Scl

Chanakyasuthram Part 1

Pandit_vijendermisra

PDF Proofread

Front matter

॥ श्रीः॥
हरिदास संस्कृत ग्रन्थमाला
८५
नीतिविद्यावतारेण श्रीकौटिल्येन प्रणीतं
चाणक्यसूत्रम्
(प्रथमाध्यायमात्रम्)
पण्डितश्रीविजयशङ्करमिश्र, एम० ए० कृतया
बालबोधिन्याख्यया संस्कृतव्याख्यया भूमिकया च सहितम्
पण्डितवेतालोपाह्वानन्तरामशास्त्रिणा साहित्याचार्येण
सरलाख्यया भाषाटीकया प्राक्कथनेन च
सनाथी कृत्य संशोधितम्
चौरवम्बा संस्कृत सीरीज आफिस
वाराणसी

प्रकाशक : चौखम्बा संस्कृत सीरीज आफिस, वाराणसी
मुद्रक : चौखम्बा प्रेस, वाराणसी
संस्करण : द्वितीय, वि० सं० २०५७
मूल्य : १५रू०
• चौखम्बा संस्कृत सीरीज आफिस
के० ३७/९९, गोपाल मन्दिर लेन,
गोलघर ( मैदागिन ) के पास
मो० बा० नं० १००८, वाराणसी-२२१००१ ( भारत
आफिस : ३३३४५८
आवास :३३.४०३२, ३३५०२० :
।
फोन.
अपरं च प्राप्तिस्थानम्
कृष्णदास अकादमी
के० ३७/११८, गोपाल मन्दिर लेन
गोलघर ( मैदागिन ) के पास
पो० बा नं० १११८, वाराणसी-२२१००१ (भारत)
फोन: ३३५०२०

भूमिका . प्रस्तुतं पुस्तकमिदं कलिकातास्थानीयप्रथमपरीक्षायां पाठ्यपुस्तकत्वेन निर्धारितम् । मूलग्रन्थस्तावत्पञ्चाध्यायपरिमितः, किन्तु प्रथमाध्याय एवोक्त- परीक्षायां स्थापितः । नीतिशास्त्ररहस्यविदां चूडामणिभूतो विदुषामग्रणीवि- द्यासमुद्रमन्थनमन्दरायमाणमतिर्विष्णुगुप्तो नाम श्रीचाणक्यस्तत्तच्छास्त्राण्यव- गाह्य तेभ्यश्च सारं गृहीत्वा, लघुकायान्यप्यतिगभीरविस्तृतार्थानीमानि सूत्राणि व्यरचयत् । एतानि सूत्राणि खलु विदुषां साहाय्येन विना नहि स्वल्पधियां विद्यार्थिनां सुबोधानि । अत एव बहूनां नीतिज्ञंमन्यानां टीकाटिप्पण्यादि- विधानेन तदर्थमाविष्कतुं प्रयासा दृश्यन्तेऽत्र विषये । परन्तु तेषु तत्र-तत्र त्रुटिबाहुल्यादतिखिन्नहृदया मदीयज्येष्ठसहोदरस्थानीयाः प्राप्तसाहित्याचार्य- पदवीकाः सहृदयाः पण्डितवराः श्रीमन्तो वेतालाऽनन्तरामशास्त्रिणा इमं जनं काञ्चित्सुगमां सरलां सुविचार्य च प्रणीतां टीकां विद्यार्थिवर्गलाभाय विर- चयितुं प्रेरितवन्तः । विद्योदधिपारगाणां तेषामेव शास्त्रिमहोदयानां प्रेरणया साहाय्येन चास्यैकाध्यायमात्रकायस्य ग्रन्थस्य 'बालबोधिनी'ति टीका मया प्रणीता। एकाकिना मया न कथमप्येतस्मिन् प्रयत्ने साफल्यमवगन्तुमपार- यिष्यत यदि शास्त्रिमहोदया अतिस्नेहपुरःसरं यथोचितविचारसूचनैरेतां टीका हृदयङ्गमा नाकरिष्यन् । प्रथमप्रयास एव मामकीनोऽयं गीर्वाणवाणीमाश्रित्य. कस्यचिद् ग्रन्थस्य रहस्योद्घाटने । अत एवोदारहृदयैर्मनीषिभिर्मानुष्यक- भावसुलभदोषबाहुल्येऽत्र क्षन्तव्योऽस्मीति प्रार्थये । अथेदानी प्रसङ्गवशाद् ग्रन्थं ग्रन्थकारं चाधिकृत्य किञ्चित्प्रस्तोमि । पञ्चा- ध्यायपरिमिते मूलग्रन्थेऽस्मिन् बहूनां नीतितत्त्वानां विमर्शो दृश्यते । स्वीयक- र्तव्यप्रधानभूतं प्रजापालनरूपं धर्ममाश्रित्यैव राजा सदा वर्तितुमर्हति । प्रसङ्गो- चितं कूटनीत्याश्रयणमपि प्रजापालनं लक्ष्यीकृत्यैव समीचीनं राज्ञः । स्वार्थपरं प्रजाहितविरोधिनं च राजानं विनापि प्रकृतयो राष्ट्र सञ्चालयितुं समर्थाः ।

भूमिका परन्तु नीतिकोविदं प्रजारक्षकं समर्थं च नृपं प्राप्य राष्ट्र क्षिप्रमेवा मुन्नति गच्छति । अत एव राष्ट्रोन्नतौ राज्ञ उपादेयतां प्रतीयते । प्र पुनः सर्वथैव भक्तिपुरःसरं राजानमुपसेवेरन् । राजा खलु सर्वासां प्र पितेव रक्षकः, अतः पितेव स तासां पूज्योऽप्यस्ति । एवं नानाविधानि प्रकृतीनां च कर्तव्यानि निर्दिष्टानि ग्रन्थरत्नेऽस्मिन् । अमुमेव सूत्रभूतं ग्रन्थमाश्रित्य श्लोकवद्धं चाणक्यनीतिदर्पणनाम: तमपरं पुस्तकमपि प्राकृतजनेषु चाणक्यकृतमिति प्रसिद्धम् । परन्तु तरि दिष्टाविचारा एव चाणक्यबुद्धिनिःसृताः न तु ते श्लोकाः। अतो न चीनं कौटिल्यस्य वाचां वैदग्ध्यं भाषायाः पाण्डित्यं वानुमातुं तं श्ल' ग्रन्थमाश्रित्य । सोऽयं नयपारगः कौटिल्य: श्रीविष्णुगुप्तो नाम चाणक्य ईशवीयवर "प्राक् चतुर्थे शतके देशमिमं स्वजन्मनाऽलञ्चकारेति निर्विवादम् । तस्यैव : प्रयत्नेन पाटलिपुत्रराज्यसिंहासनाच्छूद्रकूलोद्भूता राजानश्च्याविताः । श्रीचन्द्र गुप्त आर्यावर्तस्य चक्रवति राजाभूत्कौटिल्यस्यैव बुद्धिविलासवलेन श्रीविशाखदत्तकृतमुद्राराक्षसानुसारेणासौ राक्षसं चन्द्रगुप्तस्य प्रधान 'कृत्वा पुनरपि स्वकीयमाश्रमं भेज इति सर्वेषां विदितम् । तत्कथमार्यचा शूद्रनृपानुन्मूल्यापि शूद्र एव वृषलश्चन्द्रगुप्तः पुनर्मगधसिंहासनारूढः कृत शङ्कोत्थाप्यते । विशाखदत्तकृतग्रन्थमनुसृत्यैव चन्द्रगुप्तस्य शूद्रत्वमधुना लोके, किन्त्वद्यतनपुरातत्त्वविदस्तं पिप्पलीकाननस्थितानां शाक्यवंश मौर्योपाद्वानां क्षत्रियाणामेवान्यतमं मन्यन्ते । शौर्यसाहसकुशाग्रबुद्धित्वा रुपेतः क्षत्रिय एव श्रीविष्णुगुप्तेनार्यावर्तचक्रवर्तिपदे स्थापितो न पुनः च्छूद्रः । आर्य राज्यवैजयन्तीमार्यावर्ते स्थापयित्वासौ तपस्वी पुनरपि इव स्वाश्रमपदं प्रपेदे । अनेनास्य महती कार्यक्षमता ब्राह्मणसुलभनिः च द्योत्यते । अस्य महात्मनो जन्मभूमिविषयविचारोऽपि विवादग्रस्त एव ।। तमिमं तक्षशिलावासिनं मन्यन्ते । अपरे पाटलिपुत्रीय एवासीदसाविति भूमिका ५ यन्ति । यत्किमप्यास्तानेतत्, परमिदं तावनिर्विवाद यत्तन तक्षशिलायां तत्त- च्छास्त्रशिक्षा लब्धा,पाटलिपुत्रे च तदीयः प्रयोगः कृतः । तक्षशिला किल सर्वासां विद्यानामुद्गमस्थानमिवासीत्तदा । सुदूरदेशेभ्य आगत्यान्तेवासिनस्तत्र जङ्गम- पाण्डित्यस्वरूपेभ्य आचार्येभ्यश्चेतःप्रसादजनयित्रीर्बुद्धिविकासकर्तीश्च तास्ताः विद्याः कलाश्च सम्यनगृहीत्वा स्वस्वजन्मानि लफलीकृतवन्तः । अगाधबुद्धिसागरः सकलविद्यापारङ्गतश्चाणक्यः पुनरेवम्भूतां तक्षशिलां विहाय कुत्रान्यत्र विद्या अभ्यस्येत् ? मगधदेश एव तदानीन्तनं सर्वसमृद्धं शक्तिमत्तमं च राष्ट्रमासीत्, किन्तु शूद्रनृपात्याचार रतिवाधिता आसन् प्रजास्तत्र । एत- महद्राष्ट्रमेवानुकूलराजसद्भावेनाधिकशक्तिशालि कृत्वाऽऽलक्षेन्द्रप्रभृतयो यवनाः पराजेतुं मुशका इति सम्यक् पर्यालोचितं तेन मनीषिणा। एवं महता प्रया- सेनानुपमबुद्धिविलासेन महामना अस्माकं जननीस्वरूपां जन्मभूमि यवनपदा- घातेभ्यो रक्षितवान् । एवंविधस्यार्थसंस्कृतिरक्षकस्य महात्मनश्चाणक्यस्य अन्थोऽयं सूत्ररूपः स्वल्पकायोऽपि विद्यार्थिनां हस्तामलकत्वं भजेच्चेत्तेषां महानुपकारो जायेतेति विश्वस्यैवाय मदीयः प्रयत्नः । यद्यनया वालवोधिन्या विद्यार्थिनां कञ्चिल्लाभो भवेत्तहि कृतकृत्यममात्मानं मस्ये । सकललोकश्रेयोविधायको भगवान् विश्वनाथो नः शं तनोतु । इत्यलम् । A पौषकृष्णचतुर्दशी संवत् १९९५ विदुषां विधेयः- विजयशङ्करमिधः ॥ श्रीः ॥ प्रास्ताविक वक्तव्यम् •०००० अद्यामुं चाणक्यसूत्रस्य प्रथमाध्यायं परीक्षोपयोगिनं संशोध्य संमु सप्रमोदं पुरस्कर्तुं प्रस्तुताः स्मो वयम् । विष्णुगुप्तापरनामधेयनीतिविन्मूर्ध मतिमत्तमश्रीमदार्यचाणक्यप्रणीतस्य सकलोपयोगसाधनीभूतनीतिसारसङ्ग स्याध्यायपञ्चकात्मकस्यैतद्ग्रन्थरत्नस्य टीकका कलिकातानगीं मुद्रित लभ्यते। एतत्प्रथमाध्यायस्य कलिकातासंस्कृतप्रथमपरीक्षापाठ्यपुस्तका तमस्य सटीकमुभाभ्यां कल्पितमुभयत्र सञ्जातं संस्करणं नयनगोचर गच्छति। काश्यामन्यत्र च प्रकाशितं तदेतत्पुस्तकद्वयमनन्यसामान्य सम्पन्नप्राज्ञवरप्रणीतसंस्कृतहिन्दीभाषामयव्याख्याद्वयेन सम्भूषितं वर्तते । 'अस्माभिरपि प्रयतनीयं विद्यार्थिनां मनस्तोषायेति सविशेषमान्तरं भ वहन्तस्तत्प्रेरितः श्रीमद्विद्याविलासमुद्रणालयस्वामिनः संस्कृतभाषोद्धारबर दरा: श्रेप्ठिवरश्रीजयकृष्णदासगुप्तमहोदयास्तदर्थमेतत्प्रथमाध्यायस्य संस्कृ भाषाद्वयमयीं टीकां प्रणेतुमस्मान् बहुशोऽन्वरुन्धन् । प्रत्यहविधीयमानविक लयीयकार्य विशेषव्यापृतिवशात्पयप्तिावकाशसौकर्याद्यनुकूलसाधनाभावादस दीयमुत्साहशून्यं चेतो न नाम स्थैर्य कार्येऽत्र किञ्चित्कालयाञ्चके । यथाप्रसङ्ग च कदापि समुपस्थितेषु वार्तालापव्यतिकरेषु नूतनोपजा परिचया अपि प्रकृतिसुन्दरं प्रमाढं सौहादं प्रकटयन्तः सहृदयाः प्रश्रयभूषण प्रास्ताविकं वक्तव्यम् ७ - श्रीविजयशङ्करमिश्र एम. ए. महोदयाः सहजसौजन्यभूमयः प्रकृतमिदं कार्य करणीयमुपलभ्य तदोपयिकमात्मनो भूयांसमुत्साहं व्यक्ततां निन्युः । उत्साहा- ध्यवसायसम्पत्समन्वितानामुदारबुद्धीनाममीयां प्रकृतकार्यानुरूपः सोऽयमुत्साहो बलवदस्मदीयेऽपि मनसि तदारोपणं कर्तुं पारितवान् । परस्परोत्साहसमन्वि- ताभ्यामेकैकव्याख्याप्रणयनसमयेन च तदनु सप्रमोदं प्रवृत्तमावाभ्यामत्र । गीर्वाणवाङ्मयीं व्याख्यां प्रणेतुमुत्साहविशेष दधानेषु श्रीमत्सु मिश्रमहोदयेषु तदवशेषभूत हिन्दीभापया सूत्रार्थप्रकाशनं नाम कार्यान्तरमस्मत्कर्तव्यपक्षं शिश्रिये । सपरिश्रमञ्चात्र यथासमयं प्रवृत्तयोरावयोर। टीकाप्रणयनमुद्रणो- चितसंशोधनादिकमखिलं कार्यमखिलानन्दकन्दकरुणाकरपरमेश्वरकरुणाकटा- क्षेण परिपूर्ण जातमितीदं परतरप्रमोदस्थानम् । इदं किल सर्वतः प्रत्यक्षमेव-"न तावत्कार्यस्य कस्यापि स्वरूपं यथा- वत्परिचीयते, न यावदुपक्रम्यते तत् । उपक्रान्ते च तत्र तदीयं रहस्यं शनैः शनैरुद्धाटितं भवती"ति । अत्र हि टीकाचिकीर्षापथे प्रथमं निराकुलेऽपि तन्निर्माणसमये पुनस्तत्र तत्र तत्तत्पर्यालोचनीयगम्भीरविषयसांमुख्यमापतितं बलवदस्मन्मनो व्याकुलत्वमव्यजीगपत् । ग्रन्थेऽस्मिन् कौटिल्यबुद्धेविलसितानां कुत्रापि सूत्राणां भावगाम्भीर्ये भृशं दुर्गमम् , तस्वनु सूक्ष्म पैत्र बुद्वया निपुगं पर्यवेक्षणीयम् । इतरे च टीकाकृन्महोदयाः स्थल विशेषे स्वकीयं पाण्डित्यं पूर्ण प्राचीफटन्, परमिदं न तावत्समुचितं पन्थानमारोहति स्मेति बलवत्त- रोऽस्माकं विश्वासः । यत्किमपि प्रलपितमिव प्रतीयते तत् । तत्र विद्यार्थिनो विरुद्ध बोधिताः स्युरित्येव तावन्मनो दुनोतितमाम् । तादृशेषु स्थलेषु तत्तट्टी- काकृतां चेष्टितं भावगाम्भीयं च परिवीक्ष्य प्रसह्य मुह्यतां प्रकृतां संस्कृत- व्याख्यां विदधतां मिश्रमहोदयानां मनः कामपि चित्रामेव दशां प्रतिपेदे । तत्र किल स्वतोऽन्तरुद्भूतप्रतिभयैव किमपि निश्चित्य कृतं विचारसाहचर्यमेव नौ कमपि मार्ग प्रादर्शयत् । इत्थमेव तत्तत्पर्यालोचनया प्रायो विचारं स्वीयमे- वोचितमवलम्ब्य यदिदमुपक्रान्तमावाभ्यां कार्ये लघुशरीरमपि गम्भीरनीति- विचारसापेक्ष निर्विघ्नं पूर्णतामानिन्ये , स चायं श्रीमद्गुरुवरकरुणायाः परतराचिन्तनीयसक्रेत्र नियतं वाचामगोचरोऽनुभावः ।

प्रस्ताविकं वक्तव्यम् आस्तां तावत्, स चायं संस्कृतव्याख्यानरूपो ग्रन्थः सर्वतोऽस्माभिनि सावधानं च निरीक्षितो यथामति संशोधितः प्राक्कथनेनानेन सनाथी हिन्दीभाषया च सम्भूषितः प्रकाशमायातः साम्प्रतं कलिकातास्थानी प्रथमपरीक्षार्थिनां विद्यार्थिनामुपकाराय भूयसे जागत तमाम् । 'इदमेव विजयते व्याख्यानं विद्यार्थिनामुपयोगायेति पक्षपातरहितं निःशङ्क निःसड़ च संसूच्य यथाबुद्धिसंशोधितेऽप्यत्र मुद्रणालयादिदोषोपजातोपलब्धस्वति विषयोपेक्षणाय सुजनान् सम्प्रार्थ्य प्रणम्य संस्मृत्य सादरं परमेश्वरं सद् च विरम्यते वृथावक्तव्यपल्लवनादि ति शम् । पौषशुक्ल द्वितीया, सं० १९६५ } अनन्तरामशास्त्री वेता ॥श्रीगणेशाय नमः॥ चाणक्यसूत्रम् बालबोधिन्याख्यया संस्कृतव्याख्यया सरलाख्यया भाषाटीकया च समेतम् क्षीराम्भोनिधिसिक्तयत्सुवसनामर्दैन शुक्लीकृताः सान्द्रानन्दभरेण मानसगृहा मुक्तानुरक्ताः स्थिताः। यद्वीणाक्वणवात् प्रबोधहरिणो दूरात् समाकृष्यते सा नः पातु समस्तलोकवरदा पद्मासना शारदा ॥१॥ येनाऽदायि भवस्ततश्च विनयः स्नेहार्द्रचित्तेन मे सद्विद्या च सदा सुबोधमनसामह्नाय मोदप्रदा। यो वंशस्य सुकीर्तिकल्पलतिका संवर्धयन् संस्थितो वाक्पीयूषजलेन, पूज्यजनकं स्वर्गङ्गतं तं भजेत् ॥२॥ चरणकुसुमधूलियस्य लोके विकीर्णा प्रभवति बिधुराणां चेतसो मोदतत्यै । गलति मतितमित्र यस्य पादप्रसादाद् गुरुवरसवितारं सादरं तं नतोऽहम् ॥३॥ चाणक्यो नयपारगो मतिमतामग्रेसरः क्वाऽग्रणी- /राणां, क्व च नीतिलेशविदसावप्रौढबुद्धिर्जनः। किन्दवद्यारचिता गुरोः करुणया चेद् बालबोधिन्यसो स्याद् बालोपकृतिक्षमात्र, विजयो नूनं कृतार्थस्ततः॥४॥ ।। धीः ।। बन्दि विनायक गुरु सुमिरि ईश अनादि अनन्त । सूत्रन की चाणक्य के भाषा करइ अनन्त ॥१॥ ग्रन्थारम्भे निर्विघ्नपरिसमाप्तये मङ्गलं निबध्यते । अमुमेव शिष्टाचार- मनुसरन्नीतिपयोधिमन्थनमन्दरायमाणप्रगाढप्रतिभः प्रेक्षावान् श्रीमान् विष्ण- २ चाणक्यसूत्रे- - - - गुप्तो नाम कोटिल्यश्चाणक्यः सकललोकव्यवहारमूलभूतां श्रियमेव ता यितुं प्रक्रमते- सा श्रीर्वोऽव्यात् ॥१॥ सा श्रीरिति । सा-सर्वत्र प्रसिद्धा सर्वेरनुभूता प्रस्तावसङ्गता च लक्ष्मीः; व:-युष्मान् सांसारिकान्,अव्यात्-पायात् । श्रियं विना जगति दपि केनापि साधयितुं न शक्यते । अत एव नीतिज्ञो ग्रन्थकारस्तामे रक्षणोपयोगिनी सम्भावयंस्तदर्थं प्रार्थयते , लक्ष्मीकृपाकटाक्षरक्षिता: दुष्करमप्यर्थ सुकरतां नयन्तीति तत्कर्तृकजगद्रक्षण प्रार्थनं प्रासङ्गिकमेव वह (प्रसिद्ध ) लक्ष्मी तुम लोगों की रक्षा करे ।।१।। इह खल जगति सुखैषणा सर्वेषामेव प्रत्यक्षतो दृष्टिपथं नीयते । । करुणया सम्पाद्य तच्च सुखं कुतो लभ्येतेति तत्कारणं धर्ममेव प्रति नाह-- सुखस्य मूलं धर्मः ॥२॥ सुखस्येति । सुखस्य-निवृतेः मूलम्-प्रधानकारणम्, धर्मः भवति नाम सर्वैरभिलष्यमाणः परतरप्रसादजनको दुःखाद बहिर्भूतश्चित्तवृत्तिवि धर्मस्तावदैहिकामुष्मिकसकलार्थप्रापको वेदबोधितकर्तव्यताको विधिवि वस्तुतो लोके धर्मेणैव सुखं लभ्यते । अधर्मसंमिश्रं सुखं दुःख एव पर्यवर धर्म एव मनुष्यान् समुन्नतेः पन्थानं प्रापयतीति धर्मस्य सुखजनकत्वं वादम् ॥२॥ सुख का प्रधान कारण धर्म है ॥२॥ अधुना सुखस्यापि प्रधान कारणमर्थ निरूपयति-- धर्मस्य मूलमर्थः ॥३॥ धर्मस्येति । धर्मस्य-ऐहिकामुग्मिककल्याणसम्पादकस्य श्रुतिवि कर्तव्यविशेषस्य, मूलम्-मुख्यहेतुः, अर्थ:-सकलव्यापारसिद्धिबीजभूतं । भवतीति शेषः। सर्वापदामास्पदत्वं भजमानस्य दारिद्रयस्य निराकरण। मोघशस्त्रमिवार्थः सरभिलष्यते । न कदाचिदर्थमन्तरेण कामपि सिद्धि कस्याप्युपकारं वा कर्तुमीश्वरो नरः । किं बहुना, स धर्मसाधनप्रधानका -- प्रथमोऽध्यायः ३ ३ - भूतस्य स्वशरीरस्यापि रक्षणे समर्थो न स्यात् । अतोऽर्थों धर्मस्य जीवित- मेवेति स्पष्टम् ।। ३॥ धर्म का प्रधान कारण धन है ।। ३ ।। धर्मोपादानभूतमर्थं निरूप्य तदुद्भवहेतुं राज्यं वर्णयति- अर्थस्य मूलं राज्यम् ॥४॥ अर्थस्येति-अर्थस्य-सकलोकव्यापारसाधकस्य धनस्य, मूलम्-प्रधान- कारणम्, राज्यं भवति । राज्यं तावत्-स्वस्वकर्तव्येष दत्तचिताभिः सुशासनेन विनीताभिः प्रकृतिभिः परिपूर्ण: केनचिदपि वैदेशिकशासकेनाऽबाध्यमानो देशविशेषः। तत्तद्वस्तुव्यापारेण कृषिकर्मणा वा धनमुत्पाद्यते । व्यापारादिकं च पुनः कस्मिश्चित् सुव्यवस्थिते देश एव सम्भवति । अतो धनोत्पादने राज्यमेव प्रयोजकम् ।।४।। धन का प्रधान कारण राज्य है ।। ४ ।। अर्थोत्पत्तिमूलभूतं राज्यं निर्दिश्य तत्प्रधानकारणमिन्द्रियजयं प्रतिपादयति- राज्यमूलमिन्द्रियजयः ॥५॥ राज्यमूलमिति-राज्यमूलम् -राज्यस्य दृढशासनसम्पन्नस्य देशस्य भूलम् आधारभूतः, इन्द्रियजयः- इन्द्रियाणां मनश्चक्षुःप्रभृतीनामेकादशानां जयः वशीकरणम्, भवतीति शेषः । किञ्चिदपि राज्यमधिगन्तुं तद्रक्षितुं वा महती शक्तिरपेक्षिता । सा च शक्तिनं कदाचिदसंयमिना लभ्यते । अतो राज्याथिनेन्द्रियजिता भवितव्यमित्युपदिष्टं भवति ॥ ५॥ राज्य का प्रधान कारण इन्द्रियों का वश में करना है ॥५॥ इन्द्रियजयस्य मुख्य हेतुं विनयं निरूपयति- इन्द्रियजयस्य मूलं विनयः ॥५॥ इन्द्रियजयस्येति-इन्द्रियजयस्य-इन्द्रियाणां तत्तद्विषयविशेषज्ञानसाध- नानां पञ्चज्ञानेन्द्रियाणां तत्तच्छरीरव्यापारसम्पादनसाधनानां पञ्चकर्मेन्द्रियाणां च जयस्य, मूलम् -प्रधानकारणम्, विनय:-सुशिक्षया कुलीनत्वेन धर्मरतत्वेन चोत्पन्नाऽहङ्कारहन्त्री नम्रता, भवनि । 'विनयाद् याति पात्रता'मिति विनयं विना न कोऽपि किञ्चिन्महत्कार्य सम्पादयितुं समर्थः । प्रबलानामिन्द्रियतुरङ्ग- माणां वशीकरणं न खलु लघु कार्यम् । तत्खलु विनयसम्पत्त्यैव सम्पाद्यम् । अत इन्द्रियजयैषिणा विनयसम्पन्नेन भवितव्यमिति नीतिकारोपदेशः॥ ६॥ -

चाणक्यसूत्रे-
म
इन्द्रियों को वश में करने का प्रधान कारण नम्रता है ।।७।।
विनयस्याधारभूतां वृद्धोपसेवां निरूपयन्नाह---
विनयस्य मूलं वृद्धोपसेवा ॥७॥
विनयस्येति-विनयस्य-सदाचारशिक्षोत्पन्नाया नम्रतायाः
मुख्यहेतुः, वृद्धोपसेवा-- वृद्धानां विद्यया वयसा सदाचारेण चोन्नति र
पूज्यानाम् उपसेवा ज्ञानार्जनाय समीपगमनपूर्वकं परिचर्या भवति । अह
राहित्यं नीतिकुशलानां केषाञ्चिदुपदेशेनैव सजायते । त उपदेशाः पुन
जनपरिचर्यामन्तरेण कथं लब्धं शक्याः ? तस्मान्नम्रतालाभाय वृद्धजनपा
कर्तव्येति स्पष्टम् ।।७।।
नम्रता का प्रधान कारण पूजनीय वृद्ध लोगों का उचित सेवन
वृद्धसेवाया: फलं वक्ति
वृद्धसेवाया विज्ञानम् ॥८॥
वृद्धसेवाया इति। वृद्धसेवायाः-वृद्धानां ज्ञानवयःशीलसम्प
सेवायोः प्रणिपातपुरःसरं परिचर्यायाः, विज्ञानम्-विशेषेण नीति
शिल्पादिज्ञानम्, जायत इति शेषः। शिल्पादिशास्त्राणां ज्ञानं तज्ज्ञेष
प्राप्यते । तज्ज्ञानं विना मनुष्यो हस्तपादादिसम्पन्नोऽपि किमपि कार्य स
यितुं न क्षमते । अतो विज्ञान लिप्सुभिवंद्धाः समाश्रयणीया इति ॥८॥
वृद्ध लोगों के उचित सेवन से विज्ञान (नीतिदर्शनशिल
स्त्रादि) की प्राप्ति होती है ॥८॥
विज्ञानात्को लाभ इति विवक्षुराह-
विज्ञानेनात्मानं सम्पादयेत् ॥९॥
विज्ञानेनेति । विज्ञानेन-शिल्पशास्त्रादेः सम्यग्ज्ञानेन, आत्मानम्-
सम्पादयेत्-समुन्नतं कुर्यात्, सर्व एवेति शेषः। तत्तज्जीवनव्यापारेषु ।
लब्धये प्रथमतस्तावदात्मनः समुन्नतिरपेक्षिता । सा च पूर्णरूपेण शास्त्रानु
विना न हि सम्पादयितुं शक्यते। तस्माद् विज्ञानमाश्रित्य लोक आ
विवेकसम्पत्तिपूर्ण कुर्यादित्यत्रोपदिष्टम् ॥९॥
विज्ञान (शास्त्र के पूर्ण ज्ञान) से अपने को सम्पन्न (बुद्धि-दि
मादि से युक्त ) बनाना चाहिये ॥९॥
आत्मोन्नतिसम्पन्नः पुरुष आत्मानं जयतीत्याह-
सम्पादितात्मा जितात्मा भवति ॥१०॥

प्रथमोऽध्यायः - सम्पादितात्मेति । सम्पादितात्मा-सम्पादित: अर्थवा शिल्पशास्त्रादि- जनितेन ज्ञानेन समुन्नति प्रापितः आत्मा येन स पुरुष: जितात्मा-जितो वशी- कृत आत्मा येन तादृशः, भवति-जायते । समुन्नतात्मा पुरुषः स्वात्मनि प्रभुर्भवतीति भावः । अत्र च-सुसम्पन्नेन चेतसा किं स्यादिति पूर्व तत्फल- मन्विष्यते । सुसम्पन्नात्मनो हि फलं मनोनिग्रहः । मनोनिग्रहश्च तावत्परमो- पादेयोऽस्मिञ्जगति । मनसो निग्रहेण दुःसाधनमप्यर्थ साधयितुं पारयति पुमानिति ॥१॥ बुद्धि-विवेक आदि से युक्त मनुष्य अपने ऊपर शासन करता है।॥१०॥ मनो वशीकृत्य पुरुषः किं फलं लभत इति कथयति- जितात्मा सर्वार्थैः संयुज्यते ॥११॥ जितात्मेति । जितात्मा-जितो वशीकृत आत्मा चेतो येन सः पुरुषः; सर्वार्थ:-सनिखिलैः अर्थः साधनैः, संयुज्यते-संयुक्तो भवति । सर्वकार्य- साधनानां प्राप्तिर्वश्य'त्मनां सुलभेत्यर्थः । सर्वेषु व्यापारेषु सिद्धिलब्धये कानि- चित् साधनान्यपेक्ष्यन्ते । तानि साधनानि पुनर्नाऽस्थिरचेतसा लभ्यानि । चेतो वशीकृत्यैव पुरुषः सर्वसाधनसम्पन्नो जायत इति तदर्थं पुरुषेण जितात्मना भवितव्यमिति भावः ॥११॥ अपने ऊपर ( मन पर ) शासन करने वाला मनुष्य सभी उपयोगी साधनों से युक्त हो जाता है ।।११।। प्रकृतिसम्पदः कारणीभूतां स्वामिसम्भदं विवर्णयिषुराह स्वामिसम्पत् प्रकृतिसम्पदं करोति ॥१२॥ स्वामिसम्पदिति । स्वामिसम्पत्-स्वामिनो राज्ञः सम्पद् ऐश्वयंम्। प्रकृतिसम्पदम्-प्रकृतिनां सचिवादीनां प्रजानां च सम्पदमैश्वर्यम्, करोति- जनयति,उन्नति नयतीत्यर्थः । अयं भाव:-राज्ञः सम्पत्त्या प्रकृतिसम्पद् वर्धते राजा सकलैश्वयंसम्भृतः सन् प्रकृतीस्तथा कतुं प्रभावति । प्रभावति । कोषबलहीने राजनि किमप्युपकर्तुमक्षमे नूनं प्रकृतयोऽप्यकिञ्चना: स्युः । अतो राजकीय- मैश्वयं प्रकृतीनामश्वयं जनयतीति सुस्पष्टमेव ।।१२।। राजा का ऐश्वर्य मन्त्री तथा प्रजा के ऐश्वर्य को बढ़ाता है ॥१२॥ प्रकृतिसम्पदो गुणोत्कर्षमाह- प्रकृतिसम्पदा ह्यनायकमपि राज्यं नीयते ॥१३॥ - ६ चाणक्यसूत्रे- प्रकृतिसम्पदेति । हि-यत: निःसंशयं वा, प्रकृतिसम्पदा प्रकृति र्येण, अमायकम् अपि-नायकेन शासकेन राज्ञा हीनमपि; राज्यम्-- नीयते शास्यते सञ्चाल्यत इति यावत् । सम्पन्नाः प्रकृतयो राज्ञा विर! राज्ये स्वयं शासनं कतुं प्रभवन्ति। शासकेन विना कृताभिः प्रकृतिभि भन्तरेण शासनमुचितं कर्तुमक्षमाभिर्दुरवस्थव नूनमनुभाव्या । सम्पहि किमपि कर्तुं नालम्, किं पुना राज्यं शासितुम् । अतोऽनायकं राज प्रकृतिसम्पत् सुतरां प्रयोजिकेति ।।१३।। मन्त्री तथा प्रजा के ऐश्वर्य से राजा के बिना भी राज्य च जा सकता है ।।१३॥ प्रकृतीनां कोप: सर्वतोऽधिक इत्याह- प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् ॥१४॥ प्रकृतिकोप इति । प्रकृतिकोप:-प्रकृतीनां सचिवप्रभृतीनां सर्वेषां अप्रसन्नता, सर्वकोपेभ्यः-सर्वेभ्यो देवादिदोषेभ्यः, गरीयान् गुरुतर: विर्वा भवतीत्यर्थः । आनुकूल्यं सम्पाद्य राज्ञा प्रकृतयः प्रसादनीयाः । सतीषु प्रय राज्ञोऽवस्थितिर्भवति । प्रकृतिभिः शासनीयाभिविना शासको राजैव कः । प्रकृतयः प्रतिकूलाचरणे राजनि कुपिता: सत्यो मूलभूतं राज्यमेवोन प्रभवेयुः । दुभिक्षादयो दोषा हि प्रकृतिकोपादत्यल्पा एव । देवादिदोष परिहारो हि युक्तिभिः प्रकृतिप्रियस्य राज्ञः सुकर इत्युचितमेव प्रकृतिको सर्वतोऽभ्यधिकत्वम् । प्रकृतिकोपेन. महाननर्थः सम्भवतीति भावः ।।१४।। मन्त्री तथा प्रजा का कोप (देवादि) सब दोषों से बढ़कर है ।।। राज्ञा च विनीतेन भाव्यमित्याह- अविनीतस्वामिभावादस्वामिभावः श्रेयान् ॥१५॥ अविनीतस्वामिभावादिति । अविनीतस्वामिभावात-अविनीता शिक्षाविनयाभ्यां हीनस्य स्वामिनी राज्ञो भावात् अस्तित्वात, अस्वामिभाव: राज्ञोऽप्राप्तिः, श्रेयान्-अतिप्रशस्तः। अविनीतः स्वीयश्वर्य मदमत्तो राज प्रजासुखं नापेक्षेत । अस्तादृग्राजापेक्षया राज्ञोऽलाभ एवाधिक श्रेष्ठः । प्रजय कामं राजहीनयव स्थातव्यम्, किन्तु विनयविहीनो राजा नापेक्षणीयः। राज च विनय सम्पन्नेनैव माध्यमित्याशयः ।।१५।।

प्रथमोऽध्यायः . उद्धत अथवा अशिक्षित राजा के होने से राजा का न होना अच्छा है ॥१५॥ सम्पन्नस्य राज्ञः सहायापेक्षित्वमाह- सम्पाद्यात्मानमन्विच्छेत् सहायान् ॥१६॥ सम्पाद्येति । आत्मानम्-स्वम्, सम्पाद्य-शक्तिसम्पन्नं कृत्वा, सहायान्- साहाय्यकरान् पुरुषान्, अन्विच्छेत्-अपेक्षेत सम्पादयेदित्यर्थः । पूर्वमात्मानं सर्वतः सम्पन्नं कृत्वा ततः स्वीयकार्यार्थं तद्योग्यान् सहायकान् पुरुषान् सगुह्ली- यात् । असम्पन्नेनाऽसहायेन च राज्ञा कि तावत्कर्तुं शक्यम् । सम्पन्नः सहाय- समन्वितो हि स भूमौ सर्वार्थान् साधयितुमीष्टे ॥१६॥ अपने को सम्पन्न बनाकर ( राजा) सहायक ढूंढ़े ॥१६॥ सहायः कीदृशः स्यादिति तत्स्वरूपं निर्दिशति- सहायः समो दुःखसुखयोः ॥१७॥ सहाय इति । दुःखसुखयो:-विपत्तो सम्पत्ती च, सम:-समानरूपः, सहायः-सहायकः भवति । राज्ञा दुःखे यो दुःखी सुखे च सुखी भवति, स एव सहायो भवितुमर्हतीत्यर्थः। अन्यथा राज्ञोऽवस्थां वस्तुतो ज्ञातुमसमर्थस्तदीयं साहाय्यं किन्नाम कुर्यात् सः । सुखे सहवासिनो दुःखे च दूरवासिनः सहाया भवितुं नाहन्ति । राजसमदुःखसुखेनैव सहायेन भाव्यमिति ॥१॥ दुःख और सुख में समान भाव रखने वाला मनुष्य ( राजा का) सहायक हो सकता है ॥१७॥ असहायस्य राज्ञः कार्यहानि दर्शयति- नाऽसहायस्य मन्त्रनिश्चयः ॥१८॥ नाऽसहायस्येति । असहायस्य-कमपि सहायकं विना तिष्ठतो राज्ञः, मन्त्रनिश्चय:-मन्त्रस्य सुगूढराजकीयकार्याकार्यविशेषस्य निश्चयो निर्णयः, न भवति । राजा हि कमपि सविवादिकं बुद्धिमन्तं स्वीयकार्येष बुद्धिमन्तं स्वीयकार्येषु समुचितविचार- कर्तारं सहायकं कृत्वैव कार्याकार्यविशेषं निर्णेतुं प्रभवति । सचिवादिसाहाय्यं विना केवलो राजा कस्यापि गूढार्थस्य समोचीनं निर्णयं कर्तुं न क्षमो भव- तीत्यसहायस्य राज्ञः प्रधानकार्यासिद्धिर्दर्शिता ॥१८॥ सहायक के बिना राजा को गुप्त विचार का निश्चय नहीं होता ।।१८।।

८ चाणक्यसूत्रे- - असहाय एकाको राजा मन्त्रनिश्चयं कर्तुं न शक्नोतीति पूर्वोक्तमर्थमुद हरणेन द्रढयति- नक चक्रं परिभ्रमति ॥१९॥ नकमिति । एकम्-एकसंख्याकम्, चक्रम्-रथाङ्ग रथचालनकारण भूतम्, न परिभ्रमति-न समन्ततो भ्राम्यति । अयं भावः-रथे चक्रद्वयं संद ज्यते । तेनैव रथचाल्यते । तत्रकं चक्रं यथा न भ्रमति, अपि तु चक्रद्वयं सहै भ्रमद् दृश्यते, तथैव नृपतिरेको गूढार्थनिर्णये न प्रभुः । सचिवादिसमन्वितस्यै च तस्य तत्कार्यानुकूला शक्तिरस्तीति ।।१९।। ( रथ का ) अकेला पहिया नहीं घूमता ॥ १९ ॥ मन्त्रणोचितं राज्ञो गुणद्वयं प्रदर्शयन् सूत्रकारो ‘मन्त्रकायें स्वयं राजा साहचयं कुर्या'दित्याशयेनाह- मानी प्रतिपत्तिमानात्मद्वितीयं मन्त्रिणमुत्पादयेत् ॥२०॥ मानीति । मानी-मान आत्माभिमानोऽस्यास्तीत्येतादृशः, प्रतिपत्तिमान् प्रतिपत्तिानं शास्त्रविज्ञानमिति यावत्, तदस्यास्तीत्येतादृशो राजा, आत्म द्वितीयम्-आत्मनः स्वस्य सकाशाद् द्वितीयम्, अथ वा आत्मा स्वयमेव द्वितीयो विचारकर्ता यस्य तादृशम, मन्त्रिणम्-सचिवम्, उत्पादयेत्-कुर्यात् । 'अह कोऽस्मि, कीदृशं मे कर्तव्य'मित्येवमात्माभिमानसम्पन्न: शास्त्रविज्ञानशाली च भवन् भूपालः स्वयं मन्त्रविचारे साहाय्यं कुर्वन् मन्त्रिणं सम्पादयेत् । तथा चोक्तम् - आत्मना द्वितीयेन मन्त्रः कार्यों महीभृता' इति । राजा मन्त्री चेति द्वाभ्यामेव गुणविचारः कर्तव्यस्तत्र नापेक्षा तृतीयस्येति भावः ।।२०।। आत्माभिमान तथा विज्ञान से सम्पन्न राजा मन्त्रकार्य में सहायक एक अपने स्वयं रहकर दूसरा सहायक मन्त्री को बनावे ॥२०॥ गूढकार्याकार्यविचारणे सहायक कमपि मन्त्रिणं नृपतिः कुर्यादिति पूर्व- सूत्रोक्तार्थमनुसृत्य 'कीदृशो मन्त्री करणीय' इत्याह- अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ॥२१॥ अविनीतमिति । अविनीतम्-विद्याविनयजितमनुरागरहितं च मन्त्रिणम्, स्नेहमात्रेण-पूर्वपरिचयोद्भूतानुरागस्मरणमात्रेण, मन्त्रे-गुप्तविचारकायें,न कुर्वी- त-न नियोजयेत् । 'असौ मम बाल्यात्प्रभृति सहचरोऽतो मम स्नेहपात्र'मिति प्रथमोऽध्यायः - कृत्वा तमविनीतं मन्त्रिणं राष्ट्रोन्नतिरक्षणोपायविमर्शे न स्थापयेद्राजेति भावः। युक्ताऽयुक्तविवेकसम्पन्न एव राजा स्वकीयं राज्यं सम्यनियन्तुं समर्थः । युक्तायुक्तविवेकश्च पुनर्बुद्धिमता स्वार्थ रहितेन स्वामिभक्तेन मन्त्रिणेव राज्ञा पुरस्तादुपस्थाप्यते । स्वयं विवेकरहितः सचिवो राजानं कथं विवेकं शिक्षयेत् । तेन सहायभूतेन राजा क्षिप्रमेव स्वकार्य विधातयेत् । 'ननु यदि सोऽपार्थक- स्तहि कथं सर्वथैव न त्याज्यः ?' इत्येवं न शङ्कयम् । यतश्चिरपरिचितत्वा- त्किञ्चिद्रहस्यं जानात्येवासो । सर्वथा त्यक्तः शत्रुतां भजमानो रहस्य मुद्धाटयन् हानिकारक एव स्यात् । अतोऽविनीतं सचिवं सद्वय वहारमात्रेण पालयेन्न तं रहस्ये नियोजयेदित्युपदिष्टं भवति ।।२१।। विद्या और विनय से रहित मनुष्य को केवल पूर्व स्नेह के कारण गुप्त मन्त्रणा में सम्मिलित नहीं करना चाहिये ।।२१।। अधुना मन्त्रोपयोगितां निरूपयति मन्त्रमूलाः सर्वारम्भाः ॥२२॥ मन्त्रमूला इति । सर्वारम्भा:-सर्वे आरम्भाः आरम्भमाणानि कार्याणि, मन्त्रमूला:-मन्त्रो विचारो मूलं निदानभूतो येषाम्,तथा भवन्ति । अयमाशय:- किञ्चिदपि कार्य सम्पादयितुं प्रथमं तावत्तदुचितोपायचिन्तनमपेक्षितम् । तेनैव सर्वेषां कार्याणां सिद्धिर्भवति । अविवेककृतं कार्य पश्चात्तापं जनयति । यथोक्तं भारविणा-'सहसा विदधीत न क्रिया मिति ॥२२॥ सब कार्यों के आरम्भ में गुप्त विचार करना आवश्यक है ॥२२॥ कार्यसिद्धये मन्त्री गोपनीय इत्येतदुपक्षिपन्नाह- मन्त्रसंवरणे कार्यसिद्धिर्भवति ॥२३॥ मन्त्रसंवरणे इति । मन्त्रसंवरणे-मन्त्रस्य संवरणे गोपने, कार्यसिद्धिः कार्याणां कर्मणां सिद्धिनिष्पत्तिः, भवति सञ्जायते । मन्त्रगोपनेन कार्य सफलं भवतीत्यर्थः । कार्योपायचिन्तनं प्रकाशमानीतमन्येषामीविषादिसमुत्थापनेन कार्यसिद्धिं विघातयति । ततस्तत् सिद्धिं यावद्गोपनीयमवश्यं भवति ! कृत्येव तत्कार्य समये प्रकाशं लभेत, न तु तत्र पूर्व वक्तुं किमप्यावश्यकम् । कथितं सत् तत्कायंसाफल्यं गच्छेदिति भावः ।। २३ ।। मन्त्र के गुप्त रखने से कार्यों की सिद्धि होती है ।।२३॥ मन्त्रप्रकाशनं सर्वनाशायेत्याह - मन्त्रनिनावः सर्व विनाशयति ॥२४॥ - १० चाणक्यसूत्रे- - - - मन्त्रनिस्राव इति । मन्त्रनिस्राव:-मन्त्रस्य गुप्तविचारस्य निस्राव इतस्तत प्रसरणं प्रकाशनमिति यावत्, सर्वम् -सकलं मन्त्रितं कार्यम्, विनाशर्या विघातयति । मन्त्रप्रकाशनात्सकलं तत्कार्य विनश्यतीति भावः । प्रकाशिते । मन्त्रे तज्ज्ञानेन पररुत्पाटिते तत्र विघ्ने कार्यस्य नाशः सर्वतोऽवश्यं भावी कीदृशी पुनस्तत्र कार्यसिद्धराशा ॥२४।। मन्त्र का प्रकाशित होना सब काम को बिगाड़ देता है ॥२४॥ मन्त्रप्रकाशनाद्भविष्यन्तीमन्यामपि हानि दर्शयति. प्रमादाद् द्विषतां वशमुपयास्यति ॥२५॥ प्रमादादिति । प्रमादात्-अनवधानतायाः कारणात्, द्विषताम्-शत्रूणार वशमुपयास्यति-वशंवदो भविष्यति अर्थाद्राजा। मन्त्रगोपने भूयोऽवधा देयम् । मन्त्रप्रकाशनं तावत्प्रमादादेव सञ्जायते । एतत्प्रमादसत्त्वेन शत्रवो मनि तमर्थ बुद्ध्वा तत्कार्यविनाशोपायं च कृत्वा राजानमाक्रम्य वशीकरिष्यन्ति स च तैः शत्रुभिवंशीकृतो राजा कष्टमेवानुभविष्यतीति भावः ॥२५॥ असावधानी के कारण मन्त्र के प्रकाशित होने से (राजा) शत्रु के वश में हो जाता है ॥२५॥ सर्वतः मन्त्रं रक्षणीयं प्रतिपादयति- सवंद्वारेभ्यो मन्त्रो रक्षितव्यः ॥२६॥ सर्वद्वारेभ्य इति । मर्वद्वारेभ्य:-प्रमादादिभ्यः सकलेभ्यो मन्त्रप्रकाशन कारणेभ्यः, मन्त्र:-गुप्तविचार;, रक्षितव्य:-पालनीयो गोपनीय इति यावत् इदमत्रावगन्तव्यम्-द्वारान्निर्गमनं भवति । मन्त्रप्रकाशनं च राज्ञो मन्त्रिण सकाशान्मन्त्रस्य निर्गमनमेव । मन्त्रप्रकाशने कारणानि यानि प्रमादादीनि सम्भवन्ति, तानि तवाराण्येव कथ्यन्ते । तेभ्यश्च मन्त्रस्य रमणमत्रोपदिश्यते प्रमादादिभ्यो मन्त्ररक्षणस्योपदेशेनात्र प्रमादाद्यभावैमन्त्र: सुरक्षितो भवतीरि गूढं सूचितम् ॥२६॥ (प्रमादादिक मन्त्र-प्रकाशन के) सब कारणों से मन्त्र का रक्षण करना चाहिये ॥२६॥ मन्त्ररक्षणाभावि फलं सूचयति- मन्त्रसम्पदा हि राज्यं विवर्धते ॥२७॥ मन्त्रसम्पदेति । हि-यत: मन्त्रसम्पदा-मन्त्रस्य सम्पदा वैभवेन, राज्यम्- -

प्रथमोऽध्यायः
११
राष्ट्रम्, विवर्धते-विशेषेणोन्नति प्राप्नोति । मन्त्रस्य स्थिरीकरणं रक्षणमेवाऋ
मन्त्रसम्पत् । मन्त्रे रक्षिते सति निर्विघ्नं राष्ट्राभ्युदयकारणानि मन्त्रितानि
कार्याणि सिद्धि गच्छन्ति । ततश्चाऽऽफलोदयं मन्त्रस्य गोपनाद् राज्योन्नतिरूपा
कार्यसिद्धि : स्पष्टव ! अरक्षितो हि मन्त्रः प्रकाशं गतो राज्योन्नतेः प्रतिबन्धा-
यैव भवतीति ॥२७॥
मन्त्र की सम्पत्ति (मन्त्रगोपन) से राज्य की उन्नति होती है।।२७॥
इत्थमत्र बहुभिः प्रकारमन्त्रस्य गोपनमावश्यकमुपदिश्य परेषां नीति--
काराणां मतेनापि तदीयं श्रेष्ठत्वं प्रतिजानीते -
श्रेष्ठतमा मन्त्रगुप्तिमाहुः ॥२८॥
श्रेष्ठतमामिति । मन्त्रगुप्तिम्-गुप्त विचारस्य रक्षणमप्रकाशनम्, श्रेष्ठ-
तमाम्-अतिप्रशस्ताम्, आहुः-कथयन्ति, अन्ये नीतिकारा इति शेष:।
इतरैर्नीतिकारैरपि पूर्वापर पर्यालोचनया मन्त्रगोपनस्य सुतरां श्रेष्ठत्वं प्रति...
पादितम् । तदेवात्र ग्रन्थकारेण स्वमते प्रमाणितम् ।।२८।।
दूसरे नीतिकार भी) मन्त्र के गोपन को अत्यन्त श्रेष्ठ :
कहते हैं ॥२८॥
इदानीं मन्त्रस्य स्वरूपं निरूपयति --
कार्याकार्यप्रदीपो मन्त्रः ॥२९॥
कार्याकार्यप्रदीप इति । मन्त्र:-गुप्त विचारः, कार्याकार्य प्रदीप:-करणीया..
ऽकरणीयविषययोः प्रकाशकः भवति । कि कर्तव्यं किञ्चाकर्तव्यम्' इति येन
प्रकाश्यते, स तावन्मन्त्र उच्यते । कार्याकार्ययोः प्रकाशनं चात्र तद्विषयको
विचार एव, अतः कार्याकार्यविचारं मन्त्रपदेन व्यवहरन्तीत्यर्थः ।।२९॥
'क्या करना चाहिये और क्या नहीं करना चाहिये' इस बात को
बतलाने वाला मन्त्र होता है ॥२९।।
द्वेषभावं दूरीकृत्य मन्त्रं कुर्यादित्युपदेशानुसारं ब्रूते -
मन्त्रकाले न मत्सरः कर्तव्यः ॥३०॥
मन्त्रकाल इति । मन्त्रकाले-कार्याकार्यविचारावसरे, मत्सर:-अन्य..
शुभद्वेषः न कर्तव्यः-नाचरणीयः । अयं भाव:-परोत्कर्षाऽसहिष्णुतव मत्सर
उच्यते । विचारकाले यदि परेषां कल्याणाभिलाषश्चित्ते न स्यात्तहि समीचीनो"
न स्यात् कृतः स विचारः । अतो मन्त्रं कुर्वन् परेषां शुभस्य विद्वेषं न कुर्यात् ।
मन्त्रणावसरे परेषामशुभं न चिन्तनीयं, परहितभावनयैव मन्त्रणीयमिति
भावः॥३०॥

- -- म चाणक्यसूत्रे- कार्याकार्य का विचार करते समय दूसरों के हित का विरोध नहीं करना चाहिये ॥३०॥ शत्रोः कस्याप्यन्यस्य वा दोषाणां ज्ञानं मन्त्रेण भवतीति प्रतिपादयति- मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति ॥३१॥ मन्त्रचक्षुषेति । मन्त्रचक्षुषा-मन्त्र एवं चक्षुर्नेत्रं तेन, परच्छिद्राणि- "परेषामन्येषां छिद्राणि दोषान्, अवलोकयन्ति-पश्यन्ति जानन्तीति यावत् । नेत्रस्य कार्य दर्शनम् । मन्त्ररूपेण नेत्रेण परदोषाणां दर्शनं भवतीत्यर्थः । अन्य 'कृतानामनुचितकर्मणां परिज्ञानं मन्त्रेणैव राज्ञां भवति, नान्यः कोऽपि तथा. "विधस्तत्परिज्ञानोपाय इति भावः ॥३१॥ मन्त्ररूपी नेत्र से (राजा) दूसरों के दोषों को जान लेते हैं ।।३१॥ षट् कर्णान् गतः अर्थात् त्रिभिः कृतो मन्त्रः सुरक्षितो न तिष्ठतीत्याह- षट्कर्णो मन्त्रश्छिद्यते ॥३२॥ षट्कर्ण इति । षट्कर्ण:-षट् कर्णा अर्थात् त्रयो मनुष्या यत्र सः, मन्त्रः गुप्तविचारः, छिद्यते-भिद्यते भिन्नो भवति । त्रिभिः कृतो मन्त्रः प्रकाशरूपतां गच्छतीत्यर्थः। अत्रेदं रहस्यम्-राजानं मन्त्रमप्रकाशयन् मन्त्री शासकस्य राज्ञोऽनुमति विना कि नाम कतुं शक्नोति ? राज्ञः सङ्गोच्य स्वेच्छयव कथ- “चिकिञ्चित् कदाचित् कुर्वन् स मन्त्रिणामधमः कथ्यते । अतो मन्त्रणकार्ये राज्ञः समावेशोऽनिवार्यः । अथ पुनस्तृतीयस्यापि कस्यचित् समावेश: केनापि कारणेन तत्र क्रियते तदा, चतुर्थस्य कुतो नेत्यनवस्या स्यात् । अन्यच्च-द्वाभ्यां राजा मन्त्रिणा च कृतो विचारो 'यथायं मामेव नान्यं कथयति तथाऽहममुमेव कथयिष्यामि नान्यम्' इति परस्परभावनया तत्रैवोभयत्र तिष्ठेत, न ताभ्यां स "विचारः कुत्रचित्प्रकाश्येत । इतः परं तर यस्तृतीयादिकः सम्मिलितो भवेत्; स च 'यथास्माभिरयं विषयो जातस्तथान्येऽपि कुतो न जानीयु'रित्येवं “विवारयन् तदितरत्रापि तं विषयं कदाचित्प्रकाशयेत् । तेन मन्त्रगोपनरूपं मूलमेव व्याहन्येत । अतो नीति: साध्वेव सूचयति - 'षटकर्णो भिद्यते मन्त्र' इति ॥३२॥ छः कान में गया हुआ अर्थात् तीन मनुष्यों का किया हुआ मन्त्र फूट जाता है ॥३२॥ त्रिभिः कृते मन्त्र सम्भवद् दूषणमप्याह-- त्रयाणामकवाक्येऽसम्प्रत्ययः ॥३३॥ -- प्रथमोऽध्यायः १३. त्रयाणामिति । त्रयाणाम्-मन्त्रणावसरे मन्त्रं कुर्वतां वित्वविशिष्टानां पुरुषाणाम्, ऐकवाक्ये एकवाक्यतायाम् ऐकमत्य इति यावत्, असम्प्रत्यय:-- अविश्वासः भवति । अयं भाव:-"द्वाभ्यामेव मन्त्रयितव्यम्, रहस्योद्घटना-- भिया तृतीयस्तत्र मन्त्रणे न समावेशनीय इत्येवं तावत्पूर्वसूत्रे सिद्धान्तितम् । इत्थं सत्यपि कथञ्चित् सम्मिलितास्त्रयो मन्त्रये युस्तहि तेषां त्रयाणां तदानी- मेकवाक्यता भवेन्नवेति सन्देहास्पदमेव । परस्परं विवदमानेषु तेषु सर्वेषामेक- मेव सम्मतं भवेदित्यत्र यदि विश्वासो नास्ति तहि कस्यापि निर्णयस्य तत्र वार्तव का? उच्यते च लोके-"त्रिक विकट"मिति । इदं च सूत्रं नूतनोपलब्धपुस्तकेषु 'त्रयाणामेकवाक्ये सम्प्रत्यय' इत्येवमुप-- लब्धम् । प्रकृते विरुद्ध एष पाठो न सङ्गच्छते । अस्य व्याख्यान कौशलं दर्श- यन्तो नूतनाः सर्वेऽपि टीकाकृती यत्किञ्चित्प्रलपन्तो भ्रान्ता एव । अस्माभिस्तु विचारपुरःसरं तत्र 'असंप्रत्यय' इत्यकारप्रश्लेषात्पूर्वसूत्रानुसरणेन सोऽर्थः. सङ्गतिं नीतः। निपुणमेतन्निरूपणीयं प्रा रित्यलम् ॥३३॥ तीनों की एकवाक्यता ( एक मत ) होने में विश्वास नहीं: होता ॥३३॥ इदानीं मन्त्रिणो लक्षणमाह- अकामबुद्धयो मन्त्रतत्त्वार्थदशिनो मन्त्रिणः॥३४॥ अकामबुद्धय इति । अकामबुद्धयः-निरपेक्षबुद्धयः, मन्त्रतत्त्वार्थदर्शिन:- मन्त्रस्य तत्त्वार्थ वास्तविक सारभूतमथं द्रष्टुं विचारयितुं शीलं येषां तादृशाः, मन्त्रिण:-मन्त्रिपदमारूढा भवेयुः । येषां मनसि कोऽपि कीदृशोऽप्यों नास्ति; ये च यथार्थरूपेण कर्तुं समर्थाः सन्ति, त एव मन्त्रिणो भवितुमर्हन्ति । पक्ष- पातसहिताः सापेक्षबुद्धयो मन्त्रस्य तत्त्वमजानन्तो मन्त्रिपदं प्राप्ताः सम्यङ्नयं कर्तुमपारयन्त: कार्यमेव सर्व विघातयेयुः। अतस्तादृशा मन्त्रकार्ये वर्जनीया इति भावः ॥३४॥ जिनकी बुद्धि में कोई अपेक्षा ( इच्छा ) न हो और जो मन्त्र का यथार्थ रूप जानने में समर्थ हों, वे ही मन्त्री होने योग्य हैं ॥३४॥ बलाथिनो राज्ञः कर्तव्यतया वक्ष्यमाणे मित्रसङ्ग्रहे 'मित्रं कीदृशं स्या- दित्येतन्निरूपयति-- आपत्सु स्नेहयुक्तं मित्रम् ॥३५॥ आपत्स्विति । आपत्सु-शत्रुकृतदैविकाद्यसु विपत्तिषु सतीसु, मित्रम् - सुहृत्: --

चाणक्यसूत्रे-
-स्नेहयुक्तम्-स्नेहभावेन समन्वितं भवेत् । सम्पत्तिसमये किल स्वार्थपरवशा:
“परेऽपि मित्रभावं दर्शयन्ति परं विपत्तिसमये यः किल स्नेहभावं पूर्ववत् प्रकट
यति, स एव मित्रपदवीं वस्तुतः प्राप्नोति । आपत्तिरेव मित्रस्य परीक्षाया
निकषोपल: । तत्र स्नेहं त्यजन्मित्रं न भवतीत्यर्थः ॥३५॥
विपत्ति के समय मित्र को स्नेहयुक्त होना चाहिये ॥३५॥
आपदि स्नेहसंयुक्तानां मित्राणां सङ्ग्रहे को लाम इति निर्दिशति-
मित्रसङ्ग्रहणे बलं सम्पद्यते ॥३॥
मित्रसङ्ग्रहण इति । मित्रसङ्ग्रहणे-मित्राणां सुहृदां सङ्ग्रहणे प्राप्ति
कर्मणि, बलम्-शक्तिः, सम्पद्यते-संवर्धते । शक्तिस्तावत्त्रिविधा-प्रभमन्त्री
साहरूपेति । अयमाशयः-अनन्यभावानां स्निग्धानां कर्तव्यशीलानां समर्थान
'मित्राणां साहाय्येन दुर्बलोऽपि राजा बलवान् भवति । प्रबलो हि सर्वक
समर्थः । अतो भूतिमिच्छता राज्ञा सन्मित्रसङप्रहः कर्तव्य इत्युपदिष
भवति ॥३६॥
मित्र का सङ्ग्रह करने से बल बढ़ता है ।।३।।
बलयुक्तः किं कुर्यादित्याह-
बलवान अलब्धलाभे प्रयतेत ॥३७॥
बलवानिति । बलवान्-शक्तिसम्पन्नो राजा, अलब्धलाभे- अलब्धस्य
नधिगतस्यार्थस्य लाभेऽर्जने, प्रयतेत-सयत्नो भवेत् । अलब्धमर्थं लब्ध्वा बर
सार्थकं कुर्यादिति भावः । अयमाशय:-शक्तिसम्पन्नेन राज्ञा स्वतेजसा रिपूना
क्रम्य वशीकृत्य च तेषां राज्यं प्राप्तुं सयलेन भाव्यम् । अयमेव राज्ञोऽलब्ध
लाभः । अलब्धं पराधिकारे स्थितं राज्यं स्वायत्तं कर्तुमेव बलस्योपयोगः ॥२७॥
बलवान् राजा को अप्राप्त की प्राप्ति के लिये यत्न करन
चाहिये ॥३७॥
अप्राप्तप्राप्तावनाधिकारिणं वर्णयति-
अलब्धलाभो नालसस्य ॥३८॥
अलब्धलाभ इति । अलसस्य-कार्यमकुर्वतो मन्दस्य, अलब्धलाभ:-
अप्राप्तवस्तुनः प्राप्तिः, न भवति । 'आलस्यं हि मनुष्याणां शरीरस्थो महान्
रिपुरित्यालस्यरूपे महति शत्रावतिसन्निकृष्टे सत्यलब्धलाभे न कदाचिदपि
प्रभू राजा । तस्मात्सर्वप्रयत्नविघातकमालस्यं स्तोकमपि न समाश्रयणीयं भूति-
मिच्छता राज्ञा जनेन वेति ॥३८॥
आलसी को अप्राप्त वस्तु की प्राप्ति नहीं होती ॥३८॥

प्रथमोऽध्यायः १५ -- पीति अलस: पुरुषो देवाल्लब्धस्यापि रक्षणेऽसमर्थ इति कथयति-- अलसेन लब्धमपि रक्षितुं न शक्यते ॥३९॥ अलसेनेति । अलसेन-उत्साहहीनेन मन्देन, लब्धम्-प्राप्त राज्यादिकम- यावत्, रक्षितुम्, पालयितुम्, न शक्यते-न पार्यते । आलस्यं यथाप्राप्त प्रापयितुन क्षमते तथैव प्राप्त रक्षितुमपि । 'अलब्धलाभे प्रयत्न एवान्याय्योऽतः सन्तोषवृत्तिना भवितव्यं धर्मशीलेन पुरुषेणे'ति केषाञ्चिद्वचः । युक्तेऽपि सत्ये- तस्मिन् वचसि स्वाधिकारगतस्य रक्षणं स्वजीवनस्य रक्षणमिवेति । तत आत्मानमपि रक्षितुमालस्यत्यागोऽपेक्षित इत्युक्तं भवति ॥३९।। आलसी राजा मिली हुई वस्तु की भी रक्षा नहीं कर सकता ॥३९॥ यदि दैवादालस्ययुक्तेन लब्धं रक्षितं भवेत्तथापि वृद्धिमगच्छत् तन्न किञ्चिदुन्नतिकरमिति ब्रूते- न चालस्ययुक्तस्य रक्षितं विवर्धते ॥४०॥ न चेति । आलस्ययुक्तस्य-आलस्येन मान्छन युक्तस्य समन्वितस्य, रक्षितं च-पालितमपि, चकारोऽप्यर्थे, न विवर्धते-न वृद्धि प्राप्नोति । प्रकृतीनामतिस्ने- हात् पित्रादिकृतशत्रुच्छेदेन वा रक्षितमपि राज्यकोषादिकं राज्ञो मान्येन न कदाचिद् वृद्धि गच्छति । अनुन्नतं च राष्ट्रमन्यराष्ट्राणामुपहासभाजनं भवति अत आलस्यं त्यक्त्वैव राजा समुन्नति प्राप्तुं शक्नोतीत्येतावदर्थजातमत्र ॥४०॥ आलसी राजा द्वारा रक्षित होने पर भी ( राज्य-कोषादि की) वृद्धि नहीं होती ॥४०॥ अलसस्य भृत्यपोषणशक्तेरप्यभावं वक्ति- न भृत्यान् पोषयति ॥११॥ न भृत्यानिति । भृत्यान्-सेवकान्, न पोषयति-न पालयति यथोचित. रूपेणेति यावत् । स्वमपि रक्षितुमसमर्थो योऽलसः, स किल कथं परान् भृत्यान् पोषणद्वारा रक्षितुं क्षमतामिति भावः । इदं तात्पर्यम्-अपोषिता भृत्या असन्तृष्टा भूत्वा कार्यहानि कुर्युरन्यं कञ्चित्पोषयितारं राजानं समाश्रयेयुर्वा । अयोग्या अलसा एव भृत्यास्तत्सेवने चिरप्रवृत्ताः स्युः । अयोग्यपरिवृत्तश्चासौ सदा दुःखी स्यात् । अत आलस्यं त्यक्त्वा कोषादिकं वर्धयित्वा च राजा सुभृत्यानां सम्यक पोषणे समर्थो भवेदित्युपदिष्टं भवति ॥४१॥ -

चाणक्यसूत्रे-
-
-
( वह ) नौकरों का पोषण नहीं कर सकता ॥४॥
आलस्ययुक्तो राजास्मिल्लोके शान्ति न प्राप्नोति, आमुष्मिक्य शान्त्याय
यतितुं न पारयत्यसाविति वक्ति-
न तीथं प्रतिपादयति ॥४२॥
न तीर्थमिति । अलसो राजा, तीर्थम्-काश्यादिस्थानम्, न प्रतिपा
यति-न साधयति । तीर्थाटनेऽपि न समर्थोऽलस इति भावः। अयमाशय
शास्त्राध्वरविद्यासदनभूतानि तानि तानि प्रसिद्धानि पुण्यक्षेत्राण्युपगम
सत्सङ्गतिर्लभ्यते । सत्सङ्गतिरेव धर्मानुरागं जनयति वर्धयति च । तीर
टनद्वारा वृद्धि गतेन धर्माऽनुरागेण परमा शान्तिरधिगन्तुं शक्या। अतस्ती
यात्रासम्पादनाय मान्धं त्याज्यमेवेति स्पष्ट मुक्तं भवति ॥४२॥
आलसी राजा तीर्थयात्रा भी नहीं कर सकता ॥४२।।
राज्यतन्त्रस्वरूपमधुना निर्दिशति-
अलब्धलाभादिचतुष्टयं राजतन्त्रम् ॥४३॥
अलब्धलाभादिचतुष्टयमिति । अलब्धलाभादिचतुष्टयम्-अलब्धला
आदौ येषां तेषां चतुष्टयं चतुःसंख्यापरिमितिः, राज्यतन्त्रम्-राज्यस्य राष्ट्र
तन्त्रं सिद्धान्तोऽस्ति । पूर्वोक्तविधया राज्यसिद्धान्तस्वरूपं चतुर्विधम्, तद्यथा-
अलब्धस्य लाभ, लब्धस्य संरक्षणम्, रक्षितस्य संवर्धनम्, संवधितस्य सम्य
प्रयोगश्चेति । एत एव चत्वारोऽर्था राज्यसिद्धान्तपदेन व्यवह्रियन्ते । अर
माशय:-मूलभूतमेतच्चतुष्टयमाश्रित्यैव राजा राज्यं सञ्चालयितुं समर्थः
एतेषां स्वरूपोपयोगिते त प्रागुक्ते एव ।।४३॥
अप्राप्त की प्राप्ति आदि-अप्राप्त की प्राप्ति, प्राप्त की रक्षा
रक्षित की वृद्धि तथा वर्धित का सत्प्रयोग-यही चार राज्य वे
सिद्धान्त हैं ।।४।।
राज्यतन्त्रमनुसृत्यैव नीतिशास्त्रं प्रवर्तत इत्याह-
राज्यतन्त्रायत्तं नीतिशास्त्रम् ॥४४॥
राज्यतन्त्रायत्तमिति । राज्यतन्त्रायत्तम्-पूर्वोक्तराज्यतन्त्राणाम् आयत्त.
मधीनम्, नीतिशास्त्रं भवति । निखिलं नीतिशास्त्रं पूर्वोक्तान् सिद्धान्तानेवा.
श्रित्य प्रवर्तते । तेषां विमर्श एव नीतिशास्त्रविषयः खल । अतो नीतिशास्त्र.
जिज्ञासुना पर्यायेण चत्वारः सिद्धान्ता अनुसरणीया इत्युक्तं भवति ॥४४।।
राज्य के मूल सिद्धान्तों के आधार पर ही नीतिशास्त्र चलता
है ॥४४॥

प्रथमोऽध्यायः १७ पुनश्च किं फलं राज्यतन्त्रस्येति वक्ति- राज्यतन्त्रेष्वायत्ती मन्त्रावापौ ॥४५॥ राज्यतन्त्रेष्विति । राज्यतन्त्रेष-राज्य तन्त्राणामेव, आयत्तौ-अधीनों मन्त्रावापो भवतः । रहसि युक्तायुक्त विमों मन्त्रः, परराष्ट्रचिन्तनम् आचापः। राज्यतन्त्राण्येवाश्रित्य मन्त्रावापो स्फुरत इति भावः । 'मन्त्रमूला: सर्वारम्मा' इति मन्त्रस्योपयोगित्वं पूर्वमेव निर्दिष्टम् । परराष्ट्रचिन्ता च पुना राज्य- रक्षगेऽतिहितकरी । न हि परराष्ट्र तद्रहस्यज्ञानेन विना वशीकर्तुं शक्यते । परराज्याधिगतिरेव पुना राज्ञां महाल्लाभः। अतः स्वकीयं राज्यं रक्षितुं परकीयं राज्यमधिगन्तुं च राज्यतन्त्राणां सम्यग्ज्ञानं प्रयोगश्चावश्यको नृपस्येति स्पष्टम् ॥४५॥ मन्त्र (गुप्त विचार) और आवाप ( शत्रु के कामों को जानना) ये दोनों उपर्युक्त राज्य-सिद्धान्तों के अधीन हैं ॥४॥ किमाश्रित्य मन्त्रस्योपस्थितिर्भवतीत्याह- मन्त्रं स्वविषये कृत्येष्वायत्तम् ॥४६॥ मन्त्रमिति । मन्त्रम्-गुप्तभाषणम्, स्वविषये -स्वस्यात्मनो विषये देश, कृत्येष-कार्येष कार्याणामिति यावत्, आयत्तम्-अधीनम्, भवति । अत्र सूत्रे मन्त्रशब्दो मेदिनीकोषप्रामाण्येन क्लीबे प्रयुक्तः। स्वदेशवर्तिकार्य स्वरूपमनु- सृत्यैव मन्त्रः प्रवतंत इति भावः । यादृग्व्यापारः करणीयस्तादृगेव मन्त्रोऽपि समाश्रयणीयः । “मन्त्रपूर्वः सर्वोऽप्यारम्भः क्षितिपनीना"मिति शुक्रनीतिरप्य- मुमेवार्थ ध्वनयति ॥४६॥ मन्त्र अपने देश के कार्यों के अधीन होता है ॥४६॥ पूर्वोक्तस्याबापस्य स्थिते रधिकरणं कथयति..... आवापो मण्डले सन्निविष्टः ॥४७॥ आवाप इति । आवाप:- शत्रुविषय कचिन्तोद्भूतं तत्कार्यान्वेषणम् मण्डले द्वादशराजके राज्य समूहे, सन्निविष्ट:-स्थितः। आवापो मण्डले भव- तीत्यर्थः। स्वदेशगतकार्याणि कर्तुं यथा सावधानतया तदुपायचिन्तनं युज्यते तथैव परराष्ट्रव्यापारान् सम्यग्ज्ञातुमपि तच्चिन्तनमावश्यकम् । शवकार्येषु दत्तदृष्टिरेव राजा स्वकार्येषु सफलो भवति । अत: परराष्ट्रचिन्तनरूप आवाफो भूपनेरत्यावश्यक इति ॥४७॥ २चा.

ma- - १८ चाणक्यसूत्रे- मण्डल ( बारह राजाओं के राज्य ) में आवाप ( शत्रु केक का चिन्तन ) की स्थिति होती है ॥२७॥ मण्डलं सन्धिविग्रहयो: कारणमिति वक्ति---- सन्धिविग्रहयोर्योनिमण्डलम् ॥४८॥ सन्धिविग्रहयोरिति । सन्धिविग्रहयो:-सन्धिः पणबन्धपुर:सरं श सह मैत्रीकरणम्, विग्रहोऽन्यमण्डले दाहलण्ठनादिभिरुत्पन्नं युद्धम्, तयो योनिः-उत्पत्तिस्थानम्, मण्डलम्, भवति । अयमाशय:-यदि शत्ररधिक तहिं पणदानेन तोषयित्वा तेन सन्धिः क्रियते। तद्विजिगीषा वा भवे समवलेनाधिकबलेन वा केनाप्यपरेण सन्धिः सम्पाद्यते। शत्रुजन्यापराधोद' दम द युद्धं भवति । एतावुभौ मण्डल एव भवत इति कथितमत्र ॥४८॥ सन्धि और विग्रह (युद्ध ) का स्थान मण्डल है ।।४८।। राज्ञा नीतिशास्त्रमनुसृत्यैव वर्तितव्यमिति विवक्षुराह- नीतिशास्त्रानुगो राजा ॥४९॥ नीतिशास्त्रानुग इति। नीतिशास्त्रानुगः-अर्थशास्त्रदण्डनीत्यादि नीतिस्तत्प्रापर्क शास्त्रं नीतिशास्त्रमुच्यते, तस्यानुगस्तदनुकुलकर्मकर्ता, रा नृपो भवेत् । नीतिशास्त्रमनुसृत्य राजा कार्येषु प्रवर्तेत । अयमाशय नीतिविरुद्धकर्मासक्ता बहवो वेनप्रभृतयो राजानो नष्टाः । उक्तं युक्तिकल्पतरो- "नीतिहीननरेन्द्राणां विनश्यन्त्याशु सम्पदः । अतो नीति: प्रयत्नेन श्रवणीया नृपोत्तमैः।।" इति । नीतिनैपुण्यादेव राज्यसञ्चालिका: प्रभावोत्साहमन्त्रजास्त्रिवि शक्तयः प्रादुर्भवन्ति । अतः शक्तिमिच्छता राज्ञा नीतिशारानुवर्तिना भ तव्यमिति ॥४९॥ राजा को नीतिशास्त्र के अनुसार चलना चाहिये ।।४९।। शत्रुलक्षणं वक्ति- अनन्तरप्रकृतिः शत्रुः ॥५०॥ अनन्तरप्रकृतिरिति । अनन्तरप्रकृतिः अनन्तराऽगहिता प्रका स्थितिर्देश इति यावत् यस्य सः, शत्र:- शत्रुपदव्यवहार्यो भवति । अव्यवहि देशस्य राजा स्वभावतः शत्रतां भजत इति भावः । निजराज्य समृद्धयर्थं यश लाभाय च नृपः परराष्ट्राणि विजेतुं सयत्नो भवति । आसन्नतिनोरे प्रथमोऽध्यायः MP4 राज्ययो: परस्पराभियान सुकरम् । अत: समीपस्थदेशस्य राजैव स्वाभाविक: शरिति कथितम् ॥५०॥ अत्यन्त समीप के देश का राजा शत्रु होता है ॥५०॥ शवलक्षणं प्रोच्य मित्रलक्षणं निरूपयति- एकान्तरितं मित्रमिष्यते ॥५१॥ एकान्तरितमिति । एकान्तरितम् --एकेन राज्येन अन्तरितम् व्यवहितम्, मित्रम्-सुहद, इष्यते-वाञ्छयते । एकराज्यव्यवहितं राजानं मित्रं कुर्या- दिति भावः । अतिसनिकृष्टो नप: स्वभावत एव राज्यप्रसारलोमाछत्र- भवति । एकराज्यव्यवहितोऽसौ समानशत्रुत्वादनायासेन मित्रत्वं भजते । अतः समानमेव शत्रुमुन्मलयितुं तस्मादात्मानं रक्षितुं वैकराष्ट्रव्यवहितदेशस्याधि- पतिमेव मित्रं कुर्यादित्युपदिष्टमत्र ॥५१॥ ( अपने देश के अतिनिकट ) एक राज्य से व्यवहित राजा को मित्र बनाना उचित है ॥५१॥ शत्रुत्वं मित्रत्वं च किमपि कारणमुद्दिश्यैव भवत इति निर्दिशति- हेतुतः शत्रुमित्रे भविष्यतः ॥५२॥ हेतुत इति । हेतुत:-कस्माच्चित्कारणादेव, शमित्र-शत्रुर्वेरी मित्रं सुहच्च भविष्यत:--भवेताम् । किच्चित्कारणमाश्रित्यैव कश्चिद्राजा शत्रता मित्रतां वा भजत इत्यर्थः । 'हेतुं बिना मन्दोऽपि न प्रवर्तत' इति किमपि कार्य कतुं कोऽपि फिश्चित्फलमेव लक्ष्यीकृत्य प्रवर्तते । अपकाराच्छत्रुरुपकारान्मित्रं जजायेते इत्वयंजालमत्र ।।५२।। शत्रु और मित्र कारण से ही होते हैं ॥५२॥ होयमानेन च निधन्ला--- होयमानेन न सन्धि फुर्वीत ॥५३॥ होयमानेनेति । दीयमानेन --- मशाऽवनति गच्छता राज्ञेति यावत्, सन्धिम् ---पणदानपुरःसरं मन्यानम्, न तुति --न विदधीत । अयं भाव:- अधिकबलाच्छयोति: चिदपरं पत्रु विजिगीषवां सन् केनचित् समान- घलेनाधिकबलेन चा नपेण मह सन्धि कुर्यात् । हीन बलेन राज्ञा सह मैत्रीकरण- मपाथकमेव, यतस्तस्मान्न किमपि भयं न चासौ साहाय्यदाने क्षमः । तद्राज्या- पहरणं च पुनरतिसुकरम् । तत्को नाम राजैवंविधो बालिशो य: स्वकीय- २० चाणक्यसूत्रे- राज्यस्याभिवृक्षावुदासीन: सन् विजितप्रायस्य राज्ञो राज्यमस्वायत्तीकृत्य सन्धानाय प्रवर्तेत? अत एव हीयमानेन मह सन्धिनिषिता नीतिकृता ॥५३॥ अवनति करते हुए राजा के साथ सन्धि नहीं करनी चाहिए ॥५३॥ केन कारणेन सन्धिः क्रियत इति विवक्षुराह तेजो हि सन्धानहेतुस्तदथिनाम् ॥५४॥ तेजो हीति । तदर्थनाम्-तस्य सन्धानस्य अथिनामिच्छुकानाम्, तेज:- बलं प्रतापो वा अन्यस्येति शेषः, हि नि:संशयम्, सन्धानहेतु:-सन्धानस्य सन्धे हेतुः कारणं भवति । प्रताप एव होनबलं सन्धाने प्रवर्तयतीत्यर्थः । अधिक बलाद्राशः स्वकीयं राज्यमभिरक्षितुं तेन, अथ वा तच्छत्रुभूतेन केनचिदपरेण तेजस्विना नपेण सन्धिमिच्छति न्यूनबलो राजा । उभाभ्यां साद्धं सन्धान कारणं तयोस्तेज एव भवति । तेजसो भीतस्तदवाप्तुमिच्छन् वा नृपः सन्दि कतुं प्रवर्तत इति भावः ।।५४।। सन्धि चाहने वालों के लिए सन्धि करने का हेतु (दूसरे राजा का प्रताप ही है ॥५४॥ पूर्वोक्तमर्थमुदाहरणेन पोपयति- नातप्तलोहं लोहेन सन्धत्ते ॥५५॥ नातातलोहमिति । अतप्तलोहम्-अतप्तमग्निनाऽदग्धम् लोहं धातुविशेष: लोहेन-लोहखण्डन, अतप्तेनेति यावत्, न सन्धत्ते-न मिश्रीभवति । अग्नि संयोगात्तप्तयोरेव लोहयोः परस्परं सम्मेलनयोग्यत्वादिति भावः । अग्निना तप्त एव लोहो द्रवत्वमापन्नोऽपरेण तथाविधेन लोहखण्डेन संयुज्यते । अग्निरेव तयोः सन्धानकारकः । एवं तेज एव द्वौ भिन्नो राजानी योजयतीति ।।५।। नहीं तपाया हुआ लोहा लोहे के साथ नहीं जुटता ।।५।। प्रबलस्य दुर्बलेन सह युद्धं विधास्यन्ताह--- बलवान होनेन विगृह्णीयात् ॥५६॥ बलवानिति । बलवान्-शक्तिमान, हीनेन-क्षीणबलेन मह,विगृलीयात्- युद्धं कुर्यात् । क्षीणशक्तिना राज्ञा सह बलवान् राजा युध्येतेत्यर्थः । बलवता युद्धं सर्वथैव हानिकरम् । समानबलेनापि विग्रहो नातिलाभप्रदो जयस्या- निश्चितत्वात् । हीन बलेन सर्म युद्धे न कदापि पराजयस्याशङ्का, प्रत्युत तद्राज्य- प्रथमोऽध्यायः लाभ एव स्यात् । अतो होनालेनैव सह बलवान् युदं कुर्यादित्युक्वं भवति ॥५६॥ बलवान् राजा बलहीन राजा से युद्ध करे ॥५६॥ पूर्वोक्तमेवार्थमतिस्पष्ट चिकीर्ष राह-- न ज्यायसा समेन वा ॥५७॥ न ज्यायसेति । ज्यायसा-अधिकवलेन, समेन-समानबलेन वा राजा 'विगृह्णीया'दिति पूर्वसूत्रेणानुवर्तनीयम्, न युध्येतेत्यर्थः । अयमभिप्राय:-अधिक- बलेन सह विग्रहे सर्वथैव हानि:, पराजयस्य तत्र निश्चितत्वात् । ममानबले. नापि विग्रहो हानिकर एव,यतो महतो धनस्य बलस्य च व्ययेनासो सम्पद्यते । विजयोऽपि तत्रकस्यानिश्चित एव । जयमेव लक्ष्यीकृत्य धनादिव्ययो गुज्यते । लाभस्याशंसयैव पुरुषः कस्मिश्चित्कर्मणि प्रवृत्तो भवति । जयस्यानिश्चितत्वे सर्वथा तदभावे वा विग्रहो नीतिविरुद्ध इति ॥५७।। अधिक बल वाले अथवा समान बल वाले से युद्ध न करे ।।५७।। बलिना सह युद्ध कीदृशं भवतीति दृष्टान्तेन दर्शयति- हस्तिनः पादयुद्धमिव बलवद्विग्रहः ॥५॥ हस्तिन इति । बलवद्विग्रहः--बलवता प्रबलेन राज्ञा विग्रहो युद्धम्, हस्ति- न:-करिणः, पादयुद्धम्-पादेन चरणेन सह युद्धम्, इव-तेन तुल्यं भवति । अय- भाशय:-यथा कठोरेण बलवता हस्तिपादेन युध्यमानो नरोऽवश्यमेव नाशमान प्नुयात्तथैव बलवताऽमर्षणेन च शत्रणा युध्यमानस्य नपस्य नामोऽवश्यम्भा- व्येव । अतो न कर्तव्यो विग्रह आत्मानं नाशयितु समर्थेन बलवता रिपुणेति ॥५॥ बलवान् से युद्ध करना हाथी के पैर के साथ युद्ध करने के सदृश है ।।५८॥ पूर्वोक्तमबुदाहरणेन दर्शयति आमपात्रमापेन सह विनश्यति ॥५९॥ आभपात्रमिति ! आमपात्रम्-आममपरिपक्वं पात्र भाजनं मायमिति यावत्, आपेन-अपां समूहेन, अद्रिनिति यावत्, सह-सार्धम्, वर्तमानमिति शेषः, विनश्यति --नाशं प्राप्नोति । जलपूर्णमामपात्र नश्यतीत्यर्थः । यथा जलस्य संयोगेनापरिपक्वं मत्पात्र क्षिप्रमेव भग्नं भवति, तथैव सर्वशक्ति सम्पन्ने प्रबले शबावभियानन नातिकालेन नाशं प्राप्नोति हीनबलो नपः। अतः सन युध्येत प्रबलेन वैरिणति शोपितमनेनोदाहरणेन ॥५९॥ NA - . चाणक्यसूत्रे- कच्ची मिट्टी का बर्तन पानी के साथ रहने से नष्ट हो जाता है।।५९॥ शशृणा स्वराज्यामियाने सति किं कुर्याद्राजेति वदति-- अरिप्रयत्नमभिसमीक्ष्यात्मरक्षया वसेत् ॥६०॥ अरिप्रयत्नमिति । बारप्रयत्नम्-अरीणा शत्रूणा प्रयत्नमुद्योग सेनासङ्. ग्रहादिकमिति यावत्, आभसमीक्ष्य-सर्वतो निराक्ष्य, आत्मरक्षया-आत्म- राज्यादिरक्षापूर्वकम्, वसेत्-तिष्ठ, राजति शेषः । शत्रोर्बलस्य सम्यनिरी- क्षण कृत्वाऽऽदम रक्षोपायं चिन्तयता भावतव्य नूपेणेति भावः । यदा कश्चिच्छ राज्यमभिगच्छति विग्रहच्छया, तदा तस्य बल कार्य वा सम्यग्नात्वंव तेन सह सन्धि विग्रह तदाश्रयण वा यथोचितं कुर्याद्राजा। तदीय प्रयत्न बल चाज्ञा- स्वैव सहस। मूढतया तेन सह योद्धु नोचितम् । तथा सति पराजयस्याशङ्का स्यात् । अतः शत्रुचेष्टितस्य निराक्षण कुवैतवाऽऽत्मरक्षोपायः कर्तव्यो नपेणेति कथित भवति ।।६०॥ আৰু के उद्योग का भली-भाँति निरीक्षण करके ( राजा को) अपनी रक्षा का उपाय करते रहना चाहिये ।।६०॥ शक्तिहीनो विग्रहसन्धिप्रस्ताव विहायातिप्रबलं राजानमाश्रयेदिति वक्ति- शक्तिहीनो बलवन्तमाश्रयेत् ॥६॥ शक्तिहीन इति । शक्तिहीनः-सामर्थेन रहितः क्षीणो राजा, बलवन्तम्- शक्तिमन्त भूपातम्, आश्रयेत्-अव लम्बेत । शत्रो प्रबले सति तेन सह विग्रहः सर्वथैवाऽवाञ्छतः खलु सर्वनाशशङ्कया। सन्धिप्रस्तावमस्वीकुर्वतातिप्रबलेन तेन सह सन्धिविग्रहावभावपि कत न युज्यते । तत्राश्रयणमेव वर तत्र । तेनैक तस्य रक्षायाः सम्भवः । नान्यत्किञ्चिदुपायान्तरमिति ।। ६१॥ बलहीन राजा बलवान् राजा का आश्रय ले ।।६१॥ दुबैलाश्रयणं दुःखायेति प्रतिपादायत प्रक्रमते दुबलाश्रयो हि दुःखमावहति ॥६२॥ दुर्बलाश्रय इति । दुबैलाश्रयः-दुबलस्य क्षीण बलस्य नृपस्याश्रयोऽवलम्ब- वम्, ह-नि:संशयम्, दुखम्-कष्टम्, आवहति-जनयति । स्वयं क्षीणबलो राजा स्वरक्षणेऽप्यसमथः कथं पुनराश्रितानामुपकृतो प्रभवेत् ? तदाश्रये तिष्ठन् राजा तत्साहाय्यमनवाप्य सततमेव शत्रुभ्यो भीतः स्वराज्यं रक्षितुं किमपि सुखं च लब्धु न शक्नुयात् । तेन दुर्बलस्य नृपस्याश्रयणं नूनं दुःखकर- मेवेति भावः ॥६२॥ .

प्रथमोऽध्यायः २३ दुर्बल का आश्रय दुःखदायी होता है ।।६२॥ इयत्पर्यन्तं राज्ञोऽनुसरणीयं नीतितत्त्व मुपदिश्य सूत्रकारः साम्प्रतं लोक. कर्तव्य मुपदेश्यन् राजानं कथमाश्रयेदित्याह- अग्निवद् राजानमाश्रयेत् ॥६३॥ अग्निवदिति । राजानम् ----शासकं नरेशम्, अग्निवत-अग्निमिब, आश्र- येत्-सेवेत । अग्निर्यथा नाऽतिसमीपतो न घातिदूरतः संधीयते लोकः, तथैव राजापीत्यर्थः । अतिसामीप्यादग्नेः सेवनं यथाऽनर्थकरम्, अतिदूराच्च सेवि- तोऽग्निर्यथा वा व्यर्थः, तथैव राजाऽप्यतिसन्निकर्षात् सेवितोऽतिपरिचयवशात कदाचिदनादरबुद्धिं वहेत् अतिविप्रकर्षाच्च सेवितः कदाप्युपेक्षाभावं कलयेदिति मध्यगत्या तदीयमाश्रयणं युज्यते । राज्ञो वह्नरिव नातिसमीपे नातिदूरे च स्थातव्यं जनैः, किन्तु किञ्चित्समीपे किञ्चिद्रे च स्थितियुक्तेति भावः ।।६३॥ अग्नि के समान ( न बहुत समीप और न बहुत दूर से ) राजा का सेवन करना चाहिये ॥६३।। राजविरुद्ध नाचरेदित्याह- राज्ञः प्रतिकूलं नाचरेत् ॥६४॥ राज्ञ इति । राज्ञः-स्वामिनः, प्रतिकूलम्-विरुद्धम्, न आचरेत्-न कुर्यात् । राजकीयाज्ञा जगत्यनिवार्या भवति । आज्ञामङ्गरूपमपराधं कुर्वन्तो दण्डनीयाः शासकेन । नापि कर्तव्यं तत्तेषां, यत् स्वामिनोऽनभिमतं विरुद्धं वा स्यात् । एवं सति ते राजद्रोहिणः स्युः । अत: सर्वथा सर्वेः सर्वात्मना राजानुसरणीयो न च प्रतिकूलाचरण: प्रकोपनीय इति भावः ॥६४।। राजा के विरुद्ध (कार्य) नहीं करना चाहिये ।।६४॥ इदानी लोकेन कथं वर्तितव्यमित्याह- न देवचरितं चरेत् ॥६५॥ नेति । देवचरितम्-देवानां सुराणां चरितम् आचरणम्, न चरेत्-नाश्र. येत्, अयमर्थ:-सर्वशक्तिसम्पन्नैर्देवः यथावसरं यद्यदाचरितं तद्यदि लोकोऽप्य- क्षमः कतुं प्रवर्तन, तर्हि सोऽवश्यमेवोपहास्य: स्यात् । इन्द्रादीनां चरितं प्रसिद्धमेव । श्रीकृष्णलीलापि विदितैद । तादृशमाचरणं तादृशामेव शक्तिमता शोभते । अतस्तथा ( देवचरितानुसरणं ) न कर्तव्यमित्येष गूढोपदेशः ॥६५॥ . - चाणक्यसूत्रे-- देवों का किया हुआ कार्य नहीं करना चाहिये ।।६५।। लोकस्वरूपमधुना वर्णयति- नोद्धतवेशधरः स्यात् ॥६६॥ नोद्धतवेशधर इति । उद्धतवेशधर:-औद्धत्यसूचकम् उद्धतलोकसेवितं वा वेशं धारयन् लोकः, न स्याइ-न भवेत् । विनयाभावमसभ्यतां च दर्शयन्नु- द्वतः कथ्यते। वेशश्च स्वात्मालङ्करणानां वस्त्रादीनां धारणम् । अशिक्षितर्ज- नर्यादृशं वस्त्रादीनां धारणं क्रियते, यच्च वस्त्रादिधारणं विनयाभावमसभ्यता वा सूचयति, न तथा वस्त्रादिकं परिधातव्यम् । तथा सति तत्र पुरुषे लोकानामनादरबुद्धिरप्रियता व स्यातामिति भावः ॥६६॥ असभ्यता को सूचित करने वाले अथवा असभ्य लोगों के वेश का ग्रहण नहीं करना चाहिये ॥६६॥ ईया कुर्वन्तो द्वौ परस्परं भेदनीयावित्याशयेनोपन्यस्यति-- द्वयोरपीय॑तोद्वैधीभावं कुर्वोत ॥६७॥ द्वयोरिति । ईय॑तो: ईष्या कुर्वतोः,परस्परोन्नतीरसहमानयोरिति यावत: ज्योरपि-पुरुषद्वयेऽपि, द्वैधीभावम्-द्विधात्वं भेदं, परस्परं सम्बन्धविच्छेदम् इति यावत्, कुर्वीत-उत्पादयेत् । इदमत्र तात्पर्यम्-केनापि कारणेन यदि कौचित् परस्परमुन्नति न सहेते तहि तदोप्द्वेषवशान्मिथः सम्बन्धशालिनावपि तो बहुतरां मिथो हानि मेवोत्पादयेताम् । विच्छिन्नसम्बन्धौ च तथा हानिकरी न स्याताम्, यतः संसर्गेष्वेव लामहान्यो: सम्भावना । अत: कोऽपि मध्ये स्थितः सज्जनस्तयोः परस्परमोष्यों कुर्वतोर्मेदमुत्पादयेत् । तेनैद तयोः कल्याणम् । भेदे सति मिथो विरोधस्तयोवृद्धि गच्छेत्, तेन च हानिरेवाधिकेति शङ्काया- मेतदेवोत्तरं यद् भेदमूलको विरोधः प्रकाशमागतोऽन्त:स्थितात सुगृढाद् विरो- धाद् वरीयानेव । तादृश्यामवस्थायां द्वयोः सावधानता परस्परं साहाय्यं कर्यादित्यलम् ॥६७॥ ईर्ष्या ( डाह ) करने वाले दो पुरुषों का आपस में भेद ( सम्बन्ध विच्छेद ) करा देना चाहिये ॥६७।। व्यसनेष लग्नस्य जनस्य राज्ञो वा न कार्यसिद्धिर्भवतीति दर्शयति- न व्यसनपरस्य कार्यावाप्तिः ॥६॥ न व्यसनपरस्येति । व्यसनमरस्य-व्यसने लग्नस्य, व्यसनं तावत् कस्मि- -

प्रथमोऽध्यायः
२५
-
श्चिदपि कर्मण्यतिमात्राशक्तिः, कार्यावाप्तिः कार्याणी कर्मणामवाप्ति: सिविः, न
भवति । व्यसनलिप्तो नरो न किमपि साधयितुं समर्थ इति भावः । व्यसनासक्ता
पुरुषो न क्वचिदन्यत्र निति लमते । कर्तव्यकार्येषदासीन एवासी भवति ।
उदासीनतया हितानि सम्पादयितुं यत्तं कथं कुर्यात् ? यत्नेन विना न किश्चित्
सिध्यति लोके । अत: कार्यसिद्धिमिच्छता पुरुषेण व्यसनरहितेन भाव्यमिति ।६
व्यसन में लगे
हुए पुरुष
को कार्य की सिद्ध नहीं मिलती ॥६॥
व्यसनासक्तस्य कार्याणामसिदिमुक्त्वाऽजितेन्द्रियस्यापि तथात्वमाह-
इन्द्रियवशतिना नास्ति कार्यावाप्तिः॥१९॥
इन्द्रियवशवतिन इति । इन्द्रियवशवर्तिन:-इन्द्रियाणां मनश्चक्षःप्रभृतीना-
भेकादशसंख्याकानाम, वशे तत्कत के शासने पतितुं शीलमस्येत्येवम्भूतस्य पुरु-
षस्य, कार्यावाप्ति:-कार्यसिद्धिः न अस्ति-न भवति । विषयवशवक्षस्य न
किञ्चित् सिध्यतीति भावः। बलवन्ति दृढं प्रमाथीनि चेन्द्रियाणि भवन्ति ।
तानि च तेषु तेष विषयेषु पुरुषं प्रसह्य प्रेरयन्ति । तत्तद्विषयेष्वासक्तः पुरुषो न
कदापि विषयेतरानर्थान् भजते । कर्तव्येष्वनभिरुचि: सजायतेऽसी । कर्तव्य
विहायाऽकर्तव्यं कुर्वता जनेन न कदापि सिद्धिलभ्यते । अतो जितेन्द्रियेण भविन
तव्यं कार्यफललिप्सुना पुरुषेणेत्याशयः ।।६।।
इन्द्रियों के वश में रहनेवाले पुरुष के कार्य की सिद्धि नहीं
होती ॥६९।।
Homed
सहसा कार्य प्रवृत्तेनापि न सिद्धिलभ्यत इत्याह-
नास्ति कार्य द्रुतप्रवृत्तस्य ॥७०॥
नास्तीति । द्रुतप्रवृत्तस्य-त्रुतं शोघ्र यथा स्यात्तथा अविचार्येति यावत:
प्रवृत्तस्य मारब्ध कर्मण: पुरुषस्थ, कार्य नास्ति-कार्यफलं न भवति । अविचार्य
कृतानि कर्माणि न सिद्धि प्राप्तवन्तोति भावः। हानिलाभादिविचारमकृत्येव
कार्य प्रवृता नालिशा: पुरषा न पाकम' युज्यन्ते । फलं तावदूरे तिष्ठेत, ते
बहुभिरापदिः गमालम्यन्तेऽविवेकाययेण। अयमेवार्थ: समुद्धोषित: श्रीभार-
विणा-'सहसा विधालन क्रियान्वित परमापदां पदम्' इति । अत: कार्य।
फलं लन्धुमिच्छा गहना कार्य परतेंतेति ॥७॥
शीघ्रता से (बिना विचार किये) काम करने-वाले पुरुष का
कार्य सिद्ध नहीं होता ॥७॥

२
६
.
चाणक्यसूत्रे-
मृगयासक्ति निषेधन्नाह-
मृगयापरस्य धर्मायौँ विनश्यतः ॥७१॥
मृगयापरस्येति । मृगयापरस्य-आखेटासक्तस्य, मृगया तावद् वन्य-
पशूनां क्रोडया हननम्, धर्मायों-धर्मश्चार्थश्च, विनश्यत:-विशेषेण नश्यतः ।
मृगयासक्तिधर्मार्थो नाशयतीति भावः : हिस्राणां वन्यपशूनामवसादनं नानु-
चित्तम् । यतो व्याघ्रादयो हिंस्राः पशवो जनान् भृशं पीडयन्ति,तेषां हननं प्रजा-
रक्षणमेवातो नानुचितम् । किन्तु तत्र कर्तव्यभावोऽपेक्षितः । यदि तेषां हननेन
राजा क्रीडासुख लभते तहि नोचितमेव तत्, कार्कश्यवृत्तिजनकत्वात् । कार्कश्य-
वृत्तिरसी दयास्नेहादिभिधर्मप्राणभूतैर्गुणविरहितो भवेत् । एभिगुणैर्वियुक्तो
राजा न कदापि प्रजावत्सलः स्यात् । अप्रजावत्सलो राजा प्रजानां कमप्युपकारं
कर्तुं न प्रवर्तेत । मृगयाव्य सनासक्तः पुनः कथं स धर्मशास्त्रादिश्रवणे तीर्थादि-
सम्पादने वा चेतो निदध्यात् । एवं सर्वथैव धरहितः स भवेत् । अथ च
मृगयासक्त्या न केचिदर्थलाभकरेषु व्यापारेप्वात्मानं योजयेत् सः । एवमर्थ-
रहितोऽमि भवेदसौ । तस्माद्धर्मावधिगन्तुमिच्छन् राजा न मृगयासक्तो भवेदिति
सुष्ठूपदिष्टमत्र ॥७॥
आखेट ( शिकार ) में लगे हुए राजा के धर्म और अर्थ ( दोनों
वष्ट हो जाते हैं ।।७१॥
मदिरासे विनः कार्येषु नियोजन प्रतिषेधन्नाह-
अर्थेषु पानव्यसनी न गण्यते ॥७२॥
अषिवती। पानव्यसनी-पानं-मद्यादिसेवनं
व्यसनम्-आसक्तिमयो
व्यापारोऽस्येति एवम्भूतः, अर्थेषु-कार्येष, न गण्यते-न युज्यते । मद्यपं न कार्ये
विनियोजयेति भावः । अयमाशय:-मद्यसेवको जनः प्रमत्तो भवति । प्रमत्तो न
किञ्चिद्रहस्यं गोपयितुं शक्नोति । रहस्यगोपनमेव तावत् कार्यसिद्धेर्मूलकारणम् ।
मदजनितबुद्धिविक्षेपादसो विवेकं कर्तुमममर्थः । विवेकरहितस्य न किमपि
कार्य सिध्यति । यदि कस्मिश्चिनिश्चित एव समयेऽल्पमात्रकमेव स मद्यादिकं
सेवेत तहि न महती हानिः । परन्तु व्यसनी खल न कदापि समयविभागं
मात्राया अल्पत्वं च जानाति । सततमद्यपाननिरतो जन: सर्वथैव कार्यसम्पाद-
नेऽसमर्थः, अतो न स नियोज्योऽर्थेष्विति कथितं भवति ।।७२।।
मदिरासेवी कार्यों में नियुक्त नहीं किया जाता ॥७२॥

प्रथमोऽध्यायः २७ राशः कामाधीनता न श्रेयस्करोत्याह- न कामासक्तस्य कार्यानुष्ठानम् ॥७३॥ न कामासक्तस्यति । कामासक्तस्य-मदनाधीनस्य विषयेषु प्रगाढप्रेम्णः, राज्ञ इति शेषः, कार्यानुष्ठानम्-कायसम्पादनम्, न भवति । कामी विलासी प राजा राज्यकाय किमाप सम्पादयतु नालम् । गूढार्थविधारस्तु विषया- सक्तचेतसस्तस्मात् सुदूर पलायेत । स्वविहारसापेक्षा विषया गम्भीरविचार- सहचारि राज्यकार्य चत्यतयोमहवैषम्यम् । अतो निजराज्योत्कमिच्छता राज्ञा किल कामासक्तिदरतस्याज्यात भावः ।।७३॥ कामी ( विषयो में आसक्त रहने वाला; लम्पट) राजा ( राज्य का) का काम नहीं कर सकता ।।७३।। परुषं वयो न प्रयोक्तव्यं राशेत्याह- अग्निदाहादपि विशिष्टं वाक्पारुष्यम् ॥४॥ अग्निदाहादपीति । वाक्पारुण्यम्-वचनस्य कठोरता, नीरसं कठोरं वचनमित्यर्थः, अग्निदाहादपि-वाह्नसन्तापादपि, विशिष्टम्-अत्यधिकं भवति । वह्नः सन्तापः कष्टकरा लोके । राजा च राज्यमदात् किमप्यगणयन् यदि परुषाणि वचास प्रजासु प्रयाजयद, ताहं तद् दुःखं प्रजानां वह्नः सन्तापादपि गुरुतरम् । वह्नो ज्वलन वर न पर कठोरवचःसहनम् । मधुर भाषणमकुर्वन् राजा प्रकृतिभ्यो न रोचेत । प्रकृतीनां प्रेम च राज्ञा सम्पादनीयमेव । अतो मधुरभाषिणक राज्ञा भवितव्यमित्यव द्योतित भवत्यनेन सूत्रेण ॥७४।। वचन की कठोरता आग की जलन से भी बढ़कर होती है ॥७॥ लोकवावश्यकतानुसारं मृदुर्दण्डः प्रयोक्तव्यो राजत्याशयेन ब्रूते- दण्डपारुष्यात् सर्वजनद्वेष्यो भवति ॥७॥ दण्डपारुष्यादिति । दण्डपारुष्यात्-कठोरदण्डप्रदानेन, राजेति शेषः, सर्वजनद्वष्यः-सकललोकशत्रुः भवति-जायते । ऐश्वर्यगवितो राजा दमनीयेषु निष्ठुरतया ताणान् दण्डान् प्रयोजयन् लोकाप्रियो भवति । अपराधिप दण्डेनैव प्रयोजनम्, न च कठोरतादिकमपेक्षणीयं तत्र। मृदुतया दण्डप्रदो राजा झापातना द्वयोऽपि नीत्या व्यवहरन् प्रजावर्गमन सा श्लाघ्य एव । अतः सर्वजनद्वपजनक दण्डपागष्यं नाश्रयेद्राति भावः ।।७५।।

चाणक्यसूत्रे- परिमितं दण्ड की कठोरता ( तीक्ष्ण दण्ड देने ) से राजा सब लोगों का दुषी हो जाता है ।।७।। श्रियमिच्छन् राजा स्वीयमयं न दूषयेदित्यभिप्रायेणाह- अर्थदूषकं श्रीः परित्यजति ॥७६॥ अर्थदूषकमिति । अर्थदूषकम्-अर्थ धनं दूषयति कुव्ययेन विध्वंसयति यस्तादृशं राजानम्, श्री: लक्ष्मी: सम्पत्तिरिति यावत, परित्यजति-सर्वथा त्यजति ।असदुद्ययं कर्तुं राज्ञः सकाशालक्ष्मीरपगच्छतीत्यर्थः । यो हि राजाs- वृथा गहितञ्च धनस्य व्ययं करोति, स किल कालक्रमेण श्रिया विर- हितो भवति । परिमितावश्यकश्लाघनीयव्ययेनैव लक्ष्मी: कन्चित् सुरक्षिता तिष्ठतीति भावः । अथ वा. श्री:-राज्यलक्ष्मीः, अर्थदूषकम्-अर्थ विचारणीय- मुपस्थितं विषयं दृषयति विनाशयति यस्तादर्श राजानम्, परित्यजति । राज्ञा समुपस्थितेष विचारणीयेषु विषयेषु निष्पक्षपातमुचितं निर्णेतव्यम् । असद्वि- धारादिना यदि तमर्थ राजा विधालयति, तहि राज्योत्कर्ष कतुंमशक्नुवन् स्वीयं प्रभत्वमपि नाशयेत् सः । अत: श्रियमन्विच्छता सदसद्विवेकिना भायं भूपेनेति भावः ।।७६॥ सम्पत्ति अथवा राज्य-लक्ष्मी, धन का अपव्यय करने वाले अथवा कार्य को बिगाड़ने वाले राजा को छोड़ देती है ॥७६।। विद्वषं भजमानं जनं दण्डनीतिमाश्रित्य वशीकुर्यादिति निदिशति- अमित्रो दण्डनीत्यामायत्तः ॥७७॥ अमित्र इति । अपित्रो-विद्वेषीस्वामिभक्तिरहित: प्रजाजनेष्वन्यतमः पुरुषः, दण्डनीत्याम्-दण्डनीते: अपराधिनियमनविधेः, प्रायत्त:-अधोन:। 'विद्रोही दण्डेन वशीक्रियत इति भावः। दण्डनीतिमाश्रित्येक राजाऽपराधिनो वशीकरोति । विदोहिणस्तु विशिष्टापराधिनः । न तेष कदापि क्षमा कर्तुम- चिता । क्षमाकरणेन तेऽन्यान् बपि विद्रोहिण उत्पादयेयुः । अतो विद्रोहिण: सर्वथैव दण्डेन वशं नेनव्या नीतिचतुरेण राज्ञेति ॥७७॥ विद्रोही दण्डनीति से वश में किया जाता है ॥७॥ दण्डनीते: प्रजारक्षणोपयोगित्वं निरूपयति- दण्डनीतिमनुतिष्ठन् प्रजाः संरक्षति ॥७॥ दण्डनीतिमिति । दण्डनीतिम्-अपराधिनियमनविधिम्, अनुतिष्ठन्-अनु- - - प्रथमोध्यायः - सरन् राजा, प्रजा:-प्रकृती:, संरक्षति-सम्यक् पालयति । स्वभावत: स्थापितो भवन्ति मनुष्याः । केपिस्वतिस्वाधिनः परार्धाभिहत्य स्वार्थ साधयितु यतन्ते । प्रबलो दुबैल बापते । शरीरशक्तिसम्पन्नाचीरा लण्टाका लम्पटानाम्यान सरलान् जनान् शृश पीडयन्ति । गुणिनः मुशीला: सदाचारा विधारता धर्म- भीरवः सन्त्रस्तरतितरां मिलश्यन्ते । सदाचारनिरतादीनामेव प्रयत्लेन जन- समाजः सुखमुन्नति च नीयते । तेषा रक्षणं राज्योत्कर्षायात्यावश्यकम् । अप- राधिनोऽदण्डयित्वा तेषां सम्यग रक्षणमशक्यम् । मतोऽपराधिनो दण्डयित्वा सज्जनान् रक्षितुदशनीतेः परमावश्यकतेति भावः ।।७८॥ दण्डनीति का प्रयोग करने वाला [राजा प्रजा की भली-भांति रक्षा करता है ॥७॥ दण्डनीते. फल निरूपयति- वण्ड: सर्वसम्पदा योजयति ॥७९॥ दण्ड इति । दण्ड:-कारागारप्रवेशनार्थादानादिरूपो विधिविशेषः, सर्व सम्पदा सर्वेणैश्वर्येण, योजयति- युक्तं करोति, राजानमिति शेषः । दण्डन सकलान्यश्वर्याणि लब्धु शक्यन्त इति भावः । दण्डभयेन हि स्वस्वकर्तव्य- निरताः प्राकृतजना भवन्ति । स्वकर्तव्यानुष्ठानमेव तेषां सर्वेषां राज्योन्नतिः सम्पादयति । उन्नतमेव राज्यं स्पृहणीयं भवति । दण्डभयेन विना दुष्टा दुष्ट- ताया न विरमन्ति । दुष्टताप्रसरणेन राज्यं विशृङ्खलं भवेद्विशृङ्खलं च राज्य न सम्पदा संयुज्यत । अतो राज्याद् दुष्टतां निष्कास्य तस्मिन् सज्जनतामुप: स्थाप्य दण्डो नपं सर्वेश्वर्य सुखसम्पन्नं करोतीत्यत्रोक्तं भवति ॥७९॥ दण्ड राजा को सब सम्पत्ति से युक्त करता है ।।७९।। ६:स्य शिवगं मूलत्व दर्शयति- दण्डाभाडे त्रिवर्गाभावः ॥१०॥ दण्डभाव त ! दण्डाभावे-दण्डस्यापराधिनिग्रहणविधेः अभावे राहिल्ये, त्रिवर्गाभाव:-विजय धर्मार्थकामानाम् अभाव: अप्राप्तिः, भवति । दण्डाधीना हि धमार्थकामा ति भावः । सर्वासां प्रकृतीनां स्वस्वधर्मेष नियोजकस्य, अप- राधिनोऽपराधानिकारकस्य राज्य कलाविद्यावाणिज्यानां विकासकस्य दण्डस्य प्रयोग विना शान्ति समृद्धिञ्च नाप्नुयाद्राज्यम् । शान्तिसमृद्धिभ्याञ्च विना न

चाणक्यसूत्रे--
--
कश्चिद्धर्मकार्याणि सम्पादयितुं सुखसाधनान्यजयितुं भोगानुपभोक्तु वा प्रभवति ।
दण्डविधानमेव धर्मार्थकामप्रसूतानां व्यापाराणां प्रयोजकम् । तदभावे तेषाम-
प्यभावः स्यादिति विचिन्त्य न दण्डप्रयोगं त्यक्तुमर्हति धर्मार्थकामार्थी नप
"इत्यत्र गूढं सूचितम् ।।८०॥
दण्ड के न होने से धर्म, अर्थ और काम भी नहीं होते ॥८॥
दण्डेन जना अकार्येभ्यो निवार्यन्त इति वक्ति--
दण्डभयादकार्याणि न कुर्वन्ति ॥१॥
दण्डभयादिति । दण्डभयात्-दण्डात पूर्वोक्तान्निग्रहरूपाद् भयाद् भीत्या:;
अकार्याणि-नीतिविरुद्धानि कर्माणि, न कुर्वन्ति-नाचरन्ति, प्रजा इति शेषः ।
दण्डः प्रकृतीहितकर्मभ्यो निवारयतीति भावः । आत्मनिष्ठस्य निर्मलीकृतान्त-
करणस्य योगिनो न कापि दण्डस्यावश्यकता । स स्वयमेव सदा कार्याण्येव
कर्माणि करोति । किन्तु जनसमाजे न सर्व एतादृशाः। बाहुल्येन जना अज्ञा-
नाभिभूताः कर्तव्याकर्तव्यविचारहीना: स्वार्थपरा इन्द्रियवशंवदा एव । प्रक-
त्यैव तेऽकार्येष प्रवर्तन्ते । ते खल दण्डभयादेव चौर्यलुण्ठनवधादिरूपादनाचारा-
द्विरमन्ति । अतो दण्डं प्रयुज्य राजा प्रकृतीः सन्मार्ग गमयेदित्युक्तम् ॥८॥
दण्ड के भय से लोग बुरे काम नहीं करते ।।८।।
पूर्वेभ्यः सर्वेभ्यो विशिष्टं दण्डनीतेः फलमात्मरक्षणं सम्प्रति प्रतिपादयति-
दण्डनीत्यामायत्तमात्मरक्षणम् ॥१२॥
दण्डनीत्यामिति । दण्डनीत्याम्-दण्डविधेः, आयत्तम्-अधानम्, आत्म-
रक्षणम्-आत्मन: स्वस्य रक्षणं रक्षा भवति । न केवलं प्रजाः, अन्यत राजान-
मपि रक्षितुं समर्था दण्डनीतिरिति भावः । पूर्वमेवोक्तं यद्विद्रोहिणो विशेषेण
दण्डमर्हन्ति । विद्रोहिणामभावे हि राजा निश्चिन्ततया राज्यं शास्ति । यदि
दण्डो न स्यात्तेषाम्, तर्हि ते राजानचिरान्नाशयित यतेरन् । दण्डविधाने-
नैव पुनर्बलस्य धनस्य च वृद्धिर्भवति । धनबलवृदयैव नृपः शम्यो रक्ष्यते ।
अतो दण्डो राजानं सर्वतो रक्षतीत्येतावदत्रार्थजातम् ।।२।।
अपनी राजा की ] रक्षा दण्डनीति के अधीन होती है ।।८।।
आत्मरक्षा सर्वरक्षातो वरीयसीति वक्तुप्रक्रमते-
अात्मनि रक्षिते सर्व रक्षितं भवति ॥८३॥

प्रथमोध्यायः - . आत्मनीति । आत्मनि-राजनि, क्षित-पालिते सति, सर्व-राज्य- प्रकृत्याविकम्, रक्षितम्-पालि । स्वयं रमित एक राजा मकलान् प्रजादीन् रक्षितुं समर्थ इति भारः। शरीरमा बाल धर्ममाधम'मिति स्वशरीररक्षा खल सर्वेषां धर्माणा जननो। अरक्षित: किमपि कनपानोति कथं स पुनरतिदुष्का कस्यचिद्रक्षा सम्पादयेत् ? कपितंग नीतिविदा केन- चित्-"आत्मानं सततं रक्षेद दारैरपि धनरपि । इति । मतो नपेण सर्वरक्षा- णार्थ प्रथममात्मरक्षा विधेयेति । अपने ( राजा के ) रक्षित रहने पर सभी रक्षित होता है ॥८॥ राष्ट्रस्य वृद्धिनाशी राजाधीनाविति वक्ति- मात्मायत्ती वृद्धिनाशौ ॥५४॥ आत्मायत्ताविति । आत्मायत्ती-आत्मन: स्वस्य राज्ञ इति यावत्-आय, सावधोनी, वृद्धिनाशी-वृद्धिः समृद्धि शो विशेषेण क्षयश्च राष्ट्रस्येति यावत: भवतः । राजव राज्यं वृद्धि क्षयं वा नयतीत्यर्थः । नीतिवचक्षण्यधर्मपरत्वप्रजा- वात्सल्यशक्तिसम्पन्नत्वादिगुणैविभूषितो राजैव दण्डप्रयोगेण रक्षिता सन् राज्य- मविरतोद्योगेन वृद्धि नयति । राज्यवृद्धी प्रथमं राजसत्ताऽपेक्षिता । राजसत्तायो सजातायां समुचितगुणशालित्वं राज्ञोऽपेक्षितम् । राज्ञोऽभावेऽपि राज्यं स्थातुं शक्नोति; परन्तु न तत्सबलं भवति गुणशालिन शासकमन्तरेण । सबलमेव राष्ट्र' खल वृद्धि प्राप्नोति । अतः सर्वत एव राजा राज्यस्य वृद्ध शस्य च करणं भवतीति स्पष्टम् ।।८४|| ( राज्य की) उन्नति और अवनति दोनों ही अपने ( राजा के ) अधीन होती है।1८४॥ मोत्यादीनां बतष विद्वान प्रयोगो विज्ञाने भवतीत्याह- दण्डनीत्यादि बिज्ञाने प्रणीयते ॥२५॥ दण्डनीत्यादीति । दण्डले दि- दण्डनीतिर्दण्ड विधायिनी नीतिरादिर्यस्य तत्, 'आन्दी को गो वार्ता दरबन्दीनिश्च शाश्वती'ति दण्डनीतिप्रभृतयश्चतस्रो विधा अब सिक्षितता, विन-विशिष्ट शाने शास्त्रानुशीलनादात्मानुभवा- योत्पन्ने ज्ञान निभावत, प्रणीय-प्रयज्यते । दण्डनीत्यादीनां प्रयोगस्त- सम्छास्त्राणां नामबागव निया ति भावः । नहि सभ्यग्ज्ञानं विना कस्यापि शास्त्रस्य गप्रयोगः क्रियते । पूर्वोक्तानां चतसृणां विद्यानामात्मानु- - PA ३२ चाणक्यसूत्रे- भवसाधितं ज्ञानं ता: विद्या: सफलीकरोतीत्येवाभिप्रायोऽत्र ॥८॥ विशिष्ट ज्ञान होने पर दण्डनीति आदि का प्रयोग किया जाता है।॥८५॥ दुर्बलोऽपि राजा न तावदनादरणीय इति सूचयति- दुर्बलोऽपि राजा नावमन्तव्यः ॥८६॥ दुर्बल इति । दुर्बल:-क्षीणबलोऽपि सन्, राजा-नृपः, न अवमन्तव्यः-न तिरस्कार्यः। होनबलमपि राजानं न तिरस्कुयुः प्रकृतय इति भावः। प्रथम तावदापाततो हीनबलो राजा स्वाभिमानी भवति । सोऽपि परकृतं तिस्कार- पसहमानस्तिरस्कर्तुहानि कतुं यतते । पुनश्च राजावमाननेन तद्राज्यं विशृङ्खलं स्यात् । न कोऽपि कस्मादपि भीतः स्यात् । अधिकवलो न्यूनबलं ताडयितु भारयितु लुण्ठितुं वा यतेत । ईदृश्यां दुरवस्थायां सजातायां जनानां जीवनस्य धनस्य धर्मस्य वा परिरक्षणं दुष्करं स्यात् । ईदृशि भयग्रस्ते जनसमाजे न कापि कला परिस्फुरति, न कश्चिदुद्योग: सफलो भवति, नच वाणिज्यादेरपि समुन्नतिः सम्भवति । एवं राष्ट्र क्षिप्रमेव विनाशोन्मुखं भवेत् । अत एव सर्वा- पद्भयो रक्षकं दुर्बलमपि राजानं नावमन्येरन् प्रकृतय इत्युपदिश्यते ।।८६॥ बलहीन राजा का भी तिरस्कार नहीं करना चाहिये ॥८६॥ राजा स्वभावन एवान्तनिहितप्रताप इति निरूपयति दृष्टान्तेन- नास्त्यग्नेदौर्बल्यम् ।।८७॥ तास्तीति । अग्ने:-वह्नः, दौर्बल्यम्-शक्तिहीनता, न अस्ति-न विद्यते बग्निरल्पोऽपि सन्नन्तर्दाहशक्तिसम्पन्नो भवतीत्यर्थः । यथा स्फुलिङ्गावस्थोऽप्य- ग्निस्तृणकाष्ठादिकं भस्मसात्करोत्येव तथैवाल्पशक्तिरपि राजा तिस्कर्तृणाम. पकरणाय प्रभवत्येव । अतः स्फुलिङ्गावस्थायां स्थितोऽग्निरिवाल्पशक्तिरपि राजा न तावकिञ्चित्करो भवतीत्युक्तम् ।।८।। मग्नि में दुर्बलता नहीं रहती ।।७।। दण्डकस्य जीविकासम्पादकत्वं निदिशति- दण्डन प्रणीयते वृत्तिः ॥१६॥ दण्डेनेति । दण्डेन-दण्डप्रयोगेण, वृत्तिः-आजीविका, प्रणीयते-सम्पाद्यते। समुचितदण्डप्रयोगेण,जीवनसाधनानि लभ्यन्त इत्यर्थः । दण्डप्रयोगादेव निरुपद्रवं भवति राज्यम् । निरुपद्रवे च राज्ये कृषिवाणिज्यादीनां प्रसरो भवति । तेषा .

प्रथमोऽध्यायः Awar । प्रसरणक्रमेणोन्नतिरेन जीयामाधनाननीयती मधमपि दार आवश्यक इति प्रोक्तमत्र ॥ ८ ॥ दण्ड के प्रयोग से जीविका चलती है।1८॥ अर्थप्राप्तेवत्तिमूलत्वं दर्शयति- वृत्तिमूलोऽर्थलामः ॥९॥ वृत्तिमूल इति । अर्थलाभ:-अर्थानां धनानां लाभः प्राप्तिः, वृत्तिमूल:- वृत्तिराजीविका मूलं प्रधान कारणं यस्य एवं विधः अस्ति । वृत्तेरपलामो भव- तीत्यर्थः । तन्तुवायः किल पटवयनेनव धनमर्जयति । एवं कृषीवलः कृषिकर्मा- श्रित्य, वणिग् याणिज्यमलम्ब्य, स्वर्णकार आभूषणानि कृत्वा, वर्धकिः काष्ठ- मयानि वस्तूनि निर्माय, व्याधः पशुपक्षिणो मारयित्वा च धनार्जनं करोति । काञ्चिदाजीविकामाश्रित्येव जनी धनार्जने समर्थों भवतीत्याशयः || ६ || धन की प्राप्ति का प्रधान कारण जीविका है ॥८६ ।। अर्थ एव धर्मकामयोः प्रधानकारणमिति वक्ति- अर्थमूलो धर्मकामौ ॥९० ॥ अर्थमूलाविति। धर्मकामौ-धर्मश्च कामश्च, धर्मस्तावदैहिकामुष्मिकसकल- सुखसाधनीभूतः क्रियाविशेषः, कामः पुनः सांसारिक विषयाणां भोगेच्छा, एतो द्वौ, अर्थमूलौ-अर्थो धनं मूलं प्रधानकारणं ययोस्ती तादृशौ भवतः । धनेनैव पुण्यकृत्यानि विषयभोगाश्च सम्पद्यन्त इत्यर्थः । धनेन हि जनो धर्मक्षेत्राणि निर्मापयितुं सरांमि निखानयितुं याचकान् भोजयितुं दीनान् भर्तु कस्यचिदप्यु- पकारं च कतु वा प्रभवति । धनेनैव पुनः स्वादु भोजनम् अभ्रङ्कर्ष हर्म्यम् अतिमृद्वी शय्या चेतस आह्लादकानि सुगन्धिद्रव्याणि चेत्येवं विविधानि भोग्य- वस्तुनि प्राप्नोति नरः । धनमेव सकलकल्याणसुखजनकमित्येतदत्रार्थजातं गभितम् ।। ६० ।। अर्थ ( धन ) के द्वारा धर्म और काम सम्पन्न होते हैं ॥ ६० ॥ अधुनार्थस्य प्रधानकारणं कार्य, कार्यस्य वा प्रधानकारणमर्थ निदिशति- अर्थमूलं कार्यम् ॥११॥ अर्थमूलमिति । अर्थ मूलम्-अर्थस्य धनस्य मूलं प्रधानकारणम्, कार्यम्- ३चा० - , - कर्मविशेष: तत्तदाजीविकाप्रयुक्तक्रियाशीलत्वमिति यावत्, भवति । क्रियाशील- तैवार्थ जनयतीति भावः । सत्यामप्याजीविकायामुद्योगं विना न कोऽपि धनमर्ज- यितुं प्रभवति । सावधानतयाऽऽलस्यं विहाय कार्याणि कुर्वन्नेव सिद्धिमवाप्नोति नरः । नाकुर्वतः कुतश्चित्कश्चिल्लाभः । अतः सततक्रियाशीलेन भवितव्यं धना- थिनेति निर्दिष्टं भवति । अथवा, कार्यम्-किमपि कर्म, अर्थमूलम्-अर्थों धनं मूलं प्रधानकारणं यस्य तादृशं भवति । धनेनैव कार्याणि सिध्यन्ति । धनहीनः पुरुषः कार्यसाधने न क्षमः । अतः कार्यार्थिना धनमेव तत्पूर्वमर्जनीयं भवतीति भावः ॥ ११ ॥ धन का प्रधान कारण कार्य अथवा कार्य का प्रधान कारण धन है ।।६१॥ इदानीं कार्य सिद्धेः साधनमुपायं लक्षयति- यत्प्रयत्नात् कार्यसिद्धिर्भवति स उपायः ॥१२॥ यत्प्रयत्नादिति-यत्प्रयत्नात्-यस्मात् प्रयत्नाच्चेष्टनात् कार्यसिद्धिः- कार्याणां तत्तत्कर्मणां सिद्धिः साफल्यम्, भवति-सजायते, स उपायः-उपाय- संज्ञां प्राप्नोतीत्यर्थः । कार्यसाधकः प्रयत्न उपायः खलु । सिद्धिरेवाभीष्टा भवति सर्वेषामखिलकर्मजातस्य । यत्प्रयोगेण सिद्धिर्लभ्यते स उपाय इत्याशयः ॥ १२॥ जिस प्रयत्न से कार्यों की सिद्धि होती है,उसे उपाय कहते हैं ॥१२॥ उपायमाश्रित्य कृतं कार्य सुकरं भवतीत्याह- उपायपूर्व कार्य न दुष्करं स्यात् ॥ ९३ ॥ उपायपूर्वमिति । उपायपूर्वम्-उपायः कार्यसाधकः प्रयत्नः पूर्वं प्राग् यस्मात् तत् तथाभूतम्, कार्यम्-कर्म, दुष्करम्-दुःखेन कर्तुं शक्यम्, न स्यात्-न भवेत् । दुःसाध्यमपि कार्यमुचितोपायावलम्बनेन' सुसाध्यं भवतीति भावः,कार्य- सम्पादनात्प्राक् तत्साफल्यविधायका उपायाः सम्यगालोच्याः । पूर्वमेवोपायानां पर्यालोचनेन' समुचितप्रयोगेण च कष्टसाध्यमपि कार्य साधयितुं शक्यते । उद्योगं कुर्वतः प्रायो न किञ्चिन्नास्त्यसम्भवमिति गूढार्थोऽत्र ।। ६३ ॥ उपाय सोचकर किया गया कार्य दुष्कर (असम्भव) नहीं होता।।६३॥ उपायमपर्यालोच्य कृतं कार्य क्षिप्रमेव प्रणश्यतीत्याह- Home- प्रथमोऽध्यायः अनुपायपूर्व कार्य कलमपि विनश्यति ॥९४ ॥ अनुपायपूर्वमिति । अनुपायपूर्वम्-अनुपाय उपायाभावः पूर्वम् प्राग् यस्मात्तत् एवम्भून कार्यम्, ऋतम् अपि-विहितम् अपि, विनश्यति सर्वथा नष्टं भवति, न सिध्यतीति यावत् । उपायमचिन्तयित्वा कृतं कार्य न सिदि गड- तीति भावः । किमपि कार्य कुर्वद्भिस्तत्परिणामस्तत्साधनोपायाश्च पूर्वमन- धार्याः । साधनसमहाभावे ह्यारन्धे कर्मणि सर्वथैव शक्ते हाँसो भवेत् । शक्तेहासाच्च कार्यहानिः स्पष्टव, अतो न कदाप्यविमृश्योपायान् किमपि कार्य कुर्यादिति तात्पर्यम् ।। ६४ ॥ उपाय को न सोच कर किया गया कार्य भी नष्ट हो जाता है अर्थात् वह सिद्ध नहीं होता ॥६४ ।। कार्यसम्पत्तिमभिलषतां पुरुषाणामुपाय एव सहायक इति वक्ति- कार्यार्थिनामुपाय एव सहायः ॥ ९५ ॥ कार्यायिनामिति । कार्यार्थिनाम्-कार्यमर्थः प्रयोजनं येषां तेषाम्, सहायः-साहाय्यप्रदायकः, उपाय:-कार्यसाधकः प्रयल' एव वर्तते। उपायाः कामिद्धिभिलषतां सहायका भवन्ति, उपायद्वारैव कार्याणां सिद्धेः स्फुटत्वा- दिति भावः । कार्यसाधनप्राणभूताः खलूपायाः। तांस्त्यक्त्वा न कश्चित्कार्य- सिद्धि लभते । स एव सहायो नः कार्य साधयति । उपायाः खलु कार्याणां साधकतमा इत्यतो मुख्या इव तं भवति ।। ६५ ॥ कार्य की सिद्धि चाहने वालों का एकमात्र सहायक उपाय ही है ।। ६५ ॥ उगना कार्य गिध्यतीति पूर्वोक्तजाततात्पर्यमाह- कार्य पुरुषकारेण लक्ष्यं सम्पद्यते ॥ ९६ ॥ कार्यमिनि कारण-भार्यपाधन चेष्टाविशेषेण उद्योगेनेति यावत्, पार्षम्-मी, नागम्-शाम् प्रत्यक्षतां गतं प्रकटमिति यावत्, सम्पधन-ना।। अथवा, नश्यम्-उद्देश्यम् अर्थादुद्योगस्य, कार्यम् पुरुष- कारण, सम्पयन अति । अयं भाव:--कार्यस्य सिद्धिरुद्योगेनैव जायते । विनोयोग 1 Mगछति । 'कार्य में सिध्यता दितीच्छा- मात्रेण नागि म मा चौताम्-'उद्यमेन हि सिध्यन्ति कार्याणि मनोरsir || || - - कार्य उद्योग से सिद्ध होता है ।। ६६ ॥ निश्चितमेव । परम्, उद्योगस्य कार्यसाधकत्वे निश्चितेऽपि न स्वतन्त्रतयोद्योग- दैव (पूर्वजन्म का किया हुआ कर्म) उद्योग के साथ रहता है ॥६॥ अतिप्रयत्न करोति यत्किल प्रभूतमुद्योगमातनुते, तत्-उद्योगकरणम्, विफ- करणीय इति चेन्न, उघोगस्यैव मुख्यतः कार्यसाधकत्वाद्विनोद्योगे देवानुकूल्य- त्वेऽवि कार्याऽनिष्पत्तेदर्शनात । देवं किलोद्योगस्य सहायकम् । उद्योगाद्रीता कम् । तत्र यथावसर द्वयोः गस्य कुत्रचिच्च देवस्य विजयः । उद्योगेन' भाग्यं परीक्षणीयमिति गूढोऽर्थः । चाणक्यसूत्रो- पूर्वसूत्रेण कार्यस्योद्योगसाध्यत्वं निरूप्य सम्प्रति देवस्योद्योगसाहचर्य प्रतिपादयति- पुरुषकारमनुवर्तते देवम् ॥ ९७ ॥ पुरुषकारमिति। विम्-भाग्यम् पूर्वजन्मकृतं कर्मेति यावत्, पुरुषकारम्- उद्योगम्, अनुवर्तते. अनुगच्छति । उद्योगस्य पृष्ठतो लग्नं दैवं वरीवर्तीत्यर्थः । अयमत्राशय:-उद्योग एव कार्य साधयति, नहि तेन विना कार्य सिध्यतीति स्तत्साधकः, तस्य देवपरतन्त्रत्वात् । दैवं किलोद्योगस्य सहचारि । देवानुकूल्ये सत्येवोद्योगे कार्यसाधनानुकूला शक्तिः सम्पद्यते । अन्यथा व्यर्थ एव भवेदुद्योग इति। न चात्र [क्तिमुद्योगप्राधान्यं खण्डितं भवतीति शङ्कथम्, देवसह- चरितोद्योगस्य कार्यसाधनानुकूलशक्तः प्रतिपादनादुद्योगप्राधान्यस्य सर्वथाs- व्याहतत्वादित्यलम् ॥ 'दैवानुकूल्ये सत्येव कार्य सिद्धि रित्येवं पूर्वोक्तमर्थं द्रढयति- देवं विना अतिप्रयत्न करोति यत्तद् विफलम् ॥९८॥ दैवमिति । देवं विना-देवानुकूल्यमन्तरेणेति यावत्, जन' इति शेषः, यद् लम्-निरर्थकं भवति। अनुकूलं दैवं विना विहितः सुमहानुद्योगो न तावत्कार्य साधयतीत्यर्थः । नन्वेष सति देवं विना कार्यसिद्धरदर्शनात् किमित्युद्योगः अलसा एव देवमात्रावलम्बिनो भवन्ति । कार्यसिद्धिस्तु तेषां नास्त्येवेति भावः । प्रतिपादितं चैतत्-'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी रित्यत्र । अत्रेदं तत्त्वम्-न केवल उद्योगी नापि केवलं दैवं, किन्तु द्वयोः साहचर्यमेव कार्यसाध- पूर्वसूत्रो प्रथमोऽध्यायः अन्ये च टोकाकुनः --- गूर्वसूत्रे पुरुषकारमनुवर्तते देवमित्या 'देवस्य पुरुष समानुसार नाम उबागानुकलस्वम्, यादृश उद्योगस्तादृशमेव भाग्य परिणमती'त्येवमयं नपा उधोगप्राधान्य स्कुटतां भवन्ति । दधे च-देवं विनेति मूत्रं देवप्राधान्यबोध प्रकृतार्थ विरुवं मन्यमानाः केनविदा प्रक्षिप्त- मिदमित्येवं प्रतिपादधन्ति । इतरे च-उद्योगप्राधान्यसाधनाय 'पुरुषकारोऽनु- वर्तते दैव'मित्येवं पूर्वसूत्रे पाठपरिवर्तनसाहसं दर्शयन्तो 'दैवं विनेति सूत्रं देव- प्राधान्यपरं चाणक्यस्यास्तिक्यभावनोतमित्येतस्मल्लयन्ति । अत्रच कियत्तेषां बुद्धिकौशलमिति तु स्वयमेव निपुणं निरूपणीयं बुद्धिमद्भिरित्यलं पराक्षेप- प्रतिपादनेन ।। १८ ॥ दैव के ( भाग्य की अनुकूलता के ) बिना, मनुष्य जो विशिष्ट प्रयत्न करता है वह सब व्यर्थ हो जाता है ।।६।। उद्योगं कुर्वत एव जीवन निर्वहतीत्याह- अनीहमानस्य वृत्तिर्न सम्पद्यते ॥९९ ॥ अनीहमानस्येति । अनीहमानस्य-चेष्टामकुर्वतः, ईहा चेष्टा सा च कार्यसाधनानुकूलः कार्यविशेषः, अलसस्योद्योगमकुर्वाणस्येति यावत्, वृत्तिः- जीवनम्, न सम्पद्यते-न सम्भवति । स्वात्मरक्षाय किमपि प्रयतनं कार्यमेव । यदि तदर्थं न किञ्चिच्चेष्टेत मनुष्यस्तहि जीवन निर्वाहस्तस्य दुःसम्भवः । केवलं भाग्यावलम्बन जीवनं न सम्भवति । उद्योगो न' क्रियेत चेद् भाग्यमनुकूलमपि किं नाम कतुं शक्नुयात् । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः। अत उद्योगद्वारकमेव जीवनं मनुष्याणामिति नूनं निर्विवादम् ॥ ६६ ॥ चेष्टा (उद्योग) न करने वाले का जीवन-निर्वाह नहीं होता ॥६६॥ विचारपूर्वकमेव कार्यमारभणीयमितीदं मुख्यं नीतितत्त्वमुपदिशत्येतद- ध्यायसमाप्तौ नीतिकुशलश्चाणक्यः- पूर्व निश्चित्य पश्चात्कार्यमारभेत ॥ १० ॥ इति चाणक्यसूत्रे प्रथमोऽध्यायः पूर्वमिति । पूर्वम्-कार्यारम्भात्प्राक्, निश्चित्य-कार्यविषयकमुचितं विचारं कुत्वा पश्चात्----तदनन्तरम्, कार्यम् कर्तुमिप्यमाणं कर्म, आरभेत-उपक्रमेत । - .

चाणक्यसूत्रम् अयमाशय:--'कार्य मिदमनेन रूपेण कर्तव्यम्, एवं कृत एवं भवीष्यती'त्यादिक- मावश्यक पूर्व सर्वं विचारणीयम्, ततः परं कार्यस्योपक्रमणं श्रेयस्करम् । यदि नाम त्वरयोपेक्षया वा करणीयकार्यविषयकं कमपि निश्चयमकृत्वा तत्कार्य कर्तुं प्रवर्तेत जनस्तहि तत् कां दिशं गच्छेत् किं वा तत्स्वरूपं सिद्धं स्यादित्ये- तत्सर्वमाकुलमेव स्यात् । विनायकं कर्तुमिच्छन् वान रमेव कदाचित्कुर्यात् सः । अतो मनसाभिलषितं कार्यं साधयितुं पूर्वं तदुपक्रमात्तद्विचारः कर्तुमतितरामा- वश्यको मनुष्याणामित्यलं पल्लवितेन ।। १०० ॥ यस्यागाधमतेरुदारचरितैर्लोकः कृतार्थीकृतो यः प्रज्ञाप्रमदाप्रियः प्रणयवान् नः संस्कृते रक्षणे । आर्याणां सुकृतं सदार्जवगुणं नीत्या च यो ऽपूपुषत् क्लृप्तस्तेन हि विष्णुगुप्त विदुषा ग्रन्थोऽयमुज्जृम्भते ॥ १ ॥ अत्रत्यानि चिरं विचारकुसुमान्याहृत्य यत्नान्मुदा टीकास्रग् ग्रथिता मया मतिमयैः सूक्ष्मैर्गुणैः साम्प्रतम् । धीराणां सुचिरं चकास्तु हृदये सेयं गुणग्राहिणा- मस्त्वेतद् प्रथनं विसंष्ठुलमपि श्रीमद्गुरूणां मुदे ॥ २ ॥ इति श्रीविजयशङ्करमिश्र एम० ए० कृतायां चाणक्यसूत्रव्याख्यायां बालबोधिन्यां प्रथमोऽध्यायः समाप्तिमगात् । :०: कार्य का निश्चय ( उचित विचार ) करने के बाद ही कार्य का आरंभ करना चाहिये ॥ १०० ॥ नीतिसूत्र के अर्थ को सरला सरल बताद । अवसि देखिअहि सुजनगन, नाहित मन पछिताव ॥ १ ॥ पं० अनन्तरामशास्त्री वेताल साहित्याचार्यकृत सरला नामक भाषाटीका समाप्त । - ||श्रीः॥ चाणक्यसूत्राणां वर्णकमाणु सारिणी सूची पृ० १६ ५ २० १२ सू० अकामबुद्धयो अग्निदाहाप अग्निवद् अनन्तर अनीहमानस्य अनुपायपूर्व अमियो दण्ड अरिप्रयत्न अर्थदूषक अर्थमूलं अर्थ मूलौ अर्थस्य मूलं अर्थेषु पान अलब्धलाभादि अलब्धलाभो अलसेन अविनीत अविनीतिस्वामि आत्मनि रक्षित आत्मायत्ती आपत्सु स्नेह आमपान आवापो मण्डल इन्द्रियजयश इन्द्रियवण पृ० । २० १३ / उपायपूर्व २७ / एकान्तरित २३ कार्य पुरुष १८ / कार्याकार्य ३७ / कार्याथिनां ३५ जितात्मा सर्वार्थः २८ / तेजो हि संधान २२ प्रयाणामैक २६ / दण्डनीतिमनु ३३ . दण्डनीत्या ३३ / दण्डनीत्यादि ३ | दण्डपारुष्यात् दण्डभया १६ | दण्डाभावे १४ | दण्डेन' प्रणीयते १५ दण्डः सर्वः ८ | दुर्बलाश्रयो ६ ! दुर्बलोऽपि ३० दैवं विना ३१ द्वयोरपीय॑तो ३१ २७ ३० ३२ २६ ३२ ३२ २४ धर्मस्य मूलं २ २७ २१ न कामासक्तस्य न चालस्य १५ ३ न ज्यायसा २१ २५ । न तीर्थ प्रति ( ४० ) पृ० १४ ३४ २३ पृ० । सू० २३ | मित्रसंग्रहणे १५ | मृगयापरस्य २४ | यत्प्रयत्नात् २० राज्ञः प्रतिकूल ७ राज्यतन्त्रा २५ / राज्यतन्त्र ३१ | राज्यमूल १८ विज्ञानेनात्मान विनयस्य १७ ३ ८ ३३ २४ / वृत्तिमूलोऽर्थ सू० न देवचरितं न भृत्यान् न व्यसन नातप्तलोहं नाऽसहायस्य नास्ति कार्य नास्त्यग्ने नीतिशास्त्रानुगो नैक चक्र नोद्धतवेश पुरुषकार पूर्व निश्चित्य प्रकृतिकोपः प्रकृतिसम्पदा प्रमादाद् बलवान् अल० बलवान् हीनेन मन्त्र स्वविषये मन्त्रकाले मन्त्रचक्षुषा मन्त्रनिस्रावः मन्त्रमूला: मन्त्रसंवरणे मन्त्रसम्पदा मानी प्रतिपत्ति २२ ११ १२ । १८ ४ वृद्धसेवाया शक्तिहीनो श्रेष्ठतमा ६ षट्कों ५ सन्धिविग्रहयो १० सम्पादितात्मा १४ २० सम्पाद्यात्मान १७ / सर्वद्वारेभ्यो १२ / सहायः समो १२ सा श्रीर्वोऽव्यात् ६ / सुखस्य मूलं है | स्वामिसम्पत् हस्तिनः पाद १० | हीयमानेन ८ हेतुतः शत्रु १० ७ २ २ २१ १६ १६

Chanakyasuthram Part 1

Author
Pandit_vijendermisra
Other authors
Ccl
Title
Chanakyasuthram Part 1
File name
Chanakyasuthram Part 1
Text
OCR done
Citation
1665
Publisher
Coukamba_samskruth_sirij_office
Language
Sanskrit
Pages
48
Library
Scl
DLI number
369301
Barcode
2020010011038.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
PAR Informatics, Hyderabad
VMLT id
luYzya0TcNh
Download PDF

Chanakyasuthram Part 1