Sringeri Sharada Peetham
Shruthisara Samudharanam Sanskrit
Front matter
॥ श्रुतिसारसमुद्धरणम् ॥ MAHARAMETERem - त्रैलोक्यनाथहरि नीड्यमुदारसत्त्वं शक्तस्तनूजतनयं परमेष्टिकल्पम् । जीमूतमुक्तविमलाम्बरचारुवर्ण वासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् । विलसञ्चितिबलतः स्फुरदखिलस्वकतमसा परिनिर्मितविपुलद्वयपिहितस्वकमहिमा । व्यबहारिकवपुषा विधिवचनादिकविषयो मम मानसनिलयो हरिरवताजगदाखिलम् ॥१॥ श्रीकृष्णं प्रत्यगात्मानं भक्त्या नत्वा गुरूनपि । टीकामहं करिष्यामि तोटकश्लोकगामिनीम् ॥ २ ॥ त्रैलोक्यनाथहरिस्' इत्यादिनाद्यश्लोकेनेष्टदेवतायुसन. मस्कारव्याजेन प्रारिप्सितस्य प्रकरणस्य विषयसंबन्धप्र. योजनानि सूचयनि । ननु प्रकरणं नाम शास्त्रैकदेशसंबद्धं २ शास्त्रकान्तिरे स्थितं तल्लक्षणशेरच्यते, 'शाबैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ॥ इति स्मरणात् ; एकप्रयोजनं प्रति निबद्धार्थ- जातस्य कात्स्येन प्रतिपादको अन्यः शास्त्रमिति हि शाखलक्ष- णम् ; शारीरकशास्त्रैकदेशसंबद्धं चेदं प्रकरणं श्रुतिसारसमुद्ध- रणास्यम् , निर्गुणब्राक्यप्रतिपादकासाधारणन्यायमात्रप्रति- पादकत्वात् ; समन्वयाविरोधसाधनफलाख्यार्थचतुष्टयप्रति- पादकत्वे सति तथा शाखकार्यान्तरावस्थितत्वमप्यस्यास्येव, अनेन शास्त्रार्थस्य संक्षेपतः प्रदर्शनात् । ततश्चास्यापि तदीयरेव विषयसंबन्धप्रयोजनैर्विषयसंबन्धप्रयोजनवस्वोपपचेः किम- नेन विषयसंबन्धप्रयोजनपृथगुपन्यासप्रयासेन ? सत्यमेतत् , तथापि श्रोतृणां प्रवृत्त्यतया शारीरकशास्त्रसंबद्धान्येव वि- षय संबन्धप्रयोजनानि प्रकरणारम्भसमये स्मारवतीत्यदोषः । स्थिले चैवमाद्यश्लोकस्य विषयादिकथनतात्पर्य शङ्कोत्तरत्वे- नायं श्लोकोऽवतारयितव्य इत्याशका प्रदर्यते-- ननु नेदं प्रकरणमारब्धव्यं विषयसंबन्धप्रयोजनाभावात् , तदभावश्च ब्रह्मणः प्रसिद्धत्वेऽप्रसिद्धत्वे च तदसंभवात् ; तथा हि- यदि ब्रह्म वेदान्तशास्त्रमन्तरेणान्यतः प्रसिद्धं तदा नास्य विषयः; यो हि येनैवावगम्यते स तस्य विषयो भवति - .. यथा चक्षुरादीनां रूपादयः, अनन्यसाधारणो हि विषय इति; अथ ब्रह्म प्रमाणान्तराप्रसिद्ध तथा सति न तद्गगनकु. सुमादिवच्छास्त्रेण प्रतिपादयितुं शक्यम् ; तथा हि- यत्क- दाचिदपि बुद्धावसमारूढविशेष कथं तत्परं प्रति शास्त्रेण प्रतिपाद्यते ? अशक्यप्रतिपादनत्वाच्छास्त्रस्य ब्रह्मणा सह संबन्धाभावः। अयोगव्यवच्छेदो हि संबन्धः ; यो हि येनावगम्यत एव नान्येनावगम्यते तस्य तेन संबन्धो- भवति, यथा व्याकरणेन शब्दसाधुत्वमवगम्यत एवेति तेन तस्य संबन्धः; न चैवं वेदान्तशास्त्रेण ब्रह्मावगम्यत एव, तस्यात्यन्ताप्रसिद्धेरशक्यप्रतिपादनत्वात् ; तस्मादप्रसि. दत्वे संबन्धाभावः; विषयसंबन्धाभावे च प्रयोजनाभावः प्रसिद्ध एव भवति, तस्य तनियतत्वादिति । अत्रोच्यते- स्थादयमुपालम्भो यद्येकान्ततो ब्रह्मणः प्रसिद्ध्यप्रसिद्धी स्या. न तु ते स्त:; तथा हि ब्रह्मादिपदेभ्यो लोकतन ब्रह्मणः प्रसिद्धत्वामात्यन्तमप्रसिद्धिरस्ति; ब्रह्मशब्दो हि बृहत्पदार्यान्वये वर्तमानो देशतः कालतो वस्तुतश्चानवच्छिन्नं वस्तु व्यवस्थापयत्येव ; तथा लोकेऽपि · अहम्' इति प्रत्य. गात्मप्रसिद्धेस्तस्य च परमार्थतो ब्रह्मत्वान्नैकान्ततोऽप्रसिद्धि- ब्रह्मणः ; नाप्येकान्ततः प्रसिद्धिः, प्रमाणतोऽप्रसिद्धः ; नहि ताम्।
पदतो लोकतश्च प्रसिद्धिः प्रमाणतः प्रसिद्धिर्भवति, पदस्य स्मारकत्वाल्लोकाख्यसप्तमप्रमाणानभ्युपगमाञ्च ; तस्मादेकान्त. त: प्रसिद्धयभावाद्ब्रह्मणो विषयत्वोपपत्तिः, अप्रसिद्धयभावाच्च संबन्धोपपत्तिः, विषयसंबन्धोपपत्तेश्च प्रयोजनोपपतिरिति । सदेवदाह-- त्रैलोक्यनाथेति । तत्र त्रैलोक्यमित्याकाशा- दिप्रपनो विवक्ष्यले च्छत्रिन्यायेन । तस्य नाथः साभास- मात्माज्ञानम् , तत्प्रसूतो हि प्रपञ्चस्तन्नियतश्चेति । तं त्रैलो. क्थनाचं हरतीति त्रैलोक्यनाथहरिः वाक्यजनितबुद्धिबृत्त्यु. पारूडः प्रत्यमात्माज्ञाननिवर्तक इति वाक्यार्थज्ञानादज्ञान- निवृत्तिः प्रकरणस्य प्रयोजनमित्युक्तं भवति । ननु 'हरते. ईतिनाथयोः पशौ' (पा० ३.२-२५) इति स्मरणात्प. शावेव दृसिहरिनाथहरिश्चेति रूपनिद्धिर्भवति, न तु पुरु- घेऽषश्वात्मनि ; त्रैलोक्यनाथं हरतीति व्याख्यानमसद्वथा. स्थानम् ; तत्र केचिदाहुः- 'चतुष्पादष्टाशर्फ षोडशकलं ब्रह्म' इति श्रुतेः परमात्मनोऽपि पुरुषस्य पशुत्वरूपकल्प- नया पस्योपपत्तेस्त्रैलोक्यनाथं हरतीति व्युत्पत्त्या त्रैलो. क्यनाथहरिरिति निर्देशो भवत्येवेति; तदयुक्तमित्यन्ये, क्लिष्ट. कल्पनाप्रसङ्गात् । तस्मात्रैलोक्यनाथश्चासौ हरिश्चेति समा. सः । स्वाज्ञानप्रतिविम्बितकूटस्थचैतन्यरूपः परमात्मा त्रै. , ५ लोक्यनाथः। तस्य कारणत्वानियन्तृत्वाच स वैलोक्यनाथ- इत्युच्यते । स एव बेदान्तवाक्योत्थबुद्धिवृत्तिफलकोपारू- ढचैतन्यस्वरूपो हरणाद्धरिरित्युच्यते । कस्य हरणादार रित्युच्यत इत्यपेक्षायां तस्यैवाज्ञानस्येत्यांल्लभ्यते । लतश्च बैलोक्यमनर्थस्तद्धतुरात्माज्ञानं पुरुषार्थोऽज्ञाननिवृत्तिस्तद्धेतु- रात्मज्ञानमियनर्थतहेतुपुरुषार्थतद्धेतवः सूचिता भवन्तीति लाभान्तरमिति । ईड्यं स्तुयं प्रतिपाद्यमिति वेदान्तशास्त्रस्य प्रत्यगात्मना प्रतिपाद्यप्रतिपादकभावलक्षणः संबन्धो विषय- श्वानन्यसाधारणतया निर्दिष्टो भवति । एवमस्य श्लोकस्य प्रकरणारम्भापेक्षितविषयनंबन्धप्रयोजनकथनतात्पर्यमुपवर्णि- तम् । इदानीमक्षरयोजना त्रैलोक्यनाथहरि प्रणतोऽस्मी- ति संबन्धः । कथंभूतमिति विशेषणाकाङ्क्षायामन्यत्सर्व संबध्यते । ईड्यं स्तुयं वेदान्तैरेव प्रतिपाद्यमित्यन्ययोगब्य- वच्छेदेन विषयनिर्देशः, तथा वेदान्तैः प्रतिपाद्यमेवेत्ययोग- व्यवच्छेदेन संबन्धनिर्देशोऽप्यत्रैव द्रष्टव्यः। उदारसत्त्वम् । उदारमुत्कृष्टं सत्त्वं सत्त्वकार्य ज्ञानम् । सत्त्वोत्कटत्वेनान्त:- करणे स्थिते तत्त्वमसिवाक्यादन्तःकरणपरिणामरूपं ज्ञानं भवतीति सत्वशब्देनेह लक्षणया ज्ञानं लक्ष्यते। तच्चान्त:- करणपरिणामरूपं ज्ञानं सत्स्वकार्य स्वरूपज्ञानव्याप्तं भवती- ति सत्त्वशब्देन लक्षितलक्षणान्यायेन स्वरूपज्ञानं लक्ष्यते । खेनोदारसत्त्वमुदारंपैतन्यमित्यर्थः । तदस्येति व्यपदेशिवदा. बेन बहुव्रीहिः । तमुदारसत्त्वम् । शक्तेस्तनूजतनयम् । शक्तिर्मायाशक्तिस्तत्कायमेवास्य कार्यमिति तत्सनूजतनयम् परमेष्ठिकल्पम् । परमेष्ठिनं हिरण्यगर्भ कल्पयति सृजतीति परमेष्ठिकल्पस्तम् । विरिचिप्रमुखानामपि कारणत्वेन सर्वो. कृष्टमित्यर्थः । यदि सर्बकारणत्वेन सर्वोत्कृष्टत्वमुच्यते तर्हि "उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्' इति न्याया• कारणत्वेन सविकारत्वं प्राप्तम् । तथा सति नित्यमुखत्वं प्राप्तं च न संघटत इति शङ्कां वियदृष्टान्तेन निरस्पति- जीमतेति । जीमूतैर्मेधैर्मुक्तं च तद्विमलाम्बरं चेति जीमू. तमुक्तविमलाम्बरम् , तद्वचारु शोमनं वर्ण स्वरूपमस्येति जीमूतमुक्तविमलाम्बरचारुवर्णस्तम् । यथा चाम्बरं मेघादी सत्यसति च निरवयवत्वादसङ्ग निष्क्रियं च तद्वदयमपि निक्रियो निःसङ्गश्चेत्यर्थः । ननु 'सत्सृष्ट्वा तदेवानुप्राविशत्' 'नाभ्योऽतोऽस्ति द्रष्टा' तत्त्वमसि' इत्यादिश्रुतेर्जीवपरयो- रमेदश्रवणाजीवात्मनश्च कर्तृत्वभोक्तृत्वादिप्रासद्धेः पुनरप्या- स्मनः पविकारत्वं तदवस्थमित्याशङ्कय, आत्मनः कर्तृत्वादेर. न्त:करणोपाधिनिबन्धनत्वान्मैवमित्याह-वासिष्ठमिति ।
बसन्यास्मिन्निति बासः शरीरम् ; वासोऽस्यास्तीति बानी शरीरी जीपः, तभिवन्तृत्वेनाविधावस्थायां तिष्ठतीति वा. सिष्ठस्तम् । भ्रामकमणिवरसंनिधिमात्रेण सकलकार्यकरणमं. पातप्रवर्तकत्वाभिर्विकारत्वमुपपन्नमित्यर्थः । उदारसत्वमि. स्यत्र सूचितं विज्ञानधनत्वं स्पष्टयति- उप्रतपसमिति । उपमुल्वणमप्रसमं तपो ज्ञानमस्येत्युप्रतपाः, ' यस्य ज्ञाममयं तपः' इति मुण्डकश्रुतेः, तं प्रज्ञानघनमित्यर्थः । एवंभूतं त्रैलोक्यनामहरि नित्यं प्रणतोऽस्मीति देवतानमस्कारपक्षे योजना । गुरुनमस्कारमात्रे त्वयमर्थ: वासिष्ट प्रणतो. ऽस्मि । वसिष्ठस्य गोत्रापत्यं वासिष्ठः पाराशर्यः, तं बेद. व्यासं सूत्रकारम् । कीरग्भूतम् ? त्रैलोक्यनाथहरिम् 'व्यासो नारायणः साक्षाच्छंकरः शंकरः स्वयम्' इति पुराणप्रसिद्धत्वात्रैलोक्यनाथहरिया॑सस्तम् । सत्त्वगुणविशिष्टम् । उप्रतपसम् । उपमुल्बणं तपः पर्यालो. चनमस्येत्युप्रतपास्तम् । सर्वज्ञमित्यर्थः । शक्तेस्तनूजस्य पस- शरस्य तनयम् । परमेष्ठिकल्पं परमेष्ठिसमानम् । जीमूतमु. तविमलाम्बरचारवर्णम् , श्यामतनुमित्यर्थः । त्रैलोक्यनाथहरिमीच्यं प्रणतोऽस्मीति देवतानमस्कारः, शिष्टेन गुरुनमस्कार इति केचित् ॥ १॥ उदारसत्त्वं अथ वा ८ सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया तु जगत् । निविद्यत कश्चिदतो निखिला- दविनाशि कृतेन न लभ्यमिति ॥ २ ॥ एवमाद्यश्लोकेन प्रकरणारम्भापेक्षितविषयसंबन्धप्रयोज. नान्यभिधायेदानीम् परीक्ष्य लोकान्कर्मषितान्ब्राह्मणो नि. वेदमायानास्त्यकृतः कृतेन । तद्विज्ञानार्थ स गुरुमेवाभिग- च्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्टम् । तस्मै स विद्वानुप- सत्राय सम्यक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ।। इत्या- ग्रुपनिषद्वाक्यमवष्टभ्य नित्यानित्यविवेकादिसाधनचतुष्टयसं- पमं ब्रह्मविद्याधिकारिणं साधयति सकलमिति । क्रिया या बनितं चतुर्विधेन कर्मणापि साधितं जगत्सकलं मनसा विनाशितया समवेक्ष्य कर्मसाध्यं सकलं क्षणिकमिति नि. श्चित्य कश्चित्सुकृती पुमानखिलादा वैरिश्चात्त्रपश्चानिरविधव निर्वेदं गतवान् । कुतः कारणानिर्वेदं गतवानित्यवाह-- अविनाशीति । कृतेनानुष्ठितेन कर्मणाविनाशि विनाशरहितं फलं न लभ्यमिति यस्मात्तस्मात्कारणात्कर्मफले तत्साधने 4- ९ च वैराग्यं गतवानित्यर्थः ॥ २ ॥ प्रतिपित्सुरसावविनाशि पदं यतिधर्मतो यतिमेव गुरुम् । विदितात्मसतत्त्वमुपेत्य कविं प्रणिपत्य निवेदितवान्स्वमतम् ॥ ३ ॥ साधनसाध्यात्सर्वस्माद्विरक्तोऽधिकारी किं कृतवानित्या. शङ्कायामाह-प्रतिपित्सुरिति । पद्यते ज्ञायत इति पदम् । अविनाशि पदं प्रतिपित्सुर्विनाशरहितमात्मस्वरूपं बुभुत्सुरसावधिकारी यतिधर्मरतः संन्यासिनां धर्मेषु रतः सन् विदितात्मसतत्त्वं विदितमात्मनः सतत्त्वं स्वरूपं येन तं यतिं यनशीलं क्रोधादिरहिलं कविं क्रान्तदर्शिनं सर्वज्ञ गुरुमुपेत्य गुरुसमीपं गत्वा प्रजिपत्य स्वमतं निवेदितवान् स्वाभिप्रायं विज्ञापितवानियर्थः ॥ ३ ॥ भगवन्नुदधौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् । कृपया शरणागतमुद्धर मा- मनुशाध्युपसदमनन्यगतिम् ।।
किं पुनस्तत्स्वमतमित्याकालायां स्वमत दर्शयति- भगवधिति । हे भगवन् पङ्गुणैश्वर्य संपन्न , मृतिजन्मजले सुखदुःखझषे संमारोदधौ पतितमत एव व्यथितं दुःखित- मनन्यगतिं शरणागतं त्वत्पादकमलमुपसन्नं मां कृपयेवोद्धर संसाराधि तारयेत्यर्थः ॥ ४ ॥ विनिवर्य रतिं विषये विषमां परिमुच्य शरीरनिबद्धमतिम् । परमात्मपदे भव निस्यरतो जहि मोहमयं भ्रममात्ममतेः॥५॥ एवं शिष्याभिप्रायं श्रुतवान्गुरुरिदानीं तमनुशास्ति- विनिवत्यति । विषये रतिं विनिवर्त्य विषयाभिमुखां चित्तवृत्तिं प्रत्याहृत्य । किंभूताम् ? विषमामुचावचा सुर. नरतिर्यगादिनानायोनिप्राप्तिहेतुभूतां विषये रतिं त्यक्त्वा शरीरनिबद्धमति परिमुच्य देहादिष्वात्मबुद्धिं परित्यज्य तद. नन्तरं परमात्मपदे नित्यरतो भव । अनवरतं प्रत्यक्प्रवणो भूत्वा श्रवणादिनिष्ठो भवेत्यर्थः। ननु केन साधनैन मि. थ्याज्ञानस्य परिमोचनमिति तत्राह- आत्ममवेरिति ।
आत्मज्ञामेन मोहमयवियाकार्य अमं देहन्द्रियादिग्यात्मबु- द्धि जहीत्यर्थः ॥५॥ विसृजान्नमयादिषु पञ्चसु ता- महमस्मि ममेति मतिं सततम् । हशिरूपमनन्तमृतं विगुणं हदयस्थमवेहि सदाहमिति ॥ ६ ॥ यथोक्तमेवार्थ प्रकटयति-- विसृजेति । अन्नमयादिषु अममयप्राणमयमनोमयविज्ञानमयानन्दमयेषु पञ्चसु को- शेष्वात्मनः परिच्छिन्नत्वहेतुभूतेष्वहं ममेति मतिं सततं विम्ज, अममयादिध्वात्मबुद्धिमात्मीयबुद्धिं च परित्यज पश्चादृशिरूपं ज्ञानस्वरूपमनन्तं देशत: कालतो वस्तुतश्चान- बच्छिमम् ऋतं सत्यमबाध्यं विगुणं गुणत्रयातीतं तदेव हृदयस्थ वुद्धिसाक्षितया स्थितं यद्ब्रह्म तदेवाहमस्मीत्यवेहि जानीहि ' सत्यं ज्ञानमनन्तं ब्रह्म आनन्दो ब्रह्मेति व्य- जानात्' · आनन्द आत्मा' चेता केवलो निर्गुणश्च' इत्यादिश्रुतिभिरहमेव ब्रह्मेत्यवग. कछेत्यर्थः ।। ६ ॥ . अयमात्मा ब्रह्मा ' साक्षी १२ जलभेदकृता बहुतेव रखे- घंटिकादिकृता नभसोऽपि यथा । मतिभेदकृता तु तथा बहुता तव बुद्धिहशोऽविकृतस्य सदा ॥७॥ नतु दृशिरूपमनन्तमिति ब्रह्मणो यदानन्त्यमुक्तं तदनु. पपन्नम् , ब्रह्मण आत्मत्वादात्मनश्च प्रतिशरीरं जन्ममरण- प्रतिनियमादिलिङ्गानुमितभेदत्वाल्लोकतश्च स्वमहमित्यादिभे. दप्रसिद्धरित्याशङ्कय प्रतिनियमादिलिङ्गस्य व्यधिकरणसिद्ध. त्वमागमविरुद्धतां चाभिप्रेत्य लोकासिद्धभेदस्य भ्रान्तिमा- वस्त्वं दृष्टान्तद्वयेनोपपादयाते. जलभेदकतेति । एक- स्थापि रवेः सूर्यस्प यथा जलभेदकृता बहुतानेकता, यथा च नभसोऽपि घटिकादिकृता बहुता घटाकाशो मठाकाश इति घटाद्युपाधिकतमनेकत्वं तथा सदाविकृतस्य सर्वदैकरूपस्य बुद्धिदृशो बुद्धिसाक्षिणो बहुतापि मतिभेदकृता । बुद्धर्भ- दात्तत्वाक्षिण आत्मनोऽपि भेदप्रतीतिरित्यर्थः । “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्मा. ध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।।
१३ . 'एकः सन्बहुधा विचचार' 'एक सन्तं बहुधा कल्पयन्ति " 'एकथै वानुद्रष्टव्यम् ' नेह नानास्ति किंचन' 'एकमेवाद्वि. तीयम् । 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥' 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति श्रुतिस्मृतिभ्य आत्मन एकत्वातिपादनाद्यथोक्तमात्मानन्त्यमुपपन्नमित्यर्थः ।। दिनकृत्प्रभया सदृशेन तदा जनधीचरितं सकलं स्वचिता । विदितं भवताविकृतेन सदा यत एवमतोऽसित एव सदा ॥ ननु तथाप्यात्मनः संसारित्वात्कथमात्मनो ब्रह्मत्वमि- त्याशङ्कच, अशेषसंसारधर्मविशिष्टान्त:करणोपाधिनिबन्धन- वादात्मा संसारिषद्भाति, परमार्थतोऽसंसार्यवात्मेत्याह- दिनकृत्प्रभयेति । सर्वविषयाणां युगपदवभासकतया दिन- कृत्प्रभया सदृशेन स्वचिता स्वयंप्रकाशेनाविकृलेन भक्ता सकलं जनधीचरितं सकलं प्राणिनां धीचरितं सदा विदितं प्रकाशित मिति यतस्ततः कारणात्सदा कालत्रयेऽपि असित 30 एवाविकारी । 'षिब् बन्धने' इति धातुः। असंसार्येव मितो न भवतीत्यसितः बन्धरहित इत्यर्थः ॥ ८ ॥ उपरागमपेक्ष्य मतिर्विषये- विषयावधृतिं कुरुते तु यतः । तत एव मतेर्विदिताविदिता विषयास्तु ततः परिणामवती ॥९॥ ननु यद्यात्माविकतः परिणामी न भवति कस्तझस्मि. उशरीरे परिणामी १ मतिरेव परिणामिनी नात्मेति तत्कस्मा. दित्यत्राह-- उपरागमिति । अथ वा यद्यात्मा स्वप्रकाश. स्वरूपत्वात्स्वविषयरागादिप्रकाशनाय न परिणमते तदा बुद्धिरपि प्रकाशस्वभावत्वात्स्वविषयशब्दादिप्रकाशनायात्म. वीपादिवञ्च न परिणमेतत्याशयाह-उपरागमिति । पदार्थान्तरस्य पदार्थान्तराकारभजनमुपरागः । स च कचि- शेयस्य ज्ञेयान्तरेण भवति यथा स्फटिकस्य जपाकुसुमेन. कचिन्शातुज्ञेयेनोपरागो भवति यथा साक्षिणः माक्ष्येण बुद्धेर्वा बोद्धव्यार्थजातेन । तत्र न साक्षिणः साक्ष्योपरा- गापेक्षया साक्ष्यसाधकत्वम् , किं तर्हि साक्ष्योपराग १५ एव साक्षिणस्तत्साधकत्वं स्वयंप्रकाशत्वात् । बुद्धेस्तु न बोद्धव्योपराग एव तत्साधकत्वम् , किं तर्हि बोद्धव्यो. परागापेक्षया चिदलावष्टम्भेन च शब्दाद्यर्थोपलब्धिहेतुत्वम् । स च बुद्धेर्योदव्योपरागः क्रमेणैव कतिपयैरेव च विषय- वति । स च तत्क्रमवत्कतिपयविषयोपलब्धिकार्योंश्यः । स च क्रमवत्कतिपयोपरागो बुढेः क्रमवत्परिणाममन्तरेण न घटसे । एवं सति मतिः क्रमेण विषयैरुपरागमपेक्ष्य विषयाकारपरिणाममपेक्ष्य विषयावधृति कुरुते विषयनि- अयं करोति । तत एव मतेविषयाः केचन विदिताः केच- नाविदिताः । यत एवमतः कारणान्मतिरेव परिणामवती नात्मा परिणामीत्यर्थः ॥ ९॥ मतिवृत्तय आत्मचिता विदिताः सततं हि यतोऽविकृतस्तु ततः । यदि चास्मचितिः परिणामवती मतयो विदिताविदिताः स्युरिमाः ।। ननु बुद्धिवदास्मनोऽपि क्रमद्रष्टुत्वलिङ्गेन खविषयबु- द्वयादिप्रकाशनाय क्रमेण परिणामोऽनुमीयतामित्याशङ्कप Mraves- बुद्धितद्वृत्तीनामपर्यायक्रमणात्मप्रकाश्यत्वान्मैवमित्याह- मतिवृत्तय इति । आत्मचिता सर्वा अपि मतिवृत्तयः सततं विदिताः प्रकाशिता इति यतस्ततः कारणादात्माविकृतः परि. णामी न भवतीत्यर्थः । आत्मनः परिणामाङ्गीकारे दोषमाह- यदि चात्मचितिरिति । आत्मचितिः परिणामवती यदि, यदि चिद्रूप आत्मा परिणामी ताई मतयो विदिताविदिताः स्युर्ज्ञाताज्ञाता भवेयुः । तच्चायुक्तम् , युगपदेव सर्वासां बुद्धितद्वृत्तीनामात्मप्रकाश्यत्वदर्शनादित्यर्थः ॥ १० ॥ चरितं तु धियः सकलं सततं विदितं भवता परिशुद्धचिता । मतिभेदशुणो न हि तेऽस्ति ततो यत एवमतोऽसदृशस्तु धिया ॥११॥ आत्मनः परिणामित्वे विदिताविदितत्वप्रसङ्गेन दोष उद्भाषितः । तत्रेदमाशङ्कयो नायं दोषोऽस्माकं तथैवोपल- म्भादिति, तनाह चरितमिति । धियो बुद्धश्चरिनं सकलं सततं विदितमिति यतस्ततः कारणादिदं तव चोच नियुक्तिकमित्यर्थः । सकलस्यापि धीचरितस्यात्मप्रकाश्यamuRADUN १७ वेनात्मनोऽपरिणामित्वे सिद्धे बुद्धधात्मनोः परिणामित्वा- परिणामित्वाभ्यां वैलक्षण्यं सिद्धमित्याह- मतिभेदेति । चिदात्मना निखिलं धीचरितं सतनं विदितमिति यतस्तत एव बुद्भिशस्ते मतिभेदगुणो नास्ति मतिभेदस्य गुणः परि- णामो नास्ति यतस्ततस्त्वं तया सदृशो बुद्धच्या समो न भवसि । बुद्धेः परिणामित्वादात्मा बुद्धिविलक्षण इत्यर्थः ।। विदितत्वमविप्रतिपन्नतबा मतिषु प्रगतं विषयेषु यथा । यत एवमतः परसंविदिता विदितत्वत एव यथा विषयाः ॥ नबु बुद्धिविलक्षण आत्मेत्येतद्युक्तं बुद्धरेव च श्राह्य. प्राहकत्वसंभवात् , बुद्धिसाक्षी कश्चिदात्मा बुद्धिक्लिक्षणो मास्तीति बुद्धमतानुसारिभिरङ्गीकारादित्यत्राह-विदित. त्वमिति । सौतान्तिकवैभाषिकयोगाचारमाध्यमिकानां को- द्वानां मध्ये सौत्रान्सिकेन 'ग्राह्यग्राहकसवित्तिर्मेदवतीय लक्ष्यते' इत्यस्मिन्बुद्धवाक्ये बुद्धायग्राहकत्वाङ्गीकारादवि- प्रतिपन्नतया विप्रतिपत्तिरहिततया मतिषु विदिखत्वं दृश्यत्वं h १८ - यथा प्रमतं प्रसिद्धतरम् । विषयेषु यथा यद्वद्घटादिविषयाणां जडत्वादृश्यत्वमुभयवादिसंप्रतिपन्नं तद्वन्मतेरपि दृश्यत्वं घशा व्याप्यत्व मुभयवादिसंप्रतिपन्नम् । ततः किं फलमित्या त्राह- यत एवमिति । यस्मादेवं मतेदृश्यत्वमुभयवादि- संप्रतिपन्नं तस्मान्मतयः परसंविदिताः परेणान्येन साक्षिणा सम्यग्विदिताः । तत्र हेतुमाह-विदितत्वत एवेति । विदितत्वत एव दृश्यत्वादेव । अत्र दृष्टान्तमाह विषया इति । स्वव्यतिरिक्तन साक्षिणा बुद्धयो विदिता भवितुमर्हन्ति वेद्यत्वाद्धटवदित्यर्थः ॥ १२ ॥ परसंविदिताः सततं हि यतो न विदुः स्वममी विषयास्तु ततः । मतयोऽपि तथा परसंविदिता न विदुः स्वममूर्विषयास्तु यथा ॥ बर्हि मतयः स्वसंवेद्याः परसंवेद्याश्च भवन्तु विरोधाभावा- दित्याशङ्कयाह-- परेति । यथामी घटादयो विषयाः सततं परसंविदिताः स्वव्यतिरिकेन विज्ञाताः सन्तः स्वं न वि- दुस्तथामू मतयोऽपि परसंविदिताः स्वं न विदुः। स्वश- .
१९ ब्देन मतय उच्यन्ते । स्वं न प्रकाशयन्ति, एकस्य कर्मक- तुंभावविरोधात् , यथा घटादयो विषया इत्यर्थः। बुद्धि- तद्वृत्तीनां च घटादिवद्वेद्यत्वादन्यस्य वेदितुरवश्यमङ्गीकर्त. ब्यत्वाद्गुद्धिसाक्षिणं हशिस्वरूपमनन्तामृतं विगुणं हृदयस्थं ब्रह्मामस्मीत्यवेहीति पूर्वेग संबन्धः ॥ १३ ॥ विषयाकृतिसंस्थितिरेकविधा मनसस्तु सदा व्यवहारविधी। अहमित्यपि तद्विषया त्वपरा मतिवृत्तिरवज्वलितात्मचिता ॥१४॥ मनु निर्गुणं ब्रह्मेत्ययुक्तं ब्रह्मणश्चात्मत्वादात्मनश्चाहंकार- गुणकत्वादित्याशय, अहंकारस्य बुद्धिपरिणामत्वान्मैवमिति प्रतिपादनाय बुद्धिवृत्तेविध्यमाह-विषयेति । हारविधी व्यवहारदशायां मनसो बुद्धेर्द्विविधा वृत्तिः । तत्रैका विधा विषयाकृतिसंस्थितिः। विषयाकारेण दृश्या- कारेण संस्थितिरेका विधेत्यर्थः। अपरा तद्विषया दृश्यघ- टादिविषया 'घटमहमद्राक्षम्' इत्येवमाकारा, द्रष्ट्राकारेति यावत् । आत्मचितावचलिता यम्मात्तस्मादृश्याकारा द्रष्ट्रा- व्यव- कारा चेति द्विविधापि मतिवृत्तिरेव मतिधर्म एव न त्वा- त्मधर्म इत्यर्थः ॥ १४ ॥ पुरुषस्य तु धर्मवदुद्भवति स्वरसेन मतेः स्वगुणोऽपि यतः । अत आत्मगुणं प्रतियन्ति जना मतिवृत्तिमिमामहमित्यबुधाः ॥ १५ ॥ तयहंकारस्थात्मधर्मत्वेन प्रतिभानं कथमित्याशङ्काया. मध्यासादित्याह-दुरुषस्येति । अहंवृत्तिः मतेः स्वगुणोऽपि पुरुषस्य धर्मवदुद्भवति, अविवेका- दात्मधर्मवत्प्रतिभाति । यत एवमत : कारणादहं ममेति मनिवृतिमात्मगुणवेनाबुधा जना एवं प्रतियन्ति जानन्ति, न तु विद्वांस इत्यर्थः ॥ १५ ॥ यदि सा न भवेजनमोहकरी व्यवहारमिमं न जनोऽनुभवेत् । विफलश्च तदा विषयानुभवो ज्ञगुणो न हि सेति बदा विदिता ॥ स्वरसेन २१ यद्यहंवृत्तिरात्मधर्मो न भवति तर्हि तस्या अफ्लाप एव युक्त इति तत्राह- यदीति। जनमोहकरी देवानामषि खामोहकरी सा चाहंवृत्तिने भवेद्यदि तर्हि 'अहं करोमि' ' अहं जानामि' इत्यादिकमिमं व्यवहारं जनो नानुभ. वेत् । तस्मादहंकारस्यापलापो न युक्त इत्यर्थः। तर्हि व्य. वहारसिद्धयर्थमवृत्तिर्भवतु, तस्था आत्मगुणत्वप्रतिभानं तु मा भूत् , आत्मन: परमार्थतो निर्गुणत्वादित्याशच वि. पक्षे दूषणमुद्भावयत्रेनामा शङ्कां निराचष्टे- विफलश्चेति । यदा साहवृति_गुणो नेति विदिता, अध्यासमुखेनावृत्ते. रानधर्मत्वं यदा नाभ्युपगम्यते तदा विषयानुभवो विफलो भवेत् । एतदुक्तं भवति- 'आत्मनस्तु कामाय सर्व प्रियं भवति' 'पिप्पलं स्वात्ति' 'निर्गुणं गुणभोक्तृ च ' इत्या. दिनात्मनो व्यवहारावस्थायां विषयानुभवितृत्वप्रसिद्धिर्वृभा भवेत् । तस्माद्वयवहारावस्थायामध्यासमुखेनाहंकारस्वात्मध. मत्वमभ्युपगन्तव्यमिति भावः ॥ १६ ॥ उपलभ्यघटादिनिभैव भवे- मनसो यदि संस्थितिरेकविधा।
पुरुषस्य चितिश्च न विक्रियते मतिवृत्तिमपेक्ष्य घटादिनिभाम् ॥ अवगन्त्रवगम्यचिदात्मधियो- रहमित्यभिमानविहीनतथा। स्थितयोरभिमानपुरःसरकं व्यवहारपथं न जनोऽवतरेत् ॥ १८ ॥ विपक्षे दोषमुदीरयन्यथोक्तमेवार्थ प्रपञ्चयत्युत्तर श्लोक. व्येन- उपलम्यति। मनसः संस्थितिरेकविधा विषया- कारवृत्तिरेव भवेद्यदि, किं च घटादिनिभां मतिवृत्तिमपेक्ष्य पुरुषस्य चितिश्च न विक्रियते यद्यध्यासद्वारेणात्मनो द्रष्ट्रा- कारपरिणामो नाभ्युपगम्यते, तर्युपलभ्यघटादिनिभा वृत्ति. रेव भवेदृश्याकारवृत्तिरेव भवेद्रष्ट्राकारा वृत्तिनं भवेत् । ननु तथास्तु, का नो हानिरित्यत्राह--- अवगन्त्रिति । अव गन्त्रवगम्यचिदात्मधियोर्द्रष्टदृश्यभावेनावस्थितयोश्चिदात्मधि-. योरहमित्यभिमानविहीनतया स्थितयोः सतोरहमिति द्रष्ट्रा- कारपरिणामरहिततया स्थितयोः ' अहं जानामि करोमि' इत्यभिमानपुरःसरकं व्यवहारपथं व्यवहारमार्ग । अहं २३ जनो नावतरेत् । अयं भाव:--- मतिवृत्तिििवधा द्रष्ट्रा- कारा दृश्याकारा च ; तत्र चक्षुरादीन्द्रियद्वारेण बुद्धेर्धटा. यथैः सह संबन्धे सति बुद्धिश्याकारा परिणमते. किंच बुद्धौ चिदात्मनः प्रतिबिम्बितत्वाञ्चिदाकारा परिणमते, तदा. कारा बुद्धिईष्टेत्युच्यते; एवं सति बुद्धिसाक्षित्वेन बुद्धौ प्रतिबिम्बितात्मनि द्रष्ट्राकारपरिणामस्याध्यस्तत्वादात्मापि द्रष्ट्राकार इव भवति ; तेन हेतुनात्मनः 'अहं करोमि' अहं भोक्ष्ये' इत्यादिव्यवहारोऽप्यस्तीव भाति, न तु निरवश्वस्य चिन्मात्रस्यात्मनः स्वतो व्यवहारोऽस्तीति ॥ अहमीक्ष इति प्रथमं हि धिया सुविचिन्त्य ततो विषयाभिमुखम् । नयनं प्रहिणोति तथान्यदपि श्रवणादि वियत्प्रमुखस्य गुणे ॥१९॥ अहंकारपुरःसरो व्यवहार इत्यस्मिन्नर्थे स्वानुभवं प्रमा. णयति- अहमिति । प्रथममहमीक्षे पश्यामि तथा शृणो. मि जिघ्रामीति धिया सुविचिन्त्य संकल्प्य ततः संकल्पा- नन्तरं नयनं स्वविषयं प्रति प्रहिणोति प्रेरयति, तथान्य- च्छवणादिकमपि वियत्प्रमुखस्थाकाशप्रमुखस्य गुणे शब्दादौ पहिणोति प्रेरयतीत्यर्थः ॥ १९ ॥ अपहाय न कश्चिदकरणं व्यवहारमुपैति कदाचिदपि । उपपन्नतरा हि मतेस्तु ततो व्यवहारपथं प्रति कारणता ॥ २० ॥ स्वानुभवप्रमाणसिद्धमर्थ संक्षिप्य कथयन्नुपपादितमर्थ. मुपसंहरति- अपहायेति । लोके कश्चिदपि जनः कदा- चिदहंकरणमपहाय परित्यज्य व्यवहारं स्नानभोजनादिकं नोपैतीति यतस्ततः कारणान्मतेरहवृत्तेर्व्यवहारपथं प्रति कारणतोपपश्चतरा सुतरामेवोपपन्नेत्यर्थः ॥ २० ॥ चितिशक्तिगुणः किमहंकरणं किमु बुद्धिगुणोऽथ भवेदुभयो । इति चिन्त्यमिदं मनसानलसे- रुपपत्तिभिरात्महितं यतिभिः ॥ २१ : व्यवहाराङ्गत्वेनाहंकारं प्रसाध्येदानीं तस्यात्मधर्मत्वमुता- . ...
नात्मधर्मत्वमथवोभयधर्मत्वमिति विकल्पयन्नात्मधर्मत्वं नि- राकर्तुमाह--चितीति । अहंकरणं चितिशक्तिगुणः किं चिद्रूपस्यात्मनो गुणः किम् , किमु बुद्धेर्गुणः, अथ वा बुद्धवात्मनोरुभयोर्गुण इतीत्थं मनसानलसैरालस्यरहितैति- भिरुषपत्तिभिर्युक्तिमिश्चिन्त्वं विचार्यम् । किमर्थम् ? आत्म. हितम् , आत्मनो हिताय मोक्षायेत्यर्थः ॥ २१ ॥ उपठभ्यमहंकरणं न भवे- त्पुरुपत्य गुणो यदि तर्हि भवेत् । गुमिसथावयवं गुणिनो न विहाय गुणः पृथगस्ति यतः ॥ उपपत्तिभिर्विचार्यमाणे किं युक्तमित्याकाङ्क्षायामात्मगु- णत्वमयुक्तमित्याह- उपलभ्येति । अहंकरणं पुरुषस्य गुणो यदि भवेचर्हि तदहंकरण पुरुषेणोपलभ्यं न भवेत् , आत्मना प्रकाश्यं न भवेत् । तत्र हेतुमाह-- गुणिरूप. मिति । गुणो धर्मो गुणिरूपं गुणिस्वरूपं गुणिनोऽवयवं वा विहाय गुणिनः सकाशात्पृथङ् न तिष्ठति, यथा पटगतं शौक्लथं पटं तदवयवभूतं तन्तुं वा विहाय पृथङ् न तिष्ठति ।
२६ तदहंकारोऽप्यात्मगुणश्चेदात्मनः सकाशात्पृथङ् न तिष्ठति । तथा सति तयोरभेदात्प्रकाश्यप्रकाशकभावो न घटत इति भावः ॥ २२ ॥ न गुणो गुणिनि स्थितवान्गुणिना विषयीक्रियते न च तस्य गुणैः । न हि देशकृता न च वस्तुकृता गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ तर्हि गुगिन्येव स्थित: सन्गुणो गुणिना तद्गुणैर्वा प्रका- श्यतामित्यत्राह- न गुण इति । गुणिनि स्थितवान्गुणो गुणिना तस्य गुणैर्वा न विषयीक्रियते न प्रकाश्यते । अहंकाराख्यो गुणो ज्ञानगुणेन न प्रकाश्यत इत्यर्थः । कुतः कारणाद्गुणिना गुणो न प्रकाश्यत इत्यत्राह-न हीति । गुणस्याहंकारगुणस्य गुणिन आत्मनः सकाशाद्देश- कृता भिदा नास्त्यात्मन: सर्वगतत्वात् , तथा वस्तुकृतापि भिदा नास्ति विचार्यमाण आत्मव्यतिरिक्तवस्त्वन्तराभावा- द्वस्तुनिबन्धनो भेदो नास्तीत्यर्थः । भेदस्य धर्मिप्रतियोगि- सापेक्षत्वाद्धटात्पटस्य भेद इति धर्मिप्रतियोगिनोश्च भेदसा- RE
२७
पेक्षत्वादन्योन्याश्रयादिदोषप्रसङ्गात्कस्यापि भेदो दुर्निरूप .
इति भावः ॥ २३ ॥
न परस्परमग्निगुणोऽग्निगतो
विषयत्वमुपैति कदाचिदपि ।
न हि वह्निरपि स्वगुणं स्वगतं
विषयीकुरुते स्वगुणेन भुवि ॥ २४ ॥
ज्ञानगुणेनाहंकारो न प्रकाश्यत इत्यत्र हेतुमाह-न
परस्परमिति । अग्निगतोऽग्निगुणः परस्परमन्योन्य प्रकाशा-
ख्येन गुणेनोष्णगुणो वोष्णगुणेन प्रकाशगुणो वा कदा-
चिदपि विषयत्वं नोपैति । यद्यग्निगतोऽनिगुणः परस्परं
प्रकाश्यप्रकाशकभावं नोपैति, तर्हि वह्निः स्वयमेव स्वगतेन
गुणेन गुणान्तरं प्रकाशयत्वित्यत्राह- न हीति । भुवि
भूमौ वह्निरपि स्वगतं गुणं स्वगतेन प्रकाशाख्येन गुणेन न
विषयीकुरुते न प्रकाशयत्यदृष्टत्वात् । तस्माद्गुणिना न
गुणस्य वेद्यत्वम् , अथ वा गुणिनो गुणैर्वा वेद्यत्वं न सं.
भवतीत्यर्थः ॥ २४ ॥
२८
-
कणभुग्यमचीक्लुपदात्मगुणं
गुणपूगमनित्यमनात्मगुणम् ।
अनयैव दिशा स निराक्रियता
न हि नित्यमनित्यगुणेन गुणि ॥
अहंकारस्यात्मगुणत्वे तस्यात्मना प्रकाश्यत्वायोगादहं-
कार आत्मगुणो न भवतीत्युक्तम् । तत्रेदमाशङ्कयले बुद्धि-
सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा आत्मविशेषगुणा इति क-
णादवचनात्कथमात्मनो निर्गुणत्वं प्रतिपाद्यत इति । अत्राह-
कणभुगिति । परमार्थतोऽनात्मगुणमनात्मनो बुद्धेर्गुणम-
नित्यं यावद्रव्यभाविनं यं गुणपूगं गुणसमूह कणभुक्कणाद
आत्मगुणमचीक्लपदात्मगुणत्वेन कल्पितवान्स गुणपूगो-
ऽनयैव दिशा सम्यङ् निराक्रियताम् । यथाहंकारस्यात्ममु.
मत्वे तस्यात्मना प्रकाश्यत्वं न थटते गुणगुणिनोरत्यन्तभे.
दाभावात्, तथा बुद्धयादिरप्यात्मगुणश्चेत्सस्यात्मना प्रका.
श्वत्वं न घटत इत्यनया दिशा निराक्रियतामित्यर्थः । कि
च बुद्धचादरनित्यत्वादपि नित्यात्मगुणत्वं न घटत इति
हेत्वन्तरमाह-~- न होति । नित्यमात्मवस्त्वनित्येन बुद्धया.
दिगुणेन गुणि न भवतीत्यर्थः ॥ २५ ॥
२९ वियतः प्रभवं प्रवदन्ति यतः श्रुतयो बहुशः खमनित्यमतः। उपमानमनित्यगुणं वियतो न हि नित्यमिहास्ति कणादमते ॥ - नसु नित्यस्याकाशस्यानित्येन शब्दगुणेद मुणित्वं दृष्टम् , तद्वदत्रापि भविष्यतीत्याशङ्कयाह- वियत इति । 'तस्मा. द्वा एतस्मादात्मन आकाशः संभूतः नाभ्या आसीदन्त- रिक्षम्' इत्याद्याः श्रुतयो बहुशो बहुबारं वियत आकाशस्य प्रभवमुत्पत्ति प्रवदन्ति यतोऽतः कारणात्खमाकाशमनित्यम् । अत: कारणादाकाशदृष्टान्तेनात्मनोऽनित्यगुणेन संयोगाख्य. गुणेन गुणित्वं न साधयितुं शक्यमित्यर्थः। ताकाशव्य- तिरिक्तं नित्वद्रव्यमात्मनोऽनित्यगुणेन गुणित्वे दृष्टान्न भून वैशेषिकसमये किंचित्प्रसिद्धमतीत्यासच परिहरबि- उपमानमिति । इह कणादमतै कणादसिद्धान्त वियतोऽन्य - दनित्यगुणं क्षणिकगुणं नित्यं नित्यद्रव्यं दृष्टान्तभूतं नास्ति । तस्मादात्मनोऽनिलगुणेन गुणवत्त्वं न संभवतीत्यर्थः ।। AAR
मनसा पुरुषः पुरुषेण मनो
नभसा मुसलं मुसलेन नभः ।
न हि योगवियोगमुपैति कुतो-
ऽवयवित्वनिराकरणादमुतः ॥ २७ ॥
इह रज्जुघटादि हि सावयवं
समुपैति युजामितरेतरतः।
इति दृष्टमतोऽन्यददृष्टमपि
स्वयमूह्यमिदं न परित्यजता ॥ २८ ।।
,
ननु यदि नित्यस्यानित्यगुणसंभवो नास्ति ताई कथमा-
ममनसोनभोमुसलयोर्मूर्तामूर्तयोरेव संयोगाख्यो गुण इति
चेन्मैवम् , तस्याप्रसिद्धेरित्याह-मनसेति । इहेति । साव-
यवं रज्जुघटादीतरेतरतः परस्परेण युजां योगं समुपैती-
स्वेतल्लोके दृष्टं यतोऽतः कारणादतोऽन्यददृष्टमपि यद्वस्तु
तत्रापि सावयवयोरेव संयोगो भवति । एतत्स्वयमूह्यमिदं
दृष्टमपरित्यजताविस्मृतवता पुरुषेणेत्यर्थः ॥ २७ ॥ २८ ॥
न हि सावयवं विगतावयवै- विगतावयवं च न सावयवैः । उपयाति युजामिति दृष्टमिदं यत एवमतः स्थितमुक्तमदः ॥ २९ ॥ ननु यदि दर्शनं प्रमाणं तर्हि सावयवनिरवयवयोरपि नभोमुसलयोः संयोगदर्शनादत्रापि दर्शनं प्रमाणं भवतीत्या- शङ्कष नभसोऽतीन्द्रियत्वात्तत्समवायिनः संयोगस्यापि तथा. त्वाद्दर्शनं प्रमाणं न भवेदित्याह- न हीति। सावयवं वस्तु विगतावयवैर्विगताबयवं च सावयवैयुजां नोपैति । इदमेव लोके दृष्टम् , न तु सावयबनिरषयवयोः संयोगः कुत्रापि दृष्टो येन दर्शनं प्रमाणं स्यात् । अयं भावः- नभोमुसलयोः संयोगः प्रत्यक्षो न भवति संयोगाश्रयस्या- तीन्द्रियत्बे सति संयोगस्यापि तथात्वाद्वायुवनस्पतिसंयो- गवदिति । तस्मान्मुखलनभयोः संयोगस्यातीन्द्रियत्वे द्रष्टु- मशक्यत्वादत्रापि दर्शनं प्रमाणमिति पूर्ववादिनोक्तमतिचतु- रामिति । यथोक्तन्यायेन साधितमर्थमुपसंहरति- यव इति । यत एवं यम्मादेवं सावयवेरेव संयोगो दृष्टस्ततः कारणान्मदुक्तं स्थितम् । आत्ममनसोनभोमुसलयो; सं. , - योगविभागौ न भवत इति यन्मया पूर्वमुक्तं तदिदं सुस्थि- तमित्यर्थः ।। २९ ॥ न हि कल्पितभागसमागमनं विगताचयवस्य घटेत कुतः। वितथत्वमतिः : सुदृढा तु यतः परिकल्पितवस्तुषु नित्यमतः ॥ ३० ॥ ननु निरवयवमप्युपचरितावयवैः संयोगमनुभविष्यतीति चेन्मैवमित्याह-न हीति । विगतावयवस्य स्वत एव निरवयबस्य वस्तुनः कल्पितभागसमागमनं कल्पितभागेन समागमनं संयोगो न घटेत । तत्कुत इत्यत्राह-- वितथ- स्वमतिरिति । परिकल्पितबस्तुषु वितथत्वमतिमिथ्यात्वबु- द्धिः सुदृढा शुक्तिरजतादौ सम्यग्व्याप्ता। अतः कारणात्क- ल्पितभागसमागमनं न घटत इत्यर्थः ॥ ३० ॥ इह वेदशिरःसु तदर्थविदः प्रवदन्ति समस्तजगत्प्रकृतिम् । ।
३३ परमात्मपदं दृशिमानवपु- धुंवमेकमतोऽन्यदनित्यमिति ॥ ३१ ॥ अत एव न किंचिदुदाहरणं ध्रुवमस्ति परस्य विनाशिगुणम् । यत एवमतः स्थितमुक्तमदो न हि नित्यमनित्यगुणेन गुणि ।। - किं चात्मनो बुद्ध्यादिभिरनित्यैर्गुणैर्गुणित्वं ब्रुवाणस्य वैशेषिकस्यानुमानस्य दृष्टान्तापेक्षकत्वादेवंरूपस्य दृष्टान्तस्य नित्यं निर्गुणमेवाद्वितीयं ब्रह्म, ततोऽन्यत्सर्व वाचारम्भणम. नित्यमिति ब्रुवन्तं वेदान्तवादिनं प्रति दर्शयितुमशक्यत्वाच्च चित्यमनित्यगुणेन गुणीत्यस्य पक्षस्यासंभव एवेत्याह- इहेति श्लोकद्वयेन । इह बेदान्तमते तदर्थविदो वेदान्तता- त्पर्यज्ञाः 'एकमेवाद्वितीयम्' 'नित्यं विभुं सर्वगतं सुसू. स्मम् ' 'ब्रह्मैवेदं सर्वम्' आत्मैवेदं सर्वम् ' 'सर्व ख- ल्विदं ब्रह्म ''वाचारम्भ विकारो नामधेयं मृसिकेत्येव सत्यम्' इत्यादिषु वेदशिरःसु परमात्मपदमेव वस्त्वतो. ऽन्यदनित्यमिति वदन्ति । कीदृशं परमात्मपदम् ? सम.
स्तजगत्प्रकृति निखिलजगद्विवाधिष्ठानम् , अत एव दृशि.
मात्रवपुः
केवलज्ञप्तिविग्रहम् , अत एवैकं नानात्वरहित
ध्रुवं सत्यम् ,
अतोऽन्यत्सर्व जगदनित्यम् । अत एव परस्य
वैशेषिकस्य विनाशिगुणं वस्तु नित्यं किंचिदप्युदाहरणं
नास्ति । यत एवमत: कारणान्नित्यमनित्यगुणेन गुणि न
भवतीति यन्मया पूर्वमुक्तं तदिदं सुस्थितं सुस्थिरमित्यर्थः।।
उपलभ्यमहंकरणं भवितुं
क्षमते दृशिरूपगुणो न यतः ।
विषयाकृतिरञ्जितधीगुणव-
द्विषयत्वमहंकरणस्व ततः ॥ ३३ ॥
-
एवं प्रसङ्गागवं कमादमवं निरस्येदानीमहंकारस्थान्त:-
करणधर्मत्वमनुसंधानः तस्यात्मधर्मत्वमनुचितमित्याह-
उपलम्वमिति । अहंकरणमुपलभ्यं दृश्यं भवितुं क्षमते
दृशिरूपमात्मवस्तु स्वयंप्रभत्वादुपलभ्यं न भवेदिति यतः
कारणादृश्यस्याहंकारस्य हगात्मगुणत्वं न घटवे ततोऽहंकरण-
स्यापि विषयाकृतिरञ्जितधीगुणवद्विषयत्वमेव | लत आत्म-
गुणत्वं न संभवनि कि स्वन्त:करणधर्मत्वमेवेत्यर्थः ॥३३॥
विषयप्रकृति प्रतिपन्नवती मतिवृत्तिमहंकरणं च मतेः । उभयं परिपश्यति योऽविकृतः परमात्मसदुक्तिरसौ पुरुषः ॥ ३४ ॥ अहंकारस्यात्मगुणत्वनिराकरणपूर्वकं परिशोधितस्य त्वं. पदार्थस्य परिशोधितेन तत्पदार्थेनैक्यलक्षणं वाक्याथ कथ. यति-विषयेति । विषयप्रकृति प्रतिपन्नवती मतिवृत्ति दृश्याकारां मतिवृत्ति मतेन॒ष्ट्राकारपरिणामाकरणं चेत्येत- दुभयं बुद्धिपरिणामं य: प्रत्यगात्माविकृतः सन्परिपश्थति, असौ बुद्धिसाक्षी पुरुषः स्वयमेव परमात्मसदुक्तिः परमात्मे- त्युच्यते 'नान्योऽतोऽस्ति द्रष्टा 'तत्त्वमसि' इत्यादि. श्रुतेरित्यर्थः ॥ ३४ ॥ ननु देहभृदेष कथं भवता- भिहितः परमात्मसदुक्तिरिति । न विरुद्धमवादिषमेतमहं श्रुतिरप्यमुमर्थमुवाच यतः ॥ ३५ ॥ , video उक्तसमन्वये प्रत्यक्षादिप्रमाणान्तरविरोधमाशङ्कते-न- न्विति । एष देहभृत्संसारित्वेन प्रतीयमानो जीवस्तद्विरुद्धः परमात्मेति भवता कथमभिहित इति । प्रतीयमानस्य सं- सारस्यान्तःकरणोपाधिनिबन्धनत्वान्मैवमिति विरोधं परिहर. ति-नेति । तत्त्वंपदार्थयोः किंचिज्ज्ञत्वसर्वज्ञत्वादिविरुद्ध- धर्मस्य मायातकार्यान्तःकरणोपाधिनिबन्धनत्वेन विरोधामा. वात् । उभयत्रापि विशिष्टयोरेकत्वासंभवेऽपि जहदजहल्लक्ष. जया विरुद्धांशप्रहाणेनाविरुद्धाद्वयसदानन्दप्रत्यग्बोधस्य त्वं. पदलक्ष्यार्थस्य शुद्धसदानन्दाद्वयस्य बोधस्य तत्पदलक्ष्यार्थस्य चैकलक्षणलक्षितत्वेन विरोधासंभवात् ॥ ३५ ॥ अमतं न मतेरमतस्तदिदं यदमुत्र तदेव तु कश्चिदिति। श्रुतिषु प्रतिपादितमस्य दृशेः परमात्मपदत्वममूषु भृशम् ।। ३६ ॥ न किंचिदपि विरुद्धमवादिषमित्यस्मिन्नर्थे श्रुति प्रमाण. यति- अमतमिति। 'अमतं मन्त्रविज्ञातं विज्ञात' इत्यक्षरब्राह्मणम् । मतेमन्तारं मन्वीथाः' इत्युषस्त.
३७ , ब्राह्मणम् । 'अमतो मन्ता इत्यन्तर्यामिब्राह्मणम् । ' तदेतद्ब्रह्मापूर्वममपरमनन्तरमबाह्यमयमात्मा ब्रह्म इति मधुब्राह्मगम् । ' तत्त्वमसि' इति च्छान्दोग्यं च । तदिह विवक्षितम् । ' इदं सर्व यदयमात्मा ' इति मैत्रेयीब्राह्म- णम् । यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युभानोति य इह नानेव पश्यति ॥' इति कठवल्ली । यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥' इति तलवकारः । 'कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्' इति कठवल्ली । तथा च श्रुत्यन्तरम्- 'अन्तर्याम्यमृतः' । स यश्चायं पुरुषे यश्वासावादित्ये स एकः ' 'तत्त्वमसि' 'अहं ब्रह्मा- स्मि' 'अयमात्मा ब्रह्म 'प्रज्ञानं ब्रह्म' 'ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रमृतं ब्रह्मेवेदं विश्वमिदं वरिष्ठम् ।। आत्मा वा इदमेक एवान आसीनान्यर्तिकचन मिषत्' ब्रह्म वा इदमन आसीत्तदा- त्मानमेवावेरहं ब्रह्माम्मीति तस्माचत्सर्वमभवत् । “योऽसा- वसौ पुरुष: सोऽहमस्मि' 'अन्यदेव तद्विदितादतो अवि- दितादधि 'अन्यत्र धर्मादन्यत्राधर्मादन्य नास्मात्कृताक- तात् । अन्यत्र भूताश्च भव्याञ्च यत्तत्पश्यसि तद्वद ॥' . . .
'अशब्दमस्पर्शमरूपमञ्चयं तथारसं नित्यमगन्धवञ्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्य- ते ॥' 'यत्तद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःओवं तदपा. णिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मम् ' 'एतद्वै तदक्षरं गार्नि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वस्वमदीर्घमलोहितम- स्नेहमच्छायमतमोऽवायवनाकाशमसङ्गमरस गन्धमचक्षुष्कम ओत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न बदशाति किंचन न तदश्नाति कश्चन' " ब्रह्मैव ब्रह्मा. प्येति' 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादि । अझ, युति- ध्वस्य दृशेर्बुद्धितद्वृत्तिसाक्षिणः प्रत्यग्बोधस्य परसात्मपदत्वं सुखैकतानकूटस्थज्ञप्तिरूपत्वं भृशं तात्पर्येण प्रतिपादितं य. स्मात्तस्मात्तत्त्वंपदार्थयोस्तादात्म्ये कश्चिद्विरोधो नाती पर्थः ।। बदनभ्युदितं वदनेन सदा नयनेन च पश्यति यन्न सदा । श्रवणेन च यन्न शृणोति तदा मनसापि च यन्मनुते न सदा ।। ' तदेव ब्रह्म त्वं विद्धि' इत्यादितलवकारश्रुति प्रकट.
३९ , यति सार्धश्लोकद्वयेन । तत्र 'यद्वाचानभ्युदितम् , यच्चक्षुषा न पश्यति, यच्छ्रोत्रेण न शृणोति, यत्प्राणेन न प्राणिति, यन्मनसा न मनुते' इतीमं भागं विवृणोति- यदनभ्यु- दितमिति । सदा वदनेन वागिन्द्रियेण यदात्मतत्त्वमन- भ्युदितं साक्षादनभिहितम् , सदा नयनेन चक्षुरिन्द्रियेण यत्तत्त्वं न पश्यति जनः, सदा श्रवणेन श्रोत्रेन्द्रियेण यन्न शृणोति, सदा मनसान्तःकरणेनापि यत्तत्त्वं न मनुते रूपा- दिराहित्याटु भयाकारकरणेनापि तदात्मत्वं न प्रकाश्यते स्व. यंप्रभवादित्यर्थः। तहि शास्त्रोपदेशानर्थक्यमिति न मन्त- व्यम् , अविवेकादात्मन्यारोपितात निरसनेचात्मनो नि. त्यमुक्तत्वप्रतिपादकत्वादिति भावः ॥ ३७ ।। वदनं नयनं च तथा श्रवणं मन एव च येन मतं सततम् । अवगच्छ तदेव पदं परमं स्वमिति श्रुतिरीक्षितुरुक्तवती ॥३८॥ येन वागभ्युद्यले, येन चशूषि पश्यति, येन श्रोत्रमिदं श्रुतम् , येनाहुर्मनो मतम् , शेन प्राणः प्रणीयते' इतीम , - भागं विवृणोति वदनमिति । सततं वदनं वागिन्द्रियं नयनं चक्षुरिन्द्रियं तथा श्रवणं ओन्द्रियं मन एव च चकारातत्परिणामश्च मतं प्रकाशितम् । जडस्वभावं वागा- दिकरणं चिदपेणात्मनानुगृहीतमेव स्वस्वविषये प्रवर्तितुं क्षममित्यर्थः। । 'तदेव ब्रह्म स्वं विद्धि' इतीम भागं विवृ. जोति--- अवगच्छेति । त्वं तदेव परमं परमात्मत्वेना- वगच्छेतीत्यप्रकारेण श्रुतिरीक्षितुष्टुमिच्छोरधिकारिणः पुरु- षस्यात्मतत्त्वमुक्तवत्युपदिष्टवतीत्यर्थः ॥ ३८ ॥ परमात्मपदत्व इयं च मया श्रुतिरल्पकणोक्तिरिहाभिहिता । अणिमादिगुणं सदिति प्रकृतं तदसि त्वमिति श्रुतिरभ्यवदत् ।। एवं परमात्मपदत्वे तत्प्रतिपादिकेयं श्रुतिश्चाल्पकणोक्ति. रोषत्प्रमाणत्वेनाभिहिता प्रदर्शिता । 'अमतं न मतेरमत- स्तदिदम्' इत्यल्पमल्पं कणतो लेशत उक्तेत्यल्पकणाक्ति. स्तथा प्रदर्शितेत्यर्थः । एवं तलवकार लवकारश्रुति प्रपञ्चयित्वेदानी छान्दोग्यश्रुतिं प्रपञ्चयति- अणिमादिगुणमिति । 'म य - हषोऽमिमैतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इत्यादिश्रुविप्रसिद्धमणिमादिगुणकं सूक्ष्मत्वसर्व- गतत्वस्वयंप्रभत्वादिगुणकं सदिति प्रकृतम् 'सदेव सोम्ये- दमग्र आसीदेकमेवाद्वितीयं तदक्षत तत्तेजोऽमृत' इत्यादि. ना निखिल जगत्कारणत्वेन प्रकृतं प्रस्तुतं यद्ब्रह्म तदेव त्व. मसीति श्रुतिरेकत्वमध्यवददुपदिष्टवती अनेन जीवेनात्म- माजुप्रविश्य नामरूपे व्याकरवाणि' इति प्रवेशश्रवणात्स. द्रूपं ब्रह्मैवात्मेत्यर्थः ॥ ३९ ॥ नभसोऽवयवो विकृतिश्च यथा घटिकादिनभो न भवेत्तु तथा । परमात्मन एष न चावयवो विकृतिश्च शरीरभृदित्यमृषा ॥ ४०॥ श्रुतेः स्वतः प्रामाण्यात्तदवष्टम्भन मया प्रत्यगात्मनो ब्रह्मत्वमभ्यधायि । तत्रेदमाशङ्कयते- उक्तश्रुतिवृन्दस्यात्य- म्ताभेदे तात्पर्य नास्ति, किं त्वंशांशिभावगमकत्वं प्रकृतिवि- कृतिभावगमकत्वं चेति । तत्राह-- नभस इति । घटि. कादिनभो घटाद्याकाशो नभसोऽनवच्छिन्नाकाशस्यावयको ४२ विकृतिश्च यथा न भवेत्तथैष शरीरभृदपि जीवपदार्थोऽपि परमात्मनोऽवयवो विकृतिश्च न भवेदित्येषा बुद्धिम॒षा न भवेर, किं तु यथार्थत्यर्थः ॥ ४० ॥ करकादिनिमित्तकमेव यथा करकाम्बरनाम भवेद्वियतः । परमात्मदृशेरपि नाम तथा पुरहेतुकमेव तु जीव इति ॥ ४१ ॥ यदि जीवपरयोरंशांशित्वादिलक्षणः कियानपि भेटे नास्ति तर्हि जीव इति नामभेदः कथमियाशङ्कयाह- करकादीति । एकस्यापि वियतः करकादिनिमित्तकमेव घटाद्युपाधिनिबन्धनमेव यथा करकाम्बरमिति नाम भवे- तथा परमात्महशेरपि ग्रूपस्य परमात्मनोऽपि पुरहेतुकमेव शरीरहेतुकमेव जीव इति नामभेदो भवेत् , न वस्तुतो भेद इत्यर्थः ॥ ४१ ॥ जनितं वियदग्रणि येन जग- D . त्परमात्मसदक्षरनामभृता ।
प्रविवेश स एव जगत्स्वकृतं
खामिवेह घटं घटसृष्टिमनु ॥ ४२ ॥
किं चाविकृतस्यैव ब्रह्मणः प्रवेशश्रवणाच न विकारोऽव.
यवो वा जीव इत्याह-जनितामति । परमात्मसदक्षरना-
ममता परमात्मेति सदित्यक्षरमिति च नाम बिभर्तीति पर-
मात्मसदक्षरनामभृत्तेन परमात्मसदक्षरनामभृता येन विय.
दाण्याकाशादिकं जगजनितं सृष्टं स परमात्मैव स्वकृतं
स्वमायया निर्मितं जगजीवात्मना प्रविवेश प्राविशत् ।
निरंशस्य परमात्मनः कथं प्रवेश इटावाह- खमिति ।
घटसृष्टिमनु यथा खमाकाशं घटं प्रविशति तद्वदित्यर्थः ।
निरवयवस्य सर्वगतत्यात्मनो बुद्धथादावाभिव्यक्तिमात्रमेवा-
स्मनः प्रवेशो न तु देवदत्तादेहादिप्रवेशवदिति भावः ।।
उदपद्यत खप्रमुखं हि जग-
त्परमात्मन इत्यपि याः श्रुतयः ।
अवधार्यत आभिरभेदमतिः
परमात्मसतत्त्वसमर्पणतः॥ १३ ॥
एवं तावत् . तत्सृष्ट्वा तदेवानुशाविशत्' 'स एष इह प्रविष्ट आ नखाग्रेभ्यः' ' अन्तः प्रविष्टः शास्ता जना. नाम्' इति प्रवेशवाक्याच्चतुर्विधेषु देहेष्वन्तःकरणसाक्षि. तया प्रविष्टस्य परमात्मन एव जीव इति नाम भवेद्यस्मा. चस्माज्जीव: परमात्मनोंशो विकारश्च च भवेदित्युक्तम् । इदानीमस्मिन्नर्थे सृष्टिवाक्यमपि प्रमाणमित्याह-उदिति । परमात्मनः सकाशात्खप्रमुखं जगदुदपद्यतेत्यपि याः सृष्टि. श्रुतयः ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च, खं वायुयोतिरापः पृथिवी विश्वस्य धारिणी' 'तस्माद्वा एत. स्मादात्मन आकाशः संभूतः' इत्यादिश्रुतिभिरप्यभेदमविरे- वावधार्यते । कथमवधार्यत इत्यत्राह- परमात्मसतत्त्वस. मर्पणत इति । परमात्मकार्यस्य जगतस्तत्प्रविष्टस्य जीवस्या. पि परमात्मसतत्त्वेन समर्पणतः परमात्मता । तावन्मात्रप्र. तिपादनेनाभेदमतिरेवावधार्यते प्रकाश्यते 'सर्व खल्विदं ब्रह्म' 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुतिभिरित्यर्थः ॥ १३ ॥ यदि सृष्टिविधानपरं वचनं फलशून्यमनर्थकमेव भवेत् । - जगदित्थमजायत धातुरिति श्रवणं पुरुषस्व फलाय न हि ॥ ननु सृष्टिवाक्यं सृष्टिप्रतिपादनपरमेव नाभेदप्रतिपादनप- रमपि, एकस्य वाक्यस्य नानार्थताया अन्याय्यत्वादित्याशङ्कय विपक्षे दूषणमाह - यदीति । वचनं सृष्टिवाक्यं सृष्टि. विधानपरं यदि तर्हि तद्वचनं फलशून्यमनर्थकमेव भवेत् । सृष्टिपरत्वे कथं कलशून्यत्वमित्यत्राह- जगदित्थमिति । धातुर्विधातुः परमेश्वराज्जगदित्थमजायतेति श्रवणमात्रं श्रोतुः पुरुषस्य फलायात्यन्तिकदु:खनिवृत्तये न भवेत् । हि यस्मादेवं तस्मात्सृष्टिप्रतिपादनपरत्वेऽशेषानर्थनिवृत्तिल. क्षणफलाभावादानर्थक्यं प्रसज्येत फलवत्संनिधावफलं तदङ्गम्' इति न्यायात् , सृष्टिवाक्यस्य च स्वतः फलवत्त्वा. श्रवणादेकत्व प्रतिपादकवाक्यस्य 'तरति शोकमात्मवित्' 'ब्रह्मविदाप्नोति परम् ' 'न बिभेति कुतश्चन ' इति फलव. त्वश्रवणात्सृष्टिवाक्यमपि तत्त्वमसिवाक्यशेषभूतं चेत्फल. वत्स्यादित्यर्थः ।। ४४ ॥ अनृतत्वमबाद्यसकृद्विकृते- निरधारि सदेव तु सत्यमिति । .
॥ श्रुतिभिर्बहुधैतदतोऽवगतं जगतो न हि जन्म विधेयमिति इतश्च सृष्टिवाक्यस्य सृष्टिपरत्वमयुक्तमित्याह- अनृ- तत्वमिति । विकृतर्विकारस्यासकद्वहुवारमनृतत्वमवादि मि- थ्यात्वमुक्तम् । किं च सदेव सत्यमिति निरधारि निर्धा- रितम् । अत्र प्रमाणमाह---- श्रुतिभिरिति । 'वाचारम्भणं विकारो नामधेयम्' इत्यारभ्य ' तत्सत्यं स आत्मा तत्त्व. मसि' इत्यादि श्रुतिभिर्बहुधा बहुप्रकारेण दृष्टान्तेन कार्यस्य जगतोऽनित्यत्वं कारणस्य ब्रह्मणः सत्यत्वं निर्धारितम् । तस्माजगतो विधेयमित्येतदवगतमस्माभिरि- . जन्म न त्यर्थः ।। ४५ ॥ न च तत्त्वमसीत्यसकृद्वचनं जगतो जनिमात्रविधी घटते । परमात्मपदानुमति तु यदा जनयेत्पुरुषस्य तदा घटते ॥ ४६ ॥ सृष्टिवाक्यस्य मिथ्याभूतसृष्टिपरत्वमयुक्तं किं त्वेकत्व. परत्वमित्युक्तम् । इदानी बत्त्वमसिवाक्यस्य सृष्टिपरत्वं
-
हि नेष्यते'
कस्मान्न भवेदित्यत्राह न चेति । जगतो जनिमात्रविधौ
तत्त्वमसिवाक्यस्य जन्ममात्रप्रतिपादनपरत्वेऽपि फलव-
ज्ञानस्य जनकत्वाभावात्तत्त्वमसीत्यसकृवचनं पुनः घुनरस.
कृदभ्यासो न घटते,
अविवक्षितार्थस्यासकृदभ्यासासं.
'भवात् । अयं भानः--
संभवत्येकवाक्यत्वे वाक्यभेदो
इति न्यायात्सृष्टिवाक्यस्य महावाक्येनैकवा.
क्यत्वे संभवति सति तद्विपर्यासेन महावाक्यस्य सृष्टिवा.
क्वशेषत्वं
न घटते नैरर्थक्य प्रसङ्गादिति । ननु तत्त्वम-
सिवाक्यस्य सृष्टिपरत्वं यथा न घटते तथा सृष्टिवाक्यस्य
तत्त्वमसिवाक्यशेषत्वमपि न घटत इत्यत्राह- परमात्मे.
वि । पुरुषस्य प्रत्यगात्मनः परमात्मपदानुमतिं ब्रह्मत्वबुद्धि
बदा जनयेन्महावाक्यं तदा वाक्यजनितज्ञानस्य मोक्षफल-
त्वात्तच्छेषतया सृष्टिवाक्यमपि घटते, विपरीतं चेन्न घटे.
वेत्यर्थः ।। ४६॥
स्थिरजङ्गमदेहधियां चरितं
यरिपश्यति योऽविकृतः पुरुषः ।
परमात्मसदुक्तिरसाविति य-
द्भणितं तदतिष्ठिपमित्थमहम् ॥४७॥
१८ 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्यभिसंविशन्ति' । तत्सृष्ट्वा तदेवानुप्रावि- शत् ' ' य आत्मनि तिष्ठनात्मानमन्तरो यमयति' इत्या- दिसृष्टिस्थितिप्रलयप्रवेशनियमादेषां पञ्चविधार्थवादवाक्या. नामभेद एव तात्पर्यमिति दर्शयित्वेदानीमविरोधं निगम यति-स्थिरेति । स्थिरजङ्गमदेहधियां चरितं जीवात्मनां या बुद्धिवृत्तयस्ता यः पुरुषोऽविकृतः सन्परिपश्यति, असौ पुरुषः स्वयमेव परमात्मसदुक्तिरिति यत्पूर्व मया भणितं तदित्थंप्रकारेणाहमतिष्ठिपं प्रमाणविरोधपरिहारेण प्रतिष्ठा- पितवानस्मीत्यर्थः ॥ ४७ ॥ पृथगेव यदाक्षरतो मतिवि- न्मकरोदकवन्न घटाम्बरवत् । न विरोत्स्यति तत्त्वमसीति तदा वचनं कथमेष त इत्यपि च ॥४८॥ यथा तत्त्वमसिवाक्यं जीवब्रह्मणोरंशांशिवलक्षणमीष. द्भेदमपि न सहते तथा मकरोदकवदत्यन्तभेदं सुतरामेव हत इत्याह-- पृथगिति । यदा मतिविदुद्धिसाक्षी ४९ मकरोदकवन्मत्स्योदकयोरिवाक्षरतो ब्रह्मणः सकाशात्पृथगेव भिन्न एव न तु घटाम्बरवद्यथा घटाकाशस्य महाकाशादुपा- धिकृतो भेदो यदा नाङ्गीक्रियते तदा तत्त्वमसीति वचनं कथं न विरोस्यति ? जीवपरयोमत्स्योदकवत्परमार्थभेदा- श्रीकारे तत्त्वमसिवाक्यविरोधः स्यादवेत्यर्थः ॥ ४८ ॥ न तु वस्तुसतत्वविबोधनकृ- द्विनिवर्तयदप्रतिबोधमिदम् । सदुपासनकर्मविधानपरं यत एवमतो न विरोत्स्यति में ॥ ननु वस्तुपरत्वे सति भेदं न सहते तत्त्वमस्यादिवा- क्यम् । तस्य वस्तुपरत्वं नास्ति किं तूपासनापरत्वमित्या. शङ्कते पूर्ववादी-न स्विति । अप्रबोधमज्ञानं विनिवर्त- यदिदं तत्त्वमस्यादिवाक्यं न वस्तुसतत्त्वविबोधनकृत् न तु वस्तुस्वरूपप्रतिपादनपरम् । तर्हि किपरमित्यत्राह- सदु- पासनकर्मविधानपरम् । यत एवमतः कारणात्तस्वमस्यादि. बाक्यं न विरोत्स्यति, वाक्यस्योपासनाविधानपरत्वादख-
ण्डेकरसवस्तुपरत्वाभावात्तद्वाक्यमस्मन्मतं प्रतिक्षप्तुं न क्ष-
मत इति भावः ॥ ४९ ।।
मनआदिषु कारणदृष्टिविधिः
प्रतिमासु च देवधियां करणम् ।
स्वमति ह्यनपोह्य यथा तु तथा
स्वमसीह सदात्ममतिवचनात् ॥
वाक्यस्योपासनाविधिपरत्वं दृष्टान्तेन साधयति-मन-
इति । 'मनो ब्रह्मेत्युपासीत' आदित्यो ब्रह्मेत्युपासीत'
'आकाशो ब्रह्मेत्युपासीत' ' अत्रं ब्रह्मेत्युपासीत' इत्यादि.
श्रुत्या मनआदिषु कारणदृष्टिविधिः मनआदित्यादी कार-
णब्रह्मोपास्तिविधीयते । तथा च प्रतिमासु भगवल्लाञ्छन.
लब्छितासु स्वमतिमनपोह्याधिष्ठानबुद्धिमपरित्यज्य देवधि
यां करणं देवत्वबुद्धयारोपणं तत्रापि बुद्धिस्त्वमसीति
वचनात्तत्त्वमसिवाक्येन इह त्वंपदार्थभूते जीवे जीवत्वम-
परित्यज्य सदात्ममतिर्विधीयते सद्रूपब्रह्मदृष्टिविधीयते । ए.
कत्वपरत्वे प्रमाणान्तरविरोधात्सदहमस्मीति घेतोधारणमेव
विधीयत इत्यर्थः ॥ ५० ॥
५१ अथ वा त्वमिति ध्वनिवाच्यमिदं सदसीति वदेवचनं गुणतः । विभयं पुरुषं प्रवदन्ति यथा मृगराडयमीश्वरगुप्त इति ॥ ५१ ॥ तत्त्वमसिवाक्यमुपासनाविधिपरभित्येकं पक्षं प्रदर्य, इदानीं गुणवादपरमथ वा स्तुतिपरमथ वा विपरीतबोधक- मिति पक्षान्तराण्युदाहरति पूर्ववादी श्लोकद्वयन- अथ वेति । इदं तत्त्वमसीति वचनं त्वमिति ध्वनिवाच्यं जीवं सुणतो गुणवादेन सदसीति वदेत् । गुणवादपरत्वे दृष्टान्त. माह-विभयमिति । विभयं निर्भयं पुरुषं दृष्ट्वा अथमीश्वर. गुप्नो मृगराडयं देवदत्तः सिंह इति प्रवदन्ति, तदित्यर्थः ।। . यदि वा स्तुतये सदप्तीति वदे- न्मघवानसि विष्णुरसीति यथा । त्वमिति श्रुतिवाच्यततत्वकता- मथ वा सत एव वदेद्वचनम् ॥
५२ स्तुतिपरत्वं दर्शयति- यदीति । यथा दातारं पुरुषं मघवानिन्द्रोऽसि विष्णुरसीति स्तुवन्ति याचकास्तथात्रापि तं स्तुतये स्तुत्यर्थ जीवं स्तोतुं सदसीति बदेद्वाक्यमित्यर्थः । विपरीतबोधकत्वं दर्शयति-त्वमिति । अथ वा तत्त्वम- सीति वचनं सतः सदूपस्य ब्रह्मणत्वमिति ध्वनिवाच्यस- सत्त्वकतामेव त्वंपदवाच्यजीवात्मकतामेव वदेत् । ब्रह्मणो जीवत्वमेव बोधयेद्वाक्यमित्यर्थः ।। ५२ ।। यदि तत्वमिति ध्वनिनाभिहितः परमात्मसतत्वक एवं सदा । किमिति स्वकमेष न रूपमवे- प्रतिबोध्यत एव यतो वचनैः ।। : ननु किमनया क्लिष्ट कल्पनया, म्वारसिकं जीबस्य ब्रह्म. त्वमेव किमिति न बोधयेद्वाक्यमित्यत्राह- यदीति । तत्त्वमसिवाक्ये त्वमिति ध्वनिनाभिहितो जीवः सदा परमात्मसतत्त्वक एव यदि, तर्खेष जीवः स्वरूपं किमिति नावेत् स्वस्य स्वाभाविकं ब्रह्मत्वं किं न जानाति ? न बु
बारसिकं ब्रह्मत्वं किं तु वचनैः प्रतिबोध्यत एवेति यत-
तः कारणादस्य ब्रह्मत्वं स्वारसिकं न भवतीत्यर्थः ॥५॥
अत एव हि जीवसदात्मकता
न हि तत्वमतीति वदेद्वचनम् ।
रुद्धपीहशमन्यदतो वचन
तदपि प्रथयेदनयव दिशा ॥ ५४ ॥
उतन
का निगमयति पूर्ववादी-~- अत ति । अत एव
क्यस्योपासनापरत्वादेव तत्त्वम वनं जीवस्य सदा-
मकतां न वदेद्ब्रह्मत्वं न बोधयेत् । ५ भादेवं तस्मादतो-
न्यदपीदृशं यद्वचनं महावाक्यं तदप्य नयैव दिशा प्रथये-
नयेदित्यर्थः ॥ ५४॥
त्वदुदाहृतवाक्यविलक्षणता
वचनस्य हि तत्वमतीति यतः ।
अत एव न दृष्टिविधानपरं
सत एव सदात्मकतागमकम् ॥५५॥
तत्वमसिवाक्यस्योपासनवाक्यवैलक्षण्याद्वस्तुपरत्वमेवेति
साधनाबाह सिद्धान्ती- त्वदिति । तत्त्वमसीति वचनस्य
स्वदुदाहृतवाक्यविलक्षणता त्वयोदाहृतान्मनो ब्रह्मेत्यादि-
बाक्वाद्विलक्षणतास्ति यतस्ततः कारणादिदं वचनं दृष्टिवि-
धानपरमुपासनाविधिपरं न भवेत् , किं तर्हि सत हव
सदात्मकतागमकं जीवात्मना प्रविष्टस्य सत एव ब्रह्मण एव
सदात्मकतागमकं ब्रह्मत्वबोधकमिल्यर्थः ।। ५५ ।।
इतिशब्दशिरस्कपदोक्तमति-
विहिता मनआदिषु तेर्वचनैः ।
न विधानमिहास्ति तथा वचने
सुविलक्षणमेतदतो वचनात् ॥ ५६ ।।
तत्त्वमसिवाक्यस्योपासनवाक्याद्वैलक्षण्यं साधयति.
इतीति । इतिशब्दशिरस्कपदोक्तमतिर्विहिता मनआदिषु
मनआदित्यादिषु तैर्वचनैर्मनो ब्रह्मेत्यादिभिर्वाक्यैर्विहिता ।
इह बचने तु तथा विधानं नास्ति, अस्मिस्तत्त्वमसि-
बाक्ये बथाविधेविशब्दशिरस्कपदेनोक्तदृष्टिविधानं नास्तीवि
यापासनावाक्यवैल बस्मान्तस्मादतो वचनान्मनो ब्रह्मेत्यादिवाक्यादेतत्तत्वमसि वाक्यं सुविलक्षणं सुतरां विलक्षणमित्यर्थः ॥ ५६ ॥ मनसो वियतः सवितृप्रभृतेः प्रवदन्ति न तानि सदात्मकताम् । मनआदि हि मुख्यमुपास्यतया प्रवदन्ति यतोऽक्षरदृष्टियुतम् ॥ ५७॥ लअण्यात्तत्त्वमसिवाक्यं वस्तुनिष्ठं बर्हि मनो ब्रह्मेत्यादीन्यपि वस्तुनिष्ठान्येवेत्यत्राह- मनस इति । सवितृप्रभृतेः सवितारमारभ्य मनसो वियतश्च तानि मनो ब्रह्मेत्यादीनि सदात्मकतां सद्रूपब्रह्मात्मकतां न प्रव. दन्ति मनआदेब्रह्मात्मकतां न प्रवदन्ति न बोधयन्ति । बहि किं कुर्वन्तीत्यत्राह - मनआदीति । मुख्यतया मन. आदित्यादिकमक्षरष्टियुतमुपास्यतया प्रवदन्ति फलान्तरमु. दिश्येत्यर्थः ।। ५७ ॥ करको न मृदः पृथगस्ति यथा मनआदि सतोऽस्ति तथा न पृथक् ।
- इति वस्तुसतत्वकता तु यदा विधिशब्द इतिश्च तदा तु वृथा । ननु ब्रह्ममनसोः प्रकृतिविकृतिभावान्मृतरकयोरिव ता. बाम्योपदेशो वस्तुपर एक कस्मान्न भवनीत्याशयाह- करक इति । यथा करको घटादिकं कार्य स्वकारणान्मृदः सकाशात्पृथङ् नास्ति तथा मनआदित्यादिकमपि कारण- भूतात्सतो ब्रह्मणः सकाशात्पृथग्व्यतिरिक्ततया नास्तीत्वं बस्तुसतत्त्वकता तु वस्तुपरता तु यदा त्वयाभ्युपगम्यते तदा मनो ब्रह्मेत्युपासीतेत्यस्मिन्वाक्ये विधिशब्दश्चेतिशमश्च वृथा भवेत् । तस्मान्मनो ब्रह्मेत्यादिवाक्यस्य वस्तुपसायु. तम् , कि तूपासनापरत्वमेवेत्यर्थः ॥ ५८ ॥ मनआदि समानविभक्तितया विधिशब्दमिति च विहाय यदि । जनकेन सता सह योगमिया- दनृतं तदिति स्फुटमुक्तमभूत् ॥ ना विधिशब्दमितिशब्दं च विहाय मनो ब्रह्मेत्यादि.
- बदद्वयं समानविभक्तिकतया सामानाधिकरण्यं गमिष्यति, ततश्च वस्तुपरमेवेति, तत्राह मनइति । समानविभक्ति- तयकविभक्तितया मनआदित्यादिकं विधिशब्दमितिशब्दं च विहाय जनकेन सता स्वकारणेन ब्रह्मगा सह योगमिया- सामानाभिकरण्यं गच्छेद्यदि तर्हि तन्मनआदि अनृतमस. त्यमिति स्फुट त्वयोक्तमभूत् इदानीं मनआदिजगन्मिथ्येति तव सिद्धान्तः स्यात् । तदयुक्तं तवापसिद्धान्तप्रसङ्गादित्यर्थः । जडाजडयोर्वास्तवतादात्म्यायोगादिति भावः ॥ ५९ ।। नदु जीसतोरपि तत्त्वमिति स्फुटमेकविभक्त्यभिधानमिदम् । कथमस्य शरीरभृतोऽनृतता न भवेदविभक्तविभक्तियुजः ॥६० ।। मनु ब्रह्मसामानाधिकरण्ये यदि मनआदेरनृतत्वं भवेत् , ताई जीवस्यापि तत्वमसिवाक्ये ब्रह्मसामानाधिकरण्यश्रव. मादनृतत्वं कथं न भवेदिति पूर्वपक्षी चोदयति- नन्वि- ति । जीवसतोरपि तत्त्वमित्येकविभक्त्यभिवानमभिन्न विभक्त्यभिधानं स्फुटं प्रतीयते, ततः कारणादावेभक्तविभ- क्तियुजोऽभिन्नविभक्तियुक्तस्यास्य शरीरभृतो जीवस्य मनआ. दिवदनृतता कथं न भवेत् मिथ्यात्वं भवत्येव । तस्व जीवस्यानृतत्वे तस्याविक्रियब्रह्मात्मकत्वं श्रुतिसिद्धं न से- त्यतीत्यर्थः ।। ६० ॥ प्रकृतेरभिधानपदेन यदा विकृतेरभिधानमुपैति युजाम् । अनृतत्वमतिस्तु तदा विकृती मृदयं घट इत्यभिधासु यथा ॥ ११ ॥ न ब्रह्म सामानाधिकरण्यमनृतत्व प्रयोजकमित्याह सिद्धा- न्ती- प्रकृतेरिति । यदा प्रकृतेरभिधानपदेन कारण- बोधकपदेन विकृतेरभिधानं कार्यवाचकं पदं युजामुपैति सामानाधिकरण्यं प्राप्नोति तदा विकृतावनृतत्वमतिर्भवति कार्ये मिथ्यात्वबुद्धिर्भवति । तत्र दृष्टान्तमाह- मृदयं घट इत्यभिधासु यथेति । मृदयं घटस्तन्तुरयं पटः कनकमिदं रुचकमिति कार्यकारणपदयोः सामानाधिकरण्ये कार्येऽनृत. त्वमतिर्भवति, तद्वदत्रापि यदि जीवपरयोः कार्यकारणभा- .
वस्तर्हि अनृतत्वं भवेदेव, न तु तदस्तीति सिद्धान्तिनो. ऽभिप्रायः ॥ ६१ ॥ .. विकृतित्वमवादि मनःप्रभृते- बहुशः श्रुतिषु प्रकृतेस्तु सतः । अत एव समानविभक्तितया मनआदि सुवेद्यमसत्यमिति ॥ ६२ ॥ मनु कार्यकारणयोः सामानाधिकरण्ये कार्येऽनृतत्वमा तिर्भवतु, मनआदेस्तु सृष्टिप्रकरणे कार्यत्वाश्रवणादनृतत्वं न भवेदित्याशङ्कय मैवं तव बाधिर्यादित्याह सिद्धान्ती विकतत्वमिति । ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रि. याणि च' : अन्नमशितं त्रेधा विधीयते, तस्य यः स्थविष्टो धातुस्वत्पुरीष भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः' इत्यादिश्रुतिषु मनःप्रभृतेर्मनःप्रमुखस्य जगतो वहुशो बहुवारं प्रत: प्रकृतेविकृतित्वमवादि मनसा सद्रूपब्रह्मकार्य स्वममाणि । यत एवमतः कारणात्समानविभक्तितया मन- आद्यनत्यमिति सुवेवम् । मनआदेः कार्यत्व श्रवणाद्ब्रह्मजा. भानाधिकरण्ये मनायनृतं भवेदित्यर्थः ॥ ६२ ॥ .
६०
जनितत्वमवादि न हि श्रुतिभि-
जनकेन सतास्य समीरभृतः ।
मनआदिविकारविलक्षणता
प्रतियन्ति शरीरभृतस्तु ततः ॥६३॥
तर्हि जीवस्यापि मनआदिबद्ब्रह्मकार्यत्वश्रवगादनृतत्वं
कुतो न भवेत् , 'बथानः क्षुद्रा विस्फुलिङ्गा चरव.
मेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः देवाः सर्वे
वेदाः सर्वाणि भूतानि सर्व एत आत्मनो व्युञ्चरन्ति' इति
जीवोत्पत्तिश्रवणादित्याशय, जीवस्य स्वरूपत्तिर्न भव-
ति किं तु विशिष्टोत्पत्तिरेवेत्यभिप्रायेणाह सिद्धास्ती-ज.
नितत्वामिति । अस्य शरीरभृतः शरीमाषिकस्य जीवा.
त्मनो जनकेन सता निखिलजगत्कारणेन ब्रह्मणा जनि-
तत्वमुत्पादितत्वं श्रुतिभिर्नावादि न गदितम् । हि यस्मादेवं
ततः कारणाच्छरीरभृतो मनआदिविकारविलक्षणतां मन-
आदिकार्यवैलक्षण्यं विद्वज्जनाः प्रतियन्ति जानन्ति । तस्मा-
न्ममाआदिवजीवस्य ब्रह्मसामानाधिकरण्येऽनृतत्वं न भवे.
दित्यर्थः ॥ ६३ ॥
६१
यदजीजनदम्बरपूर्वमिदं
जगदक्षरमीक्षणविग्रहकम् ।
प्रविनेश तदेव जगत्स्वकृतं
सच जीवसमाख्य इति श्रुतयः ।।
'प्रज्ञानं ब्रह्म
जीवस्य ब्रह्मविकारदं श्रुतिषु प्रसिद्धं न चेत्किमात्मकत्वं
तर्हि प्रसिद्धमित्यपंक्षायाम् , अविकृतब्रह्मात्मकत्वमेवेत्साह
सिद्धान्ती- यदजीजनदिति । 'तदक्षत तत्तेजोऽमृत'
स ईक्षांचक्रे' 'सत्यं ज्ञानमनन्तं ब्रह्म
इति श्रुतेरीक्षणविग्रहकं यदक्षरात्मकं ब्रह्माम्बरपूर्वकमाका-
शपुरःसरकमिदं जगदजीजनदुदपादयत तदेवाक्षरात्मकं ब्रह्मैव
स्वकृतं जगत्प्रविवेश प्राविशत् । यस्मादेवं तस्मात्स
परमात्मैव जीवसमाख्यो जीवसंज्ञां प्राप्त इति 'सत्सृष्ट्वा
नदेवानुप्राविशत्' इत्याद्याः श्रुतयः प्रवदन्तीत्यर्थः ।।
परमात्मविकारविभक्तमति-
नं भवत्यत एव शरीरभृतः।
६२ यत एव विकारविभिन्नमति- नं भवत्यत एव मृषात्वमतिः॥६५॥ अविभक्तविभक्त्यभिधानकृता परमात्मपदेन शरीरभृतः। न भवदिह तत्वमसिप्रभृतौं लवणं जलमित्यभिधासु यथा ॥६६॥ एवं श्रुतिप्रामाण्याजीवस्या विकृतब्रह्मात्मत्वे सिद्धे प्रकृते किमायातभित्यपेक्षायाम् , जीव एव परमात्मेत्यनेन हेतुना विभक्तबुद्धिर्न भवेदित्यायातमित्याह- परमेति । विका- रविभक्तमतिर्न भवति परमात्मविकारत्वेन ब्रह्मकार्यत्वेन हेतुना ब्रह्मणः सकाशाजीवो विभक्त इति बुद्धिर्न भवनि जीवस्य ब्रह्मकार्यत्वाभावादित्यर्थः। ततः किं तव सिद्धमि. त्यत्राह- यत एवेति सार्धश्लोकेन । यत एवं विकारत्वेन विभिन्नमतिर्न भवति, अत एवेह तत्त्वमसिप्रभृतो तत्व. मत्यादिवाक्ये शरीरभृतः परमात्मपदेन अविभक्तविभक्त्य- भिधानकता मृषात्मबुद्धिर्न भवेत् , ब्रह्मसामानाधिकरण्ये
सति जीवेऽनृतत्वबुद्धिर्न भवेत् । अत्र व्यतिरेकदृष्टान्त-
माह--- लवणं जलमित्यभिधासु यथेति । यथा लवण.
जलयोः कार्यकारणभावादुदककार्यस्य लवणस्यानृतत्वं भवे.
चथा जीवस्यानृतत्वं न भवेत् , जीवब्रह्मणोः कार्यकारण.
स्वाभावादित्यर्थः ॥ ६५ ।। ६६ ॥
परमात्मविकारनिराकरणं
कृतमस्य शरीरभृतस्तु यतः ।
परमेश्वररूपविलक्षणता
न मनागपि देहभृतोऽस्ति ततः ॥
ब्रह्मसामानाधिकरण्ये मृषात्वं न भवतीति साधयितुं
जीवस्य विकारत्वं निराकृतम् , अत एव जीवस्य सर्वप्रकारेण
ब्रह्मविलक्षणता निराकृतेत्याह सिद्धान्ती- परमात्मेति ।
अस्य शरीरभृतः 'परमात्मविकारत्वनिराकरणं कृतमिति
यतः, अत एवास्य शरीरभृतो जीवपदार्थस्य परमेश्वररूप.
विलक्षणता न मनागपीषदपि नास्ति जीवस्याविकृतब्रह्मात्मा
स्वश्रवणादित्यर्थः ॥ ६७ ॥
ननु जीवसतोरणुमात्रमपि
स्वगतं न विशेषणमस्ति यदा ।
बद तत्त्वमसीति तदा वचनं
किमु वक्ति तथैष त इत्यपि च ॥
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य
भयं भवति' 'नेह नानास्ति किंचन' इति भेदस्य निर.
स्तत्वाजीवपरयोरीषदपि भेदो नास्तीत्युपश्रुय पूर्वपक्षवादी
चोदयति-नन्विति । जीवपरयोरणुमात्रमपि स्वगतं
विशेषणं भेदकं यदा नास्ति तदा तत्त्वमसीति वचनं किमु
वाक्त किं बोधयति । एष त इत्यपि च
त आत्मान्तर्याम्यमृतः' इति वचनं च किमु वक्ति जीवसतो.
रोषदपि भेदाभावे पूर्वमेवाभेदस्य सिद्धत्वादुपदेशानर्थक्य.
मिति पूर्ववादिनोऽभिप्राय: ॥ ६८ ।।
स्वगतं यदि भेदकमिष्टमभू-
दणुमात्रमपीश्वरदेहभृतोः ।
-:
६५ अपनेतुमशक्यमदो वचनै- रमुनास्य पृथक्त्वनिषेधपरैः ॥६९ ॥ एतच्चोधं परिहरति सिद्धान्ती-स्वगतमिति । ईश्वरदेह- भृतोरणुमात्रमपीश्वरगतं भेदकामिष्टमभूद्यदि जीवपरयोः पर- मार्थत: स्वगत भेद इष्यते यदि तादो भेद कममुना परमा- स्मनास्य जीवस्य पृथक्त्वनिषेधपरैस्तत्त्वमस्यादिभिवाक्य- रपनेतुं जिसकर्तुमशक्यमिति ॥ ६९ ॥ इह यस्य च यो गुण आत्मगतः स्वत एव न जातु भवेत्परतः । वचनेन न तस्य निराकरणं क्रियते स गुण: सहजस्तु यतः ॥ ओवपरयोः परमार्थभेदाङ्गीकारे तस्य वचनेन निराक- रणमशक्यमित्युक्तम् । इदानी परमार्थमेदनिराकरणासंभवं साधयति --- इहेत्यादिना। इह व्यवहारदशायां यस्य पदा. र्थस्य यो गुणः स्वत एवात्मगतो जातु परतो न भवेत्तस्य स्वा- भाविकगुणस्य वचनेन निराकरणं न क्रियते, निराकतुं न - शक्यत इत्यर्थः । कुतो न शक्यत इत्याकाङ्कायां तत्र हेर्नु कथयति सहज इति । तु पुनः स भेदाख्यो गुणः सहजो यतः उपाधिकृतो न भवेद्यतस्ततः कारणाद्वचनेन न निराक्रियत इत्यर्थः ॥ ७० ॥ वचनं त्ववबोधकमेव यत- स्तत एव न वस्तुविपर्ययकृत् । न हि वस्त्वपि शब्दवशात्प्रकृति प्रजहात्यनवस्थितिदोषभयात् ॥ ७१ ॥ मनु वचनेन किमिति सहजगुणनिराकरणं न संभवति वचनस्य कारणत्वादित्यवाह-वचनमिति। अज्ञातार्था- धिमन्तृत्तया प्रमाणभूतं तत्त्वमस्यादिवचनमवबोधकमेव, प्र. माणानामभिव्यञ्जकत्वस्वाभाव्यात् , अतो यथावस्थितप्रत्य- नलकत्वबोधकमेव, न तु कारणमित्यर्थः । तर्हि वस्तु स्व- यमेष शब्दसामर्थ्यात्स्वभावसिद्धं गुणं परित्यजत्विति चेन्ने. त्याह- न हीति । वस्त्वपि शब्दवशाच्छ्रुतिसामर्थ्यात्प्र. कति प्रकृतिसिद्धं गुणभेदं न बहालि न परियजति । कुतः कारणादित्यत्राह- अनवस्थितिदोषमयादित्यादिना । स्वस्यान. .
वस्थानदोषभयात्सहजस्य निराकरणे स्वस्यापि नाशप्रसङ्गा. दित्यर्थः । तथोक्तं सुरेश्वराचार्य: न हि स्वभावो भावा. नां व्याव]तोष्ण्यवद्रवेः । स्वभावाद्विनिवृत्तोऽर्थो नि:- स्वभावः खपुष्पवत् ।।' इति । तस्माद्भेदस्य सहजत्वे तस्य निवृत्तिन संभवतीत्यर्थः ॥ ७१ ॥ यत एवमतो विषयस्य गुणं विषयेण सहात्मनि मूढधिया । अधिरोपितमप्स्विव भूमिगुणं प्रतिषेधति तत्वमसीति वचः ॥७२॥ भेदस्यौपाधिकवे तस्य वचनेन निवृत्तिः संभवतीति दर्शयति- यत इति । स्वाभाविकभेदस्य निवृत्तिन संभ. वतीति यतस्तत: कारणान्मूढधियाविवेकिनात्मनि स्वस्मिन्वि- षयस्य गुणं विषयेण सहारोपितमध्यस्तमतद्धर्म तत्त्वमसीति प्रतिषेधति निरस्यति । आरोपितस्य निषेध्यत्वे दृष्टान्तं दर्शयति-- अस्विव भूमिगुणमिति । भूमिमुर्ण गन्धमखारोपित यथा प्रतिषेधति वचः पृथिव्या एव गन्धवत्त्वाचदत्राप्यस्मिन् 'तत्त्वमसि' 'अहं ब्रह्मास्मि .
'अस्थूलमनण्वस्वमशब्दमस्पर्शम् ' इत्यादिकं वचतमात्मन्या-
विवेकेनारोपितातद्धर्मनिषेधमुखेनानण्डैकवस्तुपरमित्यर्थः ।।
अत एव न दृष्टिविधानपरं
गुणवादपरं च न तद्वचनम् ।
स्तुतिवाद्यपि नैतदुपास्यतया
विधिरत्र न देहभृतोऽस्ति यतः ।।
यस्मादेवं वाक्यस्य वस्तुपरत्वं सिद्धं तस्मादुपासनापर-
त्वं सरतीलि सिद्धमित्याह- अत एवेति । अत एव
बाक्यस्याखण्डवस्तुपरत्वादेव तद्वाक्यं न दृष्टिविधानपरं न
तूपासनाविधिपरमुपासनाविधिषु न भवेत् । उपासनाविधि-
परत्वाभावे हेतुमाह-- उपास्यतयेति । अत्रास्मिस्तत्वम-
सिवाक्ये देहभृतो जीवस्य ब्रह्मत्वेनोपास्यतया विधिर्नास्ति
लिङ्लोडादिपदं नास्ति यतस्ततः कारणादुपासनापरं तथा
गुभवादपरं च न भवेत् । मघवानसि विष्णुरसीत्यादिवत्स्तु.
विवाद्यपि न भवेत्स्तुतिपरं च न भवेत् , सुख्यार्थसंभवे.
गौणार्थकल्पनाया अनुचितत्वादित्यर्थः ॥ ७३ ॥
६९
सत एव हि नाम जगत्प्रकृते-
रुपधानवशादिह जीव इति ।
अत एव न जीवसतत्वकतां
प्रकृतस्य सतः प्रतिपादयति ॥७॥
एवं च सति विपरीतबोधकत्वं च नास्तीत्याह--सत
इति । जगत्प्रकृतेः सत एव जगत्कारणस्य ब्रह्मण एवो.
पधानवशाच्छरीरद्वयोपाधिवशाजीव इति नाम भवतीति
यतोऽत एव प्रकृतस्य सत: सदेव सोम्येद्गम आसीत् '
इति जगत्कारणत्वेन प्रस्तुतस्थ सतो ब्रह्मणो जीवसतत्त्वकतां
जीवरूपतां न प्रतिपादयति । किं तहि जीव संज्ञां प्राप्तस्य
ब्रह्मणः स्वारसिकं ब्रह्मत्वमवबोधयतीत्यर्थः ॥ ७४॥
यदि जीवसतत्वकतां गमये-
दणिमादिगुणस्य जगत्त्रकृतेः ।
अणिमादिगुणोक्तिरतोऽप वृषा
यदि वास्य शरीरभृदात्मकता ॥७॥
. पक्ष्यमाणहेतोश्च वाक्यस्य विपरीतबोधकता नास्ती- स्थाह- यदौति । अणिमादिगुणस्य जगत्प्रकृते: सूक्ष्म- त्वादिगुणकस्य ब्रह्मणो जीवसतत्त्वकतामेव वाक्यं गम. यद्यदि तमुस्य ब्रह्मणः अतो वाक्यात् स य एषोऽणि. मैतदात्म्यमिदं सर्व तत्सत्यं स आत्मा' इत्यादिकाद्वाक्या- दणिमादिगुणोक्तिब्रह्मणो मृषा स्यादपारमार्थिकी स्यात् । यदि वाणिमादिगुणोक्तिस्त्वभिहिता तमुस्य ब्रह्मणः शरी- रभृदात्मकता जीवसतत्त्वकता मृषा भवेत् । तस्मात्प्रकृतस्य सतो जीवसतत्त्वकता न प्रतिपादयतीत्यर्थः ।। ७५ ॥ न च संमृतिहेतुनिराकरणं कृतमस्य शरीरभृतोऽभिमतम् । परमेश्वरमात्मतया ब्रुवता वचनेन च तत्वमसीत्यमुना ॥ ७६॥ इतोऽपि विपरीतबोधकत्वं नास्तीत्याह परमेश्वरं परमात्मानमात्मतया जीवतया ब्रुवता तत्त्वम. सीत्यमुना वचनेनास्य शरीरभृतोऽभिमतमिष्टं संसृतिहेतु. निराकरणं संसारहेतोरज्ञानस्य निराकरणं न कृतमिति यस्मात्तस्माद्विपरीतबोधकत्वमयुक्तमित्यर्थः ॥ ७६ ।। -- न चेति ।
७१ त्वमसीति पदद्वयमेति युजां तदिति ध्वनिना सह तत्वमिति । क्रियया सह नामपदं समिया- निरपेक्षमुपैत्यनया हि युजाम् ॥ वाक्यस्थपदसंबन्धपोलोचनया वा विपरीतबोशकत्वं न संभवतीत्याह- त्वमिति । प्रथमं त्वमसीति पदद्वयं पर. स्परं युजामेति पश्चात्तदेव पदद्वयं लडित्ति ध्वनिना सह युजामेति तत्पदलक्ष्यं वस्तु त्वमसीति । कुतः कारणादेवं क्रमेण वाक्यस्थपदानां संबन्ध इत्याह- क्रिययेति । नाम- पदं सुबन्तं पदं क्रियया सह युजां योगं ममियात्प्राप्नु. यात् । तदपि किंनिबन्धनमित्यत्राह-निरपेक्षमिति । अनयासीत्यादिकक्रियया निरपेक्षं यथा भवति तथा वाक्यं युजामुपैति । ' साकाहूं वचनमनर्थकम् ' इति न्यायातिक- यापदे सति वाक्यं निरपेक्ष भवेदित्यर्थः ॥ ७७ ॥ न हि नामसहस्रमपि क्रियया रहितं किमपि प्रतिपादयति ।
प्रतिपादकमेषु लिङादि भवे. द्विहितादिमतेर्जनकं हि यतः ॥८॥ क्रियापदयुक्ते वाक्ये नामपदानां नैरा पनिवेतत्सा- धयति-नहीति । क्रियया रहितं द्वाक्यं तर्हि नाम- सहस्रमपि अनेकमपि सुबन्त पदं किमपि न प्रतिपादयति कंचिदर्थमपि वोधयितुं न पर्याप्तमित्यर्थः । तर्हि किं प्रतिपाद- कमित्यत्राह- प्रतिपादकमिति । एषु वाक्यस्थपदेषु वाक्य- स्थानां पदानां मध्ये लिङादि लिङ्लोट्तव्यादिकमरुनामी- त्यादिकं वा क्रियापदं कस्यचिदर्थस्व प्रतिपादकं भवेत् । तदपि कथमित्यत्राह-विहितादिमतेर्जनकं हि या इति । विहितज्ञानस्य प्रतिषिद्धज्ञानस्य च विधिनिषेधगोचरवस्तुवि. षयज्ञानस्यापि जनकं हि यस्मादेव तस्माद्वाक्यार पानां संबन्धक्रमपर्यालोचनया विपरीतबोधकत्वं न संभक्तीपथः ।। भगवानपि मध्यममेव यतो विनियच्छति युष्मदि नित्यमतः । प्रथमं वभसीति पदे समित- चरम स्वसिना समियात्तदिति ॥
. प्रथमं त्वमसीति पदद्वयं परस्परं युजामुपैतीत्यस्मिन्नर्थे पाणिनीयं सूत्रमुपोद्वलयति- भगवानिति । पाणिनिर्भ- गवानपि मध्यममसिभवसीत्यादिकं मध्यमपदं नित्यं नियमेन युष्मद्येव विनियच्छति ' युष्मद्युपपदे समानाधिकरणे स्था. निन्यपि मध्यमः' इत्यनेन सूत्रेणासिभवसीत्यादिकं मध्यम. पुरुष सिसुन्तं पदं युष्मद्येव त्वंपदस्योपर्येव नियच्छति । यस्मादेवं तरमाप्रथमं त्वम सीति पदे परस्परं समितः परस्पर संयोग प्राप्नुतः चरमं पश्चादसिनासिपदेन तदिति पदं च समियासंयोगं प्राप्नुयादित्यर्थः ॥ ७९ ॥ पुलोऽभिहितस्त्वमसीति यदा किमसानि वदेति तदाभिमुखः । श्रवणाय भवेदणिमादिगुणं सदिति प्रकृतं तदसीति वदेत् ॥८॥ त्वमसीति पदद्वय संबन्धानन्तरमेव तदसी ने परद्वय. संबन्ध इत्यत्र युक्तिमाह--- पुरुष इति । तीवाकारण निर्दिष्टो ब्रह्माकारेण सर्वतः । अन्तर्वाहः पूरित वादिति वा पुरुषो भवेत् ॥' इति वचनात्पूर्णत्वात्पुरुषः । शिष्य- .
त्वेनाभिमत: पुरुषो गुरुणा यदा त्वमसीत्यमिहि तस्वदा शिष्यः किमसानि किं भवानि तद्वदेति श्रवणाभिमुखो भवेत् । तदनन्तरं गुरुः सदिाते प्रकृतं सदेवेत्यादिना प्रस्तु- तमणिमादिगुणं यद्ब्रह्म तदसीति वदेदुपदिशेदित्यर्थः ।।८।। त्वमिति ध्वनिनाभिहितस्य यत- स्तदिति श्रुतिवाच्यसदात्मकताम्। अवदद्वचनं तत एव सतो न हि जीवसतत्त्वकर्ता वदति ॥ वाक्यस्य विपरीतबोधकत्वासंभवमुपसंहरति- त्वमि ति । तत्त्वमसीति वचनं त्वमसीति ध्वनिनाभिहितस्य त्वं. पदलक्ष्यस्य प्रत्यगात्मनाक्षदिति श्रुतिवाच्यसदात्मकतां तत्प. दलक्ष्यब्रह्मात्मकतामवदवोधयतीति यतस्तत एव सतः प्रकृ- तस्य ब्रह्मणो जीवसतत्त्वकता त्वंपदवाच्यात्मकतां न वदति न बोधयति । तस्मात्तत्त्वमासवाक्यं विपरीतबोधकं च न भवेदित्यर्थः ।। ८१ ।। विषयाभिमुखानि शरीरभृतः खरसेन सदा करणानि यतः।
खकमेष न रूपमवैति ततः प्रतिबोध्यत एव ततो वचनैः ॥८॥ यदि जीवः सदाविकृतब्रह्मात्मकस्तर्युपदेशं विनवासी जीवः किमिति सर्वदाविकृतब्रह्मात्मकत्वं न जानीयादिति यत्पूर्ववादिना पूर्वमुदीरितं तत्परिहरति-विषयेति । शरीरभृतों जीवस्य करणानीन्द्रियाणि स्वरसेन स्वभावत एव सदा विषयाभिमुखानि विषयप्रवणानीति यतस्ततः कारणादेष जीवः स्वकं स्वारसिकं ब्रह्मत्वं नावैति न जाना- तीति यस्मात्तस्मात्तत्त्वमस्यादिवचनैः प्रतिबोध्यत एवोप. शान्तचिचस्य शिष्यस्य ब्रह्मत्वं बोध्यत इत्यर्थः ।। ८२ ॥ वचनं च पराश्चिपुरःसरकं बहु वैदिकमत्र तथा स्मरणम् । विषयेषु च नावमिवाम्भसि य- न्मनसेन्द्रियरश्मिविनिग्रहबत् ॥ गुणत्रयात्मकानामिन्द्रियाणामनात्मविषयत्वादात्मनो ब्र. मत्वमुपदेशमन्तरेण जीवो न जानीयादिति युक्तिं दर्शाय.
। त्वा, इदानी पराश्चि खानीत्यादिश्रुतिवचनमप्यत्र प्रमाणमि- त्याह-वचनमिति । अत्रास्मिन्नर्थे पराश्चिपुरःसरकम् 'पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति ना. न्तरात्मन् ' इत्यादि बहु वैदिकं नमरि प्रमाणं तथा स्मरणं स्मृतिश्च प्रमाणमित्यर्थः । स्मृति दर्शययुत्तरार्धेन- विषयेषु चेति । अम्मासि नावमित्र यथाम्भसि स्थितां नाव. मितस्ततो आयुयाते तथा विषयेषु चरतामिन्द्रियाणामनु यन्मनोऽनुविधीयते बहिविषयं प्रति गच्छति तन्मनोऽस्य निर्भाग्यपुरुषस्य प्रज्ञां हरति । तस्माद्यस्येन्द्रियाणि निगृही- सानि विषयेभ्यः प्रत्याहृतानि तस्य परमविकासन्यासिनो गुरूपदिष्टा विद्या सुप्रातष्ठिता सफला भवत् इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते । तदस्य हरति प्रज्ञा वायु वमिवाम्भसि ॥ तस्माद्यस्य महाशाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्राते छेता ॥' इति परमगुरोरच्युतस्य वाक्यं विषयेषु नावमिवेति सूचि- 'मनसैवेन्द्रियग्रामं विनियम्य समन्ततः । शनैः शनैरुपरमेदुद्धया धृतिगृहीतया ॥' इति वाक्य मनसैवेति सूचितम् । यदा संयच्छते रश्मीज्ञानानि मनसा सह । तदा प्रकाशते ह्यात्मा घटे दीपो ज्वलन्निव ॥' तम् । तथा इति वाक्यमिन्द्रियरश्मिविनिग्रहदिति सूचितम् । इन्द्रि- याणां पराविषयत्वादनाद्यज्ञानच्छन्नत्वाच्च स्वरूपस्य जीवा. स्मनो ब्रह्मत्वमुपदेशरान्तरेण न ज्ञायत इत्यभिप्रायः ॥ इयता हि न देहभृतोऽस्ति भिदा परमात्मटसोरिति वाच्यामिदम् । स्थितिकाल इहापि च सृष्टिमुखे सदनन्यतया श्रुत एष यतः ॥ ८४॥ ननु यदि जीवत्रिष्वपि कालेषु ब्रह्मस्वरूपस्तयेषा कल्प- ना स्यात् , न च तदस्तीत्याशङ्कय जीवस्य सदा ब्रह्मत्वे श्रुति प्रमाणयति- इयतेति । इयतैतावन्मात्रेण जीवस्य त्रिज्वपि कालेषु ब्रह्मत्वे प्रमाणं त्वया न दृष्टमित्येताव- न्मात्रेण देहभृतस्त्वंपदार्थस्य परमात्महशेः सकाशाद्भिदास्तीति न वाच्यं न वक्तव्यम् । कुतो न वक्तव्यमित्यत्राह-स्थितिकाल इति । इह स्थिते: काले पूर्व सृष्टि मुखे पुनः संहारकाले उपदेशात्पूर्व पश्चाद्वर्तमान कालेऽपीति यावत् । एषु त्रिष्वपि कालेब्वेष जीवः सदनन्यतया श्रुतः ब्रह्मणः सकाशादनन्यतया श्रुतः ‘ब्रह्मैव चिदात्मनः . सन्ब्रह्माप्येति' 'विमुक्तश्च विमुच्यते' इति । तस्माजीवः परमात्मनः सकाशादीषदपि भिन्नो न भवतीत्यर्थः ॥ ८४ ॥ द्वयमप्यविरोधि शरीरभृतो वचनीयमिदं रघुनन्दनवत् । उपदेशमपेक्ष्य सदात्ममतिः परमात्मसतत्वकता च सदा ॥८५॥ तहि जीवस्य सर्वदा ब्रह्मत्त्रमुपदेशापेक्षत्वं च विरुद्ध. मित्याशङ्कय तदुभयमविरुद्धमिति सदृष्टान्तमाह-द्वयामिति। शरीरभृतो जीवस्येदं द्वयमप्यविरोधीति वचनीयं वक्तव्यम् । किं तहयमित्यपेक्षायां तद्वयं दर्शयति उपदेशमपेक्ष्येति । श्रुत्याचार्योपदेशापेक्षया सदात्ममतिरात्मनो ब्रह्मत्वबुद्धिः सदा परमात्मसतत्त्वकता च जीवस्य त्रिध्वपि कालेषु ब्रह्मता चेत्येतदुभयमविरुद्धं वक्तव्यम् । तत्र दृष्टान्तमाह ---- रघुनन्दनवदिति । यथा राघवस्य परमार्थतो विष्णुत्वेऽपि रावणवधार्थ मायामानुपोपाधिवशादहं दशरथपुत्रो राघवो- ऽस्मीति शरीराभिमानी सन्स्वस्थ विष्णुत्वं न जानाति, पुनः कालान्तरे रावणवधादूर्व ब्रह्मादयो देवाः समागत्य स्तुति- -- व्याजेन रामस्य विष्णुत्वं बोधितवन्तः, तदा स्वस्य विष्णु. त्वं सम्यग्ज्ञातवान्रामः । तद्वत्राप्युपदेशापेक्षया जीवस्य ब्रह्मत्वं ज्ञायत इत्यर्थः ।। ८५ ।। सदुपासनमस्य विधेयतया वचनस्य मम प्रतिभाति यतः। अत एव न जीक्सदात्मकता प्रतिबोधयतीत्यवदत्तदसत् ॥ ८६ ॥ एवं वाक्यस्याखण्डेकवस्तुपरत्वमुपपायेदानी सिंहावलो- कनन्यायेनोपासनाविधिपरत्वपक्षमनूद्य दूषयति- सदि- ति । अस्य तत्त्वमसीति वचनस्य ‘सदुपारस्व' इति सदु- पासनं विधेयतया मम भातीति यतः, अत एव जीवस्य सदात्मकतां ब्रह्मात्मकतां न प्रतिबोधयतीति यत्पूर्वमवद. दवोचत्तदसदयुक्तम् । ८६ ।। सदुपास्स्व(?) इति श्रुतिरत्र न ते तदसि त्वमिति श्रुतिरेवमियम् ।
यत एवमतो न विधिस्तितता सदुपासनकर्मण इत्यभूषा ॥ ८७ ॥ कुतः कारणादुपासनापरत्वमयुक्तम् ? विधिपदाश्रवणा- दित्याह सिद्धान्ती- सदिति । अत्र तत्त्वमसिवाक्ये 'सदुपास्व' इति विधिपदश्रवणं नास्ति । तहि किम. स्तीत्यत्राह- तदसीति । तदसि त्वमित्थमियं वर्तमानोपदे- शिनी श्रुतिरिति यतस्ततः कारणात्स दुपासनकर्मणो विधि- त्सितता नास्त्येवेत्येतदमृषा मृषा न भवेन् । तस्माद्वाक्यमु- पासनाविधिपरं न भवेदित्यर्थः ॥ ८७ ॥ यदि तस्य कुतश्चिदिहानयनं क्रियते तदनर्थकमेव भवेत् पुरुषेण कृतस्य यतः श्रुतिता न भवेदिति वेदविदां स्मरणम् यद्येवं विधिपदाश्रवजादुपासनापरत्वं नास्ति तर्हि वि. विपदमध्याहरिष्यत इत्यत्राह--- यदीति । तस्य विधि- पदस्य कुतश्चित्प्रदेशादिहास्मिन्वाक्य आनयनं क्रियते यदि - ॥ marming विधिपदमध्याहरिष्यते यदि तर्हि तद्विधिपदमनर्थकमेव भवेत् । विधिपदाध्याहारे तस्यानर्थक्यं कथमित्यपेक्षाया- - पुरुषेण कृतस्य विधिपदस्य श्रुतिता न भवेद्वेद. स्यापौरुषेयत्वादिति वेदविदा स्मरणम् , तस्माद्विधिपदाध्या- हारो न युक्त इत्यर्थः ॥ ८८ ।। माह- किमरे पुरुष प्रतिबोधयितुं स्वकमर्थमशक्तमिदं वचनम् । यदतोऽन्यत आनयनं क्रियते भवता श्रवणेन विनापि विधेः । ननु तथापि वाक्यपरिपूर्तिहेतुत्वादध्याहारस्यानर्थक्यं कथं भवेदित्यत्राह-- किमिति । अरे इति नीचसं. बोधनम् । इदं तत्त्वमसिवचनं स्वकमर्थ प्रत्यग्ब्रह्म. णोरेकत्वं पुरुषमधिकारिणं प्रतिबोधयितुमशक्तमसमर्थ किं येनासामर्थ्यन अवणेन विनापि विधेरानयनं क्रियते तथा बाक्यमसमर्थ किमित्यावेष्टनम् । तस्माद्विधिपदाध्याहारमन्त- रेण वाक्यस्यार्थपरिपूर्तिहेतुत्वाध्याहारापेक्षा नास्तीत्यर्थः ।।
८२ श्रुतहानिरिहाश्रुतक्लुप्तिरपि श्रुतिवित्सभयो न भवेत्तु यतः । श्रुतिभक्तिमता श्रुतिवक्त्रगतं ग्रहणीयमतो न तु बुद्धिवशात् ॥ पुनरपि विधिपदाध्याहारो न युक्त इत्यत्र हेत्वन्तरमाह- भुतहानिरिति । इह विधिपदाध्याहारपक्षेऽयमपि महा- न्दोष: स्यात् , श्रुतहानिर्यथाश्रुतार्थपरित्यागः,अश्रुतक्लप्तिरपि अश्रुतार्थपरिकल्पना च, श्रुतिवित्समयो न भवेद्वेदार्थविदां सिद्धान्तोऽपि पतेत् । यत एवमतः कारणात् श्रुतिभाक्ति. मता श्रुतौ गौरवाच्छ्रतिवक्त्रगतं श्रुतिमुखादुद्गतं .. यत्तदेव ग्रहणीयं न तु बुद्धिवशात्स्वमनीषया किंचिदपि परि. कल्पचितव्यमित्यर्थः ॥ ९०। पुरुषस्य शरीरगतात्ममति मृतिसंभवहेतुमनर्थकरीम् ।
अपनीय सदात्ममति दद्धती महते पुरुषस्य हिताय भवेत् ॥९१॥ एवं तावत्तत्त्वमसिवाक्ये विधिपदाश्रवणाद्विधिपदाध्या- हारस्य चान्याय्यत्वात्तद्वाक्यमुपासनाविधिपरं न भवेत् , किं त्वखण्डै करसवन्तुपरमिति साधितम् । तत्रेदमाशङ्कयते- तत्वमसिवाक्यस्य वस्तुपरत्वे वस्तुनो. हानोपादानाविषय- त्वात्पुरुषार्थरहितं वाक्यं प्रसज्येत । विधिपरत्वे तु पुरुष- प्रवृत्तिः प्रयोजनं प्रयोजनस्य प्रवृत्तिनिवृत्तिसाध्यत्वादिति । तदयुक्तमिति सिद्धार्थवादिनो मन्यन्ते, वस्तुपरत्वे त्वशे- पानर्थमूलाज्ञाननिवृत्तिः परमपुरुषार्थो विद्यत एवेत्याह सिद्धान्ती- पुरुषस्वेति । पुरुषस्यानेकानर्थकरी मृतिसं. भवहेतुं शरीरंगतात्ममतिमपनीय पुरुषस्य जीवस्य सदा- त्ममतिं दधती श्रुतिमहते हिताय भवेद्वाक्य जनितज्ञानस्य मोक्षहेतुत्वादित्यर्थः ॥ ९ ॥ विनिवर्तत एव शरीरगता विपरीतमतिः पुरुषस्य तदा ।
वचनेन तु तत्वमसीति यदा प्रतिबोध्यत एष त इत्यपि च ॥९२॥ नन्वेवमपि तत्त्वमसिवाक्यस्य पुरुषार्थहेतुत्वमनुपप. नम् , महता प्रयत्नेनाहर्निशं तत्त्वमसिवाक्यमसकृच्छ्रुतव- तामप्यस्माकमनर्थहेत्वज्ञाननिवृत्तेरदर्शनादित्याशङ्कय, पापा- च्छन्नबुद्धीनां कुतार्किकाणामेवैतत् , न तु भगवद्भक्तानां परमहंसानाम् , तेषां क्षीणकल्मषत्वात्सकृच्छ्रवणादप्यनुभव. पर्यन्तज्ञानोत्पत्तिसंभवादित्यभिप्रायेणाह-विनिवर्तत इति । यस्मादधिकारिणः प्रमितिजनको वेदस्तस्मात् ' तत्वमसि 'अयमात्मा ब्रह्म' 'एष त आत्मा' 'प्रज्ञानं ब्रह्म' इत्यादि. महावाक्यैर्येन यदा शिष्यत्वेनाभिमतः पुरुष एवं प्रतिबो . ध्यते- नासि त्वं देहेन्द्रियप्राणाहंकारसंघातस्तेषां घटादि. वदृश्यत्वात् , नापि संसारी त्वं त्वाये प्रतीयमानस्य सुख- दुःखादेरन्तःकरणोपाधिनिबन्धनत्वात् , किं तर्हि स्वरूपम् ? यत्सर्ववेदान्तप्रतिपाद्यमद्वय सदानन्दप्रत्यग्बोधरूपं वस्तु तदेव त्वमिति परमकारुणिकेन गुरुणा प्रतिबोध्यते ; तदैवोत्तमा- धिकारिणः शिष्यस्य शरीरगता विपरीतमतिर्विनिवर्तत एव , अनात्मन्यात्मबुद्धिर्दिनिवर्तते । तस्माद्वाक्यजनिवज्ञानेनाज्ञा.
नतत्कानिवृत्तौ निरतिशयानन्दाविर्भावलक्षणस्य प्रयोजनस्य
विद्यमानत्वाद्वस्तुपरत्वे धाक्यस्य पुरुषार्थ पर्यवसायित्वम-
स्त्येवेत्यर्थः ॥ ९२ ॥
यदि नापनयेच्छ्रुतिरात्ममति
पुरुषस्य शरीरगतामनृताम् ।
तदहमतिहेतुककर्मगति
सुखदुःखफलामवशोऽनुभवेत् ॥ ९३ ॥
यदि पुनम्तत्त्वमसिवाक्यमज्ञाननिवर्तकं न भवेत्तर्हि
जननमरणादिलक्षणः संसारो दुर्निवारः स्यादिति विपक्षे
दोषमाह- यदीति । पुरुषस्य शरीरगतामनृतात्ममति
श्रुति पनयेद्यदि अनात्मन्यात्ममति न निवर्तयेदि नहि
सुखदुःखफलामहंमतिहेतुकस्य कर्मणो गतिं सुरनरतिर्यगा.
दिप्राप्तिरूपामवशोऽनुभवेत् । तस्माद्वाक्यजन्यज्ञानेन निवृ-
सायामविद्यायां तत्कायस्य संसारस्यापि निवृत्तिसंभवाशक्य-
स्याखण्डेकरसवस्तुपरत्वे निरवधपुरुषार्थसाधनत्वं संभवतो.
त्यर्थः ॥ ९३ ॥
यदि तत्त्वमसीति वदेद्वचनं
सदुपासनकर्म न तत्वमिति ।
पुरुषस्य फलं सदुपासनतो
विमृशामि भविष्यति कीहागति ॥
एवं वाक्यस्य वस्तुपरत्वे निरवद्यफलत्वमुपपाद्य विधि-
परत्वे तु वाक्यस्य फलाभावं दर्शयति- यदीति । तत्त्व.
मसीति वचनं सदुपारस्वेति सदुपासनालक्षणं कर्म वदेद्यदि
सत्त्वमसीति जीवपरयोरेकत्वं न बोधयेद्यदि तर्हि ब्रह्मो.
पासकस्य पुरुषस्य सदुपासनत: कीहक्फलं भविष्यतीति
विमृशामि । उपासनापरत्वे न किंचिदपि फलं भविष्यती.
त्यर्थः ॥ ९४ ॥
पुरुषस्य तु मर्त्यगुणस्य भवे-
त्तदुपासनया न सदात्मकता ।
न कथंचिदपि प्रजहाति यत:
प्रकृति सहजामिह कश्चिदपि ॥१५॥
- किमत्र विमर्शनेन ? ब्रह्मोपासकस्य ब्रह्मणोऽत्यन्तभिन्न स्यापि ब्रह्मणकत्वापत्तिरेव फलं भविष्यतीत्याशयाह पुरुषस्येति । मर्त्यगुणस्य परमार्थतो मर्त्यधर्मयुक्तस्य पुरु. वस्य सदुपासनया सदात्मकता न भवेत् , सद्रूपब्रह्मप्राप्ति- नं भवेत् । तत्र हेतुमाह- न कथंचिदपीति । इह कश्चिदपि : सहजां निनसिद्धां प्रकृति स्वभावं न जहाति न परित्यज : नीति यतस्ततः कारणात्सदुपामनया सद्रूपप्राभिर्न भवती. सर्थः ॥ १५॥ . यदि देहभृदेष सदात्मकता प्रगमिष्यति वै सदुपासनया । न न हास्यति रूपमसौ हि निजं यत ऐक्यमतिनं भवत्युभयोः ॥९॥ उपासनापरत्ववादिमते बन्धस्य सत्यत्वावगमादात्मनो मर्त्यस्वभावस्याग्न्योष्ण्यवानिवृत्त्यसंभवादमृतलक्षणब्रह्मप्रापि. रुपासनाफलं न भवेदित्युक्तम् । इदानीं यदि पुनरभिनिवे. शमात्रेण ब्रह्मप्राप्तिरेवोपासनाफलं कल्प्यते तहिं जीवस्य वरूपहानिरत्यन्तविरुद्धस्वभावयोरक्यासभंगदिल्याह, सि- ८८ बान्ती- यदीतिः । एष देहभृज्जीवः सदुपासनया ब्रह्मोपासनमा सदात्मकतां प्रगमिष्यति यदि, तीसो जीवो निजं मर्त्य स्वभाव न न हास्यति किं तु हास्यत्येव । तत्र हेतुः- यत इति । उभयोरत्यन्तविलक्षणयोविरुद्ध स्वभावत्वाडेक्यमतिर्न भवति । एकत्वलक्षणफलाङ्गीकारे मर्यत्वलक्षणायाः प्रकृतेः परित्यागसंभवात्तत्परित्यागे च स्वरूपस्यापि नाशप्रसङ्गाज्जीवस्य ब्रह्मत्वापत्तिरुपासनाफल- मिति न वक्तव्यम् , मर्त्य स्वभावपरित्यागे चान्यस्यान्यात्म- कतायोगादुभयथापि ब्रह्मप्राप्तिरुपासनाफलं न भवेदित्यर्थः । नान्यदन्यद्भवेत्तस्मानान्यदन्यद्विचिन्त. येत् । अन्यस्यान्यात्मभावे हि नाशस्तस्य ध्रुवो भवेत् ॥ इति ।। ९६ ॥ स्सविद्धमयः प्रकृति सहज प्रविहाय यथा कनकत्वमियात्। तदुक्तमाचार्य: पुरुषोऽपि तथा सदुपासनया प्रतिपत्स्यत एव सदात्मकताम् । ननु स्वरूपनाशेन विनापि डोके रसविद्धस्यायसः कन.
८९ कत्वप्राप्तिईष्टा, तदत्रापि मर्त्यस्वभावविनाशेऽपि जीवस्य स्वरूपनाशमन्तरेण ब्रह्मत्वापत्तिः फलं भवतीति चोदयति पूर्ववादी- रसविद्धमिति । रसविद्धमयः स्वनाशमन्तरेण सहजा प्रकृतिमयस्त्वं प्रविहाय कनकत्वं यथेयात्प्राप्नुयात् , तथा पुरुषोऽपि सदुपासनया · अहं ब्रह्मास्मि' इति संत. वोपासनया बनाशमन्तरेण महजं मर्त्यत्वं प्रविहाय सदा. त्मकतां प्रतिपत्म्यत एवेति यस्मात्तस्माद्वाक्यजनित सम्यग्ज्ञा- नमन्तरेणापि सदुपाचनाकर्मणैव जीवस्य ब्रह्मप्राप्तिः संभ वतीति चोद्यवादिनोऽभिप्राय: ।। ९७ !! अयसोऽवयवानभिभूय रसः स्थितवाननलानुगृहीतिमनु । कनकत्वमति जनयत्ययसि प्रतिपन्नमयो न तु काञ्चनताम् ॥ एष दृष्टान्तो विद्वत्संप्रतिपन्नो न भवति, अयसः कन- कत्वस्य भ्रान्तित्वादिति परिहरति सिद्धान्ती- अयस इति । अयस्रोऽवयवानभिभूयाच्छाद्य स्थितवान्रसोऽनला- नुगृहीतिमनु अनौ प्रक्षेपणानन्तरं तदनुग्रहबलादयसि मेहे ९० केवलं कनकत्वमति जनयति भ्रान्तानां तत्र स्वर्णबुद्धि- मुत्पादयति । अयस्तु पुन: काश्चनतां न प्रतिपन्नं न प्राप्त मित्यर्थः ॥ ९८॥ उदकावयवानभिभूय पयो रजतावयवांश्च यथा कनकम् । विपरीतमति जनयत्युदके रजते च तथायसि हेममतिम् ॥ एतमेवार्थ दृष्टान्तेन स्पष्टयति-- उदकेति । यथा पयो दुग्धमतिमुदकावयवानभिभूयाच्छाद्योदके जनयति, यथा च कनकं रजतावयवानभिभूय रजते कनकत्वमर्वि जनयति, तथा रसोऽध्ययमोऽवयवानभिभूयायसि हेमबुदि जनयति, हेममतिमेव केवलं जनयति न तु हेम करोति । यस्मादेवं तस्मादयसः काञ्चनत्वं भ्रान्तिपरिगृहीतमित्यर्थः ।। रसवीर्यविपाकविनाशमनु प्रविनश्यति काश्चनताप्ययसः ।
कृतकं हि न नित्यमिति प्रगतं समवेतमवश्यमपति यतः ॥ १००।। इतश्चायसः काञ्चनत्वं भ्रान्तिमात्रम् , रसवीर्यविपाक- नाशे काचनप्रतीत्यभावात् । तद्भावस्यागन्तुकस्यावश्यं वस्त्रादिवदमित्यतानुमानादित्याह -- रसवीर्येति । अयसः काञ्चनत्वभ्रान्तिरपि रसवीर्यविपाकविनाशमनु प्रविनश्यति । रसवीर्यविषाकस्य विनाशे काञ्चनत्वप्रतीतिरपि नश्यति । तत्र हेतुं कथयति- समवेतमिति । समवेतं कार्यमवश्य. मपैति विनयतीति यतोऽतः। तत्र व्याप्तिं दर्शयति- कृतकं हीति । कृतकं कार्यमुद्भूतं वस्तु नित्यं न भवतीति प्रगतं वस्त्रादौ प्रसिद्धमिति यस्मात्तस्मादयसः काञ्चनत्वं भ्रान्तिसिद्धमित्यर्थः ॥ १० ॥ अमृतत्वमसत्पुरुषस्य यादि क्रियते सदुपासनया यजिवत् । यजिकार्यवदन्तवदेव भवे- स्कृतकस्य यतो विदिताध्रुवता ॥
९२ एवमन्यस्यान्यात्मकत्वस्य भ्रान्तिमात्रत्वात्परमार्थतोऽ- न्यस्यान्यात्मत्वासंभवान्मय॑स्वभावस्य जीवस्य सदुपासन. कर्मणामृतत्वलक्षणब्रह्मप्राप्तिन संभवतात्युक्तम् । तत्रेदमाश- ज्यते--- अमृतत्वं नाम प्रागविद्यमानमेवोपासनाकर्मसा. ध्यं भविष्यति यागादिसाध्यस्वर्गादिकफलवदित्यत्राह सि- द्धान्ती- अमृतत्वमिति । यजिवद्यागादिवत्पूर्वमसदेवा- मृतत्वं पुरुषस्य सदुपासनया क्रियते संपाद्यते यदि तर्हि यजिकार्यवत्स्वर्गादिवदन्तवदेव भवेत् । तत्र हेतुमाह-- कृतकस्येति । कृतकस्य कार्यस्याध्रुवतानित्यता स्वर्गादिफले विदिता विज्ञाता 'तद्यथेह कर्मचितो लोकः क्षीयते एव. मेवामुत्र पुण्यचितो लोकः क्षीयते' यद्भावत्वे सति कृतकं तदनित्यं यथा घट इति श्रुत्यनुमानाभ्यां सिद्ध कृतकस्या. नित्यत्वम् । तस्मादमृतत्वस्य क्रियामाध्यत्वे तस्य विना- शित्वमवश्यं भवेदित्यर्थः ॥ १०१ ।। पुरुषस्य सतश्च विधर्मकयोः सदुपासनया न भवेत्समितिः।
९३ -- यदि संगतिरिष्यत एव तयो. रवियुक्ततया न चिरं वसतः ॥१०२॥ ननु यागमाध्यस्वर्गादिवत्तन्मा भूदुपासनाफलम् , जीव- ब्रह्मणोः संयोगाख्यं फलं भविष्यतीत्याशङ्कचाइ- पुरुष- स्येति । विधर्मकयोः संसारित्वासंसारित्वादिविरुद्धधर्म- कयोः पुरुषस्य सतश्चेत्येतयोः सदुपासनया ब्रह्मोपासनक- मणा समिति: संगतिर्न भवेत् । विपक्षे दोषमाह- यदी- ति । तयोः संगतिरिष्यते यदि सीवियुक्ततया संयुक्ततया चिरं न वसतः, योगो विप्रयोगान्तः' इति न्यायात्, उपासनापरत्वपक्षे विनाशरहितं फलं नास्तीत्यर्थः ॥१०॥ फलमीहगिदं सदुपासनतः पुरुषस्य भविष्यति नान्यदतः । न च तन्निरवद्यतयाभिमतं विदुषां बहुदोषसमीक्षणतः ॥१.३॥ मोक्षस्य चतुर्विधक्रियाफलविलक्षणत्वादुपासनाख्यं कर्म मोक्षसाधनं न भवेदित्याह---- फल मिति । सदुपासनतो ब्रह्मोपासनकर्मणा पुरुषम्योपामकस्येदमीहगेतादृशमेव फलं भविष्यति, अतोऽन्यन्नित्यं नास्ति । यद्यन्यत्फलं कल्प्येत तदपि फलं निरवद्यतया निर्दुष्टतया विदुषां नाभिमतम् । कुतो नाभिमतमित्यत्राह--- बहुदोषसमीक्षणत इति । सा- धनसाध्यस्य सर्वस्यानित्यत्वजहत्वादिदोषदर्शनादित्यर्थः ।। सदुपासनकर्मविधानपरं न भवेदत एव हि तद्वचनम् । अहमस्मि शरीरमिदं च ममे- त्यविवेकमर्ति विनिवर्तयति ॥१०४॥ एवं तावत्तत्त्वमसिवाक्यस्योपासनाविधिपरत्वे समीची- नफलामावादुपासनापरत्वमयुक्तमित्युक्तम् । इदानीं कि तह युक्तमित्यपेक्षायां यथावस्थितवस्तुबोधकल्लयाज्ञाननिवृत्तिद्वा- रेण मोक्षसाधनत्वमेवेत्याह सिद्धान्ती--- सदुपति । सत श्वोपासनापरत्वे निरवद्यफलाभावादेव तद्वचनं तत्त्वमसि- वाक्यं सदुपासनकर्मविधानपरं न भवेत् । तर्हि तद्वाक्यं किंफ्रमित्यत्राह- अहमस्मीति । इदं शरीरमहमस्मीति मनुष्योऽहं ब्राह्मणोऽहं क्षत्रियोऽहं व्रती संन्यासीति शरी- सदिष्वहंवुद्धिम् , इदं शरीरं मदीयमिति शरीरगतात्भीय- बुद्धिं च विनिवर्तयति, अनात्मविवेचनतयात्मज्ञानमुत्पाद- यतीत्यर्थः ॥ १०४॥ सकलोपनिषत्सु शरीरभृतः परमात्मपदकविज्ञक्तितया । उपदेशवचांस्यनयैव दिशा ममयेन्मतिमानभियुक्ततया ॥१०५॥ एवं तत्त्वमसिवाक्यस्याखण्डैकरसवस्तुपरत्वमुपपादि. तम् । इदानीं सर्वशास्रोपनिषद्गतानि महावाक्यान्यप्यनयेव दिशा योजवितव्यानीत्याह सकलेति । शरीरभृतो जीव. बायकपदम्य परमात्मपदकविभक्तितया परमात्मवाचकपदे. नेकविभक्तिवया सामानाधिकरण्येन सकलोपनिषत्सु विद्य- मानानि यान्युपदेशवचांस्येकत्वप्रतिपादकानि वाक्यानि ता. न्यपि मत्तिमानुपनिषदां शक्तितात्पर्यज्ञोऽनयेव दिशोक्तेन मार्गेण यथा तत्त्वमसिवाक्यस्य गुणवादस्तुतिविपरीत- बोधकत्वोपासनापरत्वनिरासेन जीवपरैक्यबोधकत्वमुपपा- दिवं तथाभिमुक्ततया प्रामाण्येन गमयेदुन्नयेदित्यर्थः ॥ -
द्रविडोऽपि च तत्त्वमसीति वचो
विनिवर्तकमेव निरूपितवान् ।
शबरेण विवर्धितराजशिशो-
निजजन्मविदुक्तिनिदर्शनतः ॥
संप्रदायविद्वचनमप्यत्र प्रमाणमित्याह- द्रविड इति ।
द्रविडाचार्यश्चोपदेशसाहस्रयाम् ' श्रुतिस्तत्त्वमसीत्याह श्रोतु.
मोहापनुत्तये' इत्यादिना तत्त्वमसीति वचस्तत्त्वमसीति
वाक्यमज्ञानस्य निवर्तकमेवेति निरूपितवान् । तत्र दृष्टान्त
दर्शयति - शबरेणेति । कुराश्चित्कारणादरण्यं प्राप्तस्य शब.
रेण विवर्धितस्य राजशिशोः राजपुत्रस्य निजं जन्म वेत्तीति
निजजन्मविद्यः शबरस्तस्योक्तिर्यथा राजपुत्रस्य राजपुत्रत्वा.
ज्ञाननिवर्तिका, तन्निदर्शनतस्तदृष्टान्तत्वेन तत्वमसिवाक्य.
स्याज्ञाननिवर्तकत्वं निरूपितवामित्यर्थः।। १०६ ॥
यत एवमतः स्वशरीरगता-
महमित्यविवेकमर्ति सुदृढाम् ।
९७ प्रविहाय यदक्षरमद्वयक त्वमवेहि तदक्षरमात्मतया ॥१०७॥ यस्मात्तत्त्वमसिवाक्यमज्ञाननिवर्तकं तस्मात्त्वं देहादिष्व. हममाभिमानं परित्यज्याखण्डवाक्यार्थज्ञानानुकूलतया वर्त. स्वेति शिष्यं शिक्षयति गुरु:- यत इति । यत एवं यस्मादेवं वाक्यमज्ञाननिवर्तकं तस्मात्कारणास्वशरीरगता सुदृढामहममेत्यनादिसिद्धामविवेकमति प्रविहाय परमद्वयं सजातीयविजातीयनानात्वरहितं न क्षरतीत्यक्षरं यद्ब्रह्म तदात्मतयावेहि स्वस्वरूपत्वेन जानाहीत्यर्थः ।। ततः न मनो न मतिः करणानि च नो न रजो न तमो न च सत्वमपि । न मही न जलं न च वहिरपि श्वसनो न नभश्च पदं परमम् ।। अमनस्कमधीकमनिन्द्रिय विरजस्कमसत्वतमस्कमपि । 7 ९८ अमहीजलवयनिलाम्बरकं परमक्षरमात्मतयाश्रय मोः ॥१०९॥ त्वमवेहि तदक्षरमात्मतयेति प्रत्यग्ब्रह्मणोरेकत्वमुक्तम् । तसिद्धयर्थ तत्त्वंपदार्थपरिशोधनं करोति श्लोकषट्केन । तत्र न मनो न मतिरित्यादिश्लोकद्वयेन तत्पदार्थपरिशोधन क्रियते । तत्राद्यश्लोकेन तत्पदलक्ष्यस्य ब्रह्मणो मनआदिवे. लक्षण्यं साधयति, द्वितीयश्लोकेन मन आदिना संबन्धरा. हित्यं दर्शयतीति विभागः । नेति । न मनो न मतिरित्या. विश्लोकदयस्यायं भावः- मनआदिकमात्मा न भवति, दृश्यत्वाकरणत्वात्कार्यत्वाद्विभक्तत्वाज्जडत्वात्परिच्छिन्नत्वात् आद्यन्तक्त्त्वाच्च ; एवं मनआदेरनात्मत्वे सिद्धे तत्साक्षिण आत्मनो निरवयवत्वादसङ्गस्वभावत्वादहकारममकारादिरा- हित्याञ्च नित्यत्वं शुद्धत्वं बुद्धत्वं मुक्तत्वमविलुप्तहस्वरूपत्वं च सिद्धम् । यदेवंभूतं परमक्षरं तदाश्रयात्मतयेत्युपदेशप्र. कारः ॥ १०८, १०९॥ करणानि हि यद्विषयाभिमुखं प्रगमय्य मतिर्विषयेषु चरेत् ।
९९ तदु जागरितं प्रवदन्ति बुधा न तदस्ति ममेत्यवगच्छ दृशेः ॥ - इदानीं त्वंपदार्थपरिशोधनाय जागरितावस्थां दर्शयति- करणानीति । मतिः करणानीन्द्रियाणि विषयाभिमुख यथा भवन्ति तथा प्रगमय्य प्रापय्य विषयेषु चरेदिति यत्तद्धि बुधा जागरितं प्रवदन्ति । दृशेईग्रूपस्य स्वयंप्रभस्य मम तज्जागरितं नास्तीत्यवगच्छ जानीहीत्यर्थः ।। ११०॥ । करणानि यदोपरतानि तदा विषयानुभवाहितवासनया । विषयेण विना विषयप्रतिम स्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ . इदानी स्वप्नावस्थां दर्शयति-करणानीति । जान- स्थितिनिभिसकर्मक्षये यदा करणानीन्द्रियाण्युपरतानि बाह्य- विषयेभ्यो विनिवृत्तानि तदा बाह्यविषयेण विना केवलं विषयानुभवाहितवासनयानुभवजनितसंस्कारमात्रेण विषय. प्रतिम स्फुरणं स्वप्नं प्रवदन्ति बुधाः। उपसंहृतकरणस्य
जाग्रद्वासनानिमित्त तथाविधहस्त्यश्वरथादिविषयं ज्ञानं स्वप्न
इत्यर्थः ।।.१११॥
करणस्य धियः स्फुरणेन विना
विषयाकृति केन तु या स्थितता ।
प्रवदन्ति सुषुप्तिममुं हि बुधा
विनिवृत्ततृषः श्रुतितत्त्वविदः ॥११२॥
इदानीं सुषुप्त्यवस्था दर्शयति- करणस्येति । करणस्य
धियोऽन्तःकरणरूपाया बुद्धर्विषयाकृतिकेन विषयाकारण
स्फुरणेन विना या स्थितता, अमुं निर्विषयां स्थिति सुषुप्ति
वदन्ति बुधाः । कीदृशाः? विनिवृत्ततृष: आरोपितस्य निषे.
ध्यत्वे सति दृष्टानुअविकविषयेभ्यो विनिवृत्ता तृट् तृष्णा
येषां ते विनिवृत्तवृषः एषणात्रयरहिताः परमहंसाः 'सत्वं
ज्ञानमनन्तं ब्रह्म' इत्यादिश्रुतिषु प्रतिपादितं यत्तत्त्वं तद्वि-
दन्तीति श्रुतितश्वविदस्ते ब्रह्मज्ञानिनो वदन्तीत्यन्वयः ।
बुद्धः स्वकारणोपरमं सुषुष्टि प्रवदन्तीत्यर्थः ॥ ११२ ॥
१०१ इति जागरितं वपनं च धियः क्रमतोऽक्रमतश्च सुषुप्तिरपि । न कदाचिदपि त्रयमस्ति ममे- त्यवगच्छ सदास्मि तुरीयमिति ॥ एवमवस्थात्रयं दयित्वा इदानीं तत्साक्षिणश्चिदात्मनो. ऽवस्थात्रयराहित्यं दर्शयति- इतीति । इत्थं क्रमतोऽक्र- मतश्च यातायात वर्तमान जागरितं स्वपनं सुषुप्तिरपत्येित- दवस्थात्रयं धिय एव धीधर्म एव, तत्साक्षिणश्चिदात्मनो मम कदाचिदपीदमवस्थात्रयं नास्तीत्यवगच्छ । किं च सदा देहेन्द्रियमनसां प्रसारे प्रशान्तावपि स्वयंप्रकाशपरमानन्द- चिद्धनमवस्थात्रयातीतं तुरीयं पदं तदेवाहमस्मीत्यवगच्छ । तदुक्तमाचार्यैः- 'सुषुप्तिजाप्रत्स्वपनं च दर्शनं न मेऽस्ति . किंचित्स्वमिवेह मोहनम् । स्वतश्च तेषां परतोऽप्यसत्त्वत- स्तुरीय एवास्मि सदा हंगद्वयः ।।' इति । एवं जानीही. त्यर्थः ॥ ११३॥ यदु जागरितप्रभृति त्रितवं परिकल्पितमात्मनि मूरपिया।
अभिधानमिदं तदपेक्ष्य भवे- स्परमात्मपदस्य तुरीयमिति ॥११४॥ नाय. यद्येवं तस्यात्मनस्तुरीयत्वं नाम चतुर्थत्वं परमार्थतो. जीकृतं स्यात् , ततश्चात्मनो निर्विशेषत्वं कथं स्यादित्या. शवयावस्थालयमपेक्ष्य तुरीयत्वमित्याह तस्यासत्यत्वकथ. यद्विति । मूढधियाविवेकिना प्रत्यगात्मनि यजा- गरितप्रभुति त्रितयं परिकल्पितं तदवस्थात्रयमपेक्ष्य परमा. त्मपदस्य तुरीयमितीदमभिधानं भवेत् । यस्मात्तुरीयत्वं साकाई तस्मात्तुरीयशब्दवाच्यमवस्थान्तरं वस्तुतो नास्ति । भग्रहणान्यथाग्रहणरहितं स्वयंप्रकाशपरमानन्दचिद्धनं पर- मात्मतत्त्वं तुरीयशब्देन विवक्ष्यते, न तु तुरीयमित्यवस्था- न्तरम् । ततश्चात्मा निर्विशेषः सिध्यतीत्यभिप्रायः ॥ ११४॥ यदपेक्ष्य भवेदभिधानमिदं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणश्च ततः परिनिर्मितवारणचेष्ठितवत् ५ ११५ ॥
१०३
नन्ववस्थात्रयमपेक्ष्य तुरीयत्वं भवतु, तथापि तत्सत्यं
भविष्यतीत्याशय, अवस्थात्रयस्य मायामयत्वात्तदपक्षितं
तुरीयत्वमपि तथाविधमेवेत्यभिप्रेत्याह- यदिति । यदव.
स्थात्रयमपेक्ष्य परमात्मपदस्य परमात्मवस्तुनः तुरीयमितीद.
माभिधानं भवेत्तदवस्थात्र यमसत्यम् । अवस्थात्रयस्यासत्यत्वे
हेतुमाह- असत्यगुण इति । असत्यस्य मनसो गुणो
धर्म इति यस्मात्तस्मादयस्थात्रयमसत्यम् । असत्यधर्मस्या-
सत्यत्वे दृष्टान्तमाह-
परिनिर्मितेति । मत्तगजाकीर्ण वन-
प्रदेशे संचरता गजभीरुणा केनचिद्जपरिमितपाषाणे समा.
रोपितस्य वारणस्य चेष्टितं करचरणादिमत्वं तच्चेष्टितं च
मददसत्यं तदन्मायामयस्य मनसो गुणत्वावस्थात्रयमप्य.
सत्यम् । तथा च तदपेक्षितं तुरीयत्वमपि परमात्मव्यति-
रेकेण वस्तुतो नास्तीत्यभिप्रायः ।। ११५ ॥
गगनप्रमुखं पृथिवीचरम
विषयेन्द्रियबुद्धिमनःसहितम् ।
जनिमजगदेतवभूतमिति
श्रुतयः प्रवक्त्युपमानशतेः ॥१६॥
असत्यमनोधर्मत्वाजागरितादित्रयमप्यसत्यमित्युक्तम् । इदानी तत्साधनाय मनआदिजगतोऽसत्यत्वं साधयति- गगनेति । गगनप्रमुखं पृथिवीचरमम् आकाशमारभ्य पृथिव्यन्तं विषयेन्द्रियबुद्धिमानःसहितमेतत्सर्व जगजात. मभूतमसत्यमिति श्रुतय उपमानशबैः प्रवदन्ति । मन- आदिजगतो दृष्टान्तशतेन जनितत्वान्मिथ्यात्वं कथयन्ति श्रुतय इत्यर्थः ॥ ११६ ॥ कफपित्तसमीरणधातुधृतं कुशरीरमिदं सततं हि यथा । प्रभवप्रभृति प्रलयान्तमिदं जगदग्निरवीन्दुधृतं हि तथा ॥११७॥ तत्र दृष्टान्तं दयितुमुपोद्धातं करोति-कफेति । प्रतिपाद्यमर्थ बुद्धौ संगृह्य प्रागेव तदर्थमर्थान्तरवर्णनमुपो- हात इति लक्षणहरुपदिष्टामुपोद्धातप्रक्रियामाश्रित्य मनआ- देरनृतत्वं साम्यते । इदं कुशरीरं कुत्सितं शरीरं यथा सततं कफपित्तसमीरणथातुधृतं वातपिचश्लेष्माख्यस्य धातोवैषम्ये सति शरीरस्य नाशदर्शनानिधातवैषम्याभावे च स्वास्थ्य- दर्शनाच्छरीरं कफपित्तसमीरणधातुधृतमित्युच्यते । यथायं दृष्टान्तस्तथा प्रभवप्रभृति प्रलयान्तमिदं जगदग्निरवीन्दुभि. धृतम् , अग्न्यादीनां ज्योतिषामन्यतमस्याप्यभावे जगदन्ध तमो भवेत् , ततश्च जगतः स्थितिरपि न स्यादित्यभि. प्रायेण जगदमिरवीन्दुधृतमित्युच्यत इत्यभिप्रायः ॥११॥ जगतः स्थितिकारणमित्थमिदं प्रथितं रविवाहिशशित्रितयम् । स्कृतिवेदजनेषु भृशं प्रथितं श्रुतिरीरितवत्यनृतं तदिति ॥ ११८ ।। कुशरीरधारकधातुंत्रितयवज्जगद्धारकस्याग्न्यादित्रितयस्या- सत्यत्वं श्रुतिर्दृष्टान्तेनोक्तवतीत्याह- जगत इति । इत्थमु. केन प्रकारेण तद्रविवह्निशशित्रितयं जगस्थितिकारणमिति स्मृतिवेदजनेषु प्रथितं प्रसिद्धम् ' एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतो तिष्ठतः' 'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यानं चतुर्विधम् ॥ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । पचन्द्रमसि यचाग्नौ तत्तेजो विद्धि मामकम् ॥' । , अमो .
प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टि- पृष्टेरनं ततः प्रजाः ॥' इति वेदस्मृतिविद्वज्जनेषु जगस्थि- तिहेतुतया प्रथितं यदग्न्यादित्रितयं तदग्न्यादिकमनृतमिति श्रुतिरीरितवत्युक्तवतीत्यर्थः ॥ ११८ ।। यदु रोहितशुक्लसुकृष्णमिदं ज्वलनादिषु रूपमवैति जनः । तदु तेजसमाप्यमथान्नमिति ब्रुवती त्रयमेव तु सत्यमिति ॥११९॥ कथमन्यादिवितयस्यानृतत्वं श्रुतिरुक्तवतीत्याकाङ्खायां भुतेरुक्तिप्रकारं दर्शयति यदु रोहित शुक्लसुकृष्णमित्यारभ्य अनयोपमयानृततामवदच्छ्रुतिरग्निदिवाकरचन्द्रमसामित्यन्तेन ग्रन्थेन । यदिति । यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुळं तदपां यत्कृष्णं तदन्नस्य' इति च्छान्दोग्यश्रुतिर्खलनादि. ध्वनुगतं यद्रोहितशुक्लकृष्णमिदं रूपं जनोऽवैति जानाति । तेषां रूपाणां मध्ये यद्रोहितं रूपं तत्तैजसं तेजःसंवन्धि वत्तेजसः कारणं रोहितमित्यर्थः । तेषां मध्ये यच्छुलं तदा प्यमप्सबन्धि तदभेदेनामृतकिरणश्चन्द्रमा लक्ष्यते, तस्माद- आ कृष्णेन समर्थः- तेषां मध्ये यच्छुछ रूपं तदाप्यं चान्द्रमर्स चन्द्रमस: कारणं यच्छुक्कं रूपमिति यावत् । तेषां मध्ये यत्कृष्णं रूपं भास्वरं कुष्णवर्ण तदेवानसंबन्धि, अन्नशब्दे. नानहेतुर्दिवाकरो लक्ष्यते । तस्मादयमर्थ:- तेषां मध्ये यत्कृष्णं रूपं भास्वरं कृष्णवर्ण तदेवानमनशब्देन लक्षितो दिवाकरः, तस्य कारणं सुकृष्णमिति यावत् । रजसा वर्तमानो निवेशयन्नमृतं मयं च । हिरण्मयेन सविता रथेन देवो याति भुवनानि पश्यन्' इति श्रुत्या दिवाकरस्य सुकृष्णरूपत्वमवगम्यते । एवं ज्वलनहिमकर- दिवाकराणां लोहितशुक्लकृष्णकार्यत्वं ब्रुवती श्रुतिस्त्रयमेव तु. सत्यमित्युक्तवती । कारणभूतमरुणादित्रयमेव सत्यं तत्का- र्यमग्न्यादित्रयमसत्यमिति सिद्धे तदृष्टान्तेन कार्यस्य मन- आदिजगतो मिथ्यात्वं कारणस्य ब्रह्मणः सत्यत्वं साधयितं. शक्यमित्यभिप्रायः ॥ ११९ ॥ रुचकप्रमुखं कनकादिमयं रुचकाद्यभिधाननिमित्तमपि ।
। असदित्यवगम्यत एव यतो व्यभिचारवती रुचकादिमतिः॥ । * एवं कारणस्यारुणादेः सत्यत्वं तत्कार्यस्याग्न्यादरसत्यत्वं 'च श्रुत्योक्तम् । तर्हि केन दृष्टान्तेनाग्न्यादित्रिकस्य मिथ्या. त्वमरुणादित्रिकस्य सत्यत्वं चोक्तमित्याकाडायाम् , अत्र दृष्टान्तं दर्शयितुं कनकादेः सत्यत्वं रुचकादेरसत्यत्वं च साधयत्युत्तर श्लोकद्वयेन । तत्राद्येन रुचकादेरसत्यत्वं दर्श- यति--- रुचकप्रमुखमिति । कनकादिमयं कनकादिकार्य हचप्रमुखं रुकाद्यभिधाननिमित्तं यद्यपि तथाप्यसदित्ये- वावगम्यते रुचकादिकमसत्यमिति ज्ञायते । कुतस्तदित्य- पाह- यत इति । रुचकादिमतिव्यभिचारवतीति यतः, अत: कारणादसदित्यवगम्यत इत्यर्थः ॥ १२० ॥ न कदाचिदपि व्यभिचारवती कनकादिमतिः पुरुषस्य यतः। तत एव हि सत्यतयाभिमतं कनकादिविपर्यय पषु न हि।
१०९ .. कार्यस्य रुचकादेरसत्यत्वमुक्त्वाधुना कारगस्य कनकादे: सत्यत्वं साधयति- न कदाचिदपीति । द्रष्टुः पुरुषस्य कनकादिमतिः कदाचिदपि न व्यभिचरतीति यतः कनक- मिति मतिः कनककायें रुचकादौ सर्वत्राप्यनुस्यूतेति यस्मा. तस्मात्कनकादि सत्यतयाभिमतम् । उक्तहेतु निगमयति- विपर्यय एषु न होति । एषु कनकादिषु रुचकादिषु च विप. र्ययो न हि व्यत्यासो नास्ति यस्मात्तस्मात्कनकादि सत्यं रुचकाद्यसत्यमित्यर्थः ।। १२१ ॥ - रुचकादिसमं ज्वलनादि भवे- दनृतत्वगुणेन तु सत्यतया। अरुणप्रमुखं ज्वलनप्रभृति- प्रकृतित्रितयं कनकादिसमम् ॥१२२॥ बर्हि दृष्टान्तदान्तिकयोमध्ये कस्व केन साम्यमित्य- पेक्षायामाह-- रुचकादीति । वलनादि अग्न्यादिक्ति रुचकादिसमं भवेत् । तत्र हेतुं कथयति- अनृतत्वगुणेन स्विति । अनृतत्वगुणवत्त्वादित्यर्थः । ज्वलनप्रभृतिप्रकृति- त्रितयं बलनप्रभृतेः कारणत्रितयमरुणप्रमुखं सत्यत्वादेव कनकादिसमम् ।। १२२ ।। अनयोपमयानृततामवद- च्छ्रुतिरग्निदिवाकरचन्द्रमसाम् । अमृषात्वमपि श्रुतिरुक्तवती त्रितयस्य तु रक्तपुरःसरिणः ॥ यथा अनेन कनकरुचकादिष्टान्तेन कारणस्यारुणादेः सत्यत्वं कार्यस्याग्न्यादरसत्यत्वमुक्तवती श्रुतिरित्याह- अनयेति । यथा सोम्यकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्याद्वा- चारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् , सोम्यैकेन लोहमणिना सर्व लोहमयं विज्ञातं स्याद्वाचार. म्भणं विकारो नामधेयं लोहमित्येव सत्यम्' इत्यादिना निखिलस्य कार्यस्य कारणतावन्मात्रत्वं वदति श्रुतिः । अनयोपमया कनकरुचकादिदृष्टान्तेनानिदिवाकरचन्द्रमसा- मनृततामबटुक्तवतीति । किं च रक्तपुरःसरिणखितयस्या- मृषात्वमपि सत्यत्वमप्युक्तवतीत्यर्थः ॥ १२३ ।।
अनृतत्वमिदं ज्वलनप्रभृते-
यंदवादि भवेत्तदुदाहरणम् ।
वितथा विकृतिः सततं सकला
न तथा प्रकृतिः श्रुतिनिश्चयतः ।
उपमानशतैर्मन आदिजगतोऽनृतत्वं श्रुतिरुक्तवतीति पूर्व-
मुक्तम् । इदानीं तदुपमानशतं विविच्य दर्शयति- अनु.
बत्वमिति । रुचकादिदृष्टान्तेन जलनप्रभृतेर्यदनृतत्वमवादि
तदिदमुदाहरणं भवेत् । तत्कथमित्यत्राह- विक्थेतिः ।
विकृतिमात्रं सर्व वितथमेव मिथ्यैव रुचकादिवदित्यर्थः । न
नथा प्रकृतिः कारणं तु तथाविधं न भवेत् , किं तु सत्य.
मेवेति श्रुतिनिश्चयतः श्रुत्या निश्चयेनोक्तमित्यर्थः ॥ १२४ ।।
प्रदिदर्शयिषुर्वसनस्य यथा
वितथत्वमपास्यति तन्तुगुणम् ।
अपकृष्य तु तन्तुसमं त्रितयं
ज्वलनप्रमुखस्य तथोक्तवती ॥१२५॥
कारणद्रव्यापकर्षणं कार्यद्रव्यस्यानृतत्वसाधकमित्येतल्लो- केऽपि दृष्टमित्याह-प्रदिदर्शयिषुरिति । वसनस्य वस्वस्थ वितथत्वं प्रदिदर्शयिषुः पुरुषस्तन्तुगुणमपकृष्य तन्तुकार्य पटं यथापास्यति निरस्थतीदं वस्त्रं तन्तुमात्रमिति, तथात्रापि तन्तुसमं त्रितयं कारणभूतमरुणादित्रितयमपकृष्य स्वी. कृत्य ज्वलनप्रमुखस्याग्न्यादित्रितयस्य मिथ्यात्वमुक्तवती. त्यर्थः ॥ १२५ ॥ अवनिप्रमुखं वियदन्तमिदं विकृतिस्तु परस्य भवत्यपरम् । अनृतं स्वपरं विकृतिस्तु यतो- ऽवितथं तु परं प्रकृतिस्तु यतः ॥ एवमग्न्यादिदृष्टान्तेन मनादिजगतो मिथ्यात्वमरुणा. दिदृष्टान्तेन ब्रह्मणः सत्यत्वं च श्रुत्या विवक्षिवमित्युक्तम् । इदानीं तत्र हेत्वाकाङ्क्षायां कार्यत्वात्कारणत्वाचेत्युभयन हेतुमाह- अवनिप्रमुखमिति । अवनिप्रमुखं वियदन्त- मिदमपरमर्वाचीनं परस्य ब्रह्मणो विकृतिः कार्य भवति । किमतस्तव फलितमित्यत्राह अनृतमिति । अपरं दृश्य. SENPOOR तया प्रतीयमानं जगत्सकलमनृतं परस्य ब्रह्मणो विकृतिस्तु तु यतः, अतः कारणादनृतम् । परं तु कारणं ब्रह्म तु अवितथं वितथं न भवति । कुत इत्यत्राह प्रक- तिस्तु यत इति । कारणं तु यस्मात्तस्मादवितथं सत्य- मित्यर्थः । अयं भाव:- दृश्यं मनआदि जगदनृतं भवितु. महति कार्यवादग्न्यादिवत् । परं ब्रह्म तु सत्यं भवितु- महति कारणत्वादरुणादिवत् । अग्न्यादित्रितयमसत्यं भवि. तुमर्हति कार्यत्वानुचकादिवत् । अरुणप्रमुखं वितयं सत्यं भवितुमर्हति कारणत्वात्कनकादिवदिति समुदायार्थः ॥ अत एतदसेधि सदुक्ति परं न मृषेति मृषा तु ततोऽन्यदिति । इति सिद्धमतो यदवादि मया जनिमजगदेतदभूतमिति ॥ १२७ ॥ यथोक्तेन हेतुना साधितमर्थमुपसंहरति--- अत इति । कारणं सत्यं कार्यमसत्यमिति यस्माचस्मात्सदुक्तिपरं ब्रम न भूषा मूषा न भवेत् । ततोऽन्यत्तु मृषा तस्माद्ब्रह्मणोऽन्यत्सर्व मृषा असत्यमित्येतदसेधि सिद्धम् । ततः किमिति तत्राह- - 8 ११४ इति सिद्धमिति । जनिमज्जगदेवदभूतमिति मया यत्पूर्व. मवादि तदिदं सिद्धमित्यर्थः ॥ १२७ ।। मनसोऽप्यनृतत्वमसेध्यमुतः प्रतिपादितहेतुत एव भवेत् । चरितं च तदीयमसत्यमतः परिनिर्मितवारणचेष्टितवत् ॥ १२८ ॥ ननूक्तहेतुना जगतो मिथ्यात्वं भवतु, मनसस्तचरि. तस्य वा जागरितादेश्च न मिथ्यात्वं सिद्धमित्यवाह- मनस इति। अमुत: प्रतिपादितहेतुत एव मनसोऽप्यनृतत्व. मसेधि, कार्यत्वादित्यनेनैव हेतुना मनसोऽप्यनृतत्वं सिद्ध- मित्यर्थः। यस्मान्मनसोऽनृतत्वं तत एव तदीयं चरितम. वस्थात्रयमप्यनृतं भवेत् । तत्र दृष्टान्तमाह- परिनिर्मि- वेति । यथा परिनिर्मितवारणचेष्टितमसत्यमसत्यधर्मत्वात्तद्ध- दत्राप्य सत्यधर्मत्वावस्थात्रयमसत्यमित्यर्थः ॥ १२८ ॥ ननु नाभ्यवदच्छ्रुतिरुवनं मनसस्तु सतो न च खप्रमुखात् । - , कथमस्य भवेदनृतत्वगति- मनसो भगवन्वद निश्चयतः ॥१२९॥ ननु मनसः कार्यत्वे सिद्धे मनोऽनृतं स्यात् , तदेव नास्त्यश्रुतत्वादिति शङ्कते पूर्ववादी-नन्विति । परमात्मनः सकाशान्मनस उद्भवनं श्रुवि भ्यवदत् खप्रमु- खादुद्भवनं मनसो नाभ्यवदत् । तस्मादस्य मनसोऽनृतत्व. गतिरसत्यत्वावगतिः कथं भवेत् , भो भगवन्विचार्य वदेत्यर्थः ।। १२९ ॥ ननु सप्तम आत्मन उद्भवनं मनसोऽभिदधावसुनापि सह । कथमस्य भवेदभृषात्वगति- मनसो विकृतित्वगुणस्य वद ॥१३०॥ नैतच्चोधं घटते, छान्दोग्यसप्तमे 'आत्मतो मनः इति मनसः परमात्मकार्यत्वश्रवणादित्याह सिद्धान्ती- नन्विति । छान्दोग्योपनिषदि सप्तमाध्याय आत्मनः सका. शादसुनापि सह प्राणेन च सह उद्भवनमभिदधौ श्रुतिरिति ननु १ यस्मात्तस्माद्विकृतित्वगुणस्य कार्यत्वधर्मकस्य मनसोऽमृषा- त्वगतिः सत्यत्वावगतिः कथं भवेत् ? तस्मात्परमात्मकार्य- त्वश्रवणान्मनसोऽनृतत्वमित्यर्थः ॥ १३० ॥ असुना करणैर्गगनप्रमुखैः सह मुण्डक उद्भवनं मनसः । पुरुषात्परमात्मन उक्तमतो वितथं मन इत्यवधारय भोः ॥१३१॥ मुण्डकेऽपि मनस ऊद्भवनं परमात्मनः श्रुतमित्याह- असुनेति । ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्योतिरापश्च पृथ्वी विश्वस्थ धारिणी ॥' इत्यादि- मुण्डकेऽप्यसुना प्राणेन करणैरिन्द्रयैर्गगनप्रमुखैराकाशादि. भिश्च सह पुरुषात्परमात्मनः सकाशान्मनस उद्भवनमुक्त. मिति यतोऽतः कारणादपि मनो वितथमनृतमित्यवधारय निश्चिन्वित्यर्थः ।। १३१ ।। मनसोऽन्नमयत्वमवादि यत- स्तत एव हि भूतमयस्वगतिः । म कुशरीरवदेव ततोऽपि भृशं वितथं मन इत्यवधारय भोः ॥१३२॥ एवं परमात्मकार्यत्वश्रवणान्मनसोऽनृतत्वमुक्तम् ; इदानीं भौतिकत्वश्रवणादपि मनसोऽनृतत्वं सिद्धमित्याह- मनस इति । 'अन्नमयं हि सोम्य मन आपोमयः प्राणः 'अन्नमशितं त्रेधा विधीयते तस्य योऽणिष्टो भागस्तन्मनः इति मनसोऽन्नमयत्वमभकार्यत्वमवादि यतोऽत एव कुशरी- रवद्भूतमयत्वगतिर्भूतकार्यत्वावगतिस्ततो मनोऽपि वितथम- सत्यमित्यवधारयेत्यर्थः ॥ १३२ ।। कुरु पक्षमिमं गगनप्रमुखं जनिमत्सकलं न हि सत्यमिति । प्रथमं चरमं च न चास्ति यतो रुचकादिवदित्युपमा च वद ॥१३३॥ एवं कार्यत्वहेतुना मनमादिजगतोऽनृतत्वं साधितम् । इदानीमाद्यन्तवत्वादित्यनुमानान्तरेणापि मनआदिजगतो. ऽनृतत्वं साधयितव्यमिति शिष्यं शिक्षयबि- कृर्विति ।
११८ गगनप्रमुखं जनिमत्सकलं जगत्सत्यं न भवतीति पक्षं कुरु प्रतिज्ञां कुरु । तत्र हेतुं कथयति-प्रथमं चरमं च न चास्ति यत इति । तत्र दृष्टान्तमाह- रुचकादिवदित्युपमा च वदेति ।। १३३ ॥ कनके रुचकादि न पूर्वमभू- बरमं च न विद्यत इत्यनृतम् । अधुनापि तथैव समस्तमिदं जनिमद्वियदादि भवेदनृतम् ॥ कनकरुचकादिदृष्टान्तदाष्टान्तिकार्थान्प्रपञ्चयति-कन- क इति । कारणभूते कनके रुचकादिकं कार्य प्रथमं नाभू- घरमं च न विद्यते । ' आदावन्तेऽपि यनास्ति वर्तमानेऽपि तत्तथा' इति न्यायाधुना वर्तमानकालेऽपि कनकव्यति- रेकेण रुचकादि न विद्यते यथा तथा जनिमद्वियदादि सम- स्तमिदं जगदनृतमसत्यं भवेदित्यर्थः ॥ १३४ ।। कनकादिषु यथुपजातमभू- द्रुचकप्रमुखं पृथगेव ततः ।
अधिकं परिमाणममीषु कुतो न भवेदिति वाध्यमवश्यमिदम् ॥ एवं कनकरुचकादिदृष्टान्तेन कार्य कारणव्यतिरेकेण नास्तीति स्वसिद्धान्तः समर्थितः । तत्रेदमाशङ्कयते- का. कारणयोरत्यन्तभेदोऽस्त्येव त योस्तादात्म्यप्रतिभासस्तु सम. वायनिबन्धन इलि वैशेषिकादयः । तान्प्रयाह- कनका. दिग्विति । कनकादिषूपजातं रुचकप्रमुखं तता कनकादेः सकाशात्पृथमेवाभूद्यदि तहमीषु रुचकादिष्वधिकं परिमाणं गुरुत्वं कुतो न भवेदिति पृष्ठे सति कुशलैस्तार्किकैरिदम- वश्यं वाच्यम् । अस्य प्रश्नस्योत्तरं वक्तुं न शक्यत इत्यर्थः ॥ १३५ ॥ कनकप्रभृतेर्व्यतिरिक्तमतो रुचकादि न विद्यत एव कुतः। पृथगग्रहणात्कनकप्रभृते- रिति कारणमेव सदन्यदसत् ॥
इतश्च कार्यकारणयो दो न युक्त इत्याह कनकेति ।
कनकादिरूपजातं रुचकादि कनकप्रभृतेर्व्यतिरिक्तं न विश्व-
। तत्कुत इत्यत्राह-पृथगिति । कनकप्रभृतेः पृथग.
प्रहणाद्भेदेनादर्शनात् । तस्मात्सदा कारणमेव सत्यम् अन्य-
दितरदसत्यमित्यर्थः ॥ १३६ ॥
ननु नाम पृथग्विकृतेः प्रकृते-
रथ रूपमथापि च कार्यमतः।
कथमव्यतिरिक्ततयावगमः
प्रकृतेविकृतेरिति वाच्यमिदम् ॥
ननु
तथापि नामरूपाकारैः कार्यकारणयोर्भेद एव युक्त.
इति शङ्कते पूर्ववादी-नन्विति । प्रकृतेः कारणात्सका.
शाद्विकृतेः कार्यस्य नाम तथा रूपमप्याकारोऽपिः पृथगेव ।
यत एवमतः कारणात्प्रकृतेः सकाशाद्विकतेव्यतिरिक्ततया-
वगमः कथं कार्यकारणयोरभेदावगतिः कथम् ? इदं वाच्यं
वक्तव्यम् । कारणात्कार्य भिन्नं भवितुमर्हति नामभेदादूपभे-
द्वारकार्यभेदाचेति ॥ १३७ ॥
१२१ इह वीरणतन्तुसुवर्णमृदः कटशाटकहारघटाकृतयः। उपलब्धृजनैरुपलब्धिमिता न भिदास्ति तत: प्रकृतेर्विकृतेः ।। एतदनुमानं प्रत्यक्षविरुद्धमित्याह सिद्धान्ती- इहेति । इह व्यवहारदशायामुपलब्धृजनैरिणतन्तुसुवर्णमृद एव क- टशाटकहारघटाकूतयः कटाद्याकारेणोपलब्धिमिताः । कार. णरूपं वीरणतन्त्वादिकमेव कटवस्त्राभरणादिरूपेण दृष्ट- मिति यतस्ततः कारणादेव प्रकृतेः सकाशाद्विकृतेर्भेदो ना. स्तीत्यर्थः ।। १३८ ॥ विकृतियदि नास्ति पृथक्प्रकृते- ने घटेत भिदाप्यभिधाप्रभृतेः । इति धीविफला तव येन जन- विविदे नयनेन मृदायभिदा ॥ यथोक्तमर्थ विवृणोति-विकृतिरिति । प्रकृतेः सका.
१२२
शाद्विकृतिः पृथङ्नास्ति यदि तमुभिधाप्रभृतेभिदापि न
घटेत नामरूपकार्यभेदोऽपि न घटेतेति सव या धीः सा
विफला कार्यकारणभेदसाधिका न भवेत् । कुतो न भवेदि.
त्यत्राह- नयनेनेति । प्रत्यक्षेण कार्यस्य घटादेमंदाद्यभिदा
कारणादभेदो जनैर्विविदे विदित इति येन तेन हेतुना तवा
धीविफला स्यादित्यर्थः ।। १३९ ।।
ननु रूपमथो अपि कार्यमथो
अभिधापि नटस्य पृथग्विदिता।
न पृथक्त्वमुपैति नटः किमिति
प्रतिवाच्यमवश्यमिदं कुशलैः ॥१४०
न केवलं तवानुमानं प्रत्यक्षविरुद्धम् , किं त्वनैकान्तिक
चेत्याह सिद्धान्ती-नन्विति । रूपं कार्य चाभिधापि
तस्य नटस्य पृथग्विदिता यद्यपि नटः पृथक्त्वं किमिति
नोपैतीति मया पृष्टे सति कुशलैन्यायकुशलैर्भवद्भिरिदमवश्यं
प्रतिवाच्यं प्रतिवक्तव्यम् । अस्योत्तरं तव पित्रापि न
शक्यते वक्तुमित्यभिप्रायः ॥ १४० ॥
असतो न कथंचन जन्म भवे- सदसत्वत एव खपुष्पमिव । न सतोऽस्ति भवः पुरतोऽपि भवा- द्यत आत्मवदेव सदिष्टमिति ॥ -- सदसत्सहसतामुत्पत्त्यसंभवेन कार्यकारणत्वस्य कल्पि- तत्वाश कार्यकारणव्यतिरेकेण नास्तीत्युत्तरेग कतिपयमन्थे. असतो न कथंचन जन्म भवेदित्यादिना । तत्रा- सदिति वैशेषिकमतम् । सदिति सांख्यमतम् । सदसदिति दिगम्बरमतम् । तत्र प्रथमं वैशेषिकमतं निराकरोति- असत इति । उत्पत्तः प्रागसत: कार्यस्य न कथंचन जन्म भवेत् । तत्र हेतुमाह-- तदसश्वत एवेति । कार्यस्यात्य- न्तमसत्त्वादेव । खपुष्पमिवाकाशपुष्पवदित्यर्थः । यद्यसतो जन्म न संभवेत्तर्हि सतो जन्मास्तीति सांख्या:, तन्मतं दूषयति- न सतोऽस्तीति । उत्पत्तेः प्रागेव सतो विद्य- मानस्य कार्यस्व भको जन्म न संभवतीति । कुतो न संभवतीत्यत्राह- पुरसोऽपि भवादिति । उत्पत्तः प्रागेव सत्त्वादात्मवत् । न तवान विप्रतिपत्तिरित्याह यत आत्म- चदेव सदिष्टमिति । सत्कार्य सर्वदा सदेवेष्टमिति परमार्थत्वं यस्मादेवं तस्मात्सदसतोर्जन्म न संभवतीत्यर्थः ॥ १४१ ॥ कपिलासुरिपञ्चशिखादिमतं परिगृह्य वदेद्यदि कश्चिदिदम् । न कदाचन जन्म वदामि सतः प्रवदामि तु यच्छृणु तत्वमपि ॥ सतो जन्म न संभवतीत्युक्तमुपश्रुत्य सत्यकार्यवादिनः सर्वे संभूयोत्तिष्ठन्तीति दर्शयति- कपिलासुरीति । कपिला- सुरिपश्चशिखादिमतम् । पश्चशिवशब्देन कश्चित्पूर्वमीमांसक उच्यते । आदिशब्देन सांख्यचार्वाकमीमांसका उच्यन्ते । सांख्यचार्वाकमीमांसकानां मतं परिगृह्य कश्चित्सत्कार्यवादीद बदेद्यदि । इदंशब्देन निर्दिष्टं किमित्यपेक्षायां तदर्शयति-- न कदाचनेति । न कदाचम सतो जन्म वदामि । तर्हि किं बदखीत्यत्राह-प्रवदामीति । यत्प्रवदामि तत्वमपि शृणु सावधानमतिर्भवेत्यर्थः ।। १४२ ॥
१२५
प्रकृताववशिष्टतया यदभू-
धुना तु तदेव विशेषयुतम् ।
निरवद्यमिदं प्रतिभाति मम
प्रवदात्र विरोधमवैषि यदि ॥१४३॥
अहं यत्प्रवदामि तत्त्वमपि शृण्विति यत्सत्कार्यवादि.
नोक्तमिदानी तत्प्रवदति- प्रकृताविति । प्रागेव विद्य-
मानं यत्कार्य प्रकृतावविशिष्टतयाभूत्कारणे निर्विशेषत या
स्थितं तदेवाधुनोत्पत्तिसमये विशेषयुतं सविशेषमासीदिबाद
मतं निरवयं मम भाति । अत्र विरोधमवैषि यद्यवगच्छसि
यदि तर्हि विरोधं वद । अस्मिन्मते विरोधो नास्तीति
सत्कार्यवादिनोऽभिप्रायः ॥ १४३ ॥
सदयुज्यत येन गुणेन पुरा
प्रकृतौ स इहास्ति न वेति वद ।
यदि विद्यत एव पुरा प्रकृता-
वधुनापि विशेषयुतत्वमसत् ॥१५॥
माह- अत्र विरोधं वदेत्युपश्रुत्य सिद्धान्ती विकल्प्य विरोध- सदिति । सत्कार्यमुत्पत्तिसमये येन गुणेनायुज्यत युक्तमासीत्स तु गुणः स तु विशेषः पुरोत्पत्तेः प्राक्प्रक- तावस्ति न वेति । प्रथमपक्षे दूषणमाह---- यदि विद्यत इति । स तु विशेषः पुरा प्रकृतौ विद्यते यदि तीधुना विशेषयुतमिति त्वयोक्तं तदसत् , अयुक्तमित्यर्थः ।। १४४ ॥ यदि नास्ति पुरा स गुणः प्रकृता. वसदुद्भवनं भवतोऽभिमतम् । जननेन च सत्वमुपात्तवतो जनिमत्त्वत एव विनष्टिरपि ॥१४५॥ नास्तीति द्वितीयं पक्षं दूषयति--- यदीति । स गुण: विशेषः पुरा कारणे नास्ति यदि तमुसदुद्भवनं भवतोऽभिमतं सत्कार्यवादिना भवतासदुत्पत्तिरङ्गीकता स्यात्तथा सति तवापसिद्धान्तः प्रसज्येत | न केवलमसदु. पत्तेरङ्गीकारः सद्विनाशश्च प्राप्नोतीति दूषणान्तरमाह- जननेनेति । जननेन जन्मना सत्त्वमुपात्तवतः कार्यस्य जनि- मत्त्वत एवोत्पत्तिमत्त्वादेव विनष्टिरपि प्राप्नोति । सतो वि- स तु प्रकृती - १२७ नाशोऽपि त्वयाङ्गीकृतः स्यादित्यर्थः ॥ १४५ ॥ भवतोऽभिमतं परिहर्तुमिदं न कथंचन शक्यत इत्यमुतः । कणभक्षमतेन समत्वमिदं भवतोऽभिमतं शनकैरगमत् ॥१४६॥ .. को विरोध इत्यत्राह- S ननु भवत्वसदुत्पत्तिः सद्विनाशाभ्युपगमश्च, तथा सति भवत इति । भवतोऽभिमतमङ्गीकृ. तमिदमसदुद्भवनं सतो विनशनं च कथंचन परिहतुं न शक्यत इत्यमुतो हेतोभवतोऽभिमतमसतो भवनं कणभक्ष- मतेन कणादमतेन समत्वं साम्यं शनकैरगमच्छशैः शनैः प्राप्तमित्यर्थः ॥ १४६ ॥ असतो भवनं नशनं च सतः कणभोजिमतं विदितं कविभिः । उपपत्तिविरुद्धतया सुभृशं तदभाणि मयापि विरुद्धतया ॥
१.२८ तर्हि कणादमतं किमित्याकाङ्क्षायां तन्मतं दर्शयति- असत इति । प्रागसतः सत्ता समवायो जन्मेत्यङ्गीकारा. दसतः कार्यस्य भवनमुत्पत्तिः सतो नशनं चेति कणभोजि. मतं कविभिः पूर्वाचार्यविदितम् । अस्तु नामैवं कणादमतं ततः किमायातमित्यत्राह- उपपचीति । उपपत्तिविरुद्ध. तथा न्यायविरुद्धतयासतो जन्म सतो नशनं चेत्येतदुभय सुतरां युक्तिविरुद्धतयामाणि भणितं चाचार्यः । कार्यस्या. निर्वचनीयत्ववादिना मयापि तदुभयमुपपत्तिविरुद्धतयामा. णि । सदसतोर्जन्मासंभवात्कार्यस्यानिर्वचनीयत्वमेव मया. प्युक्तमित्यर्थः ॥ १४७॥ प्रतिषिद्धमिदं कणभोजिमतं हरिणापि समस्तगुरोर्गुरुणा । वचनेन तु नासत इत्यमुना ब्रुवता च पृथातनयाय हितम् ॥ इतश्च कारणादिदमयुक्तमित्याह--- प्रतिषिद्धमिति । समस्तगुरोर्गुरुणा हरिणा 'नासतो विद्यते भावो नाभावो इत्यमुना वचनेनेदं कणभोजिमतं प्रतिषिद्ध १ विद्यते सतः
१२९
निरस्तम् । नन्वर्जुनं प्रलोभयितुं हरिणा कणादमतं निराकृतं
न तु हितोपदेशं कर्तुमिति चेन्भवमित्याह-ब्रुवता चेति ।
पृथातनयाय कुन्तीपुत्राय स्वबान्धवाया नाय स्वभक्ताय
हितं ब्रुवता हितोपदेशं कुर्वता हरिणा कणभोजिमतं
निरस्त मित्यर्थः ।। १४८ ।।
असतश्च सतश्च न जन्म भवे-
दिति पूर्वमवाद्युपपत्तियुतम् ।
सदसच्च न जायत एव कुतो
न हि वस्तु तथाविधमस्ति यतः ॥
एवं सदसतोर्जन्म निरस्तमनूद्य दिगम्बरमतं निरस्थति-
असत इति । असतश्च सतश्च न जन्म भवेदिति पूर्वमुप-
पत्तियुतं युक्तिसहितं मयावादि गदितम् । सदसच्च सद-
सदात्मक कार्य न जायते । तत्र हेतुं पृच्छति- कुत
इति । हेतुं कथयति सिद्धान्ती-न हीति । तथाविध सद.
सदात्मकं वस्त्वेव नास्तीति यतः, अतस्तस्य जन्मापि रो-
त्सारितमित्यर्थः॥ १४९ ॥
सदसवमतीत्य मनःप्रभृते.
नं कथंचन वृत्तिरिहास्ति यतः ।
तत एव मनःप्रमुखस्य भवो
न भवेदिति सर्वसुवेदमिति ॥१५॥
सदसत्सदमतामुत्पत्त्वसंभवे पारिशेष्यात्कार्यस्यानिर्वच.
नीयत्वं सिद्धमित्याह सिद्धान्ती सदसत्वमिति । एकस्य
वस्तुनः सद्सदात्मकत्वासंभवान्मनःप्रभृतेर्जगतः सदसत्त्व.
मतीत्य सत्त्वमसत्त्वं वातीत्य कथंचन वृत्तिर्नास्ति प्रकारा-
न्तरेण वृत्तिर्नास्तीति यतस्तत एव मनःप्रमुखस्य जगत
उत्पत्तिविनाशश्रवणाच जन्मविनाशान्यथानुपपत्त्यानिर्वचनी.
यत्वं सिद्धमित्यर्थः ।। १५० ॥
यदि नाम कथंचिदमुष्य भवः
सदसत्वमपेक्ष्य भविष्यति वः ।
अमृषात्वममुष्य तथापि न तु
श्रुतिरस्य मृषात्वमुवाच यतः ॥१५१॥
, सर्वम् । . वाचा. सदसद्वादिनां दुर्लभवमुपलभ्य प्रौढिवादेनाह सिद्धा- न्ती- यदीति । वो युष्माकं मतेऽमुष्य मनआदेः सदस. त्वमपेक्ष्य सदसत्त्वयोरन्यतरं पक्षमपेक्ष्याश्रित्य कथंचिद्भवो जन्म भविष्यति यदि नाम तथाप्यमुष्य मनआदेरमृषात्वं सत्यत्वं नास्ति । तत्र हेतुमाह - श्रुतिरिति । आत्मैवेदं ब्रह्मैवेदं विश्वम्' सर्व खल्विदं ब्रह्म रम्भणं विकारो नामधेयम्' इत्यादिश्रुतिरस्य जगतो मृषा. त्वमुवाच यतोऽत: कारणान्मनआदेरन्वयव्यतिरेकभावप. रिहारेण शुक्तिकारजतादिवन्मिथ्यात्वमित्यर्थः ॥ १५१ ॥ मनसोऽनृततैवमवादि यत- स्तत एव हि तस्य मृषा चरितम् । यत एव मृषा मनसश्चरितं तत एव पुरोदितसिद्धिरभूत् ॥१५२॥ मनआदेर्मिथ्यात्वे सिद्धे यत्फलितं तदाह- मनस इति । श्रुत्या मनसोऽनृतता मिथ्यात्वमवादि यतस्तत एव तस्य मनसश्चरितमवस्थात्रयमपि मृषा भवेत् । मनसश्चरितं मृषेति यतस्तत एव पुरोदितसिद्धिरभूत् ।। १५२ ।।
१३२ यदपक्ष्य तु नाम भवेश्रितयं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणस्तु यतः परिनिर्मितसविसर्पणवत् ॥ १५३ ॥ किं पुनस्तत्पुरोदितमियपेक्षायां तदर्शयति--- यदिति त्रितयं यदबस्थात्रयमपेक्ष्य परमात्मपदस्य तुरीयमिति नाम मवेत्तदवस्थात्रयमसत्यम् । तत्र हेतुमाह--- असत्यगुणस्तु यत इति । असत्यस्य मनसो गुणोऽवस्थात्रयमिति यस्मा- तस्मात्तदवस्थात्र यमसत्यम् । तत्र दृष्टान्तमाह-परिनिर्मित- सर्पविसर्पणवदिति । यथा रज्ज्वामारोपितस्य सर्पस्थासत्य- त्वात्तद्विसर्पणस्याप्यसत्यत्वं तद्वन्मनलोऽसत्यत्वात्तद्धर्मस्य जागरितादेरप्यसत्यत्वमित्यर्थः ।। १५३ ।। निखिलस्य मनःप्रमुखस्य यतो वितथत्वमवादि पुरा तु मया । श्रुतियुक्तिबलेन ततोऽद्वयक परमक्षरमेव सदन्यदसत् ॥ १५४ ॥ :- अवस्थात्रयस्य मायामयत्वात्तनिवन्धनं तुरीयत्वमपि ममात्रम् । अतो निर्विशेष प्रत्यक्पदमित्युक्तम् । इदानी मप्रमेयमुपसंहरति- निखिलस्येति । ममःप्रमुखस्य खिलस्य जगतो वितथत्वं मया पूर्व श्रुतियुक्तिबलेनावा- ते यतस्ततः कारणादद्वय कं परमक्षरमेव सत्सत्यम् , न्यत्सर्व कार्यकारणात्मक द्वैतमसदसत्यमित्यर्थः ।।१५४॥ यदपूर्वमबाह्यमनन्तरक न च किंचन तस्य भवत्यपरम् । इति वेदवचोऽनुशशास यतो वितथं परतोऽन्यदतः प्रगतम् ॥ प्रतिषिध्य यतो बहिरन्तरपि स्वविलक्षणमात्मन उक्तवती । अवबोधघनत्वमतोऽन्यदस- लवणेकरसत्वनिदर्शनतः॥ १५६ ।। ब्रह्मव्यतिरिक्त सर्व मायामयत्वादसत्यमित्येतच्छ्रुतियु- क्तिभ्यां सिद्धमित्युक्तम् । इदानी कासौ श्रुतिरित्यपेक्षायाम् तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्' अयमात्मा ब्रह्म इत्यादिकत्याह श्लोकद्वयेन- यदिति। पूर्व कारणं तद्रहि. तमपूर्व स्वयं सिद्धत्वात्कारणरहितम् , किं चाबाह्यं जात्या- दिरहितम् , अनन्तरं नानात्वरहितम् , यदेव निर्विशेष परमात्मपदं तस्यापरं किंचिन्नास्ति स्वव्यतिरिक्तं किंचिदपि नास्तीत्येवं वेदवचोऽनुशशासेति यतोऽत एव परतः पर- स्मादक्षरादन्यद्बोधधनादन्यदसत्यं वितथमिति प्रगतं प्रक. णावगतमिति । प्रतिषिध्यति । एवं बहिरन्तरप्यात्मनः स्वविलक्षणं सर्वं प्रतिषिध्य, अवबोधघनत्वं प्रज्ञानघनत्वं वर्णकरसत्वनिदर्शनतः यथा सलिककार्य लवणं सलिल. मात्र तथा परमात्मविवर्त जगदपि परमात्मैवेत्यात्मनोऽवबो- धघनत्व मुक्तवती श्रुतिः । 'अपूर्वमनपरम्' सैन्धवधनः' इत्यादिका श्रुतिरात्मनो निर्विशेषत्वमुक्तव- तीत्यर्थः ।। १५५, १५६ ।। Wikin स यथा लवणेकरसत्वसमं भणितं स्वविलक्षणवस्तुनिषेधनतः।
अवबोधघनं परमात्मपदं त्वमवेहि तदस्मि सदाहमिति ॥ एवं निविशेषतया परिशोधितस्य त्वंपदार्थस्य परिशोधि- तेन तत्पदार्थेनैक्यमत्र महावाक्यार्थ इति कथयति-लवणे- ति । स्वविलक्षणवस्तुनिषेधनत आत्मव्यतिरिक्तवस्तुनिषेधेन लवणकरसत्वसमं कार्यकारणसंबन्धरहितमवबोधधनं यत्प. रमात्मपदं तदहमम्मीति त्वं सदा निरन्तरमवेहि । हेयो. पादेयबुद्धिरहितः सन्परमानन्दतया तिष्ठेत्यर्थः ॥ १५७ ॥ अणु नो न च तद्विपरीतगुणं न च हस्त्रमतो न च दीर्घमपि । प्रतिषिद्धसमस्तविशेषणक परमक्षरमात्मतयाश्रय भोः ॥१५॥ - प्रतिपत्तिसौकर्याथै यथोक्तमखण्डवाक्यार्थ प्रपञ्चपति- अणु नेति । स्थूलशरीरधर्महस्वत्वदीर्घत्वरहिसं सूक्ष्मशरीर. धर्माणुत्वरहितं तद्विपरीताकाशादिधर्ममहत्त्वरहितम् । एवं प्रतिषिद्धसमस्तविशेषणकं निर्विशेष परमक्षरमात्मतयाश्रय, स्वस्वरूपत्वेनाश्रयेत्यर्थः ॥ १५८ ।। असुबुद्धिशरीरगुणान्षडिमा- नविवेकिजनैशिधमतया । प्रतिपन्नतमान्प्रविहाय शनै- शिमात्रमवेहि सदाहमिति ॥१५९॥ अनेन श्लोकेन तत्पदार्थप्राधान्येनाखण्डवाक्यार्थ प्रपञ्च्य त्वंपदार्थप्राधान्येन प्रपञ्चयति- अस्विति । अस्विति । अविवेकि. ज्याविद्वजनैशिधर्मतया प्रत्यगात्मधर्मतया प्रतिपन्नतमा. पसंख्याकानसुबुद्धिशरीर गुणानशनायापिपासाशोकमोहज- समरणलक्षणाननात्मधर्मतया प्रविहाय हित्वा शनैः क्रमेणा- वशिष्टं दृशिमात्र केवलं ज्योतिःस्वरूपं प्रत्यगात्मानमहमि- त्यवेहि जानीहीत्यर्थः ॥ १५९ ॥ अहिनिलयनीमहिरात्मतया जगृहे परिमोक्षणतस्तु पुरा ।
१३७
परिमुच्य तु तामुरगः स्वबिले
न पुनः समवेक्षत आत्मतया ।
अविवेकत आत्मतया विदितं
कुशरीरमिदं भवताप्यहिवत् ।
अहिवत्त्यज देहमिमं स्वमपि
प्रतिपद्य चिदात्मकमात्मतया ।।
एवमखण्डवाक्यार्थो दर्शितः। इदानीमेवंभूतवाक्या-
र्थज्ञानं यथा दृढतरं भवति तथा प्रारब्धकर्मभोगपर्यन्तं
जीवन्मुक्तिरूपं दग्धपटन्यायेन बाधितानुवृत्त्या द्वैतदर्शना-
भासपरमानन्दैकरूपपरितृप्तिलक्षणं वाक्यार्थजज्ञानफलं प्राप्तो
भविष्यतीति दृष्टान्तेन दर्शयति श्लोकद्वयन- अहिनि-
रिति । 'अहिनिलयनी वल्मीके मृता प्रत्यस्ता शयीतेव.
मेवेदं शरीरं शेते' इति जीवन्मुक्तिश्रुतेः । यथाहिः सर्पः
परिमोक्षणतः पुराहिनिल्वयनीं भुजङ्गनिर्मोकमात्मतया जगृ.
हे गृहीतवान , पुनः कालान्तरे स उरग: अहिनिल्वयन
कञ्चुकं स्वबिले परिमुच्य पुनरात्मत्वेन न समीक्षते न
१३८ पश्यति, तथा भवतापीदं कुशरीरमन्नमयादिकञ्चुकमविवे- कत आत्मानात्मविवेकाभावेनात्मतया विदितमहिवदिति य. स्मात्तस्मात्त्वमपि चिदात्मकं ज्ञानात्मक वस्तु स्वात्मतया प्रतिपद्य पश्चादहिवदिमं देहं त्यज । देहाभिमानं परित्यजे- त्यर्थः ॥ १६०, १६१ ॥ रजनीदिवसौ न रवेर्भवतः प्रभया सततं युत एष यतः । अविवेकविवेकगुणावपि तो भवतो न वेरिव नित्यदृशेः ॥१६२।। - अत्माज्ञानाच्छरीराभिमानः, स चात्मज्ञानान्निवर्तत इत्यु- क्तम् । तात्मनि ज्ञानाज्ञानसंबन्धोऽस्तीत्याशङ्कच नेत्याह- रजनीति । रवेः सूर्यस्य रजनीदिवसौ न भवतः । तत्र हेतुमाह- प्रभयेति । एष रविः सततं प्रभया युत इति यतस्ततः कारणात्तस्याहोरात्रे न संभवतः । नित्यहशे. स्तवापि वेरिवाविवेकविवेकगुणौ न संभवतः, ज्ञानाज्ञा. नगुणौ न संभवत इत्यर्थः ।। १६२ ।।
१३९ परिशुद्धविबुद्धविमुक्तदृशे- रविवेकविवेकविवर्जनतः । मम बन्धविमोक्षगुणौ भवतो न कदाचिदपीत्यवगच्छ भृशम् ॥ त्याह आत्मनि ज्ञानाज्ञानयोरसंभवादन्धमोक्षावपि न संभवत परिशुद्धति । परिशुद्धविबुद्धविमुक्तदृशेः सदा गुदबुद्धमुक्तस्वभावस्य चिन्मात्रज्योतिषो मम अविवेकवि. कविवर्जनतो ज्ञानाज्ञानविवर्जनत: बन्धमोक्षगुणौ कदा. चेदपि न संभवत इति भृशं तात्पर्येणावगच्छ जानही. अर्थः ॥ १६३ ॥ न मम ग्रहणोज्झनमस्ति मया न परेण दृशेरिति निश्चिनु भोः । न हि कस्यचिदात्मनि कर्म भवे- न च कश्चिदिहास्ति मदन्य इति ॥ आत्मनि बन्धमोक्षयोरभावेऽपि ग्रहणोज्झने स्वपरकर्तृके संभवत इत्याशङ्कयाह नेति । दृशेर्विज्ञप्तिमात्रस्य निर- वयवस्य मम प्रणोज्झनं नास्ति मयान्येन वोपादानं परि. मोचनं वा नास्तीति भगवनिश्चिनु । मम ग्रहणोज्झनं ना- स्तीत्यत्र हेतुमाह- न हीति । फस्यचिदात्मनि स्वस्मिन्कर्म न भवेद्विषयविषयिभावो न भवेत् । एकस्मिन्वस्तुनि कर्तृ. कर्मभावविरोधादित्यर्थः। परेणाप्यात्मनि हानोपादाने न स्त इत्यन हेतुमाह- न चेति । इह लोके मदन्यः कश्चि- दात्मा नास्तीति । तत्र प्रमागाभावादित्यर्थः ।। १६४॥ अहमस्मि चरस्थिरदेहधियां चरितस्य सदेक्षक एक इति । न भवेदत एव मदन्य इति त्वमवेहि सुमेध इदं सुदृढम्॥१६५॥ ननु ब्रह्मादिस्थावरान्तेषु शरीरेष्वात्मभेदान्मदन्यः कश्चि- दात्मा नास्तीत्येतत्कथं घटत इत्यत्राह- अहमिति । चरस्थिरदेहधियां चरितस्याहमेक एव सदेक्षक: साक्षी यतो. ऽत एव मदन्यः स्वात्मनोऽन्यो न, अन्यस्यानुपलम्भादेव । .
मदन्यः कश्चिदात्मा न भवेदिहति हे सुमेध इदं मयोपदिष्टं सुदृढमवेहि ॥ १६५ ॥ गगने विमले जलदादिमले सति वासति वा न भिदास्ति यथा। त्वयि सर्वगते परिशुद्धदृशौ न भिदास्ति तथा द्वयभेदकृता । तहि चरस्थिरदेहादीनि परमार्थतोऽङ्गीकृतानि, तथा सति तत्कृत: कश्चिद्विशेष आत्मनोऽपि स्यादित्याशङ्कयाह गगन इति । विमले गगने जलदादिमले सति वासति वा यथा भिदा भेदो नास्ति निरवयवत्वात् , तथा सर्वगते परिशुद्धदृशौ त्वय्यपि द्वयभेदकृता भिदा भेदो नास्ती. त्यर्थः ॥ १६६ ॥ अनृतं द्वयमित्यवदाम पुरा व्यवहारमपेक्ष्य तु गीतमिदम् । अनृतेन न सत्यमुपैति युजां न मरीचिजलेन नदी ह्रदिनी ॥
१४२ द्वयभेदकृतः कश्चित्कदाचिदात्मनो नास्ति विशेष इति ब्रुवता द्वयसद्भावोऽङ्गीकृतः स्यादित्याशङ्कथाह-अनृतमिति। पुरा बह्वीमियुक्तिभितं जगदनृतमित्यवदाम उक्तवन्तो वयं यस्मात्तस्माद्वयवहारमपेक्ष्य प्रपञ्चस्य व्यावहारिकं सत्यत्व. मपेक्ष्याङ्गीकृत्येदं मया गीतमित्युक्तम् । यस्मादेवं तस्माद- नृतेन द्वैतेन सत्यमात्मवस्तु युजां योगं नोपैति । तत्र दृष्टान्तमाह सिद्धान्ती- न मरीचिजलेनेति । ह्रदिनी नदी अगाधजलसंपूर्णजला नदी असत्येन मरीचिजलेन यथा युजां नोपैति तद्वदात्माप्यसत्येन द्वैतेन संबन्धं नोपैती. त्यर्थः ॥ १६ ॥ बहुनानिहितेन किमु क्रियते शृणु संग्रहमत्र वदामि ततः। त्वयि जागरितप्रभृति त्रितयं परिकल्पितमित्य सदेव सदा ॥१६८॥ परिकल्पितमित्यसदित्युदितं मन इत्यभिशब्दितमागमतः ।
१४३ उपपत्तिभिरेव च सिद्धमतो भवतोऽन्यदशेषमभूतमिति ॥ १६९ ।। एवं तावदस्मिन्प्रकरणे समन्वयाविरोधसाधनफलाख्या- भ्यायार्थचतुष्टयं सविस्तरं वर्णितम् । इदानीं तदेवाध्यायार्थ- चतुष्टयं संक्षिप्य कथयति प्रकरणसमाप्तिपर्यन्तेन ग्रन्थेन । तत्र प्रथमं तत्त्वमस्यादिवाक्यानामद्वितीये ब्रह्मणि सम. न्वयं वक्तुं त्वंपदार्थ परिशोधयति- बहुनेति । एवं महता प्रयत्नेनाभिहितेन किमु क्रियते किं प्रयोजनम् ? तत: कारणादत्र संग्रहं वदामि उक्तमेवार्थं संक्षिप्य कथ. मामि । परिशुद्धदृशौ त्वयि जागरितप्रभृति त्रितयं मनो. धर्ममवस्थात्रयं तत्साक्षिणि त्वयि परिकल्पितमविवेकात् । तस्मादारोपितं सर्वमरूदेवासत्यमेव । सर्वकल्पनाहेतुभूतं मन इत्यभिशब्दितमपि परिकल्पितं त्वय्यध्यस्तं यतोऽत एवागमत उपपत्तिभिरेव च तन्मनोऽसदसत्यमित्युदितम् । अत एव भवतोऽन्यदशेषमभूतमसत्यमिति सिद्धम् ॥ यदबाह्यमनन्तरमेकरसं यदकार्यमकारणम द्वयकम् ।
यदशेषविशेषविहीनतरं दृशिरूपमनन्तमृतं तदसि ॥ १७० ।। Foryiendsikar एवं त्वंपदार्थ परिशोध्य तत्पदार्थ परिशोधयति-- य. दिति । अबाह्यं जात्यादिरहितम् , अनन्तरं निरवधिकम् , एकरसं केवलं चिदानन्दस्वरूपम् । यदकार्यमकारणं कार्य- कारणास्पृष्टम् । अद्वयकं सजातीयविजातीय स्वगतभेदरहि- तम् । यदशेषविशेषविहीनतरं कर्तृत्वभोक्तृत्वादिविशेषरहितं शिस्वरूपं प्रज्ञानधनम् । अनन्तं देशतः कालतो वस्तुत- श्वापरिच्छिन्नम् , ऋतं सत्यं यत्परमात्मपदं तदेव त्वमसी- त्येवं प्रत्यगात्मनो ब्रह्मत्वं जानीहीत्यर्थः ।। १७० ॥ इयदेव मयोपनिषत्सु पदं परमं विदितं न ततोऽस्त्यधिकम् । इति पिप्पलभक्ष इवाभ्यवद- द्वयवशिष्टमतिं विनिवारयितुम् ॥ एवमखण्डवाक्यार्थमुपदिश्य गुरुः किं कृतवानित्यपेक्षा. यामाह- इयदिति । पिप्पलादो यथा सुके शादीब्शिष्या.
न्प्रत्यवदत्तथाभ्यवददित्यर्थः । किमर्थमियदेवेत्युक्तवानित्य- त्राह-- अवशिष्टमतिं विनिवारयितुमिति । गुरुणानुपदिष्टां शिष्येणापेक्षितामवशिष्टात्ममति विनिवर्तयितुमित्यर्थः ।। इतरोऽपि गुरुं प्रणिपत्य जगौ भगवन्निति तारितवानसि माम् । अवबोधतरेण समुद्रमिमं मृतिजन्मजलं सुखदुःखझषम् ॥ एवं गुरुणोपदिष्टः शिष्यः किं कृतवानित्यपेक्षायां शि. व्यवाक्यच्छलेन जीवन्मुक्तलक्षणं ज्ञानफलं दर्शयति- इतर इति । भो भगवन् , मृतिजन्मजलं सुखदुःखझपमिमं संसाराब्धिमवबोधतरेण ज्ञानप्लवेन संसारोदधौ पतितं मां सुखेन तारितवानसीत्येवमितरोऽपि शिष्यो गुरुं प्रणिपत्य जगी विज्ञापितवान् ॥ १७२ ।। अधुनास्मि सुनिर्वृत आत्मरतिः कृतकृत्य उपेक्षक एकमनाः । 10 प्रहसन्विषयान्मृगतोयसमा- विचरामि महीं भवता सहितः । अधुनेति । अधुना सुनिवृतोऽस्मि सर्वदात्मरतिः, अत एव कृतकृत्यः सर्वत्राप्युपेक्षकः, अत एवैकमना मृगतो- यसमान्मरीच्युदकसमाविषयान्मनःकल्पितान्प्रहसन् भवता सहितो महीं विचरामीत्युक्तवानित्यर्थः ॥ १.३ ।। तव दास्यमहं भृशमामरणा- प्रतिपद्य शरीरधृति भगवन् । करवाणि मया शकनीयमिदं तव कर्तुमतोऽन्यदशक्यमिति । यावदायुस्त्रयो वन्द्या वेदान्तो गुरुरीश्वरः। आझे विद्याप्रसिद्धयर्थ कृतघ्नत्वापनुत्तये ॥' इति शिवशासनादा- चार्यसकाशालब्धविद्यस्य शिष्यस्य गुरुं प्रत्यवश्यं कर्तव्य यत्तल्लोकशिक्षार्थ दर्शयति- तवेति । यदृच्छया प्राप्ताश- नासनपानादिना शरीरधृति प्रतिपद्या मरणाहपतनपर्यन्वं तव दास्यं भृशं करवाणि करिष्यामि । मया शकनी
शक्यमिदमेव, अतोऽन्यत्कर्तुमशक्यम् , आत्मज्ञानस्य प्रत्यु-
पकारं कर्तुमशक्यत्वादिदं दास्यमेव मया कतुं शक्यम् ।
किं च 'सोऽहं भगवते विदेहान्ददामि मां चापि सह
दास्थाय' इति श्रुतेर्यथा पूर्व याज्ञवल्क्याय तत्त्वोपदेष्ट्रे
जनकः स्वराज्यं दत्त्वा तदनन्तरं स्वदेहमपि गुरवे दत्तवान्
इममभिप्रायं मनसि कृत्वा मयाप्येवं कर्तव्यमित्युक्तवानि-
सर्थः ॥ १७४ ।।
गुरुशिष्यकथाश्रवणेन मया
श्रुतिवच्छ्रतिसारसमुद्धरणम् ।
कृतमित्थमवैति य एतदसौ
न पतत्युदधौ मृतिजन्मजले ॥१७॥
य एतत्प्रकरणाथै सम्यग्जानाति तस्य संसारनिवृत्तिरेष
फलमिति दर्शयति- गुरुशिष्यति । श्रुतिवद्गुरुशिष्यकथा-
श्रवणेन गुरुशिष्ययोः कथा तत्त्वनिर्णयफला तस्याः श्रवणेन
गुरुशिष्यसंवादरूपेणेत्थं कृवं श्रुतेः सारसमुद्धरणमुपदेश-
प्रकरणं यो वेत्ति अर्थतो जानाति असौ प्रतिबुद्धतत्तः
शिष्यो मृतिजन्मजले संसारोदधौ न पततीत्यर्थः ॥१७॥
- भगवद्भिरिदं गुरुभक्तियुतेः पठितव्यमपाठ्यमतोऽन्यजनैः । गुरुभक्तिमतः प्रतिभाति यतो गुरुणोक्तमतोऽन्यभजन्न पठेत् ॥ गुरुदेवताभक्तियुक्तानां परमहंसानामस्मिन्प्रकरणेऽधि. कारो नान्येषामित्याह भगवद्भिरिति । गुरुभक्तियुतेर्भ. गवद्भिः परमहंसैरिदं प्रकरणं पठितव्यम् । अतोऽन्यजने- रपाट्यम् , साधनचतुष्टयसंपत्तिरहितैरपाठ्यम् । गुरुभक्तिमत एवं गुरुणोक्तमुपदिष्टं प्रतिभाति सफलं भवति । अतो- ऽन्यभजन्विषयेष्वासक्तबुद्धिर्न पठेदित्यर्थः ।। १७६ ।। निगमोऽपि च यस्यइतिप्रभृति- गुरुभक्तिमतः कथितं गुरुणा। प्रतिभाति महात्मन इत्यवद- त्पठितव्यमतो गुरुभक्तियुतैः ।। मुरुभक्तिमद्भिरेव संन्यासिभिरिदं पठितव्यमित्युक्तम् ;
१४९
तत्र किं प्रमाणमित्याकाङ्खायाम् ,
'अत्याश्रमिभ्यः परमं
पवित्वं प्रोवाच सम्यगृषिसंघजुष्टम् । 'यस्य देवे परा भक्ति-
यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते
महात्मनः ।।' इति श्रुतिरेव प्रमाणमित्याह-निगमो-
ऽपीति । गुरौ स्नेहवतो विश्वासयुक्तस्य महात्मन एव
गुरुणा कथितमुपदिष्टमात्मतत्त्वं प्रतिभाति सम्यक्प्रकाशत
इत्येवं निगमोऽप्यवददुक्तवान् । तस्माद्गुरुभक्तिमतैव पठित.
उयमित्यर्थः ॥ १७७ ।।
येषां धीसूर्यदीप्त्या
प्रतिहतमगमन्नाशमेकान्ततो मे
ध्वान्तं स्वान्तस्थ हेतु-
जननमरणसंतानदोलाधिरूढेः ।
येषां पादौ प्रपन्नाः
श्रुतिशमविनयभूषिताः शिष्यसंघाः
सद्यो मुक्ताः स्थितास्ता-
न्यतिवरमहितान्यावदायुनमामि ॥
गुरुप्रसादात्परिसमापितग्रन्थः सन्गुरुभक्तिरेव ज्ञानान्त- रङ्गसाधनमिति दर्शयितुं प्रन्थान्ते गुरूनमस्करोति लोक- शिक्षार्थम्- येषां धीसूर्यदीप्त्येति । मे मम जन्ममरण- संतानदोलाधिरूढः दोलाधिरूढवदितस्ततः संचारशीलस्य स्वान्तस्य मनसो हेतुवन्तिमज्ञानं येषां गुरूणां धीसूर्य- दीप्त्या धीरूपसूर्यप्रकाशेन प्रतिहतमभिभूयैकान्ततोऽत्यन्वं नाशमगमत् । किं च, श्रुतिशमविनयैर्भूषिताः शिष्यसंघाः शिष्यसमूहाः शमदमादिसाधनसंपन्ना येषां गुरूणां पादौ प्रपनाः सन्तः सद्यो मुक्ताः स्थिताः, तान्यतिवरमहितान्य. तीनां मध्ये वराः पूज्यत्वेन श्रेष्ठास्तेषामपि पूज्याने विशि- ष्टान्गुरून्भगवत्पादारूयान्यावदायुनमामि यावज्जीवं नमा- मीत्यर्थः ॥ १७८ ॥ ----- भूः पादौ यस्य खं चो- दरमसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशाः शिरो द्यो- मुखमपि दहनो यस्य वास्तेयमब्धिः।
१५१ अन्तःस्थं यस्य विश्वं सुरनरखगगोनोगिगन्धर्वदेत्य- श्चिवं रम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि । . इति श्री तोटकाचार्यविरचितं श्रुतिसारसमुद्धरणं समाप्तम् ॥ गुरुभक्तिवद्भगवद्भक्तिरप्यात्मज्ञानस्यान्तरङ्गसाधनमित्ति दर्शयितुं विराडूपं नारायणं नमस्करोति- भूः पादा- विति । विष्णुं नमामीति योजना । विष्णुं व्यापनशीलं त्रिभुवनवपुषं त्रिभुवनमेव वपुर्यस्य तम् । कीदग्विशिष्टमि. त्याकालायां विशिनष्टि- भूः पादावित्यादिना । ‘पद्यां भूमिः' इति श्रुतेर्यस्य विष्णोः पादौ भू, यस्योदरं खमा- काशम् , यस्यासुः प्राणोऽनिलो वायुः, यस्य नेत्रे चन्द्र. सूर्यो, यस्य कर्णौ दिशः, यस्य शिरो द्यौः, यस्य मुखमपि दहनोऽमिः, यस्य वास्तेयमन्धिः शिश्नस्थानं समुद्रः, यस्या- .
१५२
न्त:स्थं विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यश्चित्रं नानाविधं
रंरम्यते अतिशयेन रमते, तमेतादृशं त्रिभुवनवपुषमीशं
नियन्तारम् ‘सहस्रशीर्षा' इत्यादिश्रुतिसिद्धं विष्णुं मुमुक्षुरई
नमामीत्यर्थः ॥ १४९ ।।
,
इति श्रीपूज्यपादयोगीन्द्रशिष्येण सच्चिदानन्दयोगिना रचिता
तत्त्वदीपिका तोटकश्लोकदीपिका
समाप्ता ॥