Scl

Tantra Trutiya Samputam

Sri Bhagavad Ramanuj

PDF Proofread

Front matter

२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । :, मीमांसापूर्वभागज्ञातस्य कर्मणोऽल्पास्थिरफलत्वादुपरितनभानावसेयस्य ब्रह्मज्ञान, स्यानन्ताक्षयफलत्वाञ्च पूर्ववृत्तार्कमज्ञानादनन्तरं तत एव हेतो ब्रह्म ज्ञातव्यमित्युक्त भवति । तदाह वृत्तिकारः-*वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविविदिषा, इति । वक्ष्यति च कर्मब्रह्म- मीमांसयोरैकशास्त्र्यम्-*संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः, इति । अतः प्रतिपिपादयिषितार्थ भेदेन षट्क भेदवदध्यायभेदवच्च पूर्वोत्तरमीमांसयोर्भेदः । मीमांसाशास्त्रम्-*अथातो धर्मजिज्ञासा, इत्यारभ्य *अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्, इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् । तथाहि-प्रथमं तावत् *स्वाध्यायोऽध्येतव्यः, इत्यध्ययनेनैव स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेर्ग्रहणं विधीयते । तच्चाध्ययनं किरूपं, कथं च कर्तव्यमित्यपेक्षायाम् *अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयेत् इत्यनेन, *श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयोत मासान्विप्रोऽर्धपञ्चमान् ॥ इत्यादि- व्रतनियमविशेषोपदेशश्चापेक्षितानि विधीयन्ते । एवं सत्सन्तानप्रसूतसदाचारनिष्ठात्मगुणोपेत- वेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्य आचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहण- फलमध्ययनमित्यवगम्यते । अध्ययनं च स्वाध्यायसंस्कारः; *स्वाध्यायोऽध्येतव्यः, इति स्वाध्यायस्य कर्मत्वावगमात् । संस्कारो हि नाम कार्यान्तरयोग्यताकरणम् । संस्कार्यत्वं च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयतत्साधनावबोधित्वात्; जपादिना स्वरूपेणापि तत्साधनत्वाच्च ।। एवमध्ययनविधिमन्त्रवत् नियमवदक्षरराशिग्रहणमात्रे पर्यवस्यति । अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात्, गृहीतात्स्वाध्यायादवगम्यमानान् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसा- श्रवणेऽधीतवेदः पुरुषस्स्वयमेव प्रवर्तते । तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिर- फलत्वं दृष्ट्वाऽध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापातप्रतीते- स्तन्निर्णयफलवेदान्तवाक्यविचाररूपशारीरकमीमांसायामधिकरोति । तथा च वेदान्तवाक्यागि केवलकर्मफलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति-*तद्यथेह कर्मचितो लोक क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते, *अन्तवदेवास्य तद्भवति, न ह्यध्र वैः प्राप्यते, *प्लवा ह्येते अहढा यज्ञरूपाः, *परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्य- कृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठम् ॥ तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तो तत्त्वतो ब्रह्मविद्याम् ॥ *ब्रह्मविदाप्नोति परन्, *न पुनमृत्यवे तदेकं पश्यति, *न पश्यो मृत्यु पश्यति, *स स्वराड्भवति, *तमेवं बिद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते, *पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेतीत्यादीनि ॥

प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणम् । ३ ननु च-साङ्गवेदाध्ययनादेव कर्मणां स्वर्गादिफलत्वम्, स्वर्गादीनां च क्षयित्वं, ब्रह्मोपासनस्यामृतत्वफलत्वं च ज्ञायत एव; अनन्तरं मुमुक्षुब्रह्मजिज्ञासायामेव प्रवर्तताम्, किमर्था धर्मविचारापेक्षा ? एवं तहि शारीरकमीमांसायामपि न प्रवर्तताम्, साङ्गाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यम् । आपातप्रतीतिविद्यत एव, तथाऽपि न्यायानुगृहीतस्य वाक्य- स्यार्थनिश्नायकत्वादापातप्रतीतोऽप्यर्थसंशयविपर्ययौ नातिवर्तते; अतस्तन्निर्णयाय वेदान्त- वाक्यविवारः कर्तव्य इति चेत्, तथैव धर्मविचारोऽपि कर्तव्य इति पश्यतु भवान् । ( लघुपूर्वपक्षः ) ननु च-ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते, तदेव पूर्ववृत्तं वक्तव्यम्, न धर्मविचारा- पेक्षा ब्रह्मजिज्ञासायाः अधीतवेदान्तस्यानधिगतकर्मणोऽपि वेदान्तवाक्यार्थविचारोपपत्तेः । कर्माङ्गाश्रयाण्युद्गीथाद्युपासनान्यत्रैव चिन्त्यन्ते । तदनधिगतकमणो न शक्यं कर्तुम् इति चेत्, अनभिज्ञो भवान् शारीरकशास्त्रविज्ञानस्य । अस्मिन् शास्त्रे अनाद्यविद्याकृतविविधभेद- दर्शननिमित्तजन्मजरामरणादिसांसारिकदुःखसागरनिमग्नस्य निखिलदुःखमूलमिथ्याज्ञान- निबर्हणाय आत्मैकत्वविज्ञानं प्रतिपिपादपिषितम् । अस्य हि भेदावलम्बिकर्मज्ञानं कोप- युज्यते ? प्रत्युत विरुद्धमेव । उद्गीथादिविचारस्तु कर्मशेषभूत एव ज्ञानरूपत्वाविशेषादिहैव क्रियते । स तु न साक्षात्सङ्गतः। अतो पत्प्रधानं शास्त्रं तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम् ॥ बाढम् । तदपेक्षितं च कर्मविज्ञानमेव, कर्मसमुच्चितात् ज्ञानादपवर्गश्रुतेः । वक्ष्यति च-सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्, इति । अपेक्षिते च कर्मण्यज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातुम् । अतस्तदेव पूर्ववृत्तम् । नैतद्युक्तं, सकलविशेषप्रत्यनीक- चिन्मात्रब्रह्मविज्ञानादेवाविद्यानिवृत्तेः । अविद्यानिवृत्तिरेव हि मोक्षः। वर्णाश्रमविशेषसाध्य- साधनेतिकर्तव्यताद्यनन्तविकल्पास्पदं कर्म सकलभेददर्शननिवृत्तिरूपाज्ञाननिवृत्तेः कथमिव आधनं भवेत् ? श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं, ज्ञानस्यैव मोक्षसाधनत्वं च दर्शयन्ति-*अन्तवदेवास्य तद्भवति, *तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते, *ब्रह्मविदाप्नोति परम्, ब्रह्म वेद ब्रह्म व भवति, *तमेव विदित्वाऽतिमृत्युमेति-इत्याद्याः ॥ यदपि चेदमुक्तं यज्ञादिकर्मापेक्षा विद्येति, तद्वस्तुविरोधात् श्रुत्यक्षरपर्षालोचना बान्तःकरणनैर्मल्यद्वारेण विविदिषोत्पत्तावुपयुज्यते; न फलोत्पत्तौ, *विविदिषन्ति, इति श्रवणात् । विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवान्तरणोपायतां श्रुतिरेवाह- शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्--इति । तदेवं ? -- श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । जन्मान्तरशतानुष्ठितानभिसंहितफलविशेषकर्ममृदितकषायस्य विविदिषोत्पत्तो सत्यां, *सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, *सर्त्य ज्ञानमनन्तं ब्रह्म, निष्कलं निष्क्रिय शान्तम्, *अयमात्मा ब्रह्म, तत्त्वमसि, इत्यादिवाक्यजन्यज्ञानादविद्या निवर्तते। वाक्यार्थज्ञानोप- योगीनि च श्रवणमनननिदिध्यासनानि । श्रवणं नाम वेदान्तवाक्यानि आत्मैकत्वविद्या- प्रतिपादकानीति तत्त्वशिन आचार्यान्न्याययुक्तार्थग्रहणम् । एवमाचार्योपदिष्टस्यार्थस्य स्वात्मन्येवमेव युक्तमिति हेतुतः प्रतिष्ठापनं मननम्; एतद्विरोध्यनादिभेदवासनानिरसनाया- स्यैवार्थस्यानवरतभावना निदिध्यासनम् । श्रवणादिभिनिरस्तसमस्तभेदवासनस्य वाक्यार्थ- ज्ञानमविद्यां निवर्तयतीति, एवंरूपस्य श्रवणस्थावश्यापेक्षितमेव पूर्ववृत्तं वक्तव्यम् । तच्च नित्यानित्यवस्तुविवेकः, शमदमादिसाधनसंपत्, इहामुत्रफलभोगविरागः, मुमुक्षुत्वं चेत्येत- साधनचतुष्टयम् । अनेन विना जिज्ञासानुपपत्तेः, अर्थस्वभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते ॥ एतदुक्तं भवति--ब्रह्मस्वरूपाच्छा(द)दिकाविद्यामूलमपारमार्थिकं भेददर्शनमेव बन्ध- मूलम् । बन्धश्वापारमार्थिकः । स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवर्त्यते। निवर्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् । तस्यैतस्य वाक्यजन्यस्य ज्ञानस्य स्वरूपोत्पत्तो कार्ये वा कर्मणां नोपयोगः । विविदिषायामेव तु कर्मणामुपयोगः । स च पापमूलरजस्तमोनिबर्हण- द्वारेण सत्त्वविवृद्धया भवतीतीममुपयोगमभिप्रेत्य ब्राह्मणा विविदिषन्ति, इत्युक्तमिति । अतः कर्मज्ञानस्यानुपयोगात् उक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् ॥ ( इति लघुपूर्वपक्षः) ( लघुसिद्धान्तः) अत्रोच्यते-यदुक्तमविद्यानिवृत्तिरेव मोक्षः; सा च ब्रह्मविज्ञानादेव भवति-इति; तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यविधित्सितं ज्ञानं किरूपमिति विवेचनीयम्- कि वाक्याद्वाक्यार्थज्ञानमात्रम्, उत तन्मूलमुपासनात्मकं ज्ञानम् ? इति । न तावद्वाक्यजन्यं ज्ञानम्, तस्य विधानमन्तरेणापि वाक्यादेव सिद्धः, तावन्मात्रेणाविद्यानिवृत्त्यनुपलब्धेश्च । न च वाच्यं-भेदवासनायामनिरस्तायां वाक्यमविद्यानिवर्तकं ज्ञानं न जनयति, जातेऽपि सर्वस्य सहसैव भेदज्ञानानिवृत्तिर्नदोषाय; चन्द्रैकत्वे ज्ञातेऽपि द्विचन्द्रज्ञानानिवृत्तिवत्; अनिवृत्तमपि छिन्नमूलत्वेन न बन्धाय भवति-इति । सत्यां सामर-यां ज्ञानानुत्पत्त्यनुपपत्तेः; सत्यामपि विपरीतवासनायामाप्तोपदेशलिङ्गादिभिर्बाधक ज्ञानोत्पत्तिदर्शनात् । सत्यपि वाक्यार्थज्ञाने, अनादिवासनया मात्रया भेदज्ञानमनुवर्तत इति भवता न शक्यते वक्तुम् । भेदज्ञानसामग्या अपि वासनाया मिथ्यारूपत्वेन ज्ञानोत्पत्त्यैव निवृत्तत्वात् । ज्ञानोत्पत्तावपि मिथ्यारूपायास्तस्या अनिवृत्तौ निवर्तकान्तराभावात् कदाचिदपि नास्या वासनाया निवृत्तिः । वासनाकार्य भेदज्ञानं छिन्नमूलमथ चानुवर्तत इति बालिशभाषितम् । द्विचन्द्र- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणलघुसिद्धान्तः । ५ ज्ञानादौ तु बाधकसन्निधावपि मिथ्याज्ञानहेतोः परमार्थतिमिरादिदोषस्य ज्ञानबाध्यत्वाभावेन अनिवृत्तत्वात् मिथ्याज्ञाननिवृत्तिरविरुद्धा । प्रबलप्रमाणबाधितत्वेन भयादिकार्य तु निवर्तते । अपि च भेदवासनानिरसनद्वारेण ज्ञान त्पत्तिमभ्युपगच्छता कदाचिदपि ज्ञान त्यत्तिर्न सेत्स्यति, भेदवासनाया अनादिकालोपचितत्वेनापरिमितत्वात्, तद्विरोधिभावनायाश्चाल्प- त्वादनया तन्निरसनानुपपत्ते. ॥ अतो वाक्यार्थज्ञानादन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यविधि- सितम् । तथा च श्रुतयः-*विज्ञाय प्रज्ञां कुवित, *अनुविद्य विजानाति, *ओमित्येवात्मानं ध्यायथ, *निचाय्य तं मृत्युमुखात्प्रमुच्यते, *आत्मानमेव लोकमुपासीत, *आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, *सोऽन्वेष्टव्यस्सविजिज्ञासितव्यः-इत्येवमाद्याः । अत्र अनिदिध्यासितव्यः इत्यादिनैकार्थ्यात्, *अनुविद्य विजानाति, विज्ञाय प्रज्ञाकोत, इत्येवमादिभिर्वाक्यार्थज्ञानं (नस्य) ध्यानोपकारकत्वात्, 'अनुविद्य', 'विज्ञाय' इत्यनूद्य *'प्रज्ञां कुर्वीत',*'विजानाति' इति ध्यानं विधीयते । *श्रोतव्य इति चानुवादः । स्वाध्याय- स्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनातन्निर्णयाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात् । श्रवणप्रतिष्ठार्थत्वान्मननस्य, मन्तव्य इति चानुवादः । तस्माद्धयानमेव विधीयते । वक्ष्यति च-*आवृत्तिरसकृदुपदेशात्, इति । तदिदमपवर्गो- पायतया विधिस्तितं वेदनमुपासनमित्यवगम्यते, विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात् *मनो ब्रह्मत्युपासीतेत्यत्र *भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद, *न स वेद अकृत्स्नो ह्येषः-आत्मेत्येवोपासीत, *यस्तद्वेद यत्स वेद स मयैतदुक्तः, इत्यत्र अनुम एतां भगवो देवतां शाधि यां देवतामुपास्से-इति ॥ ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपम्, ध्र वा स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः, इति ध्र वायास्स्मृतेरपवर्गोपायत्वश्रवणात् । सा च स्मृतिर्दर्शन- समानाकारा; *भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ *इत्यनेनैकार्थ्यात् । एवं च सति, *आत्मा वा अरे द्रष्टव्य. इत्यनेन निदिध्यासनस्य दर्शतसमानाकारता विधीयते । भवति च स्मृतेर्भावनाप्रकर्षाद्दर्शनरूपता ।। वाक्यकारेणैतत्सर्व प्रपश्चितम् *वेदनमुपासनं स्यात्तद्विषये श्रवणात्, इति सर्वासूप- निषत्तु मोक्षसाधनतया विहितं वेदनमुपासनमित्युक्तम् । *सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात्प्रयाजादिवत्, इति पूर्वपक्षं कृत्वा, *सिद्धं तूपासनशब्दात्, इति वेदनमसकृदावृत्तं मोक्षसाधन मिति निर्णीतम् । *उपरसनं स्याद्म वानुस्मृतिर्दर्शनानिर्वचनाच्च, इति तस्यैव वेदनस्योपासनरूपस्यासकृदावृत्तस्य ध्रु वानुस्मृतित्वमुपवर्णितम् ।

६ श्रीभगवद्रामानुजग्रन्थमालायाँ शारीरकमीमांसाभाष्यम् । ! सेयं स्मृतिदर्शनरूपा प्रतिपादिता । दर्शनरूपता च प्रत्यक्षतापत्तिः। एवं प्रत्यक्षता- पन्नामपवर्गसाधनभूतां स्मृति विशिनष्टि- *नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन, यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ इति । अनेन केवल- श्रवणमनन निदिध्यासनानामात्मप्राप्त्यनुपायत्वमुक्त्वा, यमेवैष आत्मा वृणुते तेनैव लभ्य इत्युक्तम् । प्रियतम एव हि वरणीयो भवति, यस्यायं निरतिशयप्रियस्स एवास्य प्रियतमो भवति । यथाऽयं प्रियतम आत्मानं प्राप्नोति, तथा स्वयमेव भगवान् प्रयतत इति भगवतै- वोक्तम् *तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। इति, *प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । इति च । अतस्साक्षात्काररूपा स्मृतिस्स्मर्यमाणात्यर्थप्रियत्वेन स्वधमप्यत्यर्थ प्रिया यस्य, स एव परेणात्मना वरणोयो भवतीति तेनैव लभ्यते पर आत्मेत्युक्तं भवति । एवंरूपा ध्र वानुस्मृतिरेव भक्तिशब्देनाभि- धीयते, उपासनपर्यायवाद्भक्तिशब्दस्य । अत एव श्रुतिस्मृतिभिरेवमभिधीयते-- *तमेव विदित्वाऽतिमृत्युमेति, *तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते । अनाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन !। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ! ॥ *पुरुषस्स परः पार्थ ! भक्त्या लभ्यस्त्वनन्यया ॥ इति । एवंरूपाया ध्रु वानुस्मृतेस्साधनानि यज्ञादीनि कर्माणोति- *यज्ञादिश्रुतेरश्ववत्, इत्यभिधास्यते । यद्यपि विविदिषन्तीति यज्ञादयो विविदिषोत्पत्तौ विनियुज्यन्ते; तथाऽपि तस्यैव वेदनस्य ध्यानरूपस्याहरहरनुष्ठीयमानस्या- भ्यासाधेयातिशयस्य आप्रयाणादनुवर्तमानस्य ब्रह्मप्राप्तिसाधनत्वात् तदुत्पत्तये सर्वाप्याश्रम- कर्माणि यावज्जीवमनुष्ठेयानि । वक्ष्यति च *आप्रयाणात्तत्रापि हि दृष्टम्, *अग्निहोत्रादि तत्कार्यायैव तद्दर्शनात्, *सहकारित्वेन च, इत्यादिषु ॥ वाक्यकारश्च ध्र वानुस्मृतेविवेकादिभ्य एव निष्पत्तिमाह- तल्लब्धिविवेकविमो- काभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्वस्संभवान्निर्वचनाच्च, इति । विवेकादीनां स्वरूपं चाह *जात्याश्रयनिमित्तादुष्टादन्नात्कायशुद्धिविवेकः, इति । अत्र निर्वचनम्- *आहारशुद्धौं सत्त्व- शुद्धिस्सत्त्वशुद्धौ ध्र वा स्मृतिः, इति । विमोकः कामानभिष्वङ्गः, इति; *शान्त उपासीत, इति निर्वचनम् । *आरम्भणसंशोलनं पुनःपुनरम्घासः, इति । निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेण,- *सदा तद्भावभावितः, इति । *पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रिया, इति । निर्वचनं- *क्रियावानेष ब्रह्मविदां वरिष्ठः, *तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञ न दानेन तपसाऽनाशकेन, इति च । *सत्यार्जवदयादानाहिंसानभिध्याः कल्याणानि, इति। निर्वचनं- *सत्येन लभ्यः, *तेषामेवैष विरजो ब्रह्मलोकः, इत्यादि । देशकाल- वगुण्याच्छोकवस्त्वाद्यनुस्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोऽवसाद इति, तद्विपर्ययोऽनव- - प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे लघुसिद्धान्तः । सादः । निर्ववनं-, नापमात्मा बलहोनेन लभ्यः, इति । तद्विपर्ययजा तुष्टिरुद्धर्षः इति, तद्विपर्ययोऽनुद्धर्षः । अतिसन्तोषश्च विरोधीत्यर्थः । निर्वदनमपि-, *शान्तो दान्तः, इति । एवं नियमयुक्तस्याश्रमविहितकर्मानुष्ठानेनैव विद्यःनिष्पत्तिरित्युक्त भवति, तथा च श्रुत्यन्तरम्- *विद्यां चाविद्यां च पस्तवेदोभा सह । अविद्यया मृत्यु तीर्वा विद्ययाऽमृतमश्नुते ॥ इति । अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म । अविद्यया-कर्म गा, मृत्युं-ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म; तीळ-अपा; विद्यया-ज्ञानेन । अमृतं-ब्रह्म; अश्नुते-प्राप्नोतीत्यर्थः । मृत्यु- तरणोपायतया प्रतीता अविद्या विद्येतर द्विहितं कर्मैव । प्रयोक्तम्- *इयाज सोऽपि सुबहून् यज्ञान ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय त मृत्युमविद्यया ॥ इति । ज्ञानविरोधि च कर्म पुण्यपापरूपम्; ब्रह्मज्ञानोत्पत्ति(नि)विरोधित्वेनानिष्टफलतयोभयोरपि पापशब्दाभि- धेयत्वम् । अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्ध सत्वविरोधिरजस्तमोविवृद्धिद्वा- रेण । पापस्य च ज्ञानोदयविरोधित्वम्- *एष एवासाधु कर्म कारयति तं यमधो निनीषति, इति श्रुत्याऽवगम्यते । रजस्तमसोयथार्थज्ञानावरणत्वं, सत्त्वस्य च यथार्थज्ञानहेतुत्वं भगवतैव प्रतिपादितम् *सत्वात्संजायते ज्ञानम्, इत्यादिना। अतश्च ज्ञानोत्पत्तये पापं कर्म निरस- नीयम्, तन्निरसनं च अनभिसंहितफलेनानुष्ठितेन (धर्मेण) कर्मणा; तथा च श्रुतिः- *धर्मेण पापमपनुदति, इति । तदेवं ब्रह्मप्राप्तिसाधनं ज्ञानं सर्वाश्रमकर्मापेक्षम् । अतोऽपेक्षितकर्मस्वरूपज्ञानं, केवल- कर्मणामल्पास्थिरफलत्वज्ञानं च कर्ममीमांसावसेपमिति, सैवापेक्षिता ब्रह्मजिज्ञासापाः पूर्ववृत्ता वक्तव्या । अपि च नित्यानित्यवस्तुविवेकादयश्च, मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते । फल- करणेतिकर्तव्यताधिकारिविशेषनिश्चयाते कर्मस्वरूपतत्फलतत्स्थिरत्वास्थिरत्वात्मनित्यत्वा- दीनां दुरवबोधत्वात् । एषां साधनत्वं च विनियोगावसेयम् । विनियोगश्च श्रुतिलिङ्गादिभ्यः । स च तार्तीयः । उद्गीथाधुपासनानि कर्मसमृद्धयर्थान्यपि ब्रह्मदृष्टिरूपाणि, ब्रह्मज्ञानापेक्षाणोति इहैव चिन्तनीयानि । तान्यपि कर्माण्यन भिसंहितफलानि ब्रह्मविद्योत्पादकानोति, तत्साद्- गुण्यापादनान्येतानि सुतरामिहैव सङ्गतानि । तेषां च कर्मस्वरूपाधिगमापेक्षा सर्वसंमता ।। (इति लघुसिद्धान्तः)। ( महापूर्वपक्षः ) पदप्याहुः--*अशेषविशेषप्रत्यनीकचिन्मात्रं ब्रह्म व परमार्थः । तदतिरेकि नानाविध- ज्ञातृज्ञेयतत्कृतज्ञानभेदादि सर्व तस्मिन्नेव परिकल्पितं मिथ्याभूतम् । *सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, *अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमबाह्ममगोत्रमवर्ण- मचक्षुश्श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्म तदव्ययं पद्भूतयोनि परिपश्यन्ति धीराः, *सत्यं ज्ञानमनन्तं ब्रह्म, निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्, “यस्यामतं .

८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाप्यम् । तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्-*न दृष्टेष्टार पश्येः, न मतेमन्तारं मन्वीथाः, *आनन्दो ब्रह्म, *इदं सर्वं यदयमात्मा, *नेह नानाऽस्ति किंचन, *मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति, *पत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्तकेन के विजानीयात्, *वाचा- ऽऽरम्भणं विकारो नामधे मृत्तिकेत्येव सत्मस्, *यदा ो वैध एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति, *न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि, *मायामात्रं तु कात्स्न्येनान भि- व्यक्तस्वरूपत्वात्, *प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म- संज्ञितम् ॥ *ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ।। परमार्थस् त्वमेवैको नान्योऽस्ति जगतः पते ! ॥ *यदेतदृश्यते मूर्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्र पनयोगिनः ॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ ये तु ज्ञानविदश्शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद् पं परमेश्वर ! ॥ *तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थो हि तिनोऽतथ्यशिनः ॥ *पद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम ! तदैषोऽहमयं चान्यो वक्तुमेवमपीष्यते ॥ *वेणुरन्ध्रविभेदेन भेदष्षड्जादिसंज्ञितः। अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः ॥ *सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ।। *विभेदजनकेज्ञाने नाशमात्यन्तिकं गते । आत्मनों ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ *अहमात्मा गुडाकेश ! सर्वभूताशपस्थितः ॥ *क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ! *न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ इत्यादिभिर्वस्तुस्वरूपोपदेशपरैश्शास्त्रैः, निविशेषचिन्मानं ब्रह्म व सत्यमन्यत्सर्वं मिथ्या, इत्यभिधानात् ॥ मिथ्यात्वं नाम, प्रतीयमानत्वपूर्वकयथावस्थितवस्तुज्ञाननिदय॑त्वम्, यथा रज्ज्वाद्य- धिष्ठानसदिः । दोषवशाद्धि तत्र तत्कल्पनम् । एवं चिन्मात्रवपुषि परे ब्रह्मणि दोषपरि- कल्पितमिदं देवतिर्यमनुष्यस्थावरादिभेदं सर्वं जगद्यथावस्थितब्रह्मस्वरूपावबोधबाध्य मिथ्यारूपम् । दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदनिर्वचनीयाऽनाद्यविद्या । *अनृतेन हि प्रत्यूढाः *तेषां सत्यानां सतामनृतमपिधानम्, नासदासीनो सदासीत्तदानीं तम आसीत्तमसा गूढमने प्रकेतम्, *मायां तु प्रकृति विद्यान्मापिनं तु महेश्वरम्, *इन्द्रो मायाभिः पुरुरूप ईयते, *भम माया दुरत्यया, *अनादिमायया सुप्तो यदा जीवः प्रबुध्यते- इत्यादिभिः निविशेषचिन्मात्रं ब्रह्म वानाद्यविद्यया सदसदनिर्वाच्यया तिरोहितस्वरूपं स्वगत- नानात्वं पश्यतीत्यवगम्यते । यथोक्तम्- *ज्ञानस्वरूपो भगवान्यतोऽसावशेषमूतिर्न तु वस्तु- भूतः । ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि ॥ यदा तु शुद्ध निज- प्रथमाध्याये—प्रथमपादे-जिज्ञासाधिकरणे महापूर्वपक्षः । है *अकृत्स्नो रूपि सर्वकर्मक्षये ज्ञानमपास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तु- भेदाः ॥ *तस्पान्न विज्ञानमृतेऽस्ति किञ्चित्क्वचित्कदाचिद्विज ! वस्तुजातम् । विज्ञानमेकं निजकर्मभेदविभिन्नचित्तैर्बहुधाऽभ्युपेतम् ॥ ज्ञानं विशुद्ध विमलं विशोकमशेषलोभादिनिरस्त- सङ्गम् । एकं सदैकं परम परेशस्स वासुदेवो न यतोऽन्यदस्ति ॥ सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यः अमन्यत् । एतत्तु पत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ॥ इति । अस्याश्चाविद्याया निविशेषचिन्मानब्रह्मात्मैकत्वविज्ञानेन निवृत्ति वदन्ति~ *न पुनमृत्यवे तदेकं पश्यति, *न पश्यो मृत्यु पश्यति, *यदा ह्य वैष एतस्मिन्नदृश्येऽनात्म्येऽनि- रुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवति, भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व- संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट परावरे ॥ *ब्रह्म वेद ब्रह्म व भवति, *तमेव विदित्वाऽतिमृत्युमेति, नान्यः पन्थाः, इत्याद्याश्श्रु तयः । अत्र मृत्युशब्देनाविद्याऽभिधीयते । यथा सनत्सुजातवचनम् *प्रमादं वै मृत्यु महं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि-इति । *सत्यं ज्ञानमनन्तं ब्रह्म, इत्यादिशोधकवाक्यावसेयनिविशेषचिन्मात्रस्वरूप(ब्रह्म कत्व)ब्रह्मात्मैकत्व- विज्ञानं च, *अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद, ह्यषः, *आत्मेत्येवोपासीत, *तत्त्वमसि, *त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते, *तद्योऽहं सोऽसौ योऽसौ सोऽहमस्मि, इत्यादिवाक्यसिद्धम् । वक्ष्यति चैतदेव- *आत्मेति तूपगच्छन्ति ग्राहयन्ति च, इति । यथा च वाक्यकार• *आत्मेत्येव तु गृह्णीयात् सर्वस्य तनिष्पत्तेः, इति । अनेन च ब्रह्मात्मैकत्वविज्ञानेन मिथ्यारूपस्य सकारणस्य बन्धस्य निवृत्तियुक्ता॥ ननु च, सकल भेदनिवृत्तिः प्रत्यक्ष विरुद्धा कथमिव शास्त्रजन्य(वि)ज्ञानेन क्रियते ? कथ वा ‘रज्जुरेषा न सर्पः' इति ज्ञानेन प्रत्यक्षविरुद्धा सर्पनिवृत्तिः क्रियते ? तत्र द्वयोः प्रत्यक्षयोविरोधः; इह तु प्रत्यक्षमूलस्थ शास्त्रस्य प्रत्यक्षस्य चेति चेत्; तुल्ययोविरोधे वा कथं बाध्यबाधकभावः ? पूर्वोत्तरयोर्दुष्टकारण रणजन्यत्व दभावाभ्यामिति चेत्; शास्त्रप्रत्यक्षमोरपि समानमेतत् । एतदुक्तं भवति- *बाध्यबाधकभावे तुल्यत्वसापेक्षत्वनिरपेक्षत्वादि न कारणम्, ज्वालाभेदानुमानेन प्रत्यक्षोपमर्दायोगात् । तत्र हि ज्वालैक्यं प्रत्यक्षेणावगम्यते । एवं च सति द्वयोः प्रमाणयोविरोधे यत्संभाव्यमानान्यथासिद्धि, तद्बाध्यम्; अनन्यथासिद्धमनवकाश- मितरद्वाधकम्-इति सर्वत्र बाध्यबाधकभावनिर्णय इति । तस्मादनादिनिधनाविच्छिन्न- संभाव्यमानदोषगन्धानवकाशशास्त्रजन्यनिविशेषनित्यशुद्धमुक्तबुद्धस्वप्रकाशचिन्मात्र- ब्रह्मात्मभावावबोधेन संभाव्यमानदोषसावकाशप्रत्यक्षादिसिद्धविविधविकल्परूपबन्धनिवृत्ति- - - १० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? " युक्तैव । संभाव्यते च विविधविकल्पमेदप्रपञ्चमाहिप्रत्यक्षस्थानादि भेदवासनादिरूपाविद्याख्यो दोषः ॥ ननु, अनादिनिधनाविच्छिन्नसंप्रदायतया निर्दोषस्यापि शास्त्रस्य, *ज्योतिष्टोमेन स्वर्गकागो यजेतेत्येवमादेर्भेदावलम्बिनो बाध्यत्वं प्रसज्येत । सत्यम्; पूर्वापरापच्छेदे पूर्वशास्त्र- वन्मोक्षशास्त्रस्य निरवकाशत्वात्तेन बाध्यत एव । वेदान्तवाक्येष्वपि सगुणब्रह्मोपासनपराणां शास्त्राणामयमेव न्यायः, निर्गणत्वात्परस्य ब्रह्मणः । ननु च, “यस्सर्वज्ञस्सर्ववित्, *पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, *सत्यकामस्सत्यसङ्कल्पः, इत्यादिब्रह्म- स्वरूपप्रतिपादनपराणां शास्त्राणां कथं बाध्यत्वम् ? निर्गुणवाक्यसामर्थ्यादिति ब्रूमः ॥ एकदुक्तं भवति - अस्थुलमनण्वहस्वमदीर्घम्. *सत्यं ज्ञानमनन्तं ब्रह्म, निर्गुणम्, निरञ्जनम्-इत्यादिवाक्यानि निरस्तसमस्तविशेषकूटस्थनित्यचैतन्यं ब्रह्मति प्रतिपादयन्ति; इतराणि च सगुणम् । उभयविधवाक्यानां विरोधे तेनैवापच्छेदन्यायेन निर्गुणवाक्यानां गुणापेक्षत्वेन परत्वाद्बलीयस्त्वमिति न किंचिदपहीनम् ॥ ननु च, *सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्र सत्यज्ञानादयो गुणाः प्रतीयन्ते । नेत्युच्यते, समानाधिकरण्येनैकार्थत्वप्रतीतेः । अनेकगुणविशिष्टाभिधानेऽप्येकार्थत्वमविरुद्धमिति चेत्; अनभिधानज्ञो देवानां प्रियः। एकार्थत्वं नाम सर्वपदानामर्थंक्यम्; विशिष्ट पदार्थाभिधाने विशेषणभेदेन पदानामर्थीदोऽवर्जनीयः; ततश्चैकार्थत्वं न सिध्यति । एवं तहि सर्वपदानां पर्यायता स्यात्, अदिशिष्टार्थाभिधायित्वात् । एकार्थाभिधायित्वेऽप्यपर्यायत्वमवहित. मनाश्शृणु। एकत्वतात्पर्यनिश्चयादेकस्यैवार्थस्य तत्तत्पदार्थविरोधिप्रत्यनीकत्वपरत्वेन सर्व- पदानामर्थवत्त्वमेकार्थत्वमपर्यापता च ।। एतदुक्तं भवति-लक्षणतः प्रतिपत्तन्यं ब्रह्म सकलेतरपदार्थविरोधिरूपम् । तद्विरोधि- रूपं सर्वमनेन पदत्रयेण फलतो व्युदस्यते । तत्र सत्यपदं विकारास्पदत्वेनासत्याद्वस्तुनो व्यावृत्तब्रह्मपरम् । ज्ञानपदं चान्याधीनप्रकाशजडरूपाद्वस्तुनो व्यावृत्तपरम् । अनन्तपदं च देशतः कालतो वस्तुतश्च परिच्छिन्नाद्व्यावृत्तपरम् । न च व्यावृत्तिर्भावरूपोऽभावरूपो वा धर्मः। अपि तु सकलेतरविरोधि ब्रह्मव । यथा शौक्ल्यादेः कार्ष्या दिव्यावृत्तिस्तत्तत्पदार्थस्वरूपमेव, न धर्मान्तरम् । एवमेकस्यैव वस्तुनस्सकलेतरविरोध्याकारतामवगमयदर्थवत्तरमेकार्थमपर्यायं च पदत्रयम् । तस्मादेकमेव ब्रह्म स्वयंज्योतिनिधूतनिखिलविशेषमित्युक्त भवति । एवं वाक्यार्थप्रतिपादने सत्येव, *सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इत्यादि- भिरैकार्थ्यम् । *यतो वा इमानि भूतानि जायन्ते, *सदेव सोम्येदमग्र आसीत्, *आत्मा वा इदमेक एवान आसीत् -इत्यादिभिर्जगत्कारणतयोपलक्षितस्य ब्रह्मणः स्वरूपमिदमुच्यते प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महापूर्वपक्ष: । ११ *सत्यं ज्ञानमनन्तं ब्रह्मेति । तत्र सर्वशाखाप्रत्ययन्यायेन कारणवाक्येषु सर्वेषु सजातीय- विजातीयव्यावृत्तद्वितीयं ब्रह्माबगतम् । जगत्कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रति- पिपादयिषितं स्वरूपं तदविर धेन वक्तव्यम् । अद्वितीयत्वश्रुतिर्गुणतोऽपि सद्वितीयतां न सहते। अन्यथा, *निरञ्जनम्, *निर्गुणम्, इत्यादिभिश्च विरोधः । अतश्चैतल्लक्षणवाक्यम- खण्डेकरसमेव प्रतिपादयति ॥ ननु च, सत्यज्ञानादिपदानां स्वार्थप्रहाणेन स्वार्थविरोधिव्यावृत्तवस्तुस्वरूपोपस्थापन- परत्वे लक्षणा स्यात् । नैष दोषः, अभिधानवृत्तेरपि तात्पर्यवृत्तेर्बलीयस्त्वात् । सामानाधि- करण्यस्य ा क्य एक तात्पर्य मिति सर्वसंमतम् । ननु च, सर्वपदानां लक्षणा न दृष्टचरी । ततः किम् ? वाक्यतात्पर्या विरोधे सत्येकस्यापि न दृष्टा । समभिव्याहतपदसमुदायस्यैत- तात्पर्यमिति निश्चिते सति द्वयोस्त्रयाणां सर्वेषां वा तदविरोधाय एकस्येव लक्षणा न दोषाय । तथा च शास्त्रस्थैरभ्युपगम्यते । कार्यवाक्यार्थवादिभिलौकिकवाक्येषु सर्वेषां पदानां लक्षणा समाश्रीयते । अपूर्वकार्य एव लिङादेर्मुख्यवृत्तत्वात् लिङादिभिः क्रियाकार्य लक्षणया प्रति- पाद्यते; कार्यान्वितस्वार्थाभिधायिनां चेतरेषां पादानामपूर्वकार्यान्वित एव मुख्यार्थ इति क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकमेव । अतो वाक्यतात्पर्याविरोधाय सर्वपदानां लक्षणाऽपि न दोषः । अत इदमेवार्थजातं प्रतिपादयन्तो वेदान्ताः प्रमाणम् ॥ प्रत्यक्षादिविरोधे च शास्त्रस्य बलीयस्त्वमुक्तम् । सति च विरोधे बलीयस्त्वं वक्तव्यम् । विरोध एव न दृश्यते, निविशेषसन्मात्रब्रह्मग्राहित्वात्प्रत्यक्षस्य । ननु च, घटोऽस्ति पटोस्ति इति नानाकारवस्तुविषयं प्रत्यक्षं कथमिव सन्मात्रग्राहीत्युच्यते ? विलक्षणग्रहणाभावे सति सर्वेषां ज्ञानानामेकविषयत्वेन धारावाहिकविज्ञानवदेकव्यवहारहेतुतैव स्यात् । सत्यम्; तथैवात्र विविच्यते । कथम् ? घटोऽस्ती त्यत्रास्तित्वं तद्भदश्च व्यवह्रियते । न च द्वयोरपि व्यवहारयोः प्रत्यक्षमूलत्वं संभवति, तयोभिन्नकालज्ञानफलत्वात्, प्रत्यक्षज्ञानस्य चैकक्षण- वतित्वात् । तत्र स्वरूपं वा भेदो वा प्रत्यक्षस्य विषय इति विवेचनीयम् । भेदग्रहणस्य स्वरूपग्रहणतत्प्रतियोगिस्मरणसव्यपेक्षत्वादेव स्वरूपविषयत्वमवश्याश्रयणीयमिति न भेदः प्रत्यक्षेण गृह्यते । अतो भ्रान्तिमूल एव भेदव्यवहारः ।। किंच भेदो नाम कश्चित्पदार्थो यायविद्भिनिरूपयितुं न शक्यते । भेदस्तावन्न वस्तु- स्वरूपम्, वस्तुस्वरूपे गृहोते स्वरूपव्यवहारवत्सर्वस्माद्भदव्यवहारप्रसक्तः। न च वाच्यम्, स्वरूपे गृहीतेऽपि भिन्न इति व्यवहार त्य प्रतियोगिस्मरणसव्यपेक्षत्वात्, तत्स्मरणाभावेन तदानीमेव न भेदव्यवहार इति । स्वरूपमात्रभेदवादिनो हि प्रतियोग्यपेक्षा च नोत्प्रेक्षितुं क्षमा, स्वरूपभेदयोस्स्वरूपत्वाविशेषात् । यथा स्वरूपव्यवहारो न प्रतियोग्यपेक्षः, भेद- १२ श्रीभगद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । व्यवहारोऽपि तथैव स्यात् । हस्तः करः इतिवत् घटो भिन्नः इति पर्यायत्वं च स्यात् । नापि धर्मः; धर्मत्वे सति तस्य स्वरूपा दोऽवस्याश्रयणीयः, अन्यथा स्वरूपमेव स्यात् । भेदे च तस्यापि भेदस्तद्धर्मस्तद्धर्मस्तस्यापीत्यनवस्था । किंच जात्यादिविशिष्टवस्तुग्रहणे सति भेद- अतो भेदस्य ग्रहणम्, भेदग्रहणे सति जात्यादिविशिष्टवस्तुग्रहणमित्यन्योन्याश्रयणम् । दुनिरूपत्वात्सन्मात्रस्यैव प्रकाशकं प्रत्यक्षम् ॥ किंच 'घटोऽस्ति' 'पटोऽस्ति' 'घटोऽनुभूयते' 'पट ऽनुभूयते' इति सर्वे पदार्थास्सत्तानु- भूतिघटिता एव दृश्यन्ते । अत्र सर्वासु प्रतिपत्तिषु सन्मात्रमनुवर्तमान दृश्यत इति तदेव परमार्थः । विशेषास्तु व्यावर्तमानतया अपरमार्थाः, रज्जुसादिवत् । यथा रज्जुधिष्ठानतया- ऽनुवर्तमाना परमार्था सती; व्यावर्तमानास्सर्पभूदलनाम्बुधारादयोऽपरमार्थाः । ननु च, रज्जु- सर्यादौ ‘रज्जुरियं न सर्पः' इत्यादिरज्ज्वाद्यधिष्ठानयाथार्थ्यज्ञानेन बाधितत्वात्सदेरपार- मार्थ्यन्, न व्यावर्तम नत्वात् । रज्ज्वादेरपि पारमार्थं नानुवर्तमानतया, कित्वबाधितत्वात् । अत्र तु घटादीनामबाधितानां कथमपारमार्थ्यम् ? उच्यते, घटादौ दृष्टा व्यावृत्तिस्सा किरूपेति विवेचनोयम् । कि घटोस्तीत्यत्र पटाद्यभावः ? सिद्ध तहि घटोऽस्तीत्यनेन पटादीनां बाधितत्वम् । अतो बाधफलभूता विषयनिवृत्तिावृत्तिः । सा व्यावर्तमानानामपारमार्थ्य साधयति । रज्जुवत् सन्मात्रमबाधितमनुवर्तते । तस्मात्सन्मालातिरेकि सर्वमपरमार्थः । प्रयोगश्च भवति-सत्परमार्थः, अनुवर्तमानत्वात्, रज्जुसदिौ रज्ज्वादिवत् । घटादय :- परमार्थाः, व्यावर्तमानत्वात्, रज्ज्वाद्यधिष्ठानसर्पादिवत्-इति । एवं सत्यनुवर्तमानाऽनुभूतिरेव परमार्थः; सैव सती॥ ननु च, सन्मात्रमनुभूतेविषयतया ततो भिन्नम्। नैवम्; भेदो हि प्रत्यक्षाविषयत्वा दुनिरूपत्वाच्च पुरस्तादेव निरस्तः। अत एव सतोऽनुभूतिविषयभावोऽपि न प्रमाणपदवी- मनुसरति । तस्मात्सदनुभूतिरेव । सा च स्वतस्सिद्धा, अनुभूतित्वात्; अन्यतस्सिद्धौ घटादि- वदननुभूतित्वप्रसङ्गः । किंच अनुभवापेक्षा चानुभूतेर्न शक्या कल्पयितुम्; सत्तयैव प्रकाश- मानत्वात् । न ह्यनुभूतिर्वर्तमाना घटादिवदप्रकाशा दृश्यते; येन परायत्तप्रकाश:ऽभ्युपगम्येत ।। अथैवं मनुषे-उत्पन्नायामप्यनुभूतौ विषयमात्रमवभासते 'घटोऽनुभूयते' इति । न हि कश्चित् 'घटोऽयम्' इति जानन् तदानीमेवाविषयभूतामनिदंभावामनुभूतिमप्यनुभवति । तस्माद्धटादिप्रकाशनिष्पत्तौ चक्षुरादिकरणसन्निकर्षवदनुभूतेस्सद्भाव एव हेतुः; तदनन्तर- मर्थगतकादाचित्कप्रकाशातिशयलिङ्गेनानुभूतिरनुमीयते; एवं तनुभूतेरजडाया अर्थवज्जडत्व- मापद्यत इति चेत्; किमिदमजडत्वं नाम ? न तावत्स्वसत्तायाः प्रकाशाव्यभिचारः, सुखादिष्वपि तत्संभवात्; नहि कदाचिदपि सुखादयस्सन्तो नोपलभ्यते; अतोऽनुभूतिस्स्वयमेव प्रथमाध्याये--प्रथमपादे-जिज्ञासाधिकरणे महापूर्वपक्षः । - ? नानुभूयते, अर्थान्तरं स्पृशतोऽङ्गुल्पग्रस्थ स्वात्मस्पर्शवदशवयत्वादिति । तदिदमनाकलितानु- भविभवस्य स्वमतिविम्भितम्; अनुभूतिव्यतिरेकिणो विषयधर्मस्य प्रकाशस्य रूपादि- वदनुपलब्धेः; उभवाभ्युपेतानुभूत्यैवाशेषव्यवहारोपपत्तौ प्रकाशाख्यधर्मकल्पनानुपपत्तेश्च । अतो नानुभूतिरनुमीयते । नापि ज्ञानान्तरसिद्धा । अपि तु सर्व साधयत्यनुभूतिस्स्वयमेव सिध्यति । प्रयोगश्च-अनुभूतिरनन्याधीनस्वधर्मव्यवहारा, स्वसंबन्धादर्थान्तरे तद्धर्मव्यवहार- हेतुत्वात्; यस्स्वसंबन्धादर्थान्तरे यद्धर्मव्यवहार हेतुः स तयोस्स्वस्मिन्नयनन्याधीनो दृष्टः, यथा रूपादिश्चाक्षुषत्वादौ । रूपादिहि पृथिव्यादौ स्वसंबधाच्चाक्षुषत्वादि जनपन् स्वस्मिन्नरूपादि- संबन्धाधीनश्चाक्षुषत्वादौ । अतोऽनुभूतिरात्मनः प्रकाशमानत्वे प्रकाशत इति व्यवहारे च स्वयमेव हेतुः ॥ सेयं स्वयंप्रकाशाऽनुभूतिनित्या च, प्रागभावाद्यभावात् । तदभावश्च स्वतस्सिद्ध- त्वादेव । न ह्यनुभूतेस्स्वतस्सिद्धायाः प्रागभावस्स्वतोऽन्यतो वाऽवगन्तुं शक्यते । अनुभूति- स्स्वाभावमवगमयन्ती, सती तावन्नावगमयति । तस्यास्सत्त्वे विरोबादेव तदभावो नास्तीति कथं ला स्वभावमवगमयति ? एवमसत्यपि नावगमयति; अनुभूतिस्स्वयमसती स्वाभावे कथं प्रमाणं भवेत् ? नाप्यन्यतोऽवगन्तुं शक्यते, अनुभूतेरनन्यगोचरत्वात् । अस्याः प्रागभावं साधयत् प्रमाणम् 'अनुभूतिरियान्' इति विषयोकृत्य तदभावं साधयेत्; स्वतस्सिद्धत्वेन इयमिति विषयो- कारानहत्वात्, न तत्प्रागभावोऽन्यतश्शक्यावगमः । अतोऽस्याः प्रागभावाभावादुत्पत्तिर्न शक्यते वक्तुभित्युत्पत्तिप्रतिसंबद्धाश्चान्येऽपिभावविका रास्तस्या न सन्ति ।। अनुत्पन्नेयमनुभूतिरात्मनि नानात्वमपि न सहते, व्यापकविरुद्धोपलब्धेः । न ह्यनुत्पन्न नानाभूतं दृष्टम् । भेदादीनामनुभाव्यत्वेन च रूपादेरिवानुभूतिधर्मत्वं न संभवति । अतोऽनु- भूतेरनुभवस्वरूपत्वादेवान्योऽपि कश्चिदनुभाव्यो नास्या धर्मः । निधूतनिखिलभेदा संवित्, अत एव नास्यास्स्वरूपातिरिक्त आश्रयो ज्ञाता नाम कश्चिदस्तीति स्वप्रकाशरूपा सैवात्मा, अनात्नत्वव्याप्त जडत्वं संविदि व्यावर्तमानमनात्मत्वमपि हि संविदो व्यावर्तयति ।। ननु च, अहं जानामीति ज्ञातृता प्रतीतिसिद्धा। नैवम् सा भ्रानि सिद्धा, रजततेव शुक्तिशकलस्य, अनुभूतेस्स्वात्मनि कर्तृत्वायोगात् । अतो मनुष्योऽहमित्यत्यन्तर्बहिर्भूतमनुष्य- त्वादिविशिष्टपिण्डात्माभिमानवत् ज्ञातृत्वमप्यध्यस्तम् । ज्ञातृत्वं हि ज्ञानक्रियाकर्तृ त्वम् । तच्च विक्रियात्मकं जडं विकारिद्रव्याहंकारग्रन्थिस्थमविक्रिये साक्षिणि चिन्मात्रात्मनि कथमिव संभवनि ? दृश्यधीनसिद्धित्वादेव रूपादेरिव कर्तृत्वादेर्नात्मधर्मत्वम् । सुषुप्तिमूर्छादावहंप्रत्यया- पायेऽप्यात्मानुभवदर्शनेन नात्मनोऽहंप्रत्ययगोचरत्वम् । कर्तृत्वेऽहंप्रत्ययगोचरत्वे चात्मनोभ्यु- अजडत्वाच्च ।

१२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाप्यम् । पगम्यमाने देहस्येव जडत्वपराक्त्वानात्मत्वादिप्रसङ्गो दुष्परिहरः । अहंप्रत्ययगोचरात् कर्तृतया प्रसिद्धादेहात्तत्क्रियाफलस्वर्गादे क्तुरात्मनोऽन्यत्वं प्रामाणिकानां प्रसिद्धमेव । तथाऽहमर्थात् ज्ञातुरपि विलक्षणस्साक्षी प्रत्यगात्मेति प्रतिपत्तव्यम् । एवमविक्रियानुभव- स्वरूपस्यैवाभिव्यञ्जको जडोऽप्यहंकारस्स्वाश्रयतया तमभिव्यनक्ति। आत्मस्थतयाऽभिव्य- नयाभिव्यञ्जनमभिव्यञ्जकानों स्वभावः । दर्पणजलखण्डादिहि मुखचन्द्रबिम्बगोत्वादिकमात्म- स्थतयाऽभिव्यनक्ति । तत्कृतोयं जानाम्यहा' इति भ्रमः । स्वप्रकाशाया अनुभूतेः कथमिव तदभिव्यङ्गयजडरूपाहङ्कारेणाभिव्यङ्गयत्वमिति मा वोचः, रविकरनिक राभिव्यङ्गयकर- तलस्य तदभिव्यञ्जकत्वदर्शनात्; जालकरन्ध्रनिष्क्रान्तामणि किरणानां तदभिव्यङ्गय नापि करतलेन स्फुटतरप्रकाशो हि दृष्टचरः। यतोऽहं जानामीति ज्ञाताऽयमहमर्थश्चिन्मात्रात्मनो न पारमार्थिको धर्मः; अत एव सुषुप्तिमुक्त्योर्नान्वेति । तत्र गहमर्थोल्लेख विगमेन स्वाभा- विकानुभवमात्ररूपेणात्माऽवभासते । अत एव सुप्तोत्थितः कदाचिन्मामप्यहं न ज्ञातवानिति परामृशति । तस्मात्परमार्थतो निरस्तसमस्तभेदनिर्विकल्पनिविशेषचिन्मात्रैकरसकूटस्थनित्य- संविदेव भ्रान्त्या ज्ञातृज्ञेयज्ञानरूपविविधविचित्रभेदा विवर्तत इति तन्मूलभूताविद्यानिबर्हणाय नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते - इति ॥ (इति महापूर्वपक्षः) महासिद्धान्तः तदिदमौपनिषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहिणामनादिपापबासनादूषिता- शेषशेमुषीकाणामनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्यप्रत्यक्षादिसकलप्रमाणवृत्ततदितिकर्तव्य- तारूपसमीचीनन्यायमार्गाणा विकल्पासह विविधकुतर्ककल्क कल्पितमिति न्यायानुग्रहीतवाक्य- प्रत्यक्षादिसकलप्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम् ॥ तथाहि-निविशेषवस्तुवादिभिनविशेष वस्तुनीदं प्रमाणमिति न शक्यते वक्तुम्, सविशेषवस्तुविषयत्वात्सर्वप्रमाणानाम् । यस्तु स्वानुभवसिद्ध मिति स्वगोष्ठीनिष्ठस्समयः, सोऽप्यात्मसाक्षिकसविशेषानुभवादेव निरस्तः; 'इदमहमदर्शन्' इति केनचिद्विशेषेण विशिष्ट- विषयत्वात्सर्वेषामनुभवानाम् । सविशेषोऽप्यनुभूयमानोऽनुभवः केनचिद्युक्त्याभामेन निविशेष इति निष्कृष्यमाणस्सत्तातिरेकिभिस्स्वासाधारणैस्स्वभावविशेषनिष्क्रष्टव्य इति निष्कर्षहेतु- भूतैस्सत्तातिरेकिभिस्स्वासाधारणैस्स्वभावविशेषैस्सविशेष एवावतिष्ठते । अतः कैश्चिद्वि- शेविशिष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति, न कचिन्निविशेषवस्तुसिद्धिः । धियो हि धीत्वं स्वप्रकाशता च ज्ञातुविषयप्रकाशनस्वभावत्योपलब्धेः । स्वापमद- मूर्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपादयिष्यामः । स्वाभ्युप- प्रथमाध्याये--प्रथमपादे-जिज्ञासाधिकरणेमहासिद्धान्तः । गताश्च नित्यत्वादयो ह्यनेके विशेषास्सन्त्येव । ते च न वस्तुमात्रमिति शक्योपपादनाः; वस्तुमात्राभ्युपगमे सत्यपि विधाभेदविवाददर्शनात्, स्वाभिमततद्विधा दैश्च स्वमतोपपादनात् । अतः प्रमाणिकविशेविशिष्टमेव वस्त्विति वक्तव्यम् । शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम्, पदवाक्यरूपेण प्रवृत्तेः । प्रकृतिप्रत्ययोगेन हि पदत्वम् । प्रकृतिप्रत्ययघोरर्थ देन पदस्यैव विशिष्टार्थप्रतिपादनम- वर्जनीयम् । पददश्चार्थ भेदनिबन्धनः । पदप्तङ्घातरूपस्य वाक्यस्यानेकपदार्थसंसर्गविशेषाभि- धायित्वेन निविशेषवस्तुप्रतिपादनासामर्थ्यात् न निविशेषवस्तुनि शब्दः प्रमाणम् ॥ प्रत्यक्षस्य निर्विकल्पकसविकल्पकदभिन्नस्य न निविशेषवस्तुनि प्रमाणभावः । सविकल्पकं जात्याद्यनेकपदार्थविशिष्टविषयत्वादेव सविशेषविषयम् । निविकल्पकमपि सविशेष विषयमेव, सविकल्पके स्वस्मिन्ननुभूपदार्थविशिष्टप्रतिसंधानहेतुत्वात् । निर्विकल्पकं नाम केनचिद्विशेषेण वियुक्तस्थ ग्रहणम्, न सर्वविशेषरहितस्य; तथाभूतस्य कदाचिदपि ग्रहणा- दर्शनादनुपपत्तेश्च । केनचिद्विशेषेणेदमित्थमिति हि सर्वा प्रतीतिरुपजायते, त्रिकोणसास्नादि- संस्थानविशेषेण विना कस्यचिदपि पदार्थस्य ग्रहणायोगात् । अतो निर्विकल्पकमेकजातीय- द्रव्येषु प्रथमपिण्डग्रहणम् । द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते । तत्र प्रथमपिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते । द्वितीयादिपिण्डग्रहणेष्वेवानुवृत्तिप्रतीतिः । प्रथमप्रतीत्यनु- संहितवस्तुसंस्थानरूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसेयमिति, द्विती- यादि(पिण्ड)ग्रहणस्य सविकल्पकत्वम् । सास्नरदिवस्तुसंस्थानरूपगोत्वादेरनुवृत्तिन प्रथमपिण्ड- ग्रहणे गृह्यत इति, प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम्, न पुनस्संस्थानरूपजात्यादेरग्रहणात् । संस्थानरूपजात्यादेरप्यन्द्रियिकत्वाविशेषात्, संस्थानेन विना संस्थानिनः प्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि ससंस्थानमेव वस्तु इत्यमिति गृह्यते । अतो द्वितीयादिपिण्डग्रहणेषु गोत्वा- देरनुवृत्तिधर्मविशिष्टता संस्थानिवत्संस्थानवच्च सर्वदेव गृह्यत इति तेषु सविकल्पकत्वमेव । अतः प्रत्यक्षस्य कदाचिदपि न निविशेषविषयत्वम् ॥ अत् एव सर्वत्र भिन्नाभिन्नत्वमपि निरस्तम् । इदमित्यमिति प्रतीतविदमित्थंभावयोरेक्यं कथमिव प्रत्येतुं शक्यते ? तत्थंभावस्सास्नादिसंस्थानविशेषः; तद्विशेष्यं द्रव्यमिदमंश इत्यन- योरैक्यं प्रतीतिपराहतमेव । तथाहि-प्रथममेव वस्तु प्रतीयमानं सकलेतरव्य वृत्तमेव प्रतीयते । व्यावृत्तिश्च गोत्वादिसंस्थानविशेषविशिष्टतयेमिति प्रतीतेः । सर्वत्र विशेषणविशेष्य- भावप्रतिपत्तौ तयोरत्यन्तभेदः प्रतीत्यैव सुव्यक्तः । तत्र दण्डकुण्डलादयः पृथक्संस्थानसंस्थिताः स्वनिष्ठाश्च कदाचित्क्वचिद्रव्यान्तरविशेषणतयाऽवतिष्ठन्ते । गोत्वादयस्तु द्रव्यसंस्थानतयैव पदार्थ भूतास्सन्तो द्रव्यविशेषणतया अवस्थिताः । उभयत्र विशेषणविशेष्यभावस्समानः । तत १६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाप्यम् । एव तयोर्भेदप्रतिपत्तिश्च । इयांस्तु विशेषः-पृथस्थितिप्रतिपत्तियोग्या दण्डादयः, गोत्वादयस्तु नियमेन तदनर्हाः इति । अतो वस्तुविरोधः प्रतीतिपराहत इति प्रतीतिप्रकारनिह्नवादेव च्यते । प्रतीलिप्रकारो हि इदमित्यमित्येव सर्वसंमतः। तदेतत्सूत्रकारेण *नै कस्मिन्नसम्भवात्, इति सुव्यक्तमुपयादितम् । अतः प्रत्यक्षस्य सविशेषविषयत्वेन प्रत्यक्षादिदृष्टसंबन्धविशिष्टविषयत्वाद- नुमानमपि सविशेषविषयमेव । प्रमाणसङ्घयाविवादेऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निविशेषवस्तुसिद्धिः । वस्तुगतस्वभावविशेषैस्तदेव वस्तु निविशेष- मिति वदन् जननीवन्ध्यात्वप्रतिज्ञायामिव स्ववाग्विरोधमपि न जानाति ॥ यत्त, प्रत्यक्षं सन्मात्रग्राहित्वेन न भेदविषयम्, भेदश्च विकल्पासहत्वादुनिरूप इत्युक्त ३, तदपि जात्यादिविशिष्टस्यैव वस्तुनः प्रत्यक्षविषयत्वाज्जात्यादेरेव प्रतियोग्यपेक्षया वस्तुनस्स्वस्य च भेदव्यवहारहेतुत्वाच्च दूरोत्सारितम् । संवेदनवद्रूपादिवच्च परत्र व्यवहार- विशेषहेतोस्स्वस्मिन्नपि तयवहारहेतुत्वं युष्माभिरभ्युपेतं भेदस्यापि संभवत्येव । अत एव च नानवस्थाऽन्योन्याश्रयणं च । एकक्षणतित्वेऽपि प्रत्यक्षज्ञानस्य तस्मिन्नेव क्षणे वस्तुभेदरूप- तत्संस्थानरूपगोत्वादेगृहीतत्वात् क्षणान्तरग्राह्य न किञ्चिदिह तिष्ठति ॥ अपि च, सन्मात्रग्राहित्वे 'घटोऽस्ति' 'पटोऽस्ति' इति विशिष्टविषया प्रतीतिवि- रुध्यते । यदि च सन्मात्रातिरेकिवस्तुसंस्थानरूपजात्यादिलक्षणो भेदः प्रत्यक्षेण न गृहीतः, किमित्यश्वार्थो महिषदर्शने निवर्तते ? सर्वासु प्रतिपत्तिषु सन्मात्रमेव विषयश्चेत्; तत्तत्प्रति- पत्तिविषयसहचारिणस्सर्वे शब्दा एकैकप्रतिपत्तिषु किमिति न स्मर्यन्ते ? विञ्च अवे हस्तिनि च संवेदनयोरेकविषयत्वेन उपरितनस्य गृहीतग्राहित्वाद्विशेषाभावाच्च स्मृतिवैलक्षण्यं न स्यात् । प्रतिसंवेदनं विशेषाभ्युपगमे प्रत्यक्षस्य विशिष्टार्थविषयत्वमेवाभ्युपगतं भवति । सर्वेषां संवेदना- नामेक विषयतायामेकेनैव संवेदनेन शेष ग्रहणादन्धबधिराद्यभावश्च प्रसज्येत । न च चक्षुषा सन्मानं गृह्यते, तस्य रूपरूपिरूपैकार्यसमवेतपदार्थग्राहित्वात् । नापि त्वचा, स्पर्शवद्वस्तु- विषयत्वात् । श्रोत्रादीन्यपि न सन्मात्रविषयाणि; किंतु शब्दरसगन्धलक्षणविशेषविषयाण्येव । अतस्सन्मात्रस्य ग्राहकं न किञ्चिदिह दृश्यते ॥ निविशेषसन्मानस्य प्रत्यक्षेणैव ग्रहणे तद्विषयागमस्य प्राप्तविषयत्वेनानुवादकत्व- मेव स्यात् । सन्मात्रब्रह्मणः प्रमेयभावश्च । ततो जडत्वनाशित्वादयस्त्वयैवोक्तरः । अतो वस्तु- संस्थानरूपजात्यादिलक्षणभेदविशिष्टविष्यमेव प्रत्यक्षम् । संस्थानातिरेकिणे ऽनेकेष्वेकाकार- बुद्धिबोध्यस्यादर्शनात्, तावतैव गत्वादिजातिव्यवहारोपपत्तेः; अतिरेकवादेऽपि संस्थानस्य संप्रतिपन्नत्वाच्च संस्थानमेव जातिः । संस्थानं नाम स्वासाधररणं रूपमिति यथावस्तु संस्थान- मनुसंधेयम् । जातिग्रहणेनैव भिन्न इति व्यवहारसंभवात्, पदार्थान्तरादर्शनात्, अर्थान्तर- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्तः । वादिनाऽप्यभ्युपगतत्वाच्च गोत्वादिरेव भेदः । ननु च जात्यादिरेव भेदश्चेत्तस्मिन् गृहीते तद्वयवहारवद्भदव्यवहारोऽपि स्यात् । सत्यम्, भेदश्च व्यवहियत एव, गोत्वादिव्यवहारात् । गोत्वादिरेव हि सकलेतरव्यावृत्तिः, गोत्वादौ गृहीते सकलेतरसजातीयबुद्धिव्यवहारयो- निवृत्तेः । भेदग्रहणेनैव ह्यभेदनिवृत्तिः । 'अयमस्माद्भिन्नः' इति तु व्यवहारे प्रतियोगि- निर्देशस्य तदपेक्षत्वात् प्रतियोग्यपेक्षया भिन्न इति व्यवहार इत्युक्तम् ।। यत्पुनर्घटादीनां विशेषाणां व्यावर्तमानत्वेनापारमार्थ्यमुक्तम्, तदनालोचितबाध्य- बाधकभावव्यावृत्त्यनुवृत्तिविशेषस्य भ्रान्तिपरिकल्पितम् । द्वयोनियोविरोधे हि बाध्यबाधक- भावः । बाधितस्यैव व्यावृत्तिः । अत्र घटपटादिषु देशकालभेदेन विरोध एव नास्ति । यस्मिन् देशे यस्मिन् काले यस्य सद्भावः प्रतिपन्नः, तस्मिन् देशे तस्मिन् काले तस्याभावः प्रतिपन्नश्चेत् तत्र विरोधात् बलवतो बाधकत्वं बाधितस्य च निवृत्तिः । देशान्तरकालान्तर- संबन्धितयाऽनुभूतस्यान्यदेशकालयोरभावप्रतिपत्तौ न विरोध इति कथमत्र बाध्यबाधक- भावः ? अन्यत्र निवृत्तस्यान्यत्र निवृत्तिर्वा कथमुच्यते ? रज्जुसर्यादिषु तु तद्दे शकाल- संबन्धितयवाभावप्रतीतेः, विरोधो बाधकत्वं व्यावृत्तिश्चेति देशकालान्तरदृष्टस्य देशकाला- न्तरव्यावर्तमानत्वं मिथ्यात्वव्याप्त न दृष्टमिति न व्यावर्तमानत्वमात्रमपारमार्थ्यहेतुः ।। यत्तु, अनुवर्तमानत्वात्सत्परमार्थ इति, तत्सिद्धमेवेति न साधनमर्हति । अतो न सन्मात्रमेव वस्तु । अनुभूतिसद्विशेषयोश्च विषयविषयिभावेन भेदस्य प्रत्यक्षसिद्धत्वादबाधि- तत्वाच्चानुभूतिरेव सतीत्येतदपि निरस्तम् ।। यत्त्वनुभूतेस्स्वयंप्रकाशत्वमुक्तम्; तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव; न तु सर्वेषां सर्वदा तथैवेति नियमोऽस्ति, परानुभवस्य हानोपादानादिलिङ्गकानुमानज्ञान- विषयत्वात्, स्वानुभवस्याप्यतीतस्य 'अज्ञासिषम्' इति ज्ञानविषयत्वदर्शनाच्च । अतोऽनु- भूतिश्चेत् स्वतस्सिद्ध ति वक्तुं न शक्यते ।। अनुभूतेरनुभाव्यत्वे अननुभूतित्वमित्यपि दुरुक्तम्; स्वगतातीतानुभवानां परगतानु- भवानां चानुभाव्यत्वेनाननुभूतित्वप्रसङ्गात् । परानुभवानुमानानभ्युपगमे च शब्दार्थसंबन्ध- ग्रहणाभावेन समस्तशब्दव्यवहारोच्छेदप्रसङ्गः। आचार्यस्थ ज्ञानवत्त्वमनुमाय तदुपसत्तिश्च क्रियते; सा च नोपपद्यते । न चान्यविषयत्वेऽननुभूतित्वम् । अनुभूतित्वं नाम वर्तमानदशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वं, स्वसत्तयैव स्वविषयसाधनत्वं वा । ते चानुभवान्त- रानुभाव्यत्वेऽपि स्वानुभवसिद्धे नापगच्छत इति नानुभूतित्वमपगच्छति । घटादेस्त्वननुभूति- त्वमेतत्स्वभावविरहात्; नानुभाव्यत्वात् । तथाऽनुभूतेरननुभाव्यत्वेऽपि अननुभूतित्वप्रसङ्गो दुर्वारः; गगनकुसुमादेरननुभाव्यस्याननुभूतित्वात् । गगनकुसुमादेरननुभूतित्वमसत्त्वप्रयुक्तम्, .

१८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - नाननुभाव्यत्वप्रयुक्तमिति चेद एवं तहि घटावेरप्यज्ञानाविरोधित्व मेवाननुभूतित्वनिबन्धनभ्, नानुभाव्यत्वमित्यास्थीयताम् । अनुभूतेरनुभाव्यत्वे अज्ञानाविरोधित्वमपि तस्याः घटादेरिव प्रसज्यत इति चेत्; अननुभाव्यत्वेऽपि गगनकुसुमादेरिवाज्ञानाविरोधित्वमपि प्रसज्यत एव । अतोऽनुभाव्यत्वेऽननुभूतित्वमित्युपहास्यम् ।। यत्तु संविदरस्वत सिद्धायाः प्रागभावाद्यभावादुत्पत्तिनिरस्यते, तदन्धस्य जात्यन्धेन यष्टिः प्रदीयते . प्रागभावस्य ग्राहकाभावादभावो न शक्यते वक्तुम्; अनुभूत्यैव ग्रहणात् । कथमनुभूतिस्सती तदानीमेव स्वाभाव विरुद्धमवगमयतीति चेत्; न झनुभूतिस्स्वसमकाल- तिनमेव विषयोकरोतीत्यस्ति नियमः; अतीतानागतयोरविषयत्वप्रसङ्गात् । अथ मन्यसे- अनुभूतिप्रागभावादेस्सिद्ध यतस्तत्समकालभावनियमोऽस्तीति; कि त्वया क्वचिदेवं दृष्टम्, येन नियल ब्रवीषि ? हन्त तहि तत एव दर्शनात् प्रागभावादिस्सिद्ध इति न तदपह्नवः । तत्त्रागभावं च तत्समकालवतिनमनुन्मत्तः को ब्रवीति ? इन्द्रियजन्मनः प्रत्यक्षस्य ह्यष स्वभावनियमः, यत्स्वसमकालवर्तिनः पदार्थस्य ग्राहकत्वम् न सर्वेषां ज्ञानानां प्रमाणानां च; स्मरणानुमानागमयोगिप्रत्यक्षादिषु कालान्तरवर्तिनोऽपि ग्रहणदर्शनात् । अत एव च प्रमाणस्य प्रमेयाविनाभावः । न हि प्रमाणस्य स्वसमकालवतिनाऽविनाभावोऽर्थसंबन्धः; अपि तु यद्देशकालादिसंबन्धितया योऽर्थोऽवभासते, तस्य तथाविधाकारमिथ्यात्वप्रत्यनीकता । अत इदमपि निरस्तं-स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे स्मृतिदर्शनात्-इति ॥ अथोच्येत-न तावत्संवित्प्रागभावः प्रत्यक्षावसेयः, अवर्तमानत्वात् । न च प्रमाणा- न्तरावसेयः लिङ्गाद्यभावात् । न हि संवित्प्रागभावव्याप्तमिह लिङ्गमुपलभ्यते । नानुषपत्ति- रपि कस्यचित् दृश्यते । न चाऽगमस्तद्विषयो दृष्टचरः। अतस्तत्प्रागभावः प्रमाणाभावादेव न सेत्स्यति-इति; यद्येवं स्वतस्सिद्धत्वविभवं परित्यज्य प्रमाणाभावेऽवरूढश्चेत्; योग्यानुप- लब्ध्यवाभावस्समर्थित इत्युपशाम्यतु भवान् ।। किंच-प्रत्यक्षज्ञानं स्वविषयं घटादिकं स्वसत्ताकाले सन्तं साधयत्तस्य न सर्वदा सत्तामवगमयदृश्यत इति घटादेः पूर्वोत्तरकालसत्ता न प्रतीयते । तदप्रतीतिश्च संवेदनस्य कालपरिच्छिन्नतया प्रतीतेः। घटादिविषयमेव संवेदनं स्वयं कालानवच्छिन्न प्रतीतं चेत्; संवेदनविषयो घटादिरपि कालानवच्छिन्नः प्रतीयेतेति नित्यस्स्यात् । नित्यं चेत्संवेदनं स्वतस्तिद्धं नित्यमित्येव प्रतीयेत । न च तथा प्रतीयते । एवमनुमानादिसंविदोऽपि कालान- वच्छिन्नाः प्रतीताश्चेत् स्वविषयानपि कालानवच्छिन्नान् प्रकाशयन्तीति ते च सर्वे कालान- वच्छिन्ना नित्यास्स्युः, संविदनुरूपस्वरूपत्वाद्विषयाणाम् । न च निविषया काचित्संविदस्ति; अनुपलब्धः। विषयप्रकाशनतयैवोपलब्धेरेव हि संविदस्स्वयंप्रकाशता समथिता । संविदो -- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्तः । Sh . विषयप्रकाशनतास्वभावविरहे सति स्वयंप्रकाशत्वासिद्धः, अनुभूतेरनुभवान्तराननुभाव्यत्वाच्च संविदस्तुच्छतैव स्यात् । न च स्वापमदमूर्छादिषु सर्व विषयशून्या केवलैव संवित्परिस्फुर- तीति वाच्यम्; योग्यानुपलब्धिपराहतत्वात् । तास्वपि दशास्वनुभूतिरनुभूता चेत् तस्याः प्रबोधसमयेऽनुसंधानं स्यात्; न च तदस्ति । नन्वनुभूतस्य पदार्थस्य स्मरणनियमो न दृष्टचरः । अतस्स्मरणाभावः कथमनुभवा- भावं साधयेत् ? उच्यते । निखिलसंस्कारतिरस्कृतिकरदेहविगमादिप्रबलहेतुविरहेऽप्यस्मरण- नियमोऽनुभवाभावमेव साधयति । न केवलमस्मरणनियमादनुभवाभावः; सुप्तोत्थितस्य 'इयन्तं कालं न किंचिदहमज्ञासिषम्' इति प्रत्यवमर्शनैव सिद्धेः । न च सत्यप्यनुभवे तदस्मरणनियमो विषयावच्छेदविरहादहंकारविगमाद्वेति शक्यते वक्तुम्; अर्थान्तराननुभवस्यार्थान्तराभावस्य चानुभूतान्तिरास्मरणहेतुत्वाभावात् । तास्वपि दशास्वहमर्थोऽनुवर्तत इति च वक्ष्यते ।। ननु स्वापादिदशास्वपि सविशेषोऽनुभवोऽस्तीति पूर्वमुक्तम् । सत्यमुक्तम्; स त्वात्मा- नुभवः; स च सविशेष एवेति स्थापयिष्यते । इह तु सकलविषयविरहिणी निराश्रया च संविनिषिध्यते । केवलैव संविदात्मानुभव इति चेत्; (न,) सा च साश्रयेति [ पपाद- यिष्यते। अतोऽनुभूतिस्सली स्वयं स्वप्रागभावं न साधयतीति प्रागभावासिद्धिर्न शक्यते वक्तुम् । अनुभूतेरनुभाव्यत्वसंभवोपपादनेनान्यतोऽप्यसिद्धिनिरस्ता । तस्मान प्रागभावाद्य- सिद्धया संविदोऽनुत्पत्तिरुपपत्तिमती ॥ यदप्यस्था अनुत्पत्त्या विकारान्तरनिरसनम्; तदप्यनुपपन्नम्, प्रागभावे व्यभि- चारात् । तस्य हि जन्माभावेऽपि विनाशो दृश्यते । भावेष्विति विशेषणे तर्ककुशलताऽऽ- विष्कृता भवति । तथाच भवदभिमताऽविद्याऽनुत्पन्न व विविधविकारास्पदं तत्त्वज्ञानोदया- दन्तवती चेति तस्यामनैकान्त्यम् । तद्विकारास्सर्वे मिथ्याभूता इति चेत्; कि भवतः परमार्थ- भूतोऽप्यस्ति विकारः, येनैतद्विशेषणमर्थवद्भवति ? न ह्यसावभ्युपगम्यते ॥ यदप्यनुभूतिरजत्वात्स्वस्मिन्विभागं न सहत इति; तदपि नोपपद्यते, अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभक्तत्वात्; अनादित्वेन चाभ्युपगताया अविद्याया आत्मनो व्यतिरेकस्या- वश्याश्रयणीयत्वात् । स विभागो मिथ्यारूप इति चेत्, जन्मप्रतिबद्धः परमार्थविभागः कि क्वचिदृष्टस्त्वया ? अविद्याया आत्मनः परमार्थतो विभागाभावे वस्तुतो ह्यविद्येव स्यादात्मा । अबाधितप्रतिपत्तिसिद्धदृश्यभेदसमर्थनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदा- च्छेदनभेदवत् ।। यदपि नास्या दृशे शिरूपाया दृश्यः कश्चिदपि धर्मोऽस्ति; दृश्यत्वादेव तेषां न दृशि- धर्मत्वम्-इति च; तदपि स्वाभ्युपगतः प्रमाणसिनित्यत्वस्वयंप्रकाशत्वादिधर्मरुभयमन- २० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । कान्तिकम् । न च ते संवेदनमात्रम्, स्वरूपभेदात् । स्वसत्तयैव स्वाश्रयं प्रति कस्यचिद्विषयस्य प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता तु स्वसत्तयैव स्वाश्रयाय प्रकाशमानता। प्रकाशश्च चिदचिदशेषपदार्थसाधारणं व्यवहारानुगुण्यम् । सर्वकालवर्तमानत्वं हि नित्यत्वम् । एकत्व- मेकसंख्यावच्छेद इति । तेषां जडत्वाद्यभावरूपतायामपि तथाभूतैरपि चैतन्यधर्मभूतैस्तैर- नैकान्त्यमपरिहार्यम् । संविदि तु स्वरूपातिरेकेण जडत्वादिप्रत्यनीकत्वमित्यभावरूपो भाव- रूपो वा धर्मो नाभ्युपेतश्च त्; तत्तनिषेधोक्त्या किमपि नोक्तं भवेत् ॥ अपि च संवित्सिध्यति वा न वा ? सिध्यति चेत्, सधर्मता स्यात् । न चेत्; तुच्छता, गगनकुसुमादिवत् । सिद्धिरेव संविदिति चेत्, कस्य के प्रतीति वक्तव्यम् । यदि न कस्यचित्कंचित्प्रति; सा तर्हि न सिद्धिः । सिद्धिहि पुत्रत्वमिव कस्यचित्कंचित्प्रति भवति । आत्मन इति चेत्, कोऽयमात्मा ? ननु संविदेवेत्युक्तम् । सत्यमुक्तम्; दुरुक्तं तु तत् । तथाहि कस्यचित्पुरुषस्य किंचिदर्थजातं प्रति सिद्धिरूपतया तत्संबन्धिनी सा संवित्स्वयं कथमिवा- त्मभावमनुभवेत् ? एतदुक्तं भवति-अनुभूतिरिति स्वाश्रयं प्रति स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारानुगुण्यापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषो 'घटमहं जानामि, इममर्थमवगच्छामि, पटमहं संवेद्मि' इति सर्वेषामात्मसाक्षिकः प्रसिद्धः । एतत्स्वभावतया हि तस्यास्स्वयंप्रकाशता भवताप्युपपादिता। अस्य सकर्मकस्य कर्तृधर्मविशेषस्य कर्मत्ववत्कर्तृत्वमपि दुर्घटमिति । तथाहिः अस्य कर्तुस्स्थिरत्वं कर्तृधर्मस्य संवेदनाख्यस्य सुखदुःखादेरिवोत्पत्ति स्थितिनिरोधाश्च प्रत्यक्षमीक्ष्यन्ते । कर्तृ स्थैर्य तावत् 'स एवायमर्थः पूर्व मयाऽनुसूतः' इति प्रत्यभिज्ञाप्रत्यक्षसिद्धम् । 'अहं जानामि', 'अहमज्ञा- सिष', 'ज्ञातुरेव ममेदानी ज्ञानं नष्टम्' इति च सविदुत्पत्त्यादयः प्रत्यक्षसिद्धा इति कुतस्त- दैक्यम् ? एवं क्षणभङ्गिन्यास्स विद आत्मत्वाभ्युपगमे पूर्वेधुदृष्टमपरेयुः 'इदमहमदर्शम्' इति प्रत्यभिज्ञा च न घटते; अन्येनानुभूतस्य न ह्यन्येन प्रत्यभिज्ञानस भवः ।। किञ्च अनुभूतेरात्मत्वाभ्युपगमे तस्या नित्यत्वेऽपि प्रतिसन्धानास भवस्तदवस्थः । प्रतिसन्धानं हि पूर्वापरकालस्थायिनमनुभवितारमुपस्थापयति; नानुभूतिमात्रम्; अहमेवेदं पूर्व मप्यन्वभूवमिति । भवतोऽप्यनुभूतेन ह्यनुभवितृत्वमिष्टम् । अनुभूतिरनूभूतिमात्रमेव । सविनाम काचिनिराश्रया निविषया वाऽत्यन्तानुपलब्धेन संभवतीत्युक्तम् । उभयाभ्युपेता संविदेवात्मेत्युपलब्धिपराहतम् । अनुभूतिमात्रमेव परमार्थ इति निष्कर्षकहेत्वाभासाश्च निराकृताः ।। ननु च 'अहं जानामि' इत्यस्मत्प्रत्यये योऽनिदमशः प्रकाशैकरसश्चित्पदार्थस्स प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्तः । २१ आत्मा। तस्मित् तद्बलनिर्भासिततया युष्मदर्थलक्षणः अहं जानामीति सिध्यन्नहमर्थ श्चिन्मात्रातिरेकी युष्मदर्थ एव । नैतदेवम्, 'अहं जानामि' इति धर्मर्मितया प्रत्यक्षप्रतीति- विरोधादेव । किञ्च, अहमर्थो न चेदात्मा प्रत्यक्त्वं नात्मनो भवेत् । अहंबुद्धया परागर्थात् प्रत्यगर्थो हि भिद्यते ॥ निरस्ताखिलदुःख ऽहमनन्तानन्दभाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थविनाशश्च न्मोक्ष इत्यध्यवस्यति । अपसदसौ मोक्षकथाप्रस्ताव- गन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता। इति तत्प्राप्तये यत्नः कस्यापि न भविष्यति ॥ स्वसंबन्धितया ह्यस्यास्सत्ता विज्ञप्तितादि च । स्वसंबन्धवियोगे तु ज्ञप्तिरेव न सिद्धयति ॥ छेत्तुश्छेद्यस्य चाभावे छेदनादेरसिद्धिवत् । अतोऽहमर्थो ज्ञातैव प्रत्यगात्मेति निश्चितम् ॥ अविज्ञातारमरे केन, *जानात्येवेति च श्रुतिः। *एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति च स्मृतिः ॥ अनात्मा श्रुतेरित्यारभ्य सूत्रकारोऽपि । *ज्ञोऽत एवेत्यतो नात्मा ज्ञप्ति- मात्रमिति स्थितम् ॥ अहंप्रत्ययसिद्धो ह्यस्मदर्थः; युस्मत्प्रत्ययविषयो युष्मदर्थः। तत्राहं जानामीति सिद्धो ज्ञातर युष्मदर्थ इति वचनं जननी मे वन्ट्येतिवद्व्याहतार्थं च । नचासौ ज्ञाताऽहमर्थोऽन्या- धीनप्रकाशः, स्वयंप्रकाशत्वात् । चैतन्यस्वभावता हि स्वयंप्रकाशता । यः प्रकाशस्वभावः; सोऽनन्याधीनप्रकाशः, दोपवत् । नहि दीपादेस्स्वप्रभाबलनिर्भासितत्वेनाप्रकाशत्वमन्याधीन- प्रकाशत्वं च । कि तहि ? दीपस्स्वयंप्रकाशस्वभावस्स्वयमेव प्रकाशते; अन्यानपि प्रकाशयति स्वप्रभया॥ एतदुक्तं भवति-यथैकमेव तेजोद्रव्यं प्रभाप्रभाव पेणावतिष्ठते । यद्यपि प्रभा प्रभावद्रव्यगुणभूता; तथाऽपि तेजोद्रव्यमेव, न शौक्ल्यादिवद्गुणः । स्वाश्रयादन्यत्रापि वर्तमानत्वाद्र पवत्त्वाच्च शौक्ल्यादिवैधात्; प्रकाशवत्त्वाच्च तेजोद्रव्यमेव; नार्थान्तरम् । प्रकाशवत्वं च स्वस्वरूपस्यान्येषां च प्रकाशकत्वात् । अस्यास्तु गुणत्वव्यवहारो नित्य- तदाश्रयत्वतच्छेषत्वनिबन्धनः । न चाश्रयावयवा एव विशीर्णाः प्रचरन्तः प्रभेत्युच्यन्ते, मणिधुमणिप्रभृतीनां विनाशप्रसङ्गात् । दीपेऽप्यवयविप्रतिपत्तिः कदाचिदपि न स्यात् । नहि विशरणस्वभावावयवा दीपाश्चतुरङ्गुलमात्रं नियमेन पिण्डीभूता ऊर्वमुद्गम्य ततः पश्चाद्युगपदेव तिर्यगूर्वमधश्चैकरूपा विशीर्णाः प्रचरन्तीति शवयं वक्तुम् । अतस्सप्रभाका एव दीपाः प्रतिक्षणमुत्पन्ना विनश्यन्तीति पुष्कलकारणक्रमोपनिपातात्तद्विनाशे विनाशाच्चा- वगम्यते । प्रभायास्स्वाश्रयसमीपे प्रकाशाधिक्यमौष्ण्याधिक्यमित्याधुपलब्धिव्यवस्थाप्यम्; अग्न्यादोनामौष्प्यादिवत् । एवमात्मा चिद्र प एव चैतन्यगुणक इति । चिद्र पता हि स्वयंप्रकाशता । तथाहि श्रुतयः- *स यथा सैन्धवघनोऽनन्तरो- ऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एव २२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । * विज्ञानधन एव, * अत्रायं पुरुषस्वयंज्योतिर्भवति, * न विज्ञातुर्विज्ञातेविपरिलोपो विद्यते, * अथ यो वेदेदं जिघ्राणीति स आला. तम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः, एष हि दृष्टा प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः, *विज्ञातारमरे केन विजानीयात्, *जानात्येवायं पुरुषः, ॐन पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्, *स उत्तमः पुरुषः, *नोपजनं स्मरनिदं शरीरम्, *एवमेवास्थ परिद्रष्टुरिभाषोडशकलाः पुरुषायणाः पुरषं प्राप्यास्तं गच्छन्ति, *तस्माद्वा एतस्मान्मनोमयात्, अन्योऽन्तर आत्मा विज्ञानमयः-इत्याद्याः । वक्ष्यति च *ज्ञोऽत एवेति ।। अतस्त्वयंप्रकाशोऽयमात्मा ज्ञातैव, न प्रकाशमात्रम् । प्रकाशत्वादेव कस्यचिदेव भवेत्प्रकाशः, दीपादिप्रकाशवत् । तस्मानात्मा भवितुमर्हति संवित् । संविदनुभूतिज्ञानादि- शब्दास्संबन्धिशब्दा इति च शब्दार्थविदः । नहि लोकवेदय र्जानात्यादेरकर्मकस्याकर्तृ कस्य च प्रयोगो दृष्टचरः। यच्चोक्तमजडत्वात्संविदेवात्मेति; तत्रेदं प्रष्टव्यम्, अजडत्वमिति किमभिप्रेतम् ? स्वसत्ताप्रयुक्तप्रकाशत्वमिति चेत्; तथा सति दीपादिष्वनैकान्त्यम् । संविदतिरिक्तप्रकाश- धर्मानभ्युपगमेनासिद्धिविरोधश्च । अव्यभिचरितप्रकाशसत्ताक त्वमपि सुखादिषु व्यभिचारा- निरस्तम् । यद्युच्येत, सुखादिरव्यभिचरितप्रकाशोऽप्यन्यस्मै प्रकाशमानतया घटादिवज्जड- त्वेनानात्मेति । ज्ञानं वा किं स्वस्मै प्रकाशते ? तदपि ह्यन्यस्यैवाहमर्थस्य ज्ञातुरवभासते, अहं सुखीतिवज्जानाम्यहमिति । अतस्वस्मै प्रकाशमानत्वरूपमजडत्वं संविद्यसिद्धम् । तस्मात् स्वात्मानं प्रति स्वसत्तयैव सिध्यनजडोऽहमर्थ एवात्मा। ज्ञानस्यापि प्रकाशता तत्संबन्धा- यत्ता । तत्कृतमेव हि ज्ञानस्य सुखादेरिव स्वाश्रयचेतनं प्रति प्रकटत्वमितरं प्रत्यप्रकटत्वं च । अतो न ज्ञप्तिमात्रमात्मा; अपि तु ज्ञातैवाहमर्थः ।। अथ यदुक्तम्, अनुभूतिः परमार्थतो निविषया निराश्रया च सती भ्रान्त्या ज्ञातृतयाऽ- वभासते, रजततयेव शुक्तिः, निरधिष्ठानम्मानुपपत्तेः-इति । तदयुक्तम्; तथा सत्यनुभव- सामानाधिकरण्येनानुभविताऽहमर्थः प्रतीयेत, 'अनुभूतिरहम्' इतिः पुरोऽवस्थितभास्वर- द्रव्याकारतया रजतादिरिव । अत्र तु पृथगवभासमानैवेयमनूभूतिरन्तिरमहमर्थं विशिष्टि, दण्ड इव देवदत्तम् । तथाहि 'अनुभवाम्यहम्' इति प्रतीतिः। तदेवमस्मदर्थमनुभूतिविशिष्ट प्रकाशयन्ननुभवाम्यहमिति प्रत्ययो दण्डमात्रे 'दण्डी देवदत्तः' इति प्रत्ययवद्विशेषणभूतानुभूति- मात्रावलम्बनः कथमिव प्रतिज्ञायेत ? यदप्युक्त स्थूलोऽहमित्यादिदेहात्माभिमानवत एव ज्ञातृत्वप्रतिभासनात् ज्ञातृत्वमपि मिथ्येति, तदयुक्तम्; आत्मतया अभिमताया अनुभूतेरपि मिथ्यात्वं स्यात्, तद्वत एव प्रतीतेः ।

प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्तः । २३ सकलेतरोपदितत्त्वज्ञानाबाधितत्वेनानुभूतेन मिथ्यात्वमिति चेत्; हन्तैवं सति तदबाधादेव ज्ञातृत्वमपि न मिथ्या ॥ यदप्युक्तम्-अविक्रियस्यात्मनो ज्ञान क्रियाकर्तृत्वरूपं ज्ञातृत्वं न संभवति । अतो ज्ञातृत्वं विक्रियात्मकं जडं विकारास्पदाव्यक्तपरिणामाहङ्कारग्रन्थिस्थमिति न ज्ञातृत्वमात्मनः अपि त्वन्तःकरणरूपस्याहङ्कारस्य । कर्तृत्वादिहि रूपादिवदृश्यधर्मः; कर्तृत्वेऽहं प्रत्यय- गोचरत्वे चात्नन ऽभ्युपगम्यमाने देहस्येवानात्मत्वपरावत्वजडत्वादिप्रसङ्गश्च-इति । नैतदु- पपद्यते-देहस्येवाचेतनत्वप्रकृतिपरिणामत्वदृश्यत्वपराक्त्वपरार्थत्वादियोगादन्तःकरणरूपस्या- हङ्कारस्थ, चेतनासाधारणस्वभावत्वाच्च ज्ञातृत्वस्य । एतदुक्त भवति-घथा देहादिर्ह श्यत्व- पराक्याबिहेतुभिस्तत्प्रत्यनीक द्रष्ट्रत्वात्ययत्वादेविविच्यते, एवमन्तःकरणरूपाहङ्कारोऽपि तद्रव्यत्वादेव तैरेव हेतुभिस्तस्माद्विविच्यत इति। अतो विरोधादेव न ज्ञातृत्वमहङ्कारस्थ, वृशित्ववत् । यथा दृशित्वं तत्कर्मणोऽहङ्कारस्य नाभ्युपगम्यते, तथा ज्ञातृत्वमपि न तत्कर्मणो- ऽभ्युपगन्तव्यम् । न च ज्ञातृत्वं विक्रियात्मकम् । ज्ञातृत्वं हि ज्ञानगुणाश्रयत्वम् । ज्ञानं चास्य नित्यस्य स्वाभाविकधर्मत्वेन नित्यम् । नित्यत्वं चात्मनो *नात्मा श्रुतेः, इत्यादिषु वक्ष्यति । *ज्ञोऽत एवेत्यत्र ज्ञ इति व्यपदेशेन ज्ञानाश्रयत्वं च स्वाभाविकमिति वक्ष्यति । अस्य ज्ञान- स्वरूपस्यैव मणिप्रभृतीनां प्रभाक्षयत्वमिव ज्ञानाश्रयत्वमप्यविरुद्धमित्युक्तम् । स्वपमपरिच्छिन्न- मेव ज्ञानं सङ्कोचविकासाहमित्युपपादयिष्यामः । अतः क्षेत्रज्ञावस्थायां कर्मणा संकुचितस्वरूपं तत्तत्कर्मानुगुणतरतमभावेन वर्तते । तच्चेन्द्रियद्वारेण व्यवस्थितम् । तमिममिन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्य दयास्तमयव्यपदेशः प्रवर्तते । ज्ञानप्रसरे तु कर्तृत्वमस्त्येव । तच्च न स्वाभा- विकम; अपि तु कर्मकृतमित्यविक्रियस्वरूप एवात्मा । एवंरूपविक्रियात्मकं ज्ञातृत्वं ज्ञानस्व- रूपस्यात्मन एवेत्ति न कदाचिदपि जडस्याहङ्कारस्य ज्ञातृत्वसंभवः । जडस्वरूपस्याप्यहङ्कारस्थ. चित्संनिधानेन तच्छायापत्त्या तत्संभवत इति चेत्; केयं चिच्छायापत्तिः ? किमहङ्कारच्छायापत्तिस्संविदः ? उत संविच्छायापत्तिरहङ्कारस्य ? न तावत्संविदः, संविदो ज्ञातृत्वानभ्युपगमात् । नाप्यहङ्कारस्य, उक्तरीत्या तस्य जडस्य ज्ञातृत्वायोगात्, द्वयोरप्यचाक्षुषत्वाञ्च; न ह्यचाक्षुषाणां छाया दृष्टा । अथ, अग्निसंपर्कादयः- पिण्डौष्ण्यवच्चित्संपर्काज्ज्ञातृत्वोपलब्धिरिति चेत्, नैतत्, संविदि वस्तुतो ज्ञातृत्वानभ्यु- पगमादेव न तत्संपर्कादहङ्कारे ज्ञातृत्वतदुपलब्धिर्वा । अहंकारस्य त्वचेतनस्य ज्ञातृत्वा- संभवादेव सुतरां न तत्संपर्कात्संविदि ज्ञातृत्वं तदुपलब्धिर्वा । यदप्युक्तम्, उभयत्र न वस्तुतो ज्ञातृत्वमस्ति । अहङ्कारस्त्वनुभूतेरभिव्यञ्जकस्स्वात्म- स्थामेवानुभूतिमभिव्यनक्ति, आदर्शादिवत् इति; तदयुक्तम्; आत्मनस्स्वयंज्योतिषो जड- २१ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । स्वरूपाहङ्काराभिव्यङ्गयत्वायोगात् । तदुक्तं- *शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः । स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ॥ इति । स्वयंप्रकाशानुभवाधीन- सिद्धयो हि सर्वे पदार्थाः । तत्र तदायत्तप्रकाशोऽचिदहङ्कारोऽनुदितानस्त मितस्वरूपप्रकाशम- शेषार्थसिद्धिहेतुभूतमनुभवमभिव्यनक्तीत्यात्मविदः परिहसन्ति । किंच अहङ्कारानुभवयो- स्स्वभावविरोधादनु भूतेरननुभूतित्वप्रसङ्गाच्च न व्यक्तव्यङ्गयभावः । यथोक्तं- *व्यक्त- व्यङ्गयत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः । व्यङ्गयत्वेऽननुभूतित्वमात्मनिस्याद्यथा घटे । इति । नच रविकरनिकराणां स्वाभिव्यङ्गयकरतलाभिव्यङ्गयत्ववत्संविदभिव्यङ्गयाहङ्कारा- भिव्यङ्गयत्वं च संविदस्साधीयः; तत्रापि रविकरनिकराणां करतलाभिव्यङ्गयत्वाभावात्, करतलप्रतिहतगतयो हि रश्मयो बहुलास्स्वयमेव स्फुटतरमुपलभ्यन्त इति तद्बाहुल्यमात्र- हेतुत्वात्करतलस्य नाभिव्यञ्जकत्वम् ॥ किंचास्य संवित्स्वरूपस्यात्मनोऽहंकारनिवाभिव्यक्तिः किंरूपा ? न तावदुत्पत्तिः, स्वतस्सिद्धतयाऽनन्योत्पाद्यत्वाभ्युपगमात् । नापि तत्प्रकाशनम्, तस्यानुभवान्तराननुभाव्य- त्वात् । तत एव च न तदनुभवसाधनानुग्रहः। स हि द्विधा; ज्ञेयस्येन्द्रियसंबन्धहेतुत्बेन वा, यथा जातिनिजमुखादिग्रहणे व्यक्तिदर्पणादीनां नयनादीन्द्रियसंबन्धहेतुत्वेन; बेद्धृगत- कल्मषापनयनेन वा, यथा परतत्त्वावबोधनसाधनस्य शास्त्रस्य शमदमदिना। यथोक्त *करणानामभूमित्वान्न तत्संबन्धहेतुतेति ॥ किंच अनुभूतेरनुभाव्यत्वाभ्युपगमेऽप्यहमर्थन न तदनुभवसाधनानुग्रहस्सुवचः, स ह्यनुभाव्यानुभवोत्पत्तिप्रतिबन्धनिरसनेन भवेत्; यथा रूपादिग्रहण त्पत्तिनिरोधिसंतमसनिर- सनेन चक्षुषो दीपादिना। न चेह तथाविधं निरसनीयं संभाव्यते । न तावत्संविदात्मगतं तज्ज्ञानोत्पत्तिनिरोधि किंचिदप्यहंकारापनेयमस्ति । अस्ति ह्यज्ञानमिति चेन्न, अज्ञानस्या- हंकारापनोद्यत्वानभ्युपगमात् । ज्ञानमेव ह्यज्ञानस्य निवर्तकम् । न च संविदाश्रयत्वमज्ञानस्य संभवति; ज्ञानसमानाश्रयत्वात्तत्समानविषयत्वाच्च ज्ञातृभावविषयभावविरहिते ज्ञानमात्रे साक्षिणि नाज्ञानं भवितुमर्हति । यथा ज्ञानाश्रयत्वप्रसक्तिशून्य त्वेन घटादे ज्ञानाक्षयत्वम्, तथा ज्ञानमात्रेऽपि ज्ञानाश्रयत्वाभावेन नाज्ञानाश्रयत्वं स्यात् । संविदोऽज्ञानाश्रयत्वाभ्यु- पगमेऽपि आत्मतयाऽभ्युपगतायास्तस्या ज्ञानविषयत्वाभावेन ज्ञानेन न तद्गताज्ञाननिवृत्तिः । ज्ञानं हि स्वविषय एवाज्ञानं निवर्तयति, यथा रज्ज्वादौ । अतो न केनापि कदाचित्संविदा- श्रयमज्ञानमुच्छिद्येत । अस्य च सदसदनिर्वचनीयस्याज्ञानस्य स्वरूपमेव दुनिरूपमित्युपरिष्टा- द्वक्ष्यते । ज्ञानप्रागभावरूपस्य चाज्ञानस्य ज्ञानोत्पत्तिविरोधित्वाभावेन न तन्निरसनेन हज्ज्ञान- साधनानुग्रहः । अतो न केनापि प्रकारेणाहङ्कारेणानुभूतेरभिव्यक्तिः ॥

प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्तः । २५ न च स्वाश्रयतयाऽभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावः; प्रदीपादिष्वदर्शनात्, यथावस्थितपदार्थप्रतीत्यनुगुणस्वाभाव्याच्च ज्ञानतत्साधनयोरनुग्राहकस्य च । तच्च स्वतः- प्रामाण्यन्यायसिद्धम् । न च दर्पणादि खादेरभिव्यञ्जकः, अपि तु चाक्षुषतेजःप्रतिफलनरूप- दोषहेतुः । तद्दोषकृतश्च तत्रान्यथावभासः । अभिव्यञ्जकस्त्वालोकादिरेव । न चेह तथाऽ- हङ्कारेण संविदि स्वप्रकाशायां तादृशदोषापादनं संभवति । व्यक्तेस्तु जातिराकार इति तदाश्रयतथा प्रतीतिः; न तु व्यक्तिव्यङ्गयत्वात् । अतोऽन्तःकरणभूताहङ्कारस्थतया संविदु- पलब्धेर्वस्तुतो दोषतो वा न किचिदिह कारणमिति नाहङ्कारस्य ज्ञातृत्वं तथोपलब्धिर्वा । तस्मात्स्वत एव ज्ञातृतथा सिद्धयन्नहमर्थ एव प्रत्यगात्मा; न ज्ञप्तिमात्रम् । अहंभावविगमे तु ज्ञप्तेरपि न प्रत्यक्त्वसिद्धिरित्युक्तम् ।। तमोगुणाभिभवात्परागर्थानुभवाभावाच्चाहमर्थस्य विविक्तस्फुटप्रतिभासाभावेऽप्या- प्रबोधादहमित्येकाकारेणात्मनस्स्फुरणात्सुषुप्तावपि नाहंभावविगमः । भवदभिमताया अनु- भूतेरपि तथैव प्रथेति वक्तव्यम् । न हि सुप्तोत्थितः कश्चिदहंभाववियुक्तार्थान्तरप्रत्यनीका- कारा ज्ञप्तिरहमज्ञानसाक्षितपाऽवतिष्ठ इत्येवंविधां स्वापसमकालामनुभूति परामृशति । एवं हि सुप्तोत्थितस्य परामर्शस्सुखमहमस्वाप्समिति । अनेन प्रत्यवमर्शेन तदानीमप्यहमर्थ- स्यैवात्मनस्सुखित्वं ज्ञातृत्वं च ज्ञायते । न च वाच्यं, यथेदानीं सुखं भवति, यथा तदानीम- स्वाप्समित्येषा प्रतिपत्तिरिति; अतद् पत्वात्प्रतिपत्तेः । न चाहमर्थस्यात्मनोऽस्थिरत्वेन तदानीमहमर्थस्थ सुखित्वानुसंधानानुपपत्तिः; यतस्सुषुप्तिदशायाः प्रागनुभूतं वस्तु सुप्तोत्थितो 'मयेदं कृतं मयेदमनुभूतमहमेतदवोचम्' इति परामृशति । एतावन्तं कालं न किंचिदहमज्ञा- सिषम्' इति च परामृशतीति चेत् ततः किम् ? न किचिदिति कृत्स्नप्रतिषेध इति चेन्न '(न) अहमवेदिषम्' इति वेदितुरहमर्थस्यैवानुवृत्तेः वेद्यविषयो हि स प्रतिषेधः । न किंचि- दिति निषेधस्य कृत्स्नविषयत्वे भवदभिमतानुभूतिरपि प्रतिषिद्धा स्यात् । सुषुप्तिसमये त्वनुसंधीयमानमहमर्थमात्मानं ज्ञातारमहमिति परामृश्य न किंचिदवेदिषमिति वेदने तस्य प्रतिषिध्यमाने तस्मिन् काले निषिध्यमानाया वित्तेस्सिद्धिमनुवर्तमानस्य ज्ञातुरहमर्थस्य चासिद्धिभनेनैव 'न किंचिदहमवेदिषम्' इति परामर्शन साधयंस्तमिममर्थ देवानामेव साध- यतु । 'मामप्यहं न ज्ञातवान्' इति अहमर्थस्यापि तदानीमननुसंधानं प्रतीयत इति चेत्, स्वानुभवस्ववचनयोविरोधमपि न जानन्ति भवन्तः । 'अहं मां न ज्ञातवान्' इति ह्यनुभव- वचने मामिति कि निषिध्यत इति चेत्; साधु पृष्ट भवता, तदुच्यते-अहमर्थस्य ज्ञातुरनु- वृत्तेः न स्वरूपं निषिध्यते; अपि तु प्रबोधसमयेऽनुस धोयमानस्याहमर्थस्थ वर्णाश्रमादि- विशिष्टता । अहं मां न ज्ञातवानित्युक्ते विषयो विवेचनीयः । जागरितावस्थानुसहितजात्या- दिविशिष्टोऽस्मदर्थो मामित्यंशस्य विषयः। स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानश्चाह- श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । मर्योऽहमियंशस्य विषयः । अत्र सुप्तोऽहमीदृशोऽहमिति च मामपि न ज्ञातवानहमित्येव खल्वनुभवप्रकारः ॥ किंव, सुषुप्तावात्माऽज्ञान साक्षित्वेनास्त इति हि भवदीया प्रक्रिया । साक्षित्वं च साक्षाज्ज्ञातृत्वमेव । न ह्य जानतस्साक्षित्वम् । ज्ञातैव हि लोकवेदयोस्साक्षीति व्यपदिश्यते; न ज्ञानमात्रम् । स्मरति च भगवान पाणिनिः *साक्षादृष्टरि सज्ञायाम्, इति साक्षाज्ज्ञात- व साक्षिशब्दम् । स चाय साक्षो जानामोति प्रतीयमानोऽस्मदर्थ एवेति कुतस्तदानीमहमों न प्रतीये ? आत्मने स्वयमवभासमानोऽहमित्येवावभासत इति स्वापाद्यवस्थास्वप्यात्मा प्रकाशमानोऽहमित्येवावभासत इति सिद्धम् ।। पत्त, मोक्षदशायामहमर्थो नानुवर्तत इति; तदपेशलम् । तथा सत्यात्मनाश एवाप- वर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् । न चाहमर्थो धर्ममात्रम्; येन तद्विगमेऽप्यविद्यानिवृत्ता- विव स्वरूपमवतिष्ठेत । प्रत्युत स्वरूपमेवाहमर्थ प्रात्मनः । ज्ञानं तु तस्य धर्मः, 'अहं जानामि, ज्ञानं मे जातम्' इति चाहमर्थधर्मता ज्ञानप्रतीतेरेव । अपि च यः परमार्थतो भ्रान्त्या वाऽऽध्यात्मिकादिदुःखैदु:खितया स्वात्मानमनुसंधत्ते-अहं दुःखीति; 'सर्वमेतदुःख- जालमपुनर्भवमपोह्य कथमहमनाकुलस्स्वस्थो भवेयम्' इत्युत्पन्नमोक्षरागस्स एव तत्साधने प्रवर्तते । स साधनानुष्ठानेन यद्यहमेव न भविष्यामीत्यवगच्छेत्; अपसर्प देवासौ मोक्षकथा- प्रस्तावात् । ततश्चाधिकारिविरहादेव सर्व मोक्षशास्त्रमप्रमाणं स्यात् । अहमुपलक्षितं प्रकाशमात्रमपवर्गेऽवतिष्ठत इति चेत्; किमनेन ? मयि नष्टऽपि किमपि प्रकाशमात्रमपवर्गेऽ- वतिष्ठत इति मत्वा नहि कश्चित् बुद्धिपूर्वकारी प्रयतते । अतोऽहमर्थस्यैव ज्ञातृतया सिद्धयतः प्रत्यगात्मत्वम् । स च प्रत्यगात्मा मुक्तावप्यहमित्येव प्रकाशते, स्वस्मै प्रकाश- मानत्वात् । यो यः स्वस्मै प्रकाशते, स सर्वोऽहमित्येव प्रकाशते, यथा तथावभासमानत्वेनो.. भयवादिसंमतस्स सार्यात्मा। यः पुनरहमिति न चकास्ति; नासौ स्वस्मै प्रकाशते, यथा घटादिः । स्वस्मै प्रकाशते चायं मुक्तात्मा। तस्मादहमित्येव प्रकाशते । न चामिति प्रकाशमानत्वेन तस्याज्ञत्वसंसारित्वादिप्रसङ्गः, मोक्षविरोधात्, अज्ञत्वाद्यहेतुत्वाच्चाह- प्रत्ययस्य । अज्ञानं नाम स्वरूपाज्ञानमन्यथाज्ञानं विपरीतज्ञानं वा ? अहमित्येवात्मनस्स्वरूप- मिति स्वरूपज्ञानरूपोह प्रत्ययो नाज्ञत्वमापादयति; कुतस्ससारित्वम् ? अपि तु तद्विरोधि- स्वान्नाशयत्येव ॥ ब्रह्मात्मभावापरोक्ष्यनि—तनिरवशेषाविद्यानामपि बामदेवादीनामहमित्येवात्मान - भवदर्शनाच्च । श्रूयते हि-* द्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मन रभवं सूर्यश्च, इति, *अहमेकः प्रथममास वर्तामि च भविष्यामि च, इत्यादि । सकलेतराज्ञानविरोधिनः प्रथमाध्याये--प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्तः । २७ सच्छब्दप्रत्ययमात्रभाजः परस्य ब्रह्मणो व्यवहारोऽप्येवमेव-*हन्ताहमिमास्तिस्रो देवताः, *बहु स्यां प्रजायेय, *स ईक्षत लोकान्नु सृजा इति । तथा- यस्मात्क्षरमतीतोऽहमक्षरा- दपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ *अहमात्मा गुडाकेश, *न त्वेवाहं जातु नासम्, *अहं कृत्स्नस्थ जगतः प्रभवः प्रलयस्तथा, *अहं सर्वस्य प्रभवो मत्तस्सर्व प्रवर्तते, *तेषामहं समुद्धर्ता मृत्युसंसारसागरात्, *अहं बीजप्रदः पिता, *वेदाहं समतीतानि-इत्यादिषु । यद्यहमित्येवात्मनः स्वरूपम्; कथं तमुहंकारस्य क्षेत्रान्तर्भावो भगवतोपदिश्यते *महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च इति ? उच्यते-स्वरूपोपदेशेषु सर्वेष्वहमित्येवोपदेशात्तथैवात्मस्वरूपप्रतिपत्तेश्चाहमित्येव प्रत्यगात्मनः स्वरूपम् । अव्यक्त- परिणापभेदस्याहंकारस्य क्षेत्रान्तर्भावो भगवतैवोपदिश्यते । स त्वनात्मनि देहेऽहंभावकरण- हेतुत्वेन अहंकार इत्युच्यते । अस्य त्वहकारशब्दस्य अभूततद्भावेऽर्थे च्चिप्रत्ययमुत्पाद्य व्युत्पत्तिद्रष्टव्या । अयमेव त्वहकार उत्कृष्टजनावमानहेतुर्गपिरनामा शास्त्रषु बहुशो हेयतया प्रतिपाद्यते । तस्माद्बाधकापेताऽह बुद्धिस्साक्षादात्मगोचरैव । शरीरगोचरा त्वह बुद्धिर- विद्येव । यथोक्तं भगवता पराशरेण-*श्रूयतां चाप्यविद्याया स्वरूपं कुलनन्दन ! । अनात्म- न्यात्मबुद्धिर्या-इति । यदि ज्ञप्तिमात्रमेवात्मा, तदाऽनात्मन्यात्माभिमाने शरीरे ज्ञप्तिमात्र- प्रतिभासः स्यात्; न ज्ञातृत्वप्रतिभासः । तस्माज्ज्ञाताऽहमर्थ एवात्मा । तदुक्तम्-*अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् । अविद्यायोगतश्चात्मा ज्ञाताऽहमिति भासते ॥ इति । तथाच *देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्न- स्स्वतस्सुखी ॥ इति । अनन्यसाधनः-स्वप्रकाशः । व्यापी-अतिसूक्ष्मतया सर्वाचेतनान्तः प्रवेशनस्वभावः ॥ यदुक्तं दोषमूलत्वेनान्यथासिद्धिसंभावनया सकलभेदावलम्बिप्रत्यक्षस्य शास्त्रबाध्यत्व- मिति; कोऽयं दोष इति वक्तव्यम्, चन्मूलतया प्रत्यक्षस्थान्यथासिद्धिः । अनादिभेदवासनैव हि दोष इति चेत्; भेदवासनायास्तिमिरादिवद्यथावस्थित वस्तुविपरीतज्ञानहेतुत्वं किमन्यत्र ज्ञातपूर्वम् ? अनेनैव शास्त्रविरोधेन ज्ञास्यत इति चेन्न, अन्योन्याश्रयणात्-शास्त्रस्य निरस्त- निखिलविशेषवस्तुबोधित्वनिश्चये सति भेदवासनाया दोषत्वनिश्चयः, भेदवासनाया दोषत्व- निश्चये सति शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चय इति । किंच, यदि भेद- वासनामूलत्वेन प्रत्यक्षस्य विपरीतार्थत्वम्; शास्त्रमपि तन्मूलत्वेन तथैव स्यात् । अथे.च्येत- दोषमूलत्वेऽपि शास्त्रस्य प्रत्यक्षावगतसकलभेदनिरसनज्ञानहेतुत्वेन परत्वात्तत् प्रत्यक्षस्य बाधक- मिति । तन्न; दोषम्लत्वे ज्ञाते सति परत्वमकिंचित्करम् । रज्जुसर्पज्ञाननिमित्तभये सति भ्रान्तोऽयमिति परिज्ञातेन केनचित् 'नायं सर्पो मा भैषीः' इत्युक्तेऽपि भयानिवृत्तिदर्शनात् । शास्त्रस्य च दोषमूलत्वं श्रवणवेलायामेव ज्ञातम्, श्रवणावगतनिखिल दोपदिब्रह्मात्मैकत्व- श्रीभगद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । विज्ञानाभ्यासरूपत्वान्मननादेः । अपि च इदं शास्त्रम्; एतच्चासंभाव्यमानदोषम्, प्रत्यक्षं तु संभाव्यमानदोषमिति केनावगतं त्वया ? न तावत्स्वतस्सिद्धा निर्धूतनिखिलविशेषाऽनुभूति- रिममर्थमवगमयति; तस्यास्सर्वविषयविरक्तत्वात् शास्त्रपक्षपातविरहाच्च । नाप्यन्द्रियिक प्रत्यक्षन्, दोषमूलत्वेन विपरीतार्थत्वात् । तन्मूलत्वादेव नान्यान्यपि प्रमाणानि । अतस्स्व- पक्षसाधनप्रमाणानभ्युपगमान्न स्वाभिमतार्थसिद्धिः । ननु व्यावहारिकप्रमाणप्रमेयव्यवहारो- ऽस्माकमप्यस्त्येव । कोऽयं व्यावहारिको नाम ? आपातप्रतीतिसिद्धो युक्तिनिरूपितो न तथाऽवस्थित इति चेत्, कि तेन प्रयोजनम् ? प्रमाणतया प्रतिपन्नेऽपि यौक्तिकबाधादेव प्रमाणकार्याभावात् ॥ अथोच्येत-शास्त्रप्रत्यक्षयोः द्वयोरप्यविद्यामूलत्वेऽपि प्रत्यक्षविषयस्य शास्त्रेण बाधो दृश्यते; शास्त्रविषयस्य सदद्वितीयब्रह्मगः पश्चात्तनबाधादर्शनेन निविशेषानुभूतिमात्रं ब्रह्मैव परमार्थः-इति । तदयुक्तम्, अबाधितस्थापि दोषमूलस्यापारमार्थ्यनिश्चयात् । एतदुक्त भवति-यथा सकलेतरकाचादिदोषरहितपुरुषान्तरागोचरगिरिगुहासु वसतस्तैमिरिकजन- स्याज्ञातस्वतिमिरस्य सर्वस्य तिमिरदोषाविशेषेण द्विचन्द्रज्ञानमविशिष्ट जायते । न तत्र बाधकप्रत्ययोऽस्तीति न तन्मिथ्या न भवतीति तद्विषयभूतं द्विचन्द्रत्वमपि मिथ्येव । दोषो ह्ययथार्थज्ञानहेतुः । तथाब्रह्मज्ञान विद्यामूलत्वेन बाधकज्ञानरहितमपि स्वविषयेण ब्रह्मणा मिथ्र्यवेति । भवन्ति चात्र प्रयोगाः-विवादाध्यासितं ब्रह्म मिथ्या, अविद्यावत उत्पन्नज्ञान- विषयत्वात्, प्रपञ्चवत् । ब्रह्म मिथ्या, ज्ञानविषयत्वात्, प्रपञ्चवत् । मिथ्या, प्रपश्चवत् । ब्रह्म मिथ्या, असत्यहेतुजन्यज्ञानविषयत्वात्, प्रपञ्चवदेव ॥ न च वाच्यं स्वाप्नस्य हस्त्यादिविज्ञानस्यासत्यस्य परमार्थशुभाशुभप्रतिपत्तिहेतु- भाववदविद्यामूलत्वेनासत्यस्यापि शास्त्रस्य परमार्थभूतब्रह्मविषयप्रतिपत्तिहेतुभावो न विरुद्ध इति । स्वाप्नज्ञानस्यासत्यत्वाभावात् । तत्र हि विषयाणामेव मिथ्यात्वम् तेषामेव हि बाधो दृश्यते; न ज्ञानस्य; न हि मया स्वप्नवेलायामनुभूतं ज्ञानमपि न विद्यत इति कस्यचिदपि प्रत्ययो जायते । दर्शनं तु विद्यते अर्था न सन्तीति हि बाधकप्रत्ययः भायाविनो मन्त्रौषधादि- प्रभवं मायामयं ज्ञानं सत्यमेव प्रोतेयस्य च हेतुः; तत्रापि ज्ञानस्याबाधितत्वात् । विषयेन्द्रि- यादिदोषजन्यं रज्ज्वादौ सर्पादिविज्ञानं सत्यमेव भयादिहेतुः। सत्यवादष्टेऽपि स्वात्मनि सर्पसन्निधानादृष्टबुद्धिः । सत्यैव शङ्काविषबुद्धिर्मरणहेतुभूता । वस्तुभूत एव जलादौ मुखादि- प्रतिभासो बस्तुभूतमुखगतविशेषनिश्चयहेतुः । एषां संवेदनानामुत्पत्तिमत्त्वादर्थक्रियाकारि- त्वाच्च सत्यत्वमवसीयते । हस्त्यादीनामभावे(ऽपि) कथं तबुद्धयस्सत्या भवन्तीति चेत्; नैतत्, बुद्धीनां सालम्बनत्वमात्रनियमात् । अर्थस्य प्रतिभासमानत्वमेव झालम्बनत्वे- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्तः । २४ ऽपेक्षितम्, प्रतिभासमानता चास्त्येव दोषवशात् । स तु बाधितोऽसत्य इत्यवसीयते । अबाधिता हि बुद्धिस्सत्यवेत्युक्तम् । रेखया वर्णप्रतिपत्तावपि नासत्यात्सत्यबुद्धिः, रेखायास्सत्यत्वात् । ननु वर्णात्मना प्रतिपन्ना रेखा वर्णबुद्धिहेतुः, वर्णात्मता त्वसत्या । नैवन, वर्णात्मताया असत्याया उप.यत्वा- योगात् । असतो निरुपाख्यस्य ह्य पायत्वं न दृष्टमनुपपन्न च । अथ तस्यां वर्णबुद्धरुपायत्वम् एवं तीसत्यात्सत्यबुद्धिर्न स्थात्, बुद्धस्सत्यत्वादेव; उपायोपेययोरेकत्वप्रसङ्गश्च, उभयोर्वर्ण- बुद्धित्वाविशेषात् । रेखाया अविद्यमानवर्णात्मनोपायत्वे चैकस्य मेव रेखायानविद्यमानसर्व- वर्णात्मकत्वस्य सुलभत्वादेकरेखादर्शनात्सर्ववर्णप्रतिपत्तिस्स्यात् । अथ पिण्डविशेषे देवदत्तादि- शब्दसंकेतवच्चक्षुर्ग्राह्यरेखाविशेषे श्रोत्रग्राह्यवर्णविशेषसंकेतवशानेखाविशेषो वर्णविशेषबुद्धि- हेतुरिति । हन्त तहि सत्यादेव सत्यप्रतिपत्तिः; रेखायास्संकेतस्य च सत्यत्वात् ।। रेखागवयादपि सत्यगवयबुद्धिस्सादृश्यनिबन्धना, सादृश्यं च सत्यमेव । न चैकरूपस्य शब्दस्य नादविशेषेणार्थभेदबुद्धिहेतुत्वेऽप्यसत्यात्सत्यप्रतिपत्तिः; नानानादाभिव्यक्तस्यैकस्यैव शब्दस्य तत्तन्नादाभिव्यङ्गयस्वरूपेणार्थविशेषैस्सह संबन्धग्रहणवशादर्थभेदबुद्धयुत्पत्तिहेतुत्वात् । शब्दस्यैकरूपत्वमपि न साधीयः, गकारादेर्बोधकस्यैव श्रोत्रग्राह्यत्वेन शब्दत्वात् । अतोऽसत्या- च्छास्त्रात्सत्यब्रह्मविषयप्रतिपत्तिर्दुरुपपादा ॥ ननु न शास्त्रस्य गगनकुसुमवदसत्यत्वम्, प्रागद्वैतज्ञानात्सद्बुद्धिबोध्यत्वात् । उत्पन्ने तत्त्वज्ञाने ह्यसत्यत्वं शास्त्रस्य । न तदा शास्त्रं निरस्तनिखिलभेदचिन्मात्रब्रह्मज्ञानोपायः । यदोपायस्तदा अस्त्येव शास्त्रम्, अस्तीतिबुद्धेः । नैवम्; असति शास्त्रे अस्ति शास्त्रमिति बुद्धमिथ्यात्वात् । ततः किम् ? इदं ततः-मिथ्याभूतशास्त्रजन्यज्ञानस्य मिथ्यात्वेन तद्विषय- स्यापि ब्रह्मणो मिथ्यात्वम्, यथा धूमबुद्धया गृहीतबाष्पजन्याग्निज्ञानस्य मिथ्यात्वेन तद्विषय- स्याग्नेरपि मिथ्यात्वम् । पश्चात्तनबाधादर्शनञ्चासिद्धम् शून्यमेव तत्त्वमिति वाक्येन तस्यापि बाधदर्शनात् । भ्रान्तिमूलमिति वेत्; एतदपि भ्रान्तिमूलमिति त्वयैवोक्तम् । पाश्चात्त्यबाधा- दर्शनं तु तस्यैवेत्यलमप्रतिष्ठितकुतर्कपरिहसनेन । (अतिघट्टः) यदुक्त वेदान्तवाक्यानि निविशेषज्ञानकरसवस्तुमात्रप्रतिपादनपराणि, *सदेव सोम्ये- दमग्र आसीत्, इत्येवमादोनोति; तदयुक्तम्, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनमुखेन सच्छ- ब्दवाच्यस्य परस्य ब्रह्मणो जगदुपादानत्वम्, जगन्निमित्तत्वम्, सर्वज्ञता, सर्वशक्तियोगः, सङ्कल्पत्वम्, सन्तिरत्वम्, सर्वाधारत्वम्, सर्वनियमनमित्याद्यनेककल्याणगुणविशिष्टताम्, कृत्स्नस्य जगतस्तदात्मकतां च प्रतिपाद्य, एवंभूतब्रह्मात्मकस्त्वमसीति श्वेतकेतुं प्रत्युपदेशाय सत्य- पO ३० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । प्रवृत्तत्वात्प्रकरणस्य । प्रपञ्चितश्रायमर्थो वेदार्थसंग्रहे। अत्राप्यारम्भणाधिकरणे निपुणतर- मुपपादयिष्यते । *अथ परा यया तदक्षरम्, इत्यत्रापि प्राकृतान् हेयगुणात् प्रतिषिध्य नित्य- त्वविभुत्वसूक्ष्मत्वसर्वगतत्वाव्ययत्वभूतयोनित्वसार्वज्यादिकल्यागगुणयोगः परस्य ब्रह्मणः प्रति- पादितः । *सत्यं ज्ञानमनन्तं ब्रह्मत्यत्रापि सामानाधिकरण्यस्यानेकविशेषणविशिष्टैकार्था- भिधानव्युत्पत्त्या न निर्विशेषवस्तुसिद्धिः । प्रवृत्तिनिमित्तभेदेनैकार्थवृत्तित्वं हि सामानाधि- करण्यम् । तत्र सत्यज्ञानादिपदमुख्यार्थैर्गुणैस्तत्तद्गुणविरोध्याकारप्रत्यनीकाकारैर्वैकस्मिन्नेवार्थे पदानां प्रवृत्तौ निमित्तभेदोऽवश्याश्रयणीयः । इयांस्तु विशेषः-एकस्मिन् पक्षे पदानां मुख्यार्थता; अपरस्मिश्च तेषां लक्षणा । न चाज्ञानादीनां प्रत्यनोकतो वस्तुस्वरूपमेव; एकेनैव पदेन स्वरूपं प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्यात् तथा सति सामानाधिकरण्यासिद्धिश्च; एकस्मिन् वस्तुनि वर्तमानानां पदानां निमित्तभेदानाश्रयणात् । न चैकस्यैवार्थस्य विशेषणभेदेन विशिष्ट- ताभेदादनेकार्थत्वं पदानां सामानाधिकरण्यविरोधि; एकस्यैव वस्तुनोऽनेकविशेषणविशिष्टता- प्रतिपादनपरत्वात्सामानाधिकरण्यस्य । *भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सा- मानाधिकरण्यम्, इति हि शाब्दिकाः ।। यदुक्तम्, एकमेवाद्वितीयमित्यत्राद्वितीयपदं पुणतोऽपि सद्वितीयतां न सहते; अतस्सर्व- शाखाप्रत्ययन्यायेन कारणवावयानामद्वितीयवस्तुप्रतिपादनपरत्वमन्युपगमनीयम् । कारण- तयोपलक्षितस्याद्वितीयस्य ब्रह्मणो लक्षणमिदमुच्यते, *सत्यं ज्ञानमनन्तं ब्रह्मेति । अतो लिलक्षयिषितं ब्रह्म निर्गुणमेव; अन्यथा *निर्गुणम्, अनिरञ्जनम्, इत्यादिविरोधश्च-इति; तदनुपपन्नम्; जगदुपादानस्य ब्रह्मणस्स्वव्यतिरिक्ताधिष्ठात्रन्तरनिवारणेन विचित्रशक्तियोग- प्रतिपादनपरत्वादद्वितीयपदस्य । तथैव विचित्रशक्तियोगमेवावगमयति- *तदक्षत बहु स्वां प्रजायेयेति तत्तेजोऽसृजत, इत्यादि । अविशेषेणाद्वितीयमित्युक्त निमित्तान्तरमात्रनिषेधः कथं ज्ञायत इति चेत्; सिसृक्षोर्ब्रह्मण उपादानकारणत्वं *सदेव सोम्येदमग्र आसीदेकमेव, इति प्रतिपादितम् । कार्योत्पत्तिस्वाभाव्येन बुद्धिस्थं निमित्तान्तरमिति तदेवाद्वितीयपदेन निषिद्धयत इत्यवगम्यते । सर्वनिषेधे हि स्वाभ्युपगतास्सिषाधयिषिता नित्यत्वादयश्च निषिद्धास्स्युः । सर्वशाखाप्रत्ययन्यायश्चात्र भवतो विपरीतफलः, सर्वशाखासु कारणान्वयिनां सर्वज्ञत्वादीनां गुणानामत्रोपसंहारहेतुत्वात् । अतः कारणवाक्यस्य भावादपि *सत्यं ज्ञानमनन्तं ब्रह्मेत्यनेन सविशेषमेव प्रतिपाद्यत इति विज्ञायते ।। न च निर्गुणवाक्यविरोधः प्राकृतहेयगुणविषयत्वात्तेषां निर्गुणम्, अनिरञ्जनम्, निष्कलं निष्क्रिय शान्तम्, इत्यादीनाम् । ज्ञानमात्रस्वरूपवादिन्योऽपि श्रुतयः ब्रह्मणो ज्ञान- स्वरूपतामभिदधति; न तावता निविशेषज्ञानमात्रमेव तत्त्वम्, ज्ञातुरेव ज्ञानस्वरूपात् ।

प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे श्रुतिघट्टः । ३१ ज्ञानस्वरूपस्यैव तस्य ज्ञानाश्रयत्वं मणिधुमणिदीपादिवद्युक्तमेवेत्युक्तम् । ज्ञातृत्वमेव हि सर्वाश्श्रुल्यो वदन्ति- *यस्सर्वज्ञस्सर्ववित्, तदक्षत, *सेयं देवतक्षत, *स ईक्षत लोकान्नु सृजा इति, नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्, *ज्ञाज्ञौ द्वावजावोशनीशौ, मीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पति पतीनां परमं परस्ताद्विदाभ देवं भूवनेशमोड्यस् न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्य- धिकश्च दृश्यते । पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविको ज्ञानबलक्रिया च एष आत्मा- ऽपहतपाप्मा विजरो विमृत्युविशोको विजिघत्सोऽपिपासस्सत्यकासस्सत्यसङ्कल्पः - इत्याद्या- श्श्रुतयो ज्ञातृत्वप्रमुखान् कल्याणगुणान् ज्ञानस्वरूपस्यैव ब्रह्मणस्वाभाविकान्वदन्ति; समस्त- हेयरहितकां च । निर्गुणवाक्यानां सगुणवाक्यानां च विषयमपहतपाप्मेत्याद्यपिपास इत्यन्तेन हेयगुणान् प्रतिषिद्धय सत्यकामस्सत्यसङ्कल्पः इति ब्रह्मणः कल्याणगुणान्विदधतीयं श्रुतिरेव विविनतीति सगुणनिर्गुणवाक्ययोविरोधाभावादन्यतरस्थ मिथ्याविषयताश्रयणमपि नाशङ्कनीयम् ॥ *भीषाऽस्माद्वातः पवते, इत्यादिना ब्रह्मगुणानारभ्य, *ते ये शतमित्यनुक्रमेण क्षेत्र- ज्ञानन्दातिशयमुक्त्वा *यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान्, इति ब्रह्मणः कल्याणगुणानन्त्यमत्यादरेण वदतीयं श्रुतिः । *सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चिता, इति ब्रह्मवेदनफलमवगमयद्वावयं परस्य विपश्चितो ब्रह्मणो गुणानन्त्यं ब्रवीति । विपश्चिता ब्रह्मणा सह सर्वान् कामान् समश्नुते । काम्यन्न इति कामाः-कल्याण- गुणाः । ब्रह्मणा सह तद्गुणान् सर्वानश्नुत इत्यर्थः । दहरविद्यायां, *तस्मिन्यदन्तस्त- दन्वेष्टव्यम्, इतिवद्गुणप्राधान्यं वक्तुं सहशब्दः । फलोपासनयोः प्रकारक्यं, *यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवतीति श्रुत्यैव सिद्धम् ॥ - *यस्यामतं तस्य मतम्, अविज्ञातं विजानताम्, इति ब्रह्मणो ज्ञानाविषयत्वमुक्त चेत्; *ब्रह्मविदाप्नोति परम्, ब्रह्म वेद ब्रह्म व भवति, इति ज्ञानान्मोझोपदेशो न स्यात् । *असन्नेव स भवति, असद्ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः, इति ब्रह्मविषयज्ञानासद्भावसभावाभ्यामात्मनाशमात्मसत्तां च वदति । अतो ब्रह्मविषय- वेदनमेवापवर्गोपायं सर्वाश्रुतयो विदधति । ज्ञानं चोषासनात्मकम् । उपास्यं च ब्रह्म सगुण- मित्युक्तम् । श्यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, इति ब्रह्मणोऽनन्तस्यापरिच्छिन्न- गुणस्य वाङ्मनसयोरेतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रह्म तावदिति ब्रह्मपरिच्छेदज्ञानवता ब्रह्माविज्ञातममतमित्युक्तम्, अपरिच्छिन्नत्वाद्ब्रह्मणः । अन्यथा *यस्यामते तस्य मतम्, अविज्ञातमविजानतामिति मतत्वविज्ञातत्ववचनं तत्रैव विरुध्यते ॥

३२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । यत्तु *न दृष्टष्टार...न भतेर्मन्तारम् इति श्रुति ष्टेमतेर्व्यतिरिक्तद्रष्टारं मन्तारं च प्रतिषेधतीति; तदागन्तुकचैतन्यगुणयोगितया ज्ञातुरज्ञानस्वरूपतां कुतर्कसिद्धां मत्वा न तथाऽऽत्मानं पश्येः, न मन्वीथाः; अपि तु द्रष्टारं मन्तारमप्यात्मानं दृष्टिमतिरूपमेव पश्ये- रित्यभिदधातीति परिहृतम् । अथवा दृष्टेष्टारं मतेमन्तारं जीवात्मानं प्रतिषिध्य सर्व- भूतान्तरात्मानं परमात्मानमेवोपास्स्वेति वाक्यार्थः; अन्यथा *विज्ञातारमरे केन विजानीयात्, इत्यादिज्ञातृत्वश्रुतिविरोधश्च ॥ *आनन्दो ब्रह्मति आनन्दमात्रमेव ब्रह्मस्वरूपं प्रतीयत इति यदुक्तम्; तज्ज्ञानाश्र- यस्य ब्रह्मणो ज्ञानं स्वरूपमिति वदतीति परिहृतम् । ज्ञानमेव ह्यनुकूलमानन्द इत्युच्यते । विज्ञानमानन्दं ब्रह्म त्यानन्दरूपमेव ज्ञानं ब्रह्मत्यर्थः । अत एव भवतामेकरसता । अस्य ज्ञानस्वरूपस्यैव ज्ञातृत्वमपि श्रुतिशतसमधिगतमित्युक्तम् । तद्वदेव *स एको ब्रह्मण आनन्दः, *आनन्दं ब्रह्मणो विद्वान्, इति व्यतिरेकनिर्देशाच्च नानन्दमात्रं ब्रह्म; अपि त्वानन्दि । ज्ञातृत्वमेव ह्यानन्दित्वम् ॥ यदिदमुक्तम् श्यत्र हि द्वैतमिव भवति, *नेह नानास्ति किञ्चन, मृत्योस्स मृत्युमा- प्नोति य इह नानेव पश्यति, “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कंपश्येत्, इति भेदनिषेधो बहुधा दृश्यत इति; तत्कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वे- नैक्यात्, तत्प्रत्यनीकनानात्वं प्रतिषिद्धयते; न पुनः *बहु स्यां प्रजायेयेति बहुभवनसंकल्प- पूर्वकं ब्रह्मणो नानात्वं श्रुतिसिद्ध प्रतिषिध्यत इति परिहत्तम् । नानात्वनिषेधादियमपरमार्थ- विषयेति चेन्न; प्रत्यक्षादिसकलप्रमाणानवगतं नानात्वं दुरारोह ब्रह्मणः प्रतिपाद्य तदेव बाध्यत इत्युपहास्यमिदम् ॥ *यदा ह्य वैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति, इति ब्रह्मणि नानात्वं पश्यतो भयप्राप्तिरिति यदुक्तम्; तदसत्, *सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत, इति तन्नानात्वानुसन्धानस्य शान्तिहेतुत्वोपदेशात् । तथा हि-सर्वस्य जगतस्त- दुत्पत्तिस्थितिलयकर्मतया तदात्मकत्वानुसंधानेनात्र शान्तिविधीयते । अतो यथावस्थित- देवतिर्यङ मनुष्यस्थावरादिभेदभिन्नं जगत् ब्रह्मात्मकमित्यनुसंधानस्य शान्तिहेतुतया अभय- प्राप्तिहेतुत्वेन न भयहेतुत्वप्रसङ्गः । एवं तर्हि *अथ तस्य भयं भवतीति किमुच्यते ? इदमुच्यते यदा ह्य वैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठा विन्दते, अंथ सोऽभयं गतो भवति, इत्यभयप्राप्तिहेतुत्वेन ब्रह्मणि या प्रतिष्ठाऽभिहिता; तस्या विच्छेदे भयं भवतीति । यथोक्तं महर्षिभिः-*यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ॥ इत्यादि । ब्रह्मणि प्रतिष्ठाया अन्तरमव- काशो विच्छेद एव ॥

प्रथमाध्याये-प्रथमपादे - जिज्ञासाधिकरणे पुराणघट्टः । । ३३ यदुक्तम्, *न स्थानतोऽपि, इति सर्वविशेषरहितं ब्रह्मेति च वक्ष्यतीति, तंत्र, सवि- शेषं ब्रह्मेत्येव हि तत्र वक्ष्यति । *मायामानं तु, इति च स्वाप्नानामप्यर्थानां जागरिता- वस्थानुभूतपदार्थवैधhण मायामात्रत्वमुच्यत इति जागरितावस्थानुभूतानामिव पारमार्थिक- त्वमेव वक्ष्यति ॥ - ( स्मृतिपुराणघट्टः ) स्मृतिपुराणयोरपि निविशेषज्ञानमात्रमेव परमार्थोऽन्यदपारमार्थिकमिति प्रतीयत इति यदभिहितम्; तदसत्- यो मामजमनादि च वेत्ति लोकमहेश्वरन् । *मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतन्न च भूतस्थो ममात्मा भूतभावनः ॥ *अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा। मत्तः परतरं नान्य त्किचिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ *विष्टभ्याहमिदं कृत्स्न- मेकांशेन स्थितो जगत् ॥ *उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोक त्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ *ससर्वभूतप्रकृति विकारान गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणो- ऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले । समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृत- भूतवर्गः। इच्छागृहोताभिमतोरुदेहस्संसाधिताशेषजगद्धितोऽसौ ॥ तेजोबलैश्वर्यमहावबोध- सुवीर्यशक्त्यादिगुणकराशिः । परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे ॥ स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरस्सर्वदृक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥ संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वाऽप्यधिगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ।। *शुद्धे महाविभूत्याख्ये परे ब्रह्मगि शब्द्यते । मैत्रेय भगवच्छ- ब्दस्सर्वकारणकारणे ॥ संभर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः। नेता गमयिता स्रष्टा गकारार्थ स्तथा मुने॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतोरणा॥ वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ *ज्ञान- शक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ *एवमेव महा- शब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः॥ तत्र पूज्यपदार्थोक्तिपरिभाषा- समन्वितः । शब्दोऽयं नोपचारेण त्वन्यत्र ह्य पचारत. ॥ *समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेमहत् ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया ॥ जगतामुपकाराय न सा कर्मनिमित्तजा। चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ *एवंप्रकारममलं नित्यं व्यापकमक्षयम् । समस्त- ३४ श्रीभगद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । हेयरहितं विष्वाख्यं परमं पदम् ।। *परः पराणां परमः परमात्माऽऽत्मसंस्थितः । रूप- वर्णादिनिर्देशविशेषणविजितः ॥ अपक्षयविनाशाभ्यां परिणाौद्धजन्मभिः। वजितश्शक्यते वक्तुं यस्सदाऽस्तीति केवलम् ॥ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततस्स वासुदेवेति विद्भिः परिपञ्यते ॥ *तद्ब्रह्म परमं नित्यमजमक्षरमव्ययम् । एकस्वरूपं च सदा हेया. भावाच्च निर्मलम् ॥ तदेव सर्वमेवैतद्वयक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥ *प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ *द्वे रूपे ब्रह्मणस्तस्य मूर्त चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते ।। अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेज्योत्स्ना विस्तारिणी यथा ।। परस्य ब्रह्मणशक्तिस्तथेदमखिलं जगत् ॥ *विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा । अविद्याकर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते ॥ यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा। संसारतापानखिलानवाप्नोत्यतिसन्ततान् ॥ तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्व- भूतेषु भूपाल तारतम्येन वर्तते ॥ प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्धे वृतौ संश्रयमिणौ ॥ तयोस्सैव पृथग्भावकारणं संश्रयस्य च ॥ यथा सक्तं जले वातो विर्भात कणिकाशतम् । शक्तिस्सापि तथा विष्णोः प्रधानपुरुषात्मनः ॥ तदेतदक्षयं नित्यं जगन्मुनि- वराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ इत्यादिना परं ब्रह्म स्वभावत एव निरस्तनिखिलदोषगन्धं समस्तकल्याणगुणात्मकं जगदुत्पत्तिस्थितिसंहारान्तःप्रवेशनियम- नादिलील प्रतिपाद्य, कृत्स्नस्य चिदचिद्वस्तुनस्सर्वावस्थावस्थितस्य पारमार्थिकस्यैव परस्य ब्रह्मणश्शरीरतया रूपत्वं शरीररूपतन्वंशशक्तिविभूत्यादिशब्दस्तत्तच्छब्दसामानाधिकरण्येन चाभिधाय, तद्विभूतिभूतस्य चिद्वस्तुनस्स्वरूपेणावस्थितिमचिन्मिश्रतया क्षेत्रज्ञरूपेण स्थिति चोक्त्वा, क्षेत्रज्ञावस्थायां पुण्यपापात्मककर्मरूपाविद्याचेष्टितत्वेन स्वाभाविकज्ञानरूपत्वान- नुसन्धानमचिद्रूपाकारतयाऽनुसन्धानं च प्रतिपादितमिति, परं ब्रह्म सवि.षं, तद्विभूतिभूतं जगदपि पारमार्थिकमेवेति ज्ञायते ।। *प्रत्यस्तमितभेदमित्यत्र देवमनुष्यादिप्रकृतिपरिणामविशेषसंसृष्टस्याप्यात्मनस्स्वरूपं तद्गतभेदरहितत्वेन तद्भेदवाचिदेवादिशब्दागोचरं ज्ञानसत्तैकलक्षणं स्वसंवेद्यं योगयुङ्मनसो न गोचर इत्युच्यत इति, अनेन न प्रपञ्चापलापः । कथमिदमवगम्यत इति चेत् तदुच्यते- अस्मिन् प्रकरणे संसारकभेषजतया योगमभिधाय योगावयवान् प्रत्याहारपर्यन्तांश्चोक्त्वा, धारणासिद्धयर्थं शुभाश्रयं वक्तुं परस्य ब्रह्मणो विष्णोश्शक्तिशब्दाभिधेयं रूपद्वयं मूर्तामूर्त- विभागेन प्रतिपाद्य, तृतीयशक्तिरूपकर्माख्याविद्यावेष्टितम् अचिद्विशिष्टं क्षेत्रज्ञं मूख्यिविभागं भावनात्रयान्वयादशुभमित्युक्त्वा, द्वितीयस्य कर्माख्याविद्याविरहिणोऽचिद्वियुक्तस्य ज्ञानका- - प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे पुराणघट्टः । ३५ कारस्थामूख्यिविभागस्य निष्पन्नयोगिध्येयतया योगयुङ्मनसोऽनालम्बनतया स्वतश्शुद्धि- विरहाच्च शुभाक्षयत्वं प्रतिषिध्य, परशक्तिरूपमिदममूर्तमपरशक्तिरूपं क्षेत्रज्ञाख्यमूर्त च परशक्तिरूपस्यात्मनः क्षेत्रज्ञतापत्तिहेतुभूततृतीयशक्त्याख्यकर्नरूपाविद्या नेत्येतच्छक्तित्रयाश्रयो भगवदसाधारणम् * आदित्यवर्णमित्यादिवेदान्तसिद्धं मूर्तरूपं शुभाश्रय इत्युक्तम् । अत्र परिशुद्धात्मस्वरूपस्य शुभाश्रयतानहतां वक्तुं *प्रत्यस्तमितभेदं यत् इत्युच्यते । तथाहि- *न तद्योगयुजा शक्यं नृप चिन्तयितुं यत्तः। द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम् ।। समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः। तद्विश्वरूपवरूप्यं रूपमन्यद्ध रेमहत् ॥ इति च वदति । तथा चतुर्मुखसनकसनन्दनादीनां जगदन्तर्वतिनामविद्यावेष्टितत्वेन शुभाश्यतानहता- मुक्त्वा, बद्धानामेव पश्चाद्योगेनोद्भूतबोधानां स्वस्वरूपापनानां च स्वतश्शुद्धिविरहाद्भगवता शौनकेन शुभाश्रयता निषिद्धा- *आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्म- जनितसंसारवशवर्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः। अविद्यान्तर्गतास्सवें ते हि संसारगोचराः ॥ पश्चादुद्भूतबोधाश्च ध्याने नैवोपकारकाः । नैसगिको न दै बोध- स्तेषामप्यन्यतो यतः ॥ तस्मात्तदभलं ब्रह्म निसर्गादेव बोधवत् ॥ इत्यादिना परस्य ब्रह्मणो विष्णोस्स्वरूपं स्वासाधारणमेव शुभाश्रय इत्युक्तम् । अतोऽत्र न भेदापलापः प्रतीयते ।। *ज्ञानस्वरूपमित्यत्रापि ज्ञानव्यतिरिक्तस्यार्थजातस्य कृत्स्नस्य न मिथ्यात्वं प्रति- पाद्यते, ज्ञानस्वरूपस्यात्मनो देवमनुष्याद्यकारेणावभासो भ्रान्तिरित्येतावन्मात्रवचनात् । न हि शुक्तिकाया रजततयाऽवभासो भ्रान्तिरियुक्ते जगति कृत्स्नं रजतजातं मिथ्या भवति । जगद्ब्रह्मणोस्तामानाधिकरण्येनैक्यप्रतीतेः, ब्रह्मणो ज्ञानस्वरूपस्याकारता भ्रान्तिरित्युक्त सत्यर्थजातस्य कृत्स्नस्य मिथ्यात्वमुक्तं स्यादिति चेत्, तदसत्; यस्मिन् शास्त्रे परस्य ब्रह्मणो विष्णोनिरस्ताज्ञानादिनिखिलदोषगन्धस्य समस्तकल्याणगुणात्मकस्य महाविभूतेः प्रतिपन्नतया तस्य भ्रान्तिदर्शनासंभवात् । सामानाधिकरण्येनैक्यप्रतिपादनं च बाधासहमविरुद्ध चेत्यनन्तर- मेवोपपादयिष्यते । अतोऽयमपि श्लोको नार्थस्वरूपस्य बाधकः ।। तथाहि-*यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभि- संविशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्म *इति जगज्जन्मादिकारणं ब्रह्मत्यवसिते सति, इति- हासपुराणाभ्यां वेदं समुपबृहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतिरिष्यति ॥ इति शास्त्र- णार्थस्य इतिहासतुराणाभ्यामुपबृंहणं कार्यमिति विज्ञायते । उपबृंहणं नाम विदितसकल- वेदतदर्थानां स्वयोगमहिमसाक्षात्कृतवेदतत्त्वार्थानां वाक्यैस्स्वावगतवेदवाक्यार्थव्यक्तीकरणम् । सकलशाखागतस्य वाक्यार्थस्याल्पभागश्रवणादुरवगमत्वेन तेन विना निश्चयायोगादुपबृहणं हि कार्यमेव ॥

३६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । तत्र पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारमार्थ्यज्ञानवतो भगवतः पराशरात्स्वा. वगतवेदार्थोपबृहणमिच्छन्मैत्रेयः परिपप्रच्छ-*सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग भविष्यति । यन्मयं च जगद्ब्रह्मन् यतश्चैतच्चराचरम् । लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥ इत्यादिना । अत्र ब्रह्मस्वरूपविशेषतद्विभूतिभेद- प्रकारतदाराधनस्वरूपफलविशेषाश्च पृष्टाः । ब्रह्मस्वरूपविशेषप्रश्नेषु यतश्चैतच्चराचरमिति निमित्तोपादानयोः पृष्टत्वाद्यन्मयमित्यनेन सृष्टिस्थितिलयकर्मभूतं जगत्किमात्मकमिति पृष्टम् । तस्य चोत्तरं जगच्च स इति । इदं च तादात्म्यनन्तर्यामिरूपेणात्मतया व्याप्तिकृतम्, न तु व्याप्यव्यापकयोर्वस्त्वैवयकृतम्; यन्मयमिति प्रश्नस्योत्तरत्वाज्जगच्च स इति सामानाधि- करण्यस्य । यन्मयमिति मयडत्र न विकारार्थः, पृथक् प्रश्नवैयर्थ्यात् । नापि प्राणमयादिव- स्वार्थिकः, जगच्च स इत्युत्तरानुपपत्तेः । तदा हि विष्णुरेवेत्युत्तरमभविष्यत् । अतः प्राचुर्यार्थ एव । *तत्प्रकृतवचने मयट् इति मयट् । कृत्स्नं च जगत्तच्छरीरतया तत्प्रचुरमेव । तस्माद्यन्मयमित्यस्य प्रतिवचनं जगच्च स इति सामानाधिकरण्यं जगद्ब्रह्मणोश्शरीरात्मभाव- निबन्धनमिति निश्चीयते ॥ अन्यथा निर्विशेषवस्तुप्रतिपादनपरे शास्त्रेऽभ्युपगम्यमाने सर्वाण्येतानि प्रश्नप्रति- वचनानि न संगच्छन्ते । तद्विवरणरूपं कृत्स्नं च शास्त्रं न संगच्छते। तथाहि सति प्रपञ्च- भ्रमस्य किमधिष्ठानमित्येवंरूपस्यैकस्य प्रश्नस्य निविशेषज्ञानमात्रमित्येवंरूपमेकमेवोत्तरं स्यात् । जगद्ब्रह्मणोरेकद्रव्यत्वपरे च समानाधिकरण्ये सत्यसङ्कल्पत्वादिकल्याणगुणकतानता निखिलहेयप्रत्यनीकता च बाध्येत । सर्वाशुभास्पदं च ब्रह्म भवेत् । आत्मशरीरभाव एवेदं सामानाधिकरण्यं मुख्यवृत्तमिति स्थाप्यते । अतो- *विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ॥ इति संग्रहेणोक्तमर्थ *परः पराणा- मित्यारभ्य विस्तरेण वक्तुं परब्रह्मभूतं भगवन्तं विष्णुं स्वेनैव स्वरूपेणावस्थितं *अविकारायेति श्लोकेन प्रथमं प्रणम्य तमेव हिरण्यगर्भस्वावतारशङ्कररूपत्रिमूर्तिप्रधानकालक्षेत्रज्ञसमष्टिव्यष्टि- रूपेणावस्थितं च नमस्करोति । तत्र *ज्ञानस्वरूपमित्ययं श्लोकः क्षेत्रज्ञव्यष्टयात्मनाऽव- स्थितस्य परमात्मनस्स्वभावमाह । तस्मान्नात्र निविशेषवस्तुप्रतीतिः ॥ यदि निविशेषज्ञानरूपब्रह्माधिष्ठानभ्रमप्रतिपादनपरं शास्त्रम्; तहि, निर्गुणस्या- प्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ इति चोद्यम्, *शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः। यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ इति परिहारश्च न घटते । तथाहि सति, निर्गुणस्य ब्रह्मणः कथं सर्गादिकर्तृत्वम् ? न ब्रह्मणः पारमार्थिकस्सर्गः, अपि तु भ्रान्ति- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे पुराणघट्टः । ३७ परिकल्पितः-इति चोद्यपरिहारौ स्याताम् । उत्पत्त्यादिकार्य सत्त्वादिगुणयुक्तापरिपूर्णकर्म- वश्येषु दृष्टमिति सत्त्वादिगुणरहितस्य परिपूर्णस्याकर्मवश्यस्य कर्मसंबन्धानहस्य कथं सर्गादि- कर्तृत्वमभ्युपगम्यत इति चोद्यम् । दृष्टसकलविसजातीयस्य ब्रह्मणो यथोदितस्वभावस्येव जलादिविसजातीयस्थान्यादेरौष्ण्यादिशक्तियोगवत्सर्वशक्तियोगो न विरुध्यत इति परिहारः ॥ परमार्थस्त्वमेवैकः इत्याद्यपि न कृत्स्नस्यापारमार्थ्यं वदति । अपि तु कृत्स्नस्य तदात्मकतया तद्वयतिरेके गावस्थितस्यापारमार्थ्यम् । तदेवोपपादयति-*तवैष महिमा येन व्याप्तमेतच्चराचरमिति । येन त्वयेदं चराचरं व्याप्तम्; अतस्त्वदात्मकमेवेदं सर्वमिति त्वदन्यः कोऽपि नास्ति । अतस्सर्वात्मतया त्वमेवेकः परमार्थः । अत इदमुच्यते-तवैष महिमा, या सर्वव्याप्तिः-इति । अन्यथा तवैषा भ्रान्तिरिति वक्तव्यम् । जगतः पते त्वमित्यादीनां पदानां लक्षणा च स्यात् । लीलया महीमुद्धरतो भगवतो महावराहस्य स्तुतिप्रकरणविरोधश्च । यतः कृत्स्नं जगत् ज्ञानात्मना त्वयाऽऽत्मतया व्याप्तत्वेन तव मूर्तम्, तस्मात्त्व- दात्मकत्वानुभवसाधनयोगविरहिण एतत्केवलदेवमनुष्यादिरूपमिति म्रान्तिज्ञानेन पश्यन्ती- त्याह *यदेतदृश्यते इति । न केवलं वस्तुतस्त्वदात्मकं जगद्देवमनुष्याद्यात्मकमिति दर्शन- मेव भ्रमः, ज्ञानाकाराणामात्मनां देवमनुष्याद्यर्थाकारत्वदर्शनमपि भ्रम इत्याह *ज्ञानस्वरूप- मखिलम् इति ॥ ये पुनर्बुद्धिमन्तो ज्ञानस्वरूपात्मविदस्सर्वस्य भगवदात्मकत्वानुभवसाधनयोगयोग्य- परिशुद्धमनसश्च ते देवमनुष्यादिप्रकृतिपरिणामविशेषशरीररूपमिदमखिलं जगत् शरीराति- रिक्तज्ञानस्वरूपात्मकं स्वच्छरीरं च पश्यन्तीत्याह *ये तु ज्ञानविदः * इति । अन्यथा श्लोकानां पौनरुक्त्यम्, पदानां लक्षणा, अर्थविरोधः, प्रकरणविरोधः शास्त्रतात्पर्यविरोधश्च ॥ *तस्यात्मपरदेहेषु सतोऽप्येकमयम् *इत्यत्र सर्वेष्वात्मसु ज्ञानेकाकारतया समानेषु सत्पु देवमनुष्यादिप्रकृतिपरिणामविशेषरूपपिण्डसंसर्गकृतमात्मसु देवाद्याकारेण द्वैतदर्शन- मतथ्यमित्युच्यते । पिण्डगतमात्मगतमपि द्वैतं न प्रतिषिध्यते । देवमनुष्यादिविविधविचित्र- पिण्डेषु वर्तमानं सर्वमात्मवस्तु सममित्यर्थः । यथोक्तं भगवता *शुनि चैव श्वपाके च पण्डितास्तमर्दाशनः निर्दोष हि समं ब्रह्म इत्यादिषु । तस्यात्मपरदेहेषु सतोऽपीति देहातिरिक्त वस्तुनि स्वपरविभागस्योक्तत्वात् ।। * यद्य योऽस्ति परः कोऽपि *इत्यत्रापि नात्मैक्यं प्रतीयते; यदि मत्तः परः कोऽप्यन्य इत्येकस्मिन्नर्थे परशब्दान्यशब्दयोः प्रयोग योगात् । तत्र परशब्दस्स्वव्यतिरिक्तात्मवचनः । अन्यशब्दस्तस्यापि ज्ञानेकाकारत्वादन्याकारत्वप्रतिषेधार्थः । एतदुक्तं भवति-यदि मद्वयतिरिक्तः कोऽप्यात्मा मदाकारभूतज्ञानाकारादन्याकारोऽस्ति, तदाहमेवमाकारः अयं ३८ ३ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । MAYA १ चान्याशाकार इति शक्यते व्यपदेष्टुम् । न चैवमस्ति; सर्वेषां ज्ञानकाकारत्वेन समानत्वादेवेति ॥ *वेणुरन्ध्रविभेदेन *इत्यत्राप्याकारवैषम्यमात्मनां न स्वरूपकृतम्, अपितु देवादि- पिण्डप्रवेशकृतमित्युपदिश्यते; नात्मैक्यम् । दृष्टान्ते चानेकरन्ध्रवतिनां वाय्वंशानां न स्वरूपैक्यम्; अपि त्वाकारसाम्यमेव । तेषां वायुत्वेनैकाकाराणां रन्ध्रभेदनिष्क्रमणकृतो हि षड्जादिसंज्ञाभेदः । एवमात्मनां देवादिसंज्ञाभेदः । यथा तैजसाप्यपाथिवद्रव्यांशकूतानां पदार्थानां तत्तद्दव्यत्वेनैक्यमेव, न स्वरूपैश्यम्; तथा वायवीयानामंशानामपि स्वरूप- भेदोऽवर्जनीयः ॥ *सोऽयं स च त्वम् * इति सर्वात्मना पूर्वोक्तं ज्ञानाका (रं) रत्वं तच्छब्देन परामृश्य तत्सामानाधिकरण्येनाहं त्वमित्यादीनामर्थानां ज्ञानमेवाकार इत्युपसंहरत् देवाद्याकार- भेदेनात्मसु भेदमोहं परित्यजेत्याह । अन्यथा देहातिरि(क्तो)क्तात्मोपदेश्यस्वरूपे अहं त्वं सर्वमेतदात्मस्वरूपमिति भेदनिर्देशो न घटते । अहंत्वमादिशब्दानामुपलक्ष्येण सर्वमेतदात्म- स्वरूपमित्यनेन सामानाधिकरण्यादुपलक्षणत्वमपि न संगच्छते । सोऽपि यथोपदेशमकरोदित्याह *तत्याज भेदं परमार्थदृष्टिः इति । कुतश्चैष निर्णय इति चेत्, देहात्मविवेकविषयत्वादुपदेशस्य । तच्च अपिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः इति प्रक्रमात् ॥ *विभेदजनकेऽज्ञाने *इति च नात्मस्वरूपैक्यपरम्; नापि जीवपरयोः। आत्म- स्वरूपैक्यमुक्तरीत्या निषिद्धम् । जीवपरयोरपि स्वरूपैक्यं देहात्मनोरिव न संभवति । तथाच श्रुतिः *द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वावृत्ति अनश्नन्नन्यो अभिचाकशीति * ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा, इत्याद्या । अस्मिन्नपि शास्त्रे *स सर्वभूतप्रकृति विकारान् गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ *समस्तकल्याणगुणात्म- कोऽसौ *परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे *अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा ॥ इति भेदव्यपदेशात्, *उभयेऽपि हि भेदेनेन मधीयते *भेदव्यपदेशाच्चान्यः, *प्रधिकं तु भेदनिर्देशात् इत्यादिसूत्रेषु च *य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति *प्राज्ञेनात्मना संपरिष्वक्तः, *प्राज्ञेनात्मनाऽन्वारूढः इत्यादिभिरुभयोरन्योन्यप्रत्य- नीकाकारेण स्वरूपनिर्णयात् । नापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण स्वरूपैक्यसंभवः, - प्रथमाध्याये--प्रथमपादे-जिज्ञासाधिकरणे पुराणघट्टः । अविद्याश्रयत्वयोग्यस्य तदनहत्वासंभवात् । पथेक्तम्- *परमात्मात्मनोगः परमार्थ इतीच्यते । मिथ्यैतदन्यद्रव्यं हि नैति तद्रव्यतां यतः ॥ इति । भुक्तस्य तु तद्धमतापत्ति- रेवेति भगवद्गीतासूक्तम्- *इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इति । इहापि- *आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने । विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ॥ इति । आत्मभावम्-आत्मनस्स्वभावम् । न ह्याकर्षकस्वरूपापत्तिराकृष्यमाणस्य । वक्ष्यति च *जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाञ्च *भोगमात्रसाम्यलिङ्गाच्च *मुक्तोपसृप्यव्यपदेशाच्च इति । वृत्तिरपि जगद्व्यापारवर्ज समानो ज्योतिषा इति । द्रमिडभाध्यकारश्च *देवतासायुज्यादशरीरस्यापि देवतावत्सर्वार्थसिद्धिस्स्यात् इत्याह । श्रुतयश्च *य इहात्मानअनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति, * ब्रह्मविदाप्नोति परम्, *सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चिता, *एतमानन्दमयमात्मानमुपसंक्रम्य, इमान् लोकान् कामानी कामरूप्यनुसंचरन्, *स तत्र पर्येति, *रसो वै सः, रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति, *यथा नद्यः स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्, *तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति इत्याद्याः ।। परविद्यासु सर्वासु सगुणमेव ब्रह्मोपास्यम्, फलं चैकरूपमेव, अतो विद्याविकल्प इति सूत्रकारेणैव *आनन्दादपः प्रधानस्य विकल्पोऽविशिष्टफलत्वात् इत्यादिषूक्तम् । वाक्यकारेण च सगुणस्यैवोपास्यत्वं विद्याविकल्पश्चोक्तः- *युक्तं तद्गुणकोपासनात् इति । भाष्यकृता व्याख्यातं च यद्यपि सच्चित्तः इत्यादिना । *ब्रह्म वेद ब्रह्म व भवतीत्यत्रापि नामरूपाद्वि- मुक्तः परात्परं पुरुषमुपैति दिव्यम् *निरञ्जनः परमं साम्यमुपैति *परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इत्यादिभिरेकार्थ्यात् प्राकृतनामरूपाभ्यां विनिर्मुक्तस्य निरस्ततत्कृतभेदस्य ज्ञानकाकारतया ब्रह्मप्रकारतोच्यते । प्रकारैक्ये च तत्त्वव्यवहारो मुख्य एव; यथा सेयं गौरिति ॥ अत्रापि *विज्ञान प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणा- शेषभावनः ॥ इति परब्रह्मध्यानात् आत्मा परब्रह्मवत् प्रक्षीणाशेषभावनः-कर्मभावनाब्रह्म- भवानोभयभावनेति भावनात्रयरहितः प्रापणीय इत्यभिधाय, *क्षेत्रज्ञः करणी ज्ञानं करणं तस्य वै द्विज । निष्पाद्य मुक्तिकार्य हि कृतकृत्वं निवर्तयेत् ॥ इति करणस्य परब्रह्मध्यानरूपस्य प्रक्षोणाशेषभावनात्मस्वरूपप्राप्त्या कृतकृत्यत्वेन निवृत्तिवचनाद्यावसिद्धयनुष्ठेयमित्युक्त्वा, *तद्भावभावमापन्नस्तदाऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ इति मुक्तस्य स्वरूपमाह । तद्भावः ब्रह्मणो भावः स्वभावः । न तु स्वरूपैक्यम्, तद्भावभावमापन्न ४० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । इति द्वितीयभावशब्दानन्वयात्, पूर्वोक्तार्थविरोधाच्च । यद्ब्रह्मणः प्रक्षीणाशेषभावनत्वं तदा- पत्तिस्तद्भावभावापत्तिः । यदैवमापनस्तदाऽसौ परमात्मना अभेदी भवति भेदरहितो भवति । ज्ञानेकाकारतया परमात्मनैकप्रकारस्यास्य तस्माद्भदो देवादिरूपः । तदन्वयोऽस्य कर्मरूपा- ज्ञानमूलः, न स्वरूपकृतः । स तु देवादिभेदः परब्रह्मध्यानेन मूलभूत ज्ञानरूपे कर्मणि विनष्टे हेत्वभावानिवर्तत इत्यभेदी भवति । यथोक्तम् ॐएकस्वरूपभेदस्तु बाह्यकर्मवृतिप्रजः । देवादि- भेदेऽपध्वस्ते (नास्त्येवावरण) नास्त्यनावरणो हि सः ॥ इति । एतदेव विवृणोति *विभेद- जनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति इति । विभेदः विविधो भेदः-देवतिर्यङ्मनुष्यस्थावरात्मकः । यथे क्तं शौनकेनापि *चतुर्विधोऽपि भेदोऽयं मिथ्याज्ञाननिबन्धनः इति । आत्मनि ज्ञानरूपे देवादिरूपविविधभेदहेतुभूतकर्माख्याज्ञाने परब्रह्मध्यानेनात्यन्तिकनाशं गते सति हेत्वभावादसन्तं परस्मात् ब्रह्मग आत्मनो देवादि- रूपरेदं कः करिण्यतीत्यर्थः । *अविद्या कर्मसंज्ञाऽन्या इति शत्रैवोक्तम् ।। *क्षेत्रज्ञं चापि मां विद्धि% इत्यादिनाऽन्तर्यामिरूपेण सर्वस्यात्मतयैक्याभिधानम् । अन्यथा *क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते, उत्तमः पुरुषस्त्वन्य इत्यादिभिविरोधः । अन्तर्यामिरूपेण सर्वेषामात्मत्वं तत्रैव भगवताऽभिहितम्- ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति इति, *सर्वस्य चाहं हृदि सन्निविष्टः इति च । *अहमात्मा गुडाकेश सर्वभूताशयस्थितः इति च तदेवोच्यते। भूतशब्दो ह्यात्मपर्यन्तदेहवचनः । यतस्सर्वेषामयमात्मा तत एव सर्वेषां तच्छ- रीरतया पृथगवस्थानं प्रतिषिध्यते न तदस्ति विना यत्स्यादिति । भगवद्विभूत्युपसंहारश्चायमिति तथैवाभ्युपगन्तव्यम् । तत इदमुच्यते-श्यद्यद्विभूतिमत्सत्त्वं श्रीमदूजितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ॥ *विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ इति ॥ अतश्शास्त्रेषु न निविशेषवस्तुप्रतिपादनमस्ति । नाप्यर्थ जातस्य म्रान्तत्वप्रतिपादनम् । नापि चिदचिदीश्वराणां स्वरूपभेदनिषेधः ।। अथ सप्तविधानुपपत्तयः यदप्युच्यते-निविशेषे स्वयंप्रकाशे वस्तुनि दोषपरिकल्पितमोशेशितव्याद्यनन्तविकल्पं सर्वं जगत् । दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदनिर्वचनीयाऽनाद्यविद्या । सा चावश्याभ्युपगमनीया; *अनृतेन हि प्रत्यूढाः इत्यादिभिः श्रुतिभिः, ब्रह्मणस्तत्त्वमस्यादि- वाक्यसामानाधिकरण्यावगतजीवैक्यानुपपत्त्या च । सा तु न सती, भ्रान्तिबाधयोरयोगात् । नाप्यसती, ख्यातिबाधयोश्चायोगात् । अतः कोटिद्वयविनिर्मुक्तेयमविद्येति तत्त्वविदः- इति । तदयुक्तम् सा हि किमाश्रित्य भ्रमं जनयति ? न तावज्जीवमाश्रित्य; अविद्यापरिकल्पितत्वा- जीवभावस्य । नापि ब्रह्माश्रित्य; तस्य स्वयंप्रकाशज्ञानस्वरूपत्वेनाविद्याविरोधित्वात् । सा हि प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । ४१ ज्ञानबाध्याऽभिमता। *ज्ञानरूप परं ब्रह्म तन्निवयं मृषात्मकम् । अज्ञानं चेत्तिरस्कुर्यात्कः प्रभुस्तनिवर्तने । ज्ञानं ब्रह्मति चेत् ज्ञानमज्ञानस्य निवर्तकम् । ब्रह्मवत्तत्प्रकाशत्वात्तदपि ह्यनिवर्तकम् ॥ ज्ञानं ब्रह्मति विज्ञानमस्ति चेत्स्यात्प्रमेयता। ब्रह्मणोऽननुभूतित्वं त्वदुक्त्यैव प्रसज्यते ॥ ज्ञानस्वरूपं ब्रह्मति ज्ञानं तस्या अविद्याया बाधकम्, न स्वरूपभूतं ज्ञानमिति चेन्न, उभयोरपि ब्रह्मस्वरूपप्रकाशत्वे सत्यन्यतरस्याविद्याविरोधित्वमन्यतरस्य नेति विशेषानवमगात् ॥ एतदुक्तं भवति-ज्ञानस्वरूपं ब्रह्मत्यनेन ज्ञानेन ब्रह्मणि यस्स्वभाव'ऽवगम्यते; स ब्रह्मणस्स्वयंप्रकाशत्वेन स्वयमेव प्रकाशत इत्यविद्याविरोधित्वे न कश्चिहिशेषस्स्वरूपतद्विषय- ज्ञानयोः-इति । किं च अनुभवस्वरूपस्य ब्रह्मणोऽनुभवान्तराननुभाव्यत्वेन भवतो न तद्विषयं ज्ञानमस्ति । अतो ज्ञानमज्ञानविरोधि चेत्स्वयमेव विरोधि भवतीति नास्या ब्रह्माश्रयत्व- संभवः । शुक्त्यादयस्तु स्वयाथात्म्यप्रकाशे स्वयमसमर्थास्स्वाज्ञानाविरोधिनस्तन्निवर्तने च ज्ञानान्तरमपेक्षन्ते । ब्रह्म तु स्वानुभवसिद्धस्वयाथात्म्यमिति स्वाज्ञानविरोध्येव । तत एव निवर्तकान्तरं च नापेक्षते ॥ अथोच्येत- ब्रह्मव्यतिरिक्तस्य मिथ्यात्वज्ञानमज्ञानविरोधि-इति । न; इदं ब्रह्म- व्यतिरिक्तमिथ्यात्वज्ञानं कि ब्रह्मयाथात्म्याज्ञानविरोधि ? उत प्रपञ्चसत्यत्वरूपाज्ञानविरोधीति विवेचनीयं । न तावत् ब्रह्मयाथात्म्याज्ञानविरोधि, अतद्विषयत्वात् । ज्ञानाज्ञानयोरेकविषयत्वेन हि विरोधः । प्रपञ्चमिथ्यात्वज्ञानं तत्सत्यत्वरूपाज्ञानेन विरुध्यते । तेन प्रपञ्चसत्यत्वरूपाज्ञान- मेव बाधितमिति ब्रह्मस्वरूपाज्ञानं तिष्ठत्येव । ब्रह्मस्वरूपाज्ञानं नाम तस्य सद्वितीयत्वमेव; तत्तु तद्वयतिरिक्तस्य मिथ्यात्वज्ञानेन निवृत्तम्; स्वरूपं तु स्वानुभवसिद्धमिति चेन्न; ब्रह्मणो- ऽद्वितीयत्वं स्वरूपं स्वानुभवसिद्धमिति तद्विरोधि सद्वितीयत्वरूपाज्ञानं तद्बाधश्च न स्याताम् । अद्वितीयत्वं धर्म इति चेन्न; अनुभवस्वरूपस्य ब्रह्मणोऽनुभाव्यधर्मविरहस्य भवतैव प्रतिपादि- तत्वात् । अतो ज्ञानस्वरूपस्य ब्रह्मणो विरोधादेव नाज्ञानाश्रयत्वम् ॥ इत्याश्रयानुपपत्तिः । किंच, अविद्यया प्रकाशकस्वरूपं ब्रह्म तिरोहितमिति वदता स्वरूपनाश एवोक्त- स्स्यात् । प्रकाशतिरोधानं नाम प्रकाशोत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाश- स्यानुत्पाद्यत्वाभ्युपगमेन प्रकाशतिरोधानं प्रकाशनाश एव ॥ इति तिरोधानानुपपत्तिः । अपि च, निविषया निराश्रया स्वप्रकाशेयमनुभूतिस्स्वाश्रयदोषवशादनन्ताश्रयमनन्त- विषयमात्मानमनुभवतीत्यत्र किमयं स्वाश्रयदोषः परमार्थभूतः ? उतापरमार्थभूत इति विवेचनीयम् । न तावत्परमार्थः, अनभ्युपगमात् । नाप्यपरमार्थः, तथा सति हि द्रष्ट्रत्वेन वा दृश्यत्वेन वा दृशित्वेन वाऽभ्युपगमनीयः । नतावदृशिः, दृशिस्वरूपभेदानभ्युपगमात्;

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । भ्रमाधिष्ठानभूतायास्तु साक्षादृशेर्माध्यमिकपक्षप्रसङ्गेनापारमार्थ्यानभ्युपगमाच्च । द्रष्ट्रदृश्ययो- स्तदवच्छिन्नाया दृशेश्च काल्पनिकत्वेन मूलदोषान्तरापेक्षयाऽनवस्था स्यात् । अथैतत्परि- जिहीर्षया परमार्थसत्यनुभूतिरेव ब्रह्मरूपा दोष इति चेत्, ब्रह्म व चेद्दोषः, प्रपञ्चदर्शनस्यैव तन्मूलं स्यात्; कि प्रपश्चतुल्याविद्यान्तरपरिकल्पनेन ? ब्रह्मणो दोषत्वे सति तस्य नित्यत्वेना- निर्मोक्षश्च स्यात् । अतो यावद्ब्रह्मव्यतिरिक्तपारमार्थिकदोषानभ्युपगमः; न तावद्भ्रान्तिरुप- पादितः भवति ॥ इति स्वरूपानुपपत्तिः । अनिर्वचनीयत्वं च किमभिप्रतम् ? सदसद्विलक्षणत्वमिति चेत्; तथाविधस्य वस्तुनः प्रमाणशून्यत्वेन अनिर्वचनीयतैवं स्यात् । एतदुक्तं भवति-सर्वं हि वस्तुजातं प्रतीतिव्य- वस्थाप्यम् । सर्वा च प्रतीतिस्सदसदाकारा । सदसदाकारायास्तु प्रतीतेस्सदसद्विलक्षणं विषय इत्यभ्युपगम्यमाने सर्वं सर्वप्रतीतेविषयस्स्यात्-इति ॥ इत्यनिर्वचनीयत्वानुपपत्तिः । अथ स्यात्-वस्तुस्वरूपतिरोधानकरमान्तरबाह्यरूपविविधाध्यासोपादानं सदसद- निर्वचनीयमविद्याज्ञानादिपदवाच्यं वस्तुयाथात्म्यज्ञाननिवयं ज्ञानप्रागभावातिरेकेण भावरूप- मेव किंचिद्वस्तु प्रत्यक्षानुमानाभ्यां प्रतीयते । तदुपहितब्रह्मोपादानश्चाविकारे स्वप्रकाश- चिन्मात्रवपुषि तेनैव तिरोहितस्वरूपे प्रत्यगात्मन्यहङ्कारज्ञानज्ञेयविभागरूपोऽध्यासः । तस्यैवा- वस्थाविशेषेणाध्यासरूपे जगति ज्ञानबाध्यसर्परजतादिवस्तु तत्तज्ज्ञानरूपाध्यासोऽपि जायते । कृत्स्नस्य मिथ्यारूपस्य तदुपादानत्वं च मिथ्याभूतस्यार्थस्य' 'मिथ्याभूतमेव कारणं भवितु- महतीति हेतुबलादवगम्यते । कारणाज्ञानविषयं प्रत्यक्षं तावत् "अहमज्ञो मामन्यं च न जानामि" इत्यपरोक्षावभासः। अयं तु न ज्ञानप्रागभावविषयः। स हि षष्ठप्रमाणगोचरः । अयं तु अहं सुखीतिवदपरोक्षः । अभावस्य प्रत्यक्षत्वाभ्युपगमेऽप्ययमनुभवो नात्मज्ञानाभाव- विषयः; अनुभववेलायामपि ज्ञानस्य विद्यमानत्वात्; अविद्यमानत्वे ज्ञानाभावप्रनीत्यनुपपत्तेश्च । एतदुक्तं भवति-अहमज्ञ इत्यस्मिन्ननुभवे अहमित्यात्मनोऽभावर्मितया ज्ञानस्य च प्रति- योगितयाऽवगतिरस्ति वा, न वा ? अस्ति चेद्विरोधादेव न ज्ञानाभावानुभवसंभवः । नो चेद्धर्मिप्रतियोगिज्ञानसव्यपेक्षो ज्ञानाभावानुभवस्सुतरां न संभवति । ज्ञानाभावस्यानुमेयत्वे अभावाख्यप्रमाणविषयत्वे चेयमनुपपत्तिस्समाना। अस्याज्ञानरय भावरूपत्वे धमिप्रतियोगि- ज्ञानसद्भावेऽपि विरोधाभावादयमनुभवो भावरूपाज्ञानविषय एवाभ्युपगन्तव्यः-इति । ननु च भावरूपमप्यज्ञानं वस्तुयाथात्म्यावभासरूपेण साक्षिचैतन्येन विरुध्यते । मैवम्; साक्षि- चैतन्यं न वस्तुयाथात्म्यविषयम्, अपि तु अज्ञानविषयम्; अन्यथा मिथ्यार्थावभासानुपपत्तेः । न ह्यज्ञानविषयेण ज्ञानेनाज्ञानं निवर्त्यत इति न विरोधः ॥ ननु चेदं भावरूपमप्यज्ञानं विषयविशेषव्यावृत्तमेव साक्षिचैतन्यस्य विषयो भवति । स विषयः प्रमाणानधोनसिद्धिरिति कथमिव साक्षिचैतन्येनास्पदर्थव्यावृत्तमज्ञानं विषयी- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । ४३ - क्रियते ? नैष दोषः; सर्वमेव वस्तुजातं ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषयभूतम् । तत्र जडत्वेन ज्ञाततया सिध्यत एव प्रमाणव्यवधानापेक्षा । अजडस्य तु प्रत्यग्वस्तुनस्स्वयं सिद्धतो न प्रमाणव्यवधानापेक्षेति सदैवाज्ञानस्य व्यावर्तकत्वेनावभासो युज्यते । तस्मान्न्या- योपबृंहितेन प्रत्यक्षेण भावरूपमेवाज्ञानं प्रतीयते ॥ तदिदं भावरूपमज्ञानमनुमानेनापि सिध्यति-विवादाध्यासितं प्रमाणज्ञानं स्वप्राग- भावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशक- त्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत् - इति । आलोकाभावमात्रं वा रूपदर्शनाभावमात्रं वा तमो न द्रव्यान्तरम्, तत्कथं भावरूपाज्ञानसाधने निदर्शनतयोपन्यस्यत इति चेत्; उच्यते- बहुलत्वविरलत्वाद्यवस्थायोगेन रूपवत्तया चोपलब्धेर्द्रव्यान्तरमेव तम इति निरवद्यम्-इति । अत्रोच्यते -अहमज्ञो मामन्यं च न जानामीत्यत्रोपपत्तिसहितेन केवलेन च प्रत्यक्षेण न भावरूपमज्ञानं प्रतीयते । येस्तु ज्ञानप्रागभावविषयत्वे विरोध उक्तः; स हि भावरूपा- ज्ञानेऽपि तुल्यः । विषयत्वेनाश्रयत्वेन चाज्ञानस्य व्यावर्तकतया प्रत्यगर्थः प्रतिपन्नो वा, अप्रतिपन्नो वा ? प्रतिपन्नश्चेत्, तत्स्वरूपज्ञाननिवर्त्य तदज्ञानं तस्मिन् प्रतिपन्ने कथमिव तिष्ठति ? अप्रतिपन्नश्चेद्वयावर्तकाश्रयविषयज्ञानशून्यमज्ञानं कथमनुभूयेत ? अथ विशद- स्वरूपावभासोऽज्ञानविरोधी; अविशदस्वरूपं तु प्रतीयत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञाना- नुभवविरोधः इति । हन्न तहि ज्ञानप्रागंभावोऽपि विशदस्वरूपविषयः, आश्रयप्रतियोगिज्ञानं तु अविशदस्वरूपविषयमिति न कश्चिद्विशेषोऽन्यत्राभिनिवेशात् । भावरूपस्याज्ञानस्यापि ह्यज्ञानमिति सिध्यतः प्रागभावसिद्धाविव सापेक्षत्वमस्त्येव । तथा हि--अज्ञानमिति ज्ञाना- भावस्तदन्यस्तद्विरोधी वा ? त्रयाणामपि तत्स्वरूपज्ञानापेक्षाऽवश्याश्रयणीया । यद्यपि तमस्स्वरूपप्रतिपत्तौ प्रकाशापेक्षा न विद्यते; तथाऽपि प्रकाशविरोधीत्यनेनाकारेण प्रतिपत्तौ प्रकाशप्रतिपत्यपेक्षाऽस्त्येव । भवदभिमताज्ञानं न कदाचित्स्वरूपेण सिध्यति; अपि त्वज्ञान- मित्येव । तथा सति ज्ञानाभाववत्तदपेक्षत्वं समानम् । ज्ञानप्रागभावस्तु भवताऽप्यभ्युपगम्यते, प्रतीयते चेत्युभयाभ्युपेतो ज्ञानप्रागभाव एव अहमज्ञो मामन्यं च न जानामीत्यनुभूयत इत्यभ्युपगन्तव्यम् ॥ नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्च न संभवति; स्वानुभव- स्वरूपत्वात् । स्वानुभवस्वरूपमपि तिरोहितस्वरूपमज्ञानमनुभवतीति चेत्; किमिदं तिरोहित- स्वरूपत्वम् ? अप्रकाशितस्वरूपत्वमिति चेत्; स्वानुभवस्वरूपस्य कथमप्रकाशितस्वरूपत्वम् ? स्वानुभवस्वरूपस्याप्यन्यतोऽप्रकाशितस्वरूपत्वमापद्यत इति चेत् एवं तहि प्रकाशाख्यधर्मा- नभ्युपगमेन प्रकाशस्यैव स्वरूपत्वादन्यतस्स्वरूपनाश एव स्यादिति पूर्वमेवोक्तम् ।। ?

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । किंच ब्रह्मस्वरूपतिरोधानहेतुभूतमेतदज्ञानं स्वयमनुभूतं सत् ब्रह्म तिरस्करोति, ब्रह्म तिरस्कृत्य स्वयं तदनुभवविषयो भवतीत्यन्योन्याश्रयणम् । अनुभूतमेव तिरस्करोतीति चेत्; यद्यतिरोहितस्वरूपमेव ब्रह्माज्ञानमनुभवति; तदा तिरोधानकल्पना निष्प्रयोजना स्यात् अज्ञानस्वरूपकल्पना च । ब्रह्मगोऽज्ञानदर्शनवत् अज्ञानकार्यतयाऽभिपतप्रपञ्चदर्शनस्यापि संभवात् । किंच ब्रह्मणोऽज्ञानानुभवः किं स्वतोऽन्यतो वा ? स्वतश्चेदज्ञानानुभवस्य स्वरूप- प्रयुक्तत्वेनानिर्मोक्षस्स्यात् । अनुभूतिस्वरूपस्य ब्रह्मणोऽज्ञानानुभवस्वरूपत्वेन मिथ्यारजत- बाधकज्ञानेन रजतानुभवस्यापि निवृत्तिवनिवर्तकज्ञानेनाजानानुभूतिरूपब्रह्मस्वरूपनिवृत्तिर्वा । अन्यतश्चेत्, कि तदन्यत् ? अज्ञानान्तरमिति चेत्; अनवस्था स्यात् । ब्रह्म तिरस्कृत्यैव स्वयमनुभवविषयो भवतीति चेत्; तथा सतीदमजान काचादिवत् स्वसत्तया ब्रह्म तिरस्करो- तीति ज्ञानबाध्यत्वमज्ञानस्य न स्यात् ।। अथेदमज्ञानं स्वयमनादि, ब्रह्मणस्स्वसाक्षित्वं ब्रह्मस्वरूपतिरस्कृति च युगपदेव करोति । अतो नानवस्थादयो दोषा इति; नैतत्, स्वानुभवस्वरूपस्य ब्रह्मणस्स्वरूपतिरस्कृति- मन्तरेण साक्षित्वापादनायोगात् । हेत्वन्तरेण तिरस्कृतमिति चेत् तस्यानादित्वमपास्तम् । अनवस्था च पूर्वोक्ता । अतिरस्कृतस्वरूपस्यैव साक्षित्वापादने ब्रह्मणस्स्वानुभवैकतानता च न स्यात् ॥ अपि च अविद्यया ब्रह्मणि तिरोहिते तद्ब्रह्म न किंचिदपि प्रकाशते ? उत किचित्प्रकाशते ? पूर्वस्मिन् कल्पे प्रकाशमात्रस्वरूपस्य ब्रह्मणोऽप्रकाशे तुच्छतापत्तिरस- कृदुक्ता। उत्तरस्मिन् कल्पे सच्चिदानन्दैकरसे ब्रह्मणि कोऽयमंशस्तिरस्क्रियते ? को वा प्रकाशते ? निरंशे निविशेष प्रकाशमाने वस्तुन्याकारद्वयासंभवेन तिरस्कारः प्रकाशश्च युगपन्न संगच्छेते । अथ सच्चिदानन्दैकरसं ब्रह्म अविद्यया तिरोहितस्वरूपमविशदमिव लक्ष्यत इति; प्रकाशमात्रस्वरूपस्य विशदताऽविशदता वा किरूपा? एतदुक्तं भवति-यस्सांशस्सविशेषः प्रकाश- विषयः; तस्य सकलावभासो विशदावभासः, कतिपयविशेषरहितावभासश्चाविशदावभासः । तत्र य आकारोप्रतिपन्नस्तस्मिन्नंशे प्रकाशाभावादेव प्रकाशावेशद्यं न विद्यते । यश्चांशः प्रतिपन्नस्तस्मिन्नंशे तद्विषयप्रकाशो विशद एव । अतस्सर्वत्र प्रकाशांशे अवैशद्यं न संभवति । विषयेऽपि स्वरूपे प्रतीयमाने तद्गतकतिपयविशेषाप्रतीतिरेवावेशद्यम् । तस्मादविषये निविशेष प्रकाशमात्रे ब्रह्मणि स्वरूप प्रकाशमाने तद्गतकतिपयविशेषाप्रतीतिरूपावैशचं नामाज्ञानकार्य न संभवति । अपि च इदमविद्याकार्यमवंशयं तत्त्वज्ञानोदयानिवर्तते, न वा ? अनिवृत्ता- वपवर्गाभावः । निवृत्तौ च वस्तु किरूपमिति विवेचनीयम् । विशदस्वरूपमिति चेत्, तद्विशद- स्वरूपं प्रागस्ति, न वा ? अस्ति चेदविद्याकार्यमवैशद्यं तन्निवृत्तिश्च न स्याताम् । नो प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । ४५ चेन्मोक्षस्य कार्यतया अनित्यता स्यात् । अस्याज्ञानस्याश्रयानिरूपणादेवासंभवः पूर्वमेवोक्तः । अपि च अपरमार्थदोषमूलभ्रमवादिना निरधिष्ठानभ्रमासंभवोऽपि दुरुपपादः; भ्रमहेतुभूत- दोषदोषाश्रयत्ववदधिष्ठानापारमार्थ्यऽपि भ्रमोपपत्तेः । ततश्च सर्वशून्यत्वमेव स्यात् ।। यदुक्तमनुमानेनापि भावरूपमज्ञानं सिध्यतीति; तदयुक्तम्; अनुमानासंभवात् । ननूक्तमनुमानम् ? सत्यमुक्तम्; दुरुक्तं तु तत्; अज्ञानेऽप्यनभिमताज्ञानान्तरसाधनेन विरुद्धत्वाद्धेतोः । तत्राज्ञानान्तरासाधने हेतोरनैकान्त्यम् । साधने च तदज्ञानमज्ञानसाक्षित्वं निवारयति । ततश्चाज्ञानकल्पना निष्फला स्यात् । दृष्टान्तश्च साधनविकलः; दीपप्रभाया अप्रकाशितार्थप्रकाशकत्वाभावात् । सर्वत्र ज्ञानस्यैव हि प्रकाशकत्वम्; सत्यपि दोपे ज्ञानेन विना विषयप्रकाशाभावात् । इन्द्रियाणामपि ज्ञानोत्पत्तिहेतुत्वमेव; न प्रकाशकत्वम् । प्रदीप- प्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानमुत्पादयतो विरोधितमोनिरसनद्वारेणोपकारकत्वमात्रमेव । प्रकाशकज्ञानोत्पत्तौ व्याप्रियमाणचक्षुरिन्द्रियोपकारकहेतुत्वमपेक्ष्य दीपस्य प्रकाशकत्व- व्यवहारः । नास्माभिर्ज्ञानतुल्यप्रकाशकत्वाभ्युपगमेन दीपप्रभा निशिता; अपि तु ज्ञानस्येव स्वविषयावरणनिरसनपूर्वकप्रकाशकत्वमङ्गीकृत्येति चेन्न; न हि विरोधिनिरसनमात्रं प्रकाशकत्वम् अपि त्वर्थपरिच्छेदः, व्यवहारयोग्यतापादनमिति यावत् । तत्तु ज्ञानस्यैव । यद्युपकारकाणामप्यप्रकाशितार्थप्रकाशत्वमङ्गीकृतम्; त_न्द्रियाणामुपकारकतमत्वेनाप्रकाशि- तार्थप्रकाशकत्वमङ्गीकरणीयम् । तथा सति तेषां स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावावेतोरन- कान्त्यमित्यलमनेन ॥ प्रतिप्रयोगाश्च-विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रयम्; अज्ञानत्वात्; शुक्ति- काद्यज्ञानवत् । ज्ञात्राश्रयं हि तत् । विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्मावरणम्, अज्ञान- त्वात्, शुक्तिकाद्यज्ञानवत् । विषयावरणं हि तत् । विवादाध्यासितमज्ञानं न ज्ञाननिवर्त्यम् ज्ञानविषयानावरणत्वात् । यत् ज्ञाननिवर्त्यमज्ञानं तत् ज्ञानविषयावरणम्; यथा शुक्तिकाद्य- ज्ञानम् । ब्रह्म नाज्ञानास्पदम्; ज्ञातृत्वविरहात्; घटादिवत् । ब्रह्म नाज्ञानावरणम्; ज्ञाना- विषयत्वात् । यदज्ञानावरणं तज्ज्ञानविषयभूतम्; यथा शुक्तिकादि । ब्रह्म न ज्ञाननिवा- ज्ञानम्; ज्ञानाविषयत्वात् । यत् ज्ञाननिवर्त्याज्ञानम्, तज्ज्ञानविषयभूतम्; यथा शुक्तिकादि । विवादाध्यासितमं प्रमाणज्ञानं स्वप्रागभावातिरिक्ताज्ञानपूर्वकं न भवति, प्रमाणज्ञानत्वात्, भवदभिमताज्ञानसाधनप्रमाणज्ञानवत् । ज्ञानं न वस्तुनो विनाशकम्; शक्तिविशेषोपबृहण- विरहे सति ज्ञानत्वात् । यद्वस्तुनो विनाशकं तच्छक्तिविशेषोपबृहितं ज्ञानमज्ञानं च दृष्टम्; यथेश्वरयोगिप्रभृतिज्ञानम्, यथा च मुद्गरादि । भावरूपमज्ञानं न ज्ञानविनाश्यम्; भाव- रूपत्वातः घटादिवदिति । अथोच्येत-बाधकज्ञानेन पूर्वज्ञानोत्पन्नानां भयादीनां विनाशो श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । । .. दृश्यते- इति । नैवम्; न हि ज्ञानेन तेषां विनाशः; क्षणिकत्वेन तेषां स्वयमेव विनाशात्; कारणनिवृत्त्या च पश्चादनुत्पत्तेः । क्षणिकत्वं च तेषां ज्ञानवदुत्पत्तिकारणसन्निधान एवोप- लब्धेः, अन्यथाऽनुपलब्धेश्वावगम्यते । अक्षणिकत्वे च भयादीनां भयादिहेतुभूतज्ञानसंतताव- विशेषेण सर्वेषां ज्ञानानां भयाद्युत्पत्तिहेतुत्वेनानेकभयोपलब्धिप्रसङ्गाच्च । स्वप्रागभावव्यति- रिक्तवस्त्वन्तरपूर्वकमिति व्यर्थविशेषण पादानेन प्रयोगकुशलता चाविष्कृता। अतोऽनु- मानेनापि न भावरूपाज्ञानसिद्धिः । श्रुतितदर्थापत्तिभ्यामज्ञानासिद्धिरनन्तरमेव वक्ष्यते । मिथ्यार्थस्य हि मिथ्यैवोपादानं भवितुमर्हतीत्येतदपि *न विलक्षणत्वादित्यधिकरण- न्यायेन परिहियते। अतोऽनिर्वचनीयाज्ञानविषया न काचिदपि प्रतीतिरस्ति। प्रतीति- भ्रान्तिबाधैरपि न तथाऽभ्युपगमनीयम् । प्रतीयमानमेव हि प्रतीतिभ्रान्तिबाधविषयः । आभिः प्रतीतिभिः प्रतीत्यन्तरेण चानुपलब्धमासां विषय इति न युज्यते कल्पयितुम् । शुक्त्यादिषु रजतादिप्रतीतेः प्रतीतिकालेऽपि तन्नास्तीति बाधेन चान्यस्यान्यथाभानायोगाच्च सदसद- निर्वचनीयमपूर्वमेवेदं रजतं दोषवशात् प्रतीयत इति कल्पनीयमिति चेन्न; तत्कल्पनाया- मप्यन्यस्यान्यथाभानस्यावर्जनीयत्वात्; अन्यथाभानाभ्युपगमादेव ख्यातिप्रवृत्तिब्राधभ्रमत्वा- नामुपपत्तेरत्यन्तापरिदृष्टाकारणकवस्तुकल्पनायोगात् । . कल्प्यमानं हीदमनिर्वचनीयम्, न तावदनिर्वचनीयमिति प्रतीयते; अपितु परमार्थ रजतमित्येव । अनिर्वचनीयमित्येव प्रतीतं चेत्, भ्रान्तिबाधयोः प्रवृत्तेरप्यसंभवः । अतोऽन्यस्यान्यथाभानविरहे प्रतीतिप्रवृत्तिबाध- भ्रमत्वानामनुपपत्तेस्तस्यापरिहार्यत्वाच्च, शुक्त्यादिरेव रजताद्याकारेणावभासत इति भवताऽभ्युपगन्तव्यम् ॥ ख्यात्यन्तरवादिनां च सुदूरमपि गत्वाऽन्यथावभासोऽवश्याश्रयणीयः- असत्ख्यातिपक्षे सदात्मना; आत्मख्यातिपक्षे अर्थात्मना; - अख्यातिपक्षेऽपि अन्यविशेषणमन्यविशेषणत्वेन ज्ञान- द्वयमेकत्वेन च; विषयासद्भावपक्षेऽपि विद्यमानत्वेन । किंच अनिर्वचनीयमपूर्वरजतमत्र जातमिति वदता तस्य जन्मकारणं वक्तव्यम् । न तावत्तत्प्रतीतिः, तस्यास्तद्विषयत्वेन तदुत्पत्तेः प्रागात्मलाभायोगात् । निविषया जाता तदुत्पाद्य तदेव विषयीकरोतीति महतामिदमुपपादनम् । अथेन्द्रियादिगतो दोषः, तन्न; तस्य पुरुषाश्रयत्वेनार्थगतकार्यस्योत्पादकत्वायोगात् । नापीन्द्रियाणि, तेषां ज्ञानकारणत्वात् । नापि दुष्टानीन्द्रियाणि, तेषामपि स्वकार्यभूते ज्ञान एव हि विशेषकरत्वम् । अनादिमिथ्याज्ञानो- पादानत्वं तु पूर्वमेव निरस्तम् ॥ किंच अपूर्वमनिर्वचनीयमिदं वस्तुजातं रजतादिबुद्धिशब्दाभ्यां कथमिव विषयो- क्रियते, न घटादिबुद्धिशब्दाभ्याम् । रजतादिसादृश्यादिति चेत्, तहि तत्सदृशमित्येव प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । ? ? - प्रतीतिशब्दौ स्याताम् । रजतादिजातियोगादिति चेत्; सा कि परमार्थभूता ? अपरमार्थभूता वा ? न तावत्परमार्थभूता, तस्या अपरमार्थान्वयायोगात् । नाप्यपरमार्थभूता, परमार्थान्वया- योगात्, अपरमार्थे परमार्थबुद्धिशब्दयोनिर्वाहकत्वायोगाच्चेत्यलमपरिणतकुतर्कनिरसनेन । अथवा-यथार्थं सर्वविज्ञानमिति वेदविदां मतम् । श्रुतिस्मृतिभ्यस्सर्वस्य सर्वात्मत्व- प्रतीतितः ॥ *बहु स्याभिति संकल्पपूर्वसृष्टयाद्युपक्रमे । *तासां त्रिवृतमेकैकामिति श्रुत्यैव चोदितम् ॥ त्रिवृत्करणमेवं हि प्रत्यक्षेणोपलभ्यते । *यदग्ने रोहितं रूपं तेजसस्तदपामपि ।। शुक्लं कृष्णं पृथिव्याश्चेत्यग्न वेव त्रिरूपता । श्रुत्यैव दर्शिता तस्मात्सर्वे सर्वत्र संगताः ।। पुराणे चैवमेवोक्तं वैष्णवे सृष्टय पक्रमे ॥ *नानावीर्याः पृथग्भूतास्ततस्ते संहति विना । नाशक्नुवन् प्रजास्त्रष्टुमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमित्यादिना ततः ॥ सूत्रकारोऽपि भूतानां त्रिरूपत्वं तथाऽवदत् । *व्यात्मकत्वात्तु भूयस्त्वादिति तेनाभिधाभिदा ॥ सोमाभावे च पूतीक ग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावादिति न्यायविदो विदुः ॥ व्राह्यभावे च नीवारग्रहणं व्रीहिभावतः । तदेव सदृशं तस्य यत्तद्रव्यैकदेशभाक् ॥ शुक्त्यादौ रजतादेश्च भावः श्रुत्यैव बोधितः । रूप्य- शुक्त्यादिनिर्देशभेदो भूयस्त्वहेतुकः ।। रूप्यादिसदृशश्चायं शुक्त्यादिरुपलभ्यते । अतस्तस्यात्र सद्भावः प्रतीतेरपि निश्चितः ॥ कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त्यंशवजितः। रजतांशो गृहीतोऽतो रजतार्थी प्रवर्तते ॥ दोषहानौ तु शुक्त्यंशे गृहीते तन्निवर्तते। अतो यथार्थ रूप्यादिविज्ञानं शुक्तिकादिषु ।। बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते । शुक्तिभूयस्त्ववैकल्य- साकल्यग्रहरूपतः ॥ नातो मिथ्यार्थसत्यार्थविषयत्वनिबन्धनः । एवं सर्वस्य सर्वत्वे व्यवहार- व्यवस्थितिः ॥ स्वप्ने च प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्याः तत्तत्काला- वसानाः तथाभूताश्चास्सृज्यन्ते । तथा हि श्रुतिः स्वप्नविषया *न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान्पथस्सृजते, न तत्रानन्दा मुदः प्रमुदो भवन्ति, अथा- नन्दान्मुदः प्रमुदस्सृजते, न तत्र वेशन्ताः पुष्करिण्यस्स्रवन्त्यो भवन्ति, अथ वेशन्तान्पुष्करिण्य- स्स्रवन्त्यस्सृजते, स हि कर्ता इति । यद्यपि सकलेतरपुरुषानुभाव्यतया तदानों न. भवन्ति । तथाऽपि तत्तत्पुरुषमात्रानुभाव्यतया तथाविधानर्थानीश्वरस्सृजति । स हि कर्ता । तस्य सत्यसंकल्पस्याश्चर्यशक्तस्तथाविधं कर्तृत्वं संभवतीत्यर्थः । *य एषु सुप्तषु जागति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ तस्मिल्लोका- शिश्रतास्सर्वे तदु नात्येति कश्चन इति च । सूत्रकारोऽपि *सन्ध्ये सृष्टिराह हि अनिर्मातारं चैके पुत्रादयश्च इति सूत्रद्वयेन स्वाप्नेष्वर्थेषु जीवस्य · स्रष्ट्यत्वमाशङ्कय *मायामात्रं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात् इत्यादिना न जीवस्य सङ्कल्पमात्रेण - ४८ श्रीभगद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । स्रष्टत्वमुपपद्यते, जीवस्य स्वाभाविकसत्यसङ्कल्पत्वादेः कृत्स्नस्य संसारदशायामनभि- व्यक्तस्वरूपत्वात्, ईश्वरस्यैव तत्तत्पुरुषमात्रानुभाव्यतया आश्चर्यभूता सृष्टिरियम्; तस्मि- ल्लोकाश्रितास्सर्वे तदु नात्येति कश्चनेति परमात्मैव तत्र स्रष्टेत्यवगम्यते - इति परिहरति । अपवरकादिषु शयानस्य स्वप्नदृशः स्वदेहेनैव देशान्तरगमनराज्याभिषेकशिरश्छेदादयश्च पुण्यपापफलभूताश्शयानदेहसरूपसंस्थानदेहान्तरसृष्टयोपपद्यन्ते ।। पीतशङ्खादौ तु नयनवतिपित्तद्रव्यसंभिन्ना नायनरश्मयश्शङ्खादिभिस्संयुज्यते । तत्र पित्तगतपीतिमाभिभूतश्शङ्खगतशुक्लिमा न गृह्यते । अतस्सुवर्णानुलिप्तशङ्खवत् पीतश्शङ्ख इति प्रतीयते। पित्तद्रव्यं तद्गतपीतिमा चातिसौक्ष्म्यात्पार्श्वस्थैर्न गृह्यते। पित्तोपहतेन तु स्वनयननिष्क्रान्ततयाऽतिसामीप्यात् सूक्ष्ममपि गृह्यते। तद्ग्रहणजनितसंस्कारसचिवनायन- रश्मिभिर्दूरस्थमपि ग्रह्मते ॥ जपाकुसुमसमीपतिस्फटिकमणिरपि तत्प्रभाभिभूततया रक्त इति गृह्यते । जपाकुसुम- प्रभा वितताऽपि स्वच्छद्रव्यसंयुक्ततया स्फुटतरमुपलभ्यत इत्युपलब्धिव्यवस्थाप्यमिदम् ॥ मरीचिकाजलज्ञानेऽपि तेजःपृथिव्योरप्यम्बुनो विद्यमानत्वादिन्द्रियदोषेण तेजःपृथि- व्योरग्रहणाददृष्टवशाच्चाम्बुनो ग्रहणाद्यथार्थत्वम् ॥ अलातचक्रे ऽप्यलातस्य द्रुततरगमनेन सर्वदेशसंयोगादन्तरालाग्रहणात्तथा प्रतीति- रुपपद्यते । चक्रप्रतीतावप्यन्तरालाग्रहणपूर्वकतत्तद्देशसंयुक्ततत्तद्वस्तुग्रहणमेव । कचिदन्तराला- भावादन्तरालाग्रहणम्, क्वचिच्छेघ्रयादग्रहणमिति विशेषः । अतस्तदपि यथार्थम् ॥ दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था। दर्पणादिप्रतिहतगतयो हि नायनरश्मयो दर्पणादिदेशग्रहणपूर्वकं निजमुखादि गृह्णन्ति । तत्रापि अतिशघ्रयादन्तरालाग्रहणात्तथा प्रतीतिः ॥ दिङ्मोहेऽपि दिगन्तरस्यास्यां दिशि विद्यमानत्वाददृष्टवशेनंतद्दिगंशवियुक्तो दिगन्त- रांशो गृह्यते । अतो दिगन्तरप्रतीतियथार्थव ।। द्विचन्द्रज्ञानादावपि अगुल्यवष्टम्भतिमिरादिभिर्नायनतेजोगतिभेदेन सामग्रीभेदात्सा- मग्रीद्वयमन्योन्यनिरपेक्षं चन्द्रग्रहणयहेतुर्भवति । तत्रैका सामग्री स्वदेशविशिष्टं चन्द्र गृह्णाति । द्वितीया किञ्चिद्वक्रगतिश्चन्द्रसमोपदेशग्रहणपूर्वकं चन्द्रं स्वदेशवियुक्तं गृह्णाति । अतस्सामग्रीद्वयेन युगपद्देशद्वयविशिष्टचन्द्रग्रहणे ग्रहणभेदेन ग्राह्याकारभेदादेकत्वग्रहणाभावाच्च द्वौ चन्द्राविति भवति प्रतीतिविशेषः । देशान्तरस्य तद्विशेषणत्वं देशान्तरस्य अगृहीतस्वदेश- चन्द्रस्य च निरन्तरग्रहणेन भवति । तत्र सामग्रोद्वित्वं पारमार्थिकम् । तेन देशद्वयविशिष्ट- चन्द्रग्रहणद्वयं च पारमार्थिकम् । ग्रहणद्वित्वेन चन्द्रस्यैव ग्राह्याकारद्वित्वं च पारमार्थिकम् ।

प्रथमाध्याये-प्रथमपादे - जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । तत्र विशेषणद्वयविशिष्टचन्द्र ग्रहणद्वयस्यैक एव चन्द्रो ग्राह्य इति ग्रहणे प्रत्यभिज्ञानवत् केवल- चक्षुषस्सामर्थ्याभावाच्चाक्षुषज्ञानं तथैवावतिष्ठते । द्वयोश्चक्षुषोरेकसामग्रचन्तर्भावेऽपि तिमि- रादिदोषभिन्न चाक्षुषं तेजस्सामग्रीद्वयं भवतीति कार्यकल्प्यम् । अपगते तु दोषे स्वदेश- विशिष्टस्य चन्द्रस्यैकग्रहणवेद्यत्वादेकश्चन्द्र इति भवति प्रत्ययः । दोषकृतं तु सामग्री द्वित्वं तत्कृतं ग्रहणद्वित्वं तत्कृतं ग्राह्याकारद्वित्वं चेति निरवद्यम् । अतस्सर्व विज्ञानजातं यथार्थमिति सिद्धम् । ख्यात्यन्तराणां दूषणानि तेस्तैर्वादिभिरेव प्रपञ्चितानीति न तत्र यत्नः क्रियते । अथवा किमनेन बहुनोपपादनप्रकारेण । प्रत्यक्षानुमानागमाख्यं प्रमाणजातमागमगम्यं च निरस्तनिखिलदोषगन्धमनवधिकातिशयासंख्येयकल्याणगुणगणं सर्वज्ञं सत्यसङ्कल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति ? किं नोपपद्यते ? भगवता हि परेण ब्रह्मणा क्षेत्रज्ञपुण्य- पापानुगुणं तद्भोग्यत्वायाखिलं जगत्सृजता सुखदुःखोपेक्षाफलानुभवानुभाव्याः पदार्थास्सर्व- साधारणानुभवविषयाः, केचन तत्तत्पुरुषमात्रानुभवविषयास्तत्तत्कालावासानास्तथातथाऽनु- भाव्यास्सृज्यन्ते । तत्र बाध्यबाधकभावस्सर्वानुभवविषयतया तद्रहिततया चोपपद्यत इति सर्वं समञ्जसम् ॥ इति प्रमाणानुपपत्तौ यथार्थख्यातिः । यत्पुनस्सदसदनिर्वचनीयमज्ञानं श्रुतिसिद्धमिति; तदसत्; *अनृतेन हि प्रत्यूढाः इत्यादिष्वनृतशब्दस्यानिर्वचनीयानभिधायित्वात् । ऋतेतरविषयो ह्यनृतशब्दः । ऋतमिति कर्मवाचि, *ऋतं पिबन्ताविति वचनात् । ऋतं-कर्म फलाभिसंधिरहितं परमपुरुषाराधन- वेषं तत्प्राप्तिफलम् । अत्र तव्यतिरिक्तं सांसारिकफलं कर्मानृतं ब्रह्मप्राप्तिविरोधि; *एतं ब्रह्म- लोकं न विन्दन्ति अनृतेन हि प्रत्यूढाः इति वचनात् । *नासदासीन्नो सदासीत् इत्यत्रापि सदसच्छब्दौ चिदचिद्व्यष्टिविषयौ । उत्पत्तिवेलायां सत्त्यच्छब्दाभिहितयोश्चिदचिद्वयष्टिभूत- योर्वस्तुनोरप्ययकाले अचित्समष्टिभूते तमश्शब्दाभिधेये वस्तुनि प्रलयप्रतिपादनपरत्वादस्य वाक्यस्य । नात्र कस्यचित्सदसदनिर्वचनीयतोच्यते; सदसतोः कालविशेष असद्भावमात्र- वचनात् । अत्र तमश्शब्दाभिहितस्याचित्समष्टित्वं श्रुत्यन्तरादवगम्यते *अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते इति । सत्यम्, तमश्शब्देनाचित्समष्टिरूपायाः प्रकृतेस्सूक्ष्मावस्थोच्यते । यस्यास्तु *मायां तु प्रकृति विद्यादिति मायाशब्देनाभिधानादनिर्वचनीय(वाचि)त्वमिति चेत्, नैतदेवम्; माया- शब्दस्यानिर्वचनीयवाचित्वं न दृष्टमिति । मायाशब्दस्य मिथ्यापर्यायत्वेनानिर्वचनीयवाचित्व- मिति चेत् तदपि नास्ति। न हि सर्वत्र मायाशब्दो मिथ्याविषयः; आसुरराक्षसास्त्रादिषु सत्येष्वेव मायाशब्दप्रयोगात् । यथोक्तम्-*तेन मायासहस्र तच्छम्बरस्याशुगामिना । बालस्य रक्षता श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । देहमैकैकश्येन सूदितम् ॥ इति । अतो मायाशब्दो विचित्रार्थसर्गकराभिधायी। प्रकृतेश्च मायाशब्दाभिधानं विचित्रार्थसर्गकरत्वादेव । *अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सन्निरुद्धः इति मायाशब्दवाच्यायाः प्रकृतेविचित्रार्थसर्गकरत्वं दर्शयति । परमपुरुषस्य च तद्वत्तामात्रेण मायित्वमुच्यते; ज्ञानत्वेन । जीवस्यैव हि मायया निरोधश्श्रूयते *तस्मि- श्चान्यो मायया सन्निरुद्धः इति, *अनादिमायया सुप्तो यदा जीवः प्रबुध्यते इति च । *इन्द्रो मायाभिः पुरुरूप ईयते इत्यत्रापि विचित्राश्शक्तयोऽभिधीयन्ते । अत एव हि भूरि त्वष्टेव राजति इत्युच्यते । न हि मिथ्याभिभूतः कश्चिद्विराजते । *मम माया दुरत्यया इत्यत्रापि गुणमयीति वचनात्सैव त्रिगुणात्मिका प्रकृतिरुच्यत इति न श्रुतिभिस्सदसदनिर्वचनीयाज्ञान- प्रतिपादनम् । नाप्यैक्योपदेशानुपपत्त्या । नहि *तत्त्वमसीति जीवपरयोरैक्योपदेशे सति सर्वज्ञे सत्यसङ्कल्पे सकलजगत्सर्गस्थितिविनाशाहेतुभूते तच्छब्दावगते प्रकृते ब्रह्मणि विरुद्धाज्ञान- परिकल्पनाहेतुभूता काचिदप्यनुपपत्तिदृश्यते । ऐक्योपदेशस्तु त्वंशब्देनापि जीवशरीरकस्य ब्रह्मण एवाभिधानादुपपन्नतरः । *अनेन जीवेनाऽत्मनानुप्रविश्य नामरूपे व्याकरवाणीति सर्वस्य वस्तुनः परमात्मपर्यन्तस्यैव हि नामरूपभाक्त्वमुक्तम् । अतो न ब्रह्माज्ञान- परिकल्पनम् ॥ इति प्रमाणानुपपत्तौ अविद्यायाः श्रु तितदर्थापत्तिसिद्धत्वनिरासः । इतिहासपुराणयोरपि न ब्रह्माज्ञानवादः कचिदपि दृश्यते । ननु *ज्योतींषि विष्णुः इति ब्रह्मकमेव तत्त्वमिति प्रतिज्ञाय *ज्ञानस्वरूपो भगवान्यतोऽसौ इति शैलाब्दिधरादिभेद- भिन्नस्य जगतो ज्ञानकस्वरूपब्रह्माज्ञानविजृम्भितत्वमभिधाय श्यदा तु शुद्धं निजरूपि इति ज्ञानस्वरूपस्यैव ब्रह्मणः स्वस्वरूपावस्थितिवेलायां वस्तुभेदाभावदर्शनेनाज्ञानविजृम्भितत्वमेव स्थिरीकृत्य श्वस्त्वस्ति किम् *मही घटत्वम् इति श्लोकद्वयेन जगदुपलब्धिप्रकारेणापि वस्तु- भेदानामसत्यत्वमुपपाद्य *तस्मान्न विज्ञानमृते इति प्रतिज्ञातं ब्रह्मव्यतिरिक्तस्यासत्यत्वमुप- संहृत्य विज्ञानमेकम् इति ज्ञानस्वरूपे ब्रह्मणि भेददर्शन निमित्ताज्ञानमूलं निजकमैं वेति स्फुटीकृत्य *ज्ञानं विशुद्धम् इति ज्ञानस्वरूपस्य ब्रह्मणः स्वरूपं विशोध्य * सद्भाव एवं भवतो मयोक्तः इति ज्ञानस्वरूपस्य ब्रह्मण एव सत्यत्वं नान्यस्य; अन्यस्य चासत्यत्वमेव; तस्य भुवनादेस्सत्यत्वं व्यावहारिकमिति तत्त्वं तवोपदिष्टमिति ह्य पदेशो दृश्यते ।। नैतदेवम् । अत्र भुवनकोशस्य विस्तीर्णं स्वरूपमुक्त्वा, पूर्वमनुक्तं रूपान्तरं *संक्षेपः श्रूयतामित्यारभ्याभिधीयते । चिदचिन्मिश्रे जगति चिदंशो वाङ्मनसागोचरस्वसंवेद्यस्वरूप- भेदो ज्ञानकाकारतमा अस्पृष्टप्राकृतभेदोऽविनाशित्वेनास्तिशब्दवाच्यः । अचिदंशस्तु चिदंश- कर्मनिमित्तपरिणाम दो विनाशीति नास्तिशब्दाभिधेयः। उभयं तु परब्रह्मभूतवासुदेवशरीर- तया तदात्मकमित्येतद्रूपं संक्षेपेणात्राभिहितम् । तथाहि- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः -- *यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ॥ इत्यम्बुनो विष्णोश्शरीत्वेनाम्बुपरिणामभूतं ब्रह्माण्डमपि विष्णोः कायः, तस्य च विष्णु- रात्मेति सकलश्रुतिगततादाम्त्योपदेशोपबृहणरूपस्य सामानाधिकरण्यस्य *ज्योतींषि विष्णुः इत्यारभ्य वक्ष्यमागस्य शरीरात्मभाव एव निबन्धनमित्याह । अस्मिन् शास्त्रे पूर्वमप्येतदसकृतदुक्तम् अतानि सर्वाणि तद्वपुः तत्सर्व वै हरेस्तनुः *स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः इति । तदिदं शरीरात्मभावायत्तं तादात्म्यं सामानाधिकरण्येन व्यपदिश्यते *ज्योतींषि विष्णुरिति । अत्रास्त्यात्मकं नास्त्यात्मकं च जगदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकमित्युक्तम् । इदमस्त्यात्मकम्, इदं नास्त्या- त्मकम्, अस्य च नास्त्यात्मकत्वे हेतुरयमित्याह- *ज्ञानस्वरूपो भगवान्यतोऽसौ इति । अशेषक्षेत्रज्ञात्मनाऽवस्थितस्य भगवतो ज्ञानमेव स्वाभाविक रूपम्, न देवमनुष्यादिवस्तु रूपम् । यत एवम्, तत एवाचिद्र पदेवमनुष्यशैलाब्धिधरादयश्च तद्विज्ञानविजृम्भिता:- तस्य ज्ञानका- कारस्य सत देवाद्याकारेण स्वात्मवैविध्यानुसंधानमूला देवाद्याकारानुसंधानमूलकर्ममूला इत्यर्थः । यतश्चाचिद्वस्तु क्षेत्रज्ञकर्मानुगुणपरिणामास्पदं, ततस्तन्नास्तिशब्दाभिधेयम्, इतर- दस्तिशब्दाभिधेयमित्यर्थादुक्तं भवति । तदेव विवृणोति *यदा तु शुद्धं निजरूपीति । यदैतत् ज्ञानकाकारमात्मवस्तु देवाद्याकारेण स्वात्मनि वैविध्यानुसन्धानमूलसर्वकर्मक्षयानिर्दोषं परिशुद्धं निजरूपि भवति, तदा देवाद्याकारेणकीकृत्यात्मकल्पनामूलकर्मफलभूतास्तद्भोगार्था वस्तुषु वस्तुभेदा न भवन्ति-ये देवादिषु वस्तुष्वात्मतयाऽभिमतेषु भोग्यभूता देवमनुष्यशैलाब्धिधरादि- वस्तुभेदाः; ते तन्मूलभूतकर्मषु विनष्टेषु न भवन्तीत्यचिद्वस्तुनः कादाचित्कावस्थाविशेषयोगि- तया नास्तिशब्दाभिधेयत्वम्, इतरस्य सर्वदा निजसिद्धज्ञानकाकारत्वेन अस्तिशब्दाभिधेयत्व- मित्यर्थः । प्रतिक्षणमन्यथाभूततया कादाचित्कावस्थायोगिनोऽचिद्वस्तुनो नास्तिशब्दाभिधेयत्व- मेवेत्याह- *वस्त्वस्ति किमिति । अस्तिशब्दाभिधेयो ह्यादिमध्यपर्यन्तहीनस्सततैकरूपः पदार्थः, तस्य कदाचिदपि नास्तिबुद्धयनहत्वात् । अचिद्वस्तु किंचित् कचिदपि तथाभूतं न दृष्टचरम् । ततः किमित्यत्राह *यच्चान्यथात्वमिति । यद्वस्तु प्रतिक्षणमन्यथात्वं याति तदुत्त- रोत्तरावस्थाप्राप्त्या पूर्वपूर्वावस्थां जहातीति तस्य पूर्वावस्थस्योत्तरावस्थायां न प्रतिसंधान- मस्ति । अतस्सर्वदा तस्य नास्तिशब्दाभिधेयत्वमेव । तथाह्य पलभ्यत इत्याह *मही- घटत्वमिति । स्वकर्मणा देवमनुष्यादिभावेन स्तिमितात्मनिश्चयेस्स्वभोग्यभूतमचिद्वस्तु प्रति- क्षणमन्यथाभूतमालक्ष्यते-अनुभूयत इत्यर्थः। एवं सति किमप्यचिद्वस्त्वस्तिशब्दाहमादिमध्य- पर्यन्तहीनं सततैकरूपमालक्षितमस्ति किम् ? न ह्यस्तीत्यभिप्रायः। यस्मादेवम्, तस्मात् ज्ञानस्वरूपात्मव्यतिरिक्तमचिद्वस्तु कदाचित्वचित् केवलास्तिशब्दवाच्यं न भवतीत्याह *तस्मान्न विज्ञानमृते इति ।

५२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । आत्मा तु सर्वत्र ज्ञानकाकारतया देवादिभेदप्रत्यनीकस्वरूपोऽपि देवादिशरीरप्रवेश- हेतुभूतस्वकृतविविधकर्ममूलदेवाविभेदभिन्नात्मबुद्धिभिस्तेन तेन रूपेण बहुधाऽनुसंहित इति तद्भदानुसंधानं नात्मस्वरूपप्रयुक्तमित्याह *विज्ञानमेकमिति । आत्मस्वरूपं तु कर्मरहितम्, तत एव मलरूपप्रकृतिस्पर्शरहितम्; ततश्च तत्प्रयुक्तशोकमोहलोभावशेषहेयगुणासङ्गि, उपचयापचयानहतयकम्, तत एव सदैकरूपम्; तच्च वासुदेवशरीरमिति तदात्मकम्, अतदात्मकस्य कस्यचिदप्यभावादित्याह *ज्ञानं विशुद्धमिति । चिदंशस्सदैकरूपतया सर्वदा- ऽस्तिशब्दवाच्यः । अचिदंशस्तु क्षणपरिणामित्वेन सर्वदा नाशगर्भ इति सर्वदा नास्तिशब्दा- भिधेयः । एवंरूपचिदचिदात्मकं जगद्वासुदेवशरीरं तदात्मकमिति जगद्याथात्म्यं सम्यगुक्त- मित्याह- *सद्भाव एवमिति । अत्र सत्यम्, असत्यमिति, यदस्ति, यन्नास्तीति प्रक्रान्तस्यो. पसंहारः । एतत् ज्ञानेकाकारतया समं अशब्दगोचरस्वरूपभेदमेवाचिन्मिथ भुवनाश्रितं देवमनुष्यादिरूपेण सम्यग्व्यवहाराहभेदं यद्वर्तते; तत्र हेतुः कर्मवेत्युक्तमित्याह एतत्तु यदिति । यदेव विवृणोति- यज्ञः पशुरिति । जगद्याथात्म्यज्ञानप्रयोजनं मोक्षोपाययतनमित्याह यच्चैतदिति ॥ अत्र निविशेषे परे ब्रह्मणि तदाश्रये सदसदनिर्वचनीये चाज्ञाने, जगतस्तत्कल्पितत्वे वाऽनुगुणं किञ्चिदपि पदं न दृश्यते । अस्तिनास्तिशब्दाभिधेयं चिदचिदात्मकं कृत्स्नं जगत् परमस्य परेशस्य परस्य ब्रह्मणो विष्णोः कायत्वेन तदात्मकम्; ज्ञानकाकारस्यात्मनो देवादि- विविधाकारानुभवेऽचित्परिणामे च हेतुर्वस्तुयाथात्म्यज्ञानविरोधि क्षेत्रज्ञानां कम वेति प्रति- पादनात्; अस्तिनास्तिसत्यासत्यशब्दानां च सदसदनिर्वचनीयवस्त्वभिधानासामर्थ्याच्च । नास्त्यसत्यशब्दावस्तिसत्यशब्दविरोधिनौ। अतश्च ताभ्यामसत्त्वं हि प्रतीयते; नानिर्वचनी- यत्वम् । अत्र चाचिद्वस्तुनि नास्त्यसत्यशब्दौ न तुच्छत्वमिथ्यात्वपरौ प्रयुक्तौ; अपि तु विनाशित्वपरौ । श्वस्त्वस्ति किम् *मही घटत्वमित्यत्रापि विनाशित्वमेव ह्य पपादितम् न निष्प्रमाणकत्वं, ज्ञानबाध्यत्वं वा; एकेनाकारेणैकस्मिन् कालेऽनुभूतस्य कालान्तरे परिणाम- विशेषेणान्यथोपलब्ध्या नास्तित्वोपपादनात् । तुच्छत्वं हि प्रमाणसंबन्धानहत्वम् । बाधोऽपि यद्देशकालादिसंबन्धितया यदस्तीत्युपलब्धम्, तस्य तद्देशकालादिसंबन्धितया नास्तीत्युपलब्धिः; न तु कालान्तरे अनुभूतस्य कालान्तरे परिणामादिना नास्तीत्युपलब्धिः, कालभेदेन विरोधा- भावात् । अतो न मिथ्यात्वम् । एतदुक्तं भवति-ज्ञानस्वरूपमात्मवस्तु आदिमध्यपर्यन्तहीनं सततकस्वरूपमिति स्वत एव सदाऽस्तिशब्दवाच्यम् । अचेतनं तु क्षेत्रज्ञभोग्यभूतं तत्कर्मानुगुणपरिणामि विनाशीति सर्वदा नास्त्यर्थगर्भमिति नास्त्यसत्यशब्दाभिधेयमिति ॥ यथोक्तम् - - प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । *यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ॥ *अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नास्ति न संदेहोनाशिद्रव्योपपादितम् ॥इति।। देशकालकर्मविशेषापेक्षया अस्तित्वनास्तित्वयोगिनि वस्तुनि केवलास्तिबुद्धिबोध्यत्वम- परमार्थ इत्युक्तम् । आत्मन एव केवलास्तिबुद्धिबोध्यत्वमिति स परमार्थ इत्युक्तम् । श्रोतुश्च मैत्रेयस्य विष्ण्वाधारं यथाचैतत्त्रैलोक्यं समवस्थितम् । परमार्थश्च मे प्रोक्तो यथाज्ञानं प्रधानतः ॥ इत्यनुभाषणाच्च, *ज्योतींषि विष्णुरित्यादिसामानाधिकरण्यस्यात्मशरीरभाव एव निबन्धनम्; चिदचिद्वस्तुनोश्चास्तिनास्तिशब्दप्रयोगनिबन्धनं ज्ञानस्याकर्मनिमित्तस्वाभा- विकरूपत्वेन प्राधान्यम्, अचिद्वस्तुनश्च तत्कर्मनिमित्तपरिणामित्वेनाप्राधान्यमिति प्रतीयते ॥ इत्यविद्यायाः स्मृतिपुराणसिद्धत्वनिरास: । इतिप्रमाणानुपपत्तिः । यदुक्तं निविशेषब्रह्मविज्ञानादेवाविद्यानिवृत्ति वदन्ति श्रुतय इति । तदसत्, *वेदाह- मेतं पुरुषं महान्तम्, आदित्यवर्णं तमसः परस्तात्, तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यतेऽयनाय *सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि न तस्येशे कश्चन तस्य नाम महद्यशः भ्य एनं विदुरमृतास्ते भवन्ति इत्याद्यनेकवाक्यविरोधात् । ब्रह्मणस्तविशेषत्वादेव सर्वाण्यपि वाक्यानि सविशेषज्ञानादेव मोक्षं वदन्ति । शोधकवाक्यान्यपि सविशेषमेव ब्रह्म प्रतिपाद- यन्तीत्युक्तम् । तत्त्वमस्यादिवाक्येषु सामानाधिकरण्यं न निविशेषवस्त्वैक्यपरम्, तत्त्वंपदयो- स्सविशेषब्रह्माभिधायित्वात् । तत्पदं हि सर्वज्ञं सत्यसङ्कल्पं जगत्कारणं ब्रह्म परामृशति *तदैक्षत बहु स्यामित्यादिषु तस्यैव प्रकृतत्वात् । तत्समानाधिकरणं त्वंपदं च अचिद्विशिष्टजीव- शरीरकं ब्रह्म प्रतिपादयति, प्रकारद्वयावस्थितैकवस्नुपरत्वात्सामानाधिकरण्यस्य । प्रकारद्वय- परित्यागे प्रवृत्तिनिमित्तभेदासंभवेन सामानाधिकरण्यमेव परित्यक्तं स्यात्; द्वयोः पदयोर्लक्षणा च । सोऽयं देवदत्तः इत्यत्रापि न लक्षणा, भूतवर्तमानकालसंबन्धितयैक्यप्रतीत्यविरोधात् । देशभेदविरोधश्च कालभेदेन परिहृतः। तदैक्षत बहु स्यामित्युपक्रमविरोधश्च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं च न घटते । ज्ञानस्वरूपस्य निरस्तनिखिलदोषस्य सर्वज्ञस्य समस्त- कल्याणगुणात्मकस्याज्ञानं तत्कार्यानन्तापुरुषार्थाश्रयत्वं च भवति ।। बाधार्थत्वे च सामानाधिकरण्यस्य त्वंतत्पदयोरधिष्ठानलक्षणा निवृत्तिलक्षणा चेति लक्षणादयस्त एव दोषाः । इयांस्तु विशेषः-नेदं रजतमितिवदप्रतिपन्नस्यैव बाधस्यागत्या परिकल्पनम्; तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्च । अधिष्ठानं तु प्राक्ति- रोहितमतिरोहितस्वरूपं तत्पदेनोपस्थाप्यत इति चेन्न, प्रागधिष्ठानाप्रकाशे तदाश्रयभ्रम- बाधयोरसंभवात् । भ्रमाश्रयमधिष्ठानमतिरोहितमिति चेत्; तदेवाधिष्ठानस्वरूपं भ्रमविरोधीति तत्प्रकाशे सुतरांनतदाश्रयभ्रमबाधौ। अतोऽधिष्ठानातिरेकिपारमार्थिकधर्मतत्तिरोधानानभ्युपगमे श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । भ्रान्तिबाधौ दुरुपपादौ । अधिष्ठाने हि पुरुषमात्राकारे प्रतीयमाने तदतिरेकिणि पारमाथिके राजत्वे तिरोहिते सत्येव व्याधत्वभ्रमः । राजत्वोपदेशेन च तन्निवृत्तिर्भवति; नाधिष्टान- मात्रोपदेशेन; तस्य प्रकाशमानत्वेनानुपदेश्यत्वात्; भ्रमानुपदित्वाच्च । जीवशरीरकजगत्का- रणब्रह्मपरत्वे मुख्यवृत्तं पदद्वयम् । प्रकारद्वयविशिष्ट कवस्तुप्रतिपादनेन सामानाधिकरण्यं च सिद्धम् । निरस्तनिखिलदोषस्य समस्तकल्याणगुणात्मकस्य ब्रह्मणो जीवान्तर्यामित्वमप्यैश्वर्यम- परं प्रतिपादितं भवति । उपक्रमानुकूलता च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च । सूक्ष्मचिदचिद्वस्तुशरीरस्यैव ब्रह्मणस्स्थूलचिदचिद्वस्तुशरीरत्वेन कार्यत्वात् *तमीश्वराणां परमं महेश्वरम् *पराऽस्य शक्तिविविधैव श्रूयते *अपहतपाप्मा.. .....सत्यकामस्सत्यसङ्कल्पः इत्यादिश्रुत्यन्तराविरोधश्च । *तत्त्वमसीत्यत्रोद्देश्योपादेयविभागः कथमिति चेत्; नात्र किंचि- दुद्दिश्य किमपि विधीयते; *ऐतदात्म्यमिदं सर्वमित्यनेनैव प्राप्तत्वात् । अप्राप्त हि शास्त्रमर्थवत् । इदं सर्वमिति सजीवं जगनिदिश्य ऐतदात्म्यमिति तस्यैष आत्मेति तत्र प्रतिपादितम् । तत्र च हेतुरुक्तः सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः इति; *सर्वं खल्विदं ब्रह्म तज्जलानिति शान्तः इतिवत् ।। तथा श्रुत्यन्तराणि च ब्रह्मणस्तद्व्यतिरिक्तस्य चिदचिद्वस्तुनश्च शरीरात्मभावमेव तादात्म्यं वदन्ति *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा *यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मा- ऽन्ताम्यमृतः * य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मान- मन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः * यः पृथिवीमन्तरे संचरन्नित्यारभ्य * यस्य मृत्युश्शरीरम्, यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः *तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत्, इत्यादीनि । अत्रापि * अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरणवाणीति ब्रह्मात्मकजीवानुप्रवेशेनैव सर्वेषां वस्तुत्वं शब्दवाच्यत्वं च प्रतिपादितम् । तदनुप्रविश्य, सच्च त्यच्चाभवत् इत्यनेनैकार्थ्याज्जीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशादेवेत्यवगम्यते । अतश्चिदचिदात्मकस्य सर्वस्य वस्तुजातस्य ब्रह्म- तादात्म्यमात्मशरीरभावादेवेत्यवगम्यते । तस्मात् ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य तच्छरीरत्वेनैव वस्तुत्वात्तस्य प्रतिपादकोऽपि शब्दस्तत्पर्यन्तमेव स्वार्थमभिदधाति । अतस्सर्वशब्दानां लोक- व्युत्पत्त्यवगततत्तत्पदार्थविशिष्टब्रह्माभिधायित्वं सिद्धमिति ऐतदात्म्यमिदं सर्वमिति प्रतिज्ञा- तार्थस्य *तत्त्वमसीति सामानाधिकरण्येन विशेष उपसंहारः ॥ अतो निविशेषवस्त्वैक्यवादिनो भेदाभेदवादिनः केवलभेदवादिनश्च वैयधिकरण्येन सामानाधिकरण्येन च ब्रह्मात्मभावोपदेशास्सर्वे परित्यक्तास्स्युः । एकस्मिन्वस्तुनि कस्य प्रथमाध्याये-प्रथमपादे---जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । ५५ तादात्म्यमुपदिश्यते ? तस्यैवेति चेत् तत्स्ववाक्येनैवावगतमिति न तादात्म्योपदेशावसेयमस्ति किंचित् । कल्पितभेद निरसनमिति चेत्; तत्तु न सामानाधिकरण्यतादात्म्योपदेशावसेय- मित्युक्तम् । सामानाधिकरण्यं तु ब्रह्मणि प्रकारद्वयप्रतिपादनेन विरोधमेवावहेत् । भेदाभेदवादे तु ब्रह्मण्येवोपाधिसंसर्गात्तत्प्रयुक्ता जीवगता दोषा ब्रह्मण्येव प्रादुःष्युरिति निरस्तनिखिलदोष- कल्याणगुणात्मकब्रह्मात्मभावोपदेशा हि विरोधादेव परित्यक्तास्स्युः । स्वाभाविकभेदाभेद- वादेऽपि ब्रह्मणस्स्वत एव जीवाभ्युपगमात् गुणवद्दोषाश्च स्वाभाविका भवेयुरिति निर्दोष- ब्रह्मतादात्म्योपदेशो विरुद्ध एव । केवलभेदवादिना चात्यन्त भिन्नयोः केनापि प्रकारेणक्या- संभवादेव ब्रह्मात्मभावोपदेशा न संभवन्तीति सर्ववेदान्तपरित्यागस्यात् ।। निखिलोपनिषत्प्रसिद्धं कृत्स्नस्य ब्रह्मशरीरभावमातिष्ठमानैः कृत्स्नस्य ब्रह्मात्मभावो- पदेशास्सर्वे सम्यगुपपादिता भवन्ति । जातिगुणयोरिव द्रव्याणामपि शरीरभावेन विशेषणत्वेन 'गौरश्वो मनुष्यो देवो जातः पुरुषः कर्मभिः' इति सामानाधिकरण्यं लोकवेदयोर्मुख्यमेव दृष्टचरम् । जातिगुणयोरपि द्रव्यप्रकारत्वमेव खण्डो गौः शुक्लः पटः इति सामानाधिकरण्य- निबन्धनम् । मनुष्यत्वादिविशिष्टपिण्डानामप्यात्मनः प्रकारतयैव पदार्थत्वात् मनुष्यः पुरुषष्षण्डो योषिदात्मा जातः इति सामानाधिकरण्यं सर्वत्रानुगतमिति प्रकारत्वमेव सामाना- धिकरण्यनिबन्धनम्, न परस्परव्यावृत्ता जात्यादधः । स्वनिष्ठानामेव हि द्रव्याणां कदाचित् कचिद्रव्यविशेषणत्वे मत्वर्थीयप्रत्ययो दृष्टः, दण्डी कुण्डलीति; न पृथक् प्रतिपत्तिस्थित्यनर्हाणां द्रव्याणाम्; तेषां विशेषणत्वं सामानाधिकरण्यावसेयमेव ॥ यदि गौरवो मनुष्यो देवः पुरुषो योषित् षण्ड आत्मा कर्मभिर्जातः इत्यत्र खण्डो मुण्डो गौः, शुक्लः पटः कृष्णः पदः इति जातिगुणवदात्मप्रकारत्वं मनुष्यादिशरीराणामिष्यते; तहि जातिव्यक्त्योरिव प्रकारप्रकारिणोश्शरीरात्मनोरपि नियमेन सहप्रतिपत्तिस्स्यात् । न चैवं दृश्यते; नहि नियमेन गोत्वादिवदात्माश्रयतयैवात्मना सह मनुष्यादिशरीरं पश्यन्ति । अतो मनुष्य आत्मेति सामानाधिकरण्यं लाक्षणिकमेव । नैतदेवम्; मनुष्यादिशरीराणाम- प्यात्मैकाश्रयत्वम् यदेकप्रयोजनत्वम् तत्प्रकारत्वं च जात्यादितुल्यम् । आत्मैकाश्रयत्वमात्म- विश्लेषे शरीरस्य विनाशादवगम्यते । आत्मैकप्रयोजनत्वं च तत्कर्मफलभोगार्थतयैव सद्भावात् । तत्प्रकारत्वमपि देवो मनुष्यः इत्यात्मविशेषणतयैव प्रतीतेः । एतदेव हि गवादिशब्दानां व्यक्ति- पर्यन्तत्वे हेतुः । एतत्स्वभावविरहादेव दण्डकुण्डलादीनां विशेषणत्वे दण्डी कुण्डलीति मत्वर्थीय- प्रत्ययः । देवमनुष्यादिपिण्डानामात्मैकाश्रयत्वतदेकप्रयोजन त्वतत्प्रकारत्वस्वभावात् देवो मनुष्य आत्मा इति लोकवेदयोस्सामानाधिकरण्येन व्यवहारः । जातिव्यक्त्योनियमेन सहप्रतीति- रुभयोश्चाक्षुषत्वात् । शात्मनस्त्वचाक्षुषत्वाच्चक्षुषा शरीरग्रहणवेलायामात्मा न गृह्यते ।

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । पृथग्ग्रहणयोग्यस्य प्रकारतकस्वरूपत्वं दुर्घटमिति मा वोचः; जात्यादिवत्तदेकाश्रयत्वतदेक- प्रयोजनत्वतद्विशेषणत्वैश्शरीरस्यापि तत्प्रकारतकस्वभावत्वावगमात् । सहोपलम्भनियमस्त्वेक- सामग्रीवेद्यत्वनिबन्धन इत्युक्तम् । यथा चक्षुषा पृथिव्यादेर्गन्धरसादिसंबन्धित्वं स्वाभाविकमपि न गृह्यते; एवं चक्षुषा गृह्यमाणं शरीरमात्मप्रकारतकस्वभावमपि न तथा गृह्यते; आत्मग्रहणे चक्षुषस्सामर्थ्याभावात् । नैतावता शरीरस्य तत्प्रकारत्वस्वभावविरहः । तत्प्रकारतकस्वभावत्व- मेव सामानाधिकरण्यनिबन्धनम् । आत्मप्रकारतया प्रतिपादनसमर्थस्तु शब्दस्सहैव प्रकारतया प्रतिपादयति । ननु च शाब्देऽपि व्यवहारे शरीरशब्देन शरीरमात्रं गृह्यत इति नात्मपर्यन्तता शरीरशब्दस्य । नैवम्; आत्मप्रकारभूतस्यैव शरीरस्य पदार्थविवेकप्रदर्शनाय निरूपणा- निष्कर्षकशब्दोऽयम्; यथा गोत्वं शुक्लत्वमाकृतिगुण इत्यादिशब्दाः । अतो गवादिशब्दवद्देव- मनुष्यादिशब्दा आत्मपर्यन्ताः । एवं देवमनुष्यादिपिण्डविशिष्टानां जीवानां परमात्मशरीरतया तत्प्रकारत्वात् जीवात्मवाचिनश्शब्दाः परमात्मपर्यन्ताः । अतः परस्य ब्रह्मणः प्रकारतयैव चिदचिद्वस्तुनः पदार्थत्वमिति तत्सामानाधिकरण्येन प्रयोगः । अयमों वेदार्थसंग्रहे सथितः। इदमेव शरीरात्मभावलक्षणं तादात्म्यम् *आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति वक्ष्यति; *आत्मेत्येव तु गृह्णीयादिति च वाक्यकारः ।। अत्रेदं तत्त्वम्-अचिद्वस्तुनः चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकमाहुः काश्चन श्रुतयः- *अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सन्निरुद्धः *मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् *क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः अमृताक्षरं हर इति भोक्ता निर्दिश्यते, प्रधानमात्मनो भोग्यत्वेन हरतीति हरः। *स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः *प्रधान- क्षेत्रज्ञपतिर्गुणेशः * पति विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् * ज्ञाज्ञौ द्वावजावीशनीशौ * नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् * भोक्ता भोग्यं प्रेरितारं च मत्वा * तयोरन्यः पिप्पलं स्वादृत्ति अनश्नन्नन्यो अभिचाकशीति *पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति * अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजा जनयन्ती सरूपाम् । अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ *समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमान- मिति वीतशोकः ॥ इत्याद्याः ।। स्मृतावपि- *अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृति विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ *सर्वभूतानि कौन्तेय प्रकृति यान्ति प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ प्रकृति स्वामवष्टभ्य विसृजामि पुनःपुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ *मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते ॥ प्रकृति पुरुषं चैव विद्धयनादी उभावपि । *मम योनिमहब्रह्म तस्मिन् गर्भ दधाम्यहम् । संभवस्सर्वभूतानां ततो भवति भारत । इति । जगद्योनिभूतं महत् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्ममचिद्वस्तु यत्; तस्मिश्चेतनाख्यं गर्भं यत्संयोजयामि, ततो मत्कृताच्चिदचित्संसर्गाद्देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः ।। एवं भोक्तृभोग्यरूपेणावस्थितयोस्सर्वावस्थावस्थितय श्चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथस्थिति परमपुरुषस्य चात्मत्वमाहुः काश्चन श्रुतयः- * यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति इत्यारभ्य * य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मान- मन्तरो यमयति स त आत्माऽन्तर्याम्पमृतः इति । तथा भ्यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद इत्यारभ्य *योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युनं वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थमचिद्वस्त्वभिधीयते; अस्यामेवोपनिषदि *अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते इति वचनात; *अन्तः- प्रविष्टश्शास्ता जनानां सर्वात्मा इति च ॥ एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थ- कारणावस्थजगद्रूपेणावस्थित इतीममर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावस्थं कारणावस्थं च जगत् स एवेत्याहुः- *सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत इत्यारभ्य *सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः, ऐतदाम्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति । तथा *सोऽकामयत बहु स्यां प्रजायेयेति, स तपोऽतप्यत, स तपस्तप्त्वा, इदं सर्वमसृजत इत्यारभ्य *सत्यं चानृतं च सत्यमभवत् इत्याद्याः ॥ अत्रापि श्रुत्यन्तरसिद्धश्चिदचितोः परमपुरुषस्य च स्वरूपविवेकस्स्मारित.- *हन्ताह- मिमास्तिस्रो देवता अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणोति, *तत्सृष्ट्वा, तदेवा- नुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत्,...विज्ञानं चाविज्ञानं च, सत्यं चानृतं च सत्य- मभवदिति च । *अनेन जीवेनात्मनाऽनुप्रविश्येति जीवस्य ब्रह्मात्मकत्वं, *तदनुप्रविश्य, सच्च त्यच्चाभवत्... विज्ञानं चाविज्ञानं चेत्यनेनैकार्थ्यात् आत्मशरीरभावनिबन्धनमिति ५८ श्रीभगद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । विज्ञायते । एवंभूतमेव नामरूपव्याकरणं *तद्धेदं तमु व्याकृतमासीत्, तन्नामरूपाभ्यां व्याक्रियत इत्यत्राप्युक्तम् । अतः कार्यावस्थः कारणावस्यश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयकविज्ञानेन सर्व- विज्ञानं समीहितमुपपन्नतरम् । *अहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति, तिस्रो देवता इति सर्वमचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नाम- रूपव्याकरणवचनात्, सर्वे वाचकाशब्दाः अचिद्विशिष्टजीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनश्शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् ॥ अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्म व कार्य कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरकं ब्रह्म व कारणमिति ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन चिद- चितोब्रह्मणश्च स्वभावासकरोऽप्युपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वेऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायामपि न सर्वत्र वर्णसङ्करः; तथा चिदचिदीश्वरसंघातोपादनत्वेऽपि जगतः कार्यावस्थायामपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्य- सङ्करः। तन्तूनां पृथक्स्थितियोग्यानामेव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वं च । इह तु चिदचितोस्सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात्तत्प्रकारः परमपुरुषस्सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदस्तदसङ्करश्च तत्र चात्र न तुल्यः । एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावादविकृतत्वमुपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुन आत्मतयाऽवस्थानात्कार्यत्वमप्युपपन्न- तरम् । अवस्थान्तरापत्तिरेव हि कार्यता। निर्गुणवादश्च परस्य ब्रह्मणो हेयगुणासंबन्धादुप- पद्यन्ते । *अपहतपाप्मा विजरो विमृत्युविशोको विजिघत्सोऽपिपास इति हेयगुणान् प्रतिषिध्य *सत्यकामस्सत्यसङ्कल्प इति कल्याणगुणान्विदधती इयं श्रुतिरेवान्यत्र सामान्येनावगतं गुण- निषेधं हेयगुणविषयं व्यवस्थापयति । ज्ञानस्वरूपं ब्रह्मति वादश्च सर्वज्ञस्य सर्वशक्तॊनखिल- हेयप्रत्यनोककल्याणगुणाकरस्थ ब्रह्मणस्स्वरूपं ज्ञानकनिरूपणीयं स्वयंप्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतरः। *यस्सर्वज्ञस्सर्ववित् अपराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च अविज्ञातारमरे केन विजानीयादित्यादिकाः ज्ञातृत्वमावेदयन्ति; *सत्यं ज्ञानमित्यादिकाश्च ज्ञानकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् । *सोऽकायमत बहु स्याम् तदैक्षत बहु स्याम् तन्नामरूपाभ्यां व्याक्रियतेति ब्रह्मैव स्वसङ्कल्पाद्विचित्रस्थिरत्र- सरूपतया नानाप्रकारमवस्थितमिति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वमतत्त्वमिति तत्प्रति- षिध्यते *मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति *नेह नानाऽस्ति किञ्चन श्यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्तत्केन के विजानीयादित्यादिना। न पुनः *बहु स्यां प्रजायेयेत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे महासिद्धान्ते सप्तविधानुपपत्तयः । ५६ नानानामरूपभाक्त्वेन नानाप्रकारत्वमपि निषिध्यते । यत्र त्वस्य सर्वमात्मैवाभूदित्यादि- निषेधवाक्यादौ च तत्स्थापितम् * सर्व तं परादाद्योऽन्यत्रात्मनस्सर्वं वेद *तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः इत्यादिना ।। एवं चिदचिदीश्वराणां स्वभावभेदं स्वरूपभेदं च वदन्तीनां कार्यकारणभावं कार्य- कारणयोरनन्यत्वं च वदन्तीनां सर्वासां श्रुतीनामविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानहसूक्ष्मदशापत्ति कार्यदशायां च तदर्हस्थूलदशापत्ति वदन्तीभिश्श्रुतिभिरेव ज्ञायत इति ब्रह्माज्ञानवादस्यौपाधिकब्रह्मभेदवादस्या- न्यस्याप्यपन्यायमूलस्य सकलच तिविरुद्धस्य न कथश्विदप्यवकाशो दृश्यते । चिदचिदोश्वराणां पृथक्स्वभावतया तत्तच्छ्र तिसिद्धानां शरीरात्मभावेन प्रकारप्रकारितया श्रुतिभिरेव प्रति- पन्नानां श्रुत्यन्तरेण कार्यकारणभावप्रतिपादन कार्यकारणयोरैक्यप्रतिपादनं च ह्यविरुद्धम् । यथा-आग्नेयादीन् षड्यागानुत्पत्तिवाक्यैः पृथगुत्पन्नान् समुदायानुवादिवाक्यद्वयेन समुदाय- द्वयत्वमापन्नान् *दर्शपूर्णमासाभ्यामित्याधिकारवाक्यं कामिनः कर्तव्यतया विदधाति; तथा चिदचिदीश्वरान्विविक्तस्वरूपस्वभावान् *क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः पति विश्वस्यात्मेश्वरम् *आत्मा नारायणः परः इत्यादिवाक्यैः पृथक् प्रतिपाद्य श्यस्य पृथिवी शरीरम् *यस्यात्मा शरीरम् *यस्याव्यक्तं शरीरम्, यस्याक्षरं शरीरम्, एष सर्व- भूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इत्यादिभिर्वाक्यश्चिदचितोस्सर्वावस्था- वस्थितयोः परमात्मशरीरतां परमात्मनस्तदात्मतां च प्रतिपाद्य शरीरिभूतपरमात्माभिधायि- भिस्सद्ब्रह्मात्मादिशब्दैः कारणवस्थः कार्यावस्थश्च परमात्मैक एवेति पृथक्प्रतिपन्न वस्तु- त्रितयं *सदेव सोम्येदमन आसीत् *ऐतदात्म्यमिदं सर्वम् *सर्वं खल्विदं ब्रह्म इत्यादिवाक्यं प्रतिपादयति । चिचिद्वस्तुशरीरिणः परमात्मनः परमात्मशब्देनाभिधाने हि नास्ति विरोधः; यथा मनुष्यपिण्डशरीरकस्यात्मविशेषस्य अयमात्मा सुखीत्यात्मशब्देनाभिधान इत्यलमति- विस्तरेण ॥ इति निवर्तकानुपपत्तिः । यत्पुनरिदमुक्तम् ब्रह्मात्मैकत्वविज्ञानेनैवाविद्यानिवृत्तिर्युक्तति, तदयुक्तम्, बन्धस्य पारमार्थिकत्वेन ज्ञाननिवर्त्यत्वाभावात् । पुण्यापुण्यरूपकर्मनिमित्तदेवादिशरीरप्रवेशतत्प्रयुक्त- सुखदुःखानुभवरूपस्य बन्धस्य मिथ्यात्वं कथमिव शक्यते ? एवंरूपबन्धनिवृत्तिर्भक्ति- रूपापन्नोपासनप्रीतपरमपुरुषप्रसादलभ्येति पूर्वमेवोक्तम् । भवदभिमतस्यैक्यज्ञानस्य यथा- वस्थितवस्तुविपरीतविषयस्य मिथ्यारूपत्वेन बन्धविवृद्धिरेव फलं भवति, *मिथ्यैतदन्यद्- द्रव्यं हि नैति तद्रव्यतां यतः इति शास्त्रात्; *उत्तमः पुरुषस्त्वन्यः पृथगात्मानं प्रेरितारं च मत्वा इति जीवात्मविसजातीयस्य तदन्तर्यामिणो ब्रह्मणो ज्ञानं परमपुरुषार्थलक्षणमोक्ष- वक्तुम ६० श्रीभगवद्रामानुजग्रन्थमालायां शाररिकमीमांसाभाष्यम् । ? अध्यासरूप - ? साधनमित्युपदेशाच्च । अपिच भवदभिमतस्यापि निवर्तकज्ञानस्य मिथ्यारूपत्वात्तस्य निवर्त- कान्तरं मृग्यम् । निवर्तकज्ञानमिदं स्वविरोधि सर्व भेदजातं निवर्त्य क्षणिकत्वात्स्वयमेव नश्यतीति चेन्न; तत्स्वरूपतदुत्पत्तिविनाशानां काल्पनिकत्वेन विनाशतत्कल्पनाकल्पकरूपा- विद्याया निवर्तकान्तरमन्वेषणीयम् । तद्विनाशो ब्रह्मस्वरूपमेवेति चेत्; तथा सति निवर्तक- ज्ञानोत्पत्तिरेव न स्यात्, तद्विनाशे तिष्ठति तदुत्पत्त्यसंभवात् ॥ अपिच चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्न निषेधविषयज्ञानस्य कोऽयं ज्ञाता इति चेन्न; तस्य निषेध्यतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः । ब्रह्मस्वरूपमिति चेत्; ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं कि स्वरूपम्; उताध्यस्तम् अध्यस्तं चेत्, अयमध्यास- स्तन्मूलाविद्यान्तरं च निवर्तकज्ञानाविषयतया तिष्ठत्येव । निवर्तकज्ञानान्तराम्युपगमे तस्यापि त्रिरूपत्वात् ज्ञात्रपेक्षयाऽनवस्था स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वेऽस्मदीय एव पक्षः परिगृहीत- स्स्यात् । निवर्तकज्ञानस्वरूपं स्वस्य ज्ञाता च ब्रह्मव्यतिरिक्तत्वेन स्वनिवर्त्यान्तर्गतमिति वचनं 'भूतलव्यतिरिक्तं कृत्स्नं देवदत्तेन च्छिन्नम्' इत्यस्यामेव च्छेदनक्रियायामस्य च्छेत्तुरस्याश्छेदन- क्रियायाश्च च्छेद्यानुप्रवेशवचनवदुपहास्यम् । अध्यस्तो ज्ञाता स्वनाशहेतुभूनिवर्तकज्ञाने स्वयं कर्ता च न भवति, स्वनाशस्यापुरुषार्थत्वात् तन्नाशस्य ब्रह्मस्वरूपत्वाभ्युपगमे भेददर्शन- तन्मूलाविद्यादीनां कल्पनमेव न स्यात् । इत्यलमनेन दिष्टहतमुद्गराभिघातेन ।। इति निवृत्त्यनुपपत्तिः । तस्मादनादिकर्मप्रवाहरूपाज्ञानमूलत्वाद्बन्धस्य तन्निबर्हणमुक्तलक्षणज्ञानादेव । तदुत्पत्तिश्चाहरहरनुष्ठीयमानपरमपुरुषाराधनवेषात्मयाथात्म्यबुद्धिविशेषसंस्कृतवर्णाश्रमोचित- कर्मलभ्या । तत्र केवलकर्मणामल्पास्थिरफलत्वम्, अनभिसंहितफलपरमपुरुषाराधनवेषाणां कर्मणाम् उपासनात्मकज्ञानोत्पत्तिद्वारेण ब्रह्मयाथात्म्यानुभवरूपानन्तस्थिरफलत्वं च कर्म- स्वरूपज्ञानाहते न ज्ञायते; केवलाकारपरित्यागपूर्वकयथोक्तस्वरूपकर्मोपादानं च न संभवतीति कर्मविचारानन्तरं तत एव हेतोः ब्रह्मविचारः कर्तव्य इति *अथात इत्युक्तम् ।। इति महासिद्धान्तः। [ अथ सूत्राकाराभिमतसूत्रार्थयोजनारम्भः ] तत्र पूर्वपक्षवादी मन्यते-वृद्धव्यवहारादन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणा- संभवात्, व्यवहारस्य च कार्यबुद्धिपूर्वकत्वेन कार्यार्थ एव शब्दस्य प्रामाण्यमिति कार्यरूप एव वेदार्थः । अतो न वेदान्ताः परिनिष्पन्ने परे ब्रह्मणि प्रमाणभावमनुभवितुमर्हन्ति । न च पुत्र- जन्मादिसिद्धवस्तुविषयवाक्येषु हर्षहेतूनां कालत्रयवर्तिनामर्थानामानन्त्यात् सुलग्नसुख- प्रसवादिहर्षहेत्वर्थान्तरोपनिपातसंभावनया च प्रियार्थप्रतिपत्तिनिमित्तमुखविकासादिलिङ्गेनार्थ- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे अधिकरणसिद्धान्तः । ६१ विशेषबुद्धिहेतुत्वनिश्चयः; नापि व्युत्पन्नेतरपदविभक्त्यर्थस्य पदान्तरार्थनिश्चयेन प्रकृत्यर्थ- निश्चयेन वा शब्दस्य सिद्धवस्तुन्यभिधानशक्तिनिश्चयः; ज्ञातकार्याभिधायिपदसमुदायस्य तदंशविशेषनिश्चयरूपत्वात्तस्य । न च सद्धिीतस्य नायं सो रज्जुरेषेति शब्दश्रवणसमनन्तरं भयनिवृत्तिदर्शनेन साभावबुद्धिहेतुत्वनिश्चयः; अत्रापि निश्चेष्टं निविषमचेतनमिदं वस्त्वित्याद्यर्थबोधेषु बहुषु भयनिवृत्तिहेतुषु सत्सु विशेषनिश्चयायोगात् । कार्यबुद्धिप्रवृत्तिव्याप्तिबलेन शब्दस्य प्रवर्त- कार्थावबोधित्वमवगतमिति सर्वपदानां कार्यपरत्वेन सर्वैः पदैः कार्यस्यैव विशिष्टस्य प्रतिपाद- नान्नान्यान्वितस्वार्थमात्रे पदशक्तिनिश्चयः । इष्टसाधनताबुद्धिस्तु कार्यबुद्धिद्वारेण प्रवृत्तिहेतुः; न स्वरूपेण, अतीतानागतवर्तमानेष्ट पायबुद्धिषु प्रवृत्त्यनुपलब्धेः । इष्टोपायो हि मत्प्रयत्नादृते न सिध्यति; अतो मत्कृतिसाध्य इति बुद्धिर्यावन्न जायते, तावन्न प्रवर्तते। अतः कार्यबुद्धिरेव प्रवृत्तिहेतुरिति प्रवर्तकस्यैव शब्दवाच्यतया कार्यस्यैव वेदवेद्यत्वात्परिनिष्पन्नरूपब्रह्मप्राप्ति- लक्षणानन्तस्थिरफलाप्रतिपत्तेः, *अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवतीत्यादिभिः कर्मणामेव स्थिरफलत्वप्रतिपादनाच्च कर्मफलाल्पास्थिरत्वब्रह्मज्ञानफलानन्तस्थिरत्वज्ञानहेतुको ब्रह्मविचारारम्भो न युक्तः-इति ।। अत्राभिधीयते- निखिललोकविदितशब्दार्थसंबन्धावधारणप्रकारमपनुद्य सर्वशब्दा- नामलौकिकैकार्थावबोधित्वावधारणं प्रामाणिका न बहु मन्वते । एवं किल बालाश्शब्दार्थ संबन्धमवधारयन्ति-मातापितृप्रभृतिभिरम्बातातमातुलादीन् शशिपशुनरमृगपक्षिसादींश्च एनमवेहि इमं चावधारयेत्यभिप्रायेण अगुल्या निर्दिश्य निदिश्य तैस्तश्शब्देस्तेषुतेष्वर्थेषु बहुशशिक्षिताश्शनश्शनैस्तैस्तैरेव शब्दस्तेषुतेष्वर्थेषु स्वात्मनां बुद्धयुत्पत्ति दृष्ट्वा शब्दार्थ- योस्संबन्धान्तरादर्शनात्संकेतयितृपुरुषाज्ञानाच्च तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्व- निबन्धन इति निश्चिन्वन्ति । पुनश्च व्युत्पन्नेतरशब्देषु अस्य शब्दस्यायमर्थ इति पूर्ववृद्ध- शिक्षितास्सर्वशब्दानामर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधि वाक्यजातं प्रयुञ्जते ।। प्रकारान्तरेणापि शब्दार्थसंबन्धावधारणं सुशकम्-केनचित्पुरुषेण हस्तचेष्टादिना पिता ते सुखमास्ते इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तः 'पिता ते सुखमास्ते' इति शब्दं प्रयुङ्क्ते । पार्श्वस्थोऽन्यो व्युत्पित्सुर्मूकवच्चेष्टाविशेषज्ञस्तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वाऽनुगतस्तज्ज्ञापनाय प्रयुक्त मिमं शब्दं श्रुत्वा अयं शब्दस्तदर्थबुद्धिहेतुरिति निश्चिनोतीति कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धो निनिबन्धनः । अतो वेदान्ताः परिनिष्पन्न परं ब्रह्म, तदुपासनं चापरिमितफलं बोधयन्तीति तन्निर्णयफलो ब्रह्मविचारः कर्तव्यः॥ कार्यार्थत्वेऽपि वेदस्य ब्रह्मविचारः कर्तव्य एव । कथम् ?. *आत्मा वा अरे द्रष्टव्य- ६२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । श्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः *सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः *विज्ञाय प्रज्ञां कुर्वीत *दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यम् तत्रापि दह गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् इत्यादिभिः प्रतिपन्नोपासनविषयकार्याधिकृत- फलत्वेन ब्रह्मविदाप्नोति परमित्यादिभिर्ब्रह्मप्राप्तिश्श्र यत इति ब्रह्मस्वरूपतद्विशेषणानां दुःखासंभिन्न देशविशेषस्वरूपस्वर्गादिवत्, रात्रिसत्रप्रतिष्ठावत्, अपगोरणशतयातनासाध्यसाधन- भाववच्च, कार्योपयोगितयैव सिद्धः॥ गामानयेत्यादिष्वपि वाक्येषु न कार्यार्थे व्युत्पत्तिः; भवदभिमतकार्यस्य दुनिरूपत्वात् । कृतिभावभावि कृत्युद्देश्यं हि भवतः कार्यम् । कृत्युद्देश्यत्वं च कृतिकर्मत्वं, कृतिकर्मत्वंच कृत्या प्राप्तुमिष्टतमत्वम् । इष्टतमं च सुखं वर्तमानदुःखस्य तन्निवृत्तिर्वा । तत्रेष्टसुखादिना पुरुषेण स्वप्रयत्नादृते यदि तदसिद्धिः प्रतीता, ततः प्रयत्नेच्छुः प्रवर्तते पुरुष इति न कचिद- पीच्छाविषयस्य कृत्यधीनसिद्धित्वमन्तरेण कृत्युद्देश्यत्वं नाम किञ्चिदप्युपलभ्यते । इच्छाविष- यस्य प्रेरकत्वं च प्रयत्नाधोनसिद्धित्वमेव, तत एव प्रवृत्तेः । न च पुरुषानुकूलत्वम् कृत्युद्देश्यत्वं; यतस्सुखमेव पुरुषानुकूलम् । न च दुःखनिवृत्तेः पुरुषानुकूलत्वं पुरुषानुकूलं सुखं तत्प्रतिकूलं दुःखमिति हि सुखदुःखयोस्स्वरूपविवेकः । दुःखस्य प्रतिकूलतया तन्निवृत्तिरिष्टा भवति; नानु- कूलतया। अनुकूलप्रतिकूलान्वयविरहे स्वरूपेणावस्थितिहि दुःखनिवृत्तिः। अतस्सुखव्यति- रिक्तस्य क्रियादेरनुकूलत्वं न संभवति । न सुखार्थतया तस्याप्यनुकूलत्वम्; दुःखात्मकत्वात्तस्य । सुखार्थतयाऽपि तदुपादानेच्छामात्रमेव भवति ।। न च कृति प्रति शेषित्वं कृत्युद्देश्यत्वम्, भवत्पक्षे शेषित्वस्यानिरूपणात् । न च परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वं शेषत्वमिति तत्प्रतिसंबन्धी शेषीत्यवगम्यते, तथा सति कृतेर- शेषत्वेन तां प्रति तत्साध्यस्य शेषित्वाभावात् । न च परोद्देशप्रवृत्त्यर्हतायाश्शेषत्वेन परश्शेषी; उद्देश्यत्वस्यैव निरूप्यमाणत्वात्, प्रधानस्यापि भृत्योद्देशप्रवृत्त्यर्हत्वदर्शनाच्च । प्रधानस्तु भृत्य- पोषणेऽपि स्वोद्देशेन प्रवर्तत इति चेन्न, भृत्योऽपि हि प्रधानपोषणे स्वोद्देशेनैव प्रवर्तते । कार्यस्वरूपस्यैवानिरूपणात्, कार्यप्रतिसंबन्धी शेषः तत्प्रतिसंबन्धी शेषी इत्यप्यसङ्गतम् । नापि कृतिप्रयोजनत्वं कृत्युद्देश्यत्वम्, पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम् । स चेच्छाविषयः । तस्मादिष्टत्वातिरेकिकृत्युद्देश्यत्वानिरूपणात् कृतिसाध्यताकृतिप्रधानत्वरूपं कार्य दुनिरूपमेव ॥ नियोगस्यापि साक्षादिषिविषयभूतसुखदुःखनिवृत्तिभ्यामन्यत्वात्तत्साधनतयैवेष्टत्वं कृतिसाध्यत्वं च । अत एव हि तस्य क्रियातिरिक्तता; अन्यथा क्रियैव कार्य स्यात्; स्वर्गकाम- पदसमभिव्याहारानुगुण्येन लिङादिवाच्यं कार्यं स्वर्गसाधनमेवेति क्षणभङ्गिकर्मातिरेकि स्थिरं प्रथमाध्याये--प्रथमपादे-जन्माद्यधिकरणम् २ । ६३ 3ORD ? ? स्वर्गसाधनमपूर्वमेव कार्यमिति स्वर्गसाधनतोल्लेखेनैव ह्यपूर्वव्युत्पत्तिः । अतः प्रथममनन्यार्थ- तया प्रतिपन्नस्य कार्यस्यानन्यार्थत्वनिर्वहणायापूर्वमेवपश्चात्स्वर्गसाधनं भवतीत्युपहास्यम्, स्वर्गकामपदान्वितकार्याभिधायिपदेन प्रथममप्यनन्यार्थतानभिधानात्, सुखदुःखनिवृत्ति- तत्साधनेभ्योऽन्यस्यानन्यार्थस्य कृतिसाध्यताप्रतीत्यनुपपत्तेश्च ॥ अपिच किमिदं नियोगस्य प्रयोजनत्वम् ? सुखवनियोगस्याप्यनुकूलत्वमेवेति चेत्, कि नियोगस्सुखम् ? सुखमेव ह्यनुकूलम् । सुखविशेषवनियोगापरपर्यायं विलक्षणं सुखान्तर- मिति चेत्; किं तत्र प्रमाणभिति वक्तव्यम् । स्वानुभवश्चेत्, न; विषयविशेषानुभवसुखवन्नि- योगानुभवसुखमिदमिति भवताऽपि नानुभूयते । शास्त्रेण नियोगस्य पुरुषार्थतया प्रतिपादनात् पश्चात्तु भोक्ष्यत इति चेत्; किं तन्नियोगस्य पुरुषार्थत्ववाचि शास्त्रम् ? न तावल्लौकिकं वाक्यम्; तस्य दुःखात्मकक्रियाविषयत्वात्, तेन सुखादिसाधनतयैव कृतिसाध्यतामात्रप्रति- पादनात् । नापि वैदिकं, तेनापि स्वर्गादिसाधनतयैव कार्यस्य प्रतिपादनात् । नापि नित्य- नैमित्तिकशास्त्रम्; तस्यापि तदभिधायित्वं स्वर्गकामवाक्यस्थापूर्वव्युत्पत्तिपूर्वकमित्युक्तरीत्या तेनापि सुखादिसाधनकार्याभिधानमवर्जनीयम् । नियतैहिकफलस्य कर्मणोऽनुष्ठितस्य फलत्वेन तदानीमनुभूयमानान्नाद्यारोगतादिव्यतिरेकेण नियोगल्यसुखानुभवानुपलब्धेश्च नियोगस्सुख- मित्यत्र न किंचन प्रमाणमुपलभामहे । अर्थवादादिष्वपि स्वर्गादिसुखप्रकारकीर्तनवन्नियोग- रूपसुखप्रकारकीर्तनं भवतामपि न दृष्टचरम् ॥ अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासनसिद्धमेव लिङादेर्वाच्यमित्यध्यवसीयते । धात्वर्थस्य च यागादेरग्न्यादिदेवतान्तर्यामिपरमपुरुषसमा- राधनरूपता, समाराधितात्परमपुरुषात्फलसिद्धिश्चेति *फलमत उपपत्तेरित्यत्र प्रतिपाद- यिष्यते। अतो वेदान्ताः परिनिष्पन्न परं ब्रह्म बोधयन्तीति ब्रह्मोपासनफलानन्त्यं स्थिरत्वं च सिद्धम् । चातुर्मास्यादिकर्मस्वपि केवलस्य कर्मणः क्षयिफलत्वोपदेशादक्षयफलश्रवणं *वायुश्चान्तरिक्षं चैतदमृतमित्यादिवदापेक्षिकं मन्तव्यम् । अतः केवलानां कर्मणामल्पास्थिर- फलत्वात्, ब्रह्मज्ञानस्य चानन्तस्थिरफलत्वात्तनिर्णयफलो ब्रह्मविचारारम्भो युक्त इति स्थितम् ॥ १ ॥ इति जिज्ञासाधिकरणम् ॥ १ ॥ अथ जन्माद्यधिकरणम् २० किं पुनस्तद्ब्रह्म यजिज्ञास्यमुच्यत इत्यत्राह - २ जन्माद्यस्य यतः ॥ १-१-२ ।। जन्मादोति सृष्टिस्थितिप्रलयम् । तद्गुणसंविज्ञानो बहुव्रीहिः । अस्य-अचिन्त्य- विविधविचित्ररचना नियतदेशकालफलभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रितस्य जगतः, श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । यतः यस्मात् सर्वेश्वरात् निखिलहेयप्रत्यनीकस्वरूपात् सत्यसंकल्पात् ज्ञानानन्दाद्यनन्त- कल्याणगुणात् सर्वज्ञात् सर्वशक्तेः परमकारुणिकात् परस्मात्पुंसः सृष्टिस्थितिप्रलयाः प्रवर्तन्ते तद्ब्रह्मेति सूत्रार्थः ॥ *भृगुः वारुणिः, वरुणं पितरमुपससार, अधीहि भगवो ब्रह्म, इत्यारभ्य, श्यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्मेति श्रूयते । तत्र संशयः- किमस्माद्वाक्याद्ब्रह्म लक्षणतः प्रतिपत्तुं शक्यते न वेति । किं प्राप्तम् ? न शक्यमिति । न तावज्जन्मादयो विशेषणत्वेन ब्रह्म लक्षयन्ति, अनेकविशेषण- व्यावृत्तत्वेन ब्रह्म गोऽनेकत्वप्रसक्तेः विशेषणत्वं हि व्यावर्तकत्वम् । ननु देवदत्तश्श्यामो युवा लोहिताक्षस्समपरिमाण इत्यत्र विशेषणबहुँत्वेऽपि एक एव देवदत्तः प्रतीयते; एवमत्राप्येकमेव ब्रह्म भवति । नैवम्; तत्र प्रमाणान्तरेणक्यप्रतीतेरेकस्मिन्नेव विशेषणानामुपसंहारः अन्यथा तत्रापि व्यावर्तकत्वेनानेकत्वमपरिहार्यम् । अत्र त्वनेनैव विशेषणेन लिलक्षयिषितत्वात् ब्रह्मणः प्रमाणान्तरेणैक्यमनवगतमिति व्यावर्तकभेदेन ब्रह्मबहुत्वमवर्जनीयम् ।। ब्रह्मशब्दक्यादत्राप्यैक्यं प्रतीयत इति चेन्न। अज्ञातगोव्यक्तेजिज्ञासोः पुरुषस्य खण्डो मुण्डः पूर्णशृङ्गो गौरित्युक्ते गोपदैक्येऽपि खण्डत्वादिव्यावर्तकभेदेन गोव्यक्तिबहुत्वप्रत तेः ब्रह्मव्यक्तयोऽपि बह्वयस्स्युः । अत एव लिलक्षयिषिते वस्तुन्येषां विशेषणानां संभूय लक्षणत्व- मप्यनुपपन्नम् । नाप्युपलक्षणत्वेन लक्षयन्ति, आकारान्तराप्रतिपत्तेः। उपलक्षणानामेकेना- कारेण प्रतिपन्नस्य केनचिदाकारान्तरेण प्रतिपत्तिहेतुत्वं हि दृष्टम्- यत्रायं सारसस्स देवदत्त- केदार इत्यादिषु । ननु च *सत्यं ज्ञानमनन्तं ब्रह्मेति प्रतिपन्नाकारस्य जगज्जन्मादीन्युप- लक्षणानि भवन्ति । न; इतरेतरप्रतिपन्नाकारापेक्षत्वेन उभयोर्लक्षणवाक्ययोरन्योन्याश्रयणात् । अतो न लक्षणतो ब्रह्म प्रतिपत्तुं शक्यत इति ॥ एवं प्राप्त ऽभिधीयते-जगत्सृष्टिस्थितिप्रलयरुपलक्षणभूतैर्ब्रह्म प्रतिपत्तुं शक्यते । नचोपलक्षणोपलक्ष्याकारव्यतिरिक्ताकारान्तराप्रतिपत्तेब्रह्माप्रतिपत्तिः । उपलक्ष्यं ह्यनवधिका- तिशयबृहत् बृहणं च; बृहतेर्धातोस्तदर्थत्वात् । तदुपलक्षणभूताश्च जगज्जन्मस्थितिलयाः । यतो येन यदिति प्रसिद्धवनिर्देशेन यथाप्रसिद्धि जन्मादिकारणमनद्यते । प्रसिद्धिश्च *सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजतेत्येकस्यैव सच्छब्दवाच्यस्य निमित्तोपादानरूपकारणत्वेन । तदपि *सदेवेदमन एकमेवासीदित्युपादानतां प्रतिपाद्य * अद्वितीयमित्यधिष्ठात्रन्तरं प्रतिषिध्य तदक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृज- येकस्यैव प्रतिपादनात् । तस्माद्यन्मूला जगज्जन्मस्थितिलयास्तद्ब्रह्मति जन्मस्थितिलयाः स्वनिमित्तोपादानभूतं वस्तु ब्रह्मति लक्षयन्ति । जगन्निमित्तोपादनताक्षिप्तसर्वज्ञत्वसत्य- प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणे शास्त्रयोनित्वाधिकरणम् ३ । ६५ सङ्कल्पत्वविचित्रशक्तित्वाद्याकारबृहत्त्वेन प्रतिपन्नं ब्रह्मति च जन्मादीनां तथा प्रतिपन्नस्य लक्षणत्वेन नाकारान्तराप्रतिपत्तिरूपानुपपत्तिः॥ जगज्जन्मादीनां विशेषणतया लक्षणत्वेऽपि न कश्चिद्दोषः । लक्षणभूतान्यपि विशेषणानि स्वविरोधिव्यावृत्तं वस्तु लक्षयन्ति । अज्ञातस्वरूपे वस्तुन्येकस्मिन् लिलक्षयि- षितेऽपि परस्पराविरोध्यनेकविशेषणलक्षणत्वं न भेदमापादयति । विशेषणानामेकाश्रयतया प्रतीतेरेकस्मिन्नेवोपसंहारात् । खण्डत्यादयस्तु विरोधादेव गोव्यक्तिभेदमापादयन्ति । अत्र तु कालभेदेन जन्मादीनां न विरोधः । *यतो वा इमानि भूतानि जायन्त इत्यादिकारणवाक्येन प्रतिपन्नस्य जगज्जन्मादिकारणस्य ब्रह्मणस्सकलेतरव्यावृत्तं स्वरूपमभिधीयते *सत्यं ज्ञान- मनन्तं ब्रह्मति । तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माह। तेन विकारास्पदमचेतनं तत्संसृष्टश्चतनश्च व्यावृत्तः; नामान्तरभजनाविस्थान्तरयोगेन तयोनिरुपाधिकसत्तायोग- रहितत्वात् । ज्ञानपदं नित्यासंकुचितज्ञानकाकार माह । तेन कदाचित्संकुचितज्ञानत्वेन मुक्ता व्यावृत्ताः । अनन्तपदं देशकालवस्तुपरिच्छेदरहितं स्वरूपमाह । सगुणत्वात्स्वरूपस्य स्वरूपेण गुणैश्चानन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणास्सातिशयस्वरूपस्वगुणा नित्या व्यावृत्ताः; विशेषणानां व्यावर्तकत्वात् । ततः *सत्यं ज्ञानमनन्तं ब्रह्मत्यनेन वाक्येन जगज्जन्मादिनाऽवगतस्वरूपं ब्रह्म सकलेतरवस्तुविसजातीयमिति लक्ष्यत इति नान्योन्या- श्रयणम् । अतस्सकलजगज्जन्मादिकारणं निरवद्यं सर्वज्ञं सत्यसङ्कल्पं सर्वशक्ति ब्रह्म लक्षणतः प्रतिपत्तुं शक्यत इति सिद्धम् ।। ये तु निविशेषवस्तु जिज्ञास्यमिति वदन्ति, तन्मते ब्रह्मजिज्ञासा, *जन्माद्यस्य यतः इत्यसंगतं स्यात्; निरतिशयबृहत् बृहणं च ब्रह्मति निर्वचनात्, तच्च ब्रह्म जगज्जन्मादि- कारणमिति वचनाच्च । एवमुत्तरेष्वपि सूत्रगणेषु सूत्रोदाहतश्रुतिगणेषु च ईक्षणाद्यन्वय- दर्शनात् सूत्राणि सूत्रोदाहृतश्रुतयश्च न तत्र प्रमाणम् । तर्कश्च साध्यधर्माव्यभिचारिसाधन- धर्मान्वितवस्तुविषयत्वान्न निविशेषवस्तुनि प्रमाणम् । जगज्जन्मादिभ्रमो यतस्तद्ब्रह्मति स्वोत्प्रेक्षापक्षेऽपि न निविशेषवस्तुसिद्धिः; भ्रममूलमज्ञानम्, अज्ञानसाक्षि ब्रह्मेत्यभ्युपगमात् । साक्षित्वं हि प्रकाशैकरसतयैव च्यते । प्रकाशत्वं तु जडाव्यावर्तकं स्वस्य परस्य च व्यवहार- योग्यतापादस्वभावेन भवति । तथा सति सविशेषत्वम् । तदभावे प्रकाशतैव न स्यात्; तुच्छतैव स्थात् ॥ इति जन्माद्यधिकरणम् ॥२॥ * * अथ शास्त्रयोनित्वाधिकरणम् ३ * जगज्जन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तदयुक्तम्; तद्धि न वाक्यप्रतिपाद्यम् । अनुमानेन सिद्धः इत्याशङ्कयाह- - श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । न ३. शास्त्रयोनित्वात् ॥ १-१-३॥ शास्त्रं यस्य योनिः- कारणं, प्रमाणन्, तच्छास्रयोनि; तस्य भावशास्त्रयोनित्वम् तस्मात् । ब्रह्मज्ञानकारणत्वाच्छास्त्रस्य तद्योनित्वं ब्रह्मणः । अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादि- प्रमाणाविषयतया ब्रह्मणशास्त्रैकप्रमाणकत्वादुक्तस्वरूपं ब्रह्म श्यतो वा इमानि भूतानीत्यादि- वाक्यं बोधयत्येवेत्यर्थः॥ ननु शास्त्रयोनित्वं ब्रह्मणो न संभवति, प्रमाणान्तरवेद्यत्वाद्ब्रह्मणः; अप्राप्त तु शास्त्र- मर्थवत् । कि तहि तत्र प्रमाणम् ? न तावत्प्रत्यक्षम् । तद्धि द्विविधम्-इन्द्रियसंभवं योगसंभवं चेति । इन्द्रियसंभवं च बाह्यसंभवमान्तरसंभवं चेति द्विधा । बाह्येन्द्रियाणि विद्यमानसन्निकर्ष- योग्यस्वविषयबोधजननानीति सर्वार्थसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषविषयबोध- जननानि । नाप्यान्तरम्; आन्तरसुखदुःखादिव्यतिरिक्तबहिविषयेषु तस्य बाह्येन्द्रियानपेक्ष- प्रवृत्त्यनुपपत्तेः । नापि योगजन्यम्; भावनाप्रकर्षपर्यन्तजन्मनस्तस्य विशदावभासत्वेऽपि पूर्वानु- भूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुतः प्रत्यक्षता ? तदतिरिक्तविषयत्वे कारणाभावात्; तथा सति तस्य भ्रमरूपता । नाप्यनुमानं विशेषतो दृष्टं सामान्यतो दृष्टं वा। अतीन्द्रिये वस्तुनि संबन्धावधारणविरहान्न विशेषतो दृष्टम् । समस्तवस्तुसाक्षात्कारतनिर्माणसमर्थ- पुरुषविशेषनियतं सामान्यतो दृष्टमपि न लिङ्गमुपलभ्यते ॥ ननु च जगतः कार्यत्वं तदुपादानोपकरणसंप्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम् । अचेतनारब्धत्वं जगतश्चैकचेतनाधीनत्वेन व्याप्तम् । सर्वं हि घटादिकार्य तदुपादानोपकरण- संप्रदानप्रयोजनाभिज्ञकर्तृ कं दृष्टम् । अचेतनारब्धमरोगं स्वशरीरमेकचेतनाधीनं च । सावय- वत्वेन जगतः कार्यत्वम् । उच्यते । किमिदमेकचेतनाधीनत्वम् ? न तावत्तदायत्तोत्पत्ति- स्थितित्वम्; दृष्टान्तो हि साध्यविकलः स्यात् । न ह्यरोगं स्वशरीरमेकचेतनायत्तोत्पत्ति- स्थिति; तच्छरीरस्य भोक्तृणां भार्यादिसर्वचेतनानामदृष्टजन्यत्वात्तदुत्पत्तिस्थित्योः । किंच, शरीरावयविनः स्वावयवसमवेततारूपा स्थितिरवयवसंश्लेषव्यतिरेकेण न चेतनमपेक्षते । प्राणनलक्षणा तु स्थितिः पक्षत्वाभिमते क्षितिजलधिमहीधरादौ न संभवतीति पक्षसपक्षा- नुगतामेकरूपां स्थिति नोपलभामहे । तदायत्तत्रवृत्तित्वं तदधीनत्वमिति चेत्, अनेकचेतन- साध्येषु गुरुतररथशिलामहोरुहादिषु व्यभिचारः। चेतनमात्राधीनत्वे सिद्धसाध्यता ॥ किंच, उभयवादिसिद्धानां जीवानामेव लाघवेन कर्तृत्वाभ्युपगमो युक्तः । न च जीवनामुपादानाद्यनभिज्ञतया कर्तृत्वासंभवः; सर्वेषामेव चेतनानां पृथिव्याधुपादानयागाद्युप- करणसाक्षात्कारसामार्थ्यात्; यथेदानी पृथिव्यादयो यागादयश्च प्रत्यक्षमोक्ष्यन्ते । उपकरण- भूतयागादिशक्तिरूपापूर्वादिशब्दवाच्यादृष्टसाक्षात्काराभावेऽपि चेतनानां न कर्तृत्वानुपपत्तिः;

प्रथमाध्याये-प्रयमपादे-शास्त्रयोनित्वाधिकरणम् ३ । ६७ तत्साक्षात्कारानपेक्षणात्कार्यारम्भस्य । शक्तिमत्साक्षात्कार एव हि कार्यारम्भोपयोगी; शक्तेस्तु ज्ञानमात्रमेवोपयुज्यते, न साक्षात्कारः न हि कुलालादयः कार्योपकरणभूतदण्ड- चक्रादिवत्तच्छक्तिमपि साक्षात्कृत्य घटमणिकादिकार्यमारभन्ते । इह तु चेतनानामागमाव- गतयागादिशक्तिविशेषाणां कार्यारम्भो नानुपपन्नः ।। किंच, यच्छक्यक्रियं शक्योपादानादिविज्ञानं च तदेव तदभिज्ञकर्तृकं दृष्टम् । मही- महीधरमहार्णवादि त्वशक्यक्रियमशक्योपादानादिविज्ञानं चेति न चेतनकर्तृ कम् । अतो घटमणिकादि सजातीयशक्यक्रियशक्योपादानादिविज्ञानवस्तुगतमेव कार्यत्वं बुद्धिमन्कर्तृ- पूर्वकत्वसाधने प्रभवति । किंच, घटादिकार्यमनीश्वरेणाल्पज्ञानशक्तिना सशरीरेण परिग्रह- वताऽनाप्तकामेन निर्मितं दृष्टमिति तथाविधमेव चेतनं कर्तारं साधयन्नयं कार्यत्वहेतुस्सिषाध- यिषितपुरुषसार्वज्ञसर्वैश्वर्यादिविपरीतसाधनाद्विरुद्ध स्स्यात् । न चैतावता सर्वानुमानोच्छेद- प्रसङ्गः। लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोपस्थापिता विपरीतविशेषास्तत्प्रमाणप्रति- हतगतयो निवर्तन्ते । इह तु सकलेतरप्रमाणाविषये लिङ्गिनि निखिलनिर्माणचतुरे अन्वय- व्यतिरेकावगताविनाभावनियमा धर्मास्सर्व एवाविशेषेण प्रसज्यन्ते; निवर्तकप्रमाणाभावात्त- थैवा तिष्ठन्ते । अत आगमादृते कथमीश्वरस्सेत्स्यति ? अत्राहुः। सावयवत्वादेव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते । भवन्ति च प्रयोगाः- विवादाध्यासितं भूभूधरादि कार्यम्, सावयवत्वात्, घटादिवत् । तथा विवादाध्या- सितमवनिजलधिमहीधरादि कार्यम्, महत्वे सति क्रियावत्त्वात्, घटवत् । तनुभुवनादि कार्यम्, महत्त्वे सति मूर्तत्वात्, घटवत्- इति । सावयवेषु द्रव्येषु इदमेव क्रियते नेतरदिति कार्यत्वस्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे । कार्यत्वप्रतिनियतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वं चोपलभ्यत इति चेन्न; कार्यत्वेनानुमतेऽपि विषये ज्ञानशक्ती कार्यानुमेये इत्यन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातमिति ते च प्रतिपन्ने एवेति न कश्चिद्विशेषः । तथा हि घटमणिकादिषु कृतेषु कार्यदर्शनानुमितकर्तृगततन्निर्माण- शक्तिज्ञानः पुरुषोऽदृष्टपूर्वं विचित्रसन्निवेशं नरेन्द्र भवनमालोक्य अवयवसन्निवेशविशेषेण तस्य कार्यत्वं निश्चित्य तदानीमेव कर्तुस्तज्ज्ञानशक्तिवैचित्र्यमनुमिनोति । अतस्तनुभुवनादेः कार्यत्वे सिद्धे सर्वसाक्षात्कारतनिर्माणादिनिपुणः कश्चित् पुरुषविशेषस्सिध्यत्येव ।। किंच सर्वचेतनानां धर्माधर्मनिमित्तेऽपि सुखदुःखोपभोगे चेतनानधिष्ठितयोस्तयोर- चेतनयोः फलहेतुत्वानुपपत्तेस्सर्वकर्मानुगुणसर्वफलप्रदानचतुरः कश्चिदास्थेयः; वर्धकिनाऽन- धिष्ठितस्य वास्यादेरचेतनस्य देशकालाद्यनेकपरिकरसन्निधानेऽपि यूपादिनिर्माणसाधनत्वा- दर्शनात् । बीजाङकुरादेः पक्षान्तर्भावेन तैर्व्यभिचारापादनं श्रोत्रियवेतालानामनभिज्ञता- विजृम्भितम् । तत एव सुखादिभिर्व्यभिचारवचनमपि तथैव । न च लाघवेनोभयवादिसंप्रति- ६८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । पन्नक्षेत्रज्ञानामेव ईदृशाधिष्ठातृत्वकल्पनं युक्तम्; तेषां सूक्ष्मव्यवहितविप्रकृष्टदर्शनाशक्ति- निश्चयात् दर्शनानुगुणैव हि सर्वत्र कल्पना । न च क्षेत्रज्ञवदीश्वरस्याशक्तिनिश्चयोऽस्ति । अतः प्रमाणान्तरतो न तत्सिद्धयनुपपत्तिः। समर्थकर्तृ पूर्वकत्वनियतकार्यत्वहेतुना सिध्यद स्वाभाविक सर्वार्थताक्षात्कारतन्नियमनशक्तिसंपन्न एव सिध्यति ॥ यत्त्वनैश्वर्याथापादनेन धर्मविशेषविपरीतसाधनत्वमुन्नीतम्, तदनुमानवृत्तानभिज्ञत्व- निबन्धनम्; सपने सहदृष्टानां सर्वेषां कार्यस्याहेतुभूतानां च धर्माणां लिङ्गिन्यप्राप्तः। एतदुक्तं भवति-केनचित् किंचित् क्रियमाणं स्वोत्पत्तये कर्तुस्स्वनिर्माणसामर्थ्य स्वोपादानोपकरण- ज्ञानं चापेक्षते; न त्वन्यासामर्थ्यमन्याज्ञानं च, हेतुत्वाभावात् । स्वनिर्माणसामर्थ्यस्वपादानो- पकरणज्ञानाभ्यामेव स्वोत्पत्तावुपपन्नायां संबन्धितया दर्शनमात्रेणाकिंचित्करस्यार्थान्तरा- ज्ञानादेः हेतुत्वकल्पनायोगादिति ॥ किंच, क्रियमाणवस्तुव्यतिरिक्तार्थाज्ञानादिकं किं सर्वविषयं क्रियोपयोगि ? उत, कतिपयविषयम् ? न तावत्सर्वविषयम्; न हि कुलालादिः क्रियमाणव्यतिरिक्तं किमपि न जानाति । नापि कतिपयविषयम्; सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषामज्ञानादीनां व्यभिचारात् । अतः कार्यत्वस्यासाधकानामनीश्वरत्वादीनां लिङ्गिन्यप्राप्तिरिति न विपरीत- साधनत्वम्॥ कुलालादीनां दण्डचक्राद्यधिष्ठानं शरीरद्वारेणैव दृष्टमिति जगदुपादानोपकरणाधिष्ठा- नमीश्वरस्याशरीरस्यानुपपन्नमिति चेन्न; संकल्पमात्रेणैव परशरीरगतभूतवेतालगरलाद्य- पगमविनाशदर्शनात् । कथमशरीरस्य परप्रवर्तनरूपस्संकल्प इति चेत्; न शरीरापेक्षस्संकल्पः, शरीरस्य संकल्पहेतुत्वाभावात् । मन एव हि सकल्पहेतुः । तदभ्युपगतमीश्वरेऽपि; कार्यत्वेनैव ज्ञानशक्तिवन्मनसोऽपि प्राप्तत्वात् । मानसस्संकल्पस्सशरीरस्यैव, सशरीरस्यैव समनस्कत्वा- दिति चेन्न; मनसो नित्यत्वेन देहापगमेऽपि मनसस्सद्भावेनानैकान्त्यात् ॥ अतो विचित्रावयवसन्निवेशविशेषतनुभुवनादिकार्यनिर्माणे पुण्यपापपरवशः परिमित- शक्तिज्ञानः क्षेत्रज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरोऽचिन्त्यापरिमितज्ञानशक्त्यश्वर्यो- ऽशरीरः संकल्पमात्रसाधनपरिनिष्पन्नानन्तविस्तारविचित्ररचनप्रपञ्चः पुरुषविशेष ईश्वरोऽनु- मानेनैव सिद्धयति । अतः प्रमाणान्तरावसेयत्वाद्ब्रह्मणो नेतद्वाक्यं ब्रह्म प्रतिपादयति॥ किंच, अत्यन्तभिन्न रेव मृद्रव्यकुलालयोनिमित्तोपादानत्वदर्शनेन आकाशनिरवय- वद्रव्यस्य कार्यात्वानुपपत्त्या च नैकमेव ब्रह्म कृत्स्नस्य जगतो निमित्तमुपादानं च प्रतिपादयितुं शक्नोतीति ॥ एवं प्राप्त ब्रूमः- यथोक्तलक्षणं ब्रह्म जन्मादिवाक्य बोधयत्येव । कुतः ? शास्त्रक- प्रमाणकत्वात् ब्रह्मणः । यदुक्तं सावयवत्वादिना कार्य सर्वं जगत्, कार्यं च तदुचितकर्तृ विशेष- ?

प्रथमाध्याये-प्रथमपादे-शास्त्रयोनित्वाधिकरणम् ३ । ६६ ? पूर्वकं दृष्टमिति निखिलजगन्निर्माणतदुपादानोपकरणवेदनचतुरः कश्चिदनुमेय इति; तदयुक्तम् महीमहार्णवादीन कार्यत्वेऽपि एकदैवैकेनैव निर्मिता इत्यत्र प्रमाणाभावात् । न चैकस्य घटस्येव सर्वेषामेकं कार्यत्वं, येनैकदैवैकः कर्ता स्यात् । पृथग्भूतेषु कार्येषु कालभेदकर्तृ भेददर्शनेन कर्तृ- कालैक्यनियमादर्शनात् । न च क्षेत्रज्ञानां विचित्रजगन्निर्मागाशक्त्या कार्यत्वबलेन तदतिरिक्त- कल्पनायामनेककल्पनानुपपत्तेश्च एकः कर्ता भवितुमर्हतीति; क्षेत्रज्ञानामेवोपचितपुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषामेवातिशयितादृष्टसंभावनया च तत्तद्विलक्षणकार्यहेतुत्वसंभवात्, तदतिरिक्तात्यन्तादृष्टपुरुषकल्पनानुपपत्तेः । न च युगपत्सर्वोत्पत्तिस्सर्वोच्छितिश्च प्रमाणपदवी- मधिरोहतः; अदर्शनात्, क्रमेणैवत्पत्तिविनाशदर्शनाच्च । कार्यत्वेन सर्वोत्पत्तिविनाशयोः कल्प्य- मानयोः दर्शनानुगुण्येन कल्पनायां विरोधाभावाच्च । अतो बुद्धिमदेककतृकत्वे साध्ये कार्यत्व- स्यानैकान्त्यम्, पक्षस्याप्रसिद्धविशेषणत्वम्, साध्यविकलता च दृष्टान्तस्य; सर्वनिर्माणचतुर- स्यैकस्याप्रसिद्धः । बुद्धिमत्कर्तृ कत्वमात्रे साध्ये सिद्ध साधनता । सार्वक्ष्यसर्वशक्तियुक्तस्य कस्यचिदेकस्य साधकमिदं कार्यत्वं किं युगपदुत्पद्यमानसर्ववस्तुगतम् ? उत क्रमेणोत्पद्यपान- सर्ववस्तुगतम् ? युगपदुत्पद्यमानसर्ववस्तुगतत्वे कार्यत्वस्यासिद्धता । क्रमेणोत्पद्यमानसर्ववस्तु- गतत्वे अनेककर्तृकत्वसाधनाद्विरुद्धता । अत्राप्येककर्तृकत्वसाधने प्रत्यक्षानुमानः, शास्त्र- विरोधश्च; कुम्भकारो जायते, रथकरो जायत इत्यादिश्रवणात् ॥ अपि च सर्वेषां कार्याणां शरीरादीनां (च) सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्त्वादिमूलत्वमवश्याश्रयणीयम् । कार्यवैचित्र्यहेतुभूताः कारणगता विशेषास्सत्त्वादयः; तेषां कार्याणां तन्मूलत्वापादनं तद्युक्तपुरुषान्तःकरणविकारद्वारेण, पुरुषस्य च तद्योगः कर्ममूलः- इति कार्यविशेषारम्भायैव ज्ञानशक्तिवत् कर्तुः कर्मसंबन्धः कार्यहेतुत्वेनैवावश्याश्रयणीयः; ज्ञान- शक्तिवैचित्र्यस्य च कर्ममूलत्वात् । इच्छायाः कार्यारम्भहेतुत्वेऽपि विषयविशेषविशेषिताया- स्तस्यास्सत्त्वादिमूलकत्वेन कर्मसंबन्धोऽवर्जनीयः । अतः क्षेत्रज्ञा एव कर्तारः, न तद्विलक्षणः कश्चिदनुमानासिध्यति ॥ भवन्ति च प्रयोगा:- तनुभुवनादि क्षेत्रज्ञकर्तृ कम्, कार्यत्वात्, घटवत् । ईश्वरः कर्ता न भवति, प्रयोजनशून्यत्वात्, मुक्तात्मवत् । ईश्वरः कर्ता न भवति, अशरीरत्वात्, तद्वदेव । न च क्षेत्रज्ञानां स्वशरीराधिष्ठाने व्यभिचारः; तत्राप्यनादेस्सूक्ष्मशरीरस्य सद्भावात् । विमति- विषयः कालो न लोकशून्यः, कालत्वात्, वर्तमानकालवत् इति ॥ अपि च, किमीश्वरस्सशरीरोऽशरीरो वा कार्य करोति ? न तावदशरीरः; अशरीरस्य कर्तृत्वानुपलब्धेः । मानसान्यपि कार्याणि सशरीरस्यैव भवन्ति; मनसो नित्यत्वेऽपि अशरीरेषु मुक्तेषु तत्कार्यादर्शनात् । नापि सशरीरः; विकल्पासहत्वात्-तच्छरोरं किं नित्यमुतानित्यम् ?

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । न तावन्नित्यम्; सावयवस्य तस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः । नाप्य- नित्यम्; तद्व्यतिरिक्तस्य तच्छरीरहेतोस्तदानीमभावात् । स्वयमेव हेतुरिति चेन्न; अशरीरस्य तदयोगात्; अन्येन शरीरेण सशरीर इति चेन्न; अनवस्थानात् । स किं सव्यापारो निर्व्यापारो वा ? अशरीरत्वादेव न सव्यापारः। नापि निर्यापारः कार्यं करोति मुक्तात्मवत् । कार्य जगदिच्छामात्रव्यापारकर्तृ कमित्युच्यमाने पक्षस्याप्रसिद्धविशेषणत्वम्, दृष्टान्तस्य च साध्यहीनता ॥ अतो दर्शनानुगुण्येनेश्वरानुमानं दर्शनानुगुण्यपराहतमिति शास्त्रैकप्रमाणकः परब्रह्म- भूतस्सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतरप्रमाणपरिदृष्टसमस्तवस्तुविसजातीयं सार्वज्य- सत्यसंकल्पत्वादिमिश्रानवधिकातिशयापरिमितोदारगुणसागरं निखिलहेयप्रत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसाधर्म्यप्रयुक्तदोषगन्धप्रसङ्गः । यत्त निमित्तो- पादानयोरैक्यमाकाशानिरवयवद्रव्यस्य कार्यत्वं चानुपलब्धमशक्यप्रतिपादनमित्युक्तम्, तदप्य- विरुद्धमिति *प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्, *न वियदश्रुतेरित्यत्र प्रतिपादयिष्यते । अतः प्रमाणान्तरागोचरत्वेन शास्त्रकविषयत्वात् श्यतो वा इमानि भूतानीति वाक्यमुक्त- लक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् ॥ ३ ॥ इति शास्त्रयोनित्वाधिकरणम् ३. - ? * अथ समन्वयाधिकरणम् ४ * यद्यपि प्रमाणान्तरागोचरं ब्रह्म; तथाऽपि प्रवृत्तिनिवृत्तिपरत्वाभावेन सिद्धरूपं ब्रह्म न शास्त्रं प्रतिपादयतीत्याशङ्कयाह- ४. तत्तु समन्वयात् ॥ १-१-४॥ प्रसक्ताशङ्कानिवृत्त्यर्थस्तुशब्दः। तत्- शास्त्रप्रमाणकत्वं ब्रह्मणस्संभवत्येव । कुतः समन्वयात्-परमपुरुषार्थतयाऽन्वयस्समन्वयः, परमपुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतया- ऽन्वयात् । एवमिव समन्वितो ह्यौपनिषदः पदसमुदायः श्यतो वा इमानि भूतानि जायन्ते *सदेव सोम्येदमन आसीदेकमेवाद्वितीयम् तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत ब्रह्म वा इदमेक एवाग्र आसीत् *आत्मा वा इदमेक एवाग्र आसीत् तस्माद्वा एतस्मादात्मन आकाशस्संभूतः *एको ह वै नारायण आसीत् *सत्यं ज्ञानमनन्तं ब्रह्म *आनन्दो ब्रह्मत्येव- मादिः । न च व्युत्पत्तिसिद्धपरिनिष्पन्नवस्तुप्रतिपादनसमर्थानां पदसमुदायानामखिलजग- दुत्पत्तिस्थितिविनाशहेतुभूताशेषदोषप्रत्यनीकापरिमितोदारगुणसागरानबधिकातिशयानन्द- स्वरूपे ब्रह्मणि समन्वितानां प्रवृत्तिनिवृत्तिरूपप्रयोजनविरहादन्यपरत्वम्; स्वविषयावबोध- पर्यवसायित्वात्सर्वप्रमाणानाम् । न च प्रयोजनानुगुणा प्रमाणप्रवृत्तिः । प्रयोजनं हि प्रमाणानु- प्रथमाध्याये-प्रथमपादे-समन्वयाधिकरणम् ४ । गुणम् । न च प्रवृत्तिनिवृत्त्यन्वयविरहिणः प्रयोजनशून्यत्वम्, पुरुषार्थान्वयप्रतीतेः। तथा स्वरूपपरेष्वपि पुत्रस्ते जातः, नायं सर्प इत्यादिषु हर्षभयनिवृत्तिरूपप्रयोजनवत्त्वं दृष्टम् ॥ अत्राह-न वेदान्तवाक्यानि ब्रह्म प्रतिपादयन्ति, प्रवृत्तिनिवृत्त्यन्वयविरहिण- श्शास्त्रस्यानर्थक्यात् । यद्यपि प्रत्यक्षादीनि वस्तुयाथात्म्यावबोधे पर्यवस्पन्ति; तथाऽपि शास्त्र प्रयोजनपर्यवसाय्येव । नहि लोकवेदयोः प्रयोजनरहितस्य कस्यचिदपि वाक्यस्य प्रयोग उपलब्धचरः । नच किचित् प्रयोजनमनुद्दिश्य वाक्यप्रयोगः श्रवणं वा संभवति । तच्च प्रयोजनं प्रवृत्तिनिवृत्तिसाध्येष्टानिष्टप्राप्तिपरिहारात्मकमुपलब्धम्- अर्थार्थी राजकुलं गच्छेत्, मन्दाग्निर्नाम्बु पिबेत्, स्वर्गकामो यजेत, न कलज भक्षयेदित्येवमादिषु । यत्पुनस्सिद्धवस्तु- परेष्वपि पुत्रस्ते जातः, नायं सर्पो रज्जुरेषेत्यादिषु हर्षभनिवृत्तिरूपपुरुषार्थान्वयो दृष्ट इत्युक्तम्; तत्र कि पुत्रजन्माद्यर्थात् पुरुषार्थावाप्तिः, उत तज्ज्ञानादिति विवेचनीयम् । सतोऽप्यज्ञातस्यार्थस्यापुरुषार्थत्वेन तज्ज्ञानादिति चेत्; तई सत्यप्यर्थे ज्ञानादेव पुरुषार्थस्सिध्य- तीत्यर्थपरत्वाभावेन प्रयोजनपर्यवसायिनोऽपि शास्त्रस्य नार्थसद्भावे प्रामाण्यम् । तस्मात्सर्वत्र प्रवृत्तिनिवृत्तिपरत्वेन ज्ञानपरत्वेन वा प्रयोजनपर्यवसानमिति कस्यापि वाक्यस्य परिनिष्पन्ने वस्तुनि तात्पर्यासंभवान वेदान्ताः परिनिष्पन्न ब्रह्म प्रतिपादयन्ति । अत्र कश्चिदाह-वेदान्तवाक्यान्यपि कार्यपरतयैव ब्रह्मणि प्रमाणभावमनुभवन्ति । कथम् ? निष्प्रपञ्चमद्वितीयं ज्ञानकरसं ब्रह्म अनाद्यविद्यया सप्रपञ्चतया प्रतीयमानं निष्प्रपञ्च कुर्यादिति ब्रह्मणः प्रपञ्चविलयद्वारेण विधिविषयत्वमिति । कोऽसौ द्रष्ट दृश्यरूपप्रपञ्चविलय- द्वारेण साध्यज्ञानकरसब्रह्मविषयो विधिः ? *न दृष्टेष्टारं पश्येर्न मतेमन्तारं मन्वीथा इत्यादिः । द्रष्ट्रदृश्यरूपभेदशून्यं दृशिमात्रं ब्रह्म कुर्यादित्यर्थः । स्वतस्सिद्धस्यापि ब्रह्मणो निष्प्रपञ्चतारूपेण कार्यत्वमविरुद्धमिति ॥ तदयुक्तम् । नियोगवाक्यार्थवादिना हि नियोगो, नियोज्यविशेषणम्, विषयः, करणम्, इतिकर्तव्यता, प्रयोक्ता च वक्तव्याः। तत्र हि नियोज्यविशेषणमनुपादेयम् । तच्च निमित्तं फलमिति द्विधा । अत्र कि नियोज्यविशेषणम्, तच्च किं निमित्तं फलं वेति विवेचनीयम् । ब्रह्मस्वरूपयाथात्म्यानुभवश्चेन्नियोज्यविशेषणं तहि न तन्निमित्तम्, जीवनादिवत्तस्या- सिद्धत्वात् । निमित्तत्वे च तस्य नित्यत्वेनापवर्गोत्तरकालमपि जीवननिमित्ताग्निहोत्रादि- वन्नित्यतद्विषयानुष्ठानप्रसङ्गः । नापि फलम्, नैयोगिकफलल्वेन स्वर्गादिवदनित्यत्वप्रसङ्गात् ।। कश्चात्र नियोगविषयः ? ब्रह्मैवेति चेन्न, तस्य नित्यत्वेनाभव्यरूपत्वात्, अभावार्थ- त्वाच्च । निष्प्रपञ्च ब्रह्म साध्यमिति चेत्, साध्यत्वेऽपि फलत्वमेव । अभावार्थत्वान्न विधि- विषयत्वम् । साध्यत्वं च कस्य ? किं ब्रह्मणः ? उत प्रपञ्चनिवृत्तेः ? न तावद्ब्रह्मणः, ?

७२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । क सिद्धत्वात्, अनित्यत्वप्रसक्तेश्च । अथ प्रपञ्चनिवृत्तेः, न हि ब्रह्मणस्साध्यत्वम् । प्रपञ्च- निवृत्तिरेव विधिविषय इति चेन्न, तस्याः फलत्वेन विधिविषयत्वायोगात् । प्रपञ्चनिवृत्तिरेव हि मोक्षः, स च फलम् । अस्य च नियोगविषयत्वे नियोगात् प्रपश्चनिवृत्तिः प्रपञ्चनिवृत्त्या नियोग इतीतरेतराश्यत्वन् ॥ अपि च, कि निवर्तनीयः प्रपञ्चो मिथ्यारूपस्सत्यो वा ? मिथ्यारूपत्वे ज्ञाननिवर्त्य- त्वादेव नियोगेन न किंचित्प्रयोजनम्, नियोगस्तु निवर्तकज्ञानमुत्पाद्य तद्द्वारेण प्रपञ्चस्य निवर्तक इति चेत्, तत्स्ववाक्यादेव जातमिति नियोगेन न प्रयोजनम् । वाक्यार्थज्ञानादेव ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्याभूतत्य प्रपञ्चस्य बाधितत्वात् सपरिकरस्य नियोगस्या- सिद्धिश्च । प्रपञ्चस्य निवर्त्यत्वे प्रपञ्चनिवर्तको नियोगः किं ब्रह्मस्वरूपमेव ? उत तद्व्यति- रिक्तः ? यदि ब्रह्मस्वरूपमेव, निवर्तकस्य नित्यतया निवर्त्यप्रपञ्चसद्भाव एव न संभवति । नित्यत्वेन नियोगस्य विषयानुष्ठानसाध्यत्वं च न घटते । अथ ब्रह्मस्वरूपव्यतिरिक्तः, तस्य कृत्स्नप्रपञ्चनिवृत्तिरूपविषयानुष्ठानसाध्यत्वेन प्रयोक्ता च नष्ट इत्याश्रयाभावादसिद्धिः । प्रपञ्च- निवृत्तिरूपविषयानुष्ठानेनैव ब्रह्मस्वरूपव्यतिरिक्तस्य कृत्स्नस्य निवृत्तत्वान्न नियोगनिष्पाद्यं मोक्षाख्य फलम् ॥ किंच, प्रपञ्चनिवृत्तनियोगकरणस्य इतिकर्तव्यताभावादनुपकृतस्य च करणत्वायोगान्न करणत्वम् । कथमितिकर्तव्यताभाव इति चेत्, इत्यम्- अस्येतिकर्तव्यता भावरूपा ? अभावरूपा वा ? भावरूपा च करणशरीरनिष्पत्तितदनुग्रहकार्यभेदभिन्ना। उभयविधा च न संभवति । न हि मुद्गराभिघातादिवत् कृत्स्नस्य प्रपञ्चस्य निवर्तकः कोऽपि दृश्यत इति दृष्टार्था न संभवति । नापि निष्पन्नस्य करणस्य कार्योत्पत्तावनुग्रहस्संभवति; अनुग्राहकांश- सद्भावेन कृत्स्नप्रपञ्चनिवृत्तिरूपकरणस्वरूपासिद्धेः । ब्रह्मणोऽद्वितीयत्वज्ञानं प्रपञ्चनिवृत्ति- रूपकरणशरीरं निष्पादयतीति चेत्, तेनैव प्रपञ्चनिवृत्तिरूपो मोक्षस्सिद्ध इति न करणादि- निष्पाद्यमवशिष्यत इति पूर्वमेवोक्तम् । अभावरूपत्वे चाभावादेव न करणशरीरं निष्पादयति । नाप्यनु (ग्राहकः) ग्रहम् । अतो निष्प्रपञ्चविषयो विधिर्न संभवति ॥ अन्योऽप्याह- यद्यपि वेदान्तवाक्यानां न परिनिष्पन्नब्रह्मस्वरूपपरतया प्रामाण्यम् तथाऽपि ब्रह्मस्वरूपं सिध्यत्येव । कुतः ? ध्यानविधिसामर्थ्यात् । एवमेव हि समामनन्ति- *आत्मा वा अरे द्रष्टव्यः *निदिध्यासितव्यः *य आत्मा अपहतपाप्मा *सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः *मात्मेत्येवोपासीत *आत्मानमेव लोकमुपासीतेति । अत्र ध्यानविषयो हि नियोगः स्वविषयभूतध्यानं ध्येयैकनिरूपणीयमिति ध्येयमाक्षिपति । स च ध्येयः स्ववाक्य- निर्दिष्ट आत्मा । स किंरूप इत्यपेक्षायां तत्स्वरूपविशेषसमर्पणद्वारेण *सत्यं ज्ञानमनन्तं ब्रह्म - प्रथमाध्याये--प्रथमपादे-समन्वयाधिकरणम् ४ । *सदेव सोम्येदमन आसीदित्येवमादीनां वाक्यानां ध्यानविधिशेषतया प्रामाण्यमिति विधि- विषयभूतध्यानशरीरानुप्रविष्टब्रह्मस्वरूपेऽपि तात्पर्यमस्त्येव । अतः *एकमेवाद्वितीयम् *तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो *नेह नानाऽस्ति किंचनेत्यादिभिर्ब्रह्मस्वरूपमेकमेव सत्यार, तद्व्यतिरिक्तं सर्वं मिथ्येत्यवगम्यते । प्रत्यक्षादिभिः भेदावलम्बिना च कर्मशास्त्रेण भेदः प्रतोयते । भेदाभेदयोः परस्परविरोधे सत्यनाद्यविद्यामूलत्वेनापि भेदप्रतीत्युपपत्तेः अभेद एव परमार्थ इति निश्चीयते। तत्र ब्रह्मध्याननियोगेन तत्साक्षात्कारफलेन निरस्त- समस्ताविद्याकृतविविधभेदाद्वितोयज्ञानकरसब्रह्मभावरूपमोक्षः प्राप्यते । न च वाक्याद्वाक्यार्थ- ज्ञान मात्रेण ब्रह्मभावसिद्धिः; अनुपलब्धेः, विविधभेददर्शनानुवृत्तेश्च । तथा सति श्रवणादि- विधानमनर्थकं स्यात् ॥ अथोच्येत-रज्जुरेषा न सर्प इत्युपदेशेन सर्पभयनिवृत्तिदर्शनात्, रज्जुसर्पवत् बन्धस्य मिथ्यारूपत्वेन ज्ञानबाध्यतया तस्य वाक्यजन्यज्ञानेनैव निवृत्तिर्युक्ता, न नियोगेन । नियोग- साध्यत्वे मोक्षस्यानित्यत्वं स्यात् स्वर्गादिवत् । मोक्षस्य नित्यत्वं हि सर्ववादिसंप्रतिपन्नम् । किं च धर्माधर्मयोः फलहेतुत्वं स्वफलानुभवानुगुणशरीरोत्पादनद्वारेणेति ब्रह्मादिथा- वरान्तचतुर्विधशरीरसंबन्धरूपसंसारफलत्वमवर्जनीयम् । तस्मान्न धर्मसाध्यो मोक्षः । तथा च श्रुतिः-- *न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरं रं वा व सन्तं न प्रियाप्रिये स्पृशतः इति । अशरीरत्वरूपे मोक्षे धर्माधर्मसाध्यप्रियाप्रियविरहश्रवणात् न धर्म- साध्यमशरीरत्वमिति विज्ञायते । न च नियोगविशेष साध्यफलविशेषवत् ध्याननियोगसाध्यम- शरीरत्वम्; अशरीरत्वस्य स्वरूपेणासाध्यत्वात् । यथाऽऽहु श्रुतयः- *अशरोरं शरीरेषु अनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ *अप्राणो ह्यमनाश्शुभ्रः *असङ्गो ह्ययं पुरुषः इत्याद्याः। अतः अशरीरत्वरूपो मोक्षो नित्य इति न धर्मसाध्यः । तथा च श्रुतिः- * अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वदेति ॥ अपि च उत्पत्तिप्राप्तिविकृतिसंस्कृतिरूपेण चतुर्विधं हि साध्यत्वं मोक्षस्य न संभवति । न तावदुत्पाद्यः; मोक्षस्य ब्रह्मस्वरूपत्वेन नित्यत्वात् । नापि प्राप्यः; आत्मस्वरूपत्वेन ब्रह्मणो नित्यप्राप्तत्वात् । नापि विकार्यः; दध्यादिवदनित्यत्वप्रसङ्गादेव । नापि संस्कार्यः । संस्कारो हि दोषापनयनेन वा गुणाधानेन वा साधयति । न तावदोषापनयनेन; नित्यशुद्धत्वाद्ब्रह्मणः । नाप्यतिशयाधानेन; अनाधेयातिशयस्वरूपत्वात्। नित्यनिर्विकारत्वेन स्वाश्रयायाः पराश्रयायाश्च क्याया अविषयतया न निर्घर्षणेनादर्शादिवदपि संस्कार्यत्वम् । न च देहस्थया स्नानादिक्रियया आत्मा संस्क्रियते; कि त्वविद्यागृहीतस्तत्सङ्गतोऽहंकर्ता । तत्फलानुभवोऽपि तस्यैव । न ७४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । चाहंकवात्मा; तत्साक्षित्वात् । तथा च मन्त्रवर्ण:- *तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीतीति । * आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुनीषिणः, *एको देवस्सर्व- भूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षस्सर्वभूताधिवासस्साक्षी चेता केवलो निर्गुणश्च ॥ *स पर्यगाच्छुक्रमकायमवरणम (स्ना) स्थाविरं शुद्धमपापविद्धमिति चाविद्या- गृहीतादहकर्तुरात्मस्वरूपमनाधेयातिशयं नित्यशुद्धं निर्विकारं निष्कृष्यते । तस्मादात्म- स्वरूपत्वेन न साध्यो मोक्षः । यद्येवं किं वाक्यार्थज्ञानेन क्रियत इति चेत्, मोक्षप्रतिबन्धनिवृत्तिमात्रमिति ब्रूमः । तथा च श्रुतयः- ॐ त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति * श्रुतं ह्येवमेव भगवदृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवश्शोचामि तं मा भगवान् शोकस्य पारं तारयतु * तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमार इत्याद्याः । तस्मानित्यस्यैव मोक्षस्य प्रतिबन्धनिवृत्तिर्वाक्यार्थज्ञानेन क्रियते । निवृत्तिस्तु साध्याऽपि प्रध्वंसाभावरूपा न विनश्यति । * ब्रह्म वेद ब्रह्म व भवति तमेव विदित्वा अतिमृत्यु- मेतीत्यादि वचनं मोक्षस्य वेदनानन्तरभावितां प्रतिपादयन्नियोगव्यवधानं प्रतिरुणद्धि । न च विदिक्रियाकर्मत्वेन वा ध्यानक्रियाकर्मत्वेन वा कार्यानुप्रवेशः; उभयविधकर्मत्वप्रतिषेधात्- *अन्यदेव तद्विदितादथो अविदिताद(धि)पि * येनेदं सर्वं विजानाति तत्केन विजानीयादिति । *तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति च । न चैतावता शास्त्रस्य निविषयत्वम् अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । न हीदंतया ब्रह्म विषयीकरोति शास्त्रम्; अपि तु अविषयं प्रत्यगात्मस्वरूपं प्रतिपादयत् अविद्याकल्पितज्ञानज्ञातृञ्जयविभागं निवर्तयति । तथा च शास्त्रम्- ॐन दृष्टेष्टारं पश्येरित्येवमादिः । न च ज्ञानादेव बन्धनिवृत्तिरिति श्रवणादिविध्यानर्थक्यम्; स्वभावप्रवृत्तसकलेतरविकल्पविमुखीकरणद्वारेण वाक्यार्थावगति- हेतुत्वात्तेषाम् ॥ न च ज्ञानमात्राद्बन्धनिवृत्तिर्न दृष्टेति वाच्यम्; बन्धस्य मिथ्यारूपत्वेन ज्ञानोत्तर- कालं स्थित्यनुपपत्तेः। अत एव न शरीरपातादूर्ध्वमेव बन्धनिवृत्तिरिति वक्तुं युक्तम् । नहि मिथ्यारूपसर्पभयनिवृत्ती रज्जुयाथात्म्यज्ञानातिरेकेण सर्यविनाशमपेक्षते। यदि शरीरसंबन्धः पारमार्थिकः, तदा हि तद्विनाशापेक्षा । स तु ब्रह्मव्यतिरिक्ततया न पारमार्थिकः । यस्य तु बन्धो न निवृत्तः, तस्य ज्ञानमेव न जातमित्यवगम्यते, ज्ञानकार्यादर्शनात् । तस्माच्छरीर- स्थितिर्भवतु वा मा वा; वाक्यार्थज्ञानसमनन्तरं मुक्त एवासौ। अतो न ध्याननियोगसाध्यो मोक्ष इति न ध्यानविधिशेषतया ब्रह्मणस्सिद्धिः । अपि तु * सत्यं ज्ञानमनन्तं ब्रह्म तत्त्वमसि *अयमात्मा ब्रह्मति तत्परेणैव पदसमुदायेन सिध्यतीति ॥

प्रथमाध्याये--प्रथमपादे-समन्वयाधिकरणम् ४ । तदयुक्त, वाक्यार्थज्ञानमात्राबन्धनिवृत्त्यनुपपत्तेः । यद्यपि मिथ्यारूपो बन्धो ज्ञान- बाध्यः । तथाऽपि बन्धस्यापरोक्षत्वात् न परोक्षरूपेण वाक्यार्थज्ञानेन स बाध्यते, रज्ज्वादाव- परोक्षसर्पप्रतीतौ वर्तमानायां नायं सर्पो रज्जुरेषेत्याप्तोपदेशजनितपरोक्षसर्पविपरीतज्ञानमात्रेण भयानिवृत्तिदर्शनात्; आप्तोपदेशस्य तु भयनिवृत्तिहेतुत्वं वस्तुयाथात्म्यापरोक्षनिमित्तप्रवृत्ति- हेतुत्वेन । तथा हि-रज्जुसर्पदर्शनभयात् परावृत्तः पुरुषो नायं सर्पो रज्जुरेषेत्याप्तोपदेशेन तद्वस्तुयाथात्म्यदर्शने प्रवृत्तस्तदेव प्रत्यक्षेण दृष्ट्वा भयान्निवर्तते । न च शब्द एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तम्, तस्यानिन्द्रियत्वात् । ज्ञानसामग्रीष्विन्द्रियाण्येव ह्यपरोक्षसाधनानि । न चास्यानभिसंहितफलकर्मानुष्ठानमृदितकषायस्य श्रवणमनननिदिध्यासनविमुखीकृतबाह्य- विषयस्य पुरुषस्य वाक्यमेवापरोक्षज्ञानं जनयति, निवृत्तप्रतिबन्धे तत्परेऽपि पुरुषे ज्ञानसामग्री- विशेषाणामिन्द्रियादीनां स्वविषयनियमातिक्रमादर्शनेन तदयोगात् ॥ ध्यानस्य वाक्यार्थज्ञानोपायता, इतरेतराश्रयत्वात्-वाक्यार्थज्ञाने जाते तद्विषयध्यानम्, ध्याने निर्वृत्ते वाक्यार्थज्ञानमिति । न च ध्यानवाक्यार्थज्ञानयोभिन्नविषयत्वम्, तथा सति ध्यानस्य वाक्यार्थज्ञानोपायता न स्यात् । न ह्यन्यध्यानमन्योन्मुख्यमुत्पादयति । ज्ञातार्थस्मृतिसन्ततिरूपस्य ध्यानस्य वाक्यार्थज्ञानपूर्वकत्वमवर्जनीयम्, ध्येयब्रह्मविषयज्ञानस्य हेत्वन्तरासंभवात् । न च ध्यानमूलं ज्ञानं वाक्यान्तरजन्यम्, निवर्तकज्ञानं तत्त्वमस्यादिवाक्य- जन्यमिति युक्तम् । ध्यानमूलमिदं वाक्यान्तरजन्यं ज्ञानं तत्त्वमस्यादिवाक्यजन्यज्ञानेनैक- विषयम, भिन्नविषयं वा ? एकविषयत्वे तदेवेतरेतराश्रयत्वम् । भिन्नविषयत्वे ध्यानेन तदौन्मुख्यापादनासंभवः । किञ्च ध्यानस्य ध्येयध्यात्राद्यनेकप्रपञ्चापेक्षत्वान्निष्प्रपञ्चब्रह्मात्मक- त्वविषयवाक्यार्थज्ञानोत्पत्तौ दृष्टद्वारेण नोपयोग इति वाक्यार्थज्ञानमात्रादविद्यानिवृत्ति वदतः श्रवणमनननिदिध्यासनविधीनामानर्थवयमेव ।। यतो वाक्यादापरोक्ष्यज्ञानासंभवाद्वाक्यार्थज्ञानेनाविद्या न निवर्तते; तत एव जीवन्मुक्तिरपि दूरोत्सारिता । का चेयं जीवन्मुक्तिः ? सशरीरस्यैव मोक्ष इति चेत्, माता मे वन्ध्येतिवदसङ्गतार्थं वचः; यतस्सशरोरत्वं बन्धः, अशरीरत्वमेव मोक्ष इति त्वयैव श्रुतिभिरुप- पादितम् । अथ सशरीरत्वप्रतिभासे वर्तमाने यस्यायं प्रतिभासो मिथ्येति प्रत्ययः, तस्य सशरीरत्वनिवृत्तिरिति । न, मिथ्येति प्रत्ययेन सशरीरत्वं निवृत्तं चेत्, कथं सशरीरस्य मुक्तिः ? अजीवतोऽपि मुक्तिस्सशरीरत्वमिथ्याप्रतिभासनिवृत्तिरेवेति कोऽयं जीवन्मुक्तिरिति विशेषः ? अथ सशरीरत्वप्रतिभासो बाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते, स जीवन्मुक्त इति चेत; न, ब्रह्मव्यतिरिक्तसकलवस्तुविषयत्वाबाधकज्ञानस्य कारणभूताविद्याकर्मादि- दोषस्सशरीरत्वप्रतिभासेन सह तेनैव बाधित इति बाधितानुवृत्तिर्न शक्यते वक्तुम् ।

७६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - द्विचन्द्रादौ तु तत्प्रतिभासहेतुभूतदोषस्य बाधकज्ञानभूतचन्द्रैकत्वज्ञानाविषयत्वेनाबाधित्वात्, द्विचन्द्रप्रतिभासानुवृत्तिर्युक्ता। किञ्च तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये, इति सद्विद्यानिष्ठस्य शरीरपातमात्रमपेक्षते मोक्ष इति वदन्तीयं श्रुतिः जीवन्मुक्ति वारयति । सैषा जीवन्मुक्तिरापस्तम्बेनापि निरस्ता-*वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् । बुद्धे क्षेमप्रापणं तच्छास्त्रैविप्रतिषिद्धम् । बुद्धे चेन क्षेमप्रापणमिहैव न दुःखमुपलभेत । एतेन परं व्याख्यातम् इति । अनेन ज्ञानमात्रान्मोक्षश्च निरस्तः । अतस्सकलभेदनिवृत्तिरूपा मुक्ति/वतो न संभवति ॥ तस्माद्धयाननियोगेन ब्रह्मापरोक्षज्ञानफलेनैव बन्धनिवृत्तिः । न च नियोगसाध्यत्वे मोक्षस्यानित्यत्वप्रसक्तिः, प्रतिबन्धनिवृत्तिमात्रस्यैव साध्यत्वात् । किंचन नियोगेन साक्षात् बन्धनिवृत्तिः क्रियते, किन्तु निष्प्रपञ्चज्ञानकरसब्रह्मापरोक्ष्यज्ञानेन । नियोगस्तु तदापरोक्ष्यज्ञानं जनयति । कथं नियोगस्य ज्ञानोत्पत्तिहेतुत्वमिति चेत्, कथं वा भवतोऽनभिसंहितफलानां कर्मणां वेदनोत्पत्तिहेतुत्वम् ? मनोनमल्यद्वारेणेति चेत्, ममापि तथैव । मम तु निर्मले मनसि शास्त्रेग ज्ञानमुत्पाद्यते, तव तु नियोगेन मनसि निर्मले ज्ञानसामग्री वक्तव्येति चेत्, ध्याननियोगनिर्मलं मन एव साधनमिति ब्रूमः । केनावगम्यत इति चेत्, भवतो वा कर्मभिर्मनो निर्मलं भवति, निर्मले मनसि श्रवणमनननिदिध्यासनैस्सकलेतरविषयविमुखस्यैव शास्त्र निवर्तक- ज्ञानमुत्पादयतीति केनावगम्यते ? *विविदिषन्ति यज्ञेन दानेन तपसानाशकेन श्रोतव्यो मन्तव्यो निदिध्यासितव्यः *ब्रह्म वेद ब्रह्मव भवति-इत्यादिभिश्शास्त्रैरिति चेत्, ममापि *श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ब्रह्मविदाप्नोति परम् ॐन चक्षुषा गृह्यते नापि वाचा *मनसा तु विशुद्धेन हृदा मनीषा मनसाभिक्लृप्तः इत्यादिभिश्शास्त्राननियोगेन मनो निर्मलं भवति, निर्मलं च मनो ब्रह्मापरोक्षजानं जनयतीत्यवगम्यते-इति निरवद्यम् ॥ *नेदं यदिदमुपासते इत्युपास्यत्वं प्रतिषिद्धमिति चेत्, नैवम्; नात्र ब्रह्मण उपास्यत्वं प्रतिषिध्यते; अपि तु ब्रह्मणो जगद्वैरूप्यं प्रतिपाद्यते । यदिदं जगदुपासते प्राणिनः, नेदं ब्रह्म तदेव ब्रह्म त्वं विद्धि, यद्वाचाऽनभ्युदितं येन वागभ्युद्यते-इति वाक्यार्थः । अन्यथा *तदेव ब्रह्म त्वं विद्धि इति विरुध्यते । ध्यानविधिवैयर्थ्यं च स्यात् । अतो ब्रह्मसाक्षात्कारफलेन ध्याननियोगेनैवापरमार्थभूतस्य कृत्स्नस्य द्रष्टदृश्यादिप्रपञ्चरूपबन्धस्य निवृत्तिः ॥ यदपि कैश्चिदुक्तम्-भेदाभेदयोविरोधो न विद्यत इति; तदयुक्तम् । न हि शीतोष्ण- तमःप्रकाशादिवशदाभेदावेकस्मिन्वस्तुनि सङ्गच्छेते । अथोच्येत-सर्वं हि वस्तुजातं प्रतीति- व्यवस्थाप्यम् । सर्वं च भिन्नाभिन्न प्रतीयते-कारणात्मना जात्यात्मना चाभिन्नम्, कार्यात्मना व्यक्त्यात्मना च भिन्नम् । छायातपादिषु विरोधस्सहानवस्थानलक्षणो भिन्नाधारत्वरूपश्च ।

प्रथमाध्याये-प्रथमपादे-समन्वयाधिकरणम् ४ । कार्यकारणयोर्जातिव्यक्त्योश्च तदुभयमपि नोपलभ्यते । प्रत्युत एकमेव वस्तु द्विरूपं प्रतीयते; यथा 'मृदयं घटः' 'खण्डो गौः' 'मुण्डो गौः' इति । न चैकरूपं किंचिदपि वस्तु लोके दृष्ट- चरम् । न च तृणादेवलनादिवदझेदो भेदोपमर्दो दृशत इति न वस्तुविरोधः; मृत्सुवर्ण- गवावाद्यात्मनाऽवस्थितस्यैव घटमकुटखण्डबडबाद्यात्मना चावस्थानात् । न चाभिन्नस्य भिन्नस्य च वस्तुनोऽभेदो भेदश्च एक एवाकार इतीश्वराज्ञा । प्रतीतत्वादैकरूप्यं चेत्, प्रतीतत्वादेव भिन्नाभिन्नत्वमिति द्वैरूप्यमप्यभ्युपगम्यताम् । न हि विस्फारिताक्षः पुरुषो घट- शरावखण्डमुण्डादिषु वस्तुषूपलभ्यमानेषु ‘इयं मृत्, अयं घटः, इदं गोत्वम्, इयं व्यक्तिः' इति विवेक्तुं शक्नोति । अपि तु 'मृदयं घटः, खण्डो गौः' इत्येव प्रत्येति । अनुवृत्तिबुद्धिबोध्यं कारणमाकृतिश्च, व्यावृत्तिबुद्धिबोध्यं कार्य व्यक्तिश्चेति विविनक्तीति चेत्, नैवम् विविक्ता- कारानुपलब्धेः । न हि सुसूक्ष्ममपि निरीक्षमाणैः इदमनुवर्तमानम्, इदं च व्यावर्तमानमिति पुरोऽवस्थिते वस्तुन्याकार भेद उपलभ्यते । यथा संप्रतिपन्न क्ये कार्य विशेषे चैकत्वबुद्धिरुप- जायते; तथैव सकारणे ससामान्ये चैकत्वबुद्धिरविशिष्टोपजायते । एवमेव देशतः कालतश्ना- कारतश्चात्यन्तविलक्षणेष्वपि वस्तुषु तदेवेदमिति प्रत्यभिज्ञा जायते । अतो व्यात्मकमेव वस्तु प्रतीयत इति कार्यकारणयोर्जातिव्यक्त्योश्चात्यन्तभेदोपपादनं प्रतीतिपराहतम् ॥ अथोच्येत-मृदयं घटः खण्डो गौरितिवत् देवोऽहं मनुष्योऽहमिति सामानाधि- करण्येनैक्यप्रतीतेरात्मशरीरयोरपि भिन्नाभिन्नत्वं स्यात्; अत इदं भेदाभेदोपपादनं निजसदन- निहितहतबहज्वालायत इति; तदिदमनाकलितभेदाभेदसाधनसामानाधिकरण्यतदर्थ- याथात्म्यावबोधविलसितम्। तथा हि-अबाधित एव प्रत्ययः सर्वत्रार्थ व्यवस्थापयति । देवाद्यात्माभिमानस्तु आत्मयाथात्म्यगोचरैस्सर्वैः प्रमाणैर्बाध्यमानो रज्जुसर्यादिबुद्धिवन्नात्म- शरीरयोरभेदं साधयति खण्डो गौः, मुण्डो गौरिति सामानाधिकरण्यस्य न केनचित्क्व- चिद्बाधो दृश्यते । तस्मानातिप्रसङ्गः ॥ अत एव जीवोऽपि ब्रह्मणो नात्यन्तभिन्नः । अपि तु ब्रह्मांशत्वेन भिन्नाभिन्नः । तत्राभेद एव स्वाभाविकः, भेदस्त्वौपाधिकः । कथमवगम्यत इति चेत् तत्त्वमसि *नान्यो- ऽतोऽस्ति द्रष्टा *अयमात्मा ब्रह्मेत्यादिभिश्श्रुतिभिः, *ब्रह्ममे द्यावापृथिवी इति प्रकृत्य *ब्रह्म- दाशा ब्रह्मदासा ब्रह्म मे कितवा उत । स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमान् ।। इत्याथर्वणिकानां संहितोपनिषदि ब्रह्मसूते अभेदश्रवणाच्च । अनित्यो नित्यानां चेतनश्चेत- नानामेको बहूनां यो विदधाति कामान् *ज्ञाज्ञौ द्वावजावीशनीशौ *क्रियागुणैरात्मगुणश्च तेषां संयोगहेतुरपरोऽपि दृष्ट. *प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः *स कारणं करणाधिपाधिपः तथोरन्यः पिप्पलं स्वावृत्ति अनश्नन्नन्यो अभिचाकशीति *य आत्मनि ७८ श्रीभगद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । तिष्ठन् *प्राज्ञेनात्मना संपरिष्वक्तो न बाह्य किञ्चन वेद...प्राज्ञेनात्मनान्वारूढः उत्सर्जन्याति *तमेव विदित्वाऽतिमृत्युमेति इत्यादिभिर्भेदश्रवणाच्च, जीवपरयोर्भेदाभेदाववश्याश्रयणीयौ । तत्र *ब्रह्म वेद ब्रह्म व भवतीत्यादिभिर्मोक्षदशायां जीवस्य ब्रह्मस्वरूपापत्तिव्यपदेशात्, “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत् इति तदानीं भेदेनेश्वरदर्शननिषेधाचाभेदस्वाभाविक इत्यवगम्यते ॥ ननु च *सोश्नुते सर्वान् कामान सह ब्रह्मणा विपश्चितेति सहश्रुत्या तदानीमपि भेदः प्रतीयते । वक्ष्यति च *जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च *भोगमात्रसाम्य- लिङ्गाच्चेति । नैतदेवम् *नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतिशतैरात्मभेदप्रतिषेधात् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति सर्वैकामैस्सह ब्रह्माश्नुते-सर्वगुणान्वितं ब्रह्माश्नुत इत्युक्तं भवति । अन्यथा ब्रह्मणा सहेत्यप्राधान्यं ब्रह्मणः प्रसज्येत । *जगद्वयापारवर्जमित्यत्र मुक्तस्य भेदेनावस्थाने सत्यैश्वर्यस्य न्यूनताप्रसङ्गो वक्ष्यते; अन्यथा *संपद्याविर्भावस्स्वेनशब्दात् इत्यादिभिविरोधात् । तस्मादझेद एव स्वाभाविकः । भेदस्तु जीवानां परस्मात् ब्रह्मणः, परस्परं च बुद्धीन्द्रियदेहोपाधिकृतः। यद्यपि ब्रह्म निरवयवं सर्वगतं च; तथाऽप्याकाश इव घटादिना बुद्ध्याधुपाधिना ब्रह्मण्यपि भेदस्संभवत्येव ॥ न च भिन्ने ब्रह्मणि बुद्धयाधुपाधिसंयोगः, बुद्धयाधुपाधिसंयोगाद्ब्रह्मणि भेद इतीतरे- तराश्रयत्वम्; उपाधेस्तत्संयोगस्य च कर्मकृतत्वात्, तत्प्रवाहस्य चानादित्वात् । एतदुक्तं भवति-पूर्वकर्मसंबद्धान्जीवात् स्वसंबद्ध एवोपाधिरुत्पद्यते, तद्युक्तात्कर्म । एवं बीजाकुर- न्यायेन कर्मोपाधिसंबन्धस्यानादित्वान्न दोषः-इति । अतो जीवानां परस्परं ब्रह्मणा चाभेद एव स्वाभाविकः । भेदस्त्वौपाधिकः । उपाधीनां पुनः परस्परं ब्रह्मणा चाभेदवत् भेदोऽपि स्वाभाविकः, उपाधीनामुपाध्यन्तराभावात्, तदभ्युपगमेऽनवस्थानाच्च । अतो जीवकर्मानुरूपं ब्रह्मणो भिन्नाभिन्नस्वभावा एवोपाधय उत्पद्यन्ते इति ॥ अत्रोच्यते-अद्वितीयसच्चिदानन्दब्रह्मध्यानविषयविधिपरं वेदान्तवाक्यजातमिति वेदान्तवाक्यैरभेदः प्रतीयते। भेदावलम्बिभिः कर्मशास्त्रः प्रत्यक्षादिभिश्च भेदः प्रतीयते । भेदाभेदयोः परस्परविरोधात् अनाद्यविद्यामूलतयाऽपि भेदप्रतीत्युपपत्तेरभेद एव परमार्थ इत्युक्तम् । तत्र यदुक्तं भेदाभेदयोरुभयोरपि प्रतीतिसिद्धत्वान्न विरोध इति । तदयुक्तम्, कस्माच्चित्कस्यचिद्विलक्षणत्वं हि तस्मात्तस्य भेदः । तद्विपरीतत्वं चाभेदः । तयोस्तथाभावातथा- भावरूपयोरेकत्र संभवमनुन्मत्तः को ब्रवीति ? कारणात्मना जात्यात्मना चाभेदः कार्यात्मना व्यक्त्यात्मना च भेदः-इत्याकारभेदादविरोध इति चेन्न; विकल्पासहत्वात् । आकारभेदाद- विरोधं वदतः किमेकस्मिन्नाकारे भेदः, आकारान्तरे चाभेद इत्यभिप्रायः ? उताकारद्वय- प्रथमाध्याये--प्रथमपादे-समन्वयाधिकरणम् ४ । ७६ ? योगिवस्तुगतावुभावपीति ? पूर्वस्मिन् कल्पे व्यक्तिगतो भेदः, जातिगतश्चाभेद इति नैकस्य द्वयात्मकता। जातियक्तिरिति चैकमेव वस्त्विति चेत्, ताकारभेदादविरोधः परि- त्यत्तस्स्यात् । एकस्मिश्च विलक्षणत्वतद्विपर्ययौ विरुद्धावित्युक्तम् । द्वितीये तु कल्पे अन्योन्य- विलक्षणमाकारद्वयमप्रतिपन्नं च तदाश्रयभूतं वस्त्विति(तृतीया)त्रितयाभ्युपगमेऽपि त्रयाणाम- न्योन्यवलक्षण्यमेवोपपादितं स्यात्, न पुनरभेदः । आकारद्वयनिरुह्यमाणाविर'धं तदाश्रयभूते वस्तुनि भिन्नाभिन्नत्वमिति चेत्, स्वस्माद्विलक्षणं स्वाश्रयमाकारद्वयं स्वस्मिन्विरुद्धधर्मद्वयसमा- वेशनिर्वाहकं कथं भवेत् ? अविलक्षणं तु कथंतराम् ? आकारद्वयतद्वतोश्च द्वयात्मकत्वाभ्युप- गमे निर्वाहकान्तरापेक्षयाऽनवस्था स्यात् । न च संप्रतिपन्न क्यव्यक्तिप्रतीतिवत् ससमान्येऽपि वस्तुन्येकरूपा प्रतीतिरुपजायते । यतः इदमित्थमिति सर्वत्र प्रकारप्रकारितयैव सर्वा प्रतीतिः । तत्र प्रकारांशो जातिः, प्रकार्यशो व्यक्तिरिति नैकाकरा प्रतीतिः। अत एव जीवस्यापि ब्रह्मणो भिन्नाभिन्नत्वं न संभवति । तस्मादभेदस्यानन्यथासिद्धमूलत्वादनाद्यविद्यामूल एव भेदप्रत्ययः । नन्वेवं ब्रह्मण एवाज्ञत्वं, तन्मूलाच जन्मजरामरणादयो दोषाः प्रादुष्युः। ततश्न यस्सर्वज्ञस्सर्ववित् एष आत्माऽपहतपाप्मा इत्यादीनि शास्त्राणि बाध्येरन् । नैवम्, अज्ञानादिदोषाणामपरमार्थत्वात् । भवतस्तूपाधिब्रह्मव्यतिरिक्तं वस्त्वन्तरमनभ्युपगच्छतो ब्रह्मण्येवोपाधिसंसर्गस्तत्कृताश्च जीवत्वाज्ञत्वादयो दोषाः परमार्थत एव भवेयुः। न हि ब्रह्मणि निरवयवे अच्छेद्ये संबद्धयमाना उपाधयस्तच्छित्वा भित्त्वा वा संबध्यन्ते । अपि तु ब्रह्मस्वरूपे संयुज्य तस्मिन्नेव स्वकार्याणि कुर्वन्ति । यदि मन्वीत-उपाध्युपहितं ब्रह्म जीवः । स चाणुपरिमाणः । अणुत्वं चावच्छेद- कस्य मनसोऽणुत्वात् । स चावच्छेदोऽनादिः । एवमुपाध्युपहितेंऽशे संबद्धयमाना दोषाः अनु- पहिते परे ब्रह्मणि न संबद्धयन्ते -इति । अयं प्रष्टव्यः-किमुपाधिना छिन्नो ब्रह्मखण्डोऽणुरूपो जीवः ? उताच्छिन्न एवाणुरूपोपाधिसंयुक्तो ब्रह्मप्रदेशविशेषः ? उतोपाधिसंयुक्तं ब्रह्मस्वरूपम् ? अथोपाधिसंयुक्तं चेतनान्तरम् ? अथोपाधिरेव ? इति । अच्छेद्यत्वाद्ब्रह्मणः प्रथमः कल्पो न कल्पते । आदिमत्त्वं च जीवस्य स्यात् । एकस्य सतो द्वैधोकरणं हि च्छेदनम् । द्वितीये तु कल्पे ब्रह्मण एव प्रदेशविशेष उपाधिसंबन्धादौपाधिकास्सर्वे दोषास्तस्यैव स्युः । उपाधौ गच्छत्युपाधिना स्वसंयुक्तब्रह्मप्रदेशाकर्षणायोगादनुक्षणमुपाधिसंयुक्तब्रह्मप्रदेशभेदात् क्षणेक्षणे बन्धमोक्षौ च स्याताम् । आकर्षणे चाच्छिन्नत्वात् कृत्स्नस्य ब्रह्मणः आकर्षणं स्यात् । निरंशस्य व्यापिनः आकर्षणं न संभवतीति चेत्; तहि उपाधिरेव गच्छतीति पूर्वोक्त एव दोषः स्यात् । अच्छिन्नब्रह्मप्रदेशेषु सर्वोपाधिसंसर्गे सर्वेषां च जीवानां ब्रह्मण एव प्रदेशत्वे- नैकत्वेन प्रतिसन्धानं स्यात् । प्रदेशभेदादप्रतिसन्धाने चैकस्यापि स्वोपाधौ गच्छति प्रति- सन्धानं न स्यात् । तृतीये तु कल्पे ब्रह्मस्वरूपस्यैवोपाधिसंबन्धेन जीवत्वापातात् तदति- श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । रिक्तानुपहितब्रह्मासिद्धिः स्यात् । सर्वेषु च देहेष्वेक एव जीवः स्यात् । तुरीये तु कल्पे ब्रह्मणोऽन्य एव जीव इति जीवभेदस्यौपाधिकत्वं परित्यक्तं स्यात् । चरमे चार्वाकपक्ष एव परिगृहीतः स्यात् । तस्मादभेदशास्त्रबलेन कृत्स्नस्य भेदस्याविद्यामूलत्वमेवाभ्युपगन्तव्यम् । अतः प्रवृत्तिनिवृत्तिप्रयोजनपरत्येव शास्त्रस्य प्रामाण्येऽपि ध्यानविधिशेषतया वेदान्तवाक्यानां ब्रह्मस्वरूपे प्रामाण्यमुपपन्नमिति ॥ तदप्ययुक्त न्-ध्यानविधिशेषत्वेऽपि वेदान्तवाक्यानामर्थसत्यत्वे प्रामाण्यायोगात् । एतदुक्तं भवति-ब्रह्मस्वरूपगोचराणि वाक्यानि कि ध्यानविधिनैकवाक्यतामापन्नानि ब्रह्म- स्वरूपे प्रामाण्यं प्रतिपद्यन्ते; उत स्वतन्त्राण्येव ? एकवाक्यत्वे ध्यानविधिपरत्वेन ब्रह्मस्वरूपे तात्पर्य न संभवति । भिन्नवाक्यत्वे प्रवृत्तिनिवृत्तिप्रयोजनविरहादनवबोधकत्वमेव । न च वाच्यम्-ध्यानं नाम स्मृतिसन्ततिरूपम् । तच्च स्मर्तव्यैकनिरूपणीयमिति ध्यानविधेस्स्मत- व्यविशेषाकाङ्क्षायाम् इदं सर्वं यदयमात्मा ब्रह्म सर्वानुभूः *सत्यं ज्ञानमनन्तं ब्रह्म इत्यादीनि ब्रह्मस्वरूपतद्विशेषादीनि समर्पयन्ति । तेनैकवाक्यतामापन्नान्यर्थसद्भावे प्रमाण- मिति । ध्यानविधेस्स्मर्तव्यविशेषापेक्षत्वेऽपि *नाम ब्रह्मत्यादिदृष्टिविधिवदसत्येनाप्यर्थ- विशेषेण ध्याननिवृत्त्युपपत्तेः, ध्येयसत्यत्वानपेक्षणात् । अतो वेदान्तवाक्यानां प्रवृत्तिनिवृत्ति- प्रयोजनविधुरत्वाद्धयानविधिशेषत्वेऽपि ध्येयविशेषस्वरूपसमर्पणमात्रपर्यवसानात्, स्वातन्त्र्येऽपि । बालातुराग्रुपच्छन्दनवाक्यवत् ज्ञानमात्रेणैव पुरुषार्थपर्यन्ततासिद्धेश्च परिनिष्पन्नवस्तुसत्यता- गोचरत्वाभावात् ब्रह्मणश्शास्त्रप्रमाणकत्वं न संभवतीति प्राप्तम् ॥ तत्र प्रतिपद्यते-तत्तु समवयादिति । समन्वयः-सम्यगन्वयः, पुरुषार्थतयाऽन्वय इत्यर्थः। परमपुरुषार्थभूतस्यानवधिकातिशयानन्दस्वरूपस्य ब्रह्मणोऽभिधेयतयाऽन्वयात्, तत्- शास्त्रप्रमाणकत्वं सिध्यत्येवेत्यर्थः । निरस्तनिखिलदोषनिरतिशयानन्दस्वरूपतया परमप्राप्यं ब्रह्म बोधयन्वेदान्तवाक्यगणः प्रवृत्तिनिवृत्तिपरताविरहान्न प्रयोजनपर्यवसायोति ब्रुवाणो राजकुल- वासिनः पुरुषस्य कौलेयककुलाननुप्रवेशेन प्रयोजनशून्यतां ब्रूते । एतदुक्तं भवति-अनादिकर्म रूपाविद्यावेष्टनतिरोहितपरावरतत्त्वयाथात्म्यस्वस्वरूपावबोधानां देवासुरगन्धर्वसिद्धविद्याधर- किन्नरकिंपुरुषयक्षराक्षसपिशाचमनुजपशुशकुनिसरीसृपवृक्षगुल्मलतादूर्वादीनां स्त्रीपुन्नपुंसक- भेदभिन्नानां क्षेत्रज्ञानां व्यवस्थितधारकपोषकभोग्यविशेषाणां मुक्तानां स्वस्य चाविशेषेणानु- भवसंभवे स्वरूपरूपगुणविभवचेष्टितैरनवधिकातिशयानन्दजननं परं ब्रह्मास्तीति बोधयदेव वाक्यं प्रयोजनपर्यवसायि । प्रवृत्तिनिवृत्तिनिष्ठ तु यावत्पुरुषार्थान्वयबोधं न प्रयोजनपर्यवसायि ॥ एवंभूतं परं ब्रह्म कथं प्राप्यत इत्यपेक्षायां *ब्रह्मविदाप्नोति परम् *आत्मानमेव लोकमुपासीतेति वेदनादिशब्दरुपासनं ब्रह्मप्राप्त्युपायतया विधीयते । यथा स्ववेश्मनि - प्रथमाध्याये-प्रथमपादे-ईक्षत्यधिकरणम् । निधिरस्तीति वाक्येन निधिसद्धावं ज्ञात्वा तृप्तस्सन् पश्चात्तदुपादाने च प्रयतते । यथा च कश्चिद्राजकुमारो बालक्रीडासक्तो नरेन्द्रभवनानिष्क्रान्तो मार्गाद्धृष्टो नष्ट इति राज्ञा विज्ञात- स्स्वयं चाज्ञातपितृकः केनचिद्विजवर्येण वधितोऽधिगतवेदशास्त्रष्षोडशवर्षस्सर्वकल्याणगुणा- करस्तिष्ठन् 'पिता ते सर्व लोकाधिपतिः गाम्भीर्यौदार्यवात्सल्यशौर्यवीर्यपराक्रमादिगुणसंपन्न- स्त्वामेव नष्ट पुत्रं दिदृशुः पुरवरे तिष्ठति' इति केनचिदभियुक्ततमेन प्रयुक्तं वाक्यं शृणोति चेत्, तदानीमेव अहं तावत् जीवतः पुत्रः, मत्पिता च सर्वसंपत्समृद्ध इति निरतिशयहर्ष- समन्वितो भवति । राजा च स्वपुत्रं जीवन्तमरोगमतिमनोहरदर्शनं विदितसकलवेद्यं श्रुत्वा- ऽवाप्तसमस्तपुरुषार्थो भवति । पश्चात्तदुपादाने च प्रयतते । पश्चात्तावुभौ सङ्गच्छेते चेति ॥ यत्पुनः परिनिष्पन्नवस्तुगोचरस्य वाक्यस्य तज्ज्ञानमात्रेणापि पुरुषार्थपर्यवसानात् बालातुराग्रुपच्छन्दनवाक्यवन्नार्थसद्भावे प्रामाण्यमिति, तदसत् । अर्थसद्भावाभावे निश्चिते ज्ञातोऽप्यर्थः पुरुषार्थाय न भवति । बालातुरादीनामप्यर्थसद्भावभ्रान्त्या हर्षाद्युत्पत्तिः । तेषा- मेव तस्मिन्नेव ज्ञाने विद्यमाने यद्यर्थाभावनिश्चयो जायेत ततस्तदानीमेव हर्षादयो निवर्तेरन् । औपनिषदेष्वपि वाक्येषु ब्रह्मास्तित्वतात्पर्याभावनिश्चये ब्रह्मज्ञाने सत्यपि पुरुषार्थपर्यवसानं न स्यात् । अतः *यतो वा इमानि भूतानि जायन्ते इत्यादिवाक्यं निखिलजगदेककारणं निरस्तनिखिलदोषगन्धं सार्वस्यसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणाकरमनवधिकातिशयानन्दं ब्रह्मास्तीति बोधयतीति सिद्धम् ॥४॥ इति समन्वयाधिकरणम् ॥४॥ अथ ईक्षत्यधिकरणम्. ५ ५. ईक्षते शब्दम् ॥ १-१-५॥ *यतो वा इमानीत्यादिजगत्कारणवादिवाक्यप्रतिपाद्यं सर्वज्ञं सर्वशक्ति समस्तहेय- प्रत्यनीककल्याणगुणकतानं ब्रह्म जिज्ञास्यमित्युक्तम् । इदानीं जगत्कारणवादिवाक्यानामानु- मानिकप्रधानादिप्रतिपादनानहतोच्यते-ईक्षते शब्दमित्यादिना ।। इदमाम्नायते छान्दोग्ये-*सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत *इत्यादि । तत्र संदेहः-कि सच्छब्दवाच्यं जगत्कारणं परोक्त- मानुमानिकप्रधानम्, उतोक्तलक्षणं ब्रह्मेति । किं प्राप्तम् ? प्रधानमिति । कुतः ? सदेव सोम्येदमग्र आसीदेकमेवेतीदंशब्दवाच्यस्य चेतनभोग्यभूतस्य सत्त्वरजस्तमोमयस्य वियदादि- नानारूपविकारावस्थस्य वस्तुनः कारणावस्थां वदति । कारणभूतद्रव्यस्यावस्थान्तरापत्तिरेव हि कार्यता । अतो यद्रव्यं यत्स्वभावं च कार्यावस्थम् तत्स्वभावं तदेव द्रव्यं कारणावस्थम् । सत्त्वादिमयं च कार्यमिति गुणसाम्यावस्थं प्रधानमेव हि कारणम् । तदेवोपसंहृतसकलविशेषं ८२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? सन्मात्रमिति *सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्यभिधीयते। तत एव च कार्य- कारणयोरनन्यत्वम् । तथा सत्येवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः। अन्यथा यथा सोम्यकेन मृत्पिण्डेनेत्यादिमृत्पिण्डतत्कार्यदृष्टान्तदान्तिकयो(रूप्यं चेति जगत्कारणवादि- वाक्येन महर्षिणा कपिलेनोक्तं प्रधानमेव प्रतिपाद्यते प्रतिज्ञादृष्टान्तरूपेणानुमानवेषमेव चेदं वाक्यमिति सच्छन्दवाच्यमानुमानिकमेव ॥ इत्येवं प्राप्त ऽभिधीयते-ईक्षते शब्दमिति । यस्मिन् शब्द एव प्रमाणं न भवति तदशब्दम्, आनुमानिकं प्रधानमित्यर्थः । न तज्जगत्कारणवादिवाक्यप्रतिपाद्यम्; कुतः ईक्षतेः-सच्छब्दवाच्यसंबन्धिव्यापारविशेषाभिधायिन ईक्षतेर्धातोश्श्रवणात् तदक्षत बहु स्थां प्रजायेयेति । ईक्षणक्रियायोगश्वाचेतने प्रधाने न संभवति । अत ईदृशेक्षणक्षमश्चेतनविशेष- स्सर्वज्ञस्सर्वशक्तिः पुरुषोत्तमस्सच्छब्दाभिधेयः। तथा च सर्वेष्वेव सृष्टिप्रकरणेष्वीक्षापूर्विकंव सृष्टिः प्रतीयते *स ईक्षत लोकान्नु सृजा इति स इमाल्लोकानसृजत *स ईक्षाञ्चक्रे...स प्राणमसृजतेत्यादिषु । ननु च कार्यानुगुणेनैव कारणेन भवितव्यम् । सत्यम्; सर्वकार्यानुगुण एव सर्वज्ञस्सर्वशक्तिस्सत्यसङ्कल्पः पुरुषोत्तमस्सूक्ष्मचिदचिद्वस्तुशरीरकः । यथाऽऽह अपराऽस्य शक्तिविविधैव श्रूयते स्वाभाविको ज्ञानबलक्रिया च यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः *यस्याव्यक्तं शरीरं...यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम्...एष सर्वभूतान्तरात्मा इति । तदेतत्- *न विलक्षणत्वादित्यादिषु प्रतिपादयिष्यते । अत्र सृष्टिवाक्यानि न प्रधानप्रति- पादनयोग्यानीत्युच्यते । वस्तुविरोधस्तु तत्रैव परिहरिष्यते। यत्तूक्त प्रतिज्ञादृष्टान्तयोगादनु- मानरूपमेवेदं वाक्यमिति, तदसत्; हेत्वनुपादानात् । *येनाश्रुतं श्रुतमित्येकविज्ञानेन सर्व- विज्ञाने प्रतिपिपादयिषिते सर्वात्मना तदसंभवं मन्वानस्य तत्संभवमात्रप्रदर्शनाय हि दृष्टान्तो- पादानम् । ईक्षत्यादिश्रवणादेव हनुमानगन्धाभावोऽवगतः ।।५।। अथ स्यात्-न चेतनगतं मुख्यमीक्षणमिहोच्यते, अपि तु प्रधानगतं गौणमीक्षणम्, *तत्तेज ऐक्षत *ता आप ऐक्षन्तेति गौणेक्षणसाहचर्यात् । भवति चाचेतनेष्वपि चेतनधर्मो- पचारः। यथा श्वृष्टिप्रतीक्षाश्शालयः *वर्षेण बीजं प्रतिसञ्जहर्षेति । अतो गौणमीक्षणमिती- मामाशङ्कामनुभाष्य परिहरति- ६. गौणश्चेन्नात्मशब्दात् ॥ १-१-६ ॥ यदुक्तं गौणेक्षणसाहचर्यात् सतोऽपीक्षणव्यपदेशस्सर्गनियतपूर्वावस्थाभिप्रायो गौण इति । तन्न, ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा इति सच्छब्दप्रतिपादितस्य आत्मशब्देन व्यपदेशात् । एतदुक्तं भवति-*ऐनदात्म्यमिदं सर्वम्, स आत्मेति चेतनाचेतनप्रपञ्चोद्देशेन सत आत्मत्वोपदेशोऽयं नाचेतने प्रधाने संगच्छत इति । अतस्तेजोबनानामपि परमात्मै- प्रथमाध्याये-प्रथमपादे-ईक्षत्यधिकरणम् । ८३ - वात्मेति तेजःप्रभृत्योऽपि शब्दा परमात्मन एव वाचकाः। तथाहि *हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति परमात्मानुप्रवेशादेव तेजः- प्रभृतीनां वस्तुत्वं तत्तन्नामभाक्त्वञ्चेति *तत्तेज ऐक्षत, *ता आप ऐक्षन्तेत्यपि मुख्य एवेक्षणव्यपदेशः । अतस्साहचर्यादपि *तदक्षतेत्यत्र गौणत्वाशङ्का दूरोत्सारितेति सूत्राभिप्रायः ॥ ६ ॥ इतश्च न प्रधानं सच्छब्दप्रतिपाद्यम्- ७. यनिष्ठस्य मोक्षोपदेशात् ॥ १-१-७ ॥ मुमुक्षोश्श्वेतकेतोः तत्त्वमसीति सदात्मकत्वानुसंधानमुपदिश्य, तन्निष्ठस्य *तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये *इति शरीरपातमात्रान्तरायो ब्रह्मसंपत्तिलक्षणो मोक्ष इत्युपदिशति । यदि च प्रधानमचेतनं कारणमुपदिश्येत; तदा तदात्मकत्वानुसंधानस्य मोक्षसाधनत्वोपदेशो नोपपद्यते । “यथा क्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवतीति तनिष्ठस्याचेतनसंपत्तिरेव स्यात् । नच मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रमेवंविधता- पत्रयाभिहतिहेतुभूतामचित्संपत्तिमुपदिशति । प्रधानकारणवादिनोऽपि हि प्रधाननिष्ठस्य मोक्षं नाभ्युपगच्छन्ति ॥७॥ इतश्च न प्रधानम्- ८. हेयत्वावचनाच्च ॥ १-१-८ ॥ यदि प्रधानमेव कारणं सच्छब्दाभिहितं भवेत्, तदा मुमुक्षोश्श्वेतकेतोस्तदात्मकत्वं मोक्षविरोधित्वाद्धयत्वेनैवोपदेश्यं स्यात् । न च तत्क्रियते, प्रत्युतोपादेयत्वेनैव तत्त्वमसि *तस्य तावदेव चिरमित्युपदिश्यते ॥ ८ ॥ इतश्च न प्रधानम्- ६. प्रतिज्ञाविरोधात् ॥ १-१-६ ।। प्रधानकारणत्वे प्रतिज्ञाविरोधश्च भवति । वाक्योपक्रमे ोकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्च कार्यकारणयोरनन्यत्वेन कारणभूतसद्विज्ञानात्तत्कार्यभूतचेतनाचेतनप्रपञ्चस्य ज्ञाततयैवोपपादनीयन् । तत्तु प्रधानकारणत्वे चेतनवर्गस्य प्रधानकार्यत्वाभावात् प्रधान- विज्ञानेन चेतनवर्गविज्ञानासिविरुध्यते ॥६॥ इतश्च न प्रधानम्- १०. स्वाप्ययात् ॥ १-१-१० ॥ तदेव सच्छन्दवाच्यं प्रकृत्याह *स्वप्नान्तं मे सोम्य विजानीहीति यत्रतत्पुरुषस्स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं - - ८४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । 100 ह्यपीतो भवति इति । सुषुप्त जीवं सता संपन्न, स्वमपीतः-स्वस्मिन् प्रलीनः इति व्यपदिशति । प्रलयश्च-स्वकारणे लयः । न चाचेतनं प्रधानं चेतनस्य जीवस्य कारणं भवितु- महति । स्वमपीतो भवति-आत्मानमेव जीवोऽपीतो भवतीत्यर्थः । चिद्वस्तुशरीरकं तदात्म- भूतं ब्रह्मव जीवशब्देनाभिधीयत इति नामरूपव्याकरणश्रुत्योक्तम् । तज्जीवशब्दाभिधेयं ब्रह्म सुषुप्तिकालेऽपि प्रलयकाल इव नामरूपपरिष्वङ्गाभावात् केवलसच्छब्दाभिधेयमिति *सता सोम्य तदा संपन्नो भवति स्वमपीतो भवतीत्युच्यते । तथा समानप्रकरणे नामरूपपरिष्वङ्गा- भावेन प्राज्ञेनैव परिष्वङ्गात् *प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तर- मित्युच्यते । आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदयः । सुषुप्ति- काले हि नामरूपे विहाय सता संपरिष्वक्तः पुनरपि जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते-*यदा सुप्तस्स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति...एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते । तथा-. *त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति इति च । तथा सुषुप्त जीवं *प्राज्ञेनात्मना संपरिष्वक्तः इति च वदति । तस्मात् सच्छन्दवाच्यः परं ब्रह्म सर्वज्ञः परमेश्वरः पुरुषोत्तम एव । तदाह वृत्तिकारः तदा संपन्नो भवतीति, संपत्त्यसंपत्तिभ्यामेतदध्यवसीयते, *प्राज्ञेनात्मना संपरिष्वक्तः इति चाहेति ॥१०॥ इतश्च न प्रधानम्- ११. गतिसामान्यात् ॥ १-१-११ ॥ आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्, स ईक्षत लोकान्नु सृजा इति, स इमाल्लोकानसृजत *तस्माद्वा एतस्मादात्मन आकाशस्संभूतः, आकाशाद्वायु., वायोरग्निः, अग्नेरापः, अद्भयः पृथिवी *तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः इत्यादिसृष्टिवाक्यानां या गतिः-प्रवृत्तिः, तत्सामान्यात्-तत्समानार्थत्वादस्य; तेषु च सर्वेषु सर्वेश्वरः कारणमवगम्यते । तस्मादत्रापि सर्वेश्वर एव कारणमिति निश्चीयते ॥११॥ - इतश्च न प्रधानम्- १२ श्रुतत्वाच्च । १।१ । १२ ।। श्रुतमेव ह्यस्यामुपनिषदि अस्य सच्छन्दवाच्यस्य आत्मत्वेन नामरूपयोाकर्तृत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वाधारत्वम् अपहतपाप्मत्वादिकं सत्यकामत्वं सत्यसङ्कल्पत्वञ्च-*अनेन जीधेना- स्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि *सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा श्यच्चास्येहास्ति यच्च नास्ति सर्व तदस्मिन्समाहि- प्रथमाध्याये-प्रथमपादे-आनन्दमयाधिकरणम् तम् *(अ)तस्मिन् कामास्समाहिताः, एष आत्माऽपहतपाप्मा विजरो विमृत्युविशोको विजघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः इति । तथा च श्रुत्यन्तराणि *न तस्य कश्चित्पति- रस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥ *सर्वाणि रूपाणि विचित्य धीरः, नामानि कृत्वाऽभिवदन्यदास्ते *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा *विश्वात्मानं परायण *पति विश्वस्यात्मेश्वरम् श्यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा, अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः *एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इत्यादीनि । तस्माज्जग- कारणवादिवाक्यं न प्रधानादिप्रतिपादनयोग्यम् । अतस्सर्वज्ञस्सर्वशक्तिस्सर्वेश्वरेश्वरो निरस्त- निखिलदोषगन्धोऽनवधिकातिशयासङ्घय यकल्याणगुणगणौघमहार्णवः पुरुषोत्तमो नारायण एव निखिलजगदेककारणं जिज्ञास्यं ब्रह्मेति स्थितम् ।। अत एव निविशेषचिन्मात्रब्रह्मवादोऽपि सूत्रकारेण आभिश्श्रुतिभिः निरस्तो वेदि- तव्यः; पारमार्थिकमुख्येक्षणादिगुणयोगि जिज्ञास्यं ब्रह्मति स्थापनात् । निविशेषवादे हि साक्षित्वमप्यपारमार्थिकम् । वेदान्तवेद्यं ब्रह्म जिज्ञास्यतया प्रतिज्ञातम् । तच्च चेतनमिति *ईक्षते शब्दमित्यादिभिस्सूत्रः प्रतिपाद्यते । चेतनत्वं नाम चैतन्यगुणयोगः । अत ईक्षणगुण- विरहिणः प्रधानतुल्यत्वमेव । किंच निर्विशेषप्रकाशमात्रब्रह्मवादे तस्य प्रकाशत्वमपि दुरुप- पादम् । प्रकाशो हि नाम स्वस्य परस्य च व्यवहारयोग्यतामापादयन्वस्तुविशेषः । निविशे- षस्य वस्तुनस्तदुभयरूपत्वाभावात् घटादिवदचित्त्वमेव । तदुभयरूपत्वाभावेऽपि तत्क्षमत्व- मस्तीति चेत्, तन्न, तत्क्षमत्वं हि तत्सामर्थ्यमेव । सामर्थ्यगुणयोगे हि निविशेषवादः परि- त्यक्तस्स्यात् । अथ श्रुतिप्रामाण्यादयमेको विशेषोऽभ्युपगम्यत इति चेत्, हन्त तहि तत एव सर्वज्ञता, सर्वशक्तित्वं, सर्वेश्वरेश्वरत्वं, सर्वकल्याणगुणाकरत्वं, सकलहेयप्रत्यनीक तेत्यादयस्सर्वे- ऽभ्युपगन्तव्याः । शक्तिमत्त्वं च कार्यविशेषानुगुणत्वम्; तच्च कार्यविशेषैकनिरूपणीयम्; कार्य- विशेषस्य निष्प्रमाणकत्वे तदेकनिरूपणीयं शक्तिमत्त्वमपि निष्प्रमाणकं स्यात् । किञ्च निवि- शेषवस्तुवादिनो वस्तुत्वमपि निष्प्रमाणम् । प्रत्यक्षानुमानागमस्वानुभवाः सविशेषगोचरा इति पूर्वमेवोक्तम् । तस्माद्विचित्रचेतनाचेतनात्मकजगद् पेण *बहु स्यामितीक्षणक्षमः पुरुषोत्तम एव जिज्ञास्य इति सिद्धम् ॥ १२ ॥ इति ईक्षत्यधिकरणम् ॥५॥ ~- ।। अथ आनन्दमयाधिकरणम् ।। ६ ।। एवं जिज्ञासितस्य ब्रह्मणश्चेतनभोग्यभूनजरूपतत्त्वरजस्तमोमयप्रधानान्द्यावृत्ति- रुक्ता । इदानी कर्मवश्यात् त्रिगुणात्मकप्रकृतिसंसर्गनिमित्तनानाविधानन्तदुःखसागरनिमज्ज- नेनाशुद्धाच्छुद्धाच्च प्रत्यगात्मनोऽन्यन्निखिलहेयप्रत्यनीकनिरतिशयानन्दं ब्रह्म तिप्रतिपाद्यते- - श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । १३ आनन्दमयोऽभ्यासात् । १।१।१३ ॥ तैत्तिरीया अधीयते-*स वा एष पुरुषोऽन्नरसमयः इति प्रकृत्य *तस्माद्वा एतस्मा- द्विज्ञानमयात्, अन्योऽन्तर आत्माऽऽनन्दमयः इति । तत्र सन्देहः-~-किमयमानन्दमयो बन्ध- मोक्षभागिनः प्रत्यगात्मनो जीवशब्दाभिलपनीयादन्यः परमात्मा; उत स एवेति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? *तस्यैष एव शारीर आत्मा इत्यानन्दमयस्य शारीरत्व- श्रवणात्; शारीरो हि शरीरसंबन्धी जीवात्मा ॥ ननु च जगत्कारणतया प्रतिपादितस्य ब्रह्मणः सुखप्रतिपत्त्यर्थमन्नमयादीननुक्रम्प तदेव जगत्कारणमानन्दमय इत्युपदिशति; जगत्कारणं च *तदैक्षतेतीक्षणश्रवणात्सर्वज्ञस्सर्वे- श्वर इत्युक्तम् । सत्यमुक्तम्; स तु जीवान्नातिरिच्यते, *अनेन जीवेनात्मनाऽनुप्रविश्य *तत्त्वमसि श्वेतकेतो इति कारणतया निर्दिष्टस्य जीवसामानाधिकरण्यनिर्देशात् । सामानाधि- करण्यं ह्य कत्वप्रतिपादनपरम्; यथा सोऽयं देवदत्त इत्यादौ । ईक्षापूर्विका च सृष्टिश्चेतनस्य जीवस्योपपद्यत एव । अतः *ब्रह्मविदाप्नोति परमिति जोवस्याचित्संसर्गवियुक्तं स्वरूपं प्राप्यतयोपदिश्यते । अचिद्वियुक्तस्वरूपस्य लक्षणमिदमुच्यते *सत्यं ज्ञानमनन्तं ब्रह्मेति । तद्र पप्राप्तिरेव हि मोक्षः। *न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति । अतो जीवस्याविद्यावियुक्तं स्वरूपं प्राप्यतया प्रकान्त- मानन्दमय इत्युपदिश्यते । तथाहि शाखाचन्द्रन्यायेनात्मस्वरूप दर्शयितुम् *अन्नमयः पुरुष इति शरीरं प्रथमं निदिश्य तदन्तरभूतं तस्य धारकं पञ्चवृत्तिप्राणम्, तस्याप्यन्तरभूतं मनः, तदन्तरभूतां च बुद्धि, *प्राणमयो *मनोमयो विज्ञानमयः इति तत्र तत्र बुद्धयवतरणक्रमेण निर्दिश्य, सर्वान्तरभूतं जीवात्मानम् *अन्योऽन्तर आत्माऽऽनन्दमयः इत्युपदिश्यान्तरात्म- परम्परां समापयति । अतो जीवात्मस्वरूपमेव ब्रह्मविदाप्नोतीति प्रक्रान्तं ब्रह्म; तदेवा- नन्दमय इत्युपदिष्टमिति निश्चीयते ॥ ननु च, *ब्रह्म पुच्छं प्रतिष्ठेत्यानन्दमयादन्यद्ब्रह्मति प्रतीयते। नैवम्; ब्रह्म व स्वस्वभावविशेषेण पुरुषविधत्वरूपितं शिरःपक्षपुच्छरूपेण व्यपदिश्यते । यथाऽन्नमयो देहोऽ- वयवी स्वस्मादनतिरिक्तैः स्वावयवैरेव *तस्येदमेव शिरः इत्यादिना शिरःपक्षपुच्छ्वत्तया निदर्शितः; तथा आनन्दमयं ब्रह्मापि स्वस्मादनतिरिक्तैः प्रियादिभिनिदर्शितम् । तत्रावयव- त्वेन रूपितानां प्रियमोदप्रमोदानन्दानामाश्रयतया अखण्डरूपमानन्दमयं ब्रह्म पुच्छं प्रतिष्ठ- त्युच्यते । यदि चानन्दमयादन्यद्ब्रह्माभविष्यत्, *तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्मेत्यपि निरदेक्ष्यत । नचैवं निर्दिश्यते । एतदुक्तं भवति-*ब्रह्मविदाप्नोति पर- मिति प्रक्रान्तं ब्रह्म *सत्यं ज्ञानमनन्तं ब्रह्मति-लक्षणतस्सकलेतरव्यावृत्ताकारं प्रतिपाद्य प्रथमाध्याये-प्रथमपादे-आनन्दमयाधिकरणम् ८७ तदेव *तस्माद्वा एतस्मादात्मन इत्यात्मशब्देन निर्दिश्य तस्य सर्वान्तरत्वेनात्मत्वं व्यञ्जय- द्वाक्यमन्नमयादिषु तत्तदन्तरतया आत्मत्वेन निर्दिष्टान प्राणमयादीनतिक्रम्य *अन्योऽन्तर प्रात्माऽऽनन्दमयः इत्यात्मशब्देन निर्देशमानन्दमये समापयति । अत आत्मशब्देन प्रक्रान्तं ब्रह्मानन्दमय इति निश्चीयते- इति ॥ ननु च *ब्रह्म पुच्छं प्रतिष्ठ त्युक्त्वा *असन्नेव स भवति, असद्ब्रह्मति वेद चेत्, अस्ति ब्रह्मति चेद्वद, सन्तमेनं ततो विदुरिति ब्रह्मज्ञानाज्ञानाभ्यामात्मनस्सद्भावासद्भावौ दर्शयति; नानन्दमयज्ञानाज्ञानाभ्याम् । न चानन्दमयस्य प्रियमोदादिरूपेण सर्वलोकविदितस्य सद्भावासद्भावज्ञानाशङ्का युक्ता । अतो नानन्दमयमधिकृत्यायं श्लोक उदाहृतः । तस्मादा- नन्दमयादन्यद्ब्रह्म । नैवम्; *इदं पुच्छं प्रतिष्ठा *पृथिवी पुच्छं प्रतिष्ठा *अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा *महः पुच्छं प्रतिष्ठा इत्युक्त्वा तत्रतत्रोदाहृताः *अन्ना प्रजाः प्रजायन्ते इत्यादिश्लोकाः यथा न पुच्छमात्रप्रतिपादनपराः; अपि त्वन्नमयादिपुरुषप्रतिपादनपराः; एवमत्राप्यानन्दमयस्यायम् *असन्नेवेति श्लोकः; नानन्दमयव्यतिरिक्तस्य पुच्छस्य । आनन्द- मयस्यैव ब्रह्मत्वेऽपि प्रियमोदादिरूपेण रूपितस्यापरिच्छिन्नानन्दस्य सद्भावासद्भावज्ञानाशङ्का युक्तैव । पुच्छब्रह्मणोऽप्यपरिच्छिन्नानन्दतयैव ह्यप्रसिद्धता। शिरःप्रभृत्यवयवित्वाभावाद्- ब्रह्मणो नानन्दमयो ब्रह्मति चेत्; ब्रह्मणः पुच्छत्वप्रतिष्ठात्वाभावात् पुच्छमपि ब्रह्म न भवेत् । अथाविद्यापरिकल्पितस्य वस्तुनस्तस्याश्चाश्रयभूतत्वात् ब्रह्मणः पुच्छं प्रतिष्ठति रूपणमात्र- मित्युच्येत; हन्त तर्हि तस्यासुखान्द्यावृत्तस्यानन्दमयस्य ब्रह्मणः प्रियशिरस्त्वादिरूपणं भवि- ष्यति । एवं च *सत्यं ज्ञानमनन्तं ब्रह्मति विकारास्पदजडपरिच्छिन्नवस्त्वन्तरव्यावृत्तस्या- सुखान्द्यावृत्तिरानन्दमय इत्युपदिश्यते । ततश्चाखण्डकरसानन्दरूपे ब्रह्मणि *आनन्दमय इति मयट प्राणमय इव स्वाथिको द्रष्टव्यः। तस्मादविद्यापरिकल्पितविविधविचित्रदेवादिभेद- भिन्नस्य जीवात्मनस्स्वाभाविक रूपमखण्डैकरसं सुखैकतानमानन्दमय इत्युच्यत इत्यानन्दमयः प्रत्यगात्मा ॥ एवं प्राप्त प्रचक्ष्महे-~-आनन्दमयोऽभ्यासात् । आनन्दमयः परमात्मा । कुतः अभ्यासात् *सैषाऽऽनन्दस्य मीमांसा भवति इत्यारभ्य *यतो वाचो निवर्तन्ते इत्येवमन्तेन वाक्येन शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कोऽभ्यस्यमान आनन्दः अनन्तदुःखमिश्र- परिमितसुखलवभागिनि जीवात्मन्यसंभवन् निखिलहेयप्रत्यनीक कल्याणकतानं सकलेतर- विलक्षणं परमात्मानमेव स्वाश्रयमावेदयति । यथाऽऽह तस्माद्वा एतस्माद्विज्ञानमयात्, अन्योन्तर आत्माऽऽनन्दमयः इति । विज्ञानमयो हि जीवः; न बुद्धिमात्रम्, मयट्प्रत्ययेन व्यतिरेकप्रतीतेः । प्राणमये त्वगत्या स्वार्थिकताऽऽश्रीयते । इह तु तद्वतो जीवस्य संभवान्ना- श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? नर्थक्यं न्याय्यम् । बद्धो मुक्तश्च प्रत्यगात्मा ज्ञातैवेत्यभ्यधिष्महि । प्राणमयादौ च मयडर्थ- संभवोऽनन्तरमेव वक्ष्यते । कथं तर्हि विज्ञानमयविषयश्लोके *विज्ञानं यज्ञ तनुत इति केवलविज्ञानशब्दोपादानमुपपद्यते ? ज्ञातुरेवात्मनस्स्वरूपमपि स्वप्रकाशतया विज्ञानमित्युच्यत इति न दोषः, ज्ञानेकनिरूपणीयत्वाच्च ज्ञातुस्स्वरूपस्य । स्वरूपनिरूपणधर्मशब्दा हि धर्म- मुखेन धर्मिस्वरूपमपि प्रतिपादयन्ति, गवादिशब्दवत् । *कृत्यल्युटो बहुलमिति वा कर्तरि ल्युडाश्रीयते । नन्द्यादित्वं वाऽऽश्रित्य नन्दिग्रहीत्यादिना कर्तरि त्युः । अत एव च *विज्ञानं यज्ञं तनुते, कर्माणि तनुतेऽपि चेति यज्ञादिकर्तृत्वं विज्ञानस्य श्रूयते । बुद्धिमात्रस्य हि न कर्तृत्वं संभवति । अचेतनेषु हि चेतनोपकरणभूतेषु विज्ञानमयात्प्राचीनेष्वन्नमयादिषु न चेतनधर्मभूतं कर्तृत्वं श्रूयते । अत एव चेतनमचेतनं च स्वासाधारणैः निलयनत्वानिलयन- त्वादिभिर्धर्मविशेषविभज्य निर्दिशद्वाक्यं *विज्ञानं चाविज्ञान चेति विज्ञानशब्देन तद्गुणं चेतनं वदति । तथाऽन्तर्यामिब्राह्मणे यो विज्ञाने तिष्टन इत्यस्य काण्वपाठगतस्य पर्यायस्य स्थाने *य आत्मनि तिष्ठन् इति पर्यायमधीयाना माध्यन्दिनाः काण्वपाठगतं विज्ञानशब्द- निर्दिष्ट जीवात्मेति स्फुटीकुर्वन्ति । विज्ञानमिति च नपुंसकलिङ्ग वस्तुत्वाभिप्रायम् । तदेवं विज्ञानमयाज्जीवादन्यस्तदन्तरः परमात्मा आनन्दमयः। यद्यपि विज्ञानं यज्ञं तनुते इति श्लोके ज्ञानमात्रमेवोपादीयते न ज्ञाता; तथाऽपि *अन्योऽन्तर आत्मा विज्ञानमयः इति तद्वान् ज्ञातैवोपदिश्यते; यथा *अन्नाद्वै प्रजाः प्रजायन्ते इत्यत्र श्लोके केवलान्नोपादानेऽपि *स वा एष पुरुषोऽन्नरसमयः इत्यत्र नान्नमात्रं निर्दिष्टम्, अपितु तन्मयः तद्विकारः । एतत्सर्व हृदि निधाय सूत्रकारस्स्वयमेव *दव्यपदेशात् इत्यनन्तरमेव वदति ॥ यदुक्तं जगत्कारणतया निर्दिष्टस्य *अनेन जीवेनात्मनाऽनुप्रविश्य *तत्त्वमसीति च जीवसामानाधिकरण्यनिर्देशाज्जगत्कारणमपि जीवस्वरूपान्नातिरिच्यत इति कृत्वा जीवस्यैव स्वरूपं *ब्रह्मविदाप्नोति परमिति प्रक्रान्तमसुखाव्द्यावृत्तत्वेनानन्दमय इत्युपदिश्यत इति; तदयुक्तम्, जीवस्य चेतनत्वे सत्यपि *तदक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजतेति स्व- सङ्कल्पपूर्वकानन्तविचित्रसृष्टियोगानुपपत्तेः। शुद्धावस्थस्यापि हि तस्य सर्गादिजगद्यापारा- संभवो *जगद्यापारवर्जम् *भोगमात्रसाम्यलिङ्गात् इत्यत्रोपपादयिष्यते ॥ कारणभूतस्य ब्रह्मणो जीवस्वरूपत्वानभ्युपगमे *अनेन जीवेनात्मना तत्त्वमसीति सामानाधिकरण्यनिर्देशः कथमुपपद्यत इति चेत्; कथं वा निरस्तनिखिलदेषगन्धस्य सत्य- सङ्कल्पस्य सर्वज्ञस्य सर्वशक्त रनवधिकातिशयासङ्घय यकल्याणगुणगणस्य सकलकारणभूतस्य ब्रह्मणः नानाविधानन्तदुःखाकरकर्माधीनचिन्तितनिमिषिलादिसकलप्रवृत्तिजीवस्वरूपत्वम् ? अन्यतरस्य मिथ्यात्वेनोपपद्यत इति चेत्, कस्य भोः ? किं हेयसंबन्धस्य ? किं वा हेयप्रत्य- प्रथमाध्याये-प्रथमपादे-आनन्दमयाधिकरणम् । ८९ ? नीककल्याणकतानस्वभावस्य ? हेयप्रत्यनीककल्याणकतानस्य ब्रह्मणोऽनाद्यविद्याश्रयत्वेन हेय- संबन्धमिथ्याप्रतिभासो मिथ्यारूप इति चेत्; विप्रतिषिद्धमिदमभिधीयते, ब्रह्मणो हेयप्रत्यनीक- कल्याणकतानत्वमनाद्यविद्याश्रयत्वेनानन्तदुःखविषयमिथ्याप्रतिभासाश्रयत्वं चेति । अविद्या- श्रयत्वं तत्कार्यदुःख प्रतिभासाश्रयत्वं चैव हि हेयसंबन्धः। तत्संबन्धित्वं तत्प्रत्यनीकत्वं च विरुद्ध- मेव । तथाऽपि तस्य मिथ्यात्वान्न विरोध इति मा वोचः । मिथ्याभूतमप्यपुरुषार्थ एव, यन्निरस- नाय सर्वे वेदान्ता आरभ्यन्त इति ब्रूषे। निरसनीयापुरुषार्थयोगश्च हेवप्रत्यनीककल्याणकतानतया विरुध्यते । कि कुर्मः ? *येनाश्रुतं श्रुतं भवतीत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय *सदेव सोम्येदमग्र आसोदित्यादिना निखिलजगदेककारणताम्, *तदक्षत बहु स्यामिति सत्यसङ्कल्पता च ब्रह्मणः प्रतिपाद्य तस्यैव ब्रह्मणः *तत्त्वमसीति सामानाधिकरण्येनानन्तदुःखाश्रयजीवैक्यं प्रतिपादितम्; तदन्यथानुपपत्त्या ब्रह्मण एवाविद्याश्रयत्वादि परिकल्पनीयमिति चेत्, श्रुतोप- पत्तयेऽप्यनुपपन्न विरुद्धं च न कल्पनीयम् । अथ हेयसंबन्ध एव पारमार्थिकः, कल्याणक- स्वभावता तु मिथ्याभूता; हन्तवं तापत्रयाभिहतचेतनोज्जिजीवयिषया प्रवृत्तं शास्त्रम्, तापत्रयाभिहतिरेव तस्य पारमार्थिकी, कल्याणकस्वभावस्तु भ्रान्तिपरिकल्पित इति बोधयत्सम्यगुज्जीवयति । अथैतद्दोषपरिजिहीर्षया ब्रह्मणो निविशेषचिन्मात्रस्वरूपातिरिक्त- जीवत्वदुःखित्वादिकं सत्यसङ्कल्पत्वकल्याणगुणाकरत्वजगत्कारणत्वाद्यपि मिथ्याभूतमिति कल्पनीयमिति चेत्; अहो भवतां वाक्यार्थपर्यालोचनकुशलता! एकविज्ञानेन सर्वविज्ञानप्रति- ज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्यति । यथैकविज्ञानं परमार्थविषयम, तथैव सर्वविज्ञानमपि यदि परमार्थविषयं तदन्तर्गतं च, तदा तज्ज्ञानेन सर्वविज्ञानमिति शक्यते वक्तुम् । न हि परमार्थशुक्तिकाज्ञानेन तदाश्रयमपरमार्थ रजतं ज्ञातं भवति ॥ अथोच्येत-एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अयमर्थः-निविशेष(चिन्मात्र)वस्तुमात्रमेव सत्यम्, अन्यदसत्यमिति । न तर्हि *येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति श्रूयेत; येन श्रुतेनाश्रुतमपि श्रुतं भवतीति ह्यस्य वाक्यस्यार्थः । कारणतयोपलक्षितनिविशेषवस्तुमात्रस्यैव सद्भावश्चेत्प्रतिज्ञातः, *यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातमिति दृष्टान्तोऽपि न घटते । मृत्पिण्डविज्ञानेन हि तद्विकारस्य ज्ञातता निशिता । तत्रापि विकारस्यासत्यताऽभि- प्रेतेति चेत्, मृद्विकारस्य रज्जुसर्पादिवदसत्यत्वं शुश्रूषोरसिद्धमिति प्रतिज्ञातार्थसंभावना- प्रदर्शनाय *यथा सोम्येति प्रसिद्धवदुपन्यासो न युज्यते । न च तत्त्वमस्यादिवाक्यजन्य- ज्ञानोत्पत्तेः प्राग्विकारजातस्यासत्यतामापादयत्तर्कानुगृहीतमननुगृहीतं वा प्रमाणमुपलभामह इति । अयमर्थः * तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र वक्ष्यते ॥ तथा * सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् * तदक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत * हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । व्याकरवाणि *सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः...ऐतदात्म्यमिदं सर्वम् इत्यादिना अस्य जगतस्सदात्मकता, सृष्टेः पूर्वकाले नामरूपविभागप्रहाणम्, जगदुत्पत्तो सच्छब्दवाच्यस्य ब्रह्मणस्स्वव्यतिरिक्तनिमित्तान्तरानपेक्षत्वम्, सृष्टिकालेऽहमेवानन्तस्थिरत्र- सरूपेण बहु स्यामित्यनन्यसाधारणसङ्कल्पविशेषः, :, यथासङ्कल्पमनन्तविचित्रतत्त्वानां विलक्षण- क्रमविशेषविशिष्टा सृष्टिः, समस्तेष्वचेतनेषु वस्तुषु स्वात्मकजीवानुप्रवेशेनैवानन्तनामरूप- व्याकरणम्, स्वव्यतिरिक्तस्य समस्तस्य स्वमूलत्वम्, स्वायतनत्वम्, स्वप्रवर्त्यत्वम्, स्वेनैव जीवनम्, स्वप्रतिष्ठत्वमित्याद्यनन्तविशेषाश्शास्त्रकसमधिगम्याः प्रतिपादिताः। तत्संबन्धितया प्रकरणान्तरेष्वप्यपहतपाप्मत्वादिनिरस्तनिखिलदोषतासर्वज्ञतासर्वेश्वरत्वसत्यकामत्वसत्य- सङ्कल्पत्वसर्वानन्दकरणनिरतिशयानन्दयोगादयस्सकलेतरप्रमाणा-विषयास्सहस्रशः प्रति- पादिताः। एवमनन्य गोचरानन्तविशेषविशिष्टप्रकृतब्रह्मपरामर्शितच्छब्दस्य निविशेषवस्तुमात्रो- पदेशपरत्वमसङ्गतत्वेनोन्मत्तप्रलपितायेत । त्वंपदं च संसारित्वविशिष्टजीववाचि । तस्यापि निविशेषस्वरूपोपस्थापनपरत्वे स्वार्थः परित्यक्तस्त्यात् । निविशेषप्रकाशस्वरूपस्य च वस्तुनो ह्यविद्यया तिरोधानं स्वरूपनाशप्रसङ्गादिभिर्न संभवतीति पूर्वमेवोक्तम् । एवं च सति समानाधि- करणवृत्तयोस्तत्त्वमिति द्वयोरपि पदयोर्मुख्यार्थपरित्यागेन लक्षणा च समाश्रयणीया ।। अथोच्येतः-समानाधिकरणवृत्तानामेकार्थप्रतिपादनपरतया विशेषणांशे तात्पर्या- संभवादेवविशेषणनिवृत्तेर्वस्तुमात्रैकत्वप्रतिपादनान्न लक्षणाप्रसङ्गः। यथा नीलमुत्पलमिति पदद्वयस्य विशेष्यैकत्वप्रतिपादनपरत्वेन नीलत्वोत्पलत्वरूपविशेषणद्वयं न विवक्ष्यते । तद्विवक्षायां हि नीलत्वविशिष्टाकारेणोत्पलत्वविशिष्टाकारस्यैकत्वप्रतिपादनं प्रसज्येत । तत्तु न संभवति; न हि नैल्यविशिष्टाकारेण तद्वस्तूत्पलपदेन विशेष्यते, जातिगुणयोरन्योन्यसमवाय- प्रसङ्गात् । अतो नीलत्वोत्पलत्वोपलक्षितवस्त्वेकत्वमात्रं सामानाधिकरण्येन प्रतिपाद्यते । तथा सोऽयं देवदत्तः इत्यतीतकालविप्रकृष्टदेशविशिष्टस्य तेनैव रूपेण सन्निहितदेशवर्तमान- कालविशिष्टतया प्रतिपादनानुपपत्तेरुभयदेशकालोपलक्षितस्वरूपमात्रैक्यं सामानाधिकरण्येन प्रतिपाद्यते । यद्यपि नीलमित्याद्यकपदश्रवणे प्रतीयमानं विशेषणं सामानाधिकरण्यवेलायां विरोधान्न प्रतिपाद्यते । तथाऽपि वाच्येऽर्थे प्रधानांशस्य प्रतिपादनान्न लक्षणा । अपि तु विशेषणांशस्याविवक्षामात्रम् । सर्वत्र सामानाधिकरण्यस्यैष एव . स्वभाव इति न कश्चिद्दोषः ~इति ॥ । तदिदमसारम् । सर्वेष्वेव वाक्येषु पदानां व्युत्पत्तिसिद्धार्थसंसर्गविशेषमानं प्रत्याय्यम् । तत्र समानाधिकरणवृत्तानामपि नीलादिपदानां नैल्यादिविशिष्ट एवार्थो व्युत्पत्तिसिद्धः पदान्तरार्थसंसृष्टोऽभिधीयते । यथा नीलमुत्पलमानयेत्युक्त नीलिमादिविशिष्टमेवानीयते;

प्रथमाध्याये-प्रथमपादे-आनन्दमयाधिकरणम् । -- यथा च विन्ध्याटव्यां मदमुदितो मातङ्गगणस्तिष्ठतीति पदद्वयावगतविशेषरणविशिष्ट एवार्थः प्रतीयते; एवं वेदान्तवाक्येष्वपि समानाधिकरणनिर्देशेषु तत्तद्विशेषणविशिष्टमेव ब्रह्म प्रति- पत्तव्यम् । न च विशेषेणविवक्षायामितरवि शिष्टाकारं वस्त्वन्धेन विशेष्टव्यम्; अपि तु सर्व- विशेषणैस्स्वरूपमेव विशेष्यम् । तथाहि भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्तामानाधिकरण्यमिति, अन्वयेन निवृत्त्या वा पदान्तरप्रतिपाद्यादाकारादाकारान्तरयुक्त- तया तस्यैव वस्तुनः पदान्तरप्रतिपाद्यत्वं सामानाधिकरण्यकार्यस् । यथा 'देवदत्तश्श्यामो युवा लोहिताक्षोऽदीनोऽकृपणोऽनवद्यः' इति । यत्र त्वेकस्मिन् वस्तुनि समन्वयायोग्यं विशेषणद्वयं समानाधिकरणपदनिर्दिष्टस्; तत्राप्यन्यतरत्पदममुख्यवृत्तमाश्रीयते, न द्वयम्, यथा 'गौर्वाहीकः' इति । नीलोत्पलादिषु तु विशेषणद्वयान्वयाविरोधादेकमेवोभयविशिष्ट प्रतिपाद्यते ।। अथ मनुषे एकविशेषणप्रतिसंबन्धित्वेन निरूप्यमाणं विशेषणान्तरप्रतिसंबन्धित्वाद्वि- लक्षणमिति घटपटयोरिवैकविभक्तिनिर्देशेऽप्यैक्यप्रतिपादनासंभवात्समानाधिकरणशब्दस्य न विशिष्टप्रतिपादनपरत्वम्, अपि तु विशेषणमुखेन स्वरूपमुपस्थाप्य तदैक्यप्रतिपादनपरत्व- मेवेति । स्यादेतदेवम्, यदि विशेषणद्वयप्रतिसंबन्धित्वमात्रमेवैक्यं निरुन्थ्यात् । न चैतदस्ति; एकस्मिन्धर्मिण्युपसंहर्तुमयोग्यधर्मद्वयविशिष्टत्वमेव ह्येकत्वं निरुणद्धि । . अयोग्यता च प्रमाणान्तरसिद्धा घटत्वपटत्वयोः। नीलमुत्पलमित्यादिषु तु दण्डित्वकुण्डलित्ववद्रूपवत्त्वर- सवत्त्वगन्धवत्त्वादिवच्च विरोधो नोपलभ्यते । न केवलमविरोध एव; प्रवृत्तिनिमित्तभेदेनकार्थ- निष्ठत्वरूपं सामानाधिकरण्यमुपपादयत्येव धर्मद्वयविशिष्टताम् । अन्यथा स्वरूपमात्रैक्ये अनेकपदप्रवृत्तौ निमित्ताभावात्सामानाधिकरण्यमेव न स्यात् । विशेषणानां स्वसंबन्धानादरेण वस्तुस्वरूपोपलक्षणपरत्वे सत्येकेनैव वस्तूपलक्षितमित्युपलक्षणान्तरमनर्थकमेव; उपलक्षणान्त- रोपलक्ष्याकारभेदाभ्युपगमे तेनाकारेण सविशेषत्वप्रसङ्गः ॥ 'सोऽयं देवदत्तः' इत्यत्रापि लक्षणागन्धो न विद्यते, विरोधाभावात् । देशान्तर- संबन्धितयाऽतीतस्य सन्निहितदेशसंबन्धितया वर्तमानत्वाविर धात् । अत एव हि सोऽयमिति प्रत्यभिज्ञया कालद्वयसंबन्धिनो वस्तुन ऐक्यमुपपाद्यते वस्तुनस्स्थिरत्ववादिभिः । अन्यथा प्रतीतिविरोधे सति सर्वेषां क्षणिकत्वमेव स्यात् । देशद्वयसंवन्धविरोधस्तु कालभेदेन परियिते ॥ यतस्समानाधिकरणपदानामनेकविशेषणविशिष्ट कार्थवाचित्वम्; अत एव *अरुणय- कहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्यारुण्यादिविशिष्टैकहायन्या क्रयस्साध्यतया विधीयते । तदुक्तम् *अर्थंकत्वे द्रव्यगुणयोरैककानियमस्स्यादिति ॥ तत्रैवं पूर्वपक्षी मन्यते- यद्यप्यरुणयेति पदमाकृतेरिव गुणस्यापि द्रव्यप्रकारतक- ६२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । स्वभावत्वाद्रव्यपर्यन्तमेवारुणिमानमभिदधाति; तथाऽप्येकहायन्यन्वयनियमोऽरुणिम्नो न संभवति; एकहायन्या क्रीणाति, तच्चारुणयेत्यर्थद्वयविधानासंभवात् । ततश्चारुणयेति वाक्यं भित्त्वा प्रकरणविहितसर्वद्रव्यपर्यन्तमेवारुणिमानमविशेषेणाभिदधाति । अरुणयेतिस्त्रीलिङ्ग- निर्देशः प्रकरणविहितसर्वलिङ्गकद्रव्याणां प्रदर्शनार्थः । तस्मादेकहायन्यन्वयनियमोऽरुणिम्नो न स्यादिति ॥ न .. अत्राभिधीयते-- *अर्थंकत्वे द्रव्यगुणयोरैककान्नियमस्स्यात् । *अरुणयक हायन्या इत्यारुण्यविशिष्टद्रव्यैकहायनीद्रव्यवाचिपदयोस्सामानाधिकरण्येनार्थंकत्वे सिद्धे सत्येकहा- यनीद्रव्यारुण्यगुणयोररुणयेति पदेनैव विशेषणविशेष्यभावेन संबन्धितयाऽभिहित्योः क्रयाख्यैक- कर्मान्वयाविरोधादरुणिम्नः क्रयसाधनभूतैकहायन्यन्वयनियमस्स्यात् । यद्ये कहायन्या क्रय- संबन्धवदरणिमसंबन्धोऽपि वाक्यावसेयस्स्यात्; तदा वाक्यस्यार्थद्वयविधानं स्यात् । चैतदस्ति । अरुणयेति पदेनैवारुणिमविशिष्टद्रव्यमभिहितम् । एकहायनीपदसामानाधि- करण्येन तस्यैकहायनोत्वमात्रमवगम्यते; न गुण संबन्धः ; विशिष्टद्रव्यैकमेव हि सामानाधि- करण्यस्यार्थः * भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यमिति हि सामानाधिकरण्यलक्षणम् ॥ अत एव हि रक्तः पटो भवतीत्यादिष्वकार्थ्यादेकवाक्यत्वम् । पटस्य भवनक्रिया- संबन्धे हि वाक्यव्यापारः; रागसंबन्धस्तु रक्तपदेनैवाभिहितः; रागसंबन्धि द्रव्यं पट इत्येता- वन्मानं सामानाधिकरण्यावसेयम् । एवमेकेन गुणेन द्वाभ्यां बहुभिर्वा तेन तेन पदेन समस्तेन व्यस्तेन वा विशिष्टत्वमुपस्थाप्य सामानाधिकरण्येन सर्वविशेषण विशिष्टोऽर्थ एक इति ज्ञापयित्वा तस्य क्रियासंबन्धाभिधानमविरुद्धम् --देवदत्तश्श्यामो युवा लोहिताक्षो दण्डी कुण्डली तिष्ठति; शुक्लेन वाससा यवनिका संपादयेत्; नीलमुत्पलमानय; नीलोत्पलमानय; गामानय शुक्लां शोभनाक्षीम् * अग्नये पथिकृतेपुरोडाशमष्टाकपालं निर्वपेत् इति । एवम् *अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीति । एतदुक्तं भवति-यथा काष्ठस्स्थाल्यामोदनं पचेदित्यनेककारकविशिष्टका क्रिया युगपत्प्रलीयते; तथा समानाधिकरणपदसङ्घाताभिहित- मेकैकं कारकं तत्तत्कारकप्रतिपत्तिवेलायामेवानेकविशेषणविशिष्टं युगपत्प्रतिपन्न क्रियाया- मन्वेतीति न कश्चिद्विरोधः खादिरैश्शुष्कः काष्ठैस्समपरिमाणे भाण्डे पायसं शाल्योदनं समर्थः पाचकः पचेदित्यादिषु-इति ॥ यत्तूपात्तद्रव्यकवाक्यस्थगुणशब्दः केवलगुणाभिधायीत्यरुणयेति पदेन केवलगुणस्यै- वाभिधानमिति; तन्नोपपद्यते, लोकवेदयो व्यवाचिपदसमानाधिकरणस्य गुणवाचिनः कचि- दपि केवलगुणाभिधानादर्शनात् । उपात्तद्रव्यकवाक्यस्थं गुणपदं केवलगुणाभिधायीत्यप्य- प्रथमाध्याये-प्रथमपादे-आनन्दमयाधिकरणम् । ६३ सङ्गतम्, पटश्शुक्लः इत्यादिषपात्तद्रव्यकेऽपि गुणविशिष्टस्यैवाभिधानात् । पटस्य शुक्लः इत्यत्र शौक्ल्यविशिष्टपटाप्रतिपत्तिरसमानविभक्तिनिर्देशकृता; न पुनरुपात्तद्रव्यकत्वकृता । तत्रैव पटस्य शुक्लो भागः इत्यादिषु समानविभक्तिनिर्देशे शौक्ल्यविशिष्टद्रव्यं प्रतीयते । यत्पुनः क्रयस्यैकहायन्यवरुद्धतयाऽरुणिम्नः क्रयान्वयो न संभवतीति; तदपि विरोधिगुणरहित- द्रव्यवाचिपदसमानाधिकरणगुणपदस्य तदाश्रयगुणाभिधानेन क्रियापदान्वयाविरोधादसङ्गतम् । राद्धान्ते चोक्तन्यायेनारुणिम्नश्शाब्दे द्रव्यान्वये सिद्ध द्रव्यगुणयोः क्रयसाधनत्वानुपपत्त्या अर्थात्परस्परान्वयस्सिध्यतीत्यप्यसङ्गतम् । अतो यथोक्त एवार्थः ॥ तस्मात् तत्त्वमस्यादिसामानाधिकरण्ये पदद्वयाभिहितविशेषणापरित्यागेनैवैक्यप्रति- पादनं वर्णनीयम् । तत्त्वनाद्यविद्योपहितानवधिकदुःखभागिनश्शुद्धयशुद्धयु भयावस्थाच्चेतना- दर्थान्तरभूतमशेषहेयप्रत्यनीकानवधिककल्याणकतानं परमात्मानमनभ्युपगच्छतो न संभवति । अभ्युपगच्छतोऽपि समानाधिकरणपदानां यथावस्थितविशेषणविशिष्ट क्यप्रतिपादनपरत्वा- श्रयणे त्वंपदप्रतिपन्नसकलदोषभागित्वं परस्य प्रसज्यतेति चेत्, नैतदेवम्, त्वंपदेनापि जीवान्तर्यामिणः परस्यैवाभिधानात् ।। एतदुक्तं भवति-सच्छब्दाभिहितं निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पमिश्रानवधिका- तिशयासंख्येयकल्याणगुणगरणं समस्तकारणभूतं परं ब्रह्म *बहु स्यामिति सङ्कल्प्य तेजोबन्न- प्रमुखं कृत्स्नं जगत्सृष्ट्वा तस्मिन् देवादिविचित्रसंस्थानसंस्थिते जगति चेतनं जीववर्ग स्वकर्मा- नुगुणेषु शरीरेष्वात्मतया प्रवेश्य स्वयं च स्वेच्छयैव जीवान्तरात्मतयाऽनुप्रविश्य एवंभूतेषु स्वपर्यन्तेषु देवाद्याकारेषु सङ्घातेषु नामरूपे व्याकरोत् । एवंरूपसङ्घातस्यैव वस्तुत्वं शब्द- वाच्यत्वं चाकरोदित्यर्थः । अनेन जीवेनात्मना-जीवेन मयेति निर्देशो जीवस्य ब्रह्मात्मकत्वं दर्शयति । ब्रह्मात्मकत्वं च जीवस्य जीवान्तरात्मतया ब्रह्मणोऽनुप्रवेशादित्यवगम्यते; *इदं सर्वमसृजत, यदिदं कि च, तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवदित्यत्र इदं सर्वमिति निर्दिष्ट चेतनाचेतनवस्तुद्वयं सत्त्यच्छब्दाभ्यां विज्ञानाविज्ञानशब्दाभ्यां च विभज्य निर्दिश्य चिद्वस्तुन्यपि ब्रह्मणोऽनुप्रवेशाभिधानात् । अत एवं नामरूपव्याकरणात्सर्वे वाचक शब्दा अचिज्जीवविशिष्टपरमात्मवाचिन इत्यवगतम्-इति ॥ किञ्च ऐतदात्म्यमिदं सर्वमिति चेतनमिश्रं प्रपञ्चम् इदं सर्वमिति निर्दिश्य *तस्यैष आत्मेति प्रतिपादितम् । एवं च सर्व चेतनाचेतनं प्रति ब्रह्मण प्रात्मत्वेन सर्व सचेतनं जगत् तस्य शरीरं भवति । तथा च श्रुत्यन्तराणि *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा * यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरम् यः पृथिवीमन्तरो यमयति स त आत्माऽन्ताम्यमृतः इति प्रारभ्य *य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । न वेद यस्यात्मा शरीरम् य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः इत्यादि यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरम्, योऽपामन्तरे सञ्चरन् यस्यापश्शरीरमित्यारभ्य *योऽक्षर मन्तरे सञ्चरन्यस्याक्षरं शरीरस् यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इत्यादीनि सचेतनं जगत् तस्य शरीरत्वेन निर्दिश्य तस्यात्मत्वेन परमात्मानमुपदिशन्ति । अतश्चेतनवाचिनोऽपि शब्दाश्चेतनस्याध्यात्मभूतं चेतनशरीरक परमात्मानमेवाभिवधांत । यथा अचेतनदेवादिसंस्थानपिण्डवाचिनश्शब्दाः तत्तच्छरीरक- जीवात्मन एव वाचकाः *चत्वारः पञ्चदशरात्रादेवत्वं गच्छन्तीत्यादिषु; देवा भवन्ती- त्यर्थः । शरीरस्य शरीरिणं प्रति प्रकारत्वात् प्रकारवाचिनां च शब्दानां प्रकारिण्येव पर्यद- सानात् शरीरवाचिनां शब्दानां शरीरिपर्यवसानं न्याय्यम् । प्रकारो हि नाम इदमित्थमिति प्रतीयमाने वस्तुनि इत्थमिति प्रतीयमानोंऽशः। तस्य तद्वस्त्वपेक्षत्वेन तत्प्रतीतेस्तदपेक्षत्वात् तस्मिन्न व पर्यवसानमुचितमिति तस्य प्रतिपादकोऽपि शब्दस्तस्मिन्नेव पर्यवस्यति । अत एव गौरवो मनुष्यः इत्यादिप्रकारभूताकृतिवाचिनश्शब्दाः प्रकारिणि पिण्डे अपर्यवस्यन्तः पिण्डस्यापि चेतनशरीरत्वेन तत्प्रकारत्वात् पिण्डशरीरकचेतनस्यापि परमात्मप्रकारत्वाच्च परमात्मन्येव पर्यवस्यन्तीति सर्वशब्दानां परमात्मैव वाच्य इति परमात्मवाचिशब्देन सामा- नाधिकरण्यं मुख्यमेव ॥ ननु खण्डो गौः खण्डश्शुक्लः इति जातिगुणवाचिनामेव पदानां द्रव्यवाचिपदस्सह सामानाधिकरण्यं दृष्टम्; द्रव्याणां तु द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः, यथा दण्डी कुण्डलीति । नैवम्; जातिर्वा गुणो वा द्रव्यं वा नैतेष्वेकमेव सामानाधिकरण्ये प्रयोजकम्, अन्योन्यस्मिन् व्यभिचारात् । यस्य पदार्थस्य कस्यचित्प्रकारतयैव सद्भावः, तस्य तदपृथ- क्सिद्धिस्थितिप्रतीतिभिस्तद्वाचिनां शब्दानां स्वाभिधेयविशिष्टद्रव्यवाचित्वाद्धर्मान्तरविशिष्टत- द्रव्यवाचिना शब्देन सामानाधिकरण्यं युक्तमेव । यत्र पुनः पृथक्सिद्धस्य स्वनिष्ठस्यैव द्रव्यस्य कदाचित्क्वचिद्रव्यान्तरप्रकारत्वमिष्यते, तत्र मत्वर्थीयप्रत्यय इति निरवद्यम् ।। तदेवं परमात्मनश्शरीरतया तत्प्रकारत्वादचिद्विशिष्टजीवस्यापि जीवनिर्देशविशेषरूपा अहंत्वमित्यादिशब्दाः परमात्मानमेवाचक्षत इति *तत्त्वमसीति सामानाधिकरण्येनोपसंहृतम् एवं च सति परमात्मानं प्रति जीवस्य शरीरतयाऽन्वयाज्जीवगता धर्माः परमात्मानं न स्पृशन्ति, यथा स्वशरीरगता बालत्वयुवत्वस्थविरत्वादयो धर्माः जीवं न स्पृशन्ति । अतः *तत्त्वमसीति सामानाधिकरण्ये तत्पदं जगत्कारणभूतं सत्यसङ्कल्पं सर्वकल्याणगुणाकरं निरस्तसमस्तहेयगन्धं परमात्मानमाचष्टे; त्वमिति च तमेव सशरीरजीवशरीरकमाचष्ट इति सामानाधिकरण्यं मुख्यवृत्तम्; प्रकरणाविरोधस्सर्वश्रुत्यविरोधो ब्रह्मणि निरवद्य कल्याणक- प्रथमाध्याये-प्रथमपादे-आनन्दमयाधिकरणम् । ६५ ताने अविद्यादिदोषगन्धाभावश्च । अतो जीवसामानाधिकरण्यमपि विशेषणभूताज्जीवादन्य- त्वमेवापादयतीति विज्ञानमयाज्जीवादन्य एवानन्दमयः परमात्मा ॥ यदुक्तम् *तस्यैष एव शारीर आत्मेत्यानन्दमयस्य शारीरत्वश्रवणाज्जीवादन्यत्वं न संभवतीति, तदयुक्तम्; अस्मिन् प्रकरणे सर्वत्र *तस्यैष एव शारीर आत्मा, यः पूर्वस्येति परमात्मन एव शारीरात्मत्वाभिधानात् । कथम् । *तस्माद्वा एतस्मादात्मन आकाशस्संभूतः इत्याकाशादिसृज्यवर्गस्य परमकारणत्वेन प्रज्ञातजीवव्यतिरेकस्य परस्य ब्रह्मण आत्मत्वेन व्यपदेशात्तन्यतिरिक्ताकाशादीनामन्नमयपर्यन्तानां तच्छरीरत्वमवगम्यते । यस्य पृथिवी शरीरम्, यस्यापश्शरीरम्, यस्य तेजश्शरीरम्, यस्य वायुश्शरीरम्, यस्याकाशश्शरीरम्, यस्याक्षरं शरीरम्, यस्य मृत्युश्शरीरम्, एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इति सुबालश्रुत्या सर्वतत्त्वानां परमात्मशरीरत्वं स्पष्टमभिधीयते । अतः *तस्माद्वा एतस्मादात्मनः इत्यत्रैवान्नमयस्य परमात्मैव शारीरआत्मेत्यवगतः । प्राणमयं प्रकृत्याह *तस्यैष एव शारीर आत्मा, यः पूर्वस्येति । पूर्वस्यान्नमयस्य यश्शारीर आत्मा श्रुत्यन्तर- सिद्धः परमकारणभूतः परमात्मा; स एव तस्य प्राणमयस्यापि शारीर आत्मेत्यर्थः । एवं मनोमयविज्ञानमययोद्रष्टव्यम् । आनन्दमये तु एष एवेति निर्देशस्तस्यानन्यात्मत्वं दर्शयि- तुम् । तत्कथम् ? विज्ञानमयस्यापि पूर्वोक्तया नीत्या परमात्मैव शारीर आत्मेत्यवगतः । एवं सति विज्ञानमयस्य यश्शारीर आत्मा, स एवानन्दमयस्यापि शारीर आत्मेत्युक्ते आनन्द- मयस्य अभ्यासावगतपरमात्मभावस्य परमात्मनस्स्वयमेवात्मेत्यवगम्यते । एवं च स्वव्यतिरिक्तं चेतनाचेतनवस्तुजातं स्वशरीरमिति स एव निरूपाधिकश्शारीर आत्मा। अत एवेदं परं ब्रह्माधिकृत्य प्रवृत्तं शास्त्र शारीरकमित्यभियुक्तैरभिधीयते । अतो विज्ञानमयाज्जीवादन्य एव परमात्मा आनन्दमयः ॥१३॥ आह-नायमानन्दमयो जीवादन्यः, विकारशब्दस्य मयट्प्रत्ययस्य श्रवणात् । मयड्- वैतयोः इति प्रकृत्य नित्यं वृद्धशरादिभ्यः इति विकारार्थे मयट् स्मर्यते । वृद्धश्चायमानन्द- शब्दः । ननु प्राचुर्येऽपि मयडस्ति *तत्प्रकृतवचने मयट् इति स्मृतेः । यथा अन्नमयो यज्ञः इति । स एवायं भविष्यति । नैवम्; अन्नमय इत्युपक्रमे विकारार्थत्वं दृष्टम्, अत्र औचित्या- दस्यापि विकारार्थत्वमेव युक्तम् । किञ्च प्राचुर्यार्थत्वेऽपि जीवादन्यत्वं न सिध्यति । तथा हि-आनन्दप्रचुर इत्युक्ते दुःखमिश्रत्वमवर्जनीयम् । आनन्दस्य हि प्राचुर्य दुःखस्याल्पत्व- मवगमयति । दुःखमिश्रत्वमेव हि जीवत्वम् । अत औचित्यप्राप्तविकारार्थत्वमेव युक्तम् । किञ्च लोके मृण्मयं हिरण्मयं दारुमयमित्यादिषु वेदे च *पर्णमयी जुहूः *शमीमय्यस् चः *दर्भमयी रशना इत्यादिषु मयटो विकारार्थे प्रयोगबाहुल्यात्स एव प्रथमतरं धियमधि- श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? रोहति । जीवस्य चानन्दविकारत्वमस्त्येव; तस्य स्वत आनन्दरूपस्य सतस्संसारित्वावस्था तद्विकार एवेति । अतो विकारवाचिनो मयट्प्रत्ययस्य श्रवणादानन्दमयो जीवादनतिरिक्त इति । तदेतदनुभाष्य परिहरति- १४ विकारशब्दान्नेति चेन्न प्राचुर्यात् । १।१।१४ ॥ नैतद्युक्तम् । कुतः ? प्राचुर्यात्-परस्मिन् ब्रह्मण्यानन्दप्राचुर्यात् । प्राचुर्यार्थे च मयट- स्संभवात् । एतदुक्तं भवनि-शतगुणितोत्तरक्रमेणाभ्यस्यमानस्यानन्दस्य जीवाश्रयत्वासंभवाद्- ब्रह्माश्रयोऽयमानन्द इति निश्चिते सति तस्मिन् ब्रह्मणि विकारासंभवात् प्राचुर्येऽपि मयड्- विधिसंभवाच्चानन्दमयः परं ब्रह्मेति । औचित्यात्प्रयोगप्रौढ्या च मयटो विकारार्थत्वमर्थ- विरोधान्न संभवति । किञ्च औचित्यं प्राणमय एव परित्यक्तम्, तत्र विकारार्थत्वासंभवात् । अतस्तत्र पञ्चवृत्तेर्वायोः प्राणवृत्तिमत्तामात्रेरण प्राणमयत्वम्, प्राणापानादिषु पञ्चसु वृत्तिषु प्राणवृत्तेः प्राचुर्याद्वा । न च प्राचुर्ये मयट्प्रत्ययस्य प्रौढि स्ति, अन्नमयो यज्ञः शकटमयी यात्रा इत्यादिषु दर्शनात् ॥ यदुक्तमानन्दप्राचुर्यमल्पदुःखसद्भावमवगमयतीति; तदसत् । तत्प्रचुरत्वं हि तत्प्रभूत- त्वम्, तच्चेतरस्य सत्तां नावगमयति; अपि तु तस्याल्पत्वं निवर्तयति । इतरसद्भावासद्भावी तु प्रमाणान्तरावसेयौ। इह च प्रमाणान्तरेण तदभावोऽवगम्यते *अपहतपाप्मेत्यादिना । तत्रैतावदेव वक्तव्यं, ब्रह्मानन्दस्य प्रभूतत्वमन्यानन्दस्याल्पत्वमपेक्षत इति । उच्यते च तत् *स एको मानुष आनन्दः इत्यादिना जीवानन्दापेक्षया ब्रह्मानन्दो निरतिशयदशापन्नः प्रभूत इति ॥ यच्चोक्तं जीवस्यानन्दविकारत्वं संभवतीति; तदपि नोपपद्यते, जीवस्य ज्ञानानन्द- स्वरूपस्य केनचिदाकारेण मृद इव घटाद्याकारेण परिणामस्सकलश्रुतिस्मृतिन्यायविरुद्धः । संसारदशायां तु कर्मणा ज्ञानानन्दौ संकुचितावित्युपपादयिष्यते । अतश्चानन्दमयो जीवादन्यः परं ब्रह्म ॥१४॥ इतश्च जीवादन्य आनन्दमयः परं ब्रह्म- १५ तद्धे तुव्यपदेशाच्च । १।१।१५ ॥ *को ह्यवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्, एष ह्य वानन्दया- तीति एष एव जीवानानन्दयतीति जीवानामानन्दहेतुरयं व्यपदिश्यते । अतश्चानन्दयित- व्याज्जीवादानन्दयिताऽयमन्य आनन्दमयः परमात्मेति विज्ञायते । आनन्दमय एवात्र आनन्द, शब्देनोच्यत इति चानन्तरमेव वक्ष्यते ॥ A :

प्रथमाध्याये-प्रथमपादे-आनन्दमयाधिकरणम् । ६ इतश्च जीवादन्य आनन्दमय:- - १६ मान्त्रणकमेव च गीयते ।१।१।१६ ॥ *सत्यं ज्ञानमनन्तं ब्रह्मति मन्त्रवर्णोदितं ब्रह्म वानन्दमय इति गीयते । तत्तु जीव- स्वरूपादन्यत् परं ब्रह्म। तथा हि-ब्रह्मविदाप्नोति परमिति जीवस्य प्राप्यतया ब्रह्म निर्दिष्टम् । *तदेषाऽभ्युक्तेति तत्-ब्रह्म अभिमुखीकृत्य प्रतिपाद्यतया परिगृह्य, ऋगेषा अध्येतृभिरुक्ता । ब्राह्मणोक्तस्यार्थस्य वैशद्यमनेन मन्त्रेण क्रियत इत्यर्थः, जीवस्योपासकस्य प्राप्यं ब्रह्म तस्माद्विलक्षणमेव । अनन्तरं च तस्माद्वा एतस्मादात्मन आकाशस्संभूतः इत्यारभ्योत्तरोत्तराह्मणैर्मन्त्रैश्च तदेव विशदीक्रियते । अतो जीवादन्य आनन्दमयः ॥१६॥ अत्राह-यद्यप्युपासकात्याप्यस्य भेदेन भवितव्यम्; तथापि न वस्त्वन्तरं जीवात्मान्त्र वणिकं ब्रह्म; किन्तु तस्यैवोपासकस्य निरस्तसमस्ताविद्यागन्धनिविशेषचिन्मात्रैकरसं शुद्ध स्वरूपम्, तदेव *सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रेण विशोध्यते । तदेव च श्यतो वाचो निवर्तन्ते, अप्राप्य मनसा सहेति वाङ्मनसागोचरतया निविशेषमिति गम्यते । अतस्तदेव मान्त्रणिकमिति तस्मादनतिरिक्त आनन्दमय इति । अत उत्तरं पठति- - ? १७. नेतरोऽनुपपत्तेः ॥ १-१-१७ ॥ परमात्मन इतरो जीवशब्दाभिलप्यो मुक्तावस्थोऽपि न भवति मान्त्रणकः । कुतः ? अनुपपत्तेः। तथाविधस्यात्मनो निरुपाधिकं विपश्चित्त्वं नोपपद्यते । इदमेव हि निरुपाधिकं विपश्चित्त्वं *सोऽकामयत, बहु स्यां प्रजायेयेति सत्यसङ्कल्पत्वप्रदर्शनेन विवरिष्यते । विविध पश्यच्चित्त्वं हि विपश्चित्त्वम् । पृषोदरादित्वात्पश्यच्छब्दावयवस्य यच्छब्दस्य लोपं कृत्वा व्युत्पादितो विपश्चिच्छब्दः। यद्यपि मुक्तस्य विपश्चित्त्वं संभवति; तथाऽपि तस्यैवात्मनस्संसार- दशायामविपश्चित्त्वमप्यस्तीति निरुपाधिकं विपश्चित्त्वं नोपपद्यते । निविशेषचिन्मात्रतापन्नस्य मुक्तस्य विविधदर्शनाभावात् सुतरां विपश्चित्त्वं न संभवतीति न केनापि प्रमाणेन निविशेष वस्तु प्रतिपाद्यत इति च पूर्वमेवोक्तम् । भ्यतो वाचो निवर्तन्ते इति च वाक्यं यदि वाङ्मन- सयोर्ब्रह्मणो निवृत्तिमभिदधीत; न ततो निर्विशेषतां वस्तुनोऽवगमयितुं शक्नुयात्; अपि तु वाङ्मनसयोस्तत्राप्रमाणतां वदेत्; तथा च सति तस्य तुच्छत्वमेवापद्यते । *ब्रह्मविदाप्नो- तीत्यारभ्य ब्रह्मणो विपश्चित्त्व जगत्कारणत्वं ज्ञानानन्दैकतानतामितरान्प्रत्यानन्दयितृत्वं कामादेव चिदचिदात्मकस्य कृत्स्नस्य स्रष्टत्वं सृज्यवर्गानुप्रवेशकृततदात्मकत्वं भयाभयहेतुत्वं वाय्वादित्यादीनां प्रशासितृत्वं शतगुणितोत्तरक्रमेण निरतिशयानन्दत्वमन्यच्चाने प्रतिपाद्य वाङ्मनसयोः ब्रह्मणि प्रवृत्त्यभावेन निष्प्रमाणकं ब्रह्मेत्युच्यत इति भ्रान्त जल्पितम् । श्यतो श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । वाचो निवर्तन्ते इति यच्छब्दनिर्दिष्टमर्थम् *आनन्दं ब्रह्मणो विद्वान इत्यानन्दशब्देन प्रतिनिर्दिश्य तस्य ब्रह्मसंबन्धित्वं ब्रह्मण इति व्यतिरेकनिर्देशेन प्रतिपाद्य तदेव वाङ्मनसागोचरं *विद्वानिति तद्वेदनमभिदधद्वाक्यं जरद्गवादिवाक्यवदनर्थकं वाच्यानन्तर्गतं च स्यात् ॥ अतश्शतगुणितोत्तरक्रमेण ब्रह्मानन्दस्यातिशयेयत्तां वक्तुमुद्यम्य तस्येयत्ताया अभावा- देव वाङ्मनसयोस्ततो निवृत्तिः श्यतो वाचो निवर्तन्ते इत्युच्यते । एवमियत्तारहितं ब्रह्मण आनन्दं विद्वान् कुतश्चन न बिभेतीत्युच्यते। किञ्च अस्य मान्त्रणिकस्य विपश्चितः *सोऽकाम- यतेत्यारभ्य वक्ष्यमाणस्वसङ्कल्पावक्लप्तजगज्जन्मस्थितिजगदन्तरात्मत्वादेर्मुक्तात्मस्वरूपा- दन्यत्वं सुस्पष्टमेव ॥१७॥ इतश्चोभयावस्थात्प्रत्यगात्मनोऽन्य आनन्दमयः- १८. भेदव्यपदेशाच्च ॥ १।१।१८ ॥ *तस्माद्वा एतस्मादात्मन आकाशः इत्यारभ्य मान्त्रवणिकं ब्रह्म व्यञ्जयद्वाक्यमन्न- प्राणमनोभ्य इव जीवादपि तस्य भेदं व्यपदिशति तस्माद्वा एतस्माद्विज्ञानमयात्, अन्योऽन्तर आत्माऽऽनन्दमयः इति । अतो जीवाद्धदस्य व्यपदेशाच्चायं मान्त्रवणिक आनन्दमयोऽज्य एवेति ज्ञायते ॥१८॥ इतश्च जीवादन्यः-- १६. कामाच्च नानुमानापेक्षा ।।१।१।१६ ।। जीवस्याविद्यापरवशस्य जगत्कारणत्वे ह्यवर्जनीया आनुमानिकप्रधानादिशब्दाभि- धेयाचिद्वस्तुसंसर्गापेक्षा । तथैव हि चतुर्मुखादीनां कारणत्वम् । इह च *सोऽकामयत, बहु स्याँ प्रजायेयेत्यचित्संसर्गरहितस्य स्वकामादेव विचित्रचिदचिद्वस्तुनस्सृष्टिः *इदं सर्वमसृजत, यदिदं किञ्चत्याम्नायते । अतोऽस्यानन्दमयस्य जगत्सृजतो नानुमानिकाचिद्वस्तुसंसर्गापेक्षा प्रतीयते । ततश्च जीवादन्य आनन्दमयः ॥१६।। इतश्च- २०. अस्मिन्नस्य च तद्योग शास्ति ॥१।१।२० ।। अस्मिन्-आनन्दमये, अस्य-जीवस्य, तद्योगम-आनन्दयोगम, शास्ति शास्त्रम् *रसो वै सः, रसं ह्येवायं लब्ध्वाऽऽनन्दी भवतीति । रसशब्दाभिधेयानन्दमयलाभादयं जीवशब्दाभि- लपनीय आनन्दी भवतीत्युच्यमाने यल्लाभाद्य आनन्दी भवति, स स एवेत्यनुन्मत्तः को ब्रवीतीत्यर्थः ।।

प्रथमाध्याये-प्रथमपादे-अन्तरधिकरणम् ६६ एवमानन्दमयः परं ब्रह्मति निश्चिते सति *यदेष आकाश आनन्दः विज्ञानमानन्द ब्रह्मत्यादिष्वानन्दशब्देनानन्दमय एव परामृश्यते; यथा विज्ञानशब्देन विज्ञानमयः । अत एवं *आनन्दं ब्रह्मणो विद्वानिति व्यतिरेकनिर्देशः । अत एव च *आनन्दमयमात्मानमुपसंक्राम- तीति फलनिर्देशश्च । उत्तरे चानुवाके पूर्वानुवाकोक्तानासन्नमयादीनाम् अन्न ब्रह्मति व्य जानात् *प्राणो ब्रह्मति व्यजानात् *मनो ब्रह्मेति व्यजानात् *विज्ञानं ब्रह्मति व्यजानात् इति प्रतिपादनात् *आनन्दो ब्रह्मत्यप्यानन्दमयस्यैव प्रतिपादनमिति विज्ञायते; तत एव च तत्रापि *आनन्दमयमात्मानमुपसंक्रम्येत्युपसंहृतम् । अतः प्रधानशब्दाभिलप्यादर्थान्तरभूतस्य परस्य ब्रह्मणो जीवशब्दाभिलपनीयादपि वस्तुनोऽर्थान्तरत्वं सिद्धम् ॥ २० ॥ इति आनन्दमयाधिकरणम् ॥ ६ ॥ अथ अन्तरधिकरणम् ।। ७ ।। यद्यपि मन्दपुण्यानां जीवानां कामाज्जगत्सृष्टिरतिशयितानन्दयोगो भयाभयहेतुत्व- मित्यादि न संभवति; तथाऽपि विलक्षणपुण्यानामादित्येन्द्रप्रजापतिप्रभृतीनां संभवत्येवेती- भामाशङ्कां निराकरोति-- -- २१. अन्तस्तद्धर्मोपदेशात् ॥ १-१-२१॥ इदमाम्नायते छान्दोग्ये य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रु- हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः, तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिनि नाम स एष सर्वेभ्यः पाप्मभ्य उदितः उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद, तस्यर्च साम च गेष्णौ इत्यधिदैवतम् *अथाध्यात्मम्...अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत्साम तदुक्थ्यं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामेति ॥ तत्र सन्दिह्यते-किमयमक्ष्यादित्यमण्डलान्तर्वर्ती पुरुषः पुण्योपचयनिमित्तैश्वर्य आदित्यादिशब्दाभिलप्यो जीव एव; आहोस्वित्तदतिरिक्तः परमात्मेति । कि युक्तम् ? उपचितपुण्यो जीव एवेति । कुतः ? सशरीरत्वश्रवणात् । शरीरसंबन्धो हि जीवानामेव संभवति । कर्मानुगुणप्रियाप्रिययोगाय हि शरीरसंबन्धः । अत एव हि कर्मसंबन्धरहितस्य मोक्षस्य प्राप्यत्वमशरोरत्वेनोच्यते *न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः इति । संभवति च पुण्यातिशयात् ज्ञानाधिक्यम्, शक्त्याधिक्यञ्च । अत एव लोककामेशत्वादि तस्यैवोपपद्यते । तत एव चोपास्यत्वम्, फल- दायित्वम्, पापक्षपणकरत्वेन मोक्षोपयोगित्वं च । मनुष्येष्वप्युपचितपुण्याः केचित् ज्ञान- श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । शक्त्यादिभिरधिकतरा दृश्यन्ते; ततश्च सिद्धगन्धर्वादयः; ततश्च देवाः; ततश्चेन्द्रादयः । अतो ब्रह्मादिष्वन्यतम एवैकैकस्मिन् कल्पे पुण्यविशेषेणैवंभूतमैश्वर्य प्राप्तो जगत्सृष्टयाद्यपि करोतीति जगत्कारणत्वजगदन्तरात्मत्वादिवाक्यमस्मिन्नेवोपचितपुण्यविशेषे सर्वज्ञे सर्वशक्तौ वर्तते । अतो न जीवादतिरिक्तः परमात्मा नाम कश्चिदस्ति । एवं च सति *अस्थूलमनण्वह्रस्वमि- त्यादयो जीवात्मनस्स्वरूपाभिप्राया भवन्ति । मोक्षशास्त्राण्यपि तत्स्वरूपतत्प्राप्त्युपायोपदेश- पराणीति ॥ एवं प्राप्तऽभिधीयते--अन्तस्तद्धर्मोपदेशात्; अन्तरादित्येऽन्तरक्षिणि च यः पुरुषः प्रतीयते, स जीवादन्यः परमात्मैव; कुतः ? तद्धर्मोपदेशात्-जीवेष्वसंभवंस्तदतिरिक्तस्यैव परमात्मनो धर्मोऽयमपहतपाप्मत्वादिः स एष सर्वेभ्यः पाप्मभ्य उदितः इत्यादिनोप- दिश्यते । अपहतपाप्मत्वं हि अपहतकर्मत्वम्; कर्मवश्यतागन्धरहितत्वमित्यर्थः । कर्माधीन- सुखदुःखभागित्वेन कर्मवश्या हि जीवाः । अतोऽपहतपाप्मत्वं जीवादन्यस्य परमात्मन एव धर्मः । तत्पूर्वकं स्वरूपोपाधिकं लोककामेशत्वम्, सत्यसङ्कल्पत्वादिकं सर्वभूतान्तरात्मत्वञ्च तस्यैव धर्मः । यथाह एष आत्माऽपहतपामा बिजरो विमृत्युविशोकोऽविजिघत्सोऽपिपास- स्सत्यकामस्सत्यसङ्कल्पः इति; तथा *एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इति । *सोऽकामयत्, बहु स्यां प्रजायेयेतीत्यादिसत्यसङ्कल्पत्वपूर्वकसमस्तचिद- चिद्वस्तुसृष्टियोगो निरुपाधिकभयाभयहेतुत्वम्, वाङ्मनसपरिमितिकृतपरिच्छेदरहितानवधि- कातिशयानन्दयोग इत्यादयोऽकर्मसंपाद्यास्स्वाभाविका धर्मा जीवस्य न संभवन्ति ॥ यत्तु शरीरसंबन्धान्न जीवातिरिक्त इत्युक्तम्; तदसत्, न हि सशरीरत्वं कर्मवश्यता साधयति, सत्यसङ्कल्पस्येच्छयाऽपि शरीरसंबन्धसंभवात् । अथोच्येत-शरीरं नाम त्रिगुणा- स्मकप्रकृतिपरिणामरूपभूतसङ्घातः; तत्संबन्धश्चापहतपाप्मनस्सत्यसङ्कल्पस्य पुरुषस्येच्च्या न संभवति, अपुरुषार्थत्वात् । कर्मवश्यस्य तु स्वस्वरूपानभिज्ञस्य कर्मानुगुणफलोपभोगाया- निच्छतोऽपि तत्संबन्धोऽवर्जनीय इति । स्यादेतदेवम् यदि गुणत्रयमयः प्राकृतोऽस्य देहस्स्यात्; स तु स्वाभिमतस्स्वानुरूपोऽप्राकृत एवेति सर्वमुपपन्नम् ॥ एतदुक्तं भवति-परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानवधिकातिशयासङ्घय यकल्याणगुणगणाश्च सन्ति । तद्वदेव स्वाभिमतानुरूपकरूपाचिन्त्यदिव्याछुतनित्यनिरवद्यनिरतिशयोज्ज्वल्यसौन्दर्यसौगन्ध्यसौकु- मार्यलावण्ययौवनाद्यनन्तगुणगणनिधिदिव्यरूपमपि स्वाभाविकमस्ति । तदेवोपासकानुग्रहेण तत्तत्प्रतिपत्त्यनुरूपसंस्थानं करोत्यपारकारुण्यसौशील्यवात्सल्यौदार्यजलनिधिः निरस्तनिखिल- हेयगन्धोऽपहतपाप्मा परमात्मा परं ब्रह्म पुरुषोत्तमो नारायण इंति ॥ +- प्रथमाध्याये--प्रथमपादे-अन्तरधिकरणम् । १०१ *यतो वा इमानि भूतानि जायन्ते *सदेव सोम्येदमन आसीत् *आत्मा वा इदमेक एवान आसीत् *एको ह वै नारायण आसीन ब्रह्मा नेशानः इत्यादिषु निखिलजगदेककारण- तयाऽवगतस्य परस्य ब्रह्मणः *सत्यं ज्ञानमनन्तं ब्रह्म, *विज्ञानमानन्दं ब्रह्म इत्यादिष्वेवंभूतं स्वरूपमित्यवगम्यते । ऋनिर्गुणम् निरञ्जनम् *अपहतपाप्मा विजरो विमृत्युविशोकोऽविजि- घत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः *न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविको ज्ञानबलक्रिया च । *तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम् *स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः *सर्वाणि रूपाणि विचित्य धीरः, नामानि कृत्वाऽभिवदन्यदास्ते *वेदाहमेतं पुरषं महान्तम्, आदित्यवर्णं तमसः परस्तात् *सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि इत्यादिषु परस्य ब्रह्मणः प्राकृतहेयगुणान् प्राकृतहेयदेहसंबन्धं तन्मूलकर्मवश्यतासंबन्धं च प्रतिषिध्य कल्याणगुणान् कल्याणरूपं च वदन्ति । तदिदं स्वाभाविकमेव रूपमुपासकानुग्रहेण तत्प्रतिपत्त्यनुगुणाकारं देवमनुष्यादि- संस्थानं करोति स्वेच्छयैव परमकारुणिको भगवान् । तदिदमाह श्रुतिः-*अजायमानो बहुधा विजायते इति । स्मृतिश्च *अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम्, इति । साधवो ह्य पासकाः; तत्परित्राणमेवोद्देश्यम्, आनुषङ्गिकस्तु दुष्कृतां विनाशः, सङ्कल्प- मात्रेणापि तदुपपत्तेः। प्रकृति स्वामिति प्रकृतिः- स्वभावः । स्वमेव स्वभावमास्थाय, न संसारिणां स्वभावमित्यर्थः । आत्ममाययेति स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः । *माया वयुनं ज्ञानमिति ज्ञानपर्यायमपि मायाशब्दं नघण्टुका अधीयते । आह च भगवान् पराशरः- *समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेमहत् ॥ समस्तशक्ति- रूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया । जगतामुपकाराय न सा कर्मनिमित्तजा ॥ इति । महाभारते चावताररूपस्याप्यप्राकृतत्वमुच्यते-*न भूतसङ्घ- संस्थानो देहोऽस्य परमात्मनः इति । अतः परस्यैव ब्रह्मण एवंरूपरूपवत्त्वादयमपि तस्यैव धर्मः । अत आदित्यमण्डलाक्ष्यधिकरणः आदित्यादिजीवव्यतिरिक्तः परमात्मैव ॥२१॥ २२. भेदव्यपदेशाच्चान्यः ॥ १।१।२२ ॥ आदित्यादिजीवेभ्यो भेदो व्यपदिश्यतेऽस्य परमात्मनः -- *य आदित्ये तिष्ठन्नादित्या दन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयति *य आत्मनि तिष्ठन्नात्मनोऽन्तरो यनात्मा न वेद यस्याऽत्मा शरोरं य आत्मानमन्तरो यमयति योऽक्षर- मन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं १०२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इति चास्यापहत- पाप्मनः परमात्मनस्सर्वान् जीवान शरीरत्वेन व्यपदिश्य तेषामन्तरात्मत्वेनेनं व्यपदिशति । अतस्तर्वेभ्यो हिरण्यगर्भादि जीवेभ्योऽन्य एव परमात्मेति सिद्धम् ॥२२॥ इति अन्तरधिकरणम् ।।७।। अथ आकाशाधिकरणम् ।। ८ ।। *यतो वा इमानि भूतानि जायन्ते इति जगत्कारणं ब्रह्मेत्यवगम्यते । किं तज्जगत्कारणमित्यपेक्षायां *सदेव सोम्येदमग्न आसीत् *तत्तेजोऽसृजत *आत्मा वा इदमेक एवाग्र आसीत् *स इमाल्लोकानसृजत तस्माद्वा एतस्मादात्मन आकाशस्संभूतः इति साधा- रणैश्शब्दैर्जगत्कारणे निर्दिष्टे ईक्षणविशेषानन्दविशेषरूपविशेषार्थस्वभावात्प्रधानक्षेत्रज्ञादिव्य- तिरिक्तब्रह्मत्युक्तम् । इदानीमाकाशादिविशेषशब्दैनिदिश्य जगत्कारणत्वजगदैश्वर्यादिवादेऽप्या- काशादिशब्दाभिप्रेयतया प्रसिद्धचिदचिद्वस्तुनोऽर्थान्तरमुक्तलक्षणमेव ब्रह्मेति प्रतिपाद्यते *आकाशस्तल्लिङ्गात् इत्यादिना पादशेषेण । २३. आकाशस्तल्लिगोत् ॥ १।१ । २३ ॥ इदमाम्नायते छान्दोग्ये-*अस्य लोकस्य का गतिरिति आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् इति । तत्र सन्देहः-कि प्रसिद्धाकाश एवात्राकाशशब्देनाभि- धीयते, उतोक्तलक्षणमेव ब्रह्मेति । किं प्राप्तम् ? प्रसिद्धाकाश इति । कुतः ? शब्दैकसमधि- गम्ये वस्तुनि य एवार्थो व्युत्पत्तिसिद्धश्शब्देन प्रतीयते स एव ग्रहीतव्यः । अतः प्रसिद्धाकाश एव चराचरभूतजातस्य कृत्स्नस्य कारणम् । अतस्तस्मादनतिरिक्तं ब्रह्म ॥ नन्वीक्षापूर्वकसृष्टयादिभिरचेतनाज्जीवाच्च व्यतिरिक्तं ब्रह्मत्युक्तम् । सत्यमुक्तम्, अयुक्त तु तत् । तथा हि *यतो वा इमानि भूतानि जायन्ते...... तद्ब्रह्मत्युक्त कुत इमानि भूतानि जायन्त इत्यादिविशेषापेक्षायां *सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादिना विशेषप्रतीतेः जगज्जन्मादिकारणमाकाश एवेति निश्चिते सति सदेव सोम्येदमग्र आसोदित्यादिष्वपि सदादिशब्दास्साधारणाकारास्तमेव विशेषमाकाशमभिदधति । *आत्मा वा इदमेक एवान आसोदित्यादिष्वात्मशब्दोऽपि तत्रैव वर्तते । तस्यापि हि चेतनैकान्तत्वं न संभवति; यथा मृदात्मको घट इति । आप्नोतीत्यात्मेति व्युत्पत्त्या सुतरामाकाशेऽप्यात्म- शब्दो वर्तते । अतएवमाकाश एव कारणं ब्रह्मति निश्चिते सतीक्षणादयस्तदनुगुणा गौणा वर्णनीयाः। यदि हि साधारणशब्दैरेव सदादिभिः कारणमभ्यधायिष्यत; ईक्षणाद्यर्थानुरोधेन चेतनविशेष एव कारणमिति निरचेष्यत । आकाशशब्देन तु विशेष एव निश्चित इति नार्थस्वा- भाव्यान्नि”तव्यमस्ति ।

प्रथमाध्याये-प्रथमपादे-आकाराधिकरणम् १०३ ननु *आत्मन आकाशस्संभूतः इत्याकाशस्यापि कार्यत्वं प्रतीयते । सत्यम् । सर्वेषा- मेवाकाशवाय्वादीनां सूक्ष्मावस्था स्थूलावस्था चेत्यवस्थाद्वयमस्ति । तत्राकाशस्य सूक्ष्मावस्था कारणम्, स्थूलावस्था तु कार्यम् । *आत्मन आकाशस्संभूतः इति स्वस्मादेव सूक्ष्मरूयात्स्वयं स्थूलरूपस्संभूतः इत्यर्थः । *सर्वाणि ह वा इमानि भूता-याकाशदेव समुत्पद्यन्ते इति सर्वस्य जगत आकाशादेव प्रभवाप्ययादिश्रवणात्तदेव हि कारणं ब्रह्मति निश्चितम् । यत एवं प्रसिद्धाकाशादनतिरिक्तं ब्रह्म,अत एव च *यदेष आकाश आनन्दो न स्यात् *आकाशो ह वै नामरूपयोनिर्वहिता इत्येवमादिनिर्देशोऽप्युपपन्नतरः । अतः प्रसिद्धाकाशादनतिरिक्तं ब्रह्मेति ॥ एवं प्राप्त ब्रम:-~-आकाशस्तल्लिङ्गात् । श्राकाशशब्दाभिधेयः प्रसिद्धाकाशादचेतना- दर्थान्तरभूतो यथोक्तलक्षगः परमात्मैव । कुतः ? तल्लिङ्गात्-निखिलजगदेककारणत्वस, सर्वस्माज्ज्यायस्त्वम्, परायणत्वम् इत्यादीनि परमात्मलिङ्गान्युपलभ्यन्ते । निखिलकारणत्वं ह्यचिद्वस्तुनः प्रसिद्धाकाशशब्दाभिधेयस्य नोपपद्यते, चेतनवस्तुनस्तत्कार्यत्वासंभवात् । परा- यणत्वं च चेतनानां परमप्राप्यत्वम् । तच्चाचेतनस्य हेयस्य सकलपुरुषार्थविरोधिनो न संभ- वति । सर्वस्माज्ज्यायस्त्वं च निरुपाधिकं सर्वैः कल्याणगुणैस्सर्वेभ्यो निरतिशयोत्कर्षः । तदप्यचितो नोपपद्यते ॥ यदुक्तं जगत्कारणविशेषाकाङ्क्षायामाकाशशब्देन विशेषसमर्पणादन्यत्सर्व तदनुरूप- मेव वर्णनीयमिति, तदयुक्तम्; *सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इति प्रसिद्धवनिर्देशात् । प्रसिद्धवनिर्देशो हि प्रमाणान्तरप्राप्तिमपेक्षते । प्रमाणान्तराणि च *सदेव सोम्येदमग्र आसीदित्येवमादीन्येव वाक्यानि । तानि च यथोक्तिप्रकारेणैव ब्रह्म प्रतिपाद- यन्तीति तत्प्रतिपादितं ब्रह्माकाशशब्देन प्रसिद्धवनिर्दिश्यते । संभवति च परस्य ब्रह्मणः प्रकाशकत्वादाकाशशब्दाभिधेयत्वम् -आकाशते, आकाशयति चेति । किञ्च अनेनाकाशशब्देन विशेषसमर्पणक्षमेणापि चेतनांशं प्रत्यसंभावितकारणभावमचेतनविशेषमभिदधानेन तदैक्षत बहु स्यां प्रजायेय *सोऽकामयत, बहु स्यां प्रजायेयेत्यादिवाक्य(वि) शेषावधारितसार्वश्य- सत्यसङ्कल्पत्वादिविशिष्टापूर्वार्थप्रतिपादनसमर्थवाक्यार्थान्यथाकरणं न प्रमाणपदवीमधि- रोहति । एवमपूर्वानन्तविशेषणविशिष्टापूर्वार्थप्रतिपादनसमर्थानेकवाक्यगतिसामान्यं चैकेनानु- वादस्वरूपेणान्यथाकर्तुं न शक्यते । यत्त्वात्मशब्दश्चेतनैकान्तो न भवति, मृदात्मको घट इत्यादिदर्शनादित्युक्तम् तत्रोच्यते-यद्यपि चेतनादन्यत्रापि क्वचिदात्मशब्दः प्रयुज्यते; तथाऽपि शरीरप्रतिसंबन्धिन्या- स्मशब्दस्य प्रयोगप्राचुर्यात् *आत्मा वा इदमेक एवाग्र आसीत् *आत्मन आकाशस्संभूतः इत्यादिषु शरीरप्रतिसंबन्धिचेतन एव प्रतीयते । यथा गोशब्दस्यानेकार्थवाचित्वेऽपि प्रयोग- श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । प्राचुर्यात्सास्नादिमानेव स्वतः प्रतीयते; अर्थान्तरप्रतीतिस्तु तत्तदसाधारणनिर्देशापेक्षा; तथा स्वतः प्राप्त शरीरप्रतिसंबन्धिचेतनाभिधानमेव *स ईक्षत लोकान्नु सृजा इति सोऽकामयत, बहु स्यां प्रजायेयेत्यादितत्तद्वाक्यविशेषा एव स्थिरीकुर्वन्ति । एवं वाक्य(वि)शेषावधारिता- नन्यसाधारणानेकापूर्वार्थविशिष्ट निखिलजगदेककारणं *सदेव सोम्येत्यादिवाक्यसिद्धं ब्रह्मवाकाशशब्देन प्रसिद्धवत् *सर्वाणि ह वा इमानि भूतानीत्यादिवाक्येन निदिश्यत इति सिद्धम् ॥२३॥ इति आकाशाधिकरणम् ।।८।। . अथ प्राणाधिकरणम् ।।६।। २४. अत एव प्राणः ॥ १-१-२४ ॥ इदमाम्नायते छान्दोग्ये-*प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता इति प्रस्तुत्य *कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वात् प्रास्तोष्यो मूर्धा ते व्यपति- ष्यत् इति । अत्र प्राणशब्दोऽप्याकाशशब्दवत्प्रसिद्धप्राणव्यतिरिक्त परस्मिन्न व ब्रह्मणि वर्तते, तदसाधारणनिखिलजगत्प्रवेशनिष्क्रमणादिलिङ्गात्प्रसिद्धवनिर्दिष्टात् ॥ अधिका शङ्का तु-कृत्स्नस्य भूतजातस्य प्राणाधीनस्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्ध एव प्राणो जगत्कारणतया निर्देशमहतीति । परिहारस्तु-शिलाकाष्ठादिषु चेतनस्वरूपे च तदभावात् *सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते इति नोपपद्यत इति । अतः प्राणयति सर्वाणि भूतानीति कृत्वा परं ब्रह्म व प्राणशब्देनाभिधीयते । अतः प्रसिद्धाकाशप्राणादेरन्यदेव निखिलजगदेककारणमपहतपाप्मत्वसार्वज्यसत्यसङ्कल्पत्वाद्य- नन्तकल्याणगुणगणं परं ब्रह्मवाकाशप्राणादिशब्दाभिधेयमिति सिद्धम् ॥२४॥ इति प्राणाधिकरणम् ।। अथ ज्योतिरधिकरणम् ।।१०।। अतः परं जगत्कारणत्वव्याप्त न येन केनापि निरतिशयोत्कृष्टगुणेन जुष्ट ज्योति- रिन्द्रादिशब्दैरर्थान्तरप्रसिद्धैरप्यभिधीयमानं परं ब्रह्म वेत्यभिधीयते *ज्योतिश्चरणाभिधानात् इत्यादिना ॥ २५. ज्योतिश्चरणाभिधानात् ॥ १-१-२५ ।। इदमाम्नायते छान्दोग्ये *अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः इति । तत्र संशयः- किमयं ज्योतिश्शब्देन निर्दिष्टो निरतिशयदीप्तियुक्तोऽर्थः प्रसिद्धमादित्यादिज्योतिरेव कारण-

प्रथमाध्याये-प्रथमपादे-ज्योतिरधिकरणम् ।
१०५
?
?
?
भूतं ब्रह्म, उत समस्तचिदचिद्वस्तुजातविसजातीयः परमकारणभूतोऽमितभास्सर्वज्ञस्सत्य-
सङ्कल्पः पुरुषोत्तम इति । किं युक्तम् ? प्रसिद्धमेव ज्योतिरिति । कुतः ? प्रसिद्धनिर्देशेऽप्या-
काशप्राणादिवत् स्ववाक्योपात्तपरमात्मव्याप्तलिङ्गविशेषादर्शनात्, परमपुरुषप्रत्यभिज्ञाना-
संभवात्, कौक्षेयज्योतिषैक्योपदेशाच्च प्रसिद्धमेव ज्योतिः कारणत्वव्याप्तनिरतिशयदीप्ति-
योगाज्जगत्कारणं ब्रह्मति ।।
एवं प्राप्ते प्रचक्ष्महे -ज्योतिश्चरणाभिधानात् । धुसंबन्धितया निर्दिष्ट निरतिशय-
दीप्तियुक्तं ज्योतिः परमपुरुष एव । कुतः ? *पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीत्य-
स्यैव धुसंबन्धिनश्चरणत्वेन सर्वभूताभिधानात् । एतदुक्तं भवति-यद्यपि *अथ यदतः परो
दिवो ज्योतिरित्यस्मिन्वाक्ये परमपुरुषासाधारणलिङ्गं नोपलभ्यते; तथाऽपि पूर्ववाक्ये धुसंब-
न्धितया परमपुरुषस्य निर्देशादिदमपि धुसंबन्धिज्योतिस्स एवेति प्रत्यभिज्ञायत इति । कौक्षे-
यज्योतिषक्योपदेशश्च फलाय तदात्मकत्वानुसन्धानविधिरिति न कश्चिद्दोषः । कौक्षेयज्योति-
षश्च तदात्मकत्वं भगवता स्वयमेवोक्तम् - *अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः
इति ॥२५॥
२६ छन्दोभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगमात्तथाहि दर्शनम् ॥१-१-२६॥
पूर्वस्मिन्वाक्ये *गायत्री वा इदं सर्वमिति गायत्र्याख्यं छन्दोऽभिधाय तदेतदृचाऽ-
भ्यनूक्तमित्युदाहृतायाः *तावानस्य महिमेत्यस्था ऋचोऽपि छन्दोविषयत्वान्नात्र परमपुरुषा-
भिधानमिति चेत् तन्न, तथा चेतोऽर्पणनिगमात्-न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते,
छन्दोमात्रस्य सर्वात्मकत्वानुपपत्तेः; अपि तु ब्रह्मण्येव गायत्रीचेतोऽर्पणमिह निगम्यते ।
ब्रह्मणि गायत्रीसादृश्यानुसन्धान फलायोपदिश्यत इत्यर्थः। संभवति च *पादोऽस्य सर्वा-
भूतानि, त्रिपादस्यामृतं दिवोति चतुष्पदो ब्रह्मणश्चतुष्पदया गायत्र्या च सादृश्यम् । चतुष्पदा
च गायत्री क्वचिदृश्यते । तद्यथ। *इन्द्रश्शचीपतिः, बलेन पीडितः, दुश्च्यवनो वृषा,
समित्सुसासहिः इति । तथा ह्यन्यत्रापि सादृश्याच्छन्दोऽभिधायी शब्दोऽर्थान्तरे प्रयुज्यमानो
दृश्यते । यथा संवर्गविद्यायाम् ते वा एते पञ्चान्ये पश्चान्ये दश संपद्यन्ते इत्यारभ्य *सैषा
विराडन्नादित्युच्यते ॥२६॥
इतश्च गायत्रीशब्देन ब्रह्म वाभिधीयते-
२७ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ १-१-२७ ।।
भूतपृथिवीशरीरहृदयानि निर्दिश्य *सैषा चतुष्पदेति व्यपदेशो ब्रह्मण्येव गायत्री-
शब्दाभिधेय उपपद्यते ॥२७॥

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । २८ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ १-१-२८ ॥ पूर्ववाक्ये *त्रिपादस्यामृतं दिवीति दिवोऽधिकरणत्वेन निर्देशादिह च दिवः पर- इत्यवधित्वेन निर्देशादुपदेशस्य भिन्नरूपत्वेन पूर्ववाक्योक्तं ब्रह्म परस्मिन्न प्रत्यभिज्ञायत इति चेत् तन्न, उभयस्मिन्नप्युपदेशे अर्थस्वभावैक्येन प्रत्यभिज्ञाया अविरोधात्; यथा वृक्षाग्रे श्येनो वृक्षाग्रात्परतश्श्येन इति । तस्मात्परमपुरुष एव निरतिशयतेजस्को दिवः परो ज्योतिर्दोप्यत इति प्रतिपाद्यते । *एतावानस्य महिमा, अतो ज्यायाँश्च पुरुषः, पादोऽस्य विश्वा भूतानि, त्रिपादस्यामृतं दिवीति प्रतिपादितस्य चतुष्पदः परमपुरुषस्य *वेदाहमेतं पुरुषं महान्तम्, आदित्यवर्ण तमसस्तु पारे इत्यभिहिताप्राकृतरूपस्य तेजोऽप्यप्राकृतमिति तद्वत्तया स एव ज्योतिश्शब्दाभिधेय इति निरवद्यम् ॥ इति ज्योतिरधिकरणम् ॥१०॥ . अथ इन्द्रप्राणाधिकरणम् ॥११॥ निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रसिद्धवनिर्दिष्टं परमपुरुष एवेत्युक्तम् । इदानीं कारणत्वव्याप्तामृतत्वप्राप्त्युपायतयोपास्यत्वेन श्रुत इन्द्रप्राणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याह- ह २६ प्राणस्तथाऽनुगमात् ॥१-१-२६ ।। कौषीतकोब्राह्मणे प्रतर्दनविद्यायां *प्रतर्दनो वै देवोदासिरिन्द्रस्य प्रियं धामोपज- गाम युद्धेन च पौरुषेण चेत्यारभ्य *वरं वृणीष्वेति वक्तारमिन्द्र प्रति *त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे इति प्रतर्दनेनोक्ते, *स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्वेति श्रूयते । तत्र संशयः-किमयं हिततमोपासनकर्मतयेन्द्रप्रागशब्द- निदिष्टो जीव एव; उत तदतिरिक्तः परमात्मेति । किं युक्तम् ? जीव एवेति । कुतः ? इन्द्र- शब्दस्य जीवविशेष एव प्रसिद्धः, तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव वृत्तः। अय- मिन्द्राभिधानो जीवः प्रतर्दनेन *त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे इत्युक्तः मामुपास्स्वेति स्वात्मोपासनं हिततममुपदिदेश । हिततमश्चामृतत्वप्राप्त्युपाय एव । जगत्कारणोपासनस्यैवामृतत्वप्राप्तिहेतुता *तस्य तावदेव चिरं यावन्न विमोइये अथ सम्पत्स्ये इत्यवगता। अतः प्रसिद्धजीवभाव इन्द्र एव कारणं ब्रह्म। इत्याशङ्कायामभिधीयते प्राणस्तथाऽनुगमादिति । अयमिन्द्रप्राणशब्दनिर्दिष्टो न जीवमात्रम्; अपि तु जीवादर्थान्तरभूतं परं ब्रह्म । स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतः इतीन्द्रप्राणशब्दाभ्यां प्रस्तुत- स्यानन्दाजरामृतशब्दसामानाधिकरण्येनानुगमो हि तथा सत्येवोपपद्यते ॥२६॥ 4- प्रथमाध्याये-प्रथमपादे-इन्द्रप्राणाधिकरणम् १०७ ३०. न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ १-१-३० ॥ यदुक्तमिन्द्रप्राणशब्दनिर्दिष्टस्य *आनन्दोऽजरोऽमृतः इत्यनेनैकार्थ्यादयं परं ब्रह्मति, तन्नोपपद्यते; *मामेव विजानीहि प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्वेति वक्ता होन्द्रः *त्रिशीर्षाणं त्वाष्ट्रमहनम् इत्येवमादिना त्वाष्ट्रवधादिभिः प्रज्ञातजीवभावस्य स्वात्मन एवोपास्यतां प्रतर्दनायोपदिशति । अत उपक्रमे जीवविशेष इत्यवगते सति *आनन्दोऽजरोऽ- मृतः इत्यादिभिरुपसंहारस्तदनुगुण एव वर्णनीय इति चेत्, परिहरति-अध्यात्मसंबन्धभूमा ह्यस्मिन्-आत्मनि यस्संबन्धस्सोऽध्यात्मसंबन्धः । तस्य भूमा-भूयस्त्वम्,-बहुत्वमित्यर्थः । आत्मन्याधेयतया संबध्यमानानां बहुत्वेन संबन्धबहुत्वम् । तच्चास्मिन्वक्तरि परमात्मन्येव हि संभवति । तद्यथा रथस्यारेषु नेमिरपिता नाभावरा अपिता एवमेवैता भूतमात्राः प्रज्ञा- मात्रास्वपिताः प्रज्ञामात्राः प्राणेऽपितास्स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः इति भूतमात्राशब्देनाचेतनवस्तुजातमभिधाय प्रज्ञामात्राशब्देन तदाधारतया चेतनवर्ग चाभिधाय तस्याप्याधारतया प्रकृतमिन्द्रप्राणशब्दाभिधेयं निदिश्य तमेव *आनन्दोऽजरोऽमृतः इत्युप- दिशति । तदेतच्चेतनाचेतनात्मककृत्स्नवस्त्वाधारत्वं जीवादर्थान्तरभूतेऽस्मिन् परमात्मन्ये- वोपपद्यत इत्यर्थः ॥ अथवा, अध्यात्मसंबन्धभूमा ह्यस्मिन्-परमात्मासाधारणधर्मसंबन्धोऽध्यात्मसंबन्धः । तस्य भूमा-बहुत्वं हि अस्मिन् प्रकरणे विद्यते । तथाहि-प्रथमं त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे इति, *मामुपास्स्वेति च परमात्मासाधारणमोक्षसाधानोपासन- कर्मत्वं प्राणशब्दनिर्दिष्टस्येन्द्रस्य प्रतीयते । तथा *एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यमधो निनीषतीति सर्वस्य कर्मणः कारयितृत्वं च परमात्मधर्मः । तथा *तद्यथा रथस्यारेषु नेमिरपिता नाभावरा अपिता एव- मेवैता भूतमात्राः प्रज्ञामात्रास्वपिताः प्रज्ञामात्राः प्राणेऽपिताः इति सर्वाधारत्वं च तस्यैव धर्मः । तथा *स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽऽजरोऽमृतः इत्येतेऽपि परमात्मन एव धर्माः । एष लोकाधिपतिरेष सर्वेशः इति च परमात्मन्येव संभवति । तदेवमध्यात्मसंबन्ध- भूम्नोऽत्र विद्यमानत्वात्परमात्मैवात्रे द्रप्राणशब्दनिर्दिष्टः ॥३०॥ कथं तहि प्रज्ञातजीवभावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशस्संगच्छते; तत्राह- ३१. शास्त्रदृष्टया तूपदेशो वामदेववत् ॥ १-१-३१ ॥ प्रज्ञातजीवभावेनेन्द्रेण *मामेव विजानीहि *मामुपास्स्वेत्युपास्यस्य ब्रह्मणस्स्वात्म- त्वेनोपदेशोऽयं न प्रमाणान्तरप्राप्तस्वात्मावलोकनकृतः, अपितु शास्त्रण स्वात्मदृष्टिकृतः । - १०८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - एतदुक्तं भवति- *अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि *ऐतदात्म्यमिदं सर्वम् *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा *य प्रात्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति *एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः इत्येवमादिना शास्त्रण जीवात्मशरीरकं परमात्मानमवगम्य जीवात्म- वाचिनामहत्वमादिशब्दानामपि परमात्मन्येव पर्यवसानं ज्ञात्वा *मामेव विजानीहि, *मामु- पास्स्वेति स्वात्मशरीरकं परमात्मानमेवोपास्यत्वेनोपदिदेशेति । वामदेववत्- यथा वामदेवः परस्य ब्रह्मणः सर्वान्तरात्मत्वं सर्वस्य च तच्छरीरत्वं शरीरवाचिनां च शब्दानां शरीरिणि पर्यवसानं पश्यन् अहमिति स्वात्मशरीरकं परं ब्रह्म निर्दिश्य तत्साभानाधिकरप्येन मनुसूर्या- दोन् व्यपदिशति तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च, *अहं कक्षीवा- नृषिरस्मि विप्र, इत्यादिना । यथा च प्रह्लादः *सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तस्सर्वमहं सर्व मयि सर्व सनातने ॥ इत्यादि वदति ॥३१॥ अस्मिन् प्रकरणे जीववाचिभिश्शब्दरचिद्विशेषाभिधायिभिश्वोपास्यभूतस्य परस्य ब्रह्मण'ऽभिधाने कारणं चोद्यपूर्वकमाह- ३२. जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ १-१-३२॥ अन वाचं विजिज्ञासीत वक्तारं विद्यात् *त्रिशीर्षाणं त्वाष्ट्रमहनम् अरुन्मुखान्यतीन् सालावृकेभ्यः प्रायच्छम्, इत्यादिजीवलिङ्गात्, *यावदस्मिन् शरीरे प्राणो वसति तावदायुः *अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति इति मुख्यप्राणलिङ्गाच्च नाध्यात्म- संबन्धभूमेति चेन्न, उपासात्रैविध्यात् हेतोः । उपासनात्रैविध्यमुपदेष्टुतत्तच्छब्देनाभिधानम्- निखिलकारणभूतस्य ब्रह्मणस्स्वरूपेणानुसन्धानम्, भक्तृवर्गशरीरकत्वानुसन्धानम्, भोग्य- भोगोपकरणशरीरकत्वानुसन्धानं चेति त्रिविधमनुसन्धानमुपदेष्टुमित्यर्थः । तदिदं त्रिविधं ब्रह्मानुसन्धान प्रकरणान्तरेष्वप्याश्रितम् -*सत्यं ज्ञानमनन्तं ब्रह्म, आनन्दो ब्रह्मत्यादिषु स्वरूपानुसन्धानम् ॐतत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सञ्च त्यच्चाभवत्, निरुक्तं चानि- रुक्तं च, निलयनं चानिलयनं च, विज्ञानं चाविज्ञानं च, सत्यं चानृतं च सत्यमभवत् *इत्या- दिषु भोक्तृशरीरतया, भोग्यभोगोपकरणशरीरतया चानुसन्धानम् । इहापि प्रकरणेतत्तिविध- मनुसन्धानं युज्यत एवेत्यर्थः ॥ एतदुक्तं भवति-यत्र हिरण्यगर्भादिजीवविशेषाणां प्रकृत्याद्यचेतनविशेषाणां च परमात्मासाधारणधर्मयोगः तदभिधायिनां शब्दानां परमात्मवाचिशब्देस्सामानाधिकरण्यं वा दृश्यते, तत्र परमात्मनस्तत्तच्चिदचिद्विशेषान्तरात्मत्वानुसन्धान प्रतिपिपादयिषितमिति ॥

प्रथमाध्याये-द्वितीयपादे---सर्वत्रप्रसिद्धयधिकरणम् । १०६ अतोऽत्रेन्द्रप्राणशब्दनिर्दिष्टो जीवादर्थान्तरभूतः परमात्मैवेति सिद्धम् ॥३२॥ इति इन्द्रप्राणाधिकरणम् ।। ११ ।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य प्रथमः पादः ॥१॥ श्रीरस्तु । श्रीमते रामानुजाय नमः । (प्रथमाध्याये-द्वितीयः पादः सर्वत्र प्रसिद्धयधिकरणम् ॥ १ ॥) प्रथमे पादे अधीतवेदः पुरुषः कर्ममीमांसाश्रवणाधिगतकर्मयाथात्म्यविज्ञान: केवल- कर्मणामल्पास्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरूप- तदुपासनसमुपजातपरमपुरुषार्थलक्षणमोक्षापेक्षोऽवधारितपरिनिष्पन्नवस्तुबोधनशब्दशक्तिः वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावस्तदितिकर्तव्यतारूपशारीरकमीमांसा- श्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये ॥ ( जिज्ञासा 1 ) अनन्तविचित्रस्थिरत्रसरूपभोक्तृभोग्यभोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयवि- भवलयमहानन्दैककारणं परं ब्रह्म श्यतो वा इमानि भूतानीत्यादिवाक्यं बोधयतीति च प्रत्यपादि ॥ ( जन्माद्य. २) जगदेक कारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रकप्रमाणकमित्यभ्यधाम ॥ ( शास्त्र. ३) शास्त्रप्रमाणकत्वं च ब्रह्मणः प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि स्वरूपेणैव परमपुरुषार्थभूते परस्मिन् ब्रह्मणि वेदान्तवाक्यानां समन्वयात्रिरुह्यत इत्यब्रूम ॥ ( समन्व. ४ ) निखिलजगदेककारणतया वेदान्तवेद्यं ब्रह्म च ईक्षणाद्यन्वयादानुमानिकप्रधानादर्था- न्तरभूतश्चेतनविशेष एवेत्युपापीपदाम ॥ ( ईक्षत्य. ५ ) च स्वाभाविकानवधिकातिशयानन्दविपश्चित्त्वनिखिलचेतनभयाभय हेतुत्वसत्य- सङ्कल्पत्वसमस्तचेतनाचेतनान्तरात्मत्वादिभिर्बद्धमुक्तोभयावस्थाज्जीवशब्दाभिलपनीयाच्चार्था- न्तरभूत इति च समातिथामहि ॥ ( आनन्द. ६) स चाप्राकृताकर्मनिमित्तस्वासाधारणदिव्यरूप इत्युदैरिराम ॥ ( अन्तर. ७) आकाशप्राणाद्यचेतनविशेषाभिधायिभिर्जगत्कारणतया प्रसिद्धवनिर्दिश्यमानस्सकले- तरचेतनाचेतनविलक्षणस्स एवेति समगरिष्महि ।। ( आकाशा. ८. प्राणा. ६) परतत्त्वांसाधारणनिरतिशयदीप्तियुक्तज्योतिश्शब्दाभिधेयो द्युसंबन्धितया प्रत्यभिज्ञाना- त्सएवेत्यातिष्ठामहि ॥ ( ज्योति. १०) स ११० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । परमकारणासाधारणामृतत्वप्राप्तिहेतुभूतः परमपुरुष एव शास्त्रदृष्टय न्द्रादिशब्दरभि- धीयत इत्यब्रूमहि ॥ ( इन्द्रप्राणा. ११) तदेवमतिपतितसकलेतरप्रमाणसंभावनाभूमिस्सार्वज्यसत्यसङ्कल्पत्वाद्यपरिमितोदार- गुणसागरतया स्वेतरसमस्तवस्तुविलक्षणः परं ब्रह्म पुरुषोत्तमो नारायण एव वेदान्तवेद्य इत्युक्तम् । अतः परं द्वितीयतृतीयचतुर्थेषु पादेषु, यद्यपि वेदान्तवेद्यं ब्रह्म व, तथापि कानिचिद्वे- दान्तवाक्यानि प्रधानक्षेत्रज्ञान्तर्भूतवस्तुविशेषस्वरूपप्रतिपादनपराण्येवेत्याशङ्कय तन्निरसन- मुखेन तत्तद्वाक्योदितकल्याणगुणाकरत्वं ब्रह्मणः प्रतिपाद्यते । तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये पादे विचार्यन्ते; स्पष्टलिङ्गकानि तृतीये; तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे । ३३ सर्वत्र प्रसिद्धोपदेशात् ॥ १।२।१॥ इदमाम्नायते छान्दोग्ये *अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः *इत्यादि । अत्र *स क्रतुं कुर्वीतेति प्रतिपादितस्योपासनस्योपास्यः *मनोमयः प्राणशरीरः इति निदिश्यत इति प्रतीयते । तत्र संशयः-कि मनोमयत्वादिगुणकः क्षेत्रज्ञः; उत परमात्मेति । किं युक्तम् ? क्षेत्रज्ञ इति । कुतः ? मनःप्राणयोः क्षेत्रज्ञोपकरणत्वात्, परमात्मनस्तु *अप्राणो ह्यमनाः इति तत्प्रतिषेधाच्च । न च *सर्वं खल्विदं ब्रह्मति पूर्वनिर्दिष्टं ब्रह्मात्रीपास्यतया संबद्धं शक्यते, *शान्त उपासीतेत्युपासनोपकरणशान्तिनिवृत्त्युपायभूतब्रह्मात्मकत्वोपदेशायोपात्तत्वात् । न च *स क्रतुं कुर्वीतेत्युपासनस्योपास्यसाकाङ्क्षत्वाद्वाक्यान्तरस्थमपि ब्रह्म संबध्यत इति युक्तं वक्तुम्; स्ववाक्योपात्तेन मनोमयत्वादिगुणकेन निराकाङ क्षत्वात्; *मनोमयः प्राणशरीरः इत्यनन्यार्थतया निर्दिष्टस्य विभक्तिविपरिणाममात्रेणोभयाकाङ्क्षानिवृत्तिसिद्धेः । एवं निश्चिते जीवत्वे *एतद्ब्रह्मत्युपसंहारस्थब्रह्मपदमपि जीव एव पूजार्थ प्रयुक्तमित्यध्यवसीयत इति । ? एवं प्राप्त ब्रूमः-सर्वत्र प्रसिद्धोपदेशात् । मनोमयत्वादिगुणकः परमात्मा । कुतः ? सर्वत्र-वेदान्तेषु परिस्मिन्न व ब्रह्मणि प्रसिद्धस्य मनोमयत्वादेरुपदेशात् । प्रसिद्धं हि मनो- मयत्वादि ब्रह्मणः । यथा-*मनोमयः प्राणशरीरनेता *स य एषोऽन्तह दय आकाशः, तस्मि- नयं पुरुषो मनोमयः, अमृतो हिरण्मयः *हृदा मनीषा मनसाऽभिक्लुप्तो य एनं विदुरमृतास्ते भवन्ति *न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेन, तथा *प्राणस्य प्राणः *अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति *सर्वाणि ह वा इमानि भूतानि प्राणमेवा- भिसंविशन्ति प्राणमभ्युज्जिहते इत्यादिषु । मनोमयत्वं-विशुद्धेन मनसा ग्राह्यत्वम् । प्राण- प्रथमाध्याये-द्वितीयपादे-सर्वत्रप्रसिद्धयधिकरणम् । १११ शरीरत्वं-प्राणस्याप्याधारत्वं नियन्तृत्वं च । एवं च सति *एष म आत्माऽन्तर्ह दय एतद्- ब्रह्मेति ब्रह्मशब्दोऽपि मुख्य एव भवति । *अप्राणो ह्यमनाः इति मनआयत्तं ज्ञानं प्राणायत्तां स्थितं च ब्रह्मणो निषेधति ॥ अथवा *सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेत्यत्रंवोपासनं विधीयते-- सर्वात्मकं ब्रह्म शान्तस्सन्नुपासोतेति । *स क्रतुं कुर्वीतेति तस्यैव गुण पादानार्थोऽनुवादः । उपादेयाश्च गुणा मनोमयत्वादयः; अतस्सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्यार्थः । तत्र सन्देहः-किमिह ब्रह्मशब्देन प्रत्यगात्मा निदिश्यते; उत परमात्मेति । कि युक्तन् ? प्रत्यगात्मेति । कुतः ? तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः । सर्वशब्द- निर्दिष्ट हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् । ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्यामूल- कर्मविशेषोपाधिको विद्यत एव । परस्य तु ब्रह्मणस्सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्त- समस्ताविद्यादिदोषगन्धस्य समस्तहेयाकरसर्वभावो नोपपद्यते । प्रत्यगात्मन्यपि कचिवचिद्- ब्रह्मशब्दः प्रयुज्यते । अत एव परमात्मा परं ब्रह्मेति परमेश्वरस्य कचित्सविशेषणो निर्देशः । प्रत्यगात्मनश्च निर्मुक्तोपाधेव॒ हत्त्वं च विद्यते स चानन्त्याय कल्पते इति श्रुतेः । अविदुषस्त- स्यैव कर्मनिमित्तत्वाजन्मस्थितिलयानां तज्जलानिति हेतुनिर्देशोऽप्युपपद्यते । तदयमर्थः- अयं जीवात्मा स्वतोऽपरिच्छिन्नस्वरूपत्वेन ब्रह्मभूतस्सन्ननाद्यविद्यया देवतिर्यङ मनुष्यस्था- वरात्मनाऽवतिष्ठते-इति ॥ ? ? - अत्र प्रतिविधीयते-सर्वत्र प्रसिद्धोपदेशात् । सर्वत्र- *सर्वं खल्विदम् इति निर्दिष्टे सर्वस्मिन् जगति ब्रह्मशब्देन तदात्मतया (अभि) विधीयमानं परं ब्रह्मैव-न प्रत्यगात्मा । कुतः ? प्रसिद्धोपदेशात्, *तज्जलानिति हेतुतः सर्वं खल्विदं ब्रह्मेति प्रसिद्धवदुपदेशात् । ब्रह्मणो जातत्वाद्ब्रह्मणि लीनत्वाद्ब्रह्माधीनजीवनत्वाच्च हेतोब्रह्मात्मकं सर्वं खल्विदं जगदित्युक्ते यस्माज्जगज्जन्मस्थितिलया वेदान्तेषु प्रसिद्धास्तदेवात्र ब्रह्मेति प्रतीयते । तच्च परमेव ब्रह्म । तथाहि *यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविन्ति, तद्विजिज्ञासस्व, तद्ब्रह्मत्युपक्रम्य *आनन्दो ब्रह्मति व्यजानात्, आनन्दाद्धय व खल्विमानि भूतानि जायन्ते इत्यादिना पूर्वानुवाकप्रतिपादितानवधिकातिशयानन्दयोगिनो विपश्चितः परस्माद्ब्रह्मण एव जगदुत्पत्तिस्थितिलया निर्दिश्यन्ते । तथा *स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः इति करणाधिपस्य जीवस्याधिपः परं ब्रह्म व कारणं व्यपदिश्यते । एवं सर्वत्र परस्यैव ब्रह्मणः कारणत्वं प्रसिद्धम् । अतः परब्रह्मणो जातत्वात्त- स्मिन् प्रलीनत्वात्तेन प्राणनात्तदात्मकतया तादात्म्यमुपपन्नम् । अतस्सर्वप्रकारं सर्वशरीरं सर्वात्मभूतं परं ब्रह्म शान्तो भूत्वोपासीतेति श्रुतिरेव परस्य ब्रह्मणस्सर्वात्मकत्वमुपपाद्य ११२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - तस्योपासनमुपदिशति । परं ब्रह्म हि कारणावस्थं कार्यावस्थं सूक्ष्मस्थूलचिदचिवस्तुशरोरतया सर्वदा सर्वात्मभूतम् । एवंभूततादात्म्यस्य प्रतिपादने परस्य ब्रह्मणस्सकलहेयप्रत्यनीककल्या- णगुणाकरत्वं न विरुध्यते, प्रकारभूतशरीरगतानां दोषाणां प्रकारिण्यात्मन्यप्रसङ्गात्; प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वमेवोक्तम् ॥ यदुक्तं जीवस्य सर्वतादात्म्यमुपपद्यत इति; तदसत्, जीवानां प्रतिशरीरं भिन्नाना- मन्योन्यतादात्म्यासंभवात् । मुक्तस्याप्यनवच्छिन्नस्वरूपस्यापि जगत्तादात्म्यं जगज्जन्मस्थिति- प्रलयकारणत्वनिमित्तं न संभवतीति *जगद्व्यापारवर्जम् इत्यत्र वक्ष्यते । जीवकर्मनिमित्त- त्वाज्जगज्जन्मस्थितिलयानां स एव कारणमित्यपि न साधीयः, तत्कर्मनिमित्तत्वेऽपीश्वरस्यैव जगत्कारणत्वात् । अतः परमात्मैवात्र ब्रह्मशब्दाभिधेयः । इममेव सूत्रार्थमभियुक्ता बहुमन्वते । यथाह वृत्तिकारः *सर्वं खल्विति सर्वात्मा ब्रह्मशः इति ॥ १ ॥ ३४. विवक्षितगुणोपपत्तेश्च ॥ १।२।२॥ वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते *मनोमयः प्राणशरीरो भारूपस्सत्य- सङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः इति । मनोमयः-परिशुद्धेन मनसकेन ग्राह्यः; विवेकविमोकादिसाधनसप्तकानुगृहीतपरमात्मोपासन- निर्मलीकृतेन हि मनसा गृह्यते । अनेन हेयप्रत्यनोककल्याणकतानतया सकलेतरविलक्षण- स्वरूपतोच्यते; मलिनमनोभिर्मलिनानामेव ग्राह्यत्वात् । प्राणशरीरः-जगति सर्वेषां प्राणानां धारकः; प्राणो यस्य शरीरम्-आधेयं विधेयं शेषभूतं च स प्राणशरीरः। आधेयत्वविधेयत्व- शेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तमित्युपपादयिष्यते । भारूपः --भास्वररूपः; अप्राकृत- स्वासाधारणनिरतिशयकल्यागदिव्यरूपत्वेन निरतिशयदीप्तियुक्त इत्यर्थः । सङ्कल्पः-अप्रतिहतसङ्कल्पः । आकाशात्मा-आकाशवरसूक्ष्मस्वच्छस्वरूपः । तरकारणभूतस्याकाशस्याप्यात्मभूत इति वा आकाशात्मा। स्वयं च प्रकाशते अन्यानपि प्रकाशयतीति वा आकाशात्मा । सर्वकर्मा--क्रियत इति कर्म; सर्वं जगद्यस्य कर्म असौ सर्वकर्मा; सर्वा वा क्रिया यस्यासौ सर्वकर्मा । सर्वकाम:-~-काम्यन्त इति कामाः भोग्यभोगो- पकरणादयः; ते परिशुद्धाः सर्वविधास्तस्य सन्तीत्यर्थः । सर्वगन्धः सर्वरसः-*अशब्दमस्पर्श- मित्यादिना प्राकृतगन्धरसादिनिषेधादप्राकृताः स्वासाधारणा निरवद्या निरतिशयाः कल्याणाः स्वभोग्यभूतास्सर्वविधा गन्धरसास्तस्य सन्तीत्यर्थः । सर्वमिदमभ्यात्तः-उक्तं रसपर्यन्तं सर्वमिदं कल्याण गुरगजातं स्वीकृतवान् । अभ्यात्तः इति भुक्ता ब्राह्मणा इतिवत्कर्तरि क्तः प्रतिपत्तव्यः । अवाको-वाक उक्ति.; सोऽस्य नास्तीत्यवाको। कुत इत्याह-अनादर इति । अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः। अत एव अवाकी-अजल्पाकः; परिपूर्णे- सत्य- सकले- प्रथमाध्याये-द्वितीयपादे- सर्वत्रप्रसिद्धयधिकरणम् । ११३ श्वर्यत्वाद्ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्थः । त एते विवक्षिता गुणाः परमात्मन्येवोपपद्यन्ते ॥२॥ ३५ अनुपपत्तेस्तु न शारीरः ॥ १-२-३ ॥ तमिमं गुणसागरं पर्यालोचयतां खद्योतकल्पस्य शरीरसंबन्धनिबन्धनापरिमितदुःख संबन्धयोग्यस्य बद्धमुक्तावस्थस्य जीवस्य प्रस्तुतगुणलेशसंबन्धगन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीरपरिग्रहशङ्का जायत इत्यर्थः ॥३॥ ३६ कर्मकर्तृव्यपदेशाच्च ॥ १-२-४ ॥ *एतमितः प्रेत्याभिसंभवितास्मीति प्राप्यतया परं ब्रह्म व्यपदिश्यते, प्राप्तृतया च जीवः । अतः प्राप्ता जीव उपासकः, प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ॥४॥ ३७ शब्दविशेषात् ॥ १-२-५ ।। *एष म आत्माऽन्तर्ह दये इति शारीरष्षष्ठ्या निर्दिष्टः, उपास्यस्तु प्रथमया। एवं समानप्रकरणे वाजिनां च श्रुतौ शब्दविशेषश्श्रूयते जीवपरयोः; यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वा एवमयमन्तरात्मन् पुरुषो हिरण्मयो यथा ज्योतिरधूमन इति । अत्र *अन्तरात्मन्निति सप्तम्यन्तेन शारीरो निर्दिश्यते; *पुरुषो हिरण्मयः इति प्रथम- योपास्यः । अतः पर एवोपास्यः ।। इतश्च शारीरादन्यः- ३८ स्मृतेश्च ॥ १-२-६ ॥ *सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च *यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ तमेव शरणं गच्छ इति शारीरमुपासकं, परमात्मानं चोपास्यं स्मृतिर्दर्शयति ॥६॥ ३६ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च १।२।७।। अल्पायतनत्वमर्भकौकस्त्वम् तव्यपदेशः-अल्पत्वव्यपदेशः । एष म आत्माऽन्तर्ह दये इत्यणीयसि हृदयायतने स्थितत्वात् *अणीयान् वीर्वा यवाद्वा इत्यादिनाऽणीयस्त्वस्य स्वरूपेण व्यपदेशाच्च नायं परमात्मा, अपि तु जीव एव; *सर्वगत सुसूक्ष्मं तदव्ययं यद्भूत- योनि परिपश्यन्ति धीराः इत्यादिभिः परमात्मनोऽपरिच्छिन्नत्वावगमात्, जीवस्य चाराग्र- मात्रत्वव्यपदेशादिति चेत्;

११४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । नैतदेवम्, परमात्मैव ह्यणीयानित्येवं निचाय्यत्वेन व्यपदिश्यते; एवं निचाय्यत्वेन- एवं द्रष्टव्यत्वेन, एवमुपास्यत्वेनेति यावत् । न पुनरणीयस्त्वमेवास्य स्वरूपमिति । व्योम- वच्चायं व्यपदिश्यते-स्वाभाविकं महत्त्वं चात्रव व्यपदिश्यते-ज्यायान् पृथिव्या ज्यायानन्त- रिक्षाज्यायान् दिवो ज्यायानेभ्यो लोकेभ्य इति । अत उपासनार्थमेवाल्पत्वव्यपदेशः । तथाहि *सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेति सर्वोत्पत्तिप्रलयकारणत्वेन सर्वस्यात्मतयाऽनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं विधाय *अथ खलु क्रतुमयः पुरुषो यथाक्रतुर स्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवतीति यथोपासनं प्राप्यसिद्धि- मभिधाय *स क्रतुं कुर्वीतेति गुणविधानार्थमुपासनमनूद्य *मनोमयः प्राणशरीरो भारूपस्सत्य- सङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः इति जगदैश्वर्यविशिष्टस्य स्वरूपगुणांचोपादेयान प्रतिपाद्य *एष म आत्माऽन्तर्ह दयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा इत्युपासकस्य हृदयेऽणीयस्त्वेन तदात्मतयो- पास्यस्य परमपुरुषस्योपासनार्थमवस्थानमुक्त्वा एष म प्रात्माऽन्तर्ह दये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यस्सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरस- स्सर्वमिदमभ्यात्तोऽवाक्यनादरः इत्यन्तहृदयेऽवस्थितस्योपास्यमानस्य प्राप्याकारं निर्दिश्य *एष म आत्माऽन्तर्ह दय एतद्ब्रह्म इत्येवंभूतं परं ब्रह्म परमकारुण्येनास्मजिजीवयिषयाऽ- स्मद्धृदये सन्निहितमितीदमनुसन्धान विधाय एतमितः प्रेत्याभिसंभविताऽस्मीति यथोपासनं प्राप्तिनिश्चयानुसन्धानं च विधाय *इति यस्य स्यादद्धा न विचिकित्साऽस्तीत्येवंविधप्राप्य- प्राप्तिनिश्चयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहृतम् । अत उपासनार्थमर्भकोक- स्त्वमणीयस्त्वं च ॥७॥ ४० संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ १-२-८ ॥ जीवस्येव परस्यापि ब्रह्मणश्शरीरान्तर्वतित्वमभ्युपगतं चेत्, तद्वदेव शरीरसंबन्ध- प्रयुक्तसुखदुःखोपभोगप्राप्तिरिति चेत्, तन्न, हेतुवैशेष्यात्-नहि शरीरान्तर्वतित्वमेव सुखदुःखो- पभोगहेतुः; अपि तु पुण्यपापरूपकर्मपरवशत्वम्, तत्त्वपहतपाप्मनः परमात्मनो न संभवति । तथा च श्रुतिः तयोरन्यः पिप्पलं स्वावृत्ति अनश्नन्नन्यो अभिचाकशीतीति ॥८॥ इति सर्वत्रप्रसिद्धयधिकरणम् ।।१।। अथ अत्त्रधिकरणम् ।।२।। यदि परमात्मा न भोक्ता. एवं तहि सर्वत्र भोक्तृतया प्रतीयमानो जीव एव स्यादि- त्याशङ्कयाह- प्रथमाध्याये-द्वितीयपादे--अत्तधिकरणम् । ११५ - ४१ अत्ता चराचरग्रहणात् ॥१-२-६ ॥ कठवल्लीष्वाम्नायते श्यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ इति । अत्रौदनोपसेचनसूचितोऽत्ता किं जीव एव, उत परमात्मेति सन्दिह्यते । किं युक्तम् ? जोव इति । कुतः ? भोक्तृत्वस्य कर्मनिमित्तत्वाज्जीवस्यैव तत्संभ- वात् । अत्रोच्यते-अत्ता चराचरग्रहणात् । अत्ता परमात्मैव । कुतः ? चराचरग्रहणात् चराचरस्य कृत्स्नस्यात्तृत्वं हि तस्यैव संभवति । न चेदं कर्मनिमित्तं भोक्तृत्वम् अपि तु जगज्जन्मस्थितिलयहेतुभूतस्य परस्य ब्रह्मणो विष्णोस्संहर्तृत्वम्; *सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदप इत्यत्रैव दर्शनात् । तथा च *मृत्युर्यस्योपसेचनमिति बचनात्, *ब्रह्म च क्षत्रं चेति कृत्स्नं चराचरं जगदिहादनीयौदनत्वेन गृह्यते । उपसेचनं हि नाम स्वयमद्यमानं सदन्यस्थाप्यदनहेतुः । अत उपसेचनत्वेन मृत्योरप्यद्यमानत्वात्तदुपसिच्यमानस्य कृत्स्नस्य ब्रह्मक्षत्रपूर्वकस्य जगतश्चराचरस्यादनमत्र विवक्षितमिति गम्यते । ईदृशं चादनमुपसंहार एव । तस्मादीदृशं जगदुपसंहारित्वरूपं भोक्तृत्वं परमात्मन एव ॥६॥ ४२. प्रकरणाच्च ॥ १-२-१०॥ प्रकरणं चेदं परस्यैव ब्रह्मणः-*महान्तं विभुमात्मानं मत्वा धीरो न शोचति *नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ इति हि प्रकृतम् । *क इत्था वेद यत्र सः इत्यपि हि तत्प्रसा- दाहते तस्य दुरवबोधत्वमेव पूर्वप्रस्तुतं प्रत्यभिज्ञायते ॥१०॥ अथ स्यात्-नायं ब्रह्मक्षत्तौदनसूचितः पुरुषोऽपहतपाप्मा परमात्मा; अनन्तरम् *ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ इति कर्मफलभोक्तुरेव सद्वितीयस्याभिधानात् । द्वितीयश्च प्राणो बुद्धिर्वा स्यात् । ऋतपानं हि कर्मफलभोग एव; स च परमात्मनो न संभवति; बुद्धिप्राणयोस्तु भोक्तु वस्योपकरणभूतयोर्यथा कथञ्चित्यानेऽन्वयस्संभवतीति तयोरन्यतरेण सद्वितीयो जीव एव प्रतिपाद्यते । तदेकप्रकरणत्वात्पूर्वप्रस्तुतोऽत्ताऽपि स एव भवितुमर्हतीति । तत्रोच्यते- ४३. गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ १-२-११ ॥ न प्राणजीवौ बुद्धिजीवौ वा गुहां प्रविष्टावृतं पिबन्तावित्युच्येते; अपि तु जीवपरमा- त्मानौ हि तथा व्यपदिश्यते । कुतः ? तद्दर्शनात् । अस्मिन् प्रकरणे जीवपरयोरेव गुहाप्रवेश- व्यपदेशो दृश्यते । परमात्मनस्तावत् *तं दुर्दर्श गूढमनुप्रविष्ट गुहाहितं गह्वरेष्ठ पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति ॥ इति । जीवस्यापि श्या प्राणेन ?

११६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । संभवत्यदिनिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत ॥ इति । कर्मफलाय. त्तीत्यदितिर्जीव उच्यते । प्राणेन संभवति-प्राणेन सह वर्तते । देवतामयी-इन्द्रियाधीन भोगा । गुहां प्रविश्य तिष्ठन्ती-हृदयपुण्डरीकोदरवर्तिनी । भूतेभिर्व्यजायत-पृथिव्यादिभि- भूतैस्सहिता देवादिरूपेण विविधा जायते । एवं च सति *ऋतं पिबन्ताविति व्यपदेशः छत्रिणो गच्छन्तीतिवत्प्रतिपत्तव्यः। यद्वा-प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुप- पद्यते ॥११॥ ४४. विशेषणाच्च ॥ १-२-१२ ॥ अस्मिन् प्रकरणे जीवपरमात्मानावेवोपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वविशिष्टौ सर्वत्र प्रतिपाद्यते । तथाहि-*ब्रह्मजज्ञं देवमीड्य विदित्वा निचाय्येमा शान्तिमत्यन्तमेति इति । ब्रह्मजज्ञो जीवः, ब्रह्मणो जातत्वात् ज्ञत्वाच्च । तं देवमीड्य विदित्वा-जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थः । तथा श्यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ इत्युपास्यः परमात्मोच्यते । नाचिकेतम्-नाचिकेतस्य कर्मणः प्राप्यमित्यर्थः । *आत्मानं रथिनं विद्धि शरीरं रथमेव चेत्यादिनोपासको जीव उच्यते । तथा *विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ इति प्राप्यप्राप्तारावभिधीयेते जीवपरमात्मानौ । इहापि *छायातपावित्यज्ञत्वसर्वज्ञत्वाभ्यां तावेव विशिष्य व्यपदिश्यते ॥ अथ स्यात् श्येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके इति जीव- स्वरूपयाथात्म्यप्रश्नोपक्रमात्सर्वमिदं प्रकरणं जीवपरमिति प्रतीयत इति । नैतदेवम्, न हि जीवस्य देहातिरिक्तस्यास्तित्वनास्तित्वशङ्कयाऽयं प्रश्नः, तथा सति पूर्ववरद्वयवरणानुपपत्तेः । तथा हि-पितुस्सर्ववेदसदक्षिणक्रतुसमाप्तिवेलायां दीयमानदक्षिणावैगुण्येन क्रतुवैगुण्यं मन्य- मानेन कुमारेण नचिकेतसा आस्तिकाग्रेसरेण स्वात्मदानेनापि पितुः क्रतुसाद्गुण्यमिच्छता *कस्मै मां दास्यसीत्यसकृत्पितरं पृष्टवता स्वनिर्बन्धरुष्टपितृवचनान्मृत्युसदनं प्रविष्ट न स्वसदनात्प्रोषुषि यमे तददर्शनात्तत्र तिस्रो रात्रीरुपोषुषा स्वोपवासभीततत्प्रतिविधानप्रवृत्त- मृत्यु(प्रत्ते)प्रदत्ते वरत्रये आस्तिक्यातिरेकात्प्रथमेन वरेण स्वात्मानं प्रति पितुः प्रसादो वृतः । एतच्च सर्व देहातिरिक्तमात्मानमजानतो नोपपद्यते। द्वितीयेन च वरेणोत्तीर्णदेहात्मानुभाव्य- फलसाधनभूताऽग्निविद्या वृता । तदपि देहातिरिक्तात्मानभिज्ञस्य न संभवति । अतस्तृतीयेन वरेण यदिदं वियते श्येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद्विद्या- मनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ इति; अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्ष- याथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्त्वजिज्ञासयाऽयं प्रश्नः क्रियते । एवं प्रथमाध्याये-प्रथमपादे-अन्तराधिकरणम् । ११७ च *येयं प्रेत इति न शरीरवियोगमात्राभिप्रायम् अपि तु सर्वबन्धविनिर्मोक्षाभिप्रायम् । यथा *न प्रेत्य संज्ञाऽस्ति इति ।। अयमर्थः-मोक्षाधिकृते मनुष्ये प्रेते-सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषया वादिवि- प्रतिपत्तिनिमित्ताऽस्तिनास्त्यात्मिका येयं विचिकित्सा, तदपनोदनाय तत्स्वरूपयाथात्म्य त्वयाऽनुशिष्टोऽहं विद्या-जानीयाम्-इति । तथा हि बहुधा विप्रतिपद्यन्ते-केचिद्वित्तिमात्र- स्यात्मनस्स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्ये वित्तिमात्रस्यैव सतोऽविद्यास्तमयम् । अपरे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरे तु अपहत- पाप्मानं परमात्मानमभ्युपगच्छन्तस्तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमेन तद्भाव- लक्षणं मोक्षमातिष्ठन्ते । त्रय्यन्तनिष्णातास्तु निखिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्त- ज्ञानानन्दैकस्वरूपस्थ स्वाभाविकानवधिकातिशयासङ्घय यकल्याणगुणाकरस्य सकलेतर- विलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणश्शरोरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञान- स्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्यातिरोहितस्वरूपस्याविद्योच्छेद- पूर्वकस्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादा- द्विद्यामिति नचिकेतसा पृष्टो मृत्युस्तस्यार्थस्य दुरवबोधत्वप्रदर्शनेन विविधभोगवितरण- प्रलोभनेन चैनं परीक्ष्य योग्यतामभिज्ञाय परावरात्मतत्त्वविज्ञानं परमात्मोपासनं तत्पदप्राप्ति- लक्षणं मोक्षं च तं दुर्दर्श गूढमनुप्रविष्टमित्यारभ्य *सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदमित्यन्तेनोपदिश्य तदपेक्षितांश्च विशेषानुपदिदेशेति सर्व समञ्जसम् । अतः परमात्मैवात्तेति सिद्धम् ॥१२॥ इति अत्त्रधिकरणम् ॥ २ ॥ अथ अन्तराधिकरणम् ॥ ३॥ ४५. अन्तर उपयत्तेः ॥ १।२।१३ ॥ इदमामनन्ति च्छन्दोगाः य एषोऽ(न्तर) क्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म इति । तत्र संदेहः-किमयमक्ष्याधारतया निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता देवताविशेषः, उत जीवात्मा, अथ परमात्मेति । किं युक्तम् ? प्रतिबिम्बात्मेति । कुतः ? प्रसिद्धवनिर्देशात्; अदृश्यते इत्यपरोक्षाभिधानाच्च जीवात्मा वा, तस्यापि हि चक्षुषि विशेषेण सन्निधानात्प्रसिद्धिरुपपद्यते । उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवात्मनश्शरीरे स्थितिगती निश्चि वन्ति । *रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः इति श्रुतिप्रसिद्धया चक्षुःप्रतिष्ठो देवताविशेषो वा । एष्वेव प्रसिद्धवनिर्देशोपपत्तेरेषामन्यतमः ॥ इति प्राप्त प्रचक्ष्महे-अन्तर उपपत्तेः । अक्ष्यन्तरः परमात्मा। कुतः ? *एष श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति एतं संयद्वाम इत्याचक्षते, एतं हि सर्वाणि वामान्य- भिसंयन्ति एष उ एव वामनीः, एष हि सर्वाणि वामानि नयति, एष उ एव भामनीः, एष हि सर्वेषु लोकेषु भाति इत्येषां गुणानां परमात्मन्येवोपपत्तेः ॥ १३ ॥ ४६. स्थानादिव्यपदेशाच्च ।। १।२। १४ ॥ चक्षुषि स्थितिनियमनादयः परमात्मन एव *यश्चक्षुषि तिष्ठन्नित्येवमादौ व्यप- दिश्यन्ते । अतश्च *य एषोऽ(न्तर)क्षिणि पुरुषः इति स एव प्रतीयते । अतः प्रसिद्ध- वनिर्देशश्च परमात्मन्युपपद्यते । तत एव दृश्यते इति साक्षात्कारव्यपदेशोऽपि योगिभिर्दृश्य- मानत्वादुपपद्यते ॥ १४ ॥ ४७. सुखविशिष्टाभिधानादेव च ॥ १।२। १५ ।। इतश्चाक्ष्याधारः पुरुषोत्तमः-*कं ब्रह्म खं ब्रह्मति प्रकृतस्य सुखविशिष्टस्य ब्रह्मणः उपासनस्थानविधानार्थं संयद्वामत्वादिगुणविधानार्थं च *य एषोऽक्षिणि पुरुष इत्यभिधानात् । एवकारो नैरपेक्ष्यं हेतो?तयति ।। नन्वग्निविद्याव्यवधानात् ॐकं ब्रह्मति प्रकृतं ब्रह्म नेह सन्निधत्ते । तथा हि-अग्नयः *प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ब्रह्मविद्यामुपदिश्य *अथ हैनं गार्हपत्योऽनुशशासेत्यारभ्या- ग्नीनामुपासनमुपदिदिशुः । नचाग्निविद्या ब्रह्मविद्याङ्गमिति शक्यं वक्तुम्; ब्रह्मविद्याफला- नन्तर्गततद्विरोधिसर्वायुःप्राप्तिसन्तत्यविच्छेदादिफलश्रवणात् । उच्यते- *प्रारणो ब्रह्म एतद- मृतमभयमेतद्ब्रह्मत्युभयत्र ब्रह्मसंशब्दनात्, *आचार्यस्तु ते गति वक्तेऽत्यग्निवचनाच्च गत्यु- पदेशात्पूर्वं ब्रह्मविद्याया असमाप्त स्तन्मध्यगताऽग्निविद्या ब्रह्मविद्याङ्गमिति निश्चीयते; *प्रथ हैनं गार्हपत्योऽनुशशासेति ब्रह्मविद्याधिकृतस्यैवाग्निविद्योपदेशाच्च । किञ्च *व्याधिभिः प्रति- पूर्णोऽस्मीति ब्रह्मप्राप्तिव्यतिरिक्तनानाविधकामोपहतिपूर्वकगर्भ जन्मजरामरणादिभवभयोपत- प्तायोपकोसलाय *एषा सोम्य तेऽस्मद्विद्याऽऽत्मविद्या चेति समुच्चित्योपदेशान्मोक्षकफलात्म- विद्याङ्गत्वमग्निविद्यायाः प्रतीयते । एवं चाङ्गत्वेऽवगते सति फलानुकीर्तनमर्थवाद इति गम्यते । नचात्र मोक्षविरोधिफलं किञ्चिच्छ्र यते, *अपहते पापकृत्यां लोकी भवति सर्वमायु- रेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयन्तं भुञ्जामोऽस्मिश्च लोकेऽमुष्मिश्च इत्य- मीषां फलानां मोक्षाधिकृतस्यानुगुणत्वात् । अपहते पापकृत्याम्-ब्रह्मप्राप्तिविरोधि पापं कर्मापहन्ति । लोकी भवति-तद्विरोधिनि पापे निरस्ते ब्रह्मलोकं प्राप्नोति । सर्वमायुरेति- ब्रह्मोपासनसमाप्त र्यावदायुरपेक्षितम्, तत्सर्वमेति । ज्योग्जीवति-व्याध्यादिभिरनुपहतो यावद्ब्रह्मप्राप्ति जीवति । नास्यावरपुरुषाः क्षीयन्ते-अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोऽपि - प्रथमाध्याये-प्रथमपादे-अन्तराधिकरणम् ११६ ब्रह्मविद एव भवन्ति *नास्याब्रह्मवित्कुले भवतीति च श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयते । उप वयन्तं भुजामोऽस्मिश्च लोकेऽमुष्मिश्च-वयम् अग्नयस्तमेनमुपभुञ्जामः-यावद्ब्रह्मप्राप्ति विघ्नेभ्यः परिपालयाम इति । अतोऽग्निविद्याया ब्रह्मविद्याङ्गत्वेन तत्सन्निधानाविरोधात्सुख- विशिष्ट प्रकृतमेव ब्रह्मोपासनस्थानविधानार्थं चोच्यते ॥ ननु *आचार्यस्तु ते गति वक्त ति गतिमात्रपरिशेषणादाचार्येण गतिरेवोपदेश्येति गम्यते; तत्कथं स्नानगुणविध्यर्थतोच्यते । तदभिधीयते । *आचार्यस्तु ते गति वक्त त्यस्याय- मभिप्रायः --ब्रह्मविद्यामनुपदिश्य प्रोषुषि गुरौ तदलाभादनाश्वांसमुपकोसलमुज्जीवयितुं स्वपरि- चरणप्रीता गार्हपत्यादयो गुरोरग्नयस्तस्मै ब्रह्मस्वरूपमात्रं तदङ्गभूतां चाग्निविद्यामुपदिश्य आचार्याद्धव विद्या विदिता साधिष्ठ प्रापत् इति श्रुत्यर्थमालोच्य साधुतमत्वप्राप्त्यर्थमाचार्य एवास्य संयद्वामत्वादिगुणकं ब्रह्म तदुपासनस्थानर्माचरादिकां च गतिमुपदिशत्विति मत्वा आचार्यस्तु ते गति वक्त त्यवोचत् । गतिग्रहणमुपदेश्यविद्याशेषप्रदर्शनार्थम् । अत एवाचर्योऽपि *अहं तु ते तद्वक्ष्यामि तथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते इत्युपक्रम्य संयद्वामत्वादिकल्याणगुणविशिष्ट ब्रह्माक्षिस्थानोपास्यचिरादिकां च गतिमुपदिदेश । अतः *कं ब्रह्म खं ब्रह्मेति सुखविशिष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानादय- मक्ष्याधारः परमात्मा ॥ १५ ॥ ननु च *कं ब्रह्म खं ब्रह्मेति परं ब्रह्माभिहितमिति कथमवगम्यते, यस्येहाक्ष्याधार- तयाऽभिधानं ब्रषे; यावता *कं ब्रह्म खं ब्रह्मति प्रसिद्धाकाशलौकिकसुखयोरेव ब्रह्मदृष्टिवि- धीयत इति प्रतिभाति, *नाम ब्रह्म *मनो ब्रह्मेत्यादिवचनसारूप्पात् । तत्राह- ४८. अत एव च स ब्रह्म ॥१।२।१६ ॥ यतस्तत्र श्यदेव के तदेव खमिति सुखविशिष्टस्याकाशस्याभिधानम्, अत एव खशब्दा- भिधेयस्सः आकाशः परं ब्रह्म। एतदुक्तं भवति-अग्निभिः *प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मत्युक्त उपकोसल उवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ॥ अस्यायमभिप्रायः-न तावत्प्राणादिप्रतीकोपासनमग्निभिरभिहितम्, मरणादिभवभयभीतस्य मुमुक्षोः मोक्षोपदेशाय प्रवृत्तत्वात् । अतो ब्रह्म वोपास्यमुपदिष्टम् । तत्र प्रसिद्धः प्राणादिभिस्समानाधिकरणं ब्रह्म निर्दिष्टम्; तेषु च प्राणविशिष्टत्वं जगद्विधरण- योगेन वा प्राणशरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति *विजानाम्यहं यत्प्राणो ब्रह्मत्युक्तवान् । तथा सुखाकाशयोरपि ब्रह्मणः शरीरतया तन्नियाम्यत्वेन विशेषण- त्वम् उतान्योन्यव्यवच्छदेकतया निरतिशयानन्दरूपब्रह्मस्वरूपसमर्पणपरत्वेन वा ? पृथग्भूतयोश्शरीरतया विशेषणत्वे वैषयिकसुखभूताकाशयोनियामकत्वं ब्रह्मणस्स्यादिति स्वरूपा- to- जन्मजरा- १२० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । वगतिर्न स्थात्, अन्योन्यव्यवच्छेदकत्वेऽपरिच्छिन्नानन्दैकस्वरूपत्वं ब्रह्मणस्यादित्यन्यतर- प्रकारनिदिधारयिषया * कं च तु खं च न विजानामोत्युक्तवान् । उपकोसलस्येममाशयं जानन्तोऽग्नयः यद्वा व कं तदेव खं यदेव खं तदेव कमित्यूचिरे। ब्रह्मणस्सुखरूपत्वमेवा- परिच्छिन्नमित्यर्थः । अतः प्राणशरीरतया प्राणविशिष्ट यद्ब्रह्म, तदेवापरिच्छिन्नसुखरूपं चेति निगमितम् *प्राणं च हास्मै तदाकाशं चोचुरिति । अतः *कं ब्रह्म खं ब्रह्मेत्यत्रापरि- च्छिन्नसुखं ब्रह्म प्रतिपादितमिति परं ब्रह्मव तत्र प्रकृतम्, तदेव चात्राक्ष्याधारतयाऽभिधीयत इत्यक्ष्याधारः परमात्मा ॥ १६ ॥ ४६. श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १।२। १७ ॥ श्रुतोपनिषत्कस्य-~-अधिगतपरमपुरुषयाथात्म्यस्यानुसन्धेयतया श्रुत्यन्तरप्रतिपाद्य- माना अचिरादिका गतिर्या, तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीमुपकोसलायाक्षिपुरुषं श्रुतवते तेऽचिषमेवाभिसंभवन्त्यचिषोऽहरह्न आपूर्यमाणपक्षमित्यारभ्य *चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्सएनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते इत्यन्तेनोपदिशति । अतोऽप्ययमक्षिपुरुषः परमात्मा ॥ १७ ॥ ५०. अनवस्थितेरसंभवाच्च नेतरः ॥ १।२। १८ ॥ प्रतिबिम्बादीनामक्षिणि नियमेनानवस्थानादमृतत्वादीनां च निरुपाधिकानां तेष्व- संभवान्न परमात्मन इतरः छायादिः अक्षिपुरुषो भवितुमर्हति । प्रतिबिम्बस्य तावत्पुरुषान्तर- सन्निधानायत्तत्वान्न नियमेनावस्थानसंभवः। जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वे- न्द्रियकन्दभूते स्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानम् । देवतायाश्च रश्मिभिरेषोऽस्मिन् प्रतिष्ठित इति रश्मिद्वारेणावस्थानवचनाद्देशान्तरावस्थितस्यापोन्द्रियाधिष्ठानोपपत्तेर्न चक्षुष्य- वस्थानम् । सर्वेषामेवैषां निरुपाधिकामृतत्वादयो न संभवन्त्येव । तस्मादक्षिपुरुषः परमात्मा ॥ १८ ॥ इति अन्तराधिकरणम् ।। ३ ।। अथ अन्तर्याम्यधिकरणम् ।। ४ ।। स्थानादिव्यपदेशाच्चेत्यत्र श्यश्चक्षुषि तिष्ठन्नित्यादिना प्रतिपाद्यमानं चक्षुषि स्थिति- नियमनादिकं परमात्मन एवेति सिद्ध कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम् । इदानीं तदेव समर्थयते-. ५१. अन्तर्याम्यधिदेवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ १।२ । १६ ॥ काण्वा माध्यन्दिनाश्च वाजसनेयिनस्समामनन्ति भ्यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः प्रथमाध्याये-द्वितीयपादे--अन्तर्याम्यधिकरणम् । ૧૨૧ ? इति । एवमम्ब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकाकाशतमस्तेजस्सु देवेषु च सर्वेषु भूतेषु प्राणवाक्चक्षुश्श्रोत्रमनस्त्वग्विज्ञानरेतस्स्वात्मात्मीयेषु च तिष्ठन्तं तत्तदन्तरभूतं तत्तदवेचं तत्तच्छरीरकं तत्तद्यमयन्तं कञ्चिनिदिश्य एष त आत्माऽन्तर्याम्यमृतः इत्युपदिश्यते । माध्यन्दिनपाठे तु यस्सर्वेषु लोकेषु तिष्ठन् यस्सर्वेषु वेदेषु श्यस्सर्वेषु यज्ञेषु इति च पर्यायाः। *यो विज्ञाने तिष्ठन्नित्यस्य पर्यायस्य स्थाने *य आत्मनि तिष्ठन् इति पर्यायः । *स त आत्माऽन्तर्याम्यमृत' इति च विशेषः । तत्र संशय्यते -किमयमन्तर्यामी प्रत्यगात्मा, उत परमात्मेति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? वाक्यशेषे *द्रष्टा श्रोतेति करणायत्त- ज्ञानताश्रुतेः; एवं द्रष्टुरेवान्तर्यामित्वोपदेशात्, *नान्योऽतोऽस्ति द्रष्टेति द्रष्ट्रन्तरनिषेधाच्चेति ।। एवं प्राप्तऽभिधीयते--अन्तर्याम्यधिदेवाधिलोकादिषु तद्धर्मव्यपदेशात् । अधिदेवाधि- लोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्याम्यपहतपाप्मा परमात्मा नारायणः । काण्वपाठ- सिद्धेभ्योऽधिदेवादिमद्भयो वाक्येभ्योऽधिकान्यधिलोकादिमन्ति वाक्यानि माध्यन्दिनपाठे सन्तीति ज्ञापनार्थमधिदेवाधिलोकादिष्वित्युभयोरुपादानम् । तदेवमुभयेष्वपि वाक्येष्वन्तर्यामी परमात्मेत्यर्थः । कुतः ? तद्धर्मव्यपदेशात्; परमात्मधर्मो ह्ययन, यदेक एव सन् सर्वलोकसर्वभूत- सर्वदेवादीनियमयतीति । तथा उद्दालकप्रश्नः-*य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीत्युपक्रम्य *तमन्तर्यामिणं ब्रू होति । तस्य चोत्तरम् यः पृथिव्यां तिष्ठन् इत्यारभ्योक्तम् । तदेतत्सर्वाल्लो कान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान्वेदान् सर्वांश्च यज्ञानन्तः प्रविश्य सर्वप्रकारनियमनम्, सर्वशरीरतया सर्वस्यात्मत्वं च सर्वज्ञात्सत्यसङ्कल्पा- त्पुरुषोत्तमादन्यस्य न संभवति । तथाहि *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा *तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत् इत्यादीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वं सर्वस्यात्मत्वमित्यादीनि वदन्ति । तथा सुबालोपनिषदि *नवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः, चक्षुश्च द्रष्टव्यं च नारायणः, श्रोत्रं च श्रोतव्यं च नारायणः इत्यारभ्य *अन्तश्शरीरे निहितो गुहा- यामज एको नित्यः यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्या- पश्शरीरम् इत्यादि, श्यस्य मृत्युश्शरीरं यो मृत्युमन्तरे सञ्चरन् यं मृत्युनं वेद एष सर्वभूता- न्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इति परस्यैव ब्रह्मणस्सर्वात्मत्वं सर्वशरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्यते ॥ स्वाभाविकं चामृतत्वं परमात्मन एव धर्मः । न च परस्यात्मनः करणायत्तं द्रष्टुत्वा- दिकम्; अपितु स्वभावत एव सर्वज्ञत्वात्सत्यसङ्कल्पत्वाच्च स्वत एव । तथाच श्रुतिः *पश्यत्यचक्षुस्स शृणोत्यकर्णः अपाणिपादो जवनो ग्रहीता इति । न च दर्शनश्रवणादिशब्दा- १२२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । चक्षुरादिकरणजन्मनो ज्ञानस्य वाचकाः; अपितु रूपादिसाक्षात्कारस्य । स च रूपादिताक्षा- कारः कर्मतिरोहितस्वाभाविकज्ञानस्य जीवस्य चक्षुरादिकरणजन्मा; परस्यतु स्वत एव । नान्योऽतोऽस्ति द्रष्टेत्येतदपि पूर्ववाक्योदितान्नियन्तुष्टुरन्यो द्रष्टा नास्तीति वदति । *यं पृथिवी न वेद अयमात्मा न वेदेत्येवमादिभिर्वाक्यः पृथिव्यात्मादिनियाम्यैरनुपलभ्यमान एव नियमयतीति यत्पूर्वमुक्तन्, तदेव *अदृष्टो द्रष्टा अश्रुतश्श्रोतेति निगमय्य *नान्योऽतोऽस्ति द्रष्टेत्यादिना तस्य नियन्तुनियन्त्रन्तरं निषिध्यते । *एष त आत्मा *स त आत्मा इति च त इति व्यतिरेकविभक्तिनिर्दिष्टस्य जीवस्थात्मतयोपदिश्यमानोऽन्तर्यामी न प्रत्यगात्मा भवितु- मर्हति ॥ १६ ॥ ५२ न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ॥ १।२।२० ॥ स्मार्तं प्रधानम् । शारीरः जीवः। स्मार्तं च शारीरश्च नान्तर्यामी, अतद्धर्माभि- लापात्-तयोरसंभावित धर्माभिलापात् । स्वभावत एव सर्वस्य द्रष्टुत्वम्, सर्वस्य नियन्तृत्वम्, सर्वस्यात्मत्वम्, स्वत एवामृतत्वं च तयोर्न संभावनागन्धमर्हति । एतदुक्तं भवति-यथा स्मार्तमचेतनं सर्वज्ञत्वनियन्तृत्वसर्वात्मत्वादिकं नार्हति, तथा जीवोऽपि, अतद्धर्मत्वात्-इति । अमीषां गुणानां परमात्मन्यन्वयः, प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दशितः ॥ २० ॥ निरपेक्षं च हेत्वन्तरमाह- ५३ उभयेऽपि हि भेदेनैनमधीयते ॥ १।२ । २१ ॥ उभये-माध्यन्दिनाः काण्वाश्च, अन्तर्यामिगो नियाम्यत्वेन वागादिभिरचेल्नस्समम् एनं शारीरमपि विभज्याधीयते-*य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः इति माध्यन्दिनाः, यो विज्ञाने तिष्ठन् इत्यादि च काण्वाः परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थ. । अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ॥ २१ ॥ इति अन्तर्याम्यधिकरणम् ॥ ४ ॥ अथ अदृश्यत्वादिगुणकाधिकरणम् ।। ५४ अदृश्यत्वादिगुणको धर्मोक्तः ॥ १।२ । २२ ।। आथर्वणिका अधीयते-*अथ परा यया तदक्षरमधिगम्यते, यत्तदद्रेश्यमग्रााम- गोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम्, नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनि ..

प्रथमाध्याये-द्वितीयपादे--अदृश्यत्वादिगुणकाधिकरणम् । १२३ ? ? ? परिपश्यन्ति धीराः, इति; तथोत्तरत्र अक्षरात्परतः परः इति । तत्र संदिह्यते-किमिहा- दृश्यत्वादिगुणकमक्षरमक्षरात्परतः परश्च प्रकृतिपुरुषो; अथोभयत्र परमात्मैवेति । कि तावत्प्राप्तम् ? प्रकृतिपुरुषाविति । कुतः ? अस्याक्षरस्य *अदृष्टो द्रष्ट त्यादाविव न द्रष्तृत्वादि- श्वेतनधर्मविशेष इह श्रूयते, *अक्षरात्परतः पर इति च सर्वस्माद्विकारात्परभूतादक्षराद- स्मात्परः क्षेत्रज्ञस्समष्टिपुरुषः प्रतिपाद्यते । एतदुक्तं भवति-रूपादिमत्स्थूलरूपाचेतनपृथि- व्यादिभूताश्रयं दृश्यत्वादिकं प्रतिषिध्यमानं पृथिव्यादिसजातीयसूक्ष्मरूपाचेतनमेवोपस्थापयति, तच्च प्रधानमेव । तस्मात्परत्वं च समष्टिपुरुषस्यैव प्रसिद्धम् । तदधिष्ठितं च प्रधानं महदा- दिविशेषपर्यन्तं विकारजातं प्रसूत इति तत्र दृष्टान्ता उपन्यस्यन्ते *यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् ॥ इति । अतोऽस्मिन् प्रकरणे प्रधानपुरुषावेव प्रतिपाद्यते इति ॥ एवं प्राप्त ब्रूमः-- अदृश्यत्वादिगुणको धर्मोक्तः। अदृश्यत्वादिगुणकोऽक्षरात्परतः परश्च परमपुरुष एव; कुतः ? तद्धर्मोक्तः, *यस्सर्वज्ञस्सर्वविदित्यादिना सर्वज्ञत्वादिकास्तस्यैव धर्मा उच्यन्ते । तथा हि श्यया तदक्षरमधिगम्यते इत्यादिना अदृश्यत्वादिगुणकमक्षरम- भिधाय *अक्षरात्संभवतीह विश्वमिति तस्माद्विश्वसंभवं चाभिधाय *यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नामरूपमन्न च जायते ॥ इति भूतयोनेरक्षरस्य सर्वज्ञत्वादिः प्रतिपाद्यते । पश्चात् *अक्षरात्परतः परः इति च प्रकृतमदृश्यत्वादिगुणकं भूतयोन्यक्षरं सर्वज्ञमेव परत्वेन व्यपदिश्यते । अतः *अक्षरात्परतः परः इत्यक्षरशब्दः पञ्चम्यन्तः प्रकृतम- दृश्यत्वादिगुणकमक्षरं नाभिधत्ते, तस्य सर्वज्ञस्य विश्वयोनेस्सर्वस्मात्परत्वेन तस्मादन्यस्य परत्वासंभवात् । अतोऽत्राक्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते ॥ २२ ॥ इतश्च न प्रधानपुरुषौ--- ५५ विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ ॥ १।२। २३ ॥ विशिनष्टि हि प्रकरणम्-प्रधानाच्च पुरुषाच्च भूतपोन्यक्षरं व्यावर्तयतीत्यर्थः; एक- विज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनादिभिः तथा ताभ्यामक्षरस्य भेदश्च व्यपदिश्यते *अक्षरा- त्परतः परः इत्यादिना ।। तथाहि-*स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह इति सर्वविद्या- प्रतिष्ठाभूता ब्रह्मविद्या प्रक्रान्ता; परविद्यैव च सर्वविद्याप्रतिष्ठा; तामिमां सर्वविद्याप्रतिष्ठा विद्यां चतुर्मुखाथर्वादिगुरुपरम्परयाऽङ्गिरसा प्राप्तां जिज्ञासुः *शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । ब्रह्मविद्याया- स्सर्वविद्याश्रयत्वाद्ब्रह्मविज्ञानेन सर्वं विज्ञातं भवतीति कृत्वा ब्रह्मस्वरूपमनेन पृष्टम् । *तस्मै १२४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा चेति । ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्य-ब्रह्मविषये परोक्षापरोक्षरूपे द्वे विज्ञाने उपादेये इत्यर्थः । तत्र परोक्षं शास्त्र- जन्यं ज्ञानम्, अपरोक्षं योगजन्यम्; तयोर्ब्रह्मप्राप्त्युपायभूतमपरोक्षं ज्ञानम्; तच्च भक्तिरूपा- पन्नम्, *यमेवैष वृणुते तेन लभ्यः इत्यत्रैव विशेष्यमाणत्वात्। तदुपायश्चागमजन्यं विवेकादि- साधनसप्तकानुगृहीतं ज्ञानम्, *तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति श्रुतेः । आह च भगवान्पराशरः ॐतत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने। आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ इति ॥ *तत्रापरा ऋग्वेदो यजुर्वेदः इत्यादिना *धर्मशास्त्राणीत्यन्तेन आगमोत्थं ब्रह्म- साक्षात्कारहेतुभूतं परोक्षज्ञानमुक्तम् । साङ्गस्य सेतिहासपुराणस्य सधर्मशास्त्रस्य समीमांसस्य वेदस्य ब्रह्मज्ञानोत्पत्ति हेतुत्वात् । *अथ परा यया तदक्षरमधिगम्यते इत्युपासनाख्यं ब्रह्म- साक्षात्कारलक्षणं भक्तिरूपापन्नं ज्ञानम् । *यत्तदद्रेश्यमग्राह्यमित्यादिना परोक्षापरोक्षरूप- ज्ञानद्वयविषयस्य परस्य ब्रह्मणस्वरूपमुच्यते । यथोर्णनाभिस्सृजते गृह्णते चेत्यादिना यथोक्त- स्वरूपात्परस्माद्ब्रह्मणोऽक्षरात्कृत्स्नस्य चेतनाचेतनात्मकप्रपञ्चस्योत्पत्तिरुक्ता; विश्वमिति वचनान्नाचेतनमात्रस्य । *तपसः चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम् ॥ इति ब्रह्मणो विश्वोत्पत्तिप्रकार उच्यते। तपसा-ज्ञानेन, यस्य ज्ञानमयं तपः इति वक्ष्यमाणत्वात्; चीयते-उपचीयते; *बहु स्यामिति सङ्कल्परूपेण ज्ञानेन ब्रह्म सृष्टय न्मुखं भवतीत्यर्थः । ततोऽन्नमभिजायते-अद्यत इत्यन्नम्, विश्वस्य भोक्तृवर्गस्य भोग्यभूत भूतसूक्ष्ममव्याकृतं परस्माद्ब्रह्मणो जायत इत्यर्थः । प्राणमनःप्रभृति च स्वर्गाप- वर्गरूपफलसाधनभूतकर्मपर्यन्तं सर्वं विकारजातं तस्मादेव जायते । “यस्सर्वज्ञस्सर्ववित् इत्यादिना सृष्टय पकरणभूतं सार्वज्यसत्यसङ्कल्पत्वादिकमुक्तम् । सर्वज्ञात्सत्यसङ्कल्पात्पर- स्माद्ब्रह्मणोऽक्षरादेतत् कार्याकारं ब्रह्म नामरूपविभक्तं भोक्तृभोग्यरूपं च जायते ॥ तदेतत्सत्यमिति परस्य ब्रह्मगो निरुपाधिकसत्यत्वमुच्यते । *मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि, तान्याचरत नियतं सत्यकामाः इति सार्वश्य- सत्यसङ्कल्पत्वादिकल्याणगुणाकरमक्षरं पुरुषं स्वतस्सत्यं कामयमानास्तत्प्राप्तये फलान्तरेभ्यो विरक्ता ऋग्यजुस्सामाथर्वसु कविभिष्टानि वर्णाश्रमोचितानि त्रेताग्निषु बहुधा सन्ततानि कर्माण्याचरतेति एष वः पन्थाः इत्यारभ्य *एष वः पुण्यस्सुकृतो ब्रह्मलोकः इत्यन्तेन कर्मानुष्ठानप्रकारं, श्रुतिस्मृतिचोदितेषु श्रुतिस्मृतिचोदितेषु कर्मस्वेकतरकर्मवैधुर्ये पोतरेषामनुष्ठितानामपि निष्फलत्वम्, अयथानुष्ठितस्य चाननुष्ठितसमत्वमभिधाय अप्लवा ह्येते अहढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्र यो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि प्रथमाध्याये-प्रथमपादे-वैश्वानराधिकरणम् १२५ प्रशस्य यन्ति ॥ इत्यादिना फलाभिसन्धिपूर्वकत्वेन ज्ञानविधुरतया चावरं कर्माचरतां पुनरावृत्ति- मुक्त्वा तपश्श्रद्धे ये ह्य पवसन्तीत्यादिना पुनरपि फलाभिसन्धिरहितं ज्ञानिनाऽनुष्ठितं कर्म ब्रह्मप्राप्तये भवतीति *परीक्ष्य लोकानित्यादिना केवलकर्मफलेषु विरक्तस्य यथोदितकर्मानुगृहीतं ब्रह्मप्राप्त्युपायभूतं ज्ञानं जिज्ञासमानस्य च आचार्योपसदनं विधाय तदेतत्सत्यं यथा सुदीप्तात् इत्यादिना *सोऽविद्याग्रन्थि विकिरतीह सोम्येत्यन्तेन पूर्वोक्तस्याक्षरस्य भूतयोनेः परस्य ब्रह्मणः परमपुरुषस्यानुक्तैस्स्वरूपगुणैस्सह सर्वभूतान्तरात्म- तया विश्वशरीरत्वेन विश्वरूपत्वम्, तस्माद्विश्वसृष्टि च विस्पष्टमभिधाय *आविस्सन्निहित- मित्यादिना तस्यैवाक्षरस्याव्याकृतात्परतोऽपि पुरुषात्परभूतस्य परस्य ब्रह्मणः परमव्योम्नि प्रतिष्ठितस्यानवधिकातिशयानन्दस्वरूपस्य हृदयगुहायामुपासनप्रकारम् उपासनस्य च परभक्ति- रूपत्वमुपासीनस्याविद्याविमोकपूर्वकं ब्रह्मसमं ब्रह्मानुभवफलं चोपदिश्योपसंहृतम् । अत एवं विशेषणाझेदव्यपदेशाच्च नास्मिन्प्रकरणे प्रधान पुरुषौ प्रतिपाद्यते ॥ भेदव्यपदेशोऽपि हि ताभ्यां परस्य ब्रह्मणोऽत्र विद्यते । *दिव्यो ह्यमूर्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात्परतः परः ॥ इत्यादिभिः अक्षरादव्या- कृतात्परो यस्समष्टिपुरुषः तस्मादपि परभूतोऽदृश्यत्वादिगुणकोऽक्षरशब्दाभिहितः परमात्मे- त्यर्थः । अश्नुत इति वा, न क्षरतीति वाऽक्षरम् । तदव्याकृतेऽपि स्वविकारव्याप्तया वा महदादिवन्नामान्तराभिलापयोग्यक्षरणाभावाद्वाऽक्षरत्वं कथश्चिदुपपद्यते ॥२३॥ ५६. रूपोपन्यासाच्च ॥ १-२-२४ ॥ *अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यों दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भयां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ इतीदृशं रूपं सर्वभूतान्तरात्मनः परमात्मन एव संभवति; अतश्च परमात्मा ॥२४॥ इति अदृश्यत्वादिगुणकाधिकरणम् ।।५।। अथ वैश्वानराधिकरणम् ।।६।। ५७. वैश्वानरस्साधारणशब्दविशेषात् ।।१-२-२५ ॥ इदमामनन्ति च्छन्दोगाः *आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहीति प्रक्रम्य *यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते इति । तत्र संदेहः- किमयं वैश्वानर आत्मा परमात्मेति शक्यनिर्णयः, उत नेति । किं प्राप्तम् ? अशक्यनिर्णय इति । कुतः ? वैश्वानरशब्दस्य चतुर्वर्थेषु प्रयोगदर्शनात्-जाठराग्नौ तावत् *अयमग्नि- वैश्वानरो येनेदमन्न पच्यते यदिदमद्यते तस्यैष घोषो भवति यावदेतत्कर्णावपिधाय शृणोति ?

१२६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोतीति । महाभूततृतीये च *विश्वस्मा अग्नि भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् । इति देवतायां च *वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः इति । परमात्मनि च तदात्मन्येव हृदय्येऽग्नौ वैश्वानरे प्रास्यत् इति, *स एष वैश्वानरो विधरूपः प्राणोऽग्निरुदयते इति च । वाक्योपक्रमादिषुपलभ्यमानान्यपि लिङ्गानि सर्वानुगुणतया नेतुं शक्यानोति ॥ एवं प्राप्तऽभिधीयते-वैश्वानरस्साधारणशब्दविशेषात् । वैश्वानरः पर एवात्मा; कुतः साधारणशब्दविशेषात्-विशेष्यत इति विशेषः; साधारणस्य वैश्वानरशब्दस्य परमात्मासाधा- रणैर्धमॅविशेष्यमाणत्वादित्यर्थः । तथाहि-औपमन्यवादयः पञ्च मे महर्षयस्समेत्य *को न आत्मा किं ब्रह्मति विचार्य *उद्दालको ह वै भगवन्तोऽयमारुणिस्संप्रतीममात्मानं वैश्वानर- मध्येति तं हन्ताभ्यागच्छामेत्युद्दालकस्य वैश्वानरात्मविज्ञानमवगम्य तमभ्याजग्मुः । स चोद्दा- लक एतान्वैश्वानरात्मजिज्ञासून भिलक्ष्यात्मनश्च तत्राकृत्स्नवेदित्वं मत्वा *तान् होवाच अश्व- पति भगवन्तोऽयं केकयस्संप्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति । ते चोद्दा- लकषष्ठास्तमश्वपतिमभ्याजग्मुः । स च तान्महर्षीन्यथा पृथगभ्यर्च्य *न मे स्तेनः इत्यादिना *यक्ष्यमाणो ह वै भगवन्तोऽहमस्मीत्यन्तेनात्मनो (वृत्त) व्रतस्थतया प्रतिग्रहयोग्यतां ज्ञापय- नव ब्रह्मविद्भिरपि प्रतिषिद्धपरिहरणीयतां विहितकर्मकर्तव्यतां च प्रज्ञाप्य यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भयो दास्यामि वसन्तु भगवन्तः इत्यवोचत् । ते च मुमु- क्षवो वैश्वानरमात्मानं जिज्ञासमानास्तमेवात्मानमस्माकं हीत्यवोचत् । तदेवं *को न आत्मा किं ब्रह्मेति जीवात्मनामात्मभूतं ब्रह्म जिज्ञासमानस्तज्ज्ञमन्विच्छद्भिर्वैश्वानरात्मज्ञसकाश- मागम्य पृच्छ्यमानो वैश्वानरात्मा परमात्मेति विज्ञायते । आत्मब्रह्मशब्दाभ्यामुपक्रम्य पश्चात्सर्वत्रात्मवैश्वानरशब्दाभ्यां व्यवहाराच्च ब्रह्मशब्दस्थाने निदिश्यमानो वैश्वानरशब्दो ब्रह्म वाभिधत्त इति विज्ञायते । किञ्च *स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति *तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतेवं हास्य सर्वे पाप्मानः प्रदूयन्ते इति च वक्ष्यमाणं वैश्वा- नरात्मविज्ञानफलं वैश्वानरात्मानं परं ब्रह्मति ज्ञापयति ॥२५॥ इतश्च वैश्वानरः परमात्मा---- ५८ स्मर्यमाणमनुमानं स्यादिति ॥ १-२-२६ ॥ धुप्रभृतिपृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिश्यते । तच्च श्रुतिस्मृतिषु परमपुरुषरूपतया प्रसिद्धम् । तदिह तदेवेदमिति स्मर्यमाणं-प्रत्यभिज्ञायमानं वैश्वानरस्य परमपुरुषत्वे अनुमान-लिङ्गमित्यर्थः; इतिशब्दः प्रकारवचनः; इत्थंभूतं रूपं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात् । श्रुतिस्मृतिषु हि परमपुरुषस्येत्थं रूपं प्रसिद्धम् । यथा प्रथमाध्याये-प्रथमपादे-वैश्वानराधिकरणम् । १२७ आथर्वणे *अग्निमूर्धा चक्षुषी चन्द्रसूर्यों दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्धयां पृथिवी ह्यष सर्वभूतान्तरात्मा ॥ इति । अग्निरिह धुलोकः, *असौ वै लोकोऽग्निः इति श्रुतेः । स्मरन्ति च मुनयः *द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभि चन्द्रसूर्यों च नेत्रे । दिशश्श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ इति, *यस्याग्निरास्यं धौमूर्धा खं नाभिश्चरणौ क्षितिः। सूर्यश्चक्षुर्दिशश्श्रोत्रं तस्मै लोकात्मने नमः ॥ इति च । इह च धुप्रभृतयो वैश्वानरस्य मूर्धाद्यवयवत्वेनोच्यन्ते। तथा हि-तैरौप- मन्यवप्रभृतिभिर्महर्षिभिः *आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रू हीति पृष्टः केकय- स्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुर्विशेषप्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्येतैः किञ्चित् ज्ञातं किञ्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशबुभुत्सया तानेकैकं पप्रच्छ । तत्र *औपमन्यव कं त्वमात्मानमुपास्से इति पृष्ट ऋदिवमेव भगवो राजनिति तेन चोक्ते दिवि तस्य पूर्णवैश्वान- रात्मबुद्धि निवर्तयन्वैश्वानरस्य द्यौमूर्धति चोपदिशंस्तस्या वैश्वानरांशभूताया दिवः सुतेजा इति गुणनामधेयं प्राचिख्यपत् । एवं सत्ययज्ञादिभिरादित्यवाय्वाकाशाप्पृथिवीनामेककेनैकक- मुपास्यमानतया कथितानां, विश्वरूपः, पृथग्वा, बहुलो, रयिः, प्रतिष्ठा इत्येकैकगुणनाम- धेयानि वैश्वानरात्मनश्चक्षुः-प्राणसन्देहवस्तिपादावयवत्वं चोपदिष्टम् । सन्देहो मध्यकाय उच्यते । अत एवंभूतधुमूर्धत्वादिविशिष्ट परमपुरुषस्यैव रूपमिति वैश्वानरः परमपुरुष एवं ॥२६॥ पुनरप्यनिर्णयमेवाशङ्कय परिहरति- ५६ शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्टयु पदेशादसंभवात्पुरुष- मपि चैनमधीयते ॥ १-२-२७ ॥ यदुक्तं वैश्वानरः परमात्मेति निश्चीयत इति, तन्न, शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च जाठरस्याप्यग्नेरिह प्रतीयमानत्वात् । शब्दस्तावद्वाजिनां वैश्वानरविद्याप्रकरणे *स एषोऽ- ग्निर्वैश्वानरः इति वैश्वानरसमानाधिकरणतयाऽग्निरिति श्रूयते; अस्मिन्प्रकरणे च *हृदयं गार्हपत्यो मनोऽन्वाहार्यपचनआस्यमाहवनीयः इति वैश्वानरस्य हृदयादिस्थस्याग्नित्रयकल्पनं क्रियते । तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुति जुहुयात्प्राणाय स्वाहा इत्या- दिना प्राणाहुत्याधारत्वं च वैश्वानरस्यावगम्यते । तथा वैश्वानरस्यास्मिन्पुरुषेऽन्तःप्रतिष्ठान वाजसनेयिनस्समामनन्ति *स यो हैतमेवमग्नि वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदेति । अतोऽग्निशब्दसामानाधिकरण्यात् अग्नित्रेतापरिकल्पनात्प्राणाहुत्याधारभावादन्तःप्रतिष्ठानाच्च वैश्वानरस्य जाठरत्वमपि प्रतीयत इति नैकान्ततः परमात्मत्वमिति चेत् । तन्न; तथा दृष्टयु - पदेशात्-पूर्वोक्तस्य त्रैलोक्यशरीरस्य परस्य ब्रह्मणो वैश्वानरस्य जाठराग्निशरीरतया - १२८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - तद्विशिष्टस्योपासनोपदेशात् । अग्निशब्दादिर्भािह न केवलो जाठरः प्रतिपाद्यते; अपितु जाठरा- ग्निविशिष्टः परमात्मा । कथमिदमवगम्यत इति चेत्, असंभवात्-जाठरस्य केवलस्य त्रैलोक्यशरीत्वासंभवात् । त्रैलोक्यशरीरतया प्रतिपन्नवैश्वानरसमानाधिकरणो जाठरविषय- तया प्रतीयमानोऽग्निशब्दो जाठरशरीरतया तद्विशिष्ट परमात्मानमेवाभिदधातीत्यर्थः । यथोक्तं भगवता-*अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचा- म्यन्नं चतुर्विधम् ॥ इति । जाठरानलशरीरो भूत्वेत्यर्थः । अतस्तद्विशिष्टस्योपासनमत्रोप- दिश्यते । किंच पुरुषमपि चैनमधीयते वाजसनेयिनः स एषोऽग्निर्वैश्वानरो यत्पुरुषः इति । न हि जाठरस्य केवलस्य पुरुषत्वम् । परमात्मन एव हि निरुपाधिकं पुरुषत्वम् । यथा *सहस्रशीर्षा पुरुषः पुरुष एवेदं सर्वम्, इत्यादौ ॥२७॥ ६० अत एव न देवता भूतं च ॥ १-२-२८ ॥ उक्तेभ्य एव हेतुभ्यो देवतायाश्च तृतीयस्य महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः ॥२८॥ ६१ साक्षादप्यविरोधं जैमिनिः ॥ १-२-२६ ॥ वैश्वानरसमानाधिकरणस्याग्निशब्दस्य जाठराग्निशरीरतया तद्विशिष्टस्य परमात्मनो वाचकत्वम्, तथैव परमात्मन उपास्यत्वं चोक्तम् । जैमिनिस्त्वाचार्यों वैश्वानरशब्दवदग्नि- शब्दस्यापि परमात्मन एव साक्षात् अव्यवधानेन वाचकत्वे न कश्चिद्विरोध इति मन्यते । एतदुक्तं भवति-यथा वैश्वानरशब्दस्साधारणोऽपि परमात्मासाधारणधर्मविशेषितो विश्वेषां नराणां नेतृत्वादिना गुणेन परमात्मानमेवाभिदधातीति निश्चीयते; एवमग्निशब्दोऽप्यग्रनयना- दिना येनैव गुणेन योगाज्ज्वलने वर्तते; तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि संभवादस्मिन्प्रकरणे परमात्मासाधारणधर्मविशेषितः परमात्मानमेवाभिधत्त इति ॥२६॥ *यस्त्वेतमेवं प्रादेशमात्रमभिविमानमित्यपरिच्छिन्नस्य परस्य ब्रह्मणो धुप्रभृतिथि- व्यन्तप्रदेशसंबन्धिन्या मात्रया परिच्छिन्नत्वं कथमुपपद्यते ? तत्राह- ६२ अभिव्यक्तरित्याश्मरथ्यः ॥ १-२-३० ।। उपासकाभिव्यक्त्यर्थं प्रादेशमात्रत्वं परमात्मन इत्याश्मरथ्य आचार्यों मन्यते । धौमूर्धा आदित्यश्चक्षुः, वायुः प्राणः, आकाशो मध्यकायः, आपो वस्तिः, पृथिवी पादौ इति धुप्रभृतिप्रदेशसंबन्धिन्या मात्रया परिच्छिन्नत्वम् कृत्स्नमभिव्याप्तवतो विगतमानस्य ह्यभिव्य- क्तरेव हेतोर्भवति ॥३०॥ मूर्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति चेत्, तत्राह- - प्रथमाध्याये-द्वितीयपादे-वैश्वानराधिकरणम् । १२३ . - ६३. अनुस्मृतेर्बादरिः ॥ १-२-३१ ॥ तथोपासनार्थमिति बादरिराचार्यो मन्यते । *यस्त्वेतमेवमभिविमानमात्मानं वैश्वा- नरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति इति ब्रह्मप्राप्तये झपासन- मुपदिश्यते । एतमेवमिति --उक्तप्रकारेण पुरुषाकारमित्यर्थः । सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदन्नं भोग्यं तदत्ति-सर्वत्र वर्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मानुभवति । यत्तु सर्वैः कर्मवश्यरात्मभिः प्रत्येकमनन्यसाधारणमन्न भुज्यते, तन्मुमुक्षु- भिस्त्याज्यत्वादिह न गृह्यते ॥३१॥ यदि परमात्मा वैश्वानरः, कथं तहरःप्रभृतीनां वेद्यादित्वोपदेशः, यावता जाठरा- ग्निपरिग्रह एवैतदुपपद्यत इत्यत्राह- ६४. संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ १-२-३२ ॥ अस्य परमात्मन एव वैश्वानरस्य थुप्रभृतिपृथिव्यन्तशरीरस्य समाराधनभूतायाः उपासकरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसंपाबनायायमुरःप्रभृतीनां वेदित्वाद्युपदेश इति जैमिनिराचार्यों मन्यते । तथाहि-परमात्मोपासनोचितमेव फलं प्राणाहुत्या अग्निहोत्र- संपत्ति च दर्शयतीयं श्रुतिः *स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात्ताक्तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते इति ॥३२॥ ६५. आमनन्ति चैनमस्मिन् ॥ १-२-३३ ॥ एनं परमपुरुषं द्युमूर्धत्वादिविशिष्ट वैश्वानरम् अस्मिन् उपासकशरीरे प्राणाहुत्या- धारत्वाय आमनन्ति च तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाः इत्यादिना । अयमर्थः-*यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते इति त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनं विधाय सर्वेषु लोकेष्वित्यादिना ब्रह्मप्राप्तिं च फलमुपदिश्य अस्यैवोपासनस्याङ्गभूतं प्राणाग्निहोत्रं तस्य ह वा एतस्येत्यादिनोपदिशति; यः पूर्वमुपास्य- तयोपदिष्टो वैश्वानरः तस्यावयवभूतानग्न्यादित्यादीन् सुतेजोविश्वरूपादिनामधेयानुपासक- शरीरे मूर्धादिपादान्तेषु संपादयति । मूर्धेव सुतेजाः-उपासकस्य मूर्धेव परमात्ममूर्धभूता धौरित्यर्थः । चक्षुविश्वरूपः-आदित्य इत्यर्थः । प्राणः पृथग्वा-वायुरित्यर्थः । सन्देहो बहुल:-उपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः। वस्तिरेव रयि:- १३० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अस्य वस्तिरेव तदवयवभूता आप इत्यर्थः । पृथिव्येव पादौ-अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः । एवमुपासकः स्वशरीरे परमात्मानं त्रैलोक्यशरोरं वैश्वानरं सन्निहितमनुसन्धाय स्वकीयान्युरोलोमहृदयमनआस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबहि- हिपत्यान्वाहार्यपचनाहवनीयानग्निहोत्रोपकरणभूतान्परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परि- कल्प्यैवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति *उर एव वेदिर्लोमानि बहिर्ह दयं गार्हपत्यः इत्यादिनोपदिश्यते । अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम् ॥३३॥ इति वैश्वानराधिकरणम् ।।६।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य द्वितीयः पादः ॥ ? श्रीरस्तु श्रीमते रामानुजाय नमः प्रथमाध्याये-तृतीयः पाद:-धु भ्वाद्यधिकरणम् ।।१।। ६६. धुभ्वाद्यायतनं स्वशब्दात् ॥ १-३-१॥ आथर्वणिका अधीयते श्यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः, तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः इति । तत्र संशयः-किमयं यु पृथिव्यादीनामायतनत्वेन श्रूयमाणो जीवः, उत परमात्मेति । कि युक्तम् ? जीव इति । कुतः ? *अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोऽन्तश्चरते बहुधा जायमानः इति परस्मिन् श्लोके पूर्ववाक्यप्रस्तुतं द्य पृथिव्याद्यायतनं यत्रेति पुनरपि सप्तम्यन्तेन परामृश्य तस्य नाड्याधारत्वमुक्त्त्वा, पुनरपि *स एषोऽन्तश्चरते बहुधा जायमान इति तस्य बहुधा जाय- मानत्वं चोच्यते; नाडीसंबन्धो देवादिरूपेण बहुधा जायमानत्वं च जीवस्यैव धर्मः । अस्मि- न्नपि श्लोके *ओतं मनस्सह प्राणश्च सर्वैरिति प्राणपञ्चकस्य मनसश्चाश्रयत्वमुच्यमानं जीवधर्म एव । एवं जीवत्वे निश्चिते सति धुपृथिव्याद्यायतनत्वादिकं यथाकथञ्चित्सङ्गमयि- तव्यमिति ॥ एवं प्राप्ते प्रचक्ष्महे-ध भ्वाद्यायतनं स्वशब्दात् । | पृथिव्यादीनामायतनं परं ब्रह्म। कुतः ? स्वशब्दात् परब्रह्मासाधारणशब्दात् । *अमृतस्यैष सेतुरिति परस्य ब्रह्मणोऽसाधारण- श्शब्दः । तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते इति सर्वत्रोपनिषत्सु स एवामृतत्वप्राप्तिहेतुश्श्रूयते । सिनोतेश्च बन्धनार्थत्वात् सेतुः-अमृतस्य प्रापक इत्यर्थः । सेतुरिव वा सेतुः-नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः-संसारार्णवपारभूतस्यामृतस्यैष प्रतिलम्भक इत्यर्थः । आत्मशब्दश्च निरुपाधिकः परस्मिन्ब्रह्मणि मुख्यवृत्तः, आप्नोतीति प्रथमाध्याये-तृतीयपादे-धु भ्वाद्यधिकरणम् १३१ - ह्यात्मा; स्वेतरसमस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव संभवति । अतस्सोऽपि तस्यैव शब्दः । भ्यस्सर्वज्ञस्सर्वविदित्यादयश्वोपरितनाः परस्यैव ब्रह्मणश्शब्दाः । नाड्याधारत्वं तस्यापि संभवति *सन्ततं सिराभिस्तु लम्बत्याकोशसन्निभमित्यारभ्य *तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः इति श्रवणात् । *बहुधा जायमानः इत्यपि परस्मिन् ब्रह्मणि सङ्गच्छते-*अजाय- मानो बहुधा विजायते, तस्य धीराः परिजानन्ति योनिमिति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयरूपसंस्थानगुणकर्मसमन्वितः स्वकीयं स्वभावमजहदेव स्वेच्छया बहुधा विजायते परः पुरुष इत्यभिधानात् । स्मृतिरपि *अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया ॥ इति । मनःप्रभृतिजीवोपकरणाधारत्वं च सर्वा- धारस्य परस्यैवोपपद्यते ॥१॥ इतश्च परमपुरुषः- ६७. मुक्तोपसृप्यव्यपदेशाच्च ॥ १।३ । २ ॥ अयं धुपृथिव्याद्यायतनभूतः पुरुषः संसारबन्धान्मुक्तैरपि प्राप्यतया व्यपदिश्यते यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ इति । संसारबन्धनाद्विमुक्ता एव हि विधूतपुण्यपापा निरञ्जना नामरूपाभ्यां विनिर्मुक्ताश्च । पुण्यपापनिबन्धनाचित्संसर्गप्रयुक्तनाम- रूपभाक्त्वमेव हि संसारः। अतो विधूतपुण्यपानिरञ्जनः प्रकृतिसंसर्गरहितैः परेण ब्रह्मणा परमं साम्यमापन्नः प्राप्यतया निर्दिष्टो धुपृथिव्याद्यायतनभूतः पुरुषः परं ब्रह्मैव ॥ २ ॥ परब्रह्मासाधारणशब्दादिभिः परमेव ब्रह्मेति प्रसाध्य, प्रत्यगात्मासाधारणशब्दा- भावाच्चायं पर एवेत्याह- ६८. नानुमानमतच्छब्दात्प्राणभृच्च ॥ १।३।३॥ यथाऽस्मिन्प्रकरणे प्रतिपादकशब्दाभावात्प्रधानं न प्रतिपाद्यम्; एवं प्राणभृदपीत्यर्थः । अनुमीयत इत्यनुमानं परोक्त प्रधानमुच्यते, अनुमानप्रमितत्वादानुमानमिति वा । अत- च्छब्दात् ---तद्वाचिशब्दाभावादित्यर्थः । *अर्थाभावे यदव्ययमित्यव्ययीभावः ॥ ३ ॥ इतश्चायं न प्रत्यगात्मा- ६६. भेदव्यपदेशात् ॥ १।३। ४ ।। *समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमी- शमस्य महिमानमिति वीतशोकः ॥ इत्यादिभिर्जीवाद्विलक्षणत्वेनायं व्यपदिश्यते । अनीशया - १३२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । D भोग्यभूतया प्रकृत्या मुह्यमानश्शोचति जीवः। अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणम्, अस्य ईश्वरस्य महिमानं च निखिलजगन्नियमनरूपं पश्यति; तदा वीतशोको भवति ॥४॥ ७०. प्रकरणात् ।।१।३।५।। प्रकरणं चेदं परस्य ब्रह्मण इति *अदृश्यत्वादिगुणको धर्मोक्तेः इत्यत्रैव प्रदर्शितम् । नाडीसंबन्धबहुधाजायमानत्वमनः प्राणाधारत्वैश्च प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहार्म ॥५॥ ७१. स्थित्यदनाभ्याञ्च ॥ १।३। ६ ॥ *द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति ॥ इत्येकस्य कर्मफलादनम्, अन्यस्य च कर्मफलमनश्नत एव दीप्यमानतया शरीरान्तस्थितिमा प्रतिपाद्यते। तत्र कर्मफलमनश्नन्दीप्यमान एव सर्वज्ञो- ऽमृतसेतुस्सर्वात्माधुभवाद्यायतनं भवितुमर्हति, न पुनः कर्मफलमदन शोचन प्रत्यगात्मा । अतो धुन्वाद्यायतनं परमात्मेति सिद्धम् ॥ ६ ॥ इति द्यु भ्वाद्यधिकरणम् ।। १ ।। अथ भूमाधिकरणम् ।। २ ॥ ७२. भूमा संप्रसादादध्युपदेशात् ॥ १।३ । ७ ॥ इदमामनन्ति च्छन्दोगाः श्यत्र नान्यत्पश्यति नान्यच्छ णोति नान्यद्विजानाति स भूमा, अथ यत्रान्यत्पश्यत्यन्यच्छ णोत्यन्यद्विजानाति तदल्पम् इति । अत्रायं भूमशब्दो भाव- प्रत्ययान्तो व्युत्पाद्यते । तथा हि पृथ्वादिषु बहुशब्दः पठ्यते । ततः पृथ्वादिभ्य इमनिज्वा, इति इमनिच्प्रत्यये कृते *बहोर्लोपो भू च बहोः, इति प्रकृतिप्रत्यययोविकारे भूमेति भवति । भूमा-बहुत्वमित्यर्थः । अत्र चायं बहुशब्दो वैपुल्यवाची, न सङ्ख्यावाची, श्यत्रान्यत्पश्यति... तदल्पमित्यल्पप्रतियोगित्वश्रवणात् । अल्पशब्दनिर्दिष्टमिप्रतियोगिप्रतिपादनपरत्वादेव धर्मि- परश्च निश्चीयते; न धर्ममात्रपरः। तदेवं भूमेति विपुल इत्यर्थः । वैपुल्यविशेष्यश्चेहात्मेत्य- वगतः अतरति शोकमात्मविदिति प्रक्रम्य भूमविज्ञानमुपदिश्य *आत्मैवेदं सर्वमिति तस्यैवोप- संहारात् । अत्र संशय्यते-किमयं भूमगुणविशिष्टः प्रत्यगात्मा, उत परमात्मेति ॥ कि युक्तम् ? प्रत्यगात्मेति । कुतः ? *श्रुतं ह्येवमे भगवदृशेभ्यस्तरति शोकमात्म- विदित्यात्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषूपास्यतथोपदिष्टेषु *अस्ति भगवो नाम्नो भूयः; *अस्ति भगवो वाचो भूयः, इत्यादयः प्रश्नाः, *वाग्वाव नाम्नो भूयसी *मनो वाव वाचो भूयः इत्यादीनि च प्रतिवचनानि, प्राणात्प्राचीनेषु दृश्यन्ते; प्राणे तु न पश्यामः । ?

प्रथमाध्याये-तृतीयपादे-भूमाधिकरणम् । १३३ अतः प्राणपर्यन्त एवायमात्मोपदेश इति प्रतीयते । तेनेह प्राणशब्दनिर्दिष्टः प्राणसहचारी प्रत्यगात्मैव; न वायुविशेषमात्रम् । *प्राणो ह पिता प्राणो ह माता इत्यादयश्च प्राणस्य चेतनतामवगमयन्ति । *पितृहा...मातृहा इत्यादिना सप्राणेषु पितृप्रभृतिषुपमर्दकारिणि हिसंकत्वनिमित्तोपक्रोशवचनात्तेष्वेव विगतप्राणेष्वत्यन्तोपमर्दकारिपप्युपक्रोशाभाववचनाच्च हिंसायोग्यश्चेतन एव प्राणशब्दनिर्दिष्टः । अप्राणेषु स्थावरेष्वपि चेतनेषूपमर्दभावाभाव- योहिंसातदभावदर्शनादयं हिंसायोग्यतया निर्दिष्टः प्राणः प्रत्यगात्मैवेति निश्चीयते । अत एवच अरनाभिदृष्टान्ताद्युपन्यासेन प्राणशब्दनिर्दिष्टः पर इति न भ्रमितव्यम्, परस्य हिंसा- प्रसङ्गाभावात्, जीवादितरस्य तद्भोग्यभोगोपकरणभूतस्य कृत्स्नस्याचिद्वस्तुनो जीवायत्त- स्थितित्वेन प्रत्यगात्मन्येवारनाभिदृष्टान्तोपपत्तेश्च ।। अयमेव च प्राणशब्दनिर्दिष्टो भूमा; *'अस्तिभगवः प्राणाद्भूयः' इति प्रश्नस्य, 'अदो वाव प्राणाद्भूयः' इति प्रतिवचनस्य चाभावाद्भूमसंशब्दनात्प्राक्प्राणप्रकरणस्याविच्छेदात् । किञ्च प्राणवेदिनोऽतिवादित्वमुक्त्वा तमेव *एष तु वा अतिवदतोति प्रत्यभिज्ञाप्य यस्स- त्येनातिवदतीति तस्य सत्यवदनं प्राणोपासनाङ्गतयोपदिश्य उपादेयस्य सत्यवदनस्य शेषि- तया पूर्वनिर्दिष्टप्राणयाथात्म्यविज्ञानं *यदा वै विजानात्यथ सत्यं वदतीत्युपदिश्य तत्सिद्धयर्थ च मननश्रद्धानिष्ठाप्रयत्नानुपदिश्य तदारम्भाय च प्राप्यभूतप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूपस्य सुखरूपताज्ञानमुपदिश्य तस्य च सुखस्य विपुलता *भूमा त्वेव विजिज्ञासितव्यः इत्युप- दिश्यते । तदेवं प्रत्यगात्मन एवाविद्यावियुक्तं रूपं विपुलसुखमित्युपदिष्टमिति *तरति शोक- मात्मविदित्युपक्रमाविरोधश्च । अतो भूमगुणविशिष्टः प्रत्यगात्मा, यत एवं भूमगुणविशिष्टः प्रत्यगात्मा, अतएवाहमर्थे प्रत्यगात्मनि *अहमेवाधस्तादहमुपरिष्टादित्यारभ्य *अहमेवेदं सर्व- मिति प्रत्यगात्मनो वैभवमुपदिशति । एवं प्रत्यगात्मत्वे निश्चिते सति तदनुगुणतया वाक्यशेषो नेतव्य इति ।। एवं प्राप्तेऽभिधीयते-भूमा संप्रसादादध्युपदेशात् । भूमगुणविशिष्टो न प्रत्यगात्मा अपि तु परमात्मा । कुतः ? संप्रसादादध्युपदेशात्; संप्रसादः-प्रत्यगात्मा, *एष संप्रसादोऽ- स्माच्छरीरात्समुत्थाय पर ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्युपनिषत्प्रसिद्धः । संप्रसादात् प्रत्यगात्मनोऽधिकतया भूमविशिष्टस्य सत्यशब्दाभिधेयस्योपदेशादित्यर्थः । सत्य- शब्दाभिधेयं च परं ब्रह्म । एतदुक्त भवति-यथा नामादिषु प्राणपर्यन्तेषु पूर्वपूर्वाधिकतयो- त्तरोत्तराभिधानात्पूर्वेभ्य उत्तरेषामर्थान्तरत्वम्, एवं प्राणशब्दनिदिष्टात्प्रत्यगात्मनोऽधिकतया निर्दिष्टस्सत्यशब्दाभिधेयस्तस्मादर्थान्तरभूत एव; सत्यशब्दनिर्दिष्ट एव भूमेति सत्याख्यं परं ब्रह्म व भूमेत्युपदिश्यत इति । तदाह वृत्तिकारः भूमा त्वेवेति भूमा ब्रह्म नामादिपरंपरया १३४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । आत्मन ऊर्ध्वमस्योपदेशादिति । प्राणशब्दनिर्दिष्टादधिकतया सत्यस्योपदेशः कथमवगम्यत इति चेत्; *स वा एष एवं पश्यन्न व मन्वान एवं विजानन्नतिवादी भवतीति प्राणविदोs- तिवादित्वमुक्त्वा एष तु वा अतिवदति यस्सत्येनातिवदतीति सत्यवेदित्वेनातिवादिनं तुशब्देन पूर्व स्मादतिवादिनो व्यावर्तयति । अत एव *एष तु वा अतिवदतीत्यत्र प्राणाति- वादिनो न प्रत्यभिज्ञा । अतोऽस्यातिवादित्वनिमित्तं सत्यं पूर्वातिवादित्वनिमित्तात्प्राणादधिक- मिति विज्ञायते ॥ ननु च प्राणवेदिन एव सत्यवदनमङ्गत्वेनोपदिष्टम्, अतः प्राणप्रकरणाविच्छेद इत्यु- क्तम् । नैतद्य क्तम्-तुशब्देन ह्यतिवाद्येवान्यः प्रतीयते, न तु नस्यैवातिवादिनस्सत्यवदनाङ्ग- विशिष्टतामात्रम् । एष तु वा अग्निहोत्री यस्सत्यं वदतीत्यादिष्वग्निहोत्र्यन्तराप्रतीतेः, प्रतीतस्यैवाग्निहोत्रिणस्सत्यवदनाङ्गविधानमिति क्लिष्टा गतिराश्रीयते । अत्र त्वतिवाद्यन्तर- त्वनिमित्तं सत्यशब्दाभिधेयं परं ब्रह्म प्रतीयते । सत्यशब्दश्च *सत्यं ज्ञानमनन्तं ब्रह्मत्यादिषु परस्मिन्ब्रह्मणि प्रयुक्तः; अतस्तनिष्ठस्यातिवादिनः पूर्वस्मादधिकत्व संभवतीति वाक्यस्वर- ससिद्धमन्यत्व न बाधितव्यम् । अतिवादित्वं हि वस्त्वन्तरात्पुरुषार्थतयाऽतिक्रान्तस्वोपास्य- वस्तुवादित्वम् । नामाद्याशापर्यन्तोपास्यवस्त्वतिक्रान्तस्वोपास्यप्राणशब्दनिर्दिष्टप्रत्यगात्म- वादित्वात्प्राणविदोऽतिवादित्वम् । तस्यापि सातिशयपुरुषार्थत्वान्निरतिशयपुरुषार्थतयोपास्य- परब्रह्मवादिन एव साक्षादतिवादित्वमिति एष तु वा अतिवदति यस्सत्येनातिवदतीत्युक्तम् । सत्येनेतीत्थंभूतलक्षणे तृतीया; सत्येन परेण ब्रह्मणोपास्वेनोपलक्षितो योऽतिवदतीत्यर्थः । अत एवं व शिष्यः प्रार्थयते *सोऽहं भगवस्सत्येनातिवदानीति । आचार्यश्च *सत्यं त्वेव विजिज्ञा- सितव्यमित्याह । *आत्मतः प्राणः इति च प्राणशब्दनिर्दिष्टस्यात्मन उत्पत्तिरुच्यते । अतः *तरति शोकमात्मविदिति प्रक्रान्त आत्मा प्राणशब्दनिर्दिष्टादन्य इति गम्यते ॥ यत्तूक्तम् 'अस्ति भगवः प्राणाद्भूयः' इति प्रश्नस्य, 'अदो वाव प्राणाद्भूयः' इति प्रतिवचनस्य चादर्शनात्प्रक्रान्त आत्मोपदेशः प्राणोपदेशपर्यवसानो गम्यत इति; तदयुक्तम् । नहि प्रश्नप्रतिवचनाभ्यामेवार्थान्तरत्वं गम्यते; प्रमाणान्तरेणापि तत्संभवात् । उक्तश्च प्रमाणान्तरम् । 'अस्ति भगवः प्राणाद्भूयः' इत्यपृच्छतोऽयमभिप्रायः-नामादिष्वाशापर्यन्ते- एवचेतनेषु पुरुषार्थभूयस्तया पूर्व पूर्व मतिक्रान्तेष्वप्युत्तरोत्तरेषुपदिष्टेषु तत्तद्वेदिन आचार्य- णातिवादित्वं नोक्तम् । प्राणशब्दनिर्दिष्टप्रत्यगात्मयाथात्म्यवेदिनस्तु पुरुषार्थभूयस्त्वातिशयं मन्वानेन *स वा एष एवं पश्यन्नेव मन्वान एवं विजानन्नतिवादी भवतीति अतिक्रान्तवस्तु- वादित्वमुक्तम् । अतोऽत्रैवात्मोपदेशस्समाप्त इति मत्वा शिष्यो भूयो न पप्रच्छ । आचार्यस्त्वि- दमपि सातिशयं मत्वा निरतिशयपुरुषार्थभूतं सत्यशब्दाभिधेयं परं ब्रह्म *एष तु वा अतिवद- प्रथमाध्याये-तृतीयपादे-भूमाधिकरणम् । १३५ तोति स्वयमेवोपचिक्षेप। शिष्योऽपि परमपुरुषार्थरूपे परस्मिन्ब्रह्मण्युपक्षिप्त तत्स्वरूपतदु- पासनयाथात्म्यबुभुत्सया *सोऽहं भगवस्सत्येनातिवदानीति प्रार्थयामास । ततो ब्रह्मसाक्षात्कार- निमित्तातिवादित्वसिद्धये ब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपासनम् *सत्यं त्वेव विजिज्ञासितव्य- मित्युपदिश्य तदुपायभूतं ब्रह्ममननम् मतिस्त्वेव विजिज्ञासितव्येत्युपदिश्य श्रवणप्रतिष्ठार्थ- त्वान्मननस्य मननोपदेशेन श्रवणमर्थसिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धाम् *श्रद्धा त्वेव विजिज्ञासितव्येत्युपदिश्य तदुपायभूतां च तनिष्ठाम् निष्ठा त्वेव विजिज्ञासितव्येत्युपदिश्य तदुपायभूतां च तदुद्योगप्रयत्नरूपां कृतिमपि *कृतिस्त्वेव विजिज्ञासितव्येत्युपदिश्य श्रवणा- धुपक्रमरूपकृतिसिद्धये प्राप्यभूतस्य सत्यशब्दाभिहितस्य ब्रह्मणस्सुखरूपता ज्ञातव्येति *सुखं त्वेव विजिज्ञासितव्यमितित्युपदिश्य निरतिशयविपुलमेव सुखं परमपुरुषार्थरूपं भवतीति तस्यैव ब्रह्मणस्सुखरूपस्य निरतिशयविपुलता ज्ञातव्येति *भूमा त्वेव विजिज्ञासितव्य इत्यु- पदिश्य निरतिशयविपुलसुखरूपस्य ब्रह्मणो लक्षणमिदमुच्यते यत्र नान्यत्पश्यति नान्यच्छ- णोति नान्यद्विजानाति स भूमा, इति । अयमर्थः-अनवधिकातिशयसुखरूपे ब्रह्मण्यनुभूयमाने ततोऽन्यत्किमपि न पश्यत्यनुभविता, ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वाच्च कृत्स्नस्य वस्तुजातस्य । अत ऐश्वर्यापरपर्यायविभूतिगुणविशिष्ट निरतिशयसुखरूपं ब्रह्मानुभवन् तद्वयतिरिक्तस्य वस्तु- नोऽभावादेव किमप्यन्यन्न पश्यति; अनुभाव्यस्य सर्वस्य सुखरूपत्वादेव दुःखं च न पश्यति । तदेव हि सुखम्, यदनुभूयमानं पुरुषानुकूलं भवति । ननु चेदमेव जगद्ब्रह्मणोऽन्यतयाऽनुभूयमानं दुःखरूपं परिमितसुखरूपं च भवत्कथमिव ब्रह्मविभूतित्वेन तदात्मकतयाऽनुभूयमानं सुखरूपमेव भवेत् ? उच्यते-कर्मवश्यानां क्षेत्रज्ञानां ब्रह्मणोऽन्यत्वेनानुभूयमानं कृत्स्नं जगत्तत्तत्कर्मानुरूपं दुःखं च परिमितसुखं च भवति । अतो ब्रह्मणोऽन्यतया परिमितसुखत्वेन दुःखत्वेन च जगदनुभवस्य कर्मनिमित्तत्वात्कर्मरूपाविद्या- विमुक्तस्य तदेव जगद्विभूतिगुणविशिष्टब्रह्मानुभवान्तर्गतं सुखमेव भवति । यथा पित्तोपहतेन पोयमानं पयः पित्ततारतम्येनाल्पसुखं विपरीतं च भवति; तदेव पयः पित्तानुपहतस्य सुखायैव भवति; यथैव राजपुत्रस्य पितुर्लोलोपकरणमतथात्वेनानुसन्धीयमानं प्रियत्वमनुपगतं तथात्वानुसन्धाने प्रियतमं भवति; तथा निरतिशयानन्दस्वरूपस्य ब्रह्मणोऽनवधि- कातिशयासङ्घय यकल्याणगुणाकरस्य लीलोपकरणं तदात्मकं चानुसन्धीयमानं जगनिरति- शयप्रीतये भवत्येव ॥ अतो जगदैश्वर्यविशिष्टमनवधिकातिशयसुखरूपं ब्रह्मानुभवंस्ततोऽन्यत्किमपि न पश्यति; दुःखं च न पश्यति । एतदेवोपपादयति वाक्यशेषः *स वा एष एवं पश्यन्नेवं मन्वान एवं विजाननात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दस्स स्वराड्भवति तस्य सर्वेषु १३६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । लोकेषु कामचारो भवति अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति* इति । स्वराट-अकर्मवश्यः । अन्यराजानः-कर्मवश्याः । तथा *न पश्यो मृत्यु पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ॥ इति च । निरतिशयसुखरूपत्वं च ब्रह्मणः *आनन्दमयोऽभ्यासादित्यत्र प्रपञ्चितम् । अतः प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनोऽर्थान्तरभूतस्य सत्यशब्दाभिधेयस्य ब्रह्मणो भूमेत्युप- देशाद्भूमा परं ब्रह्म ॥७॥ ७३. धर्मोपपत्तेश्च ॥ १।३ । ८ ॥ अस्य भूम्नो ये धर्मा आम्नायन्ते; तेऽपि परिस्मिन्न वोपपद्यन्ते । एतदमृतमिति स्वाभाविकममृतत्वम्, *स्वे महिम्नीत्यनन्याधारत्वम्, *स एवाधस्तादित्यादि #स एवेदं सर्वमिति सर्वात्मकत्वम्, *आत्मतः प्राण इत्यादिप्राणप्रभृतिसर्वस्योत्पादकत्वमित्यादयो हि धर्माः परमात्मन एव । यत्तु* अहमेवाधस्तादित्यादिना सर्वात्मकत्वमुपदिष्टम्, तद्भूम- विशिष्टस्य ब्रह्मणोऽहङ ग्रहेणोपासनमुपदिश्यते, * अथातोऽहङ्कारादेशः इत्यहङ ग्रहोपदेशोप- क्रमात् । अहमर्थस्य प्रत्यगात्मनोऽपि ह्यात्मा परमात्मेत्यन्तर्यामिब्राह्मणादिसूक्तम् । अतः प्रत्यगर्थस्य परमात्मपर्यवासनादहंशब्दोऽपि परमात्मपर्यवसायीति प्रत्यगात्मशरीरकत्वेन परमात्मानुसन्धानार्थोऽयमहङ ग्रहोपदेशः । परमात्मनस्सर्वशरीरतया सर्वात्मत्वात्प्रत्यगात्मनो- ऽप्यात्मा परमात्मा। तदेव अथात आत्मादेश इत्यादिना *आत्मैवेदं सर्वमित्यन्तेनोच्यते । एतदेवोपपादयितुं प्रत्यगात्मनोऽप्यात्मभूतात्परमात्मनस्सर्वस्योत्पत्तिरुच्यते तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आकाशः इत्यादिना । उपा. सकस्यान्तर्यामितयाऽवस्थितात्परमात्मनस्सर्वस्योत्पत्तिरित्यर्थः । अतः परमात्मनः प्रत्यगात्म- शरीरकत्वज्ञानप्रतिष्ठार्थमहङ ग्रहोपासनं कर्तव्यम् । तस्माद्भूमविशिष्टः परमात्मेति सिद्धम् ॥८॥ इति भूमाधिकरणम् ॥ २ ॥ अथ अक्षराधिकरणम् ।। ३ ।। ७४. अक्षरमम्बरान्तधृतेः ॥ १।३।६॥ वाजसनेयिनो गार्गीप्रश्ने समामनन्ति *सहोवाचैतद्वैतदक्षरं गागि ब्राह्मणा अभि- वदन्ति अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायम् इत्यादि । तत्र संशयः-किमेत- दक्षरं प्रधानम्, जीवो वा, उत परमात्मेति । किं युक्तम् ? प्रधानमिति । कुतः ? *अक्षरात्परतः परः इत्यादिष्वक्षरशब्दस्य प्रधाने प्रयोगदर्शनादस्थूलत्वादीनां च तत्र समन्वयात् । श्यया तदक्षरमधिगम्यते इत्यादिषु परस्मिन्नप्यक्षरशब्दो दृश्यत इति चेन्न, प्रमाणान्तरप्रसिद्धश्रुति- प्रसिद्धयोः प्रमाणान्तरप्रसिद्धस्य प्रथमप्रतीतेः, प्रतोतपरिग्रहे विरोधाभावात् । किंच, *यदूवं

प्रथमाध्याये-द्वितीयपादे~-अक्षराधिकरणम् ।
१३७
गागि दिवो, यदक्पृिथिव्याः इत्यारभ्य सर्वस्य कालत्रितयतिनः कारणभूताकाशाधारत्वे
प्रतिपादिते *कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च त्याकाशस्यापि कारणं तदाधारभूतं किमिति
पृष्टे प्रत्युच्यमानभक्षरं सर्वविकारकारणतया तदाधारभूतं प्रमाणान्तरप्रसिद्धं प्रधानमिति
प्रतीयते; अतोऽक्षरं प्रधानम् ।।
इति प्राप्त उच्यते--अक्षरमम्बरान्तधृतेः । अक्षरं-परं ब्रह्म; कुतः ? अम्बरान्तधृतेः;
अम्बरस्य-आकाशस्य, अन्तः-पारभूतम् अव्याकृतमम्बरान्तः; तस्य धृतेः-तदाधारतयाऽस्या-
क्षरस्योपदेशादिति यावत् । अयमर्थः-- *कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च त्यत्राकाश-
शब्दनिर्दिष्ट न वायुमदम्बरम्, अपितु तत्पारभूतमव्याकृतम्, अतस्तस्याव्याकृतस्याप्या-
धारत्वेनोच्यमानमक्षरं नाव्याकृतं भवितुमर्हतीति । नन्वाकाशशब्दनिर्दिष्टो न वायुमानिति
कथमवगम्यते ? उच्यते-- ज्यदूर्श्व गागि दिवो यदक्पृिथिव्या यदन्तरा द्यावापृथिवी इमे
यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतंच इत्युक्ते त्रैकाल्यतिनो
विकारजातस्याधारतया निर्दिष्ट आकाशो न वायुमदाकाशो भवितुमर्हति; तस्यापि विकारा-
न्तर्गतत्वात् । अतोऽत्राकाशशब्दनिर्दिष्ट भूतसूक्ष्ममिति प्रतीयते । ततस्तस्यापि भूलसूक्ष्मस्या-
धारभूतं किमिति पृच्छयते *कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । अतस्तदाधारतया
निदिश्यमानमक्षरं न प्रधानं भवितुमर्हति ॥
यत्तु श्रुतिप्रसिद्धात्प्रमाणान्तरप्रसिद्ध प्रथमं प्रतीयत इति, तन्न, अक्षरशब्दस्यावयव-
शक्त्या स्वार्थ प्रतिपादने प्रमाणान्तरानपेक्षणात्; संबन्धग्रहणदशायामर्थस्वरूपं येन प्रमाणे-
नावगम्यते, न तत्प्रतिपादनदशायामपेक्षणीयम् ॥ ६ ॥
एवं तर्झक्षरशब्दनिर्दिष्टो जीवोऽस्तु, तस्य भूतसूक्ष्मपर्यन्तस्य कृत्स्नस्याचिद्वस्तुन
आधारत्वोपपत्तेः; अस्थूलत्वाधुच्यमानविशेषगोपपत्तेश्च *अव्यक्तमक्षरे लीयते श्यस्याव्यक्तं
शरीरं यस्याक्षरं शरीरं *क्षरस्सर्वाणि भूतानि कूठस्थोऽक्षर उच्यते इत्यादिषु प्रत्यगात्मन्य-
प्यक्षरशब्दप्रयोगदर्शनादित्यत्रोत्तरम् ---
७५. सा च प्रशासनात् ॥ १।३ । १०॥
सा चाम्बरान्तधृतिरस्याक्षरस्य प्रशासनादेव भवतीत्युपदिश्यते एतस्य वा अक्षरस्य
प्रशासने गागि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावा-
पृथिव्यौ विधृते तिष्ठत., एतस्य वा अक्षरस्य प्रशासने गागि निमेषा मुहूर्ता अहोरात्राण्यर्ध-
मासा मासा ऋतवस्संवत्सरा इति विधृतास्तिष्ठन्ति *इत्यादिना। प्रशासनम्-प्रकृष्टं
शासनम् । न चेदृशं स्वशासनाधीनसर्ववस्तुविधरणं बद्धमुक्तोभयावस्थस्यापि प्रत्यगात्मन-
संभवति । अतः पुरुषोत्तम एव प्रशासित्रक्षरम् ॥ १० ॥

१३८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ७६. अन्यभावव्यावृत्तेश्च ॥ १।३।११॥ अन्यभावः-अन्यत्वम्, प्रधानादिभावः । अस्याक्षरस्य परमपुरुषादन्यत्वं वाक्यशेषे व्यावर्त्यते तद्वा एतदक्षरं गार्यदृष्ट द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञात नान्यदतोऽस्ति द्रष्ट नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ, एतस्मिन्नु खल्वक्षरे गार्याकाश ओतश्च प्रोतश्च* इति । अत्र द्रष्टुत्वश्रोतृत्वाद्युपदेशादस्याक्षरस्याचेतनभूतप्रधान- भावो व्यावय॑ते; सर्वैरदृष्टस्यैव सतस्सर्वस्य द्रष्टुत्वाद्य पदेशाच्च प्रत्यगात्मभावो त्यावर्त्यते । अत इयमन्यभावव्यावृत्तिरस्याक्षरस्य परमपुरुषतां द्रढयति ॥ एवं वाऽन्यभावव्यावृत्तिः-अन्यस्य सद्भावव्यावृत्तिरन्यभावव्यावृत्तिः; यथैतदक्षर- मन्यैरदृष्ट सदन्येषां द्रष्ट च सत्स्वव्यतिरिक्तस्य समस्तस्याधारभूतम्, एवमनेनादृष्टमेतस्थ द्रष्ट्र च सदेतस्याधारभूतमन्यन्नास्तीति वदन् *नान्यदतोऽस्ति द्रष्ट इत्यादिवाक्यशेषोऽन्यस्य सद्भावं व्यावर्तयन्नस्याक्षरस्य प्रधानभावं प्रत्यगात्मभावं च प्रतिषेधति ॥ किञ्च *एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा द: पितरोऽन्वायत्ताः इति श्रौतं स्मार्तं च यागदानहोमादिकं सर्वं कर्म यस्याज्ञया प्रवर्तते; तदक्षरं परब्रह्मभूतः पुरुषोत्तम एवेति विज्ञायते । अपि च *यो वा एतदक्षरं गार्यविदित्वास्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्यविदित्वाऽस्माल्लोकात्प्रेति स कृपणः, अथ य एतदक्षरं गागि विदित्वा- ऽस्माल्लोकात्प्रेति स ब्राह्मणः *इति यदज्ञानात्संसारप्राप्तिर्यज्ज्ञानाच्चामृतत्वप्राप्तिस्तदक्षरं परं ब्रह्मवेति सिद्धम् ॥ ११ ॥ इति अक्षराधिकरणम् ।। ३ ।। अथ ईक्षतिकर्माधिकरणम् ।।४।। ७७. ईक्षतिकर्म व्यपदेशात्सः ॥ १।३। १२ ॥ आथर्वणिकास्सत्यकामप्रश्नेऽधीयते यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः, यथा पादोदरस्त्वचा विनिर्मुच्यते एवं हवै स पाप्मना विनिर्मुक्तस्स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते *इति । अत्र ध्यायतीक्षतिशब्दावेकविषयौ, ध्यानफलत्वादीक्षणस्य; यथाक्रतु- रस्मिल्लोके पुरुषः इति न्यायेन ध्यानविषयस्यैव प्राप्यत्वात्, *परं पुरुषमित्युभयत्र कर्म- भूतस्यार्थस्य प्रत्यभिज्ञानाच्च । तत्र संशय्यते-किमिह परं पुरुषमिति निर्दिष्टो जीवसमष्टिरूपोऽण्डाधिपतिश्चतुर्मुखः, उत सर्वेश्वरः पुरुषोत्तम इति । किं युक्तम् ? समष्टिक्षेत्रज्ञ इति । कुतः ? *स यो ह वैतद्भग- ?

प्रथमाध्याये-प्रथमपादे-ईक्षतिकर्माधिकरणम् । वन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयति इति प्रक्रम्यैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिमभिधाय, द्विमात्रमुपासीनस्य अन्तरिक्षलोकप्राप्तिमभिधाय, त्रिमात्रमुपासीनस्य प्राप्यतयाऽभिधीयमानो ब्रह्मलोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतु- मुखस्य लोक इति विज्ञायते; तद्गतेन चेक्ष्यमाणस्तल्लोकाधिपतिश्चतुर्मुख एव । एतस्मा- जीवधनात्परात्परमितिच देहेन्द्रियादिभ्यः पराद्देहेन्द्रियादिभिस्सह घनीभूताज्जीवव्यष्टिपुरुषा- ब्रह्मलोकवासिनस्समष्टिपुरुषस्य चतुर्मुखस्य परत्वेनोपपद्यते । अतोऽत्र निर्दिश्यमानः परः पुरुषस्समष्टिपुरुषश्चतुर्मुख एव । एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथाकथञ्चिन्नेतव्याः ।। इति प्राप्ते प्रचक्ष्महे-ईक्षतिकर्मव्यपदेशात्सः । ईक्षतिकर्म सः-परमात्मा । कुतः ? व्यपदेशात्-व्यपदिश्यते होक्षतिकर्म परमात्मत्वेन । तथाहि-ईक्षतिकर्मविषयतयोदाहृते श्लोके *तमोङ्कारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति । परं शान्त- मजरमभयममृतमिति हि परमात्मन एवैतद्रूपम्, एतदमृतमभयमेतद्ब्रह्मत्येवमादिश्रुतिभ्यः । *एतस्माज्जीवघनात्परात्परमिति च परमात्मन एव व्यपदेशः; न चतुर्मुखस्य, तस्यापि जीवघनशब्दगृहीतत्वात् । यस्य हि कर्मनिमित्तं देहित्वं स जीवधन इत्युच्यते; चतुर्मुखस्यापि तच्छ्र यते “यो ब्रह्माणं विदधाति पूर्वमित्यादौ ।। यत्पुनरुक्तमन्तरिक्षलोकस्योपरि निर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयते, अतस्तत्रस्थश्चतुर्मुख इति; तदयुक्तम् *यत्तच्छान्तमजरममृतमभयमित्यादिनेक्षतिकर्मणः परमा- त्मत्वे निश्चिते सति ईक्षितुः स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुश्चतुर्मुखलोको भवितु- मर्हति । किञ्च यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तस्स साम- भिरुन्नीयते ब्रह्मलोकमिति सर्वपापविनिर्मुक्तस्य प्राप्यतयोच्यमानं न चतुर्मुखस्थानम् । अत एव चोदाहरण श्लोके इममेव ब्रह्मलोकमधिकृत्य श्रूयते यत्तत्कवयो वेदयन्त इति । कवयः- सूरयः । सूरिभिदृश्यं च वैष्णवं पदमेव, *तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः इत्येव- मादिभ्यः । न चान्तरिक्षात्परश्चतुर्मुखलोकः, मध्ये स्वर्गलोकादीनां बहूनां सद्भावात् । अतः *एतद्वै सत्यकाम परं चापरं ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेतीति प्रतिवचने यदपरं कार्य ब्रह्म निर्दिष्टं तदैहिकामुष्मिकत्वेन द्विधा विभज्यैकमात्रं प्रणवमुपासीनाना- मैहिकं मनुष्यलोकावाप्तिरूपं फलमभिधाय, द्विमात्रमुपासीनानामामुष्मिकमन्तरिक्षशब्दोप- लक्षितं फलं चाभिधाय, त्रिमात्रेण परब्रह्मवाचिना प्रणवेन परं पुरुषं ध्यायतां परमेव ब्रह्म प्राप्यतयोपदिशतीति सर्व समञ्जसम् । अत ईक्षतिकर्म परमात्मा ॥१२॥ इति ईक्षतिकर्माधिकरणम् ।।४।।

१४० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ दहराधिकरणम् ।।५।। ७८. दहर उत्तरेभ्यः ॥ १-३-१३ ॥ इदमामनन्ति च्छन्दोगाः *अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मि- नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् इति । तत्र सन्देहः- किमसौ हृदयपुण्डरीकमध्यवर्ती बहराकाशो महाभूतविशेषः, उत प्रत्यगात्मा, अथ परमा- त्मेति । किं तावद्युक्तम् ? महाभूतविशेष इति । कुतः ? आकाशशब्दस्य भूताकाशे ब्रह्मणि च प्रसिद्धत्वेऽपि भूताकाशे प्रसिद्धिप्रकर्षात्, तस्मिन्यदन्तस्तदन्वेष्टव्यमित्यन्वेष्टव्यान्तरस्या- धारतया प्रतीतेश्च ॥ इत्येवं प्राप्तेऽभिधीयते-दहर उत्तरेभ्यः । दहराकाशः परं ब्रह्म; कुतः ? उत्तरेभ्यो वाक्यगतेभ्यो हेतुभ्यः । एष आत्माऽपहतपाप्मा विजरो विमृत्युविशोकोऽविजिघत्सोऽपिपास- स्सत्यकामस्सत्यसङ्कल्पः इति निरुपाधिकात्मत्वमपहतपाप्मत्वादिकं सत्यकामत्वं सत्य- सङ्कल्पत्वं चेति दहराकाशे श्रूयमाणा गुणाः दहराकाशं परं ब्रह्मेति ज्ञापयन्ति । *अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादिना यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते इत्यन्तेन दहराकाश- वेदिनस्सत्यसङ्कल्पत्वप्राप्तिश्चोच्यमाना दहराकाशं परं ब्रह्मत्यवगमयति ॥ भ्यावान्वा अयमाकाशस्तावानेषोऽन्तर्ह दय आकाश इत्युपमानोपमेयभावश्च दहरा- काशस्य भूताकाशत्वे नोपपद्यते। हृदयावच्छेदनिबन्धन उपमानोपमेयभाव इति चेत्, तथा सति हृदयावच्छिन्नस्य द्यावापृथिव्यादिसर्वाश्रयत्वं नोपपद्यते । ननुच दहराकाशस्य परमात्म- त्वेऽपि बाह्याकाशोपमेयत्वं न संभवति अज्यायान्पृथिव्या ज्यायानन्तरिक्षादित्यादौ सर्वस्मा- ज्ज्यायस्त्वश्रवणात् । नैवम्, दहराकाशस्य हृदयपुण्डरीकमध्यवतित्वप्राप्ताल्पत्वनिवृत्तिपरत्वा- दस्य वाक्यस्य; यथा अधिकजवेऽपि सवितरि 'इषुवद्गच्छति सविता' इति वचनं गतिमान्द्य- निवृत्तिपरम् ॥ अथ स्यात्-*एष आत्माऽपहतपाप्मेत्यादिना दहराकाशो न निदिश्यते, *दहरोऽ- स्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यमिति दहराकाशान्तर्वतिनस्ततोऽन्यस्यान्वेष्टव्यत्वेन प्रकृतत्वादिह एष आत्माऽपहतपाप्मेति तस्यैवान्वेष्ट व्यस्य निर्देष्टु युक्तत्वात्; स्यादेतदेवम्, यदि श्रुतिरेव दहराकाशं तदन्तर्वतिनं च न व्यभाञ्क्ष्यत्; व्यभाङ्क्षीत्तु सा; तथाहि *अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्य- मिति ब्रह्मपुरशब्देनोपास्यतया सन्निहितपरब्रह्मणः पुरत्वेनोपासकशरीरं निर्दिश्य तन्मध्यवर्ति प्रथमाध्याये-प्रथमपादे-दहराधिकरणम् १४१ च तदवयवभूतं पुण्डरीकाकारमल्पपरिमाणं हृदयं परस्य ब्रह्मणो वेश्मतयाऽभिधाय सर्वज्ञं सर्वशक्तिमाश्रितवात्सल्यैकजलधिमुपासकानुग्रहाय तस्मिन् वेश्मनि सन्निहितं सूक्ष्मतया ध्येयं दहराकाशशब्देन निर्दिश्य तदन्तर्वति चापहतपाप्मत्वादि स्वभावतो निरस्तनिखिलहेयत्व- सत्यकामत्वादिस्वाभाविकानवधिकातिशयकल्याणगुणजातं च ध्येयं तदन्वेष्टव्यमित्युपदिश्यते। अत्र तदन्वेष्टव्यमिति तच्छब्देन दहराकाशम्, तदन्तर्वति गुणजातं च परामृश्य तदुभय- मन्वेष्टव्यमित्युपदिश्यते; यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मेत्यनूद्य तस्मिन् दहरपुण्ड- रीकवेश्मनि यो दहराकाशः, यच्च तदन्तर्वतिगुणजातम्, तदुभयमन्वेष्टव्यमिति विधीयत इत्यर्थः ॥ - दहराकाशशब्दनिदिष्टस्य परब्रह्मत्वं *तस्मिन्यदन्तः इति निर्दिष्टस्य च तद्गुणत्वम्, तच्छब्देनोभयं परामृश्योभयस्याप्यन्वेष्टव्यतया विधानं च कथमवगम्यत इति चेत्; तदवहित- मनाश्शृणु- *यावान्वा अयमाकाशस्तावानेषोऽन्तर्ह दय आकाशः इति दहराकाशस्यातिमहत्ताम- भिधाय *उभे अस्मिद द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्र मसावुभौ विद्युन्नक्षत्राणि *इति प्रकृतमेव दहराकाशमस्मिन्निति निदिश्य तस्य सर्वजगदाधारत्वम- भिधाय, यच्चास्येहास्ति यच्च नास्ति सर्व तदस्मिन् समाहितम् इति पुनरप्यस्मिन्निति तमेव दहराकाशं परामृश्य, तस्मिन्नस्योपासकस्येहलोके यद्भोग्यजातमस्ति, यच्च मनोरथमात्रगोचर- मिह नास्ति, सर्व तद्भोग्यजातमस्मिन्दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहरा- काशस्याभिधाय, तस्य दहराकाशस्य देहावयवभूतहृदयान्तर्वतित्वेऽपि देहस्य जराप्रध्वंसादौ सत्यपि परमकारणतयाऽतिसूक्ष्मत्वेन निर्विकारत्वमुक्त्वा, तत एव *एतत्सत्यं ब्रह्मपुरमिति तमेव दहराकाशं सत्यभूतं ब्रह्माख्यं पुरं निखिलजगदावासभूतमित्युपपाद्य, अस्मिन्कामास्स- माहिताः इति दहराकाशमस्मिन्निति निर्दिश्य, काम्यभूतांश्च गुणान्कामा इति निर्दिश्य, तेषां दहराकाशान्तर्वतित्वमुक्त्वा, तदेव दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्यात्मत्वंच *एष आत्माऽपहतपाप्मेत्यादिना *सत्यसङ्कल्पः इत्यन्तेन स्फुटीकृत्य यथा ह्य वेह प्रजा अन्वाविशन्तीत्यारभ्य *तेषां सर्वेषु लोकेष्वकामचारो भवतीत्यन्तेन तदिदं गुणाष्टकं तद्विशिष्टं दहराकाशशब्दनिर्दिष्टमात्मानं चाविदुषामेतद्वयतिरिक्तभोग्यसिद्धये च कर्म कुर्वता- मन्तवत्फलावाप्तिमसत्यसङ्कल्पत्वं चाभिधाय *अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादिना दहराकाशशब्दनिर्दिष्टमात्मानं तदन्तर्वतिनश्च काम्यभूतानपहतपाप्मत्वादिकान्गुणान्विजानतामुदारगुणसागरस्य तस्य परम- पुरुषस्य प्रसादादेव सर्वकामावाप्तिस्सत्यसङ्कल्पता चोच्यते । अतो दहराकाशः परं ब्रह्म,

१४२
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
तदन्तर्वति चापहतपाप्मत्वादि काम्यगुणजातम्, तदुभयमन्वेष्टव्यं विजिज्ञासितव्यमिति
चोच्यत इति निश्चीयते । तदेतद्वाक्यकारोऽपि स्पष्टयति *तस्मिन्यदन्तरिति कामव्यपदेशः
इत्यादिना । अत एतेभ्यो हेतुभ्यो दहराकाशः परमेव ब्रह्म ॥१३॥
इतश्च दहराकाशः परं ब्रह्म-
७६. गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥ १-३-१४ ॥
*तद्यथा हिरण्यनिधि निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमास्सर्वाः
प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः इति एतमिति प्रकृतं दहरा-
काशं निदिश्य तत्राहरहस्सर्वेषां क्षेत्रज्ञानां गमनम्, गन्तव्यस्य तस्य दहराकाशस्य ब्रह्मलोक-
शब्दनिर्देशश्च दहराकाशस्य परब्रह्मतां गमयतः। कथमनयोरस्य परब्रह्मत्वसाधकत्वमित्यत
आह-तथाहि दृष्टमिति । परस्मिन्ब्रह्मणि सर्वेषां क्षेत्रज्ञानामहरहस्सुषुप्तिकाले गमनमन्यत्रा-
भिधीयमानं दृष्टम्-एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति संपद्य न विदुस्सति संपत्स्यामह
इति इति, *सत आगम्य न विदुस्सत आगच्छामह इतीति च । तथा ब्रह्मलोकशब्दश्च
परस्मिन्ब्रह्मणि दृष्टः एष ब्रह्मलोकः सम्राडिति होवाचेति । मा भूदन्यत्र ब्रह्मणि गमन-
दर्शनम्, एतदेव तु दहाराकाशे सर्वेषां क्षेत्रज्ञानां प्रलयकाल इव निरस्तनिखिलदुःखानां
सुषुप्तिकालेऽवस्थानं श्रूयमाणमस्य परब्रह्मत्वे पर्याप्तं लिङ्गम् । तथा ब्रह्मलोकशब्दश्च
समानाधिकरणवृत्त्याऽस्मिन्दहाराकाशे प्रयुज्यमानोऽस्य ब्रह्मत्वे प्रयोगान्तरनिरपेक्षं पर्याप्तं
लिङ्गमित्याह-लिङ्गं चेति । निषादस्थपतिन्यायाच्च षष्ठीसमासात्समानाधिकरणसमासो
न्याय्यः॥
अथवा *अहरहर्गच्छन्त्य इति न सुषुप्तिविषयं गमनमुच्यते; अपि त्वन्तरात्मत्वेन
सर्वदा वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्योपर्युपर्यहरहर्गच्छन्त्यः--सर्वस्मिन्काले
वर्तमानाः तमजानत्यस्तं न विन्दन्ति-न लभन्ते; यथा हिरण्यनिधि निहितं तत्स्थानमजाना-
नास्तदुपरि सर्वदा वर्तमाना अपि न लभन्ते, तद्वदित्यर्थः। सेयमेवमन्तरात्मत्वेन स्थितस्य
दहराकाशस्योपरि तन्नियमितानां सर्वासां प्रजानामजानतीनां सर्वदा गतिरस्य दहाराकाशस्य
परब्रह्मतां गमयति । तथा ह्यन्यत्र परस्य ब्रह्मणोऽन्तरात्मतयाऽवस्थितस्य स्वनियाम्याभि-
स्स्वस्मिन्वर्तमानाभिः प्रजाभिरवेदनं दृष्टम् । यथा अन्तर्यामिब्राह्मणे त्र्य आत्मनि तिष्ठन्ना-
त्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयतीति, *प्रदृष्टो द्रष्टा
अश्रुतश्श्रोतेति च । मा भूदन्यत्र दर्शनम्, स्वयमेव त्वियं निधिदृष्टान्तावगतपरमपुरुषार्थ-
भावस्यास्य हृदयस्थस्योपरि तदाधारतयाऽहरहस्सर्वदा सर्वासां प्रजानामजानतीनां गतिरस्य
परब्रह्मत्वे पर्याप्तं लिङ्गम् ॥१४॥

प्रथमाध्याये-तृतीयपादे-दहराधिकरणम् । १४३ - इतश्च दहराकाशः परं ब्रह्म- ८०. धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १।३।१५॥ *अथ य आत्मेति प्रकृतं दहराकाशं निर्दिश्य *स सेतुविधृतिरेषां लोकानामसंभदाये- त्यस्मिञ्जगद्विधरणं श्रूयमाणं दहराकाशस्य परब्रह्मतां गमयति; जगद्विधरणं हि परस्य ब्रह्मणो महिमा *एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानाम- संभेदायेति, *एतस्य वा अक्षरस्य प्रशासने गागि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादिभ्यः । स चायं तस्य परस्य ब्रह्मणो धृत्याख्यो महिमाऽस्मिन्दहराकाश उपलभ्यते; अतो दहराकाशः परं ब्रह्म॥१५॥ ८१. प्रसिद्धश्च ॥ १।३।१६ ॥ आकाशशब्दश्च परिस्मिन्ब्रह्मणि प्रसिद्धः *को ो वान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात् *सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादिषु । अपहत- पाप्मत्वादिगुणसनाथा प्रसिद्धि ताकाशप्रसिद्धबलीयसीत्यभिप्रायः ॥ १६ ॥ एवं तावद्दहराकाशस्य भूताकाशत्वं प्रतिक्षिप्तम् । अथेदानी दहराकाशस्य प्रत्यगात्म- त्वमाशङ्कय निराकर्तुमुपक्रमते- ५२. इतरपरामर्शात्स इति चेन्नासंभवात् ॥ १।३ । १७ ॥ यदुक्तं वाक्यशेषवशाइहराकाशः परं ब्रह्मेति, तदयुक्त र, वाक्यशेषे परस्मादितरस्य जीवस्यैव साक्षात्परामर्शात् *अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म * इति । यद्यपि *दहरो- ऽस्मिन्नन्तर आकाश इति हृदयपुण्डरीकमध्यवर्तितयोपदिष्टस्याकाशस्योपमानोपमेयभावाद्य- संभवाद्भूताकाशत्वं न संभवति, तथापि वाक्यशेषवशात्प्रत्यगात्मत्वं युक्तमाश्रयितुम् । आकाशशब्दोऽपि प्रकाशादियोगाज्जीव एव वतिष्यत इति चेत्; अत्रोत्तरं-नासंभवादिति । नायं जीवः; न ह्यपहतपाप्मत्वादयो गुणा जीवे संभवन्ति ॥ १७ ॥ ८३. उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १।३। १८ ॥ उत्तरात्-प्रजापतिवाक्यात्, जीवस्यैवापहतपाप्मत्वादिगुणयोगो निश्चीयत इति चेत् । एतदुक्तं भवति-प्रजापतिवाक्यं जीवपरमेव । तथाहि “य आत्मा अपहतपाप्मा विजरो विमृत्युविशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्सविजिज्ञासितव्यःसर्वाश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति * इति प्रजापतिवचनमैतिह्य- - १४४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । रूपेणोपश्रुत्यान्वेष्टव्यात्मस्वरूपजिज्ञासया प्रजापतिमुपसेदुषे मघवते प्रजापतिर्जागरितस्वप्न- सुषुप्त्यवस्थं जीवात्मानं सशरीरं क्रमेण शुश्रूषुयोग्यतापरीचिक्षिषयोपदिश्य तत्रतत्र भोग्यम- पश्यते परिशुद्धात्मस्वरूपोपदेशयोग्याय तस्मै मघवते *मध्वन्मयं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानस् * इति शरीरस्याधिष्ठानतामात्मनश्चाधिष्ठातृताम- शरीरस्य च तस्यामृतत्वस्वरूपनां चोक्त्वा न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहति- रस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति कर्मारब्धशरीरयोगिनस्तदनुगुणसुख- दुःखभागित्वरूपानर्थं तद्विमोक्षेच तदभावमभिधाय एवमेवैष संप्रासादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति जीवात्मनस्स्वरूपमेव शरीरवियुक्त मुपदिदेश । *स उत्तमः पुरुषः स तत्र पर्ये ति जक्षत्क्रोडब्रममाणः स्त्रीभिर्वा यानर्वा ज्ञाति- भिर्वा नोपजनं स्मरन्निदं शरीरम् इति प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वम्, निवृत्त- तिरोधानस्य परं ज्योतिरुपसंपन्नस्य प्रत्यगात्मनो ब्रह्मलोके यथेष्टभोयावाप्तिम्, प्रियाप्रिय- वियुक्तकर्मनिमित्तशरीराद्यपुरुषार्थाननुसन्धानं चाभिधाय *स यथा प्रयोग्य आचरणे युक्त एवमस्मिन् शरीरे प्राणो युक्तः इति यथोक्तस्वरूपस्यैव संसारदशायां कर्मतन्त्रं शरीरयोगं युग्यशकटयोगदृष्टान्तेनाभिधाय *अथ यत्रैतदाकाशमनुविषण्णं चक्षुस्स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम्, अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं दिव्यं चक्षुरिति चक्षुरिति चक्षुरादीनां करणत्वं रूपादीनां ज्ञेयत्वमस्य च ज्ञातृत्वं प्रदर्य तत एव शरीरेन्द्रियेभ्योऽस्य व्यतिरेकमुपपाद्य *स वा एष एतेन (देवेन) दिव्येन चक्षुषा मनसैतान्कामान्पश्यत्रमते य एते ब्रह्मलोके इति तस्यैव विधूतकर्मनिमित्तशरीरेन्द्रियस्य मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वकामानु- भवमुक्त्वा तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्तास्सर्वे च कामाः इत्येवंविधमात्मानं ज्ञानिनो जानन्तीत्यभिधाय *सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्त- मात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच इत्येवंविधमात्मानं विदुषस्सर्वलोकसर्वकामा- वाप्त्युपलक्षितं ब्रह्मानुभवं फलमभिधायोपसंहृतम् । अतस्तत्रापहतपाप्मत्वादिगुणको ज्ञातव्य- तया प्रक्रान्तो जीव एवेत्यवगतम् । अतो जीवस्यापहतपाप्मत्वादयस्संभवन्ति। अतो दहरवाक्यशेषे श्रूयमाणस्य जीवस्यापहतपाप्मत्वादिगुणसंभवात्स एव दहराकाश इति निश्चीयते-इति चेदिति ॥ तत्राह-आविर्भूतस्वरूपस्तु इति । पूर्वमनृततिरोहितापहतपाप्मत्वादिगुणकस्वरूपः पश्चाद्विमुक्तकर्मबन्धश्शरीरात्समुत्थितः परं ज्योतिरुपसंपन्न आविर्भूतस्वरूपस्सन्नपहत- पाप्मत्वादिगुणविशिष्टस्तत्र प्रजापतिवाक्येऽभिधीयते; बहरवाक्ये त्वतिरोहितस्वभावापहत- प्रथमाध्याये-तृतीयपादे-दहराधिकरणम् । १४५ पाप्मत्वादिविशिष्ट एव दहराकाशः प्रतीयते । आविर्भूतस्वरूपस्यापि जीवस्यासंभावनीया- स्सेतुत्वसर्वलोकविधरणत्वादयस्सत्यशब्दनिर्वचनावगतं चेतनाचेतनयोनियन्तृत्वं दहराकाशस्य परब्रह्मतां साधयन्ति । सेतुत्वसर्वलोकविधरणत्वादयः आविर्भूतस्वरूपस्यापि न संभवन्तीति *जगद्व्यापारवर्जमित्यत्रोपपादयिष्यामः ॥ १८ ॥ यद्येवं दहरवाक्ये *अथ य एष संप्रसाद इत्यादिना जीवप्रस्तावः किमर्थ इति चेत्; तत्राह- ८४. अन्यार्थश्च परामर्शः ।। १-३-१६॥ 1- दहराकाशस्यैवापहतपाप्मत्वजगद्विधरणत्वादिवन्मुक्तस्य तदुपसंपत्त्याऽपहतपाप्मत्वा- दिकल्याणगुणविशिष्टस्वाभाविकरूपप्राप्तिकथनेन तद्धेतुत्वरूपं परमपुरुषासाधारणं गुणमुपदेष्टुं प्रजापतिवाक्योक्तस्य जीवस्यात्र परामर्शः । प्रजापतिवाक्ये च मुक्तात्मस्वरूपयाथात्म्यविज्ञानं दहरविद्योपयोगितयोक्तम् । ब्रह्मप्रेप्सोहि जीवात्मनः (स्व) स्वरूपं च ज्ञातव्यमेव; स्वयमपि कल्याणगुण एव सन्ननवधिकातिशयासंख्येयकल्याणगुणगणं परं ब्रह्मानुभविष्यतीति ब्रह्मो- पासनफलान्तर्गतत्वात् (स्व) स्वरूपयाथात्म्यविज्ञानस्य । *सर्वांश्च लोकानाप्नोति सर्वांश्न कामार *स तत्र पर्येति जक्षत्क्रीडन् इत्यादिकं प्रजापतिवाक्ये कीर्त्यमानं फलमपि दहर- विद्याफलमेव ॥१६॥ ८५. अल्पश्रुतेरिति चेत्तदुक्तम् ॥ १-३-२० ॥ *दहरोऽस्मिन् इत्यल्पपरिमाणश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज्ज्यायसो ब्रह्मण इति चेत् तत्र यदुत्तरं वक्तव्यम्, तत्पूर्वमेवोक्तं *निचाय्यत्वादेव- मित्यनेन । अतो दहराकाशोऽनाघ्राताविद्याधशेषदोषगन्धः स्वाभाविकनिरतिशयज्ञानबलैश्वर्य- वीर्यशक्तितेजःप्रभृत्यपरिमितोदारगुणसागरः पुरुषोत्तम एव । प्रजापतिवाक्यनिर्दिष्टस्तु *घ्नन्ति त्वेवैनं विच्छादयन्ति इत्येवमादिभिरवगतकर्मनिमित्तदेहपरिग्रहः पश्चात्परंज्योति- रुपसंपद्याविभूतापहतपाप्मत्वादिगुणस्वस्वरूप इति न दहराकाशः ॥२०॥ इतश्चैतदेवम् - - ८६. अनुकृतेस्तस्य च ॥ १-३-२१ ॥ तस्य-दहराकाशस्य परस्य ब्रह्मणः, अनुकारात् अयमपहतपाप्मत्वादिगुणको विमुक्त- बन्धः प्रत्यगात्मा न दहराकाशः । तदनुकार:--तत्साम्यम् । तथाहि प्रत्यगात्मनो विमुक्तस्य १४६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । परब्रह्मानुकारश्श्रूयते यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ इति । अतोऽनुकर्ता प्रजापतिवाक्य- निर्दिष्टः । अनुकार्य ब्रह्म दहराकाशः ॥२१॥ ८७. अपि स्मर्यते ॥ १-३-२२॥ संसारिणोऽपि मुक्तावस्थायां परमसाम्यापत्तिलक्षणः परब्रह्मानुकारः स्मर्यते *इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥इति॥ केचित् *अनुकृतेस्तस्यच *अपि स्मर्यते इति सूत्रद्वयमधिकरणान्तरं *तमेव भान्त- मनुभाति सर्व तस्य भासा सर्वमिदं विभातीत्यस्याश्श्रुतेः परब्रह्मपरत्वनिर्णयाय प्रवृत्तं वदन्ति । तत्तु *अदृश्यत्वादिगुणको धर्मोक्तेः द्युभवाद्यायतनं स्वशब्दात् इत्यधिकरणद्वयेन तस्य प्रकरणस्य परब्रह्मविषयत्वप्रतिपादनात् ज्योतिश्चरणाभिधानात् इत्यादिषु परस्य ब्रह्मणो भारूपत्वावगतेश्च पूर्वपक्षानुत्थानादयुक्तम्; सूत्राक्षर (वैरूप्याच्च) वैरूप्यं च ॥२२॥ इति दहराधिकरणम् ।।५।। अथ प्रमिताधिकरणम् ।।६॥ ८८. शब्दादेव प्रमितः ॥ १-३-२३ ।। कठवल्लीषु श्रूयते *अङ्ग मात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥ एतद्वैतत् *अङ्ग ष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वैतत् *अङ्ग ष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्नि- विष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुजादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतम् इति । संदिह्यते-किमयमङ्ग.ष्ठमात्रप्रमितः प्रत्यगात्मा, उत परमात्मेति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? जीवस्यान्यत्राङ्गष्ठमात्रत्वश्रुतेः प्राणाधिपस्संचरति स्वकर्मभिः, अङ्ग.ष्ठमात्रो रवि- तुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः इति । नचान्यत्रोपासनार्थतयाऽपि परमात्मनोऽङ्गठ- मात्रत्वं श्रूयते । एवं निश्चिते जीवत्वे ईशानत्वं शरीरेन्द्रियभोग्यभोगोपकरणापेक्षयाऽपि भविष्यति । इति प्राप्ते ब्रमः-शब्दादेव प्रमितः-अङ्ग ठप्रमितः परमात्मा; कुतः ? *ईशानो भूतभव्यस्येति शब्दादेव; न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्यो- पपद्यते ॥२३॥ कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह-.

प्रथमाध्याये-चतुर्थपादे-देवताधिकरणम् । १४७ ८६. हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ १-३-२४ ॥ परमात्मन उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्याङ्ग ठप्रमाणत्वात्तद- पेक्षयेदमङ्ग ठप्रमितत्वमुपपद्यते । जीवस्याप्यङ्ग ठप्रमितत्वं हृदयान्ततित्वात्तदपेक्षमेव; तस्याराग्रमात्रत्वश्रुतेः । मनुष्याणामेवोपासकत्वसंभावनया शास्त्रस्य मनुष्याधिकारत्वान्मनुष्य- हृदयस्य च तत्तदङ्ग ठप्रमितत्वात्खरतुरगभुजगादीनामनङ्ग ष्ठप्रमितत्वेऽपि न कश्चिद्दोषः । स्थितं तावदुत्तरत्र समापयिष्यते ॥२४॥ इति प्रमिताधिकरणम् ॥६॥ अथ एतद्गर्भे देवताधिकरणम् ।।७।। ६०. तदुपर्यपि बादरायणस्संभवात् ॥ १-३-२५ ॥ ? परस्य ब्रह्मणोऽङ्गुष्ठप्रमितत्वोपपत्तये मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम् । तत्प्रसङ्गेनेदानी ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्ति नास्तीति विचार्यते । किं तावद्यु- क्तम् ? नास्ति देवादीनामधिकार इति । कुतः ? सामर्थ्याभावात् । न ह्यशरीराणां देवादीनां विवेकविमोकादिसाधनसप्तकानुगृहीतब्रह्मोपासनोपसंहारसामर्थ्यमस्ति । नच देवादीनां सशरी- रत्वे प्रमाणमुपलभामहे । यद्यपि परिनिष्पन्नऽपि वस्तुनि व्युत्पत्तिसंभावनया वेदान्तवाक्यानि परे ब्रह्मणि प्रमाणभावमनुभवन्ति; तथापि देवादीनां विग्रहवत्त्वप्रतिपादनपरं न किंचिदपि वाक्यमुपलभ्यते । मन्त्रार्थवादास्तु कर्मविधिशेषतयाऽन्यपरत्वान्न देवादिविग्रहसाधने प्रभवन्ति । कर्मविधयश्च स्वापेक्षितोद्देश्यकारकत्वातिरेकि देवतागतं किमपि न साधयन्ति । अत एव तासामर्थित्वमपि न संभवति । अतस्सामर्थ्याथित्वयोरभावाद्देवादीनामनधिकार इति ।। एवं प्राप्ते प्रचक्ष्महे-तदुपर्यपि बादरायणस्संभवात् । तदुपर्यपि-तत्-ब्रह्मोपासनन्, उपरि-देवादिष्वपि, संभवतीति भगवान्बादरायणो मन्यते, तेषामर्थित्वसामर्थ्ययोस्संभवात् । अथित्वं तावदाध्यात्मिकादिदुर्विषहदुःखाभितापात्परस्मिन्ब्रह्मणि च निरस्तनिखिलदोषगन्धेऽ- नवधिकातिशयासङ्घय यकल्याणगुणगणे निरतिशयभोग्यत्वादिज्ञानाच्च संभवति । सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्तया संभवति । देहेन्द्रियादिमत्त्वंच ब्रह्मादीनां सकलोपनिषत्सु सृष्टिप्रक- रणे)पासनप्रकरणेषु च श्रूयते । तथाहि *सदेव सोम्येदमग्र आसीत्...तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजतेत्यारभ्य सर्वमचेतनं तेजोबन्नप्रमुखावस्थाविशेषवद्वयाकृत्य अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति सङ्कल्प्य ब्रह्मादिस्थावरान्तं चतुर्विधं भूतजातं तत्तत्कर्मोचितशरीरं तदुचितनामभाक्चायमकरोदित्युक्तम् । एवं सर्वत्र सृष्टिवाक्येषु देवतिर्य- १४८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ङ्मनुष्यस्थावरात्मना चतुर्विधा सृष्टिराम्नायते । देवादिभेदश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृति- चतुर्दशलोकस्थफलभोगयोग्यदेहेन्द्रियादियोगायत्तः, आत्मनां स्वतो देवादित्वाभावात् । तथा *तद्धोभये देवासुरा अनुबुबुधिरे ते होचुः...इन्द्रो हवं देवानामभिप्रववाज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः *तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्य- मूषतुः तौ ह प्रजापतिरुवाच *इत्यादिना स्पष्टमेव शरीरेन्द्रियवत्त्वं देवादीनां प्रतीयते ॥ कर्मविधिशेषभूतमन्त्रार्थवादेष्वपि *वज्रहस्तः पुरन्दरः *तेनेन्द्रो वज्रमुदयच्छत् इत्यादिभिः प्रतीयमानं विग्रहादिमत्त्वं प्रमाणान्तराविरुद्धं तत्प्रमेयमेव । नचानुष्ठेयार्थप्रकाशन- स्तुतिपरत्वाभ्यां प्रतीयमानार्थान्तराविवक्षा शक्यते वक्तुम्; स्तुत्याधुपयोगित्वात्तेन विना स्तुत्याद्यनुपपत्तेश्च । गुणकथनेन हि स्तुतित्वम् । गुणानामसद्भावे स्तुतित्वमेव हीयेत । नचा- सता गुणेन कथितेन प्ररोचना जायते । अतः कर्म प्ररोचयन्तो गुणसद्भावं बोधयन्त्येवार्थ- वादाः । मन्त्राश्च कर्मसु विनियुक्तास्तत्रतत्र किश्चित्करत्वायानुष्ठेयमर्थ प्रकाशयन्तो देवतादि- गतविग्रहादिगुणविशेषमभिदधत एव तत्र किञ्चित्कुर्वन्ति, अन्यथेन्द्रादिस्मृत्यनुपपत्तेः । नच निविशेषा देवता धियमधिरोहति । तत्र प्रमाणान्तराप्राप्तान्गुणान् स्वयमेव बोधयित्वा तैः कर्म प्ररोचयन्ति; गुणविशिष्टं वा प्रकाशयन्ति; प्राप्तांश्चानूद्य तैः प्ररोचनप्रकाशने कुर्वन्ति; विरुद्धत्वे तु तद्वाचिभिश्शब्दरविरुद्धान्गुणान् लक्षयित्वा कुर्वन्ति । कर्मविधेश्च देवताया ऐश्वर्यमपेक्षितमेव । कामिनः कर्तव्यतया कर्म विधीयमानं स्वयं क्षणप्रध्वंसि कालान्तरभाविनः फलस्य स्वर्गादेस्साधकमपेक्षते । मन्त्रार्थवादयोश्च *वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूति गमयति श्यदनेन हविषाऽऽ- शास्ते तदश्यात्तदृध्यात्तदस्मै देवा राधन्ताम् इत्यादिषु देवतायाः कर्मणाऽऽराधितायाः फलदायित्वं तदनुगुणं चैश्वर्य प्रतीयमानमपेक्षितत्वेन वाक्यार्थे समन्वीयते । देवपूजाभिधायिनो यजिधातोश्च यागाख्यं कर्म स्वाराध्यदेवताप्रधानं प्रतीयते ॥ तदेवं कृत्स्नवाक्यपर्यालोचनया वाक्यादेव विध्यपेक्षितं सर्वमवगतमिति नापूर्वादिकं व्युत्पत्तिसमयानवगतं कर्मविधिष्वभिधेयतया कल्प्यतया वाऽऽश्रयितव्यम् । तथा सङ्कीर्ण- ब्राह्मणमन्त्रार्थवादमूलेषु धर्मशास्त्रे तिहासपुराणेषु ब्रह्मादीनां देवासुरप्रभृतीनां च देहेन्द्रिया- दयस्स्वभावभेदाः स्थानानि भोगाः कृत्यानि चेत्येवमादयस्सुव्यक्ताः प्रतिपाद्यन्ते । अतो विग्रहादिमत्त्वाद्देवानामप्यधिकारोऽस्त्येव ॥२५॥ ११. विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ १-३-२६ ।। देवादीनां विग्रहादिमत्त्वाभ्युपगमे कर्मणि विरोधः प्रसज्यते, बहुषु यागेषु युगपदेकस्ये- न्द्रस्य विग्रहवत्वे *अग्निमग्न आवह *इन्द्रागच्छ हरिव आगच्छेत्यादिना आहूतस्य तस्य - प्रथमाध्याये-तृतीयपादे-देवताधिकरणम् । १४६ ? सन्निधानानुपपत्तेः। दर्शयति चाग्न्यादीनां तत्रतत्रागमनं *कस्य वाह देवा यज्ञमागच्छन्ति कस्य वा न बहूनां यजमानानां यो वै देवताः पूर्वः परिगृह्णाति स एनाश्श्वोभूते यजते इति । अतो विग्रहादिमत्त्वे कर्मणि विरोधः प्रसज्यत इति चेत्, तन्न; अनेकप्रतिपत्तेर्दर्शनात्-दृश्यते हि सौभरिप्रभृतीनां शक्तिमतां युगपदनेकशरीरप्रतिपत्तिः ॥ २६ ॥ ६२. शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ १।३।२७ ॥ विरोध इति वर्तते । मा भूत्कर्मणि विरोधोऽनेकशरीरप्रतिपत्तेः । शब्दे तु वैदिके विरोधः प्रसज्यते, अनित्यार्थसंयोगात् । विग्रहवत्त्वे हि सावयवत्वेनेन्द्रादेरर्थस्यानित्यत्वमनि- वार्यम् । ततो देवदत्तादिशब्दवदिन्द्राद्यर्थजन्मनः प्राग्विनाशादूर्ध्व चेन्द्रादिशब्दानां वैदिका- नामर्थशून्यत्वमनित्यत्वं वा वेदस्य स्यादितिचेत् तन्न, अतः प्रभवात्-अस्मादिन्द्रादिशब्दादेव पुनःपुनरिन्द्राद्यर्थस्य प्रभवात् । एतदुक्त भवति-नहि देवदत्तादिशब्दवदिन्द्रादिशब्दा वैदिका व्यक्तिविशेषमात्रे सङ्केतपूर्वकाः प्रवृत्ताः; अपि तु स्वभावत एव गवादिशब्दवदाकृतिविशेष- वाचित्वेन । ततश्च कस्यामिन्द्रव्यक्तौ विनष्टायामत एव वैदिकादिन्द्र शब्दान्मनसि विपरिवर्त- मानादवगततद्वाच्यभूतेन्द्राद्यर्थाकारो धाता तदाकारमेवापरमिन्द्रं सृजति; यथा कुलालो घट- शब्दान्मनसि विपरिवर्तमानात्तदाकारमेव घटमिति । कथमिदमवगम्यते ? प्रत्यक्षानुमानाभ्यां- श्रुतिस्मृतिभ्यामित्यर्थः । श्रुतिस्तावत् *वेदेन रूपे व्यकरोत्सतासती प्रजापतिः इति; तथा *स भूरिति व्याहरत् स भूमिमसृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजतेत्यादि । वाचक- शब्दपूर्वकं तत्तदर्थसंस्थानं स्मरन् तत्तत्संस्थानविशिष्ट तंतमर्थं सृष्टवानित्यर्थः। स्मृतिरपि *अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा। आदौ वेदमयी दिव्या यतस्सर्वाः प्रसूतयः ॥ इति; *सर्वेषां तु स नामानि कर्माणिच पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ इति । संस्थाः-संस्थानानि, रूपाणीति यावत् । यथा नाम रूपंच भूतानां कृत्यानांच प्रपञ्चनम् । वेदशब्देश्य एवादौ देवादीनां चकार सः ॥ इति । अतो देवादीनां विग्रहवत्त्वेऽपि वैदिकशब्दानामानर्थक्यं, वेदस्यादिमत्त्वंच न प्रसज्यते ॥ २७ ।। ६३. अत एव च नित्यत्वम् ॥ १।३। २८ ॥ यत एवेन्द्र वसिष्ठादिशब्दानां देवषिवाचिनां तत्तदाकारवाचित्वं, तत्तच्छब्देन तत्तदर्थ- स्मृतिपूर्विका च तत्तदर्थसृष्टिः; तत एव *मन्त्रकृतो वृणीते *नम ऋषिभ्यो मन्त्रकृद्भयः *अयं सो अग्निरिति विश्वामित्रस्य सूक्तं भवतीत्यादिभिर्वसिष्ठादीनां मन्त्रकृत्त्वकाण्डकृत्त्व- ऋषित्वादौ प्रतीयमानेऽपि वेदस्य नित्यत्वमुपपद्यते । एभिरेव *मन्त्रकृतो वृणीते इत्यादि- भिर्वेदशब्दस्तत्तत्काण्डसूक्तमन्त्रकृतामृषीणामाकृतिशक्त्यादिकं परामृश्य तत्तदाकारान् तत्तच्छक्तियुक्तांश्च सृष्ट्वा प्रजापतिस्तानेव तत्तन्मत्रादिकरणे नियुङक्त । तेऽपि प्रजापतिना

१५०
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
1
D-
आहितशक्तयस्तत्तदनुगुणं तपस्तप्त्वा नित्यसिद्धान्तपूर्वपूर्ववसिष्ठादिदृष्टान् तानेव मन्त्रादीनन-
धोत्येव स्वरतो वर्णतश्चास्खलितान्पश्यन्ति । अतश्च वेदानां नित्यत्वमेषांच मन्त्रकृत्त्व-
मुपपद्यते ॥ २८ ॥
अथ स्यात्-नैमित्तिकप्रलयादिष्विन्द्राद्युत्पत्ती वेदशब्देभ्यः पूर्वपूर्वेन्द्रादिस्मरणेन
प्रजापतिना देवादिसृष्टिरुपपद्यतां नाम; प्राकृतप्रलये तु स्रष्टुः प्रजापतेर्भूताद्यहङ्कारपरिणाम-
शब्दस्यच विनष्टत्वात्कथं प्रजापतेश्शब्दपूविका सृष्टिरुपपद्यते ? कथन्तरां विनष्टस्य वेदस्य
नित्यत्वम् ? अतो वेदनित्यत्ववादिना देवादीनां विग्रहवत्त्वाभ्युपगमेऽपि लोकव्यवहारस्य
प्रवाहानादिताऽऽश्रयणीयेति । अत्रोत्तरं पठति-
६४. समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ १।३।२६ ॥
कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि पूर्वोक्तासमाननामरूपत्वादेव न कश्चिद्विरोधः ।
तथाहि-स भगवान्पुरुषोत्तमः प्रलयावसानसमये पूर्वसंस्थानं जगत्स्मरन् *बहु स्यामिति
सङ्कल्प्य, भोग्यभोक्तृजातं स्वस्मिन् शक्तिमात्रावशेष प्रलीनं विभज्य, महदादिब्रह्माण्डं हिरण्य-
गर्भपर्यन्तं यथापूर्व सृष्ट्वा, वेदांश्च पूर्वानुपूर्वीविशेषसंस्थितानाविष्कृत्य, हिरण्यगर्भायोपदिश्य,
पूर्ववदेव देवाद्याकारजगत्सर्गे तं नियुज्य, स्वयमपि तदन्तरात्मतयाऽवतस्थे । अतो यथोक्त
सर्वमुपपन्नम् । एतदेव च वेदस्यापौरुषेयत्वं नित्यत्वं च, यत्पूर्वपूर्वोच्चारणक्रमजनितसंस्कारेण
तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम् । तदस्मासु सर्वेश्वरेऽपि समानम् । इयांस्तु
विशेषः-संस्कारानपेक्षमेव स्वयमेवानुसन्धत्ते पुरुषोत्तमः ॥
कुत इदं यथोक्तमवगम्यत इति चेत्; तत्राह-दर्शनात् स्मृतेश्च । दर्शनं तावत्
ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा इति । स्मृतिरपि मानवी *आसीदिदं
तमोभूतम् इत्यारभ्य *सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ
तासु वीर्यमपासृजत् ॥ तदण्डमभवद्धम सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोक-
पितामहः ॥ इति । तथा पौराणिको तत्र सुप्तस्य देवस्य नाभौ पद्ममजायत । तस्मिन्पझे
महाभाग वेदवेदाङ्गपारगः ॥ ब्रह्मोत्पन्नस्स तेनोक्तः प्रजास्सृज महामते ॥ तथा *परो
नारायणो देवस्तस्माज्जातश्चतुर्मुखः इति । तथा *आदिसर्गमहं वक्ष्ये, इत्यारभ्योच्यते-
*सृष्ट्वा नारं तोयमन्तस्स्थितोऽहं येन स्यान्मे नाम नारायणेति । कल्पेकल्पे तत्र शयामि
भूयस्सुप्तस्य मे नाभि स्याद्यथाऽब्जम् ।। एवंभूतस्य मे देवि नाभिपद्मे चतुर्मुखः । उत्पन्नस्स
मया चोक्तः प्रजास्सृज महामते ॥ इति । अतो देवादीनामथित्वसामर्थ्ययोगाद्ब्रह्मविद्याया-
मधिकारोऽस्तीति सिद्धम् ॥२६॥ इति देवताधिकरणम् ॥७॥

प्रथमाध्याये-तृतीयपादे-प्रतिमाधिकरणगर्भे मध्वधिकरणम् । १५१ अथ प्रतिमाधिकरणगभ मध्वधिकरणम् ।। ८ ।। ? ६५. मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ १।३। ३० ॥ ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्तीत्युक्तम् । इदमिदानी चिन्त्यते-येषूपासनेषु या देवता एवोपास्यास्तेषु तासामधिकारोऽस्ति नेति । किं प्राप्तम् ? नास्त्यधिकारस्तेषु मध्वादिष्विति जैमिनिर्मन्यते । कुतः ? असंभवात्-न ह्यादित्यवस्वादिभिरुपास्या आदित्यव- स्वादयोऽन्ये संभवन्ति । न च वस्वादीनां सतां वस्वादित्वं प्राप्यं भवति, प्राप्तत्वात् । मधु- विद्यायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्याश्रयतया लब्धमधुव्य- पदेशस्यादित्यस्यांशानां वस्वादिभिर्भुज्यमानानामुपास्यत्वं वस्वादित्वं च प्राप्यं श्रूयते *असौ वा आदित्यो देवमधु इत्युपक्रम्य तद्यत्प्रथमममृतं तद्वसव उपजीवन्तीत्युक्त्वा स य एतदेव- ममृतं वेद वसूनामेवैको भूत्वा अग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति इत्यादिना ॥ ३० ॥ ६६. ज्योतिषि भावाच्च ॥ १।३।३१ ॥ तं देवा ज्योतिषां ज्योतिरायुोपासतेऽमृतमिति ज्योतिषि-परस्मिन्ब्रह्मणि उपासनं देवानां श्रूयते । देवमनुष्योभयसाधारणे परब्रह्मोपासने देवानामुपासकत्वकथनं देवानामितरो- पासननिवृत्ति द्योतयति । अत एषु वस्वादीनामनधिकारः ॥ ३१ ॥ इति प्राप्तऽभिधीयते- ६७. भावं तु बादरायणोऽस्ति हि ॥ १।३ । ३२॥ आदित्यवस्वादीनामपि तेष्वधिकारभावं भगवान्बादरायणो मन्यते । अस्ति ह्यादित्य- वस्वादीनामपि स्वावस्थब्रह्मोपासनेन वस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासंभवः । इदानी वस्वा- दीनामपि सतां कल्पान्तरेऽपि वस्वादित्वप्राप्तिश्चापेक्षिता भवति । अत्र हि कार्यकारणोभया- वस्थब्रह्मोपासनं विधीयते *असौ वा आदित्यो देवमधु* इत्यारभ्य *अथ तत ऊर्ध्व उदेत्य* इत्यतः प्रागादित्यवस्वादिकार्यविशेषावस्थं ब्रह्मोपास्यमुपदिश्यते; *अथ तत ऊर्ध्व उदेत्य* इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थमेव ब्रह्मोपास्यमुपदिश्यते । तदेवं कार्य- कारणोभयावस्थं ब्रह्मोपासीनः कल्पान्तरे वस्वादित्वं प्राप्य तदन्ते कारणं परं ब्रह्मवाप्नोति । *न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद इति कृत्स्नाया मधुविद्याया ब्रह्मोपनिषत्त्वश्रवणाद्ब्रह्मप्राप्तिपर्यन्तवस्वादित्वफलस्य श्रवणाच्च वस्वादिभोग्यभूतादित्यांशस्य विधीयमानमुपासनं तदवस्थस्यैव ब्रह्मण इत्यवगम्यते । अत एवंविधमुपासनमादित्यवस्वादीनामपि संभवति । एवञ्च ब्रह्मण एवोपास्यत्वात् तं देवा १५२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ज्योतिषां ज्योतिरित्यप्युपपद्यते । तदाह वृत्तिकारः अस्ति हि मध्वादिषु संभवो ब्रह्मण एव सर्वत्र निचाय्यत्वात् इति ॥ ३२ ॥ इति मध्वधिकरणम् ॥ ८॥ me ? अथ अपशूद्राधिकरणम् ।। ६॥ ६८. शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ १।३ । ३३ ॥ ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति नवेति विचार्यते; किं युक्तम् ? अस्तीति । कुतः ? अथित्वसामर्थ्यप्रयुक्तत्वादधिकारस्य, शूद्रस्यापि तत्संभवात् । यद्यप्यग्निविद्यासाध्येषु कर्मस्वनग्निविद्यत्वाच्छूद्रस्यानधिकारः; तथापि मनोवृत्तिमात्रत्वाद्ब्रह्मोपासनस्य तत्राधि- कारोऽस्त्येव । शास्त्रीयक्रियापेक्षत्वेऽप्युपासनस्य तत्तद्वर्णाश्रमोचितक्रियया एवापेक्षितत्वाच्छूद्र- स्यापि स्ववर्गोचितपूर्ववर्णशुश्रूषैव क्रिया भविष्यति । तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः इत्यप्यग्नि- विद्यासाध्ययज्ञादिकर्मानधिकार एव न्यायसिद्धोऽवद्यते । नन्वनधीतवेदस्याश्रुतवेदान्तस्य ब्रह्म- स्वरूपतदुपासनप्रकारानभिज्ञस्य कथं ब्रह्मोपासनं संभवति ? उच्यते-अनधोतवेदस्याश्रुत- वेदान्तवाक्यस्यापोतिहासपुराणश्रवणेनापि ब्रह्मस्वरूपतदुपासनज्ञानं संभवति । अस्ति च शूद्रस्यापीतिहासपुराणश्रवणानुज्ञा *श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः इत्यादौ । दृश्यन्ते चेतिहासपुराणेषु विदुरादयो ब्रह्मनिष्ठाः । तथोपनिषत्स्वपि संवर्गविद्यायां शूद्रस्यापि ब्रह्म- विद्याधिकारः प्रतीयते-शुश्रूषं हि जानश्रुतिमाचार्यों रैकश्शूद्रेत्यामन्त्रय तस्मै ब्रह्मविद्या- मुपदिशति-*आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः इत्यादिना । अतश्शूद्रस्याप्य- धिकारस्संभवति ॥ इति प्राप्त उच्यते-न शूद्रस्याधिकारस्संभवति, सामर्थ्याभावात् । नहि ब्रह्मस्वरूप- तदुपासनप्रकारमजानतस्तदङ्गभूतवेदानुवचनयज्ञादिष्वनधिकृतस्योपासनोपसंहारसामर्थ्य- संभवः। असमर्थस्य चाथित्वसद्भावेऽप्यधिकारो न संभवति । असामर्थ्य च वेदाध्ययना- भावात् । यथैव हि त्रैवणिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपाद्यज्ञानलाभेन कर्मविधयो ज्ञानतदुपायादीनपरान्न स्वीकुर्वन्ति; तथा ब्रह्मोपासनविधयोऽपि । अतोऽध्ययनविधिसिद्ध- स्वाध्यायाधिगतज्ञानस्यैव ब्रह्मोपासनोपायत्वाच्छूद्रस्य ब्रह्मोपासनसामर्थ्यासंभवः । इतिहास- पुराणे अपि वेदोपबृंहणं कुर्वती एवोपायभावमनुभवतः; न स्वातन्त्र्येण । शूद्रस्येतिहासपुराण- श्रवणानुज्ञानं, पापक्षयादिफलार्थम्; नोपासनार्थम् । विदुरादयस्तु भावान्तराधिगतज्ञाना- प्रमोषात् ज्ञानवन्तः प्रारब्धकर्मवशाच्चेदृशजन्मयोगिन इति तेषां ब्रह्मनिष्ठत्वन ॥ यत्तु संवर्गविद्यायां शुश्रूषोश्शूद्रेति संबोधनं शूद्रस्याधिकारं सूचयतीति; तन्नत्याह- शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि । शुश्रूषोनिश्रुतेः पौत्रायणस्य ब्रह्मज्ञानवैकल्येन

प्रथमाध्याये-तृतीयपादे-अपशूद्राधिकरणम् ।
१५३
हंसोक्तानादरवाक्यश्रवणात्तदैव ब्रह्मविदो रैक्वस्य सकाशं प्रत्याद्रवणाच्छुगस्य सञ्जातेति हि
सूच्यते; अतस्स शूद्र त्यामन्त्र्यते, न चतुर्थवर्णत्वेन । शोचतीति हि शूद्रः; *शुचेर्दश्च इति
रप्रत्यये धातोश्च दीर्घ चकारस्य च दकारे शूद्र इति भवति । अतश्शोचितृत्वमेवास्य शूद्रशब्द-
प्रयोगेन सूच्यते; न जातियोगः । जानश्रुतिः किल पौत्रायणो बहुद्रव्यप्रदो बन्नप्रदश्च बभूव ।
तस्य धामिकाग्रेसरस्य धर्मेण प्रीतयोः कयोश्चिन्महात्मनोरस्य ब्रह्मजिज्ञासामुत्पिपादयिषतोः
हंसरूपेण निशायामस्याविदूरे गच्छतोरन्यतर इतरमुवाच-*भो भोयि भल्लाक्ष भल्लाक्ष जान-
श्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीत् इति । एवं
जानश्रुतिप्रशंसारूपं वाक्यमुपश्रुत्य परो हंसः प्रत्युवाच-*कम्वर एनमेतत्सन्तं सयुग्वानमिव
रैक्वमात्य इति । कं सन्तमेनं जानश्रुति सयुग्वानं रैक्वं ब्रह्मज्ञमिव गुणश्रेष्ठमेतदात्थ; स
ब्रह्मज्ञो रैक्व एव लोके गुणवत्तरः। महता धर्मेण संयुक्तस्याप्यस्य जानश्रु तेरब्रह्मज्ञस्य को
गुणः, यद्गुणजनितं तेजो रैक्वतेज इव मां दहेदित्यर्थः । एवमुक्तेन परेण कोऽसौ रैक्व इति
पृष्टः लोके यत्किचित्साध्वनुष्ठितं कर्म, यच्च सर्वचेतनगतं विज्ञानम्, तदुभयं यदीयज्ञानकर्मान्त-
भूतम्, स रैक्व इत्याह ।
तदेतद्धंसवाक्यं ब्रह्मज्ञानविधुरतया अात्मनिन्दागर्भ तद्वत्तया च रैववप्रशंसारूपं जान-
श्रु तिरुपश्रु त्य तत्क्षणादेव क्षत्तारं रैक्वान्वेषणाय प्रेष्य तस्मिन्विदित्वा आगते स्वयमपि रैक्व-
मुपसद्य गवां षट्छतं निष्कमश्वतरीरथं च रैववायोपहृत्य रैक्वं प्रार्थयामास *अनुम एतां
भगवो देवतां शाधि यां देवतामुपास्से इति । त्वदुपास्यां परां देवतां ममानुशाधीत्यर्थः ।
स च रैक्वस्स्वयोगमहिमविदितलोकत्रयो जानश्रु तेब्रह्मज्ञानविधुरतानिमित्तानादरगर्भहंस-
वाक्यश्रवणेन शोकाविष्टतां तदनन्तरमेव ब्रह्मजिज्ञासयोद्योगं च विदित्वाऽस्य ब्रह्मविद्या-
योग्यतामभिज्ञाय चिरकालसेवां विना द्रव्यप्रदानेन शुश्रूषमाणस्यास्य यावच्छक्तिप्रदानेन
ब्रह्मविद्या प्रतिष्ठिता भवतीति मत्वा तमनुगृह्णन् तस्य शोकाविष्टतामुपदेशयोग्यताख्यापिका
शूद्रशब्देनामन्त्रणेन ज्ञापयन्निदमाह-*अहहारे त्वा शूद्र तवैव सह गोभिरस्तु इति । सह
गोभिरयं रथस्तवैवास्तु; नैतावता मह्यं दत्तेन ब्रह्मजिज्ञासया शोकाविष्टस्य तव ब्रह्मविद्या
प्रतिष्ठिता भवतीत्यर्थः । स च जानश्रु तिर्भूयोऽपि स्वशक्त्यनुगुणमेव गवादिकं धनं कन्यां च
प्रदायोपससाद । स रैक्वः पुनरपि तस्य योग्यतामेव ख्यापयन् शूद्रशब्देनामन्त्र्याह--*आज-
हारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः इति । इमानि धनानि शक्त्यनुगुणान्याजहर्थ; अनेनैव
द्वारेण चिरसेवया विनाऽपि मां त्वदभिलषितं ब्रह्मोपदेशरूपवाक्यमालापयिष्यसोत्युक्त्वा
तस्मा उपदिदेश । अतश्शूद्रशब्देन विद्योपदेशयोग्यताख्यापनार्थ शोक एवास्य सूचितः; न
चतुर्थवर्णत्वम् ॥३३॥

१५४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । M ६६. क्षत्रियत्वगतेश्च ॥ १-३-३४ ॥ *बहुदायोति दानपतित्वेन *बहुपाक्यः इत्यादिना *सर्वत एवमे अन्नमत्स्यन्तीत्यन्तेन बहुतरपक्वान्नप्रदायित्वप्रतीतेः *स ह सञ्जिहान एव क्षत्तारमुवाचेति क्षत्तप्रेषणादहुग्राम- प्रदानावगतजनपदाधिपत्याच्चास्य जानश्रुतेः क्षत्रियत्वप्रतीतेश्च न चतुर्थवर्णत्वम् ॥३४॥ तदेवमुपक्रमगताख्यायिकायां क्षत्रियत्वप्रतीतिरुक्ता; उपसंहारगताख्यायिकायामपि क्षत्रियत्वमस्य प्रतीयत इत्याह- १००. उत्तरत्र चैत्ररथेन लिङ्गात् ।। १-३-३५ ।। अस्य जानश्रुतेरुपदिश्यमानायामस्यामेव संवर्गविद्यायामुत्तरत्र कीर्त्यमानेनाभिप्रतारि- नाम्ना चैत्ररथेन क्षत्रियेणास्य क्षत्रियत्वं गम्यते । कथन् ? *अथ ह शौनकं च कापेयमभि- प्रतारिणं च काक्षसेनि परिविष्यमाणो ब्रह्मचारी बिभिक्षे इत्यादिना ब्रह्मचारिने दमुपास्महे इत्यन्तेन कापेयाभिप्रतरिणोभिक्षमागस्य ब्रह्मचारिणश्च संवर्गविद्यासंबन्धित्वं प्रतीयते । तेषु चाभिप्रतारी क्षत्रियः, इतरौ ब्राह्मणौ । अतोऽस्यां विद्यायां ब्राह्मणस्य तदितरेषु च क्षत्रिय- स्यैवान्वयो दृश्यते; न शूद्रस्य । अतोऽस्यां विद्यायामन्वितारैक्वाद्ब्राह्मणादन्यस्य जानश्रु ते- रपि क्षत्रियत्वमेव युक्तम्, न चतुर्थवर्णत्वम् ॥ नन्वस्मिन्प्रकरणेऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च न श्रुतम्। तत्कथमस्याभि- प्रतारिणश्चैत्ररथत्वम् ? कथं वा क्षत्रियत्वम् ? तत्राह-लिङ्गादिति । *अथह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिम् इत्यभिप्रतारिणः कापेयसाहचर्याल्लिङ्गादस्याभिप्रतारिणः कापेयसंबन्धः प्रतीयते । अन्यत्र च *एतेन वै चैत्ररथं कापेया अयाजयन् इति कापेयसंबन्धिन- चैत्ररथत्वं श्रू यते; तथा चैत्ररथस्य क्षत्रियत्वं तस्माच्चैत्ररथो नामकः क्षत्रपतिरजायत इति । अतोऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च गम्यते ॥३५॥ तदेवं न्यायविरोधिनि शूद्रस्याधिकारे लिङ्ग नोपलभ्यत इत्युक्तम् । इदानीं न्यायसिद्ध- श्शूद्रस्यानधिकारश्श्रुतिस्मृतिभिरनुगृह्यत इत्याह- १०१. संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ १-३-३६ ।। ब्रह्मविद्योपदेशप्रदेशेषूपनयनसंस्कारः परामृश्यते-- *उप त्वा नेष्ये *तं होपनिन्ये इत्यादिषु । शूद्रस्य चोपनयनादिसंस्काराभावोऽभिलप्यते *न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति *चतुर्थो वर्ण एकजातिर्न च संस्कारमर्हतीत्यादिषु ॥३६॥ १०२. तदभावनिर्धारणे च प्रवृत्तः ॥ १-३-३७ ।। अनैतदब्राह्मणो विवक्तुमर्हति समिध सोम्याहरेति शुश्रू षोर्जाबालस्य शूद्रत्वाभाव- निर्धारणे सत्येव विद्योपदेशप्रवृत्तेश्च न शूद्रस्याधिकारः ॥३७॥ ? - प्रथमाध्याये-तृतीयपादे-अपशूद्राधिकरणम् । १५५ १०३. श्रवणाध्ययनार्थप्रतिषेधात् ॥ १।३ ॥ ३८ ॥ शूद्रस्य वेदश्रवणतदध्ययनतदर्थानुष्ठानानि प्रतिषिध्यन्ते *पधु ह वा एतच्छमशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम् तस्माच्छूद्रो बहुपशुरयज्ञीयः इति । बहुपशुः पशुसदृश इत्यर्थः । अनुपशृण्वतोऽध्ययनतदर्थज्ञानतदर्थानुष्ठानानि न संभवन्ति; अतस्तान्यपि प्रति- षिद्धान्येव ॥ ३८ ॥ १०४. स्मृतेश्च ॥ १।३। ३६ ॥ स्मर्यते च श्रवणादिनिषेधः *अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरण- मुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः इति, *न चास्योपदिशेद्धर्म नचास्य व्रतमादिशेत् इति च । अतश्शूद्रस्यानधिकार इति सिद्धम् ।। ये तु निविशेषचिन्मात्रं ब्रह्मैव परमार्थः, अन्यत्सर्वं मिथ्याभूतम्, बन्धश्चापारमार्थिकः, स च वाक्यजन्यवस्तुयाथात्म्यज्ञानमात्रनिवर्त्यः, तन्निवृत्तेरेव मोक्षः इति वदन्ति; तैर्ब्रह्मज्ञाने शूद्रादेरनधिकारी वक्तुं न शक्यते; अनुपनीतस्य अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापि यस्मात्कस्मादपि निविशेषचिन्मात्रं ब्रह्मैव परमार्थोऽन्यत्सर्वं तस्मिन्परिकल्पितं मिथ्याभूतमिति वाक्यावस्तुयाथात्म्यज्ञानोत्पत्तेः, तावतैव बन्धनिवृत्तेश्च । न च तत्त्वमस्यादिवाक्येनैव ज्ञानोत्पत्तिः कार्या, न वाक्यान्तरेणेति नियन्तुं शक्यम्; ज्ञानस्यापुरुषतन्त्रत्वात्, सत्यां सामग्रयामनिच्छतोऽपि ज्ञानोत्पत्तेः । न च वेदवाक्यादेव वस्तुयाथात्म्यज्ञाने सति बन्ध- निवृत्तिर्भवतीति शक्यं वक्तुम्, येन केनापि वस्तुयाथात्म्यज्ञाने सति भ्रान्तिनिवृत्तेः; पौरुषेयादपि निविशेषचिन्मात्रं ब्रह्म परमार्थोऽन्यत्सर्वं मिथ्याभूतमिति वाक्यात् ज्ञानोत्पत्ते- स्तावतैव भ्रमनिवृत्तेश्च । यथा पौरुषेयादप्याप्तवाक्याच्छुक्तिकारजतादिभ्रान्तिाह्मणस्य शूद्रादेरपि निवर्तते, तद्वदेद शूद्रस्यापि वेदवित्संप्रदायागतवाक्याद्वस्तुयाथात्म्यज्ञानेन जगभ्रम- निवृत्तिरपि भविष्यति । *नचास्योपदिशेद्धर्ममित्यादिना वेदविदश्शूद्रादिभ्यो न वदन्तीति च न शक्यं वक्तुम्, तत्त्वमस्यादिवाक्यावगतब्रह्मात्मभावानां वेदशिरसि वर्तमानतया दग्धा- खिलाधिकारत्वेन निषेधशास्त्रकिङ्करत्वाभावात्; अतिक्रान्तनिषेधैर्वा कैश्चिदुक्ताद्वाक्याच्छूद्रादेः ज्ञानमुत्पद्यत एव । न च वाच्यं-शुक्तिकादौ रजतादिभ्रमनिवृत्तिवत्पौरुषेयवाक्यजन्यतत्त्वज्ञानसमनन्तरं शूद्रस्य जगभ्रमो न निवर्तत इति; तत्त्वमस्यादिवाक्यश्रवणसमनन्तरं ब्राह्मणस्यापि जगभ्रमा- निवृत्तेः । निदिध्यासनेन द्वैतवासनायां निरस्तायामेव तत्त्वमस्यादिवाक्यं निवर्तकज्ञान- मुत्पादयतति चेत्, पौरुषेयमपि वाक्यं शूद्रादेस्तथैवेति न कश्चिद्विशेषः । निदिध्यासनं हि नाम ब्रह्मात्मभावाभिधायि वाक्यं यदर्थप्रतिपादनयोग्यम्, तदर्थभावना; सैव विपरीतवासनां १५६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । निवर्तयतीति दृष्टार्थत्वं निदिध्यासनविधे—षे। वेदानुवचनादीन्यपि विविदिषोत्पत्तावेवोप- युज्यन्त इति शूद्रस्यापि विविदिषायां जातायां पौरुषेयवाक्यानिदिध्यासनादिभिविपरीत- वासनायां निरस्तायां ज्ञानमुत्पत्स्यते; तेनैवापारमार्थिको बन्धो नितिष्यते ॥ अथवा तर्कानुगृहीतात्प्रत्यक्षादनुमानाच्च निविशेषस्वप्रकाशचिन्मात्रप्रत्यग्वस्तुन्य- ज्ञानसाक्षित्वं, तत्कृतविविधविचित्रज्ञातृज्ञेयविकल्परूपं कृत्स्नं जगच्चाध्यस्तमिति निश्चित्यैवं- भूतपरिशुद्धप्रत्यग्वस्तुन्यनवरतभावनया विपरीतवासनां निरस्य तदेव प्रत्यग्वस्तु साक्षात्कृत्य शूद्रादयोऽपि विमोक्ष्यन्त इति मिथ्याभूतविचित्रैश्वर्यविचित्रसृष्ट्याद्यलौकिकानन्तविशेषाव- लम्बिना वेदान्तवाक्येन न किञ्चित्प्रयोजनमिह दृश्यत इति शुद्रादीनामेव ब्रह्मविद्यायामधि- कारस्सुशोभनः । अनेनैव न्यायेन ब्राह्मणादीनामपि ब्रह्मवेदनसिद्ध रुपनिषच्च तपस्विनी दत्तजलाञ्जलिस्स्यात् ।। न च वाच्यं नैसर्गिकलोकव्यवहारे भ्राम्यतोऽस्य केनचिदयं लौकिकव्यवहारो भ्रमः, परमार्थस्वेवमिति समर्पिते सत्येव प्रत्यक्षानुमानवृत्तबुभुत्सा जायत इति तत्समर्पिका श्रुति- रप्यास्थेयेति; यतो भवभयभीतानां साङ्ख्यादय एव प्रत्यक्षानुमानाभ्यां वस्तुनिरूपणं कुर्वन्तः प्रत्यक्षानुमानवृत्तबुभुत्सां जनयन्ति; बुभुत्सायां च जातायां प्रत्यक्षानुमानाभ्यामेव विविक्त- स्वभावाभ्यां नित्यशुद्धस्वप्रकाशाद्वितीयकूटस्थचैतन्यमेव सत्, अन्यत्सर्वं तस्मिन्नध्यस्तमिति सुविवेचम् । एवंभूते स्वप्रकाशे वस्तुनि श्रुतिसमधिगम्यं विशेषान्तरं च नाभ्युपगम्यते; अध्यस्तातद्रूपनितिनी हि श्रु तिरपि त्वन्मते । न च सत आत्मान आनन्दरूपताज्ञानायोप- निषदास्थेया, चिद्रूपताया एव सकलेतरातद्रूपव्यावृत्ताया आनन्दरूपत्वात् ॥ यस्य तु मोक्षसाधनतया वेदान्तवाक्यविहितं ज्ञानमुपासनरूपम्, तच्च परब्रह्मभूत- परमपुरुषप्रीणनम्, तच्च शास्त्रकसमधिगम्यम्, उपासनशास्त्र चोपनयनादिसंस्कृताधीत- स्वाध्यायजनितं ज्ञानं विवेकविमोकादिसाधनानुगृहीतमेव स्वोपायतया स्वीकरोति, एवंरूपो- पासनप्रीतः पुरुषोत्तम उपासकं स्वाभाविकात्मयाथात्म्यज्ञानदानेन कर्मजनिताज्ञानं नाश- यन्बन्धान्मोचयतीति पक्षः; तस्य यथोक्तया नीत्या शूद्रादेरनधिकार उपपद्यते ॥ ३६ ॥ इति अपशूद्राधिकरणम् ॥ ८॥ अथ प्रमिताधिकरणशेषः ॥ ६॥ तदेवं प्रसक्तानुप्रसक्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्ग ठप्रमितस्य भूतभव्येशि- तृत्वावगतपरब्रह्मभावोत्तम्भनं हेत्वन्तरमाह- -- प्रथमाध्याये-तृतीयपादे-अर्थान्तरत्वः दिव्यपदेशाधिकरणम् । १५७ १०५. कम्पनात् ॥ १।३। ४० ॥ *अङ्ग ष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति *अङ्ग ष्ठमात्रः पुरुषोऽन्तरात्मा इत्यन- योर्वाक्ययोर्मध्ये *यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ इति कृत्स्नस्य जगतोऽग्निसूर्यादीनां चास्मिन्नङ्ग ष्ठमात्रे पुरुषे प्राणशब्द- निर्दिष्टे स्थितानां सर्वेषां ततो निस्सृतानां तस्मात्सञ्जातमहाभयनिमित्तम् एजनं-कम्पनं श्रूयते । तच्छासनातिवृत्तौ कि भविष्यतीति महतो भयावज्रादिवोद्यतात्कृत्स्नं जगत्कम्पत इत्यर्थः । *भयादस्याग्निस्तपतीत्यनेनैकार्थ्यात् *महद्भयं वज्रमुद्यतमिति पञ्चम्यर्थे प्रथमा । अयश्च परस्य ब्रह्मणस्वभावः *एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः *भीषाऽस्माद्वातः पवते, भीषोदेति सूर्यः, भीषाऽस्मादग्निश्चन्द्रश्च, मृत्युर्धावति पञ्चमः इति परस्य ब्रह्मणः पुरुषोत्तमस्यैवंविधश्वर्यावगतेः ॥ ४० ॥ इतश्चाङ्गष्ठप्रमितः पुरुषोत्तमः-- १०६. ज्योतिर्दर्शनात् ॥ १।३।४१ ।। तयोरेवाङ्ग ठप्रमितविषययोर्वाक्ययोर्मध्ये परब्रह्मासाधारणं सर्वतेजसां छादकं सर्व- तेजसा कारणभूतमनुग्राहकं चाङ्ग ठप्रमितस्य ज्योति श्यते-- *न तत्र सूर्यो भाति न चन्द्र- तारक नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ इति । अयमेव श्लोक आथर्वणे परं ब्रह्माधिकृत्य श्रूयते। परज्योतिष्ट्वं च सर्वत्र परस्य ब्रह्मणश्यू यते । यथा *परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते *तं देवा ज्योतिषां ज्योतिरायुहोपासतेऽमृतम् *अथ यदतः परो दिवो ज्योतिर्दीप्यते इत्यादिषु । अतोऽङ्ग ष्ठ- प्रमितः परं ब्रह्म ॥४१॥ इति प्रमिताधिकरणम् ।। ६ ।। अथ अर्थान्तरत्वादिव्यपदेशाधिकरणम् ।। १० ।। १०७. आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ १।३। ४२ ॥ छान्दोग्ये श्रूयते *आकाशो ह वै नामरूपयोनिर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा इति । तत्र संशयः-किमयमाकाशशब्दनिदिष्टो मुक्तात्मा, उत परमात्मेति । कि युक्तम् ? मुक्तात्मेति । कुतः ? *अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि ॥ इति मुक्तस्यानन्तरप्रकृतत्वात्, *ते यदन्तरा इति च नामरूपविनिर्मुक्तस्य तस्याभिधानात् । नामरूपयोनिर्वहिता इति च स ?

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । । 1 एव पूर्वावस्थयोपलिलक्षयिषितः; स एव हि देवादिरूपाणि नामानि च पूर्वमबिभृत। तस्यैव नामरूपविनिर्मुक्ता सांप्रतिक्यवस्था तद्ब्रह्म तदमृतमित्युच्यते । आकाशशब्दश्च तस्मिन्नप्य- सङ कुचितप्रकाशयोगादुपपद्यते। ननु दहरवाक्यशेषत्वादस्य स एव दहराकाशोऽयमिति प्रतीयते, तस्य च परमात्मत्वं निर्णीतम् । मैवम्, प्रजापतिवाक्यव्यवधानात् । प्रजापतिवाक्ये च प्रत्यगात्मनो मुक्त्यवस्थान्तं रूपमभिहितम् । अनन्तरं च विधूय पापमिति स एव मुक्तावस्थः प्रस्तुतः । अतोऽत्राकाशो मुक्तात्मा ॥ इति प्राप्त उच्यते-आकाशोऽर्थान्तरत्वादिव्यपदेशात् इति । आकाशः परं ब्रह्म; कुतः ? अर्थान्तरत्वादिव्यपदेशात् । अर्थान्तरत्वव्यपदेशस्तावत् *आकाशो ह वै नामरूप- योनिर्वहिता इति नामरूपयोनिर्वोढत्वं बद्धमुक्तोभयावस्थात्प्रत्यगात्मनोऽर्थान्तरत्वमाकाशस्यो- पपादयति । बद्धावस्थस्स्वयं कर्मवशानामरूपे भजमानो न नामरूपे निर्वोढुं शक्नुयात् मुक्तावस्थस्य जगद्व्यापारासंभवात् न नितरां नामरूपनिर्वोढत्वम्; ईश्वरस्य तु सकल- जगन्निर्माणधुरन्धरस्य नामरूपयोनिर्योढत्वं श्रुत्यैव प्रतिपन्नम् अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि *यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतब्रह्म नामरूपमन्नं च जायते *सर्वाणि रूपाणि विचित्य धोरो नामानि कृत्वाऽभिवदन्यदास्ते इत्यादिषु । अतो निर्वाह्यनामरूपात्प्रत्यगात्मनो नामरूपयोनिर्वोढाऽयमाकाशोऽर्थान्तरभूतः परमेव ब्रह्म । तदेवोपपादयति *ते यदन्तरा इति । यस्मादयमाकाशो नामरूपे अन्तरा-ताभ्यामस्पृष्टो- ऽर्थान्तरभूतः, तस्मात्तयोनिर्वोढा-अपहतपाप्मत्वात्सत्यसङ्कल्पत्वाच्च निर्वहितेत्यर्थः । आदि- शब्देन ब्रह्मत्वात्मत्वामृतत्वानि गृह्यन्ते । निरुपाधिकबृहत्त्वादयो हि परमात्मन एव संभवन्ति; तेनात्राकाशः परमेव ब्रह्म। यत्पुनरुक्तं धूत्वा शरीरमिति मुक्तोऽनन्तरप्रकृत इति, तन्न, *ब्रह्म- लोकमभिसंभवामीति परस्यैव ब्रह्मणोऽनन्तरप्रकृतत्वात् । यद्यप्यभिसंभवितुर्मुक्तस्याभिसंभाव्य- तया परं ब्रह्म निर्दिष्टस्, तथाप्यभिसंभवितुर्मुक्तस्यं नामरूपनिर्वोढत्वाद्यसंभवादभिसंभाव्यं परमेव ब्रह्म तत्र प्रत्येतव्यम् । किञ्च आकाशशब्देन प्रकृतस्य दहराकाशस्यात्र प्रत्यभिज्ञानात्, प्रजापतिवाक्यस्याप्युपासकस्वरूपकथनार्थत्वादुपास्य एव दहराकाशः प्राप्यतयेहोपसंहियत इति युक्तम् । आकाशशब्दश्च प्रत्यगात्मनि न कचिदृष्टचरः। अतोऽत्राकाशः परं ब्रह्म ॥४२॥ अथ स्यात्-प्रत्यगात्मनोऽर्थान्तरभूतमात्मान्तरमेव नास्ति, ऐक्योपदेशात्, द्वैतप्रतिषेधाच्च । शुद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परं ब्रह्म परमेश्वर इति च व्यपदिश्यते । अतः प्रकृतान्मुक्तात्मनोऽभिसंभवितुर्नार्थान्तरमभिसंभाव्यो ब्रह्मलोकः; अतो नामरूपयोनिर्वहिता आकाशोऽपि स एव भवितुमर्हतीति । अत उत्तरं पठति--: - प्रथमाध्याये-चतुर्थपादे-आनुमानिकाधिकरणम् । १५६ - १०८. सुषुप्त्युत्क्रान्त्यो देन ॥ १-३-४३ ॥ व्यपदेशादिति वर्तते, सुषुप्त्युत्क्रान्त्योः प्रत्यगात्मनोऽर्थान्तरत्वेन परमात्मनो व्यपदेशात् प्रत्यगात्मनोऽर्थान्तरभूतः परमात्माऽस्त्येव । तथाहि-वाजसनेयके *कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु इति प्रकृतस्य प्रत्यगात्मनस्सुषुप्त्यवस्थायामकिञ्चिज्ज्ञस्य सर्वज्ञेन परमात्मना परिष्वङ्ग आम्नायते- प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्य किञ्चन वेद नान्तरमिति तथोत्क्रान्तावपि प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन्यातीति । न च स्वपत उत्क्रामतो वाऽ- किञ्चिज्ज्ञस्य तदानीमेव स्वेनैव सर्वज्ञेन सता परिष्वङ्गान्वारोही संभवतः; न च क्षेत्रज्ञान्तरेण, तस्यापि सर्वज्ञत्वासंभवात् ॥ ४३ ॥ इतश्च प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मेत्याह- १०६. पत्यादिशब्देभ्यः ॥ १-३-४४ ॥ अयं परिष्वञ्जकः परमात्मा उत्तरत्र पत्यादिशब्दैर्व्यपदिश्यते-*सर्वस्याधिपतिः *सर्वस्य वशी सर्वस्येशानः,...स न साधुना कर्मणा भूयानो एवासाधुना कनीयान्, एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय । तमेतं वेदानु- वचनेन ब्राह्मणा विविदिषन्ति...एतमेव विदित्वा मुनिर्भवति, एतमेव प्रवाजिनो लोक- मिच्छन्तः प्रव्रजन्ति *स वा एष महानज आत्माऽन्नादो वसुदानः *अजरोऽमृतोऽभयो ब्रह्मेति । एते च पतित्वजगद्विधरणत्वसर्वेश्वरत्वादयः प्रत्यगात्मनि मुक्तावस्थेऽपि न कथञ्चि- संभवन्ति । अतो मुक्तात्मनोऽर्थान्तरभूतो नामरूपयोनिर्वहिता आकाशः । ऐक्योपदेशस्तु सर्वस्य चिदचिदात्मकस्य ब्रह्मकार्यत्वेन तदात्मकत्वायत्त इति *सर्व खल्विदं ब्रह्म तज्जलान् इत्यादिभिर्वाक्यैः प्रतिपाद्यत इति पूर्वमेव सथितम् । द्वैतप्रतिषेधश्च तत एवेत्यनवद्यम् ॥४४॥ इति अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥१०॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य तृतीयः पादः ॥३॥ श्रीरस्तु श्रीमते रामानुजाय नमः प्रथमाध्याये-चतुर्थः-पाद:-आनुमानिकाधिकरणम् ।।१।। ११०. आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त- गृहीतेर्दर्शयति च ॥ १-४-१॥ उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगज्जन्मादिकारणं ब्रह्माचिद्वस्तुनः प्रधानादेश्चेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं निरस्तसमस्तहेयगन्धं सर्वज्ञं सर्वशक्ति सत्य- सङ्कल्पं समस्तकल्याणगुणात्मकं सर्वान्तरात्मभूतं निरङ्कुशेश्वर्यमिति । इदानी कापिलतन्त्र- १६० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? सिद्धाब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्वप्रतिपादनच्छायानुसारीण्यपि कानिचिद्वाक्यानि कासुचिच्छाखासु सन्तीत्याशङ्कय ब्रह्म ककारणत्वस्थेम्ने तन्निराक्रियते ॥ कठवल्लीष्वाम्नायते *इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किश्चित्सा काष्ठा सा परा गतिः ॥ इति । तत्र सन्देहः-कि कापिलतन्त्रसिद्धमब्रह्मात्मकं प्रधानमिहा- व्यक्तशब्देनोच्यते, उत नेति । कि युक्तम् ? प्रधानमिति । कुतः ? *महतः परमव्यक्तमव्यक्ता- पुरुषः परः इति तन्त्रसिद्धतत्त्वप्रक्रियाप्रत्यभिज्ञानेन तस्यैव प्रतीतेः, *पुरुषानपरं किञ्चित्सा काष्ठा सा परा गतिः इति पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधाच्च । अतोऽव्यक्तं कारणमिति प्राप्तम् । तदिदमुक्तम्-आनुमानिकमप्येकेषामिति चेदिति । एकेषां शाखिनां शाखास्वानु- मानिकं प्रधानमपि कारणमाम्नायत इति चेत् ॥ अत्रोत्तरं-नेति । नाक्तशब्देनाब्रह्मात्मकं प्रधानमिहाभिधीयते । कुतः ? शरीर- रूपकविन्यस्तगृहीतेः-शरीराख्यरूपकविन्यस्तस्य अव्यक्तशब्देन गृहीतेः । आत्मशरीरबुद्धि- मनइन्द्रियविषयेषु रथिरथादिभावेन रूपितेषु रथरूपणेन विन्यस्तस्य शरीरस्यात्राव्यक्तशब्देन ग्रहणादित्यर्थः ॥ एतदुक्तं भवति-पूर्वत्र हि *आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाविषयांस्तेषु गोचरान् । इत्यादिना, *सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इत्यन्तेन संसाराध्वनः पारं वैष्णवं पदं प्रेप्सन्तमुपासकं रथित्वेन तच्छरीरादीनि च रथरथाङ्गत्वेन रूपयित्वा, यस्यैते रथादयो वशे तिष्ठन्ति, स एवाध्वनः पारं वैष्णवं पदमाप्नोतीत्युक्त्वा, तेषु रथादिरूपितशरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि, तान्युच्यन्ते *इन्द्रियेभ्यः पराः इत्यादिना। तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषयाः वशीकार्यत्वे पराः, वश्येन्द्रियस्यापि विषय- सन्निधाविन्द्रियाणां दुनिग्रहत्वात् । तेभ्योऽपि परं प्रग्रहरूपितं मनः, मनसि विषयप्रवणे विषयासन्निधानस्याप्यकिञ्चित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धिः परा, अध्यवसाया- भावे मनसोऽप्यकिञ्चित्करत्वात् । तस्या अपि रथित्वरूपित आत्मा कर्तृत्वेन प्राधान्यात्परः; सर्वस्य चास्यात्मेच्छायत्तत्वात्, आत्मैव महानिति च विशेष्यते । तस्मादपि रथरूपितं शरीरं परम्, तदायत्तत्वाज्जीवात्मनस्सकलपुरुषार्थसाधनप्रवृत्तीनाम् । तस्मादपि परस्सर्वान्तरात्म- भूतोऽन्तर्याम्यध्वनः पारभूतः परमपुरुषः; यथोक्तस्यात्मपर्यन्तस्य समस्तस्य तत्सङ्कल्पायत्त- प्रवृत्तित्वात् । स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तकः । अपरात्तु तच्छ तेरिति हि जीवा- स्मनः कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते । वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूतः परम- प्रथमाध्याये-तृतीयपादे - आनुमानिकाधिकरणम् ૧૬૧ प्राप्यश्च स एव । तदिदमुच्यते पुरुषान्न परं किश्चित्सा काष्ठा सा परा गतिरिति । तथा चान्तर्यामिब्राह्मणे, *य आत्मनि तिष्ठन्नित्यादिभिस्सर्वं साक्षात्कुर्वन्सर्वं नियभयतीत्युक्त्वा *नान्योऽतोऽस्ति द्रष्टति नियन्त्रन्तरं निषिध्यते ॥ भगवद्गीतासु च *अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ इति । दैव पत्र पुरुषोत्तम एव *सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं चेति वचनात् । तस्य च वशीकरणं तच्छरणागतिरेव । यथाह *ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ तमेव शरणं गच्छ इति । तदेवम् *आत्मानं रथिनं विद्धोत्यादिना रथ्यादिरूपक- विन्यस्ता इन्द्रियादयः इन्द्रियेभ्यः परा ह्यर्थाः इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते, न रथरूपितं शरीरमिति परिशेषात्तदव्यक्तशब्देनोच्यत इति निश्चीयते । अतः कापिलतन्त्र- सिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति । नचात्र तत्तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञा, *इन्द्रियेभ्यः परा ह्या इतीन्द्रियेभ्योऽर्थानां शब्दादीनां परत्वकीर्तनात् । नहि शब्दादय इन्द्रियाणां कारणभूतास्तद्दर्शने । *अर्थेभ्यश्च परं मनः इत्यपि न तत्तन्त्रसङ्गतम्, अकारणत्वादेव । तथा *बुद्धरात्मा महान्परः इत्यप्यसङ्गतम्, बुद्धिशब्देन महत्तत्त्वस्याभिधानाभ्युपगमात् । नहि महतो महान्परस्संभवति । महत आत्मशब्देन विशेषणं च न सङ्गच्छते । अतो रूपक- विन्यस्तानामेव ग्रहणम् ॥ दर्शयति च तदेव एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥ *यच्छेद्वाङ मनसी प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ इति अजितबाह्याभ्यन्तरकरणैरस्य परमपुरुषस्य दुर्दर्शत्वमभिधाय हयादिरूपितानामिन्द्रियादीनां वशीकारप्रकारोऽयमुच्यते । अयच्छे- द्वाङ मनसी-वाचं मनसि नियच्छेत्, वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थः । वाक्छब्दे द्वितीयायाः *सुपां सुजुक् इति लुक् । मनसोति सप्तम्याश्छान्दसो दीर्घः । तद्यच्छेत् ज्ञान आत्मनि-तन्मनो बुद्धौ नियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभि- धीयते । ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ । आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः । ज्ञानमात्मनि महति नियच्छेत्-बुद्धि कर्तरि महत्यात्मनि नियच्छेत् । तद्यच्छेच्छान्त आत्मनि-तं कर्तारं परस्मिन्ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत् । व्यत्ययेन तदिति नपुंसक- लिङ्गता । एवंभूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थः ॥ १ ॥ अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम् ? तत्राह- १११. सूक्ष्मं तु तदर्हत्वात् ॥ १।४।२॥ भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेष मापन्नं शरीरं भवति; तदव्याकृतमिह शरीरावस्थ- १६२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । मव्यक्तशब्देनोच्यते । तदर्हत्वात्-तस्याव्याकृतस्याचिद्वस्तुन एव विकारापन्नस्य रथवत्पुरु- पार्थसाधनप्रवृत्त्यर्हत्वात् ॥ २ ॥ यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते; कापिलतन्त्रसिद्धोपादाने कः प्रद्वेषः ? तत्रापि हि भूतकारणमेवाव्यक्तभित्युच्यते; तत्राह - ११२. तदधीनत्वादर्थवत् ॥ १।४ । ३ ।। परमकारणभूतपरमपुरुषाधीनत्वात्प्रयोजनवद्भूतसूक्ष्मम् । एतदुक्तं भवति-न वयम- व्यक्तं तत्परिणामविशेषांश्च स्वरूपेण नाभ्युपगच्छामः; अपि तु परमपुरुषशरीरतया तदात्म- कत्वविरहेण । तदात्मकत्वेनैव हि प्रकृत्यादयस्स्वप्रयोजनं साधयन्ति; अन्यथा स्वरूपस्थिति- प्रवृत्तिभेदास्तेषां न स्युः । तथाऽनभ्युपगमादेव तन्त्रसिद्धप्रक्रियानिरसनमिति । श्रुतिस्मृत्योहि जगदुत्पत्तिप्रलयवादेषु परमपुरुषमहिमवादेषु च प्रकृतिविकृतिपुरुषास्तदात्मकास्सङ्कीर्त्यन्ते; यथा *पृथिव्यप्सु प्रलीयते इत्यारभ्य *तन्मात्राणि भूतादौ लीयन्ते, भूतादिमहति लीयते, महानव्यक्त लोयते, अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते, तमः परे देव एकोभवति । तथा *यस्य पृथिवी शरीरं...यस्यापश्शरीरं...यस्य तेजश्शरीरं...यस्य वायुश्शरीरं...यस्या- काशश्शरीरं...यस्याहङ्कारश्शरीरं... यस्य बुद्धिश्शरीरं...यस्याव्यक्तं शरीरं...यस्याक्षरं शरीरं...यस्य मृत्युश्शरीरम्...एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । तथा *भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृति विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ मतः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ इति, *व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव चेति, *प्रकृतिर्या मयाऽऽख्याता व्यक्तात्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि । परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ इति च ॥ ३ ॥ ११३. ज्ञेयत्वावचनाच्च ॥१।४। ४ ॥ यदि तन्त्रसिद्धमिहाव्यक्तमविविक्षिष्यत्, तदाऽस्य ज्ञेयत्वमवक्ष्यत्; व्यक्ताव्यक्तज्ञ- विज्ञानात् मोक्ष भवद्भिस्तान्त्रिकैस्तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात् । न चास्य ज्ञेयत्वमुच्यते; अतो न तन्त्रसिद्धस्येह ग्रहणम् ॥ ४ ॥ ११४. वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ १।४ । ५ ॥ *अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं प्रथमाध्याये-चतुर्थपादे-आनुमानिकाधिकरणम् । १६३ ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ इत्यव्यक्तस्य ज्ञेयत्वमनन्तरमेव वदतीयं श्रुतिरिति चेत्, तन्नः प्राज्ञः-परमपुरुष एव ह्यत्र श्लोके निचाय्यत्वेन प्रतिपाद्यते *विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्न ति तद्विष्णोः परमं पदम् एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदशिभिः ॥ इति प्राज्ञस्यैव प्रकृतत्वात् । अत एव *पुरुषान्न परं किञ्चिदिति न पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधः । तस्य च परम- पुरुषस्याशब्दत्वादयो धर्माः यत्तदद्र श्यमग्राह्यमित्यादिश्रुतिप्रसिद्धाः । *महतः परमित्यपि *बुद्धरात्मा महान्परः इति पूर्वप्रकृताज्जीवात्मनः परत्वमेवोच्यते ॥५॥ ११५. त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ १-४-६ ॥ अस्मिन्प्रकरणे ह्य पायोपेयोपेतृणां त्रयाणमेव चैवमुपन्यासः- ज्ञेयत्वेनोपन्यासः, तद्विषयश्च प्रश्नो दृश्यते, नान्यस्याव्यक्तादेः। तथाहि-नचिकेता मुमुक्षुस्सन्मृत्यु (प्रत्ते) प्रदत्ते वरत्रये प्रथमेन वरेणात्मनः पुरुषार्थयोग्यतापादिनीमात्मनि पितुस्सुमनस्कतां प्रतिलभ्य द्वितीयेन वरेण मोक्षोपायभूतां नाचिकेताग्निविद्यां वव्र-*स त्वग्नि स्वर्ग्यमध्येषि मृत्यो प्रब्रू हि तं श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्ते एतद्वितीयेन वृणे वरेण ॥ इति । स्वर्गशब्देनात्र परमपुरुषार्थलक्षणो मोक्षोऽभिधीयते, *अमृतत्वं भजन्ते इति तत्रस्थस्य जनन- मरणाभावश्रवणादुत्तरत्र क्षयिफलकर्मनिन्दादर्शनाच्च; *त्रिणाचिकेतस्त्रिभिरेत्य सन्धि त्रिकर्म- कृत्तरति जन्ममृत्यू इति च प्रतिवचनात् । तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयस्वरूप- मुपेतृस्वरूपमुपायभूतकर्मानुगृहीतोपासनस्वरूपं च पृष्टम् - श्येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ इति ॥ एवं मोक्षे पृष्ट तदुपदेशयोग्यता परीक्ष्योपदिदेश----*तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठ पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति ॥ इति । तदेवं सामान्येनोपदिष्ट नचिकेताः प्रीतस्सन् *देवं मत्वा इत्युपास्यतया निर्दिष्टस्य प्राप्यभूतस्य देवस्य *अध्यात्मयोगाधिगमेन इति वेदितव्यतया निर्दिष्टस्य प्राप्तुः प्रत्यगात्मनश्च *मत्वा धीरो हर्षशोकौ जहाति इति निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरूपविशोधनाय पुनः पप्रच्छ- *अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताव्याच्च यत्तत्पश्यसि तद्वद ॥ इति । एवं सकलेनरातीतानागतवर्तमानसाध्यसाधनसाधकविलक्षणे ये पृष्ट प्रथमं प्रणवं प्रशस्य तद्वाच्यं प्राप्यस्वरूपं तदन्तर्गतं च प्राप्तृस्वरूपं वाचकरूपं चोपायं पुनरपि सामान्येन ख्यापयन्त्रणवं तावदुपदिदेश-*सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं सहेण ब्रवीम्योमित्येतत् ॥ इति । एवमुपदिश्य पुन- रपि प्रणवं प्रशस्य प्रथमं तावत्प्राप्तुः प्रत्यगात्मनस्स्वरूपमाह-*न जायते म्रियते वा १६४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । विपश्चित् इत्यादिना । प्राप्यस्य परस्य ब्रह्मणो विष्णोस्स्वरूप *अणोरणीयान् इत्यादिना *क इत्था वेद यत्र सः इत्यन्तेनोपदिशन्मध्ये *नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन इत्यादिनोपायभूतस्योपासनस्य भक्तिरूपतामप्याह । तं पिबन्ताविति चोपास्यस्योपासकेन सहावस्थानात्सूपासतामुक्त्वा *आत्मानं रथिनं विद्धि इत्यादिना *दुर्ग पथस्तत्कवयो वदन्ति इत्यन्तेनोपासनप्रकारमुपासीनस्य च वैष्णवपरमपदप्राप्तिमभिधाय *अशब्दमस्पर्शम् इत्यादिनोपसंहृतम् । अतस्त्रयाणामेवात्र ज्ञेयत्वेनोपन्यासः प्रश्नश्च; तस्मान्नेह तान्त्रिकस्याव्यक्तस्य ग्रहण ॥६॥ ११६. महद्वच्च ॥ १-४-७ ।। यथा बुद्धरात्मा महान्परः इत्यत्रात्मशब्दसामानाधिकरण्यान्न तन्त्रसिद्धं महत्तत्त्वं गृह्यते; एवमव्यक्तमप्यात्मनः परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम् ॥७॥ इति आनुमानिकाधिकरणम् ।।१।। अथ चमसाधिकरणम् ।।२।। ११७. चमसवदविशेषात् ॥ १-४-८ ॥ अत्रापि तन्त्रसिद्धप्रक्रिया निरस्यते, न ब्रह्मात्मकानां प्रकृतिमहदहङ्कारादीनां स्वरूपम्, श्रुतिस्मृतिभ्यां ब्रह्मात्मकानां तेषां प्रतिपादनात् । यथा आथर्वणिका अधीयते- विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थ च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी। सिताऽसिता च रक्ता च सर्वकामदुधा विभोः । पिबन्त्येनामविषमामविज्ञाताः कुमारकाः । एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम् ॥ ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसभं विभुः । सर्वसाधारणों दोग्ध्री पीड्यमानां तु यज्वभिः ॥ *चतुर्विंशतिसङ्खयातमव्यक्तं व्यक्तमुच्यते इति । अत्र प्रकृत्यादीनां स्वरूपमभिहितम् । यदात्मकाच ते प्रकृत्यादयः, स परमपुरुषोऽपि तं षड्विंश- कमित्याहुस्सप्तविंशमथापरे । पुरुषं निर्गुणं सायमथर्वशिरसो विदुः ॥ इति प्रतिपाद्यते । अपरे चाथर्वणिकाः *अष्टौ प्रकृतयष्षोडश विकाराः इत्यधीयते; श्वेताश्वतराश्च वं प्रकृतिपुरुष- श्वरस्वरूपमामनन्ति संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः। अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपा(शैः)पैः *ज्ञाज्ञौ द्वावजावीशनीशावजा ह्यका- भोक्तृभोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥ *क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूय- श्चान्ते विश्वमायानिवृत्तिः ॥ इति; तथा *छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा प्रथमाध्याये-चतुर्थपादे-चमसाधिकरणम् । १६५ - ? वदन्ति । अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सन्निरुद्धः । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्त सर्वमिदं जगत् ॥ इति; तथोत्तरत्रापि *प्रधानक्षेत्रलपतिगुणेशस्संसारमोक्षस्थितिबन्धहेतुः इति । स्मृतिरपि *प्रकृति पुरुषं चैव विद्धयनादी उभावपि । विकारांश्च गुणांश्च व विद्धि प्रकृतिसंभवान् ॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषस्सुखदुःखानां भोक्तृत्वे हेतु- रुच्यते ॥ पुरुषः प्रकृतिस्थोऽपि भुङ्क्ते प्रकृतिजान् गुणात् । कारणं गुणसङ्गोऽस्य सदसद्यो- निजन्मसु ॥ *सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिन- मव्ययम् ॥ तथा *सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।। प्रकृति स्वामवष्टभ्य विसृजामि पुन. पुनः । भूतग्राममिमं कृत्स्नम- वशं प्रकृतेर्वशात् ॥ *मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्धि परिवर्तते ॥ इति । तस्मादब्रह्मात्मकत्वेन कापिलतन्त्रसिद्धाः प्रकृत्यादयो निरस्यन्ते ।। श्वेताश्वतरोपनिषदि श्रूयते *अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजास्सृजमानां सरूपाः । अजो ह्य को जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ इति । तत्र सन्देहः- किमस्मिन्मन्त्रे केवला तन्त्रसिद्धा प्रकृतिरभिधीयते, उत ब्रह्मात्मिकेति । कि युक्तम् ? केव- लेति । कुतः ? *अजामेकामित्यस्याः प्रकृतेरकार्यत्वश्रवणात्, *बह्वीः प्रजास्सृजमानां सरूपाः इति स्वातन्त्र्येण सरूपाणां बह्वीनां प्रजानां स्रष्तृत्वश्रवणाच्च-इति ॥ एवं प्राप्तऽभिधीयते-चमसवदविशेषात् । न जायत इत्यजेत्यजात्वमात्रप्रतिपादना- तन्त्रसिद्धाब्रह्मात्मकाजाग्रहणे विशेषाप्रतीतेः; चमसवत्-यथा *अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः इत्यस्मिन्मन्त्रे चमसस्य भक्षणसाधनत्वमात्रं चमसशब्देन प्रतीयत इति न तावन्मात्रेण चमस- विशेषप्रतीतिः, यौगिकशब्दानामर्थप्रकरणादिभिविनाऽर्थविशेषनिश्चयायोगात् । तत्र *यथेदं तच्छिरः एष ह्याग्बिलश्चमस ऊर्ध्वबुध्नः इत्यादिना वाक्यशेषेण शिरसश्चमसत्वनिश्चयः । तथाऽत्राप्यर्थप्रकरणादिभिरेवाजा निर्णतव्या; नचात्र तन्त्रसिद्धाजाग्रहणहेतवोऽर्थप्रकरणादयो दृश्यन्ते; न चास्यास्स्वातन्त्र्येण स्रष्टत्वं प्रतीयते, *बह्वीः प्रजास्सृजमानामिति स्रष्टत्वमात्र- प्रतीतेः । अतोऽनेन मन्त्रेण नाब्रह्मात्मिकाजाऽभिधीयते ॥८॥ ब्रह्मात्मकाजाग्रहण एव विशेषहेतुरस्तीत्याह--- ११८. ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।। १-४-६ ॥ तुशब्दोऽवधारणार्थः; ज्योतिरुपक्रमैवैषाऽजा । ज्योतिः-ब्रह्म *तं देवा ज्योतिषां ज्योतिः *अथ यदतः परो दिवो ज्योतिर्दीप्यते इत्यादिश्रुतिप्रसिद्धः । ज्योतिरुपक्रमा-ब्रह्म- कारणिकेत्यर्थः । तथा ह्यधीयत एके-हीति हेतौ, यस्मादस्या अजाया ब्रह्मकारणकत्वमेके १६६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । + शाखिनः तैत्तिरीया अधीयते--अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः इति हृदयगुहायामुपास्यत्वेन सन्निहितं ब्रह्माभिधाय *सप्त प्राणाः प्रभवन्ति तस्मात् इत्यादिना सर्वेषां लोकानां ब्रह्मादीनां च तत उत्पत्तिमभिधाय सर्वकारणीभूताऽजा तत उत्पन्नाऽभिधीयते *अजामेकां लोहितशुक्लकृष्णां बह्रीं प्रजां जनयन्ती सरूपाम् । अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ इति । सर्वस्य तव्यतिरिक्तस्य वस्तुजातस्य तत उत्पत्त्या तदात्मकत्वोपदेशे प्रक्रियमाणेऽभिधीयमानत्वात्प्राणसमुद्रपर्वतादिवदेषाऽप्यजा बह्वीनां सरूपाणां प्रजानां स्रष्ट्री कर्मवश्येनात्मना भुज्यमाना अन्येन विदुषाऽऽत्मना त्यज्यमाना च ब्रह्मण उत्पन्ना ब्रह्मात्मिकाऽवगन्तव्येत्यर्थः । अतो वाक्यशेषाच्चमसविशेषवच्छाखान्तरीयादेतत्सरूपा- त्प्रत्यभिज्ञायमानार्थाद्वाक्यान्नियमिताऽजा ब्रह्मात्मिकेति निश्चीयते । इहापि प्रकरणोपक्रमे कि कारणं ब्रह्मत्यारभ्य *ते ध्यानयोगानुगता अपश्यन्देवात्मशक्ति स्वगुणैनिरूढाम्* इति परब्रह्मशक्तिरूपाया अजाया अवगतेः, उपरिष्टाच्च *अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सन्निरुद्धः *मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् श्यो (योनियोनि) योनिॉनि- मधितिष्ठत्येकः इति च तस्या एव प्रतीतेन स्मिन्मन्त्रे तन्त्रसिद्धस्वतन्त्रप्रकृतिप्रतिपत्तिगन्धः ॥ कथं तहि ज्योतिरुपक्रमाया लोहितशुक्लकृष्णरूपाया अस्याः प्रकृतेरजात्वम्, अजाया वा कथं ज्योतिरुपक्रमात्वमित्यत्राह- ११६. कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १-४-१०॥ प्रसक्ताशङ्कानिवृत्त्यर्थश्चशब्दः। अस्याः प्रकृतेरजात्वं ज्योतिरुपक्रमात्वं च विरुध्यते; कुतः ? कल्पनोपदेशात् । कल्पनं क्लप्तिः सृष्टिः; जगत्सृष्टय पदेशादित्यर्थः । यथा *सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति कल्पनं सृष्टिः । अत्रापि *अस्मान्मायो सृजते विश्वमेतत् इति जगत्सृष्टिरुपदिश्यते । स्वेनाविभक्तादस्मात्सूक्ष्मावस्थात्कारणान्मायो सर्वेश्वर- स्सर्व जगत्सृजतीत्यर्थः । अनेन कल्पनोपदेशेनास्याः प्रकृतेः कार्यकारणरूपेणावस्थाद्वयान्वयो- ऽवगम्यते । सा हि प्रलयवेलायां ब्रह्मतापन्ना अविभक्तनामरूपा सूक्ष्मरूपेणावतिष्ठते; सृष्टि- वेलायां तूझंतसत्त्वादिगुणाविभक्तनामरूपाऽव्यक्तादिशब्दवाच्या तेजोबन्नादिरूपेण च परिणता लोहितशुक्लकृष्णाकारा चावतिष्ठते । अतः कारणावस्थाऽजा, कार्यावस्था ज्योतिरुपक्रमेति न विरोधः । मध्वादिवत्-यथेश्वरेणादित्यस्य कारणावस्थायामेकस्यैवावस्थितस्य कार्यावस्था- यामृग्यजुस्सामाथर्वप्रतिपाद्यकर्मनिष्पाद्यरसाश्रयतया वस्वादिदेवताभोग्यत्वाय मधुत्वकल्पन मुदयास्तमयकल्पनं च न विरुध्यते । तदुक्तं मधुविद्याया *असौ वा आदित्यो देवमधु इत्या- रभ्य अथ तत ऊर्ध्व उदेत्य नवोदेता नास्तमेतैकल एव मध्ये स्थाता इत्यन्तेन । एकल:- एकस्वभावः । अतोऽनेन मन्त्रेण ब्रह्मात्मिकाऽजैवाभिधीयते, न कापिलतन्त्रसिद्धति सिद्धम् ॥ न ?

प्रथमाध्याये-चतुर्थपादे-संख्योपसंग्रहाधिकरणम् १६७ अन्ये त्वस्मिन्मन्त्रे तेजोबन्नलक्षणाऽजकाभिधीयत इति ब्रुवते । ते प्रष्टव्याः-कि तेजोबन्नान्येव तेजोबन्नात्मिकाऽजैका ? उत तेजोबनरूपं ब्रह्मैव ? किं वा तेजोबन्नकारणभूता काचित् ? इति । प्रथमे कल्पे तेजोबन्नानामनेकत्वात् *अजामेकामिति विरुध्यते। न च वाच्यं तेजोबन्नानामनेकत्वेऽपि त्रिवृत्करणेनैकतापत्तिरिति । त्रिवृत्करणेऽपि बहुत्वानपगमात्, *इमास्तिस्रो देवताः *तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इति प्रत्येकं त्रिवृत्करणोपदेशात् । द्वितीयः कल्पो विकल्प्य. -कि तेजोबन्न रूपेण विकृतं ब्रह्मवाजैका ? किंवा स्वरूपेणाव- स्थितिमविकृतमिति । प्रथमः कल्पो बहुत्वानपायादेव निरस्तः द्वितीयेऽपि *लोहितशुक्ल- कृष्णामिति विरुध्यते । स्वरूपेणावस्थितं ब्रह्म तेजोबन्नलक्षणमिति वक्तुमपि न शक्यते । तृतीये कल्पेऽप्यजाशब्देन तेजोबन्नानि निर्दिश्य तैस्तत्कारणावस्थोपस्थापनीयेत्यास्थेयम् । ततो वरमजाशब्देन तेजोबन्नकारणावस्थायाः श्रुतिसिद्धाया एवाभिधानम् ॥ यत्पुनरत्याः प्रकृतेरजाशब्देन च्छागत्वपरिकल्पनमुपदिश्यत इति; तदप्यसङ्गतम्, निष्प्रयोजनत्वात् । यथा *आत्मानं रथिनं विद्धि इत्यादिषु ब्रह्मप्राप्त्युपायताख्यापनाय शरीरादिषु रथादिरूपणं क्रियते; यथा चादित्ये वस्वादीनां भोग्यत्वख्यापनाय मधुत्वकल्पनं क्रियते; तद्वदस्यां प्रकृतौ च्छागत्वपरिकल्पनं कोपयुज्यते ? न केवलमुपयोगाभाव एव, विरोधश्च; कृत्स्नजगत्कारणभूतायाः स्वस्मिन्ननादिकालसंबद्धानां सर्वेषामेव चेतनानां निखिल- सुखदुःखोपभोगापवर्गसाधनभूतायाः अचेतनायाः अत्यल्पप्रजासर्गकरागन्तुकसङ्गमचेतन- विशेषकरूपात्यल्पप्रयोजनसाधनस्वपरित्यागाहेतुभूतस्वसंबन्धिपरित्यागसमर्थचेतनविशेषरूप- च्छागस्वभावख्यापनाय तद्र पत्वकल्पनं विरुद्धमेव । *अजामेकाम् *अजो ह्येकः *अजोऽन्यः इत्यत्राजशब्दस्य विरूपार्थपरिकल्पनं च न शोभनम् । सर्वत्र च्छागत्वं परिकल्प्यत इति चेत्, *जहात्येनां भुक्तभोगामजोऽन्यः इति विदुष आत्यन्तिकप्रकृतिपरित्यागं कुर्वतोऽनेन वाऽन्येनवा पुनरपि संबन्धयोग्यच्छागत्वपरिकल्पनमत्यन्तविरुद्धम् ॥ १० ॥ इति चमसाधिकरणम् ।। २ ।। अथ संख्योपसंग्रहाधिकरणम् ।। ३ ।। १२०. न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ १।४ । ११ ।। वाजसनेयिनस्समामनन्ति *यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेवमन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ इति । किमयं मन्त्रः कापिलतन्त्रसिद्धतत्त्वप्रतिपादनपरः, उत नेति संदिह्यते । किं युक्तम् ? तन्त्रसिद्धतत्त्वप्रतिपादनपर इति । कुतः ? पञ्चशब्दविशेषि- तात्पञ्चजनशब्दात्पञ्चविंशतितत्त्वप्रतीतेः । एतदुक्तं भवति *पञ्चजना इति समासस्समाहार- विषयः । पञ्चानां जनानां समूहाः पञ्चजनाः; पञ्चपूल्य इतिवत् । पञ्चजना इति लिङ्गव्यत्य- ? ?

१६८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । यश्छान्दसः । ते च समूहाः कतीत्यपेक्षायां पञ्चजनशब्दविशेषणेन प्रथमेन पञ्चशब्देन सहाः पञ्चेति प्रतीयन्ते; यथा पञ्च पञ्चपूल्य इति । अतः *पञ्च पञ्चजनाः इति पञ्चविंशतिपदार्था- वगतौ ते कतम इत्यपेक्षायां मोक्षाधिकारात् मुमुक्षुभिः ज्ञातव्यतया स्मृतिप्रसिद्धाः प्रकृत्यादय एव ज्ञायन्ते । *मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति हि कापिलानां प्रसिद्धिः । अतस्तन्त्रसिद्धतत्त्व- प्रतिपादनपरः ॥ इति प्राप्त प्रचक्ष्महे-न सङ्घयोपसङ ग्रहादपीति । *पञ्च पञ्चजनाः इति पञ्च- विंशतिसङ्घयोपसङ ग्रहादपि न तन्त्रसिद्धतत्त्वप्रतीतिः। कुतः ? नानाभावात्-~-एषां पञ्च- सङ्घयाविशेषितानां पञ्चजनानां तन्त्रसिद्धेभ्यस्तत्त्वेभ्यः पृथग्भावात् । श्यस्मिन् पञ्च पश्चजना आकाशश्च प्रतिष्ठितः इत्येतेषां यच्छन्दनिदिष्टब्रह्माश्रयतया ब्रह्मात्मकत्वं हि प्रतीयते, *तमेव मन्य प्रात्मानं विद्वान्ब्रह्मामृतोऽमृतम् इत्यत्र तमिति परामर्शेन यच्छब्दनिर्दिष्ट ब्रह्मेत्यव- गम्यते । अतस्तेभ्यः पृथग्भूताः पञ्चजना इति न तन्त्रसिद्धा एते । अतिरेकाच्च-तन्त्रसिद्धेभ्य- स्तत्त्वेभ्योऽत्र तत्त्वातिरेकोऽपि भवति; यच्छन्दनिर्दिष्ट आत्मा अाकाशश्चात्रातिरिच्यते । अतः *तं षड्विंशकमित्याहुस्सप्तविंशमथापरे इति श्रुतिप्रसिद्धसर्वतत्त्वाश्रयभूतस्सर्वेश्वरः परम- पुरुषोऽत्राभिधीयते । न सङ्घयोपसङ ग्रहादपीत्यपिशब्दस्य *पञ्च पञ्चजनाः इत्यत्र पञ्चविंशति- तत्त्वप्रतिपत्तिरेव न संभवतीत्यभिप्रायः । कथम् ? पञ्चभिरारब्धसमूहपञ्चकासंभवात् । नहि तन्त्रसिद्धतत्त्वेषु पञ्चसु पश्चस्वनुगतं तत्सङ्घयानिवेशनिमित्तं जात्याद्यस्ति । नच वाच्यं- पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि, पञ्च महाभूतानि, पञ्च तन्मात्राणि, अवशिष्टानि पञ्चेत्यवान्तरसङ्घयानिवेशनिमित्तमस्त्येवेति; आकाशस्य पृथनिर्देशेन, पञ्चभिरारब्ध- महाभूतसमूहासिद्धेः। अतः * पञ्चजनाः इत्ययं समासो न समाहारविषयः; अयं तु *दिक्सङ्घय संज्ञायामिति संज्ञाविषयः; अन्यथा पञ्चजना इति लिङ्गव्यत्ययश्च । पञ्चजना नाम केचित्सन्ति; तेच पञ्चसङ्घयया विशेष्यन्ते, पञ्च पञ्चजनाः इति; सप्त सप्तर्षय इतिवत् ॥ ११ ॥ के पुनस्ते पञ्चजनाः इत्यत आह - १२१. प्राणादयो वाक्यशेषात् ॥ १।४ । १२ ।। *प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्य श्रोत्रमन्नस्यान्न मनसो ये मनो विदुः इति वाक्यशेषाद्ब्रह्माश्रयाः प्राणादय एव पञ्च पञ्चजनाः इति विज्ञायन्ते ॥ १२ ॥ अथ स्यात्-काण्वानां माध्यन्दिनानां च श्यस्मिन् पञ्च पञ्चजनाः इत्ययं मन्त्र- प्रथमाध्याये-चतुर्थपादे-कारणत्वाधिकरणम् । १६६ स्समानः; *प्राणस्य प्राणम् इत्यादिवाक्यशेषे काण्वानामन्नस्य पाठो न विद्यते; तेषां पञ्च पञ्चजनाः प्राणादय इति न शक्यं वक्तुमिति; अत्रोत्तरम्- १२२. ज्योतिषकेषामसत्यन्ने ॥ १।४ । १३ ।। एकेषां-काण्वानां पाठे असत्यन्ने ज्योतिषा पञ्चजनाः इन्द्रियाणोति ज्ञायन्ते; तेषां वाक्यशेषः प्रदर्शनार्थः । एतदुक्त भवति-यस्मिन् पञ्च पञ्चजनाः इत्यस्मात्पूर्वस्मिन्मन्त्रे *तं देवा ज्योतिषां ज्योतिरायुपासतेऽमृतम् इति ज्योतिषां ज्योतिष्टुन ब्रह्मण्यभिधीयमाने ब्रह्माधीनस्वकार्याणि कानिचिज्ज्योतींषि प्रतिपन्नानि; तानि च विषयाणां प्रकाशकानीन्द्रिया- णोति श्यस्मिन् पञ्च पञ्चजनाः इत्यनिर्धारितविशेषनिर्देशेनावगम्यते इति । प्राणस्येति प्राणशब्देन स्पर्शनेन्द्रियं गृह्यते, वायुसंबन्धित्वात्स्पर्शनेन्द्रियस्य; मुख्यप्राणस्य ज्योतिशब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियम्, श्रोत्रस्येति श्रोत्रेन्द्रियम्, अन्नस्येति घ्राणरसन- योस्तन्त्रेणोपादानम्, अन्नशब्दोदितपृथिवीसंबन्धित्वात् घ्राणेन्द्रियमनेन गृह्यते; अद्यतेऽनेनेत्यन्न- मिति रसनेन्द्रियमपि गृह्यते । मनस इति मनः । प्राणरसनयोस्तन्त्रेणोपादानमिति पञ्चत्व- मप्यविरुद्धम् । प्रकाशकानि मनः पर्यन्तानीन्द्रियाणि पञ्चजनशब्दनिर्दिष्टानि; तदविरोधाय घ्राणरसनयोस्तन्त्रेणोपादानम् । तदेवम् यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः इति पञ्चजनशब्दनिर्दिष्टानीन्द्रियाण्याकाशशब्दप्रदर्शितानि महाभूतानि च ब्रह्मणि प्रतिष्ठि- तानीति सर्वतत्वानां ब्रह्माश्रयत्वप्रतिपादनान्न तन्त्रसिद्धपञ्चविंशतितत्त्वप्रसङ्गः। अतस्सर्वत्र वेदान्ते सङ्ख्योपसङ्घहे तदभावे वा न कापिलतन्त्रसिद्धतत्त्वप्रतीतिरिति सिद्धम् ॥ १३ ॥ इति सङ्ख्योपसङ ग्रहाधिकरणम् ।। ३ ।। अथ कारणत्वाधिकरणम् ।। ४ ।। १२३. कारणत्वेन चाकाशादिषु ययाव्यपदिष्टोक्तः ॥ १।४ । १४ ॥ पुनः प्रधानकारणवादी प्रत्यवतिष्ठतेन वेदान्तेष्वेकस्मात्सृष्टिराम्नायत इति जगतो ब्रह्मककारणत्वं न युज्यते वक्तुम् । तथाहि *सदेव सोम्येदमग्र आसीदिति सत्पूर्विका सृष्टि- राम्नायते; *असद्वा इदमग्र आसोदित्यसत्पूर्विका च; अन्यत्र *असदेवेदमग्र असीत्तत्सदा- सीत्तत्समभवदिति च । अतो वेदान्तेषु स्रष्टुरव्यवस्थितेः जगतो ब्रह्मैककारणत्वं न निश्चतु शक्यम्; प्रत्युत प्रधानकारणत्वमेव निश्चेतुं शक्यते, *तद्धेदं तमुव्याकृतमासीदित्यव्याकृते प्रधाने जगतः प्रलयमभिधाय *तन्न मरूपाभ्यामेव व्याक्रियतेत्यव्याकृतादेव जगतस्सृष्टिश्चाभि- धीयते । अव्याकृतं शव्यक्तम्, नामरूपाभ्यां न व्याक्रियते-न व्यज्यत इत्यर्थः। अव्यक्त श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । प्रधानमेव । अस्य च स्वरूपनित्यत्वेन परिणामाश्रयत्वेन च जगत्कारणवादिवाक्यगतौ सदसच्छब्दौ ब्रह्मणीवास्मिन्न विरोत्स्येते । एवमव्याकृतकारणत्वे निश्चिते सतीक्षणादयः कारणगतास्सृष्टचौन्मुख्याभिप्रायेण योजयितव्याः। ब्रह्मात्मशब्दावपि बृहत्त्वव्यापित्वाभ्यां प्रधान एव वर्तेते । अतः स्मृतिन्यायप्रसिद्धं प्रधानमेव जगत्कारणं वेदान्तवाक्यैः प्रतिपाद्यते ॥ इति प्राप्त प्रचक्ष्महे-कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तः। चशब्दस्तुशब्दार्थे; सर्वज्ञात्सर्वेश्वरात्सत्यसङ्कल्पानिरस्त निखिलदोषगन्धात्परस्माद्ब्रह्मण एव जगदुत्पद्यत इति निश्चेतुं शक्यते । कुतः ? आकाशादिषु कारणत्वेन यथाव्यपदिष्टस्योक्त:-सर्वज्ञत्वादि- विशिष्टत्वेन जन्माद्यस्य यतः इत्येवमादिषु प्रतिपादितं ब्रह्म यथाव्यपदिष्टमित्युच्यते, तस्यै- कस्यैवाकाशादिषु कारणत्वेनोक्तः *तस्मादा एस्मादात्मन आकाशस्संभूतः *तत्तेजोऽसृज- तेत्यादिषु सर्वज्ञं ब्रह्म व कारणत्वेनोच्यते । तथाहि *सत्यं ज्ञानमनन्तं ब्रह्म *सोऽश्नुते सर्वान्कामान्त्सह ब्रह्मणा विपश्चिता इति प्रकृतं विपश्चिदेव ब्रह्म *तस्माद्वा एतस्मादिति परामृश्यते। तथा *तदैक्षत बहु स्यामिति निर्दिष्ट सर्वशं ब्रह्मव *तत्तेजोऽसृजतेति परा- मृश्यते । एवं सर्वत्र सृष्टिवाक्येषु द्रष्टव्यम् । अतो ब्रह्म ककारणं जगदिति निश्चीयते ॥ १४ ॥ ननु *असद्वा इदमग्र आसीदित्यसदेव कारणत्वेन व्यपदिश्यते; तत्कथमिव सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मण एव कारणत्वं निश्चीयत इत्यत आह- १२४. समाकर्षात् ॥ १।४ । १५॥ *असद्वा इदमग्र असीदित्यत्रापि विपश्चिदानन्दमयं सत्यसङ्कल्पं ब्रह्म व समाकृष्यते । कथम् ? *तस्माद्वा एतस्माद्विज्ञानमयात्, अन्योऽन्तर आत्माऽनन्दमयः सोऽकामयत, बहु स्यां प्रजायेयेति...इदं सर्वमसृजत, यदिदं किंच, तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत् इत्यादिना ब्राह्मणेनानन्दमयं ब्रह्म सत्यसङ्कल्पं सर्वस्य स्रष्ट सर्वानुप्रवेशेन सर्वात्मभूतमभिधाय *तदप्येष श्लोको भवतीत्युक्तस्यार्थस्य सर्वस्य साक्षित्वेनोदाहृतोऽयं श्लोकः *असद्वा इदमग्न आसोदिति । तथोत्तरत्र *भीषाऽस्माद्वातः पवते इत्यादिना तदेव ब्रह्म समाकृष्य सर्वस्य प्रशासितृत्वनिरतिशयानन्दत्वादयोऽभिधीयन्ते। अतोऽयं मन्त्रस्तद्विषय एव । तदानीं नामरूपविभागाभावेन तत्संबन्धितयाऽस्तित्वाभावाद्ब्रह्म वासच्छब्देनोच्यते । *असदेवेदमन आसीदित्यत्राप्ययमेव निर्वाहः । यदुक्तं *तद्धेदं तमुव्याकृतमासीदिति प्रधान- मेव जगत्कारणत्वेनाभिधीयत इति नेत्युच्यते, तत्राप्यव्याकृतशब्देनाव्याकृतशरीरं ब्रह्म वा- भिधीयते; *स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मन आत्मे- त्येवोपासीत* इत्यत्र, स एषः इति तच्छब्देनाव्याकृतशब्दनिर्दिष्टस्यान्तः प्रविश्य प्रशासितृ- त्वेनानुकर्षात्, *तत्सृष्ट्वा, तदेवानुप्राविशत् *अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे . ?

प्रथमाध्याये-चतुर्थपादे-जगद्वाचित्वाधिकरणम् । १७१ व्याकरवाणीति स्रष्टुस्सर्वज्ञस्य परस्य ब्रह्मणः कार्यानुप्रवेशनामरूपव्याकरणप्रसिद्धेश्च । *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मेति नियमनार्थत्वादनुप्रवेशस्य प्रधानस्याचेतनस्यैवं- रूपोऽनुप्रवेशो न संभवति । अतः अव्याकृतम् --अव्याकृतशरीरं ब्रह्म *तन्नामरूपाभ्यां व्याक्रियतेति तदेवाविभक्तनामरूपं ब्रह्म सर्वज्ञं सत्यसङ्कल्पं स्वेनैव विभक्तनामरूपं स्वयमेव व्याक्रियतेत्युच्यते । एवं च सतीक्षणादयो मुख्या एव भवन्ति । ब्रह्मात्मशब्दावपि निरति- शयबृहत्त्वनियमनार्थव्यापित्वाभावेन प्रधाने न कथंचिदुपपद्यते । अतो ब्रह्म ककारणं जगदिति स्थितम् ॥१५॥ इति कारणत्वाधिकरणम् ।।४।। अथ जगद्वाचित्वाधिकरणम् ।।५।। . १२५. जगद्वाचित्वात् ।। १-४-१६ ॥ पुनरपि साङ्ख्यः प्रत्यवतिष्ठते-यद्यपि वेदान्तवाक्यानि चेतनं जगत्कारणत्वेन प्रति- पादयन्ति; तथापि तन्त्रसिद्धप्रधानपुरुषातिरिक्तं वस्तु जगत्कारणं वेद्य तया न तेभ्यः प्रतीयते । तथाहि-भोक्तारमेव पुरुषं कारणं वेद्यतयाऽधीयते कौषीतकिनो बालाक्यजातशत्रुसंवादे *ब्रह्म ते ब्रवाणि इत्युपक्रम्य यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य (च) वैतत्कर्म स वै वेदितव्यः इति । उपक्रमे वक्तव्यतया बालाकिनोपक्षिप्त ब्रह्माजानते तस्मा एवाजातशत्रुणा *स वै वेदितव्यः इति ब्रह्मोपदिश्यते । *यस्य वैतत्कर्मेति कर्मसंबन्धात्प्रकृत्यध्यक्षो भोक्ता पुरुषो वेदितव्यतयोपदिष्टं ब्रह्मति निश्चीयते, नार्थान्तरम्, तस्य कर्मसंबन्धानभ्युपगमात् । कर्मच पुण्यापुण्यलक्षणं क्षेत्रज्ञस्यैव संभवति । नच वाच्यम्, क्रियत इति कर्मेति व्युत्पत्त्या प्रत्यक्षादिप्रमाणोपस्थापितं जगदेतत्कर्मेति निर्दिश्यते, यस्यैतत्कृत्स्नं जगत्कर्म, स वेदितव्य इति क्षेत्रज्ञादर्थान्तरमेव प्रतीयते इति; *यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्मेति पृथनिर्देशवैयर्थ्यात्, कर्मशब्दस्य च लोकवेदयोः पुण्यपापरूप एव कर्मणि प्रसिद्धेः; तत्तभोक्त - कर्मनिमित्तत्वाज्जगदुत्पत्तेरेतेषां पुरुषाणां कर्तेति च भोक्तुरेवोपपद्यते । तदयमर्थः-एतेषामा- दित्यमण्डलायधिकरणानां क्षेत्रज्ञभोग्यभोगोपकरणभूतानां पुरुषाणां यः कारणभूतः, एतत्कारणभावहेतुभूतं पुण्यापुण्यलक्षणं च कर्म यस्य, स वै वेदितव्यः-तत्स्वरूपं प्रकृते- विविक्तं वेदितव्यम्-इति । तथोत्तरत्र *तौ ह सुप्त पुरुषमीयतुः...तं यष्टया चिक्षेपेति सुप्त- पुरुषागमनयष्टिघातोत्थापनादीनि च भोक्त प्रतिपादन एव लिङ्गानि । तथोपरिष्टादपि भोक्तव प्रतिपाद्यते तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाश्श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्म- भिर्भुङ्क्ते एवमेवैत आत्मान एनं भुञ्जन्ति इति । तथा *क्वैष एतद्वालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात् *इति पृष्टमर्थमजानते तस्मै स्वयमेवाजातशत्रुरुवाच अहिता नाम १७२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । हृदयस्य नाड्यः...तासु तदा भवति यदा सुप्तस्स्वप्नं न कथंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिस्सहाप्येति मनस्सर्वैर्ध्यानस्सहाप्येति स यदा प्रतिबुध्यते यथाग्ने- ज्वलतस्सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठ रन्ने वमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः इति । सुषुप्त्याधारतया स्वप्नसुषुप्ति जागरितावस्थासु वर्तमानं वागादिकरणाप्ययोद्गमस्थानमेव जीवात्मानम् *अथास्मिन् प्राण एवैकधा भवति इत्युक्त- वात् । अस्मिन् जीवात्मनि प्राणभृत्त्वनिबन्धनोऽयं प्राणशब्दः; *स यदा प्रतिबुध्यते इति प्राणशब्दनिर्दिष्टस्य प्रबोधश्रवणात्; मुख्यप्राणस्येश्वरस्य च सुषुप्तिप्रबोधयोरसंभवात् । अथवा *अस्मिन्प्राणे इति व्यधिकरणे सप्तम्यौ; अस्मिन्नात्मनि वर्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इति । प्राणशब्दस्य मुख्यत्राणपरत्वेऽपि जीव एवास्मिन्प्रकरणे प्रतिपाद्यते, स्वतः प्राणस्य जीवोपकरणत्वात् । अतो वक्तव्यतयोपक्रान्तं ब्रह्म पुरुष एवेति तब्यतिरिक्त - वरासिद्धिः । कारणगताश्च क्षणादयश्च तनधर्मा अस्मिन्न वोपपद्यन्त इत्येतदधिष्ठितं प्रधानमेव जगत्कारण ॥ इति प्राप्ते प्रचक्ष्महे जगद्वाचित्वात् । अत्र पुण्यापुण्यपरवशः क्षुद्रः क्षेत्रज्ञस्स्वस्मिन् प्रकृतिधर्माध्यासेन तत्परिणामहेतुभूतः पुरुषो नाभिधीयते; अपितु निरस्तसमस्ताविद्यादि- दोषगन्धोऽनवधिकातिशयासङ्घय यकल्याणगुणगणनिधिनिखिलजगदेककारणभूतः पुरुषोत्तमोऽ- भिधीयते । कुतः ? यस्य वैतत्कर्मेत्यत्रैतच्छन्दान्वितस्य कर्मशब्दस्य परमपुरुषकार्यभूत- जगद्वाचित्वात् । एतच्छब्दो ह्यर्थप्रकरणादिभिरसक चितवृत्तिरविशेषेण प्रत्यक्षादिप्रमाणो- पस्थापितनिखिलचिदचिन्मिश्रजगद्विषयः । नच पुण्यापुण्यलक्षणं कर्मात्र कर्मशब्दाभिधेयम्, *ब्रह्म ते ब्रवाणीत्युपक्रम्य ब्रह्मत्वेन बालाकिना निर्दिष्टानामादित्यमण्डलाद्यधिकरणानां पुरुषाणामब्रह्मत्वेन *मृष्ण वै खलु मा संवादयिष्ठाः इति तमब्रह्मवादिनमपोद्य तेनाविदित- ब्रह्मज्ञानायाजातशत्रुरणेदं वाक्यमवतारितं श्यो वै बालाके इत्यादि । पुण्यापुण्यलक्षणकर्म- संबन्धिन आदित्यायधिकरणास्तत्सजातीयाश्च पुरुषास्तेनैव विदिता इति तदविदितपुरुष- विशेषज्ञापनपरोऽयं कर्मशब्दो न पुण्यापुण्यमात्रवाची; क्रियामात्रवाची वा; अपि तु कृत्स्नस्य जगतः कार्यत्ववाची । एवमेव खल्वविदितोऽर्थ उपदिष्टो भवति । पुरुषस्य कर्मसंबन्धोप- लक्षितस्वाभाविकस्वरूपस्याज्ञातस्य वेदितव्यत्वोपदेशे च लक्षणा; कर्मसंबन्धमात्रस्यैव वेदि- तव्यस्वरूपलक्षणत्वाद्यस्य कर्म स वेदितव्य इत्येतावतैव तत्सिद्धेः, *यस्य वैतत्कर्मेत्येतच्छब्द- वैयर्थ्य च । *य एतेषां कर्ता यस्य वैतत्कर्मेति पृथनिर्देशस्य चायमभिप्रायः-ये त्वया ब्रह्मत्वेन निर्दिष्टाः पुरुषाः, तेषां यः कर्ता, ते यत्कार्यभूताः, किं विशिष्याभिधीयते, कृत्स्नं जगद्यस्य कार्यम्, उत्कृष्टा अपकृष्टाश्चेतना अचेतनारच सर्वे पदार्था यत्कार्यत्वे तुल्याः, स परमकारणभूतः पुरुषोत्तमो वेदितव्यः-इति । जगदुत्पत्तेर्जीवकर्मनिबन्धनत्वेऽपि न जोवस्स्व- प्रथमाध्याये-चतुर्थपादे----जगद्वाचित्वाधिकरणम् । १७३ भोग्यभोगोपकरणादेस्स्वयमुत्पादकः, अपि तु स्वकर्मानुगुण्येने घरसृष्टं सर्व भुङ्क्ते; अतो न तस्य पुरुषान्प्रति कर्तृत्वमुपपद्यते । अतस्सर्ववेदान्तेषु परमकारणतया प्रसिद्ध परं ब्रह्म वात्र वेदितव्यतयोपदिश्यते ॥१६॥ १२६. जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्वयाख्यातम् ॥ १-४-१७ ॥ अथ यदुक्तम्, जीवलिङ्गान्मुख्यप्राणसङ्कीर्तनाच्च लिङ्गाझोक्तवास्मिन्प्रकरणे प्रति पाद्यते, न परमात्मेति; तव्याख्यातम् तस्य निर्वाहः प्रतर्दनविद्यायामभिहितः। एतदुक्तं भवति-यत्रोपक्रमोपसंहारपर्यालोचनया ब्रह्मपरं वाक्यमिति निश्चितम्, तत्रान्यलिङ्गानि तदनुरोधेन वर्णनीयानीति तत्र प्रतिपादितम् । अत्राप्युपक्रमे *ब्रह्म ते ब्रवाणीति ब्रह्मोपक्षिप्तम्। मध्ये च श्यस्य वैतत्कर्मेति निर्दिष्ट न पुरुषमात्रम्, अपि तु निखिलजगदेककारणं ब्रह्म वेत्यु- क्तम् । उपसंहारे च *सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रेष्ठ स्वाराज्यमाधिपत्यं पर्येति य एवं वेदेति ब्रह्मोपासनैकान्तं सर्वपापापहतिपूर्वकं स्वाराज्यं च फलं श्रुतम्; अतोऽस्य वाक्यस्य ब्रह्मपरत्वनिश्चयेन जीवमुख्यप्राणलिङ्गान्यपि तत्परतया वर्णनीयानीति । प्रातर्दने ह्य पासात्रैविध्येन जीव मुख्यप्राणलिङ्गानां ब्रह्मपरत्वमुक्तम्; अत्रापि *अथास्मिन्प्राण एवैकधा भवतीति सामानाधिकरण्यसंभवे वैयधिकरण्यसमाश्रयणायोगाद्ब्रह्मण्येव प्राणशब्दप्रयोगनिश्च- येन च प्राणशरीरकब्रह्मोपासनार्थ प्राणसङ्कीर्तनं लिङ्गं युज्यते ॥१७॥ जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वभित्यत्राह- १२७. अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १-४-१८ ॥ तुशब्दो जीवसङ्कीर्तनेन वाक्यस्य तत्परत्वसंभावनाच्यावृत्त्यर्थः । अन्यार्थ जीवसङ्की- तनं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमिनिराचार्यों मन्यते । कुतः ? प्रश्नव्याख्या- नाभ्याम् प्रश्नस्तावत् *तौ ह सुप्तं पुरुषमीयतुरित्यादिना सुप्तस्य प्रबुद्धप्राणस्यैव प्राणनाम- भिरामन्त्रणाश्रवणयष्टिधातोत्थापनाभ्यां प्राणादिव्यतिरिक्तं जीवं प्रतिबोध्य पुनर्जीवव्यतिरिक्त- ब्रह्मप्रतिबोधनपरो दृश्यते *क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्च वा एतदभूत्कुत एतदागात् इति । व्याख्यानमपि यदा सुप्तस्स्वप्नं न कथञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः इति जीवादर्था- न्तरभूतपरमात्मपरमेव । सुषुप्तस्य हि जीवस्य यत्रोषितस्य जागरितस्वप्नदशासंबन्धिविचित्र- सुखदुःखानुभवकालुष्यविरहेण संप्रसन्नस्य स्वस्थतापत्तिः, पुनरप्यस्य यस्माद्भोगाय निष्क्रम- णम्, सोऽयं परमात्मा । तथाहि *सता सोम्य तदा संपन्नो भवति प्राज्ञेनात्मना संपरिष्वक्तो न बाह्य किञ्चन वेद नान्तरम् इति सुषुप्तयाधारतया प्रसिद्धो जीवादर्थान्तरभूतः प्राज्ञः ?

१७४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । परमात्मा । अतः प्रश्नप्रतिवचनाभ्यां जीवसङ्कीर्तनं जीवादर्थान्तरभूतपरमात्मप्रतिपादनार्थ- मिति निश्चीयते । यदुक्त प्रश्नव्याख्याने जीवपरे, सुषुप्तिस्थानं च नाड्य एव, करणग्राभश्च प्रागशब्दनिर्दिष्टे जीव एवैकधा भवतीति, तदयुक्तम्, नाडीनां स्वप्नस्थानत्वात्, उक्तरीत्या ब्रह्मण एव सुषुप्तिस्थानत्वात्, प्राणशब्दनिर्दिष्टे ब्रह्मण्येव जीवस्य तदुपकरणभूतवागादि- करणग्रामस्य चैकतापत्तिविभागवचनाच्च । अपि चैवमेके-वाजसनेयिनोऽस्मिन्न व बालाक्य- जातशत्रुसंवादे सुषुप्ताद्विज्ञानमयाझेदेन तदाश्रयभूतं परमात्मानमामनन्ति य एष विज्ञान- मयः पुरुषः क्वैष तदाऽभूत्कुत एतदागात् यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्त- दैतेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तहृदय आकाशस्तस्मिञ्च्छेते इति । आकाशशब्दश्च परमात्मनि प्रसिद्धः *दहरोऽस्मिन्नन्तर आकाशः इति । अतोऽत्र जीव- सङ्कीर्तनं तस्मादर्थान्तरभूतस्य प्राज्ञस्य परस्य ब्रह्मणः प्रतिबोधनार्थमित्यवगम्यते । तस्माद- स्मिन्वाक्ये पुरुषादर्थान्तरभूतस्य निखिलजगत्कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाऽभिधा- नान्न तन्त्रसिद्धस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्य कारणत्वं क्वचिदपि वेदान्ते प्रतीयत इति (सिद्धम्) स्थितम् ॥१८॥ इति जगद्वाचित्वाधिकरणम् ।।५।। अथ वाक्यान्वयाधिकरणम् ।।६।। १२८. वाक्यान्वयात् ॥ १-४-१६ ॥ अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं वाक्यं क्वचिदृश्यत इति तदरिक्त ईश्वरो नाम न कश्चित्संभवतीत्याशङ्कय निराकरोति । बृहदारण्यके मैत्रेयीब्राह्मणे श्रूयते *न वा अरे पत्युः कामाय पतिः प्रियो भवति इत्यारभ्य *न वा अरे सर्वस्य कामाय सर्व प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवत्यात्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासि- तव्यः मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वविदितम् * इति । तत्र संशयः- किमस्मिन्वाक्ये द्रष्टव्यतयोपदिश्यमानस्तन्त्रसिद्धः पुरुष एव ? अथवा सर्वज्ञस्सत्यसङ्कल्प- स्सर्वेश्वरः ? इति । कि युक्तम् ? पुरुष इति । कुतः ? आदिमध्यावसानेषु पुरुषस्यैव प्रतीतेः । उपक्रमे तावत्पतिजायापुत्रवित्तपश्वादिप्रियत्वयोगाज्जीवात्मैव प्रतीयते; मध्येऽपि ऋविज्ञानधन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति इत्युत्पत्तिविनाशयोगात्स एवावगम्यते; तथाऽन्ते च *विज्ञातारमरे केन विजानीयात् इति स एव ज्ञाता क्षेत्रज्ञ एव प्रतीयते, नेश्वरः । अतस्तन्त्रसिद्धपुरुषप्रतिपादनपरमिदं वाक्यमिति निश्चीयते । ननु *अमृत- त्वस्य तु नाशाऽस्ति वित्तेनेत्युपक्रमादमृतत्वप्राप्त्युपायोपदेशपरमिदं वाक्यमित्यवगम्यते । तत्कथं पुरुषप्रतिपादनपरत्वमस्य वाक्यस्य ? तदुच्यते--अत एव ह्यत्र पुरुषप्रतिपादनम् । ? ?

प्रथमाध्याये-चतुर्थपादे-वाक्यान्वयाधिकरणम् । १७५ तन्त्रे ह्यचिद्धर्माध्यासवियुक्तपुरुषस्वरूपयाथात्म्यविज्ञानमेवामृतत्वहेतुत्वेनोच्यते। अतो जीवा- त्मनः प्रकृतिवियुक्त स्वरूपमिहामृतत्वाय *आत्मा वा अरे द्रष्टव्यः इत्यादिनोपदिश्यते । सर्वेषामात्मनां प्रकृतिवियुक्त स्वरूपमेकरूपमिति प्रकृतिवियुक्तस्वात्मयाथात्म्यविज्ञानेन सर्व एवात्मानो विदिता भवन्तीत्यात्मविज्ञाननेन सर्वविज्ञानमुपपन्नम्। देवादिस्थावरान्तेषु सर्वेषु भूते- वात्मस्वरूपस्य ज्ञानेकप्रकारत्वात् इदं सर्वं यदयमात्मा इत्यैकात्म्योपदेशः; देवाद्याकाराणा- मनात्माकारत्वात् *सर्व तं परादात् इत्यादिनाऽन्यत्वनिषेधश्च; *यत्र हि द्वैतमिव भवतीति च नानात्वनिषेधेनैकस्वरूपे ह्यात्मनि देवादिप्रकृतिपरिणामभेदेन नानात्वं मिथ्येत्युच्यते; *तस्य ह वा एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः इत्याद्यपि प्रकृते रधिष्ठातृत्वेन पुरुषनिमित्तत्वाज्जगदुत्पत्तेरुपपद्यते । एवमस्मिन्वाक्ये पुरुषपरे निश्चिते सति तदैकार्थ्यात्सर्वे वेदान्तास्तन्त्रसिद्धं पुरुषमेवाभिदधतीति तदधिष्ठिता प्रकृतिरेव जगदुपादानम्, नेश्वरः इति । एवं प्राप्त प्रचक्ष्महे-वाक्यान्वयात् इति । सर्वेश्वर एवास्मिन्वाक्ये प्रतीयते। कुतः ? एवमेव हि वाक्यावयवानामन्योन्यान्वयस्समञ्जसो भवति । *अमृतत्वस्य तु नाशाऽस्ति वित्तेनेति याज्ञवल्क्येनाभिहिते *येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहि* इत्यमृतत्वानुपायतया वित्ताद्यनादरेणामृतत्वप्राप्त्युपायमेव प्रार्थयमानाय मैत्रेय्य तदुपायतया द्रष्टव्यत्वेनोपदिष्टोऽयमात्मा परमात्मैव, तमेव विदित्वाऽतिमृत्युमेति *तमेवं विद्वानमृत इस भवति नान्यः पन्थाः इत्यादिभिरमृतत्वस्य परमपुरुषवेदनकोपायतया प्रति- पादनात् । परमपुरुषविभूतिभूतस्य प्राप्तुरात्मनस्स्वरूपयाथात्म्यमपवर्गसाधनपरमपुरुषवेद- नोपयोगितयाऽवगन्तव्यम्; न स्वत एवोपायत्वेन । अतोऽत्र परमात्मैवामृतत्वोपायतया *द्रष्टव्यः इत्यादिनोपदिश्यते। तथा *तस्य ह वा एतस्य महतो भूतस्य निश्श्वसितमेतद्य- दृग्वेदः इत्यादिना कृत्स्नस्य जगतः कारणत्वमुच्यमानं परमपुरुषादन्यस्य कर्मपरवशस्य मुक्तस्य निर्व्यापारस्य च पुरुषमात्रस्य न संभवति। तथा *आत्मनो वा अरे दर्शनेनेत्यादिना एकविज्ञानेन सर्वविज्ञानमभिधीयमानं सर्वात्मभूते परमात्मन्येवावकल्पते। यत्त्वेतदेकरूप- त्वादात्मनामेकात्मविज्ञानेन सर्वात्मविज्ञानमुच्यत इति; तदयुक्त, अचेतनप्रपञ्चज्ञानाभावेन सर्वविज्ञानाभावात् । प्रतिज्ञोपपादनाय च *इदं ब्रह्मदं क्षत्रमित्युपक्रम्य इदं सर्वं यदय- मात्मेति प्रत्यक्षादिसिद्धं चिदचिन्मिश्रं प्रपञ्चम् इदमिति निर्दिश्य, एतदयमात्मेत्यै- कात्म्योपदेशश्च परमात्मन एवोपपद्यते । नहीदंशब्दवाच्यं चिदचिन्मियं जगत्पुरुषेणा- चित्संसृष्ट न तद्वियुक्तेन स्वरूपेण वाऽवस्थितेन चैक्यमुपगच्छति । अत एव *सर्वं तं परा- दाद्योऽन्यत्रात्मनस्सर्वं वेद इति व्यतिरिक्तत्वेन सर्ववेदननिन्दा च; तथा प्रथमे च मैत्रेयी- ब्राह्मणे *महद्भूतमनन्तमपारमिति श्रुता महत्त्वादयो गुणाः परमात्मन एव संभवन्ति । अतस्स एवात्र प्रतिपाद्यते ॥

१७६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । यत्तूक्त पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो जीवात्मन उपक्रमे त्वन्वेष्टव्यतया प्रतिपादनात्तद्विषयमेवेदं वाक्यमिति; तदयुक्तम्, *आत्मनस्तु कामायेत्यात्मशब्देन जीवात्म- संशब्दने तस्य *आत्मा वा अरे द्रष्टव्य इत्यनेनानन्वयप्रसङ्गात्, *आत्मा वा अरे द्रष्टव्य इत्यात्मनो द्रष्टव्यत्वोपयोगितया *आत्मनस्तु कामायेत्युपदिष्टमिति प्रतीयते । आत्मनस्तु कामाय-आत्मनः कामसंपत्तये; काम्यन्त इति कामाः; आत्मन इष्टसंपत्तय इति यावत् । नच जीवात्मन इष्टसंपत्तये पत्यादयः प्रिया भवन्तीत्युक्त सति तस्य जीवस्य स्वरूपमन्वेष्टव्यं भवति । प्रियमेव ह्यन्वेष्टव्यम्; नतु प्रियं प्रति शेषिण प्रियवियुक्त स्वरूपम् । यस्मादात्मन इष्टसंपत्तये पत्यादयः प्रिया भवन्ति, तस्मात्पत्यादि प्रियं परित्यज्य तद्वियुक्तमात्मस्वरूप- मन्वेष्टव्यमित्यसङ्गतं भवति । प्रत्युत न पत्यादिशेषतया पत्यादीनां प्रियत्वम् अपि त्वात्मन- श्शेषतया पत्यादीनां प्रियत्वमित्युक्त स्वशेषतया त एवोपादेयास्स्युः । *आत्मनस्तु कामाय सर्वं प्रियं भवतीत्यस्य परेणानन्वये वाक्यभेदः प्रसज्यते । अभ्युपगम्यमानेऽपि वाक्यभेदे पूर्ववाक्यस्य न किञ्चित्प्रयोजनं दृश्यते । अतः पत्यादि सर्वं प्रियं परित्यज्यात्मन एवान्वेष्ट- व्यत्वं यथा प्रतीयते, तथा वाक्यार्थोवर्णनीयः। सोऽयमुच्यते-*अमृतत्वस्य तु नाशाऽस्ति वित्तेनेति वित्तादीनां नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वप्राप्तयनुपायतामुक्त्वा वित्तपुत्र- पतिजायादीनां सातिशयदुःखमिश्रकादाचित्कप्रियत्वमनुभूयमानं न पत्यादिस्वरूपप्रयुक्तम्, अपितु निरतिशयानन्दस्वभावपरमात्मप्रयुक्तम् । अतो य एव स्वयं निरतिशयानन्दस्सन्नन्येषा- मपि प्रियत्वलेशास्पदत्वमापादयति, स परमात्मैव द्रष्टव्य इत्युपदिश्यते ॥ तदयमर्थः -*न वा अरे पत्युः कामाय पतिः प्रियो भवति-न हि पतिजायापुत्रवित्ता- दयो मत्प्रयोजनायाहमस्य प्रियस्स्यामिति स्वसङ्कल्पात्प्रिया भवन्ति; अपि त्वात्मनः कामाय- परमात्मनस्स्वाराधकप्रियप्रतिलम्भनरूपेष्टनिवृत्तय इत्यर्थः । परमात्मा हि कर्मभिराराधि- तस्तत्तत्कर्मानुगुणं प्रतिनियतदेशकालस्वरूपपरिमाणमाराधकामां तत्तद्वस्तुगतं प्रियत्वमापादयति *एष ह्य वानन्दयातीति श्रुतेः। न तु तत्तद्वस्तु स्वरूपेण प्रियमप्रियं वा । यथोक्त- *तदेव प्रीतये भूत्वा पुनर्दु:खाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ तस्माद्- दुःखात्मकं नास्ति न च...सुखात्मकम् ॥ इति । *आत्मनस्तु कामायेत्यस्य जीवात्मपरत्वेऽपि *आत्मा वा अरे द्रष्टव्य इति तु परमात्मविषयमेव । तत्रायमर्थः-यस्मात्पत्यादीनामिष्टसंपत्तये तत्परवशेन पत्यादयः प्रियत्वेन नोपादीयन्ते, अपि त्वात्मेष्टसंपत्तये स्वतन्त्रण स्वप्रियत्वेनोपादीयन्ते; तस्माद्य एवात्मनो निरुपाधिकनिर्दोषनिरवधिकप्रियः परमात्मा; स एव हि द्रष्टव्य; न दुःखमिश्राल्पसुख- दुःखोदाः परायत्ततत्तत्स्वभावाः पतिजायापुत्रवित्तादयो विषयाः इति । अस्मिस्तु प्रकरणे प्रथमाध्याये-चतुर्थपादे-वाक्यान्वयाधिकरणम् । १७७ जीवात्मवाचिशब्देनापि परमात्मन एवाभिधानात् *आत्मनस्तु कामाय, *आत्मा वा अरे द्रष्टव्यः इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेक विषयौ ॥१६॥ मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाह- १२६. प्रतिज्ञासिद्धलिङ्गमाश्मरथ्यः ॥ १-४-२०॥ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धेरिदं लिङ्गम्, यज्जीवात्मवाचिशब्दः परमात्मनोऽ- भिधानम् इत्याश्मरथ्य आचार्यों मन्यते स्म। यद्ययं जीवः परमात्मकार्यतया परमात्मैव न भवेत्, तदा तव्यतिरिक्ततया परमात्मविज्ञानादेतद्विज्ञानं न सेत्स्यति । आत्मा वा इदमेक एवान आसीदिति प्राक्सृष्टेरेकत्वावधारणात्, यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ इत्यादि- भिब्रह्मणो जीवानामुत्पत्तिश्रवणात्तस्मिन्नेव लयश्रवणाच्च जीवानां ब्रह्मकार्यत्वेन ब्रह्मणैक्य- मवगम्यते । अतो जीवशब्देन परमात्माभिधानमिति ॥२०॥ १३०. उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ १-४-२१ ।। यदुक्त जीवस्य ब्रह्मकार्यतया ब्रह्मणक्येनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थ ब्रह्मणो जीवशब्देन प्रतिपादनमिति, तदयुक्त *न जायते म्रियते वा विपश्चिदित्यादिनाs- जत्वश्रुतेर्जीवात्मनां प्राचीनकर्मफलभोगाय जगत्सृष्टयभ्युपगमाच्च, अन्यथा विषमसृष्टयनु- पपत्तेश्च, ब्रह्मकार्यस्य जीवस्य ब्रह्मतापत्तिलक्षणो मोक्ष आकाशादिवदवर्जनीय इति तदुपाय- विधानानुष्ठानानर्थक्याच्च, घटादिवत्कारणप्राप्त विनाशरूपत्वेन मोक्षस्यापुरुषार्थत्वाच्च । जीवा- स्मन उत्पत्तिप्रलयवादोपपत्तिरुत्तरत्र प्रपञ्चयिष्यते । अतः एष संप्रसादोऽस्माच्छरीरात्स- मुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते *यथा नद्यस्स्यन्दमानास्समुद्र अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ इत्युत्क्रमिष्यतः परमात्मभावाज्जीवशब्देन परमात्मनोऽभिधानमित्यौडुलोमिराचार्यों मन्यते स्म ॥२१॥ १३१. अवस्थितेरिति काशकृत्स्नः ॥ १-४-२२॥ यदुक्तमुत्क्रमिष्यतो जीवस्य ब्रह्मभावाद्ब्रह्मणस्तच्छब्देनाभिधानमिति; तदप्ययुक्तम्, विकल्पासहत्वात् । अस्य जीवात्मन उत्क्रान्तेः पूर्वमनेवंभावः किं स्वाभाविकः, उतौपाधिकः तत्रापि पारमार्थिकः, अपारमार्थिको वेति । स्वाभाविकत्वे ब्रह्मभावो नोपपद्यते, भेदस्य स्वरूपप्रयुक्तत्वेन स्वरूपे विद्यमाने तदनपायात् । अथ भेदेन सह स्वरूपमप्यपैतीति, तथा सति विनष्टत्वादेव तस्य न ब्रह्मभावः, अपुरुषार्थत्वादिदोषप्रसङ्गश्च । पारमार्थिकोपाधिकत्वे श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । प्रागपि ब्रह्मैवेति उत्क्रमिष्यत एवंभावादिति विशेषो न युज्यते वक्तुम् । अस्मिन्पक्षे ह्य पाधि- ब्रह्मव्यतिरेकेण वस्त्वन्तराभावानिरवयवस्य ब्रह्मण उपाधिना च्छेदाद्यसंभवाञ्चोपाधिगत एव भेद इत्युत्क्रान्तेः प्रागपि ब्रह्मव । औपाधिकस्य भेदस्यापारमार्थिकत्वे कस्यायमुत्क्रान्तौ ब्रह्म- भाव इति वक्तव्यम् । ब्रह्मण एवाविद्योपाधितिरोहितस्वस्वरूपस्येति चेन्न; नित्यमुक्तस्व- प्रकाशज्ञानस्वरूपस्याविद्योपाधितिरोधानासंभवात् । तिरोधानं नाम वस्तुस्वरूपे विद्यमाने तत्प्रकाशनिवृत्तिः । प्रकाश एव वस्तुस्वरूपमित्यङ्गीकारे तिरोधानाभावस्स्वरूपनाशो वा स्यात् । अतो नित्याविभूतस्वस्वरूपत्वात्तस्योत्क्रान्ती ब्रह्मभावे न कश्चिद्विशेष इति उत्क्र- मिष्यत इति विशेषरणं व्यर्थमेव । *अस्माच्छरीरात्समुत्थायेति पूर्वमनेवंरूपस्य न तदानीं ब्रह्मतापत्तिमाह; अपितु पूर्वसिद्धस्वरूपस्याविर्भावम् । तथाहि वक्ष्यते *संपद्याविर्भावस्स्वेन शब्दात् इत्यादिभिः । अतः *अनेन जीवेनात्मनाऽनुप्रविश्य त्र्य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः श्योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा इति स्वशरीरभूते जीवात्मन्यात्मतयाऽवस्थितेर्जीवशब्देन ब्रह्मप्रतिपादनमिति काशकृत्स्न आचार्यों मन्यते स्म । जीवशब्दश्च जीवस्य परमात्मपर्यन्तस्यैव वाचको न जीवमात्रस्येति पूर्वमेवोक्तम् *नामरूपे व्याकरवाणीत्यत्र । एवमात्मशरीरभावेन तादात्म्योपपादने परस्य ब्रह्मणोऽपहतपाप्मत्व- सर्वज्ञत्वादिगोचराः जीवस्याविदुषश्शोचतो ब्रह्मोपासनान्मोक्षवादिन्यः, जगत्सृष्टिप्रलयाभि- धायिन्यः, जगतो ब्रह्मतादात्म्योपदेशपराश्च सर्वाश्श्रुतयस्सम्यगुपपादिता भवन्तीति काश- कृत्स्नीयमेव मतं सूत्रकारस्स्वीकृतवान् । अयमत्र वाक्यार्थः-अमृतत्वोपाये मैत्रेय्या पृष्ट याज्ञवल्क्यः-*आत्मा वा अरे द्रष्टव्यः इत्यादिना परमात्मोपासनममृतत्वोपायमुक्त्वा, *आत्मनि खल्वरे दृष्ट इत्यादिनोपास्यलक्षणम् दुन्दुभ्यादिदृष्टान्तैश्चोपासनोपकरणभूतमनःप्रभृतिकरणनियमनं च सामान्येनाभिधाय, *स यथाऽऽद्वैधाग्नेः इत्यादिना *स यथा सर्वासामपां समुद्र एकायनम् इत्यादिना चोपास्यभूतस्य परस्य ब्रह्मणो निखिलजगदेककारणत्वम् सकलविषय(प्र)वृत्तिमूलकरणग्रामनियमनं च विस्तीर्णमुपदिश्य स यथा सैन्धवधनः इत्यादिनाऽमृतत्वोपायप्रवृत्तिप्रोत्साहनाय जीवात्म- स्वरूपेणावस्थितस्य परमात्मनोऽपरिच्छिन्नज्ञानेकाकारतामुपपाय, तस्यैवापरिच्छिन्नज्ञानका- कारस्य संसारदशायां भूतपरिणामानुवृत्ति विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानु- विनश्यति इत्यभिधाय, *न प्रेत्य संज्ञाऽस्ति इति मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञान- सङ्कोचाभावेन. भूतसङ्घातेनैकीकृत्यात्मनि देवादिरूपज्ञानाभावमुक्त्त्वा, पुनरपि *यत्र हि द्वैतमिव भवति इत्यादिना अब्रह्मात्मकत्वेन नानाभूतवस्तुदर्शनमज्ञानकृतमिति निरस्तनिखिला- प्रथमाध्याये-चतुर्थपादे-प्रकृत्यधिकरणम् । १७३ ज्ञानस्य ब्रह्मात्मकं कृत्स्नं जगदनुभवतो ब्रह्मव्यतिरिक्तवस्त्वन्तराभावेन भेददर्शनं निरस्य, *येनेदं सर्व विजानाति तं केन विजानीयात् इति च जीवात्मा स्वात्मतयाऽवस्थितेन येन परमात्मना आहितज्ञानस्सन्निदं सर्व विजानाति, अयं तं केन विजानीयात्, न केनापीति परमात्मनो दुरवगमत्वमुपपाद्य, *स एष नेतिनेति इत्यादिना अयं सर्वेश्वरस्स्वेतरसमस्त- चिदचिद्वस्तुविलक्षणस्वरूप एव सर्वशरीरस्सर्वस्यात्मतयाऽवस्थित इति स्वशरीरभूतचिद- चिद्वस्तुगतैर्दोषैर्न संस्पृश्यत इत्यभिधाय, *विज्ञातारमरे केन विजानीयादित्युक्तानुशासनाऽसि मैत्रेय्येतावदरे खल्वमृतत्व* इति समस्तवस्तुविसजातीयं निखिलजगदेककारणभूतं सर्वस्य विज्ञातारं पुरुषोत्तममुक्तप्रकारादुपासनादृते केन विजानीयादितीदमेवोपासनममृतत्वोपायः; ब्रह्मप्राप्तिरेव चामृतत्वमभिधीयते-इत्युक्तवान् । अतः परं ब्रह्मवास्मिन्वाक्ये प्रतिपाद्यत इति परमेव ब्रह्म जगत्कारणम्, न पुरुषस्तदधिष्ठिता च प्रकृतिरिति स्थितम् ॥२२॥ इति वाक्यान्वयाधिकरणम् ।।६।। अथ प्रकृत्यधिकरणम् ॥७॥ १३२. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ १-४-२३ ॥ एवं निरीश्वरसाङ्खये निरस्ते सति सेश्वरसांख्यः प्रत्यवतिष्ठते-यद्यपीक्षणादिगुण- योगात्सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ताः प्रतिपादयन्ति । तथापि वेदान्तैरेव जगदुपादान- तया प्रधानमेव प्रदिपाद्यत इति प्रतीयते । नहि वेदान्तास्सर्वज्ञस्यापरिणामिनोऽधिष्ठातुरीश्वर- स्याधिष्ठे येनाचेतनेन परिणामिना प्रधानेन विना जगतः कारणत्वमवगमयन्ति । तथा ह्यप- रिणामिनमेनं प्रकृति चैतदधिष्ठितां परिणामिनीमधीयते-*निष्कलं निष्क्रियं शान्तं निरवद्यु निरञ्जनम् *स वा एष महानज आत्माऽजरोऽमरः अविकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः। सूयते पुरुषार्थ च तेनैवाधिष्ठिता जगत् । गौर- नाद्यन्तवती सा जनित्री भूतभाविनी ॥ इति । तथा प्रकृतिमुपादानभूतामधिष्ठायैवेश्वरो विश्वं जगत्सृजतीति श्रूयते *अस्मान्मायो सृजते विश्वमेतत् *मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् इति । स्मृतिरपि *मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् इति । एवमश्रुतेऽपि प्रधानोपादानत्वे ब्रह्मणो जगत्कारणत्वश्रुत्यन्यथानुपपत्त्यैव प्रधानस्वरूपं तस्येश्वराधिष्ठितस्य जगदुपादानत्वं च सिद्धयति । एवमेव हि लोके निमित्तोपादानयोरत्यन्तभेदो दृश्यते। मृत्सु- वर्णादेरचेतनस्य घटकटकाद्युपादानत्वं चेतनस्य कुलालसुवर्णकारादेनिमित्तत्वं च नियतमुप- लभ्यते । कार्यनिष्पत्तिश्च नियमेनानेककारकसव्यपेक्षा दृष्टा । एवं निमित्तोपादानयोर्भेदनियम कार्यनिष्पत्तेरनेककारकसव्यपेक्षत्वनियमं चातिक्रम्यैकमेव ब्रह्मोपादानं निमित्तं च प्रतिपाद- १८० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । यितुं न प्रभवन्ति वेदान्तवाक्यानि । अतो ब्रह्म निमित्तकारणमेव, नोपादानम् । उपादानं तु तदधिष्ठितं प्रधानमेवेति ॥ एवं प्राप्तेऽभिधीयते-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादिति । प्रकृतिश्च-उपादानं च । न निमित्तकारणमात्रं ब्रह्म, उपादानकारणं च ब्रह्म वेत्यर्थः । कुतः ? प्रतिज्ञादृष्टान्तानु- परोधात् । एवमेव हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते । प्रतिज्ञा तावत् अस्तब्धोऽस्युत तमादेशम- प्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्येकविज्ञानेन सर्वविज्ञानविषया । दृष्टान्तश्च श्यथा सोम्यकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यात् श्यथा सोम्यकेन लोह- मणिना यथा सोम्यैकेन नखनिकृन्तनेन इति कारणविज्ञानात्कार्यविज्ञानविषयः । यदि निमित्तकारणमेव जगतो ब्रह्म, तदा तद्विज्ञानान्न समस्तं जगद्विज्ञातं स्यात् । नहि कुलालादि- विज्ञानेन घटादिविज्ञायते । अतः प्रतिज्ञादृष्टान्तयोर्बाध एव । ब्रह्मण एवोपादानत्वे उपादान- भूतमृत्पिण्डलोहमणिनखनिकृन्तनविज्ञानेन घटमणिककटकमकुटवासीपरश्वथादितत्कार्यविज्ञान- वनिखिलजगदुपादानभूते ब्रह्मणि विज्ञाते तत्कार्य निखिलं जगद्विज्ञातं स्यात् । कारणमेवा- वस्थान्तरापन्न कार्यम्, न द्रव्यान्तरमिति कार्यकारणरूपेणावस्थितमृत्तद्विकारादिनिदर्शनेन प्रतिज्ञासमर्थनाद्ब्रह्म जगदुपादानं चेति निश्चीयते ॥ यत्तु निमित्तोपादानयोर्भेदश्श्रु त्यैव प्रतीयत इति; तदसत्, निमित्तोपादानयोरैक्य- प्रतीतेः *उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवतीति । आदिश्यते प्रशिष्यतेऽनेनेत्यादेशः, *एतस्य वा अक्षरस्य प्रशासने गागि इत्यादिश्र तेः। साधकतमत्वेन कर्ता विवक्षितः । तमादेष्टारमप्राक्ष्यः, येनाश्रुतं श्रुतं भवति-येनादेष्ट्राऽधिष्ठात्रा श्रु तेनाश्रु तमपि श्रुतं भवतीति निमित्तोपादानयोरैक्यं प्रतीयते; *सदेव सोम्येदमग्न प्रासीदेकमेवेति प्राक्सृष्टेरेकत्वावधारणा- दद्वितीयपदेनाधिष्ठात्रन्तरनिवारणाच्च । नन्वेवं सति अविकारजननीम् ॐगौरनाद्यन्तवती इत्यादिभिः प्रकृतेराद्यन्तविरहेण नित्यत्वं जगदुपादानत्वं च श्रूयमाणं कथमुपपद्यते ? तदुच्यते-तत्राप्यविभक्तनामरूपं कारणावस्थं ब्रह्म व प्रकृतिशब्देनाभिधीयते, ब्रह्मव्यतिरिक्त- वस्त्वन्तराभावात् । तथाहि श्रु तयः *सर्व तं परादाद्योऽन्यत्रात्मनस्सर्व वेद यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्याद्याः; *सर्व खल्विदं ब्रह्म *ऐतदात्म्यमिदं सर्वमिति कार्यावस्थं कारणावस्थं च सर्व जगद्ब्रह्मात्मकमिति श्रवणाच्च । एतदुक्तं भवति-*यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद इत्यारभ्य योऽव्यक्तमन्तरे सञ्चरन्यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्च- रन्यस्याक्षरं शरीरं यमक्षरं न वेद यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति इत्यारभ्य *य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा

प्रथमाध्याये-चतुर्थपादे-प्रकृत्यधिकरणम्
न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः इति (च)
सर्वचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतं परं ब्रह्म कदाचिद्विभक्तनामरूपम्, कदाचिच्चा-
विभक्तनामरूपम्; यदा विभक्तनामरूपं तदा तदेव बहुत्वेन कार्यत्वेन चोच्यते; यदा चावि-
भक्तनामरूपं तदैकमद्वितीयं कारणमिति च । एवं सर्वदा चिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणो-
ऽविभक्तनामरूपा या कारणावस्था सा *गौरनाद्यन्तवती *विकारजननीमज्ञाम् *अजामेकाम
इत्यादिभिरभिधीयते इति ।
ननु च *महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते इति प्रलयश्रुतेरव्यक्तस्योत्पत्ति-
प्रलयौ प्रतीयेते; तथा च महाभारते *तस्मादव्यक्तमुत्पन्न त्रिगुणं द्विजसत्तम *अव्यक्तं पुरुषे
ब्रह्मनिष्क्रिये संप्रलीयते इति । नैष दोषः, अचिद्वस्तुशरीरस्य ब्रह्मणोऽव्यक्तशब्दवाच्या-
यात्रिगुणावस्थायाः कार्यत्वात् । *यदा तमस्तन्न दिवा न रात्रिः इति कृत्स्नप्रलयदशायामपि
ब्रह्मात्मकस्यातिसूक्ष्मत्याचिद्वस्तुनस्स्थित्यभिधानाज्जगत्कारणस्य परस्य ब्रह्मणः प्रकारभूत-
मतिसूक्ष्म चाचिद्वस्तु नित्यमेवेति तत्प्रकारं ब्रह्मव *गौरनाद्यन्तवतीत्यादिष्वभिधीयते । अत
एव च *अक्षरं तमसि लीयते तमः परे देव एको भवतीति तमस एकोभावमात्रमेव श्रूयते;
तु लयः । एकोभाव इति तमो तमोभिधानातिसूक्ष्माचित्प्रकारस्य ब्रह्मणोऽविभक्तनामरूप-
तयाऽवस्थानमभिधीयते । *तम आसीत्तमसा गूढमग्रे प्रकेतं तमसस्तन्महिमाजायतकम्
इत्याद्यप्येतदेव वदति । तथा च मानवं वचः *आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः ॥ इति । *अस्मान्मायी सृजते विश्वमेतत् इत्याद्यनन्तर-
मेवोपपादयिष्यते; ब्रह्मणोऽपरिणामित्वश्रुतयश्च ॥
न
यत्त्वेकस्य निमित्तत्वमुपादानत्वं च न संभवति, एककारकनिष्पाद्यत्वं च कार्यस्य;
लोके तथा नियमदर्शनात् । अतोऽग्निना सिञ्चदितिवद्वेदान्तवाक्यान्येकस्मादेवोत्पत्ति प्रति-
पादयितुं न प्रभवन्तीति। अत्रोच्यते --सकलेतरविलक्षणस्य परस्य ब्रह्मणस्सर्वशक्तेस्सर्वज्ञ-
। स्यकस्यैव सर्वमुपपद्यते । मृदादेरचेतनस्य ज्ञानाभावेनाधिष्ठातृत्वायोगादधिष्ठातुः कुलाला-
देविचित्रपरिणामशक्तिविरहादसत्यसङ्कल्पतया च तथा दर्शननियमः । अतो ब्रह्मैव जगतो
निमित्तमुपादानं च ॥ २३ ॥
१३३. अभिध्योपदेशाच्च ॥ १। ४ । २४ ॥
इतश्चोभयं ब्रह्म व, *सोऽकामयत बहु स्यां प्रजायेयेति तदैक्षत बहु स्यां प्रजायेय
इति स्रष्टुब्रह्मणस्स्वस्यैव बहुभवनसङ्कल्पोपदेशात् । विचित्रचिदचिद्रूपेणाहमेव बहु स्यां त
प्रजायेयेति सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ॥ २४ ॥

१८२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । १३४. साक्षाच्चोभयाम्नानात् ॥ १। ४ । २५ ॥ न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिरयमों निश्चीयते, ब्रह्मण एव निमित्तत्व- मुपादानत्वं च साक्षादाम्नायते कि स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्ट- तक्षुः। मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठडुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसोद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठभुवनानि धारयन् ॥ इति । अत्र हि स्रष्टुब्रह्मणः किमुपादानं कानि चोपकरणानीति लोकदृष्टया पृष्टे सकलेतरविलक्षणस्य ब्रह्मणस्सर्वशक्तियोगो न विरुद्ध इति ब्रह्म वोपादानमुपकरणानि चेति परिहतम् । अतश्चोभयं ब्रह्म ॥ २५ ॥ १३५. आत्मकृतेः॥१। ४ । २६ ॥ *सोऽकामयत बहु स्यां प्रजायेयेति सिसृक्षुत्वेन प्रकृतस्य ब्रह्मणः *तदात्मानं स्वयम- कुरुतेति सृष्टेः कर्मत्वं कर्तृत्वं च प्रतीयत इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपा- दानत्वं च प्रतीयते । अविभक्तनामरूप आत्मा कर्ता, स एव विभक्तनामरूपः कार्यमिति कर्तृत्वकर्मत्वयोर्न विरोधः । स्वयमेवात्मानं तथाऽकुरुतेति निमित्तमुपादानं च ॥ २६ ॥ *सत्यं ज्ञानमनन्तं ब्रह्म *आनन्दो ब्रह्म *अपहतपाप्मा विजरो विमृत्युविशोकोऽ- विजिघत्सोऽपिपासः *निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम् *स वा एष महानज आत्माऽजरोऽमरः इति स्वभावतो निरस्तसमस्तचेतनाचेतनवतिदोषगन्धस्य निरतिशयज्ञाना- नन्दकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्थास्पदचिदचिन्मिश्रप्रपञ्चरूपेणात्मनो बहु- भवनसङ्कल्पपूर्वकं बहुत्वकरणं कथमुपपद्यत इत्याशङ्कयाह- - १३६. परिणामात् ॥ १।४ । २७ ॥ परिणामस्वाभाव्यात्; नात्रोपदिश्यमानस्य परिणामस्य परस्मिन्ब्रह्मणि दोषावहत्वं स्वभावः, प्रत्युत निरंकुशैश्वर्यावहत्वमेवेत्यभिप्रायः। एवमेव हि परिणाम उपदिश्यते । अशेषहेयप्रत्यनीककल्याणकतानं स्वेतरसमस्तवस्तुविलक्षणं सर्वज्ञं सत्यसङ्कल्पमवाप्तसमस्त- काममनवधिकातिशयानन्दं स्वलीलोपकरणभूतसमस्तचिदचिद्वस्तुजातशरीरतया तदात्मभूतं परं ब्रह्म स्वशरीरभूते प्रपञ्चे तन्मात्राहङ्कारादिकारणपरम्परया तमश्शब्दवाच्यातिसूक्ष्मा- चिद्वस्त्वेकशेषे सति, तमसि च स्वशरीरतयाऽपि पृथनिर्देशानर्हातिसूक्ष्मदशापत्त्या स्वस्मि- नकतामापन्न सति, तथाभूततमश्शरीरं ब्रह्म पूर्ववद्विभक्तनामरूपचिदचिन्मिश्रप्रपञ्चशरीरं स्यामिति सङ्कल्प्याप्ययक्रमेण जगच्छरीरतया आत्मानं परिणमयतीति सर्वेषु वेदान्तेषु प्रथमाध्याये-चतुथपादे-प्रकृत्यधिकरणम् परिणामोपदेशः । तथैव बृहदारण्यके कृत्स्नस्य जगतो ब्रह्मशरीरत्वं ब्रह्मणस्तदात्मत्वं चाम्नायते *यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः इत्यारभ्य यस्यापश्शरीरम् “यस्याग्नि- श्शरीरम् श्यस्यान्तरिक्षं शरीरम् श्यस्य वायुश्शरीरम् श्यस्य द्यौश्शरीरम् श्यस्यादित्यश्शरीरम् श्यस्य दिशश्शरीरम् *यस्य चन्द्रतारकं शरीरम् श्यस्याकाशश्शरीरम् “यस्य तमश्शरीरम् *यस्य तेजश्शरीरम् श्यस्य सर्वाणि भूतानि शरीरम् *यस्य प्राणश्शरीरम् *यस्य वाक्छरीरम् *यस्य चक्षुश्शरीरम् *यस्य श्रोत्रं शरीरम् श्यस्य मनश्शरीरम् श्यस्य त्वक्छरीरम् श्यस्य विज्ञानं शरीरम् श्यस्य रेतश्शरीरम् इत्येवमन्तेन काण्वपाठे; माध्यन्दिने तु पाठे विज्ञानस्थाने *यस्यात्मा शरीरमिति विशेषः; लोकयज्ञवेदानां परमात्मशरीरत्वमधिकम् । सुबालोपनिषदि च पृथिव्यादीनां तत्त्वानां परमात्मशरीरत्वमभिधाय वाजसनेयकेऽनुक्तानामपि तत्त्वानां शरीरत्वं ब्रह्मण आत्मत्वं च श्रूयते श्यस्य बुद्धिश्शरीरम् श्यस्याहङ्कारश्शरीरम् श्यस्य चित्तं शरीरम् श्यस्याव्यक्तं शरीरम् *यस्याक्षरं शरीरम् *यो मृत्युमन्तरे सञ्चरन्यस्य मृत्यु- श्शरीरं यं मृत्युन वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इति । अत्र मृत्युशब्देन परमसूक्ष्ममचिद्वस्तु तमश्शब्दवाच्यमभिधीयते, *अव्यक्तमक्षरे लीयते अक्षरं तमसि लोयते इति तस्यामेवोपनिषदि क्रमप्रत्यभिज्ञानात् । सर्वेषामात्मनां ज्ञानावरणानर्थ- मूलत्वेन तदेव हि तमो मृत्युशब्दव्यपदेश्यम् ॥ सुबालोपनिषद्येव ब्रह्मशरीरतया तदात्मकानां तत्त्वानां ब्रह्मण्येव प्रलय आम्नायते *पृथिव्यप्सु (प्र)लीयले आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते अाकाश- मिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते भूतादिमहति लीयते महानव्यक्त लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकी भवति इति । अवि- भागापत्तिदशायामपि चिवचिद्वस्त्वतिसूक्ष्म सकर्मसंस्कारं तिष्ठतीत्युत्तरत्र वक्ष्यते *न कर्मा- विभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते चेति ॥ एवं स्वस्माद्विभागव्यपदेशानहतया परमात्मनैकीभूतात्यन्तसूक्ष्मचिदचिद्वस्तुशरीरा- देकस्मादेवाद्वितीयान्निरतिशयानन्दात्सर्वज्ञात्सत्यसङ्कल्पाद्ब्रह्मणो नामरूपविभागार्हस्थूलचिद- चिद्वस्तुशरीरतया बहुभवनसङ्कल्पपूर्वको जगदाकारेण परिणामश्श्रूयते । *सत्यं ज्ञानमनन्तं ब्रह्म तस्माद्वा एतस्माद्विज्ञानमयात्, अन्योऽन्तर आत्माऽऽनन्दमयः *एष ह्येवानन्दयाति *सोऽकामयत, बहुस्यां प्रजायेयेति, स तपोऽतप्यत, स तपस्तप्त्वा, इदं सर्वमसृजत, यदिदं किञ्च, तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत्, निरुक्तं चानिरुक्तंच, निलयनं चानिलयनं च, विज्ञानं चाविज्ञानं च, सत्यं चानृतं च सत्यमभवत् इति । अत्र तपश्शब्देन - १८४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - प्राचीनजगदाकारपर्यालोचनरूपं ज्ञानमभिधीयते, “यस्य ज्ञानमयं तपः इत्यादिश्रुतेः । प्राक्सृष्ट जगत्संस्थानमालोच्येदानीमपि तत्संस्थानं जगदसृजदित्यर्थः । तथैव हि ब्रह्म सर्वेषु कल्पेष्वेक- रूपमेव जगत्सृजति *सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्, दिवं च पृथिवीं चान्तरिक्षमथो सुवः *यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानितान्येव तथा भावा युगादिषु ।। इति श्रुतिस्मृतिभ्यः । तदयमर्थः स्वयमपरिच्छिन्नज्ञानानन्दस्वभावोऽत्यन्तसूक्ष्मतयाऽसत्कल्पस्वलीलोप- करणचिदचिद्वस्तुशरीरतया तन्मयः परमात्मा विचित्रानन्तक्रीडनकोपादित्सया स्वशरीरभूत- प्रकृतिपुरुषसमष्टिपरम्परया महाभूतपर्यन्तमात्मानं तत्तच्छरीरकं परिणमय्य तन्मयः पुनस्सत्त्य- च्छब्दवाच्यविचित्रचिदचिन्मिश्रदेवादिस्थावरान्तजगद्रूपोऽभवदिति । *तदेवानुप्राविशत्, तदनुप्रविश्येति कारणावस्थायामात्मतयाऽवस्थितः परमात्मैव कार्यरूपेण विक्रियमाणद्रव्य- स्याप्यात्मतयाऽवस्थाय तत्तदभवदित्युच्यते । एवं परमात्मचिदचित्सङ्घातरूपजगदाकार- परिणामे परमात्मशरीरभूतचिदंशगतास्सर्व एवापुरुषार्थाः; तथाभूताचिदंशगताश्च सर्वे विकाराः; परमात्मनि कार्यत्वं तदवस्थयोस्तयोनियन्तृत्वेनात्मत्वम्। परमात्मा तु तयोस्स्व- शरीरभूतयोनियन्तृतयाऽऽत्मभूतस्तद्गतापुरुषार्थं विकारैश्च न स्पृश्यते; अपरिछिन्नज्ञानानन्द- मयस्सर्वदैकरूप एव जगत्परिवर्तनलीलयाऽवतिष्ठते । तदेतदाह *सत्यं चानृतं च सत्यमभव- दिति । विचित्रचिदचिद्रूपेण विक्रीयमाणमपि ब्रह्म सत्यमेवाभवत्-निरस्तनिखिलदोषगन्धम- परिच्छिन्नज्ञानानन्दमेकरूपमेवाभवदित्यर्थः । सर्वाणि चिदचिद्वस्तूनि सूक्ष्मदशापन्नानि स्थूल- दशापन्नानि च परस्य ब्रह्मणो लीलोपकरणानि; सृष्टयादयश्च लीलेति भगवद्वैपायनपरा- शरादिभिरुक्तम् *अव्यक्तादिविशेषान्तं परिणाद्धिसंयुतम् । क्रीडा हरेरिदं सर्वं क्षरमित्युप- धार्यताम् ॥ *क्रीडतो बालकस्येव चेष्टां तस्य निशामय *बालः क्रीडनकैरिव इत्यादिभिः । वक्ष्यतिच *लोकवत्तु लीलाकैवल्यमिति । *अस्मान्मायो सृजते विश्वमेतत्तस्मिश्चान्यो मायया सन्निरुद्धः इति ब्रह्मणि जगद्रूपतया विक्रियमाणेऽपि तत्प्रकारभूताचिदंशगतास्सर्वे विकारास्त- प्रकारभूतक्षेत्रज्ञगताश्चापुरुषार्था इति विवेक्तुं प्रकृतिपुरुषयोर्ब्रह्मशरीरभूतयोस्तदानी तथा निर्देशान तिसूक्ष्मदशापत्त्या ब्रह्मणैकीभूतयोरपि भेदेन व्यपदेशः, *तदात्मानं स्वयमकुरुते- त्यादिभिरैकार्थ्यात् । तथाच मानवं वचः सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् ॥ इति । अत एव ब्रह्मणो निर्दोषत्वनिर्विकारत्वश्रुत- यश्वोपपन्नाः । अतो ब्रह्मैव जगतो निमित्तमुपादानश्च ॥ २७ ॥ १३७. योनिश्च हि गीयते ॥ १।४ । २८ ॥ इतश्च जगतो निमित्तमुपादानञ्च ब्रह्म, यस्माद्योनित्वेनाप्यभिधीयते *कर्तारमोशं पुरुषं -- द्वितीयाध्याये-प्रथमपादे-स्मृत्यधिकरणम् । १८५ ब्रह्मयोनिम् इति, यद्भूतयोनि परिपश्यन्ति धोराः इति च । योनिशब्दश्चोपादानवचन इति *यथोर्णनाभिस्सृजते गृह्णते चेति वाक्यशेषादवगम्यते ॥ २८ ॥ इति प्रकृत्यधिकरणम् ॥ ७ ॥ अथ सर्वव्याख्यानाधिकरणम् ।। ८ ।। १३८. एतेन सर्वे व्याख्याता व्याख्याताः ॥ १।४ । २६॥ एतेन-पादचतुष्टयोक्तन्यायकलापेन, सर्ववेदान्तेषु जगत्कारणप्रतिपादनपरास्सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रह्मप्रतिपादनपरा व्याख्याताः । व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ २६ ॥ इति सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य चतुर्थः पादः ।। ४ ।। ॥समाप्तश्चाध्यायः ।। श्रीरस्तु श्रीमते रामानुजाय नमः । द्वितीयाध्याये-प्रथमः पादः-स्मृत्यधिकरणम् ।।१।। १३६. स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाश- दोषप्रसङ्गात् ॥ २-१-१॥ प्रथमेऽध्याये प्रत्यक्षादिप्रमाणगोचरादचेतनात्तत्संसृष्टात्तद्वियुक्ताच्च चेतनादर्थान्तरभूतं निरस्तनिखिलाविद्याद्यपुरुषार्थगन्धमनन्तज्ञानानन्दकतानमपरिमितोदारगुणसागरं निखिल- जगदेककारणं सर्वान्तरात्मभूतं परं ब्रह्म वेदान्तवेद्यमित्युक्तम् । अनन्तरमस्यार्थस्य संभावनीय- समस्तप्रकारदुर्धर्षणत्वप्रतिपादनाय द्वितीयोऽध्याय आरभ्यते । प्रथमं तावत्कपिलस्मृतिविरोधा- द्वेदान्तानामतत्परत्वमाशङ्कय तन्निराक्रियते। कथं स्मृतिविरोधाच्छ तेरन्यपरत्वम् ? उक्तं हि *विरोधे त्वनपेक्षं स्यात् इति श्रुतिविरुद्धायास्स्मृतेरनादरणीयत्वम् । सत्यम्, *औदुम्बरों स्पृष्ट्वोद्गायेत् *इत्यादिषु स्वत एवार्थनिश्चयसंभवात्तद्विरुद्धा स्मृतिरनादरणीयैव; इहतु वेदान्तवेद्यतत्त्वस्य दुरवबोधत्वेन परमषिप्रणीतस्मृतिविरोधे सत्ययमर्थ इति निश्चयायोगात् स्मृत्या श्रुतेरतत्परत्वोपपादनमविरुद्धम् ॥ एतदुक्तं भवति-प्राचीनभागोदितनिखिलाभ्युदयसाधनभूताग्निहोत्रदर्शपूर्णमास- ज्योतिष्टोमादिकर्माणि यथावदभ्युपगच्छता श्रुतिस्मृतीतिहासपुराणेषु ऋषि प्रसूतं कपिलम् इत्यादिवाक्यैराप्तत्वेन सङ्कीर्तितेन परमषिणा कपिलेन परमनिःश्रेयसतत्साधनावबोधित्वे- १८६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । नोपनिबद्धस्मृत्युपवृहणेन बिना अल्पश्रुतर्मन्दमतिभिर्वेदान्तार्थ निश्चयायोगाद्यथाभु तार्थग्रहणे चाप्तप्रणीतायास्साङ्खचस्मृतेस्सकलाया एवानवकाशप्रसङ्गाच्च स्मृतिप्रसिद्ध एवार्थो वेदान्त- वेद्य इति बलादभ्युपगमनीयमिति । न च वाच्यं मन्वादिस्मृतीनां ब्रह्म ककारणत्ववादिनीना- मेवं सत्यनवकाशत्वदोषप्रसङ्ग इति;धर्मप्रतिपादनपरप्राचीनभागोपबृहण एव सावकाशत्वात् । अस्यास्तु कृत्स्नायास्तत्त्वप्रतिपादनपरत्वात्तथाऽनभ्युपगमे निरवकाशत्वमेव स्यात् । तदिद- माशङ्कते स्मृत्यनवकाशदोषप्रसङ्ग इति चेदिति ।। तत्रोत्तरं -नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति । अन्या हि मन्वादिस्मृतयो ब्रह्म क- कारणतां वदन्ति । यथाऽऽह मनुः *आसीदिदं तमोभूतम् इत्यारभ्य, *ततस्स्वयंभूर्भगवान- व्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ *सोऽभिध्याय शरीरात्स्वा- सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् ॥ इति । भगवद्गीतासु च *अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा *अहं सर्वस्य प्रभवो मत्तस्सर्व प्रवर्तते इति च । महाभारते *कुतस्सृष्टमिदं सर्व जगत् स्थावरजङ्गमम् । प्रलये च कमभ्येति तन्मे ब्रूहि पितामह ॥ इति पृष्ट आह *नारायणो जगन्मूर्तिरनन्तात्मा सनातनः इति । तथा *तस्मा- दव्यक्तमुत्पन्न त्रिगुणं द्विजसत्तम इति, *अव्यक्तं पुरुषे ब्रह्मनिष्क्रिये संप्रलीयते इति च । आह च भगवान्पराशरः *विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ॥ इति । आह चापस्तम्बः *पूः प्राणिनस्सर्व एव गुहाशयस्य अहन्य- मानस्य विकल्मषस्य इत्यारभ्य तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकस्स नित्यः* इति । यदि कपिलस्मृत्या वेदान्तवाक्यार्थव्यवस्था स्यात्, तदैतासां सर्वासां स्मृतीनामन- वकाशत्वरूपो महान् दोषः प्रसज्येत ॥ अयमर्थः-यद्यपि वेदान्तवाक्यानामतिक्रान्तप्रत्यक्षादिसकलेतरप्रमाणसंभावनाभूमिभू- तार्थप्रतिपादनपरत्वात्तदर्थवैशद्यायाल्पश्रु तानां प्रतिपत्तृणां तदुपबृंहणमपेक्षितम् । तथाऽपि तदर्थानुसारिणीनामाप्ततमप्रणीतानां बह्वीनां स्मृतीनां तदुपबृहणाय प्रवृत्तानामनवकाशत्वं मा प्रसाङ्क्षीदिति श्रुतिविरुद्धार्थी कपिलस्मृतिरुपेक्षगीया। उपबृंहणं च श्रुतिप्रतिपन्नार्थ- विशदीकरणम्। तच्च विरुद्धार्थया स्मृत्या न शक्यते कर्तुम् ॥ नचैतासां स्मृतीनां प्राचीनभागोदितधर्मांशविशदीकरणेन सावकाशत्वम्; परब्रह्म- भूतपरमपुरुषाराधनत्वेन धर्मान्विदधतीनामेतासामाराध्यभूतपरमपुरुषप्रतिपादनाभावे सति तदाराधनभूतधर्मप्रतिपादनासंभवात् । तथाहि परमपुरुषाराधनरूपता सर्वेषां कर्मणां स्मर्यते- *यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ।। अध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु । ब्रह्मलोकमवाप्नोति न चेहावर्तते पुनः ॥

द्वितीयाध्याये-प्रथमपादे-योगप्रत्युक्त्यधिकरणम् ।
१८७
*यैस्स्वकर्मपरैर्नाथ नरैराराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ इति ।
न चैहिकामुष्मिकसांसारिकफलसाधनकर्मप्रतिपादनेनैतासां सावकाशत्वम् । यतस्तेषामपि
कर्मणां परमपुरुषाराधनत्वमेव स्वरूपम्; यथोक्तं *येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु
मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ इति । तथा *यस्त्वमिज्यसे नित्यं सर्वदेव-
मयाच्युत । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥ इति ॥
यदुक्तम् *ऋषि प्रसूतं कपिलमिति कपिलस्याप्ततया सङ्कीर्तनात्तत्स्मृत्यनुसारेण
वेदान्तार्थव्यवस्थापनं न्याय्यमिति; तदसत्, बृहत्पतेश्श्रुतिस्मृतिषु सर्वेषामतिशयितज्ञानानां
निदर्शनत्वेन सङ्कीर्तनात्तत्प्रणीतेन लोकायतेन श्रुत्यर्थव्यवस्थापनप्रसक्तेरिति ॥१॥
अथ स्यात्, कपिलस्य स्वयोगमहिम्ना वस्तुयाथात्म्योपलब्धेस्तत्स्मृत्यनुसारेण
वेदान्तार्थो व्यवस्थापयितव्य इति; अत उत्तरं पठति-
१४०. इतरेषां चानुपलब्धेः ॥ २-१-२ ॥
चशब्दस्तुशब्दार्थश्चोदिताशङ्कानिवृत्त्यर्थः । इतरेषां-मन्वादीनां बहूनां स्वयोग-
महिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यानां निखिलजगभेषजभूतस्ववाक्यतया *यद्वै किञ्च
मनुरवदत्तद्भषजम्* इति श्रुतिप्रसिद्धानां कपिलदृष्टप्रकारेण तत्त्वानुपलब्धेश्श्रुतिविरुद्धा
कपिलोपलब्धि_न्तिमूलेति न तया यथोक्तो वेदान्तार्थश्चालयितुं शक्य इति सिद्धम् ॥ २ ॥
इति स्मृत्यधिकरणम् ।। १ ॥
अथ योगप्रत्युक्त्यधिकरणम् ।। २ ।।
१४१. एतेन योगः प्रत्युक्तः ॥२।१।३।।
एतेन-कापिलस्मृतिनिराकरणेन, योगस्मृतिरपि प्रत्युक्ता । का पुनरत्राधिकाशङ्का,
यन्निराकरणाय न्यायातिदेशः ? योगस्मृतावपीश्वराभ्युपगमान्मक्षसाधनतया वेदान्तविहित.
योगस्य चाभिधानाद्वक्तुहिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृहणं
न्याय्यमिति । परिहारस्तु-अब्रह्मात्मकप्रधानकारणवादानिमित्तकारणमात्रेश्वराभ्युपगमा-
द्धयानात्मकस्य योगस्य ध्येयैकनिरूपणीयस्य ध्येयभूतयोरात्मेश्वरयोर्ब्रह्मात्मकत्वजगदुपादान-
तादिसर्वकल्याणगुणात्मकत्वविरहेणावैदिकत्वाद्वक्तुहिरण्यगर्भस्यापि क्षेत्रज्ञभूतस्य कदाचिद्रजस्त-
मोभिभवसंभवाच्च योगस्मृतिरपि तत्प्रणीतरजस्तमोमूलपुराणवभ्रान्तिमूलेति न तया वेदान्तो-
पबृहणं न्याय्यमिति ॥ ३ ॥ इति योगप्रत्युक्त्यधिकरणम् ॥ २॥

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ विलक्षणत्वाधिकरणम् ।। ३ ॥ १४२. न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥२।१।४॥ पुनरपि स्मृतिविरोधवादी तर्कमवलम्बमानः प्रत्यवतिष्ठते-यत्साङ्खचस्मृतिनिरा. करणेन जगतो ब्रह्मकार्यत्वमुक्तम्, तन्नोपपद्यते; अस्य प्रत्यक्षादिभिरचेतनत्वेनाशुद्धत्वे- नानीश्वरत्वेन दुःखात्मकत्वेन चोपलभ्यमानस्य चिदचिदात्मकस्य जगतः भवदभ्युपेतात्सर्वज्ञा- त्सर्वेश्वराद्धेयप्रत्यनीकादानन्दकतानाद्ब्रह्मणो विलक्षणत्वात् । न केवलं प्रत्यक्षादिभिरेव जगतो वैलक्षण्यमुपलभ्यते; शब्दाच्च तथात्वं-विलक्षणत्वन, उपलभ्यते--*विज्ञानं चाविज्ञानं च एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽपिताः *समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः *अनीशश्चात्मा बध्यते भोक्तृभावात् इत्यादिभिः कार्यस्य हि जगतोऽचेतनत्वदुःखित्वादयो निर्दिश्यन्ते । यद्धि यत्कार्यम्, तत्तस्मादविलक्षणम्, यथा मृत्सुवर्गादिकार्य घटरुचकादि । अतो ब्रह्मविलक्षणस्यास्य जगतस्तत्कार्यत्वं न संभवतीति साङ्घयस्मृत्यनुरोधेन कार्यसलक्षणं प्रधानमेव कारणं भवितुमर्हति । अवश्यं च शास्त्रस्या- नन्यापेक्षस्यातीन्द्रियार्थगोचरत्वेऽपि तर्कोऽनुसरणीयः; यतस्सर्वेषां प्रमाणानां कचिवचिद्विषये तर्कानुगृहीतानामेवार्थनिश्चयहेतुत्वम् । तर्को हि नाम-अर्थस्वभावविषयेण वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत्तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम् । तदपेक्षा च सर्वेषां प्रमाणानां समाना। शास्त्रस्य तु विशेषेणाकाङ्क्षासन्निधियोग्यताज्ञानाधीनप्रमाण- भावस्य सर्वत्रैव तर्कानुग्राहापेक्षा। उक्तंच मनुना *यस्तāणानुसन्धत्ते स धर्म वेद नेतरः इति । तदेव हि तर्कानुगृहीतशास्त्रार्थप्रतिष्ठापनं श्रुत्या च *मन्तव्यः अइत्युच्यते ॥ अथोच्येत-श्रुत्या जगतो ब्रह्म ककारणत्वे निश्चिते सति तत्कार्यस्यापि जगत- श्चैतन्यानुवृत्तिरभ्युपगम्यते । यथा चेतनस्य सुषुप्तिमूर्छादिषु चैतन्यानुपलम्भः; तथा घटा- दिष्वपि सदेव चैतन्यमनुद्भूतम्, अत एव चेतनाचेतनविभाग:-इति । नैतदुपपद्यते, यतो नित्यानुपलब्धिरसद्भावमेव साधयति । अत एव चैतन्यशक्तियोगोऽपि तेषु निरस्तः । यस्य हि कचित्कदाचिदपि यत्कार्यानुपलब्धिः, तस्य तत्कार्यशक्ति ब्रु वाणो वन्ध्यासुतसमितिषु तज्जननीनां प्रजननशक्ति ब ताम् । किञ्च वेदान्तर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चये सति घटादीनां चैतन्यशक्त श्चैतन्यस्य वाऽनुभूतस्य सद्भावनिश्चयः, तनिश्चये सति वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चय इतीतरेतराश्रयत्वम् । विलक्षणयोहि कार्यकारणभावः प्रति- पादयितुमेव न शक्यते ॥ किं पुनः प्रकृतिविकारयोस्सालक्षण्यमभिप्रेतम्, यदभावाज्जगतो ब्रह्मोपादानताप्रति- पादनासंभवं ब्रूषे ? न तावत्सर्वधर्मसारूप्यम्, कार्यकारणभावानुपपत्तेः। नहि मृत्पिण्डकार्येषु द्वितीयाध्याये-प्रथमपादे-विलक्षणत्वाधिकरणम् । 18 घटशरावादिषु पिण्डत्वाद्यनुवृत्ति श्यते । अथ येनकेन चिद्धर्मेण सारूप्यम्, तज्जगद्ब्रह्मणोरपि सत्तादिलक्षणं संभवति । तदुच्यते-येन स्वभावेन कारणभूतं वस्तु वस्त्वन्तराद्वयावृत्तम्, तस्य स्वभावस्य तत्कार्येऽप्यनुवृत्तिः कार्यस्य कारणसालक्षण्यम् । येन ह्याकारेण मृदादिभ्यो हिरण्यं व्यावर्तते, तदाकारानुवृत्तिस्तत्कार्येषु कुण्डलादिषु दृश्यते । ब्रह्म च हेयप्रत्यनीकज्ञाना- नन्देश्वर्यस्वभावम्, जगच्च तत्प्रत्यनीकस्वभावमिति न तदुपादानम् ॥ ननु च वैलक्षण्येऽपि कार्यकारणभावो दृश्यते, यथा चेतनात्पुरुषादचेतनानि केशनख- दन्तलोमानि जायन्ते; यथा चाचेतनाद्गोमयाच्चेतनो वृश्चिको जायते; चेतनाञ्चोर्णनार- चेतनस्तन्तुः । नैतदेवम्, यतस्तत्राप्यचेतनांश एव कार्यकारणभावः ॥ ४ ॥ अथ स्यात्-अचेतनत्वेनाभिमतानामपि चैतन्ययोगश्श्रुतिषु श्राव्यते *तं पृथिव्य- ब्रवीत्, *आपो वा अकामयन्त ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्माणं जग्मुः *इति । नदीसमुद्रपर्वतादीनामपि चेतनत्वं पौराणिका आतिष्ठन्ते; अतो न वैलक्षण्यमिति । अत उत्तरं पठति- १४३. अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ।। २।१।५॥ तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः; पृथिव्याद्यभिमानिन्यो देवताः *तं पृथिव्यब्रवी- दित्यादिषु पृथिव्यादिशब्दैर्व्यपदिश्यन्ते । कुतः ? विशेषानुगतिभ्याम् । विशेषः-विशेषणम्, देवताशब्देन विशेष्यपृथिव्यादयोऽभिधीयन्ते; *हन्ताहमिमास्तिस्रो देवताः इति तेजोऽबन्नानि देवताशब्देन विशेष्यन्ते; *सर्वा हवैदेवता अहंश्रेयसे विवदमानाः *ते देवाः प्राणे निःश्रेयसं विदित्वा* इति च । अनुगतिः-अनुप्रवेशः; *अग्निर्वाग्भूत्वा मुखं प्राविशत्, आदित्यश्चक्षु- भूत्वाऽक्षिणी प्राविशत्, वायुः प्राणो भूत्वा नासिके प्राविशत्* इत्यादिना वागाद्यभिमानित्वे- नाग्नयादीनामनुप्रवेशश्श्रूयते । अतो जगतोऽचेतनत्वेन विलक्षणत्वाद्ब्रह्मकार्यत्वानुपपत्ते- स्तर्कानुगृहीतस्मृत्यनुरोधेन जगतः प्रधानोपादानत्वं वेदान्तैः प्रतिपाद्यते ॥ ५ ॥ इति प्राप्तऽभिधीयते..... १४४. दृश्यते तु ॥२।१।६॥ तुशब्दात्पक्षो विपरिवर्तते; यदुक्त जगतो ब्रह्मविलक्षणत्वेन ब्रह्मोपादानत्वं न संभव- तीति; तदयुक्तम्, विलक्षणयोरपि कार्यकारणभावदर्शनात् । दृश्यते हि माक्षिकादेविलक्षणस्य क्रिम्यादेस्तस्मादुत्पत्तिः । ननूक्तमचेतनांश एव कार्यकारणभावात्तत्र सालक्षण्यम् । सत्यमुक्तम् न तावता कार्यकारणयोर्भवदभिमतसालक्षण्यसिद्धिः। यथाकथञ्चित्सालक्षण्ये सर्वस्य सर्व- सालक्षण्येन सर्वस्मात्सर्वोत्पत्तिप्रसङ्गभयावस्तुनो वस्त्वन्तराद्व्यावृत्तिहेतुभूतस्याकारस्यानु.

१६० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । वृतिस्सालक्षण्यं भवताऽभ्युपेतम् । स तु नियमो माक्षिकादिभ्यः क्रिम्याद्य त्पत्तौ न दृश्यत इति ब्रह्मविलक्षणस्यापि जगतो ब्रह्मकार्यत्वं नानुपपन्नम् । नहि मृद्धिरण्यघटमकुटादिष्विव वस्त्वन्तरव्यावृत्तिहेतुभूतासाधारणाकारानुवृत्तिः माक्षिकगोमयक्रिमिवृश्चिकादिषु दृश्यते ॥ ६॥ १४५. असदिति चेन्न, प्रतिषेधमानत्वात् ॥२।१।७ ॥ यदि कार्यभूताज्जगतः कारणभूतं ब्रह्म विलक्षणम्, तहि कार्यकारणयोर्द्रव्यान्तरत्वेन कारणे परस्मिन्द्रह्मणि कार्य जगन्न विद्यत इत्यसत एव जगत उत्पत्तिः प्रसज्यत इति चेत्, नैतदेवम्, कार्यकारणयोस्सालक्षण्यनियमप्रतिषेधमात्रमेव हि पूर्वसूत्रेऽभिप्रेतम्, न तु कारणा- कार्यस्य द्रव्यान्तरत्वम् । कारणभूतं ब्रह्म व स्वस्माद्विलक्षणजगदाकारेण परिणमत इत्येतत्तु न परित्यक्तम् । क्रिमिमाक्षिकयोरपि हि सति च वैलक्षण्ये कुण्डलहिरण्ययोरिव द्रव्यैक्यमस्त्येव ॥ ७॥ अत्र चोदयति- १४६. अपीतौ तद्वत्प्रसंगादसमञ्जसम् ॥२।१।८॥ अपीतावित्यपीतिपूर्वकसृष्टयादेः प्रदर्शनार्थम्, *सदेव सोम्येदमग्र आसीत् *आत्मा वा इदमेक एवाग्र आसीत् इत्यादिष्वप्ययावस्थोपदेशपूर्वकत्वदर्शनात्सृष्टयादेः। यदि कार्य- कारणयोर्द्रव्यक्यमभ्युपेतम्, तदा कार्यस्य जगतो ब्रह्मण्यप्ययसृष्टयादिषु सत्सु ब्रह्मण एव तत्तदवस्थान्वय इति कार्यगतास्सर्व एवापुरुषार्थाः ब्रह्मणि प्रसज्ये रन्, सुवर्ण इव कुण्डलगता विशेषाः। ततश्च वेदान्तवाक्यं सर्वमसमञ्जसं स्यात्, यस्सर्वज्ञस्सर्ववित् *अपहतपाप्मा विजरो विमृत्युः *न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते *तयोरन्या पिप्पलं स्वादत्ति *अनीशश्चात्मा बध्यते भोक्तृभावात् *अनीशया शोचति मुह्यमानः* इत्येकस्मिन्नेव वस्तुन्येषां परस्परविरुद्धानां प्रसक्तः।। अथोच्येत-चिदचिद्वस्तुशरीरकस्य परस्यैव ब्रह्मणः कार्यकारणभावाच्छरीरभूतचिद- चिद्वस्तुगतत्वाच्च दोषाणास्, न शरीरिणि ब्रह्मणि कार्यावस्थे कारणावस्थे च प्रसङ्गः इति । तदयुक्तम्, जगद्ब्रह्मणोश्शरीरशरीरिभावस्यैवासंभवात्; संभवे च ब्रह्मणि शरीरसंबन्धनिबन्धन- दोषाणामनिवार्यत्वात् । न हि चिदचिद्वस्तुनोब्रह्मणश्शरीरत्वं संभवति । शरीरं हि नाम कर्मफलरूपसुखदुःखभोगसाधनभूतेन्द्रियाश्रयः पञ्चवृत्तिप्राणाधीनधारणः पृथिव्यादिभूतसङ्घात- विशेषः; तथाविधस्यैव लोकवेदयोश्शरीरत्वप्रसिद्धः । परमात्मनश्च *अपहतपाप्मा विजरः *अनश्नन्नन्यो अभिचाकशीति *अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः *अप्राणो ह्यमना* इत्यादिभिः कर्मतत्फलभोगयोरभावादिन्द्रियाधीनभोगत्वाभावात्प्राण- द्वितीयाध्याये-प्रथमपादे--विलक्षणत्वाधिकरणम् । ૧૧ । वत्त्वाभावाच्च न तं प्रति चेतनाचेतनयोश्शरीरत्वम् । नचाचेतनव्यष्टिरूपतृणकाष्ठादीनां समष्टिरूपस्य भूतसूक्ष्मस्य चेन्द्रियाश्रयत्वादि संभवति । भूतसूक्ष्मस्य पृथिव्यादिसङ्घातत्वं च न विद्यते । चेतनस्य तु ज्ञानकाकारस्य सर्वमेतन्न संभवतीति नतरां शरीरत्वसंभवः । नच भोगायतनत्वं शरीरत्वमिति शरीरत्वसंभवः; भोगायतनेषु वेश्मादिषु शरीरत्वाप्रसिद्धेः । यत्र वर्तमानस्यैव सुखदुःखोपभोगः, तदेव भोगायतनमिति चेन्न; परकायप्रवेशजन्मसुखदुःखोप- भोगायतनस्य परकायस्य प्रविष्टशरीरत्वाप्रसिद्धः। ईश्वरस्य तु स्वतस्सिद्धनित्यनिरतिशया- नन्दस्य भोगं प्रति चिदचितोरायतनत्वनियमो न संभवति । एतेन भोगसाधनमात्रस्य शरीरत्वं प्रत्युक्तम् ॥ अथ मतम्, यदिच्छाधीनस्वरूपस्थितिप्रवृत्ति यत् तत्तस्य शरीरमिति, सर्वस्येश्वरेच्छा. धीनस्वरूपस्थितिप्रवृत्तित्वेनेश्वरशरीरत्वं संभवतीति; तदपि न साधीयः, शरीरतया प्रसिद्धेषु तत्तच्चेतनेच्छायत्तस्वरूपत्वाभावात्, रुग्णशरीरस्य तदिच्छाधीनप्रवृत्तित्वाभावात्, मृतशरीरस्य तदायत्तस्थितित्वाभावाच्च, सालभञ्जिकादिषु चेतनेच्छाधीनस्वरूपस्थितिप्रवृत्तिषु तच्छरी- रत्वाप्रसिद्धेश्च । चेतनस्य नित्यस्येश्वरेच्छायत्तस्वरूपत्वाभावाच्च, न तच्छरीरत्वसंभवः । नच यद्यदेकनियाम्यम्, यदेकधार्यम्, यस्यैव शेषभूतम्, तत्तस्य शरीरमिति वाच्यम्; क्रियादिषु व्यभिचारात् । *अशरीरं शरीरेषु *अपाणिपादो जवनो ग्रहीता* इत्यादिभिश्चेश्वरस्य शरीराभावः प्रतिपाद्यते । अतो जगद्ब्रह्मणोश्शरीरशरीरिभावस्यासंभवात्तत्संभवे च ब्रह्मणि दोषप्रसङ्गाद्ब्रह्मकारणवादे वेदान्तवाक्यानामसामञ्जस्यमिति ॥८॥ अत्रोत्तरम्- १४७. न तु दृष्टान्तभावात् ॥ २-१-६॥ नवमसामञ्जस्यम्, एकस्यैवावस्थाद्वयान्वयेऽपि गुणदोषव्यवस्थितेष्टान्तस्य विद्यमान- त्वात् । तुशब्दोऽत्र हेयसंबन्धगन्धस्यासंभावनीयतां द्योतयति । एतदुक्तं भवति-चिदचिद्वस्तु- शरीरतया तदात्मभूतस्य परस्य ब्रह्मणस्सङ्कोचविकासात्मककार्यकारणभावावस्थाद्वयान्वयेऽपि न कश्चिद्विरोधः, यतस्सङ्कोचविकासौ परब्रह्मशरीरभूतचिदचिद्वस्तुगतौ; शरीरगतास्तु दोषा नात्मनि प्रसज्यन्ते; आत्मगताश्च गुणा न शरीरे; यथा देवमनुष्यादीनां सशरीराणां क्षेत्रज्ञानां शरीरगता बालत्वयुवत्वस्थविरत्वादयो नात्मनि संबध्यन्ते; आत्मगताश्च ज्ञानसुखादयो न शरीरे । अथ च देवो जातो, मनुष्यो जातः, तथा स एव बालो युवा स्थविरश्च इति व्यप- देशश्च मुख्यः । भूतसूक्ष्मशरीरस्यैव क्षेत्रज्ञस्य देवमनुष्यादिभाव इति तदन्तरप्रतिपत्तो* इति वक्ष्यत इति ॥ यत्पुनरुक्तं चिदचिदात्मकस्य जगतस्स्थूलस्थ सूक्ष्मस्य च परमात्मानं प्रति शरीर- १६२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । भावो नोपपद्यत इति; तदनाकलितसम्यन्यायानुगृहीतवेदान्तवाक्यगणस्य स्वमतिपरिकल्पित- कुतर्कविजृम्भितम् । सर्व एव हि वेदान्ताः स्थूलस्य सूक्ष्मस्य चेतनस्याचेतनस्य समस्तस्य च परमात्मानं प्रति शरीरत्वं श्रावयन्ति । वाजसनेयके तावत्काण्वशाखायां माध्यन्दिनशाखायां चान्तर्यामिब्राह्मणे भ्यः पृथिव्यां तिष्ठन्...यस्य पृथिवी शरीरम् इत्यारभ्य पृथिव्यादि- समस्तमचिद्वस्तु, “यो विज्ञाने तिष्ठन्...यस्य विज्ञानं शरीरम् *य आत्मनि तिष्ठन्... यस्यात्मा शरीरम् इति चेतनं च पृथक्पृथनिर्दिश्य तस्यतस्य परमात्मशरीरत्वमभिधीयते । सुबालोपनिषदि च यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरमित्यारभ्य तद्वदेव चिदचितोस्सर्वावस्थयोः परमात्मशरीरत्वमभिधाय एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इति तस्य सर्वभूतानि प्रत्यात्मत्वमभिधीयते । स्मरन्ति च *जगत्सर्व शरीरं ते यदम्बु वैष्णवः कायः तत्सर्व वै हरेस्तनुः तानि सर्वाणि तद्वपुः सोऽभिध्याय शरोरात्स्वात्* इत्यादि । भूतसूक्ष्मात्स्वाच्छरीरादित्यर्थः ॥ लोके च शरीरशब्दो घटादिशब्दवदेकाकारद्रव्यनियतवृत्तिमनासादितः क्रिमिकोट- पतङ्गसर्पनरपशुप्रभृतिष्वत्यन्तविलक्षणाकारेषु द्रव्येष्वगौणः प्रयुज्यमानो दृश्यते । तेन तस्य प्रवृत्तिनिमित्तव्यवस्थापनं सर्वप्रयोगानुगुण्येनैव कार्यम् । त्वदुक्तं च कर्मफलभोगहेतुरित्यादिकं प्रवृत्ति निमित्तलक्षणं न सर्वप्रयोगानुगुणन्, यथोक्तेष्वीश्वरशरीरतयाऽभिहितेषु पृथिव्यादिष्व- व्याप्तेः । किञ्च ईश्वरस्येच्छाविग्रहेषु, मुक्तानां च *स एकधा भवतीत्यादिवाक्यावगतेषु विग्र- हेषु तल्लक्षणमव्याप्तम्, कर्मफलभोगनिमित्तत्वाभावात्तेषाम् । परमपुरुषेच्छाविग्रहाश्च न पृथिव्यादिभूतसङ्घातविशेषाः, *न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः* इति स्मृतेः । अतो भूतसङ्घातरूपत्वं च शरीरस्याव्याप्तम् । पञ्चवृत्तिप्राणाधीनधारणत्वं च स्थावरशरीरेष्व- व्याप्तम् । स्थावरेषु हि प्राणसद्भावेऽपि तस्य पञ्चधा अवस्थाय शरीरस्य धारकत्वेनावस्थानं नास्ति । अहल्यादीनां कर्मनिमित्तशिलाकाष्ठादिशरोरेष्विन्द्रियाश्रयत्वं सुखदुःखहेतुत्वं चाव्याप्तम् ॥ अतो यस्य चेतनस्य यद्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यम्, तच्छेष- तैकस्वरूपं च, तत्तस्य शरीरमिति शरीरलक्षणमास्येयम् । रुग्णशरीरादिषु नियमनाद्यदर्शनं विद्यमानाया एव नियमनशक्तः प्रतिबन्धकृतम्, अग्न्यादेशशक्तिप्रतिबन्धादौष्ण्याद्यदर्शनवत् । मृतशरीरं च चेतनवियोगसमय एव विशरितुमारब्धम्; क्षणान्तरे च विशोर्यते । पूर्व शरीर- तया परिक्लुप्तसङ्घातैकदेशत्वेन च तत्र शरीरत्वव्यवहारः । अतस्सर्व परमपुरुषेण सर्वात्मना स्वार्थे नियाम्यं धार्य तच्छेषतकस्वरूपमिति सर्व चेतनाचेतनं तस्य शरीरम् । *अशरीरं शरीरेषु* इत्यादि च कर्मनिमित्तशरीरप्रतिषेधपरम्, यथोक्तसर्वशरीरत्वश्रवणात् । उपरि- द्वितीयाध्याये-प्रथमपादे-शिष्टापरिग्रहाधिकरणम् । ? तनाधिकरणेषु चैतदुपपादयिष्यते । *अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् नतु दृष्टान्तभावात् इति सूत्रद्वयेन *इतरव्यपदेशात्* इत्यधिकरणसिद्धोऽर्थस्मारितः ॥६॥ १४८. स्वपक्षदोषाच्च ॥२-१-१०॥ न केवलं ब्रह्मकारणवादस्य निर्दोषतयैतत्समाश्रयणम्; प्रधानकारणवादस्य दुष्टत्वाच्च तत्परित्यज्यैतदेव समाश्रयणीयम् । प्रधानकारणवादे हि जगत्प्रवृत्तिर्नोपपद्यते । तत्र हि निर्विकारस्य चिन्मात्रैकरसस्य पुरुषस्य प्रकृतिसन्निधानेन प्रकृतिधर्माध्यासनिबन्धना जग- त्प्रवृत्तिः । निर्विकारस्य चिन्मात्ररूपस्य प्रकृतिधर्माध्यासहेतुभूतं प्रकृतिसन्निधानं किरूपमिति विवेचनीयम् । किं प्रकृतेस्सद्भाव एव ? उत तद्गतः कश्चिद्विकारः ? अथ पुरुषगत एव कश्चिद्विकारः ? न तावत्पुरुषगतः, अनभ्युपगमात् । नापि प्रकृतेविकारः, तस्याध्यासकार्य- तयाऽभ्युपेतस्याध्यासहेतुत्वासंभवात्; सद्भावमात्रस्य सन्निधानत्वे मुक्तस्याप्यध्यासप्रसङ्ग इति त्वत्पक्षे जगत्प्रवृत्तिर्नोपपद्यते । अयमर्थस्साङ्खयपक्षप्रतिक्षेपसमये *अभ्युपगमेऽप्यर्थाभावात्* इत्यादिना प्रपञ्चयिष्यते ॥१०॥ १४६. तर्काप्रतिष्ठानादपि ॥२-१-१२॥ तर्कस्याप्रतिष्ठितत्वादपि श्रुतिमूलो ब्रह्मकारणवाद एव समाश्रयणीयः; न प्रधान कारणवादः । शाक्योलूक्याक्षपादक्षपणकपिलपतञ्जलिताणामन्योन्यव्याघातात्तर्कस्याप्रतिष्ठि- तत्वं गम्यते ॥११॥ १५०. अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥२-१-१२॥ इदानीं विद्यमानानां शाक्यादीनां तर्कानुद्ष्यान्यथा प्रधानकारणवादमतिक्रान्ततदुप- दर्शितदूषणत्वेनानुमास्यामह इति चेत्; एवमपि पुरुषबुद्धिमूलतकावलम्बनस्य तथैव देशा- न्तरकालान्तरेषु त्वदधिककुतर्ककुशलपुरुषोत्प्रेक्षिततर्कदुष्यत्वसंभावनया तर्काप्रतिष्ठानदोषाद- निर्मोक्षो दुर्वारः । अतोऽतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणम्; तदुपबृहणायैव तर्क उपादेयः; तथा चाह *आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः इति । वेदाख्यशास्त्राविरोधिनेत्यर्थः । अतो वेदविरोधित्वेन वेदार्थविशदीकरणरूपवेदोपबृहणतर्को- पादानाय साङ्घयस्मृतिर्नादरणीया ॥१२॥ इति विलक्षणत्वाधिकरणम् ॥३॥ अथ शिष्टापरिग्रहाधिकरणम् ।।४।। १५१. एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥२-१-१३ ॥ शिष्टाः-परिशिष्टाः, न विद्यते वेदपरिग्रहो येषामित्यपरिग्रहाः; शिष्टाश्चापरिग्रहाश्च शिष्टापरिग्रहाः; एतेन-बेदापरिगृहीतसालयपक्षक्षपणेन, परिशिष्टाश्च वेदापरिगृहीताः कण- १६४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । भक्षाक्षपादक्षपणकभिक्षुपक्षाः क्षपिता वेदितव्याः। परमाणुकारणवादेऽमीषां सर्वेषां संवादा- कारणवस्तुविषयस्य तर्कस्याप्रतिष्ठितत्वं न शक्यते वक्तुमित्यधिकाशङ्का । तावन्मात्रसंवादेऽपि तर्कमूलत्वाविशेषात्परमाणुस्वरूपेऽपि शून्यात्मकत्वाशून्यात्मकत्वज्ञानात्मकत्वार्थात्मकत्व- क्षणिकत्वनित्यत्वैकान्तत्वानेकान्तत्वसत्यासत्यात्मकत्वादिविसंवाददर्शनाच्चाप्रतिष्ठितत्वमेवेति परिहारः ॥१३॥ इति शिष्टापरिग्रहाधिकरणम् ॥४॥ अथ भोक्त्रापत्त्यधिकरणम् ।।५।। १५२. भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ २-१-१४ ॥ पुनरपि साङ्ख्यः प्रत्यवतिष्ठते-यदुक्त', स्थूलसूक्ष्मचिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणः कार्यकारणरूपत्वाज्जीवब्रह्मणोस्स्वभावविभाग उपपद्यत इति; स तु विभागो न संभवति, ब्रह्मणस्सशरीरत्वे तस्य भोक्तृत्वापत्तेः, सशरीरत्वे जीवस्येवेवरस्यापि सशरीरत्व- प्रयुक्तसुखदुःखयोर्भोक्तृत्वस्यावर्जनीयत्वात् । ननु च *संभोगप्राप्तिरिति चेन्न वैशेष्यादित्यत्रेश्व- रस्य भोगप्रसङ्गपरिहार उक्तः, नैवम् तत्र ह्य पास्यतया हृदयायतने सन्निहितस्य शरीरान्त- तित्वमात्रेण भोगप्रसङ्गो न विद्यत इत्युक्तम्, इह तु जीववद्ब्रह्मणोऽपि सशरीरत्वे तद्वदेव सुखदुःखयोर्भोक्तृत्वप्रसङ्गो दुर्वार इत्युच्यते । दृश्यते हि सशरीराणां जीवानां शरीरगत- बालत्वस्थविरत्वादिविकारासंभवेऽपि शरीरधातुसाम्यवैषम्यनिमित्तसुखदुःखयोगः । श्रुतिश्च *न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः* इति । अतस्सशरीरब्रह्मकारणवादे जीवेश्वरस्वभावविभागासंभवात्केवलब्रह्मकारण- वादे मृत्सुवर्णादिवज्जगद्गतापुरुषार्थादिसर्वविशेषाश्रयत्वप्रसङ्गाच्च प्रधानकारणवाद एव ज्यायानिति चेत्; अत्रोत्तरं-स्याल्लोकवदिति । स्यादेव विभागो जीवेश्वरस्वभावयोः। नहि जीवस्य शरीरधातुसाम्यवैषम्यनिमित्तं सुखदुःखयोर्भोक्तृत्वं सशरीरत्वकृतम्, अपि तु पुण्यपापरूप- कर्मकृतम् । न ह वै सशरीरस्येत्यपि कर्मारब्धदेहविषयम्, अस एकधा भवति त्रिधा भवति *स यदि पितृलोककामो भवति *स तत्र पर्येति जक्षत्क्रीडब्रममाणः *इति कर्मबन्धविनि- मुक्तस्याविर्भूतस्वरूपस्य सशरीरस्यैवापुरुषार्थगन्धाभावात् । अपहतपाप्मनस्तु परमात्मनः स्थूलसूक्ष्मरूपकृत्स्नजगच्छरीरत्वेऽपि कर्मसंबन्धगन्धो नास्तीति नतरामपुरुषार्थगन्धप्रसङ्गः। लोकवत्-यथा लोके राजशासनानुवर्तिनां तदतिवतिनां च राजानुग्रह निग्रहकृतसुखदुःख- योगेऽपि न शरीरित्वमात्रेण शासके राज्यपि शासनानुवृत्त्यतिवृत्तिनिमित्तसुखदुःखयोर्भोक्तृत्व- प्रसङ्गः । यथाऽऽह द्रमिडभाष्यकारः यथा लोके राजा प्रचुरदन्दशूके घोरेऽनर्थसङ्कटेऽपि द्वितीयाध्याये-प्रथमपादे-आरम्भणाधिकरणम् । १६५ प्रदेशे वर्तमानो व्यजनाद्यवधूतदेहो दोषैर्न स्पृश्यते, अभिप्रेतांश्च लोकान् परिपालयति, भोगांश्च गन्धादीनविश्वजनोपभोग्यान्धारयति, तथाऽसौ लोकेश्वरो भ्रमत्स्वसामर्थ्यचामरो दोषैर्न स्पृश्यते, रक्षति च लोकान्ब्रह्मलोकादीन्, भोगांश्चाविधजनोपभोग्यान्धारयति* इति । मृत्सु- वर्णादिवब्रह्मस्वरूपपरिणामस्तु नैवाभ्युपगम्यते, अविकारत्वनिर्दोषत्वादिश्रुतेः ।। यत्तु परब्रह्मकारणवादे भोक्तृभोग्यविभागाभाबमाशङ्कच समुद्रफेनतरङ्गादृष्टान्तेन विभागप्रतिपादनपरं सूत्रं व्याख्यातम्; तदयुक्तम्, अन्तर्भावितशक्त्यविद्योपाधिकाद्ब्रह्मण- स्सृष्टिमभ्युपगच्छतामेवमाक्षेपपरिहारयोरसङ्गतत्वात्, कारणान्तर्गतशक्त्यविद्योपाध्युपहितस्य भोक्तृत्वादुपाधेश्च भोग्यत्वात्; विलक्षणयोस्तयोः परस्परभावापतिहि न संभवति । स्वरूप- परिणामस्तु तैरपि नाभ्युपेयते, *न कर्मा विभागादिति चेन्नानादित्वादिति क्षेत्रज्ञानां तद्गत- कर्मणां चानादित्वप्रतिपादनात् । स्वरूपपरिणामाभ्युपगमेऽपि भोक्तृभोग्याविभागाशङ्का कस्यचिदपि न जायते, मृत्सुवर्णादिपरिणामरूपघटशरावकटकमकुटादिविभागवद्भोक्तृभोग्य- विभागोपपत्तेः । स्वरूपपरिणामे च ब्रह्मण एव भोक्तृभोग्यत्वापत्तिरिति पुनरप्यसामञ्जस्य- मेव ॥१४॥ इति भोक्त्रापत्त्यधिकरणम् ।।५।। अथ आरम्भणाधिकरणम् ।।६।। १५३. तदनन्यत्वमारम्भणशब्दादिभ्यः ॥२-१-१५॥ *असदिति चेन्न प्रतिषेधमात्रत्वात्* इत्यादिषु कारणभूताद्ब्रह्मणः कार्यभूतस्य जगतोऽनन्यत्वमभ्युपगम्य ब्रह्मणो जगत्कारणत्वमुपपादितम्, इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते ॥ तत्र काणादाः प्राहुः-न कारणात्कार्यस्यानन्यत्वं संभवति, विलक्षणबुद्धिबोध्यत्वात्- न खलु तन्तुपटमृत्पिण्डघटादिषु कार्यकारणविषया बुद्धिरेकरूपा । शब्दभेदाच्च-न हि तन्तवः पट इत्युच्यन्ते, पटो वा तन्तव इति । कार्यभेदाच-नहि मृत्पिण्डेनोदकमाह्रियते, घटेन वा कुड्यं निर्मीयते । कालभेदाच्च-पूर्वकालं च कारणम्, अपरकालं च कार्यम् । आकारभेदाच्च- पिण्डाकारं कारणम्, कार्य च पृथुबुध्नोदराकारम् । तथा सत्यामेव मृदि घटो नष्ट इति 'व्यवह्रियते । सङ्ख्याभेदश्च दृश्यते-बहवस्तन्तवः, एकश्च पटः । कारकव्यापारवैयर्थ्यश्च- कारणमेव चेत्कार्य कि कारकव्यापारसाध्यं स्यात् ? सत्यपि कार्ये कार्योपयोगितया कार- कव्यापारेण भवितव्यं चेत्, सर्वदा कारकव्यापारेण नोपरन्तव्यम् । सर्वस्य सर्वदा सत्त्वेन नित्यानित्यविभागश्च न स्यात् । अथ कार्य सदेव पूर्वमनभिव्यक्त कारकव्यापारेणाभि- - - - १६६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । व्यज्यते, अतः कारकव्यापारार्थवत्वं, नित्यानित्यविभागश्चोच्यते; तदसत्, अभिव्यक्त रभि- व्यक्त्यन्तरापेक्षत्वे अनवस्थानात् अनपेक्षत्वे कार्यस्य नित्योपलब्धिप्रसङ्गात्तदुत्पत्त्यभ्युपगमे चासत्कार्यवादप्रसङ्गात् । किञ्च कारकव्यापारस्याभिव्यजकत्वे घटार्थेन कारकव्यापारण करकादेरप्यभिव्यक्तिः प्रसज्यते, संप्रतिपन्नाभिव्यञ्जकभावेषु दोपादिष्वभिव्यङ्गयविशेषनियमा- दर्शनात; नहि घटार्थमारोपितः प्रदीपः करकादीनाभिव्यनक्ति । अतोऽसतः कार्यस्योत्पत्ति- हेतुत्वेनैव कारकव्यापारार्थवत्त्वम्, अतश्च सत्कार्यवादासिद्धिः । न च नियतकारणोपादानं सत एव कार्यत्वं साधयति; कारणशक्तिनियमादेव तदुपपत्तेः । नन्वसत्कार्यवादिनोऽपि कार- कव्यापारो नोपपद्यते; प्रागुत्पत्तेः कार्यस्यासत्त्वात् कार्यादन्यत्र कारकव्यापारेण भवितव्यम्; तत्रान्यत्वाविशेषात्तन्तुगतकारकव्यापारेण घटोत्पत्तिरपि प्रसज्यते । नैवम्, यत्कार्योत्पादन- शक्तं यत्कारणम्, तद्गतकारकव्यापारेण तत्कार्योत्पत्तिसिद्धः ॥ अत्राहु:-कारणादनन्यत्कार्यम् । नहि परमार्थतः कारणव्यतिरिक्त कार्य नाम वस्त्वस्ति, अविद्यानिबन्धनत्वात्सकलकार्यतब्द्यवहारयोः। अतो यथा कारणभूतान्मृद्द व्याद्ध- टादिषु विकारेषुपलभ्यमानान्यतिरिक्त घटशरावादिकार्य व्यवहारमात्रालम्बनं मिथ्या, कारणभूतं मृद्रव्यमेव सत्यम्; तथा निविशेषसन्मात्रात्कारणभूताद्ब्रह्मणोऽन्योऽहङ्कारादि- व्यवहारालम्बनः कृत्स्नः प्रपञ्चो मिथ्या, कारणभूतं सन्मानं ब्रह्म व सत्यम् । तस्मात्कारण- व्यतिरिक्त कार्य नास्तीति कारणादनन्यत्कार्यम् । नच वाच्यं शुक्तिकारजतादीनामिव घटादिकार्याणामसत्यत्वाप्रसिद्धेदृष्टान्तानुपपत्तिरिति । यतस्तत्रापि युक्त्या मृद्रव्यमात्रमेव सत्यतया व्यवस्थाप्यते; तदतिरिक्त तु युक्त्या बाध्यते । का पुनरत्र युक्तिः ? मृद्रव्यमात्र- स्यानुवर्तमानत्वम्, तदतिरिक्तस्य च व्यावर्तमानत्वम् । रज्जुसर्यादिषु ह्यनुवर्तमानस्याधि- ष्ठानभूतस्य रज्ज्वादेस्सत्यता, व्यावर्तमानस्य च सर्पभूदलनाम्बुधारादेरसत्यता दृष्टा; तथाऽ- नुवर्तमानमधिष्ठानभूतं मृद्रव्यमेव सत्यम्, व्यावर्तमानास्तु घटशरावादयोऽसत्यभूताः ॥ किञ्च सत आत्मनो विनाशाभावादसतश्च शशविषाणादेरुपलब्ध्यभावादुपलब्धि- विनाशयोगि कार्य सदसद्भयामनिर्वचनीयमिति गम्यते । अनिर्वचनीयं च शुक्तिकारजतादि- वन्मृषैव । तस्य चानिर्वचनीयत्वं प्रतीतिबाधाभ्यां सिद्धम् । किञ्च कार्यमुत्पादयन्मृदादि- कारणद्रव्यं किमविकृतमेव कार्यमुत्पादयति, उत कञ्चन विशेषमापन्नम् ? न तावदविकृत- मुत्पादयति, सर्वदोत्पादकत्वप्रसङ्गात् । नापि विशेषान्तरमापन्नम्, विशेषान्तरापत्तेरपि विशेषान्तरापत्तिपूर्वकत्वेन भवितव्यम्, तस्या अपि तथेत्यनवस्थानात् । अविकृतमेव देशकाल- निमित्तविशेषसंबद्धं कार्यमुत्पादयतीति चेन्न । देशादिविशेषसंबन्धोऽपि ह्यविकृतस्य विशेषा- न्तरमापन्नस्य च पूर्ववन्न संभवति ॥ ?

द्वितीयाध्याये-प्रथमपादे-आरम्भणाधिकरणम् १६७ नच वाच्यं मृत्सुवर्णदुग्धादिभ्यो घट रुचकदध्यादीनामुत्पत्तिदृश्यते; शुक्तिकारजतादि- वद्देशकालादिप्रतिपन्नोपाधौ बाधश्च न दृश्यते, अतः प्रतीतिशरणानां कारणात्कार्योत्पत्तिर- वश्याश्रयणीयेति; विकल्पासहत्वात् -कि हेमादिमात्रमेव स्वस्तिकादेरारम्भकम् ? उत रुचकादि ? अथ रुचकाद्याश्रयो हेमादि ? न तावद्ध मादिमात्रमारम्भकम्; हेमव्यतिरिक्तस्य कार्यस्याभावात्, स्वात्मानं प्रत्यात्मन आरम्भकत्वासंभवाच्च । हेमव्यतिरिक्तं स्वस्तिकं दृश्यत इति चेत्, न हेमव्यतिरिक्तं तत्, हेमप्रत्यभिज्ञानात्तदतिरिक्तवस्त्वन्तरानुपलब्धेश्च । बुद्धि- शब्दान्तरादिभिर्वस्त्वन्तरत्वं साधितमिति चेन्न, अनिरूपितवस्त्ववलम्बनानां बुद्धिशब्दान्तरा- दीनां शुक्तिकारजतशब्दबुद्धयादिवभ्रान्तिमूलत्वेन वस्त्वन्तरसद्भावस्यासाधकत्वात् । नापि रुचकादिस्वस्तिकादेरारम्भकम्, स्वस्तिके हि रुचकं पट इव तन्तवो भवताऽपि नोपलभ्यते । नापि रुचकाश्रयभूतं हेम, रुचकाश्रयाकारेण हेम्नस्स्वस्तिकेऽनुपलब्धेः ॥ अतो मृदादिकारणातिरिक्तस्य कार्यस्यासत्यत्वदर्शनाद्ब्रह्मव्यतिरिक्तं कृत्स्नं जगत् कार्यत्वेन मिथ्याभूतम् । तदिदं ब्रह्मव्यतिरिक्तमिथ्यात्वसुखप्रतिपत्तये काल्पनिकमृदादिसत्यत्व- माश्रित्य कार्यस्यासत्यत्वं प्रतिपादितम् । परमार्थतस्तु मृत्सुवर्णादिकारणमपि घटरुचकादि- कार्यवन्मिथ्याभूतम्, ब्रह्मकार्यत्वाविशेषात् । *ऐतदात्म्यमिदं सर्वं तत्तत्यम् *नेह नानास्ति किश्चन *मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् *इन्द्रो मायाभिः पुरुरूप ईयते* इत्येवमादिभिश्श्रुतिभिश्च ब्रह्मव्यतिरिक्तस्य मिथ्यात्वमवगम्यते । नचागमावगतार्थस्य प्रत्यक्षविरोधश्शनीयः; यथोक्तप्रकारेण कार्यस्य सर्वस्य मिथ्यात्वावगमात्, प्रत्यक्षस्य सन्मात्रविषयत्वाच्च । विरोधे सत्यप्यसंभावितदोषस्य चरमभाविनस्स्वरूपसद्भावादौ प्रत्यक्षाद्य- पेक्षत्वेऽपि प्रमितौ निराकाङ्क्षस्य निरवकाशस्य शास्त्रस्य बलीयस्त्वात् । अतः कारणभूताद्- ब्रह्मणोऽन्यत्सर्व मिथ्या ॥ नच प्रपञ्चमिथ्यात्वेन जीवमिथ्यात्वमाशङ्कनीयम्, ब्रह्मण एव जीवभावात् । ब्रह्मव हि सर्वशरीरेषु जीवभावमनुभवति *अनेन जीवेनात्मनाऽनुप्रविश्य *एको देवस्सर्वभूतेषु गूढः *एको देवो बहुधा निविष्टः *एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते *नान्योऽतोऽस्ति द्रष्टा* इत्येवमादिभ्यः। नन्वेकमेव ब्रह्म सर्वशरीरेषु जीवभावमनुभवति चेत्, पादे मे वेदना, शिरसि मे सुखमितिवत्सर्वशरीरेषु सुखदुःखप्रतिसन्धानं स्यात्; जीवेश्वरबद्धमुक्तशिष्टाचार्यज्ञत्वा- ज्ञत्वादिव्यवस्था च न स्यात् ॥ अत्र केचिदद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एवैवं समादधते.-एकस्यैव ब्रह्मणः प्रति- बिम्बभूतानां जीवानां सुखित्वदुःखित्वादय एकस्यैव मुखस्य प्रतिबिम्बानां मणिकृपाण- १८८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । दर्पणादिषुपलभ्यमानानामल्पत्वमहत्त्वमलिनत्वविमलत्वादिवत्तत्तदुपाधिवशात् व्यवस्थाप्यन्ते । ननु *अनेन जीवेनात्मनाऽनुप्रविश्येत्यादिश्रुतेर्न जीवा ब्रह्मणो भिद्यन्त इत्युक्तम्; सत्यम्, परमार्थतः; काल्पनिकं तु भेदमाश्रित्येयं व्यवस्थोच्यते । कस्य पुनः कल्पना ? न तावद्ब्रह्मणः, तस्य परिशुद्धज्ञानात्मनः कल्पनाशून्यत्वात् । नापि जीवानाम्, इतरेतराश्रयत्वप्रसङ्गात्- कल्पनाधीनो हि जीवभावः, जीवाश्रया च कल्पनेति । नैतदेवम्, अविद्याजीवभावयो- बोजाङ्करन्यायेनानादित्वात् । किञ्च-प्रासादनिगरणादिवदनुपपन्नतैकवेषायामवस्तुभूतायाम- विद्यायां नेतरेतराश्रयत्वादयो वस्तुदोषा अनवक्तृप्तिमावहन्ति । वस्तुतो ब्रह्माव्यतिरिक्तानां जीवानां स्वतो विशुद्धत्वेऽपि कृपाणादिगतमुखप्रतिबिम्बश्यामतादिवदौपाधिकाशुद्धिसंभवाद- विद्याश्रयत्वोपपत्तेः काल्पनिकत्वोपपत्तिः । प्रतिबिम्बगतश्यामतादिवज्जीवगताशुद्धिरपि भ्रान्तिरेव, अन्यथाऽनिर्मोक्षत्वप्रसङ्गात् । जीवानां भ्रमस्य प्रवाहानादित्वान्न तद्धतुरन्वे षणीयः-इति ॥ तदेतदविदिताद्वै तयाथात्म्यानां भेदवादश्रद्धालुजनसबहुमानावलोकनलिप्साविजृम्भि- तम् । तथा हि-जीवस्याकल्पितस्वाभाविकरूपेणाविद्याश्रयत्वे ब्रह्मण एवाविद्याश्रयत्वमुक्तं स्यात् । तदतिरिक्त न तस्मिन्कल्पितेनाकारेणाविद्याश्रयत्वे जडस्याविद्याश्रयत्वमुक्त स्यात् । न खल्वद्वैतवादिनस्तदुभयव्यतिरिक्तमाकरमभ्युपगच्छन्ति । कल्पिताकारविशिष्टेन स्वरूपे- वाविद्याश्रयत्वमिति चेत्, तन्न स्वरूपस्याखण्डकरसस्याविद्यामन्तरेण विशिष्टरूपत्वासिद्धेः; अविद्याश्रयाकार एव हि निरूप्यते ॥ किञ्च बन्धमोक्षादिव्यवस्थासिद्धयर्थं हि जीवाज्ञानवादाश्रयणम्, सा तु व्यवस्था जीवाज्ञानपक्षेऽपि न सिध्यति । अविद्याविनाश एव हि मोक्षः। तत्रैकस्मिन्मुक्त अविद्या- विनाशादितरेऽपि विमुच्येरन् । अन्यस्यामुक्तत्वादविद्या तिष्ठतीति चेत्, तर्केकस्याप्य- मुक्तिस्स्यात्, अविद्याया अविनष्टत्वात् । प्रतिजीवमविद्याभेद. कल्प्यते, तत्र यस्याविद्या विनष्टा, स मोक्ष्यते, यस्य त्वविनष्टा, स भन्त्स्यत इति चेत्, तन्न, प्रतिजीवमिति जीवभेद- माश्रित्य ब्रूषे, स जीवझेदः किं स्वाभाविकः ? उताविद्याकल्पितः ? न तावत्स्वाभाविकः, अनभ्युपगमात्; भेदसिद्धयर्थस्य चाविद्याकल्पनस्य व्यर्थत्वात् । अथाविद्याकल्पितः, तत्रेयं जीवभेदकल्पिकाऽविद्या कि ब्रह्मणः, इति चेत्, आगतोऽसि मदीयं मार्गम् । अथ जीवानाम्, किमस्या जीवभेदक्लुप्तिसिद्धयर्थतां विस्मरसि ? अथ प्रतिजीवं बद्धमुक्तव्यवस्थासिद्धयर्थं या अविद्याः कल्प्यन्ते, ताभिरेव जीवेभेदोऽपीति मनुषे, जीवे भेदसिद्धौ तास्सिद्धयन्ति, तासु सिद्धासु जीवभेदसिद्धिरितीतरेतराश्रयत्वम् । नचात्र बीजाङ्क रन्यायस्सिध्यति । बीजाङ्क रेषु ह्यन्यदन्यद्बीजमन्यस्यान्यस्याङ्क रस्योत्पादकम् । इह तु याभिरविद्याभिर्ये जीवाः कल्प्यन्ते, ?

द्वितीयाध्याये-प्रथमपादे-आरम्भणाधिकरणम् १६६ तानेवाश्रित्य तासां सिद्धिरित्यशकनीयता । अथ बीजाङ्क रन्यायेन पूर्वपूर्वजीवाश्रयाभिर- विद्याभिरुत्तरोत्तरजीवकल्पनां मन्यसे, तथा सति जीवानां भङ्ग रत्वमकृताभ्यागमकृतविप्र- णाशादिप्रसङ्गश्च । अत एव ब्रह्मणः पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवभावकल्पन- मित्यपि निरस्तम् । अविद्याप्रवाहेऽभ्युपगम्यमाने तत्कल्पितजीवभावस्यापि तद्वत्प्रवाहानादिता स्यात्; न ध्र वरूपता । आमोक्षाच्च जीवस्य ध्र वत्वमिष्ट न सिध्येत् ॥ यच्चोक्तमविद्याया अवस्तुरूपत्वेनानुपपन्नतैकवेषाया नेतरेतराश्रयत्वादयो वस्तुदोषा अनवक्तृप्तिमावहन्तीति, तथा सति मुक्ताव परञ्च ब्रह्माश्रयेदविद्या। शुद्धविद्यास्वरूपत्वाद- शुद्धिरूपा न तत्र प्रसजतीति चेत्, किमुपपत्त्यनुतिन्यविद्या ? एवं तमुक्ताभिरुपपत्तिभि- र्जीवानपि नाश्रयेत् । किश्च जीवाश्रयाया अविद्यायास्तत्त्वज्ञानोदयानाशे सति जीवो नश्येद्वा ? न वा ? यदि नश्येत्, स्वरूपोच्छित्तिलक्षणो मोक्षस्स्यात्; नो चेदविद्यानाशेऽप्यनिर्मोक्षः, ब्रह्मस्वरूपव्यतिरिक्तजीवत्वावस्थानात् ॥ यच्चोतं मणिकृपाणदर्पणादिलपलभ्यमानमुखमलिनत्वबिमलत्वादिवच्छुद्धयशुद्धयादि- व्यवस्थोपपत्तिरिति; तत्रेदं विमर्शनीयम् -अल्पत्वमलिनत्वादय औपाधिका दोषाः कदा नश्येयुरिति ? कृपाणाधुपाध्यपगम इति चेत्, कि तदाऽल्पत्वाद्याश्रयः प्रतिबिम्ब तिष्ठति वा, न वा ? तिष्ठति चेत्, तत्स्थानीयस्य जीवस्यापि स्थितत्वादनिर्मोक्षप्रसङ्गः । नश्यति चेत्, तद्वदेव जीवनाशात्स्वरूपोच्छित्तिलक्षणो मोक्षस्स्यात् । किञ्च यस्य ह्यपुरुषार्थरूपदोषप्रतिभासः, तस्य तदुच्छेदः पुरुषार्थः; तत्र किमौपाधिकदोषप्रतिभासो बिम्बस्थानीयस्य ब्रह्मणः ? उत प्रतिबिम्बस्थानीयस्य जीवस्य ? उतान्यस्य कस्यचित् ? प्राद्ययोः कल्पयोदृष्टान्तोऽयं न सङ्गच्छते, मुखस्य मुखप्रतिबिम्बस्य चाल्पत्वादिदोषप्रतिभासशून्यत्वात् नहि मुखं तत्प्रतिबिम्ब वा चेतयते । ब्रह्मणो दोषप्रतिभासे ब्रह्माविद्याप्रसङ्गश्च । तृतीयोऽपि कल्पो न कल्पते, जीव- ब्रह्मव्यतिरिक्तस्य द्रष्टुरभावात् ॥ किञ्च अविद्याकल्प्यस्य जीवस्य कल्पकः क इति निरूपणीयम् । न तावदविद्या, अचेतनत्वात् । नापि जीवः; आत्माश्रयदोषप्रसङ्गात्; शुक्तिकारजतादिवदविद्याकल्प्यत्वाच्च जीवभावस्य । ब्रह्मव कल्पकमिति चेत्, ब्रह्माज्ञानमेवायातम् । किञ्च ब्रह्माज्ञानानभ्युपगमे किं ब्रह्म जीवान्पश्यति वा ? न वा ? न पश्यति चेत्, ईक्षापूर्विकाविचित्रसृष्टिनामरूप- व्याकरणमित्यादि ब्रह्मणो न स्यात् । अथ पश्यति, अखण्डैकरसं ब्रह्म नाविद्यामन्तरेण जीवान्पश्यतीति ब्रह्माज्ञानप्रसङ्गः। अत एव मायाविद्याविभागवादोऽपि निरस्तः। अज्ञान- मन्तरेण हि मायिनोऽपि ब्रह्मणो जीवशित्वं न स्यात् । नच मायावी परानदृष्ट्वा मोहयितु- मलम् । नापि माया मायाविनो दर्शनसाधनम्, दृष्टेषु परेषु तन्मोहनसाधनमात्रत्वात्तस्याः । ? ? ?

२०० श्रीभगवद्राम नुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ ब्रह्मणो माया तस्य जीवशित्वं कुर्वती जीवमोहनस्य हेतुरिति मन्यसे; तर्हि परिशुद्धस्याखण्डै करसस्वप्रकाशस्य ब्रह्मणः परदर्शनं कुर्वती माया मायापरपर्याया अविद्यैव स्यात् ॥ ? अथ मतम् - विपरीतदर्शनहेतुरविद्या, माया तु मिथ्याभूतं ब्रह्मव्यतिरिक्तं मिथ्यात्वेन दर्शयन्ती न ब्रह्मणो विपरीतदर्शनहेतुः । अतस्तस्या नाविद्यात्वमिति । नवम्-चन्द्रकत्वे ज्ञायमाने द्विचन्द्रदर्शनहेतोरप्यविद्यात्वात् । यदि च ब्रह्म मिथ्यात्वेनैव स्वव्यतिरिक्तं जानाति, न तर्हि तन्मोहयति । न ह्यनुन्मत्तो मिथ्यात्वेन ज्ञातान्मोहयितुमीहते । अथापुरुषार्थापरमार्थ- दर्शनहेतुरविद्या, माया तु ब्रह्मणो नापुरुषार्थदर्शनहेतुः; अतोऽस्या नाविद्यात्वमिति मतम्; तन्न, द्विचन्द्रज्ञानस्य दुःखहेतुत्वाभावेनापुरुषार्थत्वाभावेऽपि तद्धेतुरविद्यैव, तन्निरसने च प्रयस्यन्ति । यदि च नापुरुषार्थदर्शनकरी माया; तर्झनुच्छेद्यतया नित्या ब्रह्मस्वरूपानुबन्धिनी स्यात् । अस्तु को दोष इति चेत्, द्वैतदर्शनमेव दोषः । *यत्र हि द्वैतमिव भवति...यत्र त्वस्य सर्वमात्मैवाभूत्तकेन कं पश्येत् अइत्याद्यद्वैतश्रुतयः प्रकुष्येयुः । परमार्थविषया अद्वैतश्रुतयः; मायायास्त्वपरमार्थत्वादविरोध इति चेत्, अपरिच्छिन्नानन्दैकस्वरूपस्य ब्रह्मणोऽपरमार्थभूत- मायादर्शनं तद्वत्ता चाविद्यामन्तरेण नोपपद्यते ॥ किञ्च अपरमार्थभूतया नित्यया मायया कि प्रयोजनं ब्रह्मणः ? जीवमोहनमिति चेत्, अपुरुषार्थेन मोहनेन किं प्रयोजनम् ? क्रीडेति चेत्, अपरिच्छिन्नानन्दस्य किं क्रीडया ? परि- पूर्णभोगानामेव क्रीडा पुरुषार्थत्वेन लोके दृष्टे ति चेत्, नैवमिहोपपद्यते; न ह्यपरमार्थभूतैः क्रीडोपकरणैरपरमार्थतया प्रतिभासमाननिष्पन्नयाऽपरमार्थभूतया क्रीडयाऽपरमार्थभूतेन च तत्प्रतिभासेनानुन्मत्तानां क्रीडारसो निष्पद्यते । मायाश्रयतयाऽभिमतब्रह्मव्यतिरेकेणाविद्या- श्रयस्य जीवस्य कल्पनासंभवश्च पूर्ववदेव द्रष्टव्यः । अतो ब्रह्मवानाद्यविद्याशबलं स्वगतनानात्वं पश्यतीत्यद्वितीयत्वं ब्रह्मणोऽभ्युपयद्भिरभ्युपेत्यम् ॥ यत्तु बन्धमोक्षव्यवस्था नोपपद्यत इति, न तद्ब्रह्माज्ञानवादिनश्चोद्यम्, एकस्यैव ब्रह्मणोऽज्ञस्य स्वाज्ञाननिवृत्त्या मोक्षमाणत्वाबद्धमुक्तादिव्यवस्थाया एवाभावात्, व्यवह्रिय- माणायाश्च बद्धमुक्तशिष्याचार्यादिव्यवस्थायाः काल्पनिकत्वात्, स्वप्नदशिन इव चैकस्यैवा- विद्यया सर्वकल्पनोपपत्तेः; स्वप्नदृशा टेकेन दृष्टाश्शिष्याचार्यादयस्तदविद्याकल्पिता एव । अत एव बह्वविद्याकल्पनमपि न युक्तिमत् । पारमार्थिको बन्धमोक्षव्यवस्था स्वपरव्यवस्था च जीवाज्ञानवादिनाऽपि नाभ्युपेयते । अपारमार्थिकी त्वेकस्यैवाविद्ययोपपद्यते ॥ प्रयोगश्च-बन्धमोक्षव्यवस्था स्वपरव्यवस्थाश्च स्वविद्याकल्पिताः, अपारमाथिक- त्वात्, स्वप्नदृष्टव्यवस्थावदिति । शरीरान्तराण्यपि मयैवात्मवन्ति, शरीरत्वात्, एतच्छ- द्वितीयाध्याये-प्रथमपादे-आरम्भणाधिकरणम् । २०१ रीरवत् । शरीरान्तराण्यपि मदविद्याकल्पितानि, शरीरत्वात्, कार्यत्वात्, जडत्वात्, कल्पित- त्वाद्वा; एतच्छरीरवत् । विवादाध्यासितं चेतनजातमहमेव, चेतनत्वात्, यदनहम् तदचेतनं दृष्टम्, यथा घटः अतस्स्वपरविभागो बद्धमुक्तशिष्याचार्यादिव्यवस्थाश्च कस्याविद्या- कल्पिताः ॥ द्वैतवादिनाऽपि बद्धमुक्तव्यवस्था दुरुपपादा; अतीतानां कल्पनामानन्त्यादेकैकस्मि- न्कल्पे एकैकमुक्तावपि सर्वेषां मोक्षसंभवादमुक्तानुपपत्तेः । अनन्तत्वादात्मनाममुक्ताश्च सन्तीति चेत्, किमिदमनन्तत्वम् ? असङ्ख्य यत्वमिति चेन्न, भूयस्त्वादल्प रसङ्घय यत्वेऽपीश्वरस्य सर्वज्ञस्य सङ्घय या एव । तस्याप्यशक्यत्वे सर्वज्ञत्वं न स्यात्; आत्मनां निस्सङ्घयत्वादीश्वर- स्याविद्यमानसङ्ख्यावेदनाभावो नासावश्यनावहतीति चेत्, भिन्नत्वे सङ्ख्या विधुरत्वं नोप- पद्यते । आत्मानस्सङ्घयावन्तः, भिन्नत्वात्, माषसर्षपघटपटादिवत् । भिन्नत्वे चात्मनां घटादिवज्जडत्वमनात्मत्वं क्षयित्वं च प्रसज्यते । ब्रह्मणश्चानन्तत्वं न स्यात् । अनन्तत्वं नाम परिच्छेदरहितत्वम् । भेदवादे च वस्त्वन्तराद्विलक्षणत्वेन ब्रह्मणो वस्तुतः परिच्छेदरहितत्वं न शक्यते वक्तुम्; वस्त्वन्तरभाव एव हि वस्तुतः परिच्छेदः । वस्तुतः परिच्छिन्नस्य देशतः कालतश्चापरिच्छिन्नत्वं च न युज्यते; वस्त्वन्तराद्विलक्षणत्वेन वस्तुतः परिच्छिन्ना एव घटा- दयो देशतः कालतश्च परिछिन्ना हि दृष्टाः; तथा सर्वे चेतनाः ब्रह्म च वस्तुतः परिच्छिन्ना देशकालाभ्यामपि परिच्छिद्यन्ते । एवञ्च *सत्यं ज्ञानमनन्तमित्यादिभिस्सर्वप्रकारपरिच्छेद- रहितत्वं वद्भिविरोधः । उत्पत्तिविनाशादयश्च जीवानां ब्रह्मणश्च प्रसज्येरन् । कालपरिच्छेद एव हयुत्पत्तिविनाशभागित्वम् । अत एकस्यैवापरिच्छिन्नस्य ब्रह्मणोऽविद्याविजृम्भितं ब्रह्मादिस्तम्बर्पयन्तं कृत्स्नं जगत् । सुखदुःखप्रतिसन्धानव्यवस्थादयोऽपि स्वाप्नव्यवस्थावद- विद्यास्वाभाव्यादुपपद्यन्ते । तस्मादेकमेव नित्यमुक्तस्वप्रकाशस्वभावमनाद्यविद्यावशाज्जगदा- कारेण विवर्तत इति परमार्थतो ब्रह्मव्यतिरिक्ताभावात्तदनन्यत्वं जगतः-इति ॥ अत्रोच्यते-निविशेषस्वप्रकाशमानं ब्रह्मानाद्यविद्यातिरोहितस्वस्वरूपं स्वगतनानात्वं पश्यतीत्येतत् प्रकाशस्वरूपस्य निरंशस्य प्रकाशनिवृत्तिरूपतिरोधाने स्वरूपनाशप्रसङ्गेन तिरोधानासंभवादिभ्यस्सकलप्रमाणविरुद्धं स्ववचनविरुद्धं चेति पूर्वमेवोक्तम् । यत्पुनरुक्तं कारणव्यतिरिक्त कार्य युक्तिबाधितत्वेन शुक्तिकारजतादिवभ्रम इति; तदयुक्तम्, युक्तेर- भावात् । यत्त्वनुवर्तमानस्य कारणमात्रस्य सत्यत्वम्, व्यावर्तमानानां घटशरावादिकार्याणाम- सत्यत्वमिति; तदप्यन्यत्र दृष्टस्यान्यत्र व्यावर्तमानता न बाधिकेत्यादिभिः पूर्वमेव परिहतम् । यच्चोपलभ्यमानत्वविनाशित्वाभ्यां सदसदनिर्वचनीयत्वेन कार्यस्य मृषात्वमिति; तदसत्, उप- लब्धिविनाशयोगो हि न मिथ्यात्वं साधयति, कित्वनित्यत्वम् । यद्दे शकालसंबन्धितया यदुप- २०२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - लब्धम्, तद्दे शकालसंबन्धितया बाधितत्वमेव हि तस्य मिथ्यात्वे हेतुः । देशान्तरकालान्तर- संबन्धितयोपलब्धस्यान्यदेशकालसंबन्धित्वेन बाधितत्वं देशान्तरकालान्तराव्याप्तिमात्रं साध- यति, न तु मिथ्यात्वम् । प्रतिप्रयोगश्च-घटादिकार्य सत्यम्, देशकालादिप्रतिपन्नोपाधाव- बाधितत्वात्, आत्मवत् ॥ यच्चोक्तं कारणस्वरूपादविकृताद्विकृताञ्च कार्योत्पत्तिर्न संभवतीति; तदसत्, देश- कालादिसहकारिसमवहितात्कारणात्कार्योत्पत्तिसंभवात् । तत्समवधानं च विकृतस्याविकृतस्य च न संभवतीति यदुक्तम्; तदयुक्तम् पूर्वमविकृतस्येव कालादिसमवधानसंभवात् । अवि- कृतत्वाविशेषात् पूर्वमपि देशकालादिसमवधानं प्रसज्यत इति चेन्न; देशकालादिसमवधानस्य कारणान्तरायत्तस्यैतदायत्तत्वाभावात् । अतो देशकालादिसमवधानरूपविशेषमापन्न कारणं कार्यमुत्पादयतीति न किश्चिदवहीनम् । कारणस्य च कार्य प्रत्यारम्भकत्वमबाधितं दृश्यमानं न केनापि प्रकारेणापह्नोतुं शक्यते ॥ यत्तु हेमादिमात्रस्य, रुचकादिकार्यस्यैतदाश्रयस्य वा हेमादेरारम्भकत्वं न संभव- तीति; तदयुक्तम्, हेमादिमात्रस्यैव यथोक्तपरिकरयुक्तस्यारम्भकत्वसंभवात् । न चारम्भक- हेमव्यतिरिक्त कार्य न दृश्यत इति वक्तुं शक्यम्; हेमातिरिक्तस्य स्वस्तिकस्य दर्शनात्, बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरस्य साधितत्वाच्च । नचायं शुक्तिकारजतादिवभ्रमः, उत्पत्ति- विनाशयोरन्तराल उपलभ्यमानस्य तद्दे शकालसंबन्धितया बाधादर्शनात् । नचास्या उपलब्धे- र्वाधिका काचिदपि युक्तिदृश्यते । प्रागनुपलब्धस्वस्तिकोपलब्धिवेलायामपि हेमप्रत्यभिज्ञा स्वस्तिकाश्रयतया हेम्नोऽप्यनुवृत्तेरविरुद्धा ।। श्रुतिभिस्तु पञ्चमिथ्यात्वसाधनं पूर्वमेव निरस्तम् । यच्चान्यदत्र प्रत्यक्षाविरोधादि प्रतिवक्तव्यम्, तदपि सर्वं पूर्वमेव सूक्तम् ॥ यच्चोक्तमेकेनात्मना सर्वाणि शरीराण्यात्मवन्तीति; तदसत्, एकस्यैव सर्वशरीर- प्रयुक्तसुखदुःखप्रतिसन्धानप्रसङ्गात् । सौभरिप्रभृतिषु ह्यात्मैकत्वेनानेकशरीरप्रयुक्तसुखादिप्रति- सन्धानमेकस्य दृश्यते । न चाहमर्थस्य ज्ञातृत्वात्तद्भदात्प्रतिसन्धानाभावो, नात्मभेदादिति वक्तुं शक्यम्; आत्मा ज्ञातैव, स चाहमर्थ एव, अन्तःकरणभूतस्त्वहङ्कारो जडत्वात्करणत्वाच्च शरीरेन्द्रियादिवन्न ज्ञातेत्युपपादितत्वात् । यच्च शरीरत्वजडत्वकार्यत्वकल्पितत्वैस्सर्वशरीरा- णामेकस्याविद्याकल्पितत्वमुक्तम्; तदपि सर्वशरीराणामविद्याकल्पितत्वस्यैवाभावादयुक्तम् । तदभावश्चाबाधितस्य सत्यत्वोपपादनात् । यच्च चेतनादन्यस्य जडत्वदर्शनात्सर्वचेतनानाम- नन्यत्वमुक्तम्, तदपि सुखदुःखव्यवस्थया भेदोपपादनादेव निरस्तम् ॥ यत्तु मयैवात्मवन्ति, मदविद्याकल्पितानि अहमेव सर्व चेतनजातमित्यहमर्थस्यैक्य- द्वितीयाध्याये-प्रथमपादे-आरम्भणाधिकरणम् । २०३ मुपपादितम्, तदज्ञातस्वसिद्धान्तस्य भ्रान्तिजल्पितम्; अहंत्वमाद्यर्थविलक्षणं चिन्मात्रं ह्यात्मा त्वन्मते ॥ किन निविशेषचिन्मात्रातिरेकि सर्व मिथ्येति बदतो मोक्षार्थश्रवणादिप्रयत्नो निष्फलः; अविद्याकार्यत्वात्; शुक्तिकारजतादिषु रजताधुपादानादिप्रयत्नवत् । मोक्षार्थप्रयत्नो व्यर्थः; कल्पिताचार्यायत्तज्ञानकार्यत्वात्, शुकप्रह्लादवामदेवादिप्रयत्नवत् । तत्त्वमस्यादिवाक्य- जन्यज्ञानं न बन्धनिवर्तकम्, अविद्याकल्पितवाक्यजन्यत्वात्, स्वयमविद्यात्मकत्वात्, अविद्या- कल्पितज्ञात्राश्रयत्वात्, कल्पिताचार्यायत्तश्रवणजन्यत्वाद्वा, स्वाप्नबन्धनिवर्तनवाक्यजन्य- ज्ञानवत् । किञ्च निविशेषचिन्मात्रं ब्रह्म मिथ्या, अविद्याकार्यज्ञानगम्यत्वात्, अविद्याकल्पित- ज्ञात्राश्रयज्ञानगम्यत्वात्, अविद्यात्मकज्ञानगम्यत्वाद्वा, यदेवं तत्तथा, यथा स्वाप्नगन्धर्व- नगरादिः॥ नच निविशेषचिन्मानं ब्रह्म स्वयं प्रकाशते, येन न प्रमाणान्तरमपेक्षते। यत्त्वात्म- साक्षिकं स्वयंप्रकाशज्ञानं दृश्यते, तत्तु ज्ञेयविशेषसिद्धिरूपं ज्ञातृगतमेव दृश्यत इति पूर्व- मेवोक्तम् । यानि च तस्य निविशेषत्वसाधकानि यौक्तिकानि ज्ञानान्युपन्यस्तानि, तानि चानन्तरोक्तरविद्याकार्यत्वादित्यादिभिरनुमा निरस्तानि । नच निविशेषस्य चिन्मात्रस्या- ज्ञानसाक्षित्वमहङ्कारादिजगभ्रमश्वोपपद्यते । साक्षित्वभ्रमादयोऽपि हि ज्ञातृविशेषगता दृष्टाः; न ज्ञप्तिमात्रगताः । नच तस्य प्रकाशत्वं स्वायत्तप्रकाशता वा सिध्यति । प्रकाशो हि कस्य- चित्पुरुषस्य कञ्चनार्थविशेष प्रति सिद्धिरूपो दृश्यते । तत एव हि तस्य स्वयंप्रकाशतोपपाद्यते भवद्भिरपि । नचातादृशस्य निविशेषस्य प्रकाशता संभवति ।। यः पुनः स्वगोष्ठोष्वपरमार्थादपि परमार्थकार्य दृश्यत इत्युद्घोषः, सोऽपि तानि कार्याणि सर्वाण्यबाधितकल्पानि व्यावहारिकसत्यानि; वस्तुतस्त्वविद्यात्मकान्येवेति स्वाभ्यु- पगमादेव निरस्तः । अस्माभिरपि सर्वत्र परमार्थादेव कारणात्सर्वकार्योत्पत्तिमुपपादयद्भिः पूर्वमेव निरस्तः । नच त्वयैषामनुमानानां श्रुतिविरोधो वक्तुं शक्यते, श्रुतेरप्यविद्यात्मकत्वेन चोक्तदृष्टान्तेभ्यो विशेषाभावात् ॥ यत्तु ब्रह्मणोऽपारमार्थिकज्ञानगम्यत्वेऽपि पश्चात्तनबाधादर्शनाद्ब्रह्म सत्यमेवेति; तदसत्, दुष्टकारणजन्यज्ञानगम्यत्वे निश्चिते सति पश्चात्तनबाधादर्शनस्याकिञ्चित्करत्वात्; यथा शून्यमेव तत्त्वमिति वाक्यजन्यज्ञानस्य पश्चात्तनबाधादर्शनेऽपि दोषमूलत्वनिश्चयादेव तदर्थस्यासत्यत्वम् ॥ किञ्च नेह नानाऽस्ति किश्चन *विज्ञानमानन्दं ब्रह्मेति विज्ञानमात्रातिरिक्तस्य कृत्स्नस्य वस्तुजातस्य निषेधकत्वेन सर्वस्मात्परत्वात्पश्चात्तनबाधादर्शनमुच्यते; शून्यमेव २०४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । तत्त्वमिति तस्याप्यभावं वदतस्तस्मात्परत्वेन पश्चात्तनबाधो दृश्यते । सर्वशून्यत्वातिरेकि- निषेधासंभवात्तस्यैव पश्चात्तनबाधादर्शनम् । दोषमूलत्वं तु प्रत्यक्षादीनां वेदान्तजन्मनस्सर्व- शून्यज्ञानस्याप्यविशिष्टम् ॥ अतस्सर्व विज्ञानजातं पारमार्थिकज्ञातृगतम्, स्वयं च परमार्थभूतमर्थविशेषसिद्धिरूपम्; तत्र किञ्चित् ज्ञानं दोषमूलम्; दोषश्च परमार्थः; किश्चिञ्च निर्दोषं पारमार्थिकसामग्रीजन्यमिति यावन्नाभ्युपेयते, न तावत्सत्यमिथ्यार्थव्यवस्था लोकव्यवहारश्च सेत्स्यति। लोकव्यवहारो हि पारमार्थिको भ्रान्तिरूपश्च पारमार्थिकज्ञातृगतार्थविशेषसिद्धिरूपप्रकाशपूर्वकः; निविशेष- सन्मात्रस्य तु पारमार्थिकस्यापारमार्थिकस्य च प्रतिभासादेर्हेतुत्वासंभवात् लोकव्यवहारो न संभवति ॥ यच्च तैनिरधिष्ठानभ्रमासंभवात्सर्वाध्यासाधिष्ठानस्य सन्मात्रस्य पारमार्थिकत्वमुक्तम्, तदपि दोषदोषाश्रयत्वज्ञातृत्वज्ञानानामपारमार्थेऽपि भ्रमोपपत्तिवदधिष्ठानापारमार्थेऽपि भ्रमोपपत्तेनिरस्तम् । अथ अधिष्ठानापारमार्थेऽपि न कचिभ्रमो दृष्ट इति सन्मात्रस्य पारमार्थिकत्वमवश्याश्रयणीयमिति मन्यसे, हन्त तहि दोषदोषाश्रयत्वज्ञातृत्वज्ञानानामपार- मार्थोऽपि न कचिभ्रमो दृष्ट इति दर्शनानुगुण्येन तेषामपि पारमार्थ्यमवश्याश्रयणीयमिति न कश्चिद्विशेषोऽन्यत्र तत्संरम्भात् ॥ यत्तु भेदपक्षेऽप्यतीतकल्पानामानन्त्यात्सर्वेषामात्मनां मुक्तत्वेन बद्धासंभवाबद्धमुक्त- व्यवस्था न संभवतीति, तदात्मानन्त्येन परिहतम् । यत्त्वात्मनां भिन्नत्वे माषसर्षपघटपटादिवत्स- ङ्ख्यावत्त्वमवर्जनीयमिति, तत्र घटादीनाप्यनन्तत्वादृष्टान्तस्साध्यविकलस्स्यात् । दशघटा- स्सहस्र माषा इति सङ्घयावत्त्वं दृश्यत इति चेत्, सत्यं, तत्तु न घटादिस्वरूपगतम्, अपितु देशकालाधुपाधिमद्घटादिगतम् तादृशं तु सङ्ख्यावत्त्वमात्मनामभ्युपगच्छामः । नच तावता सर्वमुक्तिप्रसङ्गः, आत्मस्वरूपानन्त्यात् ॥ यत्तु आत्मनां भिन्नत्वे घटादिवज्जडत्वानात्मत्वक्षयित्वप्रसङ्ग इति; तदयुक्तं, एक- जातीयानां भेदस्य तज्जातीयानां जात्यन्तरीयत्वानापादकत्वात् नहि घटानां भेदः तेषां पटत्व- मापादयति ॥ यत्तु भिन्नत्वे वस्तुतः परिच्छेदाद्देशकालाभ्यामपि परिच्छेदो ब्रह्मणः प्रसज्यत इत्य- नन्तत्वं ब्रह्मणो न सिध्यतीति; तदयुक्तं, वस्तुतः परिच्छिन्नानामपि देशकालपरिच्छेदस्य न्यूनाधिकभावेनानियमदर्शनात्; देशकालसंबन्धेयत्तायाः प्रमाणान्तरायत्तनिर्णयत्वेन ब्रह्मण- स्सर्वदेशकालसंबन्धस्यापि प्रमाणान्तरादापततो विरोधाभावात् । वस्तुतः परिच्छेदमात्रादपि सर्वप्रकारपरिच्छेदरहितत्वाभावादानन्त्यासिद्धिरिति . चेत्, तद्भवतोऽप्यविद्याविलक्षणत्वं द्वितीयाध्याये-प्रथमपादे-आरम्भणाधिकरणम् । २०५ ब्रह्मणोऽभ्युपयतस्समानम् । अतस्सतोऽविद्याविलक्षणत्वाभ्युपगमात् ब्रह्मणोऽपि भिन्नत्वेन भेदप्रयुक्ता दोषास्सर्वे तवापि प्रसज्येरन् । यद्यविद्याविलक्षणत्वं नाभ्युपेयते; तमु विद्यात्मक- मेव ब्रह्म स्यात् । *सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणवाक्यमपि तत एवापार्थकं स्यात् । भेदतत्त्वानभ्युपगमे हि स्वपक्षपरपक्षसाधनदूषणादिविवेकाभावात्सर्वमसमञ्जसं स्यात् । आनन्त्यप्रसिद्धिश्च देशकालपरिच्छेदरहितत्वमात्रेण; न वस्तुतोऽपि परिच्छेदरहितत्वेन, तथा- विधस्य शशविषाणायमानस्यानुपलब्धेः । ॐदवादिनस्तु सर्वचिदचिट्टस्तुशरीरत्वेन ब्रह्मण- स्सर्वप्रकारत्वात् स्वतः परतोऽपि परिच्छेदो न विद्यते । तदेवं कारणाद्भिन्नस्य कार्यस्य सत्य- त्वाद्ब्रह्मकार्य कृत्स्नं जगद्ब्रह्मणोऽन्यदेव ।। इति प्राप्त प्रचक्ष्महे-तदनन्यत्वमारम्भणशब्दादिभ्यः । तस्मात् परमकारणाइ- ब्रह्मणः, अनन्यत्वं जगतः आरम्भणशब्दादिभ्यः तदुपपादयद्भयोऽवगम्यते । आरम्भणशब्दः आदिर्येषां वाक्यानाम्, तान्यारम्भणशब्दादीनि-*वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् *सदेव सोम्येदमन आसोदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत *अनेन जावेनात्मनानुप्रविश्य सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः...ऐत- दात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो* इत्येतानि; प्रकरणान्तरस्थान्यप्ये- वंजातीयकान्यत्राभिप्रेतानि । एतानि हि वाक्यानि चिदचिदात्मकस्य जगतः परस्माद्ब्रह्मणो- ऽनन्यत्वमुपपादयन्ति ॥ तथा हि-*स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कृत्स्नं जगतो ब्रह्मककारणत्वम्, कारणात्कार्यस्यानन्यत्वं च हृदि निधाय कारणभूतब्रह्मविज्ञानेन कार्यभूतस्य सर्वस्य विज्ञाने प्रतिज्ञाते सति कृत्स्नस्य ब्रह्मककारण- तामजानता शिष्येण *कथं नु भगवस्स आदेशः* इत्यन्यज्ञानेनान्यज्ञाततासंभवं चोदितो, जगतो ब्रह्म ककारणतामुपदेश्यन्, लौकिकप्रतीतिसिद्धं कारणात्कार्यस्यानन्यत्वं तावत् यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यात् इति दर्शयति । यथैकमृत्पिण्डारब्धानां घटशरावादीनां तस्मादनतिरिक्तद्रव्यतया तज्ज्ञानेन ज्ञाततेत्यर्थः ।। अत्र काणादवादेन कारणात्कार्यस्य द्रव्यान्तरत्वमाशङ्कय लोकप्रतीत्यैव कारणा- कार्यस्यानन्यतामुपपादयति *वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति । आरभ्यते आलभ्यते स्पृश्यते इत्यारम्भणम्; *कृत्यल्युटो बहुलम् इति कर्मणि ल्युट् । वाचा-वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थः । 'घटेनोदकमाहर' इत्यादिवाक्पूर्वको अ॒ दकाहर- णादिव्यवहारः; तस्य व्यवहारस्य सिद्धये, तेनैव मृद्रव्येण पृथुबुध्नोदरत्वादिलक्षणो २०६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । विकारः-संस्थानविशेषः, तत्प्रयुक्त च घट इत्यादिनामधेयम्, स्पृश्यते-उदकाहरणादिव्य- वहारविशेषसिद्धयर्थ मृद्रव्यमेव संस्थानान्तरनामधेयान्तरभाग्भवति । अतो घटाद्यपि मृत्तिकेत्येव सत्यम् -मृत्तिकाद्रव्यमित्येव सत्यम्, प्रमाणेनोपलभ्यत इत्यर्थः, नतु द्रव्यान्तर- त्वेन । अतस्तस्यैव मृद्धिरण्यादेव्यस्य संस्थानान्तरभाक्त्वमात्रेण बुद्धिशब्दान्तरादय उपप- द्यन्ते; यथैकस्यैव देवदत्तस्यावस्था दैः बालो युवा स्थविर इति बुद्धिशब्दान्तरादयः कार्य- विशेषाश्च दृश्यन्ते ॥ यदुक्त सत्यामेव मृदि घटो नष्ट इति व्यवहारात्कारणादन्यत्कार्यमिति, तदुत्पत्ति- विनाशादीनां कारणभूतस्यैव द्रव्यस्यावस्थाविशेषत्वाभ्युपगमादेव परिहृतम् । तत्तदवस्थस्यै- कस्यैव द्रव्यस्य तेते शब्दास्तानितानि च कार्याणीति युक्तम् । द्रव्यस्य तत्तदवस्थत्वं कारक- व्यापारायत्तमिति तस्यार्थवत्त्वम् ।। अभिव्यक्त्यनुबन्धीनि चोद्यानि तस्या अनभ्युपगमादेव परिहतानि । उत्पत्त्य- भ्युपगमेऽपि सत्कार्यवादो न विरुध्यते; सत एवोत्पत्तेः । विप्रतिषिद्धमिदमभिधीयते-पूर्वमेव सत्, तदुत्पद्यते चेति । अज्ञातोत्पत्तिविनाशयाथात्म्यस्येदं चोद्यम्; द्रव्यस्योत्तरोत्तरसंस्थान- योगः पूर्वपूर्वसंस्थानसंस्थितस्य विनाशः, स्वावस्थस्य तूत्पत्तिः। अतस्सर्वावस्थस्य द्रव्यस्य सत्त्वात्सत्कार्यवादो न विरुध्यते । संस्थानस्यासत उत्पत्तावसत्कार्यवादप्रसङ्ग इति चेत्, असत्कार्यवादिनोऽप्युत्पत्तेरनुत्पत्तिमत्त्वे सत्कार्यवादप्रसङ्गः; उत्पत्तिमत्त्वे चानवस्था । अस्माकं त्ववस्थानां पृथक्प्रतिपत्तिकार्ययोगानहत्वादवस्थावत एवोत्पत्त्यादिकं सर्वमिति निरवद्यम् । कपालत्वचूर्णत्वपिण्डत्वावस्थाप्रहाणेन घटत्वावस्थावदेकत्वावस्थाप्रहाणेन बहुत्वावस्था, तत्प्रहाणेनैकत्वावस्था चेति न कश्चिद्विरोधः ॥ तथा संसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति सदेवेदम् इदानों विभक्तनामरूप- त्वेन नानारूपं जगत् अग्रे नामरूपविभागाभावेनैकमेवासीत्, सर्वशक्तित्वेनाधिष्ठात्रन्तरासहतया अद्वितीयं चेत्यनन्यत्वमेवोपपादितम् । तथा तदैक्षत बहु स्यां प्रजायेयेति त्रक्ष्यमाणतेजःप्रभृति- विविधविचित्रस्थिरत्रसरूपजगत्त्वेनात्मनो बहुभवनं सङ्कल्प्य जगत्सर्गाभिधानात्कार्यभूतस्य जगतः परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमवसीयते । सच्छब्दवाच्यस्य परस्य ब्रह्मण- स्सर्वज्ञस्य सत्यसङ्कल्पस्य निरवद्यस्यैव सदेवेदमिति निर्देशाहजगत्त्वन्, सच्छब्दवाच्यस्यैव जगतो नामरूपविभागाभावेनैकत्वमधिष्ठात्रन्तरनिरपेक्षत्वम्, पुनरपि तस्यैव विचित्रस्थिरत्र- सरूपजगत्त्वेन बहुभवनसङ्कल्परूपेक्षणम्, यथासङ्कल्पं सर्गश्च कथमुपपद्यत इत्याशङ्कयाह *सेयं देवतक्षत हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरण- वाणीति तासां त्रिवृतं त्रिवृतम्* इत्यादि। *तिस्रो देवता इति कृत्स्नमचिद्वस्तु निदिश्य द्वितीयाध्याये--प्रथमपादे--आरम्भणाधिकरणम् । २०७ स्वात्मकजीवानुप्रवेशेनैतद्विचित्रनामरूपभाक्करवाणीत्युक्तम् । अनेन जोवेनात्मना-मदात्मक जीवेन आत्मतयाऽनुप्रविश्यैतद्विचित्रनामरूपभाक्करवाणीत्यर्थः । स्वात्मनो जीवस्य चात्म- तयाऽनुप्रवेशकृतं नामरूपभाक्त्वमित्युक्तं भवति । तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत् इति श्रुत्यन्तरेण स्पष्ट सजीवं जगत्परेण ब्रह्मणा आत्मतयाऽनुप्रविष्ट- मिति । तदेतत्कार्यावस्थस्य च कारणावस्थस्य च चिदचिद्वस्तुनः स्थूलस्य सूक्ष्मस्य च परब्रह्मशरीरत्वम्, परस्य च ब्रह्मण आत्मत्वमन्तर्यामिब्राह्मणादिषु सिद्धं स्मारितम् । अनेन पूर्वोक्ता शङ्का निरस्ता। अचिद्वस्तुनि सजीवे ब्रह्मण्यात्मतयाऽवस्थिते नामरूपव्याकरण- वचनाच्चिदचिद्वस्तुशरीरकं ब्रह्म व जगच्छब्दवाच्यमिति *सदेवेदमग्र एकमेवासीदित्यादि सर्वमुपपन्नतरम् । शरीरभूतचिदचिद्वस्तुगतास्सर्वे विकाराश्चापुरुषार्थाश्चेति ब्रह्मणो निरवद्यत्वं कल्याणगुणाकरत्वं च सुस्थितम् । तदेतत् *अधिकं तु भेदनिर्देशात्*इत्यनन्तरमेव वक्ष्यति । तथा ऐतदात्म्यमिदं सर्वमिति कृत्स्नस्य चेतनाचेतनस्य ब्रह्मतादात्म्यमुपदिशति । तदेव च *तत्त्वमसीति निगमयति ।। तथा प्रकणान्तरस्थेष्वपि वाक्येषु सर्वं खल्विदं ब्रह्म *आत्मनि खल्वरे दृष्ट श्रुते मते विज्ञात इदं सर्वं विदितम् इदं सर्वं यदयमात्मा ब्रह्मवेदं सर्वम् *आत्मैवेदं सर्वम्* इत्यनन्यत्वं प्रतीयते । तथाऽन्यत्वं च निषिध्यते *सर्व तं परादाद्योऽन्यत्रात्मनस्सर्वं वेद *नेह नानास्ति किञ्चन, मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति *इति । तथा श्यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्य- विदुषो द्वैतदर्शनं विदुषश्चाद्व तदर्शनं प्रतिपादयदनन्यत्वमेव तात्त्विकमिति प्रतिपादयति । तदेवमारम्भणशब्दादिभ्यो जगतः परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमुपपाद्यते ।। अत्रेदं तत्त्वम् -चिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्मैव सर्वदा सर्वशब्दाभिधेयम् । तत्कदाचित्स्वशरोरतयाऽपि पृथग्व्यपदेशानहसूक्ष्मदशापन्नचिदचिद्वस्तुशरीरम् । तत्कारणावस्थं ब्रह्म । कदाचिच्च विभक्तनामरूपव्यवहाराहस्थूलदशापन्नचिदचिद्वस्तुशरीरम् । तच्च कार्या- वस्थमिति कारणात्परस्माद्ब्रह्मणः कार्यरूपं जगदनन्यत् । शरीरभूतचिदचिद्वस्तुनः शरीरिणो ब्रह्मणश्च कारणावस्थायां कार्यावस्थायां च श्रुतिशतसिद्धया स्वभावव्यवस्थया गुणदोष- व्यवस्था च *नतु दृष्टान्तभावात् इत्यत्रोक्ता । ये तु कार्यकारणयोरनन्यत्वं कार्यस्य मिथ्यात्वाश्रयणेन वर्णयन्ति, न तेषां कार्य- कारणयोरनन्यत्वं सिध्यति, सत्यमिथ्यार्थयोरैक्यानुपपत्तेः; तथा सति ब्रह्मणो मिथ्यात्वं जगत- स्सत्यत्वं वा स्यात् ॥ (ब्रह्माज्ञानवादिमतदूषणमिदम् ॥) येच कार्यमपि पारमार्थिकमभ्युपयन्त एव जीवब्रह्मणोरौपाधिकमन्यत्वम्, स्वाभाविक २०८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । चानन्यत्वम्, अचिद्ब्रह्मणोस्तु द्वयमपि स्वाभाविकमिति वदन्ति; तेषामुपाधिब्रह्मव्यतिरिक्त- वस्त्वन्तराभावानिरवयवस्याखण्डितस्य ब्रह्मण एवोपाधिसंबन्धाद्ब्रह्मस्वरूपस्यैव हेयाकार- परिणामात्, शक्तिपरिणामाभ्युपगमे शक्तिब्रह्मणोरनन्यत्वाच्च जीवब्रह्मणोः कर्मवश्यत्वापहत- पाप्मत्वादिव्यवस्थावादिन्योऽचिद्ब्रह्मणोश्च परिणामापरिणामवादिन्यश्श्रुतयो व्याकुप्येयुः ॥ (भास्करमतदूषणमिदम् ॥) ये पुनः निरस्तनिखिलभोक्तृत्वादिविकल्पविप्लवं सर्वशक्तियुक्तं सन्मात्रद्रव्यमेव कारण ब्रह्म; तच्च प्रलयवेलायां शान्ताशेषसुखदुःखानुभवविशेषं स्वप्रकाशमपि सुषुप्तात्म- वदचिदविलक्षणमवस्थितम्; सृष्टिवेलायां मृत्तिकाद्रव्यमिव घटशरावादिरूपम्, समुद्र इव च फेनतरङ्गबुबुदादिरूपो भोक्तृभोग्यनियन्तरूपेणांशत्रयावस्थमवतिष्ठते; अतो भोक्तृभोग्य- नियन्तृत्वानि तत्प्रयुक्ताश्च गुणदोषाः शरावत्वघटत्वमणिकत्ववत्तद्गतकार्यभेदवच्च व्यवतिष्ठन्ते; भोक्तृभोग्यनियन्तृणां सदात्मनैकत्वं च घटशरावमणिकादीनां मृदात्मनैकत्ववदुपपद्यते; अतस्स- मात्रद्रव्यमेव सर्वावस्थावस्थितमिति ब्रह्मणोऽनन्यज्जगदातिष्ठन्ते; तेषां सकलश्रुतिस्मृतीतिहास- पुराणन्यायविरोधः॥ सर्वा हि श्रुतयः सस्मृतीतिहासपुराणास्सर्वेश्वरेश्वरं सदैव सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पं निरवा देशकालानवच्छिन्नानवधिकातिशयानन्दं परमकारणं ब्रह्म प्रतिपादयन्ति; न पुनरी- श्वरादपि परमीश्वरांशि सन्मात्रम् । तथा हि-*सदेव सोम्येदमन आसीदेकमेवाद्वितीयम् *तदक्षत बहु स्यां प्रजायेयेति *ब्रह्म वा इदमग्र प्रासोदेकमेव तदेकं सन्न व्यभवत् तच्छ् यो- रूपमत्यसृजत क्षत्रं यान्येतानि देवत्राक्षत्राणीन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति *आत्मा वा इदमेक एवान आसीत् नान्यत्किञ्चन मिषत् स ऐक्षत लोकान्नु सृजा इति *एको ह वै नारायण आसीत् न ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नापो नाग्निर्न सोमो न सूर्यः स एकाकी न रमेत तस्य ध्यानान्तस्थस्य* इत्यादिभिः परमकारणं सर्वेश्वरेश्वरो नारायण एवेत्यवगम्यते। सद्ब्रह्मात्मशब्दा हि तुल्यप्रकरणस्थास्तत्तुल्यप्रकरग- स्थेन नारायणशब्देन विशेषितास्तमेवावगमयन्ति । *तमीश्वराणां परमं महेश्वरम् *स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः* इतीश्वरस्यैव कारणत्वं श्रूयते ॥ स्मृतिरपि मानवी ततस्स्वयंभूभगवान् इति प्रकृत्य, *सोऽभिध्याय शरीरात्स्वा- त्सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमपासृजत् ॥ इति । इतिहासपुराणान्यपि पुरुषोत्तममेव परमकारणमभिदधति-*नारायणो जगन्मूति- रनन्तात्मा सनातनः...स सिसृक्षुस्सहस्रांशादसृजत्पुरुषान् द्विधा *विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् इत्यादिषु ॥

द्वितीयाध्याये-प्रथमपादे-आरम्भणाधिकरणम् । २०० नचेश्वरस्सन्मात्रमेवेति वक्तुं शक्यम्, तस्य तदंशत्वाभ्युपगमात्सविशेषत्वाच्च । नच तस्थ ज्ञानानन्दाद्यनन्तकल्याणगुणयोगः कादाविक इति वक्तुं शक्यते, तेषां स्वाभाविकत्वेन सदातनत्वात् । पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च यस्सर्वज्ञ- स्सर्ववित्* इत्यादिभ्यः । ज्ञानानन्दादिशक्तियोग एवास्य स्वाभाविक इति मा वोचः, शक्तिः स्वाभाविकी, ज्ञानबलक्रिया च स्वाभाविको इति पृथनिर्देशाल्लक्षणाप्रसङ्गाच्च । नच पाच- कादिवत् सर्वज्ञः इत्यादिषु शक्तिमात्रे कृत्प्रत्यय इति वक्तुं शक्यम्, कृत्प्रत्ययमात्रस्य शक्ताव- स्मरणात्, शक्तौ हस्तिकवाटयो:* इत्यादिषु केषाश्चिदेव कृत्प्रत्ययानां शक्तिविषयत्वस्मर- णात् । पाचकादिषु त्वगत्या लक्षणा समाश्रीयते ॥ किश्च ईधरस्य तदंशविशेषत्वात्तस्य चांशित्वे तरङ्गात्समुद्रस्येवांशादंशिनोऽधिकत्वात्, *तमोश्वराणां परमं महेश्वरम् *न तत्समश्चाभ्यधिकश्च दृश्यते* इत्यादीनीश्वरविषयाणि पर- श्शतानि वचांसि बाध्येरन् । किश्च सन्मात्रस्य सर्वात्मकत्वे अंशित्वे च ईश्वरस्य तदंशविशेष- त्वात् तस्य सर्वात्नकत्वांशित्वोपदेशा व्याहन्येरन् । नहि मणिकात्मकत्वं तदंशत्वं वा घट- शरावादेः । स्वांशेषु सर्वेषु सन्मात्रस्य पूर्णत्वेनेश्वरांशेऽपि तस्य पूर्णत्वात् तदात्मकानि तदंशा- श्वेतराणि वस्तूनीति चेन्न, घटेऽपि सन्मात्रस्य पूर्णत्वादीश्वरस्यापि घटात्मकत्वतदंशत्वप्रस- ङ्गात् । नच सन्मात्रस्य घटोऽस्ति, पटोस्तीति वस्तुधर्मतयाऽवगतस्य द्रव्यत्वं कारणत्वं वोप- पद्यते । व्यवहारयोग्यता हि सत्त्वम् । विरोधिव्यवहारयोग्यता तव्यवहारयोग्यस्यासत्त्वम् । द्रव्यमेव सदित्यभ्युपगमे क्रियादीनामसत्वप्रसङ्गः। क्रियादिषु काशकुशावलम्बनेनापि सर्वत्र- करूपा सत्ता दुरुपपादा । सदात्मनाच सर्वस्याभिन्नत्वे सर्वज्ञत्वेन सर्वस्वभावप्रति सन्धानात्सर्व- गुणदोषसङ्करप्रसङ्गश्च पूर्वमेवोक्तः । अतो यथोक्तप्रक रमेवानन्यत्वम् ॥ ( यादवप्रकाशमत- दूषणमिदम् ) ॥१५॥ अथोच्येत----एकस्यैवावस्थान्तरयोगेऽपि बुद्धिशब्दान्तरादयो बालत्वयुक्त्वादिषु दृश्यन्ते, मृद्दारुहिरण्यादिषु द्रव्यान्तरत्वेऽपि दृश्यन्ते, तत्र मृद्घटादिषु कार्यकारणेषु बुद्धिशब्दा- न्तरादयोऽवस्थानिबन्धना एवेति कुतो निर्णोयत इति । तत्रोत्तरम्- १५४. भावे चोपलब्धेः ॥२-१-१६॥ कुण्डलादिकार्यसद्भावे च कारणभूतहिरण्यस्योपलब्धेः-'इदं कुण्डलं हिरण्यम्' इति हिरण्यत्वेन प्रत्यभिज्ञानादित्यर्थः । नचैवं हिरण्यादिषु द्रव्यान्तरेषु मृदादय उपलभ्यन्ते । अतो बालयुवादिवत्कारणभूतमेव द्रव्यमवस्थान्तरापन्न कार्यमिति गीयते; द्रव्यान्तरवादिनाऽप्या- भ्युपेतेनावस्थान्तरयोगेन बुद्धिशब्दान्तरादिषूपपन्ने ष्वनुपलब्धद्रव्यान्तरकल्पनानुपपत्तेश्च । नच जातिनिवन्धनेयं प्रत्यभिज्ञा, जात्याश्रयभूतद्रव्यान्तरानुपलब्धेः; एकमेव हेमजातीयं द्रव्यं - २१० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । कार्यकारणोभयावस्थं दृश्यते । नच द्रव्यभेदे समवायिकारणानुवृत्त्या कार्ये प्रतिसन्धानमिति बस्तु शक्यम्, द्रव्यान्तरत्वे सत्याश्रयानुवृत्तिमात्रेण तदाश्रितद्रव्यान्तरे प्रतिसन्धानानुपपत्तेः । गोमयादिकार्ये वृश्चिकादौ गोमयादिप्रतिसन्धानं न दृश्यत इति चेत्र, तत्राप्याद्यकारणभूत- पृथिवीद्रव्यप्रत्यभिज्ञानात् । अग्निकार्ये धूमे अग्निप्रत्यभिज्ञानं न दृश्यत इति चेत्, भवतु न तत्र प्रत्यभिज्ञानम्; तथाऽपि न दोषः, अग्नेनिमित्तकारणमात्रत्वात् । अग्निसंयुक्ताद्रेन्धनाद्धि चूमो जायते । गन्धक्या चान्धनकार्यमेव धूमः । अतः कार्यभावे च तदेवेदभित्युपलब्धेर्बुद्धि- शब्दान्तरादयोऽवस्थादमात्रनिबन्धना इत्यवगम्यते । तस्मात्कारणादनन्यत्कार्यम् ॥१६॥ इतश्च- - १५५. सत्वाच्चापरस्य ॥२-१-१७ ।। अपरस्य-कार्यस्य कारणे सत्त्वाच्च कारणात्कार्यस्यानन्यत्वम् । लोकवेदयोहि कार्यमेव कारणतया व्यपदिश्यते; यथा लोके सर्वमिदं घटशरावादिकं पूर्वाह्न मृत्तिकैवासीदिति; वेदे च *सदेव सोम्येदमग्र आसीदिति ॥१७॥ १५६. असद्वयपदेशान्नेति चेन्न, धर्मान्तरेण वाक्यशेषा- द्युक्त शब्दान्तराच्च ॥२-१-१८ ॥ m- यदुक्तं कारणे कार्यस्य सत्त्वं लोकवेदाभ्यामवगम्यत इति; तदयुक्तम्, असद्यपदेशात्- *असदेवेदमग्र आसीत् *असद्वा इदमग्र आसीत् *इदं वा अग्रे नैव किश्चनासोत्* इति; लोके च सर्वमिदं घटशरावादिकं पूर्वाह्न नासोदिति । अतो यथोक्तं नोपपद्यत इति चेत् तन्न, धर्मान्तरेण तथा व्यपदेशात् । स खल्वसद्वयपदेशस्तस्यैव कार्यद्रव्यस्य पूर्वकाले धर्मान्तरेण- संस्थानान्तरेण; न भवदभिप्रेतेन तुच्छत्वेन । सत्त्वास त्वे हि द्रव्यधर्मावित्युक्तम् । तत्र सत्त्वधर्माद्धर्मान्तरमसत्त्वम् । इदंशब्दनिर्दिष्टस्य जगतस्सत्त्वधर्मो नामरूपे; असत्त्वधर्मस्तु तद्विरोधिनी सूक्ष्मावस्था । अतो जगतो नामरूपयुक्तस्य तद्विरोधिसूक्ष्मदशापत्तिरसत्त्वम् । कथमिदमवगम्यते ? वाक्यशेषाद्युक्तेः शब्दान्तराच्च-वाक्यशेषस्तावत् इदं वा अने नैव किञ्चनासीत् इत्यत्र *तदसदेव सन्मनोऽकुरुत स्यामिति* इति । अनेन वाक्यशेषगतेन मन- स्कारलिङ्गेनासच्छब्दार्थे तुच्छातिरिक्ते निश्चिते तदैकार्थ्यात् *असदेवेदमित्यादिष्वप्यसच्छब्द- स्यायमेवार्थ इति निश्चीयते । युक्तेश्चासत्त्वस्य धर्मान्तरत्वमवगम्यते। युक्तिहि सत्त्वासत्त्वे पदार्थधर्माववगमयति । मृद्रव्यस्य पृथुबुध्नोदराकारयोगो घटोऽस्तीति व्यवहारहेतुः; तस्यैव तद्विरोध्यवस्थान्तरयोगो घटो नास्तीति व्यवहारहेतुः। तत्र कपालाद्यवस्थायास्त द्विरोधित्वेन सैव घटावस्थस्य नास्तीति व्यवहारहेतुः । नव तद्व्यतिरिक्तो घटाभावो नाम द्वितीयाध्याये-प्रथमपादे-इतरव्यपदेशाधिकरणम् ૨૧૧ कश्चिदुपलभ्यते; न च कल्प्यते, तावतैवाभावव्यवहारोपपत्तेः। तथा शब्दान्तराञ्च पूर्वकाले धर्मान्तरयोग एवावगम्यते । शब्दान्तरञ्च पूर्वोदाहृतं *सदेव सोम्येदमन आसीदित्यादिकम् । तत्र हि *कुतस्तु खलु सोस्यैवं स्यात्* इति तुच्छत्वमाक्षिप्य सदेव सोम्येदमन्न आसीदिति स्थापितम् *तद्धेदं ताज्याकृतमासोत्तन्नामरूपाभ्यां व्याक्रियत* इति सुस्पष्टमुक्तम् ॥१८॥ इदानीं कार्यस्य कारणादनन्यत्वे निदर्शनद्वयं द्वाभ्यां सूत्राभ्यां दर्शयति- -- १५७. पटवच्च ।।२।१।१६॥ यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपकार्यान्तरादिकं भजन्ते; तद्वद्ब्रह्मापि ॥ १६ ॥ १५८. यथाव प्राणादिः ।।२।१।२०॥ यथा च वायुरेक एक्शरीरे वृत्तिविशेषं भजमानः प्राणापानादिनामरूपकार्यान्तराणि भजते; तद्ब्रह्मकमेव विचित्र स्थिरत्रसरूपं जगद्भवतीति परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वं जगतस्सिद्धम् ॥ २० ॥ इति आरम्भणाधिकरणम् ।। ६ ।। अथ इतरव्यपदेशाधिकरणम् ।। ७ ।। १५६. इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २।१।२१ ॥ जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः *तत्त्वमसि *अयमात्मा ब्रह्म इत्यादिभिर्जीव- स्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्युक्तम् । तत्रेदं चोद्यते-यदीतरस्य जीवस्य ब्रह्मभावोऽमी- भिर्वाक्यैर्व्यपदिश्यते, तदा ब्रह्मणः सार्वज्यसत्यसङ्कल्पत्वादियुक्तस्यात्मनो हितरूपजगद- करणमहितरूपजगत्करणमित्यादयोदोषाः प्रसज्येरन् । आध्यात्मिकाधिदैविकाधिभौतिकानन्त- दुःखाकरं चेदं जगत्; नचेदृशे स्वानर्थे स्वाधीनो बुद्धिमान् प्रवर्तते । जीवाद्ब्रह्मणो भेदवादिन्य- श्श्रुतयो जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ताः; भेदे सत्यनन्यत्वासिद्धेः ।। औपाधिकभेदविषया भेदश्रुतयः, स्वाभाविकाभेदविषयाश्चाभेदश्रुतय इति चेत् तत्रेदं वक्तव्यम्-स्वभावतः स्वस्मादभिन्न जीवं किमनुपहितं जगत्कारणं ब्रह्म जानाति वा ? न वा ? न जानाति चेत्, सर्वज्ञत्वहानिः; जानाति चेत्, स्वस्मादभिन्नस्य जीवस्य दुःखं स्वदुःखमिति जानतो ब्रह्मणो हिताकरणाहितकरणादिदोषप्रसक्तिरनिवार्या । जीवब्रह्मणोर- ज्ञानकृतो भेदः, तद्विषया भेदश्रुतिरिति चेत्, तत्रापि जीवज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फलं च तदवस्थम् । ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूषस्य ब्रह्मणोऽज्ञानसाक्षित्वं यत्कृतजगत्सृष्टिश्च न संभवति । अज्ञानेन प्रकाशस्तिरोहितश्चेत्, तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव १२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषसहस्र प्रागेवोदीरितम् । अत इदमसङ्गतं ब्रह्मणो जगत्कारणत्वम् ॥ २१ ॥ इति प्राप्तऽभिधीयते- - १६०. अधिकं तु भेदनिर्देशात् ॥ २ । १ । २२ ॥ तुशब्दः पक्षं व्यावर्तयति; आध्यात्मिकादिदुःखयोगाहत्प्रित्यगात्मनः अधिकम् - अर्थान्तरभूतं ब्रह्म । कुतः ? भेदनिर्देशात्-प्रत्यगात्मनो हि भेदेन निदिश्यते परं ब्रह्म *य आत्मनि तिष्ठन्त्रात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत. *पृथगात्मानं प्रेरितारं च प्रत्वा जुष्टस्ततस्तेनामृतत्वमेति *स कारणं करणाधिपाधिपः *तयोरन्यः पिप्पलं स्वात्ति अनश्नन्नन्यो अभिचाकशीति *ज्ञाज्ञौ द्वावजावीशनीशौ *प्राज्ञेनात्मना संपरिष्वक्तः *प्राज्ञेनात्मनाऽन्वारूढः *अस्मान्मायी सृजते विश्वमेतत् तस्मिश्चान्यो मायया सन्निरुद्धः *प्रधानक्षेत्रज्ञपतिर्गुणेशः *नित्यो नित्यानां चेत- नश्चेतनानामेको बहूनां यो विदधाति कामान् श्योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यतं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्मा- ऽपहतपाप्मा दिव्यो देव एको नारायण * इत्यादिभिः ॥ २२ ॥ १६१. अश्मादिवच्च तदनुपपत्तिः ॥२।१।२३ ॥ अश्मकाष्ठलोष्टतृणादीनामत्यन्तहेयानां सततविकारास्पदानामचिद्विशेषाणां निरवद्य- निर्विकारनिखिलहेयप्रत्यनीककल्याणकतानस्वेतरसभस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूप- नानाविधानन्तमहाविभूतिब्रह्मस्वरूपैक्यं यथा नोपपद्यते, तथा चेतनस्याप्यनन्तदुःखयोगार्हस्य खद्योतकल्पस्य *अपहतपाप्मा* इत्यादिवाक्यावगतसकलहेयप्रत्यनीकानवधिकातिशया- सङ्घय यकल्याणगुणाकरब्रह्मभावानुपपत्तिः । सामानाधिकरण्यनिर्देशः यस्यात्मा शरीर- मित्यादिश्रुतेर्जीवस्य ब्रह्मशरीरत्वाद्ब्रह्मणो जीवशरीरतया तदात्मत्वेनावस्थितेर्जीवप्रकार- ब्रह्मप्रतिपादनपरश्चैतदविरोधी, प्रत्युत्तस्यार्थस्योपपादकश्चेति *अवस्थितेरिति काशकृत्स्नः* इत्यादिभिरसकृदुपपादितम् । अतस्सर्वावस्थं ब्रह्म चिदचिद्वस्तुशरीरमिति सूक्ष्मचिदचिद्वस्तु शरीरं ब्रह्म कारणम्; तदेव ब्रह्म स्थूलचिदचिद्वस्तुशरीरं जगदाख्यं कार्यमिति जगद्ब्रह्मणो- स्सामानाधिकरण्योपपत्तिः, जगतो ब्रह्मकार्यत्वम्, ब्रह्मणोऽनन्यत्वम्, अचिद्वस्तुनो जीवस्य च ब्रह्मणश्च परिणामित्वदुःखित्वकल्याणगुणाकरत्वस्वभावासङ्करस्सर्वश्रुत्यविरोधश्च भवति । *सदेव सोम्येदमग्र आसीदेकमेवेत्यविभागावस्थायामप्यचिद्य क्तजीवस्य ब्रह्मशरीरतया सूक्ष्म- रूपेणावस्थानमवश्याभ्युपगन्तव्यम्, *वैषम्यनै ण्ये न सापेक्षत्वात् । न कर्माविभागादिति द्वितीयाध्याये-प्रथमपादे-उपसंहारदर्शनाधिकरणम् । २१३ चेन्नानादित्वादुपपद्यते चाप्युलभ्यते च% इति सूत्रद्वयोदितत्वात्तदानीमपि सूक्ष्मरूपेणावस्था- नस्य । अविभागस्तु नामरूपविभागाभावादुपपद्यते । अतो ब्रह्मकारणत्वं संभवत्येव ॥ ये पुनरस्यैव जीवस्याविद्यावियुक्तावस्थामभिप्रेत्येमं भेदं वर्णयन्ति, तेषामिदं सर्वम- सङ्गतं स्यात्; न हि तदवस्थस्य सर्वज्ञत्वं, सर्वेश्वरत्वं, समस्तकारणत्वं, सर्वात्मत्वं सर्व- नियन्तृत्वमित्यादीनि सन्ति । अनेनैव रूपेण ह्याभिः श्रुतिभिः प्रत्यगात्मनो भेदः प्रतिपाद्यते । ( तस्य सर्वस्याविद्यापरिकल्पितत्वात् । ) तत्सर्व ह्यविद्यापरिकल्पितं वन्मते । नचाविद्या- परिकल्पितस्याविद्यावस्थायां शुक्तिकारजतादिभेदवत्परस्परभेदोऽत्र सूत्रकारेण *अधिक तु भेदनिर्देशादित्यादिषु प्रतिपाद्यते । ब्रह्मजिज्ञासा कर्तव्येति जिज्ञास्यतया प्रक्रान्तस्य ब्रह्मणो जगज्जन्मादिकारणस्य वेदान्तवेद्यत्वम्, तस्य च स्मृतिन्यायविरोधपरिहारश्च क्रियते । *अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् न तु दृष्टान्तभावात् इति सूत्रद्वयमेतदधिकरणसिद्धमनु- वदति; तत्र हि विलक्षणयोः कार्यकारणभावसंभव एवाधिकरणार्थः । *असदिति चेन्न प्रतिषेधमात्रत्वादिति च पूर्वाधिकरणस्थमनुवदति ॥२३॥ इति इतरव्यपदेशाधिकरणम् ।।७।। अथ उपसंहारदर्शनाधिकरणम् ।।८।। १६२. उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २-१-२४ ॥ परस्य ब्रह्मणस्सर्वज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेलनाचेतनबस्तुशरीरतया सर्वप्रकारत्वेन सर्वात्मत्वं सकलेतरविलक्षणत्वं चाविरुद्धमिति स्थापितम् । इदानी सत्य- सङ्कल्पस्य परस्य ब्रह्मणः सङ्कल्पनात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते । ननु च परिमितशक्तीनां कारककलापोपसंहारसापेक्षत्वदर्शनेन सर्वशक्तेब्रह्मणः कारककलापानुप- संहारेण जगत्कारणत्वविरोधः कथमाशङ्कयते ? उच्यते--लोके तत्तत्कार्यजननशक्तियुक्तस्यापि तत्तदुपकरणापेक्षित्वदर्शनात्सर्वशक्तियुक्तस्य परस्य ब्रह्मणोऽपि तत्तदुपकरणविरहिणः स्रष्टुत्वं नोपपद्यत इति कस्यचिन्मन्दधियश्शङ्का जायत इति सा निराक्रियते । घटपटादिकारणभूतानां कुलालकुविन्दादीनां तज्जननसामर्थ्य सत्यपि कानिचिदुपकरणान्युपसंहृत्यैव जनयितृत्वं दृश्यते । तज्जननाशक्ताः कारककलापोपसंहारेऽपि जनयितुं न शक्नुवन्ति; शक्ताः पुनः कारक- कलापोपसंहारे जनयन्तीत्येतावानेव विशेषः । ब्रह्मणोऽपि सर्वशक्तः सर्वस्य जनयितृत्वं तदुपकरणानामनुपसंहारे नोपपद्यते । प्राक्सृष्टेश्चासहायत्वं *सदेव सोम्येदमन आसीत् अएको ह वै नारायण आसीत्* इत्यादिषु प्रतीयते । अतस्त्रष्टुत्वं नोपपद्यत इत्येवं प्राप्तम् । तदिद- माशङ्कते-उपसंहारदर्शनाने तिचेदिति ॥ परिहरति-न क्षीरवद्धीति । न सर्वेषां कार्यजननशक्तानामुपसंहारसापेक्षत्वमस्ति;

२१४
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
D.N0RDA
44.CMS
यथा क्षीरजलादेर्दधिहिमजननशक्तस्य तज्जनने । एवं ब्रह्मणोऽपि स्वयमेव सर्वजननशक्त-
स्सर्वस्य जनयितृत्वमुपपद्यते । होति प्रसिद्धदनिर्देशश्वोद्यस्थ मन्दताख्यापनाय । क्षीरादिष्वा-
तञ्चनापेक्षा न दध्यादिभावाय; अपि तु शैयार्थ रसविशेषार्थ च ॥२४॥
१६३. देवादिवपि लोके ॥२-१-२५ ॥
यथा देवादयः स्वेल्वे लोके सङ्कल्पमात्रेण स्वापेक्षितानि सन्ति; तथाऽसौ पुरुषोत्तमः
कृत्स्नं जगत्सङ्कल्पमात्रेण सृजति । देवादीनां वेदावगतशक्तीनां दृष्टान्तत्योपादानम्, ब्रह्मणो
वेदावगतशक्तेस्सुखग्रहणायेति प्रतिपत्तव्यम् ॥२५॥ इति उपसंहारदर्शनाधिकरणम् ।।८।।
अथ कृत्स्नप्रसक्त्यधिकरणम् ।।६।।
१६४. कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा ॥ २-१-२६ ॥
*सदेव सोम्येदमग्र आसीत् इदं वा अग्ने नैव किञ्चनासीत् *आत्मा वा इदमेक
एवाग्न आसीत्* इत्यादिषु कारणावस्थायां ब्रह्म कमेव निरवयवमासीदिति कारणावस्थायां
निरस्तचिदचिद्विभागतया निरवयवं ब्रह्म वासीदित्युक्तम् । तदविभागमेकं निरवयवमेव ब्रह्म
*बहु स्यामिति सङ्कल्प्य आकाशवाय्वादिविभागं ब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञविभागं चाभ-
वदिति चोक्तम् । एवं सति तदेव परं ब्रह्म कृत्स्नं कार्यत्वेनोपयुक्तमित्यभ्युपगन्तव्यम् । अथ
चिदंशः क्षेत्रज्ञविभागविभक्तः, अचिदंशश्चाकाशादिविभागविभक्त इत्युच्यते, तदा *सदेव
सोम्येदमन आसीत् एकमेवाद्वितीयम् ब्रह्म कमेव *आत्मैक एव* इत्येवमादयः कारणभूतस्य
ब्रह्मणो निरवयवत्ववादिनश्शब्दाः कुप्येयुः-बाधिता भवेयुः । यद्यपि सूक्ष्मचिदचिद्वस्तुशरीरं
ब्रह्म कारणम्, स्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यमित्यभ्युपगम्यते; तथापि शरीयंशस्यापि
कार्यत्वाभ्युपगमादुक्तदोषो दुर्वारः । तस्य निरवयवस्य बहुभवनं च नोपपद्यते । कार्यत्वानु-
पयुक्तांशस्थितिश्च नोपपद्यते । तस्मादसमञ्जसमिवाभाति । अतो ब्रह्मकारणत्वं नोप-
पद्यते ॥२६॥
इत्याक्षिप्ते समाधत्ते--
१६५. श्रुतेस्तु शब्दमूलत्वात् ॥ २-१-२७ ।।
तुशब्द उक्तदोषं व्यावर्तयति । नैवमसामञ्जस्यम्; कुतः ? श्रुतेः । श्रुतिस्तावन्निर-
वयवत्वं ब्रह्मणस्ततो विचित्रसर्ग चाह । श्रौतेऽर्थे यथाश्रुति प्रतिपत्तव्यमित्यर्थः। ननुच
श्रुतिरपि अग्निना सिञ्चदितिवत्परस्परान्वयायोग्यमर्थ प्रतिपादयितुं न समर्था; अत आह-
शब्दमूलत्वादिति । शब्दैकप्रमाणकत्वेन सकलेतरवस्तुविसजातीयत्वादस्यार्थस्य विचित्रशक्ति-
योगो न विरुद्धयत इति न सामान्यतो दृष्टं साधनं दूषणं वा अर्हति ब्रह्म ॥२७॥

द्वितीयाध्याये-प्रथमपादे-कृत्स्नप्रसक्त्यधिकरणम् २१५ १६६. आत्मनि चैवं विचित्राश्च हि ॥२।१।२८ ।। किंव-एवं वस्त्वन्तरसंबन्धिनो धर्मस्य वस्त्वन्तरे चारोपणे सति, अचेतने घटादौ दृष्टा धर्मास्तद्वितजातीये चेतने नित्ये आत्मन्यपि प्रसज्यन्ते । तासक्तिश्च भावस्वभाव- वैचित्र्यादित्याह-विचित्राश्च हीति । यथा अग्निजलादीनामन्योन्यविसजातीयानामौष्ण्यादि- शक्तयश्च विसजातीया दृश्यन्ते; तल्लोकदृष्टविसजातीये परे ब्रह्मणि तत्रतत्रादृष्टास्सहस्रशः शक्तयस्सन्तीति न किञ्चिदनुपपन्नम् । यथोक्तं भगवता पराशरेग ~~*निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ इति सामान्यदृष्टया परिचोद्य *शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः। यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः । भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ इति । श्रुतिश्च कि स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनोषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठडुवनानि धारयन् ।। ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवो निष्टलक्षुः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठभुवनानि धारयन् ॥ इति । सामान्यतो दृष्टं चोद्यं सर्ववस्तुविलक्षणे परे ब्रह्मणि नावतरतीत्यर्थः ।। २८ ।। इतश्चः- १६७. स्वपक्षदोषाच्च ।। २।१ । २६ ॥ स्वपक्षे-प्रधानादिकारणवादे, लौकिकवस्तुविसजातीयत्वाभावेन प्रधानादेः लोकदृष्टा दोषास्तत्र भवेयुरिति सकलेतरविलक्षणं ब्रह्मैव कारणमभ्युपगन्तव्यम् । प्रधानं च निरवयवम्; तस्य निरवयवस्य कथमिव महदादिविचित्रजगदारम्भ उपपद्यते ? सत्त्वं रजस्तम इति तस्यावयवा विद्यन्त इति चेत्, तत्रेदं विवेचनीयम्; कि सत्त्वरजस्तमसां समूहः प्रधानम् ? उत सत्त्वरजस्तमोभिरारब्धं प्रधानम् ? अनन्तरे कल्पे प्रधानं कारणमिति स्वाभ्युपगम- विरोधः; स्वाभ्युपेतसङ्ख्याविरोधश्च; तेषामपि निरवयवानां कार्यारम्भविरोधश्च । सम्हपक्षे च तेषां निरवयवत्वेन प्रदेशभेदमनपेक्ष्य संयुज्यमानानां न स्थूलद्रव्यारम्भकत्वसिद्धिः परमाणु- कारणवादेऽपि तथैव अणवो निरंशा निष्प्रदेशाः प्रवेश भेदमनपेक्ष्य परस्परं संयुज्यमाना अपि न स्थूलकार्यारम्भाय प्रभवेयुः ॥ २६ ॥ १६८. सर्वोपेता च तद्दर्शनात् ॥२।१।३० ॥ सकलेतरवस्तुविजातीया परा देवता सर्वशक्त्युपेता च । तथैव परां देवतां दर्शयन्ति हि श्रुतयः- *पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, तथा, *अपहतपाप्मा विजरो विमृत्युविशोकोऽविजघत्सोऽपिपासः इति सकलेतरविसजातीयता परस्या देवतायाः प्रतिपाद्य *सत्यकामस्सत्यसङ्कल्पः इति सर्वशक्तियोगं प्रतिपादयन्ति ।

२१६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - तथा *मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाश त्मा सर्वकर्मा सर्वकामस्सर्वगन्ध- स्सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः इति च ॥ ३० ॥ १६६. विकरणत्वान्नेति चेत्तदुक्तम् ॥ २॥ १।३१ ॥ यद्यप्येकमेव ब्रह्म सकलेतरविलक्षणं सर्वशक्ति; तथापि *न तस्य कार्य करणं च विद्यते* इति करणविरहिणस्तस्य न कार्यारम्भस्संभवतीति चेत्, अत्तरं *शब्दमूलत्वात् *विचित्राश्च हि* इत्युक्तम् । शब्दैकप्रमाणकं सकलेतरविलक्षणं तत्तत्करणविरहेणापि तत्तत्कार्यसमर्थमित्यर्थः । तथाच श्रुतिः- *पश्यत्यचक्षुस्स शृणोत्यकर्णः अपाणिपादो जवनो ग्रहीता* इत्येवमाद्या ॥ ३१ ॥ इति कृत्स्नप्रसक्त्यधिकरणम् ।। ६ ।। . * अथ प्रयोजनवत्त्वाधिकरणम् ।। १० ।। १७०. न प्रयोजनवत्त्वात् ॥ २।१ । ३२ ॥ यद्यपीश्वरः प्रावसृष्ट रेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशक्तियुक्तः स्वयमेव विचित्रं जगत्स्रष्टुं शक्नोति । तथापीश्वरकारणत्वं न संभवति, प्रयोजनवत्त्वाद्विचित्रसृष्टेः, ईश्वरस्य च प्रयोजनाभावात् । बुद्धिपूर्वकारिणामारम्भे द्विविधं हि प्रयोजनं-स्वार्थः परार्थो वा। नहि परस्य ब्रह्मणस्स्वभावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किंचन प्रयोजनमन- वाप्तमवाप्यते । नापि परार्थः, अवाप्तकामस्य परमार्थता हि परानुग्रहेण भवति; नचेदृशगर्भ- जन्मजरामरण नरकादिनानाविधानन्तदुःखबहुलं जगत्करुणावान् सृजति; प्रत्युत सुखैकतानमेव जनयेज्जगत्करुणया सृजन् । अतः प्रयोजनाभावाद्ब्रह्मरणः कारणत्वं नोपपद्यत इति ॥३२॥ एवं प्राप्त प्रचक्ष्महे- १७१. लोकवत्तु लीलाकैवल्यम् ॥ २।१ । ३३ ॥ अवाप्तसमस्तकामस्य परिपूर्णस्य स्वसङ्कल्पविकार्यविविधविचित्रचिदचिन्मिश्रजगत्सर्गे लीलेव केवला प्रयोजनम्, लोकवत्-यथा लोके सप्तदीपामेव मेदिनीमधितिष्ठतस्संपूर्णशौर्य- वीर्यपराक्रमस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्तुकाद्यारम्भा दृश्यन्ते; तथव परस्यापि ब्रह्मरणः स्वसङ्कल्पमात्रावक्लुप्तजगज्जन्मस्थितिध्वंसादेर्लोलेव प्रयोजनमिति निरवद्यम् ॥ ३३॥ १७२. वैषम्यनैघृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ २।१।३४ ॥ यद्यपि परमपुरुषस्य सकलेतरचिदचिद्वस्तुविलक्षणस्याचिन्त्यशक्तियोगात्प्राक्सृष्टे- रेकस्य निरवयवस्यापि विचित्रचिदचिन्मिश्रजगत्सृष्टिस्संभाव्येत; तथाऽपि देवतिर्यङ्मनुष्य- द्वितीयाध्याये-द्वितीयपादे-रचनानुपपत्यधिकरणम् । २१७ स्थावरात्मनोत्कृष्टमध्यमापकृष्टसृष्टया पक्षपातः प्रसज्येत । अतिधोरदुःखयोगकरणान्न घृण्यं चावर्जनीयमिति । तत्रोत्तरं -- न सापेक्षत्वादिति । न प्रसज्येयातां वैषम्यनवृष्ये । कुतः ? सापेक्षत्वात् -सृज्यमानदेवादिक्षेत्रज्ञकर्मसापेक्षत्वाद्विषमसृष्टेः। देवादीनां क्षेत्रज्ञानां देवादि- शरीरयोगं तत्तत्कर्मसापेक्षं दर्शयन्ति हि श्रुतिस्मृतयः- *साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन कर्मणा । तथा भगवता पराशरेणापि देवादिवैचित्र्यहेतुः सृज्यमानानां क्षेत्रज्ञानां प्राचीनकर्मशक्तिरेवेत्युक्तं- अनिमित्तमात्रमेवासी सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ निमित्त नात्रं मुक्त्वैव नान्यत्किचिदपेक्षते । नीयते तपता श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ।। इति । स्वशक्त्या- स्वकर्मणैव देवादिवस्तुताप्राप्तिरिति ॥ ३४ ॥ १७३.न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च।।२।१।३५॥ प्राक्सृष्टः क्षेत्रज्ञा नाम न सन्ति; कुतः ? अविभागश्रवणात्, *सदेव सोम्येदमग्न आसीदिति; अतस्तदानीं तदभावात्तत्कर्म न विद्यते; कथं तदपेक्षं सृष्टिवैषम्यमित्युच्यत इति चेत्; न, अनादित्वात् क्षेत्रज्ञानां तत्कर्मप्रवाहाणां च । तदनादित्वेऽप्यविभाग उपपद्यते च यतस्तत् क्षेत्रज्ञवस्तु परित्यक्तनामरूपं ब्रह्मशरीरतयाऽपि पृथग्व्यपदेशानहमतिसूक्ष्मम् । तथा- ऽनभ्युपगमे अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च । उपलभ्यते च तेषामनादित्वं- *न जायते म्रियते वा विपश्चित्” इति । सृष्टिप्रवाहानादित्वं च *सूर्याचन्द्रमसौ धाता यथापूर्वम- कल्पयत् इत्यादौ । *तद्धेदं तमुव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत* इति नामरूप- व्याकरणमात्रश्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम् । स्मृतावपि प्रकृति पुरुषं चैव विद्धयनादी उभावपि* इति । अतस्सर्वविलक्षणत्वात्सर्वशक्तित्वात् लीलैकप्रयोजनत्वात्, क्षेत्रज्ञकर्मानुगुण्येन विचित्रसृष्टियोगाद्ब्रह्मैव जगत्कारणम् ॥ ३५ ॥ १७४. सर्वधर्मोपपत्तेश्च ॥२।१।३६ ॥ प्रधानपरमाण्वादीनां कारणत्वे यद्धर्मवैकल्यमुक्तं, वक्ष्यमाणं च तस्य सर्वस्य धर्म- जातस्य कारणत्वोपपादिनो ब्रह्मण्युपपत्तेश्च ब्रह्मैव जगत्कारणमिति स्थितम् ॥ ३६ ।। इति प्रयोजनवत्त्वाधिकरणम् ।। १० ।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य प्रथमः पादः ॥ १। श्रीमते रामानुजाय नमः द्वितीयाध्याये-द्वितीयः पाद:-रचनानुपपत्त्यधिकरणम् ॥ १ ॥ १७५. रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ।। २।२।१॥ उक्तं जगज्जन्मादिकारणं परं ब्रह्मेति; तत्र परैरुद्भाविताश्च दोषाः परिहृताः ।

२१८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । इदानों स्वपक्षरक्षणाय परपक्षा प्रतिक्षिप्यन्ते । इतरथा कस्यचिन्मन्दधियस्तेषां पक्षाणां युक्त्याभासमूलतामजानतः प्रामाणिकत्वशङ्कया वैदिकपक्षे किंचिच्छ्रद्धावैकल्यं जायेतापि । अतः परपक्षप्रतिक्षेपायानन्तरः पादः प्रवर्तते । तत्र प्रथमं तावत्कापिलमतं निरस्यते, वैदिकानुमतसत्कार्यवादाद्यर्थसङ्ग्रहेणेतस्य सत्पक्षनिक्षेपसंभावनाभ्रमहेतुत्वातिरेकात् । अईक्षते- शिब्दम्' इत्यादिभिः वैदिकवाक्यानामतत्परत्वमात्रमुक्तन्; अत्रैव तत्पक्षस्वरूपप्रतिक्षेपः क्रियत इति न पौनरुक्त्याशङ्का ॥ एषा हि साङ्ख्यानां दर्शनस्थितिः-*मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृत- यस्सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति तत्त्वसङ्ग्रहः । मूलप्रकृति म सुखदुःखमोहात्मकानि लाधवप्रकाशचलनोपष्टम्भनगौरवावरणकार्याण्यत्यन्तातीन्द्रियाणि कार्यकनिरूपणविवेकान्यन्यूनानतिरेकाणि समतामुपेतानि सत्त्वरजस्तमांसि द्रव्याणि । सा च सत्वरजस्तमसां साम्यरूपा प्रकृतिरेका स्वयमचेतनाऽनेकचेतनभोगापवर्गार्था नित्या सर्वगता सततविक्रिया न कस्यचिद्विकृतिः, अपितु परमकारणमेव । महदाद्यास्तद्विकृतयोऽन्येषां च प्रकृतयस्सप्त-महानहङ्कारः शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्र- मिति । तत्राहङ्कारस्त्रिधा-वैकारिकस्तैजसो भूतादिश्च, क्रमात्सात्विको राजसस्तामसश्च । तत्र वैकारिकस्सात्त्विक इन्द्रियादिः; भूतादिस्तामसो महाभूतहेतुभूततन्मात्रहेतुः; तैजसो राजसस्तूभयोरनुग्राहकः। आकाशादीनि पञ्च महाभूतानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि वागादीनि पञ्च कर्मेन्द्रियाणि मन इति केवलविकाराः षोडश । पुरुषस्तु निष्परिणामत्वेन न कस्यचित्प्रकृतिः, न कस्यचिद्विकृतिः; तत एव निर्धर्मकश्चैतन्यमात्रवपुनित्यो निष्क्रिय- स्सर्वगतः प्रतिशरीरं भिन्नश्च । निविकारत्वानिष्क्रियत्वाच्च तस्य कर्तृत्वं भोक्तृत्वं च न संभवति ॥ एवंभूतेऽपि तत्त्वे मूढाः प्रकृतिपुरुषसन्निधिमात्रेण पुरुषस्य चैतन्यं प्रकृतावध्यस्य प्रकृतेश्च कर्तृत्वं स्फटिकमरणाविव जपाकुसुमस्यारुणिमानं पुरुषेऽध्यस्य 'अहं कर्ता भोक्ता' इति मन्यन्ते । एवमज्ञानाभोगः, तत्त्वज्ञानाच्चापवर्गः। तदेतत्प्रत्यक्षानुमानागमैस्साधयन्ति । तत्र प्रत्यक्षसिद्धेषु पदार्थेषु नातीव विवादपदमस्ति । आगमोऽपि कपिलादिसर्वज्ञज्ञानमूल इति सोऽपि प्रथमे काण्डे प्रमाणलक्षणे निरस्तप्रायः । यदिदं प्रधानमेव जगत्कारणमित्यनु- मानम्, तन्निरसनेन तन्मतं सर्व निरस्तं भवतीति तदेव निरस्यते ॥ ते चैवं वर्णयन्ति-कृत्स्नस्य जगत एकमूलत्वमवश्याभ्युपगमनीयम्, अनेकेभ्यः कार्योत्त्पत्यभ्युपगमे कारणानवस्थानात् । तन्तुप्रभृतयो ह्यवयवाः स्वांशभूतैष्षड्भिः पार्वैः परस्परं संयुज्यमाना अवयविनमुत्पादयन्ति; तेच तन्त्वादयः स्वावक्वैस्तथाभूतैरुत्पाद्यन्ते; तेच द्वितीयाध्याये-द्वितीयपादे-रचनानुपपत्यधिकरणम् । २१६ ? तथाभूतैः स्वावषवैरिति परमाणुभिरपि स्वकीयष्षभिः पास्संयुज्यमानरेव स्वकार्यो- त्पादनमभ्युपेतव्यम्; अन्यथा प्रथिमानुपपत्तेः । परमाणवोऽप्यंशित्वेन स्वांशैस्तथैवोत्पाद्यन्ते. तेच स्वांशरिति न क्वचित्कारणव्यवस्थिति । अतः कारणव्यवस्थासिद्धयर्थसेक द्रव्यं विविधविचित्रपरिणामशक्तियुक्तं स्वयमप्रच्युतस्वरूपमेव महदाद्यनन्तावस्थाश्रयः कारण- माश्रयणीयम् । तच्चैकं कारणं गुणत्रयसाम्यरूपं प्रधानमिति तत्कल्पने हेतूनुपन्यस्यन्ति-- *भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ।। कारणमस्त्यव्यक्तम् इति । अयमर्थः-विश्वरूपमेव वैश्वरूप्यन्, विचित्रसन्निवेशं तनुभुवनादि कृत्स्नं जगत् । तच्च जगद्विचित्रसन्निवेशत्वेन कार्यभूतं तत्सरूपाव्यक्तकारणकम् । कुतः ? कार्यत्वात् । कार्यस्य हि सर्वस्य तत्परूपात्कारणविशेषाद्विभागस्तस्मिन्नवाविभागश्च दृश्यते । यथा घटमकुटादेः कार्यस्य तत्सरूपान्मृत्सुवर्णादेः कारणाद्विभागस्तस्मिन्नेव चाविभागः । अतो विश्वरूपस्य जगतस्तत्सरूपात्प्रधानादुत्पत्तिस्तस्मिन्नेव लयश्चेति प्रधानकारणकमेव जगत् । गुणत्रयसाम्यरूपं प्रधानमेव जगत्सरूपं कारणम्; सत्त्वरजस्त मोमयसुखदुःखमोहा- स्मकत्वाज्जगतः । यथा मृदात्मनो घटस्य मृद्रव्यमेव कारणम् । तदेव हि तदुत्पत्याख्य- प्रवृत्तिशक्तिमत्, तथा दर्शनात् । अव्यक्तस्य गुरणसाम्यरूपस्य देशतः कालतश्चापरिमितस्यैव कारणत्वं भेदानां महदहङ्कारतन्मात्रादीनां परिमितत्वादवगम्यते । महदादीनि च घटादि- वत्परिमितानि कृत्स्नजगदुत्पत्तौ न प्रभवन्ति, अतस्त्रिगुणं जगद्गुणत्रयसाम्यरूपप्रधानक- कारणमिति निश्चीयते ॥ अत्रोच्यते-रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च । अनुमीयत इत्यनुमानम् । न भव- दुक्तं प्रधानं विचित्रजगद्रचनासमर्थम्, अचेतनत्वे सति तत्स्वभावाभिज्ञानधिष्ठितत्वात्; यदेवं तत्तथा, यथा रथप्रासादादिनिर्माण केवलदार्वादिकम् । दार्वादेरचेतनस्य तज्ज्ञानधिष्ठितस्य कार्यारम्भानुपपत्तेर्दर्शनात्, तज्ज्ञाधिष्ठितस्य कार्यारम्भप्रवृत्तेर्दर्शनाच्च न प्राज्ञानधिष्ठितं प्रधान कारणमित्युक्त भवति । चकारादन्वयस्यानैकान्त्यं समुच्चिनोति । न ह्यन्वितं शौक्लयगोत्वादि कारणत्वव्याप्तम् । न च वाच्यं मा भूदन्वितानामपि शौक्लयादिधर्माणां कारणत्वम्, द्रव्यस्य तु हेमादेः कार्येऽन्वितस्य कारणत्वव्याप्तिरस्त्येव; सत्त्वादीन्यपि द्रव्याणि कार्येऽन्वितानि कारणत्वव्याप्तानीति । यतस्सत्त्वादयो द्रव्यधर्माः, न तु द्रव्यस्वरूपम् । सत्त्वादयो हि पृथिव्यादिद्रव्यगतलधुत्वप्रकाशादिहेतुभूतास्तत्स्वभावविशेषा एव । न तु मृद्धिरण्यादिबद्रव्य- तया कार्यान्विता उपलभ्यन्ते । गुणा इत्येव च सत्त्वादोनां प्रसिद्धिः ॥ यच्च कारणव्यवस्थासिद्धये जगतः एकमूलत्वमुक्तम्, तदपि सत्त्वादीनामनेकत्वान्नोप- पद्यते । अत एव कारणव्यवस्था च न सिद्धयति । साम्यावस्थास्सत्त्वादय एव हि प्रधान- २२० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । मिति त्वन्मतम् । अतः कारणबहुत्वादनवस्था तदवस्थैव । च तेषामपरिमितत्वेन व्यवस्थासिद्धिः; अपरिमितत्वे हि त्रयाणामपि सर्वगतत्वेन न्यूनाधिकभावाभावाद्वैषम्यासिद्धेः कार्यारम्भासंभवात्, कार्यारम्भायैव परिमितत्वमवश्याश्रयणीयम् ॥१॥ यत्र रथादिषु स्पष्ट चेतनाधिष्ठितत्वं दृष्टम्, तद्वयतिरिक्त सर्व पक्षीकृतमित्याह- १७६. पयोम्बुवच्चेत्तत्रापि ॥ २-२-२ ।। यदुक्त प्रधानस्य प्राज्ञानधिष्ठितस्य विचित्रजगद्रचनानुपपत्तिरिति; तन्न, यतः पयोम्बुवत्प्रवृत्तिरुपपद्यते । पयसस्तावद्दधिभावेन परिणममानस्यानन्यापेक्षस्याद्यपरिस्पन्द- प्रभृतिपरिणामपरम्परा स्वत एवोपलभ्यते । यथा च वारिदविमुक्तस्याम्बुन एकरसस्य नारिकेलतालचूतकपित्थनिम्बतिन्त्रिण्यादिविचित्ररसरूपेण परिणामप्रवृत्तिः स्वत एव दृश्यते । तथा प्रधानस्यापि परिणामस्वभावस्यान्यानधिष्ठितस्यैव प्रतिसर्गावस्थायां सदृशपरिणामेना- वस्थितस्य सर्गावस्थायां गुणवैषम्यनिमित्तविचित्रपरिणाम उपपद्यते । यथोक्त *परिणाम- तस्सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् इति । तदेवमव्यक्तमनन्यापेक्षं प्रवर्तत इति चेत्, अत उत्तरं-तत्रापीति । यत् क्षीरजलादि दृष्टान्ततया निशितम्, तत्रापि प्राज्ञानधिष्ठाने प्रवृत्तिर्नोपपद्यते; तदपि पूर्वत्र पक्षीकृतमित्यभिप्रायः । *उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि* इत्यत्र दृष्टपरिकरान्तररहितस्यापि स्वासाधारणपरिणाम उपपद्यत इत्येतावदुक्तम्, न प्राज्ञा- धिष्ठितत्वं पराकृतम्, योऽप्सु तिष्ठन्* इत्यादिश्रुतेः ॥२॥ १७७. व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ २-२-३ ॥ इतश्च सत्यसङ्कल्पेश्वराधिष्ठानानपेक्षपरिणामित्वे सर्गव्यतिरेकेण प्रतिसर्गावस्थयाऽ- नवस्थितिप्रसङ्गाच्च न प्राज्ञानधिष्ठितं प्रधानं कारणम् । प्राज्ञाधिष्ठितत्वे तस्य सत्यसङ्कल्प- त्वेन सर्गप्रतिसर्गविचित्रसृष्टिव्यवस्थासिद्धिः । न च वाच्यं प्राज्ञाधिष्ठितत्वेऽपि तस्यावाप्त- समस्तकामस्य परिपूर्णस्यानवधिकातिशयानन्दस्य निरवद्यस्य निरञ्जनस्य सर्गप्रतिसर्ग- व्यवस्थाहेत्वभावाद्विषमसृष्टौ निर्दयत्वप्रसङ्गाच्च समानोऽयं दोष इति । परिपूर्णस्यापि लीलार्थप्रवृत्तिसंभवात्, सर्वज्ञस्य तस्य परिणामविशेषापन्नप्रकृतिदर्शनरूपसर्गप्रतिसगविशेष- हेतोस्संभवात्, क्षेत्रज्ञकर्मणामेव विषमसृष्टिव्यवस्थापकत्वाच्च । नन्वेवं क्षेत्रज्ञपुण्यापुण्यरूपक- मभिरेव सर्वा व्यवस्थास्सिध्यन्तीति कृतमीश्वरेणाधिष्ठात्रा। पुण्यापुण्यरूपानुष्ठितकर्मसंस्कृता प्रकृतिरेव पुरुषार्थानुरूपं तथातथा व्यवस्थया परिणस्यते । यथा विषादिदूषितानामन्नपाना- दोनामौषधविशेषाप्यायितानां च सुखदुःखहेतुभूतः परिणामविशेषो देशकालव्यवस्थया दृश्यते । अतस्सर्गप्रतिसर्गव्यवस्था, देवादिविषमसृष्टिः, कैवल्यव्यवस्था च सर्वप्रकारपरिणाम- शक्तियुक्तस्य प्रधानस्यवोपपद्यत इति ।।

द्वितीयाध्याये-द्वितीयपादे---रचनानुपत्त्यधिकरणम् । २२१ I- अनभिज्ञो भवान् पुण्यापुण्यकर्मस्वरूपयोः । पुण्यापुण्यस्वरूपे हि शास्त्र कसमधिगम्ये । शास्त्र चानादिनिधनाविच्छिन्नपाठसंप्रदायानाघ्रातप्रमादादिदोषगन्धवेदाख्याक्षरराशिः । तच्च परमपुरुषाराधनतद्विपर्ययरूपे कर्मणी पुण्यापुण्ये, तदनुग्रहनिग्रहायत्ते च तत्फले सुखदुःखे इति वदति । तथाऽऽह द्रमिडाचार्यः *फलसंबिभन्सया हि कर्मभिरात्मानं पिप्रीषन्ति स प्रीतोऽलं फलायेति शास्त्रमर्यादा* इति । तथाच श्रुतिः *इष्टापूर्त बहुधा जातं जायमानं विश्व बिभर्ति भुवनस्य नाभिः* इति ॥ तथाच भगवता स्वयमेवोक्तं. *यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततं । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥ इति, *तानहं द्विषतः क्रूरान् संसारेषु नराधमान । क्षिपाम्यजत्रमशुभानासुरीष्वेव योनिषु ॥ इति च । स भगवान् पुरुषोत्तमोऽवाप्तसमस्तकाम- स्सर्वज्ञस्सर्वेश्वरस्सत्यसङ्कल्पः, स्वमाहात्म्यानुगुणलीलाप्रवृत्तः, एतानि कर्माणि समीचीनान्ये- तान्यसमीचीनानीति कर्मद्वैविध्यं संविधाय, तदुपादानोचितदेहेन्द्रियादिकं तनियमनशक्ति च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदिश्य, स्वशासनावबोधि शास्त्रं च प्रदर्श्य, तदुपसंहारार्थं चान्तरात्मतयाऽनुत्रविश्यानुमन्तृतया च नियच्छंस्तिष्ठति । क्षेत्रज्ञास्तु तदाहितशक्तयस्तत्प्रविष्ट- करणकलेबरादिकास्तदाधाराश्च स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणो उपाददते । ततश्च पुण्यरूपकर्मकारिणं स्वशासनानुवतिनं ज्ञात्वा धर्मार्थकाममोक्षवर्धयते । शासनाति- तिनं च तद्विपर्ययोजयति । अतः स्वातन्त्रयादिवैकल्यचोद्यानि नावकाशं लभन्ते । दया हि नाम स्वार्थनिरपेक्षा परदुःखासहिष्णुता । सा च स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते; प्रत्युतापुंस्त्वमेवावहति । तन्निग्रह एव तत्र गुणः; अन्यथा शत्रुनिग्रहादीनामगुणत्वप्रसङ्गात् । स्वशासनातिवृत्तिव्यवसानिवृत्तिमात्रेणानाद्यनन्तकल्पोप- चितदुर्विषहानन्तापराधानङ्गीकारेण निरतिशय सुखसंवृद्धये स्वयमेव प्रयतते । यथोक्त- *तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ इति । अतः प्राज्ञानधिष्ठितं प्रधानं न कारणम् ॥ ३ ॥ अथ स्यात्-यद्यपि प्राज्ञानधिष्ठितायाः प्रकृतेः परिस्पन्दप्रवृत्तिरपि न संभवतीत्युक्तम्, तथाऽप्यनपेक्षाया एव परिणामप्रवृत्तिः संभवति, तथा दर्शनात्; धेन्वादिनोपयुक्तं हि तृणोदकादि स्वयमेव क्षीराद्याकारेण परिणममानं दृश्यते । अतः प्रकृतिरपि स्वयमेव जगदा- कारेण परिणस्यत इति । तत्राह--- १७८. अन्यत्राभावाच्च न तृणादिवत् ॥ २ । २ । ४ ।। नेतदुपपद्यते, तृणादेः प्राज्ञानधिष्ठितस्य परिणामाभाबादृष्टान्तासिद्धेः । कथमसिद्धिः?

२२२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अन्यत्राभावात्-यदि हि तृणोदकादिकमनडुदाधुपयुक्तं प्रहोणं वा क्षीराकारेण पर्यणस्यत; ततः प्राज्ञानधिष्ठितमेव परिणमत इति वक्तुमशक्ष्यत । नचैतदस्ति; अतो धेन्वाद्युपयुक्त प्राज्ञ एव क्षीरोकरोति । *पयोम्बुवच्चेत्तत्रापीत्युक्तमेवात्र प्रपञ्चितं तत्रैव व्यभिचार- प्रदर्शनाय ॥४॥ १७६. पुरुषाश्मवदिति चेत्तथाऽपि ॥२।२।५॥ अथोच्येत-यद्यपि चैतन्यमात्रवपुः पुरुषो निष्क्रियः प्रधानमपि दृक्छक्तिविकलम्; तथाऽपि पुरुषसन्निधानादचेतनं प्रधानं प्रवर्तते, तथा दर्शनात् । गमनशक्तिविकलहक्छक्ति- युक्तपङ्ग सन्निधानात्तच्चैतन्योपकृतो दृक्छक्ति विकलः प्रवृत्तिशक्त'ऽन्धः प्रवर्तते; अयस्कान्ता- श्मसन्निधानाच्चायः प्रवर्तते । एवं प्रकृतिपुरुषसंयोगकृतो जगत्सर्ग. प्रवर्तते । यथोक्तं* पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ ग्वन्धवदुभयोरपि संयोगस्तत्कृतस्सर्गः ॥ इति । पुरुषस्य प्रधानोपभोगार्थ कैवल्यार्थं च पुरुषसन्निधानात्प्रधानं सर्गादौ प्रवर्तत इत्यर्थः । अत्रोत्तरं-तथाऽपीति । एवमपि प्रधानस्य प्रवृत्त्यसंभवस्तदवस्थ एव, पङ्गोर्गमनशक्ति- विकलस्यापि मार्गदर्शनतदुपदेशादयः कादाचित्का विशेषाः सहस्रशस्सन्ति; अन्धोऽपि चेतन- स्संस्तदुपदेशाद्यवगमेन प्रवर्तते; तथा अयस्कान्तमणेरप्ययस्समीपागमनादयस्सन्ति । पुरुषस्य तु निष्क्रियस्य न तादृशा विकारास्संभवन्ति । सन्निधानमात्रस्य नित्यत्वेन नित्यसर्गप्रसङ्गः, नित्यमुक्तत्वेन बन्धाभावोऽपवर्गाभावश्च ॥ ५॥ १८०. अंगित्वानुपपत्तेश्च ॥२ । २। ६ ॥ गुणानामुत्कर्षनिकर्षनिबन्धनाङ्गाङ्गिभावाद्धि जगत्प्रवृत्तिः *प्रतिप्रतिगुणाश्रय- विशेषात् इति वदद्धिर्भवद्भिरभ्युपगम्यते । प्रतिसर्गावस्थायां तु साम्यावस्थानां सत्त्वर- जस्तमसामान्योन्याधिक्यन्यूनत्वाभावादङ्गाङ्गिभावानुपपत्तेर्न जगत्सर्ग उपपद्यते । तदाऽपि वैषम्याभ्युपगमे नित्यसर्गप्रसङ्गः । अतश्च न प्राज्ञानधिष्ठितं प्रधानं कारणम् ॥ ६॥ १८१. अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॥ २ २॥ ७ ॥ दूषितप्रकारातिरिक्तप्रकारान्तरेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगात्त एव दोषाः प्रादुष्युः । अतो न कथंचिदप्यनुमानेन प्रधानसिद्धिः ॥ ७ ॥ १८२. अभ्युपगमेऽप्यर्थाभावात् ॥ २।२।८ ॥ अनुमानेन प्रधानसिद्धयभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान्न तदनुमातव्यम् । पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्येति प्रधानस्य प्रयोजनं पुरुषभोगापवर्गावभिमती, द्वितीयाध्याये-द्वितीयपादे-रचनानुपपत्यधिकरणम् । २२३ तौ च न संभवतः । पुरुषस्य चैतन्यमात्रवपुषो निष्क्रियस्य निर्विकारस्य निर्मलस्य तत एव नित्यमुक्तस्वरूपस्य प्रकृतिदर्शनरूपो भोगस्तद्वियोगरूपोऽपवर्गश्च न संभवति । एवंरूपस्यैव प्रकृतिसन्निधानात्तत्परिणामविशेषसुखदुःखदर्शनरूपभोगसंभावनायां प्रकृतिसन्निधानस्य नित्य- त्वेन कदाचिदप्यपवर्गो न सेत्स्यति ॥ ८ ॥ १८३. विप्रतिषेधाच्चासमञ्जसम् ॥ २-२-६ ॥ विप्रतिषिद्धं चेदं साङ्ख्यानां दर्शनम् । तथा हि-प्रकृतेः परार्थत्वेन दृश्यत्वेन भोग्यत्वेन च प्रकृतेर्भोक्तारमधिष्ठातारं द्रष्टारं साक्षिणं च पुरुषमभ्युपगम्य प्रकृत्यैव साधन- भूतया तस्य कैवल्यमपि प्राप्यं वदन्त एव तस्य नित्यनिर्विकारचैतन्यमात्रस्वरूपतया अक- र्तृत्वं, कैवल्यं च स्वरूपमेवाहुः; तत एव बन्धमोक्षसाधनानुष्ठानं मोक्षंच प्रकृतेरेवेत्याहुः; एवंभूतनिर्विकारोदासीनपुरुषसन्निधानात्प्रकृतेरित रेतराध्यासेन सर्गाविप्रवृत्ति पुरुषभोगाप- वर्गार्थत्वं चाहुः-सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृ- भावात् कैवल्यार्थप्रवृत्तेश्च ॥ तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टुत्वमकर्तृ भावश्च ॥ इति । अपुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य* इत्युक्त्वैवमाहुः- *तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ इति ।। तथा *तस्मात्तत्संयोगादचेतनं चेतनादिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ।। पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोग- स्तत्कृतस्सर्गः ॥ इति । साक्षित्वद्रष्टुत्वभोक्तृत्वादयो नित्यनिर्विकारस्याकतुरुदासीनस्य कैवल्यैकस्वरूपस्य न संभवन्ति । एवंरूपस्य तस्याध्यासमूलम्रमोऽपि न संभवति, अध्यास- भ्रमयोरपि विकारत्वात् । प्रकृतेश्च तौ न संभवतः, तयोश्च तनधर्मत्वात् । अध्यासो हि नाम चेतनस्यान्यस्मिन्नन्यधर्मानुसन्धानम् । स च चेतनधर्मो विकारश्च । नच पुरुषस्य प्रकृति- सन्निधिमात्रेणाध्यासादयस्संभवन्ति, निर्विकारत्वादेव । संभवन्ति चेत्, नित्यं प्रसज्येरन् । सन्निधेरकिञ्चित्करत्वञ्च अनविलक्षणत्वादित्यत्र प्रतिपादितम् । प्रकृतिरेव संसरति बध्यते मुच्यते चेत्, कथं नित्यमुक्तस्य पुरुषस्योपकारिणी सेत्युच्यते ? वदन्ति हि नानाविधैरुपायै- रुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ इति ॥ तथा प्रकृतिर्येन पुरुषेण यथास्वभावा दृष्टा, तस्मात्पुरुषात्तदानोमेव निवर्तत इति चाहु:-~-रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टाऽस्मीति २२४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । पुनर्न दर्शनमुपैति पुरुषस्य ॥ इति । तदप्यसङ्गतम्, पुरुषो हि नित्यमुक्तत्वान्निविकारत्वान्न तां कदाचिदपि पश्यति, नाध्यस्यति च। स्वयं च स्वात्मानं न पश्यति, अचेतनत्वात् । पुरुषस्य स्वात्मदर्शनं स्वदर्शनमिति नाध्यस्यति च, स्वयमचेतनत्वात्; पुरुषस्य च दर्शनरूप- विकारासंभवात् । अथ सन्निधिमात्रमेव दर्शनमित्युच्यते; सन्निधेनित्यत्वेन नित्यदर्शनप्रसङ्ग इत्युक्तम् । स्वरूपातिरिक्तकादाचित्कसन्निधिरपि नित्यनिविकारस्य नोपपद्यते ॥ किंच मोक्षहेतुस्तु स्वसन्निधानरूपमेव दर्शनं चेत्; बन्धहेतुरपि तदेवेति नित्यवद्वन्धो मोक्षश्च स्याताम् । अयथादर्शनं बन्धहेतुः, यथावत्स्वरूपदर्शनं मोक्षहेतुरिति चेत्; उभय- विधस्यापि दर्शनस्य सन्निधानरूपतानतिरेकात्सदोभयप्रसङ्ग एव । सन्निधेरनित्यत्वे तस्य हेतुरन्वेषणीयः, तस्यापीत्यनवस्था । अथैतद्दोषपरिजिहीर्षया स्वरूपसद्भाव एव सन्निधिरिति, तदा स्वरूपस्य नित्यत्वेन नित्यवद्बन्धमोक्षौ । अत एवमादेविप्रतिषेधात्सायानां दर्शन- मसमञ्जसम् ॥ येऽपि कूटस्थनित्यनिविशेषस्वप्रकाशचिन्मात्रं ब्रह्माविद्यासाक्षित्वेनापारमार्थिकबन्ध- मोक्षभागिति वदन्ति, तेषामप्युक्तनीत्याऽविद्यासाक्षित्वाध्यासाद्यसंभवादसामञ्जस्यमेव; इयांस्तु विशेषः-साङ्खयाः जननमरणप्रतिनियमादिव्यवस्थासिद्धयर्थ पुरुषबहुत्वमिच्छन्ति, ते तु तदपि नेच्छन्तीति सुतरामसामञ्जस्यम् । यत्तु प्रकृतेः पारमार्थ्यापारमार्थ्यविभागेन वैषम्य- मुक्तम्, तदयुक्तम् ; पारमार्थिकत्वेऽप्यपारमार्थिकत्वेऽपि नित्यनिर्विकारस्वप्रकाशैकरसचिन्मात्रस्य स्वव्यतिरिक्तसाक्षित्वाद्यनुपपत्तेः । अपारमार्थिकत्वे तु तस्याः दृश्यत्वबाध्यत्वाभ्युपगमात् सुतरामसङ्गतम् । औपाधिकभेदवादेऽपि उपाधिसंबन्धिनो ब्रह्मणोऽयमेव स्वभाव इत्युपाधि- संबन्धाद्यनुपपत्तेरसामञ्जस्यं पूर्वमेवोक्तम् ॥ ६ ॥ इति रचनानुपपत्त्यधिकरणम् ॥ १ ॥ -- अथ महद्दीर्घाधिकरणम् ।। २ ॥ १८४. महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् ॥ २।२। १० ॥ प्रधानकारणवादस्य युक्त्याभासमूलतया विप्रतिषिद्धत्वाच्चासामञ्जस्यमुक्तम्; संप्रति परमाणुकारणवादस्याप्यसामञ्जस्यं प्रतिपाद्यते-महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्यामिति । असमञ्जसमिति ह्रस्वपरिमण्डलाभ्या-द्वयणुकपरमाणुभ्यां, महद्दीर्घवत्--त्र्यणुकोत्पत्तिवादवत्, अन्यच्च तदभ्युपगतं सर्वमसमञ्जसम्; परमाणुभ्यो द्वयणुकादिक्रमेण जगदुत्पत्तिवादवदन्यदप्यसमञ्जसमित्यर्थः । तथा हि-तन्तुप्रभृतयो हवयवाः स्वांशष्षभिः पाश्र्वैस्संयुज्यमानाः अवयविनमुत्पादयन्ति, परमाणवोऽपि स्वकीयः षड्भिः वर्तते । वाशब्दश्वार्थ

द्वितीयाध्याये-द्वितीयपादे-महद्दीर्घाधिकरणम् ।
२२५
पा संयुज्यमाना एव द्वयणुकादीनामुत्पादका भवेयुः, अन्यथा परमाणूनां प्रदेशभेदाभावे
सति सहस्रपरमाणुसंयोगेऽप्येकस्मात्परमाणोरनतिरिक्तपरिमाणत्या अणुत्वह्रस्वत्वमहत्त्व-
दीर्घत्वाद्यसिद्धिः स्यात् । प्रदेशलेदाभ्युपगमे परमाणवोऽपि सांशाः स्वकीयैरंशैः, ते च
स्वकीयैरंशैरित्यनवस्था । नच वाच्यम् अवयवाल्पत्वलहत्त्वा भ्यां हि सर्षपसहीधरयोर्वैषम्यम्;
परमाणोरण्यनन्तावयवत्वे अवयवानन्त्यसाम्यात्सर्षपमहीधरयोः वैषम्यासिद्धेः अवयवापकर्ष-
काष्ठाऽवश्याभ्युपगमनीयेति । परमाणूनां प्रदेशभेदाभावे सत्येकपरमाणुपरिमाणातिरेकि-
प्रथिमा न जायतेति सर्षपमहोधरयोरेवासिद्धेः । किं कुर्म इति चेत्, वैदिकः पक्षः
परिगृह्यताम् ।
यत्तु परैः ब्रह्मकारणवाददूषणपरिहारपरमिदं सूत्रं व्याख्यातम्; तदसङ्गतं, पुनरुक्तं
च । ब्रह्मकारणवादे परोक्तान् दोषान् पूर्वस्मिन् पादे परिहृत्य परपक्षप्रतिक्षेपो ह्यस्मिन् पादे
क्रियते । चेतनाद्ब्रह्मणो जगदुत्पत्तिसंभवश्च न विलक्षणत्वादित्यत्रैव प्रपञ्चितः । अतो
ह्रस्वपरिमण्डलाभ्यां महद्दीर्घाणुलस्बोत्पत्तिवदन्यच्च तदभ्युपगतं सर्वमसमञ्जसमित्येव
सूत्रार्थः ॥१०॥
किमत्रान्यदसमञ्जसमित्यत आह-
१८५. उभयधाऽपि न कर्मातस्तदभावः ॥ २-२-११॥
-
परमाणुकारणबावे हि परमाणुगतकर्मजनितलसंयोगपूर्वकद्वयणुकादिक्रमेण जगदुत्प-
त्तिरिष्यते । तत्र निखिलजगदुत्पत्तिकारणभूतं परमाणुगतमाद्यं कर्मादृष्टकारितमित्यभ्युपगम्यते
*अग्नेरूद्धज्वलनं वायोस्तिर्यग्गमनमणुननसोश्चाद्यं कर्मेत्यदृष्टकारितानि* इति । तदिदं
परमाणुगतं कर्म स्वगतादृष्टकारितम्, आत्मगताष्टकारितं वा ? उभयधाऽपि न संभवति;
क्षेत्रज्ञपुण्यपापानुष्ठानजनितस्यादृष्टस्य परमाणुगतत्वासंभवात् । संभवे च सदोत्पादकत्व-
प्रसङ्गः । आत्मगतस्य चादृष्टस्य परमाणुगतकर्मोत्पत्तिहेतुत्वं न संभवति । अथादृष्टवदात्म-
संयोगादणुषु कर्मोत्पत्तिः, तदा तस्यादृष्टप्रवाहस्य नित्यत्वेन नित्यसर्गप्रसङ्गः। नन्वदृष्ट
विपाकापेक्षं फलायालम् । कानिचिददृष्टानि तदानीमेव विपच्यन्ते, कानिचिजन्मान्तरे,
कानिचित्कल्पान्तरे । अतो विपाकापेक्षत्वान्न सर्वदोत्पादकत्वप्रसङ्ग इति । नैतत्, अनन्तै-
रात्मभिरसङ्केतपूर्वकमयुगपदनुष्ठितानेकविधकर्मजनितानामदृष्टानामेकस्मिन्काले एकरूपविपा-
कस्याप्रामाणिकत्वात् । अत एव युगपत्सर्वसंहारो द्विपरार्धकालमविपाकेनावस्थानं च न
सङ्गच्छते । नचेश्वरेच्छाहितविशेषादृष्टसंयोगादणुषु कर्म, आनुमानिकेश्वरासिद्धः *शास्त्रयो-
नित्वादित्यत्रोपपादितत्वात् । अतो जगदुत्पत्तेरणुगतकर्मपूर्वकत्वाभावः ॥११॥

२२६
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
POPOMIUPOEM
?
१८६. समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ २-२-१२॥
समवायाभ्युपगमाच्चासमञ्जसम् । कुतः साम्यादनवस्थिते:-समवायस्याप्यवय-
विजातिगुणवदुपपादकान्तरापेक्षासाम्यादुपपादकान्तरस्यापि तथेत्यनवस्थितेरसमञ्जसमेव ।
एतदुक्तं भवति-अयुतसिद्धानामाधाराधेयभूतानामिह प्रत्ययहेतुर्यस्संबन्धः, स समवाय इति
समवायोऽभ्युपगम्यते । अपृथस्थित्युपलब्धीनां जात्यादीनां तथाभावस्य निर्वाहकत्वेन
चेत्समवायोऽभ्युपगम्यते, समवायस्यापि तत्साम्यात्तथाभावहेतुरन्वेषणीयः, तस्यापि तथेत्यन-
वस्थितिः । समवायस्य तदपृथक्सिद्धत्वं स्वभाव इति परिकल्प्यते चेत्, जातिगुणानामेवैष
स्वभावः परिकल्पनीयः, न पुनरदृष्टचरं समवायमभ्युपगम्य तस्यैष स्वभाव इति कल्पयितुं
युक्तमिति ॥१२॥
समवायस्य नित्यत्वे अनित्यत्वे चायं दोषस्समानः; नित्यत्वे दोषान्तरं चाह----
१८७. नित्यमेव च भावात् ॥ २-२-१३ ।।
समवायस्य संबन्धत्वात्संबन्धस्य नित्यत्वे संबन्धिनो जगतश्च नित्यमेव भावाद-
समसम् ॥१३॥
१८८. रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ २-२-१४ ॥
परमाणूनां पार्थिवाप्यतैजसवायवीयानां चतुर्विधानां रूपरसगन्धस्पर्शवत्त्वाभ्यु-
पगमादभिमतनित्यत्वसूक्ष्मत्वनिरवयवत्वादिविपर्ययेणानित्यत्वस्थूलत्वसावयवत्वादि प्रसज्यते,
रूपादिमतां घटादीनामनित्यत्वतथाविधकारणान्तरारब्धत्वादिदर्शनात् । नहि दर्शनानुगुप्ये-
नादृष्टोऽर्थः कल्प्यमानः स्वाभिमतविशेष व्यवस्थापयितुं शक्यः । दर्शनानुगुण्येन हि
परमाणूनां रूपादिमत्त्वं त्वया कल्प्यते । अतोऽप्यसमञ्जसम् ॥१४॥
अथैतद्दोषपरिजिहीर्षया परमाणूनां रूपादिमत्त्वं नाभ्युपगम्यते, तत्राह-
१८६. उभयधा च दोषात् ॥ २-२-१५ ॥
न केवलं परमाणूनां रूपादिमत्त्वाभ्युपगम एव दोषः, रूपादिविरहेऽपि कारणगुण-
पूर्वकत्वात्कार्यगुणानां पृथिव्याबयो रूपादिशून्यास्स्युः । तत्परिजिहीर्षया रूपादिमत्त्वाभ्युपगमे
पूर्वोक्तदोष इत्युभयधा च दोषादसमञ्जसम् ॥१५॥
१६०. अपरिग्रहाच्चात्यन्तमनपेक्षा ॥२-२-१६ ॥
कापिलपक्षस्य श्रुतिन्यायविरोधपरित्यक्तस्यापि सत्कार्यवादादिना कचिदंशे वैदिक
परिग्रहोऽस्ति, अस्य तु काणादपक्षस्य केनाप्यंशेनापरिग्रहादनुपपन्नत्वाच्चात्यन्तमनपेक्षव
निःश्रेयसाथिभिः कार्या ॥१६॥ इति महद्दीर्घाधिकरणम् ॥२॥

द्वितीयाध्याये-द्वितीयपादे-समृदायाधिकरणम् । अथ समुदायाधिकरणम् ।। ३ ।। १६१. समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ २ । २ । १७ ।। परमाणुकारणवादिनो वैशेषिका निरस्ताः; सौगताश्च जगतः परमाणुकारणत्व- मभ्युपगच्छन्तीत्यनन्तरं तन्मतेऽपि जगदुत्पत्तितद्व्यवहारादिकं नोपपद्यत इत्युच्यते । ते चतुविधा:-केचित्पायिवाप्यतैजसवायबीयपरमाणुसङ्घातरूपान् भूतभौतिकान् बाह्यांश्चित्त- चैत्तरूपांश्चाभ्यन्तरानर्थात् प्रत्यक्षानुमानसिद्धानभ्युपयन्ति; अन्धे तु बाह्यार्थान् सर्वान् पृथि- व्यादीन्विज्ञानानुमेयान्वदन्ति; अपरे त्वर्थशून्यं विज्ञानमेव परमार्थ सत्, बाह्यार्थास्तु स्वाप्नार्थकल्या इत्याहुः; त्रयोऽप्येते स्वाभ्युपगतं वस्तु क्षणिकमाचक्षते, उक्तभूतभौतिकचित्त- चैत्तव्यतिरिक्तमात्माकाशादिकं स्वरूपेणैव नानुभन्वते; अन्ये तु सर्वशून्यत्वमेव सङ्गिरन्ते । तत्र ये बाह्यार्थास्तित्ववादिनः, ते नावनिरस्यते । ते चैवं मन्यन्ते-रूपरसस्पर्शगन्ध स्वभावाः पार्थिवाः परमाणवः, रूपरसस्पर्शस्वभावाश्चाप्याः, रूपस्पर्शस्वभावाश्च तेजसाः, स्पर्शस्वभावाश्च वायवीयाः पृथिव्यप्त जोवायुरूपेण संहन्यन्ते, तेभ्यश्च पृथिव्यादिभ्यः शरीरेन्द्रियविषयरूपसङ्घाता भवन्ति; तत्र च शरीरान्तर्वर्ती ग्राहकाभिमानारूढो विज्ञान- सन्तान एवात्मत्वेनावतिष्ठते; तत एव सर्वो लौकिको व्यवहारः प्रवर्तत इति ॥ तत्राभिधीयते-समुदाय उभयहेतुकेऽपि तदप्राप्तिः । योऽयमणुहेतुकः पृथिव्यादि- भूतात्मकस्समुदायः, यश्च पृथिव्यादिहेतुकश्शरीरेन्द्रियविषयरूपस्समुदायः, तस्मिन्नुभय- हेतुकेऽपि समुदाये तत्प्राप्ति!पपद्यते --जगदात्मकसमुदायोत्पत्तिर्नोपपद्यत इत्यर्थः । परमाणूनों पृथिध्यादिभूतानां च क्षणिकस्वाभ्युपगमात्, क्षणध्वंसिनः परमाणवो भूतानि च कदा संहतो व्याप्रियन्ते ? कदा वा संहन्यन्ते ? कदा विज्ञानविषयभूताः ? कदा च हानोपादानादिव्य- वहारास्पदतां भजन्ते ? को वा विज्ञानात्मा कं च विषयं स्पृशति ? कश्च विज्ञानात्मा कमर्थ कदा वेदयते ? कं वा विदितमर्थ कश्च कदोपादत्ते ? स्प्रष्टा हि नष्टः, स्पृष्टच नष्टः; तथा वेदिता विदितश्च नष्टः; कथं चान्येन स्पृष्टमन्यो वेदयते ? कथंचान्येन विदितमर्थमन्य उपादत्ते ? सन्तानानामेकत्वेऽपि सन्तानिभ्यस्तेषां वस्तुतो वस्त्वन्तरत्वानभ्युपगमान्न तन्निबन्धनं व्यवहारादिकमुपपद्यते । अहमर्थ एवात्मा, सच ज्ञातैवेति चोपपादितं पुरस्तात् ॥१७॥ १६२. इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वात् ॥२।२।१८। अविद्यादीनामितरेतरहेतुत्वेनोपपन्न सङ्घातभावादिकमिति चेत् । एतदुक्तं भवति- यद्यपि क्षणिकास्सर्वे भावाः, तथाऽप्यविद्ययैतत्सर्वमुपपद्यते । अविद्या हि नाम विपरीतबुद्धिः क्षणिकादिषु स्थिरत्वादिगोचरा। तया संस्काराच्या रागद्वेषादयो जायन्ते; ततश्चित्ताभि- ?

२२८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ज्वलनरूपं विज्ञानम्। ततश्च नामाख्याश्चित्तचैत्ताः; ततश्च पृथिव्यादिकं (च) रूपिद्रव्यम्; ततष्षडायतनाख्यमिन्द्रियषट्कम्, ततः स्पर्शाख्यः कायः; ततो वेदनादयः ततश्च पुनरप्य- विद्यादयो यथोक्ता इत्यनादिरियमविद्यादिकाऽन्योन्यमूला चक्रपरिवृत्तिः । एतच्च सर्व पृथिव्यादिभूतभौतिकसङ्घातमन्तरेण नोपपद्यते । अतस्तङ्घातभावादिकमुपपन्नमिति । तत्रोत्तरं-न सङ्घातभावानिमित्तत्वादिति । नैतदुपपद्यते, एषामविद्यादीनां पृथिव्यादिभूत- भौतिकसङ्घातभावं प्रत्यनिमित्तत्वात् । न खल्वस्थिरादिषु स्थिरत्वादिबुद्धयात्मिकाऽविद्या तन्निभित्ता रागद्वेषादयो वाऽर्थान्तरस्य क्षणिकस्य संहतिहेतुतां प्रतिपद्यन्ते । शुक्तिकार- जतादिबुद्धिहि न शुक्त्याद्यर्थसंहतिहेतुर्भवति । किच यस्य क्षणिके स्थिरत्वबुद्धिः, स तदैव नष्ट इति कस्य रागादय उत्पद्यन्ते ? संस्काराश्रयं स्थिरमेकं द्रव्यमनभ्युपगच्छतां संस्कारानु- वृत्तिरपि न शक्या कल्पयितुम् ॥१८॥ १६३. उत्तरोत्पादे च पूर्वनिरोधात् ॥२।२।१६ ॥ इतश्च क्षणिकत्वपक्षे जगदुत्पत्तिर्नोपपद्यते; उत्तरक्षणोत्पत्तिवेलायां पूर्वक्षणस्य विनष्टत्वात्, तस्योत्तरक्षरणं प्रति हेतुत्वानुपपत्तेः। अभावस्य हेतुत्वे सर्व सर्वत्र सर्वदोत्पद्येत; अथ पूर्वक्षणवतित्वमेव हेतुत्वमित्युच्यते, एवं तर्हि कश्चिदेव घटक्षणस्तदुत्तरकालभाविनां सर्वेषामेव गोमहिषाश्चकुड्यपाषाणादीनां त्रैलोक्यतिनां हेतुस्स्यात् । अथैकजातीयस्यैव पूर्वक्षणवतिनो हेतुत्वमिष्यते, तथाऽपि सर्वदेशतिनामुत्तरक्षणभाविनां घटानामेक एव पूर्वक्षणवतिघटो हेतुस्स्यात् । अर्थकस्यैव हेतुरेक इति मनुषे, तथाऽपि कस्यैकस्य को हेतुरिति न ज्ञायते । अथ यस्मिन् देशे यो घटक्षणः स्थितः, तद्देशसंबन्धिन एवोत्तरघटक्षणस्य स हेतुरिति, कि देशस्य स्थिरत्वं मनुषे ? किञ्च चक्षुरादिसंप्रयुक्तस्यार्थस्य ज्ञानोत्पत्तिकालेऽनव- स्थितत्वान्न कस्यचिदर्थस्य ज्ञानविषयत्वं संभवति ॥ १६ ॥ १६४. असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २।२। २० ॥ असत्यपि हेतौ कार्यमुत्पद्यते चेत्; सर्वं सर्वत्र सर्वदोत्पद्यतेत्युक्तम् । न केवलमुत्पत्ति- विरोध एव; प्रतिज्ञा च भवतामुपरुध्येत, अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्तौ हेतव इति वः प्रतिज्ञा; अधिपतिः इन्द्रियन् । अथ प्रतिज्ञानुपरोधाय घटक्षणे स्थित एव घटक्षणान्तरोत्पत्तिरिष्यते, तथा च सति द्वयोः कार्यकारणयोर्घटक्षणयोर्योग- पद्येनोपलब्धिः प्रसज्येत, नच तथोपलभ्यते; क्षणिकत्वप्रतिज्ञा चैवं हीयेत । क्षणिकत्वं स्थित- मेवेति चेत्, इन्द्रियसंप्रयोगज्ञानयोर्योगपद्यं प्रसज्येत ॥२०॥ १६५. प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २।२। २१ ॥ एवं तावदसत उत्पत्तिनिरस्ता; सतो निरन्वयविनाशोऽपि नोपपद्यत इत्युच्यते ।

द्वितीयाध्याये-द्वितीयपादे-समुदायाधिकरणम् ।
२२६
?
क्षणिकत्ववादिभिर्नुद्गराभिघाताद्यनन्तरभावितयोपलब्धियोग्यस्सदृशसन्तानावसानरूपः स्थूलो
यः, सदृशसन्ताने प्रतिक्षणभावी चोपलब्ध्यनहस्सूक्ष्मश्च यो निरन्वयो विनाशः प्रतिसङ्ख्या-
निरोधाप्रतिसङ्खयानिरोधशब्दाभ्यामभिधीयेते, तौ न संभवत इत्यर्थः । कुतः ? अविच्छेदात्-
सतो निरन्वयविच्छेदासंभवात् । असंभवश्च, सत उत्पत्तिविनाशौ नामावस्थान्तरापत्तिरेव;
अवस्थायोगि तु द्रव्यमेकमेव स्थिरमिति कारणादनन्यत्वं कार्यस्योपपादयद्भिरस्माभिः
*तदनन्यत्वमित्यत्र प्रतिपादितः । निर्वाणस्य दीपस्य निरन्वयविनाशदर्शनादन्यत्रापि विनाशो
निरन्वयोऽनुमीयत इति चेन्न, घटश रावादौ मृदादिद्रव्यानुवृत्त्युपलब्ध्या सतो द्रव्यस्यावस्था-
न्तरापत्तिरेव विनाश इति निश्चिते सति प्रदीपादौ सूक्ष्मदशापत्त्याऽप्यनुपलम्भोपपत्तेः
तत्राप्यवस्थान्तरापत्तिकल्पनस्यैव युक्तत्वात् ॥२१॥
१६६. उभयधा च दोषात् ॥ २-२-२२ ॥
क्षणिकत्ववादिभिरभ्युपेता तुच्छादुत्पत्तिः उत्पन्नस्य तुच्छतापत्तिश्च न संभवती-
त्युक्तम् तदुभयप्रकाराभ्युपगतौ दोषश्च भवति । तुच्छादुत्पत्तौ तुच्छात्मकमेव कार्य स्यात्
यद्धि यस्मादुत्पद्यते, तत्तदात्मक दृष्टम्; यथा मृत्सुवर्णादेरुत्पन्न नणिकमकुटादि मृत्सुवर्णा-
द्यात्मकं दृष्टम्; नच जगत्तुच्छात्मकं भवद्भिरभ्युपगम्यते; नच प्रतीयते । सतो निरन्वय-
विनाशे सत्येकक्षणावं कृत्स्नस्य जगतस्तुच्छतापत्तिरेव स्यात्; पश्चात्तुच्छाज्जगदुत्पत्तौ
अनन्तरोक्त तुच्छात्मकत्वमेव स्यात् । अत उभयधाऽपि दोषान्न भवदुक्तप्रकारावुत्पत्ति-
निरोधौ ॥२२॥
१६७. आकाशे चाविशेषात् ॥ २-२-२३ ॥
बाह्याभ्यन्तरवस्तुनः स्थिरत्वप्रतिपादनाय प्रतिसङ्ख्याप्रतिसङ्घयानिरोधयोस्तुच्छ-
रूपता निराकृता । तत्प्रसङ्गन ताभ्यां सह तुच्छत्वेन सौगतैः परिगणितस्याकाशस्यापि
तुच्छता प्रतिक्षिप्यते । आकाशे च निरुपाख्यता न युक्ता, भावरूपत्वेनाभ्युपगतपृथिव्यादि-
वदाकाशस्यापि अबाधितत्वेन । नच पृथिव्याद्यभावमात्रभाकाश इति वक्तुं शक्यम्, विकल्पा-
सहत्वात् । पृथिव्यादेः प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा
आकाशः ? सर्वथाऽप्याकाशप्रतीत्यनुपपत्तिस्स्यात् । प्रागभावप्रध्वंसाभावयोराकाशत्वे पृथिव्या-
दिषु वर्तमानेषु आकाशप्रतीत्ययोगात् निराकाशं जगत्स्यात् । इतरेतराभावस्याकाशत्वेऽपि
इतरेतराभावस्य तत्तद्वस्तुगतत्वेन तेषामन्तराले आकाशप्रतीतिर्न स्यात् । अत्यन्ताभावस्तु
पृथिव्यादीनां न संभवति । अभावस्य विद्यमानपदार्थावस्थाविशेषत्वोपपादनाच्चाकाशस्या-
भावरूपत्वेऽपि न निरुपाख्यत्वम् । अण्डान्ततिन आकाशस्य त्रिवृत्करणोपदेशप्रदर्शित-
पञ्चीकरणेन रूपवत्त्वाच्चाक्षुषत्वेऽप्यविरोधः ॥२३॥

२३० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । १६८. अनुस्मृतेश्च ॥ २-२-२४ ।। पूर्वप्रस्तुतं वस्तुनः स्थिरत्वमेवोपपाद्यते । अनुस्मरणं-पूर्वानुभूतवस्तुविषयं ज्ञानम्, प्रत्यभिज्ञानमित्यर्थः। तदेवेदमिति सर्व वस्तुजातमतीतकालानुभूतं प्रत्यभिज्ञायते । नच भवद्भिालादिष्विव सादृश्यनिबन्धनोऽयमेकत्वव्यामोह इति वक्तुं शक्यम्; व्यामुह्यतो ज्ञातुरेकस्यानभ्युपगमात् । न ह्यन्यानुभूतेनैकत्वं सादृश्यं वा स्वानुभूतस्यान्योऽनुसन्धत्ते । अतो भिन्नकालवस्त्वाश्रयसादृश्यानुभवनिबन्धनमेकत्वव्यामोहं वद्भिातुरेकत्दमवश्याश्रय- णीयम् । नच ज्ञेयेष्वपि घटादिषु ज्वालादिष्विव भेदसाधनप्रमाणमुपलभामहे, येन सादृश्य- निबन्धनां प्रत्यभिज्ञां कल्पयेय । यदपि चेदमुच्यते प्रत्यक्षानुमानाभ्यां घटादेः क्षणिकत्वं सिध्यति । प्रत्यक्षं तावद्वर्तमानार्थविषयमवर्तमानाद्वस्तुनो व्यावृत्तं स्वदिषयमवगमयति, नीलमिव पीतात् । एवं च भूतभविष्यद्धयां वर्तमानस्य वस्त्वन्तरत्वमवगतं भवति । अनुमानमपि-अर्थक्रियाकारित्वात् सत्त्वाच्च घटादिः क्षणिकः, यदक्षणिकं शश- विषाणादि, तदनर्थक्रियाकार्यसञ्च । तथा अन्त्यघटक्षणसत्त्वात्पूर्वघटक्षणसत्त्वानि विनाशीनि, घटक्षणसत्त्वात्, अन्त्यघटक्षणसत्त्ववदिति । तच्च कार्यकारणभावानुपपत्त्यादिभिपूर्वमेव निरस्तम् ॥ - किश्च प्रत्यक्षगम्या वर्तमानस्यावर्तमानाव्द्यावृत्तिर्न वर्तमानस्य वस्त्वन्तरत्वमव- गमयति; अपितु वर्तमानकालयोगितामात्रम् । नच तावता वस्त्वन्तरत्वं सिध्यति, तस्यैव कालान्तरयोगसंभवात् । यत्तु सत्त्वादर्थक्रियाकारित्वाच्चेति क्षणिकत्वे हेतुद्वयमुक्तम्, तदभि- मतविपरीतसाधनत्वाद्विरुद्धम् । सत्त्वादर्थक्रियाकारित्वाद्वा घटादि स्थास्नु, यदस्थास्नु तद- सदनर्थक्रियाकारि च, यथा शशविषाणमित्यपि हि वक्तुं शक्यम् । किञ्च अर्थक्रियाकारित्व- मक्षणिकत्वमेव साधयेत् । क्षणध्वंसिनो हि व्यापारासंभवादर्थक्रियाकारित्वं न संभवती- त्युक्तम् । तथाऽन्त्यघटक्षणस्य हेतुतो नाशदर्शनादितरेऽपि घटक्षणा हेत्वपेक्षविनाशास्स्युरित्या- मुद्गरादिहेतूपनिपातात् स्थास्नुत्वमेव । नच वाच्यं न मुद्गरादयो विनाशहेतवः, अपितु कपालादिविसदृशसन्तानोत्पत्तिहेतव इति; कपालत्वावस्थापत्तिरेव घटादीनां विनाश इत्युपपादितत्वात् । कपालोत्पत्तिव्यतिरिक्तत्वाभ्युपगमेऽपि विनाशस्य विनाशहेतुत्वमेव मुद्गरादेरानन्तर्याद्युक्तम् । अतः प्रत्यभिज्ञया स्थिरत्वमवगम्यमानं न केनापि प्रकारेणापह्नोतुं शक्यम् । पूर्वापरकालसंबन्ध्यर्थंक्यविषयायाः प्रत्यभिज्ञाया अन्यविषयत्वं ब्रवन्नीलादिज्ञानाना- मपि नीलादेरर्थान्तरविषयत्वं ब्रूयात् । किञ्च प्रमातृप्रमययोः क्षणिकत्वं वद्भिाप्त्यव- धारणतत्स्मरणपूर्वकानुमानाभ्युपगमोऽपि दुश्शकः । तथा इदं क्षणिकमित्यादिप्रतिज्ञापूर्वक- द्वितीयाध्याये-द्वितीयपादे--- उपलब्ध्यधिकरणम् । २३१ हेतूपन्यासादिकमपि नोपपद्यते भवताम्, प्रतिज्ञोपक्रमक्षण एव वक्तुविनष्टत्वात्; न ह्यन्येनोपक्रान्तमजानद्भिरन्यैस्समापयितुं शक्यम् ॥२४॥ १६६. नासतोऽदृष्टत्वात् ॥ २।२। २५ ॥ एवं तावद्वैभाषिकसौत्रान्तिकयोर्बाह्यार्थास्तित्ववादिनोस्साधारणानि दूषणान्युक्तानि । तत्र यदुक्तं संप्रयुक्तस्यार्थस्य ज्ञानोत्पत्तिकालेऽनवस्थितत्वान्न कस्यचिदर्थस्य ज्ञानविषयत्वं संभवतीति; तत्र सौत्रान्तिकः प्रत्यवतिष्ठते-न ज्ञानकालेऽनवस्थानमर्थस्य ज्ञानाविषयत्वहेतुः; ज्ञानोत्पत्तिहेतुत्वमेव हि ज्ञानविषयत्वम् । न चैतावता चक्षुरादेः ज्ञानविषयत्वप्रसङ्गः, स्वाकारसमर्पणेन ज्ञानहेतोरेव ज्ञानविषयत्वाभ्युपगमात् । ज्ञाने स्वाकारं समर्प्य विनष्टोऽप्यों ज्ञानगतेन नीलाद्याकारणानुमीयते । न च पूर्वपूर्वज्ञानेनोत्तरोत्तरज्ञानाकारसिद्धिः, नीलज्ञान- सन्ततौ पीतज्ञानानुत्पत्तिप्रसङ्गात् । अतोऽर्थकृतमेव ज्ञानवैचित्र्यमिति । अत्रोच्यते-नासतोऽदृष्टत्वादिति । योऽयं ज्ञाने नीलादिराकार उपलभ्यते, स विनष्टस्या- सतोऽर्थस्याकारो भवितुं नाहति । कुतः ? अदृष्टत्वात्-न खलु मिणि विनष्टे तद्धर्मस्यार्था- न्तरे संक्रमणं दृष्टम् । प्रतिबिम्बादिकमपि स्थिरस्यैव भवति । तत्रापि न धर्ममात्रस्य । अतोऽर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमर्थस्य ज्ञानकालेऽवस्थानादेव भवति ॥२५॥ पुनरपि साधारणं दूषणमाह- २००. उदासीनानामपि चैवं सिद्धिः ॥ २।२।२६ ।। एवं क्षणिकत्वासदुत्पत्यहेतुकविनाशाद्यभ्युपगमे उदासीनानाम्-अनुद्युञ्जानाना- मपि सर्वार्थसिद्धिः स्यात् । इष्टप्राप्तिरनिष्टनिवृत्तिर्वा प्रयत्नादिभिस्साध्यते । क्षणध्वंसे हि सर्वेषां भावानां पूर्वपूर्वं वस्तु तद्गतो वा विशेषः संस्कारादिको विद्यादिर्वा उत्तरत्र न कश्चिदनु- वर्तत इति प्रयत्नादिसाध्यं न किश्चिदस्ति । एवं सत्यहेतुसाध्यत्वात्सर्वसिद्धीनामुदासीना- नामप्यहिकामुष्मिकफलं मोक्षश्च सिद्धयेत् ॥ २६ ॥ इति समुदायाधिकरणम् ।। ३ ।। अथ उपलब्ध्यधिकरणम् ।। ४ ।। २०१. नाभाव उपलब्धेः ॥२।२। २७ ॥ विज्ञानमात्रास्तित्ववादिनो योगाचाराः प्रत्यवतिष्ठन्ते-यदुक्तमर्थवैचित्र्यकृतं ज्ञान- वैचित्र्यमिति; तन्नोपपद्यते, अर्थवत ज्ञानानामेव साकाराणां स्वयमेव विचित्रत्वात् । तच्च स्वरूपवैचित्र्यं वासनावशादेवोपपद्यते । वासना च विलक्षणप्रत्ययप्रवाह एव । यद्धटाकार- ज्ञानं कपालाकारज्ञानस्योत्पादकम, तस्य तथाविधस्योत्पादकं तत्पूर्वघटज्ञानम्। तस्य च

२३२
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
प्रकाशमानस्यच ज्ञानस्य
तथाविधस्योत्पादकं ततःपूर्वघटज्ञानम् इत्येवंरूपः प्रवाह एव वासनेत्युच्यते । कथं बहिष्ट-
सर्षपमहीधरादेराकार आन्तरस्य ज्ञानस्येत्युच्यते ? इत्थम्-अर्थस्यापि व्यवहारयोग्यत्वं
ज्ञानप्रकाशायत्तम्, अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात् ।
साकारत्वमवश्याश्रयणीयम्, निराकारस्य प्रकाशायोगात् । एकश्चायमाकार उपलभ्यमानो
ज्ञानस्यैव । तस्य च बहिर्वदवभासोऽपि भ्रमकृतः । ज्ञानार्थयोस्सहोपलम्भनियमाच्च ज्ञाना-
दव्यतिरिक्तोऽर्थः । किञ्च बाह्यमर्थमभ्युपद्भिरपि घटपटादिविज्ञानेषु ज्ञानस्य तत्तदर्थासाधा-
रण्यं तत्तदर्थसारूप्यमन्तरेण नोपपद्यत इत्यवश्यं ज्ञानेऽर्थसरूपं रूपमास्थेयम् । तावतैव
सर्वव्यवहारोपपत्तेः तयतिरिक्तार्थकल्पना निष्प्रामाणिका अतो विज्ञानमात्रमेव तत्त्वम्,
न बाह्यार्थोऽस्तीति ।।
एवं प्राप्त प्रचक्ष्महे-नाभाव उपलब्धेरिति । ज्ञानातिरिक्तस्यार्थस्याभावो वक्तुं न
न शक्यते; कुतः ? उपलब्धेः-- ज्ञातुरात्मनोऽर्थविशेषव्यवहारयोग्यतापादनरूपेण ज्ञानस्योप-
लब्धेः । एवमेव हि सर्वे लौकिकाः प्रतियन्ति घटमहं जानामीति । एवं रूपेण सकर्मकेण
सकर्तृ केन ज्ञाधात्वर्थेन सर्वलोकसाक्षिकमपरोक्षमवभासमानेनैव ज्ञानमात्रमेव परमार्थ इति
सावयन्तस्सर्वलोकोपहासोपकरणं भवन्तीति वेदवादच्छद्मप्रच्छन्नबौद्धनिराकरणे निपुणतरं
प्रपञ्चितम् । यत्तु *सहोपलम्भनियमादभेदो नोलतद्धियोरिति, तत् स्ववचनविरुद्धम्,
साहित्यस्यार्थभेदहेतुकत्वात् । तदर्थव्यवहारयोग्यतैकस्वरूपस्य ज्ञानस्य तेन सहोपलम्भ-
नियमस्तस्मादवलक्षण्यसाधनमिति च हास्यम् । निरन्वयविनाशिनां ज्ञानानामनुवर्तमान-
स्थिराकारविरहाद्वासना च दुरुपपादा। विनष्टेन पूर्वज्ञानेनानुत्पन्नमुत्तरज्ञानं वास्यते ?
अतो ज्ञानवैचित्र्यमप्यर्थवैचित्र्यकृतमेव । तत्तदर्थव्यवहारयोग्यतापादनरूपतया साक्षात्प्रतीय-
मानस्य ज्ञानस्य तत्तदर्थसंबधायत्तं तत्तदसाधारण्यम् । संबन्धश्च संयोगलक्षणः । ज्ञानमपि
हि द्रव्यमेव । प्रभाद्रव्यस्य प्रदीपगुणभूतस्येव ज्ञानस्याप्यात्मगुणभूतस्य द्रव्यत्वमविरुद्ध
मित्युक्तम् । अतो न बाह्यार्थाभावः ॥ २७ ॥
यत्परैः स्वप्नज्ञानदृष्टान्तेन जागरितज्ञानानामपि निरालम्बनत्वमुक्तम् तत्राह-
२०२. वैधाच्च न स्वप्नादिवत् ॥ २।२।२८ ॥
स्वप्नज्ञानवैधाज्जागरितज्ञानानामर्थशून्यत्वं न युज्यते वक्तुम् । स्वप्नज्ञानानि
हि निद्रादिदोषदुष्टकरणजन्यानि, बाधितानि च; जागरितज्ञानानि तु तद्विपरीतानीति तेषां
न तत्साम्यम् । सर्वेषां च ज्ञानानामर्थशून्यत्वे भवद्भिस्साध्योऽप्यर्थो न सिध्यति, निरालम्ब-
नानुमानस्याप्यर्थशून्यत्वात् । तस्यार्थवत्त्वे ज्ञानत्वस्यानैकान्त्यात् सुतरामर्थशून्यत्वा-
-
सिद्धिः ॥२८॥

द्वितीयाध्याये-द्वितीयपादे---सर्वथानुपपत्त्यधिकरणम् । २६३ २०३. न भावोऽनुपलब्धेः ॥ २-२-२६ ॥ न केवलस्यार्थशून्यस्य ज्ञानस्य भावस्संभवति; कुतः ? क्वचिदप्यनुपलब्धः । न ह्यकर्तृ कस्याकर्मकस्य वा ज्ञानस्य क्वचिदुपलब्धिः । स्वप्नज्ञानादिष्वपि नार्थशून्यत्वमिति ख्यातिनिरूपणे प्रतिपादितम् ॥२६॥ इति उपलब्ध्यधिकरणम् ।।४।। अथ सर्वथानुपपत्त्यधिकरणम् ।।५।। २०४. सर्वथाऽनुपपत्तेश्च ॥२-२-३०॥ अत्र सर्वशून्यवादी माध्यमिकः प्रत्यवतिष्ठते । शून्यवाद एव हि सुगतमतकाष्ठा । शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ताः। विज्ञानं बाह्यार्थाश्च सर्वे न सन्ति, शून्यमेव तत्त्वम्; अभावापत्तिरेव च मोक्ष इत्येव बुद्धस्याभिप्रायः। तदेव हि युक्तम्, शू यस्याहेतुसाध्यतया स्वतस्सिद्धेः । सत एव हि हेतुरन्वेषणीयः । तच्च सत् भावाद- भावाच्च नोत्पद्यते; भावात्तावन्न कस्यचिदुत्पत्तिष्टा; न हि घटादिरनुपमृदिते पिण्डादिके जायते । नाप्यभावादुत्पत्तिस्संभवति, नष्ट पिण्डादिके ह्यभावादुत्पद्यमानं घटादिकमभावा- त्मकमेव स्यात् । तथा स्वतः परतश्चोत्पत्तिर्न संभवति । स्वतः स्वोत्पत्तावात्माश्रयदोष- प्रसङ्गात्, प्रयोजनाभावाच्च । परतः परोत्पत्तौ परत्वाविशेषात् सर्वेषां सर्वेभ्य उत्पत्ति- प्रसङ्गः । जन्माभावादेव विनाशस्याप्यभावः । अतः शून्यमेव तत्त्वम् । अतो जन्मविनाश- सदसदादयो भ्रान्तिमात्रम् । न च निरधिष्ठानश्रमासंभवाद्भमाधिष्ठानं किञ्चित्पारमार्थिक तत्त्वमाश्रयितव्यम्, दोषदोषाश्रयत्वज्ञातृत्वाद्यपारमार्थेऽपि प्रमोपपत्तिवदधिष्ठानापारमार्थ्य- ऽपि भ्रमोपपत्तेः । अतः शून्यमेव तत्त्वम् ।। इति प्राप्त उच्यते--सर्वथाऽनुपपत्तेश्चेति । सर्वथाऽनुपपत्तेस्सर्वशून्यत्वं च भवदभिप्रेतं न संभवति । किं भवान् सर्व सदिति वा प्रतिजानीते, असदिति वा, अन्यथा वा ? सर्वथा तवाभिप्रेतं तुच्छत्वं न संभवति; लोके भावाभावशब्दयोस्तत्प्रतीत्योश्च विद्यमानस्यैव वस्तुनो- ऽवस्थाविशेषगोचरत्वस्य प्रतिपादितत्वात् । अतस्सर्व शून्यमिति प्रतिजानता सर्व सदिति प्रतिजानतेव सर्वस्य विद्यमानस्यावस्थाविशेषयोगितैव प्रतिज्ञाता भवतीति भवदभिमता तुच्छता न कुतश्चिदपि सिध्यति । किञ्च कुतश्चित्प्रमाणाच्छून्यत्वमुपलभ्य शून्यत्वं सिषाध- यिषता तस्य प्रमाणस्य सत्यत्वमभ्युपेत्यम्; तस्यासत्यत्वे सर्व सत्यं स्यादिति सर्वथा सर्व शून्यत्वं चानुपपन्नम् ॥३०॥ इति सर्वथानुपपत्त्यधिकरणम् ।।५।। - २३४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ एकस्मिन्नसंभवाधिकरणम् ।।६।। २०५. नैकस्मिन्नसंभवात् ॥ २-२-३१॥ निरस्तास्सौगताः । जैना अपि परमाणुकारणत्वादिकं जगतो वदन्तीत्यनन्तरं जैन- पक्षः प्रतिक्षिप्यते । ते किल मन्यन्ते-जीवाजीवात्मकं जगदेतन्निरीश्वरम्; तच्च षड्द्रव्यात्म- कम् । तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशाख्यानि । तत्र जीवा:-बद्धाः, योग- सिद्धाः, मुक्ताश्चेति त्रिविधाः । धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्व्यापी । अधर्मश्च स्थितिहेतुभूतो व्यापी । पुद्गलो नाम वर्णगन्धरसस्पर्शवद्रव्यम् । तच्च द्विविधम्- परमाणुरूपं, तत्सयातरूपं च पवनज्वलनसलिलधरणीतनुभुवनादिकम् । कालस्तु अभूदस्ति भविष्यतीति व्यवहारहेतुरणुरूपो द्रव्यविशेषः । आकाशोऽप्येकोऽनन्तप्रदेशश्च । तेषु चाणुव्य- तिरिक्तद्रव्याणि पञ्चास्तिकाया इति च संगृह्यन्ते-जीवास्तिकायः; धर्मास्तिकायः, अधर्मास्तिकायः; पुद्गलास्तिकायः; आकाशास्तिकायः-इति । अनेकदेशवातिनि द्रव्येऽस्तिकाय- शब्दः प्रयुज्यते ।। जीवानां मोक्षोपयोगिनमपरमपि संग्रहं कुर्वन्ति जीवाजीवास्रवबन्धनिर्जरसंवर- मोक्षाः इति । मोक्षसङ्ग्रहेण मोक्षोपायश्च गृहीतः। स च सम्यग्ज्ञानदर्शनचारित्ररूपः । तत्र जीवस्तु ज्ञानदर्शनसुखवीर्यगुणः । अजीवश्च जीवभोग्यवस्तुजातम् । आस्रवः तद्भोगोपकरण- भूतमिन्द्रियादिकम् । बन्धश्चाष्टविधः-घातिकर्मचतुष्टयमघातिकर्मचतुष्टयं चेति । तत्राद्य जीवगुणानां स्वाभाविकानां ज्ञानदर्शनवीर्यसुखानां प्रतिघातकरम् । अपरं शरीरसंस्थानतद- भिमानतस्थितितत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतम् । निर्जरं मोक्षसाधनमर्हदुपदेशावगतं तपः । संवरो नामेन्द्रियनिरोधः समाधिरूपः। मोक्षस्तु निवृत्तरागादिक्लेशस्य स्वाभाविकात्म- स्वरूपाविर्भावः । पृथिव्यादिहेतुभूताश्चाणवो वैशेषिकादीनामिव न चतुर्विधाः। अपित्वेक- स्वभावाः । पृथिव्यादिभेदस्तु परिणामकृतः ॥ सर्व च वस्तुजातं सत्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिभिरनैकान्तिक- मिच्छन्ति-स्यादस्ति, स्यान्नास्ति, स्यादस्तिच नास्तिच, स्यादवक्तव्यम्, स्यादस्ति चाव- क्तव्यं च, स्यान्नास्ति चावक्तव्यं च, स्यादस्तिच नास्ति चावक्तव्यं चेति सर्वत्र सप्तभङ्गी- नयावतारात् । सर्व वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्वनित्यत्वाद्य पपाद- यन्ति; पर्यायात्मना च तद्विपरीतम् । पर्यायाश्च द्रव्यस्यावस्थाविशेषाः । तेषां च भावाभाव- रूपत्वात्सत्त्वासत्त्वादिकं सर्वमुपपन्नमिति ॥ अत्राभिधीयते-नै कस्मिन्नसंभवादिति । नैतदुपपद्यते; कुतः ? एकस्मिन्नसंभवात्- एकस्मिन्वस्तुनि अस्तित्वनास्तित्वाविरुद्धस्य च्छायातपवध गपदसंभवात् । एतदुक्तं भवति- ? - 'द्वितीयाध्याये-द्वितीयपादे-एकस्मिन्नसंभवाधिकरणम् । २३५ द्रव्यस्य तद्विशेषणभूतपर्यायशब्दाभिधेयावस्थाविशेषस्य च पृथक्पदार्थत्वान्नैकस्मिन्विरुद्धधर्म- समावेशस्संभवतीति । तथा हि-एकेनास्तित्वादिनाऽवस्थाविशेषेण विशिष्टस्य तदानीमेव न तद्विपरीत नास्तित्वादिविशिष्टत्वं संभवति । उत्पत्तिविनाशाख्यपरिणामविशेषास्पदत्वं च द्रव्यस्यानित्यत्वम्, तद्विपरीतं च नित्यत्वं तस्मिन् कथं समवैति ? विरोधिधर्माश्रयत्वं च भिन्नत्वम्, तद्विपरीतं चाभिन्नत्वं कथं वा तस्मिन् समवैति ? यथाऽश्वत्वमहिषत्वयोर्युगपदेक- स्मिन्नसंभवः । अयमर्थः पूर्वमेव भेदाभेदवादिनिरसनसमये *तत्तु समन्वयादित्यत्र पश्चितः। कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याः; न च परि- हर्तव्याः । कालोऽस्ति नास्तीति व्यवहारो व्यवहर्तृणां जात्याद्यस्तित्वनास्तित्वव्यवहारतुल्यः । जात्यादयो हि द्रव्यविशेषणतयैव प्रतीयन्त इति पूर्वमेवोक्तम् । कथं पुनरेकमेव ब्रह्म सर्वात्मकमिति श्रोत्रियैरुच्यते ? सर्वचेतनाचेतनशरीरत्वात्सर्वज्ञस्य सर्वशक्तत्सत्यसङ्कल्पस्य पुरुषोत्तमस्ये- त्युक्तम् । शरीरशरीरिणस्तद्धर्माणाञ्चात्यन्तवलक्षण्यमप्युक्तम् किञ्च जीवादीनां घण्णां द्रव्यणामेकद्रव्यपर्यायत्वाभावात्तेषु द्रव्यैकत्वेन पर्यायात्मना चैकत्वानेकत्वादयो दुरुपपादाः । अथोच्येत-षडेतानि द्रव्याणि स्वकीयः पर्यायः स्वेनस्वेन चात्मना तथा भवन्तीति । एवमपि सर्वमनैकान्तिकमित्यभ्युपगमविरोधः, अन्योन्यतादात्म्याभावात् । अतो न युक्तमिदं जैनमतम् । ईश्वरानधिष्ठितपरमाणुकारणवादे पूर्वोक्तदोषास्तथैवावतिष्ठन्ते ॥ ३१ ॥ २०६. एवं चात्माकात्य॑म् ॥ २।२। ३२ ॥ एवं भवदभ्युपगमे सति आत्मनश्चाकात्य प्रसज्यते । जीवोऽसङ्ख्यातप्रदेशो देह- परिमाण इति हि भवतां स्थितिः। तत्र हस्त्यादिशरीरेऽवस्थितस्यात्मनस्ततो न्यूनपरिमाणे पिपीलिकादिशरीरे प्रविशतोऽल्पदेशव्यापित्वेनाकात्य॑ प्रसज्यते-अपरिपूर्णता प्रसज्यत इत्यर्थः ॥ ३२ ॥ अथ सङ्कोचविकासधर्मतया आत्मनः पर्यायशब्दाभिधेयावस्थान्तरापत्त्या विरोधः परिहियत इत्युच्येत; तत्राह- २०७. न च पर्यायादप्यविरोधो विकारादिभ्यः ॥२।२३३॥ न च सङ्कोचविकासरूपावस्थान्तरापत्त्या विरोधः परिहर्तुं शक्यते, विकारतत्प्रयुक्ता- नित्यत्वादिदोषप्रसक्तघटादितुल्यत्वप्रसङ्गात् ॥ ३३ ॥ २०८. अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ।। २।२।३४ ॥ जीवस्य यदन्त्यं परिमाणं मोक्षावस्थागतम्, तस्य पश्चाद्देहान्तरपरिग्रहाभावाद- वस्थितत्वादात्मनश्च मोक्षावस्थस्य तत्परिमाणस्य चोभयोनित्यत्वात्तदेव आत्मनः स्वाभाविक - .. .

२३६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । परिमाणमिति पूर्वमपि तस्मादविशेषः स्यात् । अतो देहपरिमाणत्वमात्मनो न स्यादित्य- सङ्गतमेवेदमार्हतमतम् ॥ ३४ ॥ इति एकस्मिन्नसंभवाधिकरणम् ।। ६ ।। अथ पशुपत्यधिकरणम् ।। ७ ।। २०६. पत्युरसामञ्जस्यात् ।। २।२। ३५॥ कपिलकणादसुगतार्हतमतानामसामञ्जस्यात् वेदबाह्यत्वाच्च निश्श्रेयसाथिभिरनादर- णीयत्वमुक्तम् इदानीं पशुपतिमतस्य वेदविरोधादसामञ्जस्याच्च अनादरणीयतोच्यते । तन्मतानुसारिणश्चतुविधा:-कापालाः कालामुखाः पाशुपताः शैवाश्चेति । सर्वे चैते वेद- विरुद्धां तत्त्वप्रक्रियाम् ऐहिकामुष्मिकनिश्श्रेयससाधनकल्पनाश्च कल्पयन्ति । निमित्तोपादन- योर्भेदं, निमित्तकारणं च पशुपतिमाचक्षते । तथा निश्श्र यससाधनमपि मुद्रिकाषट्कधारणा- दिकम् । यथाऽऽहुः कापाला:-*मुद्रिकाषटकतत्त्वज्ञः परमुद्राविशारदः । भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ॥ *कण्ठिका रुचकं चैव कुण्डलं च शिखामणिः। भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ॥ आभिर्मुद्रितदेहस्तु न भूय इह जायते ॥ इत्यादिकम् । तथा काला- मुखा अपि कपालपात्रभोजनशवभस्मस्नानतत्प्राशनलगुडधारणसुराकुम्भस्थापनतदाधारदेव- पूजादिकमैहिकामुष्मिकसकलफलसाधनमभिदधति । *रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके । कपालं भस्मना स्नानम् इत्यादि च प्रसिद्धं शैवागमेषु । तथा केनचित्क्रिया- विशेषेण विजातीयानामपि ब्राह्मण्यप्राप्तिमुत्तमाश्रमप्राप्ति चाहुः-*दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः ॥ इति ॥ तत्रेदमुच्यते--पत्युरसामञ्जस्यादिति । *नैकस्मिन्नसंभवादित्यतो नेत्यनुवर्तते । पत्यु:- पशुपतेः, मतं नादरणीयम्; कुतः ? असामञ्जस्यात् । असामञ्जस्यं च अन्योन्यव्याघातात् वेदविरोधाच्च । मुद्रिकाषट्कधारणभगासनस्थात्मध्यानसुराकुम्भस्थापनतत्स्थदेवतार्चनगूढा- चारश्मशानभस्मस्नानप्रणवपूर्वाभिध्यानान्यन्योन्यविरुद्धानि । वेदविरुद्धं चेदं तत्त्वपरिकल्पन- मुपासनमाचारश्च । वेदाः खलु परं ब्रह्म नारायणमेव जगन्निमित्तमुपादानं च वदन्ति- *नारायण परं ब्रह्म तत्त्वं नारायणः परः। नारायण परो ज्योतिरात्मा नारायणः परः तदक्षत बहु स्यां प्रजायेयेति सोऽकामयत बहु स्यां प्रजायेयेति तदात्मानं स्वयमकुरुत* इत्यादयः । परब्रह्मभूतपरमपुरुषवेदनमेव च मोक्षसाधनमुपासनं वदन्ति-*वेदाहमेतं पुरुषं महान्तम्, आदित्यवर्णं तमसस्तु पारे...तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते* इत्यादिना एकतां गतास्सर्वे वेदान्ताः । तदितिकर्तव्यताभूतं कर्म च वेदविहित- वर्णाश्रमसंबन्धि यज्ञादिकमेव वदन्ति-*तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन ? - द्वितीयाध्याये-द्वितीतपादे-पशुपत्यधिकरणम् २३७ दानेन तपसाऽनाशकेन...एतमेव प्रवाजिनः लोकमिच्छन्तः प्रवजन्ति* इत्यादयः । केवल- परतत्त्वप्रतिपादनपरनारायणानुवाकसिद्धतत्त्वपराः केषुचिदुपासनादिविधिपरेषु वाक्येषु श्रुताः प्रजापतिशिवेन्द्राकाशप्राणादिशब्दा इति *शास्त्रदृष्टया तूपदेशो वामदेववदित्यत्र प्रतिपादितम् । तथा *एको ह वै नारायण आसीन्न ब्रह्मा नेशानः, इत्यारभ्य *स एकाकी न रमेत* इति सृष्टिवाक्योदितं स्रष्टारं नारायणमेव समानप्रकरणस्थाः *सदेव सोम्येदमन इत्यादिषु साधारणाः सद्ब्रह्मात्मादिशब्दाः प्रतिपादयन्तीति *जन्माद्यस्य यतः इत्यत्र प्रतिपादितम् । अतो वेदविरुद्धतत्त्वोपासनानुष्ठानाभिधानात्पशुपतिमतमनादरणीयमेव ॥ ३५ ॥ २१० अधिष्ठानानुपपत्तेश्च ।। २।२। ३६ ।। वेदबाह्यानामनुमानाद्धि केवलनिमित्तेश्वरकल्पना । तथा सति दृष्टानुसारेण कुलाला- दिवदधिष्ठानं कर्तव्यम्; न च कुलालादेमृदाद्यधिष्ठानवत्पशुपतेनिमित्तभूतस्य प्रधानाधिष्ठान- मुपपद्यते, अशरीरत्वात्; सशरीराणामेव हि कुलालादीनामधिष्ठानशक्तिदृष्टा । न चेश्वरस्य सशरीरत्वमभ्युपगन्तव्यम् तच्छरीरस्य सावयवस्य नित्यत्वे अनित्यत्वे च *शास्त्रयोनित्वादि- त्यत्र दोषस्योक्तत्वात् ॥३६॥ २११. करणवच्चेन भोगादिभ्यः ॥ २-२-३७ ।। यथा भोक्तु वस्य करणकलेबराद्यधिष्ठानमशरीरस्यैव दृश्यते; तद्वन्महेश्वरस्याप्य- शरीरस्य च प्रधानाधिष्ठानमुपपद्यत इति चेन्न; भोगादिभ्यः-पुण्यपापरूपकर्मफलभोगार्थ पुण्यपापरूपादृष्टकारितं हि तदधिष्ठानम्। तद्वत्पशुपतेरपि पुण्यपापरूपादृष्टवत्तया तत्फलभोगादि सर्व प्रसज्येत; अतो नाधिष्ठानसंभवः ॥३७॥ २१२. अन्तवत्त्वमसर्वज्ञता वा ॥ २-२-३८ ॥ वाशब्दश्चार्थे; पशुपतेः पुण्यपापरूपादृष्टवत्त्वे जीववदन्तवत्त्वं सृष्टिसंहाराद्यास्पदत्व- मसर्वज्ञता च स्यादित्यनादरणीयमेवेदं मतम् । विरोधे त्वनपेक्षं स्यात्* इत्यादिना वेद- विरुद्धस्यानादरणीयत्वे सिद्धेऽपि पशुपतिमतस्य वेदविरुद्धताख्यापनार्थ *पत्युरसामञ्जस्या- दिति पुनरारम्भः । यद्यपि पाशुपतशेवयोर्वेदाविरोधिन इव केचन धर्माः प्रतीयन्ते; तथाऽपि बेदविरुद्धनिमित्तोपादानभेदकल्पनापरावरतत्त्वव्यत्ययकल्पनामूलत्वात् सर्वमसमञ्जसमेवेति असामञ्जस्यादित्युक्तम् ॥३०॥ इति पशुपत्यधिकरणम् ।।७।।

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ उत्पत्त्यसंभवाधिकरणम् ।।८।। २१३. उत्पत्त्यसंभवात् ॥ २-२.३६ ॥ कपिलादितन्त्रसामान्याद्भगवदभिहितपरमनिःश्रेयससाधनावबोधिनि पञ्चरात्रतन्त्रे- ऽप्यप्रामाण्यमाशङ्कच निराक्रियते । तत्रैवमाशङ्कयते--परमकारणात्परब्रह्मभूताद्वासुदेवा- सङ्कर्षणो नाम जोवो जायते, सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते, तस्मादनिरुद्धसंज्ञोऽ- हङ्कारो जायत इति हि भागवनप्रक्रिया । अत्र जीवस्योत्पत्तिः श्रुतिविरुद्धा प्रतीयते; श्रुतयो हि जीवस्यानादित्वं वदन्ति न जायते म्रियते वा विपश्चित्% इत्याद्याः ॥३६॥ २१४. न च कर्तुः करणम् ॥ २-२-४०॥ *सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते इति कर्तुः जीवात्, करणस्य मनस उत्पत्तिर्न संभवति, *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च* इति परस्मादेव ब्रह्मणो मनसोऽ- प्युत्पत्तिश्रुतेः । अतः श्रुतिविरुद्धार्थप्रतिपादनादस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिद्धयत इति ॥४०॥ एवं प्राप्ते प्रचक्ष्महे- २१५. विज्ञानादिभावे वा तदप्रतिषेधः ।। २-२-४१ ॥ वाशब्दात्पक्षो विपरिवर्तते; विज्ञानं चादि चेति परब्रह्म विज्ञानादि । सङ्कर्षण- प्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपादनपरस्य शास्त्रस्य प्रामाण्यं न प्रति- षिध्यते । एतदुक्तं भवति-भागवतप्रक्रियामजानतामिदं चोद्य यज्जीवोत्पतिविरुद्धाऽभिहि- तेति । वासुदेवाख्यं परं ब्रह्मवाश्रितवत्सलं स्वाश्रितसमाश्रयणीयत्वाय स्वेच्छया चतुर्धाऽव- तिष्ठत इति हि तत्प्रक्रिया । यथा पौष्करसंहितायां *कर्तव्यत्वेन वै यत्र चातुरात्म्य मुपास्यते । क्रमागतैस्स्वसंज्ञाभिः ब्राह्मणैरागमं तु तत् ॥ इत्यादि । तच्च चातुरात्म्योपासनं वासुदेवापरब्रह्मोपासनमिति सात्वतसंहितायामुक्तं ब्राह्मणानां हि सद्ब्रह्मवासुदेवाख्य- याजिनम् । विवेकदं परं शास्त्रं ब्रह्मोपनिषदं महत् ॥ इति । तद्धि वासुदेवाख्यं परं ब्रह्म संपूर्णषाड्गुण्यवपुः सूक्ष्मव्यूहविभवभेदभिन्न यथाधिकारं भक्तः ज्ञानपूर्वेण कर्मणा अभ्यचितं सम्यक्प्राप्यते । विभवार्चनान्य हं प्राप्य व्यूहार्चनात्परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यत इति वदन्ति । विभवो हि नाम रामकृष्णादिप्रादुर्भावग़णः । व्यूहो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्ध- रूपश्चतुर्दूहः । सूक्ष्मं तु केवलषाड्गुण्यविग्रहं वासुदेवाख्यं परब्रह्म। यथा पौष्करे यस्मा- त्सम्यक्परं ब्रह्म वासुदेवाख्यमव्ययम् । अस्मादवाप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा ॥ इत्यादि । - .

द्वितीयाध्याये-द्वितीयपादे-उत्पत्यसंभवाधिकरणम् २३६ अतस्सङ्कर्षणादीनामपि परस्यैव ब्रह्मणः स्वेच्छाविग्रहरूपत्वात् *अजायमानो बहुधा विजा. यत इति श्रुतिसिद्धस्यैवाश्रितवात्सल्यनिमित्तस्वेच्छाविग्रहसङ्ग्रहरूपजन्मनोऽभिधानालदभि- धायिशास्त्रामाण्यस्याप्रतिषेध इति । तत्र जीवमनोहङ्कारतत्त्वानामधिष्ठातारः सङ्कर्षण- प्रद्युम्नानिरुद्धा इति तेषामेव जीवादिशब्दरभिधानमविरुद्धम्; यथा आकाशप्राणादिशब्दैः ब्रह्मणोऽभिधानम् ॥४१॥ २१६. विप्रतिषेधाच्च ।। २।२। ४२ ॥ विप्रतिषिद्धा हि जीवोत्पत्तिस्तस्मिन्नपि तन्त्रे; यथोक्तं परमसंहिताया-*अचेतना परार्था च नित्या सततविक्रिया। त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते ॥ व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चितः ॥ इति । एवं सर्वास्वपि संहितासु जीवस्य नित्यत्ववचनाज्जीवस्वरूपोत्पत्तिः पञ्चरात्रतन्त्रे प्रतिषिद्धव । जन्ममरणादिव्यवहारस्तु लोकवेदयोर्जीवस्य यथोपपद्यते, तथा अनात्मा श्रुतेरित्यत्र वक्ष्यते । अतो जीवस्योत्पत्तिस्तत्रापि प्रतिषिद्धवेति जीवोत्पत्तिवादनिमित्ताप्रामाण्यशङ्का दूरोत्सारिता । यश्चैष केषांचिदुद्धोषः *साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रशास्त्र- मधीतवान् इति साङ्गेषु वेदेषु पुरुषार्थनिष्ठा न लब्धेति वचनाद्वेदविरुद्धमेवेदं तन्त्रमिति, सोऽप्यनाघ्रातवेदवचसामनाकलिततदुपबृंहणन्यायकलापानां श्रद्धामात्र विजृम्भितः । *प्रातःप्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् इति अनुदित होमनिन्दा उदित- होमप्रशंसाथैत्युक्तम् यथा च भूमविद्याप्रक्रमे नारदेन *ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेद माथर्वणं चतुर्थमितिहासपुराणं पञ्चमम्* इत्यारभ्य सर्व विद्यास्थानमभिधाय *सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित्” इति भूमविद्याव्यतिरिक्तासु सर्वासु विद्यास्वात्मवेदनालाभवचनं वक्ष्यमाणभूमविद्याप्रशंसार्थ कृतम् । अथवा अस्य नारदस्य साङ्गषु वेदेषु यत्परतत्त्वं प्रति- पाद्यते, तदलाभनिमित्तोऽयं वादः; एवमेव शाण्डिल्यस्येति, पश्चाद्वेदान्तवेद्यवासुदेवाख्य- परब्रह्मतत्त्वाभिदानादवगम्यते । तथा वेदार्थस्य दुर्ज्ञानतया सुखावबोधार्थश्शास्त्रारम्भः परम- संहितायामुच्यते । *अधीता भगवन् वेदास्साङ्गोपाङ्गास्सविस्तराः । श्रुतानि च मयाऽङ्गानि वाकोवाक्ययुतानि च । नचैतेषु समस्तेषु संशयेन विना क्वचित् । श्रेयोमार्ग प्रपश्यामि येन सिद्धिर्भविष्यति ॥ इति, *वेदान्तेषु यथा सारं संगृह्य भगवान् हरिः। भक्तानुकम्पया विद्वान संचिक्षेप यथासुखम् ॥ इति च । अतस्स भगवान्वेदैकवेद्यः परब्रह्माभिधानो वासुदेवो निखिलहेयप्रत्यनीककल्याणकतानानन्तज्ञानानन्दाद्यपरिमितोदारगुणसागरस्सत्यसङ्कल्पश्चातु- वर्ण्यचातुराश्रम्यव्यवस्थयाऽवस्थितान् धर्मार्थकाममोक्षाख्यपुरुषार्थाभिमुखान् भक्तानवलोक्या- पारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिः स्वस्वरूपस्वविभूतिस्वाराधनतत्फलयाथात्म्याव- यथा २४० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । बोधिनो वेदान् ऋग्यजुस्सामाथर्वभेदभिन्नानपरिमितशाखा विध्यर्थवादमन्त्ररूपान् स्वेतर- सकलसुरनरदुरवगाहांश्चावधार्य तदर्थयाथात्म्यावबोधि पञ्चरात्रशास्त्र स्वयमेव निरमिमीतेति निरवद्यम् ॥ यत्तु परैस्सूत्रचतुष्टयं कस्यचिद्विरुद्धांशस्य प्रामाण्यनिषेधपरं व्याख्यातम्; तत् सूत्राक्षराननुगुणम्, सूत्रकाराभिप्रायविरुद्धंच ॥ तथा हि-सूत्रकारेण वेदान्तन्यायाभिधायोनि सूत्राण्यभिधाय वेदोपबृहणाय च भारत- संहितां शतसहस्त्रिकां कुर्वता मोक्षधर्मे ज्ञानकाण्डेऽभिहितं गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः । य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः॥ इत्यारभ्य महता प्रबन्धेन पश्चरात्र- शास्त्रप्रक्रियां प्रतिपाद्य, *इदं शतसहस्राद्धि भारताख्यानविस्तरात् । आविध्य मतिमन्यानं दध्नो घृतमिवोद्धृतम् । नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा । आरण्यकं च वेदेभ्य ओषधीभ्यो यथाऽमृतम् ॥ *इदं महोपनिषदं चतुर्वेदसमन्वितम् । साङ्घययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥ इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् । ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिर- सैस्तथा । भविष्यति प्रमाणं वा एतदेवानुशासनम् ॥ इति । साङ्ख्ययोगशब्दाभ्यां ज्ञानयोग- कर्मयोगावभिहितौ; यथोक्तं -*ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्* इति । भीष्म- पर्वण्यपि-*ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणः। अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः । सात्त्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः ॥ इति । कथमेवं ब्रुवाणो बादरायणो वेदविदग्रेसरो वेदान्तवेद्यपरब्रह्मभूतवासुदेवोपासनार्चनादिप्रतिपादनपरस्य सात्त्वतशास्त्रस्या- प्रामाण्यं ब्रूयात् ? ननु च *साङ्घचं योगः पञ्चरात्रं वेदाः पाशुपतं तथा ।...किमेतान्येकनिष्ठानि पृथनिष्ठानि वा मुने *इत्यादिना साङ्ख्यादीनामप्यादरणीयतोच्यते । शारीरके साङ्खयादीनि प्रतिषिध्यन्ते । अत इदमपि तन्वं तत्तुल्यम् । नेत्युच्यते, यतस्तत्रापोममेव शारीरकोक्तं न्यायमवतारयति । किमेतान्येकनिष्ठानि पृथनिष्ठानि वेति प्रश्नस्यायमर्थः- किं साङ्ख्ययोगपाशुपतवेदपञ्चरात्राण्येकतत्त्वप्रतिपादनपराणि, पृथक्तत्त्वप्रतिपादनपराणि वा ? यदैकतत्त्वप्रतिपादनपराणि, किं तदेक तत्त्वम् ? यदा तु पृथक्तत्त्वप्रतिपादनपराणि, तदैषां परस्परं विरुद्धार्थप्रतिपादनपरत्वाद्वस्तुनि विकल्पासंभवाच्चकमेव प्रमाणमङ्गीकरणीयम्, किं तदेकम् ? इति । अस्योत्तरं ब्रुवत् *ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै । साङ्खस्य वक्ता कपिल:* इत्यारभ्य साङ्घययोगपाशुपतानां कपिलहिरण्यगर्भपशुपतिकृतत्वेन पौरुषेयत्वं प्रतिपाद्य *अवान्तरतपा नाम वेदाचार्यस्स उच्यते* इति वेदानामपौरुषेयत्वम- भिधाय *पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम्* इति पश्चरात्रतन्त्रस्य वक्ता नारायणः स्वयमेवेत्युक्तवान् ॥ तु - ?

द्वितीयाध्याये-तृतीयपादे-वियदधिकरणम् । २४१ एवं वदतश्चायमाशयः--पौरुषेयाणां हि तन्त्राणां परस्परविरुद्धवस्तुवादितया अपौरुषेयत्वेन निरस्तप्रमादादिनिखिलदोषगन्धवेदवेद्यवस्तुविरुद्धाभिधायित्वाच्च यथावस्थित- वस्तुनि प्रामाण्यं दुर्लभम्; वेदवेद्यश्च परब्रह्मभूतो नारायणः; अतस्तत्तत्तन्त्राभिहितप्रधान- पुरुषपशुपतिप्रभृतितत्त्वस्य वेदान्तवेद्यपरब्रह्मभूतनारायणात्मकत्यैव वस्तुत्वमभ्युपगमनीय- मिति । तदिदमाह च *सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुः ॥ इति ! यथागमं यथान्यायमिति न्यायानुगृहीततत्तदागमोक्तं वस्तु पराम- शतो नारायण एव सर्वस्य वस्तुनो निष्ठेति दृश्यते, अब्रह्मात्मकतया तत्तत्तन्त्राभिहितानां तत्त्वानां *सर्व खल्विदं ब्रह्म *विश्वं नारायणः* इत्यादिना सर्दस्य ब्रह्मात्मकतामनुसन्द- धानस्य नारायण एव निष्ठेति प्रतीयत इत्यर्थः । अतो वेदान्तवेद्यः परब्रह्मभूतो नारायणः स्वयमेव पञ्चरात्रस्य कृत्स्नस्य वक्तेति, तत्स्वरूपतदुपासनाभिधायि तत्तन्त्रमिति च तस्मिन्नि- तरतन्त्रसामान्यं न केनचिदुद्भावयितुं शक्यम् । अतस्तत्रैवेदमुच्यते-*एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च । परस्पराङ्गान्येतानि पञ्चरात्रं तु कथ्यते ॥ इति । साङ्घयं च योगश्च साङ्ख्ययोगम्, वेदाश्चारण्यकानि च वेदारण्यकम्, परस्पराङ्गान्येतानि एकतत्त्वप्रतिपादन- परतयैकीभूतानि एकं पञ्चरात्रमिति कथ्यते । एतदुक्तं भवति-साङ्खयोक्तानि पञ्चविंशति- तत्त्वानि, योगोक्तं च यमनियमाद्यात्मक योगम्, वेदोदितकर्मस्वरूपाण्यङ्गीकृत्य तत्त्वानां ब्रह्मात्मकत्वं, योगस्य च ब्रह्मोपासनप्रकारत्वं कर्मणां च तदाराधनरूपतामभिदधति ब्रह्म- स्वरूपं प्रतिपादयन्त्यारण्यकानि । एतदेव परेण ब्रह्मणा नारायणेन स्वयमेव पञ्चरात्रतन्त्रे विशदीकृतमिति ॥ शारीरके च साजयोक्ततत्त्वानामब्रह्मात्मकतामात्रं निराकृतम्, न स्वरूपम् । योगपाशुपतयोश्चेश्वरस्य केवलनिमित्तकारणता, परावरतत्त्वविपरीतकल्पना, वेदबहिष्कृता- चारो निराकृतः; न योगस्वरूपम्, पशुपतिस्वरूपं च । अतः *साङ्खयं योगः पञ्चरात्रं वेदाः पाशुपतं तथा। आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः ॥ इत्यपि तत्तदभिहिततत्त- स्वरूपमात्रमङ्गीकार्यम्; जिनसुगताभिहिततत्त्ववत् सर्वन बहिष्कार्यमित्युच्यते, “यथागम यथान्यायं निष्ठा नारायणः प्रभुरित्यनेनैकार्थ्यात् ॥४२॥ इति उत्पत्त्यसंभवाधिकरणम् ।।८।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य द्वितीयः पादः ।।२।। श्रीमते रामानुजाय नमः द्वितीयाध्याये-तृतीयःपाद:-वियदधिकरणम् ।।१।। २१७. न वियदश्रुतेः ॥ २-३-१ ॥ साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासाम स्यमुक्तम्;

२४२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? ? - इदानी स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावख्यापनाय ब्रह्मकार्यतयाऽभिमतचिदचिदात्मक- प्रपञ्चस्य कार्यताप्रकारो विशोध्यते । तत्र वियदुत्पद्यते, न वेति संशय्यते । किं युक्तम् ? न वियदुत्पद्यत इति । कुतः ? अश्रुतेः; संभावितस्य हि श्रवणसंभवः; असंभावितस्य तु गगन- कुसुमवियदुत्पत्त्यादेः शब्दाभिधेयत्वं न संभवति । न खलु निरवयवस्य सर्वगतस्याकाशस्य आत्मन इवोत्पत्तिनिरूपयितुं शक्यते । अत एव चोत्पत्त्यसंभवात् छान्दोग्ये सृष्टिप्रकरणे तेजःप्रभृतीनामेवोत्पत्तिराम्नायते-*तदक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजतेति । तैत्ति- रोयकाथर्वणादिषु तस्माद्वा एतस्मादात्मन आकाशस्संभूतः एतस्माज्जायते प्राणो मन- स्सर्वेन्द्रियाणि च, खं वायुर्योतिरापः% इत्यादिषु श्रूयमाणा वियदुत्पत्तिः अर्थविरोधाद्- बाध्यत इति ॥१॥ एवं प्राप्तेऽभिधीयते- २१८. अस्ति तु ॥ २-३-२॥ अस्ति त्वाकाशस्योत्पत्तिः । अतीन्द्रियार्थविषया हि श्रुतिः प्रमाणान्तराप्रतीतामपि वियदुत्पत्ति प्रतिपादयितुं समर्थैव । न च श्रुतिप्रतिपन्न ऽर्थे तद्विरोधिनिरवयवत्वादिहेतु- कमनुत्पत्त्यनुमानमुदेतुमलम्; आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ॥२॥ पुनश्चोदयति-- २१६. गौण्यसंभवाच्छन्दाच्च ।। २-३-३ ॥ *तस्माद्वा एतस्मादात्मन आकाशस्संभूतः इत्यादिवियदुत्पत्तिश्रुतिर्गौणीति कल्पयितुं युक्तम्, *तत्तेजोऽसृजतेति सिसृक्षोः ब्रह्मणः प्रथमं तेज उत्पद्यत इति तेजउत्पत्तिप्राथम्येन वियदुत्पत्तिप्रतिपादनासंभवात्, *वायुश्चान्तरिक्षं चैतदमृतम् इति वियतोऽमृतत्व शब्दाच ॥३॥ कथमेकस्य संभूतशब्दस्य आकाशापेक्षया गौणत्वम्, अग्न्याद्यपेक्षया मुख्यत्वमिति चेत्, तत्राह- २२०. स्याच्चैकस्य ब्रह्मशब्दवत् ॥ २-३-४ ।। एकस्यैव *तस्माद्वा एतस्मादात्मन आकाशस्संभूतः इत्याकाशे मुख्यत्वासंभवात् गौणतया प्रयुक्तस्य संभूतशब्दस्य *वायोरग्निः* इत्यादिष्वनुषक्तस्य मुख्यत्वं स्यादेव; ब्रह्म- शब्दवत्-यथा ब्रह्मशब्दः, *तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते इत्यत्र प्रधाने गौणतया प्रयुक्तस्तस्मिन्न व प्रकरणे *तपसा. चीयते ब्रह्म ततोऽन्नमभिजायते इति ब्रह्मणि मुख्यतया प्रयुज्यते; तद्वत् । अनुषङ्गेच श्रवणावृत्ताविवाभिधानावृत्तिविद्यत एवेत्यर्थः ॥४॥ -- द्वितीयाध्याये-तृतीयपादे-वियदधिकरणम् । २४३ परिहरति- २२१. प्रतिज्ञाहानिरव्यतिरेकात् ॥ २ । ३ । ५॥ छान्दोग्यश्रुत्यनुसारेणान्यासां वियदुत्पत्तिवादिनीनां श्रुतीनां गौणत्वं कल्पयितुं न युज्यते । यतः छान्दोग्यश्र त्यैव वियदुत्पत्तिरङ्गीकृता; *येनाश्रुतं श्रु तमित्यादिना ब्रह्म- विज्ञानेन सर्वविज्ञानप्रतिज्ञानात् । तस्या हि प्रतिज्ञायाः अहानिराकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति ॥ ५ ॥ २२२. शब्देभ्यः ।। २।३।६॥ इतश्च वियदुत्पत्तिः छान्दोग्ये प्रतीयते, *सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति प्राक्सृष्टेरेकत्वावधारणशब्दात्; *ऐतदात्म्यमिदं सर्वमित्येवमादिशब्देभ्यश्च कार्यत्वेन ब्रह्मणोऽव्यतिरेकप्रतीतेः । न च *तत्तेजोऽसृजतेति तेजस उत्पत्तिश्रु तिवियदुत्पत्ति वारयति । वियदुत्पत्त्यवचनमात्रेण तेजसः प्रतीयमानं प्राथभ्यं श्रुत्यन्तरप्रतिपन्नां वियदुत्पत्ति न निवारयितुमलम् ॥ ६ ॥ २२३. यावद्विकारं तु विभागो लोकवत् ॥ २ । ३ । ७ ।। तुशब्दश्वार्थे; *ऐतदात्म्यमिदं सर्वमित्यादिभिराकाशस्य विकारत्ववचनेन तस्या- काशस्य ब्रह्मणो विभाग:---उत्पत्तिरप्युक्तैव । लोकवत्-यथा लोके एते सर्वे देवदत्तपुत्राः इत्यभिधाय तेषु केषांचित्तत उत्पत्तिवचनेन सर्वेषामुत्पत्तिरुक्ता स्यात्, एवं च सति *वायुश्चान्तरिक्षं चैतदमृतमिति सुराणामिव चिरकालस्थायित्वाभिप्रायम् ॥ ७ ॥ २२४. एतेन मातरिश्वा व्याख्यातः ॥ २।३ । ८ ॥ अनेनैव हेतुना मातरिश्वनो वायोरप्युत्पत्तिर्व्याख्याता । वियन्मातरिश्वनोः पृथग्योग- करणं अतेजोऽतस्तथा ह्याहेति मातरिश्वपरामर्शार्थम् ॥ ८ ॥ २२५. असंभवस्तु सतोऽनुपपत्तेः ॥२।३।६॥ तुशब्दोऽवधारणार्थः । असंभवः-अनुत्पत्तिः; सतः-ब्रह्मण एव; तद्वयतिरिक्तस्य कस्यचिदप्यनुत्पत्तिर्न संभवति, अनुपपत्तेः। एतदुक्तं भवति-वियन्मातरिश्वनोरुत्पत्तिप्रति- पादनमुदाहरणार्थम्; उत्पत्त्यसंभवस्तु सतः परमकारणस्य परस्यैव ब्रह्मणः । तद्वयतिरिक्तस्य कृत्स्नस्याव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादिकस्य प्रपञ्चस्यकविज्ञानेन सर्वविज्ञान- प्रतिज्ञादिभिरवगतकार्यभावस्यानुत्पत्ति!पपद्यत इति ॥ ६ ॥ इति वियदधिकरणम् ।। १ ।।

२४४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ तेजोधिकरणम् ॥ २ ॥ २२६. तेजोऽतस्तथा ह्याह ॥ २।३। १० ॥ ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम् । इदानीं व्यवहितकार्याणां कि केवलात्तत्तदनन्तरकारगभूताद्वस्तुन उत्पत्तिः, आहोस्वित्तत्तद्रूपाद्ब्रह्मण इति चिन्स्यते । कि युक्तम् ? केवलात्तत्तद्वस्तुन इति कुतः ? तेजस्तावत् अतः~~-मातरिश्वन एवोत्पद्यते । *वायोरग्निः इति शाह ॥ १० ॥ २२७. आपः ।। २।३ । ११ ॥ आपोऽपि अतः-तेजस एवोत्पद्यन्ते, *अग्नेरापः *तदपोऽसृजत* इति ह्याह ॥११॥ २२८. पृथिवी॥ २।३। १२ ॥ पृथिवी अद्भय उत्पद्यते-*अद्भयः पृथिवी, *ता अन्नमसृजन्त* इति ह्याह ॥१२॥ नन्वन्नशब्देन कथं पृथिव्यभिधीयते ? अत आह- २२६. अधिकाररूपशब्दान्तरेभ्यः ॥ २।३। १३ ॥ महाभूतसृष्टयधिकारात्पृथिव्येवान्नशब्देनोक्तति प्रतीयते । अदनीयस्य सर्वस्य पृथिवी- विकारत्वात् कारणे कार्यशब्दः । तथा वाक्यशेषे भूतानां रूपसंशब्दने, श्यदग्ने रोहितं रूपं तेजसस्तद्र पं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य* इत्यप्त जसोस्सजातीयमेवान्नशब्दवाच्यं प्रतीयते । शब्दान्तरं च समानप्रकरणे *अग्नेरापः, अद्ध्यः पृथिवी* इति श्रूयते । अतः पृथिव्येवान्नशब्देनोच्यत इत्यद्भय एव पृथिवी जायते । उदाहृतास्तेजःप्रभृतयः प्रदर्शनार्थाः । महदादयोऽपि स्वानन्तरवस्तुन एवोत्पद्यन्ते, यथाश्रु त्यभ्युपगमाविरोधात् । *एतस्माज्जायते प्राणो मनस्सर्वे न्द्रियाणि च । खं वायुयॊतिरापः पृथिवी विश्वस्य धारिणी तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते तस्माद्वा एतस्मादात्मन आकाशस्संभूतः *तत्तेजोऽसृजत* इत्यादयो ब्रह्मणः परम्परया कारणत्वेऽप्युपपद्यन्त इति ॥ १३ ॥ एवं प्राप्ते प्रचक्ष्महे- २३०. तदभिध्यानादेव तु तल्लिगात्सः ।। २ । ३ । १४ ॥ तुशब्दात्पक्षों व्यावृत्तः । महदादिकार्याणामपि तत्तदनन्तरवस्तुशरीरकस्स एव पुरुषोत्तमः कारणम्; कुतः ? तदभिध्यानरूपातल्लिङ्गात् । अभिध्यानं-बहु स्यामिति सङ्कल्पः, ॐतत्तेज ऐक्षत बहु स्यां प्रजायेयेति *ता आप ऐक्षन्त बह्वयस्स्यामः प्रजायेमहि* द्वितीयाध्याये-तृतीयपादे-तेजोधिकरणम् । २४५ इत्यात्मनो बहुभवनसङ्कल्परूपेक्षणश्रवणान्महदहङ्काराकाशादीनामपि कारणानां तथा- विधेक्षापूर्विकैव स्वकार्यसृष्टिरिति गम्यते; तथाविधं चेक्षरणं तत्तच्छरोरकस्य परस्यैव ब्रह्मण उपपद्यते । श्रूयते च सर्वशरीरकत्वेन सर्वात्मकत्वं परस्य ब्रह्मणोऽन्तर्यामिब्राह्मणे *यः पृथिव्यां तिष्ठन् श्योऽप्सु तिष्ठन् यस्तेजसि तिष्ठन् श्यो वायौ तिष्ठन भ्य आकाशे तिष्ठर *इत्यादि । सुबालोपनिषदि च *यस्य पृथिवी शरीरम्* इत्यारभ्य यस्याहङ्कारशरीरम् श्यस्य बुद्धिश्शरीरम् श्यस्याव्यक्तं शरीरम् इत्यादि ॥१४॥ यच्चोक्तम् एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चेत्यादिषु श्रूयमाणा ब्रह्मणः प्राणादिसृष्टिः परम्परयाऽप्युपपद्यत इति; अत्रोच्यते- २३१. विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ २-३-१५ ॥ - तुशब्दोऽवधारणार्थः । अव्यक्तमहदहङ्काराकाशादिक्रमाद्विपर्ययेण यस्सर्वेषां कार्याणां ब्रह्मानन्तर्यरूपः क्रमः एतस्माज्जायते प्राण इत्यादिषु प्रतीयते, स च क्रमस्तत्तद्रूपाद्ब्रह्मण- स्तत्तत्कार्योत्पत्तरेवोपपद्यते । परम्परया कारणत्वे ह्यानन्तर्यश्रवणमुपरुध्येत । अतः *एतस्माज्जायते इत्यादिकमपि सर्वस्य ब्रह्मणः साक्षात्संभवस्योत्तम्भनम् ॥१५॥ २३२. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्॥२-३-१६॥ विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यन्ते । यदुक्तम् *एतस्माज्जायते इत्या- दिना सर्वस्य ब्रह्मणोऽनन्तरकार्यत्वं श्राव्यते; अतश्चानेन वाक्येन सर्वस्य साक्षाद्ब्रह्मण उत्पत्तिरभिध्यानलिङ्गावगतोत्तभ्यत इति; तन्नोपपद्यते, क्रमविशेषपरत्वादस्य वाक्यस्य; अत्रापि सर्वेषां क्रमप्रतीतेः । खादिषु तावत् श्रुत्यन्तरसिद्धः क्रमोऽत्रापि प्रतीयते; तैस्सहपाठ- लिङ्गाद्भूतप्राणयोरन्तराले विज्ञानमनसी अपि क्रमेणोत्पद्यते इति प्रतीयते। अतस्सर्वस्य साक्षाद्ब्रह्मण एव संभवस्योत्तम्भनमिदं वाक्यं न भवतीति चेत्, तन्न, अविशेषात्- *एतस्माज्जायते प्राण इत्यनेनाविशेषात् । विज्ञानमनसोः खादीनां च *एतस्माज्जायते इत्यनेन साक्षात्संभवरूपसंबन्धस्याभिधेयस्य सर्वेषां प्राणादिपृथिव्यन्तानामविशिष्टत्वात् स एव विधेयः, न क्रमः । श्रुत्यन्तरसिद्धक्रमविरोधाच्च नेदं क्रमपरम्, *पृथिव्यप्सु प्रलीयते* इत्या- रभ्य *तमः परे देव एकोभवतीत्यन्तेन क्रमान्तरप्रतीतेः । अतोऽव्यक्तादिशरीरकात्परस्माद् ब्रह्मण एव सर्वकार्याणामुत्पत्तिः । तेजःप्रभृतयश्च शब्दास्तदात्मभूतं ब्रह्मवाभिदधति ॥१६॥ नन्वेवं सर्वशब्दानां ब्रह्मवाचित्वे सति तैस्तैश्शब्दैः तत्तद्वस्तुव्यपदेशो व्युत्पत्तिसिद्ध उपरुद्धयेत; तत्राहः- -- २४६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । २३३. चराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशो भाक्तस्तद्भावभावित्वात् ॥२-३-१७॥ तुशब्दश्वोदिताशङ्कानिवृत्त्यर्थः । निखिलजङ्गमस्थावरव्यपाश्रयस्तत्तच्छब्दव्यपदेशः भाक्तः-वाच्यैकदेशे भज्यत इत्यर्थः । समस्तवस्तुप्रकारिणो ब्रह्मणः प्रकारभूतवस्तुग्राहि- प्रत्यक्षादिप्रमाणाविषयत्वाद्वेदान्तश्रवणात्प्राक्प्रकार्यप्रतीतेः, प्रकारिप्रतीतिभावभावित्वाच्च तत्पर्यवसानस्य, लोके तत्तद्वस्तुमात्रे वाच्यैकदेशे तेते शब्दाः भङ्क्त्वाभङ्क्त्वा व्यपदिश्यन्ते । अथवा तेजःप्रभृतिभिरशब्देस्तत्तद्वस्तुमात्रबाचितया व्युत्पन्नब्रह्मणो व्यपदेशो भाक्तस्स्यात्- अमुख्यस्स्यादित्याशङ्कय, चराचरव्यपाश्रयस्तु इत्याधुच्यते । चराचरव्यपाश्रयः तव्यपदेशः- तद्वाचिशब्दः, चराचरवाचिशब्दो ब्रह्मण्यभाक्तः-मुख्य एव; कुतः ? ब्रह्मभावभावित्वात्सर्व- शब्दानां वाचकभावस्य; नामरूपव्याकरणश्र त्या हि तथाऽवगतम् ॥ १७ ॥ इति तेजोधिकरणम् ।।२।। - - ? - अथ आत्माधिकरणम् ।। ३ ।। २३४. नात्मा श्रुतेनित्यत्वाच्च ताभ्यः ॥ २-३-१८ ॥ वियदादेः कृत्स्नस्य परस्माद्ब्रह्मण उत्पत्तिरुक्ता। इदानीं जीवस्याप्युत्पत्तिरस्ति नेति संशय्यते । कि युक्तम् ? अस्तीति, कुतः ? एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तेः, प्राक्सृष्टे रेकत्वावधारणाच्च । वियदादेरिव जीवस्याप्युत्पत्तिवादिन्यः श्रु तयश्च सन्ति- श्यतः प्रसूता जगतः प्रसूती तोयेन जोवान् व्यससर्ज भूम्याम् *प्रजापतिः प्रजा असृजत *सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः *यतो वा इमानि भूतानि जायन्ते* इति । एवं सचेतनस्य जगत उत्पत्तिवचनात् जीवस्याप्युत्पत्तिः प्रतीयते । न च वाच्यं ब्रह्मणो नित्यत्वात् तत्त्वमस्यादिभिश्च जीवस्य ब्रह्मत्वावगमाज्जीवस्य नित्यत्वमिति; ऐत- दात्म्यमिदं सर्वम् *सर्व खल्विदं ब्रह्म इत्येवमादिभिवियदादेरपि ब्रह्मत्वावगमात्तस्यापि नित्यत्वप्रसक्तः । अतो जीवोऽपि वियदादिवदुत्पद्यत इति ।। एवं प्राप्तेऽभिधीयते-नात्मा श्रु तेरिति । नात्मोत्पद्यते; कुतः ? श्रुतेः-*न जायते म्रियते वा विपश्चित् *ज्ञाज्ञौ द्वावजौ* इत्यादिभिर्जीवस्योत्पत्तिप्रतिषेधो हि शू यते । आत्मनो नित्यत्वं च ताभ्यः-श्रुतिभ्य एवावगम्यते *नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् * अजो नित्यश्शाश्वतोऽयं पुरागो न हन्यते हन्यमाने शरीरे* इत्यादिभ्यः । अतश्च नात्मोत्पद्यते । कथं तो कविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपद्यते इत्यमुपपद्यते-जीवस्यापि कार्यत्वात् कार्यकारगयोरनन्यत्वाच्च । एवं तहि वियदादिव- द्वितीयाध्याये-तृतीयपादे-आत्माधिकरणम् । २४७ दुत्पत्तिमत्त्वमङ्गीकृतं स्यात्; नेत्युच्यते । कार्यत्वं हि नामैकस्य द्रव्यस्यावस्थान्तरापत्तिः; तज्जीवस्याप्यस्त्येव । इयांस्तु विशेषः-वियदादेरचेतनस्य याशोऽन्यथाभावो न तादृशो जीवस्य; ज्ञानसङ्कोचविकासलक्षणो जीवस्यान्यथाभावः, वियदादेस्तु स्वरूपान्यथाभाव- लक्षणः । सेयं स्वरूपान्यथाभावलक्षणोत्पत्ति के प्रतिषिध्यते ॥ एतदुक्तं भवति--भोग्यभोक्तृनियन्तृन विविक्तस्वभावात् प्रतिपाद्य भोग्यगतमुत्पत्त्या- दिकं भोक्तरि प्रतिषिध्य तस्य नित्यतां च प्रतिपाद्य, भोग्यगतमुत्पत्त्यादिकं भोक्तृगतं चापुरुषार्थाश्रयत्वं नियन्तरि प्रतिषिध्य, तस्य नित्यत्वं, निरवद्यत्वं, सर्वदा सर्वज्ञत्वं, सत्य- सङ्कल्पत्वं, करणाधिपाधिपत्वं, विश्वस्य पतित्वं च प्रतिपाद्य, सर्वावस्थयोश्विदचितोस्तं प्रति शरीरत्वं, तस्य चात्मत्वं प्रतिपादितम् । अतस्सर्वदा चिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्म । तत्कदाचित्स्वस्माद्विभक्तव्यपदेशानर्हातिसूक्ष्मदशापन्नचिद्वस्तुशरीरं तिष्ठति; तत्कारणावस्थं ब्रह्म । कदाचिच्च विभक्तनामरूपस्थूलचिदचिदद्वस्तुशरीरम्; तच्च कार्यावस्थम् । तत्र कारणावस्थस्य कार्यावस्थापत्तावचिदंशस्य कारणावस्थायां शब्दादिविहीनस्य भोग्यत्वाय शब्दादिमत्तया स्वरूपान्यथाभावरूपविकारो भवति । चिदंशस्य च कर्मफलविशेषभोक्तृत्वाय तदनुरूपज्ञानविकासरूपविकारो भवति । उभयप्रकारविशिष्टे नियन्त्रंशे तदवस्थतदुभय- विशिष्टतारूपविकारो भवति; कारणावस्थाया अवस्थान्तरापत्तिरूपोविकारः प्रकारद्वये प्रकारिणि च समानः। अत एवैकस्यावस्थान्तरापत्तिरूपविकारापेक्षया *येनाश्रुतं श्रुत- मित्येक विज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृदादिदृष्टान्तो *यथा सौम्यकेनेत्यादिना निदर्शितः । ईदृशज्ञानसङ्कोचविकासकरतत्तद्देहसंबन्धवियोगाभिप्रायाः जीवस्योत्पत्तिमरणवादिन्यः, *प्रजापतिः प्रजा असृजत* इत्याद्याः श्रु तयः। अचिदंशवत्स्वरूपान्यथात्वाभावाभिप्राया उत्पत्तिप्रतिषेधवादिन्यो नित्यत्ववादिन्यश्च न जायते म्रियते इत्याद्याः, *नित्यो नित्याना- मित्याद्याश्च श्रु तयः । स्वरूपान्यथात्वज्ञानसङ्कोचविकासरूपोभयविधानिष्टविकाराभावाभि- प्रायाः *सवा एष महानज आत्माऽजरोऽमरोऽमृतो ब्रह्म *नित्यो नित्यानामित्याद्याः पर- विषयाः श्रुतयः। एवं सर्वदा चिदचिद्वस्तुविशिष्टस्य ब्रह्मणः प्राक्सृष्टेरेकत्वावधारणं च नामरूपविभागाभावादुपपद्यते । *तद्धेदं तमुव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत* इति हि नामरूपविभागभावाभावाभ्यां नानात्वैकत्वे वदतीति ।। ये त्वविद्योपाधिकं जीवत्वं वदन्ति, ये च पारमाथिकोपाधिकृतम्, ये च सन्मात्र- स्वरूपं ब्रह्म स्वयमेव भोक्तृभोग्यनियन्तृरूपेण त्रिधाऽवस्थितं वदन्ति; सर्वेऽप्येते अविद्याशक्ते- रुपाधिशक्तभॊक्तृभोग्यनियन्तृशक्तीनां च प्रलयकालेऽवस्थानेऽपि तदानीमेकत्वावधारणं नाम- रूपविभागाभावादेवोपपादयन्ति । *वैषम्यनर्वृ ण्ये न सापेक्षत्वात् *न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च* इति सूत्राभ्यां जीवभेदस्य तत्कर्मप्रवाहस्य चाना- २४८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । दित्वाभ्युपगमाच्च । इयान्विशेषः-एकस्यानाद्यविद्यया ब्रह्म स्वयमेव मुह्यति; अन्यस्य पारमार्थिकानाद्युपाधिना ब्रह्मस्वरूपमेव बध्यते, उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावात्; अपरस्य ब्रह्मैव विचित्राकारेण परिणमते, कर्मफलानि चानिष्टानि भुङ्क्ते; नियन्त्रंशस्य भोक्तृत्वाभावेऽपि सर्वज्ञत्वात्स्वस्मादभिन्नं भोक्तारमनुसंदधातीति स्वयमेव भुङ्क्त । अस्माकं तु स्थूलसूक्ष्मावस्थचिदचिद्वस्तुशरीरं ब्रह्म कार्यकारणोभयावस्थावस्थितमपि सर्वदा निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरमवतिष्ठते । प्रकार- भूतचिदचिद्वस्तुगताः अपुरुषार्थाः स्वरूपान्यथाभावाश्चेति सर्व समञ्जसम् ॥ १८ ॥ इति आत्माधिकरणम् ।। ३ ।। अथ ज्ञाधिकरणम् ।। ४॥ २३५. ज्ञोऽत एव ॥२।३।१६॥ वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते । कि सुगत- कपिलाभिमतचिन्मात्रमेवात्मनस्स्वरूपम्; उत कणभुगभिमतपाषाणकल्पस्वरूपमचित्स्वभाव- मेवागन्तुक चैतन्यगुणकम्; अथ ज्ञातृत्वमेवास्य स्वरूपमिति । कि युक्तम् ? चिन्मात्रमिति; कुतः ? तथा श्रुतेः । अन्तर्यामिब्राह्मणे हि श्य आत्मनि तिष्ठन्निति माध्यन्दिनीयपर्यायस्य स्थाने श्यो विज्ञाने तिष्ठन्निति काण्वा अधीयते । तथा विज्ञानं यज्ञं तनुते, कर्माणि तनुतेऽपि चेति कर्तुरात्मनो विज्ञानमेव स्वरूपं श्रूयते । स्मृतिषु च *ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः* इत्यादिष्वात्मनो ज्ञानस्वरूपत्वं प्रतीयते ॥ अपरस्तु-जीवात्मनो ज्ञानत्वे ज्ञातृत्वे च स्वाभाविकेऽभ्युपगम्यमाने तस्य सर्वगतस्य सर्वदा सर्वत्रोपलब्धिप्रसङ्गात्, करणानां च वैयर्थ्यात्, सुषुप्तिमूर्छादिषु सतोऽप्यात्मन- श्चैतन्यानुपलब्धेर्जाग्रतस्सामग्रयां सत्यां ज्ञानोत्पत्तिदर्शनादस्य न ज्ञानं स्वरूपम् नापि ज्ञातृत्वम्; आगन्तुकमेव चैतन्यम्; सर्वगतत्वं चात्मनोऽवश्याभ्युपेत्यम्, सर्वत्र कार्योपलब्धेः सर्वत्रात्मनस्सन्निधानाभ्युपगमाच्छरीरगमनेनैव कार्यसंभवे सति गतिकल्पनायां प्रमाणा- भावाच्च । श्रुतिरपि सुषुप्तिवेलायां ज्ञानाभावं दर्शयति-*नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि* इति । तथा मोक्षदशायां ज्ञानाभावं दर्शयति- अन प्रेत्य संज्ञाऽस्ति* इति । *ज्ञानस्वरूपमित्यादिप्रयोगस्तु ज्ञानस्य तदसाधारणगुणत्वेन लाक्षणिक इति ॥ एवं प्राप्त प्रचक्ष्महे--ज्ञोऽत एव । ज्ञ एव-अयमात्मा ज्ञातृस्वरूप एव, न ज्ञान- मात्रम् नापि जडस्वरूपः; कुतः ? अत एव-श्रु तेरेवेत्यर्थः। *नात्मा श्र तेरेति प्रकृता mum

द्वितीयाध्याये-नृतीयपादे-ज्ञाधिकरणम् ।
२४
-
श्रुतिः अत इति शब्देन परामृश्यते । तथा छान्दोग्ये प्रजापतिवाक्ये मुक्तामुक्तात्मस्वरूपकथने
*अथ यो वेदेदं जिघ्राणीति स आत्मा *मनसैवतान् कामान् पश्यन् रमते य एते ब्रह्मलोके
*सत्यकामस्सत्यसङ्कल्पः *नोपजनं स्मरन्निदं शरीरम् । अन्यत्रापि न पश्यो मृत्यु
पश्यति,* तथा वाजसनेयके *कतम आत्मेति पृष्ट्वा भ्योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः
पुरुषः इति; तथा अविज्ञातारमरे केन विजानीयात् *जानात्येवायं पुरुषः; तथा *एष हि
द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः, एवमेवास्य परिद्रष्टु-
रिमाष्षोडशकलाः इति ॥१६॥
यत्तूक्तं ज्ञातृत्वे स्वाभाविके सति सर्वगतस्य तस्य सर्वदा सर्वत्रोपलब्धिः प्रसज्यत
इति; तत्रोच्यते-
२३६. उत्क्रान्तिगत्यागतीनाम् ॥ २-३-२० ॥
नायं सर्वगतः, अपि त्वणुरेवायमात्मा; कुतः ? उत्क्रान्तिगत्यागतीनां श्रुतेः ।
उत्क्रान्तिस्तावच्छ्र यते *तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्नो वाऽन्येभ्यो वा
शरीरदेशेभ्यः इति । गतिरपि ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे
गच्छन्ति इति । आगतिरपि *तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे* इति । विभुत्वे
ोता उत्क्रान्त्यादयो नोपपद्येरन् ॥२०॥
२३७. स्वात्मना चोत्तरयोः ॥ २-३-२१ ॥
चशब्दोऽवधारणे । यद्यपि शरीरवियोगरूपत्वेनोत्क्रान्तिः स्थितस्याप्यात्मनः कथंचिदु-
पपद्यते; गत्यागती तु न कथंचिदुपपद्यते । अतस्ते स्वात्मनैव संपाद्ये ॥२१॥
२३८. नाणुरतच्छ्र तेरिति चेन्नेतराधिकारात् ॥२-३-२२ ॥
*योऽयं विज्ञानमयः प्राणेषु* इति जीवं प्रस्तुत्य *स वा एष महानज आत्मा*
इति महत्त्वश्रुतेः नाणुर्जीव इति चेन्न । इतराधिकारात्-जीवादितरस्य प्राज्ञस्य तत्राधि-
कारात् । यद्यप्युपक्रमे जीवः प्रस्तुतः; तथाऽपि *यस्यानुवित्तः प्रतिबुद्ध आत्मा* इति मध्ये
परः प्रतिपाद्यत इति तत्संबन्धीदं महत्त्वम् न जीवस्य ॥२२॥
२३६. स्वशब्दोन्मानाभ्यां च ॥ २-३-२३ ।।
साक्षादणुशब्द एव श्रूयते *एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा
संविवेश* इति । उद्धृत्य मानमुन्मानम्, अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य श्रूयते
*वालाग्रशतभागस्य शतधा कल्पितस्य च, भागो जीवस्स विज्ञेयः* इति; *आराग्रमात्रो
ह्यवरऽपि दृष्टः इति च । अतोऽणुरेवायमात्मा ॥२३॥

२५० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ स्यात्-आत्मनोऽणुत्वे सकलशरोरव्यापिनी वेदना नोपपद्यत इति; तत्र मतान्तरेण परिहारमाह- २४०. अविरोधश्चन्दनवत् ॥ २-३-२४ ॥ यथा हरिचन्दनबिन्दुर्दे हैकदेशवर्त्यपि सकलदेहव्यापिनमालादं जनयति, तद्वदात्माऽपि देहैकदेशवर्ती सकलदेशतिनों वेदनामनुभवति ॥२४॥ २४१. अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २-३-२५ ।। हरिचन्दनबिन्द्वादेर्देहदेशविशेषावस्थितिविशेषात्तथाभावः, आत्मनस्तु तन्न विद्यत इति चेन्न; आत्मनोऽपि देहदेशविशेषे स्थित्यभ्युपगमात् । हृदयदेशे ह्यात्मनः स्थितिः श्रूयते हदि ह्ययमात्मा तत्रैकशतं नाडीनाम* इति; तथा *कतम आत्मेति प्रकृत्य *योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः* इति । आत्मनो देशविशेषस्थितिख्यापनाय चन्दनदृष्टान्तः प्रदर्शितः; न तु चन्दनस्य देशविशेषापेक्षा ॥२५॥ एकदेशवतिनस्सकलदेहव्यापिकार्यकरत्वप्रकारं स्वमतेनाह- २४२. गुणाद्वाऽऽलोकवत् ॥ २-३-२६ ॥ वाशब्दो मतान्तरव्यावृत्त्यर्थः । आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः; आलोकवत्-यथा मणिधुमणिप्रभृतीनामेकदेशतिनामालोकोऽनेकदेशव्यापी दृश्यते, तद्वद्ध- दयस्थस्यात्मनो ज्ञानं सकलदेहं व्याप्य वर्तते । ज्ञातुः प्रभास्थानीयस्य ज्ञानस्य स्वाश्रया- दन्यत्र वृत्तिर्मणिप्रभावदुपपद्यत इति प्रथमसूत्रे स्थापितम् ॥२६॥ ननूक्तं ज्ञानमात्रमेवात्मेति; तत्कथं ज्ञानस्य स्वरूपव्यतिरिक्तगुणत्वमुच्यते; तत्राह- २४३. व्यतिरेको गन्धवत्तथा च दर्शयति ॥ २-३-२७ ।। यथा पृथिव्याः गन्धस्य गुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः, तथा जानामीति ज्ञातृगुणत्वेन प्रतीयमानस्य ज्ञानस्यात्मनो व्यतिरेकस्सिद्धः । दर्शयति च श्रुतिः *जानात्येवायं पुरुष इति ॥२७॥ २४४. पृथगुपदेशात् ॥ २-३-२८ ॥ स्वशब्देनैव विज्ञानं विज्ञातुः पृथगुपदिश्यते न हि विज्ञातुर्विज्ञातेविपरिलोपो विद्यते इति ॥२८॥ यत्तूक्तं *यो विज्ञाने तिष्ठन् विज्ञानं यज्ञं तनुते *ज्ञानस्वरूपमत्यन्तनिर्मलम्* इत्यादिषु ज्ञानमेवात्मेति व्यपदिश्यत इति, तत्राह- - द्वितीयाध्याये-तृतीयपादे- ज्ञाधिकरणम् । २५१ २४५. तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवत् ॥ २।३।२६॥ तुशब्दश्चोद्यं व्यावर्तयति । तद्गुणसारत्वात्-विज्ञानगुणसारत्वात् आत्मनो विज्ञान- मिति व्यपदेशः । विज्ञानमेवास्य सारभूतो गुणः, यथा प्राज्ञस्यानन्दस्सारभूतो गुण इति प्राज्ञ आनन्दशब्देन व्यपदिश्यते-यदेष आकाश आनन्दो न स्यात् *आनन्दो ब्रह्मेति व्यजानात्* इति । प्राज्ञस्य ह्यानन्दस्सारभूतो गुणः- *स एको ब्रह्मण आनन्द: *आनन्दं ब्रह्मणो विद्वान्, न बिभेति कुतश्चन* इति । यथा वा *सत्यं ज्ञानमनन्तं ब्रह्मेति विपश्चितः प्राज्ञस्य ज्ञानशब्देन व्यपदेशः । *सह ब्रह्मणा विपश्चिता *यस्सर्वज्ञः* इत्यादिषु प्राज्ञस्य ज्ञानं सार- भूतो गुण इति विज्ञायते ॥ २६ ॥ २४६. यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ २।३ । ३० ॥ विज्ञानस्य यावदात्मभाविधर्मत्वात्तेन तद्व्यपदेशो न दोषः; तथाच खण्डादयो यावत्स्वरूपभाविगोत्वादिधर्मशब्देन गौरिति व्यपदिश्यमाना दृश्यन्ते; स्वरूपनिरूपणधर्मत्वा- दित्यर्थः । चकारात् ज्ञानवदात्मनोऽपि स्वप्रकाशत्वेन विज्ञानमिति व्यपदेशो न दोष इति समुच्चिनोति ॥ ३० ॥ यच्चोक्तं सुषुप्त्यादिषु ज्ञानाभावात् ज्ञानस्य न स्वरूपानुबन्धिधर्मत्वमिति, तत्राह- २४७. पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ २।३। ३१ ॥ तुशब्दश्वोदिताशङ्कानिवृत्त्यर्थः । अस्य अस्य-ज्ञानस्य सुषुप्त्यादिष्वपि विद्यमानस्य जागर्यादिष्वभिव्यक्तस्संभवात् स्वरूपानुबन्धिधर्मत्वोपपत्तिः । पुंस्त्वादिवत्-यथा पुंस्त्वाद्य- साधारणस्य धातोर्बाल्यावस्थायां सतोऽप्यनभिव्यक्तस्य युवत्वेऽभिव्यक्तौ पुंसस्तद्वत्ता न कादा- चित्की भवति । सप्तधातुमयत्वं हि शरीरस्य स्वरूपानुबन्धि-*तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरम् इति शरीरस्वरूपव्यपदेशात् । सुषुप्त्यादिष्वप्यहमर्थः प्रकाशत इति प्रागेवोक्तम् । तस्य विद्यमानस्य ज्ञानस्य विषयगोचरत्वं जागर्यादावुपलभ्यते । एते चात्मनो ज्ञातृत्वादयो धर्माः प्रागेवोपपादिताः । अतो ज्ञातृत्वमेव जीवात्मनः स्वरूपम् । स चायमात्माऽणुपरिमाणः । *न प्रेत्य संज्ञाऽस्ति* इत्यपि न मुक्तस्य ज्ञानाभाव उच्यते; अपि तु एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति* इति संसारदशायां यद्भूतानुविधायित्व- प्रयुक्तं जन्मनाशादिदर्शनम्, तन्मुक्तस्य न विद्यते, न पश्यो मृत्यु पश्यति न रोग नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ॥ *नोपजनं स्मरन्निदं शरीरम् *मनसैतान कामान् पश्यन् रमते* इत्यादिश्रुत्यैकार्थ्यात् ।। ३१ ।। -- २५२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । संप्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह- २४८. नित्योपलब्ध्यनुपलब्धिप्रसंगोऽन्यतरनियमो वाऽन्यथा ॥२॥३॥३२॥ अन्यथा-सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च नित्यमुपलब्ध्यनुपलब्धी सहैव प्रसज्येयाताम्; अन्यतरनियमो वा-उपलब्धिरेव वा नित्यं स्यात्, अनुपलब्धिरेव वा । एतदुक्तं भवति-लोके तावद्वर्तमानयोरात्मोपलब्ध्यनुपलब्ध्योरयं ज्ञानात्मा सर्वगतो हेतुस्स्यात् उपलब्धेरेव वा, अनुपलब्धेरेव वा। उभयहेतुत्वे सर्वदा सर्वत्रोभयं प्रसज्येत । यद्य पलब्धेरेव, सर्वस्य सर्वदा सर्वत्रानुपलम्भो न स्यात् । अथानुपलब्धेरेव, सर्वदा सर्वत्रोपलब्धिर्न स्यादिति । अस्माकं शरीरस्यान्तरेवावस्थितत्वादात्मनस्तत्रैवोपलब्धिर्नान्यत्रेति व्यवस्थासिद्धिः । करणा- यत्तोपलब्धेरपि सर्वेषामात्मनां सर्वगतत्वेन सर्वैः करणैस्सर्वदा संयुक्तत्वाददृष्टादेरप्यनियमा- दुक्तदोषस्समानः ॥ ३२ ।। इतिज्ञाधिकरणम् ॥ ४ ॥ अथ कब्रधिकरणम् ।। ५॥ २४६. कर्ता शास्त्रार्थवत्त्वात् ॥ २ । ३ । ३३ ।। अयमात्मा ज्ञाता, स चाणुपरिमाण इत्युक्तम्। इदानी कि स एव कर्ता; उत स्वयम- कतैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते। किमत्र युक्तम् ? अकर्ते- वात्मेति । कुतः ? आत्मनो ह्यकर्तृत्वम्, गुणानामेव च कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते । तथा हि कठवल्लीषु जीवस्य *न जायते म्रियते इत्यादिना जन्मजरामरणादिकं सर्द प्रकृतिधर्म प्रतिषिध्य हननादिषु क्रियासु कर्तृत्वमपि प्रतिषिध्यते-*हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ इति । हन्तारमात्मानं जानन जानात्यात्मानमित्यर्थः। तथा च भगवता स्वयमेव जीवस्याकर्तृत्वं स्वरूपम्,कर्तृत्वा- भिमानस्तु व्यामोह इत्युच्यते-*प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कार- विमूढात्मा कर्ताऽहमिति मन्यते ॥ *नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति *कार्यकारण- कर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ इति च । अतः पुरुषस्य भोक्तृत्वमेव, प्रकृतेरेव तु कर्तृत्वमिति एवं प्राप्त प्रचक्ष्महे-कर्ता शास्त्रार्थवत्त्वादिति । आत्मैव कर्ता; न गुणाः । कस्मात् ? शास्त्रार्थवत्त्वात् । शास्त्राणि हि यजेत स्वर्गकामः, मुमुक्षुब्रह्मोपासीतेत्येवमादीनि स्वर्ग- मोक्षादिफलस्य भोक्तारमेव कर्तृत्वे नियुञ्जते । न ह्यचेतनस्य कर्तृत्वेऽन्यो नियुज्यते । शासनाच्च शास्त्रम्; शासनं च प्रवर्तनम्; शास्त्रस्य च प्रवर्तकत्वं बोधजननद्वारेण; अचेतनं च प्रधानं न बोधयितुं शक्यम् । अतः शास्त्राणामर्थवत्त्वं भोक्तुश्चेतनस्यैव कर्तुत्वे भवेत् ।

द्वितीयाध्याये-तृतीयपादे-कर्बधिकरणम्
२५३
तदुक्त *शास्त्रफलं प्रयोक्तरीति । यदुक्त हन्ता चेन्मन्यते इत्यादिना हननक्रियायामकर्तृत्व-
मात्मनः श्रूयत इति; तदात्मनो नित्यत्वेन हन्तव्यत्वाभावादुच्यते । यच्च *प्रकृतेः क्रिय-
माणानीत्यादिना गुणानामेव कर्तृत्वं स्मर्यत इति; तत्सांसारिकप्रवृत्तिष्वस्य कर्तृता सत्त्वर-
जस्तमोगुणसंसर्गकृता; न स्वरूपप्रयुक्तेति प्राप्ताप्राप्तविवेकेन गुणानामेव कर्तृ तेत्युच्यते । तथा
च तत्रैवोच्यते *कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु* इति । तथा तत्रैवात्मनश्च कर्तृत्व-
मभ्युपेत्योच्यते तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति
दुर्मतिः ॥ इति । *अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टा दैवं
चैवात्र पञ्चमम् ॥ इत्यधिष्ठानादिदैवपर्यन्तसापेक्षे सत्यात्मनः कर्तृ त्वे य आत्मानमेव केवलं
कर्तारं मन्यते, न स पश्यतीत्यर्थः ॥३३॥
२५०. उपादानाद्विहारोपदेशाच्च ॥ २-३-३४ ॥
*स यथा महाराजः इति प्रकृत्य, एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे
यथाकामं परिवर्तते* इति प्राणानामुपादाने विहारे च कर्तृत्वमुपदिश्यते ॥३४॥
२५१. व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ २-३-३५ ॥
*विज्ञानं यज्ञं तनुते, कर्माणि तनुतेऽपिच* इति लौकिकवैदिकक्रियासु कर्तृत्वव्यप-
देशाच्च कर्ता । विज्ञानशब्देन नात्मनो व्यपदेशः; अपि त्वन्तःकरणस्य बुद्धेरिति चेत्; एवं
सति निर्देशविपर्ययस्स्यात्-बुद्धः करणत्वाद्विज्ञानेनेति करणविभक्तिनिर्देशस्स्यात् ॥३५॥
२५२. उपलब्धिवदनियमः ।। २-३-३६ ॥
आत्मनोऽकर्तृत्वे दोष उच्यते । यथाऽऽत्मनो विभुत्वे नित्योपलब्ध्यनुपलब्धिप्रसङ्ग
इत्यादिनोपलब्धेरनियम उक्तः; तद्वदात्मनोऽकर्तृत्वे प्रकृतेश्च कर्तृत्वे तस्यास्सर्वपुरुषसाधारण-
त्वात्सर्वाणि कर्माणि सर्वेषां भोगाय स्युः; नैव वा कस्य चित् । आत्मनो विभुत्वाभ्युपगमा-
त्सन्निधानमपि सर्वेषामविशिष्टम् । अत एव चान्तःकरणादीनामपि नियमो नोपपद्यते, यदा-
यत्ता व्यवस्था स्यात् ॥३६॥
२५३. शक्तिविपर्ययात् ।। २-३-३७ ॥
बुद्ध : कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वानुपपत्तेर्भोक्तृत्वशक्तिरपि तस्या एव स्यादित्या-
त्मनो भोक्तृत्वशक्तिींयेत । भोक्तृत्वं च बुद्धेरेव संपद्यत इति आत्मसद्भावे प्रमाणाभावश्च
स्यात् । *पुरुषोऽस्ति भोक्तृभावात् इति हि तेषामभ्युपगमः ॥३७॥

२५४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - २५४ समाध्यभावाच्च ॥२-३-३८ ॥ बुद्धः कर्तृत्वे मोक्षसाधनभूतसमाधावपि सैव की स्यात् । स च समाधिः प्रकृते- रन्योऽस्मीत्येवंरूपः; न च प्रकृतेरन्योऽस्मीति प्रकृतिस्समाधातुमलस् । अतोऽप्यात्मैव कर्ता ॥३८॥ नन्वात्मनः कर्तृत्वेऽभ्युपगम्यमाने सर्वदा कर्तृत्वानोपरमेतेत्यत्राह- २५५. यथा च तक्षोभयधा ॥ २-३-३६॥ वागादिकरणसंपन्नोऽप्यात्मा यदेच्छति, तदा करोति; यदा तु नेच्छति, तदा न करोति । यथा तक्षा वास्यादिकरणसन्निधानेऽपि इच्छानुगुण्येन करोति, न करोति च । बुद्ध स्त्वचेतनायाः कर्तृत्वे तस्याः भोगवाञ्छादिनियमकारणाभावात्सर्वदा कर्तृत्वमेव स्यात् ॥३६॥ इति कर्बधिकरणम् ।। ५ ॥ ? ? अथ परायत्ताधिकरणम् ॥६॥ २५६. परात्तु तच्छ्र तेः ॥२-३-४० ॥ इदं जीवस्य कर्तृत्वं कि स्वातन्त्र्येण, उत परमात्मायत्तमिति । किं प्राप्तम् ? स्वातन्त्र्येणेति । परमात्मायत्तत्वे हि विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबुद्धया प्रवृत्तिनिवृत्त्यारम्भशक्तः; स एव नियोज्यो भवति । अतस्स्वातन्त्र्येणास्य कर्तृत्वम् ॥ इति प्राप्तेऽभिधीयते-परात्तु लच्छ तेरिति । तुशब्दः पक्षं व्यावर्तयति; तत्-कर्तृत्वम्, अस्य जीवस्य परात्-परमात्मन एव हेतोर्भवति । कुतः ? श्रुतेः-*अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा *य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः इति । स्मृतिरपि *सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च *ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रा- रूढानि मायया ॥ इति ॥४०॥ नन्वेवं विधिनिषेधशास्त्रानर्थक्यं प्रसज्येतेत्युक्तम् तत्राह- २५७. कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावयर्थ्यादिभ्यः ॥२।३।४१ ॥ सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नम्-उद्योगम् अपेक्ष्यान्तर्यामो परमात्मा तदनुमति- दानेन प्रवर्तयति । परमात्मानुमतिमन्तरेणास्य प्रवृत्तिर्नोपपद्यत इत्यर्थः । कुत एतत् ? विहितप्रतिषिद्धावैयर्थ्यादिभ्यः-आदिशब्देनानुग्रहनिग्रहादयों गृह्यन्ते । यथा द्वयोस्साधारणे द्वितीयाध्याये-तृतीयपादे-अंशाधिकरणम् । २५५ धने परस्वत्वापादनमन्यतरानुमतिमन्तरेण नोपपद्यते; अथापीतरानुमतेः स्वेनैव कृतमिति तत्फलं स्वस्यैव भवति । पापकर्मसु निवर्तनशक्तस्याप्यनुमन्तृत्वं न निर्दयत्वमावहतीति साङ्ख्यसमयनिरूपणे प्रतिपादितम् । नन्वेवम् एष ह्य व साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यमधो निनीषति* इत्युन्निनीषयाऽधो- निनीषया च स्वयमेव साध्वसाधुनी कर्मणी कारयतीत्येतन्नोपपद्यते । उच्यते-एतन्न सर्व- साधारणम्, यस्त्वतिमात्रपरमपुरुषानुकूल्ये व्यवसितः प्रवर्तते; तमनुगृह्णन् भगवान् स्वयमेव स्वप्राप्त्युपायेष्वतिकल्याणेषु कर्मस्वेव रुचि जनयति । यश्चातिमात्रप्रातिकूल्ये व्यवसितः प्रवर्तते तं निगृह्णन् स्वप्राप्तिविरोधिष्वधोगतिसाधनेषु कर्मसु सज्जयति । यथोक्तं भगवता स्वयमेव-*अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भाव- समन्विताः ॥ इत्यारभ्य अतेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ इति । तथा *असत्यमप्रतिष्ठ ते जगदाहुरनीश्वरम्* इत्यादि, *मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः इत्यन्तमुक्त्वा *तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्य- जननशुभानासुरीष्वेव योनिषु ॥ इत्युक्तम् ॥ ४१ ॥इति परायत्ताधिकरणम् ।। ६ ।। अथ अंशाधिकरणम् ॥ ७ ॥ २५८ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ।। २।३। ४२ ॥ जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम्; इदानी किमयं जीवः परस्मादत्यन्तभिन्नः, उत परमेव ब्रह्म भ्रान्तम्, उत ब्रह्मवोपाध्यवच्छिन्नम्, अथ ब्रह्मांश इति संशय्यते । श्रति- विप्रतिपत्तेस्संशयः । ननु तदनन्यत्वमारम्भणशब्दादिभ्यः *अधिकं तु भेदनिर्देशात* इत्यत्रैवायमर्थो निर्णीतः सत्यम्, स एव नानात्वैकत्वश्रुतिविप्रतिपत्त्या आक्षिप्य जीवस्य ब्रह्मांशत्वोपपादनेन विशेषतो निर्णीयते । यावद्धि जीवस्य ब्रह्मांशत्वं न निर्णोतम्, तावज्जीवस्य ब्रह्मणोऽनन्यत्वं, ब्रह्मणस्तस्मादधिकत्वं च न प्रतितिष्ठति । किं तावत्प्राप्तम् ? अत्यन्तभिन्न इति । कुतः ? *ज्ञाज्ञौ द्वावजावोशनीशौ* इत्यादिभेदनिर्देशात् । ज्ञाज्ञयोरभेद- श्रुतयस्तु, अग्निना सिञ्चदितिवद्विरुद्धार्थप्रतिपादनादौपचारिक्यः । ब्रह्मणोंऽशो जीव इत्यपि न साधीयः, एकवस्त्वेकदेशवाची ह्यशशब्दः । जीवस्य ब्रह्मकदेशत्वे तद्गता दोषा ब्रह्मणि भवेयुः। न च ब्रह्मखण्डो जीव इत्यंशत्वोपपत्तिः, खण्डनानहत्वाद्ब्रह्मणः, प्रागुक्तदोष- प्रसङ्गाच्च । तस्मादत्यन्तभिन्नस्य च तदंशत्वं दुरुपपादम् । यद्वा भ्रान्तं ब्रह्मैव जीवः, कुतः ? ?

२५६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । *तत्त्वमसि *अयमात्मा ब्रह्मत्यादिब्रह्मात्मभावोपदेशात् । नानात्ववादिन्यस्तु प्रत्यक्षादि- सिद्धार्थानुवादित्वादनन्यथासिद्धाद्वैतोपदेशपराभिः श्रुतिभिः प्रत्यक्षादय इवाविद्यान्तर्गताः ख्याप्यन्ते । अथवा ब्रह्मवानाद्य पाध्यवच्छिन्न जीवः । कुतः ? तत एव ब्रह्मात्मभावो- पदेशात् । न चायमुपाधिर्धान्तिपरिकल्पित इति वक्तुं शक्यम्, बन्धमोक्षादि- व्यवस्थानुपपत्तेरिति ॥ ? - एवं प्राप्तऽभिधीयते ब्रह्मांश इति । कुतः ? नानाव्यपदेशात्, अन्यथा च-एकत्वेन व्यपदेशात् । उभयधा हि व्यपदेशो दृश्यते । नानात्वव्यपदेशस्तावत्स्रष्टत्वसृज्यत्वनियन्तृत्व- नियाम्यत्वसर्वज्ञत्वस्वाधीनत्वपराधीनत्वशुद्धत्वाशुद्धत्वकल्याणगुणाकरत्वतद्विपरीतत्वपतित्व- शेषत्वादिभिश्यते । अन्यथा च अभेदेन व्यपदेशोऽपि तत्त्वमसि *अयमात्मा ब्रह्मत्यादि- भि श्यते । अपि दाशकितवादित्वमधीयत एके-ब्रह्मदाशा ब्रह्मदासा ब्रह्मेमे कितवाः% इत्या- थर्वणिका ब्रह्मणो दाशकितवादित्वमप्यधीयते । ततश्च सर्वजीवव्यापित्वेनाभेदो व्यपदिश्यत इत्यर्थः । एवमुभयव्यपदेशमुख्यत्वसिद्धये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपगन्तव्यः । न च भेद- व्यपदेशानां प्रत्यक्षादिप्रसिद्धार्थत्वेनान्यथासिद्धत्वम् ब्रह्मसृज्यत्वतन्नियाम्यत्वतच्छरीरत्व- तच्छेषत्वतदाधारत्वतत्पाल्यत्वतत्संहार्यत्वतदुपासकत्वतत्प्रसादलभ्यधर्मार्थकाममोक्षरूपपुरु- षार्थभाक्त्वादयस्तत्कृतश्च जीवब्रह्मणोर्भेदः प्रत्यक्षाद्यगोचरत्वेनानन्यथासिद्धः । अतो न जगत्सृष्टयादिवादिनीनां प्रमाणान्तरसिद्धभेदानुवादेन मिथ्यार्थोपदेशपरत्वम् । नचाखण्डकर- सचिन्मात्रस्वरूपेण ब्रह्मणा आत्मनोऽतद्भावानुसन्धानम्, बहुभवनसङ्कल्पपूर्वकवियदादिसृष्टि, जीवभावेन तत्प्रवेशं, विचित्रनामरूपव्याकरणं, तत्कृतानन्तविषयानुभवनिमित्तसुखदुःख- भागित्वम्, अभोक्तृत्वेन तत्र स्थित्वा तनियमनेनान्तर्यामित्वं, जीवभूतस्य स्वस्य कारण- ब्रह्मात्मभावानुसन्धान, संसारमोक्षं, तदुपदेशशास्त्र च कुर्वाणेन भ्रमितव्यमित्युपदिश्यते; तथा सत्युन्मत्तप्रलपितत्वापातात् । उपाध्यवच्छिन्न ब्रह्म जीव इप्यपि न साधीयः, पूर्वनिर्दिष्ट- नियन्तृत्वनियाम्यत्वादिव्यपदेशबाधादेव । नहि देवदत्तादेरेकस्यैव गृहाा पाधिभेदान्नियन्त- नियाम्यभावादिसिद्धः। अत उभयव्यपदशोपपत्तये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपेत्यम् ॥४२॥ २५६. मन्त्रवर्णात् ॥ २।३। ४३ ॥ *पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि* इति मन्त्रवर्णाच्च ब्रह्मांशो जीवः । अंशवाची हि पादशब्दः । अविश्वा भूतानीति जीवानां बहुत्वाद्बहुवचनं मन्त्रे । सूत्रेऽपि अंश इत्येकवचनं जात्यभिप्रायम्; *नात्मा श्रुतेरित्यत्राप्येकवचनं जात्यभिप्रायम्; *नित्यो नित्यानां चेतनश्च तनानामेको बहूनां यो विदधाति कामान् इत्यादिश्रुतिभ्य ईश्वराद्भेदस्यात्मनां द्वितीयाध्याये-तृतीयपादे-अंशाधिकरणम् । २५७ -- बहुत्वनित्यत्वयोश्चाभिधीयमानत्वात् । एवं नित्यानामात्मनां वहुत्वे प्रामाणिके सति ज्ञानस्वरूपत्वेन सर्वेषामेकरूपत्वेऽपि भेदकाकारः आत्मयाथात्म्यवेदनक्षमैरवगम्यते । *असन्ततेश्चाव्यतिकरः इत्यनन्तरमेव चात्मबहुत्वं वक्ष्यति ॥४३॥ २६०. अपि स्मर्यते ॥ २-३-४४ ॥ *ममैवांशो जीवलोके जीवभूतस्सनातनः इति जीवस्य पुरुषोत्तमांशत्वं स्मर्यते; अतश्चायमंशः ॥४४॥ अंशत्वेऽपि जीवस्य ब्रह्म कदेशत्वेन जीवगता दोषा ब्रह्मण एवेत्याशङ्कयाह २६१. प्रकाशादिवत्तु नैवं परः ॥ २-३-४५ ॥ तुशब्दश्वोद्य व्यावर्तयति । प्रकाशादिवज्जीवः परमात्मनोंऽशः, यथाऽग्न्यादित्यादे- स्वितो भारूपः प्रकाशोंऽशो भवति, यथा गवाश्वशुक्लकृष्णादीनां गोत्वादिविशिष्टानां वस्तूनां गोत्वादीनि विशेषणान्यंशाः, यथा वा देहिनो देवमनुष्यादिदेहोंऽशः; तद्वत् । एक- वस्त्वेकदेशत्वं ाशत्वम् । विशिष्टस्यैकस्य वस्तुनो विशेषणर्मश एव । तथा च विवेचकाः विशिष्ट वस्तुनि विशेषणांशोऽयम्, विशेष्यांशोऽयमिति व्यपदिशन्ति । विशेषणविशेष्ययोरं- शांशित्वेऽपि स्वभाववैलक्षण्यं दृश्यते । एवं जीवपरयोविशेषणविशेष्ययोरंशांशित्वं, स्वभाव- भेदश्वोपपद्यते । तदिदमुच्यते-नैवं पर इति । यथाभूतो जीवः, न तथाभूतः परः । यथैव हि प्रभायाः प्रभावानन्यथाभूतः तथा प्रभास्थानीयात् स्वांशाज्जीवादशी परोऽप्यर्थान्तरभूत इत्यर्थः । एवं जीवपरयोविशेषणविशेष्यत्वकृतं स्वभाववैलक्षण्यमाश्रित्य भेदनिर्देशाः प्रवर्तन्ते; निर्देशास्तु पृथसिद्धयनर्ह विशेषणानां विशेष्यपर्यन्तत्वमाश्रित्य मुख्यत्वेनोपपद्यन्ते । *तत्त्वमसि *अयमात्मा ब्रह्मत्यादिषु, तच्छन्दब्रह्मशब्दवत् त्वमयमात्मेतिशब्दा अपि, जं वशरीरकब्रह्मवाचकत्वेनैकार्थाभिधायित्वादित्ययमर्थः प्रागेव प्रपश्चितः ॥४५॥ २६२. स्मरन्ति च ॥ २-३-४६ ।। एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण शरीरात्मभावेन चांशांशिभावं जगद्ब्रह्मणोः पराशरादयः स्मरन्ति *एकदेशस्थितस्याग्नेर्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मण- शक्तिस्तथेदमखिलं जगत् ॥ *यत्किञ्चित्सृज्यते येन सत्त्व जातेन वै द्विज । तस्य सृज्यस्य संभूतौ तत्सर्व दै हरेस्तनुः ॥ इत्यादिना । चकाराच्छ्र तयोऽपि -यस्यात्मा शरीरम्* इत्यादिना आत्मशरीरभावेनांशांशित्वं वदन्तीत्युच्यते ॥४६॥ एवं ब्रह्मणोंऽशत्वे, ब्रह्मप्रवर्त्यत्वे, ज्ञत्वे च सर्वेषां समाने केषांचिद्वेदाध्ययनतदर्थानु- ष्ठानाद्यनुज्ञा, केषांचित्तत्परिहारः, केषांचिद्दर्शनस्पर्शनाद्यनुज्ञा, केषांचित्तत्परिहारच, शास्त्र कथमुपपद्यत इत्याशङ्कयाहः- - २५८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । २६३. अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ २-३-४७ ॥ सर्वेषां ब्रह्मांशत्वादिनकरूपत्वे सत्यपि ब्राह्मणक्षत्रियवैश्यशूद्रादिरूपशुच्यशुचिदेह- संबन्धनिबन्धनावनुज्ञापरिहारावुपपद्यते । ज्योतिरादिवत्-यथाऽग्नेरग्नित्वेनैकरूपत्वेऽपि श्रोत्रियागारादग्निराहियते; श्मशानादेस्तु परिह्रियते; यथा चान्नादि श्रोत्रियादेरनुज्ञायते; अभिशस्तादेस्तु परिहियते ॥४७॥ २६४. असन्ततेश्याव्यतिकरः ।। २-३-४८ ॥ ब्रह्मांशत्वादिनकरूपत्वे सत्यपि जीवानामन्योन्यभेदादणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न भवति । भ्रान्तब्रह्मजीववादे चोपहितब्रह्मजीववादे च जीवपरयो- र्जीवानां च भोगव्यतिकरादयस्सर्वे दोषास्सन्तीत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्तः ॥४८॥ ननु भ्रान्तब्रह्मजीववादेऽप्यविद्याकृतोपाधिभेदाद्भोगव्यवस्थादय उपपद्यन्ते; अत आह २६५ आभास एव च ॥ २-३-४६।। अखण्डैकरसप्रकाशमात्रस्वरूपस्य स्वरूपतिरोधानपूर्वकोपाधिभेदोपपादनहेतुराभास एव । प्रकाशकस्वरूपस्य प्रकाशतिरोधानं प्रकाशनाश एवेति प्रागेवोपपादितम् । *आभासा एव इति वा पाठः; तथा सति हेतव आभासाः, चकारात् *पृथगात्मानं प्रेरितारं च मत्वा *ज्ञाज्ञौ द्वौ *तयोरन्यः पिप्पलं स्वात्ति* इत्यादिश्रुतिविरोधश्च । अविद्यापरिकल्पितो- पाधिभेदेऽपि सर्वोपाधिभिरुपहितस्वरूपस्यैकत्वाभ्युपगमात् भोगव्यतिकरस्तदवस्थ एव ॥४६॥ पारमाथिकोपाध्युपहितब्रह्मजीववादेऽप्युपाधिभेदहेतुभूतानाद्यदृष्टवशाब्यवस्था भवि- ष्यतीत्याशङ्कयाह- २६६. अदृष्टानियमात् ॥ २-३-५० ।। उपाधिपरम्पराहेतुभूतस्यादृष्टस्यापि ब्रह्मस्वरूपाश्रयत्वेन नियमहेत्वभावादव्यवस्थव, उपाधिभिरदृष्टश्च स्वसंबन्धेन ब्रह्मस्वरूपच्छेदासंभवात् ॥५०॥ २६७ अभिसन्ध्यादिष्वपि चैवम् ॥ २-३-५१ ॥ अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युक्तादेव हेतोरनियम एव ॥५१॥ २६८. प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ २-३-५२ ॥ यद्यप्येकमेव ब्रह्मस्वरूपम्, तच्छेदानह नानाविधोपाधिभिस्संबध्यते; तथाऽप्युपाधि- संबन्धिब्रह्मप्रदेशभेदादुपपद्यत एव भोगव्यवस्थेति चेत् तन्न, उपाधीनां तत्रतत्र गमनात्सर्व - द्वितीयाध्याये-चतुर्थपादे-प्राणोत्पत्त्यधिकरणम् । २५४ प्रदेशानां सर्वोपाध्यन्तर्भावाद्व्यतिकरस्त दवस्थ एव । प्रदेशभेदेन संबन्धेऽपि सर्वस्य ब्रह्म- प्रदेशत्वात्तत्तत्प्रदेशसंबन्धि दुःखं ब्रह्मण एव स्यात् । पूर्वत्र अनित्योपलब्ध्यनुपलब्धिप्रसङ्गो- ऽन्यतरनियमो वाऽन्यथा *उपलब्धिवदनियमः इत्याभ्यां सूत्राभ्यां वेदबाह्यानां सर्वगत- जीववादिनां दोष उक्तः; अत्र तु *आभास एव चेत्यादिभिस्सूत्रर्वेदावलम्बिनामात्मैकत्व- वादिनां दोष उच्यते ॥ ५२ ॥ इति अंशाधिकरणम् ।। ७ ।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्यस्याध्यायस्य तृतीयः पादः ।। ३ ।। ? - श्रीमते रामानुजाय नमः द्वितीयाध्याये-चतुर्थः पाद:-प्राणोत्पत्त्यधिकरणम् ।। २६६. तथा प्राणाः ।। । ४ । १॥ ब्रह्मव्यतिरिक्तस्य वियदादेः कृत्स्नस्य कार्यत्वेनोत्पत्तायुक्तायां जीवस्य कार्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता। तत्प्रसङ्गेन जीवस्वरूपं शोधितम् । संप्रति जीवोप- करणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते । तत्र किमिन्द्रियाणां कार्यत्वं जीववत् उत वियदादिवदिति चिन्त्यते । कि युक्तम् ? जीववदेवेत्याह पूर्वपक्षी तथा प्राणाः इति । प्राणाः-इन्द्रियाणि । यथा जीवो नोत्पद्यते; तथेन्द्रियाण्यपि नोत्पद्यन्ते । कुतः श्रुतेः । यथा जीवस्यानुत्पत्तिः श्रु तेरवगम्यते; तथा प्राणानामप्यनुत्पत्तिः श्रु तेरेवावगम्यते । तथा प्राणा इति प्रमाणमप्यतिदिश्यते । का पुनरत्र श्रुतिः ? *असद्वा इदमग्र आसीत् तदाहुः किं तदासीदिति ऋषयो वा व ते अग्ने सदासीत् तदाहुः के ते ऋषय इति प्रणा वा व ऋषयः* इति जगदुत्पत्तेः प्रागिन्द्रियाणां सद्भावः श्रू यते। प्राणशब्दे बहुवचनादिन्द्रि- याण्येवेति निश्चीयते । नचेयं श्रृं तिः *वायुश्चान्तरिक्षं चैतदमृतम् *सैषाऽनस्तमिता देवता यद्वायुः* इतिवच्चिरकालावस्थायित्वेन परिणतुं शक्या, *असहा इदमग्र आसीद* इति कृत्स्नप्रपञ्चप्रलयवेलायामप्यवस्थितत्वश्रवणात् । उत्पत्तिवादिन्यस्तु जीवोत्पत्तिवादिन्य इव नेतव्या इति ॥ एवं प्राप्त ऽभिधीयते--वियदादिवदेव प्राणाश्वोत्पद्यते। कुतः ? *सदेव सोम्येदमग्न आसीत् *आत्मा वा इदमेक एवाग्र आसीदित्यादिषु प्राक्सृष्ट रेकत्वावधारणात्, एतस्मा- जायते प्राणो मनस्सर्वेन्द्रियाणि च* इतीन्द्रियाणामुत्पत्तिश्रवणाच्च, प्रागवस्थानासंभवात् । नचात्मोत्पत्तिवादवदिन्द्रियोत्पत्तिवादाः परिणेतुं शक्याः, आत्मवदुत्पत्तिप्रतिषेधश्र तीनां नित्यत्वश्रु तीनां चादर्शनात् । *असद्वा इदमग्र आसीदित्यादिवाक्येऽपि प्राणशब्देन परमात्मैव निदिश्यते, *सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते* इति २६० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । प्राणशब्दस्य परमात्मन्यपि प्रसिद्धः। *प्राणा वा व ऋषयः* इति ऋषिशब्दश्च सर्वज्ञे तस्मिन्न व युज्यते; न त्वचेतनेष्विन्द्रियेषु ॥ १॥ ऋषयः, प्राणा इति च बहुवचनश्रुतिः कथमुपपद्यत इति चेत्, तत्राह- २७०. गौण्यसंभवात्तत्प्राक्छु तेश्च ॥ २। ४ । २॥ बहुवचनश्रु तिर्गौणी, बह्वर्थासंभवात्। तस्यैव परमात्मनः सृष्टः प्रागवस्थान- श्रु तेरेव ।। २ ॥ २७१. तत्पूर्वकत्वाद्वाचः ॥ २।४ । ३ ॥ इतश्च प्राणशब्दः परमात्मवचनः; वाचः-परमात्मव्यतिरिक्तविषयस्य नामधेयस्य वाग्विषयभूतवियदादिसृष्टिपूर्वकत्वात् । *तद्धेदं तमु व्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत* इति नामरूपभाजामभावात्तदानों वागादीन्द्रियकार्याभावाच्च तानि न सन्तीत्यर्थः ॥ ३ ॥ इति प्राणोत्पत्यधिकरणम् ।। १ ।। 4--00-000-- अथ सप्तगत्यधिकरणम् ।। २ ।। २७२. सप्त गतेविशेषितत्वाच्च ॥ २।४ । ४ ॥ तानीन्द्रियाणि कि सप्त व स्युः, अथवैकादशेति चिन्त्यते । श्रुतिविप्रतिपत्तेस्संशयः । कि प्राप्तम्। सप्तति । कुतः ? गतेविशेषितत्वाच्च । गतिस्तावज्जायमानेन नियमाणेन न जीवेन सह लोकेषु सञ्चरणरूपा सप्तानामेव श्र यते *सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्तसप्त* इति । वीप्सा पुरुषभेदाभिप्राया। विशेषिताश्च ते गतिमन्तः प्राणाः स्वरूपतः *यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ॥ इति । शरीरान्तस्संचरणं विहाय मोक्षार्थगमनं परमा गतिः । एवं जीवेन सह जन्ममरणयोस्सप्तानामेव गतिश्रवणात् योगदशायां ज्ञानानीति विशेषितत्वाच्च जीवस्य करणानि श्रोत्रत्वक्चक्षुजिह्वाघ्राणबुद्धिमनांसि सप्त वेति गम्यते । यानि त्वितराणि विषयाणां ग्राहकत्वेन *अष्टौ ग्रहाः *सप्त वै शीर्षण्याः प्राणाः द्वाववाञ्चौ* इत्यादिषु चतुर्दश- पर्यन्तानि प्राणप्रतिपादकवाक्येषु बाक्पाणिपादपायूपस्थाहङ्कारचित्ताख्यानोन्द्रियाणि प्रतीयन्ते, तेषां जीवेन सह गतिश्रवणाभावाज्जीवस्याल्पाल्पोपकारकत्वमात्रेणौपचारिकः प्राणव्यपदेशः॥४॥ इति प्राप्त प्रचक्ष्महे- द्वितीयाध्याये-तृतीयपादे-प्राणाणुन्वाधिकरणम् । २६१ २७३. हस्याइयस्तु स्थितेऽतो नैवम् ॥ २।४।५।। न सप्त वेन्द्रियाणि, अपि त्वेकादश; हस्तादीनामपि शरीरे स्थिते जीवे तस्य भोगोपकरणत्वात्, कार्यभेदाच्च । दृश्यते हि श्रोत्रादीनामिव हस्तादीनामपि कार्यभेद आदानादिः; अतस्तेऽपि सन्त्येव । अतो नैवम्-अतो हस्तादयो न सन्तीत्येवं न मन्तव्य- मित्यर्थः । अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव बुद्धयहङ्कारचित्तशब्दैर्व्यपदिश्यत इत्येकादशेन्द्रियाणि । अतः *दशेमे पुरुषे प्राणाः आत्मैकादशः* इत्यात्मशब्देन मनोऽभि- धीयते । *इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः *तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश । एकादशं मनश्चात्र इत्यादिश्रुतिस्मृतिसिद्धेन्द्रियसङ्ख्या स्थिता । अधिकसङ्ख्यावादाः मनोवृत्तिभेदाभिप्रायाः; न्यूनव्यपदेशास्तु तत्रतत्र विवक्षितगमनादिकार्यविशेषप्रयुक्ताः ॥ ५ ॥ इति सप्तगत्यधिकरणम् ।।२।। अथ प्राणाणुत्वाधिकरणम् ।। ३ ।। २७४. अणवश्च ।। २।४।६।। *त एते सर्व एव समाः सर्वेऽनन्ताः* इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम्; इति प्राप्त ऽभिधीयते-- *प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति* इत्युत्क्रान्त्यादिश्रवणात्परि- मितत्वे सिद्धे सत्युत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणाः। अनन्त्यश्रुतिस्तु यो हैताननन्तानुपास्ते* इत्युपासनश्रवणादुपास्यप्राणविशेषणभूतकार्यबाहुल्या. भिप्राया ॥६॥ *अथ २७५. श्रेष्ठश्च ।। २ । ४ । ७ ॥ प्राणसंवादे शरीरस्थितिहेतुत्वेन श्रेष्ठतया निर्णीतो मुख्यप्राणः *आनीदवातं स्वधया तदेकम्” इति महाप्रलयसमये स्वकार्य भूतप्राणनसद्भावश्रवणात्, एतस्माज्जायते इति जन्मश्रवणस्य जीवजन्मश्रवणवदुपपत्ते!त्पद्यत इत्याशङ्कय प्राक्सृष्टेरेकत्वावधारणादि- विरोधात्, एतस्माज्जायते प्राणः इति पृथिव्यादितुल्योत्पत्तिश्रवणात्, उत्पत्तिनिषेधा- भावाच्च, जायत एव श्रेष्ठश्च प्राण इत्युच्यते । *आनीदवातमिति तु न जैवं श्रेष्ठ प्राण- मभिप्रेत्योच्यते; अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते, अवातमिति तत्रैव पूर्वेणैव पृथग्योगकरणमुत्तरचिन्तार्थम् इति प्राणाणुत्वाधिकरणम् ।।३।। श्रवणात् । तुल्यन्यायत्वेऽपि २६२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । । अथ वायुक्रियाधिकरणम् ।। ४ ।। २७६. न वायुक्रिये पृथगुपदेशात् ॥ २। ४ । ८ ।। सोऽयं श्रेष्ठः प्राणः किं महाभूतद्वितीयवायुमात्रम्; तस्य वा स्पन्दरूपक्रिया; अथवा वायुरेव कञ्चन विशेषमापन्नः ? इति विशये, वायुरेवेति प्राप्तम्, श्यः प्राणस्स वायु.* इति व्यपदेशात् । यद्वा वायुमात्रे प्राणत्वप्रसिद्धयभावादुच्छ्वासनिश्वासादिवायुक्रियायां प्राण- शब्दप्रसिद्धेश्च तत्क्रियैव ॥ इति प्राप्त, न वायुमात्रम्, नच तत्क्रियेत्युच्यते । कुतः ? पृथगु- पदेशात्-. *एतस्माज्जायते प्राणोमनस्सर्वेन्द्रियाणि च, खं वायुः इति । तत एव पृथगु- पदेशात् वायुक्रियाऽपि न भवति प्राणः; न हि तेजःप्रभृतीनां क्रिया तैस्सह पृथग्द्रव्यतयोप- दिश्यते । *यः प्राणस्स वायुरिति तु वायुरेवावस्थान्तरमापन्नः प्राणः; न तेजःप्रभृति- वत्तत्त्वान्तरमिति ज्ञापनार्थम् । उच्छ्वासनिश्वासादावपि प्राणः स्पन्दत इति क्रियावति द्रव्य एव प्राणशब्दप्रसिद्धिः; न क्रियामात्रे॥८॥ किमयं प्राणो वायोविकारस्सन्नग्निवद्भूतान्तरम् ? नेत्याह- २७७. चक्षुरादिवत्त तत्सहशिष्टयादिभ्यः ॥ २ । ४।६।। नायं भूतविशेषः; अपि तु चक्षुरादिवज्जीवोपकरणविशेषः। तच्चोपकरणत्वमुप- करणभूतैरिन्द्रियैस्सहशिष्टयादिभ्योऽवगम्यते । चक्षुरादिभिस्सहायं प्राणः शिष्यते प्राण- संवादादिषु तत्सजातीयत्वे हि तैस्सह शासनं युज्यते । प्राणशब्दपरिगृहीतेषु करणेष्वस्य विशिष्याभिधानमादिशब्देन गृह्यते; *अथ ह य एवायं मुख्यः प्राणः श्योऽयं मध्यमः प्राणः* इत्यादिषु विशिष्याभिधानात् ॥ ६ ॥ चक्षुरादिवदस्यापि करणत्वे तद्वदस्यापि जीवं प्रत्युपकारविशेषरूपक्रियया भवितव्यम्। सा तु न दृश्यते; अतो नायं चक्षुरादिवद्भवितुमर्हतीति चेत्, तत्राह- २७८. अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ २।४। १० ॥ अकरणत्वात्-करणं क्रिया, अक्रियत्वात्, अस्य प्राणस्य जीवं प्रत्युपकारविशेषरूप- क्रियारहितत्वाच्च यो दोष उद्भाव्यते, स नास्ति; यत उपकारविशेषरूपां शरीरेन्द्रिय- धारणादिरूपां क्रियां दर्शयति श्रुतिः-*यस्मिन्नुत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठः* इत्युक्त्वा वागाद्युत्क्रमणेऽपि शरीरस्येन्द्रियाणां च स्थिति दर्शयित्वा प्राणोत्क्रमणे. शरीरेन्द्रियशैथिल्याभिधानात् । अतः प्राणापानव्यानोदानसमानाकारेण पञ्चधाऽवस्थितोऽयं प्राणः शरीरेन्द्रियधारणादिना जीवस्योपकरोतीति चक्षुरादिवत्करणत्वम् ॥१०॥ - द्वितीयाध्याये-तृतीयपादे-श्रेष्टागृत्वाधिकरणम् । २६३ - नन्वेवं नामभेदात्कार्यभेदाच्च प्राणापानादयस्तत्त्वान्तराणि स्युः; तत्राह- २७६. पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॥२। ४ । ११ ॥ यथा कामादिवृत्तिभेदे तत्कार्यभेदेऽपि न कामादिकं मनसस्तत्त्वान्तरं, *कामस्स- ङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिौं(भौरित्येतत्सर्व मन एव* इति वचनात् । एवं *प्राणोऽपानो व्यान उदानस्समान इत्येतत्सर्व प्राण एव* इति वचनात् अपानादयोऽपि प्राणस्यैव वृत्तिविशेषाः; न तत्त्वान्तरमित्यवगम्यते ॥११॥ इति वायुक्रियाधिकरणम् ।।४।। अथ श्रेष्ठाणुत्वाधिकरणम् ।। ५ ।। २८०. अणुश्च ॥२। ४ । १२॥ अणुश्चायम्, पूर्ववदुत्क्रान्त्यादिश्रवणात् *तमुत्क्रामन्तं प्राणोऽनूत्क्रामति* इत्यादिषु । अधिकाशङ्का तु *सम एभिस्त्रिभिर्लोकस्समोऽनेन सर्वेण *प्राणे सर्व प्रतिष्ठितम् *सर्व हीदं प्राणेनावृतन्* इत्यादिश्रवणात् महापरिमाण इति ! परिहारस्तु-उत्क्रान्त्यादिश्रवणा- त्परिच्छिन्नत्वे निश्चिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्तिरिति ॥१२॥ इति श्रेष्ठाणुत्वाधिकरणम् ।।५।। अथ ज्योतिराद्यधिष्ठानाधिकरणम् ।।६।। २८१. ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ।।२। ४ । १३ ॥ सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियत्तापरिमाणं चोक्तम् । तेषां प्राणानामग्नचादि- देवताधिष्ठितत्वं च पूर्वमेव अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामित्यनेन सूत्रेण प्रसङ्गा- दुपपादितम् । जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम्; *एवमेवैष एतान प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते* इत्यादिश्रुतिसिद्धं च । तदिदं जीवस्या- ग्नयादिदेवतानां च प्राणविषयमधिष्ठानं कि स्वायत्तम्, उत परमात्मायत्तमिति विशये नरपेक्ष्यात्स्वायत्तम् ॥ इति प्राप्त उच्यते-ज्योतिराधिष्ठानमिति । प्राणवता-जोवेन सह ज्योतिरादी- नामग्नचादिदेवतानां प्राणविषयमधिष्ठानम्, तदामननात्-तस्य परमात्मनः आमननाद्ध- वति । आमननम्-आभिमुख्येन मननम्, परमात्मनस्सङ्कल्पादेव भवतीत्यर्थः । कुत एतत् ? शब्दात्-इन्द्रियाणां साभिमानिदेवतानां जीवात्मनश्च स्वकार्येषु परमपुरुषमननायत्तत्व- २६४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । शास्त्रात् । यथाऽन्तर्यामिब्राह्मणादिषु श्योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निश्शरी रं योऽग्निमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः “यो वायौ तिष्ठन् त्र्य आदित्ये तिष्ठन् श्य आत्मनि तिष्ठन् श्यश्चक्षुषि तिष्ठन् * इत्यादि । यथा च *भीषाऽस्माद्वातः पवते, भीषोदेति सूर्यः, भोषाऽस्मादग्निवेन्द्रश्च, मृत्युर्धावति पञ्चमः* इति । तथा *एतस्य वा अक्षरस्य प्रशासने गागि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः* इत्यादि ॥१३॥ २८२. तस्य च नित्यत्वात् ॥ २-४-१४ ।। सर्वेषां परमात्माधिष्ठितत्वस्य नित्यत्वात्, स्वरूपानुबन्धित्वेन नियतत्वाच्च तत्सङ्कल्पादेवैषामधिष्ठातृत्वमवर्जनीयम् । ॐतत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत्* इत्यादिना परमपुरुषस्य नियन्तृत्वेन सर्वचिदचिद्वस्त्वनुप्रवेशः स्वरूपानुबन्धी श्रूयते । स्मर्यते च अविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति ॥१४॥ इति ज्योतिराद्यधिष्ठानाधिकरणम् ।।६।। coreion- अथ इन्द्रियाधिकरणम् ॥७॥ २८३. त इन्द्रियाणि तद्वयपदेशादन्यत्र श्रेष्ठात् ॥ २-४-१५ ॥ कि सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि, उत श्रेष्ठप्राणव्यतिरिक्ता एवेति विशये प्राणशब्दवाच्यत्वात्, करणत्वाच्च सर्व एवेन्द्रियाणि । इति प्राप्त उच्यते---श्रेष्ठव्यतिरिक्ता एव प्राणा इन्द्रियाणि । कुतः ? श्रेष्ठादन्येष्वेव प्राणेषु तव्यपदेशात् । *इन्द्रियाणि दर्शक च पञ्च चेन्द्रियगोचराः* इत्यादिभिर्हि चक्षुरादिषु समनस्केष्वेव इन्द्रियशब्दो व्यपदिश्यते ॥१५॥ २८४ भेदश्रुते(लक्षण्याच्च ॥ २-४-१६ ॥ *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च* इत्यादिष्विन्द्रि येभ्यः प्राणस्य पृथक्छवणात्प्राणव्यतिरिक्तानामेवेन्द्रियत्वमवगम्यते । मनसः पृथक्छवणेऽपि तस्यान्यत्रेन्द्रिया- न्तर्भाव उक्तः *मनष्षष्ठानोन्द्रियाणि* इत्यादौ । वैलक्षण्यं च चक्षुरादिभ्यः श्रेष्ठप्राणस्यो- पलभ्यते; सुषुप्तौ हि प्राणस्य वृत्तिरुपलभ्यते, चक्षुरादीनां तु वृत्तिर्नोपलभ्यते । कार्य च चक्षुर्वागादीनां समनस्कानां ज्ञानकर्मसाधनत्वम्, प्राणस्य तु शरीरेन्द्रियधारणम् । प्राणाधीन- धारणत्वात्त्विन्द्रियेषु प्राणशब्दव्यपदेशः। तथा च श्रुतिः *त एतस्यैव सर्वे रूपमभवन तस्मादेत एतेनाख्यायन्ते* इति । रूपमभवम्-शरीरमभवत्, तदधीनप्रवृत्तयोऽभव- नित्यर्थः ॥ १६॥ इति इन्द्रियाधिकरणम् ।। ७ ।। - -- द्वितीयाध्याये-तृतीयपादे-संज्ञामूर्तिक्लुप्त्यधिकरणम् । २६५ ? अथ संज्ञामूर्तिक्लुप्त्यधिकरणम् ।। ८ ।। २८५. संज्ञामूर्तिक्लुप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २।४ । १७ ॥ भूतेन्द्रियादीनां समष्टिसृष्टिः, जीवानां कर्तृत्वं च परस्माद्ब्रह्मण इत्युक्तं पुरस्तात् । जीवानां स्वेन्द्रियाधिष्ठानं च परायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम् । या त्वियं नामरूपव्याकरणात्मिका प्रपञ्चव्यष्टिसृष्टिः, सा कि समष्टि जीवरूपस्य हिरण्यगर्भस्यैव कर्म ? उत तेजःप्रभृतिशरीरकस्य परस्याबादिसृष्टिवद्धिरण्यगर्भशरीरकस्य परस्य ब्रह्मणः ? इतीदानी चिन्त्यते । कि युक्तम् ? समष्टिजीवस्येति; कुतः ? *अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति जीवकर्तृ कत्वश्रवणात् । न हि परा देवता स्वेन रूपेण नामरूपे व्याकर- वाणीत्यक्षत; अपितु स्वांशभूतेन जीवरूपेण, *अनेन जीवेनात्मनेति वचनात् । नन्वेवं चारेणानुप्रविश्य परबलं सङ्कलयानीतिवत् व्याकरवाणीत्युत्तमपुरुषः कर्तृ स्थक्रियश्च प्रविशतिलाक्षणिकस्स्यात् । नैवम्, तत्र राजचारयोः स्वरूपभेदाल्लाक्षणिकत्वम्, इह तु जीवस्यापि स्वांशत्वेन स्वरूपत्वात्तेन रूपेण प्रवेशो व्याकरणं चात्मन एवेति न लाक्षणि- कत्वप्रसङ्गः । नच सहयोगलक्षणेयं तृतीया, कारकविभक्तौ संभवन्त्यामुपपदविभक्तेरन्याय्य- त्वात् । नच करणे तृतीया, ब्रह्मकर्तृकयोः प्रवेशव्याकरणयोर्जीवस्य साधकतमत्वाभावात् । नच जीवस्य कर्तृत्वं प्रवेशमात्रे पर्यवस्यति, नामरूपव्याकरणं तु ब्रह्मण एवेति शक्यं वक्तुम्; क्त्वाप्रत्ययेन समानकर्तृतकत्वप्रतीतेः । जीवस्य स्वांशत्वेन स्वरूपत्वेऽपि परस्वरूपव्यावृत्त्यर्थः *अनेन जीवेनेति परावत्वेन परामर्शः । अतो हिरण्यगर्भकत केयं नामरूपव्याक्रिया । अतएव च स्मृतिषु चतुर्मुखकर्तृ कसृष्टिप्रकरणे नामरूपव्याकरणं सङ्कीर्त्यते *नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादी देवादीनां चकार सः ।। इत्यादि । एवं प्राप्तेऽभिधीयते-संज्ञामूर्तिक्लृप्तिस्तु इति । तुशब्दः पक्षं व्यावर्तयति । संज्ञा- मूर्तिक्ल प्तिः-नामरूपव्याकरणम् । तत् त्रिवृत्कुर्वतः परस्यैव ब्रह्मणः, तस्यैव नामरूपव्याक- रणोपदेशात् । त्रिवृत्करणं कुर्वत एव हि नामरूपव्याकरणमुपदिश्यते, *सेयं देवतक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं- त्रिवृतमेकैकां करवाणि* इति समानकर्तृकत्वप्रतीतेः । त्रिवृत्कररणं तु चतुर्मुखस्याण्डान्तर्व- तिनो न संभवति, त्रिवृत्कृतैस्तेजोबन्नेह्यण्डमुत्पाद्यते । चतुर्मुखस्य चाण्डे संभवः स्मर्यते- *तस्मिन्नण्डेऽभवद्ब्रह्मा सर्वलोकपितामहः* इति । अतस्विवृत्करणं परस्यैव ब्रह्मणः; तत्समानकर्तृकं नामरूपव्याकरणं च तस्यैवेति विज्ञायते । कथं तहि *अनेन जीवेनेति सङ्गच्छते ? *आत्मना जीवेनेति सामानाधिकरण्यात् जीवशरीरकं परं ब्रह्मैव जीवशब्देना- भिधीयते; यथा *तत्तेज ऐक्षत तदपोऽसृजत *ता आप ऐक्षन्त *ता अन्नमसृजन्त* इति . । - श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - तेजःप्रभृतिशरीरकं परमेव ब्रह्माभिधीयते । अतो जीवसमष्टिभूतहिरण्यगर्भशरीरकस्य परस्यैव ब्रह्मणः कर्म नामरूपव्याकरणम् । एवं च प्रविश्य नामरूपे व्याकरवाणीति प्रविशतिरुत्तम- पुरुषश्चाक्लिष्टौ मुख्यार्थावेव भवतः । प्रवेशव्याकरणयोस्समानकर्तृकत्वमप्युपपद्यते । चतुर्मुख- शरीरकस्य परस्यैव ब्रह्मणः कर्म देवादिविचित्रसृष्टिरिति चतुर्मुखकर्तृ कसृष्टिप्रकरणे नामरूप- व्याक्रियोपदेशश्वोपपद्यते । अतः *स्वेयं देवतेत्यादिवाक्यस्यायमर्थः--इमा:-तेजोऽबन्नरूपा- स्तिस्रो देवताः, अनेन जीवेन-जीवसमष्टिविशिष्टनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि- देवादिविचित्रसृष्टि तन्नामधेयानि च करवाणि । तदर्थमन्योन्यसंसर्गमप्राप्तानामेषां तेजोबनानां विशेषसृष्टयसमर्थानां तत्सामर्थ्यायकां त्रिवृतंत्रिवृतं करवाणीति । अतः परस्यैव ब्रह्मणः कर्मेदं नामरूपव्याकरणम् ॥१७॥ अथ स्यात्-नामरूपव्याकरणस्य त्रिवृत्करणेनैककत कत्वात्परमात्मकर्तृ कमिति न शक्यते वक्तुम्, त्रिवृत्करणस्यापि जीवकर्तृकत्वसंभवात् । अण्डसृष्टय त्तरकालं हि चतुर्मुख- सृष्टजीवेषु त्रिवृत्करणप्रकार उपदिश्यते--*यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्तिदेकका भवति तन्मे विजानीहीति *अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो भागस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः* इत्यादिना । तथा पूर्वस्मिन्नपि वाक्ये *पदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य* इत्यादिना चतुर्मुखसृष्टान्यादित्यचन्द्रविद्युत्सु त्रिवृत्करणं प्रदर्श्यते । नामरूपव्याकरणोत्तरकालं च त्रिवृ- करणं श्रूयते असेयं देवतेमास्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरो- तासां त्रिवृतंत्रिवृतमेकैकामकरोत्* इति । तत्राह- २८६. मांसादि भौमं यथाशब्दमितरयोश्च ॥ २-४-१८ ॥ यदुक्तमण्डसृष्टय त्तरकालं चतुर्मुखसृष्टदेवतादिविषयोऽयं *तासां त्रिवृतंत्रिवृतमेकैकाम- करोदिति त्रिवृत्करणोपदेश इति; तन्नोपपद्यते; *अन्नमशितं वेधा विधीयते इत्यत्र मांस- मनसोः पुरीषादणुत्वेनाणीयस्त्वेन च व्यपदिष्टयोः कारणानुविधायित्वेनाप्यतैजसत्वप्रसङ्गात्; *आपः पीताः इत्यत्रापि मूत्रप्राणयोः स्थविष्ठाणीयसोः पार्थिवत्वतैजसत्वप्रसङ्गाच्च । नचैव- मिष्यते; मांसादि हि भौममिष्यते-पुरीषवन्मांसमनसी अपि भौमे-पार्थिवे इष्येते, *अन्न- मशितं त्रेधेति प्रक्रमात् । यथाशब्दमितरयोश्च-इतरयोरपि *आपः पोताः तेजोऽशितमिति पर्याययोर्यथाशब्दं विकारा इष्यन्ते। *आपः पीतास्त्रेधा विधीयन्त इत्यपामेव त्रेधा परि- णामः शब्दात्प्रतीयते; तथा *तेजोऽशितं त्रेधा विधीयत इत्यपि तेजस एव त्रेधा परिणामः शब्दात्प्रतीयते । अतः पुरीषमांसमनांसि पृथिवीविकाराः, मूत्रलोहितप्राणाः अविकाराः, अस्थिमज्जावाचस्तेजोविकारा इति प्रतिपत्तव्यम्। *अन्नमयं हि सोम्य मनः आपोमयः - द्वितीयाध्याये-चतुर्थपादे - तदन्तरप्रतिपत्त्यधिकरणम् । प्रारणस्तेजोमयी वाक् इति वाक्यशेषाविरोधाच्च । अतः *तासां त्रिवृतंत्रिवृतमेकैकाम- करोदित्युक्तस्त्रिवृत्करणप्रकारः *अन्नमशितमित्यादिना न प्रदर्श्यते; तथा सति मनःप्रारण- वाचां त्रयाणामप्यणीयस्त्वेन तेजसत्वेन तैजसत्वात् *अन्नमयं हि सोम्य मनः* इत्यादिवि- रुध्यते । प्रागेव त्रिवृत्कृतानां पृथिव्यादीनां पुरुषं प्रातानाम् *अन्नमशितमित्यादिनकैकस्य त्रेधा परिणाम उच्यते । अण्डसृष्टेः प्रागेव च तेजोबन्नानां त्रिवृत्करणेन भवितव्यम्, अत्रि- वृत्कृतानां तेषां कार्यारम्भासामर्थ्यात् । अन्योन्यसंयुक्तानामेव हि कार्यारम्भसामर्थ्यम्; तदेव च त्रिवृत्करणम् । तथा च स्मर्यते *नानावीर्या पृथग्भूतास्ततस्ते संहति विना । नाशक्नुवन् प्रजास्त्रष्टुमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ इति । अत एव च *अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृतंत्रिवृतमेकैकामकरोत् इति पाठक्रमोऽर्थक्रमेण बाध्यते। अण्डान्तर्वतिष्वग्न्यादित्या- दिषु त्रिवृत्करण प्रदर्शनं श्वेतकेतोश्शुश्रूषोरण्डान्तर्वतित्वेन तस्य बहिष्ठवस्तुषु त्रिवृत्करण- प्रदर्शनायोगानिवृत्कृतानां कार्येषु अग्न्यादित्यादिषु क्रियते ॥ १८ ॥ स्यादेतत्; *अन्नमशितम् *आपः पीताः *तेजोऽशितम् इति त्रिवृत्कृतानामन्नादी- नामेकैकस्य तेजोबन्नात्मकत्वेन त्रिरूपस्य कथमनमापस्तेज इत्येकैकरूपेण व्यपदेश उपपद्यत इति; तत्राह- २८७. वैशेष्यात्तु तद्वादस्तद्वादः ॥ २। ४ । १६ ॥ वैशेष्यं-विशेषभावः त्रिवृत्करणेन त्रिरूपेऽप्येकै कस्मिन्नन्नाद्याधिक्यात्तत्रतत्रान्नादि- वादः । द्विरक्तिरध्यायसमाप्ति द्योतयति ॥ १६ ॥ इति संज्ञामूर्तिक्लृप्त्यधिकरणम् ॥८॥ इति श्रीभगवद्रामानुजविरचिते शारीरिकमीमांसाभाष्ये द्वितीयस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥ समाप्तश्वाध्यायः ।। श्रीमते रामानुजाय नमः तृतीयाध्याये-प्रथमः पाद:-तदन्तरप्रतिपत्त्यधिकरणम् ॥ १॥ २८८. तदन्तरप्रतिपत्तौ रहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥३-१-१॥ अतिक्रान्तान्ताध्यायद्वयेन निखिलजगदेककाररणं निरस्तनिखिलदोषगन्धमपरिमितो- दारगुणसागरं सकलेतरविलक्षणं परं ब्रह्म मुमुक्षुभिरुपास्यतया वेदान्ताः प्रतिपादयन्तीत्य- यमर्थः स्मृतिन्यायविरोधपरिहारपरपक्षप्रतिक्षेपवेदान्तवाक्यपरस्परविरोधपरिहाररूपकार्य- स्वरूपसंशोधनस्तदुर्धर्षणत्वहेतुभिस्सह स्थापितः। अतोऽध्यायद्वयेन ब्रह्मणस्स्वरूपं प्रति- २६८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । पादितम् । उत्तरेणेदानी तत्प्राप्त्युपायैस्सह प्राप्तिप्रकारश्चिन्तयितुमिष्यते । तत्र तृतीयाध्याये उपायभूतोपासनविषया चिन्ता वर्तते । उपासनारम्भाहितोपायश्च प्राप्यवस्तुव्यतिरिक्त- वैतृष्ण्यम्, प्राप्यतृष्णा चेति, तत्सिद्धयर्थं जीवस्य लोकान्तरेषु संचरतो जाग्रतस्स्वपत- स्सुषुप्तस्य मूर्च्छतश्च दोषाः, परस्य च ब्रह्मणस्तद्रहितता, कल्याणगुण करत्वं च प्रथम- द्वितीययोः पादयोः प्रतिपाद्यन्ते । तत्र देहादेहान्तरं गच्छन्नयं जीवो देहान्तरारम्भहेतुभिर्भूत- सूक्ष्मैस्संपरिष्वक्त एव गच्छति, उत नेति चिन्तायां यत्रयत्र जीवो याति तत्रतत्र भूतसूक्ष्मागां सुलभत्वादसंपरिष्वक्तो यातीति प्राप्तम् । पश्चादपि पूर्वपक्षबीजान्युपन्यस्य निरसिष्यति ॥ तत्र सिद्धान्तमाह--तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति । *संज्ञामूर्तिकलृप्तिरिति मूर्तिशब्देन देहः प्रस्तुतः; स तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ-देहान्तरगमने भूतसूक्ष्मैस्संपरिष्वक्तो जीवोरंहति-गच्छतोत्यर्थ । कुतः ? प्रश्ननिरूपणाभ्यां-प्रश्नप्रति- वचनाभ्याम् । पञ्चाग्निविद्यायामेवं प्रश्नप्रतिवचने आम्नायेते-श्वेतकेतुं किलारुरणेयं पाञ्चालः प्रवाहणः कर्मिणां गन्तव्यदेशं, पुनरावृत्तिप्रकारं, देवयानपितृयाणपथव्यावर्तने, अमुष्य लोकस्याप्राप्तारं च वेत्थेति पृष्ट्वे दमपि पप्रच्छ-*वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति* इति । तत इमं पश्चिमं प्रश्न प्रतिब्रुवंश्च | लोकमग्नित्वेन रूपयित्वा *तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा संभवति इत्यादिना देवाख्याः जीवस्य प्राणाः अग्नित्वेन रूपिते धु लोके श्रद्धाख्यं वस्तु प्रक्षिपन्ति; सा च श्रद्धा सोमराजाख्यामृतमयदेहरूपेण परिणमते । तं चामृतमयं देहं त एव प्राणाः पर्जन्येऽग्नित्वेन रूपिते प्रक्षिपन्ति; स च देहस्तत्र प्रक्षिप्तो वर्ष भवति । तच्च वर्ष त एव प्राणाः पृथिव्या- मग्नित्वरूपितायां प्रक्षिपन्ति; तच्च तत्र प्रक्षिप्तमन्नं भवति । तच्चान्न त एव पुरुषे- ऽग्नित्वरूपिते प्रक्षिपन्ति; तच्च तत्र रेतो भवति । तच्च त एव योषायामग्नित्वरूपितायां प्रक्षिपन्ति; तच्च तत्र प्रक्षिप्त गर्भो भवतीत्युक्त्वा आह-*इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति । एवं पञ्चम्यामाहुतौ हुतायामापः पुरुषशब्दाभिलप्या भवन्तीत्यर्थः । एवमुक्ते पूर्वास्वप्याहुतिष्वनुवर्तमानानामेवापां सूक्ष्मरूपाणामिदानी पुरुषाकारत्वं भवतीत्युक्तं भवति । अत एवं प्रश्नप्रतिवचनाभ्यां देहहेतुभूतैर्भूतसूक्ष्मैस्सह तत्रतत्र यातीति गम्यते ॥१॥ ननु *आपः पुरुषवचस इत्युक्ते अपां पुरुषाकारपरिणामप्रतीतेगच्छता जीवेन तासा- मेव परिष्वङ्गः प्रतीयते । अतः कथं सर्वेषां भूतसूक्ष्माणां परिष्वङ्ग इति ? तत्राह- २८६. न्यात्मकत्वात्तु भूयस्त्वात् ॥ ३ । १।२॥ तुशब्दश्वोद्यं व्यावर्तयति । देहारम्भकाणामपां केवलानां न देहारम्भसंभवः - तृतीयाध्याये-प्रथमपादे-तदन्तरप्रतिपत्त्यधिकरणम् । २६६ देहाद्यारम्भाय हि *तासां त्रिवृतंत्रिवृतमेकैकामिति त्रिवृत्करणम् । केवलानामपां श्रवणं तासां भूयस्त्वात् । देहे च लोहितादिभूयस्त्वेनारम्भकेष्वपां भूयस्त्वं गम्यते ॥२॥ २६०. प्राणगतेश्च ॥३-१-३ ॥ इतश्च भूतसूक्ष्मपरिष्वक्तस्य गमनमिति गम्यते । उत्क्रामति जीवे प्राणानां तदनुगति- श्श्रूयते-*तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति* इति । स्मर्यते च-*मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति । शरीरं यदवाप्नोति यच्चाप्यु- त्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ इति । नच निराश्रयाणां गति- रुपपद्यत इति तदाश्रयभूतानां भूतसूक्ष्माणामपि गतिरभ्युपगन्तव्या ॥३॥ २६१. अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥३-१-४ ॥ यत्रास्य पुरुषस्य मृतस्याग्नि वागप्येति, वातं प्राणश्चक्षुरादित्यम् इत्यादिना प्राणानां जीवमरणकाले अग्नयादिष्वप्ययश्रवणान्न तेषां जोवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति चेत्, न, भाक्तत्वात् अग्नयादिष्वप्ययश्रवणस्य । कथं भाक्तत्वम् ? *ओषधीर्लोमानि वनस्पतीन् केशाः* इत्यनपियद्भिर्लोमादिभिस्सह श्रवणात् । अतश्चक्षुराद्यप्ययश्रुतिरधिष्ठातृ- देवतापक्रमणपरा ॥४॥ २६२. प्रथमेऽश्रवणादिति चेन्न ता एव ह्य पपत्तेः ॥ ३-१-५॥ ? -- यदुक्तमद्भिस्सूक्ष्माभिर्भूतान्तरसंसृष्टाभिः परिष्वक्तो जीवो गच्छतीति प्रश्नप्रतिवचना- भ्यामवगम्यत इति; तन्नोपपद्यते, द्युलोकाग्निविषये प्रथमे होमे अपां होम्यत्वाश्रवणात् । *तस्मिन्न तस्मिन्नग्नौ देवाः श्रद्धां जुह्वति इति श्रद्धव होम्यत्वेन श्रुता। श्रद्धा नाम जीवस्य मनोवृत्तिविशेषत्वेन प्रसिद्धा । अतो नापस्तत्र होम्या इति चेत्, न, यतः ताः-आप एव श्रद्धाशब्देन तत्राभिधीयन्ते; कुतः ? प्रश्नप्रतिवचनोपपत्तेः । *वेत्थ यथा पञ्चम्यामाहुता- वापः पुरुषवचसो भवन्तीति प्रश्नस्य प्रतिवचनोपक्रमे हि श्रद्धा धुलोकाग्नौ होम्यत्वेन श्रुता । तत्र यदि श्रद्धाशब्देनापो नोच्येरन्, ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्यसङ्गतं स्यात् । इति तु पञ्चम्यामाहुतावापः पुरुषवचसः इति प्रतिवचननिगमनं च श्रद्धाया अप्त्वमेव सूचयति । *वेत्थ यथेति हि प्रश्नगतः प्रकारः, *इति तु पञ्चम्यामितीतिशब्देन परिहारे निगम्यते । श्रद्धासोमराजवर्षान्नरेतोगर्भरूपेणापां परिणाममुक्त्वा ह्यवमापः पुरुषवचस इति निगम्यते । श्रद्धाशब्दस्य चाप्सु वैदिकप्रयोगो दृश्यते-*अपः प्रणयति

२७०
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
-
श्रद्धा वा आपः* इति । श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा संभवति इति
सोमाकारेण परिणामश्वापामेवोपपद्यते । अतो भूतान्तरसंसृष्टाभिरद्भिसंपरिष्वक्तो जीवो
रहतीत्युपपन्नम् ॥ ५॥
२६३. अश्रुतत्वादिति चेन्नेष्टादिकारिणा प्रतीतेः ॥ ३।१।६॥
यत्पुनरुक्तमद्भिस्संपरिष्वक्तो जीवो यातीत्ययमर्थः एतस्माद्वाक्यादवगम्यत इति;
तन्नोपपद्यते, अस्मिन्वाक्ये जीवस्याश्रवणात् । अत्र हि श्रद्धादय एवाम्ब्ववस्थाविशेषा
होम्यत्वेन श्रुताः; न तु जीवस्तत्परिष्वक्त इति चेत्; तन्न, इष्टादिकारिणां प्रतीतेः-अस्मिन्न व
वाक्ये ह्य त्तरत्र ब्रह्मज्ञानविधुरेष्टापूर्तदत्तकारिणो धुलोकं प्राप्य सोमराजानो भवन्ति; पुण्य-
कर्मावसाने च पुनरागत्य गर्भ प्राप्नुवन्तीत्युच्यते *अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते
ते धूममभिसंभवन्ति* इत्यारभ्य अपितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा
तद्देवानामन्नं तं देवा भक्षयन्ति तस्मिन्यावत्सम्पानमुषित्वाऽथैतमेवाध्वानं पुननिवर्तन्ते श्योयो
ह्यन्नमत्ति योयो रेतस्सिञ्चति तद्भूय एव भवति* इति । अत्रापि | लोकाग्नौ *श्रद्धां जुह्वति
तस्या आहुतेस्सोमो राजासंभवति* इति तदेकार्थत्वाच्छ्रद्धावस्थदेहविशिष्टस्सोमरूपदेहविशिष्टो
भवतीत्युक्तमिति गम्यते । देहस्य जीवविशेषणतैकस्वरूपस्य वाचकः शब्दो विशेष्ये जीव एव
पर्यवस्यति । अतस्संपरिष्वक्तो जीवो यातीत्युपपद्यते ॥ ६ ॥
ननुच *तं देवा भक्षयन्तीति देवैर्भक्ष्यमाणत्ववचनात् *सोमो राजेति न जीव
उच्यते, जीवस्यानदनीयत्वात्। तत्राह-
-
२६४. भाक्त वाऽनात्मवित्वात्तथा हि दर्शयति ॥ ३।१।७॥
वाशब्दश्वोद्य व्यावर्तयति । इष्टादिकारिणोऽनात्मवित्त्वात्स देवानां भोगोपकरण-
त्वेनेहामुत्र च वर्तते । इहेष्टादिना तदाराधनं कुर्वन्नुपकरोति । आराधनप्रीतैर्देवैईत्तमम
लोकं प्राप्य तत्र तत्समानभोगस्तदुपकरणं भवति । *यथा पशुरेवं स देवानाम् इत्यनात्म-
विदो देवानामुपकरणत्वं दर्शयति श्रुतिः। स्मृतिरप्यात्मविदां ब्रह्मप्राप्तिमनात्मविदां च
देवभोग्यत्वं दर्शयति-देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि* इति । अतो जीवस्य
देवानां भोगोपकरणत्वाभिप्रायमन्नत्वेन भक्ष्यत्ववचनम्; अतस्तद्भाक्तम् । तेन तृप्तिरेव च
देवानां भक्षणमिति श्रूयते *न ह वै देवा अश्नन्ति न पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति*
इति । तस्माद्भूतसूक्ष्मैस्संपरिष्वक्तो जीवो रहंतीति सिद्धम् ॥ ७ ॥ इति तदन्तरप्रतिपत्त्य-
धिकरणम् ॥१॥

तृतीयाध्याये-प्रथमपादे-कृतात्ययाधिकरणम् २७१ ? ? अथ कृतात्ययाधिकरणम् ॥ २ ॥ २६५. कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥३-१-८ ॥ केवलेष्टापूर्तदत्तकारिणां धूमादिना पितृयाणेन पथा गमनं कर्मफलावसाने पुनरा. वर्तनं चाम्नातं यावत्सम्पातमुषित्वाऽथतमेवाध्मानं पुननिवर्तन्ते* इति । तत्र प्रत्यवरोहन जीवः किमनुशयवान् प्रत्यवरोहति, उत नेति संशय्यते । किं युक्तम् ? कर्मणः कृत्स्नस्योप- भुक्तत्वात् नानुशयवानिति प्राप्तम् । अनुशयो ह्य पभुक्तशिष्टं कर्म । तच्च कृत्स्नफलोपभोगे सति नावशिष्यते। यावत्सम्पातमुषित्वेति वचनात् कृत्स्नोपभोगश्च ज्ञायते । संपतन्त्यनेन स्वर्ग लोकमिति संपातः कर्मोच्यते । श्रुत्यन्तरं च * प्राप्यान्तं कर्मणस्तस्य यत्किञ्चह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे ॥ इति ॥ एवं प्राप्त ऽभिधीयते-अनुशयवात् प्रत्यवरोहतीति । कुतः ? दृष्टस्मृतिभ्यां-श्रुति- स्मृतिभ्यामित्यर्थः । श्रुतिस्तावत्-*तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनि क्षत्रिययोनि वैश्ययोनि वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्य रन् श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा* इति प्रत्यवरूढान प्रति श्रूयते । अमुष्माल्लोकात्प्रत्यवरूढषु रमणीयकर्माणो रमणीयां ब्राह्मणादियोनि प्रति- पद्यन्ते; कपूयचरणाः कुत्सितकर्माणः कुत्सितां श्वसूकरचण्डालादियोनि प्रतिपद्यन्त इति प्रत्यवरूढानां पुण्यपापकर्मयोगं दर्शयति । स्मृतिरपि-*वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुश्श्रुतवित्तवृत्तसुखमेधसो(हि)जन्म प्रति- पद्यन्ते विष्वञ्चो विपरीता नश्यन्ति* इति । तथा *ततः परिवृत्तौ कर्मफलशेषेण जाति रूपं वर्ण बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते तच्चक्रवदुभयोर्लोकयोस्सुख एव वर्तते* इति । यावत्संपातमिति फलदानप्रवृत्तकर्मविशेषविषयम्; यत्किचेह करोत्ययस्* इतीदमपि तद्विषयमेव । अभुक्तफलानामकृतप्रायश्चित्तानां च कर्मणां कर्मान्तरफलानुभवा- नाशोऽप्यनुपपन्नः । अतोऽमुं लोकं गतास्सानुशया एव यथेतमनेवं च पुननिवर्तन्ते-आरोहण- प्रकारेण च पुननिवर्तन्त इत्यर्थः। आरोहणं हि धूमराव्यपरपक्षदक्षिणायनषण्मासपितृलोका- काशचन्द्रक्रमेण; अवरोहरणं तु चन्द्रमसः स्थानादाकाशवायुधूमाभ्रमेघक्रमेण । तत्राकाशाव- रोहणाद्यथेतम्; वाय्वादिप्राप्त : पितृलोकाद्यप्राप्तेश्चानेवम् ॥ ८ ॥ २६६. चरणादिति चेन्न तदुपलक्षणार्थे ति कार्णाजिनिः ॥ ३ । १।६॥ *रमणीयचरणाः *कपूयचरणा इति न चरणशब्देन पुण्यपापरूपं कर्माभिधीयते, चरणशब्दस्य लोकवेदयोराचारे प्रसिद्धः। लौकिकाः खलु चरणमाचारः शीलं वृत्तमिति पर्यायानभिमन्यन्ते; वेदे च श्यान्यनवद्यानि कर्माणि, तानि सेवितव्यानि *यान्यस्माकं २७२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - सुचरितानि, तानि त्वयोपास्यानि* इति चरणकर्मणी भेदेन व्यपदिश्यते । अतः चरणात्- शीलात् योनिविशेषप्राप्तिः, नानुशयादिति चेत्, तन्न, चरणश्रुतिः कर्मोपलक्षणार्थेति कार्णा- जिनिराचार्यों मन्यते, केवलादाचारात्सुखदुःखप्राप्त्यसंभवात् । सुखदुःखे हि पुण्यपापरूप- कर्मफले ॥६॥ २६७. आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ३-१-१० ॥ एवं तह्य फलत्वादाचारस्य स्मृति विहितस्यानर्थक्यमेवेति चेत् तन्न, तदपेक्षत्वा- त्पुण्यस्य कर्मणः । आचारवत एव पुण्यकर्मस्वधिकारः, सन्ध्याहीनोऽशुचिनित्यमनहस्सर्व- कर्मसु *आचारहीनं न पुनन्ति वेदाः* इत्यादिवचनेभ्यः । अतश्चरणश्रुतिः कर्मोपलक्षणार्थेति कार्णाजिनेरभिप्रायः ॥१०॥ २६८. सुकृतदुष्कृते एवेति तु बादरिः ॥३-१-११ ॥ पुण्यं कर्माचरति, पापं कर्माचरतीति कर्मणि चरतेः प्रयोगात्, पृथनिर्देशस्य च प्रत्यक्षश्रु तिसिद्धाचारानुमितश्र तिसिद्धविषयत्वेन गोबलीवर्दन्यायेनोपपत्तेः, मुख्ये संभवति न लक्षणा न्याय्येति सुकृतदुष्कृते एव चरणशब्दाभिधेये इति बादरिराचार्यों मन्यते । अत्र बादरिमतमेव स्वमतम् । आचारानुमितश्रु तिविहितसन्ध्यावन्दनादेः कर्मान्तराधिकारसंपादनं फलमिति तु स्वोकृतम् । अतस्सानुशया एव प्रत्यवरोहन्ति ॥११॥ इति कृता ययाधिकरणम् ।।२।। अथ अनिष्टादिकार्यधिकरणम् ॥३॥ २६६. अनिष्टादिकारिणामपि च श्रु तम् ॥ ३-१-१२ ॥ केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम् । इदानी- मनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति, नेति चिन्त्यते । ये विहितं न कुर्वन्ति, निषिद्धं च कुर्वन्ति, त उभयेऽपि पापकर्माणोऽनिष्टादिकारिणः । किं युक्तम् ? तेऽपि चन्द्रमसं गच्छ- न्तीति । कुतः ? तेषामपि हि तद्गमनं श्रु तम्, ऋये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति* इत्यविशेषेण सर्वेषामेव गतिश्रवणात् ॥१२॥ एवं तहि सुकृतदुष्कृतकारिणोरुभयोरप्यविशिष्ट व गतिस्स्यात्; नेत्याह- ३००. संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ ३-१-१३ ॥ तुशब्दश्शङ्का व्यावर्तयति । इतरेषाम् अनिष्टादिकारिणां चन्द्रारोहावरोही संयमने- यमशासने तत्प्रयुक्तयातना अनुभूयंव, नान्यथा; कुतः ? तद्गतिदर्शनात्-दृश्यते हि पापक- - तृतीयाध्याये-प्रथमपादे-अनिष्टादिकार्यधिकरणम् । २७३ - र्मणां यमवश्यतया तद्गमनम् *अयं लोको नास्ति न पर इति मानी पुनःपुनर्दशमापद्यते मे *वैवस्वतं संगमनं जनानां यमं राजानम् इत्यादिषु ॥१३॥ ३०१. स्मरन्ति च ।। ३-१-१४ ॥ स्मरन्ति च सर्वेषां यमवश्यतां पराशरादयः-- *सर्वे चैते वशं यान्ति यमस्य भगव- किल* इत्यादिषु ॥१४॥ ३०२. अपि सप्त ॥३-१-१५ ॥ पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति ॥१५॥ ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्तिः, अत आह- ३०३. तत्रापि तन्यापारादविरोधः ॥३-१-१६ ॥ तेष्वपि सप्तसु यमाज्ञयैव गमनादविरोधः । अतोऽनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातनाश्चानुभूय पश्चाच्चन्द्रारोहावरोही स्तः ।।१६॥ इति प्राप्त उच्यते ३०४. विद्याकर्मणोरिति तु प्रकृतत्वात् ॥३-१-१७ ।। तुशब्दः पक्षव्यावृत्त्यर्थः । अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्तीत्येतन्नोपपद्यते; कुतः ? विद्याकर्मणोरिति-विद्याकर्मणोः फलभोगार्थत्वाद्देवयानपितृयाणयोः । एतदुक्तं भवति-अनिष्टादिकारिणां यथा विद्याविधुरत्वाद्देवयानेन पथा गमनं न संभवति; तद्वदेवेष्टा- पूर्तदत्तविधुरत्वात्पितृयाणेन चन्द्रगमनमपि न संभवतीति । देवयानपितृयाणयोः विद्या- विषयत्वं पुण्यकर्मविषयत्वं च कथमवगम्यत इति चेत्; प्रकृतत्वात्तयोः। प्रकृता हि देवयाने विद्या, पितृयाणे च कर्म; अतद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते* इत्युक्त्वा *तेऽचिषमभिसंभवाचषोऽहः' इत्यादिना देवयानवचनात्, *अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते* इत्युक्त्वा *ते धूममभिसंभवन्ति* इत्यादिना पितृयाणवचनाच्च । *ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति* इत्येतदपि वचनं य इष्टादिकारिणः ते सर्वे इति परिणेयम् ॥१७॥ ननु पापकर्मणां चन्द्रगमनाभावे पञ्चमाहुत्यसंभवाच्छरीरारम्भ एव नोपपद्यते; *पञ्च- म्यामाहुतावापः पुरुषवचसो भवन्ति इति हि शरीरारम्भश्शू यते, सा चाहुतिश्चन्द्रप्राप्ति- पूविकेति दर्शितम्; अतश्शरीरारम्भायैव तेषामपि चन्द्ररोहावरोहाववश्याभ्युपेत्यावित्यत आह- २७४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ३०५. न तृतीये तथोपलब्धेः ॥३-१-१८ ॥ तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा; कुतः ? तथोपलब्धेः-तृतीय- स्थानशब्देन केवलपापकर्माण उच्यन्ते, तेषां देहारम्भे पञ्चमाहुत्यनपेक्षत्वमुपलभ्यते *वेत्थ यथा केनासौ लोको न संपूर्यते* इत्यस्य प्रश्नस्य प्रतिवचने *अर्थतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासो लोको न संपूर्यते इति तृतीयस्थानस्य धुलोकारोहावरोहाभावेन धुलोकासंपूर्तिवचनादस्य तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा । पञ्चम्यामाहुताविति चापां पञ्चमाग्नि- संबन्धस्य पुरुषवचस्त्वहेतुत्वमात्रं प्रतिपादयति, नान्यन्निवारयति, अवधारणाश्रवणात् ॥१८॥ ३०६. स्मर्यतेऽपि च लोके ॥३-१-१६॥ पुण्यकर्मणामपि केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भो लोके स्भर्यते द्रौपदीधृष्टद्य म्न- प्रभृतीनाम् ॥१६॥ ३०७. दर्शनाच्च ॥ ३-१-२० ।। श्रुतावपि दृश्यते केषाश्चित्पञ्चमाहुत्यनपेक्षया देहारम्भः *तेषां खल्वेषां भूतानां त्रीण्येव बोजानि भवन्ति आण्डजं जीवजमुद्भिज्जम्* इति । एषद्भिज्जस्वेदजयोः भूतयोः पञ्चमाहुतिमन्तरेणोत्पत्ति श्यते ॥२०॥ ननु स्वेदजानामत्र न सङ्कीर्तनमस्ति *त्रीण्येव बीजानीति वचनात् तत्राह- ३०८. तृतीयशब्दावरोधस्संशोकजस्य ॥३-१-२१ ॥ संशोकजस्य-स्वेदजस्यापि *आण्डजं जीवजमुद्भिज्जमित्यत्र तृतीयेनोद्भिज्जशब्दे- नावरोधःसङ्ग्रहो विद्यत इत्यर्थः; अतः केवलपापकर्मणां चन्द्रप्राप्तिन संभवति ॥२१॥ इति अनिष्टादिकार्यधिकरणम् ॥ ३ ॥ अथ तत्स्वाभाव्यापत्त्यधिकरणम् ।। ४ ।। ३०६. तत्स्वाभाव्यापत्तिरुपपत्तेः ।। ३-१-२२ ॥ इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम्; अवरोह- प्रकारश्च *अर्थतमेवाध्वानं पुननिवर्तन्ते यथेतमाकाशम् आकाशाद्वायुं वायुभूत्वा धूमो भवति तृतीयाध्याये-प्रथमपादे-नातिचिराधिकरणम् । धूमो भूत्वाऽनं भवति अन भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति इति वचनात्; यथे- तमनेवञ्चेत्युक्तम्। तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाकाशादिभावः, तत्सादृश्यापत्तिमात्रमिति विशये श्रद्धावस्थस्य सोमभाववदविशेषादाकाशादिभावः ।। इति प्राप्ते तत्स्वाभाव्यापत्तिरेवेत्युच्यते । तत्स्वाभाव्यापत्तिः-तत्सादृश्यापत्ति- रित्यर्थः । कुत एतत् ? उपपत्तेः--सोमभावमनुष्यभावादौ हि सुखदुःखोपभोगाय तद्भावः; अत्र त्वाकाशादौ सुखदुःखोपभोगामावात्तद्भावानुपपत्तेस्तदापत्तिवचनं तत्संसर्गकृततत्सादृश्या- पत्त्यभिप्रायम् ॥ २२ ॥ इति तत्स्वाभाव्यापत्त्यधिकरणम् ।। ४ ।। अथ नातिचिराधिकरगम् ॥ ५ ॥ ३१० नातिचिरेण विशेषात् । ३ । १ । २३ ॥ आकाशप्राप्तिप्रभृति यावद्वाह्यादिप्राप्ति किं तत्रतत्र नातिचिरं तिष्ठति, उतानियम इति विशये नियमहेत्वभावादनियम इति प्राप्ते उच्यते-नातिचिरेणेति । कुतः ? विशेषात्- उत्तरत्र व्रीह्यादिप्राप्तौ *अतो वै खलु दुनिष्प्रपतरम्* इति विशिष्य कृच्छ्रनिष्क्रमणत्वाभि- भानात् पूर्वत्र ह्याकाशादिप्राप्ताचिरनिष्क्रमणं गम्यते । दुनिष्प्रपतरमिति च्छान्दसस्तशब्द- लोपः; दुनिष्प्रप(त) तरं-दुःखनिष्क्रमणतरमित्यर्थः ॥ २३ ॥ इति नातिचिराधिकरणम् ।। ५ ।। ? । अथ अन्याधिष्ठिताधिकरणम् ।। ६ ।। ३११ अन्याधिष्ठिते पूर्ववदभिलापात् । ३ । १ । २४ ॥ अवरोहन्तो जीवाः व्रीह्यादिभावेन जायन्त इति श्रूयते *मेघो भूत्वा प्रवर्षति त इह खोहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते* इति । ते किमन्यैर्भोक्तृभिवोह्यादि- शरीरैरधिष्ठितान् ब्रीह्यादीनाश्लिष्यन्ति, उत ते भोक्तारो व्रीह्यादिशरीरा जायन्त इति विशये *जायन्त इति वचनात् देवो जायते मनुष्यो जायत इतिववीह्यादिशरोरा एव; इति प्राप्त उच्यते--अन्याधिष्ठिते इति । जीवान्तरेणाधिष्ठिते व्रीह्यादिशरीरे तेषां संश्लेषमात्रमेव । कुतः ? पूर्ववदभिलापात्-आकाशादिमेघपर्यन्तवत्केवलतद्भावाभिलापात् । यत्र हि भोक्तृत्व- मभिप्रेतम् ; तत्र तत्साधनभूतं कर्माभिलप्यते *रमणीयचरणाः...कपूयचरणाः* इति । इह चाकाशादिवन्नाभिलप्यते कर्म, फलप्रदाने प्रवृत्तस्य स्वर्गोपभोग्यफलस्येष्टादेः कर्मणः स्वर्गोप- भोगादेव समाप्तत्वात्, अनारब्धस्य रमणीयचरणाः... कपूयचरणाः इति वक्ष्यमाणत्वात्, मध्ये कर्मान्तराभावाच्च । अत आकाशादिभाववचनवद्वीह्यादिभावेन जन्मवचनभोप- चारिकम् ॥ २४ ॥ ?

२७६
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
३१२ अशुद्धमिति चेन्न शब्दात् । ३ । १ । २५ ॥
नैतदस्ति यदन्याधिष्ठिते ब्रीह्याधिष्ठिते व्रीह्यादिशरीरे संश्लेषमात्रम्, भोक्तृत्वहेत्व-
भावान्न व्रीह्यादिभावेन जन्म, इति; भोक्तृत्वहेतुसद्भावात् । स्वर्गोपभोग्यफलमिष्टादिकमैवा-
शुद्धम् -- पापमिश्रम्, अग्नीषोमीयादिहिंसायुक्तत्वात् । हिंसा च *न हिस्यात्सर्वा भूतानि*
इति निषिद्धत्वात्पापमेव । नचात्र पदाहवनीयादिवदुत्सर्गापवादभावस्संभवति, भिन्नविषयत्वात्
अग्नीषोमीहिंसाविधिहिंसायाः क्रतूपकारकत्वं बोधयति; *न हिंस्यादिति तु हिंसायाः प्रत्य-
वायफलत्वम् । अथोच्येत-अग्नीषोमीयादिषु विधितः प्रवृत्तेर्न तद्विषयं निषेधविधिरास्कन्दति,
रागप्राप्तविषयत्वात्तस्येति; नैवम्, इहापि रागप्राप्तेरविशिष्टत्वात् । *स्वर्गकामो यजेतेत्येव-
मादौ हि कामिनः कर्तव्यतया यागाद्य पदेशाद्यागादेः स्वर्गादिसाधनत्वमवगम्य फलरागत एव
यागादौ प्रवर्तते । अग्नीषोमीयादिष्वपि तेषां फलसाधनभूतस्य यागादेरुपकारकत्वं शास्त्रादव-
गम्य रागादेव प्रवर्तते । लौकिक्यामपि हिंसायां केनचित्प्रमाणेन हिंसायाः स्वसमीहितसाधन-
त्वमवगम्य रागात्प्रवर्तत इति न कश्चन विशेषः । तथा नित्येष्वपि कर्मसु *सर्ववर्णानां
स्वधर्मानुष्ठाने परमपरिमितं सुखम् इत्यादिवचनात्फलसाधनत्वमवगम्य रागादेव प्रवृत्तिरिति
तेषामप्यशुद्धियुक्तत्वम् । अत इष्टादीनां पापमिश्रत्वेनाशुद्धियुक्तानां स्वर्गेऽनुभाव्यं फलं स्वर्गे-
ऽनुभूय हिंसांशस्य फलं व्रीह्यादिस्थावरभावेनानुभूयते । स्थावरभावं च पाएफलं स्मरन्ति
*शरीरजः कर्मदोषैर्याति स्थावरतां नरः इति । अतो ब्राह्मादिभावेन भोगायानुशयिनो
जायन्त इति चेत् तन्न । कुतः ? शब्दात्-अग्नीषोमीयादेस्संज्ञपनस्य स्वर्गलोकप्राप्तिहेतु-
तया हिंसात्वाभावशब्दात् । पशोहि संज्ञपननिमित्तां स्वर्गलोकप्राप्ति वदन्तं शब्दमामनन्ति
*हिरण्यशरीर ऊर्ध्वः स्वर्ग लोकमेति इत्यादिकम् । अतिशयिताभ्युदयसाधनभूतो व्यापारो-
ऽल्पदुःखदोऽपि न हिंसा; प्रत्युत रक्षणमेव । तथा च मन्त्रवर्णः-*न वा उ वे तन्म्रियसे न
रिष्यसि, देवाँ इदेषि पथिभिस्सुगेभिः; यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवस्सविता
दधातु* इति । चिकित्सकं च तादात्विकाल्पदुःखकारिणमपि रक्षकमेव वदन्ति, पूजयन्ति
च तज्ज्ञाः ॥ २५ ॥
३१३. रेतस्सिग्योगोऽथ ॥ ३।१ । २६ ॥
इतश्चौपचारिकं व्रोह्यादिजन्मवचनम्, व्रीह्यादिभाववचनान्तरं *योयो ह्यन्नमत्ति
योयो रेतस्सिञ्चति तद्भूय एव भवति* इति रेतस्सिग्भावोऽनुशयिनां श्रूयमाणो यथा तद्योग-
मात्रं प्रतिपादयति; तद्ववीह्यादिभावोऽपीत्यर्थः ॥ २६ ॥

तृतीयाध्याये-द्वितीयपादे-सन्ध्याधिकरणम् । २७७ ३१४. योनेश्शरीरम् ॥ ३ । १ । २७ ॥ योनिप्राप्तेः पश्चादेवानुशयिनां शरीरप्राप्तिः, तत्रैव सुखदुःखोपभोगसद्भावात् । ततः प्रागाकाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थः ॥ २७ ॥ इति अन्याधिष्ठिताधिकरणम् ॥ ६ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरिकमीमांसाभाष्ये तृतीयस्याध्यायस्य प्रथमः पादः ।। १ ।। Aloo- श्रीमते रामानुजाय नमः तृतीयाध्याये-द्वितीयः पाद:-सन्ध्याधिकरणम् ।। १ ३१५. सन्ध्ये सृष्टिराह हि ॥ ३ । २ । १॥ एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम् इदानीमस्य स्वप्नावस्था परीक्ष्यते । स्वप्नमधिकृत्य श्रूयते *न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथात् रथयोगान् पथस्सृजते न तत्रानन्दा मुदः प्रमुदो भवन्ति अथा- नन्दान् मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति अथ वेशान्तान् पुष्करिण्यः लवन्त्यस्सृजते स हि कर्ता* इति । तत्र संशयः-किमियं रथादिसृष्टिर्जीवेनैव क्रियते, आहोस्विदीश्वरेणेति । कि युक्तम् ? सन्ध्ये सृष्टिर्जीवेनेति । कुतः ? सन्ध्यं स्वप्न- स्थानमुच्यते, *सन्ध्यं तृतीयं स्वप्नस्थानमिति वचनात्; सा तु जीवेनैव क्रियते; *सृजते स हि कर्तेत्याह हि । स्वप्नदृग्जीव एव तत्र प्रतीयते ।। १ ॥ ३१६. निर्मातारं चैके पुत्रादयश्च ॥ ३।२।२॥ किञ्च, एनं जीवं स्वप्ने कामानां निर्मातारमेके शाखिनोऽधीयते *य एषु सुप्तेषु जागति कामंकामं पुरुषो निर्मिमाणः* इति । पुत्रादयश्च तत्र काम्यमानतया कामशब्देन निर्दिश्यन्ते; नेच्छामात्रम् पूर्वत्र हि *सर्वान् कामान् छन्दतः प्रार्थयस्व *शतायुषः पुत्रपौत्रात् वृणीष्व* इति पुत्रादय एव कामाः प्रकृताः। अतो रथादीन् जीवः स्वप्ने सृजति । जीवस्य च सत्यसङ्कल्पत्वं प्रजापतिवाक्ये श्रुतम् अत उपकरणाद्यभावेऽपि सृष्टिरुपपद्यते ॥ २ ॥ इति प्राप्तऽभिधीयते- ३१७. मायामात्र तु कात्स्न्येनानभिव्यक्तस्वरूपत्त्वात् ॥ ३।२। ३ ।। तुशब्दः पक्षं व्यावर्तयति । स्वप्ने रथपुष्करिण्याद्यर्थजातं मायामात्रं-परमपुरुषसृष्ट- मित्यर्थः । मायाशब्दो ह्याश्चर्यवाची । *जनकस्य कुले जाता देवमायेव निर्मिता* इत्यादिषु तथा दर्शनात् । अत्रापि, *न तत्र रथा न रथयोगा न पन्थानः--सकलेतरपुरुषानुभाव्यतया - .२७८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । न भवन्तीत्यर्थः; अथ रथान् रथयोगान्पथः सृजते-स्वप्नहगनुभाव्यतया तत्कालमात्रावसानान सृजत इत्याश्चर्यरूपत्वमेवाह । एवंविधाश्चर्यरूपा सृष्टिस्सत्यसङ्कल्पस्य परमपुरुषस्यैवोपपद्यते, न जीवस्य । तस्य सत्यसङ्कल्पत्वादियुक्तस्यापि संसारदशायां कात्स्न्येनानभिव्यक्तस्वरूपत्वान्न जीवस्य तथाविधाश्चर्यसृष्टिरुपपद्यते । *कामंकामं पुरुषो निर्मिमाण इति च परमपुरुषमेव निर्मातारमाह, *य एषु सुप्तेषु जागति *तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिन् लोकाश्थितास्सर्वे तदु नात्येति कश्चन ॥ इत्युपक्रमोपसंहारयोः परमपुरुषासाधारणस्वभाव- प्रतीतेः। *अथ वेशान्तान् पुष्करिण्यः स्रवन्त्यः सृजते स हि कर्ता* इति च तया श्रुत्यै- कार्थ्यात्परमपुरुषमेव कर्तारमाह ॥ ३ ॥ स्वाभाविक चेज्जीवस्यापहतपाप्मत्वादिकम्, कुतस्तन्नाभिव्यज्यत इत्यत आह- ३१८. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।। ३-२-४ ॥ तुशब्दश्शङ्काव्यावृत्त्यर्थः; पराभिध्यानात्-परमपुरुषसङ्कल्पात्, अस्य जीवस्य स्वाभाविक रूपं तिरोहितम् अनादिकर्मपरम्परया कृतापराधस्य ह्यस्य स्वाभाविकं कल्याण- रूपं परमपुरुषस्तिरोधापयति; ततः तत्सङ्कल्पादेव हि अस्य-जीवस्य बन्धमोक्षौ श्रुतौ ऋयदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवति, यदा ह्य वैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति एष ह्यवानन्दयाति *भीषा- ऽस्माद्वातः पवते* इत्यादिषु ॥४॥ ३१६. देहयोगाद्वा सोऽपि ॥ ३-२-५ ॥ सोऽपि-तिरोभावो देहयोगद्वारेण वा भवति, सूक्ष्माचिच्छक्तियोगद्वारेण वा; सृष्टि- काले देहावस्थेनाचिद्वस्तुना संयोगाद्भवति, प्रलयकाले नामरूपविभागानर्हातिसूक्ष्माचिद्वस्तु- योगात् । अतोऽनभिव्यक्तस्वरूपत्वात्स्वप्ने जीवो न रथादीन् सङ्कल्पमात्रेण स्रष्टुं शक्नोति । *तस्मिल्लोकाश्रितास्सर्वे तदु नात्येति कश्चनेति सर्वेषु सुप्तेषु जागरणं सर्वलोकाश्रयत्व- मित्यादयो हि परमपुरुषस्यैव संभवन्ति । अतो जीवानामल्पाल्पकर्मानुगुणफलानुभवार्थ तावन्मात्रकालावसानान् तदेकानुभाव्यानर्थानुत्पादयति ॥५॥ ३२०. सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ३-२-६ ॥ इतश्च स्वाना अर्था न जीवसङ्कल्पपूर्वकाः; यतः स्वप्नोऽभ्युदयानभ्युदययोस्सूचकः श्रु तेरवगम्यते--*यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धि तत्र जानीयात्तस्मिन् तृतीयाध्याये-द्वितीयपादे-तदभावाधिकरणम् । ર૭૬ .4CAD स्वप्ननिदर्शने ॥ इति; *अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्यादेश्च । स्वप्नाध्यायविदश्च स्वप्नं शुभाशुभयोस्सूचकमाचक्षते । सूचकत्वं च स्वसङ्कल्पायत्तस्य नोपपद्यते; तथाचाशुभस्यानिष्टत्वाच्छुभस्य सूचकमेव सृष्ट्वा पश्येत् । अतः स्वप्ने सृष्टिरीश्वरेणैव कृता ॥६॥ इति सन्ध्याधिकरणम् ॥१॥ , अथ तदभावाधिकरणम् ॥२॥ ३२१. तदभावो नाडीषु तच्छ्र तेरात्मनि च ॥ ३-२-७ ॥ इदानीं सुषुप्तिस्थानं परीक्ष्यते । इदमाम्नायते *अथ यत्रतत्सुप्तस्समस्तस्संप्रसन्नः स्वप्नं न विजानाति आसु तदा नाडीषु सृप्तो भवति इति; तथा *अथ यदा सुषुप्लो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते* इति; तथा *यत्रतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति इति । एवं नाड्यः पुरीतद्ब्रह्म च सुषुप्तिस्थानत्वेन श्रूयते; किमेषां विकल्पः सुमुच्चयो वेति विशये निरपेक्षत्वप्रतीतेः युगपदनेकस्थानवृत्त्यसंभवाच्च विकल्पः ॥ इति प्राप्त उच्यते--तदभाव इति । तदभावः- स्वप्नाभावः सुषुप्तिः नाडीषु पुरीतत्यात्मनि च भवति; एषां स्थानानां समुच्चय इत्यर्थः । कुतः ? तच्छ ते:-त्रयाणां स्थानत्वश्रु तेः । न च कार्यभेदेन समुच्चये संभवति पाक्षिकबाधगर्भविकल्पो न्याय्यः । संभवति च प्रासादखट्वा- पर्यवन्नाड्यादीनां कार्यभेदः । तत्र नाडीपुरीतती प्रासादखट्वास्थानीयौ; ब्रह्म तु पर्यङ्क- स्थानीयम् । अतो ब्रह्म व साक्षात्सुषुप्तिस्थानम् ॥७॥ ३२२. अतः प्रबोधोऽस्मात् ॥ ३ । २।८ ॥ यतो ब्रह्म व साक्षात्सुषुप्तिस्थानम्, अत: अस्मात् ब्रह्मणः एषां जीवानां प्रबोधः श्रू यमाग उपपद्यते *सत आगम्य न विदुः सत आगच्छामहे* इत्यादिषु ॥ ८ ॥ इति तदभावाधिकरणम् ।।२।। अथ कर्मानुस्मृतिशब्दविध्यधिकरणम् ।।३।। ३२३. स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ३।२।६॥ कि सुषुप्त एवं प्रबोधसमये उत्तिष्ठति, उतान्य इति संशये, अस्य सकलोपाधिविनि- मुक्तस्य ब्रह्मणि संपन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरोरेन्द्रियादिसंबन्धाभावादन्यः ।।

२८० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? इति प्राप्त उच्यते--स एव तु-इति । तुशब्दः पक्षं व्यावर्तयति; स एवोत्तिष्ठति; कुतः ? कर्मानुस्मृतिशब्दविधिभ्यः । कर्म तावत्-सुषुप्तेन पूर्वकृतं पुण्यपापरूपं तत्त्वज्ञाना- प्राक्तेनैव भोक्तव्यम् । अनुस्मृतिरपि-य एवाहं सुप्तः, स एव प्रबुद्धोऽस्मीति । शब्दोऽपि सुषुप्तप्रबुद्धस्स एवेति दर्शयति अत इह व्याघ्रो वा तिहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति* इति । विधयश्च मोक्षार्थास्सुषु- प्तस्य मुक्तत्वेऽनर्थकास्स्युः । न चासौ सर्वोपाधिविनिर्मुक्त आविर्भूतस्वरूपः तद्यतत्सु- षुप्तः इति सुषुप्तं प्रकृत्य, *नाह खल्वयमेवं संप्रत्यात्मानं जानात्यवमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि* इति वचनात् । मुक्तस्य च *परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षत्क्रीडन् रममाणः *स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति *सर्व ह पश्यः पश्यति सर्वमाप्नोति सर्वशः* इति सर्वज्ञत्वादि श्र यते । अतस्सुषुप्तस्संसरन्ने व आयस्तसर्वकरणो ज्ञानभोगाद्य- शक्तो विश्रमस्थानं परमात्मानमुपसंपद्याश्वस्तः पुनर्भोगायोत्तिष्ठति ॥ ६ ॥ इति कर्मानुस्मृतिशब्दविध्यधिकरणम् ।। ३ ।। muvena- अथ मुग्धाधिकरणम् ॥ ४ ॥ ३२४. मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ ३-२-१०।। मुग्धमधिकृत्य चिन्त्यते; किमियं मूर्छा सुषुप्त्यादिष्वन्यतमावस्था, उतावस्थान्तर- मिति विशये सुषुप्त्यादीनामन्यतमावस्थायामेव मूप्रिसिद्धय पपत्तेरवस्थान्तरकल्पने प्रमाणाभावादन्यतमावस्था। इति प्राप्त उच्यते-मुग्धेऽर्धसंपत्तिरिति । मुग्धे पुरुषे या तस्यावस्था, सा मरणा- यार्धसंपत्तिः । कुतः ? परिशेषात्--न तावत्स्वप्नजागरौ, ज्ञानाभावात्; निमित्तवैरूप्यादा- कारवरूप्याच्च न सुषुप्तिमरणे । निमित्तं हि मूर्छाया अभिघातादिः । पारिशेष्यान्मरणा- यार्धसंपत्तिमूर्छा । मरणं हि सर्वप्राणदेहसंबन्धोपरतिः; सूक्ष्मप्राणदेहसंबन्धावस्थितिमूर्छा ॥ १० ॥ इति मुग्धाधिकरणम् ।। ४ ।। अथ उभयलिङ्गाधिकरणम् ।।५।। ३२५. न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ३-२-११ ॥ दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषा निरूपिताः । इदानों ब्रह्मप्राप्तितृष्णा- जननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायारभते । तत्र जागरस्वप्न- तृतीयाध्याये-द्वितीयपादे-उभयलिङ्गाधिकरणम् । २८१ ? सुषुप्तिमुग्ध्युत्क्रान्तिषु स्थानेषु तत्तत्स्थानप्रयुक्ता जीवस्य ये दोषाः, ते तदन्तर्यामिणः परस्य ब्रह्मणोऽपि तत्रतत्रावस्थितस्य सन्ति, नेति विचार्यते । किं युक्तम् ? सन्तीति । कुतः तत्तदवस्थशरीरेऽवस्थानात् । ननु *संभोगप्राप्तिरिति चेन्न वैशेष्यात् स्थित्यदनाभ्यां चेत्या- दिषु परस्याकर्मवश्यत्वेन दोषाभाव उक्तः, तत्कथमकर्मवश्यस्य परस्य ब्रह्मणस्तत्तत्स्थान- संबन्धाद्दोष उच्यते ? इत्थमुच्यते ---कर्माण्यपि देहसंबन्धमापादयन्त्यपुरुषार्थजननानि भव- न्तीति *देहयोगाढत्यत्रोक्तम् । तच्च देहसंबन्धस्यापुरुषार्थत्वेन भवति । इतरथा कर्माण्येव दुःखं जनयिष्यन्ति; कि देहसंबन्धेन ? अतोऽकर्मवश्यत्वे सत्यपि नानाविधाशुचिदेहसंबन्धोऽ- पुरुषार्थ एव । अतस्तनियमनार्थ स्वेच्छया तत्प्रवेशेऽप्यपुरुषार्थसंबन्धोऽवर्जनीयः । पूयशोणि- तादिमज्जनं हि स्वेच्छाकारितमप्यपुरुषार्थ एव । अतो यद्यपि जगदेककारणं सर्वज्ञत्वादि- कल्याणगुणाकरं च ब्रह्म; तथाऽपि यः पृथिव्यां तिष्ठन् त्र्य आत्मनि तिष्ठन् *यश्चक्षुषि तिष्ठन् *यो रेतसि तिष्ठन्* इत्यादिवचनात् तत्रतत्रावस्थितस्य तत्तत्संबन्धरूपापुरुषार्था- स्सन्तीति ॥ एवं प्राप्ते प्रचक्ष्महे-न स्थानतोऽपि परस्येति । न पृथिव्यात्मादिस्थानतोऽपि परस्य ब्रह्मणः अपुरुषार्थगन्धस्संभवति । कुतः ? उभयलिङ्गं सर्वत्र हि- ? उभयलिङ्गं सर्वत्र हि-यतः सर्वत्र श्रुतिस्मृतिषु परं ब्रह्म उभयलिङ्गम्-उभयलक्षणमभिधीयते; निरस्तनिखिलदोषत्वकल्याणगुणाकरत्व- लक्षणोपेतमित्यर्थः । *अपहतपाप्मा विजरो विमृत्युविशोकोऽविजिघत्सोऽपिपासस्सत्यकाम- स्सत्यसङ्कल्पः समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः *तेजोबलैश्वर्यमहाव- बोधसुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे ॥ *समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्* इत्यादिश्रुतिस्मृतिभ्यः उभयलक्षणं हि ब्रह्माव- गतम् ॥११॥ ३२६. भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ ३-२-१२ ॥ यथा जीवस्य प्रजापतिवाक्यावगतापहतपाप्मत्वाद्युभयलिङ्गस्यापि देवादिदेहयोग- रूपावस्थाभेदादपुरुषार्थयोगः, तथाऽन्तर्यामिणः परस्यापि स्वतोऽपहतपाप्मत्वाधुभयलिङ्गस्य तत्तद्देवादिशरीरयोगरूपावस्थाभेदादपुरुषार्थयो गोऽवर्जनाय इति चेत्, तन्न; प्रत्येकमतद्वच- नात्--*यः पृथिव्यां तिष्ठन् य आत्मनि तिष्ठन्नित्यादिषु प्रतिपर्यायं स त आत्माऽन्तर्याम्य- मृतः* इत्यन्तर्यामिणोऽमृतत्ववचनेन तत्रतत्र स्वेच्छया नियमनं कुर्वतस्तत्तत्संबन्धप्रयुक्ता- पुरुषार्थप्रतिषेधात् । जीवस्य तु तत्स्वरूपं तिरोहितमिति *पराभिध्यानात्तु तिरोहितमित्य- क्तम् । ननु स्वेच्छया कुर्वतोऽपि तत्तद्वस्तुस्वभावायत्तापुरुषार्थसंबन्धोऽवर्जनीय इत्युक्तम् नेतद्युक्तमा न ाचिद्वस्त्वपि स्वभावतोऽपुरुषार्थस्वरूपम्; कर्मवश्यानां तु कर्मस्वभावानुगुण्येन २८२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । परमपुरुषसङ्कल्पादेकमेव वस्तु कालभेदेन पुरुषदेन च सुखाय दुःखाय च भवति; वस्तु- स्वरूपप्रयुक्ते तु ताद्रूप्ये सर्व सर्वदा सर्वस्य सुखायैव दुःखायैव वा स्यात्; न चैवं दृश्यते । तथा चोक्तं--नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम । वस्त्वेकमेव दुःखाय सुखायेागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः । तदेव प्रीतये भूत्वा पुनर्दु:खाय जायते । तदेव कोपाय यतः प्रसादाय च जायते । तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् ॥ इति । अतो जीवस्य कर्मवश्यत्वात्तत्तत्कर्मानुगुण्येन तत्तद्वस्तुसंबन्ध एवापुरुषार्थस्स्यात्; परस्य तु ब्रह्मणः स्वाधीनस्य स एव संबन्धस्तत्तद्विचित्रनियमनरूपलोलारसायव स्यात् ॥१२॥ ३२७. अपि चैवमेके ॥ ३-२-१३ ॥ - अपि च एके शाखिनः एकस्मिन्न व देहसंयोगे जीवस्यापुरुषार्थ परस्य तु तदभावं नियमनरूपैश्वर्यायत्तदीप्तियोगं च स्वशब्देनाधीयते *द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वात्ति अनश्नन्नन्यो अभिचाकशीति ॥ इति ॥ १३ ॥ अथ स्यात्--*अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ब्रह्मात्मक- जीवानुप्रवेशपूर्वकं नामरूपव्याकरणमिति ब्रह्मणोऽपि तदात्मभूतस्य देवमनुष्यादिरूपत्वं तन्ना- मभाक्त्वं चास्ति, ततश्च ब्राह्मणो यजेतेत्यादिविधिनिषेधशास्त्रगोचरत्वेन कर्मवश्यत्वमवर्ज- नीयमिति; तत्राह- ३२८. अरूपवदेव हि तत्प्रधानत्वात् ॥ ३-२-१४ ।। देवादिशरीरानुप्रवेशे तेनतेन रूपेण युक्तमप्यरूपवदेव तत्-ब्रह्म रूपरहिततुल्यमेव; जीववच्छरीरित्वनिबन्धनं कर्मवश्यत्वमस्य न विद्यत इत्यर्थः । कुतः ? निर्वाहकत्वेन प्रधान- त्वात् । *आकाशो ह वै नामरूपयोनिर्वहिता ते तदन्तरा तब्रह्मेति सर्वानुप्रवेशेऽपि नाम- रूपकार्यास्पर्शेन नामरूपयोनिर्वाढत्वमेव ब्रह्मणः प्रतिपादयति । ननु तच्छरीरकत्वेन तदन्तर्यामित्वे कथमरूपवदिति रूपसंबन्धरहिततुल्यत्वमुच्यते ? इत्थम्यथा जीवस्य तत्तजन्यसुखदुःखभाक्त्वेन तत्तद्रूपसंबन्धः, तथा तदभावात्पन्स्यारूपवत्त्वन् । विधिनिषेध- शास्त्राग्यपि कर्मवश्यमेवाधिकुर्वन्ति । तस्मादरूपतुल्यमेव परं ब्रह्म। ततश्चान्तर्यामिरूपेणा- वस्थितमपि ब्रह्म निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वरूपोभयलिङ्गमेव ॥ १४ ॥ ननु च *सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिभिनिविशेषप्रकाशकस्वरूपं ब्रह्मावगम्यते, अन्यत्तु सर्वज्ञत्वसत्यसङ्कल्पत्वजगत्कारणत्वसन्तिरात्मत्वसत्यकामत्वादिकं *नेतिनेति* इत्यादिभिः प्रतिषिध्यमानत्वेन मिथ्याभूतमित्यवगन्तव्यम् । तत्कथं कल्यागगुणाकरत्वनिरस्तनिखिल- दोषत्वरूपोभयलिङ्गत्वं ब्रह्मणः ? इत्यत आह- ? - तृतीयाध्याये-द्वितीयपादे-उभयलिङ्गाधिकरणम् । ३२६. प्रकाशवच्चावैयर्थात् ॥ ३।२।१५॥ यथा असत्यं ज्ञानमनन्तं ब्रह्मेत्यादिवाक्यावैयर्थ्यात्प्रकाशस्वरूपत्वं ब्रह्मणोऽभ्युपगम्यते तथा सत्यसङ्कल्पत्वसर्वज्ञत्वजगत्कारणत्वसर्वात्मकत्वनिरस्तनिखिलाविद्यादिदोषत्वाद्यभिधा- यिवाक्यावैयादुभयलिङ्गमेव ब्रह्म ॥१५॥ ३३०. आह च तन्मात्रम् ॥ ३।२। १६ ॥ किञ्च *सत्यं ज्ञानमनन्तमित्यादिवाक्यं ब्रह्मणः प्रकाशस्वरूपतालात्रं प्रतिपादयति, नान्यत्सत्यसङ्कल्पत्वादिकं वाक्यान्तरावगतं निषेधति । *नेति नेतीति च निषेधस्य विषयो- ऽनन्तरमेव वक्ष्यते ॥ १६ ॥ ३३१. दर्शयति चाथो अपि स्मयते ।।३।२। १७॥ दर्शयति च वेदान्तगणः कल्याणगुणाकरत्वं निरस्तनिखिलदोषत्वं च *तमीधराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः। न तस्य कार्य करणं च विद्यते न तत्तमश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविको ज्ञानबलक्रिया च ॥ *यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः *भीषाऽस्माद्वातः पवते, भीषोदेति सूर्यः स एको ब्रह्मण आनन्दः श्यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान्, न बिति कुतश्चनेति *निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् इत्यादि । स्मर्यते च *यो मामजमनादि च वेत्ति लोकमहेश्वरम् अविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् *मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते ॥ *उत्तमः पुरुषस्त्वन्यः परमात्मेत्यु- दाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः सर्वज्ञस्सर्वकृत्सर्वशक्तिर्ज्ञानबाद्धमान् । अन्यूनचाप्यवृद्धिश्च स्वाधीनोऽनादिमान्वशो। क्लमतन्द्रीभयक्रोधकामादिभिरसंयुतः । निरवद्यः परः प्राप्ननिरधिष्ठोऽक्षरः क्रमः इत्यादि । अतस्सर्वत्रावस्थितस्यापि ब्रह्मण उभयलिङ्गत्वात्त- तत्स्थानप्रयुक्ता दोषा न परं ब्रह्म स्पृशन्ति ॥ १७ ॥ ३३२. अत एव चोपमा सूर्यकादिवत् ॥ ३।२।१८ ॥ यतो नानाविधेषु स्थानेषु स्थितस्यापि परस्य ब्रह्मणो न तत्प्रयुक्तदोषभाक्त्वम्, अत एव जलदर्पणादिप्रतिबिम्बितसूर्यादिवत्परमात्मा तत्रतत्रावस्थितोऽपि निर्दोष इति शास्त्रपूपमा क्रियते--*आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथाऽऽत्मैको ह्यनेकस्थो जलाधारे- श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । 0.4 ष्विवांशुमान् ॥ एक एव हि भूतात्मा भूतेभूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ इत्यादिषु ॥ १८ ॥ अत्र चोदयति- - ३३३. अम्बुवदग्रहणात्तु न तथात्वम् ॥ ३ । २ । १६ ॥ - तुशब्दश्वोचं द्योतयति । अम्बुवदिति सप्तभ्यन्तात् वतिः। अम्बुदर्पणादिषु यथा सूर्यमुखादयो गृह्यन्ते; न तथा पृथिव्यादिषु स्थानेषु परमात्मा गृह्यते । अम्ब्वादिषु हि सूर्यादयो भ्रान्त्या तत्रस्था इव गृह्यन्ते, न परमार्थतस्तत्रस्थाः । इह तु *यः पृथिव्यां तिष्ठन् *योऽप्सु तिष्ठन् *य आत्मनि तिष्ठन्नित्येवमादिना परमार्थत एव परमात्मा पृथिव्यादिषु स्थिता गृह्यते । अतस्सूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गस्तत्रतत्र स्थित्यभावादेव । अतो न तथा तथात्वं-दार्टान्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थः ॥ १६ ॥ परिहरति- ३३४. वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनोच्च ॥ ३-२-२० ॥ पृथिव्यादिस्थानान्तर्भावात्स्थानिनः परस्य ब्रह्मणः स्वरूपतो गुणतश्च पृथिव्यादि- स्थानगतवृद्धिह्रासादिदोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निवर्त्यते । कथमिदमवगम्यते ? उभयसामञ्जस्यादेवम्-उभयदृष्टान्तसामञ्जस्यादेवमिति निश्चीयते । *आकाशमेकं हि यथा घटादिषु पृथग्भवेत् *जलाधरेष्विवांशुमान् इति दोषवत्स्वनेकेषु वस्तुषु वस्तुतोऽवस्थितस्या- काशस्य, वस्तुतोऽनवस्थितस्यांशुमतश्चोभयस्य दृष्टान्तस्योपादानं हि परमात्मनः पृथिव्या- दिगतदोषभाक्त्वनिवर्तनमात्रे प्रतिपाद्ये समञ्जसं भवति । घटकरकादिषु तथा वृद्धिहासभाक्षु पृथक्पृथक्संयुज्यमानमध्याकाशं वृद्धिह्रासादिदोषैर्न स्पृश्यते; यथा च जलाधारेषु विषमेषु दृश्यमानोंऽशुमान् तद्गतवृद्धिह्रासादिभिर्न स्पृश्यते; तथाऽयं परमात्मा पृथिव्यादिषु नाना- कारेश्वचेतनेषु चेतनेषु च स्थितस्तत्तद्गतवृद्धिह्रासादिदोषैरसंस्पृष्टस्सर्वत्र वर्तमानोऽप्येक एवास्पृष्टदोषगन्धः कल्याणगुणाकर एव । एतदुक्तं भवति-यथा जलादिषु वस्तुतोऽन- वस्थितस्यांशुमतो हेत्वभावाज्जलादिदोषानभिष्वङ्गः, तथा पृथिव्यादिष्ववस्थितस्यापि परमात्मनो दोषप्रत्यनीकाकारतया दोषहेत्वभावान्न दोषसंबन्ध इति । दर्शनाच्च-दृश्यते चैवं सर्वात्मना साधाभावेऽपि विवक्षितांशसाधादृष्टान्तोपादानं, सिंह इव माणवक इत्यादौ । अतः स्वभावतो निरस्तनिखिलाज्ञानादिदोषगन्धस्य समस्तकल्याणगुणाकरस्य पृथिव्यादिस्थानतोऽपि न दोषसंभवः ।। २० ॥

तृतीयाध्याये-द्वितीयपादे-उभयलिङ्गाधिकरणम् २८५ अथ स्यात्-*द्वे वाव ब्रह्मणो रूपे मूर्त चैवामूर्त चेति प्रकृत्य समस्तं स्थूलसूक्ष्म- रूपं प्रपञ्च ब्रह्मणो रूपत्वेन परामृश्य *तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासः इत्यादिना आकार विशेष चाभिधाय *अथात आदेशो नेतिनेति न ह्य तस्मादिति नेत्यन्य- परमस्ति* इति सर्व प्रकृतं ब्रह्मणः प्रकारमितिशब्देन परामृश्य तत्सर्व प्रतिषिध्य सर्व- विशेषाधिष्ठानं सन्मात्रमेव ब्रह्म; विशेषास्त्वेवंविधं स्वस्वरूपमजानता ब्रह्मणा कल्पिता इति दर्शयति; अतः कथमुभयलिङ्गत्वं ब्रह्मण इति । अत्राह- ३३५. प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।। ३-२-२१ ।। नैतदुपपद्यते-यद्ब्रह्मणः प्रकृतविशेषवत्त्वं *नेतिनेतीति प्रतिषिध्यत इति, तथा सति भ्रान्तजल्पितायमानत्वात् । न हि ब्रह्मणो विशेषणतया प्रमाणान्तराप्रज्ञातं सर्व तद्वि- शेषणत्वेनोपदिश्य पुनस्तदेवानुन्मत्तः प्रतिषेधति । यद्यपि निदिश्यमानेषु केचन पदार्थाः प्रमाणान्तरप्रसिद्धाः, तथाऽपि तेषां ब्रह्मणः प्रकारत्वमप्रज्ञातमेव; इतरेषां तु स्वरूपं ब्रह्मणः प्रकारत्वं चाज्ञातम् । अतस्तेषामनुवादासंभवादत्रैवोपदिश्यन्ते । अतस्तनिषेधो नोपपद्यते । यस्मादेवं, तस्मात्प्रकृतैतावत्त्वं ब्रह्मणः प्रतिषेधतीदं वाक्यम् । ये ब्रह्मणो विशेषाः प्रकृताः; तद्विशिष्टतया ब्रह्मणः प्रतीयमानेयत्ता *नेतिनेतीति प्रतिषिध्यते । नेतिनेति-नैवं नैवम्, उक्तप्रकारमात्रविशिष्ट न भवति ब्रह्म; उक्तप्रकारविशिष्टतया या ब्रह्मण इयत्ता प्रकृता; साऽत्र इतिशब्देन परामृश्यत इत्यर्थः । यतश्च निषेधानन्तरं ब्रह्मणो भूयो गुणजातं ब्रवीति, अतश्च प्रकृतविशेषणयोगित्वमात्रं ब्रह्मणः प्रतिषेधति । ब्रवीति हि भूयो गुणजातं-*न ह्य तस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्* इति । अयमर्थः-इति नेति यद्ब्रह्म प्रतिपादितम्, तस्मादेतस्मादन्यद्वस्तु परं न ह्यस्ति; ब्रह्मणोऽन्यत् स्वरूपतो गुणतश्चोत्कृष्ट नास्तीत्यर्थः । तस्य च ब्रह्मणः सत्यस्य सत्यमिति नामधेयम् । तस्य च निर्वचनं *प्राणा वै सत्यं तेषामेष सत्यमिति । प्राणशब्देन प्राणसाह- चर्याज्जीवाः परामृश्यन्ते । ते तावत्सत्यम्, वियदादिवत्स्वरूपान्यथाभावरूपपरिणामा- भावात् । तेषामेष सत्यम्-तेभ्योऽप्येष परमपुरुषस्सत्यम् । जीवानां कर्मानुगुण्येन ज्ञानसोच- विकासौ विद्येते; परमपुरुषस्य त्वपहतपाप्मनस्तौ न विद्यते; अतस्तेभ्योऽप्येष सत्यम् । अतश्च वं वाक्यशेषोदितगुणजातयोगात् *नेतिनेतोति ब्रह्मणस्सविशेषत्वं न प्रतिषिध्यते; अपि तु पूर्वप्रकृतेयत्तामात्रम् । अत उभयलिङ्गमेव परं ब्रह्म ॥२१॥ ब्रह्मणः प्रमाणान्तरागोचरत्वेन तत्संबन्धितया मूर्तामूर्तादिरूपानुवादेन तनिषेधा- संभवात्प्रकृतेयत्ताप्रतिषेध उक्तः; तदेव प्रमाणान्तरागोचरत्वं द्रढयति- २८६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ३३६. तदव्यक्तमाह हि ॥३-२-२२ ।। तत्-ब्रह्म प्रमाणान्तरेण न व्यज्यते; आह हि शास्त्र--न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् *न चक्षुषा गृह्यते नापि वाचा* इत्यादि ॥२२॥ हेत्वन्तरं चाह--- ३३७. अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ३-२-२३ ॥ अपि च संराधने--सम्यक्प्रीणने भक्तिरूपापन्न निदिध्यासन एवास्य साक्षात्कार:, नान्यत्रेति श्रुतिस्मृतिभ्यामवगम्यते । *नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू स्वाम् ॥ *ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति (ते) निष्कलं ध्यायमानः* इति श्रुतिः । स्मृतिरपि नाहं ब्रेदैर्न तपसा न दानेन न चेज्यया *भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ इति । भक्तिरूपापन्नमेवोपासनं संराधनं तस्य प्रीणनमिति पूर्वमेवोक्तम् । अतो निदिध्यासनाय ब्रह्मस्वरूपमुपदिशत् द्वे वाव ब्रह्मणः इत्यादिशास्त्र ब्रह्मणो मूर्तामूर्तरूपद्वयादिविशिष्टतां प्रागसिद्धां नानुवदितुं क्षमम् ॥२३॥ ३३८. प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ ३-२-२४ ॥ इतश्च प्रकृतैतावत्त्वमेव प्रतिषेधति; न मूर्तामूर्तादिविशिष्टत्वम्; यतस्साक्षात्कृतपर- ब्रह्मस्वरूपाणां वामदेवादीनां दर्शने प्रकाशादिवत् - ज्ञानानन्दादिस्वरूपवन्मूर्तामूर्तादिप्रपञ्च- विशिष्टताया अपि ब्रह्मगुणत्वावैशेष्यं प्रतीयते तद्धतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुर- भवं सूर्यश्च% इत्यादि । ब्रह्मस्वरूपभूतप्रकाशानन्दादिश्च तेषां वामदेवादीनां संराधनात्मके कर्मण्यभ्यासादुपलभ्यते । तद्वच्चाभ्यस्तसंराधनानां तेषां मूर्तामूर्तादिविशिष्टत्वमप्यविशेषेण प्रतीयत इत्यर्थः ॥२४॥ -- उक्तं ब्रह्मण उभयलिङ्गत्वमुपसंहरति- ३३६. अतोऽनन्तेन तथा हि लिङ्गम् ॥ ३-२-२५ ।। अत:--उक्तहेतुभिब्रह्मणः अनन्तेन कल्याणगुणगणेन विशिष्टत्वं सिद्धम् । तथा हि सत्युभयलिङ्ग ब्रह्मोपपन्न भवति ॥२५॥ इति उभयलिङ्गाधिकरणम् ।। ५ ।।

तृतीयाध्याये-द्वितीपादे- अहिकुण्डलाधिकरणम् । २८७ अथ अहिकुण्डलाधिकरणम् ।। ६ ।। ३४०. उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ ३ । २ । २६॥ मूर्तामूर्तात्मकस्य अचित्प्रपञ्चस्य ब्रह्मणो रूपत्वं *द्वे वा व ब्रह्मणो रूपे इत्यादिनो- पदिश्यते । *अथात आदेशो नेतिनेतीति मूर्तामूर्ताचिद्वस्तुरूपतया ब्रह्मण इयत्ता प्रति- षिच्यते । ॐन ह्य तस्मादिति नेत्यन्यत्परमस्तीति ब्रह्मणोऽन्यदुत्कृष्टं न ह्यस्तीति प्रति- पादितम् । तदुपपादनाय * अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् इति प्राणशब्दनिर्दिष्टेभ्यश्चेतनेभ्योऽप्येष सत्यमिति कदाचिदपि ज्ञानादिसङ्कोचाभावादुक्तम् । तथा प्रधानक्षेत्रज्ञपतिर्गुणेशः *पति विश्वस्यात्मेश्वरम् नित्यो नित्यानां चेतनश्चेतनानास इत्यादिश्रुतेश्चायमर्थोऽवगम्यते । तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानी चिन्त्यते, ब्रह्मणो निर्दोषत्वसिद्धयर्थ । किमस्याचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन, उत प्रभाप्रभावतोरि- वैकजातियोगेन, उत जीवस्येव विशेषणविशेष्यतयांशांशिभावेनेति । इह स्थाप्यमानं विशेषण- विशेष्यभावमङ्गीकृत्य प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यत्र सूक्ष्मचिदचिद्वस्तुविशिष्टाद्ब्रह्मणः स्थूलचिदचिद्वस्तुविशिष्टस्योत्पत्तिरनन्यत्वं चोक्तम् । कि युक्तम् ? अहिकुण्डलवदिति; कुतः ? उभयव्यपदेशात्-ब्रह्मवेदं सर्वम् *आत्मैवेदं सर्वमिति तादात्म्यव्यपदेशात्, *हन्ताहभिमास्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्येत्यादिभेदव्यप- देशाच्च । अहेः कुण्डलभावर्जुभाववत् तस्यैव ब्रह्मणस्संस्थानविशेषा एवाचिद्वस्तूनि ॥ २६ ॥ ३४१. प्रकाशाश्रयवद्वा तेजस्त्वात् ।। ३ । २ । २७ ॥ वाशब्दः पक्षव्यावृत्त्यर्थः; ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थाने भेदश्रुतयो ब्रह्मणोऽ- परिणामित्ववादिन्योऽपि बाधिता भवेयुः । अतो यथा तेजस्त्वेन प्रभातदाश्रययोभिन्नयोरपि तादात्म्यम्; एवमचित्प्रपञ्चस्य ब्रह्मणो रूपत्वमित्यर्थः ॥ २७ ॥ ? ३४२. पूर्ववद्वा ॥ ३।२। २८ ॥ वाशब्द: पक्षद्वयव्यावृत्त्यर्थः । एकस्यैव द्रव्यस्यावस्थाविशेषयोगेऽपि ब्रह्मस्वरूपस्यैवा- चिद्रव्यरूपत्वादुक्तदोषादनिर्मोक्षः । अथ प्रभातदाश्रययोरिवाचिद्ब्रह्मणो ब्रह्मत्वजातियोग- मात्रम्; एवं ताश्वत्वगोत्ववद्ब्रह्मापीश्वरे चिदचिद्वस्तुनोश्चानुवर्तमान सामान्यमिति सकल- श्रुतिस्मृतिव्यवहारविरोधः। पूर्ववदेव-*अंशो नानाव्यपदेशात् *प्रकादिवत्तु नैवं परः इति जीववत्पृथक्सिद्धयनहविशेषणत्वेनाचिद्वस्तुनो ब्रह्मांशत्वम् । विशिष्टवस्त्वेकदेशत्वेना- भेदव्यवहारो मुख्यः; विशेषणविशेष्ययोः स्वरूपस्वभावभेदेन भेदव्यवहारो मुख्या; ब्रह्मणो २८८ श्रीभगवद्राम नुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । निर्दोषत्वं च रक्षितम् । तदेवं प्रकाश जातिगुणशरीराणां मणिव्यक्तिगुण्यात्मनः प्रत्यपृथसिद्धि- लक्षणविशेषणत्या तथांशत्वम् तथेह जीवस्याचिद्वस्तुनश्च ब्रह्म प्रत्यंशत्वम् ॥ २८ ।। ३४३. प्रतिषेधाच्च ॥३।२।२६ ।। *स वा एष महानज आत्माऽजरोऽमरः *नास्य जरयतज्जीर्यति* इत्यादिभिः ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यत्वेनैवांशांशिभाव इत्यर्थः। अतस्सूक्ष्मचिदचिद्वस्तु- विशिष्टं कारणभूतं ब्रह्म, स्थूलचिदचिद्वस्तुविशिष्टं कार्यभूतं ब्रह्मेति कारणात्कार्यस्या- नन्यत्वम्, कारणभूतब्रह्मविज्ञानेन कार्यस्य ज्ञाततेत्यादि सर्वमुपपन्नम्; ब्रह्मणो निर्दोषत्वं च रक्षितम् । ब्रह्मणो निर्दोषत्वेन कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम् ॥ २६ ॥ इति अहिकुण्डलाधिकरणम् ।। ६ ।। अथ पराधिकरणम् ।। ७ ।। ३४४. परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥ ३ । २ । ३० ॥ इदानीमस्मात्परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्परब्रह्मणः परमपि किञ्चि- तत्वमस्तीति कश्चिद्धेत्वाभासैराशङ्कय निराक्रियते, अस्योपास्यस्य निर्दोषत्वानवधिकाति- शयासङ्घय यकल्याणगुणाकरत्वस्थेम्ने । तत्रेयमाशङ्का-यदिदं परं ब्रह्मोभयलिङ्गम्; एतस्मान्निखिलजगत्कारणात्परमपि किञ्चित्तत्त्वमस्ति । कथम् ? *अथ य आत्मा स सेतु- विधृतिः* इत्यस्य परस्य सेतुत्वव्यपदेशात्, सेतुशब्दस्य च लोके कूलान्तरप्राप्तिहेतौ प्रसिद्ध- रितोऽन्यदनेन प्राप्तव्यमस्तीति गम्यते । तथा *एतं सेतुं तीर्वाऽन्धस्सन्ननन्धो भवति* इति तरितव्यता चास्याभिधीयते, अतश्चान्यत्प्राप्यमस्ति । उन्मानव्यपदेशाच्च-उन्मितं- परिमितम् इदं परं ब्रह्म, *चतुष्पाद्ब्रह्म *षोडशकलम् इत्युन्मानव्यपदेशात् । सचाय- मुन्मानव्यपदेशस्तेन सेतुना प्राप्यस्यानुन्मितस्यास्तितां द्योतयति । तथा संबन्धव्यपदेशश्च सेतुसेतुमतोः प्रापकत्वप्राप्यत्वलक्षणो दृश्यते *अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् *अमृतस्यैष सेतुः इति । अतश्च परात्परमस्ति । भेदेन च परात्परं व्यपदिश्यते *परात्परं पुरुषमुपैति *परात्परं यन्महतो महान्तम्* इतिच । तथा अतेनेदं पूर्ण पुरुषेण सर्वम् ततो यदुतरतरं तदरूपमनामयम्' इति । अत एभ्यो हेतुभ्यः परस्माद्ब्रह्मणः परमपि किञ्चि- दस्तीति गम्यत इति ॥ ३० ॥ एवं प्राप्त ऽभिधीयते- ३४५. सामान्यात्तु ।। ३ । २। ३१ ॥ तुशब्दः पक्षं व्यावर्तयति । यत्तावदुक्तं सेतुव्यपदेशात्परात्परमस्तीति; तन्नोपपद्यते ।

तृतीयाध्याये-द्वितीयपादे-पराधिकरणम् । २८६ न ह्ययमत्र किञ्चित्प्राप्यं प्रति सेतुरुच्यते, *एषां लोकानामसंभेदायेति सेतुसामान्येन सर्व- लोकासकरकरत्वश्रुतेः । सिनोति-बध्नाति स्वस्मिन् सर्व चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुरुच्यते । एतं सेतु तीर्वेति तरतिश्च प्राप्तिवचनः । यथा *वेदान्तं तरतीति ॥३१॥ ३४६. बुद्धयर्थः पादवत् ॥ ३-२-३२॥ योऽयं *चतुष्पाद्ब्रह्म *षोडशकलम् *पादोऽस्य विश्वा भूतानीत्युन्मानव्यपदेशः; स बुद्धयर्थः-उपासनार्थः; *सत्यं ज्ञानमनन्तं ब्रह्मत्यादिभिर्जगत्कारणस्य ब्रह्मणोऽपरिच्छिन्न- त्वावगमात्स्वत उन्मितत्वासंभवात् । जगत्कारणत्वं हि तस्यैव श्रूयते-*तस्माद्वा एतस्मा- दात्मन आकाशस्संभूतः सोऽकामयत, बहु स्यां प्रजायेयेति* इति । अतो यथा *वाक्पादः प्राणः पादः चक्षुः पादो मनः पादः* इत्यादिना ब्रह्मणो वागादिपादव्यपदेश उपासनार्थः, एवमयमपि ॥३२॥ स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानसंभवः; तत्राह-- ३४७. स्थानविशेषात्प्रकाशादिवत् ॥ ३-२-३३ ॥ प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात्तत्संबन्धितयोन्मितत्वानुसन्धानं संभवति; प्रकाशाकाशादेविततस्य वातायनघटादिस्थानभेदैः परिच्छिद्यानुसन्धानसंभव इत्यर्थः ॥ ३३ ॥ ३४८. उपपत्तेश्च ॥ ३-२-३४ ॥ -- यथा यदुक्तम् *अमृतस्यैष सेतुरिति प्राप्यप्रापकसंबन्धव्यपदेशात्प्रापकात्परं प्राप्यमस्तीति; तन्न, प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वोपपत्तेः। *नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते त स्वाम् ॥ इत्यनन्योपायत्वश्रवणात् ॥ ३४ ॥ ३४६. तथाऽन्यप्रतिषेधात् ॥ ३-२-३५ ॥ यत्पुनरुक्तं ततो यदुत्तरतरं *परात्परं पुरुषम् *अक्षरात्परतः परः* इत्यादिभेदव्य- पदेशात्परात्परमस्तीति; तन्नोपपद्यते, तत्रैव ततोऽन्यस्य परस्य प्रतिषेधात्, यस्मात्परं 'नापरमस्ति किश्चिद्यस्मानाणीयो न ज्यायोऽस्ति कश्चित्* इति । यस्मादपरं परं नास्ति किश्चित् -न केनापि प्रकारेण परमस्तीत्यर्थः । तथाऽन्यत्रापि *न ह्येतस्मादिति नेत्यन्यत्पर- २६० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । मस्ति* इतिः-इति नेति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यत्परं न शस्तीत्यर्थः । तथा न तस्येशे कश्चन तस्य नाम महद्यशः इति । तद्धि जगदुपादानकारणतयाऽनन्तरमुक्तं *सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि, *स आपः प्रदुघे उभे इमे* इत्यादिना । *अद्भयस्संभूतो हिरण्य- गर्भ इत्यष्टौ इति च जगत्कारणं पुरुषमेनं प्रत्यभिज्ञापयति । ततो यदुत्तरतरनिति किमु- च्यत इति चेत्, पूर्वत्र *वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ इति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम्, नान्योऽमृतत्वस्य पन्था इत्युपदिश्य तदुपपादनाय यस्मात्परं नापर- मस्ति किश्चिद्यस्मानाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् ॥ इति पुरुषस्य परत्वं, तद्वयतिरिक्तस्य परत्वासंभवञ्च प्रतिपाद्य, *ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापि यन्ति इति पूर्वोक्तमर्थ हेतुतो निगमयति-यदुत्तरतरं पुरुषतत्त्वम्, तदेवारूपमनामयं यतः, ततो य एतत्पुरुषतत्त्वं विदुः, त एवामृता भवन्ति, अथेतरे दुःखमेवापि यन्ति-इति । अन्यथोपक्रम- विरोधोऽनन्तरोक्तिविरोधश्च । अपरात्परं पुरुषमुपैति दिव्यम् इति पूर्वत्र *अक्षरात्परतः परः* इति, अक्षरात्-अव्याकृतात् यः परः-समष्टिपुरुषः; तस्मात्परो योऽदृश्यत्वादिगुगक- स्सर्वज्ञः परमपुरुषः, स एवेहापि परात्पर इति समष्टिपुरुषात्परत्वेनोच्यते ॥ ३५ ॥ ३५०. अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३-२-३६ ॥ अनेन ब्रह्मणा, सर्वगतत्वम्-सर्वस्य जगतो व्याप्तत्वम्, आयामशब्दादिभ्यः-सर्वव्याप्ति- वाचिशब्देभ्योऽवगम्यमानमस्मात्परं नास्तीत्यवगमयति । आयामशब्दस्तावत् *तेनेदं पूर्ण पुरुषेण सर्वम् यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः ॥ *नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोनि परिपश्यन्ति धीराः । आदिशब्दात् ब्रह्मैवेदं सर्वम् *आत्मैवेदं सर्वमित्यादयो गृह्यन्ते । अत इदं परं ब्रह्म व सर्वस्मात्परम् ॥ ३६ ॥ इति पराधिकरणम् ।। ७ ।। अथ फलाधिकरणम् ।।८।। ३५१. फलमत उपपत्तेः ॥ ३-२-३७ ॥ उक्तमुपासिसिषोपजननार्थ जीवस्य सर्वावस्थासु सदोषत्वं, प्राप्यस्य च परमपुरुषस्य निर्दोषत्वं, कल्याणगुणाकरत्वं, सर्वस्मात्परत्वंच । अतः परमुपासनं विवक्षन्नुपासीनानां परस्मादेवास्मात्पुरुषात्तत्प्राप्तिरूपमपवर्गाख्यं फलमिति संप्रति ब्रूते । तुल्यन्यायतया शास्त्रीय- तृतीयाध्याये-द्वितीयपादे-फलाधिकरणम् । २६ ? मैहिकामुष्मिकमपि फलम् अत एव परस्मात्पुरुषाद्भवतीति सामान्येन फलमत इत्युच्यते । कुत एतत् ? उपपत्तेः-स एव हि सर्वज्ञस्सर्वशक्तिमहोदारो यागदानहोमादिभिरुपासनेन चाराधित ऐहिकामुष्मिकभोगजातं स्वस्वरूपावाप्तिरूपमपवर्ग च दातुमीष्टे । न ह्यचेतनं कर्म क्षणध्वंसि कालान्तरभाविफलसाधनं भवितुमर्हति ॥ ३७ ।। ३५२. श्रुतत्वाच्च ।। ३-२-३८ ।। *स वा एष महानज आत्माऽन्नादो वसुदानः एष ह्येवानन्दयाति इति भोगाप- वर्गरूपं फलमयमेव ददातीति हि श्रूयते ॥ ३८ ॥ संप्रति पूर्वपक्षमाह- ३५३. धर्म जैमिनिरत एव ॥३।२ । ३६ ।। अत एव उपपत्ते., शास्त्राच्च, यागदानहोमोपासनरूपधर्ममेव फलप्रदं जैमिनिराचार्यो मन्यते । लोके हि कृष्यादिकं मर्दनादिकं च कर्म साक्षाद्वा, परम्परया वा स्वयमेव फल- साधनं दृष्टम्; एवं वेदेऽपि यागदानहोमादीनां साक्षात्फलसाधनत्वाभावेऽपि परंपरया अपूर्व- द्वारेण फलसाधनत्वमुपपद्यते । तथा यजेत स्वर्गकामः' इत्यादिशास्त्रमपि सिषाधयिषित- स्वर्गस्य कर्तव्यतया यागाद्यभिदधदन्यथानुपपत्त्या अपूर्वद्वारेण फलसाधनत्वमवगमयति ॥३६॥ ३५४. पूर्व तु बादरायणो हेतुव्यपदेशात् ॥ ३ । २। ४० ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । पूर्वोक्तं परमपुरुषस्यैव फलप्रदत्वं भगवान्बादरायणो मन्यते। कुतः ? हेतुव्यपदेशात्- यज-देवपूजायामिति देवताराधनभूतयागाद्याराध्य- भूताग्निवाय्वादिदेवतानामेव तत्तत्फलहेतुतया तस्मिस्तस्मिन्नपि वाक्ये व्यपदेशात् । वायव्यं श्वेतमालभेत भूतकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूति गमयति* इत्यादिषु । कामिनस्सिषाधयिषितफलसाधनत्वप्रकारोपदेशोऽपि विध्यपेक्षित एवेति नातत्परत्वशङ्का युक्ता। एवमपेक्षितेऽपि फलसाधनत्वप्रकारे शब्दादेवावगते सति तत्परित्यागमश्रुतापूर्वादिपरिकल्पनं च प्रामाणिका न सहन्ते । लिङादयोऽपि देवताराधन- भूतयागादेः प्रकृत्यर्थस्य कर्तृ व्यापारमाध्यतां व्युत्पत्तिसिद्धां शब्दानुशासनानुमतामभिदधति; नान्यदलौकिकमिति प्रागेवोक्तम्, तदेवं वायुर्वै क्षेपिष्ठा देवतेत्यादिशब्दाद्वारवादीनां फल- प्रदत्वमवगम्यते । वाय्वाद्यात्मना च परमपुरुष एवाराध्यतया फलप्रदायित्वेन चावतिष्ठत इति श्रूयते इष्टापूर्त बहुधा जातं जायमानं विश्वं विति भुवनस्य नाभिः, तदेवाग्निस्त- द्वायुस्तत्सूर्यस्तदु चन्द्रमाः* इति । अन्तर्यामिब्राह्मणे च “यो वायौ तिष्ठन्यस्य वायुश्शरीरम *योऽग्नौ तिष्ठन् *य आदित्ये तिष्ठन्* इत्यादि श्रूयते । स्मर्यते च *योयो यांयां तनं भक्तः

२६२
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
श्रद्धयाऽचितुमिच्छति । तस्यतस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया
युक्तस्तस्याराधनमोहते। लभते च ततः कामान् मयैव विहितान् हि तान् ॥ इति, अहं हि
सर्वयज्ञानां भोक्ता च प्रभुरेव चेति । प्रभुरिति-फलप्रदायीत्यर्थः । *देवान् देवयजो यान्ति
मद्भता यान्ति मामपि, यान्ति मद्याजिनोऽपि माम् इति च । लोके च कृष्यादिभि-
विचित्ररूपान् द्रव्यविशेषान संपाद्य तैः राजानं भृत्यद्वारेण साक्षाद्वाऽर्चयन्ति; अचितश्च राजा
तत्तदर्चनानुगुणं फलं प्रयच्छन् दृश्यते । वेदान्तास्त्वतिपतितसकलेतरप्रमाणसंभावनाभूमि
निरस्तसमस्ताविद्यादिदोषगन्धं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं पुरुषोत्तम
प्रतिपाद्य, तदाराधनरूपाणि च यागदानहोमात्मकानि, स्तुतिनमस्कारकीर्तनार्चनध्यानानि
च तदाराधनानि, आराधितात्परस्मात्पुरुषाद्भोगापवर्गरूपं फलं च वदन्तीति सर्व
समञ्जसम् ॥ ४० ॥ इति फलाधिकरणम् ।।८।।
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य द्वितीयः पादः ॥ २ ॥
श्रीमते रामानुजाय नमः
तृतीयाध्याये-तृतीयः पाद:-सर्ववेदान्तप्रत्ययाधिकरणम् ।। १ ।।
३५५. सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ ३ । ३।१॥
उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ब्रह्मणः फलदायित्वपर्यन्तम् । इदानी ब्रह्मो-
पासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता प्रस्तुयते । प्रथमं तावदेकस्या
वैश्वानरविद्यादिकायाः अनेकशाखासु श्रूयमाणायाः किमेकविद्यात्वम्, उत विद्याभेद इति
चिन्त्यते । अविशेषपुनश्श्रवणस्य प्रकरणान्तरस्य च भेदकत्वाच्छाखान्तरे चोभयोरवर्ज-
नीयत्वाद्विद्याभेद इति प्राप्तम् । अत एव तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु
चीर्णम्” इति शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशनियम उपपद्यते । विद्युक्ये हि
विद्याङ्गस्य शिरोव्रतस्यान्येषामपि शाखिनां प्राप्त नियमो नोपपद्यते ।
एवं प्राप्त उच्यते-सर्ववेदान्तप्रत्ययमेकमुपासनमिति । कुतः ? चोदनाद्यविशेषात्-
चोदना तावत् *उपासीत *विद्यात्* इत्येवंजातीयको धात्वर्थविशेषविधिः। आदिशब्देन
*एक वा संयोगरूपचोदनाख्याविशेषात् इति कर्मकाण्डशाखान्तराधिकरणसूत्रोक्तास्संयोग-
रूपाख्या गृह्यन्ते । एषां चोदनादीनामविशेषात् सैवेयं विद्येति शाखान्तरे प्रत्यभिज्ञायते ।
तथाहि-छान्दोग्यवाजसनेयकयोः *वैश्वानरमुपास्ते* इति चोदना तावदेकरूपा; वेचैक-
निरूपणीयस्वरूपस्य विदिपर्यायस्योपासेर्वेद्यभूतवैश्वानरैक्याद्रूपमप्यविशिष्टम्; आख्या च
वैश्वानरविद्येत्यविशिष्टा । अत एभिः प्रत्यभिज्ञानाच्छाखान्तरेऽपि विद्युक्यम् ॥ १॥

तृतीयाध्याये-तृतीयपादे-सर्ववेदान्तप्रत्ययाधिकरणम् ।
२६३
यत्तूक्तमविशेषपुनश्श्रवणात्प्रकरणान्तराच्च विधेयभेदप्रतीतेन विद्य क्यमिति, तदनु-
भाष्य परिहरति-
३५६. भेदान्नेति चेदेकस्यामपि ॥ ३-३-२ ।।
अविशेषपुनश्च त्या प्रकरणान्तराच्च विधेयभेदान्न विद्य क्यमिति चेत्; एकस्यामपि
विद्यायां प्रतिपत्तुभेदात्पुनश्श्रुतिः प्रकरणान्तरं चोपपद्यते । यत्र ह्य कस्मिन् प्रतिपत्तरि
पुनश्श्रुतिः प्रकरणान्तरं च विद्यते; तत्रान्यथानुपपत्त्या विधेयभेदाद्विद्याभेदः, प्रतिपत्तृ भेदे तु
तत्प्रतिपत्त्यर्थतया पुनश्च त्याद्य पपत्तेस्तत्र न विधेयान्तरसंभवः ॥ २ ॥
इति,
यच्चोक्तं शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशनियमदर्शनाद्विद्याभेदः प्रतीयत
तत्राह-~
३५७. स्वाध्यायस्य तथात्वेहि समाचारेऽधिकाराच्च सववच्च तनियमः
॥ ३-३-३ ॥
नैतदस्ति-शिरोव्रतोपदेशनियमदर्शनं विद्याभेदं द्योतयतीति, शिरोवतस्य विद्याङ्ग-
त्वाभावात् । स्वाध्यायस्य तथात्वे हि तन्नियमः -स्वाध्यायस्य तथात्वसिद्धयर्थ-तज्जन्य-
संस्कारभाक्त्वसिद्धयर्थ हि शिरोव्रतोपदेशनियमः; न विद्यायाः । कुत एतत् ? अनैतदचीर्ण-
व्रतोऽधीयोत* इति तस्याध्यायनसंयोगात् । समाचारेऽधिकाराच्च-समाचाराख्ये ग्रन्थे
*इदमपि वेदव्रतेन व्याख्यातम् इत्यतिदेशात् । *तेषामेवैतां ब्रह्मविद्यां वदेत-वेदविद्या-
मित्यर्थः । सववच्च तन्नियमः--यथाहि सवहोमास्सप्त सूर्यादयश्शतौदनपर्यन्ता आथर्वणि-
कैकाग्निसंबन्धिनस्तत्रैव भवन्ति; न त्रेताग्निषु ॥ ३ ॥
३५८. दर्शयति च ॥ ३-३-४ ॥
दर्शयति च श्रु तिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम् । तथाहि छान्दोग्ये *तस्मिन्य-
दन्तस्तदन्वेष्टव्यम्* इत्युक्त्वा अकि तदत्र विद्यते यदन्वेष्टव्यम् इति प्रश्नपूर्वकम् अपहतपाप्म-
त्वादिगुणाष्टकविशिष्टः परमात्मा तस्मिन्नुपास्य इत्युक्तम् । तैत्तिरीयके तु च्छान्दोग्यस्थं
प्रतिनिदशमुपजीव्य *तत्रापि दह गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् इति गुणा-
ष्टकविशिष्टस्य परमात्मन उपासनमुच्यते । तदुभयत्र विद्य कत्वेन गुणोपसंहारादेवोप
पद्यते ॥४॥

२६४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । तदेवं शाखान्तराधिकरणन्यायसिद्धं विध क्यं स्थिरीकृत्य तत्प्रयोजनमाह- ३५६. उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ३-३-५ एवं सर्ववेदान्तेषु समाने सत्युपासने वेदान्तान्तराम्नातानां गुणानां वेदान्तान्तर उपसंहारः कर्तव्यः; कुतः ? विधिशेषवदर्थाभेदात्-यथैकस्मिन्वेदान्ते श्रु तो वैवान रदहरादि- विधिशेषो गुणस्तद्विद्यासंबन्धात्तदुपकाररूपप्रयोजनसिद्धयर्थमनुष्ठीयते; तथा वेदान्तान्तरोदि- तोऽपि तद्विद्यासंबन्धित्वेन तदुपकाराविशेषादुपसंहर्तव्य इत्यर्थः। चशब्दोऽवधारणे ॥ ५ ॥ इति सर्ववेदान्तप्रत्ययाधिकरणम् ।। १ ।। अथ अन्यथात्वाधिकरणम् ।। २ ।। ३६०. अन्यथात्वं शब्दादिति चेन्नाविशेषात् ।। ३-३-६ ।। एवं चोदनाद्यविशेषाद्विद्य कत्वम्, एकत्वे च गुणोपसंहारः कर्तव्य इत्युक्तम् । अतः परं काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति, नेति निरूप्य निर्णीयते । अस्त्युद्गीथविद्या वाजिनां छन्दोगानां च । वाजिनां तावत् द्वया ह प्राजापत्या देवाश्चा- सुराच* इत्यारभ्य *ते ह देवा ऊचुः हन्तासुरान्यज्ञ उद्गीथेनात्ययाम* इत्युद्गीथेनासुर- विध्वंसनं प्रतिज्ञायोद्गीथे वागादिमनःपर्यन्तदृष्टौ असुरैरभिभवमुक्त्वा *अथ हेममासन्यं प्राणमूचुः* इत्यादिना उद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा *भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद* इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिविहिता। एवं छन्दो- गानामपि देवासुरा ह वै यत्र संयेतिरे* इत्यारभ्य *तद्ध देवा उद्गीथमाजह रनेनैनान- भिहनिष्यामः* इत्युद्गीथेनासुरपराभवं प्रतिज्ञाय तद्वदेवोद्गीथे वागादिदृष्टौ दोषमभिधाय *अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे* इत्यादिना उद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा यथाऽश्मानमाखणमृत्वा विध्वंसते एवं हैव स विध्वंसते य एवंविदि पापं कामयते इति शत्रुपराभवाय उद्गीथे प्राणदृष्टिविहिता। वेदनविषयविधिप्रत्यया- श्रवणेऽपि फलसाधनत्वश्रवणाद्वेदनविषयो विधिः कल्प्यते। उद्गीथविद्यायाः क्रत्वर्थत्वेन क्रतुसाद्गुण्यफलत्वेऽप्यार्थवादिकमपि फलं तदविरुद्धं ग्राह्यमेवेति देवताधिकरणे प्रति- पादितम् ॥ तत्र संशय्यते-किमत्र विद्य क्यम्, उत नेति । कि युक्तम् ? विद्येक्यमिति । उभयत्रोद्गीथस्यैवाध्यस्तप्राणभावस्योपास्यत्वश्रवणाच्चोदनाद्यविशेषात् । फलसंयोगस्ताव- च्छत्रुपरिभवरूपो न विशिष्यते । रूपमप्यध्यस्तप्राणभावोद्गीथाख्योपास्यैक्यादविशिष्टम् । चोदना च विदिधात्वर्थगता अविशिष्टा । आख्या चोद्गीथविद्येत्यविशिष्टा । अत्र राद्धान्ति- ?

तृतीयाध्याये-तृतीयपादे--अन्यथात्वाधिकरणम् । २६५ च्छायया परिचोद्य परिहरति-अन्यथात्वं शब्दादिति चेन्नाविशेषादिति । यदुक्तं विद्य क्य- मिति, तन्नोपपद्यते, रूपभेदात्; रूपान्यथात्वं हि शब्दादेव प्रतीयते । वाजसनेयके हि *अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उद्गायत्* इत्युद्गानस्य कर्तरि प्राणदृष्टयाऽसुरपराभवमुक्त्वा *य एवं वेद* इति कर्तर्येव प्राणदृष्टिरेवंशब्दादव- गम्यते । छान्दोग्ये *अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे* इत्युद्गानस्य कर्मण्युद्गीथे प्राणदृष्टया असुरपराभवमुक्त्वा *य एवंविदि पापं कामयते* इत्येवंशब्दा- त्कर्मण्येवोद्गीथे प्राणदृष्टिविहिता । अत एकत्र कर्तरि प्राणदृष्टिशब्दादन्यत्र कर्मणि प्राणदृष्टि- शब्दाच्च रूपान्यथात्वं स्पष्टम् । रूपान्यथात्वे च विधेयभेदे सति केवलचोदनाद्यविशेषोऽ- किञ्चित्कर इति विद्याभेद इति चेत् तन्न, अविशेषात्-अविशेषेण ह्य भयत्र उद्गीथसाधन- कपरपरिभव उपक्रमे प्रतीयते; वाजसनेयके अते ह देवा उचुहन्तासुरान्यज्ञ उद्गीथेनात्ययाम* इत्युपक्रने श्रूयते; छान्दोग्येऽपि तद्ध देवा उद्गीथमाजह रनेनैनानभिहनिष्यामः इति । अत उपक्रमाविरोधाय तेभ्य एष प्राण उद्गायत्* इत्यध्यस्तप्राणभाव उद्गीथ उद्गान- कर्मभूत एव पाकादिष्वोदनादिवत्सौकर्यातिशयविवक्षया कर्तृत्वेनोच्यते; अन्यथोपक्रमगत उद्गीथशब्दः कर्तरि लाक्षणिकः स्यात् । अतो विद्यैक्यम् ॥ ६ ॥ इति प्राप्त प्रचक्ष्महे-- ३६१. न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ।।३।३ । ७ ॥ नवेति पक्षं व्यावर्तयति; नचैतदस्ति, यद्विद्य क्यमिति । कुतः ? प्रकरणभेदात् *ओमित्येतदक्षरमुद्गीथमुपासीत* इति प्रकृतमुद्गीथावयवं प्रणवं प्रस्तुत्य *एतस्य वा अक्षरस्योपव्याख्यानं भवति *देवासुरा हवै यत्र संयेतिरे* इत्यारभ्य, *अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे* इत्युद्गीथावयवभूतप्रणवमुपासनं छन्दोगा अधीयते । वाजिनस्तु तादृशप्राचीनप्रकरणाभावात् हन्तासुरान्यज्ञ उद्गीथेनात्ययाम* इति कृत्स्न- मुद्गीथं प्रस्तुत्य *अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गाय* इत्यादिकृस्नोद्गीथविषय- मधीयते। अतः प्रकरणभेदेन विधेयभेदः, विधेयभेदे च रूपभेद इति न विद्य क्यम् । किञ्च *अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाश्चक्रिरे* इति पूर्वप्रकृत उद्गीथावयवभूतः प्रणव एवाध्यस्तप्राणभावश्छन्दोगानामुपास्यः । वाजिनां तु कृत्स्नस्योद्गीथस्य कर्तोद्गाता प्राणदृष्टयोपास्य इति; *अथ हेनमासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उद्गायत्* इत्युद्गातरि प्राणाध्यासं निदिश्य *य एवं वेद* इत्युद्गातैवाध्यस्तप्राणभाव उपास्यो विधीयते। अतश्च रूपभेदः । नचोद्गातर्युपास्ये विहिते *उद्गीथेनात्ययाम* इत्याख्यायिकोपक्रमविरोधशङ्कनीयः; उद्गातुरुपासने. उद्गीथस्योद्गानकर्मभूतस्यावश्या- २६६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । Y पेक्षितत्वात्तस्यापि परपरिभवाख्यं फलं प्रति हेतुत्वात् । अतो रूपभेदाद्विद्याभेद इति चोदनाद्य- विशेषेऽपि न विद्येक्यम् । परोवरीयस्त्वादिवत्-यथैकस्यामपि शाखायामुद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मयपुरुषदृष्टिविधानात् परोवरीयत्वादिगुणविशिष्ट- दृष्टिविधानमर्थान्तरभूतम् ॥ ७ ॥ ३६२. संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ३ । ३ । ८ ॥ उद्गीथविद्येति संजैक्यात् तत्-विध क्यमुक्तं चेत् तत्-संजैक्यं विधेयभेदेऽप्यस्त्येव । यथा अग्निहोत्रसंज्ञा नित्याग्निहोत्रे, कुण्डपायिनामयनाग्निहोत्रे च; यथा चोद्गीथविद्यति छान्दोग्ये प्रथमप्रपाठकोदितासु बह्वीषु विद्यासु ॥ ८ ॥ ३६३. व्याप्तेश्च समञ्जसम् ॥ ३ । ३ । ६ ॥ छान्दोग्ये प्रथमप्रपाठके उत्तरास्वपि विद्यासुद्गीथावयवस्य प्रणवस्य प्रथमप्रस्तुतस्यो- पास्यत्वेन व्याप्तेश्च तन्मध्यगतस्य *तद्ध देवा उद्गीथमाजह्न :* इत्युद्गीथशब्दस्य प्रणव- विषयत्वमेव समञ्जसम् । अवयवे च समुदायशब्दः पटो दग्ध इत्यादिषु दृश्यते । अतश्चोद्- गोथावयवभूतः प्रणव एवोद्गीथशब्दनिर्दिष्ट इति स एव प्राणदृष्टयोपास्यश्छान्दोग्ये प्रति- पत्तव्यः । वाजसनेयके तु कृत्स्नोद्गीथविषय उद्गीथशब्द इति कृत्स्नोद्गीथस्य कर्तोद्गाता प्राणदृष्टयोपास्य इति विद्यानानात्वं सिद्धम् ॥ ६ ॥ इति अन्यथात्वाधिकरणम् ॥ २ ॥ अथ सर्वाभेदाधिकरणम् ।। ३ ।। ३६४. सर्वाभदादन्यत्रेमे ॥ ३। ३ । १० ॥ छान्दोग्यवाजसनेयकयोः प्राणविद्या आम्नायते यो ह वै ज्येष्ठ च श्रेष्ठ च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो हवा व ज्येष्ठश्च श्रेष्ठश्च% इत्यादि । तत्र ज्यैष्ठ्यश्रेष्ठयगुणकं प्राणमुपास्यं प्रतिपाद्य वाक्चश्रुश्श्रोत्रमनस्सु वसिष्ठत्वप्रतिष्ठात्वसंपत्त्यायतनत्वाख्यान् गुणान् प्रतिपाद्य वागादीनां देहस्य च प्राणायत्तस्थितित्वेन तदायत्ततत्तत्कार्यत्वेन च प्राणस्य श्रैष्ठ्यं प्रतिपाद्य वागादिसंबन्धितया श्रुतान्वसिष्ठत्वादोन गुणांश्च प्राणसंबन्धितया प्रतिपादयति । एवं छान्दोग्यवाजसनेयकयोज्येष्ठयत्रैष्ठ्यगुणको वसिष्ठत्वादिगुणकश्च प्राण उपास्यः प्रति- पाद्यते । कौषीतकिनां तु प्राणविद्यायां तथैव ज्यैष्ठ्यश्रेष्ठ्यगुणकः प्राण उपास्यः प्रतिपादितः; न पुनर्वसिष्ठत्वादयो वागादिसंबन्धिनो गुणाः प्राणसंबन्धितया प्रति- पादिताः। तत्र संशयः-किमत्र विद्या भिद्यते, उत नेति । कि युक्तम् ? भिद्यत इति ।

तृतीयाध्याये-तृतीयपादे-आनन्दाद्यधिकरणम् ।
२६७
?
कुतः ? रूपभेदात् । यद्यप्युभयत्र प्राण एव ज्यैष्ठ्यश्रेष्ठयगुणक उपास्यः, तथाप्येकत्र वसिष्टत्वा-
दिभिरपि गुणैर्युक्तः प्राण उपास्यः प्रतीयते, इतरत्र तु तद्विधुर इत्युपास्यरूपभेदाद्विद्याभेदः ।।
इति प्राप्त ब्रूमः-सर्वाभदादन्यत्रेमे । नात्र विद्याभेदः, अन्यत्र कौषीतकिनां प्राण-
विद्यायामपि इमे-वसिष्ठत्वादयो गुणा उपास्यास्सन्ति । कुतः ? सर्वानदात्-प्रतिज्ञातप्राण-
ज्यैष्ठ्यश्रीष्ठयोपपादनप्रकारस्य सर्वस्य तत्राप्यभेदात् । तथाहि-छन्दोगवाजसनेयिनां प्राण-
विद्यायाम् *एता ह वै देवता अहंश्रयसि व्यूदिरे *अहंश्रेयसे विवदमानाः इति चोपक्रम्य
वागाद्यकैकापक्रमणे अन्येषां सप्राणानामिन्द्रियाणां शरीरस्य च स्थिति तत्तत्कार्यं चाविकलं
प्रतिपाद्य, प्राणोत्क्रमणे सर्वेषां विशरणमकार्यकरत्वं चाभिधाय, सर्वेषां प्राणाधीनस्थितित्व-
तदधीनकार्यत्वाभ्यां प्रारणस्य ज्येष्ठयमुपपादितम् । एवमुपपादितं वागादिकार्यस्य प्राणाधीन-
त्वम् *अथ हैनं वागुवाच यदहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसि इत्यादिना वगादिभिर-
नद्यते । कौषीतकिनां प्राणविद्यायामपि प्राणज्यैष्ठ्यश्रेष्ठ्यप्रतिपादनाय वागादिषु वसिष्ठ-
स्वादयः प्रतिपादिताः। *अथ हेमा देवताः प्रजापति पितरमेत्याब्रु वन को वै नः श्रेष्ठः*
इत्यादिना वागादिगता गुरणा वागादयश्च देहश्च प्राणाधीना इति प्राणस्य ज्येष्ठयमुपपादि-
तम् । वागादिभिः स्वस्वगुणानां वसिष्ठत्वादीनां प्राणाधीनत्वानुवादमात्रं तु न कृतम् ।
नैतावता रूपभेदः, वागादीनां वसिष्ठत्वादिगुणान्वितानां प्राणाधीनकार्यत्वोपपादनेनैव
प्रारणस्य वागादिवसिष्ठत्वादिगुणहेतुत्वस्य सिद्धत्वात् । तदेव हि प्रारणस्य वसिष्ठत्वादि-
गुरणयोगित्वम्, यद्वागादिवसिष्ठत्वादिहेतुत्वम् । अतोऽत्रापि वसिष्ठत्वादिगुरणयोगात्प्राणो
ज्येष्ठः प्रतिपन्न इति नास्ति विद्याभेदः ॥ १० ॥ इति सर्वाभेदाधिकरणम् ।। ३ ।।
अथ आनन्दाद्यधिकरणम् ।। ४ ।।
प्राण विद्याङ्गविषयमन्यदपि निरूपणमनन्तरमेव करिष्यते । यथा प्राणस्य वसिष्ठ-
स्वाद्यनुसन्धानेन विना ज्यैष्ठ्यश्रेष्ठ्यानुसन्धानानुपपत्तेरनुक्तानामपि वसिष्ठत्वादीनां कौषीत-
किप्राण विद्यायां प्राप्तिः; तथा ब्रह्मस्वरूपानुसन्धानं यैर्गुणविना नोपपद्यते, ते ब्रह्मविद्यासु
सर्वास्वप्यनुसन्धेया इत्ययमर्थः प्रतिपाद्यते
-
३६५. आनन्दादयः प्रधानस्य ॥ ३-३-११॥
अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति, नेति विचार्यते । अप्रकरणा-
धीतानामुपसंहारे प्रमाणाभावात्प्रकरणश्रुतानामेवोपसंहार इत्येवं प्राप्ने ब्रूमः-आनन्दादयः
प्रधानस्य । अदादिति वर्तते। प्रधानस्य गुणिनो ब्रह्मणस्सर्वेधूपासनेष्वभेदात्, गुण्यपृथ-
ग्भावाद्गुणानां, सर्वत्रानन्दादयस्तद्गुणा उपसंहर्तव्याः ॥ ११ ॥

२६८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । एवं तहि गुग्यपृथग्भावादेवानन्दादिवस्त्रियशिरस्त्वादयोऽपि तस्य प्रियमेव शिरः* इत्यादौ ब्रह्मगुणत्वेन श्रु तास्सर्वत्र प्रसज्येरन्; नेत्याह- ३६६. प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ ३-३-१२ ॥ ब्रह्मस्वरूपगुणानां प्राप्तावुच्यमानायां प्रियशिरस्त्वादीनामप्राप्तिः, तेषामब्रह्मगुणत्वात्; ब्रह्मणः पुरुषविधत्वरूपणमात्रान्तर्गतत्वात्प्रियशिरस्त्वादीनाम् । अन्यथा शिरःपक्षपुच्छाद्य- वयवभेदे सति ब्रह्मणोऽप्युपचयापचयौ प्रसज्येयातान् । तथा च सति *सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि विरुध्यते ॥ १२ ॥ नन्वेवमेव ब्रह्मसंबन्धिनामेवैश्वर्यगाम्भीयौदार्यकारुण्यादीनां गुणानामनन्तानां गुण्य- पृथक्स्थितत्वमात्रेण तत्राश्रु तानामप्युपसंहारे सर्वे सर्वत्र प्रसज्ये रन्, आनन्त्यादुपसंहारा- शक्तिश्च; तत्राह--- ३६७. इतरे त्वर्थसामान्यात् ॥ ३-३-१३ ॥ तुशब्दश्वोद्यं व्यावर्तयति । इतरेतु-आनन्दादयः अर्थसामान्यात्सर्वत्रानुवर्तन्ते । ये स्वर्थसमानाः-अर्थस्वरूपनिरूपणधर्मत्वेनार्थप्रतीत्यनुबन्धिनः; तेऽर्थस्वरूपवत्सर्वत्रानुवर्तन्ते । ते च गुणास्सत्यज्ञानानन्दामलत्वानन्तत्वानि । *यतो वा इमानीत्यादिना जगत्कारणतयोप- लक्षितं ब्रह्म *सत्यं ज्ञानमनन्तं ब्रह्म *आनन्दो ब्रह्मेत्यानन्दादिर्भािह स्वरूपतो निरूप्यते । अत उपास्यब्रह्मस्वरूपावगमाय सर्वासु विद्यास्वानन्दादयोऽनुवर्तन्ते । ये तु निरूपित्तस्वरूपस्य ब्रह्मणः कारुण्यादयो गुणाः प्रतिपन्नाः; तेषां गुण्यपृथस्थितत्वेऽपि प्रतीत्यनुबन्धित्वाभावात्, ये यत्र श्रु ताः, ते तत्रोपसंहार्या इति निरवद्यम् ॥ १३ ॥ यापचयापचयप्रसङ्गात्प्रियशिरस्त्वादयो ब्रह्मणः पुरुषविधत्वरूपणमात्रार्थाः, न तु ब्रह्मगुणाः; त_तथारूपस्य ब्रह्मणस्तथात्वेन रूपरणं किमर्थं क्रियते ? अतथाभूतस्य हि तथात्वरूपणे केनचित्प्रयोजनेन भवितव्यम्; यथा *आत्मानं रथिनं विद्धि* इत्यादिनोपास- कस्य तदुपकरणानां च रथिरथादित्वरूपणम् उपासनोपकरणभूतशरीरेन्द्रियादिवशीकरणार्थ क्रियत इत्युक्तम् । नचेह तथाविधं किञ्चित्प्रयोजनं दृश्यत इति बलाद्ब्रह्मगुरणत्वं प्रियशिर- स्त्वादीनामभ्युपेत्यम् । तत्राह- ३६८. आध्यानाय प्रयोजनाभावात् ॥ ३-३-१४ ॥ प्रयोजनान्तराभावादाध्यानायायं रूपणोपदेशः क्रियते । आध्यानम् अनुचिन्तनम्, उपासनमुच्यते । *ब्रह्मविदाप्नोति परमित्यत्रोपदिष्टाध्यानरूपवेदनसिद्धये ह्यानन्दमयब्रह्म- तृतीयाध्याये-तृतीपादे- आनन्दाद्यधिकरणम् । २६४ प्रतिपत्त्यर्थमानन्दमयं ब्रह्म प्रियमोदादिरूपेण विभज्य शिरःपक्षादित्वेन रूपयित्वोपदिश्यते । यथाऽन्नमयः पुरुषः अयं देहः शिरःपक्षादिभिः *तस्येदमेव शिरः* इत्यादिना बुद्धावारोप्यते; यथा च प्राणमयमनोमयविज्ञानमयाः *तस्य प्राण एव शिरः* इत्यादिना प्राणाद्यवय- वैर्बुद्धावारोप्याते; एवमेभ्योऽर्थान्तरभूतस्तदन्तरात्मा आनन्दमयोऽपि प्रियभोदादिभिरेकदेशः शिरःप्रभृतित्वेन रूपितैराध्यानाय बुद्धावारोप्यते । एवमानन्दमयोपलक्षणत्वात्प्रियशिरस्त्या- दीनां न सर्वदा आनन्दमयप्रतीतावनुवर्तन्ते ॥ १४ ॥ ३६६. आत्मशब्दाच्च ।।३।३ । १५ ।। - *अन्योऽन्तर आत्माऽऽनन्दमयः' इत्यात्मशब्देन निर्देशादात्मनश्च शिरःपक्षपुच्छा- संभवात्प्रियशिरस्त्वादयस्तस्य सुखप्रतिपत्त्यर्थ रूपणमात्रमिति गम्यते ॥ १५॥ ननु *अन्योऽन्तर आत्मा प्राणमयः *अन्योऽन्तर आत्मा मनोमयः* इत्यात्नशब्द. स्यानात्मस्वपि पूर्व प्रयुक्तत्वात् *अन्योऽन्तर आत्माऽऽनन्दमय इत्यात्मशब्दस्य परमात्म- विषयत्वं कथं निश्चीयते ? तत्राह- ३७०. आत्मगृहीतिरितरवदुत्तरात् ॥ ३ । ३। १६ ॥ *अन्योऽन्तर आत्माऽऽनन्दमय इत्यत्रात्मशब्देन परमात्मन एव ग्रहणम्; इतरवत्-- यथेतरत्र *आत्मा वा इदमेक एवाग्र आसीत्, स ईक्षत लोकान्नु सृजै% इत्यादिष्वात्मशब्देन परमात्मन एव ग्रहणम्; तद्वत् । कुत एतत् उत्तरात्- *सोऽकामयत, बहु स्यां प्रजायेये- त्यानन्दमयविषयादुत्तराद्वाक्यात् ॥ १६ ॥ ३७१. अन्वयादिति चेत्स्यायवधारणात् ॥ ३ । ३ । १७ ॥ पूर्वत्र प्राणमयादिप्वनात्मस्वात्मशब्दान्वयदर्शनान्नोत्तरान्निश्चेतुं शक्यत इति चेत्; स्यादवधारणात्-स्यादेव निश्चयः; कुतः ? अवधारणात्-पूर्वत्रापि तस्माद्वा एतस्मादात्मन आकाशस्संभूतः* इति परमात्मन एव बुद्धयाऽवधारितत्वात् अन्नमयादन्तरे प्राणमये प्रथम परमात्मबुद्धिरवतीर्णा; तदनन्तरं च प्राणमयादन्तरे मनोमये; ततो विज्ञानमये; तत आनन्दमये प्रक्रान्ता परमात्मबुद्धिस्तदन्तराभावादुत्तराच्च *सोऽकामयतेति वाक्यात्प्रति- ष्ठितेत्युपक्रमेऽप्यपरमात्मनि परमात्मबुद्धया आत्मशब्दान्वयः इति निरवद्यम् ॥ १७ ॥ इति आनन्दाद्यधिकरणम् ।। ४ ।। ?

३०० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ कार्याख्यानाधिकरणम् ।। ५ ।। ३७२. कार्याख्यानादपूर्वम् ॥ ३ । ३ । १८ ।। पूर्वप्रस्तुतप्राणविद्याशेषभूतमिदानी चिन्त्यते । छान्दोग्यवाजसनेयकयोः ज्येष्ठ च श्रेष्ठं च प्राणमुपास्यमुक्त्वा प्राणस्य वासस्त्वेनापोऽभिधीयन्ते । छान्दोग्ये तावत् *स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो भवति इति । वाजसनेयके अकि मे वास:* इति प्राणेन पृष्टा वागादयः ऊचुः *आपो वास इति तद्विद्वांसश्श्रोत्रिया अशिष्यन्त आचामन्त्य- शित्वा चाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते *तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते* इति । तत्र संशयः-किमत्राचमनं विधीयते, उतापां प्राणवासस्त्वानुसन्धानमिति । *अशिष्यन्नाचामेदशित्वा चाचामेदित्याचमने विधिप्रत्यय- श्रवणात्, *एतमेव तदनमनग्नं कुरुत इति वेदने विधिप्रत्ययाभावादनग्नतासङ्कीर्तनस्य स्तुत्यर्थतयाऽन्वयोपपत्तेश्च, भोजनाङ्गस्याचमनस्य स्मृत्याचारप्राप्तत्वेन विधिप्रत्ययबलात्प्राण- विद्याङ्गमाचमनान्तरं विधीयते । इति प्राप्त ब्रूमः --आचमनीयानामपां प्राणस्य वासस्त्वानुसन्धानमेवेह अपूर्वम्- अप्राप्त विधीयते, कार्याख्यानात्-अप्राप्ताख्यानात्; अप्राप्ताख्याने शब्दस्यार्थवत्त्वादित्यर्थः । एतदुक्तं भवति- *किं मे वासः *आपो वासः *अद्भिः परिदधति *एतमेव तदनमनग्नं कुरुते* इत्युपक्रमोपसंहारयोर्वाक्यस्यापां प्राणवासोदृष्टिपरत्वप्रतीतेराचमनस्य स्मृत्याचार- प्राप्तत्वादाचमनमनद्याचमनीयास्वप्सु प्राणवासोदृष्टितरत्वप्रतीतेराचमनस्य स्मृत्याचारप्राप्तत्वा- दाचमनमनद्याचमनीयास्वप्सु प्राणवासस्त्वानुसन्धान विधीयत इति । अत एव च्छान्दोग्ये *तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति* इत्यद्भिः परिधानमेवोक्तम् नाचमनम् ॥ १८ ॥ इति कार्याख्यानाधिकरणम् ।। ५ ।। - अथ समानाधिकरणम् ॥ ६ ॥ ३७३. समान एवं चाभेदात् ॥३।३। १६॥ वाजसनेयके अग्निरहस्ये शाण्डिल्यविद्याऽऽम्नाता *सत्यं ब्रह्मत्युपासीत अथ खलु क्रतुमयोऽयं पुरुषः* इत्यारभ्य *स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्प- माकाशात्मानमिति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽम्नायते *मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्ह दये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी तृतीयाध्याये-तृतीयपादे-संबन्धाधिकरणम् । ३०१ सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति यदिदं किञ्चति । तत्र संशयः-किमत्र विद्या भिद्यते, उत नेति । संयोगचोदनाख्यानामविशेषेऽपि वशित्वाद्युपास्यगुणभेदेन रूपभेदाद्विद्याभेद इति प्राप्त उच्यते-समान एवमिति । यथाऽग्निरहस्ये मनोमयप्राणशरोरभारूपसत्यसङ्कल्पत्व- गुणगणः श्रुतः; एवं बृहदारण्यकेऽपि मनोमयत्वादिके समाने सत्यधिकस्य वशित्वादेश्च सत्य- सङ्कल्पत्वगुणाभेदान्न रूपरे.दः; अतो विद्यै क्यम् ॥ १६ ॥ इति समानाधिकरणम् ॥ ६ ॥ अथ संबन्धाधिकरणम् ।। ७ ।। ३७४. संबन्धादेवमन्यत्रापि ॥ ३-३-२० ॥ - बृहदारण्यके श्रूयते---*सत्यं ब्रह्मेत्युपक्रम्य *तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन्* इत्युपक्रम्य आदित्यमण्डलेऽक्षणि च सत्यस्य ब्रह्मणो व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा तस्योपनिषदहरित्यधिदैवतम् तस्योपनिषद- हमित्यध्यात्मम् इति द्वे उपनिषदौ रहस्यनामनी उपासनशेषतयाम्नायेते । ते कि यथाश्रुत- स्थानविशेषनियतत्वेन व्यवस्थिते, उतोभयत्रोभे अनियमेनेति संशये, सत्यस्य व्याहृतिशरीर- स्यैवोपास्यस्य ब्रह्मणो द्वयोः स्थानयोस्संबन्धादुपास्यैक्येन रूपाभेदात्संयोगाद्यभेदाच्च विद्य- क्यादनियमेनेति प्राप्तम् । तदिदमुच्यते संबन्धादेवमन्यत्रापीति । यथा मनोमयत्वादिगुण- विशिष्टस्यैकत्वादुपास्यैक्येन रूपाभेदाद्विद्यै क्याद्गुणोपसंहारः; एवमन्यत्राक्ष्यादित्यसंबन्धिनो ब्रह्मणस्सत्यस्यैकत्वेन विद्युक्यादुभयोरुभयत्रोपसंहारः ॥ २० ॥ इत्येवं प्राप्त प्रचक्ष्महे- ३७५. न वा विशेषात् ॥ ३-३-२१ ।। न वैतदस्ति यद्विद्यैक्यादुपसंहार इति । कुतः ? विशेषात्-उपास्यरूपविशेषात् । ब्रह्मण एकत्वेऽप्येकत्रादित्यमण्डलस्थतया उपास्यत्वम्, इतरत्राक्ष्याधारतयोपास्यत्वमिति स्थानसंबन्धित्वभेदेन रूपभेदाद्विद्याभेदः । नैवं शाण्डिल्यविद्यायाः उपास्यस्थानं भिद्यते, उभयत्र हृदयाधारत्वेनोपास्यत्वात् । अतो व्यवस्थिते इति ॥ २१ ॥ ३७६. दर्शयति च ॥ ३-३-२२ ।। दर्शयति चाक्ष्याधारादित्याधारयोर्गुणानुपसंहारं *तस्यैतस्य तदेव रूपं यदमुष्य रूपम्* इत्यादिना रूपाधतिदेशेन । स्वतो ह्यप्राप्तावतिदेशेन प्राप्त्यपेक्षा ॥ २२ ॥ इति सम्बन्धाधिकरणम् ।। ७ ।।

३०२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ सम्भृत्यधिकरणम् ।। ८॥ ३७७. संभृतिधुव्याप्त्यपि चातः ॥ ३-३-२३ ॥ तैत्तिरीयके राणायनीयानां खिलेषु च ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठ दिवमाततान । ब्रह्म भूतानां प्रथमोऽत जज्ञे तेनार्हति ब्रह्मणा स्पधितुं कः ॥ इति ब्रह्मणि ज्येष्ठानां वीर्याणां संभृतिः, धुव्याप्तिश्चेत्यादिगुणजातमाम्नातम् । तेषामुपासनविशेषमना- रभ्याधीतानां गुणानां सर्वासु विद्यासूपसंहारे प्राप्त उच्यते । संभृतिद्य व्याप्त्यपीति । संभृति- घु व्याप्तीति समाहारद्वन्द्वत्वादेकवद्भावः । संभृत्यादिकमनारभ्याधीतमपि अत एव स्थान- भेदान्द्यवस्थाप्यम्; न सर्वत्रोपसंहर्तव्यम् । कथमनारभ्याधीतानां स्थानविशेषनियतत्वम् स्वसामर्थ्यादिति बमः। धु व्याप्तिस्तावद्धृदयाद्यल्पस्थानगोचरासु विद्यासु नोपसंहर्तुं शक्या; संभृत्यादयोऽपि तत्सहचारिणस्तत्तुल्यदेशा इत्यल्पस्थानविषयासु विद्यास्वनुपसंहार्याः । शाण्डिल्यदहरादिविद्यास्वल्पस्थानविषयासु ज्यायान् पृथिव्याः *यावान्वा अयमाकाशस्ता- वानेषोऽन्तर्ह दय आकाशः* इत्यादयस्तत्रतत्राशक्योपसंहाराः मनोमयत्वापहतपाप्मत्वादि- विशिष्टस्योपास्यस्य माहात्म्यप्रतिपादनपराः ॥ २३ ॥ इति संभृत्यधिकरणम् ।। ८ ।। अथ पुरुषविद्याधिकरणम् ।। ६ ।। ३७८. पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ३-३-२४ ॥ तैत्तिरीयके पुरुषविद्याऽऽम्नायते *तस्यैवं विदुषो यज्ञस्यात्मा यजमानश्श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बहिः' इत्यादिका। छान्दोग्येऽपि पुरुषविद्याऽऽम्नायते *पुरुषो वाव यज्ञस्तस्य यानि चतुर्विशतिवर्षाणि* इत्यादिका। तत्र संशयः-किमत्र विद्या भिद्यते, उत नेति । पुरुषविद्यति नामैक्यात्पुरुषावयवेषु यज्ञावयवकल्पनसाम्येन रूपैक्यात् तैत्तिरीयके फलसंयोगाश्रवणात् *प्र ह षोडशं वर्षशतं जीवति इति च्छान्दोग्ये श्रुतस्यैव पुरुषविद्या- फलत्वात्फलसंयोगस्याप्यविशेषाद्विद्य क्यम् ।। ? इति प्राप्त उच्यते--'उभयत्राम्नातयोविद्ययोः पुरुषविद्यात्वेऽपि विद्याभेदाऽस्त्येव । कुतः ? इतरेषामनाम्नानात्-एकस्यां शाखायामाम्नातानां गुणानामन्यत्रानाम्नानात् । तथा हि यत्सायं प्रातमध्यन्दिनं च तानि सवनानि* इत्यादयस्तैत्तिरीयके आम्नाता: छान्दोग्ये सवनत्वेन नाम्नायन्ते; त्रेधा विभक्तं पुरुषायुषं छान्दोग्ये सवनत्वेन कल्प्यते । छान्दोग्ये श्रु तानामशिशिषादीनां दीक्षादित्वकल्पनं तैत्तिरीयके न कृतम् । यजमानपत्न्यादि- ..

तृतीयाध्याये-तृतीयपादे-वेधाद्यधिकरणम् ३०३ परिकल्पनं चान्यथा । अतो रूपमुभयत्र भिद्यते । तथा फलसंयोगोऽपि भिद्यते; तैत्तिरीयके हि पूर्वानुवाके ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत* इति ब्रह्मविद्यामभिधाय तत्फलत्वेन *ब्रह्मणो महिमानमाप्नोति इत्युक्त्वा *तस्यैवं विदुषः इत्यादिना आम्नाता पुरुषविद्या- ऽस्यैव ब्रह्मविदुषो यज्ञत्वकल्पनमिति गम्यते । अतो ब्रह्मविद्याङ्गत्वाद्ब्रह्मप्राप्तिरेवात्र फलम्; *फलवत्सन्निधावफलं तदङ्गमिति न्यायातैत्तिरीयकाम्नाता पुरुषविद्या ब्रह्मविद्याङ्गमिति गम्यते । छान्दोग्ये त्वायुःप्राप्तिफला पुरुषविद्यत्युक्तम् । अतो रूपसंयोगयोर्भेदाद्विद्याभेद इत्येकत्राम्नातानां गुणानामितरत्रानुपसंहारः ॥ २४ ॥ इति पुरुषविद्याधिकरणम् ।। ६ ।। अथ वेधाद्यधिकरणम् ।। १० ।। ३७६ वेधाद्यर्थभेदात् ॥ ३-३-२५ ॥ आथर्वणिका उपनिषदारम्भे *शुक्रं प्रविध्य हृदयं प्रविध्य* इत्यादीन्मन्त्रानधीयते; सामगाश्च रहस्यब्राह्मणारम्भे *देव सवितः प्रसुव यज्ञं प्रसुव* इत्याद्यामनन्ति; काठकास्तै- त्तिरीयकाश्च *शं नो मित्रश्शं वरुणः* इत्यादिकम्; शाट्यायनिनश्च *श्वेतोऽश्वो हरिनीलो- ऽसि* इत्यादिकम्; ऐतरेयिणस्तु महाव्रतब्राह्मणमधीयते *इन्द्रो ह वै वृत्रं हत्वा महानभवत्* इत्यादि; कौषीतकिनोऽपि महाव्रतब्राह्मणमेव *प्रजापति संवत्सरस्तस्यैष आत्मा यन्महा- व्रतम्* इति; वाजसनेयिनस्तु प्रवर्यब्राह्मरणं *देवा ह वै सत्रं निषेदुः* इत्यादि । तत्र संशयः-किमुपनिषदारम्भेष्वधीताः *शुक्र प्रविध्य *शं नो मित्रः* इत्यादयो मन्त्राः प्रवादीनि च कर्माणि विद्याङ्गम्, उत नेति । किं युक्तम् ? विद्याङ्गमिति । कुतः ? सन्निधिसमाम्नानात् विद्याङ्गत्वप्रतीतेः । यद्यपि *शुक्र प्रविद्य त्यादीनां मन्त्राणां प्रवर्यादेश्च कर्मणः श्रु तिलिङ्गवाक्यैर्वलवद्भिर्यथायथं कर्मसु विनियोगोऽवगम्यते; तथाऽपि *शं नो मित्रः *सह नाववतु* इत्यादेमन्त्रस्यान्यत्र विनियोगाभावाद्विद्याधिकाराच्च विद्याङ्गत्वमवर्जनीय- मिति सर्वासु विद्यासु इमे मन्त्राः उपसंहर्तव्याः ॥ एवं प्राप्त प्रचक्ष्महे-वेधाद्यर्थभेदात् *शुक्र प्रविध्य हृदयं प्रविध्य ऋतं वदि- ष्यामि सत्यं वदिष्यामि *ऋतमवादिषं सत्यमवादिषम् *तेजस्वि नावधीतमस्तु मा विद्विषा- वहै* इत्यादिभिलिङ्गरभिचाराध्ययनादिष्वेषां विनियोगावगमान्न विद्याङ्गत्वम् । एतदुक्तं भवति-यथा हृदयं प्रविध्येत्यादिमन्त्रसामर्थ्यात् शुक्र प्रविध्येत्यादीनामभिचारादिशेषत्व- मवगम्यते; एवमेव *ऋतं वदिष्यामि *तेजस्वि नावधीतमस्तु* इत्यादिमन्त्रसामर्थ्यादेव स्वाध्यायशेषत्वं शं नो मित्र इत्यादिमन्त्राणामवगम्यते; अतो न तेषां विद्याङ्गत्वमिति ।

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । *शुक्र प्रविध्येत्यादीनां प्रवादिब्राह्मणानां चेह पाठो दिवाकीर्त्यत्वारण्येनुवाक्यत्वकृतः ॥२५॥ इति वेधाद्यधिकरणम् ।। १० ।। अथ हान्यधिकरणम् ।। ११ ॥ ३८०. हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् ॥ ३-३-२६॥ छन्दोगा आमनन्ति-*अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानि ॥ इति; आथर्वणिकाश्च तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति* इति; शाट्यायनिनस्तु तस्य पुत्रा दायमुप- यन्ति सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्याम् इत्यादि; कौषीतकिनस्तु *तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम्” इति । एवं क्वचित्पुण्यपापयो- हनिः, क्वचित्प्रियाप्रियेषु तत्प्राप्तिः, क्वचिदुभयं च श्रुतम् । तदुभयमेकैकविद्यायां श्रु तमपि सर्वविद्याङ्गमास्थेयम्, सर्वब्रह्मविद्यानिष्ठस्यापि ब्रह्म प्राप्नुवतः पुण्यपापप्रहाणस्यावश्य- भावित्वात् प्रहीणविषयत्वाच्चोपायनस्य । तच्चिन्तनं च विधीयमानं सर्वविद्याङ्गं भवितु. मर्हति । तत्रेदं विचार्यते-हानिचिन्तनमुपायनचिन्तनमुभयचिन्तनं च विकल्प्येरन्, उप- संहियेरन्वा ? किं युक्तम् ? विकल्प्येरन्निति । कुतः ? पृथगाम्नानसामर्थ्यात् । समुच्चये हि सर्वत्रोभयानुसन्धानं स्यात्, तच्च कौषीतकीवाक्येनैव सिद्धमित्यन्यत्राम्नानमनर्थकमेव स्यात् । अतोऽनेकत्राम्नानस्य विकल्प एव प्रयोजनम् । नचाध्येतृभेदेन परिहर्तुं शक्यमनेकत्राम्नानम् अविशेषपुनश्श्रवणं ह्यध्येतृभेदपरिहार्यम्; अत्र तु हानिरेव द्वयोश्शाखयोः, उपायनमेव चैकस्याम् । न च विद्याभेदेन व्यवस्थापयितुं शक्यम्, सर्वशेषभूतमिदमनुसन्धानमि- त्युक्तत्वात् ॥ अत्रेदमुच्यते-हानौ तूपायनशब्दशेषत्वादिति । तुशब्दः पक्षं व्यावर्तयति । हाना- विति प्रदर्शनार्थम्; केवलायां हानौ केवले चोपायने श्रू यमाणे तयोरितरेतरसमुच्चयोऽवश्यं- भावी। कुतः ? उपायनशब्दशेषत्वात्-उपायनशब्दस्य हानिवाक्यशेषत्वात् । उपायन- वाक्यस्य हि हानिवाक्यशेषत्वमेवोचितम्, विदुषा त्यक्तयोः पुण्यपापयोः प्रवेशस्थानवाचित्वा- दुपायनवाक्यस्य । प्रदेशान्तराम्नातस्य वाक्यस्य प्रदेशान्तराम्नातवाक्यशेषत्वे दृष्टान्ता उप- न्यस्यन्ते-कुशाच्छन्दस्स्तुत्युपगानवदिति । कालापिनः *कुशा वानस्पत्याः* इत्यामनन्ति; शाट्यायनिनां तु *औदुम्बर्यः कुशाः इति वाक्यं सामान्येन वानस्पत्यत्वेनावगताः कुशाः औदुम्बर्य इति विशिषत्तद्वाक्यशेषतामापद्यते । तथा *देवासुराणां छन्दोभिः* इत्यादिना तृतीयाध्याये-तृतीयपादे-साम्परायाधिकरणम् । . अविशेषेण देवासुराणां छन्दसां प्रसङ्गे *देवच्छन्दांसि पूर्वम् इति वचनं क्रमविशेष प्रति- पादयत्तद्वाक्यशेषतां गच्छति । तथा *हिरण्येन षोडशिनः स्तोत्रमुपाकरोति* इत्यविशेषेण प्राप्त , *समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति इति विशेषविषयं वाक्यं तद्वाक्य- शेषतां भजते । तथा *ऋत्विज उपगायन्ति* इत्यविशेषप्राप्तस्य *नाध्वर्यु रुपगायेत्” इति वाक्यमनध्वर्यु विषयतामवगमयत्तद्वाक्यशेषत्वमृच्छति । एवं सामान्येनावगतमर्थ विशेष व्यवस्थापयितुं क्षमस्य वाक्यस्य तच्छेषत्वमनभ्युपगच्छद्भिस्तयोरर्थयोविकल्पस्समाश्रयितव्यः; स च संभवन्त्यां गतौ न युज्यते । तदुक्तं पूर्वस्मिन् काण्डे *अपि तु वाक्यशेषस्स्यादन्याय्य- त्वाद्विकल्पस्य विधीनामेकदेशः स्यात्' इति । तदेवं केवलहानोपायनवाक्ययोरेकवाक्यत्वा- केवलस्य हानस्य केवलस्य चोपायनस्याभावाद्विकल्पो नोपपद्यते। कौषीतकिनामुभयाम्ना- नमविशेषपुनश्श्रवणत्वेन प्रतिपत्तभेदादविरुद्धम् ॥ २६ ॥ इति हान्यधिकरणम् ॥ ११ ॥ अथ साम्परायाधिकरणम् ।। १२ ।। ३८१. साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ ३-३-२७ ॥ सुकृतदुष्कृतयोर्हानमुपायनं च सर्वासु विद्यासु चिन्तनीयमित्युक्तम् तद्धानं कि देह- वियोगकाले, देहादुत्क्रान्तस्थाध्वनि च, उत देहवियोगकाल एवेति विशये उभयत्रेति युक्तम्, उभयधा श्रुतत्वात् । एवं हि कौषीतकिनस्समामनन्ति *स एतं देवयानं पन्थानमापद्याग्नि- लोकं गच्छति* इत्युपक्रम्य *स आगच्छति विरजां नदी तां मनसाऽत्येति तत्सुकृतदुष्कृते धूनुते इति । अत्र वाक्ये अध्वनि सुकृतदुप्कृतहानिः प्रतीयते । ताण्डिनस्तु *अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोमुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकम- भिसंभवानि ॥ इति । अत्र तु देहवियोगकाल इति प्रतीयते । शाट्यायनकेऽपि तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्याम्” इति पुत्रषु दायसंक्रान्तिसमकालं सुकृतदुष्कृतसंक्रमणं श्रूयमाणं देहवियोगकाल इति गम्यते । अतस्सुकृतदुष्कृतयोरेकदेशो देहवियोगकाले हीयते; शेषस्त्वध्वनि ॥ इति प्राप्त उच्यते-साम्पराये इति । साम्पराये-देहादपक्रमणकाले एव विदुष- स्सुकृतदुष्कृते निरवशेषं होयेते । कुतः ? तर्तव्याभावात्-विदुषो देहवियोगात्पश्चात्सुकृत- दुष्कृताभ्यां तरितव्यभोगाभावात् । विद्याफलभूतब्रह्मप्रासिव्यतिरेकेण हि सुकृतदुष्कृताभ्यां भोक्तव्ये सुखदुःखे न विद्यते । तथा ह्यन्ये देहवियोगादूर्व ब्रह्मप्राप्तिव्यतिरिक्तसुखदुःखोप- भोमाभावमधीयते *अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः एष संप्रसादोऽस्माच्छरीरा- समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते *तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये* इति ॥ २७ ॥ .

३०६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - ३८२. छन्दत उभयाविरोधात् ॥ ३-३-२८ ॥ एवमर्थस्वाभाव्यात्सुकृतदुष्कृतहानिकालेऽवधृते सत्युभयाविरोधेन-श्रुतेरर्थस्वभावस्य चाविरोधेन, छन्दतः-यथेष्ट पदानामन्वयो वर्णनीयः । कौषीतकोवाक्ये *तत्सुकृतदुष्कृते धूनुते* इति चरमश्रुतो वाक्यावयवः *एतं देवयानं पन्थानमापद्य* इति प्रथमच तावयवा- प्रागनुगमयितव्य इत्यर्थः ॥ २८ ॥ अत्र पूर्वपक्षी प्रत्यवतिष्ठते- ३८३. गतेरर्थवत्त्वमुभयधाऽन्यथा हि विरोधः ।। ३-३-२६ ।। सुकृतदुष्कृतयोरेकदेशस्य देहवियोगकाले हानिः, शेषस्य च पश्चादिति उभयधा कर्म- क्षये सत्येव गतेरर्थवत्त्वम्-देवयानगतिश्रुतेरर्थवत्त्वमित्यर्थः । अन्यथा हि विरोधः-देह- वियोगकाल एव सर्वकर्मक्षये सूक्ष्मशरीरस्यापि विनाशस्स्यात्; तथा सति केवलस्यात्मनो गमनं नोपपद्यते । अत उत्क्रान्तिसमये विदुषो निश्शेषकर्मक्षयो नोपपन्नः ॥ २६ ॥ अत्रोत्तरम्- ३८४. उपपन्नस्तल्लक्षणार्थोपलब्धेलॊकवत् ॥ ३-३-३० ॥ उपपन्न एवोत्क्रान्तिकाले सर्वकर्मक्षयः । कथम् ? तल्लक्षणार्थोपलब्धेः-क्षीणकर्मणो- ऽप्याविर्भूतस्वरूपस्य देहसंबन्धलक्षणार्थोपलब्धेः । अपरं ज्योतिरुपसंपद्य स्वेन रूपेणाभि- निष्पद्यते स तत्र पर्येति जक्षत्क्रीडनममाण: *स स्वराड्भवति तस्य सर्वेषु लोकेषु काम- चारो भवति *स एकधा भवति त्रिधा भवति इत्यादिषु देहसंबन्धाख्योऽर्थो ह्य पलभ्यते । अतः क्षीणकर्मणोऽपि सूक्ष्मशरीरयुक्तस्य देवयानेन गमनमुपपद्यते। कथं सूक्ष्मशरीरमप्या- रम्भककर्मविनाशेऽवतिष्ठत इति चेत्, विद्यामाहात्म्यादिति ब्रूमः । विद्या हि स्वयं सूक्ष्म- शरीरस्यानारम्भिकाऽपि प्राकृतसुखदुःखोपभोगसाधनस्थूलशरीरस्य सर्वकर्मणां च निरवशेष- क्षयेऽपि स्वफलभूतब्रह्मप्राप्तिप्रदानाय देवयानेन पथैनं गमयितुं सूक्ष्मशरीरं स्थापयति । लोक- वत्-यथा लोके सस्यादिसमृद्धयर्थमारब्धे तटाकादिके तद्ध तुषु तदिच्छादिषु विनष्टेष्वपि तदेव तटाकादिकमशिथिलं कुर्वन्तस्तत्र पानीयपानादि कुर्वन्ति; तद्वत् ॥ ३० ॥ अथ स्यात्-ज्ञानिनां साक्षात्कृतपरतत्त्वानां देहपातसमये कर्मणो निरवशेषक्षया- देहपातादूर्ध्व सूक्ष्मशरीरमात्रं गत्यर्थमनुवर्तते, सुखदुःखानुभवो न विद्यत इति यदुक्तम्, तन्नोपपद्यते; वसिष्ठावान्तरतपःप्रभृतीनां साक्षात्कृतपरतत्त्वानां देहपातादूर्ध्व देहान्तरसङ्गमः, पुत्रजन्मविपत्त्यादिनिमित्तसुखदुःखानुभवश्च दृश्यत इति । अत उत्तरं पठति- तृतीयाध्याये-तृतीयपादे-अनियमाधिकरणम् । ३८५. यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३-३-३१ ।। नास्माभिस्सर्वेषां ज्ञानिनां देहपातसमये सुकृतदुष्कृतयोविनाश उक्तः; अपितु येषां ज्ञानिनां देहपातानन्तरचिरादिका गतिः प्राप्ता, तेषां देहपातसमये सुकृतदुष्कृतहानिरुक्ता । वसिष्ठादीनांत्वाधिकारिकाणां न देहपातानन्तरमचिरादिगतिप्राप्तिः, प्रारब्धस्याधिकारस्या- समाप्तत्वात् । तेषां कर्मविशेषेणाधिकारविशेष प्राप्तानां यावदधिकारसमाप्ति तदारस्भक कर्म न क्षीयते । प्रारब्धस्य हि कर्मणो भोगादेव क्षयः । अत आधिकारिकाणां तदारम्भक कर्म यावदधिकारमवतिष्ठते । अतस्तेषां न देहपातादनन्तरचिरादिगतिप्राप्तिः ॥ ३१ ॥ इति साम्पराधिकरणम् ।। १२ ।। अथ अनियमाधिकरणम् ।। १३ ।। ३८६. अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥ ३-३-३२ ॥ उपकोसलादिषु येथूपासनेष्वचिरादिगतिः श्रूयते; किं तनिष्ठानामेव तया ब्रह्मप्राप्तिः, उतसर्वेषां ब्रह्मोपासननिष्ठानामिति संशये, इतरेष्वनाम्नानात्, *ये चेमेऽरण्ये श्रद्धा तप इत्युपासते *श्रद्धां सत्यमुपासते* इतीत रसकलब्रह्मविद्योपस्थापकत्वे प्रमाणाभावाच्च तनिष्ठानामेवेति प्राप्त अभिधीयते-अनियम इति । सर्वेषां-सर्वोपासननिष्ठानां तयक गन्तव्यत्वात् तनिष्ठानामेवेति नियमो नास्ति । सर्वेषां तयैव गमने हि सति शब्दानु- मानाभ्यां-श्रुतिस्मृतिभ्यामविरोधः, अन्यथा विरोध एवेत्यर्थः । श्रुतिस्तावत् छान्दोग्यवाज- सनेयकयोः पञ्चाग्निविद्यायाचिरादिमार्गेण सर्वब्रह्मोपासननिष्ठानां गमनमाह श्य एव- मेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽचिषमभिसंभवन्ति इति वाजसनेयके; तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽचिषमभिसंभवन्ति* इति छान्दोग्ये; य इत्थं विदुः इति पञ्चाग्निविद्यानिष्ठान् *ये चेमे इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासीनांश्चोद्दिश्या- चिरादिका गतिरुपदिश्यते, *सत्यं ज्ञानमनन्तं ब्रह्म *सत्यं त्वेव विजिज्ञासितव्यम् इति सत्यशब्दस्य ब्रह्मणि प्रसिद्धः । तपश्शब्दस्यापि तेनैकार्थ्यात्सत्यतपश्शब्दाभ्यां ब्रह्मवाभि- धीयते । श्रद्धापूर्वकं ब्रह्मोपासनं चान्यत्र श्रुतं-*सत्यं त्वेव विजिज्ञासितव्यम् इत्युपक्रम्य *श्रद्धा त्वेव विजिज्ञासितव्या* इति । स्मृतिरपि *अग्निोतिरहश्शुक्लः षण्मासा उत्तरा- यण । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ इति सर्वेषां ब्रह्मविदामनेनैव मार्गेण गमनमित्याह । एवंजातीयकाः श्रुतिस्मृत्यो बह्वयस्सन्ति । एवं सर्वविद्यासाधारणी इयं गतिः प्राप्त वोपकोसलविद्यादावनूद्यते ॥ ३२ ॥ इति अनियमाधिकरणम् ।। १३ ।।

३०८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ अक्षरध्यधिकरणम् ।। १४ ।। ? ? ३८७. अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३-३-३३।। बृहदारण्यके श्रूयते *एतद्वै तदक्षरं गागि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वहस्व- मदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्व नाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागम- नोऽतेजस्कमप्राणमसुखममात्रमनन्तरमबाह्य न तदश्नाति किंचन एतस्य वा अक्षरस्य प्रशासने गागि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः* इति । तथा आथर्वणे *अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम्* इति । संशयः-किमिमे अक्षरशब्दनिर्दिष्टब्रह्मसंबन्धितया श्रुताः अस्थूलत्वादयः प्रपञ्चप्रत्यनीकता- स्वरूपास्सर्वासु ब्रह्मविद्यास्वनुसन्धेयाः, उत यत्र श्रूयन्ते तत्रैवेति । कि युक्तम् ? यत्र श्रुतास्त- त्रैवेति । कुतः ? विद्यान्तरस्य रूपभूतानां गुणानां विद्यान्तरस्य रूपत्वे प्रमाणाभावात्, प्रतिषेधरूपाणामेषामानन्दादिवत्स्वरूपावगमोपायत्वाभावाच्च । आनन्दादिभिरवगतस्वरूपे हि ब्रह्मणि स्थूलत्वादयः प्रपञ्चधर्माः प्रतिषिध्यन्ते, निरालम्बनप्रतिषेधायोगात् ॥ एवं प्राप्ते प्रचक्ष्महे-अक्षरधियां त्ववरोधः इति । अक्षरब्रह्मसंबन्धिनीनामस्थूलत्वा- दिधियां सर्वब्रह्मविद्यास्ववरोध:-सङ्ग्रहणमित्यर्थः । कुतः ? सामान्यतभावाभ्यां-सर्वेष- पासनेषूपास्यस्याक्षरस्य ब्रह्मणः समानत्वादस्थूलत्वादीनां तत्स्वरूपप्रतीतौ भावाच्च । एतदुक्तं भवति-असाधारणाकारेण ग्रहणं हि वस्तुनो ग्रहणम् । नच केवलमानन्दादि ब्रह्मणो- ऽसाधारणमाकारमुपस्थापयति, प्रत्यगात्मन्यप्यानन्दादेविद्यमानत्वात् । हेयप्रत्यनीको ह्यानन्दा- दिब्रह्मणोऽसाधारणं रूपम् । प्रत्यगात्मनस्तु स्वतो हेयविरहिणोऽपि हेयसंबन्धयोग्यताऽस्ति; हेयप्रत्यनीकत्वं च चिदचिदात्मकप्रपञ्चधर्म भूतस्थूलत्वादिविपरीतरूपम् । अतोऽसाधारणा- कारेण ब्रह्मानुसन्दधताऽस्थूलत्वादिविशेषितज्ञानानन्दाद्याकारं ब्रह्मानुसन्धेयमिति अस्थूलत्वा- दीनामानन्दादिवद्ब्रह्मस्वरूपप्रतीत्यन्त वात्सर्वासु ब्रह्मविद्यासु तथैव ब्रह्मानुसन्धेयमिति । गुणानां प्रधानानुवतित्वे दृष्टान्तमाह-औपसदवत्-इति । यथा जामदग्न्यचतूरात्रपुरोडाश्यु पसद्गुणभूतः सामवेदपठितः *अग्निर्वं होत्रं वेतु* इत्यादिको मन्त्रः प्रधानानुवतितया याजुर्वैदिकेनोपांशुत्वेन प्रयुज्यते । तदुक्तं प्रथमे काण्डे *गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः* इति ॥ ३३ ॥ ? नन्वेवं सर्वासु ब्रह्मविद्यासु ब्रह्मण एव गुणित्वाद्गुणानां च प्रधानानुतित्वात *सर्वकर्मा सर्वगन्धस्सर्वरसः* इत्यादेर्गुणजातस्य प्रतिविद्यं व्यवस्थितस्याप्यव्यवस्था स्यात् तत्राह- तृतीयाध्याये-तृतीयपादे-अन्तरत्वाधिकरणम् । ३० ३८८. इयदामननात् ॥ ३-३-३४ ।। आमननम् --आभिमुख्येन मननम्, अनुचिन्तनम् । आमननाद्धेतोरियदेव गुणजातं सर्वत्रानुसन्धेयत्वेन प्राप्तम्, यदस्थूलत्वादिविशेषितमानन्दादिकम् । येन गुणजातेन विना ब्रह्म- स्वरूपस्येतरव्यावृत्तस्यानुसन्धानं न संभवति; तदेव सर्वत्रानुवर्तनीयम्; तच्चेयदेवेत्यर्थः । इतरे तु सर्वकर्मत्वादयः प्रधानानुवतिनोऽपि चिन्तनीयत्वेन प्रतिविद्य व्यवस्थिताः ॥ ३४ ।। इति अक्षरध्यधिकरणम् ।। १४ ॥ अथ अन्तरत्वाधिकरणम् ।। १५ ।। ३८६. अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् । ॥३-३-३५॥ बृहदारण्यके उषस्तप्रश्न एवमाम्नायते श्यत्साक्षादपरोक्षाद्ब्रह्म य आत्मासर्वान्तरः तन्मेव्याचक्ष्व* इति । तस्य प्रतिवचनं यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा* इत्यादि । अतुष्टेन तेन पुनः पृष्ट आह *न दृष्टेष्टारं पश्येन श्रुतेश्श्रोतारं शृणुयाः न मतेमन्तारं मन्वीथाः न विज्ञातेविज्ञातारं विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तम्” इति । तथा तदनन्तरं कहोलप्रश्ने चैवमाम्नायते यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तन्मेव्याचक्ष्व इति । प्रतिवचनं च श्योऽशनाया- पिपासे शोकं मोहं जरां मृत्युमत्येति एवं हैतमात्मानं विदित्वा ब्राह्मणः पुत्रेषणायाश्च* वित्तेषणायाश्च इत्यादि *अतोऽन्यदातमित्यन्तम् । तत्र संशय्यते--किमनयोविद्याभेदोऽस्ति, नेति । कि युक्तम् ? भेद इति । कुतः ? रूपभेदात् । प्रतिवचनभेदाद्रूपं भिद्यते । प्रश्नस्यैक- रूप्येऽपि प्रतिवचनप्रकारो हि भेदनोपलभ्यते । पूर्वत्र प्राणनादीनां कर्ता सर्वान्तरात्मत्वे- नोच्यते; परत्राशनायापिपासादिरहितः । अतः पूर्वत्र प्राणिता देहेन्द्रियबुद्धिमनःप्राण- व्यतिरिक्तः प्रत्यगात्मोच्यते; परत्र तु तदतिरिक्तोऽशनायापिपासादिरहितः परमात्मा । अतो रूपं भिद्यते । भूतग्रामवतश्च प्रत्यगात्मनस्तस्य भूतग्रामस्य सर्वस्यान्तरात्मत्वेन सन्तिरत्वमप्युपपन्नम् । यद्यपि प्रत्यगात्मनः सन्तिरत्वं भूतग्राममात्रापेक्षत्वेनापेक्षिकम्, तथापि तदेव ग्राह्यम्, अन्यथा मुख्यान्तरात्मपरिग्रहलोभात्परमात्मस्वीकारे प्रतिवचनभेदो नोपपद्यते । प्रतिवचनं हि पूर्वत्र प्रत्यगात्मविषयम,परमात्मनः प्राणितृत्वापानितृत्वाद्यसंभवात् । परं च परमात्मविषयम्, अशनायापिपासाद्यतीतत्वात् । तदिदमाशङ्कते--अन्तरा भूतग्राम- वत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेदिति । अन्तरा--सर्वान्तरत्वेन प्रथमप्रतिवचनं ३१० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । भूतग्रामवत्स्वात्मनः-भूतग्रामवान्-तदन्तरः स्वात्मा, प्रत्यगात्मा सर्वान्तर इत्युच्यत इत्यर्थः । अन्यथा भ्यः प्राणेन प्राणिति* योऽशनायापिपासाद्यतीतः* इति प्रतिवचनभेदानु- पपत्तिरिति चेत् । अत्रोत्तरं-नेति । न विद्याभेद इत्यर्थः । उभयत्र परिविषयत्वात्प्रश्नप्रतिवचनयोः । तथाहि-त्र्यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः* इति प्रश्नस्तावत्परमात्मविषय एव । ब्रह्मशब्दस्य परमात्मासाधारणत्वेऽपि प्रत्यगात्मन्यपि कदाचिदुपचरितप्रयोगदर्शनात्त- व्यावृत्त्या परमात्मप्रतिपत्त्यर्थ श्यत्साक्षाद्ब्रह्मेति विशेषणं क्रियते । अपरोक्षत्वमपि सर्वदेशसर्वकालसंबन्धित्वं सत्यं ज्ञानमनन्तं ब्रह्मेत्यनन्तत्वेनावगतस्य परमात्मन एवोपपद्यते । सर्वान्तरत्वमपि भ्यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः* इत्यारभ्य *य आत्मनि तिष्ठन्नात्म- नोऽन्तरः इति सर्वान्तर्यामिणः परमात्मन एव संभवति । प्रतिवचनमपि तथैव परमात्म- विषयम् । यः प्राणेन प्राणिति* इति निरुपाधिकं प्राणनस्य कर्तृत्वं परमात्मन एव, प्रत्यगात्मनस्सुषुप्तौ प्राणनं प्रति कर्तृत्वाभावात् । एवमजानतोषस्तेन प्राणने कर्तृत्वमात्र- मुक्तं मन्वानेन प्रत्यगात्मनोऽपि साधारणत्वं प्रतिवचनस्य मत्वा अतुष्टेन पुनः पृष्टस्तं प्रति प्रत्यगात्मनो व्यावृत्तं निरुपाधिकत्वेन प्राणनस्य कर्तारं परमात्मानमाह-*न दृष्टेष्टारं पश्येरित्यादिना । इन्द्रियाधीनानां दर्शनश्रवणमननविज्ञानानां कर्तारं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथाः; तस्य सुषुप्तिमूर्जादौ प्राणनादेरकर्तृत्वात् । *को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्* इति सर्वप्राणिप्राणनहेतुत्वं हि परमात्मन एवान्यत्र श्रुतम् । अतः पूर्वप्रश्नप्रतिवचने परमात्मविषये। एवमुत्तरे अपि, अशनायाद्य- तीतत्वस्य परमात्मासाधारणत्वात् । उभयत्र *अतोऽन्यदातमित्युपसंहारश्चैकरूपः। प्रश्न- प्रतिवचनावृत्तिस्तु कृत्स्नप्राणिप्राणनहेतोः परस्य ब्रह्मणोऽशनायाद्यतीतत्वप्रतिपादना । तत्र दृष्टान्तमाह-उपदेशवदिति । यथा सद्विद्यायाम् *उत तमादेशमप्राक्ष्यः* इति प्रक्रान्ते सदुपदेशे *भगवांस्त्वेव मे तब्रवीत्विति भूय एव मा भगवान् विज्ञापयतु* इति प्रश्नस्य *एषोऽणिमा ऐतदात्म्यमिदं सर्व तत्सत्यम् इति प्रवचनस्य च भूयोभूय आवृत्तिस्सतो ब्रह्मणस्तत्तन्माहात्म्यविशेषप्रतिपादनाय दृश्यते; तद्वत् । अत एकस्यैव सर्वान्तरभूतस्य ब्रह्मणः कृत्स्नप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन रूपैक्याद्विधक्यम् ॥ ३५ ॥ अथ स्यात्-यद्यप्युभे प्रश्नप्रतिवचने परब्रह्मविषये; तथापि विद्याभेदोऽवर्जनीयः, एकत्र सर्वप्राणिप्राणनहेतुत्वेनोपास्यम्, इतरत्राशनायाद्यतीतत्वेनेत्युपास्यगुणभेदेन रूपभेदात, प्रष्टभेदाच्च; पूर्वत्र ह्यषस्तः प्रष्टा, उत्तरत्र कलोह इति; तत्राह- ३६०. व्यतिहारो विशिषन्ति हीतरवत् ॥ ३-३-३६ ॥ नात्र विद्याभेदः, प्रश्नप्रतिवचनाभ्यामेकरूपार्थविषयाभ्यामेकेन च विधिपदेनक- तृतीयाध्याये-तृतीयपादे-अन्तरत्वाधिकरणम् । वाक्यत्वप्रतीतेः । प्रश्नद्वयं तावत्सर्वान्तरात्मत्वविशिष्टब्रह्मविषयम् । द्वितीये प्रश्न भ्यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः* इत्येवकारश्च पूर्वत्रोषस्तेन दृष्टगुणविशिष्टब्रह्म- विषयत्वं कहोलप्रश्नस्यावधारयति । प्रतिवचनं चोभयत्र *स त आत्मा सर्वान्तरः* इति सर्वान्तरात्मत्वविशिष्टब्रह्मविषयमेकरूपमेव । विधिप्रत्ययश्चोत्तरत्रैव दृश्यते *तस्माद्ब्राह्मणः पाण्डित्यं निविद्य बाल्येन तिष्ठासेत्” इति । एवं सर्वान्तरात्मत्वविशिष्टब्रह्मकविषयत्वे द्वयोर- वगते सत्येकस्मिन्न व सर्वान्तरात्मत्वविशिष्ट ब्रह्मण्युपास्ये उषस्तकहोलयोरितरेतरबुद्धि- व्यतिहारः कर्तव्यः । उषस्तस्य या सर्वान्तरात्मनो ब्रह्मणस्सर्वप्राणिप्राणनहेतुत्वविषया बुद्धिः सा कहोलेनापि प्रष्ट्रा कार्या; या च कहोलस्य तस्यैव ब्रह्मणोऽशनायाद्यतीतत्वविषया बुद्धिः, सा उषस्तेनापि कार्या । एवं व्यतिहारे कृते उभाभ्यां सर्वान्तरस्य ब्रह्मणो जीवव्यावृत्तिर- वगता भवति । एनं सर्वान्तरात्मानं प्रत्यगात्मनो व्यावृत्तमवगमयितुं सर्वप्राणिप्राणनहेतुत्वा- शनायाद्यतीतत्वप्रतिपादनेन विशिषन्ति हि याज्ञवल्क्यस्य प्रतिवचनानि । अतो ब्रह्मणस्सर्वा- न्तरात्मत्वमेवोपास्यगुणः । प्राणनहेतुत्वादयस्तु तस्योपपादकाः; नोपास्याः। ननूपास्यगुणः सर्वान्तरात्मत्वमेव चेत्, प्राणनहेतुत्वस्य अशनायाद्यतीतत्वस्य च प्रष्ट्रोः व्यतिहृत्यानुसन्धानं किमर्थम् ? तदुच्यते-सर्वप्राणिप्राणनहेतुत्वेन सर्वान्तरात्मनि जीवाद्वयावृत्ते ब्रह्मण्युषस्तेनाव- गते सति कहोलेन जीवस्य सर्वात्मना असंभावितेन स्वभावविशेषेण सर्वान्तरात्मा व्यावृत्तो- ऽनुसन्धेय इति कृत्वा पुनः प्रश्नः कृतः । याज्ञवल्क्योऽपि तदभिप्रायमभिज्ञाय प्रत्यगात्मनोऽ- संभावितमशनायादिप्रत्यनीकत्वमुक्तवान् । अतश्वोपास्यस्य व्यावृत्तिप्रतीतिसिद्धयर्थमुभाभ्यां परस्परबुद्धिव्यतिहारः कर्तव्यः । इतरवत्-यथेतरत्र सद्विद्यायां भूयोभूयः प्रश्नः प्रतिवचनैश्च तदेव सद्ब्रह्म व्यवच्छिद्यते; न पुनः पूर्वप्रतिपन्नाद्गुणाद्गुणान्तरविशिष्टतयोपास्यं प्रतिपाद्यते; तद्वत् ॥ ३६ ॥ तत्रापि प्रश्नप्रतिवचनभेदे सति कथमैक्यमवगम्यत इति चेत्, तत्राह- ३६१. सैव हि सत्यादयः ॥३-३-३७ ॥ सैव हि-सच्छब्दाभिहिता परमकारणभूता परा देवतैव *सेयं देवतैक्षत *तेजः परस्यां देवतायाम् इति प्रकृता श्यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति* इत्यादिषु पर्या- येषु सर्वेषपपाद्यते । यतः ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा* इति प्रथमपर्यायोदिता- स्सत्यादयस्सर्वेषु पर्यायेषूपपाद्योपसंहियन्ते । केचित्त, *व्यतिहारो विशिषन्ति हीतरवत् *सैव हि सत्यादयः इति सूत्रद्वयमधि- करणद्वयं वर्णयन्ति । तत्र पूर्वेण त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते ३१२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । तद्योऽहं सोऽसौ योऽसौ सोऽहम्* इति वाक्ये जीवपरयोर्व्यतिहारानुसन्धान प्रतिपाद्यत इत्यु- च्यत इत्याहुः । तत् सर्व खल्विदं ब्रह्म *ऐतदात्म्यमिदं सर्वम् तत्त्वमसि* इत्यवगत- सर्वात्मभावविषयत्वादस्य वाक्यस्य नात्र प्रतिपादनीयमपूर्वमस्तीत्यनादरणीयम् । तत्त वक्ष्यते *आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति । नच सर्वात्मत्वानुसन्धानातिरेकेण परस्मिन् ब्रह्मणि जोवत्वानुसन्धानम्, जीवे च परब्रह्मत्वानुसन्धानं, तथ्यं संभवति । उत्तरेण च सूत्रेण *स यो ह वै तन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म* इत्यादिवाक्यप्रतिपादितस्य सत्योपासनस्य *तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन्* इत्यादि- वाक्यप्रतिपादितोपासनस्य चैक्यं प्रतिपाद्यत इति; तदप्ययुक्तम्, उत्तरवाक्ये अक्ष्यादित्यस्थान- भेदेन विद्याभेदस्य पूर्वमेव *न वा विशेषादित्यनेन प्रतिपादितत्वात् । नच द्वयोरनयोा- हृत्यादिशरीरकत्वेन रूपवतोः *हन्ति पाप्मानं जहाति च य एवं वेद* इति पृथक्संयोग- चोदनावतोर्द्वयोरुपासनयोः *स यो हवै तन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमान् लोकान् इति संयोगरूपादिमत्तया निरपेक्षेण पूर्वेणैकेनोपासनेनाभेदस्संभवति । नच अहन्ति पाप्मानं जहाति* इति गुणफलाधिकारत्वम्, प्रमाणाभावात् । पूर्वेणैकविद्यात्वं प्रमाणमिति चेन्न, इतरेतराश्रयत्वात् । एकविद्यात्वे निश्चिते पूर्वफलस्यैव प्रधानफलत्वेनोत्तरयोः फलयो- मुंगफलत्वम्, तयोर्गुणफलत्वे निश्चिते सति संयोगभेदाभावात्पूर्वेण विद्यैक्यमितीतरेतराश्रयत्व- मित्येवमादिभिर्यथोक्तप्रकारमेव सूत्रद्वयम् ॥ ३७ ॥ इति अन्तरत्वाधिकरणम् ।। १५ ।। अथ कामाद्यधिकरणम् ।। १६ ।। ३६२. कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३-३-३८ ॥ ? छान्दोग्ये श्रूयते *अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम् इत्यादि; वाजसनेयके च *स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्ह दय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः* इत्यादि । तत्र संशयः- किमनयोविद्याभेदः, उत नेति । कि युक्तम् ? भेद इति । कुनः रूपभेदात्; अपहतपाप्मत्वादिगुणाष्टकविशिष्ट - आकाशः छान्दोग्ये उपास्यः प्रतीयते; वाजसनेयके त्वाकाशे शयानो वशित्वादिगुणविशिष्ट उपास्यः प्रतीयते; अतो रूपभेदाद्वि- धाभेदः ॥ इति प्राप्त प्रचक्ष्महे-न भेव इति । कुतः ? रूपाभेदात-इतरत्र तत्र च कामाद्येव हि रूपं-वाजसनेयके च्छान्दोग्ये, च सत्यकामादिविशिष्टमेव ब्रह्मोपास्यमित्यर्थः । कुत तृतीयाध्याये-तृतीपादे- कामाद्यधिकरणम् । एतदवगम्यते ? आयतनादिभ्यः-हृदयायतनत्वसेतुत्वविधरणत्वादिभिस्तावदुभयत्र लैव विद्येति प्रत्यभिज्ञायते । वशित्वादयश्च वाजसनेयके श्रुताः । छान्दोग्यश्रु तस्य गुणाष्टक त्यतम- भूतस्य सत्यसङ्कल्पत्वस्य विशेषा एवेति सत्यसङ्कल्पत्वसहचारिणां सत्यकासत्वादीनाममहत- पाप्मत्वपर्यन्तानां सद्भावमवगमयन्ति । अतो रूपं न भिद्यते । संयोगोऽपि *परं ज्योतिरुप- संपद्य स्वेन रूपेणाभिनिष्पद्यते अभयं वै ब्रह्म भवति* इति ब्रह्मप्राप्तिरूपो न भिद्यते । आकाशशब्दः छान्दोग्ये परमात्मविषय इति, *दहर उत्तरेभ्यः* इत्यत्र निर्णोतन् । वाजसने- ... यके त्वाकाशे शयानस्य वशित्वादिश्रवणात्तस्य शयानस्य परमात्मत्वे सति तदाधाराभि- धायिन आकाशशब्दस्य *तस्यान्ते सुषिरं सूक्ष्मम्* इति हृदयान्तर्गतस्य सुषिरशब्दवाच्यस्या- काशस्याभिधायकत्वमवगभ्यते । अतो विद्यैक्यम् ॥ ३८ ॥ अथ स्यात्-यदुक्तं वाजसनेयके वशित्वादिभिस्सह सत्यकामत्वादिसद्भावोऽवगम्यत इति; तन्नोपपद्यते, वशित्वादोनामेव तत्र परमार्थतस्सद्भावाभावात् । तदभावश्च *मनसैवा- नुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह न नेव पश्यति ॥ *एकधैवा- नुद्रष्टव्यमेतदप्रमेयं ध्रुवम् इति प्रकृतेन वाक्येन *स एष नेतिनेत्यात्मा* इत्युत्तरेण चोपास्यस्य ब्रह्मणो निविशेषत्वप्रतीतेरवगम्यते । अतो वशित्वादयोऽपि स्थूलत्वाणुत्ववन्नि- ध्या इति प्रतीयन्ते । अत एव च्छान्दोग्येऽपि सत्यकामत्वादयो न ब्रह्मणः पारमार्थिका गुणा उच्यन्ते । अतोऽपारमार्थिकत्वादेवंजातीयकानां गुणानां मोक्षार्थेष पास्नेषु लोप इति । तत्राह- R- ३६३. आदरादलोपः ॥ ३-३-३६ ॥ ब्रह्मगुणत्वेन प्रमाणान्तराप्राप्तानां गुणानामेषां सत्यकामत्वादीनां *तस्मिन् यदन्तस्त- दन्वेष्टव्यम् एष आत्माऽपहतपाप्मा विजरो विमृत्युविशोकोऽविजिघत्सोऽपिपासस्सत्यकाम- स्सत्यसङ्कल्पः *सर्वस्य वशी सर्वस्येशानः *एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय* इत्यादिभिरनयोः श्रुत्योरन्यासु च मोक्षार्थोपासनो- पास्यब्रह्मगुणत्वेन सादरमुपदेशादेषामलोपः; अपि तूपसंहार एव कार्यः । छान्दोग्ये तावत् *तद्य इहात्मानमनुविद्य वजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति इति सत्यकामत्वादिगुणविशिष्टस्य ब्रह्मणो वेदनमभिधाय *अथ य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति इत्यवेदननिन्दा क्रियमाणा गुणविशिष्टवेदनस्यादरं दर्शयति । तथा वाजसनेयके *सर्वस्य वशी सर्वस्येशानः एष सर्वेश्वर एष भूताधिपतिरेष भूतपालः* इति भूयोभूय ऐधर्योपदेशाद्गुणेष्वादरः प्रतीयते । एवमन्य- ३१४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । त्रापि । न च मातापितृसहस्र भ्योऽपि वत्सलतरं शास्त्र प्रतारकवदपारमार्थिकानिरसनीयान् गुणान् प्रमाणान्तराप्रतिपन्नानादरेणोपदिश्य संसारचक्रपरिवर्तनेन पूर्वमेव बम्भ्रम्यमाणान्मु- मुक्षून भूयोऽपि भ्रमयितुमलम् । अनेह नानास्ति किञ्चन *एकधैवानुद्रष्टव्यम् इति तु सर्वस्य ब्रह्मकार्यत्वेन तदात्मकत्वादेकधाऽनु दर्शनं विधायाब्रह्मात्मकत्वेन पूर्वसिद्धनानात्वदर्शनं निषेध- तोत्ययमर्थः प्रागेव प्रपञ्चितः । *स एष नेतिनेत्यात्मा* इत्यत्र चेतिशब्देन प्रमाणान्तर- प्रतिपन्न प्रपञ्चाकारं परामृश्य न तथाविधं ब्रह्मेति सर्वात्मभूतस्य ब्रह्मणः प्रपञ्चविलक्षणत्वं प्रतिपाद्यते । तदेव चानन्तरमुपपादयति *अग्राह्यो न हि गृह्यते अशीर्यो नहि शीर्यते असङ्गो नहि सज्यते अव्यथितो न व्यथते न रिष्यति इति । प्रमाणान्तरग्राह्यविसजातीयत्वात्प्रमा- णान्तरेण न गृह्यते । विशरणीयविसजातीयत्वान्न विशीर्यते । एवमुत्तरत्रानुसन्धेयम् । छान्दोग्येऽपि नास्य जरयतज्जीर्यति न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमस्मिन् कामा- स्पमाहिताः* इति सर्वविसजातीयत्वं ब्रह्मणः प्रतिपाद्य तस्मिन् सत्यकामत्वादयो विधीयन्ते ॥३६ ॥ नन्वेवमपि *तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति स यदि पितृलोककामो भवति* इत्यादिना सत्यकामादिगुणविशिष्टवेदनस्य सांसारिकफलसंबन्धश्रवणान्मुमुक्षोब्रह्मप्रेप्सोन सगुरणं ब्रह्मोपास्यम् । परविद्याफलं च *परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते* इतीदमेव । अतस्सत्यकामत्वादयो ब्रह्म प्रेप्सो- !पसंहार्याः इति । अत उत्तरं पठति- ३६४. उपस्थितेऽतस्तद्वचनात् ।। ३-३-४० ।। उपस्थितिः-उपस्थानम्, ब्रह्मोपसंपन्न सर्वबन्धविनिर्मुक्ते स्वेन रूपेणाभिनिष्पन्न प्रत्यगात्मनि अत एव-उपसंपत्तेरेव हेतोस्सर्वेषु लोकेषु कामचार उच्यते *परं ज्योतिरुप- संपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत्क्रीडब्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति इति । तदेतच्चतुर्थे निपुणतरमुपपादयिष्यते । अतस्सर्वेषु लोकेषु कामचारस्य मुक्तोपभोग्यफलत्वात् मुमुक्षोस्सत्यकामत्वादयो गुणा उपसंहार्याः ॥ ४० ॥ इति कामाद्यधिकरणम् ।। १६ ॥ अथ तन्निर्धारणानियमाधिकरणम् ।। १७ ।। ३६५. तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ।। ३-३-४१।। *ओमित्येतदक्षरमुद्गीथमुपासीत* इत्यादीनि कर्माङ्गाश्रयाण्युपासनानि कर्माङ्ग- तृतीयाध्याये-तृतीयादे-प्रदानाधिकरणम् ३१५ भूतोद्गीथादिमुखेन जुह्वादिमुखेन पर्णतादिवत् कर्भाङ्गत्वेन निरूढानुष्ठानानीत्युद्गीथाद्य पा- सनसंबन्धिनो *यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति* इति वर्तमाननिर्देशस्य पर्णतादिसंबन्ध्यपापश्लोकश्रवणवत्पृथक्लत्वकल्पनायोगात्क्रतुषु नियमेनोप- संहार्याणीति ॥ एवं प्राप्त प्रचक्ष्महे--तनिर्धारणानियम इति । निर्धारणं-निश्चयेन मनसोऽवस्था- पनम्, ध्यानमित्यर्थः; तन्निर्धारणानियमः-कर्मसूद्गीथाद्युपासनानामनियमः; कुतः ? तदृष्टेः- उपलभ्यते ा पासनानुष्ठानानियमः *तेनोभौ कुरुतो यश्चेतदेवं वेद यश्च न वेद* इत्यविदुषोऽप्यनुष्ठानवचनात् । नचाङ्गत्वे सत्युपासनस्यानुष्ठानानियम उपपद्यते । एवमुपा- सनस्यानङ्गत्वे निश्चिते सत्युपासनविधेः फलाकाङ्क्षायां रात्रिसत्रन्यायेन वीर्यवत्तरत्वं कर्मफलात्पृथग्भूतमेव फलमित्यवगम्यते । किमिदं वीर्यवत्तरत्वम् ? कर्मफलस्यैवाप्रतिबन्धः । प्रतिबध्यते हि कर्मफलं प्रबलकर्मान्तरफलेन तावन्तं कालम् तदभावोऽप्रतिबन्धः । स ह्यप्रति- बन्धः कर्मफलात्स्वर्गादिलक्षणात्पृथग्भूतमेव फलम् । तदिदमुच्यते-पृथग्घ्यप्रतिबन्धः फल- मिति । अतः कर्माङ्गाश्रयाणामपि पृथक्फलत्वाद्गोदोहनादिवत्कर्मसूद्गीथाद्युपासनानाम- नियमेनोपसंहारः ॥ ४१ ॥ इति तन्निर्धारणानियमाधिकरणम् ।। १७ ।। अथ प्रदानाधिकरणम् ॥ १८ ॥ ३६६. प्रदानवदेव तदुक्तम् ॥ ३-३-४२ ॥ दहरविद्यायां तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् इति दहरा- काशस्य परमात्मन उपासनमुक्त्वा, *एतांश्च सत्यान्कामानिति गुणानामपि पृथगुपासनं विहितम् । तत्र संशयः-गुणचिन्तनेऽपि तत्तद्गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्त- नीयम्, उत नेति । दहराकाशस्यैवापहतपाप्मत्वादीनां गुणित्वात्तस्य च सकृदेवानुसन्धातुं शक्यत्वाद्गुणार्थ तच्चिन्तनं नावर्तनीयम् ॥ इति प्राप्त उच्यते--प्रदानवदेवेति । प्रदानवदावर्तनीयमेवेत्यर्थः। यद्यपि दहराकाश एक एवापहतपाप्मत्वादिगुणानां गुणी; स च प्रथमं चिन्तितः; तथाऽपि स्वरूपमात्राद्गुण- विशिष्टाकारस्य भिन्नत्वात् *अपहतपाप्मा विजरः इत्यादिना गुणविशिष्टतया चोपास्यत्वेन विहितत्वात्पूर्वं स्वरूपेणानुसंहितस्यापहतपाप्मत्वादिविशिष्टतयाऽनुसन्धानार्थमावृत्तिः कर्तव्या। यथा *इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत् इन्द्रायाधिराजाय *इन्द्राय स्वराशे* ३१६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । इतीन्द्रस्यैव राजत्वादिगुणविशिष्टत्वेऽपि तत्तद्गुणसंबध्याकारस्य भिन्नत्वात्प्रदानावृत्तिः क्रियते । तदुक्तं साङ्कर्षणे *नाना वा देवता पृथक्त्वात् इति ॥४२॥ इति प्रदानाधिकरणम् ।।१८।। ? अथ लिङ्गभूयस्त्वाधिक रणम् ।। १६॥ ३६७. लिंगभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ३-३-४३ ।। तैत्तिरीया दहर विद्यानन्तरमधीयते *सहस्त्रशीर्ष देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परम प्रभुम् ॥ इत्यारभ्य *सोऽक्षरः परमस्स्वराट* इत्यन्तम् । तत्र संशयः-कि पूर्वप्रकृतविद्ययकविद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते, उत सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणमिति । कि युक्तम् ? दहरविद्योपास्यविशेष- निर्धारणमिति । कुतः प्रकरणात् । पूर्वस्मिन्ननुवाके दहरविद्या हि प्रकृता *दह विपाप्म परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् । तत्रापि दह्र गगनं विशोकस्तस्मिन्यदन्तस्तदु- पासितव्यम् ॥ इति । अस्मिश्चानुवाके *पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्* इत्यादिना हृदयपुण्डरीकाभिधानमस्य नारायणानुवाकस्य दहरविद्योपास्यनिर्धारणार्थत्वमुपोद्- बलयतीति ॥ एवं प्राप्त प्रचक्ष्महे-लिङ्गभूयस्त्वादिति । अस्य निखिलपरविद्योपास्यविशेष- निर्धारणार्थत्वे भूयांसि लिङ्गानि दृश्यन्ते; तथा हि--परविद्यास्वक्षरशिवशम्भुपरब्रह्मपर- ज्योतिःपरतत्वपरमात्मादिशब्दनिर्दिष्टमुपास्यं वस्त्विह तैरेव शब्दरनूद्य तस्य नारायणत्वं विधीयते । भूयसीषु विद्यासु श्रुताननूद्य नारायणत्वविधानभूयस्त्वं नारायण एव सर्वविद्या- सूपास्यमस्थूलत्वादिविशेषितानन्दादिगुणकं परं ब्रह्मेति विशेषनिर्णये भूयः बहुतरं लिङ्गं भवति । अत्र लिङ्गशब्दः चिह्नपर्यायः । चिह्नभूतं वाक्यं बहुतरमस्तीत्यर्थः । तद्धि प्रकरणा- बलीयः । तदप्युक्तं प्रथमकाण्डे *श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पर- दौर्बल्यमर्थविप्रकर्षात् इति । यत्तूक्त *पद्मकोशप्रतीकाशमित्यादिवचनं दहरशेषत्वमस्यो- पोबलयतीति; तन्न, बलीयसा प्रमाणेन सर्वविद्योपास्यनिर्धारणार्थत्वेऽवधृते सति; दहर विद्यायामपि तस्यैव नारायणस्योपास्यत्वेन तद्वचनोपपत्तेः। नच *सहस्त्रशीर्षमित्यादिद्वितीया- निर्देशेन पूर्वानुवाकोदितोपासिना संबन्धश्शङ्कनीयः; *तस्मिन् यदन्तस्तदुपासितव्यम्* इत्युपासिगतेन कृत्प्रत्ययेनोपास्यस्य कर्मणोऽभिहितत्वात्तदुपास्ये द्वितीयानुपपत्तेः। *विश्व- मेवेदं पुरुषः तत्त्वं नारायणः परः* इत्यादिप्रथमानिर्देशाच्च प्रथमार्थे द्वितीया वेदितव्या। *अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः, स ब्रह्मा स शिवस्सेन्द्रः सोऽक्षरः परमस्स्वराट* इति निर्देशैस्सर्वस्मात्परो नारायण एव तृतीयाध्याये-तृतीयपादे-पूर्वविकल्पाधिकरणम् । ३१७ सर्वत्रोपास्थ इति निर्णीयमानत्वाच्च इति लिङ्गभूयस्त्वाधिकरणम् ।। १६ ।। प्रथमार्थे द्वितीयेति निश्चीयते ॥४३ ।। अथ पूर्वविकल्पाधिकरणम् ।। २० । ३६८. पूर्वविकल्पः प्रकरणात्स्याक्रिया मानसवत् ॥ ३-३-४४ ॥ वाजसनेयके अग्निरहस्ये मनश्चितादयोऽग्नयः श्रूयन्ते *मनश्चितो वाक्चितः प्राण- चितः चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः* इति । तत्र संशयः-किमेते मनश्चिता- दयस्साम्पादिकत्वेन विद्यारूपा अग्नयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपाः, आहोस्विद्विद्या- मयक्रत्वनुप्रवेशेन विद्यारूपा एवेति विशये, क्रियारूपत्वं तावदाह-पूर्वविकल्प इत्यादिना । चित्याग्नित्वेन संपादितानामेषां मनश्चितादीनां क्रत्वनुप्रवेशसाकाङ्क्षाणां स्वदेशे क्रतुविध्य- भावात्पूर्वत्र *असद्वा इदमग्र आसीत्* इत्यादिनेष्टकचितस्याग्नेः प्रकृतत्वात् तस्य च क्रिया- मयक्रत्वव्यभिचारित्वेन तत्र क्रतुसन्निधानात्तत्प्रकरणगृहीता मनश्चितादयस्तेनेष्टकचितेनाग्निना विकल्प्यमानाः क्रियारूपा एव स्युः । विद्यारूपाणामपि क्रियामयक्रत्वनुप्रवेशेन क्रियारूपत्वं मानसग्रहवदुपपद्यते । यथा द्वादशाहे अविवाक्ये दशमेऽहनि मानसग्रहस्य मनोनिष्पाद्य- ग्रहणासादनस्तोत्रशस्त्रप्रत्याहरणभक्षणत्वेन विद्यारूपस्यापि क्रियामयक्रत्वङ्गतया क्रिया- रूपत्वम्; तथेहापि ॥ ४४ ॥ ३६६. अतिदेशाच्च ॥ ३-३-४५ ॥ इतश्चेष्टकचितेनाग्निना मनश्चितादीनां विकल्पः क्रियारूपत्वं चावगम्यते । तेषा- मेकैक एव तावान् यावानसौ पूर्वः* इति पूर्वस्येष्टकचितस्थाग्नेर्वीर्य मनश्चितादिष्वतिदिश्यते; तेन तुल्यकार्यत्वाद्विकल्पः । ततश्चेष्टकचितवत्तत्क्रतुनिवर्तनेन तदङ्गभूताः मनश्चितादयः ( क्रियामयक्रत्वनुप्रवेशेन ) क्रियारूपा एवेति ॥ ४५ ॥ एवं प्राप्त प्रचक्ष्महे- ४००. विद्यैव तु निर्धारणाद्दर्शनाच्च ॥ ३-३-४६ ॥ तुशब्दः पक्षं व्यावर्तयति; यदुक्तं मनश्चितादयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा एवेति; नेतदस्ति; विद्यारूपा एवैते-विद्यारूपक्रत्वन्वयिन इत्यर्थः । कुतः ? निर्धारणादर्श- नाच्च । निर्धारणं तावत्-*ते हैते विद्याचित एव विद्यया हैवैत एवंविदश्चिता भवन्ति* ३१८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । CA 5000.13 - इति । वाङ्मनाक्षुरादिव्यापाराणाभिष्टकादिवच्चयनानुपपत्तेर्मनसा संपादिताग्नित्वेन विद्या- रूपत्वे सिद्धेऽपि *विद्याचित एव *विद्यया हैवैते* इति चावधारणं विद्यामयक्रत्वन्वयेन विद्यारूपत्वज्ञापनार्थमिति निश्चीयते । दृश्यते चात्रैवैषां शेषी विद्यारूपः क्रतुः *ते मनसैवा- धीयन्त मनसैवाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन यत्किञ्च यज्ञे कर्म क्रियते, यत्किञ्च यज्ञीयं कर्म मनसैव तेषु मनोमयेषु मनश्चित्सु मनोमयमक्रियत* इति । इष्टकचितेष्वग्निषु यत्क्रियाभयं यज्ञीयं कर्म क्रियते, तन्मनोनिवर्येषु मनश्चिताद्यग्निषु मनो- मयमेवाक्रियतेति वचनात् क्रतुरपि विद्यामयोऽत्र प्रतीयते ॥ ४६ ॥ नन्वत्र विधिपदाश्रवणात् फलसंबन्धाप्रतीतेश्चेष्टकचिताग्नय पस्थापितक्रियामयक्रतु- प्रकरणाद्विद्यामयक्रत्वन्वयेन विद्यारूपतैषां बाध्येत; नेत्याह- ४०१. श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ३-३-४७ ॥ श्रुतिलिङ्गवाक्यानां प्रकरणाबलीयस्त्वेन श्रुत्याद्यवगतः क्रतुरेषां तदन्वयश्च दुर्बलेन प्रकरणेन बाधितुं न शक्यते । श्रुतिस्तावत्---*ते हैते विद्याचित एवेति । तां विवृणोति विद्यया हैवैत एवंविदश्चिता भवन्तीति । विद्यया विद्यामयेन ऋतुना संबद्धा मनश्चितादयश्चिता भवन्तीत्यर्थः । *तान् हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते* इति लिङ्गम् । वाक्यं च* एवं विदे चिन्वन्ति इति । समभिव्याहारो वाक्यम् । एवंविदे विद्यामयक्रतुमते सर्वदा सर्वाणि भूतानि चिन्वन्तीत्यर्थः । सर्वभूतकर्तृकं सर्वकाल- व्यापि चयनं मनसा संपादितं परिमितकर्तृ कालक्रियामयेष्टकचितकार्यद्वारेण क्रत्वनुप्रवेश- संभवमलभमानं विद्यामयक्रत्वनुप्रवेशे लिङ्गं भवति ॥ ४७ ।। यच्चेदमुक्तं-विधिप्रत्ययाश्रवणात्फलसंबन्धाप्रतीतेश्च क्रियामयात्क्रतोरन्योऽत्र विद्या- मयः ऋतुर्न संभवतीति, तत्राह- ४०२. अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ।। ३-३-४८ ॥ इष्टकांचतान्वयिनः क्रियामयात्क्रतोविद्यामयोऽयं क्रतुः पृथक्त्वेन अनुबन्धादिभ्यः पृथक्त्वहेतुभ्योऽवगम्यते । अनुबन्धाः यज्ञानुबन्धिनो ग्रहस्तोत्रशस्त्रादयः मनसैषु ग्रहा अगृ- ह्यन्त मनसास्तुवन्त मनसाशंसन* इत्यादिना प्रतिपादिताः । आदिशब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते । श्रुत्यादिभिस्सानुबन्धैः विद्यामयक्रतुः पृथगवगम्यत इत्यर्थः । प्रज्ञान्तरपृथक्त्ववत्- यथा प्रज्ञान्तरं दहरविद्यादि क्रियामयात्क्रतोः पृथग्भूतं श्रुत्यादिभिरवगम्यते, एवमयमपि । एवं चानुबन्धादिभिः पृथग्भूते विद्यामये यज्ञेऽवगते सति विधिः परिकल्प्यते । दृष्टश्चानु- वदिसरूपेषु कल्प्यमानो विधिः । तदुक्तं वचनानि त्वपूर्वत्वात् इति । फलं च तेषामेकैक तृतीयाध्याये-तृतीयपादे-शरीरेभावाधिकरणम् । ३१६ 9 ܀܀ न एव तावान् यावानसौ पूर्वः* इत्यतिदेशात् स्वक्रतुद्वारेणेष्टकचितस्याग्नेर्यत्फलम्, तदेव मनश्चितादीनामपि स्वक्रतुद्वारेण फलमित्यवगम्यते ॥ ४८ ।। यत्पुनरतिदेशेन तुल्यकार्यत्वावगमाक्रियामयक्रत्वनुप्रवेशोऽवगम्यत इत्युक्तम्, तत्राह- ४०३. न सामान्यादप्युपलब्धेमृत्युवन्न हि लोकापत्तिः ॥ ३-३-४६॥ नावश्यमतिदेशादवान्तरव्यापारस्यापि तुल्यतया भवितव्यम्, येन क्रियामयक्रत्वनु- प्रवेश एषां स्यात्, यस्मात्कस्माच्चित्सामान्यमात्रादतिदेशोपलब्धेः। उपलभ्यते हि स एष एव मृत्युर्य एष एतस्मिन् मण्डले पुरुषः* इत्यादिषु संहर्तृत्वादिसामान्यमात्रादतिदेशः । नहि तत्र मण्डलपुरुषस्य मृत्युवत्तल्लोकापत्तिः-तद्देशप्राप्तिरपि भवति । एवमिहापि मनश्चिता- दीनामिष्टकचिताग्निवद्भावातिदेशमात्रेणेष्टकचिताग्निदेशरूपक्रियामयक्रत्वनुप्रवेशेनापि भवितव्यम् । अत इष्टकचिताग्नेः स्वक्रतुद्वारेण यत्फलम्, तदेव मनश्चितादीनामपि विद्यामय- क्रतुद्वारेण फलमित्यतिदेशादवगम्यते ॥ ४६॥ ४०४. परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्वनुबन्धः ॥ ३-३-५० ।। परेण च ब्राह्मणेनास्यापि मनश्चिताद्यभिधायिनः शब्दस्य ताद्विध्यं-तद्विधत्वम्, विद्यामयप्रतिपादित्वमगम्यते । परेण हि ब्राह्मणेन *अयं वा व लोक एषोऽग्निचितस्तस्याप एव परिश्रितः* इत्यादिना *स यो हैतदेवं वेद लोकं (पृणामेवं, पृणानमेवं) पृणानामेनं भूतमेतत्सर्वमभिसंपद्यते इति पृथक्फला विद्यैव विधीयते, तथा वैश्वानरविद्यादौ च विद्यैव विधीयते। अतोऽग्निरहस्यस्य क्रियकविषयत्वं नास्ति । एवं तहि विद्यामया मनश्चितादयो बृहदारण्यकेऽनुबद्धव्याः किमर्थमिहानुबध्यन्ते ? तत्रोच्यते-भूयस्त्वात्त्वनुबन्ध इति । मनश्चितादिषु सम्पादनीयानामग्नयङ्गानां भूतस्त्वात्तत्सन्निधाविहानुबन्धः कृतः ॥ ५० ॥ इति पूर्वविकल्पाधिकरणम् ।। २० ।। अथ शरीरेभावाधिकरणम् ।। २१ ।। ४०५. एक आत्मनश्शरीरे भावात् ॥ ३-३-५१ ॥ सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपासकस्वरूपस्यापि ज्ञातव्यत्वमुक्त *त्रयाणा- मेवचैवमुपन्यासः प्रश्नश्चेति । वक्ष्यति चास्य प्रत्यगात्मनः परमात्मात्मकत्वेनानुसन्धानम् *आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति । किमयं प्रत्यगात्मा ज्ञाता कर्ता भोक्त हामुत्र संचारक्षमोऽनुसन्धेयः, उत प्रजापतिवाक्योदितापहतपाप्मत्वादिस्वरूपः ? किं युक्तम् ?

३२० श्रीभगवद्रामा नुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - ज्ञातृत्वाद्याकारमात्र इत्येके मन्यते । कुतः ? अस्योपासकस्यात्मनः शरीरे भावात् । आत्म- नश्शरीरे वर्तमानस्य तादृशमेव रूपम् । तावतैवानुसन्धानेन तत्फलसिद्धय पपत्तेश्च । नहि कर्मस्वधिकृतानां स्वर्गादिफलार्थिनां ज्ञातृत्वाद्यतिरेकेण फलानुभवदशायां यादृशं रूपम्, तादृशं रूपं साधनानुष्ठानदशायामनुसन्धातव्यम् । तावतैव साधनानुष्ठानतत्फलयोस्सिद्धरतिरिक्तानु- सन्धाने प्रयोजनाभावात्; तदविशेषादिहापि तथैव । ननु चात्र यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति* इति विशेषवचनादपहतपाप्मत्वाद्याकार एवानुसन्धातव्य इत्यव- गम्यते । नवम्, *तं यथायथोपासते* इत्युपास्यविषयत्वात्तस्य ॥ ५१ ॥ एवं प्राप्त प्रचक्ष्महे- ४०६. व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ३-३-५२ ।। न त्वेतदस्ति-यत् ज्ञातृत्वाद्याकार एवानुसन्धेय इति । अस्यात्मनस्संसारदशायाः मोक्षदशायां यो व्यतिरेकः, सोऽपहतपाप्मत्वादिकोऽनुसन्धेयः; अस्य मोक्षदशायां यादृशं रूपं, तादृग्रूप एवोपासनवेलायामात्माऽनुसन्धेय इत्यर्थः । कुतः ? तद्भावभावित्वात्तद्रूपापत्तेः; *यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति *तं यथायथोपासते तथैव भवति* इति यथोपासनमेव हि प्राप्तिः श्रूयते । नच परस्वरूपमात्रविषयमेवेदमिति वक्तुं शक्यते, प्रत्यगात्मनोऽप्युपास्यभूतपरब्रह्मशरीरतयोपास्यकोटिनिक्षिप्तत्वात् । अतः प्रजापतिवाक्यो- दितापहतपाप्मत्वादिगुणकप्रत्यगात्मशरीरपरमात्मोपासनस्य तथारूपमेव प्राप्यमित्युक्त भवति । अत एव *एवं क्रतुर्हामु लोकं प्रेत्याभिसंभवितास्मि* इत्युच्यते । तस्मात्प्रत्यगात्मा प्राप्याकार एवानुसन्धेयः। उपलब्धिवत्-ब्रह्मोपलब्धिवत् यथा ब्रह्मोपलब्धिविहिता यथा- वस्थितब्रह्मस्वरूपविषया, तथाऽऽत्मोपलब्धिरपि यथावस्थितात्मस्वरूपविषयेत्यर्थः। कर्म- स्वात्मस्वरूपानुसन्धान कर्माङ्गम्; श्यजेत स्वर्गकाम इति कर्मानुष्ठानमेव हि फलाय चोद्यते । देहातिरिक्तज्ञातृत्वाद्याकारात्मावगतिः कालन्तरभाविफलसाधनकर्माधिकारार्थेति तावन्मात्र- मेव तत्रापेक्षितमिति न किञ्चिदपहीनम् ॥ ५२ ॥ इति शरीरेभावाधिकरणम् ।। २१ ।। अथ अङ्गावबद्धाधिकरणम् ।। २२ ।। ४०७. अंगावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ३-३-५३ ॥ *ओमित्येतदक्षरमुद्गीथमुपासीत *लोकेषु पञ्चविधं सामोपासीत उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी *अयं वा व लोक एषोऽग्निचितः* इत्येव- माद्याः क्रत्वङ्गाश्रया उपासना भवन्ति । ताः किं यासु शाखासु श्रूयन्ते, तास्वेव नियताः, तृतीयाध्याये-तृतीयपादे-भूमज्यायस्त्वाधिकरणम् । ३२१ उत सर्वासु शाखासद्गीथादिषु संबध्यन्त इति विचारः। सर्ववेदान्तप्रत्ययत्वे स्थितेऽपि प्रतिवेदं स्वरभेदादुद्गीथादयो भिद्यन्त इति तत्रतत्र व्यवतिष्ठेरनिति युक्ता शङ्का । किं युक्तम् ? व्यवतिष्ठेरनिति । कुतः ? *उद्गीथमुपासीतेति सामान्येनोद्गीथसबन्धितया श्रुतायास्तस्यामेव शाखायां स्वरविशेषयुक्तस्योद्गीथविशेषस्य सन्निधानात्तस्मिन्नेव विशेषे पर्यवसानं युक्तमिति, एवमाद्यास्तास्वेव शाखासु व्यवतिष्ठेरनिति ॥ एवं प्राप्त प्रचक्ष्महे-अङ्गावबद्धास्त्विति । तुशब्दः पक्षं व्यावर्तयति । ना द्गी- थाद्यङ्गावबद्धा उपासनास्तास्वेव शाखासु व्यवतिष्ठेरन्; अपितु प्रतिवेदं संबध्येरन्; सर्वासु शाखास्वित्यर्थः । हिशब्दो हेतौ। यस्माच्छ त्यैवोद्गीथाद्यङ्गमात्रावबद्धाः, तस्माद्यत्रो- द्गीथादयः, तत्र सर्वत्र संबध्येरन् । यद्यपि स्वरभेदेनोद्गीथव्यक्तयो भिद्यन्ते; तथापि सामान्येनोद्गीथश्रुत्या सर्वा व्यक्तयस्सन्निहिता इति न क्वचिन्द्यवस्थायां प्रमाणमस्ति । सर्वशाखाप्रत्ययन्यायेन च सर्वासु शाखासु क्रतुरेकः । अतस्सर्वासु शाखास्वेकस्य क्रतोस्सन्नि- धानात् क्रत्वङ्गभूतोद्गीथादयोऽपि सन्निहिता इति नैकस्य सन्निधिविशेषोऽस्तीति न व्यवस्था ॥ ५३॥ ४०८. मन्त्रादिवद्वाऽविरोधः ॥ ३-३-५४ ॥ वाशब्दश्चार्थे । आदिशब्देन जातिगुणसङ्ख्यासादृश्यक्रमद्रव्यकर्माणि गृह्यन्ते । यथा मन्त्रादीनामेकैकशाखास्वाम्नातानामपि शेषिणः क्रतोस्सर्वशाखास्वेकत्वेन यथायथं श्रुत्यादिभिस्सर्वासु शाखासु विनियोगो न विरुध्यते; तद्वदिहाप्यविरोधः ॥ ५४ ॥ इति अङ गावबद्धाधिकरणम् ।। २२ ।। अथ भूमज्यायस्त्वाधिकरणम् ॥ २३ ॥ ४०६. भूम्नः क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ३-३-५५ ।। *प्राचीनशाल औपमन्यवः% इत्यारभ्य वैश्वानरविद्या आम्नाता। तत्र वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्यश्श्रुतः स्वर्लोकादित्यवाय्वाकाशाप्पृथिव्यवयवः। तत्र च धौमूर्धा, आदित्यश्चक्षुः, वायुः प्रागः, आकाशस्सन्देहः-~~-मध्यकाय इत्यर्थः, आपो वस्तिः, पृथिवी पादावित्यवयवविशेषाः। तत्र संशयः-किमस्य त्रैलोक्यशरीरस्य व्यस्तस्योपासनं कर्तव्यम्, उत व्यस्तस्य समस्तस्य च, अथ समस्तस्यैवेति । कि युक्तम् ? व्यस्तोपासनो- पदेशात् । तथा ह्य पदिश्यते-औपमन्यवादयः किलोद्दालकषष्ठाः केकयमश्वपतिमुपसद्य ३२२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । 4BO 4EDOS . *आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि* इति पप्रच्छुः । स च तेभ्यः प्रत्येक स्वोपास्यान् धुप्रभृतीनुक्तवद्भयो मूर्धादिषु व्यस्तेषूपासनं तत्रतत्र फलं चोक्तवान् *अत्यन्न पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति एष वै सुतेजा आत्मा वैश्वानरः* इत्यादिना तेषुतेषूपासनेषूपास्यस्य वैश्वानरत्वं चाह । अतो व्यस्तस्योपासनं कर्तव्यम् । परत्र यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानर- मुपास्ते* इति थुप्रभृतिप्रदेशावच्छिन्नमात्रे वैश्वानरे उक्तस्य मूर्धाधुपासनस्य समासेनोपसंहार इत्यवगन्तव्यम् । अपर आह -एवमेव समस्तस्याप्युपासनं कार्यमिति, पृथक्फलनिर्देशात् यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु भूतेषु सर्वेष्वाम- स्वन्नमत्ति* इति । नचैतावता वाक्य भेदः । यथा भूमविद्योपक्रमे नामाधुपासनं तत्तत्फलश्चा- भिधाय *एष तु वा अतिवदति- इत्यादिना भूमविद्यामुपदिश्य *स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति इति तत्फलञ्च व्यपदिशति । तत्र भूमविद्यापरत्वेऽपि वाक्यस्य नामाद्यवान्तरोपासनं तत्तत्फलं चाङ्गीक्रियते, तथा इहापीति ॥ एवं प्राप्तेऽभिधीयते-भूम्नो ज्यायस्त्वमिति । भूम्नः-विपुलस्य, समस्तस्यैव, ज्यायस्त्वं-प्रामाणिकत्वमित्यर्थः; एकवाक्यत्वावगतेः। तथा हि प्राचीनशाल औपमन्यवः* इत्युपक्रम्य *उद्दालको ह वै भगवन्तोऽयमारुणिस्संप्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम* इति वैश्वानरात्मबुभुत्सयौपमन्यवादयः पञ्च महर्षयः तमुद्दालकमुपेत्य तत्र वैश्वानरात्मवेदनमलभमानास्तेन च सहाश्वपति केकयं वैश्वानरात्मवेदिनमुपसंगम्य *आत्मान- मेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि* इति पृष्ट्वा तत्सकाशात् परमात्मानं वैश्वानरं स्वर्लोकादिपृथिव्यन्तशरीरमुपास्यमवगम्य तत्फलं च सर्वलोकसर्वभूतसर्वात्मान्नभूतब्रह्मानुभव- मवगतवन्त इत्युपसंहारतो वाक्यस्यैकत्वमवगम्यते । एवमेकवाक्यत्वेऽवगते सत्यवयवविशेषे- धूपास्तिवचनं फलनिर्देशश्च समस्तोपासनैकदेशानुवादमात्रमिति निश्चीयते । क्रतुवत्-यथा *वैश्वानरं द्वादशकपालं पुढे जाते* इति विहितस्यैव क्रतोरेकदेशाः यदष्टाकपालो भवति* इत्यादिभिरनुद्यन्ते, तथा समस्तोपासनमेव न्याय्यम्, न व्यस्तोपासनम् । तथाहि दर्शयतीयं श्रुतिः व्यस्तोपासने अनर्थ ब्रुवती *मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः* इति, *अन्धोऽ- भविष्यो यन्सां नागमिष्यः* इत्यादिका । अत इदमप्यपास्तं, यन्नामा पासनसाम्यमुक्तम् । तत्रहि नामाधुपासनेष्वनर्थो न श्रुतः, नामाधुपासनेभ्यो भूमोपासनस्यातिशयितफलत्वं श्रुतम् *एष तु वा अतिवदति यस्सत्येनातिवदतीति । तत एव तत्र भूमविद्यापरत्वेऽपि वाक्यस्य नामाद्य पासनानां सफलानां विवक्षितत्वम्; अन्यथाऽतिशयितफलत्वनिमित्तातिवादेन भूम- विद्यास्तुत्यनुपपत्तेः । अतस्समस्तोपासनमेव न्याय्यम् ॥५५॥ इति भूमज्यायस्त्वाधिकरणम् ।।२३।।

तृतीयाध्याये-तृतीयपादे-शब्दादिभेदाधिकरणम् । अथ शब्दादिभेदाधिकरणम् ।। २४ ।। ४१०. नाना शब्दादिभेदात् ।। ३-३-५६ ॥ इह ब्रह्मविद्यास्सर्वाः ब्रह्मप्राप्तिरूपमोक्षकफलाः सद्विद्याभूमविद्यादहरविद्योपकोसल- विद्याशाण्डिल्यविद्यादैश्वानरविद्यानन्दमयविद्याक्षरविद्यादिका एकशाखागताशाखान्तरगता- श्वोदाहरणय; अन्याः प्राणाद्य कविषयफलाश्च । किमत्र विद्य क्यम्, उत विद्याभेद इति संशय्यते । अत्रैवासां परस्परभेदे सथिते सत्येकस्या दहरविद्यादिकायास्सर्ववेदान्तप्रत्यय- न्यायः । किं युक्तम् ? विद्य क्यमिति । कुतः ? वेद्यस्य ब्रह्मरण एकत्वात्; वे हि विद्याया रूपम् अतो रूपैक्याद्विद्य क्यमिति ॥ एवं प्राप्त ऽभिधीयते-नाना इति । नानाभूता विद्याः; कुतः ? शब्दादिभेदात्- आदिशब्देनाभ्याससङ्ख्यागुणप्रक्रियानामधेयानि गृह्यन्ते । शब्दान्तरादिभिरत्र विधेयभेद- हेतवोऽनुबन्धभेदाः दृश्यन्ते । यद्यपि वेदोपासीतेत्यादयः शब्दाः प्रत्ययावृत्त्यभिधायिनः; प्रत्ययाश्च ब्रह्मैकविषयाः; तथाऽपि तत्तत्प्रकरणोदितजगदेककारणत्वापहतपाप्मत्वादि- विशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्यवबोधिनः प्रत्ययावृत्तिरूपाः विद्या भिन्दन्ति । ब्रह्म- प्राप्तिरूपफलसंबन्ध्युपासनविशेषाभिधायीनि च निराकाङ्क्षाणि वाक्यानि प्रतिप्रकरणं विलक्षणविद्याभिधायीनीति निश्चीयते । अस्मिन्नर्थे *शब्दान्तरे कर्मभेद:* इत्यादिभिः पूर्व- काण्डोदितैस्सूत्र सिद्धेऽपि पुनरिह प्रतिपादनं वेदान्तवाक्यानि अविधेयज्ञानपराणीति कुदृष्टि- निरसनाय । अतो विद्याभेद इति स्थितम् ॥ ५६ ॥ इति शब्दादिभेदाधिक रणम् ॥ २४ ॥ - अथ विकल्पाधिकरणम् ।। २५ ।। ४११. विकल्पोऽविशिष्टफलत्वात् ।। ३-३-५७ ।। ब्रह्मप्राप्तिफलानां सद्विद्यादहर विद्यादीनां नानात्वमुक्तम् । इदानीमासां विद्यानामेक- स्मिन् पुरुषे प्रयोजनवत्त्वेन समुच्चयोऽपि संभवति, उत प्रयोजनाभावाद्विकल्प एवेति विशये, किं युक्तम् ? समुच्चयोऽपि संभवतीति । कुतः ? एकफलानां भिन्नशास्त्रार्थानामपि समुच्चय- दर्शनात् । दृश्यते ोकस्यैव स्वर्गादेस्साधनानामग्निहोत्रदर्शपूर्णमासादीनां तस्यैव स्वर्गस्य भूयस्त्वापेक्षयकत्र पुरुष समुच्चयः । एवमिहापि ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयोऽपि संभवतीति ॥ एवं प्राप्त प्रचक्ष्महे-विकल्प एव; न समुच्चयस्संभवतीति । कुतः ? अविशिष्टफल- त्वात्-सर्वासां हि ब्रह्मविद्यानामनवधिकातिशयानन्दब्रह्मानुभवः फलमविशिष्ट श्रूयते ? ?

३२४
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
*ब्रह्मविदाप्नोति परम् *स एको ब्रह्मण आनन्दः, श्रोत्रियस्य चाकामहतस्य यदा पश्यः
पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं
साम्यमुपैति ॥ इत्यादिभ्यः । ब्रह्म हि स्वस्य परस्य च स्वयमनुभूयमानमनवधिकातिशया-
नन्दं भवति । स च तादृशो ब्रह्मानुभवः एकया विद्ययाऽवाप्यते चेत्, किमन्ययेति न समुच्चय-
संभवः । स्वर्गादेहि देशतः कालतः स्वरूपतश्च परिमितत्वेन तत्र देशाद्यपेक्षया भूयस्त्व-
संभवात्तदथिनस्समुच्चयस्संभवति; इह तु तद्विपरीतस्वरूपे ब्रह्मणि तन्न संभवति । सर्वाश्च
विद्याः ब्रह्मानुभवविरोध्यनादिकर्माविद्यानिरसनमुखेन ब्रह्मप्राप्तिफला इत्यविशिष्टफलत्वा-
सर्वासां विकल्प एव ॥ ५७ ॥
ब्रह्मप्राप्तिव्यतिरिक्तफलास्तु विद्यास्स्वर्गादिफलकर्मवद्यथेष्ट विकल्पेरन्, समुच्ची-
येरन्वा, तासां परिमितफलत्वेन भूयस्त्वापेक्षासंभवात् । तदाह-
४१२. काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ३-३-५८ ॥
अपरिमितफलत्वाभावादित्यर्थः ॥ ५८ ॥ इति विकल्पाधिकरणम् ।। २५ ।।
-
अथ यथाश्रयभावाधिकरणम् ।। २६ ।।
४१३. अङ्गेषु यथाश्रयभावः ॥ ३-३-५६ ॥
उद्गीथादिक्रत्वङ्गष्वाचिताः ओमित्येतदक्षरमुद्गीथमुपासीत* इत्यादिका विद्याः
किमुद्गीथादिवत्क्रत्वर्थतया ऋतुषु नियमेनोपादेयाः, उत गोदोहनादिवत्पुरुषार्थतया यथाकाम-
मिति विशये, नियमेनोपादेया इति युक्तम् । ननु चासां पुरुषार्थत्वेनानियमः प्रतिपादितः
*तन्निर्धारणानियमस्तदृष्टेः पृथग्घ्यप्रतिबन्धः फलम्* इत्यत्र । सत्यम् तदेव द्रढयितुं
कश्चिल्लिङ्गदर्शनयुक्त्या चाक्षिप्यते । तत्र हि अतेनोभी कुरुतः* इत्यनियमदर्शनात्पृथवफल-
त्वमुक्तम् । उपासनाश्रयभूतोद्गीथादिवदुपासनानामप्यङ्गतयोपादाननियमे बहवो हेतव
उपलभ्यन्ते । न ह्यत्र गोदोहनेन पशुकामस्य प्रणयेत्* इत्यादिवदुपासनाविधिवाक्ये फ़ल-
संबन्धः श्रूयते; *उद्गीथमुपासीतेत्युद्गीथादिसंबन्धितयैवोपासनं प्रतीयते । श्यदेव विद्यया
करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् इति वर्तमानोपदेशरूपवाक्यान्तराद्धि फलसंबन्धो
ज्ञायते । स्ववाक्येनैवाव्यभिचरितक्रतुसंबन्ध्युद्गीथादिसंबन्धेन नितिक्रत्वङ्गभावस्य वाक्या-
न्तरस्थवर्तमानफलसंबन्धनिर्देशोऽर्थवादमात्रं स्यात्, अपापश्लोकश्रवणादिवत् । अतो यथो-
द्गीथादय उपासनाश्रयाः क्रत्वङ्गतया प्रयोगविधिना नियमेनोपादीयन्ते; तथा तदाश्रिता-
श्चोपासनास्तन्मुखेन क्रत्वङ्गभूता इति नियमेनोपादेया एव ॥ ५६ ॥

तृतीयाध्याये-तृतीयपादे-यथाश्रयभावाधिकरणम् । ३२५ ४१४. शिष्टेश्च ।। ३-३-६० ।। शिष्टिः शासनम्, विधानमित्यर्थः । *उद्गीथमुपासीतेत्युद्गीथाङ्गतयोपासनविधाना- च्चोपादाननियमः । ॐगोदोहनेन पशुकामस्य प्रणयेत्% इत्यादिवद्विधिवाक्येऽधिकारान्तरा. श्रवणादुद्गीथाङ्गभाव एव हि विधेय इति गम्यते ॥ ६० ॥ ४१५. समाहारात् ॥ ३-३-६१ ॥ होतृषदनाद्धवापि दुरुद्गीथमनुसमाहरति इत्युपासनस्य समाहारनियमो दृश्यते । दुरुद्गीथं वेदनविहीनमुद्गीथम् । वेदनहानावन्येन समाधानं ब्रुवत्तस्य नियमेनोपादानं दर्शयति ॥ ६१ ॥ ४१६. गुणसाधारण्यश्रुतेश्च ॥॥ ३-३-६२ ॥ उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासनस्य *तेने त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति* इति साधारण्यश्रुतेश्वोपासनसमाहारो गम्यते । तेनेति प्रकृतपरामर्शात्सोपासन एव प्रणवस्सर्वत्र सञ्चरति । अत उपासनस्य प्रणवसहभावनियमदर्शनाच्चोद्गीथाद्युपासनानामुद्गीथादिवनियमेनोपादानम् ॥ ६२ ॥ इति प्राप्त उच्यते- -- ? -- ४१७. न वा तत्सहभावाश्रुतेः ॥ ३-३-६३ ॥ नचैतदस्ति-यदुद्गीथाद्युपासनानां क्रतुष्द्गीथादिवदुपादाननियम इति । कुतः ? तत्सहभावाश्रुतेः-उद्गीथाङ्गभावाश्रुतेरित्यर्थः । अङ्गभावे हि सहभावनियमो भवति । यद्यपि *उद्गीथमुपासीतेत्यस्मिन् पदसमुदायेऽधिकारान्तरं न प्रतीयते; तथापि तदन्तरमेव श्यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति विद्यायाः क्रतुवीर्यवत्तरत्वं प्रति साधनभावः प्रतिपाद्यते । तेन ऋतुफलात्पृथग्भूतफलसाधनभूता विद्या *उद्गीथमुपा- सीतेति कर्तव्यतया विधीयते । ऋतुफलात्पृथग्भूतफलसाधनतयाऽवगतस्योपासनस्य क्रत्वङ्ग- भूतोद्गीथाङ्गतया विनियोगो नोपपद्यते । अत उपासनस्याश्रयापेक्षायां सन्निहित उद्गीथ आश्रयमात्रं भवति । उद्गीथश्च क्रत्वङ्गभूत इति क्रतुप्रयुक्तोद्गीथाद्याश्रये उपासने क्रत्वधि- कारिण एव क्रतोर्वीर्यवत्तरत्वेच्छानिमित्तमिदमधिकारान्तरमिति न ऋतुषु तदुपादाननियमः । वीर्यवत्तरत्वं च ऋतुफलस्य प्रबलकर्मान्तरफलेनाप्रतिबन्ध इत्युक्तम् । क्रतोरविलम्बितफलत्व- ३२६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । मित्यर्थः । पर्णतादीनां तु यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीति विद्यायाः फलसाधनत्ववदपापश्लोकश्रवणादिफलं प्रति साक्षात्साधनभावो न श्रुत इति क्रत्वङ्गभूत- जुह्वाद्यङ्गतया विनियोगाविरोधात्तदङ्गभूतानां फलान्तरसाधनभावकल्पनानुपपत्तेस्तत्र फल- श्रुतिरर्थवादमात्रं स्यात् ॥ ६३ ॥ ४१८. दर्शनाच्च ॥३।३। ६४ ॥ दर्शयति च श्रुतिरुपासनोपादानानियमम् *एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्च- त्विजोऽभिरक्षति* इति ब्रह्मणो वेदनेन सर्वेषां रक्षणं अवती। उद्गातृप्रभृतीनां वेदनस्या- नियमे सत्येतदुपपद्यते । अनेन लिङ्गन पूर्वोक्तानां समाहारादिलिङ्गानां प्रायिकत्वमव- गम्यते । अतोऽनियम एवेति स्थितम् ॥ ६४ ॥ इति यथाश्रयभावाधिकरणम् ।। २६ ।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य तृतीयः पादः ।। ३ ।। श्रीमते रामानुजाय नमः तृतीयाध्याये-चतुर्थः पाद:-पुरुषार्थाधिकरणम् ॥ १॥ ४१६. पुरुषार्थोऽतश्शब्दादिति बादरायणः ॥ ३ । ४ । १॥ गुणोपसंहारानुपसंहाराफला विद्यैकत्वनानात्वचिन्ता कृता । इदानी विद्यातः पुरुषार्थः, उत विद्याङ्गकात्कर्मण इति चिन्त्यते । किं युक्तम् अतः-विद्यातः पुरुषार्थ इति भगवान् बादरायणो मन्यते । कुतः ? शब्दात्-दृश्यते ह्यौपनिषदश्शब्दो विद्यातः पुरुषार्थ ब्रुवन् *ब्रह्मविदाप्नोति परम् *वेदाहमेतं पुरुषं महान्तम्, आदित्यवर्ण तमसः परस्तात्, तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यतेऽयनाय ॥ यथा नद्यस्स्यन्द- मानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुष- मुपैति दिव्यम् ॥ इत्यादिः ॥ १ ॥ ? अत्र पूर्वपक्षी प्रत्यवतिष्ठते- ४२०. शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः॥ ३-४-२॥ नैतदेवम् यद्विद्यातः पुरुषार्थावाप्तिश्शब्दादवगम्यत इति । न ह्यषः ब्रह्मविदाप्नोति परमित्यादिशब्दो वेदनात्पुरुषार्थावाप्तिमवगमयति, कर्मसु कर्तृभूतस्यात्मनो याथात्म्यवेदन- तृतीयाध्याये-चतुर्थपादे-पुरुषार्थाधिकरणम् । ३२७ -- प्रतिपादनपरत्वात् । अतः कर्तुसंस्कारद्वारेण विद्यायाः क्रतुशेषत्वातत्र फलश्रुतिरर्थवादमात्रम् यथाऽन्येषु द्रव्यादिषु-इति जैमिनिराचार्यो मन्यते । तदुक्तं द्रव्यसंस्कारकर्मसु परार्थत्वा- त्फलश्रुतिरर्थवादस्स्यात् इति । ननुच कर्मसु कर्तुर्जीवादन्यो मुमुक्षुभिः प्राप्यतया वेदान्तेषु वेधउपदिश्यत इति प्रागेवोपपादितं. नेतरोऽनुपपत्तेः *भेदव्यपदेशाच्च *अनुपपत्तेस्तु न शारीरः *इतरपरामर्शात्स इति चेन्नासंभवात्* इत्येवमादिभिस्सूत्रः । तदेव ब्रह्म तत्त्व- मस्यादिसामानाधिकरण्येन जीवादनतिरिक्तमित्येतदपि *अधिकं तु भेदनिर्देशात्* इत्येव- मादिभिनिरस्तम् । सामानाधिकरण्यनिर्देशश्च *ऐतदात्म्यमिदं सर्वम् सर्वं खल्विदं ब्रह्म इति चेतनाचेतनसाधारणः, ञ्यः पृथिव्यां तिष्ठन् *य आत्मनि तिष्ठन्* इत्यादिनाऽवगत- तत्तदात्मतयाऽवस्थितिनिबन्धन इति *अवस्थितेरिति काशकृत्स्नः* इत्यादिभिरुपपादितम् । तत्कथं कर्मसु कर्तुरात्मनो याथात्म्योपदेशपरा वेदान्तशब्दा इति विद्यायाः कर्माङ्गत्वं प्रतिपाद्यते ? उच्यते-वेदान्तवाक्येष्वेव विद्यायाः कर्मप्राधान्यं सूचद्धिलिङ्गस्तदुपहित- सामानाधिकरण्यनिर्देशेन च वेदान्तशब्दा देहातिरिक्तजीवस्वरूपयाथात्म्योपदेशपरा इति बलादभ्युपगमनीयमिति पूर्वपक्षिणोऽभिप्रायः। ननु च कर्तृ संस्कारमुखेन विद्यायाः क्रत्वनु- प्रवेशो न शक्यते वक्तुम्, कर्तुलौकिकवैदिकसाधारणत्वेनाव्यभिचरितक्रतुसंबन्धित्वाभावात् । नैवस्, लौकिकस्य कर्मणः कर्तुर्देहादव्यतिरिक्तत्वेऽप्युपपत्तेहातिरिक्तनित्यात्मस्वरूपस्य क्रतावेवोपयोगात्तत्स्वरूपप्रतिपादनमुखेन क्रत्वनुप्रवेशो न विरुध्यते । अतो विद्यायाः क्रतु- शेषत्वान्नातः पुरुषार्थः ॥ २ ॥ कानि पुनस्तानि लिङ्गानि, यदुपहितसामानाधिकरण्यनिर्देशेन वेदान्तशब्दा जीवस्वरूपपरा इति निर्णीयन्ते ? तत्राह- ४२१. आचारदर्शनात् ॥३-४-३ ॥ ब्रह्मविदां प्राधान्येन कर्मस्वेवाचारो दृश्यते अश्वपतिः केकयः किल आत्मवित्तमस्त- द्विज्ञानायोपगतांस्तानृषीन् प्रत्याह-*यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि* इति । तथा जानकादयो ब्रह्मविदग्रेसराः कर्मनिष्ठाः स्मृतिषु दृश्यन्ते *कर्मणैव हि संसिद्धिमास्थिता जनकादयः *इयाज सोऽपि सुबहून् यज्ञान ज्ञानव्यपाश्रयः इति । अतो ब्रह्मविदां कर्मप्रधा- नत्वदर्शनाद्विद्यायाः कर्तृस्वरूपवेदनरूपत्वेन कर्माङ्गत्वमेवेति न विद्यातः पुरुषार्थः ॥ ३ ॥ लिङ्गमिदम् प्राप्तिरुच्यतामित्यत्राह- ४२२. तच्छृतेः ।। ३-४-४ ॥ श्रुतिरेक हि विद्यायाः कर्माङगत्वमाह-यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति । नेयं श्रुतिः प्रकरणादुद्गीथमात्रविषयेति व्यवस्थापयितुं - ३२८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । शक्या; यतः प्रकरणाच्छ तिर्बलीयसी; *यदेव विद्यया करोतीति विद्यामात्रविषया हीयं श्रुतिः ॥४॥ ४२३. समन्वारम्भणात् ॥ ३-४-५॥ *तं विद्याकर्मणी समन्वारभेते* इति विद्याकर्मणोस्साहित्यं च दृश्यते । साहित्य चोक्तेन न्यायेन विद्यायाः कर्भाङ्गत्वे सत्येव भवति ॥ ५ ॥ ४२४. तद्वतो विधानात् ॥ ३-३-६ ॥ विद्यावतः कर्मविधानाद्विद्या कर्माङ्गमित्यवगम्यते । *आचार्यकुलावेदमधीत्य यथा- विधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे* इत्यादौ *वेदमधीत्येत्यध्ययनवतः कर्माणि विदधदर्थावबोधपर्यन्ताध्ययनवत एव विदधाति । अर्थावबोधपर्यन्तं ह्यध्ययनमिति स्थापितम् । अतो ब्रह्मविद्याऽपि कर्मसु विनियुक्तेति न पृथक्फलायावकल्पते ॥ ६ ॥ ४२५. नियमात् ॥ ३-४-७ ॥ इतश्च न विद्यातः पुरुषार्थः । *कुर्वन्न वेह कर्माणि जिजीविषेच्छतं समाः* इत्यात्म- विदः पुरुषायुषस्य सर्वस्य कर्मसु नियमेन विनियोगात्कर्मण एव फलमित्यवगम्यते । विद्या तु कर्माङ्गमिति ॥ ७॥ एवं प्राप्त प्रचक्ष्महे- ४२६. अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ।। ३ । ४ । ८ ।। तुशब्दात्पक्षो व्यावृत्तः । विद्यात एव पुरुषार्थः । कुतः ? अधिकोपदेशात्-कर्मसु कर्तुर्जीवाद्ध यप्रत्यनीकानवधिकातिशयासङ्घय यकल्याणगुणाकरत्वेनाधिकस्यार्थान्तरभूतस्य परस्य ब्रह्मणो वेद्यतयोपदेशात्, भगवतो बादरायणस्य विद्यातः फलमित्येवमेव मतम् । लिङ्गानि तिष्ठन्तु; वेद्यतयोपदेशस्तु तावत्कर्तुः प्रत्यगात्मनोऽधिकस्यैव । कथम् ? तद्दर्शनात्-- प्रत्यगात्मन्यशुद्धे शुद्ध ऽप्यसंभावनीयानन्तगुणाकरस्य वेद्यस्य निरस्तनिखिलहेयगन्धस्य स्वसङ्कल्पकृतजगदुदयविभवलयलीलस्य सर्वज्ञस्य सर्वशक्त र्वाङ मनसापरिच्छेद्यानन्दस्य जीवाधिपस्य कृत्स्नप्रशासितुः परस्य ब्रह्मणो वेदनोपदेशवाक्येषु दर्शनात् *अपहतपाप्मा विजरो विमृत्युविशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत यस्सर्वज्ञस्सर्ववित् *पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च *स एको ब्रह्मण आनन्दः श्यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान्, न बिभेति कुतश्चनेति एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल तृतीयाध्याये-चतुर्थपादे-पुरुषार्थाधिकरणम् ३२६ एष सेतुर्विधरणः *स कारणं करणाधिपाधिपो नचास्य कश्चिज्जनिता नचाधिपः *एतस्य वा अक्षरस्य प्रशासने गागि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (*एतस्य वा अक्षरस्य प्रशासने गागि द्यावापृथिव्यौ विधृते तिष्ठतः ) *भीषाऽस्माद्वातः परते, भीषोदेति सूर्यः, भीषास्माद- ग्निश्चेन्द्रश्च, मृत्युर्धावति पञ्चमः* इत्यादिषु । तस्म द्वेदनोपदेशशब्देषु कर्तु: प्रत्यगात्मनः खद्योतकल्पस्याविद्यादिहेयसंबन्धयोग्यस्य गन्धोऽपि नास्तीति परमपुरुषविषयाया विद्या- यास्तत्प्राप्तिरूपममृतत्वं तत्रतत्र श्रूयमाणं फलमिति विद्यातः पुरुषार्थ इति सुष्ठूक्तम् ॥ ८ ॥ - ? लिङ्गान्यपि निरस्यन्ते- ४२७. तुल्यं तु दर्शनम् ॥ ३।४।६॥ यदुक्तं ब्रह्मविदा कर्मानुष्ठानदर्शनाद्विद्या कर्माङ्गमिति; तन्न, विद्याया अनङ्गत्वेऽपि तुल्यं दर्शनम्-ब्रह्मविदां कर्मानुष्ठानदर्शनमनैकान्तिकमित्यर्थः, अननुष्ठानस्यापि दर्शनात् । दृश्यते हि ब्रह्मविदां कर्मत्यागः *ऋषयः कावषेयाः किमर्था वयमध्येध्यामहे किमर्था वयं यक्ष्यामहे* इत्यादौ । अतो ब्रह्मविदां कर्मत्यागदर्शनान्न विद्या कर्माङ्गम् । कथमिदमुपपद्यते ब्रह्मविदां कर्मानुष्ठानमननुष्ठानञ्च ? फलाभिसन्धिरहितस्य यज्ञादिकर्मणो ब्रह्मविद्याङ्गत्वात्त- थाविधस्य कर्मणोऽनुष्ठानदर्शनमुपपद्यते । वक्ष्यतिच *सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् इति । फलार्थस्य तस्यैव यज्ञादेः कर्मणो मोक्षकफल ब्रह्मविद्याविरोधित्वात्तस्याननुष्ठानदर्शनमुपपन्न- तरम् । विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते ॥ ६ ॥ यदुक्तं श्रुत्यैव विद्यायाः कर्माङ्गत्वमवगम्यत इति; तत्राह- ४२८. असार्वत्रिकी ॥३।४। १० ॥ न सर्वविद्याविषयेयं श्रु तिः; अपि तद्गीथविद्याविषयैव श्यदेव विद्यया करोति* इति यच्छब्दस्यानिर्धारितविशेषस्य *उद्गीथमुपासीत* इति प्रस्तुतोद्गीथविशेषनिष्ठत्वात् । नहि यत्करोति, तद्विद्ययेति संबध्यते; यदेव विद्यया करोति, तदेव वीर्यवत्तरमिति विद्यया क्रियमाणं यच्छब्देन निर्दिश्य तस्य हि वीर्यवत्तरत्वमुच्यते ॥ १० ॥ यच्चेदमुक्त ऋतं विद्याकर्मणी समन्वारभेते* इति विद्याकर्मणोस्साहित्यदर्शनाद्विद्या कर्माङ्गमिति; तत्राह- ४२६. विभागश्शतवत् ॥ ३-४-११ ॥ *तं विद्याकर्मणी समन्वारभेते* इत्यत्रोक्तेन न्यायेन विद्याकर्मणोभिन्नफलत्वाद्विद्या ३३० श्रीभगवद्रामानुज ग्रन्थमालायां शारीरकमीमांसाभाष्यम् । 3-044 स्वस्मै फलाय समन्वारभते, कर्म च स्वस्मै फलायेति विभागो द्रष्टव्यः । शतवत्-~-यथा क्षेत्ररत्नविक्रयिरणं शतधमन्वेतीत्युक्त क्षेत्रार्थ शतम्, रत्नार्थ शतमिति विभागः प्रतीयते; तथेहापि ॥ ११ ॥ ४३०. अध्ययनमानवतः ॥ ३-४-१२॥ यदुक्तं विद्यावतः कर्मविधानाद्विद्या कर्माङ्गमिति; नैतद्युक्तम्, *वेदमधोत्येत्यध्ययन- मात्रवतो विधानात् । नचाध्ययनविधिरेवार्थबोधे प्रवर्तयति, आधानवदध्ययनस्याक्षरराशि- ग्रहणमात्रे पर्यवसानात् । गृहीतस्य च स्वाध्यायस्य फलवकर्मावबोधित्वदर्शनात्तन्निर्णयफले तदर्थविचारे पुरुष स्वयमेव प्रवर्तते; ततः कर्मार्थी कर्मज्ञाने प्रवर्तते, मोक्षार्थी च ब्रह्मज्ञान इति न विद्या कर्माङ्गम् । यद्यप्यध्ययनविधिरेवार्थावबोधेप्रवर्तयति; तथापि न विद्या कर्मा- ङ्गम्, अर्थज्ञानादर्थान्तरत्वाद्विद्यायाः। यथा ज्योतिष्टोमादिकर्मस्वरूपविज्ञानात्फलसाधनभूतं तत्कर्मानुष्ठानमर्थान्तरम्; तथाऽर्थज्ञानरूपाद्ब्रह्मस्वरूपविज्ञानादर्थान्तरमेव ध्यानोपासनादि- शब्दवाच्या पुरुषार्थसाधनभूता विद्येति न तस्याः कर्मसंबन्धगन्धो विद्यते ॥ १२ ॥ -- ४३१. नाविशेषात् ।। ३-४-१३ ॥ यच्चोक्तं *कुर्वन्ने वेह कर्माणीत्यात्मविदं ज्ञानाद्वयावर्त्य यावज्जीवं कर्मानुष्ठाने नियमयतीति; तन्नोपपद्यते; अविशेषात्-नह्ययं नियमः फलसाधनभूतस्वतन्त्रकर्मविषय इति विशेषहेतुरस्ति, विद्याङ्गभूतकर्मविषयतयाऽप्युपपत्तेः । *कर्मणैव हि संसिद्धिमास्थिता जनकादयः* इति च विदुषस्त्वाप्रयाणादुपासनस्यानुवर्तमानत्वात् ॥ १३ ॥ एवमर्थस्वाभाव्येन चोद्य परिहत्य अकुर्वन्ने वेह कर्माणीत्यस्य वाक्यस्यार्थमाह- ४३२. स्तुतयेऽनुमतिर्वा ।। ३-४-१४ ॥ वाशब्दोऽवधारणार्थः; भईशावास्यमिदं सर्वमिति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम् । विद्यामाहात्म्यात्सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति । वाक्यशेषश्च वमेव दर्शयति-*एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे* इति । अतो न कर्माङ्ग विद्या ॥ १४ ॥ ४३३. कामकारेण चैके ॥ ३-४-१५॥ :: अपि चवमेके शाखिनः कामकारेण ब्रह्मविद्यानिष्ठस्य. गार्हस्थ्यत्यागमधीयते कि ३ तृतीयाध्याये-चतुर्थपादे-पुरुषार्थाधिकरणम् । प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः इति । विदुषो विरक्तस्य कामकारेण गाई- स्थ्यकर्मत्यागं ब्रुवदिदं वचनं ब्रह्मविद्यायाः कर्मानङ्गत्वं दर्शयति । यज्ञादिकर्माङ्गत्वे हि विद्यायाः विद्यानिष्ठस्य कामकारेण गार्हस्थ्यत्यागो न संभवति । अतो न विद्या कर्माङ्गम् ॥ १५ ॥ ४३४. उपमर्द च ।। ३-४-१६ ॥ पुण्यापुण्यरूपस्य समस्तसांसारिकदुःखमूलस्य कर्मणो ब्रह्मविद्ययोपमर्द च प्रति- वेदान्तमधीयते *भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट परावरे ॥ इत्यादिकम् । तद्विद्यायाः कर्माङ्गत्वे न संगच्छते ॥ १६ ॥ ४३५. ऊर्ध्वरेतस्सु च शब्दे हि ॥ ३-४-१७ ।। ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादशनातेष्वग्निहोत्रदर्शपूर्णमासादिकर्माभावाच्च न विद्या कर्माङ्गम् । ननूर्ध्वरेतस आश्रमा न सन्त्येव, श्यावज्जीवमग्निहोत्रं जुहोति* इत्यादि- नाऽग्निहोत्रदर्शपूर्णमासादीनां यावज्जीवाधिकारश्रुतेः; श्रुतिविरुद्धानां स्मृतीनां चाप्रामाण्यात् । अत आह-शब्दे होति । वैदिक एव हि शब्दे ते दृश्यन्ते *त्रयो धर्मस्कन्धाः ये चेमेऽरण्ये श्रद्धा तप इत्युपासते भएतमेव प्रवाजिनो लोकमिच्छन्तः प्रवजन्ति* इत्यादौ। यावज्जीव- श्रुतिस्त्वविरक्तविषया ॥ १७ ॥ ४३६. परामर्श जैमिनिरचोदनाच्चापददति हि ॥ ३।४ । १८ ।। ? यदिदं त्रयो धर्मस्कन्धाः* इत्यादौ वैदिके शब्दे ऊर्ध्वरेतस आश्रमा दृश्यन्ते, अतस्ते सन्त्येवेति; नैतदुपपद्यते; यतः त्रयो धर्मस्कन्धाः इत्यादिषु वाक्येषु तेषामाश्रमाणां परामर्श- मात्र क्रियते-अनुवादमात्रमित्यर्थः । कुत एतत् ? अचोदनात्-अविधानादित्यर्थः । न ह्यत्र विधिशब्दः श्रू यते । त्रयो धर्मस्कन्धा इत्यादिना हि प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयते, *ब्रह्मसंस्थोऽमृतत्वमेति* इत्युपसंहारात् । अतोऽन्यार्थमनुवादमात्रमत्र क्रियते तेषामाश्र- माणाम् । श्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते* इति च देवयानविधिपरत्वात्तत्रापि नाश्र- मान्तरविधिसंभवः । अपि चापवदति हि श्र तिराश्रमान्तरं *वीरहा वा एष देवानां योऽग्नि- मुद्वासयते* इत्यादिका । अत ऊर्ध्वरेतस आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते ॥१८॥ ४३७. अनुष्ठेयं बादरायणस्साम्यश्रुतेः ॥ ३-४-१६॥ गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् बादरायणो मन्यते । कुतः ? साम्यश्रुतेः- ?

३३२ तृतीयाध्याये-चतुर्थपादे-पुरुषार्थाधिकरणम् । ROO उपादेयतयाऽभिमतगृहस्थाश्रमसाम्यं हि तेषामप्याश्रमाणां श्रूयते । यो धर्मम्कन्धा इत्यारभ्य ब्रह्मसंस्थस्तुत्यर्थतया सङ्कीर्तनं गृहस्थाश्रमस्येतरेषां च समानम् । अथ गृहस्था- श्रमस्यानुवादः प्राप्तौ सत्यामेव संभवतीति तस्य प्राप्तिरवश्याभ्युपेत्येति मतम्; तदितरेगापि समानमन्यत्राभिनिवेशात् । नच गार्हस्थ्यधर्म एव *यज्ञोऽध्ययनं दानं तपो ब्रह्मच यंम् इति सर्वैश्शब्दरभिधीयते, ब्रह्मचर्यतपसोहस्थस्यैव संभवादिति युक्तम् ; *त्रयो धर्मम्कन्धा इति त्रित्वेन संगृह्य *प्रथमो....द्वितीयः...तृतीयः* इति विभागवचनानुपपत्तेः । अतः यज्ञो- ऽध्ययनं दानमिति गृहस्थाश्रम उच्यते । अध्ययनशब्दो वेदाभ्यासपरः। तपशब्देन वैखान- सपारिवाज्ययोर्ग्रहणम्, उभगो: तपःप्रधानत्वात् । तपश्शब्दो हि कायपलेशे रूढः; स च द्वयो- रपि समानः । ब्रह्मचारिधर्म एव ब्रह्मचर्यशब्देनाभिधीयते । *ब्रह्ममंथोऽमृतत्वमेतीति पर व श्रूयमाणो ब्रह्मसंस्थशब्दो यौगिकः सर्वाश्रमसाधारणः, सर्वेषामाश्रमिणां ब्रह्ममंस्थामभवात् । ब्रह्मणि संस्था-संस्थितिः ब्रह्मसंस्थत्वम्, तच्च सर्वेषां संभवत्येव । ब्रह्मनिठाविकला: केवलाश्रमिणः पुण्यलोकभाजः; तेष्वेव ब्रह्मनिष्ठोऽमृतत्वभाग्भवति । तदेतद्विस्पटमुतं भगवना पराशरेण *प्राजापत्यं ब्राह्मणानामित्यारभ्य *ब्राह्म संन्यासिनां स्मृतम् इत्यन्तेन वर्णानामा- श्रमाणां च केवलानां ब्रह्मलोकप्राप्त्यन्तं फलमभिधाय एकान्निनस्मदा ब्राध्यायिनो योगिनो हि ये । तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूग्यः ॥ इति तेष्वेव ब्रह्मनिष्ठानां ब्रह्मप्रातिभि- दधता। अतो गृहस्थाश्रमतुल्याः ऊर्ध्वरेतस आश्रमा अपि दृश्यन्त इति तेऽप्यनुष्ठेयाः । *ये चेमेऽरण्ये श्रद्धा तप इत्युपासते* इति च अरण्ये इति तपःप्रधानाश्रमप्राप्त्यपेक्षत्वाद्देवयान- विधानस्य तत्रापि तत्प्राप्तिरङ्गीकरणीया ॥ १६ ॥ परामर्शपक्षे विधानपक्षे च गृहस्थाश्रमतुल्यमेषामप्यनुप्ठेयत्वमित्युपपाद्य विधिरे- वायमाश्रमाणां सर्वेषां नानुवाद इत्युपपादयितुमाह- -- ४३८. विधिर्वा धारणवत् ॥ ३ । ४ । २० ॥ वाशब्दोऽवधारणार्थः। विधिरेवायमाश्रमाणाम्; धारणवत्-यथा विष्टाग्निहोत्रे *अध- स्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति* इत्यत्रानुवादसरूपादपि वाक्यादुपरि धारणस्याप्राप्तत्वाद्विधिराश्रीयते । यदुक्तं शेषलक्षणे *विधिस्तु धारणेऽपूर्वत्वात्% इति । तथाऽत्राप्यप्राप्तत्वाद्विधिरेवाश्रयणीयः। ब्रह्मचर्य समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रवजेत् यदिवेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा यदहरेव विरजेत् तदहरेव प्रव्रजेत् इति जाबालानामाश्रमविधिमसन्तमिव कृत्वैतेष्वन्यपरेष्वपि वाक्येष्वाश्रमप्राप्तिरवश्याश्रयणीयेत्युप- पादितम् । एवमाश्रमान्तरविधानाणश्रुतिर्यावज्जीवश्रुतिरपवादश्रुतिश्चाविरक्तविषया एवेति वेदितव्याः । अन्याश्च ब्रह्मविदः कर्मणामाप्रयाणावश्यकर्तव्यताविधायिन्यः श्रुतयः स्मृतयश्च श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । -W स्वस्वाश्रमधर्मविषयाः । अत ऊर्ध्वरेतस्सु च ब्रह्मविद्याविधानाद्विद्यातः पुरुषार्थ इति सिद्धम् ॥ २० ॥ इति पुरुषार्थाधिकरणम् ॥ १ ॥ ? अथ स्तुतिमात्राधिकरणम् ।। २ ।। ४३६. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३ । ४ । २१ ॥ इदमिदानी चिन्त्यते *स एष रसानां रसतमः परार्योऽष्टमो यदुद्गीथः इति एवं जातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणि, आहोस्विदुद्गीथादिषु रमतमादिदृष्टिविधानार्थानीति । अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थ- त्वेन क्रतुप्तपादानानियम उक्तः । कि युक्तम् ? स्तुतिमात्रपराणीति । कुतः ? उद्गीथाधु- पादानात् । क्रत्वङ्गभूतानिह्य द्गीथादीन्युपादाय तेषां रसतमादित्वं प्रतिपादितम्; यथा जुह्वादीनां पृथिव्यादित्वं प्रतिपादयतो वचनस्य *इयमेव जुहूः स्वर्गो लोक आहवनीयः* इत्यादिकस्य तत्स्तुतिमात्रपरत्वम्, तथेहापि । तदिदमाशङ्कते---स्तुतिमात्रमुपादानादिति चेदिति । उद्गीथाद्युपादानात्तत्स्तुतिमात्रमेवैषां वाक्यानां विवक्षितमिति चेत् । अत्रोत्तरं- नापूर्वत्वादिति । न स्तुतिमात्रत्वमुपपद्यते; कुतः ? अपूर्वत्वात्-अप्राप्तत्वात् । न ह्य द्गीथा- दयोरसतमादितया प्रमाणान्तरेण प्रतिपन्नाः; येन तत्प्राशस्त्यबुद्धय त्पत्त्यर्थ रसतमादित्वेना- नोरन् । नचोद्गीथादिविधिरत्र सन्निहितः; येन *इयमेव जुहूस्स्वर्गो लोक आहवनीयः* इत्यादिवत्तदेकवाक्यत्वेन ययाकयाचन विधया तत्स्तुतिपरत्वमाश्रीयेत । अतः क्रतुवीर्य- वत्तरत्वादिफलसिद्धयर्थमुद्गीथादिषु रसतमादिदृष्टिविधानमेव न्याय्यम् ॥ २१ ॥ ? ४५०. भावशब्दाच्च ॥३। ४ । २२ ॥ *उपासोतेत्यादिभावशब्दाच्च विधिपरत्वमेव न्याय्यम् । विधिप्रत्यययुक्तो हि क्रिया- शब्दो विधेयमेव स्वार्थमवगमयति । तस्मादुपासनविधानार्था एताश्श्रुतयः ॥ २२ ॥ इति स्तुतिमा प्राधिकरणम् ॥ २॥ अथ पारिप्लवार्थाधिकरणम् ।। ३ ।। ४४१. पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥३। ४ । २३ ।। *प्रतर्दनो ह वै देवोदासिरिन्द्रस्य प्रियं धामोपजगाम *श्वेतकेतुर्हारुणेय आस इत्येवमादीनि वेदान्तेष्वाख्यानानि कि पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्था- ३३४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? नीति चिन्तायाम् *आख्यानानि शंसन्ति* इत्याख्यानानां पारिप्लवे विनियोगान्न विद्या- प्रधानत्वं न्याय्यमिति चेत्, न सर्वाण्याख्यानानि पारिप्लवप्रयोगे विनियोगमर्हन्ति; कुतः विशेषित्वाद्विनियोगस्य । *आख्यानानि शंसन्तीत्युक्त्वा तत्रैव *मनुर्वैवस्वतो राजा इत्यादिना लन्यादीनामाख्यानानि विशेष्यन्ते; अतस्तेषामेव तत्र विनियोग इति गम्यते । तस्मान्न सर्वा वेदान्तेष्वाख्यानश्रुतयः पारिप्लवप्रयोगार्थाः; अपि तु विद्याविध्यर्थाः ॥ २३ ॥ ४४२. तथा चैकवाक्योपबन्धात् ।। ३। ४ । २४ ॥ *आत्मा वा अरे द्रष्टव्यः' इत्यादिविधिनैकवाक्यतयोपबन्धाच्चाख्यानानां विद्या- विध्यर्थान्येव तानीति गम्यते; यथा *सोऽरोदोत्* इत्येवमादेः कर्मविध्यर्थत्वम्, न पारि- प्लवार्थत्वम् ॥ २४ ॥ इति पारिप्लवार्थाधिकरणम् ।। ३ ।। अथ अग्नीन्धनाद्यधिकरणम् ।। ४ ।। ४४३. अत एव चाग्नीन्धनाधनपेक्षा ।। ३ । ४ । २५ ॥ स्तुतिप्रसङ्गादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतम आश्रमिणस्सन्तीत्युक्तम् *ऊर्ध्वरेतस्सु च शब्दे होत्यादिभिस्सूत्रैः। इदानीमूर्ध्वरेतसो यज्ञाद्य- भावात्तदङ्गिका विद्या न संभवतोत्याशङ्कयाह-अत एव चाग्नीन्धनाद्यनपेक्षेति । यत ऊर्ध्वरेतस आश्रमिणो विद्यासंबन्धित्वेन श्रुत्या परिगृह्यन्ते *ब्रह्मसंस्थोऽमृतत्वमेति *ये चेमेऽरण्ये श्रद्धा तप इत्युपासते *एतमेव प्रनाजिनो लोकमिच्छन्तः प्रव्रजन्ति *यदिच्छन्तो ब्रह्मचर्य चरन्ति इत्यादिकया; अत एवोर्ध्वरेतस्सु विद्या अग्नीन्धनाद्यनपेक्षा-अग्नीन्धनम्- अग्न्याधानन्; आधानपूर्वकाग्निहोत्रदर्शपूर्णमासादिकर्मानपेक्षा तेषु विद्या। केवलस्वाश्रम- विहितकर्मापेक्षेत्यर्थः ॥ २५ ॥ इति अग्नीन्धनाद्यधिकरणम् ।। ४ ।। अथ सर्वापेक्षाधिकरणम् ।। ५ ॥ ४४४. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३-४-२६ ॥ यदि विद्या यज्ञाद्यनपेक्षवामृतत्वं साधयति; तहि गृहस्थेष्वपि तदनपेक्षव साधयितु- मर्हति; यज्ञादिश्रुतिरपि *विविदिषन्तीति शब्दात्कर्मणो वेदनाङ्गतां न प्रतिपादयतीति । अत आह--सर्वापेक्षेति । अग्निहोत्रादिसर्वकर्मापेक्षैव विद्या कर्मवत्सु गृहस्थेषु; कुतः यज्ञादिश्रुतेः। *तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन* ?

तृतीयाध्याये-चतुर्थपादे--- शमदमाद्यधिकरणम् । इत्यादिना यज्ञादयो हि विद्याङ्गत्वेन श्रूयन्ते । यज्ञादिना विविदिषन्ति–वेदितुमिच्छन्ति, यज्ञादिभिर्वेदनं प्राप्तुमिच्छन्तीत्यर्थः । यज्ञादीनां ज्ञानसाधनत्वे सत्येव यज्ञादिभिः ज्ञानं प्राप्तु- मिच्छन्तीति व्यपदेश उपपद्यते; यथा असेहननसाधनत्वे सति असिना जिघांसतीति व्यपदेशः । अतो यज्ञादीनां ज्ञानसाधनत्वमवगम्यते । ज्ञानं च वाक्यार्थज्ञानादर्थान्तरभूतं ध्यानोपासनादि- शब्दवाच्यं विशदतमप्रत्यक्षतापन्नस्मृतिरूपं निरतिशयप्रियमहरहरभ्यासाधेयातिशयमाप्रयाणा- दनुवर्तमानं मोक्षसाधनमित्युक्तमस्माभिः पूर्वमेव; वक्ष्यति च *आवृत्तिरसकृदुपदेशादित्या- दिना । एवंरूपं च ध्यानमहरहरनुष्ठीयमानैनित्यनैमित्तिककर्मभिः परमपुरुषाराधनरूपैः परम- पुरुषप्रसादद्वारेण जायत इति यज्ञादिना विविदिषन्तीति शास्त्रेण प्रतिपाद्यते । अतः कर्मवत्सु गृहस्थेषु यज्ञादिनित्यनैमित्तिकसर्वकर्मापेक्षा विद्या। अभवत्-यथा गमनसाधनभूतोऽश्वः स्वपरिकरबन्धपरिकर्मापेक्षः; एवं मोक्षसाधनभूताऽपि विद्या नित्यनैमित्तिककर्मपरिकरापेक्षा। तदिदमाह स्वयमेव भगवान् श्यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ *यतः प्रवृत्तिभूतानां येन सर्वमिदं ततं । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥ इति ॥ २६ ॥ इति सर्वापेक्षाधिकरणम् ॥ ५ ॥ अथ शमदमाद्यधिकरणम् ॥ ६ ॥ ४४५. शमदमाद्युपेतस्स्यात्तथापि तु तद्विधेस्तदंगतया तेषामप्यवश्यानुष्ठेयत्वात् ॥३।४। २७॥ गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि, उत नेति चिन्तायाम्, अन्तरबाह्यकरणव्यापार- रूपत्वात्कर्मानुष्ठानस्य, शमदमादीनां तद्विपरीतरूपत्वाच्चाननुष्ठेयानि ।। इति प्राप्त उच्यते-यद्यपि गृहस्थः करणव्यापाररूपकर्मसु प्रवृत्तः; तथाऽपि स विद्वान शमदमाद्य पेतस्स्यात्; कुतः ? तदङ्गतया तद्विधेः-विद्याङ्गतया तेषां विधेः *तस्मादेवं- विच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्” इति । विद्योत्पत्ते- श्चित्तसमाधानरूपत्वेन दृष्टपरिकरत्वाच्छमादीनां, विद्यानिवृत्तये तेषां-शमादीनामप्यवश्या- नुष्ठेयत्वाच्च तान्यप्यनुष्ठेयानि । नच करणव्यापारतद्विपर्ययरूपत्वेन कर्मणां शमदमादीनां च परस्परविरोधः; भिन्नविषयत्वात्---विहितेषु करणव्यापारः, अविहितेषु प्रयोजनशून्येषु च तदुपशम इति । नच करणव्यापाररूपकर्मसु वर्तमानस्य वासनावशाच्छमादीनामुपादेयत्वा- संभवः, विहितानां कर्मणां परमपुरुषाराधनतया तत्प्रसादद्वारेण निखिलविपरीतवासनोच्छेद- हेतुत्वात् । अतो गृहस्थस्य शमदमादयोऽप्यनुष्ठेयाः ॥ २७ ॥ इति शमदमाद्यधिकरणम् ।। ६ ।। ?

३३६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ सर्वान्नानुमत्यधिकरणम् ।। ६ ।। ४४६. सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ३ । ४ । २८ ॥ वाजिनां छन्दोगानां च प्राणविद्यायां न ह वा अस्यानन्न जग्धं भवति नानन्न परिगृहीतं भवति *नह वा एवंविदि किञ्चनानन्नं भवति इति प्राणविदः सर्वान्नानुमतिः सङ्कीर्त्यते । किमियं प्राणविद्यानिष्ठस्य सर्वान्नानुमतिः सर्वदा, उत प्राणात्ययापत्ताविति विशये, विशेषानुपादानात्सर्वदा । इति प्राप्त उच्यते-प्राणात्यय इति । चशब्दोऽवधारणे प्राणात्ययापत्तावेवेत्यर्थः । कुतः ? तद्दर्शनात्-दृश्यते ह्यन्यत्र ब्रह्मविदामपि प्राणात्यया- पत्तावेव सर्वान्नाभ्यनुज्ञा; कि पुनःप्राणविदः । उपस्तिः किल चाक्रायणो ब्रह्मविदग्रेसरो मटचीहतेषु कुरुषु दुर्भिक्षदूषितेष्विभ्यग्रामे वसन्ननशनेन प्राणसंशयमापन्नः ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादमाकाङ्क्षमाण इभ्यं कुल्माषान् खादन्तं भिक्षमाणस्तेन च उच्छिष्टेभ्योऽन्ये न विद्यन्त इति प्रत्युक्तः पुनरपि एतेषां मे देहि* इत्युक्त्वा तेन चेभ्येनोच्छिष्टेभ्य आदाय दत्तान् कुल्माषान् प्रतिगृह्यानुपानप्रतिग्रहमिभ्येनार्थितः *उच्छिष्ट वै मे पीतं स्यात्* इति वदंश्चाक्रायणः, किमेते कुल्माषा अनुच्छिष्टा इति इभ्येन पर्यनुयुक्तः *न वा अजीविष्यमिमान- खादन... ...कामो म उदपानम् इति कुल्माषाखादने स्वस्य प्राणसंशयापत्तेस्तावन्मात्रखादनेन धृतप्राणस्य स्वस्योच्छिष्टोदकपानं कामकारितं निषिद्धं स्यादित्युक्त्वा स्वखादितशेषं जायायै दत्वा तया च रक्षितानपरेद्य जिनेनाजिजीषया जिगमिषुः पुनरपि प्राणसंशयमापन्नस्तानेवे- भ्योच्छिष्टान स्वोच्छिष्टभूतान् पर्युषितांश्चखाद । अतो ब्रह्मविदामपि प्राणसंशय एव सर्वान्नानु- मतिदर्शनादत्राविशेषण कोतितमपि प्राणविदस्सर्वान्नीनत्वं प्राणात्ययापत्तावेवेति निश्चीयते ॥ २८ ॥ ४४७. अबाधाच्च ॥ ३-४-२६ ॥ *आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः* इति ब्रह्मविद्योत्पत्तावाहार- शुद्धिविधानाबाधादपि ब्रह्मविदां सर्वान्नीनत्वमापद्विषयमवगम्यते । एवं ब्रह्मविदामतिशयित- शक्तीनामपि सर्वान्नीनत्वस्यापद्विषयत्वात्प्राणविदोऽल्पशक्तेः सर्वान्नानुमतिरापद्विषयैव ॥२६॥ ४४८. अपि स्मर्यते ॥ ३-४-३० ॥ अपि च आपद्विषयमेव सर्वानीनत्वं ब्रह्मविदामन्येषां च स्मर्यते-*प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ इति ॥ ३० ॥ ४४६. शब्दश्चातोऽकामकारे ॥ ३-४-३१ ।। यतो ब्रह्मविदामन्येषां च सर्वान्नीनत्वमापद्विषयमेव; अत एव सर्वेषामकामकारे तृतीयाध्याये-चतुर्थपादे-विहितत्वाधिकरणम् शब्द:-कामकारस्य प्रतिषेधकः शब्दो वर्तते। अस्ति हि कठानां संहितायां कामकारस्य प्रतिषेधकः शब्दः तस्माद्ब्राह्मणस्सुरां न पिबति पाप्मना नोत्सृजा इति इति । पाप्मना संस्पृष्टो न भवानीति मत्वा ब्राह्मणः सुरां न पिबतीत्यर्थः ॥ ३१ ॥ इति सर्वान्नानुमत्यधिकरणम् ।। ७ ।। - अथ विहितत्वाधिकरणम् ।। ८ ।। ? ४५०. विहितत्वाच्चाश्रमकर्मापि ।। ३-४-३२॥ यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम्; तानि च यज्ञादीनि कर्माण्यमुमुक्षुणा केवला- श्रमिणाऽप्यनुष्ठ यानि, उत नेति चिन्तायां, विद्याङ्गानां सतां केवलाश्रमशेषत्वे नित्यानित्य- संयोगविरोधः प्रसज्यत इति यज्ञादीनां केवलाश्रमधर्मत्वं न संभवति ॥ इति प्राप्त उच्यते-आश्रमकर्मापीति । आश्रमस्य कर्मापि भवति । केवला- श्रमिणाऽपि अनुष्ठेयान त्यर्थः । कुतः ? भ्यावज्जीवमग्निहोत्र जुहोति* इत्यादिना विहित- त्वात्-जीवननिमित्ततया नित्यवद्विहितत्वादित्यर्थः ॥ ३२ ॥ तथा विद्याङ्गतया च *तमेतं वेदानुवचनेन* इत्यादिना विहितत्वाद्विद्याशेषतयाऽ- प्यनुष्ठेयानीत्याह- ४५१. सहकारित्वेन च ॥ ३-४-३३ ॥ विद्योत्पत्तिद्वारेण विद्यासहकारितयाऽप्यनुष्ठेयानि । अग्निहोत्रादीनामिव जीवनाधि- कारस्वर्गाधिकारवत् विनियोगपृथक्त्वेनोभयार्थत्वं न विरुध्यत इत्यर्थः ॥ ३३ ॥ तद्वदेव कर्मान्तरत्वमपि नास्तीत्याह- ४५२. सर्वथाऽपि त एवोभयलिङ्गात् ॥ ३-४-३४ ।। सर्वथा-विद्यार्थत्वे आश्रमार्थत्वेऽपि, त एव यज्ञादय इति प्रतिपत्तव्यम्; न कर्म- स्वरूपभेद इत्यर्थः । कुतः ? उभयलिङ्गात्-उभयत्र श्रुतौ यज्ञादिशब्दैः प्रत्यभिज्ञाप्य विनि- योगात्, कर्मस्वरूप दे प्रमाणाभावाच्च ॥ ३४ ॥ ४५३. अनभिभवं च दर्शयति ।। ३-४-३५ ।। *धर्मेण पापमपनुदति* इत्यादिभिश्च तानेव यज्ञादिधर्मानिदिश्य तैविद्याया अनभि- ३३८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । भवं-पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं दर्शयति । अहरहरनुष्ठीयमानैहि यज्ञादिभिविशुद्धेऽन्तः-. करणे प्रत्यहं प्रकृष्यमाणा विद्योत्पद्यते । अतस्त एचोभयत्र यज्ञादयः ॥ ३५ ॥ इति विहितत्वाधिकरणम् ।। ८ ।। अथ विधुराधिकरणम् ।।६।। ४५४. अन्तरा चापि तु तद्दष्टेः ।। ३-४-३६ ॥ चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति; विद्यासहकारिण आश्रमधर्मा इति चोक्तम् । ये पुनराश्रमानन्तरा वर्तन्ते विधुरादशः; तेषां ब्रह्मविद्यायामधिकारोऽस्ति, नवेति विशये; आश्रमधर्मेतिकर्तव्यताकत्वाद्विद्यायाः, अनाश्रमिणां चाश्रमधर्माभावान्नास्त्यधिकारः । इति प्राप्त उच्यते--अन्तराचापि त्विति । तुशब्दः पक्षव्यावृत्त्यर्थः । चशब्दोऽवधारणे । अन्तरा वर्तमानानाम्-अनाश्रमिणामपि विद्यायामधिकारोऽस्त्येव । कुतः ? तदृष्ट:- दृश्यते हि रक्वभीष्मसंवर्तादीनामनाथमिणामपि ब्रह्मविद्यानिष्ठत्वम् । नचाश्रमधर्म रेव विद्या- नुग्रह इति शक्यं वक्तुम्, “यज्ञेन दानेन तपसाऽनाशकेन*इति दानादीनामाश्रमेषु अनैकान्ति- कानामप्यनुग्राहकत्वदर्शनात् । यथोर्ध्वरेतस्सु विद्यानिष्ठत्वदर्शनादग्निहोत्रादिव्यतिरिक्तरेव विद्यानुग्रहः क्रियते; तथाऽनाश्रमिष्वपि विद्यादर्शनादाश्रमानियतैर्जपोपवासदानदेवताराध- नादिभिविद्यानुग्रहश्शक्यते कर्तुम् ॥ ३६ ॥ ? ४५५. अपि स्मर्यते ॥ ३-४-३७ ॥ अपिच अनाश्रमिणामपि जपादिभिरेव विद्यानुग्रहः स्मर्यते *जप्येनापि च संसिध्येद्- ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ इति । संसिध्येत्- जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थः ।। ३७ ॥ ४५६. विशेषानुग्रहश्च ।। ३-४-३८ ।। न केवलं न्यायस्मृतिभ्यामयमर्थस्साधनीयः; श्रूयते चानाश्रमनियतैर्धर्मविशेषविद्यानु- प्रहः तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्येत् इति ॥ ३८ ॥ ४५७. अतस्त्वितरज्ज्यायो लिङ्गाच्च ।। ३ । ४ । ३६ ॥ तुशब्दोऽवधारणे; अतः-अनामित्वात् इतरत्-आश्रमित्वमेव ज्यायः; अनाश्र- मित्वमापद्विषयम् । शक्तस्य त्वामित्वमेवोपादेयमित्यर्थः; भूयोधर्मकाल्पधर्मकयोरतुल्यकार्य- त्वात् । लिङ्गाच्च-स्मृतेरित्यर्थः । स्मर्यते च शक्तं प्रत्याश्रयस्योपादेयत्वम् अनाश्रमी न तृतीयाध्याये-चतुर्थपादे-तद्भूताधिकरणम् । तिष्ठत्तु दिनमेकमपि द्विजः* इत्यादिना । निवृत्तब्रह्मचर्यस्य मृतभार्यस्य च अवैराग्ये सति दारालाभ आपत् ॥ ३९ ॥ इति विधुराधिकरणम् ।। ६ ।। अथ तद्भूताधिकरणम् ।। १० ।। ४५८. तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥३-४-४०॥ नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्यः प्रच्युतानामपि ब्रह्मविद्यायामधिकारोऽस्ति, नेति चिन्तायां, विधुरादिवदनाश्रमैकान्तैर्दानादिभिविद्यानुग्रहसंभवादस्त्यधिकारः । इति प्राप्त उच्यते-तद्भूतस्य तु नातद्भाव इति । तुशब्दः पक्षव्यावृत्त्यर्थः । तद्भूतस्य-नैष्ठिकाद्याश्रमनिष्ठस्य, नातभावः-अतथाभावः, अनामित्वेनावस्थानं न संभवति; कुतः ? तद्रूपाभावेभ्यो नियमात्-तद्रूपाणि तेषां नैष्ठिकादीनां रूपाणि-वेषाः, धर्मा इत्यर्थः; तेषामभावाः-तद्रूपाभावाः; तेभ्यः शास्त्रैनियमात् । नैष्ठिकाद्याश्रमप्रविष्टान् स्वाश्रमधर्मनिवृत्तिभ्यो नियच्छन्ति हि शास्त्राणि *ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्त- मात्मानमाचार्यकुलेऽवसादयन्* इति, *अरण्यपियात्ततो न पुनरेयात्* इति, *संन्यस्याग्नि न पुनरावर्तयेत्” इतिच । अतो विधुरादिवत् नैष्ठिकादीनामनाथमित्वेनावस्थानासंभवान्न तानधिकरोति ब्रह्मविद्या; जैमिने रपीत्यविगानं दर्शयन्नुक्तं स्वाभिमतं द्रढयति ॥ ४० ॥ अथ स्यात्-नैष्ठिकादीनां ब्रह्मचर्यात्प्रच्युतानां प्रायश्चित्तादधिकारस्संभवति । अस्ति च प्रायश्चित्तमधिकारलक्षणे निरूपितम् *अवकोणिपशुश्च तद्वत्* इति । अतः प्रच्युतब्रह्म- चर्यस्य प्रायश्चित्तसंभवात्कृतप्रायश्चित्तो ब्रह्मविद्यायामधिकरिष्यतीति; तत्राह- ४५६. नचाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ३ । ४ । ४१॥ अधिकारलक्षणोक्तमपि प्रायश्चित्तं नैष्ठिकादीनां तद्भ्रष्टानां न संभवति; कुतः ? पतनानुमानात्तदयोगात्-नैष्ठिकादीनां प्रच्युतानां पतनस्मृतेस्तस्य प्रायश्चित्तस्यासंभवात्-- *आरूढो नैष्ठिकं धर्म यस्तु प्रच्यवते द्विजः। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा ।। इति । अतोऽधिकारलक्षणोक्तं प्रायश्चित्तमितरब्रह्मचारिविषयम् ॥ ४१ ॥ ४६०. उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ॥ ३ । ४ । ४२ ॥ नैष्ठिकादीनां ब्रह्मचर्यप्रच्यवनमुपपूर्वम्-उपपातकम्, महापातकेष्वपरिगणितत्वादिति तत्र प्रायश्चित्तस्य भावं-विद्यमानतामप्येके आचार्या मन्यन्ते । अशनवत्-यथा मध्वशनादि- निषेधस्तत्प्रायश्चित्तं चोपकुर्वाणस्य नैष्ठिकादीनां च समानम्; तदुक्तं स्मृतिकारैः *उत्तरेषां ३४० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाप्यम् । चैतदविरोधि* इति । गुरुकुलवासिनो यदुक्तं, तत्स्वाश्रमाविरोध्युत्तरेषामप्यामिणां भव- तीत्यर्थः । तद्वदिहापि ब्रह्मचर्यप्रच्यवने प्रायश्चित्तसंभवाद्ब्रह्मविद्यायोगिताऽप्यस्ति ।। १२ ॥ ४६१. बहिस्तूभयधाऽपि स्मृतेराचाराच्च ॥३। ४ । ४३ ॥ तुशब्दो मतान्तरव्यावृत्त्यर्थः । उपपातकत्वे महापातकत्वेऽप्येते बहिर्भूता एब ब्रह्म- विद्याधिकारिभ्यः; ब्रह्मविद्यायामनधिकृता इत्यर्थः । कुतः ? स्मृतेः-पूर्वोक्तात् पतनस्मरणात् । यद्यपि कल्मषनिहरणाय कैश्चिद्वचनैः प्रायश्चित्ताधिकारो विद्यते, तथापि कर्माधिकारानुगुण- शुद्धिहेतुप्रायश्चित्तं न संभवति, *प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महाः- इति स्मृते- रित्यर्थः । आचाराच्च-शिष्टा हि नैष्ठिकादीन् भ्रष्टान कृतप्रायश्चित्तानपि वर्जयन्ति, तेभ्यो तेभ्यो ब्रह्मविद्यादिकं नोपदिशन्ति; अतस्तेषां नास्ति ब्रह्मविद्यायामधिकारः ॥ ४३ ॥ इति तद्भूताधिकरणम् ।। १० ।। ? अथ स्वाम्यधिकरणम् ।। ११ ।। ४६२. स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ३ । ४ । ४४ ॥ कर्माङ्गाश्रयाण्युद्गीथाद्युपासनानि कि यजमानकर्तृ काणि, उत्विकर्तृकाणीति चिन्तायां यजमानकर्तृकाणीत्यात्रेयो मन्यते । कुतः ? फलश्रुतेः-वेदान्तविहितेषु दहाधु- पासनेषु फलोपासनयोरेकाश्रयत्वदर्शनादिह च ऋतुफलाप्रतिबन्धरूपस्योद्गीथोपासनफलस्य यजमानाश्रयत्वश्रवणादित्यर्थः । न च गोदोहनादिवदङ्गाश्रयत्वेन यजमानकर्तृकत्वासंभवः; गोदोहनादिषु ह्यध्वर्युकर्तृकप्रणयनाश्रयगोदोहनोपादानमन्येनाशक्यम्; इह तद्गातुकर्तृ के- प्युद्गीथे तस्योद्गीथादेः रसतमत्वानुसन्धानं यजमानेनैव कर्तुं शक्यते ॥ ४४ ॥ इति प्राप्त ऽभिधीयते- ४६३. आत्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥ ३ । ४ । ४५ ॥ आत्विज्यम्-ऋत्विजः कर्मोद्गीथाद्युपासनमित्यौडुलोमिराचार्यों मन्यते; कुतः ? तस्मै हि-प्रयोजनाय ऋत्विारिक्रियते; फलसाधनभूतस्य साङ्गस्य क्रतोरुपादानायेत्यर्थः । कर्मविधिषु ऋत्विजो वृणीते *ऋत्विग्भ्यो दक्षिणां ददाति* इति ऋत्विकर्तृ कत्वशास्त्रण फलसाधनभूतं साङ्गं कर्म ऋत्विग्भिरनुष्ठेयमित्यवगम्यते; तदन्तर्गतानि कायिकानि मानसानि च कर्माणि ऋत्विकर्तृ काण्येव; नच शक्त्यशक्ती तस्य निबन्धनम् । यद्यप्युद्गीथायुपासनं पुरुषार्थः, तथापि त्वधिकृताधिकारत्वात्क्रतोश्च साङ्गस्य ऋत्विकर्तृ कत्वात्, “यदेव विद्यया करोति...तदेव वीर्यवत्तरम् इति ऋत्विकर्तृ कनियोपयोगित्वेन विद्यायास्तदेकककर्तृकत्व.

तृतीयाध्याये-चतुर्थपादे-सहकार्यन्तरविध्यधिकरणम् । ३४१ श्रवणात्, ऋत्विकर्तृ काण्येतानि । दहरादिलपासनेषु ऋत्विकर्तृकत्वाश्रवणात्, *शास्त्रफलं प्रयोक्तरि* इति न्यायाच्च फलिकर्तृ कत्वमेव ॥ ४५ ॥ इति स्वाम्यधिकरणम् ॥ १२ ॥ अथ सहकार्यन्तरविध्यधिकरणम् ।। १२ ।। ४६४. सहकार्यन्तरविधिः पक्षण तृतीयं तद्दतो विध्यादिवत् ॥३-४-४६।। *तस्माद्ब्राह्मणः पाण्डित्यं निविद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निविद्याथ मुनिः* इत्यत्र बाल्यपाण्डित्यवन्मौनमपि विधीयते, उतानूद्यत इति विशये; मौनपाण्डित्य- शब्दयोः ज्ञानार्थत्वात्, पाण्डित्यं निविद्येति विहितमेव ज्ञानम् *अथ मुनिरित्यनद्यते; विधि- शब्दो न पत्र श्रूयत इति ॥ एवं प्राप्त ब्रूमः-सहकार्यन्तरविधिरिति तद्वतः विद्यावतः; विध्यादिवत्-विधीयते इति यज्ञादिस्सर्वाश्रमधर्मः शमदमादिश्च विधिशब्देनोच्यते; आदिशब्देन श्रवणमनने गृह्यते; सहकार्यन्तरविधिरित्यत्रापि विधीयत इति विधिः, सहकार्यन्तरं विधिश्चेति सहकार्यन्तर- विधिः । एतदुक्तं भवति-यथा *तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन* इत्यादिना *शान्तो दान्त इत्यादिना च सहकारी यज्ञादिश्शमदमादिश्च विधीयते; यथाच *श्रोतव्यो मन्तव्यः' इति श्रवणमनने चार्थप्राप्त विद्यासहकारित्वेन गृह्यते; तथा *तस्माद्- ब्राह्मणः पाण्डित्यं निविद्येत्यादिना पाण्डित्यं, बाल्यं, मौनमिति त्रितयं विद्यायास्सहकार्यन्तरं विधीयत इति । मौनं च पाण्डित्यादर्थान्तरमित्याह-पक्षेणेति । मुनिशब्दस्य पक्षण प्रकृष्ट- मननशीले व्यासादौ प्रयोगदर्शनात् मौनं पाण्डित्यबाल्ययोईयोस्तृतीयम् । यद्यपि *अथ मुनि- रित्यत्र विधिप्रत्ययो न श्रू यते; तथापि मौनस्याप्राप्तत्वाद्विधेयत्वमङ्गीकरणीयम्-अथ मुनि- स्स्यादिति । इदं च मौनं श्रवणप्रतिष्ठार्थान्मननादर्थान्तरभूतमुपासनालम्बनस्य पुनःपुनस्सं- शीलनं तद्भावनारूपम् । तदेवं वाक्यार्थः-ब्राह्मणः-विद्यावान् पाण्डित्यं निविद्य-उपास्यं ब्रह्मतत्त्वं परिशुद्ध परिपूर्ण च विदित्वा, श्रवणमननाभ्यामप्राप्त वेदनं प्रतिलभ्येत्यर्थः । तच्च भगवद्भक्तिसहकृतसत्त्वविवृद्धिकृतम्; यथोक्त *नाहं वेदैः* इत्यारभ्य *भक्त्या त्वनन्यया शक्यः...ज्ञातुम् इति । श्रुतिश्च श्यस्य देवे परा भक्तिः *नायमात्मा प्रवचनेन* इत्यादिका । बाल्येन तिष्ठासेत; बाल्यस्वरूपं चानन्तरमेव वक्ष्यते । बाल्यं च पाण्डित्यं च निविद्याथ मुनिस्स्यात्-बाल्यपाण्डित्ये यथावदुपादाय परिशुद्ध परिपूर्णे ब्रह्मणि मननशीलो भवेत्, निदिध्यासनरूपविद्यावाप्तये । एवमेव त्रितयोपादानेन लब्धविद्यो भवतीत्याह *अमौनं च मौनं च निविद्याथ ब्राह्मणः इति । .अमौनं मौनेतरसहकारिकलापः, तं च मौनं च ३४२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । यथावदुपाददानो विद्याकाष्ठां तदेकनिष्पाद्यां लभेतेत्यर्थः । स ब्राह्मणः केन स्यात्* इति उक्तादुपायाकिमन्योऽप्युपायोऽस्तीति पृष्ट *येन स्यात्तेनेदृश एव* इति, येन मौनपर्यन्तेन ब्राह्मणस्स्यादित्युक्तम्, तेनैवेदृशस्स्यात्; न केनाप्यन्येनोपायेनेति परिहृतम् । अतस्सर्वेष्वाश्र- मेषु स्थितस्य विदुषो यज्ञादिस्वाश्रमधर्मवत्पाण्डित्यादिकं मौनतृतीयं विद्यायास्सहकार्यन्तरं विधीयते ॥ ४६॥ अथ स्यात्.-यदि सर्वेष्वाश्रमेषु स्थितानां विदुषां तत्तदाश्रमधर्मसहकारिणी मौन- तृतीयसचिवा विद्या ब्रह्मप्राप्तिसाधनमुच्यते; कथं तहि च्छान्दोग्ये *अभिसमावृत्य कुटुम्बे शुचौ देशे* इत्यारभ्य *स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते* इति यावदायुषं गार्हस्थ्यधर्मेण स्थितिदर्शनमुपपद्यते ? अत आह- ४६५. कृत्स्नभावात्तु गृहिणोपसंहारः ।। ३-४-४७ ।। तुशब्दश्वोद्यं व्यावर्तयति; कृत्स्नभावात्-कृत्स्नेषु भावात्, कृत्स्नेष्वाश्रमेषु विद्यायास्स- द्भावात् गृहिणोऽप्यस्तीति तेनोपसंहारः; तस्मात्सर्वाश्रमधर्मप्रदर्शनार्थो गृहिणोपसंहार इत्यभिप्रायः ॥४७ ॥ तथैतस्मिन्नपि वाक्ये *ब्राह्मणः पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्था- याथ भिक्षाचर्य चरति* इति पारिवाज्यकान्तधर्म प्रतिपाद्य तस्माद्ब्राह्मणः पाण्डित्यं निविद्येत्यादिना पारिवाज्यधर्मस्थितिहेतुकमौनतृतीयसहकारिविधानं प्रदर्शनार्थमित्याह- ४६६. मौनवदितरेषामप्युपदेशात् ॥ ३-४-४८ ॥ सर्वेषणाविनिर्मुक्तस्य भिक्षाचरणपूर्वकमौनोपदेशः सर्वेषामाश्रमधर्माणां प्रदर्शनार्थः; कुतः ? एवं विधमौनोपदेशवदितरेषामाश्रमिणामपि त्रयो धर्मस्कन्धाः* इत्यारभ्य ब्रह्म- संस्थोऽमृतत्वमेति* इति ब्रह्मप्राप्त्युपदेशात् । उपपादितश्च पूर्वमेव ब्रह्मसंस्थशब्दः सर्वाश्रमि- साधारण इति । अतस्सुष्ठुक्त-यज्ञादिसर्वाश्रमधर्मवन्मौनतृतीयः पाण्डित्यादिविद्यासहकारि- त्वेन विधीयत इति ।। ४८ ॥ इति सहकार्यन्तरविध्यधिकरणम् ।। १२ ।। अथ अनाविष्काराधिकरणम् ।। १३ ॥ ४६७. अनाविष्कुर्वन्नन्वयात् ॥३-४-४६॥ *तस्माद्ब्राह्मणः पाण्डित्यं निविद्य बाल्येन तिष्ठासेदित्यत्र विदुषा बाल्यमुपादेयतया श्रुतम् । बालस्य भावः, कर्म वा बाल्यम् । बालभावस्य वयोवस्थाविशेषस्यानुपादेयत्वात्कम-

तृतीयाध्याये-चतुर्थपादे-ऐहिकाधिकरणम् ।
३४३
वेह गृह्यते । तत्र कि बालस्य कर्म कामचारादिकं सर्व विदुषोपादेयम्, उत डम्भादिरहितत्व-
मेवेति विशये विशेषाभावात्सर्वम्पादेयम्; नियमशास्त्राणि च विशेषविधिनाऽनेन बाध्यन्त
इति ॥ एवं प्राप्त ऽभिधीयते--अनाविष्कुर्वन्निति । बालस्य यत्स्वभावानाविष्काररूपं कर्म;
तदुपाददानो वर्तेत विद्वान् । कुतः ? अन्वयात् । *बाल्येन तिष्ठासेत् इत्यस्मिन्विधौ तस्यैव
ह्यन्वयसंभवः; इतरेषां विद्याविरोधित्वश्रवणात् *नाविरतो दुश्चरितानाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ *आहारशुद्धौ सत्त्वशुद्धिः इत्यादिषु ॥ ४६ ॥
इति अनाविष्काधिकरणम् ।। १३ ।।
?
अथ ऐहिकाधिकरणम् ॥ १४ ॥
४६८. ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥३। ४ । ५० ॥
द्विविधा विद्या-अभ्युदयफला, मुक्तिफला च। तत्राभ्युदयफला स्वसाधनभूतैः
पुण्यकर्मभिः पुण्यकर्मानन्तरमेव उत्पद्यते, उतानन्तरं कालान्तरे वेत्यनियम इति संशयः ।
पूर्वकृतैः पुण्यकर्मभिहि विद्वान् जायते; यथोक्तं भगवता *चतुविधा भजन्ते मां जनास्सुकृतिनो-
ऽर्जुन* इति । साधने निर्वृत्ते विलम्बहेत्वभावादनन्तरमेव । इति प्राप्त उच्यते-ऐहिकम-
प्रस्तुतप्रतिबन्ध इति । ऐहिकम्-अभ्युदयफलमुपासनम्, अप्रस्तुतप्रतिबन्धे-अप्रस्तुते-प्रबल-
कर्मान्तरप्रतिबन्धेऽसत्यनन्तरम्, प्रतिबन्धे सति तदुत्तरकालमित्यनियमः। कुतः ? तद्दर्शनात्-
दृश्यते हि प्रबलकर्मान्तरेग कर्मफलप्रतिबन्धाभ्युपगमः श्रुतौ श्यदेव विद्यया करोति श्रद्ध-
योपनिषदा तदेव वीर्यवत्तरम्' इत्युद्गीथविद्यायुक्तस्य कर्मणः फलाप्रतिबन्धश्रवणात् ॥५०॥
इति ऐहिकाधिकरणम् ॥ १४ ॥
अथ मुक्तिफलाधिकरणम् ।। १५ ॥
४६६. एवं मुक्तिफलानियमस्तश्वस्थावधृतेस्तदवस्थावधृतेः ॥३।४।५१॥
मुक्तिफलस्याप्युपासनस्य स्वसाधनभूतैरतिशयितकर्मभिरुत्पत्तावेवमेव कालानियमः,
तस्यापि पूर्ववत्प्रतिबन्धाभावप्रतिबन्धसमातिरूपावस्थावगते:-अत्रापि तस्य हेतोस्समानत्वा-
दित्यर्थः ॥ सर्वेभ्यः कर्मभ्यो मुक्तिफलविद्यासाधनस्य कर्मणः प्रबलत्वात्प्रतिबन्धासंभव
इत्यधिकाशङ्का ॥ तत्रापि ब्रह्मविदपचाराणां पूर्वकृतानां प्रबलानां संभवात्प्रतिबन्धसंभव इति
परिहारः । द्विरुक्तिरध्यायपरिसमाप्ति द्योतयति ॥ ५१ ॥ इति मुक्तिफलाधिकरणम् ।। १५ ।।
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य चतुर्थः पादः ॥४॥
समाप्तश्वाध्यायः॥३॥

३४४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । • - ? श्रीमते रामानुजाय नमः चतुर्थाध्याये-प्रथमः पाद:-आवृत्त्यधिकरणम् ॥१॥ ४७०. आवृत्तिरसकृदुपदेशात् ।। ४ । १।१॥ तृतीयेऽध्याये साधनस्सह विद्या चिन्तिता। अथेदानी विद्यास्वरूपविशोधनपूर्वक विद्याफलं चिन्त्यते । तत्र ब्रह्मविदाप्नोति परम् *तमेव विदित्वाऽतिमृत्युमेति ब्रह्म वेद ब्रह्मैव भवति *यदा पश्यते रुक्मवर्णम्* इत्यादिवेदान्तवाक्येषु ब्रह्मप्राप्तिसाधनतया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः, उतासकृदावृत्तमिति संशयः । किं युक्तम् ? सकृत्कृतमिति; कुतः *ब्रह्म वेद ब्रह्मैव भवति इति वेदनमात्रस्यैव विधानात्, असकृदावृत्ती प्रमाणा- भावात् । नचावघातादिवद्वेदनस्य ब्रह्मापरोक्ष्यं प्रति दृष्टोपायत्वाद्यावत्कार्यमावृत्तिरिति शक्यं वक्तुम्; वेदनस्य दृष्टोपायत्वाभावात् । ज्योतिष्टोमादिकर्माणि, वेदान्तविहितं च वेदनं परम- पुरुषाराधनरूपम्, आराधिताच्च परमपुरुषाद्धर्मार्थकाममोक्षाख्यपुरुषार्थावाप्तिरिति हि *फल- मत उपपत्तेरित्यत्र प्रतिपादितम् । अतो ज्योतिष्टोमादिवद्यथाशब्दं सकृत्कृतमेव शास्त्रार्थः ॥ इति प्राप्त प्रचक्ष्महे-आवृत्तिरसकृदिति । असकृदावृत्तमेव वेदनं शास्त्रार्थः; कुतः ? उपदेशात्-ध्यानोपासनपर्यायेण वेदनशब्देनोपदेशात् । तत्पर्यायत्वं च विद्युपास्तिध्याय- जीनामेकस्मिन्विषये वेदनोपदेशपरवाक्येषु प्रयोगादवगम्यते । तथाहि *मनो ब्रह्मेत्युपासीत इत्युपासिनोपक्रान्तोऽर्थः *भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद* इति विदिनोपसंह्रियते । तथा यस्तद्वेद यत्स वेद स मयैतदुक्तः* इत्युपक्रमे विदिनोक्तं रेकग्य ज्ञानम् *अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से* इत्युपासिनोपहियते । तथा ब्रह्मविदाप्नोति परम्* इत्यादिवाक्यसमानार्थेषु वाक्येषु *आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ततस्तु तं पश्यति निष्कलं ध्यायमानः* इत्यादि ध्यायतिना वेदनमधीयते । ध्यानं च चिन्तनम् । चिन्तनं च स्मृतिसन्ततिरूपम् न स्मृति- मात्रम् । उपास्तिरपि तदेकार्थः, एकाग्रचित्तवृत्तिनैरन्तर्ये प्रयोगदर्शनात् । तदुभयेकार्थात् असकृदावृत्तसन्ततस्मृतिरिह ब्रह्म वेद ब्रह्म व भवति *ज्ञात्वा देवं मुच्यते सर्वपार्शः इत्या- दिषु वेदनादिशब्दरभिधीयत इति निश्चीयते ॥१॥ ? ४७१. लिंगाच्च ॥ ४ । १।२॥ लिङ्गं स्मृतिः । स्मृतेश्चायमर्थोऽवगम्यते । स्मर्यते हि मोक्षसाधनभूतं वेदनं स्मृति- सन्ततिरूपं तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्स्पृहा । तद्धयानं प्रथमष्षड्भिरङ्गनिष्पाद्यते तथा ॥ इति । तस्मादसकृदावृत्तमेव वेदनं शास्त्रार्थः ।। २ ॥ इति आवृत्यधिकरणम् ।। १ ।। । ब चतुर्थाध्याये-प्रथमपादे-आत्मत्वोपासनाधिकरणम् । ३४५ अथ आत्मत्वोपासनाधिकरणम् ॥ २ ॥ ४७२. आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।। ४-१-३ ॥ इदमिदानी चिन्त्यते-किमुपास्यं ब्रह्मोपासितुरन्यत्वेनोपास्यम्, उतोपासितुरात्मत्वे- नेति । कि युक्तम् ? अन्यत्वेनेति । कुतः ? उपासितुः प्रत्यगात्मनोऽर्थान्तरत्वात् ब्रह्मणः । अर्थान्तरत्वं च *अधिकं तु भेदनिर्देशात् अधिकोपदेशात् *नेतरोऽनुपपत्तेः* इत्यादिषूपपा- दितम् । यथावस्थितं च ब्रह्मोपास्यम्; अयथोपासने हि ब्रह्मप्राप्तिरप्यथथाभूता स्यात्, श्यथा- ऋतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति इति न्यायात् । अतोऽन्यत्वेनोपास्य- ? मिति ॥ ? एवं प्राप्त ऽभिधीयते-आत्मेति त्विति । तुशब्दोऽवधारणे । उपासितुरात्मेत्येवो- पास्यम्, उपासिता प्रत्यगात्मा स्वशरीरस्य स्वयं यथा आत्मा; तथा स्वात्मनोऽपि परं ब्रह्मात्मेत्येवोपासोतेत्यर्थः । कुतः ? एवं ा पगच्छन्ति पूर्वे उपासितारः त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि* इति । उपासितुरन्तरभूतं ब्रह्मोपासितारोऽहमिति कथम- भ्युपगच्छन्तीत्यत्राह-ग्राहयन्ति चेति । इममर्थमविरुद्धमुपासितृन् ग्राहयन्ति शास्त्राणि- तात् प्रत्युपपादयन्तीत्यर्थः । य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः इति; तथा *सन्मूलास्सोम्ये- मास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्वम् *सर्व खल्विदं ब्रह्म तज्जला- निति* इति च सर्वस्य चिदचिद्वस्तुनस्तज्जत्वात्तल्लत्वात्तदनत्वात्तन्नियाम्यत्वात्तच्छरीरत्वाच्च सर्वस्यायमात्मा; अतस्स त आत्मा । अतो यथा प्रत्यगात्मनस्स्वशरीरं प्रत्यात्मत्वात् देवोऽहं मनुष्योऽहमित्यनुसन्धानम्; तथा प्रत्यगात्मनोऽप्यात्मत्वात्परमात्मनस्तस्याप्यहमित्येवानुसन्धान युक्तमिति । एवं शास्त्र रुपपादितं सर्वबुद्धीनां ब्रह्मैकनिष्ठत्वेन सर्वशब्दानां ब्रह्म कनिष्ठत्वम- भ्युपगच्छन्तः त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते* इति व्यति- करेणोक्तवन्तः । एवं च *अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद *अकृत्स्नो ह्येष आत्मेत्येवोपासीत *सर्व तं परादाद्योऽन्यत्रात्मनस्सर्व वेद* इत्यात्मत्वान- नुसन्धाननिषेधः, *पृथगात्मानं प्रेरितारं च मत्वा* इति पृथक्त्वानुसन्धानविधानं चाविरु- द्धस् । अहमिति स्वात्मतयाऽनुसन्धानादन्यत्वानुसन्धाननिषेधो रक्षितः। स्वशरीरात्स्वात्मनो- ऽधिकत्वानुसन्धानवत्स्वात्मनोऽपि परमात्मनोऽधिकत्वानुसन्धानात्पृथक्त्वानुसन्धानविधानं च रक्षितम् । अधिकस्य ब्रह्मणः प्रत्यगात्मन आत्मत्वात्तस्य च ब्रह्मशरीरत्वान्निषेधवाक्ये *अकृत्स्नो ह्यषः इत्युक्तम् । अत उपासितुरात्मत्वेन ब्रह्मोपास्यमिति स्थितम् ॥ ३ ॥ इति आत्मत्वोपासनाधिकरणम् ।। २ ।।

३४६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ प्रतीकाधिकरणम् ।। ३ ।। ४७३. न प्रतीके न हि सः ॥४-१-४ ॥ *मनो ब्रह्मत्युपासीत *स यो नाम ब्रह्मत्युपास्ते, इत्यादिप्रतीकोपासनेष्वप्यात्मत्वा- नुसन्धान कार्यम्, उत नेति चिन्तायां *मनो ब्रह्म त्युपासीतेति ब्रह्मोपासनत्वसाम्याद्ब्रह्मरण- श्योपासितुरात्मत्वादात्मेत्येवोपासीतेति । एवं प्राप्तऽभिधीयते-न प्रतीक इति । प्रतीके नात्मत्वानुसन्धान कार्यम्; न हि सः-ना पासितुरात्मा प्रतीकः । प्रतीकोपासनेषु प्रतीक एवोपास्यः, न ब्रह्म । ब्रह्म तु तत्र दृष्टिविशेषणमात्रम् । प्रतीकोपासनं हि नाम अब्रह्मणि ब्रह्मदृष्टयाऽनुसन्धानम् तत्रोपास्यस्य प्रतीकस्योपासितुरात्मत्वाभावान्न तथाऽनुसन्धेयम् ॥ ४ ॥ नन्वत्रापि ब्रह्मैवोपास्यम्; ब्रह्मण उपास्यत्वसंभवे मनआदीनामचेतनानामल्पशक्तीनां चोपास्यत्वाश्रयणस्यान्याय्यत्वात् । अतो मनआदिदृष्टया ब्रह्म वोपास्यमिति; अत आह- ४७४. ब्रह्मदृष्टिरुत्कर्षात् ॥ ४ । १ । ५ ॥ मनआदिषु ब्रह्मदृष्टिरेव युक्ता, ब्रह्मणि मनआदिदृष्टिः; ब्रह्मणो मनआदिभ्य उत्कर्षात्; तेषां च विपर्ययात् । उत्कृष्टे हि राजनि भृत्यदृष्टिः प्रत्यवायकरी; भृत्ये तु राजदृष्टिरभ्यु- दयाय ॥ ५॥ इति प्रतीकाधिकरणम् ।। ३ ।। अथ आदित्यादिमत्यधिकरणम् ॥ ४ ॥ ४७५. आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥४-१-६ ॥ *य एवासौ तपति तमुद्गीथमुपासीत* इत्यादिषु कर्माङ्गाश्रयेषपासनेषु संशयः- किमुद्गीथादौ कर्माङ्ग आदित्यादिदृष्टिः कर्तव्या, उतादित्यादिषूद्गीथादिदृष्टिरिति । उत्कृष्ट- दृष्टिनिकृष्टे कर्तव्येति न्यायात्, उद्गीथादीनां च फलसाधनभूतकर्माङ्गत्वेनाफलेभ्य आदित्या- दिभ्यः उत्कृष्टत्वादादित्यादिषद्गीथादिदृष्टिः ॥ इति प्राप्त ऽभिधीयते-आदित्यादिमतयश्चाङ्ग इति । चशब्दोऽवधारणे । क्रत्वङ्गे उद्गीथादावादित्यादिदृष्टय एव कार्याः; कुतः ? उपपत्तेः- आदित्यादीनामेवोत्कृष्टत्वोपपत्तेः । आदित्यादिदेवताराधनद्वारेण हि कर्मणामपि फलसाधन- त्वम्, अतस्तदृष्टिरुद्गीथाद्यङ्गे ॥ ६ ॥ इति आदित्यादिमत्यधिकरणम् ।। ४ ।। ?

चतुर्थाध्याये-प्रथमपादे-आसीनाधिकरणम् । अथ आसीनाधिकरणम् ॥ ५ ॥ ४७६. आसीनस्संभवात् ॥४-१-७ ।। मोक्षसाधनतया वेदान्तशास्त्र विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं सन्ततस्मृतिरूपमित्युक्तम् । तदनुतिष्ठन्नासीनश्शयानस्तिष्ठत् गच्छंश्च विशेषाभावादनियमेनानु- तिष्ठत् ॥ इति प्राप्त उच्यते-आसोन इति । आसोनः उपासनमनुतिष्ठत्; कुतः ? संभवात्- आसीनस्यैव ह्य काग्रचित्ततासंभवः; स्थितिगत्योः प्रयत्नसापेक्षत्वात्, शयने च निद्रासंभवात् । पश्चार्धधारणप्रयत्ननिवृत्तये सापाश्रये आसीनः कुर्यात् ॥ ७ ॥ ? ४७७. ध्यानाच्च ।। ४-१-८॥ *निदिध्यासितव्यः इति ध्यानरूपत्वादुपासनस्य, एकाग्रचित्तताऽवश्यंभाविनी । ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितमेकचिन्तनमित्युक्तम् ॥ ८ ॥ ४७८. अचलत्वं चापेक्ष्य ॥४-१-६॥ निश्चलत्वं चापेक्ष्य पृथिव्यन्तरिक्षादिषु ध्यानवाचोयुक्तिह श्यते ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षं, ध्यायतीव द्यौः, ध्यायन्तीवापो, ध्यायन्तीव पर्वताः इति । अतः पृथिवी- पर्वतादिवदेकाग्रचित्ततया निश्चलत्वमुपासकस्यासीनस्यैव संभवेत् ॥६॥ ४७६. स्मरन्ति च ॥४-१-१०॥ स्मरन्ति चासीनस्यैव ध्यानं *शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् । तत्रैकाग्रं भनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्जयाद्योगमात्मविशुद्धये ।। इति ॥ १० ॥ ४८०. यत्रैकाग्रता तत्राविशेषात् ।। ४-१-११॥ एकाग्रतातिरिक्तदेशकालविशेषाश्रवणादेकाग्रतानुकूलो यो देशः कालश्च, स एवोपा- सनस्य देशः कालश्च । *समे शुचौ शर्करावह्निवालुकाविवजिते* इति वचनमेकाग्रतैकान्त- देशमाह; न तु देशं नियच्छति, *मनोऽनुकूले* इति वाक्यशेषात् ॥ ११ ॥ इति आसीनांधिकरणम् ।।५।।

३४८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ आप्रयाणाधिकरणम् ।। ६ ।। ४८१. आप्रयाणातत्रापि हि दृष्टम् ॥ ४-१-१२ ।। तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव संपाचन, उताप्रयाणात्प्रत्यहमनु- वर्तनीयमिति विशये, एकस्मिन्न वाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम् । इति प्राप्त उच्यते-~~-आप्रयाणादिति । आमरणादनुवर्तनीयम्; कुतः ? तत्रापि हि दृष्टम् उपासनो- द्योगप्रभृत्याप्रयाणान्मध्ये यः कालः, तत्र सर्वत्रापि दृष्टमुपासनं *स खल्वेवं वर्तयन्याबदायुषं ब्रह्मलोकमभिसंपद्यते इति ॥ १२ ॥ इति आप्रयाणाधिकरणम् ।। ६ ।। ? अथ तदधिगमाधिकरणम् ।। ७ ।। ४८२. तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्वयपदेशात् ॥४।१।१३ ॥ एवं विद्यास्वरूपं विशोध्य विद्याफलं चिन्तयितुमारभते; ब्रह्मविद्याप्राप्तौ पुरुषस्योत्तर- पूर्वाधयोरश्लेषविनाशौ श्रूयते तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन* इत्युत्तराघा- श्लेषः, *तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्थ सर्वे पाप्मानः प्रदूयन्ते *क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे* इति पूर्वाधविनाशः। एतावश्लेषविनाशौ विद्याफलभूतावु- पपद्यते, नेति संशयः । किं युक्त ? नोपपद्यते इति । कुतः ? *नामुक्त क्षीयते कर्म कल्प- कोटिशतैरपि* इत्यादिशास्त्रविरोधात् । अश्लेषविनाशव्यपदेशस्तु मोक्षसाधनभूतविद्याविधायि- वाक्यशेषगतः कथञ्चिद्विद्यास्तुतिप्रतिपादनेनाप्युपपद्यते । च विद्या पूर्वोत्तराघयोः प्रायश्चित्ततया विधीयते; येन प्रायश्चित्तैनाघविनाश उच्यते । विद्या हि *ब्रह्मविदाप्नोति परम् ब्रह्म वेद ब्रह्मैव भवति इति ब्रह्मप्राप्त्युपायतया विधीयते । अतो विद्यार्थवादोऽयमघ- विनाशाश्लेषव्यपदेश इति । एवं प्राप्तेऽभिधीयते--तदधिगम इति । विद्याप्राप्तौ पुरुषस्य विद्यामाहात्म्यादुत्तर- पूर्वाधयोरश्लेषविनाशावुपपद्य ते; कुतः ? एवंविधं हि विद्यामाहात्म्यमवगम्यते *एवं विदि पापं कर्म न श्लिष्यते *एवं हास्य सर्वे पाप्मानः प्रदूयन्ते* इत्यादिव्यपदेशात् । न च अनामुक्त क्षीयते कर्म* इत्यनेन शास्त्रेणास्य विरोधः, भिन्नविषयत्वात् । तद्धि कर्मणां फलजननसामर्थ्यद्रढिमविषयम् एतत्तूत्पन्नाया विद्यायाः प्राक्कृतानां पाप्मनां फलजननशक्ति- विनाशसामर्थ्यमुत्पत्स्यमानानां च फलजननशक्त्युत्पत्तिप्रतिबन्धकरणसामर्थ्य च प्रतिपादय- तीति द्वयोविषयो भिद्यते । यथा अग्निजलयोरोषण्यतन्निवारणसामर्थ्यविषययोः प्रमाणयो- रपि विषयभेदात्प्रामाण्यम्; एवमत्रापीति न कश्चिद्विरोधः। अघस्याश्लेषकरणं-वैदिककर्मा- चतुर्थाध्याये-प्रथमपादे-इतराधिकरणम् । ३४६ योग्यतावासनाप्रत्यवायहेतुशक्त्युत्पत्तिप्रतिबन्धकरणम् । अघानि कृतानि पुरुषस्य वैदिक- कर्मायोग्यता, सजातीयकर्मान्तरारम्भचि, प्रत्यवायं च कुर्वन्ति । अघस्य विनाशकरणम् - उत्पन्नायास्तच्छतेविनाशकरणम् । शक्तिरपि परमपुरुषप्रीतिरेव । तदेवं विद्या वेदितुर्वेद्या- त्यर्थप्रियत्वेन स्वयमपि निरतिशयप्रिया सती वेद्यभूतपरमपुरुषाराधनस्वरूपा पूर्वकृता- घसञ्चयजनितपरमपुरुषाप्रीति विनाशयति; सैव विद्या स्वोत्पत्त्युत्तरकालभाव्यघनिमित्त- परमपुरुषाप्रोत्युत्पत्ति च प्रतिबध्नाति । तदिदमश्लेषवचनं प्रामादिकविषयं मन्तव्यम् *नाविरतो दुश्चरितात्* इत्यादिभिश्शास्त्रैराप्रयाणादहररुत्पद्यमानाया उत्तरोत्तरातिशय- भागिन्याः विद्यायाः दुश्चरितविरतिनिष्पाद्यत्वावगमात् ॥ १३ ॥ इति तदधिगमाधिकरणम् ।।७।। अथ इतराधिकरणम् ।। ८॥ ४८३. इतरस्याप्येवमसंश्लेषः पाते तु ॥४।१।१४ ॥ उत्तरपूर्वाधयोविद्यया अश्लेषविनाशावुक्तौ । इतरस्य-पुण्यस्यापि, एबम्-उक्तन न्यायेनाश्लेषविनाशौ विद्यया स्याताम्, विद्याफलविरोधित्वसामान्यायपदेशाच्च । भवति च व्यपदेशः उभे सुकृतदुष्कृते निर्दिश्य *सर्वे पाप्मानोऽतो निवर्तन्ते* इति, *तत्सुकृतदुष्कृते धूनुते* इतिच । मुमुक्षोरनिष्टफलत्वात्सुकृतस्यापि पाप्मशब्देन व्यपदेशः। सुकृतस्यापि शास्त्रीयत्वात्तत्फलस्य केषांचिदिष्टत्वदर्शनाच्च विद्यया अविरोधशङ्कां निवर्तयितुमतिदेशः । ननु विदुषोऽपि सेतिकर्तव्यताकोपासननिर्वृत्तये वृष्टयन्नादिफलानीष्टान्येव; कथं तेषां विरोधा- द्विनाश उच्यते ? नत्राह-पाते त्विति । शरीरपाते तु तेषां विनाशः; शरीरपातादुर्व तु विद्यानुगुणदृष्टफलानि सुकृतानि नश्यन्तीत्यर्थः ॥ १४ ॥ इति इतराधिकरणम् ।।८।। अथ अनारब्धकार्याधिकरणम् ।।६।। ४८४. अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥४।१।१५।। ब्रह्मविद्योत्पत्तेः पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ; ततः पूर्वभाविनोः सुकृतदुष्कृतयोः किमविशेषेण विनाशः, उतानारब्धकार्ययोरेवेति विशये, *सर्वे पाप्मान: प्रदूयन्ते* इति विद्याफलस्याविशेषश्रवणाद्विद्योत्पत्त्युत्तरकालभाविन्याश्च शरीरस्थितेः कुलाल- चक्रभ्रमणादिवत्संस्कारवशादप्युपपत्तेरविशेषेण । इति प्राप्त उच्यते-अनारब्धकार्ये एव तु पूर्वे इति । विद्योत्पत्तेः पूर्वे सुकृतदुष्कृते अनारब्धकार्ये---अप्रवृत्तफले एव विद्यया विनश्यतः। *तस्य तावदेव चिरं चावन्न.विमोक्ष्ये अथ संपत्स्ये* इति शरीरपात- कुतः ? तदवधेः ३५० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । विलम्बावधिश्रुतेः। न च पुण्यापुण्यकर्मजन्यभगवत्प्रीत्यप्रीतिव्यतिरेकेण शरीर स्थितिहेतुभूत- संस्कारसद्भावे प्रमागमस्ति ॥ १५॥ इति अनारब्धकार्याधिकरणम् ।। ६ ।। अथ अग्निहोत्राद्यधिकरणम् ।। १० ।। ४८५. अग्निहोत्रादि तु तत्कार्यायव तद्दर्शनात् ॥ । १ । १६ ॥ इतरस्याप्येवमसंश्लेष इति विद्याबलात्सुकृतस्याप्यसंश्लेष उक्तः । अग्निहोत्रादीनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषानिच्छतोऽननुष्ठाने प्राप्त उच्यते-अग्निहोत्रादि स्विति तुशब्दस्सुकृतान्तरेभ्यो विशेषणार्थः । अग्निहोत्राद्याश्रम- धर्माः फलाश्लेषासंभवादनुष्ठेया एव । तदसंभवश्च तत्कार्यार्थत्वात्तेषाम् । विद्याख्यकार्यायव हि विदुषोऽग्निहोत्राद्यनुष्ठानम् । कथमिदमवगम्यते ? तद्दर्शनात्; दृश्यते हि तमेतं वेदानु- वचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन* इत्यादिनाऽग्निहोत्रादीनां विद्यासाधनत्वम् । विद्यायाश्चाप्रयाणादभ्यासाधेयातिशयाया अहरहरुत्पाद्यत्वात्तदुत्पत्त्यर्थ- माश्रमकर्माप्यहरहरनुष्ठेयमेव । अन्यथाऽऽश्रमकर्मलोपे दूषितान्तःकरणस्य विद्योत्पत्तिरेव न स्यात् ॥१६॥ - - यदि अग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्थाः, विद्योत्पत्तेः प्राचीनं च सुकृतं यावत्सं- पातमुषित्वा *प्राप्यान्तं कर्मणः* इत्यनुभवेन विनष्टम्; भुक्तशिष्ट च प्रारब्धफलम्; *सुहृद- स्साधुकृत्यामित्यस्य को विषयः ? तत्राह- ४८६. अतोऽन्यापि ह्य केषामुभयोः।। ४।१।१७ ॥ अतः-अग्निहोत्रादिसाधुकृत्यायाः विद्योत्पत्त्यर्थायाः अन्याऽपि विद्याधिगमात्पूर्वोत्तर- योरुभयोरपि पुण्यकर्मणोः प्रबलकर्मप्रतिबद्धफला साधुकृत्याऽनन्ता संभवत्येव; तद्विषयमिद- मेकेषां शाखिनां वचनं *तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यामिति । विद्ययाऽश्लेष- विनाशश्रुतिश्च तद्विषया ॥ १७ ॥ अनुष्ठितस्यापि कर्मणः फलप्रतिबन्धसंभवं पूर्वोक्तं स्मारयति- ४८७. यदेव विद्ययेति हि ॥४।१।१८ ॥ यदेव विद्यया करोति...तदेव वीर्यवत्तरम्' इत्युद्गीथविद्यायाः ऋतुफलाप्रतिबन्ध- चतुर्थाध्याये-द्वितीयपादे-इतरक्षपणाधिकरणम् । ३५१ फलत्ववचनेनानुष्ठितस्थापि कर्मणः फलप्रतिबन्धस्सूच्यते हि। अतो विदुषोऽनुष्ठितप्रतिबद्ध- फलविषयं *सुहृदस्साधुकृत्यामिति शाट्यायनिकम् ॥ १८ ॥ इति अग्निहोत्राद्यधिकरणम् ।।१०।। अथ इतरक्षपणाधिकरणम् ॥ ११ ।। ४८८ भोगेन त्वित क्षपयित्वाऽथ संपद्यते ॥४।१।१६॥ ययोः पुण्यपापयोरश्लेषविनाशावुक्तौ, ताभ्यामितरे आरब्धकार्ये पुण्यपापे कि विद्या- योनिशरीरावसाने, उत तच्छरीरावसाने शरीरान्त रावसाने वेत्यनियम इति संशये, तस्य तावदेव चिरं यावन्न विमोक्ष्ये इति तच्छरीरविमोक्षावसानत्वश्रवणात्तदवसाने । इति प्राप्त उच्यते-भोगेन स्विति । तुशब्दः पक्षव्यावृत्त्यर्थः। इतरे-आरब्धकार्ये पुण्यपापे स्वारब्धफल- भोगेन क्षपयित्वा तत्फलभोगसमाप्त्यनन्तरं ब्रह्म संपद्यते । ते च पुण्यपापे एकशरीरोपभोग्य- फले चेत्, तच्छरीरावसाने संपद्यते; अनेकशरीरभोग्यफले चेत्, तदवसाने संपद्यते; भोगेनैव क्षपयितव्यत्वादारब्धफलयोः कर्मणोः। *तस्य तावदेव चिरं यावन्न विमोक्ष्य* इति च भोगेन तयोः कर्मणोः विमोक्ष उच्यते, देहावधिनियमाश्रवणात् । तदेवं ब्रह्मविद्यायाः प्रागनुष्ठितम- भुक्तफलमारब्धफलं पुण्यपापरूयं कर्मानादिकालसंचितमनन्तं विद्यामाहात्म्याद्विनश्यति; विद्या- रम्भोत्तरकालमनुष्ठितं च न श्लिष्यति; तत्र पुण्यरूपं सर्व विदुषस्सुहृदो गृह्णन्ति, पापं च द्विषन्त इति निरवद्यम् ॥ १६ ॥ इति इतरपक्षणाधिकरणम् ।। ११ ।। इमि श्रीभगवद्रामानुजविरचिते शारीरिकमीमांसाभाष्ये चतुर्थस्याध्यायस्य प्रथमः पादः ।। १ श्रीमते रामानुजाय नमः चतुर्थाध्याये-द्वितीयः पादः-वागधिकरणम् ।। १ ।। ४८६. वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ४।२।१॥ इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमं तावदुत्क्रान्तिश्चिन्त्यते । तत्रेदमाम्नायते *अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इति । अत्र वाङ्मनसि संपद्यते इति वाचो मनसि संपत्तिश्रुतिः कि वाग्वृत्तिमात्रविषया, उत वाग्विषयेति विशये वृत्तिमात्रविषयेति युक्तम् । कुतः ? मनसो वाक्प्रकृतित्वाभावात्तत्र वाक्स्वरूपसंपत्त्यसंभवात् । वागादिवृत्तीनां मनोधीनत्वेन वृत्तिश्रुतिः ३५२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । कथंचिदुपपद्यत इति । एवं प्राप्तऽभिधीयते-वाङ्मनसीति । वाक्स्वरूपमेव मनसि संपद्यते । कुतः ? दर्शनात्-दृश्यते हि वागिन्द्रिय उपरतेऽपि मनःप्रवृत्तिः । वृत्तिमात्रसंपत्त्याऽपि तदुपपद्यत इति चेत्, तत्राह-शब्दाच्चेति । *वाङ्मनसि संपद्यत इति वावस्वरूपसंपत्तावेव हि शब्दः; न वृत्तिमात्रसंपत्तौ । नहि तदानी वृत्त्युपरमे वागिन्द्रियं प्रमाणान्तरेणोपलभ्यते; येन वृत्तिमात्रमेव संपद्यत इत्युच्येत । यदुक्तं मनसो वाक्प्रकृतित्वाभावाद्वाचो मनसि संपत्ति- नॊपपद्यत इति; तत्, *वाङ्मनसि संपद्यत इति वचनात् भनसा वाक्संयुज्यते, नतु तत्र लोयत इति परिहर्तव्यम् ॥ १ ॥ ४६०. अत एव सर्वाण्यनु ॥ ४।२।२॥ यतो वाचो मनसा संयोगमात्रं संपत्तिः; न तु लयः; अत एव वाचमनु सर्वेषामिन्द्रियाणां मनसि संपत्तिश्रुतिरुपपद्यते *तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानः* इति ॥२॥ इति वागधिकरणम् ।। १ ॥ अथ मनोधिकरणम् ।। २ ।। ४६१. तन्मनः प्राण उत्तरात् ॥ ४ । २।३॥ तत्-सर्वेन्द्रियसंयुक्तं मनः प्राणे संपद्यते-प्राणेन संयुज्यते; न मनोवृत्तिमात्रम् । कुतः ? उत्तरात्-*मनः प्राणे* इति वाक्यात् ॥ अधिकाशङ्का तु- *अन्नमयं हि सोम्य मनः इति वचनान्मनसोऽन्नप्रकृतित्वमवगम्यते; अन्नस्य च *ता अन्नमसृजन्त* इत्यम्मयत सिद्धम्, *आपोमयः प्राणाः* इति चाप्प्रकृतित्वं प्राणस्यावगम्यते, अतो मनः प्राणे संपद्यत इत्यत्र प्राणशब्देन प्राणप्रकृतिभूता अपो निर्दिश्य तासु मनस्संपत्तिप्रतिपादने परम्परया स्वकारणे लय इति संपत्तिवचनमुपपन्नं भवतीति ॥ परिहारस्तु *अन्नमयं हि सोम्य मनः, आपोमयः प्राणः इति मनःप्राणयोरन्ने नाद्भिश्चाप्यायनमुच्यते, न तत्प्रकृतित्वम् आहङ्का- रिकत्वान्मनसः, आकाशविकारत्वाच्च प्राणस्य । प्राणशब्देनापां लक्षणा च स्यादिति ॥३॥ इति मनोधिकरणम् ।। २ ।। अथ अध्यक्षाधिकरणम् ।। ३ ।। ४६२. सोऽध्यक्षे तदुपगममादिभ्यः ॥ ४ । २।४ ॥ यथा *वाङ्मनसि संपद्यते, मनः प्राणे* इति वचनानुरोधेन मनःप्राणयोरेव 'वाङ्मनसयोस्संपत्तिः तथा प्राणस्तेजसि* इति वचनात्तेजस्येव प्राणस्संपद्यते । इति प्राप्त चतुर्थाध्याये-द्वितीयपादे-भूताधिकरणम् । ३५३ ? उच्यते-सोऽध्यक्षे इति । सः-प्राणः, अध्यक्षे-करणाधिपे जीवे संपद्यते । कुतः ? तदुपगमा- दिभ्यः प्राणस्य जीवोपगमस्तावच्छ यते *एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमा- यन्ति* इति । तथा जीवेन सह प्राणस्योत्क्रान्तिः श्रूयते तमुत्जामन्तं प्राणोऽब्त्क्रामति* इति । प्रतिष्ठा च जीवेन सह श्रूयते *कस्मिन्नुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रति- ष्ठिते प्रतिष्ठास्यामि* इति । एवं जीवेन संयुज्य तेन सह तेजस्संपत्तिरिह *प्राणस्तेजसि* इत्युच्यते; यथा यमुनायाः गङ्गया संयुज्य सागरगमनेऽपि यमुना सागरं गच्छतीति वचो न विरुध्यते, तद्वत् ॥ ४ ॥ इति अध्यक्षाधिकरणम् ।। ३ ।। अथ भूताधिकरणम् ।। ४ ।। ४६३. भूतेषु तच्छ्र तेः ॥ ४-२-५ ॥ *प्राणस्तेजसीति जीवसंयुक्तस्य प्राणस्य तेजसि संपत्तिरुक्ता; सा संपत्तिः किं तेजो- मात्रे, उत संहतेषु सर्वेषु भूतेष्विति विशये तेजोमात्रश्रवणात्तेजसि । इति प्राप्त उच्यते- भूतेष्विति । भूतेषु संपद्यते । कुतः ? तच्छ्रुतेः *पृथिवीमयः आपोमयः...तेजोमयः* इति जीवस्य सञ्चरतस्सर्वभूतमयत्वश्रुतेः ॥ ५ ॥ ननु तेजःप्रभृतिष्वेककस्मिन् क्रमेण संपत्तावपि *पृथिवीमय इत्यादिका श्रुतिरुपपद्यते, - ? अत आह- - ४६४. नैकस्मिन् दर्शयतो हि ॥ ४-२-६ ।। नैकस्मिन्, एकैकस्य कार्याक्षमत्वात् । दर्शयतो झक्षमत्वं श्रुतिस्मृती *अनेन जीवेना- त्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि* इति नामरूप- व्याकरणयोग्यत्वाय त्रिवृत्करणमुपदिश्यते । *नानावीर्याः पृथग्भूताः ततस्ते संहति विना । नाशवनुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्नशः। समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । मह- दाद्या विशेषान्ता झण्डमुत्पादयन्ति ते ॥ इति । अतः *प्राणस्तेजसीति तेजश्शब्देन भूता- न्तरसंसृष्टमेव तेजोऽभिधीयते । अतो भूतेष्वेव संपत्तिः ॥ ६ ॥ इति भूताधिकरणम् ॥ ४ ॥ अथ आमृत्युपक्रमाधिकरणम् ।। ५ ।। ४६५. समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ४-२-७ ॥ इयमुत्क्रान्तिः किं विद्वदविदुषोस्समाना, उताविदुष एवेति चिन्तायाम्, अविदुष एवेति प्राप्तम् । कुतः ? विदुषोऽत्रैवामृतत्ववचनादुत्क्रान्त्यभावात् । विदुषो ह्यत्रैवामृतत्वं

३५४
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाप्यम् ।
श्राव्यते-- यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मोऽमृतो भवत्यत्र ब्रह्म
समश्नुते ॥ इति । एवं प्राप्तऽभिधीयते-समाना चामृत्युपक्रमादिति । विदुषोऽप्यामृत्युपक्रमा-
दुत्क्रान्तिसमाना। आसृत्युपक्रमात--आगत्युपक्रमात्, नाडीप्रवेशात्प्रागित्यर्थः । विदुषोऽपि
हि नाडीविशेषेणोत्क्रम्य गतिः श्रूयते--*शतं चैका च हृदयस्य नाज्यस्तासां मूर्धानभि-
निस्सृतका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ इति । एवं नाडी-
विशेषेण गतिश्रवणाद्विदुषोऽप्युत्क्रान्तिरवर्जनीया । सा च नाडीप्रवेशात्प्रावि पाश्रवणा-
समाना । तत्प्रवेशदशायां च विशेषः श्रूयते अतेन प्रद्योतेनैष आत्मा निष्कामति चक्षुषो वा
मूों वा अन्येभ्यो वा शरीरदेशेभ्यः इति । *शतं चैका च हृदयस्येत्यनया श्रुत्यैकार्थ्या-
भू! निष्क्रमणं विद्वद्विषयम्; इतरदविद्वद्विषयम् । यदुक्तं विदुषोऽत्रैवामृतत्वं श्राव्यत इति;
तत्रोच्यते-अमृतत्वं चानुपोष्येति । चशब्दोऽवधारणे । अनुपोप्य-शरीरेन्द्रियादिसंबन्धमद-
ध्वैव, यदमृतत्वम्-उत्तरपूर्वाधयोरश्लेषविनाशरूपं प्राप्यते; तदुच्यते *यदा सर्वे प्रमुच्यन्ते
इत्यादिकया श्रु त्येत्यर्थः । *अत्र ब्रह्म समश्नुत इति च उपासनवेलायां यो ब्रह्मानुभवः;
तद्विषयमित्यभिप्रायः ॥ ७ ॥
४६६. तदापीतेस्संसारव्यपदेशात् ॥ ४-२-८ ॥
अवश्यं च तत्--अमृतत्वमदग्धदेहसंबन्धस्पैवेति विज्ञेयम् । कुतः ? आपीते: संसार-
व्यपदेशात्-अपीति:-अप्ययः, ब्रह्मप्राप्तिः। सा चाचिरादिना मार्गेण देशविशेषं गत्वेति
वक्ष्यते । आतदवस्थाप्राप्त संसारः देहसंबन्धलक्षणो हि व्यपदिश्यते-- *तस्य तावदेव चिरं
यावन्न विमोक्ष्येऽथ संपत्स्ये* इति, *अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखा-
त्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानि ॥ इति च ॥ ८ ॥
४६७. सूक्ष्म प्रमाणतश्च तथोपलब्धेः ॥ ४-२-६॥
:
इतश्च विदुषोऽपि बन्धो नात्र दग्धः; यतस्सूक्ष्म शरीरमनुवर्तते । कुत इदमवगम्यते ?
प्रमाणतस्तथोपलब्धेः--उपलभ्यते हि देवयानेन पथा गच्छतो विदुषः *तं प्रतिब्रूयात् सत्यं
ब्रूयात् इति चन्द्रमसा संवादवचनेन शरीरसद्भावः। अतस्सूक्ष्मशरीरमनुवर्तते । अतश्च
बन्धो न दग्धः ॥६॥
४६८. नोपमनातः॥४-२-१० ॥
अतः यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मोऽमृतो भवत्यत्र
ब्रह्म समश्नुते ॥ इति वचनं न बन्धोपमर्दैनामृतत्वं वदति ॥ १० ॥

चतुर्थाध्याये-द्वितीयपादे-आसृत्युपक्रमाधिकरणम् । ३५५ ४६६. अस्यैव चोपपत्तेरूष्मा ॥ ४-२-११ ॥ अस्य-- -सूक्ष्मशरीरस्य क्वचिद्विद्यमानत्वोपपत्तेविदुषः प्रक्रान्तमरणस्य मरणात्प्रागूष्मा स्थूले शरीरे क्वाचित्क उपलभ्यते । नच स्थूलस्यैव शरीरस्यायमूष्मा, अन्यत्रानुपलब्धेः । ततश्चोष्मणः क्वचिदुपलब्धिविदुषस्सूक्ष्मशरीरस्योत्क्रान्तिनिबन्धनेति गम्यते । तस्माद्विदुषोऽ- प्यासृत्युपक्रमात्समानोत्क्रान्तिरिति सुष्ठूक्तम् ॥ ११ ॥ पुनरपि विदुष उत्क्रान्तिन संभवतीत्याशङ्कय परिहियते- ५००. प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्य केषाम् ॥ ४ । २ । १२॥ -- यदुक्त विदुषोऽप्युत्क्रान्तिस्समानेति; तन्नोपपद्यते, विदुष उत्क्रान्तिप्रतिषेधात् । तथाहि स एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्वपक्रामति इत्युपक्रम्य *तेन प्रद्यो- तेनैष आत्मा निष्क्रामति तमुत्क्रामन्तं प्राणोऽनूत्क्रामति' इत्यविदुष उत्क्रान्तिप्रकारमभिधाय *अन्यन्नवतरं कल्याणतरं रूपं कुरुते* इति देहान्तरपरिग्रहं चाभिधाय *प्राप्यान्तं कर्मण- स्तस्य यत्किचेह करोत्ययम्, तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे इति तु कामयमानः इत्यविद्वद्विषयं परिसमाप्य *अथाकामयमानो योऽकामो निष्काम प्राप्तकाम आत्मकामः न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति इति विदुष उत्क्रान्तिः प्रतिषिध्यते । तथा पूर्वत्र आतभागप्रश्नेऽपि विदुष उत्क्रान्तिप्रतिषेधो दृश्यते *अप पुनर्मृत्युं जयति* इति विद्वांसं प्रस्तुत्य याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते उदस्मात्प्राणाः कामन्त्याहो न* इति पृष्टः *नेति होवाच याज्ञवल्क्योऽत्रैव समवलीयन्ते स उच्छ्वयत्याध्मातो मृतः शेते* इति । अतो विद्वानिहैवामृतत्वं प्राप्नोतीति चेत् ॥ तन्न । शारीरात्-प्रत्यगात्मनः प्राणानामुत्क्रान्तिमुत्र प्रतिषिध्यते, न शरीरात् । अन तस्य प्राणा उत्क्रामन्तीत्यत्र तच्छब्देन *अथाकामयमान इति प्रकृतश्शारीर एव परानृश्यते; नाश्रुतं शरीरम् । *तस्येति षष्ठया प्राणानां संबन्धित्वेन शारीरो निर्दिष्टः; नतूत्क्रान्त्यपादनत्वेन । उत्क्रान्त्यपादानं तु शरीरमेवेति चेन्न, अपादानापेक्षायामश्रुताच्छरी- रात्संबन्धितया श्रुतस्यात्मन एव सन्निहितत्वेनापादानतयाऽपि ग्राह्यत्वात् । किञ्च प्राणानां जीवसंबन्धितयैव प्रज्ञातानां तत्संबन्धकथने प्रयोजनाभावात्संबन्धमात्रवाचिन्या षष्ठया अपादानमेव विशेष इति निश्चीयते; यथा नटस्य शृणोतीति । नचात्र विवदितव्यम्; स्पष्टो ह्य केषां-माध्यन्दिनानामाम्नाये शारीरो जीव एवापादनमिति योऽकामो निष्काम आप्त- काम आत्मकामो न तस्मात्प्राणा उत्क्रनमन्ति* इति । शरीरात्प्राणानामुत्क्रान्तिप्रसङ्गा-

श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
भावात्तनिषेधो नोपपद्यत इति चेन्न, *तस्य तावदेव घिरम्* इति विदुषश्शरीरवियोगकाले
ब्रह्मसंपत्तिवचनेन प्राणानामपि तस्मिन् काले शारीराद्विदुषो वियोगः प्रसज्यते; ततश्च
देवयानेन पथा ब्रह्मसंपत्तिर्नोपपद्यत इति *न तस्य प्रामा उत्क्रामन्ति----देवयानेन पथा
ब्रह्मप्राप्तः प्राग्जीवाद्विदुषोऽपि प्राणा न विश्लष्यन्तीत्युच्यते । आतभागप्रश्नोऽपि यदा
विद्वद्विषयः, तदा अयमेव परिहारः। स त्वविद्विषयः, तत्र प्रश्नप्रतिवचनो: ब्रह्मविद्या-
प्रसङ्गादर्शनात् । तत्र हि ग्रहातिग्रहरूपेणेन्द्रियेन्द्रियार्थस्वभावः, अपामग्न्यन्नत्वं, मियनाणस्य
जीवस्य प्राणापरित्यागः, मृतस्य नामवाच्यकीर्त्यनुवृत्तिः, तस्य च पुण्यपापानुगुणतिप्राष्टि-
रित्येतेऽर्थाः प्रश्नपूर्वकं प्रत्युक्ताः । तत्र च *अप पुनर्मुत्युं जयतीति अपामग्नवत्रत्वज्ञाना-
दग्निजय एव मृत्युजय उच्यते । अतो नात्र विदुषः प्रसङ्गः। अविदुषस्तु प्राणानुत्क्रान्ति-
वचनं, स्थूलदेहवत्प्राणा न मुञ्चन्ति, अपि तु भूतसूक्ष्मवज्जीवं परिष्वज्य गच्छन्तीति प्रति-
पादयतीति निरवद्यम् ॥ १२ ॥
५०१. स्मर्यते च ॥ ४ । २ । १३ ।।
स्मर्यते च विदुषोऽपि मूर्धन्यनाड्योत्क्रान्तिः *ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्य-
मण्डलन् । ब्रह्मलोकमतिक्रस्य तेन याति परां गतिम् ॥ इति ॥ १३ ॥ इति आमृत्युपत्रमाधि-
करणम् ।।५।।
अथ परसंपत्त्यधिकरणम् ॥ ६ ॥
५०२. तानि परे तथा ह्याह ।। ४ । २। १४ ।।
सकरणग्रामः सप्राणः करणाध्यक्षः प्रत्यगात्मा उत्क्रान्तिवेलायां तेजःप्रभृतिभूत-
सूक्ष्मेषु संपद्यत इत्युक्तम् । सैषा संपत्तिर्विदुषो न विद्यत इत्याशङ्कय परिहृतम् । तानि
पुनर्जीवपरिष्वक्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविद्य च स्वकार्याय गच्छन्ति, उत
परमात्मनि संपद्यन्त इति विशये मध्ये परमात्मसंपत्ती सुखदुःखोपभोगरूपकार्यादर्शनात्,
तदुपभोगानुगुण्येन यथाकर्म यथाविद्य च गच्छन्ति ॥
इति प्राप्त उच्यते-तानि परे इति । तानि परस्मिन्नात्मनि संपद्यन्ते; कुतः ? तथा
शाह श्रुति:- *तेजः परस्यां देवतायाम् इति । यथाह श्रुतिस्तदनुगुणं कार्य कल्प्य.
मित्यर्थः। सुषुप्तिप्रलययोर्यथा परमात्मसंपत्त्या सुखदुःखोपभोगायासविधमः; तद्वदिहापि ॥१४॥
इति परसंपत्त्यधिकरणम् ॥ ६॥

चतुर्थाध्याये-द्वितीयपादे-अविभागाधिकरणम् । ३५७ अथ अविभागाधिकरणम् ।। ७ ।। ५०३. अविभागो वचनात् ।। ४ । २ । १५ ॥ सेयं परमात्मनि संपत्तिः कि प्राकृतलयवत्कारणापत्तिरूपा, उत *वाङ्मनसि* इत्यादिवदविभागरू पेति चिन्तायां, परमात्मनस्सर्वेषां योनिभूतत्वात्कारणापत्तिरूपा । इति प्राप्त उच्यते-अविभाग इति । अपृथग्भावः-पृथग्व्यवहारानहसंसर्ग इत्यर्थः । कुतः ? वचनात्-*तेजः परस्यां देवतायामित्यत्रापि *वाङ्भनसि संपद्यत इत्यतस्संपद्यत इति वचनस्यानुषङ्गात्, तस्य च संसर्गविशेषवाचित्वात्, अनुषक्तस्याभिधानवैरूप्ये प्रमाणाभावात्, उत्क्रान्तिवेलायां कारणापत्तिप्रयोजनाभावात्, तस्य च संसर्गविशेषवाचित्वात् अनुषक्तस्या- भिधानवैरूप्ये प्रमाणाभावात्, उत्क्रान्तिवेलायां कारणापत्तिप्रयोजनाभावात् पुनस्तत्राव्यक्ता- दिसृष्टयवचनाच्च ॥ १५ ॥ इति अविभागाधिकरणम् ।।७।। अथ तदोकोधिकरणम् ।। ८ ।। ५०४. तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृति- योगाच्च हार्दानुगृहीतश्शताधिक्रया ।। ४-२-१६ ॥ एवं गत्युपकभावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्तः; इदानीं विदुषो विशेष उच्यते । तत्रेदमाम्नायते-*शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ इति । अनया नाडीनां शताधि- कया मूर्धन्यनाड्य व विदुषो गमनम्, अन्याभिरेव चाविदुषो गमनमित्ययं नियम उपपद्यते, नेति संशयः । कि युक्तम् ? नियमो नोपपद्यत इति । कुतः ? नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुविवेचतया पुरुषेणोपादातुमशक्यत्वात् । *तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्तीति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमिति । एवं प्राप्त प्रचक्ष्महे --शताधिकयेति । विद्वान् शताधिकया मूर्धन्ययैव नाड्योत्क्रामति । नचास्याः विदुषो दुविवेचत्वम्, विद्वान् हि परमपुरुषाराधनभूतात्यर्थप्रियविद्यासामर्थ्याद्विद्याशेषभूततयाऽऽत्मनोऽत्यर्थप्रियगत्यनुस्मरण- योगाच्च प्रसन्न न हार्देन परमपुरुषेणानुगृहीतो भवति; ततश्च तदोकः-तस्य-जीवस्य स्थान हृदयम्, अग्रज्वलनं भवति-अग्रे ज्वलनं प्रकाशनं यस्य, तदिदमग्रज्वलनम् परमपुरुषप्रसादा- प्रकाशितद्वारो वद्वान् तां नाडौं विजानातीति तया विदुषो गतिरुपपद्यते ॥ १६ ॥ इति तदोकोधिकरणम् ।। ८३ ?

३५८ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । अथ रश्म्यनुसाराधिकरणम् ॥ ६॥ ५०५. रश्म्यनुसारी ॥ ४-२-१७ ॥ विदुषो हृदयाच्छताधिकया मूर्धन्धनाड्या निर्गतस्यादित्यरकमीननुसृत्यादित्यमण्डल- गतिः श्रूयते--*अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यर्थतैरेव रश्मिभिरूद्धमाक्रमते इति । तत्र रश्म्यनुसारेणैवेत्ययं गतिनियमस्संभवति, नेति चिन्तायाम्, निशि मृतस्य विदुषो रश्म्यनु- सारासंभवादनियमः । वचनं तु पक्षप्राप्तविषयम् । इति प्राप्त उच्यते-रश्म्यनुसारोति । रश्म्यनुसार्येव विद्वानूर्व गच्छति । कुतः ? *अर्थतैरेव रश्मिभिरित्यवधारणात्; पाक्षिकत्वे ह्य वकारोऽनर्थकस्स्यात् । यदुक्तं निशि मृतस्य रश्म्यसंभवादश्मीननुसृत्य गमनं नोपपद्यत इति; तन्न, निश्यपि सूर्य रश्म्यनुसारस्संभवति । लक्ष्यते हि निश्यपि निदाघसमये ऊष्मोप- लब्ध्या रश्मिसद्भावः। हेमन्तादौ तु हिमाभिभवादुर्दिन इवोष्मानुपलम्भः । शू यते च नाडोरश्मीनां सर्वदाऽन्योन्यान्वयः-*तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं च एवमेवैत आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीम चामुं च अमुष्मादादित्यात्प्रतापन्ते त आसु नाडी षु सृप्तरः आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः* इति । तस्मान्निश्यपि रश्मिसंभवानिशि मृतानामपि विदुषां रश्म्यनुसारेणैव ब्रह्मप्राप्तिरस्त्येव ॥ १७ ॥ इति रश्म्यनुसाराधिकरणम् ॥ ६ ॥ अथ निशाधिकरणम् ।। १० ॥ ५०६. निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ ४-२-१८ ॥ इदमिदानी चिन्त्यते-विदुषो निशि मृतस्य ब्रह्मप्राप्तिरस्ति, नेति । यद्यपि निशायां सूर्यरश्मिसंभवाद्रश्म्यनुसारेण गतिनिशायामपि संभवति; तथापि निशामरणस्य शास्त्रेषु गहितत्वात्परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न संभवति । शास्त्रषु दिवामरणं प्रशस्तम्, विपरीतं निशामरणं -- *दिवा च शुक्लपक्षश्च उत्तरायणमेव च । मुमूर्षतां प्रशस्तानि विप- रीतं तु गहितम् ॥ इति । दिवामरणनिशामरणयोः प्रशस्तत्वविपरीतत्वे चोत्तमाधमगति- हेतुत्वेन स्याताम् । अतो निशि मरणमधोगतिहेतुत्वान्न ब्रह्मप्राप्तिहेतुरिति चेत् तन्न, विदुषः कर्मसंबन्धस्य यावद्देहभावित्वात् । एतदुक्तं भवति-अनारब्धकार्याणामधोगतिहेतुभूतानां कर्मणां विद्यासंबन्धेनैव विनाशादुत्तरेषां चाश्लेषात्प्रारब्धकार्यस्य च चरमदेहावधित्वाद्बन्ध- हेत्वभावाद्विदुषो निशामृतस्यापि ब्रह्मप्राप्तिस्सिद्धैव । दर्शयति च श्रुतिः *तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये* इति । *दिवा च शुक्लपक्षश्चेत्यादिवचनमविद्वद्विषयम् ॥१८॥ इति निशाधिकरणम् ।। १० ।।

चतुर्थाध्याये-द्वितीयपादे-दक्षिणायनाधिकरणम् । अथ दक्षिणायनाधिकरणम् ॥११॥ ५०७. अतश्चायलेऽपि दक्षिणे ॥४।२।१६॥ निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ यो हेतुरुक्तः, तत एव हेतोदक्षिणेऽध्ययने मृतस्य ब्रह्मप्राप्तिस्सिद्धा॥ - अधिकाशङ्का तु *अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सा- युज्यं गच्छति* इति दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रं प्राप्तानां च तेषां यदा तत्पर्यवैति *अर्थतमेवाध्वानं पुनिवर्तन्ते* इति पुनरावृत्तिश्रवणात्, भीष्मादीनां च ब्रह्मविद्या- निष्ठानामुत्तरायणप्रतीक्षादर्शनाक्षिणायने मृतस्य ब्रह्मप्राप्तिन संभवतीति । परिहारस्तु- अविदुषां पितृयाणेन पथा चन्द्र प्राप्तानामेव पुनरावृत्तिः, विदुषस्तु चन्द्र प्राप्तस्यापि *तस्माद्ब्रह्मणो महिमानमाप्नोति* इति वाक्यशेषात्तस्य दक्षिणायनमृतस्य चन्द्रप्राप्तिः ब्रह्म प्रेप्सतो विधमहेतुमात्रमिति गम्यते । वाक्यशेषाभावेऽपि पूर्वोक्तादेव बन्धहेत्वभावात् विदुष- चन्द्र प्राप्तस्यापि ब्रह्मप्राप्तिरनिवार्या । भीष्मादीनां योगप्रभावात् स्वच्छन्दमरणानां धर्म- प्रवर्तनायोत्तरायणप्राशस्त्यप्रदर्शनार्थस्तथाविधाचारः ॥ १६ ॥ ननु च विदुषो मुमूर्छन् प्रति पुनरावृत्त्यपुनरावृत्तिहेतुत्वेन कालविशेषविधिदृश्यते *यत्र काले त्वनावृत्तिमावृत्ति चैवयोगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ । अग्निोतिरहश्शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चन्द्रमसं ज्योतियोगी प्राप्य निवर्तते ॥ शुक्लकृष्णे गती ह्य ते जगतश्शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ इति । तत्राह Mara- ५०८. योगिनः प्रति स्मर्ये ते स्मार्ते चैते ॥ ४ । २ । २० ।। नात्र मुमधुन प्रति मरणकालविशेषोपादानं स्मर्यते; अपितु योगिनः योगनिष्ठान प्रति स्माते-स्मृतिविषयभूते स्मर्तव्ये देवयानपितृयाणाख्ये गती स्मर्येते योगाङ्गतयाऽनुदिनं स्मर्तुम् । तथा ह्य पसंहारः *नैते सृतो पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ इति । *अग्निोतिः *धूमो रात्रिरिति च देवयानपितृयाणे प्रत्यभि- ज्ञायते । उपक्रमे च यत्र काले त्विति कालशब्दः कालाभिमानिदेवतातिवाहिकपरः, अग्नयादेः कालत्वासंभवात् । अतः *तेऽचिषमभिसंभवन्ति इति विहितदेवयानानुस्मृतिरत्र ३६० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । विद्यानिष्ठान प्रति विधीयते, न मुमूर्षुन् प्रति मरणकालविशेषः ॥ २० ॥ इनि दक्षिणायनाधि- करणम् ।। ११ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य द्वितीयः पादः ।। २ ।। श्रीमते रामानुजाय नमः चतुर्थाध्याये-तृतीयः पाद:--अचिराद्यधिकरणम् ।। १ ॥ ५०६. अचिरादिना तत्प्रथितेः ॥ ४।३।१॥ विदुष उत्क्रान्तस्य नाडीविशेषेण हार्दानुग्रहाद्गत्युपक्रम उक्तः । तस्य गच्छतो मार्ग इदानीं निर्णीयते । तत्र श्रुतिषु मार्गप्रकाराः बहुधा आम्नायते । छान्दोग्ये तावत् *यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यले* इत्युपक्रम्य ब्रह्मविद्या- मुपदिश्याम्नायते *अथ यदु चास्मिञ्च्छव्यं कुर्वन्ति यदुच न अचिषसेवाभिमभवन्ति अचिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङेति मासांस्तान मासेभ्यः संवत्सरं संवत्सरादादित्याच्चन्द्र मसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथः एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते* इति । तथाऽत्रैवाष्टमेको रश्मिभिरूप्रमाक्रमते* इति । कौषीतकिनश्च देवयानमार्गमन्यथाऽधीयते *म एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् इति । तथा बृहदारण्यके *य एवमेतद्विदुर्ये चेमेऽरण्ये श्रद्धां सत्यमुपासते तेविषमभिसंभवन्ति अचिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासा- नुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतात्पुरुषोऽमानवस्स एत्य ब्रह्मलोकात् गमयति* इति । तत्रैव पुनरन्यथा यदा वै पुरुषोऽस्माल्लोकात्प्रेति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वपाक्रमते स आदित्य- मागच्छति तस्मै स तत्र विजिहीते यथा आडम्बरस्य खं तेन स ऊर्ध्वमाक्रमते स चन्द्रम- समागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम्* इत्यादि । तत्र संशयः-किर्माचरा- दिरेक एव मार्ग आभिश्श्रुतिभिः प्रतिपाद्यत इति, तेनैव ब्रह्म गच्छति विद्वान् ? उत तस्मा- दन्येऽन्यत्र मार्गा इति, तैर्वाऽनेन वेत्यनियमः ? इति । कि युक्तम् ? अनिमय इति । कुतः ? अनेकरूपत्वान्नरपेक्ष्याच्चेति ॥ एवं प्राप्तऽभिधीयते-अचिरादिनेति । अचिरादिरेक एव मार्गस्सर्वत्र प्रतिपाद्यते । अतोऽचिरादिनैव गच्छति । कुतः ? तत्प्रथितेः--तस्यैव सर्वत्र प्रथितेः । प्रथितिः-प्रसिद्धिः, तस्यैव सर्वत्र प्रत्यभिज्ञानादित्यर्थः । प्रत्यभिज्ञानात्स एव मार्गस्सर्वत्र न्यूनाधिकभावेन प्रति- चतुर्थाध्याये-तृतीयपादे-वाय्वधिकरणम् पाद्यत इति विद्यागुणोपसंहारवदन्यत्रोक्तानामन्यत्रोपसंहारः क्रियते । छान्दोग्ये तावदुप- कोसल विद्यायां पञ्चाग्निविद्यायां चैकरूप एवाम्नायते । वाजसनेयके च पञ्चाग्निविद्यायां तथैवाचिरादिः अल्पान्तर आम्नायते; अतस्तत्रापि स एवेति प्रतीयते । अन्यत्रापि सर्वत्रा- ग्नयादित्यादयः प्रत्यभिज्ञायन्ते ॥ १ ॥ इति अचिराद्यधिकरणम् ।। १ ।। अथ वाय्वधिकरणम् ।। २ ।। ५१०. वायुमब्दादविशेषविशेषाभ्याम् ।। ४ । ३ । २ ॥ अचिरादिनैव गच्छन्ति विद्वांस इत्युक्तम् । तत्राचिरादिके मार्गे छन्दोगाः मासादित्य- योरन्तराले संवत्सरमधीयते-*मासेभ्यस्संवत्सरं संवत्सरादादित्यमिति । वाजसनेयिनस्तु तयोरेवान्तराले देवलोकं *मासेभ्यो देवलोकं देवलोकादादित्यमिति । उभयत्रापि मार्गस्यै- कत्वादुभावुभयत्रोपसंहायौँ । तत्र मालार्ध्वमभिहितयोस्संवत्सरदेवलोकयोः पञ्चम्याऽभिहितस्य श्रोतक्रमस्य तुल्यत्वेऽपि अधिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यात् षडुदङ्केति मासांस्तानित्यधिककालानां न्यूनकालेभ्य उत्तरोत्तरत्वेन निवेशदर्शनात्संवत्सरस्यैव मासाद- नन्तरं बुद्धौ विपरिवृत्तेः संवत्सर एव मासादृवं निवेशयित्तव्य इति तत ऊर्व देवलोक इति निश्चीयते। अन्यत्र वाजसनेयिनः *यदा वै पुरुषोऽस्माल्लोकात्प्रेति स वायु मागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति* इत्यादित्यात्पूर्व वायुमधीयते । कौषीतकिनस्तु *स एतं देवयानं पन्थानमापद्याग्निलोक- मागच्छति स वायुलोकमित्यग्निलोक शब्दनिर्दिष्टाचिषः परं वायुमधीयते । तत्र कौषीतकिनां पाठक्रमेणाचिषः परत्वेन प्राप्तस्य वायोजिसनेयिनां तेन स ऊर्ध्वमाक्रमते स आदित्यमा. गच्छतीत्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाबलीयसा आदित्यात्पूर्व प्रवेशो निश्चीयते । अत आदित्यात्पूर्व संवत्सरादूर्ध्व देवलोको वायुश्च प्राप्तौ। तत्रेदं चिन्त्यते---कि देव लोको वायुश्चार्थान्तरभूतौ यथेष्टक्रमेण विद्वानभिगच्छेत्, उतानान्तरत्वेन संवत्सरादूर्व देवलोकं सन्तं वायुमभिगच्छेदिति । किं युक्तम् ? भिन्नार्थत्वम्, प्रसिद्धः । भिन्नार्थत्वे चोर्व- शब्देन पश्चम्या चोभयोस्संवत्सरादित्यान्तराले श्रुतिक्रमेण प्राप्तत्वात्, विशेषाभावाच्च यथेष्टम् ।। ? इति प्राप्त उच्यते-वायुमब्दादिति । वायु संवत्सरादूर्ध्वमभिगच्छेत् । कुतः ? अविशेषविशेषाभ्यां वायोरेव निर्दिष्टत्वात् । देवलोकशब्दो हि अविशेषेण-सामान्येन, देवानां लोक इत्यनेन रूपेण वायुमभिधत्ते। *स वायुमागच्छति तस्मै स तत्रेति वायुशब्दो विशेषेण वायुमभिधत्ते । अतो देवलोकवायुशब्दाभ्याम् अविशेषविशेषाभ्यां वायुरेवाभिधीयत इति संवत्सरादूर्ध्व वायुमेवाभिगच्छेत् । कौषीतकिनां वायुलोकशब्दश्चाग्निलोकशब्दवत् वायुश्चासौ ३६२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । लोकश्चेति व्युत्पत्त्या वायुमेवाभिधत्ते। वायुश्च देवानामावासभूत इत्यन्यत्र श्रूयते योऽयं पवत एष एव देवानां गृहा:* इति ॥ २ ॥ इति वाय्वधिकरणम् ।। २ ॥ अथ वरुणाधिकरणम् ॥ ३ ॥ ५११. तटितोऽधि वरुणस्संबन्धात् ॥ ४-३-३ ॥ कौषीतकिनां *स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स व युल के म वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिले कंस ब्रह्मल कनित्यत्राग्निलोक शब्द- स्याचिःपर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूर्व निवेश उक्तः । आदित्यस्याप्यत्र प्रातपाठक्रमबाधेन *देवलोकादादित्यमादित्याद्वैधुतमिति वाजसनेयकोक्तश्रुतिक्रमाद्देवलोका- शब्दाभिहिताद्वायोरुपरि निवेशस्सिद्धः । इदानीं वरुणेन्द्रादिषु चिन्ता । वि.मेते वरणादयो यथापाठं वायोरूर्व निदेशयितव्याः; आहोस्विद्विद्युतोऽधीति विशये, चिप्रभृतिषु सर्वेगु *अचिषोऽहरित्यादिश्रुतिक्रमोपरोधाद्विद्युतः परस्ताच्च *तत्पुरुषोऽमानवस्स एनान् ब्रह्म गम- यति इति विद्युत्पुरुषस्य ब्रह्मगमयितृत्वश्रवरणाच्च सर्वत्रावकाशाभावेनाप्राप्ती च उपदेशा- वैयर्थ्यायावश्यं कस्यचिद्बाध्यत्वे पाठक्रमानुरोधेन वायोरनन्तरं वरुणो निवेशयितव्यः । वाय्वादित्ययोः क्रमस्य बाधितत्वेनेन्द्रप्रजापती अपि शत्रैव निवेशयितव्यो । इति प्राप्त उच्यते-तटितोऽधि वरुण इति । वरुणस्तावद्विद्युत उपरिष्टान्निवेर्शाय- तव्यः । कुतः ? संबन्धात्-मेघोदरवर्तित्वाद्विद्युतो वरुणेन संबन्धो लोकवेदयोः प्रसिद्धः । एतदुक्तं भवति-वरुणादीनामुपदेशावैयर्थ्याय क्वचिन्निवेशयितव्यत्वे सति पाटक्रमादर्थक्रमस्य बलीयस्त्वाद्विद्युतोऽधि वरुणो निवेशयितव्यः । ततश्चामानवस्य गयितृत्वं व्यवधानसह- मित्यवगम्यते । तस्य च व्यवधानसहत्वादिन्द्रादेश्वोपदिष्टस्यावश्यनिवेशयितव्यस्य वरणा- दुपर्युपदिष्टत्वादागन्तूनामन्ते निवेशयितव्यत्वाच्च वरुणादुपरीन्द्रादिनिवेयितव्य इति ॥३॥ इति वरुणाधिकरणम् ॥ ३ ॥ ? अथ आतिवाहिकाधिकरणम् ।। ४ ।। ५१२. आतिवाहिकास्तलिङ्गात् ॥ ४-३-४ ॥ इदमिदानी चिन्त्यते-कि.मचिरादयो मार्गचिह्नभूताः, उत भोगभूमयः, अथवा वितुषां ब्रह्म प्रेप्सतामतिवोढार इति । किं तावद्युक्तम् ? मार्गचिह्नभूता इति । कुतः ? उपदेशस्य तथाविधत्वात् । दृश्यते हि लोके ग्रामादीन् प्रति. गन्तृणामेवंविधो देशिकरुपदेशः-इतो चतुर्थाध्याये-तृतीयपादे कार्याधिकरणम् । .. निष्क्रम्यामुकं वृक्षममुकां नदीममुकं च पर्वतपार्श्व गत्वाऽमुकं ग्रामं गच्छति । अथवा, भोग- भूमय एतास्स्युः, कालविशेषतया प्रसिद्धानामहरादीनां मार्गचिह्नत्वानुपपत्तेरन्यस्य च मार्ग- चिह्नभूतस्यैतेषामनभिधायकत्वात् । भोगभूमित्वं च *एत एव लोका यदहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सराः* इत्यहरादीनां लोकत्ववचनादुपपद्यते। अत एव च कौषीतकिनः *अग्निलोकमागच्छति* इत्यादिना लोकशब्दानुविधानेनाचिरादीन पठन्तीति । एवं प्राप्त ब्र मः--आतिवाहिका इति । विदुवामतिवाहे परमपुरुषेण नियुक्ताः आतिवाहिका: देवता- विशेषा एतेऽचिरादयः । कुतः ? तल्लिङ्गात्-अतिवहन लिङ्गात् । अतिवहनं हि गन्तृणां गमयितृत्वम् । गमयिनृत्वं च *तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति* इत्युपसंहारे श्रूय- माणं पूर्वेषामप्यविशेषश्रु तानां स एव संबन्ध इति गमयति । वदन्ति चाचिरादयश्शब्दाः अचिराद्यात्मभूतानभिमानिदेवताविशेषान्; *तं पृथिव्यब्रवीत्* इतिवत् ॥ ४ ॥ यद्येवं तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयतीति वैद्युतस्यैव पुरुषस्य ब्रह्मगमयि- तृत्वश्रु तेविद्युतः परेषां वरुणादीनां कथमातिवाहिकत्वेनान्वय इत्यत्राह- -- ५१३. वैद्युतेनैव ततस्तच्छ्र तेः ॥ 3-३-५ ।। -विद्युत उपरि, वैद्य तेन-अमानवेनैवातिवाहिकेन विदुषामाब्रह्मप्राप्त गमनम् । कुतः ? तछ तेः स एनान् ब्रह्म गमयतीति तस्यैव गमधितृत्वश्रु तेः । वरणादयस्त्वनु- ग्राहका इति तेषामप्यातिवाहिकत्वेनान्वयो विद्यत एव ॥५॥ इति आतिवाहिकाधिकरणम् ।।४।। ? अथ कार्याधिकरणम् ।। ५ ।। ५१४. कार्य बादरिरस्य गत्युपपत्तेः ॥ ४-३-६ ।। अचिरादिनैव गच्छति विद्वान्; अचिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसं ब्रह्म गमयतीत्युक्तम् । इदमिदानी चिन्त्यते । किमयचिरादिको गणः कार्य हिरण्यगर्भ- मुपासीनान्नयति ? उत परमेव ब्रह्मोपासीनान् ? अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मा- त्मकतयोपासीनांश्च ? इति विशये, कार्यमुपासीनानेव गमयतीति बादरिराचार्यों मन्यते । कुतः अस्य-हिरण्यगर्भमुपासीनस्यैव गत्युपपत्तेः । न हि परिपूर्ण सर्वज्ञं सर्वगतं सर्वात्मभूतं परं ब्रह्मोपासीनस्य तत्प्राप्तये देशान्तरगतिरुपपद्यते, प्राप्तत्वादेव । नित्यप्राप्तपरब्रह्मविषया- विद्यानिवृत्तिमात्रमेव हि परविद्याकार्यम् । कार्य तु हिरण्यगर्भरूपं ब्रह्मोपासीनस्य परिच्छिन्न- देशतिप्राप्यप्राप्त्यर्थ गमनमुपपद्यते । अतोऽचिरादिरातिवाहिकगणस्तमेव नयति ॥ ६ ॥ ?

३६४ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ५१५. विशेषितत्वाच्च ॥ ४-३-७ ।। *पुरुषो मानस एत्य ब्रह्मलोकान्गमयतीति लोकशब्देन बहुवचनेन च लोकदिशेष- वतिनं हिरण्यगर्भमुपासीनमेवामानवो गमयतीति विशेष्यते । किश्च प्रजापतेस्सभां वेश्म प्रपद्य * इति कार्यस्य हिरण्यगर्भस्य समीपगमनचिरादिना गतः प्रत्यभिसंधत्ते ॥ ७ ॥ नन्वेवं तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति इत्ययं निर्देशो नोपपद्यते; हिरण्य- गर्भनयने हि *स एतान् ब्रह्माणं गमयतीति निर्देष्टव्यं स्यात् । अत आह- ५१६. सामीप्यात्तु तद्वयपदेशः ॥ ४ । ३ । ८ ॥ “यो ब्रह्माणं विदधाति* इति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीप्यात्तस्य ब्रह्म- शब्देनव्यपदेश इति गत्यनुपपत्तिविशेषणादिभिरुत्तहेतुभिनिश्चीयत इत्यर्थः ॥ ८ ॥ अथ स्यात्-अचिरादिना हिरण्यगर्भप्राप्तौ *एष देवपथो ब्रह्मपथ एतेन प्रतिपद्य- माना इमं मानवमावर्त नावर्तन्ते तयोर्ध्वमायन्नमृतत्वमेति* इत्यमृतत्वप्राप्त्यपुनरावृत्ति- व्यपदेशो नोपपद्यते, हिरण्यगर्भस्य कार्यभूतस्य द्विपरार्धकालावसाने विनाशशास्त्रात्, *आब्रह्मभुवनाल्लोकाः पुनरावतिनोऽर्जुन* इतिवचनाद्धिरण्यगर्भ प्राप्तस्य पुनरावृत्तरवर्ज- नीयत्वादिति; अत्राह- ५१७. कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ४ । ३।६ ॥ कार्यस्य-ब्रह्मलोकस्यात्यये तदध्यक्षेण-हिरण्यगर्भेणाधिकारिकेणावसिताधिकारेण विदुषा सह स्वयमपि तत्राधिगतविद्यः अत:-कार्याद्ब्रह्मलोकात् परं ब्रह्म प्राप्नोतीति, अचिरादिना गतस्यामृतत्वप्राप्त्यपुनरावृत्त्यभिधानात् *ते ब्रह्मलोके तु परान्तकाले परामृता- त्परिमुच्यन्ति सर्वे* इति वचनाच्चावगम्यते ॥ ६ ॥ - ५१८. स्मृतेश्च ।। ४ । ३। १० ॥ स्मृतेश्चायमर्थोऽवगम्यते- ब्रह्मगा सह ते सर्वे संप्राप्त प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति । अतः कार्यमुपासीनमेवाचिरादिको गणो नयतीति बादरेर्मतम् ॥ १० ॥ अत्र जैमिनिः पक्षान्तरपरिग्रहेण प्रत्यवतिष्ठते- - चतुर्थाध्याये-तृतीयपादे-कार्याधिकरणम् । ३६५ ? ५१६. परं जैमिनिर्मुख्यत्वात् ॥ ४ । ३ । ११॥ परं ब्रह्मोपासीनानचिरादिनयतीति जैमिनिराचार्यो मन्यते । कुतः ? मुख्यत्वात्- *तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयतीति ब्रह्मशब्दस्य परस्मिन्नेव ब्रह्मणि मुख्यत्वात् । प्रमाणान्तरेग कार्यत्वनिश्चये सत्येव हि लाक्षणिकत्वं युक्तम् । न च गमनानुपपत्तिः प्रमाणम्, परस्य ब्रह्मणस्सर्वगतत्वेऽपि विदुषो विशष्टदेशगतस्यैवाविद्यानिवृत्तिशास्त्रात् । यथा हि विद्योत्पत्तिवर्णाश्रमधर्मशौचाचारदेशकालाद्यपेक्षा *तमेतं वेदानुवचनेनेत्यादिशास्त्रादवगम्यते, तथा निश्शेषाविद्यानिवर्तनरूपविद्यानिष्पत्तिरपि विशिष्टदेशगतिसापेक्षेति गतिशास्त्रादव- म्यते । विदुष उत्क्रान्तिप्रतिषेधादि तु पूर्वमेव परिहतम् । यत्तु *ब्रह्मलोकानिति लोकशब्द- बहुवचनाभ्यां विशेषणात्कार्यभूतहिरण्यगर्भप्रतीतिरिति; तदयुक्तम्, निषादस्थपतिन्यायेन ब्रह्मव लोको ब्रह्मलोक इति कर्मधारस्यैव युक्तत्वात्, अर्थस्य चैकत्वे निश्चिते बहुवचनस्य *अदितिः पाशान* इतिवदुपपत्तेः । परस्य ब्रह्मणः परिपूर्णस्य सर्वगतस्य सत्यसङ्कल्पस्य स्वेच्छापरिकल्पिताः स्वासाधारणा अप्राकृताश्च लोका नात्यन्ताय न सन्ति, श्रुतिस्मृतीति- हासपुराणप्रामाण्यात् ॥११॥ ५२०. दर्शनाच्च ।। ४ । ३ । १२॥ दर्शयति च श्रुतिः मूर्धन्यनाड्या निष्क्रम्य देवयानेन गतस्य परब्रह्मप्राप्तिम् एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते* इति ॥ १२ ॥ यदुक्तं *प्रजापतेस्सभां वेश्म प्रपद्ये* इचिरादिना गतस्य कार्ये प्रत्यभिसन्धिर्ट श्यत इति; तत्रोत्तरम्- ५२१. नच कार्ये प्रत्यभिसन्धिः ॥ ४ । ३। १३ ॥ न चायं प्रत्यभिसन्धिः कार्ये हिरण्यगर्भ; अपि तु परस्मिन्नेव ब्रह्मणि; वाक्यशेषे *यशोऽहं भवामि ब्राह्मणानाम् इति तस्याभिसंधातुस्सर्वाविद्याविमोकपूर्वकसर्वात्मभावाभि- सन्धानात्, *अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि ॥ इत्यभिसंभाव्यस्य ब्रह्मलोकस्याकृतत्वश्रवणात्, सर्वबन्ध- विनिर्मोकस्य च साक्षाच्छवणात् । अतः परमेव ब्रह्मोपासोनचिरादिरातिवाहिको गणो नयतीति जैमिनेर्मतम् ॥ १३ ॥ इदानी बादरायणस्तु भगवान् स्वमतेन सिद्धान्तमाह- -

३६६
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
५२२. अप्रतीकालम्जनानयतीति बादरायणः उभयवा च दोषात्तत्क्रतुश्च ।
।। ३ । १४ ॥
अप्रतोकालम्बनान्-प्रतीकालम्बनव्यतिरिक्तात् नयाच रादिरातिवाहिको गण इत
भगवान् बादरायणो मन्यते । एतदुक्तं भवति-कार्यमुपासीनान्नयतीति नायं पक्षस्संभवति;
परमेवोपासीनानित्ययमपि नियमो नास्ति; न च प्रतीकालम्बनानपि नयति । अपितु ये परं
ब्रह्मोपासते, ये चात्मानं प्रकृतिवियुक्तं ब्रह्मात्मकमुपासते; तानुभयविधान्नति । ये तु ब्रह्म-
कार्यान्तर्भूतनामादिकं वस्तु देवदत्तादिषु सिंहादिदृष्टिवत् ब्रह्मदृष्टया, केवलं वा तत्तद्वस्तूपासतं,
न तान्नयति । अतः परं ब्रह्मोपासीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनान्नयतीति ।
कुतः ? उभयधा च दोषात् । कार्यमुपासीनान्नयतीति पक्षे *अस्माच्छरीरात्समुत्थाय परं
ज्योतिरुपसंपद्येत्यादिकाः श्रुतयः प्रकुप्येयुः। परमेवोपासीनानिति नियमे *तद्य इत्थं विदुर्य
चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽचिषमभिसंभवतीति पञ्चाग्निविदोऽचिरादिगणो नयतीति
श्रुतिः प्रकुप्येत् । अतः उभयस्मिन्नपि पक्षे दोषस्स्यात् । तस्मादुभयविधान्नयतीति । तदेतदाह-
तत्क्रतुश्चेति । तत्क्रतुः-यथोपासीनस्तथैव प्राप्नोतीत्यर्थः; ऋयथाक्रतुरस्मिन् लोके पुरुषा
भवति तथेत: प्रेत्य भवति तं यथायथोपासते* इति न्यायात्, पश्चाग्निविदोऽचिदिना
गतिश्रवणात्, अचिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च । अत एव तत्क्रतुन्याया-
प्रकृतिविनिर्मुक्तब्रह्मात्मकात्मानुसन्धानं सिद्धम् । नामादिप्राणपर्यन्तप्रतीकालम्बनानां तुभय-
विधश्रुतिसिद्धोपासनाभावादचिन्मिश्रोपासने तत्क्रतुन्यायाच्चाविरादिना गतिब्रह्मप्राप्तिश्च
न विद्यते ॥१४॥
तमिमं विशेषं श्रुतिरेव दर्शयतीत्याह-
woman
५२३. विशेषं च दर्शयति ॥ ४-३-१५॥
*यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति* इत्यादिका श्रुतिः नामादिप्राण-
पर्यन्तप्रतीकमुपासीनानां गत्यनपेक्षं परिमितफलविशेषं च दर्शयति । तस्मादचिन्मिभं केवलं
वाचिद्वस्तु ब्रह्मदृष्टया तद्वियोगेन च य उपासते, न तान् नयति; अपितु परं ब्रह्मोपासोना-
नात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गणो नयतीति सिद्धम् ॥ १५ ॥
इति कार्याधिकरणम् ।।५।।
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य तृतीयः पादः ॥ ३ ॥

चतुर्थाध्याये-चतुर्थपादे-संपद्याविर्भावाधिकरणम् । ३६७ श्रीमते रामानुजाय नमः चतुर्थाध्याये-चतुर्थः पाद:-संपद्याविर्भावाधिकरणम् ॥ १ ॥ ५२४. संपद्याविर्भावस्स्वेनशब्दात् ॥ ४-४-१ ॥ परं ब्रह्मोपासीनानामात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानाचिरादिना मार्गेणापुनरावृत्तिलक्षणा गतिरुक्ता । इदानीं मुक्तानामैश्वर्यप्रकारं चिन्तयितुमारभते । इदमा- म्नायते-*एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभि- निष्पद्यते* इति । किमस्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपन्नस्य देवादिरूपवत्साध्येन रूपेण संबन्धोऽनेन वाक्येन प्रतिपाद्यते, उत स्वाभाविकस्य स्वरूपस्याविर्भाव इति संशये, साध्येन रूपेण संबन्ध इति युक्तम् । अन्यथा पुरुषार्थावबोधित्वं मोक्षशास्त्रस्य स्यात्, स्वरूपस्य स्वतोऽपुरुषार्थत्वदर्शनात् । न हि सुषुप्तौ देहेन्द्रियव्यापारेषूपरतेषु केवलस्यात्म- स्वरूपस्य पुरुषार्थसंबन्धो दृश्यते । न च दुःखनिवृत्तिमात्रं परं ज्योतिरूपसंपन्नस्य पुरुषार्थः, येन स्वरूपाविर्भाव एव मोक्ष इत्युच्येत; *स एको ब्रह्मण आनन्दः, श्रोत्रियस्य चाकामहतस्य *रसं ह्य वायं लब्ध्वाऽऽनन्दी भवति* इत्यादिभ्यो मुक्तस्य सुखानन्त्यश्रवणात् । नचापरि- च्छिन्नानन्दरूपचैतन्यमेवास्य स्वरूपम्, तच्च संसारदशायामविद्यया तिरोहितं परं ज्योति- रुपसंपन्नस्याविर्भवतीति शक्यं वक्तुम्; ज्ञानस्वरूपस्य तिरोधानासंभवात् । प्रकाशपर्यायस्य ज्ञानस्य तिरोधानं तद्विनाश एवेति हि पूर्वमेवोक्तम् । नच प्रकाशमात्रस्यानन्दता संभवति । सुखस्वरूपता ह्यानन्दस्वरूपता; सुखस्वरूपत्वं चात्मनोऽनुकूलत्वम् । प्रकाशमात्रात्मवादिनः कस्य प्रकाशोऽनुकूलवेदनीयो भवेदिति प्रकाशमात्रात्मवादिनः कथंचिदप्यानन्दस्वरूपता दुरु- पपादा । स्वरूपापत्तिमात्रे च साध्ये स्वरूपस्य नित्यनिष्पन्नत्वादुपसंपन्नस्य *स्वेन रूपेणा- भिनिष्पद्यत इति वचनमनर्थकं स्यात् । अतोऽपूर्वेण साध्येन रूपेण संपद्यते । एवं च *अभि- निष्पद्यते इति वचनं मुख्यार्थमेव भवति । स्वेन रूपेणेत्यप्यानन्दैकान्तेन स्वासाधारणेनाभि- निष्पद्यत इति सङ्गच्छत इति ॥ एवं प्राप्त प्रचक्ष्महे-संपद्याविर्भाव इति । अयं प्रत्यगात्माऽचिरादिना परं ज्योति- रुपसंपद्य यं दशाविशेषमापद्यते, सः स्वरूपाविर्भावरूपः; नापूर्वाकारोत्पत्तिरूपः । कुतः स्वेन शब्दात्-- *स्वेन रूपेणेति विशेषणोपादानादित्यर्थः । आगन्तुकविशेषपरिग्रहे हि *स्वेन रूपेणेति विशेषणमनर्थकं स्यात्, अविशेषणेऽपि तस्य स्वकीयरूपत्वसिद्धेः ॥ १ ॥ यत्तूक्तं स्वरूपस्य नित्यप्राप्तत्वात् *उपसंपद्याभिनिष्पद्यते इति वचनमनर्थकमिति, तत्रोत्तरम् - ?

३६८
श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् ।
?
?
५२५. मुक्तः प्रतिज्ञानात् ।। ४-४-२ ॥
कर्मसंबन्धतत्कृतदेहादिविनिर्मुक्तः स्वाभाविकरूपेणावस्थितोऽत्र *स्वेन रूपेणाभि-
निष्पद्यत इत्युच्यते । अतो नित्यप्राप्तस्यापि स्वरूपस्य कर्मरूपाविद्यातिरोहितस्य तिरोधान-
निवृत्तिरत्राभिनिष्पत्तिरुच्यते । कुतः ? प्रतिज्ञानात्-सा हि प्रतिपाद्यतया प्रतिज्ञाता । कुत
इदमवगम्यते ? *य आत्मा* इति प्रकृतं प्रत्यगात्मानं जागरिताद्यवस्थात्रितयविनिर्मुक्त,
प्रियाप्रियहेतुभूतकर्मारब्धशरीरविनिर्मुक्त च प्रतिपादयितुम् एतं त्वेव ते भूयोऽनुव्याख्या-
स्यामि* इति पुनःपुनरुक्त्वा *एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योति पसंपा
स्वेन रूपेणाभिनिष्पद्यते* इत्यभिधानात् । अतः कर्मणा संबद्धस्य परं ज्योतिरुपसंपद्य बन्ध-
निवृत्तिरूपा मुक्तिः स्वेन रूपेणाभिनिष्पत्तिरुच्यते । स्वरूपाविर्भावेऽप्यभिनिष्पत्तशब्दो
दृश्यते, युक्त्याऽयमों निष्पद्यत इत्यादिषु ॥ २ ॥
यच्चोक्तम्-आत्मस्वरूपस्य सुषुप्तावपुरुषार्थत्वदर्शनात्स्वरूपाविर्भाव मोक्षशास्त्रस्या-
पुरुषार्थावबोधित्वं स्यादिति कृत्वा देवाद्यवस्थावत्सुखसंबन्ध्यवस्थान्तरप्राप्तिभिनिष्पत्ति-
रिति; तत्रोत्तरम्-
-
५२६. आत्मा प्रकरणात् ॥ ४ । ४ । ३ ॥
स्वरूपेणैवायमात्मा अपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणकः प्रकरणादवगम्यते;
*य आत्माऽपहतपाप्मा विजरो विमृत्युविशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः*
इति हि प्रजापतिवाक्यप्रक्रमः । इदं च प्रकरणं प्रत्यगात्मविषयमिति *उत्तराच्चेदा-
विभूस्वरूपस्तु* इत्यत्र प्रतिपादितम् । अतोऽपहतपाप्मत्वादिस्वरूप एवायमात्मा संसार-
दशायां कर्माख्याविद्यया तिरोहितस्वरूपः परं ज्योतिरूपसंपद्याविभूतस्वरूपो भवति । अतः
प्रत्यगात्मनोऽपहतपाप्मत्वादयस्वाभाविका गुणाः परं ज्योतिरुपसंपन्नस्याविर्भवन्ति;
नोत्पद्यन्ते । यथोक्तं भगवता शौनकेनापि- *यथा न क्रियते ज्योत्स्ना मलप्रक्षालनात्मणेः ।
दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ यथोदपानकरणात्क्रियते न जलाम्बरम् । सदेव
नीयते व्यक्तिमसतस्संभवः कुतः ॥ तथा हेयगुणध्वंसादवबोधादयो गुणाः। प्रकाश्यन्ते न
जन्यन्ते नित्या एवात्मनो हि ते ॥ इति । अतो ज्ञानानन्दादिगुणानां कर्मणा आत्मनि
संकुचितानां परं ज्योतिरुपसंपद्य कर्मरूपबन्धक्षये विकासरूपाविर्भावो नानुपपन्न इति सुटूक्तं
संपद्याविर्भाव इति ॥ ३ ॥ इति सम्पद्याविर्भावाधिकरणम् ॥ २॥

चतुर्थाध्याये-चतुर्थपादे-अविभागेनदृष्टत्वाधिकरणम् । ३६६ ? अथ अविभागेनदृष्टत्वाधिकरणम् ।। २ ।। ५२७. अविभागेन दृष्टत्वात् ॥ ४ । ४ । ४ ॥ किमयं परं ज्योतिरूपसंपन्नः सर्वबन्धविनिर्मुक्तः प्रत्यगात्मा स्वात्मानं परमात्मनः पृथग्भूतमनुभवति, उत तत्प्रकारतया तदविभक्तमिति विशये, *सोऽश्नुते सर्वान् कामान सह, ब्रह्मणा विपश्चिता यदा पश्यः पश्यते रुक्मवर्ण कर्तारमोशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ *इदं ज्ञानमपाश्रित्य मम साधर्म्य- मागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इत्यादिश्रुतिस्मृतिभ्यां मुक्तस्य परेण साहित्यसाम्यसाधावगमात् पृथग्भूतमनुभवति ।। इति प्राप्त उच्यते -~~अविभागेनेति । परस्माद्ब्रह्मणः स्वात्मानमविभागेनानुभवति मुक्तः । कुतः ? दृष्टत्वात् परब्रह्मोपसंपत्त्या निवृत्ताविद्यातिरोधानस्य याथातथ्येन स्वात्मनो दृष्टत्वात् । स्वात्मनः स्वरूपं हि *तत्त्वमसि *अयमात्मा ब्रह्म *ऐतदात्म्यमिदं सर्वम् *सर्व खल्विदं ब्रह्म इत्यादिसामानाधिकरण्यनिर्देशैः *य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याभ्यमृतः *अन्तः प्रविष्ट- श्शास्ता जनानां सर्वात्मा* इत्यादिभिश्च परमात्मात्मकं तच्छशरीरतया तत्त्रकारभूतमिति प्रतिपादितम् *अवस्थितेरिति काशकृत्स्नः* इत्यत्र । अतोऽविभागेन अहं ब्रह्मास्मीत्येवानु- भवति । साम्यसाधर्म्यव्यपदेशो ब्रह्मप्रकारभूतस्यैव प्रत्यगात्मनः स्वरूपं तत्सममिति देवादि- प्राकृतरूपप्रहाणेन ब्रह्मसमानशुद्धि प्रतिपादयति । सह श्रुतिस्त्वेवंभूतस्य प्रत्यगात्मनः प्रकारिणा ब्रह्मणा सह तद्गुणानुभवं प्रतिपादयतीति न कश्चिद्विरोधः । ब्रह्मप्रकारतया तदविभागोक्तेहि *सङ्कल्पादेव तछ तेः* इत्यादि न विरुध्यते, *अधिकंतु भेदनिर्देशात् *अधिकोपदेशात्* इत्यादि च ॥ ४ ॥ इति अविभागेनदृष्टत्वाधिकरणम् ।। २।। अथ ब्रह्माधिकरणम् ।। ३ ।। ५२८. ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥ ४॥ ४ ॥ ५ ॥ प्रत्यगात्मनः परं ज्योतिरुपसंपद्य निवृत्ततिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम् । तत्र येन स्वरूपेणायमाविर्भवति; तत्स्वरूपं श्रुतिवैविध्याद्विचार्यते । किमपहतपाप्मत्वादिक- मेवास्य स्वरूपमिति तेन रूपेणायमाविर्भवति, उत विज्ञानमात्रमेवेति तेन रूपेण, अथोभयोर- विरोध इत्युभयरूपेणेति । कि तावत्प्राप्तम् ? ब्राह्मणेति जैमिनिराचार्यों मन्यते । ब्राह्मण- अपहतपाप्मत्वादिनेत्यर्थः । अपहतपाप्मत्वादयो हि दहरवाक्ये ब्रह्मसंबन्धितया श्रुताः । ब्राह्मणेति कुतोऽवगम्यते ? उपन्यासादिभ्यः; उपन्यस्यन्ते हि ब्रह्मगुणाः अपहत- पाप्मत्वादयः प्रत्यगात्मनोऽपि प्रजापतिवाक्ये *य आत्माऽपहतपाप्मेत्यादिना *सत्यसङ्कल्पः - ३७० श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । इत्यन्तेन । अादिशब्देन सत्यसङ्कल्पस्वादिगुणायत्ता जक्षणादयः *जक्षत्कोउत्रमाणः इत्यादिवाक्यावगता व्यवहारा गृह्यन्ते । अत एभ्य उपन्यासादिभ्यः प्रत्यगात्मनो विज्ञान- मात्रस्वरूपत्वं न संभवतीति जैमिनेर्भतम् ॥ ५॥ ५२६. चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ४ । ४ । ६ ॥ *चैतन्यमानमेवास्य स्वरूपमिति तेन रूपेणाविर्भवतीत्यौडुलोमिराचार्यों मन्यते । कुतः ? तदात्मकत्वात्-तावन्मात्रात्मकत्वादस्य प्रत्यगात्मनः । स यथा सैन्धवघनो- ऽनन्तरोऽबाह्यकृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव *विज्ञानघन एव* इत्यवधारणात् विज्ञानमात्रमेवास्थ स्वरूपमित्यवगम्यते । अतोऽस्य गुणान्तराभावात् *अपहतपाप्मेत्यादयश्शब्दाः विकारसुखदुःखाद्यविद्यात्मकधर्मव्यावृत्तिपरा इति चितितन्मात्ररूपेणाविर्भाव इत्यौडुलोमेर्मतम् ॥ ६ ॥ संप्रति भगवान बादरायणः स्वमतेन सिद्धान्तमाह- ५३०. एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ४ । ४ । ७ ॥ एवमपि-विज्ञानमात्रस्वरूपत्वप्रतिपादने सत्यपि, सत्यकामत्वादीनां पूर्वोक्तानां गुणानाविरोधं बादरायण आचार्यों मन्यते । कुतः ? उपन्यासात्पूर्वभावात्-औपनिषदात् *य आत्माऽपहतपाप्मा* इत्याधुपन्यासात्प्रमाणात् पूर्वेषाम् अपहतपाप्मत्वसत्यकामत्वादीना- मपि भावात्--विद्यमानत्वात् । तुल्यप्रमाणकानामितरेतरबाधो न युज्यत इत्यर्थः । नच वस्तुविरोधादपहतपाप्मत्वादीनामविद्यापरिकल्पितत्वं न्याय्यम्; विशेषाभावात् विपरीतं कस्मान्न भवतीति न्यायात् । तुल्यबलत्वे ह्यशक्यस्यावधारणस्यान्यपरत्वमेव न्याय्यम् । एवमप्यविरोध इत्यभ्युपगम्य वदत् ज्ञानमात्रमेवास्य स्वरूपं नान्यत्किश्चिदस्तीत्ययमर्थ. विज्ञानघन एवेत्यादिभिर्न प्रतिपाद्यत इति मन्यते । कस्तहि *विज्ञानघन एवेत्यवधारणस्यार्थः ? कृत्स्नोऽप्यात्मा जडव्यावृत्तस्वप्रकाशः, नान्यायत्तप्रकाशः स्वल्पोऽपि प्रदेशोऽस्तीत्ययमों वाक्यादेव सुव्यक्तः स यथा सैन्धवधनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव एवं वा अरेऽय- मात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञान घन एवेति । नचैवं प्रत्यगात्मनो मिस्वरूपस्य कृत्स्नस्य विज्ञानघनत्वेऽप्यपहतपाप्मत्वसत्यसङ्कल्पत्वादिधर्मसंबन्धो वाक्यान्तरावगतो विरुध्यते; यथा सैन्धवघनस्य कृत्स्नस्य रसधनत्वे रसनेन्द्रियावगते चक्षुराद्यवगताः रूपकाठिन्यादयो न विरुध्यन्ते । इदमत्र वाक्यतात्पर्यम्- यथा रसवत्स्वाम्रफलादिषु त्वगादिप्रदेशभेदेन रसभेदे सत्यपि सैन्धवधनस्य सर्वत्रैकरसत्वम्; तथाऽऽत्मनोऽपि सर्वत्र विज्ञानस्वरूपत्वम्- स्वप्रकाश स्वरूपत्वमित्यर्थः ॥ ७ ॥ इति ब्राह्माधिकरणम् ।। ३ ।। ?

चतुर्थाध्याये-चतुर्थपादे-सङ्कल्पाधिकरणम् । ३७१ ? अथ सङ्कल्पाधिकरणम् ।। ४ ।। ५३१. संकल्पादेव तच्छ्रुतेः ॥ ४-४-८ ।। मुक्तः परं ब्रह्मोपसंपद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक आवि- र्भवतीत्युक्तम्; तमधिकृत्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहाराः श्रूयन्ते *स तत्र पर्येति जक्षत्क्रीड- ब्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा* इति । किमस्य ज्ञात्यादिप्राप्तिः प्रयत्नान्तरसापेक्षा, उत परमपुरुषस्येव सङ्कल्पमात्रादेव भवतीति विशये; लोके राजादीनां सत्यसङ्कल्पत्वेन व्यवह्रियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनादस्थापि तत्सापेक्षा । इति प्राप्त उच्यते-सङ्कल्पादेवेति । कुतः ? त्छ ते:-*स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति इति हि सङ्कल्पादेव पित्रादीनां समुत्थानं श्रूयते । नच प्रयत्नान्तर- सापेक्षत्वाभिधायि श्रुत्यन्तरं दृश्यते; येनास्य *सङ्कल्पादेवेत्यवधारणस्य *विज्ञानधन एवेति- वन्द्यवस्थापनं क्रियते ॥ ८ ॥ ५३२. अत एव चानन्याधिपतिः ॥ ४-४-६॥ यतो मुक्तस्सत्यसङ्कल्पः; अत एवानन्याधिपतिश्च । अन्याधिपतित्वं हि विधिनिषेध- योग्यत्वम् । विधिनिषेधयोग्यत्वे हि प्रतिहतसङ्कल्पत्वं भवेत् । अतस्सत्यसङ्कल्पत्वश्रु त्यैवा- नन्याधिपतित्वं च सिद्धम् । अत एव *स स्वराड्भवति इत्युच्यते ॥ ६ ॥ इति सङ्कल्पाधिकरणम् ।। ४ ।। ? वै अथ अभावाधिकरणम् ।। ५ ।। ५३३. अभावं बादरिराह ह्यवम् ॥ ४-४-१०॥ किं मुक्तस्य देहेन्द्रियाणि न सन्ति, उन सन्ति, अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये; शरीरेन्द्रियाणामभावं बादरिराचार्यों मन्यते । कुतः ? आह ह्येवम्-*न ह सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः इति शरीरसंबन्धे दुःखस्यावर्जनीयत्वमभिधाय *अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति मुक्तस्याशरीरत्वं ह्याह श्रु तिः ॥१०॥ ५३४. भावं जैमिनिर्विकल्पामननात् ॥ ४-४-११ ॥ मुक्तस्य शरीरेन्द्रियभावं जैमिनिराचार्यों मन्यते । कुतः ? विकल्पामननात्-विविधः कल्पो विकल्पः, वैविध्यमित्यर्थः; *स एकधा भवति त्रिधा भवति, पञ्चधा सप्तधा* इत्यादि- श्रुतेः । आत्मन एकस्याच्छेद्यस्यानेकधाभावासंभवात् विधाभावादयः शरीरनिबन्धना इत्यव- गम्यते । अशरीरत्ववचनं तु कर्मनिमित्तशरीराभावपरम्; तदेव हि शरीरं प्रियाप्रियहेतुः ॥११॥ ?

३७२ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । .. भगवांस्तु बादरायणः स्वमतेन सिद्धान्तमाह ५३५. द्वादशाहवदुभयविधं बादरायणोऽतः ॥ ४-४-१२ ॥ *सङ्कल्पादेवेत्येतदतश्शब्देन परामृश्यते; अत एव सङ्कल्पात्, उभयविध सागरम- शरीरं च मुक्तं भगवान बादरायणो मन्यते । एवञ्चोभयी श्रुतिरुपपद्यते । द्वादशाहबद-यथा *द्वादशाहमृद्धिकामा उपेयुः द्वादशाहेन प्रजाकामं याजयेत्” इत्युपैतिय जनिन बनाभ्यां सङ्कल्प देन सत्रमहीनं च भवति ॥ १२ ॥ यदा शरीराद्युपकरणवत्त्वम्, तदा तानि शरीराद्युपकरणानि स्वेनंव मृहानीति नास्ति नियम इत्याह- ५३६. तन्वभावे सन्ध्यवदुपपत्तेः ॥ ४-४-१३ ॥ स्वेनैव सृष्टतनुप्रभृत्युपकरणाभावे परमपुरुषसृष्ट रुपकरणोंगोपपत्तेः सत्यस कल्पोऽपि स्वयं न सृजति । यथा स्वप्ने *अथ रथान् रथयोगात् पथस्सृजते% इत्यारभ्य *अथ वेशन्तान पुष्करिण्यः स्रवन्त्यः सृजते स हि कर्ता* इति, *य एषु सुप्तेषु जाति कामकामं पुरषो निर्मिमाणः, तदेव शुक्र तद्ब्रह्म तदेवामृतमुच्यते, तस्मिन् लोकाश्रितास्सर्वे तदु नात्यात कश्चन* इति ईश्वरसृष्ट : रथाद्य पकरणैर्जीवो भुङ्क्ते; तथा मुक्तोऽपि लोलाप्रवृत्तेनेश्वरेण मृद: पितृलोकादिभिर्लीलारसं भुङ्क्ते ॥ १३ ॥ ५३७. भावे जानद्वत् ॥ ४-४-१४ ॥ स्वसङ्कल्पादेव सृष्टतनुप्रभृतिपितृलोकायुपकरणभावे जाग्रत्पुरुषभोगवन्मुक्तोऽपि लीलारसं भुङ्क्त; परमपुरुषोऽपि लीलार्थ दशरथवसुदेवादिपितृलोकादिकमात्मनः सृष्ट्वा जर्मनुष्यधर्मलीलारसं यथा भुङ्क्त; तथा मुक्तानामपि स्वलीलायै पितृलोकादिकं स्वयमेव सृजति कदाचित्; कदाचिच्च मुक्ताः सत्यसङ्कल्पत्वात्परमपुरुषलीलान्तर्गतस्वपितृलोकादिकं स्वयमेव सृजन्तीति सर्वमुपपन्नम् ॥ १४ ॥ नन्वात्माऽणुपरिमाण इत्युक्तम् कथमनेकशरीरेष्वेकस्याणोरात्माभिमानसंभव इत्यत्राह- ५३८. प्रदीपवदावेशस्तथाहि दर्शयति ॥ ४-४-१५ ॥ यथा प्रदीपस्यैकस्यैकस्मिन् देशे वर्तमानस्य स्वप्रभया देशान्तरावेशः; तथाऽऽत्मनोऽ- प्येकदेहस्थितस्यैव स्वप्रेभारूपेण चैतन्येन सर्वशरीरावेशो नानुपपन्नः । यथा चैकस्मिन्नपि देहे हृदयाघेकप्रदेशतिनोऽपि चैतन्यव्याप्त्या सर्वस्मिन् देह आत्माभिमानः; तद्वत् । इयान्विशेषः- अमुक्तस्य कर्मणा सङ्कुचितज्ञानस्य देहान्तरेषु आत्माभिमानानुगुणा व्याप्तिन संभवति; मुक्तस्य - चतुर्थाध्याये-चतुर्थपादे-जगन्यापारवर्जाधिकरणम् । ३७३ यस्म त्वसंकुचितज्ञानस्य यथासङ्कल्पमात्माभिमानानुगुणा व्याप्तिः इदमिति ग्रहणानुगुणा च नानु- पपन्ना । तथाहि दर्शयति बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विजे- चानन्त्याय कल्पते ॥ इति । अमुक्तस्य कर्म नियामकम्; मुक्तस्य तु स्वेच्छेति विशेषः : ॥१५॥ ननु परं ब्रह्म प्राप्तस्थान्तरबाह्यज्ञानलोपं दर्शयति श्रुतिः *प्राज्ञेनात्मना संपरिष्वक्तो न बाहां किचन वेद नान्तरमिति; तत्कथं मुक्तस्य सार्वज्ञयमुच्यते ? तत्रोत्तर- ५३६. स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ ४-४-१६ ॥ नेदं वचनं मुक्तविषयम्; अपितु स्वाप्ययसंपत्त्योरन्यतरापेक्षम् । स्वाप्ययः-सुषुप्तिः; संपत्तिश्च -मरणम्, वाङ्मनसि संपद्यत इत्यारभ्य *तेजः परस्यां देवतायामिति वच- नात् । तयोश्चावस्ययोः प्राज्ञप्राप्तिनिस्संबोधत्वं च विद्यते । अतस्तयोरन्यतरापेक्षमिदं वचनम् । सुषुप्तिमरणयोनिस्संबोधत्वं, मुक्तस्य च सर्वज्ञत्वमाविष्कृतं हि श्रु त्या *नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भाग्यं पश्यामि इति सुषुप्तिवेलायां निस्संबोधत्वमुक्त्वा तस्मिन्ने व वाक्ये मुक्तमधिकृत्य *स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके* इति सर्वज्ञत्व- मुच्यते । तथा *सर्व ह पश्यः पश्यति सर्वप्राप्नोति सर्वशः* इति च स्पष्टमेव सर्वज्ञत्व- मुच्यते । तथा मरणे च निस्संबोधत्वन एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानु विनश्यति इत्युक्तम् । विनश्यति-न पश्यतीत्यर्थः । अतः प्राज्ञेनाऽत्मनेति वचनं स्वाप्ययसंपत्त्योरन्यत- रापेक्षम् ॥ १६ ॥ इति अभावाधिकरणम् ॥ ५ ॥ अथ जगब्यापारवर्जाधिकरणम् ॥ ६ ॥ ५४०. जगद्वयापारवर्ज प्रकरणादसन्निहितत्वाच्च ॥ ४-४-१७॥ ? किं मुक्तस्यैश्वर्य जगत्सृष्ट्यादि परमपुरुषासाधारणं सर्वेश्वरत्वमपि, उत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशयः । किं युक्तम् ? जगदीश्वरत्वमपीति । कुतः ? *निर- अनः परमं साम्यमुपैतीति परमपुरुषेण परमसाम्यापत्तिश्रु तेः, सत्यसङ्कल्पत्वश्रु तेश्च । नहि परमसाम्यसत्यसङ्कल्पत्वे सर्वेश्वरासाधारणजगन्नियमनेन विनोपपद्यते । अतस्सत्यसङ्कल्पत्व- परमसाम्योपपत्तये समस्तजगन्नियमनरूपमपि मुक्तस्यैश्वर्यमिति ॥ एवं प्राप्त प्रचक्ष्महे---जगद्वचापारवर्जमिति । जगद्व्यापारः-निखिलचेतनाचेतन- स्वरूपस्थितिप्रवृत्तिभेदनिधननम् । तद्वर्ज निरस्तनिखिलतिरोधानस्य निर्व्याजब्रह्मानुभवरूपं श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । ? मुक्तस्यैश्वर्यम् । कुतः ? प्रकरणात्-निखिलजगन्नियमनं हि परं ब्रह्म प्रकृत्याऽम्नायते यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्म इति । यद्य तन्निखिलजगन्नियमनं मुक्तानामपि साधारणं स्यात्, ततश्चेदं जगदीश्व- रत्वरूपं ब्रह्मलक्षणं न संगच्छते । असाधारणस्य हि लक्षणत्वम् । तथा * देव सोन्येदर आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत *ब्रह्म वा इदमग्र आसोदेक- मेव तदेकं सन्न व्यभवत् तच्छु योरूपमत्यसृजत क्षत्रं यान्येतानि देवत्राक्षत्राणि इन्द्रो वरुणस्सोको रुद्रः पर्जन्यो यमो मृत्युरीशान इति *आत्मा वा इदमेक एवाग्र आसीत् नान्यत्किचन मिपत् स ईक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत *एको ह वै नारायण आसीन्न ब्रह्मा । नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नापो नाग्निर्न सोमो न सूर्यः स एकाकी न रमेत तस्य ध्यानान्तस्थस्यैका कन्या दशेन्द्रियाणि इत्यादिषु । *यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः इत्यारभ्य *य आत्मनि तिष्ठन्नित्यादिषु च निखिलजगन्नियमनं परमपुरुषं प्रकृत्यैव श्रू पते । असन्निहितत्वाच्च-नचैतेषु निखिलजगनियमनप्रसङ्गेषु मुक्तस्य सन्निधानमस्ति, येन जगद्व्यापारस्तस्यापि स्यात् ॥ १७ ॥ ५४१. प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तः ॥ ४-४-१८ ।। *स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति इमान् लोकान् कामानी कामरूप्यनुसंचरन्* इति प्रत्यक्षेण-श्रुत्या मुक्तस्य जगद्वयापार उपदिश्यते; अतो न जग- व्यापारवर्जमिति चेत्; तन, आधिकारिकमण्डलस्थोक्त; आधिकारिकाः-अधिकारेषु नियुक्ता हिरण्यगर्भादयः; मण्डलानि-तेषां लोकाः; तत्स्था:-भोगाः मुक्तस्याकर्मवश्यस्य भवन्तीत्ययमर्थः *तस्य सर्वेषु लोकेषु कामचारो भवतीत्यादिनोच्यते । अकर्मप्रतिहतज्ञानो मुक्तो विकार- लोकात् ब्रह्मविभूतिभूताननुभूय यथाकामं तृप्यतीत्यर्थः । तदेवं विकारान्तर्वतिनः आधिकारिक- मण्डलस्थान् सर्वान् भोगान् ब्रह्मविभूतिभूताननुभवतीत्यनेन वाक्येनोच्यते; न जग- द्वयापारः॥ १८ ॥ यदि संसारिवन्मुक्तोऽपि विकारान्तर्वतिनो भोगान् भुङ्क्ते, तहि बद्धस्येव मुक्तस्या- प्यन्तवदेव भोग्यजातमल्पं च स्यात्। तत्राह- ५४२. विकारावति च तथाहि स्थितिमाह ।। ४। ४ । १६॥ विकारे-जन्मादिके न वर्तत इति विकारावति; निधूतनिखिलविकारं निखिलहेय- प्रत्यनीककल्याणकतानं, निरातिशयानन्दं परं ब्रह्म सविभूतिकं सकलकल्याणगुणमनुभवति चतुर्थाध्याये-चतुर्थपादे-जगद्यापारवर्जाधिकरणम् । ३७५ मुक्तः । तद्विभूत्यन्तर्गतत्वेन विकारवर्तिनां लोकानामपि मुक्तभोग्यत्वम् । तथाहि परस्मिन् ब्रह्मणि निर्विकारेऽनदधिकातिशयानन्दे मुक्तस्यानुभवितृत्वेन स्थितिमाह श्रुतिः- *यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवति भवति *रसो वै सः, रसं ह्य वायं लब्ध्दाऽऽनन्दी भवति इत्यादिका । तद्विभूतिभूतं च जगत्तत्रैव वर्तते *तस्मिन् लोकाश्श्रितास्सर्वे तदुनात्येति कश्चन* इति श्रुतेः । अतस्सविभूतिक ब्रह्मानुभवन्विकारान्ततिनः आधिकारिकमण्डलस्थानपि भोगान् भुङ्क्ति इति *सर्वेषु लोकेषु कापचार इत्यादिनोच्यते; न मुक्तस्य जगद्वयापारः ॥ १६ ॥ ५४३. दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ ४ । ४ । २० ॥ अस्य प्रत्यगात्मनो मुक्तस्य नियाम्यभूतस्य नियन्तृभूतपरमपुरुषासाधारणं जगद्व्या- पाररूपं नियमनं न संभवतीत्युक्तम् । निखिलजगन्नियमनरूपो व्यापारः परमपुरुषासाधारण इति दर्शयतः श्रुतिस्मृती- *भीषाऽस्माद्वातः पवते, भीषोदेति सूर्यः भोषाऽस्मादग्निश्चेन्द्रश्च, मृत्युर्धावति पञ्चमः इति *एतस्य वा अक्षरस्य प्रशासने गागि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादि । तथा *एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानाम- संभदाय* इति च श्रुतिः। स्मृतिरपि *मयाऽध्यक्षेण प्रकृतिस्सूयते । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते ॥ इति, विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति च । तथा मुक्तस्य सत्य सङ्कल्पत्वादिपूर्वकस्याप्यानन्दस्य परमपुरुष एव हेतुरिति श्रुतिस्मृती दर्शयतः एष ह्यवानन्दयाति, *मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान ब्रह्मभूयाय कल्पते ॥ ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्यस्य च । शाश्वतस्य च धर्मस्य सुखस्यै- कान्तिकस्यच ।। इति । यद्यप्यपहतपाप्मत्वादिस्सत्यसङ्कल्पत्वपर्यन्तो गुणगणः प्रत्यगात्मनः स्वाभाविक एवाविर्भूतः, तथाऽपि तस्य तथाविधत्वमेव परमपुरुषायत्तम्। तस्य नित्यस्थितिश्च तदायत्ता; परमपुरुषस्यैतन्नित्यतायाः नित्येष्टत्वान्नित्यतया वर्तत इति न कश्चिद्विरोधः । एवमेव परमपुरुषभोगोपकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य परमपुरुषस्य नित्येष्टत्वादेव तथाऽवस्थानमस्तीति शास्त्रादवगम्यते । अतो मुक्तस्य सत्यसङ्कल्पत्वं परम- पुरुषसाम्यं च जगद्व्यापारवर्जम् ॥ २० ॥ ५४४. भोगमात्रसायलिंगाच्च ॥४।४ । २१ ॥ ब्रह्मयाथात्म्यानुभवरूपभोगमात्रे मुक्तस्य ब्रह्मसाभ्यप्रतिपादनाच्च लिङ्गाज्जगद्व्या- पारवर्जमित्यवगम्यते *सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चितेति । अतो मुक्तस्य परमपुरुषसाम्यं सत्यसङ्कल्पत्वं च परमपुरुषासाधारणनिखिलजगन्नियमनश्रुत्यानुगुण्येन वर्ण- नीयमिति जगद्व्यापारवजनेव मुक्तैश्वर्यम् ॥ २१ ॥ .

३७६ श्रीभगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यम् । - N यदि परमपुरुषायत्तं मुक्तैश्वर्यम्, तहि तस्य स्वतन्त्रत्वेन तत्सङ्कल्पान्मुक्तस्य पुनरा- वृत्तिसंभवाशङ्कत्यत्राह- ५४५. अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ।। ४ । ४ । २२ ।। यथा निखिलहेयप्रत्यनीककल्याणकतानो जगज्जन्मादिकारणं समस्तवस्तुविलक्षणस्सर्व- जस्सत्यसङ्कल्पः आश्रितवात्सल्यैकजलधिः परमकारुणिको निरस्तसमाभ्यधिकसंभावनः परब्रह्माभिधानः परमपुरुषोऽस्तीति शब्वादवगम्यते; एवमहरहरनुष्ठीयमानवर्णाश्रमधर्मानु- गृहीततदुपासनरूपतत्समाराधनप्रीतः उपासीनाननादिकालप्रवृत्तानन्तदुस्तरकर्मसञ्चयरूपाविहां विनिवर्त्य स्वयाथात्म्यानुभवरूपानवधिकातिशयानन्दं प्रापय्य पुनर्नाबर्तयतीत्यपि शब्दादेवाव- गम्यते । शब्दश्च स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते* इत्यादिकः । तथा च भगवता स्वयमेवोक्तं *मामुपेत्य पुनर्जन्म दुःखालयमशा- श्वतम् । नाप्नुवन्ति महात्मानस्संसिद्धि परमां गताः ॥ आब्रह्मभुवनाल्लोकाः पुनरावतिनो- ऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ इति । नचोच्छिन्नकर्मबन्धस्यासंकुचित- ज्ञानस्य परब्रह्मानुभवकस्वभावस्य तदेकप्रियस्सानवधिकातिशयानन्दं ब्रह्मानुभवतोऽन्यापेक्षा- तदर्थारम्भाधसंभवात्पुरावृत्तिशङ्का । न च परमपुरुषस्सत्यसङ्कल्पोऽत्यर्थप्रियं ज्ञानिनं लब्ध्या कदाचिदावर्तयिष्यति; य एवमाह- *प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ॥ आस्थितस्सहि युक्तात्मा मामेवानुत्तमां गतिम् । बहूनां जन्मनामन्ते ज्ञानवान मां प्रपद्यते ॥ वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः इति । सूत्राभ्यासश्शास्त्रपरिसमाप्ति द्योतयति । इति सर्व समञ्जसम् ॥ २२ ॥ इति जगन्यापारवर्जाधिकरणम् ।। ६ ।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥ समाप्तश्चाध्यायः ॥ ४ ॥ शास्त्रं च परिसमाप्तम् ॥ श्री भगवद्रामानुजग्रन्थमालायां शारीरकमीमांसाभाष्यं समाप्तम् ॥ 33033 शारीरक मीमांसा भाष्यस्य शुद्धि-पत्रम् पृट. पं. १ १० अशुद्धम् भुवन तर्कम हेतोब्रहम शुद्धम् भुवन मूत्रकारोऽपि सूत्रकारोऽपिं- वक्ष्यति कर्म. mr १५ प्रभाक्षयत्व प्रभाश्रयत्व हेतो हम " ३ भवतः ब्रम भवः ब्रहा " २६ कमणो २३ 2. ज्ञाननिव २५ १५ १७ " ज्ञाने पफ्ते ५ कर्मणो ज्ञानानिवृ (ज्ञानानुवृ) ज्ञानो पपत्त: उपासनं वैगुण्या ज्ञात २६ २२ ॥ उपसन ३० २६ ६ ३० ३ ० २५ ८ २७ बगण्या ज्ञरत ग्रामा ज्ञातृत्व ज्ञातृत्वं ज्ञानाक्षयत्वम् जानाश्रयत्वम् यथातदानीं तथातदानी मिथ्या, प्रपञ्चवत् इत्येतन्निष्का- सनीयम् । भ्रान्तिमूल तत्त भ्रान्तिमूलं स्वरूपात् स्वरूपत्वात् स्यभावा स्वभावा रहितकां रहितता सर्वाश्रुतयो व्यतिरिक्त व्यतिरिक्त वर्ग: व(स)र्ग: एवमेव एवमेष क्षयत्वं श्रयत्वं यस्मिन् अस्मिन् यद्यन्यो Fin ग्राह्य द सर्वाःश्रुतयो ४ परम २५ १ परम: ३२ ११ मदाप्रमाद सदाऽप्रमाद ३३ ३ १५ १६ यथा तथा " २३ २ २० कथ कथं ३५ ३ १० १६ एकदुक्त अस्थुल त्तद्दितीयं पादाना एतदुक्त अस्थूल त्तमद्वितीयं ३७ २६ यद्य यो ११ २ ១ ७ " १३ पदाना ६व्य सर्वात्मना येस्तु द्रव्य सर्वात्मनां & व्याय न्याय ४३ ११ १२ यस्तु २ १५ प्रकाशत्व प्रकाशकत्व ३ वस्याश्र वश्याश्र धर्मस्तद्धर्मस्तस्या द्धर्मस्तस्या- मार्थासती मार्थसती विरोबादेव विरोधादेव २५ ६ सितम यथार्थ " सितं यथार्थ १६ १३ १२ २५ यस्यास्तु ज्ञानत्वेन ५० ४ १७ स्वभाव प्रतिसंबद्धा निधूत भेदनिर्विकल्प ५२ ७ स्वाभाव प्रति(सं)बद्धा यतो निर्धत भेद विकल्प क्षण तस्यास्तु नाज्ञत्वेन (प्रति) क्षण नास्ति (नाशि) वस्तु १० ५३ २ नास्ति १४ १२ १८ वस्नु ( २ ) ५५ ६ करयन m जीवाभ्युपगमान जीवभावाभ्युपगमात् १०८ भेदवादिना भेदवादिनाँ १११ यदेक तदेक ११६ माकृनिगुण माकृतिगुण २३ मिश्रित ब्रापाग नायचो नामाना गो ५६ १० " ५ वादश्व वादाश्व ६ ६५ १६ ६६ २७ १४४ ११ ६७ 9 0 १५० १ धृहणं वृहणं जीवनामेव जीवानामेव मन्कर्तृ मकर्तृ तथैवा ति तथैवावनि भिन्नै रेव भिन्नयोरेव चिति च्छित्ति कतृकन्वे नुमान: निप्प्रपञ्चविपयो निष्प्रपञ्चब्रह्म- विषयो पनि यापियवा या दिव्यनगति ( 151) सिद्धान गि... । किया पाया मामा निवृत व नितिन १५२ ६६ १५४ १८ " है ११ कर्तृ कत्बे नुमान विरोधः १४ ७२ २३ १५८ १ ७३ १३ थावरान्त स्थावरान्त " १८ -- ७८ १७१ ७६ ૧૧ १८१ विभूल । विमन (दिम) १३ मबिवियन् मपिदिक्ष पेतृणां त्रया मेव- मागामब शेपिण uus: २४ नच 'गुग्वा न च (मिचिग ।। १६ प्रदिपावत प्रतिपादन १८ इति तमो नमोऽभिधाना तिनमा निशाना १३ विक्रीय falu पन्नान्नि पन्नानि १५ ब्रह्मण: इति ब्राह्मण:उतजीवानाम्, बाण इति २२ मोक्षमाण माक्ष्यमाण ८३ (० ८५ २ यथाऽऽहु यथाऽऽहुः बाधित्वाद् बाधितत्वात् भेदस्वाभा भेदःस्वाभा सिद्ध मूलत्वा सिद्धशास्त्रमूलत्वा यन्निष्ठस्य तनिष्ठस्य विजघत्सो विजिघत्सो प्रकान्त प्रक्रान्त चाविज्ञान चाविज्ञानं देष दोष परिहिते परिह्नियते द्रव्यैकमेव द्रव्यक्यमेव विपश्चित्व विपश्चित्त्वं ८६ १० १८८ २६ ६१ २०० ६२ १२ २०२ ૧૬ ६७ २५ २०५ १८ m वाच्यानन्त बाच्यनन्त २०८ ११ कुत्स्नं नियन्तृणां सदेव १०० २५ कृत्स्नग्य नियन्तृणां सत्त्व जीवाजान कामयत ૨૧૧ कामयत् भिप्रेयतया ३ भिधेयतया २११ २५ जीवज्ञान १०२ १.० १७० २४ वाजेद्र वात्रेन्द्र २६ यत्कृत तत्ता ( ३ ) २१५ २३ प्रवेश रस्यते प्रदेश रस्यन्ते २२७ १६ ३१० ४ २३५ १२ इत्यन्तं निष्कासनीयम् । परिविषय परविपय प्रतिपादना प्रतिपादनाय यश्चेत देवं यश्चैतदेवं द्रव्याणा द्रव्यणा भिदाना " २० २२ ३१५ ७ २४७ ८ नियन्तृन् ३१६ ६ परम परम ४ ३१८ १३ " १० स्वभावा चिद्दस्तु सर्वज्ञत्वस्वाधीन ३२२ २२ कतना कपालनिर्वपेत्पुत्रे भिधाना नियन्तृन् स्वभावान् चिदचिद्वस्तु सर्वज्ञत्वाजत्व- स्वाधीन सिद्धिः त्पद्यन्ते माणेन च ३३० ऋतुना कपालं पुत्रे पूप विशेषत्वा तहतो पुरुपः ३३४ ३ मिदः ३४१ ८ बिशेषितत्वा तद्वतो पुरुषाप्रीति २३ नपद्यते ३ पुरुष प्रीति १५ माणेन न ३५१ १३ मारब्ध मनारब्ध २६ २४ मभवन् सेयं वृत्तिश्रुतिः वृत्तिसम्पत्ति श्रुतिः সমৰ स्वयं कारिणा ५ ३५२ तेजा: पुन तेजा (अ) पुन कारिणां १३ ३६० ८ ११ म्यानम् प्रकारेण च " १३ म्यातमु प्रकारेण प्रकारान्त- रेण च भिधानात् एतन्म्रि ममुच्चयो इत्यादिः " १३ ३६२ १० भिभानात् वेतनम्र मृमृत्यो इत्यादि अचिः प्रभृति प्राप्त आप्प आम्नायते आम्नायन्ते संवत्सरादादित्या संवत्सरादादित्य- मादित्या वाष्टमे करै वाष्टमेअथै तैरेव अचिप्रभृति गन्तृणा गन्तृणां यत्तक्त यत्तूक्त तनशरीर तच्छरीर बाह्य कृत्स्नो बाह्यःकृत्स्नो भुङिक्त सूयते सूयते सचराचरम् तदेकप्रियस्स तदेकप्रियस्या १५ ३६७ तात्व हात्व ३६६ ३१० ७ ३७५ ६ भुङक्त २८८ २ तथांशत्वम् त्यथांशत्वम् संतुविधू सेतुविधू १४ ध्यायन ध्ययन निदश निर्देश १८-१६ प्राणवासो'इत्यारध्य' यास्वाप्सु- " " ३७६ १३ "

Tantra Trutiya Samputam

Author
Sri Bhagavad Ramanuj
Other authors
Ccl
Title
Tantra Trutiya Samputam
File name
Tantra Trutiya Samputam
Text
OCR done
Citation
1951
Publisher
Mulyam Chaturdashamudrah
Language
Sanskrit
Pages
378
Library
Scl
DLI number
326527
Barcode
2020010008388.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
m4znPZJSfL1
Download PDF

Tantra Trutiya Samputam