Hindi Sahataya Samalayan
Arayasaptasati(315)
Front matter
श्रीविश्वेश्वरपण्डितकृता आर्यासप्तशती। MARA ॥ श्रीगणेशाय नमः ॥ गौरीकुचानुबिम्बितमात्मीयविषाणमुपवर्थे । कर्षन्बालमृणालभ्रान्त्या द्वैमातुरः पातु ॥ १ ॥ शब्दार्थरूपकमशेषामिमं प्रपञ्च यस्यावदछुतिशिरो विबुधा ! विवर्तम् ।। तत्किञ्चिदक्षरमनन्यपरप्रकाशं संवित्तमोदमयमाकलयामहेऽन्तः ।। १ ।। अज्ञानगाढतिमिरक्षतिभास्करेषु विद्यावलीवितरणत्रिदशगुमेषु ।। लक्ष्मीधरस्य विदुषश्चरणारविन्दा- दुत्तस्थिषत्सु नतयो रजसां कणेषु ॥ २ ॥ विद्वज्जनविनोदाय बालधीवृद्धिसिद्धये ॥ व्याख्यात्यार्यासप्तशती सम्याग्विश्वेश्वरो निजाम् ॥ ३ ॥ तव WRImmune "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये । सम्यक्परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥" इत्यालकारिकवचनादनेकविधस्वपरनिष्ठफलजनकनया- यासप्तशतीमारिप्सुः मारिप्सितप्रतिवन्धकदुरितवितानोपशमसम- मा सर्वसिद्धानुभावस्य भगवतो हेरम्बस्यानुसन्धानरूपं कृतं आर्यासप्तशत्याम मङ्गलं शिष्यशिक्षार्थमुपनिबध्नाति-गौरीति । अत्र "खा । घश्च लक्ष्मी वितरति" इति भामहवचनादादौ गकारः शुभफलः तगणस्य उदासीनत्वेऽपि- "देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्याः स्युर्गणतो लिपितोऽपि च ॥" इति वचनाद्गौरीपदस्यादौ प्रयोगान दोषः । प्रतिबिम्बि तविषाणे मृणालभ्रान्तिसत्त्वेऽपि तदनर्थिनस्तत्र प्रत्यनुत्पत्ते. स्तदाकर्षणं गजमुखत्वेनोपपद्यते । अत्र बाल्यावच्छिन्नस्य त. स्य वर्णनीयतया भ्रान्तिकथनं नापकर्षमावहति । तत्स्वभा- ववर्णनपर्यवसानात् । अत एव प्राचीना अप्यवर्णयन्- "दद्दन्तविदारितेश्वरगिरिमान्तावनीरन्ध्रतः पत्युः कुण्डलिनां फणामणिमहस्तोमे समुत्तस्थुषि । रत्नस्तम्भ इति भ्रमेण करटं कण्डूयितुं वाञ्छतो हेरम्बस्य जयन्ति कूणितदृशो मृों मुधाधूतयः ॥" किंचानेन तस्य ब्रह्मरूपतयाऽविद्यासम्बन्धेन जगदाकार- या विवर्तोऽपि मुच्यते । “देवात्मशक्ति स्वगुणैर्निगूढाम्" इ. स्यादौ लक्ष्या ब्रह्मसम्बन्धश्रवणात् । अनुबिम्बितमित्यनेन पावत्याः स्तनयोनिमलत्वसूचनम् । स्वमुखस्थ एव दन्ते विशेष- दर्शनसत्त्वेन पृणालभ्रमो न सम्भवतीत्यतो गौरीत्यादि । बा- लात या तत्सभिधानस्य सार्वदिकत्वात् । अनेन कुचयोः कम- लमुकुलाकास्त्वमध्याक्षिप्यते । तत्सन्निधिना विषाणे तत्सहचरम. पालभ्रमोपपत्तेः । अत्र देवताविषयकभावध्वनिः । तत्र भ्रान्ति. मतो ऽनुगुणत्वम् । जगन्मातृक्रोडकोडनादिना तदुत्कर्षाक्षेपात् । तत्त्वरूपं चास्मत्कृतालङ्कारकौस्तुभे यथा- "तदभावयति मतिस्तत्प्रकारिका भ्रान्तिमान् भवति"|2 मङ्गलाचरणम् । इदानी "शब्दस्वरूपमखिलं धत्ते शस्य वल्लभा । अर्थस्वरूपमखिलं धत्ते बालेन्दुशेखरः ॥ इतिवायुपुराणात्- "अर्थः शम्भुः शिवा वाणी' इतिलिङ्गपुराणाच शब्दार्थोभयरूपे काव्ये तदुभयोपपत्तये तावेवानुसन्दधाति । लक्षापतिभुजवल्लीवेष्टितमवलोक्य कैलासम् । स्मृनकालीयाहुलतावलपितनिजविग्रह: शियो जयति लङ्कति । अत्र वेष्टनं कैलासोद्धरणकालीनं बोध्यम् । राक्षसानां श्यामवर्णतया औसर्गिकताया तल्लामः तेन काली. भुजसाम्यम् । कैलासशिवयोः वैत्यात्साम्यम् । अत्र स्मरण. कालीनो विप्रलम्मा तद्विषयभूतश्च सम्भोगो द्योत्यते । तयोरन वर्णनीयत्वात् । निजपदेन शिवग्रहणम् । तद्विशेषणघटकपदान्तर्ग स्वात् । अन्यस्य तदुद्धरणसामर्थ्याभावात् लङ्कापतीति। कुबेरात- दादानादिव्यञ्जनेन तदुत्कर्षाक्षेपः । तादृशेनाप्यारमाश्रयोन्मूल. नारम्भेऽनाकुलत्वादनुभावातिशयः । यस्य यः स्वभावः स सर्वा वस्थामु तमेवाश्रयत इति शिवपदसहकारेण मुखाधीनत्वोक्तया व्यज्यते । एतेन महतां सर्वमपीष्टावहमेव भवतीति द्योतितम् । शिव- स्थापि ताशावस्थास्मरणेनैव सर्वोत्कर्षवर्णनेन शृङ्गारस्पान्या- तिशयों व्यङ्गयः ॥ २ ॥ शिवयोः सम्बन्धवत्तया नित्यसम्बन्धत्वस्याभिप्रायेण सह- जतः सम्बन्धमुक्त्वा शक्तिग्रहाद्यभावादशेन तदवान्तरसम्ब- न्धग्रहं सूचयनस्तौति द्वाभ्याम् । वृषकेतनस्य हृदधे वरणस्नग्जपति गिरिभुवा निहिता। कुण्डलनेवानाप्रतिकूलाशेषवृत्तीनाम् ॥ ३ ॥ हृदयपदेन चित्तवक्षसोक्यारोपः । वरणं तस्य भर्तृत्वा-
भार्यासप्तशत्याम्
भ्युपगमसूचकव्यापारः । स्वयंवरे तद्वरणमितिकथा लि
पुराणे । कुण्डलना प्रत्याख्यानसूचनरेखाविशेषः । तस्प
पूर्व कामप्रतिकूलत्वलाभाय-अनङ्गति । तदेहनाशस्य भग-
बता कृतत्वाद । एतेन तदुत्तरं तस्य कामपारवश्यसूच नम् ।
अशेषपदेन तस्य कादाचित्कत्वनिरासः। अत्र वृषकेतनपदेन
कुत्रचित् ग्रामीणे कस्याश्चिदुत्तमनायिकाया अनुरागसत्ता.
तमतीतेः समासोक्तिः । तयाच प्रेम्णो वाह्यानपेक्षत्वरूप.
वस्तुव्यञ्जनमित्यलङ्कारेण वस्तुध्वनिः । वृषपदस्य धर्मवाचकल्या
तत्प्रधानस्य वरणीयत्वप्रतीत्या च पुण्यवत्स्वेव नायिका अनुः
रज्यन्तीति व्यज्यते ॥ ३ ॥
हैमवतीकर शाखामिलितकरो नीललोहितो जयति ॥
स्थाणुरपि भासमान: पल्लवितुं कृतसमारम्भः ॥ ४ ॥
"अङ्गुल्या कारशाखाः स्युः" इत्यमरः । पाणिग्रहणकालीन-
मेतत् । तत्र द्वयोः पाणियोगविधानेऽपि गौर्या भयेन हस्तः
सोचादङ्गुलीमात्रमेव संयुज्यत इति व्यञ्जायितुं करशाखति।
स्थाणुः शाखादिरहितो वृक्षस्कन्धः । एकपदोपादानमूलका-
भेदाध्यवसायेन अङ्गुलीकरसंयोगजन्यशिवतत्संयोगेन पल्लवित-
स्वोत्प्रेक्षा । अथ च स्थाणुः सर्वविकाररहितोऽपि नायिकाकर-
अहणेन पल्लवितुं कामुकीभवितुमारब्ध इत्यर्थः । एतेन कामस्थ
सर्वविक्षोभकत्वसूचनम् । यदाह-
"अन्येषु जन्तुषु रजस्तमसाइतेषु
विश्वस्य धातरि समः परमेश्वरेऽपि ।
सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा
मा लजया सब कथञ्चिदपन्हुसिभूत्" ॥ ४ ॥
मङ्गलाचरणम् ।
"आदौ वाच्यः स्त्रिया रागः पश्चात्पुंसस्तदिङ्गितः" । इति
साम्प्रदायिकोक्त्या नायिकारागस्य प्रथमं वर्णनीयतया तथैव
पराशति-
चुम्बितमन्मथशासनललाटनयना गिरीन्द्रजा जयति ।
रतिरिव वैरावेशात्तदभिगलितुमभिमुखीभूता ॥ ५॥
मन्मथशासन:(कामनाशनः)। पाकशासनादौ शास्तेहिसार्थ-
दर्शनात् । एतेन तस्य कामनाशनत्वोक्त्या तत्साधनीभूतनयनस्य
रत्या सह वैरवीजमुक्तम् । ललाटनयनेनैव कायस्य दाहात-
दभिगरणप्रवृत्तरतितादात्म्योत्प्रेक्षा । तदिति ललाटनयनमि-
त्यर्थः । अत्र शिवस्यैव गौर्यनुरागविषयतया रतिवरस्य च
नेत्रमात्रविषयकतया विवक्षितत्वात् भिन्नविषयतया विरोधा-
भावात् तस्यां रतितादात्म्यारोपो नानुपपन्न इति मन्त-
व्यम् ॥५॥
इदानी शिवस्य तमाह-
शर्वाधरमालिन्यान्मालिन्या विजयते हसितम् ।
शर्वाणीवदनाम्बुजविनिगृहनचन्द्रिकायमाणं तत् ॥६॥
हासहेतुभूतगौरीनयनचुम्बनानुमापकतया मालिन्यादिति
पञ्चमी । “खारीशतम्" इत्यादिभाष्यप्रयोगवलेन गुणेन सह षष्ठी-
समासनिषेधस्यानित्यत्वावगमादधरस्य मालिन्यमिति समासः ।
मालिन्याः पार्वतीसख्या इत्यर्थः । तदीयहसितेन मालिन्यहेतु-
कस्त्रनयनचुम्बन ज्ञानमनुमाय लज्जया मुखगोपनमित्यर्थक-
मुत्तरार्द्धम् । वदनाम्बुजेत्युपमामूलिका हासस्य चन्द्रिकोपमेति
परम्परितोपमा ॥६॥
भार्यासप्तशत्याम् nama तयोः परिरम्भं सूचयनाह- अनुभूतमन्दराचलपरिणाहो यज्ञसूत्रमीशस्य ॥ वासुकिरमाकुचव्यपरिमण्डलविस्मितः पातु ॥ ७ ॥ यदपेक्षया कुचोत्कर्षस्तदनभिज्ञस्योत्कर्षज्ञानासम्भवादाह- अनुभूतेत्यादि । साक्षात्कारपरमनुभवपदम् । अमृतमथनप्रकरणे- "मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्" इतिपुराणोक्तेः. तथाप्युत्कर्षाश्रयज्ञानरहितस्य तन्न स्यादित्यत आह-यज्ञेत्यादि तथाच कुचपरिमाण ज्ञानमनुपपन्नमिति भावः । परिमण्डलं परिणाहः । एतादृशस्य रक्षायां सामर्थ्यादितिभावः ॥ ७ ॥ तयोः सुरतान्तावस्थां द्योतयन्स्तौति- देवासुरकृतमन्दरकर्षणशिथिलाकृताखिलाषयवः ।। वासुकिरचलेन्द्रसुतानि श्वासास्वादतुन्दिलो जयति॥ पूर्वार्दैन श्रमहेतुकथनम् । आकर्षणाल्पत्ववारणाय देवा, सुरेति । तत्प्रयुक्तेन मनुष्यादिना कर्षणे कृते तथा घर्षणाभा. वात् कृतति । कर्षणीयद्रव्यस्य मृदुत्वे पीडाविशेषाभावात् मन्द. रेति । संयोगमात्रवारणाय कर्षणेति । पूर्ववदेवात्र निःशासा- स्वादनोपपत्तिः। सपणामनिलाशनतया तदीयनिःश्वासरसनेन तस्य श्रमनाश उचित इतिभावः । एतेन महदाश्रयस्यानर्थोपशा. मकत्वव्यञ्जनम् । अत्रायमर्थः । वासुकिपदेन कश्चिद्योगी योध्यते । विशेषणसामर्थ्यात्स जयति । आत्मतत्त्वसाक्षात्कारेण सर्वातिशयितत्वात् । स प्रथमं कीदृशः । देवासुरपदेन नाना- विधयोनिमूचनम् । कृतशब्देन कर्मग्रहणं सदेव मन्दरोऽदिरति- गुरुत्वात् । नानायोनिषु कर्महेतुकं यत्कर्षणं संसरणम् ।
मङ्गलाचरणम्। "आहारा विविधा भुक्काः पीता नानाविधाः स्तनाः इतिश्रुतेः। तेन शिथिलीकृतचित्तः निर्विण्ण इतियावत् । तदाह श्रुतिः "परीक्ष्य लोकान् कर्मचितान ब्राह्मणो निर्वेदमाया"। इति । अ. चल एकरूपो विकाररहित इन्द्र आत्मा तं सौति ज्ञानविषयं जनय. तीति मुत् । षु प्रसवैश्वर्ययोरित्यस्य विपि रूपम् । अचलेन्द्रस्य मुदिति कर्मषष्ठया समासः । तादृशेन ब्रह्मज्ञेन गुरुणेत्यर्थः । हेतौ तृतीया । "तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समिपाणिः श्रोत्रिय ब्रह्मनिष्ठम्" इतिश्रुतेः । निःश्वास आत्मा । “अपाणी ह्यमनाः शुभ्र" इतिश्रुतेः । तस्यास्वादेन ज्ञानेन तृप्त इति दिक् ॥ ८॥ द्वाभ्यां मन्दरविहारोद्भावनेन स्तौति । धूर्जटिकलेवररुचिज्योत्स्नाविशदप्रदेशगतम् । मन्दरमालोक्य पयोनिधिमथनस्मरणमहिपतेः पातु ॥९॥ भगवदङ्गमभाप्रवाहेण मन्दरगिरेः सर्वतो व्याप्तत्वात्क्षी- रोदधिमध्यगतमिव मन्दरमुक्षिप्य समुद्रमन्थनं स्मृतमित्यर्थः । स्मरणालङ्कारः । तदुक्तमलङ्कारकौस्तुभे- "सदृशज्ञानोद्घोधितसंस्कारभवा मतिः स्मरणम्" । इति । रुचौ ज्योत्स्नारूपकेण श्वैत्यसूचनम् ॥ ९ ॥ मन्दरावहारिणि हरे गौरीलावण्यरूपणरतानाम् ॥ दृष्टश्रीरूपाणां वनदेवीनां जयन्ति दरभङ्गाः ॥१०॥ तस्याः केवलाया गमनानौचित्यात् मन्दरेत्यादि । दर्श- नमात्रार्थगमने एकाकिनोऽपि गमनसम्भवात्तद्वारणाय विहारि- णीति । रूपण तारतम्यपरिच्छेदः । उत्कर्षावधिज्ञानाय दृष्टे. त्यादि । मन्दरेण मथितादब्धेः श्रीसमुत्पत्तेस्तासां तदर्शनोप. ORNER आर्यासप्तशत्याम पत्तिः । वनदेवीनां वनाधिष्ठातृदेवतानामित्यर्थः ॥ १० ॥ सम्भावितविजातीयविघ्ननिरासाय स्कन्दमनुसन्दधाति । ग्रैवेयकहरिकरजभ्रमविषयो हरकिरीटखण्डेन्दुः ।। तारकराजमतेरिव तारकरिपुणा हृतो जयाति ॥ ११ ॥ बालानां ग्रीवाभूषायां सिंहनखा अपि प्रथ्यन्ते । स्वकीय- कण्ठाभरणस्थसिंहनखभ्रान्त्या भगवता स्कन्देन हरशिरश्चन्द्र- कला समाकृष्टा । तत्र हेतुरुत्तरार्दुनोत्प्रेक्ष्यते । इन्दुर्हि त. राजो नक्षत्रपतित्वात स्कन्दस्तु तारकरिपुस्तद्धन्तृत्वात् । अतस्तारकराजोऽयमिति ज्ञानादिव हृत इत्यर्थः । तारकराजेति- कर्मधारयः षष्ठीसमासो वा द्वितीयाथै कार्य: । आधे वैरिसम्ब- न्धित्वादन्त्ये वैरिस्वरूपत्वाच हरणोपपत्तिः । अत्र विशेपणतया स्कन्दसङ्कीर्तनं विशेष्यतया तु चन्द्रस्य । तत्र भरत:- "चन्द्रसङ्कीर्तनं यत्र तदधीनो रसो मतः ।। स्फीते चन्द्रमसि स्फीता रसश्रीरिति भालुकिः ॥" अनेन महात्मनां यो विरोधविषयस्तत्समनाम्नापि भयं भवतीति व्यज्जितम् ।। ११ ॥ शिवसम्बन्धेनैवाह- भालविलोचनदहनज्वालाभिर्मन्मथे समालीढे ॥ कुसुमितकिंशुककाननगत इति सुरभेज़मो जयति॥१२॥ भालस्य विलोचनमिति समासे भाले शिवसम्बन्धित्वज्ञान- मौचित्यादेव । बहुव्रीहौ तु दहनस्य भालसम्बन्धित्वम् । तस्माद्बुध्य- ते दहनाचिषां पुष्पितपलाशसादृश्यावसन्तस्य तथाविधा भ्रान्तिः। अन्यदा तस्य तत्रावस्थानसहचारस्य गृहीतत्वात् । कामस्य दा. हेऽपि सामथ्यानपायात्तस्य तत्कथनं नानुचितमितिज्ञेयम् । तदु- आर्यासप्तशत्याम् कम्- "कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने ॥ नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥” इति । एतेन रागगृहीताः कार्यनाशेऽपि तदाशांन सजन्तीति सू. चिम् ॥ १२॥ वसन्तस्यान्यापेक्षयोद्दीपकत्वाविशेष सूचनाह- तुहिनमहीधरदुहितरि महिततमग्रहिल भावसाहिलायाम् अतिसौरभस्य कुसुमामोदिन्यासुमनसः प्रकाश्यन्ते १३ माहिततमः=दीर्घतमसमयमभिव्याप्य कर्तुमिष्यमाणः । ग्रहिल. भाव-मानः । वसन्तबुद्ध्या समुद्दीपितमदना अनुनयोत्तरमेव मानं सजस्वित्यभिप्रायेणोक्तम् । असमय एव रसालकुसुमानि प्रकाश्य- न्ते स्वप्रभावादितिभावः कुसुमामोदिनीति हिमाद्रेरधिष्ठाच्या देवतायाः संज्ञा । तथाच मत्स्य पुराणे देवी प्रति तदुक्तिः "कुसुमामोदिनी नाम वनस्याप्यधिदेवताम् ।" इति । असिसौरभस्य सम्बन्धिनः सुमनस एव भवन्तीति सौन्द. यानिशयवता मानदैर्घ्यमयुक्तमिति व्यज्यते । एतेन सखीनां मानत्याग एव प्रवृत्तियुक्ता न तु तन्निर्बन्धे सखीकार्यप्रतिकूल- स्वादिति सूचितम् ॥ १३ ॥ इदानी प्रकृतकाव्यस्य शृङ्गारपरतया शृङ्गारो विष्णुदैवतः" इति भरतवचनादौचियेन नारायणकीर्तनमयं मङ्गलमारभते । "नित्यैवैषा जगन्माया विष्णोःश्रीरनपायिनी।" इतिविष्णुपुराणात्तत्सहचरितत्वेन कीर्तयितुं क्रमेणाह- मन्दरकोटिविमोत्तेजितकेयूरमणिकचित्रातः॥ श्रीपरिरम्भोपनतेहरिभुजयोर्जयति हास इव॥१४॥ २ 1 ܘ ܀ " - मङ्गलाचरणम् । अमृतमन्थनार्थ मन्दरस्योत्तोलनसमये तच्छिखरसङ्कटने उत्तेजिता अधिकतेजस्काः कृता ये केयूरसम्बन्धिमणयः तत्पभा समूहः सन्निहितलक्ष्मीपरिष्वङ्गसम्भावनाजन्यसुखहेतुकहास तादात्म्येनोत्प्रेक्ष्यते । परिरम्भस्य बाहुसाध्यत्वाद्धासादि सनि ष्टमेव निर्दिष्टम् । एतेनेष्टप्राप्तिपूर्वमेव मनःसमुल्लासो भवतीति मुचितम् ॥ १४ ॥ तत्प्रसङ्गादाह- सम्पश्यतां प्रतिकृति लक्ष्म्याः पयसि द्वितीयतदुदयस भ्रान्त्या तस्थामतथाभिनिवेशो जयति दैत्यानाम्॥१ जले लक्ष्मीप्रतिबिम्वं दृष्ट्वा तस्य सर्वसाम्येन द्वितीयलक्ष्मी रप्युद्भवतीतिभ्रमेण तामेव वयं ग्रहीष्याम इसभिप्रायेण परमा थलक्ष्मयां तादृगभिनिवेशो न कृत इत्यर्थः । तस्योत्कर्षश्च त सङ्गमकारणत्वेनेति ध्येयम् । तदुदयस्य भ्रान्त्येत्यन्वयः । एते न दैत्यानां तत्पतिवन्धकरणानभिमुखत्वेन तदनुसन्धानस्य वि ननिवर्तकत्वमूचनम् । यदुक्तम्- "तथा न ते माधव ! तावकाः कचिद भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्द्धसु प्रभो ! ॥ इति। (भागवते स्कं० १० अ० २ श्लो० ३३)॥१५ तदनुराग कीर्तयन्नाह- भूयोबिसारिदीधितिकन्दलितः कौस्तुभो हदि मुरारः। दक्षिणविलोचनातपवारणमिव जयति पद्मायाः ॥१६॥ भूयस्त्वं विसारित्वं च दीधितिविशेषणम् । कन्दलित इति प्र. भामण्डलेन तस्य महत्त्वमुचनम् । विलोचने दक्षिणोतविशेषणेन Rements आर्यासप्तशत्याम् तस्य सूर्यमयत्वं व्यज्यते । लक्ष्म्याः परमसुकुमारतया सूर्य- निदाघसहनसामर्थ्यावरहेण तद्वारणाय छत्रमिव भाति । तस्या अपि हृदयस्थितत्वादित्यर्थः ।। १६ ॥ पुनरिपि कौस्तुभमनुसन्दधाति- जयति हृदये मधुभिदः कौस्तुभमणिरविरतं लग्नः ।। योषिद्रूपे मग्नं दक्षिणमिव धूर्जटेश्चक्षुः॥ १७ ॥ योपिळूपे कैटभीशरीरे । दक्षिणतिसूर्यात्मकत्वमूचनम् । तत्र किल शिवस्यात्यन्तमनुरागो वृत्त इति पुराणविदः । एवं च तदानीं यद्दक्षिणं चक्षुस्तदीयहृदये लग्नं तत्सर्वदा तत्रैव स्थित. मिति सम्भाव्यते । एतेन मायास्त्रियोऽपि शिवमोहनक्षमतायां वास्तवीनां तासां जनान्तरविक्षोभणे का वार्तेति घोतितम् ।।१७! सम्भोगं धनयवाह- ब्रीडितया प्रियनयने वामेऽपि तिरोहिते लक्ष्म्या॥ कौस्तुभमिषेण नाभीपद्मविमुद्रोद्यतो विधुर्जयति ॥१८॥ अनावृतस्त्राङ्गदर्शननिबाधनया(१) लज्जया भगवतो वा. मे नयने तिरोहिते सति चन्द्रस्यान्तर्धाने जाते नाभिकमलस्य सङ्कोचाभावेन विकासापचौ तदन्तर्गतहिरण्यगर्भदर्शनशङ्कया कौस्तुभव्याज कृत्वा तन्निमीलनार्थ चन्द्रः प्रवृत्त इत्युत्प्रेक्षा । अपिशब्दो दक्षिणनयनपिधानसमुच्चयार्थः । तस्य प्रकृतानुप- योगान्न साक्षादुक्तिः । कौस्तुभस्य श्वेतवर्णत्वे प्रमाणं च नैषध- भावप्रदीपे “हित्वा दैत्यरिपोरुरः स्वभवनम्" इत्यादिश्लोक- व्याख्यानावसरे प्रदर्शितमस्माभिः ॥ १८ ॥ (१) निदानया इति पाठो भवेत् ।
१२ मङ्गलाचरणम्। प्राधान्येन रमा स्तौति- कौस्तुभदीधितिधारापटलान्तरगा हरेर्हृदि गतापि॥ अनुभूयमानदुग्धोदधिवाससुखा रमा जयति ॥१९॥ धारा सर्वतोमुखत्वादविच्छेदाच्च । समुद्र एव गमने तत्सौ. लभ्यादाह-हरेरिति । तत्रस्थयापि तत्स्मरणसम्भवादाह-अ. नुभूयमानोति । भाक्षास्क्रियमाणेत्यर्थः । अत्र हरिहृदयावस्था- नेनैव पयोनिधिवाससिद्धेरेककरणेन कार्यान्तरसिद्धिरिति वि. शेषालङ्कारः । एवमेकपा एव पनाया युगपदुभयवृत्त्युक्तिरु- पोऽपि विशेषभेदः । तदुक्तमलङ्कारकौस्तुभे- "स्थितिराधाराभावे वृत्तिरनेकत्र युगपदेकस्य । एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः" इति ।।१५ कूर्मावतारं स्तौति- आसादितकमलातनुसंयोगकमन्दरान्वयेनेव ॥ सुखमामीलितनयनो जयति हरिः कच्छपाकारः ॥२०॥ माप्तः कमलातनुसंयोगो येनेति मन्दरविशेषणम् । समासा. न्तः कप् । अन्वयोऽप्यत्र संयोगरूपः । कूर्मोपरि मन्दरं निधाय समुद्रो मथित इति पुराणवार्ता । तत्र मन्दरघर्षणमुखं तन्निमी- लने हेतुः । तस्य श्रीसंयुक्तमन्दरसंयोगजमुखेन सम्भावनमिति हेतूत्प्रेक्षा। तया कविप्रौढोक्तिसिद्धालङ्कारेण प्रियजनस्य पर- 'म्परासयोगोऽपि सुखं जनयतीति वस्तुध्वनिः ॥ २० ॥ परशुराममेकेन स्तौति- अगलेऽनुबिम्बितोऽङ्गे परस्वधो जयति जामदग्न्यस्य॥ हाखिन्निव सम्प्रहितः क्रोधेन चत्रियासुतत्वभुवा॥२१॥ प्रतिबिम्बोपपत्तये 'अमले' इत्यङ्गविशेषणम् । स्वपदं जामद-
आर्यासप्तशत्याम्
१३
न्यपरम् । क्षत्रत्वजातेः क्षत्रियायां दृष्टोत्पन्नव्यक्तावेव वृत्तेर्मुख्य.
क्षत्रियत्वाभावेऽपि क्षत्रियासुतत्वांशमादाय तत्सम्भावनया त-
दवच्छेदेनेव क्रोधबलात्स्वतनावपि परशुः प्रयुक्त इत्युत्प्रेक्षा।
एतेन महात्मनां यो यादृशतया परिगृहीतस्तदवच्छिन्ने स्वकी.
येऽपि तदुचितव्यापारो भवतीति सूचितम् ॥ २१ ॥
एकेन श्रीराममनुसन्धत्ते--
सीतासीमन्तमणि कौस्तुभमिव वक्षसा बिभ्रत् ।।
प्राग्जन्मस्मरणादिव रामोऽन्तानसो जयति ॥ २२ ॥
"दुर्मना वियाना अन्तर्मनाः स्यादुत्क उन्मनाः।" इत्यमरः ।
हनुमता प्रत्यभिज्ञानत्वेन लङ्कायाः समानीतं सीताप्रहितं र-
नं हृदि निधाय तेन तस्य बाह्यविषयनिीतर्जाता । तत्र कौ-
स्तुभसदृशमाणिदर्शनजन्यप्राग्भवीयावस्थास्मरणं हेतुत्वेनोत्पे-
क्ष्यते । एतेन विप्रलम्भः शृङ्गारः सूचितः ।। २२ ॥
श्रीकृष्णं स्मरति--
उपनीताधरपल्लवमाधुर्य इवाधरेण गोपीभिः॥
निभृतं विभाव्यमानो वेणुनिनादो हरेर्जयति ॥२३॥
अधरः कृष्णस्यैव ग्राह्यः । हरेरित्यस्य वेणुना सहान्वयः ।
विभाव्यमाना=विषयान्तरात्पराङ्मुखीभूयास्वाद्यमानः । तस्या-
खाद्यताप्रयोजकमुत्प्रेक्ष्यते उपनीतेखादिना । अधरदलसंयुक्त-
निःश्वासाभिघातेन वंशावाच्छन्नाकाशसम्भवतया वेणुशब्दस्य
परम्परया तत्राधरसम्बन्धिमाधुर्ययोग उपपन्न इति भावः ।
प्रथमतः स्वीयाविषयकः शृङ्गारः समसूचि । अत्र तु परकीया.
विषयको धोत्यत इति बोध्यम् ॥ २३ ॥
राधाया वक्षोरुहमिलिता नाभी मुरद्विषो जयति ॥
प्रादुर्भूतपितामहनिवासराजीवकालिकेव ॥२४॥
मङ्गलाचरणम्। राधा महालक्षाया अवतारविशेषः । "राधानाम महाभागा वल्लभस्य निवेशने ।" इति पञ्चरात्रोक्तः । आलिङ्गनविशेषेण तत्स्तनस्य भगव. नाभीसमायोगः तत्रोत्प्रेक्षा प्रादुर्भूतेयादि । तदीयनाभौ ब्रह्मो- त्पत्तिपुण्डरीकस्य योग्यत्वात्तथैव सम्भावनम् । वक्षोरुह शब्दस्य सापेक्षतया राधाया इति तत्रान्वेति । "सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते ॥ वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते" इति ॥ २४ ॥ सम्प्रतीन्द्रादिदेवानामपीश्वररूपतया तत्सम्बन्धेनाह- रतिरभसेन दुकूलेऽपहृतेऽपि सहस्रनयनेन ।। अविभावितहरमुद्रोपाया वः पातु पौलोमी॥२५॥ नयनाच्छादनेच्छाहेतुमाह-अपहृतेऽपीत्यन्तेन । आच्छा. दनस्यासाध्यत्वं सूचयन्नाह-सहस्रेति । करद्वयेन तावतामाव- रणासम्भवादिति भावः। वस्तुतस्तदर्शनस्यैव सम्मतत्वात् न. यनपिधानोपायविरहेण निस्त्रपत्वानाक्षेपाच्च सिद्धोभयार्थतया परमानन्दसम्पूर्णेत्यर्थः । तथा च कामशास्त्रम्- "प्रौढा वा तरुणी वापि लज्जितापि न लज्जते । किन्तु तं नाटयित्वानं निरीक्षयितुमीहते " इति ॥ २५ ॥ इदानी "सोऽयमक्षरसमाम्नायो वाक्समाम्नायः पुष्पितः फलितश्चन्द्रतारकवत्प्रतिमण्डितो वेदितव्यो ब्रह्मराशिः।" (म० भा० १ । १।२ ) इति भाष्यकारवचनाद्वाङ्मयं प्रकृतं कीर्तयति। उन्मूलितान्धकारः प्रकाशितानेकवस्तुसमुदायः ॥ अतिदुर्विबोधवा जयतितरांवाङ्मयविवस्वान् ॥२६॥ वाङ्मयम् इत्यत्र एकाच इति मयट् । तदेव विवस्वान सूर्यः ।
आर्यासप्तशत्या १५ रूपकस्यापि साधर्म्यमूलकत्वादाह-उन्मूलितेत्यादि । विना. शितमन्धकारमज्ञानं येन । तत्त्वज्ञानहेतुत्वात् । “शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति" इत्युक्तेः । प्रकाशिताः प्रतीति- विषयीकृताः पदार्थसमूहा येनेति स्पष्टम् । यद्वा वैयाकरणमते सर्वज्ञानेषु शब्दभानस्वीकारात् । यद्वा प्रकाशपदमुत्पत्तिपरम् । तथा च स्मृतिः- "अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ।। नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् । वेदशब्देभ्य एवादी निर्ममे परमेश्वरः ॥"( मनु०१।२१) इदं चोत्तरमीमांसायां प्रथमाध्यायतृतीयचरणे(१) विभावि- तम् । अतिदुर्विबोधेति । तथा च भाष्यम्-"बृहस्पतिरिन्द्रा- य दिव्यं वर्षसहसं प्रतिपदपठितानां शब्दानां पारायणं प्रोवाच न चान्तं जगाम” इति ।(१॥ १॥ २) सूर्यपक्षे स्पष्टम् ॥ २६ ॥ तत्पशंसामाह- मिथ्याभावविहीना वहन्त्यनिर्वाच्यतामनिशम् ।। अज्ञानानुपधेया महाकवीनां जयति सा सृष्टि ॥२७॥ ब्रह्मसृष्टयपेक्षया कविसृष्टेव्यतिरेको वर्ण्यते । सा हि स- दसद्विलक्षणत्वरूपमनिर्वाच्यत्वं वहति अत एव मिथ्याभाव- विशिष्टा अज्ञानोपादेया चेति वेदान्तिनः । इयं तु विशिष्टचम. कारजनकत्वेनानिर्वाच्यत्वं दधानापि मिथ्याभावं निष्फलमा. वं न दधाति चमत्कारस्यैव काव्यमुख्यफलत्वात् । "शक्तिनिपुणता लोककाव्यशास्त्रायवेक्षणात् ।। [१] देवताधिकरणे इति शेषः।
। १६ प्राचीनकविकीर्तनम् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ।।" (काव्यमा ? इति रीया विज्ञानातिशयसापेक्षत्वादज्ञानजन्या न भव त्यर्थः । अनिर्वाच्यस्यापि मिथ्यात्वं नेति विरोधालङ्कारो र तिरेकस्याङ्गम् ।। २७॥ काव्यप्रसङ्गेन कवीन् कीर्तयिष्यन्नादिकविं भगवन्तं स्मीकि द्वाभ्यां नमस्करोति । ज्ञानागोचरपारं निर्मनक्रौञ्चसवितृकं वन्दे ॥ प्राचेतसं पयोनिधिमसूत यः काव्यकल्पतरुम् ॥ २८ "प्राचेतसस्त्वादिकविः स्यान्मत्रावरुणश्च सः ।" इति वाल्मीकिपर्यायः । अन्यज्ञानापरिच्छेद्यविज्ञानशाति नमित्यर्थः । समुद्रपक्षे पारस्यास्मदादिप्रत्यक्षाविषयत्वात् निर्मशः क्रौञ्चस्य पक्षिविशेषस्य तापकत्वेन सविता सूर्य इ निषादविशेषो यत्र । "मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥" इति तस्य शतत्वान्मनसादृश्यम् । अयमेवाद्यः श्लोक इति कथा बालकाण्डे । समुद्रपक्षे निर्मग्नः क्रौञ्चाद्रेः सविता जन- को मैनाकाचलो यस्मिन् । तथाच मैनाकादीन प्रक्रम्य मात्स्यम्- "इत्येते पर्वता विष्टाश्चत्वारो लवणोदधिम् । छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात्" इति । काव्यमेव कल्पतरुरनेककामप्रदमित्यर्थः ॥ २८ ॥ क्रौञ्चस्य पक्षपाती तारकरूपप्रकाशनैकरतः ॥ जयति गुहाननुकूलो वाल्मीकिः कविकुलाचार्यः॥२९॥ गुहा-मिथ्याज्ञानम् “गुहाहितं गहरेष्ठं पुराणम्" इत्या- दौ तथा निर्णीतत्वात् । तस्याननुकूलो विरोधी तत्वोपदेशक - SINOD प्राचीनकविकीर्तनम् । स्वात् । अथ च गुहस्य स्कन्दस्य विरुद्धधर्मेत्यर्थः । पक्षपातित्वं तन्मारकशापदानात् । गुहस्तु क्रौञ्चाद्रिभेदीति तद्वैपरीत्यम् । तारकस्य ब्रह्मणो यद्रूपं शुद्धबुद्धत्वादि तत्प्रकाशनमात्रसक्तः । स- तु तारकासुरस्य तिरस्कार एवासक्त इति तद्विरोधः ॥ २९ ॥ एकेन वेदव्यासं स्तौति- सुकलितवेदव्यसनो रचितमहाभारतोविमुक्तिधरः ।। वाण्याधिष्ठितकण्ठः स जयति कृष्णो मुनिर्जगति॥३०॥ कृष्णपदेन नारायणव्यासयोरुपस्थापनात्तदभेदसूचनम् । योः साधर्म्यमाह-सुकलितेत्यादि । कलयतन नार्थत्वात् विनाशितं वेदानां व्यसनं मधुकैटभादिहरणनिबन्धनावपत्तिर्येन सः । पक्षे सम्यकृतं वेदानां व्यसनं विभागो येन । वेदानां शाखाविभागस्य व्यासेन कृतत्वात् । रचितो महाभारतो दैत्यादिकृतभाराद्विमुक्तिर्यस्यास्तादृशी धरा यस्मात् । भारत इत्यस्य तसिलन्तत्वेनाव्ययत्वम् । पक्षे कृतं महाभारतमितिहा- सो येतिपृथक्पदम् । विमुक्तिधरो जीवन्मुक्तत्वात् । वाणी- पदमायेऽधिष्ठातृदेवतापरम् , द्वितीयेऽधिष्ठयशब्दपरम् ।। ३० ।। एकेन बृहत्कथाकारं श्लाघते- नरवाहनचरितमयी सर्वोत्तरदिग्गता बहुपदार्था । मुखहेतुः स्वगतानामलकेव बृहत्कथा भाति ॥ ३१ ॥ "अलका नगरी ज्ञेया" इति कुबेरप्रकरणे हलायुधः । नरवाहना= विद्याधरविशेषः कुबेरश्च । सर्वोत्तरा= सकल श्रेष्ठा, दिक् = सीमा । पक्षे उत्तरदिक् । बहवः पदार्थी निध्यादयो यस्याम् । पक्षे बहूनि पदानि तदाश्च यत्र । स्वगताना- स्ववृत्तीनां स्वज्ञातृणां चेत्यर्थः ॥ ३१ ।। ३ ८ आर्यासप्तशत्याम् HEAD द्वाभ्यां कालिदासं स्तौति- नेत्रीकृताग्निमित्रा कुमारसूर्जनितमेघरघुभावा ॥ कवितामिषेण काली वशं गता कालिदासस्य ॥ ३२॥ काली शब्दस्य "डयापोः संज्ञाछन्दसोः" (६।३।१३) इति इस्वः । स्वभक्तवशीभवनं परमकारुणिकस्वभावः ।त. कवितैव कालीरूपेण प्रतिपाद्यते । नेता नायकरूपः कृतोऽग्नि- मित्रनामको राजा यया। मालविकाग्निमित्रनाटके तस्य नाय. कतया कालिदासेन निबद्धत्वात् । नेतृशब्दात् चिप्रत्यये "री. ऋतः" (७ । ४ । २७) इति रीङ् । अथच नयनीकृताव- निर्वह्निः मित्रो रविश्च यया। कुमारस्तत्सम्भवः काव्यं गुह- श्च । मेघशब्देनैकदेशानुकरणेन मेघदूतकाव्यम् । रघुस्तदंशः । पक्षे जनितो मेघलघुभावो यया, श्यामवर्णत्वात् , रलयोरै- क्यात् ॥ ३२॥ कृतिद्वारापि तं प्रशंसति- मालिन्याश्रयरहिता नगाधिजाताश्रयप्रसूता या ॥ या नप्रभुतभरता शकुन्तला सेति नश्चित्रम् ।। ३३ अत्र शकुन्तलानाटकस्य वर्णनीयनायिकापेक्षया वैलक्ष. ज्यं प्रतिपाद्यते । शकुन्तला हि मालिनीसंज्ञकनयाश्रिता । तत्क- थायां तत्र कण्वाश्रमोक्तेः । नाटकरूपा तु निर्दोषतया मालि. न्यहीना । सा च गाधिजातो विश्वामित्रस्तदाश्रयेण प्रस्ता मेनकायां तस्मादुत्पत्तेः । इयं तु नगाधिजाताया देव्या अनु- प्रहेण जाता । सा भरतजननीति प्रसिद्धम् । इयं तु न प्रभू ता भरता भारसादृश्यं यत्र तथा । भारवदनुपादेया नास्ति तथाच तद्विरुद्धधर्मवत्यास्तदभेदादाश्चर्यमित्यर्थः ।। ३३ ।। ।
प्राचीनकविकीर्तनम्। १ ९ सेतुकाव्यकृतं स्तौति- उल्लसदहार्यरचनं सदुदितरत्नाकरं व्यधित सेतुम् ।। काव्यार्णवं तरीतुं राम इव प्रवरसेननृपः ॥ ३४ ॥ अहार्या अदृषणीया रचना शब्दसन्दर्भो यत्र । पक्षे अहाय : पर्वतैः : रचना घटनं यस्य । “अहार्य धरपर्वताः" इसमरः । सदुदितानां रम्यवचनानामेव रवानामाकरभूतं तन्मयत्वात् । अथच सद्भिक्तो रत्नाकरः समुद्रो यस्य तदाश्रयत्वात् । तरी- तुमिति तस्य सर्वकाव्यादाधिक्यसूचनम् । श्लेषमूलिकोपमा॥३४॥ मुबन्धुकविं कीर्तयति- वासवदत्ता सौरभधारेव नवासवेन दत्तेयम् ।। उदयति सहृदयहृदये सुबन्धुरप्येवमसुबन्धुः ।। ३५ ।। वासवदत्ता आख्यायिकाविशेषः नवेन आसवेन सीधु. ना दत्ता परिमलधारेव सहृदयानां प्रतिभाति आनन्दविशेषहे. तुत्वात् । एवं सुबन्धुः तत्कर्ता कविरपि, तेषाममूनां प्राणानां बन्धुः । तादृशनिबन्धकर्तृत्वेन तत्रोत्कर्षवत्ताज्ञानोदयात् । अथ. च वासवदत्ता न वासवदत्ता सुबन्धुरसुबन्धुरिति विरोधा- भासः॥ ३५॥ माघमनुसन्दधाति- धृतफाल्गुनाग्रजन्मा पुरुषोत्तमवल्लभो जयति ॥ वाच्यः परेण तपसा पावनपरिशीलनो माघः ॥ ३६॥ माघकाव्यस्य माघमाससाम्यं प्रतिपाद्यते । धृतः फाल्गुन- स्थाग्रजन्मा युधिष्ठिरो यत्र । राजसूयकर्तृत्वेन तन्निर्देशात् । प. क्षे धृतं फाल्गुनमासात्पूर्व जन्म येन । पुरुषोत्तम= कृष्णः । तस्य तत्र नायकतयोपादानात् । पक्षे तत्प्रियत्वाव । महता तपसा
२०
आर्यासप्तशत्याम्
अदृष्टद्वारा वाच्यः अल्पपुण्येन कर्तुमशक्यत्वात् । पक्षे द्विती.
येन तप:शब्देन वाच्यः । तपःशब्दस्य माधवाचकत्वात् ।
परिशीलनमध्ययनादि स्नादि च । तथाच स्मृति:-
"तुलामकरमेषेषु प्रातःस्नानं महाफलम् ।।
हविष्यं ब्रह्मचर्य च महापातकनाशनम्" ॥ ३६ ॥
प्राकृतसप्तशतीद्वारेण तत्कृतं स्तौति-
हालाभ्युदितो गाथासमुदायो रसविशेषपूर इव ॥
अध्यक्षीकृतमात्रो नाधत्ते कस्य परितोषम् ॥ ३७॥
"हालः स्याच्छालवाहने" इतिकोषः । पक्षे हाला सुरा
तत उत्पन्नः । रसविशेषस्य शृङ्गारस्य प्रवाह इव । तदाह
"अमिश्र पाउअकव्वं पठिउं सोउं अ जे ण जाणंदि ।
कामस्स तत्तितात्तं कुणंति ते कहं ण लज्जंदि।"
अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति ।
कामस्य तत्त्वचिन्तां कुर्वन्ति ते कथं न लज्जन्ते ॥
पक्षे रसविशेषो माधुर्यम् । अध्यक्षीकरणं श्रवणविभावना.
दि । पक्षे रासनज्ञानविषयीकरणम् । एतेन सर्वरम्यत्व-
मुक्तम् ॥ ३६॥
प्राकृतमयं निबन्धं वितन्वता शालवाहननृपेण ।
काव्यानामितरेषां तद्विकृतित्वं कथितमर्थात् ॥ ३८ ॥
प्राकृतं= भाषाविशेषः । सङ्ग्रहकर्तृत्वात्तत्कृतत्वोक्तिः । त.
काव्यस्य प्राकृतत्वेन सर्वकाव्यप्रकृतिभूतत्वलाभादन्यकाव्यानां
विकृतित्वं पर्यवस्यति । तदीयच्छायानुहारित्वादन्येषामिति
भावः । अथ चोपदिष्टधर्मजातस्य दर्शादेः प्रकृतियागस्य धर्माः
( अनुपदिष्टधर्मजातैः) "सौर्य चळं निर्वह्मवर्चसकाम" इसा-
दिभिर्विकृतियागैह्यन्त इति ध्वनिः ॥ ३८ ॥
प्राचीनकविकीर्तनम् । २१ NERS द्वाभ्यां दाण्डनं स्तौति-- वारद्वारान्तगामिनमतिचिरमालोक्य दण्डिनं जगति ॥ अन्तः प्रवेष्टुकामा अप्यन्ये यान्ति बहिरेव ॥ ३९ ।। वाचोऽनेकरूपायाः सिद्धान्तवेत्तारं दण्डिनं विभाव्य गुण. वत्वेन ज्ञायमाना अप्यन्ये बहिरेव गच्छन्ति । तदपेक्षयाऽप- कृष्टा एव भासन्ते इत्यर्थः । अन्यत्रापि राजादेराधिकृतं द- ण्डवन्तं दौवारिकं दृष्ट्वाऽभ्यन्तरगमनमिच्छन्तोऽपि गन्तुं न क्ष. मन्त इति भावः ॥ ३९ ॥ कृतिमुखेन तं स्तौति- काव्यादर्शकदीश्वर एव प्रतिभाति गरिमसम्बन्धात् ॥ स परमनलीकदृष्टिभृदनुग्र उद्गतदशकुमारः ॥ ४० ॥ काव्यादर्शः काव्यगुणादिविचारग्रन्थः तत्कर्ता दण्डी ईश्वर एव प्रतिभासते विलक्षणकृतिहेतुत्वात् । गरिमशब्दार्थो गौरवं सिद्धिविशेषश्च । उत्तरार्द्धन तद्व्यतिरेकमाह-सपरमित्या.. दिना । शिवो हि अलीके ललाटे दृष्टिभृत् , "नीचाः सदैव सवि. लासमलीकलग्ना" इत्यादिप्रयोगात् । उग्रः तन्नामकत्वात् , जनि. तैककुमारश्चेति प्रसिद्धम् । अयं तु अलीकदृष्टिमिथ्याज्ञानं तद्र- हितः, अनुग्रः सौम्यत्वात् , उद्गतदशकुमारः तद्रन्थकारित्वा- दित्यर्थः ।। ४० ॥ कृत्युत्कर्षेण कर्तुरुत्कर्षस्यार्थसिद्धत्वात् तद्द्वारेण भवभू- तिप्रशंसामाह- अणुदोषं समहिमगुणमर्थे गुरु लघुपदं वशितचेतः । प्राकाम्याप्त्यैश्वयं भवभूतिविजृम्भितैश्वर्यम् ॥४१॥ भवभूतिकृतं काव्यम् अणिमादिकभूतिमयतया बर्थते । -
आर्यासप्तशत्याम
BAD
DAININE
"अणिमा महिमा चैव गरिमा लघिमा तथा।
प्राप्तिः माकाम्यमाशित्वं वशित्वं चाष्ट सिद्धयः ॥"
दोषनिष्ठमणुत्वं दोषसामान्याभावस्यासम्भवात् । गुणनि-
ष्ठं महत्त्वम् । गुणाश्च भरतेनोक्ताः-
"श्लेषः प्रसादः समता समाधि-
माधुर्य मोजः सुकुमारता च।
अर्थस्य च व्यक्तिरुदारताच
कान्तिश्च काव्यस्य गुणा दशैते" ॥ इति
अर्थगतं गुरुत्वं लोकोत्तरत्वात् । शब्दाश्रितं लघुत्वम् अ.
स्पशब्देन बर्थप्रतिपादनात । तथा च नैषधम्-
"गरौ गिरः पल्लवितार्थलाघवे मितं च सारं च वचो हि
वाग्ग्मिता" इति । वशीकृतं चित्तं येन । अन्यथा तद्वैयर्थ्यात् ।
"आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्" (अ० शा०
अं०१श्लो०२) इतिन्यायात् । प्राकाम्यं बाहुल्यं तस्याप्त्या ऐश्वर्य
यस्य । क्षुद्रकविभिरल्पस्यैव करणादनेन तु बहुगुणविशिष्टाने-
ककाव्यनिर्माणादाधिक्यमित्यर्थः ॥ ४१ ।।
वाचैव जगदितिश्रुतिरपि भवभूतिश्च वश्यवागितिया।
अर्थ समर्थिते सति तयैव वाचंयमत्वमुचितं नः ॥४२॥
"वाचारम्भणं विकारो नामधेयम्" इत्यादिश्रुत्या जगतो
मिथ्यात्वतात्पर्यवत्या तस्य वाचारूपत्वं, वश्यवाचः कवेः का.
व्यमितिप्रसिद्ध्या च वाचो भवभूतिवश्यत्वमुक्तं भवति । तथा-
च सर्ववाङ्मयस्य तदधीनत्वात् जगतश्च तत्काव्येन वशी-
कृतत्वात् अन्येषां वाचंयमत्वं मौनमेव युक्तम् । वाचामन्याधी-
नत्वे तत्प्रयोगस्य कर्तुमशक्यत्वात् प्रयोजनाभावाचेतिभावः॥४२॥
प्राचीनकविकीर्तनम् । पुनरप्याह- भवभूतेर्विच्छित्तिव्यभिचारमुचां गिरां गुम्फाः ॥ विधिनापि दुर्निवारं तेषां खलु भावभूतत्वम् ॥ ४३ ॥ विच्छित्तिश्चमत्कारविशेषः तद्यभिचारमुचोऽवच्छेदका- वच्छेदेन चमत्कारजनकाः । अन्येषामपि किश्चित्काव्यस्य च. मत्कारजनकत्वात् । भवभूतेरिमे भावभूता इति तत्सम्बन्धि- काव्यत्वमात्रस्य भावभूतत्वस्य दुर्वारतया भावात्मकस्य च विच्छत्तिविशेषाधायकत्वरूपतया धर्मिग्राहकमानसिद्धमेव ते. षां चमत्कारहेतुत्वमितिभावः ॥ ४३ ॥ एकेन भारवि स्तौति- दाक्षायणीप्रियधनञ्जययोर्विवृणोति रुचिपरावृत्तिम् ।। यस्य गवां समुदायः स भारविः कीर्त्यते युक्तम्॥४४॥ भा ज्ञानं कान्तिश्चेति ज्ञाने कान्त्यभेदाध्यवसायेन तद्वत्त- या तस्य रविसादृश्यं प्रतिपाद्यते । गवां-वाणीनां मयूखानां च । दाक्षायणीप्रियः शिवः, धनञ्जयोऽर्जुनः, यो रुचिः परस्परप्री- तिः तस्याः परामुत्कृष्टामात्तिं पौनः पुन्यं विवृणोति । किराता. र्जुनीये तथा वर्णनात् । पक्षे दाक्षायणीमियश्चन्द्रः धनञ्जयो- ऽग्निः तयोः कान्तिपरावृत्तिं मन्दतेजस्त्वं करोति । स्पष्ट- मेतत् ॥ ४४ ॥ एकेन मयूरमाह- रीतिभावनिबन्धे विदिता भुवने विलक्षणा यस्य ।। स जयति कविमयूरो विचित्रपदवर्णविन्यासः॥ ४५ ॥ मयूरकवेबहिणः साम्यं वर्ण्यते । भावानां रखादीनां निव- न्धे विलक्षणा अन्यकविभ्य उत्कृष्टेति यावत् । पक्षे भावनिक.. RESS
आसप्तशत्याम्
न्धे रतिसुखानुभवे विलक्षणा रीतिर्मयूरस्थ प्रसिद्धा
सङ्गमं विनैव तस्य तदुत्पत्तेः । तथाच विमलबोध:"-
स्य भार्या नृयन्तं मयूरं दृष्ट्वैव गर्भवती स्यादिति लोक.
वादः । अत एवाहुः --नैव ते सङ्गमोऽस्ति मनुष्येण ना
कामभोगचिन्हमन्यत् । गर्भिणीवदृश्यसे ह्यनार्ये किं मयूरस'
रिणी त्वमेवम्" इति । विचित्रोऽनुपासप्रचुरः पदानां मुप्तिङ-
न्तानां शब्दानां च विन्यासः सन्दर्भो यस्य । सूर्यशतकेऽनुपा-
सप्राधान्यदर्शनात् । पक्षे नानारूपो वर्णानां हरितादीनां विन्या-
सो यस्य, चित्रशरीरत्वात् ॥ ४५ ॥
पञ्चभिर्वाण स्तौति-
अर्थपतितनयबन्धुनिरुक्तगासङ्ख्यहर्षचरितश्च ॥
अभिनन्दजननहेतुर्वाणः प्रतिभाति कृष्ण इव ।।४६ ।।
अर्थपतिमंज्ञकस्य तनयश्चित्रभानुः तस्य बन्धुः मुतत्वान्
पक्षे कुवेरतनययोनलकूबरमणिग्राचयोनीरदशोपेन यमलार्जुन-
तामापनयोर्मोक्षणाद्वन्धुः । निरुक्तं वेदाङ्गविशेष गच्छति जाना-
तीति निरुक्तगः । असङ्ख्यं सर्वोत्तमं हर्षचरितमाख्यायिकावि-
शेषो यस्य । तस्य बाणकृतत्वात् । यद्वा निरुक्ता गवां वाचां स.
या येन तादृशं हर्षचरितं यस्य सर्ववाआयसारत्वात्तस्येति.
प्रशंसा । पक्षे निरुक्तो विहितः गोसङ्ख्यानां गोपालानां हो
येन तादृशं चरितं यस्य । अभिनन्दस्य कवेरुत्पत्तिहेतुः। तस्य.
बाणपुत्रत्वात् । पक्षे आभिमुख्येन पालनादिना नन्दगोपो जन-
नहेतुर्यस्य । नन्दस्य तज्जनकत्वाभावेऽपि पालनादिकर्तृत्वेन
लज्जनकत्वप्रसिद्धः। यद्वा अभि भीरहितं यथा स्यात्तथेति
.क्रियाविशेषणम् ॥ ४६ ॥
प्राचीनकविकीर्तनम् निबन्धान्तरमुखेन स्तौति- वर्णितविधानपार्थों शुकवैशम्यायनार्यपदौ ।। आकलयामस्तुल्यौ भारतकादम्बरीकारौ ।। ४७ ।। भारतकारो व्यासः, कादम्बरीकारो वाणः । आये वर्णित विधानं चरितं येषां तादृशाः पार्थी युधिष्ठिरादयो यस्य । द्वि. तीये वर्णितायां विधायां प्रकारेऽनपार्थोऽनुपादेयार्थरहितः । आ- रम्भणीयप्रकारेणैव वर्णनं कुर्वन् । शुको व्यासपुनः। “शुको व्याससुते कीरे रावणस्य च मन्त्रिणि" इतिविश्वः । वैशम्पायन- स्तच्छिष्य ऋषिविशेषः । व्युत्पत्तिस्तु पुराणे- "शम्पां शतहदामाहुरयनं पतनं ततः ॥ विगतं शब्दतो यस्माद्वैशम्पायन इत्यतः ॥” इति । तन्नामग्रहणस्य वज्रनिवारकत्वात् । विगतं शम्पाया अयनं यस्माद्विशम्पायनस्ततः स्वार्थे तद्धित इति विमलबोधादयः । "अगस्त्यश्च पुलस्त्यश्च वैशम्पायन एव च । पञ्चैते वज्रवारकाः ॥" इतिस्मरणात् । ताभ्यामच्यौँ चरणौ पादौ यस्य । द्वितीये शुकभूतो यो वैशम्पायनः शुकनासाख्यमन्त्रिपुत्रस्तेनार्यानि पदानि शब्दा यस्य । वैशम्पायनस्य महाश्वेताशापेन जन्मान्तरे शुकत्वं जातं तेन चन्द्रापीडावतारशूद्रकसमीपे प्राग्भवकथोक्ते. ति कादम्बयाँ दर्शनात् ॥ ४७ ॥ प्रकारान्तरेण स्तौति- कविकुलगुरुर्य एको बहुभासुरराजपूर्वदेव्युदितः ।। अथ चित्रभानुलालितपुरः स सर्वज्ञवल्लभो घाणः||४८॥ जैमिनिश्च सुमन्तुश्च Sapana . २३ आर्यासप्तशत्याम् बाणासुरः श्लेषणात्र वर्ण्यते । कवीनां कुलगुरु: मुख्यत्वा. त् । पक्षे कविः शुक्रः कुलगुरुय॑स्य । बहुभामुरा अतिदीप्तिमती राजशब्दपूर्वा देवी राजदेवी तत उदितः । पक्षे बहुर्भा दीप्तिर्य- स्य तादृशोऽसुरराजो बलिः, पूर्वदेवी दैत्यस्त्री बिन्ध्यावलीति । "पूर्वदेवाः सुरद्विष" इत्यमरः । पुंयोगे डी । ताभ्यामुदितः । चित्रभानुः बाणपिता तेन स्नेहेन लालितं पुरं शरीरं य- स्य । पक्षे चित्रभानुना वन्हिना रक्षितं पुरं नगरं यस्य सः । शोणितपुरस्य वन्हिनादृतत्वात् । राजदेवी बाणस्य माता, चि. त्रभानुः पिता । स्पष्ट हर्षचरिते । सर्वज्ञानां वल्लभः तत्समशील. स्वात् । पक्षे शिवप्रियः तेन पुत्रीकृतत्वात् ॥ ४८ ॥ अन्यकविव्यतिरेकमुखेन वर्णयति- परिशीलितव सरसं कविराजबहुभिरत्र वाग्देवी ॥ बाणेन तु वैजात्यात्कथयति नामैव वाणीति ॥ ४२ ॥ वैजात्यावअन्यकविपरिशीलनवैलक्षण्यात् । परिशीलिता= सन्दर्भविशेषविषयीकृता । अत्र मानमाह-कथयतीति । बाण- स्येयं वाणी। वाणसम्बन्धं प्रतिनिमित्तीकृत्य वाणीशब्दः प्रयु. तो न त्वन्यकविसम्बन्ध प्रतिनिमित्तीकृस । अतो वाणीपद- प्रवृत्तिनिमित्तसम्बन्धसिद्ध्यर्थमन्यकविकृतपरिशीलनाद्वाणकृतस. रस्वतीपरिशीलने वैलक्षण्यमवश्यमाश्रयणीयमिति भावः ॥४९ ।। कादम्बरी पृथगेव पुनर्णयति- चन्द्रापीडकरता स्फुरति हि मेनाहृदयजाता ॥ कादम्बरी कवीनामुपजीव्या सर्वमङ्गलेवेयम् ।। ५० ॥ "शर्वाणी सर्वमङ्गला" इसमरः । चन्द्रापीडस्तारापीडस्य पु. त्रः तदेकरता, तस्य नायकत्वेन वर्णनात् । पक्षे चन्द्र आपीडो - प्राचीनकविकीर्तनम् । भूषणं यस्य तत्र शिवेऽनुरक्ता। आये मे मम मनसि अहृदयजा- ता अरसज्ञकृता न भाति किंतु सहृदयकृतैव । पक्षे मेना हिमवद्भार्या तस्या हृदयजाता तत्कन्यात्वात् । उपजीव्या ततः सम्प्रदायग्रहणात् । "शक्तिनिपुणता लोककाव्यशास्त्रायवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥"(का०म० उ०१) इतिप्रकाशोक्तेः । पक्षे काव्यजनकप्रसादाश्रयत्वात् ॥५०॥ एकेनाभिनन्दं स्तौति- सहजेनाद्भुतजनकः स जयति कादम्बरीकृतिनन्दः ॥ यस्य जनकोऽपि बाणस्तां प्रात नैवान्यथासिद्धः ॥५१॥ अद्भुतजनकत्वं लोकोत्तरवर्णनोपहितत्वात् । कादम्बरीकृत उत्तरार्द्धपूरकत्वात् । यस्य पितापि बाणः कादम्बरी प्रति ना. न्यथासिद्धः । तस्य कादम्बरीपूर्वार्द्धकारितया कादम्बरीहेतुत्वा- द । अथच कादम्बरीजनकजनकत्वेनोपस्थितस्य बाणस्य तां प्रत्यन्यथासिद्धत्वं युक्तं कुलालपितुरिव घटे तदभावाच्चम- स्कार इति व्यङ्गयम् । यद्यपि तत्र धर्म एवान्यथासिद्धो नतु धर्मी कुलालत्वेन तस्य तद्योग्यत्वात् । तथाप्यत्रोक्तधर्मेणापि बाणस्य हेतुत्वमित्यभिप्रायः ॥ ५१ ॥ त्रिभिः श्रीहर्ष स्तौति- बहुविषयकविज्ञानं ब्रह्मैव न केवलं स्वमपि येन । अद्वैतमेव नीतं स श्रीहर्षों नमस्कार्यः ॥ ५२ ॥ आत्मवाचकः स्वशब्दः क्लीबोऽप्यास्त । "स्वो ज्ञातावात्मनि स्वं त्रिवात्मीये स्वोऽस्त्रियां धने ।" इत्यमरः । खण्डनाख्यग्रन्थे आर्यासप्तशत्याम् ता -- द्वैतनिराकरणेन यथा ब्रह्मणोऽद्वैतं प्रतिपादितं तथान्यविलक्ष. णतादृशज्ञानवत्तया स्वस्यापीयर्थः । तथा च खण्डने उक्तम्- "ईश्वरानुग्रहादेषा पुंसामद्वैतवासना ।। महाभयकृतत्राणा द्वित्राणां यदि जायते ॥” इति ॥ ५२ ॥ प्रकृते काव्यप्रसङ्गात्तन्मुखेन प्रशंसामाह-- अनलमुखानास्वादितमतमोगममन्दरसजनकम् ॥ पतद्धिपानपहार्य नैषधमवयाम्यपूर्वपीयूषम् ॥ ५३ ॥ माधुर्यादिगुणवत्तया सिद्धसुधासाम्यस्य नैषधस्य तस्मा- व्यतिरेको वर्ण्यते। तद्धि अनलमुखैर्देवैरास्वादितम् इदं तु नलो येषां मुखे नास्ति तैरनास्त्रादितम् । एतदास्वादकानां नलोचा. रणनियमात् । एवं तत् तमोगं तमसा राहुणा देवरूपं कृत्वा पी. तत्वात् । इदं तु मिथ्याबुद्धिं स्वकारणतया यद्गच्छति तथा न भवति, सम्यगवबोधमूलकत्वात् । तादृशकाव्यस्यैव कीादिहे. तुत्वात् । यदुक्तम्-- "गौ!ः कामदुघा सम्यक् प्रयुक्ता स्मयते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ॥" एवं पीयूषं मन्दरेण सजनकं भवति । तस्य समुद्रमन्थनहेतु- त्वात् । इदं तु अमन्दस्य भूयसो रसस्य जनकम् । तञ्च पसतां पक्षिणामधिपेनापहार्य गरुडेन तदपहारात् । इदं तु पततां पति- ततुल्यानां ज्ञानहीनानां मुख्यरनपहार्य दृषयितुमशक्यत्वात् । ए. तेन तेषां दृषणप्रवृत्तिरेव मोहाद्भवति न तु निर्वहतीति द्योत्यते । अत्र पीयूषान्वितार्थाभावस्य नैषधान्वितार्थप्रतिपादकपदश्लेषम- र्यादाबोध्यस्य तेन सहाभेदमभिधाय व्यतिरेको बोध्यः ॥५३॥ -- प्राचीनकविकीर्तनम् । २९ पुनरपि तद्वर्णयति- नलघटितं प्रोच्छ्वासितविदेहजन्मान्तरं सदनुरागम् ॥ अत्यन्तमेकरूपं जानमो नैषधं च सेतुं च ।। ५४ ॥ अत्र सेतु -तत्काव्य -नैषधानां साम्यं वर्ण्यते । आधे नलेन वानरविशेषेण निबद्धम् । द्वितीये तेनैव घटितं तत्कथानिबन्धा- त् । तृतीये नलेन राज्ञा घटितं तच्चरितवर्णनात् । प्रकर्षण उ. ल्लासितं विदेहजन्मनः सीताया अन्तरं मनो येन । पक्षे प्रकृष्टा रमणीयवर्णनमया उच्छ्वासाःसर्गाः साता अस्येति तारकादे. राकृतिगणवादितच् । विदेहजन्मा सीता अन्तरे यस्य वर्णनीय- यत्वात् । उभयोः कर्मधारयः । पक्षे उच्छ्वासितमानन्दितं विदे- हजन्मनां पण्डितानामन्तरं येन । मैथिलानां पाण्डित्यातिशयात्त. दानन्दजननेनातिशयसूचनम् । यद्वा विदायां ज्ञाने ईहा इच्छा य- त्र तादृशं जन्म येषां, सर्वजन्मनि ज्ञानमात्रार्जनरतानामिति याव- त् । रं वाडवरूपमग्निम् अनुगतोऽनुरः समुद्रः । "रः पावके च तीक्ष्णे च" इति विश्वः । अगाः पर्वताः । आश्रयतया स्वरूपघट- कतया सन्तो विद्यमाना अनुरागाः समुद्राः पर्वता यत्र । पक्ष सन् सर्गान्ते नियमेन विद्यमानोऽनुरागशब्दो यत्र । सेतुकाव्य- स्यानुरागाङ्कत्वात् । उक्तं च तत्रैव- (१)"एत्थ समप्यइ एसीआलम्भेण जाणिअहिअआणन्दम् ॥ रावणवहत्तिकव्वं अणुराअंक सकस्स मुहणिव्वेसम् ॥ पक्षे सतामनुरागो यत्र । मन्दैरानवबोधेनानादरणात् । (१) अत्र समाप्यत एकं सीतालम्भेन जनितहृदयानन्दम् । रावणवधेति काव्यमनुरागाई शक्रश्य सुखनिर्वेशम् ॥
आसप्त शत्याम् AND तथाच नैषधकार:-- "मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषानादरभरैः ।। यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते ॥" इति ॥ ५४ ॥ एकेन भासं स्तौति-- शब्दान्तरादितोऽपि व्यतिरेको भाति कवितायाः || श्रोत्रैकग्राह्यापि यदुल्लासं प्राप भासमासाद्य ॥ ५५ ॥ घटमानयेत्यादिलौकिकशब्दाकाव्यस्य चमत्कारजनकत्वा- दिना भेदस्तावत्सर्वसिद्धः । तत्रान्योऽपि हेतुरुत्प्रेक्ष्यते । शब्दा- न्तरसाक्षात्कारे आलोकस्य नापेक्षा चाक्षुष एव तस्य सहका- रित्वात् । काव्यस्य भासं प्राप्यैवोल्लास इति शब्दान्तरव्यावृत्त- धर्मादितरशब्दाद्वैलक्षण्यम् । पक्षे भासमिति भाशाब्दस्य द्विती- यान्तम् । “भाभासौ धातुभेदात्" इतिवामनोक्तेः । उल्लासा- काव्यान्तरादुत्कर्षः साक्षात्कारश्च । उभयत्राप्यभेदागेपः ॥१५॥ द्वाभ्यां मुरारि स्तौति-- अतिवर्द्धमानजन्मा कृतशङ्खसपनभावो यः ।। वाचामाश्रय एकः स मुरारिरितीदमहतमम् ॥ ५६ ॥ मुरारिकवेनारायणाभेदो वयेते | अतिशयिताद्धमान- संज्ञात् जन्म यस्य । “भट्टश्रीवर्द्धमानतनुजन्मन" इति प्रस्तावना- यां तदुक्तेः । पक्षे-अत्यन्तमेधमानानि जन्मानि यस्य नानाव- तारकरणात् । कृतो वर्णितः शङ्खस्य सपनभाव उपमेयनिष्ठो येन । तथाच तत्र नान्दी- भाग- प्राचीनकविकीर्तनम् । "निष्पत्यूहमुगास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्द्धविबोधमुग्धमधुरश्रीरदीनद्रायितो नाभीपखलपुण्डरीकमुकुलः कम्बो सपनीकृतः ॥" (अनर्घराघवे) पक्षे कृतशङ्खासुरवधः । स्पष्टमपरम् ॥ ५६ ॥ पुनर्वर्णयति-- वल्मीकभवस्य मुनेमहिमा मार्ग गिरामतिकान्तः ॥ सोऽपि मुरारिर्यस्मादालपितो बालवाल्मीकिः ।। ५७ ।। तस्मादुत्कृष्टोऽपि मुरारिर्थद्वालबाल्मीकिरित्येव व्यपदिश्यते तत्तस्य महाभाग्यम् । अथ कवितादात्म्यन विवक्षितो नाराय- णोऽपि वाल्मीकिमपेक्ष्य बाल उक्त इदमपि तथा। अथ बालो वाल्मीकिर्यस्मादिति तदपेक्षकिश्चिदपकर्षस्थान्यदुर्लभस्यापि वा- ल्मीकिनैव प्राप्तत्वात् तन्निरूपकत्वेन महत्त्वामित्यर्थः ॥ ५७ ।। एकेन शूद्रकं वर्णयति-- स्यन्तरसङ्गमरहितं प्रकरणकृष्टाखिलपुरान्तम् ॥ कादम्बरीप्रणयिनस्तनुमन्यां शूद्रकं जाने ॥ ५८ ।। कादम्बरीपदस्य सुग-नायिकाविशेषवाचकत्वेन तत्प्रणयि- पदेन बलदेव-चन्द्रापीडग्रहणम् । शूद्रका कविनृपविशेषश्च । स हि चन्द्रापीडे मृते तदवतार इति तत्र कथा। कार्मिकतयाs- न्यस्त्रीसम्बन्धनिवृत्तिः । बलस्याप्येकपत्नीव्रतेन तथा । राज्ञस्तु प्राग्भवीयकादम्बर्यनुरागसंस्कारेण । प्रकरणं-मृच्छकटिकाख्यं नाटकं, तेन वशीकृत सर्वेषां मनो येन । उपचाराच्छरीरवशीका- रोक्तिः । पक्षे प्रकरणेन शाम्बरोधप्रसङ्गेनाकृष्टं हास्निनाख्यं पुरं येन । नृपपक्षे प्रकृष्टः करणैर्हस्तायङ्गैरनुगञ्जितं सर्वनगरचिन ३२ आर्यासप्तशत्थाम् so येनेत्यर्थः ।। ५८ ॥ एकेन गोवर्द्धनाचार्य स्तौति- गिरिनायकभूतोऽयं कृतगोरक्षो जलौघपरिभावात् ।। गोवर्द्धनो विजयते योग्यत्वापन्नयोगार्थः ॥ ५९ ॥ योगार्थोगां वाचं वर्द्धयतीत्यवयवार्थो योग्यत्वमन्वयप्रतियो- गित्वमापन्नः । “द्वितीया श्रिता" (२ । १ । २४) इतिसमासः। 'गिरि' इतिसप्तम्ये कवचनं गीःशब्दस्य, तत्र नायकस्तदाभिज्ञत्वात्। पर्वतपक्षे गिरीणां नायकभूत इत्यर्थः। डलयोरैक्यात् जडसमूह- कृतात्परिभावाद्विप्लवात् कृता गवां वाणीनां रक्षा सम्प्रदायानुच्छेदो येन । पक्षे इन्द्रमखनिषेधक्कापतेन्द्रप्रयुक्त पुष्करावर्त कादिवृष्टिभया- स्कृतधेनुरक्ष इत्यर्थः ॥ ५९॥ एकेन स्वगुरुं प्रणमति- पार्यन्तिकपर्याप्त्या कविपदशक्तिद्वयीविषयम् ।। उत्तीर्णवाङ्मयाब्धिं वन्दे लक्ष्मीधरं तातम् ।। ६० ॥ "कविः काव्यकरे मरौ" इति मेदिनी। एकशक्तिविषयत्वस- मानाधिकरणापरशक्तिविषयत्वत्रन्तमित्यर्थः । प्रत्येकशक्तिविष. यताया अन्यत्रापि सम्भवात् किञ्चित्कवित्वपाण्डिसयोरेकत्रा- पि कचित्सम्भवादाह--पार्यन्तिकेति । पार्यन्तिकी पर्याप्ति- यदुत्तरं तयोरुत्कर्षो न भवति तादृशतद्वत्तम् । तथाच काव्या- न्तरपण्डितान्तरापेक्षयापर्कषसामान्याभाववन्तमिति फलितम् । अत्र हेतुमाह-उत्तीर्णति । उत्रेण तार्णो वाग्विषयरूपः स. मुद्रो येन । अब्धिपदेन दुरवगाहत्वसूचनम् । सर्वविद्यापारगामि- नमितियावत् । अथ च लक्ष्मीधरपदश्लेषोपस्थितनारायणाभे- दसूचनम् । तत्र पारं संसारस्यास्त्येषामिति पारिणो योगिनस्ते.
प्राचीनकविकीर्तनम् । षामन्तिकपर्याप्त्या सामीप्यसम्बन्धेनोपलक्षितम् । तेषां सुज्ञेयतया सामीप्योपचारः। कं-मुखं, विपदा-दुःखानाम् , अशक्तिः सम्बन्धासामर्थमभाव इतियावत् तद्रूपद्वयीसमाश्रयम् । विषयपद- स्याश्रयार्थत्वात् । उत्तीर्णेति “यतो वाचो निवर्तन्ते' इतिश्रुतेः वेदान्तजन्यवृत्तिविषयस्यापि ब्रह्मणः शुद्धत्वानभ्युपगमात्॥६०॥ द्वाभ्यां रुद्रचन्द्रनृपं कीर्तयति- बद्धानुरागगर्मितसेतुः कवितासुधोदयोदन्वान् ॥ श्रीरुद्रचन्द्रनृपतिर्विभाति साक्षात्प्रवरसेनः ॥६१॥ प्रवरा सर्वाङ्गसम्पन्ना सेना यस्य । अथच प्रवरसेनो राजा सेतुकाव्यकारः । अनुरागाङ्कत्वात्तस्य तद्गर्भवम् । अथच बद्धो जनानुरागपुरःसरः सेतुलॉकमर्यादारूपो येन । एतेनोपमानस्य कवित्वमुक्त्वा उपमेयस्य तदाह-कवितेति । उपमानपक्षे पूर्वो- पपादकत्वेनैतदन्वयः ॥६१ ॥ अविकलकलाकुलमयः परिहीणभुजङ्गनिन्नगासङ्गः ॥ प्रवलयति रुद्रचन्द्रः कुतुकोदन्वन्तमुल्लसत्कवितः ॥६२॥ रुद्रचन्द्रे राज्ञि रुद्रसम्बन्धिचन्द्रखण्डतादात्म्यमारोप्य तब्ध. तिरेकः प्रतिपाद्यते । चन्द्रान्वयिन्यर्थे स्ववाचकपदबोध्यान्या- भेदाध्यवसायेन तस्य चन्द्राभेदाध्यवासितराजनिष्ठाभावप्र- तियोगित्वं कथ्यते इति तन्निर्वाहः। हरचूडामणिचन्द्रो हि एकक- लारूपोऽयं तु पर्याप्त सर्वकलानिष्णातः तेन सर्वकलाविषयकसम्य- ग्योधसूचनम् । एवं स सणां निन्नगाया गङ्गायाश्च सम्बन्ध- युक्तः एकस्थानस्थितत्वात् । अयं तु भुजङ्गानां सूचकानां, नि- नगानां वेदविरुद्धाचारप्रसकानां च संसर्गहीनः । एवं स शुक्र- वृत्तिकवित्वाख्यधर्मरहितः । तस्य चन्द्रावृत्तित्वात् । अयं तु उ. ५ ४ आर्यासप्तशत्याम् mattee ल्लसन्ती सर्वेषामुस्कृष्टत्वेन प्रतीयमाना कविता लोकोत्तरवर्णना यस्य तादृश इति । चन्द्रोऽपि समुद्रमुढेल यतीत्यर्थः ॥ ६२ ॥ सम्पति विनयप्रदर्शनपूर्वकं चिकीर्षितं प्रतिजानीते- प्राचीनः सुचिरोचितपदार्थसारे सरस्वतीक्षेत्रे ॥ अर्थानां केषांचिद्यतामहे कर्तुमुञ्छमिव ।। ६३ ॥ किश्चिदुच्चयने वहविशेषसम्भवान् सुचिरेति । एकेन चिरमप्युच्चयने तत्सम्भवात् प्राचीनैरिति बहुत्वम् । एतेन ततोऽर्वाचीनतया स्वस्य तदुच्चयनासामर्थ्यमपि सूचितम् । प्र- कृते उच्चयनं निबन्धः, पदार्थाः धान्यादयः शब्दास्तदर्थाश्च । तैरपकृष्टतत्स्वीकारे उत्तमार्थशेषशङ्कावारणाय सारेति । सरस्व- तीक्षेत्रे वाग्विषये इयर्थः । क्षेत्रत्वारोपेण (१)पावनसामर्थ्य यो- तनम् । अथच नदीतीरसम्बन्धिकेदारे । देवमातृकस्थले सर्वदा- फलानुपपत्तेः । एतेन वाचः फलाव्यभिचारः मुच्यते । पतितव- ल्लरीग्रहणं शिलं तादृशबीजग्रहणमुञ्छ इति स्मृतिः । एतेना- त्यल्पमेव तदवशिष्ट पदार्थजातमिति दर्शितम् ॥ ६३ ॥ अथ प्रेक्षात्मवृत्तये अर्थानामानन्त्यमाह- विषया नैक विशेषाः पर्यवसायी न कल्पनाकोशः॥ तस्मिन्मनोऽप्रतिहतं यदि तत्काम किमुपात्तम् ॥ ६४॥ सन्ति तावत्प्रतिपदार्थमने के विशेषाः। कविभिश्च तत्तत्सा- मग्या प्रयेकमुपस्थितानां पदार्थानां संसर्ग मानसमेव कल्पयि. त्वा तद्वर्णनं क्रियते । कल्पनस्य च पर्यवसानं नास्ति पदार्थ भे. देन संसर्गभेदस्यानन्तत्वात् । स एव ह्यर्थो भझ्यन्तरेण वर्ण्यमानो नूतन इव प्रतिभासते । अत एव ध्वनिकृदाह- (१) वाग्नेति पाठान्तरम् । ABOARD SANJIND है सत्काव्यस्योपादेयता। ३५ "धनेोऽयं गुणीभूतव्यङ्गयस्थात्मा(१) निदर्शितः । एतेनानन्त्यमायान्ति कवीनां प्रतिभागुणाः ॥" (ध्वन्या- लोके उ. ४ श्लो० १) अत एव कल्पनाया आनन्त्येन कोशत्वोक्तिः । यदि त. स्मिन् कल्पनाकोशे अप्रतिहतं तत्तपदार्थसंसर्गज्ञानवैकल्यरहितं मनोऽस्ति तदा कैः किं गृहीतम् । अल्पमेव वर्णितमित्यर्थः ॥६४॥ सत्काव्यस्य सर्वोपादेयतामाह- तत्तच्छास्त्रसमुद्रावगाहलब्धानि बुद्धिरत्नानि ॥ ग्रथितानि शक्तिमद्भिःशब्दगुणे भूषयन्त्यखिलकण्ठान्६५ यथा समुद्रादुपात्तानि मौक्तिकादिरत्नानि ग्रथनकुशलैः सूत्रेषु गुम्फितानि कण्ठं परिष्कुन्ति तथा बहुविधवाङ्मयपर्या- लोचनात्पन्ना बुद्धयः तद्विषयीभूता अर्थाः कवित्वबीजभूतसंस्का. रविशेषरूपशक्तिशालिभिः सत्कविभिः शब्दे निबद्धाः सन्त: कण्ठं भूषयन्ति । तादृशकाव्यपाठकानामनभिज्ञापेक्षोत्कर्षवत्वमे. व शोभा । 'शोभतेऽस्य मुखम्' इत्यादौ पूर्वमीमांसायां तथा नि- र्णयात् । एतेन सर्व विद्यानां काव्योपयोगदर्शनम् । तदुक्तम्- "न तच्छिल्पं न तच्छास्त्रं न सा विद्या न सा कला ॥ जायते यन्न काव्याङ्गमहो भावो गुरुः कवेः" इति ॥६५॥ यत एवोक्तविधं काव्यं सर्वैरुपादीयते अत एव सर्वदा. ध्ययनाविच्छेदात्तदुच्छेदो न भवतीत्यभिप्रायेणाह- सुखगम्यध्वनिशालिन उज्झितदोषाः प्रसन्नरसाः ।। काव्यविशेषा गङ्गापूरा इव नैव यान्ति विच्छेदम् ॥ ६६ ।। गङ्गाप्रवाहपक्षे स्पष्टम् । सुखगम्यति अगूढत्वास्फुटत्वनिरा. (१) व्यङ्गयस्याध्वा इति पाठः काव्यमालामुद्रितध्वन्यालोके । ROHIBIO आर्यासप्तशत्याम् maa सः । असहृदयैरपि संवेद्यत्वं सहृदयैरपि कष्टद्यत्वं च तदुभय. लक्षणम् । अत एवोक्तम् -- "नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुजरीस्तन इवातितरां निगूढः ।। अर्थो गिरामपिहितः पिहितश्च कश्चि- म्यत्वमेति मरहट्टवधूकुचामः ॥" काव्यप्रकाशे-"इदमुत्तममातिशयिनि व्यङ्गये वाच्याव- निर्बुधैः कथितः ॥" ( उ० १ ) दोषाणां व्याकरणच्छ. न्दोविरुद्धत्वादीनां त्यागः । प्रसन्नः स्वशब्दवाच्यत्वादि. दोषरहितो रसो यत्र । आल्हादकत्वावच्छदकरूपेण रसो. पस्थापका इत्यर्थः। एतादृशलक्षण्यवैशिष्ट्यदर्शनाय विशे. षा इति ॥६६॥ प्रसङ्गादसत्काव्यकर्तृणां स्वरूपमाह विषमदृशां विवुधानां जातुचिदिष्टावनुपयुक्तम् ॥ कुकवय उअनिसर्गादुर्वर्णमुदीरयन्त्यपि रुदित्वा ॥६७॥ विषमा विषयपरिच्छेदहीना दृक् ज्ञानं येषाम् ! विबुधानां सहृदयानाम् ,इष्टौ आनन्दे। अनुपयुक्तं तदजनकत्वात् । यद्वेच्छाया अविषयत्वात् । उग्रो रसहीनतया तीक्ष्णप्रायो निसर्गः स्वभा- वो येषामीदृशाः कुत्सिताः कवयो रुदित्वापि महता प्रयासेने- तियावत् । दुष्टं वर्ण काव्यरूपमुदीरयन्ति प्रकाशपन्ति । अथच विषमदृष्टिस्त्रिनेत्रत्वात् । उग्रो रुद्रस्तत्स्वरूपाः । रुद्रेणापि रुदित्वा दुर्वर्ण रजतं प्रकाशितम् । तदपि विबुधानां देवानामिष्टौ यज्ञक. मण्यनुपयुक्तम् । तथाच श्रुतिः- "सोऽरोदीघदरोदीत्तद्रुद्रस्य रु- द्वत्वं तस्य यदश्वशीर्यत तद्रजतमभवत्तस्माद्वर्हिषि रजतं न देय- MEING T असत्काव्यनिन्दा म्" इति । बर्हिषि यज्ञे इत्यर्थः । अयं च "हिरण्यं निधाय वेत. व्यम्" इति वपने विहितस्य हिरण्यस्य स्तुत्यर्थ रजतनिन्दा. र्थवादः ॥ ६७॥ इदानीमसत्काव्यस्य कत्तुरज्ञानसूचनद्वारा दुर्यशोहेतुत या तस्य च-(दुर्यशसः) “कीर्ति स्वर्गफलामाहुरासंसारं विपश्चितः ।। अकीर्ति तु नरा लोके नरकोद्देशदृतिकाम् ॥" इत्यनर्थजनकत्वात्तस्य(असत्काव्यस्य)हेयत्वार्थं तन्निन्दा निबध्नाति सन्तोऽपि रसविशेषाः केचित्पृथिवीविकारसम्भूतैः ।। कूपैरिव दुष्काव्यैः स्वगर्भिता नेतरोपकाराय ॥६॥ स्वतः समाल्हादहेतवोऽपि रसादयोऽर्थाः कुकाव्यनिबद्धाः सन्त इतरेषामाल्हादं न जनयन्ति । तदुपस्थापकसामग्रीवैक- ल्याचमत्कारापकर्षकहेतुमत्त्वाद्वा । यथा जलानि शैयादि गुणवि- शिष्टान्यपि कूपान्तर्गतानि तदुद्धरणसामग्रीरहिताना तृष्णाप्रती- कारं न कुर्वन्ति तद्वत् । पृथिवी शब्देन तद्वासिजनग्रहणम् । पां विकाराय वैमुख्याथम् उत्पनैरिति काव्यपक्षे। पृथिवी विकारा इष्टकादयः तज्जनितैरिति कूपपक्षे ॥ ६८ ॥ सम्प्रत्यापातरमणीयं काव्यं निन्दति- अन्तःसारविहीनाः प्रतिभानविशेषकृतपरिष्काराः ॥ दधतीह काव्यभेदा कृत्रिममणिवत्प्रकर्षमापातात॥१९॥ सार:-रसादिरुज्ज्वलादिश्च । परिष्कारः-शब्दाडम्ब- रादिः रूपाद्याधानं च । आपाता-यावत्पर्यन्तं सम्यक् न विचारितास्तावदेव समीचीनतया भासन्ते । एतेनाज्ञमात्रोपादे- यत्वं सूचितम् । सहृदयास्तु विभाव्यैवोपाददतीति तदुपादानं आर्यासशत्याम् amaAD विना काव्यस्य वैफल्यात अज्ञमात्रपरिग्रहेण न कृतकृत्यत्व- मित्यर्थः ।। ६९ ॥ तदेवाह- इह परमोदनहीनास्त्यक्तरसव्यञ्जनास्तृणप्रायाः ।। बिभ्रति काव्याभासा दुर्गतपाकस्य (१)सम्भोज्यम् ७० अथच पापपरिणामवत् सहृदयानामुद्रेगमेव जनयन्तीत्य. र्थः । परेषां सहृदयानां मोदनं चमत्कारावानं तदसमर्थाः । पर- मत्यन्तमोदनेन हीना असदनमायत्वात् । त्यक्तं रसानां शृङ्गारा- दीनां व्यञ्जनं विभावादिद्वारा ध्वनिः । विभावादिद्वारोपस्थिता एव हि ते चमत्कारकारकाः। तत्र(काव्याभासेषु)तु स्त्रशब्दादिभि- रुपस्थिता इति न चमत्कारहेतवः । पक्षे त्यक्तरसानि लवणादिर- हितानि व्यञ्जनानि शाका येषु । तृणमाया: विचारासहत्वात् । पक्षे शाकबाहुल्यात् । तदाह- "आख्यानां मांसपरमं मध्यानां गोरसोत्तरम् ॥ शाकोत्तरं दरिद्राणां भोजनं भरतर्षभ ।" इति ।।७०॥ एवं सप्रपञ्चमाभिधाय चमत्कारजनकवाक्यमेव काच्यामिति सङ्क्षिप्य दर्शयति- शीलं पतिव्रतायां रूपं वेश्यासु संस्मृती विद्या । संन्यासिषु वैराग्यं काव्ये सारं चमत्कारः ॥ ७१ ॥ "आतार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा ॥ मृते म्रियेत या पत्यो सा स्त्री ज्ञेया पतिव्रता" | "शीलं स्वभावे सत्ते" इत्यमरः । सत्तहेतुतया तथोक्तिरिति व्रत- खण्डे हेमाद्रिः । रूपमिति । अन्यथा तदनादरणात् । विद्ये. १ सम्भोज्यम् भोगम्।
सत्कविताप्रशंसा। - नि । ऐहिकामुष्मिकफलापवर्गहेतुत्वात् । वैराग्यामति । य. दुक्तम्- "कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियान्विमूढात्मा मिथ्याचारः स उच्यते ॥"(भ० गी० अ०३ श्लो०६)चमत्कार इति । चमत्कारत्वं सहृदयप्रतीतिसिद्धो जातिविशेष इति रसगङ्गाधरकृतः॥ ७१ ॥ सम्प्रति यस्य यावदेव ज्ञानं तद्विषयार्थेनाल्पज्ञबहुज्ञसाधा- रणचमत्कारजनकं मुख्य काव्यमिति दर्शयति- भावक्षोदविदग्धान् यथास्थितग्राहिणोऽपि सत्पुरुषान्।। सत्कविता युवतिरिव प्रमोदयत्येव निर्विशेषेण ॥७२॥ भावक्षोदा-पदार्थरसादिविचारः । पक्षे तदीयेङ्गितादिपरि- च्छेदः । यथा युवतिः पामराणां कामशास्त्राद्याभज्ञानां च स- माल्हादमादधाति तथा सत्कवितापि । निर्विशेषस्तु चमत्कारोप- जननमात्रेण न तूमयचमत्कारसाम्याभिप्रायेणेति बोध्यम् ॥ ७२ ।। इति ग्रन्थारम्भः ॥ पाठक्रम समवलम्ब्य समस्तवर्णे- वाश्रिय कादिषु परं तमपि स्वराणाम् ।। किश्चिनिपातमपहाय पुरःप्रयुक्त- शब्दप्रयोगरहितः प्रथमं निबन्धः ॥ १ ॥ एकापि चोक्तिरिह भूयासि सम्भवन्ती योज्या स्वयं सहृदयैरुचितानुसारात् ॥ उद्देशतस्तु विवरीतुमहं प्रवृत्त- सोषां विभाव्य परिदर्शयितास्मि किश्चित् ॥ २
आर्यासप्तशत्याम्
तत्र परिहासेन नायिकासङ्गममपलपन्तं नायकं सहचरो
हेतुना निर्णीय तं दर्शयति-
असहकलेवर वीरुधि सुदृशि विभाते शयानायाम् ।।
नयनानि कमलकुमुदावस्थां धते सखीसपत्नीनाम्७३॥
असहत्वमपाटवम् । हेत्वन्तरवाधसहकृतप्रभातशयनेन स.
ख्यां नायिकानुरागसूचकसम्भोगमनुमाये सखीनामानन्दीद्रेको.
नयनसमुल्लासेन प्रातर्विकसितपभावस्था । सपत्नीनां तु तत
एक विषादसमुन्मेषान्नयनमीलनेन · सङ्घचत्कुमुदावंस्था । अ.
न्यावस्थायाः परेण प्राप्त्यनहत्वात्साम्यपर्यवसानेन पदा.
थनिदर्शनालङ्कारो यथासख्यं च । तयोः स्वरूपमलङ्कारकौस्तुभे-
"उपमापर्यवसन्नों यत्रार्थोऽन्योन्यमन्वयानहः ।।
यच्च क्रिपया कारणकार्यान्वयधीनिदर्शना सोक्ता।"
"निर्देशक्रमतो यदि समन्वयस्तयथासङ्ख्यम् ॥"
वीरुदिति मृदुत्वसूचनम् । एतेन मौग्ध्यं घोतितम् ।
"नात्यन्त क्लेशसहा नारी नवयौवना ज्ञेया"इति भरतात् ।।७३॥
कञ्चिदुत्तमनायकमपहायान्यत्रासञ्जयितुकामा कुट्टनी ना-
यिकामाह -
अवरस्य चोत्तरस्य च सर्वादित्वं व्यवस्थया भवति ॥
समयविशेषनिवन्धनमादरणीयत्वमखिलस्य ॥ ७४ ।।
अवरः हीनः। उत्तरः श्रेष्ठः । "उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः
स्थादनुत्तर" इत्यमरः । पक्षे उभयशब्दस्वरूपग्रहणम् । सर्वादि-
स्व-सामान्यं सर्वादिगणपाठप्रयुक्तकार्यवत्वं च । व्यवस्था कदा.
चिदुत्तमस्योपादानं कदाचिच्चापकृष्टस्येति विभागः। पक्षे स्वाभि-
धेयस्य नियमेनावश्यपेक्षा । पूर्वापरादिशब्दानां हि अर्थो नि.
--
अकारव्रज्या। -- । यमनावधिसापेक्षः । पूर्व इत्युक्ते कस्मादित्याकाङ्खोदयात् । भत्र पाणिनिमूत्रम् "पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम. संज्ञायाम्" इति । (१११:३४) अत्र लौकिके शास्त्रीयव्यवहारारोप. रूपा समासोक्तिः ॥ ७४ ॥ काश्चित्कुलकामिनीमुपपतावुपोद्वलयितुं दुती श्लेषणाह-- अयि सत्तासामान्यं नास्ति न वा जातिसङ्करो दोषः।। भूयांसः समवाया मार्गोऽयं श्रूयतेऽभिनवः ॥ ७५ ।। अभिनवत्वं रसिकमात्रक्षुण्णत्वात् । सत्ता-साधुत्वं तत्सा- मान्यम् । नास्ति तन्नाश्रयणीयम् ।जातिसङ्करः अन्यजातीयाया अन्यजातीयेन समागमः । समाया:-सम्बन्धा बहवः कार्याान तु "नैकस्यै बहवः सह पतय" इति वचनादेकत्रैव सर्वदा स्थेयम् । पक्षे अभिनवा नूतननैयायिकोनीतः। द्रव्यगुणकर्मवृत्तिसचाजा- ति प्राचीनाः स्वीकुर्वन्ति । नतु नव्या प्रमाणाभावात् । तथा पर. स्परात्यन्ताभावसमानाधिकरणत्वे सत्येकाधिकरणवृत्तित्वरूपं साङ्कय जातिबाधकं ते मन्यन्ते, न त्वेते । दूषकतावीजाभावात् । एवं सर्वगुणादीनां समवायमेकमेव ते आहुः। एते तु गन्धरससम- वायाभेदे जलेऽपि गन्धवत्ताप्रतीतिः स्यादिति नानैवेसर्थः ॥७॥ पूर्वमनुनयासक्तमपि नायकमवधीर्यानुतप्यमानां स्वला- धवशङ्कया नायकानुनयं कर्तुमनिच्छन्ती नायिका सखी सो- पन्यासमाह- अवलोक्यते न सन्ध्यवरे सखि ! ह्रस्वता कापि ।। विदुषिब्रुवे! विधिवशात्तेन युता सुत्यजा किंवा।।७६ ॥ पूर्वार्दै सख्युक्तिः। सन्धिः परस्परानुवर्तनं तत्मतिपादकाक्षरे इस्वता अपकर्षों न भवति । तेन प्रेयान मार्यताम् । अथच स. ६ । ४२ आर्यासप्तशत्याम् ध्यक्षरंति एकारादिवर्णचतुष्टयसंज्ञा शाब्दिकानाम् । तत्र स्व. त्वं नास्ति दीर्घप्लुतानामेव तेषां सर्वत्र ग्रहणादिति द्वितीयोऽर्थः । उत्तरार्द्ध च नायिकोत्तरम् । कुत्सिता विदुषी विदुषिब्रुवा पण्डि- तम्मन्येत्यर्थः । घरूपयादिना पुवद्भावं बाधित्वा इस्वः । तेन% नायकेन,भाग्यवशात् युता-मिलिता अन्या नायिका किं मदुक्त्या. सुत्यजा किंतु नैव । तथाच वरं वैयद्विरं (१)मानमेव रक्षेयम् । अथच तेन सन्ध्यक्षरेण विधेः इस्वविधानस्यानुगेधात् युता इका. रोकाररूपत्वमवश्यं प्राप्यम् । इकारोकारयोर्द्वन्द्वे तल्पत्यये यु. तेतिरूपम् । तेषां इस्वत्वाभावेऽपि यत्र तेषां इस्त्रो विधीयते त. त्रेकार उकारो वा भवत्येव यथा गोशब्दस्य इस्वत्वे चित्र. गुरित्यादाविति भावः ॥ ७६ ॥ काचिद्विरहिणी कुसुमितकिंशुकमुपवनं द्रष्टुमशक्तेदमाद- अनरण्यं सखि! शृणुमो हतं पलाशेन पूर्ववाक्येभ्यः ।। अधुनारण्यमपीदं हतं पलाशेन पश्यामः ॥ ७७ ॥ पलाशो राक्षसः। पलं मांसमश्नातीति व्युत्पत्तेः । अनरण्यो नाम रघुवंशीयो राजा दिग्विजयप्रसङ्गे रावणेन हत इत्युत्तरका. ण्डे । पलाशेन-किंशुकेन । अरण्यं वनम् अनरण्याविरुद्धं च । इत-दुर्दशीकृतं मारितं च । अनरण्यस्य पलाशहतत्वादरण्य- स्यापि तदर्शनं चित्रमित्यर्थः । "पलाशः किंशुके सट्यां हरिते राक्षसेऽपि च ।" इति विश्वः ॥ ७१ ।। काचित्कृतापराधे नायके मानबन्धाय प्रेरयन्ती सखीमाह - अश्मत्वं स्पर्शमणाविक्षौ ग्रन्धिः सुधानिधावङ्कः ।। अपराधित्वं प्रणयिनि हेयत्वं न प्रयोजयति ॥ ७८ ॥ (१) बरं-श्रेष्ठं, मानविशेषणमेतत् ।
अकारत्रज्या । - यसंयोगाद्धात्वन्तरस्य स्वर्णत्वं स स्पर्शमाणः । इक्षुपदेन प्रसिद्धतया माधुर्यलाभः । प्रणयिनीत्यत्र विषयतासम्बन्ध इनि. प्रत्ययार्थः । हेयत्वमुपेक्षणीयत्वम् । तथाच गुणविशेषसामाना- धिकरण्याभावविशिष्टानामेवैषां हेयत्वप्रयोजकत्वं न तु तत्स. मानाधिकरणानामपीति मानानौचियमित्यर्थः ॥ ७८ ॥ कृत्रिमगुणां नायिकामापाततो बहुमन्यमाने नायके गुणग. विता काचिनिगूढाभिप्रायमाह- अहह गुणैरिह कृतकैः परमाणून् पार्थिवानाह ।। स्वाभाविकगुणयुक्तान्पुनर्जडाख्यान हतो लोकः ॥७९॥ अहहेत्यनुचितार्थानुभव विषादसूचनम् । निसपृथिवीगुणाना- मपि पाकजत्वमिति सिद्धान्तात् कृतकैरिति । गुणैर्गन्धरूपादिभि- युक्तान परमाणून पृथिवीसम्बन्धिनो वदति । नित्यगुणयुक्तांस्तु परमाणुविशेषान जलसंज्ञान् वदति । नित्यजलादिगतगुणानां नि. त्यत्वस्वीकारात् । अथच कृत्रिमगुणान् पार्थिवान् राजतुल्यान, निसर्गसिद्धगुणांस्तु जडान् ब्रुते। हतः परमार्थानभिज्ञ इति ॥७९॥ काश्चिदगुणजेन नायकेनानाद्रियमाणां कुलवधूं कापि स- दाचारा दृद्धा उपदिशति- अनिशं तिरस्कृता सखि ! तेन निकारोत्तरोपसर्गेण ॥ स्मरणाहप्रकृते ! नय समयं साधुत्वमन्यथा न भवेत् ८. स्मरणीयप्रकृतित्वेन तस्या अनुपेक्षात्मकज्ञानविषयत्वाक्षे- पादभ्यर्हितत्वद्योतनम् । निकारोत्तरेण= त्वतिरस्कारप्रधानेन, उपसर्गेण कार्ये कारणोपचारादवश्यमुपद्रवजनकेन, तिरस्कृता- स्वदपकृष्टगुणनायिकान्तरप्रेमादिनाऽनाहतापि कालमतिवाहय । अन्यथा सतीत्वहानिः स्यात् । अथच स्मरणवाचिका प्रकृतिः 'इक् - आर्यासप्तशस्थाम् । स्मरणे' इतिधातुः निशब्दोत्तरम्-'अधि' इत्यस्य प्रादिषु पाठात् निकारोचरेणाध्युपसर्गेण नित्यमादौ प्रयुज्यमानेन पश्चात्कृत प्रयोगाहीं । "इङिकावध्युपसर्गतो न व्यभिचरत" इतिन्यायन केवलयोः प्रयोगार्नहत्वादित्यर्थः ॥ ८० ॥ 'कथं स्वीयप्रियमपहायान्यत्र रक्तासि' इतिवदन्ती सखी काचिदाह- अनुकूलेनैव समं प्रणयः साजात्यमनपेक्ष्यम् ॥ दहनस्य सखा पवनस्तेजस्त्वभिभावकं सौरम् ।। ८१ ॥ अनुकूलेन-खचित्तानुवर्तिना। पक्षे स्वकारणीभूतेन । सा- जात्यं = समानजातीयत्वम् । अनपेक्ष्यम= अनादरणीयम् । पर. स्परविरुद्धतेजस्त्ववायुत्वावच्छिन्नयोरपि दहनमारुतयोः सख्यस्य तेजस्त्ववतोरपि वन्हितपनयोरभिभाव्याभिभावकत्वदर्शनाच्च । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ८० ॥ एकस्मिन्नेवावधिदिने परिशिष्टे सति नायिकासमाश्वास- नाय सख्या कृतं विशेष सहचरःसश्लाघं नायकाय निवेदयति-- अवधिदिवसोऽयमेकोऽवशिष्ट इति दत्त एकाङ्के । पूर्वाङ्का अपि दत्ताःप्राच्यनयेनेति विवदतेस्म सखी८२॥ गतदिवसानां बहुत्वादवशिष्टैकदिनस्यैवाङ्को दत्तः। सख्या तु दिनान्तरसङ्ख्यार्था अप्यङ्काः प्राच्यलिप्यैव लिखिताःस्थिता इति प्रसवस्थानम् । तथाचायमप्यको मैथिललिपिरीत्यैव दत्तः। ततश्च सप्तानामयमङ्को न त्वेकस्येति फलति । नागरिकलिपौ य ए. काङ्कस्तस्य प्राच्यलिपौ सप्ताङ्कस्य लेखनात् । तेन किञ्चिचिर- कालं नायकानागमनेऽप्यस्या आश्वासोऽस्त्वित्यभिप्रायः।।२।। नायकं सहस्तवर्तिनमाभिज्ञाय सपत्न्यादीनच मन्यमानां ना- अकारवज्या। यिका हितैषिणी प्राह-- अत्यन्तपदविदापि हि खलादरो जगति न त्याज्यः ॥ सुकरोऽथ दुष्करो वा किमन्यथा सिद्ध्यति प्रणयः॥ ८३ ।। उन्नतपदारूढे नापि निश्चयेन खलानां दुष्टानामादरो न विहे. यः। अन्यथा सुकरो दुष्करो वा प्रणयो न निर्वहति । तैस्तद्भङ्गो. पायकरणादित्यर्थः । अथचात्यन्तशब्दज्ञेनापि खल्प्रत्ययस्या- दरो न त्याज्यः । अन्यथा सुकरदुष्करशब्दौ न सिद्ध्यतः । "ईषदुःसुषु कृच्छाकृच्छ्रार्थेषु खल् ( ३ । ३ । १२६ । ) इति- सूत्रेण खल्प्रत्ययविधानादेव तत्सिद्धिरितिभावः ।। ८३ ॥ कस्यचिदर्थे दृती नायिकामाह-- अयि स गुणैकमयात्मा(१) मदनस्य शिलीमुवैर्निहतः ।। नेत्रत्रिभागहरणात्कृतस्त्वया रूपमात्रपरिशेषः ॥ ८४ ॥ अयोतिसानुनयसम्बुद्धौ। बहुगुणमयो मन्मथशरपीडितः स युवा नेत्रस्य तृतीयभागेन कटाक्षेण हरणात वशीकारात् कृत्तशरीरतया रूपमात्रावशेषः कृतः । अथच गुणास्त्रय एकं चेति अङ्कदानात त्रयोदशसङ्ख्या सम्पद्यते । तत्र मदनबाणैः पञ्चभिर्गु. णने पञ्चषष्टिसख्या सिद्ध्यति । ततो द्वात्रिंशता तत्र भागहरणे चतुःषष्टेोपादेकमेव परिशिष्यते । रूपेत्येकसङ्ख्योच्यते इति गणकाः । "सन्देशे चैव दृत्यास्तु प्रदद्यान्मदनाश्रयम् ॥ तस्येयं संव्यवस्थेति कथयेद्विनयेन सा ॥" इतिभरतोक्तः ॥८॥ (१) एकं ( वस्तु) प्रचुरं यस्मिन् स एकमयः “तत्प्रकृतवचने मयट् [५।४।२१] । इत्यनेन प्राचुर्यार्थे मयट् । गुणेन एकमय इति तृतीयेति योगविभागात्समासः। धान्येन धनवान् इत्यादाविव 'प्रकृत्यादिभ्य उपसङ्ख्यानम्' इत्यनेन तृतीया। ततो बहुव्रीहिः ।
४६ आर्यासप्तशत्याम् काचित्प्रणयस्थैर्यार्थिनी नायकमाह-- अभ्यासे सति भेदो भावस्याभ्युपगतो येन ॥ तेन गुणान्तरयोगात्तदुरीकारे किमाश्चर्घम् ॥ ८५ ॥ चिरपरिचयोऽभ्यासः । भावोऽनुरागस्तस्य भेदो वैषम्यम- पकर्ष इति यावत् । गुणान्तरं = प्रथमानुरागविषयनिष्ठगुणापेक्षयो. स्कृष्टगुणः । तद्वत्वं चान्यस्या नास्त्येवेत्यभिप्रायात्सौन्दर्यगर्विते. यम् । अथच “समिधो यजति" "तनूनपातं यजति" इति पञ्चकृ. वो यजेरभ्यासाद्यागभेदः । "तप्ते पयासि दध्यानयति सा वै. श्वदेव्याऽऽमिक्षा वाजिभ्यो वाजिनम्" इत्यत्र पूर्ववाक्यविहितदे. बतावरुद्धे यागे वाक्यान्तरोपात्तवाजिनरूपगुणनिवेशायोगाद्वाजि- नद्रव्यकं (वाजिदेवताक) यागान्तरमेवेति मीमांसकमतध्वनिः॥८५॥ पूर्व नायकाय दत्तलेखा मर्यादोल्लङ्घनसाहसभीता कुलका. मिनी तत्सखी चेदमाहतु:- अभिजाततया च गुणादरेण च द्वापरो भवति भूयान् ।। उल्लङ्घयितुं तत्र हि न शक्यते तन्वि ! लिखितार्थः।।८६॥ अभिजातता= कुलीनत्वम् । तेनाभिसारनिवृत्तिकोटिः । नायकस्योत्तमतया तगृहावश्यकत्वं गुणादरः । तेनाभिसरणको टिः। “सन्देहद्वापरौ चाथ समौ" इत्यमरः । उत्तरार्दै सख्युक्तिः। तत्र सन्देहे सति लिखितः पूर्व लिखित्वा नायकाय प्रेषितोड र्थो न त्याज्यः प्रतिज्ञाभङ्गप्रसङ्गात् । अथच द्वापरयुग लिखित- स्य मुनेः स्मृत्यर्थो नोल्लयः । "कृते तु मानवो धर्मस्त्रेतायां गौतमः स्मृतः ॥ द्वापरे शङ्खलिखितौ कलौ पाराशरः स्मृतः ॥" इतिवचनात् ।। ८६ ॥
अकारत्रज्या। पूर्व कृतप्रणयभङ्गं पश्चात्तदनुबन्धकामं नायकं कापि सेय॑माह- अतिमात्रमकमनीयं चरितं पदमात्रनिष्ठानाम् ।। प्रत्ययलक्षणमाह प्रत्ययलोपेऽपि पाणिनिर्यस्मात् ।। ८७ ।। पदं स्थानं साधुशब्दश्च । तत्रैव निष्ठा तात्पर्य येषां तादृशानां चरितम् अत्यन्तमरम्यम् । पदप्राधान्यन प्रत्ययतिरस्कारात् । प्र- त्यया= प्रणयः स्वादिश्च । तस्य लोपेऽपि तत्कार्यं कुर्वन्ति नैतद्र- सिकानां संमतम् । "स्थिरप्रेमा भन्नः सदासिरिव सन्धिं न भजते" इतिन्यायात् । पक्षे "प्रत्ययलोपे प्रत्ययलक्षणम्(१ । ११६२) इति सूत्रेण तदभावेऽपि तत्पयुक्तकार्य कुर्वन्तीत्यर्थः ।। ८७ ॥ कमपि चपलस्वभावं नायकं दृढानुरागं कर्तुं सखीदमाह - अत्यन्तदुरवगाहं हृदयसरस्वन्तमेतस्याः ॥ अन्तः प्रविशन्क्षो नयसितरां मन्दरागस्त्वम् ॥ ८८॥ दुरवगाहम् अल्पगुणविषयकानुरागराहित्यात् । पक्षे दुस्तरम् "सरम्यान सागरोऽर्णकः" इत्यमरः । गाम्भीर्यादिना हृदयस्य स. मुद्रत्वम् । प्रविशन्-अनुरागविषर्याभवन् । पक्षे प्रसिद्धम् । क्षाभं% निर्वेदादि उद्वेलत्वं च । मन्दो रागो यस्मिन् । अथच मन्दर. नामकोऽगः शैलस्तद्रूपः । नपतेर्द्विकर्मकत्वात् उभयत्र द्वितीया। दुरवगाहेऽपि तत्र प्रयत्नविशेषेण प्रविश्य तत्प्रतिकूलाचरणमन. हमित्यर्थः ॥ ८८ ॥ काचिद्राम्पनायकासक्ता नगराङ्गना तदनौचित्यमाशङ्क- मानां सखीमाह- अग्रे निवेदये तव किं नाम प्राकृतीयवैदग्धीम् ॥ रेफस्य गमनमूद क्वचिदपि नाकर्ण्यते यत्र ८९ ॥
भार्यासप्तशत्याम् 500 "महाराष्ट्रोद्भवां भाषां प्रकृष्टं प्राकृतं विदुः" । इति दण्डी । "रेफो रवणे कथितः कुत्सिते वाच्यवत्पुनः" । इतिविश्वः । मा. कृतत्वं मुख्यार्थे तत्वेनाभिमतत्वमात्रत्वमतो न व्याघातः । रका- रस्योपरिगमनं लिप्यभिप्रायेण । ऊर्ध्वगमनम् आदरविशेषश्च । प्राकृते हि जनार्दन इत्यादिस्थले कुत्रापि तस्योपरिलिखनं ना. स्ति । तथाच हलादिभूतरकारोच्चारणं नास्तीति फलितम् । ए. चं यत्र कुत्सितानामादरो नास्ति तेषां गुणज्ञतया लोकपवाद- मात्रेण न तत्परियागो युक्त इति भावः ।। ८९ ।। शीघ्रगमनमभ्यर्थयन् कश्चिन्नायके नायिकावस्थामाह- अद्भुतमिदं यदिन्दुस्तफ्नः पवनश्च पावको जातः ।। तव विरहे किंचित्रं शरत्समा भवति यत्तस्याः॥ ९ ॥ चन्द्रसूर्ययोरनिलानलयोश्च विरुद्धजात्यवछिन्नतया ऐक्यम- नुपपन्नम् । दुःखदत्वतात्पर्याद्विरोधपरिहारः । आयो द्रव्यजा- त्योर्द्वितीयो जातेर्जात्या सह विरोधः । शरत्समय उद्दीपकत्वा- तिशयेन दुरतिवाहत्वात् समा वर्षमायो यद्भवति तद्युक्तम् । शरत्प- देन वर्षस्याप्यभिधानात् । स्वस्य स्वाभिन्नत्वादितिभावः। “हा- यनाब्दशरत्समाः" इत्यमरः ॥ ९ ॥ कश्चिन्मनस्वी उन्नतपदमारोपयति स्वामिनि सदभङ्गम- भ्यर्थयन्नाह-- अलमेवोदात्ततया तथाविधानामिह पदानाम् ॥ आदावन्ते च भवेद्येषामावश्यकः खलु निघातः॥९१॥ उदात्तता महत्त्वम् “उच्चैरुदात्तः"(१२।२९।) इतिलक्षितः स्वरविशेषश्च । पदानाम् आधिकाराणां शब्दानां च । निघा. वा अपकर्षोऽनुदात्तत्वं च । पूर्व स्वापर्कषमाधायैव प्राप्तं पश्चादपि -- अकारव्रज्या -- तदाधायकं च पदं न मानिनां हृदयमानन्दयति । एवं च-"अ. नुदात्तं पदमेकर्जम्"(६।१।१५८)इतिसूत्रेण यत्र पदे यस्योदात्तः स्वरितो वा विधीयने तमेकमचं विहाय तत्पदवर्तिनामन्ये पाम- चामनुदात्तत्वविधानमिति लौकिके शास्त्रीयव्यवहारोपरूपा समासोक्तिः। यद्वा प्रणयभङ्गमीता नायिका तत्स्थैर्यार्थमिदमाहा९१॥ कश्चिल्लोकोत्तरगुणशाली अखिलग्राह्योऽल्पगुणेनैवानभिज्ञेषु लब्धादर आह-- अतिमहतामपि लोके कृतकगुणेनैव विश्रुतिर्भवति ।। परिमाणेन तथा नहि बोधेन यथा प्रकाशते जीवः॥९२ ।। अतिमहताम् उत्तमगुणवतां परममहत्परिमाणवतां च कृतके- नक्षुद्रेण जन्येन च । विश्रुतिः प्रतिष्ठा प्रत्यक्षं च । विभोरपि जी- वस्य जन्यगुणभूतज्ञानोपधानेनैव प्रत्यक्ष, नतु नित्यतत्परिमाणो- पधानेन । बोधपदमिच्छादियांग्यात्माविशेषगुणोपलक्षणम् । तत्प- रिमाणस्याप्ययोग्यस्वमिति । पक्षे च परिमाणविशिष्टो जीवो न प्रत्यक्षः किंतु ज्ञानविशिष्ट एवेत्यपि व्याख्येयम् ।। ९२ ॥ कश्चिस्त्रियामाह- (१)अभ्रगतया कुन्तलभासा त्वं सुषमयालुपनया च ।। लसदञ्जनया च दृशा वरवर्णिनि ! पशिनीत्युचितम् ९३ पनिनी नायिकाविशेषः । तदुक्तम्- “पद्मिनी तदनुचित्रिणीं ततः शङ्खिनी तदनु हस्तिनी विदुः । उत्तमा प्रथमभाषिता ततो हीयते युवतिरुत्तरोत्तरम् ॥" इति । ( रतिरहस्ये जात्यधिकारे श्लो०१०) अनं मुञ्चति तया मेघनिष्ठात्यन्ताभावप्रतियोगिन्येतियावत् । अतया प्रत्यक्षया । - (१) अभ्र मुक् चासौ अता चेति कर्मधारयसमामः !
आर्याससशस्याम् ma तच्छन्दस्य परीक्षार्थवाचित्वात् । तेन स्वरूपासिद्धिनिरासः । अनुपमत्वमन्यनिरूपितसादृश्यानाश्रयत्वम् । अन्यनिष्ठसादृश्यम- तियोगित्वमन्यप्रतियोगिकसादृश्याश्रयत्वं चेत्युभयस्यायं निषेधः। "सुषमा परमा शोभा"इत्यमरः । अथच पद्मिनी करिणी। "इभः स्तम्बेरमः पनी" इत्यमरः। "ऋन्नेभ्य"(४३११५) इति स्त्रियां की। अभ्रमुः अनुपमा अञ्जना चेति करिणीविशेषाः । भेदसम्बन्धाव च्छिन्नाश्रयत्वे तादात्म्यावछिन्नत्वारोपादुक्तार्थासद्धिः ॥ ९३ ॥ कश्चित्प्रियां मानयनाह- अवतंसनीलनलिनं कलयति मिलदुज्ज्वले कपोले ते ॥ मधुकमुकुलभ्रमाय तदात्मीयभ्रमरतादात्म्यम् ॥ १४ ॥ नीलोत्पलगतानां भ्रमराणां कपोले मधूककलिकाभ्रान्तिः । नीलोत्पले तु यथोक्तभ्रममूलककपोलसंयोगभ्रमरतादात्म्यमि- ति रूपकम् । भ्रमरनीलोत्पलानां परस्पर भेदज्ञानाभावरूपसा. मान्यालङ्कारस्तत्पर्यवसन्न इतिसङ्करः । कपोले मधूकसाम्यं कविसम्पदायः । “वन्धूकवन्धुरधरः सितकेतकाभं चक्षुर्मधूकक- लिकामधुरः कपोलः" इतिजयदेवादिप्रयोगदर्शनात् ॥ ९४ ॥ नायिकान्तरगुणपवादमाकण्यं शकमानां नायिका सखी. दमाह- अहमहमिकया दूरात्मसरन्तु समस्तसुमनसां गन्धाः॥ नतु मालतीमारिमलात्पुरतः केऽपि प्रयास्यन्ति ॥ १५ ॥ "अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः ।" इसमरः । सुमनसां-पुष्पाणां रसवत्त या सहृदयानां नायिकानां च । समस्तपदं मालसतिरिक्तपरम् । एतत्कक्षा केऽपि न धास्यन्ती- ति भावः । गन्धपदस्य साधारणार्थतया परिमलपदस्य विशेषा- र्थतया बहन्तरत्वं सूच्यते । पुरत इतिशब्दोऽसाधुरिति यद्यति बहवस्तथापि प्रामाणिकप्रयोगप्राचुर्यादखण्ड निपातान्तरमेवेत्य- भिमायेण प्रयोगः ॥ ९५॥ अतिरमणीयायामपि नायिकायां कस्यचिदनुरागे हेतुमु. प्रेक्षमाणं लोकमालोक्य कोऽप्याह-- अतिसौरभानुरागे भृङ्गस्थ गवेषयन्ति ये बीजम् ।। ते सति सौरालोके वस्तुग्रहणाय दीपमनुसरन्ति ॥२६॥ "सहकारोऽतिसौरभः" इत्यमरः । अतिशयितं सौरभं रा- मणीयकं यत्रेति च । “सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्" इतिविश्वः । यथा प्रकाशे मूर्यस्य सत्यपि चाक्षुषसाम- ग्रीसम्पादनाय दीपानुसारो विफलः तथा अतितौरभहेतुमनाहत्य हेत्वन्तरान्वेषणमिति वाक्यार्थनिदर्शना । सौरभातिशयशालित्व. मेव तन्निदानमिति भावः ॥ ९६ ॥ कां चित्परपुरुषसङ्गमाशङ्कमानां कुलनायिका दृतीदमाह-- असमञ्जसमापातात्पद्मिनि ! मागणय भृङ्गसंसर्गम् ॥ मधुरिमवलक्षण्यं जीति परथा तवाविदितमेव ॥९७॥ "समअसं स्यादुचितम्" इतिशाश्वतः । “पमिनी स्त्रीवि- शेषेऽपि सरस्यामम्बुजेऽपि च ।" इतिविश्वः । यत्कामशास्त्रम्- कमळमुकुलमृद्वी फुल्लराजीवगन्धः मुरतपयसि यस्याः सौरभ दिव्यमझे ॥ चकितमृगगाभे प्रान्तरक्त च नेत्रे स्तनयुगलमनय॑ श्रीफलश्रीविडम्बि ।। तिलकुसुमसमानां विभ्रती नासिका च द्विजगुरुसुरपूजां श्रद्दधाना सदैव । कुवलयदलकान्तिः कापि चाम्पेयगौरी Dintun आर्यासशत्याम विकचकमलकोशाकारकामातपत्रा (१) जति मृदुसलीलं राजहंसीव तन्वी त्रिवलिललितमध्या हंसवाणी मुवेषा। मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा धवलकुसुमवासोवल्लभा पद्मिनी स्यात् ॥ ( रति. प०१ श्लो० ११ । १२ । १३) स्वदीयविजातीयमाधुर्यस्य तदन्येन विविच्य ज्ञातुमशक्य. तया तत्संस भावे जन्यमत्यक्षविषयत्वमानापन्नस्यैव तस्य जी. गत्वप्रसङ्गादित्यर्थः ॥ ९७ ॥ सखी युवानावाह अन्योन्यमानविषयकरागे समवायिनोयुवयोः ॥ अन्योन्यगुणोत्कर्षः प्रतियोगिपरोक्षमात्रविनिरूप्य:९८ (२)स्वमात्रविषयकप्रेमसमवायिमात्रविषयकप्रेमसमवायित्वं वि. शेषणार्थः । उभयविषयकत्ववारणाय मात्रेति । प्रतियोगिनोऽत्र स्त्रीपुंसान्तरगुणाः । परोक्षज्ञानेनैव तदपेक्षयान्योन्य गुणोत्कर्ष- प्रत्यक्षम् अन्यगुणासाक्षात्कारादिति भावः ॥ २८ ॥ दाक्षिण्येन बहिरादरोचिताचरणपरमन्यासक्तं नायक काचिदेवमाह- अविशेषः प्रतिभात्यपि सुन्दर ! कर्तव्ययोरुभयोः ॥ स्कुटति त्वविरहगम्योऽभियुक्तवेद्यः स्वरविभेदः॥१९ उभयो। अनुरागाननुरागपूर्वकयोः, कर्तव्ययोः दर्शनभा- पणादिरूपयोः, अविशेषः-साम्यं यद्यपि प्रतिभाति तथापि (१) कामातपत्रं योनिः । (२) स्वपदेन नायिका ग्राह्या । तन्मात्रविषयकं प्रेम नायकनिष्ठं, तत्समवायी नायकः, तन्मात्रविषयकप्रमसमवायित्वं नायिकायाम् ।
अकारवज्या। (अभियुकवेय) विदग्धजनबोध्या, अविरहेण नायिकान्तर- निवृत्त्यादिना गम्यः । स्वरविभेदः शब्दादिनिष्ठं वैलक्षण्यं तु स्फुटति सहृदयानां भासते एव । तदाह- "सुहअ सरिस्वराणवि अस्थि विशेसो पअपिअव्वाण । राअमइआण अण्णोण्णउअरोअमइआण ॥" सुभग ! सदृशाक्षराणामपि अस्ति विशेषः प्रजल्पितव्यानाम् । रागमयानामन्योन्यमुपरोधमयानाम् ॥ अथच उभयोः तव्यतव्यत्पत्ययान्तयोः कर्तव्यशब्दयो रू- पमविशिष्टमेव भाति । तथापि तकार इत्संज्ञो यत्र स तित् तस्य भावस्तित्त्वम् विरहस्तित्वाभावः तद्गम्यः,(अभियुक्तवेद्यः) शब्द- शास्त्राभिज्ञगम्यः स्वरभेदोऽस्ति। तकारान्तस्य "तित्स्वरितम् ।" (६।१।१८५) इति स्वरितत्वादन्यस्य च प्रत्ययस्वरेणाद्युदात्तत्वादित्यर्थः ।।१९।। कृष्णाभिसारिका मार्गस्खलनभयेन गमनाभावमाशङ्कमानां दूतीमाह- अध्वा विषमतमोऽसौ रजनिस्तिमिराकुला तदापि यामः।। प्रकृतिविशेषैर्योगाद्यान्ति निपाता अपि गतित्वम् १०० विषमतमेऽपि (पथि) दिने गमनसम्भवादाह-रजनिरिति। तत्रापि प्रकाशे गन्तुं शक्यत्वात्-तिमिरोति । चन्द्रोदयप्रतीक्षा- वारणाय आकुलेति । प्रकृतिः अभिसारेच्छाशीलं, तत्सम्ब- न्धात् निपाताः स्खलनान्यपि गतय आश्रयणीया एव भवन्ति । पतनभयेन ततो निवृत्तिरयुक्ता । तदोषसहिष्णोस्तत्राधिकारात । अथच धातुविशेषयोगे निपातनामुर्यादीनामुपसर्गाणां व गति- संज्ञा भवति"गतिश्च"(१।४/६०)इत्यादिवचनादितिभावः ॥१०॥ ARRAND
५४
आर्यासप्तशत्याम्
कश्चित्स्वानुरूपार्थमनाचरन्तं सत्पुरुषमवलोकयन्नाह-
अनुमन्यते तमिस्रं नियमयति कृतौ धियं नहि विशिष्टाम्।
गुरुतां परमनुरुन्धे प्रभाकरः पारिभाषिकोऽयमतः१०१
प्रभाकरस्याभेदारोपेण प्रसक्तसूर्यसाधाभावः कथ्य.
ते । सहि अन्धकारं विनाशयति, अयं तु स्वरूपविचारेण संम.
न्यते । स च कार्येषु विशिष्टज्ञानं जनयति । आलोकेन चाक्षु.
पादिसम्पच्या लोकानां प्रवृत्तेः । अयं तु कृतौ प्रवृत्तौ विशिष्ट
बुद्धि न नियमति । संवादिप्रवृत्तिरेव विशिष्टज्ञानात् विसंवा-
दिप्रवृत्तिस्तु ज्ञानद्वयात् । शुक्ताविदं रजतामिति ग्रहणस्मरणा.
त्मकं ज्ञानद्वयमेवेति प्राभाकराः । एवं सूर्यस्तेजस्त्वेन गुरुत्व.
रहितः । अयं तु गुरुत्वं दधाति गुरुसंज्ञत्वात् । तस्मात्सङ्केत.
मात्रेण प्रभाकरत्वमिति भावः । यद्वा नायकान्तरार्थमर्थ.
यन्ती दूती तद्गुणानामलीकत्वज्ञापनेन नायिका प्रत्यादिशति१०१
कामिनीबिम्बाधरमाधुर्यं मृचयन कश्चित्पुरावृत्तमनुवदति-
अमृतमयदीर्घिकां वृषरूपेणाकर्ण्य मधुभिदा पीताम् ।।
कमलालयाधरदलं किञ्चित्प्रोल्लासयामास ॥ १०२ ॥
त्रिपुरवधे मयेन दैत्यजीवनार्थं मायया सुधावापी कृता
सा वृषरूपेण भगवता पीतेति कथा मत्स्यपुराणे । तत्रामृतस्या-
धरापेक्षयाऽपकृष्टमाधुर्यवत्त्वात् सत्यमेव स वृषभोऽनभिज्ञ-
वादित्यभिप्रायेण लक्ष्म्या हासः । अथवा रूपान्तरेण तत्पा.
(ना)नौचित्यादनभिज्ञरूपेण पानमिति प्रमोदादेव हासः । आये
मधुभिदेति माधुर्यतारतम्य भेदनेन तत्पानम् । द्वितीये मधुनो
भिद्भदो यत्रेति व्युत्पत्त्या तारतम्याभिज्ञतया तादृशरूपेण पान.
मिति सूचितम् । द्वितीयशतारम्भे उत्तमदेवताकीर्तनरूपं म.
अलमपि निबद्धम् । एवमुत्तरवापि बोध्यम् ॥ १०२ ॥
अकारवज्या। AROO UNIBHITIONS भर्तचित्तानुसारेणैव स्त्रीषु प्रेमातिशय इति काचित् कामपि शिक्षयति- अखिलदशानुगुणतया सौहृदमव्याहतं भवभवान्योः॥ स्थाणुः शिवः स उग्रः सेयमपर्णा शिवा चण्डी ॥१०॥ (येषां च विरोधः शाश्वतिक इति प्रयोगात् शाश्वतिक- शब्दः साधुः । ) भवश्च भवानी चेत्यत्र आनुगागमकृतविशेषादे- कशेषाभावः। "पुमान्स्त्रिया" (१।२।६७) इत्यत्र तल्लक्षणश्चेदेव विशेष इत्यनुवृत्या स्त्रीप्रत्ययमात्रकृतविशेषे तद्विधानात् । अत एव इन्द्रावित्यकशेषोऽन्वेष्य इति वामनः । शिवस्य निःशाखक्षाभेदा- ध्यवसायेन तस्मा अपर्णा()पदलेगावगतपत्राभाववत्त या ऽनुगु. णत्वम् । अन्यद्यथासङ्खयेन स्पष्टम् ॥ १०३ ॥ दुःखस्थमपि कंचिदन्योपकारपरं महाशयं कोऽप्याह- अन्येषां तिमिरान्धितदृष्टीनामुपकृति तनुषे । किं क्रियतां यदजस्त्रं मलिनैव तव प्रदीप ! दशा||१०४॥ स्वाभाविकान्यत्वे आलोकेनापि दर्शनासम्भवात् तिमि- ति । अन्धितत्वं चाक्षुषानुपहितत्वसाधर्म्यात् । उपकृति प्रकाशमानव्यतिरेकप्रयुक्तचाक्षुषव्यतिरेकनिवृत्ति प्रकाशसम्पत्या करोषि । अथ च रोगाद्युपहतानां पोषणाद्युपकारमित्यर्थः । प्रदीपत्त्वमुज्ज्वलत्वात् । मलिनत्वं-दारिद्याश्रयत्वं दाहेन श्या. मरूपवत्त्वं च । यद्वा उत्तमपरिच्छदहीनं गुणमयं नायकमालो. प सङ्गापवै मुख्यात सङ्केत(म)स्य निवर्तयितुं या इयमुक्तिः।।१०४॥ नायकोमोत्पत्यैव कृतार्था माभूः किं तु तस्याविच्छेदे- ऽपि यतस्वेत्याशयवती काचित्सखीमिदमाह- अभिमन्युरिव सुभद्रोदितस्तवायं प्रणयबन्धः ॥ परचक्रान्तरपतितः स्थास्यति सुचिरं कथङ्कारम् ।।१०।।
५६ आर्यासप्तशत्याम अभिमन्युः अर्जुनपुत्रः अभितो मन्युर्जनान्तरद्वेपश्च यत्र तथा । अनेन सम्भावितोच्छेदत्वष्यअनम् ।(सुभद्रोदितः) सुभद्रायाः पुत्रः। पक्षे मुतरां कल्याणार्थमुत्पन्नः । एतेन रक्षणीयत्वसूचनम् । परचक्रं-सपत्न्यादिरूपवैरिसमूहः तस्यान्तरं मध्यं प्रविष्टः। पक्षे परेषां दुर्योधनादीनां चक्रव्यूहपतितः । चक्रव्यूहमध्ये कर्णादिभिर्मिलित्वाभिमन्युर्हत इतिभारते कथा ॥ १०५ ॥ लोकगर्हितेऽपि गुणमये नायकेऽनुरक्ता कापि सखीमाह- अनुभूयते सहृदयैरिन्दो यदि कौतुकविशेषः ॥ अनिवन्धनं जनमतास्तहि कलङ्कादयो दोषाः ॥१०६॥ यदीत्यसन्देहे सन्देहवचनम् । शास्त्राणि चेत्प्रमाणं स्युरि- त्यादिवत् । हृदयपदं लक्षणया विवेचकत्वपरम् । अत एव क्षीरस्वामी "हृदयं तद्विविक्ते यद्भावमन्यदलं पल(र)म् ॥ शतकीयाः सहृदया गण्यन्ते कथमन्यथा ॥" "हृदयालुः सहृदयः" इत्यमरः । अनिबन्धनमिति तद- नुपादेयत्वप्रयोजका न भवन्तीतिभावः ॥ १०६ ॥ कश्चिन्मुग्धामाह अलकावलोकने तव सारम्भा मम दृगुत्सुकिता। उपरुडा निकषाभवचेलेन बतान्तरा मिलता ।। १०७॥ चूर्णकुन्तलविलोकनार्थ कृतोपक्रमा ताविपयकेच्छाविशेषप्र- युक्ता च मम दृष्टिः निकषाभवेन उत्तरीयपदापन्नतया कुन्तल- सामीप्यभाजा अन्तरा विषयेन्द्रियमध्ये मिलता चेलेन वस्त्रेण उपरुद्धा प्रतिबद्धा । चक्षुःकुन्तलसंयोगस्य तदावरणेनानुपपन्न- स्वात् । अथच अलकायाः कुबेरनगऱ्या दर्शने उत्सुकिता नल- - - अकारवज्याा कूपरानुरक्तत्वात् , सा प्रसिद्धा रम्भा, मार्गमध्ये मिलता, निक- पाभवा राक्षसाः चेलशब्द: कुत्सितार्थः, राक्षसाधमेन रावणेन उपरुद्धति स्पष्टमुत्तरकाण्डे । अममा ममत्वहीना हर यस्याः रावणविषयकानुरागविरहादिति रम्भाविशेषणान्तरं बो- ध्यम् ॥ १०७॥ बहुशो वारितमपि विपियनिवृत्ति स्वीकृसापि तत्रैव पूर्वव- दासक्तं नायकमुदीक्ष्य कापि सखीमाह- अपरः परश्च सहचरि ! समानमेवार्थमभिधत्तः ॥ सत्यसति वा निषेधे पुरुषविशेषा भवन्ति समशीला:१०८ निषेधः तदर्थकनपदम् । पक्षे निवृत्तिः। अपर इसस्य नन्स. मभिव्याहारे सत्यपि भिन्नार्थमादाय परशब्दसमानार्थत्ववत् केचित्पुरुषा एवं न करिष्यामीत्युक्त्वापि तथैव कुर्वन्तीयर्थः।।१०८॥ सादरमनुनयत्यपि मानमेव बर्द्धयन्ती नायिका प्रणय- भङ्गभीता हितैषिणी सखी सोपदेशमाह-- अनुनयति प्रेयसि यन्मानातिशयस्त्वया कृतश्चण्डि ! ॥ इदमेव शान्तिकर्मणि वेतालाभ्युदयमनुहरति ॥ १०९ ॥ प्रेयसीत्यनुरागविषयत्वम् । अनुनयतीति मानत्यागा. वश्यकत्वसूचनम् । यथा वेतालादिनिवृत्तिमुद्दिश्य शान्ति के क्रियमाण एव वेतालाभ्युदयश्चित्रः तथा मानयागार्थमनुनयारम्भे तदधिकमानारम्भः। प्रेमभङ्गाख्यानर्थावहत्वादित्यर्थः। तन्निवत्य- र्थयत्नेन यत्र तदुत्पत्तिस्तत्रायं न्यायः प्रसिद्धः । "रोगकृत्याग्र- हादीनां निवृत्तिः शान्तिरीरिता ।" इति तान्त्रिकाः ॥१०९॥ अल्पदोषश्येन कश्चिनायकं परित्यज्य भ्रमेण ततोऽपि आर्यासप्तशत्याम दुष्टनायकमाश्रितां काचित्सखी अन्योक्तयेदमाह-- अधमत्यैव मृगाई कपालिनं श्रितवती त्वमिन्दुकले !॥ आशीविषमुखपातोवृश्चिकभीत्या पलायितस्यायम् ११० मृगाङ्कपदेन मृग्यतेऽङ्को यस्येतिव्युत्पत्या दोषस्थानाभि- व्यक्तत्वसूचनम् । कपालिनमिति "नारं स्पृष्ट्वास्थि सस्नेहं सवासा जलमाविशेत् ।" इत्यादिवचनेन दोषश्रवणात्क- पालसम्बन्धेन गर्हितत्वप्रसिद्धिव्यञ्जनम् । कलेतिनिष्कलङ्कत्व- सूचनम् । इन्दुपदेनाल्हादकत्वसूचनम् । प्रथममेव तत्माप्तिनिषेधाय अवमत्येति । एतेन नायककृतापराधाभावसूचनम् । अल्पानिष्टः परिहारप्रवृत्तस्य तदधिकानिष्टलामाविषये उत्तरार्द्धनिबद्धोन्यायः प्रसिद्धः ॥ ११० ॥ सर्वसम्मतमनाहत्य कथं स्वयमेवान्यत्रानुरक्तासीति उपाल- भमानां सखी काचिदिदमाह- अर्थ स्वस्याभीप्सितमाद्रियते सकल एव जनः ॥ मधुसूदनो हि कमलामुपाददे शूलभृत्तु हैमवतीम् १११।। मधुसूदनो विष्णुर्भमरश्च । कमलसम्बन्धिनो भृङ्गसम्बन्धचि- त्यात् । "मधुसूदनसंज्ञा च भ्रमरे वनमालिनि ।" इति विश्वः। शूलभृत-शिकः शूलरोगी च । हैमवती देवी हरीतकी च । तस्याः शुलोपशामकत्वात् तद्योगः । “ हैमवती पार्वती गौरी” इति हलायुधः "द्विष्टत्वमिष्टत्वमपव्यवस्थम्" इतिन्यायेन कस्यचि. दिष्टोऽन्यस्यापि स्यादिति नियमो नास्तीत्यर्थः ।। १११ ॥ अत्युदारः कोऽपि इदमाह--- अथ कृपणे जीवत्यपि बुधर्विधेया प्रमीतमतिरेव !! यद्यवहरन्ति निश्चितमनुदात्तं निहतशब्देन ॥ ११२ ।।
अकारव्रज्या।
"आत्मानं पुत्रदारांश्च धर्मकृत्यं च पीडयन् ।
लोभायः प्रचिनोत्यर्थान् स कदर्य इति स्मृतः ॥ इति दे.
बलः।"मृतप्रमीतौ त्रिध्वेते" इत्यमरः । परोपकारानुपयोगेन तस्य
मृतत्वमेव ज्ञेयम् । उदात्तोदाता तद्भिन्नोऽनुदात्तः स्वरविशेषा-
श्च । तस्य दातृभिन्नत्वाभेदादेव निहतेतिव्यवहारः। निहतपदस्य
मृतार्थत्वात् । अनुदात्तस्य निहतसंज्ञेति स्वरविदां सम्प्रदायः ।
यद्वा काचिद्वेश्या नायकंदानेऽभिमुखीकर्तुमिदमाह । अथवा कश्चि-
दात्मतत्वज्ञ आह । कृपणे ब्रह्मानभिज्ञजने। तथाच श्रुतिः “यो वा
एतदक्षरमविदित्वा गार्यस्माल्लोकात्मैति स कृपणः।" इति । तत्र
मृतबुद्धिवारंवारं जननमरणादिसंसारकटाहे परिवर्तमानत्वात् ।
जीवतीति । यज्ञादिकर्म कुर्वसपीयर्थः । तदाह श्रुतिः-"अदृढप्लवा
घेते यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्द.
न्ति मूढा जरां मृत्यु ते पुनरेवापियन्ति" । तत्र उदात्तं ब्रह्म
महत्त्वात् । “अतोऽन्यदातम्” इति श्रवणात् । तयस्य ज्ञानस-
म्बन्धेन नास्ति सोऽनुदात्त इति व्युत्पत्या तदभेदाध्यवसायेन
उत्तरार्धेन तत्समर्थनम् ॥ ११२ ॥
(काचित् )कस्याश्चित्कुलवध्वाः कुत्रचिदसाध्यता सूचयन्तीदमाह-
असहत नार्कजतापं संज्ञति पुराणवाक्यमाकर्ण्य ॥
कुलपालिकया किश्चिञ्चलभुवा सिस्मिये निभृतम्॥११३॥
(संज्ञा सूर्यपत्नी) तपनस्य तापमसहमाना स्वस्थाने छायां
नियुज्य गतेति पौराणिकाः । तत्र पतिव्रतयापि तया भकृततापः
सोढुं न शक्त इत्युपहासहेतुः। तापशब्दो निदाघ उष्णउष्णचरत्व-
परः(?)। "कुलस्त्री कुलपालिका।" इत्यमरः । अनादरसूचनाय-
किञ्चिच्चलेति । जनान्तरदर्शनपरिहाराय निभृतमिति॥११३॥
६० आर्यासप्तशत्याम् । कस्याश्चित्कुसुम्भक्षेत्रमभिसारस्थानमुपलक्षयन्ती काचिदाह- अभयद्यदवधि विष्वग्विकसितकुसुमः कुसुम्भकेदारः॥ चण्डीनिर्माल्यपटावृतिनियमस्तवधिबभूवास्याः११४॥ रक्तवस्त्रपरिधानेन समानरूपाभिहारात् कुसुम्भक्षेत्रे कश्चिन्मां न लक्षयिष्यतीत्यभिप्रायेण कात्यायनीनिर्माल्यवस्त्रपरिधाननियमो गृहीतः, अन्यथा सर्वदा रक्तांशुकग्रहणेऽन्यैस्तत्र बीजान्वेषणेन तत्प्रकाशप्रसङ्गात् । एवं तु देवतावशिष्टपरिधाननियमरूपहेतुं विज्ञायान्यथा तर्कयिष्यन्तीतिभावः ॥ ११४ ॥ शरदि कृताभिसारा नखक्षतादिगोपनाय प्रयासान्तरमनु- तिष्ठन्ती कांचित्काचित्सुकरोपायमादर्शयति- अनुभवसि किं कररुहव्रणसंवरणप्रयासमधुनापि ॥ पश्य वयस्येवेयं विहसितवदना चकास्ति कर्पासी११५॥ कररुहा:-नखाः । वयस्यासादृश्यं तदनुकूलत्वात् । विहासि- तमुखी पुष्पितत्वात् सखीकार्यसिद्धिसन्तोषाच । तथाच कर्पास- क्षेत्रे कण्टकैः स्तनौ शताविसयमेव प्रकार उपस्थितत्वादाद्रि- यतां किमुपायान्तरगवेषणयेतिभावः ॥ ११५ ॥ कश्चिद्विरहीदमाह- असमाः शरा रतिपतेवैलक्षण्याच्छरान्तरापेक्षात् ॥ सङ्ख्यावैषम्यादिति पुनरनुभूत्या विसंवादि ॥ ११६ ॥ कामबाणानामसमत्वं तावत्प्रसिद्धम् । तच्च बाणान्तरप्रति- योगिकसादृश्यानाश्रयत्वेनैव युक्तम् । अन्यबाणजन्यपीडापेक्षया विजातीयपीडाजनकत्वस्यानुभवसिद्धत्वात् । यत्तु पञ्चसङ्घय. स्वादसमत्वपरिकल्पनं तदनुभवविरुद्धम् । अतिशयेन तद्बहुत्वा- नुमानात प्रत्यक्षपीडाविषयानुपपादकत्वाच्चेतिभावः ॥११६॥ -
अकारव्रज्या।
६१
DAIN
द्रव्यमदान्धकारितदुरीश्वरोपमर्पणकदर्थितो मनस्वीदमाह-
अपगच्छति सति यस्मिन्विवेकशक्तिः समस्तवस्तूनाम्
द्रव्यं तमिस्रमिति तत्समनुते यो गुरोः स गुरुः॥११॥
यथा द्रव्ये सति तदभिमानेन वस्तुविवेको नश्यति । तथा-
न्धकारेऽपि चाक्षुषानुदयात् । अतोऽन्धकारस्य सादृश्यात् द्रव्य.
मिति स्वीकारो येन कृतः स सत्यं गुरोर्गुरुः युक्तार्थाभ्युपगमात् ।
पक्षे प्रभाकरगुरुः । प्रभाकरेण तेजोज्ञानाभावस्यैवान्धकारव-
स्वीकारात् । उक्तंच भट्टैः-
"तमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धधर्मवैधयानवभ्यो भेत्तुमर्हति ॥" ॥११७।।
धनवत्येव सर्वोऽनुरज्यत इति कश्चिदर्शयति-
अभियुक्तजनानामपि बत प्रवादोऽयमितरसामान्यः ॥
गुणवत्सु तदितरेष्वपि नित्यद्रव्येषु यत्किल विशेषः११८
अभियुक्ताः शास्त्रार्थपरिच्छेत्तारः । तदाहु:-
"अभियुक्तास्तु ये यत्र तन्निबद्धप्रयोजनाः ।
तत्रत्यगुणदोषाणां ज्ञाने चाधिकृता मताः ॥"
इसरसामान्यः यथानभियुक्तानां तादृश एव । तदितरेषु-
तादृशद्रव्यरहितेषु विद्यादिगुणसम्पन्नेषु सत्स्वपि नित्यं बहु द्रव्यं
येषां तत्रैव विशेष उत्कर्ष इति वदन्ति अनभियुक्ताः । अभियु.
का अपि जन्यपृथिव्यादिषु गुणोपेतेष्वपि नित्यद्रव्येषु परमावा.
काशादिषु विशेषाख्यपदार्थ स्वीकुर्वन्ति । आकाशादिवृत्तिविशे-
पानङ्गीकारे तु परमाणव एव ग्राह्याः । अर्थद्वयस्याभेदारोपेण द.
योः साम्यसिद्धिः ॥ ११८ ॥
आर्यासप्तशत्याम्
केनचित् कुचकमनीयत्वहृतहृदयेन प्रेषिता दुती मालाकारी
इदमाह-
अतिकायस्तव सोऽयं मालिनि! सुमनोहशे भरः स्तनयो।
विधुरयति नयनविषयीभविष्णुमात्रोऽपि सुग्रीवम् ११९
"मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि ।" इति वि.
श्वः। अतिकाया-पीवरतरः सुतरां मनोहरस्तव स्तनभारो
दृष्टमात्रोऽपि शोभनग्रीवं नायकं त्वदप्राप्त्या पर्याकुलपति ।
अथच मालिनीसंज्ञरावणपत्नीतनयः सुमनसा देवानां हर्मा
अतिकायसंज्ञो राक्षसो दृष्ट एवं सुग्रीवं वानरराजं युद्धभूमौ
आकुलितवानितिभावः । तथाच लङ्काकाण्डे राम प्रति विभीष-
णवाक्यम्-
"अस्य प्रभावः सुमहान् कथ्यते देवदानवैः ।।
तनयं विद्धि मालिन्यास्त्वतिकायेति यं विदुः ॥” इति ॥११९॥ .
द्रविणमदान्धानदातृनकुलीनानवेक्ष्य कश्चिद्राजप्रशंसामाह-
अतुलः कोऽपि विशेषो भवति महोदारचरितानाम् ॥
पदसत्त्व एव राजा नकारलोपं यदामोति ॥ १२० ॥
क्षुद्रा हि पदारूढाः सर्वत्र निषेधमेव कुर्वन्ति । राजा तु
महत्त्वानकारं लुम्पति । यथासम्भवं सर्वेभ्यः प्रदानात् । अथच
राजनशब्दः पदसंज्ञक एव प्रत्ययनकारलोपमनुभवति न तु
भसंज्ञायाम्। "नलोपः प्रतिपादिकान्तस्य"(८१२।७) इति वचनेन
प्रातिपदिकान्तस्य पदान्तस्य नस्य लोपविधानादित्यर्थः ।।१२०॥
कुटिलाचरणानामेवात्रादरो भवतीत्यनुभूय कश्चिदुप-
दिशति-
अतिवेलं सरलानामिह लोके न प्रतिष्ठितिर्भवति ॥
मायामपास्य जगतामीशोऽपि हि.न प्रपञ्चगतिः॥१२॥
अकारवज्या। माया-मिथ्याचरणं तामपहाय संसारे कस्यापि गणना न भवति । तथाहि जगदीश्वरोऽपि भगवानात्मा अविद्यां विना प्रपञ्चगोचरो न भवति प्रपञ्च न जनयति । अथच बोधविषयो न भवति । वृत्त्युपहितस्यैव हि तस्य ज्ञेयत्वम् । वृत्तेरप्युपाधित्वेन तदुपहितस्य सोपाधित्वात् । शुद्धस्य च स्वप्रकाशतया सदागम्य- त्वात् । “यस्यामतं तस्य मतं मतं यस्य न वेद सः ।" इतिश्रु. तेरित्यर्थः ॥ १२१ ॥ दुर्जनसम्पत् परोपतापायैवेति कोऽपि निदर्शयति-- अधिकसमृद्धियुतानां न खलु खलानां भवेदिनयः ।। अच्छेतरो हि वर्णो वहति पदान्ते न तुच्छत्वम्।।१२२॥ अच्छेतर अनुज्जनलोऽसदाचरणशीलो वर्णो ब्राह्मणादियः कश्चिद् । पदनाशे सति तुच्छत्वमविनीतत्वं न धत्ते । पदारूढ एव दुर्विनीतो भवति । तद्रूष्टश्च नत्रः । “शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः" इति न्यायात् । अथच अच्छ।। छकारभिन्नः तदितरः छकारूपो वर्णः पारिभाषिकपदान्ते छत्वं न भजति । तुकारोऽत्र पूरणार्थः । पक्षान्तरे अन्य. पदघटकत्वेन वैयर्थाभावात् । "वश्व(८१२६३६)इत्यादिसूत्रेण पदान्ते छकारस्य षत्वविधानादित्यर्थः ॥१२२।। उत्तमपदप्राप्तये स्वस्य न्यग्भावमुद्भावयेति कश्चिन्मित्रमुप- दिशति- अवधीयतामतिमते ! चरितं पदकामुकजनस्य ॥ महतोऽपि वासङ्गो भवति गुणीभावमे त्यैव ॥१२३॥ महतः श्रुताभिजनशालिनोऽपि पुरुषस्य आसङ्गोऽर्थात्पद- प्राप्ति गौणत्वं (पद) प्राप्यैव भवति, अतस्तदाभिस्तथैवानुष्ठेयम् ।
४ ६४ आर्यासप्तशत्याम् अथच महच्छब्दस्यापि आकारान्तत्वं गुणीभावं समासे कस्यचि. द्विशेषणत्वमासाचैव भवति । 'आन्महतः समानाधिकरणजा. तयियोः"(६।३।४६) इति सूत्रेण महाराजेत्यादावात्वविधानादि. त्यर्थः । यद्यपि महानित्यादावप्यात्वं भवति तथापि दीर्घविधि- प्रयुक्तमेव नत्वात्वावच्छिन्नविधेयत्वप्रयुक्तमित्यदोषः । यद्वा पद. प्राप्तये यतस्वेत्याभदधानं सुहृदं कश्चिन्मनस्वीदमाह। तथाच गौ- णत्वं विना पदानवाप्त्या तस्य च दुःसहतया न तत्र प्रवृत्तिर- चिततिभावः ॥ १२३ ॥ उत्तरनायिकामपेक्ष्य पूर्वस्या एव गुणशालितां नायकमा- दर्शयन् कश्चिदाह-- अधिगतवृद्धिः सुतरामितरप्रत्यययुतोऽपि सम्पन्नः ॥ प्रथमासुयोगतः पुनरनङ्ग एव स्थितोऽसि सखे ! ॥१२४॥ इतरनायिकासु प्रत्ययः प्रीतिः "सर्वनाम्नां वृत्तिमात्रे"इति पुम्वद्भावः । तद्वानपि त्वं प्राप्तसुखादिवृद्धिरेव संवृत्तः । प्रथमना- यिकायाः शोभनेन सम्बन्धेन अनङ्गः काम एवासि । सौभा- ग्यातिशयात् । अथच सखिशब्दः प्रत्ययान्तरे सखायावित्यादा- वतिदेशेन वृद्धि प्राप्तः प्रथमविभक्तेरेकवचनसुयोगात् अनर्क गच्छति प्रामोतीत्यनङ्गस्तादृशो भवति । “सख्युरसम्बुद्धौ" (७।१।९२) (इसनन्तरेण ) “अनङ्सौ" ( ७।१।९३) इत्यनेन तत्रानविधानादिति भावः ॥ १२४ ॥ कश्चिदगुणनिन्दामाइ- अधमानां प्रस्तावे लभते सङ्ख्येयतामहृदयो यः ।। पापग्रहप्रकरणे विधुन्तुदो गण्यते गणकैः ॥ १२५ ॥ "प्रस्तावः स्यादवसर" इत्यमरः । अहृदया-गुणानभिज्ञः ।
अकारवज्या। ६५ समानधर्माणामेवैकप्रकरणे गणनीयवादस्याप्यधमविशेषत्वात् । राहुपक्षे शिरोमात्रस्वरूपत्वेन हृदयराहित्यात्पापानामधमत्वा. तन्मध्ये अहृयत्वेन राहोरपि गणनम् “पापौ तमाकेतू" इति विष्णुधर्मोत्तरोक्तत्वादिति ज्योतिषवचनादित्यर्थः ॥ १२५ ॥ कांचिदुपपतावासञ्जयितुं तद्भर्तुरगुणत्वं भूचयन्तीदमाह- अनुरूपयोईयोरपि समागमो दुर्लभः प्रायः ।। नहि मन्यतेऽभियुक्तैर्विभुद्धस्थापि संयोगः ॥ १२६ ॥ अनुरूपयोः वयोरूपविद्यादिसमानशीलयोः । समागमा=दा- म्पत्यादिसम्बन्धः । उपपतिसंयोगेन तत्सौलभ्यसूचनाय-प्राय इति । अभियुक्तः नैयायिकैः । मीमांसकैविभुद्वयस्यापि संयो. गाभ्युपगमात् । नित्यसंयोगे प्रमाणाभावाद्विमोश्च कर्मासम्भवेन जन्यसंयोगासम्भवादिति भावः ॥ १२६ ॥ कचिबहुवल्लभे(१) बद्धानुरागाया दशां दृती तत्र निवेदयति- अवलोकितवत्यास्त्वामतिरुचिरजनीशशेखरं सुभगः ॥ वेषादिव पञ्चेषुभिनत्ति मर्माणि बाणौधैः ॥ १२७ ॥ अतिरुचिराणां जनीनां नायिकानां ये ईशाः प्रियास्तेषां शेखरं मूर्धन्यम् । “जनी सीमन्तिनीवध्वोः" इति विश्वः । पक्षे अतिरूचिस्तेजस्वी रजनीशचन्द्रः शेखरो मूर्दाभरणं यस्येति तस्य शिवात्मकत्वसूचनम् । स्वविवेषिदर्शनादिव तां पीडयतीति भावः ॥१२॥ कश्चिदात्मनो विद्यावैदग्ध्यं दर्शयनवोढामाह- अव्याप्यवृत्तिमेव स्पर्श मानिनि ! तवाधिगच्छामः ।। कोमलकठिनावयवैः किमुपादानस्य फलमेतत् ॥१२८॥ (१) अत्र बढ्यो वल्लभा यस्येति बहुव्रीहिबाध्यः ।
६६ आर्यासप्तशत्याम् मानिनीति स्त्रीमानसाधारणम् । सर्वाङ्गावच्छिनपरिरम्भा- लाभात् अव्याप्यत्ति-किञ्चिदवयवावच्छिन्नमेव, स्पर्शम् आ. लिङ्गनम् आसादयामः । अथच अव्याप्यत्तिं तत्तदवयवावच्छि. नं कठिनमृदुत्वादिरूपं स्पर्श साक्षात्कुर्मः। कठिनकोमलाव. यवारब्धे वयविनि तत्तदवच्छेदेनाव्याप्यवृत्तिमेव स्पर्श नवी. नाः स्वीकुर्वन्ति । प्राचीनस्तत्र चित्रस्पर्शस्यैवाभ्युपगमात् । एवं तवापि स्तनपाण्यादिरूपकठिनसुकुमारावयवारब्धत्वात् स्पर्शस्याव्याप्यवृत्तित्वं युक्तमेवेति भावः ॥ १२८ ॥ . कश्चिद्धनसमये पथिकावस्थामाह- अर्जुनकृताशुगासनगुणवन्धसमाहितस्तम्भाः ।। पथिकाः प्रावृषि दशमुखहिरण्यपुरवासितां दधते१२९।। दशमुखः सर्वदिग्व्यापी, हिरण्यं पुरे शरीरसम्बद्धं यस्येति स वन्हिः हिरण्यरेतस्त्वात् । पूर्वेण कर्मधारयः । तद्वासित्वं ता. पातिशयात् । अथच दशमुखो रावणः, हिण्यपुरवासिनो दै- त्यविशेषाः तद्भावं सादृश्यं भजन्ते इत्यर्थः । अर्जुनं ककुभपुष्प- म् । पक्षे अर्जुन: कार्तवीर्यः पाण्डवश्च । आशुगो वायुस्तस्य असनं क्षेपः । स्वावयवसंयोगद्वारा वायौ सौरभाधानेन त. स्कृतत्वम् । तस्य गुणानां शैत्यादीनां बन्धेन साक्षात्कारद्वार- कवशीभावेन कृतस्तम्भाः। तदुत्तरं निर्व्यापारस्वात् । रावणपक्षे. कार्तवीर्यकृतेन आशुगासनं धनुस्तस्य गुणो मौर्वी तद्वन्धेन कृतस्तम्भः । इदं चोत्तरकाण्डे स्पष्टम् । देवपक्षे पाण्डवकृते य. दाशुगानां बाणानामसनं क्षेपः तत्र गुणः शैयादिः । इदं चार- ज्यपर्वणि निवातकवचधे व्यक्तम् ॥ १२९ ।।
अकारवज्या। MRI द्रविणकणिकोन्मत्ताहङ्कारमसहमानः कोऽप्याह- अघरेणाप्यर्थेन श्रीमत्तामेति जड भाव: वहति वराटकमात्रान्वयानिवासत्वमम्बुजं लक्ष्म्याः१३० अवरेण अल्पेनापि । जडभावः अनभिज्ञः। कमलमपि ज- लोत्पन्नामित्यादन्वयः । “बीजकोशे सरोजस्य कपर्दे च वरा- टकः।" इति शाश्वतः । कमलं हि श्रीगृहमिति प्रसिद्धम् । तात्र वराटकपदेन कपर्दबीजकोशयोरक्यारोपात्तावन्मात्रेणैव तस्य श्रीसम्बन्धबोधो जात इतिभावः ॥ १३०॥ कं चिन्मनस्विनं पराभवासहिष्णुतया सेवादिविरहेण नि. गुणजनान्तरवत् तथा द्रव्यादिरहितमवलोकयन्नाह- अभिमानकधनानां गुणान्तरेष्वाग्रहो न तथा । विधदात्मसमयहरितां तद्व्यतिरिक्ता न ते नित्या:१३१ परममहत्परिमाणवतामपि व्योमजीवकालदिशां गुणमध्ये मानस्यैव निसत्वं नतु गुणान्तराणाम् । शब्दादीनामनित्यत्वस्य स्वीकारात् । अतो मानमेव नित्यं रक्षन्ति नतु गुणान्तरमपी- त्यर्थः । आत्मत्वस्य नित्यत्वेऽपि तस्य गुणत्वाभावान्न दोषः । यद्यप्येकत्वमपि निसं तथापि सङ्ख्याया गुणत्वनिरासेन पदा- न्तरत्वस्य मीमांसकादिभिरङ्गीकारात्तदाभप्रायेणैवमुक्तम् १३१॥ कश्चिदयोग्यानामेव सम्पत्तिमवलोक्य निर्विण इदमाह- अणुरपि यत्र न रूपस्नेहरसानां वरीवति ॥ इह जगति तादृशानामेव विभुत्वं प्रपश्यामः ॥१३२।। रूपमाकृतिविशेष इति देवबोधः । स्नेहः शुद्यशः । रस: शृङ्गारादिः । एषां लेशोऽपि यत्र नास्ति तेषामेव सम्पत्ति प्र- पश्यामः । अथच रूपस्नेहरसाख्यगुणाभाववतामाकाशकाल-
६८
भार्यासप्तशत्याम्
me
दिगास्मनामेव पश्यामः परममहत्परिमाणम् । एतदन्यस्मिन् विभु-
स्वाभाव एव तात्पर्यम्। न त्वेतादृशावच्छेदेन विभुत्वसत्त्वे । अतो
लोके पूर्वोक्तानां केषांचित्सम्पत्यभावे वायुमनसोश्च ताश-
परिमाणाभावेऽपि न क्षतिः। भ्रमत्ववारणाय प्रशब्दः॥१३२॥
कृत्रिमशब्दविशेषेण केन चिश्चितः कश्चिदिदमाह-
अवलक्षतात्र कस्यचिदाशयमविभाव्य नैव निर्णेया ॥
विशदयतो जगदखिलं मलिनं ह्यन्तः कुमुदबन्धोः १३३
आशयमभिप्रायमन्तरं च । अवलक्षता-शुद्धहृदयं सर्वावच्छे.
देन वैत्यं च । विशदयतः सदाचारोऽयमिति ज्ञानयुक्तं कुर्वतः,
चन्द्रिकया श्वैत्यमानयतश्च । मलिनम् असत्कार्यरतं नीलं च ।
अन्तर्मनो मध्यं च । कुमुदवन्धो-चन्द्रस्य, कुः पृथ्वी तज्जन्या-
या मुदः प्रीतरबन्धोरनुत्पादकस्य चेयर्थः । “विशदः पाशक:
पार्श्व" इति विश्वाद्विशदशब्दोऽपि सकारमध्यः ॥ १३३ ।।
मिथ्यानुरागं नाटयन्तं नायकं कस्याश्चित्सखीदमाह-
अनुराग उपहिते त्वयि सुभग! तया जपासुमनसेव ।।
रक्तोऽपि भासमानः स्फटिक इव स्वयमराग एवासि१३४
अनुरागा-स्नेह आरुण्यं च । उपहिते-त्वद्विषयत्वं नीते,
परम्परासम्बन्धेन तद्वृत्तित्वेन ज्ञानयोग्यत्वमापादिते च ।
सुभगेति अनुरागोपधानयोग्यत्वेन तस्या अनुचितकारित्ववा-
रणम् । रक्त: अनुरक्तः अरुणवर्णश्च । तादृशपयाद्यावाकरणेन(?)
विशेषादर्शने च साक्षाद्रक्त इव ज्ञायमानः । स्वयम्-अन्तरात्मना.
साक्षात्सम्बन्धिनैव । सुमनसेति तदनुरागस्य सत्यत्वं तस्या
मार्दवं च ध्वन्यते । स्फटिकोपमया सच्छायायामप्यनुरागेण
काठिन्यसूचनम् ॥ १३४ ॥
अकारम्रज्या। कस्यचिनायिकाकङ्कणझङ्कारश्रवणेन वशीकृतस्यावस्था दृती नायिकाग्रे निवेदयति- अतिशयिततरलवलयकपाणिनिनादानुसन्धायी ॥ स सुहृदयोऽपि सुहृन्मे निपातितो दुहृदैव समम् १३५ लीलानुबन्धेनात्यन्तं तरला वलया पत्रेति समासान्तः कः । तादृशस्य पाणेईस्तस्य निनादमनुसन्दधाति सादरं शृणो- ति । तथा शोभनं गुणझं हृदयं यस्य तादृशोऽपि स सुहृत् दुहृदा समं शत्रुवत् निपातितः स्मराधीनः कृतः । त्वयेतिशेषः । अथ. च अतिशयिताः तर उत्कर्षार्थः प्रत्ययः, ल इति दशलकारग्रहः, व इतिमत्वर्थीयः, ल इत्यपि स एव,य इति चतुर्येकवचनादेशः, क इति समासान्तादिः। एते यस्य व्युत्पाद्यत्वात्तादृशेन पाणि. निना मुनिना मुहृदयशब्दोऽपि दुहुंदा शब्देन समं दानुसन्धायी दकारान्तः मुहदिति निपातः कृतः।"सुहृदुहृदौ मित्रामित्रयोः". (५ । ४ । १५० ) इति सूत्रेण सुहृदयदुर्हदयोः सुहृत् दु- हदिति निपातितत्वादित्यर्थः ॥ १३५ ॥ कश्चित्प्रियाया गुणातिशयमाह- अरुणोऽधरे तव गुणो गुरु नितम्बेऽथ कुन्तलष्वसितः॥ शिरसि कचः श्रुत एकत इह हि पदे चक्रतुश्चित्रम्१३६ उत्तरार्दै गुणस्य नान्वयः । गुरुपदं गुरुत्वपरम् । एकत एकतकारः । शतशब्दे तत्सत्वादयेन्तरुपचारः।(?) पदे इति द्विवचनम् । चित्रं चक्रतुः स्म । लोकोत्तरसौन्दर्यगुणितत्वात् । पक्षे पदे इति सप्तम्येकवचनम् । तत्रारुणगुर्वसितकचकतक्रतव ऋषिविशेषाः। तेषामप्यकैकावयवासक्तिमत्त्वे रागिणां का वाते. ति व्यङ्ग्यम् ॥ ॥ १३६ ॥ ।
भार्यासप्तशत्याम् D सुजनस्य दारिद्यमालोक्य कश्चिदिदमाह - अनुयाति गतायत्वं सुहृदय एवात्र न त्वहृदयोऽपि ॥ सुहृदिति दाक्षीतनयः सुहृदयमेव ह्यनुशशास॥१३७॥ गत आयो द्रव्यागमो यस्य तद्भावं शोभनचित्त एव प्रा. मोति न त्वन्यः । यतः मुहृदयशब्दस्यैव सुहृदिति रूपं पाणि. निराह । स हि (सुहृदयशब्दः)निपातवशाद्गतः अप इत्यंशो यस्य सादृशो भूत्वा सुहृदिति भवतीत्युक्तार्थलाभः । “दाक्षीपुत्रस्य पाणिनेः" इति भाष्यकारादयः ॥ १३७ ।। कश्चिदनुनयादप्यमुक्तमानां काश्चिदिदमाह- अविवक्षितमेवेदं वाक्यविदां श्रूयते ग्रहैकत्वम् ॥ तव तु विवक्षितमेवेत्ययमनयः सुन्दरि ! महीयान् १३०॥ ग्रहः सोमपात्रविशेषो मानश्च । एकत्वं सङ्ख्या-ऐकरूप्यं च । अभेदारोपेण वाक्यार्थः । तथाच मानापरित्यागोऽपि न वाक्यवि. दां रसज्ञानां संमतः । तथाच भरत:-"तावत्खेदयितुं वस्तु या- वत्पादगतो भवेत्" । मीमांसकैरपि “ग्रहं संमार्टि" इत्येकत्व. स्योद्देश्यविशेषणत्वेनाविवक्षितत्वात्सर्वग्रहसंमार्ग इति तृतीया- ध्याये निरूपितमित्यर्थः ॥ १३८ ॥ अनभिज्ञराहत कश्चिनिर्गुणमालोक्य कोऽप्याह- अकलङ्क एव सहृदयजनैरहृदयैस्तु पूर्ण आदेयः॥ ईशानेन कलात्मा पूर्णस्त्वादीयते विधुस्तमसा ॥१३९।। अकलङ्का-निर्दोषो लक्ष्महीनश्च । पूर्णा द्रव्यादिमान वृद्धि- काष्ठां प्राप्तश्च । कलामात्रचन्द्रस्याकलकत्वात्सहृदयेन शिवेन सदुपादानम् । राहुणा तु पूर्वोक्तरीत्या अहृदयेन तदानीं कल- झासद्भावेऽपि तदनादरेण पूर्णस्यैवोपादानम् । पूर्णिमायामेव अकारबज्या। ७१ चन्द्रोपरागदर्शनादिसर्थः ॥ १३९ ॥ काचित्सङ्केतावसरं सूचयन्तीदमाह । यद्वा पूर्वार्द्ध सख्या उत्तरार्द्ध च नायिकाया उक्तिः । अल्पीयानपि पूर्व नीहारः पश्य जृम्भते कीहक् ।। अग्रजतया ध्रुवममुं सहचरि! संश्लिष्यति व्यास:१४० सहसैव वृद्धौ हेतुमुस्प्रेक्षते । व्यास:= =विस्तारः पाराशर्यश्च स्वज्येष्ठतया नीहारमालिङ्गतीत्यर्थः। “व्यासो मुनौ स्याद्विस्तारे" इति विश्वः। यमुनायां सत्यवतीमालोक्य न तु कामेन पराश. रेण जनान्तरसंवरणार्थ नीहारः कृतः। यतः सत्यवत्या व्यास उत्पन्न इति भारतम् । ततश्च व्यासान्नीहारः पश्य जृम्भते । अस्याग्रजत्वं पूर्वकालीनत्वादेव जन्यत्वाच्च वेत्यर्थः ॥ १४ ॥ कश्चित्तियां पश्यन्नाह-- अस्याः स्मितेषदीक्षितरदनोभयभागभूरदच्छदयोः ।। लोहितकगर्भनासामौक्तिकयोर्वा निवेशतो भेदः १४१॥ अन्तर्गतदशनं विम्बाधरद्वयं माणिक्यगर्भितनासाभूषण- मौक्तिकद्वयं च परस्परव्यत्यासेनोपमीयन्ते । दन्ताधरमौक्ति- कमणिवराणां प्रत्येक साम्यसत्वेऽपि उक्तसन्निवेशविशिष्टानां तदभावात् रदनद्वयस्याधरगर्भत्वे उक्तभूषणसाम्यं मौ. क्तिकस्य माणिक्यद्वयान्तर्गतत्वे च यथास्थिता(धर)दन्तसाम्य स्यादिति भावः ॥ १४१ ॥ नामसाम्याकेन चित्तद्विजातीयमप्यादत्तं पश्यन्निदमाह- अतदीयजातिमानपि तत्पदवाच्यस्तदिष्टसङ्ग्राह्यः ।। अहिकालकूटविषवान विभर्ति गाझं जलमपीशः १४२॥
आर्यासप्तशश्याम । यस्थ यत्रानुरागस्तेन तत्समाननामफस्य तद्वृत्तिधर्मानवच्छि- भस्यापि सङ्ग्रहः क्रियते । यथा सर्पयोगेन तद्विषस्य कालकूटसं. भविषस्य च धारणात्तत्प्रियेणश्वरेण तद्वृत्तिविषत्वानवछिन्नस्या. पि विषपदवाच्यस्य मन्दाकिनीजलस्येत्यर्थः । “विषं तु गरले तोये" इति विश्वः । ईशपदेन ईश्वराणामविवेकित्वस्वभाव. सूचनम् । अहिपदस्य तत्सम्बन्धिनि लक्षणा । अहिसम्बन्धि कालकूटामिन्नं च यद्विषं विषपदार्थ इति समासः । अन्यथा का. लकूटेनैव द्वन्द्वे तु तयोर्विषपदार्थे एकरूपेणैवान्वयाकाङ्क्षतया स. म्बन्धितयाऽभेदेन चान्वयानुपपत्तेः । विषपदार्थत्यव्याख्याने चैकस्यैव विषस्य सर्पसम्बन्धित्वकालकूटाभिन्नत्ववाधात् । पदार्यत्युक्ती तु विषद्वयस्यापि तथात्वेन याहम- स्वपः ॥ १४२॥ सखी शरस्समयारम्भं पूर्वार्द्धन दर्शयति, उत्तरार्द्ध ना. यिकोक्तिः। अवलोकय धवलायितबलाहकं सुतनु ! गगनतलम् ॥ एतदवलक्षकलमक्षेत्र नालोकि किमानितलम् ॥१४३॥ अवलक्ष पाकेन पाण्डुरीभूतं कलमानां शालीनां क्षेत्रं यस्मि- न् । तथाच एतेनैव शरदारम्भस्य ज्ञातत्वात किं लिङ्गानुसारे. सर्थः । यद्वा शालीनां छेदावश्यकत्वात् भाविसङ्केतस्था- मनाशशङ्कया भूतलमेव दर्शनाई किमस्मदपेक्षिताविघटकोक्त- गगनालोचनेनेत्यर्थः । किं वात्र विशेषणविशेष्ययोयोरपि चा- सुषत्वम् । तत्र तु गगनस्य चक्षुरयोग्यतया एकांश एवं (बलाहकरूपांशे) लौकिकं चाक्षुषमिति मुख्य एवादरोयुक्त इति भावः ॥ १४३ ।।
अकारवज्या। काचिन्नायिकान्तरानिरोधनासमये स्वसविधमागतं दयितमाह- अवकाशान्तरविरहप्रयुक्त एवावकाशो यः॥ महिमा प्रवृत्तिभाजो न पुनरयं तत्प्रवृत्तिविषयस्य १४४ विषयान्तरमलभमानस्य या स्वस्मिन् प्रवृत्तिः सा भर्तुरेव शक्तिः जायायास्तदधीनत्वात् । मद्गुणमहिन्ना तवागमनस्य सप- नीनां नो गाईत्वदशायामभावेन मद्गुणानां तदप्रयोजकत्वात् । अतः किमनुरागाभिनयेनेति भावः । अन्यत्रापि"मा हिंस्यात्सर्वा भूतानि" इतिनिषेधनिर्मुक्तविषयमनासादयतः "अग्नीषोमीयं पशुमालभेत" इत्यस्य शास्त्रस्य हिंसाविधायकत्वम् एतद्विधि- वैयापत्तिप्रयुक्त मेव न तु तत्पशुहिंसासामर्थ्यप्रयुक्तमिति ध्वनिः । तस्य सर्वदा तत्र प्रवृत्तस्तव तु प्रवृत्तिः कदाचिदेवेत्य- न्यदेतदित्यर्थः ॥ १४४ ॥ काचिद्विरहदूनहृदया मदनं निन्दति- अनले न्यधीयत सुरेश्वरेण मदनो हरेण युवा ।। शिशुरेव शम्बरेण त्वसुरवरेण न्यधायि सिन्धुजले १४५ देवमुख्येन हरेण युवैव कामो नेत्रानलेन दग्धः । असुर- राजेन शम्बरेण तु बाल एव प्रद्युम्नरूपी कामः समुद्रे नि. क्षिप्तः । अतोऽन्योन्यविरोधिपक्षद्वयेऽन्यतरेणाप्यनुपादानात् अय. मत्यन्तदुष्ट इतिभावः । शम्बरेण मायया समाहृत्य सप्तदि- बसः प्रद्युम्नः समुद्रे निक्षिप्त इति भागवतम् । अथवा- "काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्यनमिह वैरिणम्॥" (भ.गी. अ० ३ श्लो० ३५) इत्यादिवचन रत्नेन संसारमूलभूतस्य कामस्य निन्दा क- AND आर्यासप्तशत्याम् Ram श्चिद्विदिततत्व आह ॥ १४५ ।। अतिवियोगविप्रजायमाना काचित्सखी समाश्वासयति- अभिलषति विप्रलम्भजतापादतिवेलमनुरागः ॥ नित्येषु पार्थिवेष्वपि पाकेन विना श्रुतो न खलु रागः१४६ साहित्यदर्पणे-“यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ ।" (५० ३ का० १८६) अभीष्टं नायकना- यिकान्तरमित्यर्थः । पार्थिवेषु (नृप)श्रेष्ठेषु पृथिवीसम्बन्धिषु च । नियेषु-पदभ्रंसादिहीनेषु परमाणुषु च । राग-रत्याधि- क्यं रक्तरूपं च । उक्तंच-- "न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते ॥ कषायिते हि वस्त्रादौ भूयान् रागोऽभिवर्द्धते ॥" पार्थिवेषु परमाणुष्वपि पाकजमेव रूपमिति वैशे. षिकाः ॥ १४६ ॥ कश्चिद्गुणकीर्तनमुखेन स्वानुरागयोगं सूचयन्नाह- अमुना तव मन्दोदरि ! रूपविशषेण तनुभवेन ॥ त्रिदिवेश्वरोऽपि भगवान् विजेतुमीषत्करोनितराम्१४५ मन्दं कृशमुदरं यस्याः । अथवा मन्दोदरी रावणभार्या । रूपलक्षण मन्यत्रोक्तम्-- "अङ्गान्यभूपणान्येव कणाद्मविभूषणैः ॥ येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥" विजेतुं वशीकर्तुं युद्धऽभिभवितुं च । “ईपासुषु० ( ३।३।१.२६) इतिखल् । नायिकाया उर्वश्यादिभ्योऽप्युत्कर्ष. व्यञ्जनाय त्रिदिवेति । मेघनादेनापीन्द्रविजयः कृत इत्यु. तरकाण्डे ॥ १४७॥ Saama अकारवज्या। अनिवृत्तदर्शनेच्छमेव प्रियमनाहत्य मानानुरोधेन चलितायां नायिकायां सखीनायिके इदमा हतु:- असुहितमेव प्रियतममुपेक्ष्य चलितासि किमपरत्र । सुहितोपेक्षा सहचरि! तथाविधानां खलु निसर्गः१४८॥ अमुहितं त्वदर्शनेनातृप्तमेव । अथच असुभ्यः प्राणेभ्यो हितम् । “चतुर्थी तदर्थाः (२।१।३६ ) इत्यादिना समासः । अन्यस्योपेक्षासम्भवात् प्रियतममिति । नायिका स्वाह- सुहितति । मुतरां हितस्य तन्मात्रानुरक्तजनस्य मद्रूपस्य उपेक्षा तद्विधानामयं स्वभावः । अस्माकं तु प्रियकरणे न सुतरां हितस्य तन्मात्रानुरक्तस्योपेक्षेति नकश्चिद्दोष इति भावः ॥ १४८ ॥ कश्चिच्छुद्धहृदयः कुटिलाचारेण स्वरक्षितमैत्रीक इदमाह- अमलमलिनाशयानां न सहचरत्वं सुचिरवर्ति ॥ दीयक्षणमात्रे सह तपनमृगाङ्कयोसः ॥ १४९ ।। तपनपदेन तेजस्तयाऽमलत्वसूचनम् । गृगाङ्कपदेन मलि. नाशयत्वव्यञ्जनम् । कलायाः कलङ्काभावेऽपि धर्मिणस्तत्वमक्ष- तमेवेत्यर्थः । दीयेत्यतिविप्रकृष्टत्वद्योतनम् । तथाच देवी- पुराणे- "कलावशिष्टो निष्क्रान्तः प्रविष्टः सूर्यमण्डलम् ।। अमायां वसते यस्मादमावास्या ततः स्मृता" ॥१४९ ।। काचिदन्यापवादविषये गुणमये कुत्रचिदनुरक्ता अपवाद- स्याप्रयोजकत्वमाह- अभिदधति यं वदातं शुद्धप्रकृति स्फुरनिष्ठम् ॥ सत्यप्यवर्णयोगे स भवत्यवदात एवेह ।। १५० ॥ शुद्धप्रकृति-पायारहितम् । स्फुरन्ती प्रसिद्धा निष्ठा आच- ७६ आसप्तशत्याम् । 6. ARMERANDMAA रणं यस्य । अवर्णः परिवादः । "अवर्णाक्षेपानिवाद" इत्यम. रः । अवदात उज्ज्वल एव भवति । "एको हि दोषो गुण- सन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्क" इतिन्यायात् । अ. पिच बदातेतिशब्दः 'दै शोधने' इतिशुद्धिवाचकधातुप्रकृति- कः । स्फुरनिष्टः क्तप्रत्ययान्तः । तलवतू निष्ठा (११११२६) इतिवचनात् । तस्यादावकारयोगे सत्यवदात एव भवति । "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।” इति अकारलोपे कृते वदानशब्दसिद्धेवेदातावदातयोरेकार्थवादित्यर्थः ॥ १५० ॥ कश्चिदकमात्राश्रितस्तदुत्तरमवाप्तदुरवस्थ आह- अवलम्बतेऽन्यमाश्रयमेकाश्रयसङ्ख्येऽपि खलु जातिः॥ तेनैव सह गुणः पुनरुपति नियतं विरतिमेव ॥ १५१ ॥ जातिरित्यनेकवृत्तित्वमूचनम् । गुणपदेन गौणत्वप्रतीत्या तन्मात्राश्रितत्वसूचनम् । एकघटनाशेऽपि घटत्वमन्यघटााश्रितं तिष्ठत्येव । तद्रूपादिकं तु समवायिनाशस्य समवेतनाशहेतुत्वान्न- श्यतीत्यर्थः । यद्वा वेश्याया उक्तिः । कुलस्त्रीणामेव भत्रनुमरणा- दिकं धर्मो न त्वस्मादृशामित्यर्थः । एकेन एकमात्रश्रयेण न भवितव्यमिति व्यञ्जितम् ॥ १५१ ॥ कश्चिन्नायिकाया औज्ज्वल्यं दर्शयन्नाह-- अवदातवेषवत्यां वरवर्णिन्यामभिसरन्याम् ॥ समजनि निशीथसमयेप्यौषसिकीवाखिला ज्योत्ला१५२ शुक्लाभिसारिकात्वात अवदातति । "शीते सुखोष्णसर्वाङ्गी ग्रीष्मे तु सुखशीतला ।। भर्तभक्ता च या नारी सा ज्ञेया वरवर्णिनी ॥” इति रुद्रः । भर्तृभक्तेति काचिकत्वाभिप्रायेण । लक्षणं पूर्वार्द्धमेवेसव- अकारतज्या धेयम् । निशीथपदेन ज्योत्स्नाया अत्युत्कटावस्थासूचनम् । प्रा. तःकालीनेत्र ज्योत्स्ना म्लाना जाता नायिकाङ्गकान्याभिभूत- त्वादिति भावः । औषसिकीत्यत्र "काला" (५११७८) इति ठञ् ॥ १५२ ॥ काचित्तपत्न्या दुःसहत्वं निवेदयति- अभिधीयमानमात्रे दुर्वासोवृत्तजातेऽपि ॥ पुलककुलदन्तुराङ्गी राधा विस्पन्दयत्यधरम् ॥ १५३ ॥ वृत्तजाते इति लक्ष्मीनिर्वासनातिरिक्ततत्तस्यापि मियत्व- सूचनम् । दुर्वासोदत्तपारिजातमालाया इन्द्रेण कुम्भतले निहिता. या ऐरावतेन क्षेपे दुर्वाससा इन्द्रक्रोधेन लक्ष्मीनिर्वासितेति वि. ष्णुपुराणे। अतः स्वराट्पत्न्याः श्रियस्तेन निराकरणात्तद्वा - यामानन्दोल्लासाद्रोमाञ्चस्मिताभ्युदय इति भावः। दन्तुरपद- स्य निम्नोन्नतत्वे लक्षणा। "स्वाङ्गाचोपसर्जनादसयोगोपधा- " (४।११५४ ) इतिसंयोगोपधपर्युदासेऽपि “अङ्गगात्र- कण्ठेभ्यास्त्विष्यते" इतिवृत्तिकारोक्तेमप् । मुनित्रयानुक्तवाद- प्रमाणमेतदितिकैयटादयः । प्रयोगमाचुर्यात्तत्रत्यचकारेणैतत्सङ्ग्रह इत्यन्ये ॥ १५३ ॥ काचिद्वियोगमसङ्खचं दर्शयति- अभिनवबलाहकावलिमिलितप्रस्थो लसति विन्ध्यः॥ विस्मृत्य कुम्भसम्भवमभिमुख इव रोधुमहिमांशुम्१५४ स्वागमनपर्यन्तमगस्त्येन निषिद्धवृद्धिरपि सूर्यद्वेषातिशया- तद्विस्मरणेन सूर्यमार्गमावरितु प्रवृत्त इवेत्यर्थः । एतेन राग- स्यान्यत औत्कट्यमूचनम् । यद्वा यथा समयमुल्लङ्य विन्ध्यो वर्द्धितुमारब्धस्तथा नायकोऽपि वर्षारम्भमागमावधि विधायापि B NBARSANEWS आर्यासप्तशत्याम् नागत इति प्रोषितभईका निवेदयति ॥ १५४ ॥ केनचित्तारतम्यानभिज्ञेन प्रतिष्ठाख्यापनेच्छया मन्दगुणेन सहोपमित उत्कृष्टगुणवानाह- असदृशगुणेन साकं तुलयति महिमाशया यदज्ञजनः ।। अभ्यर्हितगुणभाजामनायुधवधः स एव पर्याप्तः ॥१५५॥ आधिकस्य न्यूनगुणेन सहेापमानमेव वाहुल्यात्तदना- दृसाल्पगुणानामेव न तु प्रतीतौ स्ववृत्तिधर्माणामपलापादि- ति भावः ॥ १५५॥ कश्चिन्मनस्वी माह- अस्वाधीने प्रणयो वदान्यता वैअवविहीने ॥ आस्तिकजने च पातकमाजीवितमनुशयायैव ॥ १५६॥ पूर्वत्राधारत्वं विषयतासम्बन्धावच्छिनम् । उत्तरद्वये सम- वायावच्छिन्न मिति विशेषः । स्वपदं प्रणयसमवायिपरम् । वदा- न्यता=बहुप्रदानेच्छावत्वम् । आस्तिका वेदप्रामाण्याभिमन्ता । आद्ययोः स्वेच्छाविषयासद्ध्यभावादन्यस्य च भाविदुःखावश्य- कत्वज्ञानादनुतापाच्च भवतीत्यर्थः ॥ १५६ ॥ नायकेन सर्वाधिकप्रेमविषयीकृतापि किमिति चिन्तामाव- हसीति वदन्ती सखी काचिंदिदमाह- असमानमानविषया अपि दद्धति मुदं न मानिनो लोका। भाविप्रेमतनूकृतिचिन्ताजनितातिवैक्लव्याः ॥ १५७ ॥ असमाना= अनुपमः । “मानश्चित्तसमुन्नतिः' इति को. शः। मान आदरविशेषः । भावीति तनुकृतिविशेषणम् । अग्रे- प्रणयभङ्गमाशक्य व्यग्रा एव भवन्तीत्यर्थः । अथवा तत्त्वविद एवोक्तिः॥ १५७ ॥ । MICAINApna अकारखज्या। कश्चित् खलजनमायसंसारावगाहनकदर्थितः स्वसदृशजन- समागममुदित आह- अरसतरस्तापानिधिः संसारनिदाघसमयोऽयम् ।। शिशिरतरच्छायानां गुणवत्सरसां समागमात्सह्यः१५८ असदर्थप्रायत्वात्प्रतीत्यजनकतया अरसतरः। पक्षे त्रमातपा- तिशयेन जलशोषादेः। तापो-दुःखं घर्मश्च । अतिसुखहेतुः छाया समाश्रयो येषाम् । पक्षे शीतला वृक्षादिच्छाया येषु । यद्वा गुणवन्त आत्मतत्ववेदिन इति व्याख्येयम् । यद्वा स्वानुरूपकनायकस- मागमानन्दिताया इयमुक्तिः ॥ १५८ ॥ कश्चिस्प्रियावशतामनुभवन्नाह अध्यासते युवतयो भुवनानामुपरिभागमिति सत्यम्॥ चरणभुवि यदजरागो बलिरुदरे बासवोऽप्यधरे॥१५९॥ अजः स्वाभाविकः, राग: आरुण्यम् । पक्षे अजसंज्ञस्य रा. ज्ञोऽनुरागः । बलि:लेखाभेदोवैरोचनिश्च । वा समुच्चये। आसवो मधु मादकत्वात् । पक्षे वासव इन्द्रः । तथाच लोकत्रयाधिपती- नामेतदवयवभेदत्तितया अस्माकं तदुपरिवृत्तित्व सिद्धौ अर्थाल्लो. कत्रयस्याप्येतदधात्तित्वसिद्धिः। नच स्वस्थानिनामधोत्तित्वे- ऽपि न स्वस्याधोवृत्तित्वं तथाभवारादिति वाच्यम् । तल्लोकवृत्ति- त्वविशिष्टानामेव स्वामिनामघोत्तित्वस्य विवक्षितत्वात् ।।१५९॥ नायिकायाः कुशलं पृच्छति नायके कश्चिदिदमाह- अभिमुख एव दिगन्तं प्रति भवति कुतः सखीकुशलवार्ता कर्मणि जनिते नाहति संयोगविभागसन्देहः ॥ १६० ।। दिगन्समुद्दिश्य गन्तुं कृतोद्यम एव त्वयि तस्याः कुशलस्य आर्या सप्तशत्याम का कथा । तदैव कुशलाभावे एतावत्पर्यन्त तस्य प्रसङ्ग एव न सम्भावितः। नहि कर्मण्युत्पन्ने संयोगविभागौ जातौ न वेति- सन्देहो युक्तः। कर्मोत्पत्तौ सत्यामपेक्षणीयान्तराभावेन तदुत्पत्ता- वविलम्बात् । “एकद्रव्यमगुणं संयोगविभागयोरनपेक्षकारणमि- ति कर्मलक्षणम्" (वै० अ०१आ०१सू०१७)इति सूत्रार्थः ॥१६॥ काचिन्नायकसङ्घटनकी पश्चादात्मानमनाद्रियमाणां ना. यिकामाह- अस्माभिरेव विहितस्तव लवलि ! लवङ्गसंसर्गः ॥ अधुना वेल्लितविटपा मुखमप्यस्मन्निवतयसि ॥ १६१ ॥ अस्माभिरित्यादिबहुवचनेन दुष्करकार्यकारितया स्व- स्यादरणीयत्वसूचनम् । तत्सन्ध्युपकारे तथादराभावात्तद्वार- णाय तवेति । अनर्हसङ्गमकरणे द्वेषापत्तेः । लवङ्गेति उपादे- यत्वसूचनम् । अस्मदितिपञ्चम्यन्तम् । इदानीमात्माधीनीकृत- वल्लभा अस्माकं दर्शनपथमपि नावतरसीतिभावः ॥ १६१ ॥ लोकोत्तरलावण्यादिशालिनीमपि स्वीयामपहायान्यत्र च. लितचिचे कुत्रचित्काश्चिदिदमाह- अधगच्छति परिचितमपि नैवार्थ भङ्गुरगुणाधः ।। अपि सरसि प्राप्य जनि कमलदलं मृज्यते नहि रसेन १६२ भङ्गुरगुणोघो=निकृष्टगुणहीनः तनुतन्तुश्चेति । अर्थमिति ना- न्वयः। रसेनेति जलस्य शृङ्गारस्य चोपादानम् । यथा सरस्ये- वोत्पन्नं कमलं जलेन नहि लिप्यते तथानभिज्ञोऽपि स्वाधीनरम. णीयवस्तुना न युज्यत इति भावः । यद्वा आत्मज्ञस्योक्तिः । भ- ग्मा गुणाः सत्त्वादयस्तत्स्थानीया वासनादयो वा यस्य स परि- चितमप्यर्थ न जानाति उदासीनतयैव भोगातू ! 'असक्तोऽद्विपं.
अकारवज्या ८१ श्व भुते' इतिश्रुतेः । अब एव तस्य जन्यपुण्यादिसम्बन्धोऽपि न भवतीयाक्षितार्थस्योत्तरार्द्धन समाधानम् । तदाह-"तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवं विदि कर्म न श्लिष्यते" इति । अथवा तदासीनत्वस्यैवोत्तरार्धेन समर्थनम् ॥ १६२ ।। मानगोपनं विदधानां नायिका कश्चिदिदमाह--- अपहाय कुटिलमीक्षणमृजुकविलोकेन सूचयसि मानम्।। ऋजुकुटिलत्वमतन्त्रं प्राहास्परसं तु विकृतिरेव ॥१६३॥ अतन्त्रम् अविवक्षितम् । “हस्वग्रहणमतन्त्रम्" इत्यादौ तथा- दर्शनात् । विकृतिः सार्वदिकावस्थावपरीत्यम् । तथाचाभिमुख- दर्शनान्मानो नास्तीति न वाच्यम् । सर्वदा कुटिलदर्शनशीलायाः कटाक्षमुन्मुच्य दर्शनेन मानस्यानुमानादिति भावः ॥ १६३ ।। नायिकान्तरमनुसतुकामे नायके शङ्कमानां नायिका सखी समाश्वासयति- अविदूरगते गुणवत्संसर्गिणि सङ्कुचन्ति विपरीताः ॥ आलोक्य पद्मिनीप्रियमाशु निमीलन्ति कुमुदिन्यः १६४ विपरीताः तत्सम्बन्ध्यपकृष्टगुणाः । सङ्कोचा नन्मिलनवैमुख्य मुद्रणं च । पद्मिनीप्रियं-सूर्य नायिकाविशेषकान्तं च । कुमुदि- न्या कैराविण्यः । “इनः सूर्य प्रभौ राज्ञि" इति विश्वः । प्रभु- परात(१) इनशब्दात्युंयोगे डीप् । कुत्सितसम्बन्धिन्या मुद इन्य: ईश्वर्यः। कुत्सितमात्रैराहता इति वार्थः । तथाच ततो निवृत्य स्वय्येवानुरक्तिमासञ्जयिष्यतीत्यलमाशङ्कयेति भावः ।। १६४ ।। (१) प्रभ्वर्थकादित्यर्थः । ११ आर्यासप्तशत्याम् विद्धमानां काश्चित्सखी उपदिशति- अपराधीति प्रियतममुपेक्षसे तन्धि ! चेमाचरम् ॥ सौहार्दमपि चिरत्नं तर्हि कदर्थयितुकामासि ॥ १६६ ।। प्रियो हि स एव यत्रापराधावस्थायामपि न दौमनस्यम् । अन्यथा दशाविशेषे सर्वस्याप्युपादानेनाविशेषप्रसङ्गात् । तथा- चायं कृतापराध इति तदुपेक्षायां तस्यार्थादप्रियत्वमेव पर्यवस्य- ति । एवं च पूर्वकीलानानुरागस्याप्याप्रियविषयकत्वापचया स- मप्याकुलीभवतीति भावः ॥ १६५ ॥ कस्यांचिदनुरज्यमानं हितार्थी प्राह--- अभिमृतवानास सौरभभारप्रामाण्यमात्रेण ॥ किंमधुप केतकीमविगणय्य भूयांसि कण्टकरजांसि१६६ सौरभंपरिमलः सौन्दर्य च । सौरभान्तरवलक्षण्यलाभाय भारेति । सौरभस्य मधुव्याप्यत्वाभावलाभाय-मात्रेति । सौरभमानार्षिलवारणाय-मधुपति। दर्शनमात्रे दोपाभावाभि- मृतेति । उपभोगेच्छापर्यन्तत्वलाभार्थमिष्टाभावमानवारणाय कण्टकेति। इष्टालाभसूचनाय रज इति । पक्ष कण्टका दुर्ज- नाः । रजो दुरितम् । सङ्गमप्रतिबन्धकतया तदुत्तरमप्यपवादज- च । इष्टानिष्टहेतुतयाभ्यर्हितत्वात् कण्टकानां प्रागु. देशः ॥ १६६॥ काचिन्मानोपक्रमाय पृच्छन्ती नायिकामाह अनुभूतवती त्वमास प्रियविरहकदर्थना बहुशः ॥ सम्प्रति सुसहा यदि तद्वधान वा पारकरं माने ॥१६७॥ त्वमित्यनेन स्वकल्पितत्ववारणम् । प्रियविरहकृताः कदर्थ. ना: दुःखानि । अनेन तदनुभवस्थाप्रामाण्यशङ्का निरस्ता । मुखा- नकतया
अकारवज्या।
दिज्ञानस्य भ्रमत्वाभावात । सुसहा-द्वेषविषयत्वानापन्ना। परिकर:=
बन्धो लक्षणया समारम्भः । तथाच स्त्रवृत्तिदुःखस्य द्वेषविषय-
स्वानुपपत्या मानारम्भो न कार्य इतिभावः। उत्तरालङ्कारः।
"उत्तरमात्रात्पश्नोन्नयने स्यादुत्तरं नाम ।" इस लङ्कारको-
स्तुभे ॥ १६७ ॥
अभिसारात्कलङ्कमाशङ्कमानां दूतीदमाह
अवहितया वैशेषिकवातेयं श्रूयतां कुतुकात् ॥
गणयन्ति हि वसुमत्याःश्यामलतामपि विशेषगुणम् ॥
वैशेषिका: काणादाः। अथच विशेषोऽस्येषामिति ठन् ।
विशेषिका एव वैशेषिकाः । स्वार्थे तद्धितः । विशेषमात्रादररक्ता
इत्यर्थः । अनुपेक्ष्यस्वसूचनाप-अवहितयेति । रसाधायक-
त्वसूचनाय-कुतुकादिति । वसुमसा भूमेः द्रव्यवत्याश्च ।
( श्यामलतां )श्यामलभाव नीलरूपमनाचारं च । विशेषगुणं
द्रव्यान्तरवृत्तित्वरहितगुणं प्रतिष्ठाहेतुं च । तथाच तत एवं
कलङ्कमार्जनं भविष्यतीति भावः ॥ १६८ ॥
कश्चित्प्रियामाह-
अप्सरसा स्वनिरूपितमपकर्षमिव प्रकाशयितुम् ॥
क्षपयसि मदं घनपयः कासाराणां कचैःस्मिताभ्या१६९
घनो मेघः, पयः क्षीरम् , कासारस्तडागः । कचादिभिः
क्रमादेषां जयः। पयःशब्दादशब्दस्य कासारशब्दाच सरः
शब्दस्य लाभेऽर्थशाद्धनानां बहीनामप्रसां स्वापेक्षापकर्षव-
चं प्रकाश्यते । अवयवोत्कर्षस्यावयाविन उत्कर्षे पर्यवसानादि-
ति भावः ॥ १६९ ॥
आर्यासप्तशस्याम् NAMORED नायकभोग गोषयन्ती काञ्चित्सुइसन्ती सखी पाह- अलसाति कलेवरे तव लसतितरां किमपि सौभाग्यम् ॥ अधरे समधिगतरदे विभाव्यते नीरदाकृतिता॥१७०॥ अलसशब्दादाचारविवन्ताकर्तरि शतप्रत्ययः :। लसच्छब्देन नसमासगम्यार्थमादाय विरोधोद्धारः । रदाकृतनिष्क्रान्तस्य भावो रदचिह्नाभाव इसथोंदुत्तरार्दै(१)। नीरदो मेघस्तदाकारो नैल्यमिति तत्परिहारः । त्वत्रचुम्बनलग्नकजलस्य दयिताधरस्य स्वया चुम्बनेन त्वदधरे नैल्यं गात्राणामालस्यं चेति लिङ्गद्वयन प्रियसम्भोगानुमानं सुलभमेवेति भावः ॥ १७० ॥ द्रव्यावरहेणापवादनिरासोपायमपश्यन्नाह- अतिवृत्तार्थपराणामाख्यातप्रकृतिताभाजाम् ।। मायोगव्यतिरेकादवर्णविरहः श्रुतः केन ॥ १७१ ॥ अतिशयितं वृत्तं रूपं वस्तुवृत्तं च । अर्थो विद्यादिश्चेति द्वन्द्वो वा। प्रसिद्धा प्रकृतिर्यस्य तद्भावयुक्तानामपि । मायोगो लक्ष्मी. सम्बन्धस्तद्विनाभावेन । अवर्णस्यापवादस्य विरहोऽभावः केन श्रुतो भवत्येव । अथच अतितो भूतोऽर्थस्तत्पराणां भूतार्थे विधाने तत्परधावत्तिभूतत्वस्यैव प्रतिपादनात् । आ- ख्यातानां तिबादीनां प्रकृतिताभाजां प्रकृतिभूतानां धातूनामि- ति यावत् । धातृत्तरमेव तदनुशासनात् । मा इति निपातो निषे- धार्थे । तद्योग विना अकारविरहः केन श्रुतः । लुङादौ हि अ- डागमो “न माङ्योगे" (६।४।७४) इति माशब्दयोग एव निषि- द्धो न त्वन्यथापीति भावः ॥ १७१ ॥ (१) विरोधोद्धार इति पूर्वस्यात्रापि सम्बन्धः ।
आकारव्रज्या। ८५ DMIRRISARN9 कश्चित्मियामाह- अधरे परं प्रवाले प्रालयकरानने ! न वलते हृत् ॥ गतिकृतहेलमराले ! याववाले पयोधरेऽपि तय॥१७२।। इत्यकारव्रज्या। परमिसेवकारार्थे । प्रवाले–पल्लवविद्यमान्यतरसमाने अधरे एव हृदयं न चलते नोत्सुकं भवति । यावदिति किन्त्वियर्थे । [म. हापारेण हस्तेन सस्पृहं भवति। (१)सम्बुद्धिद्वयं स्पष्टम् । अथच अधरप्रवालपदाभ्यां धरभिन्नप्रकृष्टवालार्थबोधात् पयोधराबालश. ब्दाभ्यां च तद्विरुद्धार्थबोधाद्विरोधः । यत्किञ्चिद्विशेषस्यापि सामान्याभावविरोधादिति भावः॥ १७२ ॥ कस्यचिदुर्जनानुराग विभावयन् कोऽप्याह- आलोक्यतां पशुपतेः कपालिनः पापसङ्ग्रहव्यसनम् ॥ पूर्णेन्दुना दृशा योऽपरितुष्यञ्छिरासि तत्कलां निदधे१७३ पशुपतीत्यज्ञत्वसूचनम् । कपालीत्यसदृत्तत्वसूचनम् । पूर्णेन्दोः प्राप्तत्वेऽपि तस्य शुभत्वेन तत्कलामेव बहमन्यत । क्षी- णचन्द्रस्य ज्योतिषपरिभाषया पापत्वात् । तथा च वराहा-"क्षी- णेन्द्रर्कमहीसुतार्कतनयाः पापा बुधस्तैर्युतः" इति । अथवा ना. यिकासहितदूतीसमासक्ते नायके कस्याश्चिदुक्तिः। पूर्णेन्दुप्राया- यामपरितुष्य तव्याप्यत्वेन तदेकदेशतया ततो हीनतया च कलापायां दूतीमाद्रियतेति भावः ।। १७३ ॥ दोहदार्थ तिलकक्षं पश्यन्ती काश्चिदालोक्य सखी प्राह- आरामतिलकशाखिनि दयिततमेऽपि च समानदिग्वृत्ती विकसदुपेक्षापेक्षाः कटाक्षधारा युगपदस्थाः ॥ १७४ ।। (१) अयं पाठोऽधिकोऽसङ्गतश्च भातीति कोष्ठकमध्ये स्थापितः ।
आर्यासप्तशत्याम् READ एकदिगवच्छिन्ने तिलकद्रुमे नायके च निपतन्त्यः कटाक्ष- धारा वृक्षांशे उपेक्षात्मिका नायकांशे चोपादेयत्वादपेक्षात्मि- काः । विषयभेदेन ज्ञानस्य तदुभयात्मकत्वसम्भवात् । परेषां तर्फवारणार्थमारामेति ॥ १७४ ॥ काचिदास्थरप्रणयं नायकमधिकृयाह- आपातमात्ररागिणि नियतं दोषान्तरं समुन्नेयम् ।। हारदश्वे परितापो भवति सुधादीधितावङ्कः ॥ १७५ ।। दोषान्तरं-क्षणिकरागातिरिक्तो दोषः । उन्नेयम्=अनुमे- यम् । व्याभिचारवारणार्थ-नियतमिति । वाधाभावसूचनाय समिति । सूर्यचन्द्रयोरारुण्यस्यानतिचिरावस्थायित्वं प्रसि- हरिदश्चति प्रकाशकत्वं सुधेत्यादिनाल्हादकत्वं व्यङ्गथम् । तेन दोषस्य रामानवभासात् सिद्धसाधनशङ्कापि नेति भावः ॥१७५॥ कश्चिदस्थिरस्नेहं काचिदुपालभते- आनन्दमेव सूते सुभग ! भवानद्भुतोदयात्प्रथमम् ।। प्रणयविभङ्गहलाहलमुद्गिरसि पुनः पयोधिरिव ॥१७६।। सुभगेति अतियोग्यत्वसूचनम् । अद्भुतस्य लावण्या- दिनिबन्धनस्य । पक्षे अद्भुतानां चन्द्रादिपदार्थानाम् उदयात् । प्रणयस्य विशिष्ट उत्कटदुःखजनको यो भङ्गो विच्छेदः स एव हलाहलं दुःखजनकत्वसाधर्म्यात् । गौणतयोगिरसी- त्यस्य नाश्लीलत्वम् । तदुक्तं दण्डिना- "निष्ठ्यूतोद्गीणवान्तादि गौणवृत्तिव्यपाश्रयम् ।। अतिसुन्दरमभ्यत्र ग्राम्यकक्षां विगाहते" ॥ १७६ ॥ !
आकारवज्या। कश्चिच्छरदं वर्णयति- आकाशकुसुममवनीतलमुपनयता घनावसानेन । आविष्कृतोऽनुरूपं पाण्डुभवः सहजशालिनि क्षेत्रे१७७ आ समन्तात् काशकुसुमानि यत्र तादृशं भूतलं प्रकाशयता शरत्समयेन सहजाः सजातीय संबलनेन बहवः शालय: कलमा यत्र तादृशे क्षेत्र केदारे पाण्डुत्वगुणो जनितः। अथच प्रपञ्च- माकाशपुष्पमायं पारमार्थिकसत्ताविहीनं वदता व्यासेन सहजस्य समानमातृकस्य विचित्रवीर्यस्य सम्बन्धिनि क्षेत्रे भार्यायां पाण्डु. संज्ञो राजा जनित इति भारतम् । एतेन शरत्समयस्य व्यास- तादात्म्यमुद्दीपकत्वातिशयश्च व्यज्यते । जगन्मिथ्यात्वोपदेशक- स्थापि व्यासस्यैवं विकारो यथा कामस्य दुर्वारत्वे ध्वनिः॥१७॥ स्वस्य तदधीनता सूचयन् कोऽप्याह- आत्मारामान्तगतिरसावशोकोऽपि कुसुमगात्रि!॥ चरणतलताडनं तव काङ्गति का नाम कामिनां तुकथा७८ अशोक एतत्संज्ञः(तरुः) शोकसामान्याभावांश्च । "जीवन्नेव हि विद्वान्संहर्षायासाभ्यां मुच्यते" इति वचनात् । आरामे उपवने अन्तर्भावो यस्य । अथच आत्मज्ञान्तर्गत आत्मज्ञः। आत्मन्येव वाह्यविषयानपहाय आरमत इत्यात्मारामः । तदुक्तम्- "प्रजहाति यदा कामान्सान पार्थ ! मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥"(भ० गी० अ०२ श्लो०५५) इति । तदोहदत्वेन तदाकाला। तदुक्तं वृक्षायुर्वेदे- "तरुण्या नूपुरोपेतपादघातेन साडितः ।। अशोको विकसत्याशु सर्वलोकमनोहर" ॥ १७८ ॥ Roomer ८८ आर्यासप्तशत्याम् - सत्पुरुषस्य कस्यचिद्बहुविधपदारोहावरोहमालोक्य को- ऽप्याह- आनीय कामनीयकमनीयतायं कलानिधिविधिना ॥ अनिशोपचयापचयप्रणालिकाकृतकदर्थनां व्यर्थम् १७९ कामनीयकं सौन्दर्यम् आनीय कदर्थनां व्यर्थमनीयतेत्य- न्वयः। कलानिधिः चन्द्रो विदग्धश्च । उपचयापचयौ कलानां स- म्पदश्च वृद्धिहासौ, द्वयोः प्रणालिका परम्परा । अस्यैवं कदथनी- यत्वे रमणीयत्वमेव न कर्तव्यं तत्करणे च कदर्थनमनुचितमि- तिभावः । एतेन सर्वदा ऐकरूप्यमेव सम्यक् न तु महदपि. पदं प्राप्य पुनस्तद्धस इति सूचितम् ।। १७१ ।। कश्चित्प्रियामाह- आजानिको मधुरिमा भवदधरे सुननु ! रागोऽपि ॥ मम हृदि विषयतयाद्यः परः(१) समवायविषयिताभ्याम्।। आजनि जन्मारभ्य भव आजानिकः। अध्यात्मादित्वा । अनुशतिकादित्वादुभयपदवृद्धिः । स्वाभाविक इति यावत् । त्वदधरे माधुर्यरागयोः समवायेन वृत्तिः । अत्र माधुर्यस्य तद्विषयकत्वसम्बन्धेन मदीय ज्ञाने वृत्तिः । रागस्य तु समवायेन विषयितया च । अधरविषयकरागस्य समवायेन तद्रागस्य च विषयितया मयि सत्त्वात् । आत्मजन्यज्ञानविषयत्वाद्रागस्य आत्मनस्तद्विपयकत्वमुक्तम् ॥ १८० ।। कांचिद्बहुभिरुपपतिभिराकुलीक्रियमाणां काचिदिदमाह- आमोदाय दिगन्तप्रसारिणे कुप्य पद्मिनि ! निजाय । नैवाहम्पूर्विकया भृङ्गभ्यो मिलितुकामेभ्यः ।। १८१ ॥ (१) अत्र परस्तु इति पाठो मात्राधिक्यतया छन्दोभङ्गकर- स्वात्याज्य:।
आकारव्रज्या ८९ RD आमादः परिमलः हर्षदेतुर्जावण्पादिश्च "क्रुध्ह०(१॥ ४। ३७ ) इत्यादिना चतुर्थी । परस्मै क्रोधावकाशनिरासाय निजायेति । “अहंपूर्वमहं पूर्वमित्यहम्पूर्विका स्त्रियाम् ।" इत्यमरः । भृङ्गेभ्यः भ्रमरेभ्यः तरलत्वसाधर्येण कामुकेभ्यश्च । आमोदप्रसाराभावे विषय ज्ञानाभावेन सदिच्छायाः सुतरामभावेन तेषामागमनासम्भवादिति भावः ॥ १८१ ।। कथमनया मुग्धयापि वसन्तोत्सवे दयितोपरि चूर्णप्रक्षेपः कृत इति सम्भावयन्ती सखी काचिदिदमाह- आदाय मुग्धसुदृशाऽभिवयस्यं चूर्णमुष्टिरक्षेपि । तत्कालागतदधितोपरि निपपात त्वजाकृपाणीयात् १८२ आदानस्य क्षेपोद्देश्यकत्वलाभार्थम्-आदायेति । "चूर्णानि वासयोगाः स्युः" इसमरः । “चूर्ण पटवासः स्यात्" इति क्षीर-' स्वामी । मियसन्निधौ सख्युद्देशनादि क्षेपसम्भवात्-तस्काले- ति । “पूरणगुण” (२।२।११) इत्यव्ययेन षष्ठीसमासनिषेध ऋदव्ययविषय इति कैश्चिद्व्याख्यानात् दयितस्योपरीति समासः। तुशब्द उपरीयनन्तरं योज्यः । यथाऽकस्मादागताया अजायाः कुतश्चित्पतता कृपाणेन वधस्तन्न्यायात् । अजाया आगमनमिव कृपाणस्य पतनमिवेति "समासाञ्च तद्विषयात्"(५।३।१०६) इती- वार्थविषयसमासात् छप्रसयविधानबलेन अनाकृपाणमिति समा. सः। ततोऽजाकृपाणमिव अजाकृपाणीयम् । उक्त सूत्रेण छप्रत्यः। अकस्मादेव तत्र पतित इति फलिनार्थः ॥ १८२ ॥ कांचित्सङ्केतस्थानगतामपासवल्लभां विलोक्य काप्याह- आपाकमुपगतेवाभिसारिका परिणते शणक्षेत्रे (२) अवलोक्यतेऽनुपसरत्यभिलषितजने ज्वलगानी॥१८॥ (१) शणारण्ये इति पाठः काशिकराजकीयपुस्तकालयस्थपुस्तके।
९० आर्यासप्तशत्याम् main -- आपाका-घटादिपाकस्थानम् । “कान्तार्थिनी तु या याति सङ्केतं साभिसारिका" इत्यमरः । भरतोऽपि- "हित्वा लज्जा समाकृष्टा प्रदीप्ता मदनेन च ॥ अभिसारयते कान्तं सा भवेदभिसारिका ॥" परिणतेति पीतत्वमूचनम् । ज्वलनं तापवत्वं दह्यमानत्वं च । विप्रलब्धेयं नायिका । तदुक्तम्-- "प्रियः कृत्वा तु सङ्केतं यस्या नायाति सनिधिम् ॥ विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता"( साहि० द. परि० ३ का० ८३)॥१८३।। पूर्वमननुरक्तायां कस्यां चित्तत्सङ्घटनयत्नं करिष्यामीति बदन्तीं दूी कश्चिदिदमाह-- आलोकमात्रतो यदि नोल्लासस्तहि निष्फलोऽभ्यासः॥ कोराकतेन्दोरुदयेऽनिशमपि किं पद्मिनी हसति ॥१८४॥ आलोकः दर्शन प्रकाशश्च । उल्लासा-अनुरागो विकासश्च । अभ्यासःदर्शनाद्यावृत्तिः । कोरिकता-मुकुलिता असञ्जा- तानुरागा च । हासा-फुल्लत्वं प्रीतिश्च । अनिशमित्यन्तसंयोगे द्वितीया । पमिनी-कमलिनी नायिकाविशेषश्च ॥ १८४ ॥ प्रणतेऽपि नायके मानमपरित्यजन्ती हितैषिणी सखी प्राह- आथर्वणीमुपनिषद्विद्यामिव लब्धुमप त्वाम् ॥ शिरसा वहति भवत्पदनुपुररक्तोपलोल्मुककलापम्१८५ कोपप्राचुर्य सूचनाय-आथर्वणीमिति। कर्मभागस्य तच्छु. तावभिचारप्रायत्वात् । उपनिषदिति रसोत्पत्तिद्वारा परमाल्हा- दहेतुत्वसूचनम् । नूपुरसम्बन्धिनो रक्तोपला रक्तमणयस्त एवो. ल्मकान्यनाराः तत्समूहम् । वहति दधाति । प्रणामसमये तेषां आकारवज्या। ९१ HIRANS नायकशिरसम्बन्धात् । अथर्वशाखायां मुण्डोपनिषदध्ययनाङ्ग- त्वेन शिरोव्रतं विहितम् । “तेषामेवैतां ब्रह्मविद्यां वदेत शिरोवतं विधिवद्यैस्तु चीर्णम्" (मुण्ड० ३।२।१० ) इति श्रुतेः । शिरो. व्रतं शिरस्यङ्गारपात्रधारणमिति वेदान्तिनः । तच्च तैत्तिरी- याणां कारीरीवाक्याध्ययनस्य भूभोजनमिव मुण्डकोपनिषद ध्ययनस्याङ्गम् । “नैतदचीर्णव्रतोऽधीते (मुण्ड० ३।२।११) इति तवैव श्रवणात् । न तु तद्भेदाच्छाखाभेदेन ब्रह्मविद्याभेदः । अतः सर्वशाखाप्रत्ययमेकं ब्रह्मोपासनमिति निरूपितमुत्तरमीमां- सायां तृतीये(१) ॥ १८५ ॥ सखीभिर्माने प्रवर्यमाना काचित् स्वयं परामृशति- आलीजनानुरोधत्यागे व्याहन्यते सख्यम् ॥ तदनुसरणे स्वरूपासिाद्धः स्यात्प्रियतमत्वस्य ॥१८६॥ सखीकथितार्थाननुष्ठाने सख्यव्याघातः । परस्परेच्छानुव- तनस्यैव तत्पदार्थत्वात् । तदनुरोधेन मानकरणे तु प्रियतमत्वस्य स्वरूपासिद्धिः असिद्धस्वरूपं प्रसज्यते । तत्प्रतिकूलकरणे तस्य प्रियतमत्वासम्भवादिति भावः । एतेन स्वस्य मानं प्रत्यप्रवृत्ति सूचनम् । १८६ ॥ (स्ववचनमनाहत्य मौनमे साधयन्ती कांचित्सखी पाह-) (२)आसायं निबधान व्यवसायं साख ! सुखेन मौनाय। दृष्टे कलावति पुनर्विकासष्यसि झटिति कुमुदिनीव १८७ (कलावान् चन्द्रः कलाकुशलो नायकश्च । ) विकासः= प्रसाद उत्फुल्लत्वं च । विषयोद्दीपनयोः समवधाने मौने शत्य- (१) शारीरकभाष्ये तृतीयाध्यायस्य तृतीये पादे प्रथमाधिकर. णे इत्यर्थः। (२) इदं पद्यं का. रा. पु० पुस्तके नास्ति ।
९२ आर्यासप्तशत्याम सम्भवादिति भावः ॥ १८७ ॥ सुजनेभ्यः स्वदोषनिवेदनं नानिष्टावहमिति कोऽप्यनुभूयाह- आदीनवोऽपि सुजनहृदयधृतो न स्व कार्यकरः ॥ अवदातयन्ति किरणा जगदिन्दोर्नीलयति नाङ्कः॥१८८।। "दोष आदीनवो मतः” इति वैजयन्ती। हृदयं चित्तं मध्यं च । स्वकार्यम्=अकीर्यादि मालिन्यं च । अवदातशब्दा- व "तत्करोति" इति णिच् । अन्यथा किरणैः श्वैत्यस्येव कलकेन मालिन्यस्यापि जननप्रसङ्गादित्यर्थः । १८८ ॥ कश्चिद्माक्षतो नासापर्यन्तमेव प्रकाशितमुखथा कयाचिद् दृष्टः तस्याः स्वविषयानुरागं तर्कयति- (१)आकेशान्नासान्तं दृष्टेऽपि मुखेऽनुमीयते हसितम् ॥ माणिक्यद्वयधियमनु मौक्तिकयुगसंविदा तदाभरणे १८९ Prone इत्याकारव्रज्या॥ स्मितसच्चे स्वधररूपाभिभवादाभिभावकाभावान्मौक्तिकद्वय- घटितमेवेति स्मितानुमानात्तदनुरागानुमितिः ॥ १८९ ॥ कश्चित्पल्लीपतितनयायाः सौभाग्यं सूचयन्नाह- इभकुम्भमदस्तम्भनसम्भवमुचित्य यश उच्चैः ॥ अपि भीतरक्षणोत्थं चिनुन उरोजौ पुलिन्दपतिपुत्र्याः९० "भेदाः किरातशवरपुलिन्दा म्लेच्छ जातयः ।" इत्यमरः । (१) का. रा. पु. पुस्तके इदं पद्यं नास्ति । एतत्स्थाने- आकारसन्निकर्षादेव दरोऽप्यादरो भवति । तस्यैव व्यतिरेकादाशापदमेव शापदं भवति । इति पद्यं वर्तते। plem . २ इकारव्रज्या। "एतेऽरण्यच।" इति स्वामी । मदस्तम्भनं-गर्वनाशो दानज. लशोषश्च । तदुच्चतादर्शनचिन्तया तदुपपत्तेः । स्वोन्नततया करि- कुम्भजय लक्षणं यशः प्राप्य पुलिन्दतरुणानां स्वस्मिन्नासक्त्या गजवधान्नित्ततया भीतानां करिकुम्भानां रक्षणजन्यमपि यशो वहत इति भावः । एतेन तदनुरागस्य सर्वविदितत्व- सूचनम् ॥ १९ ॥ सङ्केतस्थलकर्मकतदपादानकगमनागमनदशायां वृत्तं द्वयोः सङ्गमं पश्चात्तप्यमाना नायिका सखीं स्मारयति- इतरेतराभिमुखयोर्वत्मनि युवयोर्मुहृतमभूत् ।। मिलनं त्वत्करपरभृततत्कर्णरसालकलिकयोरिव तत् ॥ स्वस्य सङ्केतस्थानगमनसूचनाय नायेकनाम्रकलिकाया आनयनम् । यथा तया सह त्वत्केलिकोकिलस्य मिलनसल्पकाला- वच्छिन्नमेव जातं तथा वयोरपि जनापवादभीत्या तत्र विलम्बि. तुमशक्यत्वात् । अतोऽग्रेऽपि यथासमयं भविष्यतीत्यर्थः॥१९१॥ कश्चिन्नायिकाविरहावस्था नायकाय निवेदयति- इन्दिन्दिरसन्दोहः प्रत्यारामदुमं भ्राम्यन् ।। कमलोन्मूलनमूलं शोचति तस्या भवहिरहम् ॥१९२॥ (इन्दिन्दिरसन्दोहा=)भ्रमरसमूहः। कमलानामुन्मूलनमूलं शोचति । तापप्रतीकाराय मृणालादिग्रहणात् (उन्मूलन)तस्य मूलं कारणम् । तस्यास्त्वद्विरहाभावे कमलमधुनैव तस्य तृप्तिसम्भवेन प्रतिद्रुमं भ्रमणानुपपत्त्या कष्टं न स्यादिति भावः । अथवा फस्य चिद्वदान्यस्य विरहे याचकानामतिवैक्लव्यं कथ्यते । इन्दिन्दि- रा भ्रमणसाधम्र्येण याचकाः । द्रुमाः ( कृपणाः ) अदातृत्वेन तत्प्रायत्वात् । कमलाया लक्ष्म्या नाशमूलं व्यसवेऽप्यदानने ९४ आर्यासप्तशत्याम् तथात्वात् । तस्य प्रसिद्धस्य । (विरहम् अभावम् )। अभवत् न विद्यते भा कान्तिर्यस्य तद्वदिति वतिप्रत्ययः ॥ १९२ ॥ काचिज्ज्योत्स्नाभिसारिका चन्द्रोदयं ज्ञापयति- इन्दुकिरणाङ्कुराली हरिति हरेः प्रथममुल्लसिता ।। सखि ! वैजयन्तमार्जनमाणिक्यजमार्जनीव निर्भाति१९३ "स्यात्प्रासादो वैजयन्तः"इतीन्द्रप्रकरणेऽमरः । मार्जनम् अव- रापनयनं तदर्था माणिक्यशलाकानिर्मिता शोधनीव भाति । रक्ततया माणिक्येति । अन्यमार्जनाय तदसम्भवात्-वैजय न्तेति । यद्वा वासगृहसंस्कारः क्रियतामिति वासकसजा का. प्याह ॥ १९३ ॥ अनुरूपसम्बन्ध एव सुखाय कल्पते इति दूनी उपनाय. कस्य गुणाधिक्यं सूचयन्ती वदति- इह यद्यपि सम्बन्धान्तरमितरपदार्थसामान्यम् ॥ तदपि कथितोऽभियुक्तः संयोगो गुणवतामेव ॥१९४॥ जन्यजनकभावादयः सम्बन्धाः सदृशासदृशानामपि सन्तु नाम । सम्भोगाख्यस्तु सम्बन्धो मिथः सदृशसौन्दर्यादिगुणा- नामेव युक्तः । अथच समवायादयो गुणवतां द्रव्याणां तद्राहि- तानां गुणकर्मादीनामपि स्वीक्रियन्ते । संयोगस्तु गुणवतामेव । द्रव्ययोरेव तत्स्वीकारादिति शास्त्रविदो वदन्तीत्यर्थः ॥ १९४॥ अन्यनायिकासक्ते नायके सखी तस्यानिष्टहेतुतां निराकरोति- इन्दीवरमकरन्दैरिन्दिन्दिरवृन्दमानन्दम् ।। विन्दति पुनर्मरन्दाः कुन्दादेमन्दयन्ति सन्देहम् ॥१९५।। विन्दतीत्यस्योत्तरान्वियानहतया न पूर्ववाक्यैकदेशस्यो- त्तरगतत्वं दोषः । “मकरन्दो मरन्दवत्" इति द्विरूपकोषः । ।
इकारव्रज्या सन्देहभू-अन्यमधु कमलमधुविशिष्टं स्यादिति शङ्कामेव । मन्द- यन्ति-प्रतिवनन्ति । तथाचान्यत्रासक्तोऽपि विशेषदर्शनानिवृत्त- भ्रमस्त्वय्येव रतिं दृढीकरिष्यतीति सम्यगेवेदं निर्वृत्त- मिति भावः ॥ १९५ ॥ भावनाविशेषेण सर्वत्र तामेव पश्यन् तदर्शनेऽप्यनाश्वासवान् कोऽप्याह- (१)इतरस्थामपि पतितं चक्षुस्तामेव पश्यति मदीयम् ॥ तदर्शनेऽपि तेन प्रामाण्यग्रहणदौर्बल्यम् ॥ १९६ ।। नायिकान्तराणामपि स्वाभीप्सितनायिकात्वेनैव ग्रहणात् व- स्तुतस्तस्या एव दर्शनेऽपि तस्य स्वानुरागविषयविशेष्यकत्व निश्चयो न भवति । अतस्तत्सत्वेऽपि मदन्तः परितोषो न सम्पद्यत इति भावः । यद्यपि विषयान्तरेऽपि तद्भमो भवत्येव । तथापि सारूप्यदर्शनजन्य त्वलाभाय-इतरस्यामित्युक्तम् । चक्षुः- संयोगाभावदशायां मानसभ्रमसम्भवेऽपि तद्विरोधिविशेषदर्शन- प्रसक्त्यर्थ-चक्षुरिति । तथाच तयाप्यवत्ताज्ञानस्य तदभाव- व्याप्यवत्ताज्ञानस्य चाभावादासक्तिविशेषलाभः ॥ १९६ ॥ कश्चिन्नायिकाघरमाधुर्यं वर्णयति- इक्षोरपि विक्षोभं मदपरिहारं च हारहूरायाः ॥ गुम्फो गिरां भवत्याः पीयूषस्यापि दूषणं तनुते ॥१९॥ "मृद्वीका गोस्तनी द्राक्षा हारहूरा च कथ्यते" इति (१) का. रा. पु. पुस्तके इदं नास्ति । एतत्स्थाने- इष्टानामपि सहचरि ! गुणभेदादाभिहितो भेदः। भावविशेषरहस्यं जैमिनिमुनिरेव वेत्ति परम् ॥ इति पद्यं वर्तते । - me आर्यासप्तशत्याम् हलायुधः । गुम्फा सन्दर्भविशेषः। तेन विवक्षितार्थप्रतिपादक- पदमात्रलाभेन न्यूनाधिक्यापत्तिनिरासि। इक्षुरसस्य साधारण- लभ्यत्वात विशिष्टमात्रलभ्यतया ततो द्राक्षाया उपादानम्। ततोऽ- पि देवमात्रलभ्यतया स्वरूपतोऽप्याधिक्याचामृतस्येति बोध्यम् । तथाच तदपेक्षया स्वर्गसुखस्याप्यपकृष्टत्वमेवेत्यर्थः ॥ १९७ ।। कांचित्सखी हितैपितया शिक्षयति-- इच्छसि यदि वरवणिनि दयितमनोनगरमध्यमाधराडम् तत्प्रतिकूलाचरितं प्रतिपक्षं तन्निराकुयाः ॥ १९८ ॥(१) वरवर्णिनीति तत्पशौचित्यव्यञ्जनम् । दयितेति प्रवे. शावश्यकत्वमुचनम् । मन इति विवेकित्त्वस्यूचनम् । नगरेत्यनेन नायिकाकीर्णत्वध्वनिः । मध्यति नायिकान्तरीयप्रवेशलक्षण्या. वेदनम् । आरोहणेन तस्य स्वाधीनत्वाधानदर्शनम् । नायक- प्रतिकूलाचाररूपं तत्प्रवेशप्रतिबन्धकं चेदृर्गकरिष्यसि तदा रूपादिकारणान्तरसत्त्वादवश्यं तत्र दायमेष्यसीति भावः १९८ काश्चिदतिशीतलप्रकृतिरिति विदितामवेक्ष्य कायाह- इदमीयः शरदुष्णातिवदसयः प्रतापोऽयम् ।। प्रतियुवतिकेतकीनामनुमेयो म्लानिमात्रेण ॥ १९९ ।। त्यदादित्वेन वृद्धसंज्ञत्वात् इदम्शब्दाच्छप्रत्ययः । केत- कीसादृश्येन तत्सपत्नीनां पियविरहकृतपाण्डुत्वसूचनम् । यद्य- पीयमतिविनयशीला तथाप्येतद्भयेन प्रियस्यान्यनायिकाप- राङ्मुखत्वज्ञापकसपत्नीजनम्लानतयाऽस्याः प्रतापो यथोक्त. दुःसहोऽनुमीयत इति भावः । द्वितीयपक्षे मानपदं साकल्य- परम् ।। १९९ ।। (१) का. रा. पुस्तके नास्ति । manna