के अन्य विकयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें। प्राप्तिस्थानम्- जयकृष्णदास हरिदास गुप्तः- चौखम्बा संस्कृत सीरिज़ आफिस, बनारस सिटी। Boorprogram श्री १०८ भैरवाय नमः। भूमिका । विदितमेवैतत्समेषां बृहस्पतिकल्पानां विद्वत्प्रकाण्डानां भारते द्विज. वरैरनुष्ठीयमानेषु कर्मसु यथा वैदिकं, स्मार्त्त, पौराणिकं वाऽङ्ग प्रत्यक्ष मस्ति तथा तान्त्रिकमपि । यथा प्रत्यहमनुष्ठीयमानायां प्रातरादिसन्ध्यायां दिग्बन्धमुद्राप्रदर्शनादिकम् । तत् सवं क्रियत एव । तथान्येषु कर्मस्तु । एवं यथा वेदानां प्रवर्तको भगवान्नादिनारायणो ब्रह्माणमुत्पाद्य तं वेदान्पा. ठयित्वा तद्वारा संसारे प्रवर्तयति तानिति "यो वै ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै” इति श्रुत्यैव स्पष्टं प्रतिपादितम्। तथा तन्त्राण्यप्यादिनारायणेन सङ्कर्षणशिवनारदादिभ्यः, तैश्चान्येभ्य ऋषिभ्य एवंरोत्या, अथवा, शिवेन पार्वत्यावेवं रीत्या वा प्रगटीकृतानीति- "यच्चोदितेन हलिना प्रागुक्तं चक्रपाणिना। पारम्पर्यागतं तन्मे गदतश्णुत द्विजाः॥" (सा०सं०अ०१८) SAR NP "प्रथमं सात्वतं शास्त्रं सम्यगध्यापितं मया। वासुदेवेन यत्प्रोक्तं शास्त्रं भगवता स्वयम् ॥” (ई०सं० अ०५४) MILE- स्थलेषु "तथापि सारमुद्धृत्य तन्त्ररूपेण नारद । वर्णयामि यथैवोक्तमीश्वरेण दयालुना ॥" ( सा० तं० प०८) इत्यादिवचनजालैः सुस्पष्टम् । एवं यथा वेदानां पूर्वकल्पीयानुपूर्वी स्मृ त्वाऽऽदिनारायणो ब्रह्माणमुपदिशति, तथैव तन्त्राण्यपि गतकल्पोयानुपूर्वी स्मृत्वा शिवनारदादिभ्य उपदिशतीति वेदानामिव तन्त्राणामपौरुषेय. त्वं निर्विवादम् । निर्णयसिन्ध्वादिधर्मशार शास्त्रीयग्रन्थालोचने बहुषु तन्त्रस्थानां वचनानामुल्लिखद्भिस्तैस्तन्त्रस्थानुष्टेयपदार्थसड्ग्रहः स्मृति. स्थपदार्थसङ्ग्रह इव कियताप्यंशेन कृत इति सुस्पष्टं दोदृश्यते । तन्त्रेवपि सात्विकराजसतामसभेदेन, वैष्णवशैवादिभेदेन, वैदिकावैदि- कभेदेनानेकप्रकारको व्यवहारो यथा दृश्यते, तथा संहिताऽऽगमरहस्या. दिभेदेनापि बहुविधो भेदोऽवलोक्यते । तत्र सात्विकादिभेदः पञ्चरात्रा. न्तर्गतेश्वरसंहितायां सुस्पष्टं दृश्यते । तथाहि- "विज्ञाय पुण्डरीकाक्षः अर्थजालं यथास्थितम् । तद्बोधकं प्रणीतंयच्छास्त्रं तत्सास्विकं स्मृतम् ॥ तस्मात् ज्ञातेऽर्थजाते तु किञ्चित्तदवलम्ब्य च । स्वबुद्ध्युन्मेषितस्यैव ह्यर्थजातस्य बोधकम् ॥ ब्रह्मादिभिः प्रणीतं यत् तथा तद्वषिभिद्विजाः। ब्रह्मादिभिः परिश्रुत्य तत्संक्षेपात्मना पुनः॥ - भूमिका। स्वविकल्पात्प्रणीतं यत् तत्लवं राजसं स्मृतम् । केवलं स्वविकल्पोत्यैः कृतं यत्तामसं स्मृतम्" ॥ ( ई० सं० १, ५७-६३) वैष्णवतन्त्राणि तु विष्णुदेवताप्राधान्यं स्वीकृत्य प्रवृत्तानि । शैवानि शिवदेवतां प्रधानं स्वीकृत्य प्रवृत्तानि । एवं शाक्तानि, गाणपत्यादीनि च । वैदिकानि तु वैदिकानुष्ठेयपदार्थसम्बद्धानि सर्वोन्नयनतन्त्रादीनि । अवैदिकानि तन्त्रशास्त्रीयप्रसिद्धपदार्थसम्बद्धानि महामायाशम्बरतन्त्रा. दीनि । वैदिकान्यवैदिकान्येव दक्षिणमार्गतन्त्राणि वाममार्गतन्त्राणीति नाम्ना प्रसिद्धानि । सर्वाण्यप्येतानि तन्त्राणि नारायणशिवायुपदिष्टत्वेन वेदवत् स्वयं प्रमाणानि, उत्पत्तिकालरहितानि, अधिकारिभेदेन व्यव- स्थितप्रमाणानीति तान्त्रिकानां सिद्धान्तः । वेदानां 'अनन्ता वै वेदा इत्यादिना यथाऽनन्तत्वं सुप्रसिद्धं, तथा तन्त्राणामपि "तन्त्राण्येतानि विप्रर्षे अयुतान्यर्बुदानि च” इति वचनेनान. न्तसङ्ख्याकत्वं सुप्रसिद्ध तन्त्रशास्त्रेषु । तन्त्रेषु संहितारूपाण्यष्टोत्त. रशतसङ्ख्याकानि पाञ्चरात्रपदवाच्यानि सात्वतसंहितेश्वरसंहितादीनि प्रसिद्धानि । आगमपदेन कामिकाख्यागमकारणागमाजितागमादयः प्रसिद्धाः। रहस्यपदेन शिवरहस्यब्रह्मरहस्यविष्णुरहस्यादिरहस्यग्रन्थाः प्रसिद्धाः । एवमुपागमोपतन्त्रादिनानेकभेदभिन्नोऽयं तन्त्रशास्त्रमहोदधिः। अथेदं तन्त्रं वैष्णवतन्त्रेवन्यतमम् । अस्य सात्वततन्त्रेति नाम । अन्वर्थतन्नाम । सत्-सत्वगुणो विद्यते येषान्ते सत्वन्तः भक्ताः । सत्वतामिदं सात्वतं-भक्तानुष्ठेयपदार्थबोधकं शास्त्रम् । अध यावत् सात्वततन्त्रपदेन पाञ्चरात्रसंहिता एव स्वीक्रियन्ते स्म । प्रसिद्धष्टीकाकारैरपि "तृतीयमृषिसगं च देवर्षित्वमुपेत्य सः । तन्त्रं सास्वतमाचष्टे नैष्कम्य कर्मणां यतः अस्य श्रीमद्भागवतश्लोकस्य व्याख्यानप्रसङ्गेन 'सर्वकर्मनिवर्तकं पञ्चरात्रागमं नाम तन्त्रं कृतवान्' इत्यादि व्याख्यानं कृतम् । तेनैतद् ज्ञायते बहोः कालादारभ्येदं तन्त्रं लुप्तप्रायमिव सजातम् । तथा प्रसिद्धाङ्ग्लभाषामुद्रितबृहत्पुस्तक. सूचिकायां सात्वततन्त्रपदेन सात्वतसंहितैवोल्लिखिता। एकस्यां सू चिकायां सात्वतसंहितातस्सात्वततन्त्रं भिन्न मद्रप्रान्तान्तर्गतैकस्मिन ग्रामे कस्यचिद् ब्राह्मणस्य गृहे विद्यत इत्यर्थकं लिखितम् । परन्त्वद्य. यावन्न दृष्टं तत्केनापि । तदधुना विद्यते नष्टप्रायं वेति न ज्ञायते । टीका- कारैः सात्वततन्त्रपदस्य व्याख्यानं सात्वतसंहितारूपेणाथवा पाश्चरा. प्रागमतन्त्ररूपेण कथं कृतमित्यत्र सम्यक न श्रायते कारणम् । सर्वत्र ३ । भूमिका। पाचरात्रग्रन्थे सात्वतशास्त्रशब्दस्यैव बहुशोन्यवहार उपलभ्यते-- "एतेषां सात्वतं शास्त्रमुपदेष्टुं त्वमर्हसि । "तथा दिव्यानि शास्त्राणि सात्वतादीनि चादरात्" "सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् । दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिभिः ॥ "प्रथमं सात्वतं शास्त्रम्" । "सात्वतं पौष्करं चैव जयाख्यं च तथैव च । एवमादीनि दिव्यानि शास्त्राणि हरिणा स्वयम् ॥ इत्यादिषु । कदाचित् तन्त्रशास्त्रपदयोः पर्यायतां स्वीकृत्य शास्त्र नाम तन्त्रमित्यर्थ मनसि निधाय शास्त्रकृद्भिर्व्यवहारः कृतो भवेत् । भवतु तत्कथञ्चिदपि । सर्वथा तदेतत्सात्वततन्त्रादर्शनमूलकमेव । अद्याधुना महत्सौभाग्यस्थानमस्माकं यन्नष्टप्रायमिदं सात्वततन्त्रं दृष्टिप- थमायातमिति । इत्थं तत्प्राप्तिप्रकारः। केनचिनिमित्तेन श्रीगुरुवरमहामहो. पाध्यायपव्यलङ्कृतपर्वतीयनित्यानन्दपन्तानां गृह आगतैरधुना ब्रह्मभूयं. गतैः परिबाड्मूर्धन्यभूतैर्नेपालाभिजनपण्डितगजराजकेसरिमहोदयैर्वा. क्रिमेणोक्तं सात्वततन्त्रं पाञ्चरात्रसंहितातो भिन्नमस्माकं निकटे वर्तत इति । कीद्वक् तदवश्यमेकवारं द्रष्टव्यमिति गुरुवरैः प्रार्थितेस्तैझटिति स्वनिकेतनादानीय प्रदर्शितं, तदृष्ट्वा च सुन्दरमेतदहो महान लाभोऽव. श्यं प्रकाशनीयमेतदस्य प्रकाशनेन च बहोः कालादारभ्य लास्वततन्त्र- विषये स्थितस्य भ्रमस्य निवृत्तिर्भवेदिति निश्वितमेतदिति गुरुभिरुक्ते श्रीयुतगजराजकेसरिभिस्तेषां निकट तत् संस्थापितम् , तच्च श्रीयुत- पण्डितमहादयस्साहित्याधनेकशास्त्राचार्यैः कलिकातास्थशिवकुमार भवनपाठशालाप्रधानाध्यापकैर्भाण्डारिविष्णुप्रसादमहाशयैः संशोधना. थं मह्यं प्रदत्तम् । एतच्च पुस्तकं प्राचीनदेवनागरलिपिलिखितं, क्वचिरस्थले खण्डितं, सप्तदशाङ्गुलपरिमितायामयुक्तं, सप्ताङ्गुल. विस्तारयुतं, द्विचत्वारिंशत्पत्रपरिमितं प्रतिपत्रमष्टपङ्क्तियुतं प्रतिपक्ति प्रायश्चत्वारिंशदक्षरयुतं, कृष्णरक्तमशीद्वयलिखितं, अधुना जीर्णत्रुटि- तनेपालदेशजलेखनसाधनपत्रयुतं, लेखनकालोल्लेखरहितं, परन्तु पत्रस्व- रूपाक्षरस्वरूपावलोकनेन शतत्रयवर्षेभ्यःप्राक् लिखितमित्यनुमितं वर्तते। एतच्च तन्त्रं कैलासशिखरस्थितेन सर्वविद्यानिधानभूतेन शिवेन नारदप्रार्थनातः तं प्रत्युपदिष्टम् । तच्च प्रथमतः श्रीशिवाय नारायणेनो. तमिति-- "तथापि सारमुद्धृत्य तन्त्ररूपेण नारद ।

भूमिका। वर्णयामि यथैवोक्कमीश्वरेण दयालुना” ॥ इति तद्ग्रन्थस्थलेखत एव ज्ञायते । तत्र श्रीशिवपार्वतीसंवादतोऽने- कानि सर्वलोकहितकारमाणि शास्त्राणि प्रादुर्भूतानि । तानि च गणेशेन लिखितानि पुनश्च पृथ्वीतले श्रोतृभिविस्तारितानि । एतत् तन्त्रं शौनका. दीनां समक्षं नाहदेनोक्तम् । एतच सर्व- "अथ मां पृच्छुती वाक्यं मद्वाक्यं च द्विजोत्तम । संलिखत्यप्रमत्तोऽसौ गणेशो मस्सुतोऽन्तिके ॥ मम तेषां च संवादः कला लोकमनोहराः । अभवस्तत्र शास्त्राणि सर्वलोकहितानि वै॥ तानि तन्त्राणि श्रोतारः समानीय महीतले । स्थाने स्थाने मुनिश्रेष्ठ कथयिष्यन्ति भूरिशः ॥ त्वमप्येतं सात्वताख्यं तन्त्रं भगवतः प्रियम् । नैमिषे शौनकादीनां समक्षं कथयिष्यसि ॥" इत्यादिना प्रकृतग्रन्थतो शायते । सात्वततन्त्राण्यनेकान्यासन्नित्यपि वक्तुं शक्यम् । प्राचार्याणां हरिमीडे स्तोत्रे"सात्वततन्त्रैः" इत्याकारक बहुवचनान्तोल्लेखात् । अस्त्वेतत् , अस्मिन् बहवोऽप्यपाणीयप्रयोगा उपलभ्यन्ते । एतत्तन्त्र भागवतमूलभूतम् । एतदेव नारदेन श्रीमते व्यासायोपदिष्टमिति केषा- चिन्मतम् । अन्येषां तु भागवते नारदेन व्यासायोपदिष्टस्वीयचरित्रे कुत्रचिदपि सात्वततन्त्रस्योल्लेखाभावान्नैतदुपदिष्टं व्यासायेति मतं, तच्चालोचनीयं विद्वद्वरैः । बहुषु स्थलेषु अस्य श्रीमद्भागवतग्रन्थस्य च स्थलसाम्यमर्थसाम्यं शब्दसाम्यमवलोक्यत इतित्ववश्यं वक्तव्यं भवेत् । यथा भागवतीयदश- मस्कन्धीयश्रीकृष्णचरितं सात्वततन्त्रस्थकृष्णसहस्रनामान्तर्गतं तत् "सर्व- ब्रजजनानन्द” इत्यादि १२२ श्लोकतः "उषापतिवृष्णिपतिः" इत्यादि १९८ श्लोकं यावत् सम्पूर्ण प्रायःसूत्ररूपेण तुल्यरूपम् । अर्थसाम्यं तु "यक्षेप. शोरालभनं" (सा० ८,११) "मानुष्यं प्राप्य ये जीवा" (सा०८,१५) "यत्प्रसादं प्रतीक्षन्ते" (सा०८-१७) "लीलामानुषरूपेण देवकीजठरं गतः (सा० ३-५०) इत्याद्यनेकस्थलानां "लोके व्यवायामिषमद्यसेवा, (भा० ११-५-११) "श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ( भा० २-३ ) "एष वै किल देवक्यां जातः" (भा० १०-४३-२४) । इत्या. द्यनेकस्थलेवस्तीति श्रीमद्भागवतपाठकर्तृणां सुविशदमेव ।

भूमिका। तथा- शब्दसाम्यन्तु- 'कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः॥ (भा०११-५-३८) "अतः कृतादिषु प्रजाः कलौ सम्भवमात्मनः । वाच्छन्ति धर्मपरमाः भगवद्भक्तिकारणम्" ॥ (सा०५-४२) "कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः यत्र सङ्कीर्तनेनैव सर्वः स्वार्थोऽभिलभ्यते” ॥ (भा०११-५-३५) "तस्मात्कलौ परो धर्मो हरिकीर्तः सुकीर्तनम् । यतः कलिं प्रशंसन्ति शिष्टास्त्रियुगवर्तिनः ॥ ( सा० ५-४५) इत्याद्यनेकस्थलेषु कियताप्यंशेन स्पष्टं, दिङ्मात्रमिहोदाहृतम् । अत्रानेके विषयाः प्रतिपादिताः, ते च बृहविषसूचि कायां द्रष्टव्याः । श्रीकृष्णसहस्रनाम तु सर्वथादृष्टचरमेव । अस्य विष्णुसहस्रनामेति. पदेनाप्युल्लेखो दरीदृश्यते, यथा- "इत्येतत्कथितं विप्रविष्णोर्नामसहस्रकम्" ॥ इति । (सा०६-२१३) अत्र प्रदर्शितमार्गेण यदि मनुष्याचरणं भवेतहि तन्त्रोक्तफललाम- स्तस्य भवेदिति निश्चितम् । चौखम्बासंस्कृतसीरिजेत्याधनेकमोलाग्रन्थसम्पादकहरिदासपुत्र. जयकृष्णदालमहोदयप्रेरणया प्रवृत्तेन मयास्थ संशोधनसमय एकमेव हस्तलिखितं पुस्तकं पूर्वोक्तमहोदयगजराजकेसरिणामासादितम् । तत्रत्यकृष्णनामसहस्रसंशोधनसमये श्रीयुतविष्णुप्रसादभाण्डारिमहो. दयैः प्रदत्तमपरं कृष्णनामसहस्रमात्रयुतम् । पुस्तकद्वयमप्यशुद्धिबहुलं त्रुटिताक्षरं प्राचीनलिपिलिखितमासीत् । तत्साहायेन यावबुद्धि- बलं संशोधनं कृतम् । संशयितस्थलेषु प्रश्नचिन्हं तथा क्वचि. स्थले टिप्पणमपि योजितम् । अस्य संशोधने तथा टिप्पणादियोजने पण्डितवरसाहित्याधनेकशास्त्राचार्यभाण्डायुपनामकश्रीविष्णुप्रसाद शर्मणां तथानेकदयादाक्षिण्यादिगुणालङ्कृतपण्डितभगवद्भक्तश्रीपद्म- नाभकेसरिमहोदयानां सहायं सुमहत्सञ्जातमतस्तेभ्योऽनेकान् धन्य. वादान् प्रकाश्यैतत् संशोधनं श्रीकाशीपुरीपालक श्रीभैरवनाथकृपया सम्यक् समाप्तमतस्तान् प्रणम्यान्ते विद्वत्प्रकाण्डान् ग्रन्थस्यास्य संशो- धने जातं स्खलितमुपेक्ष्य गुणान् गृह्णन्वितिसाअलिबन्धं प्रार्थयति- काश्याम- विद्वद्वशंवदः- अधिकवैशाखामावस्यायाम् अनन्तशास्त्री फडके मिते विक्रमाब्दे । १९९१ ध्याकरणाचार्यो मीमांसातीर्थश्च । - A पृष्ठम् । श्लोकः । १ १ १ १ OMo २ २ शिवप्रोक्तसावततन्त्रस्थ बृहद्विषयानुक्रमणिका । विषयः। मङ्गलाचरणम् कैलासस्थितशिवं प्रति नारदप्रश्न: अप्रेमयस्यकृष्णस्य नानातनूग्रहणनिमित्तमवतारनिमित्तश्च किं तद्वर्णयेत्याकारका ब्रह्मणो वर्षशतैरपि विश्रावतारवर्णनं कर्तुं न शक्यते तथापि सारमुद्धृत्येश्वरेण यदुक्तं तत्कथयामीति नारदं प्रति शिवोत्तरम् सात्वततन्त्रं वक्ष्य इति शिवप्रतिज्ञा १ वेदान्तिनां मते तत्तत्वं ब्रह्मेतिसंज्ञकं, सात्वतानां मते भगवानिति संज्ञकम् तदा दृश्यं विनाऽऽत्मानमसन्तं मत्वा विभुः सत्यं रूपं चिच्छक्तिरूपं चेति द्विधाऽभवत् सर्वलोकाधारभूतः पुरुषो भगवानिति कथ्यते कार्यकारणरूपिणी गुणत्रयात्मिका तस्य शाक्तिः प्रकृतिः यो गुणत्रयक्षोभात्पुरा पृथग्भूतः कालः स हरेश्चेष्टा यस्माजीवस्य शुभाशुभग्रहो भवति तन्महतो जन्महेतु कर्मास्ति भावानां सर्वदा परिणामः सूक्ष्मरूपः स्वभावसंज्ञक: पूर्वोक्तः पुरुषः कालकर्मस्वभावस्थः सन् प्रकृति प्रेरयति २ पुरुषाधिष्ठितप्रकृतेर्शानक्रियात्मकं महत्तत्वमभूत् वैकारिकादिरूपेण त्रिविधोऽहङ्कारस्तस्माजातः वैकारिकान्मनोज्ञानक्रियाधिपाः देवाः मरुदादयो शानदायकाः, वह्नयादयः कर्माधिपाः राजसाद्विषयग्राहकज्ञानकर्मस्वरूपिणो जाताः त्वगादयो ज्ञानरूपिणः, वागादयः क्रियात्मका: तामसात्तन्मात्राणि पश्चभूतानि च विभागशे जातानि तामसात्प्रथमतः शब्दोऽभूत्तस्मान्नभः, शब्दात्स्पर्शः, त. स्मान्मरुचस्मात्तेजस्तस्मादूपं, ततो रसस्ततो जलानि, ततो गन्धस्तस्माद्भूमिः ११ १२ ૨ २ २ १५ २ २ २ २ १९ २ ० २ २१ २२ २ २२ २ ३ २३-२५ .. CCCIAL ३७-३८ विषयानुक्रमणिका। विषयः। पृष्ठम् । श्लोकः। महत्तत्वादिगन्धान्ताः सर्वे प्रकृतिविक्रियाः ३ २६ आकाशे शब्दो, वायौ शब्दस्पर्शा, तेजसि शब्दस्पर्शरूपाणि, जले रससहिताश्चत्वारः, पृथिव्यांगन्धविशिष्टाः पञ्चगुणाः ३ कारणानां कार्य समन्वयात्कारणगुणवत्वं च ३ महदादीनि तत्वानि पुरुषस्य कार्यावताररूपाणि सन्ति ३ महदादीनि मिलित्वा पुरुषेच्छया स्वांशैः पञ्चाशस्कोटिवि. स्तृतच्छिद्रयुतं महदादिषु सप्तसु क्रमशो नवगुणाधिकेन महदादिना बहिरावृतं विराजनामक पुरुषगेहम् ३ ३१-३३ नारायणनामनिर्वचनम् विराड्देहे स्थितत्वात्पुरुष इति निर्वचनम् नारायणप्रवेशाद्विराडश्चेतनात्वम् विराजो द्विसप्तभुवनाश्रयत्वमित्यादिना वर्णनम् तस्याभिमानिनं पुरुषमिति, तदन्तर्यामिणं नारायणमिति च कथयन्ति ३९-४० सच नारायणोऽवतारसहस्त्राणां बोजमित्यादि कथनम् ४ यस्य रजोंऽशेन ब्रह्मा, सत्वांशेन विष्णुः, तमसा रुद्रो भवति, एते विष्णार्गुणावताराः ४१-४२ गुणावताराणामंशावतारान्कथयामीति प्रतिज्ञा ४३ ब्राह्मणोंऽशेन मरीच्यादयो जाताः विष्णोरंशेन धर्मयज्ञादयोऽभवन् ४६-४७ रुद्रांशेन रुद्रगणसदियो जाता: ४८-४२. हरेर्लीलादेहान् कथयामोति प्रतिज्ञापूर्वकं श्रीकृष्णं नमस्कृत्वा प्रथमपटलसमापनम् ५०-५१ हयशीर्षावतारवर्णनम् चतुःसनावतारवर्णनम् नारदावतारवर्णनम् वराहावतारवणं नम् शेषावतारवर्णनम् ६ कमठरूपावतारवर्णनम् कृपामयवपुरवतारवर्णनम् शुक्लावतारनिरूपणम् सुयशावतारनिरूपणम् कृपिलावतारनिरूपणम् १९ ५ ५ १ ३ ५ ६ ६ ६ सात्वततन्त्रे- पृष्ठम् । श्लोकः। ११ १२ १३ १६ १९ २० ८ २१ २२ २३ २४ २५ विषयः। दत्तावतारनिरूपणम् नरनारायणावतारवर्णनम् ऋषभावतारनिरूपणम् हंसावतारनिरूपणम् पृथ्ववतारवर्णनम् दक्षयज्ञऽष्टबाहुरूपावतारवर्णनम् गयावतारनिरूपणम् कामदेवशरीरेणावतारः प्राचीनबर्हिःपुत्रार्थ धृतावतारवर्णनम् स्वारोचिषे द्विजवेदशीर्षजावतारनिरूपणम् सत्यसेनसंज्ञकावतारनिरूपणम् गजेन्द्राथं धृतावतारकथनम् जयाभिधानावतारनिरूपणम् समुद्रमथनाथं धृतावतारवर्णनम् कूमावतारवर्णनम् धन्वन्तयवतारनिरूपणम् मोहिनीरूपावतारनिरूपणम् मत्स्यरूपावतारकथनम् नृसिंहरूपावतारनिरूपणम् वामनावतारनिरूपणम् गदाधरावतारनिरूपणम् परशुरामावतारनिरूपणम् श्रीरामचन्द्रावतारनिरूपणम् श्रीरामचन्द्रस्य विवाहादिनिरूपणम् विराधमारीचादिहननवर्णनम् रामविरहवर्णनम् रावणहननादिवर्णनम रामराज्यपालनवर्णनम् भरतकर्तृकगन्धर्वमथनवर्णनम् लक्ष्मणदेहत्यागकथनम् शत्रुघ्नवर्णनम् अगुष्ठपानरतशिशुरूपावतारवर्णनम् वृत्रभीतनिर्जरोरक्षणाय धूतावतारनिरूपणम् २८ २९ ३० OM ० ३२ १ ११ ३९ ४१ १२ १२ १२ १३ १३ ५४ विषयानुक्रमणिका। विषयः। पृष्टम् । श्लोकः। वालखिल्यार्थ धृतावतारकथनम् १२ भरतरूपावतारवर्णनम् १२ પુ वेदव्यासरूपावतारवर्णनम् १३ ४६ बलदेवरूपावतारवर्णनम् श्रीकृष्णरूपावतारवर्णनम् श्रीकृष्णस्य गोकुलगमनकथनम् १३ पूतनादिहननादिवर्णनम् १३ ब्रह्मदेवकृतवत्सहरणादिवर्णनम् वृन्दावनक्रोडाादिवर्णनम् चाणूरहननादिकथनम् गुरुपुत्रानयनादिवर्णनम् भौमासुरहननादिवर्णनम् बाणासुरसमरादिकथनम् १४ परिक्षिन्नृपरक्षणकथनम् कामादिना श्रीकृष्णे मनोलीनेऽपि स्वरूपं स ददातीति कथनम् १५ पूज भगवत्सेवारतानां मुक्तिसुखमधिकं नास्तीति कथनम् १५ द्विजशापात्स्वकुलहननादिकथनम् प्रद्युम्नवर्णनम् २५ ६१ अनिरुद्धवर्णनम् ६२ शुकोत्पत्त्यादिवर्णनम् १ ६३ बुद्धावतारनिरूपणम् पाखण्डशास्त्रकर्तृत्वादिवर्णनम् कल्क्यवतारवानम् १६ ६६ नवममन्वन्तरीयावतारवर्णनम् ६७ दशममन्वन्तरीयावतारवर्णनम् धर्मसेतुसंज्ञकावतारनिरूपणम् १६ द्वादशमन्वन्तरीयावतारवर्णनम् १७ त्रयोदशमन्वन्तरीयावतारकथनम् सत्रायणस्य सदने जातावतारवर्णनम् २७ ७२ चतुर्दशमन्वन्तरीयावतारवर्णनम् भगवत एतेऽवताराः सम्पूर्णीशकलारूपा इत्यादिकथन. पूर्वकं द्वितीयपटलसमाप्तिः १७ ७३-७४ ६० ६५ ६८ M २.

सात्वततन्त्रे- पृष्ठम् । श्लोकः। १२ १२ १५-१६ १६ विषयः। निर्विकल्परूपश्रीकृष्णस्य कथमंशकलाभाग इति नारप्रश्न: जगदात्मनः कृष्णस्य वस्तुतोऽवतारवर्णनमयोग्य किन्तु ज्ञानप्रभावादेः पूर्णाशांशानुदर्शनादवतारभेदवर्णन- मितिशिवोत्तरम् ऐश्वर्यादेः सत्वेऽपि कार्यतः केचिदृश्यन्ते न हि सर्वे, तेनायमंशकलादिभेदः १८ अंशकलाविभूत्यादिवर्णनम् १८ ज्ञानधर्मादेर्भेदकथनप्रतिज्ञा १८ उत्पत्तिप्रलयादिभेदेन ज्ञानं षविधम् सत्यादिरूपेण धर्मश्चतुर्विधः अमानादिरूपेण वैराग्यं चतुर्विधम् १९ अणिमादिरूपेणैश्वर्यमष्टविधम् भृत्यामात्यादिरूपेण श्रियो वर्णनम् यशस्तु कर्मतो गुणतो द्विविधम् सृष्टयादिरूपेण कम चतुर्विधम् अपरिमेयाः गुणास्तथापि गुणास्तथापि द्विषष्टिगुणकथनविष- यिणी प्रतिज्ञा तत्र ब्रह्मण्यादिगुणथनम् एतेषां पूर्वोक्तानां सर्वेषां यत्र प्रकाशः स सम्पूर्णक्तारः १९ अंशप्रकाशादंशावतारः, कलाप्रकाशात्कलावतारः, विभूते: प्रकाशाद्विभूतिर्भवेत्, वस्तुतः शुद्धस्य नारायणस्य भेदो नास्ति कृष्णः पूर्णोऽवतारः, यतोऽनेकभगभेदाः प्रदर्शिताः हयग्रीवाधवतारे भगभेदाल्पत्वदर्शनादंशावतारत्वम् तथा राममत्स्यादयोऽशावताराः कुमारनारदादयः कलावतारा शानांशयुक्ताः गयादयः शक्त्यवतारा अंशभूताः ब्रह्मद्यास्तदंशा विभूतयो गुणावतारा: अवतारिस्वरूपविषयको नारदप्रश्न: एकमेव सनातनमवतारितत्वं श्रीकृष्णादिसंज्ञाभिः स्वीक्रियते भानुमण्डलदृष्टान्तेनाभेदवर्णनम् १९-२४ २५ १९ २६-२ २९ २९-३१ ३२ २० ३३ २० ૨૨ ५० २२ ८ २३ २३ विषयानुक्रमणिका! विषयः। पृष्ठम् । श्लोकः। सात्वताः श्रीकृष्णाख्यं परं तत्वं वर्णयन्ति २१ वेदान्तिनः प्रकाशात्मकं ब्रह्म परमं वदन्ति २१ ४३-४५ हैरण्यगर्भाः पुरुषमनन्तशक्त्यादियुतं मन्यन्ते २१ ४५-४७ अर्थस्य नानाकारतादृष्टान्तेन तत्वैकत्ववर्णनम् ४९ सर्वावताराणां कारणं कृष्ण इति कथनम् मुक्त्याद्ययं सर्वे कृष्णं सेवन्त इत्यादिकथनम् ५१-१४ भक्तिभेकथनार्थ नारदप्रश्नः २२ १-३ शिवस्य भक्तिकथनात्पूर्व श्रीकृष्णोन भक्तलक्षणं यादृगुक्तं तत्कथनम् श्रीकृष्णध्यानादिनिष्ठः श्रीकृष्णभक्त इति कथनम् भक्ताय भक्तिभेदो वक्तव्य इति भगवदाज्ञा निगुर्णत्वादिनकैव भक्तिः प्रीतिरिति कथ्यते ज्ञानक्रियालीलादिभेदैर्भक्तिस्त्रिविधा १३ निर्गुणभक्तिलक्षणम् २३ १४ कर्मजभक्तिलक्षणम् २३ लीलाभक्तिवर्णनम् निर्गुणभक्तिसाधनवर्णनप्रतिज्ञा २४ तस्या वासुदेवार्पणादिसाधनवर्णनम् १८-२१ निगुणभक्तिप्राप्तौ मुक्तिरपि नाधिका २२ कर्मजभक्तिसाधनवर्णनम् २३-३० एतद्भक्तिपरश्चातुर्वण्य नाधिकं मन्यते लोला(प्रेममय)भक्तिवर्णनम् २५ ३२-३९ अनया भक्त्या शान्ति प्राप्नोति अन्यभक्तिसाधनान्यभक्तो योजितान्यपि न दोषोत्पा- दकानि निष्कामरूपेण भक्तियोग उक्त इतिकथनपूर्वकं प्रकृतविषय समापनम् २६ ४१ भक्तिस्तम्भकरं कथयेति नारदप्रार्थना २६ प्रोक्तभक्तिसाधनेतनिषेधनीयमित्युत्तरम् विषयाहरणं भाकस्तम्भकरम् २६ प्राणिहिंसा निगुणभक्तो, अहङ्कारो भागवद्भक्तौ, प्रेमम यभक्तौ च सतां द्वषो दोषः २६ गुरुवागनारदः सर्वभक्त शकः २६ WWW सात्वततन्त्रे- २७ २७ २७ २८ विषयः। पृष्ठम् । श्लोकः। गुरुद्वेषेण नरकगमनम् भक्तर्मुख्यं साधनं गुरुसेवा निगुणभक्तिमता भूतदया कार्या भागवद्भक्तौ कायादिस्थिरतापेक्षिता प्रेममय्यां सजनप्रेमपूर्वकं हरिगुणश्रवणम् सर्वभक्तिमूलं कृष्णपादशरणम् कीदृक् तच्छरणमिति नारप्रश्नः कायवागादीनां कृष्णे परिनिष्ठाश्रयमित्युत्तरम् प्रथमादिभेदेन कृष्णपादशरगां त्रिविधम् ५८ धर्मादौ बद्रक्षकत्वन्तकृष्णे कृतं प्रथमम् कलत्रादिषु यन्ममत्वं तत्कृष्णे करणीयमेतन्मध्य मम् देहादित आत्मपर्यन्तं यन्ममत्वं तत्कृष्णविषयक श्रेष्ठम् २७ कृष्णपादशरणयुक्तो भुवनत्रयं पुनाति ६२ सर्वापेक्षया भक्त एव विष्णः प्रियः भक्तस्य लक्षणं कीद्वगिति नारदप्रश्न: २८ शवो भक्तलक्षणं कथयति ૨૮ तत्र मचित्तादि निगुणभक्तलक्षणम्, २८ हरिसेवातत्परत्वादि भगवद्भक्तलक्षणम् २८ ७०-७१ सत्प्रीतिपरमत्वादि लोकप्रणामकभक्तलक्षणम् २९ ७२-७३ तत्र आत्मजिज्ञास्यं लक्षणं त्रिविधम् सर्वेषु प्रीतिमत्वमुत्तमवैष्णवलक्षणम् तारतम्येन प्रोतिमत्वमध्यमवैष्णवलक्षणम् प्रतिमादौ प्रेमयुक्तत्वं प्राकृतवैष्णवलक्षणम् २९ इन्द्रियाणां हरौ यस्य स्वाभाविकीरतिस्स भागवत उत्तमः २९ मध्यमभागवतलक्षणम् प्राकृतभागवतलक्षणम २९ अन्यदुत्तमभागवतलक्षणम् अन्यन्मध्यमभागवतलक्षणम् २९ ८१ अन्यत्प्राकृतभागवतलक्षणम् हरिलीलाश्रुतोपचारपरेषु प्रीतिः कार्या भक्तप्रीतिकरणं मुक्तिकारणम् युगानुरूपसेवादिविषये नारदप्रश्न: कृतयुगोयलोकवर्णनपूर्वकं प्रश्नोत्तरकथनम् ७४ ७७ २९ ૮૨ विषयानुक्रमणिका। ८ विषयः। पृष्ठम् । श्लोकः। ३० १०-११ ३१ AWAD WWW WWW ૨૨ १३ ३२ ३२ ३२ १९-२४ २५-२८ २९-३१ २१ ३३ कृते भगवद्ध्यानमेव परमो धर्मः निरालम्बादिभेदेन तद्ध्यानं त्रिविधम् तस्य षडङ्गानि अहिंसादियमकथनम् देहशौचादिनियमकथनम् ध्यानं द्वितीयाङ्गम् आसननिरूपणम् प्राणायामनिरूपणम् प्रत्याहारनिरूपणम् प्राणसहितमनसस्स्थैर्य षष्ठम् सावलम्ब हरेानम् मालम्बनहरिस्वरूपवर्णनम् तृतीयसर्वान्तर्यामिधारणम् त्रेतायां यागाद्यव धर्मः तत्र पूजनीयदेवस्वरूपवर्णनम् द्वापरे भगवत्पूजनं मोक्षलाधनम् साङ्गोपाङ्गकेवलभेदेन तद्विविधम् पूजनीयदेवतास्वरूपम् कलियुगीयजनवर्णनम् कलौ कृष्णनामानुकीर्तनमेव मुख्यो धर्मः तत्र पूज्यदेवस्वरूपनिरूपणम् कृतादिषु यत्फलं तत्सर्व कलौ कीर्तनेनैव कीर्तने कश्चिदपि नियमो न अन्ययुगे ये न मुक्तास्तेऽपि कलौ मुच्यन्ते नामकीर्तनसाध्यसाधनरूपम् तत्र कीर्तनीयश्रीकृष्णनामविषये प्रश्न: शिवप्रातं श्रीविष्णुनामसहस्रम् विष्णुसहस्रनामफलानि सहस्रनामपठनाशक्तौ किं कर्तव्यमिति नारदप्रश्नः कृष्णेत्याकारकं नाम वक्तव्यमिति शिवोत्तरम् नामैव तीर्थादिकमित्यादिविस्तरतः कथनम् नाममाहात्म्यम् Ram ARAN ३३ ४१ २ ૨૫ ९ ५१ २१३-२२० પૂર २२२ २२४ ११-१५ सास्वततन्त्रे- Rom ५४ २६ २८ ४९ ५ -५४ ३५ विषयः। पृष्ठम् । श्लोकः । चतुर्विधवैराग्यविषको नारदप्रश्नः ५३ १६ अमानवैराग्यवर्णनम् व्यतिरेकवैराग्यवर्णनम् इन्द्रियाख्यवैराग्यलक्षणम् चतुर्थवैराग्यनिरूपणम् २० महापातक्यपि नामकीर्तनद्वारा मुक्तो भवति अपराधरहितं नाममोक्षदायकम् नामापराधविषये नारदप्रश्न: स्नानमकृत्वा विष्णुस्पर्शकरणाद्यपराधवर्णनम् विषयासक्तेरपराधा वर्जयितुमशक्यास्तदा किं तैः कर्तव्य. मिति नारदप्रश्न: शिवोत्तरम् भक्तापराधविषये नारदप्रश्न: ५६ शिवकृतविष्णुभक्कापराधनिरूपणम् अपराधप्रतिक्रियानिरूपणम् ५६ पुत्रशिध्यादिशासने दोषो नास्ति तत्रापि केशाकर्षादिषु दोषः अत्रात्यन्तं यद्रहस्यं तस्योद्घाटनम् सर्वमन्यत्त्यक्त्वा कृष्णपादाश्रयणं विधेयम् ५७ अन्यदेवतापूजां त्यक्त्वा कृष्णपूजनं विधेयम् नित्यादिकृष्णध्यानरतो भूत्वा कर्तव्यम् अन्यदेवतापूजनं कृष्णपूजनादनन्तरं विधेयम् काम्यं निषिद्धं च न कर्तव्यम् कलत्रादित्यागपूर्वकं हरिभक्तिरतस्य न किमपि कर्तव्यम् ५७ अन्यदेवतापूजायाः सकामायाः करणे दोषः पशुलोमसमं नरके वासः योऽपि पश्वालम्भनं रागिणां कृते मासनिर्वाचनम् १३ मनुष्यजन्मप्राप्तौ हरिभजनं कर्तव्यम् अहं ब्रह्मादयोऽपि कृष्णं पूजयाम इति शिवोक्तिः कृष्णादधिकः कश्चिदपि देवो नास्तीति विस्वरतः प्रतिपादनम् येन केनापि भावेन भजने मुक्तिरेव फलम् ५७ १ २ ५७ ५ ५७ પૂ૮ १५ D १० ३० ५९ ६० ३६ विषयानुक्रमणिका । विषयः। पृष्ठम् । श्लोकः। गृहे कयं वर्तितव्यं तत्प्रकारः २४-२६ सर्वाश्रमिणामपि रणवप्रलङ्गेन सिद्धिः भक्तसङ्ग एव मोक्षादेरपि मूलम् १८ भक्तसङ्गस्य तुलना केनापि नास्ति पशवोऽपि भक्तसङ्गान्मुक्तिङ्गता ५९ ३१ सत्सङ्गेन ज्ञानौराग्यभ्यां विनापि मुक्तिः अरसशोऽपि सत्सङ्गेन कर्मबन्धाद्विमुच्यते भक्तिं ज्ञात्वा पुरुषो मुक्ति नेच्छति ईदृशगुणसत्वे मनुष्यो अन्यदेवं किमर्थ भजतीति नारदप्रश्नः ६० अस्मिन्विषये शिवोत्तरम ६० आदिसत्ये देवताभिः प्रार्थितेन परमेश्वरेणक्तमहं युष्मान् यजिष्यामि ततः सर्ने युष्मान यजिष्यन्ति ६० २-५ शङ्करं प्रत्युक्तं कल्पितैरागमैङ्गिोपायेति सहस्रनामपा. ठेन तत्पापशान्तिरिति च मत्प्रोक्सैरागमैलाकाः कृष्ण हित्वा देवता भजन्ति नानासुखेच्छया अन्यदेवताभजने नरके वासः तथाविधान् लोकान् दृष्ट्वा शिवस्य श्रीकृष्णचरणे शरगां गमनम् ११-१२ शिवकर्तृकश्रीकृष्णस्तुतिः १३-१९ स्तुति शात्वा श्रीकृष्णकर्तृकरूपप्रदर्शनम् २० श्रीकृष्णस्वरूपवर्णनम् २०-२१ तादृशं कृष्णं दृष्ट्वा शिवस्य गद्गदस्वरादित्वम् २२ शिवाय वरदानम् २३ पार्वत्या अपि वैष्णवीभावः कुमारादिकानामपि वैष्णवत्वम् शिवपार्वतीसंवादसमये गणेशासर्वमलिखत् ६३ २८ तत्र सर्वतन्त्राणि प्रादुरभवन् मुनिश्रेष्ठाःस्थाने स्थाने तानि कथयिष्यन्ति शौनकादीनां समक्ष नैमिषे त्वमपि सावततन्त्र कथयिष्यसीति शिवोक्तिः वेदविहिता हिंसा कथं निषिद्धति नारदप्रश्नः ३

सात्वततन्त्रे-
विषयः ।
पृष्ठम् । श्लोकः।
प्रवृत्तनिवृत्तभेदेन कर्म विविधमित्यादि शिवोत्तरम्
अविरोधेन प्रवृत्तं कुर्वन्स्वर्याति
३६
निवृत्तमाचरन् परमां सिद्धि याति
३७
प्रवृत्तनिष्ठस्याभ्यनुशास्ति
अहिंसा परमो धर्मः
अहिसया भगवानाशु तुष्यति
४१
भगवानेव नानारूपेण प्रविष्टः
६४
आगमीया हिंसा कामुकलोकानां कृते
काम्यवर्जनपुरःसरं विष्णुकथाश्रवणं कुर्विति नारदायोपदेशः६४
अन्यदेवताशरणं हित्वा हरिपादभजने सर्वत्र कृतार्थत्वम् ६४ ४८-४९
ये तु पण्डितमानिनःपशुहिंसापराः ते भोगावसाने पशु-
मिश्छिन्ना भवन्ति
तन्त्रसमापनं तन्माहात्म्यं च
५२-५३
तन्त्रीयविषयसूचिका
६५ ५४-५७
नाममाहात्म्यकथनपूर्वकं श्रीभगवन्नमस्करणम्
૧
५९
इति सात्वततन्त्रस्य बृहद्विषयसुचिका ।

श्रीकृष्णाय परब्रह्मणे नमः ॥
॥अथ सात्वततन्त्रम् ॥
.
श्रीसूत उवाच ।
य एको बहुधा कृष्णः सृष्ट्यादौ बहुधेयते ।
तमहं शरणं यामि परमानन्दविग्रहम् ॥ १ ॥
कैलासशिखरासीनं शिवं शिवकरं परम् ।
नारदः परिपप्रच्छ सर्वभूतहिते रतः ॥ २ ॥
भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः ।
श्रीकृष्णस्याप्रमेयस्य नाना लीलातर्विभोः॥ ३ ॥
यदर्थं यत्स्वरूपं च यद्यत्काले यथा रतः ।
गृह्णाति भगवान् स्वस्थस्तन्ममाख्यातुमर्हसि ॥ ४ ॥
अवतारनिमित्तं यच्चिराद्विग्रहसम्भवम् ।
प्रथमं तत्वतो ब्रूहि त्वं परापरवित्तमः ॥ ५ ॥
श्रीशिव उवाच।
साधु पृष्टं महाभाग त्वया भागवतोत्तम ।
यदहं नोदितः सम्यग्भगवद्वीर्यवर्णने ॥ ६ ॥
श्रीविष्णोरवताराणां विराजश्च महामते ।
कथने नैव पश्यामि पारं वर्षशतैरपि ।
तथापि सारमुद्धृत्य तन्त्ररूपेण नारद ॥ ७ ॥
वर्णयामि यथैवोक्तमीश्वरेण दयालुना ।
जयपूर्व नमस्कृत्य गोपरूपिणीश्वरम् ॥ ८ ॥
वक्ष्ये सात्वततन्त्राख्यं भगवद्भक्तिवर्द्धनम् ।
यदासीदेकमव्यक्तं नित्यं चिद्रूपमव्ययम् ॥ ९॥

सात्वततन्त्रे-
ब्रह्मेति यद्विदु वज्ञा भगवानिति सात्वताः ।
तदासन्तामिवात्मानं मत्वा दृश्य विना विभुः ॥१०॥
द्विप्रकारमभूत्सत्यं सत्ताभूत्वा स्वयं स्वयम् ।
तच्चिच्छक्तिस्वरूपेण प्रकृतिः पुरुषो महान् ॥११॥
सर्वलोकैकनिलयो भगवानिति शब्दयते ।
तस्यैव शक्तिः प्रकृतिः कार्यकारणरूपिणी ॥ १२ ॥
गुणत्रयस्वरूपेण या स्वयं भिद्यते पुनः ।
यः कालस्तं वदन्त्येके हरेश्चेष्टां दुरन्वयाम् ॥ १३ ॥
यस्माद्गुणत्रयक्षोभात्पृथग्भूतोऽभवत्पुरा ।
जीवस्य यस्माद्भवति शुभाशुभफलग्रहः ॥ १४ ॥
तत्कर्म महतो जन्महेतुरव्यक्तमूर्तिमत् ।
भावानां परिणामो हि यतो भवति सर्वदा ॥ १५ ॥
तमेवाहुर्वेदविदः सूक्ष्मरूपं स्वभावकम् ।
उक्तोऽयं पुरुषः साक्षादीश्वरो भगवत्तनुः ॥ १६ ॥
कालकर्मस्वभावस्थः प्रकृति प्रति नोदितः ।
पुरुषाधिष्ठिता देवी प्रकृतिर्गुणसङ्ग्रहा ॥ १७ ॥
महत्तत्वमभूत्तत्तत्परिज्ञानक्रियात्मकम् ।
तस्माजातो वहङ्कारस्त्रिविधो दैवनोदितात् ॥ १८ ॥
वैकारिकस्तैजसश्च तामसश्चेति यं विदुः ।
वैकारिकान्मनोदेवा जाता ज्ञानक्रियाधिपाः ॥१९॥
मरुत्केशौ दिशः सूर्यो नासत्यो ज्ञाननोदकाः।
वह्नीन्द्रमित्रकोपेता एते कर्मापनोदकाः ॥ २० ॥
राजसाद्विषयग्राहज्ञानकर्मस्वरूपिणः ।
त्वग्रसज्ञा श्रुतिश्चक्षुणं बुद्धिश्च तन्मयाः ॥ २२ ॥
वाक्पाणिपायूपस्थाश्च गतिश्चेति क्रियात्मकाः ।
तामसात्पञ्चभूतानि तन्मात्राणि च भागशः ॥ २२ ॥

प्रथमः पटलः। प्रथमं तामसाज्जज्ञे शब्दस्तस्मादभूनमः । शब्दरूपातु नभसः स्पर्शस्तस्मादभून्मरुत् ।। २३ ॥ मरुतोऽभूत्ततस्तेजस्तेजसो रूपमुत्तमम् । रूपमात्रादसो जज्ञे तस्मादापोऽभवन शुचीः ॥ २४ ॥ अद्भयो जातो गन्धगुणों गन्धाद्भूमिरजायत । महत्तत्वमहङ्कारः सशब्दस्पर्शतेजसः ॥ २६ ॥ रसगन्धाविमे सर्वे स्मृता प्रकृतिविक्रयाः । शब्दस्य प्रकृतेरेव संदृश्यन्ते यतो बुधैः ॥ २६ ॥ अतोऽभवन् प्रकृतयो विकारान् विकृतीर्विदुः । आकाशे शब्दमात्रं स्याद्वायो स्पर्शः सशब्दकः ॥२७॥ रूपं तेजसि शब्दश्च स्पर्शश्चैव जले तथा । रसशब्दस्पर्शरूपं पृथिव्यां सर्वमेव हि ॥ २८ ॥ कारणानां यतः कायें समन्वयविधिस्ततः । दृश्यते त्वधिकस्तत्र गुणो यावति कश्चह ॥ २९ ॥ महदादीनि तत्वानि पुरुषस्य महात्मनः । कार्यावताररूपाणि जानीहि द्विजसत्तम ॥ ३० ॥ सर्वाण्यतानि सङ्ग्रह पुरुषस्येच्छया यदा। अंशैरुत्पादयामासुविराज भुवनात्मकम् ॥ ३१ ॥ तस्य चान्तर्गतं छिद्रं पञ्चाशत्कोटिविस्तृतम् । दशोचराधिकैरेतैः सप्तभिर्बहिरावृतम् ॥ ३२ ॥ तमाहुः पुरुषस्यैव गेहं यत्राविशत्स्वयम् । यतोऽचेतनमेवासीत्केवलं सर्वविस्तरम् ॥ ३३ ॥ नरादुत्पन्नतत्वानां सङ्घहे नारसंबके। अयनं तस्य यदभूत्तस्मान्नारायणः स्मृतः ॥ ३४ ॥ विराड्देहे यदवसद्भगवान्पुरसंज्ञके । अतः पुरुषनामानमवाप पुरुषः परः ॥ ३५ ॥ :

४
सात्वततन्त्रे-
यदा स भगवान्देनो मूलप्रकृतिविस्तरः।
नारायणेन रूपेण विरजमविशत्स्वयम् ॥ ३६ ।।
तदा चेतनमापाद्य चिराद्विग्रह उत्थितः ।
समष्टिशब्दतावाच्यो द्विसप्तभुवनाश्रयः॥ ३७ ॥
यस्मिन् चराचरं भूतं स्रष्टा ब्रह्माहरेस्तनूः ।
तत्र लोकमयं यावतं विराज विदो विदुः ॥ ३८ ।।
तस्याभिमानिनं जीवं वैराज पुरुषाभिधम् ।
तदन्तयामिणं देवं नारायणमनामयम् ॥ ३९ ॥
सर्वजीवैकनिलयं भगवन्तं प्रचक्षते ।
अवतारसहस्राणां निधानं बीजमव्ययम् ॥ ४० ॥
यस्यांशेन रजोयुक्तः सृष्टौ ब्रह्मा व्यजायत ।
विष्णुः सत्वगुणाधीशः स्थितौ स्थापयितुं जगत् ।।४।।
तमसा रुद्ररूपोऽभूत्पतिसञ्चरणो विभुः।
एते विष्णोर्गुणमया अवताराः क्रियाकृताः ॥ ४२ ।।
एषामंशावतारान्मे निवोध गदतो मम ।
ब्रह्मणोऽशेन समभूमरीचिरत्रिरङ्गिराः ॥ ४३ ।।
पुलस्त्यः पुलहश्चैव ऋतुर्दक्षो द्विजोत्तम !
मुगुर्वसिष्ठोऽथर्वा च कर्दमाद्याः प्रजेश्वराः ॥ ४४ ॥
एषां पुत्राश्च पौत्राश्च प्रपौत्राश्च महौजसः ।
मुष्ट्यर्थमुद्गताः सर्वे भगवद्वीर्यसंयुताः ॥ ४५ ॥
विष्णोरंशेन समभूद्धर्मो यज्ञो बृहवित् ।
स्वायम्भुवाद्या मनवो द्विसप्ता लोकविश्रुताः ॥ ४६ ॥
एषां पुत्राश्च पौत्राश्च तथेन्द्राद्याश्च देवताः ।
विष्ण्वंशयुक्ता लोकानां पालकाः कथिता मया ॥४॥
रुद्रस्यांशेन शतशो जाता रुद्रगणाः पृथक् ।
सश्च शतशो जाता ये च हिंसाः स्वभावतः ॥४८॥

प्रथमः पटलः।
एते संक्षेपतः प्रोक्ता रुद्रस्यांशास्तमोजुषः ।
संहारिणोऽस्य जगतो घोररूपा विलक्षणाः ॥ ४२ ॥
अथ ते सम्प्रवक्ष्यामि लीलादेहान् हरेः पृथक् ।
शुद्धसत्वमयान् शान्तान् लोकप्रेमास्पदान् शृणु ॥५०॥
य ईश एको भगवाननन्तो ब्रह्मस्वरूपी पुरुषोऽधियज्ञः ।
पातुं पुनर्विश्वमसौ स्वकार्य भेजे तनूस्तं प्रणमामि कृष्णम् ॥५१॥
इति श्रीसात्वततन्त्रे शिवनारदसंवादे प्रथमः पटलः ॥ १ ॥
अथ द्वितीयः पटलः ।
श्रीशिव उवाच ॥
माक्षाद्वभूव भगवान् परिपातुमीशो
वेदान् युगादिसमये हयशीर्षनामा ।
इत्वा सुरेतरवरौ मधुकैटभाख्यौ
नस्तश्चकार विश्रुतीः श्रुतिभिर्विमृग्यः ॥ १ ॥
लोकानिवृत्तिपरतां प्रचिकीर्षुरादौ
भूत्वा चतुःसनतया भगवान् विमुक्त्यै ।
प्रोवाच योगममलं विशदाशयेभ्यो
भोगान् विरक्तिपरता स्वयमाचचार ॥ २ ॥
देवेषु नारदतनुभंगवान विशुद्ध
नैष्कर्म्ययोगमवहत्खलु पाञ्चरात्रम् ।
धर्म तथा अगवता कथितं विशेष-
शिष्येष्वसौ परमनितिमादधानम् ।। ३ ।।
आदौ दधार धरणीधरणाय धातुः
स्वायम्भुवोक्तिपरिपालककाल एव ।
नारायणोऽखिलगुरुर्गुरुकोलदेह
तेनाइनदितिसुतं दशानाग्रघातः ॥ ४ ॥

सात्वततन्त्रे- : भूमेरधो धरणिमण्डलमप्रमेयः शेषाख्य आस जगतः स्थितये नितान्तम् । यस्मिन्कलार्पितमिदं लिखिवच्चकास्ति नागाधिपैर्मुनिगणैः परिसेविताङ्घिः ॥ ५ ॥ तस्माद्धः कमठ आस विशालरूपी ब्रह्माण्डभाण्डपरिविस्तृतदिव्यकायः । शेषोऽपि यत्र परिभाति मुतन्तुतुल्यो यं चार्यमा पितृपतिः समुपासते वै ॥ ६ ॥ दृष्ट्वा शार्द्धवयसापि विहाय मातु- दें ध्रुवं मधुवने तपसाभितप्तम् । भूत्वा कृपामयवपुर्भगवान्स्वलोकं प्रादात्स्तुवन्ति यतयो मुनयोऽपि यं वै ॥ ७ ॥ आलोक्य कर्दमतपो भगवान् विभूत्यै संशुद्धदिव्यवपुषाविरभूत् सशुक्लः । तस्मा अदाद्वरमजात्मजपुत्ररूप. मानन्दबिन्दुपयसा च चकार तीर्थम् ॥ ८ ॥ यज्ञे स एव रुचिना मनुपुत्रिपुत्र आहूतिमूतिरमुरारणिवाहिकल्पः । त्रैलोक्यगोपनविधौ सुरनाथ ईशा नाम्ना सुयज्ञ इति विश्रुतकीर्तिराशिः ॥ ९ ॥ सिद्धेश्वरश्च समभूत्कपिलाख्य ईशः श्रीदेवहूतितनयो विततान तस्यै । योग स्वशक्तिसहितं चिदचिद्विभागं सायं तथा स्वभि(१)मुखेषु जगाद शुद्धम् ॥१०॥ (१) स्वभिमुखेषु-अनुकूलेषु भक्तस्वित्यर्थः ।

द्वितीयः पटलः । योगेश्वरोऽत्रितनयो भगवाननन्तो दत्ताख्य आस समताववदत्स्वचर्याम् । प्रहादहैहययदुष्वपररा(२)यणेषु शिष्येषु शिक्षितकथां कथयन गुरुभ्यः ॥११॥ नारायणो नर ऋषिप्रवरावभूतां धर्मस्य दक्षदुहितयधिमूर्तिपत्न्याम् । धीरोपकारकरुणाशयकायशुद्धं तीव्र तपः प्रचरतां सुरराजतापम् ॥ १२ ॥ नाभेरभृषभसंज्ञसदाप्तकामो योगेश्वरः मुतशतैरवदत्मजाभ्यः । धर्म ततः परमयोगिजनावचों नैष्कर्म्यलक्षणपरां स्वयमाचचार ॥ १३ ॥ धात्रन्तिके मुसनकादिमिरीयमाणे चेतोगुणान् विगलितु भगवान्स हंसः । प्रोवाच तत्वममलं सदयाद्रीचत्ता यस्माद्गुणागुणविभागमभून्मुनीनाम् ॥ १४ ॥ वेने मृते द्विजजनैरनु बाहुयुग्म सम्मथ्यमानसमये पृथुरूप आसीत् । लोकक्षुधां प्रशमयन् पृथिवीं दुदोह सर्वाणि भूतिकरणानि च सर्वभूत्यै ॥ १५ ॥ दक्षस्य यज्ञविहिते शिवशक्तिहेतोः प्राप्ताज्यभाममधिकं भृगुणाभिदत्तम् । तत्राष्टबाहुरभवद्भगवान् भवाय प्राप्ता नुतिः मुरनरादिकृतापि तेन ॥ १६ ॥ जातः प्रियव्रतकुले गय इत्युदार- कीर्ति ततान भगवान् तनुवाअनोभिः । (१) अपरायणेषु-अनन्याश्रितेषु इत्यर्थः ।

सात्वततन्त्रे- तेनापि यज्ञतनुरीश्वर इन्द्ररूपी स्पद्धी चकार महतां मदमादधानः ॥ १७ ॥ संवत्सरस्य तनयः स ह यामिनीना- मालोकनादिविविधं मुदमाचिकीर्षुः । श्रीकामदेववपुषा ह्यवतीर्य देवो देव्योमया मदनकेलिभिरारराम ॥ १८ ॥ प्राचीनबर्हितनयाँस्तपसा सुतप्तान् दृष्ट्वा स्वशान्त वपुषाविरभूदनन्तः । दत्वा स्वपादभजनं वसतां गृहेषु कन्यां च वृक्षजनितामद्दिशद्दयालुः ॥ १९ ॥ स्वाचिषे तुषितया द्विजवेदशीर्षा- जातो विभुः सकलधर्मभृतां वरिष्ठः। यद्ब्रह्मचर्यनियमानृषयोऽप्यशिक्ष- साक्षाज्जगद्गुरुतयावचचार शुद्धान् ॥ २० ॥ धर्मादभूत्सुततया भगवाँस्तृतीये मन्वन्तरे त्रिजगतेः स्थितये कृपालुः । श्रीसत्यसेन इति दुर्जनयक्षरक्षान् यस्तानपाहरदसौ सुरनाथमित्रः ॥ २१ ॥ तुर्येऽन्तरे सरास वारणराजराज ग्राहेण तीवबलिना परिकर्ष(१)यन्तम् । नारायणेत्यभिहिते हरिरुदधार तस्माद्भवार्णवजलादपि देवराजः ॥ २२ ॥ वैकुण्ठ आस भगवान् द्विजवर्य मुद्रा(?) देव्या मया तदनुरूपजयाभिधानः । (१) परिकृष्यमाणमित्यर्थे आर्षप्रयोगः ।

. द्वितीयः पटलः। वैकुण्ठदर्शनमकारयदप्रमेय स्तस्याउ पञ्चममनोस्समये प्रसिद्धम् ॥ २३ ॥ षष्ठेऽन्तरे तु भगवान् द्विजशापखिन्न- देहान्सुरानवनतानवलोक्य समः ॥ वैराजीवप्रतनयोऽजितसंज्ञ ईशो देवासुरैरमथयत्सहसा पयोधिम् ॥ २४ ॥ देवासुरे जलनिधर्मयनाद्विषष्णे हस्ताच्च्युते गिरिवरे सहसाईचित्तः । भूत्वा तु कूर्मवपुरद्रुतमुधार मेने च पर्वतविवर्तनगात्र कण्डूम् ॥ २५ ॥ दुग्धाम्बुधावुरुरुजां प्रचिकीर्षुरीश आदाय पूर्णकलशं सुधया नितान्तम् । आयुर्विधाननिगमं खलु यज्ञभोक्ता धन्वन्तरिः समभवद्भगवानराणाम् ॥ २६ ॥ धन्वन्तरे(१)रमृतपूर्णघटे स्वचारा चूर्णीयमान (२)अमेरे शरणं प्रविष्टे । मोहिन्यभूत्स भगवानमुरासुराणां मोहाय तापविरमाय सदाप्तकामः ॥ २७ ॥ सत्यव्रताय जनतर्पणतः स्वरूप मात्स्यं महाकरुणया पवितत्य सद्यः । कल्पार्णवेऽप्यवददच्युत आत्मतत्वं भूरूपनावि (३)वसते बिहरन द्विजेभ्यः ॥ २८ ॥ त्रैलोक्यदुःखदलनाय नृसिंहरूपं कृत्वा स्वभक्तमवितुं किल लाङ्गलाः । (१) अस्यानन्तरमिति शेषः। (२) सन्धिरार्षः। (३) अस्य सत्यवतायेति पूर्वेणान्वयः । २सा.

.. १० सात्वततन्त्रे- घृत्वाऽसुरेन्द्रमसुरेन्द्रविशालतीत- वक्षस्थलं स्थलमिवाग्रनखैददार ॥ २९ ॥ यस्मिन्प्रपश्यति बलिः सगणं त्रिलोकं तेनापि वामनतनुं भगवान गृहीत्वा । संयाच्य सम्मितपदत्रितयं बले: स्वं कृत्वा त्रिविष्टपमदाददितेः सुतेभ्यः ॥ ३० ॥ भक्तानहं समनुवर्त इति स्ववाचं साक्षात्मकर्तुमिव भूविवरे प्रविष्टः ।। वैरोचनेहमरक्षयदपमेयो नाम्ना गदाधर इति क्षपयन् दयावान् ॥ ३१ ॥ भूत्वा तु भार्गवकुले निजतातनाशा- द्रामो महापरशुकं परिगृह्य तीक्ष्णम् । क्षत्रं निवार्य क्षितितलं परिहृत्य भूयो दत्वा द्विजाय हवसत्स महेन्द्रपृष्ठे ॥ ३२ ॥ (२)वन्दारकैः परिनिषेवितपादपद्मः श्रीरामचन्द्र इति सूर्यकुलाब्धिजातः । देवारिनाशनविधौ कुशिकान्वयेन(२) नीतो महेशधनुराजगवं बभञ्ज ॥ ३३ ॥ ज्ञात्वा ततो भृगुकुलोद्भवधीरवीरं राम सुगौररुचिरां परिणीय सीताम् । गत्वा गृहान् गृहपतेः पितुराप्तजाया(३)- वाचं निशम्य वनवासमगात्सभार्यः ॥ ३४॥ (१) वृन्दारकै देवैः। (२)विश्वामित्रेण । (३) आप्तजायावाचम् कैकेयीवचः।

द्वितीयः पटलः । ११ तीवा गाङ्गपयोऽनुजानु(१)गमनाच्छीचित्रकूट गिरि त्यक्त्वा दुष्टविराघराधदमनो धावन धनुरियन् ॥ इत्वा (२)क्रूरसुरेन्द्रवैरिहरिणं मारीचसंज्ञं ततो लकेशाहृतसीतया खलु पुनः प्राप्तो दृशामीहशाम् ॥ ३५ ॥ चन्द्रं चण्डकरं प्रचण्डपत्रनं मेने सुमन्दानिलं मालां मालतिमल्लिका (8)शुचिकलां गीतं स्फुलिङ्गायितम् । इत्येवं वनितापरायणनरं हास्यन्निवालोकयन ऋशं मन्मथसायकाहृतमनो रेमे प्रियाशङ्कया ॥ ३६ ।। गत्वा वानरराजवालिनमहामित्रेण सेतुं ततो वध्वा वारिधिमातरत्तरतमं साकं प्लवङ्गैर्मुदा । छिया राक्षसयक्षलक्षममला सीता (४)सपुत्रानुज लकेशं ज्वलदग्निना भगवता चाप्ता पुनः सा पुरी ।। ३६ ॥ सूर्यादिशक्तिमविहृत्य शशास भूमि गोविमप्राज्ञपरिसंवनसर्वधर्मः । उद्विक्तभाक्तिनमिताननयत्स्वनाथानं सर्वान (६)वनाधिवसतः स्वपदं मुशान्तम् ॥ ३८ ॥ तस्थानुजो भरतसंज्ञ उदारबुद्धी. रामाज्ञया निजगृहे निवसन्नपि श्रीम् । त्यक्त्वा वनस्थव्रतवानभवत्ततो दै गन्धर्वकोटिमथनं विहरश्चकार ॥ ३९ ॥ श्रीलक्ष्मणस्तदवरो वनमेश्य राम सीतां निषेव्य तपमा बहुकष्ट आसीत् । (१) अनुजस्य-भरतस्य । अनुगमनात्-आगमनात् । (२) क्रूरो यः सुरेन्द्रवैरी दशाननस्तस्य हरिणं मृगमित्यर्थः । (३)शुचिकलाम्वन्हिकलाम । चित्रभानुर्विभावसुः । शुचिर. पित्तमित्यमरात् । (४) अस्य-आप्तापदेनान्वयः । (५) वनवासिन इत्यर्थः ।

१२ सास्वततन्त्रे- बाऽपि चास्य वचसा वनमेत्य देह सन्त्यज्य तत्पदमगादरिसैन्यचह्निः ॥ ४०॥ शत्रुघ्नसंज्ञ उरुविक्रमशुद्धबुद्धिः शौर्येण दर्पदलनो द्विषतां दयालु। दीनेषु दैत्यलवणान्तक आयंसेवी स्वान्येषु(१) साम्यमतिराजनताभिरामः ॥ ४१ ॥ पाकनाममुनये मुवनानि देषु मायालये तनुतरे जठरे मुकुन्दः । न्यग्रोधपत्रपुटकोषशयान आसी- दङ्गुष्ठपानपरमः शिशुरप्रमेयः ।। ४२ ॥ वृत्रस्य घोरवपुषा परितापितानां संरक्षणाय भगवान् युधि निर्जराणाम् ॥ आयो ह्यभूगरुडकिन्नरगीतकीर्ति- स्तेषां सुदुःखभयशोकविनाशशीलः ।। ४३ ॥ अङ्गुष्ठपर्वसुमितान् श्रमणान् द्विजाग्न्यान दृष्ट्वा तु गोष्पदपयोगतसर्वदेहान् ब्रह्मण्य इन्द्रहसितान्समिदंशुहस्तान गुर्चनाय कृपयाऽऽ(२)वदमून्प्रपन्नान् ॥ ४४ ॥ दुष्यन्तबीजमधिगम्य शकुन्तलायां जातो जोऽपि भगवानधियज्ञकर्तृन् । विस्मापयन्बहुनृपान् बहुवाजिमेधान् साक्षादियाज बहु दानमदादमेयः ॥ ४५ ॥ सर्वान् जनान्कलियुगे बलबुद्धिहीनान् दृष्ट्वा कृपापरवशो (३)वसुवीर्यजायाम् । (१) स्वकीयेषु परेषु चेत्यर्थः । (३) आवत-अरक्षत् । (३) सत्यवत्यामित्यर्थः।

द्वितीयः पटलः । जातः पराशरसकाशत आदिदेवो वेदान्समाहिततया विभजिष्यति स्म ॥ ४६ ॥ वृष्ण कुले तु भगवान् बलदेवनामा यस्मादलानतिबलानदलत्सुरारीन् । यल्लागलायकलनात् कुरुराजधानी धानेव(१) धामसहिता(२) चलितातिभीता ॥४७॥ भूमेर्जनस्य निजपादपरायणस्य (३)कृष्णेरजोऽपि भगवान् सुखमादधानः । जातो भविष्यति यशो विपुलं प्रकर्तु श्रीकृष्ण इत्यमिहितोऽखिलशक्तिपूर्णः ॥ ४८ ॥ जातो निजेन वपुषा वसुदेवगेहे गत्वा तु गोकुलमथो विहरन् विनोदैः। बालाकृतिविशदबालकभाषहास- गोगोपगोपवनितामुदमाशु कर्ता ॥ ४९ ॥ कसानुशिष्टसुरक्षाधुगणानुलकी(४). मुख्यान् हनिष्यति व्रजस्थितये महाद्रिम् । घृत्वोच्छिलीन्ध्रमिव सप्त दिनानि वाम- हस्ते प्रगृह मुरनाथमदं प्रमाटी ॥ ५० ॥ धात्रा यदा सपशुगोपशिशौ प्रणीते बुद्धर्भमो हलभृतोऽभवदप्रमेयः ॥ तत्संहरन सपशुपालकुलस्वरूपं कृत्वा विधि विविधमोहमलात्स धर्ता(५) ॥ ११ ॥ (१) भृष्टयववत् इत्यर्थः । “अक्षतास्तु यवाः प्रोक्ता भृष्टा धाना भवन्ति ते" इत्युक्त। (२) गृहसहितेत्यर्थः । "धामरश्मौगृहे" इतिकोशात् । (३) अस्य जात इत्युत्तरार्धगतेनान्वयः। वृष्णिकुलाजात इत्यर्थः । (७) कामुख्यान्-पृतनाप्रभृतीन् । (६) धर्ता-उद्धरिष्यतीत्यर्थः।

सात्वततन्त्रे- D वृन्दावने मुरभिवाद्यविलासगीतै- गोधुग्वधूजनमनोजजवं दधानः ॥ कर्ता महामदनकोलिविहारगोष्ठी- विस्मापनं निशि निशाचरखेचराणाम् ॥ ५२ ॥ कंसस्य रङ्गसदनं सबले प्रणीते स्वा(१)फल्किना भवधनुस्तरसा विभज्य । चाणूरशूरशमनं सहसमाजौ कर्ता द्विपं कुवलयं सहसा निहत्य ॥ ५३ ॥ सान्दीपनं मृतमुतं गुरुदक्षिणार्थी दवा जरामुतबलं यवनं च हत्वा ॥ श्रीरुक्मिणीप्रभृतिदारशतं विवाह ताभ्यः सुतान् दशदशानु जनिष्यति स्म ॥५४॥ भौमं निहत्य सगणं दिवि देवमातु- र्दातुं तदीयमणिकुण्डलमादिदेवः ।। गत्वा मुरेन्द्रतरुराजवरं प्रियायाः प्रीतो समुद्धरणतो दितिजान्स जेता ॥ ५५ ॥ बाणासुरस्य समरे मम वीर्यनाशा- ल्लुब्धामरत्वमधिकं युधि भूपबन्धून् । जित्वा युधिष्ठिरनृपक्रतुना विवाह. बीजं नि(२)पात्य गुरुभारतरं प्रहर्ता ॥ ५६ ।। लोके प्रदर्य सुतरां द्विजदेवपूजां स्वस्याप्यपारकरुणां निजसेवकेभ्यः ।। प्रात्वा परीक्षितनृपं परमास्त्रदग्धं पार्थाय भूतिमवलोकयिता द्विजार्थे ॥ ५७ ॥ (१) अकरेण । (२) निपात्य-सम्पाद्येत्यर्थः । धातूनामनेकार्थत्वात् ।।

द्वितीयः पटलः। कामेन स्नेहमयरागकुटुबसन्धे यस्मिन्मनो निवसतः शमलं निरस्य दाता स्वरूपममलं परिशुद्धभाव: साक्षात्स्वरूपनिरतस्य च किन्नु वक्ष्ये ।। ५८ ॥ यत्पादपङ्कजपरागपरायणाना- मग्रे चकास्ति न च मुक्तिसुखं नितान्तम् ।। किं वान्यदर्पितभयं खलु कालवेगैः साक्षान्महासुखसमुद्रगतान्तराणाम् ॥ ५९ ।। गङ्गादितीर्थतपहोमनतादिकेभ्यः कीति स्वकी(१)यमधिकां समुदीर्य लोके ॥ अत्युनतं द्विजकुलं (२)द्विनशापव्याजा. द्धत्वा स्व लोकममलं तनुनाभिगन्ता ॥ ६ ॥ तस्माद्भविष्यति सुतः मुखदो जनानां प्रद्युम्नसज्ञ उरु(३)गायगुणानुरूपः ॥ ११ ॥ कर्ता मुदं मुदितवसुचारुगात्रैः पात्रैरिवामृतपयो मनुजान्प्रच्छन् । तत्राप्यजोऽनुजनिताप्यनिरुद्धनामा. नाम्नां प्रवर्तकतया मनसीश्वरोऽपि ॥ १२ ॥ यस्माषाऽऽहरणतो भुजवीर्यनाशा- द्वाणो भविष्यति शिवानुगशान्तदेहः ॥ व्यासाद्भविष्यति०. भगवानरण्यां योगी जनान्प्रति गदिष्यति वेदसारम् ॥ ६ ॥ श्रीमत्सुशान्तममलं भगवत्प्रणीतं यच्छ्रद्धया कलिजना अपि यान्ति शान्तिम् ॥ (१) अस्य द्विजकुलपदेनान्वयः। (२) विजकुलम् यादवकुलमित्यर्थः। (३)उरुगायो-भगवान श्रीकृष्णः ।

सात्वततन्त्रे- बुद्धावतारमधिगम्य कलावळ :- बैर्मतेरतिविमोहकरं प्रलोभम् ॥ ६४ ॥ पाखण्डशास्त्रमधिकल्प्य सुराद्विषाणां कर्ता जिनस्य तनयो भगवान्गयायाम् ॥ पाखण्डशास्त्रबहुले निजवेदमार्गे नष्टे द्विजातिभिरसत्पथि वर्तमाने ॥ ६५ ॥ कल्क्यावतारतरणिस्तरुणान्धकार- तुल्यं तुदन्नृपगणं कृतधर्मगोप्ता ॥ साक्षाद्भविष्यति सरस्वतिसंज्ञिताया श्रीसार्वभौम इति वेदगुपो द्विजाग्यात् ॥६६॥ कृत्वा पुरन्दरश्रियं बलयेऽतिदास्यन् । गोप्लाष्टमे मनुयुगे विदितानुभावः ।। आयुः करो नवमनोः समये जनानां नीति विधातुममरारिविनाशनाय ॥ ६७ ॥ गोता भविष्यति जगज्जनधारयासौ भूत्वा श्रुतेन्द्रसहितो भगवानपारः ।। भूत्वा विशूचिसदने द्विजराजशम्भोः साहित्यकर्मपरवान् दशमेऽन्तरे सः ॥ ६८ ॥ पाताऽमरान ००० विश्वक् सेनसंज्ञो यसन्यपुगसमरादमरारिनाशः॥ मन्वन्तरैक(१)दशमेऽर्थकरिमपौत्रः श्रीधर्मसेतुरिति विश्रुत आदिदेवः ।। ६९ ॥ हत्वाऽसुरान् सुरपतौ विधृतेरपत्ये दाता.तृती(२)यभवनं भगवान्स्वयम्भूः ॥ (१) एकाधिको दशम एकदशमः । एकादश.इत्यर्थः । (२) स्वर्गमित्यर्थः।

द्वितीयः पटलः। जातो द्वि(१)षण्मनुयुगे युगपालनाय विप्रात्स्वशक्तिमहसः सुनृताख्यतो वै ॥ ७० ॥ ख्यातो भविष्यति ततो भगवान्स्वधामा यस्माजना जगति सौख्यमपारमापुः भाव्ये त्रयोदशयुगे भविताऽऽदिदेवः श्रीदेवहोत्रतनयो भगवान्बृहत्याम् ॥ ७१ ॥ योगेश्वरो दिवि दिवस्पतिशक्रमित्रो योगादमेयवपुषा स वितान(२)तुल्यः ॥ सत्रायणस्य सदने भगवाननादि- देवोऽपि देववनितातनयोऽभिजातः ॥ ७२॥ अन्तेऽन्तरे करणकर्मवितानतन्तून् विस्तारयिष्यति जगद्धितकामशीलः॥ एते मया भगवतः कथिता द्विजाते शुद्धावतारनिचया जगतो हितार्थाः॥ सम्पूर्णतांशकलया परिभावनीया ज्ञानक्रियाबलसमादिभिराभिव्यक्ताः ।। ७३॥ यल्लीलातनुभिनित्यं पाल्यते सचराचरम् ॥ तमहं शरणं यामि कृष्णं ब्रह्माण्डनायकम् ॥ ७४॥ इति श्रीसावततन्त्रे द्वितीयः पटलः ।। अथ तृतीय पटलः । श्रीनारद उवाच । कथिता भगवान्विष्णोरवतारा महात्मनः ।। सम्पूर्णीशकलाभेदैर्भावनीयास्त्वया प्रभो ॥१॥ (१) द्विषण्मनुयुगे--द्वादशमन्वन्तरे इत्यर्थः । (२) वितानं-क्रतुः। ३सा.

सात्वततन्त्रे- निर्विकल्पस्य कृष्णस्य ब्रह्मणः परमात्मनः । कयमंशकलाभाग एतद्वर्णय नो विभो ॥२॥ श्रीशिव उवाच । सत्यमुक्तं त्वया ब्रह्मन् कृष्णस्य जगदात्मनः । अवतारेषु सर्वेषु भेदादंशकलाः स्वतः ॥ ३ ॥ न वर्णयन्ति निपुणा ज्ञानिनो भगवत्पराः । अविकारादच्युताञ्च निर्भदाइह्मरूपिणः ॥ ४ ॥ किन्तु ज्ञानपभावादे पूर्णाशांशानुदर्शनात् । पूर्णमशकलामागं वदन्ति जगदीशितुः ॥ ५ ॥ सन्ति यद्यपि सर्वत्र ज्ञानवीर्यगुणादयः । तथापि कार्यतः केचिदृश्यन्ते नहि सर्वतः ॥ ६ ॥ ऐश्वर्यज्ञानधर्माश्च वैराग्यं श्रीयशस्तथा । एषां सन्दर्शनात्साक्षात्पुर्णो विद्वानरुच्यते ॥७॥ एतेषामपि भागानामल्पाल्पदर्शनादसौ । विभासंशकलाभेदो भगवान्भगभेदधृक् ॥ ८ ॥ अंशस्तुरीयो भागः स्यात्कला तु षोडशी मता। शतभागो विभृतिश्च वयेते कविभिः पृथक् ॥ ९ ॥ अतो ज्ञानस्य धर्मस्य वैराग्यश्वर्ययोः श्रियः। यशसः पृथग्भेदं मत्तः शृणु द्विजोत्तम ॥१०॥ उत्पत्ति प्रलयौ चैव विद्याविधे (१)गताऽगती । एषां ज्ञानं वदन्त्यङ्ग ज्ञानं षड्विधमुत्तमम् ॥ ११ ॥ सत्यं शौचं दया मौनं धर्मश्चातुर्विधः(२) स्मृतः । अमानो व्यतिरेकश्च ऐन्द्रियस्तु वशीकृतः ॥ १२ ॥ (१) गतं गतिरित्यर्थः। (२) चतुर्विध एव चातुर्विध इति स्वार्थेऽण बोध्यः ।

तृतीयः पटलः। १९ एवं चतुर्विधो भद्र वैराग्यस्समुदाहृतः । अणिमा लघिमा चैव महिमा तदनन्तरम् ॥ १३ ।। प्राकाम्यं चैत्र प्राप्तिश्च ईशिता वशिता तथा । कामस्यावसिता ोते अश्वर्याः(१) प्रकीर्तिताः ॥१४॥ मृत्यामात्यसुहृद्वन्धुपुत्रपौत्रकलत्रकाः । वासोभूषणकोषाश्च सेनिका चतुरङ्गिणी ॥ १५ ॥ गृहा भूरस्त्रशस्त्रे च दुर्गाद्याः श्रिय इरिताः । यशस्तु पुंसो भवति कर्मतो गुणतस्तथा ॥ १६ ॥ कर्म चतुर्विधं प्रोक्तं सृष्टिस्थितिलयात्मकम् । तथा लीलावताराणां चरितं परमाद्भुतम् ।। १७ ॥ गुणान्यपरिमेयाणि कीर्तितानि मनीषिभिः । तथाप्यहं द्विषष्ठी ते वर्णयाम्यनुपूर्वशः ॥ १८ ॥ ब्रह्मण्यश्च करण्यश्च भक्तवात्सल्यमेव च । दातृत्वं सत्यसन्धत्वं विक्रान्तत्वं नियम्यता ॥ १९ ॥ दुर्जयत्वं दुस्सरत्वं निषेव्यत्वं सहिष्णुता । अक्षोभ्यत्वं स्वतन्त्रत्वं नैरपेक्ष्यं स्वसौष्ठवम् ॥ २० ॥ शौर्यमौदार्यमास्तिक्यं स्थैर्य धैर्य प्रसन्नता। गाम्भीर्य प्रश्रयः शीलं प्रागल्भ्यमृतमङ्गलम् ॥ २१ ॥ शमो दमो बलं दाक्ष्यं क्षेमं हर्षोऽनहङकृतिः। सन्तोष आर्जवं साम्यं मनोभाग्यं श्रुतं सुखम् ।। २२ ॥ त्यागो भयं पावनं च तेजः कौशळमाश्रयः । धृतिः क्षमा स्मृतिजा श्रद्धा मैत्री दयोन्नतिः ॥ २३ ॥ शान्तिः पुष्टिः स्ववाक् शुद्धिबुद्धिर्विद्या स्वरक्षता । एते ते भगभेदास्तु कथिता छनुपूर्वशः ॥ २४॥ (१) आर्षी पुलिङ्गता।

२०
सात्वततन्त्रे-
एषां प्रकाशो यत्रासीत्स पूर्णः परिकीर्तितः ।
अंशप्रकाशादंशः स्यात्कलायास्तु कला स्मृता ॥२५॥
विभूतेस्तु विभूतिः स्यादेष भेदो न हि स्वतः ।
निर्विकल्पस्य सत्यस्य परब्रह्मस्वरूपिणः ॥ २६ ॥
नारायणस्य शुद्धस्य श्रीकृष्णस्य महात्मनः ।
यतः कृष्णावतारेण भगभेदाः पृथक् पृथक् ॥ २७ ॥
सन्दर्शिताः पृथक्कार्ये तस्मात्सम्पूर्ण उच्यते ।
हयग्रीवाद्यवतारे तस्मादल्पतरा यतः ॥ २८ ॥
दर्शिता भगभेदा वै तस्मादशाः प्रकीर्तिताः ।
यतो रामो मत्स्यकूर्मवराहा नरकेशरी ॥ २९ ॥
मम्वन्तरावताराश्च यज्ञाद्या हयशीर्षवान् ।
तथा शुक्लादयो ह्याविर्भावा ऋषभ आत्मवान् ॥ ३० ॥
नरनारायणो दत्तः कलौ च बुद्धकल्किनौ ।
ज्ञानकर्मप्रभावाधैरंशा विष्णोः प्रकीर्तिताः ॥ ३१ ॥
कुमारनारदव्यासा ब्रह्मरातादयः कलाः ।
ज्ञानांशयुक्ताः श्रीविष्णोरवतारा महात्मनः ॥ ३२ ॥
गयः पृथुश्च भरतः शक्तियुक्ताः कला मताः।
गुणावतारा ब्रह्मायास्तदंशा ये विभूतयः ॥ ३३ ॥
एषा मया ते कथिता सम्पूणांशकलाभिदा।
कार्यानुरूपा विप्रेन्द्र भगभेदप्रदर्शनात् ॥ ३४ ॥
न ब्रह्मणो भिदा विष श्रीकृष्णस्य च सत्तम ।
नारायणस्य वा सौम्य झवतारिस्वरूपिणः ॥ ३५॥
श्रीनारद उवाच ।
अवतारिस्वरूप में वर्णयस्व सदाशिव ।
किं ब्रह्म परमं साक्षात्कं वा नारायणो विभुः ॥३६॥

तृतीयः पटलः। किंवा वैकुण्ठ लोकेशः श्रीकृष्णः पुरुषोत्तमः । किमेकतत्वमेतेषामथवा किं पृथक् पृथक् ॥ ३७ ॥ श्रीशिव उवाच ॥ शृणु तत्परमं गुह्यं ब्रह्मदायाद सत्तम । अवतारिस्वरूपं मे यथावर्णयतो द्विज ॥ ३८ ॥ एकमेव परं तत्वमवतारि सनातनम् । श्रीकृष्णब्रह्मपुरुषैः संज्ञाभिर्दीयते पृथक् ॥ ३९ ॥ यथा भानोः प्रकाशस्य मण्डलस्यापृथस्थितिः । तथा श्रीकृष्णदेवस्य ब्रह्मणः पुरुषस्य च ॥ ४० ॥ अतः सात्वततन्त्रज्ञा भक्तिनिष्ठा विलक्षणाः । श्रीकृष्णाख्यं परं धाम परमानन्दमुत्तमम् ॥ ४१ ॥ वैकुण्ठलोकनिळयं शुद्धसत्वात्मविग्रहम् । वदन्ति शाश्वतं सत्यं स्वभक्तगणसेवितम् ॥ ४२ ॥ वेदान्तिनो ज्ञाननिष्ठा ज्ञानशास्त्रानुसारतः । वदन्ति ब्रह्म परमं प्रकाशात्मकमव्ययम् ॥ ४३ ॥ अपाणिपादनयनोत्रत्वग्घ्राणविग्रहम् । सर्वशक्तियुतं तेजोमयं (१)वामनसापदम् ॥ ४४ ॥ आनन्दमात्रं संशुद्धं चिब्यक्तं सर्वकारणम् । हैरण्य(२)गर्भाविद्या नारायणमनामयम् ॥ ४५ ।। सहस्रशिरसं देवं परमानन्दमव्ययम् । अनन्तशक्तिं सर्वेषां पुरुषं प्रकृतेः परम् ॥ ४६ ॥ वदन्ति कर्मपरमाः स्थित्युत्पत्यन्तभावनम् । सर्वानन्दकरं शान्तं संसारार्णवतारकम् ॥ ४७ ॥ अतः कुष्णस्य देवस्य ब्रह्मणः पुरुषस्य च । (१) वाङ्मनसागोचरमित्यर्थः । (२) अनयोः वदन्ति' इति द्वितीयश्लोकगतेनान्वयः।

२२ सात्वततन्त्रे- वस्तुतो नैव भेदो हि वर्ण्यते तैरपि द्विज ॥ ४८ ॥ यथार्थो बहुधा भाति (१)नानाकरणतिभिः । तथा स भगवान्कुष्णो नानेव परिचक्षते ॥ ४९ ॥ अतः सर्वमेतनापि श्रीकृष्णः पुरुषोत्तमः । लीलामानुषरूपेण देवकीजठरं गतः ॥ ५० ॥ अतः सर्वावताराणां कारणं कृष्ण उच्यते । सृष्टयाधनेककार्याणि दर्शितानि यतः स्वतः ॥ ५१ ॥ स एव सर्वलोकानामाराध्यः पुरुषोत्तमः । मुत्याद्यर्थ नृलोकस्य मानुषत्वं यतो गतः ॥ ५२ ॥ अतस्तं पुरुषा नित्यं भक्तिभेदेन नित्यदा । भजन्ति ह्यपवर्गेशं परेशं तदकाम्यया ॥ ५३ ॥ मया ते कथिता विप्र अवतारा महात्मनः । किमन्यत्कथयाम्यद्य त्वं हि भागवतोत्तमः ॥ ५४॥ इति श्रीसास्वततन्त्रे तृतीयः पटलः । चतुर्थः पटलः। श्रीनारद उवाच । नास्ति तृप्तिः शृण्वतो मे तव वागमृतं हरेः । यशः परमकल्याणमवतारकथाश्रयम् ॥ १॥ तथापि साम्प्रतं ह्येतच्छुत्वा कौतुहलं मम । भक्तिभेदं भगवतो भावनीयं सदा नृभिः ॥२॥ ब्रूहि मे भगवन् विष्णोर्भक्तिभेदं सदाशिव । यज्ज्ञात्वा धजसा विष्णोः साम्यं याति जना प्रभो॥शा (१) इन्द्रियवृतिभिरित्यर्थः ।

चतुर्थः पटलः । २३. श्रीशिव उवाच । साधु पृष्टं त्वया साधो परं गुह्यतमं यतः। अन्यस्मै न मया प्रोक्तं विना भागवताचरात् ॥४॥ यदैवाचोचं मां कृष्णो ध्यानात्तुष्टमना विभुः । तदैवाहं निषिद्धाऽस्मि अभक्तोक्तो कृपालुना ॥ ५ ॥ तदा चाहं तस्य पादपङ्कजे शिरसा नतः । ब(१)भाष एतद्भगवान् भक्तानिर्देष्टुमर्हसि ॥ ६ ॥ तदा प्रीतमना देवो मामुवाच सतां गतिः । शृणुष्व शिव भद्रं ते भक्तान वक्ष्यामि सात्वतान् ॥ ७॥ मद्ध्याननिष्ठान्मत्प्राणान्मद्यशःश्रवणोत्सुकान् । भक्तान् जानीहि मे देव सर्वलोकमणामकान् ॥ ८ ॥ तेभ्यः परमसन्तुष्टो भक्तिभेदं ससाधनम् । ब्रवीमि शिव ते भक्तिस्तेनैव सम्मसिद्ध्यति ॥ ९ ॥ यदि त्वद्वाक्यनिष्ठः स्याद्योऽपि कोऽपि सदाशिव । तस्मै प्रीतमना वाच्यो भक्तिभेदः ससाधनः ॥ १० ॥ तदिदं ते प्रवक्ष्यामि भक्तिभेदं ससाधनम् । यतो भागवतश्रेष्ठो भगवत्कीर्तनप्रियः ॥ ११ ॥ एकैच भक्तिः श्रीविष्णोः प्रीतिरित्युच्यते बुधैः । निर्गुणत्वादखण्डत्त्वादानन्दत्वाद्विजोत्तम ॥ १२ ॥ किन्तु ज्ञानक्रियालीलाभेदैः सा त्रिविधा मता। तान् शृणुष्वानुपूर्येण मत्तः स्वावहितो द्विज ॥ १३ ॥ सर्वान्तर्यामिणि हरौ मनोगतिरविच्युता। सा निर्गुणज्ञानमयी साक्षादपि गरीयसी ॥ १४ ॥ सर्वोन्द्रयाणां सर्वेशे विष्णौ गतिरनुत्तमा । स्वाभाविकी भागवती कर्मजा मुक्तिहेलिनी ।। १५ ॥ (१) अहमेतबभाषे इत्यन्वयः । बभाषे इत्युत्तमपुरुषकवचनम् ।

सात्वततन्त्रे- हरिलीलाश्रुतोच्चारे जाता प्रेममयी तु या । सत्सङ्गजान्यासाशाह्या सर्वदा साह्यनुत्तमा ॥ १६ ॥ तासां साधनसामग्री क्रमतः शृणु सत्तम । यामाश्रित्य समाप्नोति जनो भक्तिं जनार्दने ॥ १७ ॥ स्वानुरूपस्वधर्मेण वासुदेवार्पणेन च । हिंसारहितयोगेन भगवत्प्रतिमादिषु ॥ १८ ॥ श्रुतिहीष्टस्पर्शपूजास्तुतिप्रत्यभिनन्दनः । विषयाणां विरागेण स्वगुरोः परिचर्यया ॥ १९ ॥ निवृत्तिशास्त्रश्रवणैरुत्तमेषु समादिभिः । समेषु मित्रभावेन दीनेषु दयया तथा ॥ २० ॥ भगवन्मूखभिध्यानर्यशसां श्रुतिकीर्तनात् । भूतेषु भगवदृष्टया निर्गुणा भक्तिरूच्यते ॥ २१ लब्ध्वा तां निर्गुणां भक्तिं मुक्तिं चापि न मन्यते । मुक्तिः सैवेत्स्यभिहिता भगवद्भावकारिणी ॥ २२ ॥ अथ भाग(१)वतीभक्त साधनं शृणु सत्तम । यत्सर्वयत्नतः कार्य पुरुषेण मनीषिणा ।। २३ ॥ श्रीगुरोरुपदेशेन भगवद्भक्तितत्परैः । यथाकार्य स्वकरणैर्भगवत्पादसेवनम् ॥ २४ ॥ वाचोच्चारोहरेनाम्नां कर्णाभ्यां कर्मणां श्रुतिः । हस्ताभ्यां भगवदेहप्रतिमादिषु सेवनम् ॥ २५ ॥ जिहया भगवदत्तनैवेद्यहरणं मुदा । नासया कृष्णपादाब्जलनगन्धानुजिघ्रणम् ॥ २६ ॥ भगवद्गात्रनिर्माल्य हरणं शिरसा तथा । दृष्ट्वा विष्णुजनादीनामक्षिणं सादरेण च ॥ २७ ॥ (१) आर्षः पुंवद्भावाभावः । TETTE चतुर्थः पटलः। ३५ मनसा भगवद्रूपचिन्तनं शिरसोरसा । बाहुपादादिभिर्विष्णोर्वन्दनं परया मुदा ॥ २८ ॥ अर्थादीनामानयनमीश्वरार्थेन सर्वशः । एतैः स्वसाधनैनित्यं भगवत्पादसेवनम् ॥ २९ ॥ आशु सम्पद्यते भक्तिः कृष्णे भागवती सती । यदेन्द्रियाणां सर्वेषां कृष्णे परमपूरुषे ॥ ३० ॥ स्वाभाविकी रतिरभूत्सा वै भागवती मता । एतद्भक्तिपरो विप्र चातुर्वण्य न मन्यते ॥ ३१ ॥ तस्यामन्तः सर्वमुखमधिकं वापि लभ्यते । अथ प्रेममयीभक्त कारणं द्विजसत्तम ।। ३२ ।। शृणु विश्वासमापन्नो निश्चयात्मिकया धिया। सद्गुरोरुपदेशेन लब्धा सत्सङ्गमादृतः ॥ ३३ ॥ चतुर्विधानां श्रीविष्णोः कर्मणां श्रवणं सताम् । तेष्वषं कीर्तनं तेषां मनसा चापि चिन्तनम् ॥ ३४ ॥ उचसा ग्रहणं तेषां तत्पराणां प्रशंसनम् । यद्यशक्तो भवेत्कीतौ स्मरणे चापि सर्वशः ॥ ३५ ॥ तदा तु भगवन्नाम्नामावृत्तौ (ति) वृत्त (वर) येत्सदा । सदा शश्वत्पीतियुक्तो यः कुर्यादेतदन्वहम् ॥ १६ ॥ तस्थाशु भक्तिः श्रीकृष्णे जायते सद्भिराहता। एवं प्रेममयीं लब्ध्वा भिवा संसारमात्मनः ॥ ३७॥ आशु सम्पद्यते शान्तिं परमानन्ददायिनीम् । लब्ध्वापि भक्ता भगवदूपशीलगुणक्रियाः ॥ ३८ ॥ नानुसन्धत्त एता वै बिना भक्तिं जनार्दने । यधन्यसाधनान्यन्यभक्तो कुर्यादतन्त्रितः ॥ ३९ ॥ न तत्र कश्चिद्दोषः स्यादरिसेवा यतः कृता। किन्तु यद्भक्तिनिष्ठा स्याचामेवाप्नोति मानवः ॥ १०॥ ४सा २६ सात्वततन्त्रे- फलभेदेन भेदः स्यात्साधनेन न भिद्यते । पृथगेष मयाऽऽख्यातो भक्तिभेदः ससाधनः ॥ ४१॥ निष्कामः फलरूपश्च नियो मोक्षसुखाधिकः । सकामः सगुणो विष बहुधोक्तो महर्षिभिः ॥ ४२ ॥ किं भूयः कथयाम्यद्य वद द्विजसत्तम ।। श्री नारद उवाच ॥ विधेयं कथितं सर्व त्वया मे सुरमुत्तम । निषेधनीयं किं चात्र भक्तिस्तम्भकरं च यत् ॥ ४३ ॥ हानिवृद्धिकरं चापि मुख्य साधनमेव च । कथयस्व महादेव श्रद्धासेवापराय मे ॥४४॥ श्रीशिव उवाच ॥ भक्तीनां साधनानां यदहिभूतं महामुने । निषेधनीयं तत्तामा भक्तानां पुरुषोत्तमे ॥ ४५ ॥ देहप्रवाहादाधिक्यं विषयादरणं च यत् । भक्तिस्तम्भकरं प्रोक्तं भक्तिनिष्ठे द्विजोत्तम ॥ ४६ ॥ समासेन(१) मया प्रोक्तं निषेधस्तम्भनं(२) तव । भक्तिग्नदोषं शृणु तं सर्वथा वर्जनं नृणाम् ॥ ४७ ॥ निर्गुणायां प्राणिहिंसा भागवत्यामहङ्कुतिः । प्रेममय्यां सतां द्वेषो भक्तिनाशकरा इमे ॥ ४८ ॥ सर्वभक्तिव्यतिकरः(१) स्वगुरोर्वागनादरः । द्वेषेण नरकं याति कुर्वन् भक्तिमपि द्विजः ॥ ४९ ॥ दोषदृष्टया दोषवान् स्यात्तत्र दोषफलं भवेत् । मर्त्यदृष्ट्या कृतं सर्वं भवेत्कुअरशौचवत् ॥ ५० ॥ (१) समासेन=सझेपेणेत्यर्थः । (२) निषेधरूपस्तम्भनमित्यर्थः । (३) व्यतिकर:-नाशकः ।

चतुर्थः पटलः। ३७. सर्वसाधनमुख्या हि गुरुमेवा सदाहता । यया भक्तिभंगवति ह्यञ्जमा स्यात्सुखावहा ॥५१॥ तस्मात्सर्वप्रयत्नेन गुरोवांगादरेण वै । कार्या सैव तु तत्सर्वा भगवद्भक्तिवर्द्धिनी ॥ ५२ ॥ निर्गुणा(१) भक्तिनिष्ठेन कार्या भूतदया सदा । मागवत्या कायमनोवचसा परिनिष्ठिता ॥५३ ॥ प्रेममय्यां सतां प्रीत्या श्रवणं यशसा हरेः । मुख्याः साधनसम्पत्यः कथितास्ते द्विजोत्तम ॥ ५४॥ सर्वमूलं कृष्णपादशरणं परिकीर्तितम् । यद्विना स्रवते भक्तिरामभाण्डात्पयो यथा ॥ १५ ॥ श्रीनारद उवाच ॥ कृष्णपादाजशरणं वद मे बहुवित्तम । विना येन पुमान याति कुर्वन् भक्तिमपि श्रमम् ॥ ५६ ॥ श्रीशिव उवाच॥ कायवाचनसां साक्षात्कृष्णे परमपूरुषे । परिनिष्ठाऽऽश्रयं यद्वै शरणं परिकीर्तितम् ॥ ५७ ॥ एतद्वै त्रिविधं प्रोक्तं वेदविद्भिजोत्तम । प्रथमं मध्यमं श्रेष्ठं क्रमशः शृणु तन्मुने ॥ ५८ ॥ धर्मे तीर्थे च देवादौ रक्षकत्वमघादितः । यद्बुद्धिनिष्ठितं कृष्णे कृतं तत्पथमं स्मृतम् ॥ ५९ ॥ कलत्रपुत्रमित्रेषु धने गेहगवादिषु । यन्ममत्वाश्रयं कुरु कृतं तन्मध्यमं स्मृतम् ॥ ६० ॥ देहादावात्मनो याचदात्मत्वाश्रयणादि यत् । तत्सर्व कृष्णपादाब्जे कृतं श्रेष्ठं प्रकीर्तितम् ॥ ११ ॥ Anemameem (१)उपरितनश्लोकस्थकार्यत्यनेनान्विति।

२८ सात्वततन्त्रे- media ईश्वरं तदधीनं च तद्धर्म च सनातनम् । हित्वान्यदाश्रयं तस्य वस्तुतो नैव दृश्यते ॥६२॥ एतच्छरणसम्पन्नो भक्तिमान्पुरुषोतमे । पुनाति सर्वभुवनं हृदिस्थेनाच्युतेन सः ॥ ६३ ॥ तस्माद्भक्ताहतेर्विष्णोदेहोऽपि नैव सात्मियः । किमुतान्ये विभृताधाः परमानन्दरूपिणः ॥ ६४ ॥ श्रीनारद उवाच ॥ भक्तानां लक्षणं साक्षात्रूहि मे सुरत्तम । तथैव तेष्वहं प्रीति करिष्यामि समाहितः ॥ ६५ ॥ श्रीशिव उवाच ॥ भक्तानां लक्षणं साक्षाद्दुर्विज्ञेयं नृभिर्मुने । वैष्णवैरेव तद्वेधं पदान्यहिरहेरिव ।। ६६ ॥ तथापि सारतस्तेषां लक्षणं यदलौकिकम् । वक्ष्ये तत्ते मुनिश्रेष्ठ विष्णुभक्तो यतो भवान् ॥ ६७ ॥ मच्चिचा निरहङ्कारा ममकाराविवर्जिताः । शास्त्रानुवर्तिनः शान्ताः सुहृदः सर्वदेहिनाम् ॥ ६८ यदा सर्वेषु भूतेषु हिंसन्तमपि कश्चन । न हिंसन्ति तदा मुक्ता निर्गुणा भगवत्पराः ॥ ६९ ॥ हरिसेवां बिना किश्चिन्मन्यन्ते नात्मनः प्रियम् । वासुदेवपरा देहगेह इन्द्रियवृत्तयः ॥ ७० ॥ रागद्वेषादिरहिता मानामानविवर्जिताः । सदा सन्तुष्टमनसो भक्ता भागवता मताः ॥ ७१ ॥ समीतिपरमा शुद्धाः श्रुतिकीयुक्तिनिष्ठिताः । त्रैवर्गिकपराऽऽलापस्नेहसङ्गविवर्जिताः ॥ ७२ ।। साक्यकारिणः कृष्णयशस्युत्सुकमानसाः।

चतुर्थः पटलः । २९ हरिप्रीतिपरा एते भक्ता लोकप्रणामकाः ।। ७३ ॥ भक्तानां लक्षणं वेतसामान्येन निरूपितम् । इदानीमात्मजिज्ञास्य लक्षणं त्रिविधं शृणु ॥ ७४ ॥ सर्वात्मानं हरिं ज्ञात्वा सर्वेषु प्रीतिमानरः । सेवापरो द्वेषहीनो जनेषु स च सत्तमः ॥ ७९ ॥ ज्ञात्वापि सर्वगं विष्णुं तारतम्येन प्रीतिमान् । श्रेष्ठमध्यमनीचेषु ह्यात्मनः स तु मध्यमः ॥ ७६ ॥ प्रतिमादिष्वेव हरौ प्रीतिमान्न तु सर्वगे। प्राणिप्राणवधत्यागी प्राकृतः स तु वैष्णवः ॥ ७७॥ यस्येन्द्रियाणां सर्वेषां हरौ स्वाभाविकी रतिः । स वै महाभागवतो ह्युत्तमः परिकीर्तितः ॥ ७८ ॥ यस्य यत्नेनेन्द्रियाणां विष्णौ प्रीतिर्हि जायते । सवै भागवतो विप्रः मध्यमः समुदाहृतः॥ ७९ ॥ यस्येन्द्रियैः कृष्णसेवा कृता प्रीतिविवार्जिता । स प्राकृतो भागवतो भक्तः कामविवर्जितः ॥ ८० ॥ हरिलीलाश्रुतोचारं यः प्रीत्या कुरुते सदा । स वै महाभागवतो हात्तमो लोकपावनः ॥ ८१ ॥ श्रवण कीर्तनं विष्णौ प्रीत्यायासौ तु यो नरः । कुर्यादहरहः शश्वत् प्रीतमान् स च मध्यमः ॥ ८२ ॥ यामैकमात्रं यः कुर्याच्छवणं कीर्तनं हरेः । प्रीत्या विष्णुजनद्वेषहीनः प्राकृत उच्यते ॥ ८३ ॥ यद्यन्यलक्षणं चान्य भक्त लक्ष्येत सज्जनः । तथापि निष्ठामालक्ष्य तं तं जानीहि सत्तम ॥ ८४ ॥ यद्धर्मनिष्ठा ये भक्ता भवन्ति द्विजसत्तम । तस्पसङ्गाधनुष्ठानं तत्पीतेः कारणं परम् ॥ ८५ ॥ तथापि निर्गुणा ये च ये च भागवता मताः ।

३० सात्वततन्त्रे- तेषु प्रीतिर्महाभाग दुष्करेति मयोध्यते ॥ ८६ ॥ हरिलीलावतोचारपरेषु सततं त्वया । कार्या प्रीतिस्तव हरेर्यथा भक्तिर्न नश्यति ॥ ८७ ॥ इत्येतत्कथितं विप्र साधूनां लक्षणं पृथक् । भक्तेषु प्रीतिकरणं जनानां मुक्तिकारणम् ।। ८८ ॥ साधनेन मया बाल भक्तिभेदो निरूपितः। स सर्विवर्णिकः शुद्धः सर्वाश्रमिश्रमापहः ॥ ८९ ॥ सर्वकालभवो नित्यः सर्वदैशिकसिद्धिदः । चतुर्युगेष्वभिमतो भगवलियसाधकः ॥ ९ ॥ इति सात्वततन्त्रे चतुर्थः पटलः ॥ अथ पञ्चमः पटलः । श्रीनारद उवाच ।। कथितं मे सुरगुरो भगवद्भक्तिलक्षणम् । चतुर्युगेऽप्यभिमतं सर्वलोकसुखावहम् ॥ १ ॥ अधुना वद देवेश जनानां हितकाम्यया । युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ २॥ प्रजानां लक्षणं विष्णोर्मूर्तिलिङ्ग पृथग्विधम् । धर्म च नामसङ्ख्या च समासेन सुरेश्वर ॥ ३ ॥ श्रीशिव उवाच ॥ कुते युगे प्रजाः सर्वाः शुद्धा रागादिवर्जिताः । औत्पत्तिकेन योगेन शान्ताः शमशो मताः ॥ ४ ॥ तेषां तु भगवड्यानं संसारार्णवतारकम् । तदेव परमो धर्मस्तयुगस्य महामते ॥ ५ ॥ तख्यानं त्रिविधं प्रोक्तं दशभिनामाभिर्युतम् ।

पञ्चमः पटलः। निरालम्बं सावलम्ब सर्वान्तयोमिधारणम् ॥ ६॥ तत्पडङ्गयुतं कुर्यात्समाध्यवधिमुत्तमम् । दुःखग्रहं निरालम्ब प्रथमं शृणु सत्तम ॥ ७ ॥ अहिंसा ब्रह्मचर्य च सत्यं लज्जा कार्यतः । अस्तेयोऽसञ्चयो मौनमसङ्गममयं दया ॥ ८ ॥ धर्म स्थैर्य च विश्वासो यमा द्वादश सत्तम । यमा(१)धमङ्गं प्रथमं कुर्याख्याता यतन्द्रितः ॥९॥ देहशोचं मन शौचं जाप्यं होमं तपो व्रतम् । श्राद्धमतिथिशुश्रूषां तीर्थसेवां सुतुष्टिदाम् ॥ १० ॥ परार्थेहां गुरोः सेवां द्विषनियमसंज्ञितम् । कुर्याख्यानं द्वितीया तृतीयाङ्गं च मे शृणु ॥ ११ ॥ स्वजानुलग्ने पादाग्रे कुर्याज्जोऽन्तरान्तरे ॥ उत्सङ्गमध्ये हस्तौ द्वौ तत्स्थानमासनं स्मृतम् ॥ १२ ॥ प्रणवेनैव मन्त्रेण पूरकुम्भकरेचकैः । विपर्ययेण वा कुर्यात्तुर्या प्राणसंयमम् ॥ १३ ॥ विषयेभ्यस्त्विन्द्रियाणां संयमं मनसा हृदि । कुर्यादतन्द्रितो योगी प्रत्याहारं तु पञ्चमम् ॥ १४ ॥ प्राणेन मनसः साक्षात्स्थ्यैर्य ध्यानामुत्तमम् । कुर्यात्समाहितो योगी स्वनासाग्रावलोकनः ॥ १५ ॥ तेजोमयं स्वप्रकाशमवाङ्मनसगोचरम् । लक्षीकृत्य पिया तिष्ठेद्यावन्नैव प्रकाशते ॥ १६ ॥ एवं चाहरहः कुर्वन्योगी संशुद्धकिल्विषः । चिरात्प्राप्नोति परमां समाधि ब्रह्मणः पदम् ॥ १७ ॥ सावशेष हरेनिं शृणु विप्र समासतः । तेनैव विधिना युक्तो मनसा चिन्तयेद्यथा ॥ १८ ॥ (१) यमाचं यमरूपं आयं प्रथमङ्गमित्यर्थः । :

३२
साश्वततन्त्र-
हृत्पद्मकर्णिकामध्ये शुद्धसत्वतनुं हरिम् ।
पुरुषं चतुर्भुजं ध्यायेच्छुद्धस्फटिकसन्निभम् ॥ १९ ॥
जटाधरं वल्कलिनं कृष्णसाराजिनोत्तरम् ।
अक्षमालां यज्ञसूत्रं तथा दण्डकमण्डलुम् ।। २० ॥
विभ्राणं हृद्युगाराध्यं ब्रह्मचारिणमव्ययम् ।
मुखारविन्दं सुनसं सुचवं सुकपालिनम् ॥ २१ ॥
मुवर्णशकलाभातं मुद्विजं कम्बुकन्धरम् ।
दीपायतचतुर्बाहुं करपल्लवशोभितम् ॥ २२ ॥
मुचक्षुषं सुहृदयं सूदरं बलिभिर्युतम् ।
निम्ननाभिं सुचारूरुजानुजङ्घापदं शुभम् ॥ २३ ॥
चाकुलिदलाकार नखचन्द्रद्युतिममम् ।
एवं चिन्तयतो रूपं विष्णोर्लोकमनोहरम् ॥ २४ ॥
तस्याशु परमानन्दस्सम्पदाशु भविष्यति ।
आशुसिद्धिकरं चातस्सर्वान्तर्यामिधारणम् ।। २५ ॥
शृणुष्ववाहितो विप्र मानस्तम्भाविवर्जितम् ।
सर्व चराचरमिदं भगवद्रूपाधिष्ठितम् ॥ २६ ॥
भावयेद्वेषहीनेन कायवाङ्मनसा द्विज ।
उत्तमान्मानयेद्भत्या समान्मित्रतया द्विज ॥२७॥
अधमान्दयया शत्रूनुपेक्षेत दयान्वितः ।
एवं भावयतस्तस्य यावत्सर्वात्मदर्शनम् ॥ २८ ॥
अचिरात्परमानन्दसन्दोहं मनसाऽऽप्नुयात् ।
त्रेतायां प्राणिनः सर्वे जपहोमपरायणाः ॥ २९ ॥
सुविनीताः सुखावृत्ता महाशाला महात्मनः ।
तेषां तु भगवद्यागो ह्यञ्जसा मुक्तिसाधकः ॥ ३० ॥
स एव परमो धर्मस्त्रेतायां द्विजसत्तम ।
तस्मिन्यजन्ति रक्तामं यज्ञमूर्ति जगद्गुरुम् ॥ ३१ ॥

पश्चमः पटलः।
नित्यनैमित्तिकैः सत्रै-गैर्नामाष्टकायुतैः ।
त्रैवियेन विधानेन यान्ति मुक्तिं तदा जनाः ॥ ३२ ॥
द्वापरे तु जना हृष्टाः पुष्टाः कर्मकृतिक्षमाः ।
भोगानुसक्तमनसः मुखदुःखममावृताः ॥ ३३ ॥
भगवत्पूजनं तेषां मोक्षसाधनमुत्तमम् ।
साङ्गोपाङ्ग केवलं च द्विविधं पूजनं स्मृतम् ॥ ३४ ॥
तदेव परमो धर्मो द्वापरस्य युगस्य वै ।
तस्मिन्यजन्ति पुरुषा महाराजोक्तलक्षणम् ॥ ३५ ॥
पीतवर्ण वेदमन्त्रैर्नाम्नां द्वादशभिः ममम् ।
कलौ प्रजा मन्दभाग्या अलसा दुःखसंयुताः ॥३६.॥
शिश्नोदरपराः क्षुद्रा दीना मलिनचेतसः।
तेषामेकविध प्रोक्तमासा मुक्तिकारणम् ॥ ३७॥
सर्वसौख्यकरं चापि कृष्णनामानुकीर्तनम् ।
यतः कलियुगस्यादौ भगवान्पुरुषोत्तमः ॥ ३८ ॥
अवतीर्य यशस्तेने शुद्धं कलिमलापहम् ।
ध्यानयोगक्रियाः सर्वाः स संहृय दयापरः ॥ ३९ ॥
स्वकीये यशसि स्थाप्य गतो चैकुण्ठमुत्तमम् ।
स तात परमो देवो देवकीदेविनन्दनः ॥ ४० ॥
इन्द्रनीलसमः श्यामस्तन्त्रमन्त्रैर्य इज्यते ।
तस्मिन् कलियुगे विप्र श्रुत्वा हरियशोऽमलाः ॥ ४१ ॥
प्रायो भक्ता भविष्यन्ति तस्माच्छ्रेष्ठयुगः कलिः ।
अतः कृतादिषु प्रजाः कलौ सम्भवमात्मनः ॥ ४२ ॥
वाच्छन्ति धर्मपरमा भगवद्भक्तिकारणम् ।
ध्यानेनेष्टया पूजनेन यत्फलं लभ्यते जनः ॥ ४३॥
कृतादिषु कलौ तदै कीर्तनादिषु लभ्यते ।
न देशकालकर्तृणां नियमः कीर्तने स्मृतः ॥ ४४ ॥

सात्वततन्त्रे-
तस्मात्कलौ परो धर्मो हरिकीर्तेः सुकीर्तनम् ।
यतः कलिं प्रशसन्ति शिष्टास्त्रियुगवर्तिनः ॥ ४५ ॥
यत्र कीर्तनमात्रेण प्राप्नोति परमं पदम् ।
कृतादावपि ये जीवा न मुक्ता निजमतः ॥ ४६॥
तेऽपि मुक्ति प्रयास्यन्ति कलौ कीर्तनमात्रतः ।
कलेर्दोषसमुद्रस्य गुण एको महान् यतः ॥ ४७ ॥
नाम्नां सङ्कीर्तनेनैव चातुर्वर्ग जनोऽश्नुते ।
कृतादिष्वपि विप्रेन्द्र हरिनामानुकीर्तनम् ॥ ४८ ॥
तपादिसाध्यं तद्भूयः कलावुभयतां गतम् ।
तस्मात्कलियुगे विष्णोर्नामकीर्तनमुत्तमम् ॥ ४९ ॥
साधनं भक्तिनिष्ठानां साध्यं चैव प्रकीर्तितम् ।
येन केनापि भावेन कीर्तयन् सततं हरिम् ॥ ५० ॥
हित्वा पापं गतिं यान्ति किमुतच्छ्रद्धा गृणन् ।
कलौ नामपरा एव सततं द्विजसत्तम ॥५१॥
उक्ता महाभागवता भगवत्प्रियकारिणः ।
तस्मात्सर्वात्मना विप्र कुरु श्रीकृष्णकीर्तनम् ॥ ५२ ॥
श्रद्धया सततं युक्तं एतदेव महाफलम् ।
इति श्रीसात्वततन्त्रे पश्चमः पटलः ।।
श्रीनारद उवाच ।
कथितं मे त्वया देव हरिनामानुकीर्तनम् ।
पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥१॥
तत्राहं यानि नामानि कीर्तयामि मुरोत्तम ।
तान्यहं ज्ञातुमिच्छामि साकल्येन कुतुहलात् ॥ २ ॥

१५
श्रीशिव उवाच॥
भूम्यम्बुतेजसां ये वै परमाणूनपि द्विज ।
शक्यन्ते गणितुं भूयो जन्मभिर्न हरेर्गुणान् ॥ ३ ॥
तथापि मुख्य वक्ष्यामि श्रीविष्णोः परमाद्भुतम् ।
नाम्नां सहस्रं पार्वत्यै यदिहोक्तं कृपालुना ॥ ४॥
समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी।
अपृच्छत्परमं देवं भगवन्तं जगद्गुरुम् ॥ ५॥
तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः ।
नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ ६ ॥
तदहं तेऽभिवक्ष्यामि महाभागवतो भवान् ।
यस्यैकस्मरणेनैव पुमान् सिद्धिमवाप्नुयात् ॥ ७ ॥
उद्यन्नवीनजलदाममकुण्ठविषण्यं
विद्योतितानलमनोहरपीतवासम् ।
भास्वन्मयूखमुकुटाङ्गदहारयुक्तं
काञ्चीकलापवलयाङ्गुलिभिर्विभातम् ॥ ८॥
ब्रह्मादिदेवगणचन्दितपादपझं
श्रीसेवितं सकलसुन्दरसन्निवेशम् ।
गोगोषवनितामुनिबन्दजुष्टं
कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ ९ ॥
ॐनमो वासुदेवाय कृष्णाय परमात्मने ।
प्रणतक्लेशसंह परमानन्ददायिने ॥ १० ॥
ॐश्रीकृष्ण श्रीपतिः श्रीमान श्रीधरः श्रीसुखाश्रयः ।
श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ ११ ॥
परमात्मा परं ब्रह्म परेशः परमेश्वरः।
परानन्दः परं घाम परमानन्ददायकः ॥ १२॥
निरालम्बो निर्विकारो निर्लेपो निरवग्रहः ।
नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहप्रियः ॥ १३ ॥

सात्वततन्त्रे-
प्रियम्बदः प्रियकरः प्रियदः प्रियसञ्जनः ।
प्रियानुगः प्रियालम्बी मियकीतिः प्रियाप्रियः ॥ १४ ॥
महात्यागी महाभोगी महायोगी महातपाः।
महात्मा महता श्रेष्ठो महालोकपतिर्महान् ॥१५॥
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धसाधनः ।
सिद्धेशः सिद्धमार्गानः सिद्धलोकैकपालकः ॥ १६ ॥
इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुरुत्तमः।
ज्येष्ठः श्रेष्ठश्च सर्वेष्टो विष्णुभ्रांजिष्णुरव्ययः ॥ १७ ॥
विभुः शम्भुः प्रभुर्भूमा स्वभूः स्वानन्दमूर्तिमान् ।
प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्द्धनः ॥ १८ ॥
योगेश्वरो योगगम्यो योगीशो योगपारगः।
योगदाता योगपतियोगसिद्धिविधायकः ॥ १९ ॥
सत्यव्रतः सत्यपर: त्रिसत्यः सत्यकारणः ।
सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्द्धनः ॥ २०॥
सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् ।
सर्वपाता सर्वमुखः सर्वश्रुतिगणार्णवः ॥ २१ ॥
जनार्दनो जगन्नाथो जगत्राता जगत्पिता।
जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ २२ ।।
धरापतिर्लोकपतिः स्वर्पतिर्जगताम्पतिः ।
विद्यापतिर्वित्तपतिः सत्पतिः कमलापतिः ॥ २३ ॥
चतुरात्मा चतुर्बाहुश्चतुर्वगफलप्रदः ।
चतुर्ग्रहश्चतुर्दामा चतुर्युगविधायकः ॥ २४ ॥
आदिदेवो देवदेवो देवेशो देवधारणः ।
देवदेव मुद्देवो देवेडितपदाम्बुजः ॥ २५ ॥
विश्वेश्वरो विश्वरूपी विश्वात्मा विश्वतोमुखः ।
विश्वसर्विश्वफलदो विश्वगो विश्वनायकः ॥ २६ ॥

षष्ठः पटलः।
:
भूतकृद्भुतभृद्भावो भूतात्मा भूतभावनः ।
भूतिदो भूतिविस्तारो विभूति भूतिपालकः ॥ २७ ॥
नारायणो नारशायी नारमूर्नारजीवनः ।
नारैकफलदो नारमुक्तिदो नारनायकः ॥ २८ ॥
सहस्ररूपः साहस्रनामा साहस्रविग्रहः ।
सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ २९ ॥
पद्मनाभः पद्मगर्भः पनी पद्मनिभेक्षणः ।
पनशायी पद्ममाली पाङ्कितपदद्वयः ॥ ३० ।।
वीर्यवान स्थैर्यवान्वाग्मी शौर्यवान्धैर्यवान् क्षमी ।
धीमानू धर्मपरो भोगी भगवान भयनाशनः ॥ ३१ ॥
जयन्तो विजयो जेता जयदो जयवर्द्धनः ।
अमानो मानदो मान्यो महिमावान्महाबलः ॥ ३२ ॥
सन्तुष्टस्तोषदो दाता दमनो दीनवत्सलः ।
ज्ञानी यशस्वान धृतिमान सहओजोबलाश्रयः ॥ ३३ ॥
हयग्रीवो महातेजा महार्णवविनोदकृत् ।
मधुकैटभविध्वंसी वेदकद्वेदपालकः ॥ ३४ ॥
सनत्कुमारः सनक सनन्दश्च सनातनः ।
अखण्डब्रह्मव्रतवानात्मा योगविवेचकः ॥ ३५ ॥
श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः ।
सात्वतागमकृल्लोकहिताहितप्रसूचकः ॥ ३६ ॥
आदिकालो यज्ञवत्वं पातनासापुटोद्भवः ।
दन्तानन्यस्तभूगोलो हिरण्याक्षबलान्तकः ।। ३७ ।।
पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः ।
श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ ३८॥
अनन्तो धरणीभः पातालतलवासकृत् ।
कालामिजवनो नागराजराजो महाद्युतिः ॥ ३९ ॥

३८ सात्वततन्त्रे- महाकूर्मों विश्वकायः शेषमृक् सर्वपालकः । लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ ४० ॥ कृपामयः स्वयं व्यक्तिर्धवप्रीतिविवर्द्धनः । ध्रवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ ४१ ॥ शुक्लः कर्दमसन्तप्तस्तपस्तोषितमानसः । मनोऽभीष्टप्रदो हर्षबिन्द्वंचितसरोवरः ॥ ४२ ॥ यः सुरगणाधीशो दैयदानवघातकः । मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ ४३ ।। कपिलाख्यः साङ्ख्यपाता कर्दमागसमुद्भवः । सर्वसिद्धगणधीशो देवहूतिगतिप्रदः ॥ ४४ ॥ दत्तोऽत्रितनयो योगी योगमार्गप्रदर्शकः । अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥४५॥ नारायणो नरऋषिधर्मपुत्रो महामनाः । महेशशूलदमनो महेशैकवरप्रदः ॥ ४६ ॥ आकल्पान्ततपोधारो मन्मथादिमदापहः । उर्वशीसग्जिवानको मार्कण्डेयप्रियप्रदः ॥ १७ ॥ ऋभवो नाभिमुखदो मेरुदेवीप्रियात्मजः । योगिराजद्विजस्रष्टा योगचर्यापदर्शकः ॥ ४८ ॥ अष्टवाहुर्दक्षयज्ञपावनोऽखिलसत्कृतः । दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ ४९ ॥ प्रियव्रतकुलोत्पन्नो गयनामा महायशाः । उदारकर्मा बहुविन्महागुणगणार्णवः ।। ६० ॥ हंसरूपी तत्ववक्ता गुणागुणविवेचकः। धालज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥५१॥ वैश्यः पृथुः पृथ्विदोग्धा सर्वजीवनदोहकृत् । आदिराजो जनावासकारको भूसमीकरः ।। ५२ ।।

षष्ठः पटलः।
प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः ।
दिवारात्रिगणाशिः केतुमानजनाश्रयः ॥ ५३ ॥
श्रीकामदेवः कमलाकामकेलिविनोदछन् ।
खपादरतिदोऽभीष्टसुखदो दुःखनाशनः ॥ ५४ ॥
विभुममृतां श्रेष्ठो वेदशीर्षो द्विजात्मजः।
अष्टाशीतिसहस्राणां मुनीनामुपदेशदः ॥
सत्यसेनो यक्षरक्षोदहनो दीनपालकः।
इन्द्रमित्रः सुरारिघ्नः मूनृताधर्मनन्दनः ॥ ५६ ।।
हरिगजवरत्राता ग्राहपाशविनाशकः ।
त्रिकूटाद्रिवनलाधी सर्वलोकहितैषणः ॥५७ ॥
वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीमुतः ।
रमाप्रियकरः श्रीमान्निजलोकप्रदर्शकः ॥ ५८॥
विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः ।
दुग्धाब्धिमथनो विप्रो विराजतनयो ऽजितः ॥ ५९ ॥
मन्दाराद्रिधरः कूर्मों देवदानवशर्मकृत् ।
जम्बूद्वीपसमस्स्रष्टा पीयूषोत्पत्तिकारणम् ॥ ६० ॥
धन्वन्तरी रुक्शमनोऽमृतधुक रुक्प्रशान्तकः ।
आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ ६१॥
देवाभयकरो दैत्यमोहिनी कामरूपिणी ।
गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ ६२ ॥
महामत्स्यो महाकायः शल्कान्तर्गतसागरः ।
वेदारिदैत्यदमनो व्रीहिनीजसुरक्षकः ॥ ६३ ॥
पुच्छाघातभ्रमसिन्धुः सत्यव्रतप्रियप्रदः ।
भक्तसत्यव्रतत्राता योगत्रयप्रदर्शकः ॥ ६४ ॥
नरसिंहो लोकाजेहः शङ्कुकर्णो नखायुधः ।
सदावधूतजलदो दन्तद्युतिजितप्रभः ॥ ३५ ॥

सात्वततन्त्रे-
हिरण्यकशिपुध्वंसी बहुदानवदर्पहा ।
प्रहादस्तुतपादाब्जो भक्त संसारतापहा ॥ ६६ ॥
ब्रह्मेन्द्ररुद्रभीतितो देवकार्यप्रसाधकः ।
ज्वलज्जलनसङ्काशः सर्वभीतिविनाशकः ॥ ६७ ।।
महाकलुषविध्वंसी सर्वकामवरप्रदः ।
कालविक्रमसंहतो ग्रहपडिाविनाशकः ॥ ६८ ॥
सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् ।
उग्रभैरवसन्त्रस्तहरातिविनिवारकः ॥ ६९ ॥
ब्रह्मचर्मावृतशिरा शिवशीकनूपुरः ।
द्वादशादित्यशीकमणिर्दिक्पालभूषणः ॥ ७० ॥
वामनोऽदितिभीतिज्नो द्विजातिगणमण्डनः ।
त्रिपदव्याजयाचाप्तबलित्रैलोक्य सम्पदः ॥ ७१ ॥
पन्नखक्षतब्रह्माण्डकटाहोऽमितविक्रमः ।
स्वर्धनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ ७ ॥
स्वाधिवारिहताघौषो विश्वरूपैकदर्शनः ।
बलिप्रियकरो भक्तस्वर्गदोग्धा गदाधरः ॥ ७ ॥
जामदग्न्यो महावीर्यः पर्थमृत्कार्तवीर्य जित् ।
सहस्रार्जुनसंहा सर्वक्षत्रकुलान्तकः ॥ ७४ ॥
निःक्षत्रपृथ्वीकरणो वीरजिद्विाराज्यदः ।
द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ ७५ ॥
सूर्यवंशाब्जतराणिः श्रीमदशरथात्मजः ।
श्रीरामो रामचन्द्रश्च रामभद्रोऽमितमभः ॥ ७६ ॥
नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः ।
पद्मनेत्रः पद्मवक्रः पद्याङ्कितपदाम्बुजः ॥ ७७ ॥
प्रलम्बबाहुश्चार्वङ्गो रवाभरणभूषितः ।
दिव्याम्बरो दिव्यधनुर्दिष्टदिव्यास्त्रपारगः ॥ ७८ ॥

षष्ठः पटल.
निखिशपाणिवीरेशोऽपरिमेयपराक्रमः ।
विश्वामित्रगुरुर्धन्वी धनुर्वेदविदुरमः ॥ ७९ ॥
ऋजुमार्गनिमित्चेषु सत्तादिततारकः ।
सुबाहुर्बाहुवीर्याब्यबहुराक्षसघातकः ॥ ८॥
प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः ।
जनकानन्दजनको जानकीप्रियनायकः ।। ८१ ॥
अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः ।
पितृवाक्यक्तराज्यश्रीर्वनवासकृतोत्सवः ।। ८२ ॥
विराघराघदमनश्चित्रकूटाद्रिमन्दिरः ।
द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ ८३ ॥
चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः ।
त्रिशिराप्राणशमनो दुष्टदूषणदूषणः ॥ ८४ ॥
छामारीचमथनो जानकीविरहातिहत् ।
जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ ८५ ॥
ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् ।
वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहद्विरिः ॥ ८६ ॥
सकण्टकारदुर्भेदसप्ततालप्रभेदकः ।
किष्किन्धाधिपवालिनो मित्रसुग्रीवराज्यदः ॥ ८७ ॥
आअनेयस्वलालदग्धलङ्कामहोदयः ।
सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ ८८ ॥
गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् ।
पादमहारसन्त्रस्तविभीपणभयापहः ॥ ८९ ।।
अङ्गदोक्तिपशिलेष्टघोररावणसैन्यजित् ।
निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ ९ ॥
कैलाससहनोन्मचदशाननशिरोहरः ।
अग्निसंस्पर्शसंशुद्धसीतासम्बरणोत्मकः ॥ ११ ॥

सात्वततन्त्रे-
कपिराक्षसराजाङ्गप्राप्तराज्यनिजाश्रयः ।
अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ ९२ ॥
अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः ।
दुष्टदुर्बुदिदलनो दीनहीनकपालकः ॥ १३ ॥
सर्वसम्पत्तिजननस्तियन्यायविवेचकः ।
शूद्रघोरतपःप्लुष्टद्विजपुत्रैकजीवनः ॥ ९४ ॥
दुष्टचाक्लिष्टहृदय: सीवानिर्वासकारकः ।
तुरङ्गमेधक्रतुयाट् श्रीमत्कुशलवात्मजः ॥ ९५ ॥
सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसङ्ग्रहः ।
सत्कर्णपूरसत्कीर्तिः कीलोकाधनाशनः ॥ १६ ॥
भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः ।
सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ ९७ ॥
लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः ।
इन्द्रजित्माणशमनो भ्रातृमान् त्यक्तविग्रहः ॥ ९८॥
शत्रुघ्नोऽमित्रशमनो लवणान्तककारकः ।
आर्यभ्रातृजनश्लाघ्यः सतां श्लाघ्यगुणाकरः ॥ ९९ ॥
बटपत्रपुटस्थायी श्रीमुकुन्दोऽखिलाश्रयः ।
तनुदरार्पितजगन्मृकण्डतनयः खगः ॥ १०॥
आयो देवगणाग्रयो मितस्तुतिनतिप्रियः ।
वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ १०१॥
ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः ।
गोपदाप्सुगलगाववालखिल्यजनाश्रयः ॥१०२॥
दोस्वस्तिर्यज्वनां श्रेष्ठो नृपविस्मयकारकः ।
तुरङ्गमेघबहुद्वदान्यगणशेखरः ॥ १०३ ॥
वासवीतनयो व्यासो वेदशाखानिरूपकः ।
पुराणभारताचार्यः कलिलोकहितैषणः ॥१०४॥

षष्ठः पटला
४३
रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः ।
सङ्कर्षणः सीरपाणिः मुशलास्त्रोऽमलद्युतिः ॥ १०५ ॥
शङ्खकुन्देन्दुश्वेतानाताळभिद्धेनुकान्तकः ।
मुष्टिकारिष्टहननो लाङ्कलाकृष्टयामुनः ॥ १०६ ॥
प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः ।
रेवतीप्रीतिदो रामारमणो बल्बलान्तकः ॥१०७ ।।
हस्तिनापुरसङ्कर्षी कौरवार्चितसत्पदः ।
ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥ १०८ ॥
मायापतिर्महामायो महामायानिदेशकृत् ।
यदुवंशाब्धिपूर्णेन्दुर्बलदेवप्रियानुजः ॥ १०९ ॥
नराकृतिः परं ब्रह्म परिपूर्णः परोदयः ।
सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ ११० ॥
पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः ।
महोरस्कोमहाबाहुर्महाहमणिकुण्डलः १११ ।।
लसदण्डस्थलीहेममौलिमालाविभूषितः ।
सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ ११२ ॥
नीलकुश्चितमुस्निग्धकुन्तलः कौमुदीमुखः ।
मुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ ११३ ।।
मुमन्दहालो रुचिरश्रमण्डलविलोकनः ।
कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ ११४ ॥
कौस्तुभी वनमाली च शङ्खचक्रगदाब्जमृत् ।
श्रीवत्सलक्ष्म्यालक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ ११५ ।।
दलोदरो निम्ननाभिनिरवयो निराश्रयः ।
नितम्बबिम्बव्यालविकिङ्किणीकाश्चिमाण्डतः ।। ११६ ॥
समजाजानुयुग्मः सुचारुरुचिराजितः ।
ध्वजवजाङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ ११७ ॥

सात्वततन्त्र- भक्तभ्रमरसङ्घातपातपादाम्बुजासवः । नखचन्द्रमाणिज्योत्स्नाप्रकाशितमहामनाः ॥ ११८ ॥ पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः। खभक्तहृदयाकाशलसत्पङ्कजविस्तरः ।। ११० ॥ सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः । देवकीनन्दनो लोकनन्दिकृद्भक्तभीतिभित् ।। १२० ॥ शेषानुगः शेषशायी यशोदानत्तिमानदः । नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ १२१ ॥ सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः । वल्यव्यङ्गलसद्वात्रो बल्लवीबाहुमध्यगः ॥ १२२ ॥ पीतपुतनिकास्तभ्यः पूतनाप्राणशोषणः । पूतनारस्थलस्थायी पूतनामोक्षदायकः ॥ १२३ ॥ समागतजनानन्दी शकटोच्चाटकारकः । प्राप्तविपाशिषोधीशो कृषिमादिगुणाश्रयः ॥ १२४ ॥ तृणावर्तगळग्राही तृणावर्तनिषूदनः । जनन्यानन्दजनको जनन्यामुखविश्वहक् ॥ १३५ ।। बालक्रीडारतो बालभाषालीलादिनिर्वृतः । गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ १२६ ।। नवनीतविलिमाको नवनीतलचप्रियः । नवनीतलवाहारी नवनीतानुतस्करः ॥ १२७ ॥ दामोदरोऽर्जुनोन्मूलो गोपैकमतिकारकः । वृन्दावनवनक्रीडो नानाक्रीडाविशारदः ।। १२८ ॥ वत्सपुग्छसमाकर्षी वत्सासुरनिषूदनः । बकारिरघसंहारी बालाधन्तकनाशनः ॥ १२९ ॥ यमुनानिकसजुष्टम् पृष्टपुलिनप्रियः । गोपालबालपूगस्थः स्निग्धदध्यत्रभोजनः ॥ १३०॥ ..

४५ गोगोपगोपीप्रियकृदनमृन्मोहखण्डनः । विधातुर्मोहजनकोऽत्पद्भुतैश्वर्यदर्शकः ॥ १३१ ॥ विधिस्तुतपदाम्भोजो गोपदारकबुदिमित् । कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ १३२ ॥ दावाग्निशमनः सर्वत्रजभृजनजीवनः । मुजारण्यप्रवेशाप्तकच्छदावाग्निदारणः ॥ १३३ ।। सर्वकालमुखक्रीडो बहिबर्हावतंसकः । गोधुग्वधूजनमाणो वेणुवाद्यविशारदः ॥ १३४ ॥ गोपीपिधानारुन्धानो गोपीव्रतवरमदः । विप्रदर्पप्रशमनो विप्रपत्रीप्रसाददः ॥ १३५ ॥ शतक्रतुवरध्वंसी पाक्रदर्पमदापहः । धृतगोवर्द्धनगिरिजलोकाभयप्रदः ॥ १३६ ॥ इन्द्रकीर्तिलसत्कीर्तिर्गोविन्दो गोकुलोत्सवः । नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ १३७ ।। ब्रजवासिजनलाध्यो निजलोकप्रदर्शकः । सुवेणुनादमदनोन्मत्तगोपीविनोदछन् ॥ १३८ ।। गोधुग्वधूदर्पहरः स्वयशकीर्तनोत्सवः । बजाङ्गनाजनारामो ब्रजसुन्दरिवल्लभः ॥ १३९ ॥ रासक्रीडारतो रासमहामण्डलमण्डनः । वृन्दावनवनामोदी यमुनाकूलकलिकृत् ॥ १४० ॥ गोपिकागीतिकागीतः शङ्खचूडशिरोहरः । महासर्पमुखास्तत्रस्तनन्दविमोचकः ॥ १४१ ॥ मुदर्शनार्चितपदो दुष्टारिष्टविनाशकः । केशिद्वषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ १४२ ।। अकूरप्रियकृत् क्रूरजकन्नेः सुवेशकृत् । सुदामदत्तमालान्यः कुब्जाचन्दनचर्चितः । १४३ ॥

सास्वततन्त्रे-
मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् ।
कंससैन्यसमुच्छेदी वाणिग्विगणार्चितः ॥ १४४॥
महाकुवलयापीडघाती चाणुरमर्दनः ।
रागशालागतापारनरनारीकृतोत्सवः ॥१४५ ॥
कंसध्वंसकरः कंसस्वसारूप्यगतिप्रदः ।
कृतोग्रसेननृपतिः सर्वयादसौख्यकृत् ॥ १४६ ॥
तातमातृकृतानन्दो नन्दगोपप्रसाददः ।
श्रितसान्दीपनिगुरुर्विद्यासागरपारगः ॥ १४७ ।।
दैत्यपञ्चजनध्वंसी पाश्चजन्यदरप्रियः ।
सान्दीपनिमृतापत्यदाता कालयमाचिंतः ॥ १४८॥
सैरन्ध्रीकामसन्तापशमनोऽक्रूरणीतिदः।
शाचापधरो नानाशरसन्धानकोविदः ॥ १४९ ॥
अभेद्यदिव्यकवचः श्रीमदारुकसारथिः ।
खगेन्द्रचिह्नितध्वजश्चक्रपाणिर्गदाधरः ॥ १५० ॥
नन्दकीयदुसेनान्योऽक्षयबाणनिषगवान् ।
सुरासुराजेयरण्यो जितमागधयूथपः ॥ १५१ ॥
मागधध्वजिनीध्वंसी मथुरापुरपालकः ।
द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ १५२ ।।
सर्वसम्पत्तिजननः स्वजनानन्दकारकः ।
कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ १५३ ।।
यवनामुरसंहर्ता मुचुकुन्देष्टसाधकः ।
रुक्मिणीद्विजसम्मन्त्ररथैकगतकुण्डिनः ॥ १५४ ॥
रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः ।
रुक्मिणीप्रियकत्साक्षाद्रुक्मिणीरमणीपतिः ॥ १५५ ॥
रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः ।
स्यमन्तकनिमित्तात्मभक्ताधिपजित् शुचिः ॥१५६ ॥

जास्ववार्चितपादाब्जः साक्षाजाम्बवतीपतिः ।
सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ १५७.॥
सुतीक्ष्णशृङ्गवृषभसप्तजिद्राजयूथभित् ॥
नग्नजित्तन यासत्यानायिकानायकोत्तमः ॥१५८ ।।
भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः ।
मुरुजित्पीउसेनानीनाशनो नरकान्तकः ॥ १४९ ।।
धरार्चितपदाम्भोजो भगदत्तभयापहा !
नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥१६० ॥
अष्टोत्तरशतब्बष्टसहस्त्रनीविलासवान् ।
सत्यभामाबलावाक्यपारिजातापहारकः॥१६१ ॥
देवेन्द्रबलभिज्जायाजातनानाविलासवान् ।
रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ १६२ ॥
कामतातः साम्बसुतोऽसङ्ख्यपुत्रप्रपौत्रवान् ।
उशाशागतपौत्रार्थचाणबाहुसनछिन् ॥ १६३ ।।
नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः ।
महादेवस्तुतपदो नृगदुःखविमोचकः ॥ १६४ ॥
ब्रह्मस्वापहरक्लेशकथास्वजनपालको ।
पौण्ड्रकारिः काशिराजशिरोहर्ता सदाजितः ॥ १६५ ॥
मुदक्षिणावताराध्यशिवकृत्यानलान्तकः ।
वाराणसीपदहनो नारदेक्षितवैभवः ॥ १६६ ॥
अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः ।
जरासन्धनिरोधात भूभुजेरितसत्कथः ॥ १६७॥
नारदेरितसन्मित्रकार्यगौरवसाधकः ।
कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ १६८ ॥
जरासन्धवोद्योगकर्ता भूपतिशर्मकृत् ।
सन्मित्रकृत्याचरितो राजसूयमवर्तकः ॥ १६९ ॥

सास्वततन्जे-
सर्वपिंगणसंस्तुत्यश्चैद्यमाणनिकुन्तकः ।
इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ १७०॥
महेशदत्तसौभाग्यपुराभित् वाघातकः ।
दन्तवक्ररिपुच्छेत्ता दन्तवक्रगतिप्रदः ॥ १७१।।
विदथप्रमथनो भूरिभारावतारकः।
पार्थदतः पार्थहितः पार्थः पार्थसारथिः ॥ १७२ ॥
पार्थमोहसमुच्छेदी गीताशास्त्रमदर्शकः ।
पार्थवाणगतप्राणवीरकैवल्यरूपदः ॥ १७३ ॥
दुर्योधनादिदुर्वतदहनो भीष्ममुक्तिदः ।
पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ १७४ ।।
पृथाभीष्टपदो भीमजयदो विजयप्रदः।
युधिष्ठिरेष्टसन्दाता द्रोपदीप्रीतिसाधकः ॥ १७५ ॥
सहदेवेरितपदो नकुलार्चितविग्रहः ।
ब्रह्माबदग्धगर्भस्थपुरुवंशमसाधकः ॥ १७६ ॥
पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः ।
आनर्तदेशनिवसत्यजेरितमहत्कथः ॥ १७७ ॥
मियप्रीतिकरो मित्रविप्रदारिद्रयभञ्जनः ।
तीर्थापदेशसन्मित्रप्रियकुन्नन्दनन्दनः ॥ १७८ ।।
गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः ।
सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ १७९ ॥
वातात्मज्ञानसन्दाता देवकीमृतपुत्रदः ।
श्रुतदेवप्रियकरो मैथिलानन्दवर्द्धनः ॥ १८ ॥
पार्थदर्पप्रशमनो मृतविषमुतपदः ।
स्त्रीरत्रवृन्दसन्तोषी जनकलिकलोत्सवः ॥ १८१ ॥
चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः।
कृतान्तकोटिदुर्लक्षयः कामकोटिमनोहरः ॥ १८२॥

४९ यक्षराट्कोटिधनवान् मरुत्कोटिस्ववीर्यवान् । समुद्रकोटिगम्भीरो हिमवत्कोव्यकम्पनः ॥ १८३ ॥ कोव्यश्वमेधाढ्यहरः तीर्थकोव्याधिकाहयः । पीयूषकोटिमृत्युनः कामधुकोट्यभीष्टदः ॥ १८४ ॥ शक्रकोटिविलासान्यः कोटिब्रह्माण्डनायकः । सर्वामोघोद्यमोऽनन्तकीर्तिनिःसीमपौरुषः ॥ १८५ ॥ सर्वाभीष्टपदयशाः पुण्यश्रवणकीर्तनः । ब्रह्मादिसुरसङ्गीततिमानुषचेष्टितः॥ १८६ ॥ अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः । स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ १८७ ॥ विप्रशापच्छलध्वस्त यदुवंशोग्रविक्रमः । सशरीरजराव्याघस्वर्गदः स्वर्गिसंस्तुतः ॥ १८८ ॥ मुमुक्षुमुक्तविषयिजनानन्दकरो यशः। कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ १८९ ॥ भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः । स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ १९० ॥ सर्वसम्पत्ताविनामा तुलसीदामवल्लभः । अप्रमेयवपुर्भास्वदनध्याङ्गविभूषणः ॥ १९१ ॥ विश्वकसुखदो विश्वसज्जनानन्दपालकः । सर्वदेवशिरोरत्रमद्भुतानन्तभोगवान् ॥ १९२ ॥ अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः । समस्तमयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ १९३ ॥ स्वयशःश्रवणानन्दजनरागी गुणार्णवः । अनिर्देश्यवपुस्तप्तशरणो जीवजीवनः ॥ १९४ ॥ परमार्थः परंवेधः परज्योतिः परामतिः । वेदान्तवेद्यो भगवाननन्तसुखसागरः ॥ १९५ ॥ ७सा सास्वततन्त्रे- जगद्वन्धध्वंसयशा जगज्जीवजनाश्रयः। वैकुण्ठलोकैकपतिर्वैकुण्ठ जनवल्लभः ॥ १९६ ॥ प्रद्युम्नो रुक्मिणीपुत्रः शम्बरध्नो रतिप्रियः । पुष्पधन्वा विश्वजयी झुमत्प्राणनिषूदकः ॥ १९७ ।। अनिरुद्धः कामसुतः शद्धयोनिमहाक्रमः । उषापतिष्णिपतिहषीकेशो मनःपतिः ॥ १९८ ॥ श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः। शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृपः ॥ १९९ ॥ श्रीबुद्धो दुष्टबुद्धिप्नो दैत्यवेदवहिष्करः । पाखण्डमार्गप्रवदो निरायुधजगजयः ॥ २०० ॥ कल्की कलियुगाच्छादी पुनः सत्यप्रवर्तकः । विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः॥ २०१ ॥ सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः । अष्टभ्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ २०२॥ आपः करो, रमानाथोऽमरारिकुलकृन्तनः । श्रुतेन्द्रहितकृद्धीरवरिमुक्तिबलप्रदः ॥ २०३ ॥ विष्वक्सेन: शम्भुमखो दशमान्तरपालकः । ब्रह्मसावर्णिवंशाब्धिहितकृद्विश्ववर्द्धनः ॥ २०४॥ धर्मसेतुरधर्मनो वैध्यतन्त्रपदप्रदः । असुरान्तकरो देवार्थकम नुः सुभाषणः ॥ २०५ ॥ स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः । द्विषन्मनुयुगत्राता पातालपुरदारणः ॥ २०६ ॥ दैवहोत्रिहितोयो दिवस्पतितिप्रियः । त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ २०७ ॥ सत्रायणो बृहद्धा वैनतेयो विदुत्तमः । कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ।। २०८ ।।

षष्ठः पटलः। परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजापतिः । अब्जयोनिसवाहः सर्वलोकपितामहः ॥ २०९ ॥ विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः। द्विजपूज्यो दयासिन्धुः वारण्यो भक्तवत्सलः ॥ २१०॥ रुद्रो मूढः शिवः शास्ता शम्भुः सर्वहरो हरः। कपर्दी शङ्करः शूली व्यक्षोऽभेयो महेश्वरः ॥ २११ ॥ सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः । सर्वावासः सर्वरूपः सर्वकारणकारणम् ।। २१२ ॥ इत्येतत्कथितं विप्र विष्णोर्नामसहस्रकम् । सर्वपापप्रशमनं सर्वाभीष्टफलमदम् ॥ २१३ ॥ मनाशुद्धिकरं चाशु भगवद्भक्तिवर्द्धनम् । सर्वविघ्नहरं सर्वाश्चयश्वर्यप्रदायकम् ॥ २१४ ॥ सर्वदुःखप्रशमनं चातुर्वर्यफलपदम् । श्रद्धया परया भत्त्या श्रवणात्पठनाजवाद ॥ २१६॥ प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् । एतत्पठन्द्विजो विद्यां क्षत्रियः पृथिवीमिमाम् ।। २१६ ॥ वैश्यो महानिधि शुद्रो वाञ्छितां सिद्धिमाप्नुयात् । द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाचरेद्धरेः ।। २१७ ॥ नाम्ना दशापराधांश्च प्रमादादाचरेद्यदि । समाहितमना खेतत्पठेद्वा श्रावयेज्जपेत् ॥ २१८ ।। स्मरेता भृणुयाद्वापि तेभ्यः सद्यः प्रमुच्यते । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ २१९ ।। यस्यैककीर्तनेनापि भवबन्धाद्विमुच्यते। अतस्त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ २२० ॥ विष्णोनामसहस्त्रं ते भगवत्पीतिकारणम् ।

५२
सात्वततन्त्रे-
श्रीनारद उवाच ॥
धन्योऽस्म्यनुगृहीतोऽस्मि त्वयातिकरुणात्मना ।
यतः कृष्णस्य परमं सहस्र नामकीर्तितम् ॥ २२१ ॥
यद्यालस्यात्ममादाद्वा सर्व पठितुमन्वहम् ।
न शक्रोमि तदा देव किं करोमि बद प्रभो ॥ २२२ ॥
श्रीशिव उवाच ॥
यदि सर्व न शक्रोषि प्रत्यहं पठितुं द्विज ।
तदा कृष्णेति कुष्णेति कुष्णेति प्रत्यहं वद ॥ २२३ ॥
एतेन तव विप्रर्षे सर्व सम्पद्यते सकृत् ।
किं पुनर्भगवन्नाम्नां सहस्रस्य प्रकीर्तनात् ॥ २२४ ॥
यनामकीर्तनेनैव पुमान्संसारसागरम् ।
तरबद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ २२५ ॥
इति सात्वततन्त्रे श्रीकृष्णसहस्रनामषष्ठः पटलः ॥
Amewasimanaanaa
श्रीशिव उवाच॥
शृण्वन्ति प्रत्यहं ये वै विष्णोर्नामसहस्रकम् ।
कीर्तयन्त्यथवा विप्र संस्मरन्त्यादरेण वा ॥ १ ॥
शतं वा विशति वापि दश वा पञ्च वा द्विज ।
एकं वा कामतो भत्त्या विष्णुपादाम्बुजाश्रयाः ॥ २ ॥
तेषां फलस्य पुण्यानां नान्तं पश्यामि नारद ।
यतस्तै भगवानेव परानन्दो वशीकृतः ॥ ३॥
यतो नामैव परमं तीर्थ क्षेत्रं च पुण्यदम् ।
नामेव परमं दैवं नामैव परमं तपः॥ ४ ॥
नामैव परमं दानं नामैव परमा क्रिया।
मामेव परमो धर्मो नामैवार्थः प्रकीर्तितः॥५॥

सप्तमः पटलः।
५३
नामैव कामो भक्तानां मोक्षोऽपि नाम केवलम् ।
एषां च साधनं नाम कामिनां द्विजसत्तम ॥ ६ ॥
नामैव परमा भक्तिर्नामैव परमा गतिः ।
नामैव परमं जाप्यं नामैव प्रार्थनं परम् ॥ ७ ॥
निश्कामानां धनं नाम मुक्तिमुक्तिसुखार्थवत् ।
नाम स्यात्परमं सौख्यं नामैव वैराग्य कारणम् ॥ ८ ॥
सत्वशुद्धिकरं नाम नाम ज्ञानप्रदं स्मृतम् ।
मुमुक्षुणां मुक्तिपदं कामिनां सर्वकामदम् ॥ ९ ॥
वैष्णवानां फलं नाम तस्मान्नाम सदा स्मरेम् ।
सङ्केतितात्पारिहास्याटेलनाज्वरतापतः ॥ १० ॥
कीर्तितं भगवन्नाम सर्वपापहरं स्मृतम् ।
यावती पापनिहारे शक्ति मिन हरेः स्थिता ॥ ११ ॥
तावत्पापिजनः पायं कर्तुं शक्नोति नैव हि ।
ज्ञानाज्ञानाद्धरेर्नामकीर्तनात्पुरुषस्य हि ॥ १२ ॥
पापराशि दहत्याशु यथा तुलं विभावसुः ।
सङ्कीर्तित हरेर्नाम श्रद्धया पुरुषेण वै ॥ १३ ॥
तस्य सत्यफलं धचे क्रमशो द्विजसत्तमः ।
पापनाशं महापुण्यं वैराग्यं च चतुर्विधम् ॥ १४ ॥
गुरुसेवामात्मबोध भ्रान्तिनाशमनन्तरम् ।
सम्पूर्णानन्दबोधं च ततस्तस्मिन लभेस्थिरम् ॥ १५ ॥
श्रीनारद उवाच ॥
चतुर्विधं त्वया प्रोक्तं वैराग्य सुरसत्तम ।
एतद्वर्णय लोकस्य हिताय जानकारणम् ॥ १६ ॥
श्रीशिव उवाच ॥
असगराहिती भोगः क्रियते पुरुषेण यत् !
विषयाणां द्विजश्रेष्ठ तदमानः प्रकीर्तितः ॥ १७ ॥

50
सात्वततन्त्रे-
भोग्ये स्वादुविहीनेऽपि क्रियते वृत्तिरात्मनः ।
द्वितीयो व्यतिरेकात्यस्तद्विजानीहि सत्तम ॥ १८ ॥
मनसः प्रीतिराहित्ये इन्द्रियरेव भुज्यते ।
भोगस्तृतीयः पुरुषैरिन्द्रियाख्यः प्रकीर्तितः ॥ १९ ॥
मनसश्चेन्द्रियाणां च रागराहित्यमुत्तमम् ।
विषयाहरणं विप्र चतुर्थ परिकीर्तितः ॥ २० ॥
एष नाम परश्चाशु जायते द्विजसत्तम ।
ज्ञानं च परमं शुद्धं ब्रह्मानन्दप्रदायकम् ॥ २१ ॥
तीर्थेनिस्तपोभिश्च हामैत्यिव्रतमैखैः ।
योगैश्च विविधैर्विध यद्विष्णोः परमं पदम् ॥ २२ ॥
न यान्ति मानवास्तव नामकीर्तनमात्रतः।
संयान्त्येव न सन्देहं कुरु विष हरिप्रियम् ॥ २३ ॥
महापातकयुक्तोऽपि कीर्तयित्वा जगद्गुरुम् ।
तरत्येव न सन्देहः सत्यमेव वदाम्यहम् ॥ २४ ॥
कलिकाल मलं चापि सर्वपातकमेव च ।
हित्वा नामपरो विप्र विष्णुलोकं स गच्छति ॥ २५ ॥
तस्मानामैकमात्रेण तरत्येव भवार्णवम् ।
पुमानत्र न सन्देहो विना नामापराधतः ॥ २६ ॥
तयत्नेनैव पुरुषः श्रेयस्कामो द्विजोत्तमः ।
विष्णोर्न कुर्यान्नाम्नस्तु दशपापाकथञ्चन ।। २७ ॥
श्रीनारद उवाच ॥
श्रुतो भवगवतो वक्त्राद्वाविंशदपराधकम् ।
विष्णोर्नाम्ना दश तथा एतद्वर्णय नो प्रभो ॥ २८ ॥
श्रीशिव उवाच ॥
श्रूयतामपराधान् वै विष्णेवक्ष्यामि नारद ।
यान् कृत्वा नरकं यान्ति मानवाः सततं सुने ॥ २९ ॥

सप्तमः पटलः।
अस्नात्वा स्पर्शनं विष्णोविना शङ्खन स्नापनम् ।
अशोचे स्पर्शनं साक्षाद्भुक्ता पादोदकग्रहः ॥ ३० ॥
विना शब्देन पूजा च विना नैवेद्यपूजनम् ।
उच्चासनस्थपूजा च शोते व्यजनवातकम् ॥ ३१ ॥
उदक्यादर्शनं चैव घण्टाया भूनिवेशनम् ।
पौषे च चन्दनस्पों ग्रीष्मे चास्पर्शनं तथा ॥ ३३॥
पुष्पं तोयेन संस्पर्श विना होमं महोत्सवः ।
पूजां कृत्वा पृष्ठदर्शमग्रे च भ्रमणं तथा ॥ ३३ ॥
भोजनं भगवद्वारे अभुत्ता च विषादता।
पादुकारोहणं विष्णोर्गेहे कम्बलवेशनम् ॥ ३४ ॥
वामपादप्रवेशश्च कूर्दनं पाकभोजनम् ।
श्लेष्मप्रक्षेपणं चैव तत्तृणैर्दन्तधावनम् ॥ ३५ ॥
देवाग्रे वाहनारोहो नैवेधे द्रव्य बुद्धिता ।
शालग्रामे स्थिरायां च शिलेति प्रतिमेति च ॥ ३६॥
हरिकीर्तेरसंश्लाघा वैष्णवे नरसाम्यता ।
विष्णौ च देवतासाम्यमन्योद्देशनिवेदनम् ॥ ३७॥
एतेऽपराधा द्वात्रिंशद्विष्णोनाम्नामथ शृणु ।
सतां नाम्ना शिव विष्णौ भिदाऽऽचार्यावमानता ॥ ३८॥
वेदनिन्दा नाम्नि वादः पापेच्छा नामसाहसात् ।
नाम्नो धर्मैः साम्यबुद्धिनं श्रद्धाविवर्जितैः ॥ ३९ ॥
श्रुत्वापि श्रद्धाराहित्यं कीर्तने चाप्य हन्मतिः ।
एते नाम्नां द्विजश्रेष्ठ छपराधा मयेरिताः ॥ ४० ॥
वर्जनीया नृभिर्यवैर्यतो नरककारणाः ।
श्रीनारद उवाच ॥
विषयासक्तचित्तानां प्राकृनानां तृणां प्रभो ।
अपराधा हरेराशु वा नैव भवन्ति हि ॥४१॥

सरस्वततन्त्रे-
अतो येन प्रकारेण तरन्ति प्राकृता अपि ।
अपराधान् कृतान्देव तन्ममाख्यातुमर्हसि ॥ ४२ ॥
श्रीशिव उवाच ॥
प्रदक्षिणशतं कृत्वा दण्डवत्प्रणमेद्भुवि ।
अपराधशतं तस्य क्षमते स्वस्य केशवः ॥ ४३ ॥
प्रदक्षिणं सत्कृत्वा यो न जानुशिरं नमेत् ।
निष्फलं तद्भवेत्तस्य तस्मात्प्रत्येकशो नमेत् ॥४४॥
जगनाथेति ते नाम व्याहरिष्यन्ति ते यदि ।
अपराधशतं तेषां क्षमते नात्र संशयः ॥ ४५ ॥
नाम्नोऽपराधास्तरति नाम्न एव सदा जपात् ।
विना भक्तापराधेन तत्प्रसादविवर्जितः ॥ ४६॥
सर्वापराधास्तरति विष्णुपादाम्बुजाश्रयः ।
विष्णोरप्यपराधान्नै नामसङ्कीर्तनात्तरेत् ॥ ४७ ।।
विष्णुभक्तापराधानां नैवास्त्यन्या प्रतिक्रिया ।
श्रीनारद उवाच ॥
भक्तापराधान मे ब्रूहि यथा तेषां प्रतिक्रिया ।
अनुग्रहाय लोकानां भगवन्ममचापि हि ॥४८॥
श्रीशिव उवाच ॥
विष्णुभक्तस्य सर्वस्वहरण द्विजसत्तम ।
भर्सनं चोत्तमे भक्ते स्वमे चापि प्रहारणम् ॥ ४९ ॥
एतेऽपराधा भक्तानां शृण्वेषां प्रतिक्रिया ।
तद्धनं द्विगुणं दत्वा कृत्वा पादाभिवन्दनम् ॥ ५० ॥
कथयेन्मे क्षमस्वेति तद्दोष धनकर्षणम् ।
यावत्तद्भर्सनं कृत्वा तावन्मासान्समाहितः ॥५१॥
निर्मत्सरः परिचरेचत्मसादेन शुद्ध्यति ।
यावज्जीवं प्रहारे तु परिचर्येदतन्द्रितः ॥५२॥

सप्तमः पटलः। तत्प्रसादेन तत्पापानिष्कतिर्नान्यथा भवेत् । अकृत्वा निष्कृतीनतानरकान्नास्ति निष्कृतिः ।। ५३ ॥ अज्ञानतः कृते विष तत्मसादेन नश्यति । ज्ञानात्तु द्विगुणं कुर्यादेष धर्मः सनातनः ॥ १४ ॥ पुत्रे शिष्ये च जायायां शामने नास्ति दूषणम् । अन्यथा तु कृते दोषो भवत्येव न संशयः ॥ १५ ॥ केशाकर्षे पदाघाते मुखे च चपटे कुते । न निष्कृति प्रपश्यामि तस्मात्तान समाचरेत ॥ ५६ ॥ इति श्रीसास्वतन्त्रे सप्तमः पटलः । श्रीशिव उवाच ॥ अथ ते सम्प्रवक्ष्यामि रहस्यं खेतदुत्तमम् । यच्छ्रदया तु तिष्ठन् वै हरौ भक्तिदृढा भवेत् ॥ १ ॥ देवे तीर्थे च धर्मे च विश्वासं तापतारणात् । तद्धित्वा कृष्णपादाम्बुशरणं प्रविशेन्मुदा ॥ २ ॥ शरणं मे जगन्नाथः श्रीकृष्णः पुरुषोत्तमः । तन्नान्नि स्वगुरौ चैव ब्रूयादेतत्समाहितः ॥ ३ ॥ हित्वान्यदेवतापूजा बलिदानादिना द्विज । एकमेव यजेत्कृष्णं सर्वदेवमयं धिया ॥ ४ ॥ नित्यं नैमित कार्य तथावश्यकमेव च । गृहाश्रमी विष्णुभक्तः कुर्यात्कृष्णं घिया स्परन् ॥५॥ एतेषु चान्यदेवानां या पूजा विधिना स्मृता । सापि कृष्णाचनात्पश्चात् क्रियेत हृदि तं स्मरन् ॥ ६ ॥ अन्यदा त्वन्यदेवानां पृथक् पूजां न च स्मरेत ॥ काम्यं निषिद्धं च तथा नैव कुर्यात्कदाचन ॥ ७॥ कलत्रपुत्रमित्रादीन हित्वा कृष्णं समाश्रिताः। हरिकीर्तिरता ये च तेषां कृत्यं न विद्यते ॥ ८ ॥ ८साल

सात्वततन्त्रे-
कृत्वान्यदेवतापूजां सकामां बलिना द्विज ।
भक्तिभ्रष्टो भवेदाशु संसारान्न निवर्तते ॥ ९ ॥
कामात्मा निरनुक्रोशः पशुधात समाचरन् ।
पशुलोमसमं वर्ष नरके परिपच्यते ॥ १० ॥
यज्ञे पशोराळभने नैव दोषोऽस्ति यद्वचः ।
अपि प्रवृत्ती रागिणां निवृत्तिस्तु गरीयसी ।। ११॥
कृत्वान्यदेवतापूजा पशुं हित्वा नराधमाः।
यदि ते स्वर्गतिं यान्ति नरकं यान्ति के तदा ॥ १२ ॥
स मां पुनर्भक्षयिता यस्य मांसमदाम्यहम् ।
इति मांसनिरुक्तं वै वर्णयन्ति मनीषिणः ॥ १३ ॥
विष्णुभक्तिं समाश्रित्य पशुघातं समाचरन् ।
कृत्वान्यदेवतापूजां भ्रष्टो भवति निश्चितम् ॥ १४ ॥
मानुष्यं प्राप्य ये जीवा न भजन्ति हरेः पदम् ।
ते शोच्या स्थावरादीनामप्येकशरणा यदि ॥ १५ ॥
अहं ब्रह्मा सुरेन्द्राश्च ये भजामो दिवानिशम् ।
ततोऽधिकोऽस्ति को देवः श्रीकृष्णात्पुरुषोत्तमात् ।। १६ ॥
यत्प्रसादं प्रतीक्षन्ते सर्वे लोकाः सपालकाः ।
सापि लक्ष्मीर्यचरणं सेवते तदनाहता ॥ १७ ।।
ततोऽधिकोऽस्ति को देवो लक्ष्मीकान्ताजनाईनात् ।
यन्नानि के न संयान्ति पुरुषाः परमं पदम् ॥ १८ ॥
धर्मार्थकाममोक्षाणां मूलं यच्चरणार्चनम् ।
ततोऽधिकोऽस्ति को देवः कृपासिन्धोर्महात्मनः ॥ १९ ॥
भजनस्यालरमात्रेण बहु मन्येत यः सदा ।
तोऽधिकोऽस्ति को देवः सुखाराध्याजगद्गुरोः ॥ २० ॥
ऐन केनापि भावेन योऽपि कोऽपि भजन् जनः ।
लभतेऽभीप्सितां सिद्धिं मोक्षं चाप्यकुतोभयम् ॥ २१ ॥

अष्टमः पटलः।
५९
ततोऽधिकोस्ति को देव देवकीदेविनन्दनात् ।
यो जगन्मुक्तये कीर्तिमवतीर्य ततान ह ॥ २२॥
अतोऽन्यदेवतापूजां त्यक्त्वा बलिविधानतः ।
सद्गुरोरुपदेशेन भजेत्कृष्णपदद्वयम् ॥ २३ ॥
शृणुयात्प्रत्यहं विष्णोर्यशः परममङ्गलम् ।
उच्चारयेन्मुखेनैव नाम चित्तन संस्मरेत् ॥ २४ ॥
प्रीतिं कुर्याद्वैष्णवेषु अमक्तेषु विवर्जयेत् ।
दैवोपलब्धं भुजानो नातियत्नं चरेत्सुखे ॥ २५ ॥
गृहेष्वतिथिवत्तिष्ठेघद्येतान्नैव बाधते ।
एषां बाधे पृथक्तिष्ठेद्वैष्णवेषु च सवान् ॥ २६ ॥
ब्रह्मचारी गृही वापि वानप्रस्थो यतिश्च वा।
विना वैष्णवसङ्गेन नैवसिद्धिं लभेज्जनः ॥ २७ ॥
भक्तसङ्गं विना भक्तिनँव जायेत कस्यचित् ।
भक्तिं विना न वैराग्यं न ज्ञानं मोक्षमश्नुते ॥ २८ ॥
अत आश्रमलिङ्गांश्च हित्वा भक्तेः समं वसेत् ।
यत्सङ्गाच्छुतिकीर्तिभ्यां हरौ भक्तिः प्रजायते ॥ २९ ॥
विष्णुभक्तप्रसङ्गस्य निमेषेणापि नारद ।
स्वर्गापवर्गों न साम्यं किमुतान्यसुखादिभिः ॥ ३० ॥
अतो यत्नेन पुरुषः कुर्यात्सङ्ग हरेर्जनः ।
तिर्योऽपि यतो मुक्तिं लभन्ते किमु मानुषाः ॥ ३१ ॥
तत्सङ्गेनैव पुरुषो विष्णुं प्राप्नोति निश्चितम् ।
विना वैराग्यज्ञानाभ्यां यतो विष्णुस्तदन्तिके ॥ ३२ ॥
येषां सङ्गाद्धरेः सङ्गं सकृदाकर्ण्य मानवः ।
परित्यक्तुं न शक्नोति यदि भद्रसरिद्भवेत् ॥ ३३॥
अरसज्ञोऽपि तत्सङ्गं यदि याति कथञ्चन ।
भूत्वा रसज्ञोऽपि महान कर्मबन्धाद्विमुच्यते ॥ ३४ ॥

सात्वततन्त्रे- ततस्तद्धर्मनिरतो भगवत्यमलात्मनि । पाप्नोति परमा भक्तिं सर्वकामप्रदायिनीम् ॥ ३५ ॥ भक्तिं विदित्वा पुरुषो मुक्तिं नेच्छति कश्चन । सालोक्यादिपदं चापि किमु चान्यसुखं द्विज ॥ ३६ ॥ फलं विना विष्णुभक्ता मुक्तिं यान्ति द्विजोतम । तत एव विदुर्नान्य आनन्दमयमुत्तमम् ॥ ३७॥ यतो हरिलिखितवत् हृदये वर्ततेसदा। तेषां प्रेमलताबद्धः परमान्दविग्रहः ॥ ३८ ॥ इतिश्रीसात्वततन्त्रेऽष्टमः पटलः । श्रीनारद उवाच ॥ इयान गुणोस्ति देवेश भगवत्पादसेवने । कुतो भजन्ति मनुजो अन्यदेवं किमिच्छ या ॥ १ ॥ श्रीशिव उवाच ॥ यदाऽऽदिसत्ये विप्रेन्द्र नरा विष्णुपरायणाः। न यजन्ति विना ष्णुिमन्यदेवं कथंचन ॥२॥ 'तदात्मपूजाप्राप्त्यर्थं सर्वदेवमयं च वै । पूजयामो हृषीकेशं कायवाङ्मनसा द्विज ॥ ३ ॥ सदा तुष्टो विभुः प्राह देवदवो रमेश्वरः। अवतीर्य यजिष्यामि युष्माल्लोकाँश्च याजयन् ॥ ४ ॥ सता सर्वे जना युष्मान् यजिष्यन्ति समाहिताः ! अनेन पूजा युष्माकं भविष्यति सुखावहा ॥ ५ ॥ अहं चोक्तः पृथक् तेन श्रीनिवासेन ब्राह्मण ! कल्पितरागमैर्नित्यं मां गोपाय महेश्वर ॥ ६ ॥ मदवज्ञापापहरं नाम्नां सहस्रमुत्तमम् । पठिष्यास सदा भद्रं प्रार्थितेन मया पुनः ॥ ७ ॥ ततो मे बागमैः कृष्णमाच्छाद्य न तु देवताः ।

नवमः पटलः । ६१ यन्त्रमन्त्रैश्च तन्त्रैश्च दार्शताः फलदा द्विज ॥ ८॥ तैरागमन्दधिया हित्वा कृष्णं जगद्गुरुम् । भजन्ति देवता अन्या बलिदानेन नित्यशः ॥९॥ नाना देवान्समराध्य नानाकाममुखेच्छया। भोगावसाने ते यान्ति नरकं स्वतमोमयम् ॥ २० ॥ दृष्ट्वा तथाविधाँलोकान् पापाशङ्कितमानसः । गतोऽहं वासुदेवस्य चरणे शरणं द्विज ॥ ११ ॥ स्तुति च चक्रे प्रणतः प्रश्रयानतकन्धरः। समाहितमना विष प्राञ्जलिः पुरुषोत्तमम् ॥ १२ ॥ ॐ नमोऽस्तु कृष्णाय विकुण्ठवेधसे त्वत्पादलीलाश्रयजीवबन्धवे॥ सदासकामाय महार्थहेतचे । विज्ञानविद्यानिधये स्वयम्भुवे ।। १३ ।। एकोऽसि सृष्टेः पुरतो लये तथा युगादिकाले च विदां समक्षतः । अन्यत्र नानातनुभिर्विराजते तस्मा अनन्ताचरिताय वे नमः ॥ १४ ॥ प्रधानकालाशयकर्मसाक्षिणे तत्सङ्ग्रहापारविहारकारिणे । कृष्णाय नानातनुमीयुषे समे कृतानुरागाय नमो नमस्ते ॥ १५ ॥ शृण्वन्ति गायन्ति गृणन्ति ये यशो जगत्पवित्रं जगदीशितुस्तव । तेऽन्यं न पश्यन्ति मुखाय ह्यात्मनो विना भवत्पादनिषेवणाबहिः ॥ १६ ॥ निष्किश्चना ये तव पादसंश्रयाः पुष्णन्ति ते तमुखमात्मसम्भवम् ।

सास्वततन्त्र-
जानन्ति तस्वेन विदुस्ततः पराः
कामः समाकृष्टघियो विचक्षणाः ॥ १७ ॥
अहं तु साक्षात्तव पादपङ्कजं
नित्यं भजानोऽपि पृथअतिर्विभो ।
पुरास्ममानं प्रचिकीर्षुरात्मनः
सकाशतोऽन्यद्य मलं निकृन्तयन् ॥ १८ ॥
अथापि ते देव पदाम्बुजद्वयं
निकामलामाय सदास्तु मे हरेः ।
यचिन्तनात्सर्वमनोऽनुकूला
सिद्धिर्भवत्येव किमु प्रकीर्तनात् ॥ १९ ॥
इति मे संस्तुति ज्ञात्वा भगवान्प्रणतातिहा ।
ममाक्षिगोचरं रूपमकरोत्स दयापरः ॥ २० ॥
सान्द्रानन्दमहेन्द्रनीलमाणवबेहोद्तपाल्लस-
स्वर्णैर्मोलिघु हारकुण्डलयुगैः केयूरकाऊच्यादैः ॥
मजीविलसत्पिशङ्गवलयं लक्ष्म्याङ्कतं शाश्वतम्
सर्वेशं करुणाकरं सुरवरैर्भक्तः समासवितम् ॥ २१ ॥
दृष्ट्वा तत्पदपङ्कजं हृदि दधे गोविन्ददामोदर
श्रीकृष्णति मुखैवेदन त्रिजगतो भर्तुर्मुदाऽहं तदा ।
नेत्रनिझरवारिपूरमिव मे गात्रे च हर्षस्ततो
वाण्यां गद्दतां विलोक्य भगवान् मामाह भक्तप्रियः ॥२२॥
ज्ञतां मे सुरवर्य वाञ्छित्ततरां मद्भक्तसङ्गावलि
तत्तेऽहं प्रवदामि ते करुणया भक्ताय साकं वरैः ।
मल्लीला गदतो भविष्यति भवत्सर्वे जना वैष्णवाः ।
भार्या चापि तथानुकूलमुखदा भक्ताग्रणी भवान् ॥ २३ ॥
एतावदुक्त्वा भगवान् गतो लोकमलौकिकम् ।
अहं च तान्वरॉल्बध्वा कृतार्थोऽस्मि द्विजर्षभ ।॥ २४ ॥

नवमः पटलः । अतस्तहिनमारभ्य पार्वती भुवनेश्वरी । मत्सङ्गाद्वैष्णवी भूत्वा मामापृच्छत्सुरेश्वरी ॥ २५ ॥ भवान्महाभागवतः कुमाराद्या महेश्वराः । कुबेराधा देवताश्च नन्दीशाद्याश्च मे गणाः ॥ २६ ॥ पृथग्पृथगपृच्छन्मां कृष्णपादाम्बुजाश्रयाः । कथाः परमकल्याणी सर्वलोकैकपावनीः ॥ २७ ॥ अथ मां पृच्छती वाक्यं मद्वाक्यं च द्विजोत्तम । संलिखत्यप्रमत्तोऽसौ गणेशो मत्सुतोऽन्तिके ॥ २८ ॥ मम तेषां च संवादं कला लोकमनोहराः । अभवस्तत्र शास्त्राणि सर्वलोकहितानि वै ॥२ तानि तन्त्राणि श्रोतारः समानीय महीतले । स्थाने स्थाने मुनिश्रेष्ठ कथयिष्यन्ति भूरिशः॥ ३० ॥ त्वमध्येनं सात्वताख्यं तन्त्रं भगवतः प्रियम् । नैमिषे शौनकादीनां समक्ष कथयिष्यासि ॥ ३१ ॥ श्रीनारद उवाच ॥ श्रुतं भगवतो वक्रात्तन्त्रं सात्वमुत्तमम् । तस्मिन्हिमानिषेधं च श्रुत्वा मे संशयोऽभवत् ॥ ३२ ॥ वेदेन विहिता हिंसा पशूनां यज्ञकर्माण । यज्ञे वधोऽवधश्चैव वेदविद्भिनिरूपितः ॥ ३३ ॥ तनिषेधे कथं श्रौतं स्पात कर्म महेश्वर । वर्तेत सबैलोकस्य इहामुत्रफलपदम् ॥ ३४ ॥ श्रीशिव उवाच ॥ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वर्णितम् । श्रुत्या स्मृत्या च विप्रेन्द्र काम्यं कामिजनाय वै ॥ ३५ ॥ प्रवृत्तमविरोधेन कुर्वन्स्वाति मानवः । पुण्यावशेष भूठे कर्मसंशिषु जायते ॥ ३६॥ निवृत्तमाचस्न योगी भोगेच्छापतमानसः ।

६४
सात्वततन्त्रे-
प्रयाति परमां सिद्धिं यतो नावर्तते गतः ।। ३७ ॥
अतः प्रवृत्तिनिष्ठस्य नानाकामानुरागिणः ।
षड्विधैनियमविप्राभ्यनुज्ञैव (प)दर्शिता ।। ३८ ॥
विधिवास्ति हिंसायामभ्यनुज्ञा यतः कृता।
अतो निवृत्तिहिंसायां यज्ञेऽपि कथिता बुवैः ॥ ३९ ॥
अहिंसा परमो धर्मः सर्ववर्णाश्रमादितः ।
स च आचरितो नृणामभीष्टफलदो भवेत् ॥ ४० ॥
विशेषतो विष्णुभक्ता हिंसाकर्म त्यजन्ति हि ।
अहिंसया हि भूतानां भगवानाशु तुष्यति ॥ ४१ ॥
अतः सर्वेषु भूतेषु भगवानखिलेश्वरः ।
प्रविष्ट ईयत नानारूपैः स्थावरजङ्गभैः ॥ ४२ ॥
मयापि बागमे हिंसा विहिता या विधानतः ।
सापि कामुकलोकानां कामिताफलसिद्धये ॥ ४३ ॥
विष्णुभक्ता न बाच्छन्ति मत्तोऽपि कियदेव हि ।
अतस्तेषां विधानेऽपि हिंसा निन्द्या प्रकीर्तिता ॥ ४४ ॥
अतस्त्वं काम्यकर्माणि परित्यज्य विशेषतः ।
श्रूयाः कृष्णकथाः पुण्याः सर्व लोकेष्टसिद्धिदाः ॥ ४५ ॥
प्रवृत्तशास्रं भृणुयाद्यच्छ्रुत्वा तत्परो भवेत् ।
निवृत्तेऽपि हरेभक्तियुतं मुख्यं प्रकीर्तितम् ॥ ४६ ॥
विशेषतः कृष्णलीलाकथा लोकसुमङ्गलाः ।
कीर्तयस्त्र द्विजश्रेष्ठ श्रूयाश्चैव निरन्तरम् ॥ ४७ ॥
हित्वान्यदेवशरणं भजनं च विशेषतः ।
ये भजन्ति हरेः पादं कृष्णैकशरणं नराः ॥ ४८ ॥
इहामुत्र
ते नित्यं कृतार्थी भगवत्प्रियाः।
परमानन्दसन्दोहं प्राप्नुवन्ति निरन्तरम् ॥ ४९ ॥
ये तु नैवंविदोऽशान्ता मूढाः पण्डितमानिनः।
यजन्त्यविरतं देवान्पशन्हत्वा सुखेच्छया.॥५०॥

कामभोगावसाने तं ते च्छेत्स्यन्ति विनिश्चितम् । इत्येतत्कथितं विप्र तन्त्रं सात्वतमुत्तमम् ॥५१॥ ष्णुिभक्तजनाजीव्यं सर्वसिद्धिप्रदायकम् । श्रवणात्कीर्तनादस्य कृष्णे भक्तिहि जायते ॥ १२ ॥ भक्तिं लब्धवतः साधो किमन्यदवशिष्यते । यतो भगवता प्रोक्तं तस्य भक्तिविवर्द्धनम् ॥ ५३॥ तन्त्रेऽस्मिन्कथितं विष विश्वसम्भवमुत्तमम् । अवताराश्च श्रीविष्णोः सम्पूर्णीशकला भिदा ॥ ५४ ॥ भक्तिभेदाच भेदानां लक्षणं च पृथग्विधम् । युगानुरूप श्रीविष्णोः सेवया मोक्षसाधनम् ॥ ५५ ॥ विष्णोर्नामसहस्रं च नाममाहात्म्यमुत्तमम् । विष्णोर्माना वैष्णवानामपराधस्य च निष्कृतिः ॥ ५६ ॥ सर्वसाररहस्यं च तन्त्रोत्पत्तेश्च कारणम् । हिंसाविधिनिषेधं च तव प्रश्नानुमारतः ॥ ५७ ।। यन्नामैकं कर्णमूलं प्रविष्ट वाचान्विष्टं चेतनासु स्मृतं वा । दग्ध्या पापं शुद्धसत्वाचदेहं कृत्वा साक्षात्संविधत्तेऽनवधम् ॥५८ तस्मादनन्ताय जनार्दनाय वेदेरितानन्तगुणाकराय । महानुभावाय निरञ्जनाय नित्यात्मलाभाय नमो नमस्ते ॥१९॥ इति श्रीसात्वततन्त्रे श्रीशिवनारदसंवादे शिवाप्रा. र्थितगणेशलिखिते सात्वतजनप्रिये नवमः पटलः ॥ शुभम् ।

No text on this page.

। tra काशी संस्कृत सीरिज प्रन्यमा ८०(१) पाणिनिव्याकरणे वादरत्नम् । न्यायव्यासाचार्य मीमांसक शिरोमणि- सूर्यनारायणशुक्लेन विरचितम् । (तत्र च न्यास परिष्कारपरिशिष्टं भेदेन प्रकरण त्रयम् यन्त्र पञ्चन्यून सार्धशतसूत्रेषु १४५ महताटोपेन न्यासाविचारिताः जन प्रथम प्रकरणं मुद्रितं प्रथमो मागः। [ व्या० वि १००१-८ ८० (२) पाणिनीव्याकरणे वादरनम् । द्वितीयोभागः ८१ गणितकौमुदी। [हिन्दीभाषाटीकासहिता] प्रथमापरीक्षापाव्यनिर्धारितगणित. संग्रहपुस्तकम् । [गणितविभागे १] २००-६ ८२ छन्दः कौमुदी। [हिन्दीभाषाटीकासहिता] प्रथमापरीक्षापाव्यनिर्धारितछन्द. संग्रहपुस्तकम् । [छन्दोविभागे ३] रु० ०-६ ८३ योगदर्शनम् । महर्षिप्रवरपतञ्जलिप्रणीतम् । तत्र (१) भोजवृत्तिः, [२] भावा- गणेशवृत्तिः, [३] नागोजीमवृत्तिः, [४] मणिप्रभा, [२] योगचन्द्रिका, [6] योगसुधाकराख्य टीका षट्कसमेतम् । सटिप्पण। [योग० विमागे १] ०२--० ८४ रघुवंशमहाकाव्यम् । श्रीकालिदासविरचितम् । म. मल्लिनाथकृत सजीविनीटीका तथा परीक्षोपयोगि सुधाऽऽख्यव्याख्या सहितः। १से ४ सर्ग: मूल्यम् २०१-४-० तथा १ से ९ सर्गः रु०१-८ तथा ६ से १० सर्ग: ८५ योगदर्शनम् । १० श्रीबलदेवमिश्रकृत योगसूत्रप्रदीपिकाख्यव्याख्यया सहितम् । सटिप्पण। [योग वि०२१--- ८६ काव्यमीमांसा । राजशेषरविरचिता। साहित्याचार्य पं० श्रीनारायणशास्ति खिस्ते कृत काव्यमीमांसा-चन्द्रिका टीका सहित [१ से ६ अध्याय ] प्रथमो- [ काव्यविभाग १३] २०-८ ८७ नागानन्दनाटकम् । श्रीहर्षदेवप्रणीतम् । काशीविश्वविद्यालयाध्यापकेन एम० ए० साहित्याचार्य पण्डित श्री बलदेव उपाध्यायेन स्वप्रणीतया भावार्थदीपिकाख्यया व्याख्यया समलकृत्य वृहत् भूमिका हिन्दीभाषानुवादादिमिः सनाथीकृत्य सम्पादितम् । [नाटक विमागे १]रु०१-४ ८८ मेघदुतकाव्यम् । महाकवि श्रीकालीदास विरचितम् । मलिनाथकृत सञ्जीविन्या, चारित्रवर्द्धनाचार्य विरचित चारित्रवद्धिन्या तथा साहित्याचार्य पं० श्री नारायण. शास्त्री खिस्तेकृत भावप्रबोधिनीव्याख्या टिप्पण्या च सहितम् । [ काव्य०४ ] रु०१-८ ८९ जागदीशीव्यधिकरणम् । न्यायाचार्यश्रीशिवदत्तमिवविरचित गंगाश्यव्याख्या टिप्पणी सहितम्। (न्यायविभागे २)०२-- ९० काव्यकल्पलतावृत्तिः। श्रीअमरचन्द्रयतिनिर्मिता अरिसिंहकृतसूत्रसहिता। (अलङ्कारविमागे ४) ०१-४ ९१ वैयाकरणसिद्धान्तचन्द्रिका । श्रीरामाश्रमप्रणीता। श्रीसदानन्दकृत-सुबोधिन्या; श्रीलोकेशकरकृत-तत्त्वदीपिकया व्याख्यया च सहिता । पं० श्रीनवकिशोरशास्त्रिणा- निर्मितया चक्रधराज्य महत्या टिप्पण्या अव्ययार्थमालया लिङ्गानुशासनप्रक्रियया अणादिकोषेण च सहिता । (व्या० वि० ११) पूर्वार्द्धम् । २०२-८ उत्तरार्दा १० ३-४ ९३ त्रिपुरारहस्यम् ( महात्म्यखण्डम् ) साडथयोगशास्त्राचार्य श्रीमुकुन्दलाल शाक्षिणा संशोधितम् । साहित्याचार्य खिस्ते-इत्युपाख्य पं० श्रीनारायणशास्त्रिणा निबद्धाभ्यां भूमिकाऽध्यायानुक्रमणिकाभ्यां च सहितम्।(पुराणेतिहास वि०) ०१- १३ आपस्तम्बधर्मसूत्रम् । श्रीमदरदत्तमिन विरचितया उज्ज्वलाख्यया वृत्त्या संवलितम्। (कर्मकाण्डविभागे.) २०३-. ९४ अवच्छेदकत्वनिरुक्तिः । श्रीजगदीशतकलिङ्कारकृताः । न्यायाचार्य श्रीशिवदत्त- मिबिरचित गंगाण्यव्याख्या टिप्पणी सहितः । (न्याय वि०१३).१- ६ काशी संस्कृत सोरिज़ प्रन्यमाला । १६ संस्कारदीपकः । म०म० पण्डित श्रीनित्यानन्दपन्त पर्वतीयविरचितः। संपूणः । (कर्मकाण्ड वि... - ९६ वर्षकृत्यदीपकः । कालनिर्णयव्रतोद्यापनसहितः । म० म० पं० नित्यानन्दपन्त. पर्वतीय विरचितः। (कर्मकाण्ड वि०९)रु०३-८ ९७ श्रौतसूत्रम् । श्रीमन्महर्षि-लाट्यायनप्रणीतमग्निष्टोमान्तम् । (कर्म०वि०१०) ०२-० ९८ नलचम्पू: अथवा दमयन्ताकथा महाकविश्रोत्रिविक्रममविरचिता । विषमपद. - प्रकाशाख्यव्याख्यया सहिता । भावबोधिनी टिप्पणी साहिता । (का०वि०१९) २०१४ प्रसूत्रम् । श्रीभगवनिम्बार्क महामुनीन्द्रविरचित वेदान्तपारिजात सौरमा- बत्रवाक्याथन श्रीश्रीनिवासाचार्यचरणप्रणीत श्रीवेदान्तकौस्तुभभाष्येन च सनाथीकृतम् । (श्रीनिम्बार्कभाष्यम् ) (वेदान्त वि०१०)०३-० १०० वाग्वल्लभः। सर्वथाऽपि नवीनोऽपूर्वः प्रौढः परमोपयोगितया नियतमुपादेयसमा. न्दोनिबन्धः, श्रीमता देवज्ञाग्रेसरेणागममार्मिकेण कविपुङ्गवेन दुःखमानविदुषा विरचितः, तत्सुतेन बहुशास्त्रारगेण कविचक्रवर्तिना महामहोपाध्यायेन देवीप्रसाद पण्डितप्रवरेण कृतया वरवर्णिन्या टीकयोपस्कृतः । (छन्दः शास्त्र वि०४)रु.२-८ १०१ सिद्धान्तलक्षणम् । श्रीजगदीशतर्कालङ्कारकृतम् । न्यायाचार्य श्रीशिवदत्तमिश्र- चिरचित गंगाख्यव्याख्या टिप्पणी सहितम् । (न्याय विभागे ४)) ०१-८ १०२ वेदभाष्यभूमिकासंग्रहः । ( सायणाचार्यविरचितानां स्ववेदभाष्यभूमिकाना संग्रहः)। [वेद० वि०५] रु. ३-८ १०३ माधवीयधातुवृत्तिः । श्रीमत्सायणाचार्यविरचिता। (व्या०वि०१२) ७०५-० २०४ बौधायनधर्मसूत्रम् । श्रीगोविन्दस्वामिप्रणीतविवरणसमेतम् । [कर्म:वि०११९०४-. १०६ ताण्डयमहावाक्षणम् । मावणाचार्यविरचितभाष्यसहितम् । (प्रथमोभागः) (वेद वि०६) रु. ५-० १०६ न्याबमारी। जबन्तमकृतान्याव-व्याकरणाचार्गण. सूर्यनारायणशाक्षिणा कूतया टिप्पण्या समेता। द्वितीयोभागः। [न्या. वि०१५] २०३--० १०७ शारदातिलकम् । श्रीमद्रायवमहवपदार्थादर्शटीकासहितम् । (तन्त्रशा वि०१)०५-० १०८ मन्त्रार्थदीपिका । म०म० श्रीशत्रुघ्नविरचिता । (वेद०वि०.) ०३- १०९ शब्दशकिप्रकाधिका । श्रीमज्जगदोशतालडारविनिर्मिता । शोकृष्णकान्त. विद्यावागीशकतया कृष्णकान्तीटीकया श्रीमद्राममद्रसिद्धान्तवागीशविरचितया रामभद्रीटीकया च समलस्कृता। न्यायाचार्य काव्यतीर्थ पं० दुण्डिराजशास्त्रि कृतया छात्रोपयुक्तया विषमस्थलटिप्पण्या मूलकारिकार्थन च सहिता। (न्या वि०१६)३०--८ ११० योगदनम् ( पातालदर्शनम् ) भगवत्पतञ्जलिरचित, राघवानन्दसरस्वतीकृत- "पातअलरहल्यापटप्पनीयुकथा द्वादशदर्शनकाननपश्चाननवाचस्पतिमिश्रवि. रचितया "तत्त्ववैशारद्या व्याख्यया भूपितेन विज्ञानमिक्षुनिर्मित योगवाचिका- समुद्रासितेन मधुपुरीयकापिलमठस्थस्वामिहरिहरानन्दारण्यकृतभास्वतीवृत्त्या महितेन भगवच्छ्रीकृष्णद्वैपायनव्यासदेवोपज्ञ-"सांख्यप्रवचन" भाष्येणोद्योति. तम्, प्रदेशविशेषेषु श्रीमन्माध्वसम्प्रदायाचार्य-दानिकसार्वभौम-साहित्य दशेनाधाचार्य सकेरत्न-न्यायरन गोस्वामिदामोदरसारिणा विहितया टिपन्या पातालप्रभागनामिकया भूमिकथा व संबलितम्, एतदीयसंशोधनसम्पादन. कर्माकृतं च। ( योगशास्त्रविभागे ३) ०१-- प्राधिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी ।

Saatvata Tantrama~

Author
Shiva
Other authors
Phadke ,ananta Sastri
Title
Saatvata Tantrama~
File name
Satvata Tantram
Text
OCR done
Citation
1934
Published
2006/01/24
Publisher
Chowkambha Sanskrti Series Office,,benares
Language
Sanskrit
Pages
89
Library
Canegie Mellon Univeristy
Classification
Hinduism Narrowly
Keywords
Indian philosophy and religion
DLI number
496308
Barcode
1990020083214.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
lg3bOawWz89
Download PDF

Saatvata Tantrama~