Sringeri Sharada Peetham

Karakachakrama

M.m.sri Bhavananda Siddhanta Vagisa Bhattacharya · 2007/02/10

PDF Proofread

Front matter

पङिखनप्रकार-प्रयोगसूची आदि परीक्षोपयोगी विविध विषयों से विभूषित। इस संस्करण की विशेषता यह हैकि 'तत्त्वबोधिनी' आदि टीकाओं में जो कुछ अंश बालमनोरमा से अधिक तथा परीक्षोपयोगी अवशिष्ट थे उन सभी को अनेक शास्त्रके उद्भट विद्वान् हमारे सम्पादकों ने ग्रन्थ के परिशिष्ट में रूपलेखनप्रकार-पंक्ति- लेखनप्रकार से दिखा दिया है तथा साथ २ प्रयोग सूची भी दे दी गई है, जिससे परीक्षा में प्रयोगों का अनुसन्धान करने के लिये विद्यार्थियों को पुनः प्रयोग सूची के लिये अर्थ संकट न हो । मुझे विश्वास है कि इस संस्करण से "एक पन्थ दो १ काज" अर्थात् परीक्षा के लेखन शैली का पूरा पूरा ज्ञान भी विद्यार्थी जान जायगें और केवल कण्ठस्थ करने पर परीक्षा-महार्णव को भी अनायास से पार करेंगे तथा व्यर्थ अन्य अन्य टीकाओं के कष्ट से इस विकट परिस्थिति में अर्थभार से बच जायगे। [का. सी. १३६ ] संपूर्ण ग्रन्थ २००० पृष्ठों में समाप्त हुआ है। पूर्वार्द्ध भाग मूल्य २) पक्की मनोहर जिल्द २) उत्तरार्द्ध भाग मूल्य २) पक्की मनोहर जिल्द २१) श्रीकोशः हे छात्रजन ! यदि चाहते, अनुवाद में उत्तीर्णता 'श्रीकोश' से करिये तुरत, व्युत्पत्ति की विस्तीर्णता । श्रीकोश वालों से यथा, दारिद्रय डरता है सदा, 'श्रीकोश' वालों से तथा, अज्ञान भगता सर्वदा ॥ याद रखिये इसी "श्रीकोश के द्वाराआपको एक शब्दके कई अर्थ एवं पर्याय पर्याप्तरूपेण मिल सकेंगे। इसमें लिङ्ग, क्रिया, क्रियाविशेषण, सज्ञा, भाववाचकसज्ञा, आदिका निर्देश समुचितरूपसे दिया गया है। 'एक्सरे, कुर्सी, टेबुल, आलमारी बेंच, म्युन्सपलिटी, कचहरी, जज, कोतवाल, थानेदार' आदि वर्तमान चलते- फिरते शब्दोंकी ओर (जिनकी संस्कृत बनाने में आप लोगों को अत्यन्त कठिनाई पड़ती थी ) विशेष ध्यान दिया गया है। अब आनन्द से इस 'श्रीकोश'के द्वारा ॥)

THE
HARIDAS SANSKRIT SERIES
154
36-
Karakachakram
OF
M, M. S'ri Bhavananda Siddhanté Vagina >
Bhattacharya,
With
THE MADHAVI COMMENTARE
By
S'RI MADHAVA TARKĀLANKĀRA
and
THE PRADIPA NOTES BY
VYĀKARANĀCHARYA
PT. SRI SITĀS'ARANA TRIPATHI
Edited with Introduction etc.
By
PT. S'RI BRAHMAS ANKARA S'ĀSTRI
PUBLISHED BY .
JAYA KRISHNA DĀS HARIDĀS GUPTA
The Chowkhamba Sanskrit Series Office,
Benares City.
1942
All Rights Reserved by the Publishers.

॥श्री: ॥
* हरिदास-संस्कृत-ग्रन्थमाला *
९५४
महामहोपाध्याय-श्रीमद्भवानन्दसिद्धान्तवागीशभट्टाचार्यप्रणीतम्
कारकचक्र -
श्रीमन्माधवतकालकारविरचितया "माधवी टोकया
तथा
व्याकरणाचार्य-पण्डित-श्रीसीताशरणत्रिपाठिना कृतया
"प्रदीप"टिप्पन्या चाभ्युपेतम् ।
श्रीवाजमोहनिना ब्रह्मशङ्करशास्त्रिणा संशोधितम् ।
प्रकाशक:-
जयकृष्णदास-हरिदास गुप्त:-
चौखम्बा-संस्कृत-सीरिज़-आफिस,
बनारस सिटी।
*० सं० १९९९]
[ई० स० १९४२
[ अस्य प्रन्थस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः]

द्वित्राः शब्दाः। , अयि शब्दशास्त्रसरणिसञ्चरणार्थिनो विद्यार्थिनो विद्वज्जनाच! इदं तु भवतां विदितचरमेव यत् सर्वशास्त्रोपकारकत्वेन शन्दशा. स्त्रमेव प्राधान्यतो निर्दिष्टं, तदीयमन्यतमं मुख्य कारकार्थनिर्णयात्मकं विषयमवलम्ब्य प्रस्तुतं "कारकचक्र'नामकं पुस्तकं परमोपयोगितया न्यायव्याकरणोपाधिपरीक्षापाव्यत्वेनोररीकृतं परीक्षाऽधिकारिभिः । अत एवास्य सर्वत्र प्रचारमवलोक्य गोलोकवासिश्रेष्ठिवर-श्रीहरि- दासगुप्तात्मज-श्रीधेष्ठिवर्य-जयकृष्णदासगुप्तमहोदयेन श्रीमाधव- तर्कालङ्कारविरचितया अपेक्षाकृतप्राचीनसंस्कृतटीकया 'माधवी' नामिकयासमन्वितस्य तस्य श्रीव्याकरणाचार्य-सीताशरणत्रिपाठिना विरचितया परमोपयोगि-'प्रदीप'-टिप्पन्या सह विद्यार्थिनां विदुषां चोपकाराय स्वकीययन्त्रालये संमुद्रणं विधाय प्रकाशनं कृतम्। प्रस्तुतपुस्तकस्य प्रणेता नवद्वीपनिवासी नैयायिकशिरोमणि- महामहोपाध्यायः श्रीमान् भवानन्दसिद्धान्तवागीश इति श्रयते । अस्यैव शिष्यः शब्दशक्तिप्रकाशिकार-निर्माता परमप्रसिद्धनयायिकः श्रीजगदीशतर्कालङ्कार आसीत् । येन च नव्यन्यायदीधितौ स्वनाम्ना जागदीशी टीका विरचिता, यस्य चावस्थानसमयः शताब्दीयतः प्राङ निर्णीत ऐतिह्यविद्भिः, एतेन च शताब्दीचतुष्टयासन्नसमयो ग्रन्थ- कषुरनुमीयते । अस्यान्येऽपि ग्रन्थाः प्रसिद्धा वर्तन्ते, यथा-तत्त्व- चिन्तामणिव्याख्या तत्त्वचिन्तामणिदीधितिगृढार्थव्याख्या, लका- रार्थनिर्णयश्चेति । प्रस्तुतग्रन्थः शाब्दबोधमक्षरी शब्दार्थसारमजरी वेतिनामान्तरस्य ग्रन्थविशेषस्यांशविशेष इति प्रतीयते, यतः- कलिकातास्थ-'संस्कृतसाहित्यपरिषत्'-पुस्तकालयसंरक्षितप्राचीन हस्तलिखितादर्शपुस्तके "इति शाब्दबोधमजी षटकारकविवेच- नमित्येवं परिसमाप्तिर्दृश्यते । किञ्च कारकचक्रमिति नामास्व बहुषु ( २ ) पुस्तकेषु नोपलभ्यते, किन्तु कारकाद्यर्थनिर्णयः, षटकारकविवेचन. मिति वा दृश्यते । अस्मिन् संस्करणेऽन्यसंस्करणापेक्षया यथासम्भवं बहुषु स्थलेषु पाठसंशोधनं टिप्पनीकारेण कृतं, येन ग्रन्थसौष्ठवं विशेषतो जातम् । अत्र याः काश्चनाक्षरसंयोजकः संशोधकेन च दृष्टिदोषतो शान- तोऽज्ञानतो वा त्रुटयः संजातास्ताः संशोध्य विद्वद्भिः पठनीयाः सह- नीयाश्चेति प्रार्थना बहुशो मर्मविदुषामेकान्तविनेयतमस्य- श्रीराधारमणमन्दिरे अधिकाशि सं० १888 ज्यैष्ठपूर्णिमायाम् ब्रह्मशङ्करशास्त्रिणः सर्वश्रेष्ठ टीका, टिप्पणी व परिशिष्ट आदिसे विभूषित परीक्षोपयोगी तथा अन्यान्य सर्वविध पुस्तक मिलने का एक मात्र संस्कृत-संसार का प्राचीनतम स्थान- जयकृष्णदास-हरिदास गुप्तः- चौखम्बा संस्कृत पुस्तकालय, पो० बा० नं० - बनारस सिटी।

ॐनमो गणेशाय -कारकचक्रम्- ( कारकाद्यर्थनिर्णयः) नत्वा(१) कृष्णपदद्वन्द्वं कारकाद्य निर्णयः । श्रीभवानन्दसिद्धान्तवागौशेन वितन्यते ॥ कारकत्वविवेचनम्(२)। ॥ श्रीरामः शरणम् ॥ पाराम जगतामेकं विरामं विपदा सताम् । अभिरामं नुमोराम विश्राम सर्वसम्पदाम् ॥१॥ टीकान्तराणीन्दुरविप्रभाणि, बाद्यार्थरत्नानि प्रकाशयन्तु । अन्तनिंगूढार्थचयप्रकाशे, "प्रदीपः" एषः प्रभुरस्तुस्विहापि ॥२॥ (१) इह खलु प्रारिप्सितप्रकरणपरिसमाप्तिपरिग्रन्थिप्रत्यर्थिप्रत्यूहव्यूहनिर्वा- पणाय निरन्तरनिःश्रेयसानामधिगमाय परात्परं वेदान्तवेद्यं सच्चिदानन्दस्वरूप- मानन्दकन्दं श्रीकृष्णचन्द्रं प्रणमति। तावत्तत्र भवांस्तर्कवागीशः श्रीभवानन्दः- नत्वेति । अत्र कृष्णपदेन निर्गुणसगुणब्रह्मणो ग्रहणम् । उक्त विष्णुपुराणे "कृषिभू- वाचकः शब्दो निर्वृतिवाचकः । तयोरक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ।" तथा घनिर्गुणपक्षेणश्च समासस्त्वेवं बोध्यः, कृष्णे यद् निर्गुणसगुणाख्यं पदद्वन्द्वमिति, सगुणपक्षे-कृष्णस्येति षष्ठी तत्पुरुषः, अथवा कृष्णे कृष्णप्रतिबिम्बे यत् राधीयं पद- द्वन्द्वम् , चरणयुग्ममिति कृष्णपदद्वन्द्वम् । उक्तञ्च गोलोकखण्डे गर्गसंहितायाम्- "यदाऽन्तरात्मा विदितश्चतुर्भिस्तदा त्वियं लक्षणरूपवृत्तिः । यदा विराड्देहधरस्त्वमेवं तदाऽखिलं वा भुवि धारणेयम् ॥ श्यामच गौर विदितं द्विधा महस्तवैव साक्षात्पुरुषोत्तमोत्तम !" इत्थञ्च भावुकरसिकानां चन्द्रज्योत्स्नेव श्रीराधै वोपास्या विद्यते । अनेन ग्रन्थकारस्य दृढाभक्तिः सूचिता(*) । (२) अत्रेदं बोध्यम् , शब्दिकमते 'कारकं स्यात् क्रिया मूलं क्रिया धात्वर्थ उ- (*)कविवर विहारीने उक्त रहस्य को बड़ी मामिक चतुरता से प्रतिपादन किया है:- मेरी भववाधा हरो राधानागर सोय। जा तन की झाई परत श्याम हरित शुति होय ॥ - सव्याख्ये कारकचक्रे- आक्षेपवाक्यम्- तत्र क्रियानिमित्तत्वं कारकत्वमिति न सामान्यलक्षणम् ॥१॥ सच्यते । इति वचनेन- "कारक षड्विध, कर्ता कर्मापि करणन्तथा । सम्प्रदानमपादानं तथाधिकरणं स्मृतम् ॥ इत्येवमाचार्यचरणरुक्तम् । कारकत्वञ्च, क्रियाजनकत्वम् , करोति क्रियां निर्वतय. तीति व्युत्पत्तेमाष्ये दर्शनात , न चैवं भूतले घट इत्यादौ प्रथमा न स्यात् , तत्राप्यन्त- तोऽस्ति क्रियायाः सत्त्वात् , 'यत्र काचन क्रिया नास्ति तत्राप्यस्तिभवतिविद्यतीनां सत्तेति भाष्योक्तेः। एवञ्च प्रथमाऽन्तार्थस्यापिक्रियाजनकत्वात्, अस्यापिकारकवि. भक्तित्वेन भाष्ये व्यवहार। ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कार- कत्वं तस्यान्यथासिद्धत्वेन क्रियाजनकत्वाभावात् । का सा क्रिया ? इत्याकाक्षोदये तु क्रियाया जनकाकाक्षया च तेषां क्रियायामेवान्वय इति तदाशयः । न च क्रिया. शब्दस्य प्रधानक्रियायां मुख्यत्वेन कर्मादिकारकाणां प्रधानक्रियाऽनिवर्तकत्वात्कर्थ तेषां कारकत्वम् , सर्वेषां कारकाणां स्वस्वान्तरक्रियाद्वारा प्रधानक्रियानिष्पाद- कत्वाचदुपपत्तेः। न च जनिष्यमाणपुत्राय गां दास्यामीत्यादौ सम्प्रदानत्वं न स्यात्, असन्निहितसम्प्रदानस्यापिदातृबुद्धिस्थत्वे सति दातृज्ञानपूर्वकालिकत्वेनेव क्रियाजनक त्वात् । एवं स्तोकं पचतीत्यादौ फलस्यापि स्वज्ञानद्वारा कारकत्वात्कर्मत्वमुपपन्नम् । क्रियान्वयित्वं कारकत्वमिति तु नाभ्युपगन्तव्यं, "ब्राह्मणस्य पुत्रं पन्थानं पृच्छ. तीगत्यादौ पुत्रद्वारा ब्राह्मणस्य क्रियाऽन्वयित्वेन कारकत्वापत्तेः । न च साक्षादिक्रया- न्वयित्वमिति न दोष इति वाच्यम् , तथा सति मातुः स्मरतीत्यादौ मातुः स्मरण- क्रियायां साक्षादन्वयेन कारकत्वापः। अतः पूर्वोक्तलक्षणमेव साधु, मातुः क्रियाज- नकत्वेनान्वयित्वादिवक्षणेन नोक्तदोषावसरः । एवच क्रियानिष्ठविशेष्यतानिरूपितप्रकारतासमानाधिकरणविशेष्यतानिरूपिता- भेदसम्बन्धावच्छिन्नप्रकारताश्रयत्वं कारकत्वमिति पर्यवसितम् । तथाहि "देवदत्तो- गच्छतीगत्यादौ गमनक्रियानिष्ठविशेष्यतानिरूपिता या प्रकारतासमानाधिकरणवि. शेष्यता सा च विष्र्थकर्तृनिष्ठा, तादृशविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्न- प्रकारता देवदत्तनिष्ठा तदाश्रयः स एवेति तस्य कारकत्वमुपपन्नम् । कैश्चिद्धात्वर्थान्वयायोग्यत्वं शेषत्वं शेषभिन्नत्वं कारकत्वमित्युक्तम् , तन्न धा. त्वर्थान्वयायोग्यत्वस्य कारकत्वस्वरूपाग्रहे दुर्घहत्वेनान्योन्याश्रयप्रसङ्गात् । एतेन धात्वान्वितसुबर्थत्वं कारकत्वं विभक्त्यर्थस्य विभक्त्यर्थद्वारकक्रियाऽन्वयित्वं कार. कत्वं विभक्तिप्रकृत्यर्थस्यैवायातीति यत् कैश्विद्भणितं तदपि निरस्तम् । “कान्तस्य त्रस्यतीत्यादौ षष्ट्या अथें प्रकृत्यर्थे चातिव्याप्तेः। यत्त्वपादानाद्यन्यतमत्वं कारकत्वं कारकत्वविवेचनम् । श . ओं नमः शिवाय। प्रणम्य परमं देवं शिवं विवृतिमादरात् । तनोति माधवो धीमान कारकाद्यर्थनिर्णये ॥ कारकेति । कारकाद्यर्थस्य निर्णयो यस्मादिति व्युत्पत्त्या कारकाद्यर्थनिर्णाय- नातः काप्यव्याप्त्यतिव्याप्ती इति तन्न,अपादानत्वादेरपि क्वचित्षष्टयर्थत्वात् । किचा. पादानत्वादिकमपि नैक, ध्रुवत्वासोढत्वादिभेदेन बहुविधत्वादिति नोक्तकारकलक्षणं विचारसहमिति चेत् , उच्यते-नामार्थान्वयप्रयोजकताऽनवच्छेदकीभूतक्रियान्वयिता- वच्छेदकधर्मवत्वे सति पदान्तरासमभिव्याहृतसुबर्थत्वं कारकत्वं “कान्तस्य त्रस्यती". त्यादौ षष्टयर्थवारणाय भूतान्तं धर्मविशेषणम् । एवञ्च न कुत्रापि-अव्यात्प्यतिव्याप्ति- स्पदोषदानावसर इति परमप्राचीनवैयाकरणाः । केचित्तु-क्रियाजनकत्वयोग्यताबुद्धि- विषयत्वमेव कारकत्वमाहुः । तत्र योग्यता षष्ठयादिव्यावृत्ता दुर्वचा। अत्रेदमाकूतम् “उपपदविभक्ते रितिरिभाषायाः प्रथमाविभक्तिरपि विषय- त्वमिति न शनीयम् , “सहयुक्तेऽप्रधाने"इति सूत्रेऽप्रधानग्रहणं शक्यमकर्तुं तत्र प्रधानादपि तृतीयाऽपत्तिमाशंक्य "उपपदविभक्तेः कारकविभक्तिर्बलीयसीति प्रथ- मा भविष्यतीति स्पष्टमेवोक्तत्वात् । तत्र कारकशब्दस्यान्तरङ्गपरत्वेन हरदत्तादिमि- रपि व्याख्यातत्वाच । यद्यपि शाब्दिकमते सर्वत्र क्रियापदाध्याहारः, तिङ्समानाधिकरणे प्रथमेति न्यासे वा प्रथमायाः क्रियान्वितकारकत्वसम्भवेऽपि, षष्ट्या अपिक्वचित्तथाऽन्वयसम्भवेन न तत्कारकं व्याकरणव्यवहारप्रयोजकं प्रत्युत अनिष्टावहम् । एवञ्चोपपदविभक्तित्वन्तु पदविशेषसम्बन्धेन विधीयमानविभक्तित्वम् । कारकत्वन्तु सङ्केतविशेषसम्बन्धेन्द्र कारकपदवत्त्वम् । भाष्ये "कारके” इत्यस्य संज्ञापरत्वेन व्यवस्थापनात्। तथा 'ब्राह्म. णस्य पुत्रं पन्थानं पृच्छती'त्यत्र ब्राह्मणस्य संज्ञा कुतो न भवतीत्याशक्य अकथित. शब्दोऽसङ्कीर्तिते वर्तते । केनासकीर्तितम् ? अपादानादिविशेषकथाभिः। तथाच विप्र- योगस्यापि विशेषावगतिहेतुत्वादन्वर्थसंज्ञाविज्ञापनाद्वा ब्राह्मणस्य न भवति संज्ञे- त्युक्तम् , एवमेव क्रियायामित्यर्थकत्वेनापि "कारके" इति सूत्रं व्याख्यातम् । तथा च सप्तम्यप्युपपन्ना तथाऽप्यकथितशब्दस्याप्रधानपरत्वे तयाख्यानम् । नचाप्रधानत्वं सिद्धान्ते स्थितम् । एतेन क्रियायामित्यर्थकत्वेन व्याख्यानं भाष्यासंमतमिति निश्ची. यते । तथा च षष्ट्यास्तु सर्वतः कारकत्वाभाव एव सूचितः। एवञ्च परमतेनापि साम: अस्यं सुतरामत्र संपद्यतेति न कश्चित्तन्मतेऽपि दोषढानावसर इति दिक् । नचैवपि कारकशब्दस्य कर्तपर्यायत्वेन "कारकं करणम्" इत्यादि विरुद्धम् "कारक कर्ता" इति च पुनरुक्तं स्यादिति वाच्यम् , "निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवा. स्ति कारके । व्यापारभेदापेक्षायां करणादित्वसंग्रहः॥” इति हरिणव समाधानात् ।

४ सम्याख्ये कारकचके- कान्थ इत्यर्थः, आदिना कर्नादिपरिग्रहः । “कः कारकपदार्थः ?” इति शिष्यजि. ज्ञासानिवृत्तये परमतनिराकरणपूर्वकस्वमतसिद्धलक्षणमभिधित्सुः प्रथमतो वयाक- रणमतसिद्धलक्षणमुपन्यस्य दूषयति-तत्र क्रियेति । तत्र-कारकादौ. घटकत्वं सप्तम्यर्थः । क्रियेति । क्रिया-धात्वर्थः, "क्रिया धात्वर्थ उच्यते” इति शाब्दि.. कस्मरणात् , तन्निमित्तत्वं-तत्कारणत्वमित्यर्थः । प्रामं गच्छतीत्यादौ गमिधात्वर्थ- संयोगावच्छिन्नक्रियायाः कारणत्वाभावेऽपि धात्वर्थताऽवच्छेदकीभूतसंयोगकारणत्व- मादाय प्रामादेः कारकत्वं, तादृशक्रियायां संयोगकारणत्वसत्त्वेऽपि क्रियान्यत्वेन निवेशनात् न क्रियायां कारकलक्षणातिव्याप्तिरित्यवधेयम्(१)। केचित्(२) संयोगादिः क्रिया च उभयमेव गम्यादिधात्वर्थः । तथाच, संयोगरूपधात्वर्थकारण- त्वमादाय यथाश्रुतमेव सम्यगित्याहुः ॥ १ ॥ दृष्टान्तवाक्यम्- सम्प्रदानादेरनुमतिप्रकाशनद्वारे(३)व तण्डुलादिसम्पादनद्वारा सम्ब- धिनोऽपि पाकादिक्रियानिमित्तत्वेन सम्बन्धिनि चैत्रस्य तण्डुलं पचती. त्यादौ चैत्रादावतिव्याप्तेः ॥२॥ नन्वत्र क्रियाकारणत्वं साक्षात्परम्परासाधारणप्रयोजकत्वमेव वाच्यम्, अन्यथा सम्प्रदानापादानादावव्याप्तिः; तथा च चैत्रस्य तण्डुलं पचतीत्यादौ सम्बन्धिनि चै- त्रादावतिव्याप्तिरित्यत भाइ-सम्प्रदानादेरिति । आदिना अपादानादिपरिप्रहः । मनुमतिः=इच्छा, प्रकाशनं = ज्ञापन, तद्द्वारा सम्प्रदानादेः क्रियानिमित्तत्वेनेव तण्डुलादिसम्पादनद्वारा सम्बन्धिनोऽपि क्रियानिमित्तत्वेन सम्बन्धिनि चैत्रादावति- व्याप्तिरित्यन्वयः। कुत्र प्रयोगे चैत्रादावतिव्याप्तिरित्याकाङ्खायामाह-चैत्रस्य त. ण्डुलमित्यादि । तुभ्यं ददानीत्युक्त ब्राह्मणो यदि ददस्वेति ब्रूयात् , तेन (१) एतावता प्रबन्धेन सकर्मकस्थले "फलव्यापारयोर्धातु रिति विशिष्टशक्ति मन्वानानां कौण्डमहाद्याचार्यचरणानां मतमनुसृत्य व्याख्यातम् । युक्तञ्चैवमेव, अन्यथा पृथकशक्तिस्वीकारे शाब्दसामग्र्याः प्रतिबन्धकतायां विशिष्टविषयकोपस्थि- तिस्थाने उपस्थितिद्वयकल्पने गौरवं स्यात् । (२) खण्डशक्तिवादमतमेव प्रकटयति केचित्त्विस्यादिना । (३) "अनुमतिप्रकाशनद्वारै तत्तूपलक्षणम् । तेनापादानादिकस्यापि संग्रह- स्तथा चापादानस्यापि पतनप्रतिबन्धकसंयोगनाशकविभागद्वारा पतनक्रियानिमि- तत्वं बोध्यम् ।

कारकत्वविवेचनम् । ५ ब्राह्मणस्यैच्छामनुमाय दानेऽनिष्टसाधनताज्ञाननिवृत्त्या इष्टसाधनताज्ञानादाननिष्पत्ति. रिति अनुमतिप्रकाशनद्वारा ब्राह्मणस्य दानप्रयोजकत्वं, तण्डुलोत्पत्त्यनुकूलव्यापारा- दिरूपतण्डुलसम्पादनद्वारा चैत्रादेरपि पाकनिमित्तत्वमस्त्येवेति भावः । एवमपादा. नस्यापि पतनप्रतिबन्धकसंयोगनाशकविभागद्वारा पतनक्रियानिमित्तत्वं बोध्यम् । (१) अतिव्यारित्युपलक्षणं, “गडि वदनैकदेशे” इति गणोक्त गण्डति क. पोलमित्यादी वदनैकदेशस्य धात्वर्थतया तादात्म्यस्याख्यातार्थतया च वदनैकदेश. तादात्म्यवान् गण्ड इति शाब्दबोधो जायते, इति वदनैकदेशरूपक्रियाकर्तरि गण्डे तादृशक्रियाप्रयोजकत्वासम्भवेनाव्याप्तिः, (२) एवं गगनं द्रव्यं भवतीत्यादौ द्रव्य- तादात्म्यस्यैव भुवः शक्यतया तादृशक्रियाकर्तरि गगने तादृशक्रियाया अप्रयोजक- त्वेनाव्याप्तिरपि बोध्या ॥ २ ॥ सिद्धान्तवाक्यम्- किन्तु, “विभक्त्यर्थद्वारा क्रियाऽन्वयित्वं मुख्यभाक्तसाधारणं कारक- त्वम्" । क्रियानिमित्तत्वसहितं मुख्यमिति । स्तोकं पचतीत्यादौ क्रिया- विशेषणेऽतिव्याप्तिवारणाय विभक्त्यर्थद्वारेति ॥ ३ ॥ स्वमतसिद्धलक्षणमाह-विभक्त्यर्थद्वारेति । क्रियाविषयतानिरूपितविभक्त्य- थविषयतानिकपितविषयताऽऽश्रयत्वमित्यर्थः । भाक्त गौणं, प्रामं गच्छति, घट , . (१) अयम्भावः, "क्रियानिमित्तत्वं कारकत्वमिति स्वीकारे "गण्डति कपोल, मित्यादौ वदनैकदेशस्यैव धात्वर्थत्वेन कपोलवाक्यार्थत्वेन सममविलक्षणत्वादुक्त. कारकत्वस्याव्याप्तिः स्पष्टैव । मन्मते तु वक्ष्यमाण "विभक्त्यर्थद्वारे" त्यादि स्वी- कारण कपोले तत्त्वमस्त्येवेति न दोष इति बोध्यम् । (२) अत्र भूधातोस्तादात्म्य एवार्थः,तथा च गगनं द्रव्यतादात्म्यवदित्येव बोधो जायते । एवञ्च गगनात्मकस्य गगननिष्टद्रव्यतादात्म्यस्य द्रव्यभेदात्यन्ताभावा- त्मकस्य वा तस्य नित्यतया तत्प्रयोजकत्वस्य गगने असम्भवेन तत्र प्रकृतलक्षणा- व्यासिरिति भावः । अत्रेदंबोध्यम्, ननुस्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्याभ्यां स्वविशिष्टान्यधर्मवत्त्वस्य तत्र भूधात्वर्थतावच्छेदकत्वेन गगने द्रव्यतादात्म्यस्य शब्दरूपतया तत्प्रयोजकत्वस्य तत्समवायिकारणे गगने निराबाधतया नाक्तदोषावसर इति चेन्न, गगने दुव्यतादात्म्यस्य महाप्रलयेऽपि उपपादनाय गगननिष्ठपरिमाण. स्यव गगननिष्टद्रव्यतादात्म्यरूपताया आवश्यकत्वेन नित्यस्य तस्य गगने प्रयोज- कत्वसम्भावनाया दूरपरिहतत्वादिति दिक् ।

६ सव्याख्ये कारकचक्र- जानातीत्यादौ मुख्य प्रामादि, भाक्तं घटादि, तत्साधारणमित्यर्थः । किं मुख्यमि- स्याकाङ्खायामाह-क्रियेति । तथाच, क्रियानिमित्तत्वे सति विभक्त्यर्थद्वारा किया. ऽन्वयित्वं, मुख्यकारकत्वं बोध्यम् ; इदमुपलक्षणं, क्रियाया अनिमित्तत्वे सति विभ- क्त्यर्थद्वारा क्रियाऽन्वयित्वं भातकारकत्वम् । उभयत्र क्रियानिमित्तत्वं साक्षात्पर. म्परासाधारण प्रयोजकत्वरूपं बोध्यम् । ननु क्रियाविषयतानिरूपितविषयतानिरू. पितविषयताश्रयत्वमेव लक्षणमुच्यता, किं क्रियाविषयतानिरूपितविभक्त्यर्थविषय- तानिवेशेन ? इत्यत माह-स्तोकमित्यादि । यद्यपि पचतीत्यादितः पाकानु- कूलकृत्यादेोधात् पाकविषयतानिरूपितानुकूलत्वविषयतानिरूपितविषयत्वाश्रयत्व- स्य कृत्यादावपि सत्वात् तत्रातिव्याप्तिवारकतया विभक्त्यर्थनिवेशप्रयोजन सम्भ- वति, तथाऽपि तादृशविषयताऽऽश्रयत्वे सति नामार्थत्वनिवेशेनापि तद्वारणसम्भवात् तत्परित्याग इत्यवधेयम् । न च विशेषणविभक्तरेभेदार्थकत्वमते विभक्त्यर्थनिवेशे- नापि नातिव्याप्तिवारणसम्भव इति वाच्यम् ; विशेषणविभक्तेरभेदार्थकत्वमतेऽपि क्रियाविशेषणोत्तरविभत्रभेदार्थकत्वविरहात्; किन्तु साधुत्वमात्रसम्पादकत्वमेव ; अन्यथा क्रियाविशेषणस्य कुत्र वा द्वितीया, कुत्र वा तृतीया इत्यस्य विनिगमका. भावप्रसङ्गात् । इत्थश्च यत्र विभक्त्यर्थस्य प्रकारविधया भानं, तत्र स्तोकेन पचति, अतिशयेन मूत्रयतीत्यादौ तृतीया, यत्र न भान, तत्रैव स्तोक पचति, अतिशय मूत्रयतीत्यादौ द्वितीयेति नानध्यवसायापत्तिरिति । विशेषणविभक्तेरभेदार्थकत्वमते- अपि अभेदातिरिक्तत्वस्य विभक्त्यर्थे निवेशानातिव्याप्तिः। (१)इष्यत एव वा (२) तस्य कारकत्वं मृदुन्यावित्यादौ यकारानुपपत्तेः, कारकपदात् परस्यैव तस्य विधा- नात् । पचतीत्यादी भाख्यातार्थकृत्यादावतिव्याप्तिवारणाय विभक्त्यर्थापादानमिति केचिद्वदन्ति, तचिन्त्यम् ॥ ३ ॥ लक्ष्ये समन्वयप्रकारवाक्यम्- चैत्रस्य पचतीत्यादौ सम्बन्धित्वं न पाकेऽन्वेति षष्ठया नामार्थसा- (१) एतद्विशेषव्याख्यानञ्च व्युत्पत्तिवादे द्रष्टव्यम् । (३) अयम्भावः, "तस्य कारकत्वम्" अर्थात् विशेषणविभक्तेः कारकत्व. मिष्यत एव, अन्यथा मृदुन्यावित्यादौ मृदुमधुरं यथास्यात्तथा नयत इति मृदुनो. शब्द "गतिकारकेतरपूर्वपदस्य यण नेष्यते” इति वात्र्तिकानुमत्या "एरनेकाचोऽसं. योगपूर्वस्ये" (पा० सू०६-३-८२) ति शास्त्रस्य गतिकारकपदेतरत्वेन यणभावाद् यकारानुपपत्तिः स्यादेवेति बोध्यम् । ..

कारकत्वविवेचनम् । काङ्क्षतया क्रियाया अपि कर्मादिसाकाङ्क्षतया परस्पराकाङ्क्षा- विरहात् , किन्तु तण्डुलमित्यादिपदाध्याहारेणेव चैत्रस्य तण्डुलं पचती- त्येवान्वयबोधः ॥ ४॥ ननु चैत्रस्य पचतीत्यादौ तण्डुलादिपदाभावात् अगत्या षष्ठ्यन्तार्थस्य पाके- ऽन्वयो वाच्यः, तथाच सम्बन्धिनचैत्रस्यापि कारकत्वापत्तः स्वमते तादवस्थ्यमि- त्यत आह,-चैत्रस्येति । न पाकेऽन्वेति । चैत्रस्य सम्बन्धित्वस्य पाकान्व- यासम्भव एवेत्यर्थः । कुत इत्याकाङ्क्षायामाह-षष्टया इति । नामार्थसाकाङ्क्ष- तयेति। नामार्थधर्मिकस्वार्थबोधकतयेत्यर्थः । परस्पराकाङ्घाविरहादिति । परस्परान्वयबोधौपयिकाकाङ्क्षाविरहादित्यर्थः । यद्येवं, तदा तादृशनिरूप्य-निरूपक. भावापन्न-विलक्षणेकविषयता-शालिबोधस्यानुभवसिद्धतया तस्यापलापप्रसङ्गः,प्रसङ्गो वा तत्र तादृशविलक्षणबोधोपयिकाकासादिमत्त्वस्य, इत्यत आह-किन्विति । पदाध्याहारेणैवेति । तथाच अध्याहाराभावे तत्राबोधकत्वमिष्टमेवेति भावः॥४॥ लक्ष्ये समन्वयकारवाक्यम्- ओदनस्य भोक्ता, मैत्रस्य पाक इत्यादौ कर्मत्वकर्तृत्वार्थकका- रकविभक्तिरेव, “कर्तृकर्मणोः कृति" इत्यनेन तद्विधानात् । अत एव "सम्बन्धस्य कारकत्वं नास्ति क्रियायोगाभावात्" इति शाब्दिकाः॥५॥ ननु ओदनस्य भोक्ता, मैत्रस्य पाक इत्यादौ कर्मत्वादिरूपविभक्त्यर्थद्वारा भोजनादिरूपक्रियान्वयिन मोदनादेः कारकत्वं स्यादित्यत इष्टापत्तिमाह-ओदन- स्येति । कमत्वकर्तृत्वादिभेदेनोदाहरणद्वयम् । तस्य कारकविभक्तित्वे प्रमाण- माह-कनकर्मणारिति । अत एव-सम्बन्धार्थषष्ठ्याः कारकविभक्तित्वा. भावादेव । सम्बन्धस्य-सम्बन्धबोधकषष्ठ्याः, कारकत्वं-कारकविभक्तित्वं, कारकोत्तरविभक्तित्वमिति यावत् । क्रियायोगाभावात्-षष्ठीविभक्त्यर्थसम्ब- न्धद्वारा क्रियाविषयतानिरूपितविभक्त्यर्थविषयतानिरूपितविषयताऽऽश्रयत्वस्य स- म्बन्धार्थकषष्ठीप्रकृत्यर्थे विरहादित्यर्थः ॥ ५ ॥ आक्षेपपुरःसरनिराकरणवाक्यम्- यदि "गुरुविप्रतपस्विदुर तानां प्रतिकुर्वीत भिषक् स्वभेषजै"रित्यादि प्रयोगे विनाऽपि नामाऽध्याहारं धात्वर्थे षष्ठ्यर्थः सम्बन्धोऽन्वीयते तदा "कर्तृत्वकर्मत्वादिषट्कान्यतमत्वे सति क्रियाऽन्वयित्वं कारकत्वमिति तत्त्वम् ॥६॥ ..

सध्याख्ये कारकचके- . - यदि चेति । रोगोपशमो यदि प्रकृते धात्वर्थः, तदाऽध्याहारं विनैव षष्ठय- धियत्वस्य धात्वर्थंकदेशे रोगेऽन्वयादतिव्याप्तिः; यापशम एव धात्वर्थस्तदारोग- मिति पदाध्याहारेणेवान्वयबोध इति क्रियाऽन्वयित्वाभावान्नातिव्याप्तिरित्यतो यदि चेत्युक्तम् । न च क्रिया धात्वर्थः, धात्वर्थत्वञ्च न धातुप्रयोज्यप्रतीतिविषयताऽऽश्र. यत्वम् , अपि तु "धातुपदजन्योपस्थितिमुख्य विशेष्यत्वम्" (१)तथाच षष्टयर्थाधे- यत्वस्य प्रकृते रोगेऽन्वयानातिव्याप्तिरिति वाच्यम् । घटं निरूपयतीत्यादौ तादृश- निरूपणरूपधात्वर्थे ज्ञानानुकूलव्यापारे विभक्त्यर्थद्वारा घटादेरनन्वयाद्धटादावव्या. प्तेः; इदमुपलक्षणं, (२) "नारदाय रोचते कलहः" इत्यादौ नारदादेरपि कार- कत्वापत्तिः, तेषामपि विभक्त्यर्थद्वारा क्रियाऽन्वयिस्वादित्यवधेयम् । कर्तृत्वकर्म- त्वादीति । आदिना करणत्वादिपरिप्रहः । कर्तृत्वाद्यन्यतमद्वारा तक्रियान्वयित्वं तक्रियाकारकत्वमित्यर्थः ॥ ६ ॥ माक्षेपवाक्यम्- कर्तत्वविवेचनम्(३)- तत्र "क्रियाऽश्रयत्वं कर्तृत्वम्” इति वैयाकरणाः। तेषामयमाशयः (१) मुख्यविशेष्यत्वञ्च प्रकारत्वानवच्छिन्नविशेष्यत्वम् , प्रकारताभिन्नविशे. व्यत्वं वा, तादृशी विशेष्यता च "गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः” इत्यादि वाक्ये रोगनिवृत्त्यनुकूलव्यापार एव नतुरोगे, तन्निष्ठायाःरोगत्व. प्रकारतानिरूपितविशेष्यतायाः, निवृत्यादिनिष्ठविशेष्यतानिरूपितप्रकारतयाऽवच्छि. ब्रत्वाद् अभिन्नत्वाद्वेति बोध्यम् । (२) अयं भावः, परमतोक्तकारकत्वलक्षणस्वीकारे "गगनं द्रव्यं भवतो. त्यादावच्याविरूपकतादूषणन्तूक्तमेव, इदानीमतिव्याप्तिरूपकत्वं दूषणं लक्षयति "नारदायेति । अत्र "रुच्यर्थानां प्रीयमाणः" पा. सू०१-४-३३ इत्यनेन धात्वर्थत्वं विशिष्य चतुर्थीविधानान्न तस्य कारकविमक्तित्वमपि तु उपपदविभक्तित्वमेवेति सर्वैः स्वीकृतम् । परन्त्विदानीन्तनलक्षणस्वीकारे तु नारदस्यापि कारकविभक्ति- त्वापत्तिः स्यादिति बोध्यम् । एतच्छाब्दबोधस्त्वेवं रोत्यावगन्तव्यः, नारदाधिक- रणकप्रीत्यनुकूलव्यापाराश्रयः कलह इत्यादिप्रकारेण । अत्र धेयपदवीजन्तु पदनिमित्तकविभक्तीतरविभक्त्यर्थद्वारेत्यर्थसमर्थनेन न दोषा- वह इति ज्ञेयम् । ( ३ ) अत्रेदं ध्येयम्-यः करोति स कत्तेति शाब्दिकानां मते स्थितम् ।

8 कर्तृत्वविवेचनम् । यद्धातूत्तराख्यातेन यद्धात्वर्थान्वितयादृशधर्मवत्त्वं बोध्यते, तादृशधर्मव. त्वमेव तक्रियाकर्तृत्वम् ॥७॥ किं कर्तृत्वमित्याकाक्षायां कर्तृत्वं निरूपयितुं प्रथमतो वैयाकरणमतमुपन्यस्य दूषयति-तत्रेति । तत्र तेषु मध्ये. कर्तृत्वाद्यन्यतममध्ये इत्यर्थः, निरिणे - तमोयम् । निर्धारणस्थले उद्देश्यभिनसामान्यधर्मावच्छिन्ने विधेयव्यवच्छेदबोध. कतया प्रकृते क्रियाश्रयत्वभिन्नकर्तृत्वाद्यन्यतमं कर्तृत्वपदप्रतिपाद्यत्वाभाववदित्य- न्वयबोधः । गम्यादिधातुस्थले गमनादिक्रियाश्रयत्वस्य कर्तरि सत्त्वेऽपि देवदत्त. स्त्यजतीत्यादिप्रयोगकाले त्यागकर्तरि देवदत्ते गमनकर्तृत्वापत्तिरित्यत आइ-ते. षामिति । वैयाकरणानामित्यर्थः । यद्धातूत्तराख्यातेनेति-यद्धातूत्तरत्वघटि. ताख्यातत्वावान्तरधर्मप्रकारकनिश्चयेनेत्यर्थः । तथाच, यगादिघटितधर्मभिन्नयद्धातू. त्तरत्वघटिताख्यातत्वावान्तरयत्किञ्चिद्धमप्रकारकनिश्चयत्वव्यापकजनकतानिरूपि- त-जन्यतावच्छेदक-तद्धात्वर्थविषयतानिरूपितशाब्दधीविश्यताविशिष्टधर्मवत्त्वं त- धातुकर्तृत्वं पर्यवसितम् , नातो गच्छतीत्यादिवाक्यजन्यशाब्दाभावदशायां त्या- गकर्तरि गमनकर्तृत्वप्रसङ्गः । यद्धातृत्तरत्वघटितत्वानुपादाने आख्यातत्वावान्तरध. मतिपत्वादिप्रकारकनिश्चयत्वस्य गम्यायुत्तरत्वेनाननुसन्धोयमानतिपत्वादिप्रकारक- निश्चयसाधारणतया तत्र गम्यादिधात्वर्थविषयता-निरूपितकृतिविषयताशालिं-शा. ब्दबोधजनकताया असत्त्वेन तादृशनिश्चयत्वव्यापकत्वाभावादसम्भवः स्यादतस्ता- दृशोक्तिः । स्वरूपसम्बन्धरूपयद्धातूत्तरत्वघटिताख्यातत्वावान्तरयत्किञ्चिद्धर्मप्रकारक- निश्चयत्वावच्छिन्नजनकतानिवेशेऽप्यसम्भवः, भ्रमसाधारण्यानुरोधेन गमिधातूत्त- रति प्त्वादिप्रकारकनिश्चयत्वेन हेतुत्वायम्भवात् , किन्तु गत्वावच्छिन्नविषयतानि- रूपित-अत्वावच्छिन्नविषयतानिरूपितेत्यादिक्रमेणैव; अतस्तादृशनिश्चयत्वव्याप. कर्ता त्रिधा मतो लोके स्वतन्त्रः प्रेरकस्तथा । कर्मकर्ता च सोऽनुक्त उक्तोऽपि प्रत्ययभवेत् ॥ कादिविहितैरुक्तं कादि स्यात् तिहादिभिः । गोबिन्दै सेवते साधुः साधुना सेव्यते हरिः॥ साधुनारक्षितः वृष्णः साधुः कृष्णेन रक्षितः। तार्य आरूढकृष्णोऽयं श्रेष्ठोऽयं मधुसूदन । चित् कारकवत् कर्ताहेतुप्रभृतिके बुधैः । पुण्यानि सखि कृष्णेन गोपानाममितान्यहो ।। तथाऽपि-सम्बन्धः कारकाद्भिन्नो यद्यपि स्यात्तथाऽपि सः। उक्तो भवेत् समान दृष्टः पीताम्बरो हरिः॥

१० सव्याख्ये कारकचके- कत्वनिवेशः । तादृशनिश्चयनिष्ठजनकतानिवेशे 'गम्यते, गच्छतोत्यादिवाक्यद्वय- विषयक-समूहालम्बनतादृशनिश्चयनिष्ठां 'गम्यते' इत्याद्यानुपूर्वी प्रकारकनिश्चयत्वा- वच्छिन्नजनकतामादाय प्रामादावपि गम्यादिकर्तृत्वापत्तिरतस्तत्परित्यागः । यद्धातू. त्तरत्वघटितयत्किञ्चिद्धर्मप्रकारकनिश्चयत्वेनेत्युक्ती 'गमनीय' इत्याद्यानुपूर्वीज्ञानमादाय प्रामे गमनकर्तत्वापत्तिः, अतो यत्किञ्चिदमें आख्यातत्त्वावान्तरत्वनिवेशः। अन्यत् सुधीमिरूह्यम् । अथ 'देवदत्तेन गम्यते' इत्यादिप्रयोगकाले देवदत्तस्य गमिधात्वर्थ कर्तृत्वानुपपत्तिः; तथाहि, गमिधात्वर्थप्रकारतानिरूपितकृतिविशेष्यताया यगाद्यस- मभिव्याहताख्यातज्ञानजन्यतावच्छेदकतया गमिधात्वर्थविशेष्यतानिरूपितकृतिप्रका. रतायास्तज्जन्यतानवच्छेदकत्वेन तादृशाख्यातज्ञानजन्यतावच्छेदक-गमिधात्वर्थ- विषयतानिरूपित-विषयता-विशिष्टधर्मवत्त्वाभावादिति चेन्न, वैयाकरणमते 'देवदत्तो गच्छती'त्यादौ देवदत्तकर्तृक-गमनमित्याकारकक्रियामुख्यविशेष्यकबोध- स्येवोत्पत्तेः; अत एव "क्रियाप्रधानमाख्यातम्" इति शाब्दिकाः स्मरन्ति । यद्धा- स्वर्थविषयतानिरूपितयन्निष्ठविषयत्वं तादृशाख्यातज्ञानजन्यतावच्छेदकं तद्धात्वर्थवि- षयतानिरूपितशाब्दबोधविषयताश्रयतद्धर्मवत्त्वमिति यथाश्रुतविवक्षया नानुपपत्ति- रित्यपि केचित् । यगादीत्यादिना इचादिपरिप्रहः । तादृशधर्मवत्त्वं-तद्धा- त्वर्थविषयतानिरूपितशाब्दबोधीय-विषयताश्रयतद्धर्मवत्त्वमित्यर्थः । समानाकार. प्रत्यक्षदशाया कर्तृत्ववारणाय विषयतायो शाब्दबोधीयत्वनिवेशः ॥ ७ ॥ परमतस्य लक्ष्ये समन्वयप्रकारवाक्यम्- एवञ्च पचतीत्यादौ पाकानुकूलव्यापारवत्त्वं, जानातीत्यादावश्रयत्वं, नश्यतीत्यादौ प्रतियोगित्वं तत्तक्रियानिरूपितत्वं तत्तक्रियाकर्तृत्वम् ।।८।। तत्र क्रियाकर्तृत्वं विशिष्य दर्शयति-एवञ्चेति । केचित्तु यथाश्रुततत्तरिक्रयाश्र. यत्वस्य कर्तृत्वरूपत्वे जानातीत्यादावेव लक्षणसमन्वयः, 'चैत्रस्तण्डुलं पचति, घटो नश्यतीत्यादौ कर्तरि चैत्रघटादौ पाकनाशाश्रयत्वामावादव्याप्तिरेव तदाश्रये तण्डुळ- कपालादावतिव्याप्तिरिति भाया प्रतिपादितमिति वदन्ति, तन्न ; क्रियाभेदेन कर्तृ- लक्षणस्य भिन्नतया पाकादिक्रियास्थले अनुकूलव्यापारवत्त्वसम्बन्धेन, नाशादिस्थळे प्रतियोगित्वसम्बन्धेन विवक्षणादव्याप्स्यतिव्याप्योरनवकाशादिति ॥ ८॥ अत्रापि तादृशमेव वाक्यम्- यगाद्यसमभिव्याहृतेनेति विशेषणात् पच्यते तण्डुल इत्यादौ पाक- .

कर्तृत्वविवेचनम् । जन्यफलाश्रयत्वेन तण्डुलादेबोधान्न तस्य कर्तुत्वम् ॥९॥ यगाद्यसमभिव्याहृतेनेत्यस्य व्यावृत्तिमाह-पच्यते तण्डुल इत्यादि । फलाश्रयत्वेनेति । फलं विक्लित्तिरूपं, सा च विलक्षणावयवसंयोगः ॥९॥ अत्रापि तादृशमेववाक्यम्- काष्ठैः स्थाल्यामोदनं पचतीत्यादौ करणाधिकरणकर्मणां क्रियान्वित- करणत्वादिधर्मवत्त्वेऽपि स धर्मो नाल्यातप्रतिपाद्यः । यदा तु तत्तात्पर्ये- णाख्यातं प्रयुज्यते, तदा काष्ठं पचतीत्यादौ तेषां कतत्वमिष्टमेव ॥१०॥ भाख्यातान्तपदव्यावृत्तिमाह-काष्ठः स्थाल्यामिति । इदमुपलक्षणम् ; भस्मदुकरीत्याऽपि व्यावृत्तिर्बोध्या । स धर्मों नाख्यातप्रतिपाद्यः किन्तु तृतीयासप्त- म्यादिरूपस्यादिप्रतिपाद्य एवेत्यर्थः। तत्तात्पर्यण-पाकान्वितकरणत्वादिबोध. तात्पर्येणेत्यर्थः । तदा प्रयोगकाले, तेषां=करणाधिकरणकर्मणां, कर्तृत्वमिष्ट- मेवेति । अत एव "विवक्षावशात् कारकाणि भवन्ति" इति शान्दिका वर्णयन्ति । तत्र विवक्षावशात्=प्रयोगवशादित्यर्थः ॥ १०॥ अत्रापि तादृशमेव वाक्यम् । तथा पच्यते ओदनः स्वयमेवेत्यादौ कर्मकर्तरि ओदनादेः कर्मणोऽपि कर्तृत्व, तत्र हि स्ववृत्तिव्यापारजन्यपाकजन्यफलशाल्योदन इति शाब्द बोधः, ओदनपदोत्तरप्रथमाया व्यापारो लक्षणयाऽर्थः । यद्वा व्यापारसा- मान्ये शक्तस्याख्यातस्यार्थः॥११॥ कर्मकर्तरीति । प्रत्ययस्थले इति शेषः । स्ववृत्तीति । स्वम्-ओदनः, तवृत्तिव्यापारः-तण्डुलावयवाग्निसंयोगः, एतस्यौदनवृत्तित्वञ्च स्वसम्बन्धेन, पाकः-विक्लित्मनुकूलव्यापारः स च तण्डुलावयव क्रिया विक्लित्तिश्च शिथिलाख्यतण्डुलावयवसंयोगः । ब्यापारार्थकप्रथमायाः प्रायशः प्रयोगाभावादा- धुनिकलक्षणापत्तेराह-यद्वेति। आख्यातस्यैवार्थ इति, व्यापार इति पूर्वेणान्वयः॥११॥ अत्रात्रि ताशमेव वाक्यम्- व्युत्पत्तिवैचित्र्याच्चात्र यगादिसमभिव्याहृताख्यातार्थव्यापारे प्रथ- मान्तार्थस्य विशेषणतयाऽन्वयः। तत्राख्यातस्य व्यापारवाचित्वादोदना- न्वितताशव्यापारस्य यगाद्यसमभिव्याहृताख्याताप्रतिपाद्यत्वादोदनस्य यगाद्यसमभिव्याहृताख्यातप्रतिपाद्यधात्वान्वितव्यापारवत्वरूपकर्तृत्वं नि स्वाश्रयारभ्य.

. १२ सव्याख्ये कारकचक्र- राबाधमेव, ओदनः स्वं पचतीत्यादिप्रयोगस्यासाधुतयाऽभावेऽपि ताहश- व्यापारे तज्जन्यप्रतिपत्तिविषयत्वयोग्यताऽनपायादिति ॥ १२ ॥ नन्वाख्यातार्थव्यापारादेः प्रथमान्तार्थविशेषणतया धात्वर्थविशेष्यतया चान्वय. नियमात तादृशान्वयबोध एवाप्रामाणिक इत्यत माह-व्युत्पत्तिवैचित्र्यादिति । आकाक्षावैचित्र्यादित्यर्थः, तथाच, यादृशाकाङ्क्षा तादृशबोध एव कारणमिति भा. व:(१) । तत्राख्यातस्य= कर्तृविहिताख्यातस्य, तिबादेरिति यावत् । नन्वसाधु- त्वनिश्चयात् ताशप्रयोगाभावेन तज्जन्यशाब्दबोधाभावाजन्यत्वाव्यवहितो. त्तरत्वोभयसम्बन्धेन यगाद्यसमभिव्याहृत-ताशाख्यात-ज्ञानविशिष्ट-ज्ञानोयविष. यतावत्त्वस्य ताशव्यापारेऽसत्त्वान्नाव्याप्त्युद्धार इत्यत आह-मोदनः स्वं प. चतीत्यादि । स्वरूपयोग्यताया इति, तथाच साधुत्वनिश्चयदशायाम्-ओदनः स्वं पचतीति कदाचित प्रयोगसम्भवात स्ववृत्तिव्यापारजन्यपाकजन्यफलशाल्योदन इति बोधस्यानुभवसिद्धतया पाकविषयतानिरूपितव्यापारविषयताया अगत्या यगाद्य- समभिव्याहृततिप्त्वादिप्रकारकनिश्चयजन्यतावच्छेदकताया आवश्यकत्वेन विवक्षित- तादृशज्ञानजन्यतावच्छेदकविषयतावत्वं 'पच्यते भोदनः स्वयमेवेति प्रयोगकाले तादृशप्रयोगाभावेऽपि तादृशव्यापारेऽबाधितमेव, ताश ज्ञान विशिष्टज्ञानविषयत्व- निवेशे प्रयोजनाभाव इति भावः ॥ १२ ॥ स्वमतस्थापनप्रकारवाक्यम्- पाचयतीत्यादौ तु पाकानुकूलव्यापारो णिजन्तार्थः, तदनुकूलव्यापा- रश्चाख्यातम्तदाश्रय एव कर्त्तति । "स्वतन्त्रः कर्ता" १-४-.४ इति पाणि- निसूत्रमप्येतत्परतयैव व्याख्येयमिति, तन्न, अचेतनेऽभियुक्तानां स्वर- सतः कर्तृपदाप्रयोगात् ।। १३ ।। इनन्तधातुस्थले लक्षणं सङ्गमयति-पाचयतीत्यादि । पाकः पचेरर्थः, इन- र्थश्च व्यापारः, तदन्वितव्यापार आख्यातार्थः । एवञ्च 'चैत्रो मैत्रेण पाचयतीत्यादौ पाकानु कूलमैत्रनिष्टव्यापारस्तदीयचेष्टा तस्कृतिर्वा, तदनुकूलो यो व्यापारः 'त्वं पच' (१) अन्न आकाक्षा च आनुपूर्वीरूपा, एवञ्च "पच्यते मोदनः स्वेयमेवेणत्यादौ यविकरणोत्तरतिजन्तधातूत्तरप्रथमान्तकर्तृकर्मपदोत्तरस्वयमेवेत्यर्थकपदत्वरूपा, अथ- वा पकारोत्तरमत्वादिविशिष्टचकारोत्तरायत्वादिरूपेति बोध्यम् ।

कर्तृत्वविवेचनम् । १३ इत्यादि शब्दप्रयोगरूपस्तद्वान् चैत्र इत्याकारकस्तत्र शाब्दबोधः । ननु "स्वतन्त्रः कर्ता" इति पाणिनिसूत्रनिरोध इत्यत आह-स्वतन्त्र इति । स्वरसतः- लक्षणां विनेत्यर्थः, अनुपपत्तिज्ञानं विनेति केचित् , फलतो न विशेषः, लक्षणया तु तादृशप्रयोगो भवत्येवेति भावः ॥ १३ ॥ मतान्तरखण्डनपुरःसरं स्वमतस्थापन प्रकारवाक्यम्- यत्तु "कारकान्तराप्रयोज्यत्वे सति कारकान्तरप्रयोजकत्वं कत्तू - स्वम्" इति । सत्यन्ताच छेद्यसंयोगादिरूपव्यापारजनके कुठारादौ नाति- व्याप्तिरित्यपरे (१)। तदप्यसत, ईश्वराप्रयोज्यानां संसारिणां तत्तत् क्रियास्वकर्तृतापत्तेः ।। १४॥ मतान्तरमाह-कारकान्तरेति । स्वभिन्न कार केत्यर्थः, स्वं-लक्ष्यत्वे. नाभिमतं, सत्यन्तस्य निष्कृष्टार्थ स्वयमेव व्यक्तीकरिष्यति, विशेष्यदलार्थस्तु स्व. भिन्नकारकजन्यतत्कार्यानुकूलव्यापारजनकत्वमिति । सत्यन्तव्यावृत्तिमाह-छे. घेति । जनकान्तेन विशेष्यदल-सस्वमाविष्कृतम् । नातिव्याप्तिरिति । तथाच कुठारभिन्नं यत् कर्तृकारक, तत्प्रयोज्यत्वात् कुठारादौ नातिव्याप्तिरिति भावः । यद्यपि कुठारस्य न कर्तृ प्रयोज्यत्वं तथाऽपि तनिष्ठव्यापारे कर्तृप्रयोज्यत्वस्य सत्त्वात तादृशव्यापारविशिष्टकुठारादावपि तत्प्रयोज्यत्वे यथाश्रुतेऽप्युपपादनीयमि- 'ति । यथाश्रुतसत्यन्तार्थे दोषमाह-ईश्वरेति । तथाच कर्तृभिन्नो यः कारक- ईश्वरः, संसारिणां-देहिनां, तत्प्रपोज्यतयाऽव्याप्तिः, अत्र देहाशे प्रयोज्यता- मादाय देहिनां प्रयोज्यत्वं बोध्यम् , ईश्वरस्य जन्यमात्र, प्रत्येव जनकत्वादिति भावः ॥ १४ ॥ स्वमतस्थापनप्रकारवाक्यम्- अप्रयोज्यत्वञ्च यदि फलानुकूलतज्जन्यव्यापारानाश्रयत्वं, तदा दण्डा. दिजन्यसंयोगादिरूपव्यापारानाश्रयत्वात् कुलालादावव्याप्तिः, अन्यच्च दुर्वचमिति ॥ १५ ॥ (१) अयम्भावः, "देवदत्तः कुठारेण वृक्षं छिनत्ति" इत्यादिवाक्ये स्वं कुठारः, तद्भिन्न कारकं वृक्षरूपं कर्म, तज्जन्यच्छेदनरूपकार्यानुकुलो यो वृक्षकुठारसंयोग. रूपो व्यापारः, तज्जनकत्वं कुठारे वर्तत एवेत्यतिव्याधिः प्रसज्येत । सत्यन्तदलप्र- दानातु छेद्यसंयोगादिरूपव्यापारजनके कुठारादौ कर्तृकारकप्रयोज्यत्वसत्त्वेन नाति व्याधिरिति बोध्यम् । - सव्याख्ये कारकचक्रे- निष्कृष्टार्थमाह-यदीति । फलानुकूलेति । तस्क्रियानुकूलस्वमिन्न कार कजन्यव्यापारानाश्रितत्वमित्यर्थः । यद्यपि कर्तृनिष्ठव्यापारे पूर्वोक्तेश्वरजन्यता- मादाय दोषदानं सम्भवतीति तत्परित्यागो न विचारसहः, तथाऽपि स्वभिन्नकार. कजन्यतायां जन्यत्वानवच्छिन्नत्वविशेषणात् ईश्वरजन्यत्ववारणसम्भवात् (१)द- ण्डादिजन्येत्युक्तम् ; अत्र स्वभिन्नकारकजन्यतत्कार्योत्पत्त्यनुकूलव्यापारानाश्रित- वे सति स्वभिन्न कारक जन्यतत्कियानुकूलव्यापारजनकत्वं कर्तृत्वमिति फलितं, तत्र कस्यतिव्याप्तिवारणाय व्यापारे जन्यान्तविशेषणं, कर्तृव्यापारे स्वात्मकर्तृव्यापारे कारकजन्यतयाऽव्याप्तिवारणाय स्वभिन्नेति कारकविशेषणं, स्वभिन्नजन्येत्युत्तो क- र्तृभिन्नाजन्यतया तद्दोषतादवस्थ्यमतः कारकेति, इति रीत्या तन्मते प्रतिपद. व्यावृत्तिर्योध्या (२)। कर्मत्वाद्यन्यतमशून्यत्वं सत्यन्तेन विवक्षणीयं विवक्षणीयञ्च (१) अयम्भावः, जन्यत्वावच्छिन्नं प्रति ईश्वरः कारणमितिसिद्धान्तानुसरणे ईश्वरनिष्ठकारणतानिरूपितजन्यतायां जन्यत्वावच्छिन्नत्वसवेन जन्यत्वानवच्छि- न्नत्वरूपविशेषणाभावाद् उक्तसिद्धान्तस्यादानासम्भवात् । अत्र स्वस्य स्वाव- च्छेदकत्वे परस्पराश्रयत्वप्रसङ्गाद् ईश्वरजन्यताया जन्यत्वानवच्छिन्नत्वविशेषणेन वारणमसम्भवितीति न शकुनीयम् , स्वरूपसम्बन्धविशेषरूपकार्यताऽवच्छेदकस्य प्रारभावप्रतियोगित्वरूपजन्यत्वसम्भवात् । तथा च 'कुलालो दण्डेन घटं करोती'त्यत्र दण्डनिष्ठकारणतानिरूपितजन्यता च घटस्वाद्यवच्छिन्ना न तु जन्यत्वावच्छिन्नेति, तदुपादानं सम्यगेवेति बोध्यम् । कर्तृत्वञ्च, स्वविशिष्टत्ववत्वम् , वैशिष्ट्यञ्च, स्वभिन्नत्वं, स्वजन्यतावच्छेदका- वच्छिन्नजन्यतानिरूपितजनकत्वोभयसम्बन्धेन । (२) अत्रेदं विज्ञेयम् , कारकान्तरस्य सत्यन्तदलेन क्रियायाश्च तत्तत्कियोत्पत्य- नुकूलजनकत्वमात्रेण वारणसम्भवात् , विशेष्यदले व्यापाराशे जन्यान्तविशेषणं व्य. मिति न शङ्कनीयम् , स्वभिन्नकारकविशिष्टत्वं कर्तत्वम् , वैशिष्टयञ्च, स्वजन्यत- कार्यात्पत्त्यनुकूलव्यापारानाश्रितत्व, स्वजन्यतक्रियानुकूलव्यापारजनकत्वोभय. सम्बन्धे, एव तस्यार्थस्य तात्पर्यस्वीकारात्। तथाच तस्य सकृदेव निवेशेन उभ. यथा प्रयोजनानुसन्धानस्य वायसदशनगणनतुल्यता प्रसङ्गमेवेति "देवदत्तो दण्डेन सोमदत्तं दण्डयते” इत्यादौ कर्तृभिन्नेन दण्डेनोत्पन्नो यो दण्डसंयोगादिरूपखेद- क्रियानुकूलव्यापारः, तस्याश्रयत्वेन देवदत्ते दण्डनक्रियाकर्तृत्वानुपपत्तिर्माभूदिति "तत्कार्योत्पत्त्यनुकूलेति व्यापारविशेषणम् । तत्रैव तदोषभिया "त" पदस्थापि प्रवेशः प्रतिपादितः । विशेष्यदले "तक्रियानुकूले"ति व्यापारविशेषणदानेनैव , कर्तृत्वविवेचनम् । १५ कारकत्वं विशेष्यदलेन, तथाच तक्रियाकर्मत्वायन्यतमशून्यत्वे सति तरिक्रयाकार. कत्वं तस्कर्तृत्वं वाच्यमित्यत आह-अन्यच्चेति । लघुरूपमन्यद् दुर्वचमित्यर्थः, लघुरूपञ्च मयैव वक्तव्यमिति भावः ॥ १५ ॥ सिद्धस्वमतस्थापन प्रकारवाक्यम्- अत्राहुः,-"अनुकूलकृतिमत्त्वं कर्तृत्वम्" पाकानुकूलव्यापारवत्वप्र. तिसन्धानेऽपि काष्ठादौ तान्त्रिकाणां स्वरसतः कर्तृपदाप्रयोगात, कृताकृतवि. भागादिना कृधातोर्यत्नार्थकत्वे निश्चिते आश्रयाकतृजन्तकृधातुव्युत्पन्नक. र्तृपदस्य यत्नाश्रयार्थबोधकत्वाच्च, अचेतने कर्तृपदप्रयोगो गौणः ।।१६।। स्वाभिप्रेतलक्षणमाह-अनुकूलकृतीति । तकियाऽनुकूल कृतिमत्त्व-तक्रिया. कर्तृत्वं तकियाकत शब्दप्रतिपाद्यमित्यर्थः, तत्तस्क्रियानिष्ठविषयतानिरूपितानुकूल- त्वविषयतानिरूपितविषयताविशिष्टकृतिमत्त्वमिति तु पर्यवसितार्थः, नातः प्रयोग- शन्यतादशायां कर्तत्वव्यवहारप्रसङ्गः । यदि च प्रयोगशून्यतादशायामपि कर्तृत्व. व्यवहारो प्रन्थकृतामिष्टः, तदा यथाश्रुतमेव सम्यगिति ध्येयम् । कृतिमत्त्वं समवा- यसम्बन्धेन बोध्यम् ; यदि च शरीरादावपि कर्तृत्वव्यवहारो मुख्यः, तदा समवा- यावच्छेदकताऽन्यतरसम्बन्धेन तद्वत्त्वं बोध्यम् , ईश्वरपरिगृहीतशरोरे कर्तृत्वव्यव. हारो भाक्त एवेति ध्येयम् । (१) व्याप्यवृत्तेरवच्छेदकत्वं स्वीकृत्य तत्रापि मुख्य. कर्तृत्वव्यवहार इति केचित् । स्वोत्तौ प्रमाणमाह-पाकानुकूलेत्यादिना प्रति. सन्धानेऽपीत्यन्तेन व्यवहर्तव्यज्ञानं सम्पादितम् । तान्त्रिकाणां विवेचकानां, स्वरसतः= लक्षणां विना। स्वोक्तौ योगार्थत्वमप्युपपादयति-कृताकृतेति । मोदनपाकसाधककृतिजन्य कलायपाके मत्तो भूतं, न तु मया कृतमिति व्यपदे. शाद् ओदनपाकः कृतः, न तु कलायपाक इति विभागादिनेत्यर्थः, आदिना पच- देवदत्तो ज्ञातं रिपुंहन्ति इत्यादौ रिपौ स्वभिन्नकर्तृकारकजन्यस्य ज्ञानक्रियानुकूल. तदीयमनासंयोगरूपव्यापारस्य जनकतयाऽतिव्यालिवारणं स्यादिति बोध्यम् । (१) अत्र ध्येयपदस्वारस्येनेदमाकूतितं स्यात् , यद् अव्याप्यवृत्तित्वञ्च स्वस. मानाधिकरणभावप्रतियोगित्वम् , यथा कपिसंयोगादौ, एकस्यैव वृक्षे कपिसंयो. गतदभावयोर्विद्यमानतासत्त्वात् । तथा च तत्तदभावयोमिथोविरुद्धतया तयोरेकत्वस- मावेशादवच्छेदकभेदकल्पना आवश्यकी। अतो यद्यदभावयो एकत्र प्रतीतिः प्रामा- णिकी, तत्तदभावयोरेव, अवच्छेदकभेदकल्पना न्याय्या यद्यदभावयोश्च न तया प्रतीति- स्तयोस्तत्कल्पना'अनुचिता। एवञ्च नित्याया ईश्वरकृतेने अवच्छेदक कल्पनेति बोध्यम्। .

सव्याख्ये कारकचके- तीत्यादौ पाकं करोतीत्यादिवृद्धविवरणादिपरिप्रहः । नन्वेवमचेतने कत्तु पदप्रयोगो. लक्षणां विना न स्यादित्यत्र इष्टापत्तिमाह,-मचेतने इति । गौणः-लाक्षणिकः॥१६ स्वमतसाधनप्रकारवाक्यम्- यदि चान्यविषयककृतिजन्ये नान्तरीयके मत्तो भूतं न तु मया कृत- मितिव्यपदेशान्न मुख्यकर्तृत्व, तदा तत्तद्विषयकत्वेनापि कृतिर्विशेषणीया । नचैवंतद्विषयककृतिमत्त्वमेव तत्तक्रियाकर्तृत्वमस्तु,गुरुतरभारोत्तोलनादौ तद्विषयककृतिमत्त्वेऽपि उत्तोलनक्रियाऽऽद्यनिष्पत्तौ कर्तृपदाप्रयोगात्(१)१७।। ननु नान्तरीयककलायपाकस्थले 'कलायं पचतीति प्रयोगः स्यात् तदनुकूल कृतिमत्त्वात् , न स्याच न पचतीत्यादि प्रयोगस्तदनुकूलकृत्यभावस्याभावादित्यत- आह, यदि चेति ।-वस्तुतस्तवयमपीष्टमेवेत्यतो यदि चेत्युक्तम् । तद्विषय- कत्वेनापीति ।-तथा च स्वनिष्ठविषयतानिरूपकत्वस्वजनकत्वोभयसम्बन्धेन तत्तत्क्रियाविशिष्टकृतिमत्त्वं कर्तृत्वमिति फलितम् ॥ १७ ॥ स्वमतसाधनप्रकारवाक्यम्- विषयत्वञ्च साध्यत्वेन बोध्यम् । तेन भोजनकृतेरुद्देश्यत्वेन सुखादिविषयकत्वेऽपि तत्कर्त्तन सुखकर्तृत्वम् । अस्मदादिकर्तृकपाका- दावपीश्वरस्य कर्तृत्वमिष्टमेव, न चैवमीश्वरः पचतीति प्रयोगः स्यात, तथाविवक्षायामिष्टत्वात् ॥ १८ ॥ विषयवमिति-साध्यत्वेन अभेदे तृतीया, साध्यत्वाभिन्न विषयत्वमित्यर्थः । तेन साध्यत्वाख्य विषयतानिवेशेनेत्यर्थः । उद्देश्यत्वेनेति-अत्रापि अभेदे तृती- या । न सुखकर्तृत्वं-तथाच 'भोजनं करोती तिवत् 'सुखं करोती तिप्रयोगस्य शक्तयनापत्तिरिति, लक्षणया तु तादृशप्रयोगो भवत्येवेति भावः। नन्वेवमस्मदादि. कर्तृकपाकादितात्पर्येणापि 'ईश्वरः पचतीति प्रयोगः स्यादत आह-अस्मदा. दीति । ईश्वरपरिगृहीतशरीरावच्छेदेन ईश्वरकर्तृकपाकतात्पर्य ईश्वरः पचतीति प्र. योगः सर्वदेवेष्टः, इत्यतोऽस्मदादिकत्तु कपाकादावपोति, पाकादावपि-पाकता. त्पर्येणापि । न चैवमिति । एवं-तादृशपाकादावीश्वरकर्तृत्वस्येष्टत्वे । तथा- विवक्षायां-स्वनिष्ठ-साध्यत्वाख्यविषयतानिरूपकत्वस्वजनकत्वोभयसम्बन्धेन वस्तुगत्या पाकविशिष्टेश्वरकृतिप्रकारकबोधतात्पर्य इत्यर्थः ॥१८॥ (१)तथाचताहशदोषनिरासाय"तत्ततिक्रयानुकूलकृतिमत्व" मित्यस्यावश्यकमेव। .

कलगायेवेन्तम् । १७ श्वमते कल्पनान्तरवाक्यम्- कार्यत्वानवच्छिन्नजन्यतानिरूपितमसाधारणमनुकूलत्वमेव वा लक्ष- णघटकमित्याहु:(१)॥१९॥ (१) अत्रेदं बोध्यम् , एतावता प्रबन्धेन ग्रन्थचन्मते "तत्तत्क्रियाऽनुकूकृति. मत्वं तत्तक्रियाकर्तत्वमिति पर्यवसितम् । काष्ठादौ पाकाद्यनुकूलव्यापारवत्व- प्रतिसन्धानेऽपि कर्तपदाप्रयोगात् । कृताकृतविभागादिना सिद्धयत्नशक्तिकेन कू धातुना तृजन्तेन सिद्धस्य कर्तपदस्य यत्नाश्रयबोधकत्वाच्च । अचेतने कर्तपदप्रयोगस्तु गौगः। वृष्टिगुरुतरभारोत्तोलनादिक्रियाविषयकयत्न. सत्त्वेऽपि तत्तत्क्रियाया भनिष्पत्तौ तत्तक्रियाकर्तत्वाव्यवहाराद्विषयत्वं विहाय अनु. कूलत्वमुपात्तम् । यदि तु मतो भूतं नतु मया कृतमिति व्यपदेशान्नान्तरीयककृति. साध्यस्य पिष्टमध्यस्य शर्कराभोजनस्य न कर्तत्वं तदा विषयत्वमपि निवेश्यम् । तच्च साध्यत्वेन । तेन यागादिकृतेरुद्देश्यत्वेन स्वर्गादिविषयकत्वेऽपि न यागादिकत्तुंः स्वर्गकर्तत्वम् । अस्मदादिकर्त्तकपाकादिकः त्वमीश्वरस्येष्टम् । एवञ्च तथा विवक्षाया- मीशः पचतीति प्रयोगोऽपीट एव, नो चेत् कार्यत्वानवच्छिन्नजन्यतानिरूपितत्व. मसाधारण ( मनुकूल ) त्वं निवेश्यमिति नैयायिकाः। वैयाकरणास्तु-"अनभिहिते कर्तरि” इत्यादावचेतनेऽपि कर्तपदप्रयोगात्क्रिया- श्रयत्वमेव कर्तत्वम् । कारककर्मादिपदवत्कृधातुरप्यत्र क्रियाऽर्थक एवं । आश्रयत्वमिह तत्तदाख्यातार्थद्वारा । तथा च "स्वतन्त्रः कर्ता"१-४-६४ इति पाणिनिसूत्राद् यगा- घसमभिन्याहृताख्यातेन यद्धात्वान्वितयद्धर्मवत्त्वं बोध्यते तद्धात्वर्थनिरूपिततद्ध. मंवत्त्वं तद्धात्वर्यकर्त्तत्वम् । स्वातन्त्र्पश्चात्र-कर्तप्रत्ययसमभिव्याहारे प्रधानीभूत. व्यापाराश्रयत्वम् । पक्वस्तण्डुलो देवदत्तेनेत्यादौ तण्डलस्य कर्त्तत्वापत्तेरिणाय कर्तप्रत्ययप्तमभिव्याहारेति । यथा पचतीत्यादौ पाकानुकूलव्यापारवत्वम् । (१)जा- (१) इदञ्चान ज्ञेयम् "स घटं जानातील्यादौ तु घटविषयकज्ञानानुकूलो व्या- पार इति बोधः। ज्ञानजनकव्यापारश्च मनश्चक्षुःसंयोगादिः, अत एव मनो जाना. तीत्यादिप्रयोगा दृष्टिपथमायान्ति । एवञ्च तत्र ज्ञानरूपफलाश्रयत्वाखटादेः कर्मत्व. म् , व्यापाराश्रयत्वाद्देवदत्चादेः कर्तत्वम् । न चात्र फलव्यापारयोः सामानाधि- फरण्यादकर्मकताऽऽपत्तिः, कालिकादिसम्बन्धेन सर्वेषां सामानाधिकरण्यसत्त्वाद- कर्मकत्वापत्या फलताऽवच्छेदकसम्बन्धेन सामानाधिकरण्यवैयधिकरण्ययोः सकम. काकमकयोलक्षणेऽवश्यं निवेशनीयत्वात् । प्रकृते च फलताऽवच्छेदकः सम्बन्धो- विषयता, व्यापारताऽवच्छेदकः समवायादिरिति वैयधिकरण्यं स्पष्टमेव । अत एव ज्ञा- नस्य घटात्मोभयवृत्तित्वेऽपि कर्मप्रत्ययेन विषयतासम्बन्धेन ज्ञानाश्रयघटस्यैवामि- २का०च० १६ सन्याख्ये कारकचके- - . कल्पान्तरमाह, कार्यत्वेति-तादृशजन्यतानिरूपितानुकूलत्वरूपमसाधार- णमनुकूलत्वमेवेत्यर्थः । लक्षणघटक-कर्तृलक्षणघटकमित्यर्थः । आहुरित्यनेना- खरसः सूचितः, सच 'विश्वस्य कर्ता भुवनस्य गोप्ते यादिबहुविधवेदविरोधरूपः॥१९॥ अथ कर्मत्वविवचनम् । आक्षेपवाक्यम्- (१)कमंत्वन्तु न करणव्यापार्य्यत्वं तद्धि करणजन्यक्रियाऽनुकूलव्यापारा. नातीत्यादौ ज्ञानाश्रयत्वम् । नश्यतीत्यादौ नाशप्रतियोगित्वमिति । “चैत्रेण तण्डुलः पच्यत" इत्यादौ पाकजन्यफलाश्रयत्ववारणाय यगाद्यसमभिव्याहृतेति । अत्र चैत्रादेः कर्त्तत्वन्तु पचतीत्याद्याख्यातबोध्यधर्ममादायैवेवि बोध्यम् । धात्वर्थान्वितद्वितीयद्या- र्यककर्मत्वकरणत्वादिवारणायाख्यातेनेति। जानातीत्यादौ आख्यातार्थ आश्रय- त्वम् पाककर्तृत्वं मा भूत्, एवं हन्तीत्यादौ हिंसाऽऽश्रयत्वं गमनकर्त्तत्वं मा भूदिति यत्तदोर्धात्वर्थविशेषणमुक्तम् । यदि च काष्ठं पचति, स्याली पचतीत्यादिप्रयोगवशात्करणादीनां कत्वमिष्टम् । "पच्यत ओदनः स्वयमेवेशत्यादौ कर्मकर्तरि कर्मणोऽपि तदिष्टम् । “ओदनः स्वं पच. ती"त्यप्रयोगोऽसाधुत्वादिति किमाख्यातपदेनेति विभाव्यते चेत्तदा कर्मत्वविशिष्टस्य कर्तरूपतावारणाय तदुपादेयम् । नहि कर्मत्वादेः कर्तृत्वरूपत्वे "अनभिहिते करि" इत्यनुशासनार्थः सङ्गच्छत इत्याहुः । वैयाकरणमते लक्ष्ये समन्वयो यथा-"चैत्रो गच्छती त्यादौ तद्धातूत्तरान्वितय- गाचसममिव्याहृतेन "ति" इति आख्यातपदेन समं यो गमनरूपोऽर्थस्तत्रान्वितो यः कृतिरूपो धर्मस्तच्चैत्रे विचते, इत्यादिरीत्या बोध्यः । (१) अत्रेदं ध्येयम् शाब्दिकनये कर्मत्वम्-कर्ता स्वनिष्ठ व्यापारजन्यफलेनात्य. न्तं सम्बन्धुमिष्यमाणः कौत्यर्थककत्तुरीप्सिततमंकोत्याद्यनुशासितसंज्ञावत्त्वम् । एव चौदनः पचतीत्यादावेकाश्रयक ओदननिष्ठविक्लित्यनुकूलो व्यापार इत्येवं शाब्दबोध. प्रकारः । पच्यते मोदन इत्यत्राप्येवमेव । ताकिंकास्तु:-बहुकोलाहलेन परसमवेतत्तद्धा- त्वर्यान्वयिफलविशेषशालित्व तत्तद्धात्वर्थकर्मत्वं चैव निर्धारयन्ति देवदत्ताश्रित व्यापारजन्यविक्लित्याश्रय ओदन इति बोधमाहुः। केचित्तु-देवदत्तनिष्ठव्यापारजन्यौदननिष्ठा विक्लित्तिरिति बोधमिच्छन्ति । तत्र च धानाद्धटो ज्ञायत इति प्रयोगः, न तु आत्मा ज्ञायत इति । तथा कर्तप्रत्ययेन समवाय. सम्बन्धेन ज्ञानाश्रयस्याभिधानादात्मा जानातीति प्रयोगः, घटो जानातीति । यद्वा ज्ञानेच्छाऽऽदिरेव व्यापार। "ज्ञातो घट" इति प्रतीत्या तजन्या ज्ञातताऽऽदिफलं तदाश्रयत्वाइटादेः कर्मत्वमित्यास्तां तावत्। .

कर्मवविवेचनम् । श्रयत्वम् । तच्च दात्रेण धान्यं लुनातीत्यादौ हस्तादिकरणव्यापार्ये दात्रे. ऽतिव्याप्तम् ॥२०॥ "किं कर्मत्वम् ॥ इति जिज्ञासायां परमतनिराकरणपूर्वकं स्वमतं व्यवस्थाप. यितुं प्राचोनमतीयलक्षणमुपन्यस्य दूषयति, करणेति-क्रियाऽनुकूलव्यापाराश्रये करणे कर्तरि चातिव्याप्तिवारणाय जन्यान्तं व्यापारविशेषणं, तथा च दात्रादिक- रणजन्यसंयोगादिरूपव्यापाराश्रयकाष्ठादौ लक्षणसमन्वयः । हस्तादीति-छि. दाऽनुकूलहस्तादिकरणजन्यहस्तसंयोगादिरूपव्यापाराश्रये दात्रे इत्यर्थः ॥ २० ॥ माक्षेपवाक्यम्- नापि 'परसमवेतक्रियाजन्यफलशालित्वम्' गमिपत्योः पूर्वस्मिन् देशे, त्यजेश्चोत्तरस्मिन् देशे, स्पन्देः पूर्वापरयोश्च कर्मत्वप्रसङ्गाद्, एवन्तीरे नदी बर्द्धते' इत्यादौ बृद्धेरवयवोपचयस्य परम्परया तीरप्राप्तिफलकत्वात् तज्जन्यफलाश्रये तीरेऽतिव्याप्तः (१)॥ २२॥ परसमवेतेति-स्वभिन्नसमवेतेत्यर्थः, स्वं-कर्मत्वेनाभिमतं, कर्तय॑तिव्याप्तिरिति- क्रिया= धास्वर्थः, फलमत्र धर्मः । गमिपत्योरिति- संयोगावच्छिन्नक्रियाया गमिधात्वर्थतया तजन्यविभागरूपफलवत्त्वात् पूर्वदेशेऽति- व्याप्तिः । अघःसंयोगावच्छिन्नक्रियायाः पतिधात्वर्थतया च पूर्वदेशेऽतिव्याप्ति- बोध्या। पतिधातोरकर्मकत्वे च परदेशेऽप्यतिव्याप्तिर्णोध्या । त्यजेरिति । विभागावच्छिन्नव्यापारस्य त्यजिधात्वर्थतया तज्जन्य संयोगरूपफलवत्त्वमादाय उत्त- रदेशेऽतिव्याप्तिरिति भावः। स्पन्देरिति । क्रियायाः स्पन्दधात्वर्थतया तज्ज- न्यविभागरूपफलवत्त्वमादाय पूर्वदेशे, तादृशसंयोगरूप फलवत्त्वमादाय उत्तरदेशे चातिव्याप्तिरिति भावः । बृद्धः,-बृधिधात्वर्थस्य, अवयवोपचयस्थ-बहुत. नातः- "सुप आत्मनः क्यजि" (पा० सू०७-४-३३) तिसूत्रस्थं भाष्यं प्रमाणत्वेनोद्घोषयन्ती. ति तन्त्र, भाष्यकैयटयोरन्याभिप्रायिकत्वात् । एवञ्च सर्वग्रन्थानुकूलभाष्यनिर्वाहे सति स्वातन्त्र्येण तद्विरुद्ध भाष्यसमर्थनमनुचितमिति दिक् । (१) अयं भावः, नदी बर्द्धत इत्यादौ वृद्धेरवयवोपचयरूपायाः क्रियायाः स्वसम- वायिसंयोगसम्बन्धेन, "यस्मिनिरूपणीयं तत् स्वमिति स्वं नदी, तत्सयवायिनो भेदा- जलबिन्दव एतेषां तत्र संयोगः स्वाभाविकत्वेन फलस्य तीरप्राप्तिरूपस्याश्रये तीरे कर्मत्वापत्तिः स्यादिति बोध्यम् ।

सन्यास्ये कारकचके- - - रावयवस्येत्यर्थः । परम्परया-स्वसमवायिसंयोगसम्बन्धेन, तीरप्राप्तिः-दी. तोरसंयोगः, तजन्यफलाश्रये-अवयवोपचयजन्यसंयोगरूपफलाश्रय इत्यर्थः अतिशयशक्तिप्रदर्शनाय बहुतरस्थलेऽतिव्याप्तिप्रदर्शनमिति ॥ २१ ॥ सिद्धान्तवाक्यम्- अत्राहुः-त्यजिगमिप्रभृतीनां स्पन्दनमात्रं नार्थः, नहि त्यजति- गच्छतीत्यनयोः प्रतीत्योरविशेष कश्चिदभ्युपैति । एवञ्च त्यजेविभागेन, गमेरुत्तरदेशसंयोगेन, पतेरधः संयोगेनावच्छिन्नाः स्पन्दा वाच्याः, वथा च 'तत्तद्धात्वर्थताऽवच्छेदकफलशालित्वं तत्तद्धात्वर्थकर्मत्वम्' ॥ २२ ॥ धात्वर्थताऽवच्छेदकफलघटितकर्मवलक्षणस्याप्रे वाच्यतया गम्यादिधातूना धात्वर्थताऽवच्छेदकफलस्याप्रसिद्धिशङ्कानिबन्धनकर्मत्वलक्षणस्याव्याप्तिशङ्को परिजि. हो(गम्यादिधात्वर्थताऽवच्छेदकं फलं दर्शयितुमाह-त्यजिगमिप्रभृतीनामिति। स्पन्दनमात्रमिति-मात्रपदेन तदवच्छेदकफलव्यवच्छेदः । इत्यनयारिति । वाक्यजन्यबोधयोरित्यर्थः । अविशेषमिति-अविशेषोपगमे त्यागो न गमनमि. त्यादिप्रयोगाप्रसाः, प्रसाच त्यागो गमनमित्यादिप्रयोगस्येति भावः। एवञ्च- निरुक्तानुपपत्त्या बैलक्षण्यस्यावश्यकत्व इत्यर्थः । त्यजेविभागेनेत्यादि तृतीयान्तत्रय- स्यावच्छिन्ना इत्यनेन सम्बन्धः । भवच्छिन्ना:-जनकतासम्बन्धेन तादृशतादृश- धात्वर्थताऽवच्छेदकविशिष्टाः क्रिया वाच्या इत्यर्थः । एतावता संयोगादीनां गम्यादि. धात्वर्थताऽवच्छेदकत्वमुपपाद्य तद्वंटितकर्मत्वलक्षणमाह-तथा चेति। संयोगादीनां गम्यादिधात्वर्थताऽवच्छेदकत्वे चेत्यर्थः । तत्चद्धात्वर्थकर्मत्वमिति । तथा च त्यजिधात्वर्थताऽवच्छेदकविभागवत्त्वेऽपि तस्य गमिधात्वर्थताऽनवच्छेदकतया पूर्व देशस्य न गमनकर्मत्वमिति भावः ॥ २२॥ लक्ष्ये समन्वयकारवाक्यम- स्पन्दिबृधिधात्वोश्च फलावच्छिन्नव्यापाराबोधकत्वान्न पूर्वापरदेशयोस्ती- रस्य च कर्मत्वं फलावच्छिन्नव्यापारबोधकत्वादेव धातूनां सकर्मकत्वव्यव- हारो मुख्यः सविषयकपदार्थाभिधायि-जानात्यादीनान्तु विषयित्वरूपवि- भक्तयर्थद्वारा नामार्थान्वयित्वमेव गौणं सकर्मकत्वं-घटं जानातीत्यादौ द्वितीयातो विषयत्वोपस्थितौ घटविषयकज्ञानाश्रयतावानित्यन्वयबोधात २३ स्पन्दिवृद्धयोः सकर्मकत्वं निरस्यति, स्पन्दिवृधिधात्वारिति-फलवाच्छि.

२१ 9. कर्मत्वविवेचनम् । नव्यापाराशतत्वादित्यर्थः । नन्वेवं घट जानातीत्यादौ घटादेः कर्मता न स्याद् , ज्ञाधातुप्रमृतीनां फलावच्छिम्मव्यापाराबोधकत्वादित्यत माह-सविषयकेति । जानात्यादीति। भादिनाद्वधीच्छति-करोत्यादीनां संग्रहः । विषयित्वरूपवि. भक्तयर्थद्वारेति । केवलविभक्तयर्थद्वारेत्युक्तावाश्रयत्वरूपविभक्तथर्थद्वारा नामार्था- न्वयिबोधकत्वाद् भूप्रमृतीनामपि सकर्मकत्वापत्तिरतो विषयिस्वेति, उद्देश्यत्वाख्य- विषयताभिन्नविषयतेत्यर्थः(१) । तेन न वक्ष्यमाणात एवेत्यादिप्रन्थासङ्गतिः, न वा कटं करोतीत्यादौ वीरणं करोतीत्यादिप्रयोगः । तथा च नामाविषयतानिरूपितता. दृशविषयत्वविषयतानिरूपितस्यार्थनिष्ठविषयताशालियोधजनकत्वमेव गौण सकर्मक- त्वं पर्यवसितम् । केचित्तु अत एवेत्यादिप्रन्यसङ्गमनाय नामार्थविषयतानिरूपित- विषयत्वविषयतायो विषयत्वावच्छिन्नत्वं निवेशयन्ति, तन्न, बहिमनुमिनोतीत्यादौ वि- घेयतात्वरूपेणैव द्वितीयार्थबोधकताया व्युत्पत्तिसिद्धतया तत्र माधातोः सकर्मकत्वानु- पपत्तेः । अथ वह्निमत्तेन पर्वतमनुमिनोतीत्यादौ तृतीयान्तसमभिव्याहृतानुमित्यर्थक- धातुयोगे द्वितीयाया उद्देश्यत्वबोधकतयाऽपि व्युत्पत्तिसिद्धतया माधातोभवन्मतेऽपि स. कर्मकत्वानुपपत्तिरिति चेन्न, वहिमनुमिनोतीत्यादिस्थलीयबोधमादाय तस्य सकर्मकत्व. व्यवहारोपपत्तेःकृतिनिरूपितविलक्षणोद्देश्यत्वाख्यविषयताभेदस्य प्रकृते निवेशाच्चेति। 'ज्ञाने घटो भासते' इत्यत्र विभक्तयर्थस्य संसर्गतया भानमते सप्तम्यर्थनिरूपितखस- म्बन्धेन ज्ञानविशिष्टा या भासधात्वर्थविषयता, निरूपितत्वसम्बन्धेन तद्विशिष्टा या आख्यातार्थाश्रयता, तदाश्रयो घट इत्या कारकबोधोत्पत्त्या धात्वर्थविषयताद्वारा ना. मार्थज्ञानान्वय्याश्रयत्वबोधकतया आख्यातवारणाय विभक्तथर्थेति । घर्ट जानाती. त्यादी विभक्तयर्थविषयताद्वारा ज्ञाधास्वन्वियिघटादिबोधकघटपदवारणाय नामा. थेति । गौणं लाक्षणिकम् । द्वितीयात इति लक्षणयेति शेषः। आश्रयतेति । तत्राख्यातस्य लाक्षणिकत्वादिति भावः ॥ २३ ॥ दृष्टान्तवाक्यम्- अत एव यतिधातोरकर्मकत्वं तदुपस्थापिते यत्ने नामार्थस्योद्देश्यत्वे. नैवान्वयबोधाद् अभुञ्जानेऽपि भोजनाय यतत इति प्रयोगाद् , अत एव (१) उद्देश्यत्वाख्यविषयताभिन्नविषयतास्वीकारेणैव कटं करोतीत्यादावाप- नशङ्काऽपगता भवेदन्यथा वीरणं करोतीत्यनेन सार्द्ध पायताऽऽपत्याऽविलक्षणबो- धापत्तिः स्यादिति बोध्यम् ।

सव्याख्ये कारकचक्रे- . ताहशधातुप्रयोगे कर्मप्रत्ययाभावाद् भोजनं यतत इति न प्रयोगः ॥२४॥ मत एवेति ।यत एव उद्देश्यत्वान्यविषयताद्वारा नामार्थान्वयिधातोरेव स. कर्मकत्वमत एवेत्यर्थः । अकर्मकत्वमिति । अत्र केचिद् मातुः स्मरतीत्यादी "अधीगर्थदयेशा कर्मणि" इत्यादिसूत्रानुशिष्टद्वितीयाबाधकषष्ठीवद् द्वितीयाबाधिक व चतुर्थीति यतिधातोः सकर्मकत्वमेवेत्यपि वदन्ति । उद्देश्यत्वेनैवेति । एव- कारेण उद्देश्यताभिन्नविषयताव्यवच्छेदः। ननु भोजनाययतते इत्यादौ चतुर्थ्यर्थः साध्यवादिरूपविषयत्वमेवेति कथं यतिधातोरकर्मकत्वम् ? अत आह-अभुजा. न इति । इति प्रयोगात्-इत्येव प्रयोगादित्यर्थः, तथा च भोजनसाध्यताककृति- काले तथाप्रयोगो न भवत्येव किन्तु भोजनं करोतीत्येव तत्र प्रयोग इति न साध्य. त्वाख्यविषयता चतुर्थ्यर्थः, न वा सकर्मकत्व मिति । मत एवेति-यतिधात्वर्थे साध्यत्वाख्यविषयताद्वारा नामार्थानन्वयादेव कर्मप्रत्ययाभावात्-कर्मताबोध. कद्वितीयाऽऽद्यभावादित्यर्थः ॥ २४ ॥ दोषदूरीकरणप्रकारवाक्यम्- अत्र भूमि प्रयाति तरुं त्यजति खग इत्यादौ धात्वर्थताऽप्रच्छेदक-संयो- गविभाग-रूपफलत्वेऽपि स्वस्य, स्वं प्रयाति त्यजतीत्यप्रयोगात् , धात्वर्थे परसमवेतत्वमपि विशेषणं देयम्(१) ।। २५ ।। इत्यादावित्यनन्तरं खगादेरिति पूरणीयं, स्वं-खगः । मप्रयोगादि. ति-इत्यादिप्रयोगाभावेन तत्र कर्मस्वाभावादित्यर्थः, तथा च तरं त्यजति खग. इत्यादौ खगे कर्मतालक्षणस्यातिव्याप्तिरित्यभिप्रायः। परसमवेतत्वमिति । स्व- भिन्नसमवेतो यो धात्वर्थस्तन्निष्ठं यद्धात्वर्थत्वं तदवच्छेदकीभूतधर्मवत्त्वं तक्रिया. कर्मत्वमित्यर्थः । न च तत्र खगभिन्नं यत् खगान्तरं मनुष्यादिकं वा, तवृत्ति- क्रियानिष्ठगमिधात्वर्थताऽवच्छेदकसंयोगवत्त्वस्य खगे सत्त्वात् कुतोऽतिव्याप्तिवारण- (१) अयं भाव: "ग्रामं गच्छति" इतिवत् 'स्वं गच्छति" इति प्रयोगवारणाय परसमवेतस्वमपि द्वितीयार्थ इष्यते तस्य च धात्वर्थेऽन्वयः, परत्वे चकदेशेऽस्याकाङ्क्षा- वैचित्रयात्, प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः, एवञ्च "ग्रामं गच्छति चैत्र" इत्यादौ ग्रामभित्रसमवेता ग्रामनिष्ठसंयोगजनिका या क्रिया तदाश्रयतावांश्चैत्र इत्यन्वयबो- धः। स्वनिष्ठसंयोगजनकक्रियायां स्वभिन्नसमवेतत्वस्य वाधात् "स्वमात्मानं ग- च्छति इति न प्रयोगः।

कर्मत्वविवेचनम्। २३ मिति वाच्यम् , स्वभिन्चसमवेत यद् गमनादिक, तज्जन्यो गमिधात्वर्थताऽवच्छेदको- यो धर्मस्तद्वत्त्वं तरिक्रयाकर्मत्वमित्यस्य विवक्षितत्वाद् , जन्यस्वञ्च उभयावृत्तिध- विच्छिन्ननिरूपितं बोय, तेन संयोगत्वेन क्रियात्वेन सामान्यतः कार्यकारणभाव- मादाय भन्यनिष्ठसंयोगस्य अन्यनिष्ठक्रियाजन्यत्वेऽपि न क्षतिरिति मन्तव्यम्॥२५॥ दोषोद्भावनप्रकारवाक्यम्- न चैवमुभयकर्मजसंयोगस्थले मल्लो मल्लं गच्छतीतिप्रयोगवद् स्वा- त्मानं गच्छतीति प्रयोगः स्यात् , भूमि प्रयातीत्यादितो हि द्वितीयादिनापर- त्वं प्रकृत्यर्थापेक्षिकं बोध्यते । तथा च भूमिभिन्नसमवेतभूमिवृत्तिसंयोगज. नकस्पन्दानुकूलकृतिमानित्यन्वयबोधः। स्वात्मानं गच्छतीत्यादौ तु स्व. भिन्नसमवेतम् आत्मवृत्तिसंयोगजनकं मल्लान्तरवृत्ति यद्गमनं तदनुकू. लकृतिमत्त्वस्य स्वस्मिन्नभावादेव नातिप्रसङ्ग इति(१) ॥ २६ ॥ एवं-परस्परमल्लस्य तादृशक्रियाकर्मत्वेऽपीत्यर्थः । प्रयोगःस्यादिति, तथाच परस्परमल्लस्य कर्मतालक्षणलक्ष्यत्वेऽपि तादृशप्रयोगोऽनुभवविरुद्ध इतिभावः । भूमि प्रयाति खग इत्यादौ द्वितीयायाः परत्वार्थकतामुपगम्य तादृशबोधः। तादृशबोध प्रदर्श. यन् प्रकृतेऽतिप्रसङ्गं वारयति-भूमिप्रयातीत्यादिना। नोतिप्रसङ्ग इत्यन्तेन॥२६॥ आक्षेपनिराकरणप्रकारवाक्यम्- अत्र प्रकृत्यर्थस्यान्वयिताऽवच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धे. न परत्वेऽन्वयः, पृथिवीं प्रयाति विहग इत्यादौ विहगस्य पृथिवीत्वाव- च्छिन्न-प्रतियोगिताक-भिन्नत्वाभावादनन्वयापत्तेः ।। २० ॥ परत्वे-भेदे । भिन्नत्वाभावादिति-विगहस्यापि पृथिवीत्वादिति भावः॥२॥ आक्षेपनिराकरणप्रकारवाक्यम्- (२) प्रतियोगितामात्रेणान्वये आत्मनोऽपि स्वप्रतियोगिद्वित्वाद्यव- (१) अय भावः, यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लान्तरसमबेत- क्रियायाः स्वनिष्टसंयोगजनिकायाः स्वस्मिन्नसमवेतत्वेऽपिताशक्रियाऽऽश्रयतायाः स्वस्मिन् बाधातू "मल्लः स्वं गच्छति इत्यपि न प्रयोगः। (२) अत्रेदमाकूतम् "घटोन घटपटोभयमितिबलात् स्वनिष्टसंयोगजनकस्वसमवे- तक्रियायां स्वभिन्नसमवेतत्वस्यायोग्यतया तदभानेऽप्यबाधितं स्वनिष्ठसंयोगजनकत्वं विषयीकृत्य शाब्दबोधसम्भवात् , तदर्थमात्रतात्पयेंण "स्वं गच्छति" इत्यादि दो- घदानादरस्तिष्ठत्येव। - सव्याख्ये कारकचके- च्छिन्नप्रतियोगिताकभिन्नत्वात्तथैव दोषाद् , अतो द्वितीयाद्यर्थफले यद्वय- क्तेरन्वयस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रकृत्यर्थस्य का माख्यातार्थफलान्वयिनश्च परत्वेऽन्वयः । पृथिवीं प्रयातीत्यादौ यत्पृथिवी. व्यक्तिवृत्तिसंयोगजनकत्वं प्रयाणस्य शाब्दधीविषयस्तद्वयक्तिभिन्नत्वं वि. हगे वर्तत एवेति न कोऽपि दोषः(१) ।। २८॥ तथैव दोषः-स्वमात्मानं प्रयातीत्यापत्तिरेव दोषः। प्रकृत्यर्थस्य-दि. तीया कृत्यर्थस्य, परत्वेऽन्वय इत्यनेनान्वयः। विहगेन गम्यते भूमिरित्यादौ द्वि- तीयाप्रकृतेरभावात् कर्माख्यातार्थपरत्वे कस्यान्वयः? इत्यत माह-कर्माख्याः तार्थफलान्वयिनश्चेति-तथा च स्वबोधकबोध्य फलान्वयिन एव स्वस्मिन्नन्वय. इत्युभयसाधारण एको नियम इति भावः ॥ २८ ॥ मतान्तरेणाक्षेपनिराकरणप्रकारवाक्यम्- अन्ये तु पृथिवीं प्रयातीत्यादौ तु भूखण्डस्यैव पृथिवीपदार्थत्वं, न तु वृक्षविहगसाधारणपृथिवीत्वजात्यवच्छिन्नस्य, तथा चान्वयिताऽवच्छेद- कावच्छिन्नप्रतियोगिताकत्वव्युत्पत्तावपि न क्षतिः, एवमन्यत्रापि कर्मवाच- कसामान्यपदे लक्षणया विशेषपरत्वं सूपपन्नमित्याहुः(२) ।। २९ ।। ननु पृथिवीं प्रयातीत्यादी तद्वयक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन पृथिवी. स्वावच्छिश्वस्य भेदेऽन्वयो न भवति तद्धर्मावच्छिन्नप्रतियोगिताकत्वस्यैव तद्धर्माव- च्छिन्नस्य सम्बन्धत्वादितिवादिना मते आह-के चित्तुपृथिवीमिति । पृथिवीप. दार्थत्वमिति लक्षणयति शेषः। अनन्तलक्षणापत्तिरूपास्वरस एतन्मते आहुरित्य- नेन सूचितः ॥ २९ ॥ , (१) अयं भावः, अत्र परत्वे 'स्वप्रकृत्याद्यर्थस्यान्वयितावच्छेदकावच्छिन्नप्र- तियोगिताकत्वेन, आहोस्वित् प्रतियोगितामात्रेण, अन्वयोऽनुमोद्यते?नाद्यः "पृथिर्वी प्रयाति खगः" इत्यादावनन्वयापत्तेः, खगस्य पृथिवीत्वावच्छिन्नभिन्नत्वामावात। न द्वितीयः. स्वात्मन्यपि घटपटोभयभेदस्य सत्त्वात् "स्वं प्रयातीत्यापत्तेरिति चेन्न, ''यद्वयक्तरित्यादि मूलोक्तस्वीकारेणादोषात् । २) नागो नकुलं दृष्ट्वा पलायित:" इत्यादिवाक्ये नकुलत्वसामान्यधर्माव- च्छिन्नवाचकोऽत्र "नकुल शब्दो लक्षणया नकुलमात्रदर्शनपरको बोध्यः। अन्यथा- कप्रकारेणानन्वयापत्तिः स्यादिति बोध्यम् ।

कमवावेचना। यत्तुतरिक्रयाऽनधिकरणत्वे सति तत्रियाऽवच्छेदकफलशालित्वं कर्मत्वं द्वितीयाऽऽदेरपि तक्रियाऽनधिकरणत्वमर्थ इति तन्न, क्रियाव्यक्तिभेदेना- नन्तशक्तिकल्पनापत्तेः ।।३०॥ तक्रियाऽनधिकरणत्वे सति-तद्धात्वर्थानधिकरणत्वे सति, तद्धात्वर्थताड- वच्छेदकफलशालित्वं तद्धात्वर्थकमत्वमित्यर्थः। तर जति खग इत्यादौ खगे कर्म- तालक्षणस्यातिव्याप्तिवारणाय सत्यन्तम् । ननु खगादौ कर्मतालक्षणस्यातिव्याप्ति- वारणेऽपि खगः स्वं गच्छतीत्यादिप्रयोगवारणासम्भव इत्यत आह-द्वितीयाऽऽदे- रिति । आदिना काख्यातसंग्रहः, तथा च प्रामं गच्छतीत्यादौ गमनानधिकरण- प्रामवृत्ति-संयोगानुकूल क्रियाऽनुकूलकृतिमानित्याकारकबोधः, प्रामो गम्यते इत्यादी गमनानधिकरणप्रामो गमनजन्यसंयोगवानित्याकारकबोधः। क्रियान्यक्तिभेदेने- ति।समभिव्याहृतक्रियाव्यतिभेदेनेत्यर्थः। मनन्तशक्तिकल्पनापत्तेरिति । द्विती. याऽऽदेरित्यादि, यद्यपि सर्वादिपदवत् समभिव्याहृतधात्वर्थताऽवच्छेदकत्वोपलक्षित-ध. विच्छिान्नाधिकरणत्वेऽनुगतशक्तिकल्पना प्रकृतेऽपिसम्भवतीति नानन्तशक्तिकल्पना, तथाऽपि अभावप्रतियोगिताऽवच्छेदककोटावुपलक्षणविधया भानानभ्युपगमे सान स. म्भवतीति ध्येयम् । मत्र च मते,-मल्लो मल्लं गच्छतीत्यादौ मले गमनक्रियाs. नधिकरणत्वाभावादत्र कर्मतालक्षणस्याव्याप्तिस्तादृशप्रयोगानुपपत्तिश्च यत्किञ्चिद्गम- नक्रियाऽनधिकरणेत्युक्ती खगः स्वं गच्छतीतिप्रयोगापत्तिः, तत्र खगे यत्किञ्चिद्गमना. नधिकरणत्वाद् गमिधात्वर्थस्थलेऽपि अनन्तशक्तिश्चेत्यादि दूषणमपि द्रष्टव्यम् ॥३०॥ स्वमतप्रतिपादन प्रकारवाक्यम्- वस्तुतस्तु अन्योन्याभावप्रतियोगिताऽवच्छेदकत्वं क्रियाऽन्वयि द्विती- याऽऽदेरर्थः । तथा च द्वितीयाऽऽद्यर्थफले पदार्थंकदेशेऽन्योऽन्याभावे च एकव्यक्तरेव प्रकृत्यर्थस्य कर्माख्यातार्थफलान्वयिनश्चाधिकरणत्वेनान्वयः, एवञ्च भूमि प्रयातीत्यादौ भूमिवृत्ति-संयोगजनकभूमिवृत्यन्योऽन्याभाव प्र- तियोगिताऽवच्छेदकप्रयाणानुकूलकृतिमानित्यन्वयबोधः । देवदत्तेन ग्रामो. गम्यते इत्यादौ ग्रामवृत्यन्योऽन्याभावप्रतियोगिताऽवच्छेदकदेवदचनि- ष्ठकृतिजन्यगमनजन्यफलाश्रयो ग्राम इत्यन्वयबोधः । आत्मवृत्तिक्रि- यायाः स्व वृत्यन्योऽन्याभावप्रतियोगिताऽनवच्छेदकरवादात्मानंप्रयातीत्यादे- सव्याख्ये कारकचके- नप्रसङ्गः(१)॥३१॥ अन्वयिताऽवच्छेदकावच्छिन्न प्रतियोगिताकत्वव्युत्पत्तेः सर्वमतसिद्धतया स्वमते तद्विरोध इत्यत माह-वस्तुतस्त्विति । प्रतियोगिताऽवच्छेदकत्वं कुत्रान्वयि ! इत्याकाङ्कायामाह-क्रियाऽन्वयीति-कारकविभत्तथर्थस्यासति बाधके क्रियायाम- न्वयबोधस्य व्युत्पत्तिसिद्धत्वात् तादृशव्युत्पत्त्याऽन्वयेनैव च नातिप्रसङ्ग इति भावः । नन्वन्योऽन्याभावप्रतियोगिताऽवच्छेदकत्वस्य द्वितीयाऽर्थत्वेऽपि भामं गच्छति नर इति तात्पय्यणापि नरो नरं गच्छतीत्यपि प्रयोगः स्याद्, नरनिष्ठसंयोगानुकूलं नरान्तरनिष्ठ- भेदप्रतियोगिताऽनव छेदकं यद् गमनं तदनुकूलकृतिमत्त्वस्य सत्त्वादत आह-तथा चेति। पदार्थकदेशेऽन्योऽन्याभावप्रतियोगिताऽवच्छेदकत्वरूपपदार्थकदेशेऽन्योऽन्यभावे इत्यर्थः । एकव्यक्तेरेवेति । व्युत्पत्तिवैचित्र चादिति भावः । प्रयाणेत्यादि । संयोगावच्छिन क्रियाऽनुकूलकृतिमानित्यर्थः। संयोगस्य द्वितीयाऽर्थतया धात्वर्थघटकतया च द्विषा भानादिति भावः। सम्भेदेनान्यतरवैयर्थ्य मिति न्यायेन एकधैव भानमि- ति के चित् , तन्मते प्रयाणं क्रियामात्रमिति ॥ ३१ ॥ स्वमते लाघवप्रकारवाक्यम्- एवं ददातेर्मूल्यग्रहणं विना स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छि- (१) एतावता प्रबन्धेन "यद्वयक्ते” रित्यादिना यहोषदूरीकरणाय यत्नं विहित- स्तमुपेक्ष्य "वस्तुतस्त्वि" त्यादिना प्रकारान्तरमाह । अयं भावः,-स्वस्यापि द्वित्वा- वच्छिन्नस्वभेदवत्त्वात् 'स्वं गच्छति' इति प्रयोगस्य दुरितया द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनव भेदेऽन्वयो वाच्यस्तथा ५ "चैन्नो द्रव्यं गच्छति" "मल्लो मल्लं गच्छति" इत्यादिवाक्यस्याप्रमाणताऽऽपत्तिः, चेत्रमल्लादिनिष्ठक्रियायाः प्रकृत्यर्थतावच्छेदकीभूतद्रव्यत्वमल्लत्वाधवच्छिन्नभि- नासमवेतत्वात, तत्तव्यक्तित्वानुपस्थितावपि शाब्दबोधोदयेन तत्तद्व्यक्तित्वा- वच्छिन्नप्रतियोगितासम्बन्धेनान्वयोपगमासंभवात् , उक्तयुक्त्या संबन्धघटकोप- स्थितेरपि शाब्दबोधेऽपेक्षितत्वात् , एकधर्मावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छि- न्नसंसर्गत्वे मानाभावाच्च, प्रतियोगिविशेषितामावबुद्धेविशिष्टवैशिष्टयावगाहित्व- नियमात्। अन्वयितानविच्छन्नप्रतियोगितायाः संवन्धत्वासंभवाच्चेति चेत् तर्हि क्रियाऽन्वयिभेदप्रतियोगिताऽवच्छेदकत्वमेव द्वितीयार्थोऽस्तु, भेदे प्रकृत्यर्थस्याधेयता- संबन्धेनान्वय इति न का-चिदनुपपत्तिः ।

कर्मत्वविवेचनम् । २७ नत्यागः। यजतेश्च देवतोद्देश्यकस्वत्वध्वंसफडकत्यागः(१)। जुहोतेश्च ताहशत्यागफलाग्निप्रक्षेपोऽर्थः, अत एव ऋत्विजां तादृशत्यागाभावेऽपि होतृत्वम् ।। ३२॥ इत्थञ्च नियूंढकर्मत्वलक्षणे शिष्यमनुगृह्य धात्वर्थ व्याकृत्य कर्मतालक्षणं ह. यति एवमित्यादिना। ददातेरिति । तादृशत्यागरूपदानं दानपदार्थः, स एव ददातेर्धातोरर्थ इत्यन्वयः, एवमग्रेऽपि। विक्रयवारणाय मूल्येति। पशूद्देश्य- कयागकरणस्थले चैत्रः पशुमात्मने ददातीति प्रयोगवारणाय स्वस्वत्वध्वंसेति । परस्वत्तोत्पत्तीति पाठे तु-धनद्वारा पशूद्देश्यकयागकरणप्रवर्तकस्य परकीयपशु- स्वत्वानुकुलेच्छामादाय धनदाता चैत्राय पशुं ददातीति प्रयोगवारणाय स्वस्वत्व- ध्वंसेति । उपेक्षावारणाय परस्वत्वोत्पत्तीति। देवतोहेस्यकेति । देवतेतिस्वरू- पकथनम् , अन्यथा विष्णुं यजते इत्यादी विष्णुपदार्थानन्वयप्रसङ्गादिति । देवतो- देश्यकस्वत्वध्वंसजनकत्यागरूपधात्वर्थंकदेशस्य देवस्य कर्मणि विष्णावभेदान्वय इति केचिद्वदन्ति, तदत्यन्तमसदा धात्वर्थस्य धात्वर्थघटकस्य वाऽभेदेन भेदेन वा कार- कपदार्थविशेषणतयाऽन्वयस्य कुत्र चिदप्यक्लुप्तत्वाद् देवतात्वावच्छिन्नविषयतानि- रूपितोद्देश्यतात्वावच्छिन्नविषयताऽऽदिनिरूपितयागत्वावच्छिन्नविषयताकयोधविष- यकसङ्केतप्रहेण विष्णुस्वावच्छिन्नविषयतानिरूपितोद्देश्यतात्वावच्छिन्न-विषयताऽऽदि निरूपितयागत्वावच्छिन्नविषयताकशाब्दबोधस्य कथञ्चिदप्यजननाच । यदि देवत्वव्याप्यत्वोपलक्षित-धर्मावच्छिन्नविषयता-निरूपितेत्यादित्यागान्तविषयता- शालिबोधविषयकसकेत उपेयते, तदा देवपदार्थविषयकबोधसङ्केतविषयकतया तस्या. न्वयानुसन्धानं वायसदशनानुसन्धानसमानं विष्ण्वायुद्देश्यकतादृशत्यागविषयकबो- धस्य तादृशसङ्केतविषयतया यजादिधातो गदिधातुवदकर्मताऽऽपत्तिश्चेति । न चैवं पितरं यजेतेत्यपि स्याद् , न चेष्ट एव तादृशप्रयोगोऽनुभवविरोधाद्; अत एव जगदीशेन त्यागे मन्त्रकरणकत्वं विशेषणं दत्तमिति वाच्यम्; यजिधातुना तादृशार्थ- बोधने देवादिपदसमभिव्याहारस्य तन्त्रत्वात् , (२)वस्तुतस्तु देवता च उद्देश्यता- (१) अत्र दा धातोमूले वक्ष्यमाणसम्प्रदानत्वविवेचनस्थ "स्वस्ववत्वध्वंसपूर्वक- परस्वत्वोत्पत्त्यवच्छिन्नत्यागः॥ इत्येवार्थोऽभीष्टः श्रीमन्माधवेन यदू द्विविधः पाठः स्थिरीकृतः, स तु मूलग्रन्थपरक एवेति बोध्यम् । (२)अयं भावः, एतावता प्रबन्धेन"विष्णु यजते” इत्यादौ विष्णुपदार्थानन्वय.

२८ सव्याख्ये कारकचक्रे- कस्वत्व 'सजनकत्यागश्चोभयमेव यजिषात्वर्थः । तत्र देवतारूपार्थस्य व्युत्पत्तिवैः चित्र्याद् विष्ण्वादावभेदेनान्वयः, विष्ण्वादेश्व द्वितीयपदार्थैकदेश उद्देश्यत्वेऽ. न्वय इति । तादृशत्यागजन्यार्थकफलान्तस्य परिचायकतामात्रं न पुनर्धास्वयंघट- ऋत्वम् ; तथा चाग्निप्रक्षेप एव हुधात्वर्थः, होतृत्वं न यष्तृत्वं देवतोद्देश्यकस्वत्वध्वं- सजनकपरित्यागाभावाद्, अत एव ऋस्विग् यजतीति न प्रयोगः ॥ ३२ ॥ स्वमते लाघवप्रकारवाक्यम्- अग्निप्रक्षेपश्चाग्निवृत्तिसंयोगानुकूलक्रियाऽनुकूलघृतादिवृत्तिनोदना- दिव्यापारः । न चैवम्-अग्नौ जुहुयादित्यत्राग्निवृत्तिसंयोगानुकलक्रिये. त्यादिशाब्दबोधे पुनरुक्तिनिबन्धनोऽनन्वयः, धात्वर्थताऽवच्छेदकसंयोगः रूपफलशालित्वेनाग्नेरपि कर्मत्वापत्तिश्चेति वाच्यम् , तत्र संयोगाव च्छिन्नक्रियाऽनुकूलव्यापारस्यैव धात्वर्थताऽवच्छेदकतया आद्यदोषस्यामा- वात्, वत्र क्रियाया एवधात्वर्थताऽवच्छेदकतयासंयोगस्याऽवच्छेदकताऽव. च्छेदकतया तदन्वयिनोऽप्यग्नेः कर्मत्वासम्भवेन द्वितीयदोषस्याभावात् ॥३३॥ घृतादोति स्वरूपकथनं नोदनं विलक्षणसंयोगः, आदिना हस्तक्रियापरिप्रहः । मनन्वय इति । उद्देश्यताऽवच्छेदकविधेययोरक्यात् शाब्दबोधानभ्युपगमादिति भावः । धात्वर्थतयेति लक्षणयेत्यादिसप्तम्यन्तार्थस्य परम्परयाऽग्निवृत्तित्वस्य नोदनादावन्वयस्वीकारे लक्षणां विनाऽप्युपपत्तिरिति ध्येयम् । द्वितीयदोषस्या- भावादिति । कर्मतालक्षणशरीरे साक्षाद् धात्वर्थताऽवच्छेदकत्वस्य निविष्ट- त्वादिति भावः ॥३३॥ स्वमते लाघवप्रकारवाक्यम्- द्वितीयाऽऽद्यर्थश्च वृत्तित्वं तच्च धात्वर्थताऽवच्छेदके फलेऽन्वेति।विप्रा- प्रसङ्गभिया देवतोद्देश्यकस्वत्वध्वंसजनकत्याग एवं यज्धातोरर्थे प्रतिपाद्य "धात्व. यस्य तदेकदेशस्य वा कारकपदार्थे विशेषणतयाऽन्वयोऽव्युत्पन्नः" इति नियमस्य "पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेति" नियमस्य च गुरुगदितमवधायं"देवत देवतोद्देश्यताकस्वत्वध्वंसजनकत्यागश्चोभयमेव यजिधातोरर्थद्वयमात- वान् । नन्वेवमपि विष्ण्वादिरूपकारकार्थस्यैकदेशित्वेनोक्तनियमद्वयविरोधः स्यादेवेति वाच्यम् , "संपन्नो ब्रीहिः" इत्यनेकबीहितात्पर्य्यकेऽप्येकवचनदर्शनेन ताशव्युत्पत्ति सङ्कोचस्यावश्यकतयात्राप्येतदन्यस्थलाभिप्रायिकमिति स्वीकारेणादोषात् ।

कर्मत्वविवेचनम् । २६ . य गां ददाति, विष्णु यजते, घृतं जुहोतीत्यादौ विप्रोद्देश्यकगोवृत्तिस्वस्व- त्वध्वंसपूर्वकपरस्वत्वोत्पत्तिफलकत्यागानुकूलकृतिमान , विष्णूद्देश्यक- स्वस्वत्वध्वंसफलकत्यागानुकूलकृतिमान् , घृतवृत्त्यनिसयोगावच्छिन्नकि- याऽनुकूलव्यापारानुकूलकृतिमानिति क्रमेणान्वयइत्यादि ॥३४॥ विप्रोद्देश्यकेति। उद्देश्यत्वं चतुर्थ्यर्थः, तस्य निरूपकत्वसम्बन्धेन त्यागे- अन्वयः । गोवृत्तित्वस्य परस्वत्वेऽन्वयः । त्यागानुकूलकृतिमानिति । इदन्वि- च्छायाः कृतिजन्यत्वमते, अन्यथा त्यागात्रय इत्येव तत्र बोधः, एवं परत्रापि दो- ध्यम् । घृतवृत्तित्वस्यामिसंयोगानुकूलक्रियायामन्वयः ॥ ३४ ॥ स्वमते लाघवप्रकारवाक्यम्- अत्र (१) देवतायाः स्वत्वस्वीकारे तत्र द्वितीयाऽर्थवृत्तित्वान्वयेनैव वि. योः कर्मत्वम् , इतरथा तु-उद्देश्यतासम्बन्धेन तादृशस्वत्वध्वंसरूपधात्वर्थ- ताऽवच्छेदकफलवत्त्वात् कर्मस्वम् , अत एव मन्त्रकरणकहविस्त्यागभागि- त्वेनोद्देश्यत्वं देवतात्वमिति मणिकृतः। घृतं जुहोतीत्यत्र धात्वर्थताऽवच्छेद- कीभूताग्निसंयोगानुकूलक्रियाऽऽश्रयत्वात् कर्मत्वम् ।। ३५ ॥ विष्णोः कर्मत्वमिति । तथा च देवोद्देश्यकस्वस्वत्वध्वंसपूर्वकस्वत्वजनक- त्याग एव यजिधात्वर्थ इति भावः । इतरथा-देवतायाः स्वस्वास्वीकारे । उद्देश्यतेति- उद्देश्यतासम्बन्धेन-स्वजनकत्यागोद्देश्यत्वरूपपरम्परासम्बन्धेनेत्यर्थः । देवतायाः स्वत्वध्वंसजनकल्यागोद्देश्यत्वं न प्रामाणिकमुकम्, अत आह-अत एवेति । देव. तायाः स्वत्वध्वंसजनकत्यागोद्देश्यत्वादेवेत्यर्थः। हविस्त्यागः हविर्निष्ठ स्वत्वध्वंस- जनकेच्छा, तज्जन्यफलभागित्वेन-तजन्यस्वत्वध्वंसजन्यप्रीतिमत्त्वेन उद्देश्य- स्वम्-इच्छोद्देश्यत्वम् , इच्छा च 'देवो हविनिष्ठमस्वत्वध्वंसजन्यप्रीतिमान् भवतु' इत्याकारिका, सैव च स्वत्वध्वंसजनिका, स्वत्वध्वंसे च तादृशेच्छाजन्यत्वं स्वरूपो- कीर्तनमात्रं, न तु देवतालक्षणे तन्निवेशः । देवताया जन्यप्रीत्यनभ्युपगमे 'देव- स्तादृशस्वत्वध्वंसजन्यमदीयप्रीतिविषयो भवतु' इत्याकारिकेच्छा बोध्या, तथा च हविनिष्ठस्वत्वध्वंसजन्यप्रीतिविषयत्वेन उद्देश्यत्वं देवतात्वमिति ध्येयम् । घृतवृत्ती. त्यस्य क्रियायामन्वयः ॥ ३५॥ (१) विष्णोस्ददेश्यतासम्बन्धेन तादृशस्वत्वध्वंसरूपधात्वर्थताऽवच्छेदकफलव- त्वादू घृतस्य जुहोतीत्यन्नेति क्वचित सुसङ्गातः पाठो दृश्यते ।

३० सन्याख्ये कारकचके- स्वमते लाघवप्रकारवाक्यम्- मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपूर्वकपरस्वत्वजनकत्यागो विक्रयः । मू- ल्यप्रदानपुरःसरस्वत्वोत्पादकस्वीकारः क्रयः। दत्तद्रव्यस्वस्वत्वजनकस्वी. कारः प्रतिग्रहः । तथा च गां विक्रीणीते क्रोणाति प्रतिगृह्णाति वेत्यादौ गोवृत्तिमूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्याच्छन्नत्यागानु- कूलकृतिमान् , गोवृत्तिमूल्यदानप्रयुक्तस्वत्वावच्छिन्नस्वीकारवान , गोवृत्ति दानप्रयुक्तस्वत्वजनकस्वीकारवानितिक्रमादन्वयधीः । सर्वत्र धात्वर्थताऽव. वच्छेदकतत्तत्फलाश्रयत्वेन गवादेः कर्मत्वम् , एवमनयैव दिशा सर्वत्र कर्मत्वमूह्यम् ॥३६॥ मूल्यग्रहणेति । दानवारणाय प्रयुक्तान्तं त्यागविशेषण, स्वत्वध्वंसद्वारा जनकत्वलाभाय स्वत्वध्वंसेति, दयान्वितादमूल्यग्रहणप्रयुक्तव्याधधृतपक्ष्यादित्याग. वारणाय परस्वत्वजनकेति । (१)प्रतिमहवारणाय पुरःसरान्तं, मूल्यदानपूर्वकेति तदर्थः ।स्वीकारः, इदं मम भवत्वित्याकारिकेच्छा दत्तद्रव्येति । दानप्रयोज्ये- त्यर्थः । इदञ्च क्रयवारणाय । गोवृत्तीत्यस्य सर्वत्र स्वत्वेऽन्वयः ॥ ३६॥ आक्षेपपुरःसरनिराकरणवाक्यम्- न चैवमपि पतेरधःसंयोगावच्छिन्नस्पन्दात्मकतया तदवच्छेदकी. भूताधःसंयोगवत्त्वाद् भूतलादेः कर्मत्वे वृक्षात् पणं भूतलं पततींति प्रयोगः स्यादिति वाच्यम् , तथा विवक्षायामिष्टत्वात , अत एव "द्वितीया श्रिता- तीतपतितगतात्यस्तप्राप्तापन्नैः' (पा० २।१।२४) इति सूत्रे पतितशब्द- प्रयोगे द्वितीयान्तसमासविधानम् इत्यादि तदुदाहरणञ्च नरकं पतितो नर- कपतित इत्यादि साधु सङ्गच्छते। क चित् सप्तम्यपि साधुः-भूतले पततीति ग्रामे गच्छतीतिवत् ॥ ३७॥ एवं-धात्वर्थताऽवच्छेदकवतः कर्मत्वे । तथाविवक्षायां-तादृशफलाश्रयत्व- तात्पर्ये । इष्टत्वादु-भूतलं पण पततीति प्रयोगस्येत्यादि । नन्वेवमनुभवविरोध- (१) अयं भावः, यथा कश्चियालुः प्रार्थितमर्थ प्रदाय लुब्धकेन गृहीतं शुकं मो- चयति, तत्र विक्रयलक्षणस्यातिव्याप्तिवारणाय स्वीकृतलक्षणे परस्वत्वजनकेतित्याग- विशेषणमुक्तमिति बोध्यम् ।

कर्मत्वविवेचनम् । इत्यत आह, मत एबेति । पतिधातोः सकर्मकत्वादेवेत्यर्थः । नन्वेवं भूतले पर्ण पततीति प्रयोगस्यानुभवसिद्धतया स न स्यादत आह, कचिदिति-धास्वर्भपतना. दौ परम्परयाऽन्वयतात्पर्य इत्यर्थः ॥ ३७॥ एकदेशिवाक्यम्- अन्ये तु तादृशफलशालित्वेऽपि भूतलादेन द्वितीया, फलस्य हि सम्ब. न्ध्याकाङ्क्षायां भूतलादेरन्वयो वाच्यः, प्रकृते चाधःसंयोगरूपफलस्याधो- वृत्तितयोपस्थितेराश्रयान्तरनिराकाङ्क्षत्वात् ॥ ३८ ॥ भूतलस्य पतिधात्वर्थताऽवच्छेदकफलशालित्वेऽपि न तदुत्तरं द्वितीया, इति वदतां मतमाह-मन्ये विति तादृशेति । पतिधात्वर्थताऽवच्छेदकेत्यर्थः । निराका- शत्वादिति । गच्छतीत्यायुक्तौ संयोगावच्छिन्नक्रियोपस्थितौ कस्य संयोग इत्या- काहोत्सर्गतो यथा जायते, तथा पतिधातुनाऽधःसंयोगावच्छिन्नस्पन्दोपस्थिती न तादृशाकाहा इति, तादृशाकाङ्क्षास्थले एव द्वितीयानुशासनतात्पर्यमिति भावः ॥३८॥ प्रकारान्तरवाक्यम्- यद्वा-पतिधातोरकर्मकत्वं, कर्तृभिन्नान्वयिफलावच्छिन्नव्यापारबोध. कस्यैव धातोः सकर्मकत्वाद् , यथा ग्रामं गच्छतीत्यादौ गम्यादेः । पतिहिं. पर्णगतमधःसंयोगमेव बोधयति, न तु भूतलगतं, भूतलस्याधःसंयोगाभा- वात् , पर्णस्याधोभूतलमित्येव प्रतीतेः। अत एव भूवले पततीत्येव प्रयोगो. न तु भूतलं पततीत्याहुः॥३९ ।। अधःसंयोगः कुत्र इत्याकाङ्क्षाया अपि सम्भवादाह-यद्वेति । कर्तृभिन्ना. न्वयोति । कर्तृभिनान्वयि यत् फलसंयोगादि तदवच्छिन्नव्यापारबोधकस्यैवेत्यर्थः। तथा च प्रामं गच्छतीत्यादौ कत्र्तृभिन्नं यद् प्रामादि तदन्वयिसंयोगादिरूपफलाव. च्छिन्नव्यापारबोधकत्वाद् गम्यादेः सकर्मकत्वमव्याहतमिति । गम्यादेरिति । सकर्मकत्वमिति विभक्तिपरीत्येनान्वयः । ननूतविवक्षणेन पतेः कथं सकर्मकत्वमि. त्याशङ्की निरस्यति पतिहीत्यादिना। पर्णगत-पर्णनिरूपितम्, एतच्चाधासंयोग- एवान्वेति । बोधयतीति । यथा च भूतलं पततीत्यादी अधोऽनुयोगिकसंयोग- त्वरूपफलत्वावच्छेदकेनोपस्थितस्य फलस्य वास्तविकपर्णनिरूपितस्यानुयोग्यन्तरान्व. यनिराकाक्षतया भूतले तस्यान्वयबाधादेव न तादृशप्रयोगइति भावः। भूतलनिरू- पिताधःसंयोगस्यैव तत्र बोध इति भूतलस्य ताशसंयोगाप्रतियोगितया तत्रान्व.

३२ सव्याख्ये कारकचके- यो निराबाध एवेत्याशङ्कामपनेतुमाह-न तु भूतलगतमिति । अधःसंयोग बोध- यतीति शेषः । कुत ? इत्याकालायामाह-भूतलस्येति। अधःसंयोगाभावात् पर्ण, व्यापारप्रयोगाभावादिस्यर्थः । एतेन ताशसंयोगस्य भूतले सत्त्वेऽपि न क्षतिरिति ध्येयम(१)। ननु पर्ण पततीत्यादिप्रयोगोऽनुपपन्नः, पृथिव्यधोदेशस्यैवाधस्त्वात् ता. दृशाधःसंयोगानुकूलव्यापारस्य पणे बाधितत्वादित्यत आह-पर्णस्याधोभूतलमि- ति । व्यवहारादित्यर्थः । एतद्-भूतलनिष्ठपर्णाधस्त्वम् , अन्यत्-पृथिव्ययस्त्वा. दित्यर्थः । इत्येव प्रयोग इति एवकारव्यवच्छेद्यमाह-न तु भूतलमिति । आहु- रित्यनेनात्र मते एकोऽस्वरसः सूचितः, स च नरकातित इतिद्वितीयातत्पुरुषानु. पपत्तिरूपः ॥ ३९॥ समूहावलम्बनेन प्राचीनाक्तिविवेचनप्रकारवाक्यम्- प्रावस्तु प्रामं गच्छति त्यजति गम्यते त्यज्यते वा ग्राम इत्यादौ संयो. गविभागयोः फलयोर्द्वितीयाकाख्याताभ्यां प्रत्यायनात , अनन्यलभ्यस्प. न्दनाद्यात्मकव्यापार एव तत्तद्धातोरथः(२)। न चैवं तत्तद्धातुयोगे द्वितो. याऽऽदेः संयोगत्वादिना फलविशेषबोधकत्वोपगमेन ग्रामं गच्छति त्यजती. (१) ध्येयपदस्वारस्यन्तु, "भूतलं पतति" इति प्रयोगापत्तिनिराकरणाय पर्ण. व्यापारप्रयोज्याधासयोगाभावस्वरूपकमेवेत्यर्थः (२) अयं भावः, प्राचीनमते "कर्मणि द्वितीया" इत्यनुशासनात् कर्मत्वं द्विती. याऽर्थी, व्यापारमात्रश्च धातोरी, तथा च "ग्रामं गच्छती" त्यादौ यादृशान्वय. बोधे आकाङ्क्षा तदुपस्थापितयोरेव तादृशान्वयबोध इति वचनान्न 'ग्राम स्पन्दते "इ त्यादिना पर्यायत्वम् । ननु यदि धातोः फलवाचकता न स्यात् तदा सर्वेषामेव धातूनां समानार्थकत्वं स्यात्तथा च य एवं "त्यजति पदाद्बोधः स्यात्स एव "गच्छति" पदाद पिबोधः स्यात्, एवं त्यागगमनपदादपि, नहि शक्तिभ्रमाद्यजन्मनोस्ताहशवाक्यजन्य- बोधयोरवैलक्षण्यं कश्चिदभ्युपैति तथा, सति त्यागादितात्पण गमनादिपदं व्यु. त्पन्ना भपि प्रयुञ्जीरन् । नच तत्र फलविशेषावच्छिन्नव्यापारे लक्षणा स्वीक्रियत इति विलक्षणबोधोपपत्तिरिति वाच्यम्, शक्याऽविलक्षणबोधजननसंभवेनातिप्रसङ्गस्य दुर्द्ध- रत्वादिति चेन्मैवम्-कर्मप्रत्ययासमभिव्याहृतत्यागगमनादियदस्य तत्तत्फलाव च्छिन्नव्यापारेऽनादितात्पर्य कल्प्यते न तु केवलव्यापारे। इति प्रामाणिकानामेकार्थः तात्पय्येण स्वारसिको न त्यागगमनादिपदप्रयोगः । इत्यभिप्रायमवधाय्यवोक्तं मूले 'विभागसंयोगावच्छिन्नस्पन्दवाब्दत्वस्य त्यजिगम्योः कार्यतावच्छेदकत्वात् । .

कर्मत्वविवेचनम् । ३३ त्याभ्यां ग्रामवृत्तिसंयोगजनकस्पन्दस्य ग्रामवृत्तिविभागजनकस्यन्दनस्य च लाभात् पर्यायतावारणेऽपि त्यजतिगच्छतीत्यनयोस्त्यागो गमनमित्यनयो. रपि पर्यायत्वं स्यादिति वाच्यम्, विभागसंयोगावछिन्नस्पन्दशाब्दत्वस्य त्य. जिगम्योः कार्य्यतावच्छेदकस्वात् । एवञ्च यथायथं विभागसंयोगावच्छि- नस्पन्दे लक्षणां विना त्यजतिगच्छतीत्यनयोरबोधकत्वमेव ॥ ४० ॥ मतान्तमाह,-प्राश्चस्त्विति । प्रामं गच्छति, प्रामो गम्यते, त्यजति त्यज्यते इत्यादौ संयोगभिागरूपद्वितीयाकर्माख्यातार्यान्वयवशात् तुल्यबोधकतारूपपपर्यायता. वारणेऽपि तदसमभिव्याहृतस्थले, गच्छति गमनं त्यजति त्याग इत्यादौ पर्यायता स्यादित्याशङ्कते,-न चैवमित्यादिना । ननु त्यजतिगच्छतीत्यनयोरबोधकत्वा. पत्तिः, संयोगादिबोधकपदाभावादित्यतस्तत्रेष्टापत्तिमाह-एवञ्चेति । संयोगाद्यव- च्छिन्नस्पन्दशाब्दत्वस्य गम्यादिधातुकार्यतावच्छेदकत्वे चेत्यर्थः। यथायथमिति । संयोगावच्छिन्नस्पन्दे गमिधातोः, विभागावच्छिन्नस्पन्दे त्यजिघातो, लक्षणा विनेत्यर्थः ॥ ४० ॥ समूहावलम्बनेन प्राचीनोक्तिविवेचनप्रकारवाक्यम्- संयोगाद्यवच्छिन्नस्पन्दशाब्दत्वञ्च जन्यजनकतासम्बन्धेन संयोगादि- स्पन्दोभयवैशिष्टयावगाहिशाब्दत्वं, तेन गम्यते त्यज्यते वा ग्राम इत्यादौ स्पन्दविशेषणककर्माख्यातार्थसंयोगादिविशेष्यकशाब्दस्य संग्रहः। भावा- ल्यातस्थलेऽपिगमनमित्यादाविवसंयोगाद्यवच्छिन्नस्पन्देधातोर्लक्षणैव ४१ ननु संयोगावच्छिन्नस्पन्दशाब्दत्वं यदि जनकतासम्बन्धावच्छिन्नसंयोगप्र. कारतानिरूपितसन्दविषयताशालिशाब्दत्वं तदा, प्रमो गम्यते इत्यादौ जन्यतास म्बन्धेन स्पन्दप्रकारकसंयोगविशेष्यकशाब्दत्वस्थासंग्रहः । यदि च जन्यतासम्बन्धेन स्पन्दप्रकारकसंयोगविशेष्यकशाब्दत्वं तदा ग्रामं गच्छतीत्यादौ शाब्दबोधासंग्रह इत्यत आह-संबोगाद्यवच्छिन्नेति । अन्यजनकभावसम्बन्धेन संयोगस्पन्दो- भयवैशिष्टया वगाहिशाब्दत्वं संयोगविषयतानिरूपितंजन्यताविषयतानिरूपितजन. कत्वविषयतानिरूपित-स्पन्दविषयताशालिशाब्दत्वं, जन्यतानिरूपितजनकत्वं जनकेजन्यस्य सम्बन्धः, न तु जनकत्वमात्र, जनकतानिकत्तिजन्यत्वं जन्ये जन- कस्य सम्बन्धः न तु जन्यतामात्रम् , इति न किञ्चिदनु पन्नं, जन्यत्वातिमात्रस्य सम्बन्धत्वे जन्यत्वातिरिक्तसंसर्गावच्छिन्न-संयोगविषयतानिरूपित-जनकत्वातिरि. ३ का०च० सव्याख्ये कारकचके- - तसंसर्गानवच्छिन्नक्रियानिष्ठविषयताशालिशाब्दत्वं, संयोगस्पन्दोमयवैशिष्टयाव- गाहिशाब्दत्वमिति ध्येयम् । नन्वेवं गम्यते इत्यादिभावाख्यातस्थले संयोगावच्छि, न्नस्पन्दबोधकत्वं न स्यात् संयोगादिबोधकपदाभावादित्यत आह-भावा- ख्यातेति ॥४१॥ आक्षेपपुरःसरनिराकरणप्रकारवाक्यम्- न चैवं लक्षणयाऽपि गमित्यजिभ्यां त्यागगमनयोरबोधप्रसङ्ग इति वाच्ये, शक्तिलक्षणान्यतरसम्बन्धेन संयोगाद्यवच्छिन्नस्सन्दबोधक- त्वानुपपत्तिनिर्णयानन्तरमेव गम्यादिना विभागाद्यवच्छिन्नस्पन्दबो. धनात् ॥४२॥ अबोधप्रसङ्ग इति । तथा च स्पन्दमात्रशतस्य गम्यादेः स्पन्दमात्रयोधेन.' वोपपत्तौ तत्रानुपपत्त्यभावेन लक्षणाया मानाभावात् संयोगाद्यवच्छिन्नस्पन्दबोधस्या- भाव इति भावः । निर्णयानन्तरम् इत्यनन्तरं गम्यादेः स्पन्दे शक्तिप्रहात प. न्दोपस्थिती, संयोगे लक्षणाप्रहात् संयोगोपस्थितौ सत्यामितिपूरणीयम् ॥ ४२ ॥ स्वमते निर्दुकर्मस्वनिर्वचनवाक्यम्- एवञ्च परसमवेततत्तद्धात्वर्थान्वयिफलषिशेषशालित्वं तत्चद्धा. त्वर्थकर्मत्वम्, अत एव गमिधातोः पूर्वदेशे न कर्मत्वं, तस्य विभाग- रूपफलेनानन्यवात , एवं पतेरपि गुरुत्वासमवायिकारणप्रयोज्यवि. जातीयक्रियैवार्थः, तस्य चाधः संयोगरूपफलेन नैवान्वयः। एवं ददाती- त्यादेरपि व्यापारमात्रार्थत्वे द्वितीयादीनां तत्तत्फलविशेषान्वयो बोध्य. इत्याहुः॥४३॥ नन्वेवं धात्वर्थतावच्छेदकरूपफलशालित्वरूपकमत्वलक्षणमसङ्गतं, गम्यादेः, स्पन्दमानवाचित्वेन धात्वर्थतावच्छेदकफलामावादित्यतः प्राचीनतते कर्मत्वलक्षण.. माह-एवञ्चति । गम्यादेः स्पन्दमात्रवाचित्वे चेत्यर्थः। परसमवेतेति । गमिधा. तोरित्युपलक्षणं, स्वन्तरेऽपि बोध्यम् । पतधात्वर्थमाह-एवं पतेरपीत्यादि. ना । गुरुत्वासमवायिकारणप्रयोज्येत्यस्य क्रियैवार्थ इत्यत्र क्रियायामन्वयः। विजा. तोयक्रिया जातिविशेषवकिया, प्रयोज्यत्वञ्च स्वरूपसम्बन्धविशेषोऽनुभवसाक्षिकः। गुरुत्वासमवायिकारणेत्यादिप्रयोज्यान्तं पतनत्व जातिविशेषावच्छिन्नस्पन्दे परिचाय- मानं न तु शक्यतावच्छेदकघटक नातो गौरवम् । व्यापारमात्रार्थकत्वादि. - कर्मभेदविवेचनम् । ३५ . ति। तत्तत्फलविशेषः, -स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्तिरूपः। न च तत्त. द्धात्ववर्यान्वयिफलशालित्वेनैवोपपत्तौ फलविशेषत्व विशेषणमनर्थकमिति वाच्यं,घृतं. जुहोतीत्यादौ धात्वर्थान्वयाग्निसंयोगरूपफलत्वमादायाग्नेः कर्मताबारणाय ताश- पदोपादानात् । न च साक्षादात्वर्थान्वयित्वनिवेशेनैव तद्वारणमिति वाच्यं, तल्ला- भायैव तदुपादानात् । अत्र मते आहुरित्यनेनास्वरसः सूचितः, स च गमनं त्याग. इत्यादी लक्षणाग्रह विनाऽपि संयोगायवच्छिन्नस्पन्दबोधस्यानुभवसिद्धतया तदनुप- पत्तिरूपः । इदमत्रावधेयं-फलस्य धात्वर्थतावच्छेदकत्वं न सम्भवति, गम्यते प्राम इत्यादत्ते स्पन्दजन्यफलवानित्यन्वयबोधानुपपत्तेः । इति फले स्पन्दे चोभय- त्रैव शक्तिः, इत्येव प्राचां मतम् ; तदेव सम्यक् , माम गच्छतीत्यादौ द्वितीयार्थ- श्चाधेयत्वं तस्य संयोगात्मकफले शक्याथेऽन्वयः, तस्य च जनकतासम्बन्धेनापरश- क्याथै स्पन्देऽन्वयः । गम्यते प्राम इत्यादौ स्पन्दरूपशक्यार्थस्य जन्यतासम्ब- न्धेनापरशक्यार्थसंयोगरूपफले, तस्य च प्रामेऽन्वय इति नान्वयानुपपत्तिरिति केचिद्वदन्ति, तन्न मनोरम फलावच्छिन्नस्पन्दशक्तिमतेऽपि द्वितीयार्थफले आधेय. तासम्बन्धेन ग्रामस्य, तादृशसंयोगस्य च संयोगावच्छिन्नस्पन्देऽन्वयात् ; प्राम. गच्छतोत्यादौ प्रामवृत्तिसंयोगानुकूलस्पन्दानुकूलकृतिमानित्यन्वयबोधात् , प्रामो- गम्यते इत्यादौ धात्वर्थसंयोगावच्छिन्नस्पन्दस्याख्यातासंयोगे, तादृशसंयोगस्य च प्रामेऽन्वयात् , संयोगावच्छिन्न-स्पन्दजन्यसंयोगवानित्यन्वयबोधाच्चानुपपत्ते. रभावादिति ध्येयम् ॥ ४३ ॥ कर्मभेदविवेचनम् । कर्मभेदविवेचनवाक्यम्- कर्म च त्रिविधं, प्राप्यं विकार्य निर्वय॑न्चेति । संयोगादिरूपक्रिया- जन्यफलशालि प्राप्यं, यथा ग्राम गच्छतीत्यादौ ग्रामादिः । (१)क्रिया यद्ध- (१) अत्रेदं बोध्यम्-यत्र हि क्रियया कर्तुव्याप्तिमात्रं निगद्यते । न वैऋत्यं न निष्पत्तिस्तत्प्राप्यं समुदाहृतम् ॥ यथा "ग्राम गच्छति" "रूपं पश्यत्ति' इत्यादि । न चान वेदान्तिनये आवर. णभङ्गानुकूलोव्यापारश्चाक्षुषज्ञानरूपो दृशिधातोरर्थः। तथा चावरणभङ्गाश्रयत्वाद्रुपादेः कर्मत्वम् । न चैवमीश्वरो रूपं पश्यतीति प्रयोगो न स्यात् , ईश्वरे आवरणाभावेन सव्याख्ये कारकचके- , -मनाशकं फलं जनयति तद्विकार्य, यथा काष्ठं लुनातीति, (१)अत्र काष्ठप- देन लक्षणया अवयवा उच्यन्ते, लुनातिना च आरम्भकसंयोगविरोधि विभागहेतुकुठारादिव्यापारः, तथा च काष्ठावयववृत्तितादृशविभागावच्छि. अव्यापारानुकूल-कृतिमानित्यन्वयबोधः ।। ४४ ।। कर्म विभजते; कर्म चेति । गच्छतीत्यादौ गम्यादेामादिरिति शेषः। घट जानातीत्यादौ घटादेः स्वमते निवर्त्यमध्येऽन्तर्भावस्य वक्ष्यमाणत्वान्न विभागव्या. घातः, मतान्तरे तादृशकर्मणः प्राप्यान्तर्भाव इति ध्येयम् । विकार्यनिर्वाभ्यामः न्यत् कर्म प्राप्यमिति पर्यवसित लक्षणं बोध्यम् । यद्धर्मनाशकमिति । यस्य धर्म इति व्युत्पत्त्या यवृत्तिधर्म इत्यर्थः । तद्विकार्यमिति । इदश्च प्रकृतिकर्मप. देनाप्यभिधीयते । ननु तादृशक्रियया काष्ठनाश एव जन्यते, न तु तवृत्तिधर्मनाश. इत्यत माह-काष्ठपदेनेति । वस्तुतो ह्यारम्भंकसंयोगविरोधिविभागावच्छिकव्या- पाररूप-"लु" धात्वर्थ-( तावच्छेदक )-फलस्य तादृशविभागस्य काष्ठेऽभावात् तस्य कर्मस्वानुपपत्तिरित्यत आह-काष्ठपदेनेति । काष्ठपदेनावयवलक्षणा तु तादृशः विभागे काष्ठावयवस्य समवायसम्बन्धावच्छिन्नाधेयतासम्बन्धेनान्वयाभिप्रायेण, स्वाश्रयारभ्यत्वसम्बन्धावच्छिन्नाधेयतासम्बन्धेनान्वये तु लक्षणां विनैवोपपत्तिरिति ध्येयम्। विरोधोति नाशक इत्यर्थः । तादृशेति। आरम्भकसंयोगनाशक इत्यर्थः ॥४४॥ कर्मभेदविवेचनवाक्यम्- एवं च प्राप्य-विकार्ययोः कारकत्वात ताहशफलाश्रयत्वाच्च मुख्यं क. मत्वम् । निर्वय॑श्च निष्पाद्यं, यथा कटं घटं वा करोतीति, अत्र च कृञ् तहङ्गानुकूलव्यापाराभावादिति चेन्न, विषयगुण्ठनपटवद्विषयगतमेवाज्ञानं तदावरणक नतु पुरुषाश्रितमित्यज्ञानभेदस्वीकारेणेश्वरेऽज्ञानाभावेऽपि विषये तत्सत्त्वात्प्रयोगो. पत्तिः । नच नयनपटलवत्पुरुषाश्रितमेवाज्ञान, न तदतिरेकेण विषयगवाज्ञाने प्रमा- णमस्तीतिदोषस्तिष्ठत्येवेति वाच्यम् , तत्राज्ञानारोपेण प्रयोगोपपत्तेः स्वीकारात् । श्यते हि पुराणादौ रामकृष्णादीनामपीश्वराणामप्यज्ञानवर्णनमिति दिक् । (१) अत्रे ज्ञेयम् - नच काष्ठं लुनातीति विकार्यं कर्मत्वमयुक्त क्रियाजन्यफ- लाश्रयत्वाभावादिति चेन्न, प्रकृतिविकृत्योर्निरूढयाऽभेदविवक्षोत्पत्त्याश्रयत्वात् । अत एव भूषणे-काष्टानि विकुर्वन्भस्म करोतीत्यर्थो विहितः । तण्डुलान् विक्लेदयत्रो- इनं निवर्तयतीतिवत् । एतच्च व्यर्थ पचिरिति भाष्ये प्रक्रम्य व्युलादितमि. त्यास्तां तावत् । , कर्मभेदविवेचनम् । ३७. " धातोः फलावच्छिन्नव्यापाराबोधकत्वात् कटादेस्ताहशफलानाश्रयत्वेन गौणं कर्मत्वं, तच्च साध्यत्वेन विषयत्वम् , अत एव वीरणादेरुपादानत्वेन वि. षयत्वेऽपि वीरणं करोतीति न प्रयोगः ॥ ४५|| कारकत्वात्-क्रियानिमित्तत्वे सति क्रियान्वयित्वात् । मुख्यकारकत्वस्य मुख्य कर्मत्वाघटकत्वादाह-तादृशफलाश्रयत्वादिति । मुख्यविकार्यकर्मलक्ष- णमिदं, न तु मुख्यभातसाधारणं, तत्साधारणलक्षणन्तु अनुमदं दर्शनीयमिति । निर्वयंच निष्पाद्यमिति । निष्पत्तिविषयत्वं, कृतिविषयत्वमिति यावत् , इद- मपि विकृतिकर्मपदेनाप्यभिधीयते । तादृशेति । धात्वर्थतावच्छेदकेत्यर्थः । सा. ध्यत्वेनेति अभेदे तृतीया, विषयत्वमिति, द्वितीयार्थ इति शेषः। अत एव । सा- ध्यत्वस्य द्वितीयार्थत्वादेव । उपादानत्वेनेति । उपादानत्वाख्यकृतिविषयत्वेन॥४५॥ ननु धात्वर्थविधेयत्वेन निर्वय॑त्वे घटं पश्यतीत्यत्रातिरिक्तकमत्वा- पत्तिः, धात्वर्थविषयत्वमात्रेण तथात्वे कटं करोतीत्यत्र वोरणं करोतीति प्रयोगापत्तिः, मैवम् ; उद्देश्योपादानीयविषयतातिरिक्तविषयत्वेन धात्वर्थ- विषयस्यैव निर्वय॑त्वात्(१) ।। ४६।। तथात्वेति-द्वितीयार्थत्वे। मुख्यभाक्तसाधारणविकायं कर्म च क्रियया वस्त्वन्तरनिष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्त्वरूपो विकारो निर्वाह्यते तत्, तण्डु- लानोदनं पचतीत्यादो पाकक्रियया तण्डुलादिरूपधर्मिणी विनाशादेव ओदनादिरूप- वस्त्वन्तरनिष्पत्तिरतः पूर्वभावविशिष्टस्य धर्मिणोऽसत्त्वम् । कुसुमानि खजं करोती. त्यादौ काशान् कटं करोतीत्यादौ च कुसुमकाशादेः सत्त्वेऽपि रचनाविशेषविरहरूपस्य कटसन्दर्भाभावरूपस्य च पूर्वभावस्यासत्त्वेन तद्विशिष्टस्यासत्त्वं रचनाविशेषादिनि- पादकक्रियातो निर्वहति एवं काष्ठं भस्म करोति, सुवर्णं कुण्डलं करोतीत्यादावपि काष्टरूपधर्मिणोऽसत्त्वरूपविकारस्य कुण्डलसन्दर्भाभावरूपविशेषणविशिष्टसुवर्णस्या. सत्त्वरूपविकारस्य च क्रियातो निर्वाह इति तेषां सर्वेषामेव विकार्यकर्मता । तदुक्तं,- “यदसज्जायते पूर्व जन्मना यत् प्रकाशते । तन्नित्यं विकार्यञ्च कर्म द्वधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादि भस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत्" ॥ इति । (१) एतच्चांशः प्राचीनपुस्तके न दृश्यते टीकाऽप्येतस्यालोचनरूपैव ।

सव्याख्ये कारकचके- अस्यार्थः-यत् पूर्वमसत् पश्चाजायते उत्पच्याश्रयो भवति, तभिवत्यम् । ननु सांख्यमते असदुत्पत्त्यभावात् सतो नाशस्याप्यभावः, अत एवोक्त- "नासतो विद्यते भावो नाभावो विद्यते सतः ।" भाव उत्पत्तिः, नामावो न ध्वंसः । तन्मते जननमरणे आविर्भावतिरोभावरूपे, प्रत्यक्षविषयता आविर्भावः, प्रत्यक्षाविषयता तिरोभावः। तन्मतेऽप्याह-जन्मनेति।- अभेदे तृतीया। तथाच जन्माभिन प्रकाशाश्रयो यत् तन्निर्वय॑म् , प्रकाशः प्रत्यक्ष, विकार्यश्च कर्म द्वधा व्यवस्थितमित्युक्तं दर्शयति-प्रकृतीत्यादि । -प्रकृतेरुच्छेद सम्भूतं प्राप्तम् इत्यादिव्युत्पत्त्या प्रकृत्युच्छेदसम्भूतपदेन काष्ठादि बोध्यते, तत् स्विरूपमित्यत आह-किञ्चित्काष्ठादि भस्मवदिति । -भस्मवत् काष्ठादीत्यर्थः । स्व- स्मिन् स्वनिष्ठधर्माविरोधिधर्मसन्बन्धरूपविकारसम्पादनेनान्यदपरं, तत् किंस्वरूप- मित्याकालायामाह-सुवर्णादिविकारवदिति ।-विकारवत् सुवर्णादेरित्यर्थः। यद्यपि काष्ठादिसुवर्णादीत्येव वक्तुमुचितं, तथापि नित्यकर्मस्वरूपज्ञापनाय तयोकिरित्य- वधेयम् । तण्डुलानोदनं पचतीत्यादौ विकार्यकर्मोत्तरद्वितीयाया नाशकत्वमर्थः । निर्व र्यकर्मोत्तरद्वितीयाया उत्पादकत्वमर्थः, तथा च-ओदनोत्पादको यस्तण्डुलनाशका पाकस्तदनुकूलकृतिमानित्यन्वय बोधः । तण्डुलमोदनं करोति, दुग्धं दधि करोतीत्या. दावपि विकार्यकर्मोत्तरद्वितीयाया नाशकत्वमर्थः, निर्व|कर्मोत्तरद्वितीयाया उत्पादक त्वमर्थः, मन्वयबोधस्तूह्यः । काशान् कटं करोति, कुसुमानि स्रजं करोति, सुवर्ण कुण्डलं करोतोत्यादी काश- रूपविकार्यकर्मोत्तरद्वितीयया उपादानत्वाख्यविषयताविशेषमेव बोधयति कटादिरूप- निर्वय॑कर्मोत्तरद्वितीयया पूर्ववदुत्पादकत्वमेव कृतौ बोधयति, तथाच काशोपादान. ककटोत्सादककृतिमानित्याद्याकारकस्तत्र बोधः । अधिकमन्यत्रानुसन्धेयम् ॥ ४६ ॥ सिंहावलोकनेन कारकत्वविवेचनवाक्यम्- प्राञ्चस्तु कटादेगौणकर्मत्वेऽपि कारकत्वोपपत्त्यर्थमसयवे लक्षण अन्यथा कटस्यासिद्धत्वेनाकारकत्वात् । न चैवं कदाचित् वीरणं करो- तीति मुख्य-प्रयोगः स्यादिति वाच्यं, करोतिपद-समभिव्याहृत-कर्मवाचक पदस्यावयवे निरूढलक्षणा-नियमादित्याहुः ।।४७ ।। क्रियानिमित्तत्वे सति क्रियान्वयित्वं, कृत्यर्थकभिन्नमविषयकधातुकर्मण एव गौण. कारकत्वं, कृतिकर्मणस्तु मुख्य कारकत्वमेवेति केषाश्चिन्मतमाह-प्राञ्चस्त्विति । . - कर्मभेदविवेचनम् । कारकत्वापपत्त्यर्थ-मुख्यकारकत्वोपपत्यर्थम्, असिद्धत्वेन-करणक्रिया- पूर्ववर्तित्वाभावेन, अकारकत्वात्-क्रियानिमित्तत्वाभावेन मुख्य कारकत्वाभावादि- त्यर्थः, तथाच घटं करोतीत्यादौ घटावयवविषयककृतिमानित्याकारको बोधः । घटा- वयवस्य कृतिरूपक्रियानिमित्तत्वञ्च स्वसाध्यघटजनकत्वेन बोध्यम् ॥ ४ ॥ आक्षेप निराकरणप्रक:रवाक्यम् , ओदनं पचतीत्यादौ ओदनपदस्य तण्डुले तदवयवे वा लक्षणा, धातुना च रूपादिपरावृत्तिफलकाऽधःसन्तापनादिः, तथा च धात्वर्थतावच्छेदक- रूपादिपरावृत्तिशालित्वात् कर्मत्वं, तत्र च पूर्वरूपविरोधेन रूपान्तरोत्पत्ति- यदि विकारस्तदा विकार्यमध्ये, अन्यथा तु प्राप्यमध्येऽस्यान्तर्भावः ।।४८॥ पूर्वरूपनाशस्य पूर्वरूपनाशानन्तररूपोत्पत्तिरूपाया वा रूपपरावृत्तेरोदने न सम्भव इत्यतस्तण्डुले इति । तण्डुलस्यापि नाशसम्भवात् तण्डुले रूपनाशो रूपा. न्तरोत्पत्तिर्वा न सम्भवतीत्यतस्तदवयवे इति । रूपपरावृत्तिः,-रूपनाशानन्तर- रूपोत्पत्तिः रूपनाशश्च । अधःसन्तापनम्-अग्निसंयोगः । तथा चेति । तण्डु- लावयववृत्तिरूपनाशानन्तररूपोत्पत्ति जन कामिसंयोगानुकूलकृतिमान् ताशावयव. रूपनाशानुकूलकृतिमान् वा इत्याकारक ओदनं पचतोत्यादौ शाब्दबोधः। तदा विकार्यमध्ये इति । क्रिया यद्धर्मनाशकं फलं जनयति तद्विकार्यमित्युक्तत्वादिति भावः । अन्यथा-पूर्वरूपनाशानन्तररूपोत्पत्तेर्धात्वर्थतानवच्छेदकत्वे, अस्य तण्डु. लादिकर्मणः ॥ ४० ॥ स्तोकं पचतीत्यादी क्रियाविशेषणे द्वितीया विशेषणविभक्तिवत्प्रयोगः साधु । धात्वर्थे स्तोकस्याभेदः सम्बन्धः नामार्थधात्वर्थयोर्भेदान्वयबोध एव प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात् । नीलं घटमित्यादौ विशेषणविभ. तरभेदार्थकत्वे तु अस्या अप्यभेदार्थकत्वमिति ।। ४९ ॥ प्रयोगसाधुत्वार्थम्-आकाङ्क्षासम्पादनार्थम् इत्यर्थः । अभेदार्थकत्वमि- ति-एतत्वल्पे एव निर्भरो बोध्यः, अन्यथा अश्वमेधेन यजेत अतिशयेन मूत्रय- तीत्यत्र तृतीया, स्तोकं पचतीत्यादौ द्वितीयेत्यस्यानध्यवसायापत्तेः वैकल्पिकानुशा. सनाभावादिति ॥ ४९ ॥ .

सव्याख्ये कारकचक्रे- . करणत्वविवेचनम् । करणत्वे सिद्धान्तवाक्यम्- (१)करणत्वञ्च कारकान्तरेचरितार्थत्वे सति हेतुत्वम्।तत्र चरिता- थत्वञ्च तद्वयापारमुत्पाद्यैव फलहेतुत्वम् । कर्ता हि सिद्धं कुठारादिकं व्या- पारयन् छिदालक्षणं फलमुत्पादयतीति करणे चरितार्थों न तु फले। क- मापि करणे चरितार्थ', कर्मासिद्धौ करणव्यापारसिद्धः, न हि छेद्यासिद्धौ कुठारादिकरणानां छिदानुकूलव्यापारः सम्भवति, अत एव करण्व्यापा- रविषयत्वं कर्मत्वमिति प्राश्वः ।।५०॥ करगमाह-कारकान्तरे इति । स्वभिन्नकारके इत्यर्थः । स्वं लक्ष्यत्वेना- भिमतं दात्रादि । हेतुत्वं-फलहेतुत्वं फलं धात्वर्थः करणत्वघटकचरितार्थत्वपदार्थ- व्याख्यां करोति, तत्रेति । तत्र करणत्वलक्षणे, घटकत्वं सप्तभ्यर्थः, स्वभिन्नकार. कव्यापारद्वारा तत्मियाया अजनकत्वे सति तरिक्रयाया जनकत्वमिति लक्षणस्यार्थः। स्वव्यापारद्वारा छिदादिक्रियाजनकदात्रादावसम्भववारणाय स्वभिन्नकारकार्थक "का- रकान्तर" पदमितीदानीमभिमानः, अत एव दानादावेतल्लक्षणस्यासम्भवमभिप्रे- त्य दात्रधान्यादिसंयोगस्य लक्ष्यता स्वीकृत्य कारकान्तरपदं परित्यज्य लक्षणं नि. (१) इदमत्र ध्येयम्-वयाकरणनये, कत्तुंरिच्छाविषयप्रधानीभूतधात्वर्थव्यापा- राश्रयत्वं करणत्वमुक्तम् । इत्थञ्च "रामेण बाणेन हतो वालीत्यादौ रामकर्तृकबा- णव्यापारसाध्यप्राणवियोगाश्रयो बालीति शाब्दबोधः। नैयायिकनये तु “कारका- न्तरेऽचरितार्थत्वे सति क्रियाहेतुत्वम्, सत्यन्तेन कर्तृकर्मणोः, करणनिष्ठव्यापारद्वा- राधिकरणस्य, कर्तृकर्मान्यतरनिष्ठव्यापारद्वारा सम्प्रदानस्य, स्वानुमति ( प्रकाश- नेने) च्छोत्पादनद्वारा, अपादानस्य पतनप्रतिबन्धकसंयोगनाशकविभागद्वारा च क्रियाहेतुत्वादतिव्याप्तिवारणम् । अन्ये तु "व्यापारवदसाधारणं कारणं कर. णम्" घटं प्रति कपालसंयोगवारणाय व्यापारवदिति, ईश्वरज्ञानवारणायासाधा. असाधारणकारणत्वञ्च, कार्यतानवच्छिन्नकार्यतानिरूपितकारणाश्रयः त्वमिति बदन्ति । अयं कता त्रिविधः, केवला, प्रयोजको हेतुः, कर्मकर्ता च । देवदत्तेन हरिः सेव्यत इति शुद्धः । क्रियते हरिणेति प्रयोजको हेतुः । गमयति कृष्णं गोकुलमिति कर्मकर्ता, तत्र देवदत्ताभिन्नाश्रयको हरिकर्मकः सेवनानुकूलो व्यापारः । हर्यभिन्नाश्रयक- उत्पादनानुकूलो व्यापारः । गोकुलकर्मकगमनानुकूलकृष्णाश्रयतादृशव्यापारानुः कूलो व्यापार इति क्रमेण शाब्दबोधो बोद्धव्यः । - , रणेति । .

करणत्वविवेचनम् । कृष्यैव दर्शयिष्यते इति । सत्यन्तव्यावृत्तिमाह-कर्ता हीति । सिद्धमित्यनेन कुठारादेश्छेदनादिक्रियायाः पूर्ववर्तित्वज्ञापनेन क्रियानिमित्तत्वरूपं कारकत्वं ज्ञापि- तम् । व्यापारयन्-कुठारादिनिष्ठसंयोगादिरूपव्यापा'जनयन्नित्यर्थः। करणे चरि. तार्थः,-करणव्यापारद्वारा फलहे तावानित्यर्थः, न तु । फले-छिदादिक्रियायाम, अहेतुरिति शेषः। तथा च सत्यन्तदलेनैव तद्वारणं न तु विशेष्यदलेनेति भावः। कर्म- गः करणचरितार्थत्वमाह-कर्मापीति। कम-धान्यकाष्ठादि । करणव्यापा. रेति । दानादिजन्यधान्यादिसंयोगादीत्यर्थः । शिष्यस्यान्तःप्रबोधाय पुनः स्पष्ट. यति-न हीति । मत एव-कर्मणः करणचरितार्थत्वादेव । करणव्यापारविष यत्वमिति। करणजन्य क्रियानुकूलच्यापाराश्रयत्वमित्यर्थः । इदमेव प्राचीनैः करणव्या- पार्यत्वशब्देनोच्यते । कर्तुरपि दात्रादिजन्यसंयोगादिरूपव्यापारवत्वादतिव्याप्तिरिति प्राश्च इत्यनेन सूचितम् ॥ ५० ॥ आक्षेपनिराकारणप्रकारवाक्यम्- अधिकरणमपि कर्तृकर्मान्यतरव्यापारक्रियानिष्पादक, यथा गृहे चैत्रः स्थाल्यां तण्डुलं पचतीत्यत्र चैत्रव्यापारसम्पादनेन गृहस्य, तण्डुल- स्य व्यापारसम्पादनेन स्थाल्याश्च कारकत्वम् ॥५१॥ मधिकरणेऽतिव्याप्तिशङ्का निराकरोति-मधिकरणमपीति । क्रियानिष्पा- दकमिति । तथा चाधिकरणं कर्तृकर्मान्यतरचरितार्थमिति भावः । विशिष्य दर्शय. ति-गृहे चैत्र इत्यादि । चैत्रस्थितिरूपव्यापारश्चैत्रसंयोगः, एवमुत्तरत्र, गृहादो ताशसंयोग विना पाचानिष्पत्तेरिति भावः ॥५१॥ आक्षेप निराकरण प्रकारवाक्यम्- सम्प्रदानापादानयोश्च न क्रियासामान्यहेतुत्वम् । दानेऽनुमतिप्रकाशनेन कर्तुरिच्छामुत्पाद्य सम्प्रदानस्य, पतनाश्रये च पत्रादौ पतनप्रतिबन्धकसं. योगनाशकविभागमुत्पाद्य अपादानस्य, चरितार्थत्वमेवेति ॥५२॥ विशेष्यदलव्यावृत्तिमाह-सम्प्रदानापादानयोरिति । न क्रियासामा- न्यहेतुत्वमिति । न क्रियासामान्यप्रयोजकत्वमित्यर्थः। तथाच यत्र सम्प्रदानस्या- नुमतिप्रकाशनद्वारा न दानप्रयोजकत्वं, तत्र सम्प्रदानस्य करणत्ववारणं, यत्र वाs ठादानस्य पतन प्रतिबन्धकसंयोगनाशकविभागद्वारा न पतनप्रयोजकत्वं, यथा ऊर्ध्व. क्षिप्तलोष्ठादेवृक्षसंयोगानन्तरपतनव्यापारसत्त्वेऽपि वृक्षाल्लोष्ठं पततीत्यादौ वृक्षरू- . - सव्याख्ये कारकचक्र- पापादानवारणश्च विशेष्यदलेनेति भावः । यत्रानुमति प्रकाशन द्वारा कर्तुरिच्छोत्पादेन दान निष्पत्तिः, तत्र सम्प्रदानस्य, यत्र वा तादृशविभागद्वारा पतननिष्पत्तिः, यथा वृक्षात् पर्ण पततीत्यादौ, तत्रापादानस्य च वारणं सत्यन्तदलेनैवेत्याह-दाने चे. ति । चरितार्थत्वमेव-कचरित्र्तृतार्थत्वमेवेत्यर्थः ॥ ५२ ॥ करणं कार कान्तरे न चरितार्थम् , तस्य चरमकारणत्वात- एवश्च तदनुकूलव्यापारमद्वारीकृत्य तज्जनकत्वं फलायोगव्यवच्छि. नकारणत्वं पर्यवसित करणत्वमिति लब्धम् ; एवञ्चैतन्मते चरमकार. रणत्वमेव करणत्वमिति कुठारादौ करणपदं गौणमिति ॥५३ ।। नन्वेवं लक्षणं दात्राद्यसम्भवि, दानधान्यादिसंयोगे प्रतियोगिनो दात्रस्यैवानु- योगिनः कर्मणो धान्यादेरपि प्रयोजकत्वात् , स्वभिन्नकारकं यत् धान्यादिकं तद्वथा. पारी तस्वजन्यसंयोगद्वारैव दात्रादेः फलप्रयोजकत्वात् , यदि च तत्र तत्तल्लक्षण- कर्तृनये दात्रादिकं न लक्ष्य, तत्र करणत्वव्यवहारः कारणतामात्रनिबन्धनो भाक्तः । लक्ष्यन्तु दात्रसंयोगादिकमित्युच्यते, तदा फलानुकूलव्यापारमद्वारीकृस्य फलजनक. त्वं करणत्वमिति लक्षणेनैव सामजस्ये किं गुरुतरोक्तव्यर्थविशेषणघटितलक्षणेन ? अतस्तथैवाह एवञ्चेति । दात्रादौ लक्षणागमनेन तत्संयोगादेरेव लक्ष्यत्वे चेत्य- थैः । तदनुकूलेति । फलानुकूलेत्यर्थः । नन्वेतादृशलक्षणस्य प्राचीनाभिप्रायवि. षयत्वे तेषां फलायोगव्यवच्छिन्न कारणत्वरूपकरणलक्षणविरोध इत्यत आह- फलायोगेति ॥ ५३ ॥ वस्तुतस्तु व्यापारवत्कारणं करणमिति, तेन हस्तादौ कुठारादौ च ना. व्याप्तिः। न चैवमदृष्टद्वारा कार्यमात्रे, विशेषतो ज्ञानेच्छाऽऽदौ मनोयोगद्वारा आत्मन: करणत्वापत्तिः, (१) उपधेयसङ्करस्येष्टत्वात्, अनुकूलकृतिसमवा- यित्वलक्षणकर्तृत्वस्य निरुक्तकरणत्वादन्यत्वेनैवोपाध्योरसङ्करात(२)॥५४॥ (१) अयं भावा-कार्यमानं प्रति कामिनीजिज्ञासाप्रतिबन्धकवत् , अष्टसहक- तात्मनोऽपि कार्यजातं प्रति भिन्नतया कारणमिति न्यायसिद्धान्तः । तथा चात्म. विरोधदर्शनेनेत्यरुचेराह "ज्ञानेच्छादाविति । (२) अयमाशयः-उप समीपे (ब्रह्मणि) धेयस्य ध्यातुं योग्यस्य आत्मनः, अथवा उप उपाधेः कृर्तृत्वकरणत्वरूपोपाधेः, धेयस्य युक्तस्य आत्मनः सङ्करः तादात्म्यम् , तस्येष्टत्वं सर्वेर्षा मते इति न काऽप्यनुपपत्तिः।

करणत्वविवेचनम् । - कुठारादौ खरसतस्तान्त्रिकाणां करणादेरप्रयोगादाह,-वस्तुतस्त्विति- च्यापारेति। व्यापारसम्बन्धेन तत्कियाकारणत्वं तत्कियाकरणत्वमित्यर्थः । एवं. व्यापारवत्कारणत्वस्य लक्षणत्वे इत्यर्थः । अदृष्टद्वारा कार्यमा प्रति आत्मनः कार- गत्वेन करणत्वापत्तिः, एवं ज्ञानेच्छादिकं प्रति मनोयोगद्वारा कारणत्वेन करणत्वाप- त्तिश्चेत्यर्थः । व्यापारसम्बन्धेन कारणत्वस्य विवक्षितत्वान्न दोषः, आत्मनः कार्यानु- कूलादृष्टवत्त्वेऽपि तेन सम्बन्धेन कारणत्वे मानाभावादिति ध्येयम् । उपधेयेति । धर्मात्यर्थः । सङ्कर:-अभेदः, उपाध्योः-कर्तृत्वकरणत्वयोः, असङ्करात्-भेदात् , तथा च विवक्षावशात् कर्तरि करणत्वव्यवहार इति भावः ॥ ५४ ॥ मतान्तरसाधकवाक्यम्- कर्तृभिन्नत्वेन करणलक्षणं विशेषणोयमित्यपि कश्चित् । इत्थश्वानु- मितौ व्याप्तिस्मृतिः करणं, परामर्शो व्यापारः, चक्षुरादेश्च चाक्षुषादिज्ञाने चक्षरादिसंयोगः, श्रोत्रस्य श्रावणज्ञाने(१) श्रोत्रमन:-संयोगः, न तु शब्दो. व्यापारः, शब्दाभावप्रत्यक्षे तस्य व्यभिचारात न च शब्दश्रावणे शब्दो- व्यापारः, लाघवेन श्रावणत्वावच्छिन्नं प्रत्येव हेतुत्वात् , न तु शब्द- श्रावणत्वावच्छिन्न प्रति गौरवात् ।।५५॥ कतरि करणत्वव्यवहारमसहम नानां मतमाह-कर्तृभिन्नत्वेति । विवक्षाव- शात् कर्तरि करणत्वव्यवहारविषयत्वस्य सर्वसमतत्वात् तदनुपपत्तिरित्यस्वरसः कश्चिदित्युक्त्या सूचितः । इत्थञ्च-व्यापार इत्यनुषज्यते । प्राचीनमतं दूषयति-, नत्वित्यादिना । शब्दं विनाऽपि श्रोत्रेण शब्दाभावश्रावणप्रत्यक्षजननात् तत्र शब्द- रूपव्यापाराभावेन तादृशप्रत्यक्षं न स्यादिति भावः। शब्दो व्यापार इति । इदमुपलक्षणं शब्दध्वंससाक्षात्कारे शब्दध्वंसोऽपि व्यापारो बोध्यः । लाघवेनेति । शब्दश्रावणे शब्दस्य, शब्दध्वंसश्रावणे शब्दध्वसस्य, शब्दाभावश्रावणे श्रोत्रमनः- संयोगस्य च व्यापारत्वकल्पनापेक्षया श्रवणमनःसंयोगस्यैव श्रावणत्वावच्छिन्नं प्रति व्यापारत्वकल्पने स्फुटतरमेव लाघव मिति भावः ॥ ५५ ॥ (१) श्रावणप्रत्यक्षे, शब्दस्याकाशगुणत्वेन तत्र समवायसंबन्धस्य नित्यतया तेन सम नोक्तव्यापारलक्षणं संघटत इत्याशङ्कायामाह-'श्रावणज्ञानेइति ।

सम्याख्ये कारकचके-
-
मतान्तरसाधकवाक्यम्-
अन्ये तु कुठारादौ करणे कर्तृव्यापारविषयत्वं करणत्वमिति, तह
फलानुकूलकर्तृव्यापारवत्वं, कुठारादौ छिदानुकूलकर्तृसंयोगः नमनोन्नम-
नादिमत्त्वमविकलम्, न चैवं स्थाल्यादेरधिकरणस्यापि कर्तृव्यापार्यत्वात
त्रातिव्याप्तिः, उपधेयसङ्करस्येष्टत्वात् ।। ५६ ।।
तच्च कर्तृव्यापारविषयत्वञ्च । कर्तृव्यापारेति । कर्तृव्यापारवत्त्वमित्यर्थः।
व्यापारवत्त्वञ्च समवायविषयतान्यतरसम्बन्धेन बोध्यम्। समवायसम्बन्धस्थलमाह-
कुठारादाविति । एवम्-ईदृशलक्षणकरणे । अधिकरणस्यापीति । अपिना
कर्मादिसंग्रहः । कर्तृव्यापार्यत्वादिति । कर्तृजन्यतण्डुलसंयोगादिरूपव्यापारव.
त्वादित्यर्थः । उपधेयेति। धर्मिणोऽभेदेऽपि कर्मत्वाधिकरणत्वनिरुक्तकरणत्वादीनाम्
उपाधीनां भेदाद् यो विभागव्याघात इति भावः ॥ ५६ ॥
मतान्तरसाधकवाक्यम्-
छिदादौ चेष्टायाः प्रयत्नरूपकर्तृव्यापारविषयत्वेन, हस्तादेश्च तज्जन्य-
चेष्टावत्त्वेन । करणत्वमिष्टमेव, चेष्टया हस्तादिना च छिनत्तीति प्रयोगस्य
सर्वसम्मतत्वात् । कर्मादौ विवक्षावशात् प्रयोगो भवत्येव, तण्डुलेन
स्थाल्यामोदनं साधयति, गवा दानं साधयति, ब्राह्मणेन दानं साधयती.
तिप्रयोगात् ।। ५७॥
चेष्टायां कृतिरूपकर्तृव्यापारस्य विषयतासम्बन्धेन सत्त्वात् , हस्तादौ च चेष्टा-
रूपकर्तृव्यापारस्य समवायेन सत्त्वात् , तयोरपि छिदादी करणत्वापत्तिमिष्टापत्त्या
परिहरति-छिदादाविति । कर्तृव्यापारविषयत्वेन विषयतया कर्तृव्यापारवत्तवे-
नेत्यर्थः । तज्जन्यचेष्टावत्वेन-समवायेन कर्तृजन्यचेष्टारूपव्यापारवत्त्वेनेत्यर्थः
इष्टमेवेति, कुत इत्याकाङ्क्षायामाह-चेष्टयेत्यादि । कर्तृभिन्नकारकस्य विव-
क्षावशात् करणत्वे इष्टापत्तिमाह-तण्डुलेनेति । साधयतीति सिद्धिरुत्पत्तिः, त-
था च या तण्डुलकरणकस्थाल्यधिकरणकान्नोत्पत्तिस्तदनुकूलव्यापारवानित्यन्वय-
बोधः। न चैवं तण्डुलेन तण्डुलं पचतीति स्थाल्या स्थायां पचतीत्यादिप्रयोगः स्यात,
इष्टत्वात् । तण्डुलकरणकत्वबोधकतण्डुलकर्मकत्वबोधकसामप्रयोः परस्परकार्यप्र-
तिरोधात् नैकदोमयोर्बोध इत्यपि कश्चित् । गवेति ।-गोकरणकदानोत्पत्त्यनुकूल-
व्यापारवानित्यर्थः । एवमुत्तरत्र ॥ ५५ ॥

करणत्वविवेचनम् । - मतान्तरसाधकवाक्यम्- चैत्र आत्मना चैत्रेण वा पचतीत्यप्रयोगात् कर्तुः शरीरस्य च वार- रणाय द्रव्यासमवायिक्रियानुकूलकृतिमद्भिन्नत्व(१) विशेषणं देयम् । कृतिम वञ्च समवायेनावच्छेदकतया च बोध्यम् , तेनात्मनः शरीर. स्य च व्युदासः, विशिष्टाभावाच्च(२) हस्तादिसंग्रहः, इदश्च न व्या- प्तिस्मृत्यादिसाधारणं, तत्र पूर्वनिरुक्तमेव करणत्वम् , इत्थञ्च करणपदं नानार्थमेवेत्याहुः ।। ५८॥ ननु कर्तुरपि करणत्वापत्तिः, आत्मनि कर्तरि कृतिरूपकर्तृव्यापरस्य, कर्तृशरोरे च चेष्टारूपकर्तृव्यापारस्य सत्त्वादित्यत आह-चैत्र इति । चैत्रेणेति-चैत्रश. रीरेणेत्यर्थः । द्रव्यासमवायोति । द्रव्यासमवायित्वविशेषणविरहाद् विशिष्ट- भावो हस्तादेरिति भावः । ननु व्याप्तिस्मृतावनुमितिकरणत्वं न स्यात् , तत्र कर्तृ. व्यापारानाश्रयत्वादित्यत आह-इदञ्चेति । तत्र-व्याप्तिस्मृतौ । निरुक्तमिति । वस्तुतस्त्वित्यादिनोक्तं व्यापारवत्कारणत्वं करणत्वमित्यर्थः । नानार्थमिति । इष्टमेवेति शेषः। अत्र च भात्मानमात्मना वेत्सीत्यादि महाकवि-कालिदासप्रयो- गानुपपत्तिश्चिन्त्या ॥ ५८ ॥ मतान्तरसाधकवाक्यम्- पाशुना छिनत्तोत्यादौ निरुक्तकरणत्वं तृतीयाऽर्थः । प्रकृत्यर्थस्य तत्रा- श्रयत्वेन, धात्वर्थस्य छिदादेश्च निरूपकत्वेनान्वयः, इत्थश्च परशुनिष्टकर- णत्वानरूपक-छिदानुकूलकृतिमानित्यन्वयधीरिति प्राञ्चः । परशुना छिनत्ति न दात्रेणेत्यादौ निरूपकत्वादेः ( संसर्गस्य ) प्रति- योगितावच्छेदकसम्बन्धत्वाभावाद् नअर्थानुरोधेन निरुक्तकरणतानिरूपि- तजन्यत्वमेव तृतीयाऽर्थः । तत्र निरूपकतया प्रकृत्यर्थस्य आश्रयतया च धा. (१) समवायसम्बन्धेन व्यवदन्यत्वविशिष्टकृतिमद्भिन्नत्वमित्यर्थः । कृतिम. स्वञ्च समवायेऽवच्छेदकतान्यतरसम्बन्धेन, कृतौ द्रव्यत्वं वैशिष्टयञ्च, सामानाधिक रणत्वसम्बन्धेन। (R) अयं भावः-कृतिमदन्यत्वमात्रोक्तौ हस्तादेरपि उक्तान्यतरसम्बन्धेन कृति. मत्त्वेन असंग्रहः स्यात् इति कृतौ द्रव्यवदन्यत्ववैशिष्टयमुक्तम् , तथाच हस्तादौ कृति. 'मत्वसत्वेऽपि द्रव्यवदन्यत्वस्य असत्वेन व्यवदन्यत्वविशिष्टकृत्यभावात ताशकृति- मदन्यत्वस्य निराबाधात् । .

४६ सव्याख्ये कारकच- त्वर्थस्यान्वयः, इत्थश्च परशुनिष्ठकारणतानिरूपितजन्यताश्रय-च्छिदानु- कूल-कृतिमानित्यन्वयधीरिति नव्याः ॥ ५९॥ प्राची मते परशुना छिनत्तीत्यादौ शाब्दबोधमाह-परशुना छिनत्तीत्या. दाविति । निरुक्तकरणत्वं व्यापारवत्कारणत्वरूपं तज्जन्यव्यापारवत्कारणत्वका वा करणत्वमित्यर्थः । प्रकृत्यर्थस्य-परश्वादः, तत्र-करणत्वे, माश्रयत्वेन- आधेयत्वेन तथाच प्रकृत्यर्थस्य आधेयत्वसम्बन्धेन तृतीयाथे करणखे, तादृशकरण- त्वस्य निरूपकत्वसम्बन्धेन धात्वर्थे, धात्वर्थस्य कृतौ, कृतेश्च प्रथमान्तपदोपस्था- प्येऽन्वय इत्यर्थः । निरुक्तकरणतानिरूपितेति । परशुनिष्टकर णतानिरूपितेत्यर्थः । एतच्च तृतीयार्थजन्यत्वस्य परिचायकमात्रं न तु तृतीयार्थे तस्य प्रवेशः, अन्वया- देव तस्य लाभादित्यवधेयम् । तत्र-तादृशजन्यतायां, निरूपकतया-निरूपित- त्वसम्बन्धेन, स्वविशेष्यान्वयिनोऽन्वयित्वरूपविशेषणत्वनियमेन निरूपितत्वसम्म. न्धेन परशुनिष्ठकरणतावत्वादेव करणतानिरूपितत्वं जन्यताया इति सूचयितुं जन्य. तायां निरूपितान्तप्रदर्शनम् । तथाच परशुनिरूपितं यद् जन्यत्वं तदाश्रय-च्छि- दानुकूलकृतिमानित्यन्वयधीरेव नव्यमतसिद्धेति ॥ ५९॥ मतान्तरसाधकवाक्यम्- जटाभिस्तापस इत्यत्र तृतीया न करणत्वे किन्तु विशेषणत्वे । तच्च प्रकृते वैशिष्टयरूपं जटाभिस्तापस इत्यस्य जटाविशिष्टस्तापस इत्यर्थः । अत्र चोपलक्षणत्वेनाभिधानम् । उपलक्षणत्वञ्च बोध्येतरव्यावृत्त्यनव- च्छेदकत्वे सति तत्ममानाधिकरणत्वम् । जटाया अतापसव्यावृत्त्यनव- च्छेदकत्वात् । शमदमादिमन् वस्यैवातापसव्यावृत्त्यन्यूनानतिरिक्तवृत्तित्वे. नावच्छेदकम्वात् ॥ ६॥ कारकाद्यर्थनिर्णय इत्यादिपदप्रायोपपदविभक्त्यर्थ प्रसङ्गादाह-जटाभिरि. त्यादिना। न करणत्वे इति-तत्र सप्तम्यर्थो बोधकत्वं, तथाच करणत्वबो. धिका तृतीया नेत्यर्थः, असम्भवादिति भावः। प्रकारत्वरूपविशेषणत्वं प्रकृतेऽसम्भ- वोत्यत आह-तच्वेति-विशेषणत्वम्चेत्यर्थः । जटाविशिष्ट इति-जटास- म्बन्धवत्तापस इत्यर्थः । नन्वेवं शमदमादिना तापस इत्यपि प्रयोगः स्यादित्यत- आह-अत्र चेति-अव्यवहितपूर्वोक्तजटासम्बन्धविषयताशालिबोधे इत्यर्थः । सप्तम्यर्थो निष्टत्वम् । उपलक्षणत्वेन-उपलक्षणत्व विषयतावत्ताभिप्रायेण, अभि-

करणत्वविवेचनम् ।
धानं-तृतीयाविधायकसूत्राभिधानमित्यर्थः । उपलक्षणत्वस्य स्वविशेष्यान्वयित्व-
रूपस्य प्रकृते विवक्षणे शमदमादिना तापस इत्यादिप्रयोगस्य वारणासम्भवादाह-
उपलक्षणत्वञ्चेति । बोध्यः-तापसः, व्यावृत्ति:-भेदः, तथा च प्रकृते ता-
पसेतरभेदानवच्छेदकत्वे सति तापसेतरभेदसमानाधिकरणत्वं पय्यवसितम् , अव.
च्छेदकत्वञ्चान्यूनानतिरिक्तवृत्तित्वरूपं ग्रन्थकृतैवानुपदं व्यक्तीकरिष्यते, तद्यक्तित्वेन
तापस इत्यादि प्रयोगाय अन्यूनत्वनिवेशः, प्रमेयत्वेन घट इत्यादिप्रयोगाय अन-
तिरिक्तत्वनिवेशः, घटत्वेन पट इत्यादिप्रयोगवारणाय बोध्येतरभेदसामानाधिकर-
ण्यनिवेशः । इदमत्रालोचनीयं,-जटाभिस्तापस इत्यादौ तृतीयार्थः सम्बन्धमात्र,
तत्र तापसेतरभेदान्यूनवृत्तिभिन्नतापसेतरभेदानतिरिक्त-वृत्तिभिन्न-तापसेतरभेद-म.
मानाधिकरण-जटाप्रतियोगिकत्वं जटायाः संसर्गः, तावतैव तादृशोपलक्षणत्वबोधो.
सत्तिः, तथाच तादृशसंसर्गेण जटाविशिष्टो यः सम्बन्धः तद्वान् तापस इत्येवाका.
रक्षा चित्र्यात्तत्र बोधः, न तु तादृशोपलक्षणत्वस्यापि तृतीयार्थतामुपगम्य तापसे-
तरव्यावृत्त्यनवच्छेदकतादृशभेदसमानाधिकरणजटासम्बन्धवान् इत्याकारका बोधः,
तथा सति संख्याऽतिरिकसुबर्थस्य प्रकृत्यर्थविशेष्यत्वेनैवान्वयस्यैव व्युत्पत्तिसिद्धत्वेन
तादृश व्युत्पत्तिविरोधापत्तेः, सम्बन्धतावत्ताशतृतीयार्थभेदं निवेश्य व्युत्पत्तिकल्पने
गौरवात् , तापसादिरूपविशेष्यभेदेन शक्त्यानन्त्यापत्तेः, उत्तप्रकारेणैव सामञ्जस्ये
तादृशार्थे तृतीयाशक्तिकल्पनाया अन्याय्यत्वाच्चेति । अथ घटत्वेन पट इत्यादी
पटेतरव्यावृत्त्य नवच्छेदकघटत्वप्रतियोगिकत्वसम्बन्धेन घटत्वविशिष्टसम्बन्धवान्
पट इत्येतादृशबोधस्यैव स्वीकरणीयतया तादृशसम्बन्धेन घटत्वविशिष्टसम्ब.
न्धस्य पटेऽसत्त्वादेव तादृशप्रयोगवारणसम्भवेनोपलक्षणत्वघटकतया तादृशभे-
दसामानाधिकरण्यविशेषणं व्यर्थमिति चेन, तस्य तत्रैव तात्पर्यात् , घटत्वं
पटे उपलक्षणम् इत्यादि व्यवहारवारणाय तादृशभेदसामानाधिकरण्यरूपविशेष्य.
दलमित्यपि कश्चित्। जटायां निरुत्तोपलक्षणत्वसत्त्वं दर्शयति-जटाया इत्यादि ।
जटाशून्यतापसे तापसेतरभेदसत्त्वाद् जटायास्तादृशभेदान्यून वृत्तिभिन्नत्वात् , ताप-
सेतरेऽपि जटासत्त्वाद् जटायास्तादृशभेदानतिरिक्तवृत्तिभिन्नत्वाच्च निरुतोपलक्षणत्वं
जटायामबाधितमेवेति भावः। शमदमादिसत्त्वे तादृशोपलक्षणत्वस्यासत्त्वं दर्शय-
ति-शमदमादीति । अन्यूनानतिरिक्तवृत्तित्वेनेति अभेदे तृतीया, तादृशान्यूना-
नतिरिक्तवृत्तित्वाभिन्नावच्छेदकत्वादित्यर्थः ॥ ६ ॥

सन्याख्ये कारकचके- मतान्तरसाधकवाक्यम्- न चैवं शमदमादिना तापस इति न स्यात्।, इष्टत्वात् । विवक्षावशा- दुक्तप्रयोगस्येष्टत्वे च विशेषणोपलक्षणसाधारणं वैशिष्टयमानं न तूपलक्ष. णतामात्रं नियामकम् ॥ ६॥ एवं-शमदमादिमत्त्वस्य तापसादीतरव्यावृत्त्यवच्छेदकत्वे इत्यर्थः। विवं. क्षावशात्-प्रतियोगिकत्वमात्रसंसर्गेण शमदमादिमत्त्वप्रकारेण तृतीयार्थविशेष्य. प्रकारकबोधतात्पर्यवशात , उक्तप्रयोगस्य--शमदमादिना तापस इत्यादिप्रयो. गस्य । विशेषणोपलक्षणेति-विशेषणं-विशेष्यतापसादीतरव्यावृत्त्यवच्छेदक श. मदमादीत्यर्थः । उपलक्षणं-विशेष्यतापसादीतरव्यावृत्त्यनवच्छेदकं जटादीत्यर्थः । तत्साधारणं-प्रतियोगिकत्वसम्बन्धेन तत्प्रकारकबोधवृत्ति, वैशिष्टयमात्रं-वैशि- ष्ट्यविषयतामात्र। निरुक्तोपलक्षणत्वविषयत्वाघटितवैशिष्ट्यविषयताघटितमात्रम् इति यावत् , नियामकं-जन्यतावच्छेदक, वैशिष्टयार्थकतृतीयाघटितवाक्यस्येति शेषः। उपलक्षणता-मात्रंनिरुत्तोपलक्षणत्वविषयताघटितधर्ममात्र, न नियाम- कं-न जन्यतावच्छेदकमित्यर्थः । वैशिष्टयार्थकतृतीयाघटितवाक्य । स्येति शेषः, तथा च शमदमादिना तापस इत्यादिप्रयोगस्य प्रामाणिकत्वे ताहशतृतीयाध. टिताकाक्षायाः प्रतियोगित्वसम्बन्धेन तादृशतृतीयाप्रकृत्यर्थविशिष्टविषयता. शालिशाब्दत्वमेव जन्यतावच्छेदकं वाच्यम् ; तच्च रूपम् उपलक्षणस्वविषयताशा- लिशान्दत्वमेव जान्यतावच्छेदकं वाच्यम् । तच्च रूपम् उपलक्षणत्वविषयता-शालि- बोध-तात्पर्यस्थलोय बोध-साधारणं, न तूपलक्षणत्वविषयताघटिततादृश विषयताशा. लिशाब्दत्वस्य ताहशतृतीयाघटिताकासाजन्यतावच्छेदकत्वं स्वीकरणीयमिति हृदयम्। इदन्तु बोध्यम् -वैशिष्टयश्चात्र नाधिकरणत्वं सम्बन्धितामात्र वा, प्रमेयत्वेन घट इत्यपि प्रयोगापत्तेः, परन्तु अतद्वथावृत्तत्वं, तथाच जटाभिस्तापस इत्यादी अजट. व्यावृत्तिमान् तापस इत्याकारकान्वयबोधो दर्शितः तत्र। अजटव्यावृत्तिमान् जटाभा- वाभाववानित्यथः। प्रमेयत्वाभावाप्रसिद्धथा प्रमेयत्वाभावाभावबोधासम्भवेन न ताश. प्रयोगः। अथाभावत्वावच्छिन्नाभावो न तृतीयार्थः, तस्याप्रसिद्धत्वात् , नाप्यभाव. प्रतियोगिकाभावः घटत्वेन पट इत्यपिप्रयोगापत्तेः, घटत्वाभावप्रतियोगिकामावस्य पटे सत्त्वात् ; नापि जटाद्यभावः, प्रकृत्यर्थस्य जटाया अन्वयानुपपत्तेः, (१)शक्त्या (१) पूर्वम् बहुश एकदेशान्वयस्य समाहतत्वेनात्र अभावत्वावच्छिन्नाभावरूप विभक्त्यकदेशे जटायामभेदेनान्वयश्चेत्तदा शक्क्यानन्त्यापत्तिः स्यादेवेति भावः । .

, करणत्वविवेचनम् । नन्त्यापत्तश्च, मैवं,स्वनिष्ठावच्छेदकताकभेदवत्वसम्बन्धएव तृतीयाऽर्थः, अवच्छेद- कता चाभाववत्तासम्बन्धावच्छिन्ना प्राया, तथा च जटाभिसतापस इत्यादौ अभावव त्वसम्बन्धावच्छिन्न-जटानिष्ठावच्छेदकताकभेदवान् तापस इत्याद्याकारकस्तत्र बोध. इत्यलमप्रस्तुताभिधानेनेति ॥ ६१ ॥ मतान्तरसाधकवाक्यम्- अक्षणा काणः, पादेन खञ्जः,मुखेन त्रिलोचन इत्यादौ वपुषा चतुर्भुज- इत्यादौ च । “येनाङ्गविकारः” (२।३।२० पा.) इति सूत्रेण तृतीया, येनाङ्गेनातिनो विकारो हानिराधिक्यं वा लक्ष्यते, तदङ्गवाचकाच्छब्दात तृतीया इति सूत्रार्थः, इत्थश्च तृतीयाया वृत्तित्वमर्थः, तच्चेह व्युत्पत्तिवै- चित्र्यात् कारणादिपदार्थैकदेशे विकार श्वान्वेति ॥२॥ इत्थञ्चेति-निष्कृष्टे सूत्रार्थे चेत्यर्थः । ननु तादृशान्वयस्य व्युत्पत्तिविरु- द्धत्वादाह-व्युत्पत्तीति ॥ ६२ ॥ मतान्तरसाधकवाक्यम्- काणत्वञ्च बहिरवच्छेदेन चक्षुःशून्यगोलकवत्त्वं, जातप्रसिद्धान्धस्या काणत्वे तु चक्षुष्मद्गोलकवत्वे सतीति विशेषणीयम् । एकेनार्द्धन वा चक्षु- षाऽपश्यन्नपि काण एव, एकगोलकेऽर्द्धगोलक एव वा चक्षुरभावात् । गो- लकोपघातेऽपि तदवच्छेदेन चक्षुरभावात् । काण एव यदि च तद्गो- लकेऽवच्छेदेन चक्षुःसत्त्वेऽपि उपघातादेव च न चाक्षुषं, तदोपहत. गोलकवत्त्वमेव काणत्वम् ।। ६३ ।। बहिरिति-गोलकस्य बहिरवयवावच्छेदेनेत्यर्थः, बहिःपदस्य बाह्यवस्तु. वटादिपरत्वे निमीलितनयनस्यापि ताशबहिरवच्छेदेन गोळकस्य चक्षुरभाववत्त्वात् तस्य काणत्वापत्तिवारणं न सम्भवतीति बोध्यम् । पश्चादन्धस्य काणत्वस्येष्टत्वादाह- जातेति । जन्मान्धस्येत्यर्थः, जन्मावधिदर्शनाभाववत इति यावत् । विशेष- णीयामति । काणपदशक्यताऽवच्छेदकगर्भ इति शेषः । एकगोलकेऽर्द्धगोलके वा बहिरवच्छेदेन चक्षुरभाववत्त्वात् तस्य काणत्वापत्तिमिष्टापत्त्या परिहरति-के. नेति । ननु गोलके उपघातरूपदोषाद् यत्र न चाक्षुषं तत्र बहिरवच्छेदेन चक्षु:- सत्त्वात् काणत्वं न स्यादत आह-गोलकोपघात इति । चक्षुःसत्त्वेऽपि दर्शन- प्रतिबन्धकपित्तादिदोषरूपे गोलकोपघात इत्यर्थः । तदवच्छेदेन चक्षुरभावा. का०च.

10 सव्याख्ये कारकचक्रे- दिति-बहिरवच्छेदेन तत्र चक्षुरभावस्यैव कल्पनादिति भावः । तादृशकल्पनाया मानाभावे स्वाह-यदि चेति । वस्तुतः फलाभावेन तत्र बहिरवच्छेदेन चक्षुर- भावकल्पनसम्भवाद् यदि चेत्युक्तम् । तद्गालक इति । अवच्छेदेन-बहिर वच्छेदेनेत्यर्थः। उपघातादेव-तादृशपित्तादिरूपदोषादेवेत्यर्थः। उपहतगोळ कवत्त्वेनेति अभेदे तृतीया, काणत्वं-काणपदार्थताऽवच्छेदकम् , उपहतगोलकक स्वाभिन्न काणपदार्थताऽवच्छेदकमिति समुदायार्थः ॥ ६३ ॥ मतान्तरसाधकवाक्यम्- अक्ष्णेति पदसमभिव्याहारस्थले च काणपदं चक्षुःशून्यत्वविशिष्ट स्य वा बोधकम् । अक्षिपदश्च यदा कदाचिञ्चक्षुष्मद्गोलकपरम् । एवञ्च तादृशगोलकवृत्ति चक्षुःशून्यत्वम् उपघातो वा तद्विशिष्टवानिति अक्ष्णा काण इति वाक्यार्थः। एवं खञ्जत्वं तथाविधसंस्थानशून्यपदवत्त्वम् । पादेनेत्यादिसमभिव्या- हारस्थले च तादृशसंस्थानशून्यवानेव खञ्जपदार्थः । तथा च पादवृत्ति यत् तथाविधसंस्थानशून्यत्वं तद्विशिष्टवानित्यर्थः। त्रिलोचन इत्यस्य बहुव्री. हिणा लोचनत्रयवानित्यर्थः तथा च मुखवृत्तिलोचनत्रयविशिष्टवानिति मुखेन त्रिलोचन इति वा- क्यार्थः, एवमन्यत्राप्यूह्यम् ॥ ६४॥ अक्ष्णा काण इत्यादौ अक्षिपदस्य गोलकपरतया काणपदस्य शक्यार्थपरतया गोलकवृत्तिचक्षुःशून्यस्ववद्गोलकवानित्येव बोधो जायते, तत्राधिकविषयताकल्पना विद्वेषात काणपदस्य लक्षणया चक्षुःशून्यत्वविशिष्टवत्परताम् , अक्षिपदस्य चक्षुष्म- होलकपरताश्चाइ-अक्षणेतीति । बोधक इति-लक्षणया बोधकमित्यर्थः। तादृशगोलकेति । चक्षुष्मद्गोलकेत्यर्थः। न चान्यपुरुषोय चक्षुष्मद्गोलकवृत्ति यच्चक्षुःशून्यत्वं तद्विशिष्टहस्तादिमति काणभिन्ने तथा व्यवहारापत्तिरिति वाच्यं, चक्षुःशून्यत्वे ताशगोलकवृत्तित्वं नोपलक्षणविधया विवक्षितम् , अपि तु विशेषण- विधया, तथा च चक्षुष्मद्गोलम्वृत्तित्वविशिष्टचक्षुःशून्यत्ववत्वं तादृशगोलकस्यैक, न तु हस्तादेरित्यतिप्रसङ्गाभावात् । इदमत्रावधेयं यत्पुरुषोयैकगोलकस्य कदाचि. दपि चक्षुष्मत्त्वं तत्र तादृशव्यवारस्य सर्वानुभवसिद्धतया तादृशव्यवहारानुपपत्ति. रिति स्वातन्त्र्येण काणपदार्थगर्भ चक्षुष्मद्गोलकवतो निवेश मावश्यकः। जात. .

करणत्वविवेचनम् । ५१ प्रसिद्धान्धस्य तादशव्यवहाराविषयत्वे क्षतिविरहात , अक्षिपदं वा गोलकमात्रपर- मिति । तथाविधेति-साहजिकेत्यर्थः । मुखवृत्तीति । समासैकदेशीभूतलो- चनत्रयान्वितं प्रतियोगिपदत्वादिति ध्येयम् । अन्यत्र-पृष्ठेन कुब्ज इत्यादौ ॥६४ मतान्तरसाधकवाक्यम्- अक्षणा काण इत्यादौ पूर्वनिरुक्ता एव पदार्थाः। तृतीया अभेदे । तथा च तादृशगोलकाभिन्नं यच्चक्षुःशून्यमुपहतं वा तद्वानित्यर्थः। मुखेन त्रिलोचन इत्यत्र त्रिलोचनप लोचनत्रयविशिष्टवत्परम् । तथा च मुखा- भिन्नलोचनत्रयविशिष्टवानिति वाक्यार्थः। एवं पादेन खञ्ज इत्यादावपि स्वयमूहनीयमित्यपि कश्चित् ।। ६५ ॥ मतान्तरमुपन्यस्यति-अदणेति । पूमताद्वैलक्षण्यमाह-तृतीयेति । तादृशगोलकेति । चक्षुष्मद्गौलकेत्यर्थः । मुखेन त्रिलोचन इति । अत्र त्रि- लोचनपदस्य लोचनत्रयवत्त्वेन पुरुषपरत्वे तत्र मुखाभेदस्य बाधापत्तिरतो बहुव्री - त्तरम् अर्शआदित्वादच्प्रत्ययं स्वीकृत्य लोचनत्रयविशिष्टवत्परताम् आह-मुखेन त्रिलोचन इत्यत्रेति । एवं पादेन खज इत्यादावपि प्रत्यय ऊहनीय इति पाठः कस्यचिन्मतान्तर्गतः क्वचित् पुस्तके दृश्यते । अत्र प्रत्यय इति, पादाभिन्न सह- जसंस्थानशून्यं तद्वानित्यादिप्रत्यय इत्यर्थः । कश्चिदित्यनेनास्वरसः सूचितः, सच तादृशबोधस्यानुभवेनास्पर्शः, लोचनत्रयविशिष्टवतत्रिलोचनपदार्थस्य एक- देशेऽभेदान्वयस्य ऋद्धस्य राजमातङ्गा इत्यत्रेवाव्युत्पन्नत्वं, त्रिलोचनपदार्थगर्भ अधिकपदार्थप्रवेशेन गौरवं वाऽस्वरसः कश्चिदित्यु तथा सूचित इत्यपि कश्चित् , तच्चिन्त्यम् ॥ ६५॥ मतान्तरसाधकवाक्यम्- धनेन कुलं, विद्यया यश इत्यादौ तृतीया हेतुत्वे । “कर्तृकरणयोस्तृ- तीया" (२।१८ पा०) इत्यत्र क्रियासाकाङ्क्षतया निरुक्तकरणत्वे तृ. तीया विहिता । अत्र तु नामार्थेनापि साकाङ्क्षतया हेतुत्वसामान्ये "हे- तौ" ( २।३।२३ पा०) इति सूत्रेण तृतीया विहितेति भेदः ॥ ६६ ।। हेतुत्व इति । ननु हेतुत्वार्थकतृतीयाविधायकं हेताविति सूत्रं व्यर्थ, कर्तृक. रणयोस्तृतीयेति सूत्रेण करणत्वरूपहेतुत्वे एव तृतीयासम्भवादित्यत आह-कर्तृ. करणयोरिति । निरुक्तकरणत्वे-व्यापारबत्कारणलादिरूपे। नामार्थनापीति ।।

५२ सव्याख्ये कारकचके- . अपिना क्रियासाकाजस्वपरिमहः, तथा च यत्र नामार्थसाकाक्षत्वं, कारकस्य किया. साशलतया तत्र कर्तृकरणयोरिति सूत्राविषयतया न हेताविति सूत्रवैयर्थं सामा. न्यविशेषभेदादिति भावः ॥६६॥ मतान्तरसाधकवाक्यम्- सहशब्दस्य पुत्रेण सहागत इत्यादौ तृयीयायाः कर्तृत्वमर्थः । समभिः व्याहृतक्रियागमनादि, तस्य च वादिरूपैकदेशावच्छेदेनैककालीनत्वस- म्बन्धेन समभिव्याहृतक्रियायामन्वयः। एवञ्च पुत्रकर्तृकतादृशागमनस. मानकालीनागमनकर्त्तत्यन्वयबोधः। क्रिया-भागमनादिरित्यर्थः, समभिव्याहतेति । संहशब्दसमभिन्याहृते. त्यर्थः । क्रिया। आगमनादिरूपेत्यर्थः । तृतीयार्थस्य-कर्तृवस्येत्यर्थः । अथ तृ. तीयार्थकर्तृत्वस्य क्रियासाकाङ्क्षतया कथं नामार्थान्वयसम्भव इति चेत् , पञ्चम्य. विधित्वस्यापि क्रियामाकाङ्क्षतया अयमस्माद् दोघं इत्यादौ कथं नामार्थान्वयस- म्भवः ? तत्र व्युत्पत्तिवैचित्र्येण नामार्यान्वयस्वीकारेऽत्रापि (१)तथेत्यवधेयम् । ऊयमिति । पुत्रकर्तृकभोजनकालोनभोजनवानित्याकारकस्तत्र बोधः ॥ ६ ॥ मतान्तरसाधकवाक्यम्- वस्तुतस्तु सहशब्दस्यापेक्षाबुद्धिविशेषविषयत्वादिरूपं (२)साहित्यम- र्थः। तृतीयायाश्च वृत्तित्वं सङ्ख्यामात्र वा। सहशब्दार्थस्य । सम्बन्धः प्रथमान्तार्थेनेव तृतीयान्तार्थेनापि समं वाक्याथैः । निपातातिरिक्तना. मार्थयोरेव भेदान्वयस्य विभक्त्यर्थगर्भत्वात, साहित्यावच्छेदेन च स. वत्र विधेयस्यान्वयः। एवञ्च पुत्रेण सहागतश्चैत्र इत्यत्र पुत्रवृत्तिसाहि. त्यावच्छिन्नश्चैत्र आगमनकर्ता इत्यन्वयबोधः ॥ ६८ ॥ वक्ष्यमाणदोषादाह-वस्तुतस्त्विति । अपेक्षाबुद्धीति । पितापुत्रावित्या- शाकारकबुद्धिविषयत्वरूपसाहित्यमित्यर्थः, रूपेण सह घटं पश्यतीत्याद्यनुरोधेन स. ख्यामुपेक्ष्य अपेक्षाबुद्धिविशेषविषयत्वपर्यन्तानुधावनम् ; लाघवादाह-सङ्ख्ये. (१) अनावधेयत्वञ्च तत्तनियमस्टौतदंशातिरिक्तस्थले व्याप्तिः स्यादित्यभि. प्रायिकमिति बोध्यम् । (२) अपेक्षाबुद्धिश्च-अयमेका, अयमेकः, इमौ द्वौ, अयमेकः, अयमेकः, अयमेकः, इति इमे त्रय इत्येताहशीरूपा बोध्या।

करणत्वविवेचनम् । । ति । ननु सङ्ख्यामात्रस्य तृतीयाऽर्थत्वे तस्य प्रकृत्यर्थविशेषणतयैव भानात् तृती- या प्रकृत्यर्थस्य सहशब्दार्थे भाने आधेयतायाः संसर्गतया भानमुपेयं, सच कस्य प्रतिपाद्य इत्यत आह-सहशब्दार्थस्य सम्बन्ध इति । वाक्याथ इति-वा- क्यप्रतिपाद्य इत्यर्थः । तथा च तादृशवाक्याकाङ्क्षाज्ञानकार्यताऽवच्छेदकतयैव ता. शसम्बन्धमानमिति भावः । ननु नामार्थयोभैदान्वये विभक्त्यर्थद्वारताया अपेक्षि. तत्वात् कथं तां विना नामार्थयो दान्वय इत्यत आह-निपातातिरिक्तति । तथा च सहशब्दस्य निपाततया विभक्त्यर्थद्वारतां विनैव नामार्थयोझेदान्वयो न व्युत्पत्तिविरोधमासादयतीति भावः। विभक्त्यर्थगर्भवाद्-विभक्त्यर्थ द्वारीकृत्य व्युत्पन्नत्वादित्यर्थः । ननु पुत्रेण सहागतश्चैत्र इत्यादौ पुत्रचैत्रोभयस्मिन्नेवागम- नकर्तृत्वप्रतीते रानुभविकतया तदनुपपत्तिरित्यत आह-साहित्यावच्छेदेनेति । भवच्छेदकत्वमत्रानतिरिक्तवृत्तित्वम् । प्रकृतेऽन्वयबोधं दर्शयति एवञ्चेत्या. दिना । पुत्रवृत्तीति । आधेयतासम्बन्धेन पुत्रविशिष्टेत्यर्थः । इदमत्रालोचनीयं, पुत्रेण सहागतश्चैत्र इत्यादी तादृश साहित्येऽनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्य स्व. व्यापकतत्कत्वस्य वा न प्रकारतया तादृशबोधे भानसम्भवः, तस्य तादृशवाक्यघट- कपदार्थत्वाभावात् , किन्तु स्वव्यापकताऽवच्छेदकागमनकृतित्वावच्छिन्नप्रतियोगिक समवायेनैव विधेयभानं तत्रोपगन्तव्यम् । एवञ्च तदभ्युपगमे तादृशस्थले न क्षतिः, व्युत्पत्तिवैचित्र्यात् । पुत्रवृत्तिसाहित्यावच्छेदेनागमनकर्तृत्वबोधे पुत्रोऽप्युत्तरकालम् आगमनकर्तृत्वबोधो मानसात्मकः सम्भवतीति । न च पुत्रवृत्तिसाहित्यस्य तादृश- बुद्धिविषयतारूपस्य विषयभेदेन भिन्नस्य चैने बाधान ताशप्रयोगः साधुरिति वाच्य, विषयतासम्बन्धेन तादृशबुद्धरेव साहित्यरूपत्वात् । न च तथाऽपि विषय- तासम्बन्धेन तादृशसाहित्यस्य चैत्रत्वपुत्रत्वादावपि सत्त्वेन तत्रागमनकर्तृत्वादिरू. पविधेयासत्वेन तादृशसाहित्यव्यापकत्वभानानुपपत्तिरिति वाच्यं, तत्तन्निष्ठविषय.. तासंबन्धस्यैव व्याप्यताघटकसम्बन्धत्वोपगमात् तथैव साकाङ्क्षत्वाच्चेति ॥ ६८ ॥ मतान्तरसाधकवाक्यम्- तेन शिष्येण सह उपाध्यायो ब्राह्मणः-सुन्दर इत्यादौ द्रव्यगुणदिवि. धेयकल्थलेनान्वयः । “सहैव दशभिः पुत्रैर्भार वहति गदंभी त्यत्र पुत्रेषु भारवहनकर्तृत्वाबोधेऽपि ताशप्रयोगादेकदेशे विद्यमानेत्यध्या- हारेण एकदेशविद्यमानतायामुक्तसाहित्यस्यावच्छेदकवयाऽन्वयः, दशपु. .

सव्याख्ये कारकचक्रे- त्रवृत्तिसाहित्यावच्छिन्नैकदेशविद्यमानत्ववती गर्दभी भारवहनानुः कूलकृतिमतीत्यन्वयबोधः, (१) अत एव विद्यमानसहार्थे तृतीयेति शा. ब्दिका वदन्ति (२)॥६९ ॥ पूर्वकल्पपरित्यागे वीजं दर्शयति-तेनेति । वस्तुतस्तु कल्पानुसरणेनेति तदर्थः । शिष्येण सह उपाध्यायो ब्राह्मण इत्यादौ शिष्येण सह उपाध्यायः सुन्दर इत्यादौ चेत्यर्थः । द्रव्यगुणादीति । तत्र समभिव्याहृतक्रियाया अभावेन पूर्व कल्पे सहार्यान्वयासम्भवादिति भावः । अन्वय इति । अस्मद्दर्शनरीत्या शाब्दः बोधे तात्पर्य बोध्यम् । अत एव एकदेशे विद्यमानेत्यध्याहारेणैव तत्र शाब्दबो- धादेवेत्यर्थः । विद्यमानसहाथ । विद्यमानत्वान्वयित्रहार्थ इत्यर्थः ॥ ६९ ॥ मतान्तरसाधक्रवाक्यम्- धान्येन धनी, गोत्रेण गायः, प्रकृत्याऽभिरूप इत्यादौ "प्रकृत्यादिभ्य- श्चे” त्यनेन तृतीयाऽभेदार्थिका, धान्याभिन्नधनवानित्यन्वयधीः, गाग्र्यो. गर्गकुलोत्पन्नः, तथा च गोत्राभिन्नगर्ग कुलोत्पन्न इत्यन्वयधीः । प्रकृतिपदस्य साहजिकोऽभिरूपपदस्य रमणीयतावान् अर्थः, तथा च साहजिकाभिन्नर- मणीयतावानित्यन्वयः ।। ७० ।। गोत्रेणेति-गोत्रम् आदिपुरुषः, गर्गः-मुनिविशेषः । साहजिक इति । अर्थ इति परेणान्वयः, साहजिकत्वं-जन्यकृत्यजन्यत्वं, रमणीयता-सुखज. नकदर्शनविषयरूपादिमत्ता । 'प्रकृत्या कृपण' इत्यादौ प्रकृतिपदं स्वाधिकरणयाव- कालवृत्तिधर्मपरं, तथा च स्वाधिकरण-यावत्कालवृत्ति धर्माभिन्न कापण्यवानित्य. न्वयबोधः । 'जात्या ब्राह्मण' इत्यत्र ब्राह्मणपदं लक्षणयाऽदृष्टविशेषप्रयोज्यधर्मवत्पर नथा च जात्यभिन्नो योऽदृष्टविशेषप्रयोज्यधर्मस्तद्वानित्यर्थः, ब्राह्मणत्व जात्यवच्छि. (१) एतच्चांशः प्राचीन पुस्तके नोपलभ्यते (२) अयं भावः-अत्र सहार्थः साहित्यमेकधर्ममात्र, तृतीयाऽर्थो वृत्तित्वं संख्या मान.वा, तथा च शिष्यवृत्तिसाहित्यवान् उपाध्यायो ब्राह्मण इत्यादिप्रकारेण बोध्यः "एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभीगा इत्यादौ च भारवहनकर्तृत्वाभावेऽपि सहप्रयोगे विद्यमानेत्यस्याध्याहारात् विद्य. मानत्वं साहित्यं सहशब्दार्थः। तथा च समानकालिकत्वसम्बन्धेन दयापुत्रवृत्तिविद्य. मानत्वविशिष्टविद्यमानत्वाश्रय इत्याकारकान्वयबोध इति बोध्यम् ।

संप्रदानत्वविवेचनम् । ५५ अपरत्वेऽन्वयितावच्छेदकानुपस्थिस्या तत्र जात्यभेदान्वयानुपपत्तिः (१) इत्यधिक- मन्यत्रानुसन्धेयम् ॥ ७० ॥ - सम्प्रदानत्वविवेचनम् । सिद्धान्तवाक्यम्- (२)कर्मणा यमभिप्रेति स सम्प्रदानम्” (१।४।३२ पा०) इति सूत्रं तत्क्रियाकारणीभूतेन तक्रियाकर्मणा यं सम्बन्धीकर्तुमभिप्रैति का स सम्प्रदानमिति सूत्रार्थः । एवञ्च तत्क्रियाकारणीभूतकर्मजन्यफलभा- गित्वेनोद्देश्यत्वं सम्प्रदानत्वमिति पर्यवसितम् । ग्राम गच्छतीत्यत्र गमनकर्मजन्यफलभागित्वेनोद्देश्यस्य चैत्रादौ सत्वात, चैत्रादेस्तक्रियायां (१) अयंभावः-जननेन प्राप्यते या सा जातिरिति व्युत्पत्तिकरणे युक्त्वादाव- व्याप्तिमाशक्य "आकृतिग्रहणे ति निर्धार्य अनुगतसंस्थानव्यङ्ग्यत्वे सति असर्वलि. ङ्गत्वे सति सकृदाख्यातेन ज्ञानगोचरीभूता जातिरित्यवधारितम् । तथा च "जात्या ब्राह्मणः' इत्यादिप्रयोगे जातेः स्वरूपतः। सुग्राह्यत्वेन तत्र यदि तस्यास्तादात्म्येना. न्वयः स्यातहि अन्वयिताऽवच्छेदकानुपस्थित्या जन्मभेदान्वयानुपपत्तिरिति बोध्यम् । (२) अत्रेदं ज्ञेयम्-दानमात्यन्तिकं येन लभ्यते पूजितादिना। सम्प्रदानं तदुक्तं तत् त्रिविध परिकीर्तितम् ॥ प्रेरकञ्च निराकत तथाऽनुमन्तु कोविदैः। द्विजाय गां ददौ साधुरित्यत्र प्रेरको द्विजः ॥ ददाति तरवे तोयं सोऽत्र न प्रेरकस्तरुः । निराकर्ता नानुमन्ता नानिराकर्त्ततां गतः॥ ददात्यतिथये साधुः फलमूलजलादिकम् । अत्र न प्रेरयत्येष न निराकुरुते तथा । ददात्यर्थस्य यत्कार्यमात्रं गृह्णाति तत् कचित् । सम्प्रदानत्वमाप्नोति भयं तस्मै ददात्यसौ ॥ तत्त्वञ्च वैयाकरणनये-धात्वर्थक्रियाजन्यफलाश्रयसम्बन्धित्वेन कर्माभिप्रेतत्त्वम् । अखण्डोपाधि । संकेतविशेषसम्बन्धेन तत्पदवरवं वा । धात्वर्थश्चान्योद्देश्येन त्यागा- नुकूलो व्यापारः, एवञ्च “विप्राय गां ददाती" त्यसौ विप्रोदेश्यके गोनिष्ठत्यागानुकू- लोव्यापारो देवदत्तकत्तक इति बोधः। एवं वृक्षायोदकं सिञ्चति, शत्रवेऽस्त्रं मुञ्चति, मित्राय दृतं प्रेषयतीत्यादौ वृक्षोद्देश्यकोदकनिष्टक्रियाऽनुकूला देवदत्तनिष्ठा क्रियेत्यादि प्रकारेण बोधः। यदि तु दाधातुयोग एवानेन सम्प्रदानमित्याग्रहः, तदा युद्धाय संनह्मत इतिवत् "तुमर्थाच्च भाववचनात्" इत्यनेन चतुर्थी बोध्या। नैयायिकनये तु-क्रियाकारणीभूतकर्मजन्यफलभागित्वेनोद्देश्यत्वं सम्प्रदानत्वम् , "ग्रामं गच्छतीगत्यादौ गमनक्रियाया ग्रामस्याकारणत्वान्न दोषः। दानादौ च इयादिकं कारणमिति न प्रकृतसङ्गते विरोधः । बोधप्रकारश्व उक्त एवेत्यास्तां तावत।

५६ सव्याख्ये कारकचके- सम्प्रदानत्वभावात् तद्वारणाय कारणीभूतेति । तत्र गमने ग्रामस्य कार- णत्वात, दानादौ च गवादिदेयादिकमेव कारणमिति लक्षणसमन्वयः७१ सम्प्रदान लक्षयति-कर्मणेति । लक्षणातिव्याप्तिवारणाय कर्मपदं विशे. षयति-तक्रियेति । सम्बन्धीकर्नुमभिप्रैति-फलभागित्वेनेच्छोद्देश्यीकरोति। सम्प्रदानमिति । तस्क्रियासम्प्रदानमित्यर्थः । इच्छानिवेशे कर्तृनिवेशे च प्रयो. जनाभावानिष्कृष्टार्थमाह-एवञ्चेति । तरिक्रयाकारणीभूतेत्यस्य फलमाह- ग्राममित्यादि । तद्वारणायेति । चैत्रो गमनक्रियासम्प्रदानमिति व्यवहारवार- णायेत्यर्थः । काष्ठः स्थाल्यामोदनं पचतीत्यादौ पाकक्रियाकारणजन्यविक्लित्यादि. फलभागित्वेनौदनादेरुद्देश्यत्वात् तद्वारणाय कर्मेति बोध्यम् । तत्र गमने- गच्छतीत्यादिबोध्ये गमन इत्यर्थः । कारणत्वादिति । गमनैकदेशे संयोगे ग्रामस्य कारणत्वेऽपि गमने कारणत्वाभावादिति भावः । दानादाविति । आदि. पदात सेकादिपरिप्रहः । देयादिकमिति । आदिना उदकादिपरिग्रहः । दानकदेशे स्वत्वे पूर्वस्वत्वध्वंसद्वारा गवादेहेतुत्वात् स्वत्वध्वंसेऽपि स्वत्वद्वारा हेतुत्वाच गवादे- दनिकारणत्वमिति भावः । स्वत्वज्ञानद्वारा देयस्य गवादेरिच्छो प्रत्येव प्रयोजकत्व- मिति के चित् ॥ १॥ सिद्धान्तसाधकवाक्यम्- विप्राय गां ददातीत्यादौ जन्यफलप्रकारकेच्छापूर्वकत्वं चतुर्थ्यर्थः । व्युत्पत्तिधैचित्र्याच जन्यत्वेऽप्रकृत्यर्थस्यापि कर्मणो गवादेर्निरूपकतास. म्बन्धेनान्वयः, स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्यागो ददातेरर्थः, कृतिश्चाख्याताथैः, एवञ्च विप्रविषयकगोजन्य-फलप्रकारकेच्छापूर्वक- गोवृत्तिस्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्यागानुकूलकृतिमानित्य- न्वयधीः ।। ७२॥ इच्छापूर्वकत्वम्-इच्छाप्रयोज्यत्वम् , इदञ्च धात्वर्थताऽवच्छेदकपरस्व- त्वान्वयि । विषयतया-उद्देश्यतया, प्रकृत्यर्थः,-विभादिः । अथैवं चैत्रश्चैत्राय प्रामं गच्छतीत्यादेरपि प्रयोगापत्तिः, तत्र चैत्रोद्देश्यकामजन्य फलप्रकारकेच्छा प्रयोज्यप्रामनिष्ठसंयोगावच्छिन्नक्रियावाम् चैत्र इत्यन्वये बाधकाभावादिति चेच, चतुर्थ्यर्थघटकजन्यत्वं न जन्यतामात्रं, किन्तु करणतानिरूपितजन्यत्वमिति धात्व- यंघटकसंयोगेप्रामनिष्ठकरणतानिरूपितजन्यत्वस्य बाधेन तादृशान्वयाभावात् ॥७२॥ ।

संप्रदानत्वविवेचनम् । - . साधकवाक्यम्- पितृस्वर्गमुद्दिश्य कृते च गोदाने दानजन्यफलभागित्वेन पितोहेश्यो- न तु गोजन्यफलभागित्वेनेति पित्रादेर्न सम्प्रदानत्वं यदि च दत्ता गौःपितुः स्वर्गमुत्पादयिष्यतीत्यभिसन्धिस्तदाऽदृष्टद्वारक-तादृशकमजन्यत्वं वाच्यम् । के चित्तु-धात्वर्थताऽवच्छेदकत्वेन फलं विशेष्यं, निरूपितत्वेनेच्छा- विषयत्वं चतुर्थ्यर्थः, स च धात्वर्थताऽवच्छेदके फलेऽन्वेति, इत्थञ्च विप्र- निरूपितत्त्वेनेच्छाविषयगोवृत्तिस्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्न. त्यागानुकूलकृतिमानित्यन्वयधीः (१)जन्यस्वत्वस्य गोवृत्तित्वे लब्धे अर्था. तज्जन्यत्वमपि लभ्यत एवेति तादृशगोजन्यस्वस्वत्वनिरूपकत्वेनोद्देश्यत्वं विप्रस्याक्षतम् ॥७३॥ पितृस्वर्गमुद्दिश्य कृते गोदाने पितुः सम्प्रदानत्वापत्तिरत आह-पितुः स्व. गैमिति । अभिसन्धिः-इच्छा । मदृष्टद्वारकेति-प्रकृते तु स्वजन्यदानज. न्यादृष्टद्वारकमेव दानकर्मगवादिजन्यत्वं स्वर्गे, इति पित्रादेः सम्प्रदानत्वव्युदासः, एवं चतुर्थ्यर्थजन्यत्वमप्यदृष्टाद्वारकं ग्राह्य, तेन तत्र पित्रे गां ददातीत्यादिप्रयोगस्य नापत्तिः । फलं - लक्षणघटकफलं, तथा च धात्वर्थकारणीभूतकर्मजन्यतद्धात्वर्थ ताऽवच्छेदकफलभागित्वेनोद्देश्यत्वं सम्प्रदानत्वमिति भावः। अत्र धात्वर्थताऽवच्छेद. कत्वम् अवच्छेदकताऽवच्छेदकसाधारणं, तेन वृक्षायोदडमासिञ्चतीत्यादौ धात्वर्थता- ऽवच्छेदकताऽवच्छेदकसंयोगवत्त्वेनोद्देश्यत्वेऽपि न वृक्षादेः सम्प्रदानवहानिः, प्रकृते च स्वर्गों न धात्वर्थताऽवच्छेदक इति नातिप्रसाः पित्रादाविति भावः । इत्थति विप्रनिरूपितत्वेनेच्छाविषयो यद्गोवृत्तिस्वत्वध्वंसपूर्वकपरस्वर तदवच्छिन्नत्यागानु. (१) एवञ्च "दत्ता गौः पितुः स्वर्गमुत्पादयिष्यति" इत्यादौ तु पितुः स्वर्गा- दिकं न तथेत्यदोषः । चैत्राय चैत्रो प्रामं गच्छतीत्यादिप्रयोगवारणाय परेति । सच धात्वर्थताऽवच्छेदकफलेऽन्वेति । बोधप्रकारस्तु मुले उक्त एव । यत्तु, अन्न जन्यफलप्रकारकेच्छापूर्वकत्वं क्रियान्वयि चतुर्थ्यर्थः । व्युत्पत्तिवैचि. त्र्याच्च तदेकदेशे जन्यत्वे कर्मणो गवादेनिरूपकत्वसम्बन्धेनान्वयः। तथा च वि. प्रविषयकगोनिरूपितजन्यफलप्रकारकेच्छापूर्वकगोवृत्तिस्वस्वत्वध्वंसपरस्वत्वानुकूल. त्यागानुकूलकृतिमानित्यन्वयधीरिति, तत्र, गोजन्यफलस्य प्रकृते स्वत्वरूपतया विप्रविषयिका या गोजन्यफलप्रकारिकेच्छा तत्पूर्वकत्वस्य दानेऽसम्भवात् तादृश च्छाया एवं दानत्वादू, गौरवाच्चेति दिक् ।

सव्याख्ये कारकचके- कूलकृतिमानित्यन्वयबोधः । नन्वेवं विप्राय गां ददातीत्यादिप्रयोगस्य विप्रसम्प्रदा- नत्वोधकत्वमनुभवसिद्ध, तच्चैतन्मते नोपपद्यते शाब्दबोधे स्वत्वे गोवृत्तित्वस्येव भानादित्यत आह-जन्यस्वत्वस्येति । भर्थादिति-तथा च तत्समवेतज. न्यस्वत्वस्य तज्जन्यत्वनियमात् तादृशशाब्दानन्तरं मानस एव सम्प्रदान- स्वबोध इति भावः ॥ ७३ ॥ साधकवाक्यम्- एवञ्च वृक्षायोदकमासिञ्चतीत्यादौ संयोगावच्छिन्नद्रवद्रव्यक्रियाऽव- च्छिन्नव्यापारो धात्वर्थः । वृत्तित्वेनेच्छाविषयत्वं चतुर्थ्यर्थः, स च धा. त्वर्थताऽवच्छेदकताऽवच्छेदकसंयोगान्वयी,वृत्तित्वरूपद्वितीयार्थोऽपि ताह- शद्रवद्रव्यक्रियायामन्वेति । एवञ्च वृक्षवृत्तित्वेनेच्छाविषय-संयोगावच्छि- न्न-जलवृष-द्रवद्रव्यक्रियाऽवच्छिन्नव्यापारानुकूलकृतिमानित्यन्वय. बोधः ॥७४॥ एवञ्चेति । तादृशलक्षणकरणे चेत्यर्थः। वृक्षायेति । अत्रापि सम्प्रदानत्वं मुख्यमेवेति भावः । एवञ्चति । वृक्षवृत्तित्वेनेच्छाविषयो यः संयोगस्तदनुकूला या उदकवृत्तिवद्रव्यवृत्तिक्रिया तदनु लव्यापारानुकूल कृतिमानित्यन्वयधीरित्यर्थः ॥४॥ आक्षेपनिराकरणपूर्वकसाधकवाक्यम्- न चैवं सिचधात्वर्थताऽवच्छेदकद्रवद्रव्यक्रियायां द्वितीयार्थवृत्तित्वान्य ये पयसा वृक्षमासिञ्चतीति प्रयोगो न स्यात, ताहशक्रियाया वृक्षवृत्तित्वा. भावादिति वाच्यं, तत्र संयोगावच्छिन्नद्रवद्रव्यक्रियाया एव धात्वर्थतया तदवच्छेदकीभूतसंयोग एव वृक्षवृत्तित्वान्वयात् । द्रवद्रव्यसंयाग एव तत्र धात्वर्थ इति तु न युक्तं, तथा सति फलावच्छिन्नव्यापाराबोधकत्वे. न धातोरकर्मकत्वे धात्वर्थताऽवच्छेदकफलशालिवाभावेन वृक्षादेरकर्म. स्वापत्तेः ।। ७५ ।। तादृशक्रियाया इति । संयोगावच्छिन्नद्रवद्रव्यक्रियाया इत्यर्थः । तत्र-प- यसा वृक्षमासिञ्चतीत्यादौ। तद्वच्छेदकीभूतेति । धात्वर्थताऽवच्छेदकीभूते. त्यर्थः । प्राचीनमतं दूषयति-तत्रेति । पयसा वृक्ष मासिञ्चतीत्यादावित्यर्थः ॥ ७५ ॥ दृष्टान्तपूर्वकसाधकवाक्यम्- अत एव-अजां ग्रामं नयतीतिवद् न द्विकर्मकत्वं, संयोगावच्छिन्नद्रव - संप्रदानविवेचनम् । ५8 द्रव्यक्रियाऽर्थकत्वे तदवच्छेदकफलद्वयाभावात् । तादृशक्रियावच्छिन्नव्या पारस्य धात्वर्थत्वे च ताहशक्रियायामेव द्वितीयार्थ वृत्तित्वान्वयात तक्रिया- ऽवच्छेदकसंयोगे च चतुर्थ्यर्थस्योद्देश्यत्वस्यैवान्वयात् । फलबलेन तथैव व्युत्पत्तिकल्पनात् ॥ ७६॥ श्रत एव--वक्ष्यमाणयुक्तरेव । ननु तादृशक्रियाऽवच्छिन्नम्यापारार्थकरवे द्वि- कर्मकत्वं दुर्वारम् , अत आह-तादृशक्रियेति ॥ ७ ॥ आक्षेपनिराकरणपूर्वकसाधकवाक्यम्- न चैवमजां नयति ग्राममित्यत्रापि ग्रामस्य सम्प्रदानत्वापत्तिः । तथा. हि संयोगजनकगमनानुकूलव्यापारः, धात्वर्थः, द्वितीयाद्वयस्य वृत्तित्वम- र्थः, प्रेरणादिधात्वर्थताऽवच्छेदकगमनैकदेशे संयोगे ग्रामपदोत्तरद्वितोया. थस्य-गमने चाजापदोत्तरद्वितीयाऽर्थस्य वृत्तित्वस्यान्वयः। एवञ्च ग्रामवृत्ति- संयोगजनकाजावृत्तिगमनावच्छिन्नव्यापारानुकूल-कृतिमानित्यन्वयधीः । तथा चाजाजन्यफलभागित्वेनोद्देश्यत्वेन ग्रामस्याप्रत्ययात् न सम्प्रदानता । यत्र तु तथोद्देश्यत्वं विवक्षते, तदा ग्रामायाजां नयतीति प्रयोगो भव- त्येवेत्याहुः ।। ७७ ॥ एवमिति । तत्तरिक्रयाकारणीभूत -कर्मजन्य-फलभागित्वेनोद्देश्यत्वस्यैव स. म्प्रदानत्व इत्यर्थः। सम्प्रदानत्वापत्तिरिति । ग्रामस्याजाजन्यसंयोगरूपफल. मागित्वेनोद्देश्यत्वादिति भावः । न चाजो नयतीत्यादौ संयोगानुकूलक्रियाऽवच्छिन्न- व्यापारस्य धात्वर्थतयाऽजायास्तादशक्रियाकारणत्वाभावात् कथं प्रामस्य सम्प्रदान. स्वापत्तिरिति वाच्यं, तादृशधात्वर्थताऽवच्छेदकताऽवच्छेदकसंयोग एव क्रियाद्वारा अ. जायाः करणत्वेन कारणत्वस्याक्षतत्वात् , एवं रीत्या पूर्व सिचधातोः कर्मणः करणत' बोध्यमिति । तथाहि-उक्तापत्त्यभावं जानीहि । न सम्प्रदानतेति । तथा च तत्र तादृशोद्देश्यत्वबोधो न तात्पर्यविषय इति भावः। यत्र ताशबोधस्तात्पर्य- विषयस्तत्र तादृशप्रयोग इष्ट एवेत्याह-यदा स्विति । विवक्ष्यते-वक्तुस्तात्सर्य- विषयो भवतीत्यर्थः ॥ ७७ ॥ सिद्धान्तसिद्धमतवाक्यम्- वस्तुतस्तु त्यक्तुस्त्यज्यमानद्रव्यस्य स्वत्वभागित्वेनोद्देश्यत्वं सम्प्रदान- त्वं त्यागविशेषश्चात्र ग्राह्यः । तेन विक्रयादौ क्रेत्रादेर्न सम्प्रदानता। श्राद्धा.

६० सव्याख्ये कारकचक्रे- - पित्रादेनं स्वत्वभागित्वेनोद्देश्यत्व(१), किन्तु प्रीतिभागितयेति । अतः एव सम्प्रदानचतुर्थ्यसम्भवात् "नमःस्वतीत्यादि सूत्रान्तरेण चतुर्थी विधानम् । रुद्राय गां ददातीत्यादौ रुद्रादेः स्वत्वभागित्वेनोद्देश्यत्वम् ।।७८ पूर्वमते केचिच्वित्यादिमते च क्रयविक्रयादी क्रेत्रादेः सम्प्रदानत्वापत्तेराह- वस्तुतस्त्विति । उक्तप्रयोगासहिष्णुराह-वस्तुतस्त्वितीति केचित् । त्यज्य- मानेति-देयेत्यर्थः । त्यागविशेष:-अनुभवसिद्धदानवजात्यवच्छिन्नरूप इ. त्यर्थः। स्वत्वभागित्वेनोद्देश्यत्वं-देयद्रव्य-स्वत्वभागित्वेनोद्देश्यत्वमित्यर्थः प्रीतिभागितया-प्रीतिभागितयैवेत्यर्थः । ननु देवतायाः स्वरवास्वीकारे रुद्राय गां ददातीत्यादौ रुद्रादेः सम्प्रदानत्वानुपपत्तिरत आह-रुद्रायेति । उद्देश्यत्व. मिति । तथा च देवतायाः स्वत्वस्वीकारे इच्छा न विसंवादिनी, तदस्वीकारे विसंवादिनीत्युभयथैव तादृशोद्देश्यत्वानपायादिति भावः ॥ ८ ॥ साधकवाक्यम्- कर्मणेत्यादिसूत्रमप्येतत्परतयैव व्याख्येयमिति । कर्मणा-दानकर्म- णा, यमभिप्रैति-स्वत्वभागित्वेनोद्देश्यीकरोति, स सम्प्रदानमिति । एवञ्च सम्प्रदीयतेऽस्मै इति व्युत्पत्त्या सम्प्रदानसंज्ञाऽप्यन्वथैव । वृक्षायोद. कमासिञ्चतीत्यादौ वृक्षादौ सम्प्रदानप्रयोगो गौणश्चतुर्थीप्राप्त्यर्थः ॥ ७९ ॥ एतत्कल्पे पूर्वोक्तकल्पे च सूत्राविरोधमुपपादयति-कर्मणेत्यादि । इदम्च यागादेरपि दानत्वमभ्युपेत्य, अन्यथा यजादिधातुयोगे रुद्रादेः सम्प्रदानखानुपपत्तः, तस्य दानत्वाभावात् , तदनभ्युपगमे तु दानादिकर्मणेति व्याख्येयम् । एवञ्चेति- दानघटितलक्षणकरणे वृक्षादेः सेकसम्प्रदानत्वासम्भवेन चतुर्थी न स्यादत आह- वृक्षायेति । गौणः-क्रियाकर्मजन्यफलभागित्वेनोद्देश्यत्वेन लाक्षणिकः । चतु- र्थीप्राप्त्यर्थ इति । चतुर्थ्यास्तत्र लक्षणेति भावः । लाक्षणिकचतुर्थांघटितस्थले फले भवच्छेदकसाधारणधात्वर्थताऽवच्छेदकत्वस्य न निवेश इत्यभिप्रायः ॥ ७९ ॥ दृष्टान्तपूर्वकसाधकवाक्यम्- अत एव शत्रवेऽस्त्रं मुञ्चति, मित्राय दूतं प्रेरयतीत्यादौ धात्वर्थताऽव- च्छेदकफलोद्देश्यत्वाभावेऽपि चतुर्थीप्रयोग उपपद्यते। विभागानुकूल. व्यापारो मोचन, गमनानुकूलव्यापारः प्रेरणं, तदवच्छेदकगमनादिवि. (१) "इदं पित्रे नमः "पितृभ्यः स्वधा" इत्याधुदाहरणे । - संप्रदात्वत्वविवेचनम् । ६१ भागशालित्वेन शत्रुमित्रयोरतुद्देश्यत्वात् । तथा च तत्र तत्र उदकादिज. न्यफलपल्लवाद्यस्वजन्यदुःखादिदूतजन्यवार्ताज्ञानादिफलशालित्वेनोद्देश्य- त्वमेव गौणचतुर्थ्यर्थः। न चैवं गुरुप्रीतिमुद्दिश्य गुरुपुत्राय दत्ते गुरवे गां ददातोति प्रयोगः स्यात्, तथा विवक्षायामिष्ठत्वात् । अत एव यत्र रजकसम्बन्धित्वमात्र तात्पर्य- विषयस्तत्र रजकस्य वस्त्र ददातीति प्रयोग: स्यात् , यत्र तु वनजन्यफ- लभागित्वेनोद्देश्यत्वं तात्पर्यविषयस्तत्र रजकाय वस्त्रं ददातीति प्रयोगो. भवत्येव ।। ८०॥ अत एव-धात्वर्थताऽवच्छेदकत्वस्य फलेऽनिवेशाव। चतुर्थीप्रयोग:- क्रियाकर्मजन्यफलभागित्वेनोद्देश्यत्वे लाक्षणिकचतुर्थोप्रयोग इत्यर्थः । तत्र फले धात्वर्थताऽवच्छेदकत्वनिवेशे तनोपपद्यत इति भावः। तत्र तत्र लाक्षणिकचतुर्थी- प्रयोगमुपपादयति-विभागेत्यादिना । तत्र तत्र-निरुतस्थलत्रये। क्रमेण दर्शयति-उदकादीति । एवं-धात्वर्थताऽवच्छेदकत्वस्य फलेऽनिवेशे । तथा- विवक्षायां-गुरुप्रीत्युद्देश्यकत्वविवक्षायाम् । अत एव-क्रियाकर्मजन्यफलमा- गित्वेनोद्देश्यत्वस्य तात्पर्यविषयावे लाक्षणिकचतुर्थीप्रयोगत्येष्टत्वादेव । वस्त्रज. ज्यफलेति-फलमत्र स्वत्वादिकम् ॥ ८०॥ आक्षेपनिराकरणपूर्वकसाधकवाक्यम्- न चैवं श्राद्धादावपि पित्रादेःप्रीतिभागितया उद्देश्यत्वाद् गौणस- प्रदानत्वेन सम्प्रदानचतुथ्वोपपत्तेनमः स्वस्तीत्यादिसूत्रान्तरं व्यर्थमिति वाच्यं, यत्किञ्चिक्रियाकर्मजन्यफलभागित्वेनोद्देश्यत्वस्यैव गौणसम्प्रदा- नत्वेन नमः पदादेः क्रियावाचकत्वाभावेन पृथक् सूत्रप्रणयनात् । नारदाय रोचते कलहः, वैश्याय शतं धारयतीत्यादौ तु नारदादेन सम्प्रदानता, किन्तु "रुच्यर्थानां प्रीयमाणः” (२४।३३ पा० ) "धारेरु. त्तमर्णः” (१।४।३५ पा० ) इति सूत्रद्वयेन सम्बन्धमाने चतुर्थी विधीयते, यत्र चतुर्था सम्बन्धो धातुना रुचिराख्यातेन विषयताऽभिधीयते । नार- दस्य रुचिविषयः कलह इत्याद्यस्य, पुननिमङ्गीकृत्य । द्रव्यग्रहणं धारणं, वैश्यस्य शतकर्मकताहशग्रहणाश्रय इत्यन्तस्यान्वयधीः ॥ ८१ ।। कर्मजन्येति-क्रियाकर्मजन्येत्यर्थः। नन्वेवं 'नारदाय रोचते कलह' इत्यादी ६२ सव्याख्ये कारकच- । - . नारदादेर्निरुक्तसम्प्रदानत्वाभावात् नमःस्वस्तीत्यादिसूत्राविषयत्वाच्च चतुर्थी , स्यादित्यत आह-नारदायेति । रुचिः-प्रीतिः, सा चेच्छा, तथा च नारद- समवेतरुचिविषयः कलह इत्यर्थः। वैश्यस्येति-वैश्यसम्बन्धिशतसङख्यक- द्रष्यस्य पुनर्दानस्वीकारोत्तरग्रहणाश्रय इत्यर्थः ॥ ८१॥ सिद्धान्तविशिष्टवाक्यम्- (१)सम्प्रदानस्य कारकत्वं धात्वर्थताऽवच्छेदकफलनिष्पादकत्वेन दद- स्वेत्यनुमतिप्रकाशेन कर्तरिच्छामुत्पाद्य दाननिष्पादनेन वेति । अपरे तु त्यागजन्यस्वत्वजनकस्वीकारवत्त्वं सम्प्रदानत्वम् । श्रा- द्धादौ पित्रादेर्न स्वीकारः, रुद्राय गां ददातीत्यादावपि सम्प्रदानत्वं गौण- मुद्देश्यत्वस्वरूपमित्याहुः ।। ८२ ।। सम्प्रदाने क्रियानिमित्तस्वरूपकारकत्वं सङ्गमयति-सम्प्रदानस्येति । मतान्तरमाह-त्यागजन्येति । त्यागश्चात्र विशिष्य प्राह्यस्तेन ऋत्रादौ नाति- व्याप्तिः। न स्वीकार इति । अतो न पित्रादेः सम्प्रदानतेति शेषः, चतुर्थी तु नमःस्वतीत्यादिसूत्रादेवेत्यर्थः । ननु रुद्रायेत्यादौ रुद्रस्य तादृशस्वीकाराभावेन सम्प्रदानत्वाभावाचतुर्थी न स्यादित्यत आह-रुद्रायेति । मनसा पात्रोद्देशेन दानस्थले तादृशपात्रस्यापि सम्प्रदानतायाः सर्वसिद्धतया तस्य स्वीकारासम्भवेन तदनुपपत्तिरित्यस्वरस आहुरित्यनेन सुचितः । "पुष्पमिदं विष्णवे नमः" इत्यादौ प्रीतिप्रकारकेच्छाधीनत्वं चतुर्थ्यर्थः, तस्यः च मन्त्रकरणकत्यागविषयरूप-नमःपदाथै कदेशे तादृशत्यागे तादृशत्यागरूपनमः पदार्थ वाऽन्वयः । तादृशेच्छायामुद्देश्यत्वसम्बन्धेन विष्णोरन्वयः, नमःपदार्थताह. शत्यागविषयस्याभेदसम्बन्धेन पुष्पादौ ताशत्यागस्य वा विषयतासम्बन्धेन पु- पादावन्वयः, निपातातिरिक्तनामार्थस्य भेदसम्बन्धेनान्वयस्याव्युत्पन्नत्वात् ; एव. मोऽपि । तथा च विष्णूद्देश्यकप्रीतिप्रकारकेच्छाधीनमन्त्रकरणकत्यागविषयाभिन्न तादृशत्यागविषयो वा इदं पुष्पमित्यन्वयबोधः । ब्राह्मणोद्देश्य कगवादित्यागस्य मन्त्रकरणकत्वे प्रमाणाभावात् तत्त्रीत्यु द्देश्यको ब्राह्मणाय नम इत्यादि को न प्रयोगः, (१) पूर्वोक्तकारकत्वविवेचने सम्प्रदानविषये "सम्प्रदानादेरिश त्यादिना यदुक्तं तदेवान्न द्रढयति "सम्प्रदानस्येत्यादिनाविस्तृतञ्च पूर्वमेवास्माभिरिति तत्रत्य- एव द्रष्टव्यः। .

अपादानन्वविवेचनम् । ३ ब्राह्मणेभ्यो नम इत्यादौ नमःपदार्थ-नतिविषयत्वं चतुर्थ्यर्थः, ब्राह्मणविषयिका नतिरित्यन्वयबोधः । पुष्पमिदं परमात्मने नम इत्यादौ परमात्मनः प्रीत्यसम्भवेऽ पि तत्प्रीतिप्रकारकविसंवादीच्छासम्भवान्न तत्प्रीत्युद्देश्यकत्वाप्रसिद्धिरिति स्वस्वक- रणकहविस्स्यागविषयत्वं स्वधास्वाहयोरर्थः, तेनेदं पित्रे स्वधा, अग्नये स्वाहा इत्या. दौ पित्रुद्देश्यक स्वधाकरणकस्य हविस्त्यागस्य विषयाभिन्नमिदमित्याकारकस्तत्र बोधः, पैतृके त्यागे स्वाहाऽऽदेः, दैविके च स्वधाऽऽदेनं करणत्वं तप्राहकमानाभावादतः पित्रे स्वाहा अग्नये स्वधा इत्यादिको न प्रयोगः । अधिकमन्यत्रानुसन्धेयम् ॥४२॥ मपादानत्वविवेचनम् । सिद्धान्तवाक्यम्- (१)परकीयक्रियाजन्यविभागाश्रयत्वम् अपादानत्वम् । वृक्षात् पर्ण पततीत्यादौ पतनाश्रयस्य पर्णादेरपादानस्ववारणाय परकीयेति । अत्र तु पञ्चम्या विभागजनकत्वम्, अन्योन्याभाव प्रतियोगिताऽवच्छेदकत्वञ्चाभि- धीयते, विभागेऽन्योन्याभावे च वृक्षोऽधिकरणत्वेनान्वीयते । एवञ्च वृ- क्षवृत्तिविभागजनकवृक्षवृत्त्यन्योन्याभावप्रतियोगिताऽवच्छेदकपतनाश्रयः- पर्णमित्यन्वयधीः। अत्र च धात्वर्थताऽनवच्छेदकत्वेन विभागो विशेष्यः, तेन वृक्षं त्यजति खग इत्यादौ वृक्षादे पादामत्वम् ।। ८३ ।। (१) वैयाकरणनये-अत्रेदं बोध्यम्- विश्लिष्यतेः पदार्थस्य प्रथमो यः समाश्रयः । तदपादानमायातो वैकुण्ठादु गोकुलं हरिः ।। अपादानमिदं द्वधमचलं चलमित्यपि। पर्वतादवतीर्णोऽसौ धावतोऽश्वात् पपात सः । तत्त्वञ्च, प्रकृतधातूपात्तविभागजनकन्यापारनाश्रयत्वे सति प्रकृवधात्वर्थविभागाश्रयत्व मपादानत्वम् । नैयायिकनये तु-स्वनिष्ठभेदप्रतियोगितावच्छदकीभूतक्रियाऽजन्य वि. भागाश्रयत्वम् । तच्च विविधं-निर्दिष्टविषयम् , उपात्तविषयम् , अपेक्षितक्रिया म्चेति । साक्षाद्धातुना गतिनिदशे आद्यम् । यथाऽचात्पतताति। यत्र धात्वन्तराथा- गतिविशिष्टं स्वार्थ धातुराह तदुपात्तविषयम् । यथा वलाहकाद्विद्योतते विद्यत् । निःसरणपूर्वके विद्योतने द्युतिर्वर्तते । अपेक्षितक्रिय तु तद् यत्र प्रत्यक्षसिद्धमागमनं मनसि निधाय पृच्छति कुतो भवानिति ? पाटलिपुत्रादिति चोत्तरयति । ..

६४ सव्याख्ये कारकच- . - अपादानलक्षणं लक्ष्यति-परकीयेति । स्वमिन्नसमवेतेत्यर्थः, स्वं लक्ष्य. त्वेनाभिमतम् । पतनाश्रयस्येत्यनेन विभागजनकीभूतपतनक्रियायाः पर्णमिन्नासमा वेतत्वं सूचितं, तेन च तादृशविशेषणेन पर्णस्यापादानत्ववारणमिति ज्ञापितम् । ननु परत्वे प्रकृत्यर्थताऽवच्छेदकावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन प्रकृत्यर्थस्यान्व यो वाच्यः, अन्यथोभयभेदमादाय पर्णात् पर्ण पततीत्यादि प्रयोगापत्तः, तथा च पृथिव्याः पर्ण पततीत्यादिप्रयोगानुपपत्तिरित्यतः (१)परसमवेतस्वस्थले भेदप्रतियो- गिताऽवच्छेदकत्वमाह-अन्योऽन्येयेति। न च तथाऽपि पर्णात् पर्ण पततीत्यादिप्र. योगापत्तिवारणं दुःशकं पर्णनिष्ठपतन क्रियायां पतनशुन्यपर्णनिष्ठभेदप्रतियोगिताऽव. च्छेदकत्वसत्त्वादिति वाच्यं, यनिष्ठविभागजनकत्वं पतनक्रियायो बोध्यते, तनिष्ठ- भेदप्रतियोगिताऽवच्छेदकत्वबोधस्यैव ताशसममिव्याहारस्थले स्वीकारादिति बो- च्यम् । अधिकरणत्वेनेति । वृत्तित्वेनेत्यर्थः । अत्र-अपादानलक्षणे। धात्व. यति । तथा च परसमवेतधात्वर्थजन्यतद्धात्वर्थताऽनवच्छेदकविभागाश्रयत्वं तद्धा- त्वर्थापादानत्वमित्यर्थः ॥ ८३ ॥ मतान्तरनिराकरणवाक्यम्- यत्तु विभागावच्छिन्नक्रियायास्त्यजधात्वर्थतया विभागे विशिष्टक्रि. याजन्यत्वाभावान्न (३)तत्र तथेति तदसत्, तथा सत्यधःसंयोगावच्छि. न्नक्रियाया एव पतधात्वर्थतया वृक्षपर्णविभागे पर्णाधःसंयोगस्याजनक त्वादसम्भवापत्तेः । तदुपलक्षितजन्यत्वञ्च उभयत्र समानमिति ॥ ८४ ॥ ताशविशेषणासहिष्णुमतमाह-यत्त्विति। जन्यत्वाभावादिति । त- थाच तद्धात्वर्थताऽवच्छेदकावच्छिन्नजनकतानिरूपितजन्यतावद्विभागाश्रयत्वमपादा- नलक्षणघटकमिति भावः । तत्र-वृक्षं त्यजतीत्यादौ वृक्षे, तथा-अपादानत्वम् । (१) पृथिव्याः पर्ण पततीत्यादौ पणेऽपि पृथिवीत्वस्य सत्वात्तदवाच्छन्नप्रति. योगिताकस्याभावेन प्रयोगानुपपत्तिः स्पष्टव । अतः परसमवेतधात्वर्थजन्यतद्धात्व. थताऽनवच्छेदकविभागाश्रयत्वं तद्धात्वर्थापादानत्वमिति श्रीमन्माधेवोक्तं सूष्ठूपपद्यते। (२) अयं भावः, "वृक्षं त्यजति खग" इत्यादौ पूर्वोक्तलक्षणस्य वृक्षखगवि. भागे प्रसक्ततया तादृशविभागाश्रयतया चापादानत्वापत्तिः स्यादित्याशङ्कायामाह- जन्यत्वाभावादिति । "एवञ्च धात्वर्थताऽवच्छेदकावच्छिन्नजनकतानिरूपितजन्यताव. द्विभागाश्रयत्वमिति पर्यवसितम्। उपर्युक्तलक्ष्ये तु यद्धात्वर्थताऽवच्छेदकविभागावच्छि- न्नक्रियात्वं तदूविभागे जनकतानिरूपितजन्यताया असत्त्वेन दोषस्य दूरपराहतत्वात् ।

। भपादानत्वविवेचनम् । ६५ तथा सतीति । तद्धात्वर्थताऽवच्छेदकावच्छिन्नजनकतानिरूपितजन्यत्वस्य विव- क्षणे सतीत्यर्थः । तादृशफलोपलक्षितक्रियाजन्यत्वस्य विवक्षितत्वे तद्दोषतादवस्थ्य- माह-तदुपलक्षितेति । फलोपलक्षितेत्यर्थः ॥ ८४ ॥ सिद्धान्तसाधकवाक्यम्- एवञ्च प्रामाद् गच्छतीत्यादौ गमनादिजन्यविभागाश्रयत्वेन प्रामादे. रपादानत्वम् । “ध्रुवमपायेऽपादानम्” (११४२४ पा० ) इति पाणिनि- सूत्रम् , अपाये-विभागे, धुवं निश्चलं, तद्विभागजनकक्रियाशून्यमिति तदर्थः । धावतोऽश्वात पततीत्यादौ तु पञ्चमी नैतत्सूत्रेणानुशिष्टा, तदर्थं वक्तव्यान्तरं विधेयम् ।। ८५॥ एवञ्चेति । विभागे धात्वर्थताऽनवच्छेदकत्वविशेषणे एव चेत्यर्थः । ग्रामा. देरपादानत्वमिति । अन्यथा विभागे संयोगविशिधक्रियाजन्यत्वाभावाद् ग्रामा- देरपादानत्वं न स्यादिति भावः । सूत्रं व्याख्याय स्वमताविरोधमुपपादयति-अ. पाय इति । क्रियाशून्यमित्यर्थः, इति फलतो न विशेषः । नन्वेवं धावतोऽश्वाद. श्ववारः पततीत्यादौ अश्बादेरपादानत्वं न स्यात् , तत्र विभागजनकधावनक्रि- यावत्त्वादित्यतस्तत्रेयापत्तिमाह-धावत इति । अनुशिष्टा-अभिहिता । न. न्वपादानत्वविरहे कथं पञ्चमीत्यत आह-तदर्थमिति । तत्र पञ्चमीप्राप्त्यर्थः, विधेयं-सूत्रान्तरं कल्पनीयमित्यर्थः, मुनेः सूत्राभावादिति भावः ॥ ८५ ॥ सिद्धान्तसाधकवाक्यम्- वस्तुतस्तु विभागजनकत्वं यक्रियायामन्वीयते तक्रियाशून्यत्वमर्थः । तेन धावतोऽश्वात् पततीत्यादौ न काऽप्यनुपपत्तिः। तत्र पतनक्रियाया- मेव पञ्चम्यर्थविभागजनकत्वान्वयेनाश्ववृत्तिधावनक्रियायां तदनन्वया- दिति ॥ ८॥ कल्पनासहिष्णुराह-वस्तुतस्त्विति । तक्रियाशुन्यत्वमिति ।-क्रि- या-धात्वर्थः, स्वनिष्ठविभागजनकीभूतयत्किश्चिक्रियाशून्यत्वं, स्वनिष्ठविभागज. नकीभूतक्रियावत्त्वमिति यावत् , तादृश क्रियावत्त्वश्च स्वनिष्ठावच्छेदकताकभेदवत्त्व- सम्बन्धेन बोध्यम् । तदनन्वयात्-पञ्चम्यर्थविभागजनकत्वानन्वयादित्यर्थः, ता. दृशसम्बन्धेन धावनक्रियावत्वाभावेऽपि पतनक्रियावत्त्वाभावेऽपि पतनक्रियावत्त्वा- दिति भावः। ५का०च० ६६ सव्याख्ये कारकचक्र- ननु धावतोऽश्वाच्चैत्रः पततीत्यादौ चैत्रस्यापि स्वनिष्ठविभागजनकीभूतधा वनक्रियाशून्यत्वात् तस्याप्यपादानत्वापत्तिः, न च स्वनिष्ठविभागजनकत्वान्वित. क्रियाशून्यत्वमित्येव विवक्षणीयं, तथा च चैत्रनिष्ठो यो विभागस्तज्जनकत्वस्य प. वनक्रियायामेवान्वयात्तच्छून्यत्वाभावान्न चैत्रस्यापादानत्वमिति वाच्यं, धावतोऽ श्वात पतिताच्चैत्रादुष्णीषः पततीस्यादौ चैत्रस्यापादानस्वानुपपत्तेः, चैत्रनिष्ठो यो वस्तुगत्या विभागस्तजनकत्वान्विताश्वावधिकपतनक्रियावत्त्वात् , न च स्वनिष्ठ- त्वेन विभागजनकत्वान्वितक्रियाशून्यत्वं विवक्षणीयं, तथा च वस्तुगत्या यश्चैत्र- निष्ठो विभागस्तज्जनकत्वान्वयस्य चैत्रनिष्ठपतनक्रियायां सत्त्वेऽपि चैत्रनिष्ठत्वेन विभागजनकत्वान्वयस्य चैत्रनिष्ठपतनक्रियायामभावात् , किन्तूष्णीषपतनक्रिया- यामेव तच्छून्यत्वं चैत्रेऽशतमिति न तत्र चैत्रस्यापादानत्वहानिरिति वाच्य, तथा सति तादशक्रियाशून्यत्वमादाय धावतोऽश्वात् पतति चैत्र इत्यादौ चैत्रस्यापादान- त्वापत्तिरिति मैव, तक्रियाजन्यविभागाश्रयत्वे सति स्वनिष्ठत्वेन विभागजनका. न्विततक्रियाशून्यत्वं तक्रियाऽपादानत्वमिति पतनव्यक्तिभेदेनापादानलक्षणस्य मिन्नत्वात् । एतल्लाभायैव विभागजनकत्वान्वयिक्रियाशून्यत्वमनभिधाय विभागज. नकत्वं यस्क्रियायामन्वोयते, तक्रियाशून्यत्वमित्यभिहित, सत्यन्तनिवेशाद् धाव- तोऽश्वात् पतति चैत्र इत्यादौ धावनक्रियाप्रयोज्यचैत्रनिष्ठपतनक्रियाशून्यवृक्षादी न ततक्रियाऽपादानत्वापत्तिः, एवञ्च धावतोऽश्वात् पतिताच्चैत्रादुष्णीषः पततीत्यादौ उष्णीषादिनिष्ठपतन क्रियाऽपादानत्वं चैत्रे इष्टमेव, मियाया अव्याप्यवृत्तित्वे क्रिया- शून्यत्वस्थाने क्रियावभेद एव निवेश्य इत्यलमतिविस्तरेण ॥ ८६ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- अपाये विभागे ध्रुवमवधीभूतमपादानमित्यर्थः, अवधित्वं स्वरूपस- म्बन्धविशेषः प्रतीतिबलात् कल्प्यते । तेन धावतोऽश्वात पतित इत्यादी सक्रियस्याप्यश्वादेरपादानत्वं नानुपपन्नम् । अत एव वृक्षपर्णयोः क्रियया पणस्य विभागेऽपि वृक्षस्यावधित्वोपपत्तिरिति कश्चित् ।। ८७ ॥ मतान्तरमाह-मपाय इति । अपादानमित्यर्थ इति । सूत्रस्येति शेषः। ननु निष्क्रियस्यैवापादानत्वात् तत्रैवाव पित्वं स्वीकार्य, तथा च सक्रियस्याश्वादेर- वधित्वं न स्यादत माह-स्वरूपेति । प्रतीतिबलात्-धावतोऽश्वाद्विभजत इत्या. दिधीबलात् । अत एवेति । धीबलात् सक्रियस्यापादानस्वादेवेत्यर्थः। अत्र च वृक्षावधिकविभागासत्त्वेऽपि "न वृक्षाद्विभवते" इति प्रयोगापत्तिः, निरूपकत्वस्थ - 0. अपादानत्वविवेचनम्। ६७ वृत्यनियामकतयाऽभावप्रतियोगिताऽजवच्छेदकत्वेनान्यसम्बन्धेनाभावस्य विभागे सत्त्वादित्यस्वरसः कश्चिदित्यनेन सूचितः ॥ ८॥ सिद्धान्तसाधकप्रकारवाक्यम्- वृक्षाद् विभजते पर्णमित्यादौ विभागावधित्वमपादानत्वम् , अवधि- त्वम् अवधिमत्त्वं वा स्वरूपसम्बन्धरूपं पञ्चम्यर्थः, इत्थश्च वृक्षावधिक. विभागाश्रयः पर्णमित्यन्वयबोधः। न चैवं स्वस्माद्विभजत इत्यपि स्या- दिति वाच्यं, स्वप्रतियोगिकत्वविशिष्टसंयोगस्येव स्वावधिकत्वविशिष्ट- विभागाश्रयत्वस्य स्वस्मिन्नभावात, इत्थश्च अपादानपदं पञ्चमी च ना. नार्थमिति ध्येयम् । न चैवं परकीयस्पन्दनजन्यविभागाश्रयत्वेन वृक्षात् पर्ण स्पन्दत इत्यपि स्यादिति वाच्यं, परकीयक्रियेत्यत्र क्रियापदेन सक- मकधात्वर्थस्य विक्षितत्वात् ॥ ८८॥ निष्कृष्टमतमाह-वृक्षादिति । विभागावधित्वमपादानत्वं पञ्चम्यर्थोऽपि त. देवेति भावः । भवधित्वमिति । तस्य निरूपकत्व धम्बन्धेन विभागादावन्वयः। निरुतास्वरसादाह-अवधिमत्त्वमिति । अवधितानिरूपकत्वमित्यर्थः, तदेकदेशेऽ वधित्वे वृक्षस्याधेयतया, तस्य च स्वरूपसम्बन्धन विभागेऽन्वयः। ननूभयनिष्ठ- विभागस्यावधित्वमुभयत्रैवेति स्वस्माद् विभजत इत्यपि स्यादित्याशङ्कय निषेध- यति-न चेति । एवम्-अवधित्वादेः पञ्चम्यर्थत्वे । एवञ्चेति । वृक्षात् पत- तीत्यादौ निरुक्तविभागाश्रयत्वस्य वृक्षाद्विभजत इत्यादाववधित्वादेवापादानत्वरूप- वे चेत्यर्थः । सकर्मकेति । स्पन्देश्वाकम्मकत्वादिति भावः। नन्वेवं वृक्षे स्स- न्दापादानवव्यवहारवारणेऽपि वृक्षात् पर्ण स्पन्दत इत्यादिप्रयोगवारणासम्भवः, पञ्चम्या विभागजनकत्वादेः स्पन्दधात्वयऽबाधादिति न वाच्यं, पञ्चभ्यर्थविभागज- नकत्वादेः सकर्मकधातूपस्थाप्यार्थान्वयित्वव्युत्पत्तेरिति ॥ ८८ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- व्याघ्राद्विभेति, शत्रोः परित्रायत इत्यादौ पञ्चमी नापादाने, किन्तु "भीत्रार्थानां भयहेतुः" (१।४।२५ पा०) इति सूत्रेणानुशिष्टायाः पञ्चम्या- हेतुत्वमर्थः, धातोश्च यथायथं भयं भयाभावश्चार्थः, पञ्चम्यर्थश्च हेतुत्वं धात्वर्थभये धात्वर्थताऽवच्छेदकोभयेऽन्वेति, च आख्यातार्थश्चाश्रयत्वं पर- .

'६ः सव्याख्ये कारकचक्र- त्रानुकूलव्यापारश्च (१)व्याघ्रहेतुकभयाश्रयः शत्रुहेतुकमयाभावानुकूलव्या पारवानिति च यथायथमन्वयधीः॥ ८९ ॥ तथा चेति-भावित्वेनानिष्टचिन्तनं भयपदार्थः, तदेकदेशेऽनिष्टे पञ्चम्यर्थहे. तुत्वस्य जन्यत्वस्य वाऽन्वयः, तथा च व्याघ्रहेतुकं यदनिष्टं भावित्वेन तचिन्तना. श्रय इत्याकारको बोधः । नन्विदं सूत्रं व्यर्थ हेतुपञ्चम्यैवोपपत्तेरित्यत भाह, इत्थ. चेति-अत्रापि पञ्चम्या हेतुत्वार्थकत्वे चेत्यर्थः । तस्यैव-हेतुपञ्चमौविधाय- कसूत्रस्यैवेत्यर्थः । प्रपञ्चाय-विस्तारज्ञापनार्थम् ॥ ८९ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- एवं कपादन्धं वारयतीत्यादौ पञ्चम्याः पतनं, द्वितीयाया धात्वर्थताऽ. वच्छेदकप्रतिबन्धान्वयि वृत्तित्वं, धातोः प्रतिबन्धानुकूलव्यापारः, कृतिरा- ख्यातस्य चार्थः, तथा चान्धवृत्ति-कूपपतन-प्रतिबन्धानुकूलव्यापारानुकू. लकृतिमानिति वाक्यार्थस्तु न युक्तः, यत्कूपे कस्यापि पतनमप्रसिद्धं तत्रा- सम्भवाद् अत एव द्वितीयायाः पतन, पञ्चम्या धात्वर्थताऽवच्छेदकान्वयि. वृत्तित्वं धातोश्चाभावानुकूलव्यापारोऽर्थः । तथा च कूपवृत्त्यन्धपतनामा. वानुकूलव्यापारविषयकयत्नवानित्यर्थोऽपि न युक्तः, यदन्धस्य पतनमप्र- सिद्धं तत्रासम्भवात् । किन्तु धातोरभावानुकूलव्यापारः, पञ्चम्या वृत्तित्वं, द्वितीयायाः प्रतियोगित्वम् अनुयोगित्वं वा (२)धात्वर्थताऽवच्छेदकोभूता. भावान्वितमर्थः। अभावश्च कपादिसमभिव्याहारवशात् पतनादिसम्ब. न्धेन बोध्यः । एवञ्च पतनादिसम्बन्धेन कूपवृत्त्यन्धप्रतियोगिकाभावानु- कूलव्यापारविषयक-यत्नवानित्यन्वयधीः ।। ९० ॥ कूपादन्धं वारयतीत्यादौ पञ्चमी नापादाने इति तदर्थ वक्तव्यान्तरं विधेय- मित्याशयवानाह-कूपादिति । एवमग्रेऽपि । इत्यादावित्यादिना सविषाचादमुं वारयतीत्यादिपरिग्रहः । पतनमित्यस्य अर्थ इत्यप्रेणान्वयः । धाता:-यन्तव- ब्धातोः, तथा च वृञः प्रतिबन्धोऽर्थः, गेापारोऽर्थः, प्रतिबन्धः-अनुत्पादः, (१) इत्यञ्च हेतुपञ्चम्यवोपपत्तौ पृथकसूत्रप्रणयनं तस्यैव प्रपञ्चार्थ मिति बोध्यम् । (२) अयम्भावः, प्रतियोगिताया निरूपकत्वसम्बन्धेनान्वयित्वात्स च वृत्य- नियामकत्वादुपेक्ष्य इत्यरुचेराह "अनुयोगित्वा मिति । अनुयोगित्वञ्च स्वरूपसंब- न्धवत्त्वमेव । स च वृत्तिनियामकत्वादू ग्राह्य एव ।

. - अपादानत्वविवेचनम् । तदनुकूलव्यापार:-कूपे मा पत इत्यादिशब्दप्रयोगरूपः। मन्धवृत्तीति-कूप. पतनप्रतिबन्धान्वयि । प्रतियोगित्व-प्रतियोगिनि अभावस्य सम्बन्धः, न तु भभावे प्रतियोगिन इत्यत माह-अनुयोगित्वं वेति । मभावान्वितमर्थ- इति-आख्यातस्य कृतिरर्थ इत्यपि बोध्यम् ॥ ९ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- एवमेतस्मात् सविषान्नाद् मित्र वारयतीत्यादौ यत्सविषान्नस्य यन्मि- त्रस्य च भोजनमप्रसिद्धं तत्रापि भोजनादिसम्बन्धेन सविषान्नवृत्तिमित्र- प्रतियोगिकाभावानुकूल-व्यापार-विषयक-यत्नवानित्यन्वयधीः । एवं सर्वत्र बोध्यम् । कूपादन्धमित्यत्र सविषान्नाद् मित्रमित्यत्र च यथायथं धातोः पतनं, भोजनम् , अभावानुकूलव्यापारश्वार्थः । पञ्चम्याश्च यथायथं द्वितीयार्थकर्तृत्वान्वितद्वित्वसहितं वृत्तित्वं कर्मत्वञ्चार्थः । द्वितीयायाश्च कर्तृत्वमर्थः । धात्वर्थताऽवच्छेदकीभूते चाभावे धात्वर्थस्य पतनादेरधिक- रणत्वेन, द्वित्वावच्छिन्नस्य पञ्चम्यर्थवृत्तित्वद्वितीयार्थकर्तृत्वोभयस्य च प्रतियोगित्वेनान्वयो व्युत्पत्तिवैचित्र्यात् । एवञ्च पतनसामान्ये कूपवृत्ति- त्वान्धकतत्वोभयाभावानुकूलव्यापारविषयकयत्नवानित्याद्यस्य, भोजन- सामान्ये सविषान्नकर्मकत्वमित्यत्रकर्तृत्वोभयाभावानुकूलव्यापारविष- यकयत्नवानिति च द्वितीयस्यान्वयबोधः ।। ९१ ।। पतनादिसम्बन्धक्ष्य वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगित्वाप्रसि. मतान्तरमाह-के चितु कूपादन्धमित्यादिना वदन्तीत्यन्तेन । कर्मत्व. चार्थ इति-कूपादन्धमित्यत्र पञ्चम्या वृत्तित्वं द्वित्वञ्चार्थः । सविषाचादित्यत्र पञ्चम्या द्वित्वं कर्मत्वश्चार्थ इति बोध्यम् । अधिकरणत्वेनेति-अन्वय इत्य- प्रयेणान्वितम्। अधिकरणत्वेन-वृत्तित्वसम्बन्धेनेत्यर्थः । कूपेऽन्धपतनेऽपि अन्यपतनवारणस्थले कूपादन्धं वारयतीति प्रयोगवारणाय सामान्यपदम् । अन्ध. कर्तृत्वेति-कूपादन्धं वारयतीत्यादी अन्धपदं तत्तदन्धपरम् , अन्यथा कस्य- चिदन्धस्य कूपपतनेऽपि अन्यान्धकर्तृकपतनवारणस्थलेऽपि कूपादन्धं वारयती- त्यादिप्रयोगानुपपत्तिर्बोध्या, एवं कूपपदमपि तत्तत्कूपपरं, (१)वीजन्तु चिन्तनी- यम् । आद्यस्येति-बोध इत्यप्रणान्वयः॥ ९१ ॥ (१) अन्यथा जातिविवक्षायां 'कृपादन्ध वारयति" इति प्रयोगल्याप्रसिद्धिः प्रसज्ज्येतेति बोध्यम् ॥

सव्याख्ये कारकचक्र- - सिद्धान्तसाधकप्रकारवाक्यम्- एवमेवाकाशं न पश्यति घट इत्यादौ आकाशविषयताकदर्शनस्य घट वृत्तिदर्शनस्य चाप्रसिद्धान्वयो द्रष्टव्यः वक्ष्यमाणरीत्याऽत्र द्वितीयया विष यित्वरूपं कर्मत्वं, लक्षणया च घटवृत्तित्वं द्वित्वश्च बोध्यते । धातुना चालौकिकभिन्नं जन्यप्रत्यक्षं, तत्रैव द्वित्वावच्छिन्नद्वितीयार्थान्वितनबर्थ- स्यान्वयः । आख्यातस्य तादृशोभयाभावान्धितनिरूपकत्वमर्थः, तथा च लौकिकप्रत्यक्षसामान्यवृत्त्याकाविषयित्वघटवृतित्वोमयाभावनिरूपको. घट इत्यन्वयबोधः ॥९२ ॥ एवमेव-अनयैव रीत्या । माकाशविषयताकेति-भाकाशनिष्ठ-लो. किक-विषयताकेत्यर्थः, सौरभं पश्यतीत्यादिप्रयोगवारणाय तादृशधातुयोगे द्विती. याया लौकिकविषयत्वार्थकत्वादिति भावः। नन्वाकाशपदस्याकाशवृत्तिवे लक्षणा, तदभावश्च द्वितीयार्थलौकिकविषयत्वे बोध्यते, तथा चाकाशवृत्तित्वाभाववल्लौकिक- विषयतावद्दर्शनाश्रयो घट इत्याकारकबोधस्य तत्रासम्भवात् कुतोऽप्रसिद्धिरित्यत- आह-घटवृत्तिदर्शनस्य चेति । तथा च घटे दर्शनवत्त्वाप्रसिद्धया न तादृश- बोधः सम्भवतीति भावः । लक्षणया चेति-द्वितीयापदेन लक्षणया चेत्यर्थः, आकाशस्यालौकिकविषयताकप्रत्यक्षशालिनि चैत्रे आकाशं न पश्यति चैत्र इत्यादि. प्रयोगोपपत्तयेऽलौकिकभिन्नत्वविशेषणम् , आकाशकालीनो घट इत्याकारकघटनिष्ठ- लौकिकविषयताकप्रत्यक्षशालिनि चैत्रे आकाशं न पश्यति चैत्र इत्यादिप्रयोगोप. पत्तये लौकिकविषयताकत्वमनिवेश्य गुर्वपि अलौकिकविषयताकान्यत्वं निवेशितम् । ईश्वरः पश्यतीत्यादिप्रयोगवारणाय जन्यत्वनिवेशनं ताशप्रयोगस्येटवे तन्नोपा. देयम् । भनुमित्यादिकमादाय पश्यति-प्रयोगवारणाय प्रत्यक्षनिवेशनम् । तथा चेति । प्रत्यक्षतामान्येति-घटस्य दर्शकेऽपि चैत्रे चैत्रो घटं न पश्यतोत्या. दिप्रयोगापत्तिः पटदर्शने(१) चैत्रवृत्तित्वघटविषयकत्वोभयाभावसत्त्वादतः सामा. न्यपदम् अवच्छेदावच्छेदेनान्वयलाभाय । घटवृत्तित्वामयाभावेति-अत्र वृत्तिवं समवायेन प्राह्यम् , अन्यथा पटादिदर्शनस्य कालिकादिसम्बन्धेन (१) भवतु नाम पटदर्शने उभयाभावः, परन्तु चक्षुः सन्निकर्षे घटस्य दर्शकऽपि . मैत्रे प्रत्यक्षसिद्धत्वेन घटविषयत्वं चैत्रवृत्तित्वञ्च स्वभावतोऽपिलब्धं स्यात् । न त- दुमयाभावमादाय लौकिकप्रत्यक्षापलापः कत्तुं शक्यते ।

अपादानत्वविवेचनम् । ७१ - घटवृत्तितया घटः पटं न पश्यतीतिप्रयोगानुम्पत्तिः, घटस्योभयाभावनिरूपकत्वं स्वनिरूपितप्रतियोगिताऽऽप्रयवृत्तित्वनिरूपकतया बोध्यम् ॥ ९२ ॥ मतान्तरवाक्यम्- (अत्र केचित् आकाशविषयत्वाभाववच्चाक्षुषज्ञानाभाववान् घट. इत्यन्वयबोधः, अन्यथाऽनुपपत्त्याऽभावस्य वारद्वयान्वयस्वीकारादिति तदसत, आकाशं न पश्यति चैत्र इत्यादिसाधारण्याभावात् , चाक्षुष. ज्ञानवच्चैत्रादौ तदभावान्वयासम्भवात)(१)॥९३ ॥ चाक्षुषज्ञानवदिति । घटादिविषयतावच्चाक्षुषज्ञानवदित्यर्थः ॥ ९३ ॥ भाक्षेपनिराकरणपूर्वकसिद्धान्तवाक्यम्- न चाकाशं न पश्यत्यभाव इत्यादौ समवायसम्बन्धेनाभाववृत्तित्व- स्याप्रसिद्धया नोक्तक्रमण सामञ्जस्यमिति वाच्यं, तत्र हि धातोनिरुक्तलौ- किकप्रत्यक्षप्रतियोगित्वं समवायश्चार्थः, द्वितीयायाश्च विषयिप्रतियोगि- त्वम् अभावानुयोगिकत्वं त्रित्वञ्चार्थः, एकदेशे च विषयित्वे प्रकृत्यर्थ- स्याकाशादेनिरूपकत्वेनान्वयः, तथा च निरुक्तलौकिकप्रत्यक्षसमवाये आ. काशविषयिप्रतियोगिकत्वाभावानुयोगिकत्वोभयत्वावच्छिन्नो योऽभावस्त- निरूपकोऽभाव, इत्यन्वयधीः ।। ९४ ॥ तत्र हीति । हि-यतः । निरुत्तेति । अलौकिकविषयताकभिन्नजन्यप्रत्य. क्षेत्यर्थः, तथा च समवायसम्बन्धसामान्ये आकाशविषयि प्रतियोगिकत्वेति-प्रथम- दलानुक्कौ भाकाशपदार्थस्यानन्वयापत्तेः । न च तादृशधात्वर्थस्यैकदेशेऽलौकिकवि- षयत्वे भाकाशपदार्थस्याधेयतयाऽन्वयसम्भवात् कथं तद्दलोक्तिरिति वाच्यं, तथा सति अलौकिकविषयताकभिन्नघटादिप्रत्यक्षशालिनि चैत्रे आकाशं न पश्यति चैत्र- इति प्रयोगानुपपत्तेः, तत्र समवाये आकाशनिष्ठालौकिकविषयताकभिन्नघटादिप्रत्य. क्षप्रतियोगिकत्वचैत्रानुयोगिकत्लयोः सत्त्वात् । आकाश विषयकालौकिकप्रत्यक्षशा- 'लिनि चैत्र आकाशं न पश्यति चैत्र इति, प्रयोगानुपपत्तिरतो द्वितीयदलं, तादृशो- भयाभावनिवेशे तादृशोभयाभावनिरूपकत्वस्य परम्परयाऽभावेऽसत्त्वाद् अभावप. दार्थस्यानन्वयापत्तिरतस्तृतीयदलघटितत्रित्वावच्छिन्नाभावनिवेशः ॥ ९४ ॥ , (१) कोष्ठकस्थः पाठः प्राचीनपुस्तके नैव लभ्यते ।

सव्याख्ये कारकचके- " मतान्तरवाक्यम्- केचित्तु तत्र धातोलौकिकप्रत्यक्षप्रतियोगिकसमवायोऽर्थः, द्वितीयाया- श्च विषयिप्रतियोगिकत्वमभावानुयोगिकत्वञ्चार्थः, विषयित्वे चैकदेशे प्र- कृत्यर्थस्याकाशस्य निरूपकतयाऽन्वयः, तथा च निरुक्तलौकिकप्रत्यक्षस. मवाये आकाशविषयिप्रतियोगिकत्वाभावानुयोगिकत्वोभयत्वावच्छिन्नस्य योऽभावस्तन्निरूपकोऽभाव इत्यन्वयधीः । नन्वाकाशं न पश्यत्यन्ध इत्यादावुक्तबोधानुसारेण संशयविरो. धासम्भवः, न च मणिमन्त्रादिन्यायेन तत्सम्भव इति वाच्यं, माना. भावात् । अत्र नवीना:-लौकिकविषयिताविशिष्टज्ञाननिरूपितसमवा. यसम्बन्धेन आकाशविषयिताविशिष्टज्ञानाभावाश्रय इत्यन्वयबोधः, तथा च ग्राह्याभावमुद्रया आकाशं पश्यति न वेत्यादिसंशयविरोधि. त्वसम्भव इति । अनयैव दिशाऽप्रसिद्धस्थले बोधा द्रष्टव्या इत्यपि वदन्ति(१) ।। ९५॥ लाघवादाह-यवति । न चैतत् कल्पत्रय एव सौरभस्य लौकिकप्रत्यक्षशा. लिनि चैत्रे, चैत्रः सौरभ न पश्यतीति प्रयोगानुपपत्तिरिति वाच्यं जन्य प्रत्यक्षपदस्य चाक्षुषपरत्वात् । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिताऽवच्छेदकत्वोपगमे नि. रूपकतासम्बन्धेनाकाशाभावो द्वितीयार्थलौकिकविषयत्वेऽन्धीयते, अन्धादिपदसम- भिव्याहृतस्थले चाभावस्य द्विधाऽन्वयः, तथा चाभाववल्लौकिकविषयताकदर्शना. श्रयत्वाभाववान् अन्ध इत्यन्वयधीरिति वस्तुतस्त्वित्यादिना केनचिदभिहितं तद. सत् , घटादिविषयकौकिक प्रत्यक्षवति चैत्रे चैत्र आकाशं न पश्यतीत्यादिप्रयोगमा. धारण्याभावात् । नन्वाकाशं न पश्यत्यन्ध इत्यादावुक्तबोधानुसारेणेत्यादिपाठः क्व- चित्पुस्तकीयः, स च चिन्तनीयः । ननु घटं न पश्यति चैत्र इत्यादी अलौकिक- विषयताकान्यजन्यप्रत्यक्षसामान्यान्तर्गते घटस्य लौकिक प्रत्यक्षेऽपि तत्र घटविषय. तात्वचैत्रनिष्ठत्वयोः सत्त्वानोक्तक्रमेण बोधोपपत्तिरित्यत आह-अप्रसिद्धस्थल- इति । तथा च अप्रसिद्धस्थले एव तादृशरीत्या शाब्दबोधः, प्रसिद्धस्थले तु घ. टविशिष्टलौकिकविषयताकचाक्षुषाभाववाञ् चैत्र इत्याद्याकारको बोधः। लौकिकवि षयस्वन्तु द्वितीयार्थ इति ॥ ९५ ॥ (१) एतच्चाशः प्राचीनपुस्तके नोपलभ्यते । . . .

- मपादानत्वविवेचनम् । ७३ सिद्धान्तसाधकप्रकारवाक्यम्- हिमवतो गङ्गा प्रभवतीत्यादौ न पञ्चम्या हेतुत्वं धातुना च उत्पत्तिः प्रत्याय्यते, तथा सति “जनिकर्तुः प्रकृतिः” (२४३० पा०) इत्यत एवो- पपत्तौ "भुवः प्रभवः” (श४।३१ पा० ) इति सूत्रप्रणयनवैयात,। किन्तु प्रकर्षण भवनं प्रभवनं प्रकाशः, आद्यबहिःसंयोग इति यावत् । स- एव धात्वर्थः । बहिः पदार्थः प्रकृते भूखण्डमेव, पञ्चम्यर्थश्च संयोगध्वं. साव्यवहितोत्तरक्षणवृत्तित्वम् , आख्यातार्थ आश्रयता, तथा च हिमवत्सं- योगध्वंसाव्यवहितोत्तरक्षणवाद्यपृथिवीसंयोगाश्रयतावती गङ्गा इत्यन्व- यधीः । वैकुण्ठात् काशीतो वा गङ्गा प्रभवतीत्यप्रयोगाद् अव्यवहितेति आद्येति च, वैकुण्ठसंयोगध्वंसाव्यवहितोत्तरक्षणे भूसम्बन्धस्य, काशीसं. योगध्वंसाव्यवहितोत्तरक्षणे चाद्यस्य तस्य चाभावात् । वल्मीकामात् प्रभ- वति धनुःखण्डमाखण्डलस्येत्यादावप्ययमेवार्थः। परन्तु तत्र वल्मीकाग्रो. देशो बहिःपदार्थ इति विशेषः । तथा च वल्मीकाप्रसंयोग-ध्वंसाव्य. घहितोत्तरक्षणवाद्यवल्मीकाग्राव॑देशसंयोगाश्रयो धनुः खण्डमि. त्यन्वयबोधः(१)॥६६॥ भूसम्बन्धस्येति-अभावादित्य प्रेणान्वयः । तस्य-भूसम्बन्धस्य । अ. यमेवार्थ इति-वल्मीकाप्रसंयोगवंसाव्यवहितोत्तरक्षणवाद्यवल्मीकानोदे. शसंयोगवदिन्द्रस्य धनुःखण्डमित्याकारकस्तत्र बोधः । वल्मीकः-सातपो मेघः, भाखण्डल: शक्रः ॥ ९६॥ सिद्धान्तसाधकप्रकारवाक्यम्- श्रीकृष्णात पराजयते शिशुपालः, अध्ययनात् पराजयते बाल इत्यादी धातोरसहिष्णुता, पञ्चम्याः कम्मत्वम् , आख्यातस्याश्रयत्वमर्थः। श्रीकृष्ण न सहते, अध्ययनं न सहत इति तदर्थविवरणात् । असहिष्णुता चो भयत्रैव द्वेषविशेषः, अभिभवाशक्यत्वज्ञानमशक्यत्वज्ञानं वा। इत्थश्च श्रीकृष्णविषयकद्वेषवान् अभिभवाशक्यत्वज्ञानवान् वा इत्याद्यस्य, अध्य- यनविषयकद्वेषवान् अशक्यत्वज्ञानवान वा इति द्वितीयस्यान्वयबोधः । विप्राद् धनमादत्त इत्यादौ पञ्चम्या यथेष्टविनियोगोऽर्थः । न तु स्वत्वम् (१) इत्यपि न प्राचीने प्रतौ प्रतीयते। : क- सन्याख्ये कारकचके- चौराद् धनमादत्त इत्यादौ चौरस्य स्वत्वाभावेन तदसम्भवात् । धातार्य- थेष्टविनियोगफलकस्वीकारोऽर्थः, न तु स्वत्वजनकस्वीकारः, विप्राद् धनमादत्ते चौर इत्यादौ तदसम्भवात् । पञ्चम्यर्थयथेष्टविनियोगस्य चा. व्यवहितोत्तरत्वसम्बन्धेन धात्वर्थताऽवच्छेदकयथेष्टविनियोगेऽन्वयः । अव्यवहितत्वच स्वसमानविषयकपुरुषान्तरीयविनियोगव्यवहितभिन्न- त्वं, तेन शूद्रतः प्रतिगृह्य विप्रेण दत्तं धनमादातरि शूदादादत्ते इति न प्र. योगः। इत्थञ्च विप्रीययथेष्टविनियोगाव्यवहितोत्तरधनवृत्तियथेष्टविनि- योगफलकस्वीकारवानित्यन्वयबोधः ॥ ९७ ॥ श्रीकृष्णात् पराजयत इत्यादि । कर्मत्वमिति-प्रकृते विषयतारूपम् । धातोरसहिष्णुताऽर्थकत्वे तान्त्रिकाणां स्वरसमाह-श्रीकृष्णमिति । उभयौव. पवशेष इति-कृष्णात् पराजयत इत्यत्र अभिभवेति, अध्ययनात् पराजयत- इत्यत्राशक्यत्वेति । असाधारणत्वमादाय बोधमाह-इत्थञ्चेति । यथेष्टविनि- योगः,-उपभोगहेतु व्यापारः, स च ममेदमिति धोः। तदसम्भवात्-स्व. स्वधन कस्वीकारासम्भवात् । नन्वव्यवहितोत्तरत्वं स्वध्वंसाधिकरणत्वे सति स्वच. साधिकरणसमयध्वंसानधिकरणत्वं, तथा च विप्रविनियोगविलम्बाद् विनियोगवति द्रव्ये विप्राद् धनमादत्ते चौर इति प्रयोगो न स्यादित्युक्तम्-अव्यवहितत्व. चति । स्वेति-स्वोत्तरसमानविषय कविनियोगानुत्तरत्वमत्राव्यवहितत्वं बोध्यं, न तु पुरुषान्तरीयत्वमपि निविष्टं, यत्र विप्रस्यकविनियोगोत्तरविनियोगान्तरं ततः चौरविनियोगस्तत्र विप्रीयचरमविनियोगमादायैव विवाद् धनमादत्ते चौर इति प्र. योगसम्भवात् ॥ ९॥ सिद्धान्तसाधकप्रकारवाक्यम्- अधज्जुिगुप्सत इत्यादौ पञ्चम्याः कर्मत्वं, धातोनिन्दाऽर्थः, अध- म निन्दतीत्यर्थः। अधाद्विरमतीत्यादौ धातोः कारणानन्तरमकरणं पश्चम्याः कर्मत्वमर्थः, स च करणेऽकरणे चान्वेति। अधर्म कृत्वा पुनर्ने करोतीत्यर्थः। एवं धर्मात् प्रमाद्यतीत्यादौ पञ्चम्या विषयित्वं, धातोरनव- धानम् , आख्यातस्याश्रयत्वमर्थः, तथा च अधर्मविषयकानवधानाश्रय- इति शाब्दधीः । उपाध्यायादन्तर्द्धत इत्यादौ धातोः स्वविषयकप्रत्यक्षवि. रोधिव्यापारः, पञ्चम्याः सम्बन्धित्वं धात्वर्थताऽवच्छेदकप्रत्यक्षान्वितम् ।

. मधिकरणत्वविवेचनम् । ७५ भाख्यातस्य कृतिरर्थः, तथा चोपाध्यायसम्बन्धिस्वविषयकप्रत्यक्षविरोधि- व्यापारानुकूलकृतिमानित्यन्वयबोधः॥ ९८ ॥ निन्दतीति-निन्दा-द्वेषः, अधर्मविषयकद्वेषाश्रय इत्यर्थः । अन्वेती. ति-व्युत्पत्तिवैचित्र्यादिति भावः। अवधान-बुभुत्सा। व्यापार इति ।- अर्थ इति परेणान्वयः। अन्वितं-सम्बन्धित्वमित्यन्वयः ॥ ९८ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- दण्डाद् घटः, धूमावह्निमानित्यादौ पञ्चमी नापादाने क्रियायोगाभा- वात् किन्तु जनकत्वज्ञापकत्वरूपे हेतुत्वे जन्यत्वज्ञाप्यत्वरूपे हेतुमत्त्वे वा- हेतावित्यधिकारे "विभाषा गुणेऽस्त्रियाम्” (२।३।२५ पा० ) इति सूत्रेणा- नुशिष्टा । न चैव "जनिकर्तुः प्रकृतिः' (२४.३० पा०) इति सूत्रं व्यर्थ, काष्ठात्पचतीत्यव दण्डाज्जायत इत्यादावप्युत्पत्तिरूपधात्वर्थनिरूपितहेतु- हेतुत्वबोधकपञ्चम्या हेताविति सूत्रेणैव सम्भवादिति वाच्यम् , उत्पत्ते. रहेतुकत्वेऽपि सावधिकत्वाद् उत्पत्तिनिरूपितताहशस्वरूपसम्बन्धस्य हेतु- स्वादन्यत्वेन "हेतौ” (२।३।२३ पा०) इति सूत्रेण तत्र पञ्चम्या अलाभात९९ क्रियायोगाभावादिति-क्रियान्वय्यवयित्वमेवापादानस्वमिति भावः । नत्र- र्थान्वयानुरोधादाह-जन्यत्वेति-यथासंख्यमन्वयः । एवम्-अत्रत्यपञ्चम्या. हेतुत्वार्यकत्वे । सम्भवात्-अनुशिष्टपश्चमीतो बोधसम्भवात् । उत्पत्तेरहेतु. कत्वेऽपि-उत्पत्तेर्जनकतानिरूपकवाभावेऽपि, सावधिकत्वात्-सप्रयोजकत्वात् । ननु प्रयोजकत्वं जनकत्वमेवान्यदुर्वचभित्यत आह-ताशस्वरूपसम्बन्ध स्येति-तथा च स्वरूपसम्बन्धविशेषरूपस्य प्रयोजकत्वस्य हेतुत्वादन्यत्वेन न "हेतौ” इति सत्रात् पञ्चमी, किन्तु “जनिकर्तुः प्रकृतिः” इति सूत्रेणैवेति तत् सूत्र व्यर्थमिति अधिकरणत्वविवेचनम्- सिद्धान्तवाक्यम्- (१)अधिकरणत्वञ्च न धर्मसम्बन्धः, सम्बन्धस्य संयोगादिरूपस्य (१) अत्रेदमवधेयम्- वैयाकरणनये-आश्रित्य विषयीकृत्य वसेत् कर्ताऽथ कर्मणा। क्रियया सिद्धपथमा क्रियाद्वारेण वर्तते। शास्त्रेऽधिकरणं तत् स्यात् कैलासेऽस्ति महेश्वरः । . न भावः ॥ १९ ॥ -- सव्याख्ये कारकचके- . द्विष्ठत्वेन वदरादेरपि कुण्डाद्याधारत्वापत्तेः । न च कुण्डं न बदरधर्म इति वाच्यं, तर्हि स्वधर्मसम्बन्धोऽधिकरणत्वं पर्यावसितं स्वधर्मत्वञ्च स्वा. धेयत्वं, स्वाधेयत्वश्च यदि स्वनिरूपिताधिकरणसम्बन्धित्वं तदाऽन्यो- न्याश्रयः (१)अन्यच्च दुर्वचम् ।। १०० ॥ अधिकरणत्वं निरूपयितुमाह-अधिकरणत्वञ्चति । धम्मति-आधेय. तावदित्यर्थः । स्वधर्म इति-स्वस्य धर्मसम्बन्ध इत्यर्थः । स्वनिरूपिता. धिकरणेति-अधिकरणपदम् अधिकरणतापरं, तथा च स्वनिरूपितं यदधिकरण- तासम्बन्धित्वम् अधिकरणतानिरूपकत्वमित्यर्थः, अधिकरणताज्ञाने आधेयत्वज्ञान- स्य आधेयत्वज्ञानेऽधिकरणत्वज्ञानस्यापेक्षिततयाऽन्योन्याश्रय इत्यर्थः ॥ १०॥ अभिव्यापकमौपश्लेषिकमाभ्यर्णिकं चैवम् । नैषयिकश्च चतुर्दा मतमधिकरणं विशेषज्ञैः ॥ तिलेषु तैलमित्यादावभिव्यापकमुच्यते । वने सिहो वसत्यन्न औपश्लेषिकमीरितम् ॥ साधुर्वसति गङ्गायामित्यत्राभ्यर्णिकं मतम् । धमें वेदाः प्रमाणं स्युरन वैषयिक स्मृतम् ॥ तत्त्वञ्च, कर्तृकर्मद्वारा तन्निष्ठक्रियायाः साक्षास्क्रियाऽऽधारवत्त्वम् । “कारके हत्यधिका- रादू माधारश्चोपस्थितत्वात्तजैव लभ्यते । हरिणाऽपि तथैव समाहितम् । कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम् । उपकुर्वक्रिया सिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति ॥ तथा च "कटे आस्ते चैत्र" इत्यादिवाक्यात्कटाधिकरणकचैत्रकर्तृकं शयन- मिति बोधः। नैयायिकनये तु-आधारसप्तम्या आधेयत्वमात्रमर्थस्तस्य क्रियायामन्चयः । आधाराधेयभावश्च न संयोगादिरूपसम्बन्धात्मकः, कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् । अपि तु पदार्थान्तरमेव स च सम्बन्धविशेषावच्छिनः संयोगे. नाधिकरणं समवायेनाधिकरणमित्यादिव्यवहारात् । तथा च "गेहे स्थाल्यामोदनं पचतीत्यादौ निरुक्तसम्बन्धेन, गेहाधिकरणकस्थाल्यधिकरणकौदनकर्मकपाकानुकूल. कृतिमानित्यन्वयबोधः। (२) अन्योन्याश्रयत्वञ्च, स्वगोचरज्ञानाधीनज्ञानाधीनज्ञानगोचरवत्वम् । प्रकृते स्वपदेन अधिकरणत्वं प्रत्येतव्यम् । तथा च अधिकरणत्वज्ञानाधीन आधेयत्वज्ञानम्। तदधीनज्ञानञ्च अधिकरणत्वज्ञानमितिप्रकारेण ज्ञेयम् । अन्योन्याश्रयदूषकत्वन्तु स्वस्वस्मिनापादकत्वरूपम् ।

मधिकरणत्वविवेचनम् । - सिद्धान्तसाधकवाक्यम्- । नापि उत्पत्तये स्थितये शतये चापेक्षगीयत्वमधिकरणत्वम्, उत्प- तयेऽपेक्षणीयश्च कार्य्यस्य समवायिकारणं, स्थितये घटादेर्भूतलादि, ज्ञप्तये च जात्यादेः समवायि, अभावसमवाययोश्च स्वरूपसम्बन्धीति वाच्यम् , अपेक्षणीयत्वं हि न जनकत्वम् , अतीन्द्रियजात्यधिकरणेऽ- व्याप्तेः, (तस्य लौकिकप्रत्यक्षाभावेन सन्निकर्षाद्यघटकत्वेन जनकत्वाभा- वात) दण्डादेर्घटाधिकरणत्वापत्तेश्च नाप्यधिकरणत्वम् आत्माश्रयात्(१)। नापीति । उत्पत्तय इति-तदुत्पत्त्यपेक्षणीयत्वं तदधिकरणत्वम् , एवं स्थित्यादावपि बोध्यम् । जात्यादेः समवायोति । घटादिमद्यक्तेर्जातिज्ञानापेक्ष- गीयत्त्वञ्च सनिकर्षघट कतया बोध्यम् , एवमभावसमवायज्ञानेऽपि बोध्यम् । (२) अतीन्द्रियेति-इदमुपलक्षणम्, अतीन्द्रियाभावसमवाययोरधिकरणे चाव्याप्तिरपि बोध्या। दण्डादेरिति-दण्डादेर्घटानामुत्पत्तिप्रयोजकत्वादिति भावः। आ- स्माश्रयादिति । इदमुपलक्षणं, भवने उत्पन्नस्य प्राङ्गणं गतस्य घटादेरधिकरणे- ऽव्याप्तिरपि द्रष्टव्या ॥ १०१ ॥ मतान्तरनिराकरणपूर्वकसिद्धान्तसाधकप्रकारवाक्यम्- नापि तद्भिन्नत्वे सति तत्पतनप्रतिबन्धकसंयोगवन्मूर्चत्वं पतन- वद्रव्यस्याधिकरणत्वम् । मूर्त्तत्वेन विशेषणाद् ब्रह्माण्डधारकसंयोगा- श्रयेऽपीश्वरे नातिव्याप्तिः । पतनशून्यस्य च मूर्तस्य विलक्षणसंयोगव. त्वम् , अत एव कमलकोरकान्तवत्तयुत्पन्नविनष्टभ्रमराद्यधिकरणेऽपितत्प- तनाप्रसिद्धया नाव्याप्तिः । गुणक्रियाजात्यादेश्च तत्समवायित्वम् । अभा- वसमवायादीनाञ्च तत्स्वरूपसम्बन्धित्वम् , एवं परम्परासम्बन्धेनापि नि- र्वाच्यमिति वाच्यम् , अननुगमात , भूतले घट इत्यादावुक्तक्रमेण सप्त- म्यर्थतायां गौरवादननुगतत्वाच्च ।। १०२ ॥ (१) आत्माश्रयत्वञ्चस्विज्ञानाधीनज्ञानविषयत्वम् । अस्यापि दूषकत्वमन्यो- न्याश्रयसमानमेव। (२) अयम्भावः-चक्षुःसंयुक्ते घटे यथा समवायादिसन्निकर्षकारणम् , तथा अभावप्रत्यक्षे भूतलादिवृत्तिकः स्वरूपसम्बन्ध एवं सन्निकर्षवटकतया प्रविष्ट- इति बोध्यम् । - सम्याग्ये कारकचके- . शकते-नापीति । स्वस्मिन् स्वपतनप्रतिवन्धकसंयोगवत्त्वात् स्वस्मिन् स्वाधिकरणत्ववारणाय तद्भिन्नेति । सत्यन्तदलमात्रोक्तो तच्छून्यस्यापि देशस्य तदधिकरणत्वापत्तिरतो विशेष्यदलम् , एकपतनप्रतिबन्धकसंयोगवति अन्यस्या- धिकरणत्ववारणाय विशेष्यदले तदिति । ईश्वरे नातिव्याप्तिरिति । इदमापा. ततो ब्रह्माण्डपतनस्याप्रसिद्धया मूर्त्तत्वानुत्तावपीश्वरे नातिव्याप्तिः, किन्तु विभ्वा. स्मनस्तच्छरीराधिकरणत्ववारणाय । मूर्तस्वमिति । गगनादिवारणाय मूर्तस्येति पतनशून्यद्रव्यविशेषणम् । विलक्षणेति । वैलक्षण्यञ्च पतनाभावकल्प्यमिति भा. वः। अत एव-विलक्षणसंयोगवत्त्वस्याधिकरणतारूपत्वादेव । पतनशून्यद्रव्य- स्याधिकरणत्वं सामयति-कमलकारकेति । कमलकोरकान्तर्वर्ती-कमलको- रकमध्यस्थायी सन् तत्रैव उत्पन्नविनष्टो यो भ्रमरादिरित्यर्थः, तेन न तत्रोत्पन्नत्वा- दिकथनेन तत्स्थायित्वलामात् स्वातन्त्र्येण तत्स्थायित्वकथनव्यर्थता, न वा तत् स्थायिनस्तत्रोत्पनविनष्टस्यापि अन्यत्र स्थायित्वेन तत्पतनं प्रसिद्ध, तत्र स्थायिनो- विनवस्याप्यन्यत्रोत्पत्तिमत्वेन तथैव पतनप्रसिद्धिसम्भवात् तत्रोत्पन्नत्वकथनं, ता. दृशस्याप्यन्यत्र विनत्वेऽन्यत्रैव पतनसम्भवात् तत्र विनष्टत्वकथनम् । न चान्य. त्रोत्पन्नस्य विनष्टस्यापि अन्यत्र स्थायित्वात् तन्मात्रस्थायित्वामावादेव तद्वारण- सम्भवात् तत्कथनं व्यर्थमिति वाच्यं, तत्कथनादेव तन्मात्रस्थायित्वलाभादिति ध्येयम् । नन्वनुगतधी स्त्येवेत्यत आह-भूतले घट इति । शक्यताऽव- च्छेदकगौरवमुक्त्वा शक्तिबाहुल्यमाह-अननुगतत्वाच्चेति । क्वचिदननुभ- वाच्चेति पाठः॥१.२॥ सिद्धान्तसाधकप्रकारवाक्यम्- किन्तु प्रतियोगित्वानुयोगित्ववद् आधेयत्वमधिकरणत्वञ्च विलक्षण- प्रतीतिसाक्षिकः (१)स्वरूपसम्बन्धविशेषः । (२)स चातिरिक्तोऽनांत- (१) विजातीयप्रतीतिप्रमाणक इत्यर्थः। (२) अयं भाव:-"घटो नास्ति' इत्याकारिकाया अमावे घटप्रकारिकायाः प्र. तीतेः, विशिष्टबुद्धित्वेन विशेषणविशेष्यसम्बन्धविषयकत्वसाधकत्वेन, इतरस. म्बन्धविषयकत्वबाधवशात् यथा स्वरूपसम्बन्धात्मिकताया प्रतियोगिताया अनु- योगिताया वा सम्बन्धविधयाऽवगाहित्वं सिद्धयति । तथैव घटमित्यादिवाक्य. जन्यायाः कर्मत्वे घटप्रकारिकाया इतरसम्बन्धबाधसहकृतेन विशेषणविशेष्यस- म्बन्धविषयकत्वसाधकेन अधिकरणताया माधेयताया वा सम्बन्धविधया स्वरूप- अधिकरणत्वविवेचनम् । ७8 (१)रिक्तो वेत्यन्यदेतत्।गृहे चैत्रः पचतीत्यादौ पाकस्याधः सन्तापनस्य(२) साक्षाद् गृहावृत्तित्वेऽपि कर्तृघटि तपरम्परया(३)ऽधिकरणत्वम् आधेयत्वं वा (४)पाकादिक्रियाऽन्वितसप्तम्यर्थः ।। १०३ ।। प्रतियोगित्वेति । भभावस्येत्यादिः । नन्वेवं गेहादेः साक्षात् पाकानधिक. रगत्वेन गेहे पचतीत्यादिप्रयोगो न स्यादत माह-गृह इति । गृहावृत्तित्वे हेतु- गर्भविशेषणमाह-मध इति । स्थाल्यघोदेशावच्छेदेन वहिसंयोगानुकूलव्यापार- स्येत्यर्थः । नअर्थान्वयानुरोधादाह-आधेयत्वमिति । १०३ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- स्थाल्यामोदनं पचतीत्यादावधः सन्तापनस्य पाकस्य साक्षात् स्थाल्य- वृत्तित्वेऽपि कर्मघटितपरम्परयाऽधिकरणत्वमाधेयत्वां वा सप्तम्यर्थः पाकादावन्वेति। अनुभवबलेन तथैव व्युत्पत्तेरिति, वृद्धास्तदाहुः,- । सम्बन्धात्मिका अवगाहित्वसिदिनिराबाधा । तथा च चर्चितानुमानमूलाया अधि. करणताया आधेयतायाः वा सप्तम्यर्थमिति बोध्यम् । (१) आधाराधेयाभ्यां भिन्नोऽभिन्नो वेति भावः । (२) नन्वधः सन्तापनस्य चैत्रादिवृत्तितया गृहे बाधेन गृहपदोसर सप्तम्या: न साधुत्वमिति चेन्न, स्वाश्चयकर्तृमत्त्वसम्बन्धेन तस्य गृहेऽपि वृत्तित्वसम्भवात् । (३) सम्बन्धित्वमित्यर्थः, अन्यथा उक्तपरम्पराया अधिकरणत्वनियामकतया तत्सम्बन्धावच्छिन्नाधिकरणत्वस्याप्रसिद्धत्वेनासङ्गतिः स्थात् । अथवा दिक्कृत- विशेषणता विशेषसम्बन्धावच्छिन्नाधिकरणत्वं तत्र सप्तम्यर्थो वाच्यो मूर्तमानस्य दिगुपाधितया गृहेऽपि तथाऽधिकरणत्वसम्भवात् । अथवा तादृशप्रतीत्यनुरोधेन अव- च्छेदकताख्यस्वरूपसम्बन्धविशेषेण पाकस्य गृहवृत्तित्वस्यापि प्रामाणिकत्वात् । (४) अत्र वाकारः प्रथमपक्षेऽनास्थायाम् , तद्वीजन्तु "चैत्रो गृहे पचति नतु चत्वरे" इत्यत्र वाक्यार्थाप्रसिद्धिरेव । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगि- ताऽनवच्छेदकतया निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकचत्वरनिष्ठाधिकरणत्वा- भावस्याप्रसिद्धत्वात् । तत्र चैत्रे चत्वरवृत्त्यधिकरणतानिरूपकपाकाभावः प्रती. यते, नतु पाके तथाऽधिकरणत्वाभाव इति नोक्तदोष इति न शङ्कनीयम् , "गैत्रो गृहे पचति नतु गगने" इत्यत्र गगननिष्ठायास्तादृशाधिकरणताया अप्रसिद्धतथा तघटितप्रतियोगिनोऽसम्भवित्वेन तथाऽभावस्थासम्भवात् । आधेयतायाः ससम्ययत्वे तु तस्य स्वरूपसम्बन्धेनैव व्यापारेऽन्वीयमानतया तस्य , च वृत्तिनियामकत्वेनाभावप्रतियोगितावच्छेदकतया पूर्वोक्तदोषासम्भवात् । .

- सम्याख्ये कारकचके- "कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धी शास्त्रधिकरणं स्मृतम् ॥” इति । एवञ्च कर्तृकान्यतरद्वारा कि याऽऽश्रयत्वे सति तत्कियोपकारकत्वमधिकरणत्वमिति ॥ १०४॥ कर्मघटितेति-स्वजन्यवहिसंयोगाश्रय-तण्डुलाश्रयत्वसम्बन्धेनेत्यर्थः तथैव-कर्तृकर्मान्यतरद्वाराऽधिकरणत्वार्थकत्वे एव । अत्रैव प्राची संवादमा ह-तत्रेति। कर्तृकर्मान्यतरद्वाराऽधिकरणस्वार्थकत्व . इत्यर्थः । आहुरित्यस्य कमर्माह-ककम्मत्यादिना इतीत्यन्तेन । असाक्षाद्धारणे हेतुगर्भविशे. पणं कर्तृकर्मव्यवहितामिति । उपकुर्वत्-जनकीभवत् , क्रियासिद्धौ- क्रियोत्पत्तौ ॥ १०४ ॥ सिद्धान्तसिद्धवाक्यम्- वस्तुतस्तु परम्परया क्रियाऽऽश्रयत्वमेवाधिकरणत्वम्, अत एव प्रा. ङ्गणस्थेन दीर्घदण्डादिना काष्ठादिचालनद्वारा गृहान्ततिपाककरणे कत्त द्वारा क्रियाऽनाश्रयत्वेऽपि गृहस्य, गृहे पचतीति प्रयोगः । न चैवं परम्प. रयेति व्यर्थम् , अधः सन्तापनं हि अधोवहिसंयोगानुकूलकाष्ठवह्नयादि- व्यापारः, तस्य च साक्षात काष्ठवचादिवृत्तित्वेऽपि काष्ठे वहौ वा पच. तीति प्रयोगाभावात् । एवं पथि गच्छत्तीतिवत् स्वस्मिन् गच्छत्तीति प्रयो- गाभावोऽपि तत्पदमिति (१)। १०५॥ वक्ष्यमाणदोषादाह-वस्तुतस्त्विति । मत एव-कर्तृकर्मान्यतरद्वारा इत्यस्याभिवेशादेव । एवं-कर्तृकान्यतरद्वारा इत्यस्य परित्यागे । व्यर्थमिति- न चेति पूर्वान्वयि, तत्र हेतुः प्रयोगाभावादित्यन्तम् । अध इति-स्थाल्यधोदे. शावच्छेदेनेत्यर्थः। अत्र साक्षात् क्रियाऽनाश्रयत्वे सति परम्परया क्रियाऽऽश्रयत्वमे- वाधिकरणत्वम् , अन्यथा काष्टादौ साक्षात् क्रियासत्त्वेऽपि स्वसमानकालीनत्वादिरू. पपरम्परयाऽपि तादृशक्रियाऽऽश्रयत्वात् काष्ठे पचतीत्यादिप्रयोगस्य दुरित्वापत्तेः। वस्तुतस्तु आकासावैचित्र्यादेव तादृशपरम्परया क्रियाऽधिकरणत्वबोधवारणसम्भ- वात् परम्परया क्रियाऽऽनयत्वमेवाधिकरणत्वं, लक्ष्यन्तु साक्षात् क्रियाऽनाश्रयत्व- घटितमिति बोध्यम् ॥ १.५॥ (१)परम्परयेतिपदे तत्पदस्य संकेतः। तथा च यदि क्रियाऽऽश्रयत्वेमवाधि- करणत्वम्। स्वीक्रियते चेत्तर्हि साक्षात्सम्बन्धेन क्रियाऽऽश्रयत्वात्क दीनामप्यधि. करगत्वापत्तिः स्यादतः "परम्परयेति प्रतिपादितम् ।

- मधिकरणत्वविवेचनम् । २ आक्षेपनिराकरणपूर्वकसिद्धान्तसाधकप्रकारवाक्यम्- न चैवं क्रियानिरूपिताधिकरणत्वस्यैव सर्वत्र सप्तम्यर्थत्वे विना क्रि- यायोगं भूतले घट इत्यादिप्रयोगो न स्यादिति वाच्यम् , इष्टत्वादिति वैया- करणाः । अधिकरणत्वमाधेयत्वं वा सप्तम्यर्थः । स च यत्र क्रियाऽन्वयी तत्र कारकरवव्यवहारः, अत एव भूतले घट इत्यादिक्रियाशून्यवाक्याद् भूत. लायो घट इति शाब्दबोधो भवत्येवेति नैयायिकाः ॥ १०६ ।। वैयाकरण इति-न हि क्रियारहितं वाक्यमस्तीति व्याप्तस्तेषामभिप्रेत. त्वादिति भावः । क्रियारहितवाक्यादपि शाब्दबुद्धरानुभविकत्वेन न तादृशव्याप्त्या. दरी नैयायिकानामिति दर्शयति-अधिकरणत्वमिति-तथा च क्रियातसमभि. ध्याहारस्थले परम्परयाधिकरणत्वादिकं बोध्यते, अन्यत्र तु साक्षात्परम्परासाधा- रणमिति विशेषः ॥ १०६ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- गृहे स्थाल्यामोदनंपचतीत्यत्र निरुक्तसंबन्धेन गृहाधिकरणकस्थाल्य. धिकरणकौदनकर्मकपाकानुकूलकृतिमानित्यन्वयधीः । भूतले घट इत्यादौ सप्तम्या अधिकरणत्वमर्थः। तत्र प्रकृत्यर्थस्याश्रयत्वेन प्रथमान्तार्थस्य च निरूपकत्वेनान्वयः, तथा च भूतलनिष्ठाधिकरणतानिरूपको घट इत्य- न्वयंधीरिति प्राश्चः। निरूपकत्वादेः सम्बन्धस्य प्रतियोगिताऽवच्छेदक- स्वाभावान्नान्वयानुपपत्त्या आधेयत्वमेव सप्तम्यर्थः, तत्र च प्रकृत्य. र्थस्य निरूपकतया प्रथमान्तार्थस्याधिकरणतयाऽन्वये भूतलनिरूपिताऽs, धेयत्ववान घट इत्यन्वयबोध इति नव्याः॥ १० ॥ प्राची मतमाह-गृह इति । निरुक्तेति-परमारेत्यर्थः । प्राची मतेऽ. स्वरसं प्रकाशयन् नव्यमतमाह-निरूपकत्वादेरिति । सम्बन्धस्येति । वृत्त्य- नियामकतयेति शेषः॥ १०७॥ सिद्धान्तसाधकप्रकारवाक्यम्- "चमणि द्वीपिनं हन्ति” इस्यादौ निमित्तसप्तमी, निमित्तत्वमुद्देश्य- त्वं, तच्च फलत्वेन फलवत्त्वेन वा इच्छाविषयत्वम् । प्रथमे मशकनिवृत्ती धूमं करोतीति । द्वितीये च 'चर्मणि द्वीपिनं हन्ती'त्यादिचादेः सिद्ध. ६का०च० सन्याख्ये कारकचके- -- वादिच्छाविषयवाभावेऽपि साध्यीभूतयथेष्टविनियोगरूपफलवत्वेनोहे. श्थत्वात्(१)। अत्र च यथायथं तादृशेच्छासप्तम्यर्थः, तस्याश्च धास्वर्थे प्रयोज्यत्वसम्बन्धेनान्वयः, तथाच मशकनिवृत्तीच्छाप्रयोज्यधूमकरणा- श्रयः। चर्मविषयकयथेष्टविनियोगरूपफलप्रकारकेच्छाप्रयोज्य-द्वीपिकर्मः कहननानुकूलकृतिमानिति यथाक्रमेणान्वयबोधः ॥ १०८ ।। फ्लत्वेनेति-फल-क्रियाजन्यं करोतीति-धूमकृतमशकनिवृत्तिफलक. त्वात् फलत्वेनोद्देश्यत्वमिति भावः । फलवत्त्वेनोद्देश्यत्वादिति-सिद्धेऽसि- द्धोपरागेण इच्छासम्भवादिति भावः(२)। यथायथमिति-मशकनिवृत्तावित्यादी फलत्वेन चम्भणीत्यादौ फलवत्त्वेन इच्छा सप्तम्यर्थः ॥ १०८ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- अत्र च "निमित्तात् कर्मयोगे" इत्यनुशासनाद् यत्किश्चित्कर्मप्रकार- कबोधजनकधातुप्रयोगो नियामकः । सकर्मकधातौ कर्मबोधकपदसम- भिव्याहारेण कर्मप्रकारकबोधजनकता । यथा-द्वीपिनं हन्तीत्यादौ । अका मंधातौ च कर्मविशिष्टस्वार्थशक्त्या(३) यथा-"आदित्यो रजनीक्षये यदुदेति” इत्यत्र उदयगिरिशिखरमारोहतीत्यर्थकरणात् कर्मविशिष्टबोध. जनकत्वमविशिष्टम् । अत्र रजनीक्षयस्य सुर्योदयाजन्यत्वेऽपि निमित्तत्व लोकज्ञानविषयत्वेनोद्देश्यत्वरूपं, तेन लोकानां रजनीक्षयज्ञानार्थं यदु- देतीत्यर्थः ।। १०९॥ कर्मयोग इत्यस्य व्याख्यामाह-यत्किञ्चिदिति । ननूदयक्रियायाः फल. वफलवत्त्वयोरभावेन कथं रजनीक्षयस्य निमित्तत्वमत आह-सूर्यादयाजन्य- (१) अयम्भाव:-"चर्मणि द्वीपिनं हन्तीगत्यादौ चर्मण्युद्देश्यत्वाभावः, यतस्तेन व्याधादीनामभीष्टसिद्धिन स्यात् , अतः फलवत्त्वेनोक्तम् अर्थात् फलमस्ति अस्मि. निति फलवान् , तद्भावस्य चर्मणि विनियोग (विक्रय) रूपेणेच्छाविषयत्वमस्त्ये. वेति बोध्यम् । (२) अयम्भाव:-"सिद्धेश सम्पन्ने काय्यं, प्रकृते च चर्मणीत्यर्थः। "असिद्धो. परागेण" असम्पन्नधर्मप्रकारेणेत्यर्थः, प्रकृते मनोऽनुकूलविनियोग ( विक्रय ) रूपं यदू असम्पन्नद्रव्यात्मकरूपं साध्यीभूतफलं तत्प्रकारेणासम्भवं बोध्यम् । (३) अकमकवातावपि लक्षणया कर्मत्वविशिष्टस्वार्थमादाय तनिमित्त. स्वमवधेयम्।

मधिकरणत्वविवेचनम् । ३ स्वेऽपीति-तदुभयोरेकदोत्सन्नत्वादिति भावः । ज्ञानविषयत्वेनोद्देश्यत्वरूपमि- ति। तथा च तत्र विषयत्वसम्बन्धेन ज्ञानरूपफलवत्त्वेनोद्देश्यत्वमस्तीति भावः । लोकानामित्यादि-रजनोक्षयविषयकलोकज्ञानप्रकारकेच्छाप्रयोज्योदयानुकूल- कृतिमानिति वाक्यार्थः । इदमत्रावधेयं-"निमित्तात् कर्मयोगे” इति लक्षण. स्योक्तव्याख्यायां "वस्त्रेषु रजकमवधीत् कृष्णः" इति वोपदेवोकोदाहरणमपि सा. च्छते, वस्त्रविषयकयथेष्टविनियोगप्रकारकेच्छाधीनरजककर्मकहननानुकूळकृतिमानि- त्याकारकस्तत्र बोधः । किन्तु "मुक्ताफलाय करिणं हरिणं पलाय" इत्यादिप्रयोग- विरोधः। जगदीशस्तु-कर्मयोगे-उपष्टम्भाख्यसम्बन्ध इति व्याचष्टे; उपष्टम्भाख्यसंयोगश्च प्राणिनां दन्त-केश त्वगादिष्वेव; एतादृशव्याख्यायां "ह- न्तेः कर्मण्युपष्टब्धात् प्राप्तुमर्थे तु सप्तमीम् । चतुर्थीवाधिकामाहुश्चूर्णिभागुरिवा- भटाः" इति कारिकामपि प्रमाणं दर्शयति । मुक्ताफलायेत्यादो करिण्युपष्टब्धमपि मुक्ताफलं प्राप्तुमिति नार्थः, किन्वाहर्तुमितिरीत्या तादृशप्रयोगमुपपादयति च, -तन्मते वोपदेवोक्तप्रयोगविरोधो वस्त्रादौ रजकस्य तादृशसम्बन्धाभावात्, प्रन्धका • रोक्तस्य "आदित्यो रजनीक्षये” इति प्रयोगस्य विरोधश्च । मुक्ताफलायेत्यादि महा. जनप्रयोगान्न अन्धकृन्मतेऽनुपपत्तिरिति केचिद्वदन्ति । जगदोशमतानुसारि. गस्तु महाजनप्रयुक्तत्वाद् आदित्य इति प्रयोगमाधुत्वमुपपाद्य वोपदेवोक्तप्रयोगो न माधुरिति वदन्ति । वस्तुतस्तु सिद्धान्तवागीशमतमेव साधु, न चैवमुक्तकारिका- विरोधः, कर्मण्युपष्टब्धादित्यस्य कर्मप्रकारकबोधजनकधातुयोगादित्यर्थंकरणात् । प्राप्तुमर्थे–प्राप्तीच्छार्थे, या चेच्छा फलत्वेन फलवत्त्वेन वा, मुक्ताफलायेत्यादौ मुक्ताफलमाहर्तुमित्यवार्थ इति वोपदेवोक्तप्रयोगः माधुरित्यवधेयम् ॥ १०९ ॥ सिद्धान्तसाधकप्रकारवाक्यम्- "शरदि पुष्प्यन्ति सप्तच्छदाः” इत्यादौ उत्पत्तिरपि सप्तम्यर्थः, शर- दुत्पत्तिकपुष्पाश्रयाः सप्तच्छदा इति वाक्यार्थः । न च शरदुत्पत्तिकपु- पाश्रये चम्पकादावपि तथा प्रयोगः स्यादिति वाच्यं, सप्तच्छदस्य पुष्पाश्रयत्वे लब्ध तुल्यवित्तिवेद्यतया सप्तच्छदवृत्तित्वस्यापि पुष्पेषु ला- भात , तदवच्छेदेन शरदुत्पत्तिकत्वान्वयस्य व्युत्पत्तिसिद्धत्वात् । चम्प- कादिवृत्तिपुष्पत्वावच्छेदेन शरदुत्पत्तिकत्वाभावेन तथा प्रयोगाभावात् । धातोर्वा सप्तच्छदीयपुष्पे लक्षणेति कश्चित् ।। ११० ॥

सम्वाख्ये कारकचके- . . कालसप्तम्या अर्थमाह-शरदीति। पुष्पाश्रया इति-आश्रयत्वमा- ख्यातार्थः। तथेति-शरदि पुष्प्यन्ति चम्पका इत्यर्थः । सप्तम्यर्थोत्पत्तेरवच्छे- दावच्छेदेनान्वयमुपगम्य तादृशप्रयोगवारणे पुष्पत्वावच्छेदेन शरदुत्पत्तिकत्वबाधा च्छरदि पुष्प्यन्तीति प्रयोगो न स्यात् , सप्तच्छदीयपुष्पत्वस्यान्वयिताऽनवच्छेदक- तया तद्रूपावच्छेदेन शरदुत्पत्तिकत्वस्यान्वयासम्भवादतस्तद्रूपेण बोधं सामयति- समच्छदस्येति । तदवच्छेदेनेति। -सप्तच्छदीयपुष्पत्वावच्छेदेनेत्यर्थः । व्यु. त्पत्तिसिद्धत्वात्---आकाङ्क्षालभ्यत्वादित्यर्थः, शाब्दबोधे तुत्य वित्तिवेद्यत्वानुप- गमे शाब्दषोधे सप्तच्छदोयपुष्पत्वस्यान्वयिताऽनवच्छेदकत्वेऽपि तात्पर्यादिवशात् शब्दबोधे तदवच्छेद्यत्वोपगमात् शाब्दादन्यत्रान्वयिताऽनवच्छेदकधविच्छेयत्व. भानानुपगमादिति ध्येयम् । न चेत्यादेः समाधानमाह-चम्पकादीति-यद्यपि परदीत्यादौ सप्तम्या आधेयत्वार्थकत्वोपगमेनैवोपपत्तौ गुरुतरोत्पत्त्यर्थकत्वमनुचितं, न चात्राधेयत्वार्यकत्वे आधारसप्तमीविधानादेवोपपत्तौ स्वतन्त्रकालसप्तमीविधान सूत्रकृतामनुचितमिति वाच्यं, पृयिव्या घटः, तन्तुषु पट इत्यादौ कालिकदिक्कृता. दिसंसर्गवाचिशब्दासमभिव्याहृतसप्तम्या दैशिकसम्बन्धावच्छिन्नाधेयत्वमेव बो. ध्यते, अन्यथा क्रियायो घटत्वमित्यादिप्रयोगापत्तिः, क्रियाऽऽदावपि कालिकादिस. म्बन्धेन वृत्तित्वात् , क्रियायो कालिकादिना घटत्वमित्यादौ कालिकादिसंसर्गवाचि- शब्दसमभिव्याहारात् सप्तमीतः कालिकादिसम्बन्धावच्छिन्नाधेयत्वं वोध्यते; इत्थश्च कालिकादिसंसर्गवाचिशब्दासममिव्याहृतकालवाचिशरदादिशब्दोत्तरसप्तम्या कालिकसम्बन्धावच्छिन्नाधेयत्ववोधनाय कालसप्तमीविधायकसूत्रसार्थक्यात् , न चैवं हेमन्ते पुष्प्यन्ति सप्तच्छदा इति प्रयोगः स्यादिति वाच्यं, शरवृत्तिमप्तच्छ. दीय पुष्पत्वावच्छेदेन हेमन्तादिवृत्तित्वासम्भवात् ताशप्रयोगविरहात् , तथाऽपि सप्तच्छदीयपुष्पमात्रस्य हेमन्तादिवृत्तेरसम्भवाभिप्रायेण सप्तम्या गुरुतरोत्पत्त्यर्थक- वकथनमिति सुधीभिचिन्तनीयम् । जगदीशस्तु शरदीत्यादौ वृत्तित्वमेव सप्तम्यर्थः, भाख्यातार्थश्च उत्पत्तिः, तत्रैव व्युत्पत्तिवैचित्र्येण सप्तम्यर्थवृत्तित्वस्यान्वयः, तेन शरदुत्पत्तिकपुष्पस्य हेमन्ते सत्त्वेऽपि हेमन्ते पुष्प्यन्ति सप्तच्छदा इत्यादिको न प्रयोगः, एवञ्च शरत्कालवृत्तिर्या पुष्पोत्पत्तिस्तदाश्रयः सप्तच्छद इत्यायाकारकस्तत्र बोषः। शरदि पुष्प्यन्ति चम्पका इत्यादिप्रयोग इष्ट एव, शाब्दबोधे तुल्यवित्ति. वेद्यतया जन्वयिताऽवच्छेदकधर्मव्यापकतायाश्चानुपगमेन उक्तरीत्या तद्वारणादि. ..

अधिकरणत्वविवेचनम्। - त्याह । अतएव गोविन्दीयरमणत्वावच्छेदेन शरत्कालवृत्तित्वासम्भवेऽपि "रेमे शर. दि गोविन्दः" इति वोपदेवोकोदाहरणमपि सङ्गच्छत इति ॥ ११०॥ सिद्धान्तसाधकप्रकारवाक्यम्- सति सप्तम्याः सामानाधिकरण्यमर्थः, तचक चित् कालिक, क चिद् दैशिकम् । तत्राचं समानकालीनत्वपर्य्यवसितं, यथा-गोषु दुह्यमानास्वा- गतः, दुग्धास्वागत इत्यादौ । अत्र च समानकालीनस्वे सप्तम्यर्थेदोहन- मात्रस्य न निरूपकत्वेनान्वयः, महिष्यादिदोहनकालोने तथाऽप्रयोगात् । नापि गोदोहनस्य, धातुना गोदोहनत्वेनानुपस्थितेः ।। १११ ॥ सति सप्तम्या इति । भावसप्तम्या इत्यर्थः । कालिक-कालिकसम्बन्धा- वच्छिन्नम् । देशिक-कालिकान्यसम्बन्धावच्छिन्नम् । तत्र-तयोमध्ये। कालीने तथाऽप्रयोगादिति । गोषु दुह्यमानास्वागत इत्यप्रयोगादित्यर्थः, दोहनकामिन्ना गौः दोहनसमानकालीनागमनानुकूलकृतिमानित्यन्वयबोधस्य समूहालम्बनरूपत्य तत्रापि सम्भवादिति भावः ॥ १११ ॥ दृष्टान्तपूर्वकसाधकप्रकारवाक्यम्- किन्तु दण्डी पुरुषो गच्छतीत्यादौ यथा परम्परया पुरुषविशेषणत्वा- पन्न-दण्डसमानकालीनत्वं गमने भासते तथा गोविशेषे कर्मताविशेषण- ताऽऽपन्नस्यैव दोहनस्य समानकालीनत्वमागमने भासते । इत्थञ्च ताह- शगोदोहनसमानकालीनागमनानुकूलातीतकृतिमानिति वाक्यार्थः ॥११॥ किन्त्विति । परम्परयेति । अभेदे तृतीया, सच समानकालीनत्वान्व- यी। गमने-गमनकृती। तथा-परम्पराऽभिन्नं ताशदण्डनिरूपितसमानका- लीनर दण्डस्य संसर्गविधया गमनकृतौ यथा भासते, तथेहापीति समुदायार्थः । विशिष्टानुयोगिकवैशिष्टयबोधस्थले समानकालीनत्वादिसम्बन्धेन पम्मिताऽवच्छेद- कताऽऽपनस्यैव पारतन्त्र्येणैव भानं, न तु तदनापन्नस्य स्वातन्त्र्येणेति भावः । ताशगविति-दोहनकर्मताविशिष्टगवित्यर्थः, ताशगोपद-दोहनपदयोन्द्रा- नन्तरं समान कालोनपदेन सह षष्ठीतत्पुरुषः, तेन तादृशगोः दोहनस्य च काली. नरवघटककालेऽन्वयलाभः । तथा च गोषु दुह्यमानास्वागत इत्यादौ दोहनकर्मता. विशिष्टगोरधिकरणत्वसम्बन्धेन कालांशेऽन्वय इति भावः । न च दोहनकर्मतावि. शिष्टगवाधिकरणकालवृत्तित्वस्यागमने बोधादेवेधसिद्धौ किं दोहनस्य पारतन्त्र्येणान्व.

सव्याख्ये कारकचके- येनेति वाच्यम् । तादृशस्यानुभविकत्वात् , दुग्धास्वागत इत्यादी तन्मात्रेण गत्य. न्तराभावाच्वेति ॥ ११२ ॥ दृष्टान्तपूर्वकसाधकप्रकारवाक्यम्- दुग्धास्वागत इत्यादौ न तथाऽन्वयः (१)दोहनस्यातीतत्वेन तद्बाधात् । किन्तु वर्तमानध्वंसप्रतियोगिकृतिजन्यदोहनकर्मताऽऽपन्नासु गोषु आगत इति बाक्यार्थः । गोविशेषण-कर्मताविशेषणदोहनविशेषण-कृतिविशेषण- प्रतियोगित्वविशेषणताऽऽपन्नस्य वर्तमानध्वंसस्य समानकालीनत्वमागमने भासते । तथा च ताशवर्तमानध्वंससमानकालीनागमनानुकूलातीतकृति. मानिति वाक्यार्थः ।। ११३ ॥ तद्वाधादिति-वर्तमानागमने मतीतदोहनसमानकालीनत्वबाधादित्यर्थः । तथा चेत्यादि-वाक्याथ इत्यन्तः पूर्वोक्तवाक्यार्थगर्भ कालांशे गोविशेषणताऽऽपन्न. कर्मवविशेषणताऽऽपनदोहनविशेषणताऽऽपन्न कृतिविशेषणताऽऽपनप्रतियोगिकत्व. विशेषणवाऽऽपन्नस्यैव वस्तुगत्या वर्तमानध्वंसस्य पारतन्त्र्येण स्वप्रतियोगिकृति- जन्यदोहनकर्मताऽऽपन्नगोमत्त्वसम्बन्धेनान्वयप्रदर्शनाय, नतु स्वातन्त्र्येण ताह- शगवादिमत्त्वं स्वकर्मकदोहनध्वंसवत्त्वसम्बन्धेनेत्यवधेयम् । न चोक्तस्थले ताह- शगवादिमत्त्वं दोहनकाले एव, तत्र वर्तमानध्वंसबाधात् तादृशपरम्परया कथं तदन्वय इति वाच्यम् ; साक्षात् परम्परया स्वविशिष्टो यस्तदन्वयिनि परम्प- रासम्बन्धेन विशेषणस्य विशेष्यान्वयिताऽवच्छेदकावच्छिन्ने धर्म्यन्तरेऽपि भानस्य सब्वैरुपगमात् , तादृशान्वयिताऽवच्छेदकञ्च प्रकृते कालत्वं, न चागमनविशेषण- ताऽऽपन्नवृत्तित्वांशे निरूपितत्वसम्बन्धेन ताशगवाधिकरणकालस्य बोधात् तदंशे तादृशबोधस्य सुख्य विशेष्यत्वापत्तिरिति वाच्यम् ; ताशविशेष्यताकबोधस्य सिद्धान्तवागीशमते इष्टत्वादित्यवधेयम् । एवं गोषु दोग्धव्यास्वागत इत्यादौ पूर्वोक्त वर्तमानध्वंसपदस्थले वर्तमानप्रागभावपदं प्रक्षिप्यान्वयबोधो द्रष्टव्यः ॥ ११३ ॥ दृष्टान्तपूर्वकसाधकप्रकारवाक्यम्- गुणकर्मान्यत्वे सति सत्त्वादित्यादौ तु दैशिकं, ततो हि गुणकर्मा- न्यत्वसमानाधिकरणस्य सत्त्वे बोधात् । यद्यपि “यस्य च भावेन भावल. (१) आगमनांशे दोहनसमानकालीनागमनानुकूलकृतिमानिति पूर्वोक्तप्रका. रेणान्वयबोधो न जायत इत्यर्थः ।

मधिकरणत्वविवेचनम् । क्षणम्" (२॥३३७ पा०) इत्यनेन क्रियायाः समानाधिकरण्ये सप्तमीवि. धानाद् नामार्थयोः समानाधिकरण्ये सप्तमी न युक्ता, तथाऽपि गुणका- न्यत्वे सति सत्त्वादित्यभियुक्तप्रयोगदर्शनात् सूत्रे भावपदं धर्मपरतया व्याख्यायैतत् सङ्गमनीयम् । यस्य धर्मेण धर्मान्तरं निरुक्तस्वसामानाधि- करण्येन प्रतिपाद्यते ततः सप्तमीति सूत्रार्थः । यस्य क्रिययाऽन्यस्य क्रिया. ऽन्तरं लक्ष्यत इति व्याख्यानन्तु शाब्दिकानां प्रायिकमेवमन्यत्राप्यूह्यम् ११४ द्वितीये त्वाह-गुणेति । सतीति-इदश्च सप्तम्या दैशिकसामानाधिक- रण्यतात्पर्यग्राहकम् । यस्य च भावेनेति-यस्य भावन-यत्क्रियया सह, भावः-क्रियाऽन्तरं, तस्य (१)स्वसमानाधिकरणत्वेन उतरीत्या लक्षणं-प्रतिप- त्तिस्तद्बोधकपदात् सप्तमीति सूत्रार्थदर्शनादिति । इदमुपलक्षणं, गोषु दुग्धास्वागत- इत्यादौ ताशक्रियायामानाधिकरण्यबाधेन वर्तमानध्वंसादिसामानाधिकरण्यस्यैव बोधाच्चेत्यपि बोध्यम् । एतत्-सूत्रम् । यस्य धम्म॑णेति, यदमिन्नधर्मेणेत्यर्थः, तथा च लक्षणे भावपदं धर्मपरम् । यस्य चेति षष्ठी अभेदार्थिकेति भावः । ननु पूर्वोक्तार्थः केषामित्यत आह-शाब्दिकानामिति-तथा च तादृशार्थः शान्दि- कानामेव नास्माकमिति भावः ॥ ११४ ॥ समाप्ता माधवी कारकचक्रटीका। .. (२)एको वृक्षः पञ्च नौका भवन्तीत्यादौ वृक्षपदं परम्परया वृक्षार- म्भकारभ्यपरं, न तु तदारम्भकपरम्; वृक्षे विनष्टे वृक्षावयवानां द्रव्या. रम्भकत्वात्, तेषाञ्च नियमेन वृक्षारम्भकत्वाभावात् , नौकापदच नौकाऽऽरम्भकपरम् । एवञ्च एकवृक्षारम्भकारभ्यद्रव्यं पञ्चनौकाऽऽर- (१) अनौवं मूलाभिप्रायोऽवगन्तव्यः, “यस्य च मावेन भावलक्षणम्" इति सूत्रस्य यस्य क्रियया क्रियान्तर इति व्याख्यानात् क्रिययोः सामानाधिकरण्ये सामी तत्सूत्रेणानुशिष्टेति गुणकर्मान्यत्वे सति सत्त्वादित्यादौ यद्यपि सप्तमी न युक्ता तथापि गुणकर्मान्यत्वे सति सवादित्यभियुक्तोक्तप्रयोगदर्शनात् सूत्रतद्व्याख्यानयो- र्भावक्रियापदे धर्मपरे। तथा च यस्य धर्मण धर्मान्तरं निरुत सामानाधिकरण्येन प्र. तिपाद्यते तत्र सप्तमीति सूत्रार्थेन दोषोद्भवनसम्भावनाऽपि न सम्पद्यतेति बोध्यम् । (२) अत्रारभ्य समाप्ति यावद् आइतपुस्तके नोपलभ्यते ।

. सव्याख्ये कारकचके अधिकरणत्वविवेचनम् । म्भकं भवतीति वाक्यार्थः, नौकापदं. ताहशविलक्षणसंयोगारम्भक- द्रव्यपरम्॥११५॥ एवं यूपाय दावित्यादौ दारुपदं दाववयवारभ्यद्रव्यपरं, चतुर्थ्या. उद्देश्यत्वं जनकत्वञ्चार्थः, तत्राद्यं प्रकृत्यर्थस्य विशेषणतयाऽन्यच्च विशे. ध्यतयाऽन्वेति; तथा च उद्देश्यीभूतयूपजनकदार्ववयवारभ्यद्रव्यमित्य- न्वयधीः राज्ञः पुरुषः, पुरुषस्य दण्डः, पृथिव्या रूपं, शङ्खस्य जनकत्व- मित्यादौ स्वत्वं, संयोगित्वं, समवेतत्वं, निरूपितत्वश्च यथायथं षष्ठयर्थः११६ निरिणे षष्ठ्याः "गवां कृष्णा सम्पन्नक्षीरा" इत्यादी भेदोऽभेदश्वा- यः, कृष्णापदस्य लक्षणया कृष्णाऽन्याऽप्यर्थः। (ङ), षष्ठ्यर्थस्तादात्म्य कृष्णापदार्थे शक्ये लक्ष्ये चान्वेति, विधेयस्य सम्पन्नक्षीरेत्यस्य एतादा- स्येन कृष्णायां, तदन्वितषष्ठयर्थभेदस्य चाधाराधेयभावेन कृष्णा- ऽन्यस्मिन् लक्ष्येऽप्यन्वयः। एवञ्च गवाभिन्ना कृष्णा सम्पन्नक्षीराभिन्ना गवाभिन्ना कृष्णाऽन्या सम्पन्नक्षीरभिन्नेत्यन्वयधीः; प्रपञ्चितमिदमेव का. रकार्थविचारेऽस्माभिरिति ॥ ११७॥ इति महामहोपाध्यायश्रीभवानन्दसिद्धान्तवागीशमहाचार्यविरचितं षटकारकविवेचनं समाप्तम् । विद्याविलास प्रेस, काशी।

Karakachakrama

Author
M.m.sri Bhavananda Siddhanta Vagisa Bhattacharya
Other authors
Sri Brahmasankara Sastri
Title
Karakachakrama
File name
Karakachakrama
Text
OCR done
Published
2007/02/10
Publisher
Jaya Krishna Das Haridas Gupta Benares
Language
Sanskrit
Pages
93
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
486301
Barcode
1990030102938.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Avaailable
VMLT id
m4fpL7rVU9d
Download PDF

Karakachakrama