Jayakar Library , Pune

Siddhanalamkara

Mahamahopadhyaya Gangadhra Sastri Manavalli · 17-11-2005

PDF Proofread

Front matter

THE
VIZIANAGRAM SANSKRIT SERIES
UNDER THE SUPERINTENDENCE OF
ARTHUR VENIS M. A. Oxex.
PRINCIPAL, SANSKRIT COLLEGE, BENARES.
THE
SIDDHANTALEŚ A
OF
APPAYADIKSHITA
WITH EXTRACTS FROM THE
ŚRI KRISHN ÅLAN KÁRA
OF
ACHYUTAKRISHŅÂNANDATIRTHA.
EDITED BY
WAHÂMAHOPADHYAYA GANGADHARA SASTRI MÂNAVALLİ
PROFESSOR, SANSKRIT COLLEGE, BENARES.
VOL. I. PART I.
SANSKRIT TEXT.
PRINTED AND PUBLISHED BY
E. J. LAZARUS & Co., BENARES.
SOLD ALSO BY GANESH DAS AND CO., CHOWK, BENARES
AND BY JAYESTHARAM MUKUNDJI AND CO., BOMBAY.
1890.

सिद्धान्तलेशसंग्रहः।
सर्वतन्त्रस्वतन्त्र श्रीमदप्पयदीक्षितविरचितः
श्रीमदच्यतकृष्णानन्दतीर्थकृताया: श्रीकृष्णालंकाराख्यायाः
व्याख्याया उद्धृत्त्यावश्यकटिप्पणीभिः समलंकृतः ।
काशिकराजकीयसंस्कृतपाठशालायां साहित्यशास्त्रप्रधाना-
ध्यापकेन महामहोपाध्यायेत्युपाधिधारिणा मानवल्ल्यु-
पाख्यगङ्गाधरशास्त्रिणा संशोधितः ॥
काश्याम् ।
ई. ने. लाजरसकम्पन्याख्येव स्वमुद्रालये मुद्रितः ।
।

॥ भूमिका ॥ अथैष उपक्रम्यते सिद्धान्तलेशसंग्रहाख्यो वेदान्तनिबन्धी मुद्रयित्वा प्रकाशयितुम् । अस्य च प्रणेता विश्वविख्यातवैदुषीविभवः श्रीमानप्पयदीक्षिता नाम । अयं दक्षिणदेशेषु काञ्चीपुरीसमीपवर्तिन्यडयपल्लीनामके ग्रामे ऽजनिष्ट वसन्ति चाधुनाऽपि तद्वंशजास्तति चिदम्बरक्षेचे द्राविडाक्षरैर्मुद्रिताया ब्रह्म- विद्यापचिकाया अवगम्यते । आङ्गलभाषानिर्मितेतिहासे तु अप्पयदीक्षितस्य कुटुम्बकं तज्जोरमण्डलान्तर्गते कोम्बकोणंमायवारंपुरयोर्मध्ये तिरुवलकुडु- इत्याख्ये ग्रामे उवास यत्र तस्मात् षष्ठी संततिरद्यापि निवसति स्मेत्यभिदथे । अयमित एकपञ्चाशदधिकशतद्वयपरिमितवत्सरेभ्य: प्राक १६३६ संख्यकेशबी- यवर्षे भुवमलंचकारेति तद्भातृपोचकृतनीलकण्ठविजयाभिधप्रबन्धनिर्दिष्ट- कालपालोचनेन लक्ष्यते । उपलभ्यते हि तत्र अष्टत्रिंशदुपस्कृतसप्रशताधि- कचतुःसहस्रेषु । कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयो ऽयमिति लेखः । नीलकण्ठविजयनामकचम्पप्रबन्धनिर्माता नीलकण्ठदीक्षितो ऽप्पयदी- क्षितभ्रातृपौध इति तद्ग्रन्यान्तिमलेखेन तेनैवाध्यापित इति यो ऽतनुतानु- जसूनुजमनुग्रहेणात्मतुल्यमहिमानमिति त्यागराजस्तवस्थपद्येन च प्रतीयते । आङ्गलभाषोपनिबद्धयोरितिहासयोस्तु १५२० खीष्ठवर्षे ऽप्पयदीक्षित आसीदिति दृश्यते परमिदं प्रदर्शितब्रह्मविद्यापचिकोक्तकालेन विरुध्यते । यतो नील- कण्ठविजयनिर्माणसमये ऽतीतकल्यब्दाः ४७३८ सांप्रतमतीतकल्यब्दाः ४६६0 अतस्तस्येतः पूर्व निर्माणकालः २५२ अतस्तस्य ख्रीष्टशककाल: १६३८ स च चिंशे वर्षे कविना निर्मितः तत्कता द्वादशे वर्षे ऽप्पीयदीक्षिताच्चरमावस्थापन्ना- दधीतवानिति ब्रह्मविद्यापत्रिकायामलेखि । ततश्चाप्पयदीक्षितस्थितिकाले खोष्टशकः १६२० स च तदा सप्रतिवर्षवयाश्चेदस्य जन्मकाले खीष्ठशकः १५५० इति । अयं च श्रीमद्ङ्गराजाध्वरीन्द्रस्य पुत्त्रः पितुरेवाध्यमी- भूमिका । टेति श्रीरङ्गराजमखिनः श्तिचन्द्रमौलिरस्त्यप्पदीक्षित इति प्रथितस्तनूज इति तन्मूलानिह संग्रहेण कति चित्सिद्धान्तभेदान् धियः शुद्धझै संकलयामि तातचरणव्याख्यावचःख्यापितानिति चैतद्द्यन्यान्तिमादिमश्लोकदर्शनादवसी- यते । अयं च सप्तरुपरि वर्षाणामायुरनुबभूवेति वयांसि मम समतेरु- परि नैव भोगे स्पृहा न किं चिदहमर्थये शिवपदं दिदृते परमिति तदन्ति- मावस्थादीरितश्लोकदर्शनेन स्फुटमवधार्यते । अयं च द्राविडजातीया ब्राह्मण इति तदीयं कुवलयानन्दग्रन्थमनद्याक्षगुं तच तच यत्तु द्रविडपुङ्गवेनोक्त- मिति निर्दिशतो रसगङ्गाधरे जगन्नाथपण्डितराजस्य लेखेन विज्ञायते । अयं च दैवतेषु शिवमेव सकलसुरोल्कर्षभाजममन्यतेति सुदृढमावेदयन्ति तद्विरचिता भूयांसः शिवतत्त्वविवेकरत्नचयपरीक्षाप्रभृतयः प्रबन्धाः । अयमादौ शिवोत्कर्ष- प्रतिपादके श्रीकण्ठवेदान्तदर्शने समुपजातवटुस्तन्मतानुसारिणो बहून निब- न्धान निर्माय श्रीनृसिंहाश्रमस्वामिभिर्बोधितः शाङ्करे ऽद्वैतदर्शने प्रविश्य परि- मलादिनिबन्धनिर्माणेन शङ्कराचार्यमतानुगो बभूवेति वैकुण्ठे शुण्ठकोलाहल- मयकलहोल्लुण्ठने कण्ठशक्तित्रीकण्ठाचार्यकण्ठोदितनयसरणिव्याकृतौ कुण्ठितो न। इत्येवं शिक्षितश्चाद्वयनयगुरुभिर्दक्षिणामूर्तिरूपैर्दक्षा ऽभट्टीक्षितो ऽसौ परि- मलकृतितः शङ्कराचार्यपक्ष इति श्रीमद्विश्वविख्याताहोबलशास्त्रिकृतेशानस्तु- तिस्थश्लोकस्य भट्टरामेश्वरकृततद्व्याख्यानस्य च दर्शनेन स्पष्टमधिगम्यते । सतावन्माचेण तस्मिन्नविश्वासं प्रकटयता तज्जोरराजपुस्तकालयसूचीपत्रं १८७६ खीष्टशके लन्दननाम्नि नगरे मुद्रयता बर्नलसाहिबेन अप्पयदीक्षितः साभिनिवेशः पक्षपात्यासोच्छववेदान्ते ऽतस्तनिर्मिता एतद्ग्रन्यसदृशा अस- मीक्ष्य कृता ग्रन्था न शक्यन्तेऽङ्गीकर्तुं निष्यक्षपातवेदान्तविषयप्रदर्शकत्वेनेत्य- भ्यधायि सिद्धान्तलेशसंग्रहोल्लेखे परमिदं न तथा ऽऽदरणीयं विचारशालिभि- स्तव्यवस्थापने मीमांसाद्वयानुगृहीतामितिहासपुराणाद्यर्थोपबंहितां शैलीम- नुसंदधानः प्रमाणपरतन्त्रैरास्तिकैः । विशेषतश्च सिद्धान्तलेशसंग्रहविषये यतो ऽच केवलं निरूपिताः सिद्धान्तविषये पूर्वाचार्याणां मतभेदाः । अयं विजयनगराधिपतेर्नरसिंहापराभिधनरसदेवभूपतेः पुत्रस्य कृष्णराजस्य व्यङ्क टपत्यपराभिधस्य सभायामष्टसु दिग्गजतया ख्यातेषु पण्डितेषु प्रथम इति भूमिका । ३ दृश्यते आङ्गलेतिहासे लेखः । अस्य च नामाप्पदीक्षित इत्यप्पयदीक्षित इति च द्वेधा ऽप्युपलभ्यते स्वकृते कुवलयानन्दे ऽमुं कुवलयानन्दमकरोदप्प- दीक्षित इति तदनुजपोचकृते नीलकण्ठविजये च श्रीमानण्ययदीक्षितः स जयति श्रीकण्ठविद्यागुरुरिति च । परं पोलोचने तु नाच भेदः स्वयं प्रयोगे विनीतिं प्रचिकटयिषुरप्पदीक्षित इति प्रायुङ्ग तदन्तेवासी तु तचादरद्योतक- मार्यपदाभ्रंशं सांप्रतमप्यान्ध्रदेशीयैस्तथाविधे ऽथै प्रयुज्यमानम् अय इति पदं संयोज्य तदेव प्रायुतेति । अयं च शाङ्करदर्शने श्रीशङ्करभगवत्पादब्रह्मसूत्र- भाष्यस्य व्याख्याया वाचस्पतिमिप्रकृताया भामत्या व्याख्यानं कल्पतरं परि- मलाख्याया विस्तृतया टीकया व्याचख्यावातेने च बहुविधेषु शास्त्रेषु बहून विद्वद्वरैरादृतान् चतुरधिकशतं प्रबन्धान् । सांप्रतमप्युपलभ्यन्ते साहित्ये कुव- लयानन्दचिवमीमांसावृत्तिवार्तिकाभिधाः शैवोत्कर्षप्रतिपादनपराः शिवतत्त्व- विवेकरत्नचयपरीक्षाप्रभृतयो मीमांसादर्शने विधिरसायनापक्रमपराक्रममुखाः शाङ्करदर्शने परिमलसिद्धान्तलेशसंग्रहादयो ये ऽत्र विस्तरभीरुणा सर्वेषां तेषा- मुल्लेखं नात्युपयोगिनं मन्यमानेन च मया न साकल्येन नामतो निर्दिष्टाः । अमुं च सिद्धान्तलेशसंग्रहाभिधं नातिविस्तरमासूढं परां काष्ठां प्राढेरवश्य- विज्ञेयसकलसिद्धान्तपरिपूर्ण च मुद्रयितुमुपक्रममाणेन मया संपादितानि च- त्वारि पुस्तकानि द्रविडाक्षरमुद्रितमेकमपरं च प्राचीनतमं श्रीयुतनिससा- हिबमहोदयदत्तमिति द्वे मूलमाचे सटीके च द्वे मदीयसुदृद्वरश्रीराममिनशा- स्त्रिण एकं माननीयश्रीतारकानमयतिवरप्रतिष्ठापिततारकमठस्थपुस्तकालया- दुपलब्धमपरमिति । तेषु प्रायः समानार्थानपि पदरचनामाचे बहून भेदानु- पलभमानेनोपेक्ष्य नितान्तमनुपयुक्तप्रदर्शनान् पाठभेदान न्यवेश्यन्त स्तोकम- प्यर्थभेदमापन्नाः पाठा उपरि निर्दिष्टक्रममनुसृत्य । अधस्तादवास्थाप्यत च विपश्चिद्वरश्रीमदच्युतकृष्णानन्दतीर्थविरचिताया एतत्प्रबन्धरत्नप्रभाया इव सर्वाकारोज्ज्वलाया व्याख्यायाः साकल्येन निवेशयितुमुचिताया अपि विस्तरं परिजिहीर्षता विषमतमस्थलेष्वावश्यकी टिप्पणी क चिच्च तदविवृते ऽर्थेऽ- भिनवा च । निर्दिष्टाश्वेतद्ग्रन्थोपन्यस्तपूर्वोत्तरमीमांसासूत्राणामध्यायपादसू- संख्याङ्का व्यरच्यन्त च मूले विषयभेदण्व पतिभेदाः । तदेवमवहिते- भूमिका। 20 नापि मया क्रियमाणपतद्ग्रन्थमुद्रणे मदीयमतेरपाटवेन सीसकाक्षरयोजक- दोषण वा सुलभानि स्खलितानि क्षाम्यन्तो गुणेकदृष्टयः सहृदया आस्वा- दयन्तो निखिलक्षीरोदनिर्मथननिःसृतं कलशस्थमिवामृतं सुरा अशेषवेदान्त- विचारनिर्गतमल्पीयसा श्रमेण निःश्रेयसनिदानं सिद्धान्तं सफलयन्तु माम- कीनं श्रमं प्रीयतां चानेन व्यापारण भगवानन्तयामी श्रीकाशीविश्वेश्वर इत्य- भ्यर्थयते। सं० १९४६ माघ सुदि ५ स्थिरे मानवल्ल्यपाख्यो गङ्गाधरशास्त्री। IMIT MO Mayan Cheta 84 .

शुद्धिपत्रम् । ए. पं. १ ५ ५ अशुद्धम् शुद्धम् ५ जननहरिणी जननहरणी २ तदशंपरिपूरण तदंशपरिपूरण २ १७ विनाक्षेप विनाऽऽक्षेप २ मवतिष्टते मवतिष्ठते ४ प्रतिबिम्बात्प्रति प्रतिबिम्बात् प्रति १२ १० वत्सस्य कत्वस्य १४ १७ ईशा शुद्धा १५ २८ भाववत्वं भाववत्त्वं ६ चैलन्या चैतन्या २२ ३१ नदोषः ने दोषः २४ २२ वत्युपारूढस्य वत्त्युपारूढस्य २ मेवेतिचेत् मेवेति चेत् २६ २३ द्रा• पुस्तक द्रा• २ पुस्तक ३० ७ पर्वतत्तवृत्ति पर्वततद्वृत्ति 6 प्रामाण प्रमाण ईशो विशुद्धा अशुद्धम् शुद्धम् ३२ २ भासिकस्तथापि भासिकास्तथापि ४० १५ चाकचिक्ये चाकचक्ये ४९ ५ र्दुष्टन्द्रिय १ष्टेन्द्रिय ४९ ५ अत्राहुस्तत्व अत्राहुस्तत्त्व ५२ ८ कुण्ठना गुगठना ६९ १६ प्रसूना प्रेप्सूना ६३ २८ पूनालक पुनर्गौलक ७ द्विचक्षणः द्विचक्षणाः ७७ २२ ष्टानिष्टाशब्दो ष्टानिष्टशब्दो ७८ १३ उभयानुस्यूत उभयानुस्यूत ८१ २६ तटप्रयुक्त तदप्रयुक्त ५ १७ वासिष्टादि वासिष्ठादि १०५ ११ भ्युप- भ्युपग- १०५ २० त्काष्ट १०५ २१ काष्टं জা २ अग्रभागः २६-११ ॥ सूचीपत्त्रम् । धनुराकारचिन्हाभ्यां रहिते केवलं पदम् । तयुक्ते त्वविवृतिः प्राज्ञैरित्यवधार्यताम् ।। पृष्ठे पता असताभ्यागमः १४-१३। (१४ टि. २) (२६ टि. ४) अज्ञाननिवर्त्तकनिरूपणम् (१००-१०) अज्ञानसत्तायुक्तस्य प्रपञ्चस्य प्रमाणेन प्रत्यक्षत्वम् (७२-६) अज्ञानस्य जीवाश्रितत्वम् (२२-३) अज्ञानस्य पुरुषाश्रितत्वमात्रम् (३०-२३) अज्ञानलेशानुवृत्तिः (२१-१७) अज्ञानस्य विषयाश्रितत्वमात्रम् (३१-६) अज्ञानस्य सांशत्वाङ्गीकारादेके पाधा निवृत्तस्याप्युपाध्यन्तरे ऽनुवः त्तिसम्भवः (२१-१६) স্বনানলাম, (२७-१०) अज्ञानानां नानात्वं स्वीकृत्य तदभेदस्याननुसन्धानप्रयोजकत्वम् (७६-१४) अद्वैतवियाकन्मते प्रतिबिम्बस्य मिथ्यात्वम् (६१-२०) अद्वैतविट्याचार्यमते अनिवाच्यवाविदयानिवृत्तिः (१०७-२१) अद्वैतविट्याचार्यमते आनन्दस्यकत्वे ऽप्यध्यस्ततारतम्यम् (३५-१७) अद्वैतविट्याचार्यमते आपरोक्ष्यस्य चैतन्यधर्मत्वमेव न ज्ञानधर्म- त्वम् (६-१) अद्वैतविट्याचार्यमते स्वाप्नप्रपञ्चस्य न प्रातिभासिकत्वमपि व्यावहारिकत्वम् (७३-८) अद्वैतात्मप्रतिपादकभाषाप्रबन्धश्रवणनिर्वात्तफलको वेदान्तश्रव- णनियमविधिः (५-१३) अध्यस्तरजतस्येदमंशाऽज्ञानमेवोपादानम् (३८-१०) अधिष्ठानम् (३८-७) (३८-८) अन्तःकरणभेदाभेदयोरनुसन्धानाननुसन्धानप्रयोजकत्वम् (७९-१२) अन्तःकरणस्य कर्तृत्वात् तत्सान्निध्यादात्मनि सुखाट्यध्यासः (७७-१६) अन्तःकरणादिविशिष्टचैतन्यस्य तादृशचैतन्यान्तराद् भेदाद व्यवस्था (७७-११) अन्तःकरण चिदाभासस्य सुखाट्याश्रयत्वम् (७७-४) अन्तःकरणापधानेन जीवः साक्षी (३३-२२) अनध्यस्तरजतज्ञानाभाव: (४४-११) अनुमन्ता (३३-टि. १) अनुवृत्तमूलावियाया एवाऽविट्यालेशत्वम् (१०७-५) अपच्छेदन्यायः ५१-२१ (५५-१६) अपरोक्षत्वम् ४५-२२ (४५-टि.३) ११-३ अपरोक्षज्ञानजनकत्वेन नियमविधिः (६-१८) अपरोक्षात्मविषयकत्वेन शब्दस्या परोक्षज्ञानजनकत्वम् (२८-१६) अपूर्वविधिः (१-१४) (१-१५) प्रकटार्थकारमतेनात्मदर्शनविधेरपूर्वविधित्वम् (२-२२) ... तु :: ... .

. २ । ... .. . सूचीपतम्। पृष्ठे पती अपाहा ७-६॥ (७-टि. १) (अभिभवः) नाशः संवेष्टनम् अपसरणं वा (२७-२) (२७-७) (२७-१३) अभेदाभिव्यक्तिस्वरूपनिरूपणम् (वृत्तिद्वारा कीभावः) (२६-१) अमुख्याधिकारिकतवेदान्तविचारस्य जन्मान्तरीयविट्यावा- प्रत्युपयोगित्वम् (३-१०) अवगुण्ठनम् ४३-१७। (४३-टी. ७) अवच्छेदपक्षा (१८-१) अवस्यारूपाज्ञानस्य सादित्वम् (२७-१८) अवस्थारूपाज्ञानानामनादित्वम् (२७-१६) अविदया ५-२॥ (१४-३) अविध्यातिरिक्तस्यैव प्रत्यज्ञसमये सृष्टिः (७१-१४) अविवानिवृत्तिस्वरूपनिरूपणम् । यात्मरूपैव सा (१०७-१०) अविटयालेशनिरूपणम् । विक्षेघशक्यंशस्य तद्रूपत्वम् ( १०७-१) अविदयासंस्कारस्याऽविट्यालेशत्वम् (१०७-४) अविटोपाधिका जीव एव साक्षी (३३-१५) असत्त्वम् (५६-१३) असंन्यासिनामपि त्रैवर्णिकानामेव ज्ञानोत्पत्तिनिरूपणम् (८८-१३) अहङ्काराटानुसन्धानोपपादनम् । वृत्तेरनित्यत्वात्संस्कारोपपत्तिः (३६-१७ ) अहङ्कारानवच्छिन्नत्यान्तरस्य चैतन्यस्य स्वानप्रपज्वाधिष्ठानत्वम् (६७-११) अहङ्कारावच्छिन्नचैतन्यस्य स्वाप्नप्रपञ्चाधिष्ठानत्वम् (६५-१६) श्रहमाकारवृत्तेजानत्वम् (३७-२२) अहमाकारवृत्तेज्ञानत्वाभावः (३७-१४) प्रात्मा .. २-११ । ६-१७ স্মাখাঃ ३८-७ (३८-८) आनन्दबोधाचार्यमते आत्मान्या पञ्चम प्रकारा अविवानिवृत्तिः ( १०७-१६) आनन्दमघः (१६-४) आनन्दस्यावतत्वम् (३६-१) श्रानन्दापरोक्ष्येपि तभेदाध्यासात् पुरुषान्तरानन्दापरोक्ष्या- भावेन विट्रया तदध्यासनिवृत्ती तदापरोक्ष्यम् (१११-३) आवरणम् (२८-८) आवरणशक्तिप्रतिबन्धरूपो ऽज्ञानतिरस्कारः (२८-१५) श्रावरणाभिभवः ३६-१२ (३६-टि. २) आवरणाभिभवस्वरूपनिरूपणम् (२६-२१) आविटाकजीवेश्वरविभागमतम् (२०-८) इदमाकारा वृत्तिरध्यासकारणम् । रजताकारवृत्तिस्त्वध्यस्तवि- षया (४४-७) ईश्वराश्रिताया मायाया एव प्रपञ्चकारणत्वम् (२२-१६) ईश्वरोपाधिः (१४-५) उपलक्षितस्य चैतन्यात्मनकीभावः (२६-१७) उपाधिभेदे ऽपि सुखाट्यनुसन्धानसाकापादनम् (७६-१६) शरीरस्योपाधित्वम् (७८-३) उपाधिस्वरूपम् (१७-२५) ऊहः (७ दि. १) सकजीववादे हिरण्यगर्भस्य कल्पभेदेन नानात्वाद्विनिगमनान विरहादेकजीववादः (२१-४) . . .

. ... ... सूचीपत्त्रम् । ३ पृष्ठे पट्टी एकरसत्वम् ४५-२२॥ (४५-टि. ३) कन्दलना २७-३ (२७-टि. १) कर्तृत्वस्वरूपनिरूपणम् (२२-२०) कर्मणां ज्ञानोत्यत्तावुपयोगनिरूपणम् आश्रमचतुष्टयकर्मणा- मेव ज्ञानोपयोगित्वम् (८८-२३) कल्पतरुमते विधुरकर्मणामपि नित्यानामेव ज्ञानोपयोगि- त्वम् (८७-३) कल्पितचैतन्यभेदाश्रयणमात्रेण तद्व्यवस्था (७७-२३) कल्पिताहमाकारवृत्त्या संस्कारोयपत्तिः (३७-६) कायव्यहः कार्यसाक्षात्कारवत्त्वरूपं कर्तृत्वम् (२३-५) कार्यानुकूलज्ञानवत्त्वं कर्तृत्वम् (२२-२२) काल्पनिकस्य ब्रह्मानन्दाभावस्या विट्यानिवृत्त्या निवृत्तिः (११०-१७) कूटस्थचैतन्यम् १०-५ (१४-२३) कृतहानम् १४-१३ । (१४-टि-२) कौमुदीमते परमेश्वरस्यैव रूपभेदः साक्षी (३३-१) कौमुदीमते स्वरूपजानेन सर्वावभासकत्वं सर्वज्ञत्वम् (२३-२६) घटकुटीप्रभातवृत्तान्तः... ११६-१। ४०-१४ (४०-टि. ५) चित्सुखाचार्यमते अहङ्कारादीनामपि केवलसाक्षिवेट्यत्वेन प्रातिभासिकात्वम् (७२-१६) चित्सुखाचार्यमते मुक्ती दुःखाभावस्य न स्वतःपुरुषार्थत्वं किन्तु अनवच्छिन्नानन्द प्राप्तेरेव (१०६-२४) चिदाभासः १६-१६ चिदुपरागः (२५-१३) (२५-२०) चिदुपरागार्थ ब्रह्मचैतन्याभेदाभिव्यक्त्यर्थं वा वृत्तिनिर्गमापेक्षा (४८-३) चैतन्यस्य वृत्तिद्वारकः परम्परासम्बन्धः (२५-६) चैतन्याभिव्यक्त्यर्थं वृत्त्यावश्यकत्वम् (४५-८) जगज्जन्मभङ्गानां समुदितानामन्यमते ब्रह्मलक्षणत्वम् (६-२२) जीवः (१३-२३ जीवब्रह्माभेदगोचरज्ञानस्यैव मूलाज्ञाननिवर्तकत्वम् (१०३-४) जीवस्यैव सर्वप्रपञ्चोपादनत्वम् (१२-१८) जीवाभासः (२९-२) जीवाणुत्वनिराकरणम् (८०-१६) जीवेश्वरस्वरूपनिरूपणम् (१३-२०) जीवैकत्वम् (२०-१६) जीवैकत्वानेकधिचारः (२०-१५) जीवापाधिः १४-६ जीवोपाधिभेदसम्भावना आत्मादे पि उपाधिभेदेन सु- खदुःखाद्विव्यवस्था... (७६-१) जीदोपाधिभेदसम्भावनोपपत्तिनिरूपणम् । मनसा भेदात्त- स्यैव सुखाट्याश्रयत्वम् (७६-६) ज्ञानाज्ञानयाविरोधोपपत्त्यर्थं वृत्तिनिर्गमावश्यकत्वम् (४६-१२) ज्ञानेनैकाज्ञाननाशे ऽप्यज्ञानान्तरानुवृत्तिः (२८-३) तत्वविवेकमते रूपभेदेन भिन्नायां मायायां चित्प्रतिबिम्ब ईश्वरः अविट्यायां चित्पतिबिम्बो जीवः (१४-१) ... ... ...

... ... ... ४ सूचीपत्रम् । पृष्ठे पट्टी तत्त्वशुद्धिकारमते प्रत्यक्षस्य सन्मात्रग्राहकत्वेन घटाट्यविष- यकत्वम् (४६-५) तत्त्वशुद्धिकारमते साक्षात्कारजन्यस्मरणवत्त्वेन सर्वज्ञत्वम् (२३-२१) तत्त्वशुद्धिमते ब्रह्मकोटिरेव साक्षी प्रतिभासतो जीवकोटिः(३३-११) तत्वावेदकत्वेऽपि कालत्रयाबाध्यत्वस्य प्रत्यक्षेण ग्रहणास. म्भवाच्छीतस्य मिथ्यात्वस्य बाधाभावः (५१-११) तिरस्कारः (२८-३०) तेजसः (१६-५६) त्रैवर्णिकानां संन्यासाधिकारः (६५-१६) दग्धतृणकूटदहनोटाहरणेन चरमवृत्तिनिवृत्त्युपपत्तिः (१०४-१६) दग्धले हपीताम्बूदाहरणेन तदुपपत्तिः (१०४-१५) दृग्दृश्यविवेकतो विशेषः (१७-१) दृश्यस्य ज्ञानानतिरिक्तत्वम् (७२-६) दृष्टानुरोधेन वृत्तिनिर्गमस्य फलितत्वम् (४८-१) दृष्टिसृष्टिवादिमते प्रपञ्चस्य प्रत्यक्षसमयएव सष्टिः (७०-२४) दृष्टिष्टिवादिमते वियदादिष्टितत्क्रमादेः श्रुतितात्य- याविषयत्वम् (७१-१६) देशकालविशेषणान्तरविशिष्टाज्ञानानां द्वितीयादिवत्तिना- श्यत्वम् (२६-१५) धारावाहिकम् = द्वितीयवृत्त्या पूर्वतिरस्कृताज्ञानतिरस्का- रपरिपालनम् (२८-२२) धीवासनाप्रतिबिम्ब ईश्वरः (१५-१६) ध्वंसस्य प्रतियोग्यतिरिक्तजन्यत्वनियमे व्यभिक्षारप्रदर्शनम् ( १०४-१७) निद्रारूपमूलाज्ञानावस्थाभेदस्य वामप्रपञ्चोपादानत्वम् (६६-१६) निदिध्यासनम् (६-१३) नियमविधिः १-१४ । (१-१८) निर्गुणस्याप्युपासनोपपादनम् (२४-१७) निर्विचिकित्सक ६-५। (६-टि. २) नृसिंहभमते इदमाकारहत्तेरभावः (३८-१६) न्यायचन्द्रिकामते अज्ञानान्तरातिरस्कारः (२६-५) न्यायसुधासन्मते प्रत्यक्षस्य घटादिविषयकत्वे ऽपि सत्ताया अधिष्ठानगताया एव तत्र मानम् (५०-११ पञ्चदश्युक्तो जीवेश्वरभेदः (१४-१७) पदार्थतत्त्वनिर्णयकारमते मायाब्रह्मणे रुभयोर्जगदुवामान- त्वम् (१२-२२) परतिः ५८-२ । (५८-दि. १) परतस्त्वम् ७-११ (७-टि. ४) परस्पराविवेकः ६-२९ (६-टि. ६) परिणामः [(१०-६) {१०-१०) (१०-टि. ५) (१०-ठि. ११) परिसंख्याविधिः १-१४ (२-३) परिसंख्याविधा वार्तिकमतम् (७-१४) पानादिक्रियायां जलत्वेनैव प्रयोजकता न सत्यजलत्वेन (७४-१) पारमार्थिकजीवः (१७-४) पुरुषविषयरूपाश्रयभेदेनाज्ञानद्वैविध्यम् (३०-१३) ... । .... {(९ ० ... ...

... ... ... ... ... सूचीपत्त्रम् । ५ पृष्ठे पक्षी प्रकटार्थकारमते स्वोपाधिमायापरिणामः प्रपञ्चापरोक्षवत्त्वं सर्वज्ञत्वम् (२३-१७) प्रकटार्थविवरणमते मायायां चित्प्रतिबिम्बस्येश्वरत्वम् । अविट्यायां चित्प्रतिबिम्बस्य जीवत्वम् (१३-२०) प्रकाश (३६-टि. १) प्रतिजीवविद्याभेदाभ्युपगमेन बद्धमुक्तव्यवस्थोपपत्तिः (२२-७) प्रतिबिम्बसत्यत्वनिराकरणम् (६०-१५) प्रतिबिम्बाध्यासे विक्षेपशक्त्यं शेनानुवर्तमानस्या ज्ञानस्य प्रतिबिम्बाध्यासोपादानत्वम् (६५-३) प्रतिमुखाध्यासपक्षः ६३-१८ (६३-२२) प्रत्ययाभ्यासः १६-8 प्रत्यक्षेणाद्वैतश्रुतेरबानिरूपणम् (४६-१) प्रत्यक्षेणाबाध्यत्वग्रहणसम्भवे ऽप्यबाध्यत्वे उत्कर्षापकर्ष- स्वीकारेण ब्रह्मज्ञानेतराबाध्यत्वस्य ब्रह्मज्ञानबाध्य- त्वस्य चाविरोधः (५१-१२) प्रत्यक्षस्य वृत्तिवेदयत्वम् । परोक्षस्य चैतन्यवेटात्वम् (४५-२) प्रपञ्चस्वरूपानिधेपि तस्य तात्त्विकत्वनिषेधः (५६-१) प्रातिभासिकजीवः (१७-६) प्रातिभासिकप्रपञ्चः १२-११ (६०-८) प्राप्तबाधः प्रामाण्यम् (५०-१८) प्राज्ञः १६-१७ (१६-१८) बद्रमुक्तव्यवस्थासिद्धये अन्तःकरणोपाधिभेदेन नानाजो- ववाद: (२१-११) बाध्यत्वाबाध्यत्वयोर्विरोधे ऽपि पश्चादुत्पन्नत्वेन बाध्य- त्वज्ञानस्याबाध्यत्वज्ञानबाधकत्वम् (५१-२०) बाल्यपाण्डित्यमानानि (६-१०) बिम्बचैतन्यएव स्वासप्रपञ्चाधिष्ठानत्वम् (६९-१) ब्रह्मगतसत्त्वस्य प्रपञ्चे प्रसक्तस्य श्रुतिकतो निषेधः (५६-१६) ब्रह्मचैतन्येन समपिर्तस्य प्रति बम्बत्य जीवेन सहेकीभावः (२६-६) ब्रह्मणः कारणत्वविचारे सङ्केपशारीरकमते शुद्धस्ये.पा- दानत्वम् (१०-११) ब्रह्मणः कारणात्वस्वरूपनिरूपणम् (१०-५) ब्रह्मणः सर्वज्ञत्वस्वरूपनिरूपणम् (२३-१३) ब्रह्मणो विवर्तरूपोपादानत्वम् १०-५ (१३-२) ब्रह्मलक्षणे जगज्जन्मस्थितिभङ्गेष्वेकैकस्य ब्रह्मलक्षणत्वं कामदीमते (६-१७) ब्रह्मविषयकस्य शाब्दज्ञानस्याप्यपरोक्षत्वोपपादनम् (६८-६) ब्रह्मसाक्षात्कार कारणनिरूपणम् । प्रत्ययाभ्यासस्य ब्रह्म- साक्षात्कारकारणत्वम् (६६-८) ब्रह्मसंस्थः ७-१६। (७-१८) ब्रह्मज्ञानस्यैवाज्ञाननिवर्त्तकत्वम् (१०५-२३) ब्रह्मज्ञानारूढचैतन्य प्रकाशस्यैवाज्ञाननिवर्तकत्वम् (१०५-१५) ब्रह्माकारवृत्तिनाशकनिरूपणम् । कतकरजोदृष्टान्तेनाज्ञा- नान्तरनाशकस्य ब्रह्मज्ञानस्य स्वनिवर्तकत्वम् (१०४-११) ...

... ६-७ ६ सूचीपत्तम् । पृष्ठे पता ब्रह्मानन्दस्य प्राप्यत्वोपपादनम् । कण्ठचामीकरन्याये- नौपचारिकी प्राप्तव्यता (११०-१२) ब्रह्मानन्दोक्तो जीवेश्वरविभागः (१६-१) ब्राह्मणस्यैव संन्यासपूर्वकं वेदान्तश्रवणाधिकारः क्षत्रि- यवैश्ययोस्तु तन्नेरपेक्ष्येणैव (६२-१) भामतीमते कर्मणां विविदिषोत्याद नोपयोगित्वम् (८५-५) भारतीतीर्थमते सर्वविषयवासनांसाक्षित्वरूपं ब्रह्मणः सर्वज्ञत्वम् भावनाप्रचयसाहित्येन शब्दस्याप्यपरोक्षजानजनकत्वम् (३८-१३) मननम् (६-१३) मनस एव ब्रह्मसाक्षात्कारकरणत्वम् (६७-१) मनसो नियामकत्वेन एकत्राज्ञाननिवृत्तावपि अपरत्राज्ञा- नानुवृत्त्युपपत्तिः (२१-२०) महावाक्यस्यैव ब्रह्मसाक्षात्कारकरणत्वम् (६७-१४) मायाकारणत्वविचारः (१२-२०) मायिकजीववादे हिरण्यगर्भस्यैव मुख्यं जीवत्वम् अन्येषां जीवाभासत्वम् ( २०-२१) मायाब्रह्मणोरुभयोर्जगदुपादानत्वनिर्वाहकमुपादानत्व- लक्षणम् (१३-१) माया वियाऽभेदवादिमते वियदादिनपञ्चे ईश्वरस्यैवा- न्तःकरणादी जीवस्यैवोपादानत्वम् ... (१२-४) मायाविट्याभेदवादिमते वियदादिप्रपञ्चे ईश्वरोपादान- त्वम् । अन्तःकरणादावीश्वरजीवयोरुभयोरप्युपादान- त्वम् (११-११) मायिकजीवेश्वरविभागः (२०-८) मिथ्यात्वम् (७२-१७) मिथ्यात्वस्य मिथ्यात्वे ऽपि प्रपञ्चप्सत्यत्वाभावनिरूपणम् (७४-१७) मिथ्यापदार्थस्या दक्रियाकारित्वोपपादनम् (७३-४) मुक्तस्वरूपनिरूपणम् । निर्विशेषचैतन्यरूपेणावस्थानम् (१११-७) मुक्तिः ७-१७॥ (१११-७) मूलाज्ञानस्यैव प्रतिबिम्बाध्यासोपादानत्वम् (६५-८) रजताकारवृत्तेर्वेयर्यम् (४४-३) रामाद्वयाचार्य मते अहङ्कारादीनां प्रातिभासकत्वोपपादक- भाष्यादिग्रन्यानां प्रीढिवादत्वम् (७३-१) लिङ्गम (२-८) हिरण्यगर्भः (१६-१२) वाचस्पतिमतेनात्मदर्शने त्रिविविधित्त्वाभावः (८-६) वाचस्पतिमते ब्रह्मण सापादानत्वम् । मायायास्तु सह- कारित्वमात्रम् (१३-१३) वाचस्पतिमते सर्वविषयकज्ञानात्मकत्वं सर्वज्ञत्वम् (२४-८) विज्ञानमयः (१६-३) विटयमानस्याऽपि स्वरूपानन्दस्यापरोक्ष्याऽभावेनापुरुषार्थ- त्वाद् विट्यया तदापरोक्ष्यात्याप्यता (११०-२२) विधिवादः (१-११) वियदादिप्रपञ्चईश्वरस्यैवोपादानत्वमन्तःकरणादा जी- वस्यैवोपादानत्वम् (१९-१६) ... ...

... ... ... सूचीपत्त्रम् । पृष्ठे पडती वियदादिप्रपञ्चस्य प्रतिपुरुषं भेदः (२२-१३) विराट् ... (१६-१३) विवतः १०-८) (१०-६) (१०-१०) (१०-टि. ३) (१०-टि. ८) विवरणमते जीवस्य प्रपञ्चानुपादानत्वाद् वृत्ती सत्या- मवभासः (२४-१३) विवरणमते मायाशबलस्येश्वरस्योपादानत्वम् (१०-१५) विवरणवार्तिककारमते श्रुति प्रत्यक्षयोरुभयोरपि प्रमाण- त्वेन तनिर्वाहाय प्रत्यक्षस्य व्यावहारिकतत्त्वावेद- कत्वं श्रुतेस्तु पारमार्थिकतत्त्वावेदकत्वमिति विषय व्यवस्था निर्दोषत्वाच्छ्रुतेः परत्वाच्च (५४-१) विवरणानुसारिणां मतेन जीवेश्वरभेद बिम्बप्रतिबिम्ब- वाद: (१७-११) विवरणानुसारिमते कर्मणां विट्यायामेवोपयोगित्वम् (८६-१) विवरणानुसारिमते ब्रह्मण्यवहितमनोव्यापारनिवृत्ति- फलकः श्रवणनियमविधिः । विवरणानुसारिमते भिन्नात्मशास्त्रनिवृत्तिफलको वेदा- न्तश्रवणनियमविधिः (४-११) विवरणकदेशिमले आत्मदर्शनविधिनियमविधिः पूर्ववत् (६-५) विश्लिष्टोपाधिभेदस्य सुखादयननुसन्धान प्रयोजकत्वम् (७८-१५) (१६-२०) विशुद्धं ब्रह्म जीवाभेदेन साक्षीति तत्त्व प्रदीपिकामतम् ३२-२२ विषयगताज्ञानस्य समानाधिकरणज्ञाननिवर्तकत्वाद् वृत्तिनिर्गमस्य फलितत्वम् (४७-२३) विषयाकारवृत्तिसंसृष्टावस्यविषयावच्छिन्नचैतन्यानाव- रकत्वस्वाभाव्यम् (२७-३) विषयावभासस्पष्टतासिद्धये वृत्त्यावश्यकत्वम् (४५-११) विषयोपरागः २५-५ (२५-७) वृत्तिनिर्गमावश्यकत्वनिरूपणम् (४४-२१) वृत्तिसंयोगेन चैतन्यसंयोगः संयोगजसंयोगः, (२५-१४) वृत्त्या ज्ञाननाशे ऽपि वृत्युपरमे अज्ञानान्तरस्यावरक- त्वम् (२८-७) वृत्त्या सह विषयस्य सम्बन्धनिरूपणम् (२५-५) वृत्त्युपयोगनिरूपणम् (२४-१३) वेदान्तमूलकेतिहासपुराणश्रवणनिवृत्तिफलको नियम- विधिः (५-२१) वेदान्तवाक्यजन्यस्यैव नियमादृष्टसहितस्य ब्रह्मज्ञा- नस्य ब्रह्माज्ञाननिवर्तकत्वम् (१०२-२४) वेदान्तश्रवणस्यादृष्टद्वारा प्रामुष्मिकवियोपयोगि- त्वम् (६४-११) व्यावहारिकजीवः... (१७-७) व्यावहारिकप्रपञ्चः १२-१०। (६०-७) व्यावहारिकप्रपञ्चमात्रईश्वरोपादानत्वम् । प्रातिभा- सिकप्रपञ्चे जीवस्योपादनत्वम् ... (१२-६) विश्वः ... ... ...

सूचीपत्त्रम् । पृष्ठे पक्षी शरीरेक्यभेदयोरनुसन्धानाननुसन्धान प्रयोजकत्वम् (७१-३) शुद्धचैतन्यम् १४-१७। (१६-११) द्रस्य ब्रह्मवियायामधिकाराभावोपपादनम् (८६-१२) शूद्रस्यापि विदयार्थकर्माधिकारित्वम् (८६-१८) श्रवणविधेनिर्विचिकित्सपरोक्षज्ञानजनकत्वनियम- विधिः (६-१४) अवविधा संन्यासनियमः (६१-११) श्रुतेः प्रत्यक्षागुलीयस्त्वव्यवस्थितत्वनिरूपणम् (५३-१) श्रुत्युपजीव्यत्वेन प्रत्यक्षाबाधशङ्कापरिहारः (५८-१५) सकारणाध्यासनिरूपणम् (३८-१) सङ्क्षपशारीरकमते ब्रह्मण एवोपादानत्वम् मायायास्तु द्वारकारणत्वम् (१३-१०) सत्तात्रैविध्यानङ्गीकारोपि प्रपञ्चे ब्रह्माविवेकेन सत्ता- प्रतीतिव्यवस्थापनम् (६०-६) संन्यासापूर्वस्य श्रवणाट्यधिकारिविशेषणत्वम् (६१-४) संन्यासाश्रमस्यैव विटयोपयोगित्वनिरूपणम् (६०-२०) संन्यासिनो वेदान्तश्रवणे मुख्यो ऽधिकारः क्षत्रियवे- श्ययोः संन्यासाभावादमुख्यो ऽधिकारः (६२-१५) सर्वज्ञात्मगुरुमते ब्रह्मसाक्षात्कारमात्रेण सविलासाऽ- ज्ञाननिवृत्तिः.. (१०७-६) साक्षात्कारः (६८-१६) साक्षिणो ऽज्ञानानावतत्वसाधनम् राहुवदविया स्वा- वृत्त प्रकाशप्रकाश्या (३४-८) साक्षिस्वरूपनिरूपणम् (३१-२३) साक्षी (३२-१ (३३-२), (३३-१६) साक्ष्यानन्दस्याऽनाक्तत्वनिरूपणम् (३४-१७) सिद्धान्तमुक्तावलीमते मायाया सवोपादानत्वम् (१३-१६) सष्टिकल्पकनिरूपणम् । पूर्वपूर्वावियोपहितस्योत्त- रोत्तराविट्याकल्पकत्वम् (७१-३) स्वतोऽपरोक्षस्याहङ्कारानवच्छिन्नचैतन्यस्य स्वानप्रप उचाधिष्ठानत्वम् (६८-३) स्वाप्नपदार्थाधिष्ठाननिरूपणम् (६६-७) स्वामपदार्थानुभवप्रकारनिरूपणम् (६६-३) स्वामप्रपञ्चः १२-११ । स्वामप्रपञ्चस्य ब्रह्मज्ञानेतरज्ञानबाच्यतया प्राति- भासिकत्वम् (६६-१२) संक्षेपशारीरकमते अवियायां चितिबिम्ब ईश्वरः अन्तःकरणे चित्प्रतिबिम्ब जीवः (१४-६) संक्षेपशारीरकमते काम्यानामपि विटयोपयोगित्वम् (८७-१६) संक्षेपशारीरकमते प्रत्यक्षस्य घटादिगतसत्त्वग्राहकत्वे ऽपि तत्त्वावेदकत्वरूपप्रामाण्याभावेन श्रीताद्वै- तबाधकत्वाभावः (५०-५७) संक्षेपशारीरकानुसारिमते पुरुषापरानिवृत्त्यर्थत्वेन नियमविधिः (७-१) ... ... ..

प्रथमपरिच्छेदः अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधा सरिदिव महीभेदान् संप्राप्य शौरिपदोद्गता । जयति भगवत्पादश्रीमन्मुखाम्बुजनिर्गता जननहरिणी सूक्तिब्रह्माद्वयैकपरायणा ॥ १ ॥ प्राचीनद्यवहारसिद्धिविषयेष्वात्मैक्यसिद्धो परं संनादिरनादरात सरणयो नानाविधा दर्शिताः । तन्मलानिह संग्रहण कति चित् सिद्धान्तभेदान धियः शुबै संकलयामि तातचरणव्याख्यावचःख्यापितान् ॥ २ ॥ तेषपपादनापेक्षान् पक्षान् प्रायो यथामति । युक्त्योपपादयन्नेव लिखाम्यनतिविस्तरान् * ॥ ३ ॥ (१) तत्र तावत् आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यधीतसाङ्गस्वाध्या- यस्य + वेदान्तैरापातप्रतिपन्ने ब्रह्मात्मनि समुदितजिज्ञासस्य तज्ज्ञानाय वेदान्तश्नवणे विधिः प्रतीयमानः किंविध इति चिन्त्यते ॥ तिम्र: खलु विधेर्विधाः अपूर्वविधिनियमविधिः परिसंख्याविधिश्चेति। तत्र कालचये ऽपि कथमप्यप्राप्तस्य प्राप्तिफलको विधिराद्यः यथा ब्रीहीन प्रोक्ष- तीति । नाच ब्रीहीणां प्रोक्षणस्य संस्कारकर्मणो बिना नियोगं मानान्तरण कथमपि प्राग्निरस्ति ॥ पक्ष प्राप्तस्याप्राप्तांशपरिपूरणा विर्धाितीयः । यथा ब्रीहीनवहन्तीति अत्र विध्यभावे ऽपि पुरोडाशप्रकृतिद्रव्याणां तण्डुलनिष्पत्याक्षेपादेवावहननप्राप्ति- भविष्यतीति न तत्प्राप्यर्थी विधिः किं त्वाःपादवहननप्राप्ती तद्वदेव लोकाव- * अनतिविस्तरमिति द्राः ४ पाः । । अधीतवेदस्यापि शिक्षाकल्पव्याकरणादीनां वेदाङ्गानामध्ययनाभावे सति व्युत्पत्तेरनु- दयाज्जिज्ञासाहेतूभूतापातप्रतिपत्तिरपि न संभवेदिभिप्रेत्याधीतसाङ्गस्वाध्यायस्येत्युक्तम् । टी. + नियोग विधायकशब्दमित्यर्थः। टी. वीहीणामित्यधिक द्रा ।

२ प्रथमपरिच्छेद गतकारणत्वाविशेषान्नखविदलनादिरपि पक्षे प्राप्नुयादित्यवहननाप्राप्तांशसंभवात तदशंपरिपरणफलः ॥ * द्वयोः शेषिणोरेकस्य शेषस्य वा एकस्मिन् शेषिणि द्वयोः शेषयोवा नित्यप्राप्नो शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिस्तृतीयः यथा- ग्निचयने इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्तइति । यथा वा चातु- मास्यान्तर्गतेष्टिविशेषे गृहमेधीये आज्यभागी यजतीति । अग्निचयने ऽश्वरश- नाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमनुष्ठेयम् । तचाश्वरशनाग्रहणे इमामगृभ्णा- निति मन्त्रो लिङ्गादेव रशनाग्रहणप्रकाशनसामर्थ्यरूपान्नित्यं प्राप्नोतीति न तत्प्रा- प्यर्थस्तदप्राप्तांशपरिपूरणार्थो वा विधिः किं तु लिङ्गाविशेषाद्गर्दभरशनाग्रहणे ऽपि मन्त्रः प्राप्नुयादिति तन्निवृत्त्यर्थः । तथा गृहमेधीयस्य दर्शपूर्णमासप्रकृतिकत्वा- दतिदेशादेवाज्यभागी नित्यं प्रामुत इति न तच विधिस्तत्प्राप्त्यर्थस्तन्नियमार्थो वा किं त्वतिदेशात् प्रयाजादिकमपि प्राप्नुयादिति तन्निवृत्त्यर्थः । गृहमेधीया- धिकरणपूर्वपक्षरीत्येदमुदाहरणं यत्र व चिदुदाहर्तव्यमित्युदाहृतम् ॥ न च नियमविधावपि पक्षप्राप्पावहननस्याप्राप्नांशपरिपूरणे कृते तदवस- दत्वात् पाक्षिकसाधनान्तरस्य नखविदलनादेर्निवृत्तिरपि लभ्यतइतीतर- निवृत्तिफलकत्वाविशेषानियमपरिसंख्ययोः फलता विवेको न युक्त इति शक्यम् । विधितो ऽवहनननियम विना ऽक्षेपलभ्यस्य नखविदलनादेर्निवर्तयितु- मशक्यतया ऽप्रामांशपरिपूरणरूपस्य नियमस्य प्राथम्याद्विधेयावहननगतत्वेन प्रत्यासन्नत्वाच्च तस्यैव नियमविधिफलत्वोपगमात् तदनुनिष्पादिन्या अविधे- यगतत्वेन विप्रकृष्टाया इतरनिवृत्तेः संनिकृष्टफलसम्भवे फलत्वानौचित्यात् ॥ एवं विविक्तासु तिसृषु विधेर्विधासु किंविधः श्रवणविधिराश्नीयते । प्रकटार्थकारादयः के चिदाहुः । अपूर्वविधिरयम् अप्राग्नत्वात् । न हि वेदान्त- श्रवणं ब्रह्मसाक्षात्कार हेतुरित्यवान्वयव्यतिरेकप्रमाणमस्ति लोके कृतश्रवण- स्यापि बहुशस्तदनुत्पत्तेः अकृतश्रवणस्यापि गर्भगतस्य वामदेवस्य तदुत्पत्ते- रुभयतो व्यभिचारात् । न वा श्रवणमाचं श्रोतव्यार्थसाक्षात्कारहेतुरिति शास्त्रा- द्वयोः शेषिणोरेकस्य शेषस्य नित्यप्राप्ती शेष्यन्तरनित्तिफलकः एकस्मिन् शेषिणि द्वयोः शेषयोर्नित्यप्राप्ती शेषान्तरस्य नित्तिफलको वा विधिस्तृतीय इति योजना । टी. शेष उपकारकः शेष्युपकार्यः। शेषः परार्थत्वात् । जै. सू. अ. ३ । पा. १ सू. २। '.

विधिवादः न्तरे * गृहीतः सामान्यनियमो ऽस्ति येनाच विशिष्य हेतुत्वग्राहकाभावे ऽपि सामान्यमुखेनैव हेतुत्वं प्राप्यत इति शङ्केत + गान्धर्वादिशास्त्रनवणस्य षड्जा- दिसाक्षात्कारहेतुत्वाभ्युपगमे ऽपि कर्मकाण्डादिश्रवणात तदर्थधर्मादिसाक्षा- त्कारादर्शनेन व्यभिचारात् । तस्मादपूर्वविधिरेवायम् । भाष्ये ऽपि सहकार्य- न्तरविधिः पक्षण तृतीयं तद्वतो विध्यादिवदि त्यधिकरणे विद्यासहकारिणो मानस्य बाल्यपाण्डित्यवद्विधिरेवायितव्यो ऽपूर्वत्वादिति पाण्डित्य- शब्दिते || श्रवणे ऽपूर्वविधिरेवाङ्गीकृत इति ॥ न वेदान्तश्रवणस्य नित्यापरोक्षब्रह्मसाक्षात्कारहेतुत्वं नाप्राप्तम् अपरो- क्षवस्तुविषयप्रमाणत्वावच्छेदेन साक्षात्कारहेतुत्वप्राप्तः शाब्दापरोक्षवादे व्यव- स्थापनात् । तदर्थमेव हि तत्प्रस्तावः । न च तावता ब्रह्मप्रमाणत्वेनापात- दर्शनसाधारणब्रह्मसाक्षात्कारहेतुत्वप्राप्तावप्यविद्यानिवृत्त्यर्थमिष्यमाणसत्तानि- श्चयरूपतत्साक्षात्कारहेतुत्वं श्रवणस्य न प्राप्तमिति वाच्यम् । विचारमावस्य विचार्यमावनिर्णयहेतुत्वस्य वा ब्रह्मप्रमाणस्य तत्साक्षात्कारहेतुत्वस्य च प्राप्ती विचारितवेदान्तशब्दज्ञानरूपस्य श्रवणस्य तदेतत्वप्राप्तः । न चोक्त उभयतो व्यभिचारः सहकारिवैकल्येनान्वयव्यभिचारस्यादोषत्वात् । जातिस्मरस्य जन्मान्तर श्रवणात्फलसम्भवेन व्यतिरेकव्यभिचाराभावात् । अन्यथा व्यभि- चारेण हेतुत्वबाधे श्रुत्यापि तत्साधनताज्ञानासम्भवात् । घटसाक्षात्कार चक्षु- रतिरकेण त्वगिन्द्रियमिव ब्रह्मसाक्षात्कारे श्रवणातिरकेणोपायान्तरमस्तीति- शङ्कायां व्यतिरेकव्यभिचारस्याप्यदोषत्वाच्च । तथा च प्राप्नत्वान्नापूर्वविधिः । अत एवावृत्तिरसकृदुपदेशादि * * त्यधिकरणभाष्ये दर्शनपर्यवसानानि हि श्रवणादीन्यावर्तमानानि दृष्टानि भवन्ति यथा ऽवघातादीनि तण्डुलनि- पत्त्यवसानानीति श्रवणस्य ब्रह्मदर्शानार्थस्य दृष्टार्थतया दार्शपूर्णमासिकाव- घातन्यायप्राप्तावावृत्त्युपदेशः । अपूर्वविधित्वे तु स न युज्यते सर्वोषधाऽव- शास्त्रान्तरवणे इति द्रा पा । + शयेतेति ४ पु. पाठः। # व्या. सू. अ. ३. पा. ४ सू. ४७ । ६ मननस्येति पु. पाः। || शब्दशब्दिते इति द्रा पाः । पा मात्रेति द्रा• पु. नास्ति । व्या. सू. अ.४ पा. १ सू. १ ।

. ४ प्रथमपरिच्छेदे घातवत् । अग्निचयने सर्वोषधस्य पूरयित्वा ऽवहन्त्यथैतदुपदधातीत्युपधेयो- लखलसंस्कारार्थत्वेन विहितस्यावघातस्य दृष्टार्थत्वाभावान्नावृत्तिरिति तन्त्र- लक्षणे * स्थितम् । अतो नियमविधिरेवायम् । तदभावे हि यथा वस्तु किं चिच्चक्षुषा वीक्षमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषान्तरे केन चित्कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि सप्रणिधानं व्यापार प्रवर्तते एवं मनसा ऽहमिति गृह्यमाणे जीवे वेदान्तरध्ययनगृहीतरुपदिष्टं निर्विशेषब्रह्मचैतन्यस्- पत्वमाकर्ण्य तदवगमाय तत्र सावधानं मनस एव निधाने कदा चित्पुरुषः प्रवर्ततेति वेदान्तश्रवणे प्रवृत्तिः पाक्षिकी स्यात् । अप्राप्य मनसा सहेति । तु मनसैवानुद्रष्टव्यं दृश्यते त्वय्यया बुद्धोत्यपि श्रवणेना ऽनवहितमनोवि- षयेति शङ्कासम्भवात ॥ अथ वा जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इत्यादिश्रवणानिन्नात्मज्ञानान्मुक्तिरिति भ्रमसम्भवेन मुक्तिसाधनज्ञानाय भिन्ना- त्मविचाररूपशास्त्रान्तरप्रवणेपि पक्षे प्रवृत्तिः स्यादित्यद्वितीयात्मपरवेदान्त- श्रवणनियमविधिरस्तु । इहात्मशब्दस्येदं सर्व यदयमात्मेत्यादिप्रकरणपया- लोचनया ऽद्वितीयात्मपरत्वात् । न हि वस्तुसत्साधनान्तरप्राप्तावेव नियम- विधिरिति कुलधर्मः । येन | वेदान्तश्रवणनियमार्थवत्त्वाय नियमादृष्टजन्यत्वप्र- तिबन्धककल्मषनिवृत्तिद्वारा सत्तानिश्चयरूप ब्रह्मसाक्षात्कारस्य वेदान्तश्नव- णैकसाध्यत्वस्याभ्युपगन्तव्यत्वेन तच वस्तुतः साधनान्तराभावान्न नियम- विधियुज्यते इति आशयेत किं तु यच साधनान्तरतया सम्भावनया || पक्ष प्राण्या विधित्सितसाधनस्य पाक्षिक्यप्राग्निनिवारयितुं न शक्यते तत्र नियम- विधिः । तावतेवा उप्रानांशपरिपूरणस्य तत्फलस्य सिद्धेः ॥ अथ वा गुरुमुखाधीनाध्ययनादिव ष निपुणस्य स्वप्रयत्नमाचसाध्या- दपि वेदान्तविचारात संभवति सत्तानिश्चयरूपं ब्रह्मापरोक्षज्ञानं किं तु गुरुमु- * तन्त्रलक्षणमेकादशाध्यायः । टी. + श्रुतिरिति द्रा. पुस्तके धिकम् श्रुतिस्त्विति २-३ पुस्तकयोः । + श्रुतावन्यं यदा पश्तीति जीवभिन्नात्मज्ञानस्य मोक्षहेतुताश्रवणाक्षमसंभव इति भावः। निरासद्वारेत्यर्थः । टी. 8 एतन्मध्यस्थं ४ पु. नास्ति । || संभाव्यमानस्येति पाठान्तरम् । मा अध्ययनेति ट्रा. नास्ति- ५ विधिवादः खाधीनवेदान्तवाश्यश्नवणनियमाऽदृष्टमविद्यानिवृत्तिं प्रति कल्मषनिरासेनोपयु- ज्यतइति तदभावेन * प्रतिबद्धमविद्यामनिवर्तयत् परोक्षकल्प + मवतिष्ठते । न च ज्ञानोदये ऽज्ञानाऽनिवृत्त्यनुपपत्तिः । प्रतिबन्धकाभावस्य सर्वचापेक्षितत्वेन सत्यपि प्रत्यक्षविशेषदर्शने उपाधिना प्रतिबन्धात्प्रतिबिम्बरूप भ्रमाऽनिवृत्ति- वत्तदनिवृत्त्युपपत्तेः । एवंचलिखितपाठादिनापि स्वाध्यायग्रहणप्रसक्ती गुरुमुखा- धीनाध्ययननियमविधिवत्स्वप्रयत्नमाचपूर्वकस्यापि वेदान्तविचारस्य सत्तानिश्च- यरूपब्रह्मसाक्षात्कारार्थत्वेन पक्षे प्राप्ती गुरुमुखाधीनश्नवनियमविधिरयमस्तु । न च तद्विज्ञानार्थं स गुरुमेवाभिगच्छेदिति गुरूपसदनविधिनैव गुरुर- हितविचारव्यावृत्तिसिर्विफलो नियमविधिरिति शक्यम् । गुरूपसदनस्य श्रवणाङ्गतया श्रवणविध्यभावे तद्विधिरेव नास्तीति तेन तस्य वैफल्याप्रसक्तः । अन्यथा ऽध्ययनाभतोपगमविधिनैव लिखितपाठादिव्यावृत्तिरित्यध्ययननि- यमपि विफल: स्यात् ॥ अथ वा द्वैतात्मपरभाषाप्रबन्धस्य श्रवणस्य पक्षे प्रात्या वेदान्तश्रवण- नियमविधिरस्तु । न च न स्लेच्छितवाइत्यादिनिषेधादेव तदप्राप्तिः शास्त्र- व्युत्पत्तिमान्द्यावेदान्तश्नवणमशक्यमिति पुरुषार्थनिषेधमुल्लङ्यापि भाषाप्रबन्धे- नाद्वैतं जिज्ञासमानस्य तचापि प्रवृत्तिसम्भवेन नियमविधेरर्थवत्त्वोपपत्तेः । अभ्युपगम्यते हि || कर्चधिकरणे व्युत्पादितं पुरुषार्थे ऽनृतवदननिषेधे सत्यपि दर्शपूर्णमासमध्ये कुतश्चिखेतारङ्गीकृततन्निषेधोल्लङ्घनस्या ऽविकलां क्रतु- सिद्धिं कामयमानस्या ऽनृतवदने प्रवृत्तिः स्यादिति पुनः क्रत्वर्थतया दर्शपूर्ण- मासप्रकरणे ना ऽनृतं वदेदिति निषेध इति क्रत्वर्थतया निषेधस्यार्थवत्त्वम् ॥ यद्वा यथा मन्त्रैरेव मन्त्रार्थस्मृतिः साध्येति नियमस्तन्मलकल्पसू- चात्मीयग्रहणकवाक्यादीनामपि वा पक्षे प्रातस्तथा वेदान्तमलेतिहासपुराण पोस- पेयप्रबन्धानामपि पक्षे प्राप्तिसम्भवान्नियमायमस्तु ॥ तदभावेन अदृष्टाभावेन । + परोक्षज्ञानकल्पमिति द्राः पाठः। + रूपेति द्रा. १ पुस्तकयोनास्ति । 8 तदर्थं श्रवणनियम इत्यधिक द्रा पुस्तके । || वक्ष्य भाणरीत्या व्युत्पादितमर्थवत्त्वमभ्युपगम्यतइति योजना । मन्त्रमूलकानां कल्पसूत्राणामात्मीयानां ग्रहणकवाक्यानां देवतास्वरूपप्रतिपादकश्लो- पा कादीनां चेत्यर्थः ।

प्रथमपरिच्छेदे सर्वथा नियमविधिरेवायम् । सहकार्यन्तरविधिरित्यधिकरणभाष्ये अपूर्वविधित्वोक्तिस्तु * नियमविधित्वेपि पाक्षिकाप्राप्तिसद्धावात्तदभिप्रायेति तत्रैव पक्षणेति पाक्षिकाप्राप्रिकथनपरसचपदयोजनेन स्पष्टीकृतमिति विवरणा- नुसारिणः ॥ कृतश्रवणस्य प्रथमं शब्दात् निर्विचिकित्सं+ परोक्षज्ञानमेवोत्पद्यते शब्दस्य परोक्षज्ञानजननस्वाभाव्येन ऋनसामोऽनतिलङ्घनात् । पश्चात्तु कृतमनननिदिध्यासनस्य सहकारिविशेषसम्पन्नात्तत एवाऽपरोक्षज्ञानं जायते तत्तांशगोचरज्ञानासमर्थस्या पीन्द्रियस्य तत्समर्थसंस्कारसाहित्यात्प्रत्यभिज्ञा- नजनकत्ववत्स्वतो उपरोक्षज्ञानजननाऽसमर्थस्यापि शब्दस्य विधुरप- रिभावितकामिनीसाक्षात्कारस्थले तत्समर्थत्वेन कृषभावनाप्रचयसाहित्याद- परोक्षज्ञानजनकत्वं युक्तं ततश्च शब्दस्य स्वतः स्वविषये परोक्षज्ञानजनक- त्वस्य भावनाप्रचयसहकृतज्ञानकरणत्वावच्छेदेन विधुरान्तःकरणवदपरोक्ष- ज्ञानजनकत्वस्य च प्राग्नत्वात्यर्वन्नियमविधिरिति तदेकदेशिनः ॥ वेदान्तश्रवणेन न ब्रह्मसाक्षात्कारः किं तु मनसैव सः मनसैवानु- द्रष्टव्यमिति श्रुतेः । शास्त्राचार्योपदेशशमादिसंस्कृतमन आत्मदर्शने करणमिति गीताभाष्यवचनाच्च । श्रवणं तु निर्बिचिकित्सपरोक्षज्ञानार्थमिति तादर्णेनैव नियमविधिरिति के चित् ॥ अपरोक्षज्ञानार्यत्वेनैव श्रवणे नियमविधिः द्रष्टव्य इति फलकीर्तनात् तादर्थ्यं च तस्य करणभूतमनःसहकारितयेव न साक्षात् || शब्दादपरोक्षज्ञा- नानङ्गीकारात् । न च तस्य तेन रूपेण तादयं न प्राप्तमित्यपूर्वविधित्वप्रसङ्गः श्रावणेषु षड्जादिषु समारोपितपरस्पराऽविवेकनिवृत्त्यर्थ मा गान्धर्वशास्त्रस्य अव- णसहकृतोत्रण परस्परासंकीर्णतद्याथार्थ्यापरोक्षदर्शनेन प्रकाशमाने वस्तुन्या- रोपिताऽविवेकनिवृत्त्यर्थशास्त्रसहावे तच्छ्रवणं तत्साक्षात्कारजनकेन्द्रियसह- कारिभावेनोपयुज्यतइत्यस्य कृपत्वादित्येके ॥ अपूर्वत्वोक्तिस्त्विति द्रा. पाठः। + निर्विचिकित्सं संशयानास्कन्दितम् । * ततः श्रवणात् $ ज्ञानजननासमर्थस्येति द्रा. पाठः । || न साक्षादिति द्रा पुस्तके नास्ति । 1 परस्परमविवेको नाम परस्परं तादात्म्यरूपः परस्परधर्मवत्तारूपश्चेति बोध्यम् । टी.

0 विधिवादः वेदान्तवाक्यानामद्वितीये ब्रह्मणि तात्यर्यनिर्णयानुकूलन्यायविचारात्म- कचेतोवृत्तिविशेषरूपस्य श्रवणस्य न ब्रह्मणि परोक्षमपरोक्षं वा ज्ञानं फलं तस्य शब्दादिप्रमाणफलत्वात् । न चोक्तरूपविचाराविधारिततात्पर्यविशिष्ट- शाब्दज्ञानमेव श्रवणमस्तु तस्य ब्रह्मज्ञानं फलं युज्यते इति वाच्यम् । ज्ञाने विध्यनुपपत्तेः । श्रवणविधेर्विचारकर्तव्यताविधायकजिज्ञासासूत्रमूलत्वोपगमा- च्चाहापोहात्मक * मानसक्रियारूपविचारस्यैव श्रवणत्वाचित्यात् । न च विचा- रस्यैव तात्पर्यनिर्णयद्वारा तज्जन्यतात्पर्यभ्रमादिपुरुषापराधरूपप्रतिबन्धविग- मद्वारा वा ब्रह्मज्ञानं फलमस्त्विति वाच्यम् । तात्पर्यज्ञानस्य + शाब्दज्ञाने कारणत्वानुपगमात् कार्य क्वचिदपि प्रतिबन्धकाभावस्य कारणत्वाऽनुपगमाच्च तयो द्वारत्वानुपपत्तेः । ब्रह्मज्ञानस्य विचाररूपातिरिक्तकारणजन्यत्वेन तत्प्रामाण्यस्य परतस्त्वापत्तेश्च । । तस्मात्तात्पर्यनिर्णयद्वारा पुरुषापराधनि- रासार्थत्वेनैव विचाररूपे श्रवणे नियमविधिः । द्रष्टव्यः इति तु दर्शनार्हत्वेन स्तुतिमाचं न श्रवणफलकीर्तनमिति संक्षेपशारीरकानुसारिणः ॥ ब्रह्मज्ञानार्थ वेदान्तश्रवणे प्रवृत्तस्य चिकित्साज्ञानार्थं चरकसुश्रुतादि- ग्रन्यनवणे प्रवृत्तस्येव मध्ये मध्ये व्यापारान्तरे ऽपि प्रवृत्तिः प्रसज्यतइति तन्निवृत्तिफलकः श्रोतव्य इति परिसंख्याविधिः । ब्रह्मसंस्था ऽमृतत्वमेतीति छान्दोग्ये ऽनन्यव्यापारत्वस्य मुक्त्युपायत्वाऽवधारणात् । संपूर्वस्य तिष्ठतेः समाग्निवाचितया ब्रह्मसंस्थाशब्दिताया ब्रह्मणि समानरनन्यव्यापारत्वरूप- त्वात् । तमेवैकं जानथ आत्मानमन्या वाचा विमुञ्चथेत्याथर्वणे कण्ठत एव व्यापारान्तरप्रतिषेधाच्च । आसुप्नरामृतेः कालं नयेद्वेदान्तचिन्तयेत्यादिस्मृ- तेश्च । न च ब्रह्मज्ञानानुपयोगिनो व्यापारान्तरस्य श्रवणेन सहकस्मिन्साध्ये समुच्चित्य प्राप्यभावान्न तन्निवृत्त्यर्थः परिसंख्याविधियुज्यतइति वाच्यम्। सह- कार्यन्तरविधिरित्यादिसूचे यस्मात् पक्षे भेददर्शनप्राबल्यान्न प्राप्नोति तस्मान्नि- यमविधिरिति तदाष्ये च कृतश्रवणस्य शाब्दज्ञानमाचात्कृतकृत्यतां मन्वा- नस्याविद्यानिवर्तकसाक्षात्कारोपयोगिनिदिध्यासने प्रवृत्तिर्न स्यादिति अतत्सा- * न्यायाभासेभ्यो निष्कृष्य न्यायानामुपादानमूहः । न्यायाभासनिराकरणमपोहः । टी. + प्रतिबन्धनिरासोपजननेनान्यथासिद्धत्वादिति भावः । टी. + तयोः तात्पर्यनिर्णयप्रतिबन्धविगमयोः। ६ प्रामाण्याअयज्ञानस्यातिरिक्तकारणजन्यत्वरूयं प्रामाण्यस्योत्पत्ती परतस्त्वं स्यादित्यर्थः। टी.

है. प्रथमपरिच्छेदै धनपक्षप्राणिमात्रेण निदिध्यासने नियमविधेरभ्युपगततया तयायेनासाधनस्य समुच्चित्य प्राप्तावपि तन्निवृत्तिफलकस्य परिसंख्याविधेः संभवादिति । नियमः परिसङ्ख्या वा विध्यर्थो ऽत्र भवेद्यतः । अनात्माऽदर्शनेनैव परात्मानमुपास्महे ॥ इति * वर्तिकवचनानुसारिणः के चिदाहुः ॥ आत्मा श्रोतव्य इति मननादिवदात्मविषयकत्वेन निबध्यमानं श्रव- णमागमाचार्योपदेशजमात्मज्ञानमेव न तु तात्पर्यविचाररूपं न तत्र कोपि विधिः । अत एव समन्वयमचे आत्मज्ञानविधिनिराकरणानन्तरं भाष्यं किमानि तहि आत्मा वा अरे द्रष्टव्य इत्यादीनि वचनानि विधिच्छायानि स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थीनीति ब्रम इत्यादि । यदि च वेदान्त- तात्पर्यविचारस्पं श्रवणं तदा तस्य तात्पर्यनिर्णयद्वारा वेदान्ततात्पर्यभ्रमसंशय- रुपप्रतिबन्धकनिरास एव फलं न प्रतिबन्धकान्तरनिरासा ब्रह्मावगमो वा । तत्फलकत्वं च तस्य लोकत एव प्राप्नं साधनान्तरं च किंचिद्विकल्प्य समुच्चित्य वा न प्रानमिति न तच विधिवयस्याप्यवकाशः । विचारविध्यभावेपि विज्ञा- नार्थतया विधीयमानं गुरुपसदनं दृष्टद्वारसंभवे ऽदृष्टकल्पनाऽयोगाद् गुरुमु- खाधीनवेदान्तविचारद्वारैव विज्ञानार्थे पर्यवस्यतीति । अत एव स्वप्रयत्नसा- ध्यविचारव्यावृत्तिः । अध्ययनविध्यभावे तूपगमनं विधीयमानमक्षरावाप्यर्थ- त्वेनाऽविधीयमानत्वान्न तदर्थ गुरुमुखाच्चारणानच्चारणमध्ययनं द्वारीकरोतीति लिखितपाठादिव्यावृत्त्यसिद्धेः सफलो ऽध्ययननियमविधिः । न च तात्पादिभ्र- मनिरासाय वेदान्तविचार्थिनः कदा चिद् द्वैतशास्त्रेषि प्रवृत्तिः स्यात् तचापि तदभिमतयोजनया वेदान्तविचारसत्त्वादित्यद्वैतात्मपरवेदान्तविचारनियम- विधिरर्थवानिति वाच्यम् । स्वयमेव तात्पर्यभ्रमहतोस्तस्य तन्निरासकत्वाभा- वेन + साधनान्तरप्रायभावात् । तन्निरासकत्वभ्रमेण तचापि कस्य चित्प्रवृत्तिः स्यादित्येतावता श्रोतव्य इति नियमविधेरभ्युपगम इत्यपि न। ईश्वरानुग्रहफ- लाद्वैतश्रद्धारहितस्य श्रोतव्यवाक्येपि पराभिमतयोजनया सद्वितीयात्मविचारवि- धिपरत्वभ्रमसम्भवेन भ्रमप्रयुक्ताया अन्यत्र प्रवृत्तेर्विधिशतेनाप्यपरिहार्यत्वात् । अन्न श्रोतव्य इति वाक्ये विध्यर्थी नियमो भवेत् परिसंख्या वा । यतः अन्यव्यापार- राहित्येन परमात्मोपासने वयं प्रवत्ता इति श्लोकार्थः । । तस्य द्वैतशास्त्रस्य तनिवारकत्वाभावेन भ्रमनिवारकत्वाभावेन !

. ब्रह्मलक्षणम् न च व्यापारान्तरनिवृत्त्या परिसंख्येति युक्तम् * । असंन्यासिनो व्यापा- रान्तरनिवृत्तरशक्यत्वात् । संन्यासिनस्तन्निवृत्तेब्रह्मसंस्थया सह संन्यासविधा- यकेन ब्रह्मसंस्थो ऽमृतत्वमेतीति श्रुत्यन्तरेण सिद्धतया संन्यासविधायकव- त्यन्तरमपेक्ष्य श्रोतव्यवाक्येन तस्य व्यापारान्तनिवृत्युपदेशस्य । व्यर्थत्वात्। न च विचारविध्यसंभवेपि विचारविषयवेदान्तनियमविधिः संभवति भाषा- प्रबन्धादिव्यावर्त्यसत्त्वादिति शङ्कयम् ।।सन्निधानादेववेदान्तनियमस्य लब्ध- त्वेन विधिविषयत्वायोगात् + + । स्वाध्यायो ऽध्येतव्य इत्यर्थावबोधनार्थनिय- मविधिबलादेवाध्ययनगृहीतवेदोत्पादितं वेदार्थज्ञानं फलपर्यवसायि न कार- णान्तरोत्पादितमित्यस्यार्थस्य लब्धत्वेन वेदार्थ ब्रह्मणि मोक्षाय ज्ञातव्ये भाषा- प्रबन्धादीनामप्राप्तः । न च सहकार्यन्तरविधिरित्यधिकरणे बाल्यपाण्डित्यमा- नशब्दितेषु श्रवणमनननिदिध्यासनेषु विधिरभ्युपगत इति वाच्यम् । विचारे विचार्यतात्पर्यनिर्णयहेतुत्वस्य वस्तुसिद्धानुकूलयुक्त्यनुसन्धानरूपे मनने तत्प्र- त्ययाभ्यासस्पे निदिध्यासने च वस्त्ववगमवैशद्यहेतुत्वस्य पच लोकसिद्धत्वेन तेषु विध्यनपेक्षणात् । विधिच्छायार्थवादस्येव प्रशंसाद्वारा प्रवृत्त्यतिशयकरत्व- माचेण तत्र विधित्वव्यवहारात् । एवं च श्रवणविध्यभावात्कर्मकाण्डविचारवद् ब्रह्मकाण्डविचारोप्यध्ययनविधिमूल इत्याचार्यवाचस्पतिपक्षानुसारिणः ॥ (२) विचार्यस्य च ब्रह्मणो * * जगज्जन्मस्थितिलयकारणत्वं लक्षणमुक्तं यतो वा इमानि भूतानि जायन्त इत्यादिश्रुत्या । जगज्जन्मस्थितिलयेष्वकैककार- णत्वमप्यनन्यगामित्वात् लक्षणं भवितुमर्हतीति चेत् सत्यं लक्षणचयमेवेदं परस्परनिरपेक्षम् । अत एवाऽत्ता चराचरग्रहणादित्याद्यधिकरणेषु सर्वसंह- तृत्वादिकं प्रत्येकं ब्रह्मलिङ्गतयोपन्यस्तमिति कौमुदीकारः ॥ अन्ये तु जन्मकारणत्वस्य स्थितिकारणत्वस्य च निमित्तकारणसाधा- रण्यादुपादानत्वप्रत्यायनाय प्रपञ्चस्य ब्रह्मणि लयो दर्शितः । अस्तु ब्रह्म * वाच्यमिति द्रा• पाठः। । व्यापारनिवृत्तीति २ पुस्तके। ++ एतन्मध्यस्थं चतुर्थपुस्तके नास्ति । 8 अध्ययनबोधितेति द्रा• पाठः। ॥ अप्राप्तेश्चेति द्रा. २ पुस्तकयोः । पा वैशटामबाधितत्वम् । * * श्रोतव्यवाक्यार्थविचारेण प्रथमसूत्रार्थः संग्रहीतः । क्रमप्राप्तं द्वितीयसूत्रार्थ संग- घणाति । टी. ++ व्या. सू. अ. १ पा. २ मू.६।

१० प्रथमपरिच्छेदे जगदुपादानं तज्जन्मनि घटजन्मनि कुलालवत्तत्स्थिता राज्यस्थेम्नि राजव- चापादानादन्यदेव निमित्तं भविष्यतीति शङ्काव्यवच्छेदाय तस्यैव जगज्जन्म- जीवननियामकत्वमुक्तम् । तथा चैकमेवेदं लक्षणमभिन्ननिमित्तोपादानतयाऽ- द्वितीयं ब्रह्मोपलक्षयतीत्याहुः ॥ ब्रह्मणश्चोपादानत्वमद्वितीयकूटस्थचैतन्यरूपस्य न परमाणुनामिवा- रम्भकत्वरूपं न वा प्रकृतेरिव परिणामित्वरूपं किं तु अविद्यया वियदादि- प्रपञ्चरूपेण विवर्तमानत्वलक्षणम् । वस्तुनस्तत्समसत्ताको ऽन्यथाभावः परि- णामः तदासमसत्ताको विवर्त इति घा* कारणसलक्षणो ऽन्यथाभावः परि- णामः तद्विलक्षणो विवर्त इति वा कारणाऽभिन्नं कार्य परिणामः तदभेदं विनैव तद्यतिरेकेण दुर्वचं कार्य विवर्त इति वा विवर्तपरिणामयोविवेकः ॥ (४) अथ शुद्धं ब्रह्मापादानमिष्यते ईश्वररूपं जीवरूपं वा । अब संक्षेप- शारीरकानुसारिणः के चिदाहुः । शुद्धमेवोपादानं जन्मादिसूचतद्भाष्ययोरुपा- दानत्वस्य ज्ञेयब्रह्मलक्षणत्वोक्तः । तथा चात्मन आकाशः संभूत इत्यादिका- रणवाक्येषु शबलवाचिनामात्मादिशब्दानां शुद्धे लक्षणैवेति ॥ विवरणानुसारिणस्तु यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः तस्मा- देतद् ब्रह्म नाम रूपमन्नं च जायतइत्यादिश्रुतेः सर्वज्ञत्वादिविशिष्टं माया- * उपादानत्वाभिमतवस्तुसत्तासमानसत्ताकत्वे सति तदवस्थाविशेषरूपत्वं तत्परिणा- मत्यम् । विवर्तवारणाय सत्यन्तं घटस्य तन्तुपरिणामत्ववारणाय विशेष्यम् । टी. उपादानत्वाभिमतवस्तुसत्ताविषमसत्ताकत्वे सति तदवस्थाविशेषरूपत्वं तद्विवर्त्तत्वम् । चैतन्यस्य मद्वस्तुविवर्तत्ववारणाय विशेष्यम् । परिणामवारणाय सत्यन्तम् । टी. + उपादानत्वाभिमतवस्तुसलक्षणत्वे सति तदवस्थाविशेषत्वं तत्परिणामत्वम् । अत्र सालक्षण्यं जडरूपं बोध्यम् । मद्वस्तुनो घटपरिणामत्ववारणाय विशेष्यं प्रपञ्चस्य संवित्परिणाम- त्त्ववारणाय सत्यन्तम् । उपादानत्वाभिमतवस्तुविलक्षणत्वे सति तदवस्थाविशेषत्वं तद्विवर्तत्वम् । अत्र चि- त्वजडत्वरूपं वैलक्षण्यं विवक्षितम् । उपादानत्वाभिमतजडविलक्षणे चैतन्ये जडविवर्त्तत्वधारणाय विशेष्यम् । घटादी मद्विवर्तत्ववारणाय सत्यन्तम् । टी. । कारणत्वाभिमतवस्त्वभिन्नत्वे सति तत्कार्यत्वं परिणामत्वम् । वियदादी ब्रह्मपरिणा- मत्ववारणाय सत्यन्तम् । मदो घटपरिणामत्ववारणाय विशेष्यम् । उपादानत्वाभिमतवस्तुनः सकाशाद्वस्तुतो भेदाभेदाभ्यां दुर्निरूपत्वे सति कार्यत्वं कार्य: रूपविवर्तमात्रलक्षणम् । अविद्यायामतिव्याप्तिवारणाय विशेष्यम् । प्रारम्भवादे उपादानादभेदेन दुर्निरूपकार्ये अतिव्याप्तिवारणाय भेदेति। परिणामवादे उपादानाद्भेदेन दुर्निरूपकार्थे ऽतिव्याप्ति- वारणायाभेदेति । सिद्धान्ते कार्यकारणयो दोषगमादसंभववारणाय वस्तुत इत्युक्तम् । टी.

૧૧ ब्रह्मणः कारणत्वविचार: शबलमीश्वररूपमेव ब्रह्मोपादानम् । अत एव भाष्येऽन्तस्तद्धर्मोपदेशात सर्वत्र प्रसिद्धोपदेशादि * त्याद्यधिकरणेषु सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद् ब्रह्म सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरस इत्यादिश्रुत्युक्तं सर्वो- पादानत्वप्रयुक्तं सर्वात्मकत्वं जीवव्यावृत्तमीश्वरलिङ्गमित्युपर्णितम् । जीवे- श्वरानुस्यतचैतन्यमाचस्य सर्वोपादानत्वे तु न तज्जीवव्यावृत्तमीश्वरलिङ्गं स्यात् । संक्षेपशारीरके शबलोपादानत्वनिराकरणमपि मायाविशिष्टोपादानत्व- निराकरणाभिप्रायं न तु + निष्कृष्टेश्वररूपचैतन्योपादानत्वनिराकरणपरम् । तत्रैव प्रथमाध्यायान्ते जगदुपादानत्वस्य तत्यदार्थवृत्तित्वोक्तेः । एवं चेश्वर- गतमपि कारणत्वं तदनुगतमखण्डचैतन्यं शाखा चन्द्रमसमिव । तटस्थ- तयोपलक्षयितुं शक्नोतीति तस्य ज्ञेयब्रह्मलक्षणत्वोक्तिरिति मन्यन्ते ॥ वियदादिप्रपञ्च ईश्वराश्वितमायापरिणाम इति तरेश्वर उपादानम् । अन्तःकरणादिकं त्वीश्वराश्रितमायापरिणाममहाभूतोपसृष्टजीवाविद्याकृत- भूतसूक्ष्मकार्यमिति तचोभयोरुपादानत्वम् । अत एव एवमेवास्य परिद्रष्टु- रिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं यन्तीति श्रुतो कलाशब्दवा- च्यानां प्राण मनःप्रभृतीनां विदुषो विदेहकैवल्यसमये अविद्यानिवृत्त्या अवि- द्याकार्याशाभिप्रायेण विद्ययोच्छेदो दर्शितः । गताः कलाः पञ्चदश प्रतिष्ठा इति श्रुत्यन्तरे तदनिवर्त्यमायाकार्यमहाभूतपरिणामरूपोपष्टम्भकांशाभिप्रायेण तेषां स्वस्वप्रकृतिषु लयो दर्शितः । इति मायाऽविद्याभेदवादिनः ॥ यथा वियदादिप्रपञ्च ईश्वराश्रितमायापरिणाम इति तत्रेश्वर उपा- दानं तथान्तःकरणादि जीवाश्रिताऽविद्यामाचपरिणाम इति तत्र जीव एवोपा- दानम् । न चान्तःकरणादौ मायाकार्यमहाभूतानामप्यननुप्रवेशे उदाहृतश्रुति- द्वयव्यवस्थानुपपतिः । कलानां विद्ययोच्छेदश्रुतिस्तत्वविदृष्टिविषया गताः कला इति श्रुतिस्तु म्रियमाणे तत्त्वविदि || समीपतिनः पुरुषा नश्यघटवत्त- . व्या. सू• अ• १ पा. १ सू• २० । व्या. सू. अ. १ पा. २ सू. १ । । निष्कृष्टमनुपहितम् । + चन्द्रमसं शाखेव ईश्वरगतं कारणत्वं तदनुगतमखण्डचैतन्यमुपलक्षयितुं शलोतीति संबन्धः। ६ मायामात्रेणेति ४ पुः पाठः । || तत्त्वविदीति द्रा पुस्तके नास्ति ।

१२ दीयशरीरादीनामपि भम्यादिषु लयं मन्यन्तइति तटस्थपुरुषप्रतीतिविष- प्रथमपरिच्छेदे येति व्यवस्थायाः कलालया* धिकरणभाष्ये । स्पष्ठत्वात् इति मायाविद्या- भदवादिष्वेकदेशिनः ॥ - तदभेदवादिष्वपि के चिद्यद्यपि वियदादिप्रपञ्चस्येश्वर उपादानं तथा- प्यन्तःकरणादीनां जीवतादात्म्यप्रतीतेर्जीव एवोपादानम् । अत एवाध्यास- भाष्येऽन्तःकरणादीनां जीवे एवाध्यासो दर्शितः । विवरणे च प्रतिकर्मव्यव- स्थायां ब्रह्मचैतन्यस्योपादानतया घटादिसङ्गित्वं जीवस्य तदसङ्गित्वेप्यन्तः- करणादिसङ्गित्वं च वर्णितमित्याहुः ॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्कोतिरापश्च पृथिवी. विश्वस्य धारिणीत्यादिश्रुतेः कृत्स्त्रस्य व्यावहारिकप्रपञ्चस्य ब्रह्मैवोपा- दानं जीवस्तु प्रातिभासिकस्य स्वग्नप्रपञ्जस्य च । कृतनासक्तिर्निरवयवत्वशब्द- कोपा वेत्यधिकरणे ब्रह्मणा जगदुपादानत्वे तस्य कात्स्येन जगदा- कारण परिणामे विकारातिरेकेण ब्रह्माऽभावो वा एकदेशेन परिणामे निरव- यवत्वश्रुतिविरोधो वा प्रसज्यतइति पूर्वपक्षे आत्मनि चैवं विचिचाश्च ही ति सूत्रेण विवर्त्तवादाभिप्रायेण स्वप्नदृशि जीवात्मनि स्वरूपानुपमर्द्ध- ननानेकाकारस्वप्नप्रपञ्चसृष्टिवत् ब्रह्मणि वियदादिसृष्टिरुपपद्यतइति सिद्धान्ति- तत्वादित्यन्ये ॥ जीव एव स्वप्नदृष्टवत् स्वस्मिन्नीश्वरादिसर्वकल्पकत्वेन सर्वकारणमि- त्यपि के चित् ॥ (५) अथ मायां तु प्रकृतिं विद्यादित्यादिश्रुतेर्मायाजाड्यस्य घटादिष्वनु- गमाच्च माया जगदुपादानं प्रतीयते कथं ब्रह्मोपादानम् । अचाहुः पदार्थतत्त्वनिर्णयकाराः । ब्रह्म माया चेत्युभयमुपादानमित्यु- भयश्रुत्युपपत्तिः । सत्ताजाड्यरूपोभयधर्मानुगत्युपपत्तिश्च । तब ब्रह्म विवर्तमा- नतयापादानमविद्या परिणममानतया। न च विवाधिष्ठाने पारिभाषिकमुपादा- नत्वं स्वात्मनि कार्यजनिहेतुत्वस्योपादानलक्षणस्य तचाप्यविशेषादिति ॥ * कलाप्रलयेति द्रा. १ पुस्तकयोः । * व्यासू. अ. ४ पा.२ सू. १५ । * व्याः सू. अ. २ पा• १ सू. २६ । व्या• सूः अ. प्रा• १ सू. २८ ।

मायाकारणत्वविचारः के चित्तु उक्तामेव प्रक्रियामभ्युपगम्य विवर्तपरिणामोपादानद्वयसाधा- रणमन्यलक्षणमाहुः । स्वाभिन्न कार्यजनकत्वमुपादानत्वम् । अस्ति च प्रपञ्चस्य सदूपेण ब्रह्मणा विवर्तमानेन जडेनाऽज्ञानेन परिणामिना चाऽभेदः सन् घटः जडी घट इति सामानाधिकरण्यानुभवात् । न च तदनन्यत्वमारम्भण- शब्दादिभ्य* इति सूचे अनन्यत्वं व्यतिरेकेणाभावः न खलु अनन्यत्व- मित्यभेदं ब्रमः किंतु भेदं व्यासेधाम इति भाष्यभामतीनिबन्धाभ्यां प्रपञ्चस्य ब्रह्माभेदनिषेधादभेदाभ्युपगमे ऽपसिद्धान्त इति वाच्यम् । तयोब्रह्मरूपर्मि- समानसताकाऽभेदनिषेधे तात्पर्येणेदंरजतयोरिव प्रातीतिकाऽभेदाभ्युपगमेपि विरोथाभावादिति ॥ संक्षेपशारीरककृतस्तु ब्रह्मैवोपादानं कूटस्थस्य स्वतः कारणत्वानु- पपत्तायाद्वारा + कारणम् । अकारणमपि कार्ये ऽनुगच्छति मृद इव तद्गत- श्लक्ष्णत्वादेरपि घटे ऽनुगमदर्शनादित्याहुः ॥ वाचस्पतिमिश्नास्तु जीवानितमायाविषयीकृतं ब्रह्म स्वत एव जाड्या- श्रयप्रपञ्चाकारेण विवर्तमानतयोपादानमिति माया सहकारिमाचं न कार्यानु- गतं द्वारकारणमित्याहुः ॥ सिद्धान्तमुक्तावलीकृतस्तु मायाशक्तिरेवोपादानं न ब्रह्म तदेतद् ब्रह्मा- ऽपूर्वमनपरमबाह्यं न तस्य कार्य करणं च विद्यते इत्यादिश्रुतेः । जगदुपा- दानमायाधिष्ठानत्वेन तूपचारादुपादानं तादृशमेवोपादानत्वं लक्षणे विवक्षित- मित्याहुः ॥ (६) अथ क ईश्वरः को वा जीवः । अचोक्तं प्रकटार्थविवरणे अनादिर- निर्वाच्या भूतप्रकृतिश्चिन्माचसंबन्धिनी माया तस्यां चित्प्रतिबिम्ब ईश्वरः । एव परिच्छिन्नाऽनन्तप्रदेशेष्वावरणविक्षेपशक्तिम दविद्याभिधानेषु चित्प्रतिबिम्बो जीव इति ॥ ६ तस्या * व्या. सू• अ• २ पा• १ सू. १४ । + करणमपि द्वारं कार्य इति द्रा. पाठः। + रकारणमपीति ४ पुः पाठः । ब्रह्मचैतन्यावरणानुकूला शक्तिरावरणशक्तिः । श्रावरणं च ब्रह्म नास्ति न प्रकाशतइति व्यवहारयोग्यत्वम् । विक्षेपपदेन तत्तज्जीवसाधारणदुःखादिकं विवक्षितं तदनुकूला शक्तिर्विक्षेप- शक्तिरित्यर्थः । टी.

१४ तु प्रथमपरिच्छेदे तत्त्वविवेके तु त्रिगुणात्मिकाया मूलप्रकृतेर्जीवेशावाऽऽभासेन करोति माया चाविद्या च स्वयमेव भवतीतिश्रुतिसिद्धा द्वा रूपभेदो रजस्तमोऽन- भिभूतशुद्धसत्त्वप्रधाना माया तदभिभूतमलिनसत्त्वा * ऽविद्येति मायाविद्याभेदं परिकल्प्य मायाप्रतिबिम्ब ईश्वरो ऽविद्याप्रतिबिम्बो जीव इत्युक्तम् । एकैव मूलप्रकृतिविक्षेपप्राधान्येन मायाशब्दिता ईश्वरोपाधिः आवरणप्राधान्येनाऽवि- द्याऽज्ञानशब्दिता जीवोपाधिः । अत एव तस्या जीवेश्वरसाधारणचिन्माचसंब- न्धित्वेपि जीवस्यैवाऽज्ञोस्मीत्यज्ञानसंबन्धानुभवो नेश्वरस्येति जीवेश्वरवि- भागः क्व चिदुपपादितः ॥ संक्षेपशारीरके कार्योपाधिरयं जीवः कारणोपाधिरीश्वर इति श्रुतिमनुसृत्य अविद्यायां चित्प्रतिबिम्ब ईश्वरः अन्तःकरणे चित्प्रतिबिम्बो जीवः । न चान्तःकरणरूपेण द्रव्येण घटेनाऽऽकाशस्येव चैतन्यस्यावच्छेदसं- भवात्तदवच्छिन्नमेव चैतन्यं जीवो ऽस्त्विति वाच्यम् । इह परच च जीवभावे- नाऽवच्छेद्यचैतन्यप्रदेशस्य भेदेन कृतहानाऽकृताभ्यागमप्रसङ्गात् । प्रतिबि- म्बस्तूपाधेगतागतयोरवच्छेदकगतागतयोरवच्छेद्यवन्न भिद्यतइति प्रतिबिम्ब- पने नायं दोष इत्युक्तम् ॥ एवमुक्तेष्वेतेषु जीवेश्वरयोः प्रतिबिम्बविशेषत्वपक्षेषु यद् बिम्बस्था- नीयं ब्रह्म । तन्मुक्तप्राप्यं शुद्धचैतन्यम् । चित्रदीपे जीव ईशो शुद्धा चिदिति वैविध्यप्रक्रियां विहाय यथा घटावच्छिन्नाऽऽकाशा घटाकाशस्तदाश्रिते जले प्रतिबिम्बितः साभ्रनतबो जलाकाश: अनवच्छिन्नो महाकाशः महाकाशमध्य- वर्तिनि मेघमण्डले वृष्टिलक्षणका-नुमेयेषु जलरूपतदवयवेषु तुषाराकारेषु प्रतिबिम्बितो मेघाकाश इति वस्तुत एकस्याकाशस्य चातुर्विध्यं तथा स्थल- सूक्ष्मदेहवयस्याधिष्ठानतया वर्तमानं तदवच्छिन्नं चैतन्यं कूटवनिर्विकारत्वेन स्थितं कूटस्थं तच कल्पितेन्तःकरणे प्रतिबिम्बितं चैतन्यं संसारयोगी जीवः अनवच्छिन्नं चैतन्यं ब्रह्म सदाश्रिते मायातमसि स्थितासु सर्वप्राणिनां धीवा- सनासु प्रतिबिम्बितं चैतन्यमीश्वर इति चैतन्यस्य चातुर्विध्यं परिकल्प्यान्तः- * त्वविदोति ३ । ४ पु. पाठः। मलिनसत्त्वप्रधानेत्यर्थः । + अस्मिन् लोके ब्राह्मणादिशरीरगतान्तःकरणावच्छिनचैतन्य प्रदेशस्य कर्मकर्तृत्वात् लोका- न्तरे देवादिशरीरान्तःकरणावच्छिन्न प्रदेशस्य चाकर्तुभक्तृत्वात् कृतहानादिप्रसङ्गः। येन कर्म कृतं न तस्य भागः। येन कर्म न कृतं तस्यारुतकर्मफलाभ्यागम इत्यर्थः । टी. + ब्रह्मेति नास्ति द्रा• पुस्तके । 8 विवर्तमानमिति ३।४ पुः पाठः ।

जीवेश्वरस्वरूपनिरूपणम् करणधीवासनापरक्ताऽज्ञानोपाधिभेदेन जीवेश्वरविभागो दर्शितः । अयं चाऽप- रस्तदभिहितो विशेषः चतुर्विधेष्वेषु चैतन्येषु जीवो ऽहमिति प्रकाशमानः कूट- स्थे ऽविद्यातिरोहिताऽसङ्गानन्दरूपविशेषांशे शुक्तो सूप्यवदध्यस्तः । अत एवेदंत्वरजतत्वयोरिवाधिष्ठानसामान्यांशाध्यस्तविशेषांशरूपयोः स्वयंत्वाऽहं- त्वयोः सह प्रकाशः स्वयमहं करोमीत्यादौ । अहंत्वं त्वध्यस्तविशेषांशरूपं पुरुषान्तरस्य पुरुषान्तरे ऽहमिति व्यवहाराभावेन व्यावृत्तत्वात् । स्वयंत्वं चान्यत्व प्रतियोग्यधिष्ठानसामान्यांशरूपं स्वयं देवदत्तो गच्छतीति पुरुषान्तरेपि व्यवहारेणानुवृत्तत्वात् । एवं परस्पराध्यासादेव कूटस्थजीवयोरविवेको लौकि- कानाम् । विवेकस्तु तयोबृहदारण्यके प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यतीति जीवाभिप्रायेण + मायोपाधिविनाशानुविनाशप्रतिपादने- नाऽविनाशी वा अरे ऽयमात्मेति कूटस्थाभिप्रायेणाऽविनाशप्रतिपादनेन च स्पष्टः अहमर्थस्य जीवस्य विनाशित्वे कथमविनाशिब्रह्माऽभेदः । नेदमभेदे सामा- नाधिकरण्यं किं तु बाधायां यथा यः स्थाणुरेष पुमानिति पुरुषत्वबोधेन स्थाणुत्वबुद्धिन्निवर्त्यते एवमहं ब्रह्मास्मीति कूटस्थब्रह्मरूपत्वबोधेनाध्यस्ता- हमरूपत्वं निवर्त्यते । यो ऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव ब्रह्मा- स्मीति धिया ऽशेषा ह्यहंबुद्धिर्निवर्त्यतइति नैष्कर्म्यसिद्धिवचनात् । यदि च विवरणाद्युक्तरीत्येदमभेदे सामानाधिकरण्यं तदा जीववाचिनो ऽहंशब्दस्य लक्षणया कूटस्थपरत्वमस्तु तस्याऽबाध्यस्य ब्रह्माभेदयोग्यत्वात् । यस्तु मेघा- काशतुल्यो धीवासनाप्रतिबिम्ब ईश्वर उक्तः सायं सुषुप्रस्थाने एकीभूतः प्रज्ञा- नधन एवानन्दमयो ह्यानन्दभुगिति माण्डूक्यश्रुतिसिद्धसौषुप्रानन्दमयस्तचेक तदनन्तरमेष सर्वेश्वर एष सर्वज्ञ एषोन्तर्यामी एष योनिः सर्वस्य प्रभवाप्ययो हि भूतानामिति श्रुतेः । सर्ववस्तुविषयसकलप्राणिधीवासनोपाधिकस्य तस्य सर्वज्ञत्वं तत एव सर्वकर्तृत्वोपपत्तेश्च । न चास्मद्बुद्धिवासनोपहितस्य कस्य चित्सार्वयं नानुभूयतइति वाच्यम् । वासनानां परोक्षत्येन तदुपहितस्यापि परोक्षत्वादिति ॥ * चैतन्येति ४ पुः पाठः। + मायेति द्रा. नास्ति। + इदं ब्रह्माहंपदयोः समानविभक्तिमत्त्वरूपं सामानाधिकरण्यमभेदरूपे ऽर्थ नाभ्युपगम्यते येनाभेदासंभयो दोषः स्यात् । पुरुषत्वपदेन कल्पितस्थाणुतादात्म्याभाववत्वं विचितं बाधायां वाक्यार्थत्वस्वीकारात् । टी.

१६ प्रथमपरिच्छेदे ब्रह्मानन्दे तु सुषुप्पिसंयोगान्माण्डक्योक्त आनन्दमयो जीव इत्यु- तम् । तथा हि जाग्रदादिषु भोगप्रदस्य कर्मणः नये निद्रारूपेण विलीनम- न्तःकरणं पुनभौगप्रदकर्मवशात्प्रबोधे घनीभवति तदुपाधिको जीवो विज्ञा- नमय इत्युच्यते । स एव पूर्व सुषुग्निसमये विलीनावस्थोपाधिकः सन्नानन्द- मय इति उच्यते स एव माण्डक्ये सुषुनिस्थान* एकीभूत इत्यादिना दर्शित इति । एवं सति तस्य सर्वेश्वरत्वादिवचनं कथं संगच्छताम् । इत्यं सन्त्य- धिदैवतमध्यात्मं च परमात्मनः सविशेषाणि चीणि सूपाणि । तचाधिदैवतं चीणि शुद्धचैतन्यं चेति चत्वारि रूपाणि चिचपटदृष्टान्तेन चिचदीपे समर्थि- तानि । यथा स्वतः शुभ्रः पटो धौतः अन्नलिनो घटित + इति मस्यादिवि- कारयुक्तो लाञ्छितो वर्णपरितो रजित इत्यवस्थाचतुष्टयमेकस्यैव चित्रपटस्य तथा परमात्मा मायातत्कार्योपाधिरहितः शुद्धः मायोपहित ईश्वरः अप- ज्वीकृतभूतकार्य्यसमष्टिसूक्ष्मशरीरोपहिता हिरण्यगर्भः । पञ्चीकृतभूतकार्यस- मष्ठिस्थूलशरीरोपहितो विराट् पुरुष इत्यवस्थाचतुष्टयमेकस्यैव परमात्मनः । अस्मिँश्च चित्रपटस्थानीये परमात्मनि चित्रस्थानीयः स्थावरजङ्गमात्मको निखिलः प्रपञ्चः । यथा चिचगतमनुष्याणां चिचाधारवस्त्रसदृशा वस्त्राभासा लिख्यन्ते तथा परमात्माध्यस्तदेहिनामधिष्ठानचैतन्यसदृशाश्चिदाभासाः कल्य्यन्ते ते च जीवनामानः संचरन्तीति । अध्यात्म नः संचरन्तीति । अध्यात्मं तु विश्वतेजसप्राज्ञ- भेदेन चीणि रूपाणि तच सुषुनौ विलीनेन्तःकरणे ऽज्ञानमाचसाक्षी प्राज्ञः । योयमिहानन्दमय उक्तः स्वप्ने व्यष्टिसूक्ष्मशरीराभिमानी तेजसः । जागरे व्यष्टि- स्थूलशरीराभिमानी विश्वः । तच माण्डूक्यश्रुतिरहमनुभवे प्रकाशमानस्यात्मना विश्वतेजसप्राज्ञतुरीयावस्थाभेदरूपपादचतुष्टयं सोयमात्मा चतुष्पादित्युपक्रम्य पूर्वपूर्वपादनविलापनेन निष्प्रपञ्चब्रह्मात्मकतुरीयपादप्रतिपत्तिसाकाय स्थूलसू- क्ष्मसूक्ष्मतरोपाधिसाम्याद्विराडादीन्विश्वादिष्वन्तर्भाव्य जागरितस्थानो बहिः- प्रज्ञ इत्यादिना विश्वादिपादान्यरूपयत् । अतः प्राज्ञशब्दिते आनन्दमये व्याकृतस्येश्वरस्यान्तभावं विवक्षित्वा तत्र सर्वेश्वरत्वादितद्धर्मवचनमिति । इत्थमेव भगवत्पादैगौडपादीयविवरणे व्याख्यातम् ॥ * पुस्तकेष्वेवमेव पाठः। उपनिषदि तु सुषुप्तस्थान इति बहुत्र दृश्यते । + घहित इति द्रा. २ पुस्तकयोः।

१७ जीवेश्वरस्वरूपनिरूपणम् दृगदृश्यविवेके तु चिचदीपव्युत्पादितं कूटस्थं जीवकोटावन्तव्य चित्रैविध्यप्रक्रियैवालम्बितेति विशेषः । तत्र युक्तं जलाशयतरङ्गबुबुदन्याये- नोपर्युपरि कल्पनाद् जीवस्त्रिविधः । पारमार्थिको व्यावहारिकः प्रातिभासि- कश्चेति । तचावच्छिन्नः पारमार्थिको जीवः । तस्मिन्नवच्छेदकस्य कल्पितत्वेपि अवच्छेद्यस्य तस्याऽकल्पितत्वेन ब्रह्मणाऽभिन्नत्वात् । तमावृत्त्य स्थितायां मायायां कल्पितान्तःकरणे चिदाभासो ऽन्तःकरणतादात्म्यापत्त्या ऽहमित्यभि- मन्यमानो व्यावहारिकः । तस्य मायिकत्वेपि यावद्दयवहारमनुवृत्तेः । स्वप्ने तमप्यावृत्त्य स्थितया मायावस्थाभेदरूपया निद्रया कल्पिते स्वामदेहादाव- हमभिमानी प्रातिभासिकः । स्वप्नप्रपञ्चेन सह तद्दष्टुर्जीवस्यापि प्रबोधे निव- तेरिति । एवमेते प्रतिबिम्बेश्वरवादिनां पक्षभेदा दर्शिताः ॥ विवरणाऽनुसारिणस्त्वाहुः । विभेदजनके ऽज्ञाने नाशमात्यन्तिकं गते आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यतीतिस्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपाधित्वप्रतिपादनाविम्बप्रतिबिम्बभावेन जीवेश्वरयोविभाग: नोभयोरपि प्रतिबिम्बभावेनो पाधिद्वयमन्तरेणाभयोः प्रतिबिम्बत्वायोगात् । तचापि प्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वरः तथा सत्येव लौकिकबिम्ब- प्रतिबिम्बदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य तत्पारतन्त्र्यं जीवस्य च युज्यते । प्रति- बिम्बगताः पश्यन्नृजुवक्रादिविक्रियाः पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थ- विक्रिया इति कल्पतरूक्तरीत्या लोकवत्तु लीलाकैवल्य + मिति सूत्रमपि संगच्छते । अज्ञानप्रतिबिम्बितस्य जीवस्यान्तःकरणरूपो ज्ञानपरिणामभेदो विशेषाभिव्यक्तिस्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव अतस्तस्य तदुपाधिकत्वव्यवहारोपि । नैतावता ऽज्ञानोपाधिपरित्यागः अन्तःकरणोपा- धिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यहाधिष्ठानत्वानुपपत्तेः । न च योगप्रभावात् योगिनोऽन्तःकरणं कायव्यहाभिव्यक्तियोग्यं वैपुल्यं प्राप्नोतीति तदवच्छिन्नस्य कायव्यहाधिष्ठानत्वं युज्यतइति वाच्यम् । प्रदीपवदावेशस्तथा हि दर्शयती तिशास्त्रोपान्त्याधिकरणभाष्यादिषु कायव्यहे प्रतिदेहमन्तःक- रणस्य चक्षुरादिवभिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात् । प्रतिबिम्बे बिम्बा- ... * विम्बभावेनेति ३ पु. पाठः। # व्या. सू. अ. ४ पा• ४ सू. १५ । । ध्या• सू• अ• २ पा• १ सू. ३३ ।

१८ प्रथमपरिच्छेद द्वेदमात्र * स्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् न प्रतिबिम्बरूपजीवस्य मुत्यन्वयासंभव इति न तदतिरकेण मुत्यन्वयायाऽवच्छिन्नरूपजीवान्तरं वा प्रतिबिम्बजीवातिरिक्तं जीवेश्वरविलक्षणं कूटस्थशब्दितं चैतन्यान्तरं वा कल्पनीयम् । अविनाशी वा अरे अयमात्मेति श्रवणं जीवस्य तदुपाधिनिवृत्ती प्रतिबिम्बभावापगमेपि स्वरूपं न विनश्यतीत्येतत्परं न तदतिरिक्तकूटस्थना- मचेलन्यान्तरपरम् । जीवोपाधिनान्त:करणादिनाऽवच्छिन्नं चैतन्यं बिम्बभत ईश्वर एव । यो विज्ञाने तिष्ठन्नित्यादिश्रुत्या ईश्वरस्यैव जीवसन्निधानेन तदन्तयामिभावेन विकारान्तरावस्थानश्रवणादिति ॥ अन्ये । तु रूपानुपहितप्रतिबिम्बो न युक्तः सुतरां नीरूपे । गगनप्रतिबिम्बोदाहरणमप्ययुक्तं गगनाभोगव्यापिनि सवितृकरमण्डले सलिले प्रतिबिम्बिते गगनाततिबिम्बत्वस्य व्यवहारस्य भ्रममात्रमूलकत्वात् । ध्वनी वर्णप्रतिबिम्बत्ववादाप्ययुक्तः व्यजकतया सन्निधानमात्रेण ध्वनिधर्माणामु- दातादिस्वराणां वर्णेष्वारोपोपपत्ते नेवर्णप्रतिबिम्बोपाधित्वकल्पनाया निष्प- माणकत्वात् । प्रतिध्वनिरपि न पूर्वशब्दप्रतिबिम्बः पञ्चीकरणप्रक्रियया पटहप- योनिधिप्रभृतिशब्दानां क्षितिसलिलादिशब्दत्वेन प्रतिध्वनेरेवाकाशशब्दत्वेन तस्यान्यशब्दप्नतिबिम्बत्वाऽयोगात् । वर्णरूपप्रतिशब्दोपि न पूर्ववर्णप्रति- बिम्बः वर्णाभिव्यञ्जकध्वनिनिमित्तकानतिध्वनमूलध्वनिवदेव वर्णाभिव्यजक- त्वेनोपपत्तेः । तस्माद् घटाकाशवदन्तःकरणावच्छिन्नं चैतन्यं जीवः तदनव- च्छिन्नमीश्वरः । न चैवमण्डान्तवर्तिनश्चतन्यस्य तत्तदन्तःकरणोपाधिभिः सर्वात्मना जीवभावनाऽवच्छेदात्तदवच्छेदरहितचैतन्यरूपस्येश्वरस्याण्डाद् बहिरेव सत्त्व स्यादिति यो विज्ञाने तिष्ठन्नित्यादावन्तयामिभावेन विकारा- न्तरावस्थान श्रवणं विरुथ्यते । प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनादेकत्र द्विगुणीकृत्य वृत्तिरुपपद्यते इति वाच्यम् । यतः प्रतिबिम्बपक्षेपि उपाधावनन्तर्गतस्यैव चैतन्यस्य तत्र प्रति- बिम्बो वाच्यः न तु जलचन्द्रन्यायेन कृत्स्नप्रतिबिम्बः तदन्तर्गतभागस्य तत्र स्वरूपस्य कल्पितत्वव्यवच्छेदो मानशब्दार्थः। टी. । एवं चैतन्यस्य प्रतिबिम्बत्वमुपगच्छतां मतभेदेन जीवेश्वरविभागो दर्शितः । इदानीं तमनभ्युपगन्तॄणां मतेन जीवादिस्वरूपं दर्शयितुं चैतन्यस्य प्रतिबिम्ब निराकरोति । टी. । अविट्यान्तःकरणादाविति शेषः। ६ प्रतिबिम्बरूपजीवभावेन तत्तदुपाध्यन्तर्यामिभावेन वेत्यर्थः । टी. . m Int ह जीवेश्वरस्वरूपनिरूपणम् प्रतिबिम्बाऽसंभवात् । न हि मेघावच्छिन्नस्याकाशस्यालोकस्य धा जले प्रति- बिम्बवत् जलान्तर्गतस्यापि तत्र प्रतिबिम्बो दृश्यते । न वा मुखादीनां बहिः स्थितिसमय इव जलान्तर्निमज्जनपि प्रतिबिम्बोस्ति । अतो जलप्रति- बिम्बं प्रति मेघाकाशादेरिवान्तःकरणाद्यपाधिप्रतिबिम्ब प्रति तदन्तर्गतस्यैव बिम्बत्वं स्यादिति बिम्बभूतस्य विकारान्तरवस्थानायोगादीश्वरेन्तयामिना- ह्मणाऽऽजस्याभावस्तुल्यः । एतेनावच्छिन्नस्य जीवत्वे कर्तृभोक्तृसमययोस्तच तवान्तःकरणावच्छेद्यचैतन्यप्रदेशस्य भिन्नत्वात्कृतहानाकृताभ्यागमप्रसङ्ग इति निरस्तम् । प्रतिबिम्बपक्षेपि स्वानन्तर्गतस्य * स्वसन्निहितस्य चैतन्यप्रदेशस्या- न्तःकरणे प्रतिविम्बस्य वक्तव्यतया तत्र तवान्तःकरणस्य गमने बिम्बभेदा- त्प्रतिबिम्बस्यापि भेदावश्यंभावेन दोषतोल्यात् । न चाऽन्तःकरणप्रतिबिम्बो जीव इति पक्षे दोषतौल्ये ऽप्यविद्याप्ततिबिम्बो जीवस्तस्य च तच तच गत्वरम- न्तःकरणं जलाशयव्यापिनो महामेघमण्डलप्रतिबिम्बस्य तदुपरि विसृत्वर- स्फीतालोक इव तत्र विशेषाभिव्यक्तिहेतुरिति पक्षे नायं दोषः अन्तःकर- णवदविद्याया गत्यभावेन । प्रतिबिम्बभेदानापत्तेरिति वाच्यम्। तथैवावच्छेद- पक्षे ऽप्यविद्यावच्छिन्नो जीव इत्यभ्युपगमसंभवात् । तचाप्येकस्य जीवस्य व चित्प्रदेशे कर्तृत्वं प्रदेशान्तरे भोक्तृत्वमित्येवंकृतहानाकृताभ्यागमदोषा- पनुत्तये वस्तुतो जीवैक्यस्य शरणीकरणीयत्वेन तन्यायादन्तःकरणोपाधिपक्षेपि वस्तुतश्चैतन्यैक्यस्य तदवच्छेदकोपाध्यक्यस्य च ताभ्युपगमेन दोषनिरा- करणसंभवाच्च । न चावच्छेदपक्षे यथा स्वयंज्योतिरात्मा विवस्वानपो भिन्ना बहुधेको ऽनुगच्छन् उपाधिना क्रियते भेदरूपो देवः क्षेत्रेध्वेवमजा ऽयमात्मा अत एव चोपमासूर्यकादिवदिति श्रुतिसूत्राभ्यां विरोधः अम्बुवदग्रहणात्तु न तथात्व मित्युदातसूत्रानन्तरसूत्रेण यथा सूर्यस्य रूपवतः प्रतिबिम्बो- दययोग्यं ततो विप्रकृष्टदेशं रूपवज्जलं गृह्यते नैवं || सर्वगतस्यात्मनः प्रति- बिम्बोदययोग्यं किं चिदस्ति ततो विप्रकृष्टमिति प्रतिबिम्बाऽसंभवमुक्ता वृद्धि- हासभाक्वमन्तभावादुभयसामञ्जस्यादेव पा मिति तदनन्तरसूत्रेण यथा जल- प्रतिबिम्बितः सूर्यो जलवृद्धौ वर्द्धते इव जलहासे हसतीव जलचलने चल- * स्वानन्तर्गतस्यति । प्रागुक्तयुक्तिरत्रानुसंधेया । टी. # व्या. सू. अ. ३ पा• २ सू. १८। व्या. सू. अ. ३ पा. २ मू. १६ । || सर्वभागस्येति २ पुस्तकपाठः । १॥ व्या. सू. अ. ३ पा. २ सू. २० । । + अपरिच्छिन्नत्वादिति भावः । ....

. प्रथमपरिच्छेद तीवेति तस्याध्यासिकं जलानुरोधिवृद्धिहासादिभात्वं तथात्मनोन्तःकरणा- दिना ऽवच्छेदेनोपाध्यन्तीवादाध्यासिकतदनुरोधिवृद्धिहासादिभात्कमित्येवं दृष्टान्तदाष्ट्रान्तिकयोः सामजस्यादविरोधः इति स्वयं सूचकृतैवावच्छेदपक्ष तयोस्तात्पर्यकथनात् । घटसंवृतमाकाशं नीयमाने यथा घटे घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः अंशा नानाव्यपदेशादिति * श्रुतिसूचाभ्यामव- च्छेदपक्षस्यैव परिग्रहाच्च । तस्मात्सर्वगतस्य चैतन्यस्यान्तःकरणादिना ऽव- च्छेदो ऽवश्यंभावीत्यावश्यकत्वादवच्छेदो जीव इति पक्षं रोचयन्ते ॥ अपरे तु न प्रतिबिम्बो नाप्यवच्छेदो जीवः किं तु कौन्तेयस्यैव राधे- यत्ववदविकृतस्य । ब्रह्मण एवाविद्यया जीवभावः व्याधकुलसंवर्धितराजकु- मारदृष्टान्तेन ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया विमुच्यतइति बृह- दारण्यकभाष्ये प्रतिपादनात् । राजसूनाः स्मृतिप्राप्नो व्याधभावो निवर्त्तते तथैवमात्मनो ऽजस्य तत्त्वमस्यादिवाश्यत इति वार्तिकेोक्तश्च । एवं च स्वाविद्यया जीवभाषमापनस्यैव ब्रह्मणः प्रपञ्चकल्पकत्वा दीश्वरोपि सह सर्वज्ञत्वादिधर्मः स्वप्नोपलब्धदेवतावज्जीवकल्पित इत्याचक्षते ॥ ७) अथायं जीव एक उतानेकः । अनुपदोक्तपक्षावलम्बिन: के चिदाहुः । एको जीवस्तेन चेकमेव शरीरं सजीवमन्यानि स्वप्नदृष्टशरीराणीव निर्जी- वानि तदज्ञानकल्पितं सर्व जगत् तस्य स्वप्नदर्शनवद्यावदविद्यं सर्वा व्यव- हारः । बद्धमुक्तव्यवस्थापि नास्ति जीवस्यैकत्वात् । शुकमुक्त्यादिकमपि स्वामपुरुषान्तरमुक्त्यादिकमिव कल्पितम् । अत्र च संभावितसकलशङ्कापङ्क- क्षालनं स्वप्नदृष्टान्तसलिलधारयैव कर्त्तव्यमिति ॥ अन्ये त्वस्मिन्नेकशरीरैकजीववादै मनःप्रत्ययमलभमाना अधिकं तु भेदनिर्देशात || लोकवत्तु लीलाकैवल्य पा मित्यादिसूर्जीवाधिक ईश्वर एव जगतः स्रष्टा न जीवस्तस्याप्तकामत्वेन प्रयोजनाभावेपि केवलं लीलयैव जगतः सृष्टिरित्यादिप्रतिपादयनिर्विरोधं च मन्यमाना हिरण्यगर्भ एको N व्या• सू• श्र• २ पा• ३ सू. ४३ । + अविकृतस्यैव ब्रह्मण इति द्रा• पु. पाठः। । सर्वप्रपञ्चेति द्रा. १ पुस्तकयोः । ब्रह्मैव स्वाविटाया संसरति स्वाविटाया मुच्यतइत्यादिग्रन्याक्तत्यर्थः । टी. || व्या• सू• • २ पा• १ सू. २२ । || व्या• सू• अ• २ पा• १ सू• ३३ ।

२१ जीवैकत्वानेकत्वविचारः ब्रह्मप्रतिबिम्बो मुख्यो जीवः अन्ये तु तत्प्रतिबिम्बभूताश्चिच * लिखितमनु- ध्यदेहार्पितपटाभासकल्या जीवाभासाः संसारादिभाज इति सविशेषाऽनेकश- रीरैकजीववादमातिष्ठन्ते ॥ अपरे तु हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यं जीवत्वमित्यत्र नियामकं नास्तीति मन्यमाना एक एव जीवो ऽविशेषण सर्व शरीरमधितिष्ठति । न चैवं शरीरावयवभेदइव शरीरभेदेपि परस्परसु- खाद्यनुसन्धानप्रसङ्गः । जन्मान्तरीयसुखाद्यनुसन्धानादर्शनेन शरीरभेदस्य तदननुसन्धानप्रयोजकत्वकृप्तः । योगिनस्तु कायव्यहसुखाद्यनुसन्धानं व्यव- हितार्थग्रहणवद्योगप्रभावनिबन्धनमिति न तदुदाहरणमित्य विशेषानेकश- रीरकजीववादं रोचयन्ते ॥ इतरे त्वचापि बद्ध मुक्तव्यवस्थाऽभावस्य तुल्यत्वेन तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवदित्यादिश्रुतेः प्रतिषेधादिति चेन्न शारीरा|| दित्य- धिकरणे बद्धमुक्तत्वप्रतिपादकभाष्यस्य च नाऽऽज्जस्यमित्यपरितुष्यन्तो ऽन्तः- करणादीनां जीवोपाधित्वाभ्युपगमेनानेकजीववादमाश्रित्य बद्धमुक्तव्यवस्था प्रतिपद्यन्ते । तेषु के चिदेवमाहुः । यद्यपि शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानं एव च मोक्षस्तथापि जीवन्मुक्तावऽज्ञानलेशानुवृत्त्यभ्युपगमेनाज्ञानस्य सांशत्वा- तदेव क्वचिदुपाधी ब्रह्मावगमोत्पत्तावंशेन निवर्तते उपाध्यन्तरेषु यथापूर्वमं- शान्तररनुवर्ततइति ॥ अन्ये तु यथा न्यायैकदेशिमते भूतले घटात्यन्ताभावस्य वृत्ती घटसंयोगाभावो नियामक इत्यनेकेषु प्रदेशेषु तद्वत्सु संसृज्य वर्तमानो घटा- त्यन्ताभावः क्व चित्प्रदेशे घटसंयोगोत्पत्त्या तदभावनिवृत्ती न संसृज्यते एवमज्ञानस्य चैतन्ये वृत्ती मनो नियामकमिति तदुपाधिना चैतन्यप्रदेशेषु संसृज्य वर्तमानमज्ञानं क्वचिद् ब्रह्मदर्शनोत्पत्त्या भिद्यते हृदयग्रन्थिरिति- तन्नाश . * चित्रपटलिखितेति द्रा पुस्तके । + सविशेषाणि सजीवान्यनेकशरीराणि यस्मिन्नेकजीववादे स तथा । टी. + अविशेषेणाधिष्ठितान्यनेकशरीराणि यस्मिन्नेकजीववादे स तथा। टी. ६ बन्धमुक्तिव्यवस्थेति द्रा पुस्तकपाठः। || व्या. सू. अ. ४ पा. २ सू• १२ ।

२२ .. प्रथमपरिच्छेदे श्रुत्युक्तरीत्या मनसो निवृत्ती न संसृज्यते अन्यत्र यथापूर्वमवतिष्ठते अज्ञान- संसाऽसंसगावेव च बन्धमोक्षावित्याहुः ॥ अपरे तु नाऽज्ञानं शुद्धचैतन्यानयं किं तु जीवाश्मयं ब्रह्मविषयं तच्चान्तःकरणप्रतिबिम्बरूपेषु सर्वेषु जीवेषु व्यक्तिषु जातिवत्प्रत्येकपर्यवसा- यितया वर्तमानमुत्पन्नविद्यं कं चित्त्यजति* नष्टां व्यक्तिमिव जाति: स एव मोक्षः । अन्यं यथापूर्वमानयतीति व्यवस्थेत्याहुः ॥ इतरे तु प्रतिजीवमविद्याभेदमभ्युपगम्यैव तदनुवृत्तिनिवृत्तिभ्यां बद्ध- मुक्तव्यवस्थां समर्थयन्ते । अस्मिन्पक्षे कस्याऽविद्यया प्रपञ्चः कृतो ऽस्त्विति चेत् विनिगमकाभावात्सर्वाऽविद्याकृतोऽनेकतन्त्वारब्धपटतुल्यः । एकस्य मुक्तो तदविद्यानाशे एकतन्तुनाशे पटस्येव तत्साधारणप्रपञ्चस्य नाशः । तदैव विद्यमानतन्त्वन्तरैः पटान्तरस्येवेतराऽविद्याभिः सकलेतरसाधारणप्रपञ्चान्त- रस्योत्पादनमित्येके ॥ तत्तदज्ञानकृतप्रातिभासिकरजतवन्यायमते तत्तदपेक्षाबुद्धिजन्यद्वित्व- वच्च तत्तदविद्याकृतो वियदादिप्रपञ्चः प्रतिपुरुषं भिन्नः । शुक्तिरजते त्वया यदृष्टं रजतं तदेव मयापीतिवदैक्यभ्रममावमित्यन्ये ॥ जीवाश्रितादविद्यानिवहाद्भिन्ना ना मायैवेश्वराश्रिता प्रपञ्चकारणं । जीवा- नामविद्यास्त्वावरणमाचे प्रातिभासिकशुक्तिरजतादिविक्षेपे ऽपि चाफ्युज्यन्तइ- त्यपरे ॥ (८) अवसितमुपादानत्वं तत्प्रसक्तानुप्रसक्तं च । अथ कीदृशं कर्तृत्वं के चिदाहुः तदैक्षत सो ऽकामयत तदात्मानं स्वयमकुरुतेति श्रवणान्यायमतइय कार्यानुकूलचानचिकीर्षाकृतिमत्त्वरूपमिति ॥ अन्ये तु चिकीर्घाकृतिकर्तृत्वनिर्वाहाय चिकीर्षाकृत्यन्तरापेक्षायामन- वस्थाप्रसङ्गात्कार्यानुकूलज्ञानवत्त्वमेव ब्रह्मणः कर्तृत्वम् । न च ज्ञानेप्येष * जहातीति द्रा पुस्तके । + सर्वेषां जीवानां सर्वाविद्यापरिणाम इत्यर्थः । यद्वा सर्वावियाविषयीकतब्रह्मविवर्तः प्रपञ्च इत्यर्थः । टी. * कारिणीति द्रा पुस्तकपाठः। ६ यत्किंचित्कार्य प्रत्युपादानत्वाभावो मात्रशब्दार्थः । ननु जीवाश्रितावियानां जीवचे- तन्याध्यस्त प्रातिभासिकस्वमाप्रपञ्चे पादानतया तत्रोपयोगसंभवेपि शुक्तिरजतायुपादानत्वं न संभ- वति शुक्त्याट्यच्छिचचैतन्ये रजताधिष्ठाने तासामसंभवादिति चेत्सत्यम् । आदिपदग्रहीतस्त्रम- स्वात्र विक्षित इत्यदोषः । यद्वा वाचस्पतिमतइव शुक्तिरजतादेरपि जीवाविषयीकत शुक्त्याव्यव- छिचचैतन्यविवर्तत्वमभिप्रेत्य जीवावियानां प्रतिभासिकरजतादावुपयोगकथनोपपत्तेर्नदोषः। टी. य ।। ।

ब्रह्मणः कर्तृत्वस्वरूपनिरूपणम् । ब्रह्मणः सर्वज्ञत्वस्वरूपनिरूपणम् २३ प्रसङ्गः तस्य ब्रह्मस्वरूपत्वेनाकार्यत्वात् । एवं च विवरणे जीवस्य सुखादि- कर्तृत्वोक्तिः वीक्षणमात्रसाध्यत्वाद्वियदादि वीक्षितं हिरण्यगर्भद्वारा वीक्षणाधि- कप्रयत्नसाध्यत्वात् भौतिक स्मितमिति * कल्पतरूक्तिश्च संगच्छतइति व- दन्ति ॥ अपरे तु कार्यानुकूलस्रष्टव्यालोचनारूपज्ञानवत्त्वं कर्तृत्वं न कार्यान- कूलज्ञानवत्त्वमाचं शुक्तिरजतस्वानभ्रमादिषु अध्यासानुकलाधिष्ठानज्ञानवत्वेन जीवस्य कर्तृत्वप्रसङ्गात् । न चेष्टापत्तिः अथ रथान् रथयोगान्पथः सृजते स हि कर्तेत्यादिश्रुत्यैव जीवस्य स्वप्नप्रपञ्चकर्तृत्वोक्तेरिति वाच्यम् । भाष्यका- रैलाङ्गलं गवादीनुद्वहतीतिवत् कर्तृत्वोपचारमा रथादिप्रतिभाननिमित्तत्वेनेति व्याख्यातत्वादित्याहुः ॥ अनेनैव निखिलप्रपञ्चरचनाकर्तृभावेनार्थसिद्धं सर्वज्ञत्वं ब्रह्मणः शास्त्र- योनित्वा दित्यधिकरणे वेदकर्तृत्वेनापि समर्थितम् ॥ अथ कथं ब्रह्मणः सर्वज्ञत्वं संगच्छते जीववदन्तःकरणाभावेन ज्ञातृ- त्वस्यैवायोगात् । अत्र सर्ववस्तुविषयसकलप्राणिधीवासनोपरक्ताऽज्ञानोपाधिक ईश्वरः अतस्तस्य सर्वविषयवासनासाक्षितया सर्वज्ञत्वमिति भारतीतीर्थादि- पक्षः प्रागेव दर्शितः ॥ प्रकटार्थकारास्त्वाहुः । यथा जीवस्य स्वोपाध्यन्तःकरणपरिणामाश्चै- तन्यप्रतिबिम्बग्राहिण इति तद्योगाज्ज्ञातृत्वम् एवं ब्रह्मणः स्वोपाधिमा- यापरिणामाश्चित्प्रतिबिम्बग्राहिणः सन्तीति तत्प्रतिबिम्बितेः स्फुरणैः काल- चयर्तिनापि प्रपञ्चस्यापरोक्षणाऽवकलना त्सर्वज्ञत्वमिति ॥ तत्त्वशुद्धिकारास्तक्तरीत्या ब्रह्मणो विद्यमाननिखिलप्रपञ्चसाक्षात्कार- संभवात्तज्जनितसंस्कारवत्तया च स्मरणोपपत्तेरतीतसकलवस्त्ववभाससिद्धिः । सृष्टेः प्राङ् मायायाः सृज्यमाननिखिलपदार्थस्फुरणरूपेण जीवादृष्टानुरोधेन विवर्तमानत्वात्तत्साक्षितया तटुपाधिकस्य ब्रह्मणोपि तत्साधकत्वसिद्धरना- गतवस्तुविषयविज्ञानोपपत्तिरिति सर्वज्ञत्वं समर्थयन्ते ॥ कौमुदीकृतस्तु वदन्ति स्वरूपज्ञानेनैव ब्रह्मणः स्वसंसृष्टसर्वावभासक- त्वात्सर्वज्ञत्वम् । अनीतानागतयोरप्यविद्यायां चित्रभित्तो विमृष्टानुन्मीलित- स्मृतमिति १ पुस्तके। + व्या. सू. श्र. १ पा. १ सू३ । + व्या. सू. अ. १ पा. १ सू३। विषयीकरणादित्यर्थः। टी.

२४ प्रथमपरिच्छेदे चिचव * त्संस्कारात्मना सत्त्वेन तत्संसर्गस्याप्युपपत्तेः । न तु वृत्तिज्ञानस्तस्य सर्वज्ञत्वं तमेव भान्तमनुभाति सर्वमिति सावधारणश्रुतिविरोधात् । सृष्टः प्रागेकमेवाद्वितीयमित्यवधारणानुरोधेन महाभूतानामिव वृत्तिज्ञानानामपि प्रलयस्य वक्तव्यतया ब्रह्मणस्तदा सर्वज्ञत्वाभावापत्त्या प्राथमिकमायाविवर्त- रूपे ईक्षणे तत्पूर्वकमहाभूतादौ च स्रष्टुत्वाभावप्रसङ्गाच्च । एवं सति ब्रह्मणः सर्वविषयज्ञानात्मकत्वमेव स्यान्न तु सर्वज्ञातृत्वरूपं सर्वज्ञत्वमिति चेत्सत्यं सर्वविषयज्ञानात्मकमेव ब्रह्म न तु सर्वज्ञानकर्तृत्वरूपं ज्ञातृत्वमस्ति ॥ अत एव वाश्यान्वया | दित्यधिकरणे विज्ञातृत्वं जीवलिङ्गमित्युक्तं भाष्यकारैः । यः सर्वज्ञ इत्यादिश्रुतिरपि दृश्यत्वावच्छिन्नरूपेणैव योजनीयेति । यद्यपि ब्रह्म स्वरूपचैतन्येनैव स्वसंसृष्टसर्वावभासकं तथापि तस्य स्वरूपेणा- ऽकार्यत्वेपि दृश्यावच्छिन्नरूपेण तु ब्रह्मकार्यत्वाद्यः सर्वज्ञ इति ज्ञानजन- नकर्तृत्वश्रुतेरपि न कश्चिद्विरोध इत्याचार्यवाचस्पतिमिश्नाः ॥ (१०) नन्वीश्वरवज्जीवोपि वृत्तिमनपेक्ष्य स्वरूपचैतन्येनैव किमिति विषया- नावभासयति । अचोक्तं विवरणे ब्रह्मचैतन्यं सर्वोपादानतया सर्वतादात्म्या- पन्नं स्वसंसृष्टं सर्वमवभासयति न जीवचैतन्यं तस्याऽविद्योपाधिकतया सर्व- गतत्वे ऽप्यनुपादानत्वेनासङ्गित्वात् । यथा सर्वगतं गोत्वसामान्यं स्वभावा- दश्वादिव्यक्तिसङ्गित्वाभावेपि सास्नावड्यक्तो संसृज्यते एवं विषयाऽसमपि जीवः स्वभावादन्तःकरणे संसृज्यते तथा च यदा ऽन्तःकरणपरिणामो वृत्तिरूपो नयनादिद्वारेण निर्गत्य विषयपर्यन्तं चतूरश्मिवज्झटिति दीर्घप्रभा- कारण परिणम्य विषयं व्याप्नोति तदा तमुपारुह्य तं विषयं गोचरयति केव- लाग्न्यदाह्यस्यापि तृणादेरयःपिण्डसमारूढाग्निदाह्यत्ववत्केवलजीवचैतन्या- प्रकाश्यस्यापि घटादेरन्तःकरणवृत्युपारूढस्य तत्प्रकाश्यत्वं युक्तम् । यद्वा ऽन्तःकरणोपाधिकत्वेन जीवः परिच्छिन्नः अतः संसर्गाभावान्न घटादिकमव- भासयति वृत्तिद्वारा तत्संसृष्टविषयावच्छिन्नब्रह्मचैतन्याभेदाभिव्यक्ती तं विषयं प्रकाशयति । अथ वा जीवः सर्वगतो ऽप्यविद्यावृतत्त्वात्स्वयमप्यप्रकाशमान- चित्रस्यानुन्मीलितत्वमनभिव्यक्तत्वं तत्र हेतुर्विमष्टत्वम् । टी. । घ्या. सू• अ• १ पा• ४ सू. १६ । + न मायावृत्तिभिरित्येवकारार्थः। टी. ६ प्रकाशानुमेयतैजसप्रसरेण्वदाह्यस्येत्यर्थः ।

२५ वृत्त्युपयोगनिरूपणम् । वृत्त्या सह विषयस्य संबन्धनिरूपणम् तया विषयानवभासयन विषयविशेष वृत्त्युपरागादावरणतिरोधानेन तवा- भिव्यक्तस्तमेव विषयं प्रकाशयति । एवं च चिदुपरागार्थत्वेन विषयचैतन्या- भेदाभिव्यक्त्यर्थत्वेनावरणाभिभवार्थत्वेन वा वृत्तिनिर्गममपेक्ष्य तत्संसृष्टविष- यमाचावभासकत्वाज्जीवस्य किंचिज्जत्वमप्युपपद्यतइति । अत्र प्रथमपने * सर्वगतस्य जीवस्य वृत्त्यधीनः को विषयोपरागः । वृत्त्यापि हि पूर्वसिद्धयोः निष्क्रिययोर्जीवविषयचैतन्ययास्तादात्म्यस्य संयो- गस्य वा न भवत्याधानम् । अत्र के चिदाहुः । विषयविषयिभावसंबन्ध एवेति ॥ अन्ये तु विषयविषयिभावमाचनियामिका वृत्तिश्चेदनिर्गताया अप्य- न्द्रियकवृत्तस्वनियामकत्वं नातिप्रसङ्गावहमिति सन्निर्गमाभ्युपगमवैयापत्तेः स नाऽभिसंहितः किं तु विषयसन्निहित जीवचैतन्यतादात्म्यापन्नाया वृत्ते- विषयसंयोगे तस्यापि तद्द्वारकः परंपरासंबन्धो लभ्यतइति स एव चिटु- परागो ऽभिसंहित इत्याहुः ॥ अपरे तु साक्षादपरोक्षचैतन्यसंसर्गिण एव सुखादेरापरोक्ष्यदर्शनादप- रोक्षविषये साक्षात्संसर्ग राष्टव्यः तस्मादृत्तर्विषयसंयोगे वृत्तिरूपावच्छेदकला- भात्तदवच्छेदेन तटुपादानस्य जीवस्यापि संयोगजसंयोगः संभवति कारणाका- रणसंयोगात्कार्याकार्यसंयोगवत् कार्याकार्यसंयोगात्कारणाकारणसंयोगस्यापि युक्तितोल्येनाभ्युपगन्तुं युक्तत्वादित्याहुः ॥ एकदेशिनस्त्वन्तःकरणोपहितस्य विषयावभासकचैतन्यस्य विषयता- दात्म्यापन्नब्रह्मचैतन्याभेदाभिव्यक्तिद्वारा विषयतादात्म्यसंपादनमेव चिदुपरा- गो ऽभिसंहितः सर्वगततया सर्वविषयसंनिहितस्यापि जीवस्य तेन || रूपेण विषयावभासकत्वे तस्य साधारणतया पुरुषविशेषापरोक्ष्यव्यवस्थित्ययोगेन तस्यान्तःकरणोपहितत्वरूपेणैव विषयावभासकत्वात् । एवं च विषयापरोक्ष्ये आध्यासिकसंबन्धो नियामक इति सिद्धान्तापि संगच्छते । न चैवं द्वितीयप- क्षसांकय जीवस्य सर्वगतत्वे प्रथमः पक्षः परिच्छिन्नत्वे द्वितीय इत्येव तया- भैदादित्याहुः ॥ * विवरणमतइत्यर्थः। 1 श्राधानमुत्यादनम् । टी. + विषयव्यापितया उत्पन्नां वृत्तिं प्रति विषयसंनिहितजीवचैतन्यस्याधिष्ठानसया वृत्तेस्तत्ता- दात्म्यं बोध्यम् । टी. जीवचेतन्यस्येति ३।४ पु. पाठः । || वृत्तिमनन्तभाव्य स्वरूपमात्रेण । -- ४ २६ * प्रथमपरिच्छेदे (१२) अथ द्वितीयपक्षे केयमभेदाभिव्यक्तिः । के चिदाहुः । कुल्याद्वारा तटा- ककेदारसलिलयोरिव विषयान्तःकरणावच्छिन्नचैतन्ययोवृत्तिद्वारा एकीभावो उभेदाभिव्यक्तिः । एवं च यद्यपि विषयावच्छिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशकं तथापि तस्य वृत्तिद्वारकोभावेन जीवित्वं संपन्नमिति जीवस्य विषयप्रकाशो- पपत्तिरिति ॥ अन्ये त्वाहुः । बिम्बस्थानीयस्य विषयावच्छिन्नस्य ब्रह्मणः प्रतिबिम्ब- भूतेन जीवनकीभावो नाभेदाभिव्यक्तिः व्यावर्तकोपाधी दर्पणइव जाग्रति तयोरेकीभावायोगात् । वृत्तिकृता भेदाभिव्यक्त्या विषयावच्छिन्नस्य ब्रह्मणा जीवत्वप्राप्ता ब्रह्मणस्तदा तद्विषयसंसर्गाभावे तद्दष्टत्वसंभवे सति तस्य सर्वज्ञत्वाभावापत्तेश्च । किं तु विषयावच्छिन्नं ब्रह्मचैतन्यं विषयसंसृष्टाया वृत्तेरग्रभागे + विषयप्रकाशकं प्रतिबिम्बं समर्पयतीति तस्य प्रतिबिम्बस्य जीवेनैकीभावः । एवं चान्तःकरणतदृत्तिविषयावच्छिन्नचैतन्यानां प्रमातृप्रमा- णप्रमेयभावेनाऽसंकरोप्युपपद्यते। न च वृत्त्युपहितचैतन्यस्य विषयप्रमात्वे तस्य विषयाधिष्ठानचैतन्यस्येव विषयेणाध्यासिकसंबन्धाभावाद्विषयापरोक्षे आध्या- सिकसंबन्धस्तन्त्रं न स्यादिति वाच्यम् । विषयाधिष्ठानचेतन्यस्यैव विषये- णावच्छिन्नस्य वृत्ती प्रतिबिम्बिततया तदभेदेन तत्संबन्धसत्त्वादिति ॥ अपरे त्वाः। बिम्बभूतविषयाधिष्ठानचेतन्यमेव साक्षादाध्यासिकसं- बन्धलाभाद्विषयप्रकाशकमिति तस्यैव बिम्बत्वविशिष्टरूपेण भेदसद्भावेपि तटु- पलक्षितचैतन्यात्मनकीभावो ऽभेदाभिव्यक्तिः । न चैवं सति जीवब्रह्मसांकर्य न वा ब्रह्मणः सर्वज्ञत्वविरोधः बिम्बात्मना तस्य यथापूर्वमवस्थानादिति ॥ (१३) अथ तृतीये पक्षे को नामाऽऽवरणाभिभवः अज्ञाननाशश्चेत् घटज्ञाने- नैवाज्ञानमूलः प्रपञ्चो निवर्ततेति चेत् अत्र के चिदाहुः । चैतन्यमाचावरकस्या- * दर्पणे प्रतिबिम्बदशायां बिम्बप्रतिबिम्बयोरभेदाभिव्यक्तिर्नास्ति तयोस्तदा भेदानुभवा- तथा प्रकते विषयादिरूपभेदकोपाधा सति सा न संभवतीत्यर्थः। टी. + वृत्तिर्हि हृदयस्थान्तःकरणमारभ्य विषयपर्यन्तमविच्छिन्ना कौस्तुभमण्यादिप्रभावदी- धीभावमापना तिष्ठति तस्या वृत्तर्विषयसंसृष्टो भागो ऽग्रभाग उच्यते तत्र यो ब्रह्मणः प्रतिबिम्ब- स्तस्य विषयप्रकाशकस्य जीवेनैकीभाव इहाभेदाभिव्यक्तिर्विवक्षिता वृत्तिवृत्तिमतोस्तादात्म्यरूपा- भेदसत्त्वेन तत्प्रतिबिम्बयोरभेदाभिव्यक्तिसंभवात् । टी. + प्रतिबिम्बयतीति ४ पुः पाठः। $ तत्संबन्धस्यैव तत्सम्बन्धत्वादिति द्रा. पुस्तके । ..

:- अभेदाभिव्यक्तिस्वरूपनिरूपणम् । आवरणाभिभवस्वरूपनिरूपणम् २० ऽज्ञानस्य विषयावच्छिन्नप्रदेशे खद्योतादिप्रकाशेन महान्धकारस्येव ज्ञानेनैकदे- शेन नाशो वा कटवत्संवेष्टनं वा भीतभटवदपसरणं वा ऽभिभव इति ॥ अन्ये त्वज्ञानस्यैकदेशेन नाशे उपादानाभावात्पुनस्तच कन्दलनायो- गेन * सकृदपगते समयान्तरे ऽप्यावरणाभावप्रसङ्गानिष्क्रियस्यापसरणसंवेष्टन- योरसंभवाच्च न यथोक्तरूपो ऽभिभवः संभवति । अतश्चैतन्यमाचावरकस्या- प्यज्ञानस्य तत्तदाकारवृत्तिसंसृष्टावस्थविषयावच्छिन्नचैतन्यानावरकत्वस्वाभा- व्यमेवाभिभवः । न च विषयावगुण्ठनपटवद्विषयचैतन्यमाश्रित्य स्थितस्याज्ञा- नस्य कथं तदनावरकत्वं युज्यतइति शङ्काम् । अहमक्ष इति प्रतीत्या ऽहम- नुभवे प्रकाशमानचैतन्यमाश्रयत एव तस्य तदनावरकत्व प्रतिपत्तेरित्याहुः ॥ अपर तु घटं न जानामीति घटज्ञानविरोधित्वेन घटज्ञाने सति घटाज्ञानं निवृत्तमिति तन्निवर्त्यत्वेन चानुभूयमानं न मूलाज्ञानं शुद्धचैतन्य- विषयस्य तदाननिवर्त्यस्य च तस्य तथात्वायोगात्। किं तु घटावच्छिन्नचैत- न्यविषयमूलाज्ञानस्यावस्थाभेदरूपमज्ञानान्तरमिति तन्नाश एवाभिभवः । न चैवमेकेन ज्ञानेन तन्नाशेतत्समानविषयाणां ज्ञानान्तराणा मावरणाभिभावक- त्वानापत्तिः यावन्ति ज्ञानानि तावन्त्य ज्ञानानीत्यभ्युपगमादित्याहुः ॥ इमानि चावस्थारूपाण्यज्ञानानि मूलाऽज्ञानवदज्ञानत्वादनादीनीति || के चित् ॥ जगज्जीवावावृत्य स्वामा जगज्जीवौ विक्षिपन्ती निद्रा तावदावरणविक्षेपशक्तियोगादज्ञानावस्थाभेदरूपा तथा सुषुण्यवस्थाप्यन्तःकर- णादौ विलीने सुखमहमस्वाप्सं न किं चिदवेदिषमिति परामर्शदर्शनान्मूलाज्ञा- नवत्सुषुनिकाले उनुभयमानाऽज्ञानावस्थाभेदरू पैव तयोश्च जाग्रदोगप्रदकमी- परमे सत्येवोद्भवात्सादित्वमिति तद्वदन्यदप्यज्ञानमवस्थारूपं सादीत्यन्ये ॥ नन्वनादित्वपक्षे घटे प्रथममुत्पन्नेनैव ज्ञानेन सर्वतदज्ञाननाशो भवेत * उत्पत्त्यसंभवादित्यर्थः । + जीवचैतन्याश्रितमण्यज्ञानं न तदावणोति तस्यावतत्वे सर्वव्यवहारलोपप्रसङ्गादिति दह- राधिकरणभाष्ये साधितत्वात्साक्षिचैतन्यस्यानावृतताया वक्ष्यमाणत्वाच्चेति भावः। टी. । अज्ञानान्तराणामिति ४ पु. पाठः। ६ तावन्ति तन्निवाज्ञानानीति द्रा पुस्तके । || देवताधिकरणे मूलाज्ञानानादित्वस्य श्रुतिन्यायाभ्यां साधितत्वादिति भावः। टी. का सृजन्तीत्यर्थः । टी. व्यावहारिको " प्रथमपरिच्छेदे विनिगमनाविरहात्तदवच्छिन्नचैतन्यावरकसर्वाज्ञानानाशे विषयप्रकाशायोगाच्च अतः पाश्चात्त्यज्ञानानामावरणानभिभावकत्वं तदवस्थमेवेतिचेत् । अच के चिदाहुः । यथा ज्ञानप्रागभावानामनेकेषां सत्त्वेप्येकज्ञानोदये एक एव प्राग- भावो निवर्त्तते संशयादिजननशक्ततया लदावरणरूपेषु प्रागभावान्तरेषु सत्स्वपि विषयावभासस्तथैकज्ञानोदये एकमेवाज्ञानं निवर्त्तते अज्ञानान्तरेषु सत्स्वपि विषयावभास इति ॥ अन्ये त्वावृतस्यापरोक्ष्यं विरुद्धमेकज्ञानोदये च प्रागभावान्तरसत्त्वेपि यावद्विशेषदर्शनाभावकूटरूपमावरणं विशेषदर्शनातनास्तीति मन्यमाना वदन्ति यदा यदज्ञानमावृणोति तदा तेन ज्ञानेन तस्यैव नाश; सर्वं च सर्वदा नाव- णोति वैययात्किं त्वावरकाज्ञाने वृत्या नाशिते तवृत्त्यपरमे ऽज्ञानान्तरमा- वृणोति । न चैवं सति ब्रह्मावगमोत्पत्तिकाले ऽनावरकत्वेन स्थितानामज्ञा- नानां ततो ऽप्यनिवृत्तिप्रसङ्गः । तेषां साक्षातद्विरोधित्वाभावेपि तन्निवयंमू- लाज्ञानपरतन्त्रतया * ऽज्ञानसंबन्धादिवत्तनिवृत्त्येव निवृत्त्युपपत्तेः । एतदर्थ- मेव तेषां तदवस्थाभेदरूपतया तत्यारतन्त्र्यमिष्यत इति ॥ अपरे त्वज्ञानस्य सविषयस्वभावत्वादुत्सर्गतः सर्वं सर्वदा ऽऽवृणा- त्यैव । न च विषयोत्पत्तेः प्रागावरणीयाभावेनावरकत्वं न युज्यतइति वाच्यम् । तदापि सूक्ष्मरूपेण तत्सत्त्वादिति मन्यमानाः कल्पयन्ति यथा बहुजनसमाक्रुले प्रदेशे कस्य चिच्छिरसि पतन्नशनिरितरानप्यपसारयति यथा वा सन्निपातहरमौषधमेकं दोघं निवर्तयदोषान्तरं दूरीकरोति एवमेकम- ज्ञानं नाशयज्ज्ञानमज्ञानान्तराण्यपि तिरस्करोति तिरस्कारश्च यावज्ज्ञान स्थिति तदावरणशक्तिप्रतिबन्ध इति ॥ नन्वेवं सति धारावाहिकस्थले द्वितीयादिवृत्तीनामावरणानभिभावकत्वे वैफल्यं स्यात् प्रथमज्ञानेनैव निवर्तनतिरस्काराभ्यामावरणमावस्याभिभवादिति। अचाहुः वृत्तितिरस्कृतमप्यज्ञानं तदुपरमे पुनरावृणोति प्रदीपतिरस्कृतं तम इव दीपोपरमे । वृत्त्युपरमसमये वृत्त्यन्तरोदये तु तिरस्कृतमज्ञानं तथैवाव- कार्यतयेत्यर्थः। । सरकार्यवादाभ्युपरामादिति भावः * तावदावरणेति द्रा• पुस्तके पाठः। Hemlamanenamel आवरणाभिभवस्वरूपनिरूपणम् तिष्ठते प्रदीपोपरमसमये प्रदीपान्तरोदये तम इव । तथा च यस्मिन्सत्य- निमक्षणे यस्य सत्त्वं ययतिरके चाऽसत्त्वं तत् तज्जन्यमिति प्रागभावपरिपाल- नसाधारणलक्षणानुरोधेनानावरणस्य * द्वितीयादिवृत्तिकार्यत्वस्यापि लाभान्न तद्वैफल्यमिति ॥ न्यायचन्द्रिकाकृतस्त्वाहुः । केन चिज्ज्ञानेन कस्य चिदज्ञानस्य नाश एव न त्वावरकाणामप्यज्ञानान्तराणां तिरस्कारः । तथा च धारावाहिकद्वि- तीयादिवृत्तीनामप्येकैकाज्ञाननाशकत्वेन साफल्यम् । न चैवं ज्ञानोदये ऽप्या- वरणसंभवाद्विषयानवभासप्रसङ्गः अवस्थारूपाण्यज्ञानानि तत्त त्किालकलोपल- क्षितस्वरूपावरकाणि ज्ञानानि च यावत्स्वकालोपलक्षितविषयावरकाज्ञाननाश- कानि तथा च किंचिज्ज्ञानोदये तत्कालीनविषयावरकाज्ञानस्य नाशा- द्विद्यमानानामज्ञानान्तराणामन्यकालीनविषयावरकत्वाच्च न तत्कालीने विष- यावभासे का चिदनुपपत्तिः । कारीरीफले वृष्ठावासन्नसमयस्येवाज्ञानविषये घटादौ तत्कालस्योपलक्षणतया विषयकोटावननुप्रवेशेन सूक्ष्मतत्तत्कालभेदा- विषयधारावाहिकद्वितीयादिज्ञानरज्ञानानां निवृत्तावपि न काचिदनुपपत्तिरिति ॥ के चित्तु प्रथमज्ञाननिवर्त्यमेवाज्ञानं स्वरूपावरकं द्वितीयादिज्ञाननि- वानि तु देशकालविशेषणान्तरविशिष्टविषयाणि । अत एव सत्तानिश्चय- रूपे ऽज्ञाननिवर्त्तके चैत्रदर्शने सकृज्जाते चैत्रं न जानामीति स्वरूपावरणं नानुभूयते किं त्विदानी स कुश्चेति न जानामीत्यादिरूपेण विशिष्टावरणमेव । विस्मरणशालिनः क्व चित्सकृद् दृष्टेपि न जानामीति स्वरूपावरणं दृश्यते चेत्तत्र तथास्तु । अन्यत्र सकृद्रष्टे विशिष्टविषयाण्येवाज्ञानानि ज्ञानानि च । न चैवं सति धारावाहिकद्वितीयादिज्ञानानामज्ञाननिवर्तकत्वं न स्यात्स्यूल- कालविशिष्टाज्ञानस्य प्रथमज्ञानेनैव निवृत्तेः पूर्वापरज्ञानव्यावृत्तसमकालविशि- आवरणतिरस्कारस्येत्यर्थः । टी. + कालोपलक्षितानीति द्रा. पुस्तकयोः । * अवस्थाज्ञानानां सर्वेषां मूलाज्ञानस्येव सर्वदा विषयचैतन्यावरकत्वं नास्ति वेयर्यात किं चिदज्ञानं कं चित्कालं विषयचैतन्यमावणोति किं चिच्च कालान्तरे तदावणातीत्यनेन प्रकारेण कालविशेषरुपलक्षितविषयचैतन्यावरकत्वं ज्ञानानामपि स्वस्वादयकाले स्वस्वविषयावर- कत्वेन प्रसक्ताज्ञाननिवर्तकत्वमित्यर्थः । टी. $ कारीरीनामकेष्टिफलभूता वृष्टिरिष्टिसमाप्त्युत्तरक्षणएव वक्तव्या न कालान्तरे तदानीं शुष्यतः सस्यस्य संजीवने कालान्तरीयवृष्टेरनुपयोगात्तथा चासनसमयस्य वृष्ट्यविशेषणतया फल- कोटिप्रवेशो नोपेयते वृष्ट्या विनापि समयविशेषसंभवात्किं तु समयान्तरव्यावर्तकतयोपलक्षणत्व- मेवाश्रितमित्यर्थः । टी. . . कि तु .

३० IA प्रथमपरिच्छेदे टाज्ञानस्य तदविषद्वितीयादिज्ञानिवृत्त्ययोगादिति वाच्यम् । धारावहन- स्थले प्रथमोत्यन्नाया एव वृत्तेस्तावत्कालावस्थायित्वसंभवेन वृत्तिभेदानभ्युप- गमात्तदभ्युपगमेपि स्थूलकालावस्थायि * पञ्चषवृत्ति + रूपत्वसंभवेन परस्पर- व्यावृत्तस्थलकालादिविशेषणभेदविषयत्वोपपत्तेः प्रतिक्षणोद्यदनेकवृत्तिसंतानस्- पत्वाभ्युपगमेपि द्वितीयादिवृत्तीनामधिगतार्थमात्रविषयतया प्रामाण्याभावेना- वरणानिवर्तकत्वेप्यहानेश्च । न हि विषयाबाधमाचं प्रामाण्यं प्रागवगतानधि- गतयोः पर्वतत्तदृत्तिपावकयोरनुमितिविषययोरबाधस्याविशेषेणाभयचाप्यनु- मितेः प्रामाण्यप्रसङ्गात् । न चेष्टापत्तिः वहावनुमितिः प्रामाणमितिवत्यर्वते ऽप्यनुमितिः प्रमाणमिति व्यवहारादर्शनात् । विवरणे साक्षिसिद्धस्याज्ञान- स्याभावव्यावृत्तिप्रत्यायनार्थानुमानादिविषयत्वेपि प्रमाणावेद्यत्वोक्तश्च । त- स्माद् द्वितीयादिवृत्तीनां प्रामाण्याभावादपासना । दिवृत्तीनामिवाज्ञानानिवर्त्त- कत्वेपि न हानिः प्रमाणवृत्तीनामेव तन्निवर्तकत्वाभ्युपगमात् ॥ ननु नायमपि नियमः परोक्षवृत्तेर्नियमेनाज्ञानानिवर्तकत्वादिति चेत् । अत्र के चिदाहुः । द्विविधं विषयावरकमज्ञानम् एकं विषयाश्रितं रज्ज्वादिविः- पोपादानभूतं कार्यकल्प्यम् । पुरुषाश्रितमन्यत् विषयमहं न जानामीत्यानुभ- विकम् । पुरुषानितस्य विषयसंभिन्नविक्षेपोपादानत्वासंभवेन विषयाश्रितस्य विषयमहं || न जानामीति साक्षिरूपप्रकाशसंसायोगेन द्विविधस्याप्यावश्य- कत्वात् । एवं च परोक्षस्थले वृत्तनिर्गमनाभावात् दूरस्थवृक्षे आपवाक्यात्य- रिमाणविशेषावगपि तद्विपरीतपरिमाणविक्षेपदर्शनाच्च मा विषयगताऽज्ञानानि- वृत्तावपि पुरुषगताज्ञाननिवृत्तिरस्त्येव शास्त्रार्थ न जानामीत्यनुभूताज्ञानस्य तदुपदेशानन्तरं निवृत्त्यनुभवात् । अत एवानुमेयादी सुषुग्मिव्यावृत्तिरिति विवरणस्य तद्विषयाज्ञाननिवृत्तिरर्थ इत्युक्तं तत्त्वदीपने इति । अन्ये तु नयनपटलवत्पुरुषाश्रितमेवाज्ञानं विषयावरणं न तदति- रेकेण विषयगताज्ञाने प्रमाणमस्ति । न च पुरुषाश्रितस्य विषयगतविक्षेप- वृत्तीनां स्वविरोधिवत्यन्तरनाश्यत्वमेवाभ्युपेयते न तु द्वितीयक्षणनाश्यत्वमिति भावः । । पञ्चषड्वत्तीति बहु पुः पाठः । परं त्वयुक्तः + उपासनावृत्तिन ज्ञानं कृप्ततत्कारणाजन्यत्वात् किं तु गमनादिवत्क्रियारूपा पुरुषकति- साध्यत्वादिति । टी. 88 एतन्मध्यस्थं ४ पु. नास्ति । || इदमहं नेति दा. १ पुस्तकयोः । का अतिरिक्तवत्यापीति ४ पुः पाठः ।

---- ३१ -- . omics आवरणाभिभवस्वरूपनिरूपणम्। साक्षिस्वरूपनिरूपणम् परिणामित्वं न संभवति तत्संभवे वा दूरस्थवृक्षपरिमाणे परोक्षज्ञानादज्ञान- निवृत्ती विपरीतपरिमाणविक्षेपो न संभवतीति वाच्यम् । वाचस्पतिमते स- र्वस्य प्रपञ्चस्य जीवाश्रिताज्ञानविषयीकृतब्रह्मविवर्त्तत्वेन तद्वच्छुक्तिरजतादेः पुरुषाश्रिताज्ञानविषयीकृतब्रह्मविवतत्वोपपत्तेः । परोक्षवृत्त्यकावस्थानिवृत्ताव- प्यवस्थान्तरेण विपरीतपरिमाणविक्षेपोपपत्ते * श्चेत्याहुः ॥ अपरे तु शुक्तिरजतादिपरिणामोपपत्त्याञ्जस्याद्विषयावगुण्टनपटवद्वि- षयगतमेवाज्ञानं तदावरणम् । न च तथा सत्यऽज्ञानस्यान्तःकरणापहितसा- क्ष्यसंसर्गेण ततः प्रकाशानुपपत्तिः परोक्षवृत्तिनिवर्त्यत्वासंभवश्च दोष इति वाच्यम् । अवस्थारूपाज्ञानस्य साक्ष्यसंसर्गपि । तत्संसृष्टमूलाज्ञानस्यैव शु- क्तिमहं न जानामीति प्रकाशोपपत्तेः । शुक्त्यादेरपि मूलाज्ञानविषयचैतन्या- भिन्नतया तद्विषयत्वानुभवाविरोधात् । विवरणादिषु मूलाज्ञानसाधनप्रसङ्गे एव इदमहं न जानामीति प्रत्यक्षप्रमाणापदर्शनाच्चा हमज्ञ इति सामान्यतो ऽज्ञानानुभव एव मूलाज्ञानविषयः शुक्तिमहं न जानामीत्यादिविषयविशेषा- लिङ्गिताज्ञानानुभवस्त्ववस्थाज्ञानविषय इति विशेषाभ्युपगमेपि अवस्थाऽव- स्थावतारभेदेन मूलाज्ञानस्य साक्षिसंसर्गाद्वा साक्षिविषयचैतन्ययोर्वास्तवै- क्याद्वा विषयगतस्याप्यवस्थाज्ञानस्य साक्षिविषयत्वोपपत्तेः । परोक्षज्ञानस्या- ज्ञानानिवर्तकत्वेपि ततस्तन्निवृत्त्यनुभवस्य सत्तानिश्चयरूपपरोक्ष वृत्तिप्रतिब- न्धकप्रयुक्ताननुभवनिवृत्ति || निबन्धनभ्रान्तित्वोपपत्तेरपरोक्षज्ञानस्यैवाज्ञाननिव- तकत्वनियमाभ्युपगमादित्याहुः ॥ ननु नायमपि नियमः अविद्याहंकारसुखदुःखादितद्धर्मप्रत्यक्षस्याज्ञा- ननिवर्तकत्वानभ्युपगमादिति चेत् न । अविद्यादिप्रत्यक्षस्य साक्षिरूपत्वेन वृत्तिरूपापरोक्षज्ञानस्यावरणनिवर्तकत्वनियमानपायात् ॥ (१४) अथ कोयं साक्षी जीवातिरेकेण व्यवड़ियते । अचोक्तं कूटस्थदीपे देहद्वयाधिष्ठानभूतं कूटस्थचैतन्यं स्वावच्छेदकस्य देहद्वयस्य साक्षादीक्षणा पा- .. * प्रत्यक्षवृत्तीनामेव स्वसमानाधिकरणाज्ञानसकलावस्थानिवर्तकत्वमभ्युपगम्यतइति भावः। + अन्तःकरणोपहितसाक्ष्यसंसर्गेति द्रा. १ पुस्तकयोः । + इदं पूर्वान्वयि । 8 सत्तानिश्चयरूपायाः परोक्षवृत्तेः दूरत्वासंनिकर्षादिप्रयुक्तत्वस्याननुभवेन तत्साजात्याद- परोक्षत्वभ्रम इति भावः। || निवृत्तीति ४ पु. नास्ति । पा अपरोक्षतया द्रष्तृत्वात् । ।

प्रथमपरिच्छेद निर्विकारत्वा * च्च साक्षीत्युच्यते । लोकपि ह्यौदासीन्यबोधाभ्यामेव साक्षित्वं सिद्धम् । यद्यपि जीवस्य वृत्तयः सन्ति देहद्वयभासिकस्तथापि सर्वतः प्रसृतेन स्वावच्छिन्नेन कूटस्थचैतन्येन ईषत्सदा भास्यमेव । देहवयं जीवस्वरूप- चैतन्यप्रतिबिम्बगर्भन्तःकरणाद्विच्छिद्य विच्छिद्यो । द्गच्छद्धिवृत्तिज्ञानभास्यते अन्तरालकाले तु सह वृत्त्यभावैः कूटस्थचैतन्येनैव भास्यते । अत एवाहंका- रादीनां सर्वदा प्रकाशसंसात्संशयाद्यगोचरत्वम् । अन्यज्ञानधाराकालीनाहं- कारस्यैतावन्तं कालमिदमहं पश्यन्नेवाऽऽसमित्यनुसंधानं च । न च कूटस्थ- प्रकाशिते कथं जीवस्य व्यवहारस्मृत्यादिकमिति शङ्काम् । अन्योन्याध्यासेन जीवैकत्वापत्त्या कूटस्थस्य जीवान्तरङ्गत्वात् । न च जीवचैतन्यमेव साक्षी भवतु किं कूटस्थेनेति वाच्यम् । लौकिकवैदिकव्यवहारकर्तुस्तस्योदासीनद्र- तृत्वासंभवेन साक्षी चेता केवलो निर्गुणश्चेति श्रुत्युक्तसाक्षित्वायोगात् । त- यारन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतीति कर्मफलभोक्तुर्जीवादु- दासीनप्रकाशरूपसाक्षिणः पृथगाम्नानाच्चेति । नाटकदीपे ऽपि नृत्यशालास्थि- तदीपदृष्टान्तेन साक्षी जीवाद्विविच्य दर्शितः । तथा हि नृत्यशालास्थितो दीयः प्रभु सभ्यांश्च नर्तकीम दीपयेदविशेषेण तदभावेपि दीप्यते। तथा चिदा- भासविशिष्टाहंकाररूपं जीवं विषयभोगसाकल्यवेकल्याभिमानप्रयुक्तहर्षविषाद- वत्त्वान्नृत्याभिमानिप्रभुतुल्यं तत्परिसरवर्तित्वेपि तद्राहित्यात्सभ्यपुरुषतुल्या- विषयान्नानाविधविकारवर्तित्वा || नर्तकीतुल्यां धियं च दीपयन्सुषुण्यादावहं- काराद्यभावेपि दीप्यमानश्चिदाभासविशिष्टाहंकाररूपजीवभ्रमाधिष्ठानकूटस्थचै- तन्यात्मा साक्षी । एवं जीवाद्विवेचितो ऽयं साक्षी न ब्रह्मकोटिरपि । किं त्वस्परजीवेश्वरविभागं चेतन्यमित्युक्तं कूटस्यदीपे ॥ तत्त्वप्रदीपिकायामपि मायाशबलिते सगुणे परमेश्वर केवलो निर्गुण इति विशेषणानुपपत्तेः सर्वप्रत्याभतं वा विशुद्धं ब्रह्म जीवाभेदेन साक्षीति प्रतिपाद्यतइति विदितम् । प्रकाशमात्रत्वात्तावन्मात्रेणापि सविता प्रकाशतइतिवत्प्रकाशकत्वव्यवहारोपपत्तः । + स्वावच्छेदकीभविष्यदन्तःकरणादिपुरस्कारेण प्रकाशिमिति भावः । * जाग्रटवस्थाया देहवयस्य साक्षिचैतन्यमात्रादस्पष्टतया भावावसरं दर्शयितुं विच्छिट्यवि- छिटोत्युक्तम् । टी. $ जीवसंनिकष्टत्वपि जीवान्तरङ्गत्वाभावादित्यर्थः । विकारानर्तकीति द्रा पुस्तके । पा सर्वेषां जीवानां प्रत्यगभूतमधिष्ठानतया ऽन्तरम् । टी. . RAM .

साक्षिस्वरूपनिरूपणम् कौमुद्यां त्वेको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्चेति देवत्वादिश्रुतेः परमेश्वरस्यैव रुपभेदः कश्चिज्जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीनः साक्षी नाम । स च कारणत्वादिधर्मानास्पदत्वादपरोक्षा जीवगतमज्ञानाद्य- षभासयश्च जीवस्यान्तरङ्गः सुशुण्यादौ च कार्यकारणोपरमे जीवगताऽज्ञान- माघव्यज्जकः प्राज्ञशब्दितः । तद्यथा प्रियया स्त्रिया संपरिष्वक्ता न बाह्यं किं चन वेद नान्तरमेव मेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरं प्राज्ञेनात्मना ऽन्वारूढ उत्सर्जन्यातीति + श्रुतिवाक्याभ्यां सुषु- प्युत्क्रान्त्यवस्थयार्जीवभेदेन प्रतिपादितः परमेश्वर इति सुषव्युत्क्रान्त्यधि- करणनिर्णयोपि साक्षिपर इत्युपर्णितम् ॥ तत्त्वशुद्धावपि यथेदं रजतमिति भ्रमस्थले वस्तुतः शुक्तिकोट्यन्त- तापीदमंशः प्रतिभासतो रजतकोटि: तथा ब्रह्मकोटिरेव साक्षी प्रतिभा- सतो जीवकोटिरिति जीवस्य सुखादिव्यवहारे तस्योपयोग इत्युका ऽयमेव पतः समर्थितः ॥ के चित्त्वविद्योपाधिको जीव एव साक्षाद्रष्टुत्वात्साक्षी लोके ऽपि ह्य- कर्तृत्वे सति द्रष्टुत्वं साक्षित्वं प्रसिद्धम् । तच्चाऽसङ्गोदासीनप्रकाशरूपे जीवण्व साक्षात्संभवति जीवस्यान्तःकरणतादात्म्यापत्त्या कर्तृत्वाद्यारोपभाकेपि स्व- यमुदासीनत्वात् । एको देव इति मन्त्रस्तु ब्रह्मणो जीवभावाभिप्रायेण सा- तित्वप्रतिपादकः । द्वा सुपर्णेति मन्त्री गुहाधिकरणन्यायेन जीवेश्वरोभय- परः । गुहाधिकरणभाष्योदाइतपैङ्गिरहस्यब्राह्मणव्याख्यातेन प्रकारेण जीवा- न्तःकरणाभयपरो वेति न कश्चिद्विरोध इत्याहुः ॥ अन्ये तु सत्यं जीव एव साक्षी न तु सर्वगतेनाविद्योपहितेन रूपेण पुरुषान्तरान्तःकरणादीनामपि पुरुषान्तरं प्रति स्वान्तःकरणभासकसाक्षिसं- साऽविशेषेण प्रत्यक्षत्वापत्तेः । न चान्तःकरणभेदेन प्रमातृभेदात् तदना- पत्तिः । साक्षिभास्ये ऽन्तःकरणादौ सर्वच साक्ष्यभेदे सति प्रमातृभेदस्याप्रयो- अनुमन्ता नैरन्तर्येण बोद्धा जीवे व्यापारवत्यपि स्वयं तद्रहितः । टी. + वेदनावशाच्छब्दं कुर्वन् याति शरीराद् बहिर्गच्छति उत्क्रामतीत्यर्थः । टी. * प्रतिभासमात्रेणेत्यर्थः ।

३४ . प्रथमपरिच्छेदे जकत्वात् । तस्मादन्तःकरणोपधानेन जीवः साक्षी । तथा च प्रतिपुरुषं साक्षिभेदात्पुरुषान्तरान्तःकरणारेः पुरुषान्तरसाक्ष्यसंसर्गाद्वा तदयोग्यत्वाद्वा ऽप्रकाश उपपद्यते । सुषुप्रावपि सूक्ष्मरूपेणा* न्तःकरणसनावात्तदुपहितः साक्षी सदाप्यस्त्येव । न चान्तःकरणापहितस्य प्रमातृत्वेन न तस्य साक्षित्वम् सुषुना प्रमाऽभावेपि साक्षिसत्त्वेन तयोर्भेदश्चावश्यं वक्तव्य इति वाच्यम् । विशेषणोपाध्योर्भेदस्य सिद्धान्तसंमतत्वेनान्तःकरणविशिष्ठः प्रमाता तदुपहितः साक्षीतिभेदोपपत्तेरित्याहुः ॥ (१५) ननूक्तरूपस्य साक्षिणश्चैतन्यमारावरकेणाज्ञानेनावरणमवर्जनीयमिति कथमावृतेनाविद्याहंकारादिभानमिति चेत राहुवदविद्या स्वावृतप्रकाश प्रका- श्येति के चित् ॥ वस्तुतो ऽविद्यान्तःकरणतद्धर्मावभासकं साक्षिचैतन्यं विहायैवाज्ञानं चैतन्य प्रावृणोतीत्यनुभवानुसारेण कल्पनान्न कश्चित् दोषः । अत एव सर्वदा तेषा, मनावृतप्रकाशसंसादज्ञानविपरीतज्ञानसंशयाऽगोचरत्वम् । साक्षिदै- तन्यस्यानावृतत्वे तत्स्वरूपभूतस्यानन्दस्यापि प्रकाशापत्तिरिति चेन्न इष्टापत्तेः । आनन्दरूपप्रकाशप्रयुक्तस्यात्मनि निरुपाधिकप्रेमणो दर्शनात् भासत एव परम- प्रेमास्पदत्वलक्षणं सुखमिति विवरणाच्च ॥ १६) स्यादेतत् इदानीमप्यानन्दप्रकाशे मुक्तिसंसारयोरविशेषप्रसङ्गः । ननु कल्पितभेदस्य साक्ष्यानन्दस्य प्रकाशेप्यनवच्छिन्नस्य ब्रह्मानन्दस्यावृतस्य संसारदशायामप्रकाशेन विशेषोस्तीति चेद् न। आनन्टे ऽनवच्छेदांशस्या पुरु- षार्थत्वात् आनन्दापरोक्षमात्रस्य चेदानीमपि सत्त्वात् । नन्ववच्छिन्नसाक्ष्या- नन्दः सातिशयः सुषुग्निसाधारणादनतिस्पष्टा || ततो वैषयिकानन्देष्वतिश- यानुभवात् । अनवच्छिन्नो ब्रह्मानन्दस्तु निरतिशयः आनन्दवल्ल्यां मानुषा- नन्दाद्युत्तरोत्तरशतगुणोत्कर्षापवर्णनस्य ब्रह्मानन्दे समापनादिति चेद् न । सिद्धान्ते साक्ष्यानन्दविषयानन्दब्रह्मानन्दानां वस्तुत एकत्वेनोत्कर्षापकर्षा- संभवात् पा । मानुषानन्दादीनामुत्तरोत्तरमुत्कर्ष श्रुतिर्वदतीति चेत् को वा * संस्काररूपेणेत्यर्थः। + यथा राहुः स्वयमप्रकाशमानापि स्वाच्छादितचन्द्र प्रकाशेन प्रकाश्यते तद्वदित्यर्थः । + अन्तःकरणतन्द्रादीनाम् । ६ तात्कालिकविषयताशून्यात् । || अनवच्छिन्नांशस्यति ४ यु. पाठः। का उत्कर्ष पकर्ष योर्ज तिविशेषरूपयोरेकस्यां व्यक्तावसंभवादित्यर्थः। -..

५ साक्षिणोऽज्ञानानावृतत्वसाधनम् । साक्ष्यानन्दस्यानावृतत्वनिरूपणम् ३५ ब्रूते श्रुतिर्न वदतीति किं त्वद्वैतवादे तदुपपादनमशक्यमित्युच्यते । नन्वे- कस्यैव सौरालोकस्य करतलस्फटिकदर्पणाद्यभिव्यज्जकविशेषोपधानेनाभिव्य- तितारतम्यदर्शनादेकत्वे ऽप्यानन्दस्याभिव्यञ्जक्रसुखवृत्तिभेदोपधानेनाभिव्य- तितारतम्यरूपमुत्कर्षापकर्षवत्त्वं युक्तमिति चेद् न । दृष्टान्तासंप्रतिपत्तेः । सर्वतः प्रसृमरस्य सौरालोकस्य गगने विना करतलादिसंबन्धमस्पष्ट प्रका- शमानस्य निम्नतले प्रसृमरस्य जलस्येव करतलसंबन्धेन गतिप्रतिहतो बहुलीभावादधिकप्रकाशः भास्वरदर्पणादिसंबन्धेन गतिप्रतिहतो बहुलीमा- वातदीयदीप्तिसंवलनाच्च ततो ऽप्यधिकप्रकाश इति तवाभिव्यजकोपाधिका- भिव्यक्तितारतम्यानभ्युपगमात् । दृष्टान्तसंप्रतिपत्ता च गगनप्रसृतसौरालोक- व* दनवच्छिन्नानन्दस्यास्पष्टता करतलाद्यवच्छिन्नसौरालोकवत्सुखवृत्त्यवच्छि- नानन्दस्याधिकाभिव्यक्तिरिति मुक्तितः संसारस्यैवाभ्यर्हितत्वापत्तेश्च । एतेन संसारदशायां प्रकाशमानो ऽप्यानन्दो मिथ्याज्ञानतत्संस्कारविक्षिणतया तीव्र- वायुविक्षिपदीपप्रभावन्न स्पष्टं प्रकाशते मुक्तो तदभावात् यथावदवभासते इत्यपि निरस्तन । निर्विशेषस्वरूपानन्दे प्रकाशमाने तब विक्षेपदोषादप्रकाश- मानस्य मुत्यन्वयिनोऽतिशयस्या | संभवात् । तस्मात्साक्ष्यानन्दस्यानावृत- त्वकल्पनमयुक्तम् ॥ अचाहुरद्वैतविद्याचार्याः । यथा ऽत्युत्कृष्टस्यैकस्यैव धवलरूपस्य मालि- न्यतारतम्ययुक्तेष्वनेकेषु दर्पणेषु प्रतिबिम्बे सत्यपाधिमालिन्यतारतम्यातच तत्र प्रतिबिम्बे धावल्यापकर्षस्तारतम्येनाध्यस्यते एवं वस्तुतो निरतिशय- स्यैकस्यैव स्वरूपानन्दस्यान्तःकरणप्रतिबिम्बिततया साक्ष्यानन्दभावे प्राक्तन- सुकृतसंपत्त्यधीनविषयविशेषसंपर्कप्रयुक्तसत्त्वोत्कर्षापकर्षरूपशुद्धितारतम्ययुक्तसु- खरूपान्तःकरणवृत्तिप्रतिबिम्बिततया विषयानन्दभावे च तमोगुणरूपोपाधि- मालिन्यतारतम्यदोषादपकर्षस्तारतम्येनाध्यस्यतइति संसारदशायां प्रकाशमाने ऽग्यानन्दे ऽथ्यस्तापकर्षतारतम्येन सातिशयत्वादतृप्तिः विद्योदये निखि- लापकर्षाध्यासनिवृत्तेरारोपितसातिशयत्वापायात्कृतकृत्यतेतिविशेषोपपत्तनिरूपा- धिकप्रेमगोचरतया प्रकाशमानः साक्ष्यानन्दो ऽनावृत एवेति ॥ । -- . * वत्तदनति द्रा पुस्तकपाठः। + दृष्टान्तइवावयवरूपस्य जातिविशेषरूपस्य वेत्यर्थः ।

३६ . -- प्रथमपरिच्छेदे अन्ये त प्रकाशमानो ऽप्यानन्दो नास्ति न प्रकाशतइत्यावरणानुभवा- दावृत एव । एकस्मिन्नपि साक्षिण्यविद्याकल्पितरूपभेदसंभवेन चैतन्यरूपेणा- नावरणस्यानन्दरूपेणावरणस्य चाविरोधात् । स्वरूपप्रकाशस्या * वरणानिवर्त- सतया प्रकाशमाने आवरणस्याविरोधाच्च । त्वदुक्तमयं न जानामीति प्रकाश- मानएवावरणदर्शनात् । न च तचानावृतसामान्याकारावच्छेदेन विशेषाव- रणमेवानुभूयतइति वाच्यम् । अन्यावरणस्यान्यावच्छेदेन भाने ऽतिप्रसङ्गात् । न च सामान्यविशेषभावो नियामक इति नातिप्रसङ्ग इति वाच्यम् । व्याप्य- व्यापकभावातिरिक्तसामान्यविशेषभावाभावेन वहूिं न जानामीति धमावरका- ज्ञानानुभवप्रसङ्गात् । तस्माद्यदवच्छिन्नमज्ञानं प्रकाशते तदेवावृतमिति प्रका- शमाने ऽप्यज्ञानं युज्यते । अज्ञानं च यथा साक्ष्यंशं विहाय चैतन्यमावृणोति एवमानन्दमपि ततत्सुबलपवृत्तिकबलीकृतं विहायैवावृणोति स एष + वैष- यिकानन्दस्यावरणाभिभवः । स चावरणाभिभवः प्रत्यूषसमये बाह्यावरणाभिभ- ववत् कारणविशेषप्रयुक्तवृत्तिविशेषवशात्तरतमभावेन भवति । अतः स्वरूपान- न्दविषयानन्दयोर्विषयानन्दानां च परस्परभेदसिद्धिरिति वदन्ति । सर्वथापि साक्षिचैतन्यस्यानावृतत्वादावरणाभिभवार्थ वृत्तिमनपेक्ष्यैव तेनाहंकारादिप्रका- शनमिति तुल्यमेव ॥ (१७) नन्वेवं कथमहंकारादीनामनुसन्धानं ज्ञानसमावस्थारूपस्य संस्कारस्य ज्ञाने सत्यायोगेन नित्येन साक्षिणा तदाधानासंभवात् । अत्र के चिदाहुः । स्वसंसृष्ोन साक्षिणा सदा भास्यमानोहंकारस्तत्तद्घटादिविषयवृत्त्या कारप- रिण तत्वावच्छिन्नेनापि साक्षिणा भास्यतइति तस्याऽनित्यत्वात्संभवति सं- स्काराधानं घटादा विषयइव । न हि स्वाकारवृत्त्यवच्छिन्नसाक्षिणेव स्वगोच- रसंस्काराधानमिति नियमोस्ति । तथा सति वृत्तिगोचरसंस्कारासंभवेन वृत्ते- रस्मरणप्रसङ्गात् । अनवस्थापत्त्या वृतिगोचरवृत्त्यन्तरस्यानुव्यवसायनिरासेन निरस्तत्वात् । किं तु यदृत्त्यवच्छिन्नचैतन्येन यत्प्रकाशते तदृत्त्या तद्गोचरसं- स्काराधानमित्येव नियमः । एवं च ज्ञानसुखादयो ऽप्यन्तःकरणावृत्तयस्तप्पाय:- आगन्तुकवृत्तिरूपप्रकाशस्यावरणविरोधित्वकल्पनान स्वरूप प्रकाशस्तद्विरोधीति भावः। + सुखवृत्तिविषयत्वप्रयुक्तानावरकत्वस्वभाव एव वृत्तिकृतावरणाभिभव इत्यर्थः । वृत्याकारेण परिणते यत्स्वमहंकारस्त दवच्छिवेनेत्यर्थः । ६ घटादिगोचरवृत्त्यवच्छिन्नसाक्षिचैतन्यस्य ।

॥ अहंकाराद्यनुसंधानापपादनम् पिण्डाड्युच्चरन्तो विस्फुलिङ्गा इव स्वावच्छिन्नेन वहिनेव स्वस्वावच्छिन्नेनानि- त्येन साक्षिणा भास्यन्तइति युक्तं तेष्वपि संस्काराधानम् । यस्तु घटेकाकार- धीस्था चिद् घटमेवा * वभासयेत् घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यते इति कूटस्थदीपोक्तो विषयविशेषणस्य ज्ञानस्य विषयावच्छिन्नब्रह्मचैतन्याव- भास्यत्वपक्षः यश्च तत्त्वप्रदीपिकोक्तो ज्ञानेच्छादीनामनवच्छिन्नशुद्धचैतन्यस्- पनित्यसाक्षिभास्यत्वपक्षस्तयोरपि चैतन्यस्य स्वसंसृष्टापरोक्षरूपत्वादृत्तिसंस- गौवश्यं वाच्य इति तत्संसृष्टानित्यरूपसद्भावा । न तेषु संस्काराधाने का चिदनुपपत्तिरिति ॥ अन्ये तु सुषुनावविद्याद्यनुसन्धानसिद्धये कल्पितामविद्यावृत्तिमहमा- कारामङ्गीकृत्याहमर्थे संस्कारमुपपादयन्ति । न चास्मिन्पक्षे एतावन्तं कालमि- दमहं पश्यन्नेवासमित्यन्य ज्ञानधाराकालीनाहमानुसन्धानानुपपत्तिः । अव- च्छेदकभेदेन सुखदुःखयोगपद्यवदृत्तिद्वययोगपद्यस्याप्यविरोधेनान्यज्ञानधारा- काले ऽप्यहमाकाराऽविद्यावृत्तिसंतानसंभवादिति ॥ अपरे तु अहमाकारा वृत्तिरन्तःकरणवृत्तिरेव किं तूपासनादिवृत्ति- वन्न ज्ञानं कृप्रतत्कारणाजन्यत्वात् । न हि तच चक्षुरादिप्रत्यक्षलक्षणं संभ- धति । न वा लिङ्गादिकं लिङ्गादिप्रतिसन्धानशून्यस्याप्यंहकारानुसन्धानदर्श- नात् । नापि मनः करणं तस्योपादानभूतस्य क्व चिदपि करणत्वाकृतः । तयहमर्थप्रत्यभिज्ञापि ज्ञानं न स्यादिति चेन्न। तस्याऽहमंशे ज्ञानत्वाभावेपि तत्तांशे स्मृतिकरणत्वेन कृयसंस्कारजन्यतया ज्ञानत्वात् । अंशभेदेन ज्ञाने || परोक्षत्वापरोक्षत्ववत् प्रमात्वाप्रमात्ववच्च ज्ञानत्वाज्ञानत्वयोरपि अविरोधा- दित्याहुः ॥ इतरे त्वहमाकारापि वृत्तिानमेव मामहं जानामीत्यनुभवात् । न च करणासंभवः अनुभवानुसारेण मनस एवान्तरिन्द्रियस्य करणत्वस्यापि क- ल्पनादित्याहुः ॥ * घटमेव प्रकाशदिति द्राः पाठः। घटमेव न घटस्य ज्ञाततामपीत्येवकारार्थः । + विषयतासंबन्धन विषयनिष्ठं ज्ञानमित्यर्थः। टी. * तत्संसृष्टस्य वृत्तिसंसृष्टस्यात् एवानित्यस्यावच्छिन्नस्य रूपस्य सद्भावादिति भावः । ६ घटादिविषयकज्ञानधाराकालीनेत्यर्थः । ॥ वृषावित्यर्थः। m प्रथमपरिच्छेदे (१८) एवं सति बाह्य * विषयापरोक्षवृत्तीनामेवावरणाभिभावकत्वनियमः पर्यवसन्नः । ननु नायमपि नियमः शुक्तिरजतस्थले इदमाकारवृत्तेरज्ञानानभि- भावकत्वात् । अन्यथोपादानाभावेन रजतोत्पत्त्ययोगादिति चेत् अचाहुः । इद- माकारवृत्त्येदमंशाज्ञाननिवृत्तावपि शुक्तित्वादिविशेषांशाज्ञानानिवृत्तेस्तदेव रज- तोपादानं शुक्तित्वाद्यज्ञाने रजताध्यासस्य तज्ज्ञाने तदभावस्यानुभयमान- त्वात् । अध्यासभाष्यटीकाविवरणे ऽनुभूयमानान्वयव्यतिरेकस्यैवाज्ञानस्य रज- ताद्यध्यासोपादानत्वोक्तेः । अत एव शुक्त्यं । शोधिष्ठानम् इदमंश आधारः सविलासा: ज्ञानविषयो ऽधिष्ठानम् अतद्रूपोपि तद्रूपेणारोप्यबुद्धा स्फुरन्नाधार इति संक्षेपशारीरके विवेचनादिति ॥ अपरे त्विदं रजतमितीदमंशसंभिन्नत्वेन प्रतीयमानस्य रजतस्येदम- शाज्ञानमेवोपादानं तस्य चेदमाकारवृत्त्या ऽऽवरणशक्तिमारनिवृत्तावपि विक्षेप- शक्या सह तदनुवृत्तीपादानत्वासंभवः । जलप्रतिबिम्बितवृताधोगत्वा- ध्यासे जीवन्मुक्त्या ऽनुवृत्तप्रपञ्चाध्यासे च सर्वात्मनाधिष्ठानसाक्षात्कारानन्तर- भाविन्यामावरण || निवृत्तावपि विक्षेपशक्तिसहिताज्ञानमात्रस्योपादानत्वसंप्रतिय- तेरित्याहुः ॥ कवितार्किकचनतिनृसिंहभट्टोपाध्यायास्त्विदं रजतमितिभ्रमरूप- त्तिव्यतिरेकेण रजतोत्पत्तेः प्रागिदमाकारा वृत्तिरेव नास्तीति तस्या अज्ञाननि- वर्तकत्वसदसद्धावविचारं निरालम्बनं मन्यन्ते। तथा हि । न तावद् भ्रमरूपवृ- तिव्यतिरेकेणेदमाकारा वृत्तिरनुभवसिद्धा ज्ञानद्वित्वाऽननुभवात् । नाप्यधिष्ठा- नसामान्यज्ञानमध्यासकारणमिति कार्यकल्प्या तस्यास्तत्कारणत्वे मानाभा- वात् । न चाधिष्ठानसंप्रयोगाभावे रजताद्यनुत्पत्तिस्तत्र मानं ततो दुष्टेन्द्रिय- संप्रयोगस्यैवाध्यासकारणत्वप्नाप्नः । न च संप्रयोगो न सर्वच भ्रमव्यापी अधि- ष्ठानस्फुरणं तु स्वतःप्रकाशमाने प्रत्यगात्मन्यहंकाराद्यध्यासमपि व्याप्नोतीति वाच्यम् । तस्यापि घटाद्यध्यासाव्यापित्वात् । घटादिप्रत्यक्षात्प्राक्तदधिष्ठान- " . बह्यागोचरेति द्रा• पाठः। + शुक्तित्वविशेषरूपेण पुरोवयंवच्छिन्नचैतन्यमित्यर्थः । टी. शुक्तित्वाज्ञानमिति यावत् । + आधाराधिष्ठानयाभदं दर्शयति । सविलासेति । विलासो रजतादिविक्षेपः। विषयत्व- माक्तत्वम् । अध्यस्तरजतायभेदरहितोपि तदभिन्नत्वेन स्फुरनित्यर्थः । टी. ६ तदनुवृत्तेः अज्ञानानुवत्तेः । || भाविन्यावरणेति ३ पुः पाठः।

* सकारणाध्यासनिरूपणम् भूतनीरूपब्रह्ममाचगोचरचाक्षुषवृत्त्यसंभवात् । स्वरूपप्रकाशस्यावृतत्वात् । आवृताऽनावृतसाधारण्येनाधिष्ठानप्रकाशमात्र * स्याध्यासकारणत्वे शुक्तीदम- शसंयोगात्प्रागपि तदवच्छिन्नचैतन्यस्वरूपप्रकाशस्यावृतस्य सद्भावेन तदा उप्यध्यासापत्तेः । न चाध्याससामान्ये ऽधिष्ठानप्रकाशसामान्यं हेतुः प्रातिभासि- काध्यासे ऽभिव्यक्ताधिष्ठानप्रकाश इति नाऽतिप्रसङ्गः सामान्ये सामान्यस्य वि- शेषे विशेषस्य हेतुत्वाचित्यादिति वाच्यम् । एवमपि प्रातिभासिकशङ्खपीतिम- कूपजलनेन्यायध्यासाव्यापनात् । रूपानुपहितचाक्षुषप्रत्ययायोगेन सदानी शङ्खादिगतशोग्योपलम्भाभावेन + चाध्यासात्प्राक् शङ्खादिनीरूपाधिष्ठानगोच- रवृत्त्यसंभवात् । न च प्रातिभासिकेष्वपि रजताध्यासमाचे निरुक्तो विशे- पहेतुरास्तामिति वाच्यम् । तथा सति संप्रयोगात्प्राक् पीतवाद्यध्यासाऽप्रसङ्गाय तदथ्यासे दुष्टेन्द्रियसंप्रयोगः कारणमित्यवश्यं वक्तव्यतया तस्यैव सामा- न्यतः प्रातिभासिकाध्यासमात्र लाघवात्कारणत्वसिद्धा तत एव रजताध्या- सकादाचित्कत्वस्यापि निर्वाहादधिष्ठानप्रकाशस्य सामान्यतो विशेषतो वा ऽध्यासकारणत्वस्यासिद्धेः । ननु च सादृश्यनिरपेक्षे ऽध्यासान्तरे ऽकारण- त्वेपि तत्सापेक्षे रजताद्यध्यासे रजतादिसादृश्यभूतरूपविशेषादिविशिष्टध- मिज्ञानरूपमधिष्ठानसामान्यज्ञानं कारणमवश्यं वाच्यम् दुष्टेन्द्रियसंप्रयोगमा- चस्य कारणत्वे शुक्तिवदिङ्गालेपि तद्जताध्यासप्रसङ्गात् । न च सादृश्यमपि विषयदोषत्वेन कारणमिति वाच्यम् । विसदृशेपि सादृश्यभ्रमे सत्यध्यासस- द्धावात जलधिसलिलपूरे दूरे नीलशिला रोपदर्शनात् । न च तद्धेतोरेवेति न्यायात्सादृश्यज्ञानसामय्येवाध्यासकारणमस्त्विति युक्तम् । ज्ञानसामय्या अर्थ- कारणत्वस्य व चिदप्यदृष्टेः । ततः सादृश्यज्ञानत्वस्यैव लघुत्वाच्च । न च :शुभेपि शुभ्रकलधौतभृङ्गारगतेपि स्वच्छ जले एव नेल्याध्यासः न मुक्ता- फले इतिव्यवस्थावद्वस्तुस्वभावादेव शुक्ता रजताध्यासो नेङ्गालादाविति व्य- वस्था न तु सादृश्यज्ञानापेक्षणादिति वाच्यम् । स्वतः पटखण्डे पुण्डरीकमुकुल- * अनभिव्यक्तस्यापीति भावः। + तत्सत्त्वे ऽध्यासस्यैवानुपपत्तेरिति भावः। अध्यासात्यागध्यस्तपीतिमरहिस्याध्य.सप्रति- बन्धकवृत्तिविषयशाल्यरहितस्य चाधिष्ठानस्य ज्ञानासंभवादिति भावः। f अभिव्यक्ताधिष्ठानप्रकाश इत्यर्थः। टी. ६ शिलातलत्वाट्यारोप्रेति द्रा पुस्तके शिलात्वाट्यारोपेति १ पुस्तके । ॥ तद्धेतोरेवास्तु तद्धेतुत्वं मध्ये तु किं तेनेति न्यायादित्यर्थः । टी. . स्वतः ।

. प्रथमपरिच्छेदे त्वानध्यासे ऽपि तचैव कर्तनादिघटिततदाकारे तदध्यासदर्शनेन तदध्यासस्य वस्तुस्वभावमननुरुध्य सादृश्यज्ञानभावाभावानुरोधित्वनिश्चयात् । अन्यथा ऽन्यदापितत्र तदध्यासप्रसङ्गात्। उच्यते। सादृश्यज्ञानस्याध्यासकारणात्ववादेपि विशेषदर्शनप्रतिबध्येषु रजताद्यध्यासेष्वेव तस्य कारणत्वं वाच्यं न तु तदप्रति- बध्येषु पीतशङ्खाद्यध्यासेषु असंभवात् । विशेषदर्शनप्रतिबध्येषु च प्रतिबन्धक- ज्ञानसामग्र्याः * प्रतिबन्धकत्वनियमेन विशेषदर्शनसामग्यवश्यं प्रतिबन्धिका वाच्येति तत एव सर्वव्यवस्थोपपत्तेः किं सादृश्यज्ञानस्य कारणत्वकल्पनया । तथा हि । इङ्गालादौ चतुस्संप्रयुक्ते तदीयनैल्यादिरूपविशेषदर्शनसामग्री सित्त्वान्न रजताध्यासः । शुक्यादावपि नीलभागादिव्यापिचक्षुःसंप्रयोगे तत्सत्त्वान्न तद- ध्यासः सदृशभागमाचसंप्रयोगे तदभावादध्यासः । तदापि शुक्तित्वरूपविशेषद- शनसामग्रीसत्त्वादनध्यासप्रसङ्ग इति चेन्न । अध्याससमये शुक्तित्वदर्शनाभावेन तत्यवं तत्सामग्र्यभावस्य त्वयापि वाच्यत्वात् । मम सादृश्यज्ञानरूपाध्यास- कारणदोषण प्रतिबन्धात्तदा शुक्तित्वदर्शनसामग्र्यभावाभ्युपगमः । तव तथा- भ्युपगमे तु घटकुटीप्रभातवृत्तान्त इति चेद् न । समीपोपसर्पणाऽनन्तरं रजतसादृश्यरूपे चाकचिक्ये दृश्यमानएव शुक्तित्वोपलम्भेन तस्य तत्साम- यीप्रतिबन्धकत्वासिवा दूरत्वादिदोषेण प्रतिबन्धाद्वा व्यज्जकनीलपृष्ठत्वादि- ग्राहकाऽसमवधानाद्वा तत्सामय्यभावस्य वक्तव्यत्वात् । एवं जलधिजले नि- यतनीलरूपाध्यासप्रयोजकदोषेण दूरे नीरत्वव्यजकतरङ्गादिग्राहकासमवधा- नेन च शक्यजलराशित्वादिविशेषदर्शनसामग्र्यभावाच्छिलातलत्वाद्यध्यासः । विस्तृते पटे परिणाहरूपविशेषदर्शनसामग्रीसत्त्वान्न पुण्डरीकमुकुलत्वाध्यासः कर्तनादिघटिततदाकारे तदभावात्तदध्यास इति । नन्वेवं करस्पृष्ट लोहश- कले तदीयनीलरूपविशेषदर्शनसामय्यभावादजताध्यासः किं न भवेत्सादृश्य- ज्ञानानपेक्षणादिति चेद् भवत्येव किं तु ताम्रादिव्यावर्तकविशेषदर्शनसामय्या * प्रतिबन्ध कसामथ्याः प्रतिबन्धकत्वे दाहप्रतिबन्धकमण्यादिसामग्या टाहप्रतिबन्धकत्व- प्रसङ्गः । तद्वा णाय ज्ञानपदम् । टी. प्रातिभासिकरजतस्य ज्ञानोपादानकत्वाद्विशेषदर्शनस्य तत्कारण प्रतिबन्धकत्वेन कार्यभूतप्रातिभासिकरजतप्रतिबन्धकत्वं सुतरामिति भावः । + तदभावव्याप्यवत्तानिश्चयटितसामग्रीसत्वादित्यर्थः । # कश्चन सायं घढमागत्य शैल्किकाय शुल्कं दातुनिच्छन् सर्वा रात्रि भान्त्या प्रभाते तत्रवागत इति न्यायाकारः। 14 । ४१ सकारणाध्यासनिरूपणम् अप्यभावात्तदध्यासेनापि भाव्यमिति व चिदनेकाध्यासे * संशयगोचरो भ- वति क्व चित्तु रजतप्राये | कोशगृहादौ रजताध्यास एव भवति व चित्स- त्यपि सादृश्यज्ञाने शुक्तिकादौ कदा चित्करणदोषाद्यभावेनाध्यासानुदयवद- ध्यासानुदये ऽपि न हानिः । तस्मान्न कार्यकल्प्येदमाकारवृत्तिनाप्यप्रतिबद्धेदमर्थ- संप्रयोगकारणकल्प्या। ततो भवन्त्या एवेदंवृत्तेर्दुष्टन्द्रियसंप्रयोग क्षुभिताऽवि- द्यापरिणामस्वसमानकालरजतविषयत्वस्याप्यस्माभिरुच्यमानत्वात् । तच च ज्ञानसमानकालात्यत्तिके प्रतिभासमाचविपरिवर्तिनि रजते तत्याचीनसंप्रयोगा- भावेपि तत्तादात्म्याश्रयेदमर्थसंप्रयोगादेव तस्यापि चक्षुर्याह्यत्वोपपत्तेः । चक्षु- पा रजतं पश्यामीति प्रातिभासिकरजतस्य स्वसंप्रयोगाभावपि चाक्षुषत्वानुभ- वात् । न च स्वसंप्रयोगाभावादेव बाधकान्न तच्चाक्षुषं नापि दुष्टेन्द्रियसंप्रयो- गजन्यमिदंवृत्तिसमकालं ज्ञानकारणस्येन्द्रियसंप्रयोगस्यार्थकारणत्वाऽक्रमः किं त्विदंवृत्त्यनन्तरभावि तज्जन्यं तदभिव्यक्तसाक्षिण्यध्यासात् तदास्यं चाक्षुष- त्वानुभवस्तु स्वभासकचैतन्याभिव्यजकेदंवृत्तिजनकत्वेन परंपरया चक्षुरपेक्षा- माघेणेति वाच्यम् । तथा सति पीतशङ्खभ्रमे चक्षुरनपेक्षाप्रसङ्गात् । न हि तच शङ्खग्रहणे चक्षुरपेक्षा रूपं विना केवलशङ्खस्य चक्षुग्राह्यत्वायोगात् । नापि पीतिमग्रहणे आरोप्ये ऐन्द्रियकत्वाऽनभ्युपगमात् । न च पीतिमा स्वरू- पतो नाध्यस्यते किं तु नयनगतपित्तपोतिनो ऽनुभूयमानस्य शङ्खसंसर्गमाचम- ध्यस्यतइति पीतिमानुभवार्थमेव चक्षुरपेक्षेति वाच्यम् । तथा सति शङ्खतत्सं- सर्गयोरप्रत्यक्षत्वप्रसङ्गात् । नयनप्रदेशगतपित्तपीतिमाकारवृत्त्यभिव्यक्तसाक्ष्य- संसर्गेण तयास्तदास्यत्वाभावात् । पीतिमसंसृष्टशङ्खगोचरैकवृत्त्यनभ्युपग- माच्च || । न च नयनप्रदेशस्थस्य पित्तपीतिम्नो दोषाच्छके संसाध्यासो नापे- यते किं त नयनरश्मिभिः सह निर्गतस्य विषयव्यापिनस्तस्य तत्र संसाध्या- * रजततामादिनानाधर्माध्यासे इदमर्थः इदं रजतं वा तामं वेति संशयविशेष्यो भव- तीत्यर्थः। । रजतबहुले । + इदमावच्छिन्नचैतन्ये विटामाना रजतपरिणामिन्यविढ्या दुष्टेन्द्रियसंपर्कादिरूपादध्या- सनिमित्तकारणीभूतात् क्षोभं कार्याभिमुख्यं प्राप्नोति उत्तरक्षणे च रजतरूपेण परिणमते दुष्टे- न्द्रियसंप्रयोगाद् वृत्तिरपि तथैव जायते तथा चाप्रतिबद्धाददुष्टेन्द्रियसंप्रयोगाद्भवन्तीदमर्थगोचरा- वृत्तिः स्वकालोत्पन्नरजतविशिष्टेदमर्थ विषयीकरोतीत्यर्थः । टी. दोषमात्रापेक्षित्वादिति भावः । || असंसर्गाग्रहसहितज्ञानद्वयमात्रेण तद्विषयकप्रवृत्त्यभ्युपगमस्यान्यत्रोपपादितत्वादिति भावः ।

४२ * । प्रथमपरिच्छेदे सः कुसुम्भारुणितइव कौसुम्भइति संभवति तदाकारवृत्त्यभिव्यक्तसाक्षिसं- सर्ग इति वाच्यम् । तथा सति सुवर्णलिनइव पित्तोपहतनयनेन वीक्ष्यमाणे शो तदितरेषां पीतिमधीप्रसङ्गात् । न च स पीतिमा समीपे गृहीत एव दूरे ग्रहीतुं शक्यः विहायसि उपर्युत्पतन्विहङ्गम इव इतरेषां च समीपेन ग्रह- णमिति वाच्यम् । इतरेषामपि तच्चक्षुर्निकटन्यस्तचक्षुषां पीतिमसामीप्यसत्त्वेन तद्ग्रहणस्य दुर्वारत्वात् । एवमप्यतिधवलसिकतामयतलप्रवहृदच्छनदीजले नै- ल्याध्यासे गगननेल्याध्यासे च रक्तवस्त्रेषु निशि चन्द्रकायां नैल्याध्यासे चानु- भूयमानारोपस्य वक्तुभशक्यत्वेन* तत्र नैल्यसंसृष्टाधिष्ठानगोचरचाक्षुषवृत्त्य- नभ्युपगमे चक्षुरनुपयोगस्य दुष्परिहरत्वाच्च । अनास्वादिततिक्तरसस्य बा- लस्य मधुरे तिक्तताऽऽभासा जन्मान्तरानुभवसंस्कारहेतुक इति प्रतिपादयता पञ्चपादिकाग्रन्येन स्वरूपतो ऽध्यस्यमानस्यैव तिक्तरसस्यन्द्रियकत्वस्फुटीकर- णाच्च । अन्यथा तब रसनव्यापारापेक्षानुपपत्तेः । तस्मादुदाहृतनैल्याध्यासस्थ- लेष्वधिष्ठानसंप्रयोगादेव तद्गोचरचाक्षुषवृत्तिसमकालोदयो ऽध्यासस्तस्या वृत्तर्वि- षय इति तस्य चाक्षुषत्वमभ्युपगन्तव्यम् । रूपं विना केवलाधिष्ठानगोचरवृत्त्य- भावे च विषयचैतन्याभिव्यत्यभावेन जलतदध्यस्तनल्यादीनां तदास्यत्वायो- गात् । तिक्तरसाध्यासस्थले त्वधिष्ठानाध्यासयोरेकेन्द्रियग्राह्यत्वाभावात् त्वगि- न्द्रियजन्याधिष्ठानगोचरवृत्त्या तदवच्छिन्नचेतन्याभिव्यक्ती पित्तोपहतरसनसंग्र- योगादेव तच तिक्तरसाध्यासस्तन्मात्रविषयरासनवृत्तिश्च समकालमुदेतीति तिक्तरसस्य रासनत्वमप्यभ्युपगन्तव्यम् । त्वगिन्द्रियजन्याधिष्ठानगोचरवृत्त्य- भिव्यक्तचैतन्यभास्ये तिक्तरसे परंपरया ऽपि रसनोपयोगाभावेन तब कथमपि प्रकारान्तरेण रासनत्वानुभवसमर्थनासंभवात् । तथैव रजतस्यापि चाक्षुष- त्वोपपत्तेः पश्यामीत्यनुभवो न बाधनीयः । न चासंप्रयुक्तस्य रजतस्य चाक्षुषत्वे प्रत्यक्षमाचे विषयेन्द्रियसंनिकर्षः कारणं द्रव्यप्रत्यक्ष तत्संयोगः कारणं रजतप्रत्यक्ष रजतसंयोग: कारणमिति गृहीताऽनेककार्यकारणनियम- भङ्गः स्यादिति वाच्यम् । सन्निकर्षत्वस्य संयोगाद्यनुगतस्यैकस्याभावेनाद्यनि- यमासिद्धेः । द्वितीयनियमस्य नैयायिकरीत्या तमसीव संयोगायोग्ये क्वचि- * तत्रारोप्यरूपस्य कुत्रापि धर्मिण्यसंसृष्टत्वादिति भावः चाक्षुषवृत्तिविषयत्वमादायैव चाक्षुषत्वानुभवसंभवे तदनुभवस्यारोपरूपत्वकल्पनमयुक्त मित्यर्थः । टी.

४३ सकारणाध्यासनिरूपणम् दद्रव्येपि द्रव्यत्वाध्याससंभवाइयवहारदृष्ट्या यव्यत्वाधिकरणं तद्विषयत्वेन प्रातिभासिकरजते द्रव्यत्वस्याधिष्ठानगतस्यैवेदंत्ववदध्यासात्प्रतीत्यभ्युपगमेन च द्वितीयनियमाविरोधात् । द्वितीयनियमरूपसामान्यकार्यकारणभावव्यति- रेकेण विशिध्यापि * कार्यकारणभावकल्पनाया गौरवपराहतत्वेन तृतीयनि- यमासिद्धेः । यत्सामान्ये यत्सामान्यं हेतुस्तद्विशेषे तविशेषो हेतुरिति न्यायस्यापि यच बीजाङ्करादौ सामान्यकार्यकारणभावाभ्युपगमे + बीजान्त- रादङ्कुरान्तरोत्पत्यादिप्रसङ्गः तद्विषयत्वेन ततो ऽजागलस्तनायमानविशेषका- र्यकारणभावासिद्धेः । न चाचापि द्रव्यप्रत्यक्षे द्रव्यसंयोगः कारणमिति सामान्य- नियममात्रपिगमे ऽन्य संयोगादन्यद्रव्यप्रत्यक्षापत्तिरिति अतिप्रसङ्गो ऽस्तीति वाच्यम् । तद्रव्यसंयोगः कारणमिति नियमाभ्युपगमात् । अन्यथा || तृतीयनियमे ऽप्यतिप्रसङ्गस्य दुर्वारत्वात् । तस्मान्नास्ति ऋणनियमभङ्गः । किं चाच लप्पनियमभङ्गेपि न दोष इदं रजतं पश्यामीति नीलं जलं पश्या- मीत्यादेरनन्य यासिद्धस्यानुभवस्य प्रथमगृहीतानामपि प्रत्यक्षमाचे विषयसंनि- कर्षः कारणमित्यादिनियमानां व्यावहारिकविषये संकोचकल्पनमन्तरणोपपा- दनासंभवात् । न चैवं सति प्रमायां संनिकर्षः कारणं न भ्रमइत्यपि संकोचक- ल्पनासंभवादसंनिकृष्टस्यैव देशान्तरस्थस्यैव रजतस्येहारोपापत्तिरित्यन्यथा- ख्यातिप्रसारिका वा । अभिव्यक्त चैतन्यावगुण्ठनशून्यस्य * * देशान्तरस्थरज- तस्यापरोक्ष्यानुपपत्तेः । ख्यातिबाधार्नुपपत्त्यादिभिर्भमविषयस्यानिर्वचनीयत्व- सिद्धेश्च । न चाधिष्ठानसंप्रयोगमाचात्प्रातिभासिकस्यन्द्रियकत्वोपगमे शुक्तिर- जताध्याससमये तव कालान्तरे ऽथ्यसनीयस्य रङ्गस्यापि चाक्षुषत्वं कुतो न स्यादिति वाच्यम् । रजताध्याससमये रङ्गरजतसाधारणचाकचक्यदर्शनाविशे- षेपि यतो रागादिरूपपुरुषदोषाभावादितस्तत्र तदान रङ्गाध्यासस्तत एव मया तद्विषयवृत्त्यनुदयस्याप्युपगमात् । तस्मादिदमंशसंभिन्नरजतगोचरा एकैव वृत्ति- * तत्तद्व्यक्तित्वाघटितान्तरालिककार्यकारणभावस्येत्यर्थः । + भावमात्रेति द्रा पुस्तके । | नियमस्तत्रोपगमे इति पाठान्तरं लिष्टम् । तत्तदृष्य प्रत्यक्षे तत्त योगः कारणमिति ३ पु. पाठः। | तद्व्यक्तित्वादिकमनन्तभाव्येत्यर्थः । पावादः प्रसारित इति द्रा पुः पाठः। * * अर्थस्यापरोक्षत्वे इन्द्रियसंनिकृष्टत्वं न प्रयोजकं किं त्वभिव्यक्तचैतन्याभिन्नत्वमिति वक्ष्यते । तथा च भ्रमविषयस्य रजतादेर्देशान्तरस्थत्ये आपरोक्ष्यं न संभवतीति शुक्तितादात्म्यापन रजतं सिध्यतीत्यर्थः । अवगुण्ठनं तादात्म्यम् । टी. . 8 तत्त व्यसये.गः ४४ प्रथमपरिच्छेदे रिन्द्रियजन्या न ततः प्रागिदमाकारा वृत्तिरिति नाचे * वेयमज्ञाननिवर्तक- त्वसदसद्भावचिन्ता कार्येति ॥ अन्ये त्वधिष्ठानज्ञानमध्यासकारणमितीदमाकारां वृत्तिमुपेत्य तदभि- व्यक्तेनैव साक्षिणा तदध्यस्तरजतस्यावभाससंभवात्तदासकसाक्ष्यभिव्यजिकया तयैवेदंवृत्त्या + रजतविषयसंस्काराधानोपपत्तेश्च रजताकारा वृत्तिय॑र्थति मन्यन्ते ॥ ज्ञानद्वयपक्षे इदमित्येका वृत्तिरध्यासकारणभूता इदं रजतमिति द्वि- तीया वृत्तिरध्यस्तरजतविया न त्विदमंशं विना ऽध्यस्तमाचगोचरा सा । इदं रजतं जानामीति तस्या इदमयंतादात्म्यापन्नरजतविषयत्वानुभावादिति के चित् ॥ अन्ये तु यथेदमंशावच्छिन्नचैतन्यस्था ऽविद्या रजताकारण विवर्त्तते एवमिदमंशविषयवृत्तिज्ञानावच्छिन्नचैतन्यस्था विद्या रजतज्ञानाभासाकारण विवर्त्तते न त्विदमंशवृत्तिवदनध्यस्तं रजतज्ञानमस्ति । तथा च रजतस्याधि- ष्ठानगतेदंत्वसंसर्गभानवत्तज्ज्ञानस्याप्यधिष्ठानगतेदंविषयत्वसंसर्गभानोपपत्तेर्न तस्यापीदंविषयत्वमभ्युपगन्तव्यम् । न च रजतत्ववदध्यस्तस्य रजतेदंत्वसं- सर्गस्य रजतज्ञानगोचरत्वात्तत्प्रतियोगिन इदंत्वस्यापि तद्विषयत्वं वक्तव्य- मिति वाच्यम् । स्वतादात्म्याश्रयस्येदंत्वविषयत्वादेव तस्य तत्संसर्गविषयत्वे ऽतिप्रसङ्गाभावात् । न चाधिष्ठानाध्यासयोरेकस्मिन् ज्ञाने प्रकाशनियमस्य संभा- घनाभाष्यविवरणे प्रतिपादनात् एकवृत्तिविषयत्वं वक्तव्यमिति वाच्यम् । वृत्ति- भेदेपीदमाकारवृत्त्यभिव्यक्ते एकस्मिन्साक्षिणि तयोः प्रकाशोपगमादित्याहुः ॥ (१६) ननु सर्वपदार्थानां साक्षिप्रसादादेव प्रकाशोपपत्तेः किं वृत्या। घटादि- विषयसंस्काराधानाद्युपपत्तये तदपेक्षणेपि तन्निर्गमाभ्युपगमो व्यर्थः । परो- क्षस्थल इवाऽनिर्गतवृत्त्यवच्छिन्नसाक्षिणेव घटादेरपि प्रकाशोपपत्तेः । न च तथा इदमाकारवृत्तावित्यर्थः । टी. + यवृत्त्यवच्छिन्नचैतन्ये यावन्तः पदार्था भासन्ते तयैव वृत्त्या तावत्सु पदार्थेषु संस्कारा- धानमिति प्रागुक्तत्वा दिति भावः। टी. * ज्ञानाभासरूपं रजतज्ञानं रजतवत्प्रातिभासिकमेव न त्विदमाकारवृत्तिवद् व्यावहारिक ज्ञानाभासस्यापि शुक्तिरजतवदेव शुक्त्यज्ञाननिवर्त्तकप्रत्यक्षबाध्यत्वाटित्यर्थः । टी. 8 ननु केवलसाक्षिण एव विषयानुभवरूपत्वे कालान्तरे विषयानुसंधानं न स्यादनुभवना- शलक्षणसंस्काराभावात्तथा गन्तुकवृत्त्यनङ्गीकारे चक्षुराट्यनुविधानं न स्यानित्यसाक्षिणि चक्षुरा- देरनुपयोगादतो वृत्तिरादर्तध्येत्याशङ्कय तामङ्गीकरोति । टी . ww + ४५ वृत्तिनिर्गमावश्यकत्वनिरूपणम् सति परोक्षापरोक्षवैलक्षण्यानुपपत्तिः शाब्दानुमित्योरिव करणविशेषप्रयुक्तवृत्ति- वैजात्यादेव तदुपपत्तेः । अत्र के चिदाहुः । प्रत्यक्षस्थले विषयाधिष्ठानतया तदवच्छिन्नमेव चैतन्यं विषयप्रकाशः साक्षात्तादात्म्यरूपसंबन्धसंभवे स्वकुप- संबन्धस्यान्यस्य वा कल्पनाऽयोगादिति तदभिव्यक्त्यर्थ युक्तो वृत्तिनिर्गमाभ्यु- पगमः । परोक्षस्थले व्यवहिते वह्मादी वृत्तिसंसायोगादिन्द्रियवदन्वययतिरे- कशालिनो वृत्तिनिर्गमद्वारस्यानुपलम्भाच्चानिर्गतवृत्त्यवच्छिन्नचैतन्यमेव स्वरू. पसंबन्धेन विषयगोचरमगत्या उभ्युपगम्यतइति ॥ अन्ये त्वहंकारसुखदुःखादिष्वापरोक्ष्यं साक्षाच्चैतन्यसंसर्गिषु कृप्रमिति घटादावपि विषयसंसृष्टमेव चैतन्यमापरोक्ष्यहेतुरिति तदभिव्यक्तये * वृत्ति- निर्गमं समर्थयन्ते ॥ इतरे तु शब्दानुमानावगतेभ्यः प्रत्यक्षावगते स्पष्टता तावदनुभूयते न हि रसालपरिमलादिविशेषे शतवारमानोपदिष्टे ऽपि प्रत्यज्ञावगतइव स्पष्ट- तास्ति तदनन्तरमपि कथं तदिति जिज्ञासानुवृत्तेः । न च शब्दान्माधुर्यादि- माचावगमेपि रसालमाधुर्यादिवृत्त्यवान्तरजातिविशेषवाचिशब्दाभावात्तत्सत्त्वे- पि+ श्रोचात्तस्यागृहीतसङ्गतिकत्वाच्छब्दादसाधारण जातिविशेषावच्छिन्नमाधु- योवगमो नास्तीति जिज्ञासानुवृत्तिर्यु तेति शङ्कयम् । रसाले सर्वातिशायी माधु- यविशेषोऽस्तीत्यस्माच्छब्दात्तद्गतावान्तरजातिविशेषस्याप्यवगमात् । न ह्ययं । विशेषशब्दस्तद्गतं विशेषं विहायान्यगतं विशेषं तच बोधयति। अप्रामाण्या- पत्तेः । न च तद्गतमेव विशेषं विशेषत्वेन सामान्येन रूपेण बोधयति न विशिष्यति जिज्ञासेति वाच्यम् । प्रत्यक्षेणापि मधुररसविशेषणस्य जातिवि- शेषस्य स्वरूपत एव विषयीकरणेन जातिविशेषगतविशेषान्तराविषयीकरणा- ज्जिज्ञासानुवृत्तिग्रसङ्गात् । तस्मात्प्रत्यक्षग्राह्ये ऽभिव्यक्तापरोक्षैकरस || चैतन्या- वगुण्ठनात्स्पष्टता जिज्ञासानिवर्तनक्षमा शब्दादिगम्ये तदभावादस्पष्टतेति व्य- वस्थाभ्युपगन्तव्या । अत एव साक्षिवेद्यस्य सुखादेः स्पष्टता शाब्दवृत्तिवेद्य- 6. - * विषयावच्छिन्नब्रह्मचैतन्याभिव्यक्तयइत्यर्थः । टी. + तदादिसर्वनामशब्दस्यति भावः । * न त्ययं शब्दइति द्रा. १ पुस्तकयोः । ६ संभवतीति शेषः। ॥ अपरोक्षं स्वप्रकाशत्वमेकरसत्वमेकरूपत्वमभिव्यक्तस्य तस्य तादात्म्यात्प्रत्यक्षमाझे स्पष्टता विषयताविशेषरूपेत्यर्थः ।

४६ । प्रथमपरिच्छेदे स्यापि ब्रह्मणो मननादेः प्रागज्ञानानिवृत्तावस्पष्टता तदनन्तरं तन्निवृत्ता स्पष्ट- तेति वृत्तिनिर्गममुपपादयन्ति ॥ नन्वेतावतापि विषयावरकाज्ञाननिवृत्त्यर्थं वृत्तिनिर्गम इत्युक्तं तदयु- क्तम् विषयावच्छिन्नचैतन्यगतस्य तदावरकाज्ञानस्यानिर्गतवृत्त्या निवृत्त्युपगमे ऽप्यनतिप्रसङ्गात् । न च तथा सति देवदत्तीयघटज्ञानेन यज्ञदत्तीयघटाक्षान- स्यापि निवृत्तिप्रसङ्गः समानविषयत्वस्य सत्त्वात् अहमर्थविषयचैतन्यनिष्ठ- योजानाज्ञानयोभिनाश्रयत्वेन तयाविरोधे समानाश्रयत्वस्या* तन्त्रत्वादिति वाच्यम् । समानाश्रयविषयत्वं ज्ञानाऽज्ञानयोर्विरोधप्रयोजकमङ्गीकृत्य वृत्तिनि- गमाभ्युपगमे ऽपि देवदत्तीयघटवृत्तेर्यज्ञदत्तीयघटाज्ञानस्य च घटावच्छिन्नचैत- न्यकाश्रयत्वप्राप्ट्या ऽतिप्रसङ्गतादवस्थ्येन यदज्ञानं यं पुरुषं प्रति यद्विषयावरकं तत्तदीयतद्विषयकज्ञाननिवर्त्यमिति पृथगेव विरोधप्रयोजकस्य वक्तव्यतया स- मानानयत्वस्याऽनपेक्षणात् । अचाहुः । वृत्तिनिर्गमानुपगमे ज्ञानाज्ञानयोर्विरोध- प्रयोजकमेव दुर्निरूप्यम् । यदज्ञानं यं पुरुषं प्रतीत्यायुक्तमिति चेन्न । परोक्षज्ञा- नेनापि विषयगताऽज्ञान + निवृत्तिप्रसङ्गात् । अपरोक्षत्वमपि निवर्त्तकज्ञानवि- शेषणमिति चेत् किं तदपरोक्षत्वं न तावज्जातिः दण्ड्ययमासीदिति संस्का- रोपनीतदण्डविशिष्टपुरुषविषयस्य चाक्षुषज्ञानस्य दण्डांशेपि तत्सत्त्वे तचापि विषयगताज्ञाननिवृत्त्यापातात् दण्डं साक्षात्करोमीति तदंशेप्यापरोक्ष्यानुभवा. पत्तेश्च । अननुभवेपि संस्कारं संनिकर्ष परिकल्प्येन्द्रियसंनिकर्षजन्यतया तत्र काल्पनिकापरोक्ष्योपगमे ऽनुमित्यादावपि लिङ्गज्ञानादिकं संनिकर्ष परिकल्प्य तदङ्गीकारापत्तेः । दण्डांशे आपरोक्ष्यासत्त्वे तु तस्य जातित्वायोगाज्जाते- व्याप्यवृत्तित्वनियमात् । तदनियमे ऽप्यवच्छेदकोपाधिभेदानिरूपणेन || त- * वृत्तिनिर्गमनाभावे सति ज्ञानमहमर्थनिष्ठमेव न विषयचैतन्यनिष्ठं विषयावरकाज्ञानं च विषयचैतन्यनिष्ठमेव न त्वहमर्थनिष्ठं तथा च समानाश्रयत्वं बाधितत्वाचन प्रयोजककोटिप्रवि- प्टमित्यर्थः । टी. + विशेषाकारणापीति शेषः । न चेष्टापत्तिः जिज्ञासादर्शनात् । # अनुमिती लिङ्गजानं संनिकर्षः । उपमिती सादृश्यज्ञानं शाब्दे पदार्थोपस्थितिः अर्था- पत्तावनुपपदयमानपदार्थज्ञानम् अभावे प्रतियोगिज्ञानम् इति कल्पनया प्रत्यक्षप्रमाणपरिशेषाय- त्तिरिति भावः । टी. ६ अन्यथा एकस्यामेव प्रत्यभिज्ञायां तत्तांशे संस्कारजन्यतया स्मृतित्व पत्ती जातिसंकरा- पत्तरिति भावः। टी. | स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपाव्याप्यत्तित्वस्यावच्छेदकभेदं विना अनुप- पत्तरिति भावः।

* . वृत्तिनिर्गमावश्यकत्वनिरूपणम् स्याऽव्याप्यवृत्तिजातित्वायोगाच्च । नाप्युपाधिस्तदनिर्वचनात् । इन्द्रियजन्य. त्वमिति चेन्न साक्षिप्रत्यक्षाव्यापनात् । अनुमितिशाब्दज्ञानोपनीतगुरुत्वादिवि- शिष्टघटप्रत्यक्षे विशेषणांशातिव्यापनाच्च । कारणान्तराभावेन तदंशे परोक्ष ऽप्युपनयसहकारिसामादिन्द्रियस्यैव जनकत्वादनुगतजन्यतावच्छेदकाग्रहे- णानेकेष्विन्द्रियजन्यत्वस्य * दुर्घ हत्वाच्च । तद्ग्रहे च तस्यैव प्रथमप्रतीतस्या- परोक्ष्यरूपत्वोपपत्तो प्रत्यक्षानुभवायोग्यस्येन्द्रियजन्यत्वस्य तद्योग्यापरोक्ष्यरू- पत्वकल्पनायोगात्। एतेनेन्द्रियसंनिकर्षजन्यत्वमापरोक्ष्यमुपनयसहकृतेन्द्रिय- जन्यपरोक्षांशे च न संनिकर्षजन्यत्वमनुमितावप्युपनीतभानसत्त्वेन प्रमाणान्त- रसाधारणस्योपनयस्यासंनिकर्षत्वादित्यपि शङ्का निरस्ता। संयोगादिसंनिकर्षा- णामननुगमेनाननुगमाच्च । यत्तवाभिमतमापरोक्ष्यं तदेव ममाप्यस्विति चेन्न । तस्य शाब्दापरोक्षनिरूपणप्रस्ताव प्रतिपादनीयस्य तचैव दर्शनीयया रीत्या ऽज्ञाननिवृत्तिप्रयोज्यत्वेन तन्निवृत्तिप्रयोजकविशेषणभावायोगात् । तस्मात्तरति शोकमात्मविदिति श्रुतस्य ब्रह्मज्ञानस्य मूलाज्ञानानयभूतसर्वोपादानब्रह्मसंस- गनियतस्य मलाज्ञाननिवर्तकत्वादैन्द्रियकवृत्तयस्तत्तदिन्द्रियसंनिक्रर्षसामात्त- तद्विषयावच्छिन्नचैतन्यसंसृष्टा एवोत्पद्यन्तइतिनियममुपेत्याऽज्ञानाप्रयचेतन्य- संसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यम् । तथा च यदज्ञानं यं पुरुषं प्रति यद्विषयावरकं तत्तदीयतद्विषयतदज्ञानाप्रयचैतन्यसंसर्गनियतात्मलाभज्ञाननि- वर्त्यमिति ज्ञानाऽज्ञानयोर्विरोधप्रयोजकं निपितं भवति । न चैवं सति नाडी- हृदयस्वरूपगोचरशाब्दज्ञानस्याप्यज्ञाननिवर्तकत्वप्रसङ्गः । तस्य कदा चिदर्थ- संपन्ननाडीहृदयान्यतरवस्तुसंसर्गसंभवेपि विषयसंसर्ग विनापि शाब्दज्ञानसंभवेन तत्संसर्गनियतात्मलाभत्वालाभात् । तस्मादज्ञानज्ञानविरोधनिर्वाहाय वृत्ति- निगमो वक्तव्य इति ॥ अन्ये तु विषयगताज्ञानस्य लाघवात्समानाधिकरणज्ञाननिवर्तकत्व- सिद्धा वृत्तिनिर्गमः फलतीत्याहुः ॥ in AMIN रूपादिसाक्षात्कारेषु । टी. + अनुगतजन्यतावच्छेदकग्रहे इत्यर्थः । + तृतीयपरिच्छेदावसाने। टी. ६ सेन्द्रियकवृत्तीनां हि तत्तदिन्द्रियगोलकावच्छिन्नान्तःकरण प्रदेशेषत्यत्तिः संभाव्यते इन्द्रि निरपेक्षवृत्तीनां त्वन्तःकरणे जायमानानां प्रदेनियमे कारणाभावात् । टी.

४८ प्रथमपरिच्छेदे अपरे तु बाह्यप्रकाशस्य बाह्यतमोनिवर्त्तकत्वं सामानाधिकरण्ये सत्ये- व दृष्टमित्ति दृष्टानुरोधादृत्तिनिर्गमः सिध्यतीत्याहुः ॥ के चित्त्वावरणाभिभवार्थ वृत्तिनिर्गमानपेक्षायामपि चिदुपरागार्थ प्रमा- तृचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्त्यर्थं वा तदपेक्षेत्याहुः ॥ अथ किंप्रमाणको ऽयं जीवब्रह्मणारभेदः यो वृत्त्याभिव्यज्येत । वेदान्त- प्रमाणक इति घण्टाघोषः । सर्वेपि वेदान्ता उपक्रमासंहारैकरूप्यादितात्यर्यलि- ङ्गैर्विमृश्यमानाः प्रत्यगभिन्ने ब्रह्मण्यद्वितीये समन्वयन्ति । यथा चाऽयमर्थ- स्तथा शास्त्रएव समन्वयाध्याये प्रपञ्चतं विस्तरभयान्नेह प्रदर्श्यते ॥ प्रथमः परिच्छेदः समाप्तः 1. .

द्वितीयः परिच्छेदः -OOVO2000- ---- अथ कथमद्वितीये ब्रह्मणि वेदान्तानां समन्वयः प्रत्यक्षादिविरोधा- दिति चेन्न । आरम्भणा* धिकरणादाहृतश्रुतियुक्तिभिः प्रत्यक्षाधिगम्यस्य प्रप- ज्ञस्य ब्रह्मविवर्तरूपतया मिथ्यात्वावगमात् । ननु न श्रुतियुक्तिभिः प्रपञ्चस्य मिथ्यात्वं प्रत्याययितुं शक्यते घटः सन्नित्यादिघटादिसत्त्वग्राहिप्रत्यक्षादिवि रोधात् । अचाहुस्तत्वशुद्धिकाराः । न प्रत्यक्षं घटपटादि तत्सत्त्वं वा गृ- हाति किं त्वधिष्ठानत्वेन घटाद्यनुगतं सन्माचं तथा च प्रत्यक्षमपि सदूप- ब्रह्माद्वैतसिद्धानुकूलमेव । तथा सति तत्सदित्येव प्रत्यक्षं स्यान्न तु घटः सन्नित्यादिप्रत्यक्षमिन्द्रियान्वयव्यतिरेकानुविधायोति चेन्न । यथा भ्रमश्विदमंश- स्याधिष्ठानस्य प्रत्यक्षेण ग्रहणम् इन्द्रियान्वयव्यतिरेकयोस्तत्रैवोपक्षयः रजतां. शस्यारोपितस्य भ्रान्त्या प्रतिभासस्तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण ग्रहणम् तत्रैवेन्द्रियव्यापारः घटादिभेदविशिष्टवस्तुप्रतिभासा भ्रान्त्येत्युपगमात् । ननु तदिह बाधादर्शनात्तथाभ्युपगम एव निर्मूल इति चेन्न । बाधादर्शनेपि देश- कालव्यवहितवस्तुवद् घटादिभेदवस्तुनः प्रत्यक्षायोग्यत्वस्यैव तच मूलत्वात् । तथा हि । इन्द्रियव्यापारानन्तरं प्रतीयमानो घटादिः सर्वतो भिन्न एव प्रती- यते तदा तच घटादिभेदे संशयविपर्ययादर्शनात् । यचापि स्थाण्वादी पुरु- षत्वादिसंशयस्तचापि तयतिरिक्तभ्यो भेदो ऽसन्दिग्धाविपर्यस्तत्वात्प्रकाशते एव भेदस्य च प्रतियोगिसहोपलम्भ || नियमवतो न प्रत्यक्षेण ग्रहणं संभवति देशकालव्यवधानेनासंनिकृष्टानामपि प्रतियोगिनां संभवात् । भेदज्ञानं प्रतियो- व्या. सू. अ• २ पा• १ सू. १४ । + कारादय इति द्रा• पाठः। # सद्रूपब्रह्मव प्रत्यक्षप्रमेयमित्यर्थः । ६ घटादेस्तोदस्य च वस्तुनः प्रतिभासा भान्त्या ऐन्द्रियकवत्यभिव्यक्तसन्मात्ररूपसाक्षि- चैतन्यलक्षणयेत्यभ्युपगमादित्यर्थः । एतेन सत्सदित्येव प्रत्यक्षं स्यादित्याक्षेप्ता भेदवाट्यपि निरस्तः। सिद्धान्तिना घटादी तत्सत्त्वे च प्रत्यक्षस्य प्रामाण्यानङ्गीकारेपि घटादेः प्रत्यक्षज्ञाने साक्षिरूपे भानाङ्गीकारात् । टी. || ससंबन्धिकपदार्थप्रत्यक्षे यावत्संबन्धिविषयकत्वस्य यावत्संबन्धिप्रत्यक्षजन्यतायाश्च संयो- गादिप्रत्यक्षे कप्तत्वात्तथा च यावन्तः प्रतियोगिनस्तावतां प्रत्यक्षासंभवेन न भेदः प्रत्यक्षप्रमायोग्य इति तस्य भ्रान्तिमात्रसिद्धत्वं युक्तम् । टी. :

६ ५० द्वितीयपरिच्छेदे व्यंशे संस्कारापेक्षणात स्मृतिरूपमस्तु प्रत्यभिज्ञानमिव तत्तांशइति चेन्न । तथा- पि भेदगतप्रतियोगिवैशिष्ट्यांशे तदभावात् । न च कनकाचलो भेदप्रतियोगी वस्तुत्वादिति भेदप्रतियोगिवैशिष्ट्यगोचरानुमित्या तत्संस्कारसंभवः भेदज्ञानं विना ऽनुमित्यभावेनात्मानयापत्तेः । पक्षसाध्यहेतुपक्षताद्यभेदभ्रमे सति सिद्ध- साधनादिना ऽनुमानाऽप्रवृत्त्या तदभेदज्ञानविघटनीयस्या * पेक्षितत्वात् । अस्तु तर्हि भेदांशइव प्रतियोगिवैशिष्ट्यांशेपि प्रत्यक्षत्वमिति चेन्न । प्रतियोगिनो ऽन- त्यक्षत्वे तद्वैशिष्ट्यप्रत्यक्षायोगात् । संबन्धिद्वयप्रत्यक्षं विना संबन्धप्रत्यक्षासंभ- वात् । तस्मात्प्रत्यक्षायोग्यस्य प्रतियोगिनो भ्रान्तिरूप एव प्रतिभास इति तदेकवित्तिवेद्यत्वनियतस्य भेदस्य भेदैकवित्तिवेद्यत्वनियतघटादेश्च भ्रम- कविषयत्वात्प्रत्यक्ष निर्विशेषसन्माचग्राह्यद्वैतसिद्धानुकूलमिति ॥ न्यायसुधाकृतस्त्वाहुः । घटादेरैन्द्रियकत्वेपि सन् घट इत्यादिरधिष्ठा- नसत्तानुवेध इति न विरोधः । एवं नीलो घट इत्यादिरधिष्ठाननेल्याद्यनुवेधः किं न स्या : दिति चेन्न । श्रुत्या सदूपस्य वस्तुनो जगदुपादानत्वमुक्तमवि- रोधात्सर्वसंमतमिति तदनुवेधेनैव सन् घट इत्यादिप्रतिभासोपपत्ता घटादा- वपि सत्ताकल्पने गौरवम् । तस्य छूपादिहीनत्वान्नल्यादिकं घटादावेव कल्प- नीयमिति वैषम्या दिति ॥ सङ्केपशारीरकाचार्यास्त्वाहुः । प्रत्यक्षस्य घटादिसत्त्वग्राहित्वेपि परा- पा ग्विषयस्य प्रत्यक्षादेः तत्त्वावेदकत्वलक्षणप्रामाण्याभावान्न तद्विरोधेनाद्वतश्रु- त्यादिबाधशङ्का । अज्ञातबोधकं हि प्रमाणं न च प्रत्यक्षादिविषयस्य घटादेर- ज्ञातत्वमस्ति जडावरणकृत्याभावेना * * ज्ञानविषयत्वानुपगमात् । स्वप्रकाश- तया प्रसक्तप्रकाशं ब्रह्मवाज्ञानविषय इति तद्बोधकमेव तत्त्वावेदकं प्रमाण तदेव प्रमितिविषयः । अत एव श्रुतिरप्यात्मा वाअरे द्रष्टव्य इत्यात्मन एव प्रमेयत्वमिति नियच्छति । न हि द्रष्टव्य इत्यनेन दर्शन विधीयले प्रमाणपर- . * 44 तद्भेदज्ञानस्येत्यधिकं ४ पु. पाठः। । तत्पदं प्रतियोगिपरं नियमेन प्रतियोगिज्ञानविषयस्येत्यर्थः वित्तिपदं प्रत्यक्षपरं भेदपटज- न्यज्ञानस्य प्रतियोगिविषयकत्वादर्शनादिति बोध्यम् । टी. + अनुवेध श्रारोपः। 8 तथा च ब्रह्मणो नीरूपत्वाभ्युपगमविरोध इति भावः । || वैषम्यमितीति द्राः पाठः। पा जडमात्रविषयकस्येत्यर्थः। टी. * * कृत्यं कार्य फलमिति यावत् । टी. तस्य स्वभावतः प्रकाशविरोधित्वेनावरणाभ्युपगम- वैयादिति भावः । ..

५१ - प्रत्यक्षेणाद्वैतश्रुतेरबानिरूपणम् तन्त्रस्य * विध्यगोचरत्वात् किं त्वात्मा दर्शनार्ह इति अज्ञातत्वादात्मन एव प्रमेयत्वमुचितं नान्यस्येति नियम्यतइति ॥ के चित्तु घटादिसत्त्वग्राहिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्मप्रमाणाऽन्यूनताव- गमेपि तद्वाह्यं सत्त्वमनुगतप्रत्ययात्सत्ताजातिरूपं वा इहेदानी घटोस्तीति देश- कालसंबन्धप्रतीतेस्तत्तद्देशकालसंबन्धरूपं वा नास्ति घट इति स्वरूपनिषेधप्र- तीते घटादिस्वरूपं वा पर्यवस्यति । तच्च मिथ्यात्वेन न विरुध्यते न हि मिथ्यात्ववादिनापि घटादेः स्वरूपं वा तस्य देशकालसंबन्धो वा तत्र जा- त्यादिकं वा नाभ्युपगम्यते किं तु तेषामबाध्यत्वम् । न चाऽबाध्यत्वमेव सत्यत्वं प्रत्यक्षयाह्यमस्त्विति वाच्यम् । कालचयपि नास्य बाध इति वर्तमा- नमाचग्राहिणा प्रत्यक्षेण ग्रहीतुमशक्यत्वादित्याहुः ॥ अन्ये तु अबाध्यत्वरूपसत्यत्वस्य प्रत्यक्षग्राह्यत्वेपि प्राणा वै सत्यं तेषाम् एष सत्यमिति प्रधानभूतप्राणग्रहणोपलक्षितस्य कृत्स्नप्रपञ्चस्य ब्रह्मणश्च सत्यत्वोत्कर्षापकर्षप्रतीतेः सत्यल्वे चाबाध्यत्वरूपे सर्वदैवा- बाध्यत्वं किञ्चित्कालमबाध्यत्वमित्येवंविधोत्कर्षापकर्ष विना राजराजो मन्मथमन्मथ इत्यादिशब्दतात्पर्यगोचरनियन्तृत्वसौन्दर्यादीनामिव भूयो विषयत्वाल्पविषयत्वादिरूपोत्कर्षापकर्षाऽसंभवाद्विधान्तरेण तत्संभवेपि प्र- पञ्चस्य ब्रह्मज्ञानबाध्यत्वश्रुत्यन्तरेका दुक्तोत्कर्षापकर्षण्व पर्यवसानाच्च प्रत्यक्षमाझं घटादिसत्यत्वं || यावद्ब्रह्मज्ञानमबाध्यत्वरूपमिति न मिथ्या- त्वश्रुतिविरोध इत्याहुः ॥ अपरेतु प्रपञ्चस्य सत्यत्वमिथ्यात्वग्राहिणोः श्रुतिप्रत्यक्षयोर्विरोधेपि दोष- शङ्काकलङ्कितात्प्रथमप्रवृत्तात्प्रत्यक्षानिर्दोषत्वादपच्छेदन्यायेन परत्वाच्च श्रुति- रेव बलीयसी । प्राबल्यमागमस्यैव जात्या तेषु चिषु स्मृतमिति पा स्मरणाच्च । न च वेदैकगम्यार्थविषयकमिदं स्मरणम् । तत्र प्रत्यक्षविरोधशङ्काभावेन शङ्कि- सप्रत्यक्षविरोधण्व वेदार्थे वेदस्य प्राबल्यायोचित्यात् । तलवदृश्यते व्योम श्रुत्या * तस्येत्यधिकं ४ पुः पाठः। + घटो नास्तीति घटास्तितानिषेधत्वेन रूपेण घटस्वरूपनिषेधस्यैवानुभवाद्रटास्तित्व घटस्वरूपमेव पर्यवस्यतीत्यर्थः। टी. * स्वमिथ्यात्वेनेति द्रा• पाठः। ६ विधान्तरेण प्रकारान्तरेण । || घटादिसत्त्वमिति द्रा• पाठः। | प्रत्यक्षानुमानागमेषु मध्ये जात्या वेदत्वेनैवागमस्य प्राबल्यं स्मृतमित्यर्थः ।

५२ द्वितीयपरिच्छेदे खद्योतो हव्यवाडिवान तलं विद्यते व्याम्नि न खद्योता हुताशनः । तस्मा- त्प्रत्यक्षदृष्टेपि युक्तमर्थे परीक्षितुम् । परीक्ष्य ज्ञापयन्नीन्न धर्मात्परिहीयते इति नारदस्मृती साक्षिप्रकरणे प्रत्यक्षदृष्टस्यापि प्रत्यक्षमविश्वस्य प्रमाणापदे- शादिभिः परीक्षणीयत्वप्रतिपादनाच्च । न हि नभोनल्यप्रत्यक्ष नभसः शब्दा- दिषु पञ्चसु शब्दैकगुणत्वप्रतिपादकागमोपदेशमन्तरण प्रत्यक्षादिना शक्यम- पवदितुम् । न च नभसि समीपे नैल्यानुपलम्भाद् दूरे तद्धार्दूरत्वदोषज- न्येति निश्चयेन तद्बाधः । दूरे नैल्यदर्शनात्समीपे तदनुपलम्भः तुहिनाव *- कुण्ठनानुपलम्भव त्समीपदोषजन्य इत्यपि संभवात् । अनुभवबलान्नभाने- ल्यमव्याप्यवृत्तीत्युपपत्तेश्च । नापि दूरस्थस्य पुंसो यत्र भूसन्निहिते नभःप्रदेशे नैल्यधीस्तचैव समीपगतस्य नैल्यबुद्धेरभावप्रत्यक्षेण बाधः उपरि स्थित- स्यैव नेल्यस्याऽभनक्षचादेरिव दूरत्वदोषानसंनिधानावभास रत्युपपत्तेः । पृथिव्यादिषु संकीर्णतया प्रतीयमानानां गन्धादीनामुपलभ्याप्सु चेगन्धं के चिद् ब्युरनैपुणाः पृथिव्यामेव तं विद्यादपो वायुं च संनितमित्यादिभि- रागमैरेव व्यवस्थाया वक्तव्यत्वेन प्रत्यक्षादागमप्राबल्यस्य निर्विशङ्कत्वाच्च । न ह्याजानसिद्धं || जलोपष्टम्भादिगतं गन्धादि पृथिवीगुण एव गन्धो न जला- दिगुण इत्यादिरूपेणास्मदादिभिः प्रत्यक्षेण शक्यं विवेचयितुम् । पृथिव्यादीनां प्रायः परस्परसंसृष्टतया ऽन्यगुणस्यान्यचाप्यवभासः संभवतीति शङ्कितदोषं प्र- त्यक्षं तचागमेन शिक्ष्यतइति चेत्तीहापि ब्रह्मप्रपञ्चयोरुपादानोपादेयभावेन परस्परसंसृष्टतया ऽन्यधर्मस्यान्यचावभासः संभाव्यतइति शङ्कितदोषं प्रत्य- क्षम् अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् आद्यं चयं ब्रह्मरूपं जगद्रपं ततो द्वयमितिवृद्धोक्तप्रकारेणागमेन व्यवस्थाप्यतामिति तुल्यम् । न चैवमु- पजीव्यविरोध: आगमप्रमाणेन वर्णपदवाक्यादिस्वरूपांशप्रत्यक्षमुपजीव्यानु- पजीव्यविरोधः आगमप्रमाणेन वर्णपदवाक्यादिस्वरूपांशप्रत्यनमुपजीव्य त- त्सत्यत्वांशोपमर्दनादिपा त्याहुः ॥ * तुहिनावकुण्ठनं तुहिनरूपमावरणं तद्धि समीपे सदपि न दृश्यते दूरे वृक्षाट्यावरण- रूपत्वेन दृश्यते तद्वत् । टी. + सामीप्यदोषेति द्रा. पु. पाठः। + तथा च तस्य तात्त्विकत्वाभ्युपगमो नोचित इति भावः। 8 भ्रमः। | स्वाभाविकम् । पा श्रागमजन्यबोधे वाढिप्रत्यक्षत्वेन प्रयोजकस्वेपि तत्सत्यत्वांशस्याप्रयोजकत्वेनानुपजी. व्यो यः सत्यत्वांशस्तस्य बाधादित्यर्थः ।

क्षस्यैव बलवत्त्वात्तदविरोधाय तेषु वृत्त्यन्तरकल्पनम् । सोमेन यजेतेत्यत्र श्रुतेः प्रत्यक्षाद्बलीयस्त्वस्य व्यवस्थितत्वनिरूपणम् नन्वागमस्य प्रत्यक्षाद् बलीयस्त्वे यजमानः प्रस्तर इत्यत्र प्रत्यक्षा- विरोधाय यजमानशब्दस्य प्रस्तरे गौणी वृत्तिर्न कल्पनीया। तथा सोमेन य- जेतेत्यच वैयधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापत्तेः सामानाधिकरण्येनान्वये वक्तव्ये प्रत्यक्षाविरोधाय सोमवता यागेनेति मत्वर्थलक्षणा न कल्पनीया । उभयचापि सत्यपि प्रत्यक्षविरोधे तदनादृत्यागमेन बलीयसा प्रस्तरे यजमाना- ऽभेदस्य यागे सोमाभेदस्य च सिद्धिसंभवादिति चेद् अचोक्तं भामतीनिबन्धे। तात्पर्यवती श्रुतिः प्रत्यक्षाबलवती न श्रुतिमात्रम् मन्त्रार्थवादानां स्तुतिद्वार- भूतेथे वाक्यार्थद्वारभूते इव न तात्पर्यम् । तात्याभावे मानान्तरा- विरुद्धं देवताविग्रहादि कथं तेभ्यः सिद्धयेत् तात्पर्यवत्येव * शब्दस्य प्रामा- ण्यनियमादिति चेन्न। एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशु- कामो ह्येतेन यजतेति विशिष्ठविधेस्तात्ययागोचरे विशेषणस्वरूपे प्रामाण्य- दर्शनेनोक्तनियमासिद्धेः । अत्र हि रेवतीऋगाधार वारवन्तीयं सामविशेष- णम् । न चैतत्सोमादिविशेषणवत लोकसिद्धं येन तद्विशिष्टयागविधिमात्र प्रामाण्यं वाक्यस्य स्यात् । नापि विशिष्ठविधिना विशेषणाक्षेपः आक्षेपाद्विशेषण- प्रतिपत्तौ विशिष्टगोचरो विधिस्तस्मिँश्च सति तेन विशेषणाक्षेप इति परस्प- राश्रयापत्तेः । अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेऽपि प्रामाण्यं वक्तव्यम् । अथ च तत्र न तात्पर्यमुभयच तात्पर्य वाक्यभेदापत्तेः । एवमर्थ- वादानामपि विधेयस्तुतिपराणां स्तुतिद्वारभूतथे न तात्पर्यमिति तेभ्यः प्रत्य- पदार्थ विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नयागसूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य दना जुहोतीत्यादी विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विशि- ष्टविधिपराद्वाक्यादेव रेवत्याधारवारवन्तीयादिविशेषणस्येव विना तात्पर्य सि- द्विरेष्टव्या न च तात्पर्यरहितादागमाद्यागसोमलताभेदग्राहिप्रत्यक्षविरुद्धार्थः सिट्यतीति तचापि तदविरोधाय मत्वर्थलक्षणानयणम् । अद्वैतश्रुतिस्तूपक्रमो- पसंहारैकरूप्यादिषड्विधलिङ्गावगमिताद्वैततात्पया प्रत्यक्षादलवतीति ततः प्रत्यक्षस्यैव बाधः न तदविरोधाय श्रुतेरन्यथा नयनमिति ॥ * तात्पर्यविषयइत्यर्थः। + गोचरे ऽपीति द्रा• पाठः। ऋग् आधारो यस्येति बहुवीहिः । वाक्यादापाततः प्रतीयमाने।

५४ . * द्वितीयपरिच्छेटे विवरणवार्तिके तु प्रतिपादितं न तात्पर्यवत्त्वेन श्रुतेः प्रत्यक्षात्या- बल्यं कृष्णलं अपयेदिति विधेः अपणस्य कृष्णालार्थत्वप्रतिपादने तात्पर्यपि कृष्णले रूपरसपरावृत्तिप्रादुर्भावपर्यन्तमुख्यश्नपणसंबन्धः प्रत्यक्षविरुद्ध इति सदविरोधाय अपणशब्दस्योष्णीकरणमाचे लक्षणाभ्युपगमात् । तत्त्वमसीति वाक्यस्य जीवब्रह्माभेदप्रतिपादने तात्पर्येपि त्वंपदवाच्यस्य तत्पदवाच्याऽभेदः प्रत्यक्षविरुद्ध इति तदविरोधाय निष्कृष्टचैतन्यलक्षणाभ्युपगमाच्च । अर्थवा- दानामपि प्रयाजाद्यङ्गविधिवाक्यानामिव स्वार्थप्रमितावनन्यार्थतया * प्रमिता- नामेवार्थानां प्रयोजन वशादन्यार्थतेति प्रयाजादिवाक्यवत्तेषामप्यवान्तरसंसर्ग तात्पर्यमस्त्येव वाक्येकवाक्यत्वात् । पदैकवाक्यतायामेव परमवान्तरता- त्प-नभ्युपगमादिति विवरणाचार्यन्यायनिर्णये व्यवस्थापनेन यजमानः प्रस्तर इत्यादीनामपि मुख्यार्थतात्पर्यप्रसक्ती प्रत्यक्षाविरोधायैव लक्षणाभ्युपग- माच्च । कथं तर्हि श्रुतेः प्राबल्यमुच्यते निर्दोषत्वात्परत्वाच्च श्रुतिमाचं प्रत्यक्षात्प्रबलमित्युत्सर्गः । किं तु श्रुतिबाधितमपि प्रत्यक्षं कथं चित्स्वो- चितविषयोपहारेण संभावनीयं निर्विषयज्ञानायोगात् । अत एवाद्वतश्रुतिवि- रोधेन तत्त्वावेदनात्प्रच्यावितं प्रत्यक्षमर्थक्रियासमर्थव्यावहारिकविषयसमर्पणे- नोपपाद्यते । किं बहुना नेदं रजतमिति सर्वसिद्धप्रत्यक्षबाधितमपि शुक्तिर- जतप्रत्यक्षमनुभवाविरोधात्पुरोदेशे शुक्तिसंभिन्न || रजतोपगमेन समर्थ्यते न तु तद्विरोधेन व्यवहितमान्तरमसदेव वा रजतं विषय इति कल्प्यते । एवं च प्रस्तरे यजमानभेदग्राहिणो यावद्ब्रह्मज्ञानमर्थक्रियासंवादेनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्युपगमेनोपपादनायोगाद्यजमानः प्रस्तर इति श्रुतिबाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहारायोत्सर्गमपोद्य श्रुति- रेष तत्सिम पा धिकरणादिप्रतिपादितप्रकारेणान्यथा नीयते । न चाद्वैतश्रुति- - * स्वार्थपरतयेत्यर्थः। ठी. । तेषां स्वार्थप्रमितिमात्रेण फलाभावाद्विधेयस्तावकत्वेन विध्येकवाक्यत्वं कल्प्यतइति भावः। टी. + पूर्वाबाधेन नात्यत्तिरुत्तरस्य हि सेत्स्यतीति न्यायादुत्तरोत्पत्तिकबोधजनकत्वादिति श्रुतिमात्रस्य प्रत्यक्षात् प्राबल्यमिति द्रा पुः पाठः। ॥ शुक्तितादात्म्यापनेत्यर्थः । टी. बा तस्य क्रतोः सिद्धिरुपकारो यजमानप्रस्तरसाध्यो गुणः सयोः क्रतुनिवर्तकत्वरूपं सादृश्य गुण इति यावत् । टी. भावः।

५५ श्रुतेः प्रत्यक्षादलीयस्त्वस्य व्यवस्थितत्वनिरूपणम् प्रत्यक्षयोरिवह श्रुतिप्रत्यक्षयोस्तात्त्विकव्यावहारिकत्वविषयोपगमेन * प्रत्यक्षो- पपादनं कत्तुं शक्यम् । ब्रह्मातिरिक्तसकलमिथ्यात्वप्रतिपादकषड्विधतात्पर्यलि- ङ्गोपपन्नाऽनेकश्रुतिविरुद्धेनैकेनार्थवादेन प्रस्तरे यजमानतादात्म्यस्य तात्त्वि- कस्य प्रतिपादनाऽसंभवात् । एवं तत्त्वमसिवाक्येन त्वंपदवाच्यस्य सर्वज्ञत्वा- ऽभोक्तृत्वादिविशिष्ठब्रह्मरूपत्वबोधने तचासर्वज्ञत्वभोक्तृत्वादिप्रत्यक्षमत्यन्त- निरालम्बनं स्यादिति तत्परिहारायाहंकारशबलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्योदासीनब्रह्मरूपत्वमितिव्यवस्थामाश्रित्य भागत्यागलक्षणा श्रीयते । एवं कृष्णलं अपयेदित्यादावपि प्रत्यक्षस्या त्यन्तनिर्विषयत्वप्र- सक्तो तत्परिहाराय श्रुतो लक्षणा । नेह नानास्ति किं चनेत्यच कथं । चि- द्विषयोपपादनसंभवे तु न प्रबलायाः श्रुतेरन्यथा नयनमिति न कश्चिदप्यव्यव- स्थाप्रसङ्गः । अथ वा कृष्णलं अपयेत्सोमेन यजेतेत्यादौ न प्रत्यक्षानुरोधेन लक्षणाश्रयणं किं त्वनुष्ठानाशत्या । न हि कृष्णले उष्णीकरणमामिव मुख्यः पाको ऽनुष्ठातुं शक्यते न वा सोमद्रव्यकरणको याग इव तदभिन्नो यागः केन चिदनुष्ठातुं शक्यते । न चानुष्ठेयत्वाभिमतस्य प्रत्यक्षविरोधण्वानुष्ठानाऽश- क्तिरिति शब्दान्तरेण व्यवयितइति वाच्यम् । शशिमण्डलं कान्तिमत्कु- यादिति विधावनुष्ठेयत्वाभिमतस्य शशिमण्डले कान्तिमत्त्वस्य प्रत्यक्षाविरोधे ऽप्यनुष्ठानाऽशक्तिदर्शनेन तस्यास्ततो भिन्नत्वात् । तथा च तत एव तत्र लक्षणाश्रयणम् । तस्मादपच्छेदन्यायादिसिद्धस्य श्रुतिबलीयस्त्वस्य न कश्चि- द्वाध इति । अथ कथमचापच्छेदन्यायप्रवृत्तिः । उच्यते । यथा ज्योतिष्टोमे बहिष्यवमानं सर्पता मुद्गातुरपच्छेदे सति यद्युद्गाताऽपच्छेद्यता || ऽदक्षिणं यज्ञमिष्टा तेन पुनर्यजेतेति व निरीक्षणेन जातोद्गाचऽपच्छेदनिमित्त * * कर्त्तव्य- साबुद्धिः पश्चात्पतिहर्चापच्छेदे सति यदि प्रतिहतीपच्छेद्येत सर्ववेदसं+। दद्यादिति श्रुतिनिरीक्षणेन जातया तद्विरुद्धप्रतिहऽपच्छेदनिमित्तकर्त्तव्यता- बुद्धग बाध्यते एवं पूर्वघटादिसत्यत्वप्रत्यक्षं परया तन्मिथ्यात्वश्रुतिजन्य- विषयत्वोपति द्रा• पुः पाठः। + अपणस्य । कृष्णले रूपपरायत्त्यसंभवादुष्णीकरणमात्रे लक्षणेत्युक्तम् । के कल्पितपारमार्थिकद्वैताद्वैतरूपविषयभेदाङ्गीकारणेत्यर्थः । $ बहिष्यवमानं स्तोत्रमुद्धिश्यान्वारब्धतया निर्गच्छतात्विजां मध्ये । टी. || अपछिटोतेति ४ पुः पाठः स्वमपि । वा इति श्रुतिनिरीति द्रा पु. पाठः । * * प्रायश्चित्तेति ४ पु. अधिकम् । एवमपि । । ++ सर्वस्वं दक्षिणात्वेन ।

५६ . * द्वितीयपरिच्छेदे बुट्या बाध्यते । न चोदाहृतस्थले पूर्वनैमित्तिककर्तव्यताबुद्धेः परनैमित्तिकक- नव्यताबुद्ध्या बाधेपि पूर्वनैमित्तिककर्तव्यताबुद्धिजनकं शास्त्रं यचोद्गातृमा- चापच्छेद उभयोरपि युगपदपच्छेदो वा उद्गाचऽपच्छेदस्य परत्वं वा तच सावकाशं प्रत्यक्षं त्वद्वतश्रुत्या बाधे विषयान्तराभावान्निरालम्बनं स्यादिति वैषम्यं शङ्कनीयम् । यच घटादौ श्रुतिबाध्यं प्रत्यक्षं प्रवर्त्तते तत्रैव व्यावहा- रिकं विषयं लब्ध्वा कृतार्थस्य तस्य परापच्छेदस्थले सर्वथा बाधितस्य पूर्वापच्छेदशास्त्रस्येव विषयान्तरान्वेषणाभावादिहापि सर्वप्रत्ययवेद्यब्रह्मस- त्तायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च । यत्त्वेकस्मिन्नपि प्रयोगे क्रमि- काभ्यां निमित्ताभ्यां क्रती तत्तद्नैमित्तिककर्तव्यतयोः बदरफले श्यामरक्तरू- पयोरिव क्रमेणोत्पादा द्रुपद्वयज्ञानवत्कर्तव्यताज्ञानवयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधे ऽपच्छेदन्याय उदाहरणम् । अत एवापच्छेदाधिकरणे नैमित्तिकशास्त्रस्य ह्ययमर्थः निमित्तापजननात्यागन्यथाकर्तव्यापि क्रतुर्निमित्ते सत्यन्यथा कर्त्तव्य इतिशास्त्रदीपिकावचनमिति । तन्न । अङ्गस्य सतः कर्त्त- व्यत्वं न च पश्चादाविप्रतिहत्रपच्छेदवति क्रतो पूर्ववृत्तोद्गाचपच्छेदनिमि- तकस्य प्रायश्चित्तस्याङ्गत्वमस्ति आहवनीयशास्त्रस्य पदहोमातिरिक्तहोमवि- षयत्ववद्यद्युगातेति शास्त्रस्य पश्चादाविप्रतिहज़पच्छेदरहितक्रतुविषयत्वात् । उक्तं हि न्यायरत्नमालायाम् । साधारणस्य शास्त्रस्य विशेषविषयादिना संकोचः कृतरूपस्य प्रापबाधो ऽभिधीयतइत्युक्तं लक्षणप्रानबाधविवेचने । तत्रैवं सति शास्त्रार्थो भवति पश्चादाव्युद्गाचऽपच्छेदविधुरप्रतिहर्चऽपच्छेद- वतः क्रतोः सर्ववेदसदानमङ्गमेवमुद्गाचऽपच्छेदेपि द्रष्टव्यमिति । यत्तु शास्त्र- दीपिकावचनमुदाहृतं तदपि तेनोत्पन्नमपि पूर्वप्रायश्चित्तज्ञानं मिथ्या भवति बाधितत्वाद् उत्तरस्य तु न किं चिदाधकमस्तीति पूर्वकर्तव्यताबाध्यत्वप्र- उद्गात्तु प्रतिहत्रपच्छेदयोयोगपट्यस्थले उद्गात्रपच्छेदनिमित्तकमेव प्रायश्चित्तमनुष्ठेयमित्या- पस्तम्बाचार्यरुतत्वादिति भावः । टी. + पूर्वनिमित्तेन जातमात्रेण पूर्वनैमित्तिककर्तव्यता जायते पाश्चात्त्येन च निमित्तेन पूर्व- कर्तव्यतानाशपूर्वकमुत्तरनैमित्तिककर्तव्यतोत्पाट्यतइत्यर्थः । टी• अनुष्ठानयोरेव बाध्यबाधकभावो न ज्ञानयोरिति भावः। * क्रमेण विरुद्धापच्छेदद्वयवति क्रती पूर्वनैमित्तिकस्य कर्त्तव्यतानिष्यत्ती मानं नास्तीति तत्र पूर्वप्रायश्चित्तस्यानङ्गत्वादनत्वं च तद्बोधकमानाभावान्न च पूर्वनैमित्तिकशास्त्र तत्र मानं तस्य प्रयोगान्तरेषु सावकाशत्वेन तत्राप्यत्वबोधकाभावात् । टी.

श्रुतेः प्रत्यक्षादलीयस्त्वस्य व्यवस्थितत्वनिरूपणम् ५० तिपादकग्रन्योपसंहारपठितत्वानिमित्तापजननात्यानिमित्तोपजननं विना निमि- तापजननाभावे सत्यन्यथा कर्तव्यो ऽपीति कृत्वाचिन्तामाचपरम् । न तत्तर- निमित्तापजननात्प्राक् पूर्वनैमित्तिककर्तव्यता वस्तुत आसीदित्येवंपरम् पूर्वग्रन्थसन्दर्भविरोधापत्तेः । आस्तां मीमांसकमर्यादा श्यामरक्तरूपन्यायेन क्रमिककर्तव्यताद्वयोत्पत्त्युपगमे को विरोधः । उच्यते * । किं तत्कर्तव्यत्वं यत्प- रनैमित्तिककर्तव्यतोत्पत्त्या निवर्तते । न तावत्पूर्वनैमित्तिकस्य कृतिसाध्य- त्वयोग्यत्वं तस्य पश्चादप्यनपायात् । नापि फलमुखं कृतिसाध्यत्वं तस्य पूर्वमप्यजननात् । नापि यदननुष्ठाने क्रतोर्वैकल्यं तत्त्वमङ्गत्वं वा अननुष्ठाने क्रतुवैकल्यप्रयोजकत्वस्य नियमविशेषरूपत्वेन काङ्गत्वस्य फलोपकारितया संनिपातितया वा कारणत्वविशेषरूपत्वेन च तयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय पश्चा + दाविविरुद्धापच्छेदाभाववतः क्रताः पूर्वाप- च्छेदनैमित्तिकमङ्गं तचैव तदननुष्ठानं क्रतुवैकल्यप्रयोजकम् इति विशेषणी- यतया पाश्चात्त्यापच्छेदवति क्रतो पूर्वापच्छेदनैमित्तिके क्रत्वङ्गत्वस्य तदन- नुष्ठाने क्रतुवैकल्यप्रयोजकत्वस्य वा पाश्चात्यापच्छेदोत्पत्तेः पूर्वमसंभवात् । न हि वस्तु किं चिद्वस्त्वन्तरं प्रति कं चित्कालं व्याप्यं पश्चान्नेति वा कं चित्कालं कारणं पश्चान्नेति वा क्वचिद् दृष्टं युक्तं वा । नापि कर्तव्यत्वं नाम धर्मान्त- रमेवागमापाययोग्यं कल्पनीयं मानाभावात् । विरुद्धापच्छेदशास्त्रयोः पदाहव- नीयशास्त्रवयवस्थोपपत्तेः । तस्मान्निरालम्बनं क्रमिककर्तव्यताद्वयोत्पत्तिवचः॥ ननु चोपक्रमाधिकरणन्यायेनाऽसंजातविरोधित्वात्प्रत्यक्षमेवागमाव- लीयः किं न स्यात् । उच्यते। यकवाक्यता प्रतीयते तचैकस्मिन्नर्थे पर्यवसानेन * तथाहीति द्रा पुः पाठः । + फलोपकारित्वं परमापूर्वरूपफलं प्रत्यदृष्टद्वारा कारणत्वं यथा प्रयाजादीनां संनिपत्त्यो- पकारकत्वं च यागस्वरूपोत्पादकत्वं यथा द्रव्यदेवतयारस्तु तयोरुक्तरूपत्वमिति चेत्तत्र वक्तव्यं क्रमिकविरुद्धापच्छेदद्वयवति क्रता पूर्वप्रायश्चित्ताननुष्टानगतं क्रतुवैकल्यव्याप्यत्वरूपं क्रतुवैकल्यप्र- योजकत्वं पूर्वप्रायश्चित्तगतमङ्गत्वं च द्वितीयनिमित्तअननानन्तरमण्यनुवर्तते न वेति । आटो क्रतुवैक- ल्यप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठानशालित्त्वरूपायाः पूर्वप्रायश्चित्तकर्तव्यतायास्तत्मायश्चित्तगता- ङ्गत्वरूपकर्तव्यतायाश्चोत्तरनैमित्तिककर्तव्यतानाश्यत्वाभ्युपगमभङ्गापत्तेः । द्वितीये च पूर्वप्रायश्चि. त्ताननुष्ठानस्य क्रतुवैकल्यव्याप्यत्वं द्वितीनिमित्तोपजननात्यागेवास्ति तज्जननानन्तरं तु नास्तीति पर्यवस्यति तथा पूर्वप्रायश्चित्तगताङ्गत्वरूपा कर्तव्यता द्वितीयनिमित्तजननात्यागेवास्ति पश्चात्तु नास्तीति पर्यवस्थति तथा च व्याप्यत्वकारणत्वयोः स्वाश्रये कादाचित्कत्वमभ्युपगन्तव्यं तच्च न संभवतीति तयोर्यावदायभावित्वरूपस्वाभाविकत्वनिर्वाहाय क्रमिकविरुद्धापच्छेदवत्क्रतुव्यावर्त- कविशेषणमुभयत्रापि देयमित्याह । टी. ...

५८ । द्वितीयपरिच्छेदे भाव्यम् अर्थभेदे प्रतीतेकवाक्यताभङ्गप्रसङ्गात्। अतस्तच प्रथममसंजातप्रतिपक्षण प्रजापतिर्वरुणायाश्वमनयदित्याद्युपक्रमेण परकृति * सरूपार्थवादेन दातुरिष्ट बुद्धिमधिरोपितायां तद्विरुद्धं यावतो ऽश्वान प्रतिगृह्णीयात्तावतो वारुणांश्चतु:- कपालान्निपेदित्युपसंहारगतं पदजातमुपसंजातप्रतिपचत्वाद्ययाशुतार्थसमर्थ- नेन । तदेकवाक्यतामप्रतिपद्यमानमेकवाक्यतानिर्वाहाय णिजर्थमन्तभाव्य त- दानुगुण्येने वात्मानं लभतइत्युपक्रमस्य प्राबल्यम् । यच तु परस्परमेक- वाक्यता न प्रतीयते तत्रैव पूर्ववृत्तमविगणय्य | लब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थ बोधयत्येवेति न तच पूर्वप्रवृत्तस्य प्राबल्यम् । अत एव षोडशिग्रहवाक्यं पूर्ववृत्तमविगणय्य तदग्रहवाक्यस्यापि स्वार्थबोधकत्वमुपेयते किं तूभयोर्विष- यान्तराभावादगत्या तत्रैव विकल्पानुष्ठानमिष्यते। एवं चाद्वैतागम गमस्य प्रत्यक्षेणे- कवाक्यताशङ्काभावात्यर्ववृत्तमपि तवगणय्य स्वार्थबोधकत्वमप्रतिहतम्। तद- र्थबोधजनने च पूर्व परमजातत्वादबाधित्वैव || जायते परस्यानन्यथोत्पा- दानाऽऽद्याऽबाधेन संभव इत्यपच्छेदन्यायस्यैव प्रवृत्तिापक्रमन्यायस्य । अत एव लोके ऽपि प्रथमप्रवृत्तं शुक्तिरूप्यप्रत्यक्षमानोपदेशेन बाध्यतइति ॥ (३) ननु तथाप्युपजीव्यत्वेन प्रत्यक्षस्यैव प्राबल्यं दुर्वारमपच्छेदशास्त्रयोहि न पूर्व परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाध इह तु वर्णपदादिस्वरू- पग्राहकतया मिथ्यात्वबोधकमागमं प्रति प्रत्यक्षस्योपजीव्यत्वादागमस्यैव त- द्विरुद्धमिथ्यात्वाबोधकत्वरूपो बाधा युज्यते । न च मिथ्यात्वश्रुत्या वर्णपदा- दिसत्यत्वांशोपम₹ ऽप्युपजीव्यस्वरूपांशापमीभावान्नोपजीव्यविरोध इति वा- च्यम् । नेह नानास्ति किं चनेत्यादिश्रुतिभिः स्वरूपेणैव प्रपञ्चाभावबोधनात् । अच के चिदाहुः । वृषमानयेत्यादिवाक्यं श्रवणदोषादृषभमानयेत्यादिरूपेण श्रु- तवतो ऽपि शाब्दप्रमितिदर्शनेन शाब्दप्रमिती वर्णपदादिप्रत्यक्ष प्रमाभ्रमसाधार- णमेवापेक्षितमित्यद्वैतागमेन वर्णपदादिप्रत्यक्षमात्र मा मुपजीव्य स्वरूपोपमर्दै ऽपि नोपजीव्यविरोध इति ॥ परस्य प्रजापतेः कृतिरनुष्ठानं परकृतिः परतिपदं तद्वोधकवाक्यपरम् । टी. समर्पणेनेति ४ पु. पाठः । । प्रतिग्राहयेदित्यर्थकत्वे दत्तवानित्यर्थकानयदितिपदानुगुण्यम् । १ अनुपजीव्येत्यर्थः । || पूर्वमबाधित्वा जातत्वात्परमेव जायतइति योजना पा. भमरूपमित्यर्थः।

५६ . * अत्युपजीव्यत्वेन प्रत्यक्षाबाधशङ्कापरिहारः अन्ये त्वाहुः । शाब्दप्रमितो वर्णपदादिस्वरूपसिझनपेक्षायामपि अयो- ग्यशब्दात्प्रमित्यनुदयाद्योग्यतास्वरूपसिटुम्पेक्षाऽस्ति * । तदपेक्षायामपि नोप- जीव्यविरोधः नेह नानास्तीस्ति श्रुत्या निषेधे ऽपि यावद्ब्रह्मज्ञानमनुवर्तमान- स्यार्थक्रियासंवादिनो ऽसद्विलक्षणस्य प्रपञ्चस्वरूपस्याङ्गीकारात् । अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्वप्रसङ्गात् । न च स्वरूपेण निषेधे कथं प्रपञ्चस्वरूपस्यात्मलाभः निषेधस्य प्रतियोग्यप्रतिक्षेपरूपत्वे व्याघातादिति वाच्यम्। शुक्तावपीदं रजतं नेदं रजतमितिप्रीतिद्वयानुरोधे- नाधिष्ठानगताध्यस्ताभावस्य बाधपर्यन्तानुवृत्तिकाऽसद्धिलक्षणप्रतियोगिस्वरूप- सहिष्णुत्वाभ्युपगमात् । एतेन प्रपञ्चस्य स्वरूपेण निषेधे शशशृङ्गवदसत्त्वमेव स्यादिति निरस्तम् । ब्रह्मज्ञाननिवर्त्यस्वरूपाङ्गीकारेण वैषम्यात् । न चास्याध्यस्तस्याधिष्ठाने स्वरूपेण निषेधे ऽन्यच तस्य स्वरूपेण निषेधः स्वत:- सिद्ध इति तस्य सर्वदेशकालसंबन्धिनिषेधप्रतियोगित्वापत्त्या ऽसत्त्वं दुर्वारम् सर्वदेशकालसंबन्धिनिषेधप्रतियोगित्वमसत्त्वमित्येवासत्त्वनिर्वचनाद् विधा- न्तरेण तन्निर्वचनायोगादिति वाच्यम् । असतः सर्वदेशकालसंबन्धिनिषेधप्रति- योगित्वमुपगच्छता तस्य तथात्वे प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणा- योगेन आगमस्य तादृशागमानुपलम्भेन च प्रमाणयितुमशक्यत्वात अनुमा- नमेव प्रमाणयितव्यमिति तदनुमाने यत्सड्यावृत्तलिङ्गं वाच्यं तस्यैव || प्रथ- मप्रतीतस्यासत्त्वनिर्वचनोपपत्तेरित्याहुः ॥ अपरे तु नेह नानास्तीत्यादिश्रुतेः सत्यत्वेन प्रपञ्चनिषेधे एव तात्पर्य न स्वरूपेण । स्वरूपेण निषेधस्य स्वरूपाऽप्रतिक्षेपकत्वे तस्य तनिषे- धत्वायोगात् । तत्प्रतिक्षेपकत्वे. प्रत्यक्षविरोधात् । न च सत्यत्वस्यापि सन् घट इत्यादिप्रत्यक्षसिद्धत्वान्न तेनापि रूपेण निषेधो युक्त इति वाच्यम् । प्रत्य- क्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूपव्यावहारिकसत्यत्वविषयत्वोपपत्तेः । न चैवं सति पारमार्थिकसत्यत्वस्य ब्रह्मगतस्य प्रपञ्चे प्रसत्यभावात्तेन रूपेण . - तथा च योग्यताया उपजीव्यत्वमवर्जनीयमिति तद्विरोधः पूर्वमते आवश्यक इति भावः। टी. + सतीति शेषः। # शशशृङ्गस्य तु किमपि स्वरूपमेव नास्तीति भावः । $ असतस्तादृशप्रतियोगित्वे प्रत्यक्षस्यागमस्य च प्रमाणयितुमशक्यत्वेनेति संबन्धः । टी. || निःस्वरूपत्वस्यैव । टी.

६० द्वितीयपरिच्छेदे प्रपञ्चनिषेधानुपपत्तिः। यथा शुक्ती रजताभासप्रतीतिरेव सत्यरजतप्रसक्तिरिति तन्निषेधः अत एव नेदं रजतं किं तु तत् नेयं मदीया गौः किं तु सैव नाच वर्तमानश्चैत्रः किं त्वपवरकइति निषिध्यमानस्यान्यत्र सत्त्वमवग- म्यते एवं सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपत्तेः । अतो वर्णपदयोग्यतादिस्वरूपोपमशङ्काभावान्नोपजीव्यविरोध इत्याहुः ॥ अन्ये तु ब्रह्मणि पारमार्थिकसत्यत्वं प्रपञ्चे व्यावहारिकसत्यत्वं सत्य- त्वाभासरूपं शुक्तिरजतादौ प्रातिभासिकसत्यत्वं ततोपि निकृष्टमिति * सत्तात्रैविध्यं नापेयते अधिष्ठानब्रह्मगतपारमार्थिकसत्तानुवेधादेव+ घटा- दिसत्त्वाभिमानोपपत्त्या सत्त्वाभासकल्पनस्य निष्प्रमाणकत्वात् । एवं च प्रपञ्चे सत्यत्वप्रतीत्य भावात्तत्तादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेवाऽविवेकेन प्रपञ्चे तत्प्रसक्युपपत्तेश्च सत्यत्वेन प्रपञ्चनिषेधे नोपजीव्यविरोधो न वा ऽप्रसक्त- निषेधता । न च ब्रह्मगतपारमार्थिकसत्ताऽतिरेकेण प्रपञ्चसत्त्वाभासानुपगमे व्यवहितसत्यरजतातिरकेण शुक्तो रजताभासोत्पत्तिः किमर्थमुपेयते इति वाच्यम् । व्यवहितस्याऽसंनिकृष्टस्यापरोक्ष्यासंभवात्तनिर्वाहाय तदुपगमात् (४) नन्वेवं प्रतिबिम्बभ्रमस्थले ऽपि ग्रीवास्थमुखातिरेकेण दर्पणे मुखाभा- सोत्पत्तिरुपेया स्यात् स्वकीये ग्रीवास्थे मुखे नासाद्यवच्छिन्नप्रदेशापरोक्ष्यसंभवे ऽपि नयनगोलकललाटादिप्रदेशापरोक्ष्यायोगात् । प्रतिबिम्बभ्रमे नयनगोल- कादिप्रदेशापरोक्ष्यदर्शनाच्च । न च बिम्बातिरिक्तप्रतिबिम्बाभ्युपगमे इष्टापत्तिः ब्रह्मप्रतिबिम्बजीवस्यापि ततो भेदेन मिथ्यात्वापत्तेः । अत्र विवरणानुसारिणः प्राहुः । ग्रीवास्थे || एव मुखे दर्पणोपाधिसंनिधानदोषादर्पणस्थत्वप्रत्यङ्मुखत्व- बिम्बभेदानामध्याससंभवान्न दर्पणे मुखाध्यासः कल्पनीयो गौरवात् । दर्पणे मुखं नास्तीति संसर्गमाचबाधात् मिथ्यावस्त्वन्तरत्वे नेदं मुखमिति स्वरू- पबाधापत्तेः । दर्पणे मम मुखं भातीति स्वमुखाभेदप्रत्यभिज्ञानाच्च । न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासंभव उपाधिप्रतिहतनयनरश्मीनां परावृत्त्य . ब्रह्मज्ञानातिरिक्तेनापि बाध्यत्वरूपम् । + अतीतरेवेत्यर्थः। टी. * भावादेव घटादी शुक्तिरजतादी च सत्त्वेति द्राः । 8 अभ्रान्तप्रतीत्यभावादित्यर्थः । || धर्मिकल्पनापेक्षया बहुधर्मकल्पनमपि लविति भावः । - ६१ . प्रतिबिम्बसत्यत्वनिराकरणम् बिम्बग्नाहकत्वनियमाभ्युपगमा * लतादिवत् । । तन्नियमानभ्युपगमे पर- माणोः कुड्यादिव्यवहितस्थूलस्यापि चाक्षुषप्रतिबिम्बभ्रमप्रसङ्गात् । न चाव्य- वहितस्थूलोद्भूतरूपवत एव चाक्षुषप्रतिबिम्बो नान्यस्येति नियम इति वाच्यम्। बिम्बस्यौल्योद्भूतरूपयोः कृपेन चाक्षुषज्ञानजननेनोपयोगसंभवे विधा- न्तरणोपयोगकल्पनानुपपत्तेः । कुड्यादिव्यवधानस्य प्रतिहतनयनरश्मिसं- बन्धविघटनं विनैवेह प्रतिबन्धकत्वे तथैव घटप्रत्यक्षादिस्थले ऽपि तस्य प्रति- बन्धकत्वसंभवेन चतुःसंनिकर्षमावस्य कारणत्वलोपप्रसङ्गाच्च । दर्पणे मिथ्या- मुखाध्यासवादिनापि कारण चयान्तर्गतसंस्कारसिमर्थ नयनरश्मीनां कदा चित्परावृत्त्य स्वमुखग्राहकत्वकल्पनयैव पूर्वानुभवस्य समर्थनीयत्वाच्च । न च नासादिप्रदेशावच्छिन्नपूर्वानुभवादेव संस्कारोपपत्तिः तावता नयनरश्मिगा- लकादिप्रतिबिम्बाध्यासानुपपत्तेः तटाकसलिले तटविटपिसमारूढाऽदृष्टचरपुरु- षप्रतिबिम्बाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वात् । एवं चोपाधिपति- हतनयनरश्मीनां बिम्बं प्राप्य तदाहकत्वे ऽवश्यवक्तव्ये फलबलादर्पणाद्यभि- हतानामेव बिम्बं प्राप्य तदाहकत्वं न शिलादिप्रतिहतानामनतिस्वच्छताम्रा- दिप्रतिहतानां मलिनोपाधिसंबन्धदोषान्मुखसंस्थानविशेषाग्राहकत्वं साक्षा- त्मयं प्रसूनामिवोपाधिं प्राप्य निवृत्तानां न तथा सौरतेजसा प्रतिहतिरिति प्रतिबिम्बसूर्यावलोकने साक्षात्तदवलोकनइव नाशक्यत्वम् । जलाद्युपाधि- संनिकर्षे केषां चिदुपाधिप्रतिहतानां बिम्बप्रामावपि केषां चित्तदन्तर्गतसिक- तादिग्रहणमित्यादिकल्पनान्न कश्चिद्दोष इति ॥ अद्वैतविद्याकृतस्तु वस्तुप्रतिबिम्बस्य मिथ्यात्वमभ्युपगच्छतां त्रिवि- धजीववादिना || विद्यारण्यगुरुप्रभृतीनामेवमभिप्रायमाहुः । चैचमुखा देन तत्सदृशत्वेन पार्श्वस्थितैः स्पष्ट निरीक्ष्यमाणं दर्पणे तत्प्रतिबिम्बं ततो भिन्नं स्वरूपतो मिथ्यैव स्वकरगतादिव पा रजताच्छुक्तिरजतम् । न च दर्पणे - लतादिवदिति द्रा. नास्ति। + लता यथोपरिष्टाद्गच्छन्ती प्रतिघाते सति अधः परावर्तते तद्वदित्यर्थः । + स्वाश्रयभूतद्वारा प्रतिबिम्बाध्यासोत्यत्तावुपयोगकल्पनानुपपत्तेरित्यर्थः । टी. दोषसंप्रयोगसंस्काररूपकारणत्रयेत्यर्थः । टी. पारमार्थिकव्यावहारिकप्रातिभासिकभेदेन त्रिविधोजीवः प्रथमपरिच्छेदे निरूपितः। टी. का स्वकारणगतादिति ४ पुः पाठः। ।

६२ गौणत्वाच्च द्वितीयपरिच्छेदे मम मुखं भातीतिबिम्बाऽभेदज्ञानविरोधः स्पष्टभेदद्वित्वप्रत्यङ्मुखत्वादि- ज्ञानविरोधेनाऽभेदासंभवात् । दर्पणे मम मुखमिति व्यपदेशस्य स्वच्छायामुखे स्वमुखव्यपदेशवद् । न चाभेदज्ञानविरोधातेदव्यपदेश एव गौणः किं न स्यादिति शङ्यम् । बालानां प्रतिबिम्बे पुरुषान्तरभ्रमस्य हानोपादि- त्साद्यर्थक्रियापर्यन्तस्यापपितुमशक्यत्वात् । न च प्रेक्षावतामपि स्वमुखविशे- पपरिज्ञानाय दर्पणाद्युपादानदर्शनादभेदज्ञानमप्यर्थक्रियापर्यन्तमिति वाच्यम् । भेदे ऽपि प्रतिबिम्बस्य बिम्बसमानाकारत्वनियमविशेषपरिज्ञानादेव तदुपादा- नोपपत्तेः । यतु नाच मुखमिति दर्पणे मुखसंसर्गमावस्य बाधो न मुखस्येति तन्न । नेदं रजतमित्यचापि इदमथै रजततादात्म्यमात्रस्य बाधो न रजतस्ये- त्यापत्तेः । यदि चेदमंशे रजतस्य तादात्म्येनाध्यासान्नेदं रजतमिति तादा- त्म्येन रजतस्यैव बाधो न तादात्म्यमात्रस्य तदा दर्पणे मुखस्य संसर्गि- तया ऽध्यासानाच मुखमिति संसर्गितया मुखस्यैव बाधो न संसर्गमावस्येति तुल्यम् । यत्तु धर्मिणो ऽप्यध्यासकल्पने गौरवमिति तद्जताभासकल्पनागौर- ववत्प्रामाणिकत्वान्न दोषः । स्वनेत्रगोलकादिप्रतिबिम्बभ्रमस्थले बिम्बापरोक्ष्य- कल्पनापायाभावात् । नयनरश्मीनामुपाधिप्रतिहतानां बिम्बप्राप्तिकल्पने हि दृष्टविरुद्धं बहा पद्यते । कथं हि जलसंनिकर्षे केषु चिन्नयनरश्मिध्वप्रति- हतमन्तर्गच्छत्स्वन्ये जलसंबन्धेनापि प्रतिहन्यमाना नितान्तं मृदवः सक- लनयनरश्मिप्रतिघातिनं किरणसमूहं विजित्य तन्मध्यगतं + सूर्यमण्डलं प्रविशेयुः । कथं च चन्द्रालोकनइव तत्प्रतिबिम्बालोकने ऽपि अमृतशीतलत- द्विम्बसंनिकर्षाविशेषे लोचनयोः शैत्याभिव्यत्याप्यायनं न स्यात् । कथं च जलसम्बन्धेनापि प्रतिहन्यमानाः शिलादिसंबन्धेन न प्रतिहन्येरन् । तत्प्र- तिहत्य परावृत्ता वा नयनगोलकादिभिर्न संसृज्येरन् । तत्संसर्ग वा संसृष्टं किं न साक्षात्कारयेयुः । दोषेणापि हि विशेषांशग्रहणमा प्रतिबध्यमानं दृश्यते न तु संनिकृष्टधर्मिस्वरूपग्रहणमपि । प्रतिमुखाध्यासपक्षे तु न किं चिद् दृष्टविरुद्धं कल्पनीयम् । तथा हि । अव्यवहितस्थूलोमृतरूपस्यैव चाक्षुषा- ध्यासदर्शनाविम्बगतस्थाल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारणत्वेन कृप- * फलबलादित्यादिना पूर्वमुक्तमित्यर्थः । + किरणसमूहमध्यगतमित्यर्थः । + शिलाप्रतिघातपरावृत्तानां नयनगोलकसंसर्ग इत्यर्थः । * .

६३ । 1 प्रतिबिम्बसत्यत्वनिराकरणम् योः स्वाश्रयप्रतिबिम्बाध्यासेऽपि कारणत्वम् कुड्याद्यावरणद्रव्यस्य त्वगिन्द्रि- यन्यायेन प्राप्यकारितया ऽवगतनयनसनिकर्षविघटनद्वारा व्यवहितवस्तुसा- क्षात्कारप्रतिबन्धकत्वेन कृतस्य व्यवहितप्रतिबिम्बाध्यासे ऽपि विनव द्वारान्तरं प्रतिबन्धकत्वं च कल्पनीयम् । तत्र को विरोधः क्व चित्कारणत्वादिना कृपस्य फलबलादन्यचापि कारणत्वादि कल्पने । एतेनोपाधिप्रतिहतनयनर- श्मीनां बिम्बप्राप्यनुपगमे व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबि- म्बभ्रमप्रसङ्ग इति निरस्तम् । किं च तदभ्युपगमे एवोक्तदूषणप्रसङ्गः कथं साक्षा- त्सर्य्यावलोकनइव विना चक्षुर्विक्षेपमवनतमोलिना निरीक्ष्यमाणे सलिले ततः प्रतिहतानां नयनरश्मीनामर्द्धमुत्पत्य बिम्बसूर्यग्राहकत्ववत्तिर्यवचक्षु- विक्षेपं विना ऋजुचक्षुषा दर्पणे विलोक्यमाने ततप्रतिहतानां पार्श्वस्थ- मुखग्राहकत्ववच्च वदनसाचीकरणाभावेऽप्युपाधिप्रतिहतानां पृष्ठभागव्य- वहितग्राहकत्वं तावद् दुर्वारम् । उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृ- ति नियमं विहाय यत्र बिम्बं तत्रैव गमनापगमात् । तथा मलिनदर्पणे श्या- मतया गौरमुखप्रतिबिम्बस्थले विद्यमानस्यापि बिम्बगतगौररूपस्य चाक्षुष- ज्ञाने ऽनुपयोगितया पीतशडभ्रमन्यायेनारोप्यकुपवैशिध्ये नेव बिम्बमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव नीरूपस्यापि दर्पणोपाधिश्यामत्ववैशिष्ट्येन चाक्षुषप्रतिबिम्बभ्रमविषयत्वमपि दुर्वारम् । स्वतो नीरूपस्यापि नभसो ऽध्य- स्तनैल्यवैशिट्येन चाक्षुषत्वसंप्रतिपत्तेः । तस्मात्स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयान् । न च तचापि पूर्वानुभवसंस्कारदौर्बल्यम् । पुरुषसामान्यानु- भवसंस्कारमात्रेण स्वप्ने ऽप्यदृष्टचरपुरुषाध्यासवन्मुखसामान्यानुभवसंस्कारमा- चेण दर्पणमुखविशेषाध्यासोपपत्तेः । इयांस्तु भेदः स्वप्नेषु शुभाशुभहेत्वदृष्टा- नुरोधेन पुरुषाकृतिविशेषाध्यासः । इह तु बिम्बसंनिधानानुरोधेन मुखाकृ- तिविशेषाध्यास इति । न च प्रतिबिम्बस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रति- बिबस्य जीवस्यापि मिथ्यात्वापत्तिोषः । प्रतिबिम्बजीबस्य तथात्वे ऽग्यव- च्छिन्नजीवस्य सत्यतया मुक्तिभावोपपत्तेरिति । यत्तु प्रतिबिम्बं दर्पणादिषु * आदिपदेन प्रतिबन्धकत्वम् । + चक्षुषा स्वपृष्टभागव्यवहितपदार्थग्रहणानुकूलव्यापाराभावेपोत्यर्थः । + नयनगोलकाभिमुखविषयप्रतिहतानां पूनालकद्वारा शरीरान्तः प्रवेशनियममित्यर्थः। टी. वाय्वादरित्यर्थः। . 4 -- 4 . * . द्वितीयपरिच्छेदे मुखच्छायाविशेषरूपतया सत्यमेवेति कस्य चिन्मतम् तन्न । छाया हि नाम शरीरादेस्तत्तदवयवैरालोके कियदेशव्यापिन्यावरुद्धे तत्तद्देशे लब्धात्मकं तम- एव । न च मौक्तिकमाणिक्यादिप्रतिबिम्बस्य तमोविरुद्धलोहितादिरूपवत- स्तमोरूपच्छायात्वं युक्तम् । न वा तमोरूपच्छायारहिततपनादिप्रतिबिम्बस्य सथात्वमुपपन्नम् । ननु तर्हि प्रतिबिम्बरूपच्छायायास्तमोरूपत्वासंभवे द्रव्या- न्तरत्वमस्तु कृतद्रव्यानन्तभावे तमा* वट्ठव्यान्तरकल्पनोपपत्तेरिति चेत् । किं सद् द्रव्यान्तरं प्रतीयमानरूपपरिमाणसंस्थानविशेषप्रत्यङ्मुखत्वादिधर्मयुक्तं तद्रहितं वा स्यात् । अन्त्ये न तेन द्रव्यान्तरेण रूपविशेषादिघटितप्रति- बिम्बोपलम्भनिर्वाह इति व्यर्थ तत्कल्पनम् । प्रथमे कथमेकस्मिन्नल्पपरि- माणे दर्पणे युगपदसंकीर्णतया प्रतीयमानानां महापरिमाणानामनेकमुखप्रति- बिम्बानां सत्यतानिर्वाहः । कथं च निबिडावयवानुस्यूते दर्पणे तथैवावति- ष्ठमाने तदन्तर्हनुनासिकाद्यनेकनिम्नोन्नतप्रदेशवतो द्रव्यान्तरस्योत्पत्तिः । किं च सितरक्तपीताद्यनेकवर्णादिमतःप्रतिबिम्बस्योत्पत्ती दर्पणमध्ये स्थितं तत्- संनिहितं न तादृशं कारणमस्ति । यद्युच्येतोपाधिमध्यविश्वान्तियोग्यपरिमा- णानामेव प्रतिबिम्बानां महापरिमाणज्ञानं तादृशनिम्नोन्नतादिज्ञानं च भ्रम एव यथापूर्व दर्पणतदवयवावस्थानाविरोधेन तादृक्प्रतिबिम्बोत्पादनसमर्थ च किं चित्कारणं परिकल्प्यमिति ताह शुक्तिरजतमपि सत्यमस्तु । तचापि यथा- पूर्व स्थितायामेव तत्तादात्म्यापन्नरजतोत्पादनसमर्थ किं चित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेन्द्रियग्राह्यत्वनियमवर्णनापपत्तेः किं शुक्तिरजतमसत्यं प्रतिबिम्बः सत्य इत्यर्द्धजरतीन्यायेन । न च तथा सति रजतमिति दृश्यमानायाः शुक्रग्नौ प्रक्षेपे रजतोचितद्रवीभावापत्तिः । अनलकस्तूरिकादिप्रतिबिम्ब स्योषण्यसौरभादिराहित्यवच्छुक्तिरजतस्य द्रवी- भावयोग्यताराहित्योपपत्तेः । अथोच्येत नेदं रजतं मिथ्येव रजतमभादिति सर्वसंप्रतिपन्नबाधान्न शक्तिरजतं सत्यमिति । तर्हि दर्पणे मुखं नास्ति मिथ्य- वाच दर्पणे मुखमभादित्यादिसर्वसिद्धबाधात्प्रतिबिम्बमपि न सत्यमिति युक्तम् । तस्मादसंगतः प्रतिबिम्बसत्यत्ववादः ॥ * तमसो दशमद्रव्यत्वस्य सिद्धान्तितत्वादिति भावः । + त्वन्मते सत्यत्वेनाभिमतस्येति शेषः ।

प्रतिबिम्बसत्यत्व निराकरणम् ६५ ननु तन्मिथ्यात्ववादो ऽप्ययुक्तः शुक्तिरजतइव कस्य चिदन्वयव्यति- रकशालिनः कारणस्याज्ञानस्य * निवर्त्तकस्य ज्ञानस्य चानिरूपणात् । अत्र के चित् । यद्यपि सर्वात्मनाऽधिष्ठानज्ञानानन्तरमपि जायमाने प्रतिबिम्बाध्यासे नाधिष्ठानावरणमज्ञानमुपादानम् न वाऽधिष्ठानविशेषांशज्ञानं . निवर्तकम् तथाप्यधिष्ठानाज्ञानस्यावरणशत्यंशेन निवृत्तावपि विक्षेपशत्यंशेनानुवृत्तिसंभ- वात्तदेवोपादानम् । बिम्बोपाधिसंनिधिनिवृत्तिसचिवं चाधिष्ठानज्ञानं सोपादा- नस्य तस्य निवर्तकमिति ॥ अन्ये तु ज्ञानस्य विक्षेपशत्यंशं विहायावरणशत्यंशमात्रनिवर्तकत्वं न स्वाभाविकम् । ब्रह्मज्ञानेन मूलाज्ञानस्य शुत्यादिज्ञानेनाऽवस्थाऽज्ञानस्य + चावरणशक्त्यंशमात्रनिवृत्तौ तस्य विक्षेपशत्या सर्वदाऽनुवृत्तिप्रसङ्गात् । न च तद्धिम्बोपाधिसंनिधिलपविक्षेपशस्यं शनिवृत्तिप्रतिबन्धकप्रयुक्तं बिम्बोपाधिसं- निधानात्यागेव बिम्बचेत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्य- क्षता ऽवगम्यमाने विक्षेपशत्यंशस्यापि निवृत्त्यवश्यंभावेन तत्काले तयाः संनि- धाने सत्युपादानाभावेन प्रतिबिम्बभ्रमाभावप्रसङ्गात् । अतो मूलाज्ञानमेव प्रतिबिम्बाध्यासोपादानम् । न चाचाप्युक्तदोषतोल्यं पराग्विषय । वृत्तिपरिणा- मानां स्वस्वविषयावच्छिन्नचैतन्यप्रदेशे मूलाज्ञानावरणशत्यंशाभिभावकत्वे ऽपि तदीयविक्षेपशत्यंशानिवर्तकत्वात् । अन्यथा तत्प्रदेशस्थितव्यावहारिकवि- क्षेपाणामपि विलयापत्तेः । न च प्रतिबिम्बस्य मूलाज्ञानकार्यत्वे व्यावहारि- कत्वापत्तिः अविद्यातिरिक्तदोषाजन्यत्वस्य व्यावहारिकत्वे प्रयोजकत्वात् । प्रकृते च तदतिरिक्तबिम्बोपाधिसंनिधिदोषसद्भावेन प्रातिभासिकत्वोपपत्तेः । न चैवं सति बिम्बोपाधिसंनिधिनिवृत्तिसहकृतस्याप्यधिष्ठानज्ञानस्य प्रतिबि- म्बाध्यासानिवर्तकत्वप्रसङ्गस्तन्मलाज्ञाननिवर्तकत्वाभावादिति वाच्यम् । विरो- धाभावात् || । ब्रह्माऽज्ञानानिवर्तकत्वे ऽपि तदुपादानकप्रतिबिम्बाध्यासविरो- * अधिष्ठानसाक्षात्कारदशायामेव प्रतिबिम्बदर्शनेन तदसाक्षात्काररूपकारणस्य तत्साक्षा. त्काररूपनिवर्तकस्य चाभ्युपगमासंभवादित्यर्थः । + कार्यस्य रजतायज्ञानस्येत्यर्थः । + बाह्यविषयेति २ पु. पाठः। $ मूलाज्ञानकार्यत्वं व्यावहारिकत्वप्रयोजकं न भवति अनायवियादी तदभावेषि व्यव- हारिकत्वसत्त्वात् । तदतिरिक्तदोषाजन्यत्वस्य तु तत्रापि सत्त्वाचाव्याप्तिरिति भावः । टी. ॥ मूलाज्ञानं ब्रह्मविषयकं प्रतिबिम्बाध्यासाधिष्ठानभूतदर्पणादिज्ञानं तु दर्पणाट्यवच्छिन्न- चैतन्यविषयकमिति तयोस्समानविषयकत्वस्य विरोधप्रयोजकस्याभावेन विरोधाभावादधिष्ठानया- थात्म्यज्ञानस्य ब्रह्माज्ञानानिवर्तकत्वेपीत्यर्थः । तत्पदं ब्रह्माज्ञानपरम् । टी. . ६ ६६ द्विसीयपरिच्छेदे धिविषयकतयाऽधिष्ठानयाथात्म्यज्ञानस्य प्रतिबन्धकविरहसचिवस्य तन्निव- तकत्वोपपत्तेः । अवस्थाऽज्ञानोपादानत्वपक्षे ऽपि तस्य प्राचीनाधिष्ठानज्ञाननि- वर्तितावरणशक्तिकस्य समानविषयत्वभङ्गेन प्रतिबन्धकाभावकालीनाधिष्ठान- ज्ञानेन निवर्नयितुमशक्यतया प्रतिबिम्बाध्यासमावस्यैव तन्निवर्त्यत्वस्योपेय- त्वात् । अथ वा स्वो * पादानाज्ञाननिवर्त्तकब्रह्मज्ञाननिवर्त्य एवाऽयमध्यासो ऽस्तु । व्यावहारिकत्वापत्तिस्त्वविद्यातिरिक्तदोषजन्यत्वेन प्रत्युक्तेत्याहुः ॥ (५) एवं स्वप्नाध्यासस्याप्यनवच्छिन्नचैतन्ये ऽहंकारोपहितचैतन्ये वा ऽव- स्थारूपाज्ञानशून्ये ऽध्यासात्सुषुण्याख्यं तमो ऽज्ञानं यद्वीजं स्वप्नबोधयोरित्याचा- याणां स्वप्नजाग्रत्प्रपञ्चयोरेकाज्ञानकार्यत्वोक्तेश्च मूलाऽज्ञानकार्य्यतया स्वोपादा- ननिवर्त्तकब्रह्मज्ञानकबाध्यस्याविद्यातिरिक्तनिद्रादिदोषजन्यतयैव प्रातिभासि- कत्वमिति के चित् ॥ अन्ये तु बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधइतिभाष्योक्त- रविद्यात्मकबन्धप्रत्यनीकत्वाज्जाग्रबोधवदिति विवरणदर्शनादुत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रबोधः स्वप्नाध्यासनिवर्तक इति ब्रह्मज्ञानेतरज्ञा- नबाध्यतयैव तस्य प्रातिभासिकत्वम् । न चाऽधिष्ठानयाथात्म्याऽगोचरं स्वा- पादानाऽज्ञानानिवर्तकं ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यम् । रज्जु- सपाध्यासस्य स्वोपादानाज्ञाननिवर्त्तकाधिष्ठानयाथात्म्यज्ञानेनेव तव स्वान- न्तरोत्यन्नदण्डभ्रमेणापि निवृत्तिदर्शनादित्याहुः ॥ अपरे तु जायदोगप्रदकीपरमे सति जाग्रत्प्रपञ्चद्रष्टारं प्रतिबिम्बरूपं व्यावहारिक जीवं तदृष्टं जाग्रत्प्रपञ्चमप्यावृत्य जायमानो निद्रारूपो मूला- ज्ञानस्यावस्थाभेदः स्वानप्रपञ्चाध्यासस्योपादानं न मूलाज्ञानम् । न च निद्राया अवस्थाऽज्ञानरूपत्वे मानाभावः मूलाज्ञानेनानावृतस्य जाग्रत्प्रपञ्चद्रष्टुर्व्यावहा- रिकजीवस्य मनुष्यो ऽहं ब्राह्मणो ऽहं देवदत्तपुचो ऽहमित्यादिना स्वात्मानम- संदिग्धाऽविपर्यस्तमभिमन्यमानस्य तदीयचिरपरिचयेन तं प्रति सर्वदाऽना- वृतैकरूपस्य स्वपितामहात्ययादिजाग्रत्प्रपञ्चवृत्तान्तस्य च स्यग्नकाले केन * स्वपदं प्रतिबिम्बाध्यासपरम् । टी. । यथा जाग्रत्कालीनो घटादिबोधः स्वप्नबन्धनिवर्तकस्तद्वदित्यर्थः । टी. । तदश्यमिति ३ पु. पा.। 8 जीवप्रपञ्चावावृत्त्य भोगप्रदकोपरमे सति जायमाम इति योजना। । JA ६० स्वाप्नपदार्थाधिष्ठाननिरूपणम् चिदावरणाभावे जाग्रदशायामिव * स्वप्नेपि व्याघ्रो ऽहं शूद्रो ऽहं यज्ञदत्त- पुचो ऽहमित्यादिभ्रमस्य स्वपितामहजीक्दृशादिभ्रमस्य चाभावप्रसङ्गेन निद्राया एव तत्कालोत्पन्नव्यावहारिकजगज्जीवावरकाज्ञानावस्थाभेदरूपत्वसिद्धेः । न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपञ्चद्रष्टुत्वाभावप्रसङ्गः । स्वानप्रपञ्चेन सह द्रष्टुर्जीवस्यापि ग्रातिभासिकाध्यासात । एवं च पुनर्जायोगादकोट्टते बोधे व्यावहारिकजीवस्वरूपज्ञानात्स्वोपादाननिद्रारूपाऽज्ञाननिवर्तकादेव स्वानप्रपञ्चबाधः । न चैवं तद्रष्टुः प्रातिभासिकजीवस्यापि ततो बाधे स्वग्ने करिणमन्वभवमित्यनुसन्धानं न स्यादिति वाच्यम् । व्यावहारिकजीवे प्राति- भासिकजीवस्याध्यस्ततया तदनुभवायावहारिकजीवस्यानुसंधानोपगमे ऽप्य- तिप्रसङ्गाभावादिति ॥ नन्वनवच्छिन्नचैतन्ये ऽहंकारावच्छिन्नचैतन्ये वा स्वासप्रपञ्चाध्यास इति प्रागुक्तं पक्षद्वयमप्ययुक्तम् । आद्ये स्वासगजादेरहंकारोपहितसाक्षिणो ऽवि- छिन्नदेशत्वेन सुखादिवदन्तःकरणवृत्तिसंसर्गमनपेक्ष्य तेन प्रकाशनस्य चक्षुरादीनामुपरततया वृत्त्युदयासंभवेन तत्संसर्गमपेक्ष्य तेन प्रकाशनस्य चायोगात् । द्वितीये इदं रजतमितिवदहं गज इति वा अहं सुखीतिवदह गजवानिति वाऽध्यासप्रसङ्गात् । अत्र के चिदाद्यपदं समर्थयन्ते। अहंका- रानवच्छिन्नं चैतन्यं न देहाबहिः स्वानप्रपञ्चस्याधिष्ठानमुपेयते किं तु तद- न्तरेव । अत एव || दृश्यमानपरिमाणोचितदेशसंपत्त्यभावात्स्वानगजादीनां मायामयत्वमुच्यते । एवं चान्तःकरणस्य देहावहिरस्वातन्त्र्याज्जागरणे बाह्य- शुक्तीदमंशादिगोचरवृत्त्युत्पादाय चक्षुराद्यपेक्षायामपि देहान्तरन्तःकरणस्य स्वतन्त्रस्य स्वयमेव वृत्तिसंभवादेहान्तरन्तःकरणवृत्त्यभिव्यक्तस्यानवच्छिन्नचै- तन्यस्याधिष्ठानत्वे न का चिदनुपपत्तिः । अत एव यथा जागरणे संप्रयोग- जन्यवृत्त्यभिव्यक्तशुक्तीदमंशावच्छिन्नचैतन्यस्थिताऽविद्या सूप्याकारण विव- तते पा तथा स्वप्नेपि देहस्यान्तरन्तःकरणवृत्ती निद्रादिदोषोपेतायामभिव्यक्त- ' -- * जागरण वेति द्रा । द्रष्टुरभावप्रसङ्ग इति ३ पु. पाठः। # अस्मिन् मते व्यावहारिको जीवः स्वप्नप्रपञ्चद्रष्टुःप्रातिभासिक जीवस्याधिष्ठानम्। टर. साक्षिणा । उत्तरत्रापि तथैव । || प्रान्तरचैतन्यस्यैवाधिष्ठानत्वोपगमादेवेत्यर्थः । पा परिणमतइत्यर्थः। टी.

६८ - द्वितीयपरिच्छेदे चेतन्यस्थाऽविद्या ऽदृष्टोदाधिता नानाविषयसंस्कारसहिता प्रपञ्चाकारण विष- ततामिति विवरणोपन्यासे भारतीतीर्थवचनमिति ॥ अन्ये त्वनवच्छिन्नचैतन्यं न वृत्त्यभिव्यक्तं सत् स्वामप्रपञ्चस्याधिष्ठा- नम् अशब्दमूलका* नवच्छिन्नचैतन्यगोचरवृत्त्युदयाऽसंभवाद् अहंकाराद्यव- च्छिन्नचैतन्यण्वाहमाकारवृत्त्युदयदर्शनात् । तस्मात्स्वतो ऽपरोक्षमहंकाराद्य- नवच्छिन्नं चैतन्यं तदधिष्ठानम् । अत एव संक्षेपशारीरके अपरोक्षरूपविष- यभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत् । मनसा स्वतो नयनतो यदि वा स्वप- नभ्रमादिषु तथा प्रथितेः । इतिश्लोकेनापरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं व चित्स्वतः क्व चिन्मानसवृत्त्या क्वचिद्वहिरिन्द्रयवृत्त्येत्यभिधाय स्वतो ऽपरोक्षा चितिरच विभ्रम स्तिथापि रूपाकृतिरेव जायते। मनो निमित्तं स्वपने मुहुर्मु- हुर्विनापि चक्षुर्विषयं स्वमास्पदम् । मनोऽवगम्ये ऽप्यपरोक्षताबलात्तथा ऽऽम्बरे रूपमुपोल्लिखन भ्रमः । सितादिभेदैर्बहुधा समीक्ष्यते यथाऽक्षगम्ये रजतादिवि- भ्रम इत्याद्यनन्तरश्लोकेन स्वप्नाध्यासे स्वतो ऽधिष्ठानापरोक्ष्यमुदाहृतम् । न चाहंकारानवच्छिन्नचैतन्यमात्रमावृतमिति वृत्तिमन्तरेण न तदभिव्यक्तिरिति वाच्यम्। ब्रह्मचैतन्यमेवावृतमविद्या प्रतिबिम्बजीवचैतन्यमहंकारानवच्छिन्नम- प्यनावृतमित्यभ्युपगमात् । एवं चाहंकारानवच्छिन्नचैतन्ये ऽध्यस्यमाने स्वानग- जादा तत्समनियताधिष्ठानगोचरान्तःकरणादिवृत्तिकृताऽभेदाभिव्यत्या प्रमा- तृचैतन्यस्यापीदं पश्यामीति व्यवहार इत्याहुः ॥ अपरे तु द्वितीयपक्षं समर्थयन्ते । अहंकारावच्छिन्नचैतन्यमधिष्ठान- मित्यहंकारस्य विशेषणभावनाधिष्ठानकोटिप्रवेशो नोपयते किं त्वहंकारोपहितं तत्प्रतिबिम्बरूपचैतन्यमात्रमधिष्ठानमित्यता नाहं गज इत्याद्यनुभवप्रसङ्ग इति । एवं शुक्तिरजतमपि शुक्तीदमंशावच्छिन्नचैतन्यप्रतिबिम्बे वृत्तिमदन्त:- करणगते ऽध्यस्यते शुक्तीदमंशावच्छिन्नबिम्बचैतन्ये सर्वसाधारणे तस्याथ्यासे सुखादिवदनन्यवेद्यत्वाभावप्रसङ्गादिति के चित् || ॥ INIK शुद्धब्रह्मण इवेश्वरचैतन्यस्यापि शास्त्रकसमधिगम्यत्वादिति भावः । टी. मूलकेति वृत्त्यन्वयि। + पूर्वमतइवान्तरमेवेति शेषः । टी. एतन्मध्यस्थं २ । ३ युः नास्ति ६ वत्तिरप्यनवच्छिन्नगोचरशब्दमन्तरेण न संभवतीति प्रागुक्तमिति ध्येयम् । टी. || के चिदिति ३ पु. नास्ति ।

६६ ६ .. . स्वामपदार्थानुभवप्रकारनिरूपणम् के चित्तु बिम्ब चैतन्यण्व तदध्यासमुपेत्य यदीयाज्ञानोपादानकं यत्त- त्तस्यैव प्रत्यक्षं न जीवान्तरस्येत्यनन्यवेद्यत्वमुपपादयन्ति ॥ ६) ननु शुक्तिरजताध्यासे चाक्षुषत्वानुभवः साक्षाद्वाऽधिष्ठानज्ञानद्वारा तदपेक्षणाद्वा* समर्थ्यते स्वानगजादिचाक्षुषत्वानुभवः कथं समर्थनीयः । उच्यते। न तावत्तत्समर्थनाय स्वानदेहवद्विषयवच्चेन्द्रियाणामपि प्रतिभासिको विवर्तः शक्यते वक्तुं प्रतिभासिकस्याज्ञातसत्त्वाभावात् । इन्द्रियाणां चातीन्द्रि- याणां सत्त्वे अज्ञातसत्त्वस्य । वाच्यत्वात् । नापि व्यावहारिकाणामेवेन्द्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाग्नदेहमाश्रित्य स्वत्वविषयग्राहकत्वं वक्तुं शक्यते स्वप्नसमये तेषां व्यापारराहित्यरूपोपरतिश्रवणात् । व्यावहारिकस्य स्पर्शनेन्द्रि- यस्य स्वाचितव्यावहारिकदेशसंपत्तिविधुरे ऽन्तःशरीरे स्वाधिकपरिमाणकृत्स्न- स्वामशरीरव्यापित्वायोगाच्च । तदेकदेशाश्रयत्वे च तस्य स्वाग्लजलावगाहनज- न्यसर्वाङ्गीणशीतस्पर्शाऽनिर्वाहात् । अत एव स्वप्ने जाग्रदिन्द्रियाणामुपरतावपि तेजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि सूक्ष्मेन्द्रियाणि सन्तीति तैः स्वाप्नपदार्थानामन्द्रियकत्वमित्युपपादनशङ्कापि निरस्ता । जाग्रदिन्द्रियव्यति- रिक्तसूत्मेन्द्रियाऽप्रसिद्धेः । किं चाऽचायं पुरुषः स्वयंज्योतिरिति जागरे आदि- त्यादिज्योतिर्व्यतिकराच्चक्षुरादिवृत्तिसंचाराच्च दुर्विवेकमात्मनः स्वयंज्योतिष्ट्र- मिति स्वप्नावस्थामधिकृत्य तचात्मनः स्वयंज्योतिष्टुं प्रतिपादयति । अन्यथा तस्य सर्वदा स्वयंज्योतिष्टे ऽचेति वैयात् । तत्र यदि स्वप्ने ऽपि चक्षुरा- दिवृत्तिसंचारः कल्प्येत तदा तचापि जागरे इव तस्य स्वयंज्योतिष्ठं दुर्वि- वेकं स्याद् इत्युदाहृता श्रुतिः पीयेत । ननु स्वप्ने चक्षुराद्युपरमकल्पने ऽप्यन्तःकरणमनुपरतमास्तइति परिशेषाऽसिद्धेर्न स्वयंज्योतिष्ठविवेकः । मैवम् । कती शास्त्रार्थवत्त्वा || दित्यधिकरणे न्यायनिर्णयोक्त परीत्यान्तः- चक्षुरपेक्षणादित्यर्थः। + अप्रत्यक्षत्वविशिष्टसत्त्वस्येत्यर्थः । व्यावहारिकेन्द्रियाणामतीन्द्रियत्वात्प्रातिभासिकाना- मपि तथात्वमुचितं दृष्टानुसरित्वात्कल्पनाया इति भावः । + अात्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीषिण इत्युक्त्या तैजसाख्यस्वरमावस्थागतजीवत्वव्यव- हारोपपादकानीति भावः। ६ तथा च मनस एव स्वामजगद्भासकत्वसंभवादवभासकान्तराभावरूपपरिशेषसिद्धि- रित्यर्थः । टी. || व्याः सू. अ. २ पा• ३ सू. ३३ । का मनस उपादानत्वेन स्वतो ज्ञानकारणत्वं न संभवतीत्युक्तरीत्येत्यर्थः । टी.

॥ द्वितीयपरिच्छेदे करणस्य चक्षुरादिकरणान्तरनिरपेक्षस्य ज्ञानाऽसाधनत्वाद्वा तत्त्वप्रदीपिकोक्त- रीत्या * स्वप्ने तस्यैव गजाद्याकारण परिणामेन ज्ञानकर्मतयाऽवस्थितत्वेन तदानी ज्ञानसाधनत्वायोगाद् वा परिशेषोपपत्तेः । न च स्वप्ने ऽन्तःकरण- वृत्त्यभावे उत्थितस्य स्वप्नदृष्टगजाद्यनुसंधानानुपपत्तिः । सुषुप्रिकृपया ऽवि- द्यावृत्त्या तदुपपत्तेः । सुषुमा तदवस्थोपहितमेव स्वरूपचैतन्यमज्ञानसुखा- दिप्रकाशः उत्थितस्यानुसंधानमुपाधिभूतावस्थाविनाशजन्यसंस्कारणेति वेदा- न्तकौमुद्यभिमते सुघुग्रावविद्यावृत्त्यभावपक्ष इहापि स्वानगजादिभासकचैत- न्योपाधिभूतस्वग्नावस्थाविनाशजन्यसंस्कारादनुसंधानोपपत्तेश्च । अथ वा तदेतत्सत्त्वं येन स्वप्नं पश्यतीत्यादिश्रुतेरस्तु स्वप्नेपि कल्पतरुक्तरीत्या स्वानगजादिगोचरान्तःकरणवृत्तिः। न च तावता परिशेषासिद्धिः अन्तःकरण- स्याहमिति गृह्यमाणस्य सर्वात्मना जीवैक्येनाध्यस्ततया लोकदृष्ट्या तस्य तयतिरेकामसिद्धेः परिशेषार्थ चक्षुरादिव्यापाराभावमावस्यैवापेक्षितत्वात् । प्रसिद्धदृश्यमाचं दृगवभासयोग्यमिति निश्चयसत्त्वेन परिशेषार्थमन्यानपेक्षणात्। तस्मात् स्वप्ने सर्वथापि चक्षुरादिव्यापारासंभवात्स्वानगजादौ चाक्षुषत्वाद्यनु- भवो भ्रम एव । ननु । स्वप्ने ऽपि चतुरुन्मीलने गजाद्यनुभवस्तन्निमीलने नेति जागरइव गजाद्यनुभवस्य चक्षुरुन्मीलनाद्यनुविधानं प्रतीयतइति चेच चक्षुषा रजतं पश्यामीत्यनुभववदयमपि कश्चित्स्वानभ्रमो भविष्यति । यत्केवलसा- क्षिरूपे स्वाग्नगजानुभवे चक्षुराद्यनुविधानं तदनुविधायिनी वृत्तिाऽध्यस्यते। किमिव हि दुर्घटमपि भ्रमं माया न करोति विशेषतो निद्रारूपेण परिणता यस्या माहात्म्यात्स्वप्ने रथः प्रतीतः क्षणेन मनुष्यः प्रतीयते स च क्षणेन मार्जारः स्वप्नद्रष्टुश्च न पूर्वापरविरोधानुसंधानम् । तस्मादन्वयाद्यनुवि- धानप्रतीतितोल्येपि जाग्नद्गजाद्यनुभव एव चक्षुरादिजन्यो न स्वाप्नगजाद्य- नभवः ॥ दृष्टिसृष्टिवादिनस्तु कल्पितस्याज्ञातसत्त्वमनुपपन्न मिति कृत्स्नस्य जायत्प्रपञ्चस्य दृष्टिसमसमयां सृष्टिमुपेत्य घटादिदृष्टेश्चतुःसंनिकर्षानुविधान- स्वमे मनस एव विविधसंस्कारविशिष्टस्य स्वमप्रपञ्चाकारेण परिणामित्वं न त्वविया- यास्तस्याः संस्काराश्रयत्वाभावेन विचित्रपदार्थपरिणामित्वायोगादित्युक्तरीत्येत्यर्थः । टी. । नन्विति ५। ३ पु. नास्ति । * कल्पनामात्रशरीरस्य पर्वतादावनुमितेः पूर्व वह्यादेरिवाज्ञातस्य सत्त्वमनुपपन्नमित्यर्थः । .

७१ सृष्टिकल्पकनिरूपणम् प्रतीतिं दृष्टः पूर्व घटाद्यभावेनासंगच्छमानां स्वप्नवदेव समर्थयमाना जायग- जाद्यनुभवापि न चाक्षुष इत्याहुः । 9) ननु दृष्टिसृष्टिमवलम्ब्य कृत्स्नस्य जाग्रत्प्रपञ्चस्य कल्पितत्वोपगमे कः कल्पको निरूपाधिरात्मा वा ऽविद्योपहितो वा । नाद्यः । मोक्षे ऽपि साधना- न्तरनिरपेक्षस्य कल्पकस्य सत्त्वेन प्रपञ्चानुवृत्त्या संसाराविशेषप्रसङ्गात् । न द्वितीयः । अविद्याया अपि कल्पनीयत्वेन तत्कल्पनात्मागेव कल्पकसिद्धर्वक्त- व्यत्वात्। अत्र के चिदाहुः । पूर्वपूर्वकल्पिताऽविद्योपहित उत्तरोत्तराऽविद्याक- ल्पकः । अनिदंप्रथमत्वाच्च * कल्पककल्पनाप्रवाहस्य नानवस्थादोषः । न चाऽविद्याया अनादित्वोपगमाच्छुक्तिरजतवत् कल्पितत्वं न युज्यते अन्यथा साद्यनादिविभागानुपपत्तेरिति वाच्यम् । यथा स्वप्ने कल्प्यमानं गोपुरादि किं चित्यर्वसिद्धत्वेन कल्प्यते किं चित्तदानीमुत्पाद्यत्वेन एवं जागरपि किं चित्क- ल्प्यमानं सादित्वेन कल्प्यते किं चिदन्यथेत्येतावता साद्यनादिविभागो- पपत्तेः । एतेन कार्यकारणविभागो ऽपि व्याख्यात इति ॥ अन्ये तु वस्तुतोऽनाद्येवाविद्यादि तत्र दृष्टिसृष्टिनोपेयते किं तु ततो ऽन्यच प्रपञ्चमाचइत्याहुः ॥ नन्वेवमपि श्रुतिमाचप्रतीतस्य वियदादिसर्गतत्क्रमादेः कः कः । न कोपि । किमालम्बना तात्मन आकाशः संभूत इत्यादिश्रुतिः । निष्प्रपञ्चब्रह्मात्मैक्यावलम्बनेत्यवेहि । अध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मा- तिपत्तिर्भवतीति तत्प्रतिपत्त्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासो न तात्पर्य- णेति भाष्याद्युद्घोषः । व्यर्थस्तर्हि तात्पर्याभावेपि वियत्प्राणपादयोर्वियदादि- सर्गतत्क्रमादिविषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः । न व्यर्थः न्याय- व्युत्पत्त्यर्थमभ्युपेत्य तत्प्रवृत्तेः । उक्तं हि शास्त्रदर्पणे श्रुतीनां सृष्टितात्पर्य कल्प- : बीजाङ्करन्यायेनानादित्यादित्यर्थः । + किं चिदविट्यादिकमन्यथा ऽनादित्वेन कल्प्यते पूर्वपूर्वावियोहितेनात्मनेत्यर्थः । तावता कल्पनामात्रेण । टी. * कार्यकारणादिविभागो ऽपीति १ । ३ पु. पाठः। 8 स्वरूपत इत्यर्थः । तस्या अस्मदादिभिरज्ञाताया अपि सत्त्वमभ्युपगम्यतइत्यर्थः । न चैतावता द्वैतापत्तिः ब्रह्मज्ञानबाध्यतारूपमिथ्यात्वस्य तत्रोपगमेनार्थक्रियाकारित्वरूपस्य शुक्तिरज- तादिविलक्षणस्य सत्त्वस्य तत्राभ्युपगमेप्यदोषादिति भावः । 1 २ 4. भाष्यकारादीनामिति शेषः। टी.। द्वितीयपरिच्छेदे स्वीकृत्येदमिहेरितम् ब्रह्मात्मैक्यपरत्वात्तु तासां तन्नेव * विद्यतइति । ज्योति- ष्टोमादिश्रुतिबोधितानुष्ठानात्फलमिद्धिः स्वानश्रुतिबोधितानुष्ठानप्रयुक्तफलसंवा- दतुल्या । ज्योतिष्टोमादिश्रुतीनां च सत्त्वशुद्धिद्वारा ब्रह्मणि तात्पर्यानानामा- ण्यमित्यादिदृष्टिसृष्टिवादव्युत्यादनप्रक्रिया । प्रपञ्चस्त्वाकरे । एव द्रष्टव्यः । अय- मेको दृष्टिसमसमया विश्वदृष्टिरिति दृष्टिसृष्टिवादः ॥ अन्यस्तु दृष्टिरेव विश्वसृष्टिः ६ दृश्य स्य दृष्टिभेदे प्रमाणाभावात ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणः अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्टय इति स्मृतेश्चेतिसिद्धान्तमुक्तावल्यादिदर्शितो दृष्टिसृष्ट्यादिवादः ॥ द्विविधे ऽपि दृष्टिसृष्टिवादे मनःप्रत्ययमलभमानाः || के चिदाचार्याः सृष्टेष्टिवादं पा रोचयन्ते । श्रुतिदर्शितेन क्रमेण परमेश्वरसृष्टमज्ञातसत्तायुक्त- मेव विश्वं तत्तद्विषयप्रमाणावतरणे तस्य तस्य दृष्टिसिद्धिरिति । न चैवं प्रपञ्चस्य कल्पितत्वाभावे श्रुत्यादिप्रतिपन्नसृष्टिप्रलयादिमतः प्रत्यक्षादिप्रतिप- नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यम् । शुक्तिर- रजतादिवत्संप्रयोगसंस्कारदोषरूपेणाधिष्ठानज्ञानसंस्कारदोषरूपेण वा कारण- चयेणाजन्यतया कल्पनासमसमयत्वाभावे ऽपि ज्ञानकनिवर्त्यत्वरूपस्य सदस- द्विलक्षणत्वरूपस्य प्रतिपन्नोपाधिगतकालिकनिषेधप्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् । सत्यत्वपक्षे प्रपञ्चे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् ॥ नन्वेवमहंकारतद्धर्माणामप्युक्तरूपमिथ्यात्वं वियदादिवत्कल्पितत्वा- भावे ऽपि सिद्धयतीतिभाष्यटीकाविवरणेषु तदध्यासे कारणचितयसंपादनादि- श्रमो व्यर्थ इति चेद् अहंकारादीनामपि केवलसाक्षिवेद्यतया * * शुक्तिरजत- वत् प्रातिभासिकत्वमभिमतमिति ++ चित्सुखाचार्या: ॥ श्रुतीनां तात्यर्यमित्यर्थः। + आकरग्रन्येष्विति द्रा. पाठः । * दृष्टिकाले तदतिरिक्ता प्रत्यक्षं प्रति विषयस्य कारणत्वसिद्धान्तं परित्रातुं स्वीकृता मष्टिरिति भावः। दृष्टिदर्शनं स्वप्रकाशज्ञानस्वरूपमित्यर्थः । एतदुक्तं भवति । दृश्यप्रपञ्चतादात्म्यापन ज्ञानस्वरूपमेव प्रपञ्चस्याटाक्षणावच्छिन्नं सत्तस्य सष्टिरुच्यतइति । टी. || प्रत्यक्षं प्रति विषयस्य कारणत्वात्प्रपञ्चस्य ज्ञानसमसमयत्वं न युज्यते । कार्यकारण- भावस्य भेदनिबन्धनत्वाच्च नाभेदति सष्टिपूर्वकं दृष्टिरभ्युपगम्येति भावः । पा सष्टिदृष्टिवादमिति २।३ पु. पाठः। * * तेनाज्ञातसत्त्वं न संभवतीति भावः । . i । मिथ्यापदार्थस्याप्यर्थक्रियाकारित्वोपपादनम् अभ्युपेत्यवादमाचं तदद्वितीयाधिष्ठानब्रह्मात्मप्रमाणस्य चैतन्यस्ये- त्यादितचत्यकारणचितयसंपादनग्रन्थस्य * चैतन्यस्य प्रमाकरणत्वे वेदान्त- करणत्वादिकल्पनाभङ्गप्रसङ्गेन प्रौढिवादस्य स्फुटत्वादिति रामाद्वयाचार्याः ॥ (८) ननु दृष्टिसृष्टिवादे सृष्टिदृष्टिवादे च मिथ्यात्वसंप्रतिपत्तेः कथं मिथ्या- भूतस्यार्थक्रियाकारित्वम् । स्वप्नवदिति बमः । ननु स्वामजलादिसाध्यावगा- हनादिरूपार्थक्रिया असत्यैव किं तु जायज्जलादिसाध्या सा सत्या अविशि- ष्टमुभचापि स्व । समानसत्ताकार्थक्रियाकारित्वमिति के चित् ॥ अद्वैतविद्याचा-स्त्वाहुः । स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थ- क्रियामाचकारित्वं स्वाग्नाङ्गनाभुजङ्गमादीनां तदबाध्यसुखभयादिजनकत्वस्यापि दर्शनात् । स्वासविषयजन्यस्यापि हि सुखभयादेः प्रबोधानन्तरं न बाधो ऽनुभयते प्रत्युत प्रबोधानन्तरमपि मनःप्रसादशरीरकम्पादिना सह तदनुवृत्ति- दर्शनात्प्रागपि सत्त्व मेवावसीयते । अत एव प्राणिनां पुनरपि सुखजनक- विषयगोचरस्वग्ने वाञ्छा अतादृशे स्वप्ने च प्रद्वेषः । संभवति च स्वप्ने ज्ञानव- दन्तःकरणवृत्तिरूपस्य सुखभयादेख्दयः । न च स्वप्नाङ्गनादिज्ञानमेव सुखा- दिजनकं तच्च सदेवेति वाच्यम् । तस्यापि दर्शनस्पर्शनादिरूपस्य स्वप्नप्रप- वसाक्षिण्यध्यस्तस्य कल्पनामाचसिद्धत्वात् । न ह्युपरतेन्द्रियस्य चक्षुरादिवृ- त्तयः सत्या भवन्ति । न च तद्विषयाऽऽपरोक्ष्यमाचं सुखजनकं तच्च साक्षिरूपं सदेवेति वाच्यम् । दर्शनात्स्पर्शने कामिन्याः पदा स्पर्शनात् पाणिना स्पर्शने भुजङ्गस्यामर्मस्थले स्पर्शनान्मर्मस्थले स्पर्शनेन च सुखविशेषस्य भयविशेषस्य चाऽनुभवसिद्धत्वेन स्वग्ने ऽपि तत्तत्सुखभयादिविशेषस्य कल्पितदर्शनस्पर्श- नादि विशेषजन्यत्वस्य वक्तव्यत्वादिति। तथा जागरे घटादिप्रकाशनक्षमत- चत्यपुरुषान्तरनिरीक्ष्यमाणालोकवत्यपवरके || सद्यः प्रविष्टेन कल्पितस्य सन्त- मसस्य प्रसिद्धसन्तमसोचितार्थक्रियाकारित्वं दृष्टं तेन तं प्रति घटाद्यावरणं दीपा- द्यानयने तदपसरणं तन्नयने पुनरावरणमित्यादिदर्शनादित्यपि के चित् ॥ ग्रन्थस्य प्राढिवादतायाः स्फुटत्वादिति संबन्धः । + स्वपदमर्थक्रियाहेतुभूतवस्तुपरम् । टी. * स्वमकालीनमपि सुखभयादिकं जाग्रत्सुखादिवद् व्यावहारिकसत्यमेव न प्रातिभासिक प्रबोधानन्तरं बाधाभावात्तदनन्तरमप्यनुवर्तमानत्वाच्चेति निष्कर्षः । टी. 8 वृत्तीत्यधिकं ३ पुः। ॥ स्वल्परहे। टी. १० ७४ द्वितीयपरिच्छेदे अन्ये तु पानावगाहनाद्यर्थक्रियायां जलादिस्वरूपमात्रमुपयोगि न तद्गतं सत्यत्वं तस्य कारणत्वतदवच्छेदकत्वयोरभावा * दिति किं तेन । न चैवं सति मरुमरीचिकोदकशुक्तिरजतादेरपि प्रसिद्धोदकाद्युचितार्थक्रियाकारित्वप्रसङ्गः । मरीचिकादकादावुदकत्वादिजातिनास्तीति तद्विषयकभ्रमस्यादकशब्दोल्लेखित्वं तदुल्लेखिपूर्वानुभवसंस्कारजन्यत्वप्रयुक्तमिति तत्त्वशुद्धिकारादिमते तत्तदर्थ- क्रियाप्रयोजकोदकत्वादिजात्यभावादेव तदप्रसङ्गात् । तचाप्युदकत्वादिजा- तिरस्त्यन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधादुदकार्थिनस्तत्र प्रवृत्त्यभावप्रस- डाच्चेति प्रातिभासिके पूर्वदृष्टसजातीयव्यवहारानुरोधिनां मते क्वचिदधिष्ठा- नविशेषज्ञाने समूलाध्यासनाशात् + व चिदधिष्ठानसामान्यज्ञानोपरमेण केव- लाध्यासनाशात् क्वचिद् गुज्जादौ चक्षुषा वह्माद्यध्यासस्थले दाहपाकत्वादिप्र- योजकस्योष्णस्पोदेरनध्यासाच्च तत्र तत्रार्थक्रियाभावोपपत्तेः । क्व चित्कासां चिदर्थक्रियाणामिष्यमाणत्वाच्च । मरीचिकोदकादिव्यावर्तकस्यार्थक्रियोपयोगि- रूपस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्यहं चिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च । तस्मान्मिथ्यात्वे ऽप्यर्थक्रियाकारित्वसंभवान्मिथ्यैव प्रपञ्चो न सत्य इति ॥ (६) ननु मिथ्यात्वस्य प्रपञ्चधर्मस्य सत्यत्वे ब्रह्माद्वैतक्षतेस्तदपि मिथ्येव वक्तव्यमिति कुतः प्रपञ्चस्य सत्यत्वक्षतिः । मिथ्याभतं ब्रह्मणः सप्रपञ्चत्वं न निष्प्रपञ्चत्वविरोधीति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरो- धित्वात् । अत्रोक्तमद्वैतदीपिकायाम् । वियदादिप्रपञ्चसमानस्वभाव है मिथ्या- त्वम् । तच्च धर्मिणः सत्यत्वप्रतिक्षेपकं धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादिसिद्धं धर्मिसमसत्त्वं तन्त्रं न पारमार्थिकत्वम् । अघटत्वादिप्रति- * स्वरूपातिरिक्तत्वेन कारणत्वाभावादतिप्रसक्तत्वेन कारणतावच्छेदकत्वाभावाच्चे- त्यर्थः । टी. + दूरे मरुमरीचिकाभ्रमानन्तरं मानार्थं समीपगतस्य नेदं जलं मरीचिमात्रमिदमिति विशेषदर्शने सति जलाट्यध्यासस्य स्वमूलाज्ञानेन सहैव नाशाद् न ततार्थक्रियोयत्तिरापादयितुं शक्येत्यर्थः । टी. समूलाध्यासनिवृत्तिसंभवादिति २ पु. पाठः। । समानसत्ताकमित्यर्थः । वियदादिप्रपञ्चश्च व्यावहारिकसत्ताक इति भावः। टी. ६ घटत्वादी परमतरीत्या पारमार्थिकत्वरूपं सत्यत्वमस्ति तथा धर्मिसमानसत्ताकत्वं मतद्वयसंमतमस्ति तथा च घटत्वादिधर्मस्य स्वाश्रये स्वविरुद्धधर्मप्रतिक्षेपकत्वे प्रयोजकाकालायां संप्रतिपत्रमेव प्रयोजक कल्पनीयमिति भावः। टी.

०५ मिथ्यात्वस्य मिथ्यात्वे ऽपि प्रपञ्चसत्यत्वाभावनिरूपणम् क्षेपके घटत्वादावस्माकं पारमार्थिकत्वासंप्रतिपत्तेः । ब्रह्मणः सप्रपञ्चत्वं न धर्मिसमसत्ताकमिति न निष्प्रपञ्चत्वप्रतिक्षेपकम् । अत एव मिथ्यात्वस्य व्यावहारिकत्वे* तद्विरोधिनो ऽप्रातिभासिकस्य । प्रपञ्चसत्यत्वस्य पारमा- र्थिकत्वं स्यादिति निरस्तम् । धर्मिसमसत्ताकस्य मिथात्वस्य व्यावहारिकत्वे धर्मिणापि व्यावहारिकत्वनियमात् । अथ वायो यस्य स्वविषयसाक्षात्का- राऽनिवा धर्मः स तक स्वविरुद्धधर्मप्रतिक्षेपकः शुक्ता शुक्तितादात्म्यं तद्विषयसाक्षात्काराऽनिवर्त्यमशुक्तित्वविरोधि तचैव रजततादात्म्यं तन्निवत्वं रजतभेदाविरोधीति व्यवस्थादर्शनात् । एवं च मिथ्यात्वं कल्पितमपि प्रपञ्च साक्षात्कारानिवर्त्यमिति सत्यत्वप्रतिक्षेपकमेव । ब्रह्मणः सप्रपञ्चत्वं तु ब्रह्मसा- क्षात्कारनिवर्त्यमिति न निष्प्रपञ्चत्वप्रतिक्षेपकमिति । एतेन शब्दगम्यस्य ब्रह्मणः सत्यत्वे शब्दयोग्यतायाः. शाब्दधीप्रामाण्यस्य च सत्यत्वं वक्तव्यम् प्रातिभासियोग्यतावता ऽनानवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोग्यता- वताऽग्निहोचादिवाक्येन तात्त्विकार्थस्य वा सिद्धाभावेन योग्यतासमानसत्ता- कस्यैव शब्दार्थस्य सिद्धिनियमात् । अर्थाबाधरूपप्रामाण्यस्यासत्यत्वे ऽर्थस्य सत्यल्वाऽयोगाच्च । तथा च ब्रह्मातिरिक्तसत्यवस्तुसत्त्वेन द्वैतावश्यंभाव इति वियदादिप्रपञ्चापि सत्यो ऽस्तीति निरस्तम् । व्यावहारिकस्यार्थक्रिया- कारित्वस्य व्यवस्थापितत्वेन व्यावहारिकयोग्यताया || अपि सत्यब्रह्मसिद्धि- संभवात् । ब्रह्मपर वेदान्ते सत्यादिपदसत्त्वाद् ब्रह्मसत्यत्वसिद्धेः । अग्निहो- चादिवाक्ये तादृशपदाभावात्तत्सत्त्वेपि प्रबलब्रह्माद्वैतश्रुतिविरोधात्तदसिद्धि- रित्येव वैषम्योपपत्तेः । शब्दार्थयोग्यतयाः. समानसत्ताकत्वनियमस्य निष्प्र- माणकत्वात् । घटज्ञानप्रामाण्यस्याघटत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटित्वत्वेन मिथ्यात्वोपपत्तेश्च । तस्मादारम्भणाधिकरणोक्तन्यायेन कृत्स्नस्य क्यिदादिप्रपञ्चस्य मिथ्यात्वं वज्रलेपायते ॥ ब्रह्मज्ञानकनिवर्त्यत्वादिति भावः ।। + संसारदशायाँ बाधाभावादिति भावः। * धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि स्वायसाक्षात्कारानिवर्त्यत्वं प्रयोजक कन्यते संप्रतिपात्रत्वान. तु पारमार्थिक्रत्वं तस्यास्माकमसंप्रतिपत्तेरित्यर्थः। टी. ६ अरजतत्वाविरोधीति. ३।४ पु. पाठः । रजतत्वाबिरोधीति २ पु. अयुक्तः पाठः । || हेती पञ्चमी।

द्वितीयपरिच्छेदे (१०) नन्वारम्भणशब्दादिभिरचेतनस्य वियदादिप्रपञ्चस्य मिथ्यात्वसिद्धा- वपि चेतनानामपवर्गभाजां मिथ्यात्वायोगादद्वितीयब्रह्मणि समन्वयो न युक्तः । न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः परस्परभिन्नानां तेषामेकेन ब्रह्मणा भेदासंभवात् । न च तद्नेदाऽसिद्धिः सुखदुःखादिव्यवस्थया तत्सिद्धेरिति चेद् न । तेषामभेदे ऽप्युपाधिभेदादेव* तयवस्थोपपत्तेः ॥ ननूपाधिभेदेपि तदभेदानपायात्कथं व्यवस्था । न ह्यानयभेदेनोप- पादनीयो विरुद्धधर्माऽसंकरस्तदतिरिक्तस्य कस्य चिट् दोपगमेन सिट्यति । अत्र के चिदाहुः । सिध्यत्येवान्तःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था कामः संकल्पो विचिकित्सा श्रद्धावा धृतिरधृतिहींरित्येतत्सर्व मन एव विज्ञानं यज्ञं तनुतइत्यादिभिः श्रुतिभिस्तस्यैव निखिलानाश्नयत्वप्रतिपाद- नादसङ्गो ह्ययं पुरुषः असङ्गो न हि सज्जतइत्यादिश्रुतिभिश्चेतनस्य सर्वा- त्मनौदासीन्यप्रतिपादनाच्च । न चैवं सति कर्तृत्वादिबन्धस्य चैतन्यसामाना- धिकरण्यानुभवविरोधः अन्तःकरणस्य चेतनतादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपत्तेः । न चान्तःकरणस्य कर्तृत्वादिबन्धाश्न- यत्वे चेतनः संसारी न स्यादिति वाच्यम् । कर्तृत्वादिबन्धाश्रयाहंकारग्रन्थि :- तादात्म्याध्यासाधिष्ठानभाव एव तस्य संसार इत्युपगमात् । तावतेव भीषण- त्वाश्रयसर्पतादात्म्याथ्यासाधिष्ठाने रज्ज्वादावयं भीषण इत्यभिमानवदात्मनो ऽनाश्रयवत्त्वाभिमानोपपत्तेः । एतदभिप्रायेणैव ध्यायतीव लेलायतीव अहं- कारविमूढात्मा कर्ताहमिति मन्यतइत्यादिश्रुतिस्मृतिदर्शनाच्च । न चैकस्मि- नेवात्मनि विचित्रसुखदुःखाश्रयतत्तदन्तःकरणानामध्यासादात्मन्याभिमानिक- सुखदुःखादिव्यवस्थेवमपि न सियतीति वाच्यम् । आध्यासिकतादात्म्याप- नान्तःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्याप्यभिमानत आत्मीयतया ऽऽत्मनो यादृशमनर्थभावं ६ तादृशेन || भेदेन तयवस्थोपपत्तेः । एतेन सुखदुःखादीनामन्तःकरणधर्मत्वेपि तदनुभवः साक्षिरूप इति तस्यैकत्वात * व्यावहारिकान्तःकरणभेदादित्यर्थः । । अहंकारस्य चेतनेन साकं ग्रन्यितुल्यो यस्तादात्म्यरूपोध्यासस्तदधिष्ठानत्वमेवेत्यर्थः। टी. + सर्वान्तःकरणानामेकदैवाध्यासेन युगपदेव सर्वान्तःकरणगतसुखाट्यभिमानापत्तेरिति हल्पितम्। ॥ कल्पितेन।

" -- जीवोपाधिभेदनिरूपणम् सुखदुःखानुभवरूपभोगव्यवस्था न सिट्यतीति निरस्तम् । तत्तदन्तःकरणता- दात्म्यापत्त्या तदन्तःकरणभेदेन भेदवत एव साक्षिणस्तदन्तःकरणसुखदुःखा- द्यनुभवरूपत्वेन तत्तड्यवस्थाया अप्युपपत्तेरिति ॥ अन्ये तु जडस्य कर्तृत्वादिबन्धाश्रयत्वानुपपत्तेः * कती शास्त्रार्थ- वत्त्वादिति चेतनस्यैव तदानयत्वप्रतिपादकसूत्रेणान्तःकरणे चिदाभासो । बन्धाश्रयस्तस्य चासत्यस्य बिम्बादिन्नस्य प्रत्यन्तःकरणभेदाद्विद्वदविद्वत्सु- खिदुःखिकऽकत्रादिव्यवस्था । न वैवमसत्यस्य बन्धानयत्वे बन्धमोक्ष- योयधिकरण्यापत्तिः । अस्य चिदाभासस्यान्तःकरणावच्छिन्ने स्वरूपतः सत्य- तया मुत्यन्वयिनि पारमार्थिकजीवे ऽध्यस्ततया कर्तृत्वानयचिदाभासतादा- त्म्याध्यासाधिष्ठानभावस्तस्य बन्ध इत्युपगमादित्याहुः ॥ अपरे त्वात्मेन्द्रियमनो युक्तं भोक्तेत्याहुर्मनीषिण इति सहकारित्वेन देहेन्द्रियस्तादात्म्येन मनसा च युक्तस्य चेतनस्य भोक्तृत्वनवणादन्तःकरण- भेदेन तद्विशिष्टभेदाइयवस्था । न चैवं विशिष्टस्य बन्धः शुद्धस्य मोक्ष इति वैयधिकरण्यं विशिष्टगतस्य बन्धस्य विशेष्ये अनन्वयाभावाद् विशिष्टस्यान- तिरेकादित्याहुः ॥ इतरे केवलश्चेतनः कर्तृत्वादिबन्धाश्नयः स्फटिकलोहि- त्यन्यायेनान्तःकरणस्य तद्विशिष्टस्य वा कर्तृत्वाद्याश्रयस्य संनिधाना च्वेत- नेपि कर्तृत्वाद्यन्तराध्यासोपगमात् । न च तस्यैकत्वाझ्यवस्थानुपपत्तिः । उपाधिभेदादेव तदुपपत्तेः । न चान्यभेदादन्यच विरुद्धधर्मव्यवस्था न युज्यते इति वाच्यम् । मूलाग्ररूपोपाधिमाचेण वृक्षे संयोगतदभावव्यवस्थादर्शनात् । तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोचभावमुपगतस्याकाशस्य तत्र तत्र शब्दोपल- म्भकत्वतारतम्ये हानिष्टाशब्दोपलम्भकत्वादिवैचिच्यदर्शनाच्चेत्याहुः ॥ एके तु यद्याश्रयभेदादेव विरुद्धधर्मव्यवस्थापपादनीया तदा चेतने निष्कृष्टे एवोपाधिवशाढ़ेदकल्पनास्तु अकल्पिताश्नयभेद एव व्यवस्थाप्रयोजक इति क्वाप्यसंप्रतिपत्तेः । मणिमुकुरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामा- * उपादानगोचरापरोक्षज्ञानवत्त्वस्यैव तत्त्वेन तस्य स्वभावतो जाअविरोधित्वादिति भावः । + न तु साक्षाच्चिदात्मैव तस्य कूटस्थत्वेन बन्धपरिणामित्वायोगादिति भावः। टी. * अविभागेन प्रतीतिरूपात् । ६ शब्दोपलम्भकत्वानुपलम्भकत्वतारमन्टेष्टानिष्टेति पाठान्तरम् । तु अस्तु '.

द्वितीयपरिच्छेदे वदातवर्तुलदीर्घभावादिधाणाम् अङ्गल्युपष्टम्भोपाधिकल्पितेन भेदेन दीये पाश्चात्यपौरस्त्यरूपभावादिधर्माणां च व्यवस्थासंप्रतिपत्तेरित्याहुः ॥ (१२) एवमुपाधिवशायवस्थापपादने संभाविते जीवानां परस्परसुखाद्य- ननुसंधानप्रयोजक उपाधिः क इति निरूपणीयम् । अत्र के चिदाहुः । भोगायतना* भेदतट्दावनुसंधानाननुसंधानप्रयोजक उपाधिः + शरीरावच्छि- नवेदनायास्तदवच्छिन्नेनानुसंधानाच चरणावच्छिन्नवेदनाया हस्तावच्छिन्ने- नाऽननुसंधानाच्च। हस्तावच्छिन्नाहं पादावच्छिन्नवेदनामनुभवामीत्यप्रत्ययात् । कथं तर्हि चरणलग्नकण्टकोद्धाराय हस्तव्यापारः । नायं हस्तव्यापारों हस्तावच्छिन्नानुसंधानात् किं त्ववयवावयविनाश्चरणशरीरयोरभेदसत्त्वेन चरणावच्छिन्नवेदना शरीरावच्छिन्नेनाहं चरणे वेदनावानित्यनुसंधीयतइति तदनुसंधानात् । एवं चैत्रमैचशरीरयोरभेदाभावाच्चचशरीरावच्छिन्नवेदना मैत्र- शरीरावच्छिन्नेन नानुसंधीयते नाप्युभयशरीरानुस्यूतावयव्यन्तरा विच्छिन्ने- नानुसंधीयते उभयानुस्यतस्यावयविना भोगायतनस्याभावादिति न चैत्र- शरीरलग्नकण्टकोद्धाराय मैचशरीरव्यापारप्रसङ्ग इति ॥ अन्ये तु विश्लिष्टोपाधि || भेदो ऽननुसन्धानप्रयोजकः । तथा च हस्तावच्छिन्नस्य चरणावच्छिन्नवेदनानुसंधानाभ्युपगमेपि न दोषः । न चैवं सति गर्भस्थस्य मातृसुखानुसंधानप्रसङ्गः । एकस्मिन्नवयविन्यवयवभावेनाऽ- ननुप्रविष्टयोर्विश्लिष्टशब्देन विवक्षितत्वात मातृगर्भशरीरयोस्तथात्वादि- . . . -- . त्याहुः ॥ .. न च उद्यदायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् इहेति भारताच्या विश्लेषे ऽप्यनुसंधानमवगतमिति वाच्यम् । तचापि शिरःकबन्धयारकस्मिन्नवयविन्यवयवभावेनानुप्रविष्टचर- त्वात् ।। शिरश्छेदानन्तरं मूर्छामरणयोरन्यतरावश्यंभावेन दृष्टविरुद्धार्थस्य तादृशवचनस्य कैमुत्यन्यायेन योधोत्साहातिशयप्रशंसापरत्वात् । तादृक्प्र- भावयुक्तपुरुषविशेषविषयत्वेन भूतार्थवादत्वेपि निरुक्त ** स्योत्सर्गतो ऽननु- + उपाधी इति ३ पुः पाठः। + जीवेन। $ उभयानुस्यूतो योवयव्यन्तरेण समष्टिरूपेणावच्छिन्नस्तेनापि चैत्रशरीरावच्छिन्नवेदना नानुसंधीयतइति संबन्धः । || भोगायतनम् । टी. | पूर्व प्रक्टिवादित्यर्थः । * * भोगायसनभेदस्य । . * शरीरम् ।

६ उपाधिभेदे ऽपि सुखाद्यनुसंधानसांकापादनम् । संधानतन्त्रत्वा * विधाताच्च । अत एवो क्तिवक्ष्यमाणपतेषु योगिनां जातिस्म- राणां च शरीरान्तरवृत्तान्तानुसंधाने न दोषप्रसक्तिः ॥ अपरे तु शरीरैक्यभेदावनुसंधानतदभावप्रयोजकोपाधी बाल्यभवान्त- रानुभूतयारनुसंधानतदभावदृष्टेः । न च बाल्ययौवनयोरपि शरीरभेदः शङ्क- नीयः प्रत्यभिज्ञानात् । न च परिमाणभेदात्तनेदावगमः । एकस्मिन् वृक्ष मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपत्तेः । नन्ववयवोपचय- मन्तरेण न परिमाणभेदः अवयवाश्च यश्चादापतन्तो न पूर्वसिद्धशरीरं परियुज्यन्त इति परिमाणभेदे शरीरभेद आवश्यक इति चेन्न । प्रदीपारोप- णसमसमयसौधोदरव्यापिप्रभामण्डलविकासतत्पिधानसमयतत्संकोचाद्यननुरो- धिनः । परमाणुप्रक्रियारम्भवादस्यानभ्युपगमात् । विवर्त्तवादे चैन्द्रजालिक- दर्शितशरीरवद्विनैवावयवोपचयं मायया शरीरस्य वृनुपपत्तरित्याहुः ॥ इतरे त्वन्तःकरणाभेदतवेदाभ्यामनुसंधानाननुसंधानव्यवस्थामाहुः ॥ अयं च पक्षः प्रागुपपादितः ॥ के चित्तु अज्ञानानि जीवभेदोपाधिभूतानि नानेति स्वीकृत्य तद्देदा- भेदाभ्यामनुसंधानाननुसंधानव्यवस्थामाहुः ॥ ३) अत्र के चित् । अंशी नानाव्यपदेशादित्यधिकरणे || अदृष्टानिय- मात् । अभिसंध्यादिष्वपि चैवं था प्रदेशादिति चेन्नान्तावादिति न सूत्रतद्भा- ष्यरीतिमनुसृत्यैकस्मिन्नात्मन्युपाधिभेदेन व्यवस्थानुपगमे कणभुगादिरीत्या- त्मभेदवादेपि व्यवस्थानुपपत्तितोल्यमाहुः। तथा हि। चैत्रचरणलग्नकण्टकेन चैत्रस्य वेदनात्यादसमये ऽन्येषामप्यात्मनां कुतो वेदना न जायते सर्वा- त्मनां सर्वगतत्वेन चैवशरीरान्तभावाविशेषात् । न च यस्य शरीरे कण्टक- वेधादि तस्यैव वेदना नान्येषामिति व्यवस्था । सर्वात्मसंनिधावुत्पद्यमानं शरीरं कस्य चिदेव नान्येषामिति नियन्तुमशक्यत्वात् । न च यददृष्टोत्पा- दितं यच्छरीरं तत्तदीयमिति नियमः अदृष्टस्यापि नियमासिद्धेः । यदा हि * कारणत्वाविघातादित्यर्थः । + नियमानभ्युपगमादित्यर्थः । + तदुपादानानि न भवितुमर्हन्तीत्यर्थः । द्वाणुकादिक्रमेण स्थूलावयव्युत्पत्तिपक्षे बिलम्बापत्तेः । टी. || || व्या. सू. अ. २ पा. ३ सू. ४३ । व्या. सू. अ• २ पा ३ सू. ५१ । व्या. सू. अ. ३. ३ बा पा• ३ सू. ५२। १ व्या• स. अ. २ पा• ३ सू. ५३ ।

८० द्वितीयपरिच्छेदे तददृष्टोत्पादाय केन चिदात्मना संयुज्यते मनः संयुज्यतएव तदान्यैरपि कथं कारणसाधारण्ये क्व चिदेव तददृष्टमुत्पद्येत । ननु मनःसंयोगमात्रसा- धारण्ये ऽप्यहमिदं फलमाप्नुयामि * त्यभिसंधि रदृष्टोत्पादककर्मानुकूलकृ- तिरित्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यतीति चेन्न। अभि- संध्यादीनामपि साधारणमनःसंयोगादिनिष्याद्यतया व्यवस्थित्यसिद्धेः । ननु स्वकीयमनःसंयोगो ऽभिसंध्यादिकारणमिति मनःसंयोग एवासाधारणो भवि- ध्यतीति न । नित्यं सर्वात्मसंयुक्तं मनः कस्य चिदेव स्वमिति नियन्तुमश- क्यत्वात् । न चादृष्टविशेषादात्मविशेषेण मनसः स्वस्वामिभावसिद्धिः तस्याप्यदृष्टस्य पूर्ववयवस्थित्यसिद्धेः । नन्वात्मनां विभुत्वेपि तेषां प्रदेशवि- शेषा एव बन्धभाज इत्यात्मान्तराणां चैत्रशरीरे तत्प्रदेशविशेषाभावात्सुखा- दिव्यवस्था भविष्यतीति न । यस्मिन् प्रदेशे चैत्रः सुखाद्यनुभय तस्मात्प्रदे- शादपक्रान्तस्तस्मिन्नेव मैचे समागते तस्यापि तत्र सुखदुःखादिदर्शनेन शरी- रान्तरे आत्मान्तरप्रदेशविशेषस्याप्यन्तर्भावात् । तस्मादात्मभेदेपि । व्यवस्था- दुरुपपादेव । कथं चित्तदुपपादने च श्रुत्यनुरोधाल्लाघवाच्चकात्म्यमङ्गीकृत्य तत्रैव तदुपपादनं कत्तुं युक्तमिति ॥ (१४) सन्तु तहणव एवात्मानो यदि विभुत्वे व्यवस्था न सुवचा । मैवम् । आत्मनामणुत्वे कदा चित् सर्वाङ्गीणसुखादयस्य करशिरश्चरणाधिष्ठानस्य चानुपपत्तेः । यदचावाचीनकल्पन मुत्क्रान्तिगत्यागतिश्रवणान्यथानुपपत्त्या अणुौवैष आत्मा यं वा एते सिनीतः || पुण्यं च पापं च बालाग्रशतभागस्ये- त्यादिश्रुतिषु साक्षादणुत्वग्रवणेन चाणव एव जीवाः । तेषामणुत्वेपि ज्ञानसु- खादीनां प्रदीपप्रभान्यायेनाप्रयातिरिक्तप्रदेशविशेषव्यापिगुणतया सर्वाङ्गीणसु- खाद्युपलम्भः । द्रोणं बृहस्पतभागमित्यादिस्मृत्यनुरोधेन जीवानामंशसत्त्वात् । करशिरश्चरणाद्यनुगतेषु सुखदुःखादियोगपद्यं कायव्यूहगतेषु योगिनां भोग- वैचियं चेति न का चिदनुपपत्तिः । एवं जीवानामणुत्वेनासंकरात् सुखदुः- खादिव्यवस्था विभोरीश्वरावेदश्चेति । अचोक्तमद्वैतदीपिकायाम् । एवमपि . * फलं प्राप्तवानिति २ पुः पाठः । + अभिसंधिः फलेच्छा । टी. + श्रात्मनां व्यापकत्वाभ्युपगमादित्यर्थः । टी s कल्पनाप्रकारस्तेषामणुत्वेपीत्यादिना भविष्यति । प्रादौ तस्याणुत्वे मानमाह उत्क्रा. न्तीति। टी. || सिनीतः बनीतः। टी.

८१ न्यूनत्वमाचमौपचारिकांशत्व- जीवाणुत्वनिराकरणम् कथं व्यवस्थासिद्धिः चैत्रस्य पादे वेदना शिरसि सुखमिति स्वांशभेदगतसुख- दुःखानुसंधानवन्मैचगतसुखदुःखानुसंधानस्यापि दुर्वारत्वात् । अविशेषो* हि चैत्रजीवात्तदंशयामैत्रस्य च भेदः । कायव्यहस्थले वियुज्यान्यच संसरणस- मानामंशानां जीवाट्टेदावश्यंभावादंशांशिनोस्त्वया भेदाभेदाभ्युपगमाच्च । न च शुद्धभेदो ऽजनुसंधानप्रयोजक इति वाच्यम् । शुद्धत्वं हि भेदस्यां- शांशिभावासहचरितत्वमभेदासहचरितत्वं वा स्यात् । नाद्यः अंशो ह्येष परमस्य ममैवांशो जीवनोके अंशो नानाव्यपदेशादिति। श्रुतिस्मृति- सूर्जीवस्य ब्रह्मांशत्वप्रतिपादनेन ब्रह्मजीवयाभोंगसांकप्रसङ्गात् । ननु जीवांशानां जीवं प्रतीव जीवस्य ब्रह्म प्रति नांशत्वं किं तु चन्द्रबिम्बस्य गुरुबिम्बः शतांश इतिवत्सदृशत्वे सति ततो मिति चेत् । किं तदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रति यदवान- नुसंधानप्रयोजकशरीरे निवेश्यते । न तावत्पटं प्रति तन्तनामिवारम्भकत्वं जीवस्यानादित्वात् । नापि महाकाशं प्रति घटाकाशादीनाभिव प्रदेशत्वं टङ्क- च्छिन्नपाषाणशकलादीनामिव खण्डत्वं वा । अणुत्वेन निष्प्रदेशत्वात अच्छे- द्यत्वाच्च । भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेद् न । तथा सति जीवेश्व- रयोर्जीवानां च भोगसांकर्यप्रसङ्गात् । स्वतो भिन्नानां तेषां चेतनत्वादिना ऽभे- दस्यापि त्वया ऽङ्गीकारात् । समूहसमूहिनार्भेदाभेदवादिनस्तव मते एकसमू- हान्तर्गतानां परस्परमप्य भेदसत्त्वाच्च । स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात् । यदि संयोगादीनां जातेश्चानेकाग्नितत्वं स्यात्तदा गुणगुण्यादेर- भेदाद् घटाभिन्नसंयोगाभिन्नपटादेरपि घटाभेदः प्रसज्येत इत्यादि वदता त्वया तदभिन्नाभिन्नस्य तदभेदनियमाभ्युपगमात् । न च जीवान्तरसाधारणचे- तनत्वादिधर्मकरूप्यकसमूहान्तर्गत्यादिप्रयुक्ताभेदविलक्षणमभेदान्तरमंशांशिनो- रस्ति भेदे ऽप्यनुसंधानप्रयोजकं यदवानतिप्रसङ्गाय विवक्ष्येत । तथा सति । तस्यैव विशिय निर्वक्तव्यत्वापत्तेः। धर्मकृप्या द्यप्रयुक्तत्वमंशांशिनारभेदे * अविशिष्ट इत्यर्थः । कायव्य हेत्य.दिनांशस्यांश्यपेक्षया भेदस्य व्यवस्थापयिष्यमाणत्वेन स्वांशगतमेवानुसंधीयते न मैत्रगतमित्यस्योपपादनासंभवादिति भावः । + व्या. सू. अ. २ पा• ३ सू. ४३ । + विलक्षणभेदस्यांशाशिनाः सत्त्वइत्यर्थः । टी. धर्मेण चेतनत्वादिना यदैकरूप्यं तदप्रयुक्तत्वमंशांशिनोरभेदे किन्तु कार्यकारणभावादि- प्रयुक्तत्वमित्यर्थः। ११ द्वितीयपरिच्छेदे विशेष इति चेन्न । जीवतदंशयोश्चेतनत्वादिधर्मकरूप्यसत्त्वेनैकशरीरावच्छेदे कायव्यहमेलने च समूहसत्त्वेन च तयोरभेदे धमकरूप्यादिप्रयुक्तत्वस्यापि संभवात् * । धर्मेशरूप्यादिनयुक्ताभेदान्तरसत्त्वेपि जीवतदंशयोरंशशिभावप्रयो- जकाभेदा न तत्प्रयुक्त इति चेद् न । तयोरभेदद्वयाभावात् त्वन्मते ऽधिकर- रोक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वाऽनेकत्वान- भ्युपगमात् । तस्मादाद्यपक्षे सुस्था ऽतिप्रसङ्गः । एतेनैव द्वितीयपक्षापि निरस्तः । अभेदासहचरितभेदस्याऽननुसंधानप्रयोजकत्वे उक्तरीत्या त्वन्मते जीवब्रह्म- णार्जीवानां चाभेदस्यापि सत्त्वेनातिप्रसङ्गस्य दुर्वारत्वात् । नन्वभेदप्रत्यक्षमनु- संधाने प्रयोजकमिति तदभावे ऽननुसंधानं स्वस्य स्वाभेदः स्वांशाऽभेदश्च प्रत्यक्ष इति तदृष्टुर्दुःखाद्यनुसंधानम् । जीवान्तरेणाऽभेदसत्त्वेपि तस्याप्रत्यक्ष- त्वान्न तदुःखाद्यनुसंधानम् । जातिस्मरस्य प्राम्भवीयात्मना ऽप्यभेदस्य प्रत्य- सत्त्वात्तवृत्तान्तानुसंधानमन्येषां तदभावान्नेत्यादि सर्व सङ्गच्छतइति चेत् तहि एकात्म्यवादेषि सर्वात्मत्वावरकाज्ञानावरणाच्चैवस्य न मैचात्माद्यभेदप्र- त्यक्षमिति तत एव सर्वव्यवस्थापषत्तेर्व्यर्थः श्रुतिविरुद्धात्मभेदाभ्युपगमः । न चेत्थमपि प्रपञ्चतत्त्ववादिनस्तव व्यवस्थानिर्वाहः सर्वज्ञस्येश्वरस्य वस्तु- सज्जीवान्तराभेदप्रत्यक्षावश्यंभावेन जीवेषु दुःखवत्स्वहं दुःखीत्यनुभवापत्तेः । अस्मन्यते त्वीश्वरः स्वाभिन्ने जीवे संसारं प्रतिमुखे मालिन्यमिव पश्यन्नपि मिथ्यातन्निश्चया न्न शोचतीति नैव प्रसङ्गः । स्यादेतन्माभदंशभेदः करशि- रश्चरणादीनां कायव्यहस्य चाधिष्ठानमात्मदीपस्यानायिनी ज्ञानप्रभास्ति व्यापिनीति तयैव सर्वाधिष्ठानं || भविष्यतीति चेद् न । ज्ञानवदात्मधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्योत्पत्त्यसंभवेन पा करचरणाद्यवयवभेदेन कायव्य- हवतः कायभेदेन च भोगवैचियाभावप्रसङ्गात् । सुखदुःखभोगादि ज्ञानधर्म एव नात्मधर्म इत्युपगमे तद्वेचियेण आत्मगुणस्य ज्ञानस्य भेदसिद्धावप्यात्मना भेदासिद्धग **भोगवैचियादिना आत्मभेदप्रतिक्षेपायोगाढ़े गाद्यानयस्यात्मना तथा चांशावच्छिन्नवेदनाया अंशिनाऽनुसंधानानुपपत्तिरिति भावः । । तन्त्रमिति २।३ पुः पाठः। आवरणप्रयोज्याभेदप्रत्यक्षाभावादेवेत्यर्थः। ६ मिथ्यात्वेन प्रत्यक्षनिश्चयादित्यर्थः । | प्रेरक इत्यर्थः । टी. का गुणे गुणानङ्गीकारादिति भावः । श्रात्मगुणज्ञाननिष्ठस्य भेगवैचित्र्यस्य व्यधिकरणतयाऽऽत्मभेटसाधकत्वासंभवादि- - * त्यर्थः। टी.

- जीवाणुत्वनिराकरणम् ऽणुत्वेन प्रतिशरीरं विच्छिन्नतया तयापित्ववादइव तदभेदवादइव च न धर्मसङ्करापत्तिरिति मतहानेश्च । तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनं न युक्तम् । नापि तेन तस्येश्वरानेदसाधनं युक्तम् । उत्क्रान्त्यादिश्रवणात्सा- क्षादणुत्वनवणाच्चाणुर्जीव इति वदतस्तव मते तत्सृष्टा तदेवानुप्राविशत् अन्तः प्रविष्टः शास्ता जनानां गुहां प्रविष्ठा परमे परार्धे इत्यादिश्रुतिषु प्रवेशा- दिनवणात स एषोणिमा एष मात्मान्तहृदये ऽसीयान् ब्रीहेवा यवाद्वेति श्रुतेः साक्षादणुत्वनवणाच्च परो ऽप्यणुरेव सिध्यतीति कुतः परजीवयोर्विभुत्वा- गुत्वाभ्यां भेदसिद्धिः । ननु आकाशवत्सर्वगतश्च नित्यः. ज्यायान दिवो ज्यायानन्तरिक्षादित्यादिश्नवणात सर्वप्रपञ्चोपादानत्वाच्च परस्य सर्वप्र- तत्वसिद्धेः तदणुत्वश्रुतयः उपासनार्थी दुर्घहत्वाभिप्राया वा उन्नयाः प्रवेश- श्रुतयश्च शरीराद्युपाधिना निर्वाह्याः । न च जीवोत्क्रान्त्यादिश्रुतयो ऽपि बुमा उपाधिना निवौढुं शक्या इति शङ्काम् । तमुत्क्रामन्तं प्राणो ऽनत्क्रामतीति प्राणाख्यबुध्युत्क्रान्तेः प्रागेव जीवोत्क्रान्तिवचनात् । तथा विद्वान्नामरूपाद्वि- मुक्तः परात्परं पुरुषमुपैति दिव्यमिति नामरूपमोक्षानन्तरमपि गतिश्रवणाच्च । तद्यथाऽनः सुसमाहितमुत्सर्जयन् यायादेवमेवायं शारीर आत्मा प्राज्ञेना- त्मनाऽन्वारूढ उत्सर्जन्यातीति स्वाभाविकगत्याश्रयशकटदृष्टान्तोक्तश्चेति चेन्नैतत्सारम् । स वा एष महानज आत्मा योयं विज्ञानमयः घटसंवृतमा- काशं नीयमाने घटे यथा घटो नीयेत नाकाशं तद्वज्जीवो नभापम इत्यादिश्रुतिषु जीवस्यापि विभुत्वश्नवणात् । त्वन्मते प्रकृतेरेव जगदुपादान- त्वेन ब्रह्मणा जगदुपादानत्वाभावात् । जीवस्य कायव्यहगतसुखदुःखोपादान- त्ववदणुल्वेपि जगदुपादानत्वसंभवाच्च ततस्तस्य * सर्वगतत्वासिद्धः । तत्प- वेशश्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रान्त्यादिश्रुतीनानपि बुझुमाथि- कत्वोपगमसंभवात् । पञ्चवृत्तिर्मनोवयपदिश्यत । इति सूचभाध्ये बुद्धिप्रा- णयोः कार्यभेदाद् भेदस्य प्रतिपादितत्वेन बुझुम्पाधिके जीवे प्रयममुकामति प्राणस्यानत्क्रमणोपपत्तेः नामरूपमोक्षानन्तरं ब्रह्मप्रातिश्शवणस्य प्रातरि जीवे इव प्राप्ये ब्रह्मण्यपि विभुत्वविरोधित्वात् । प्राकृतनामरूपविमोक्षानन्तरमपि अप्राकृतलोकविग्रहाद्युपधानेन ब्रह्मणः प्राप्तव्यत्ववादिमते प्रार्जीवस्याप्यप्रा- सर्वोपादानत्वादीश्वरस्येत्यर्थः। टी. 1 व्या. सू. अ. २ पा. ४ मू. १२ } द्वितीयपरिच्छेदः कृतदेहेन्द्रियादिसत्त्वेन तदुपधानेन ब्रह्मवाग्निश्श्रवणाविरोधात् । स्वाभाविक- गत्यानयशकटदृष्टान्तश्रवणमाचाज्जीवस्य स्वाभाविकगतिसिद्धी गुहां प्रविष्टा- विति स्वाभाविकप्रवेशाप्रयजीवसमभिव्याहारण ब्रह्मणोपि स्वाभाविकप्रवेश- सिद्धिसंभवात् । ब्रह्मजीवोभयान्वयिन एकस्य प्रवेशपदस्य एकरूपप्रवेशपर- त्वस्य वक्तव्यत्वात् * । अस्मन्मते ब्रह्मात्मक्यपरमहावाक्यानुरोधेनावान्त- रवाक्यानां नेयत्वात्स्वरूपेण जीवस्य विभुत्वमौपाधिकरूपेण परिच्छेद इत्या- दिप्रकारण जीवब्रह्मभेदप्रापकश्रुतीनामुपपादनं भाष्यादिषु व्यक्तम् । तस्माद- चेतनप्रपञ्चस्य मिथ्यात्वाच्चेतनप्रपञ्चस्य ब्रह्माभेदाच्च न वेदान्तानामद्वितीये ब्रह्मणि विद्यैकप्राप्ये समन्वयस्य कश्चिद्विरोध इति ॥ * ततः परमते ब्रह्मजीवयोर्विभुत्वाणुत्वादिव्यवस्थियसिद्धेर्न कुतो ऽपि भेदसिद्धिं प्रत्या- शेति ३ पु. अधिकम् । इति द्वितीयः परिच्छेदः eGDEN तृतीयः परिच्छेदः १ ) ननु कथं विद्ययैव ब्रह्मप्राप्पियावता* कर्मणामपि तत्प्राप्तिहेतुत्वं स्मयते तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने इति । सत्यम् । नान्यः पन्या इतिश्रुतेर्नित्यसिद्धब्रह्मावाप्नो कण्ठगतविस्मृतकनकमालाऽवाग्मितुल्यायां वि- द्यातिरिक्तस्य साधनत्वासंभवाच्च । ब्रह्मावाला परम्परया कर्मापेक्षामाचपरा तादृशी स्मृतिः । क्व तर्हि कर्मणामुपयोगः । अत्र भामतीमतानुवर्तिन आहुः । तमेतं वेदानुवचनेन ब्राह्मणा विविदन्ति यज्ञेन दानेन तपसाऽनाशकेनेति श्रुतेर्विद्यासंपादनद्वारा ब्रह्मावाप्युपायभूतायां विविदिषायामुपयोगः । नन्वि- ष्यमाणायां विद्यायामुपयोगः किं न स्यात् । न स्यात् प्रत्ययार्थस्य प्राधा- न्यात् । विद्यासंप्रयोगात्प्रत्यासन्नानि विद्यासाधनानि शमदमादीनि विवि- दिषासंप्रयोगात्तु बाह्यतराणि यज्ञादीनीति सर्वापेक्षाधिकरणभाष्याच्च । ननु विविदिषार्थ यज्ञाद्यनुष्ठातुर्वेदनगोचरेच्छावत्त्वे विविदिषायाः सिद्धत्वेन तद- भावे वेदनोपाये विविदिषायां कामनाऽसंभवेन च विविदिषार्थ यज्ञाद्यनुष्ठा- नायोगाद् न यज्ञादीनां विविदिषायां विनियोगा युक्त इति चेन्न । अन्नद्वे- षेण कार्य प्राप्तस्य तत्परिहारायान्नविषयौत्कण्ठालक्षणायामिच्छायां सत्या- मप्यु || स्कटाजीर्णादिप्रयुक्तधातुवैषम्यदोषातत्र प्रवृत्तिपर्यन्ता रुचिर्न जायते इति तद्रोचकौषधविधिवनिरतिशयानन्दरूपं ब्रह्म तत्प्राप्नो विद्या साधनमि- त्यर्थे प्राचीनबहुजन्मानुष्ठितानभिसंहितफलनित्यनैमित्तिककोपार्जितचित्ता- सादमहिम्ना संपन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्नो विद्यायां च तात्कण्ठालक्ष- णायामिच्छायां सत्यामप्यनादिभवसंचितानेकदुरितदोषेणाऽऽस्तिककामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं संपादयता प्रतिबन्धाद्विद्यासाधने श्रवणादा प्रवृत्तिपर्यन्ता रुचिर्न जायतइति प्रतिबन्धनिरासपूर्व तत्संपादकयज्ञादिविधा- नोपपत्तरिति ॥ + * यस्मादित्यर्थः। टी. विठ्यासाधनत्वादित्यर्थः। टी. || अधिकेत्यर्थः। टी. सत्त्वशुच्या विविदिषोत्पादनद्वारेति भावः । ६ व्या. सू. अ. ३ पा• ४ सू. २६ ।

तृतीयपरिच्छेदे विवरणानुसारिणस्त्वाहुः । प्रकृतिप्रत्ययार्थयाः प्रत्ययार्थस्य प्राधान्य- मिति सामान्यन्यायादिच्छाविषयतया शब्दबोध्यएव शाब्दसाधनतान्वय इति स्वर्गकामादिवाक्ये ऋणविशेषन्यायस्य बलीयस्त्वादश्वेन जिगमिषति असिना जिघांसतीत्यादिलौकिक्रप्रयोगे ऽवादिरूपसाधनस्य तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यं निदिध्यासितव्य इत्यादिवैदिकप्रयोगे तव्यार्थभूलवि- धेश्च सन्प्रत्ययाभिहितेच्छाविषयएव गमनादावन्वयस्य व्युत्पन्नत्वाच्च प्रकृ- त्यभिहितायां विद्यायां यज्ञादीनां विनियोगः । ननु तथा सति यावद्वि- द्योदयं कर्मानुष्ठानापत्तेस्त्यजेतैव हि तज् ज्ञेयमित्यादिश्रुतिसिद्धं कर्मत्याग- रूपस्य संन्यासस्य विद्यार्थत्वं पीयेतेति चेन्न । प्राग्बीजाऽऽवापात्कर्षणं तदन- न्तरमकर्षणमिति कर्षणाकर्षणाभ्यां ब्रीह्यादिनिष्पत्तिवदारुरुक्षोर्मुनर्योगं कर्म कारणमुच्यते योगामुढस्य तस्यैव शमः कारणमुच्यत इित्यादिवचनानुसारेण चेतसः शुद्धौ विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यन्तं कर्मानुष्ठानं ततः सं- न्यास इति कर्मतत्संन्यासाभ्यां विद्यानिष्पत्त्युपगमात् । उक्तं हि नैष्कर्म्य- सिद्धौ प्रत्यक्प्रवणतां बुद्धेः कर्माण्यापाद्य शुद्धितः कृतार्थान्यस्तमायान्ति प्रावृडन्ते घनाइवेति । कर्मणां विद्यार्थत्वपक्षेपि विविदिषापर्यन्तमेव कर्मानु- ष्ठाने विविदिषार्थत्वपक्षात्को भेद इति चेद् अयं भेदः । कर्मणां विद्यार्थत्व- पक्षे द्वारभूतविविदिषासिद्धानन्तरमुपरतावपि फलपर्यन्तानि विशिष्टगुरुला- भानिर्विघ्नश्रवणमनननिदिध्यासनसाधनानि निवृत्तिप्रमुखानि संपाद्य विद्योत्या- दकत्वनियमोस्ति । विविदिषार्थत्वपक्षे तु श्रवणादिप्रवृत्तिजननसमर्थात्कटे- च्छासंपादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः । यस्यैते ऽष्टाचत्वारिंशत्संस्कारा इति स्मृतिमले कर्मणामात्मज्ञानयोग्यतापादकमलाप- कर्षणगुणाधानलक्षणसंस्कारार्थत्वपक्षइवेति वदन्ति ॥ (२) ननु केषां कर्मणामयमुदाहृतश्रुत्या विनियोगा बोध्यते। अत्र कैश्चि- टुक्तं वेदानुवचनेनेति ब्रह्मचारिधर्माणां यज्ञेन दानेनेति गृहस्थधर्माणां तप- सानाशकेनेति वानप्रस्थधर्माणां चोपलक्षणमित्यानमधर्माणामेव विद्योप- * इच्छाविषयत्वस्य फलत्वव्यञ्जकत्वात्पुरुषार्थत्वेन प्रतीतस्य स्वर्गस्यैव फलत्वं न काम- नाया इत्यर्थः। टी. + कर्तव्यमित्यर्थः। + त्यागेपीत्यर्थः। टी. 8 एतन्मध्यस्थं २ पु. नास्ति ।

कर्मणां ज्ञानोत्पत्तावुपयोगनिरूपणम् योगः । अत एव विहितत्वाच्चानमकर्मापीति * शारीरकसचे विद्यार्थकर्मस्वा- नमकर्मपदप्रयोग इति ॥ कल्पतरौ तु नानमधर्माणामेव विद्योपयोगः । अन्तरा चापि सु तदृष्टेरित्यधिकरणे । आश्रमरहितविधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरू- पणात् । न च विधुरादीनामनाथमिणां । प्राग्जन्माद्यनुष्ठितयज्ञाद्युत्यादितविवि- दिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमाचपरं तदधिकरणं न तु तद- नुष्ठितकर्मणां विद्योपयोगनिरूपणपरमिति शङ्कयम् । विशेषानुग्रहश्चेति तदधिकरणसूचतदाध्ययो: तदनुष्ठितानां जपादिरूपवर्णमात्रधर्माणामपि वि- द्योपयोगस्य कण्ठोक्तर्विहितत्वाच्चानमकर्मापीतिसूचे आश्रमपदस्य वर्णध- माणामप्युपलक्षणत्वादित्यभिसंधायोक्त || माश्नमधर्मातिरिक्तानामप्यस्ति वि- द्योपयोगः । किं तु नित्यानामेव तेषां हि फलं दुरितक्षयं विद्याऽपेक्षते न काम्यानां फलं स्वर्गादि । तच यथा प्रकृतो कृपोपकाराणामङ्गानामतिदेशे सति न प्राकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तानां यज्ञादीनां कृप्रनित्यफलपापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकारकल्प- নমিনি ॥ संक्षेपशारीरके नित्यानां काम्यानां च कर्मणां विनियोग उक्तः यज्ञादिशब्दाऽविशेषात् । प्रकृती पा लमोपकाराणां पदार्थानां कृपप्राकृतोपका- रातिदेशमुखेनैव विकृतिष्वतिदेशेन संबन्धो न तु पदार्थानामतिदेशानन्त- रमुपकारकल्पनेति न तच प्राकृतोपकारातिरिक्तोपकारकल्पनाप्रसक्तिः । इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टानामिव पश्चात्क- ल्पनीय उपकारः प्रथमावगतविनियोगनिर्वाहायाकृषो ऽपि सामान्यशब्दोपात्त- सकलनित्यकाम्यसाधारणः कथं न कल्प्यः । अध्वरेष्वध्वरमीमांसकैरपि ह्युपकारमुखेन पदार्थान्वयएव कृतोपकारनियमः * * पदार्थान्वयानन्तरमु- पकारकल्पने त्वऋपोयि विनियुक्तपदार्थानुगुण एवोपकारः कल्पनीय इति व्या. अ. ३ या ४ सू. ३२॥ + व्या. सू. अ. पा. ४ सू. ३६ । ++ एतन्मध्यस्थं २ पु. नास्ति । 8 व्या• सू. अ. ३ पा• ४ सू• ३० । ॥ कल्पतरावित्यनेनान्वेति । या प्रकृते यज्ञादीनां विनियोगानन्तरमुपकारकल्यनमतिदेशस्थले तु प्रकतावुपकारकल्पना- नन्तरं प्राकृतपदार्थानां विकृतिषु विनियोगस्ततो दृष्टान्तो विषम इति । टी. कृप्तोपकारातिरिक्तोपकाएकल्पनमित्यर्थः । टी. तु * ।

.. . तृतीयपरिच्छेदे संप्रतिपद्यैव बाधलक्षणारम्भसियर्थमुपकारमुखा विकृतिषु प्राकृतान्वयो दश- माद्ये समर्थितः । किं च क्लयोपकारालाभा* नित्यानामेवायं विनियोग इत्य- भ्युपगमे नित्येभ्यो दुरितक्षयस्य तस्माज् ज्ञानोत्पत्तेरन्यतः सिद्धौ व्यर्थीयं विनियोगः । अन्यतस्तदसिवा । ज्ञानापेक्षितोपकारजनकत्वं नित्येषु न कृयमि- त्यविशेषान्नित्यकाम्यसाधारणविनियोगो दुर्वारः । ननु नित्यानां दुरितक्षयमा- चहेतुत्वस्यान्यतः सिद्धावपि विशिष्य ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिर्वाहकत्वं न सिद्धं किं तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतो ऽवश्यं ज्ञानं भवति इतरथा शुद्धिमात्रमनियता ज्ञानोत्पत्तिरिति सार्थकोयं विनि- योग इति चेत् तर्हि नित्यानामप्यऋप्रमेव नियमतो ज्ञानोत्पत्तिप्रतिबन्धक- दुरितनिबर्हणत्वं ज्ञानसाधनविशिष्टगुरुलाभग्नवणमननादिसंपादकापूर्व च द्वार कल्पनीयमित्यकृयोपकारकल्पनाविशेषान्न सामान्यश्रुत्यापादितो नित्यकाम्य- साधारणविनियोगो भज्जनीय इति ॥ (३) नन्वेवमपि कथं कर्मणैव हि संसिद्धिमास्थिता जनकादय इत्यादि- स्मरणनिर्वाहः । न च तस्य विद्यार्थकानुष्ठानपरत्वम् विविदिषावाक्ये । ब्राह्मणानामेव विद्यार्थकर्मण्यधिकारप्रतीतेः । अतो जनकाद्यनुष्ठितकर्मणां साक्षाद्देव मुत्युपयोगी वक्तव्यः । मैवम् । विविदिषावाक्ये ब्राह्मणग्रहणस्य चर्णिकोपलक्षणत्वात् । यथाहुरचभवन्तो वार्तिककाराः । ब्राह्मणग्रहणं चाच द्विजानामुपलक्षणम् अविशिष्टाधिकारित्वात्सर्वेषामात्मबोधनइति । न हि विद्याकामा यज्ञादीननुतिष्ठेदिति विपरिणमिते विद्याकामाधिकारविधी ब्राह्म- णपदस्याधिकारिविशेषसमर्पकत्वं युज्यते उद्देश्ये विशेषणायोगात || । नापि राजा स्वाराज्यकामा राजसूयेन यजेतेति स्वाराज्य कामाधिकारे राजसूयविधी स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेतेति कर्तृतया यागविशेषणत्वेन विधेयस्य राज्ञो राजकर्तृकराजसूयस्याराज्ञा संपादयितुमशक्यत्वादादधि- कारिकोटिनिवेशवदिह यज्ञादिकर्तृत तया विधेयस्य ब्राह्मणस्यादिधिकारिका- * काम्येष्विति शेषः । टी. स्कृप्तोपकारलोभादिति २ पुः पाठः। + नित्यानां वियोपकारकत्वासिद्धावित्यर्थः। टी. * एतद्विनियोगाभावे इत्यर्थः । टी. ६ ब्राह्मणग्रहणेनेति २ पु. अधिकः पाठः । || विधेययज्ञादिनिरूपितोदेश्यताया विट्याकाममात्रे पर्यवसानसंभवेन ब्राहाण्यरूपविशेष. णस्यानाकाक्तितया विढ्याकामं प्रति विशेषणत्वेनान्वयायोगाद् विशिष्टस्योदेश्यत्वकल्पने गौर- वाच्च । टी.

कृपानामिहापि शूद्रस्य ब्रह्मविद्यायामधिकाराभावोपपादनम् टिनिवेश इति युज्यते । सर्वथापि तण्वोभयलिङ्गा * दितिसूचे ऽन्यच विहि- तानामेव यज्ञादीनां विविदिषावाक्ये फलविशेषसंबन्धविधि पूर्वयज्ञादिवि- धिरिति व्यवस्थापितत्वेन प्रानयज्ञाद्यनुवादेनैकस्मिन्वाक्ये कर्तृरूपगुणविधिः फलसंबन्धविधिश्चेत्युभयविधानाद् वाक्यभेदापत्तेः । नापि राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमाचाद्विशिष्टकर्तृत्व- लाभवदिह वाक्याभेदाय कर्तृतया ब्राह्मणाऽविधानेपि ब्राह्मणपदसमभिव्या- हारमाचेण ब्राह्मणकर्तृत्वलाभात् तदधिकारपर्यवसानमित्युपपद्यते अन्यत्र चर्णिकाधिकारिकत्वेन वर्णिकाधिकारात्मविद्यार्थत्वेन + विधीयमानानां यज्ञादीनां चैवर्णिकाधिकारित्वस्य युक्ततया विधिसंसर्गहीन- ब्राह्मणपदसमभिव्याहारमाचादधिकारसङ्कोचाऽसंभवेन ब्राह्मणपदस्य यथाना- प्रविद्याधिकारिमाचोपलक्षणौचित्यात् ॥ ननु विद्याधिकारिमाचोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादिसंभ- वेन तस्यापि विद्यार्थकर्माधिकारप्रसङ्ग इति चेन्न । अध्ययनगृहीतस्वाध्याय- जन्यतदर्थज्ञानवत एव वैदिकेष्वधिकार इत्यपशूद्राधिकरणे : अध्ययनवेद- वाश्य श्रवणादिविधुरस्य शूद्रस्य विद्याधिकारनिषेधाद् न शूद्राय मतिं दद्या- दिति स्मृतेरापाततापि तस्य विद्यामहिम्ना ऽवगत्युपायाऽसंभवेन तदर्थित्वा- नुपपत्तश्च तस्य विद्यायामनधिकारादिति के चित् ॥ अन्ये त्वाहुः । शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः । तस्य वेदानु- वचनाऽग्निहोत्राद्यसंभवेपि काठोक्तसर्ववर्णाधिकारश्रीपञ्चाक्षरमन्त्रराजविद्या- दिजपपापक्षयहेतुतपोदानपाकयज्ञादिसंभवाद् वेदानुवचनेन यज्ञेन दानेनेत्या- दिपृथक्करणविभक्तिश्रुतेर्विधुरादीनां विद्यार्थ जपदानादिमाचानुष्ठानानुमतेश्च वेदानुवचनादिसमुच्चयाऽनपेक्षणात् । न च शूद्रस्य विद्यायामर्थित्वासंभवः श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः इत्यादीतिहासपुराणश्रवणे चातुर्व- याधिकारस्मरणेन पुराणाद्यवगतविद्यामाहात्म्यस्य तस्यापि विद्यार्थित्वसं- भवात् । न शूद्राय मतिं दद्यादिति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोचादि- * व्या. सू. सू• श्र..३ पा• ४ सू. ३४ । + ब्राह्मणस्येव क्षत्रियवैश्ययोरपि विट्यायामर्थित्वलक्षणाधिकाराविशेषात् शूद्रस्येव विट्या- र्थयज्ञादिषु तयोः प्रतिषेधाभावाच्चेत्यर्थः । टी. * व्या. सू. अ. १ पा. ३ सू• ३४ ।

80 तृतीयपरिच्छेदे कर्मज्ञाननिषेधपरत्वात् । अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासंभवेन शूद्रः चतुर्थो वर्ण एकजातिस्तस्यापि सत्यमक्रोधः शौचमाचमनार्थे पाणिपा- दप्रक्षालनमेवैके श्राद्धकर्म भृत्यभरणं स्वदारतुष्टिः परिचा चोत्तरेषामित्या- दितद्धर्मविभाजकवचनानामननुष्ठानलक्षणाऽग्रामाण्यापत्तेः । न चैवं सत्यपशू- द्राधिकरणस्य निर्विषयत्वं तस्य न शूद्रे पातकं किं चिन्न च संस्कारमहतीति स्मृतेगुरूपसदनाख्यविद्याङ्गापनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासु निर्गु- विद्यासाधनवेदान्तश्रवणादिषु चाधिकारनिषेधपरत्वान्निर्गुणविद्यायां शूद्र- स्यापि विषयसौन्दर्यप्रयुक्तस्यार्थित्वस्य निषेझुमशक्यत्वाद् अविधेयायां च तस्यां तदतिरिक्ताधिकाराप्रसत्या तनिषेधाऽयोगाच्च * । न च तस्य वेदा- न्तनवणासंभवे विद्यार्थकानुष्ठानसंभवेपि विद्यानुत्यत्तेस्तस्य तदर्थकर्मानुष्ठानं व्यर्थमिति वाच्यम् । तत्य वेदान्तश्रवणाधिकाराभावपि भगवत्पादैः श्राव- येच्चतुरो वानिति चेतिहासपुराणाधिगमे चातुर्वण्याधिकारस्मरणावेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितमित्यपशूद्राधिकरणउपसंहारभाष्ये ब्रह्मा- त्मैक्यपरपुराणादिविधिश्रवणे विद्यासाधने ऽधिकारस्य दर्शितत्वात् । विद्यो- त्पत्तियोग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थत्वं भविष्यतीति चैवर्णिकानां क्रममुक्तिफलकसगुणविद्यार्थकर्मानुष्ठानवद् वेदान्तश्नवणयोग्यचैवर्णिकशरीरनि- ष्यादनद्वारा विद्योत्पत्त्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थकानुष्ठानाऽविरो- धाच्च । तस्माद्विविदिषावाक्ये ब्राह्मणपदस्य यथाप्राप्त विद्याधिकारिमाचोपल- क्षणत्वेन शूद्रस्यापि विद्यार्थकर्माधिकारः सिट्यत्येवेति ॥ (५) ननु अस्तु कर्मणां चित्तशुद्धिद्वारा विद्योपयोगः संन्यासस्य किंद्वारा तदुपयोगः । के चिदाहुः । विद्योत्पत्तिप्रतिबन्धकदुरितानामनन्तत्वात्किं चिद्यज्ञाद्यनुष्ठाननिवयं किं चित्संन्यासापूर्वनिवर्त्यमिति कर्मवच्चित्तशुद्विद्वारब संन्यासस्यापि तदुपयोगः । तथा च गृहस्थादीनां कर्मच्छिद्रेषु । श्रवणा- द्यनुतिष्ठतां न तस्मिज जन्मनि विद्याऽवाग्निः किं तु जन्मान्तरे संन्यासं लब्ध्व- स्वानुभववद् ब्रह्मानन्दानुभवरूपाया निर्गुणविट्यायाः फलरूपत्वादविधेयत्वं फलस्या- विधेयत्वात्तथा च यथा स्वर्गानुभवादी फले तार्थित्वमात्रमधिकारस्तथा निर्गुणविट्यायामपि तीर्थत्वमात्रमेवाधिकारः स च निषेद्धमशक्यः विधेयेष्वेवोपासनादिषु पूर्वोक्ताधिकारिविशेषणा- न्तरापेक्षा शास्त्रे निरूपितेति विषमो दृष्टान्त इति भावः। टी. + कर्मान्तराले इत्यर्थः।

- ६१ संन्यासाश्रमस्यैव विद्योपयोगित्वनिरूपणम् व । येषां तु गृहस्थानामेव सतां जनकादीनां विद्या दृश्यते तेषां पूर्वज- न्मनि संन्यासाद्विद्यावाप्तिः । अतो न विद्यायां संन्यासाऽपूर्वव्यभिचार शङ्का- पीति ॥ अन्ये तु शान्तो दान्त उपरत इत्यादिश्रुती उपरतशब्दगृहीलतया संन्यासस्य साधनचतुष्टयान्तर्गतत्वात्सहकार्यन्तरविधिरिति* सूचभाष्ये तद्वतो विद्यावतः संन्यासिनो बाल्यपाण्डित्यापेक्षया तृतीयनिदं मौनं विधी- यते तस्माद्ब्राह्मणपाण्डित्यमित्यादिश्रुती ततः प्राग भिक्षाचर्य चरन्तीति संन्यासाधिकारादिति प्रतिपादनात त्यक्ताऽशेषक्रियस्यैव संसारं प्रजिहासतः जिज्ञासोरेव चैकात्म्यं चय्यन्तेष्वधिकारितेति वार्तिकोक्तेश्च संन्यासाऽपूर्वस्य विद्यासाधनवेदान्तश्रवणाद्यधिकारिविशेषणत्वमिति तस्य विद्योपयोगमाहुः ॥ अपरे तु श्रवणाद्यङ्गतयाऽऽत्मज्ञानफलता संन्यासस्य सिद्धति विव. रणोक्तरनन्यव्यापारतया श्रवणादिनिष्पादनं कुर्वतस्तस्य विद्यायामुपयोगः दृष्टद्वारे संभवत्यदृष्टकल्पनाऽयोगात् । यदि त्वनलसस्य धीमतः पुरुषधीरे- यस्याश्रमान्तरस्थस्यापि कर्मच्छिद्रेषु श्रवणादि संपद्यते तदा चतुष्वनिमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादि निर्वर्तनीयमिति नियमोभ्युपेय इति ॥ ६) नन्वस्मिन्यक्षद्वये क्षत्रियवैश्ययोः कथं वेदान्तश्रवणाद्यनुष्ठानं संन्या- सस्य ब्राह्मणाधिकारत्वाद् ब्राह्मणो निवेदमाया ब्राह्मणो व्युत्थाय ब्राह्मणः प्रव्रजेदिति संन्यासस्य विधिषु ब्राह्मणग्रहणात् । अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः न संन्यासविधिर्यस्मात् श्रुतौ क्षत्रियवैश्ययोरिति वार्तिकोक्ते- श्चेति चेत् । अत्र के चित् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेनुहाद्वा वनाद्वे- त्यविशेषश्रुत्या + ब्राह्मणः क्षत्रियो वा ऽपि वैश्यो वा प्रव्रजेद्गृहात चयाणां वर्णानां वेदमधीत्य चत्वार आश्रमा इति स्मृत्यनुगृहीततया क्षत्रियवैश्ययो- रपि संन्यासाधिकारसिद्धः श्रुत्यन्तरेषु ब्राह्मणग्रहणं त्रयाणामुपलक्षणम् । अत एव वार्तिकेप्यधिकारिविशेषस्येति श्लोकेन भाष्याभिप्रायमुक्त्वा चयाणामविशे- षेणं संन्यासः श्रूयते श्रुतौ यदोपलक्षणार्थ स्याबाह्मणग्रहणं तदेत्यनन्तर- श्लोकेन स्वमते क्षत्रियवैश्ययोरपि संन्यासाधिकारो दर्शित इति तया: अक्- णाद्यनुष्ठानसिद्धिं समर्थयन्ते ॥ । ब्राह्मणादिविशेषग्रहरहितेत्यर्थः । टी. व्या. सू. अ. ३ पा. ४ सू. ४७ ।

१२ तृतीयपरिच्छेदे अन्ये त्वनेकेषु संन्यासविधिवाक्येषु ब्राह्मणग्रहणादुदाहृतजाबालश्रुती संन्यासविधिवाक्ये ब्राह्मणंग्रहणाभावेपि शुत्यन्तरसिद्धं ब्राह्मणाधिकारमेव सिद्धं कृत्वा संन्यासावस्थायामयज्ञोपवीती कथं ब्राह्मण इति ब्राहाणपराम- शाच्च * ब्राह्मणस्यैव संन्यासाधिकारः । विरोधाधिकरणन्यायेन + श्रुत्य- विरुद्धस्यैव स्मृत्यर्थस्य ग्राह्यत्वात् । यत्तु संन्यासस्य सर्वाधिकारित्वे वार्ति- कवचनं तद्विद्वत्संन्यासविषयं न त्वातुरविविदिषासंन्यासे भाष्याभिप्रायविरू- सर्वाधिकारप्रतिपादनपरम् । सर्वाधिकारविच्छेदि विज्ञानं चेटुपेयते कुतो ऽधिकारनियमो व्युत्थाने क्रियते बलादित्यनन्तरश्लोकेन ब्रह्मज्ञानादयान- न्तरं जीवन्मुक्तेन क्रियमाणे विद्वत्संन्यासएवाधिकारनियमनिराकरणात् । एवं च ब्राह्मणानामेव श्रवणाद्यनुष्ठाने संन्यासो ऽहं क्षत्रियवैश्ययोस्तन्निरपेक्षः श्रवणाद्यधिकार इति तयोः श्रवणाद्यनुष्ठाननिर्वाहः । न हि संन्यासस्य श्रव- णापेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षा नियन्तुं शक्यते क्रममुक्तिफलकसगुणा- पासनया देवभावं प्राप्नस्य श्रवणादा संन्यासनैरपेक्ष्यस्यावश्यं वक्तव्यत्वात् । देवानां कर्मानुष्ठानाऽप्रसत्या तत्त्यागरूपस्य संन्यासस्य तेष्वसंभवादित्याहुः ॥ अपरे तु ब्रह्मसंस्था ऽमृतत्त्वमेतीति श्रुत्युदिता यस्य ब्रह्मणि संस्था समानिरनन्यव्यापारत्वरूपं तनिष्ठत्वं तस्य श्रवणादिषु मुख्यो ऽधिकारः । गच्छ- तस्तिष्ठतो वापि जाग्रतः स्वपतो ऽथ वा न विचारपरं चेतो यस्यासी मृत उच्यते आ सुप्रेरा मृतेः कालं नयेद्वेदान्तचिन्तयेत्यादिस्मृतिषु सर्वदा विचा- रविधानात् सा च ब्रह्मणि संस्था विना संन्यासमाश्रमान्तरस्थस्य न संभ- वति स्वस्वाश्रमविहितकानुष्ठानवैयग्र्यादिति संन्यासरहितयोः क्षचियवैश्य- योर्न मुख्यः श्रवणाद्यधिकारः । किं तु दृष्टार्थी च विद्या प्रतिषेधाभावमाचणा- प्यर्थिनमधिकरोति श्रवणादिष्वन्तरा चापि तु तदृष्टे + रित्यधिकरणभाष्योक्त- न्यायेन शूद्रवदप्रतिषिद्धयोस्तयोर्विधुरादीनामिव देहान्तरे विद्याप्रापकेणोऽ- मुख्याधिकारमा ण श्रवणानुमतिः । न ह्यन्तरा चापि तु तदृष्टरित्यधिकरणे विधुरादीनामनाअमिणामङ्गीकृतः श्रवणाद्यधिकारो मुख्य इति वक्तुं शक्यते । अतस्त्वितरज्ज्यायो लिङ्गाच्चेति । सूचकारेणैव तेषाममुख्याधिकारस्फुटीकर- ब्राह्मण्यांशएवाक्षयादित्यर्थः । # व्या. सू. अ. ३ पा• ४ सू• ३६ । ६ व्या. सू. अ. ३ पा• ४ सू. ३६ । सू. अ. १ पा• ३ सू. ३ ।

अमुख्याधिकारिकृतवेदान्तविचारस्य जन्मान्तरीयज्ञानोपयोगित्वनिरूपणम् ६३ यात् । न च तच तेषां श्रवणाधिकार एव नोक्तः किं तु तदीयकर्मणां विद्यानुग्राहकत्वमिति शङ्काम् । दृष्टार्था च विद्येत्युदाहृततदधिकरणंभा- घ्यविरोधात् । न च क्षत्रियवैश्ययोः संन्यासाभावादमुख्याधिकारे तत एव देवानामपि श्रवणादिष्वमुख्य एवाधिकारः स्यात् तथा च क्रममुक्तिफलकस- गुणविद्यया देवभावं प्राप्य अवणाद्यनुतिष्ठतां विद्या प्राप्त्यर्थ संन्यासाहं पुनब्रा- ह्मणजन्म वक्तव्यमिति ब्रह्मलोकमभिसंपद्यते न स पुनरावर्त्तते अनावृत्तिः शब्दादित्यादिश्रुतिसूचविरोध इति वाच्यम् । देवानामनुष्ठयकर्मवैययाऽभावा- स्वत एवानन्यव्यापारत्वं संभवतीति क्रममुक्तिफलकसगुणाविद्याविधायि- शास्त्रप्रामाण्याविनापि संन्यासं तेषां मुख्याधिकाराभ्युपगमादित्याहुः ॥ 9) नन्वमुख्याधिकारिणा दृष्टफलभूतवाक्यार्थावगत्यर्थमविहितशास्त्रान्त- रविचारवत्क्रियमाणा वेदान्तविचारः कथं जन्मान्तरीयविद्याऽवाप्पावुपयुज्यते । न खलु विचारस्य दिनान्तरीयविचा-वगतिहेतुत्वं युज्यते दूरे जन्मान्त- रीयतद्धेतुत्वम् । न च वाच्यं मुख्याधिकारिणा परिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेवा* ऽवगतेदृष्टफलत्वा त्वात्तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबन्धा- दिह जन्मनि फलमजनयतो जन्मान्तरे प्रतिबन्धकापगमेन फलजनकत्वमै- हिकमप्यप्रस्तुतप्रतिबन्धे तदर्शनादित्यधिकरणे + तथा निर्णयाद् एवममुख्या- धिकारिकृतस्यापि स्यादिति । यतः शास्त्रीयाऽङ्गयुक्तं श्रवणमपूर्वविधित्वपक्ष फलपर्यन्तमपूर्व नियमविधित्वपक्षे नियमादृष्टं वा जनयति तच्च जातिस्मर. त्वप्रापकाऽदृष्टवत्प्राम्भवीयसंस्कारमुबोध्य तन्मलभूतस्य विचारस्य जन्मान्त- रीयविद्योपयोगितां घटयतीति युज्यते । शास्त्रीयाङ्गविधुरं श्रवणं नादृष्टो- त्पादकमिति कुतस्तस्य जन्मान्तरीयविद्योपयोगित्वमुपपद्यते घटकादृष्टं विना जन्मान्तरीयप्रमाणव्यापारस्य जन्मान्तरीयावगतिहेतुत्वोपगमे ऽतिप्रसङ्गात् ।। उच्यते । अमुख्याधिकारिणाऽप्युत्पन्नविविदिषेणं क्रियमाणं श्रवणं द्वारभूतविवि- दिषोत्पादकप्राचीनयज्ञाद्यनुष्ठानजन्यापूर्वप्रयुक्तमिति तदेवापूर्व विद्यारूपफल- पर्यन्तं व्याप्रियमाणं जन्मान्तरीयायामपि विद्यायां स्वकारितश्रवणस्योपकार- कतां घटयतीति नानुपपत्तिः । श्रवणादौ विध्यभावपक्षे तु संन्यासपूर्वकृतस्यापि * सर्वत्रेति २ पु. अधिकः पाठः। + व्या. सू. अ. ३ पा. ४ सू. ५१ । * जन्मान्तरानुभूतसकलपदार्थस्मृतिप्रसङ्गादित्यर्थः। टी.

६४ तृतीयपरिच्छेदे श्रवणस्याऽदृष्टानुत्पादकत्वात्सति प्रतिबन्धे तस्य * जन्मान्तरीयविद्याहेतु- त्वमित्यमेव । निर्वाह्यम् । आचार्यास्तु नियमविधिपक्षे ऽप्ययमेव निर्वाहः श्रवणमभ्यस्यतः फलप्राप्तरीक प्रायणे तन्नियमादृष्टस्यानुत्पत्तेस्तस्य फलप- यन्तावृत्तिगुणकनवणानुष्ठाननियमसाध्यत्वात् । न हि नियमादृष्टजनकः नव- णनियमः फलपर्यन्तमावर्तनीयस्य श्रवणस्योपक्रममावेणं निर्तितो भवति येन तज्जन्यनियमादृष्टस्यापि फलपर्यन्तनवणावृत्तेः प्रागेवोत्पत्तिः संभाव्येत । अव- घातवदावृत्तिगुणकस्यैव श्रवणस्य फलसाधनत्वेन फलसाधनपदार्थनिष्पत्तेः प्राक्तन्नियमनिर्वर्तिवचनस्य : निरालम्बनत्वात् । श्रवणाऽवधाताद्युपक्रममात्रण नियमनिष्पत्ती तावतैव नियमशास्त्रानुष्ठानं सिद्धमिति तदनावृत्तावप्यवैकल्य- प्रसङ्गाच्चेत्याहुः ॥ के चित्तु दृष्टार्थस्यापि श्रवणस्य दिने दिने तु वेदान्तश्रवणाद्भक्तिसंयु- तात् गुरुशुश्रषया लब्धात्कृच्छाशीतिफलं लभेदित्यादिवचनप्रामाण्यात्स्वत- न्त्रादृष्टोत्पादकत्वमप्यस्ति । यथाग्निसंस्कारार्थस्याऽऽधानस्य पुरुषसंस्कारेषु परिगणनात्तदर्थत्वमपि । एवं च वचनबलादुभयार्थत्वोपपत्तेः । तथा च प्रति-- दिन श्रवणजनितादृष्टमहिम्नवामुष्मिकविद्योपयोगित्वं श्रवणमननादिसाधनाना- मित्याहुः ॥ (८) एवं श्रवणमननादिसाधनानुष्ठानप्रणाड्या विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसंप्रतिपन्ने स्थित भारतीतीर्थाः ध्यानदीपे विद्यावामावुपायान्तरमप्याहुः । तत्कारणं साङ्मयोगाभिपन्नं || यत्सायैः प्राप्यते स्थानं तद्योगैरपि गम्यते इति श्रुतिस्मृतिदर्शनाद्यथा सायं नाम वेदान्तविचारः श्रवणशब्दितो मन- नादिसहकृतो विद्याऽवाप्युपायः एवं योगशब्दितं निर्गुणब्रह्मोपासनमपि । न च निर्गुणस्योपासनमेव नास्तीति शङ्कयम् । प्रश्नोपनिषदि शैब्यप्रश्ने यः पुनरतं चिमात्रेणाङ्कारेण था परमपुरुष * * मभिध्यायीतेति निर्गुणस्यैवोपासनप्र- तिपादनात् । तदन्तरं स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षतइत्यु- + विट्यारूपफलपर्यन्तं व्यापाराङ्गीकारादेवेत्यर्थः । + फलपर्यन्तं श्रवणस्यैवावृत्ती सत्यां श्रवणस्याप्राप्तांशपरिपूरणलक्षणनियमो निष्पन्नो भवति न ततः प्रागित्यर्थः। टी. ॥ तत् प्रकृतं कारणत्वोपलक्षितं ब्रह्म सांख्ययोगाभ्यां विट्याद्वारा ऽऽभिमुख्येन प्रत्यक्त्वेन प्राप्तमित्यर्थः । टी. । द्वितीयार्थे तृतीया। टी. ** परं पुरुषमिति ३ पु. पाठः। * श्रवणस्य। ६ क्रमेण ।

६५ * । निर्गुणस्याप्युपासनोपपादनम् पासनाफलवादे ईक्षतिकर्मत्वेन निर्दिष्टं यनिर्गुणं ब्रह्म तदेवोपासनावाश्येपि ध्यायतिकर्म नान्यद् ईक्षतिध्यानयोः कार्यकारण * भतयोरेकविषयत्वनिय- मादित्यस्यार्थस्यक्षतिकर्माधिकरणे भाष्यकारादिभिरङ्गीकृतत्वात् । अन्यत्रापि तापनीयकठवल्ल्यादिग्नतत्यन्तरे निर्गुणोपास्तेः प्रपञ्चितत्वात्मचकृता उप्यु- पास्यगुणपरिच्छेदार्थमारब्थे गुणोपसंहारपादे निर्गुणे ऽप्यानन्दादयः प्रधा- नस्येति + सूत्रेण भावरूपाणां ज्ञानानन्दादिगुणानामक्षरधियां त्ववरोध इत्यादिसूत्रणाभावरूपाणामस्थलत्वादिगुणानां चोपसंहारस्य दर्शितत्वाच्च । ननु आनन्दादिगुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेन्न । आनन्दादिभिर- स्थूलत्वादिभिश्चापलक्षितमखण्डैकरसं ब्रह्मास्मीति निर्गुणत्वानुपमर्दनापास- नासंभवात् । ननु तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासतइति श्रुतेर्न परब्रह्मोपास्यमिति चेद् न । अन्यदेव तद्विदितादथोऽविदितादिति श्रुतेस्तस्य वेद्यत्वस्याप्यसिद्धगपातात्। श्रुत्यन्तरेषु ब्रह्मवेदनप्रसिद्धेरवेद्यत्वश्रुतिवास्तववे. द्यत्वपरा चेदाथर्वणादौ तदुपासनाप्रसिद्धेस्तदनुपास्यत्वश्रुतिरपि वस्तुवृत्तपरा- ऽस्तु || । एवं च श्रवणायापि बहुभियो न लभ्य इति श्रवणात येषां बुद्धिमा- न्यान्यायव्युत्पादनकुशलविशिष्टगुर्व लाभाद्वा श्रवणादि न संभवति तेषाम- ध्ययनगृहीतैर्वेदान्तरापाततो ऽधिगमितब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तमार्षग्रन्थेषु ब्राह्मवासिष्टादिकल्पेषु पञ्चीकरणादिषु चाऽनेक- शाखाविप्रकीर्णसर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोचादिवनिर्धारितानुष्ठानप्रकार निर्गुणोपासनसंप्रदायमाविमो गुरुभ्यो ऽवधार्य तदनुष्ठानात्क्रमेणोपास्यभूत- निर्गुणब्रह्मसाक्षात्कारः संपद्यते ऽविसंवादिभ्रमन्यायेनोपास्तेरपि पा व चि- त्फलकाले प्रमापर्यवसानसंभवात् । पाणी पञ्च वराटकाः पिधाय केन चित्करे कति वराटका इति पृष्टे पञ्च वराटका इति तदुत्तरवक्तुर्वाश्यप्रयोगमूलभूत- संख्याविशेषज्ञानस्य मूलप्रमाणशून्यस्याहायोरोपस्यापि यथार्थत्ववन्निगुणब्र- * ईक्षणवाक्यस्य ध्यानफलभूतसाक्षात्कारप्रतिपादकत्वेन ध्यानवाक्यैकवाक्यत्वाद् ध्यानेक्ष- गायोः कारणभावो ऽवगम्यतइति भावः। टी. • अ. ३ पा• ३ सू. ११ । * व्या• मू. अ. ३ पा. ३ मू. ३३ । बुझ्यादिसाक्षिचैतन्यमेवेत्यर्थः । टी. || वेट्यत्वमुपास्यत्वं वा ब्रह्मणि परमार्थतो नास्तीति निषेधश्रुतीनां तात्पर्यमिति भावः । टी. का धूलीपटले धूमबुझ्या प्रवृत्तस्य क्य चिट् वहिलाभदित्यर्थः । + व्या. सू.

६६ . तृतीयपरिच्छेदे लोपासनस्यार्थतथात्वविवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपा- सनावदुपासनाशास्त्रमाचमवलम्ब्य क्रियमाणास्यापि वस्तुतो यथार्थत्वेन दह- राद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषयसाक्षात्कारस्य श्रवणादि- प्रणाड्या जन्यसाक्षात्कारवदेव तत्त्वार्थविषयत्वावश्यंभावाच्च । इयांस्तु विशेषः प्रतिबन्धरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो झटिति सिद्धा- तीति सांख्यमार्गो मुख्यः कल्पः उपास्त्या तु विलम्बेनेति योगमा ऽनु- कल्प इति ॥ (६) नन्वस्मिन्यक्षद्वयपि ब्रह्मसाक्षात्कार किं करणम् । के चिदाहुः । प्रत्यया- भ्यासस्पं * प्रसंख्यानमेव । योगमार्गे आदित आरभ्योपासनारूपस्य सांख्यमार्ग मननानन्तरनिदिध्यासनरूपस्य च तस्य सत्त्वात् । न च तस्य ब्रह्मसाक्षा- त्कारकारणत्वे मानाभावः ततस्तु तं पश्यति निष्कलं ध्यायमान इति श्रव- णात् । कामाऽऽतुरव्यवहितकामिनीसाक्षात्कार प्रसंख्यानस्य कारणत्वकृतश्च । आणायणात्तापि हि दृष्टमित्यधिकरणे + विकल्पो ऽविशिष्टफलत्वादित्यधि- करणे च दहराद्यहंग्रहोपासकानां प्रसंख्यानादुपास्यसगुणब्रह्मसाक्षात्कारा- ङ्गीकाराच्च । ननु च प्रसंख्यानस्य प्रमाकरणेष्वपरिगणनातज्जन्यो ब्रह्मसाक्षा- त्कारः प्रमा न स्यात् । न च काकतालीयसंवादिवराटकसंख्याविशेषाऽऽहार्य- ज्ञानवदाऽबाधेन प्रमाणत्वोपपत्तिः । प्रमाणाऽमूलकस्य प्रमात्वायोगात् । आहार्यवृत्तेश्चोपासनावृत्तिवज् ज्ञानभिन्नमानसक्रियारूपतयेच्छादिवदबाधिता- र्थविषयत्वेपि प्रमात्वाऽनभ्युपगमात् । मैवम् । कृपप्रमाकरणामूलकत्वेपि ईश्व- रमायावृत्तिवत्प्रमात्वोपपत्तेः । विषयाबाधतोल्यात् । मार्गद्वयेपि प्रसंख्यानस्य विचारितादविचारिताद्वा वेदान्ताद्ब्रह्मात्मस्वावगममूलकतया प्रसंख्यानजन्य- स्यापि ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च । उक्तं हि कल्पतरुकारैः । वेदा- न्तवाक्यजज्ञानभावनाजा ऽपरोक्षधीः मूलप्रमाणदायन || न भ्रमत्वं प्रपद्यते। न च प्रामाण्यपरस्त्वापत्तिः अपवादनिरासाय मूलशुद्धानुरोधादिति ॥ * प्रत्ययाभिख्यानरूपमिति २ पुः पाठः। । व्या• सू. अ.४ पा१ सू• १२ । # व्या. सू. अ. ३ पा• ३ सू• ५६ । अबाधितार्थज्ञानत्वं हि प्रमात्वं न त्वबाधितार्थत्वमात्रमतिप्रसङ्गादिति भावः । टी. || मूलप्रमाणं वेदान्तवाक्यं तज्जन्यममा वा तस्य दा_विप्रतिपन्नकारणकत्वमिति बोध्यम् । टी.

ब्रह्मसाक्षात्कार कारणनिरूपणम् अन्ये तु एषो ऽणुरात्मा चेतसा वेदितव्यः दृश्यते * त्वय्यया बुद्धो- त्यादिश्रुतेर्मन एव ब्रह्मसाक्षात्कार करणं तस्य सोपाधिकात्मन्यहंवृत्तिरू- पप्रमाकरणत्वत्कृप्तः । स्वप्रपञ्चविपरीतप्रमाचादिज्ञानसाधनस्यान्तःकरणस्येत्या- दिपञ्चपादिकाविवरणग्रन्येनापि तथा प्रतिपादनात् । अमेवेदं सर्व सर्वो उस्मीति मन्यते सो ऽस्य परमो लोक इतिश्रुत्युक्ते स्वाग्ने ब्रह्मसाक्षात्कार एव मनसः करणत्वसंप्रतिपत्तेश्च तदा करणान्तराऽभावात् । प्रसंख्यानं तु मनःसहकारिभावेनोपयुज्यते । वाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वं- पदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामाविर्भावयतीति भाम- तीवचनात् । ज्ञानप्रसादेन । विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्याय- मान इतिश्रुतावपि ज्ञानप्रसादशब्दितचित्तकायहेतुतयैव ध्यानोपादानात् । न तु प्रसंख्यानं स्वयं करणं तस्य व चिदपि ज्ञानकरणत्वाऽकृप्तः । कामा- तुरकामिनीसाक्षात्कारादावपि प्रसंख्यानसहकृतस्य मनस एव करणत्वोपपत्त्या कृप्तज्ञानकरणान्तरकल्पनाऽयोगादित्याहुः ॥ अपरे तु तद्धास्य विजज्ञौ तमसः पारं दर्शयति आचार्यवान् पुरुषो वेद तस्य तावदेव चिरमित्यादिश्रुतिषु आचार्योपदेशानन्तरमेव ब्रह्मसाक्षा- त्कारोदये जीवन्मुक्तिश्रवणाद्वेदान्तविज्ञानसुनिश्चिता इति ज्ञानान्तरनैरा- कायश्श्रवणात्तं त्वोपनिषदं पुरुषमिति ब्रह्मण उपनिषदेकगम्यत्वश्रवणाच्चौपनि- षदं महावाक्यमेव ब्रह्मसाक्षात्कार करणं न मनः । यन्मनसा न मनुतइति तस्य ब्रह्मज्ञानकरणत्वनिषेधात्। न चाऽपक्वमनोविषयमिदं येनार्मना मत- मिति वाक्यशेषे मनोमाचग्रहणात् । न चैवं यद्वाचा ऽनभ्युदितमिति शब्द- स्यापि तत्करणत्वं निषिध्यतइति शङ्यम् । मनःकरणत्ववादिनामपि शब्दस्य निर्विशेषपरोक्षज्ञानकरणत्वस्याभ्युपगतत्वेन तस्य यतो वाचा निवर्तन्ते अ- प्राप्य मनसा सहेतिश्रुत्यनुरोधेन शब्दार्थप्राप्ति रूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतया शक्यसंबन्धरूपलक्षणामुखेन तस्य गृह्यते इति २ पु. पाठः। 1 करणव्युत्पत्त्या ज्ञानपदं चित्तपरं तस्य प्रसाद ऐकाग्यम् । टी. + येन चैतन्येन मतं प्रकाशितं मन इति वाक्यशेषे ऽपक्वमन एव चैतन्यभास्यमिति वक्तु- मशक्यतया तत्र मनोमात्रग्रहणमावश्यकं तदैकरूप्याय न मनुतइति पूर्ववाक्येपि मनोमात्र ग्राह्यमित्यर्थः। टी. प्राप्तिः संबन्धः। १३ तृतीयपरिच्छेदे तत्करणत्वाविरोधात् । न च मनसैवाऽनुद्रष्टव्यमिति श्रुतिसिद्धं मनसापि तत्र करणत्वं न पराकत्तुं शक्यमिति वाच्यम् । शाब्दसाक्षात्कारजननेपि तदैका- य्यस्याऽपेक्षितत्वेन हेतुत्वमाचेण तृतीयोपपत्तेः । मनसा व पश्यति मनसा शृणोतीत्यादौ तथा दर्शनात् । गीताविवरणे भाष्यकारीयमनःकरणत्ववचनस्य मतान्तराभिप्रायेण प्रवृत्तेरित्याहुः ॥ (१०) ननु तथापि शब्दस्य परोक्षज्ञानजनकत्वस्वभावस्य नापरोक्षज्ञानज- नकत्वं संगच्छतइति चेद् अत्र के चित् । स्वतो ऽसमर्थोपि शब्दः शास्त्रीयश्न- वणमननपूर्वकप्रत्ययाभ्यास जनितसंस्कारप्रचयलब्धब्राँकाय्य * चित्तदर्पणानु- गृहीतो ऽपरोक्षज्ञानमुत्पादयति । शास्त्रीयसंस्कारसंस्कृताऽग्न्यधिकरण इव होमो ऽपूर्वमिति कल्प्यते। तरतिशोकमात्मविदितिशास्त्रप्रामाण्यात्। अपरोक्षस्य कर्तृत्वाद्यध्यासस्यापरोक्षाधिष्ठानज्ञानं विना निवृत्त्ययोगात् । औपनिषदे ब्रह्मणि मानान्तराऽप्रवृत्तेः शब्दादपरोवज्ञानानुत्पत्ता अनिमोक्षप्रसङ्गादित्याहुः ॥ अन्ये तु भावनाप्रचयसाहित्ये सति बहिरसमर्थस्यापि मनसो नष्टव- नितासाक्षात्कारजनकत्वदर्शनानिदिध्यासनसाहित्येन शब्दस्याप्यपरोक्षज्ञानज- नकत्वं युक्तमिति दृष्टान्तानुरोधेन समर्थयन्ते ॥ अपरे त्वपरोक्षार्थविषयत्वं ज्ञानस्यापरोयं नामाऽन्याऽनिरुक्तेः । अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वं येनान्योन्याश्रयो भवेत् किं तु तत्त- त्पुरुषचैतन्याऽभेदः । अन्तःकरण तद्धर्माणां साक्षिणि कल्पिततया तदभेदस- त्त्वात् । बाह्मचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृत्तिकृततत्तत्पुरुषी- यचैतन्याऽभेदाभिव्यक्त्या तदभेदसत्त्वाच्च न क्वाप्यव्यानिः । न चान्तःकरण- धर्माणां ज्ञानादीनामिव धर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वाविशेषा- दापरोक्ष्यापत्तिः तेषामनुद्भूतत्वात् । उद्भूतस्यैव ! जडस्य चैतन्याऽभेद आप- रोक्ष्यमित्यभ्युपगमात् । एवं च सर्वदा सर्वपुरुषचैतन्याभिन्नत्वाद्यत्साक्षादपरो- क्षाहोतिश्रुत्या स्वत एवापरोक्षं ब्रह्मेत्यपरोक्षार्थविषयत्वाच्छाब्दस्यापि ब्रह्म- ज्ञानस्यापरोक्षत्ववाचायुक्तियुक्तवेत्याहुः ॥ * संस्कारप्रचयेन संस्कारबाहुल्येन लङ' ब्रह्मण्यैकाग्यं येनेत्यर्थः । + इन्द्रियजन्यत्वादेश्च प्रथमपरिच्छेदावसाने निरस्तत्वादिति भावः । टी. * उद्भूतत्वं च फलबलकल्य्यः स्वभावविशेषः । टी.

E ब्रह्मविषयकस्य शाब्दज्ञानस्याप्यपरोक्षत्वोपपादनम् अद्वैतविद्याचार्यास्तु नापरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यं स्वरूपसुखा- परोनरूपज्ञानाव्यापनात् स्वविषयत्वलक्षणस्वप्रकाशत्वनिषेधात् *। किं तु यथा तत्तदर्थस्य स्वव्यवहारानुकूलचैतन्याऽभेदो ऽर्थापरोक्ष्यम् एवं तयवहारानु- कूलचैतन्यस्य तत्तदाभेदो ज्ञानापरोक्ष्यं तथा च चैतन्य धर्म एवेदमापरोक्ष्य न त्वनुमितित्वेच्छात्वादिवदन्तःकरणवृत्तिधर्मः । अत एक सुखादिप्रकाशरूपे साक्षिणि स्वरूपसुखप्रकाशरूपे चैतन्ये चापरोक्ष्यम् । न च घटाद्येन्द्रियकवृत्ता तदनुभवविरोधः । अनुभवस्य वृत्त्यवच्छिन्न चैतन्य गताऽपरोक्ष्यविषयत्वोप- पत्तेः । ननु उक्तं ज्ञानार्थयोरापरोक्ष्यः हृदयादिगोचरशाब्दवृत्तितद्विषययोरति- प्रसत्त्वम् । तत्र दैवात्कदा चित्तिविषयसंसर्गे सति वृत्यवच्छिन्न चैतन्यस्य विष- याऽभिन्नचैतन्यस्य चाऽभेदाभिव्यक्तरवर्जनीयत्वादिति चेद् न । परोक्षवृत्तर्वि- षयावच्छिन्नचैतन्यगताऽज्ञाननिवर्तनाक्षमतया तत्वाऽज्ञानेनावृतस्य विषयचैत- न्यस्यानावृतेन वृत्त्यवच्छिन्नसाक्षिनेतन्येनाभेदाभिव्यक्तरभावादापरोक्ष्याऽप्र- सक्तः । अत एव + जीवस्य संसारदशायां वस्तुतः सत्यपि ब्रह्माभेदे न सदापरोक्ष्यम् । अज्ञानावरणकृतभेदसत्त्वात् । न चैवं ब्रह्मणो ऽपि जीवाऽप- रोत्यासंभवादसर्वज्ञत्वापत्तिः अज्ञानस्येश्वरं प्रत्यनाचरकतया तं प्रति जीव- भेदानापादनात् । यदज्ञानं यं प्रत्यावरकं तस्य तं प्रत्येव स्वाअयभेदापाद- कत्वात् । अत एव चैत्रज्ञानेन तस्य घटाक्षाने निवृत्ते. ऽनिवृत्तं मैचाज्ञानं मैत्र प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्याऽनुपपत्ति- रिति । नन्वेवं वृत्तिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्षत्वस्य स्वविषय- चैतन्यगताज्ञाननिवृत्तिप्रयोज्यत्वे तस्य अज्ञाननिवृत्तिप्रयोजकत्वायोगाज ज्ञान- माचप्रज्ञाननिवर्त्तकं भवेदिति चेद् न ! यज् ज्ञानमुत्पद्यमानं स्वकारणमहिम्ना विषयसंसृष्टमेवोत्पद्यते तदेवाज्ञाननिवर्तकमिति विशेषणाद् ऐन्द्रियकज्ञानानां एकस्मिन् चैतन्ये विषयविषयिभावलक्षणसंबन्धो न संभवति संबन्धस्य द्विनिष्ठत्वात् । स्वविषयत्वं विनापि स्वसत्ताप्रयुक्तसंशयागोचरत्वादिलक्षणस्य स्व प्रकाशत्वस्याकरेषु निरूपित- त्यादिति भावः । टी. + वृत्तिवेतन्ययोस्तादात्म्येन वृत्तिसाक्षात्कारत्वरूपानुभवस्य चैतन्यगतापरोक्ष्यविषयकत्या- पपत्तरित्यर्थः । टी. + अभेदाभिव्यक्तरेवापरोक्षत्वप्रयोजकत्वस्वीकारादेवेत्यर्थः। टी. $ यं प्रति यदज्ञानमित्यादिव्यवस्थाऽभ्युपगमादेव चैत्रस्य घटापरोक्ष्यानुभवानुपपत्तिरपि नेति संबन्धः। टी.

१०० तृतीयपरिच्छेदे तथात्वात् । एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूतस्वविष- यब्रह्मचैतन्यसंसृष्टमेवोत्पद्यतइति तस्याज्ञाननिवर्तकत्वमज्ञाननिवृत्तौ तन्म- लभेदविलयादापरोक्ष्यं चेत्युपपद्यतेतराम् । नन्वेवमध्ययनगृहीतवेदान्तज- न्येनापि तज्ज्ञानेन मूलाज्ञाननिवृत्त्या आपरोक्ष्यं किं न स्यात् । न च तत्सत्तानिश्चयरूपत्वाभावान्नाज्ञाननिवर्त्तकमिति वाच्यम् । तथापि कृतश्रवणस्य निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्त्या मननादिवैयापत्तिरिति चेन्न । सत्यपि श्रवणानिर्विचिकित्सज्ञाने चित्तविक्षेपदोषेण प्रतिबन्धाद् अज्ञानानिवृत्त्या तन्निरा- करणे मनननिदिध्यासननियमविध्यानुष्ठानस्यार्थवत्त्वाद् भवान्तरीयमननाद्य- नुष्ठाननिरस्तचित्तविक्षेपस्योपदेशमाचाद् ब्रह्मापरोक्षस्येष्यमाणत्वाच्चेत्याहुः ॥ (११) अथैवमपि कृतनिदिध्यासनस्य वेदान्तजन्यब्रह्मज्ञानेनेव घटा- दिज्ञानेनापि ब्रह्माऽज्ञाननिवृत्तिः किं न स्यात् ।। न च तस्य ब्रह्माविषयत्वान्न ततो ब्रह्माज्ञाननिवृत्तिरिति वाच्यम् । घटः सन्नित्यादिबुद्धिवृत्तेः सदूपब्रह्मवि- षयत्वोपगमात् । न च तच घटाद्याकारवृत्त्या तदक्षाननिवृत्ता स्वतः स्फुर- णादेव तदवच्छिन्नचैतन्यं सदिति प्रकाशते न तस्य घटाद्याकारवृत्तिविषय- त्वमिति वाच्यम् । तदभावे घटविषयं ज्ञानं तदवच्छिन्नचैतन्यविषयम- ज्ञानमिति भिन्नविषयेण ज्ञानेन तन्निवृत्तेरयोगात् । जडे आवरणकृत्याभावेन + घटस्याज्ञानाविषयत्वात् । न च घटादिवृत्तेस्तदवच्छिन्नचैतन्यविषयत्वे ऽप्य- खण्डानन्दाकारत्वाभावान्न ततो मलाज्ञाननिवृत्तिरिति वाच्यम् । वेदान्तजन्य- साक्षात्कारोपि तदभावात् । न हि तचाखण्डत्वमानन्दत्वं वा कश्चिदस्ति प्रकारः वेदान्तानां संसगागोचरप्रमाजनकत्वलक्षणाखण्डार्थत्वहानापत्तेः । न च वेदान्तजन्यज्ञानादेव तन्निवृत्तिनियम इति वाच्यम् । कृयाज्ञाननिवर्तक- त्वप्रयोजकरूपस्य ज्ञानान्तरेपि सद्भावे तथा नियन्तुमशक्यत्वात् । । न च * विचारप्राचीनमध्ययनगृहीतवेदान्तजन्यज्ञानम् । टी. + घटादिवृत्तेपि मूलाज्ञानविषयचैतन्यविषयकत्वाविशेषादित्याक्षपाभिप्रायः । टी. * जडस्य जडत्वादेव प्रमाणानवतारदशायामप्रकाशोपपत्त्या जडस्याप्रकाशार्थमावरणक- ल्पनायोगादित्यर्थः। टी. 8 वेदान्तजन्यज्ञाने कृप्तस्य मूलाज्ञाननिवर्तकत्वप्रयोजकरूपस्य मूलाज्ञानसमानविषयकत्व- सत्तानिश्चयरूपत्वाप्रतिबद्धत्वलक्षणस्य निदिध्यासनपरिपाककाले चक्षुरादिजन्यघटादिज्ञानेपि सत्त्वे सति वेदान्तजन्यज्ञानादेव मूलाज्ञाननिवृत्तिन तु घटादिज्ञानादिति नियन्तुमयुक्तत्वाद् वेदान्तजन्यत्वस्यापि सत्तानिश्चयरूपत्वादेरिव प्रयोजकविशेषणत्वे गौरवान्मानाभावाच्चेति भावः। टी. ।

१०० अज्ञाननिवर्तकनिरूपणम् घटाद्याकारवृत्तिविषयस्यावच्छिन्नचैतन्यस्य कल्पितत्वेन यन्मलाज्ञानविषयभूतं सत्यमनवच्छिन्नं चैतन्यं तद्विषयत्वाभावाद् घटादिवृत्तीनां निवर्त्यत्वाभिमता- ज्ञानसमानविषयत्वलक्षणं कृतं प्रयोजकमेव नास्तीति वाच्यम् । तचावच्छेदकां- शस्य कल्पितत्वे ऽप्यवच्छेद्यांशस्याकल्पितमलाज्ञानविषयचैतन्यरूपत्वात्तस्य कल्पितत्वे घटवज्जडतयाऽवस्थाज्ञानं प्रत्यपि विषयत्वायोगेनावस्थाज्ञानस्य मूलाज्ञानविषयाऽकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तकघटादिज्ञा- नस्यापि तद्विषयत्वावश्यंभावेन तत्यापि ततो मूलाऽज्ञाननिवृत्तिप्रसङ्गस्यापरि- हारात * । अचाहुराचायाः । न चैतन्यं चक्षुरादिजन्यवृत्तिविषयः न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनं पराञ्चि खानि व्यतृणात् स्वयं- भूस्तस्मात्पराङ् पश्यति नान्तरात्मन्नित्यादिश्रुत्या तस्य परमाण्वादिवच्चतु- राद्ययोग्यत्वोपदेशादौपनिषदमितिविशेषणाच्च । न च सर्वप्रत्ययवेद्ये वा ब्रह्म- रूपे व्यवस्थित इत्यादिवार्तिकविरोधः तस्य घटाद्याकारवृत्त्युदये सत्यावर- णाभिभवात्स्वाभं सदूपं ब्रह्म घटः सन्निति घटवड्यवहार्य भवतीत्यौपचारि- कघटादिवृत्तिवेद्यत्वपरत्वात् । । आवरणाभिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेवोपपन्नं घटादेरप्यज्ञानविषयत्वाद् घटं न जानामि घटज्ञा- नेन घटाज्ञानं नष्टमित्यवस्थाज्ञानानां घटादिविषयत्वानुभवात् । न च तचा- वरणकृत्याभावादज्ञानाङ्गीकारो न युक्तः तद्वासकस्य तदवच्छिन्न चैतन्यस्याव- रणादेव तदप्रकाशोपपत्तेरिति वाच्यम् । उक्तभमा जडस्य साक्षादज्ञानविषय- त्वप्रतिक्षेपेपि जडावच्छिन्नचैतन्यप्रकाशस्याज्ञानेनावरणं ततो नित्यचैतन्यप्र- काशसंसर्गेपि जडस्य नास्ति न प्रकाशतइत्यादिव्यवहारयोग्यत्वमिति पर- म्परयाऽज्ञानविषयत्वाभ्युपगमात् । साक्षात्परंपरया वा यदज्ञानावरणीयं तद्धि- षयस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्वप्रयोजकशरीरे निवेशात । न चैवं घटादीनामुक्तरीत्या मूलाऽज्ञानविषयत्वमपि स्यादिति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्त्यापत्तिः । फलबलात्तदज्ञानकार्यातिरिक्ततद्विषयविषयस्यैव तन्नि- * घटादिज्ञानस्यापि वेदान्तजन्यज्ञानस्येव मूलाज्ञानसमानविषयकत्वादिति भावः । टी. + यथा घटस्य घटगोचरवृत्त्यधीनव्यवहारविषयत्वं तथा घटाट्यधिष्ठानसद्रूपब्रह्मणोपि घटादिवृत्त्यधीनव्यवहारविषयत्वमस्तीत्यनेन गुणेन सद्रूपं ब्रह्म घटादिप्रत्ययवेट्यमिति वार्तिक- काररुच्यतइत्यर्थः । टी. * ज्ञानस्याज्ञानसमानविषयकत्वमात्र विरोधप्रयोजकशरीरे प्रविष्टं न तु सर्वांशेपि समा- नविषयकत्वं गौरवादिति भावः । टी.

૧૦ર तृतीयपरिच्छेदे वर्तकत्वे तन्त्रत्वात् । अथ वा मूलाज्ञानस्यैव जडं न विषयः अवस्थाज्ञा- नानां त्ववच्छिन्न चैतन्याश्रितानां तत्तज्जडमेव विषयः अन्यथा चाक्षुषवृत्त्या चन्दनखण्डे चैतन्याभिव्यक्ती तत्संसर्गिणा * गन्धस्यापरोक्ष्यापत्तेः तदनभि- व्यक्ता चन्दनतद्रूपयोरप्यप्रकाशापत्तेः । न च चाक्षुषवृत्त्या चन्दनतद्रूपावच्छि- नचैतन्ययोरभिव्यत्या तयोः प्रकाशः गन्धाकारवृत्यभावेन गन्धावच्छिन्नचै- तन्यस्यानभिव्यक्त्या तस्याप्रकाशश्चेति वाच्यम् । चैतन्यस्य द्विगुणीकृत्य वृत्त्यभावनैकद्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथग् गग- नावच्छेदकत्वस्येव चैतन्यावच्छेदकत्वस्या + प्यसंभवात्तेषां स्वाश्रयद्रव्यावच्छि- नचैतन्येनेव शुक्तीदमंशावच्छिन्नचैतन्येन शुक्तिरजतवत्प्रकाश्यतया तस्याभि- व्यक्ती गन्धस्यापि प्रकाशस्यानभिव्यक्ती रूपादेरप्यप्रकाशस्य चापत्तेः । न च गन्धाकारवृत्त्यपरक्त एव चैतन्ये गन्धः प्रकाशतइति नियमः प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेनासत्यामपि तदाकारवृतावनावृतप्रकाशसंसर्ग ऽप्रकाश- मानत्वकल्पनस्य विरुद्धत्वात् । अभिव्यक्तस्य च गन्धोपादानचैतन्यस्य गन्धा- ऽसंसोत्यसंभवात् । तस्माद्यथा चैत्रस्य घटवृत्ता तं प्रत्यावरकस्यैवाज्ञानस्य निवृत्तिरिति तस्यैव विषयप्रकाशो नान्यस्य तथा तत्तद्विषयाकारवृत्त्या तत्तदा- वरकाज्ञानस्यैव निवृत्तेर्न विषयान्तरस्यापरोक्ष्यमनावृतस्यैवार्थस्य संविदभेदाप- रोक्ष्यमित्युपगमादिति प्रमातृभेदेनेव विषयभेदेनाप्येकत्र चैतन्ये ऽवस्थाज्ञानभे- दस्य वक्तव्यतयाऽवस्थाज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृत्तीनां नाव- स्थाऽज्ञाननिवर्तकत्वे का चिदनुपपत्तिः न वा मूलाऽज्ञाननिवर्तकत्त्वापत्तिः । न चैवमपि जीवविषयाया अमाकारकृतेर्मलाज्ञाननिवर्तकत्वापत्तिः । तस्याः स्वयंप्रकाशमानचित्संवलिताऽचिदंशमाचविषयत्वात् । सोहमिति प्रत्यभिज्ञाया अपि स्वयंप्रकाशचैतन्येन्तःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्टयमाचविषय- त्वेन चैतन्यविषयत्वाभावादिति ॥ के चित्तु घटादिवृत्तीनां तत्तदवच्छिन्नचैतन्यविषयत्वमभ्युपगम्य सर्व- मानप्रसक्ती च सर्वमानफलानयात् श्रोतव्येति वचः प्राह वेदान्तावरुरू- * चन्दननिष्ठगन्धस्यापि चन्दनस्येवापरोक्ष्यापत्तिरभिव्यक्तचैतन्यसंसर्गित्वस्योभयत्राविशे- धात् । जडस्यावतत्वपक्षे तु नायं दोषः चाक्षुषवृत्त्या गन्धावरणानिवृत्तरित्यर्थः । टी. + चैतन्यस्य निरवयवतया द्रव्ये द्रव्यावच्छेदेनैकगुणावच्छेदेनापरा वृत्तिर्न संभवतीत्यर्थः। टी. # घटादिवत्तीनां मूलाज्ञानविषयचैतन्यविषयकत्वानभ्युपगमादित्यर्थः । टी.

१०३ अज्ञाननिवर्तकनिरूपणम् सये* तिवार्तिकोक्तनातव्यवाक्यार्थवेदान्तनियमविध्यनुसारेण वेदान्तजन्य- मेव नियमादृष्टसहितं ब्रह्मज्ञानमप्रतिबद्धं ब्रह्माज्ञाननिवर्तकमिति न घटादि- ज्ञानात्तन्निवृत्तिप्रसङ्ग इत्याहुः ॥ अन्ये तु तत्त्वमस्यादिवाक्यजन्यं जीवब्रह्माभेदगोचरमेव ज्ञानं मूला- ज्ञाननिवर्तकं मूलाज्ञानस्य तदभेदगोचरत्वादिति न चैतन्यस्वरूपमाचगोचराद् घटादिज्ञानात्तन्निवृत्तिप्रसङ्गः । न चाभेदस्य तत्त्वावेदकप्रमाणबोध्यस्य चैत- न्यातिरेके द्वैतापत्तेश्चतन्यमाचमभेद इति तद्गोचरघटादिज्ञानमप्यभेदगोचर- मिति वाच्यम् । न ह्यभेदज्ञानमिति विषयतो विशेषं ब्रमः किं तु तत्त्वंप- दवाच्यार्थर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसंबन्धविशेषेण चै- तन्यविषयत्वमेव तदभेदज्ञानत्वम् । यथा हि विशेषणविशेष्यतत्संबन्धगोचर- त्वाविशेषेपि विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाऽधीनस्वरूपसंबन्ध- विशेषेण तत्त्रितयगोचरत्वमेव समूहालम्बनव्यावृत्तं विशिष्टज्ञानत्वं यथा वा स्थाणुत्वपुरुषत्ववानित्याहार्य व्यावृत्तं संशयत्वं विषयता विशेषानिरूपणात तथा घटादावपि सोयें घट इत्यादिज्ञानस्य स्वरूपसंबन्धविशेषेण घटादिवि- षयत्वमेव केवलघटशब्दादिजन्यज्ञानव्यावृत्तं तदभेदज्ञानत्वमतिरिक्ताभेदा- निरूपणात् । अभावसादृश्यादीनामधिकरणप्रतियोग्यादिभिः स्वरूपसंबन्धयु- क्तानामधिकरणेनाऽऽधाराधेयभावरूपःस्वरूपसंबन्धविशेषः प्रतियोगिना प्रति- योग्यनुयोगिभावरूप इत्यादिप्रकारेण स्वरूपसंबन्धे ऽवान्तरविशेषकल्पनवद् वृत्तीनां विषयेपि संयोगतादात्म्य योरतिप्रसत्या विषयविषयविषयिभावरूपस्व- रूपसंबन्धवतीनां विषयविशेषनिरूपणाऽसंभवे । कृपण्व स्वरूपसंबन्धे अवा- न्तरविशेषकल्पनेनाभेदज्ञानत्वादिपरस्परवलक्षण्यनिर्वाहाच्च । एवं च ब्रह्म- ज्ञानस्याभेदाख्यकिंचत्संसर्गगोचरत्वानभ्युपगमान्न वेदान्तानामखण्डार्थत्वहा- निरपीत्याहुः ॥ ननु घटादिज्ञानवद्वह्मज्ञानस्यापि न मूलाज्ञाननिवर्तकत्वं युक्तं निव- * सर्वेषामेव प्रमाणानां फलशब्दितचैतन्यविषयकत्वात् सर्वेषां मानानां प्रसक्ती वेदान्ता- नामेवावरोधेच्छया नियमेच्छया श्रोतव्येति वचनं वेदान्तानामेव विचारः कर्तव्य इति । टी. + आहार्यवृत्तीति २ पुः पाठः । * विषये निर्विशेषचैतन्यात्मके विशेषाधानासंभवेपि स्वरूपसंबन्धान्तर्गततया कृप्तएव- ज्ञानस्वरूपात्मके संबन्धे सामग्रीविशेषबलाद्विशेषाधानसंभवानोक्तदोष इति भावः। टी.

१०४ तृतीयपरिच्छेदे तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तन्त्रत्वात् कार्यस्य चोपादानेन सह तादृशविरोधाभावादिति चेन्न । कार्यकारणयोरन्यच तादृशविरोधादर्शने ऽप्येकविषयज्ञानाऽज्ञानप्रयुक्तस्य तादृशविरोधस्याच * सत्त्वात्कार्यकारणयोरप्य- ग्निसंयोगपटयोस्तादृशविरोधदृष्टश्च । न चाग्निसंयोगे सत्यवयवविभागप्रक्रिय- यासमवायिकारणसंयोगनाशादेव पटनाशो नाग्निसंयोगादिति वाच्यम् । दग्ध- पटेपि पूर्वसंस्थानानुवृत्तिदर्शनेन मुद्गरचूर्णीकृतघटवदवयवविभागादर्शनात तचावयवविभागादिकल्पनाया अप्रामाणिकत्वात् । नापि तत्र तन्तूनामपि दाहेन समवायिकारणनाशात्पटनाश इति युक्तम् । अंशुतन्त्वादिभिः सह युग- पदेव पटस्य दाहदर्शनेन क्रमकल्पनाऽयोगात् । यतो वस्त्रांशावयवनाश स्ति- चावयवे ऽग्निसंयोगादेव नाशस्य वाच्यत्वात् ॥ (१२) नन्वस्त्वेतदेवं तथापि सविलासा ज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येन्नाशकान्तराभावादिति चेद् यथा कतकरजः सलिलेन संयुज्य पूर्वसं- युक्तरजोन्तरविश्लेषं जनयत्स्वविश्लेषमपि जनयति तथात्मन्यध्यस्यमानं ब्रह्मज्ञानं पूर्वाध्यस्तसर्वप्रपञ्चं निवर्त्तयत्स्वात्मानमपि निवर्तयतीति के चित् ॥ अन्ये त्वन्यन्निवर्त्य स्वयमपि निवृत्ती दग्धलोहपीताम्बुन्यायमुदाह- रन्ति । अपरे त्वत्र दग्धतृणकूटदहनोदाहरणमाहुः ॥ न च ध्वंसत्य प्रतियोग्यतिरिक्तजन्यत्वनियमः अप्रयोजकत्वाद् निरिन्धनदहनादिध्वंसे व्यभिचाराच्च । न च ध्वंसस्य प्रतियोगिमाचजन्यत्वे ऽतिप्रसङ्गात्कारणान्तरमवश्यं वाच्यम् । निरिन्धनदहनादिध्वंसे ऽपि कालादृष्ट- श्वरेच्छादिकारणान्तरमस्तीति वाच्यम् । अतिप्रसङ्गापरिज्ञानात् । न च घटा- दिध्वंसस्यापि कारणान्तरनिरपेक्षत्वं स्यादित्यतिप्रसङ्गः ध्वंसमाचे कारणान्त- रनरपेक्ष्याऽनभिधानात् । न च घटध्वंसदृष्टान्तेन ब्रह्मज्ञानध्वंसस्य कारणा- न्तरापेक्षासाधनं तदृष्टान्तेन मुद्गरपतनापेक्षाया अपि साधनापत्तेः । नापि ज्ञानध्वंसत्वसाम्याद् घटज्ञानादिध्वंसस्यापि कारणान्तरनरपेक्ष्यं स्यादित्यति- * उपादानोपादेययोनिवर्त्यनिवर्तकभावप्रयोजकविरोधो नास्तीत्युत्सर्गः स च ब्रह्मज्ञान- तदुपादानस्थले ऽपोट्यते निवर्त्यनिवर्तकभावप्रयोजकतया लोके कृप्तसमानविषयज्ञानाज्ञानभावस्य विशेषरूपतया तेन सामान्यरूपस्योपादानोपादेयभावप्रयुक्ताविरोधस्य बाधोपपत्तेरित्यर्थः । टी. + नाधस्तादवयवनाश इति ३ पुः पाठः । + स्वकार्यसहितेत्यर्थः । यथा वह्नितप्तलोहपिण्डे प्रक्षिप्तमम्बु लोहगतमग्निं नाशयदात्मानमपि नाशयति तयेत्यर्थः । टी.

ब्रह्माकारवृत्तिनाशकनिरूपणम् १०५ प्रसङ्गः सेन्धनानलध्वंसस्य जलसेकादिदृष्टकारणापेक्षत्वेपि निरिन्धनानलध्वं- सस्य तदनपेक्षत्ववज्जायज्ज्ञानध्वंसस्य विशेषगुणान्तरापेक्षत्वेपि * सुषुप्निपूर्व- ज्ञानध्वंसस्य तदनपेक्षत्ववच्च + मलाज्ञाननिवर्तकज्ञानध्वंसस्य तदनपेक्षत्वोप- पत्तेः । नापि कारणान्तरनरपेक्ष्ये स्वोत्पत्त्युत्तरक्षणएव नाशः स्यादित्यतिप्रसङ्गः इष्टापत्तेः । तदुत्पत्त्युत्तरक्षणे एव ब्रह्माध्यस्तनिखिलप्रपञ्चदाहेन तदन्तर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् । निरन्धनदहनध्वंसन्यायेन ब्रह्मज्ञानध्वंस- स्यापि कालादृष्टेश्वरेच्छादिकारणान्तरजन्यत्वेप्यविरोधाच्च । सर्वप्रपञ्चनि- त्युत्तरमेकशेषस्य ब्रह्मज्ञानस्य निवृत्तिरित्यनभ्युपगमेन युगपत्सर्वदाहे पूर्वक्षणे चिदविद्यासंबन्धरूपस्य द्रव्यान्तररूपस्य वा कालस्येश्वरप्रसादरूपस्यान्तःक- रणगुणविशेषरूपस्य वा ऽऽदृष्टस्यान्येषां च सत्त्वात् । न च तत्र ज्ञानातिरिक्तकार- णापेक्षणे ब्रह्मज्ञानस्यामिथ्यात्वप्रसङ्गः ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यभ्युप- मादिति वाच्यम् । ज्ञानाघटितसामय्यऽनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात् । नान्यः पन्था इति श्रुतेरपि तव तात्पर्यात् । अतो युक्त एव दग्धदाह्मदहनादिन्यायः ॥ के चित्तु वृत्तिरूपं ब्रह्मज्ञानं नाज्ञानतन्मलप्रपञ्चनिवर्तकम् अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृत्तिनिवर्त्यत्वायोगात् । किं तु तदाऽऽरूढचे- तन्यप्रकाशस्तनिवर्तकः स्वरूपेण तस्याज्ञानादिसाक्षितया तदनिवर्तकत्वेपि अखण्डाकारवृत्युपासूढस्य तन्निवर्तकत्वोपपत्तेः । तृणादीसिकाप्येषा सूर्य- दीग्निस्तृणं दहेत सूर्यकान्तमुपारुह्य तं न्यायं तत्र योजयेदित्यभियुक्तोक्तेः । एवं च यथा किं चित्काष्टमुपारुह्य ग्रामनगरादिकं दहन्वहिर्दहत्येव तदपि काष्टं तथा चरमवृत्तिमुपारुह्य निखिलं प्रपञ्चमुन्मलयन्नखण्डचैतन्यप्रकाशस्त- निवर्त्तनेपि प्रगल्भतइति न तन्नाशे का चिदनुपपत्तिरित्याहुः ॥ अन्ये तु ब्रह्मज्ञानमज्ञानस्यैव निवर्तकं ज्ञानाज्ञानयोरेव साक्षाद्विरो- धात् । प्रपञ्चस्य तूपादाननाशान्नाश इति प्रपञ्चान्तर्गतस्य ब्रह्मज्ञानस्यापि विरोधिविशेषगुणेति २ पु. पाठः। + सुषुप्तिपूर्वज्ञानादिगुणस्य नाशकगुणान्तरापेक्षायां तस्यापि नाशकगुणान्तरकल्पनापत्त्या सुषुप्त्युच्छेदप्रसङ्गः स्यात् । टी. + प्रपञ्चसत्यत्वमतेपि घटादेाननिवर्त्यत्वमस्ति घटं नाशयामीत्यादिज्ञानपूर्वकं मुद्गरपा. तादिना तनाशदर्शनादिति तद्वारणाय सत्यन्तमात्मन्यतिव्याप्तिधारणाय विशेष्यमिति भावः। टी. 8 विरोधप्रयोजकस्य समानविषयत्वादेरज्ञानएव संभवादिति भावः । टी. १४ ५०६ तृतीयपरिच्छेदः तत एव नाशः । न च प्रपञ्चस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपत्तिः प्रपञ्चनि- वृत्तेः साक्षाज ज्ञानजन्यत्वाभावपि ज्ञानजन्याज्ञाननाशजन्यत्वात्साक्षात्परम्प- रया वा ज्ञानेकनिवर्त्यत्वं मिथ्यात्वमित्यङ्गीकारात्। एवं च तत्त्वसाक्षात्कारो- दयेपि जीवन्मुक्तस्य देहादिप्रतिभास उपपद्यते । प्रारब्धकर्मणा प्रतिबन्धेन तत्त्वसाक्षात्कारोदयेपि प्रारब्धकर्मतत्कार्यदेहादिप्रतिभासानुवृत्त्युपादानाविद्या- लेशानिवृत्त्युपपत्तेः । अज्ञानवत्प्रपञ्चस्यापि साक्षाद्ब्रह्मसाक्षात्कारनिवर्त्यत्वे नायमुपपद्यते ऽतिविरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वय- मवस्थानासंभवेनाविद्यालेशनिवृत्तिप्रतिबन्धकत्वायोगादित्याहुः ॥ # जीवन्मुक्तस्य देहादिप्रतिभास इत्यर्थः । टी. इति तृतीयः परिच्छेदः ॥

चतुर्थः परिच्छेदः PORONO.- अथ को ऽयमविद्यालेशो यदनुवृत्त्या जीवन्मुक्तिः । आवरणविक्षेपशक्ति- मत्या मूलाविद्यायाः प्रारब्धकर्मवर्तमानदेहाद्यनुवृत्तिप्रयोजको विक्षेपशक्त्यंश इति के चित् ॥ क्षालितलशुनभाण्डानुवृत्तलशुनवासनाकल्पोऽ * विद्यासंस्कार इत्यन्ये ॥ दग्धपटन्यायेनानुवृत्ता मूलाविद्या वेत्यपरे ॥ सर्वज्ञात्मगुरवस्तु विरोधिसाक्षात्कारोदये लेशतो ऽप्यविद्यानुवृत्त्य- संभवा । ज्जीवन्मुक्तिशास्त्रं श्रवणादिविध्यर्थवादमाचं शास्त्रस्य जीवन्मुक्तिप्रति- पादने प्रयोजनाभावात् । अतः कृतनिदिध्यासनस्य ब्रह्मसाक्षात्कारोदयमा- चेण सविलासवासनाविद्यानिवृत्ति रित्यपि कं चित्पक्षमाहुः ॥ २) अथ केयमविद्यानिवृत्तिः । आत्मैवेति ब्रह्मसिद्धिकारः । न च तस्य नित्यसिद्धत्वाज ज्ञानवैयर्थ्यम् । असति ज्ञाने अनर्थहेत्वविद्याया विद्यमानतया अनर्थमपि तिष्ठेदिति तदन्वेषणात् । यस्मिन्सत्यग्निमक्षणे यस्य सत्त्वं यय- तिरेके चाभावस्तत्तत्साध्यमितिलक्षणानुरोधेन ब्रह्मरूपाया अप्यविद्यानिवृ- तेज्ञानसाध्यत्वाच्च । ज्ञाने सत्यग्रिमक्षणे आत्मरूपाविद्यानिवृत्तिसत्त्वं तड्य- तिरेके तत्प्रतियोग्यविद्यारूपस्तदभाव इत्युक्तलक्षणसत्त्वात् ॥ आत्मान्यैवा विद्यानिवृत्तिः। सा च न सती अद्वैतहानेः । नाप्यसती ज्ञानसाध्यत्वायोगात्। नापि सदसद्रूपा विरोधात् । नानिर्वाच्या अनिर्वाच्यस्य सादेरज्ञानोपादानकत्वनियमेन मुक्तावपि तदुपादानाज्ञानानुवृत्त्यापत्तेः ज्ञान- निवर्त्यत्वापत्तेश्च । किं तूतप्रकारचतुष्टयोत्तीर्णा || पञ्चमप्रकारेत्यानन्दबोधा- । चायाः ॥ अविद्यावत्तन्निवृत्तिरप्यनिर्वाच्चैव । न च तदनुवृत्तौ तदुपादानाज्ञान- स्याप्यनुवृत्तिनियमादनिर्मोक्षप्रसङ्गः तदनुवृत्तौ प्रमाणाभावात् । उत्पत्तेः प्रथम- तत्त्वज्ञानेनान्तःकरणायुपादानभूताविट्याया निवृत्तावप्यवियाजन्यः कश्चिदेहादिस्थि- तिप्रयोजको वासनाविशेष इत्यर्थः। टी. + अवियावृत्त्यसंभवादिति २ पुः पाठः। + विलासेन वासनया च सहैवाविद्यानिवृत्तिरित्यर्थः। टी. 8 आत्मन्येवेति २ पु. पाठः। || प्रकारचतुष्टयाभाववतीत्यर्थः ।

१०८ चतुर्थपरिच्छेद समयमात्रसंसर्गिभावविकारत्ववद् निवृत्तेरपि चरमसमयमात्रसंसर्गिभावविकार- त्वोपपत्तेः । अत एव यथा पूर्व पश्चाच्चोत्पत्स्यते उत्पन्न इति भाविभूतभावेन व्यवह्रियमाणाया उत्पत्तेः प्रथमसमयमाचे * उत्पद्यतइति वर्तमानव्यवहा- रस्तथा पूर्व पश्चाच्च निर्तिप्यते निवृत्त इति भाविभूतभावेन व्यवह्रियमा- णाया निवृत्तेश्चरमसमयमाचे निवर्तते नश्यति ध्वंसते इति वर्तमानव्यव- हारः । निवृत्तेरनुवृत्तौ तु चिरशकलितेपि घटे इदानीं निवर्त्ततइत्यादिव्यव- हारः स्यात् । आख्यातानां प्रकृत्यर्थगतवर्तमानत्वाद्यर्थाभिधायित्वात् । ननु च तेषां स्वस्वाभिहितसंख्याश्रयप्रकृत्यर्थकर्तृकर्मगतवर्तमानत्वाद्याभिधायित्वं स्वाभिहितप्रकृत्यानुकूलव्यापारगतवर्तमानत्वाद्यभिधायित्वं वास्तु तथा च निवृत्तिक्रियाकर्तुश्चिरं चर्णितस्य घटस्य तद्गत | निवृत्त्यनुकूलव्यापारस्य चावर्तमानत्वान् नोक्तातिप्रसङ्ग इति चेन्न । आद्ये उत्पन्नेपि घटे उत्पद्यतइतिव्य- वहारापत्तेः उत्पत्तिक्रियाकर्तुर्घटस्य विद्यमानत्वात् । द्वितीये आमवातजडीकृ- तकलेबरे उत्थानानुकूलयत्नवत्युत्थानानुदये ऽप्युत्तिष्ठतीतिव्यवहारापत्तेः आख्यातार्थस्य प्रकृत्यर्थभूतोत्थानानुकूलस्य यत्नरूपव्यापारस्य वर्तमान- त्वात् । तस्मात्प्रकृत्यर्थगतमेव वर्तमानत्वाद्याख्यातार्थ इति ध्वंसस्य स्थायित्वे चिरनिवृत्ते ऽपि घटे निवर्त्ततइति व्यवहारो दुर्वारः । यदि च मुद्गरादिशकलिते घटे ध्वंसो नाम कश्चिदभावस्तत्प्रतियोगिकः स्थायिभूत- लाद्याश्रित उपयते तदा कपालमालापसरणे तदनपसरणे ऽपि मणिकशरावा- दिकपालव्यावृत्तकपालसंस्थानविशेषादर्शने च किमिति स प्रत्यक्षो न स्यात् । कपालसंस्थानविशेषादिनाऽनुमेयो घटादिध्वंसो न प्रत्यक्ष इति चेत् तर्हि । तेन मुद्गरपातकालीनस्योत्पत्तिवदावविकाररूपतया प्रतियोग्याश्रितस्य ध्वंस- स्यानुमानं संभवतीति न ततः पश्चादनुवर्तमानप्रतियोग्यधिकरणाश्रिताभाव- रूपध्वंससिद्धिः । इह भूतले घटो ध्वस्त इति भूतले ध्वंसाधिकरणत्वव्यव- हारस्येह भूतले घट उत्पन्न इतिवभावविकारयुक्तप्रतियोग्यधिकरणत्वविषयत्वो- पपत्तेः । घटध्वंसानन्तरं भूतले घटाभावव्यवहारस्य घटापसरणानन्तरं तद- * अनिर्वाच्यप्रथमसमयमात्रे इति ३ पुः पाठः। २ पु. प्रथमसमयमात्रे इति नास्ति । + घटगतेत्यर्थः। टी. + अतीतस्यापि ध्वंसस्यानुमानसंभवादनुमानेन ध्वंसमात्रसिद्भावपि नानुमानबलाद ध्वंसस्य पराभिमतं स्थायित्वं सिध्यतीत्यर्थः। टी.

१०४ अविद्यानिवृत्तिस्वरूपनिरूपणम् भावव्यवहारवत्समयविशेषसंसर्यत्यन्ताभावालम्बनतोपपत्या ध्वंसविषयत्व- स्या * कल्पनीयत्वाच्च । एवं सति घटोत्यत्तेः पूर्व तदभावव्यवहारो ऽप्यत्य- न्ताभावेन चरितार्थ इति प्रागभावोपि न स्यादिति चेत् सोपि मा भूत् । नन्वेवं प्रागभावाधारकालः पूर्वकाल: ध्वंसाधार उत्तरकाल इति निर्वचनासंभवा- त्काले पूर्वोत्तरादिव्यवहारः किमालम्बनः स्याद् घटादिषु प्रतियोगित्वादि- व्यवहारवदखण्डकिंचिद्धर्मगोचरो ऽस्तु । अभावरूपस्थायिध्वंसाभ्युपगमे ऽपि तेषु ध्वंसत्वादेरखण्डस्य वक्तव्यत्वात् । न च जन्याभावत्वरूपं सखण्डमेव ध्वंसत्वं ध्वंसप्रागभावरूपस्य घटस्य तटुंसत्वापत्तेः + । न च सप्तमपदार्थ- रूपाभावत्वं विवक्षितं घटस्य प्रागभावं प्रत्यपि ध्वंसत्वाभावप्रसङ्गेन घट:- काले प्रागभावोत्तरकालत्वव्यवहारस्य निरालम्बनत्वापत्तेः । न च प्रतियोग्य- तिरिक्तः प्रागभावध्वंसस्तथा सति तुल्यन्यायतया ध्वंसप्रागभावोपि प्रतियो- व्यतिरिक्तः स्यादिति प्रागभावध्वंसस्यापि प्रागभावो ऽन्यस्तस्यापि कश्चिद् ध्वंसस्तस्यापि प्रागभावोन्य इत्यप्रामाणिकानवधिकध्वंसप्रागभावकल्पनापत्तेः । न चान्यद् ध्वंसत्वमात्माश्रयादिशून्यं निर्वक्तुं शक्यम् । एवं प्रागभावत्वमपीत्य- न्यत्र विस्तरः । तस्मान्न पूर्व प्रागभावः न पश्चाद् ध्वंसाभावः मध्ये परं किय- त्कालमनिर्वचनीयोत्पत्तिस्थितिध्वंसरूपभावविकारवान् घटाद्यध्यासः । एवं चाविद्यानिवृत्तिरपि ब्रह्मसाक्षात्कारोदयानन्तरक्षणवर्ती कश्चिद्धावविकार इति तस्या मुक्तावनुवृत्त्यभावान्न तदनिर्वाच्यत्वे कश्चिदोष इति अद्वैतविद्याचार्याः । नन्वेवमविद्यानिवृत्तः क्षणिकत्वे मोक्षः स्थिरपुरुषार्थो न स्यादिति चेद् भ्रा- न्तोसि । न ह्मविद्यानिवृत्तिः स्वयमेव पुरुषार्थ इति तस्या ज्ञानसाध्यत्वमु- पेयते तस्याः सुखदुःखाभावेतरत्वात् । किं त्वखण्डानन्दावरकसंसार- दुःखहेत्वविद्योच्छेदे अखण्डानन्दस्फुरणं संसारदुःखोच्छेदश्च भवतीति तदु- पयोगितया तस्यास्तत्त्वज्ञानसाध्यत्वमुपेयते ॥ चित्सुखाचार्यास्तु दुःखाभावोपि मुक्तौ न स्वतःपुरुषार्थः । सर्वच दुःखाभावस्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावतया सुखशेषत्वात्सुखस्यैव || कृप्ताभावेनैव व्यवहारोपपत्तावतिरिक्तप्रध्वंसाभावो न कल्पनीय इति भावः। टी. + भावान्तरमभावोन्यः कया चित्तु व्यपेक्षयेति न्यायादिति भावः । + सिद्धान्ते ऽधिकरणातिरिक्ताभावानुपगमादिति भावः । सुखेतरत्वाट् दुःखाभावेतरत्वाच्च । टी. ॥ सुखं प्रत्युपयोगित्वादित्यर्थः ।

११० चतुर्थपरिच्छेदे स्वतः पुरुषार्थत्वमन्येषां सर्वेषामपि तच्छेषत्वमिति सुखसाधनताज्ञानस्यैव प्रवर्तकत्वे संभवति दुःखाभावस्यापि स्वतःपुरुषार्थत्वं परिकल्प्य तत्साधन- प्रवर्तकसंग्रहायेष्टसाधनताज्ञानस्येच्छाविषयत्वप्रवेशेन गुरुघटितस्य * प्रवर्तक- त्वकल्पनाऽयोगाद् । न च दुःखाभाव एव स्वतःपुरुषार्थस्तच्छेषतया सुखं काम्यमिति वैपरीत्यापत्तिः । बहुकालदुःखसाध्ये ऽपि क्षणिकसुखजनके निन्दितग्राम्यधर्मादौ प्रवृत्तिदर्शनात् । तत्र क्षणिकसुखकालीनदुःखाभावस्य पुरुषार्थत्वे तदर्थ बहुकालदुःखानुभवायोगात् । न च तत्र क्षणिकसुखस्य पुरुषार्थत्वेपि दोषतौल्यं भावरूपे सुखे उत्कर्षापकर्षयारनुभवसिद्धत्वेन क्षणम- प्युत्कृष्टसुखार्थ बहुकालदुःखानुभवोपपत्तेः दुःखाभावे तूत्कर्षासंभवात् । तस्मान्मुक्ता संसारटुःखनिवृत्तिरप्यविद्यानिवृत्तिवत्सुखशेष इत्यनवच्छिन्नान- न्दप्राग्निरेव स्वतःपुरुषार्थ इत्याहुः ॥ (३) नन्वनवच्छिन्नानन्दः प्रत्ययूपतया नित्यमेव प्राप्तः । सत्यं नित्यप्राप्नो ऽप्यनवच्छिन्नानन्दस्तमावृत्त्य तद्विपरीतमथ प्रदर्शयन्त्याऽविद्यया संसारदशा- यामसत्कल्पत्वं नीत इत्यकृतार्थता भूनिवर्त्तितायां च तस्यां निरस्तनिखि- लानर्थविक्षेपे स्वकण्टगतविस्मृतकनकाभरणवत्प्राप्यतइवेत्यौपचारिकी तस्य प्राप्तव्यतेति के चित् ॥ अन्ये तु संसारदशायां नास्ति न प्रकाशतइति व्यवहारयोग्यत्वल- पाज्ञानावरणप्रयुक्तस्य ममातिशयानन्दो नास्तीति प्रत्ययस्य सर्वसिद्धत्वात्तदा- लम्बनभूतः कश्चिद् ब्रह्मानन्दस्याभावः काल्पनिको यावदविद्यमनुवर्तते अवि- द्यानिवृत्तौ च तन्मलत्वानिवर्ततइति । यस्मिन्सत्यनिमक्षणे इत्यादिलक्षणानु- रोधेन मुख्यमेव तस्य प्राप्यत्वमित्याहुः ॥ अपरे त्ववेद्यस्यापुरुषार्थत्वात्संसारदशायां सदप्यनवच्छिन्नसुखमापरो- क्ष्याभावान्न पुरुषार्थः । न च स्वरूपज्ञानेनापरोक्ष्यं तदाप्यस्ति तस्य सर्वदा स्वरूपसुखाभिन्नत्वाद् वृत्तिज्ञानेनापरोक्ष्यं तु न मुक्तावपीति वाच्यम् । न हि स्वव्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यं घटावच्छिन्नचैतन्याभिव्यक्ती तद- भिन्नस्य घटगन्धस्याप्यापरोक्ष्यापत्तेः । किं त्वनावृतार्थस्य तदभेदः । तथा सुखसाधनत्वज्ञानत्वेन प्रवर्तकत्वे संभवति इच्छाविषयसाधनत्वेन तत्त्वं गौरवानोपेयते + क्षणिकसुखार्थं बहुकालिकदुःखानुभवाङ्गीकारस्यायुक्तत्वादित्यर्थः । टी. + निरतिशयानन्द इति २।३ पुः पाठः। इति भावः। ६ ब्रह्मानन्दस्याभाव इति शेषः। टी.

૧૧૧ ब्रह्मानन्दस्य प्राप्यत्वोपपादनम् चानावृतत्वांशस्तत्त्वसाक्षात्कारे सत्य एवेति निरतिशयसुखापरोक्ष्यस्य पुरु- पार्थस्य विद्याप्राप्यत्वं युक्तमित्याहुः ॥ इतरे त्वस्तु व्यवहारानुकूलचैतन्याभेदमाचमापरोक्ष्यं* तथा ऽप्यज्ञा- नमहिम्ना जीवभेदवच्चिदानन्दभेदो ऽप्यध्यस्त इति संसारदशायां पुरुषान्त- रस्य पुरुषान्तरचैतन्यापरोक्ष्यवदनवच्छिन्नसुखापरोक्ष्यमपि नास्ति ज्ञाननि- वृत्तौ तु चिदानन्दभेदप्रविलयातदापरोक्ष्यमिति तस्य विद्यासाध्यत्वमाहुः ॥ ४) अथ विद्योदये सत्युपाधिविलयादपेतजीवभावस्य किमीश्वरभावाप- त्तिस्त शुद्धचैतन्यमात्ररूपेणावस्थानमिति विवेचनीयम् । उच्यते । एकजीव- वादे तदेकाज्ञानकल्पितस्य जीवेश्वरविभागादिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदये विलयानिर्विशेषचैतन्यरूपेणैवावस्थानम् । अनेकजीववादमभ्युपगम्य बद्धमुक्त- व्यवस्थाङ्गीकारेपि यद्यपि कस्य चिद्विद्योदये तदविद्याकृतप्रपञ्चविलयेपि बद्धपु- रूषान्तराविद्याकृतो जीवेश्वरविभागादिप्रपञ्चानुवर्तते तथापि जीव इव ईश्व- रोपि प्रतिबिम्बविशेष इतिपक्षे मुक्तस्य बिम्बभूतशुद्धचैतन्यरूपेणैवावस्था- नम् । अनेकोपाधिष्वेकस्य प्रतिबिम्बे सत्येकोपाधिविलये तत्प्रतिबिम्बस्य बिम्बभावनैवावस्थानौचित्येन प्रतिबिम्बान्तरत्वापत्त्यसंभवात् । तत्संभवे कदा चिज्जीवलपप्रतिबिम्बान्तरत्वापत्तेरपि दुर्वारत्वेनावच्छेदपक्षइव मुक्तस्य पुनर्बन्धापत्तेः । अत एवानेकजीववादे ऽवच्छेदपक्षी नाद्रियते यदवच्छेदेन मुक्तिस्तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेः । प्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वर उभयानुस्यूतं शुद्धचैतन्यमिति पक्षे तु मुक्तस्य यावत्स- र्वमुक्ति सर्वज्ञत्वसर्वकर्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणपरमेश्वरभावापत्तिरि- ध्यते । यथानेकेषु दर्पणेष्वकस्य मुखस्य प्रतिबिम्बे सत्येकदर्पणापनये तत्प- तिबिम्बो बिम्बभावनावतिष्ठते न तु मुखमात्ररूपेण तदानीमपि दर्पणान्त- रस्य सन्निधानप्रयुक्तस्य मुखे बिम्बत्वस्यानपायात् । तथा एकस्य ब्रह्मचैतन्य- स्यानेकेषपाधिषु प्रतिबिम्बे सत्येकस्मिन् प्रतिबिम्बे विद्योदये तेन तदुपाधि- विलये तत्प्रतिबिम्बस्य बिम्बभावनावस्थानावश्यंभावात् । न च मुक्तस्याविद्या- भावात्सत्यकामादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः तदविद्याऽभावेपि तदानी अनावृतत्वमर्थविशेषणं त्यज्यतइति भावः । + प्रतिबिम्बान्तरत्वादिति २ पु. पाठः। + वियोदयेनेति २।३ पुः पाठः।

११२ चतुर्थपरिच्छेदे बद्धपुरुषान्तराविद्यासत्त्वात् * । न हीश्वरस्येश्वरत्वं सत्यकामत्वादिगुणविशि- ष्ठत्वं च स्वाविद्याकृतं तस्य निरज्जनत्वात् किं तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमेष्टव्यम् । न च यथाक्रतुरस्मिल्लाके पुरुषो भवति तथेतः प्रेत्य भवति तं यथा यथोपास्तइत्यादिश्रुतिषु सगुणोपासकानामपीश्वरसायुज्यश्रवणान्मुक्तेः सगुणविद्याफलाविशेषापत्तिः । सगुणोपासकानामखण्डसाक्षात्काराभावान्नाविद्या- निवृत्तिर्न वा तन्मलाहंकारादेविलयः आवरणानिवृत्त खण्डानन्दस्फुरणं जगड्यापारवर्ज प्रकरणादसन्निहितत्वाच्च । भोगमात्रसाम्यलिङ्गाच्चेत्यादि । सूचा- क्तन्यायेन तेषां परमेश्वरेण भोगसाम्ये ऽपि संकल्पमाचात्स्वभागोपयुक्तदिव्यदे- हेन्द्रियवनितादिसृष्टिसामर्थ्यपि सकलजगत्सृष्टिसंहारादिस्वातन्त्र्यलक्षणं न निरवग्रहमेश्वयं मुक्तानां तु नि:संधिबन्धमीश्वरभावं प्राप्तानां तत्सर्वमिति महतो विशेषस्य संभवात् । न च परमेश्वरस्य रघुनाथाद्यवतारे तमस्वित्व- दुःखसंसर्गादिश्रवणान्मुक्तानामीश्वरभावे पुनर्बन्धापत्तिः । तस्य विप्रशापामाघ- त्वादिस्वकृतमयादापरिपालनाय कथं चिद्गुशापादिसत्यत्वं प्रत्याययितुं नट- वदीवरस्य तदभिनयमाचपरत्वात् । अन्यथा तस्य नित्यमुक्तत्वनिरवग्रहस्वा- तन्त्र्यसमाभ्यधिकराहित्यादिश्रुतिविरोधात् । तस्माद्यावत्सर्वमुक्ति परमेश्वर- भावो मुक्तस्येति बिम्बेश्वरभावे न कश्चिदोषः ॥ अयमेव पक्षः श्रुतिसूचभाष्याद्यनुगुणः । तथा हि समन्वयाध्याये ताव- द्वहर उत्तरेभ्य इत्यधिकरणे अथ यदिदमस्मिन् ब्रह्मपुरे || दहरं पुण्डरीकं वेश्म दहरोस्मिन्नन्तराकाश इत्यादिश्रुतिनिर्दिष्टो दहराकाशो न भूताकाश नापि जीवः किं तु परमेश्वरः उत्तरेभ्यो वाक्यशेषेभ्य उभे अस्मिन्द्यावापृ- थिवी अन्तरेव समाहिते यावान्वा अयमाकाशस्तवानेषोन्तदृदय आकाश एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो विपिपासः ष सत्यकामः सत्यसङ्कल्प इत्यादिना प्रतिपाद्यमानेभ्यो द्यावापृथिव्याद्याधारत्वलक्षणगु- णेभ्यो हेतुभ्य इति निर्णाय उत्तराच्चेदाविर्भूतस्वरूपस्त्वि* * तिसूत्रान्तरेण दह- रविद्यानन्तरमिन्द्रप्रजापतिसंवादे य आत्मापहतपाप्मा इत्यादिनाऽपहतपाप्म- तथा चाविद्याकमेवैश्वर्यमित्युपगमात्परमार्थत एकरूपैव सदा मुक्तिरिति न तृतीया- ध्यायान्तिमाधिकरणविरोधः । + व्या. सू. अ.४ पा• ४ सू. १७ । + व्या. सू. अ. ४ पा. ४ सू. २१ । ६ व्या. सू. अ. १ पा• ३ सू. १४ । || शरीरे इति । पु. पाठः। । विपाप इति ३ पु. पाठः। व्या. सू. अ. १ पा३ सू• १६ ।

११३ मुक्तस्वरूपनिरूपणम् त्वादिगुणाष्टकयुक्तमात्मानमुपदेश्यमुक्षिप्य य एषोक्षिणि पुरुषो दृश्यते एष आत्मेति जाग्रदवस्थायां द्रष्टुत्वेनाक्षिसन्निहितस्य य एष स्वप्ने महीयमानश्च- रत्येष आत्मेति स्वप्नावस्थापन्नस्य तद्यचेतत्सुप्तः समस्तः संप्रसन्नः स्वग्नं न विजानात्येष आत्मेति सुषुट्यवस्थापन्नस्य एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमःपुरुष इत्यवस्थात्रयो- त्तीर्णस्य च जीवस्योपदेशाज्जीवे ऽप्यस्त्यपहतपाप्मत्वादिगुणाष्टकमिति न दहराकाशस्य परमेश्वरत्वनिर्णायकं य एष सुप्त इत्यादिपर्यायेषु प्रतिपर्यायमेतं त्वेव ते भूयो ऽनुव्याख्यामीति प्रवणेन स्फुटस्वप्नादिजीवलिङ्गानां द्वितीयादिप- यायाणामेव जीवविषयत्वं प्रथमपर्यायस्य ब्रह्मविषयत्वमिति चाद्यानवकाशा- दित्याशय तच चतुर्थपर्याये निरूप्यमाणः सकलबन्धविमुक्तत्वेनाविर्भूतस्व- रूपो जीवः प्रतिपाद्यः न तु सांसारिकावस्थाभेदकलुषितः तत्र सत्यसङ्कल्पत्वा- दिगुणबाधाद् अवस्थाचयोपन्यासस्य तत्तदवस्थादोषाभिधानेन चतुर्थपया- योपदेशशेषत्वप्रतिपत्तरिति समादधानः सूचकारश्चतुर्थपर्याये प्रतिपाद्यस्य मुक्तस्येश्वरभावापत्तिं स्पष्टमाह । तदभावे मुक्तेपि सत्यसङ्कल्पत्वाद्ययोगात् । अनुक्रान्तस्य गुणाष्टकस्येश्वरादन्यचापि भावे कृतशङ्कापरिहारालाभाच्च । तस्मि- न्सचे तस्मादविद्याप्राप्युपस्थापित * मपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वराग- द्वेषकलुषितमनेकानर्थयोगितद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पार- मेश्वरं रूपं विद्यया प्रतिपद्यतइति भाष्यकारोपि अतिस्पष्टं मुक्तस्य सगुणे- श्वरभावापत्तिमाह । अविरोधाध्यायेपि एष ह्येव साधु कर्म कारयति तं यमेभ्यो भूतेभ्य उन्निनीषते एष एवासाधु कर्म कारयति तं यमधा निनीषते इत्यादिश्रुतेस्तत्तत्कर्मकर्तृत्वेन तत्कर्मकारयितृत्वेन चोपकार्योपकारकभावेन चावगतगर्जीवेश्वरयोरंशांशिभावरूपसंबन्धनिरूपणार्थत्वे नावतारिते अंशो नानाव्यपदेशादित्यधिकरणे जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुः- खभोगनेश्वरस्यापि दुःखित्वं स्याद् यथा लोके हस्तपादाद्यन्यतमांशगतेन दुःखेनांशिनो देवदत्तस्यापि दुःखित्वं नद्वत्ततश्च तत्प्राप्नानां महत्तरं दुःखं प्राप्नुयाद् अतो वरं पूर्वावस्था संसार एवास्त्विति सम्यग्ज्ञानानर्थक्यप्रसङ्ग इति शङ्काग्रन्थेन भामत्यादिषु स्पष्टीकृतं बिम्बप्रतिबिम्बभावकृतासंकरमु- अविट्याप्रत्युपस्थापितमिति ३ पु. पाठः। + संबन्धार्थत्वेनेति पु. पाठः। # व्या. सू. अ. २ पा• ३ सू. ४३ । १५ ११४ चतुर्थपरिच्छेदे पादाय समाहितेन भाष्यकारो मुक्तस्येवरभावापत्तिं स्पष्टीचकार । साधना- ध्यायेपि संध्ये सृष्टिरा* हीत्यधिकरणे स्वप्नप्रपञ्चस्य मिथ्यात्वे व्यवस्थिते तत्र मिथ्याभूते स्वप्नप्रपञ्चे जीवस्य कर्तृत्वमाशङ्कय पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविपर्यया वितिसूत्रेण जीवस्येश्वराभिन्नत्वात्सदपि सत्यसङ्कल्प- त्वादिकमविद्यादोषातिरोहितमिति न तस्य स्वप्नप्रपञ्चे स्रष्टुत्वं संभवतीति वदन्सबकारस्तत्पुनस्तिरोहितं सत्परमभिध्यायतो यतमानस्य जन्तोर्विधूत- ध्वान्तस्य तिमिरतिरस्कृतेव दृकशक्तिरौषधीयर्यादीश्वरप्रसादात्संसिद्धस्य कस्य चिदेवाविर्भवति न स्वभावत एव सर्वेषां जन्तनामिति तत्सूचाभिप्राय वर्ण- यन्भाष्यकारश्च मुक्तस्य स्वप्नसृष्ट्याद्युपयोगिसत्यसङ्कल्पत्वाद्यभिव्यक्त्यङ्गीका- रेण परमेश्वरभावापत्तिं स्फुटीचकार । फलाध्यायेपि स्वेन रूपेणाभिनिष्यद्य- तइति मुच्यमानविषयायां श्रुतौ केन रूपेणाभिनिष्पत्तिर्विवक्षितेति बुभुत्सायां ब्राह्मण जैमिनिरूपन्यासादिभ्य इति सूत्रेण यद् ब्राह्म रूपमपहतपाप्मत्वादि सत्यसङ्कल्पत्वाद्यवसानं सर्वज्ञत्वसर्वेश्वरत्वादि च तेनाभिनिष्पत्तिय आत्मा ऽपहतपाप्मेत्याद्युपन्यासेन स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभि- वी यानवत्याद्यैश्वयोवेदनेन चेति जैमिनिमतं चिति तन्मात्रेण तदात्मकत्वा- दित्याडुलोमिरित्यनन्तरसूत्रण एवं वा अरेयमात्मा अनन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवेत्यादिश्रुत्या चैतन्यमाचमात्मस्वरूपमित्यवगतेस्तन्माणाभि- मिष्यत्तिरिति मतान्तरं चोपन्यस्य एवमप्युपन्यासात्पर्बभावादविरोधं बादरा- यण || इति सिद्धान्तसूत्रेण वस्तुदृष्ट्या चैतन्यमाचत्वेपि पूर्वोक्तगुणकलापस्योप- न्यासाद्यवगतस्य मायामयस्य बद्धपुरुषव्यवहारदृष्ट्या संभवान्न श्रुतिद्वयविरोध इति अविरोधं वदन्सचकारः सूत्रचयमिदमुक्तार्थपरत्वेन व्याकुर्वन् भाष्यका- रश्च मुक्तस्येश्वरभावापत्तिं स्पष्टमनुमेने । भामतीनिबन्धप्रभृतयश्च श्रुत्युपबृंहि- तमिदं सूत्रजातं भगवतो भाष्यकारस्योदाहृतं वचनजातं च तथैवान्ववर्त्तन्त । न च श्रुत्युपबृंहितस्यैतावत: सूत्रभाष्यवचनजातस्यैवर्यमज्ञानतिरोहितं सयानादभिव्यज्यतइत्यवोचत् शरीरिणः सूचकृदस्य यत्तु तदभ्युपेत्योदित- मुक्तहेतोरिति संक्षेपशारीरकोक्तरीत्याभ्युपेत्यवादत्वं युक्तं वक्तुम् । तस्मान्मुक्ता- व्या• सू. अ.३ पा• २ सू. १॥ + व्या• सू• अ. पा. २.सू. ५। * व्या• सू• अ• ४ पा. ४ सू. ५ । 8 व्यासू• •४ पा• ४ सू.६। || व्या. सू. अ. ४ पा• ४ सू• ७।

૧૧૨ मुक्तस्वरूपनिरूपणम् नामीश्वरभावापत्तेरवश्याभ्युपेयत्वादेतदसंभव एव प्रतिबिम्बेश्वरवादे दोषः । तदाहुः कल्पतरुकाराः । न मायाप्रतिबिम्बस्य विमुक्तरुपसृप्यतेति । एत* द- संभवश्चकजीववादपारमार्थिकजीवभेदवादयोरपि दोषः । यत्तु कैश्चिद् द्वैति- भिरुच्यते भेदस्य पारमार्थिकत्वेन मुक्ता जीवस्येवरभावाभावेपि तचापीश्वर- इव पृथगपहतपाप्मत्वादिगुणसंभवादविरोध इति । तत्तुच्छम् । तथा सति जीवस्याप्यपहतपाप्मत्वादिकमस्तीति न तस्य ब्रह्मलिङ्गत्वमिति शङ्कापरिहा- रालाभेन उत्तराच्चेदाविर्भूतस्वरूपस्त्वितिसूत्रविरोधात् । ब्राह्मण जैमिनिरिति सूत्रे जीवगतस्यापहतपाप्मत्वादेरुपन्यासादिभ्य इत्यचादिशब्दार्थत्वेन परेषा- मप्यभिमतस्य जनत् क्रीडन् रममाण इत्यादिश्रुत्युदितस्य जक्षणादेश्च ब्राह्मत्वनिर्देशविरोधाच्च । भेदे तेषां गुणानां सत्यत्वेन चितिमांचणेति सूत्री- क्तस्य मुक्तजीवानां चैतन्यमाचत्वस्य एवमपीति सिद्धान्तसूचे ऽङ्गीकारविरो- धाच्च । संपद्याविभाव इत्यधिकरणविरोधाच्च । तत्र हि स्वेन रूपेणाभिनि- ष्यद्यतइति श्रुतावागन्तुना केन चिद्रूपेणाभिनिष्पत्तिोंच्यते स्वेनशब्दवैया- पत्तेः । येन रूपेणागन्तुना स्वयमभिनिष्पद्यते तस्यात्मीयत्वस्यावक्तव्यत्वात् तस्मादात्मवाचिस्वशब्दोपादानान्नित्यसिद्धेन स्वरूपणैवाभिनिष्पतिर्विवक्षिता न तु केन चिद्धर्मेणेति व्यवस्थापितम् । किं चेदमपहतपाप्मत्वादि जीवस्य मुक्तावागन्तुकं चेत् संपद्याविभाव इति मुक्तावागन्तुकरूपनिषेधेन पराभिध्या- नातु तिरोहितमुत्तराच्चेदाविर्भूतस्वरूपस्त्वित्यपहतपाप्मत्वादेर्बन्धमुत्यास्ति- रोभावाविभावप्रतिपादनेन च विरोधः स्यादिति नित्यसिद्धं वाच्यमिति बन्धस्य मिथ्यात्वं दुर्वारं नित्यसिद्धमपहतपाप्मत्वं हि सर्वदा पापरहितत्वं न च वस्तुतः सर्वदा पाप्मरहिते पाप्मसम्बन्धस्तन्मलककर्तृत्वभोक्तृत्वसम्बन्धो वा पारमार्थिकः संभवति । एवं च जीवस्येश्वराभेदापि दुर्वारः श्रुतिबाध्यतद- भेदविरोधिबन्धस्य सत्यत्वाभावात् । अन्यथा संसारिणि नित्यसिद्धसत्यसंक- ल्पतिरोधानोत्ययोगाच्च । न हि जीवस्य संसारदशायामप्यनुवर्तमानो यत्किंचिदर्थगोचरः कश्चिदस्त्ववितथसंकल्पस्तिरोहित इति परैरपीष्यते किं त्वीश्वरस्य यन् नित्यसिद्धं निरवग्रहं सत्यसंकल्पत्वं तदेव जीवस्य संसारद- शायामीश्वराभेदानभिव्यत्या स्वकीयत्वेनानवभासमानं तं प्रति तिरोहितमि- मुक्तस्येश्वरभावापत्तिरेतच्छब्दार्थः । टी- * ११६ चतुर्थपरिच्छेदः त्येव समर्थनीयमिति घटकुटीप्रभातवृत्तान्तः । नन्वपहतपाप्मत्वं न पाईन रहः किं तु पाप्महेतुकर्माचरणेपि पापोत्पत्तिप्रतिबन्धकशक्तियोगित्वमि । तस्य नित्यसिद्धत्वेन बन्धस्य मिथ्यात्वप्रसङ्गः । एवं सत्यसंकल्पत्वमपि शान्ति रूपेण निर्वाच्यमिति नेश्वराभेदप्रसङ्ग इति चेद् मेवम् । एवं शब्दार्थ कराने प्रमाणाभावात् । न हि पापजननप्रतिबन्धिका शक्तिः संसारपरिभ्रमणद शम पापानुत्पत्त्यर्थं कल्पनीया तदानीं तदुत्पत्तेरिणत्वात् । विद्योदयप्रभृति तु जिया माहात्म्यादेवाश्लेषः तदधिगमे उत्तरपूर्वाधयारश्लेषविनाशा तदर्शना * दिन- सूत्रमा दर्शितः तत एव मुक्तावप्यश्लेष उपपद्यतइति व्यथा शक्तिकल्पना । तस्मादुदाहृतश्रुतिसूचानुसारिभिर्मुक्तजीवानां यावत्सर्वमुक्ति वस्तुसच्चतन्यमा- चत्वाविरोधिबद्धपुरुषाविद्याकृतनिरवग्रहैश्वर्यतदनुगुणगुणकलापविशिष्टनिरलि. शयानन्दस्फुरणसमृद्धवनिःसंधिबन्धपरमेश्वरभावापत्तिरादर्तव्येति सिद्धम् । विद्वद्गरोविहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहानतयाजिसनोः । श्रीरङ्गराजमखिनः श्रितचन्द्रमौलि +- रस्त्यप्यदीक्षित इति प्रथितस्तनूजः ॥ १ ॥ तन्त्राण्यधीत्य सकलानि सदावदात- व्याख्यानकौशलकलाविशदीकृतानि । आस्थाय मूल मनुरुध्य च संप्रदायं सिद्धान्तभेदलवसंग्रहमित्यकार्षीत् । ॥ २ ॥ इति शास्त्रसिद्धान्तलवसंग्रहे चतुर्थः परिच्छेदः संपूर्णः॥ समातश्चायं ग्रन्यः॥ व्या. सूअ• ४ पा• १ सू• १३ । । श्रितचन्द्रमालेरिति २ । ३ पुः पाठः । * आम्नायमूलमिति २ पुः पाठः। F सिद्धान्तरीतिषु मया भ्रमदूषितेन स्यादन्यथापि लिखितं यदि किं चिदस्य । संशोधन सहृदयाः सदया भवन्तु सत्संप्रदायपरिशीलननिर्विशङ्काः । इति २ । ३ पु. अधिकः प्रलोकः

Siddhanalamkara

Author
Mahamahopadhyaya Gangadhra Sastri Manavalli
Other authors
--
Title
Siddhanalamkara
File name
Siddhanalamkara
Text
OCR done
Citation
1890
Published
17-11-2005
Publisher
E. J. Lazarus & Co. Benares
Language
Sanskrit
Pages
131
Library
Jayakar Library , Pune
Classification
Philosophy
DLI number
496165
Barcode
1999990083040.00
Scanning centre
Pune University
Digital publisher
Jayakar Library , Pune
Rights
Author
VMLT id
lqa90UTzO1k
Download PDF

Siddhanalamkara