Archaeological Survey Of India, New Delhi

Trivandrum Sanskrit Series No.xviii

T. Ganapati Sastri

PDF Proofread

Front matter

THE DIRECTOR A
TRIVANDRUM SANSKRIT SERIES,
NO. XVIII.
THE
NÂRÂYANÎYA
OF
NÂRÂYANA BHATTA
WITH THE COMMENTARY, BHAKTAPRIYA
DESAMANGALA VARYA
EDITED BY
T. GANAPATI SASTRA
23833
Curator of the Department for the publication of Sanskrit Manuscripts,
TRIVANDRUM.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
+8842
Saibh
Nar] Gan
TRIVANDRUM:
PRINTED AT THE TRAVANCORE GOVERNMENT PRESS.
1912.
OF
(All Rights Reserved.)
SE
Library Reg No
OFFICE

23893
16.
20
53.
11 No.
da,864/-may com
ఆ....

अनन्तशयनसंस्कृतग्रन्थावलिः
-
ग्रन्थाङ्कः १८.
नारायणीयं
नारायणभट्टप्रणीतं
देशमङ्गलवार्यकृतया भक्तप्रियाख्यव्याख्यया समेतं
संस्कृतग्रन्धप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितम् ।
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
कोळम्बाब्दाः १०८७, ऊस्ताब्दाः १९१२.

No text on this page.

PREFACE This stotra, Narayaniya, so called because of the deity Narayana whom it extols as well as because it is composed by Narayana, summarises, in order, the whole story of Srimad Bhagavata. It consists of 100 Dasakas (decades) of more or less 10 slokās each, and contains, on the whole, 1036 slokas. This is not only an excellent stotra, in itself, being an effusion of devotional sentiment, but also a Kávya, on account of its wealth of poetic merits. It is regarded in Kerala as much a work of devotion as Srimad-Bhagavata, and the pious people make it their duty to recite it daily with the utmost faith and reverence. It was thought advisable to publish a commentary also for the elucidation of certain concise and abstruse portions. Hence the gloss of Desamangala Värya is added to this. It is now issued in Devanagari characters to secure wider circulation. The present edition of the text is based on five manuscripts, and the commentary, on three manuscripts, all obtained from the Palace Library. The author of the work, Närāyana Bhatta was the son of a Brahmin of Kerala, named Mátridatta. He was born in Mepputtur Illam, in the village of Perumanam, near the temple of Tirunava, on the northern bank of the river, Nila, in North Malabar. He studied Vyakarana and other subjects under one Achyuta Pisharodi. Tradition has it that he was once attacked with rheumatism, and to get himself freed from this dire disease he propitiated his favourite deity, Srikrishna of Guruvâyar composing in His honor a Dasaka of this work each day and that he was completely cured of the disease. In course of time, his fame as a poet and an author grow high, and the excellence of his works was recognized by all. Devanarayana, King of Ambalapuzha, entertained him at his court and honoured him by his munificient patronii It was at his instance that he composed his masterpiece Prakriya sarvasva, a voluminous Vyakarana work, which is said to have elicited unstinted praise from the great Bhottoji Dikshita. The following works are now known to have been written by the author: 1. Nârâyanîya. 2. Mânameyôdaya. 3. Prakriyâsarvasva. 4. Dhâtukâvya. 5. Ashtamîchampukâvya. 6. Kailâsasailavarnanâ. 7. Kounteyâshtaka. 8. Ahalyāsâpamoksha. 9. Commentary of the sloka ‘gselsce....'in Amaruka. 10. Sûrpanakhâpralậpa. 11. Râmakatha. 12. Dâ tavâkyaprabandha. 13. Nâlâyanîcharita. 14. Nrigamokshaprabandha. 15. Rajasuyaprabandha. 16. Subhadrâharanaprabandha. 17. Svahgsudhákara. 18. Kotiyaviraha Sangitaketusringâralîlācharita. It is traditionally known that the Kalidina on which the composition of När@yaniya was completed is indicated by the last word मायुरारोग्यसौख्यम्" in the book. This is about 1590 A.D., and the date of the author is therefore conclusively fixed in the latter half of the 16th century A.D. Trivandrum. T. GANAPATI SASTRİ.

निवेदना। CL इदं स्तोत्रं नारायणविषयत्वाद् नारायणरचितत्वाच्च नारायणीयम् इत्याख्यायते । इहानुपूर्येण श्रीभागवतगताः कथाः सर्वाः संक्षिप्ताः। अत्र शतं श्लोकदशकानि वर्तन्ते । तत्रैकमेकोनम् , अन्यानि निरपाणि साग्राणि च । श्लोका- श्वात्राहत्य १०३६ भवन्ति । इदं न केवलं भक्तिरसपरिपोषशालितया स्तोत्ररत्नं, किन्तु काव्यगुणपुष्कलतया काव्यरत्नमपि भवति । श्रीभागवतस्येवैतस्य पाराय- णमभ्युदयकामाः केरलेषु शिष्टा भक्तिपूर्वमाद्रियन्ते । इदं प्रौढत्वाद् बहुत्र व्या- ख्यासापेक्षम् । अतो देशमङ्गलवार्यकृतया ललितया व्याख्यया समेतं कृत्वा संशो- ध्य चेदमिदानी देवनागरलिपिभिः प्रचारबाहुल्याय मुद्रितम् । संशोधनाधारतया मूलस्य ५, व्याख्यायाः ३ आदर्शा राजकीयग्रन्थशालात उपलब्धाः । अस्य कविर्नारायणभट्टः केरलेषु निलानद्या उत्तरतीरवर्तिनि विरुना- वाक्षेत्रासन्ने पेरुमनंग्रामे मेप्पुत्तूरनाममठे मातृदत्ताभिधानस्य विप्रश्रेष्ठस्य पुत्रः। अयम् अच्युतपिषारोटिसकाशाद् व्याकरणादिविद्या अधीतवान् । कदाचिदेष वातरोगाभिभूतो गुरुवायुपुरेश्वरं श्रीकृष्णमस्य स्तोत्ररत्नस्य प्रत्यहमेकैकदशक- निर्माणसपर्यया परितोष्य कल्यो बभूव । अथ लोकोत्तरेण कवित्वेन, पाण्डित्येन, चारित्रेण, ग्रन्थनिर्माणेन च प्रथमानोऽयम् अम्बलप्पुळपुराधिपेन, राज्ञा देवना- रायणेन सविशेषमुपलालितस्तदास्थानभूषणतां प्रतिपेदे । देवनारायणस्यैव चो- दनयानेन प्रक्रियासर्वस्वं नाम विपुलललितो व्याकरणग्रन्थः प्रणीतः; यं श्रीभ- होजिदीक्षितः श्लाधितवानिति प्रथास्ति । एतत्प्रणीता ग्रन्थास्तावदेते. १ नारायणीयम् । ९ 'पुष्पोद्भेदम् ....'इत्यमरुक श्लोक- २ मानमेयोदयः। व्याख्यानम्। ३ प्रक्रियासर्वस्वम् । १० शूर्पणखाप्रलापः। ४ धातुकाव्यम् । ११ रामकथा। ५ अष्टमीचम्पुकाव्यम् । १२ दूतवाक्यप्रबन्धः। ६ कैलासशैलवर्णना। १३ नालायनीचरितम्। ७ कौन्तेयाष्टकम् । १४ नृगमोक्षप्रबन्धः । ८ अहल्याशापमोक्षः। १५ राजसूयप्रबन्धः। - Ime Awaamaamipe १६ सुभद्राहरणप्रबन्धः । १७ खाहासुधाकरम् । १८ कोटियविरहः सङ्गीतकेतुशृङ्गारलीलाचरितम् । नारायणीयस्यान्तिमपद्ये 'आयुरारोग्यसौख्यम्' इति पदेन तत्समाप्तिक- लिदिनसंख्या सूच्यत इति शिष्टोपदेशपरम्परा । सा च संख्या १७१२२१० इत्येवंरूपा १९९०-तमः ऊस्ताब्दो भवतीति स एव महाकवेर्नारायणभट्टस्य जीवितसमयो निश्चितः। अनन्तशयनम्. त. गणपतिशास्त्री.

विषयानुक्रमः। प्रथमस्कन्धपरिच्छेदः ar १ दशके भगवन्महिमानुवर्णनम् . भगवद्रूपवर्णनं, भगवद्भक्त्युत्पत्त्यादिवर्णनं च. भक्तस्वरूपवर्णनं, भक्तिप्रार्थना च. " अथ द्वितीयस्कन्धपरिच्छेदः, अष्टाङ्गयोगवर्णनं, योगसिद्धिवर्णनं च. , विराट् पुरुषोत्पत्तिप्रकारवर्णनन. विराड्देहस्य जगदात्मत्ववर्णनम् . हिरण्यगर्भोत्पत्तिवर्णनं, हिरण्यगर्भतपश्चरणवर्णनं, वैकुण्ठवर्णनं, भगवत्स्वरूपसाक्षात्कारवर्णनं, भगवदनुग्रहवर्णनं च. ६ अथ तृतीयस्कन्धपरिच्छेदः. ८ ९ " १० प्रलयवर्णनं, जगत्सृष्टिप्रकारवर्णनं च. जगत्सृष्टिप्रकारवर्णनम्, सृष्टिभेदवर्णनम् . सनकादीनां वैकुण्ठप्रवेशवर्णनं, जयविजयशापवर्णनं, हिरण्य- कशिपुहिरण्याक्षोत्पत्तिवर्णनं च. वराहावतारवर्णनं, भूम्युद्धरणवर्णनं च. ११ १२ ॥

२
१३ दशके हिरण्याक्षयुद्धवर्णनं, हिरण्याक्षवधवर्णनं, यज्ञवराहस्तुति
वर्णनं च.
१६ 3 कपिलोपाख्यानम्
१६
१७
अथ चतुर्थस्कन्धपरिच्छेदः.
नरनारायणचरितवर्णनं, दक्षयागवर्णनं च.
ध्रुवचरितवर्णनम् .
, पृथुचरितवर्णनम् .
दक्षोत्पत्तिप्रसङ्गवर्णनं, दक्षोत्पत्तिवर्णनं च.
१८ "
१९
अथ पञ्चमस्कन्धपरिच्छेदः.
"
२० ऋषभयोगिचरितवर्णनम् .
२१ , जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् .
अथ षष्ठस्कन्धपरिच्छेदः-
२२
अजामिलोपाख्यानम् .
चित्रकेतूपाख्यानं, मरुदुत्पत्तिवर्णनं च,
२३
"
अथ सप्तमस्कन्धपरिच्छेदः.
क
प्रहादचरिते नृसिंहाविर्भावप्रसङ्गवर्णनम् .
प्रहादचरितवर्णनम् .
२५ ॥

३ २८" अथाष्टमस्कन्धपरिच्छेदः २६ दशके गजेन्द्रमोक्षवर्णनम् . २७ अमृतमथने देवासुराणामशक्तौ भगवत्कृतमथनवर्णनम् . अमृतमथनवर्णनम् . २९ देवानाममृतोपलब्धिप्रकारवर्णनं, मोहिनीदर्शनेन शिवस्य धैर्यच्युतिवर्णनं च. ३० वामनचरिते महाबलेरातिथ्यवर्णनम् . वामनचरितवर्णनम् . मत्स्यावतारवर्णनम् . AU ३३ " अथ नवमस्कन्धपरिच्छेदः. अम्बरीषचरितवर्णनम् . श्रीरामचरिते पम्पासरसि हनुमत्समागमवर्णनम् . श्रीरामचरितवर्णनम् . दत्तात्रेयपरशुरामयोरवतारवर्णनं, परशुरामचरितवर्णनं च. ३५ " ३७, ३८ । अथ दशमस्कन्धपरिच्छेदः कृष्णावतारप्रसङ्गवर्णनम् . कृष्णावतारवर्णनम् , कृष्णस्य गोकुलनयनवर्णनं च. योगमायानयनादिवर्णनम् . वार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णनं, पूतनामोक्ष- ४० " वर्णनं च. ४१, पूतनाशरीरदाहवर्णनं, बालकलालनेन यशोदादीनां निरति- शयानन्दवर्णनं च. शकटासुरवधवर्णनम्, ४२ ४४ " ५० ५१ 9 . ५४ ५५ " ४३ दशके तृणावर्तवधवर्णनम् . कृष्णस्य जातकर्मनामकरणवर्णनम् . कृष्णस्य बालक्रीडावर्णनम् . ४६, विश्वरूपप्रदर्शनवर्णनम् . कृष्णस्योलखलवन्धनवर्णनम् . यमलार्जुनभञ्जनवर्णनम् . बृन्दावनगमनवर्णनम् . वत्सासुरवधवर्णनं, बकासुरवधवर्णनं च. अघासुरवधवर्णनम् . ५२ ब्रह्मकृतवत्सापहारवर्णनं, भगवन्मायया ब्रह्मणो मोहवर्णनं च धेनुकासुरवधवर्णनम् . कालियमर्दने विषजलेन मृतानां गवामुज्जीवनवर्णनम् . कालियमर्दने कालियशिरसि भगवन्नर्तनवर्णनम् . ५६, कालियमर्दने कालियस्य भगवदनुग्रहवर्णनं, भगवतो दवान- लपानवर्णनं च. ५७ प्रलम्बासुरवधवर्णनम् . गोगोपानां दावाग्निमोक्षवर्णनम् , ऋतुवर्णनं च. बेणुगानवर्णनम् . ६० ॥ गोपीवस्त्रापहारवर्णनम् . यज्वपत्न्युद्धरणवर्णनम् . १२, इन्द्रयागविघातवर्णनम् . गोवर्धनोद्धरणवर्णनम् . गोविन्दपट्टाभिषेकवर्णनं, वरुणलोकाद्वसुदेवानयनवर्णनं च. ६५, रासक्रीडायां गोपीनां भगवत्समीपगमनवर्णनम् . रासक्रीडायां गोपीनां भगवत्कृतधर्मोपदेशवर्णनं, यमुनापुलिने भगवता सह विहारवर्णनं च. रासक्रीडायां गोपीनां मदापनोदाय भगवतस्तिरोधानवर्णनं, कृष्णान्वेषणवर्णनं, भगवदाविर्भाववर्णनं च, " ६३ ॥ ६४ " " " ६९" ७० , ७४ ६८ दशके रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं, प्रणयकोपवर्णनं, भगवत्कृतसान्त्वनवर्णनं च. रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्त- गीतादिविलासवर्णनम् . सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनं, शङ्खचूडवधवर्णनं, वृषभासुरवधवर्णनं च. ७१ केशिवधवर्णनं, व्योमासुरवधवर्णनं च. ७२ अक्रूरस्य गोकुलयात्रावर्णनं, वृन्दावनप्राप्तिवर्णनं, भगवत्स- मागमवर्णनं, भगवत्कृतसत्कारादिवर्णनं च. भगवतो मथुराप्रस्थानवर्णनं, यमुनाजले अक्रूरस्य भगवत्स्व- रूपसाक्षात्कारादिवर्णनं च. भगवतो मथुरापुरीप्रवेशवर्णनं, रजकनिग्रहवायकमालाकारानुग्र- हवर्णनं, कुब्जानुग्रहवर्णनं धनुश्शालायां धनुर्भङ्गादिवर्णनं च. कुवलयापीडवधवर्णनं, भगवतो मल्लरङ्गप्रवेशवर्णनं, मल्लयुद्ध- वर्णनं, मल्लवधादिवर्णनं, कंसवधवर्णनं च. ७६ उद्धवदूत्यवर्णनम् . सैरन्ध्रयाम् उपश्लोकोत्पत्तिवर्णनं, जरासन्धादियुद्धवर्णनं, मुचु- कुन्दानुग्रहवर्णनं च. द्वारकावासवर्णनं, रुक्मिणीपरिणये भगवतः कुण्डिनमाप्तिवर्णनं च. रुक्मिणीपरिणयवर्णनम् . स्यमन्तकोपाख्यानम् . ८१, सुभद्राहरणवर्णनं, कृष्णस्य महिष्यन्तरपरिग्रहवर्णनं, नरका- सुरवधादिवर्णनं च. ८२ उषापरिणयवर्णनं, बाणासुरयुद्धवर्णनं च पौण्डूकवधवर्णनं, काशिपुरीदाहवर्णनं, बलभद्रप्रतापवर्णनं च. समन्तपञ्चकयात्रावर्णनम् . जरासन्धवधवर्णनं, युधिष्ठिरराजसूयवर्णनं च. साल्वादिवधवर्णनं, भारतयुद्धोपक्रमवर्णनं, भारतयुद्धवर्णनं च. " ७८ " ८४ १७ दशके कुचेलोपाख्यानम् . अर्जुनगर्वापनयनवर्णनम् . वृकासुरवधवर्णनं, मूर्तित्रितये भगवतः त्रैष्ठ्यवर्णनं च. ९० आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् . ९२ ॥ अथ एकादशस्कन्धपरिच्छेदः- भक्तरेव निःश्रेयसावाप्तिहेतुत्ववर्णनं, भक्तिस्वरूपतत्कार्यवर्णनं च. कर्ममिश्रभक्तिस्वरूपवर्णनम् . पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् - तत्त्वज्ञानोत्पत्तिप्रकारवर्णनं, बन्धमोक्षस्वरूपवर्णनम्, अभक्तनि- न्दापूर्वकं भक्तिप्रार्थनावर्णनं च. भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम् . भगवद्विभूतिवर्णनं, कर्मज्ञानभक्तिमार्गाधिकारिवर्णनं, चित्तोप- शमप्रार्थनावर्णनं च. उत्तमभक्तिप्रार्थनावर्णनम् . ९६ " अथ द्वादशस्कन्धपरिच्छेदः. ९७ ९८ मार्कण्डेयस्य प्रलयप्रदर्शनवर्णनं, परमेश्वरप्रसादवर्णनं च. सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् . भगवन्महिमानुवर्णनम् . केशादिपादवर्णनम् . ९९ ॥ १०० " -

SOF HE DIRECTOR GENERAL
14. Tey her to
PRCHIED

No text on this page.

॥ श्रीः॥
श्रीनारायणभट्टकृतं
नारायणीयं
देशमङ्गलवार्यकृतया भक्तप्रियाख्यया व्याख्यया संवलितम् ।
गजाननं गिरां देवीं व्यास कंसहनं गुरून् ।
भूतेशमीशमाशासितार्थदान् प्रणमाम्यहम् ॥
श्रीमद्भागवतार्थसङ्गहमयं नारायणीयाह्वयं
स्तोत्रं हृद्यमनर्धमुज्ज्वलतरं ध्वस्तान्धकारोदयम् ।
यत् कण्ठेषु सतामनुत्तमगुणं प्रत्यग्रमुद्भासते
तस्येयं क्रियते यथामति मया व्याख्या हि भक्तप्रिया ॥
कीर्तनं भगवत्कीर्तमत्कृतावानुषङ्गिकम् ।
इत्येव प्रयते नास्मद्व्याख्यातृत्वप्रसिद्धये ॥
इह खलु समधिगतनिखिलनिगमार्थसतत्त्वतया, शाब्दपरब्रह्मपारावारपारी-
णतया, परमभागवततया च सकलसहृदयमहितयशाः श्रीनारायणकविः परमका-
रुणिकतया भक्तानुग्रहाय श्रीभागवतार्थानुसारि नारायणीयाभिधं स्तोत्ररत्नं चि-
कीर्षुः प्रथमं प्रथमश्लोकेन प्रारिप्सितस्य स्तोत्रस्याविनेन परिसमाप्तिप्रचयगमनाभ्यां
श्रोतृजनर्सकलसमीहितसिद्धये च स्तोत्रप्रतिपाद्यजगत्सर्गविसर्गादिदशलक्षणलीला-
निदानभूतपरतत्त्वानुस्मरणरूपं मङ्गलमाचरति
सान्द्रानन्दावबोधात्मकमनुपमित कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
Samue
4. 'णतोऽस्म्य' ख. पाठः,
'निखिल ख. पाठ
२. 'लहू' ख. पाठ:.
३. 'धानं स्तो ख, पाठः,

२ । नारायणीये स्किन्धः-१. अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं तत्तावद् भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १ ॥ सान्द्रेति । ब्रह्म गुरुपवनपुरे साक्षाद् भातीति सम्बन्धः । ब्रह्म सर्वाश्रयं सर्वा- नुस्यूतं शुद्धचैतन्यम् । गुरुपवनपुरे गुरुपवनपुरमिति प्रसिद्ध क्षेत्रे । साक्षाद् भाति भक्तानुग्रहायातिस्वच्छतरशुद्धसत्त्वमयमूर्ति सद् आच्छादितनिजसच्चिदानन्दरूपं प्रतिमामिषेण सकलजनचाक्षुषज्ञानगोचरीभवतीत्यर्थः । ननु किं सकलं निष्कलं वा ब्रह्म साक्षाद् भातीत्युच्यत इत्याशङ्कायामाह ---तत्तावदिति । तावच्छब्दोऽवधा- रणे । यद् उक्तविशेषणविशिष्टं निष्कलं ब्रह्म, तदेवेत्यर्थः । शुद्धसत्त्वस्य च नि- प्कलब्रह्मानन्यत्वं 'निष्कम्प' (श्लो. ४) इत्यत्रोपपादयिप्यते । अथवा तावच्छब्दः क्रमार्थः । तद् ब्रह्म तावत् क्रमानुरोधेन साक्षाच्चाक्षुषतया मानसतया स्वप्रका- शसंविद्रूपेण च भातीत्यर्थः । अयं चाशयः -- श्रीगुरुपवनपुराधीशं चक्षुषा साक्षा- स्कृत्य श्रवणकीर्तनादिलक्षणया भक्त्या भजतां झटिति सञ्जातया प्रेमलक्षणया भक्त्या निखिलकल्मषनाशे सति निर्मलचेतस्तयाविलम्बितमेव साधनचतुष्टयसम्प- तेरधिकारित्वे जाते सकललोकगुरोः श्रीहरेरेव प्रभावेणाहमखण्डं ब्रह्मास्मीति चित्त- वृत्तिरुदेति । सा च ब्रह्मविषया सती ब्रह्मगताज्ञानबाधनद्वारा तत्कार्यभूतं शरीरा- दिप्रपञ्चं, तदन्तर्भूतामखण्डाकारां चित्तवृत्तिमपि बाधते । तदा दर्पणाद्यभावे बिम्ब- प्रतिबिम्बैक्यवत् प्रत्यगभिन्नं सच्चिदानन्दं ब्रह्म स्वप्रकाशसंविद्रूपेणावतिष्ठत इति । एवमनायासेनैवै परमपुरुषार्थलब्धिः सुकृतपरिपाकैकमूलेत्याह - हन्त भाग्यं जना- नामिति । जनानां भाग्यं पुरुषार्थलब्धिसामग्रचानुमीयत इत्यर्थः । जनानामित्य- विशेषोक्त्या सर्वेषामपि भगवद्भजनाधिकार इति द्योत्यते । हन्तति हर्षे । जनानां भाग्ये सति हर्षाविर्भावोऽस्य शुकनारदादिभगवदधिकारिपुरुषाणामिव परमकारुणि- कतया परार्थघटनकुतुकित्वं द्योतयति । ननु किमर्थमिदमुच्यते 'ब्रह्म भाति, हन्त भाग्यं जनानामिति । न तावत् स्वप्रतिपत्त्यर्थ, वाक्यप्रयोगवैयर्थ्यात् । न परं बोध- यितुं, भजध्वमित्यादितदुपपादकवाक्यशेषाश्रवणादिति चेद् , मैवम् । यथा केनचिल्लाक्षणिकेन 'निधिगर्भेयं भूमिः, हन्त भाग्यवन्तो यूयम्' इत्युक्ते श्रोतार- । 9. 'कजनानु क. पाटा, २. 'तत्त्वस्य नि' क. पाठः, ३. व पु' क, पाठः, ३ PuduRjROIN दशकम्-१] भगवन्महिमानुवर्णनम् । स्तदर्थिभिनिधिग्रहणं कर्तव्यमित्यनेनोक्तमित्यध्याहृत्य वाक्यशेष कल्पयन्ति, तद्व- दत्रापि वाक्यशेषोऽध्याहर्तव्यः । एवञ्च कथञ्चिद् बहुजन्मार्जितसुकृतपरिपाकवशेन लब्धमनुष्यजन्मानो यूयं भक्तियोगपुरःसरं भक्तानुग्रहायाङ्गीकृतसत्त्वविग्रहं श्रीगुरु- वायुपुरनाथं परं ब्रह्म संसेव्य परमपुरुषार्थमनुभवतेत्युपदेशरहस्यमेवैतदित्यवगन्त- व्यम् । ननु भाग्यमिति कर्मफलमुच्यते । तज्जन्यत्वे परमपुरुषार्थस्यानित्यत्वप्रस- ङ्ग इति चेद् , न, अधिकारित्वसम्पादनेनोपक्षीणत्वात् कर्मफलानाम् । तदुक्तम् 'एषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनम्' इति । ब्रह्मणः स्वरूपलक्षणमाह - सान्द्रानन्दावबोधात्मकं तत्त्वमिति । आनन्दः सुखम् , अवबोधो ज्ञानं, सान्द्रौ घनीभूतौ आनन्दावबोधावात्मा स्वरूपं यस्य तत् तथोक्तम् । आनन्दस्य सान्द्रत्वं नाम स्रक्चन्दनायुपाध्यनवच्छिन्नत्वम् । अवबोधस्य च घटादिविषयानवच्छिन्न- त्वम् । यदुक्तमभियुक्तैः 'यस्मिन्यस्मिन्नस्ति लोके बोधस्तत्तदुपेक्षणे । यद् बोधमात्रं तद ब्रह्मेत्येवं वेदान्तनिश्चयाद् ॥' इति । तत्त्वं परमार्थ सत् , सर्वस्याप्यात्मत्वेन प्रसिद्धत्वात् । कस्यापि हि न नाहमस्मीति प्रतीतिरुदेति । एवञ्चाहंप्रत्यय एव प्रत्यगात्मत्वेन ब्रह्मणः सिद्धत्वान्न तत्सत्त्वे विप्रतिपत्तिरिति भावः । आभ्यां विशेषणाभ्यां सच्चि- दानन्दं ब्रह्मेति स्वरूपलक्षणमुक्तं, यथा प्रकृष्टप्रकाशश्चन्द्रमा इति । नन्वेवं- लक्षणमपि ब्रह्म नानुभवपदवीमवतरति । अत ईदृशं तदिति सदृष्टान्तं प्रद- यतामित्याशङ्कयाह --- अनुपमितमिति । सजातीयस्य विजातीयस्य वान्यस्या- भावार्दै ब्रह्मणः केनाप्युपमानमशक्यमिति भावः । अनेन च ब्रह्मणोऽद्वितीयत्वम- प्यर्थादुक्तम् । ननु जीवेश्वरयोजर्जीवानां तदुपाधीनां च भेदे जाग्रति कथमद्वितीय- त्वं ब्रह्मण इति चेद्, मैवं, भेदप्रपञ्चस्य ब्रह्मण्यनाद्यविद्याकल्पितत्वेन स्रग्भुज- गवन्मिथ्यात्वात् । तेन तावन्न सद्वितीयत्वम् । अविद्या चेन्द्रजालावेद्येव स्वाश्रयमै- न्द्रजालिकमविमोहयन्ती ब्रह्माश्रिता काचिदशेषप्रपञ्चनिर्माणशक्तिः । शक्तिशक्ति- मतोरभेद इति ब्रह्माद्वैतत्वसिद्धिः । ननु जीवेश्वरौ भिन्नौ विरुद्धधर्मत्वाद् दहह्नतु- हिनवदिति भेदानुमानमस्तीति चेद् , न , एकत्वश्रुतिस्मृतिबाधितविषयत्वादस्यानु- मानस्य । नन्वीश्वरस्य जीवैकत्वे संसारित्वं स्याद् , जीवानां चेश्वरत्वे संसारोभाव- १. 'क्यार्थ क' ख. पाठः. २. 'त्वे च पु' क. पाठः. ३. 'स्य घ' क. पाठः, के ख. पाठः, ५. 'राप्र' ख, पाठः. ४. 'त ४ नारायणीये [स्कन्धः-१, प्रसङ्ग इति चेद् , न, विद्याविद्ययोर्भेदादुभयोपपत्तेः । तथाहि विद्या नाम विक्षेप- शक्तिप्रधानेश्वरोपाधिः, ययेश्वरः सृष्ट्यादि करोति । अविद्या नामावरणशक्तिप्रधाना जीवोपाधिः, ययेश्वरः सन्नपि जीवस्तत्कृतोपाधिभेदेन संसारी भवति । अतो जीवे. श्वरयोरेकत्वेऽप्यविद्यया संसारो विद्ययाँ च तदभावो नानुपपन्नः । अनादित्वान्नि- र्गुणत्वाच्चेश्वरस्य जरामरणादिसांसारिकधर्माश्च न भवन्ति, यथा स्वप्नादुत्थितस्य स्वामाः कर्तृत्वभोक्तृत्वादय इत्यलमतिप्रसङ्गेन । ननु कर्तृत्वभोक्तृत्वादिरात्मनः स्वाभाविको धर्म शत न कदाचिदपि तेन वियोगः स्यादित्याशङ्कयाह देशावधिभ्यां निमुक्तमिति । कालतो योऽवधिर्देशतश्च, ताभ्यां निर्मुक्तं, विरहित- मित्यर्थः । ततश्च व्योमवदमूर्तस्य कूटस्थस्य ब्रह्मणः क्रियादिसंयोगानुपपत्तेर्न कर्तृ- स्वभोक्तृत्वे इत्यर्थः। नित्यत्वं च ब्रह्मणः कार्यप्रपञ्चस्योत्पत्तेः प्राक् पश्चादपि विद्य- मानत्वम् । विभुत्वं च यथा मृत्सुवर्णादेर्घटकुण्डलादिषूपादानकारणत्वेनानुगमः, तद्वत् सर्वोपादानस्य ब्रह्मणोऽपि सर्वत्र शरीरादौ कारणत्वेनानुस्यूतत्वात् सर्वव्या- तत्वम् । अतोऽनेन जगत्कारणं ब्रह्मेति अयावल्लक्ष्यभावि तटस्थलक्षणमप्यर्थादुक्तं वेदितव्यम् । एवं लक्षणद्वयसिद्धस्य वस्तुनः प्रमाणापेक्षायामाह-निगमेति । निगमा उपनिषदः, तासां शतसहस्रमिति बहुत्वाभिप्रायम् । बहुभिरुपनिषद्वाक्यै- रित्यर्थः । अस्पष्ट यथा भवति तथा निर्भास्यमानमिति, उपक्रमोपसंहारादिभिर्लि- जैस्तात्पर्येणे लक्षणया प्रतिपाद्यमानमित्यर्थः । यद्वा दृष्टमात्रेऽस्पष्टमिति सम्बन्धः। वाक्यार्थज्ञाने सत्यपि विपरीतान्यथाभावनादि दिङ्मोहवत् सहसा न निवर्तते । अतः श्रवणमननादिना तन्निवृत्तावेव ब्रह्मज्ञानमनुभवपर्यवसाय्यवतिष्ठत इति भावः । नन्वेवंभूतब्रह्मदर्शने सति किं फलं, तत्राह - पुनरुरुपुरुषार्थात्मकमिति । पुनः ब्रह्मज्ञानानन्तरमित्यर्थः । उरुः पुरुषार्थो मोक्षः । तस्य चोरुत्वं दुःखानुषङ्गा- भावात् कालदेशानवच्छेदाच्च परिपूर्णत्वम् , इतरपुरुषार्थानां कर्मजन्यतया तदभा- वात् । पुरुषार्थात्मकमिति । ब्रमज्ञानसमनन्तरमेव ब्रह्म पुरुषार्थरूपेणावतिष्ठत इत्यर्थः । एवं ब्रह्मभूतस्य न पुनरावृत्तिरित्यभिप्रायेण ब्रह्म विशिनष्टि-नित्यमु- क्तमिति । नित्यमेव मुक्तं मायातत्कार्योपरागरहितम् । परमार्थतोऽद्वितीयस्यावि- १. या त क. पाठः. २. 'कमिति वि' क. पाठः. ३. "ति या' ख. पाठ:. ४. 'तषां श' ख. पाठः, ५. 'ण प्रक. पाठः, ६. 'हादिव क. पाठः, ७. ने कि' क. पाठः. तू । ब्र ख. पाठः, । दशकम्-१] भगवन्महिमानुवर्णनम् । द्यातत्कल्पितशरीरादिसम्बन्धस्यासम्भावनीयत्वादिति भावः । एवञ्च मुक्तावस्थाया अजन्यत्वान्न पुनरावृत्तिरिति भावः । एवं सान्द्रानन्दावबोधात्मकं तत्त्वमिति पद- द्वयेन सच्चिदानन्दं ब्रह्मेति स्वरूपलक्षणमुक्तम् । अनुपमितपदेन तस्याद्वितीयत्व- मुक्तम् । कालदेशावधिभ्यां निर्मुक्तमिति ब्रह्मणो जीवैक्येऽपि कर्तृत्वादिजीवधर्मा- सम्भव उक्तः । अर्थात् तटस्थलक्षणमप्युक्तम् । निगमशतसहस्रेण निर्भास्यमान- मित्युपनिषदां प्रामाण्यं चोक्तम् । एवम्भूतं ब्रह्म गुरुपवनपुरे साक्षाद् भातीत्यतिप्र- याससाध्यस्य ब्रह्मदर्शनस्य सकलजनसुसम्पाद्यत्वमुक्तम् । हन्त भाग्यं जनानामिति ब्रह्मदर्शनाधिकारस्य सुकृतैकमूलत्वं चोक्तम् । दृष्टमात्रे अस्पष्टमिति ब्रह्मानन्दानु- भवस्य श्रवणादिसाध्यत्वमुक्तम् । पुनरुरुपुरुषार्थात्मकमिति संसारदुःखोच्छेदो ब्रह्मानन्दावाप्तिश्चेति ब्रह्मदर्शनस्य फलद्वितयं दर्शितम् । नित्यमुक्तमिति ब्रह्म प्राप्त- स्य 'अनावृत्तिः शब्दाद्' (ब्र. सू. ४. ४.२२) इति न्यायेनापुनरावृत्तिश्च दर्शिता । एवं ब्रह्मण उपास्यत्वोक्तेः 'ब्रह्म भाति, परं धीमही'त्यादिपदानां तात्पर्यैक्यादप्य- नेन श्लोकेन श्रीभागवतप्रथमश्लोकार्थ एव प्रदर्शितः । अत्र च स्तोत्रे ब्रह्म प्रतिपा- द्यत्वेन विषयः, तत्प्राप्तिः प्रयोजनं, भाग्यवन्तोऽधिकारिण इत्यपि सूचितम् ।। १ ।। एवं तावन्मङ्गलाचरणपरेण प्रथमश्लोकेनार्थात् प्रतिपादिते अपि विषयप्र- योजने श्रोतृजनसुखप्रतिबोधनाय मुखतः प्रतिपादयति एवं *दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । एते तावद् वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः॥२॥ एवमिति । अत्रौविशिष्टेन वस्तुशब्देन परमार्थसद्ब्रह्मोच्यते, मिथ्यार्थे विशिष्टस्यैव प्रयोगदर्शनात् । तद् दुर्लभ्यं दुःखेन ज्ञातुं प्राप्तुं वा शक्यं, साध- नचतुष्टयसम्पन्नैर्गुरूपसत्तिद्वारा श्रवणमननादिभिरेवावगन्तुं शक्यत्वात् , तस्मिन् । एवम् उक्तेन प्रकारेण सुलभतया अनायासेन । हस्तलब्ध इत्यनेन तज्ज्ञानप्रा- १. 'ता । ब्रह्म भा ख. पाठ: २. 'ते वि' क. पाठः. ३. 'त्र वि' क. पाठ:. दुःपाब्दस्य लभ्यशब्देन समासः, नारायणीये स्किन्धः-१. wor ये प्त्योः सौकर्य द्योत्यते । दुर्लभ्यवस्तुन्येवं सुलभतया हस्तलब्धे सत्यपि अन्यद् देवतान्तरं विषयादिकं वा तन्वा वाचा धिया वा भजति जन इति यत् , तद् बत कष्टम् । इयं क्षुद्रता असारतैव, अविवेकितैवेति यावत् । स्फुटा सर्वसम्मते- त्यर्थः । विवेकिनो विशेषमाह-एत इति । वयमित्यात्मनि बहुवचनम् । एत इति स्वस्य भगवद्भजनसंरम्भं दर्शयति । यद्वा एते वयमिति श्रोतारोऽपि गृह्यन्ते। एते वयं तावत् तु तथा क्षुद्रतां न कुर्मः, किन्तु स्थिरतरेण एतद्भजनमेव श्रेय इति निश्चितेन मनसा गुरुपवनपुराधीशं परं ब्रह्मैव आश्रयामः सेवामहे । अत्र ये सकामास्तान् प्रति फलं दर्शयति-- विश्वेति । विश्वपीडानामाध्यात्मिकादीनां सर्वपीडानाम् , अपहत्यै नाशाय । अथवा विश्वपीडापहतिर्मोक्षः, तस्यैव सकल- पीडानिवृत्तिरूपत्वात् । अनेन च येऽकामनयैनं सेवन्ते, त उत्तमाधिकारिणः, तु फलकामनया सेवन्ते, ते मध्यमाधिकारिणः, ये तु भेददृष्ट्यान्यद् देवतान्तरं सकामाः सेवन्ते, तेऽधमाधिकारिण इति स्तोत्रेऽधिकारिभेदोऽपि प्रदर्शितः । विश्व- पीडापहत्य इति प्रयोजनमुक्तम् । निश्शेषात्मानमिति भगवद्विशेषणेन विषयो निर्दिश्यते । निश्शेषाणां चराचराणाम् आत्मा कारणम्, अथवा निश्शेषश्चराचर- प्रपञ्च आत्मा स्वरूपं यस्य स तथा सर्वात्मा, यद्वा निश्शेषाणामात्मा अन्तर्यामी, यदिवा निश्शेषाणां ब्रह्मविष्णुगिरीशादीनाम् आत्मा स्वरूपभूतः, तं सर्वदेवमय- मित्यर्थः । अत्र क्रियारूपा साधनभक्तिरपि विषयत्वेन निर्दिश्यते धिया वेति । तदुक्तं "भक्तिर्हि द्विविधा प्रोक्ता साध्यसाधनभेदतः । साध्या ह्यहैतुकी प्रीतिः क्रिया स्यात् साधनात्मिका ॥ सा पुनर्नवधा प्रोक्ता पुराणे साधनात्मिका ।" इति । अत्र वाचेति कीर्तनमुच्यते, तन्वेत्यर्चनवन्दननमस्काराः, धियेति श्रवण- स्मरणदास्यसख्यात्मनिवेदनानीति । अथवा दुर्लभ्यं वस्तु मनुष्यजन्म तस्मिन् । एवं ब्राह्मण्यविद्यापटुकरणत्वाद्याश्रयतया हस्तलब्ध इति कैङ्कर्यादिराहित्यं द्योत- यति । एवं सत्यपि अन्यद् अन्यशरीरेष्वपि सुलभं विषयादि जनो भजति तन्वा वाचा - ३. 'रभेदो द' क. पाठः. १. 'म् । सा इ' क. पाठ:. २. 'अवि' क. पाठः. क. पाठः, ५, 'त्यते' क. पाठः, दशकम्-१] भगवन्महिमानुवर्णनम् । बत । वयं त्वित्यादि समानम् । एवञ्च स्तोत्रे अधिकारिविषयप्रयोजनानि दर्शि- तानि । अत्र च 'धर्मः प्रोज्झितकैतवोऽत्र'='तन्वा वाचा धिया वा भजति', 'वास्त- वं वस्तु' = 'दुर्लभ्यवस्तुनि', 'किं वा परैः'='अन्यत् तन्वा वाचा धिया वा भजति बत', 'तापत्रयोन्मूलन'='विश्वपीडापहत्यै', 'सद्यो हृद्यवरुध्यते'='स्थिरतर- मनसा', 'ईश्वरः'='निश्शेषात्मानमित्यादिपदानामर्थसाम्यादस्य श्रीभागवतद्वितीय- श्लोकार्थता च द्रष्टव्या । अयं चापरोऽर्थः सहृदयहृदयमनुरञ्जयति-दुर्लभ्यं वस्तु श्रीभागवतं पुराणम् । तस्मिन्नेवं ब्रह्मनारदव्यासपरम्परयों सुलभतया हस्तलब्धे सत्यपि जनोऽन्यत् पुराणं काव्यादि वा भजतीति यत् , सेयं क्षुद्रता स्फुटैव । एते तावद् वयं तु तन्वा परिमितया श्रीभागवतार्थसङ्केपणरूपया वाचा एनं श्रीभाग- वतप्रधानप्रतिपाद्यं गुरुपवनपुराधीशमेवाश्रयामः गुरुपवनपुराधीशस्तोत्ररूपेण श्री- भागवतार्थ सङ्क्षिपाम इति भावः । किं भागवतार्थैकदेशं, नेत्याह --निश्शेषात्मा- नमिति । निश्शेषो दशलक्षणलीलालक्षणद्वादशस्कन्धार्थरूप आत्मा यस्य । अवा- न्तरप्रयोजनमाह --विश्वेति । विश्वेषां स्त्रीशूद्रादीनामपि पीडापहत्यै मोक्षाय । स्तोत्रपठने हि स्त्रीशूद्रादीनामप्यधिकारः । स्थिरतरमनसेति मनसः सारोद्धारास्थि- रीकरणेनास्य स्तोत्रस्य सारसङ्ग्रहरूपत्वं व्यज्यते । तन्वा वाचेति साधिकसहस्र- सङ्ख्यापरिमितपद्यात्मकत्वं , धियेति भगवत्स्मरणवाचिना तदनुग्रहलब्घमाधु- यादिगुणयुक्तत्वं च व्यज्यते । एवञ्चैवंविधं स्तोत्रं रचयाम इति चिकीर्षितप्रतिज्ञापि कृता । अस्मिन् पक्षे 'दुर्लभ्यवस्तुनि'='निगमकल्पतरोः फलं भागवतं रसं', 'सुल- भतया हस्तलब्धे'='शुकमुखाद् भुवि गलितं', 'जनोऽन्यद् भजतीति यत् सा क्षुद्र. तैव'='पिबत भागवतम्', 'एते वयं'='रसिका भावुका' इत्यादिपदानां बिम्बप्रतिवि- म्बवदर्थसादृश्यप्रतीतेः श्रीभागवततृतीयश्लोकार्थोऽप्यनेन परामृष्ट इति द्रष्टव्यम् । श्लोकद्वयार्थस्यैकेनोपादानमपि अस्य सङ्ग्रहरूपत्वं द्योतयति । इदं च स्तोत्रं भक्तियोगपरतया सर्वैरादरेण पठनीयमित्यप्यनेनैव सूचितं, भक्तियोगप्राधान्यस्या- प्यनेनैव सूच्यमानत्वात् । तथाहि-दुर्लभ्यं वस्तु भक्तियोगाख्यं, तस्मिन् हस्त- लब्धे सत्यप्यन्यद् ज्ञानं कर्म वा भजतीति यत् , ला क्षुद्रतैव । अन्यदूहनीयम् । एवं भगवत्कृपापात्रीभूतश्रीनारायणकविवाक्यस्यानेकार्थगम्भीरमहिन्नो महिमति । , 1. 'या ह' ख, पाठः. २. 'त्यने ख, पाठ, ८ । । नारायणाये [स्कन्धः-१. दिङ्मानं प्रदर्शितामति । *ननु भक्तियोगपरतया भक्तैरादरणयिमिदमित्युक्तम् । अथ केयं भक्तिर्नाम । उच्यते । उपायपूर्वकं भगवति मनसः स्थिरीकरणं भक्तिः । स च भक्तिरसो विहिताविहितकर्मज्ञानमिश्रादिभेदेन बहुधा । पुनरपि शृङ्गाराधु- पायभेदान्नवधेति बोपदेवः । अन्ये त्वेवं भक्तावपि वाच्यमिति वदन्तो भक्तररस- तामाचक्षते । तथाहि - भक्तिर्न रसः, रसलक्षणाभावाद्, "विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥" इति हि रसलक्षणम् । यथा शृङ्गारादिरसे रत्यादिः स्थायी भावः। नायिकानायक- चन्द्रमन्दानिलादयो विभावाः । कटाक्षवीक्षणादयोऽनुभावाः । स्तम्भस्वेदादयः सात्त्विकाः । निर्वेदग्लान्यादयो व्यभिचारिणः । एवंविधविभावादिसंयोगाभावान्न भक्ती रसतामापद्यत इति, मैवम् , अत्रापि रससामग्रीसद्भावात् । केनाप्युपायेन श्रीकृष्णे मनोनिवेशः स्थायी भावः । 'तस्मात् केनाप्युपायेन मनः कृष्णे निवेश- येद्' (स्क.७. अ. १. श्लो. ३१.) इति श्रीभागवतवचनात् । तत्रोपायो नवधा । तदुक्तं बोप्पदेवेन 'भक्तिरसस्यैव हास्यशृङ्गारकरुणरौद्रभयानकबीभत्सशान्ताद्भुतवी- ररूपेणानुभवाद्' इति, 'व्यासादिभिः कविभिर्वर्णितस्य विष्णोर्विष्णुभक्तानां वा चरित्रस्य नवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो भक्तिरस' इति च । अत एते भगवति प्रयुज्यमाना भक्तिरसतामापद्यन्ते । गोविन्दो गोप्यश्वालम्बनविभावाः। चन्द्रमन्दानिलचरित्रश्रवणादय उद्दीपनविभावाः । कटाक्षवीक्षणस्तम्भस्वेदादयोऽनु- भावाः । निर्वेदग्लानिशङ्काधृत्यादयो यथायोगं व्यभिचारिणः । एवं सामग्री- सद्भावेऽपि भक्तेर्बहिष्करणं स्वयं भक्तिरसास्वादबहिरङ्गतामात्रशरणम् । नच वाच्य- मसर्वविषयत्वाद् भक्ते रसपदव्यनारोह इति । तथाच श्रोत्रियब्रह्मचार्याद्यविषयतया शृङ्गारादीनामप्यरसतापातादिति सिद्धं भक्ते रसत्वम् । एवंविधभक्त्यनुभवाद् भक्ता अपि नवविधाः। “गोप्यः कामाद् भयात् कंसो द्वेषाचैद्यादयो नृपाः । सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो!॥" (स्क. ७. अ. १. श्लो. ३०.) १. 'णश्च । एक. पाठः. २. 'भा' ग. पाठः. ३. 'न्द्रातपच' क. पाठः. ४. 'णश्च ५. 'भा' ग. पाठ:. * 'ननु' इत्यारभ्य 'सुगमम्' इत्यन्त तृतीयश्लोकव्याख्यानमध्ये उपरिस्थमुपादीयते' इत्ये- तदन्तं न्यतिक्षिप्त मुद्रितपुस्तके । पाठ..

। दशकम् - १] भगवन्महिमानुवर्णनम् । इति भागवतोक्तेः । एवम्भूतैर्भक्तैरुपास्यं विष्णुरूपमपि पञ्चविधं पुरुषब्रह्मगिरिश- विष्णुनिर्गुणभेदात् । तत्र शुद्धसत्त्वमयं विष्णुरूपमेवोपास्यतममिति बोप्पदेवः । उपासनक्रमं तु वक्ष्यामः । एतत् सर्व द्वितीयश्लोकसूचितमुपरि चानुसन्दधतां सुगमम् ॥ २॥ m -- एवं विषयप्रयोजनप्रदर्शनेन श्रोतनभिमुखीकृत्य तेपामुपासनासिद्धये भगवद्रूपं वर्णयन् भगवन्तं स्तौति सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावद् भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् । तत् स्वच्छत्वाद् यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ३ ॥ सत्त्वमिति । तत् प्रसिद्धम् । पराभ्यां रज-तमोभ्याम् । परिकलनम् इतरेतरमे- लनं, तदभावोऽपरिकलनं, तेन । निर्मलं शुद्धं सत्त्वं यत् , तेन तावदिति तेनैवो- पादानकारणेन। भूतैर्महदादिक्रमणोत्पन्नैः । भूतेन्द्रियैः पञ्चभूतैरेकादशेन्द्रियः । ए- तच्च प्राणादीनामप्युपलक्षणम् । हे भूमन्निति सिंहावलोकितन्यायेनोपरिस्थमुपादीयते। एतैः स्वेच्छया विरचितं ते तव वपुर्लीलाशरीरमित्यस्मिन्नर्थे प्रमाणतया व्यासस्य 'मुनीनामप्यहं व्यास' इति तवात्मत्वेनाभिमतस्य वाक्यम् । बहुशो वारंवारं पुराणेषु श्रूयत इत्यर्थः । वाक्यं च -- 'जगृहे पौरुषं रूपम् ', 'विशुद्धं सत्त्वमूर्जितम्', 'सत्त्वं विशुद्ध क्षेमाय', 'नारायण कलात्मकम् '. 'श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः इत्यादि । तद् बहुशः श्रुतं वपुः । स्वच्छत्वात् स्फटिकवदतिनिर्मलतया । अच्छादि- ता अनुपहिता या परसुखचित् चिदानन्दैकरसं ब्रह्म, सा प्रतिबिम्बतः प्रविष्टा गर्भे यस्य, तदच्छादितपरसुखचिद्दर्भम् , अत एव निर्भासरूपं च । वपुर्विशेषणमे- तत् । अयं भावः शुद्धसत्त्वमयस्य वपुषोऽतिस्वच्छतया तत्प्रविष्टया परानन्द- चिदा तन्नि स्यांशस्य जाड्यस्य तिरस्कृतत्वात् परसुखचिदेकतामापन्नमिति । तदुक्तममृततरङ्गिण्यां-त्वद्वपुरतिस्वच्छतया स्वस्मिन् प्रतिफलता चिदानन्दैक- है downLANING १. 'र्थः । ज' ख. पाठ:. २. 'दि वाक्यम् । त' ख. पाठः, १० नारायणीये स्कन्धः-१ रसेन ब्रह्मणा तिरस्कृतजाड्यं चिदानन्दैकरसमेव भवतीति । स्वच्छत्वादच्छादित- परसुखचिद्गर्भनिर्भासरूपं तद्वपुर्यदिति सम्बन्धः । तस्मिन्निति ‘स वा अयं ब्रह्म महद्विमृग्यम् ', 'कृष्णस्तु भगवान् स्वयम्' इत्यादिभिः परचिदभेदेन प्रतिपादिते वपुषीत्यर्थः । धन्याः अभ्युपगतभक्तिमार्गतयेतरमार्गोक्तबहुसाधनपरिश्रमरहितोः । रमन्ते प्रेमलक्षणां भक्तिं कुर्वन्तीत्यर्थः । अत्र हेतुमाह --श्रुतिमतिमधुर इति । माधुर्ययुक्तत्वाच्छ्वणस्मरणादिषु सकलेन्द्रियाह्लादक इत्यर्थः । अत एव सुग्रहे सुखग्राह्ये विग्रहे मूत्तौ ॥ ३॥ एवं भगवतः शुद्धसत्त्वमयी मूर्तिमुपपाद्य तस्या निष्कलब्रह्माभेदमुपपादयति- निष्कम्पे नित्यपूर्ण निरवधिपरमानन्दपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ । कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्!॥४॥ निष्कम्प इति । तत्र ब्रह्मणः सिन्धुसाम्यमापादयति चतुर्भिर्विशेषणैः । निष्कम्पे निर्विकारे, अन्यत्र अक्षोभ्ये गम्भीरे इत्यर्थः । नित्यपूर्णे अखण्डे, अन्यत्र वर्षासु प्रभूतना नदीजलौघे सति ग्रीष्मे तस्मिन्नसति चैकरूपे । निरवधिः कालतो देशत उपाधितश्चापरिच्छिन्नः परमानन्द एव पीयूषं मुक्तैरास्वादनीयत्वात् , तद्रूपे । अन्यत्र निरवधिः परमानन्दः सक्चन्दनवनितादिसुखातिशायि सुखं यस्मात् , तस्य पीयू- षस्य रूपं प्रकाश उत्पत्तिर्यस्मात् , स तथा । निलींनानामपुनरावृत्तिं गतानामने- केषां मुक्तानां ब्रह्मसायुज्यं प्राप्तानामावलिः समूहः, तेन सुभगतमे अतिमनोहरे। अन्येषामपि मुमुक्षाजनक इति भावः । अन्यत्र मुक्तावलिभिः मुक्तारत्ननिकरैः सुभगतमे शोभिते । निर्मलब्रह्मसिन्धाविति । ब्रह्मणो निर्मलत्वं मायातत्कार्योपरागरा- हित्यम् । सिन्धौ त्वनाविलत्वम् । एवम्भूते ब्रह्मसिन्धौ यः कल्लोलोल्लासः कल्लोला- नां तरङ्गाणामुल्लासस्तेनं तुल्यम् । विमलतरं शुद्धं सत्त्वमित्यर्थः । अयमभिप्राय:- । । १. 'र्थः । अ' ख. पाठः. २. ‘ता धन्या र' ख. पाठः, ३. 'त्र सिन्धौ अ' क. पाठः. ४. 'नाज' ख. पाठः. ५. 'त इत्यर्थः । नि' क. पाठः. ६. स्तत्तु' क. पाठः, त' ख. पाठः. ७. 'यः ते । ! दशकम् - १] भगवन्महिमानुवर्णनम् । ११ यथा तरङ्गाणां कल्लोलादिशब्दवाच्यत्वव्यतिरेकेण सिन्धार्भेदं नोपलभामहे, एवं शु- द्धसत्त्वस्यापि ब्रह्मणोऽभेद इति । अत्र प्रमाणमाह - आहुरिति । आचार्या इति शेषः । ह्याहुः- अथवा चिदानन्दजलनिधेरेकोऽभिनवस्तरङ्ग एव सत्त्वम् इत्यादि। नन्वेवं शुद्धसत्त्वस्य ब्रह्मानन्यत्वे भगवन्मूतः किमायातं, तत्राह - तदात्मेति । तत् सत्त्वमे- वात्मा श्रीमूर्तिर्यस्य सः । त्वं कस्मान्नो निष्कलः निष्कलं ब्रह्मैव त्वमित्युक्तियुक्ति- मतीत्यर्थः । नन्वेवं तर्हि सकलमूर्तिशब्दोऽनन्यगतेनिरालम्बः स्यादित्याशङ्कयाह सकल इति । त्वत्कलासु अंशावतारेप्वेव सकलशब्दः प्रयुज्यत इति शेषः। हे भूमन् ! परिपूर्ण ! त्वं तु निष्कलब्रह्मैवेत्यर्थः ॥ ४ ॥ एवं भगवन्मूर्तेः स्वरूपोत्पत्तिं विमृश्य सम्प्रति तस्या उत्पत्ति विमृशति- निर्व्यापारोऽपि निष्कारणमज! भजसे यत् क्रियामीक्षणाख्यां तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले । तस्याः संशुद्धमंश कमपि तमतिरोधायकं सत्त्वरूपं स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ ! वैकुण्ठ ! रूपम् ॥५॥ निर्व्यापार इति । हे अज! विष्णो! त्वं निर्व्यापारो निष्क्रियः सन्नपि ईक्षणाख्यां मायाप्रेरणात्मिकां क्रियां भजसे अङ्गीकरोषि । यथा अयस्कान्तमणि- निष्क्रियोऽपि सन्निधिमात्रेण लोहधातुमाकर्षति, तद्वदित्यर्थः । निष्कारणं निर्गतं कारणं प्रयोजनं यस्मादिति क्रियाविशेषणम् । तव मायाप्रेरणे कार गमस्मदादिभि- ने ज्ञातव्यमिति भावः । एवं त्वमीक्षणाख्यां क्रियां भजस इति यत् , तेनैव कारणेन लीना द्विपरार्धावसाने त्वयि लयं प्राप्ता प्रकृतिर्माया उदेति प्रकाशते । अत्र ली- नोदेतिशब्दौ प्रकृतेरुत्पत्तिविनाशाभावं सूचयत इति न तस्या अनादित्वहानिः । कदोदेतीत्यत आह- कल्पादिकाल इति । कल्पानां ब्रह्मणो दिनानामादिकाले आद्यदिनारम्भकाले ब्रह्मप्रलयावसान इत्यर्थः । न तु कल्पस्यादिकाले, तदा प्रकृ- तिलयोदयाभावात् । मायां विशिनष्टि - असतिकल्पेति । प्रायेणासती सदसत्त्वा- भ्यामनिर्वचनीयेत्यर्थः । हे वैकुण्ठ ! विकुण्ठनिलय ! सः मायाप्रेरकस्त्वं तस्या मायायाः तं पूर्वोक्तं सत्त्वरूपं कमप्यंशं धृत्वा उद्धृत्य रूपं लीलाविग्रहं दधा- सि भक्तानुग्रहाय गृह्णासि । ननु विग्रहवांश्चत् संसारप्रसङ्ग इत्याशङ्कयाह-अतिरो- धायकमिति । तत्र हेतुमाह - संशुद्धमिति । अयं भावः - शुद्धसत्त्वरूपस्य मायां- 1. 'म् । न' ख, पाठ, ।

१२ नारायणीये [स्कन्धः-१ शस्यातिस्वच्छतया चैतन्यपरिच्छेदकत्वाभावात् तन्मये लीलाविग्रहेऽहंममाभिमा- नासम्भवात् तन्निबन्धनस्य संसारस्यापि भगवत्यसम्भव एवेति । ननु शरीरसम्बन्ध समानेऽप्येकः संसरत्यन्यः संसारयतीति कुत एतद् वैषम्यमिति शङ्कां परिहरन् भगवन्तं सम्बोधयति- स्वमहिमविभवाकुण्ठेति । स्वस्य महिमा योगैश्वर्य, एव विभवः शक्तिः, तेनाकुण्ठः अप्रतिहतचिच्छक्तिरित्यर्थः । अयमाशयः- जीवो मायापरतन्त्रः संसरति, ईश्वरस्तु स्वाधीनया माययाङ्गीकृतलीलाविग्रहः सन् सर्गादिलीलीः करोतीति महदिदं वैषम्यम् ॥ ५ ॥ स सम्प्रति भगवन्मूर्तेः सौन्दर्य वर्णयति द्वाभ्यां-- तत्ते प्रत्यग्रधाराघरललितकलायावलीकेलिकारं लावण्यस्यैकसारं सुकृतिजना पूर्णपुण्यावतारम् । लक्ष्मीनिश्शकलीलानिलयनममृतस्यन्दसन्दोहमन्तः सिञ्चत् सश्चिन्तकानां वपुरनुकलये मारुतागारनाथ! ॥ ६ ॥ तदिति । हे मारुतागारनाथ! ते तत् शुद्धसत्त्वमयं वपुः अनुकलये स्म- रामीत्यर्थः । प्रत्यति सजलजलधरवत् प्रतिनवकलायकुसुमवच्चातिमनोहरं, श्याम- लैमित्यर्थः । लावण्यस्यैकसारमिति लावण्यद्रव्यस्य केवलसारांशेनैव विरचितमि- त्यर्थः । सुकृतिजनदृशां पूर्णपुण्यावतारमिति । अत्र फलाभिसन्धिरहितानि विहित- सकलकर्माणि सुकृतान्युच्यन्ते, तदनुष्ठातारः सुकृतिजनाः, तेषां दृशां पूर्णस्य निश्शेषस्य पुण्यस्यावतारः (तं), सुकृतिजनानां चक्षुरिन्द्रियैरनुभवनीयं पुण्यपूर- मेव भगवन्मूाकारेण परिणतमित्यर्थः । अपिच लक्ष्म्याः प्रेमप्रतिपत्तिविनम्भा- धेकविषयतया निश्शङ्कलीलानिलयनम् । किञ्च सञ्चिन्तकानाम् उपासकानाम् अन्तः हृदये अमृतस्यन्दसन्दोहं ब्रह्मानन्दामृतद्रवझरी सिञ्चद् , उपासकानां हृदयं ब्रह्मानन्दामृतद्रवेणाप्लाव्य सकलसन्तापं शमयतीत्यर्थः ॥ ६ ॥ कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा- मित्येवं पूर्वमालोचितमजित ! मया नैवमद्याभिजाने । १. 'लां क' ख. पाठ. २. 'लम् । ला' ख, पाठः, ३, 'यपु' क, पाठः, mantras दशकम्-१] भगवन्महिमानुवर्णनम् । १३ नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसाई नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥ ७ ॥ कष्टेति । हे अजित! मायापारतन्व्यरहित! ते तव सृष्टिचेष्टा कष्टा । कुत इत्यत आह जीवभाजां बहुतरभवखेदावहति । अत्र जीवशब्देन लिङ्ग- शरीरमुच्यते, तद् भजन्तीति जीवभाजो जीवा एव, तेषाम् । भवखेदा जनन- मरणदुःखानि, तानावहतीति तथा । इत्येवं मया मूढमतिना पूर्वमालोचितं चि. न्तितम् । तत्तु तथा नेत्याह ---नैवमद्याभिजान इति । इदानीं त्वद्रूपास्वादन- व्यापते मनसि महानुपकार एवास्माकमिति निश्चिनोमीत्यर्थः । निश्चितमाह नो चेदिति। यदि त्वं त्वय्यनुशयितान् जीवान् तद्भोग्यं प्रपञ्चं च न सृजसि, तर्हि जीवाः कथं केन प्रकारेण चिद्रसाई चिदानन्दामृतद्रवेणान्तर्बहिश्च व्याप्तं त्वद्वपुः नेत्रैः श्रोत्रैश्च पीत्वा तदर्शनतदुपासनतत्कथाश्रवणद्वारेण हृदये कृत्वा परमरससु- धाम्भोधिपूरे परमानन्दामृताम्भोधौ रमेरन् उन्मज्जननिमज्जनाभ्युक्षणास्वादनादि- क्रियां कुर्युरित्यर्थः ॥ ७ ॥ एवं भगवतः सौन्दर्यगुणस्य लोकोत्तरत्वमुक्त्वा फलदातृत्वस्यापि लोको- त्तरत्वं वर्णयति- *नम्राणां सनियते सततमपि पुरस्तैरनभ्यर्थितान- प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे! त्वं क्षुद्रं तं शक्रवाटीद्रुममभिलपति व्यर्थमार्थिवजोऽयम् ॥ ८॥ नम्राणामिति । लोके हि पारिजातोऽभीष्टफलंद इति भगवतस्तदतिशायि- गुणानाह --हे हरे! त्वं पारिजातः त्वदात्मकः कल्पवृक्षः नम्राणां नमस्कारमात्रे- णापि भजतां पुरः पुरतः सततमपि सन्निधत्ते वरदित्सया प्रादुर्भवति । अ- न्यस्त कल्पवृक्षः स्वयं न सन्निधत्ते, न च नमस्कारमात्रण, न च सततं, किन्तु १. 'ज:, ते' ख. पाठः. २. 'यस्य' ख. पाठः. ३. 'लं ददाति भ' ख. पाठ:. ४. 'स्तु स्व' ख. पाठः. ५. 'तं स्व' ख. पाठः. * ख-पुस्तके तु 'कारुण्याद्' इत्यादिनवमश्लोकोऽष्टमत्वेन, 'नम्राणाम् ' इत्याद्यष्टमश्लोको नवमत्वेन च व्याख्यायते । GA- १४ नारायणीये [स्कन्धः-१ , स्वकर्मभिर्देवान् प्रसाद्य स्वर्ग गतानां पुरत एव सन्निधत्ते । किञ्च, अजस्रम् इहा- मुत्रं च तैर्भक्तैः अनभ्यर्थितान् कामान् अभीष्टान् अर्थान् पुरुषार्थान् वितरति ददाति। अन्यस्त्वनभ्यार्थितान् न ददाति, न च सर्वान् कामान् , न चाजलं, किन्तु अमुत्रैवाभ्यर्थितेषु कांश्चिदेवार्थान् ददाति । अपिच अकामनया ये सेवन्ते, तेभ्यः परमानन्दसान्द्रां गतिं मोक्षं च ददाति । अन्यस्तु सकामेभ्योऽकामेभ्यो वा मोक्षं न ददाति । एवं निश्शेषलभ्यः सकलजीवनिवहैः प्राप्यस्त्वदात्मकः पारिजातः नि- रवधिकफलः अपरिच्छिन्नमोक्षाख्यफलप्रदः । अन्यस्तु परिच्छिन्नफलप्रदः । एवं त्वदात्मके पारिजाते तिष्ठति अयमर्थिवजः कामिसमूहः व्यर्थ वृथैव क्षुद्रम् असारं तं मुधा पारिजातशब्दवाच्यं शक्रवाटीद्रुमम् इन्द्रोद्यानवृक्षम् अभि- लषति बहुक्लेशेन प्राप्तुमिच्छतीत्यर्थः ॥ ८ ॥ ननु ब्रह्मरुद्रादयोऽपीश्वरत्वसाम्याद् भक्ताभीष्टफलदाः । अतस्तेऽपि सेव्या इत्याशङ्कय भगवतस्तेभ्यो विशेषमाह कारुण्यात् काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा- दैश्वर्यादीशतेऽन्ये जगति परैजने स्वात्मनोऽपीश्वरस्त्वम् । त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्या- स्त्वं चात्माराम एवेत्वतुलगुणगणाधार ! शौरे! नमस्ते ॥९॥ कारुण्यादिति । परे ब्रह्मादयः । कारुण्याद् भक्तवत्सलतया। अन्यं मोक्षा- व्यतिरिक्तं कामं वरं ददति । त्वं विशेषाद् विशिष्टाद् ब्रह्माद्यतिशयितात् कारु- ण्यात् स्वात्मदः स्वात्मानं स्वरूपं मोक्षमपि ददासीत्यर्थः । किञ्च, अन्ये ब्रह्मादयः ऐश्वर्याद् जगति अस्मिन् प्रपञ्चे परजने स्वव्यतिरिक्तेषु स्थिरचरेष्वेव ईशते निग्रहीतुमनुग्रहीतुं वा शक्ता भवन्ति । त्वं तु स्वात्मनः स्वरूपस्य ब्रह्मणोऽपीश्वरः। स्वात्मानमेव जीवरूपेण संसारार्णवे निक्षिप्य निग्रहीतुं, तत्समकालमेव स्वानन्दानुभ- वपदे (सं)स्थाप्यानुग्रहीतुमपि शक्तो भवसीत्यर्थः । ननु सेवकानां स्वात्मदाने किं फल- मित्याशङ्कय भगवतः स्वस्यैव फलरूपतां दर्शयति - त्वयीति । त्वाय ब्रह्माणि । स्फी- । १. 'त्रापि तै' क. पाठः. २. 'न् न' ख. पाठः, ४. 'रि' क, पाठः, ५. 'यि स्फी' क. पाठः, ३. 'भ्य एव । न मोक्षं द' ख. पाठः, १५ दशकम्-१] भगवन्महिमानुवर्णनम् । तभाग्याः जन्मजन्मान्तराजितपुण्यसञ्चयेनाधिगतभक्तिज्ञानमार्गाः चेतना जीवाः उच्चैरारमन्ति अतिशयेन मोदन्ते । त्वं चात्माराम एवं, चस्त्वर्थः, त्वं तु त्वय्येव रमसे, तव चान्येषां च त्वमेव निरतिशयसुखभूत इत्यर्थः । इति अतो हेतोः अतुलानां लोकोत्तराणां गुणानामाधार ! आश्रयभूत ! हे शौरे! श्रीकृष्ण ! ते तुभ्यं नमः नमस्करोमीत्यर्थः ॥ ९॥ ! षड्गुणाश्रयताया अप्यसाधारणतामाह । ऐश्वर्य शङ्करादीश्वराविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्य विमलमपि यशो निस्पृहैचोपगीतम् अङ्गासङ्गा सदा श्रीरखिलविदसि न कापि ते सङ्गवार्ता तद् वातागारवासिन् ! मुरहर! भगवच्छब्दमुख्याश्रयोऽसि ॥१०॥ ऐश्वर्यमिति। हे वातागारवासिन् ! मुरहर! ते तवैश्वर्य शङ्करादीनामीश्व- राणां विनियमनं तत्तदधिकारप्रवर्तकम् । किञ्च, तव वीर्य विश्वेषां सर्वेषां तेजः पराक्रमं हरन्तीति विश्वतेजोहराः श्रीशङ्करादयः, तेषां तेजः प्रभावं संहर्तुं शील- मस्येति तथा । वक्ष्यति च 'मुहुस्तावच्छक्रम् ' (दश.८२.श्लो.९) इत्यादि । तव यशोऽपि विमलं पापशोधकम् । निस्पृहैर्मुक्तैरप्युपगीतं, त्वच्चरिताकृष्टचेतस्तया तैर्वर्णितमित्यर्थः । श्रीश्च सदा अङ्गासङ्गा तव वक्षःस्थलमाश्रित्यैवास्ते । अखिलवि- दसीति । अखिलं स्वमात्मानं स्वमायां तत्कार्य च वेत्तीत्यखिलविदसि त्वम् । अन्ये त्वां तत्त्वतो न जानन्तीति भावः । क्वापि विषये । ते सङ्गस्य वार्तापि कथापि न श्रूयत इत्यर्थः । तत् तस्मात् , यस्मादैश्वर्ययशःश्रीवीर्यज्ञानासङ्गतानां भगव- च्छब्दवाच्यानां त्वय्यतिशयेन वृत्तिस्तस्मादित्यर्थः । भगवच्छब्दस्य मुख्या- श्रयो वाच्यार्थो भवसि, अन्येषु भगवच्छब्दस्य लाक्षणिकी वृत्तिरि- त्यर्थः ॥ १० ॥ इति भगवन्महिमानुवर्णनं प्रथमं दशकम् १. 'वेत्यर्थः' क. पाठः. २. 'सि । अ'ख. पाठः. ३. 'येषु ते' क. पाठः, नारायणीये [स्कन्धः-१ एवं भगवद्गुणप्रस्तावेन झटिति हृदयदेशसमुदितपरचिद्रसाभगवद्रूपाहृद- यतया रोमाञ्चितशरीरस्य मौलौ बद्धाञ्जलेर्बाष्पसंरुद्धवाक्प्रसरस्य कवेर्मुखतः सग. द्गदानि कानिचित् पदानि निर्गच्छन्ति- सूर्यस्पर्धिकिरीटमूर्ध्वतिलकमोद्भासिफालान्तरं कारुण्याकुलनेत्रमाहसितोल्लासं सुनासापुटम् । गण्डोधन्मकराभकुण्डलयुग कण्ठोज्ज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदी भजे ॥१॥ सूर्यस्पर्धाति । एकीकृतानेकादित्यबिम्बवदत्युज्ज्वलकनककिरीटयुक्तम् । ऊर्ध्वतिलकेति । ऊर्ध्वाग्रविन्यस्तकस्तूरीतिलकोलसितफालदेशम् । कारुण्याकुलनेत्रं भक्तजनविषयकरुणारसार्द्रतया मुहुरुन्मीलननिमीलनव्यापृतनयननलिनयुगलम् । आर्द्रहसितोल्लासं प्रेमातयात्युल्लसितमन्दस्मितयुक्तम् । सुनासापुटं सुवर्णतिलकु- सुमवदतिसुन्दरश्रीनासिकोदरयुक्तम् । गण्डोद्यन्मकराभकुण्डलयुगं गण्डमण्डलाव- लम्बमानमकररेखाङ्कितमणिकुण्डलयुग्मम् । कण्ठोज्ज्वलत्कौस्तुभं श्रीमत्कण्ठदेशभौ- समानकौस्तुभरत्नम् । वनमाल्यहारपटलश्रीवत्सदीप्रं वनमालामुक्ताहारश्रीवत्सैः दीपं दीपनशीलम् । त्वद्रूपं भजे सम्प्रति स्मरामीत्यर्थः ॥ १ ॥ केयूराङ्गदकणोत्तममहारबाङ्गुलीयाङ्कित- श्रीमद्भाहुचतुष्कसङ्गतगदाशङ्कारिपकेरुहाम् । काञ्चित् काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी- मालम्बे विमलाम्बुजद्युतिपदां मूर्ति तवार्तिच्छिदम् ॥ २ ॥ केयूरेति । अंसावलम्बिकेयूराख्याभरणविशेषाणां तदधस्ताद् धृतानामङ्ग- दानां प्रकोष्ठस्थानां कङ्कणानां शिञ्जलयानां* चोत्तमैः श्रेष्ठैः प्रत्युत्तानि महान्ति २. 'ण' ख. पाठः. ३. 'शोभमा' ख. पाठः. ४. 'जे॥ १. 'द्रीभूतह' क. पाठः. क. पाठः, • यस्मिानिर्धार्यते, यश्च निर्धार्यते, यश्च निर्धारणहेतुः, एतत्रितयस्यासानिधानाद् 'न निर्धारण' इति न निषेध इति व्याख्यातुराशयः, दशकम् --२] भगवद्रूपवर्णनम् । १७ पराानि रत्नानि येषु, तैरङ्गुलीये(श्चा)कितेनालङ्कृतेन श्रीमता शोभमानेनाजानु- लम्बिना पीवरेण बाहुचतुष्केण सङ्गतानि गृहतिानि गदाशङ्खारिपकेरुहाणि यस्यां सा तथा, ताम् । काञ्चनकाञ्चिलाञ्छितेति । काञ्चनकाञ्च्या उपरिविन्यस्तया ला- च्छितं सञ्जातपरभागं स्वतः समुल्लसत्पीताम्बरमालम्बितुं परिधातुं शीलमस्या इति तथा, ताम् । विमलाम्वुजातिपदा प्रतिनवारुणसरोजवद् विराजमानपदयुगलाम् । भक्तानां हृदि सन्निविष्टा सती तेषामाध्यात्मिकाद्याति पीडां छिनत्तीत्यातिच्छित् , ताम् । काञ्चिद् ब्रह्मादिभिरप्यशक्यवर्णनसौभाग्याम् । तब मूर्तिमालम्बे आश्रयामि, ऊर्ध्वमुखीकृतोन्निद्रहृदयकमलकर्णिकायां न्यस्योपास्मह इत्यर्थः ॥ २ ॥ सम्प्रति भगवन्मूर्तेः सौभाग्यं वर्णयति यत् त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतो- ऽप्याश्चर्य भुवने न कस्य कुतुकं पुष्णाति विष्णो! विभो ॥३॥ यदिति । त्रैलोक्येऽस्मिन् जगति यद् महीयः अतिशयेन महत् पूजितम् उत्कृष्टं वस्तु, तस्मादपि महितम् अत्युत्कृष्टं यत् । यच्च त्रैलोक्ये मोहनं वस्तु, तस्मादप्यतिमोहनमाह्लादकम् । यच्च कान्तिनिधानतः शोभापात्रीभूताद् वस्तुनोऽपि कान्तमतिशोभनं सकलेन्द्रियाकर्षणसिद्धौषधम् । यच्च माधुर्यधुर्याद् माधुर्यकार्यस- मर्थाद् वस्तुनोऽपि मधुरमतिमाधुर्ययुक्तं सन्तापशान्तिकरम् । यच्च सौन्दर्येणोत्तरमु- त्कृष्टंमतिसुन्दरं च यद्वस्तु, तस्मादपि सुन्दरतरम् । यच्चाश्चर्यम् अद्भुतरसालम्बन- भूतं वस्तु, तस्मादप्याश्चर्यतरं चै । हे विभो ! संसारार्णवोत्तारणसमर्थ! हे विष्णो! तादृशं त्वद्रूपं भुवने कस्य कुतुकं न पुष्णाति, बद्धमुक्तमुमुक्षुजनानाम- प्यतिशयेन श्रवणस्मरणाद्यौत्सुक्यं ददात्येवेत्यर्थः ॥ ३ ॥ तत्तादृङ्मधुरात्मकं तव वपुः सम्माप्य सम्पन्मयी सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत ! विभो ! त्वद्रूपमानोज्ञक- प्रेमस्थैर्यमयादचापलबलाचापल्यवार्तोदभूत् ॥ ४ ॥ १.'च्या ला' ख. पाठः. २. 'ति। उपरि विन्यस्तया काञ्चनमय्या काञ्च्या ला' क.पाठः, ३. 'टच' ख. पाठः ४. “च यत् । हे' क. पाठः, । !

१८ नारायणीये [स्कन्धः -१ - तदिति । तदेव ताइक् तत्सदृशं यस्य तत् तत्तादृग् , अनुपममित्यर्थः । तादृशमाधुर्ययुक्त आत्मा स्वरूपं यस्य तत् तव वपुः सम्प्राप्य वक्षस्यधिवासं लब्ध्वा सा देवी महालक्ष्मीः स्वभक्तेष्वपि सम्पन्मयी धनधान्यादिरूपिणी भूत्वा चिरतरं चिरकालं नास्ते चञ्चलैब भवति । अत्र हेतुमाह- परमोत्सुकेति, त्वद्वपुः- सौभाग्यातिशयेनापहृतहृदयतयेतरत्र गन्तुमशक्यत्वादित्यर्थः । तेन यस्मादेवं तस्माद् हे अच्युत! विभो ! अस्यास्तव महिप्याः त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात् त्वद्रूपस्य मानोज्ञके सौभाग्ये यत् प्रेम्णः स्थैर्य तन्मयात् तद्रूपाद् अचापलस्य चापल्याभावस्य बलादेव चापल्यवार्ता चपलेयमिति वार्ता दुष्कीर्तिरुदभूद् उद्भूता। कष्टं बतेति खेदे । गुण एव दोषहेतुर्जात इति खेदहेतुः । किञ्चै, त्वत्सौभाग्याति- शयेनोद्भूता त्वत्प्रियतमाया दुप्कीतिः त्वामपि स्पृशतीति मम खेद इति भावः ।। ननु अस्याः सेवकजनसेवाकादाचित्कतया चापल्यं जातं, किमत्र मया कर्त व्यमित्याशङ्कां परिहरति- लक्ष्मीस्तावकरामणीयकहतैवेयं परेप्यस्थिरे- त्यस्मिन्नन्यदापि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्धयानगुणानुकीर्तनरसासक्ता हि भक्ता जना- स्तेष्वेपा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ ५॥ लक्ष्मीरिति । इयं लक्ष्मीः तावकं त्वदीयं यद् रामणीयकं सौभाग्यं, तेन हृतै- वापहृतहृदयतयैव परेषु त्वदन्येषु स्वभक्तेप्वप्यस्थिरा चपलेत्यस्मिन्नर्थे नैतिह्यमात्रं प्रमाणं, किन्तु अन्यत् प्रमाणमनुमानमप्यधुना वक्ष्यामि । पूर्व लक्ष्म्या उद्भूतया चा- पल्यवार्तया त्यत्सौभाग्यापहृततयेयं परेप्वस्थिरेत्ययमर्थोऽनुमितः, तत्र च त्वया सेवकजनसेवाकादाचित्कत्वमुपाधिः शङ्कितः, अतोऽन्यदनुमानान्तरं वक्ष्यामीत्यर्थः । प्रयोगश्च- लक्ष्मीस्त्वत्सौभाग्यापहृततया परेप्वस्थिरा, त्वच्यानगुणानुकीर्तनरसास- तेषु त्वद्भक्तेषु प्रस्तुतत्वच्चरितदत्तादरतया स्थिरवासत्वाद् , या एवं, ता एवं, यथा त्वद्ध्यानगुणानुकीर्तनरसासक्तेषु त्वद्भक्तेषु दयितप्रस्तावदत्तादरतया स्थिरवासा गोप्यः त्वत्सौभाग्यापहृतेहृदयतया परेषु स्वभर्तृष्वप्यस्थिरा इति । श्लोकश्च व्या- ख्यातप्रायः ॥ ९ ॥ १. ति दु' क. पाठः, यकेन सौभाग्येन ह' ख. पाठः. २. "ञ्च, ल' क, पाठः. ४. 'मि । प्रयो' क. पाठः. ३. 'केन त्वदीयेन रामणी- ५. 'तत' क. पाठः, ।

दशकम् --२] भगवद्भक्त्युत्पत्त्यादिवर्णनम् । एवं त्रयोदशभिः श्लोकैरध्यायत्रयोक्तमुपास्यं भगवद्पं वर्णितम् । सम्प्रति सेवासाधनस्य भगवद्भक्तरुत्पत्ति दर्शयति- एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् । सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गक व्यासिञ्चत्यपि शीतबाप्पविसरैरानन्दमूछोद्भवैः ॥ ६ ॥ एवामिति। एवम्भूता पूर्वोक्ता या मनोज्ञता सौभाग्यं, सैव नवसुधानिप्यन्दः प्रतिनवमधुद्रवः, तस्य सन्दोहनं वर्षकं परचिद्रसायनमयं परब्रह्ममय चेतोहरं स्मर- तां पुनःपुनः स्मारकं त्वद्रूपं शृण्वतामिति । अयमभिप्रायः यदृच्छया त्वत्क- थायां जातश्रद्धस्य पुंसः कथाप्रसङ्गे सति श्रोत्रद्वारा त्वद्रूपं हृदयदेशमागल्यास्य सक- लसन्तापं शमयतीति । तत्प्रकारमाह सद्य इति । सद्यो झटिति मतिं प्रेरयते आकर्षति; विषयेभ्यो मतिं बलादाकृष्य स्वस्मिन् सन्निधापयति । मदयते आन- न्दविवशतामापादयति । किञ्च, अङ्गकम् अङ्गं रोमाञ्चयति । अपिच, आनन्दमू- र्योद्भवैः त्वद्रूपानुभवानन्दस्य मूर्छा वृद्धिः, तत्सकाशादुद्भवो येषां तैः शीतैर्वाष्पवि- सरैः अश्रुप्रसासिञ्चति । अनेन चेश्वरे प्रेमप्रकर्षणाहैतुकेन सकलेन्द्रियाणां वृत्तिः प्रेमलक्षणा भक्तिः, सा च त्वत्कथाश्रवणनामकीर्तनादिलक्षणया साधनभक्त्योत्पद्यत इत्यप्युक्तं भवति ॥ ६॥ DirtaNewHIMANIA METRONICHOONALD । अनन्तरं भक्तेरुत्कर्ष वर्णयति चतुर्भिः- एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयात् कर्मज्ञानमयाद् भृशोत्तमतरो योगीश्वरैर्गीयते । सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिनिःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभः ॥ ७ ॥ एवमिति । स प्रहादादिभिरप्यङ्गीकृतः भक्तिरित्यभिहितो योगो मोक्षोपायः एवम्भूततया उक्तप्रकारतयेति । यः कथाश्रवणादिनायनेनोत्पद्यते, उत्पन्ने सति च(?) हृदयमानन्दयति, तादृशतयेत्यर्थः । कर्मज्ञानमयात् कर्ममयाद् ज्ञानमयाच्च योग- - १. 'ति। ए' क. पाठः, 'ति एवम्भूततयेति च' ख. पाठः, । नारायणीये [स्कन्धः-१ द्वयाद् भृशम् अतिशयेन उत्तमतरः अत्युत्कृष्टः । अत्र प्रमाणमाह-योगीश्वरै- रिति, व्यासनारदादिभिः पुराणेषु गीयते वर्ण्यते इत्यर्थः । किञ्च, हे रमावल्लभ! त्वयि प्रेम्णो यः प्रकर्षोऽतिशयः, तदात्मिका तत्स्वरूपा भक्तिः निःश्रमम् अनायासं यथा भवति तथा विश्वपुरुषैः सकलजनैः लभ्या खलु, नात्र सन्देह इत्यर्थः । तत्र हेतु- माह - सौन्दर्येकरसात्मक इति । सौन्दर्यमेकमेव रस आत्मा स्वरूपं यस्य स तथा, तस्मिन्नित्यर्थः ॥ ७ ॥ निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं तद् दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः तत् त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद विभो ! त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥ ८ ॥ निष्काममिति । कर्मयोग इत्यभिधौ नाम यस्य, तत् कर्मयोगाभिधम् । निर्गतः कामः फलाभिसन्धिर्यस्मात् तन्निष्कामं, तादृशम् । नियतस्य नित्यनैमित्ति. कादेः स्वधर्मस्य विहितस्य चरणम् अनुष्ठानं यत् , तद् दूरेत्यफलं दूरेत्यं दूरभवं फलं यस्य, कालान्तरे फलप्रदम् । औपनिषदम् उपनिषत्प्रतिपाद्यं ब्रह्म, तस्य ज्ञानेनो- पलभ्यं मोक्षाख्यं फलं यत् , तत् पुनरव्यक्ततया करणागोचरतया चित्तस्य सुदु- र्गमतरं कथञ्चनापि प्राप्तुमशक्यं, निरस्तसमस्तैषणानां संन्यस्तसमस्तकर्मणामेव तत्राधिकारात् । हे विभो! कर्मज्ञानभक्तिमार्गनिष्ठानामप्यभीष्टफलप्रदानसमर्थ! तस्मात् त्वयि प्रेमात्मिका भक्तिरेव सततम् उत्पत्तौ उत्पन्नायां फलप्राप्तौ च स्वादीयसी अतिशयेनास्वादनीया श्रेयसी ब्रह्मादिभिरपि प्रशस्यतरा चेत्यर्थः ॥ ८॥ अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला बोधे भक्तिपथेऽथवाप्युचिततामायान्ति किं तावता। क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन- श्चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ ९ ॥ अतीति । अत्यायासकराणि बहुसाधनपरिश्रमपूर्वकमनुष्ठेयानि कर्मणां पट- लानि नित्यनैमित्तिकप्रायश्चित्तोपासनारूपबहुविधकर्मसमूहान् आचर्य अनुष्ठाय 8 १. 'तख. पाठ:. २. 'ते। कि' ख. पाठः ३. 'धानं संज्ञा य क. पाठः. यम्यनि' ख. पाठ:. ५. 'स्य चर' ख. पाठः. ६. 'लं का' ख. पाठ:. ४. 'तनि- । दशकम् -२] भगवद्भकायुत्पत्त्यादिवर्णनम् । २१ निर्यन्मला निर्यन्ति निर्गच्छन्ति रागद्वेषमोहमदमात्सर्यरूपाणि मनोमलानि येषां त, तथा, तादृशाः केचिद् बोधे ज्ञानमार्गे भक्तिमार्गे वाप्युचिततामायान्ति अधिकार प्राप्नुवन्ति । यदि सम्यग्विरक्तास्तहि ज्ञानयोगेऽधिकारिणः, यदि वेषद्विरक्तास्तर्हि भक्तिमार्गेऽधिकारिणो भवन्ति । तदुक्तं न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिद ' इति । तावता तावन्मात्रोपयोगिना कर्मणा भक्तिमार्गप्रस्थितानामस्माकं किं प्रयोजनं, न किमपीत्यर्थः । अन्ये पुनश्चित्तात्वं रागादिराहित्यम् ऋते विना विरक्तम्मन्याः केचित् तर्कपथे वेदान्तशास्त्रे परं क्लिष्टा क्लेशैकभाजनानि भूत्वा हे विभो ! तव ब्रह्माख्यं वपुः स्वरूपं विचिन्त्य वेदान्तार्थविचारोपायभूतैर्विविधैायै- विचार्य बहुभिरुपासनाविधिभिश्चोपास्य बहुभिर्जन्मान्तरैः सिध्यन्ति फलं साध यन्ति ॥ ९॥ तर्हि भक्तियोगेऽपि किमुक्तदोषाः सन्ति, नेत्याह-- त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं सिध्यन्ती विमलप्रवोधपदवीमक्लेशतस्तन्वती। सद्यः सिद्धिकरी जयत्ययि विभो! सैवास्तु मे त्वत्पद- प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वरः ॥ १०॥ त्वदिति । त्वद्भक्तिस्तु तथा न भवतीत्यर्थः । किन्तु जयति कर्मज्ञानमयाद् योगद्वयादुत्कृष्टा भवति । उत्कर्षमेवाह -कथारसेति । त्वत्कथायां यः शृङ्गारा- दिरूपो रसः, अथवा कथाश्रद्धा, स एवामृतझरी मधुद्रवः, तस्मिन् नितरां मज्ज- नेन स्वयं सिध्यन्तीति । अयमर्थः- त्वत्कथाः शृण्वतां पुनःपुनः शुश्रूषा जायते । ततश्च विविधविषयतृष्णापैति । ततश्चित्तशुद्धिद्वारा भक्तिः स्वयमेवोत्पद्यत इति । ननूत्पन्नापि भक्तिरज्ञानकृतं बन्धं न निवर्तयति, ज्ञानस्यैवाज्ञाननाशकत्वादित्याश- याह - विमलेति । अक्लेशतः क्लेशं विनैव विगतं नष्टं मलं शरीराद्यहंममाभिमा- नरूपमज्ञानं यस्मात् प्रबोधात् स विमलप्रबोधो ब्रह्मज्ञानं, स एव पदवी मार्ग उपायो ब्रह्मप्राप्तेः, तां तन्वती कुर्वतीति । अयमाशयः- भक्तोर्हि बन्धमोक्षाख्य- फलजनने त्वत्स्वरूपब्रह्मज्ञानमवान्तरव्यापारमात्रमिति सा भक्तिरेव भगवत्यक्लेशेनैव ! - १. 'त्तस्या' ख. पाठः. २. 'सेवायां' क. पाठः. ३. 'कल्पितं' क. पाठः.

नारायणीये [स्कन्धः-१ २२ ब्रह्मज्ञानमुत्पाद्याज्ञाननिवृत्तिद्वारा मोक्षमपि ददातीति । किञ्च, सद्यः अस्मिन् जन्म- न्येव सिद्धिं फलं करोति, न ज्ञानमार्ग इव कालान्तरे । अयि विभो! वातालया- धीश्वर ! मे मम त्वदेकशरणस्य सा क्लेशरहिततयातिशुभा त्वत्पदप्रेमप्रौढिरसार्द्रता तत्र पादाम्बुजयोः प्रेम्णः प्रौढिरतिशयोऽनपायिनी प्रीतिः स एव रसः, आस्वाद- नीयत्वात् , तेनार्द्रता विलीनहृदयता तादृशी भक्तिरेव द्रुततरमेवास्तु, मम सेवामा- न्येऽपि मदेकशरणोऽयमिति धिया मह्यं तादृशी भक्तिमेवानुगृहाणेत्यर्थः ॥ १० ॥ इति भगवद्रूपवर्णनं भगवद्भक्त्युत्पत्त्यादिवर्णनं च द्वितीयं दशकम्। amme अथ भक्तानां स्वरूपं वर्णयति पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः स्मरन्तो रूपं ते वरद ! कथयन्तो गुणकथाः । चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू- नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥१॥ पठन्त इति । ये भक्ताः त्वयि खलु त्वयीश्वर एव रमन्ते, नान्तरान्तरा विष- येष्वपि, तानमून् परं केवलम् अहं धन्यान् भाग्यवतो मन्ये । रमणप्रकारमाह -- पठन्त इति । ते नामानि पठन्तः उच्चैः कीर्तयन्तः, हे वरद ! भक्ताभीष्टप्रद! कीर्त- नद्वारा हृदि प्रविष्टं तव रूपं स्मरन्तः, अत एव प्रमदभरसिन्धौ आनन्दातिशयरूपे समुद्रे निपतिताः तादृशानन्दानुभावैर्हर्षाश्रुरोमाञ्चादिभिश्चोपलक्षिताः, गुणकथाः भक्तवात्सल्यादीन् गुणान् अत्यद्भुतानि चरितानि चान्योन्यं कथयन्तः , गृहाद्यनपे- क्षेया चरन्तः । एवम्भूतानां मनः पुनस्त्वत्पादारविन्दाच्चालयितुं पारमेष्ठयादिपद- मप्यकिञ्चित्करमित्याह -समधिगतेति । समधिगतानि सम्प्राप्तानि सर्वाण्यभिलषि- तान्यभीष्टानि येषां, ते तथा । त्वत्पादारविन्दस्य सकलपुरुषार्थरूपतया तत् प्राप्ताः पुनरपरं न कावन्तीत्यर्थः ॥ १ ॥ १. ति।स' क. पाठः. २. फलद' क. पाठः, ३. 'ताः। किञ्च, ते गु' क. पाठः. ४: 'दिगु' क. पाठः. ५. क्षतया ख. पाठः, हर -- STARSA S RO दशकम् -३] भक्तस्वरूपवर्णनम् । २३ ननु किमर्थ भक्तान् स्तौषि, त्वमपि नामानि पठन् , गुणकथाश्च कथयन् , मद्रूपं च स्मरन् तेषामन्यतमो भवेत्याशङ्कायामहं तावत् तान् भक्ताननुकर्तुमस- मर्थ इत्याह- ! गदलिष्टं कष्ट तव चरणसेवारसभरे- ऽप्यनासक्तं चित्तं भवति वत विष्णो: कुरु दयाम् । भवत्पादाम्भोजस्मरणरसिको नामनिवहा- नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ २ ॥ गदेति । बार्वाितादिभिरान्तरै रागादिभिश्च गदैर्व्याधिभिः क्लिष्टं सञ्जातक्लेशं मदीयं चित्तं तव चरणसेवारसभरे भवत्पादाम्बुजोपासनरूपे सुखातिशयेऽप्यनासक्तं समाधातुमशक्यं भवति , कष्टं बत खिन्नोऽस्मि । हे विष्णो! मय्यनन्यशरणे दयां कुरु । अहं तु भवत्पादाम्भोजस्मरणे रसिकः यद्यहमरोगोऽभविष्यं तद्यस्मरिष्यामिति सोत्कण्ठः सन् नाम्नां निवहान् समूहान् गायंगायं पुनःपुनः सङ्कीर्तयन् कुहचन कुत्रापि विजने प्रदेशे विवत्स्यामि विशिष्टं वासं करिष्यामि ॥ २ ॥ कृपा ते जाता चेत् किमिव न हि लभ्य तनुभृतां मदीयलेशौघप्रशमनदशा नाम कियती । न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्ताः मुखगतिमसक्ता विदधते॥३॥ कृपति । अयि विष्णो! ते कृपा जाता चेत् , तनुभृतां स्त्रीशूद्रादीनां गज- मृगादिशरीरभाजामपि किमिव हि न लभ्यं, तिष्ठन्त्वितरे पुरुषार्थाः, त्वदैक्यं मोक्षोऽपि तेषां सुलभ एव । एवं स्थिते मदीयाः क्लेशा.विविधा आधयो व्याधयश्च तेषामोघस्य समूहस्य प्रशमनदशा समूलोन्मूलनरूपावस्था कियती अतिलघीयसी नाम, यथा ज्वलनज्वालावलीढतूलराशेः प्रशमनदशा, तद्वदिति भावः । नन्वेता- हक्कृपापात्रीभूता दुर्लभा इति चेद्, नेत्याह - न के क इति । के के जना अनिशं सर्वदा शोकाभिरहिताः निवृत्तशरीराद्यहंममाभिमानतया तन्मूलाधिव्याधिक्लेशविरहि- ताः भवद्भक्ताः भवतश्विरे लब्धप्रेमतया नामानि कीर्तयन्तश्चरितानि गायन्तश्च मुक्ता जीवन्मुक्ता भूत्वास्मिन् लोकेऽसक्ताः परानुग्रहैकपराः सुखगतिम् अभीष्टसञ्चारं न १. 'पि प' क. पाठः, २. 'ण' ख. पाठः, ३. 'मि वा क. पाठः, स्किन्धः-१ नारायणीये २४ । MANMAD विदधते कुर्वन्ति । अथवा सुखगतिः ब्रह्मानन्दप्राप्तिः, तां न विदधते । अस्मिल्लो- के त्वत्कृपयैव त्वद्भक्ता भूत्वा सञ्चरन्तो जना बहवः श्रूयन्ते । अयि विष्णो! मय्यपि तादृशीं कृपां कुर्विति भावः ॥ ३ ॥ के ते जना इत्यत आह- मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः। चरन्तीश ! स्वैरं सततपरिनिर्भातपरचित्- सदानन्दाद्वैतपसरपरिमग्नाः किमपरम् ॥ ४ ॥ मुनीति । श्रीनारदो मुखमादिर्येषां ते मुनिप्रौढाः मुनिश्रेष्ठाः जगति रूढाः प्रसिद्धाः खलु । किन्तु गूढात्मगतयः गूढोऽस्मदादिभिरशक्यदर्शन आत्मा गतिश्च येषां, ते तथा। अथवा आत्मगतिर्मनोगतिः देवैरप्यविदितनिग्रहानुग्रहाद्यभिप्रायवि- शेषाः । अथवा आत्मनो गतिमा॑नम् । भवत्पादाम्भोजस्मरणेन विरुजो विगतस- कलपीडाः, ते खलु जगति स्वैरं चरन्ति । कथमित्यत आह-सततेति । सततं सर्वदैव परिनिर्भातम् अनुभवपदवीमारूढं परचित्सदानन्दं सच्चिदानन्दं परं ब्रह्म, तदेवोपाधिलयादद्वैतं, तस्य प्रसरे संप्लवे परिमन्नाः तदेकीभूताः सन्तः सञ्चरन्ति । हे ईश! अतः परं किं तेषां प्रार्थनीयमवशिष्टम् । तद्वन्मामप्यनुगृह्णीष्वेति भावः ।। ननु श्रीनारदादयो मत्कृपया ज्ञाननिष्टाः सन्तो विधूतक्लेशाः स्वैरं चरन्तीति ज्ञानमेव प्रार्थ्यताम् । किमज्ञानजनितक्लेशनिरसने संशयितया भक्त्येत्याशङ्कां परिहरन् भक्ति प्रार्थयते-- भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये- दशेषक्लेशौघं न खलु हृदि सन्देहकणिका। न चेद् व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनमायमखिलम् ॥५॥ भवद्भक्तिरिति । मम स्फीता भवद्भक्तिर्भवतु । सैव ममाशेषक्लेशौघं प्रशमये- १. 'त इत्यर्थः । अ क. पाठः. २. श्रेष्ठा:' क. पाठः, 'यद्वा' क. पाठः. ४. 'मग' क. पाठ: ५. 'दमा' क. पाठः, ६. 'मिति भा' क. पाठः, ७. 'शाः सञ्च' क, पाठः, दशकम् -३] भक्तिप्रार्थना । २५ HINDIeminine दित्यत्र प्रमाणमाह ---न चेदिति । व्यासस्योक्तिः भगवद्भक्तिमाहात्म्यप्रतिपाद- कानि पुराणवचनानि, तव च वचनम् अर्जुनमुद्धवं च प्रति यदुक्तवानसि, नैगम- वचः वेदवाक्यानि, यद्वा नैगमा वेदज्ञास्तेषां वचनम् । यदि भक्तिरशेषक्लेशौघं न प्रशमयति, तर्खेतत् सकलं प्रायेण रथ्यापुरुषवचनवन्मियो अप्रमाणं भवेदिति विपक्ष बाधकस्तर्कः। अवैदिकास्त्वेवं प्रलपन्ति -वेदस्मृतिपुराणवचनानि प्रमाणं न भव- न्ति, वाक्यत्वाद् , रथ्यापुरुषवचनवदिति । नेदमनुमानं श्रुतिस्मृतिपुराणवचनाप्रामा- ण्यापादकमित्याह -न खल्विति । अयमभिप्रायः ---- यद्यद्वाक्यं तत्तदप्रमाणमिति इदमनुमानमपि वाक्यत्वादेवाप्रमाणमिति तैर्मुक्तो बाणस्तानेव विध्यति । किञ्च, आचार्यैर्वेदस्य प्रामाण्यं तन्मूलतया स्मृतिपुराणवचनानामपि प्रामाण्यं प्रपञ्चितम् । अतः श्रुतिपुराणवचनादीश्वरवचनाच्च सिद्धा भक्तर्मोक्षोपायता ॥ ५ ॥ एवञ्च भक्तिरेवोक्तमार्गेण प्रार्थनीयेति बदितुं तस्या ज्ञानादुत्कर्षमाह - भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात् किमप्यारूढा चेदखिलपरितापप्रशमनी। पुनश्चान्ते स्वान्ते विमलपरिवोधोदयमिल- न्महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ ६ ॥ भवदिति। तावच्छब्दः क्रमार्थः । भवद्भक्तिः प्रमुखे आदौ प्रथमसन्निपाते मधुरा सुखरूपा । कुत इत्यत आह - त्वद्गुणरसादिति । तव गुणेषु श्रवणस्मर- णादिषु जातश्रद्धतयाह्लादात् । ज्ञानमार्गे तु नैवं, 'यत्तदने विषमिवेति भगवद्व- चनात् । सा त्वद्गुणरसात् त्वत्कथाश्रवणश्रद्धयैव किमपि किञ्चिद् आरूढा प्रवृद्धा चेद् यथाभक्ति तत्त्वावबोधस्य विषयविरक्तेरपि सम्भवादखिलपरितापप्रशमनी अखिलस्याध्यात्मिकादेः परितापस्य प्रकर्षण समूलं शान्ति की । पुनरन्ते परि- णामे च स्वयं परिपोषं नीतायां सत्यां स्वान्ते हृदि । विमलपरिबोधेति। विगतं नष्टं मलं शरीराद्यहंममाभिमानरूपमज्ञानं यस्मात् परिबोधात् स विमलपरिबोधो ब्रह्मै- वेदं सर्वमिति ज्ञानं, तस्योदयेन मिलत् सहितं महानन्दाद्वैतं महद् ब्रह्मैवानन्दरूपं निरस्तसमस्तोपाधिकतयाद्वितीयं दिशति । भक्तिरेवानुभवपर्यन्तं ब्रह्मज्ञानं दत्त्वा १. 'भ्या भवेन प्रख. पाठः. २. 'द्वतयै' क. पाठः. ३. 'लेन शा' क. पाठः. ४. 'तो' क. पाठः, ५. 'ष्टं श' क. पाठः, नारायणीये [स्कन्धः-१ चिदानन्दाद्वैतब्रह्मैक्यरूपं मोक्षमपि ददातीत्यर्थः । अतः अस्मान्मोक्षादपरं जीवैः किं प्रार्थ्य, न किमपीत्यर्थः । अथवा अतः अस्या आदिमध्यावसानेऽपि सुखरू- पाया भक्तेः अपरं ज्ञानादि किं प्रार्थ्य, न प्रार्थनीयमेवेत्यर्थः ॥ ६ ॥ एवं प्रेमलक्षणां भक्तिं स्तुत्वा स्वस्य तस्यामनधिकारमनुसन्दधानस्तत्साधन- रूपां क्रियात्मिकां भक्तिं प्रार्थयते- विधूय क्लेशान् मे कुरु चरणयुग्मं धृतरसं भवत्क्षेत्रप्राप्ती करमपि च ते पूजनविधौ । भवन्मूालोके नयनमथ ते पादतुलसी- परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥७॥ विधूयेति । क्लेशान् रोगान् बाह्यानाभ्यन्तरान् वा विधूय मे चरणयोर्युग्मं भवत्क्षेत्रप्राप्तौ धृतरसं सञ्जातकौतुकं कुरु, अन्यथा कौतुके सत्यपि त्वत्क्षेत्रगमनप्रद- क्षिणादेरशस्यत्वात् । करं करयुगलमपि च ते पूजनस्य विधिर्व्यापारः तस्मिन् धृतरसं कुरु । नयनद्वयमपि भवतः पूर्वोक्ताया मूर्तेरालोके दर्शने धृतरसं कुरु । अथ ते तव श्रीपादेऽर्चितायास्तुलस्याः परिघ्राणे प्राणं प्राणेन्द्रियं धृतरसं कुरु । श्रवणं श्रोत्रेन्द्रियमपि ते चारुणि मनोहरे चरिते स्तुतौ धृतरसं कुरु ॥ ७ ॥ अनन्तरं स्मरणं प्रार्थयते- प्रभूताधिव्याधिसभचलिते मामकबृदि त्वदीयं तद् रूपं परपरसचिद्रूपमुदियात् । उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ८॥ प्रभूतेति । प्रभूतै रूढपदैः आधिभिरान्तरैर्व्याधिभिर्बादैश्च प्रसभं बलात् चलिते शरीरादियोगक्षेमैकव्यापृते मामकहृदि मदीये हृदये त्वदीयं 'सत्त्वं यत्तद् '(दशकं १. श्लो. ३) इत्यारभ्य त्रयोदशभिः श्लोकैर्वर्णितं परमरसचिद्रूपं परम- रसः परमानन्दश्चासौ चिद् ज्ञानं च, तन्मयं रूपमुदियात् । यथा तरणिमण्डलमु- १. 'दा' ख. पाठः, २. 'घ्राणे' क. पाठः. ३. 'शश्लो' ख. पाठः.

दशकम् --३] भक्तिप्राथनों। २७ द्यत्तिमिरनिकर दूरीकुर्वदेवोदेति, तद्वन्ममाज्ञानविजृम्भिताधिव्याधिजालं समूलमु- न्मूलयदेव मम हृदि बद्रूपसुदेविति भावः । एवञ्चाहं भवति प्रेमातिशयलाभाद् उदञ्चद्रोमाञ्चालङ्कृतशरीरः गलितबहुहर्षाशुनिवहो बाप्पजडावसिक्तसर्वाङ्गः सन् दुरुपशमाः शमयितुमशक्या याः पीडा आध्यात्मिकायाः, तत्कर्तृकान् परिभवान् उपद्रवान् यथा सम्यग् विस्मर्यासं विस्मरणं कुर्याम् । अथवा यथा विस्मर्यासं तथा हृदि त्वद्रूपमुदियादिति सम्बन्धः ॥ ८ ॥ अपिच- मरुदेहाधीश! त्वयि खलु पराञ्चोऽपि मुखिनो भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । अकीर्तिस्ते मा भूद् वरद ! गदभारं प्रशमयन् भवद्भक्तोत्तंसं झटिति कुरु मां कंसदमन! ॥ ९ ॥ मरुदिति । मरुदेहाधीश! हे श्रीगुरुवायुपुरनाथ ! त्वयीश्वरे पराञ्चोऽपि विमुखा नास्तिका अपि सुखिनो दृश्यन्ते खलु, अन्ये भक्ताः सुखिन इति किमु- च्यते । भवतीश्वरे वेहोऽम्यास्तीति भवत्स्नेही सोऽहं यः हे सत्यपि क्लेशाभि- भूततया स्मरणादिप्वसमर्थः, सोऽहं सुबहु अधिकं परितव्ये परितापमनुभवामि च किमिदमीश्वरेऽपि वैषम्यमिव । न च तेऽपि जन्मान्तरे भवन्तं सेवितवन्तः, अतः सुखिनो भवन्ति, कुतश्चित्तु कारणात् सम्प्रति त्वयि पराञ्छो जाता इति शक्यं शङ्कितुं, भवत्सेवकानामप्रच्युतिप्रसिद्धिभङ्गप्रसङ्गात् । किञ्च, अहं दुःखिप्वन्त- र्भवाणि, नात्र खेदः । तव त्वीश्वरस्यापि जीवेषु वैषम्यमस्तीति दुष्कर्तिः स्यात् । ततश्च जीवानां सेवामान्द्यमपि स्यादित्येव मम खेद इत्याह अकीर्तिरिति । हे वरद ! कंसदमन! इत्याभ्यां सम्बोधनाभ्यां दुष्टनिग्रहशिष्टाभीष्टदानाभ्यामेवे- श्वरस्य शरीरोपादानमिति सत्कीर्तिद्योत्यते । तस्यां सत्यां ते तव कुतश्चिदकीर्ति- दुष्कीर्तिरपि मा भूत् । तत्रोपायमाह - गदभारमिति । गदा रोगा एव भारः सोढुमशक्यत्वात् , तं प्रशमयन् मां झटिति अकीर्तिव्याप्तेः पूर्वमेवातिशीघ्रं भवद्भक्तानामुत्तंसमलङ्कारभूतं प्रधानं कुरु । एवंच त्वं चाहं च कृतार्थो स्वं इत्यर्थः ॥९॥ । १. 'भगव' क. पाठ:. २. 'रेऽपि भ' क. पाठः, ३. 'वि' क. पाठः, ४. 'स्वः ।। क. पाठः.

२८ नारायणीये स्कन्धः-१ एवं स्तुतिमुखेन प्रार्थनामुखेन च भक्तेभक्तानां च स्वरूपं वर्णयन् प्रकरण- मुपसंहरति किमुक्तैर्भूयोभिस्तव हि फरुणा यावदुदिया- दहं तावद् देव! प्रहितविविधापिलपितः । पुरः क्लुप्ते पादे वरद ! तब नेष्यामि दिवसान् यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ १० ॥ किमिति । भूयोभिरुक्तैर्बहुभिः प्रलापैः किं फलं, तव करुणाभावे न कि- मपीत्यर्थः । हे देव! भक्तानां हृद्युद्योतमान! यावद् यस्मिन् काले तव हि ईश्वर- स्यैव करुणा कृपा उदियात् प्रादुर्भवति, तावत् तावत्कालपर्यन्तम् अहं प्रहितं त्यक्तं विविधम् उक्तप्रकारेण बहुविधम् आर्तानां प्रलपितं निरर्थकं वचनं येन स प्रहित- विविधार्तप्रलपितः तथाभूतः सन् पुरः पुरोभागे क्लप्ते सङ्कल्पिते अथवा प्रतिमास- म्बन्धिनि तव श्रीपादे यथाशक्ति यावदारोग्यं व्यक्तं निश्चिनोमीति यावत् । नति- नमस्कारः नुतिः स्तुतिः निषेवा पूजा, ताः विरचयन् विशेषेण भक्तिश्रद्धावृत्तिस- हितं कुर्वन् दिवसान् नेप्यामि, मम प्रलापेनें केवलेन त्वत्कृपा नोदयमासादयति । किञ्च, वृथा कालक्षेपः स्याद् , अतो यथाशक्ति त्वत्सेवां कुर्वन् त्वत्कृपां च प्रति- पालयन् दिवसान् नयामीत्यर्थः । एवं पञ्चदशभिः श्लोकैः परीक्षिदाख्यानसिद्धं भक्तेभक्तानां च स्वरूपं वर्णितम् ॥ १० ॥ इति भक्तस्वरूपवर्णनं भक्तिप्रार्थना च तृतीयं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियायां प्रथमस्कन्धपरिच्छेदः। आदितः श्लोकसङ्ख्या ३०. १. 'न त्व' ख. पाठः, २. 'पा' क. पाठः.

mammeanine rane अथ द्वितीयस्कन्धपरिच्छेदः। त्रिगुणं द्विगुणं शुद्धसत्त्वैकगुणनिर्गुणम् । द्वितीयोक्तं हरे रूपमुपास्यमुपवर्ण्यते || अथ द्वितीयस्कन्धाश्रयणेन भगवन्मूर्तिभेदतदुपासनतत्कलादि प्रपञ्चयिष्यन् प्रथमं स्वस्य तस्मिन्नधिकारायारोग्यं प्रार्थयते- कल्यतां मम कुरुष्व तावती कल्यते भवदुपासनं यया। स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥१॥ कल्यतामिति । मम तावती कल्यताम् आरोग्यं कुरुष्व, यया यावत्या कल्यतया भवदुपासनं कल्यते अनुष्ठातुं शक्यते । स्पष्टम् इदं निश्चितम् । यद्यह- मरोगः स्या, तर्हि आश्वष्टविधस्य यमनियमाद्यष्टाङ्गस्य योगस्य चर्यया अनुष्ठानेन पुष्टया सम्पूर्णाङ्गया । सम्प्रति मदकल्यतैव योगाङ्गवैकल्ये कारणमिति भावः । तव तुष्टिं प्रसादम् आप्नुयाम् लभेय ॥१॥ इदानीं यथाशक्ति करोमीत्याह- ब्रह्मचर्यदृढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः। कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः॥२॥ ब्रह्मचर्येति । ब्रह्मचर्यस्य दृढता नाम स्त्रीणां दर्शनस्पर्शनादिवर्जनम् । आदिशब्देनाहिंसासत्यास्तेयादि गृह्यते । आप्लवः स्नानम् । अत्रादिशब्देन मनः- शुद्धिजपतपोहोमादि गृह्यते । एतैर्यमैर्नियमैश्च पाविताः शुद्धाः सन्तैः भवान् परः प्रधानो येषां ते भवत्पराः अमी वयं पङ्कजमाद्यं प्राथमिकं यस्य तत् पङ्कजाद्यं पद्मा- सनं स्वस्तिकासनमन्यद् वा सुखासनं यथासुखमासनं दृढं कुर्महे ॥२॥ आसनदाढये सति प्राणायाम कुर्म इत्याह तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः। इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥३॥ तारमिति । तारं प्रणवम् अन्तः हृदि सन्ततं तैलधारावद् घण्टानादवच्चा- विच्छिन्नमनुचिन्त्य विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहं कृत्वा प्राणवायु- १. 'येति॥' क. पाठः, २. 'नादि ख. पाठः, ३. 'न्तः भवत्पराः भ ख.पाठः, ४. 'नं कु' क. पाठः. । Mainpedia ३० नारायणाय मभियम्य पूरकरेचककुम्भकैः वायुंजयं कृत्वा निर्गतानि मलानि रागादीनि येभ्यस्तै निर्मलाः । तदुक्तं 'प्राणायामैदेहेद दोषान् धारणाभिश्च किल्बिषान्' (श्रीभा. रक. ३. अ. २८. श्लो. ११) इति । अथ अनन्तरम् इन्द्रियाणि विषयादपहृत्येति प्रत्याहार उक्तः । भवदुपासने धारणाद्युत्तरभूमिकायाम् उन्मुखा आरुरुक्षवः सन्तः आस्महे पूर्वभूमिकामेवाभ्यस्यन्तो भवत्कृपां प्रतिपालयाम इत्यर्थः ॥ ३ ॥ क्रमप्राप्तां धारणामाह- अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । तेन भक्तिरसमन्तरार्द्रतामुदहेम भवदधिचिन्तकाः॥४॥ अस्फुटेति । अस्फुटे अस्पष्टे आपाततः प्रतीते ते तव वपुषि प्रयत्नतो मु- हुर्मुहुर्धिषणां बुद्धिं धारयेम । अत्र बुद्धेर्निद्रादोषे सति तदुबोधने प्रयासः प्रयत्नः । तथान्यविषयॊलम्बने सति तच्छमनं कर्तव्यमिति मुहुर्मुहुँरित्युक्तम् । एवं धारणां कलयाम इति यत् तेन धारणाँकलनेन भक्तिरेव रसः तं तदनुभावमन्तरार्द्रतां चोद्वहेम प्राप्नुयाम । ततो वयं भवदनिचिन्तकाः परमभागवर्तीश्च भवेमेति ॥ ४॥ ध्यानमाह Kamasan विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् । अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः॥५॥ विस्फुटेति । विस्फुटा विशेषेण स्पष्टाः श्रीमत्पादादिकेशान्ता अवयवभेदा यस्मिंस्तद् विस्फुटावयवभेदं तादृशं सुन्दरं स्फुटप्रतीयमानसौन्दर्य च त्वद्वपुः सुचिरशीलना दीर्घकालं धारणाध्यानयोरभ्यासः तद्वशाद् अश्रमम् अनायासेन मनसि चिन्तयामहे । 'आहूत इव मे शीघ्रं दर्शनं याति चेतसि' (श्रीभा. स्क. १. १. 'यु जित्वा' ख. पाट:. २. 'स्तादृशाः सन्तः । त' ख. पाठः. ३. 'रो दर्शितः ।' ख. पाठः. ४. 'यावलम्बनेऽपि स' ख. पाठः. ५. 'हुर्योत्यते । ए' क. पाठः. ६. 'कुर्यामेति' क. पाठः. ७. ‘णानुष्ठाने' क. पाठः. ८. 'ताः सन्तो जन्म(भाज: स्यामे' ख. पाठः, ९. 'षतः स्प' ख. पाठः, १०. 'दसु' क. पाठः. ११. 'च किं तत् त्व' क. पाठ:.

awan दशकम् -४] अष्टाङ्गयोगवर्णनम् । ३१ अ. ६. श्लो. ३४) इति यथा श्रीनारदवचनं, तथेत्यर्थः । एवञ्च वयं ध्यानयोगे ध्यानरूपे त्वत्प्राप्त्युपाये निरतास्तत्परोस्त्वदाश्रयास्त्वद्भक्ता भवेमेति शेषः ॥५॥ अथ समाधिमाशास्ते ध्यायतां सकलमूर्तिमीदृशीमुन्मिपन्मधुरताहृतात्मनाम् । सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि! तेऽवभासते ॥६॥ ध्यायतामिति । अयि भगवन् ! ते तव ईदृशीं सकलमूर्ति ध्यायताम् उन्मिषन्त्या अभिव्यक्तया मधुरतया तव वपुम्सौभाग्येन हृत आत्मा मनो येषां ते उन्मिषन्मधुरताहृतात्मानः, तेषां सान्द्रमोदरसरूपं सान्द्रानन्दैकरसस्वरूपं ते रूपं स्व- रूपभूतं ब्रह्म आन्तरम् अन्तरिन्द्रियग्राह्यं ज्ञातृज्ञानज्ञेयरूपेण भेदेनाभेदेन चावभासते। अनेन सविकल्पकसमाधिरुक्तः । तत्र चैवमेव भानप्रकारः। तदुक्तमाचार्येण 'तदा मृण्मयगजादिभानेऽपि मृद्भानवद् द्वैतभानेऽप्यद्वितीयं वस्तु भासत' इति ॥ ६ ॥ अंथ निर्विकल्पकसमाधेः स्वरूपं दर्शयति- तत्समास्वदनरूपिणी स्थिति त्वत्समाधिमयि विश्वनायक!। आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥७॥ तदिति । तस्य तादृशस्य ब्रह्मणः समास्वदनं सम्यगनुभवः, तद्रूपिणी स्थितिं ज्ञातृज्ञेययोरपि ज्ञानरूपेणावस्थानं त्वत्समाधि त्वद्विषयं निर्विकल्पकसमाधि- मित्यर्थः । अत्र चायमेव भानप्रकारः । तदुक्तं तदा जलाकाराकारितलवणानवभा- सेन जलमात्रावभासवदद्वितीयवस्तुमात्रमवभासत' इति । हे विश्वनायक ! जगन्नाथ ! तादृशं त्वत्समाधिमाश्रिता वयं पुनरतोऽस्मात् स्थानात् परिच्युतौ सत्यां भ्रंशे सति धारणादिकं पुनश्चारभेमहीति । अयमाशयः- निर्विकल्पकसमाधेर्लयविक्षेपकषायर- सास्वादरूपाश्चत्वारो विघ्नाः संभवन्ति । तत्र लयो निद्रा । विक्षेपोऽन्यावलम्बनम् । कषायो विषयवासनया स्तब्धंभावः । रसास्वादः सविकल्पकानन्दास्वादनम् । RADHA १. 'श्चेद् व' क. पाठः. २. 'राः सन्तस्त्व' क. पाठः. ३. 'धिं दर्शयति' क. पाठः. ४. 'तादृशानां सा' ख. पाठः. ५. 'मिति अ' क. पाठः. ६. 'ह्यतया ज्ञा' क. पाठः, ७. 'यभेदेन च भासत इत्यर्थः। अनेन च स' क. पाठः. ८. 'वं भानप्रकार आचार्येणो. क्त:-तदा' ख. पाठः. ९. 'निर्वि' क. पाठः. १०. र उक्तः-तदा' ख. पाठः, ११. से ज' क. पाठः, १२. 'नरप्यार' क. पाठः, १३. 'ब्धी' क. पाठः.

नारायणीये [स्कन्धः-२ purpose - एतैर्दोषैः परिच्युतौ सत्यां पुनरपि धारणादिकमारब्धव्यम् । यदा तु चित्तमेतैर्दो- पैविरहिततयाचलं ब्रह्ममात्रमवतिष्ठते, तदा निर्विकल्पकसमाधिरित्युच्यते 'यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता' (गी. अ. ६. श्लो. १९) इति भगवद्वचना- दिति ॥७॥ अथ समाधिविजये जीवन्मुक्तताप्राप्तिमाह इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः। मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ ८ ॥ इत्थमिति । इत्थम् उक्तप्रकारेण धारणाध्यानसमाधीनामभ्यसनेन निर्भरम् अतिशयेन उल्लसता आविर्भूतेन त्वत्परात्मसुखेन त्वत्स्वरूपपरब्रह्मानुभवजनितेना- नन्देन कल्पितो निवृत्त उत्सवो येषां तथाभूताः सन्तो वयं मुक्तानां भक्तानां च कुलानि समूहाः, तेषां मौलितां प्रधानतां गतोः प्राप्ताः सन्त इति । अयं भावः यद्यपि ब्रह्मणि साक्षात्कृते सति अज्ञानतत्कार्यपूर्वसञ्चितकर्मसंशयविपर्ययादीनां बा- धितत्वादखिलबन्धरहिता ब्रह्मनिष्ठा भवन्ति, तथापि यावत् प्रारब्धकर्म परिसमाप्यते, तावत् पूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि च । यथेन्द्रजालमिदमिति ज्ञानवन्तस्तदिन्द्रजालं पश्यन्तोऽपि परमार्थतो न पश्यन्ति, तद्वदेतेऽपि लोकव्यव- हारं ब्रह्मज्ञानबाधितत्वादपरमार्थतया पश्यन्तः कञ्चित् कालं सञ्चरन्ति । सेह जी- वन्मुक्तावस्थोच्यत इति तादृशावस्थापन्नाः शुकनारदादयः । हे भगवन् ! वय- मपि यदि भवत्कृपाभाजनं भवेम, तर्हि तादृशाः सन्तः सञ्चरेमेत्यर्थः ॥ ८॥ ननु ब्रह्मज्ञानानन्तरं प्रारब्धकर्मावसाने मुक्तिरित्युक्तम् । तदनुपपन्नं, श्रीना- रदादीनां प्रारब्धकर्मनाशीद देहपातेऽसत्यपि देहान्तरप्राप्तिश्रवणादित्याशङ्कय विजित- समाधीनां तादृशां यथेष्टां गतिमाहे सप्तभिः- त्वत्समाधिविजये तु यः पुनर्मक्षु मोक्षरसिकः क्रमेण वा । योगवश्यमनिलं षडाश्रयैरुन्नयत्यज! सुषुम्णया शनैः ॥९॥ त्वदिति । हे अज! त्वयीश्वरे समाधिश्चित्तैकाग्रयं त्वत्समाधिः, तस्य वि- जयो निवातस्थितदीपवदनायासेन दीर्घकालमवस्थानं, तस्मिन् सति यस्तु पुन- १. 'मनेनोक' ख. पाठः. २. 'ताइ' क. पाठः. ३. 'सा हि जी' ख. पाठः. ४. 'शेन दे' ख. पाठः, ५. 'ह त्वत्समाधीत्यादिस' ख. पाठः, ६ 'स्थदी' ख. पाठ: ! - G AADNIGRAIN दशकम् -४] योगसिद्धिवर्णनम् । मक्षु झटिति मोक्षरसिकः सद्योमुक्त्याग्रही भवति । क्रमेण वेति यस्तु क्रममुक्त्या. ग्रही वाँ भवतीत्यर्थः । द्विविधोऽपि सः योगवश्यं प्राणायामवशीकृतम् अनिलं प्रा- णवायु षडाश्रयैः सुषुम्णया सुपुम्णानाडीद्वारेण उन्नयतीति, स्वपाणिना गुदं संपीज्य मूलाधारनाभिहृदुरस्तालमूलभूमध्यरूपैः पभिराश्रयैः स्थानैः शनैः क्रमादविरो- पयतीत्यर्थः ॥९॥ एतदन्तमुभयोरपि समानं, पुनर्निरामहस्य विशेषमाह - लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः । ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥१०॥ लिङ्गेति । निराग्रहः सद्योमुक्त्याग्रही अथो अनिलं भ्रूमध्यमधिरोप्य मुहू- त स्थित्वानन्तरं लिङ्गदेहमाप सन्त्यजन् स्थूलशरीरं सूक्ष्मशरीरं च सम्यगपुन- रावृत्तये त्यजन् त्वयि परे ब्रह्मात्मके लीयते मूर्धनि विभिध । यथा ज्योतिज्योतिपि लीयते, तथा त्वत्सायुज्यं प्राप्नोतीत्यर्थः । अन्यस्य विशेषमाह - ऊर्ध्वलोककुतुकी तु ब्रह्मादिलोकानुभवकौतुकवांश्चेद् भवति, तर्हि मूर्धतः मूर्धान निर्भिद्य तद्बारेण करणैरिन्द्रियैः सार्धमेव पञ्चप्राणमनोबुद्धिदशेन्द्रिय समुदायात्मकलिङ्गशरीरेण सह निरीयते* निर्गच्छति । अयमाशयः-ब्रह्मरन्ध्रान्तःस्थितायाः सुषुम्णानाड्याः सूर्य- रश्मीनां च नित्यसम्बन्धोऽस्ति । अतो जीवस्तद्वारा ब्रह्मरन्ध्रान्तमागत्य निर्यद्भिः सूर्यरश्मिभिः सह बहिर्निर्गच्छतीति ॥ १० ॥ अनन्तरमग्न्याद्यातिवाहिकदेवतातिक्रमणप्रकारमाह अग्निवासरवलक्षपक्षगैरुत्तरायणजुपा च देवतैः । प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ ११ ॥ १. 'क्षे' स्व. पाठ:. २. 'स्यात् ।' ख. पाठ:. ३. 'स्यादित्य' ख. पाठः, 'लिङ्गदेहमपि सन्त्यजन् नि' ख. पाठः. ५. क्तिमिच्छु: अ' ख. पाठः. ६. 'लस्थ भू' ख. पाठः. ७. 'ध्याधिरोपणानन्तरं स्थू' स्व. पाठ:. ८. 'तवा त्व' क. पाठ:., 'जन् परे परब्रह्मात्मके त्वयि ली' ख. पाठः. ९. 'वलोकनकौ' ख. पाठः. १०. 'धानं भित्त्वात ख. पाठः. ११. 'यात्मलि' क. पाठ:. * निरीयते 'ईङ् गतौ दिवादिः ।

नारायणीये uniturna अग्निवासरेति । वलक्षपक्षः शुक्लपक्षः । अनि वासरं वलक्षपक्षं च गच्छ- न्ति अधिष्ठातृत्वेन प्राप्नुवन्तीति तथा । उत्तरायणजुषा उत्तरायणषण्मासान् जुषते अधितिष्ठतीति तथा । अग्न्याद्यभिमानिभिर्दैवतैरित्यर्थः । एतैर्दैवतैः रविपदं ज्योति- श्वकं प्रापितो जीवः भवत्परः भवानीश्वर एव परः सेव्यतया प्रधानो यस्य स तथा । मोदवान् तत्तद्देवतातुल्यभोगानुभवेन सन्तोषातिशयवान् भूत्वा ध्रुवपदान्तं ध्रुवलोकावधि ईयते प्राप्नोति । अत्र चेयं प्रक्रिया --अग्न्यादिदेवता ह्येनं जीवमञ्ज- लिगतपुत्रिकावत् क्रमाद् ब्रह्मलोकं प्रापयन्ति । तत्र प्रथममग्निदेवता स्वेच्छया शरीरमुत्सृज्य सूर्यरश्मिद्वारा निर्गच्छन्तं जीवमग्निलोकमार्गेण नीत्वा वासराभिमा- निदेवताहस्तं प्रापयति । सा शुक्लपक्षाभिमानिदेवताहस्तं प्रापयति । सा चोत्तरा- यणषण्मासाभिमानिदेवताहस्तं प्रापयति । सा संवत्सराभिमानिदेवताहस्तं प्रापयति । सा पुनर्देवलोकमार्गेण नीत्वा वायुदेवताहस्तं प्रापयति । सा च स्वलोकमार्गेणा- दित्यदेवताहस्तं नयति । सा च स्वमण्डलद्वारा गच्छन्तं जीवं स्वलोकमार्गेण नीत्वा चन्द्रदेवताहस्तं नयति । सी स्वलोकमार्गेण विद्युल्लोकं प्रापयति । ततश्च ध्रुवलो- कान्तं गच्छतीति ॥ ११ ॥ आस्थितोऽथ महरालये यदा शेषवऋदहनोष्मणार्यते । ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ १२ ॥ आस्थित इति । अथ ध्रुवपदप्राप्त्यनन्तरं महरालये कल्पायुषां भृग्वादी- नामालयभूते महर्लोके आस्थितः सुखेन वसन् यदी यस्मिन् काले शेषवऋदहनो- प्मणा अनन्तस्य मुखात् त्रैलोक्यदाहाय निर्गतोऽग्निरूवशिखो वर्धते. तेन च त्रैलोक्यं दह्यमानं निरीक्ष्य तस्योप्मणा चाद्यते पीड्यते, तदा भवदुपाश्रयो भव- न्तमश्विरमेव शरणं गतो वेधसः पदं सत्यलोकाख्यम् ईयते प्राप्नोति । भृग्वादिभिः सह जनर्लोकं तपोलोकं चातीत्य ब्रह्मसभां प्रविशतीत्यर्थः । अतः पुरैव वेति १. 'निवासरवलक्षपक्षान् ग' क. पाठः. २. 'नतया प्रा' क. पाठः. ३. 'णं जु' ख. पाठः, ४. 'दे' क ख. पाठः. ५. 'या ज्ञेया अ ख. पाठः. . 'अहराभि क. पाठः. ७. 'तां सन्नि- धाप' क. पाठः. ८. 'चन्द्रदेवता च स्व' क. पाठ:. ९ 'नय' क. पाठः. १०. 'ये मह' क. पाठः. ११. 'तस्तत्र सुखेन निव' क. पाठः.. १२. 'दा शे' क. पाठः. १३. 'प्राप्तः सन् वे' क. पाठः. १४. 'गत्वा तदुपर्यपि क्रमेण गच्छतीत्यर्थः ।' क. पाठः.

RU प्राय:- दशकम् -४] योगसिद्धिवर्णनम् । शेषवऋदहनोष्मप्राप्तेः प्रागेव वा यथेच्छं तत्र गन्तुं शक्यमेव । अयमत्राभि- यद्ययं त्वरितं त्वत्पदं जिगमिपुर्भवति, तर्हि विद्युल्लोकावधि गतमेनं ब्रह्माज्ञयाँ यः कश्चिदमेयवपुर्ब्रह्मलोकादागत्य विद्युल्लोकमार्गेण शक्रप्रजापतिलोकमा- र्गेण च नीत्वा विरजानदी तारयित्वा ब्रह्मलोकं प्रापयति । तदा चायं दिव्यशरीरो भवतीति ॥ १२ ॥ अथ ब्रह्मलोकं प्राप्तानां गतिद्वविष्यमाह -- तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् स्वेच्छया खलु पुरापि मुच्यते संविभिद्य जगदण्डमोजसा ॥ १३ ॥ तत्रेति । एवं सत्यलोकं प्राप्तोऽयं तत्र ब्रह्मलोके वा अथवा तव पदे विष्णुलोके वा वसन्निति । अत्रीयमाशयः सत्यलोकान्तर्भाग एव ब्रह्मविष्णु- गिरिशानां लोका इति त्रयो लोकाः सन्ति । तत्र ब्रह्मविष्णुशिवानामुपासकास्त- तल्लोकं प्राप्य तत्तत्समानान् भोगाननुभवन्ति च । प्राकृतप्रलये सति मुक्ततामेति प्राकृतानां प्रकृतिकार्याणां महदहङ्कारंतन्मात्रपञ्चकादीनां स्वस्वकारणेषु प्रकृष्टो लयो हि प्राकृतप्रलयः, तस्मिन् सति ब्रह्मणा सह मुक्तो ब्रह्ममात्रमवतिष्ठते । अथवा स्वेच्छयेति । इदमत्राकूतं- यद्ययं भुज्यमानेषु ब्रह्मादिभोगेषु मध्ये विरक्तिमापद्यते, तर्हि महाप्रलयात् प्रागेव विमुच्यते मुक्तो भवति । कथमित्य- त्राह- जगदण्डं ब्रह्माण्डम् ओजसौं संविभिद्य स्वस्य योगबलेनैव ब्रह्माण्ड कटाई निर्भिद्य तद्द्वारेत्यर्थः ॥ १३ ॥ ब्रह्माण्डभेदनप्रकारमाह- तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः । तत्तदात्मकतया विशन् मुखी याति ते पदमनावृतं विभो ॥१४॥ himire ४. १. 'गच्छतीति । अ' क. पाठः. २. 'तं जीवं ब्र' क. पाठः. ३. 'या क क. पाठ:. त्यैनं वि' क. पाठः. ५. 'तिमा' क. पाठः, ६. 'यमभिप्राय:' क. पाठः, ७. 'नभोगमनु' क. पाठः. ८. 'ये प्रा' क. पाठः. ९. 'रपञ्चतन्मात्राणां प्रलये ब्रह्मप्रलये मुक्ततामेति ब्र' क. पाठः, १०. 'त इत्यर्थः । अ' क. पाठः, 'ते स्वे' ख. पाठः, ११. 'ति । यदि ब्रह्मादिभोगेषु अतितरां विरक्ततया महाप्रलयात् प्रागेव मोक्षेच्छा जायते तर्हि इत्यर्थः । पुरा खलु प्रागे' क. पाठः. १२. 'थं ज' क. पाठः, १३. 'सा स्वस्य योगबलेनैव संविभिध ब्रह्माण्डभेदनद्वा' क, पाठः, ।

नारायणीये स्कन्धः-२ तस्य चेति । तस्य ब्रह्माण्डस्य च सप्तावरणानि सन्ति । तान्याह- क्षि- तीति । क्षितिपयोमहोनिलबावः पञ्चभूतानि, महत् महत्तत्त्वं, प्रकृतिर्माया, आसां सप्तकमेव आवतयः आवरणानि । अत्र महच्छब्दोऽहन्तत्त्वस्याप्युपलक्षकः । तेन पञ्चभूतानि महदहकारी च सतावरणानि । प्रकृत्यावरणं त्वष्टमं व्यापकमेव । एता आवृतीस्तत्तदात्मकतया तत्तदावरणमेवात्मा मूर्तिर्यस्य स तत्तदात्मकः, तत्त्या विशन्निति तत्वावरणेषु तत्तदात्मना सूक्ष्मशरीरण प्रविशन्नित्यर्थः । सुखी तत्र तत्र निरतिशयं सुखमनुभवन् हे विभो! विश्वव्यापिन् ! ते अनावृतं पदं ब्रमपदं याति । एवमावरणान्यतिक्रम्यान्ते प्राणेन्द्रियाणि स्वस्वकारणे विलाप्य तत आवरणस्यापि विलयादनावृतं ब्रह्ममात्रमेव भवतीत्यर्थः ॥ १४ ॥ एवं मुक्तः पुनर्न संसारीत्याह अर्चिरादिगतिमीहशी प्रजन् विच्युतिं न भजते जगत्पते ।। सचिदात्मक भवद्गुणोइयानुचरन्तमनिलेश! पाहिमाम् ॥ १५॥ अर्चिरादीति । ईदृशीमचिरादिगतिं व्रजन् जीवः विच्युतिं पुनरावृत्ति न भजते । अत्र हेतुगर्भ सम्बोधन--- सच्चिदात्मकेति । हे अनिलेश! श्रीगुरुवायु- पुरनाथ ! जगत्पते ! भवद्गुणोदयान त्वद्गुणोत्कर्षान् उच्चरन्तं यथाशक्ति स्तुवन्तं मां पाहि आधिव्याधिसङ्कटेभ्यो रङ् ॥ १५ ॥ । इति अष्टाङ्गयोगवर्णनं योगसिद्धिवर्णनं च चतुर्थ दशकं सपञ्चकम् । PARMARRIRAM एवं शुद्धसत्त्वमयमूर्युपासना फलपर्यन्तामुपपाद्य तस्यामनधिकारिणां विश्वमूर्ती- शोपासनां दर्शथिप्यन्नादौ भगातः स्थूलशरीरस्योत्पत्त्युपपत्तये तस्य प्रागभावं दर्श- यति व्यक्ताव्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृतप्रक्षये मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् । १. 'नाह' क. ग. पाठः, २. 'तिप' क. ग. पाठः. ३. 'हान्' ख. पाठः. विशन् त' ख पाठः. ५. 'भावेन चि' क. ग. पाठः, 'त्तया प्रवि' ख. पाठः, ख. पाठः, ७. 'ण सह प्र' क, ग. पाठः. ८. 'ट: सन्नि' क. ग. पाठः, ९. 'क्षेत्यर्थः ।' ६. 'न् त का पाठ:

दशकम् -५] विराट् पुरुषोत्पत्तिप्रकारवर्णनम् । ३७ नो मृत्युश्च तदामृतं च समभून्नाहो न रात्रेः स्थिति- स्तत्रेकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥१॥ व्यक्तेति । प्राक् पुरा प्राकृतप्रक्षये ब्रह्मप्रलये व्यक्ताव्यक्तं स्थूलसूक्ष्मात्मकं का- र्यकारणात्मकं वा इदं शीरादिकं किञ्चिन्नाभवत् । अत्र हेतुमाह-मायायां त्व- यि लयमागतायामिति । मायालये हेतुमाह -गुणसाम्यरुद्धविकृताविति । गुणाः सत्त्वरजस्तमांसि, तेषां साम्यावस्थया रुद्धाः स्तम्भिता विकृतयः कार्याणि यस्यां तादृश्यां, मायाया ब्रह्मणि लीनत्वान्मायाकार्य किञ्चिदपि तदा नासीदित्यर्थः । मृत्युः संसारः । अमृतं मोक्षः । तदा बन्धो मोक्षश्च न समभूत् । नाह्रो न रात्रेः स्थितिः मर्यादाविभागो नासीत् । तत्र तस्मिन् काले त्वमेको ब्रह्मैवाशिप्य- थाः शिष्टोऽभूः । तवापि तदानीं न लीलाविग्रहपरिग्रह इत्याह परानन्दप्रका- शात्मना सच्चिदानन्दस्वरूपेणेति । किलशब्दोऽत्रास्या अवस्थायाः तद्वाग्रूपा- म्नायान्तैकवेद्यती दर्शयति ॥ १ ॥ एतदेव प्रपञ्चयति कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्य विभो ! चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः। तेषां नैव वदन्त्यसत्त्वमयि भोः! शक्त्यात्मना तिष्ठतां नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत् सम्भवः॥२॥ काल इति । गुणः सत्त्वादिः, काल: तत्क्षोभकः, कर्म जीवादृष्टं, जीवानां निवहाः समूहाश्च, किं बहुना विश्वम् अखिलमपि कार्य मायाकार्य हे विभो ! सर्गस्थितिलयनिदानभूत ! त्वयि चिदात्मके स्वस्वरूपानुसन्धानरूपा लीला चिल्लीला तस्यां रतिम् इच्छाम् एयुपि प्राप्तवन्ति, योगनिद्रामारिप्सौ सती- त्यर्थः । तदैतानि निलीनताम् अदर्शनताम् आययुः प्राप्तवन्ति । न चात्यन्त- मसत्त्वं जातमित्याह -तेषामिति । तेषां कालकर्मादीनां शशविषाणवदत्यन्तास- त्वं नैव वदन्ति, श्रुतयस्तद्रष्टार इति वा शेषः । तत्रोपपत्तिमाह - शक्त्यात्मने- ति। अयि भोः ! भगवन् ! त्वयि शक्त्यात्मना कारणरूपेण तिष्ठतां स्थितानामित्य- १. 'लेल्यनेनात्र त्व' ख. पाठः. २. 'ता दर्शिता । ख. पाठः, ३. 'ति । त्वयि यो' क. पाठः, ४. 'प्सति स' क. पाठः. ।

नारायणीये स्कन्धः-२ र्थ ः। ननु लीनाश्चेदसन्त एवेत्याशङ्कय विपक्षे बाधकमाह --नो चेदिति । य- येषामसत्त्वं, तर्हि गगनकुसुमसदृशानामतेषां भूयः प्रलयावसाने सम्भवो न भवेत् । तच्चानिष्टम् । अतस्तेषां कारणात्मना सत्त्वमङ्गीकर्तव्यमित्यर्थः ॥ २ ॥ सम्प्रति भगवतो विराणमूर्तेरुत्पत्तिप्रकारं दर्शयत्येवमित्यष्टभिः एवञ्च द्विपराधकालविगतावीक्षां सिमृक्षात्मिकां विभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम् । मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च प्रादुर्भूय गुणान् विकास्य विदधुस्तस्याः सहायक्रियाम् ॥ एवमिति । एवमुक्तप्रकारेण ब्रह्ममात्रावशेषेण द्विपरार्धकालस्य विगतौ अ- वसाने सति । अत्र चकारो द्विपरार्धपरिमितकाल एव ब्रह्मणः परमायुरिति दर्श- यति । अयं भावः - अस्मादृशां संवत्सरो देवानामहोरात्रः “मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवत" इति वचनात् सबै ज्ञेयम् । प्राकृतप्रलयस्यापि ब्रह्मायुःपरिमि- तद्विपरार्घकालतुल्यपरिमाणत्वमनुमेयमिति । तादृशकालविगमे सति त्वयि ब्रह्मणि सिसृक्षात्मिकामीक्षां बिभ्रागे इति । ईक्षां सिसृक्षाचिन्तनादिशब्दवाच्यां मायाप्रे- रणरूपां क्रियामिव बिभ्राणे अङ्गीकृतवति सति माया स्वयं चुक्षुभे चलिता ब्र- मणः पृथंगिव प्रकाशं प्राप्ता स्थिता । किमर्थ, त्रिभुवनीभावाय, प्रागतथावि- धापि पुनस्त्रैलोक्यरूपेण विवर्तितुमित्यर्थः । मायातः एवं क्षुब्धाया मायायाः सका- शात् । खल्वित्यवधारणे । कालशक्तिः ईश्वरस्य कालाख्या शक्तिः । अखिलानां प्राक्तनजीवानोमित्यर्थाद् , अदृष्टं सुकृतदुष्कृतरूपं स्वभावोऽपि च प्रादुर्भूयास्या गु- णान् रजस्तमःसत्त्वाख्यान् विकास्य साम्यावस्थामपास्य कार्योन्मुखान् कृत्वा तस्या मायायाः सहायक्रियां त्रिभुवनीभावापत्तये परिकर्म विदधुश्चक्रुः ॥ ३ ॥ १. 'वं ब्र' ख. पाठः. २. 'संवत्सरैः ? वासरैः षष्टयुत्तरशतत्रयसङ्ख्यापरिमितैः देवानामहो- रात्र उच्यते । तादृशाहोरात्रैर्दिव्यसंवत्सरः । तैद्वादशसहस्रैश्चतुर्युगं द्विसहस्रैश्चतुर्युगैब्रह्मणोऽहोरात्रः । तादृशाहोरात्रैर्ब्रह्मणः संवत्सरः । पञ्चाशद्भिः संवत्सरैर्ब्रह्मण आयुषोऽ परार्द्धमुच्यते । तद्वितयं द्विपरामिति । त्वयि' क. पाठः. ३. 'णे अ' ख. पाठः, ४. 'थग्भूय स्थि' ख. पाठः. ५. 'नामनुशयितानामह' क. पाठः. ।

दशकम् -५] विराट्पुरुषात्पत्तिप्रकारवर्णनम्। एवं मायासृष्टिमुक्त्वा तत्कार्यस्य महतः सृष्टिमभिधातुं पुरुषस्वरूपमाह मायासनिहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवोऽपि नैवापरः। कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं माया सा खलु बुद्धितत्त्वमसृजद् योऽसौ महानुच्यते ॥ ४ ॥ मायेति । मायासन्निहितो मायोपाधिकः अप्रविष्टेन तदाश्रयत्वेन बहिःस्थि- तेनानुपहितेन वपुषा स्वरूपेण चोपलक्षितः, एकांशेन मायामवष्टभ्य स्थित इत्यर्थः । अत्र सन्निहितशब्देन परमार्थरूपस्य परमात्मनोऽपरमार्थभूतोपाधिसम्बन्धस्यापरमा- र्थता द्योत्यते । एवम्भूतो भवानं सर्वप्रकाशकत्वात् साक्षीति गीतः निगमान्त. स्तद्विद्भिर्वेति शेषः । भेदैरिति यावदुपाधिभेदमात्मानं विभज्य तां मायां, तत्कृतानु- पाधीनिति यावत् , प्रतिबिम्बतः प्रतिबिम्बरूपेण विविशिवान् प्रविष्टः शरीरादि- प्वहमित्यभिमन्यमानो भवानेव जीवोऽपि, नापरः न त्वत्तोऽन्यो जीवः । एवं जी- वेश्वरभेदेन पुरुषस्य द्वैविध्यमुक्त्वा तत्सम्बन्धे महत उत्पत्तिं दर्शयति दीति । कालकर्मस्वभावैः प्रतिबोधिता संक्षोभितरजआदिगुणतया कार्योन्मुखीकृता भवता च सञ्चोदिता आहितवीर्या सती सा माया खलु बुद्धितत्त्वमसृजत् सृष्टवती, योऽसौ महानिति महत्तत्त्वमित्युच्यते । महच्छब्दसामानाधिकरण्याय पुंस्त्वनिर्दे- शः । तद् बुद्धितत्त्वमिति पूर्वेणान्वयः ॥ ४ ॥ ननु किमिदं महच्छब्दवाच्यं, बुद्धितत्त्वमिति चेत् , तदपि किं, कीदृशं चास्य स्वरूपमित्याशङ्कायामाह तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्धोधनिष्पादकः । चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसौ संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो! भवत्प्रेरणात् ॥२॥ तत्रेति । तत्र मायाकार्येषु असौ महान् स्वयं त्रिगुणात्मकोऽपि सत्त्वप्रधानः प्रकाशबहुलत्वाजीवानां समष्टिरेको महान् जीवः । यथा वृक्षाणां समष्टिर्वनम् , एवं Nawasana काला- । Romare १. 'न् विष्णु'स' क. पाठः. २. 'तत्स्वरूपमा' ख. पाठः, ३. 'ले' क. पाठः.

नारायणीये स्कन्धः -२ समष्ट्यात्मकेऽस्मिन् जीवे खलु निर्विकल्पं मनुष्यत्वादिविशेषणरहितं यथा भवति तथा अहमित्येवंप्रकारेण स्थितस्योद्बोधस्य ज्ञानन्य निष्पादकः कारणम् । असौ म- हान् महत्तत्त्वं कर्तृ हे विष्णो! भवत्प्रेरणात् खलु भवान् हि महान्तमधिष्ठाय तं प्रेरितवान् , अतः खल्वसौ अहंतत्त्वं चक्रे । तच्चास्मिन् जीवे सविकल्पबोधकम् अहं मनुष्य इत्यादिसविकल्पकज्ञाननिष्पादकं त्रिगुणैः संपुष्टं त्रिगुणात्मकं, तथापि तमोतिबहुलम् अतितरां तमःप्रधानमित्यर्थः ॥ ५॥ अथाहमन्त्रैविध्यमाह - सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको भूयस्तैजसतामसाविति भवनायेन सत्त्वात्मना । देवानिन्द्रियमानिनोऽकृत दिशाबाताकपाश्यविनो वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ ६ ॥ स इति । सः महत्कार्यभूतः अहं च अहङ्कारश्च भवन् उत्पन्नः सन् भूयः पुनः त्रिगुणक्रमात् त्रयाणां गुणानां सत्त्वं रजस्तम इत्यनेन क्रमेण वैकारिकस्तैजस- स्तामस इत्यनेन क्रमेण त्रिविधतां त्रिप्रकारतामासाद्य प्राप्य सत्त्वात्मना सात्त्विकेन आयेन वैकारिकाहङ्कारेण इन्द्रियमानिनो देवान् इन्द्रियाणामधिष्ठातृदेवान् अकृत कृतवान् । के ते इत्यत आह --दिशेति । दिग्वातार्कप्रचेतोश्विनः क्रमाच्छ्रो- त्रत्वक्चक्षुर्जिह्वाघ्राणानां ज्ञानेन्द्रियाणामधिष्ठानदेवताः । तत्र चायं जीवः कर्णद्वा- रादिषु स्थितानां श्रोत्रादीन्द्रियाणां स्वस्वाधिष्ठानदेवताभिः प्रेरितः श्रोत्रादीन्द्रिय- द्वारा निर्गच्छन्तीभिरन्तःकरणवृत्तिभिः शब्दादिविषयाननुभवति । एवं वहीन्द्रोपे- न्द्रमित्रप्रजापतिसंज्ञाः क्रमाद् वाक्पाणिपादपायूपस्थाख्यकर्मेन्द्रियपञ्चकाधिष्ठात्र्यो देवताः । तैरयं प्रेरितो जीवो वचनादानगमनविसर्गानन्दानुभवरूपाणि कर्माणि क- रोति । एवं चन्द्रचतुर्मुखश्रीरुद्रक्षेत्रज्ञा मनोबुद्ध्यहङ्कारचित्ताख्यान्तःकरणचतुष्टय- देवताः । तैरयं सङ्कल्पनिश्चयशरीराभिमानधारणी अधिगच्छति ॥ ६ ॥ १. 'तो' क. पाठः. २. 'पतिभिः प्रेरितैः वा' क. पाठः, ३. 'यैः वच' क. पाठ:. ४. 'नपुरीषोत्स' क. पाठः. ५. 'न्दाननुभवति' क. पाठः. ६. 'ज्ञप्रेरितैम' क. पाट:. ७. 'तैरन्तःकरणवृत्तिभिः स क. पाठः, ८. 'णा अनुभवति' क. पाठः. * वहीन्द्रोपेन्द्रमित्रप्रजापतिभिः ।

दशकम् --५] विराट् पुरुषोत्यत्तिप्रकारवर्णनम् । पुनरपि वैकारिकसष्टिगाह भूमन् ! मानसबुद्धयहइतिमिलचिताख्यकृत्यान्वित तचान्तःकरणं विभो तब बलात् खयांश एवासृजत् । जातस्तैजसतो दशेन्द्रियगणतनामसांशात् पुन- स्तन्मानं नमसो महसुश्पते! शब्दोऽजानि स्वद्धलात् ॥ ७ ॥ भूमन्निति । हे भूमन् ! विभो ! तब बलात् त्यत्प्रेरणात् सत्त्वांशः सात्त्विका- हङ्कार एव मानसबुद्ध्यहङ्गतिभिः मिलन्त्या सहितया चित्ताख्यवृत्त्यान्वितं सहितं तत् सत्त्वप्रधानमन्तःकरणं चासुजत् सृष्टवान् । तेजस्तः राजसाहङ्काराद् दशानां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च गणो जातः । तस्याहारस्य तामसांशात् पुनः हे मरुत्पुरपते! वातालयेश! बलात् त्वत्प्रेरणाद् नभस आकाशस्य तन्मात्रम् अप- वीकृतत्वात् सूक्ष्मोंऽशः शब्दः अजनि जातः ॥ ७ ॥ पुनरपि तामसाहङ्कारसृष्टिं प्रपञ्चयति शब्दाद् व्योग ततः ससनिय विमो स्पर्शलतो मारुतं तस्माद् रूपमतो महोऽयच रसं सोयं च गन्ध माहीम् । एवं माधव ! पूर्वपूर्वकलनादायाधधन्वित भूतग्राममिमं त्वमेव भगवन् ! भाकाशयस्तामसात् ॥ ८॥ शब्दादिति। हे विभो ! त्वं शब्दाद् व्योम आकाशं ससर्जिथ सृष्टवानसि । ततो व्योम्नः स्पर्श वायुगुणं, ततः म्पर्शाद् बायुं, तम्माद् मारलद् रूपं तेजोगुणं, अतोऽस्माद् रूपाद् महस्तेजः, अथच अनन्तरन् अर्थात् तेजसो रसम् अब्गुणं, रसात् तोयं, तोयाद् गन्धं पृथिवीगुणं, गन्धाद् महीं पृथिवीं च ससर्जिथ । एवं पूर्वपूर्वैः कलनाद् मेलनाद् उत्तरमुत्तरन् आद्याचधभैरन्वितमिति । अत्रायमर्थः आकाशं शब्दगुणकं, वायुः शब्दस्पर्शगुणकः, तेजः शब्दस्पर्शरूपगुणकं, जलं श- ब्दस्पर्शरूपरसगुणकं, पृथिवी शब्दस्पर्शरूपरसगन्धवतीति । हे भगवन् ! भजनी- यगुण ! हे माधव! श्रीपते ! त्वमेवेमं भूतग्रामं सगुणमहाभूतपञ्चकं तामसात् ता- मसाहङ्कारात् प्राकाशयः प्रकाशितवानसि ॥ ८॥ ।

४२ नारायणीये स्कन्धः-२ सम्प्रत्येतैस्तत्त्वैभगवतो ब्रह्माण्डनिर्माणप्रकारमाह एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ् नो शेकुर्भुवनाण्डनिमितिविधा देवैरमीभिस्तदा । त्वं नानाविधमूक्तिभिवगुणस्तत्वान्यमून्याविशं- श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः॥९॥ एत इति । एते पूर्वोक्ता भूतगणाः शब्दादिसूक्ष्मभूतानां व्योमादिमहाभूतानां च गणा दशकं, तथेन्द्रियगणा ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अन्तरिन्द्रियवृत्तिभिश्च- तसृभिः सह चतुर्दश, तदधिष्ठाभ्यो देवताश्च चतुर्दश। चः समुच्चये, यद्वा अप्यर्थे । एते जाता अपि भुवनाण्डनिर्मितिविधौ ब्रह्माण्डनिमाणव्यापारे पृथक् पृथग्भूत- त्वाद् नो शेकुः नाशक्नुवन् । यदा न शेकुः, तदा अमीभिर्देवैश्चतुर्दशभिः नाना- विधाभिः सूक्तिभिः स्तोत्रै तंगुणस्त्वन् । अयं भावः -मायासृष्ट्यनन्तरमेव त- च्छुद्धसत्त्वांशेनाङ्गीकृतलीलाविग्रहं त्वामेते देवाः सूक्तिभिः स्तुतवन्त इति । तदर्थ- नया चामूनि तत्त्वान्याविशन् प्रविशन् तेषां तत्त्वानां चेष्टाशक्तिमुदीर्य क्रियासाम- र्थ्यमुत्पाद्य तानि मियो घटयन् गुणप्रधानभावेन संयोजयन् हैरण्यं प्रकाशबहुलतया सुवर्णपिण्डवदत्युज्ज्वलम् अण्डं ब्रह्माण्डामं स्वशरीरं व्यधाः निर्मितवानसी: त्यर्थः ॥९॥ अण्डं तत् खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहवं समा निर्मिन्दनकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् । साहौः करपादमूनिवनिश्शेषजीवात्मको निर्भातोऽसि मरुत्युराधिप ! स मां बायस्व सर्वामयात् ॥१०॥ अण्डमिति । तत् खलु तदचेतनमेवाण्डं पूर्वसृष्टसलिले आवरणोदके सहस्रं समाः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । अतिष्ठत् स्थितमभूत् । ततश्च त्वं म्वांशेन तत् प्रविश्य निर्भिन्दन् विविध विभजन् चतुर्दशजगद्रूपं विविधं राजमान- त्वाद् विराट्संज्ञकं शरीरमकृथाः कृतवानसि । ततः साहः सहस्रसङ्ख्यापरिमितैः करपादमूर्धाद्यवयवानां निवहैः समूहैः निश्शेषजीवात्मकः निश्शेषाणां चराचराणां जीवः समष्ट्यात्मक एवात्मा स्वरूपं यस्य स निश्शेषजीवात्मको हिरण्यगर्भः, १. 'ताः स्तुता गुणा यस्य स त्वं नुतगुणः । अ' क. पाठः, २. 'तश्च त्वममू' क. पाठः, ३. 'पुरटपि' क. पाठः.

दशकम् -६] बिराड्देहस्य जगदात्मत्ववर्णनम् ।
तथाविधस्त्वं निर्भातोऽसि । हे मरुत्पुराधिप ! स त्वं सर्वामयात् सर्वस्माद् बाह्या-
दाभ्यन्तराच्च रोगाद् मां त्रायस्व रक्षतादित्यर्थः ॥ १० ॥
इति विराटपुरुषोत्पत्तिप्रकारवर्णनं
पञ्चदशकम् ।
!
एवं भगवतो बिराडायस्य स्थूलशरीरस्योत्पत्ति प्रदय सम्प्रत्युपासनार्थं
तदवयवभेदकल्पनाप्रकारमाह-
एवं चतुर्दशजगन्मयतां गतस्य
पातालमीश! लब पाइतलं वदन्ति ।
पाहोवदेशमपि देव. रसातले ते
गुल्फद्वयं खलु महातलमृतात्मन् ! ॥१॥
एवमिति । हे ईश! एवम् उक्तप्रकारेण चतुर्दश जगन्ति लोकाः तन्म-
यतां तन्निर्मितशरीरतां गतस्य तव पादतलं पातालं वदन्ति । उपासनाविदो
मुनय इति शेषः । पादोवदेशं प्रपदयुगलम् । अद्भुता आत्मानः शरीराणि यस्य
सोऽद्भुतात्मा ॥१॥
जो तलातलमयो मुसलं च जादू
किञ्चोरुमागयुगलं वितलातले दे।
क्षोणीतलं जघनमम्बरमा ! नाभि-
वक्षश्च शक्रनिलयस्तव चक्रपाणे! ॥२॥
जले इति । ऊरुभागयुगलमिति ऊोरधोभागो वितलम् ऊर्वभागोऽतलमि-
त्यर्थः । क्षोणीतलं जवनं कटीतटम् । जघनशब्दनिर्देशस्तु भगवत्कटितटस्य सौन्द
यविवक्षया, 'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्युक्तत्वात् । अङ्ग! हे
भगवन् ! शक्रनिलयः स्वर्गस्तव वक्षश्च हे चक्रपाणे ! ॥ २ ॥
ग्रीवा महस्तव मुखं च जनस्तपस्तु
फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयतनो! जगदाश्रितैर-
प्यन्यैर्निबद्धवपुषे भगवन् ! नमस्ते ॥३॥

४४ नारायणाये [स्कन्धः-२ Bream ग्रीवेति । तब श्रीना कण्ठदेशः महः महर्लोकः जनो जनलोकः तप- स्तपोलोकः फालं ललाटं समस्तनयल्य विश्वासनः सत्यं सत्यलोकः हे जगन्म- यतनो ! विश्वमूते! एवम् उक्ताकारेणैव जगदाशितैरन्यैर्वक्ष्यमाणैश्च निबद्ध सम्पूर्णावयवत्वेन सम्पादितं वपुर्यस्य स निबद्धवाः । हे भगवन् ! तस्मै ते नमोऽस्तु ॥ ३॥ जगदाश्रितैरन्यैरपि निववव इत्युक्तम् । तदेव प्रपञ्चयति-- त्वब्रह्मरन्ध्रपदमीवर विषकन्द- इछन्दलि केशव धनाला केशपाशाः । उल्लासिबिल्लियुगलं इहिणस्य गेहै पक्षमाणि रात्रिहिवली सविता व नेत्रे ॥ ४ ॥ त्वदिति। हे ईश्वर ! विश्वकन्द ! जगत्कारणभूत ! तब ब्रह्मरन्ध्र द्वादशान्तं, तदेव पदं स्थानं छन्दांसि वेवा एव । घना मेवाः तव केशपाशाः । उल्लासिचिल्लि- युगलं शोभनशीलं भ्रूयुगं द्रुहिणम्य ब्रह्मणो गेहं गृहम् । पक्ष्माणि ऊर्ध्वाधस्तनाक्षि- रोमाणि क्रमाद् रात्रिदिवसौ। नेत्रे नयनेन्द्रिययुगं सविता सूर्यः । चकारोऽनुक्तसमु- ञ्चयार्थः । अतः साङ्ख्ययोगौं मकरकुण्डले, आतपत्रं विकुण्ठनिलय इत्याद्यन्वे- ष्टव्यम् ॥ ४ ॥ নিয়শিলা ৭ প্রাধা कौँ दिशोऽश्वियुगलं तव नासिके द्वे । लोभत्रपेच भगवनपरोत्तरोष्ठी तारागणाश्च रदनाः शमनश्च दंष्ट्रा ॥ ५ ॥ निश्शेषेति। तब निश्शेषविश्वरचना चतुर्दशलोकनिर्माणं कटाक्षमोक्षः । तव को दिशः। अश्विनौ तव नासिके द्वे । लोभस्तवाधरोष्ठः। त्रपा तवोत्त- रोष्ठः । हे भगवन् ! तारागणा नक्षत्रपतयस्तव रदनाः दन्ताः । शमनो यम- स्तव दंष्ट्रा ॥ ५ ॥ १. ते भगवन् ए' ख. पाठः. १. 'तुल घ' का पाठ:. ३. 'घाउ' क्रपाठ:.

दशकम्-६] विराड्देहस्य जगदात्मत्ववर्णनम् । माया विलासहसितं श्वसितं समीरो जिह्वा जलं वचनमीशः शकुन्तपङ्क्तिः । सिद्धादयः स्वरगणा मुखरन्ध्रमग्नि- देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ ६ ॥ मायेति । तव विलासहसितं लीलास्मितं माया । समीरो वायुः श्वसितं श्वा- सः। तव जिह्वा जलम् । हे ईश ! ईश्वर! तव वचनं शकुन्तपङ्क्तिः पक्षिसमूहः । सि- द्धादयः सिद्धविद्याधरचारणादयः तव स्वरगणाः स्वराणां श्रुतिभेदभिन्ना गणाः षड्- जादयः । मुखरन्ध्रमास्यम् अग्निः । देवा इन्द्रादयस्तव भुजाः । धर्मदेवः देवतामूर्ति- धर्मस्तव स्तनयुगम् ॥ ६॥ पृष्ठं त्वधर्म इह देव! मनः सुधांशु- रव्यक्तमेव हृदयाम्बुजमम्बुजाक्ष ! । कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये शेफः प्रजापतिरसौ वृषणौ च मित्रः॥ ७ ॥ पृष्ठामिति । पृष्ठं त्वधर्मः। हे देव! द्योतनशील! इह अस्मिन् रूपे सुधांशुश्चन्द्रः तव मनः । तव हृदयाम्बुजमव्यक्तमेव सत्त्वादिगुणत्रयसाम्यं प्रधानमेव । हे अम्बु- जाक्ष! समुद्रनिवहाः समुद्रसमूहास्तव कुक्षिः उदरम्। प्रातःसायंसन्ध्ये तु तव वसनं वासोयुगलम् । प्रजापतिर्ब्रह्मा तव शेफः मेडम् । असौ मित्रः तव वृषणौ ॥ ७ ॥ श्रोणीस्थलं मृगगणाः पदयोनखास्ते हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः। विप्रादिवर्णभवनं वदनाब्जवाहु- चारूरुयुग्मचरणं करुणाम्बुधे! ते ॥ ८ ॥ श्रोणीति । तब श्रोणीस्थलं मृगगणाः । ते तव पदयोर्नखाः हस्त्युष्टसैन्धव- मुखाः। सैन्धवोऽश्चः । तव गमनं तु कालः । हे करुणाम्बुधे! एवंविधमूर्युपासनायां मयि तव कृपया भाव्यमिति भावः । वदनाब्जं बाहुश्च चारु सुन्दरमूरुयुग्मं च चरणौ च, तेषां द्वन्द्वः । प्राण्यङ्गत्वादेकवचनम् । ते तव वदनाब्जादिकं विप्रादीनां नारायणीये [स्कन्धः-२ वर्णानां भवनं स्थानम् । विप्राणां स्थानं तव मुखं, क्षत्रियाणां स्थानं तव बाहुः, वैश्यानां स्थानं तवोरुयुग्मम् , शूद्राणां स्थानं तव चरणौ चेत्यर्थः ॥ ८॥ संसारचक्रमाय चक्रधर! क्रियास्ते वीर्य महासुरगणोऽस्थिकुलानि शैलाः। नाड्यः सरित्समुदयास्तरवश्च रोम जीयादिदं वपुरनिर्वचनीयमीश! ॥९॥ संसारोत। अयि चक्रवर ! ईश! सर्वनियन्तः ! संसारो जननमरणादिदुःखं, तदेव परिवृत्तिसाम्याचक्र ते क्रियाः अभिज्ञाभिवदनोपादानार्थक्रियारूपाः । मह. तामसुराणां गणः समूहः तव वीर्य पराक्रमः । तवास्थिनखान अस्थिकुलानीति वा पाठः, शैलाः पर्वताः। नाड्यः सिराः सरित्समुदया नदीततयः । रोम तनूरुहाणि तरवो वृक्षाः। चोऽनुक्तसमुच्चये । इदम् ईदृशं वपुरनिर्वचनीयम् अपरिच्छेद्यं जीयात् सर्वोत्कर्षेण सहाविष्कुरुतादित्यर्थः ॥९॥ एवं विश्वमूर्युपासनासिद्धये भगवद्रूपं विमृश्यास्यामुपासनायामधिकारिण आह- ईदृग् जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः। तस्यान्तरात्मवपुषे विमलात्मने ते वातालयाधिप ! नमोऽस्तु निरुन्धि रोगान् ॥ १० ॥ ईगिति । ईदृग् उक्तप्रकारं तव जगन्मयवपुः बिरापं कर्मभाजां कर्माव- सानसमये स्मरणीयमाहुः । कर्माणि श्रवणम्मरणकीर्तनादीनि भक्त्यानि भज- न्तीति कर्मभाजः साधनभक्त्यधिकारिणः , तेषां कर्मणः घोडशोपचारायाः पूजाया अवसानसमये स्मरणीयं स्मर्तुं शक्यम् । तदन्या निष्कलोपासना शरीराभिमानि- भिरशक्येत्यर्थः । तदुक्तमर्जुनाय विश्वरूपं प्रदर्य 'मय्येव मन आधत्स्व' (गी. १२.८) इति, 'अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते' (गी. १२.५) इति च । एवं त्रिगुणात्मकविश्वमूर्युपासकः क्रमाच्छुद्धसत्त्वमयमूर्युपासनायामधिक्रियत इ- १. 'स्याम' ख, पाठः, २. 'माणि' क. पाठः. ३. 'य भगवान् विख, पाठः.

दशकम् - हिरण्यगर्भोत्पत्तिवर्णनम् । ति दर्शयन् भगवन्तं प्रार्थयते---तस्यति । तस्य तादृशस्य विराजः अन्तरात्मव- पुषे अन्तर्यामिरूपाय विमलात्मने शुद्धसत्त्वमयमूर्तये ते तुभ्यं नमोऽस्तु । हे वाता- लयाधिप! एवं क्रमादुपासनासामर्थ्याय मम रोगान् निरुन्धि नाशयेत्यर्थः ॥१०॥ इति विराडदेहस्य जगदात्मत्ववर्णन । एवं त्रिगुणात्मके भगवद्रूपे स्थिरमनसो द्विगुणात्मकहिरण्यगर्भाख्यभगवद्रूपं दर्शयति एवं देव ! चतुर्दशात्मकजगपेण जातः पुन- स्तस्यो खलु सत्यलोकनिलये जातोऽसि धाता स्वयम् । यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मक योऽभूत् स्फीतरजोविकारविकसमानासिसृक्षारसः ॥ १ ॥ एवमिति । अत्रायमभित्रायः स्थूलसूक्ष्मक्रमेण हि बुद्धयोऽर्थमवगाहन्त इति प्रथमं त्रिगुणात्मके भगवद्रपे मनः प्रणिधाय तत्र स्थिरं सद् द्विगुणात्मके, ततः परं सत्त्वैकगुणे, ततश्च निर्गुणे सूक्ष्मे ब्रह्मणि प्रवेश्य निरतिशयानन्दलाभेन कृतकृत्यतामेतीति । हे देव! एवं चतुर्दशात्मकजगद्रूपेण जातस्त्वं स्वयं खलु त्वमेव पुनरनन्तरं तस्य जगत ऊर्ध्वस् उपरि सत्यलोकनिलये धाता जातोऽसि । यं त्वां हिरण्यगर्भ शंसन्ति, शास्त्रविद इति शेषः । यतोऽखिलत्रैलोक्यस्य विराजो जीवः पञ्चप्राणमनोबुद्धिदशेन्द्रियात्मकलिङ्गशरीरसमयभिमानी, तदात्मकं तत्स्व- रूपम् । यः स्फीतैः प्रवृद्धैः रजोविकारैः रजोगुणकार्यैः अत्र भेदबुद्धिरुपकारबुद्धी रागादयश्च रजःकार्याणि तैविकसन् आविर्भवन् नाना सुरनरतिर्यगादिशरीराणि तद्भोग्यानि च स्रष्टुमिच्छा सिसृक्षा तस्यां रस आग्रहो यस्य स विकसन्नानासिस- क्षारसः । अत्र ब्रह्ममूर्तीिविश्वकर्मशास्त्रे दर्शिता "हंसारूढा चतुर्वक्रा तप्तकाञ्चनसन्निभा । शुक्लवस्त्रा लम्बकर्णकूर्चसौम्या चतुर्भुजा ॥ तुन्दिला सोत्तरीयोपवीता योगपदासना । जटामकुटशोभाब्या पिङ्गलाक्षी वरप्रदा ॥ ।

नारायणीये [स्कन्धः-२ कमण्डलाक्षसूत्र क्स्रुवपुस्तकधारिणी । प्रसन्ना ब्रह्मणो मूर्तिश्चिन्तनीया सुरैरपि” ॥१॥ सोऽयं विश्वविसर्गदत्तदृदयः संपश्यमानः स्वयं बोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् । तावत् त्वं जगतां पते ! तप तपेत्येवं हि वैहायसी वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वस्तपःप्रेरणाम् ॥२॥ स इति । सोऽयं विश्वेषां चराचराणां विसर्गे गुणवैषम्याद् विविध सर्गे सृष्टौ दत्तहृदयः उत्साही सन् स्वयं संपश्यमानो जिज्ञासमानो विचारयन् विश्व- विषयं बोधं किमाश्रयं किं वा कीदृग् वाहं सृजामीत्यजानन् चिन्ताकुलस्त- स्थिवान् तस्थी । हे जगतां पते! लोकोत्पत्तिस्थितिलयकुशल! तावत् तस्मिन्नव सरे त्वमेनं ब्रह्माणं ता तपेत्येवं वाणी तपसि प्रेरणात्मकं विधिं कुर्वन् अशिश्रवः श्रावितवानसि । कीदृशीं वैहायसी विहायस्यभिव्यक्ताम् , अदर्शितशरीरामित्यर्थः । अथापि श्रुतिसुखां श्रोत्रानन्ददायिनीम् ॥ २ ॥ तद्वचनानन्तरं विधेः प्रवृत्तिमाह- कोऽसौ मामवदत पुमानिति जलापूर्णे जगन्मण्डले दिशूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता । दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधित- स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ३ ॥ कोऽसाविति । जगन्मण्डले जलापूणे सति कोऽसौ पुमान् मामवदत् । जलमात्रशेषे जगति सति मां कश्चिदन्तर्हितोऽयमीदृशीं गिरमुक्तवान् किल । स पुमान् कः । न च कोऽपि नास्तीति शक्यं वक्तुम् । असौ इति । व्यक्तस्य वच- सः श्रवणात् कोऽपि वक्तास्तीत्यनुमीयत एव । अतः स द्रष्टव्य इति दिक्षु चतसृषूद्वीक्ष्य तद्वक्तृदिदृक्षया स्वस्थानादुत्थाय परिक्रामन् मुखमुन्नमय्यावलोक्य किमप्यनीक्षितवता न केवलं वक्तारं पुमांसं , जलाइन्यत् किश्चिदपि वस्त्वदृष्टवता तेन पुनस्तद्वाक्याथै विचार्योत्पश्यता जानता त्वं तपश्चर, ततस्ते सृष्टि- ७ १. 'एवं तपसि भगवत्प्रेरणान' क. पाठः, -- दशकम् -७] वैकुण्ठस्वरूपवर्णनम् । सामर्थ्य भविष्यतीति मां प्रतीदीश्वरप्रेरणामिति निश्चिन्वानेनेत्यर्थः। अनन्तरं च स्वधिष्ण्यमेवाधिष्ठाय दिव्यं वर्षसहस्रमित्यत्यन्तसंयोगे द्वितीया । आत्तं वीकृतम् अनुष्ठितमिति यावत् , तपो येन तादृशेन तेन ब्रह्मणा आराधितः सेवितस्त्वं तस्मै ब्रह्मणे खनिलयं स्वधिष्ण्यभूतं वैकुण्ठं वैकुण्ठलोकं दार्शतवानास । की- शम् एकाद्भुतम् , एकं मुख्यमद्भुतम् आश्चर्यम् । यस्मादमृतान्तरं नास्ति, तदेका- द्भुतं तादृशमित्यर्थः॥ ३॥ एकाद्भुतत्वं प्रतिपादयति मायति त्रिभिः माया यत्र कदापि नो विकुरुते भाते जगन्यो बहिः शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः । सान्द्रानन्दझरी च यत्र परमज्योति प्रकाशात्मक तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ! ॥ ४ ॥ मायेति । यत्र यस्मिन् वैकुण्ठनिलये माया कदापि ब्रह्मण उत्पत्तौ प्रल. येऽपि नो विकुरुते आत्मनः शरीरादेर्वेश्वरात् पृथक्त्वेन प्रदर्शनरूपं कार्य न करोतीत्यर्थः । तथाच सति कामक्रोधादिसम्भवाभावः किमु वक्तव्य इत्याह शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गता इति । शोकः पीडा, क्रोधो- ऽमर्षः, विमोहः शरीरादिष्वहंममाभिमानः, साध्वसं मरणादिभयम् एतदाद्या भावाः पदार्थास्तु दूरं गताः, यस्मादिति शेषः । यत्र च सान्द्रस्य घनीभूतस्या- नन्दस्य झरी प्रवाहः, वर्तत इत्यर्थात् । यत्र स्थितानां सर्वदा ब्रह्मानन्दानुभव एव भवतीत्यर्थः। ननु सत्यलोकेऽप्यस्ति लेशतः शोकः । तदेकदेशश्चेद् वैकुण्ठ- लोकः, कथंकारं क्लेशलेशराहित्यमित्याशङ्कायामाह -जगभ्यो बहिर्भात इति । चतुर्दशभ्यो लोकेभ्यो बहिर्भाते शोभित इत्यर्थः । अत एव परमज्योतिःप्रका- शात्मके, नात्रादित्यचन्द्रादिज्योतिषां प्रकाशः, किन्तु तेषामपि प्रकाशकं ज्योतिः परमज्योतिः, आदित्यादिप्रकाशकत्वप्रदं ज्योतिर्ब्रह्म, तदेव प्रकाशो यत्र स पर. मज्योतिःप्रकाशः, तदात्मके तादृशस्वरूपे । हे विभो! विश्वव्यापिन् ! विभावितं १. 'स्यादित्यहं श्रीनारायणेन प्रेरितस्तस्य वाक्यमेतदिति निश्चितवतेत्यर्थः' क. ग. पाठः. २. 'रं स्व' ख. पाठः. 'मात्तेन चीर्णेन तपसा अष्टाङ्गयोगेन, आत्तं तपो येनेति वा विग्रहः । तेन ब्रह्मणा त्वमीश्वर आराधितः सेवितः, ततस्त्वं तस्मै ब्रह्मणे वैकुण्ठाख्यं स्वनिलयं द' क. ग. पाठः. ५. 'तम् ॥' ख. पाठः. , - ४. 'त य' क.ग. पाठः.

লাঠি स्कन्धः-२ आह MAA- त्वया ब्रह्मणे दर्शितं तत् तथाविधं वैकुण्ठरूपं वैकुण्ठाख्यं ते तव धाम विजयते सर्वोत्कृष्टत्वेन वर्तत इत्यर्थः ॥ ४ ॥ यस्मिन् लान चतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूपणरत्नंदीपितदिशो राजद्विमानालयाः। भक्तिमाप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जना- स्तत् ते धाम निरस्तसर्वशमलं बैकुण्टरूपं जयेत् ॥५॥ यस्मिन्निति । यस्मिन् लोके दिव्याः शुद्धसत्त्वमयमूर्तयो भक्ता जना भवत्सारूप्यं प्राप्ता दीव्यन्ति द्योतन्ते । ननु किं कुर्वन्तो वैकुण्ठं गमिप्यन्तीत्यत भक्तीति । फलाभिसन्धिरहितया प्रेमलक्षणया भक्त्या प्राप्तं लब्धं तथा- विधम् उन्नतं च पदं स्थानं यस्ते, तादृशाः सन्तो दीव्यन्तीति भगवत्सारूप्यस्य प्राप्तिः कर्मणा न भवतीति द्योतयितुम् । भगवत्सारूप्यमेवाह चतुर्भुजा इत्यादि । हरिमणिरिन्द्रनीलमणिः, तद्वच्छ्यामा चासाववदाता स्वच्छा च विट शोभा येषां ते । किञ्च, नानाविधेषु भूषणेषु मकुटमकरकुण्डलमञ्जीरादिषु प्रत्यु- प्सानीत्यर्थाद् , यानि रत्नानि तैर्दीपितदिशो द्योतितदिगन्तरालाः । राजन्ति मणि- किङ्किणीजालमालावितानादिभिः शोभमानानि विमानानि व्योमयानानि आलया येषां ते, तादृशाश्च सन्तो दीव्यन्ति । यत्रैवं, तत् तादृशं ते तव निरस्तानि परा- कृतानि सर्वाणि शमलान्यज्ञानतत्काणि येन तद् वैकुण्ठरूपं धाम जयेत् सर्वो- स्कृष्टतया प्रकाशतामित्यर्थः ॥ ६ ॥ नानादिव्यवधृजनरभिता विद्युल्लतातुल्यया विश्वोन्मादनहृयगात्रलतया विद्योतिताशान्तरा । त्वत्पादाम्बुजसौरमककुतुकालक्ष्मीः स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवा तत् ते पदं देहि मे ॥ ६॥ नानेति । यस्मिन् त्वत्पादाम्बुजयोः सौरभे सौरभ्ये एककुतुकाद् अव्यभि- चारिणः कौतुकादेव हेतोः लक्ष्मीः विश्वमाता महालक्ष्मर्भिगवती स्वयं स्वात्मना १. 'टं भवतीत्य' क. ग. पाठ:. २. 'स्ते भक्तिप्राप्ततथाविधोन्नतपदाः । न कमभिस्तां गति गमिष्यन्तीत्यर्थः । भ' क. पाठः. ३. 'तुं तान् जनान् विशिनष्टि-च' ख. पाठः, ४. 'मूर्तिधरा ल' क. पाठः.

दशकम् -७] भगवत्स्वरूपसाक्षात्कारवर्णनम् । लक्ष्यते । तत्रत्यानां नयनगोचरीभवति । कीदृशी, नानादिव्यवधूजनैः बहुविध- दिव्याङ्गनासहस्ररभिवृता परिवारिता । विद्युल्लतातुल्यया सुधालिप्तविद्युत्समया । विश्वोन्मादनहृया चासौ गात्रलता चेति कर्मधारयः, तया करणेन विद्योतिता- शान्तरा प्रकाशितदिगन्तराला सती । किञ्च, विस्मयनीया इतरत्रादृष्टश्रुतपूर्वाः दिव्याः सात्त्विका विभवा उपकरणानि यस्याः सा तादृशी च सती लक्ष्यत इति । अथ विम्मयनीयदिव्यविभवमिति चेत् पाठः, तदा ते तत् पदमिति सम्बन्धः । तन्मे देहि तद् वैकुण्ठपदं मामत्युत्सुकं प्रापर्य, का ते हानिरिति शेषः ॥ ६ ॥ प्रसङ्गे सति पद्यत्रयेण वैकुण्ठपदं वर्णयित्वा स्वस्य तत्प्राप्त्युत्कण्ठामपि प्रका- श्य प्रकृतेऽवतरति- । तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसकिरीटकटकायाकल्पदीपाकृति । श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत् ते विभो! भातु मे ॥७॥ तत्रति । तत्र तस्मिन् एवम् उक्तप्रकारेण प्रतिदार्शिते प्रसादेन प्रकाशिते, स्वयेति शेषः । निजपदे आत्मलोके विधिब्रह्मा तव रूपमैक्षत दृष्टवान् । कीदृशं तदित्यत आह -- रत्नासनाध्यासितं मणिसिंहासनोपविष्टं । भावदिति । कोटिस- चापरिमितादित्यबिम्बसन्निपातबल्लसद्भिः शोभमानैः किरीटकटकादिभिराकल्पैर्भू- षणैर्दीप्रा आकृतिर्यस्य तत् , श्रीवत्सेन भृगुपदन्यासाङ्केनाङ्कितम् , आत्तस्य स्वीकृतस्य कौस्तुभमणे: कौस्तुभाख्यरत्नस्यच्छायया शोभया सर्वाङ्गीणया अरुणं पाटलं प्राप्त परभागमित्यर्थः, विश्वेषां चराचराणां कारणम् उपादानकारणभूतं यत् , तद् रूपं ब्रह्मा दृष्टवान् । हे विभो! विश्वव्यापिन् ! तत् तादृशं ते तव रूपं मे भातु ममापि प्रत्यक्षं भवतुं । इदमत्राकूतं -- स्वस्थानास्थिताय ब्रह्मणे यः प्रसीदन् आ- मायमद्भुतं वैकुण्ठलोकं, तत्र रत्नगृहे मणिमयासनोपविष्टं प्रकृष्टदिव्याकल्पप्रभा- पटलपाटलं स्वरूपं च [य : ?] प्रदर्शितवानसि, तस्य ते मत्पुरतोऽप्येवं प्रादुर्भवि- तुं प्रयासो नास्त्येव । अतोऽहं प्रार्थयेतरां तन्मे भात्विति ॥ ७ ॥ १. 'तद्वदत्युज्ज्वलया' क. पाठः, २. नि अलङ्कारादीनि य क. पाठः, ३. 'येत्यर्थः । तत्रै' क, ग, पाठः, ४. 'तु ॥ किञ्च, काला' क, ग, पाठः, 23893 ५२ नारायणीये [स्कन्धः-२ यद्यप्येतावत् पुण्यं मम नास्ति, तथाप्येतत् प्रार्थय इत्याह - कालाम्भोदकलायकोमलरुची चक्रेण चक्रं दिशा- मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् । राजकम्युगदारिपङ्कजधरश्रीमद्भजामण्डलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो ! मद्रोगमुद्रासयेत् ॥ ८ ॥ कालेति । कालाम्भोदवत् कलायकुसुमवच्च कोमला या रुच्यः शोभाः, तासां चक्रेण मण्डलेन दिशां चक्रं मण्डलम् आवृण्वानम् आच्छादयद् उदारस्य अतिमनोहरस्य मन्दहसितम्य स्यन्देन निरन्तरप्रसरेण प्रसन्नमाननं यत्र, तत् तथा विराजमानशङ्खगदाचक्राम्बुजधारि श्रीमत् शोभानित्ययुक्तं भुजामण्डलं यस्मिस्तत् स्रष्टुब्रह्मणः तुष्टिकरं हे विभो ! तव वपुर्मद्रोगं ममामयम् उद्वासयेद् उच्चाटयेद् मम मनसि त्वद्र्यमाविर्भवेद् यदि, मद्रोगाः पातकहेतुकाः पलायेरन्नेव । स्मृते मनसि गोविन्दे दूरतो यान्ति पातकाः । उदयाचलमारूढे दिननाथे तमो यथा ॥" इति वचनादिति तदप्याशास्यत इत्यर्थः ॥ ८ ॥ प्रसङ्गवशादौत्सुक्येनेवमाशास्य प्रस्तुतमविस्मरन्नाह--- दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् । जानास्येव मनीषितं मम विभो ! ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ ९ ॥ दृष्ट्येति । कमलभूः ब्रह्मा तव तद् वपुदृष्ट्वा सम्भृतसम्भ्रमः झटिति कर्त- व्येषपचारपूजानतिनुत्यादिप्वितिकर्तव्यतामौढ्यमापादयता सम्भ्रमेण कञ्चित् कालं किञ्चिदपि कर्तुमक्षमोऽवस्थितः सन् हर्षस्य भगवत्सन्निधानजन्यस्यावेशस्य वशंवदः अधीनश्च सन् त्वत्पादपाथोरुहे तव पादाब्जे. निपतितः साष्टाङ्गं दण्डवत् पतितः । पुनश्चोत्थाय प्रीत्या कृतार्थीभवन्नित्याचष्ट उक्तवान् । हे विभो ! त्वं मम मनीषितं हृद्गतं जानास्येव, सर्वजनबुद्धिसाक्षित्वात् । तथापि वक्ष्यामीत्यभिप्रायेणाह * कृदिकाराक्तिन इति श्रीष । metabarate दशकम् -७ भगबदनुग्रहबर्णनम् । द्वैताद्वैतं यद् भवत्स्वरूपं परावरे ब्रह्मणी, तत्परं तद्विषयं तद् यथार्थ ज्ञानम् आपा- दय मय्यनुग्रहेणोत्पादयति यमाचष्ट, तं त्वां भजे ॥ ९ ॥ आताने चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिभिर्वन्धोऽपि सञ्जायते । इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढः स्वयं सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥ १० ॥ आताम्र इति । (अथ स भगवान् !) आताने अरुणसरोजवदीपत्ताम्रवर्णे चरणे विशेषेण भक्तिविश्वासबहुमानादिभिः सह नम्र नमनशीलं तं ब्रह्माणं सखा सखायमिव हस्तेन हस्ते स्पृशन् ते बोधो भविता यत् प्रार्थितं तद् ज्ञानं तवा. चिरादेव भविष्यति, किञ्च सर्गविधिभिः सृष्टिव्यापारैः बन्धः शरीरबन्धोऽपि न स- जायत इति गिरमाभाष्य सानुसरणमुक्ता नितराम् अतिशयेन प्रतोप्य सन्तुष्टं कृत्वा स्वयं तचित्तगूढः तस्य ब्रह्मणः चित्त एवान्तर्हितः सन् तं ब्रह्माणं सृष्टौ समुदैरयः ब्रह्मणो हृद्यन्तर्यामिरूपेण स्थित्वा सृष्टौ तं सम्यक् प्रेरितवान् यः, स त्वं भगवन् ! उल्लाघतां ममारोग्यम् उल्लासय सम्यक् संपादयेत्यर्थः ॥ १० ॥ ४५ ॥ त्रिगुणं द्विगुणं शुद्धसत्त्वैकगुणनिर्गुणम् । द्वितीये सफलं रूपमुपास्यमुपवर्णितम् ॥ इति हिरण्यगर्भोत्पत्ति-तपश्चरण-वैकुण्ठस्वरूप-भगवत्स्वरूपसाक्षात्कार भगवदनुग्रहवर्णन सप्तमं दशकम् । इति नारायणीयस्तोत्रव्याख्या भक्तप्रियाख्यायां द्वितीयस्कन्धपरिच्छेदः। आदितः श्लोकसङ्ख्या ७५.

अथ तृतीयस्कन्धपरिच्छेदः। उक्तरूपेश्वरोपास्तिविघ्नजालनिवृत्तये । विष्णुलीलानुसन्धेया तत्र सर्गो निरूप्यते ॥ एवं मुमुक्षुणामुपासनासिद्धये समर्था समाधिसामग्री दर्शिता । तत्र योगा- तराया व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिमनोलब्धभूमिकत्वानवस्थितत्वानि दुःखदौर्मनस्याङ्गकम्पश्वासप्रश्वासाः तत्सहभुवश्च । तत्र व्याधिर्ध्यानाकल्यता । अवि- रतिविषयेच्छा । अलब्धभूमिकत्वं समाधिभूमेरलाभः । समाधेरुत्थानदशायामेतेषां शमनार्थमिष्टावाप्त्यर्थं च भगवदवतारलीलानुसन्धान कर्तव्यम् । तदुक्तं - "जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ! ॥" (भ.गी. अ. ४. श्लो.९) इति । तत्र लीला दशविधा - "अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ।।" (श्री. भा.स्क.२.अ.१०. श्लो. १) इति वचनात् । तत्रापि प्रथमं भगवतः सृष्टिलीलां तदुपयोगिनस्तत्प्रासाङ्गकांश्च वराह- कपिलचतुःसनश्रीरुद्रनारदमन्वादीनवतारान् दर्शयितुमारभते- एवं तावत् प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा। ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥१॥ एवमिति । प्राकृतप्रक्षयो महाप्रलयः, तस्यान्ते अवसाने सति आदिमे ब्राह्मे कल्पे शब्दब्रह्माख्यस्येदानीन्तनस्य ब्रह्मण आदिदिनारम्भे त्वत्तो विष्णो- लब्धजन्मा जातः सन् ब्रह्मा भूयः पुनः त्वत्त एव वेदान् ऋगादीन् आप्य ल- ब्ध्वा पूर्वकल्पोपमानां सृष्टिं चक्रे, यथर्तुषु ऋतुलिङ्गानि एकरूपाणि तथा प्रति- कल्पं सृष्टि साम्यमिति महाभारतोक्तेरुत्तरोत्तरेषु कल्पेषु पूर्वपूर्वकल्पसमानां सृष्टिं बहुशोऽसौ कृतवानित्यर्थः ॥ १॥ १. ध्या' क. पाठा ५५ दशकम् -८] प्रलयवर्णनम् । सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीबहुशो निनाय । निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै- नैमित्तिकालयमाहुरतोऽस्य रात्रिम् ॥२॥ स इति । सोऽयं ब्रह्मा चतुर्युगाणां सहस्रसङ्ख्यया मितानि परिच्छिन्नानि अहानि दिनानि कल्पाख्यानि तावन्मिताः तत्समप्रमाणा रजनी रात्रीश्च ब- हुशो निनाय बहुबारं नीतवान् । असौ वसृष्टैश्चराचरैः समं सह त्वयि श्रीना- रायणे निलीय निद्रातीति, अहःक्षये हि ब्रह्मा स्वसृष्टं चराचरं सङ्कलन्नेकार्णवेऽही- न्द्रतल्पमधिशयानेन श्रीनारायणेन सहकीभूय निद्रां गच्छति । अतः प्रलयस्य ब्रह्मणः स्वापनिमित्तत्वादस्य रात्रिं नैमित्तिकालयमाहुर्वदन्तीति ॥ २ ॥ अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । प्राग् ब्राह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमास्ति तदा विसृष्टिः ॥ ३ ॥ अस्मादृशामिति । स पुनर्ब्रह्मा अस्मादृशामहर्मुखे यानि कृत्यानि शौचाचम- नप्राणायामसन्ध्यावन्दनजपहोमादीन्यनुदिनमनुष्ठेयानि कर्माणि, तत्तुल्यां सृष्टिं सो- ऽपि भवत्प्रसादादनुदिनं करोति । अत्र च प्राक् पूर्व ब्राह्मे कल्पे जनुर्जन्म येषां ते तथा, परम् अतिचिरकालम् आयुर्वेषां तेषां मार्कण्डेयादीनामपि तदा नैमि- त्तिकालयावसाने सुप्तप्रबोधनसमा स्वापप्रबोधतुल्या । ननु तेषामपि ब्रह्मण इव सुप्तप्रबोधौ स्त इत्येव वाच्यम् । किमिति कल्पादौ सृष्टिरस्तीत्युच्यते, मैवं. तेषां ब्रह्मणि लीनत्वात् पुनश्च ब्रह्मणैव सृष्टत्वाच्च । ब्रह्मणः पुनः ब्रह्ममृष्टयभा- वात् स्वापप्रबोधावेव । ननु तस्मिादृशामिव सृष्टिरेवास्तु, किमर्थमुच्यते सुप्तप्रबो- धनसमेति, मैवं, प्राक्कल्पविषयानुस्मरणानपायात् सुप्तप्रबोधेन तुल्यत्वम् । अ- स्मादृशां तु तदभावात् सृष्टिरेवेति भेद इति युक्तमुक्तम् ॥ ३ ॥ पञ्चाशदब्दमधुना स्ववयोर्धरूप- मेकं परार्धमतिकृत्य हि वर्ततेऽसौ। १. 'धौ न स्त' क. पाठः, JHAN ५६ नारायणीये तत्रान्त्यरात्रिजनितान् कथयामि भूमन् ! पश्चाद् दिनावतरणे च भवद्विलासान् ॥४॥ पञ्चाशदिति । असौ ब्रह्मा अधुना पञ्चाशद् अब्दाः संवत्सराः प्रमाणं यस्य तत् पञ्चाशदब्दं स्वस्य वयसो द्विपरार्धलक्षणस्याधरूपं पूर्वार्धात्मकमेकं परार्धमतिवृत्य अतिक्रम्य वर्तते । हिशब्दः प्रसिद्धौ । अयं वाराहः कल्पो द्वितीयपरार्धस्यादिरिति प्रसिद्ध इत्यर्थः । तत्र तेषु कल्पेष्वादिमो ब्राह्मः कथितः । पुनश्च अन्त्यरात्रिजनितानिति समनन्तरातीतः पाद्मः कल्पः, तस्मा- दर्वाचीना रात्रिः प्रथमपरार्धस्यान्त्यरात्रिः, तस्यां जनितान् पश्चात् पुनश्च दिनाव- तरणे (पानवाराह)कल्पारम्भे च हे भूमन् ! कालदेशापरिच्छिन्न! ये भवद्विलासाः भवतः सर्गप्रलयसम्बन्धिन्यो लीलाः, तान् विलासान् कथयामि स्तोतुमारभ इत्यर्थः ।। दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास* विश्वम् ॥५॥ दिनावसान इति । अथ सरोजयोनिब्रह्मा दिनावसाने प्राक्कल्पावसाने सुषुप्तिकामः त्वयि श्रीनारायणे सन्निलिल्ये निलीनः सन् निद्रां कृतवान् । जग- न्ति लोकाश्च तदा त्वज्जठरं तवोदरदेशं समीयुः ब्रह्मणा सह प्राप्ताः । तदा प्र- लये इदं विश्वम् एकार्णवं जलमात्रशेषम् आस अभूत् ॥ ५ ॥ तवैव वेषे फणिराजि शेषे जलैकशेपे भुवने स्म शेषे । आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥६॥ तवति । एवं भुवने जलैकशेषे जलमात्रशेषे सति त्वं तव वेषे अवस्थाभे- दरूप एव शेषे अनन्ताख्ये फणिराजि नागश्रेष्ठे शेषे स्म अशयिष्ठाः । आनन्द- श्वासौ सान्द्रश्च स एवासावनुभवः सम्यग्ज्ञानं तद्रूषः । अत्र सान्द्रत्वमान- न्दानुभवेतररूपराहित्यं सच्चिदानन्दस्वरूप इत्यर्थः । योगः स्वस्वरूपानुसन्धानं स एव निदेव निद्रा योगनिद्रा स्वीयया योगनिद्रया परिमुद्रितः सम्यग् ला- छितः आत्मा स्वरूपं यस्य स तथा ॥६॥ १ 'वे तद्रूप' ख पाठः २. 'निद्रा यो' ख. पाठः. आस प्रचकाशे । 'अस गतिदीयादानेषु' । भ्वादिः । आसेत्यव्ययं वा तिप्रतिरूपम- स्त्यर्थकम् । ।

दशकम् -८] प्रलयवर्णनम् । १७ । कालाख्यशक्ति प्रलयावसाने प्रबोधयेत्यादिशता *किलादौ। त्वया प्रसुप्तं परिमुप्तशक्तित्रजेन तत्राखिलजीवधाम्ना ॥७॥ कालेति । तत्रादौ प्रलयारम्भे परिसुप्तशक्तित्रजेन परिसुप्तो निलीनः श- तीनां मूलप्रकृतिमहदहङ्कारादीनां व्रजः समूहो यस्मिन् , तथाभूतेन अखिलजीव- धाम्ना संसारदुःखखिन्नानां जीवानामतिचिरकालं विश्रमस्थानभूतेन कालाख्यश- क्तिं प्रलयावसाने चतुर्युगसहस्रलक्षणाया रात्रेरवसाने सति त्वं मां प्रबोधयेत्यादि- शता आज्ञापयता च त्वया तया कालाख्यशक्तया सह प्रसुप्तं शक्तिशक्तिमतोर- भेदमवलम्ब्य स्थितम् । यथा कश्चिद् बहुभार्यः पुरुषः इतरासु प्रसुप्तासु दयितया सह कञ्चित् कालं वसन् सुप्रबोधां तां प्रभाते त्वं मां प्रबोधयेत्यादिश्य तयैव सह गाढगाढमालिङ्गय सुसुखं निद्रां गच्छति, तद्वदिति भावः ॥ ७ ॥ चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत् त्वां किल विश्वनाथ ! ॥८॥ चतुर्युगाणामिति । आद्वितीये त्वयि एवं चतुर्युगाणां सहस्रं यावत्प्रलया- वसानं प्रसुप्ते सति पुनः कालाख्यशक्तिः प्रथमप्रबुद्धा हे विश्वनाथ! त्वां प्राबोध- यच्च । किलशब्दोऽत्र केवलपुराणप्रसिद्धिं द्योतयति ॥ ८॥ विबुध्य च त्वं जलगर्भशायिन् ! विलोक्य लोकानखिलान् प्रलीनान् । तेष्वेव सूक्ष्मात्मतया निजान्तःस्थितेषु विश्वेषु ददाथ दृष्टिम् ॥९॥ विबुध्येति । हे जलगर्भशायिन् ! आवरणोदकमध्यशायिन् ! त्वं प्रबुध्य अखिलान् लोकान् त्वयि प्रलीनान् विलोक्य । ननु प्रलीनानां कुतो विलोकनस- म्भवस्तत्राह तेप्विति । सूक्ष्मात्मतया कारणरूपेण निजान्तःस्थितेषु तेष्वेव विश्वेषु लोकेषु दृष्टिं ददाथ च दत्तवान् ईक्षितवानित्यर्थः ॥ ९ ॥ नाभिपद्मद्वारा प्रपञ्चसृष्टिप्रकारमाह ततस्त्वदीयादयि ! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् । निलीननिश्शेषपदार्थमालासझेपरूपं मुकुलायमानम् ॥ १० ॥ * 'तयादौ' इति न्याख्यातृपाठः स्यात् ।

नारायणीये [स्कन्धः-३ तत इति । अयि! भगवन् ! ततः तव विलोकनानन्तरं त्वदीयाद् ना- भिरन्ध्रात् किञ्चन दिव्यं प्रकाशबहुलत्वात् सत्त्वमयं पद्मम् उदञ्चितम् उद्भूतम् । निश्शेषाणां जीवतदुपभोग्यानां पदार्थानां माला समूहः, तस्य सङ्केपः सूक्ष्मरूपेणा- वस्थानं तद्रूपं निश्शेषप्रपञ्चबीजरूपमित्यर्थः । मुकुलायमानं मुकुलावस्थया स्थि- तम् ॥ १०॥ तदेतदम्भोरुहकुड्मलं ते कलेवरात् तोयपथे प्ररूढम् । वहिनिरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥११॥ तदेतदिति । तदेतदम्भोरुहस्य कुङ्मलं मुकुलं ते तव श्रीनारायणस्य क- लेबरात् शरीरात् तोयपथे परितो जलावृतत्वा जलप्रदेशे प्ररूढम् अङ्कुरितम् । क्रमाज्जलमतिक्रम्य बहिनिरीतम् । ततश्च परितः स्फुरद्भिः स्वधामाभिः निजदीप्ति- भिः ध्वान्तमलं तमोरूपं मलं, यद्वा अलम् अतिशयेन ध्वान्तं न्यकृन्तद् उन्मू- लितवदित्यर्थः ॥ ११॥ संफुल्लपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यधृते सरोजे । स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः॥१२॥ सम्फुल्लपत्र इति । सम्यक् फुल्लानि विकासितानि पत्राणि दलानि यस्मि- स्तत् तथा नितराम् अतिशयेन विचित्रे असामान्ये भवत ईश्वरस्य वीर्येण यो- गबलेन धृते प्रतिष्ठिते तस्मिन् सरोजे स त्वमेव विधिराविरासीद् ब्रह्मणो रूपं गृ- हीत्वा प्राविदित्यर्थः । अत एव पद्मजन्मेति नामाप्यासीत् । किञ्च स्वयम् उप- देशनिरपेक्षं प्रबुद्धाखिलवेदराशिः अर्थावबोधपर्यन्तमवगतनिगमसमूहः, स्वतः स- वज्ञश्चाभूदित्यर्थः ॥ १२ ॥ अस्मिन् परात्मन् ! ननु पादकल्पे त्वमित्थमुत्थापितपद्मयोनिः। अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास! विष्णो ! ॥ १३ ॥ अस्मिन्निति । परात्मन् ! हे परमात्मन्! जगत्कारणभूत! आस्मिन् ननु पाझकल्पे इत्थमुक्तप्रकारेण उत्थापितः सृष्टः पद्मयोनिर्येन स तथा अनन्तभूमा १. 'सी: ब्र' ख. पाठः, २. 'श इत्य ख. पाठः.

दशकम् -९] जगत्सृष्टिप्रकारवर्णनम् । अपरिच्छिन्नमहिमा त्वं मम रोगराशि निरुन्धि मम दुष्कृतरितःपरमप्यागच्छन्तं व्याधिनिवहं निवारयेत्यर्थः ॥ १३ ॥ इति प्रलय जगत्सृष्टिप्रकारवर्णनम् अष्टमं दशकं सत्रिकम् । amareARAJ एवमुत्पन्नस्य ब्रह्मणः प्रवृत्तिं कथयति स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे कुतःस्विदिदमम्बुधावुदितमित्यनालोकयन् । तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन- श्चतुर्वदनतामगाद् विकसदष्टदृष्टयम्बुजाम् ॥ १ ॥ स्थित इति । स हि कमलोद्भवः तव नाभिपङ्केरुहे तत्कर्णिकायां स्थितः सन् इदम् अम्बुजं कुतः कस्मादधिष्ठानात् । स्विदिति वितर्के । अम्बुधौ एका- र्णवे उदितम् उत्पन्नम् इत्येतदनालोकयन् अजागन् तदीक्षणे अम्बुजस्योत्पत्तिस्थान- वक्षिणे कुतूहलात् कौतुकात् प्रतिदिशं चतसृषु दिशु विवृत्तं विवलितम् आननं यत्य स तथा। चतुर्वदनतामगादिति । चतसृषु दिक्षु युगपद्वीक्षणकौतुके सति चत्वारि च वदनान्यभूवन्नित्यर्थः । विकसन्ति उन्मीलितानि अष्टौ दृष्ट्यम्बुजानि नेत्रकमलानि यस्यास्तां चतुर्वदनतामगादिति सम्बन्धः ॥ १ ॥ महार्णवविघूर्णितं कमलमेव तत् केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । क एष कमलोदरे महति निस्सहायो ह्यह कुतास्त्रिादिदमम्बुजं समजनीति चिन्तामगात् ॥२॥ महार्णवेति । महार्णवे विचूर्णितं कम्पितं केवलं तत् कम लमेव विलोक्य तदुपाश्रयं तदधिष्ठानं तव तनुं तु नालोकयन् अपश्यन् इति इत्थं चिन्तामगात् । चिन्ताप्रकारमाह- क एष इति । महति कमलोदरे निस्सहाय एषोऽहं ह्येव कः । किच्चेदमम्बुजं कुतःस्वित् समजनीत्येवं चिन्तामगात् ॥ २ ॥ पुनश्चैवं निश्चितबानित्याह - अमुष्य हि सरोरुहः किमापि कारणं सम्भवे- दितिस्म कृतानश्चयः स खलु नालरन्ध्राध्वना। १. 'त्यर्थः।।' क. पाठः.

१. नारायणीये [स्कन्धः-३ सयोगबलविद्यया समवरूढवान् प्रौढधी- स्त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥३॥ अमुष्येति । अमुष्य मदधिष्ठितस्य सरोरुहः सरोजस्याधस्तात् किमपि का- रणम् अधिष्ठानं सम्भवेत् । सम्भावनायां लिङ् । इतिस्म कृतनिश्चयः स खलु ब्रह्मा नालरन्ध्राध्वना कमलदण्डस्य रन्ध्र सुषिरमेव अध्वा मार्गः, तेन समवरूढ- वान् अवरोहणं कृतवान् । कथमस्यैतदुपायबोध इत्यत आह- प्रौढधीरिति । प्रौ- ढा ऊहापोहनिपुणा धीर्यस्य स तथा । ननु बुद्धिसामर्थ्य सत्यपि सुसूक्ष्मरन्ध्रप्रवेशः कथं सम्भवेदित्यत आह - सयोगबलविद्ययेति । योगबलं तपोबलं विद्या आत्मज्ञा- नम् । योगबलसहितया विद्ययेति । तपसा विद्यया च प्राप्तैश्वर्यतयातिसूक्ष्मशरीरो भूत्वा तत्सरोरुहनालरन्ध्र प्रविष्टबानित्यर्थः । तदपि त्वदीयमतिमोहनं लोकोत्तर- सौन्दर्ययुक्तं कलेबरं मूर्ति बहिर्मुखैर्व्यापारैर्दुष्प्रापं न तु दृष्टवान् नैव ददर्श ॥३॥ ततः सकलनालिकाविवरमार्गगो मार्गयन् प्रयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् । निकृत्य कमलोदरे सुखनिषण्ण एकाग्रधी: समाधिवलमादधे भवदनुग्रहैकाग्रही ॥४॥ तत इति । ततः अनन्तरं सकलानि नालिकाविवराणि नालरन्ध्राण्येव मार्गाः, तान् गच्छतीति सकलनालिकाविवरमार्गगः मार्गयन् अन्वेषणं कुर्वन् । अयमर्थः- कमलनालस्य बहुरन्ध्रत्वादेकेन रन्ध्रेणावरुह्यान्विष्यादृष्ट्वा पुनरन्येन पुनश्चान्येनैव- मतन्द्रितोऽन्विष्टवानित्यर्थः । एवं शतवत्सरं दिव्यसंवत्सराणां शतं प्रयस्य प्रयासं कृत्वा कमलस्याश्रयत्वेन किमपि वस्तु नैव सन्दृष्टवान् । निवृत्येति ईश्वर- स्यानुग्रहं विना किमपि ज्ञातुं कर्तुं वाशक्यमिति निश्चित्य बहिर्मुखात् प्रयासा- निवृत्य विरम्य कमलोदरे सुखनिषण्ण इत्यष्टाङ्गोपलक्षणम् । एकाग्रधीरिति धार- णोच्यते । समाधिबलं समाधेश्चित्तैकाग्र्यस्य बलम् अचाञ्चल्यम् आदधे कृतवान् । भवदनुग्रह एकस्मिन्नेवाग्रहोऽस्यास्तीति भवदनुग्रहैकाग्रही ॥ ४ ॥ १.'था' क. पाठः, २. 'रब' ख. पाठः.

दशकम् -९] जगत्सृष्टिप्रकारवर्णनम् । एवमन्तदृष्टयान्वेषणे कृते तु भवन्तं दृष्टवानित्याह- शतेन परिवत्सरैदृढसमाधिवन्धोल्लस- त्मबोधविशदीकृतः स खलु पद्मिनीसम्भवः। अदृष्टचरमद्भुतं तव हि रूपमन्तदृशा व्यचष्ट परितुष्टधी जगभोगभागाश्रयम् ॥ ५ ॥ शतेनेति । शतेन परिवत्सरैः दिव्यसंवत्सरैः शतेन स खलु पद्मिनीसम्भवो ब्रह्मा दृढेन निश्चलेन समाधेश्चित्तैकाग्र्यस्य बन्धेन चित्ततद्विषययोरेकीभावलक्षणेन प्रथनेन उल्लसता शोभमानेन प्रबोधेन ध्यातृध्येयध्यानभेदभानाभावादेकात्मविषयेण ज्ञानेन अविशदो विशदः कृत इति विशदीकृतः अज्ञानमालिन्यास्तमयेन विमलः सन् तव हि रूपं तव विष्णोरेव साक्षात् स्वरूपम् अन्तर्दशा भगवतानुगृहीतेन दिव्येन चक्षुषा व्यचष्ट दृष्टवान् । कीदृशम् , अदृष्टचरम् इतः पूर्व महता प्रयासेनापि यन्न दृष्टं तद् । अद्भुतम् अत्याश्चर्य रूपं भुजगभोगभागाश्रयं भुजगस्य अनन्ताख्य- भुजगस्य भोगः शरीरं तस्य भागः तत्कल्पिततल्पदेशः स आश्रयो यस्य तत् तथा । तत् तव रूपं दृष्ट्वा परितुष्टधीः सन्तोषातिशयेन परवशोऽभवदित्यर्थः॥५॥ तदेव रूपं वर्णयति किरीटमकुटोल्लसत् कटकहारकेयूरयुग् मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् । कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि! भावये कमलजन्मने दर्शितम् ॥ ६ ॥ किरीटेति । मूर्ध्नि पुरः पृष्ठतश्वालङ्कृताभ्यां किरीटमकुटाभ्याम् उल्लसत् शोभमानम् । कटकैः प्रकोष्ठस्थवलयैः , हारैः मुक्ताहारैः, अंसदेशालङ्कृतैः केयू- रैश्च युज्यत इति कटकहारकेयूरयुक् । तत् । मणिभिः पराय॑नानारत्ननिकरैः स्फु- रिता उज्ज्वला मेखला यस्मिंस्तद् मणिस्फुरितमेखलम् । सुपरिवीतम् अतिमोहन- वेषविशिष्टतया परिवीतं परिहितं पीताम्बरं यस्मिस्तत् तथा। अयि! भगवन् ! त्वया कमलजन्मने यद् दर्शितं नयनगोचरीकृतं, तद् वपुः सम्प्रत्यहं भावये केवलं स्मरा- " मीत्यर्थः ॥ ६ ॥ १. 'ते भ' ख. पाठ:.

नारायणीये [स्कन्धः-३ एवं भगवद्रूपदर्शनानन्तरं विधेः प्रवृत्तिं वर्णयन् भगवन्तं प्रार्थयते- श्रुतिप्रकरदर्शितप्रचुरवैभव ! श्रीपते ! हरे! जय जय प्रभो! पदमुपैषि दिष्टया दृशः। कुरुष्व धियमाशु मे भुवननिर्मिती कर्मठा- मिति द्रुहिणवर्णितस्वगुणबहिमा पाहि माम् ॥७॥ श्रुतीति । श्रुतिप्रकरैः उपनिषद्वाक्यनिकरैः दर्शितं लक्षणया प्रतिपादितं प्रचुरवैभवम् अतिशयेन महत्त्वं यस्य । अथवा वैभवं जगत्सृश्यादिसामर्थ्य श्रुति- मिर्जगत्कारणत्वेन प्रतिपादितमित्यर्थः । श्रीपते! जगदनुग्राहक! हरे! जगत्सं- हर्तः! त्वं जय उत्कर्षमाविष्कुरु । हर्षावेशसम्भ्रमाद् द्विरुक्तिः। हे विभो! त्वं मम दृशोः पदं गोचरम् उपैषि प्राप्तोऽसि दिष्टया अहो मम सुखं जातम् । ममाशु भुवननिर्मितौ जगत्सृष्टौ कर्मठां समर्थी धियं कुरुष्व जगन्निर्माणेतिकर्तव्यताविषयं ज्ञानमनुगृहाणेत्यर्थः । इति द्रुहिणेन ब्रह्मणा वर्णितः संस्तुतः स्वगुणानाम् ऐश्वर्या- दीनां बंहिमा बाहुल्यं यस्य स त्वं त्वद्गुणानेव वर्णयन्तं पाहि द्रुहिणस्येवात्मानं पुरः प्रदर्य कृतार्थीकुर्वित्यर्थः ॥ ७ ॥ अथ स्तुवतोऽस्य भगवदनुग्रहप्रकारमाह- लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे।। भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे- त्युीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ८॥ लभस्वेति । अयि विधे! त्वम् अक्षताम् अनपायिनी भुवनत्रयीरचनदक्षतां त्रैलोक्यनिर्माणसामर्थ्य लभस्व प्राप्नुहि । मदनुग्रहं गृहाण, तव जगन्निर्माणविधौ यद्यदनुगृह्णामि , तत्तत् परिगृह्णीष्वेत्यर्थः । भूयस्तपः कुरु । किञ्च तव मय्यखि- लसाधनी यद्यदिच्छसि, तस्य तस्यानायासेन निष्पादयित्री अत्युत्कटा प्रकृष्टप्रे- मलक्षणा भक्तिश्च भवत्विति गिरमुदीर्योक्ता वेधसं ब्रह्माणं मुदितचेतसं सन्तुष्टमा- नसम् आदधाः कृतवानसि ॥ ८॥ १. 'चि' मूलकोशपाठः.

दशकम् -९] जगत्सृष्टिप्रकारवर्णनम् । एवमनुगृह्य भगवति तिरोहिते वेधसः प्रवृत्तिमाह- शतं कृततपास्ततः स खलु दिव्यसंवत्सरा- नवाप्य च तपोवलं मतिबलं च पूर्वाधिकम् उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना भवद्धलविजृम्भितः पवनपाथसी पीतवान् ॥९॥ शतमिति । सः ब्रह्मा खलु शतं दिव्यसंवत्सरान् कृतं चौर्ण तपो येन स कृततपाः ततः पूर्वाधिकं तपोबलं मतिबलं विज्ञानबलं चावाप्य स पुनः पयस्ये- कार्णवे वायुना तात्कालिकेनात्युत्कटेन वातेन कम्पितं स्वाधिष्ठानं पङ्कजमुद्वीक्ष्य भवह्वलेन भवानेव बलं भवबलं तेन, ‘स वै बलं बलिनां चापरेषाम् ' (श्री. भा. स्क. ७. अ. ८. श्लो. ८.) इति प्रह्लादवचनात् । विजृम्भितो वर्धितः पवनपाथसी वायुं जलं च पीतवान् न्यपिबत् किल ॥ ९॥ तवैव कृपया पुनः सरसिजेन तेनैव स प्रकल्प्य भुवनत्रयी प्रववृते प्रजानिर्मितौ। तथाविधकृपाभैरो गुरुमरुत्पुराधीश्वर ! त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः॥ १०॥ तवेति । स पुनस्तव कृपयैव तेनैव अतिविपुलेन सरसिजेन भुवनत्रयीं भूर्भुवःस्वरिति त्रीन् लोकान् । प्रकल्प्येति । अत्रातलवितलसुतलतलातलमहातल- रसातलपातालानां सप्तानां भूर्लोकेऽन्तर्भावाद् महर्जनस्तपःसत्यमित्येतेषां स्वर्लोके चान्तर्भावात् त्रिलोकपक्षः कथ्यते । ततश्च तत् कमलं द्विसप्तधा विभज्य चतुर्द- श लोकानकल्पयदित्यर्थः । अनन्तरं च प्रजानां शुभाशुभादृष्टतारतम्येन तत्तल्लोक- योग्यानां जीवानां निर्मितौ शरीरविरचनायां प्रववृते प्रवृत्तवान् । हे गुरुमरुत्पुरा- धीश्वर! तथाविधः सर्वजनविषयः कृपाभरः करुणातिशयो यस्य स त्वं गुरुदयो- क्षितैः गुळ घनीभूतया दयया उक्षित आद्रीकृतैः ईक्षितैः कटाक्षैः आशु द्रुततरं मां पाहीति ॥ १० ॥ इति जगत्सृष्टिप्रकारवर्णनं नवमं दशकम् । UP १. 'प' घ. पाठः, ६४ नारायणीये [स्कन्धः-३ अथ सृष्टिभेदानाह वैकुण्ठेति दशभिः वैकुण्ठ ! वर्धितबलोऽथ भवत्प्रसादा- दम्भोजयोनिरसृजत् किल जीवदेहान् । स्थास्नूनि भूरुहमयानि तथा तिरश्चां जातीर्मनुष्यनिवहानपि देवभेदान् ॥१॥ वैकुण्ठेति । हे वैकुण्ठ ! विष्णो ! भवत्प्रसादाद् वर्धितबलो विद्याकर्मभ्यां प्राप्तैश्वर्यः सन्नम्भोजयोनिः अथ अनन्तरं जीवानां देहानसृजत् किल । तत्र देहाः स्थावरजङ्गमभेदाद् द्विविधाः । तदाह स्थास्नूनीति । भूरुहमयाणि वृक्षप्रायाणि ओषधिलतावीरुद्रूपाणि स्थावराणीत्यर्थः । तिरश्चां गवादीनां जातीः, तत्र गवा- दयो द्विशफाः, अश्वादय एकशफाः, श्वादयः पञ्चनखाः, काककङ्कगृध्रादयश्च, एतान् । देवान् मनुष्यांश्चासृजदित्यर्थः ॥ १ ॥ अथ स्रष्टुरबुद्धिकृतं तामससर्गमाह- मिथ्याग्रहास्मिमतिरागविकोपभीति- रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा । उद्दामतामसपदार्थविधानदून- स्तेने त्वदीयचरणस्मरणं विशुद्धये ॥ २ ॥ मिथ्येति । आत्मनोऽन्यत्वेन प्रपञ्चस्यास्तित्वप्रतीतिर्मिथ्याग्रहः, शरीरादा- वहंममाभिमानोऽस्मिमतिः, उपभोग्यबुद्ध्या धनादिष्विच्छा रागः, धनाद्यपहर्तरि क्रोधो विकोपः, उपभोग्यपदार्थानां व्ययनाशायुत्प्रेक्षया जनितं भयं भीतिः इत्येवं पञ्चविधां पञ्चप्रकाराम् अज्ञानवृत्तिम् आत्माज्ञानकार्य मिथ्याग्रहादिपञ्चाज्ञानकार्याणि सृष्ट्वेत्यर्थः । अनन्तरम् उद्दाम्नां प्रभूतानां तामसपदार्थानां केवलतमोगुणकार्याणां पदार्थानां विधानेन सृष्ट्या दूनः क्षीणमानसः सन् स विशुध्यै अज्ञाननिवृत्तये त्वदीय- चरणस्मरणं तेने कृतवान् ॥२॥ तावत् ससर्ज मनसा सनक सनन्दं भूयः सनातनमुनिं च सनत्कुमारम् । १. 'णां तामसप' ख. पाठः:

६ ५ meremony दशकम् -१०] सृष्टिभेदवणेनम् । ते सृष्टिकर्माण तु तेन नियुज्यमाना- स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ ३ ॥ तावदिति । यावदसौ त्वदीयचरणस्मरणेन शुद्धमना जातः, तावत् तस्मिन् काले सनकसनन्दसनातनसनत्कुमारान् मनसा ससर्ज । ते तु सनकादयः तेन ब्र- झणा सृष्टिकर्मणि नियुज्यमानाः प्रेरिताः तस्य वाणी नियोगरूपं वाक्यं न जगृहुः नाङ्गीकृतवन्तः । तत्र हेतुः त्वत्पादभक्तिरसिका इति । त्वत्पादाम्बुजयोः या प्रमलक्षणा भक्तिः, तस्यां रसिका इच्छावन्तः शरीरादिबन्धप्रदं सर्गकर्म नैच्छन्नि- त्यर्थः ॥ ३॥ तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः। नामानि मे कुरु पदानि च हा विरिश्चे- त्यादौ रुरोद किल तेन स रुद्रनामा ॥ ४ ॥ तावदिति । यदैवं पुत्रैः स्वानुशासनं प्रत्याख्यातं, तदेत्यर्थः। उदितम् उ- त्पन्नं प्रकोपं प्रकृष्टं कोपं प्रतिरुन्धतो धिया नियच्छतोऽप्यस्य ब्रह्मणः भ्रूमध्यतो भ्रुवोर्मध्याद् मृडोऽजनि तं कोपमेव शरीरत्वेन परिगृह्य श्रीशङ्करस्तत्रावतीर्ण इत्यर्थः । स च भवदेकदेशः विष्णोरेवांशः, “परः पुरुष एक इहास्य धत्ते स्थित्यादये हरिविरिञ्चहरेति संज्ञाः ।" (श्री. भा. स्क. १. अ. २. श्लो. २३) इति वचनात् । स चादौ जातमात्र एव हा विरिश्च! मे नामानि पदानि स्थानानि च कुर्विति रुरोद किल, तेन रोदनेन स रुद्र इति नाम प्राप्तवान् ॥ ४ ॥ एकादशाहयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्त्वा । तावन्त्यदत्त च पदानि भवत्मणुन्न: प्राह प्रजाविरचनाय च सादरं तम् ॥ ५ ॥ १. 'तः सन्तः शके. पाठः, २. 'दूना क. पाठः, नारायणीये [स्कन्धः-३ एकादशाह्वयतयेति । "मनुमन्युमहादेवो महाञ्छिव ऋतध्वजः । उरुरता भवः कालो वामदेवो धृतव्रतः ॥" (श्री भा. स्क. ३. अ. १२. श्लो. १२) इत्येकादशनामभेदात् चकारात् स्थानभेदाच विभिन्नं भेदबुद्धिगोचरं रुद्रं विधाय तेभ्यो दयिता वनिताश्चेति "धीत्तिरशनोमा च नियुत्सपिरिडाम्बिका । इरावती सुधा दीक्षा" (श्री.भा. स्क. ३. अ. १२. श्लो. १३) इत्युक्ताः स्त्रियश्च दत्त्वा तावति एकादशैव पदानि स्थानानि च अदत्त । तानि च "हृदिन्द्रियाण्यसुर्योम ब. निर्जलं मही । सूर्यश्चन्द्र तपश्चैव” श्री. भा. स्क. ३. अ. १२. श्लो. ११) इत्युक्तानि स्थानानि च अदत्त दत्तवान् । भवत्प्रणुन्नः हृदि स्थितेनेश्वरेण प्रेरितः विधिः तं रुद्रं नामादिभेदादनेकत्वप्रतिभानेऽपि परमार्थत एकरूपं प्रजाविरचनाय भार्यासु पुत्रानुत्पादयितुं सादरं संमानसहितं प्राह न्ययुत ॥ ५ ॥ " रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घ- संपूर्यमाणभुवनत्रयभीतचेताः। मा मा प्रजाः सृज तपश्चर मङ्गलाये- त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥६॥ रुद्रेति । रुद्राभिसृष्टः रुद्रेण स्वासु स्त्रीषत्पादितः, भयदा वृषभारूढा भस्मा- अागा धृतखट्वाङ्गपरशुहरिणकपालचर्मवसना फणिपतिभूषणा वह्निनयना आकृ- तिर्यस्य तादृशेन रुद्रसङ्घन संपूर्यमाणं यद् भुवनत्रयं तस्माद् भीतचेताः तत्क्षणं तेन भवतेरितः प्रेरित आत्मा मनो यस्य स कमलभूः ब्रह्मा तं रुद्रमाचष्ट आ. ख्यातवान् । मा मेहशीः प्रजाः सृज किन्तु मङ्गलाय सर्वलोकसुखाय तपश्चरेति ॥६॥ तस्याथ सर्गरसिकस्य मरीचिरत्रि- स्तत्राङ्गिराः क्रतुमुनिः पुलहः पुलस्त्यः । अङ्गादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्व भगवान् भवदध्रिदासः ॥ ७ ॥ ''घ. पाठः दशकम् -१०] सृष्टिभेदवर्णनम् । तस्येति । अथ तपश्चरणाय स्वपितरमनुज्ञाप्य रुद्रस्य तपोवनप्रवेशानन्तरं सर्गरसिकस्य कथं स्रक्ष्यामीत्येवं चिन्तयतस्तस्याङ्गाद् मरीच्यादयो दश पुत्रा अ- जायन्त । तत्र मरीचिब्रह्मणो मनसोऽजायत, अत्रिनॆत्राद् , अङ्गिरा मुखतः, ऋतु- मुनिः करात् , पुलहो नाभेः, पुलस्त्यः कर्णतः, भृगुम्त्वचः, वसिष्ठः प्राणाद्, द- क्षोऽङ्गुष्ठाद् , उत्सङ्गान्नारदश्चाजायत । भवदनिदासः भवतः श्रीपादाब्जयोर्दा- सोऽहमित्यभिमन्यमान इत्यर्थः ॥ ७ ॥ - धर्मादिकानभिसृजन्नथ कर्दमं च वाणीं विधाय विधिरङ्गजसकुलोऽभूत् । त्वद्धोधितैः सनकदक्षमुखैस्तनूजै- रुद्धोधितश्च विरराम तमो विमुञ्चन् ॥ ८ ॥ धर्मादिकानिति । विधेर्दक्षिणात् स्तनाद् धर्मः श्रीनारायणश्च जातः, अधर्मो मृत्युश्च पृष्ठतः, हृदयात् कामः, ध्रुवोः क्रोधः,अधरालोभ इत्याद्यन्वेषणीयम् । अथ कर्दमं चाभिसृजन् छायायाः कर्दमो जात इत्यर्थः । अथ विधिर्वाणी सरस्वती विधाय अङ्गजसङ्कुलः कामपरवशोऽभूत् । ततः सर्वजनबुद्धिसाक्षिणा त्वया बोधितैः सनकादिभिर्दक्षादिभिश्च तनूजेः पुत्रैरुद्बोधितः प्रतिबोधितः तमोऽज्ञानं विमुञ्चन् विरराम निवृत्तोऽभूत् ॥ ८॥ वेदान् पुराणनिवहानपि सर्वविद्याः कुर्वन् निजाननगणाच्चतुराननोऽसौ । पुत्रेषु तेषु विनिधाय स सर्गवृद्धि- मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ ९॥ वेदानिति । असौ चतुराननो ब्रह्मा निजाननगणात् चतुर्मुखेभ्यः वेदान् ऋगादींश्चतुरः पुराणनिवहान् सङ्केपरूपान् सर्वविद्याः शिक्षाद्यङ्गानि षड् मीमां- साधुपाङ्गानि चत्वारि, आयुर्वेदा पवेदाश्चत्वार इति चतुर्दश विद्याः। तत्र सर्ववि- १. 'श्व पुस्ख. पाठः, ६८ नारायणीये स्किन्धः-३] द्या इति पुराणस्यापि ग्रहणे पुराणनिवहानिति तस्य पृथगुपादानं प्राधान्यख्याप- नार्थम् । तदुक्तं- "यश्चतुर्वेदविद् विप्रः पुराणं वेत्ति नार्थतः । तं दृष्ट्वा भयमामोति वेदो मां प्रतरिष्यति ॥" इति । किञ्चास्य पञ्चमवेदत्वात् सर्वमुखेभ्यः सृष्टत्वाच्च प्राधान्यम् । ता वि- द्यास्तेषु मरीच्यादिषु पुत्रेषु विनिधाय सङ्क्रमय्य स ब्रह्मा सर्गवृद्धिम् अप्राप्नुवन् त्रिलोक्यां प्रजाविस्तारार्थ नित्यव्यापृतोऽपि तदलाभात् तत्र दैवविरोधमाशङ्कय त- निवृत्तये तव पदाम्बुजमाश्रितोऽभूत् चिन्तयामासेत्यर्थः ॥ ९ ॥ जाननुपायमथ देहमजो विभज्य स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविन्द ! मारुतपुराधिप! रुन्धि रोगान् ॥ १० ॥ जानन्निति । भवत्पदाम्बुजध्यानानुभावेन सर्गवृद्धावुपायज्ञोऽजः ब्रह्मा स्वदेहं विभज्य द्विधा कृत्वा मनुः स्वायंभुवः तद्वधूः शतरूपा ताभ्यां स्त्रीपुंसभा- वमभजत् स्वशरीरार्धेन शतरूपाम् अन्याधुन मनुं च ससर्जेत्यर्थः । ताभ्यां मनुश- तरूपाभ्यां ब्रह्मण आदेशेन मैथुनधर्मेण प्रजासर्गे प्रवृत्ताभ्यां भुवि मनुष्यकुलानि विवर्धयन् हे गोविन्द ! मारुतपुराधिप ! त्वं मम रोगान् रुन्धि वारयेत्यर्थः ॥१०॥ - इति सृष्टिभेदवर्णनं दशमं दशकम् । क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते। भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश! ॥ १ ॥ क्रमेणेति । दिव्या अप्राकृताः सात्त्विका इत्यर्थः । प्रपेदिरे पापुः ॥ १॥ । १. 'णे त' ख. पाठः, २. 'षु वि' ख. पाठ:

ODIENDS दशकम् -११] सनकादीनां वैकुण्ठप्रवेशवर्णनम् । विकुण्ठनिलयं वर्णयति- मनोज्ञनैःश्रेयसकाननाद्यैरनेकवापीमणिमन्दिरैश्च । अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥२॥ मनोज्ञेति । मनोज्ञैः सर्वर्तुशोभादिभिरतिमनोहरैः नैःश्रेयसकाननायैः निःश्रेयसं कैवल्यमेव मूर्तिमत्त्वेन स्थितमिति नैःश्रेयसं नाम काननमुद्यानं तदाद्यैः अनेकैः वाप्यो दीर्घिकाः मणिमन्दिराणि रत्नमयानि भवनानि तैः अनो- पमम् अनुपमं तं सर्वलोकाभिवन्द्यं भवतो निकेतं विकुण्ठनिलयं मुनीश्वराः सन- कादयः अतीतकक्ष्याः परिखाप्राकारादिविभक्ताः षट् कक्ष्या अतीत्य भवननिक- टस्थां सप्तमी कक्ष्यां प्रापुरित्यर्थः ॥ २ ॥ भवद्दिन भवनं विविझून द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् । तेषां च चित्ते पदमाप कोपः सर्व भवत्प्रेरणयैव भूमन् ! ॥३॥ भवदिति । भवद्दिदृशुन् समाधिगम्यं भवन्तं नयनगोचरीकर्तुकामान् तदर्थ भवनं भवन्मणिमन्दिरं विविझून् प्रवेष्टुमारब्धान् तान् सनकादीन् जयो विजयश्च द्वाःस्थौ भवत्सारूप्यं प्राप्तौ द्वारपालौ अरुन्धां वेत्रेण प्रत्यषेधतां, तत- स्तेषां चित्ते कोपः पदमवकाशमाप च । सर्व सनकादीनां वैकुण्ठप्राप्तिः, जयवि- जययोस्तत्प्रतिकूलाचरणं, मुनीनां कोपश्चैतत् सर्वं हे भूमन् ! भवतो वराहनरसिं- हश्रीरामकृष्णाद्यवतारैः क्रीडिप्यतो भवत ईश्वरस्य प्रेरणयैवेत्यर्थः ॥ ३ ॥ एवं भगवदर्शनभङ्गे सति सञ्जातेषत्कोपा मुनयो द्वाःस्थौ शप्तवन्त इत्याह वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् । इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥४॥ वैकुण्ठलोकेति । रजस्तमःक्षोभरहिते वैकुण्ठलोके अनुचिता इतः प्राक् कस्याप्यनुत्पन्ना प्रारब्धा सदतिक्रमरूपी चेष्टा व्यापारो ययोस्तौ कष्टौ अतिक्रूरौ युवां दैत्यगतिम् आसुरी योनिं भजेतं प्रामुतम् इति मुनिभिः प्रशप्तौ तौ भवदा- श्रयौ भवकिङ्करौ जयविजयौ नः अस्माकं हरिस्मृतिरस्तु युष्मदतिक्रमेण यां यां योनि व्रजामस्तत्र तत्रापि भगवत्स्मृतिरस्त्विति नेमतुः भुवि पतित्वा तेषां पादान् सङगृह्येवं प्रार्थयन्तौ नमश्चक्रतुरित्यर्थः ॥ ४ ॥ १. 'पा प्रचे'ख. पाठः. mero नारायणीये स्कन्धः-३ ७० तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष!। खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या ॥५॥ तदेतदिति । तस्मिन्नवसरे अम्बुजाक्ष ! भवान् एतत् *स्वीयानां सदति- क्रमादिकमाज्ञाय विबुध्य लक्ष्म्या सहैव बहिः मणिभवनस्य बाह्याङ्कणे अवाप्तः निष्क्रान्तः खगेश्वरस्य श्रीगरुडस्यांसे समर्पितो विन्यस्तः चारुबाहुः आजानुलम्बी पीवरो भुजो यस्य किञ्चिद् वामपार्श्वलम्बितमूर्तितया श्रीगरुडस्य वामांसदेशदत्त- कराम्बुज इत्यर्थः । अभिरामया अतिमनोहरया मूर्त्या तान् मुनीन्द्रान् आनन्दयन् ब्रह्मानन्दपरितृप्तानामपि शरीरमनःक्षोभं जनयन्नित्यर्थः ॥ ५ ॥ प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ । संरम्भयोगेन भवैत्रिभिर्मामुपेतमित्यात्तकृपं न्यगादी ॥६॥ प्रसाद्येति । ततश्च त्वं स्तुवतः त्वदर्शनानन्तरं मूर्धा प्रणम्य स्तुवतो मुनीन्द्रान् माध्वीभिर्गीर्भिः प्रसाद्य अथ अनन्तरम् अनन्यनाथौ आत्मैकशरणौ तौ सङ्कटस्थौ स्वपार्षदौ जयविजयौ आत्तकृपम् आत्ता अङ्गीकृता कृपा यस्मिन्नि- ति क्रियाविशेषणम् । इत्येवं न्यगादीः उक्तवान् । कथमित्याह- त्रिभिर्हिरण्य- कशिपुरावणशिशुपालादिरूपैर्भवैर्जन्मभिः तत्र तत्र संरम्भयोगेन संरम्भकर्तृकेण माय समाधिनैरन्तर्येण युवां मामुपेतं मत्समीपमागच्छतमिति न्यगादीरित्यर्थः ॥१॥ त्वदीयभृत्यौ किल काश्यपात् तौ सुरारिवीरावुदितौ दितौ द्वौ । सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥७॥ त्वदीयेति । तौ त्वदीयभृत्यौ भवत्पार्षदौ काश्यपान्मुनेर्दितौ तद्भार्यायां द्वौ सुरारिवीरौ हिरण्यकशिपुहिरण्याक्षनामधेयावसुरश्रेष्ठौ उदितौ उत्पन्नौ किल । सन्ध्यासमुत्पादनकष्टचेष्टाविति दितिः किल सपलीनां पुत्रसमृद्ध्या सन्तप्तहृदया सती काश्यपं स्वभर्तारं सन्ध्यायामग्निमिष्ट्वाग्न्यगार आसीनं कामातुरा मयि पुत्र- मुत्पादयेति प्रार्थितवती । तेन च सन्ध्येयं क्षणं प्रतिपालयेत्युक्तापि मन्मथोन्म- । * 'स्वानाम्' इति तु सर्वत्र पठ्यते ।

दशकम् -११] हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम् । ७१ थितचित्ता बलादृषेर्वासो जग्राह । स च तया सहोपविवेशेति । अतः सन्ध्यायां समुत्पादनेन कष्टचेष्टौ क्रूरकर्माणौ यमौ युगपदेकगर्भधृतौ यमौ, लोकस्य जनस्या- न्यौ यमौ क्रूरकर्मणा वैवस्वताद् यमादन्यावन्तकौ (इव) बभूवतुरित्यर्थः ॥ ७ ॥ हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः। उभौ भवन्नाथमशेषलोकं रुघा न्यरुन्धां निजवासनान्धौ ॥ ८॥ हिरण्यपूर्व इति । तयोरेको ज्येष्ठो हिरण्यपूर्वः कशिपुः हिरण्यकशिपुरिति प्रतीतः प्रसिद्धः । परोऽनुजो हिरण्याक्ष इति प्रसिद्धः । तावुभौ भवान् नाथो रक्षिता यस्य स भवन्नाथः, तमशेषलोकं सर्वलोकवासिनो जनान् रुषा न्यरुन्धां पीडयामासतुः । निजवासनया आसुरेण स्वभावेन अन्धौ बिभ्रंशितपरमार्थज्ञाना- वित्यर्थः ॥ ८॥ तयोहिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी। भवत्मियां मां सलिले निमज्ज्य चचार गर्वाद् विनदन् गदावान् ।।९।। तयोरिति । तयोर्मध्ये हिरण्याक्षमहासुरेन्द्रः त्रिलोक्यां रणाय धावन्नन- वाप्तवैरी देवानपि प्रतियोगितयालभमानः भवत्प्रियां मां भूमि सलिले प्रलयार्णवे निमज्ज्य भूमि कर्णाभरणीकृत्य जले निमनः सन् गदावान् अंसन्यस्तमहागदः गर्वाद् विनदंश्चचार ॥ ९ ॥ ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । भक्तकदृश्यः स कृपानिधे! त्वं निरुन्धि रोगान् मरुदालयेश!॥१०॥ तत इति । ततो जानुदन्नजले बारिनिधौ क्रीडिष्यन् विभावरी वरुणपुरी गत्वा तं संयुगायाहयत् । ततो जलेशाद् वरुणमुखाद् भवन्तं सदृशं निशम्य रण- मार्गेषु भवतः सदृशः पुराणपुरुषः श्रीनारायण एक एवेति श्रुत्वायं त्वां गवेषयन् मृगयन् बभ्राम । स त्वं भक्तैकदृश्य इति । केवलं भक्तैरेव प्रह्लादनारदादिभिः दृश्यः द्रष्टुं शक्यः । ननु भक्तैकदृश्यश्चेद् भगवान् , उपरि " भवन्तं संप्रापद्" (द. १३. श्लो. २) इत्युक्तिरनुपपन्नेति चेद्, मैवं, हिरण्याक्षो हि रौद्ररसोपायेन भगवति मनोनिवेशनाद् भक्तः । 'तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेद्' (श्री. भा. स्क. ७. अ. १. श्लो. ३४) इति वचनात् । अतोऽस्य भगवदर्शनं सम्भवति ।

नारायणाय [कथा-३ विशेषतो मरणदशायामित्यपि सूचितम् ॥ १० ॥ इति सनकादिवैकुण्ठप्रवेश-जयविजयशाप-हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम् एकादशं दशकम्। GMOVAHINA अथ वराहावतारहिरण्याक्षवधाद्यवतारयितुं मनोः प्रवृत्तिमाह- स्वायम्भुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमग्नाम् । स्रष्टारमाप शरणं भवदघिसेवा- तुष्टाशयं मुनिजनैः सह सत्यलोके ॥१॥ स्वायम्भुव इति । अथो प्रजासर्गे ब्रह्मणो निदेशानन्तरं जनसर्गः प्रजो- त्पादनं शीलं यस्य स जनसर्गशीलः असमये अनासन्नेऽपि प्रलयकाले स्रष्टारं स्वजनकं ब्रह्माणं भवदङ्घिसेवया त्वत्पादाम्बुजोपासनया तुष्टाशयं सन्तुष्टमनसं मुनिजनैः सह सत्यलोके स्थितम् । मुनिजनैः सह शरणमापेति वा ॥ १ ॥ कष्टं मजाः सृजति मय्यवनी निमग्ना स्थानं सरोजभव! कल्पय तत् प्रजानाम् । इत्येवमेष कथितो मनुना स्वयम्भू- रम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् ॥ २॥ कष्टमिति । हे सरोजभव ! मयि प्रजाः सृजति सति अवनिः प्रलयाम्भसि निमनाभूत् कष्टम् अनाश्रयत्वान्नाह भवन्निदेशं कर्तुं समर्थः । तत् तस्मात् प्रजानां मम च स्थानं कल्पय इत्येवं मनुना कथितो विज्ञापितः एष स्वयम्भूः हे अम्भो- रुहाक्ष ! तव पादयुगं व्यचिन्तीत् चिन्तयामास ॥ २ ॥ चिन्तयंस्तत्क्षणमेव हृदि दर्शनं गतं भवन्तं खिन्दानमानसश्चैवमाह- हा हा विभो! जलमहं न्यपिवं पुरस्ता- दद्यापि मज्जति मही किमहं करोमि । gamaHARD दशकम् -१२] वराहावतारवर्णनम् । ७३ इत्थं त्वदध्रियुगलं शरणं यतोऽस्य नासापुटात् समभवः शिशुकोलरूपी॥३॥ हाहेति । हे विभो ! हाहा कष्टं जातम् । अहं पुरस्ताद् जनसर्गात् प्रागेव पृथिवीनिवेशनाय जलं न्यपिबं पीतवानस्मि । अद्यापि तुच्छीकृते जले मही मज्जति । अहं भवता सर्गे योजितः सन्नपि किं करोमि । अस्मिन् कर्मण्यस्माकं त्वमेव शरणम् । इत्थं त्वदङ्घ्रियुगलं शरणं यतः प्राप्नुवतः अस्य ब्रह्मणः नासा- पुटाद् नासिकोदरतः शिशुकोलरूपी वराहतोकरूपं बिभ्रत् समभवः अवतीर्णो- ऽभूरित्यर्थः ॥ ३॥ अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्ताद् भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चै- विस्मरतां विधिरगात् सह मूनुभिः स्वैः॥ ४ ॥ अङ्गुष्ठेति । त्वं पुरस्तात् पूर्व नासापुटाद् अङ्गुष्ठमात्रवपुः अङ्गुष्ठमा- त्रपरिमितशरीरः सन् उत्पतितः । अथ अनन्तरं भूयः पुनश्च कुम्भिसदृशो गज- मात्रः समजृम्भथाः ववृधिषे । तथाविधं क्षणेन वर्धिष्णुम् अभ्रे मेघमार्गे उच्चैः उन्नतमुदीक्ष्य मुखान्युन्नमय्य दृष्ट्वा विधिः ब्रह्मा विस्मरतां विस्मितत्वम् अगात् प्राप । सह सूनुभिः स्वैरिति । सूनवो मरीच्यादयः, तेऽपि विस्मिता बभूवुरित्यर्थः ।। । कोऽसावचिन्त्यमाहिमा किटिरुत्थितो मे घोणापुटात् किमु भवेदजितस्य माया । इत्थं विचिन्तयति धातरि शैलमात्रः सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥५॥ कोऽसाविति । अचिन्त्यमहिमा अपरिच्छेद्यशरीरमहत्त्वः अप्रमेयप्रभावो वा किटिः सूकरो मे घोणापुटाद् नासापुटाद् उत्थित उत्पन्नः। अजितस्य विष्णो- ाया किमु भवेत् स एव मायया सूकरमूर्तिरवतीर्णः किमु भवेत् । धातरि इत्थं १. 'छाग्रप ख. पाठ:. २. 'नासापु क. पाठः.

७४ नारायणीये [स्कन्धः-३ विचिन्तयति सति सद्यः शैलमात्रः शैलद्वयसवपुर्भवन् त्वं घोरघोरम् अतिशयेन भयङ्करं यथा भवति तथा जगार्जिथ किल ॥ ५॥ तं ते निनादमुपकर्ण्य जनस्तपःस्थाः सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । तत्स्तोत्रहर्पलमनाः परिणय भूय- स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥६॥ तमिति । ते तव तं निनादं गर्जितं जनस्तपःस्थाः जनस्तपोलोकस्था अपी- त्यर्थः । सत्यस्थिताः सत्यलोकस्था नुनुवुः तुष्टुवुः । तत्स्तोत्रेण तेन स्तोत्रेण हर्षु- लमनाः प्रसन्नचेताः सन् विपुलमूर्तिः पूर्वस्मादतिविस्तृतकायः सन् त्वं भूयः पुन- रपि तेषां प्रसादाय परिणद्य गर्जन तोयाशयं प्रलयाब्धिमवातरः अवगाहसे स्म ॥ ऊर्बप्रसारिपरिधूम्रविधृतरोमा पोत्क्षिप्तवालघिरवाल्मुखघोरघोणः । तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा स्तोतॄन् मुनीञ्छिशिरयन्नवतेरिथ त्वम् ॥ ७ ॥ ऊर्वेति । ऊर्व प्रसरणशीलानि परिधूम्राणि कृष्णलोहितानि विधूतानि कम्पितानि रोमाणि यस्य, स तथा । उत्क्षिप्तवालधिः उन्नीतपुच्छः अवाङ्मुखा अधःकृता घोरा भयङ्करांकारा घोणा नासिका यस्य, स तथा । तूर्णम् अतिलघु प्रदीर्णाः शकलाकृता जलदा येन । परिघूर्णता अक्ष्णा कम्पितपिङ्गलितोच्छूनाक्षि- द्वयेन प्रकटितानुकम्पेन स्तोतन मुनीन् शिशिरयन् आनन्दयन् त्वमवतेरिथ अव- जगाहिषे ॥७॥ अन्तर्जलं तदनु सङ्कुलनक्रचक्रं भ्राम्यत्तिमिङ्गिलकुलं कलुपोर्मिमालम् । आविश्य भीषणरवेण रसातलस्था- नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥ ८॥ १. "रा घो' क. पाठः.

। ७५ । दशकम् -१२] भूम्युद्धरणवर्णनम् । अन्तर्जलमिति । तदनु जलप्रवेशानन्तरं त्वं सङ्कुलनक्रचक्र भ्राम्यबाहस- मूहं भ्राम्यत्तिमिङ्गिलकुलं भ्राम्यन्त इतस्ततः सञ्चरन्तः तिमिशिला अनेकयोजना- यामविस्तारा महामत्स्याः, तेषां कुलं समूहो यस्मिन् । क्षुब्धजलत्वात् कलुषा आविला ऊर्मिमालाः तरङ्गसमूहा यस्मिस्तद् अन्तर्जलं जलमध्यम् आविश्य भीषणरवेण रसातलस्थान् जनान् आ समन्तात् कम्पयन् वसुमती निजप्रियां भूमिम् अगवेषयः अन्वेषणमकरोरित्यर्थः ॥ ८ ॥ दृष्ट्वाथ दैत्यहतकेन रसातलान्ते संवेशितां झटिति कूटकिदिविभो ! त्वम् आपातुकानविगणय्य मुरारिखेटान दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ ९ ॥ दृष्ट्वेति । अथ अनन्तरं दैत्यहतकेन असुराधमेन हिरण्याक्षेण रसातलान्ते संवेशितां विन्यस्ता वसुधां भूमि हे विभो ! कूटकिटिायावराहवपुस्त्वम् आपातु- कान् आगच्छतः सुरारिखेटान् असुरापशदान् अविगणय्य तृणीकृत्य दंष्ट्राङ्कुरेण दशनाग्रेण सलीलं यथा भवति तथा अदधाः उद्धृतवानसि ॥ ९ ॥ अभ्युद्धरनथ धरां दशनामलग्न- मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । उद्धृतघोरसलिलाजलधेरुदञ्चन् क्रीडावराहवपुरीश्वर ! पाहि रोगात् ॥ १० ॥ अभ्युद्धरनिति । अथ धरामभ्युद्धरन् दशनाग्रलममुस्ताङ्कुराङ्कित इव यथान्यो वराहः पल्वले मुस्ताक्षतिं कुर्वन् दशनाग्रे मुस्ताङ्कुरेणाङ्कितो भवति, तद्वद् दर्शनीयो भवन् अधिकपीवरात्मा अतिपीनकायः उद्धृतं संक्षुब्धं घोरं भय. ङ्करं सलिलं यस्मिन् , तस्माजलधेरुदञ्चन्नुन्मज्जन् हे क्रीडावराहवपुः! क्रीडाथै धृत- वराहतनो! हे ईश्वर! त्वं रोगात् पाहि ॥ १० ॥ इति वराहावतार-भूम्युद्धरणवर्णनं द्वादशं दशकम् ।

७६
नारायणीये
स्किन्धः-३
अनन्तरं नारदस्य हिरण्याक्षवधसाहाय्यं दर्शयति
हिरण्याक्षं तावद् वरद! भवदन्वेषणपरं
चरन्तं सांवते पयसि निजजङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
शनैरूचे नन्दन् दनुजमपि निन्दस्तव बलम् ॥ १॥
हिरण्याक्षमिति । तावत् तव धरोद्धरणसमकालमेव संवर्तः प्रलयः,
तत्सम्बन्धिनि पयसि कपटपटुधीः जगदनुग्रहायाङ्गीकृतकापट्या पट्टी तन्निपुणा
धीर्यम्य स तथा दनुजं हिरण्याक्षं नन्दन् प्रशंसन् तव बलमपि निन्दन् शनैः
सानुनयमूचे उक्तवान् ॥ १ ॥
श्रीनारदोक्तिमेव दर्शयति -
स मायावी विष्णुहरति भवदीयां वसुमती
प्रभो ! कष्ट कष्ट किमिदमिति तेनाभिगदितः ।
नदन् कासौ कासाविति स मुनिना दर्शितपथो
भवन्तं संपापद् धरणिधरमुद्यन्तमुदकात् ॥२॥
स इति । स विष्णुः मायावी भवद्भिया वराहव्याजेनात्मानमाच्छाद्य
भवदीयां भवता ब्रह्मणोऽपहृत्य रसातले निवेशिता, वसुमतीमिति । अनेनोपेक्षानौचित्यं
द्योतयति । प्रभो! तन्निवारणसमर्थ ! कष्टं कष्टं किमिदम् अहो मन्दा अपि प्रभून्
धिकुर्वन्ति, प्रभवश्वोपेक्षापराः कोऽयं क्रम इति तेनाभिगदितः प्रोत्साहितः स नदन्
सिंहनादं कुर्वन् कासौ कासाविति साभिनिवेशं पृष्टेन मुनिना इत इत इति दर्शितः
पन्था यस्य सः धरणिधरम् उदकादुद्यन्तं भवन्तं संप्रापत् संप्राप्तवान् ॥२॥
दर्शनसमनन्तरमेव स भगवन्तमधिक्षिप्तवानित्याह-
अहो आरण्योऽयं मृग इति हसन्तं बहुतरै-
दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ! ।
महीं दृष्ट्वा दंष्याशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुक्था मृधविधौ ॥ ३ ॥

ওও ! दशकम् -१३] हिरण्याक्षयुद्धवर्णनम् । अहो इति । अहो कष्टमेतदनेन मुनिना मम प्रतियोद्धृत्वेन प्रदर्शितोऽय- मारण्यः अरण्यनिवासी मृगः सूकर इति हसन्तम् एवमादिवचनैः परिहसन्तं पुन. रपि बहुतरैर्दुरुक्तैः रे सुराधम! मायामात्रप्रभाव! अनया गदया शीर्णशिरस्क त्वां निहन्मि, इत्यादिभिर्दुर्वागिषुभिर्विध्यन्तं ताडयन्तं दितिसुतं दितेः प्रियं पुत्रं न तु काश्यपस्य हे भगवन् ! त्वमप्यवज्ञायाधिक्षिप्य दंष्ट्राशरसि चकितां दुःस्थां महीं दृष्ट्वा मत्प्रियस्यानेन सङ्गरे सति निमजेयमह मिति विचिन्त्य भीतां स्वेन अनन्यसाधारणेन महसा योगैश्वर्येण पयोधौ अगाधस्य सिन्धुजलस्योपरि आधाय विन्यस्यावनिमज्जनाभावाय चराचरसन्तानाय च तस्यां स्ववीर्यमाधायेत्यर्थः । प्रसभं बलात्कारेण मृधविधौ युद्धकर्मणि उदयुक्थाः सन्नाहं चकृषे ॥ ३ ॥ गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घष्टवियता । रणालोकौत्सुक्यान्मिलति मुरसले द्रुतम, निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥४॥ गदापाणाविति । दैत्ये गदापाणौ युयुत्सति सति, हि हेतौ, यस्मादेवं तस्मात् त्वमपि गृहीता स्मृतिमात्र एव कराम्बुजं प्राप्ता उन्नता महती गदा कौमोदकी येन तथाभूतः सन् नियुद्धेन द्वन्द्वयुद्धेन क्रीडन् शनैश्शनैः । कीदृशेन नियुद्धेन, घटघटर- वैरितरेतरगदाभिघातसमुत्थैरुक्षुष्टमुच्चैः शब्दायमानं वियद् अण्डकटाहकुहरं यस्मि- स्तद् घटघटरवोद्घष्टवियत् , तेन । रणालोकौत्सुक्याद् भगवतः श्रीवराहमूर्तेः पराक्रमदर्शनकौतुकातिशयेन सुराणां सङ्के मिलति ससम्म स्थितवति सति सन्ध्यातः प्रथमं पूर्व द्रुततरं यावत् सन्ध्यां स्वकालं प्राप्यासौ न वर्धेत तावद् द्रुततरममुं दैत्यं निरुन्ध्या निगृहाण इति धात्रा जगदिषे ब्रह्मा भवन्तं विज्ञापि- तवानित्यर्थः ॥४॥ गदोन्मः तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद् भूमौ झटिति पतितायामहह भोः!। मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥५॥ १. 'ति अहमहमिकया स' क. पाठः.

७८ नारायणीये [स्कन्धः-३ गदोन्मर्द इति । तस्मिन् गदोन्मर्दै गदायुद्धे तव खलु गदायां तव हस्तस्थितायामेव दितिभुवो हिरण्याक्षस्य गदाघाताद् गदाप्रहारेण झटिति भूमौ पतितायाम् । अहहेति खेदे, अथवाद्भुते । मयि संरम्भयोगेनापि समाधिनैरन्तर्य कुर्वतो मदासस्य सकृदपि समीहितं साधयामीति भगवता स्वयमेव पातिता गदा, अहो भवतो भक्तवात्सल्यमिति भावः । हे विभो! अत एव त्वं मृदुस्मेरास्यः न गदापातात् खिन्नोऽभूः, किन्तु मृदुमन्दस्मितविकसितमुखाम्बुजः सन् दनुजकुला- नामसुरसमूहानां निर्मूलनेन सुदर्शनमिति प्रसिद्धं महाचक्रं स्मृत्वा करभुवि स्मृतमात्र एव सम्प्राप्तं दधानो रुरुचिषे शत्रोः कण्ठदेशं लक्षीकृत्योन्नमितदक्षिण- करेण सुदर्शनं गृह्णन् त्वम् । जाज्वल्यमानकालचक्रतेजसा वैष्णवेन तेजसा च सञ्जातोत्कर्ष तव रूपं सकलजनचक्षुरिन्द्रियगोचरतामगमदित्यर्थः ॥६॥ ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयिच्छिन्दत्येनत् करकलितचक्रप्रहरणात् । समारुष्टो मुष्टया स खलु वितुदंस्त्वां समतनोद् गलन्माये मायास्त्वयि किल जगन्मोहनकरीः॥६॥ तत इति । यस्मात् तव करकमलाद् गदापातेऽप्यव्याकुलहृदयता वैष्णव- तेजःप्रकाशश्च तत इत्यर्थः । कालप्रतिमरुषि जगत्संहारकारिकालाग्निरुद्रसदृशकोपे दैत्ये कर्तरि शूलं विसृजति प्रयोक्तुमुद्यच्छति सत्येव त्वयि एनत् त्रिशूलं करे कलितस्य चक्रस्य सुदर्शनस्य प्रहरणात् छिन्दति द्विधाकुर्वति सति स खलु दैत्यः समारुष्टः पूर्वस्मादप्यतिकुपितो मुष्टया त्वां वितुदन् मुष्टीकृताभ्यामुभाभ्यां करा- भ्यामुरसि दृढं प्रहरन् त्वयि जगन्मोहनकरीः त्वदितरजनसम्मोहसम्पादयित्रीः मायाः समतनोत् प्रायुत । गलन्माय इति एवंविधा माया गलन्त्यो दूरस्था भवन्ति यस्मात् स तथा, अथवेश्वरस्य स्वरूपभूता विगलन्ती पृथगिवात्मानं प्रकाशयन्ती जगत्सृष्टयादिकारिणी यस्मात् तादृशे त्वयीत्यर्थः ॥ ६ ॥ गलन्मायत्वमेव दर्शयति- भवचक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्र विततघनरोषान्धमनसम् । HALLENDER १. 'भगव' क. पाठः ७९ दशकम् -१३] हिरण्याक्षवधवर्णनम् । गरिष्ठाभिर्मुष्टिमहृतिभिरभिघ्नन्तममुरं कराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥७॥ भवदिति । भवतो विष्णोः सुदर्शनाख्यस्य चक्रस्य ज्योतिषस्तेजसः कणः स्फुलिङ्गस्तस्य लवो लेशस्तस्य निपातेन प्रसरणेन मायानामासुरीणां चक्रे समूहे विधुते चलिते । यथा रवेः प्रकाशलेशनिपातेन नैशं तमः, तद्वददर्शनं गते सती- त्यर्थः । ततः स्वारम्भवैफल्यानन्तरं विततो व्याप्तो घनो निविडो यो रोषस्तेना- न्धं मनो यस्य स विततधनरोषान्धमनाः तम् । करकलितं सुदर्शनमनन्यसाधारणं प्रभावं च दृष्ट्वापि प्राग्जन्मशापप्रभावेन स्वस्वामिनमजानन्तमिति भावः । गरिष्ठाभि- गुरुतराभिमुष्टिप्रहृतिभिरभिन्नन्तं विजिगीषया पुनः पुनः प्रयुञ्जानं " कराग्रेण स्वेन श्रवणपदमूल" इति पाठः समीचीनः । “करेण कर्णमूलेऽहन्”, “निहतः करेण" (स्क. ३. अ. १९. श्लो. २५,२८) इति च भागवतोक्तेः । अनन्तरश्लोके च “तव करसरोजप्रमथित" इति ॥ ७ ॥ महाकायः सोऽयं तव करसरोजप्रमथितो गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥ ८॥ महाकाय इति । 'भगवता स्वकराग्रेण कर्णकपोलसन्धौ ताडितोऽस्य मुखं पश्यन्नेवासौ तनुं जहौ, अहो भाग्यं, को न्विमा संस्थितिं लभेत' इत्यृषिभिः श्लाधिता सशिरःकम्पं स्तुता हतिर्निग्रहो यस्य स तथा । उद्दामप्रमदभरेणान्त- वहेण सन्तोषातिशयेन विद्योति शोभनशीलं हृदयं येषां ते मुन्द्रिा जनस्तपः- सत्यलोकनिवासिनः सान्द्राभिः सम्भूय कृतत्वाद् बधिरीकृतदशदिशाभिः स्तु- तिभिः स्तोत्रैरध्वरतनुं यज्ञाझं श्रीवराहमूर्तिमनुवन् तुष्टुवुः ॥ ८ ॥ अध्वरतनुत्वेनैव स्तौति- त्वचि च्छन्दो रोमस्वापि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽध्रौ युगपि वदने चोदर इडा। Man १. 'स्वपादाङ्गुष्ठेन' ख. पाठः. २. 'चरणपातप्र' ग. घ. पाठः, ३. 'ग' क. पाठः.

८० नारायणीये [स्कन्धः-३ ग्रहा जिह्वायां ते परपुरुष! कर्णे च चमसा विभो ! सोमो वीर्यं वरद ! गलदेशेऽप्युपसदः ॥९॥ त्वचीति । छन्दो गायच्यादि त्वचि गायच्यादिच्छन्दांस्येव तव त्वगित्यर्थः। अध्वर्युब्रह्महोत्रुद्गातारश्चत्वार ऋत्विग्यजमाना एव चतुर्होतारः अङ्घावनिषु । जुग्जुहूः वदने तुण्डे । इडा पुरोडाशद्रव्यनिधानपात्रविशेषः उदरे। ग्रहाः सोमसम. हणपात्रविशेषास्ते जिह्वयाम् । चमसाः भक्षणसाधनद्रव्यनिधानपात्रभेदाः कर्णे कर्ण- रन्ध्रयोः । सोमः सोमवल्लीरसो वीर्य रेतः । उपसदः प्रवानन्तरं क्रियमाणा इष्टयः, तास्ते गलदशे ॥ ९ ॥ मुनीन्द्ररित्यादिस्तवनमुखरैमादित्तमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो! निरन्ध्या रोग मे सकलमपि वातालयपते ! ॥ १० ॥ मुनीति । मुनीन्द्रेरित्यादीत्यादिशब्देन प्रायणीयोदयनीये इष्टी ते दंष्ट्रे इत्यादि गृह्यते। स्तवनमुखरैः स्तुतिशब्दजल्पाकैः मोदितं कृतप्रसादं मनो यस्य स तथा । महीयस्या अतिशयेन पूजनीयया मूर्त्या स्वविग्रहेण विमलतरया जगत्पवित्ररूपया कीर्त्या च विलसन् शोभमानः सुखरसविहारी स्वैरं क्रीडमानः स्वधिष्ण्यं वैकुण्ठं संप्राप्तः ॥ १० ॥ इति हिरण्याक्षयुद्ध-तद्वध-यज्ञवराहस्तुतिवर्णनं त्रयोदशं दशकम् । एवं वराहावतारेण कृतप्रतिष्ठायां भुवि तदाश्रयत्वेन स्वायंभुवस्य मनोः प्रजापा- लनप्रकारमाह- समनुस्मृततावकाघ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मां । निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥ १. 'न म' क. पाठः, दशकम् - १४] कपिलोपाख्यानम् । समनुस्मृतेति । सम्यग् यमनियमादियुक्तमनुस्मृतं लयविक्षेपादिराहित्येन चि- न्तितं तावकाङ्घ्रियुग्मं त्वत्पादपद्मयुगलं येन । पङ्कजसम्भवस्याङ्गजन्मा पुत्रः स प्रसिद्धः स्वायम्भुवो मनुः निजमन्तरं चतुर्युगाणां साधिकैकसप्ततिपरिमितं कालम् अन्तरायाः शारिमानसदौवकभौतिकाः क्लेशाः प्रजापालनोपरोधाः, तद्रहितम् । एतच्च भवदनिस्मरणतच्चरितकथनानुभावात् । अत एव सुखं स्वैरं यथा भवति तथा निनाय गमयामास ॥ १ ॥ अथ कापिलप्रसङ्गाय कर्दमकथा प्रस्तूयते-- समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ २ ॥ समय इति । तत्र समये तस्मिन् काले कर्दम इत्याख्या यस्य स प्रजापतिः द्रुहिणच्छायभव इति, "छायायाः कर्दमो जज्ञे" (श्री. भा. स्क. ३. अ. १२ श्लो. २७) इत्युक्तेः। तदीयवाचा प्रजाः सृजेति ब्रह्मण आदेशाद् धृतसर्गरसः प्रजास- ष्टिकामः सन् । निसर्गरम्यं स्वत एव सञ्चिन्तकहृदयरञ्जकम् अयुतं समा दशसहस्रसंवत्सरं सिषेवे तपश्चकार ॥ २ ॥ गरुडोपरि कालमेघकनं विलसत्केलिसरोजपाणिपनम् । हसितोल्लसिताननं विभे! त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥३॥ गरुडेति । त्वं तस्मै गरुडोपरि गरुडांसदेशविन्यस्तचरणाम्बुजं वपुराविष्कु- रुषे स्म दर्शयामासिथ ॥ ३ ॥ स्तुवते पुलकावृताय तस्मै मनुपुत्री दयितां नवापि पुत्रीः । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः॥ ४ ॥ स्तुवत इति । ततश्च भुवि पतित्वा प्रणम्योत्थाय स्तुवते प्रमोदभारेण पुलकावृ- ताय तस्मै कर्दमप्रजापतये मनुपुत्री देवहूतिं दायतां भार्या तस्यां नव पुत्रीरपि स्वं स्वां- शभूतं कापिलं सुतं च पश्चादन्ते स्वगतिं मोक्षं चानुगृह्य निर्गतोऽभूः प्रस्थितवानास। स्वायंभुवो मनुब्रह्मावर्त नाम देशमधिवसति, स रथेन स्वमहिष्या शतरूपया सहेतः १. "त्थिताय' ख. पाठः. २. 'सि' क. पाठः.

१२ नारायणीये aishu परश्वस्त्वां दिदृक्षुरागत्य तुभ्यं स्वात्मजां दास्यति, त्वं च तस्यां नव पुत्रीर्जनयि- प्यसि , अहं च स्वांशेन तव पुत्रत्वेनावतरिष्यामीत्यनुगृह्य भवान् जगामेत्यर्थः॥४॥ स मनुः शतरूपया महिष्या गुणवत्या मुतया च देवहूत्या । भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥ ५ ॥ स इति । भवदीरितनारदोपदिष्टः भवदीरितेन भवता प्रेरितेन नारदेनोप- दिष्टः। नारदेन हि देवहूत्यै कर्दमवयःशीलरूपगुणवर्णनपूर्वकं कर्दमाय स्वात्मजां प्रयच्छेति मनुरुक्तः। आगतिप्रतीक्षमिति, अपिनाम मनुरिदानी स्वां दयितां दुहितरमादायागच्छतीति मार्गे दत्तदृष्टिमित्यर्थः ॥५॥ मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिवृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ६॥ मनुनेति । उपहृतां सपारिबर्ह सत्कृत्य दत्ताम् । भवदर्चननिर्वृतोऽपि निवृ- तिधर्मनिरतोऽपि दृढया अव्यभिचारिण्या अमायया शुश्रूषणया प्रसादं दधौ॥६॥ स पुनस्त्वदुपासनप्रभावाद् दयिताकामकृते कृते विमाने । बनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥७॥ स इति। दयिताकामकृते प्रिययाभ्यर्थितस्तदिच्छानुसरणार्थं कृते स्वयो- गानुभावेन रचिते वनिताकुलसङ्कुले परिचारकविद्याधरस्त्रीसहस्रपरिवृते नवो नूनो मोहनवेषोज्ज्वलः षोडशवर्षीय आत्मा देहो यस्य स नवात्मा । अथवा नव आत्मानः शरीराणि यस्य, सुरतोत्सुकां प्रियामात्मानं नवधा विभज्य रमयन् देवपथेषु नन्दन- पुष्पभद्रचैत्ररथादिदेवोद्यानेषु व्यहरत् क्रीडां चक्रे ॥ ७ ॥ शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः। वनयानसमुद्यतोऽपि कान्ताहितकृत् त्वज्जननोत्सुको न्यवात्सीत् ॥८॥ शतवर्षमिति । वनयानसमुद्यतः तपसे वनं जिगमिषुरपि कान्ताहितकृद् दु- हितृवरप्रदानपुत्रजननादि कुर्वन् , तत्रापि त्वज्जननोत्सुकः ॥ ८ ॥ १. 'भगवा' क, पाठः. २. 'त्सुकोऽपि' घ. पाठः, दशकम् -१५] कपिलोपाख्यानम् । निजभर्तृगिरा भवनिषेवानिरतायामथ देव! देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्व विद्याम् ॥९॥ निजेति । परमात्मनस्तत्त्वानां चतुर्विशतेश्च विद्यां ज्ञानं जनानां प्रथयि- प्यन् आचार्यपरम्परयागमरूपेण प्रकाशयितुमुद्यतः ॥ ९ ॥ वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै । कपिलात्मक ! वायुमन्दिरेश त्वरितं त्वं परिपाहि मां गदौघात् ॥१०॥ वनमिति । वनमेयुषि स्वदुहितुर्मरीच्यादिभ्यो ब्रह्मपुत्रेभ्यो दत्त्वा वनं गतवति सति जनन्यै मतसर्वस्वं सर्वस्वीयावयवयुक्तं स्वसिद्धान्तमुपादिशन् ग्राहयन् । त्वरितमतिलघु ॥ १०॥ इति कपिलोपाख्यानं चतुर्दशं दशकम् । मतिरिह गुणसक्ता बन्धकृत तेष्वसत्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः॥१॥ मतिरिति । इह त्रिषु लोकेषु ये गुणाः स्रक्चन्दनवनितामृतादिविषयास्तेषु सक्ता मतिः पुरुषस्य बन्धकृत् शरीरबन्धं करोति । तेषु गुणेष्वसक्ता तु तथा बन्धाय न भवति । अपिचामृतं मोक्षं करोति । तर्हि गुणसङ्गः केन त्यज्येतात आह-उपरु- न्ध इति । भक्तियोगस्तु सक्तिमुपरुन्धे प्रतिबध्नाति । अथ भक्तिः केन साध्यत इत्यत आह–महादति । महतां सतामनुगमनेन शुश्रूषया लभ्या भक्तिः । सैवात्र लोके मुमुक्षुभिः साध्येति कपिलतनुः कपिलवासुदेवत्वेनावतीर्णस्त्वं देवहूत्यै स्वमात्रे न्यगादीः उपदिष्टवान् ॥ १ ॥ प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्याप हृदपि दशाक्षी पूरुषः पञ्चविंशः। इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः॥२॥ १. 'त्या' मूलपाठ..

नारायणीये स्कन्धः-३ प्रकृतीति । प्रकृतिमूलप्रकृतिः सर्वकारणत्वाद् , या प्रधानमव्यक्तमविद्या माये- त्यादिशब्दैरभिधीयते, महद् महत्तत्त्वं मूलप्रकृतिकार्यम् , अहङ्कारा महत उत्पन्नाः सा- त्त्विकराजसतामसाः, मात्रास्तामसाहङ्कारकार्याण्यपञ्चीकृतपञ्चभूतानि शब्दस्पर्शरूप- रसगन्धरूपाणि, भूतानि पञ्च महाभूतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि, हृद् म- नः, दशानामक्षाणामिन्द्रियाणां प्राणरसनचक्षुःश्रोत्रत्वग्वाक्पाणिपादपायूपस्थानां समाहारो दशाक्षी । एवं चतुर्विंशतितत्त्वानि । पूरुषः पुरुषो जीवेश्वरभेदाद् द्विधा इति विदितो विभागो येन स तथा। असौ जीवः । प्रकृत्या मायया, तत्कार्यशरीरा- दिबन्धैर्वा ॥ २॥ ननु बन्धस्य वास्तवत्वे जीवस्य तस्माद् मोक्षो न स्यादित्याशङ्कय तस्यावि. द्याविलसितत्वेन ज्ञाननिवर्त्यत्वमाह- प्रकृतिगतगुणोप ज्यते पूरुषोऽयं यदि तु सजति तस्यां तद्गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साप्यपेयात कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥३॥ प्रकृतीति । प्रकृतिरिति प्रकृतिकार्यचतुर्विंशतितत्त्वमयानि जरायुजाण्डजस्वे- दजोद्भिज्जानि चतुर्विधानि शरीराण्युच्यन्ते, तद्गतगुणौघाः कर्तृत्वभोक्तृत्वादयः, तैर्नाज्यते नोपरज्यते। शरीरस्थोऽप्ययं जीवः परमार्थतः शररिधर्मैः कर्तृत्वभोक्तृत्व- जन्ममरणादिभिर्न लिप्यत इत्यर्थः । अयं पुरुषो यदि तस्यां प्रकृत्यां शरीरादौ सजति अहं ममेत्यभिमन्यते, तर्हि तद्गुणाः प्रकृतिगुणास्तं भजेरन् जननमरणादिसंसार- दुःखमनुभावयन्तीत्यर्थः । अत्र यदिशब्दः प्रकृतिसंबन्धस्यापरमार्थत्वं द्योतयति। मदनुभजनमीश्वरप्रणिधानं, तत्त्वालोचनं ब्रह्मज्ञानं, तैः। तत्र श्रवणमनननिदिध्या- सनरूपप्रकारभेदाद् बहुवचनम् । सा प्रकृतिरपेयात् । तदुक्तं "तीत्रेणात्मसमाधिना। प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री" (श्रीभा. स्क. ३. अ. २७. श्लो.२२, २३)इति ॥ ३ ॥ ईश्वरभजनस्याष्टाङ्गत्वमाह- विमलमतिरुपात्तैरासनाद्यैर्मदङ्ग गरुडसमधिरूढं दिव्यभूषायुधाकम् । .

८५ mathemama दशकम् - १५]] कपिलोपाख्यानम् । रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ४ ॥ विमलेति । विमला यमनियमविशुद्धा मतिर्यस्य स तथा। उपात्तैः स्वीकृतै- विजितैरित्यर्थः। आसनाद्यैः प्राणायामप्रत्याहारधारणाध्यानसमाधिभिः ममेश्वरस्याङ्गं रूपं दिव्यान्यप्राकृतानि भूषायुधान्येवाको लाञ्छनं यस्य । अनुवेलं सर्वदा शीलयेता- भ्यस्येत् ॥ ४ ॥ संप्रति ज्ञानयोगाद् भक्तिमार्गस्य सुगमत्वमाह- मम गुणगणलीलाकर्णनैः कीर्तनाये- मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योविजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः॥५॥ ममेति । तत्र भक्तिर्द्वधा साधनसाध्यभेदात्। ममेश्वरस्य गुणगणा भ- क्तवात्सल्यादयः, लीलाः चरितानि, तदाकर्णनैः। कीर्तनमाद्यं येषां स्मरणनमस्कारा- र्चनवन्दनदास्यसख्यात्मनिवेदनानां ते तथा तैः । नवलक्षणया साधनभक्त्येत्यर्थः। परमभक्तिः साध्यभक्तिर्भवतीत्युक्तम् । तस्याः स्वरूपमाह-मयीति । सुरसरिदोघ- प्रख्या गङ्गाप्रवाहतुल्या चित्तानुवृत्तिः प्रेमात्मिका मनोवृत्तिः, साध्यभक्तिरित्यर्थः। सा भक्तिः। हिरवधारणे । मृत्योः संसारस्य विजेत्री विशेषेणानायासेनैव संसारस्य समूलोन्मूलनीत्यर्थः ॥ ५॥ अथ भक्तिदाार्थ केवलपापकर्मणा नरकपातप्रकारमाह- अहह बहुलहिंसासञ्चिताथैः कुडुम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । विशति हि गृहसक्तो यातनां मय्यभक्तः कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥६॥ अहहेति । अहहेति खेदे । बहुलया प्रभूतया सिया उपद्रवेण परार्थस्पृहया इतस्ततश्चौर्यादिना सञ्चितैरार्जितैरथैर्धनधान्यादिभिः कुडुम्बं पुत्रमार्यादीन् । यातनां रौस्वादिनरकं विशति । केवलपापकर्मिणो नरकप्रवेशप्रकारश्चोक्तः "यमदूतैर्यातना- नारायणीये स्कन्धः-३ शरीरं नीत्वा पाशैर्गले बद्धाकृष्य त्रिभिर्मुहूर्तेर्नवनवतिसहस्रयोजनदूरे यमसदनं प्रापितोऽष्टाविंशतिकोटिनरकभेदान् पापतारतम्येनानुभूयानन्तरं तृणादिषु विंश- तिलक्षं जन्मान्यवाप्य जलजन्तुषु नवलक्षं कृमिजातिप्वेकादशलक्षं पक्षिजातिषु दशलक्षं चतुष्पाज्जातिषु सप्तकोटिजन्मानि चावाप्यानन्तरं मनुष्यजातिषु चतुर्लक्षं ब्राह्मणजातिषु हीनमध्योत्तमतया शतं च जन्मान्यवाप्य तत्र पुनरपि पापकृच्चेन्न- रकेषु पतति" इति ॥ ६ ॥ सम्प्रति समाभ्यां पुण्यपापाभ्यां पुनः पुनर्मर्त्यलोकप्राप्तिमाह- युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोधः पीडयोल्लङ्घय बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिवि त्वं देवहूत्यै न्यगादीः ॥७॥ युवतीति । मातुर्गर्भे विण्मूत्रगर्ते खिन्नः कट्टुम्लक्षारोष्णैर्मातृभुक्तानपा- नादिभिः कृमिभिश्चोपद्रुतः अकाण्डे दुःखप्रतीकारकरणासम्भवकाले जातबोधः गर्भस्थः सप्तमे मासि दैवाल्लब्धस्मृतिर्भवति । तथापि जीवः किं नाम करोति । प्रसवे सूतिमारुतनोदनेन योनियन्त्रनिष्पीडनेन च गलितोऽपगतो जन्मशतसञ्चित- कर्मविषयो बोधो यस्य । पुनश्च पीडयेष्टानिष्टप्राप्तिपरिहारासामर्थ्यसम्भूतेन दुःखेन संह बाल्यमुल्लङ्घय पुनरपि तारुण्यकाले भगवद्भजनसामर्थ्य सत्यपि मुह्यत्येव । कामक्रोधपराधीनः सन् काम्यं निषिद्धं वा कर्म कुर्वाणस्तमो विशतीत्यर्थः ॥ ७ ॥ केवलेन पुण्येन स्वर्गादिगतिं दर्शयति- पितृसुरगणयाजी धार्मिको यो गृहस्थः स च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः॥ ८॥ पित्रिति । भगवद्धर्मविमुखतया पितॄन् सुरगणांश्च सर्वकाम्यादिफलकामनया यष्टुं शीलमस्येति तथा । धार्मिकः निषिद्धकर्मपरित्यागेन केवलविहितकर्मानुष्ठाता ।

दशकम् -१५] कपिलोपाख्यानम् । चोऽप्यर्थे । सोऽपि काले पुण्यक्षये सति निपतति पुनरावर्तते । दक्षिणाध्वोपगामी धूमादिमार्गगमनशीलः। धूमादिमार्गगमनागमनप्रकारश्चेत्थं-केवलकाम्यकर्मकृज्जीवः प्रारब्धावसाने चक्षुरादीन्द्रियद्वारा लिङ्गशरीरेण निर्गच्छति । तं च धूमाभिमानिनी देवता रान्यभिमानिदेवताहस्ते प्रयच्छति, रात्रिकालाभिमानिनी देवता कृष्णपक्षाभि- मानिदेवतायै, सा च दक्षिणायनषण्मासाभिमानिन्यै। सा च पितृलोकमार्गेणाकाशे चन्द्रमसं सन्निधापयति । तत्र यावत्सुकृतावसानं स्वर्गसुखमनुभूय भूमौ पतिष्यन् प्रथममाकाशमार्गे पतित्वा ततो वायुधूमाभ्रंदृष्टिक्रमेणौषधीषु पतति । ओषधीभ्यः अन्नमन्नाद्रेतो भूत्वा स्त्रीयोनिं गतः शरीरी भवतीति । यदि पुण्यशेषस्तर्हि ब्राह्मणांदियोनौ, पापशेषस्तर्हि चण्डालादियोनौ च जायते । तर्हि किं कुर्वनुत्त- रायणमार्गेण यातीत्यत आह--मयीति । मयीश्वरे निहितं समर्पितम् अकामं काम्य- निषिद्धव्यतिरिक्तं कर्म नित्यनैमित्तिकप्रायश्चित्तोपासनरूपम् । तुरेवार्थे । उदक्प- थार्थमर्चिरादिमांर्गप्राप्तिफलकमिति यावत् ॥ ८ ॥ अथ भगवत्प्रयाणं देवहूतेर्मोक्षप्राप्तिं चैकेन श्लोकेनाह- इति सुविदितवेद्यां देव हे देवहूति कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घः। विमलमतिरथासौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थ वर्तसे प्रागुदीच्याम् ॥ ९ ॥ इतीति । सुविदितं सम्यगवधृतं वेद्यं वस्तु ब्रह्म तत्राप्तिसाधनं च यया ताम् । अथ त्वद्गमनानन्तरम् । असौ देवहूतिः । त्वमपि कपिलोऽपि जनहितार्थ त्रैलोक्यरक्षायै प्रागुदीच्यां दिशि वर्तसे ॥ ९ ॥ अथ कापिलमुपसंहरन् भक्तिं प्रार्थयते- परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं तद् विधूयामयान् मे गुरुपवनपुरेश! त्वय्युपाधत्स्व भक्तिम् ॥ १० ॥ १. 'भ्रमेघवृ' क. पाठः. २. 'ति । अभ्रं जलं बि(भ्रति ? भर्ति) वर्षति मेघ इति भेदः। ओ' क. पाठः.

नारायणीये स्किन्धः-३ ८८ परमति । सकलभयानां संसारदुःखस्यापि विनेत्री विनयनमुपशमं की समू- लोन्मूलनीमित्यर्थः । सर्वकामानभीष्टार्थानुपनयति प्रापयतीति सर्वकामोपनेत्री, ताम्। दृढं निश्चयेन । तत् तस्माद्, यस्माद् भयनिवृत्तयेऽभीष्टप्राप्त्यै च त्वद्भक्तिरेव प्रार्थनीयति निस्संशयं त्वयोक्तं, तस्मादित्यर्थः । उपाधत्स्व सङ्क्रामय । भक्तिं प्रेमलक्षणाम् ॥ १०॥ ८३ ॥ इति कपिलोपाख्यानं पञ्चदशं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां तृतीयस्कन्धपरिच्छेदः। आदितः श्लोकसङ्ख्या १५८.

अथ चतुर्थस्कन्धपरिच्छेदः। Maunaunica महदादेः प्रजेशानां ब्रह्माण्डस्य च सम्भवः । सर्गलीलोदिता विष्णोविसर्गोऽथ निरूप्यते ॥ भथ विसर्गोपयोगिनरनारायणावतारचरितप्रस्तावाय दक्षपरिणयनाद्याह दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सती गिरिशे त्वदंशे ॥ १ ॥ दक्ष इति । कथान्तरारम्भार्थोऽथशब्दः । मनोः स्वायम्भुवस्य । इह प्रसू- तिसंज्ञायां स्वभार्यायाम् । धर्मे धर्मदेवाय त्रयोदश मैत्र्याद्याः पुत्रीः । पितृषु पितृभ्यो युक्तेभ्यः स्वधाम् । त्वदं त्वत्स्वरूपे ॥ १ ॥ मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥२॥ मूर्तिरिति । मूर्तिः धर्मगृहिणीष्ववरजा भवन्तं नारायणं नरसखमिति विष्णोरंशभूतौ नरनारायणौ सुषुवे जनयामास ॥ २ ॥ दैत्यं सहस्रकवचं कवचैः परीतं साहस्रवत्सरतपस्समराभिलव्यैः। पर्यायनिर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सलीलम् ॥ ३ ॥ दैत्यमिति । कवचैः परीतं सहजसहस्रकवचसन्नद्धशरीरम् । साहस्रति । सहस्रसंवत्सरं चीर्णन तपसा तावत्कालं कृतेन समरेण चच्छेचैरित्यर्थः । पर्यायनिर्मितौ परस्परपरिहारेण कृतौ तपस्समरौ याभ्यां तौ तथा । एकस्मि- नारायणीये स्कन्धः-४ स्तपस्यति सत्यन्यो युध्यति, तथान्यस्मिन्नपीत्यर्थः । शिष्टैकककटम् अवशिष्टेकक- वचं न्यहतामवधिष्टाम् ॥ ३ ॥ अन्वाचरन्नुपदिशन्नपि मोक्षधर्म त्वं भ्रातृमान बदरिकाश्रममध्यवात्सीः। शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥ ४ ॥ अन्वाचरन्निति । लोकसङ्ग्रहणार्थ स्वयमनुतिष्ठन् , उपदिशन् तदर्थिभ्यो नारदादिभ्य इति शेषः । मोक्षधर्म निवृत्तिलक्षणं धर्मम् । त्वं श्रीनारायणः भ्रातृ- मान् नरेण भ्रात्रा सहितः । शमेनेन्द्रियनिग्रहेण तपोबलेन च निस्सह ईर्ष्यायुक्त मात्मा मनो यस्य स तथा । प्रजिघाय प्रेषयामास । अयं तपसा स्वर्ग जिघृक्षतीति शङ्कया तपोनाशाय कामं सपरिवारं प्रेषयामासेत्यर्थः ॥ १॥ mana अथ शक्रप्रहितस्य कामस्य प्रवृत्तिमाह - कामो वसन्तमलयानिलवन्धुशाली कान्ताकटाक्षविशिखैविकसद्विलासैः । विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां भीतस्त्वयाथ जगदे मृदुहासभाजा ॥५॥ काम इति । कान्ता दिव्याङ्गनास्तासां कटाक्षा एव विशिखाः तैः विकस- न्तोऽभिव्यक्ता विलासा भ्रूचलनादयः पत्रस्थानीया येषु तैः मुहुर्मुहुर्विध्यन् अक- म्पं समाधेरचलचित्तं त्वां भीतः सन् उदीक्ष्य दूरादेवोन्नमितवदनः सन्नवलोक्याथ मृदुहासभाजा मन्दस्मितसहितेन त्वया जगदे ॥ ५ ॥ भीत्यालमङ्गजवसन्तमुराङ्गना! वो मन्मानसं त्विह जुषध्वमिति ब्रुवाणः। त्वं विस्मयेन परितः स्तुवतामथैषां प्रादर्शयः स्वपरिचारककातराक्षीः ॥ ६ ॥ 1. 'नागणवृ' घ. पाठः, दशकम् - १६] दक्षयागवर्णनम् । भीत्यति । हे अङ्गजवसन्तसुराङ्गनाः! वो युष्माकं भीत्या अलं भयं मा कुरुत । इहास्मत्सकाशमेत्य मन्मानसं तु जुषध्वं मच्चित्तमनुवर्तध्वम् । अथ- वा मम मानसं मनसा सङ्कल्पितं सत्कारं जुवध्वं प्रीत्या निर्भयाः परिगृह्णी- ध्वम् । यद्वा मम मनसा सृज्यमानं वः स्वर्गदुर्लभं किञ्चिद्वस्तु स्त्ररित्नाख्यं मया दीयमानं जुषध्वमाददीध्वम् । मन्माननमिति पाठे मत्कर्तृकां पूजामित्यर्थः । इति ब्रुवाणं त्वां परितः किञ्चित् समीपं गत्वा परिवार्य स्तुवतामेषाम् अथ वच- नानन्तरं स्वपरिचारिका आत्मशुश्रूषां कुर्वतीः कातराक्षीः सुन्दरीः प्रादर्शयः योग- बलेन सृष्ट्वा प्रदर्शितवान् असि ॥ ६ ॥ सम्मोहनाय मिलिता मदनादयस्ते त्वदासिकापरिमलैः किल मोहमापुः । दत्तां त्वया च जगृहुस्त्रपयैव सर्व- स्वर्वासिगर्वशमनीं पुनरुर्वशी ताम् ॥ ७ ॥ सम्मोहनायति । त्वां मोहयितुं सहिताः संहत्यागता मदनादयो मदनमलय- मारुतवसन्तसुराङ्गनाः । उर्वशी त्वत्सृष्टास्वन्यतमाम् ॥ ७ ॥ दृष्ट्वोर्वशी तव कथां च निशम्य शक्रः पर्याकुलोऽजान भवन्महिमावमर्शात् । एवं प्रशान्तरमणीयतरोऽवतार- स्त्वत्तोऽधिको वरद ! कृष्णतनुस्त्वमेव ॥ ८ ॥ दृष्टेति । प्रशान्तः सौम्यः । त्वत्तः श्रीनारायणावताराद् अधिकः प्रशान्त- स्वेन विचित्रकर्मतया रमणीयतरत्वेन चोत्कृष्टः । कृष्णतनुः श्रीकृष्णात्मा ॥ ८ ॥ एवं दक्षपुत्रीषु धर्मपत्न्या मूर्तेः कथामुक्त्वा भवपत्न्याः सत्याः कथामाह--- दक्षस्तु धातुरतिलालनया रजोन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । येन व्यरुन्ध स भवत्तनुमेव शर्व यज्ञे च वैरपिशुने स्वमुतां व्यमानीत् ॥ ९ ॥ * विमानितवान् । 'मान पूजायाम् ' इत्यत आभूषीयाद् णिजभावे लुङि रूपम् ।

नारायणीये [स्कन्धः -४ दक्ष इति । धातुब्रह्मण अतिलालनया प्रजापतीनामाधिपत्ये संस्थाप्या. भिषेकादिरूपया रजसा तत्कार्येण कामक्रोधलोभादिना अन्धो विवेकशून्यः अत एव ब्रह्मणापि नात्यादृतः उपेक्षितः अशान्तिरविद्यमाना शान्तिः क्षमा यस्य स अशान्तिरक्षम आसीत् । येनाशान्तित्वेन स दक्षो भवत्तनुं त्वदंशभूतमेव शर्व व्यरुन्ध द्वेष्टि स्म, यज्ञे दक्षाध्वरे वैरपिशुने दक्षशर्ववैरद्योतके स्वसुतां शर्व- पत्नी सती व्यमानीद् अवमानितवान् ॥९॥ क्रुद्धशमर्दितमखः स तु कृत्तशीर्षों देवमसादितहरादथ लब्धजीवः । त्वत्पूरितक्रतुवरः पुनराप शान्ति स त्वं प्रशान्तिकर! पाहि मरुत्पुरेश ! ॥ १० ॥ क्रुद्धशेति । स्वप्रियावमानेन क्रुद्धेनेशेन मर्दितश्चूर्णीकृतो मखस्तदुपकर- णयज्ञपात्रयूपशालादिर्यस्य सः स्वयं च दक्षः कृत्तशीर्षोऽभवत् । अथ देवैः प्रसादिताद्धराद् लब्धजीव अजमुखश्चाभूत् । ततस्त्वया पूरितः सम्यक् समापितः ऋतुवरो यस्य स दक्षः पुनः शान्ति स्वां प्रकृतिमाप । हे प्रशान्तिकर! एवंप्रभावः स त्वं पाहि ॥ १० ॥ इति नरनारायणचरितवर्णनं दक्षयागवर्णनं च षोडशं दशकम्। एवं मनुपुत्रीणां परम्परां वर्णयित्वा तत्पुत्रपरम्परां वर्णयिष्यन् प्रथम ध्रुवचरि- तार्थमुत्तानपादचरितमाह उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिन्तिरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगतिः शरणं गताभूत् ॥ १॥ उत्तानेति । उत्तानपादाख्यस्य नृपतेर्मनोः स्वायम्भुवस्य नन्दनः प्रिय- दशकम् -१७] ध्रुवचरितवर्णनम् । व्रतावरजः, तस्य द्वे जाये सुरुचिः सुनीतिश्च । तयोः सुरुचिर्नाम जाया नितरा- मभीष्टा बभूव । सुनीतिरित्यन्या जाया सा भर्तुरनादृता नात्यभीष्टा अत एवाग- तिरशरणा त्वामीश्वरमेव नित्यं शरणं गताभूत् निजदौभाग्यहेतुदुरितशमनायेश्वर- मुपासांचक्र इत्यर्थः ॥ १॥ अङ्के पितुः सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुस्सन्त्यजा खलु भवाद्विमुखैरमूया ॥२॥ अङ्क इति । कदाचित् सुनीतिसुतो ध्रुवः पितुः सिंहासनस्थस्याङ्के उत्तमा- ख्यं तं सुरुचिपुत्रत्वेनातिलालितं दृष्ट्वा स्वयमधिरोक्ष्यन् आरोढुमारब्धः सन् सुतरां शिशुरपि सुरुच्या आचिक्षिपे दुर्वाग्भिरधिक्षिप्तोऽभूत् । भवद्विमुखैरसूया दुस्सन्त्य. जा त्यक्तुमशक्या खलु । अनेन सुरुच्या ईश्वरविमुखतया पुत्रनाशादि, सुनीतेश्चे- श्वरानुग्रहण पुत्रेण सह ध्रुवपदप्राप्त्यादि व्यज्यते ॥ २ ॥ त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । सापि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥ ३ ॥ त्वदिति । त्वन्मोहिते ईश्वरशक्त्या भवितव्यतया मूढचित्ते । दारवश्य इत्यनेन स्वाङ्कमारुरुक्षन्तं स्वपुत्रं पश्यन्नपि सुरुचिभयेन नारोपयदिति व्यज्यते । दूरमतिशयेन दुरुक्तिभिर्दुर्वाग्भिनिहतो विद्धः स ध्रुवः निजाम्बां स्वमातरं सुनीति- मेव गतः प्राप्तवान् । सापि स्वस्य कर्मगते?ष्कर्मफलस्य दौर्भाग्यस्य सन्तरणाय निवृत्तये । यद्वा पुंसां सर्वशरीरिणामपि स्वकर्मगतेः संसारार्णवस्य सन्तरणमनायासे- नातिक्रमः तस्मै त्वत्पादमेव शरणं नान्यदिति शशंस । शिशव इत्यनेन पुत्रमङ्क- मारोप्य मा रोदीरित्याद्यनुनयपूर्वकमुक्तवतीति व्यज्यते ॥ ३ ॥ १. 'शा' घ. पाठः, -PRICSAT नारायणीये [स्कन्धः-४ आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा मानी निरेत्य नगरात् किल पञ्चवर्षः। सन्दृष्टनारदनिवेदितमन्त्रमार्ग- स्त्वामारराध तपसा मधुकाननान्ते ॥ ४ ॥ आकर्येति । आकर्ण्य मातुर्वचनमिति शेषः । स ध्रुवः भवदर्चने तपश्चरणे निश्चित आत्मा मनो यस्य सः मानी । पञ्चवर्ष इति । पञ्चवया अपि जिगमिषु दृष्ट्वा विषण्णां स्वमातरं कथञ्चिदनुज्ञाप्यान्याननवलोकयन्नेका- की स्वयं नगरान्निर्जगामेत्यर्थः । स पथि दृष्टेन नारदेन निवेदित उपदिष्टो मन्त्रमार्गो यस्य सः त्वाम् आरराध प्रसादयामास । मधुकाननान्ते मधुवनमिति प्रसिद्ध देशे ॥ ४ ॥ ताते विषण्णहृदये नगरी गतेन श्रीनारदेन परिसान्वितचित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्च मासान् ॥ ५॥ तात इति । ताते पितर्युत्तानपादे विषण्णहृदये आत्मदोषेण बालकस्य नगरान्निर्गमनमुपश्रुत्य तस्यापायशङ्कया सोत्कण्ठहृदये ध्रुवस्य तपश्चरणेतिकर्त- व्यतोपदेशानन्तरमेवास्य पितृदर्शनाय नगरी गतेन श्रीनारदेन परिसान्त्विता तस्य भाविश्रेयःप्राप्तिकथनादिना मन्दीकृतशोकावेगो चित्तवृत्तिर्मनो यस्य स तथा तस्मिन् एवंस्थिते सति बालो ध्रुवस्त्वदर्पितमनाः त्वयीश्वरे समाहितचित्तः सन् क्रमव- धितेन फलपर्णजलादिक्रमेण शनैः परिहृतेनाहारेणाभिव्यक्तक्रमोत्कर्षेण कठोरणो- ग्रेण तपसा पञ्च मासान् निन्ये ॥ ५ ॥ ततश्च जातशबैर्देवैरर्थितः श्रीहरिस्तस्य पुरतः प्रादुर्बभूवेत्याह- तावत् तपोबलनिरुच्छ्रसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणाईचेताः । त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता- दाविर्बभूविथ विभो! गरुडाधिरूढः॥६॥ १. 'ण इति' क, पाठा. २. 'शा' क. पाठः, ९ ५ दशकम् -१७] ध्रुवचरितवर्णनम् । तावदिति । त्वद्रूपचिद्रसे त्वदाकारे चतुर्भुजत्वादिविशिष्टतया घनीभूय स्थिते चिद्रसे परब्रह्मणि निलीना तदाकाराकारिता मतिर्यस्य तस्येत्यर्थः । यद्वा तादृश्या मतेस्तस्य पुरस्तादाविभूविथेति । अनेन च त्वद्रूपं हृदि सह सा तिरोहितमुपलक्ष्योन्मीलितनयनस्तदवस्थं बहिःस्थितं भगवद्रूपमसौ ददर्शेति व्यज्यते ॥ ६ ॥ त्वदर्शनप्रमदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते । तुष्दूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथादरेण ॥ ७ ॥ त्वदिति । त्वदर्शनप्रमदभारे तरङ्गितम् इतिकर्तव्यतामूढतया किञ्चि- दिव सम्भ्रान्तं पुनश्च ते रूपरसायने रूपामृते दृग्भ्यां निमग्नमवगाढनयनयुग्म- मिवस्थितं तं तुषमाणं स्तोतुमिच्छन्तं तदसमर्थं चावगम्य तत्सामर्थ्यसम्पादनाय दरेण शब्दब्रह्मात्मकेन पाञ्चजन्याख्येन शङ्खन कपोलदेशे संस्पृष्टवानसि । आदरेण लालनपूर्वकम् ॥ ७ ॥ तावद् विवोधविमलं प्रणुवन्तमेन- माभाषथास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयः सर्वोत्तरं ध्रुव ! पदं विनिवृत्तिहीनम् ॥ ८ ॥ तावदिति । दरेण कपोले स्पृष्टमात्र एव विबोधेन ज्ञानविज्ञानाभ्यां वगतं मलमज्ञानं यस्मात् स विमलः, तम् । यद्वा विमलं यथा भवति तथेति स्तव- नक्रियाविशेषणम् । अनेन च स्तुतेनिर्गुणब्रह्मनिष्ठत्वं व्यज्यते । तदीयं ध्रुवसम्ब- न्धिनं भावमाभिप्रायमवगम्य आभाषथा उक्तवानसि । सर्वोत्तरं सप्तर्षिलोकादप्यु- परिष्टात् स्थितं पदं स्थानं हे ध्रुव! विनिवृत्तिहीनं पुनरावृत्तिरहितम् ॥ ८ ॥ ध्रुवे राज्यभारं न्यस्य पिता वनं गतवानित्याह इत्यूचुषि त्वयि गते नृपनन्दनोऽसा- वानन्दिताखिलजनो नगरीमुपेतः । १. 'ते तु' ख. पाठः.

नारायणीये स्कन्धः- रेमे चिरं भवदनुग्रहपूर्णकाम- स्ताते गते च वनमाहतराज्यभारः॥ ९॥ पुनरुत्तमचरितमाह - यक्षेण देव! निहते पुनरुत्तमेऽस्मिन् यक्षः स युद्धनिरतो विरतो मनूक्त्या । शान्त्या प्रसन्नहृदयाद् धनदादुपेतात् त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ १० ॥ यक्षेणेति । उत्तमे मृगयायां केनचिद् यक्षेग युद्धे निहतेऽनन्तरं स ध्रुवो भ्रातृवधामर्षेण ययुद्धनिरतस्तान् निहतवान् , मनोः पितामहस्योक्त्या विरतश्चा- भूत् । अथ ध्रुवस्य शान्त्या युद्धनिवृत्त्या ध्रुवसमीपमागताद् धनदाद् राजराजाद् वरं वृणीष्वेत्युक्तो ध्रुवस्त्वद्भक्तिमेवावृणोत् । अत्र हेतुर्महात्मेति ॥ १० ॥ अथ ध्रुवस्य स्वपदप्राप्तिमाह - अन्ते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप! निरुन्धि ममामयौघान् ॥ ११॥ अन्त इति । अन्ते षड्विंशद्वर्षसहस्रं राज्यमनुभूय तदन्ते भवत्पुरुषाभ्यां सुनन्दनन्दाभ्यां नीतेन विमानेन यातो गतः सन् मात्रा सुनीत्या समं सह मुदि- तः सन्तुष्ट अयमास्ते इत्यनेनाधुनापि तस्य विद्यमानत्वं नक्षत्ररूपेण दृश्यमानत्वं च सूचितम् ॥ ११ ॥ इति ध्रुवचरितवर्णनं सप्तदशं दशकं सैकम् । १. 'यां याते के क. पाठः, miamatathia दशकम् -१८] पृथुचरितवर्णनम् । अथ पृथुचरितकथनाय वेनकथां प्रस्तौति- जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुतः स वेननामा । यद्दोषव्यथितमतिः स राजवर्य- स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १॥ जातस्येति । ध्रुवकुल एव जातस्याङ्गनाम्नो राज्ञः सुनीथायां वेननामा सुतो- ऽजनि, यस्य वेनस्य दोषेणाधार्मिकत्वेन व्यथितो निर्विणः सोऽङ्गनामा राजवयों वनं गतः । निशीथे जनैरलक्षितो गत इति द्रष्टव्यम् ॥ १ ॥ वेनस्याधार्मिकत्वं प्रपञ्चयति- पापोऽपि क्षितितलपालनाय वेन: पौराद्यैरुपनिहितः कोरवीर्यः। सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ।। २ ॥ पाप इति । उपनिहितः सिंहासने संस्थाप्याभिषिक्तः ॥ २ ॥ अथ सज्जननिन्दयेश्वरनिन्दया चासौ मुनिशापाग्निनिर्दग्धोऽभूदित्याह सम्प्राप्ते हितकथनाय तापसौधे मत्तोऽन्यो भुवनपतिनं कश्चनेति । त्वन्निन्दावचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशामनायि वेनः ॥३॥ torrent अथ पृथ्ववतारमाह sana तन्नाशात् खलजनभीरुकैर्मुनीन्दै- स्तन्मात्रा चिरपरिरक्षिते तदङ्गे । त्यक्ताचे परिमथितादथोरुदण्डाद् दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४ ॥ मूलपाठः. २. 'बालोऽपि' क. पाठः. १. 'त' मूलपाठः. S १८ नारायणीये स्कन्धः-४ नन्नाशादिति । तस्य वेनस्य नाशादराजके खलजनेभ्यो दस्युभ्यो भीरु- कैः । तन्मात्रा सुनीथया योगबलेन रक्षिते तदङ्गे वेनशरीरे परिमथितादूरुद- ण्डात् त्यक्ताघ इति । अयमर्थः --- ऋषिभिर्मथितादूरोर्निषादो नाम कश्चित् पुरुषो जातः । स च वेनकल्मषांशत्वात् कृष्णवर्णः । तद्वंश्या नैषादा गिरिका- ननचराश्चाभूवन्निति । अथ दोर्दण्डे परिमथिते तस्मात् त्वं पृथुवपुः सन् आवि- रासीः अवतीर्णवान ।। ४ ॥ विख्यातः पृथुरिति तापसोपदिष्टैः सूतायैः परिणुतभाविभूरिवीर्यः । वेना- कवलितसम्पदं धरित्री- माकान्तां निजधनुषा समामकार्षीः ॥५॥ विख्यात इति । पृथुरिति विख्यातस्त्वं तापसोपदिष्टैः " अयं साक्षा- द्धरेरंशः" (श्रीभा. स्क. ४. अ. १९. श्लो. ६) इत्यादितापसोपदेशेन तत्प्रभावजैः सूतमागधवन्दिभिः परिणुतानि स्तुतानि भाविभूरिवीर्याणि महीदोहनैकोनशतवा- जिमेधादीनि यस्य स तथा । वेना. वेनकृतया आर्त्या पीडया कबलिता ग्रस्ता सम्पदोषधिर्यया तां कवलितसम्पदम् अत एवाक्रान्तां क्रुद्धेन त्वया आत्तशरासनेन धावयता नतोन्नतां कृतां निजधनुष्कोट्या समामकार्षीः, गिरिकूटानि चूर्णयन् पुरग्रामादिविभागेन प्रायः समतलां कृतवानिति भावः ॥ ५ ॥ अथ प्रजाः पृथुशासनाद् गोरूपिणीं महीं स्वस्वाभिमतान्नमयं क्षीरं दुदु- हुरित्याह भूयस्तां निजकुलमुख्यवत्सयुक्त- देवायैः समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥६॥ भूय इति । तां महीं निजकुलमुख्यवत्सयुक्तैरिति । अयमर्थः पृथुः स्वकुलमुख्यं मनुं वत्सं कृत्वा पाणिपात्रे ओषधीरधुक्षत् । ऋषयो बृहस्पतिं वत्सं कृत्वेन्द्रियेषु पात्रेषु महीं छन्दोमयं क्षीरं दुदुहुः । देवा इन्द्रं वत्सं कृत्वा । - ९९ दशकम् -१८] पृथुचरितवर्णनम् । स्वर्णपात्रे सोमं दुदुहुः । असुराणां प्रह्लादो वत्सः अयः पात्रं सुरा पयः, गन्धर्वा मधु । पितरः कव्यम् । एवं द्रष्टव्यम् । सुरभित गोरूपिणीमदूदुहः, त्वच्छासनाद् दुदुहुरिति तात्पर्यम् ॥ ६ ॥ आत्मानं यजति मखैस्त्वयि त्रिधाम- नारब्धे शततमवाजिमेधयागे। स्पर्धालुः शतमख एत्य नीचवेपो हृत्वावं तव तनयात् पराजितोऽभूत् ॥ ७ ॥ आत्मानमिति । हे त्रिधामन् ! विष्णो ! त्वयि पृथौ मखैरश्वमेधैरात्मा- नं सर्वदेवमयं विष्णुं यजति सति शततमे शतसंख्याया अन्तिमे वाजिमे- धयागे आरब्बे शतमखः इह जगत्यहमेक एव शतक्रतुरित्यभिमानीन्द्रः नीचवेषः पाषण्डवेषः सन्नेत्याचं हृत्वा तव तनयात् पृथुपुत्रादनेनैव कर्मणा विजि- ताश्वसंज्ञात् ॥ ७॥ देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नो तं मुनिवरमण्डले जुहूपौ । रुन्धाने कमलभवे क्रतोः समाप्तो साक्षात् त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८॥ देवेन्द्रमिति । अनेन प्रकारेण नगरक्तपटजटाभस्मादिपाषण्डवेषेण मुहुः पुनः पुनः वाजिनमश्वं हरन्तं मुष्णन्तं तं देवेन्द्र मुनिवराणां मण्डले समूहे वह्नौ दक्षिणाग्नौ जुहूषौ वधार्थमाभिचारविधानेन होतुमिच्छति सति कमलभवे ब्रह्मणि रुन्धाने 'तवैकोनशतक्रतुत्वेनालं, शतक्रतुश्च प्रीतो भवतु, हे पृथो! तव ऋतु- भिरलम्' इत्यागत्य प्रतिषेधं कुर्वति सति क्रतोः समाप्तौ जातायां त्वं पृथुः मधुरिपुं विष्णुं साक्षाच्चाक्षुषतया ऐक्षथा दृष्टवान् । स्वयं स्वमित्यनेन पृथोरवतारत्व- मुक्तम् ॥ ८ ॥ तदत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपदः कदापि देव!। १. 'रपि वा ख. पाठः, १०० नारायणीये [स्कन्धः-१ सत्रस्थं मुनिनिवहं हितानि शंस- नैतिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ९ ॥ तद्दत्तमिति । तेन विष्णुना दत्तं वरमेकामनपायिनी भक्तिमुपलभ्यानन्तरं गङ्गान्ते गङ्गायमुनयोर्मध्ये विहितं पदं स्थानं यस्य स तथा। तत्र वसन् कदापि सत्रस्थं सत्रयागे प्राप्त मुनीनां देवर्षिब्रह्मर्पिराजर्षीणां निवहं समूहं हितानि प्रवृत्ति- निवृत्तिलक्षणं धर्मद्वयं शंसन् उपदिशन् तदन्ते सनकमुखान् सनकसनन्दसनातन- सनत्कुमारान् ऐक्षिष्ठा दृष्टवान् ॥ ९ ॥ विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वयमगमो वनान्तसेवी । तत्तादृक्पृथुवपुरीश! सत्वरं मे रोगौघं प्रशमय वातगेहवासिन्! ॥ १० ॥ विज्ञानमिति । सनकमुखोदितं विज्ञानं ब्रह्मज्ञानं दधानः सम्यगवधार्य स्वयं जगदनुग्रहायाङ्गीकृतसत्त्वविग्रहस्त्वं स्वात्मानं स्वस्वरूपं परब्रह्मागमः अहं ब्रह्मेत्यनुभूतवान् । पश्चाच्च वनान्तसेवी पुत्रे राज्यं न्यस्य वनं गतस्तपश्चरन् स्वयं स्वात्मानमगमः प्राप्तवान् । परब्रह्ममात्रभुपतिष्ठसे स्म इति भावः ॥ १० ॥ इति पृथुचरितवर्णनम् अष्टादशं दशकम्। अथ प्राचीनबर्हिषश्चरितमारभते- पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हियुवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतसः सुतानजीजनत् त्वत्करुणाङ्कुरानिव ॥१॥ पृथोरिति । नप्ता पौत्रस्य पुत्रः। पृथोः पुत्रो विजिताश्वः, तत्पुत्रो हवि- निः, तत्पुत्रो बर्हिष्मदयमुच्यते । स च पृथुविस्तृतो धर्मो यस्य, यद्वा पृथोरिव धर्मो यस्य सः पृथुधर्मा कर्मठः कर्मशूरः, कर्मकाण्डे निष्णात इत्यर्थः । अत एव १. 'मवाते' क. पाठः,

दशकम् -१९]
दक्षोत्पत्तिप्रसङ्गवर्णनम् ।
प्राचीनारैः कुशैरास्तृतमिदं भूमण्डलमिति प्राचीनहिरिति नामास्याभृत् । स च
शतद्रुतौ भार्यायां प्रचेतसो नामेति प्रचेतस इति तुल्यनाम्नः सुतानजीजनत् ।
ते च सर्वे सुचेतसः । अत एव त्वत्करुणायाः प्राचीनबर्हिर्विषयाया
अङ्कुरा-
निवेति ॥१॥
पितुः सिसृक्षानिरतण्य शासनाद् भवत्तपस्यानिरता दशापि ते ।
पयोनिधि पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ २ ॥
पितुरिति । सिसृक्षानिरतस्य प्रजासर्गकामस्य प्रजाः सृजतेति शासनात्
ते प्रचेतसो दशापि भवत्तपस्यायां निरताः ॥ २ ॥
अथ भगवान् रुद्रस्तत्रागत्य तेषां भगवत्स्तोत्रमुपदिदेशेल्याह
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद् भक्ततमस्तव स्तवम् ॥३॥
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः।
भवत्सुखास्वादरसादमीवियान वभूव कालो ध्रुववन्न शीघ्रता ॥४॥
स्तवामिति । भवानेव सुखं भवत्सुखं ब्रह्मानन्दः तस्यास्वादने रस आग्रहः ॥
तपोभिरेषामतिमात्रवर्षिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥५॥
तपोभिरिति । स यज्ञहिंसानिरतो वेनः पृथोर्जनकः पावितः दुरितनिवृ-
त्तिद्वारा नरकादुत्तारितः । तेषां पिता प्राचीनबर्हिरपि गृहयातेन नारदेन प्रदर्शित
उपदिष्ट आत्मा श्रीहरिय॑स्य, 'आप्तत्वाच्च प्रमातृत्वादात्मा हि परमो हरिरि'त्युक्त-
त्वात् । भवदात्मतां सायुज्यम् ॥ ५ ॥
अथ भक्तवात्सल्येनैव तेषां त्वं प्रादुरभूरित्याह
कृपाबलेनैव ततः प्रचेतसा प्रकाशमागाः पतगेन्द्रवाहनः ।
विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः॥६॥
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद् वरानदाः।
भवद्विचिन्तापि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ ७ ॥

१०२ नारायणीये [स्कन्धः-४ प्रचेतसामिति । वरानदा इत्युक्तं, तदेवाह भवद्विचिन्तति । भवतां प्रचेतसां विचिन्तानुस्मरणं शिवाय मङ्गलाय, रुद्रनुतिः रुद्रेण गीता मम स्तुतिश्च ॥ ७॥ अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच मां प्रयास्यथेति न्यगदो मुदैव तान्॥८॥ अवाप्येति । किञ्च महीरुहां वृक्षाणां तनयां पुत्री, प्रम्लोचानान्नोऽप्सर- सः पुत्री तत्परित्यक्ता वृक्षैः पुत्रीत्वेन परिगृहीतेति द्रष्टव्यम् । तां कान्तामवाप्य युष्माभिर्दशभिः सहैवोद्वाह्य तया दशलक्षवत्सराणां समाहारो दशलक्षवत्सरी ताव- कालं रमध्वं भोगाननुभवत । तस्यां दक्षो नाम सुतश्चास्तु । तत्क्षणाद् दशल- क्षवत्सरानन्तरमेव मां प्रयास्यथ मुक्ता भविष्यथ इति मुदैव तत्प्रार्थनां विना त्वं तान् न्यगद उक्तवान् ॥ ८ ॥ ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहन्तो झुहिणेन वारिताः । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ ९॥ ततश्चेति । ततो भगवद्गमनानन्तरं सलिलादुत्थितास्ते भूतलं रोर्बु शीलं येवामिति भूतलरोधिनस्तान् तरून् क्रुधा क्रोधोद्भूताभ्यामनिलानलाभ्यां दहन्तो द्रुहिणेन ब्रह्मणा वारिताः । ततश्च भीतैर्ब्रह्मणोपदिष्टैर्दुमैर्दत्तां तां कमललो- चनाम् ॥ ९॥ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । अवापुरानन्दपदं तथाविधस्त्वमीश! वातालयनाथ! पाहि माम् ॥१०॥ अवाप्येति । नारदाल्लब्धया धिया ज्ञानेनानन्दरूपं पदं, पद्यते प्राप्यत पदं ब्रह्म अवापुः । तथाविधस्तादृशभक्तवात्सल्ययुक्तः ॥ १० ॥ ४१ ॥ इति दक्षोत्पत्तिप्रसङ्गवर्णनं दक्षोत्पत्तिवर्णनं च एकोनविंशं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां ! भक्तप्रियाख्यायां चतुर्थस्कन्धपरिच्छेदः। आदितः श्लोकसङ्ख्या १९९.

अथ पञ्चमस्कन्धपरिच्छेदः।
लोकानां प्राक् स्वसृष्टानां मर्यादापालनात्मिका ।
लीला स्थानसमाख्याता हरेः प्रस्तूयतेऽधुना ॥
इदानीं पञ्चमस्कन्धाश्रयणेन भगवतो मर्यादापालनात्मिकां लीलामभिदधानः
प्रथममृषभदेवावतारकथनाय तत्पूर्वपरम्पर।माह-
प्रियव्रतस्य प्रियपुत्रभूतादाग्नीधराजादुदितो हि नाभिः ।
त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्टयै कृतयज्ञकर्मा ॥१॥
प्रियव्रतस्येति । स्वायम्भुवस्य मनोज्येष्ठपुत्रः प्रियव्रतः । तस्य बहिष्मत्यां
दश पुत्रा अभवन् । तेषु ज्येष्ठ आग्नीध्रो नाम राजा स्वसमानशीलतया पितुः प्रियः।
तस्मात् पूर्वचित्तिनामाप्सरसि नाभि म राजा उदित उत्पन्नः । इष्टिमध्ये
यज्ञमध्ये ॥ १ ॥
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते! ॥२॥
अभिटुत इति । स्वतुल्यमश्विरतुल्यम् । बर्हिषि अग्नौ तिरोदधाः ॥ २ ॥
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूज़पभाभिधानः ।
अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः॥३॥
नाभीति । मेरुदेव्यां मेरुसुतायाम् । अलोकसामान्यैरमानुषैर्गुणैः प्रभावैश्च
प्रभावित उत्पादितः अशेषजनप्रमोदो येन ॥ ३ ॥
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या ।
तपोवनं प्राप्य भवनिषेवी गतः किलानन्दपदं पदं ते॥४॥
स्वयीति । आनन्दपदं निरतिशयसुखस्थानं ते पदं वैकुण्ठम् ॥ ४ ॥
इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद् व्यदधाः सुवर्षम् ॥ ५॥

नारायणीये (स्कन्धः-५ जितेन्द्रदत्तां कमनी जयन्तीमथोहन्नात्मरताशयोऽपि । अजीजनत् तत्र शतं तनूजान् येषां क्षितीशो भरतोऽग्रजन्मा॥६॥ जितेति । योगशक्त्या जितेनेन्द्रेण दत्ताम् । आत्मरतः आत्मनः श्रीहररु- पासन एवोत्सुक आशयोऽन्तःकरणं यस्य ॥ ६ ॥ नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् । सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद् भूसुरभूयमीयुः ॥ ७॥ नवति । भारतवर्षखण्डान् कुशावर्तेलावर्तब्रह्मावर्तमलयकेतुभद्रसेनविदर्भ- कीकटादीन् । सैका अशीतिरेकसहिता अशीतिः । भूसुरभूयं ब्राह्मणत्वम् ॥ ७ ॥ उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ ८ ॥ उक्त्वेति । स्वयमृषभदेवः । सुतेभ्यो भरतादिभ्यः। परमहंसानां वृत्तिं गतो जडोन्मत्तपिशाचवच्चरणमधाः अकरोः ॥ ८ ॥ परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः। विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः॥९॥ परेति । भवान् परात्मभूतो ब्रह्मभूतः, तथापि परेभ्य उपदेशं कुर्वन् ब्रह्मोपदेशं वा । स्वस्य पारमहंस्यवृत्त्यैव परोपदेशो न मुखत इत्याह-सर्वेति । सर्वनिरस्यमानोऽवधूतः । विकारहीनः शरीराभिमाननिवृत्तेः कर्तृत्वभोक्तृत्वसुखदुःखा दिरहितः । तत्र हेतुः अहीनात्मरसे परमानन्दानुभवे अभिलीनः तदैक्यं प्राप्तो जी- वन्मुक्त इति यावत् ॥ ९ ॥ शयुव्रतं गोमृगकाकचर्या चिरं चरत्नाप्य परं स्वरूपम् । दवाहृताङ्गः कुटकाचले त्वं तापान ममापाकुरु वातनाथ! ॥१०॥ शरिवति । शयुव्रतमाजगरं व्रतं गोपृगकाकचर्या च चिरं चरन् शयुवद- नुद्यमः सन् गोमृगकाकवच्छुळ्यशुद्धिविधिनिषेधादेर्निवृत्तः, केवलं देहम्वभावात् सञ्चरन्नित्यर्थः । परं स्वरूपमाप्य कुटकाचले दवाहृताङ्गो दवाग्निदग्धशरीरः पपातेत्यर्थः ॥ १० ॥ इति ऋषभयोगिचरितवर्णनं विंशं दशकम् ।

दशकम् - २१] जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् । १०५ अथ लोकरक्षायै तत्तद्भूखण्डेषु तत्तद्रूपेण सन्निदधानं भगवन्तं स्तौति- मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभिः समुपास्यमानं सङ्कर्षणात्मकमधीश्वर ! संश्रये त्वाम् ॥१॥ मध्योद्भव इति । भुवो मध्यं जम्बूद्वीपः, तन्मध्यभवे वर्षे खण्डे । गौरी- शापेन पुरुषागम्यतयात्र शर्व एक एव पुरुषः । अतो गौरीप्रधानं वनिताजनमा- त्रमेव भजतीति तथा । शर्वेण मन्त्रैर्नुतिभिश्च ॥ १ ॥ भद्राश्वनामक इलायतपूर्ववर्षे भद्रश्रवोभिपिभिः परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणं ध्यायामि देव ! हयशीर्षतर्नु भवन्तम् ॥२॥ व्यायामि दक्षिणगते हरिवर्षवर्षे प्रहादमुख्यपुरुषैः परिपेव्यमाणम् । उत्तुङ्गशान्तभवलाकृतिमेकशुद्ध- ज्ञानभदं नरहरि भगवन् ! भवन्तम् ॥ ३ ॥ ध्यायामीति । एकं शुद्धं निरुपाधिकं ज्ञानं ददातीति तथा ॥ ३॥ वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ ४ ॥ वर्ष इति । धृतकामतनुम् अङ्गीकृतकामदेवस्वरूपम् ॥ ४ ॥ रम्येऽप्युदीचि खलु रम्यकनाम्नि वर्षे तदर्षनाथमनुवर्यसपर्यमाणम् । * 'सपर पूजायामिति कण्ड्वादः कर्मणि शानचि सपर्यमाणशब्दः ।

नारायणीये स्कन्धः-५ भक्तैकवत्सलममत्सरहत्सु भान्तं मत्स्याकृति भुवननाथ ! भजे भवन्तम् ॥५॥ रम्य इति । रम्यकवर्षनाथेन वैवस्वतेन मनुवर्येण सपर्यमाणमारा- ध्यमानम् ॥ ५॥ वर्ष हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमायं तं त्वां भजामि भगवन् ! परचिन्मयात्मन् ! ॥६॥ वर्षमिति । औत्तराहम् उत्तरदिग्भवम् । अद्रिधृतिकर्मठम् अमृतमथने मन्दराद्रिधारणौषयिकं कामठं कौममङ्गं यस्य । परचिन्मयात्मन् ! विशुद्धज्ञान- स्वरूप! ॥६॥ किञ्चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेदैः। दंष्ट्राग्रवृष्टधनपृष्ठगरिष्ठवष्मा त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ! ॥७॥ किश्चेति । दंष्ट्राग्रेण वृष्टं धन पृष्ठं येन तादृशं गरिष्ठमत्युन्नतं च वर्म स्व- रूपं यस्य । विज्ञैर्जानिभिर्नुता स्तुता यज्ञवराहरूपा मूर्तिर्यस्य ॥ ७ ॥ याम्यां दिशं भजति किम्पुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा। सीताभिरामपरमाद्भुतरूपशाली रामात्मकः परिलसन् परिपाहि विष्णोः ॥ ८ ॥ याम्यामिति । याम्यां दिशं भजति इलावृतसमनन्तरदेशवर्तिनि ॥ ८ ॥ श्रीनारदेन सह भारतखण्डमुख्यै- स्त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः । आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसखः परिपाहि भूमन् ! ॥ ९ ॥ १.रव क. पाठः, दशकम् -२१] जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् । १०७ श्रीति । साङ्ख्यं प्रकृतिपुरुषविवेकज्ञानं, योगोऽष्टाङ्गः, ताभ्यां नुति- भिश्च ॥ ९ ॥ इमं जम्बूद्वीपं परितः क्रमात् प्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करनामानः षड् द्वीपाः । तत्र क्रमादर्केन्दुवयम्बुवायुब्रह्मरूपेण तत्रत्या भगवन्तं भजन्तीत्याह- प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपम् । क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमयि पुष्करनान्नि लोकाः ॥ १० ॥ अथ ज्योतिरनीकात्मकस्य भगवत उपासनाप्रकारमाह--- सर्वैर्बुवादिभिरुटुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानः । त्वं शिंशुमारवपुषा महतामुपास्यः सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ! ।। ११॥ सर्वैरिति । उडुप्रकरैरश्चिन्यादिभिः ग्रहैः सूर्यादिभिर्यथाक्रमं पुच्छाद्यवय वेषूपासकैरभिकल्प्यमानैरुपलक्षितस्त्वं शिंशुमारवपुषा अवाक्शिरसः कुण्डलीभूत- शरीरस्य शिंशुमारस्य वपुरिव वपुर्यस्य, तद्रूपेण महतां महद्भिः सन्ध्यासु त्रिका- लमुपास्यः ॥ ११ ॥ अथ प्रपञ्चस्योद्धारक शेषमूर्ति स्तौति- पातालमूलभुवि शेषतर्नु भवन्तं लोलैककुण्डलविराजिसहस्रशीर्षम् । नीलाम्बरं धृतहलं भुजगाङ्गनाभि- र्जुष्टं भजे हर गदान् गुरुगेहनाथ ! ॥ १२ ॥२२॥ इति जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् एकविंशं दशकं सद्विकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां पञ्चमस्कन्धपरिच्छेदः। । wanRIERA आदितः श्लोकसङ्ख्या २२.१.

अथ षष्ठस्कन्धपरिच्छेदः।
कृतेऽपि पापे भक्तानां यातना नैव नारकी।
इति षष्टगतो विष्णोः स्तूयतेऽनुग्रहोऽधुना ॥
अथाजामिलोपाख्यानमारभते अजामिलेत्येकादशभिः
अजामिलो नाम महीसुरः पुरा चरन् विभो! धर्मपथान् गृहाश्रमी ।
गुरोगिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥१॥
अजामिल इति । पुराजामिलो नाम अजामिमकुलीनां स्त्रियं लात्यादत्त
इत्यजामिल इति प्रसिद्धः कश्चिद् महीसुरो गृहाश्रमी स्वाश्रमोचितान् धर्मपथान्
प्रवृत्तिनिवृत्तिनार्गान् चरन् अनुतिष्ठन् गुरोगिरा पितुर्निदेशेन फलपुष्पसमित्कुशा-
नाहर्तुं काननमेत्य सुधृष्टमतिशयेन धृष्टं मिथ्याविलासादिभिः परमतिवञ्चनसमर्थ
शीलं यस्याः, मदाकुलां मधुमदखेलगमनां काञ्चित् कुलटां पुंश्चली दृष्टवान् ॥१॥
स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्मसुत्सृज्य तया समारमन् ।
अधर्मकारी दशमी भवन पुनर्दयौ भवन्नामयुते सुते रतिम् ॥२॥
स्वत इति । ततश्च स्वतः प्रशान्तोऽप्यसौ तयाहृत आशयो यस्य स तथा
स्वधर्म सहधर्मचारिणी चोत्सृज्य तया सह समारमन् तस्याः कुडुम्बभरणायाध-
मकारी बभूव । पुनश्च दशमी भवन् जरठः सन् भवन्नामयुते नारायणाह्वये सुते
बालके दशमपुत्रे रतिमतिस्नेहं दधौ ॥ २ ॥
स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया ।
पुरा मनाक् त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥३॥
स इति । मृत्युकाले मरणसमये मनाग् ईषत् त्वत्स्मृतेर्भगवदुपासनाया
या वासना संस्कारस्तबलाद् नारायणनामकं सुतं जुहाव नारायण! इत्याजु-
हाव ॥ ३ ॥
दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् ।
पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥४॥

दशकम् -२२] अजामिलोपाख्यानम् । है दुराशयस्येति । कुडुम्बासक्तचेतसोऽप्यस्य तदात्वे मरणदशायां निर्गतस्य त्वदीयनामाक्षरमात्रस्येत्यनेन भक्तिश्रद्धावृत्तिवर्णव्यक्तैताद्यभावो व्यज्यते, तथापि नारायणेत्यक्षरचतुष्टयस्य प्रभावाद् भवदीयपार्षदा विष्णुदूता अस्य पुरोऽभिपेतुः प्रादुर्भूताः ॥ ४ ॥ अमुं च सम्पाश्य विकर्पतो भटान् विमुञ्चतत्यारुरुधुर्वलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥५॥ अमुमिति । अमुमजामिलं सम्पाश्य पाशेन गले बद्धा विकर्षतो भटान् यमभटान् अमी विष्णुदूता बलाद् विमुञ्चतेत्यनेन बचनेनैवारुरुधुः । ते यमभ- टास्तदीयमजामिलस्येदं पापं निखिलं न्यवेदयन् ॥ ५ ॥ भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः!। न निष्कृतिः किं विदिता भवादृशामिति प्रभो! त्वत्पुरुषा वभाषिरे ॥६॥ भवन्त्विति । अनन्तरं च त्वत्पुरुषा विष्णुदूता यमभटानिदमुत्तरं बभा- पिरे भोः पण्डिताः! सत्यं भवद्भिरुक्तानि पापान्यस्य भवन्तु, किन्तु निष्कृते प्रायश्चित्ते कृतेऽपि कथं दण्डनमस्ति, अनेन च हरिनामग्रहणरूपं प्रायश्चित्तं कृतमेव, भवादृशां युप्मद्विधैर्मराजकिनिष्कृतिः किं न विदितेति ॥ ६ ॥ ननु महतामपि पापानां नामग्रहणमात्रं प्रायश्चित्तमित्ययुक्तं, श्रौतस्मादिप्रा- यश्चित्तानामतिक्लेशमात्ररूपाणां वैयर्थ्यप्रसङ्गादित्याशङ्कयाह श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो! त्वत्पुरुषा बभाषिरे ॥७॥ श्रुतीति । व्रतानि चान्द्रायणादीनि, आदिशब्देन तीर्थस्नानादि । एता निष्कृतयः पापं पुनन्ति शोधयन्ति केवलं, न वासनां सजातीयकर्मोत्पादक संस्कारमपि लुनन्ति । ततश्च पुनरपि पापं कुर्वन्ति । एवं चान्द्रायणादीनां पापा- त्यन्तिकनिवर्तकत्वाभावान्न मुख्यप्रायश्चित्तत्वम् । अनन्तस्य हरेः सेवा स्मरणकीर्त- नादि तु द्वयीं पापं तद्वासनां च निकृन्तति उन्मूलयति ॥ ७ ॥ १. 'क्त्याद्यक, ग, पाठ:. २. "त्यादिव' क, पाठः, नारायणीये [स्कन्धः-६ अयं च मरणभयाकुलः सन् हरिनामोच्चारितवान् , अत इतः परं न भवद्द- ण्डनमहतीत्याह---- अनेन भो ! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । यदग्रहीनाम भयाकुलो हरेरिति प्रभो ! त्वत्पुरुषा वभाषिरे ॥ ८॥ ननु नासौ म्रियमाणो हरिनामोच्चारितवान् , किन्तु पुत्रं तन्नामानमाजुहावैव । अतो न पापक्षय इत्याशङ्कयाह- नृणामबुद्धयापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृशः। यथाग्निरेधांसि यथोपधं गदानिति प्रभो! त्वत्पुरुषा वभाषिरे ॥ ९ ॥ नृणामिति । इदं भगवन्नाम कीर्तितं सदशेषाघौघहरं चेति धिया नामो- चारणीयम् । अतोऽन्यथावुद्धयापि मुकुन्दकीर्तनमघौघान् दहति, दहनकणस्तूल- पिण्डसञ्चयमिवोन्मूलयति । कथमस्य तादृशं सामर्थ्यमिति नानुयोजनीयम् । नान्नो महिम्नः श्रूयमाणत्वाद् दृष्टत्वाच्चेत्याह -- महिमेति । अस्य नाम्नस्तादृशोऽप- रिच्छेद्यो महिमा विद्यते । तेषां सन्देहहानाय सदृष्टान्तमाह-यथेति । बालादिना अबुद्धया निक्षिप्तोऽग्निः अबुद्धयोपयुक्तमौषधं च यथा ॥ ९ ॥ । इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । भवत्स्मृति कञ्चन कालमाचरन् भवत्पदं प्रापि भवटैरसौ ॥ १० ॥ इतीति । इतीरितैः प्रतिबोधितैर्याम्यभटैरपासृतेऽपसरणे कृते सति भवद्भ- टानां गणे समूहे तिरोहिते अन्तर्हिते च सति असावजामिलो गङ्गाद्वारे कस्मिंश्चिद् देवसदने स्थित्वा कञ्चन कालं भवत्स्मृतिमाचरन् समाधिजये सति प्रादुर्भूतैस्तैरेव भवत्पार्षदैर्लब्धसारूप्यो विमानेन भवत्पदं वैकुण्ठं प्रापि अनीयत ॥ १० ॥ स्वकिङ्करावेदनशङ्कितो यमस्त्वदघ्रिभक्तेषु न गम्यतामिति । स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव! वातालयनाथ! पाहि माम् ॥११॥ स्वेति । यमकिकरास्तु स्वामिने सर्व निवेदयामासुः । यमस्तु स्वकिङ्करा- णामावेदनेन शङ्कितः स्वभृत्यापराधः स्वस्मिन्नपि स्यादिति भीतः सन् त्वदद्धि-

दशकम् - २३] चित्रकेतूपाख्यानम् ।
भक्तेषु भवद्भिर्न गम्यतां भगवद्भक्ताः परिहरणीया युप्माभिरित्युच्चकैरतिनिर्बन्धेन
स्वभृत्यानशिशिक्षत् शिक्षितवान् । तादृशभक्तवात्सल्ययुक्तस्त्वं पाहि ॥ ११ ॥
इत्यजामिलोपाख्यानं द्वाविंशं दशकं सैकम् ।
एवमजामिलदृष्टान्तेन नृणामनुग्रहमुक्त्वा स्वर्गिणां भगवदनुग्रहं दर्शयितुं
दक्षकथामारभते
पाचेतसस्तु भगवन्नपरोऽपि दक्ष-
स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
आविर्वभूविथ तदा लसदष्टवाहु-
स्तस्मै वरं ददिथ तां च वधूमसिनीम् ॥ १ ॥
प्राचेतस इति । प्राचीनबर्हिषः पुत्रा दश प्रचेतसः, तेषां पुत्रः प्राचे-
तसो दक्षः । अपरो ब्रह्मपुत्राद् दक्षादन्यः । स मनसैवेमाः प्रजाः सृष्ट्वा पुनस्तद्वि-
वृद्धिकामस्त्वत्सेवनं व्यधित कृतवान् । त्वं च वरं त्वत्तः प्रभृति व्यवायधर्मेण
प्रजासों भविष्यतीत्येवं रूपं, तां पञ्चजनदुहितरम् असिनी वधू भार्या च
ददिथ दत्तवान् ॥ १॥
!
तस्यात्मजास्त्वयुतमीश! पुनः सहस्रं
श्रीनारदस्य वचसा तव मार्गमापुः ।
नैकत्रवासमृषये मुमुचे स शापं
भक्तोत्तमस्त्ऋषिरनुग्रहमेव मेने ॥ २ ॥
तस्येति । तस्य दक्षस्य हर्यश्वसंज्ञा अयुतमात्मजा आसन् । पुनः शब-
लाश्वसंज्ञाः सहस्रं च सुता आसन् । ते सर्वेऽपि पितुरादेशात् सर्गवृद्धये तपः
कुर्वन्तः श्रीनारदस्य वचसा निवृत्तिमार्गोपदेशरूपेण तव मार्ग मोक्षमापुः प्राप्त-
वन्तः । स दक्षः क्रुद्धो मुनये श्रीनारदाय नैकत्रवासं सदासञ्चारित्वं शापं मुमुचे ।
ऋषिस्तु भक्तोत्तमत्वेन तमनुग्रहमेव मेने ॥ २ ॥

नारायणीये स्कन्धः-६ ११२ षष्टया ततो दुहितृभिः सृजतः कुलौघान् दौहित्रमनुरथ तस्य स विश्वरूपः । त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ देव! त्वदीयमहिमा खलु सर्वजैत्रः॥३॥ षष्टयेति । ततः षष्ट्या दुहितृभिरदितिदित्याद्याभिः कुलौघान् स्थिरचरभे- दसमूहान् सृजतोऽस्य दक्षस्य दौहित्रो दितेः पुत्रस्त्वष्टः तत्सूनुस्त्वाष्ट्रो विश्वरूपः । सः त्वम्तोत्रेग नारायणात्मकेन वर्मणा वर्मितं कृतरक्षम् इन्द्रम् आजौ देवासुरयुद्धे अजापयद् +जयमकरोत् ॥ ३ ॥ अथ वृत्रवधप्रस्तावाय प्राग्जन्मकथामाह प्राक् शूरसेनविषये किल चित्रकेतुः पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् । लब्बैकपुत्रमथ तत्र हते सपत्नी- सङ्घरमुह्यदवशस्तव माययासौ ॥ ४ ॥ प्रागिति । अङ्गिरसः प्रभावात् तत्कृतयज्ञोच्छिष्टप्राशनेन ज्येष्ठभार्यायामेकं पुत्रं लब्ध्वा तत्र तस्मिन् पुत्रे सपत्नीस.ईते ॥ ४ ॥ तं नारदस्तु सममङ्गिरसा दयालु: सम्पाप्य तावदुपदर्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुक्त ॥ ५ ॥ तमिति । अङ्गिरसा समं सह सुतस्य मृतस्य जीवं योगबलेनोपदी दर्श- यित्वा अहं कम्य पुत्रोऽस्मीति तस्य गिरा नृपतेर्विमोहं त्यक्त्वा ॥ ५ ॥ स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा तोपाय शेषवपुषो ननु ते तपस्यन् । + जयन्तं प्रयोजितवान् ।।

दशकम् -२३] चित्रकेतृपाख्यानम् । ima- विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वाप्यकुण्ठमतिरन्वभजद् भवन्तम् ॥६॥ स्तोत्रमिति । शेषवपुषोऽनन्तमूर्तेः ते तव हरेस्तोषाय प्रसादाय तपस्यन् स चित्रकेतुः सप्तरात्रे सप्तरात्रान्ते विद्याधराधिपतितां लब्ध्वा भवन्तं शेषमूर्तिम् ॥ ६ ॥ त्वं चानन्तरूपेण प्रादुर्भूयात्मतत्त्वमुपदिश्य तिरोहितवानित्याह- तस्मै मृणालधवलेन सहस्रशीर्णा रूपेण बद्धनुतिसिद्धगणातेन । प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ॥७॥ त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्ष वर्षाणि हर्षुलमना भुवनेषु कामम् । सङ्गापयन् गुणगणं तव सुन्दरीभिः सङ्गातिरेकरहितो ललितं चचार ॥८॥ त्वदिति । (ते.) तव गुणगणं हरिचरितं विद्याधरसुन्दरीभिः सङ्गापयन् ॥ अत्यन्तसङ्गविलयाय भवत्मणुनो नूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शङ्कमङ्ककृतवल्लभमङ्गजारि तं शङ्करं परिहसनुमयाभिशेपे ॥९॥ अत्यन्तेति । स च श्रीशङ्करं परिहसन् उमयाभिशेपे आसुरी योनि याही- ति शप्तोऽभूत् । स्वतः सङ्गातिरेकरहितस्यात्यन्तसङ्गविलयाय भवतेश्वरेण प्रणुन्नः प्रेरितोऽसौ नूनमिति तर्कयामि, अन्यथा तस्य देवहेलनायोगात् ॥ ९ ॥ निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी। १. 'ति' ख. पाठ:. २. 'पः प्रा' ख. पाठः.

नारायणीये ama भक्त्यात्मतत्त्वकथनः समरे विचित्रं शत्रोरपि भ्रममपास्य गतः पदं ते॥१०॥ निःसम्भ्रम इति । ततश्चासौ निःसम्भ्रमः शापभयरहितः समर आत्मत- त्वकथनैः शत्रोरिन्द्रस्यापि श्रममज्ञानमपास्य तद्वत्रेण हतः ते पदं वैकुण्ठं गतः। चित्रमाश्चर्यमेतत् । अत्र गुरुहेलनेनासुरेभ्यः पराजितैर्देवैः पौरोहित्याय वृतो विश्व- रूपः । स तु दितिसुतायत्यतया मातृपक्षपातेन रहसि दैत्येभ्यो हविर्भागं दत्तवान् । इन्द्रनु तदालझ्याल्य शिरांन्यवृश्चत् । ततश्च त्वईतपुत्रस्याभिचारकुण्डादुत्थितो वृत्रः समरभुवि इन्द्रेण हत इति कथानुसन्धेया ॥ १० ॥ अथ दिते?रसङ्कल्यादिन्द्रस्य मरुधाच्च भगवदनुग्रहाच्छ्रेयःप्राप्तिमाह- त्वत्सेवनेन दितिरिन्द्रवधोधतापि तान् प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वमव मां पवनालयेश! ॥११॥ त्वदिति । दितिरिन्द्रबधोद्यता काश्यपं प्रसाद्य इन्द्रहणं पुत्रं वृतवती । तस्माद् गर्भ चाधत्त । तथापि त्वत्सेवनेन काश्यपोपदिष्टपुंसवनव्रतानुष्ठानेनेन्द्रहणं पुत्रं लेभे । अपितु प्रत्युत विपरीतं जातम् । इन्द्रेणाकाले स्वपन्त्या दितेरुदरं प्र- विश्य ये सप्त सप्तधा वृणास्तानिन्द्रस्य सुहृदो मरुत एकोनपञ्चाशत्पुत्रानभिलेभे। एवं च दुष्टाशयेऽपि भवन्निषेवा शुभदैव, यथा दितेरिन्द्रस्य च । तत्तादृशोऽनन्य- सदृशः ॥ ११ ॥ २२ ॥ इति चित्रकेतूपाख्यानं मरुदुत्पत्तिवर्णनं च त्रयोविंशं दशकं सैकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां षष्ठस्कन्धपरिच्छेदः। wapwin आदितः श्लोकसङ्ख्या २४३.

अथ सप्तमस्कन्धपरिच्छेदः। प्राकर्मवासनाभेदा ऊतयः सप्तमोदिताः । प्रह्लादपितृदृष्टान्तलक्ष्यन्तेऽथ हरेर्गुणाः ।। अथ प्रह्लादचरितवर्णनाय तदुत्पत्तेः पूर्व तपितुर्हिरण्यकशिपोभगवद्विवे- पादिकं प्रस्तौति- हिरण्याक्षे पोत्रिप्रवरवपुषा देव! भक्ता हते शोकक्रोधग्लपितधृतिरेतस्य सहजः। हिरण्यप्रारम्भः कशिपुरमरारातिसदासि प्रतिज्ञामातेने तव किल वधार्थ मुररिपो! ॥१॥ विधातारं घोरं स खलु तपसित्वा नचिरतः पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् । वरं लब्ध्वा दृप्तो जगदिह भवनायकमिदं परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ २॥ विधातारमिति । परिक्षुन्दन् चूर्णीकुर्वन् ।॥ २ ॥ निहन्तुं त्वां भूयस्तन पढ़मवासस्य च रिपो- बहिर्दष्टेरन्तर्दषिय हृदये सूक्ष्मवयुषा । नदनुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् भिया यातं मत्वा स खलु जितकाशी निवडते ॥३॥ निहन्तुमिति । तव पदं वैकुण्ठमवाप्तस्य प्राप्तस्य रिपोर्हिरण्यकशिपोर्बहि- दृष्टेमीसचक्षुषः सकाशात् त्वं सूक्ष्मवपुषा ज्ञानदृष्टिरहितस्यास्य हृदये अन्तर्दधिथ अन्तर्हितवान् । ततस्त्वां भीतं मत्वोच्चैर्नदन् सिंहनादं कुर्वन् तत्र बैकुण्ठलोके अखिलभुवनान्ते चतुर्दशसु लोकेषु जितकाशी जितंमन्यो निववृते निवृत्तोऽभूत् ।। ततोऽस्य प्रहादः समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा । BARANA १. 'मधुरि क. घ. पाठः नारायणीये [स्कन्धः-७ सवै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं गतस्त्वद्भक्तानां वरद! परमोदाहरणताम् ॥ ४ ॥ तत इति। हिरण्यकशिपो तपसे मन्दरादि गतवति देवा असुरान् निर्जि- यान्तर्वती प्रह्लादमातरं कयाधुं नेतुमारब्धा नारदवचनाद् विसृज्य प्रति- निवृत्ताः । देवर्षिस्तु तस्यै प्रह्लादमुद्दिश्य भक्तिज्ञानमार्गानुपदिदेश । अतोऽसौ शिशुरपि त्वयीश्वरे रति प्रेमलक्षणां भक्तिम् ॥ ४ ॥ सुरारीणां हास्यं तव चरणदास्यं निजसुते स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षचिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि- त्यपाकुर्वन् सर्व तव चरणभक्त्यैव वधे ॥५॥ मुरारीणामिति । गुरुभिः शुक्रपुत्राभ्यां शण्डामर्काभ्याम् । गुरुप्रोक्तं त्रिव- र्गस्योपायं वार्तादण्डनीत्यादि भेददृष्टयाश्रितत्वादिदमिदमभद्राय शरीरबन्धेन संसा- राय भवति दृढं निश्चितमिति त्वद्भक्तेरन्यत् सर्वमपाकुर्वन् तव चरणभक्त्या केवलया वृधे । अस्य शरीरवृद्धयनुसारेण भक्तिरपि ववृध इत्यर्थः ॥ ५ ॥ अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्ति वर्यामभिगदति पर्याकुलधृतिः। गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन् वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥६॥ अधीतेष्विति । अथ कदाचित् पित्रा त्वयाधीतेषु मध्ये किं श्रेष्ठमिति तनये प्रह्लादे पृष्टे सति भवद्भक्तिं वर्या श्रेष्टामभिगदति च सति पर्याकुला चलिता धृतिर्यस्मात् स तथा अस्य मतिः सहजेति गुरुमुखादभिविदन् आस्मन् प्रह्लादे वधोपायान् व्यतनुत ॥ ६ ॥ वघोपायानाह--- स शुलैराविद्धः सुबहु मथितो दिग्गजगणै- महासर्पर्दष्टोऽप्यनशनगराहारविधुतः।

दशकम् -२४] प्रह्लादचरितवर्णनम् । ११७ गिरीन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो! त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ ७॥ स इति । परमात्मनि त्वयि न्यस्त आत्मा मनो यस्य । अथवात्मा जीवः, ब्रह्मभूतत्वादित्यर्थः ॥ ७ ॥ ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्गहे किल वरुणपाशैस्तमरुणत् । गुरोश्वासान्निध्ये स पुनरनुगान् दैत्यतनयान् भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥ ८॥ तत इति । तद्नेहे गुरुगृहे स प्रह्लादोऽनुगान् सखीन् भवद्भक्तस्तत्त्वं स्वरूपं कारणं फलं च परमं विज्ञानं ब्रह्मज्ञानमप्यशिषद् उपदिदेश ॥ ८ ॥ पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं रुषान्धः पाईनं कुलहतक! कस्ते बलमिति । बलं मे वैकुण्ठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥९॥ पितेति । कुलहतक! असुराधम ! ममाज्ञालङ्घने कस्ते बलमिति पिता प्राह पप्रच्छ । वैकुण्ठो विष्णुर्मे बलं, न केवलं मम, तवापि त्रिभुवनविजये स विष्णुरेव बलं, जगतां जगद्वासिनामपि । किञ्च सकलं त्रैलोक्यं स विष्णुरेव, न ततः पृथक् किञ्चिदप्यस्तीत्ययं प्रह्लादोऽगदीद् व्यक्तमुक्तवान् । धीरो निर्भयो विद्वान् वा ॥९॥ तदनन्तरं हिरण्यकशिपोः प्रवृत्तिमाह - अरे ! कासौ कासौ सकलजगदात्मा हरिरिति प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः। अतः पश्चाद् विष्णो: न हि वदितुमीशोऽस्मि सहसा कृपात्मन् ! विश्वात्मन् ! पवनपुरवासिन्! मृडय माम् ॥१०॥ १. क. घ. पाठः, नारायणीये स्किन्धः-७ अरे इति । सकलं जगद् आत्मा स्वरूपं यस्यासौ हरिः केति दुर्घटत्वेन कोपावेशेन चासकृदुञ्चरन्नेव स्तम्भं प्रभिन्ते स्म ताडितवान् । अतः पश्चात् स्तम्भभञ्जनानन्तरं तत्र किं जातमिति न हि सहसा वक्तुमीशोऽस्मि । कृपायुक्त आत्मा यन्य, हे कृपात्मन् ! भक्तवत्सल! विश्वात्मन् ! स्पष्टविश्वात्मतत्त्व! हे विष्णो! जगद्व्यापनशील! हे पवनपुरवासिन् ! मां मृडय सुखय ॥ १० ॥ इति प्रह्लादचरिते नृसिंहाविर्भावप्रसङ्गवर्णनं चतुर्विशं दशकम् । ! स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णो समाचूर्णय- नाघूर्णज्जगदण्डकुण्डकुहरो घोरस्तवाभूद् वः । श्रुत्वा यं किल दैत्यराजहृदये पूर्व कदाप्यश्रुतं कम्पः कश्चन सम्पपात चलितोऽप्यम्भोजभूर्विष्टपात् ॥१॥ स्तम्भ इति । एवं स्तम्भभञ्जनानन्तरं प्रादुर्भवतस्तव घोरो रवः सिंह- नादोऽभूत् । घोरत्वमेवाह ---- घट्टयतो निन्नतः । आघूर्णज्जगदण्डकुण्डकुहरः सम्भ्रान्तब्रह्माण्डकटाहान्तर्गतचराचरः । पूर्व कदाप्यश्रुतं यं श्रुत्वा दैत्यस्य हिर- ण्यकशिपोर्हृदये कश्चनानिर्देश्यरूपः कम्पः सम्पपात । अपिच अम्भोजभूरपि विष्टपात् सत्यलोकाचलितः किमिदमकाण्डे कल्पापाय इति सम्भ्रान्तोऽभूत् ॥ १॥ दैत्ये दिक्षु विसृष्टचक्षुषि महासंरम्भिणि स्तम्भतः सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो।। किं किं भीषणमेतदद्भुतमिति व्युभ्रान्तचित्तेऽसुरे विस्फूर्जद्धवलोग्ररोमविकसद्वा समाजृम्भथाः ॥२॥ दैत्य इति । विसृष्टचक्षुषि सर्वतः सञ्चारितनयने सति न मृगात्मकं न मनुजाकारं नरसिंहाकारं वपुः तद् दृष्ट्वा किं किमेतद् भीषणमद्भुतं चेति व्युझा- न्तचित्तेऽसुरे हिरण्यकशिपौ विस्फूर्जद्भिर्विकस्वरैर्धवलोअरोमभिः विकसत् प्रकाश- मानं च वर्म स्वरूपं यस्य स त्वं समाजृम्भथाः स्फुटनिर्गतोन्नतरूपोऽभूः॥ २ ॥ १. 'त्मक ! हे' क. पाठः, २. 'त:' क. घ. पाठः. ३. 'रा' घ. पाठः, ANICHTRURI दशकम्-२५] प्रह्लादचरितवर्णनम् । ११९ तद्रूपमेव वर्णयति- तप्तस्वर्णसवर्णघूर्णदतिरुक्षासं सदाकेसर- प्रोत्कम्पप्रनिकुम्विताम्बरमहो जीयात् तवेदं वपुः। व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा- जिहानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ ३ ॥ तप्तेति । तप्तस्वर्णसवर्णे विलीनावस्थितपुरटसदृशे घूर्णती भ्रमिते अतिरू- क्षे अक्षिणी यस्मिन् , सटाकेसरपोत्कम्पप्रनिकुम्विताम्बरं प्रचलितस्कन्धरोमाञ्चला- च्छादितगगनतलं, व्यात्तं विवृतं व्याप्तमहादरीसखं विस्तृतमहागुहासदृशं मुखं य- स्मिन्, खड्गवदुनाया वल्गन्त्याश्चलिताया महाजिह्वाया बहिनिर्गमे दृश्यमानेन सुमहता दंष्ट्रायुगेनोड्डामरमतिभीषणं तदिदं ते वपुर्जीयात् सर्वोत्कृष्टतया प्रका- शताम् ॥ ३ ॥ उत्सर्पद्वलिभङ्गभीषणहर्नु ह्रस्वस्थवीयस्तर- ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्वणम् । व्योमोल्लविधनाधनोपमघनप्रध्वाननिर्धावित- स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ ४ ॥ उत्सर्पदिति । भवतस्तन्नारसिंहं वपुर्नमामि । कीदृशम् उत्सर्पद्भिरट्टहासवि- जुम्मणादिषूपर्युपरि गच्छद्भिर्वलिभङ्गैर्भीषणौ हनुप्रदेशौ यस्मिन् , ह्रस्वा स्थवीयस्तरा अतिशयेन स्थूला ग्रीवा यस्मिन् , पीवराणां दोष्णां शतादुद्गतानां नखानां क्रूरै- रंशुभिर्दूरोल्बणमतिशयेन भयङ्करं, सजलजलधरध्वानवदतिभीषणसिंहनादैर्विद्रावि- तवैरिनिकरम् ॥ ४॥ नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं दैत्येन्द्रं समुपाद्रवन्तमधृथा दोभ्यो पृथुभ्याममुम् । वीरो निलितोऽथ खड्गफलके गृह्णन् विचित्रश्रमान् व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥५॥ नूनमिति । कपटवेषभृद् विष्णुरेवायं नूनं तर्कयामि, अमुं भ्रातृहणं निहन्मीति निश्चित्य । अधृथास्त्वमग्रहीः । कराभ्यां निर्गलितो वीरो वीरम्मन्यो- १२० नारायणीये स्किन्धः-७ ऽथानन्तरं विचित्रश्रमान् व्यायाममार्गेषु दक्षिणसव्यसञ्चरणभेदेषु शिक्षाविशेषान् व्यावृण्वन् प्रकाशयन् भुवनग्रासोद्यतं ब्रह्माण्डकबलीकरणसमर्थ त्वामापपाता- ससाद ॥ ५॥ भ्राम्यन्तं दितिजाधर्म पुनरपि मोद्गृह्य दो| जवान द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि । निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ ६ ॥ भ्राम्यन्तमिति । अन्तर्बहिश्च हन्तुमशक्यत्वाद् द्वारे। जले स्थले चाश- क्यत्वादूरुयुगे दितिजाधमं निपात्यायुधैर्हन्तुमशक्यत्वान्नखरान् वक्षोभुवि व्यु- खाय निर्भिन्दन् विदारयन् अधिगर्भ वक्षोन्तर्भागे निर्भरगलद्रक्ताम्बु सिरामुखतः सन्ततनिःष्यन्दमानं रुधिराम्बु । बद्धोत्सवं यथा भवति तथा । बहून् जगत्संहारिणो ब्रह्माण्डकटाहभेदकान् सिंहारवानुदैरयः प्रायुक्थाः ॥ ६॥ त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमर्मणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं प्रोत्सर्पत्वचरं चराचरमहो दुःस्थामवस्थां दधौ ॥७॥ त्यक्त्वेति । रक्तलहरीसिक्तोन्नमद्वमणि रुधिरस्रावाक्तोन्नतकाये त्वयि हतं तं त्यक्त्वाशु प्रत्युत्पत्य तदनुगसमस्तदैत्यसमूहांश्वाखाद्यमाने भक्षयति च सति चराचरं दुःस्थामनवस्थितस्वस्थाननिवेशामवस्थां दधौ । तदेवाह-भ्राम्यन्ती भूमि- यस्मिन् । विकम्पितमम्बुधिकुलं यस्मिन् । व्यालोलशैलोत्करं कन्दुकायमानकुला- चलनिकरम् । प्रोत्सर्पत्खचरं केसरोत्क्षिप्तज्योतिर्गणम् ॥ ७ ॥ तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् । अभ्येतुं न शशाक कोऽपि भुवने दूरे स्थिता भीरवः सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ ८॥ १. 'कोपमु' ख. पाठः.

दशकम् -२५] प्रसादचरितवर्णनम् । १२१ तावदिति । तावत् तस्मिन् काल एव मध्येसभमुपितं त्वामभ्येतुं कोऽपि न शशाक । कोऽपि ब्रह्मापीति वा । तत्र हेतवः मांसवपाभ्यां करालं वपुर्यस्य तम्। ततश्च सर्वे प्रत्येकमस्तोषत तुष्टुवुः ॥ ८ ॥ भूयोऽप्यक्षतरोषधानि भवति ब्रह्माज्ञया वालके प्रहादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्गायत- स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥९॥ भूय इति । भूयोऽपि ब्रह्माद्यैः संस्तुतोऽप्यक्षतरोपधाम्नि अन्यूनकोपभाजि भवति सति प्रह्लादे तव पदयोनमति सति तद्वात्सल्येन शान्तस्त्यक्तरोषस्त्वमस्य मूर्ध्नि करं समधाः । अकामधियोऽप्यस्य दैत्याधिपत्यं लोकानुग्रहरूपं वरं तेनिथ तदौदासीन्येऽपि स्वयं चकर्थ ॥ ९ ॥ ननु किमेवं क्रूरस्वभावो हरिः, न, यथा नटो रौद्ररसमभिनयति तद्वदित्याह- एवं नाटितरौद्रचेष्टित! विभोः श्रीतापनीयाभिध- श्रुत्यन्तस्फुटगीतसर्वमहिमनत्यन्तशुद्धाकृते । तत्तादृनिखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत् प्रहादप्रिय! हे मरुत्पुरपते! सर्वामयात् पाहि माम् ॥१०॥ एवमिति । अत्र प्रमाणमा -श्रीतापनीयेति । श्रीतापनीयोपनिषत्प्रति- पादितैवंविधसकलमहत्त्व! अत्यन्तशुद्धा सच्चिद नन्दरूपा आकृतिः स्वरूपं यस्य । तत्तादृशमनुपमं निखिलोत्तरं सर्वोत्कृष्टं त्वां कः परो लङ्घयेत् त्वत्स्वरूपभूतत्वत्पा- पदादन्यः को वा त्वदप्रियमाचरेदित्यर्थः। हे प्रह्लादप्रिय! भक्तवत्सल! ॥१०॥२०॥ इति प्रह्लादचरितवर्णनं पञ्चाशं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां सप्तमस्कन्धपरिच्छेदः। ailyment आदितः श्लोकसङ्ख्या २६३.

अथाष्टमस्कन्धपरिच्छेदः। मन्वन्तराख्यः सद्धर्मो मन्वादिप्रतिबोधितः । रक्ष्यतेऽष्टमनिर्दिष्टो हरिलीलोपबृंहितः ॥ अथापदि श्रीहरौ मनोनिवेशनं धर्मसारांशभूतमिति गजेन्द्रदृष्टान्तेन दर्शयि- प्यन् अस्य प्राग्जन्मकथामाह द्वाभ्याम् इन्द्रद्युम्नः पाण्डव्यखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् । वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥१॥ इन्द्रेति । पाण्ड्यखण्डो भारतखण्डदक्षिणभागः ॥ १ ॥ कुम्भोद्भूतः सम्भृतक्रोधभारः स्तब्धात्मा वं हस्तिभूयं भजति । शप्त्वाथैनं प्रत्यगात् सोऽपि लेभे हस्तीन्द्रवं खत्स्मृतिव्यक्तिधन्यम् ॥२॥ कुम्भोद्भूत इति । हस्तिभूयं हस्तित्वम् । प्रत्यगात् प्रतिनिवृत्तः । त्वत्स्मृतेः प्राग्जन्माभ्यस्ताया व्यक्तिः प्रकाशस्तेन धन्यं पुरुषार्थप्रदम् ॥ २ ॥ दुग्धाम्भोधेमध्यभाजि त्रिकूटे क्रीडम्छैले यूथपोऽयं वशाभिः। सर्वान् जन्तूनत्यवर्तिष्ट शक्तया खद्भक्तानां कुत्र नोत्कर्षलाभः॥३॥ दुग्धेति । त्वद्भक्तानां कुत्र केषु योनिषु नोत्कर्षलाभः, यद् गजत्वेऽपि सर्वजन्तूनत्यवर्तिष्ट अतिशयितवान् ॥ ३ ॥ स्वेन स्थेना दिव्यदेहखशक्तया सोऽयं खेदानप्रजानन् कदाचित् । शैलपान्ते धर्मतान्तः सरस्यां यूथैः सार्धं खत्प्रणुनोऽभिरेमे ॥ ४॥ स्वेनेति । स्वेनानन्यसाधारणेन स्थेम्ना बलेन बलाधिकेतरसत्त्वसमुद्भूतान् खेदान् पीडाः । धर्मतान्तः ग्रीष्मकालोद्भूतेनोष्मणा क्लान्तः। शैलप्रान्ते पर्वतनि- तम्बवर्तिनि ऋतुमन्नाम्न्युद्याने सरस्यां त्वत्प्रणुन्नो निजपदं प्रापयिष्यतेश्वरेण प्रेरितः ॥ ४ ॥ - देशकम् --२६] गजेन्द्रमोक्षवर्णनम् । १२३ हूहूस्तावद् देवलस्यापि शापाद् ग्राहीभूतस्तज्जले वर्तमानः। जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थ हि श्रान्तिदोऽसि स्वकानाम् ॥ ५॥ हूहूरिति । तावत् तस्मिन् काल एव हुहूर्नाम गन्धर्वोऽपि देवलस्यर्षेः शापाद् ग्राहीभूतो ग्राहतां प्राप्तः । ननु गजेन्द्रश्चद् भक्तः कथं ग्राहादभिभव इति नाशकनीयमित्याह-शान्त्यर्थमिति । हि यस्माच्छान्त्यर्थ विषयविरक्त्यर्थं स्वकानां भक्तानां श्रान्तिदोऽसि पीडाकरो भवसि ॥ ५ ॥ वत्सेवाया वैभवाद दुनिरोधं युध्यन्तं तं वत्सराणां सहस्रम् । प्राप्ते काले खत्पदैकाग्रयसिद्धयै नकाक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥६॥ त्वदिति । प्राप्ते काले प्रारब्धेऽवसिते त्वत्पदयोरैकाग्र्यं समाधिस्तस्य सिद्ध्यै प्राप्तये । अथवा प्राग्जन्माभ्यस्तस्य त्वत्पदैकाग्र्यस्य सिद्धिः फलं मोक्षस्त- प्राप्तये ॥ ६॥ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोक्षिप्तः पुण्डरीकैः समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्र श्रेष्टं सोऽन्वगादीत् परात्मन् ! ॥७॥ आर्तीति । आर्त्या नकाक्रान्तिजन्यया पीडया व्यक्ते प्राक्तने जन्मान्तरा- भ्यस्ते ज्ञानभक्ती यस्य । निर्विशेषात्मनिष्ठं निर्गुणब्रह्मविषयम् ॥ ७ ॥ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशायै हमित्यप्रयाते । सर्वात्मा त्वं भूरिकारुण्यवेगात् तायारूढः प्रेक्षितोऽभूः पुरस्तात् ॥८॥ श्रुत्वेति । ब्रह्मेशाद्यैर्ब्रह्माहमीशोऽहमित्यभिमानिभि हमनेन स्तुतः, यतो ब्रह्मनिष्ठं स्तोत्रमस्येत्यप्रयाते सति त्वं पुरस्तात् प्रेक्षितः प्रादुर्भूतोऽभूः । ननु विष्णु- रपि विष्णुरहमित्यभिमान्येव, नेत्याह - सर्वात्मेति । ब्रह्मादीनामप्यात्मान्तर्यामी त्वम् ॥ ८॥ अथ गजेन्द्रमोक्षमाह- हस्तीन्द्रं तं हस्तप न धृत्वा चक्रेण त्वं नक्रवर्य व्यदारीः । गन्धर्वेऽस्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ ९ ॥ य नारायणीये [स्कन्धः-८ भगवतैवानुगृहीतां फलश्रुतिमाह- एतद् वृत्तं त्वां च मां च मगे यो गायेत् सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वेन तेन साध गतस्त्वं विष्ण्यं विष्णो! पाहि वातालयेश! ॥१०॥ एतदिति । प्रगे प्रातः । वृत्तं गजेन्द्रमोक्षणरूपं हरिचरितम् । भूयसे श्रेयसे स्याद् मोक्षप्रातियोग्यो भवदित्युक्त्वानुगृह्य । धिष्ण्यं वैकुण्ठम् ॥ १० ॥ इति गजेन्द्र मोक्षवर्णनं पविशं दशकम् । अथ समुद्रदृष्टान्तेन सम्पदि सत्यां तामर्थिषु स्वात्मना सह समपयेदित्ययं धर्मः प्रकाश्यते । स हि सुरासुरेन्योऽर्थिभ्य आत्ममथनेन सकलसम्पत्समर्पणं कृतवा- निति जलधिमथनतदुपयोगिभगवदवतारचरितकथनाय प्रथमं देवानां शापनिमित्तैश्व- यभ्रंशमाह द्वाभ्यां दुर्वासाः सुरवनितातदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः । नागेन्द्रप्रतिमृदिते शशाप शक्र का शान्तिस्त्वदितरदेवतांशजानाम् ॥१॥ दुर्वासा इति । सुरवनिताया हस्ताल्लब्धं शक्रार्थरावतमारुह्य गच्छते । उपदाय दत्त्वा । तत्र दिव्यमाल्ये। शक्र निःश्रीका (देवा) भवन्त्विति शशाप । त्वदितरदेवताः श्रीशङ्करादयः, दुर्वासा हि शङ्करांशजः ॥ १ ॥ शापेन प्रथितजरेऽथ निर्जरेन्द्र देवेष्वप्यसुरजितेषु निष्पभेषु । शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव ! समं भवन्तमापुः॥२॥ शापेनति । हे निर्वाणप्रभव ! मोक्षप्राप्तिस्थानभूत ! ॥ २ ॥ ब्रह्मायैर्नुतमहिमा चिरं तदानीं प्रादुःपन् वरद ! पुरः परेण धान्ना । हे देवा ! दितिजकुलैर्विधाय सन्धि पीयूपं परिमथतेति पर्यशास्त्वम् ॥३॥ १.स्थिताय उक.पाठः, 'निःश्रीको भव त्वमिति' इति वा पाउयम् । * 'मथे विलोडने भौवादिकः ।

दशकम् -२७]
अमृतमथनवर्णनम् ।
१२५
सन्धानं कृतवति दानवैः सुरोधै मन्थानं नयति मदन मन्दराद्रिम् ।
भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे सबस्त्वं विनिहितवान् पयःपयोधौ ॥४॥
सन्धानमिति । सुरदानवौवे मन्थानं मथनसाधनम् । अस्मिन् मन्दराद्रौ
श्रान्तशक्रवैरोचनादिहस्तेभ्यो भ्रष्टे निपतिते सति त्वं खगेन्द्रे गरुडे एकेन
हस्तेनोद्धृत्यारोप्योद्वहन् ॥ ४॥
आधाय द्रुतमथ वासुकिं वरत्रां पायोधौ विनिहितसर्ववीजजाले।
प्रारब्धे मथनविधौ मुरासुरैस्तैाजात् त्वं भुजगमुखेऽकरोः सुरारीन् ॥५॥
आधायेति । अथ वासुकि वरत्रां नेत्रम् । विनिहितानि निक्षिप्तानि सर्व-
वीजजालानि वीरुत्तृशोषधिसमूहा यस्मिन् । व्याजादिति । हरिः सुरैः सार्धमहिपु-
च्छममङ्गलमित्युच्चैर्वदन् पूर्व पूर्वकायं जगृहे । ततोऽसुरा वयं श्लाघ्याः पुच्छं न
गृह्णीम इति तूणीभूतान् सुरारीन् अतिसम्माननया भुजगमुखे निर्गमिष्यद्विषा-
ग्न्युल्बणे ॥ ५ ॥
क्षुब्धाद्री क्षुभितजलोदरे तदानी दुग्धाब्धौ गुरुतरभारतो निमग्ने ।
देवेषु व्यथिततमेषु तत्मियैपी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥६॥
क्षुब्धेति । क्षुब्धे भ्रमितेऽद्रौ मन्दराचले दुग्धाब्धौ निमग्ने सति त्वं कम-
उतनुं कच्छपरूपं प्राणेपीः प्रणीतवान् ॥ ६ ॥
वज्रातिस्थिरतरकर्परेण विष्णो! विस्तारात् परिगतलक्षयोजनेन ।
अम्भोधेः कुहरगतेन वर्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥७॥
वज्रेति । वज्रादतिस्थिरतरपृष्ठदेशयुक्तेन वर्मणा मूर्त्या उन्निनेथ उन्मन-
मकरोः ॥७॥
उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुदृढमिह सम्मदेन सर्वे ।
आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ ८॥
उन्मग्न इति । द्वितयगणे सुरगणेऽसुरगणे च तदन्यतमरूपेणाविश्य सर्प-
राजेऽपि सूक्ष्मरूपेणाविश्य तेषां वैवश्यं पीडां परिशमयन् अवीवृधस्तान् बलवीर्य-
सम्पन्नानकरोः॥ ८॥

१२६
नारायणीये
[स्कन्धः-८
उद्दामभ्रमणजवोन्नमगिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् ।
अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः॥९॥
उद्दामेति । उद्दाम्ना सातिशयेन भ्रमणजवेनोन्नमति उत्पतति गिरीन्द्रे
न्यस्तो निक्षिप्त एकः स्थिरतरहस्तपङ्कजो (?) येन तं त्वाम् । अभ्रान्ते मेघमार्ग
उद्घान्ताः प्रमोदविवशा नुनुवुस्तुष्टुवुः ॥ ९ ॥
दैत्योघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किश्चिदाते ।
कारुण्यात् तव किल देव ! वारिवाहाः पावर्षन्नमरगणान् न दैत्यसङ्घान् ।।
दैत्यौघ इति । वारिवाहाः मेघाः ॥ १० ॥
उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे ।
एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश! पाहि रोगात् ॥११॥
उद्भ्राम्यदिति । उद्ब्राम्यतामुत्पततां, तिमिर्महामत्स्यः, बहुतिमिनक्राणां
चक्रवालं समूहो यस्मिन् । तत्र तस्मिन् ॥ ११ ॥
इत्यमृतमथने देवासुराणामशक्तौ भगवत्कृतमथनवर्ण
सप्तविंशं दशकं सैकम्।
गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्मियार्थम् ॥१॥
गरलमिति । उद्विजगाल उद्गलितमभूत् , तदामराणां गिरिशविषयो यः
स्तुतिवादस्तन्निध्नस्तदधीनः सन् तद् गरलं निपपौ पीतवान् ॥ १॥
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् ! ।
हयरत्नमभूदथेभरत्नं द्युतरुश्चाप्सरसः सुरेषु तानि ॥२॥
विमथस्विति । हयरत्नमुच्चैःश्रवाः । इभरत्नमैरावतः । द्युतरुः कल्पवृक्षः।
तानि सुरेषु च न्यधाः दत्तवान् ॥ २ ॥

दशकम् -२८] अमृतमथनवर्णनम् । १२७ जगदीश! भवत्परा तदानीं कमनीया कमला बभूव देवी । अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयाम्बभूव लोकः॥३॥ जगदिति । भवान् परः प्रधानो यस्याः सा भवत्परा ॥ ३ ॥ त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिका व्यतारीत् । सकलोपहृताभिषेचनीयैर्ऋषयस्तां श्रुतिगीर्भिरभ्याषिञ्चन् ॥ ४ ॥ । वयीति । त्वयि दत्तं समर्पितं हृद् यया सा तथा तस्यै दत्तहृदे । यदैव- मवगता, तदैव सकलैः सरिद्भूम्यादिभिरुपहृतैरभिषेचनीयैरभिषेकसाधनैरोषधीकु- म्भपवित्रादिभिर्ऋषयस्ता महालक्ष्मी श्रुतिगीभिर्मन्त्रैरभ्यषिञ्चन् ॥ ४ ॥ अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गबल्लीम् । मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्वभूषन् ॥ ५ ॥ अभिषेकेति । अभिषेकजलपातसमनन्तरं पतितुं शीलं येषां तैर्मुग्धैस्त्वद- पाडैरेवावभूषिता अङ्गवल्ली यस्यास्ताम् । अमरादयो मणिकुण्डलपीतचेलहारप्रमुखै- रन्वभूषन् । अलञ्चक्रुः ॥ ५ ॥ वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना। पदशिञ्जितमञ्जुनूपुरा त्वां कलितवीलविलासमाससाद ॥६॥ । वरणेति । वरणस्रजं स्वयंवरमालाम् ॥ ६ ॥ गिरिशट्ठहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥७॥ गिरिशेति । अविमुक्तदोषलेशान् कामक्रोधादिषड्दोषयुक्तान् अवमृश्य विचार्य सदैव सर्वैर्गुणैर्दोषरहितै रम्ये त्वयि तवांसदेशेऽनया श्रिया दिव्यमाला निहिता ॥ ७ ॥ * भूष अलङ्कारे' भौवादिकः ।

१२८ নাস্তি PATNA स्कन्धः- उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्टया परिपुष्टमास विश्वम् ॥ ८॥ उरसेति । त्वं च तरसैनामुरसा ममानिथ स्वोरसि निवासमकरोः । नान्यस्मिन् भावोऽनुरागो यस्याः सानन्यभावा । त्वदुरसि विलसन्त्यास्तस्या ईक्ष- णश्रियः सकरुणकटाक्षशोभायाः परिवृष्ट्या विश्वं परिपुष्टं सकलसम्पत्समृद्धम् आस अभूत् ॥ ८॥ अथ वारुणी देव्युभूदित्याह- अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥९॥ अतीति । तमसोऽज्ञानस्य पदवी हेतुभूतां वारुणीम् ॥ ९ ॥ अथ धन्वन्तर्यवतारमाह- तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः। अमृतं कलशे वहन कराभ्यामखिलाति हर मारुतालयेश!॥१०॥ इत्यमृतमथनवर्णनम् अष्टाविंशं दशकम् । उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव! भवत्प्रभावा- दुद्यत्सयूथ्यकल हा दितिजा वभूः॥१॥ उद्गच्छत इति । उद्च्छतः प्रादुर्भवतः । अशरणाननन्यशरणान् । भवतः प्रभावः शक्तिर्माया तस्मादुद्यन् सयूथ्यकलहोऽन्योन्यविवादो येषां ते ॥ १ ॥ श्यामां रुचापि वयसापि तनुं तदानीं प्राप्तोऽसि तुङ्गकुचमण्डलभगुरां खम् । पीयूषकुम्भकलहं परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥२॥ श्यामामिति । वयसापि श्यामां यौवनमध्यस्थाम् । भङ्गुरां नम्राम् । त्वदुरो- जकुम्भे पीयूषादप्यतिमधुरे ॥ २ ॥ १. 'परिय' घ. पाठः.

दशकम् -२९] देवानाममृतोपलब्धिप्रकारवर्णनम् । का वं मृगाक्षि विभजस्व सुधामिमामि- त्यारूढरागविवशानभियाचतोऽभून् । विश्वस्यते मयि कथं कुलटास्मि दैत्या ! इत्यालपन्नपि सुविश्वसितानतानीः॥३॥ केति । हे दैत्याः ! अहं कुलटा पुंश्चल्यस्मि, भवाद्भिः कथं मयि विश्वस्यते इत्यालपन्नपि तदानीन्तनसप्रेमम्मितकटाक्षादिभिः सुविश्वसिता- नतानीः॥३॥ मोदात् सुधाकलशमेषु ददत्सु सा वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा। पङ्क्तिमभेदविनिवेशितदेवदैत्या लीलाविलासगतिभिः समदाः सुधां ताम् ॥ ४॥ मोदादिति । यत्किञ्चिद् मया क्रियमाणं दुश्चेष्टितं सहध्वम् । पङ्क्तिप्र- भेदेन द्विधा विनिवेशिता देवदैत्या यया सा तथा दैत्यान् वञ्चयितुं तद्विषयया लीलया विलासेन गत्यातिसमीपसञ्चरणेन च समदाः सम्यक् सुरेभ्य एवाददाः । तां जरामरणहारिणी सुधामित्यर्थः ॥ ४ ॥ अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । सं भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावी ॥५॥ अस्मास्विति । असुरेषु तु अस्मास्वियं प्रणयिनी, अहो भाग्यम् , एषास्मान् न वञ्चयेदिति । जोषं तृप्णीम् । स्वर्भानुं देवलिङ्गच्छन्नं चक्रेण व्यलावीः शिरोऽच्छिनः ॥ ५॥ खत्तः सुधाहरणयोग्यफलं परेषु दत्त्वा गते लयि सुरैः खलु ते व्यगृह्णन् । घोरेऽथ मूर्छति रणे बलिदैत्यमाया- व्यामोहिते सुरगणे खमिहाविरासीः॥६॥ १. 'भिश्च सु' ग. पाठः.

नारायणीये
स्कन्धः-८
खत्त इति । त्वत्तः सुधाहरणस्य योग्यं फलं व्यर्थपरिश्रमं परेषु दैत्येषु।
ते दैत्याः सुरैय॑गृह्णन् कलहं चक्रुः ॥ ६ ॥
सं कालनेमिमथ मालिमुखाञ्जघन्थ
शको जघान बलिजम्भवलान् सपाकान् ।
शुष्काईदुष्करवधे नमुचौ च लून
फेनेन नारदगिरा न्यरुणो रणं तम् ॥७॥
खमिति । शुप्केणार्गेण च दुष्करवधो नमुचिस्तस्मिन् उभयात्मकेन फेनेन
लूने छिन्नशिरस्के ब्रह्मणा प्रेषितस्य नारदस्य गिरा त्वं रणं न्यरुणः ॥ ७ ॥
योषावपुर्दनुजमोहनमाहितं ते
श्रुखा विलोकनकुतूहलवान् महेशः।
भूतैः समं गिरिजया च गतः पदं ते
स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥८॥
योषेति। ते योषावपुः स्त्रीरूपमाहितं कृतं श्रुत्वा ते पदं वैकुण्ठम् । अभि-
मतं योषिद्रूपदर्शनम् । अथो प्रार्थनानन्तरम् ॥ ८ ॥
आरामसीमनि च कन्दुकघातलीला-
लोलायमाननयनां कमनीं मनोज्ञाम् ।
खामेष वीक्ष्य विगलद्वसनां मनोभू-
वेगादनङ्गरिपुरङ्ग! समालिलिङ्ग ॥ ९ ॥
आरामेति । विगलद्वसनां मारुतहृतदुकूलाम् । यद्यप्यनङ्गरिपुरयं,
तथापि मनोभूवेगात् त्वां समालिलिङ्ग ॥ ९ ॥
भूयोऽपि विद्रुतवतीमुपधाव्य देवो
वीर्यप्रमोक्षविकसत्परमार्थबोधः।
खन्मानितस्तव महत्त्वमुवाच देव्यै
तत्तादृशस्त्वमव वातनिकेतनाथ ॥ १० ॥

दशकम् -३०] वामनचरितवर्णनम् । १३१ भूय इति। विद्रुतवतीं प्राद्रवन्तीमुपधाव्य वीर्यस्य रेतसः प्रमोक्षेण । त्वया सम्मानितः तव महत्त्वं देव्यै उवाच ॥ १० ॥ इति देवानाममृतोपलब्धिप्रकारवर्णनं मोहिनीदर्शनेन शिवस्य धैर्यच्युतिवर्णनं च एकोनत्रिंशं दशकम् । प्रतिज्ञानिर्वहणादौ धर्मे महाबलिदृष्टान्त इति तत्कथां तदुपयोगिभगवदवतार- चरितं च प्रकाशयिष्यन् प्रथमं बलिविजयमाह- शक्रेण संयति हतोऽपि बलिमहात्मा शुक्रेण जीविततनुः क्रतुवर्धितोष्मा । विक्रान्तिमान् भयनिलीनसुरां त्रिलोकी चक्रे वशे स तव चक्रमुखादभीतः ॥१॥ शक्रेणति । शक्रेण हतोऽपि शुक्रेण मृतसञ्जीविन्याख्यया विद्यया जीवितैतनुः । विश्वजिदाख्येन क्रतुना वर्धित ऊष्मा शक्तिर्यस्य । भयेन युद्धे निलीनाः सुरा यस्याम् । स बलिश्चक्रमुखात् सुदर्शनादभीतः, प्रह्लादवंश्यत्वात् ॥१॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यपं निजपतिं शरणं प्रपन्ना । खत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत् त्वयि भक्तिपूर्णा ॥ २ ॥ पुत्रेति । पुत्रस्यातिः इन्द्रस्य स्वर्गापहरणजा पीडा । तदुदितं काश्य- पोदितम् ॥ २॥ तस्यावधौ त्वयि निलीनमतेरमुष्याः श्यामश्चतुर्भुजवपुः स्वयमाविरासीः। नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति प्रलपनयासीः॥३॥ १. 'वन्या वि' ख. पाठः. 'त:' क. पाठ नारायणीये स्कन्धः-८ तस्येति । तस्य पयोव्रतम्यावधावन्ते । प्रलपन् त्वं भर्तर्येवंरूपं मां भाव- यन्ती भर्तारमुपतिष्ठेत्यादि कथयन् अयासीः तिरोभूः ॥ ३ ॥ । त्वं काश्यपे तपसि सन्निदधत् तदानीं प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा। पामत च प्रकटवैष्णवदिव्यरूपं सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ ४ ॥ त्वमिति । काश्यपे काश्यपसम्बन्धिनि तपसि तपःसम्भृते वीर्य सन्निदधत् प्रविष्टः । प्रकटवैष्णवदिव्यरूपं शङ्खचक्रगदापद्मकिरीटमकुटमकरकुण्डलश्रीवत्स- कौस्तुभवनमालापीतवसनकाञ्चीनूपुराग्रुपलक्षितम् ॥ ४ ॥ पुण्याश्रमं तमभिवर्षति पुष्पवर्ष- हकले सुरकुले कृतसूर्यघोपे। बवाञ्जलिं जय जयति नुतः पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधाः॥५॥ पुण्यति । तत्क्षण एवं वटुरूपम् ॥ ५ ॥ तावत् प्रजापति बुखैरुपनीय मौञ्जी- दण्डाजिनाक्षवलयादिभिरय॑मानः। देदीप्यमानवपुरीश! कृताग्निकार्य- स्त्वं प्रास्थिथा वलिगृहं प्रकृताश्वमेधम् ॥६॥ तावदिति । प्रजापतिमुखैऋषिभिरुपनीय उपनयनाख्यं कर्म कृत्वा तैर्मी- ज्यादिभिरर्यमान इति । सविता तस्य गायत्रीमुपदिदेश । बृहस्पतिर्यज्ञोपवीतं, पिता मौञ्जी, भूमिः कृष्णाजिनं, सोमो दण्डम्, अदितिः कौपीनं, द्यौश्छत्रं, ब्रह्मा कमण्डलं, सप्तर्षयो दर्भान् , सरस्वत्यक्षमालां च ददौ । एवं देदीप्यमानमतिशयेन शोभमानं वपुर्यस्य, कृताग्निकार्योऽनुष्ठितसमिदाधानकर्मा प्रकृताश्वमेधं प्रारब्धाश्व- मेधयागं बलिगृहं बलेर्यज्ञशालां प्रास्थिथाः प्रस्थितवान् ॥ ६ ॥ १. 'र' क. पाठः. २. 'व पटुतमं वटुरूपम् आधाः (दधौ ?)' क. पाठः, दशकम् -३० वामनचरितवर्णनम् । १३३ गात्रेण भाविमहिमोचितगौरवं प्रार व्यावृण्वतेव धरणीं चलयन्नयासी। छत्रं परोष्मतिरणार्थमिवादधानो दण्डं च दानवजनेष्विव सन्निधातुम् ॥७॥ गात्रेणेति । भाविमहिमा विश्वरूपं, तदुचितं गौरवं प्रांगेव धरणीचलनेन व्यावृण्वता प्रकाशयता । परेषां दैत्यानामूप्मणः पराक्रमस्य तिरणार्थ वारणार्थम् । सन्निधातुं दण्डयितुम् ॥ ७ ॥ तां नर्मदोत्तरतटे हयमेधशाला- मासेदुपि त्वयि रुचा तव रुद्धनेत्रैः। भास्वान् किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ ८ ॥ तामिति । आसेदुषि प्राप्तवति ॥ ८ ॥ आनीतमाशु भृगुभिर्महसाभिभूते- स्त्वां रम्यरूपमसुरः पुलकाताङ्गः। भक्त्या समेत्य सुकृती परिषिच्य पादौ तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥ ९ ॥ आनीतमिति । त्वन्महसाभिभूतेश्रेष्टतेजस्कै गुभिः शुक्रेणानीतं प्रतिगृह्य बलिनिकटं नीतम् । असुरो बलिः । तीर्थतीर्थ सर्वशोधकम् ॥ ९ ॥ प्रहादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे । यत् ते पदाम्बु गिरिशस्य शिरोभिलाल्यं स त्वं विभो! गुरुपुरालय ! पालयेथाः॥१०॥ प्रहादेति । भक्तोत्तंसप्रह्लादवंशजतया नु, क्रतुभिर्नु, द्विजेषु विश्वासतः सत्सङ्गान्नु, समस्तैरेतैर्नु (न) निश्चितं, बलिदितिजोऽपि तदिदं पादोदकस्य मूर्ध्नि

नारायणीये
स्कन्धः-८
धारणं लेभे । तादृङ्महिमेदमित्याह - यदिति ॥ १० ॥
इति वामनचरिते महाबलेरातिथ्यवर्णनं त्रिंशं दशकम् ।
प्रीत्या दैत्यस्तव तनुमह प्रेक्षणात् सर्वथापि
त्वामाराध्यन्नजित ! रचयन्नञ्जलिं सञ्जगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो ! वद त्वं
वित्तं भक्तं भवनमवनीं वापि सर्व प्रदास्ये ॥१॥
!
प्रीत्येति । तनोर्महसश्च प्रेक्षणात् सर्वथा स्वागतवचनादिभिः । भक्तं
मृष्टान्नम् ॥ १ ॥
तामक्षीणां बलिगिरमुपाकये कारुण्यपूर्णो-
ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।
भूमि पादत्रयपरिमितां पार्थयामासिथ त्वं
सर्व देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥२॥
तामिति । अक्षीणां जगदीश्वरत्वख्यापयित्रीं, हे विश्वेश्वर! सवै सर्वस्वं
मे देहीति निगदिते याचिते तद्वचः कस्य वा न हास्यं स्यात् । अतः पदत्रयमेव
याचितवानसि ॥२॥
विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
सर्वां भूमिं वृणु किममुनेत्यालपत् त्वां स दृप्यन् ।
यस्माद् दर्पात् त्रिपदपरिपूर्वक्षमः क्षेपवादान्
बन्धं चासावगमदतदोऽपि गाढोपशान्त्यै ॥ ३ ॥
विश्वेशमिति । स दृप्यन् सर्वा भूमिं वृण्वित्यालपत् । दर्पस्य फलमाह-
यस्मादिति । अतदर्हो बन्धनक्षेपवादानहः । तर्हि कथं भगवान् बबन्ध । अनुग्र-
हायेत्याह- गाढति । सम्यग् विषयविरक्तिमापाद्य स्वस्मिन् मनस्समाधानाये-
त्यर्थः ॥ ३ ॥

दशकम् -३१] वामनचरितवर्णनम् । भगवानुत्तरमाह पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये- दित्युक्तेऽस्मिन् वरद! भवते दातुकामेऽथ तोयम् । दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात् तं मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥४॥ पादेति । यदि न मुदितः सोऽसन्तुष्टो विष्टपैस्त्रिभिर्लोकैरपि न तुष्येत् । तोयं तोयपूर्वकं महीं दातुकामे दैत्याचार्यः शुक्रो मा मा देयमिति भविष्यत्रिपद- क्रमणादिकथनपूर्वकमावभाषे न्यषेधत् । ननु कथं काव्यस्य भगवत्प्रतिकूलाचर- णमित्याशङ्कयाह तव प्रेरणादिति । तदपि किमर्थमित्यत आह परीक्षार्थिन इति । बलेर्धर्मस्थैर्यपरीक्षार्थी त्वं तदन्तर्यामित्वेनं प्रेरितवानित्यर्थः ॥ ४ ॥ we- याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः । विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयत् तोयपूर्वम् ॥५॥ याचतीति । शुक्रेण भ्रष्टैश्चर्यो भवेति शप्तोऽपि सकलं हरिरयं त्रैलोक्य- माच्छिद्य शक्राय दास्यतीति गुरुवचनाद्विदिततत्त्वस्त्रैलोक्यं सकलं प्रार्पयत् ॥ ५॥ निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद् व्यातन्वाने मुमुचुर्ऋषयः सामराः पुष्पवर्षम् । दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा- मुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डमाण्डम् ॥ ६ ॥ निःसन्देहमिति । पश्यतां विश्वभाजां सर्वेषु पश्यत्सु । तदिदं वामनरू- पम् । विश्वाण्डमाण्डं ब्रह्माण्डकटाहमवधीकृत्य ववृधे ॥ ६ ॥ त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसिचदपुनाद् यज्जलं विश्वलोकान् ।

१३६ नारायणीये [स्कन्धः-८ हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन् भेरी निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥७॥ त्वदिति । निजपदगतं सत्यलोकागतम् ॥ ७ ॥ ताबद् दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् । कालात्मायं वसति पुरतो यद्वशात् प्राग् जिताः स्मः किं वो युद्धरिति बलिगिरा तेऽथ पातालमापुः॥८॥ पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी- स्तायीकं दिश मम पदं किं न विश्वेश्वरोऽसि । पादं मूर्ति प्रणय भगवन्नित्यकम्पं वदन्तं प्रहादस्तं स्वयमुपगतो मानयन्नस्तवीत् त्वाम् ॥ ९ ॥ पाशैरिति । तातीयीकं तृतीयम् ॥ ९ ॥ दर्पोच्छित्त्यै विहितमखिलं दैत्य! सिद्धोऽसि पुण्यै- लॊकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रैः सन्तानितमखवरः पाहि वातालयेश! ॥१०॥ । दति । विप्रैः सन्तानितः कारितप्रायश्चित्तो मखवरो राजसूयाख्यो येन ॥१०॥ इति वामनचरितवर्णनम् एकत्रिंशं दशकम् । अथ ब्रह्मणे सत्यव्रताय च वेदतदर्थप्रतिपादनाय मात्स्यं वपुधृतवतो भगव- तश्चरितमुपक्रमते- पुरा हयग्रीवमहासुरेण षष्टान्तरान्तोद्यदकाण्डकल्पे । निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ १॥ ॥

। देशकम् - ३२] मत्स्यावतारवर्णनम् । १३७ पुरेति । षष्ठान्तरस्य चाक्षुषमन्वन्तरस्यान्तेऽवसाने उद्यत्युद्भूते अत एवा- काण्डकल्पेऽवान्तरप्रलये । अधित्सः विधातुमैच्छः ॥ १ ॥ सत्यव्रतस्य द्रमिलाधिभर्तु दीजले तर्पयतस्तदानीम् । कराञ्जलो स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥२॥ सत्येति । नद्या कृतमालाया जले ॥ २ ॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽम्बुपात्रेण मुनिः स्वगेहम् । स्वल्परहोभिः कलशी च कूपं वापी सरश्चानशिपे विभो ! त्वम् ॥३॥ क्षिप्तमिति । आनशिष व्याप्तोऽभूः ॥ ३॥ योगप्रभावाद् भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । पृष्टोऽमुना कल्पदिक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥ ४ ॥ योगेति । मुनिना राजर्षिणा । योगप्रभावात् तपश्शक्त्या । भवदाज्ञया महामत्स्यं मामपीदानीमुदधिजले प्रक्षिपेत्येवंरूपया । कल्पदिदृशुं प्रलयार्णव- दर्शनोत्सुकम् ॥ ४ ॥ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः। सप्तर्षिभिः सार्धमपारवारिण्युचूर्णमानः शरणं ययौ त्वाम् ॥ ५॥ प्राप्त इति । अपारवारिणि प्रलयाब्धौ । उचूर्णमानः सम्भ्रान्तः ॥ ५ ॥ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते । तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूमहीयान् ॥६॥ धरामिति । ततस्त्वदादेशकरी त्वत्प्रेरितां नौरूपिणी भूमिम् । तेषु सत्य- व्रतसप्तर्षिषु ॥ ६ ॥ झपाकृति योजनलक्षदीर्घा दधानमुच्चैस्तरतेजसं त्वाम् । निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणि बबन्धुः॥७॥ झपाकृतिमिति । तरणिं नावम् ॥ ७ ॥ १. 'प्युद' क. पाठः १३८ नारायणीये [स्कन्धः-८ आकृष्टनीको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् । संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः॥८॥ आकृष्टेति । मुनिमण्डलाय सत्यव्रतसप्तर्षिभ्यः । ज्ञानं परं च शास्त्रज्ञानं ब्रह्मज्ञानं च ॥ ८॥ कल्पावधौ सप्त मुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् । वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः॥९॥ कल्पेति । वैवस्वताख्यमिदानीन्तनम् ॥९॥ स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहत्विा । विरिश्चये प्रीतहदे ददानः प्रभञ्जनागारपते! प्रपायाः॥ १० ॥ स्वेति । विरिञ्चये ब्रह्मणे ॥ १० ॥ ७१ ॥ इति मत्स्यावतारवर्णन द्वात्रिंशं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायाम् अष्टमस्कन्धपरिच्छेदः। आदितः श्लोकसङ्ख्या ३३४.

अथ नवमस्कन्धपरिच्छेदः। वर्णिते रामचरिते किमन्यैश्चरितैरिति । तत्प्रधानेशानुकथा लक्ष्यते नवमोदिता । अथाम्बरीषचरितमुपक्रमते- वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेन्द्रसुतोऽम्बरीषः। सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सङ्गिषु त्वयि च मनमनाः सदैव ॥१॥ वैवस्वतेति । ब्रह्मगः पुत्रो मरीचिः, तत्पुत्रः काश्यपः , तयुत्रो विवस्वान् , तत्पुत्रः श्राद्धदेवोऽयं वैवस्वताख्यमनुः, तत्पुत्रो नभागः, तत्पुत्रो नाभागः, तस्य पुत्रोऽम्बरीषः, स सप्तार्णवावृतायाः सप्तद्वीपवत्या दयितः सार्वभौमोऽपि त्वयि ईश्वरे त्वत्सङ्गिषु त्वद्भक्तेषु च रेमे ॥ १ ॥ त्वत्प्रीतये सकलमेव वितन्वतोऽस्य भक्त्यैव देव! नचिरादभृथाः प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थ चक्रं भवान् प्रविततार सहस्रधारम् ॥२॥ त्वदिति । सकलं लौकिकं वैदिकं च कर्म त्वत्प्रीतये वितन्वतः कुर्वतोऽस्य भक्त्यैव त्वं नचिरादल्पेन कालेन प्रसादमभृथाः, येन प्रसादेनास्याभिरक्षणार्थ शत्रु- निवारणार्थं भवान् चक्रं सुदर्शनं प्रविततार दत्तवान् ॥ २ ॥ स द्वादशीव्रतमथो भवदर्चनार्थ वर्ष दधौ मधुवने यमुनोपकण्ठे । पल्या समं सुमनसा महतीं वितन्वन् पूजां द्विजेषु विसृजन् पशुपष्टिकोटिम् ॥ ३ ॥ १. 'धु परेषु च ग. पाठः. SMARTPAMMARRIA

नारायणीये
[स्कन्धः-९
।
स इति । अथो अनन्तरं सोऽम्बरीषो भवदर्चनार्थं वर्ष संवत्सरं द्वादशीव्रतं
दधौ । यमुनोपकण्ठे यमुनाया उपकण्ठे तीरे सुमनसा भक्तियुक्तया महती सर्वो-
पहारमहाभिषेकयुक्तां पूजां वितन्वन् । विसृजन् ददत् ॥ ३ ॥
तत्राथ पारणदिने भवदर्चनान्ते
दुर्वाससास्य मुनिना भवनं प्रपेदे।
भोक्तुं वृतश्च स नृपेण परार्तिशीलो
मन्दं जगाम यमुनां नियमान् विधास्यन् ॥ ४ ॥
तत्रेति । भवदर्चनस्यान्तेऽवसाने । पारणदिन इत्यवसानदिने विप्रान्
भोजयित्वा स्वयं भोक्तुकामे सतीत्यर्थः । श्रीदुर्वाससा मुनिनास्य भवनं प्रपेदे
प्रापद्यत । परार्तिशील: परपीडानिरतः । अतः पारणकालातिक्रम एव नियमान्
विधायागमिष्यामीति मन्दं जगाम ॥ ४ ॥
राज्ञस्तत्सङ्कटमाह-
राज्ञाथ पारणमुहूर्तसमाप्तिखेदाद्
वारैव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्
क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥ ५॥
राज्ञेति । पारणमुहूर्तस्य समाप्तिर्भविष्यति प्रतिपालने, अप्रतिपालने च
मुनिकोपः स्यादिति खेदाद् वारा जलेनैव पारणमकारि । तत् पारणं विजानन्
क्षिप्यन् बह्वाक्षेपवादान् कुर्वन्, क्रुधोद्धृतजटः जटया कृत्यां विततान ॥ ५ ॥
कृत्यां च तामासिधरां भुवनं दहन्ती-
मग्रेऽभिवीक्ष्य नृपतिर्न पदाञ्चकम्पे ।
त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ ६॥
कृत्यामिति । ते सुदर्शनं त्वद्भक्तस्य बाधं पीडाम् । कृत्यानलं शलभयद्
अनलपतितशलभमिव कुर्वद् मुनिमन्वधावीद् धावतो मुनेः पृष्ठतो धावन-
मकरोत् ॥ ६ ॥

दशकम् -३३] अम्बरीषचरितवर्णनम् । धावनशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् । कः कालचक्रमतिलङ्घयतीत्यपास्तः शर्व ययौ स च भवन्तमवन्दतैव ॥ ७॥ धावन्निति । स विश्वत्र सर्वत्रापि ते चक्रं पश्यन् विरिञ्च शरणं गतवान् । कः कालचक्रमतिलङ्घयतीति तद्वचनादपास्तः प्रतिनिवृत्तः शर्व शिवं प्राप्तवान् । यस्य चक्रमिदं, तमेव हरिं शरणं व्रजेत्यभिप्रायेण स भवन्तमवन्दतैव ॥ ७॥ भूयो भवनिलयमेत्य मुनि नमन्तं प्रोचे भवानहमृषे ! ननु भक्तदासः। ज्ञानं तपश्च विनयान्वितमेव मान्य याह्यम्बरीषपदमेव भजेति भूमन् ! ॥८॥ भूय इति । भवन्निलयं वैकुण्ठम् । अहं भक्तानां दास इव, तदधीनत्वात् । नन्वहमपि ज्ञानतपोनिष्ठत्वात् त्वद्भक्त एव । सत्यम् । ज्ञानं तपश्च यदि विनयेनो- पशमेन युक्तं भवति, तीव मान्यं निःश्रेयसाय भवति । दुर्विनीतस्यैतद् द्वयमपि न सुखाय , यथा भवतः । तदम्बरीषस्य पदं पादावेव शरणं भज ब्रज ॥ ८ ॥ तावत् समेत्य मुनिना स गृहीतपादो राजापसृत्य भवदस्वमसाव(नौषी'नावी)त् । चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ ९ ॥ तावदिति । सोऽम्बरीषः पादस्पर्शलजया अपसृत्य भवदस्त्रं सुदर्शनमनौ- षीत् तुष्टाव । चक्रे गते शान्ते सति आगसि कृत्योत्पादनापराधे कृतेऽपि स्ववि. षयामम्बरीषस्य कृपां शंसन् स्तुवन् अस्मा आशिषो वरान् ॥ ९ ॥ राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् सम्भोज्य साधु तमृषि विसृजन् प्रसन्नम् ।

नारायणीये स्कन्धः-९ भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत् सायुज्यमाप च स मां पवनेश! पायाः॥१०॥ राजेति । राजा एकसमामेकसंवत्सरमनाश्वान् अनश्नन्नब्भक्षो भूत्वा मुनि प्रतीक्ष्य प्रतिपाल्य साधु सम्भोज्य तच्छेषं स्वयं भुक्त्वा विसृजन्ननुज्ञाय ततोऽपि पूर्वस्मादपि त्वयि रतो भक्तोऽभूत् । अन्ते सायुज्यं मोक्षं चाप ॥ १० ॥ इत्यम्बरीषचरितवर्णनं त्रयस्त्रिशं दशकम् । अथ श्रीरामचरितं प्रस्तौति. गीर्वाणैरीमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्रयम् । तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥१॥ त्वं श्रीहरिरेव रामो जात इत्युक्तम् । तदुपपादयति कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः । नृणां त्राणाय बाणैर्मुनिवचनवलात् ताटकां पाटयित्वा लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देवः सिद्धाश्रमाख्यम् ॥२॥ कोदण्डीति । बाल्य एव दुष्टनिग्रहशिष्टपरिपालनसज्जनबहुमानादिः केव- लमनुष्यसम्बन्धी न भवतीति भावः ॥ २ ॥ अपिच, मुनिपत्न्याः शापमोक्षो महेश्वरचापखण्डनादि चास्य विष्ण्वंशत्वं प्रकटयतीत्याह मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । भिन्दानश्चान्द्रचूडं धनुरेवनिसुतामिन्दिरामेव लब्ध्वा राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः॥३॥ १. 'थ' क. पाठः. २. 'म' क. ख. पाठः, दशकम् -३४] श्रीरामचरितवर्णनम् । १४३ भार्गवरामजयः तेन स्वतेजसः श्रीरामे समर्पणमपि रामावतारस्येतरावताराद् विशिष्टत्वमवगमयतीत्याह आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ! । शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ ४ ॥ एवमवतारमुपपाद्यास्य लोकसंग्रहणार्थमङ्गीकृतं चरितं स्तौति - तातोक्त्या यातुकामो वनमनुजवधूसंयुतचापधारः पौरानारुध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी। नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा- नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥५॥ तातोक्त्येति । तातोक्त्यैव राज्यश्रियमपहाय जटाचीरधारी त्वं चित्रकूटे सुखमवसः। एवं गुरुवचनपरैर्भवितव्यमिति लोकान् ग्राहयितुमेतदिति भावः ॥५॥ श्रुत्वा पुत्रातिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च । अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः! शारभङ्गीम् ॥६॥ श्रुत्वेति । शारभङ्गी शरभङ्गसम्बन्धिनी सुगतिं मोक्षम् ॥ ६ ॥ नत्वागस्त्यं समस्ताशरनिकरसपत्राकृति तापसेभ्यः प्रत्यौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ब्रह्मास्त्रे चापि दत्ते पथि पितृमुहृदं वीक्ष्य भूयो जटायु मोदाद् गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूच्या ॥७॥ नत्वेति । समस्ताशरनिकरसपत्राकृतिं सर्वराक्षसवधं प्रत्यश्रौषीः प्रतिज्ञा- तवान् । गोदा गोदावरी । परिरमसि पुरा स्वैरं न्यवसः ॥ ७ ॥ १.न्धे किल भृगुति' घ. पाठः.

नारायणीये [स्कन्धः-९ प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनेनिस्सहात्मा तां सौमित्रौ विसृज्य प्रवलतमरुषा तेन नि ननासाम् । दृष्ट्वैनां रुष्टचित्तां खरमभिपतितं दूषणं च त्रिमूर्धं व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ ८॥ सोदर्यापोक्तवार्ता विवशदशमुखादिष्टमारीचमाया- सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधी र्वाणघातम् । तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहात तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायलाभात् ॥९॥ सोदर्येति । तेन सीताविरहेण बहिरात इति सिध्यति, अन्तः किमपि मुदमधा इत्युक्तेः । अनेन च स्त्रीवचनं प्रमाणीकुर्वतामेवं दुःखमिति ग्राहयितुमे- तदित्यपि सूचितम् ॥ ९ ॥ भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधू मधेने- त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् । गृह्णानं तं कबन्धं जघनिथ शबरी प्रेक्ष्य पम्पातटे त्वं सम्पाप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश! ॥१०॥ इति श्रीरामचरिते पम्पासरसि हनूमत्समागमवर्णनं चतुस्त्रिंशं दशकम् । नीतः सुग्रीवमैत्री तदनु हनुमता दुन्दुभेः कायमुच्चैः क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत् पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या वर्षावेलामनैपीविरहतरलितस्त्वं मतङ्गाश्रमान्ते ॥ १॥ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता- मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । १.तो का गा. पाठः * 'करणे हन:' (३०४-३७) इति णमुल् ।

दशकम् -३५] श्रीरामचरितवर्णनम् सन्देशं चाङ्गुलीयं पवनमुतको प्रादिशो मोदशाली मार्गे मार्ग ममार्गे कपिभिरपि तदा त्वप्रिया समयासः ॥२॥ सुग्रीवेणति । अनुजस्य लक्ष्मणस्योक्त्या सुग्रीवेण सहाभियतांभिगच्छता। ऋक्षाणां वाहिनीम् । ममार्ग अन्विष्टा ॥ २ ॥ त्वदाताकर्णनोवद्रुदुरुजबसम्पातिसम्पातिवाक्य- प्रोत्तीर्णााँघिरन्तनगरि जनकजां वीक्ष्य इत्त्वाङ्गुलीयम् । प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढवन्धो दशास्यं दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान मौलिरनं ददा ते ॥ ३ ॥ त्वदिति । रामायणोकर्णनेन सञ्जातपक्षस्य उरुजवसम्पातिन उपर्युड्डीय सीतां दृष्टवतः सम्पातेर्वाक्येन । प्रक्षुध चूर्णीकृत्य । अक्षमपणेनाक्षकुमारवधेन प्रसिद्धो रणो यस्य । सोढः शापस्मरणान्मर्षितो बन्धो येन ॥ ३ ॥ खं सुग्रीवाङ्गदादिप्रबलकपिचमृचऋविक्रान्तभूमी- चक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाणः । तत्प्रोक्तां शत्रुवाती रहसि निशमयन् प्रार्थनापार्थ्यरोप- प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान् मध्यमार्गम् ॥ ४ ॥ त्वमिति । पारेजलधि जलधेः पारे । प्रार्थनाया आपायें वैफल्यम् । प्रास्तस्य प्रक्षिप्तस्य ॥ ४ ॥ कीशैराशान्तरोपाहतगिरिनिकरैः सेतुमाधाप्य यातो यातून्यामर्थ दंष्ट्रानखशिखरिशिलासालशौः स्वसैन्यः । व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा वेगानागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ ५ ॥ कीशैरिति । व्याकुर्वन् प्रकाशयन् ॥ ५ ॥ सौमित्रिस्त्वत्र शक्तिप्रवृतिगलदमुर्वातजानीतशैल- घाणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । १. 'ताममिगच्छताम्' क, ग. पाठः, २. 'णानुक ख. पाठः, नारायणीये स्कन्धः-९ मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्ण सम्पासं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥६॥ गृह्णन् जम्मारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ब्रह्मास्त्रेणास्य भिन्दन् गलततिमवलामग्निशुद्धां प्रगृह्णन् । देव! श्रेणीवरोजीवितसमरमृतैरक्षतैःक्षसङ्घ- लङ्कामा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ ७ ॥ गृह्णनिति । श्रेणीवरैर्हनुमदादिभिरुज्जीविताः समरमृता येषु ऋक्षसङ्केषु । देवश्रेणीनां वरैरुज्जीविता इति वा ॥ ७ ॥ प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी- मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासी । शत्रुघ्नेनादयित्वा लवणनिशिचरं प्रादयः शूद्रपाशं तावद् वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥८॥ प्रीत इति । अर्दयित्वा घातयित्वा स्वयमेव शूद्रपाशं कुत्सितं शूद्रमुनि प्रादयः ॥ ८ ॥ वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे सीतां त्वय्यानुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः । हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यम् ॥ ९ ॥ वाल्मीकरिति । त्वत्सुताभ्यां कुशलवाभ्यामुद्गापिता मधुरा कृती रामा- यणं काव्यं येन स तथा । कालार्थितो यमधर्मराजेन स्वर्गारोहणाय याचितोऽभूः । हेतोः सौमित्रिघातीति । अयमर्थः - रहस्संवादिनोरावयोर्द्रष्टारं त्य(क्ष्येक्ष्यामि) इति धर्मराजस्य पुरतः कृतप्रतिज्ञो रामस्तदन्तरा प्राप्तं सौमित्रिं प्रतिज्ञाभङ्गभयात् तत्याजेति । अथ स्वयं निश्शेषैर्देवांशैः पौरैश्च साकं नाकं स्वर्ग ततश्च निजपदं वैकुण्ठम् । आयं ब्रह्माण्डोत्पत्तेः प्रागपि विद्यमानम् ॥ ९॥ * युध्यन्नित्यनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् ।

NATURaurasia
दशकम-३६]
दत्तात्रेयावतारवर्णनम् ।
१४७
नन्वीश्वरस्यापि यदि शरीरबन्धस्तर्हि संसारित्वप्रसङ्ग इति चेद् नेत्याह
सोऽयं मावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
विश्लेषार्तिनिरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या।
नो चेत् स्वात्मानुभूतेः कनु तव मनसो विक्रिया चक्रपाणे!
स त्वं सत्त्वैकमूर्ते ! पवनपुरपते ! व्याधुनु व्याधितापान ॥१०॥
स इति । तव स्वाधीनमायस्य सः ब्रह्मादिभिरप्यविज्ञातविभवः अयं
प्रदर्शितो मावतारः खलु लीलाविग्रहपरिग्रह एव, नेतरवन्मायापरतन्त्रतया
संसार इति भावः । तदपि माशेक्षार्थम् । किन्तबनेन शिक्षितं भवति, तत्राह-
एवमिति । कामातिसक्त्या विश्लेषार्तिः प्रियाविरहदुःखं धर्मातिसक्त्या निरागस्त्य-
जनमपि भवति, यथा सीतायाः । अतः कामादावतिसक्तिर्मा भूदिति । तदुपपाद-
यति - नो चेदिति । स्वात्मा स्वस्वरूपमेवानुभूतिः प्रकाशो यस्य तस्य स्वप्रकाश-
संविद्रूपस्य परब्रह्मणस्तव मनसो विक्रिया रागद्वेषमोहादयः वनु, न भवत्येवेत्यर्थः ।
कालात्मकं चक्रं पाणौ स्वाधीनतया स्थितं यस्य तस्य तब संसारापादने कालो
न प्रभुः। किन्तु सत्त्वैकमूर्ते! इति । भक्तानुग्रहाय शुद्धसत्त्वमयमूर्त्यङ्गीकार एवाय-
मवतार इति भावः । व्याधुनु अपाकुरु ॥ १० ॥
।
इति श्रीरामचरितवर्णनं पञ्चत्रिंशं दशकम् ।
अथ दत्तात्रेयावतारमाह
अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
जातः शिष्यनिबन्धतन्द्रितमनाः स्वस्थश्चरन् कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा-
नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥१॥
अत्रेरिति । दत्तो मयाहमिति भगवतोक्तत्वाद् दत्त इत्यभिधा यस्य स त्वं
समाधिनैरन्तर्यविघातकतया शिष्यनिबन्धतन्द्रितमनास्तन्निराकरणाय कान्तया सह
मधुमदविवशभावं प्रदर्य स्वस्थ आत्मारामश्चरन् हेहयमहीपालेन श्रीकार्तवी-
र्यार्जुनेन ॥ १ ॥

नारायणीये स्कन्धः-९ अथ श्रीपरशुरामावतारमाह सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ब्रह्मद्वेपि तदाखिलं नृपकुलं हन्तुं च भूमेभरम् । सञ्जातो जमदाग्नितो भृगुकुले त्वं रेणुकायां हरे! गयो नाम तदात्मजेष्ववरजः पित्रोरवाः सम्पदम् ॥२॥ सत्यमिति । अर्जुनस्य वरमन्ते स्वेनैव वधम् । तच्छक्तिरर्जुनस्य शक्तिस्त- न्मात्रेणानतम् ईपच्छमितब्रह्मोपद्रवम् ॥ २ ॥ लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना- गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया। ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात् पितु- स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद् वरम् ॥ ३ ॥ लब्धति । चतुर्दशवया एव लब्ध अर्थज्ञानपर्यन्तमधीत आम्नायगणो येन गन्धर्वराजे चित्ररथे मनागीषदासक्तामत एव जलानयने सविलम्बां मातरं रेणुकां प्रति इमां जहीति तातस्य जमदग्नेराज्ञामतिगच्छन्त्यतिक्रामन्तीति तथा तैः सोदरै- ज्येष्ठैः समं सहेमां रेणुकां मातरं छित्वा निगृह्य पुनः शान्तात् प्रसन्नात् पितुः सकाशात् तेषां मातु/तृणां च जीवनयोगं वरमापिथ प्राप्तवान् ॥ ३ ॥ पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् प्रस्थायाथ भृगोगिरा हिमगिरावाराध्य गौरीपतिम् । लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं प्राप्तो मित्रमथाकृतत्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ४॥ पित्रेति। अथानन्तरं पित्रा जमदग्मिना मातू रेणुकाया मुदे प्रीत्यै स्तवेना- हृतानीता वियद्धेनुः सुरभिर्यस्मिन् तस्मादाश्रमाद् भृगोः पितामहस्य गिरा प्रस्थाय तस्य गौरीपतेः परशुं लब्ध्वा तेन गौरीपतिनोक्तम् । तस्मादेव महास्त्रादिकं प्राप्तः सिंहमुखाद् रक्षितमकृतव्रणमुनिं मित्रं प्राप्य स्वाश्रममगमः ॥ ४ ॥ १. 'रान्' घ. पाठः.

दशकम् .. ३६ परशुरामचारतवर्णनम् । आवेटोपगनोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गण- त्वपित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः। गां क्रेतुं सचिवं न्ययुक्त कुधिया तेनापि रुन्धन्मुनि- प्राणक्षेपसरोपगोहतचमचक्रेण वत्सो हृतः ॥५॥ आवेटेति । आग्वटोपगता मृगयाप्रसङ्गनाश्रमं गतः । सुरगीसम्प्राप्तैः गुरभिसकाशाल्लव्यैः सम्पद्वदिव्येग्यैिः । पर आहिष्मती गतः । पुनमन्त्रिवाचा गां तां सुरभि क्रेतुं स्वीकतुम् । कुधिया (तेन सांचयन: ।) गवाहरणं रुन्धतो मुने- जमदग्नेः प्राणक्षेपो वधस्तेन सरोषया गया हतं चमूचक्रं यस्य तेन सचिवेन सुरभेवत्सो हृतो माहिष्मती नीतः ।। ५ ।। शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं विभ्रद् ध्यातमहोदरोपनिहितं चापं कुठारं शरान् । आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन् वाग्भिर्वत्समदाशुपि क्षितिपतौ सम्पास्तुथाः सङ्गरम् ॥६॥ शुक्रेति । सख्या अकृतव्रणेन ध्यातेन महोदरेण गिरिशपार्षदेनोपनिहित- मानीतं चापादिचतुष्टयं बिभ्रदारूढश्च सन् क्षितिपतावर्जुने । सम्प्रास्तुथा आर- ब्धवान् ॥ ६ ॥ अथ सैन्यनाशे सत्यर्जुनः स्वयमेव श्रीपरशुराममापतदित्याह- पुत्राणामयुतेन सप्तदशभिवाक्षौहिणीभिर्महा- सेनानीभिरनेकमित्रनिवहैाजृम्भितायोधनः । सद्यस्त्वत्ककुठारवाणविदलनिश्शेषसैन्योत्करो भीतिभद्रुतनष्टशिष्टतनयस्त्वामापतदेहयः ॥ ७ ॥ लीलावारितनर्मदाजलचलल्लङ्केशगर्वापह- श्रीमदाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धनमुम् ।

नारायणीये स्कन्धः-९ चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा ध्यायन्तं छितसर्वदोषमवधीः सोऽगात् परं ते पदम् ॥ ८॥ लीलेति । लीलया बाहुसहस्रेण वारिते नर्मदाजले वलतः प्लवमानस्य लकेशस्य गर्वमपहन्तीति तथा, येन कारागृहं प्रापितो रावणस्तेन श्रीमद्बाहुसहस्रेण मुक्तानि बहूनि शस्त्राणि अस्त्राणि च येन तममुं कार्तवीर्य निरुन्धन् निवारयन् अथ त्वयि तत्प्रयुक्ते वैष्णवे चक्रेऽपि विफले जाते त्वां हरिं बुवा श्रीहरिं ध्यायन्तमत एव छितसर्वदोषं नष्टकामक्रोधादिदोषं वृक्णबाहुसहस्रं कृत्वावधीनिहतवान् ॥ ८ ॥ भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका- मानानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । ध्यानानीतरथायुधस्त्वमकृथा विपद्रुहः क्षत्रियान् दिक्चक्रेषु कुठारयन् विशिखयन् निःक्षत्रियां मेदिनीम् ॥ ९॥ भूय इति । अमर्षितैर्निजपितृवधमसहमानैनष्टशिष्टै]हयात्मजगणैस्त्वद्विही- नमाश्रमं प्राप्तैस्तव ताते जमदग्नौ हते हृदयमानानां सोरस्ताडनं विलपन्तीम् । पूर्व- वद् ध्यानानीतरथायुधो दिक्चक्रेषु ये विपद्रुहः क्षत्रियास्तान् कुठारयन्* कुठारेण निघ्नन् विशिखयन् विशिखैनिघ्नन् ॥ ९ ॥ तातोज्जीवनकृनृपालककुलं त्रिःसप्तकृत्वो जयन् सन्ताथ समन्तपञ्चकमहारक्तहदौघे पितॄन् । यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥१०॥ तातेति । पितुः शिरः कायेन सन्धाय मखैः पितरं जीवयन् काश्यपा- दिष्वृत्विक्षु दिशन् ददत् पुनः साल्वेन युध्यन् कुमारैः सनकादिभिस्तद्वाक्येन श्रीकृष्णोऽमुं निहनिष्यतीति ज्ञात्वा भवान् युद्धाच्छमितोऽभूत् ॥ १० ॥ * 'प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च' इति णिच् । एवं विशिखयन्निति ।

दशकम् - ३६] परशुरामचरितवर्णनम् । १५१ अथ महेन्द्रभूभृति तपस्यन् मुनिभिरभ्यार्थितः केरलभूमि समुद्रमन्नामुद्धृत- वानित्याह न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः। ध्यातेष्वासधृतानलाखचकित सिन्धुं बुवक्षेपणा- दुत्सार्योट्टतकेरलो भृगुपते! वातेश! संरक्षमाम् ॥११॥४१॥ इति दत्तात्रेयपरशुरामयोरवतारवर्णनं परशुरामचरितवर्णनं च षनिशं दशकं सैकम् । श्लोकार्थचिन्तासन्देहप्रश्नाख्यानोपपादनैः । हरिचिन्ताविनाभूतैः क्षणं सफलयामहे ।। इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां नवमस्कन्धपरिच्छेदः। आदितः श्लोकसङ्ख्या ३७५.

अथ दशमस्कन्धपरिच्छेदः । कृष्णलीला निरोधाख्या भूभारहरणात्मिका । स्तूयते नातिसंक्षिप्ता श्लोकः श्रोत्रमनोहरैः ।। सान्द्रानन्दतनो ! हरे! ननु पुरा दैवासुरे सङ्गरे त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । तेषां भूतलजन्मनां दितिभुवां भारेण दूरादिता भूमिः प्राप विरिश्चमाश्रितपदं देवः पुरैवागतेः ॥ १ ॥ सान्द्रानन्देति । आदौ मङ्गलार्थमुपात्तमन्तेऽपि परमानन्दसन्दोहलक्ष्मीम्' इति प्रयोक्ष्यन् मध्येऽपि मङ्गलार्थ परब्रह्मवाचकमानन्दपदं प्रयुक्त-सान्द्रानन्देति। हे परमानन्दस्वरूप! दैवासुरे देवासुरसम्बन्धिनि । त्वत्कृत्ता अपीति । त्वया निगृ- हीतानां सद्य एव मुक्तिः द्वित्रैर्जन्मभिर्वा स्यादेव। तत्र ये ते प्रसिद्धाः कालनेम्यादयो दैत्याः, ते कर्मशेषवशतो मनुष्यत्वापादकपुण्यपापशेपपरतन्त्रतया भगवता निगृहीता अपि गतिं मोक्षं न याताः न प्राप्ताः । अत एव कंसादिरूपेण भृतले जन्म येषां तेषां भारेण भरेण दूरार्दिता अतिशयेन पीडिता पुरा भुवः प्राप्तेः पूर्वमेवागतैः प्राप्तैर्देवैः सह भूमिर्विरिञ्चं प्राप । आश्रितपदं सत्यलोकस्थम् , अथवोपासितभगव- त्पादपद्म, यद्वा देवैराश्रितं पादपद्मं यस्य स तथेति ॥ १ ॥ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका- मेतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् । इत्यादिभचुरप्रलापविवशामालोक्य धाता महीं देवानां वदनानि वीक्ष्य परितो दव्यौ भवन्तं हरे! ॥ २ ॥ हा हेति । हा हा कष्टं दुर्जना एव भूरिभारस्तेन मथितां परिक्लिप्टाम् । पाथोनिधावावरणोदके पातुकां मनमायाम् । वदनानि सत्यमेवास्या वच इति वचनगर्भाणि मुखानि परितो विलोक्य ॥ २ ॥ ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचो नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः। १. 'पि' क, पाठः, रिसर दशकम् - ३७] कृष्णावतारप्रसङ्गवर्णनम् । १५३ सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधि नत्वा तं स्तुमहे जवादिति ययुः साकं तवाकेतनम् ॥ ३ ॥ ऊच इति । धरित्र्या वचः सत्यं, मया दिव्येन चक्षुषा दृष्टम् । लक्ष्मीपति- रिति । भुवो रक्षणाभावेऽसौ केवलं लक्ष्मीपतिरेव स्यादिति भावः । तवाकेतनं क्षीराब्धिम् ॥ ३॥ ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता यावत् त्वत्पदचिन्तनैकमनसस्तावत् स पाथोजभूः । त्वद्वाचं हृदये निशम्य सकलानानन्दयचिवा- नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ ४ ॥ त इति । ते यावत् तीरं गताः, तावत् पाथोजभूस्तव शेषशायिनो वाचं हृदये हृदयाकाशे प्रकाशितां निशम्यावगम्य परमात्मना विष्णुना स्वयं स्वेनैवाह- माख्यातः, तत् तस्य वाक्यमाकर्ण्यतामित्यूचिवान् ॥ ४ ॥ जाने दीनदशामहं दिविषदां भूमेश्व भीमैनॅपै- स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनी मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ ५॥ जान इति । भीमैर्नृपैर्जरासन्धादिभिर्हेतुभूतैः । दीनदशां पराधीनवृत्तिताम् । तेषां क्षेपाय निग्रहाय सः सच्चिदानन्दस्वरूपोऽहं समग्रात्मना, नांशेन । देवाः कल- या अंशेन वृष्णिकुले गोपालाः देवाङ्गना गोप्यश्च भवन्तु ॥ ५ ॥ श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित- स्वान्तेष्वीश! गतेषु तावककृपापीयूषतृप्तात्मसु । विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यां देवकनन्दनामुदवहद् राजा स शूरात्मजः ॥ ६॥ श्रुत्वेति । निर्वापितानि सुग्वितानि स्वान्तानि येषाम् । भवत्सान्निध्येन यत् पुण्यमभ्युदयनिःश्रेयसकरत्वं तेनोत्तर उत्कृष्टे । उदवहद् उपयमे । शूरात्मजो वसुदेवः ॥ ६ ॥ ।

नारायणीये स्कन्धः-१० उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय- नेतौ मूततया गतः पथि रथे व्योमोत्थया त्वद्भिरा। अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः सत्रासात् स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ ७॥ उद्वाहेति । एतौ देवकीवसुदेवौ सूततया सम्मानयन् । त्वगिरेति 'दैवम- प्यनृतं वक्ति' (श्रीभा. स्क. १०.अ. ४. श्लो. १७) इति पुनः कंसवचनात् । हन्ता हनिष्यति । हन्त अहो कृतार्था देवा भूश्चेतीरितः । तन्वी देवकीम् । अधाद् आददे ॥ गृह्णानश्चिकुरेषु तां खलमतिः शोरेश्चिरं सान्त्वनै- नों मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ दुष्टानामपि देव! पुष्टकरुणा दृष्टा हि धीरेकदा ॥८॥ गृह्णान इति । चिरं. दीर्घकालं प्रयुक्तैः सान्त्ववचनैः । आत्मजार्पणगिरा अस्याः पुत्रांस्तुभ्यं दास्यामीति प्रतिज्ञया ॥ ८ ॥ तावत् त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो। मायावी स हरिभवधिकृते भावी मुरप्रार्थना- दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ ९ ॥ तावदिति । यावत् कंसो गृहं गतवान् , तावत् त्वन्मनसा त्वया प्रेरित एव, अन्यथा श्रीनारदस्य कंसं प्रति द्वैधीभावप्रकाशनायोगात् । यूयमसुराः काल- नेम्यादयः। भवद्वधकृते नृपीभूतानां भवतां वधार्थ हरिरस्या अष्टमपुत्रो भावी । अदूधुनत् स्थानाच्च्यावयामास ॥ ९ ॥ प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया नीते माधव ! रोहिणीं त्वमपि भोः! सचित्सुखैकात्मकः ।

दशकम् -३८] कृष्णावतारवर्णनम् । देवक्या जठरं विवेशिथ विभो ! संस्तूयमानः सुरैः स त्वं कृष्णः विधूय रोगपटली भक्ति परां देहि मे ॥१०॥ प्राप्त इति । देवक्याः सप्तमगर्भतां प्राप्तेऽहिपतावनन्ते मायया रोहिणी नीते । सञ्चिदिति सच्चिदानन्दैकरसः । हे कृष्ण ! सः देवकीजठरस्थः ॥ १० ॥ । । इति कृष्णावतारप्रसङ्गवर्णनं सप्तत्रिंशं दशकम् । आनन्दरूपः भगवन्नाय तेऽवतारे प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः । कान्तिबजैरिव घनाघनमण्डलै-- मावृण्वती विरुरुचे किल वर्षवेला ॥१॥ आनन्देति । प्रदीप्तात् प्रकाशोज्ज्वलाद् भवदङ्गान्निरीयमाणैर्वहिनिर्ग- च्छद्भिः ॥ १॥ आशासु शीतलतरासु पयोदतोये- राशासिताप्तिविवशेषु च सज्जनेषु । नैशाकरोदयविधौ निशि मध्यमायां क्लेशापहस्त्रिजगतां त्वमिहाविरासीः॥२॥ आशास्विति । आशासितस्याभीष्टार्थस्याप्त्या लाभेन विवशेषु प्रीतिवेगे- नाविदितेतिकर्तव्यताकेषु । मध्यमायां निशि अर्धरात्रे ॥२॥ वाल्यस्पृशापि वपुषा दधुषा विभूती- रुद्यकिरीटकटकाङ्गदहारभासा । शङ्खारिवारिजगदापरिभासितेन मेघासितेन परिलेसिथ सूतिगेहे ॥ ३ ॥ बाल्येति । बाल्यं स्पृशति तेन सम्बध्यत इति बाल्यस्पृक् । विभूतीरीश्व- । * 'ई गतौ' दिवादिः ।

नारायणीये [स्कन्धः-१० । रत्वद्योतकानि दधुषा धृतवता । तदेवाह -- उद्यदिति । उद्यन्त्यः किरीटादीनां भासो यस्मिन्निति वपुर्विशेषणम् । परिलेसिथ शुशुभिषे ॥ ३ ॥ वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी- मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः। तन्मन्दिरस्य खलकंसकृतामलक्ष्मी- मुन्मार्जयन्निव विरेजिथ वासुदेव ॥ ४ ॥ वक्षःस्थलीति । वक्षःस्थलीसुखनिलीनाया निजकमितुर्मूर्त्यन्तरपरिग्रहेण विलासिन्या नवीकृतप्रेमप्रकर्षद्योतकचेष्टाविशेषयुक्ताया लक्ष्म्या मन्दाक्षेण लक्षितैरु- पलक्षितैर्लज्जामन्थैररित्यर्थः ॥ ४ ॥ शौरिस्तु धीरमुनिमण्डलचेतसोऽपि दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् । आनन्दवाष्पपुलकोद्गमगद्गदाई स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ ५ ॥ शौरिरिति । धीरस्य साधनचतुष्टयसम्पन्नस्य मुनिमण्डलस्य चेतसः समाधेः सकाशादपि दूरे स्थितम् आनन्दबाप्पेण पुलकोद्गमेन गद्गदेन चाो मिलितः सन्॥ ! देव! प्रसीद परपूरुष! तापवल्ली- निलूनिदात्र! समनेत्र! कलाविलासिन्! । खेदानपाकुरु कृपागुरुभिः कटा:- रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ ६॥ देवेति । परपूरुष! परमात्मन् ! तापवल्ल्या निल्नौ मूलच्छेदे दात्र ! अ- तितीक्ष्णशस्त्रभूत ! समनेत्र ! सर्वनियन्तः! कलया स्वांशभूतया मायया जगत्सृष्ट्या- दिक्रीडाशील!, अथवा तापवल्ल्या निळूनौ दात्रसमो नेत्रकलायाः कटाक्षस्य विला- सोऽत्यास्तीति तथेति ॥ ६ ॥ ! HAI १. "ति । निज' क. ख. पाठः, २. 'दवाक्येन' ग. पाठः, ३. न वाक्येन चा ख. पाठः, दशकम् - ३८] कृष्णस्य गोकुलनयनवर्णनम् । मात्रा च नेत्रसलिलास्तृतगात्रवल्लया स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषवालवेषम् ॥ ७॥ मात्रेति । प्राचीनजन्मयुगलं प्राग युवयोः पृश्निसुतपसोः पुत्रतया पृश्नि- गर्भाख्ययाहं जातः, पुनश्चादितिकाश्यपयोर्वामनाख्ययति प्रतिबोध्य ॥ ७ ॥ ते त्वत्प्रेरिस्ततदनु नन्दतनूजया व्यत्यासमारचयितुं स हि शूरसूनुः । स्वां हस्तयोरधित चित्तविधार्यमार्च- रम्भोरुहस्थकलहंसकिशोररम्यम् ॥ ८॥ त्वदिति । कंसभ्रान्त्यर्थं मां यशोदाशयने न्यस्य तत्सुतां मन्मातुः शयने कुर्विति त्वया प्रेरितः सः आर्यमुनिभिश्चित्तेन विधार्य ध्येयम् ॥ ८ ॥ जाता तदा पशुपसद्मनि योगनिद्रा निद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात् किमिह चित्रमचेतनैर्यद् द्वारैः स्वयं व्यघटि सङ्घटितैः सुगाढम् ॥९॥ जातेति । तदा त्वत्प्रस्थानारम्भे सति योगनिद्रा माया भगवती पशुपस्य नन्दगोपस्य सद्मनि यशोदायां जातावतीर्णा सा त्वत्प्रेरणात् पौरलोकं मथुरापुर- बासिनं जनं निद्राविमुद्रितं निश्चेष्टमकृत । किमिव चित्रमिति । अघटमानघटना- पटीयस्यास्त्वत्प्रेरणाद् द्वारविघटनकरणादि न चित्रमित्यर्थः ॥ ९ ॥ शेषेण भूरिफणवारितवारिणाथ स्वैरं प्रदर्शितपथो माणदीपितेन । १. सर्वलो क. पाठा.

१५८ नारायणीये स्कन्धः-१० त्वां धारयन् स खलु धन्यतमः प्रतस्थे सोऽयं त्वमीश: मम नाशय रोगवेगान् ॥१०॥ शेषेणेति । भूरिभिः फणैर्वारितं वारि वर्षविन्दवो येन तेन शेषेणानन्तेन फणामणिदीपितेनात एव स्वैरं प्रदर्शितः पन्था मार्गों यस्य ॥ १० ॥ इति कृष्णावतारवर्णनं कृष्णस्य गोकुलनयनवर्णनं च अधात्रिंशं दशकम् । भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । अहो सलिलसञ्चयः स पुनरैन्द्रजालोदितो जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥१॥ भवन्तमिति। निस्सरन् गच्छन् । गगनोच्चलज्जलभरां वीचीजालैगगनतल- विलचिजलौघपूर्णाम् ॥ १॥ प्रसुप्तपशुपालिकां निभृतमारुदद्घालिका- मपातकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद् वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥२॥ प्रसुप्तेति । प्रसुप्ताः पशुपालिका यस्यां, निभृतं यशोदासूतिगेहज्ञापनार्थ मन्द मन्दमारुदती बालिका यस्याम् , अपावृता विघटिताः कवाटिका यस्यां, तां पशुपवाटिकां नन्दगोपगृहमाविशन्नयं वसुदेवो यशोदायाः प्रसवतल्पके भवन्तम- र्पयन् तत्पदात् तस्मात् स्थानात् ॥ २ ॥ ततस्त्वदनुजारवक्षपितनिद्रवेगव- द्भटोत्करनिवेदितमसववार्तयैवार्तिमान् ।

दशकम् -३९] योगमायानयनादिवर्णनम् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा- डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥३॥ तत इति । त्वदनुजाया यशोदाकन्याया रुदितरवेण क्षपितनिद्र*वेगैः प्रबु- बैर्द्रवद्भिर्धावद्भिर्भटोत्करै रक्षिपुरुषैनिवेदितया. देवक्या अष्टमः पुत्रो जात इति प्रसववार्तयैवार्तिमान् मरणभययुक्तः कथभियं कन्यका भवेदिति बहुविधचिन्ताकु- लतयातुष्ट इव ॥ ३ ॥ ध्रुवं कपटशालिनो मधुहरस्य माया भवे- दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप- नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ ४॥ ध्रुवमिति । मधुहरस्य मधुसूदनस्य । अजां मायाम् ॥ ४ ॥ ततो भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुपी विकसदष्टवाहुस्फुर- न्महायुधमहो गता किल विहायसा दिद्युते ॥ ५ ॥ तत इति । ततः प्रमुच्य कंसकराद् विगलिता विकसन्त्यष्टबाहुस्फुरन्महायु- धानि यस्मिन्निति क्रियाविशेषणम् । विहायसा मार्गेण गता दिद्युते शुशुभे ॥५॥ नृशंसतर! कंस! ते किमु मया विनिष्पिष्टया बभूव भवदन्तका कचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो! खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मन्दिराण्येयुपी॥६॥ नृशंसेति । नृशंसतर! अतिदुष्कर्मकारिन् ! ! तं खलं कंसमुदीर्योक्त्वा मरु- । । क्षपितनिवेगेन द्रवद्भिश्चेति तु युक्तम् ।

नारायणीये [स्कन्धः-१० गणैः पणायिता स्तुता जग्मुषी गतवती भुवि मन्दिराण्येयुषी नृणामनुग्रहाय तत्तत्स्थानाभिमानितया स्थितवती ॥ ६ ॥ प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलम्बवकपूतनाप्रमुखदानवा मानिनः। भवन्निधनकाम्यया जगति बभ्रमनिर्भयाः कुमारकविमारकाः किमिव दुष्करं निष्कृपैः॥७॥ प्रग इति । पुनः परेछुः प्रगेऽहर्मुखे भूभुजा कंसेन प्रलम्बाद्या अगाल्म- जाया देव्या वचनमीरिता उक्ताः ॥ ७ ॥ ततः पशुपमन्दिरे त्वयि मुकुन्द ! नन्दमिया- प्रसूतिशयनेशये रुवति किञ्चिदश्चत्पदे । विबुध्य वनिताजनैस्तनयसम्भवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥८॥ तत इति । ततः पशुपमन्दिरे नन्दगेहे प्रसूतिशयने शेत इति प्रसूतिशयने- शयस्तस्मिन् किञ्चिदञ्चत्पदे चलिताल्पकमृदुलानिपल्लवे त्वयि रुवति रुदति सति ॥८॥ अहो खलु यशोदया नवकलायचेतोहरं भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा। पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः॥९॥ अहो इति । यशोदया भवदर्शनस्पर्शनस्तनदानादिना पुण्यवन्तो मुन- योऽपि जिता अधःकृताः खलु अहो ॥ ९ ॥ भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् ।

दशकम् - ४०] वार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णनम् ।
तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
जगत्रितयमङ्गल! त्वमिह पाहि मामामयात् ॥ १० ॥
भवदिति । भवतः कुशलकाम्ययाभ्युदयेच्छया ॥ १० ॥
इति योगमायानयनादिवर्णनम् एकोनचत्वारिंशं दशकम् ।
तदनु नन्दममन्दशुभास्पदं नृपपुरी करदानकले गतम् ।
समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः॥१॥
तदन्विति । अमन्दशुभास्पदं लोकोत्तरगुणाकरं नन्दं करदानकृते यदुरा-
जाय वार्षिकषष्ठांशदानार्थं गतं मथुरापुरीस्थो भवत्पिता वसुदेवो विदितः कंसस-
हायजनानां पूतनातृणावर्तादीनामुद्यमः सकलवालहननोत्साहो येन ॥ १ ॥
अयि सखे! तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।
इति भवपितृतां वजनायके समधिरोप्य शशंस तमादरात् ॥२॥
अयोति । वसुदेवो नन्दं प्रति त्वद्नेहस्थो बालो मत्पुत्र इति नोवाच,
किन्तु व्रजनायके नन्दे भवत्पितृतामारोप्य तमादराच्छशंस । स्वपुत्रवत् साव-
धानं रक्षितुमेतदिति ज्ञातव्यम् ॥ २ ॥
इह च सन्त्यनिमित्तशतानि ते कटकसीन्नि ततो लघु गम्यताम् ।
इति च तवसा वजनायको भवदपायभिया द्रुतमाययौ ॥३॥
इहेति । अनिमित्तशतानि दुनिमित्तानि । कटकसीम्नि बजे ॥ ३ ॥
नन्दस्य व्रजागमनात् पूर्व ललितवेषायाः पूतनाया ब्रजप्रवेशमाह-
अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना।
तरलषट्पदलालितकुन्तला कपटपोतक! ते निकटं गता ॥४॥

नारायणीये
[स्कन्धः-१०
सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना ।
व्रजवधृष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥५॥
सपदीति । हृतबालकचेतना बालघातिनीत्यर्थः ॥ ५ ॥
ललितभावविलासहतात्मभिर्युवतिभिः प्रतिरोडुमपारिता ।
स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥६॥
ललितेति । युवतिभिर्गोपीभिः प्रतिरोढुं लङ्घयितुमपारिताशक्या सती
भवनान्ते निषेदुषी उपविष्टा प्रदुषी दत्तवती । कपट आत्मा मनो मूर्तिर्वा
यस्य ॥ ६ ॥
समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः।
महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥७॥
।
समधिरुह्येति । बालकानां लोपनेन मारणेन रोषितः प्रतिचुचूषिथ आम्-
लाद् वक्रे निवेश्यौष्ठाभ्यामवपीड्य बहुशो निष्ठीवनं कृतवान् ॥ ७ ॥
असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना।
निरपतद् भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥८॥
असुभिरिति । असुभिः प्राणैः समं सह धयति पिबति सत्यसौ पूतना
स्तनितोपमो मेघध्वनिसदृशो निस्वन आक्रन्दितं यस्याः सा तथा ॥ ८॥
भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लचे ।
व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः॥९॥
भयदेति । भयघोषणस्य भीषणविग्रहस्य च श्रवणेन दर्शनेन च
मोहिता वल्लवा गोपा यत्र ॥ ९ ॥

दशकम् -४१] पूतनाशरीरदाहवर्णनम् । १६३ भुवनमङ्गल! नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः। त्वमयि वातनिकेतननाथ! मामगदयन् कुरु तावकसेवकम् ॥१०॥ भुवनेति । अगदयन् नीरोगं कुर्वन् ॥ १० ॥ इति वार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णनं पूतनामोक्षवर्णनं च चत्वारिंशं दशकम् । ब्रजेश्वरः शौरिवचो निशम्य समावजन्नध्वनि भीतचेताः। निष्पिष्टनिश्शेषतरुं निरीक्ष्य कश्चित् पदार्थ शरणं गतस्त्वाम् ॥ १॥ बजेति । शौरिवच 'इह च सन्त्यनिमित्तशतानि' (दश. ४०. श्लो. ३) इति । समावजन् स्वगृहमागच्छन् निप्पिष्टाः पतनजवेन पतिताश्चूर्णीकृताश्च निश्शेषतरवो गव्यूत्यन्तरस्थट्ठमा येन तं पूतनादेहं कञ्चित् पदार्थमतिमहत्त्वाद- दृष्टपूर्वतया च किमिदमिति ज्ञातुमशक्यम् एतादृशसङ्कटे भ्रमन् बालकः क्वेति परवशस्त्वद्रक्षणाय त्वामेव शरणं गतः रक्षितृत्वेनाश्रितवान् ॥ १ ॥ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्याः। त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥२॥ निशम्येति । उदन्तं पूतनावृत्तान्तम् । घोररूपदर्शनाद् भयं, त्वया पातितमिति विस्मयः । अथ विदूरे कुठारैः खण्डशः कृत्वा बहुभिर्दूरं नीत्वा देहुर्भस्मीचक्रुः ॥२॥ त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः । शङ्कामधादागरवः किमेष किं चान्दनो गौग्गुलवोऽथवेति ॥ ३ ॥ त्वदिति । त्वत्पीतत्वात् पूतं रजस्तमोविलये शुद्धसत्त्वमयः स्तनो यस्मि- १. 'टेऽत्र मदाल' क. ख. पाठः, नारायणीये स्कन्धः -१० स्तस्मात् तच्छरीरादिति, तत्स्तनाधिष्ठानतया भगवतस्तदङ्कारोहणाच्च शुद्धसत्त्वम- यतामापन्नात् पूतनाशवशरीरादित्यर्थः । अत एव सत्त्वकार्यत्वाद् धूमस्यागरवा- दिशङ्का ॥ ३॥ मदङ्गसङ्गन्स्य फलं न दूरे क्षणेन तावद् भवतामपि स्यात् । इत्युल्लपन वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥४॥ मदिति । मम ब्रह्ममयस्थाङ्कारोपणलालनादौ योऽङ्गसङ्गस्तस्य फलं मुक्तिन दूरे जन्मान्तरे, यथा मां हन्तुमिच्छन्त्या अस्याः पिशाच्याः । भवतां मद्योगक्षे- मैकचित्तानां क्षणेन । वल्लवतल्लजेभ्यो भाग्यवत्तया प्रशस्तेभ्यो गोपालकेभ्यः इत्युल्लपन इति सम्यग् बोधनार्थमेव त्वं पूतनां सुगन्धिमातनुथाः ॥ ४ ॥ चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ५ ॥ चित्रमिति । पुरैव 'इह च सन्त्यनिमित्तशतानी'त्यादिनेदं भयं शौरिणा वसु- देवेनाकथि कथितमिति शौरि प्रशंसन् भवन्मुखालोके रस आनन्दस्तस्मिन् न्यमानीद् निमग्नोऽभूत् ॥ ५॥ दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् । भवन्त्रिवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥६॥ दिने दिन इति । व्रजो व्रजजनः परितः प्रमोदसान्द्र इति स्थिरचराणाम- प्यानन्दातिशय उक्तः ॥ ६ ॥ गृहेषु ते कोमलरूपहासमिथ कथासङ्कुलिताः कमन्यः ! वृत्तेषु कृत्येषु भवनिरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ७॥ गृहेष्विति । कोमलयो रूपहासयोमिथःकथया सङ्कुलिताः सव्यापाराः । वृत्तेष्ववसितेषु ॥ ७ ॥ १. 'पलोके' क, ख. पाठः. २. 'न्स' ख. पाठ:.

दशकम् - ४२] शकटासुरवधवर्णनम् । अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रति वत्सकेन । एडहि मामित्युपसार्य पाणिं स्वयीश! किं किं न कृतं वधूभिः ॥८॥ अहो इति । हे ईश! विष्णो! त्वयि गोपबालरूपिणि वधूभिरङ्कारोपणाश्ले- षचुम्बनलालनादि किं किं न कृतम् , अहो भाग्यवत्यन्ता इति भावः ॥ ८ ॥ भवद्वपुःस्पर्शनकौतुकेन करात करं गोपवधूजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ ९ ॥ भवदिति । वधूजनपाणिपरम्पराया अरुणसरोजमालायमानतया तव च तयालम्बिप्रतिनवमधुलुब्धलोलम्बदेशीयतया तत्तुलामलासीः कलितवानसीत्यर्थः ।। निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे! गदान्माम् ॥१०॥ । निपाययन्तीति । यशोदा कतमां कीदृशी दशां विस्मयौत्सुक्यापायशङ्का- दैवप्रार्थनवैवश्यादिरूपामवस्थां न भेजे प्राप्तवती ॥ १० ॥ इति पूतनाशरीरदाहवर्णनं बालकलालनेन यशोदादीनां निरतिशयानन्दवर्णनं च एकचत्वारिंशं दशकम् । कदापि जन्मक्षदिने तव प्रभो! निमत्रितज्ञातिवधूमहीसुरा । महानसस्त्वां सविधे निधाय सा महानसादी ववृते व्रजेश्वरी ॥१॥ कदापीति । निमन्त्रिता आमन्त्रिता ज्ञातयस्तद्वध्वो महीसुराश्च यया । मह- तोऽनसः शकटस्य । महानसादौ पाकगेहादौ ववृते प्रवृत्ताभूत् ॥ १ ॥ ततो भवतत्राणनियुक्तबालकमभीतिसङ्क्रन्दनसल्कुलारवैः । विमिश्रमश्रावि भवत्समीपतः परिस्फुटदारुचटचटारवः ॥ २ ॥ * अलासीरिति 'ला आदाने' इत्यतो लुङ् ।

नारायणीये स्कन्धः-१० तत इति । भवतः तव बालकस्य त्राणे रक्षणे यशोदया नियुक्तानां बाल- कानां शकटपतनचटचटाशब्दोत्थया प्रभीत्या संक्रन्दनस्याक्रन्दनस्य बहुभिः कृत- त्वात् सङ्कुलारवैः प्रवृद्धारवैर्विमिश्रं यथा भवति तथा परिस्फुटतां विघटितसन्धि- बन्धानां दारूणामनोवयवानामारवोऽश्रावि यशोदादिभिः श्रूयते स्म ॥ २ ॥ ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः। भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतदारुणदारुमध्यगम् ॥ ३ ॥ तत इति । ततस्तदाकर्णनेन प्राग्वत् किमिदमिति सम्भ्रमण स्वस्वगेहान्न- न्दगेहं प्रति धावनपरिश्रमेण च प्रकम्पिनौ वक्षोजभरौ यासां ताः अन्तर्भवनान्ते समन्ततः परितो विनिप्पततां दारुणानां गुरुतराणां दारूणामक्षकूबराधनोवयवानां मध्यगं ददृशुः ॥ ३ ॥ शिशोरहो कि किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः। भवन्तमालोक्य यशोदया धृतं समाश्वसनश्रुजलार्द्रलोचनाः॥ ४ ॥ शिशोरिति । नन्दादयः प्रधाव्य वेगादागत्य यशोदया धृतमुद्धृतमवलोक्य समाश्वसन् आश्वासं कृतवन्तः ॥ ४ ॥ कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः॥५॥ कस्क इति । कस्को नु कौतस्कुतः कः कः कीदृशः कुतः कुतः कस्मात् कारणादागतः । सम्भ्रमाद् द्विरुक्तिः । विशङ्कटं विस्तृतं विपाटितं केनापि भिन्नाव- यवं कृतम् । इह न किञ्चित् कारणं, यतोऽस्मरणीयैवंविधसामर्थ्यो बालकः । स्व- नासिकादत्तकरा इति विस्मयानुभावः ॥ ५ ॥ । कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् । मया मया दृष्टमनो विपर्यगादितीश! ते पालकबालका जगुः ॥६॥ १ 'त: स्वबा' ख. ग. पाठः. २. 'त आगतः कौतस्कृतः, कुतः क' क. पाठः, दशकम् -४२] शकटासुरवधवर्णनम् । कुमारकस्यति । कुमारकस्य पदाम्बुजाभ्यामाहतमनो विपर्यगाद् व्यत्य- स्तावयवमभूद् , मया दृष्टं मयापि दृष्टमिति बालका जगुः ॥ ६ ॥ । मिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः। भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्कयत दृष्टपूतनः ॥७॥ भियेति । इदं वचोऽतिदुर्घटमत्यन्तानुपपन्नम् । अत्र हेतुः-- कुमारकाणां बालानां विशेषतस्तदा भिया किञ्चिदप्यजानतामिति । भवतः प्रभावः शक्तिस्तद- विदुरैस्तदनभिज्ञैः कैश्चिदितीरितमुक्तम् । दृष्टपूतनैनन्दोपनन्दादिभिर्मनागीषत् त्व- प्रभावादिदमित्थमित्याशङ्कयतैव ॥ ७ ॥ प्रवालतानं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ । इति प्रसपत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः॥८॥ प्रवालति । पदं क्षतं व्रणितं किं, करौ विरोजितौ भग्नौ न्विति वदन्त्यः प्रसर्पन्त्या करुणया तत्कार्यसन्तताश्रुधारापनयनप्रवृत्त्या तरङ्गिताश्चलिता अङ्गना गोप्यस्त्वदङ्गं मन्दं मन्दमापस्पृशुः ॥ ८ ॥ अये सुतं देहि जगत्पतेः कृपातरङ्गपातात् परिपातमद्य मे । इति स्म सङ्ग्रह्य पिता त्वदङ्गकं मुहुर्मुहुः श्लिष्यति जातकण्टकः ॥९॥ अये इति । अपायनिश्चये सत्यतथादर्शनादये इत्यतर्कितोपनते । जगत्पते- विष्णोः : कृपातरङ्गपातात् करुणालवप्राप्तेरद्य परिपातं रक्षितं मे सुतं देहीति पिता नन्दः श्लिष्यति स्म ॥ ९ ॥ अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः। रजोऽपि नो दृष्टममुष्य तत् कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥ अनोनिलीन इति । अनोनिलीनस्तद्रूपः । ननु विहिंसित इत्युक्तं, तत् नारायणीये [स्कन्धः-१० कथम् अमुप्य शकटासुरम्य रजोऽपि रजोमात्रतयापि शरीरं नो दृष्टमित्याशय आ ज्ञातमित्याह - स इति । स दैत्यः सशरीर एवं त्वयि निलनिवान् ध्रुवं निश्चि- नोमि । रजोऽपि नो दृष्टमतस्तमसः का कथा । रजस्तमोविलये च त्वयि लीन- वान् इत्युक्तियुक्तिमतीत्यर्थः ॥ १० ॥ प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः । व्रजं निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश ! रुजां जहीहि मे ॥ ११ ॥ प्रपूजितेरिति । भविष्यदपायशङ्कया विशेषतो लम्भिताः प्रापिता मङ्गल- रूपा आशिषोऽनुग्रहा यस्य स त्वं मे रुजां रोगं जहीहि त्यज ॥ ११ ॥ इति शकटासुरवधवर्णनं द्विचत्वारिंशं दशकं सैकम् । त्वामेकदा गुरुमरुत्पुरनाथ! वोढुं गाढाधिरूढगरिमाणमपारयन्ती। माता निधाय शयने किमिदं बतेति ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥१॥ वामिति । त्वां गाढाधिरूढगरिमाणमतिशयेन प्राप्तगुरुत्वं वोढुम् अङ्केनो- द्धर्तुमपारयन्त्यशक्नुवती माता यशोदा शयने निधाय किमिदं बतेति निविष्टा शङ्का यस्यां सा त्वां ध्यायन्ती गृहेष्वचेष्टत ॥ १ ॥ तावद् विदूरमुपकर्णितघोरघोप- व्याजृम्भिपांसुपटलीपरिपूरिताशः। वात्यावपुः स किल दैत्यवरस्तृणाव- ताख्यो जहार जनमानसहारिणं त्वाम् ॥ २॥ $ 'अच्' (५-४-७५) इति योगविभागाद् अच्प्रत्ययः समासान्तः पद्मनाभवत । आशिष- शब्द एव वा स्वार्थाणन्तः समासे घटितः प्रज्ञादेराकृतिगणत्वात् ।

दशकम् -४३] तृणावर्तबधवर्णनम् । तावदिति । विदूरं दूरादेवोपकर्णितेन घोरघोषेण व्याजृम्भिन्या प्रवृद्धया पांसुपटल्या च परिपूरिता दशाशा येन । वात्या वातसमूहस्तद्वपुस्तृणावर्ताख्यो जनानां मानसहारी त्वं, तं त्वामेव जहार ॥२॥ उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके । हा बालकस्य किमिति त्वदुपान्तमाप्ता माता भवन्तमविलोक्य भृशं रुरोद ॥ ३॥ उद्दामेति । उद्दामाभ्यां पांसुतिमिराभ्यामाहतो दृष्टिपातो यस्य । अतः किमपि द्रष्टुमकुशलेऽसमर्थे बालकस्य किं जातमिति ॥ ३ ॥ तावत् स दानववरोऽपि च दीनमूर्ति- र्भावत्कभारपरिधारणलूनवेगः। सङ्कोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनादः॥४॥ तावदिति । दीनमूर्तिः क्षीणशरीरः । भावत्को भवदीयो भारो गुरुत्वं तस्य परिधारणेन लूनवेगो नष्टगमनवेगः सङ्कोचं निश्चेष्टतामाप । तदनु अनन्तरं क्षता नष्टाः पांसवो घोषश्च यस्मिन् तस्मिन् घोषे ब्रजे व्यतायत व्याप्तोऽभूत् ॥ ४ ॥ रोदोपकर्णनवशादुपगम्य गेहं क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु- स्त्वय्यप्रमुञ्चति पपात वियत्पदेशात् ॥ ५॥ रोदेति । यशोदाया रोदोपकर्णनवशात् तस्या गेहमुपगम्य । कण्ठे बाहुभ्यां बद्धं त्वां मुमुक्षुः । दीनः क्षीणजीवितः ॥ ५ ॥ रोदाकुलास्तदनु गोपगणा बहिष्ट- पाषाणपृष्ठभुवि देहमतिस्थविष्टम् ।

१७० नारायणीये [स्कन्धः-१० प्रेक्षन्त हन्त निपतन्तममुष्य वक्ष- स्यक्षीणमेव च भवन्तमलं इसन्तम् ॥ ६॥ रोदेति । तदनु निपतन्तमतिस्थविष्ठं स्थूलतरं तृणावर्तस्य देहम् अमुष्य वक्षसि निपतन्तं भवन्तं च प्रेक्षन्त, यतोऽलं हसन्तम् अतोऽक्षीणमेव च प्रेक्षन्तेत्यर्थः ॥ ६ ॥ ग्रावप्रपातपरिपिष्टगरिष्ठदेह- भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । आनानमम्बुजकरेण भवन्तमेत्य गोपा दधुगिरिवरादिव नीलरत्नम् ॥७॥ ग्रावेति । ग्रावप्रपातेन पाषाणपृष्ठनिपतनेन परिपिष्टश्चूर्णीकृतो गरिष्ठो यो देहस्तस्माद् भ्रष्टा असवो यस्य तस्य दुष्टदनुजस्योपरि अम्बुजकरेणानानं मया हतोऽयमिति दिविष्टान् ग्राहयितुं निघ्नन्तमिव चलितकराम्बुजम् अत एव धृष्टहासं कपटहासयुक्तं गोपा दधुरुद्धृतवन्तः ॥ ७ ॥ एकैकमाशु परिगृह्य निकामनन्द- नन्दादिगोपपरिरब्धविचुम्बिताङ्गम् । आदातुकामपरिशन्तिगोपनारी- हस्ताम्बुजापतितं प्रणुमो भवन्तम् ॥ ८॥ एकैकमिति । एकैकं मृदुकरचरणादिकं परिगृह्य निकाममतिशयेन नन्द- द्भिर्मोदमानैर्नन्दादिभिः परिवार्य युगपत् परिरब्धानि विचुम्बितानि चाङ्गानि यस्य । आदातुकामेति मामादातुकामेयमिति परिशङ्कितानां गोपनारीणां हस्ताम्बुजेषु प्रपतितं हस्तप्रसारणात् पूर्वमेव निपत्य ता आकुलीकुर्वन्तम् ॥ ८ ॥ भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी गोविन्द एव परिपालयतात् सुतं नः । * कुर्म इत्यर्थः । कृवि हिंसाकरणयोश्व' ।

१७१ दशकम् -४४] कृष्णस्य जातकर्मनामकरणवर्णनम् । इत्यादि मातरपितृप्रमुखैस्तदानी सम्पार्थितस्त्वदवनाय विभो ! त्वमेव ॥९॥ भूय इति । भूयोऽप्येवंविधसङ्कटेषु गोविन्दो विष्णुरेव नः सुतं परिपाल- यतात् ॥ ९॥ वातात्मकं दनुजमेवमयि प्रधन्वन् वातोद्भवान् मम गदान् किमु नो धुनोपि । किं वा करोमि पुनरप्यनिलालयेश! निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥१०॥ वातेति । वातात्मकं तृणावर्त प्रधून्वन् निगृह्णन् हे अनिलालयेश! तव वातालयस्थत्वे वातनिग्राहकत्वे च सत्यपि मम वातोद्भवान् गदान किमु नो धुनोषि मत्प्रारब्धकर्मदोषादिति चेत् किं वा करोमि । अपि वा पुनः प्रारब्धावसाने स्थूल- सूक्ष्मदेहद्वयपातेन निःशेषाणां बाह्यानां वातादीनामान्तराणां रागादीनामपि रोगाणां शमनं मोक्षमप्यर्थये प्रार्थयामि ॥ १० ॥ इति तृणावर्तवधवर्णनं त्रयश्चत्वारिंशं दशकम् । SHARASITCOINDE अथ श्लोकदशकेन गर्गस्य नामकरणजातकर्माख्याने दर्शयति गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । हृद्तहोरातत्त्वो गर्गमुनिस्त्वद्गृहोन् विभो ! गतवान् ॥१॥ - गूढमिति । परमार्थतो निष्क्रियस्यापि मनुष्यदृष्ट्या कर्तव्यान् संस्कारान् नामकरणादीन् हृद्तहोरातत्त्वः सम्यग विदितज्योतिश्शास्त्रयाथार्थ्यः ॥ १ ॥ नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् । मन्दास्मतामूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥२॥ 1. 'धे सटे गो' क. ग, पाठः. २. 'है' क. पाठः. RAN १७२ नारायणीये स्कन्धः-१० नन्द इति । नन्दितात्मा सन्तुष्टः यमिनां मुनीनां वृन्दिष्ठं श्रेष्ठं मानयन् यथाविधि पूजयन् ॥ २ ॥ यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य! कार्यमिति कथयन् । गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥३॥ यद्विति । मम यदुवंशाचार्यत्वान्मया संस्कृते तव पुत्रे कंसस्य यदुकुमारशका स्यात् । तत्परिहाराय सुनिभृतमतिगृढमिदं कार्यम् । त्वत्स्पर्शान्निर्गतपुलकः ॥ ३ ॥ कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनानो वा। इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो! ॥४॥ कथमिति । अनन्तनाम्नः कथं नाम कुर्वे । कथं कानिचिन्नामानि कृतवा- निति पृष्टः किं ब्रूयामिति विषण्णो नाम मुनिस्तव नाम रहसि चक्रे ॥ ४ ॥ कृष्णनाम निर्वक्ति Garum कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । जगदधकार्पित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥५॥ तयोः सामा- कृषीति । कृषिधातुः सत्तावाचकः, णकार आनन्दवाचकः, नाधिकरण्येन कृष्णनाम सत्तानन्दात्मतामभिलपत् परब्रह्मवाचकं भवति । किलश- ब्दोऽत्र पुराणप्रसिद्धिं द्योतयति । तदुक्तं- “कृषि वाचकः शब्दो णश्च निवृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥" इति । अथवा जगतामघं कर्षतीति कृष्ण इति निर्वचनमित्याह -जगदिति । कथयदिति नामविशेषणम् ॥ ५ ॥ अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत् त्वामप्रकाशयन् पित्रे ॥६॥ १. 'प्य क. पाठः, दशकम् -४४] कृष्णस्य जातकर्मनामकरणवर्णनम् । अन्यानिति । अन्यांश्च वासुदेवादीन् व्याकुर्वन्नन्वर्थतया कथयन् प्राक् कदाचिद् वसुदेवाज्जातोऽयं तव पुत्रः । तस्माद् वासुदेव इति चास्य नामास्तु । किञ्च मानुषानतिक्रम्य वर्तत इत्यतिमानुषानुभावं त्वां विष्णुमप्रकाशयन् जातक- दृष्टया पित्रे नन्दाय न्यगद्दुक्तवान् ॥ ६ ॥ तदाह शोकः। स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकैः द्रुह्यति यः स तु नश्येदित्यवदत् ते महत्त्वमृषिवर्यः॥७॥ स्निह्यतीति । यस्तव पुत्रे लिह्यति यः कृष्णभक्तो भवति, स मायिकैः शोकैन मुह्यति न जननमरणादिदुःखमनुभवति । तव पुत्राय द्रुह्यति यो यः कृष्णाद् विमुखो भवति, स तु नश्येत् संसारी स्यादिति गूढार्थरूपं ते महत्त्वमृषिवर्योऽव- ददित्यर्थः ॥ ७ ॥ जेष्यति बहुतरदैत्यान् नेष्यति निजवन्धुलोकममलपदम् । श्रोष्यसि मुविमलकीतीरस्येति भवद्विभूतिमृपिरूचे ॥८॥ जेष्यतीति । अमलपदं निष्कलब्रह्म नेष्यति प्रापयिष्यति । अस्य तव पुत्रस्य सुविमलाः पापहराः कीर्तीरयं लोकः श्रीप्यतीति भवतो विभूतिमैश्वर्यम् ॥ ८॥ अमुनैव सर्वदुर्ग तरितास्थ कृतास्थमत्र तिष्ठध्वम् । हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥९॥ अमुनेति । यूयममुना पुत्रेणैव सर्वदुर्ग सङ्कटजातं तरितास्थ तरिष्यथ । कृतास्थं कृतादरं यथा भवति तथात्रास्मिन् पुत्रे तिष्ठध्वं विश्वस्ता भवत । हरिर- यमित्येवानभिलपन त्वामुद्दिश्य इत्यादि श्रीकृष्णावतारकार्यमखिलं स गर्गमुनिरव- र्णयत् ॥ ९॥ १. 'ति' क. ख. पाठः. २. ति चास्ये' क. पाठः.

नारायणीये स्किन्धः-१. १७४ गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्धमानस्त्वम् । मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ १० ॥ गर्ग इति । नन्दितैर्मुदितैनन्दादिभिर्नन्द्यमानो लाल्यमानो मम गदं रोगं निर्गमय निराकुरु ॥ १० ॥ इति कृष्णस्य जातकर्मनामकरणवर्णनं चतुश्चत्वारिंशं दशकम् । अयि सबल! मुरारे! पाणिजानुप्रचारैः किमपि भवनभागान् भूषयन्तौ भवन्तौ । चलितचरणकळे मजुमञ्जीरशिञ्जा- श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ १॥ अयीति। पाणिजानुप्रचारैः पाणिद्वयेन जानुद्वयेन च कृतैश्चमणैर्भवनभागा- नलिन्दादिप्रदेशान् , एकत्र चिरमनवस्थानात् किमपि कञ्चित् कालं भूषयन्तौ चलिते चरणकले पादाम्बुजे मञ्जुमञ्जीरशिञ्जाश्रवणकुतुकभाजौ यतः, अतो वेगाच्चेरतुः ।। मृदु मृदु विहसन्तावुन्मिषदन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरान्तव्यालगत्कङ्कणाङ्को मतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥२॥ मृद्विति । अन्तरान्तरा यत्किञ्चिदवलोक्य मृदु मृदु विहसन्तावत एवोन्मि- षद्दन्तवन्तौ दृश्यमानकतिपयदन्तमुकुलौ । अघिद्वयाकर्षणे दृश्यौ ध्वजवज्राद्यङ्कि- "तत्वेन दर्शनीयौ पादाब्जदेशौ ययोः । भुजगलितेति भुजोपरिदेशाद् गलितत्वान्म- 'णिबन्धलमकङ्कणैः सञ्जातपरभागौ युवां विश्वेषां नृणां मतिमुच्चैरतिशयेनाहरतं जहथुः ॥ २ ॥ १. 'नौ' मूलपाठः दशकम् --४५] कृष्णस्य बालक्रीडावर्णनम् । अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । वलितवदनपग पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव ! ॥ ३ ॥ अन्विति । जनौघेऽनुसरति सति द्रवन्तौ वेगेन चरन्तौ ततो दूरस्थे जनौ- घे वलितवदनपमं तिर्यक्कृतमुखपद्मं यथा तथा पृष्ठतो दत्तदृष्टी, किमिवेति अति- शयेन कौतुकं विदधाथे अजनयतमित्यर्थः ॥ ३ ॥ द्रुतगतिषु पतन्तावृत्धितो लिप्तपङ्को दिवि मुनिभिरपझैः सस्मितं वन्धमानौ । द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ मुहुरपि परिरब्धौ द्राग् युवां चुम्बितौ च ॥४॥ द्रुतेति । द्रुतगतिषु वेगेन सञ्चरणेषु व्रजकर्दमे पतन्तौ दिवि द्रष्टुमागतैर्मु- निभिरस्मानपङ्कीकर्तुं समर्थावेतो स्वयं लिप्तपको अधःपतनभयेन यावाश्रयामस्तौ स्वयं पतन्ताविति सस्मितम् , अहो भक्तपारतन्त्र्यमीश्वरयोरिति वन्द्यमानौ ॥ ४ ॥ स्नुतकुचभरमके धारयन्ती भवन्तं तरलमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप! मध्ये मुग्धहासाङ्कुरं ते दशनमुकुलहृद्यं वीक्ष्य वक्रं जहर्ष ॥५॥ , स्नुतेति । स्नुतं प्रसृतस्तन्यं कुचयुगं यस्मिन् , तरला कृपाकुला मतिर्य- स्मिन् इति च क्रियाविशेषणम् । तथा भवन्तमङ्के धारयन्ती या स्तन्यं ददाति, सा यशोदा धन्यधन्या । हे कपटपशुप! स्तनपानमध्ये ते दशनमुकुहृद्यं मुग्धो हा- साङ्कुरो मन्दस्मितं यस्मिन् तद् वक्रं वीक्ष्य जहर्ष सन्तुष्टाभूत् ॥ ५ ॥ तदनु चरणचारी दारकैः साकमारा- निलयततिषु खेलन् बालचापल्यशाली।

नारायणीये
[स्कन्धः-१०
भवनशुकविडालान् वत्सकांश्चानुधावन्
कथमपि कृतहासर्गोपकैर्वारितोऽभूः ॥ ६ ॥
तदन्विति । आरात् समीपस्थासु निलयततिषु भवनान्तरेषु खेलन्
गच्छन् ॥ ६ ॥
गोपीनां भवढनुसरणैकचित्ततया गृहकृत्यादिष्वपि विस्मृतिर्जातेत्याह-
हलधरसहितस्त्वं यत्र यत्रोपयातो
विवशपतितनेत्रास्तत्र तत्रैव गोप्यः।
विगलितगृहकृत्या विस्मृतापत्यभृत्या
मुरहर! मुहुरत्यन्ताकुला नित्यमासन् ॥७॥
गोपीनां नवनीतादिपणेन त्वं तदर्शनार्थ नर्तनाद्यपि कृतवानसीत्याह-
प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
कलपदमुपगायन् कोमलं कापि नृत्यन् ।
सदययुवतिलोकैरर्पितं सर्पिरश्नन्
कचन नवविपकं दुग्धमप्यापिबस्त्वम् ॥ ८॥
मम खलु बलिगेहे याचनं जातमास्ता-
मिह पुनरवलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव! सन्त्यज्य याच्यां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ ९ ॥
ममति । मम बलिगेहे प्राग याचनं जातम् । तत्तु बलेर्बलित्वादेव नास्माकं
दैन्यापादकमित्यास्तां खल्वेतत् । इह तद्विपरीतानामबलानामग्रतस्तन्न कुर्वे इति
विहितमतिनिश्चितचित्तश्चारुणा विचित्रोपायरचितेन चोरणेन स्तेयकर्मणा ॥ ९ ॥
तव दधिघृतमोषे घोषयोषाजनाना-
मभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
स मम शमय रोगान् वातगेहाधिनाथः ॥ १० ॥

दशकम् -४६] विश्वरूपप्रदर्शनवर्णनम् । तवेति । दधिघृतयोोपे मोषणे घोषयोपाजनानां गोपस्त्रीणां मोषके त्वयि रोषो द्रव्यनाशे शोकश्चावकाशमास्पदं नाभजत । कम्मादित्यत्राह --- हृदयमिति । मुषित्वापहृत्य । नन्वपहृतं हृदयं यत्र तत्र रोषशोको प्राप्नुयातामेव । तत्राह हर्षसिन्धाविति । यथा जलस्थे काप्टे ज्वलनप्रवेशोऽशक्यः, तद्वद्धर्षसिन्धुस्थे हृदये तद्विरुद्धयो रोषशोकयोरप्यनवकाश इति भावः ॥ १० ॥ *शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्यां च तातं मुहुः सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तवाही त्वयि । चित्रं देव! शशी स ते करमगात् किं महे सम्पत- ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराङ्पताम् ॥ ११ ॥ *किं किं बतेदमिति संभ्रममाजमेनं ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । मायां पुनस्तनयमोहमयीं वितन्व- नानन्दचिन्मय! जगन्मय! पाहि रोगात् ॥ १२ ॥ इति कृष्णस्य बालक्रीडावर्णनं पञ्चचत्वारिंशं दशकं सद्विकम्। अयि देव! पुरा किल त्वयि स्वयमुत्तानशय स्तनन्धये । परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥१॥ अयीति । अयि देव! क्रीडापर ! पुरातिशैशवे स्वयं साक्षादीश्वरे त्वयि उत्तानशय ऊर्ध्वमुखशायिनि । स्तनं धयति पिबतीति स्तनन्धयः । परिजृम्भणतो मुखविजृम्भणदशायां व्यपावृते विदारिते वदने आस्ये विश्वमचष्ट दृष्टवती । वल्लवी यशोदा ॥ १ ॥ पुनरप्यथ वालकैः समं त्वयि लीलानिरते जगत्पते । फलसञ्चयवञ्चनकुधा तव मृद्भोजनमूचुरर्भकाः॥२॥ १. 'ति । न केवलं दधिघृतमोषणमेव कृतवान् , तासां हृदयमपि मुषित्वा तच्च हर्षसिन्धौ न्यधाः ॥ ग. पाठ:. * पद्यस्यमिदं क, पुस्तके परं दृश्यते । तत्रापि न व्याख्या दृश्यते ।

१७८ नारायणीये [स्कन्धः-१० पुनरिति । पुनरपि किञ्चिद्वयोतिक्रमणे सति त्वयि बालकैः समं सह ॥ २ ॥ अयि ते प्रलयावधी विभोः क्षितितोयादिसमस्तभक्षिणः। मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥३॥ अयोति । प्रलय एवावधिः प्रलयावधिः । प्रत्यहमिव प्रतिप्रलयं क्षित्यादिस- मस्तं प्रपञ्चं भक्षयितुं शीलमन्येति तथा तस्य ते मृदुपाशनतः क्षितिलवमात्रभक्षणेन रुजा रोगो भवेत् ॥ ३॥ अयि दुर्विनयात्मक ! त्वया किमु मृत्सा वत वत्स ! भक्षिता । इति मातृगिरं चिरं विभो! वितथा त्वं प्रतिजज्ञिपे हसन् ॥४॥ अयीति । वितथामयथार्थी प्रतिजज्ञिरे प्रतिज्ञातवानसि ॥ ४ ॥ अयि ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् । इति मातृविभसितो मुखं विकसत्पद्मनिभं व्यदारयः॥५॥ अयीति । सकलैस्त्वत्सखिभिस्तवाग्रजेन च विनिश्चिते मृद्धोजने तवैकस्य विमतिर्विवादोऽस्ति चेत् सन्देहहानाय वदनमास्यं विदार्यतामिति मात्रा विभर्सि- तोऽधिक्षिप्तः विकसत्पद्मनिभं यथा भवति तथा व्यदारयः ॥ ५ ॥ अयि मुल्लबदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः॥६॥ अयीति । बहु अतिशयेन तर्पयन् प्रीणयन् अदीदृशः प्रदर्शयामासिथ ॥ कुहचिद् वनमम्बुधिः क्वचित् कचिदभ्रं कुहचिद् रसातलम् । मनुजा दनुजाः कचित् सुरा ददृशे किं न तदा त्वदानने ॥७॥ कुहचिदिति । तवान्तर्भागे कुहचित् कुत्रचित् ॥ ७ ॥ कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् । स्वपुरश्च निजाभकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥८॥ १. 'पि' क.ग पाठा । २. द स्व. पाठ, ।

दशकम् -४७] कृष्णस्योलूखलबन्धनवर्णनम् । १७९ - कलशेति । कलशाम्बुधिशायिनं क्षीराब्धौ शेषपर्यशायिनं, पुनस्ततः पर- वैकुण्ठपदाधिवासिनं, स्वस्य पुरः पुरतो निजाभकात्मकं यशोदातनयरूपं त्वां सा कतिधा न ददर्श ॥ ८॥ ननु यशोदा स्वसुतस्यास्ये स्वसुतं ददर्शेन्युक्तं, तस्याप्यास्ये किं भुवनानि विद्यन्ते न वेति शङ्कायामा- विकसभुवने मुखोदरे ननु भूयोऽपि तथाविधाननः। अनया स्फुटमीक्षितो भवाननवस्थां जगतां वतातनोत् ॥९॥ विकसदिति । विकसन्ति भुवनानि यस्मिस्तद् विकसद्भुवनं प्रकाशितब- माण्डं तस्मिन् मुखोदर आस्ये तथाविधं विकसद्भुवनमाननं यस्य स भवाननया स्फुटं स्पष्टमीक्षितः जगतां प्रपञ्चानामनवस्थामनवसानताम् । अयमर्थः---यशोदा स्वसुतस्यास्ये जगत् स्वसुतं च ददर्श । तस्यापि स्वसुतस्यास्ये जगत् स्वसुतं च ददर्श, पुनस्तस्याप्येवं, पुनश्च तस्यापि । एवं दर्पणस्थप्रतिबिम्बदर्पणानवस्थावद् भवान् जगतामनवस्थामातनोदिति ॥ ९ ॥ धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमम्ब! दिशेत्युपासेजन भगवनद्भुतवाल! पाहि माम् ॥ १०॥ धृतेति । तस्यान्तर्भागेऽनेकब्रह्माण्डस्य तद्वहिष्ठवैकुण्ठलोकस्यापि दर्शनात् तबहिष्ठायाः प्रकृतेः परं सच्चिदानन्दाद्वयं ब्रह्मैवेदं योगैश्चर्येण मत्पुत्रभावेनात्मानं प्रदर्श्य मोहयतीति क्षणं धृता तत्त्वधीः सम्यग्ज्ञानं यया तामुपासजन्नङ्कमारुरुक्षन् अनेकब्रह्माण्डदर्पणस्थानीयत्वादद्भुतबाल! ॥ १० ॥ इति विश्वरूपप्रदर्शनवर्णनं षट्चत्वारिंशं दशकम् । एकदा दधिविमाथकारिणी मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयनङ्कमेत्य पपिवान् पयोधरौ ॥१॥ एकदेति । दध्नो विमाथो विमथनं तत् करोतीति तथा । समुपसेदिवान् समीपं प्राप्तवान् । अङ्कमेत्यारुह्य निवारयन् दधिविमथनमिति शेषः ॥ १ ॥ १. "स्ये स्वात्मानं स्वसुतं च द' ग. पाठः. २. 'व्र क. पाठः. ३. 'ब्र' क. ख. पाठ;. ।

१८० नारायणीये स्कन्धः-१० अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे । दुग्धमीश! दहने परित्रुतं धर्तुमाशु जननी जगाम ते ॥२॥ अर्धेति । त्वय्यर्धपीतकुचकुड्मलेऽतृप्ते तदन्तरा मात्राङ्गुलीभ्यां कपोल- तलचालनात् स्निग्धहासमधुराननाम्बुजे च सति ॥२॥ । । सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ॥३॥ सामीति । सामिपीतस्यार्धपीतस्य रसस्य स्तन्यस्य भङ्गेन विच्छेदेन सङ्गतः प्राप्तो यः क्रोधभारस्तेन परिभूतमावेशितं चेतो यस्य स तथा ॥ ३ ॥ उच्चलद् ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाहृता। त्वद्यशोविसरवद् ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥४॥ उच्चलदिति । उच्चकैः पूर्णकुम्भपाटनेन सातिशयमुच्चलदुद्गतं ध्वनितं शब्दं निशम्य समाद्रुता वेगेनागता । यशसो विसरो व्याप्तिः। सद्यः समाद्रुता दध्येव ददशैत्यनेन तव नवनीतमोषणार्थमन्यतो गमनं व्यज्यते ॥ ४ ॥ वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ ५ ॥ वेदेति । असौ यशोदा मुनिभिर्वेदमार्गः काण्डत्रयात्मकैः परिमार्गितं न दृष्टं तं त्वां रुषा, न भक्त्या, परिमार्गयन्त्यन्वेषणं कुर्वन्ती सम्यक् चाक्षुषतया ददर्श । अतः सुकृतिनी नवनीतभाजनाधःस्थितोलूखलेऽग्रपादेन स्थित्वौतवे मार्जा- राय दीयमानं नवनीतं येन तम् ॥ ५ ॥ त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥६॥ त्वामिति । नाट्यवद् भीतिभावनया भासुरमाननसरोज यस्य तं त्वाम् । रोषेण रूषितं भ्रूभङ्गदशनच्छददंशननेत्ररक्तिमादिभिश्चिद्वैरङ्कितं मुखं यस्याः । सखीनां पुरः पुरोभागे रशनां पाशम् ॥ ६ ॥ । ।

दशकम्-४७ कृष्णस्योलूखटबन्धनवर्णनम् । १८१ बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती । सा नियुज्य रशनागुणान् बहून् धगुलोनमखिलं किलैक्षत ॥ ७ ॥ बन्धुमिति । आयि भगवन् ! यं सज्जनो मोक्षार्थी बन्धुं शरणमिच्छति, तं भवन्तं सा यशोदा पाशेन बन्धुमिच्छती रशनागुणान् बहून् नियुज्य त्वदङ्गे निक्षिप्य व्यङ्गुलोनतया पुनः पुनर्निक्षिप्याखिलमपि रशनागुणं यङ्गुलोनमै- क्षत दृष्टवती किल ॥ ७ ॥ विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुपं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे! वन्धमेव कृपयान्वमन्यथाः ॥ ८॥ विस्मितेति । व्यङ्गुलोनतादर्शनेन विस्मितैरत एवोत्स्मितैः सखीजनैरी- क्षितां स्विन्नं स्वेदा, सन्नं क्लान्तं च वपुर्यस्यास्ताम् । नित्यमुक्तं परब्रह्माख्यं वपुर्यस्य स त्वं रशनागुणैर्बन्धं बन्धनमेवान्वमन्यथा अनुज्ञातवान् ॥ ८ ॥ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा। प्रागुलूखलविलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥ ९ ॥ स्थीयतामिति । सा त्वां बद्ध्वा हे खल! त्वया चिरमुलूखले स्थीयता- मित्युक्त्वा भवनमेवागता यदा, तदा प्रागुलूखलबिलान्तरेऽर्पितं सर्पिर्नवनीतमदन्न- वास्थिथाः स्थितवानसि ॥ ९ ॥ यद्यपाशसुगमो भवान् विभो! संयतः किमु सपाशयानया। एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ॥ १० ॥ यदीति । अपाशानामपगतविषयश्रद्धानां सुगमः सुखेन प्राप्तुं शक्यः । एवं सति सपाशया पाशसहितयानया यशोदया किमु कथं संयतो बद्धः ॥ १०॥ इति कृष्णस्योलूखलबन्धनवर्णनं सप्तचत्वारिंशं दशकम् । Havale

१८२
नारायणीये
स्किन्धः-१०
मुदा सुरौघैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः ।
मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः॥१॥
मुदति । प्रागेवोदारसम्मदैः प्रवृद्धसन्तोषैः सुरौधैर्दानोदरे बद्धत्वाद्धेतोर्दा-
मोदर इत्युदीर्य सम्बोध्य मुदाभिष्टुतः मृदु बन्धनायोग्यमुदरं यस्य स त्वं स्वैरं
यथासुखं लगन् लग्नः सन् ककुभौ वृक्षावुदैक्षथाः दृष्टवानसि ॥ १ ॥
कुबेरमूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥२॥
कुबेरेति । परोऽन्यः सुतो मणिग्रीव इति प्रथां प्रसिद्धिं गतः । महेशस्य
शिवस्य सेवयाधिगतया प्राप्तया श्रियोन्मदौ प्रवृद्धमदौ त्वद्विमुखौ विष्णुविमुखा-
वखेलतां चेरतुः किल ॥ २ ॥
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्भहुयौवतादृतौ ।
विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ ३ ॥
सुरेति । सुरापगायां गङ्गायां सुरापेन गायता बहुना यौवतेन युवतिसमू-
हेनावृतौ परिवारितौ भवत्पद एकस्मिन् प्रवणो दत्तहृदयो निरैक्षत दृष्टवान् ॥३॥
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ।
इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥४॥
भियेति । भिया शापभयेनोपात्तवाससं धृतस्वस्ववसनं प्रियालोकं निजस्त्री-
समूहम् । भवद्भक्तिर्विष्णुभक्तिः, उपशान्तिरीदृशकर्मणो मनसो निग्रहणं, तयोः
सिद्धये मुनिनारदः जगौ शप्तवान् । ननु शान्त्या किं फलं तत्राह- शान्तिं-
मिति । ऋते विना सुखं मोक्षः ॥ ४ ॥
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ ५॥
युवामिति । ककुभात्मत्तामर्जुनतरुयुग्मरूपताम् । अथ हरिं श्रीकृष्णं
निरीक्ष्य स्वं पदं कुबेरान्तिकमामुतं प्रामुतम् ॥ ५ ॥

दशकम् -४८]
यमलार्जुनभञ्जनवर्णनम् ।
१८३
अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुपा मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धतौ चिराय जीर्णो परिपातितो तरू ॥ ६ ॥
अतन्द्रमिति । तथाविधं यमलमिन्द्रद्रुयुगमर्जुनतरुयुग्ममतन्द्रं सोत्साहं
यथा भवति तथा उलुखलाकर्षणान्मन्थरगामिना मन्दगामिना समेयुषा प्राप्तवता
तिरायितस्य तिर्यग्गतस्योलूखलम्य रोधेन निर्धतो निर्भिन्नमूलौ चिराय जीर्णी
पुराणौ परिपातितो सर्वतः प्रसृतशाखोपशाखतया पातितौ ॥ ६ ॥
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुपा ।
महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः ॥७॥
अभाजीति । त्वया शाखिद्वितयं यदाभाजि भमं, तदा तद्गर्भतलाच्छा-
खिद्वितयान्तर्भागान्निरेयुषा निर्गतेन महती विड् यस्य तेन यक्षयुगेन स्तवैः
स्तोत्रैर्भवानप्यभाजि सेवितः । अत्र भग्नं शाखिद्वितयं पुरुषरूपं गृहीत्वा प्रत्युप-
चकारेति प्रतीयते ॥ ७ ॥
इहान्यभक्तोऽपि समेष्यति क्रमाद भवन्तमेतौ खलु रुद्रसेवको ।
मुनिप्रसादाद भवदध्रिमागतो गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥८॥
इहेति । इह जगत्यन्येषां त्रिगुणद्विगुणमूर्तीनां ब्रह्मगिरिशादीनां भक्तः
सेवकोऽपि क्रमादधिकारक्रमेण भवन्तं शुद्धसत्त्वमूर्तिं समेप्यति भजनाधिकारी
भविष्यति खलु निश्चितम् । कुत इत्यत आह- एताविति । उत्तमां प्रेमलक्षणां
भक्तिं वृणानौ प्रार्थयन्तौ ॥ ८ ॥
ततस्तरूदारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले।
विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्देन भवान् विमोक्षदः॥९॥
तत इति । तोरुद्दारणं भञ्जनं तज्जनितेन दारुणेनारवेण प्रकम्पिसम्पा-
तिनि वेदं किमिदमिति ससम्भ्रममागमनशीले सति बन्धनानुशयेन विलज्जिताया
स्त्वज्जनन्याः 'किं कृतं यशोदे! त्वया, अहो अविमृश्यकारिता भवत्या' इत्यभि-
प्रायगर्भ मुखक्षिणा नन्देन भवान् व्यमोक्षि पाशवन्धनान्मोचितः ॥ ९ ॥

१८४ नारायणीये [स्कन्धः-१० महीरुहोमध्यगतो वताभको हर प्रभावादपरिक्षतोऽधुना । इति ब्रुवाणैर्गमितो गृहं भवान मरुत्पुराधीश्वर! पाहि मां गदात् ॥१०॥ महीति । महीरुहोवृक्षयोः । प्रभावः शक्तिः । अपरिक्षतोऽविकलाङ्गः । ब्रुवाणर्नन्दादिभिरिति शेषः ॥ १० ॥ इति यमलार्जुनभञ्जनवर्णनम् अष्टचत्वारिंशं दशकम् । भवत्मभावाविदुरा हि गोपास्तरुपपातादिकमत्र गोष्ठे । अहेतुमुत्पातगणं विशङ्कय प्रयातुमन्यत्र मनो वितेनुः ॥ १ ॥ भवदिति । भवत्प्रभावाविदुरा अविदितभवत्स्वरूपैश्वर्याः केवलं मर्त्यबु- द्धयः तरुप्रपातादिकमहेतुत्वादुत्पातगणं दुनिमित्तौघं विशङ्कय ॥ १ ॥ तत्रोपनन्दाभिधगोपवर्यो जगी भवत्प्रेरणयैव नूनम् । इतः प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति ॥२॥ तत्रेति । तत्र तेषु गोपेषपनन्दाभिधो गोपवर्य इति जगावुवाच । तत्तु भवत्प्रेरणयैव नूनं निश्चिनोमि ॥ २ ॥ बृहद्वनं तत् खलु नन्दमुख्या विधाय गोष्ठीनमथ क्षणेन । त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ ३॥ बृहदिति । नन्दमुख्या नन्दादयो गोपाः । यत्रस्थो भगवानेतावन्तं कालं क्रीडितवान् , तत् खलु बृहद्वनं नाम देशं गौष्ठीनं भूतपूर्वगोस्थानं विधाय कृत्वा बृहद्वनाख्यं पूर्वगोष्ठं विहायेत्यर्थः । त्वदन्वितेति । रामकृष्णान्वितयशोदारोहिणी- निविष्टमत एव गरिष्ठं महनीयं यानं शकटमनुगता गोपा विचेलुर्जग्मुः ॥ ३ ॥ अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः। भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ ४ ॥ अन इति । अनसः शकटस्य मनोज्ञो यो ध्वनिः, यश्च धेनुपाल्याः पशु- ।

दर्शकम् - ४९] बृन्दावनगमनवर्णनम् । १८५ समूहस्य खुरप्रणादः, तयोरन्तरतो मध्ये श्रूयमाणानि भवद्विनोदालपितेषु कल- भाषणेष्वमृतमयानि अक्षराणि प्रपीय श्रोत्राञ्जलिभिरापीय मार्गदेयं नाज्ञायत न विदितम् ॥ ४ ॥ निरीक्ष्य बृन्दावनमीश! नन्दप्रसूनकुन्दप्रमुखद्रुमौघम् । अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ५ ॥ निरीक्ष्येति । नन्दन्ति समृद्धानि प्रसूनानि येषु तथाविधाः कुन्दप्रमुखा द्रुमौघा यस्मिन् । शाद्वलसान्द्रलक्ष्म्या हरिततृणनीरन्ध्रितस्थलशोभया हरिन्म- णीकुट्टिमवदिन्द्रनीलमणिकुट्टिमवत् पुष्टशोभं संपूर्णशोभायुक्तम् । अमोदथाः स- न्तुष्टोऽभूः ॥ ५॥ नवाकनियूंढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रितः पिर्यगलोकथास्त्वम् ॥ ६ ॥ नवाकेति । नवाकनियूंढेषु नूतनतया रचितेषु निवासभेदेषु विशिष्टेषु भवनेषु । पर्यगलोकथाः परितो दृष्टवानसि ॥ ६ ॥ अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् । निरन्तरस्मेरसरोजवक्रां कलिन्दकन्यां समलोकयस्त्वम् ॥७॥ अरालेति । मरालकूजाभिः कलहंसकूजितैः कृतनर्मलापामुच्चारितसरस- बचनाम् । अरालेन कुटिलेन मार्गेणागता निर्मला आपो यस्याम् । निरन्तराणि नीरन्ध्रितानि स्मेराणि सरोजान्येव वक्रं यस्याः । कलिन्दकन्याम् अत एवोप- भोगक्षमाम् ॥ ७ ॥ मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् । विरिश्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ८॥ मयूरेति । मयूराणां केकाशतैः कलकलनिनादैर्लोभनीयं मनोहरं मणीनां । १. 'अर्धचन्द्राकारतया र' ग. पाठः. २. 'न्यां कालिन्दीमत ख. पाठः, + अन्वगादिवद् अञ्चूत्तरपदं पर्यगिति । परित इति तदर्थः ।

१८६ नारायणीये [स्कन्धः-१० रत्नानां मयूखमालाभिः प्रभापटलैः शवलं विचित्रवर्णमुच्चैरुन्नतैः शृङ्गैः विरिञ्चलोकं सत्यलोकं स्पृशतीति तथा ॥ ८॥ समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । ततस्ततस्तां कुटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥९॥ सममिति । ततो गोपकुमारकैः समं सह वनान्तं समन्ततः सर्वत्र यत्र यत्रागाः गतवानसि ततस्ततः तत्र तत्र कलिन्दजामेकामपश्यः । तत् कथं, कुटि- लां वक्रमार्गेण तत्र तत्रागतामतस्त्वदनुसरणात् त्वयि रागवतीमिव ॥ ९ ॥ तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन् सरामोऽथ कुमारकैस्त्वं समरिगेहाधिप! पाहि रोगात् ॥१०॥ तथेति । पशव्ये पशुभ्यो हिते ॥ १० ॥ इति वृन्दावनगमनवर्णनम् ऊनपञ्चाशं दशकम् । तरलमधुकृट्टन्दे बृन्दावनेऽथ मनोहरे पशुपशिशुभिः साकं वत्सानुपालनलोलुपः। हलधरसखो देव! श्रीमन् ! विचेरिथ धारयन् गवलमुरलीवेनं नेत्राभिरामतनुश्रुतिः॥१॥ तरलेति । तरलमधुकृढन्दे चलितभृङ्गसमूहे । गवलं शृङ्गं मुरली वेणुं वेत्रं याष्टं च धारयन् विचेरिथ सञ्चरणं कृतवान् ॥ १ ॥ विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने । किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी- सलिलधरणीगोत्रक्षेत्रादिकं कमलापते! ॥ २ ॥ विहितेति । विहिता जगत्या भूम्या रक्षा येन । लक्ष्म्याः कराम्बुजाभ्यां दशकम् -५०] वत्सासुरवधवर्णनम् । १८७ लालितं संवाहितम् । तर्वादिकं किमिव सम्पत्सम्पूरितं न बभौ शुशुभे तरवः पुष्पादिभिः सम्पद्भिः, वलय॑श्च, सलिलं पद्मादिभिः, धरणी सस्यादिभिः, गोत्रः पर्वतो रत्नादिभिः, क्षेत्रमाकरो हेमादिभिश्च सम्पूर्ण शुशुभ इत्यर्थः ॥ २ ॥ , । विलसदुलपे कान्तारान्त समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । ललितमुरलीनादः सञ्चारयन् खलु वात्सकं कचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ ३ ॥ विलसदिति । विलसदुलपे शोभमानतृणविशेषयुक्ते कान्तारान्ते वनप्र- देशे, यमुनातरङ्गसङ्गिना समीरणेन शीतले विपुले पुलिनमयतया विस्तृते यमुना- तीरे च वात्सकं वत्ससमूहम् । उदेक्षथा दृष्टवान् ॥ ३ ॥ रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे विभ्रद् विभ्रामयन मुहुरुच्चकैः कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ ४ ॥ रभसेति । रभसविलसत्पुच्छं वेगादितस्ततः सञ्चारितपुच्छं यथा भवति तथा विच्छायतो गच्छतोऽस्य वत्सासुरस्य किमपि वलितस्कन्धमीषत्तिर्यकृतग्रीवं, रन्ध्रप्रतीक्षमवसरप्रतिपालनरूपं च यदुदीक्षितमवलोकनं तद् विलोकयन् अथ मां हन्तुकामोऽयमिति निश्चित्य तं चरणे बिभ्रद् गृहीत्वोच्चकैर्वेगान्मुहुर्विभ्रामयन् विभ्र- मणेनैव क्षतजीवितं कुहचन कस्मिंश्चिच्चिक्षेपिथ प्रक्षिप्तवान् ॥ ४ ॥ निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परिमिलद्वृन्दा बृन्दारकाः कुसुमोत्करैः शिरसि भवतो हर्षाद् वर्षन्ति नाम तदा हरे! ॥५॥ निपततीति । जात्या जन्मतः प्रभृत्यासुरभावेन दुरात्मनि दुष्टे निपतन, १८८ नारायणीये स्कन्धः-१० जबेन क्षुण्णैश्चूर्णीकृतैः क्षोणीरुहवृक्षैः क्षतं नष्टं काननं येन । परिमिलन्ति समूहीभूतानि बृन्दानि गणा येषु ते बृन्दारका देवाः कुसुमोत्करैः सुरतरु- कुसुमनिकरैः ॥ ५॥ सुरभिलतमा मूर्धन्यू कुतः कुसुमावली निपतति तवेत्युक्तो बालैः सहेलमुदैरयः। झटिति दनुजक्षेपेणो गतस्तरुमण्डलात् कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥६॥ सुरभिलेति । सुरभिलतमातिशयेन सुरभिला सौरभ्ययुक्ता कुसुमावली कुतस्तव मूर्धनि निपतति ऊर्ध्वमुपरिभागे वृक्षाभावात् कुत एतदिति बालैरुक्तः पृष्टस्त्वं सहेलं सलीलमुदैरय उक्तवान् , दनुजक्षेपेण वत्सासुरशवशरीरप्रक्षेपेण तद्वेगोत्थः कुसुमनिकरस्तरुमण्डलाद् वृक्षनिकरादूर्ध्वं गतः सोऽयं शनैः समेति मूर्ध्नि पतति नूनं तर्कयामि ॥ ६ ॥ कचन दिवसे भूयो भूयस्तरे परुषातपे तपनतनयापाथः पातुं गता भवदादयः । चलितगरुतं प्रेक्षामासुर्वकं खलु विस्मृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ ७ ॥ कचनेति । भूयः पुनः क्वचन दिवसे भूयस्तरे भूयिष्ठे परुषातपे ग्रीष्मकाले तपनतनयायां यमुनायां पाथो जलं पातुं भवदादयो गोपबालका बकं बकासुरं प्रेक्षामासुः दृष्टवन्तः । चलितगरुतं चलितपक्षम् । इन्द्रकर्तृके क्षितिधरगरुच्छेदे विस्मृतमच्छिन्नपक्षमपरं द्वितीयम् ॥ ७ ॥ पिबति सलिलं गोपनाते भवन्तमभिद्रुतः स किल निगिलन्नग्निमख्यं पुनर्द्धतमुद्रमन् । दलयितुमगात् त्रोट्याः कोव्या तदा तु भवान् विभो ! खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ ८ ॥ १. 'शु' ग. पाठः २. क्षणात ख. घ. पाठः,

दशकम् -५१]
अघासुरवधवर्णनम् ।
पिबतीति। गोपानां वाते समूहे । अभिद्रुतोऽभिधावन् भवन्तं निगिलन् ग्र-
सन् अमिप्रख्यमग्निसदृशमत एव द्रुतमुद्वमन् पुनर्वमनानन्तरं त्रोट्याः चञ्चोः कोट्या-
ग्रेण दलयितुं विदारयितुमगात् । खलजनभिदाचुञ्चुर्दुष्टनिग्रहेण प्रसिद्धो भवान
अधरोत्तरे चञ्चू प्रगृह्य तं ददार निगृहीतवान् ॥ ८ ॥
सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
शमननिलयं याते तस्मिन् वके सुमनोगणे
किरति सुमनोबृन्दं वृन्दावनाद् गृहमैयथाः ॥९॥
सपदीति । अग्रे पूर्व गत्वाघमघासुरं प्रतीक्षितुं प्रतिपालयितुम् । तस्मिन्नघ-
पूतनाज्येष्ठे बकासुरे शमननिलयं यमसदनं याते सति सुमनसां देवानां गणे सुम-
नसां पुष्पाणां वृन्दं समूहं किरति वर्षति सत्यैयथा अगच्छः ॥ ९ ॥
ललितमुरलीनादं दूरान्निशम्य वधूजनै-
स्त्वरितमुपगम्यारादारूढमोद मुदीक्षितः ।
जनितजननीनन्दानन्दः समीरणमन्दिर-
प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् ॥ १० ॥
ललितेति । ललितमतिसुन्दरं मुरलीनादं वेणुनादं निशम्य दूरादुदीक्षित
उन्नमितवदनं वीक्षितः पुनस्त्वरितमुपगम्य प्रस्थाय तत्समीपं गत्वारात् समी-
पेऽङ्गप्रत्यङ्गदर्शनादारूढमोदमुदीक्षितः जनित उत्पादितो जननीनन्दयोरानन्दो
येन ॥ १० ॥
इति वत्सासुरवधवर्णनं बकासुरवभवर्णनं च
पञ्चाशं दशकम् ।
कदाचन व्रजशिशुभिः समं भवान्
वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतरवत्समण्डलैः
सतेमनैर्निरगमदीश! जेमनैः ॥ १ ॥

१९० नारायणीये स्कन्धः-१० कदाचनेति । प्रगेतरामुषस्यासन्ने सतेमनैः सव्यञ्जनैर्जेमनैरोदनैः ॥ १ ॥ विनिर्यतस्तव चरणाम्बुजद्वया- दुदाञ्चितं त्रिभुवनपावनं रजः। महर्षयः पुलकधरैः कलेबरै- रुदूहिरे धृतभवदीक्षणोत्सवाः ॥ २ ॥ विनिर्यत इति । विनिर्यतो विनिर्गच्छतः । उदञ्चितं पतितं त्रिभुवनपा- वनं जगतां पापशोधकम् । पुलकधरैरिति भक्तयनुभावः । उदूहिरे धृतवन्तः ॥२॥ प्रचारयत्यविरलशाद्वले तले पशून् विभो! भवति समं कुमारकैः । अघासुरो न्यरुणदघाय वर्तनी भयानकः सपदि शयानकाकृतिः ॥३॥ प्रचारयतीति । अविरलशाद्वले तृणभूयिष्ठे तले प्रदेशे । अघाय भवतो भवन्नाथानों च ग्रसनरूपमघमपराधं कर्तुं, परमार्थतस्तु भवभयप्रदमघं दुरितं त्यक्तुं वर्तनी मार्ग न्यरुणद् रुरोध । शयानकाकृतिरजगररूपः ॥ ३ ॥ महाचलपतिमतनोगुहानिभ- प्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद् गताः कुमारकाः किमपि विदूरगे त्वयि ॥ ४ ॥ महाचलेति । कुमारका विवेकरहितास्त्वयि किमपि किञ्चिद् विदूरगे दूर- स्थे सति कानने विहरणकौतुकात् तस्य मुखोदरमास्यं गताः प्रविष्टाः । कथमेतद्, महाचलप्रतिमतनोः पर्वतगुहानिभं प्रसारितमास्तृतं प्रथितं विस्तृतं मुखमास्यं यस्य, अतः अजगरतनोर्महाचलभ्रान्त्या तन्मुखस्याचलगुहाभ्रान्त्या चेत्यर्थः ॥ ४ ॥ १. 'नां गोपगोपीनां च' ख. ग. पाठः,

दशकम् -५१]
अघासुरवधवर्णनम् ।
प्रमादतः प्रविशति पन्नगोदरं
कथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो!
सुहृज्जनं विशरणमाशु रक्षितुम् ॥ ५ ॥
प्रमादत इति । क्वथत्तनौ दह्यमानशरीरे सवात्सके वत्ससमूहसहिते । त्वम-
पीदमघासुरचेष्टितं विदन् जानन् ॥ ५ ॥
गलोदरे विपुलितवम॑णा त्वया
महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान् विदलितकण्ठमण्डलो
विमोचयन् पशुपपशून् विनिर्ययौ ॥६॥
गलोदर इति । विपुलितवर्मणा वर्धितशरीरेण त्वया निरुद्धो मारुतः
प्राणवायुर्यस्य । अत एव प्राणनिरोधाल्लुठति इतस्ततो वेष्टमाने सति विदलितं
विदारितं कण्ठमण्डलं येन स भवांस्तेन प्राणनिर्गममार्गेण पशुपान् पशूश्च विमो-
चयन् बहिर्निर्गमयन् स्वयमपि विनिर्ययौ ॥ ६ ॥
क्षणं दिवि त्वदुपगमार्थमास्थित
महासुरप्रभवमहो महो महत्।
विनिर्गते त्वयि तु निलीनमञ्जसा
नभःस्थले ननृतुरथो जगुः सुराः॥७॥
क्षणमिति । त्वदुपगमार्थं त्वन्निर्गमनार्थ त्वयि प्रवेष्टुं वा क्षणं दिव्याकाश
आस्थितं महासुरप्रभवमघासुरशरीरान्निर्गतं महद् विपुलं महः सूक्ष्मशरीरस्यापि
त्यागेन परिच्छेदकामावादत्युज्ज्वलं तेजःपुखं त्वयि ज्योतिषि ज्योतिरिव निली-
नम् । अहो द्विषन्नप्यघासुरो भवन्तमन्तःकृत्वा मृतोऽतस्तत्क्षणं तत्फलं सायु-
ज्याख्यं मोक्षं सर्वलोकसमक्ष प्राप्तवान् । अहो भक्तवात्सल्यं भवत इति
भावः ॥७॥

नारायणीये
स्किन्धः-१०
सविस्मयैः कमलभवादिभिः सुरे-
रनुद्रुतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुपि
स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ८ ॥
सविस्मयैरिति । अनुद्रुतो व्योममार्गेणानुगतः दिने तरुणदशामुपेयुषि
मध्याह्ने प्राप्ते सति भोजनोत्सवं वनाशनकौतुकम् ॥ ८ ॥
विषाणिकामपि मुरली नितम्बके
निवेशयन् कबलधरः कराम्बुजे ।
प्रहासयन् कलवचनैः कुमारकान्
बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ९ ॥
विषाणिकामिति । विषाणिकां शृङ्ग, मुरली वेणुं, नितम्बके काटिप्रदेशे
पीतपटान्तरे ॥ ९॥
सुखाशनं त्विह तब गोपमण्डले
मखाशनात् नियमिव देवमण्डले ।
इति स्तुतत्रिदशवरैर्जगत्पभो!
मरुत्पुरीनिलय ! गदात् अपाहि माम् ॥ १० ॥
मुखाशनमिति । गोपमण्डले सुखाशनं देवमण्डले मखाशनाद् यज्ञभा-
गभोजनात् प्रियमिव त्रिदशवरैर्ब्रह्मादिभिरिति स्तुतः ॥ १० ॥
इत्यघासुरवधवर्णनम् एकपञ्चाशं दशकम् ।
अन्यावतारनिकरेष्वनिरीक्षितं ते
भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं
निन्येऽथ वत्सकगणान् पवितस्य मायाम् ॥ १ ॥

दशकम् -१२] ब्रह्मकृतवत्सापहारवर्णनम् ।
अन्येति । अन्यावतारनिकरेषु नृसिंहादिष्वप्यनिरीक्षितमदृष्टं भूमातिरेक-
मैश्वर्यातिशयम् । परीक्षितुमना इतोऽप्यैश्वर्यातिशयं द्रष्टुकामः प्रवितत्य प्रयुज्य ।
परोक्षभावमन्तर्धानम् ॥ १ ॥
वत्सानवीक्ष्य विवशे पशुपोत्करे ता-
नानेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्तकबलो गतवांस्तदानीं
भुक्तास्तिरोधित सरोजभवः कुमारान् ॥२॥
वत्सानिति । धातुर्मतं भूमातिरेकदर्शनं तदनुवर्ती तदर्शनार्थीत्यर्थः ।
सामिभुक्तकबलोऽर्धभुक्तपाणिकबलः अहमेव वत्सानानेप्यामीति भुञ्जानान्
बालकानाख्याय तानानेतुकाम इव, नानेतुकामः, किन्तु धातृमतानुवर्तनाथ गत-
वांस्त्वम् । तदानीं श्रीकृष्णे दूरस्थे सति सरोजभवो ब्रह्मा भुक्तान् भुञ्जानान्
तिरोधित तिरस्कृतवान् ॥ २ ॥
एवं वत्सकवत्सपेषु ब्रह्मणा तिरस्कृतेष्वेकाकी भगवान् सायमेतविना मम
ब्रजप्रवेशे सति गोगोपीनां स्वात्मजादर्शनजनितः खेदः स्याद् , एतान् ब्रह्मणोऽपहृ-
त्य गमने ब्रह्मणोऽपि खेद इति विचिन्त्य तदुभयाभावाय स्वमायया स्वेनैव सर्व
सम्पादितवानित्याह ---
HDMILARY
वत्सायितस्तदनु गोपगणायितस्त्वं
शिक्यादिभाण्डमुरलीगवलादिरूपः ।
प्राग्वद् विहृत्य विपिनेषु चिराय सायं
त्वं माययाथ बहुधा व्रजमाययाथ ॥ ३ ॥
वत्सायित इति । तदनु ब्रह्मणा वत्सवत्सपसमूहे तिरस्कृते सति त्वं
मायया बहुधा सर्वस्वरूपो भूतः वत्सायितो वत्सा इवाचरन् गोपगणायितः
शिक्यादिरूपश्च चिराय चिरं विपिनेषु प्राग्वद् विहृत्याथ सायं सन्ध्यायां
ब्रजमाययाथागतवान् ॥ ३ ॥

नारायणीये स्किन्धः-१० त्वामेव शिक्यगवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकवालरूपः । गोरुपिणीमिरपि गोपवधूमपीभि- रासाहितोऽसि जननीभिरतिमहर्षात् ॥ ४ ॥ स्वामिति । भूयः पुनः पशुवत्सकबालरूपस्त्वं शिक्यगवलादिमयं त्वामेव दधानः । गोरूपिणी भिरिति । गोरूपिणीभिर्जननीभिः पशुवत्सरूपस्त्वमतिप्रहर्षा- दतिशन वारल्यादास दितः स्वं स्व वत्स मत्वा गावस्त्वां सहुङ्कारमौधसं पयो- आश्यन् । तथा गोपवधूमयीभिर्जननीभिपिबालकरूपस्त्वमासादितोऽसि ता अपि स्वं स्वं सुतं मत्वा त्यामङ्कारोपणाश्लेषस्तनदानादि चक्रुरित्यर्थः ॥ ४ ॥ ननु गोगोपीनां वत्सवत्सपबालेप्वेवमतिप्रहर्ष को हेतुरित्याशङ्कय सर्वोऽप्या- मानि नियति । अन्ये हि तदर्थ प्रियाः । आत्मा च विष्णुः कृष्णः । अतस्तद्रूपेषु पुत्रेषु प्रेमधिरभूदिति परिहरन्नाह- । जीवं हि कञ्चिदभिमानवशात् स्वकीयं मत्वा तनूज इति रागभरं वहन्त्यः । आत्मानमेव तु भवन्तमवाप्य सूनुं प्रीतिं ययुन लियः वनिताश्च गावः ॥५॥ जीवमिति । कञ्चित् स्वप्रारब्धकर्मफलभोगायोद्यतं जीवमात्मत्वेनाभिमतं स्थूल सूक्ष्म वा शरीरमभिमानवशान्ममत्वारोपवशेन तनूजो मम पुत्र इति स्वकीयं मत्वा रागरं वहन्त्यो भवन्ति तन्मातरः । हि यस्मादित्थंभावेऽप्येतादृशो रागः, विशेषे सति किमुच्यत इत्याह -आत्मानमित्ति । आत्मानमहम्प्रत्यये नेदमंशरूपं भवन्तं श्रीकृष्णमेव सूनुमवाप्य वनिता गोप्यो गायश्च न कियती प्रीतिं ययुः अतिमहती प्रीतिमवाप्ता एवेत्यर्थः ॥ ५ ॥ २. 'कृष्णस्तु सर्वेषामात्मा । अ' क पाठः, । ३. 'देव तस्मादात्मा- १. 'या' ख.ग. पाठ:. नमहम्प्रत्यये क. ख. पायः.

दशकम् - ५२] भगवन्मायया ब्रह्मणो मोहबर्णनम् । एवं प्रतिक्षणविजृम्भितहपंभार- निश्शेषगोपगणलालितभूरि मूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान युवयोविशेषः ॥६॥ एवमिति । प्रतिक्षणं विजृम्भितो वर्धितो हर्ष भारः सन्तोपातिशयों येषां तेषां निश्शेषाणां गोपानां गणेन लालितभूरिमूर्ति तत्तहोगीमामाजरूपं त्यानयजः श्रीबलभद्रोऽपि (त्वद्भरिमूर्तित्वं.) वत्सरान्ते संवत्सरावसाने बुबुधे । ब्रह्मात्मनोमस्व- रूपयोरपि युवयोस्त्वं निष्कलं ब्रह्म अग्रजः सकलमिति महान विशेषः ॥ ६॥ वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसणे द्रुहिणे विमुढे । प्रादीदृशः प्रतिनवान् मकुटाङ्गदादि- भूषांश्चतुर्भुजयुजः सजलाम्बुदाभान ॥ ७ ॥ । वर्षावधाविति । वर्षावधौ संवत्सरावसाने नवान् श्रीकृष्णमयान् पुरात नान् स्वेन तिरस्कृतान् वत्सान् वत्सपालांश्च दृष्ट्वा दुहिणे ब्रह्मणि विमूढे एते सत्या अन्ये मायामया इति सम्यग्ज्ञानरहिते विवेकमसृणे विचारयितुमध्यसमर्थ सति प्रतिनवान् मायामयान् मकुटाङ्गदादिविशिष्टान प्रादीदृशः प्रदर्शयाना- सिथ ॥ ७॥ प्रत्येकमेव कमलापरिलालिताङ्गान् भोगीन्द्रभोगशयनान् नयनाभिरामान् । लीलानिमीलितदृशः सनकादियोगि- व्यासेवितान् कमलभूभवतो ददर्श ॥ ८ ॥ प्रत्येकमिति । लीलानिमीलितदृशोऽङ्गीकृतयोगनिद्रान् भवतो विप्पन ददर्श ॥ ८॥ 1. 'गोपगो'.ख. ग, पाठः, नारायणीये स्किन्धः-१० नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता। मायानिमग्नहृदयो विमुमोह याव- देको बभूविथ तदा कबलार्धपाणिः ॥९॥ नारायणेति । सेवकं स्वमात्मानम् । मायायां निमग्नं मूढं हृदयं यस्य । यावद् विमुमोहाचेतनप्रायोऽभूत् , तदा त्वं बहुरूपं संहृत्यैकः कबलार्धपाणिः श्रीकृ- प्णरूपेण वत्सान्वेषणपरो बभूविथ ॥ ९ ॥ नभ्यन्मदे तदनु विश्वपति मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते ! पोतैः समं प्रमुदितैः प्रविशनिकेतं वातालयाधिप! विभो! परिपाहि रोगात् ॥ १०॥ नश्यदिति। नूतवति स्तुतवति सति धाम सत्यलोकं याते गते च सति पोतैर्वत्सपालैः समं सह निकेतं गृहं प्रविशन् ॥ १० ॥ इति ब्रह्मकृतवत्सापहारवर्णनं भगवन्मायया ब्रह्मणो मोहवर्णनं च द्विपञ्चाशं दशकम्। -- अतीत्य बाल्यं जगतां पते ! त्वमुपेत्य पौगण्डवयो मनोज्ञम् । उपेक्ष्य वत्सावनमुत्सवेन मावर्तथा गोगणपालनायाम् ॥ १॥ अतीत्येति । बाल्यं पञ्च वर्षाणि । पौगण्डवयो द्वितीयपञ्चकं मनोज्ञं बा- ल्यादतिमोहनं तदुपेत्य प्राप्य वत्सानामवनं रक्षणमुपेक्ष्योत्सवेन कौतुकेन गोग- णपालनायां प्रावर्तथाः प्रवृत्तोऽभूः ॥ १ ॥ Tणू स्तवने तुदादिः ।

दशकम् -५३] धेनुकासुरवधवर्णनम् । उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश! तव प्रवृत्तिः। गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवारभयास्तदा यत् ॥ २ ॥ उपक्रमस्येति। उपक्रमस्यारम्भस्यानुगुणा योग्या । गोत्रापरित्राणकृते भूमे रक्षणार्थम् । तदेव गोत्रापरित्राणं गोरक्षणम् ॥ २ ॥ कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन । श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ ३ ।। कदेति । धेनुककाननं धेनुकासुरनिवासस्थानं तालवनम् ॥ ३ ॥ उत्तालतालीनिवहे त्वदुक्तया वलेन धृतेऽथ बलेन दोभ्या॑म् । मृदुः खरश्चाभ्यपतत् पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥४॥ उत्तालेति । उत्तालेऽतिमहति तालीनिवहे तालवृक्षसमूहे बलेन शक्त्या दोभ्यो धूते चालिते पुरस्तात् प्रथमं मृदुरपरिणतः खरः परिणतः फलोत्करः फलसमूहोऽभ्यपतत् सम्भूयापतत् । अनन्तरं धेनुकदानवोऽपि तालफलपतनरवज- नितक्रोधेन खररूप्यभ्यपतदभ्यधावत् ।। ४ ।। समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे । इतीव मत्वा ध्रुवमग्रजेन सुरोघरोद्धारमजीघतस्त्वम् ॥ ५॥ समुद्यत इति । धैनुकस्य धेनुसमूहस्य पालने समुद्यत उत्साही धैनुकं वधं धेनुकासुरवधमिति प्रकृतोऽर्थः । कथं कुर्वे न करोमि ध्रुवं निश्चितमिति मत्वा निश्चित्येवाग्रजेन तमजीघतो घातितवानसि ॥ ५ ॥ तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । जम्बूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन् ! निरास्थः॥६॥ तदीयेति । जम्बुकत्वेनोपागतान् जम्बुकाः क्रोष्टारो भूत्वागतान् । निरास्थ आस्थारहितः सन् निरास्थो निरसनं कृतवान् निगृहीतवान् ॥ ६ ॥ 'इनित्रकथ्यचश्च' (४-२-५१) इति त्रप्रत्ययः ।

१९८
नारायणीय
स्किन्धः--१०
विनिम्नति त्वय्यथ जम्बुको सनामकत्वाद्वरुणस्तदानीम् ।
भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्ध व्यधितेति मन्ये ॥ ७ ॥
विनिम्नतीति । सनामकत्वात् स्वस्यापि जम्बुकनामकत्वात् ॥ ७ ॥
तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैर्नुतस्त्वम् ।
सत्यं फलं जातमिहेति हासी वाल: समं तालफलान्यभुकथाः॥८॥
तवेति । अवतारस्य फलं धेनुकनिग्रहः । तदद्य सञ्जातमिति सुरैर्नुतस्त्वं
तव स्तुतिश्रवणात् सत्यं यथार्थवादिनो देवा इह फलं तालफलजातं जातम् ॥ ८ ॥
मधुवनुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
तृप्तैश्च दृप्तैभवनं फलोघं वहद्भिरागाः खलु वालकैस्त्वम् ॥ ९ ॥
मधुद्रवेति । मधुद्रवः स्रवत्येभ्य इति तथा मेदोभरभृन्ति अन्तःसारवन्ति
तालफलानि भुक्त्वा तृप्तैरत एव दृप्तैरहकृतैर्बन्धुभ्यो दातुं फलौघं स्कन्धोपनेयं
भवनं वहाद्धः प्रापयद्भिः ॥ ९ ॥
हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
जयति जीवेति नुतो विभो! त्वं मरुत्पुराधीश्वर! पाहि रोगात् ॥१०॥
हत इति । हर्षातिशयेन हतो हत इति द्विरुक्तिः ॥ १० ॥
इति धेनुकासुरवधवर्णनं त्रिपञ्चाशं दशकम् ।
अथ दशकत्रयेण कालियमर्दनरूपं भगवच्चरितं कथयन् स्तौति--
त्वत्सेवोत्कः सौभरि म पूर्व कालिन्यन्तादशाब्दं तपस्यन् ।
मीनवाते स्नेहवान् भोगलोले तार्क्ष्य साक्षादक्षताग्रे कदाचित् ॥ १॥
त्वदिति । त्वत्सेवायामुक उत्सुकः सौभरिनाम मुनि गलोले इतरेतर.
मेहसुखपरे । साक्षात् प्रत्यक्षत ऐक्षत दृष्टवान् ॥ १ ॥

दशकम् -५४]
कालियमदनवर्णनम् ।
त्वद्वाहं तं सक्षुधं तृक्षमूनुं मीनं कश्चिनक्षतं लक्षयन् सः।
तप्तश्चित्ते शावानत्र चेन् त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥२॥
त्वदिति । त्वद्वाहं तव वाहनभूतं तृक्षसूनुं ताक्ष्य जक्षतं भक्षयन्तं लक्ष-
यन् पश्यन् चित्ते तप्तः सन्तापवान् अत्र कालिन्दीहदे त्वं जन्तृन मत्स्यादीन्
भोक्ता भक्षयिष्यसि चेद् जीवितं मोक्ता मरिष्यसि ॥ २ ॥
तस्मिन् काले कालियः वेलदपात् सारातः कल्पितं भागमश्नन् ।
तेन क्रोधात् त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ ३ ॥
तस्मिन्निति । श्वेलदर्पाद् विषवीर्यमदात् सर्परात्मरक्षणार्थ कल्पितं भागं
मासिकं बलिमश्नन् त्वत्पदाम्भोज भजतीति तथा । अतः पक्षेण सव्येन क्षिप्तो
विवशीकृतः तदुरापं सर्पारातिदुरापं पयः कालिन्दीहदमगात् ॥ ३ ॥
घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः श्वेलवेगात् ।
पक्षित्राताः पेतुरभ्रे पतन्तः कारुण्याई त्वन्मनस्तेन जातम् ॥ ४ ॥
घोर इति । घोरे क्रूरकर्मणि तस्मिन् कालिये सूरजानीरवासे कालिन्दी-
हृदनिवासिनि सति विक्षता विषाग्निज्वालावलीढतया नष्टाः । अभ्र उपरिभागे। तेन,
यतो न केवलं तज्जलोपभोगाभावः प्रत्युत सर्वलोकविनाशश्च, तेनेत्यर्थः ॥ ४ ॥
काले तस्मिन्नेकदा सीरपाणि मुक्त्वा याते यामुनं काननान्तम् ।
त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन श्वेलतोयम् ॥५।।
काल इति । सीरपाणिं मुक्त्वा राम विना यामुनं यमुनासम्बन्धिनं कान-
नान्तं वनप्रदेशं याते त्वयि । उद्दामेति । प्रवृद्धग्रीष्मकालोत्थेन भीष्मेणोष्मणा
तप्ताः वेलतोयं विषजलं व्यापिबन् यथासुखं पपुः ॥ ५ ॥
नश्यजीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत! त्वं दयाः।
प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षः ॥ ६ ॥

२०० नारायणीये [स्कन्धः-१० नश्यदिति । नश्यज्जीवान् म्रियमाणान् विच्युतान् पतितान् विश्वान् सर्वान् ॥ ६ ॥ किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः । दृष्ट्वाग्रे त्वां त्वत्कृतं तद् विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः॥७॥ किमिति । गोपसङ्घास्ततः किं किमिदमहो सर्वाङ्गेषु हर्षवर्षातिरेकः पर- मानन्दपीयूषाप्लवो जात इति स्वप्नादिवोत्थिताः प्रागप्यधपूतनामोक्षादिषु दृष्ट- नानाप्रभावतया इदं विषजलाद् रक्षणं त्वत्कृतं विदन्तस्त्वामालिङ्गन् आश्लेषं कृतवन्तः ॥ ७॥ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावत्रुः सर्वतो हर्षबाष्पं व्यामुश्चन्त्यो मन्दमुद्यन्निनादाः॥ ८॥ गाव इति । गावश्चैवमुत्थिता द्राग् झटित्यावत्रुः परिवाय स्थिताः॥ ८॥ रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा । आश्चर्योऽयं श्वेलवेगो मुकुन्देत्युक्तो गोपैनन्दितो वन्दितोऽभूः ॥९॥ रोमाञ्च इति । हे मुकुन्द! अयं श्वेलवेगो विषवेग आश्चर्यः सर्पदष्टाना- मदृष्टपूर्वः । नोऽस्माकमन्तर्हदि काचिदपरिच्छेद्यानन्दस्य निरतिशयसुखस्य मूर्छा वृद्धिः भूयस्यतिनिबिडा । कथं ज्ञायते, शरीरे सर्वतः सर्वत्र रोमाञ्चोऽयं, पश्यतु भवानिति भावः ॥ ९ ॥ एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापाङ्गैरस्तरोगांस्तनोपि । तादृग्भूतस्फीतकारुण्यभूमा रोगात् पाया वायुगेहाधिवास! ॥ १० ॥ एवमिति । मुक्तजीवान् मृतानप्यस्तरोगान् लब्धजीवांस्त्यक्तशोकांश्च तनोषि ॥ १० ॥ इति कालियमर्दने विषजलेन मृतानां गोगोपानामुज्जीवनवर्णनं A । चतुष्पञ्चाश दशकम् ।

दशकम् -५५] कालियमर्दनवर्णनम् । २०१ अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीभगवन् ! । द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥१॥ अथेति । प्रतिवारयितुं कृतधीनिश्चितबुद्धिर्नीपतरूं कदम्बवृक्षमारिथ प्रा- तवान् ॥ १॥ अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमनोज्ञरुचा। हृदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥२॥ अधिरुह्येति । नवपल्लवतुल्यमनोज्ञरुचेत्यनेन नीपतरुभगवत्स्पर्शात् त्यक्त- विषदोषः सञ्जातनवपल्लवश्च जात इत्यधःस्थितानां प्रतीति?त्यते ॥ २ ॥ भुवनत्रयभारभृतो भवतो गुरुभारविकम्पिविजृम्भिजला । परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती ॥३॥ भुवनेति । भुवनत्रयमेव भारस्तमुदरे बिभर्तीति तथा, तादृशस्य भवतो गुरुभारेण विकम्पि कम्पनशीलं विजृम्भि वर्धनशीलं च जलं यस्यां तथाभूता तटिनी नदी झटिति धनुःशतप्रमाणं परिमज्जयति स्म प्लावयामास ॥३॥ अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः । उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ ४॥ अथेति । दिक्ष्वष्टसु विदिक्ष्ववान्तरेषु (१) च परिक्षुभितं परिचलितं भ्रमितं स- जातावर्तमुदरमन्तर्भागो यस्य तादृशं यद् वारि तस्य निनादभरैर्हेतुभूतैरशान्तरुषान्धं मनो यस्य तादृशः सन् त्वदुपान्तं त्वत्समीपमुदगाद् उन्मज्ज्य प्राप्तवान् ॥ ४ ॥ फणशृङसहस्रविनिःसृमरज्वलदाग्निकणोगविषाम्बुधरम् । पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥५॥ फणेति । फणशृङ्गसहस्राद् विनिःसृमरं क्षरणशीलं ज्वलदग्निकणमत एवोगं क्रूरं विषाम्बु विषद्रवं धरत इति तथा ॥ ५ ॥ १. 'प्रसिदिो ख. पाठ २०२ नारायणीय स्किन्धः-१० ज्वलदक्षिपरिक्षरदुग्रविपश्वसनोष्मभरः स महाभुजगः । परिदश्य भवन्तमनन्तवलं समवेष्टयदस्फुटचेष्टमहो ॥६॥ ज्वलदिति । ज्वलदक्षि यथा भवति तथा परिक्षरनुग्रविषश्वसनस्योष्म- भरो यस्य सः परिदृश्य मर्मसु दष्वा समवेष्टयत् तदास्फुटचेष्टमदृश्यव्यापारम् ॥ अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे । ब्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः॥७॥ अविलोक्येति । अनिमित्तशतं दुनिमित्तौघम् । पशुपा नन्दादयः ॥ ७ ॥ अखिलेषु विभोः भवदीयदशामवलोक्य जिहासुषु जीवभरम् । फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥८॥ अखिलेष्विति । जीवभरं भवद्विरहे वोढुमशक्यान् प्राणान् जिहासुषु विहातुमिच्छत्सु तेभ्य आत्मकुशलज्ञापनार्थ हासजुषा भवतोदगम्यतोत्थितम् ॥८॥ अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा। कलशिञ्जितनूपुरम मिलत्करकङ्कणसंकुलसंकणितम् ॥ ९॥ अधिरुह्येति । ततः फणिराजस्व कालियस्य फणानधिरुह्य भवता ननृते नृत्तमकारि । मृद्वी फणामणिरञ्जिततया स्निग्धा पादरुग् यस्य । कलशिञ्जितौ नू पुरौ यस्मिन् तत् कलशिञ्जितनू पुरं मञ्जु मनोज्ञं च तालव्यापृततया मिलतोः करयोः कङ्कणसंकुलस्य संक्वणितं यस्मिन्निति नर्तनक्रियाविशेषणम् ॥ ९॥ जहषुः पशुपास्तुतुपुर्मुनयो वपुः कुसुमानि सुरेन्द्रगणाः । त्वयि नृत्यति मारुतगेहपते ! परिपाहि स मां त्वमदान्तगदात् ॥१०॥ जहपुरिति । जहषुहृष्टाः । तुतुषुस्तुष्टाः । अदान्तादविरतं वर्धमानाद् गदाद् व्याधेः परिपाहि ॥ १० ॥ इति कालियमर्दने कालियशिरसि भगवन्नर्तनवर्णन पञ्चपञ्चाशं दशकम् ।

दशकम् -५६] कालियमर्दनवर्णनम् । रुचिरकम्पितकुण्डलमण्डल: सुचिरमीश ननतिथ पन्नगे अमरताडितदुन्दुभिसुन्दरं वियति गायति देवतयौवते ॥१॥ । रुचिरेति । दैवतयौवते देवस्त्रीसमूहेऽमरताडितदुन्दुभिपुन्दरं यथा तथा वियति दिवि विमानेषु गायति सति पन्नगे तत्फणासु सुचिरं ननर्तिथ ।। १ ।। नमति यद्यदमुष्य शिरो हरे! परिविहाय तदुन्नतमुन्नतम् । परिमथन् पदपकरुहा चिरं व्यहरथाः करतालमनोहरम् ॥ २ ॥ नमतीति । अमुप्य फणिनो यद्यच्छिरो भगवत्पदपरिमथिततया नमति, तत्तत् परिविहायोन्नतमुन्नतं तच्छिरः पदपङ्करुहा परिमथन् व्यहरथाः क्रीडि- तवान् ॥ २॥ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपायसि । फणिपताववसीदति सन्नतास्तदवलास्तव माधव! पादयोः॥३॥ त्वदिति । त्वयावभनो मर्दितो विभुनः कुटिलोऽवाङ्मुखः फणागणो यस्य । गलितेन वान्तेन शोणितेन रक्तेन शोणितमरुणीकृतं पाथो जलं येन । अवसीदति भग्नगात्रे सति तदवला नागपल्यः ॥ ३ ॥ अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः। मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश! भवन्तमयन्त्रितम् ॥ ४ ॥ अयोति । पुरा पूर्वमेव चिराय चिरं परिश्रुतेन तवानुभावेन माहात्म्येन विलीनहृदः श्लथद्धृदयाः अत एव मुनिभिरप्यनवाप्यः पन्थाः सकलनिष्कल- रूपार्थयोजनरूपो मार्गों येषु तादृशैः स्तवैरयन्त्रितमनर्गलं नुनुवुम्तुष्टुवुः ॥ ४ ॥ फणिवधृगणभक्तिविलोकनपविकसत्करुणाकुलचेतसा । फणिपतिर्भवताच्युत ! जीवितस्त्वयि समर्पितमूर्तिरवानमत् ॥ ५॥ 1. 'थह' क. पाठः, नारायणीये स्कन्धः-१. । फणीति । जीवितो मरणान्निवर्तितस्त्वयि समर्पितमूर्तिः साष्टाङ्गपातमवा- नमद् नमश्चकार ॥ ५॥ रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । इति भवद्वचनान्यतिमानयन फणिपतिर्निरगादुरगैः समम् ॥ ६ ॥ रमणकमिति । रमणकं रमणकाख्यं नागानां निवासभूतं द्वीपम् । फाण- रिपुर्गरुडः सापराधेऽपि त्वयि विरोधितां न करोति ॥ ६ ॥ फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः । तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥७॥ फणीति । प्रमदाश्रुविमिश्रितैः प्रमदाभिरश्रुभिश्च, प्रमदाश्रुभिहर्षाश्रुभिर्वा विमिश्रितैः स्वजनैः समगथाः सङ्गतोऽभूः ॥ ७ ॥ निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे । स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः॥ ८॥ निशीति । पुनरनन्तरं निशि रात्रौ तमसा व्रजमन्दिरमेव ब्रजितुं गन्तु- मक्षमे तत्र कालिन्दीतट एव स्वपति सत्यरुन्धावृणोत् ॥ ८ ॥ प्रबुधितानथ पालय पालयेत्युदयदातरवान् पशुपालकान् । अपितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥९॥ प्रबुधितानिति । अथ प्रबुधितान् कृशानूष्मणा प्रबुद्धानवितुं त्रातुं पपाथ पीतवान् । इह महानलपाने किं चित्रं, यतोऽयं कृशानुस्ते मुखम् ॥ ९॥ शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाप्यसौ। इति नुतः पशुपैर्मुदितैर्विभो! हर हरे! दुरितैः सह मे गदान्॥१०॥ शिखिनीति । शिखिन्यग्नौ वर्णतो रूपभेदेनैव पीतता । अधुना क्रियया - १. 'ति । च्युतजी' क, ख, पाठः. २. 'भिः प्रक.ख, पाठः.

दशकम् -५७ प्रलम्बासुरवधवर्णनम् । पानक्रियाकर्मतयाप्यसौ पीतता । हे हरे! दुरितैर्गदकारणभूतैर्दुष्कर्मफलैः सह गदान कार्यभूतान् हर नाशय ॥ १० ॥ इति कालियमर्दने कालियस्य भगवदनुग्रहवर्णनं भगवतो दवानलपानवर्णनं च षट्पञ्चाशं दशकम् । ! *रामसखः कापि दिने कामद! भगवन् ! गतो भवान् विपिनम् । मनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः॥१॥ रामेति । रामः सखा यस्य स भवान् लसद्वेषः शोभमानालङ्कृति- विशेषः ॥ १ ॥ सन्दर्शयन् बलाय स्वैरं बृन्दावनश्रियं विमलाम् । काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥२॥ सन्दर्शयन्निति । काण्डीरैर्याष्टीकैरुद्धृतयष्टिभिरित्यर्थः । भाण्डीरकं नाम बटमागतः ॥ २ ॥ तावत् तावकनिधनस्पृहयालगोपमूर्तिरदयालुः । दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥३॥ तावदिति । तावकनिधनस्पृहयालुस्त्वन्निग्रहेच्छावान् गोपमूर्तिर्गोपवेषः अदयालुः निष्कृपः प्रलम्बनामा दैत्यः प्रलम्बबाहुं तादृशवाहुद्वययुक्तमापेदे प्राप ।। जाननप्यविजानन्निव तेन समं निबद्धसौहार्दः । वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ ४॥ जानन्निति । जानन्नपि वैरोत्पादनाय निबद्धं सौहार्द सुहृद्भावो येन वटस्य निकटे समीपे पटुभिर्द्वन्द्वयुद्धक्रीडाकोविदः पशुपैः श्रीदामादिभिर्व्याबद्धमि- तरेतरसम्बद्धं द्वन्द्वयुद्धमारब्धाः प्रारब्धवान् ॥ ४ ॥ * रामस्य सखा । ब्याख्यानरीत्या तु रामसखेति पाठः स्यात् ।

नारायणीये स्कन्धः-१० गोपान् विभज्य तन्वन् सङ्घ बलभद्रकं भवत्कमपि । त्वदलभीरुं दैत्यं त्वदलगतमन्वमन्यथा भगवन् ! ॥५॥ गोपानिति । गोपान् योगिप्रतियोगिभेदेन विभज्य बलभद्रकं सङ्घ भवत्कं सङ्घ च तन्वन् । त्वद्वलभीरुमिति । प्रलम्वश्चिन्तितवान् अस्मिन् द्वन्द्वयुद्धे परा- जिता जेतारं वहेयुरिति न्यायः । दिष्ट्या मिथ्यापराजितोऽहमनयोरन्यतरं वहन् नेप्यामि । तत्र रामसङ्घस्थः कृष्णं वहन् कदाचित् तृणावर्त इव विपन्नः स्यामिति त्वबलाद् भीरुं त्वद्वलगतं त्वत्सङ्घस्थं त्वमन्वमन्यथा अनुज्ञातवान् ।। ५॥ कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् । श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ६॥ कल्पितेति । कल्पितं विजेतृणां वहनं यस्मिन् । भक्तानां मच्छिर आक्र- म्य स्थातुमपि शक्यमिति भक्तदासतां प्रथयन् प्रकाशयन् श्रीदामानमधत्था ऊद- वान् ॥६॥ एवं बहुषु विभूमन् ! वालेषु वहत्सु वाह्यमानेषु । रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥७॥ एवमिति । भवद्भीत्या रामम् । दूरत इति । वहन्नवरोहणस्थानावधि शनैर्गत्वा ततो जहार क्षिप्रं नीतवान् ॥ ७ ॥ खद् दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे । दैत्यः स्वरूपमागाद् यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥८॥ त्वदिति । त्वत् त्वत्सकाशाद् दूर दूरदेशं गमयन्तं नयन्तं तं दैत्यं सशङ्क दृष्ट्वा हलिनि रामे विहितगरिमभर उत्पादितात्मगौरवे सति वहनाक्षमतया दैत्यः स्वरूपमतिभीषणमागात् । यस्माद्रूपाद् रूपं दृष्ट्वा स हि बलोऽपि शेषमूर्तिरपि मानुषभावेन चकित ईषत् त्रस्तोऽभूत् ॥ ८ ॥ १. 'ति । त्वत्स' ख. ग. पाठः. * बलभद्रनेतृकमित्यर्थः । एवं भवत्कम् । उभयत्र ‘स एषां ग्रामणीः' (५-२-७८)इति केन्।

दशकम् -५८] गोगोपानां दावाग्निमोक्षवर्णनम् । उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दृरतो रामः । विगतभयो दृढमुष्टया भृशदुष्टं सपदि पिष्टवानेनम् ॥९॥ उच्चतयेति । उच्चतयोन्नततया तत्स्कन्धस्थो रामो दूरतोऽपि त्वन्मुखमा- लोक्य भृशमतिशयेन दुष्टं दृढया स्थिरया मुट्या सपदि झटिति पिष्टवान् निगृहीतवान् ॥ ९ ॥ हत्वा दानववीरं प्राप्त वलमालिलिङ्गिय प्रेम्णा । तावन्मिलतोयुवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः॥१०॥ हत्वेति । मिलतोः प्रकृतिलये सकलनिष्कलैक्यवदेकीभूतयोः ॥ १० ॥ आलम्बो भुवनानां पालम्ब निधनमेवमारचयन् । कालं विहाय सद्यो लोलम्बरुचे! हरे! हरेः क्लेशान् ॥११॥ आलम्ब इति । भुवनानामालम्ब आश्रयः प्रालम्बं प्रलम्बस्येदं निधन निग्रहमेवमुक्तप्रकारेणारचयन् कुर्वन् कालं कालविलम्वं विहाय त्यक्त्वा हरेर्नाशय ॥ इति प्रलम्बासुरवधवर्णनं सप्तपञ्चाशं दशकं सैकम् । त्वयि विहरणलोले बालजालैः प्रलम्ब- प्रमथनसविलम्बे धेनवः स्वैरचाराः। तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥१॥ त्वयीति । त्वयि प्रलम्बमथनेन सविलम्बे सति इषीकतृणभूयिष्ठत्वादै- पीकाख्यं वनमीषांबभूवुर्जग्मुः ॥ १ ॥ अनधिगतनिदायक्रौर्यबृन्दावनान्ताव बहिरिदमुपयाताः काननं धेनवस्ताः । १. 'लपवदें क. पाठः २०८ नारायणीये स्किन्धः-१. तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः॥२॥ अनधिगतेति । अनधिगतमप्राप्तं निदायक्रोर्यं ग्रीष्मकालभव ऊष्मा यस्मिंस्तस्माद् बृन्दावनान्ताद् बहिर्देशमिदमैषीकाख्यं काननमुपयाताः तव विरहेण विषण्णाश्च ऊष्मलो यो ग्रीष्मस्तत्तापप्रसरैर्विसरदम्भसि नष्टजल इति बहिर्देशविशेषणम् । अथवोष्मलग्रीष्मतापप्रसरेण विसरत्या व्याप्तयाम्भस्यया पिपासयाकुलाः स्तम्भ निश्चेष्टतामापुः प्रापुः ॥ २ ॥ तदनु सह सहायरमन्विष्य शौरे! गलितसरणिमुजारण्यसञ्जातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥३॥ तदन्विति । गलितसरणौ भ्रष्टमार्गे मुञ्जाख्यतृणप्रधानेऽरण्ये । त्वय्यारात् समीपं गतवति ही ही कष्टं कष्टं दवाग्निः सर्वतो गोपैगवां परितो जजृम्भे प्रज्व- लितोऽभूत् ॥ ३ ॥ सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः। अहह भुवनबन्धो ! पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ ४॥ सकलेति । सकलहरित्यष्टसु दिक्षु । विहतमार्गा बहिर्गन्तुमपारयन्तस्त्वां शरणमुपगताः ॥ ४ ॥ अलमलमतिभीत्या सर्वतो मीलयध्वं दृशमिति तव वाचा मीलिताक्षेषु तेषु । कनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥५॥ अलमिति । सर्वतः सर्वे । सपदि पुनर्नयनोन्मीलनानन्तरमेव भाण्डीरदेशे 1. 'पगोपीः प' ख, ग. पाठः, ।

दशकम्-५८] ऋतुवर्णनम् । २०९ ववृतिरे स्थिता आसन् । भगवता योगैश्वर्येण पूर्वस्थानं नीतास्त इति ज्ञात- जय जय तव माया केयमांशेति तेपां नुतिभिरुदितहासो बद्धनानाविलासः । पुनरपि विपिनान्ते प्राचरः पाटलादि- प्रसवनिकरमात्र ग्राह्यधर्मानुभावे ॥६॥ । जयेति । हे ईश! जय जय लोकोत्तरो भूयाः । केयं तव माया, यत ऐषीकस्था वयं मीलिताक्षाः सन्तो भाण्डीरवटमूलस्थाः स्मः । पाटलेति । पाटल. शिरीषादितरुकुसुममात्रेण ग्राह्यो धर्मानुभाव ऊप्मा यस्मिस्तस्मिन् प्राचरः सञ्चर- णं चकृषे ॥६॥ त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं तव भजनवदन्तः पङ्कमुच्छोषयन्तम् । तव भुजवदुदश्चद्भरितेजःप्रवाह तपसमयमनैषीर्यामुनेषु स्थलेषु ॥७॥ Aam त्वयीति । त्वं यामुनेषु स्थलेषु यमुनातीरेषु क्रीडन् तपसमयं ग्रीष्म- कालमनैषीः । तपसमयं विशिनष्टि त्वयीति । त्वयीश्वरे विमुखं सेवारहितमिव तापभारं वहन्तं प्रापयन्तम् । असेवकपक्षे तापभारं चित्तसन्तापं वहन्तं दधतम् । तव भजनवदन्तनद्यादेः मनसि वा पकं कर्दमं दुरितं वा । तपसमयपक्षे तेज आतपः अन्यत्र पराक्रमः॥ ७॥ तदनु जलदजालस्वदपस्तुल्यभाभि- विकसदमलविद्युत्पीतवासोविलासैः। सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः॥८॥ । तदन्विति । त्वद्वपुस्तुल्या भाः श्यामला दीप्तिर्येषाम् । विकसन्त्यः शोभ- माना अमला विद्युत एव पीतं वासस्तद्विलासाः शोभा येषाम् । त्वद्रपुरपि पीतवासो-

२१०
नारायणीये
[स्कन्धः-१०
विलासयुक्तम् । सन्तापशान्त्या सस्यसम्पत्त्या वा हर्पदाम् । क्षितिधरकुहरेषु गोव-
र्धनगुहासु स्वैरवासी क्रीडन् व्यनैषीः ॥ ८ ॥
कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः
शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च
प्रविदधदनुभेजे देव! गोवर्धनोऽसौ ॥९॥
कुहरेति । कुहरतलनिविष्टमात्मगुहाश्रितं गरिष्ठं महानुभावं त्वामीश्वरं
गिरन्द्रिो गोवर्धनः शिखिकुलानां नवा वर्षारम्भोगताः केकास्तद्रवा एव काकवो
भक्त्यतिशयजनितोक्तिविशेषास्ताभिः स्तोत्रकारी स्फुटानां विकसितानां कुटजानां
गिरिमल्लिकाकुलुमानां कदम्बकुसुमानां (च) स्तोमेन समूहेन पुष्पाञ्जलिं प्रविदधत्
कुर्वन्ननुभेजे उपासाञ्चक्रे ॥ ९ ॥
अथ शरदमुपेतां तां भवद्भक्तचेतो-
विमलसलिलपूरी मानयन् काननेषु ।
तृणममलवनान्ते चारु सञ्चारयन् गाः
पवनपुरपते! त्वं देहि मे देहसौख्यम् ॥ १० ॥
अथेति । भवद्भक्तचेतोवद् विमल: सलिलपूरो यस्यां तामभिसरन्ती
नायिकामिवोपेतां शरदं मानयन् । तृणं सञ्चारयन् भक्षयन् । मे देहसाख्यमारो-
ग्यम् , अथवा देहसौख्यं विदेहकैवल्यम् ॥ १० ॥
इति गोगोपानां दावाग्निमोक्षवर्णनम् ऋतुवर्णनं च
अष्टपञ्चाशं दशकम्।
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।
ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः॥१॥
त्वदिति । त्वद्वपुब्रह्म, तच्च तत्त्वपरचिन्मुदात्मकं सच्चिदानन्दात्मकम् ।
अतः प्रेमदोहनं रागवर्धनम् । स्त्रियो गोप्यः सम्मुमुहुः ॥ १ ॥

दशकम् -५९]
वेणुगानवर्णनम् ।
मन्मथोन्मथितमानसाः क्रमात् त्वद्विलोकनरतास्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे ! काननोपगतिमप्यहमुखे ॥२॥
।
मन्मथेति । गोपिकास्ततस्ततः पुनः पुनः कनाद् दिन प्राते सक्रमोत्क-
पम् । अहर्मुखेऽपि न सर्वदा, कान नोपगतिमपि न विरामनं, न सेहिरे न मर्षि-
तवत्यः ॥२॥
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा भूगेक्षणाः
वेणुनादमुपकर्ण्य दूरतस्त्वहिलासकथयामिरमिरे ।। ३ ।।
निर्गत इति । निर्गते प्रस्थिते भवति त्वयि दत्ता निक्षिप्ता दृष्टयो यासाम्
अत एव त्वद्गतेन मनसा त्यक्तगृहकृत्या दूरतोऽपि वेणुनादमुकर्ण्य श्रुत्वा
त्वद्विलासस्य कथयान्योन्यकथनेनाभिरेमिरे कालं निन्युः ॥ ३ ॥
काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ ४ ॥
काननान्तमिति । व्यत्ययेन व्यत्यासेनाकलितौ धृतौ पादौ यस्मिंस्तथा
आस्थितो वेणुनालिकां प्रत्यपूरयत ॥ ४ ॥
मारवाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो! तावकं व्यजनिं वेणुकूजितम् ॥ ५ ॥
मारेति । धुतं जनितकम्पस्वेदादिकं खेचरीकुलं येन । दृषदामुपलानामपि
द्रावणं द्रवणसाधनं व्यजनि जातम् ॥ ५ ॥
वेणुरन्ध्रतरलागलीदलं तालसञ्चलितपादपल्लवम् ।
तत् स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्ब्रजाङ्गनाः॥६॥
वेण्विति । व्रजाङ्गना गोप्यस्तद् व्यत्यस्तपादं तव स्थितमवत्थानं परोक्ष-
मप्रत्यक्षमपि संविचिन्त्य मुमुहुः ॥ ६ ॥

नारायणीये स्कन्धः-१० निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान् पशूनपि । त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानयन् ॥७॥ निर्विशङ्केति । निर्विशङ्कभवदङ्गदर्शिनीस्तिरस्कृतशरीरतया सन्निहिततया निमेषरहिततया च नित्यं भवदङ्गप्रत्यङ्गदर्शनशीलाः । त्वत्पदप्रणयि भवत्पदाम्बु- जसंसर्गि काननमपि धन्यधन्यम् अतिशयेन भाग्यवदिति ता व्रजस्थाः पशुपा- गना अमानयन् ॥ ७॥ आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥८॥ आपिबेयमिति । वेणुना भुक्तो रसविशेषो यस्मिन् तदधरामृतम् । तद् दूरतोऽस्माकं न सम्भवति । तत्र दुराशया कृतमलम् । समामुहन् सम्मुमुहुः ।। ८॥ प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । बद्धरागविवशास्त्वयि प्रभो ! नित्यमापुरिह कृत्यमूढताम् ॥९॥ प्रत्यहमिति । अनुग्रहादं न तूपद्रवात् । कुतः, यतस्त्वयि बद्धरागवि- वशाः शृङ्गाराख्यप्रेमलक्षणभक्तिविवशा इह कृत्यमूढताम् इदं मयैव कर्तव्यमित्य- वधारणविधुरतामापुः ॥ ९॥ रागस्तावजायते हि स्वभावान्मोक्षोपायो यत्नतः स्यान्न वा स्यात् । तासां त्वेकं तद् द्वयं लब्धमासीद् भाग्यं भाग्यं पाहि मां मारुतेश! ॥१०॥ राग इति । रागस्तावत् स्त्रीणां पुंसां वा मिथः स्वभावादेव जायते । मोक्षोपायस्त्वीश्वरे प्रेम केषाञ्चिदेव प्रयत्नतः स्याद्वा न वा । तासां व्रजाङ्गनानां तद्यं कामसुखदं कान्तप्रेम मोक्षसुखदमीश्वरप्रेम चैकं लब्धमासीद् , एकस्य कृष्णस्यैव कान्तत्वादीश्वरत्वाच्च । अहो भाग्यं भाग्यम् ॥ १० ॥ इति वेणुगानवर्णनम् एकोनषष्टितमं दशकम् । , १. 'मुहुरि' क. पाठः. २. 'निरुप ख. ग. पाठः.

दशकम् - ६०] गोपीवस्त्रापहारवर्णनम् । २१३ मदनातुरचेतसोऽन्वहं भवदघ्रिद्वयदास्यकाम्यया। यमुनातटसीम्नि सैकती तरलाक्ष्यो गिरिजां समाचिचन् ॥१॥ । मदनेति । सैकती सिकतामयी प्रतिमा समार्चिचन् पूजयामासुः ॥ १ ॥ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् । उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥२॥ तवेति । तव नाम्नि कथायां च रता नाम कीर्तयन्त्यः कथाः कथयन्त्यश्च समं सम्भूयोपहारशतैर्जलगन्धयुप्पधूपादिभिर्नन्दसुतो दयितो भवेदिति प्रार्थयन्त्य इति शेषः ॥ २॥ इति मासमुपाहितत्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । करुणामृदुलो नदीतटं समयासीत् तदनुग्रहेच्छया ॥३॥ इतीति । उपाहितत्रता धृतव्रताः ॥ ३ ॥ नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः॥ ४॥ नियमेति । नियमावसितौ व्रतावसाने निजाम्बरमवमुच्य नग्ना यमुनायां जलखेलन उदकवाद्यादावाकुलाश्चलिताः ॥ ४ ॥ त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूडवान् ॥५॥ त्रपयोति । त्रपया दयितसन्निधौ विवस्त्रताजनितलजया । भूरुहो वृक्ष- स्य ॥ ५ ॥ ! इह तावदुपेत्य नीयतां वसनं वः सुदृशो! यथायथम् । इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥६॥ इहेति । हे सुदृशः! इहोपेत्य वो वसनं यथायथं स्वं स्वं नीयताम् । नर्मणा

नारायणीये
[स्कन्धः-१०
मृदु स्मितं यस्मिंस्तम्मिम्त्वयि ब्रुवति सति वधूजनामुमुहे तत् कर्तुं मा मैवमिति
वदितुमप्यसमर्था बभूवुरित्यर्थः ॥ ६ ॥
अयि जीव चिरं किशोर ! नस्तव दासीरवशीकरोषि किम् ।
प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥७॥
अयीति | अयि किशोर कुमारक! त्वं चिरं जीव, तव दासीः प्रोक्त-
कारिणीनः किं किमर्थमवशीकरोषि परवशाः करोषि, अम्बरं प्रदिश देहीत्यु-
दितो याचित त्वं स्मितमेव दत्तवान् नाम्बरमपि । अयि किशोर! अप्राप्तविवाह!
तव दासीः प्रेमाः किमवशीकरोषि वशीकुरु परिगृहाण, अम्बर प्रदिश, नः
पतिस्त्वं, हे अम्बुजेक्षण! त्वत्कटाक्षविरहे वयं पराधीनजीविता इति साभिप्रा-
यमिवोदितत्वात् त्वं तदनुमोदनरूपं मन्दस्मितं दत्तवान् ॥ ७ ॥
अधिरुह्य तट कृताञ्जलीः परिशुद्धाः स्वगतीनिरीक्ष्य ताः।
वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ ८॥
अधिरुह्यति । परिशुद्धाः त्वन्नमनरूपप्रायश्चित्ताद् विवस्त्राप्लवनरूपव्रत-
भङ्गदोषानिवृत्ताः स्वगतीरात्मशरगाः। अनुग्रहरूपामेवं वक्ष्यमाणरूपां गिरमप्यदाः
दत्तवान् ॥ ८ ॥
विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् ।
यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यवलास्त्वमूचिवान् ॥९॥
विदितमिति । मनीषितं सङ्कल्पः । इह वो मनीषिते योग्यमुत्तरं तथा-
स्त्विति इदानीं नाहं वदामि । किन्तु यमुनापुलिने सचन्द्रिकाः क्षणदा भवतीभ्यो
योग्यमुत्तरं केवलं क्रिययैव वदितारो वदिष्यन्तीति ॥ ९ ॥
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः।
प्रणयादयि वीक्ष्य वीक्ष्य ते बदनाब्जे शनकैहं गताः ॥१०॥
उपकार्येति । उपकर्ण्य श्रोत्राञ्जलिभिः पीत्वा ॥ १० ॥

दशकम् -६१] यञ्चपल्युद्धरणवर्णनम् । इति नन्वनुगृह्य वल्लवीविपिनान्तेषु पुरेव सञ्चरन् । करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥११॥ इतीति । करुणया भक्तवात्सल्येन शिशिर आर्द्रहृदयः ॥ ११ ॥ इति गोपीवस्त्रापहारवर्णनं पष्टितमं दशकं सैकम् । ततश्च बृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः। हृदन्तरे भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणाग्रहं वहन् ॥१॥ तत इति । बृन्दावनतो बृन्दावनादतिंदूरतोऽतिदूरे ॥ १ ॥ ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । अदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनाय तान् ।। तत इति । अशरणे गृहरहिते किशोरलोकं बालजनं तृषा पिपासया क्षुधा चाकुलम् । अदूरतस्तत्प्रदेशात् समीपे यज्ञ परान् कर्मप्रधानतया भक्ति- ज्ञानविमुखान् दीदिवियाचनायान्नयाचनाय तान् गोपान् व्यसर्जयः प्रेषयामा- सिथ ॥ २ ॥ गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेचोदनयाचिषु प्रभो। श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥३॥ गतेष्विति । तेऽभिधां कृष्णो व ओदनं याचत इति तव नामाभिधाय । श्रुतौ स्थिरा निश्चितबुद्धयोऽप्यश्रुतिं श्रवणाभावमभिनिन्युरभिनीतवन्तः । महीसुरो- त्तमा ब्राह्मगश्रेष्ठम्मन्याः किञ्चिद् दास्यामि नेति वा नोचुरपि ॥ ३ ॥ अनादरात् खिन्नधियो हि बालकाः समाययुयुक्तमिदं हि यज्वम् । चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं खयि तैः समर्प्यते ॥४॥ अनादरादिति । यज्वसु यायजूकेष्विदमर्थिनिराकरणं युक्तम् । भक्त- मन्नम् ॥ ४ ॥ -

२१६
नारायणीये
[स्कन्धः-१०
निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मिता भवतारेता गतास्ते दारका दारजनं ययाचिरे ॥ ५॥
निवेदयध्वमिति । इमा यज्वपत्न्यः अन्नं दिशेयुर्दारितीरिता उक्तास्ते
दारकाः कुमारा दारजनं गृहिणजनं ययाचिरे याचितवन्तः ॥ ५ ॥
गृहीतनानि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः।
चिरं धृतत्वत्पविलोकनाग्रहाः स्वनिरुद्धा अपि तूर्णमाययुः ॥६॥
गृहीतोते । गृहीतनाम्नि कृष्णोऽस्मन्मुखेन भवतीरोदनं याचत इति त्वन्ना-
मश्रवणमात्र एव ता दारजनाश्चतुर्विधं भोज्यखाद्यपेयलेह्यरूपं भोज्यरसं रसवद्
भोज्यम् । स्वकर्मादिभिर्निरुद्धा अपि तूर्गमाययुः ॥ ६ ॥
विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥७॥
विलोलेति । ईक्षिते कटाक्षे आई वात्सल्यातिशयजनितानन्दजला-
द्रम् ॥ ७ ॥
तदा च काचित् त्वदुपागमोद्यता गृहीतहस्ता दायितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ ॥८॥
तदेति । तदा इतरासु प्रस्थितासु काचिद् यज्वपत्नी त्वदुपागमे उद्यता
यज्वना गृहीतहस्ता पापे! किमिदं प्रतिकूलाचरणमिति प्रतिरुद्धा भवन्तं सञ्चिन्त्य
निरतिशयभवत्सङ्कल्पसुखानुभवेन भवद्विरहजनितसन्तापदुःखानुभवेन च क्षीणसु.
कृतदुष्कृता अञ्जसानायासेन कैवल्यं मोक्षं विवेश । कृतिनी भाग्यवती ॥ ८ ॥
आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गस स्पृहयोज्झतीगृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमाश्वकर्थ भर्तृनपि तास्वगर्हणान् ॥९॥
आदायेति । त्वदङ्गसङ्गस्पृहया त्वया सह रिरंसया गृहं सानुबन्धमुज्झती-
स्त्यजतीः विलोक्यानुगृह्य तास्वगर्हणान् बहुमानयुक्तांश्चकर्थ ॥ ९ ॥

दशकम् -६२]
इन्द्रयागविघातवर्णनम् ।
२१७
निरूप्य दोपं निजमङ्गनानने विलोक्य भक्तिं च पुनर्विचारिभिः।
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो दिमरुत्युराधीश: निरुन्धि मे गदान् ।। १० ।।
निरूप्येति । निजं दोषमङ्गनाजन भक्तिं च निरूप्य प्रबुद्धं तत्त्वं येस्तै-
द्विजैरभिष्टुतः ॥ १० ॥
इति यज्वपत्न्युद्धरणवर्णनमेकपष्टितम् दशकम् ।
कदाचिद् गोपालान् विहितमरखसम्भारविभवान्
निरीक्ष्य त्वं शौरे! मघवमदमुवंसितुमनाः ।
विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा-
नपृच्छः को वायं जनक ! भवतामुद्यम इति ॥ १ ॥
कदाचिदिति । विहिता उपार्जिता मखसम्भारविभवा इन्द्रयागसाधनरू-
पपदार्था यैस्तानेतान् नन्दादिपशुपान् विनयेन मृदु अनुद्धतं यथा भवति तथा
अपृच्छः॥१॥
वभाषे नन्दस्त्वां सुत! ननु विधेयो मघवतो
मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।
तृणां वर्षायत्तं निखिलमुपजीव्यं महितले
विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ २ ॥
बभाष इति । उपजीव्यं सस्यादि । अस्माकं पशुवृत्तीनां विशेषाद् , यत-
स्तृणसलिलजीवनाः पशवः ॥ २ ॥
इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु दृष्टिं समुचितां
महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ ३ ॥

२१८ नारायणीये [स्कन्धः-१० इतीति । धिग् अहो अन्धपरम्परा महतां मनोऽपि स्पृशति, यतो मघ- वजनिता वृष्टिरित्येतन्नो सत्यम् । यद् यस्माजीवानामदृष्टं कर्मफलं खलु वृष्टिं सृजति, न मघवा । सोऽप्यदृष्टेनैवैन्द्रं पदमाप्तः । अत्र हेतुमाह-महारण्य इति । अकृतेन्द्रयागानां वृक्षाणामपि वृष्टिकृतयोगक्षेमदर्शनादित्यर्थः ॥ ३ ॥ इदं तावत् सत्यं यदिह पशवो नः कुलधनं तदाजीव्यायासौ बलिरचलभर्ने समुचितः । सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥ ४ ॥ इदमिति । यदिहोक्तं पशवो नः कुरुधनमिति, तदिदं तावत् सत्यम् । अतस्तदाजीव्याय तृणसलिलसम्पत्तयेऽसौ प्रारब्धो बलिरचलभर्ने गोवर्धनाय, यतोऽचलो नस्तृणं जलं च ददाति, अतः समुचितः । किञ्च धरणिदेवा ब्राह्मणाः, अतस्तेऽप्याराध्याः पूजनीया इति जगदिथ ॥ ४ ॥ भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा द्विजेन्द्रानचन्तो बलिमददुरुच्चैः क्षितिभृते । व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता- स्त्वमादः शैलात्मा वलिमखिलमाभीरपुरतः ॥ ५ ॥ भवदिति । उच्चैः पूर्वस्माद् विशिष्टबहुसाधनोपबृंहितं बलिं पूजां अददुः । व्यधुर्विदधिरे । त्वं शैलात्मा शैलवदतिमहद् वपुगृहीत्वा आभीराणां गोपानां पुरतः शैलोऽस्मि प्रसन्नोऽस्मीति ब्रुवन् बलिमादः अभुङ्कथाः ॥ ५ ॥ अवोचश्चैवं तान् किमिह वितथं मे निगदितं गिरीन्द्रो नन्वेष स्वबलिमुपभुङ्क्ते स्ववपुषा । अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्तानित्युक्ता जहषुरखिला गोकुलजुषः ॥ ६ ॥ अघोच इति । रूपान्तरेण गोपसमूहस्थश्च त्वं तान् गोपानेवं वक्ष्यमाण:- दशकम् --६२] इन्द्रयागविधातवर्णनम् । २१९ कारमवोचः । इह मे निगदितं किं वितथमसत्यम् । अयं मूर्तिमत्त्वेन दृश्यमानो गोत्रो गोवर्धनाख्यो गोत्रद्विषि इन्द्रे चापि कुपिते रक्षितुमलं शक्तः ॥ ६ ॥ परिप्रीता याताः खलु भवदुपेता ब्रजजुषो व्रजं यावत् तावनिजमखविभङ्गं निशमयन् । भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ ७ ॥ परिप्रीता इति । निजमखविभङ्गं निशमयन् शृण्वन् भवन्तं श्रीकृष्णं विष्णुं जानन्नपि अधिकरजसा तत्कार्यरागादिभिराकान्तं हृदयं यस्य सः निजम- खविभङ्गं न सेहे । त्वदुपरचिता त्वत्कृता आत्मोन्नतिरैन्द्रं पदं यस्य ।। ७ ।। मनुष्यत्वं यातो मधुभिदापि देवेष्वविनयं विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । ततश्च ध्वसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ ८ ॥ मनुष्यत्वमिति । मधुभिद् विष्णुरपि मनुप्यत्वं यातो निकृष्टो जातः । अयं मधुभिच्चेद् देवेष्वविनयं न विधत्ते, यदि चेद् विधत्ते तर्हि न मधुभिदयमिति भावः । एवं चेत् त्रिदशसदसा देवसभानां कोऽप्यनिर्देश्यो महिमा नष्ट एव । पशुपहतकस्य गोपालाधमस्य कृष्णस्य ॥ ८ ॥ त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि प्रहिण्वन् विभ्राणः कुलिशमयमभ्रेभगमनः । प्रतस्थेऽन्यैरन्तदहनमरुदायविहसितो भवन्माया नैव त्रिभुवनपते ! मोहयति कम् ॥ ९ ॥ । त्वदिति । प्रहिण्वन् मुञ्चन् अभ्रेभगमन ऐरावतमारूढः अन्यैर्दहनमरुदा- बैरमिवाय्वादिभिरन्तर्हदि विहसितः परिहसितः । भवन्माया के नैव मोह- यति ॥ ९ ॥ १. 'न मो' ग, पाठः, २२० नारायणीये स्किन्धः-१० सुरेन्द्रः क्रुद्धश्चेद् द्विजकरुणया शैलकृपया- प्यनातकोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो कि नायातो गिरिभिदिति सञ्चिन्त्य निवसन् मरुदेहाधीश' प्रणुद मुरवैरिन् ! मम गदान् ॥ १० ॥ सुरेन्द्र इति । आतङ्कात् सङ्कटादन्योऽनातङ्कः सुखं नियतो निश्चितः । गिरिभिदिन्द्रः कुपितः किं नायात इति सञ्चिन्त्य निवसन् । प्रणुद त्यज ॥ १० ॥ इति इन्द्रयागविघातवर्णनं द्विषष्टितमं दशकम् । ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः । सुषमया भवदङ्गतुलां गता ब्रजपदोपरि वारिधरास्त्वया ॥१॥ ददृशिर इति । अक्षतेनाविच्छिन्नेन स्तनितेन जृम्भितेन मेघव्याप्त्या च कम्पिता दिक्तटाः तत्स्थाश्चराचरा यैः । सुषमया शोभया भवदङ्गस्य तुलामुपमां गता वारिधरास्त्वया ब्रजपदस्य त्वद्गृहस्योपरि ददृशिरे अदृश्यन्त ।। १ ।। विपुलकरकमिश्रेस्तोयधारानिपाते- दिशि दिशि पशुपानां मण्डले दण्ड्यमाने । कुपितहरिकृतान्नः पाहि पाहीति तेषां वचनमजित ! शृण्वन् मा विभीतेत्यभाणीः ॥ २ ॥ विपुलेति । विपुलकरकभित्रैः स्थूलजलशर्करामित्रैः । कुपितेन हरिणेन्द्रेण कृताद् वर्षादिति शेषः । मा बिभीत भयं मा कुरुतेत्यभाणीरवादीः ॥ २ ॥ कुल इह खलु गोत्रो दैवतं गोत्रशत्रो- विहतिमिह स रुन्ध्यात् को नु वः संशयोऽस्मिन् । इति सहसितवादी देव! गोवर्धनादि त्वरितमुदमुमूलो मूलतो बाल! दोभ्या॑म् ॥ ३ ॥ !

दशकम् -६३] गोवर्धनोद्धरणवर्णनम् । २२१ कुल इति । इह कुले गोत्रः पर्वतो देवतम् । स गोवर्धनो गोत्रशत्रोरिन्द्रा- जातां विहतिं नाशं रुन्ध्यात् । अस्मिन् मदुक्ते वः कः संशयः, यतो गोत्राणाद् गोत्रो गोवर्धन इति चास्य संज्ञा । उदमुमूल उन्मूलितवानसि ॥ ३ ॥ तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान् धेनुगोपानधस्ता- दुपनिदधदधत्था हस्तपझेन शैलम् ॥ ४ ॥ तदन्विति । सिकतिले वालुकाप्राये मृदुनि स्निग्धे देशे वारिता बहिष्कृता आपो यस्मात् तत्र गिरिवरस्याधस्तात् परिकरैः शिक्यभाण्डादिभिः परिमिश्रान् उपनिदधत् प्रवेशयन् अधत्था धृतवान् ॥ ४ ॥ भवति विधृतशैले बालिकाभिर्वयस्यै- रपि विहितविलासं केलिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कण्ड- यति सति पशुपालास्तोषमैपन्त सर्वे ॥५॥ भवतीति । केलिलापादौ क्रीडासल्लापादौ लोले सकुतुके तो सन्तोषमै- पन्त । बालिकाबालनर्मालापैकहस्तधेनुकण्डूयनादिभिरपगताचलपतनभयाः सन्तोषं प्राप्ता इत्यर्थः ॥ ५॥ अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिसकथि गोपकैः ॥६॥ । अतीति । करसरोरुहि कराब्जे धरते दधाति, किमिदमद्रेर्बलं पक्षरहित- स्याप्युड्डयनशक्तिर्नु इत्याकथि कथ्यते स्म ॥ ६ ॥ १. 'वा(च्य?स्य) सं' ख, पाठः.

२२२ नारायणीये [स्कन्धः-१० अहह पाष्टर्थममुष्य बटोगिरि व्यथितबाहुरसायवरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकसुग्रमवर्षयत् ॥७॥ अहहेति । व्यथितः प्राप्तसादो बाहुर्यस्य । अवरोपयेद् अधः स्थापयेत् । बद्धविगर्हणः सञ्जातनिन्दः हरिः इन्द्रः दिवससप्तकमुग्रमवर्षयत् ॥ ७ ॥ अचलति त्वयि देव! पदात् पदं गलितसर्वजले च घनोत्करे । अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ ८॥ अचलतीति । त्वयि पदात् स्वस्थानात् पदप्रमाणं देशमपि अचलति अगच्छति सति गलितसर्वजले निस्सारे अत एव मरुता वायुना अपहृते त्वत्सका- शाद् अभिशङ्कितधीर्मीतः । अथवा त्वदभिशङ्किता विष्णुः स्वयमयमिति सशङ्का धर्यिस्य । समुपाद्रवत् सम्प्राप्तवान् ॥ ८ ॥ । शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो ! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥९॥ । शमामिति । उपेयुषि प्राप्तवति । भुवि समुपाहितभूधरः यथास्थानं निक्षि- प्तगोवर्धनः त्वं परिवभिषे आश्लिष्टोऽभूः ॥ ९ ॥ धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । इति नुतस्त्रिदशैः कमलापते ! गुरुपुरालय ! पालय मां गदात् ॥ १०॥ धरणिमिति । पुरा वराहावतारे ॥ १० ॥ इति गोवर्धनोद्धरणवर्णनं त्रिषष्टितमं दशकम्। १. 'तू त्वद् अ' ख. पाठः.

दशकम् -६४] गोविन्दपट्टाभिषेकवर्णनम् । २२३ आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवजातकमन्वपृच्छन् ॥१॥ पा आलोक्येति । विश्वे सर्व गोपालकास्तवोच्चैः उत्कृष्टं प्रभावमालोक्य त्वां विश्वेश्वरमवबुध्य नन्दं प्रति भवतो जातकमन्वपृच्छन् ।। १ ।। गर्गोंदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । पूर्वाधिकस्त्वय्यनुराग एपामैधिष्ट तावद् बहुमानभारः॥ २ ॥ गर्गोदित इति । तातेन नन्देन गर्गोदितः 'जेप्यति बहुतरदैत्यान् ' (द.४ ४. श्लो. ८) इत्येवंरूपः तव प्रभावो निजाय वर्गाय गोपसमूहाय निर्गदित उपदिष्टः ।। ततोऽवमानोदिततत्त्ववोधः मुराधिराजः सह दिव्यगव्या। उपत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥३॥ तत इति । ततः अवमानन पराजयेन उदिततत्त्वबोधः मदर्थमवतीर्णो मत्स्वाम्ययमिति । दिव्यगवी सुरभिः. तया सह् ॥ ३ ॥ स्नेहस्नुतैस्त्वां मुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यपिञ्चत् । ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ ४ ॥ स्नेहेति । स्नेहेन स्नुतैः क्षरितैः सुरभिरभ्यषिञ्चद्, अत एव गोविन्दना- माङ्कितम् इन्द्रोऽपि दिव्यगङ्गायाः पाथोभिः जलैः ॥ ४ ॥ जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः । नाकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥५॥ जगदिति । त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटो व्रजः नाके स्वर्गे।। PAN 1. 'त्वामभिमत्योद्दिश्य न' ख, ग, पाठः. २. 'शे तथाभि ग, घ, ङ.च. पाठः, २२४ नारायणीय [स्कन्धः-१० कदाचिदन्तर्यमुनं प्रभाते नायन पिता वारुणपूरुपंण । नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणी कारणमर्त्यरूपः ॥६॥ कदाचिदिति । अन्तर्यमुनं यमुनायाम् । वारुणपूरुषेण वरुणदूतेन । कार- णमर्त्यरूपः भूभारहरणायोपात्तमनुष्यदेहो वारुणी पुरीमगाः ॥ ६ ॥ ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । उपागतस्तत्क्षणमात्मगेहं पितावदत् तच्चरितं निजेभ्यः ॥७॥ ससम्भ्रममिति । जलाधिपेन वरुणेन ससम्भ्रमं त्वदर्शनजातसम्भ्रमं प्रपू- जितः । तातं नन्दम् । तच्चरितं नन्दहरणरूपम् ।। ७ ॥ हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् । निरीक्ष्य विष्णो! परमं पदं तद् दुरापमन्यैस्त्वमदीदृशस्तान् ॥ ८॥ हरिमिति । एवमादिप्रभावैर्भवन्तं हरिं विनिश्चित्य भवतः पदं परं ब्रह्म, तदालोकने बद्धतृष्णान् परमं पदं ब्रह्म अदीदृशः प्रदर्शयामासिथ ॥ ८ ॥ स्फुरत्परानन्दरसप्रवाहपूर्णकैवल्यमहापयोधौ । चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् ! पुनरुद्धृतास्ते ॥९॥ स्फुरदिति । परमानन्दामृतप्रवाहपूर्णे कैवल्याख्ये महार्णवे ॥ ९ ॥ त्वं श्रीकृष्णः साक्षात् परमात्मैव, भक्तेभ्यः करामलकवत् स्वस्वरूपब्रह्मप्रद- शकत्वादित्याहmentaritam करबदरवदेवं देव ! कुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । १. 'ष्णोः' क. पाठ:.

दशकम् -६५] रासक्रीडावर्णनम् । २२५ तदिह पशुपरूपी त्वं हि साक्षात् परात्मन् ! पवनपुरनिवासिन् ! पाहि मामामयेभ्यः॥१०॥ इति गोविन्दपट्टाभिषेकवर्णनं वरुणलोकाद नन्दानयनवर्णनं च चतुष्षष्टितमं दशकम् । गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमथ साधयितुं प्रवृत्तः। सान्द्रेण चान्द्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनान्ते ॥१॥ गोपीति । नियमावसाने गिरिजार्चनव्रतसमाप्तौ कथितं प्रतिज्ञात मारो- त्सवं रासक्रीडादि । यमुनावनान्ते स्थित्वा मुरलिकां वेणुं प्रापूरयः उदैरयः ॥ सम्मृर्छनाभिरुदितस्वरमण्डलाभिः सम्मूर्छयन्तमखिलं भुवनान्तरालम् । त्वद्वेणुनादमुपकर्ण्य विभो ! तरुण्य- स्तत्तादृशं कमपि चित्तविमोहमापुः॥२॥ सम्मुर्छनाभिरिति । उदितानि स्वरमण्डलानि प्रयोगभेदाः यासु ताभिः सम्मुर्छनाभिः आरोहावरोहणरूपैः सप्तभिः स्वरै क्रमयुक्ताः स्वराः सप्त मूर्छनाः परिकीर्तिताः' इत्युक्तेः । सम्मूर्छयन्तं मोहयन्तम् । तत्तादृशम् अनुपमम् ॥२॥ ता गेहकृत्यनिरतास्तनयप्रसक्ताः कान्तोपसेवनपराश्च सरोरुहाक्ष्यः। सर्व विसृज्य मुरलीरवमोहितास्ते कान्तारदेशमयि कान्ततनो ! समेताः॥३॥ १. 'स्मा' ग.घ..च. पाठ:.

२२६
नारायणीये
[स्कन्धः-१०
ता इति । कान्तोपसेवनपराः भर्तृशुश्रूषापराः ॥ ३ ॥
काश्चिनिजाङ्गपरिभूषणमादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः।
त्वामागता ननु तथैव विभूषिताभ्य-
स्ता एव संरुरुचिरे तव लोचनाय ॥४॥
काश्चिदिति । निजाङ्गपरिभूषणं सर्वावयवभूषणम् आदधानाः कुर्वत्यः
वेणुप्रणादमुपकर्ण्य त्वामागताः प्राप्ताः काश्चित् । कृतार्धभूषाः वेणुप्रणादमुपकर्ण्य
तथैव कृतार्धभूषा एवागताः । तत्र विभूषिताभ्यः सर्वावयवभूषणसविलम्बाभ्यः ताः
कृतार्धभूषा एव एता मत्प्रेमातिशयेन विस्मृतभूषणवैकल्या अहो इति ननु तव
लोचनाय संरुरुचिरे तव नयनरुचिविषया बभूवुरित्यर्थः ॥ ४ ॥
हारं नितम्बभुवि काचन धारयन्ती
काञ्ची च कण्ठभुवि देवः समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुन्द तुभ्यं
व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥ ५ ॥
हारमिति । हारोऽस्त्यस्मिन्निति हारी, तत्त्वं हारित्वं मनोहरत्वं च आत्मनः
स्वस्य जघनस्य विशेषान्मनोहरत्वं मुग्धमुखी तुभ्यं भवते बभाष इव ॥ ५॥
काचित् कुचे पुनरसज्जितकञ्चुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा।
त्वामाययौ निरुपमप्रणयातिभार-
राज्याभिषेकविधये कलशीधरेव ॥ ६॥
काचिदिति । असज्जितकञ्चुलीका असंयोजितमात्रिका । तस्याः परव-
धूनां च व्यामोहतः । निरुपमेति । प्रणयातिशयरूपे राज्येऽवस्थाप्याभिषेकाय
कुचभररूपकलशीधरेव ॥ ६ ॥

दशकम् -६५] रासक्रीडावर्णनम् । २२७ काश्चिद् गृहात् किल निरेतुमपारयन्त्य- स्त्वामेव देव! हृदये सुदृढं विभाव्य । देहं विधृय परचित्सुखरूपमेकं त्वामाविशन् परमिमा ननु धन्यधन्याः ॥७॥ काश्चिदिति । काश्चिद् बन्धुभिनिषिध्यमानतया गृहाद् निरेतुं निर्गन्तुम् अपारयन्त्यः अशक्ताः त्वां सुदृढं विभाव्य समाधाय देहं स्थूलं सूक्ष्मं च विधूय त्यक्त्वा । परचिदिति । सच्चिदानन्दाद्वयं परं ब्रह्माविशन् । धन्यधन्याः अतिश- येन भाग्यवत्यः ॥ ७॥ जारात्मना न परमात्मतया स्मरन्त्यो नार्यों गताः परमहंसगतिं क्षणेन । तत् त्वां प्रकाशपरमात्मतनुं कथञ्चि- चित्ते वहन्नमृतमश्रममनुवीय ॥ ८॥ जारात्मनेति । जारात्मना जारबुद्ध्या न परमात्मतया किन्तु केवलमनु- प्यबुद्ध्या त्वां स्मरन्त्यो नार्यो गोप्यः परमहंसानाम् आत्मानात्मविवेकिनां गतिं मोक्षं गताः प्राप्ता इति यत् , तत् तस्मात् प्रकाशपरमात्मतनुं प्रकटीकृतब्रह्मस्व- रूपं त्वां कथाञ्चित् कामाद् द्वेषाद् भयाद्वा चित्ते वहन् चिन्तयन् अमृतं मोक्षम् अश्नुवीय प्राप्नुयाम् ॥ ८ ॥ अभ्यागताभिरभितो व्रजसुन्दरीभि- मुग्धस्मितार्द्रवदनः करुणावलोकी। निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्य ! हर मे परमेश! रोगान् ॥९॥ अभ्यागताभिरिति । हे विश्वकहृद्य ! अभितोऽभ्यागताभिः परिवार्य स्थिताभिः अवेक्ष्यमाणः कटाक्षपात्रीभूतः ॥ ९ ॥ इति रासक्रीडायां गोपीनां भगवत्समीपगमनवर्णनं पञ्चषष्टितमं दशकमेकोनम् ।

२२८
नारायणीये
स्कन्धः-१०
उपयातानां सुदृशां कुसुमायुधवाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥१॥
उपयातानामिति । उपयातानां समीपं प्राप्तानां सुदृशां सुन्दरीणाम् अभि-
वाञ्छितं मारोत्सवं विधातुं कर्तुं कृतमतिनिश्चितबुद्धिरपि प्रथमं ताः गोपीः वाम
प्रतिकूलमिव जगाथ उक्तवान् ॥ १ ॥
।
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धयं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥२॥
गगनेति । जगिथ उक्तवान् । नन्वनुपनीतस्य कुलवधूभिः कामोत्सवोऽध-
मस्तत्का प्रोक्ते कुलवधूधर्मे कथं मुनीनां विश्वास इत्याशङ्कायामाह - धर्म्य
खल्विति । ते ईश्वरस्य वचनं धर्म्य धर्मादनपेतम् । कर्म तु नो विश्वास्यम् । क्वचि-
दधर्मरूपमपि भवति । तेन तव न दोषः, यतो निर्मलः, निर्गुणत्वात् कर्मानधि-
कारी त्वम् ॥ २॥
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धोः परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ३ ॥
आकर्येति । ते तव प्रतीपां 'भवतीनां निशि भर्तृन विरय्येह मत्समी-
पागमनम् अनुचितम् । अतस्त्वरितमात्मगृहं याते'त्यादिरूपतया प्रतिकूलाम् ।
दीनाः क्षीणमानसा मा मास्मान् परित्यजेति विलेपुः रोदनपूर्वकमुक्तवत्यः ॥ ३ ॥
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ४ ॥
तासामिति । लपितैर्वचनैश्च । ताभिः समं सह कामं यथेच्छम् अभिरन्तुं
क्रीडितुं प्रवृत्तः आरब्धः ॥ ४ ॥
।
।
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ ५ ॥

दशकम् -६६]
रासक्रीडावर्णनम् ।
२२९
चन्द्रेति । चन्द्रकरस्यामृतमयस्य स्यन्दो द्रवः तेन लसन्तीषु सुन्दरीषु य-
मुनातीरस्थलीषु गोपीजनानामुत्तरीयैरापादित उत्पादितः संस्तरो विष्टरो यस्य स
त्वं न्यषीद उपविष्टोऽभूः ॥ ५ ॥
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङनस.स्त्वमङ्गनालोकमाकुलीचकृपे ॥ ६ ॥
।
सुमधुरेति । सुमधुरैः श्रोत्रानन्दैः नर्मालपनैः क्रीडावचनैः । गाढालिङ्गनैः
क्षीरनीरवदङ्गप्रत्यङ्गसंश्लेषणैः आकुलीचकृपे द्रावयामासिथ ॥ ६ ॥
वासोहरणदिने यद् वासोहरणं प्रतिश्रुतं तासाम् ।
तदापि विभो! रसविवशस्वान्तानां कान्तसुध्रुवामदधाः ॥७॥
वास इति । वासोहरणदिने गिरिजार्चनसमाप्तिदिने प्रतिश्रुतं प्रतिज्ञातं
वासोहरणं तासां नितम्बप्रदेशाद् वसनाक्षेपम् अदधाः कृतवान् ॥ ७ ॥
कन्दलितधर्मलेशं कुन्दमृदुस्मेरवऋपाथोजम् |
नन्दसुत! त्वां त्रिजगत्सुन्दरमुपगृह्य नन्दिता वालाः ॥८॥
कन्दलितेति । कन्दलिता अकुरिताः धर्मलेशाः स्वेदबिन्दवो यस्मिन् ।
कुन्दकुसुमवद् मृदुस्मेरम् अल्पस्मितं वक्रपाथोज बदनपनं यस्य । नन्दिता
हृष्टाः ॥ ८ ॥
विरहेष्वङ्गारमयः शृङ्गारमयश्च समेऽपि त्वम् ।
नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ९ ॥
विरहेष्विति । शृङ्गारमयः शृङ्गाररसोचितभाषावेषव्यापारस्त्वं विरहेषु स्त्री-
णामङ्गारमयो दहनरूपश्च सन्तापकरत्वात् । सङ्गमेऽपि त्वं नितरामङ्गारमय
इतीदं चित्रम् । हे अङ्ग! त्वं नितरामरमय इत्येवार्थः ॥ ९ ॥

२३० नारायणीये स्किन्धः-१० तासु राधायां भगवतः प्रेमातिशयात् सविशेषं तामभिरमयन्तं भगवन्तं प्रार्थ- यते panese राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश! शमय सकलगदान् ॥१०॥ इति रासक्रीडायां गोपीनां भगवत्कृतधर्मोपदेशवर्णनं यमुनापुलिने भगवता सह विहारवर्णनं च षट्षष्टितमं दशकम् । स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः । असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः॥१॥ स्फुरदिति । स्फुरत्परानन्दरस आत्मा मूर्तिर्यस्य तेन त्वया समासादिता प्राप्ता भोगलीला रतिक्रीडा याभिः । असीमम् अनवधिम् आनन्दरसं रतिसु- खापरपर्यायं ब्रह्मानन्दं प्रपन्ना महान्तं मदमापुः ॥ १ ॥ । तत्प्रकारमाह निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः। इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द ! तिरोहितोऽभूः॥२॥ निलीयत इति । असौ कृष्णो मय्यमायं निर्व्याजं निलीयते सक्तो भवति । अन्यासु सौजन्याद्यर्थं मायया प्रणयवानिव । अन्या मयि निलीयते । इति कलितो धृतोऽभिमानो यासां ता निरीक्ष्य तिरोहितोऽन्तर्हितोऽभूः ॥ २ ॥ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे।। भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ ३ ॥ राधेति । अजातगर्वतयातिप्रियाम् ॥ ३ ॥ तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः। वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ ४॥ ।

Barama- दशकम्-६७] रासक्रीडावर्णनम् । तिरोहित इति । समं जाततापास्तुल्यसन्तापाः समेताः सहिताः परि- मार्गयन्त्योऽन्वेषमाणाः भवन्तं नापुः किन्तु विषादमापुः ॥ ४ ॥ ता विषण्णतयाचेतनानपि भवन्तं पप्रच्छुरित्याह - हा चूत ! हा चम्पक कर्णिकार! हा मालिके! मालति! बालवल्ल्यः । किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ ५ ॥ हा चूतेति । हे बालवल्ल्यः! युप्माभिर्नोऽस्माकं हृदयैकचोरः किं वीक्षितः। त्वत्प्रवणाः त्वदेकचित्ताः ॥ ५॥ निरीक्षितोऽयं सखि ! पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती । त्वां भावनाचक्षुषि वीक्ष्य काचित् तापं सखीनां द्विगुणीचकार ॥६॥ निरीक्षित इति । हे सखि! अयं पङ्कजाक्षः कृष्णः मम पुरो निरीक्षितः प्रत्यक्षीकृतः। भावनाचक्षुषि सङ्कल्पात्मके चक्षुषि प्रत्यक्षमिव त्वां वीक्ष्य सखीनां तापम् आशाजननेन द्विगुणीचकार ॥ ६ ॥ त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् ॥७॥ त्वदिति । त्वदात्मिकाः भावनाबलेन त्वन्मयतां गताः तव चेष्टितानि पूतनावधार्जुनभञ्जनादीनि अनुचक्रुः अनुकृतवत्यः । भूयोऽपि त्वां विचित्य अन्वि- प्य यथान्यासां तथैव मानाद् अहमस्यातिप्रियेत्यभिमानात् त्वया वियुक्तां राधां ददृशुः॥ ७॥ ततः समं ता विपिने समन्तात् तमोवतारावधि मार्गयन्त्यः । पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ ८॥ तत इति । ततः समं तया सह ता गोप्यः वने समन्तात् पर्यन्ततः तमो- वतारावधि चन्द्रास्तमयपर्यन्तं मार्गयन्त्यः अन्वेषमाणाः विमिश्राः सहिताः विलेपुः सप्रार्थनं सुस्वरं रुरुदुः ॥ ८॥ १. 'मु' क. घ. पाठः. २. 'प्रकर्षेण त्व' क. ग. पाठः, ३. 'न्तं परिमा' ख. पाठः.

२३२ नारायणीये स्किन्धः-१० तथाव्यथासंकुलमानसाना बजानानां करुणैकसिन्धो।। जगत्रयांमोहनमोहनात्मा प्रादुरासीरयि मन्दहासी ॥९॥ तथेति । तथाभूतया अनिर्देश्यया व्यथया पीडया संकुलम् आकुलं मानसं यासाम् । जगत्रयीमोहनः कामः तस्यापि मोहन आत्मा मूर्तिर्यस्य स त्वं मन्दहा- सी सन् प्रादुरासीः ॥ ९ ॥ सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् । किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश! ॥१०॥ सन्दिग्धेति । इतः परमपि नाम तं द्रक्ष्यामि न वेति सन्दिग्धं सन्दर्शनं यस्य । प्रमदातिभाराद् हर्षावेशेन ॥ १० ॥ इति रासक्रीडायां गोपीनां मदापनोदाय भगवतस्तिरोधानवर्णनं भगवदन्वेषणवर्णनं भगवदाविर्भाववर्णनं च सप्तषष्टितमं दशकम् । wwecaptaHARMONIRNER तव विलोकनाद गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण! । अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः॥ १ ॥ तवेति । प्रभदसंकुलाः प्रमोदाकुलाः संप्लुताः अभिषिक्ताः स्तिमिततां निश्चलतां दधुः ॥ १ ॥ तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशन्तिम् । धनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ २ ॥ तदन्विति । सपदि दर्शनसमनन्तरमेव इतरासु स्थितासु निर्विशङ्कितं घने निबिडे पयोधरे त्वत्कराम्बुजस्पर्शजनितानन्दातिशयानुभावेन पुलकेन संवृता चिरं तस्थुषी स्थितवती ॥ २ ॥ १. 'मीति' क, ख. पाठः.

। । दशकम् -६८] रासक्रीडावर्णनन् । तव विभो ! परा कोमलं भुजं निजगलानरे पर्यवेशयत् । गलसमुहतं प्राणमारले प्रतिनियतीवातिह'ला ॥ ३ ॥ तवेति । अपरा तव भुजं गृहीत्वा निजगलान्तरे पर्यवेटयद् बबन्ध त्वद्वि- रहव्यथया निर्गमिप्यन्तं प्राणमारुतं प्रतिनिरुन्धतीव ।। ३ ॥ अपगतमा कापि कामिनी तब गुरुवाम्बुमात् पूगर्वितम् । प्रतिगृहथ्य तद् वक्रपङ्कजे निदधती गता पूर्णकामताम् ॥ ४ ॥ अपगतेति । प्रतिगृहय्य गृहीत्वा तत् पूगर्वितं स्वबक्रपङ्कजे निदधती आस्वादयन्ती पूर्णकामतां सजातजीवनफरतां गता प्राप्ता ॥ ४ ॥ विकरुणो बने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् । इति सरोपया तावदेकया सजललोचनं वीक्षितो भवान् ॥५॥ विकरुण इति । वने मां संविहाय अपगतो दूरं गतोऽसि । अतो विक- रुणो निष्कृपस्त्वमिदानी किमर्थमागतोऽसि । इह अस्मासु का त्वां स्पृशेदिति सजललोचनं यथा भवति तथा वीक्षितः ॥ ५ ॥ इति मुदाकुलैबल्लवीजनैः सममुपागतो यामुने तटे । मृदुकुचाम्बरैः कल्पितासने घुसुगमासुरे पर्यशोभथाः ॥ ६॥ इतीति । मृदुभिः कुचाम्वरैः उत्तरीयैः कल्पिते आसने घुसृणभासुरे कुङ्कुमशोभिते ॥६॥ ततश्च सहोपविष्टास्ता भवन्तमाहुरित्याह- कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् बल्लवीजनैः ॥ ७ ॥ कंतिविधेति । इह जगति कतिविधा कृपा । केऽपि सर्वतः सर्वजनेषु धृतदयोदयाः कृपावन्तः । केचिदाश्रिते जन एव धृतदयोदयाः । कतिचित् केचिद् मादृशेष्वाश्रितेष्वपि ईदृशाः भवानिव निष्करुणाः । तत्र तत्त्वं ब्रूहीति शेषः ॥ ७ ॥ १. 'ति । त' क. ख. पाठः. ।

नारायणीये स्कन्धः-१० भवानुत्तरमाह अयि कुमारिका! नैव शङ्कयतां कठिनता मयि प्रेमकातरे । मयि तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥ ८ ॥ अवीति । हे कुमारिकाः ! अबलाः ! प्रेमकातरे प्रणयापायभीरौ मयि कठिनता निष्करुणता नैव शङ्कयताम् । वो युष्माकं मयि चेतसोऽनुवृत्तये मनस्स- माधानाय मयेदं तिरोधानं कृतम् ॥ ८॥ अयि निशम्यतां जीववल्लभाः! प्रियतमो जनो नेशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो! ॥९॥ अपीति । अथि जीववल्लभाः प्राणनाथाः! निशम्यतां तत्त्वम् । ममेदृशः प्रियतमो नास्ति यथा भवत्यः । तत् तस्माद् इह यमुनातीरेषु सचन्द्रतया रम्यासु यामिनीषु अनुपरोधं निश्शकं मया सह रम्यतामित्यालपः ऊचिषे ॥ ९ ॥ इति गिराधिकं मोदमेदुरैर्ब्रजवधूजनैः साकमारमन् । कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ॥१०॥ इतीति । मोदेन मेदुरैः व्याप्तैः । आरमन् क्रीडन् । रासखेलने रासक्री- डायां कलितकौतुकः धृताग्रहः ॥ १० ॥ इति रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं प्रणयकोपवर्णनं भगवत्कृतसान्त्वनवर्णनं च अष्टषष्टितमं दशकम्। Maanlummation अथ रासक्रीडां वर्णयति- केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं हारजालवनमालिकाललितमङ्गरागघनसौरभम् । पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमाणिनूपुरं रासकेलिपरिभूषितं तव हि रूपमीश! कलयामहे ॥१॥ ।

दशकम् --६९] रासक्रीडावर्णनम् । २३५ केशेति । केशपाशधृतपिन्छिकावितति मयूरपिञ्छविरचितः परितः परि- दृश्यमानचन्द्रकः शिरोलङ्कारविशेषो यस्य । गण्डमण्डले सञ्चलद् मकरकुण्डलं यस्य । हारजालैवनमालिकया च ललितं सुन्दरम् । समनुलिप्तरङ्गरागैः कुङ्कुमा- दिभिः घनं निबिडं सौरभं सौरभ्यं यस्य । पीतचेलोपरि धृतया काञ्चिकया मणि- मेखलया अञ्चितं शोभितम् । उइञ्चदंशु उद्तमयूखं मणिमयं नूपुरं चस्य । एवं रासकेल्यै परिभूषितं विरचितनैपथ्यं तव रूप कलयामहे उपास्महे ।। १ ।। तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले । अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण! सञ्चरन् मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ! समुपादधाः ॥२॥ तावदिति । यावद् धृतरासक्रीडोचितवेषो भगवान् , तावदेव कृतं मण्डनं येन । कलिता धृता कञ्चुली गात्रिका यत्र तत् कलितकञ्चुलीकं, तत् कुचमण्डलं यस्य । अथ भूषणानन्तरं परिमण्डले निखातशङ्कुनि समतलदेशे मण्डलाकारेग स्थिते सकलसुन्दरीयुगलमन्तरा द्वयोर्द्वयोर्मध्ये सञ्चरन् तत्कुचकण्ठकपोलादावभि- नये च व्यग्रभुजयुगलतया सम्यक् चरन् । मञ्जुलां मनोहराम् ॥ २ ॥ वासुदेव! तव भासमानमिह रासकेलिरससौरभं दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला। वेषभूषणबिलासपेशलविलासिनीशतसमावृता नाकतो युगपदागता वियति वेगतोऽयं सुरमण्डली ॥३॥ वासुदेवेति । रासकेलिरेव रसः सकलेन्द्रियाह्लादकत्वात् , तस्य सौरभं मानोज्ञकं श्रीनारदेनागदितं निवेदितम् आकलय्य श्रुत्वा । वेषभूषगविलासेषु पेशलैः विदग्धैः विलासिनीशतैः स्वस्त्रीसहस्रैः । नाकतः स्वर्गाद् वेगतो युगपद् विमानवियत्यागता सुरमण्डली देवसमूहः ॥ ३ ॥ वेणुनादकृततानदानकलगानरागगतियोजना- लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । १. 'नादक' घ. ङ. च. पाठः. * इदं परिमण्डलविशेषणं स्यात् ।

२३६ नारायणीये [स्कन्धः-१. पाणिसंकणितकणं च मुहुरंसलम्वितकराम्बुजं श्रोणिधिन्वचलइन्वरं भजत रासकेलिरसडम्बरम् ॥ ४ ॥ वेण्विति । वेणुनादेन कृतेन तानदानेन गाननिदानभूतस्वरप्रदर्शनेन कलेन कण्ठोत्थिततयातिमधुरेण गानेन रागगतियोजन्या रागविशेषमार्गसंयोजनेन च लोभनीयो यः पाइपातः, तत्कृतेन तालमेलनेन मनोहरं तलकेलिरसस्य डम्बर परिपोषम् ॥ ४ ॥ श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तनेऽथ ललितादारललिताङ्गहारमणिभूषणे । सम्पदेन कृत पुष्पवर्षमलमुन्मिपद दिविषदां कुलं चिन्मये त्वयि निलीयमाननिय संघमोह सवधूकुलम् ॥ ५ ॥ श्रद्धयेति । श्रद्धया कौतुकेन विरवितेनानुगानेन परोन्नीतोन्नयनेन कृत- स्तारतारः क्रमादत्युच्चो मधुर स्वरो यस्मिन् , ललितैरङ्गहारः अङ्गविक्षेपैः लुलितानि स्वस्थानात् च्युतानि अङ्गवहारमणिभूषणानि यस्मिन् , तस्मिन् नर्तने सति सम्म- देन स्वातिशायिप्रयोगातिशयदर्शनजनितहविशेन कृतः पुष्पवर्षो येन । अलम् अतिशयेन उन्मिषद् दर्शनोत्सुकं सवधूकुलं सस्त्रीसमूहं दिविषदां कुलं देवसमूहः संमुमोह । निलीयमानमिव अदृष्टद्रपदृश्यदर्शनभेदमित्यर्थः ॥ ५ ॥ स्विन्नसनतनुवल्लरी तदनु कापि नाम पशुपाङ्गना कान्तमंसमवलम्बते स्म तब तान्तिभारमुकुलक्षणा । काचिदाचलितकुन्तला नवपटीरसारनवसौरभ वञ्चनेन तब सञ्चुचुम्ब सुजमञ्चितोपुलकारम् ॥ ६ ॥ स्विन्नेति । स्विन्ना स्वेदार्दा सन्ना प्राप्तसादा तनुवल्लरी यस्याः सा तथा तान्तिभारेण क्लमातिशयेन मुकुलितनयना तव कान्तं सुन्दरम् अंसं भुजमूलम् अवलम्बते स्म आश्रितवती । काचिद् अपरा आचलितकुन्तला विश्लथत्कबरी- भरा नवपटीरसारेण मालेयेन नवम् अननुभूतचरं सौरमं यस्मिन् । यद्वा नवप- । । १. 'घनसौ' क. ग. पाठः, २. 'रा' घ, ङ, च. पाठः, दशकम् -६९] रासक्रीडावर्णनम् । टीरसारवन्नवसौरभं तव भुजं बचनेन अन्यापदेशेन सञ्चुचुम्ब । तज्जनितम् उरुपुलकाङ्कुरं यस्मिन् ॥६॥ कापि गण्डभुवि सनिधाय निजगण्डमाकुलितकुण्डलं पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ ७ ॥ कापीति । तव गण्डभुवि निजगण्डम् आचलितकुण्डलं यथा भवति तथा सन्निधाय पूगचर्वितरसामृतम् अमृतमयं चीटिकारसमन्वबाप । सम्मदेन प्रमोदा- तिशयेन उन्मददशान्तरं पूर्वापरानुसन्धानवैधुर्यलक्षणमवस्थान्तरम् ॥ ७ ॥ गानमीश! विरतं क्रमेण किल वाघमेलनमुपारतं ब्रह्मसम्मदरसाकुलाः सदाति केवलं नन्तुरङ्गनाः । नाविदन्नपि च नीषिकां किमपि कुन्तलीमपि च कल्धुली ज्योतिपामपि कदम्बकं दिवि विलन्वितं किमपरं वे ॥ ८ ॥ गानमिति । अङ्गनाः ब्रह्मसन्मदरसेन ब्रह्मानन्दानुभवरसेन आकुलाः पर- वशाः केवलं सदसि ननृतुः । नर्तनस्य कैवल्यमेवाह -- गानमिति । ज्योतिषां ग्रहनक्षत्रादीनां कदम्बकमपि दिवि विलम्बितमित्यनेन सूर्योदयविलम्बात् त्रिया- मायामो द्योत्यते । किमपरं ब्रुवे गानवायादौ प्रमाद: नीबीकुन्तलगात्रिकाविश्लथ- नानवगतिरित्यादि मुविस्थानां पारवश्यं किमर्थमुच्यत इत्यर्थः ॥ ८ ॥ । मोदसीन्नि शुवनं विलाप्य विवृत्ति समाप्य च ततो विभो ! केलिसम्मुदितनिर्मलाङ्गनवधर्मलेशसुभगात्मनाम् । मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित- स्तावदाकलितमूर्तिरादधिथ मारवरिपरमोत्सवान् ॥ ९ ॥ मोदेति । मोदसीनि ब्रह्मानन्दे भुवनं द्रष्टलोकं विलाप्य मज्जयित्वा १. 'वेन' ग. पाठः. २. 'नाविदन्निति' ग. पाठः. ३. 'धी' क. पाठः, ३३८ नारायणीये स्किन्धः-१० केलिसम्मृदिततया निर्मलानि ललितान्यङ्गानि यासां नवधर्मलेशैः सुभग आत्मा शरीरं यासां, मन्मथेनासहनं सुरतलीलाकालक्षेपासहिष्णु चेतो यासां, तासां सुकृतेन चोदितः प्रेरितः यावत्यो गोप्यस्तावत्य आकलिता धृता मूर्तयो येन ॥९॥ केलिभेदपरिलोलिताभिरतिलालिताभिरवलालिभिः स्वैरमीश! ननु मूरजापयसि चारु नाम विदृति व्यधाः । काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे मूनसौरभमये विलेसिथ विलासिनी शतविमोहनम् ॥ १० ॥ केलीति। केलिभेदैः आलिङ्गनचुम्बनप्रहरणदन्तवणनखक्षतचूषणसीत्कार- हिक्काश्वासादिप्रयोगरूपैः परिलोलिताभिः आकुलीक्रियमाणाभिः । सूरजापयसि यमुनाजले विहृतिं जलक्रीडां काननेऽपि च विहृति व्यधाः कृतवान् । विसारिणा वीजनशीलेन शीतलेन किशोरमारुतेन मन्दवायुना मनोहरे सूनानां पुष्पाणां सौरभमये । विलासिनीशतविमोहनं यथा तथा विलेसिथ अशोभथाः ॥ १० ॥ । कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे! भवान् पूर्णसम्मदरसार्णवं कमपि योमिगम्यमनुभावयन् । ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् भक्तलोकगमनीयरूप कमनीय! कृष्ण परिपाहि माम् ॥११॥ कामिनीरिति । हे कामनीयकनिधे! सौभाग्यार्णव भवान् यामिनीपु कामि- नाः योगिभिगम्यं प्राप्यं पूर्णसम्मदरसार्णवं ब्रह्मानन्दम् अनुभावयन् आस्वादयन् ब्रह्मादीनपि पशुपाङ्गनासु बहुमानयन् बहुमानयुक्तान् कुर्वन् भक्तलोकैर्गमनीयं माप्यं रूपं यस्य । कमनीय! कान्त! हे कृष्ण! परिपाहि ॥ ११ ॥ इति रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्तगीतादिविलासवर्णनं एकोनसप्ततितमं दशकं सैकम् । १. हणनद' क. पाठः.

दशकम् -- ७०] सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनम् । २३९ इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः कदापि पुनरम्बिकाकमितुरम्बिकाकानने । समेत्य भवता समं निशि निपव्य दिव्योत्सवं सुखं सुषुपुरग्रसीद ब्रजपमुग्रनागस्तदा ॥ १॥ इतीति । इति उक्तप्रकारेण रसेन कौतुकेन आकुलं यथा भवति तथा रमिता वल्लभा येन तस्मिंस्त्वयि सति पुनः कदाचिद् वल्लवा गोपाः अम्बिकाक- मितुः अम्बिकावनाख्ये शिवक्षेत्रे भवता समं समेत्य निशि दिव्योत्सवं निषेव्य मुखं सुषुपुः । तदा उग्रः कुरो नागोऽजगरो ब्रजपं नन्दम् अग्रसीत् ॥ १ ॥ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् वला- दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः । तदा खलु पदा भवान् समुपगम्य पस्पर्श तं वभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ २ ॥ समुन्मुखमिति । समुन्मुखं ग्रसनव्यग्रम् | उल्मुकैः अलातैः । तैः गोपैः भवत्पदे न्यपति । वैद्याधरी विद्याधरसम्बन्धिनीम् । समुपसाद्य प्राप्य बभौ शुशुभे ॥२॥ सुदर्शनधर! प्रभो! ननु सुदर्शनाख्योऽस्म्यहं मुनीन् कचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन् निजपदं ययौ व्रजपदं च गोपा मुदा ॥३ सुदर्शनेति । क्वचित् कदाचिद् मुनीन् अङ्गिरसः अपाहसम् अपहसित- वानस्मि । ते मुनयः इह अस्मिन् प्रदेशे मां वाहसम् अजगरं व्यधुः यत आत्मनः सुरूपतया दृप्तोऽस्मान् विरूपतयापहसितवान् , अतस्त्वमजगरो भवितेति शप्त- वन्तः । इदानीममलतां गतः शापान्मुक्त इत्युक्त्वा स्तुवन् निजपदं विद्याधर- लोकम् ॥ ३ ॥ । । १. 'रमम्बि' क. ग. घ. उ. पाठः. * परस्मैपदमात्मनेपदानित्यत्वात् ।

२४०
नारायणीये
स्कन्धः-१०
कदापि खलु सीरिणा विहरति त्वयि स्त्रीजन-
जहार धनदानुगः स किल शङ्खचूडोऽवलाः ।
अतिहतमनुइतस्तमथ गुक्तनारीजन
सरोजिथ शिरोमणि हलमृते च तस्याददाः ॥ ४ ॥
कदापीति । सीरिणा बलभद्रेण सह विहरति क्रीडति सति धनदानुगो
वैश्रवणभृत्यः अबलाः गोपीः जहार । अतिद्रुतं शीघ्रम् अनुहृतः अनुगतः भयान्मु.
तो नारीजनो येन तं शङ्खचूडं रुरोजिथ निगृहीतवान् तस्य शिरोमणि हल-
भृतेऽग्रजायाददाश्च ॥ ४ ॥
दिनेषु च सुहृज्जनः सह वनेषु लीलापर
मनोभवमनोहरं रसितवेणुनादामृतम् ।
भवन्तममरीदृशाममृतपारणादायिनं
विचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ ५॥
दिनेविति । एवं दिनेषु प्रतिदिनं च सुहृज्जनः गोपबालकैः सह । मनो-
भवादपि मनोहरम् । रसितम् आस्वादितं वेणुनाद एवामृतं येन । अमरीदृशां
स्वर्गस्त्रीनयनानाम् अमृतपारणादायिनं निजरूपामृतपानमापादयन्तम् । विरहेण
क्षगं जातेन तापिताः सन्तप्त हृदयाः किन नालपन् , तत्तदवस्थां विचिन्त्य
विलेपुरित्यर्थः ॥ ५ ॥
भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः।
निष्ठुराकृतिरपष्टुनिनादास्तिष्ठते स्म भवते वृषरूपी ॥ ६ ॥
भोजेति । भोजराजस्य कंसस्य भृतकः भृत्यः । कष्टा हिंसाबहुला दुष्ट-
पथे परोपद्रवे दृष्टिरन्वेषणं यस्य । निष्ठुरा क्रूरा आकृतिर्यस्य । वृषरूपी अपष्ठुनि-
नादः क्रूरस्वनः भवते तिष्ठते स्म भवद्दर्शनपथे स्थितवान् ॥ ६ ॥
।
शाकरोऽथ जगतीधृतिहारी मूर्तिमेष बृहती प्रदधानः।
पङ्क्तिमाशु परिपूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ ७॥

दशकम् -७०] वृषभासुरवधवर्णनम् । शाकर इति । शाकरो वृषभः जगत्या भूम्या ति स्थैर्य हत्तुं शीलम- म्यति तथा । पशूनां पङ्क्तिं परिवर्य विद्राव्य छन्द ला निधि वेदगर्भन् । एषो- ऽरिष्टः शकरीजगतीधृतिवृहती पङ्क्तिच्छन्दो मात्र युक्तः । भवा तुच्छन्दोनिधिरिति महान् विशेष इति च प्रतीयते ॥ ७ ॥ तुङ्गशृङ्गमुखमाश्चभियन्तं स गृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मर्दयन्ननदयः मुरलोकम् ॥ ८ ॥ तुङ्गेति । तुङ्गे शृङ्गमुखे शृङ्गाने यन्य, तुङ्गशृङ्गं मुखं यस्यति वा । अभियन्तम् अभिगच्छन्तम् अभियं भयरहितं भद्ररूपं वृवरूपम् अभद्रं दुष्टं सगृहय्य गृहीत्वा मर्दयन् निगृह्णन् । अमदयः प्रसादयामासिथ ॥ ८॥ चित्रमद्य भगवन् ! वृषघातात् सुस्थिराजनि वृपस्थितिाम् । वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ।। ९ ॥ चित्रमिति । वृषघाताद् अरिष्टवधाद् उ॰ वृषस्य धर्मस्य स्थितिः स्थिराजनि । वृष्ण इन्द्रस्य चेतसि, वृषस्य धर्मस्य चेतसि, धर्मबुद्धौ सज्जने वा। वृषघाताद् वृषस्य स्थितिः वृषचेतसि मोदश्चेति चित्रम् ॥ ९ ॥ औक्षकाणि! परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी। इत्थमात्तहसितैः सह गोपै हगस्त्वमव वातपुरेशः ॥ १० ॥ औक्षकाणीति । हे औक्षकाणि! उक्षसमूहाः! वृषभसमूहाः! यूयं दूरं परिधावत । इहायमुक्षविभेदी वृषहन्ता अरिष्टहन्ता वा । इत्थमात्तहसितैः व्याट्ट- तहास्यवचनैः ॥ १० ॥ सु- ! इति सुदर्शनाख्यविद्याधरस्थ शापमोक्षवर्णनं शङ्खचूड- वधवर्णनं वृषभासुरवधवर्णनं च सप्ततितमं दशकम्। १. "तिः। 'क.ख. पाठ:. ३. 'सि । वृषधा' क. ख. पाठः, २४२ नारायणीये [स्कन्धः-१० ॥ यनेषु सर्वेष्वपि नावके शी केशी स भोजेशितुरिष्टवन्धुः । त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान् सिन्धुजवाजिरूपः ॥१॥ यनेविति । यत्नेषु नावकेशी अवन्ध्यः स केशी वं सिन्धुजया लक्ष्म्या अवाप्य इति सिन्धुजावाप्यश्चेदहमपि सिन्युजो भवामीति मत्वेव ।। गन्धर्वतामेप गतोऽपि रूक्षैर्नादैः समुद्घजितसर्वलोकः । भवद्विलोकावधि गोपवाटीं प्रमद्य पापः पुनरापतत् त्वाम् ॥२॥ गन्धर्वतामिति । गन्धर्वताम् अश्वताम् गतोऽपि रूक्षेर्नादैः । गन्धर्वो हि मृदुनाइः ॥ २ ॥ ताार्पिता स्तव ताय एष चिक्षेप वक्षोभुवि नाम पादम् । भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥३॥ ताक्ष्योति । एष तायो दनुजः । भृगुर्हि विष्णुं वक्षसि पदाहन् । तत्कथां निशम्य तत् पनाहननं स्वेनात्मनापि शक्यमिति मोहादिव ॥ ३ ॥ । प्रवञ्चयनस्य खुराञ्चलं दागमुं च चिक्षेपिथ दूरदूरम् । संमूर्छिते.ऽपि ह्यत पूर्छितेन क्रायोमगा खादितुमाहुतस्त्वाम् ॥ ४ ॥ प्रवञ्चयन्निति । खुगञ्चलं खुरप्रहारं प्रवञ्चयन् छलयन् द्राग् झटिति पादयोर्गृहीत्वामुं दूरदूरं चिक्षेपिथ विससजिथ । अतिमूर्छितेन प्रवृद्धेन । आद्रुतः अभिपतितः ॥ ४ ॥ त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् । तद्धिरुद्ध श्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ ५ ॥ त्वमिति । वाहदण्डे अश्ववधे । बाहादण्डं भुजदण्डम् । तवृद्धया बाहादण्डवृद्धया । सप्तीभवन् अश्वीभन्नपि भगवत्यैक्यं सायुज्यम् । वाहदण्डे कृतधीरपि बाहादण्डमिति विरोधश्च द्योत्यते ॥ ५ ॥ Manianit १. 'त्वां' क. ख. पाठः १. स्वां ख. पाठः 'बा' घ. पाठः,

म् -७१]
व्योमासुरवधवर्णनम् ।
आलम्भमात्रेण पशोः सुराणां प्रसाद के नून इवाश्वमेधे ।
कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुः केशवनामधेयम् ॥ ६ ॥
आलम्भेति । अश्वमेधयागे हि पशुमालभ्य तेन यजने कृत एव देवानां
प्रसादः स्यात् । इह त्वालम्भमात्रेग अश्व हंसामात्रेण सुराणां प्रसाडो जातः ।
अतो नूत्ने अपूर्व अश्वमेधयागे अश्ववधे वा कृते ततः केशवनामधेयं त्वां
तुष्टुवुः॥६॥
।
कंसाय ते शौरिसुतत्वपुक्त्वा तं तद्वधोकं प्रतिरुध्य वाचा।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः॥७॥
कंसायेति । नायं कृष्णो नन्दसुतः, किन्तु देवक्या अष्टममुत इति ते
शौरिसुतत्वमुक्त्वा ततस्तद्वधोकं वसुदेववधोयुक्तं कंसं वाचा प्रतिरुध्य केशिक्षप-
णावसाने प्राप्तेन ॥ ७ ॥
कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलु त्वाम् ।
मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ ८ ॥
कदापीति । निलायनक्रीडने तिरोधाननिरीक्षण त्पर्श नरूपे सश्रद्धम् ।
व्योमचरोपरोधी देवशत्रुः ॥ ८ ॥
स चोरपालायितवल्लवेषु चोरायितो गोपशिशुन् पशूत्र ।
गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥९॥
स इति । केचिद् वल्लवाश्चोरायिताः । केचित् पालायिताः । मयपुत्रस्तु गो-
पवेषधारी चोरायितः पशून् गोपशिशृंश्च पर्वतगुहासु कृत्वा निक्षिप्य पिदधे ब-
बन्ध । त्वया परिमर्दितो निगृहीतः ॥ ९ ॥
पर्वविधैश्चादुतकेलिभेदैरानन्दमूर्जामतुलां ब्रजस्य ।
पदे पदे नूतनयनसीमं परात्मरूपिन् ! पवनेश! पायाः ॥ १० ॥

२४४ नारायणीय स्कन्धः-१० एवंविधैरिति । आनन्दस्य मूछी वृद्धिं पदे पदे अनुक्षणम् असीम निरवधि । अत्र हेतुः परात्मरूपीति ॥ १० ॥ इति केशिवधवर्णनं व्योमासुरवधवर्णनं च एकसप्ततितमं दशकम् । अथ कंसवधमाह दशकचतुष्टयेन कंसोऽथ नारदगिरा ब्रजवासिनं त्वा- माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् । आहूय का कमखच्छलतो भवन्त- मानेतुमेनमहिनोदाहनाथशायिन् ! ॥१॥ कंस इति । विष्णु-त्वद्वधार्थ देवक्या जातो नन्दबजे वसतीति नारदस्य गिरा दीर्गहृदयश्चकितमतिः गान्दिनेयम् अक्रूरं कार्मुकमखच्छलतो धनुर्यागनिरी- क्षणार्थमिति व्याजेन अहिनोत् प्रेषयामास ॥ १ ॥ अक्रूर एष भवदधिपरश्चिराय त्वदर्शनाक्षममनाः क्षितिपालथीत्या । तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा- मानन्दभारमतिभूरितरं वभार ॥ २ ॥ अक्रूर इति । भवदध्रिपरः भवद्भक्तः क्षितिपालभीत्या कंसभयेन अहं कृष्णदर्शनाक्षम इति मनो यस्य स त्वदर्शनाक्षममनाः ॥ २ ॥ सोऽयं रथेन सुकृती भवतो निवासं गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् । आस्वादयन् मुहुरपायभयेन दैवं संप्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ ३ ॥ स इति । त्वयि त्वद्विषये मनोरथग गान् दर्शनस्पर्शनादिरूपान् मनसा धार्यमाणान् आस्वादयन् अपायभयेन स्वस्य कसभृत्यतादिहेतुकेन भगवद्दर्शनामा.

दशकम् -७२] अक्रूरस्य गोकुलयात्रावर्णनम् । वभयेन ममाद्य श्रीकृष्णदर्शनं भूयादिति दैवं प्रार्थयन् । एवं पथि त्वामेव चिन्त- यन् नान्यत् किश्चिदपि व्यजानात् ॥ ३ ॥ तदेवाह- द्रक्ष्यामि वेदशतगीतगतिं पुमांस स्पक्ष्यामि किंस्विदपिनाम परिष्वजेय । किं वक्ष्यते स खलु मां क नु वीक्षितः स्या- दित्थं निनाय स भवन्मयमेव मार्गम् ॥४॥ द्रक्ष्यामीति । वेदशतैः उपनिषद्भिः गीता प्रतिपादिता गतिः स्वरूपं यत्य तं पुमांसं पुरुषं किंस्विद् द्रक्ष्यामि स्प्रक्ष्यामि स्पर्शन सुखमनुभवामि । अपि- नामैवं भूयात् । स खलु भगवान् मां कृताञ्जलिं 'हे अरे ति किं वक्ष्यते । क नु कस्मिन् प्रदेशे मया स वीक्षितः स्यात् । इत्थं भवत्स्मरणनैरन्तर्येण तदालम्बनतया भवन्मयं मार्ग निनाय अतिक्रान्तवान् ॥ ४ ॥ भूयः क्रमादभिविशन् भवदधिपूर्त बृन्दावनं हरविरिञ्चसुराभिवन्धम् । आनन्दमन इव लग्न इव प्रमोहे किं किं दशान्तरमवाप न पङ्कजाक्ष! ॥५॥ भूय इति । प्रमोहे लग्नो बहिर्विकाराभावान्मूढ इव किं किं दशान्तरं नावाप ॥५॥ पश्यन्नवन्दत भवद्वृितिस्थलानि पांसुष्ववेष्टत भवच्चरणाङ्कितेषु । किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तितरला विरलाः परात्मन् ! ॥६॥ पश्यन्निति । भवद्विहृतिस्थलानि क्रीडा थानानि अवन्दत । भवच्चरणाङ्कितेषु पां- १. 'दि क. पाठः.

नारायणीये स्कन्धः-१० सुष्ववेष्टत श्रीकृष्णपादपांसव इति सर्वाङ्गेप्वकरोत् । किं ब्रूमहे । तदा भवतः काले बहुजना जाताः, तथाप्यक्रूरवदेवं भक्त्या तरलाः परवशाः विरला न्यूनाः ॥६॥ सायं स गोपभवनानि भवच्चरित्र- गीतामृतप्रसृतकर्गरसायनानि । पश्यन् प्रमोदसरितेव किलोद्यमानो गच्छन् भवद्भवन निधिमन्वयासीत् ॥ ७ ॥ सायमिति । सायं सन्ध्याकाले भवञ्चरित्रगीतमेवामृतं, तत्प्रसृतममृतनि- प्यन्दः, तदेव कर्णरसायनं श्रोत्रानन्दकरं येषु तानि गोपभवनानि पश्यन् प्रमोद- रूपया सरिता नद्या उह्यमान इव ॥ ७ ॥ तावद् ददर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तम् । भूमन् ! भवन्तमयमग्रजवन्तमन्त- ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम्* ॥ ८ ॥ तावदिति । पशुदोहविलोकने लोलं सश्रद्धं भक्तोत्तमस्याङ्करस्य आगति प्रतिपालयन्तमिवायमक्रूरो भवन्त ददर्श । ब्रह्मानुभूतिब्रह्मज्ञानं, तज्जन्यो रससिन्धुः सुखार्णव आनन्दः । पथि श्रीकृष्णाकाराकारितायाश्चित्तवृत्तेः अन्तःस्थत्वाद् भगवद्दर्शनसमनन्तरं तत्या इन्द्रियद्वारा बहिनिर्गमनाच्चान्तःस्थं श्रीकृष्णदर्शनसुखं बहिरुद्वमन्तमिवेत्यर्थः ॥ ८ ॥ सायन्तनाप्लव विशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ। नातिप्रपञ्चधृतभूषणचारवेषौ मन्दस्मितावदनौ स युवां ददर्श ॥ ९ ॥ - * बहिर्भवनानुकूलव्यापारवृत्तेरुद्वमतेरिह बहिर्भावमात्रे वृत्तिनिवृत्तप्रेषणपक्षाश्रयणेन । एवञ्चा- बूर हृदयाद् बहिर्भवन्तं ब्रह्मानुभूतिरसन्धुिमिव स्थितमिति भगवद्विशेषणमुपपन्नम् । अस्या एवापपत्तये व्याख्याने 'पथि श्रीकृष्ण'त्याधुक्तिः ।

दशकम्-७२] अक्रूरस्य भगवत्कृतसत्कारादिवर्णनम् । सायन्तनेति । सायन्तनः सन्ध्यासमयस्थः आप्लवः आकण्ठं स्नानं तेन विशेषेण विविक्तगात्रौ स्वच्छदेही नातिप्रपञ्चम् अनतिबहुलं यथा तथा धृतैः भूषणैः चारुर्मनोहरो वेषोऽलतियाविशेषो ययोः ॥ ९॥ दूराद् रथात् समवरुह्य नमन्तमेन- मुत्थाप्य भक्तकुलमौलिमथोपगृहन् । हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रगृह्य सबलोऽथ गृह निनेथ ॥१०॥ दूरादिति । हर्षादुपगृहन् मिताक्षरया गिरा कुशलानुयोगी कुशलं पृच्छन् गृहं निनेथ प्रवेशयामासिथ ॥ १० ॥ नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् । गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥११॥ नन्देनेति । भूपतिनिदेशकथां कंसाज्ञावचनं निवेद्य उपायनसंभारसंभृत- शकटसंयोजनाद्यादिश्य तेनाक्रूरेण सह नानाकथाभिः निशामनैषीः ॥ ११ ॥ तस्यां निशायां श्रीकृष्णे गोपीनामन्यासक्तिशङ्काभूदित्याह- चन्द्रागृहे किमुत चन्द्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविन्दे । धूर्तो विलम्बत इति प्रमदाभिरुच्चै- राशङ्कितो निशि मरुत्पुरनाथ! पायाः ॥ १२ ॥ इति अङ्करस्य गोकुलयात्रा-बृन्दावनप्राप्ति-भगवत्समागम- भगवत्कृतसत्कारादीनां वर्णनं द्विसप्ततितमं दशकं सद्विकम् । - PORNORAMIND १. 'शंसितो क. पाठः नारायणीये निशमय्य तवाथ यानवार्ता भृशमार्ताः पशुपालबालिकास्ताः। किमिदं किमिदं कथं वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥१॥ निशमय्येति । यानवात श्वः प्रभाते श्रीकृष्णं नेतुमागतोऽक्रूर इत्येवंरू- पाम् । किमिदम् अमृतास्वादे विषानमिवातिकष्टमवस्थान्तरमापतितम् । कथं न्विदम् अस्मद्भाग्यदोषाद् नन्दसूनोनिष्करुणतया वा इत्येवमादीनि परिदेवितानि विलपनान्यकुर्वन् ॥ १ ॥ । परिदेवितान्येवाह- करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः। बत नः किमु दैवमेवमासीदिति तास्त्वगतमानसा विलेपुः ॥२॥ करुणेति । नो दैवं भाग्यम् एवं निरतिशयसुखप्रदं सहसा नष्टं चासीत् किमु बत खिद्यामहे ॥२॥ चरममहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । परितापपरं नितम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥३॥ चरमेति । चरमप्रहरे अन्त्ययामे प्रतिष्ठमानो निर्गच्छन् एकं सखायमाप्त दूततया व्यमुचः प्रेषितवान् ॥ ३॥ अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः। अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः॥४॥ अचिरादिति । वो युप्माकं मया सङ्गमश्रीः संभोगसौख्यम् अचिराद् भवितैव । किञ्च अमृताम्बुनिधौ सुखार्णवे, अथवा अमृतं मोक्षस्तद्रूपेऽम्बुनिधौ । अन्ते मोक्षमपि वो वितरिप्यामीत्यर्थः ॥ ४ ॥ सविषादभरं सयाजमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तदिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ ५॥ । १. 'माहूय ब. पाठः, दशकम् -७३] अक्रूरस्य भगवत्स्वरूपसाक्षात्कारवर्णनम् । २४९ सविषादेति । वनिताभिः अतिदूरं सविषादभरं यथा भवति तथा त्वदा- गमनविलम्बेऽस्मत्प्राणा यास्यन्ति, अतः त्वरितमागन्तव्यमिति सयाच्नं च यथा भवति तथा ईक्ष्यमाणस्त्वं तदिशि अपाङ्गान् कटाक्षान् मृदु मुकुली कृताभ्यां नयनाभ्यां पातयन् निर्गतोऽभूः॥ ५ ॥ अनसा बहुलेन वल्लवानां मनसा चानुगतोऽय वल्लभानाम् । वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ ६ ॥ अनसेति । वल्लवानां गोपानाम् अनसा शकटेन । वल्लभानां गोपीनां मनसानुगतः आर्ताः पीडिता मृगाः यस्मिन् विषण्णा वृक्षा यस्मिन् तद् वनं समतीतः अतिक्रान्तः ॥ ६ ॥ नियमाय निमज्ज्य वारिणि त्वामभिवीक्ष्याथ रथेऽपि गान्दिनेयः । विवशोऽजनि किन्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ नियमायति । नियमाय सन्ध्यावन्दनादि कर्तुं वारिणि यनुनाजले निम- ज्ज्य तत्र त्वाममिवीक्ष्य अथ उन्मजनानन्तरं रथेऽपि त्वामभिवीक्षा गादिनेयः अक्रूरः विवशोऽजनि । ननु विभोस्ते समन्तादवलोकनं किन्नु चित्रं, विभुत्वाद् व्याप्तत्वादेव न चित्रमित्यर्थः ॥ ७ ॥ पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे। अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोधपरीतमालुलोके ॥ ८ ॥ पुनरिति । एषोऽक्रूरः पुग्यशाली सुकृती, अन्यथा शेषशायिनो भवतो दर्शनाभावात् , पुनर्निमज्ज्य त्वां परमं पुरुषं विष्णुम् आलुलोके ददर्श ॥ ८ ॥ स तदा परमात्मसौख्यसिन्धौ विनिमनः प्रणुवन् प्रकारभेदैः । अविलोक्य पुनश्च हर्षसिन्धोर नुवृत्या पुलकावृतो ययौ त्वाम् ॥९॥ स इति । परमात्मसौख्यसिन्धौ ब्रह्मान दार्गवे । प्रकारभेदैः सगुणर्गुिण- भेदैः प्रणुवन् स्तुवन् अविलोक्य तद्रूपं तिरोहितं वीक्ष्य पुनश्चानवलोकने सत्यापे - 1 २५० नारायणीये [स्कन्धः-१० हर्षनिन्धो नुवृत्त्या परमान दान भवानिवृत्तेः पुलकावृतत्त्वां ययौ उन्मज्ज्य त्वत्स- मीपमाप ॥९॥ किमु शीतलिमा महान जले यत् पुलकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण साधं रथवासी पवनेश! पाहि मां त्वम् ॥१०॥ किञ्चिति । अनिहर्षनिरुत्तरेण भगवतः स्वरूपदर्शनेनानन्दबाप्पनिरुद्ध- काठतया अदत्तोत्तरेण ॥ १० ॥ इति भगवतो मथुराप्रस्थानवर्णनं यमुनाजले अङ्करस्य भगवत्स्वरूपसाक्षात्कारादिवर्णनं च त्रिसप्ततितमं दशकम् । सम्पाप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस- नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् । पापो राजपथं चिरथुतिधृतव्यालोककौतूहल- स्त्रीपुंसोधगम्पपुण्पनिगलैराकृष्यमाणो नु किम् ॥ १ ॥ सम्माप्त इति । दिनाविगमे मध्याह्ने तत्र मथुरायाम् अन्तरस्मिन्नारामे बालोद्याने वसन् राजपथं राजमार्ग प्रापः प्राप्तवान् । चिरश्रुत्या धृतं व्यालोकको. रहलं येषां तेभ्यः स्त्री सेभ्यः उद्यन्ति फलोन्मुखानि अगण्यानि अपरिमेयानि पुण्यान्येव निगलाः शृङ्खलाः तैराकृष्यमाणः किन्नु ॥ १ ॥ तत्र कथमपि त्वत्सादृश्यानुमेयसुकृता मथुरास्त्रियस्त्वदर्शनसुखमन्वभूवान्नि- त्याह SEARSMORE त्वत्पादातिवत् सरागसुभगास्त्वन्मूर्तिवद् योषितः सम्प्राप्ता विलसत्पयोधररुचो लोला भवदष्टिवत् । हारिण्यस्त्वदुरस्स्थलीवदाये ते मन्दस्मितमौढिव- मल्योल्लसिताः कचौधरुचिवद् राजत्कलापाश्रिताः॥२॥ १. " तोच. पाठ..

-
दशकम् -७४]
रजकनिग्रहवायकमालाकारानुग्रहवर्णनम् । २५१
त्वत्पादेति । त्वत्वाइयुतिः सरागा रक्त पर्णा सुभगा च । तद्न्म पुरापुर-
स्त्रियोऽपि सरागाः त्वदुगा गात् त्वयि चिरं धृतगमाः सुमगाश्च । आत्यइ.
र्शनार्थ सम्प्राप्ताः । त्वन्मूर्तिः विलसत्ययोधारुक् सज जलधरशाला । तद्वा ता
अपि विलसत्पयोधररुचः आगमनसम्भ्रमात् चलितकुचाः । इतस्ततः सम्प्राप्तयोषि-
दर्शनव्याप्ततया लोला चञ्चला भवदृष्टिः । तद्वत् ता अपि लोलाः भवदर्शनको-
तुकयुक्ताः । हाराः सन्त्यज्यामिति हारिगी उरथली । मनोहारियच ताः ।
आय भगवन् ! ते तव मन्दस्मितप्रौढिः म दमितस्य प्रोटि: उदारता सा नर्म-
ल्योल्लसिता । ता आपे नै ल्योल्लसिताः स्वच्छ शरीराः शुद्धान पश्च । त्यत्कचौ.
घरुचिः राजत्कलापाश्रिता बलिकृता । अन्यत्र कलामा भूषणानि । सर्वाभरग-
भूषिता इत्यर्थः ॥ २॥
तासामाकलयन्नपाङ्गवलनोदं प्रहर्षाद्भुत-
व्यालोलेषु जनेषु तत्र रजकं कञ्चित् पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
सद्यस्तस्य करेण शीर्षमहथाः सोऽप्याप पुण्यां गतिम् ॥ ३ ॥
।
।
तासामिति । अपाङ्गवलनैः कटाक्षवीक्षणैः तासां मोदमाकलयन् प्राप-
यन् जनेषु प्रहर्षाद हुताच्च व्यालोले आगते । पर्टी वातांति । पुरयां गति
मोक्षम् ॥ ३ ॥
भूयो वायकमेकमायतमति तोपेग वेपोषित
दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मना।।
मालाभिः स्तवकैः स्तवैरपि पुनर्मालाकृता मानियो
भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मी च लक्ष्मीपतेः ॥ ४ ॥
भूय इति । वायकं तन्तुवायम् एकं भगवत्प्रसाइपात्रम् आयतमति
विपुलमनसं वेषोचितं विचित्रवर्णदुकूलादिकं दाश्चां द तब स्वपदं सारूप्यं
निनेथ अनयः । सुकृतं को वेद, केवलं फल नुमेयमिति भावः । स्तबकैः पुष्पैः
स्तवैः स्तोत्रैश्च मालां करोतीति मालाकृत् तेन मानितः पूजितः । परां प्रेमलक्षणां
भक्तिं दिदेशिथ दत्तवान् ॥ ४ ॥

नारायणीये [स्कन्धः-१० कुब्जामजविलोचनां पथि पुनदृष्ट्वाङ्गरागे तया दत्ते साधु किलङ्गरागमददास्तस्या महान्तं हृदि । चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं गृह्णन् मञ्जु करेग तामुदन यस्तावज्जगत्सुन्दरोम् ॥ ५॥ कुब्जामिति । कुब्जांत्रियाम् अब्जविलोचनाम् इतरावयवसौन्दर्यातिश- ययुक्त म् । तयाङ्गरागे अनुलेपने दत्ते सति तत्या हृदि महान्तम् अङ्गे भवन्मूर्ती रागग रागं भवत्यपरपर्यायमददाः । अङ्गेति पृथक्पदं वा । चित्तस्थां परोक्षाम् ऋगुनां गात्रेऽपि प्रथायतुम् अपरोक्षीकर्तु म्फुटं नूनं करेण मञ्जु अनुत्पादितवेदनं यथा भवति तथा गृह्णन् उदनयः ऋज्वीचकर्थ ॥ ५ ॥ । तावनिचितवैभवास्तव विभो! नात्यन्तपापा जना यत्किञ्चिद् ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् । गृह्णानः कुसुमादि किञ्चन तदा माग निबद्धाञ्जलि- र्नालिष्टं वत हा यतोऽद्य विपुलामाति व्रजामि प्रभो ॥६॥ । तावदिति । यावदङ्गरागसमपंगेन त्रिवक्रामप्यनुगृहीतवान् , तावत् तद्- दृष्टान्तेन तव निश्चितं वैभव वरप्रदानशक्तिर्यैः । ये न चात्यन्तपापाः, ते जनाः शक्त्यनुगुणं यत्किञ्चित् ताम्बूलनाल्यादिकं तुभ्यं ददते स्म दत्तवन्तः । ते च कृता- र्थाः । तदाहमपि किञ्चन कुसुमादि गृह्णानो मार्गे निबद्धाञ्जलि तिष्ठम् । हा बत कष्टं, यतस्तदकरणादद्य विपुलां महतीम् आति रोगादिजनितां पीडां व्रजा- मि ॥ ६ ॥ । एष्यामीति विमुक्तयापि भगवन्नालेपदाच्या तया दूरात् कातरया निरीक्षितगतिस्तं प्राविशो गोपुरम् । आयोग नुनिलदागनम हाहर्षोल्ललदेवकी- वोजप्रगलत्पयोरसमिषात् त्वत्कीतिरन्तर्गता ॥७॥ एष्यामा । मद्गृहानागच्छेति प्रार्थितेन त्वया कृतकार्योऽहमेष्याम्यागच्छा- मीति विमुक्तया प्रेषितयापि तया आलेपदाच्या त्रिवक्रया कातरया विरहभीतया दशकम् -७४] धनुश्शालायां धनुर्भङ्गादिवर्णनम् । दूराद् निरीक्षिता गतिर्यस्य स त्वं गोपुरं प्राविशः प्रविष्ट गन् । आघोषेण त्वदर्शनादिप्रवृत्त मौरजनजानि नानुमितः कल्पितो यस्त्वरा मिः तजनितेन महता हर्षेण उल्ललतः क्षुभिताद् देवकीवक्षोजाद् यः पयोरसः प्रजगाल, तव्याजेन त्वत्कीर्तिस्त्वत्प्रवेशात् पूर्वमन्तर्गता नगरं प्रविष्टा ॥ ७ ॥ आविष्टो नगरी महोत्सववती कोदण्डशालां ब्रजन् माधुर्येण नु तेजसा नु पुरुपैर्दूरेण दत्तान्तरः । स्रग्भिभूषितमर्चितं वरथ तुर्मा मेति वादात् पुरः प्रागृह्णाः समरोपयः किल समानाक्षीरभाङ्क्षीरपि ॥८॥ आविष्ट इति । माधुर्येण वा श्रीमूर्तेर्वा मधुरतया तेजसा अधृप्यतया वा प्रतिषेद्रुमशक्यतया रक्षि पुरुषैर्दूरेण दत्तान्तरः परिहृतमार्गः सन् मा मा धनुः स्पृशेति वादाद् रक्षिपुरुषवचनात् पुरः पूर्वमेव धनुः प्रागृह्णाः अग्रहीः । पुनरपि मा मा समारोपयेति वादात् पुरः समरोपयः । एवं मा मा आकर्षयेति वादात् पुरः समानाक्षीः । मा मा भाङ्गीरिति वादात् पुरः अभाशीरपि ॥ ८ ॥ श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम- चापध्वंसमहाध्वनिस्तव विभो! देवानरोमाञ्चयत् । कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी- चण्डाभ्याहतरक्षिपूरुपरवैरुत्कूलितोऽभूत् त्वया ॥९॥ श्व इति । कंसक्षपणं कंसवधनामोत्सवो भावो । तस्य पुरतः पूर्व मङ्गलार्थः प्रारम्भतूर्यरवः कर्तव्यः । तत्पदृशन्तव चापध्वसमहाध्वनिर्देवानरोमाञ्चयत् कंस- मपि विधिष्यतीति रोमाञ्चितशरीरानकृत । कंसस्यापि तदुदितः चापध्वंसमहाव- निश्रवणाज्जातो वेपथुः कम्पः तस्यैव कोदण्डस्य खण्डद्वय्या चण्डाभ्याहतानां सुदृढ प्रहृतानां क्षिपूरुषागां रवैः धिग धेिग हा हताः स्म इति विलपनरूपैः त्वया उत्कूलितो वर्धितोऽभूत् ॥ ९ ॥ १. 'पूर्व स क पाठः. * 'वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति' इति 'जनिवध्योश्च' (७.३.३५) इति सूत्रे वृत्ति- । २. 'सध्व क. ग. पाठः.

२५४ नारायणीये स्किन्धः-१. शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः संपश्यन् पुरसम्पदं प्रवि वरन् सायं गतो वाटिकाम् । श्रीदाम्ना सह राधिकाविरह खेदं वदन् प्रस्वप- नानन्दनवतारकार्यघटनाद वातेश संरक्ष माम् ॥ १० ॥ शिटैरिति । शिष्टैः सज्जनैः प्रीत्या दृटो महिमा अद्भुतपराक्रमो यस्य । दुष्टजनैः भीत्या दृष्टमहिमा सन् सायं सन्ध्यायां वाटिकां शकटस्थानं गतः श्रीदा- म्नाप्तेन गोपेन । अवतारकार्यघटनात् कंसे हते तच्छ्शुरस्य मागधस्य परिभवात् तस्य तद्वन्धूनां शिशुपाल.दीनां च वधो भावी याविचिन्तया भूभारहरगनिर्वाहद- र्शनादानन्दन् ॥ १०॥ इति भगवतो मथुरापुरीप्रवेश-रजकनिग्रह-वायलमालाकार- कुब्जानुग्रह धनुर्भङ्गादिवर्णन चतुस्लप्ततितमं दशकम् । प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये सङ्ग्रे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् । कसे सौधाधिरूढे त्वमपि सहबलः सानुगचारवेषो रद्वारं गोऽभूः कुपितकुवलयापीडनागावलीढम् ॥ १ ॥ प्रातरिति । अरे : प्रातः सन्त्रस्तन्य देशक्या अष्टम पुत्र तया अतिमानु- पेण पराक्रमे ग चायं मां हनिष्यतीति भीतः य (कंसत्य) वचसा आज्ञया मल्लतूर्ये मल्ल- क्रीडानुसारिवाद्यप्रयोगे प्रस्तुते आरब्धे सति । अभिययुषि आरूढे च सति । महा- मात्रप्रणोदात् कुपितेन कुवलयापीडाख्येन नागेन अवलीढं विनितप्रवेशं मल्लरङ्ग- द्वारं गतोऽभूः ॥ १ ॥ पापिष्ठापेहि मार्गार छतमिति वचसा नितुरकुद्धबुद्धे- रम्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः । १. 'वधिध्य' ख..पाठ:.

दशकम् -७५]] भगवतो मल्लरङ्गप्रवेशवर्णनम् । केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निगतो वल्गुहासी ॥२॥ पापिष्ठेति । हे पापिष्ठ! अतिशयेन दुष्ट! मार्गाद् द्रुततरम् अपेहि अपसर इति त्वद्वचसा निष्ठुरा स्वतः क्रूरा क्रुद्धा च बुद्भिर्य य तत्याम्बष्ठत्य महामात्रस्य प्रणोदात् चोदनया । केलीमुक्तः क्रीडया हस्तिकराद् विगलितः अथ अनन्तरं गोपीकुचकलशचिरस्पर्धिनम् , अत एव तत्साम्यापादकपुण्येन भगवत्करस्पर्शलाभः, अस्य कुम्भं मस्तकं व्याहत्य हस्तेन ताडयित्वा चरणभुवि चरणचतुष्टयमध्ये लीलयालीयथाः ॥२॥ हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्र क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् । मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥३॥ हस्तेति । हस्तेन शुण्डया प्राप्यः स्पृश्यमानोऽप्यगम्योऽम्पृश्यमानो यथा भवति तथा झटिति धावन् क्रीडन् भूमौ स्वयमापत्य दण्डवत् पतित्वा पुनः पश्चादभिपततो दन्ताभ्यां भूमौ नतस्तस्य सजीवं जीवेन सह दन्तं मूलादखण्ड- मुन्मूल्य तन्मूलगानि दन्तमूलस्थानि महितानि परार्ष्यानि महान्ति स्थूलानि मौक्तिकान्यात्मभित्रे श्रीदानि प्रादाः एभिलीले तथि चितं मनोहरतया रचितं हारं मालां राधिकायै मत्प्रेयस्यै दिश प्रदेहीति वचनपूर्वकम् ॥ ३ ॥ गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः। हहो धन्यो नुं नन्दो नहि नहि पशुपालाना नो यशोदा नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः॥४॥ गृह्णानमिति । अङ्ग! हे श्रीकृष्ण ! इतर न्तमंसे गृह्णानेन हलिना युतं १. येऽलीय क. स. पाठः. ३. 'हि' इति मूलपाट २५६ नारायणीये [स्कन्धः-१० -- मल्लक्रीडारङ्गाविशन्तम् । मङ्गल्यरूपयाङ्गभङ्गया रभसहृतानि बलात्कारेण हृतानि मनोलोचनानि येपाम् । हो हे लोकाः! यत्सुत्रोऽयं, स नन्दस्त्रि जगति धन्यः नु निश्चितम् । अथवा नाहि नहि, याः एनं स्तनान्तरे कृत्वा आलिङ्गनादि- सुखमन्वभूवन् , ताः पशुपालराङ्गनाः नन्दादपि धन्यतमा इति केचित् । नो नो गोप्यः, यास्य मातृभावमन्वभूत् , सा यशोदा धन्या। नो नो यशोदा, वयमेव धन्येक्षणाः यानि श्रीकृष्णाख्ये परब्रह्मणि निमग्नानि, तान्यस्माकमीक्षणान्येव भाग्यवन्तीति शशंसुः स्तुतवन्तः ॥ ४ ॥ ननु सर्वेषामेवं मयि स्नेहबहुमानादेः किं कारणमित्याशङ्कायामाह-- पूर्ण ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं गोपेषु त्वं व्पलासीन खलु बहुजनस्तावदावेदितोऽभूः । दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥५॥ । NROER पूर्णमिति । पूर्ण सर्वा गतम् । अतस्तवैव सर्वशरीरेषु जीवरूपेणावस्था- नाद् आत्मनि च सर्वेषां निरतिशयस्नेहबहुमानादिसम्भवात् त्वयीदमुपपद्यत इति भावः । नन्वेकस्यानेकत्रावत्थानं कथमित्यत्राह- ब्रह्मेति । आकाशवद् बृहत्त्वा- देवेत्यर्थः । ननु ब्रह्मणः कथं चाक्षुषतः तत्राह साक्षाद् गोपेषु व्यलासीरिति। श्रीकृ णात्मनावतीर्णवादित्यर्थः । ननु शरीरपरिग्रहश्चेद् ममापि संसारप्र..ङ्ग इत्य- त्राह-निरवधि परमानन्दसान्द्रप्रकाशमिति । निरवधि नित्यं परमानन्दरूपं सान्द्रप्रकाशं विज्ञानधनम् । तत्र नित्यत्वात् जननमरणासम्भवः, परमानन्दरूप- त्वाद् दुःखाभावः, विज्ञानघनत्वादज्ञानाभावश्चेति संसारनिदानाभावानोक्तदोष इति भावः । कथं तर्हि कंसादयो मां ब्रह्मतया न जानन्तीत्यत आह-न खल्विति । यैःकौश्चजन्मजन्मान्तरार्जितपुण्यपरिपाकवद्भिरेव त्वं ब्रह्मेत्यावेदितो. ऽभूरित्यर्थः । ननु तर्हि पाविष्ठानां कथं मद्दर्शनं संबोभवीतीति चेत् , सत्यं, पुण्य- पापयोः पुण्याधिक्ये सति तत्सरिपाकवशेन त्वदर्शनसुखं तावत् सम्भवति । तत- स्त्वदर्शनस्मरणचरित्रवर्णनादिना विगतपापाः सन्तः क्रमादेतेऽपि त्वत्तत्त्वज्ञानेऽधि- क्रियन्त एवेत्यभिप्रायेणाह- दृष्ट्वाथ त्वामिति । जनौघाः झानिनोऽज्ञानिनश्च स्वां ।

दशकम् -७५] मल्लवधवणनम् । पुण्यकाले पुण्यपरिपाक उपगते इदंप्रथमं दृष्ट्वा विगतपापाः पूर्णानन्दाश्च सन्तः त्वदर्शनेन स्मृतानि त्वचरितानि सरसं सानन्दं यथा भवति तथा अभिजगुः प्रशशंसुरित्यर्थः ॥ ५॥ चाणो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली त्वां रामं चाभिपेदे झटझटिति मिथी मुष्टिपातातिरूक्षम् । उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ६ ॥ चाणूर इति । झटझटिति सशब्दं मिथो मुष्टिपातरतिरूक्षं यथा भवति तथा । उत्पात उन्नयनम् , आपातनं भुव्यवपातनम् , मिथो बद्धहस्तपादयोरितरे- तरत आकर्षणम् , एवंविधानि विविधानि रणानि तावदासताम् । मृत्योर्मरणात् प्रागेवान्योन्यहस्तपादादिकृतान् बन्धान् मोक्षांश्चायमगमत् , किमुच्यते मृतो बन्धा- न्मोक्षमगमदितीति भावः ॥ ६ ॥ हा धिक कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् । चाणूरं तं करोद्मामणविगलदसुं पोथयामासिथोया पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥७॥ हा धिगिति । करेण यद् उद्भामणं तेनैव विगलदसुम् उया पोथयामासिथ प्रक्षिप्तवान् । नष्टशिष्टैः प्राणपरीप्सया दधावे धावनमकारि ॥ ७ ॥ कंसः संवार्य तूर्य खलमतिरविदन् कार्यमार्यान् पितृस्ता- नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद् दूरमुत्सारणाय । रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरि मञ्चमञ्चन्नुदञ्चत्- खगव्यावल्गदुस्संग्रहमपि च हठात् प्राग्रहीरौग्रसेनिम् ॥ ८॥ कंस इति । कंसः कार्यम् एवं स्थिते यत् कर्तव्यं त्वत्पादपतनं, तद् भ- वितव्यताबलाद् अविदन् अजानन् आर्यान् सज्जनान् । आहन्तुं निग्रहाय । पितृन् १. 'न्तुं तनि' ख. पाठः २५८ नारायणीये स्कन्धः-१० वसुदेवनन्दोग्रसेनादीन् । व्याप्तस्योत्सारणमशक्यं, तदपि समशिषत् आज्ञापया- मास । दुष्टस्य कंसस्योक्तिभिः रुष्टः कुपितस्त्वम् अञ्चन् उत्सतन् उदश्चतः उन्न- स्मतस्य खडस्य व्यावल्गेन चलनेन दुस्सङ्ग्रहं ग्रहीतुमशक्यमपि हठाद् बला- कारेणैव औग्रसेनि कसं प्राग्रहीः ॥ ८ ॥ सद्यो निष्पिष्टसन्धि भुवि नरपतिमापात्य तस्योपरिष्टात् त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः । किं किं मस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यं त्वधोत्था परम ! परमियं वासना कालनेमेः॥९॥ सद्य इति । आपात्य पातयित्वा तस्योपरिष्टाद् उपरि आपात्ये आपतति स्वयि तब कंसोपरिपतनं नाकिनां पुष्पवृष्टिपतनमपि युगपज्जातमित्यर्थः । किं कि ब्रूमः । त्वत्स्मरणं त्वत्सायुज्यं कुरुत इत्यत्रोपपत्तीर्बहु न कथयामः, यतस्तदानीं भिया सततं त्वद्गतात्मा स कंसः सायुज्यं भेजे । यद् भीत्यापि विष्णुस्मरणं, सेयं परं केवलं कालनेमेस्त्वद्वधोत्था वासना । कंसः प्राक् कालनेमि मासुरः । स च विष्णुना हतः ॥ ९॥ तद्भातृनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः । भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीति सखायं लॅब्ध्वा तुष्टो नगर्यां पवनपुरपते ! रुन्धि मे सर्वरोगान् ॥१०॥ तदिति । तद्भातॄन् कंसानुजान् कङ्कन्यग्रोधकादीन् । पितरौ देवकीवसु- देवौ । उच्चैः अतिशयेन मोदयन् । अमरगुरोः बृहस्पतेः आप्ता गृहीता नीतिर्नय- शास्त्रं येन तमुद्धवं सखायं कार्यसचिवतया नर्मसचिवतया च लब्ध्वा तुष्टः कृत- कृत्य इव नगर्यो वसन्निति शेषः ॥ १० ॥ इति कुवलयापीडवधवर्णनं भगवतो मल्लरङ्गप्रवेशवर्णनं मल्लयुद्धवर्णनं मल्लवधवर्णनं कंसवधादिवर्णनं च पञ्चसप्ततितमं दशकम् । । 1. 'ण औ' क.ग. पाठः. २. 'सम्॥' क. पाठः, ३. 'वरद!' क.घ.इ.च. पाठः. ४. 'कृत्वा तु' घ.. पाठः, * आपततीत्यापात्यः 'भव्यगेय-' (३-४-६८) इति निपातनात् कर्तरि ण्यत् ।

Danne दशकम् -७६] उद्धवदूत्यवर्णनम् । २५९ अथोपनयनपूर्वकं विद्यां गृहीत्वा मृतपुत्रं दक्षिणीकृत्य समावृत्त इत्याह- गत्वा सान्दीपनिमथ चतुष्पष्टिमात्रैरहोभिः सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा । पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थ दत्त्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥१॥ गत्वेति । खतः सर्वज्ञस्त्वं, तथापि लोकसङ्ग्रहार्थ सान्दीपनि नाम मुनि गत्वोपनयनं प्राप्य सर्वविद्याः साङ्गोपाङ्गोपवेदरूपाः गृहीत्वा नष्टं मृतं गुरोः पुत्रं तस्मै गुरवे दक्षिणार्थ दत्त्वा पाञ्चजन्यं शङ्खवेषधरपञ्चजननामासुरवधात् तदङ्गप्र- भवं शङ्खम् ॥ १ ॥ श्रीकृष्णेन बृन्दावनान्मथुराप्रस्थाने गोपीनां परितापशमनार्थं यदुक्तम् 'अचिरादुपयामि सन्निधिं व' इति, तत् सत्यं कर्तुमात्मनिर्विशेषमुद्धवं मथुरास्थः स्वयं प्रेषयामासेत्याह- स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारपणुन्नाः कारुण्येन त्वमपि विवशः माहिणोरुद्धवं तम् । किश्चामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रे सकलभुवने दुर्लभं दर्शयिष्यन् ॥ २ ॥ स्मृत्वेति । पशुपसुदृशो गोप्यः त्वां स्मृत्वा स्मृत्वा पुनः पुनः स्मरणात् प्रेमभारेण अनुरागातिशयेन प्रणुन्नाः परवशा जाताः । त्वमपि कारुण्येन भक्तवा- त्सल्येन विवशः परवशः। किञ्चति, उद्धवप्रेषणे हेत्वन्तरमप्यस्तीत्यर्थः । तदेवाह- अमुष्मा इति । तासां भक्युद्रेकम् उद्धवात् भक्त्यतिशयम् अमुष्मै उद्धवाय प्रद- शयिष्यन् प्रदर्शनार्थमित्यर्थः । परमसुहृदे भक्तवर्यायेति भक्तवर्याभिमानापगम एव त्वत्परमसुहृत्त्वमुचितमिति तवाभिप्राय इत्यभिप्रायः ॥ २ ॥ त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । १. 'पायनपूर्वकं प्रा' क. पाठः. २. 'पप्रश' क. पाठः, २१० नारायणीये [स्कन्धः-१० प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः॥३॥ त्वदिति । त्वन्माहात्म्यस्य प्रथिमा विस्तारः तत्पिशुनं तत्सूचकं गोकुलं तत्र नन्दगेहं प्राप्य सायं सन्ध्यायाम् । अतः खखगेहस्थाभिर्गोपीभिरुद्धवागमनं न विदितम् । अतः केवलं नन्दं यशोदामेव बहु अतिशयेन रमयामास । प्रातस्त्व- दागमं शङ्किताः ॥ ३॥ दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृखा तव विलसितान्युच्चकैस्तानि तानि । रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्यः ॥ ४ ॥ । दृष्ट्वेति । त्वदुपमाभ्यां त्वद्वेषभूषणसदृशाभ्यां लसभ्यां वेषभूषाभ्याम् आभरणतद्विन्यासविशेषाभ्यामभिरामम् । अतः सदृशदर्शनादुच्चकैरतिशयेन तानि तानि विलसितानि क्रीडाः स्मृत्वा बाप्पकण्ठतया रुद्ध आलापो यासाम् । त्वद्गत- मानसतया निजपरभिदां खपरभेदमपि ॥ ४ ॥ श्रीमन्! किं त्वं पितृजनकृते प्रेषितो निर्दयेन कासौ कान्तो नगरसुदृशां हा हरे! नाथ! पायोः । आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना- मुन्मादानां कुहकवचसां विस्मरेत् कान्त का वा ॥ ५॥ श्रीमनिति । निर्दयेन कृष्णेन पितृजनकृते नन्दयशोदयोः प्रियार्थ किं प्रेषितोऽसि । असौ नगरसुदृशां कान्तः विदग्धजनविधेय इदानीं क इति प्रणय- वचनसमनुस्मृतभगवद्गुणकृतपारवश्या ऊचुः हा इति । हरे! भक्तजनसन्तापशमन हा नाथ! अस्मत्प्राणसंरक्षक! निजरूपामृतपानेन जीवय । अमृतमयं वपुर्यस्य तस्य तव आश्लेषाणां चुम्बनानां हन्त उन्मादानाम् आत्मानं विस्मृत्यैव कृतानां तत्त- - १. 'हि' च. पाठः, 'प' घ. २. पाठः, दशकम् -७६] उद्धवदूत्यवर्णनम् । २११ द्विलसितानां कुहकवचसां कपटवचनानाम् । अथवा हे कुहक! कपट! तवोन्मा- दानाम् अननुसंहितपूर्वापराणां वचसां का वा विसरेत् ॥ ५ ॥ रासक्रीडालुलितललितं विश्लथत्केशपाशं मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वंदङ्गम् । कारुण्याब्धे! सकृदपि समालिङ्गिन्तुं दर्शयेति प्रेमोन्मादाद् भुवनमदन! त्वत्प्रियास्त्वां विलेपुः ॥६॥ रासेति । रासक्रीडायां लुलितं मर्दितं ललितं सुन्दरं च त्वदनं हे कारु- ण्याब्धे! भक्तवत्सल ! सकृद् एकवारमपि समालिङ्गितुमपि । भुवनमदन! सर्वेषां सर्वदापि सर्वकामोन्मादप्रद! ॥ ६ ॥ एवम्पायर्विवशवचनैराकुला गोपिकास्ता- स्त्वत्सन्देशैः प्रकृतिमनयत् सोऽथ विज्ञानग|ः । भूयस्ताभिमुदितमतिभिस्त्वन्मयीभिर्वधभि- स्तत्तद्वार्तासरसमनयत् कानिचिद् वासराणि ॥७॥ ! एवमिति । अथोद्धवो विज्ञानगभैंस्त्वत्सन्देशैस्ताः प्रकृतिं कृतार्थतामनयत्। त्वन्मयीभिः त्वचिन्तयात्मानं विस्मरन्तीभिः तत्तद्वार्ताभिः सरसं यथा भवति तथा कानिचिद् वासराण्यनयत् ॥ ७ ॥ त्वत्प्रोद्ानैः सहितमनिशं सर्वतो गेहकृत्यं त्वद्वातैव प्रसरति मिथः सैव चोत्स्वापलापाः। चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ ८॥ । त्वदिति । उत्खापलापाः स्वप्नवचनानि सैव त्वद्वातैव । चेष्टाः व्या- पाराः प्रायस्त्वदनुकरणरूपाः । एवम् उक्तप्रकारेण तासां सर्वं त्वन्मयं दृष्टा अयमुद्धवो विस्मयादधिकं व्यमुहद् विमुमोह प्रतिपत्तिमूढोऽभूदित्यर्थः ॥ ८ ॥ १.'का वि क. पाठः. २. 'त' घ, ङ. च. पाठः, ३. 'थान' क. पाठः, २६२ नारायणीये स्कन्धः-१. uprem एवमुद्धवः स्त्रीणामपीश्वरे स्वातिशयप्रेमलक्षणभक्तिदर्शनात् त्यक्तभक्तंमन्यभा- वस्ताः प्रत्येकमाश्वासयामास । तत्र प्रधानभूतायों राधायोमाश्वासनप्रकारमाह- राधाया मे प्रियतमामिदं मत्मियैवं ब्रवीति त्वं किं मौनं कलयास सखे! मानिनी मत्मियेव । इत्यायेव प्रवदति सखि! त्वत्मियो निर्जने मा- मित्थंवादैररमयदयं त्वत्नियामुत्पलाक्षीम् ॥ ९ ॥ राधाया इति । हे सखि! राधे! त्वत्प्रियः श्रीकृष्णः निर्जने मामित्यादि त्वत्सम्बन्धिवचनमेव प्रवदति । कथं, हे सखे! उद्धव! मे राधाया इदं प्रियतम, मप्रिया सैवं ब्रवीति, किं त्वं मानिनी मत्प्रियेव मौनं कलयास धत्स इति । जनसंसदि तु तस्य गम्भीरचेतस्तया सन्नपि त्वद्विरहखेदो ज्ञातुमर्शक्यः । अयम् उद्धव इत्थंवादैस्त्वमसूचकैर्वचनैरेव त्वत्रियां राधामरमयत् ॥ ९ ॥ सन्देशमाह- एष्यामि द्रागनुपगमनं केवलं कार्यभाराद् विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः। ब्रह्मानन्दे मिलति नचिरात् सङ्गमो वा वियोग- स्तुल्यो वः स्यादिति तव गिरा सोऽकरोनिय॑थास्ताः ॥१०॥ एष्यामीति । अहं द्राग् झटिति एष्यामि । अनुपगमनं भवत्सन्निधावनागमनं केवलं मम कार्यभारादेव, न प्रेममान्यात् । किञ्च भवतीनां मद्विश्लेषो महते फलाय, मत्स्मरणस्य दृढतासम्भवात् । तस्माद् विश्लेषविषयः खेदो मास्तु । स्मरणदृढतायाः समाध्यपरपर्यायायाः फलमाह ---ब्रह्मानन्द इति । ब्रह्मरूपस्य- मम स्मरणदृढतायां सत्यां नचिराद ब्रह्मानन्दे मिलति सति वो भवतीनां मत्सङ्ग- मो मद्वियोगश्च तुल्यः स्यात् । विरहेऽपि वः सर्वात्मना न मद्विरहः, भवती- नामप्यन्तरन्तर्यामिरूपेण ममैवावस्थानादिति भावः । इति या तव गीः सन्देशः, तया स उद्धवस्ता निर्व्यथा अकरोत् ॥ १० ॥ १. 'या' क. ग. पाठः. २. 'या आ' क. ग. पाठः. ३. 'राधैवं' क. पाठः. ४. 'सुकरः।' क. ग. पाठ: . 'घेऽपि वः खे' क.ग, पाठः, २६३ दशकम् ७७] सैरन्ध्रयामुपश्लोकोत्पत्तिवर्णनम् । एवं भक्तिः सकलभुवने नेक्षिता न श्रुता वा किं शास्त्रौधैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते! पाहि मामामयौघात् ॥ ११ ॥ । एवमिति । एवं गोपिकानामिव । शास्त्रौघैस्तपसा वा किं फलम् । तद्रहि- तानामपि भक्तिदर्शनान्न शास्त्रादिफलं भक्तिरित्यर्थः । तस्माद् गोपिकाभ्यो नमो- ऽस्तु । इति ‘एवम् एवंभक्तिरित्यादिनमोऽस्त्वि'त्यन्तमन्त्रपुरस्सरं पुनः पुनस्ता नम- स्कृत्य आनन्दाकुलं गोकुलादुपगतं त्वत्सन्निधिं प्राप्तं तं त्यक्तभक्ताभिमानमुद्धवं दृष्ट्वा हृष्टः इदानीमस्य मत्सखित्वाधिकारो जात इति सन्तुष्टः ॥ १२ ॥ इति उद्धवदूत्यवर्णनं षट्सप्ततितमं दशकं सैकम् । सैरन्ध्रयास्तदनु चिरं स्मरातुराया यातोऽभूः सललितमुद्धवेन सार्धम् । आवासं बदुपगमोत्सर्व सदैव ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः॥१॥ सैरन्ध्रया इति । अद्यैष्यति कान्त इति प्रतिदिनं तदुचितवेषभूषणविभव- संभरणपूर्वकं वासगृहे प्रतिपालनात् वासकसज्जिकायाः सैरन्ध्रया अनुलेपदाच्या आवासं सललितं ललितवेषभूषणसहायसम्पत्सहितं यथा भवति तथा यातोऽभूः । त्वदुपगमोत्सवं त्वत्सङ्गमकौतुकम् ॥ १ ॥ उपगते त्वयि पूर्णमनोरथां प्रमदसम्भ्रमकम्पपयोधराम् । विविधमाननमादधतीं मुदा रहसि तां रमयाञ्चकृषे सुखम् ॥२॥ १.पाकघ. पाठः, २. 'क्त्यतिशयद' क. ग. पाठः. ३. "प्तवन्तं त्यक, पाठः, नारायणीये स्कन्धः-१० उपगत इति । प्रमदसम्भ्रमेण हर्षातिशयजनितसौजन्यव्यापारत्वरया कम्प्रौ कम्पनशीलौ पयोधरौ यस्याः । विविधमाननं संमाननम् आदधतीं तो सुखं रम- याञ्चकृषे ॥२॥ पृष्टा वरं पुनरसावणोद् वराकी भूयस्त्वया सुरतमेव निशान्तरेषु । सायुज्यमस्त्विति वदेद् बुध एव कामं सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥३॥ पृष्टेति । यदिच्छसि, तद् वृण्विति त्वया पुनः प्रस्थाने वरं पृष्टी असौ सैरन्ध्री भूयस्त्वया सुरतमेवावृणोद्, न मोक्षम् त्वत्सायुज्यसामीप्यादिरूपम् । तत्र बुधः सायुज्याख्यमोक्षरसाभिज्ञ एव सायुज्यमस्त्विति वदेत् प्रार्थयेत् । एषा तु वरा- की निर्विषयमोक्षरसानभिज्ञेत्येतत् कामं भवतु । अनिशं सामीप्यमस्त्वित्यपि किं नाब्रवीत् । त्वत्सामीप्यसुखं तु तया कञ्चित् कालमनुभूतमेव । तस्मात् सर्वमीश्वरे- च्छापरतन्त्रमिति वेदितव्यम् ॥ ३ ॥ ततो भवान् देव! निशामु कासुचि- न्मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतं स नारदात् सात्त्वततन्त्रविद् बभौ ॥ ४ ॥ तत इति । उपश्लोक इति श्रुतं विश्रुतं सुतम् अदाद् उत्पादयामास । सः नारदात् सात्त्वततन्त्रं पाश्चरात्राद्यागमं वेत्तीति तथा ॥ ४ ॥ अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या- मभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपाण्डवेय- वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ ५ ॥ अक्रूरेति । एनम् अक्रूरं विसृज्य विपिनाद् आगतानां पाण्डवेयानां वृत्त तथा धृतराष्ट्रचेष्टां च विवेदिथ ॥ ५ ॥ १."घ सा सै' क. पाठः. २. 'स्त्विति किं' क. पाठः, २६५ दशकम् - ७७] जरासन्धादियुद्धवर्णनम् । विघाताज्जामातुः परमसुहृदो भोजनृपते- जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् । स्थायैोलब्धैः कतिपयवलस्त्वं बलयुत- स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहथाः ॥ ६॥ , विधातादिति । जरासन्धस्य जामाता कंसः, तत्पुब्योरस्तिप्रास्त्योः पति- त्वात् , तस्य भोजनृपतेर्वधाद् अनवधिरुषान्धे जरासन्धे मथुरां रुन्धति सति द्योः वर्गाल्लब्धैर्मातलिनानीतै रथाद्यैः सपरिकरैः कतिपयबलः परिमितसेनासहितः तदुपनीतं जरासन्धाहृतं त्रयोविंशत्यक्षौहिणि बलं समहथाः सञ्जहर्थ ॥ ६ ॥ बद्धं बलादथ वलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनम् । निश्शेषदिग्जयसमाहृतविश्वसैन्यात् कोऽन्यस्ततो हि वलपौरुषवांस्तदानीम् ॥७॥ बद्धमिति । अथ बलेन बलाद् बद्धं बलेन उत्तरम् उत्कृष्टं भूयो बलोद्यमरसेन जरासन्धः पराजितो भूयोऽपि भूरिबलमुपनेष्यतीति कौतुकेन एनं जरासन्धं मुमोचिथ । कीदृशो जरासन्ध इत्यपेक्षायामाह ---निश्शेषदिग्जये समाहृतानि विश्वेषां सर्वनृपाणां सैन्यानि येन तस्माज्जरासन्धादन्यः कः ॥ ७ ॥ भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्व एवम् अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो! सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ८ ॥ भग्न इति । से जरासन्धस्त्वत्सकाशात् सप्तदशकृत्वः पराजितः ॥ ८॥ अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोव्या । १. 'विघाताद्वधा' क. ग. पाठः. २. इदं क. ग. पुस्तकयोर्न दृश्यते, २६६ नारायणीये स्कन्धः-१० त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राथ योगवलतः स्वजनाननैषीः॥९॥ अष्टादश इति । अस्याष्टादशे समरे समुपेयुषि *आगामिनि सति त्वं यवनानां म्लेच्छानां त्रिकोट्या युतं यवनं पुरतो दृष्ट्वा त्वष्ट्रा विश्वकर्मणा पयोधिमध्ये आशु द्वारवत्याख्यं पुरं विधाप्य कारयित्वा योगवलतः योगैश्वर्येण तत्र खजनान- नैषीः ॥९॥ पद्भ्यां त्वं पद्ममाली चकित इव पुरान्निर्गतो धावमानो म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । सुप्तेनाछ्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥१०॥ पयामिति । त्वया वधः सुकृतैकलभ्यः तद्विहीनेन । शैले तद्गुहायां देवदत्तया निद्रया चिरं सुप्तेन यवनेन कृष्णोऽयमिति भ्रान्त्या अछ्चाहतेन मुचुकुन्देनास्मिन् यवने भस्मीकृते तस्मै मुचुकुन्दाय तस्थिषे आत्मानं प्रकाश्य स्थितवानसि ॥ १०॥ ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा कार्य हिंसाविशुद्धयै तप इति च तदा प्रात्थ लोकप्रतीत्यै ॥११॥ ऐक्ष्वाक इति । ऐक्ष्वाकः इक्ष्वाकुवंशजः अखिलनृपसुखे राज्यभोगे विर- क्तः। आशु समनन्तरब्राह्मणजन्मान्ते धुतसकलमलम् अज्ञानकल्पितसंसारनिवृत्ति- रूपं मोक्षं तावत्कालपर्यन्तं मुक्तेस्तुल्यां निरतिशयसुखरूपां प्रेमलक्षणां भक्तिमपि दत्त्वा क्षात्रधर्मेण कृताया हिंसाया विशुद्ध्यै तपः कार्यमिति च तदा प्रात्थ अब्रवीः । यद्यपि त्वदर्शनादेव कृतकृत्यो मुचुकुन्दः, तथापि लोकप्रतीत्यै, क्षत्रधर्म लोकान् ग्राहयितुमिदमात्थेत्यर्थः ॥ ११ ॥ १.''ख. पाठः, * आर्थिकार्थकथनमिदम् ।

दशकम् - ७८] द्वारकावासवर्णनम् । तदनु मथुरां गत्वा हत्वा चमू यवनाहृतां मगधपतिना मार्गे सैन्यैः पुरेव निवारितः । चरमविजयं दीयास्मै प्रदाय पलायितो जलधिनगरी यातो वातालयेश्वर! पाहि माम् ॥ १२ ॥ तदन्विति । द्वारकां व्रजन् मार्गे मगधपतिना जरासन्धेन पुरा यथा, तथा निवारितः चरमविजयम् अष्टादशसङ्ग्रामजयं दर्पाय अहङ्कारमुत्पादयितुं प्रदाय पलायितो धावन् प्रवर्षणाख्यं गिरिमारुह्य तस्मादुत्पत्य भुवि पतित्वा जरा- सन्धेनालक्षितो जलधिनगरी द्वारकां यातः ॥ १२ ॥ इति सैरन्ध्रयामुपश्लोकोत्पत्तिवर्णनं जरासन्धादियुद्धवर्णनं मुचुकुन्दानुग्रहवर्णनं च सप्तसप्ततितमं दशकं सद्विकम् । त्रिदिववर्धकिर्षितकौशल त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥१॥ त्रिदिवेति । त्रिदिववर्धकिना विश्वकर्मणा वर्धितानि सर्वप्रयत्नेन कृतानि कौशलानि यत्र । त्रिदशैर्लोकपालैः दत्ताः प्रत्यर्पिताः समस्ता विभूतयः सुधर्मापा- रिजाताद्याः सन्त्यस्मिन्निति तथा । नवपुरं द्वारकां वपुरञ्चितेन रोचिषा देहकान्त्या त्वमभूषयः ॥ १ ॥ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥२॥ ददुषीति । रेवतो नाम राजा रेवत्याख्यामात्मतनयामादाय सत्यलोकं गत्वा ब्रह्माणं पृष्टवान् ‘एनां कस्मै प्रदास्यामी'ति । त्वत्समानकालिका राजानः सम्प्रत्यदर्शनं गताः । किन्तु त्वयि भूमिगते सति रामकृष्णाववतीर्णौ भविष्यतः । तयो रामायैनां देही ति विधेः शासनात् । समुदितैः सहितैः ॥ २ ॥ १. 'दशवर्ध' क. ग. पाठः, २. 'दशवर्ध' क. ग. पाठ:.

२६८ नारायणीये [स्कन्धः-१० अथ विदर्भसुतां खलु रुक्मिणी प्रणयिनीं त्वयि देव! सहोदरः। स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ३ ॥ अथेति । सहोदरो रुक्मी । स्वयं, नान्ये पित्रादयः, चेदिमहीभुजे शिशु- पालाय अदित्सत दातुमैच्छत् । स्वतमसा स्वाज्ञानेन तमसाधुं चेदिनृपम् उपाश्रयन् ॥ ३॥ चिरघृतप्रणया त्वयि बालिका सपदि काक्षितभङ्गसमाकुला । तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् ॥ ४ ॥ चिरेति । कदनङ्गेन विनिर्मितं स्वस्य कदनं पीडाम् ॥ ४ ॥ द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ५ ॥ द्विजेति । दुराशदुरासदं हि दुष्टाशयैरेव दुष्प्रवेशम् । भवतापं संसारदुःखं हरतीति भवतापहृत् ॥ ५ ॥ स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । खयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम्॥६॥ स चेति । कुण्डिने विदर्भपुरे । तया प्रहितोऽस्मि ॥ ६ ॥ रुक्मिण्याः सन्देशमाह द्वाभ्यां तव हतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना। अयि कृपालय! पालय मामिति प्रजगदे जगदेकपते! तया ॥७॥ तवेति । गुणैः पाशस्थानीयैस्तव भक्तवात्सल्यादिगुणैः अहं पुरा स्वयंव- रप्रसङ्गात् प्रागेव । अधुना स्वयंवरे चेदिनृपः शिशुपालः मां त्वद्धृतमनसं हरति हर्तुमुत्सहते किल । अयि कृपालय! भक्तवत्सल! मां पालय शरीरमपि हृत्वा मनसा संयोजयेति तया प्रजगदे ॥ ७ ॥ १. 'प्रापम् ।' क. ग. पाठः.

दशकम् -७९
रुक्मिणीपरिणयवर्णनम् ।
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् ।
इति गिरा सुतनोरतनोद भृशं सुहृदयं हृदयं तव कातरम् ॥ ८॥
अशरणामिति । अयं द्विजः इति सुतनो रुक्मिण्या गिरा तव हृदयं भृशं
कातरं प्रियतमाप्राणापायभीरु अतनोत् ॥ ८ ॥
अकथयस्त्वमथैनमये सखे! तदाधिका मम मन्मथवेदना।
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ९ ॥
अकथय इति । तदधिका रुक्मिण्या अधिका । तत् तस्माद् अयि सखे!
नृपसमक्षं पश्यतां नृपाणां तां दयितां हरामि ॥ ९ ॥
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
गुरुमरुत्पुरनायक! मे भवान् वितनुतां तनुतां निखिलापदाम् ॥१०॥
प्रमुदितेनेति । त्वद्वचनश्रवणेन प्रमुदितेन तेन द्विजेन समं सह रथे गतः
लघु शीघ्रम् एयिवान् गतवान् भवान् । तनुतां न्यूनतां वितनुतां कुरुताम् ॥१०॥
इति द्वारकावासवर्णनं रुक्मिणीपरिणये भगवतः कुण्डिनपुरप्राप्तिवर्णनं च
अष्टलप्ततितमं
दशकम् ।
Plear
बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः ।
द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ १ ॥
बलति । कलहशङ्किना बलसमेतेन सेनासहितेन श्रीवलभद्रेणानुगतः
भीष्मकेण रुक्मिण्या जनकेन मानितः पूजितः । अगाहत प्रविवेश। त्वदुपागमवा-
दिनं प्राप्तस्त्वद्दयित इति निवेदयन्तम् । धृतरसा सञ्जातकौतुका तरसा प्रणनाम,
नान्यत् किञ्चिद् दत्तवती । सा श्रियोंऽशभूता नमस्कारेण स्वात्मानं समयां
श्रियमर्पितवती ॥ १ ॥
भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।
विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ २ ॥

२७० नारायणीये स्कन्धः-१० भुवनेति । नृपसुतस्य रुक्मिणः चेष्टितं शिशुपालाय कन्यां साधयितुमुद्यम रुक्मिण्याः सदृशं भवद्वपुश्चावेक्ष्य सरुदितैरुदितैः प्रलापैः ॥ २ ॥ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा। निरगमद् भवदर्पितजीविता स्वपुरतः पुरतः सुभटाहता ॥ ३ ॥ तदन्विति । स्वपुरतः स्वस्य पुरात् । पुरतः पुरोभागे ॥ ३ ॥ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥ ४ ॥ कुलेति । कुलवधूभिः मङ्गलस्त्रीभिः सहोपेत्य तत्पदपङ्कजे गिरिसुतापदप- जे निपतिता केवलं तव पतितां श्रीकृष्णो मे पतिर्भूयादिति मुहुरयाचत ॥ ४ ॥ समवलोक्य कुतूहलसङ्कुले नृपकुले निभृतं खयि च स्थिते । नृपसुता निरगाद् गिरिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥५॥ समिति । त्वयि च निभृतं स्थिते तां हर्तुं रन्ध्र प्रतीक्ष्य गूढं स्थिते सति । रुच्या रञ्जितानि दिङ्मुखानि यया ॥ ५ ॥ भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । त्वमपि देव! कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥६॥ भुवनेति । विवाशितः परवशीकृतः अखिलराजकदम्बो यया तया प्रमदया रुक्मिण्या त्वमपि मनाग ईषद् मदयाञ्चकृषे सञ्जातमदः कृतः ॥ ६ ॥ कनु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाहथा भुवि ततो विततो निनदो द्विषाम् ॥७॥ क नु गमिष्यसीति । अपावृथाः अपहृतवान् ॥ ७ ॥ १. 'ते प' क. पाठः.

दशकम् -७९] रुक्मिणीपरिणयवर्णनम् । २७१ क नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः। न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ ८॥ क नु गत इति । कृतो रणो यैः ते नृपाः यदुभिर्जिताः पराजिताः । तैः पिशुनकैः दुर्जनैः भवान् न तूदचाल्यत, तान् भवान् नाजीगणदित्यर्थः । शुनकैः श्वभिः केसरीव ॥ ८॥ तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निवध्य विरूपयन् । हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥९॥ तदन्विति । रुक्मिणं विरूपयन् वपनादिना विरूपं कुर्वन् बलोक्तिभिः अग्रजवचनैः परिमुच्य विगलितबन्धनं कृत्वा रमया कान्तया सह पुरमयाः प्राप्तवान् ॥ ९॥ नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । अरमयः खलु नाथ! यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥१०॥ नवसमागमेति । हसितांशुभिर्लसन्मुखीं तां रहस्यरमयः ॥ १० ॥ विविधनमभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा । ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥११॥ विविधनमभिरिति । प्रमदं हर्षमाकलयन् जनयन् । वक्रगिरा वक्रो- क्तया ऋजुमतेः रुक्मिण्याः अतिलोलतां परवशतामतनोत् ॥ ११ ॥ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् । अयि मुकुन्द! भवचरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ १२ ॥ तदधिकैरिति । प्रगदतां स्तुवतां गदतान्ति रोगपीडाम् अपाकुरु ॥१२॥ इति रुक्मिणीपरिणयवर्णनम् एकोनाशीतितमं दशकं सद्विकम् । । । matalaing १. 'हि' घ, ङ, पाठः, २. 'सुखय ग, घ, ङ. च. पाठः, २७२ नारायणीये स्कन्धः-१० सत्राजितस्त्वमथ लुब्धवदर्कलब्ध दिव्यं स्यमन्तकमाणि भगवन्नयाचीः । तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ १ ॥ सत्राजित इति । तस्य स्यमन्तकयाचनस्य कारणं जाम्बवदनुग्रहतत्सुता- वाप्तिसत्यभामादातृप्रतिग्रहीतृसत्राजिच्छतधन्ववधाक्रूरप्रीत्यापादनादिरूपं बहुविधं मम भाति प्रतिभाति । नूनम् एवं तु निश्चिनोमि । तस्य सत्राजित आत्मजां त्वयि रतां सत्यभामा छलतो व्याजेन विवोढुं विवाहार्थम् । खापराधभीरुणानि- च्छतापि स्वसुतां दापयितुमित्यर्थः ॥ १ ॥ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा प्रसेनस्तद्माता गलभुवि वहन् पाप मृगयाम् । अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ २॥ अदत्तमिति । कपीन्द्रो जाम्बवान् ।। २ ॥ शशंसुः सत्राजिदिरमनु जनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका। ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ ३ ॥ शशंसुरिति । कृष्णो मे भ्रातरं हत्वा मणिं हृतवानिति सत्राजिदिर- मनु तच्छ्रुत्वा जनाः प्राङ्मणियाचनात् तव मणिजिघृक्षामप्युत्पश्यन्तस्त्वां मणिहरं शशंसुः । गुणिनां दोषकणिका दोषलेशोऽपि जनानां पीयूषवदाखादनीया भवति हि । हरि सिंहमपि दृष्ट्वा कर्जाम्बवतो गुहाम् ॥ ३ ॥ भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान् मुकुन्दशरणं हि मां क इह रोमित्यालपन् । विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि- चरंस्तव समर्चनं व्यधित भक्तचूडामणिः ॥ ४ ॥ १. 'श्चिरं त' ग, घ. ङ, पाठः, दशकम् -८०] स्थमन्तकोपाख्यानम् । २७३ भवन्तमिति । अतिवयाः वृद्धः अत एव भवन्तं श्रीकृष्णात्मनावतीर्णम् अवितर्कयन् अनिरूपयन् मुकुन्दो विष्णुः शरणं यस्य तं मां रोद्धुम् इह जग- ति कः शक्तः विभो! हरे! रघुपते! जय जय खोत्कर्षमाविष्कुर्वित्यालपन् मन्त्र- मिव पुनः पुनर्जपन् चरन् प्रदक्षिणं कुर्वन्निव द्वन्द्वयुद्धमार्गे सञ्चरन् मुष्टिभिः कुसुमैरिव तव स्वखामिनः समर्चनं सम्यक् संरम्भात्मकभक्तिपुरस्सरं पूजां व्याधित प्रसादयामास, यतोऽयं भक्तचूडामाणः त्वत्प्रीत्यै कृतसकलकर्मा ॥ ४ ॥ 3 बुद्धवाथ तेन दत्ता नवरमणीं वरमणी च परिगृह्णन् । अनुगृह्णनमुमागाः सपदि च सत्राजिते मणिं प्रादाः॥ ५ ॥ बुद्ध्वेति । अथ बुद्ध्वा त्वन्मुष्टिपातेन सञ्जातव्यथतया त्वां पुराणपुरुष ज्ञात्वा खापराधमार्जनाय तेन जाम्बवता दत्तां नवाम् अप्रौढां रमणीं जाम्बवती वरमणी स्यमन्तकं च परिगृह्णन् अमुं भक्तम् अनुगृह्णन् पाणिपझेन प्रत्यङ्गमभिमृ- श्यापनीताखिलपरितापं कुर्वन् द्वारकामागाः । सपदि आगमनानन्तरमेव सत्राजि- ते मणिं तत्प्राप्त्याख्यानपूर्वकं प्रादाः दत्तवान् ॥ ५ ॥ तदनु स खलु ब्रीडालोलो विलोलविलोचनां दुहितरमहो धीमान् भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्माणि गहनाशयः॥ ६॥ तदन्विति । स खलु सत्राजित् सत्यभामाख्यं स्त्रीरनं रत्नमपि श्रीकृष्णाय दत्त्वा आत्मापराधं प्रमाज्मीति शुभा धीरस्यास्तीति धीमान् गिरैव, न क्रियया पराय शतधन्वने अर्पिता प्रतिश्रुताम् मणिना सह तुभ्यम् अदित दत्तवान् । भवा- नपि मणेर्लभ्यं स्वर्णभाराष्टकं समेत्य दातव्यमिति समयपूर्वकं प्राप्य तस्य सत्रा- जित एव मणिमदात् । किमर्थ गहनाशयः भूयोऽप्यस्य मणिहेतुकामापदं विधातुं वान्यत् किञ्चिद्वेति देवैरप्यविदित आशयोऽभिप्रायो यस्य ॥ ६ ॥ ब्रीडाकुलां रमयति त्वयि सत्यभामां कौन्तेयदाहकथयाथ कुरून् प्रयाते । १. ' इति ॥' क. ग. पाठः. ३. 'णि' ख. पाठः, ४. 'तुमित्यवि' क. ख. पाठः. २. णि ग. इच. पाठ:.

२७४ नारायणीये [स्कन्धः-१० ही गान्दिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुर्मणिमाजहार ॥ ७ ॥ ब्रीडाकुलामिति । जतुगेहे कौन्तेया दग्धा इति कथा लोकवादः, तया त्वयि कुरून् हस्तिनपुरं प्रयाते सति ही कष्टं गान्दिनेयस्य अक्रूरम्य कृतवर्म- णश्च प्रतिश्रुतस्यादातारं जहीति गिरा शतधन्वा सत्राजितं निपात्य हत्वा मणिमा- जहार ॥ ७॥ शोकात् कुरूनुपगतामवलोक्य कान्तां हत्वा द्रुतं शतधनुं समहर्षयस्ताम् । रत्ने सशङ्क इव मैथिलगेहमेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥८॥ शोकादिति । तां सत्यभामां पितृहन्तुर्वधेन समहर्षयः प्रसादितवान् । रत्ने मणौ सशङ्क इव मणिहेतोः शतधन्वानं निहतवानिति ख्यापयितुं तद्वाससि माणिमन्विष्टवानित्यर्थः । त्वं पुरीं गत्वा मणिमन्विच्छे'ति कृष्णमुक्त्वा रामो मैथि- लस्य गेहंमेत्य धार्तराष्ट्र सुयोधनं गदां समशिशिक्षत ॥ ८ ॥ शङ्कयास्य नन्वक्रूरो भक्तः कथं सत्यभामायाः पितरं हन्तुं शतधन्वानं नियुक्तवानित्या- भक्तम्मन्यतागर्वापनयनाय कुबुद्धिस्त्वयैवोत्पादितेत्याह अक्रूर इति द्वाभ्याम्- अक्रूर एष भगवन् ! भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान् पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥९॥ अक्रूर इति । अक्रूरतः शतधन्वना श्रीकृष्णभीत्या पलायने सति न्यस्तं मणिं त्वमनाहृतवान् । तस्याङ्करस्य भूतिम् ऐश्वर्यम् उपधातुम् उत्पादायतुमिति ब्रुवन्ति । अभिज्ञा इति शेषः ॥ ९ ॥ १. 'त्वा ॥' क. पाठः २. ति। मणि' क. पाठः.

दशकम् -८१] सुभद्राहरणवर्णनम् । भक्तस्त्वयि स्थिरतरः स हि गान्दिनेय- स्तस्यैव कापथमतिः कथमीश! जाता। विज्ञानवान् प्रशमवानहमित्युदीर्ण गर्व ध्रुवं शमयितुं भवता कृतैव ॥ १० ॥ भक्त इति । कापथे कुत्सिते मार्गे हिंसादौ। उदीर्णम् उत्पन्नम् ॥ १०॥ यातं भयेन कृतवर्मयुतं पुनस्त- माहूय तद्विनिहितं च माणिं प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचान्तरंशयः पवनेश! पायाः ॥ ११ ॥ यातमिति । सत्राजिद्धन्तुर्वधात् तत्प्रयोजकयोरावयोरपि वधः कृष्णेन भावीति भयेन यातं विदेशगतं कृतवर्मसहितं तम् अक्रूरं पुनर्दूतमुखेन आहूय अनीय शतधन्वना तस्मिन्नक्रूरे विनिहितं प्रकाश्य अग्रजादिभ्यः प्रदर्य तत्र अक्रूर एव विनिधाय तुप्यन् कृतकृत्यः सन् ॥ ११ ॥ इति स्यमन्तकोपाख्यानमशीतितमं दशकं सैकम् । स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूयः सह खलु तया याज्ञसेनीविवाहम् । पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्या शक्रप्रस्थं पुरमपि विभो! संविधायागतोऽभूः॥ १ ॥ स्निग्धामिति । स्निग्धां प्रणयिनी मुग्धां मोहनरूपाम् । संविधाय विश्वक- मणा कारयित्वा ॥ १ ॥ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः । १. इदं पद्यं क. घ. ङ. च. पुस्तकेषु न दृश्यते। २. इदं वाक्यं क. पुस्तके न दृश्यते । ३. 'शयनः प' क. ङ. च. पाठः. ४. 'जिद्वधा' ख. पाठः.

-- २७६ नारायणीये [स्कन्धः-१० तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्ध शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः॥२॥ भद्रामिति । भद्रां सुभद्रां भवतोऽवरजां कनीयसीम् । कुहनामस्करी कपटयतिः। तत्र सुभद्राहरणे । तेन अर्जुनेन सार्धम् । प्रत्यगाः गतवान् ॥ २ ॥ तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा तां कालिन्दी नगरमगमः खाण्डवप्रीणिताग्निः । भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं राज्ञां मध्ये सपदि जहिषे मित्रविन्दामवन्तीम् ॥३॥ तत्रेति । तत्र शक्रप्रस्थे क्रीडन् अर्जुनेन सह मृगयां गच्छन् तां सूर्यपुत्री कालिन्दीम् । तदैव खाण्डवेन प्रीणितस्तर्पितोऽग्निर्थेन । भ्रातृभ्यां विन्दानुविन्दा- भ्यां तद्वरणप्रतिषेधात् त्रस्तां राज्ञां मध्ये स्वयंवरे ज(हृहि)षे हृतवान् ॥ ३ ॥ सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां बद्ध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् । भद्रां नाम प्रददुरथ ते देवः सन्तर्दनाद्या- स्तत्सोदाँ वरद! भवतः सापि पैतृष्वसेयी ॥ ४ ॥ सत्यामिति । पुनर्ननजिन्नृपते राजधानी गत्वा आत्मानं सप्तधा कृत्वा सप्त वृषवरान् बद्ध्वा तन्नन्दनां सत्याम् उदवहः । तत्सोदाँ सन्तर्दनादिसोदरी श्रुतकीर्तेः सुतां भद्रां ते तत्सोदराः ते तुभ्यं प्रददुः । पैतृष्वसेयी वसुदेवसोदा: पुत्री ॥ ४ ॥ पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्य लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् । अष्टावे तव समभवन् वल्लभास्तत्र मध्ये शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ ५ ॥ १. 'या' घ. ङ. च. पाठः. २. 'क्ष्म' घ. पाठः. + हकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहे वा' इति ।

। दशकम् -८१] नरकासुरवधादिवर्णनम् । २७७ पार्थाचैरिति । पार्थाथैः भीमदुर्योधनमागधादिभिरप्यकृतलवनम् अशक्य- च्छेदनं तोयमात्रे केवलं जले प्रतिबिम्बरूपेणाभिलक्ष्यं शफरं मत्स्यात्मकं लक्षम् । अवृथाः वृतवान् ॥ ५॥ स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो वहन्नके भामामुपवनमिवारातिनगरम् । विभिन्दन् दुर्गाणि त्रुटितपृतनाशोणितरसैः पुरं तावत् प्राग्ज्योतिषमकुरुथाः शोणितपुरम् ॥६॥ स्मृतायातमिति । स्मृतायातं स्मरणमात्रेण प्राप्तम् । अरातेभॊमस्य नगरम् । दुर्गाणि गिरिशस्त्रजलाग्न्यनिलादिमयानि विभिन्दन् त्रुटितानां शस्त्रकृत्तानां पृतनानां शोणितरसैः रुधिरद्रवैः प्राग्ज्योतिषाख्यं पुरं शोणितं रक्तवर्णमकु- रुथाः ॥ ६ ॥ मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् स चक्रे चक्रेण प्रदलितशिरा मक्षु भवता । चतुर्दन्तैर्दन्तावलपतिभिरिन्धानसमरं रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णनरकम् ॥ ७ ॥ मुर इति । मुरो नाम दैत्यः जलधिवनमध्यात् समुद्रजलान्तर्भागात् । सः मुरः भवता चक्रेग प्रदलितशिराश्चके कृतः । इन्धाने प्रवृद्धे समरे नरकं भौमं तीर्णनरकं संसारोत्तीर्णम् ॥ ७ ॥ स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजं चैकं दत्त्वा प्रजिघयिथ नागान् निजपुरीम् । खलेनाबद्धानां स्वगतमनसां षोडश पुनः सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ ८ ॥ स्तुत इति । खलेन भौमेन आबद्धानां स्त्रीणां षोडशसहस्त्राणि विपुलं धनराशिं चतुर्दन्तान् नागानपि च निजपुरीं प्रजिघयिथ प्राहिणोः ॥ ८ ॥ १. 'लज' क. पाठः.

नारायणीय
[स्कन्धः-१०
भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं
शक्राद्यैर्महितः समं दयितया धुस्त्रीषु दत्तहिया।
हृत्वा कल्पतरूं रुपाभिपतितं जित्वेन्द्रमभ्यागम-
स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥९॥
भौमापाहतकुण्डलमिति । भौमेनेन्द्रादपहृतं कुण्डलम् अदितेस्तन्मात्रे
दातुम् । द्युस्त्रीषु शच्युर्वश्यादिषु रूपातिशयेन दत्ता हीर्यया तया दयितया समं
सह महितः पूजितः । तत् पारिजातहरणेनेन्द्रस्य परिभवजननं श्रीमददोष ईदृशो
यथेन्द्रस्येति व्याख्यातुं प्रकाशयितुमेवाकृथाः कृतवान् ॥ ९ ॥
कल्पहूँ सत्यभामाभवनभुवि सृजन् बष्टसाहस्रयोषाः
स्वीकृत्य प्रत्यगारं विहितबहुवपुालयन् केलिभेदैः ।
आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे
भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश॥१०॥
कल्पद्रुमिति । सत्यभामाया भवनभुवि गृहोद्याने सृजन् स्थापयन् प्रत्य-
गारं विहितबहुवपुः भवनं प्रति भवनं प्रति रूपभेदेन स्थित्वा अष्टसाहस्रयोषाः
युगपत् स्वीकृत्य परिणीय आश्चर्यात् तदाश्चर्य श्रुत्वा नारदेनालोकिता विविधा
गतयो गार्हस्थ्यभेदा यस्य ॥ १० ॥
इति सुभद्राहरणवर्णनं श्रीकृष्णस्य महिष्यन्तरपरिग्रहवर्णन
नरकासुरवधादिवर्णनं च
एकाशीतितमं दशकम् ।
प्रद्युम्नो शैक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
हत्वा रत्या सहाप्तो निजपुरमहरद रुक्मिकन्यां च धन्याम् ।
तत्पुत्रोऽथानिरुदो गुणनिधिरवहद रोचनां रुक्मिपौत्री
तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥१॥

दशकम् -८२] बाणासुरयुद्धवर्णनम् । २७९ प्रद्युम्न इति । तव कला विष्ण्वंशः तं शम्बरं हत्वा रत्या भार्यया सह निजपुरमाप्तः प्रद्युम्नो रुक्मिकन्यां रुक्मवतीम् अवहद् उपयमे । तत्रानिरुद्धोद्वाहे द्यूतवैरात् छलेन बलभद्रे पराजयमारोप्याधिक्षेपाद् मुसलिना रुक्मी न्यवधि हतः। अपिशब्देन कालिङ्गस्य दन्ताः पाटिता इत्यप्युक्तम् ॥ १ ॥ वाणस्य सा वलिमुतस्य सहस्रवाहो- माहेश्वरस्य महिता दुहिता किलोपा। त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्व स्वमेऽनुभूय भगवन् ! विरहातुराभूत् ॥ २ ॥ बाणस्येति । माहेश्वरस्य शिवभक्तस्य । महिता श्लाघ्या ॥ २ ॥ योगिन्यतीव कुशला खलु चित्रलेखा तस्याः सखी विलिखती तरुणानशेषान् । तत्रानिरुद्धमुषया विदितं निशाया- मानेष्ट योगवलतो भवतो निकेतात् ॥ ३ ॥ योगीति । योगिनी अणिमाद्यष्टैश्चर्यवती अतीव कुशला चित्रकर्मा- दिकलाकौशलवती च । तत्र विलिखितेषु तया विदितम् अयमेव स्वमदृष्ट इति, अनिरुद्धं भवतो निकेताद् द्वारकायाः आनेष्ट आनीतवती ॥ ३ ॥ कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन ववन्धुपि शर्ववन्धौ । श्रीनारदोक्ततदुदन्तदुरन्तरोषै- स्त्वं तस्य शोणितपुरं यदुभिन्यरुन्धाः॥ ४ ॥ कन्यापुर इति । दयितया उघया समम् आरमन्तं क्रीडन्तम् । एनम् अनि- रुद्धं शर्वबन्धौ बाणे बबन्धुषि नागपाशेन बद्धं कुर्वति सति श्रीनारदोक्तात् तदु- दन्ताद् अनिरुद्धबन्धनरूपाद् वृत्तान्ताद् दुरन्तोऽनवधी रोषो येषां तैर्यदुभिः सह त्वं तस्य बाणस्य शोणिताख्यं नगरं न्यरुन्धाः आवृणोः ॥ ४ ॥ १. 'तपुराख्यं क, ख. पाठः, २८० नारायणीये [स्कन्ध -१० पुरीपालः शैलप्रियदुहितनाथोऽस्य भगवान् समं भूतबार्यदुबलमशई निरुरुधे । महाप्राणो वाणो झटिति युयुधानेन युयुधे गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥५॥ पुरीपाल इति । अस्य बाणस्य पुरीपालः शैलस्य हिमवतः प्रियदुहितुः पार्वत्याः नाथो भगवान् । महाप्राणः महाबलः । त्वमपि पुरहन्त्रा श्रीशङ्करेण सह जघटिषे अयुध्यथाः ॥ ५॥ निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः। परास्कन्दत् स्कन्दः कुसुमशरवाणेश्च सचिवः स कुम्भाण्डो भाण्डं नवमिव बलेनाशु विभिदे ॥ ६॥ निरुद्धेति । निरुद्धानि प्रत्यस्त्रैः शमितानि अशेषास्त्राणि यस्य | तव मोहनास्त्रेण मुमुहुषि मोहं गते च सति। द्रुताः पलायिताः । प्रमथिताः पीडिताः । कुसुमशरस्य प्रद्युम्नस्य बाणैः स्कन्दः परास्कन्दत् प्रतिनिवृत्तः । बाणस्य सचिवः कुम्भाण्डो नवं जलपूर्ण मृण्मयं भाण्डमिव बिभिदे भिन्नः ॥ ६ ॥ चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात् प्रायोऽन्तनिवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः॥७॥ चापानामिति । बाणे व्यर्थे विरथे याते ज्वरपतिर्माहेश्वरज्वरः त्वज्ज्वरेण समेतो युध्यन् अशनैझटिति अज्वरि सन्तप्तोऽभूत् । अथ माहेश्वरो ज्वरः ज्ञानी त्वां स्तुत्वा त्वत्प्रसादात् तव चरितजुषां विज्वरं ज्वराभवं दत्त्वानुगृह्य स माहेश्वरो ज्वरोऽगात् । यद्वा सज्वरः सन्तापयुक्तः । यतोऽन्तर्हृदि ज्ञानवन्तोऽपि बहुतमसा तमोगुणाधिक्येन रौद्रचेष्टाः क्रूरकर्माणो हि रौद्राः रुद्रपार्षदाः ॥ ७ ॥ Prerful १. 'रस्त्व' क.ग, पाठ:.

। दशकम् -८२] नृगस्य शापमोक्षवर्णनम् । २८१ वाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद् वितन्वन् निनाशेषदोषं सपदि बुबुधुपा शङ्करेणोपगीतः। तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्मियं तं मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः॥८॥ बाणमिति । दर्प एक एव दोषः तस्माद् निळूनाः छिन्नाः अशेषा दोषो बाहवः दोषा गर्वादयश्च यस्य । बुबुधुषा आत्मानं विष्णुमप्येकमधिजग्मुषा उपगीतः स्तुतः । तस्य श्रीशङ्करस्य वाचा । उभयतो विष्णुशङ्करयोरपि निर्भय तत्प्रियं शिवभक्तम् । तद्दत्तमानः बाणेन दत्तपारिबर्हः । निजपुरं द्वारकाम् ॥ ८॥ मुहुस्तावच्छकं वरुणमजयो नन्दहरणे यमं वालानीतौ दवदहनपानेऽनिलसखम् । विधि वत्सस्तेये गिरिशमिह बाणस्य समरे विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ९॥ मुहुरिति । मुहुः इन्द्रयागपारिजातापहरणखाण्डवदाहादौ शक्रमजयः । तत् तस्मात् ते तव अयमवतारः विश्वेभ्यो देवेभ्य उत्कर्षोऽस्यास्तीति तथा । अत एव जयति सर्वावतारेभ्य उत्कृष्टो भवति ॥ ९॥ द्विजरुषा ककलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर पाहि माम् ॥१०॥ द्विजरुषेति । द्विजस्य दत्तापहरणजनितया रुषा तत्कार्येण शापेन निरुद- ककूपस्थं कृकलासवपुर्धरं नृगनृपं त्रिदिवालयं स्वर्गम् आपयन् प्रापयन् । न विद्यतें उत्तमो य(स्मादि स्या इ)त्यनुत्तमाम् । नृगस्य ब्राह्मणगवापहरणेन कृकलासत्वा- पत्तेस्तद्दानमाहात्म्येन स्वर्गप्राप्तेश्च नृगमुखेन निवेदनपुरस्सरमुपदिशन् ॥ १० ॥ इति उषापरिणयवर्णनं बाणासुरयुद्धवर्णनं नृगस्य शापमोक्षवर्णनं च यशीतितमं दशकम् । । १.पं एव' क. पाठः, २. 'रं त्रि' क. ग. पाठः. * चत्वारोऽस्य बाहवः शिष्टा इति उभयत इत्यस्य पूर्वत्रैवान्वयो युज्यते ।

२८२ नारायणीये [स्कन्धः-१. रामेऽथ गोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे । स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्डकवासुदेवः ॥१॥ राम इति । प्रमदासु गोपीषु प्रसक्ते लोले । हूताम् आहूतां तथाप्यनुपेता- मनागतां यमुनां दमयतीति तथा । वारुणीमदिरामदान्धे रामे स्वैरं समारमति सति जगदीश्वर इति सेवकवादैमूढः पौण्ड्कवासुदेवः तव दूतं न्ययुक्त नियुक्तवान् ॥ १ ॥ नारायणोऽहमवतीर्ण इहास्मि भूमौ धत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वां दूतो जगाद सकलैर्हसितः सभायाम् ॥ २ ॥ नारायण इति । त्वमपि मामकलक्षणानि श्रीवत्सकौस्तुभादीनि धत्से किल, तान्युत्सृज्य मां शरणं बजेति सभायां जगाद ॥ २ ॥ दूतेऽथ यातवति यादवसैनिकस्त्वं यातो ददर्शिथ वपुः किल पौण्डूकीयम् । तापेन वक्षसि कृताङ्गमनल्पमूल्य- श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ ३ ॥ दत इति । यादवाः सैनिका यस्य स त्वं काशी यातः पौण्डूकीयं वपुर्द- दार्शथ । तापेन तप्तलोहन्यासेन कृतः श्रीवत्साको यस्य । अनल्पमूल्यः अनल्पेन मूल्येन क्रीत्वानीय कण्ठे बद्धः श्रीकौस्तुभो यस्य ॥ ३॥ कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण सुदर्शनेन । १. "के भोगलो' क. गः पाठः. २. इदं पदं क. ग. पुस्तकयोर्न दृश्यते ।

दशकम् -८३] काशीपुरदाहवर्णनम् । शीर्ष चकर्तिथ ममर्दिथ चास्य सेनां वन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ ४॥ कालायसमिति । कालायसमयं निजसुदर्शनम् अस्यतः प्रयुञ्जतः अस्य पौण्डूकस्य । कालानलोत्करकिरेण संहारकार्यङ्गारवर्षिगा । चकर्तिथ कृत्त. वान् । तन्मित्रस्य काशिपस्य शिरः काश्यां पतितं चकर्थ अकरोः ॥ ४ ॥ । जाड्येन बालकगिरापि किलाहमेव श्रीवासुदेव इति रूढमतिश्चिरं सः। सायुज्यमेव भवदेक्यधिया गतोऽभूत् को नाम कस्य सुकृतं कथमित्यवेयात् ॥ ५ ॥ जाड्येनेति । जाड्येन मूढताहेतुकेन परप्रत्ययत्वेन बालकानां मन्दभियां वाचा गिरा रूढा स्थिरा मतिर्यस्य ॥ ५ ॥ काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्व प्रपूज्य भवते विहिताभिचारः। कृत्यानलं कमपि बाणरणातिभीतै- भूतैः कथश्चन वृतैः सममभ्यमुञ्चत् ॥ ६॥ काशीश्वरस्येति । कथञ्चन वृतैः भूतैः समं सह कृत्यानलम् आभिचारकु- ण्डोत्थितं मूर्तिमन्तमग्निम् अभ्यमुञ्चद् विससर्ज ॥ ६ ॥ तालप्रमाणचरणामखिलं दहन्तीं कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः। द्यूतोत्सवे किमपि नो चलितो विभो! त्वं पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥७॥ तालप्रमाणेति । पौरैः कथित विज्ञापितोऽपि द्यूतोत्सवे द्यूतक्रीडाकौतुके नो चलितः न विमुखो जातः, किन्तु पार्श्वस्थं चक्रं हस्तसंज्ञया विस सर्जिथ ॥७॥ । १. र्थनगेकर' क. पाठः, नारायणीये अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खेलु घोरकृत्या। रोषात् सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥८॥ अभ्यापततीति । अमितम् अपरिच्छिन्नं धाम तेजो यस्य, परिमित- धाम्नामान्यादितेजसामपि तेजःप्रदत्वादमितं धामैव वा, 'यदपि च परमं सर्व- धानां च धाम' इति वचनात् , तस्मिन् भवन्महास्ने सुदर्शनौख्ये अभ्यापत- ति कृत्यामभिधावति सति हा हेत्याक्रन्दन्ती विद्रुतवती । आभिचारस्याब्रह्मण्ये सफलतायाः शर्वेणानुगृहीतत्वात् तदनादरेण ब्रह्मण्यदेवे श्रीकृष्णे प्रयोगाददक्षिण- चेष्टितं सुदक्षिणं रोषात् पुप्लोष । काशिपुरी सुदक्षिणराजधानीमपि अधाक्षीद् ददाह॥ ८॥ स खलु विविदो रक्षोधाते कृतोपकृतिः पुरा तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः। नरकसचिवो देशक्लेशं सृजन नगरान्तिके झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥९॥ स खल्विति । रक्षोघाते रावणवधे कृतोपकृतिः श्रीरामपक्षीयः, तथापि तव कलया अंशभूतेन श्रीबलभद्रेण मृत्युं मृति प्राप्तुं खलतां तव वैरितां गतः नरकसचिवः भौमस्य सखा त्वन्नगरान्तिके देशानां क्लेशम् उपद्रवं सृजन् उत्पा- दयन् हलिना तलेन करतलेन आहतः अद्धा सम्यग् अनायासेन पपात मृतः॥९॥ साम्ब कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपते! तापशान्त्यै निषेवे ॥१०॥ साम्बमिति । कौरव्यपुत्री सुयोधनसुतां लक्षणां साम्बः स्वयंवरे हृतवान् । १. 'किले क. पाठ:. २. 'ने अ' क. ग. पाठः, ३. 'क्ष्म' के. पाठः,

दशकम् -८४] समन्तपञ्चकयात्रावर्णनम् ।
तत्र च कुरुभिर्नियमितं बद्धं श्रुत्वा कुरुभिर्विरोधो मास्त्विंति सान्त्वनार्थी यातः
तेषामधिक्षेपवाक्यैर्जातेन रोषेणोद्धृतं करिनगरं हस्तिनपुरं येन स रामः साम्बं
मोचयामास । तदानीम् अग्रजपरिभवे त्वं यदुपृतनां नामुचः ते पाण्डवेयैर्घात्या
इति । एवं दुर्बोधा लीला यस्य ॥ १० ॥
इति पौण्ड्रकवधवर्णनं काशिपुरीदाहवर्णनं बलभद्रप्रतापवर्णनं च
त्र्यशीतितमं दशकम्।
।
कचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकाममूनू ।
यदुकुलमहिलावृतः सुतीर्थ समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ १॥
कचिदिति । तपनोपरागकाले सूर्यग्रहणकाले पुरि द्वारकायां कृतवर्माण-
मनिरुद्धं च निदधद् रक्षणार्थ निक्षिप्य ॥ १ ॥
बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्ज्य तीर्थतोये ।
द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥२॥
बहुतरेति । तत्र समन्तपञ्चके तीर्थतोयं पुनन् तीर्थतोयस्य पापशोधकत्व-
मुत्पादयन् । तदपि बहुतरजनताहिताय तीर्थस्नायिजनानुग्रहाय द्विजगणेभ्यः परि-
मुक्तो दत्तो वित्तराशियेन स त्वं मित्रैर्बन्धुभिः सममिलथाः सम्मिलितोऽभूः ॥२॥
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा।
तदुदितभवदाहृतिककारैरतिमुमुदे सममन्वभामिनीभिः॥३॥
तवेति । द्रुपदसुता तव दयिताजनैः रुक्मिण्यादिभिर्मिलिता तदुदितैः
त्वद्दयिताभिरुदितैः भवत्कर्तृकात्माहरणप्रकारैः सप्तगोवृषबन्धनादिरूपैः अन्यभा-
मिनीभिः सुभद्रादिभिः सममतिमुमुदे ॥ ३ ॥
सदनु च भगवन् ! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥४॥

२८१ नारायणीये स्किन्धः-१. तदन्विति। चिरतरविरहेण आतुराः अङ्गरेखाः कृशशरीराणि यासां ताः। मन्वयासीः अनुगतः ॥ ४ ॥ सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ ५ ॥ सपदीति । प्रमुषितो मानो यस्मिन् तादृशं हृद् यासाम् । अतिरसेन अतिशयितेनान्योन्यानुरागेण परिमुक्ता यथाकथञ्चिदपनीता कञ्चुलीका गात्रिका यस्मात् । परिचयहृद्यतरे प्रागनुभूतस्य प्रत्यभिज्ञायमानतया कौतुकविशेषजनके इचे न्यकैषीः क्षीरनीराख्यपरिरम्भणसुखमन्वभूः ॥ ५ ॥ रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् । इति कृतपरिरम्भणे त्वाय द्रागतिविवशा खलु राधिका निलिल्ये ॥६॥ रिपुजनकलहैरिति । मे मम पुनः पुनः समुपगतै रिपुजनकलहैः इयती अतिमहती विलम्बना कालक्षेपोऽभूदिति वचनपुरस्सरं कृतपरिरम्भणे त्वयि द्राग- तिविवशा झटिति त्यक्तमाना निलिल्ये त्वदैक्यमिवान्वभूत् ॥ ६ ॥ अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्ववोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ ७ ॥ अपगतेति । तदा रहास ताः परिरम्भणादिभिरपगतविरहव्यथा विधाय अहं परमसुखचिदात्मकः परमानन्दबोधस्वरूपः सर्वेषामात्मान्तर्यामी च अतो वो मद्विरहः शोकावकाशश्च परमार्थतो नास्त्येवेति वश्चेतसि स्फुटमुदयतु निश्चयात्मि- का बुद्धिर्मदनुग्रहात् स्यादेवेति तत्त्वबोधं ददाथ ॥ ७ ॥ मुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः । समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥ ८॥ सुखरसेति । तासां गोपस्त्रीणां पुरा उद्धवोपदेशैः उद्धवमुखेन कृतैरुपदेशै : सुखरसेनाल्पीयसा परिमिश्रितो वियोगो विरहदुःखं किमपि किञ्चिदभवत् । अमु- २८७ दशकम् -८४] समन्तपञ्चकयात्रावर्णनम् । तो भवदुपदेशात् परं तु भवद्विचिन्ता परमसुखैक्यमयी परमानन्दैकरसरूपा समभवत् ॥ ८॥ मुनिवरनिवहस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छयमानैः। त्वयि सति किमिदं शुभान्तरित्युरुहसितैरपि याजितस्तदासौ ॥९॥ मुनिवरेति । अथ तव पित्री वसुदेवेन दुरितशमाय दुष्कर्मनिवृत्तये अ. नुष्ठेयानि शुभकर्माणि पृच्छयमानैरनुयुज्यमानैर्मुनिवरनिवहेासनारदादिभिस्त्वयि सकलशुभास्पदे पुत्रे सत्यप्यस्य शुभान्तरैः कर्मादिभिः किमिदं दुरितशमनप्रार्थन- मित्युरुहसितैरपि तथापि तदासो वसुदेवो याजितः यजनं कारितः ॥ ९ ॥ सुमहति यजने वितायमाने प्रमुदितमित्रजने सहेव गोपाः। यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ १० ॥ सुमहतीति । सुमहति उत्तमकल्पके यजने वितायमाने क्रियमाणे सति। प्रमुदिता मित्रजना बन्धुवर्गा यस्मिन तस्मिन् तैः सहैव नन्दादयो गोपा यदुजनै- महिताः सम्मानिताः अद्य श्व इति त्रिमासमानं भवदनुषङ्गरसं भवत्सङ्गमसुखं पुरा नन्दव्रज इव भेजुः अन्वभूवन् ॥ १० ॥ व्यपगमसमये समेत्य राधां दृढमुपगृह्य निरीक्ष्य वीतखेदाम् । प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर! पाहि मां गदेभ्यः ॥ ११ ॥ व्यपगमसमय इति । व्यपगमसमये वियोगकाले प्रस्थाने राधां समेत्य दृढमुपगृह्य वीतखेदां तदनुग्रहरूपोपगृहनेनैव त्यक्तविरहव्यथां निरीक्ष्य प्रमुदि- तहृदयः पुरं द्वारवतीं प्रयातः । अतस्तादृशभक्तवात्सल्ययुक्तस्त्वं मां गदेभ्यः पाहि ॥ ११ ॥ इति समन्तपञ्चकयात्रावर्णनं चतुरशीतितमं दशकं सैकम् । १. 'त्रा दु' क. पाठः. २. 'धकृतनि' क. पाठ:. ३. 'ये सक' ख. पाठः, ४. 'त्यस्य' क, ग, पाठ.. ५. 'के सहै' ख. पाठ ६. 'न् तैः' क. पा. ५. ने ख. पाठक २८८ नारायणीये स्किन्धः-१० ततो मगधभूभृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयमीश! भूमीभृताम् । अनाथशरणाय ते कमपि पूरुषं प्राहिणो- दयाचत स मागधक्षपणमेव किं भूयसा ॥१॥ तत इति । ततः अनन्तरं मगधभूभृता जरासन्धेन गिरिगुहायां चिरनिरो- धेन संक्लेशितं भूमीभृतां शताष्टकयुतायुतद्वितयम् अष्टशतोत्तरायुतद्वयं । ते तुभ्यम् । सः दूतः । किं भूयसा विज्ञापनेनं । मागधक्षपणं जरासन्धवधमेवायाचत ॥ १॥ यियासुरभिमागधं तदनु नारदोदीरिताद् युधिष्ठिरमखोघमादुभयकार्यपर्याकुलः । विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥२॥ यियासुरिति । अभिमागधं मागधमभिमुखीकृत्य यियासुः जिगमिषुः । उभयेति । मागधयुधिष्ठिरनिग्रहानुग्रहरूपोभयकार्यपर्याकुलः विरुद्धजयिनः शत्रु- निग्रहपूर्वकं कर्तव्याद् अध्वराद् राजसूयाख्याद् उभयसिद्धिः मागधनिग्रहयुधि- ष्ठिरेष्टसिद्धिरित्युद्धवे शशंसुषि उक्तवति सति यौधिष्ठिरी पुरम् इन्द्रप्रस्थम् इयेथ गतवान् ॥ २॥ अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितः । श्रियं निरुपमां वहन्नहह भक्तदासायितं भवन्तमयि ! मागधे प्रहितवान् सभीमार्जुनम् ॥३॥ अशेषेति । त्वयि अशेषदयितायुते षोडशसहस्रपत्नीयुते समागते सति धर्मजः भवदपाङ्गेन त्वत्कटाक्षेण संवर्धितैः वर्धितबलैः महीं कृत्वां विजित्य निरु. पमां श्रियं दिग्विजये लब्धं धनसञ्चयं वहन् अयि ! भगवन् ! अहह आश्चर्यमेतत् भक्तदासायितं भक्तदासवदाचरन्तं मागधे जरासन्धे तज्जयार्थ प्रहितवान् ॥ ३ ॥ । 1. नेप्ति मा क. ग. पाठः, २. 'नसि ॥' क. ग. पाठः, ३. 'जयल' क. पाठः. ४. 'रितं भवन्तं' क,ग, पाठः, ५, 'अवधार्थ' क, पाठा, दशकम् -८५] जरासन्धवधवर्णनम् । २८९ गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो ययाच समरोत्सवं द्विजमिषण तं मागधम् । अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुवा स्थितः ॥ ४ ॥ गिरिव्रजेति । गिरिव्रजपुरं जरासन्धनगरी गताः समरोत्सवं द्रष्टुजनको- तुकजनकं द्वन्द्वयुद्धं ययाच प्रार्थितवन्तः । अपूर्णसुकृतमिति । यद्यपि मृतिसमये त्वदर्शनावकाशः सुकृतेन, तथापि सद्योमुक्तिप्रदत्वत्कर्तृकवधसुकृतहीनमित्यर्थः । अतः पवनजेन संग्रामयन् युद्धं कारयन् राजानौ भीममागधौ, अथवा पाण्डव- दुर्योधनतत्पक्षीयान् राज्ञोऽन्योन्यं योधितवानिति राजयुध्वा त्वम् ॥ ४ ॥ अशान्तसमरोद्धतं विटपपाटनासंज्ञया निपात्य जरसः सुतं पवनजेन निष्पाटितम् । विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिं परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ५॥ अशान्तेति । अशान्ते अदृष्टान्यतरजयपराजये समरे उद्धतम् अहङ्क्तं जरसः सुतं जरानाम्न्या पिशाच्या जातमात्र एव धात्र्या त्यक्तं देहशकलद्वयं संयोज्य सञ्जातचेतनतया. पुत्रत्वेन परिगृहीतम् । एवञ्च देहशकलयोद्वैधीभाव एवास्य मृतिः । एतद् विद्वांस्त्वं विटपपाटनारूपया संज्ञया ज्ञापकेन ज्ञाततत्त्वेन पवनजेन निष्पाटितं विदारितशरीरं कृत्वा निपात्य घातयित्वा तेन दिग्जये गृहीत्वा गिरिदाँ निरुद्धान् नृपतीन् विमुच्य तेभ्यो मुदा परां प्रेमलक्षणां भक्तिं समनुगृह्य निजराज्यभोगे गतस्पृहानपि भुवो धर्मेण गुप्त्यै दिदेशिथ प्रेषयामासिथ । अथवा राज्ञां प्रजापालनरूपस्य स्वधर्मस्य गुप्त्यै भुवः स्वस्वविषयान् दिदेशिथ दत्त- वान् ॥ ५ ॥ । प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । १. 'टको' क. ग. पाठः.

२९० नारायणीये स्कन्धः-१० त्वमप्ययि जगत्पते! द्विजपदावनेजादिकं चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः॥६॥ प्रचक्रुषीति । प्रचक्रुषि प्रारब्धवति । अभृतका भृतका दासा भवन्तीति भृतकीभवन्तः, प्रसन्नैः अनसूयकैः भृतकीभवद्भिः सकलै राजकैाकुलम् ॥ ६ ॥ ततः सवनकर्मणि प्रवरमग्र्यपूजाविधि विचार्य सहदेववागनुगतः स धर्मात्मजः। व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥ ७ ॥ तत इति । भगवान् श्रीकृष्णोऽग्रपूजामर्हतीति सहदेवस्य वाचमनुगतः अनुसृतः विश्वभूतात्मने सर्वभूतानामात्मभूताय अग्र्यपूजाविधि व्यधत्त । अतः ससुरमानुषं चराचरात्मकं भुवनमेव तृप्तिं दधौ ॥ ७ ॥ ततः सपदि चेदियो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को जडः पशुपदुर्दुरूटं वटुम् । इति त्वयि स दुर्वचोविततिमुद्रमन्नासना- दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥८॥ तत इति । चेदिपः शिशुपालः । सभाजयति पूजयति । पशुपदुदुरूटं पशु- पापशदम् । त्वयि त्वद्विषये दुर्वचोविततिं यथा कश्चिन्मुमूर्षुर्भुक्तं सर्वमुमति, तथोद्वमन् जल्पन् उदायुधः उद्धृतायुधः आसनादुदापतद् उत्थायाभ्ययात् । तदा त्वत्परिभवेन पाण्डवाः अमुं समपतन् हन्तुमुद्यताः ॥ ८ ॥ निवार्य निजपक्षगानभिमुखस्य विद्वेषिण- स्त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा । जनुत्रितयलब्धया सततचिन्तया शुद्धधी- स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ९॥ * हकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहे वा' इति ।

दशकम् - ८५] युधिष्ठिरराजसूयवर्णनम् । निवार्येति । निजपक्षगान् पाण्डवान् निवार्य त्वं दनुजदारिणा असुरशरीर- भेदनशीलेन स्वस्यारिणा सुदर्शनाख्येन चक्रेण विद्वेषिणः शिशुपालस्य शिरो जहिषे अच्छिनः । जनुस्त्रितये हिरण्यकशिपुरावणशिशुपालरूपे लब्धया ॥ ९ ॥ ततः सुमहिते त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् । खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ १० ॥ तत इति । ततः शिशुपालवधानन्तरं सुतरां महिते पूजिते । त्वया निरूढे परिसमापिते श्रीकृष्णो जयति सर्वस्मादुत्कृष्टो भवति, स ईश्वरो यस्य वशे स धर्मजो जयतीत्यालपन् जनो महाजनः स्वं स्वं भवनं ययौ । स कल्यंशः सुयोधनस्तु सपत्नानां शत्रूणां पाण्डवानां श्रिया समृद्ध्या धुतम् असूयादिभि- श्चलितं मनो यस्य । खाण्डवदाहे मयेनार्पिताया दत्तायाः सभाया मुखे स्थलजल- भ्रमात् स्थलधिया जले पतनाद् जलधिया स्थले वस्त्रान्तग्रहणाच्च अभ्रमीत् सम्भ्रान्तोऽभूत् ॥१०॥ तदा हसितमुत्थितं द्रुपदनन्दनाभीमयो- रपाङ्गकलया विभो! किमपि तावदुज्जृम्भयन् । धराभरनिराकृतौ सपदि नाम बीजं वपन् जनार्दन! मरुत्पुरीनिलय! पाहि मामामयात् ॥ ११ ॥ तदेति । तदा सुयोधनस्य जाड्ये सति द्रुपदनन्दनाभीमयोर्मुख उत्थितं हसितं अपाङ्गकलया कटाक्षलेशेन किमप्युज्जृम्भयन् सातिशयं कुर्वन् तदेव धरामरनिराकृतौ बीजं वपन् कारणत्वेन स्थापयन् ॥ ११ ॥ इति जरासन्धवधवर्णनं युधिष्ठिरराजसूयवर्णनं च पञ्चाशीतितमं दशकं सैकम् । १. 'दै' ख. पाठः.

२९२ नारायणीये [स्कन्धः-१० साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद् विमानं विन्दन् सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् । प्रद्युम्नस्तं निरुन्धनखिलयभटैन्यग्रहीद्ग्रवीर्य तस्यामात्यं घुमन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥ १॥ साल्व इति । भैष्मीविवाहे रुक्मिणीस्वयंवरे यदुबलेन यदुसेनया विजितः पराजितः यादवोच्छेदप्रतिज्ञापूर्वकं प्रसादितात् चन्द्रचूडात् सौभाख्यं विमानं विन्दन् त्वयि कुरून् वसति सति त्वत्पुरी द्वारकाम् अभ्यभाङ्क्षीत् बभञ्ज । प्रद्युम्नस्तु तं साल्वं निरुन्धन् घुमन्तं न्यग्रहीद जघान ॥१॥ तावत् त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं सौभेशं तं न्यरुन्धाः स च किल गदया शामिभ्रंशयत् ते । मायातातं व्यहिंसीदपि तव पुरतस्तत् त्वयापि क्षणार्धे नाज्ञायीत्याहुरेके तदिदममतं व्यास एव न्यषेधीत् ।। २॥ तावदिति । सौमेशं साल्वम् । ते शाहु धनुः अभ्रंशयत् त्याजयामास, तव पुरतो मायानिर्मितं तातं वसुदेवं व्यहिंसीदपि । तदिदं साल्वमायामोहनमव- मतमिति व्यास एव " व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः । क चाखण्डितविज्ञानज्ञानेश्वर्येश्वरो हरिः ॥" (श्री. भा. स्क. १०. अ. ७७. श्लो. ३१) इति न्यषेधीत् ॥२॥ क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मञ्जु साल्वेऽपि चक्रे- णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुश्चद् गदां ते । कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैववत् प्रापदैक्यं सर्वेषामेप पूर्वं त्वयि धृतमनसा मोक्षणार्थोऽवतारः ॥३॥ क्षिप्त्वेति । ते तुभ्यं त्वां हन्तुं गदामभ्यमुञ्चत् । एषोऽवतारस्त्वयि धृतमनसां मोक्षणाय ॥३॥ १. 'नि' क. ङ. पाठः. २. 'प' ख. घ. ङ. पाठः.

दशकम् -८६] भारतयुद्धोपक्रमवर्णनम् । २९३ त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः क्रन्दन्त्या याज्ञसेन्याः सकरुणमकथाश्चेलमालामनन्ताम् । अन्नान्तप्राप्तशशिजमुनिचकितद्रौपदीचिन्तितोऽथ प्राप्तः शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥४॥ त्वयीति । अथ त्वयि इन्द्रप्रस्थाद् द्वारकामायाते सति कुरुसदसि जाते द्यूतके सव्याजे छूते संयतायाः दुश्शासनेन गृहीतायाः चेलमालां वस्त्रपरम्पराम् । अन्नान्ते अन्नाबसाने प्राप्तात् शशिजाद् दुर्वाससो मुनेश्चकितया शापशङ्कितया द्रौपद्या चिन्तितस्तत्र प्राप्तः पात्रलग्नं शाकान्नम् अनन् मुनिगणं शिष्यवर्गसहितं दुर्वाससं तृप्तिमन्तमकृथाः ॥ ४ ॥ युद्धोद्योगेऽथ मत्रे मिलति सति वृतः फल्गुनेन त्वमेकः कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत् पाण्डवार्थम् । भीष्मद्रोणादिमान्ये तव खलु वचने धिकृते कौरवेण व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः॥५॥ युद्धोद्योग इति । अथ युद्धोद्योगे मिलति सति फल्गुनेन त्वमेको मन्त्रे कार्यनिरूपणे वृतः समकालमागते कौरव्ये दत्तसैन्यः दुर्योधनाय दत्तयदुसैन्यः पाण्डवार्थ पाण्डवानामर्धराज्यलब्धये दूत्यं दूतकर्म करोतीति तथा । भीष्म- द्रोणादिभिर्मान्ये पूजनीये कौरवेण दुर्योधनेन धिकृते सति मुनिसदसि विश्वात्मकं स्वं रूपं व्यावृण्वन् प्रकाशयन् ॥ ५ ॥ ! जिष्णोस्त्वं कृष्ण ! मूतः खलु समरमुखे बन्धुघाते दयालु खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे ! नित्य एकोऽयमात्मा । को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा धयं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥६॥ १. 'जनम क. पाठः.

२९४
नारायणीये
[स्कन्धः-१०
जिष्णोरिति । खिन्नं युद्धाद् विमुखं तमर्जुनं वीक्ष्य । नित्य एक इति । नित्य-
त्वादवध्यत्वम् एकत्वाद् वध्यहन्तृभेदाभावश्च । तत् तस्माद्, यस्मादवध्य आत्मा
तस्माद् वधभियं भीष्मद्रोणादिवधे याधर्मभास्तां प्रोज्झ्य त्यक्ता धर्म्य क्षत्रिय-
धर्मादनपेतं युद्धं चरेत्युपदिश्य विश्वासार्थ विश्वरूपमैकात्म्य दर्शयन् प्रकृति
गतसम्मोहताम् अनयथाः प्रापयामासिथ ॥ ६॥
भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते
नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे ।
निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली-
वाधावन् प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः॥७॥
भक्तोत्तंस इति । पार्थे भीष्मसायकैः प्राप्तसादे सञ्जातक्लेशे सात शस्त्रं न
गृह्णामीति प्रतिज्ञां विजहत् त्यजन् क्रोधशालीव अरिवरं सुदर्शनम् । शस्त्रं ग्राहया-
मीति तत्प्रतिज्ञां सत्यं कर्तुमेव, न तव क्रोधशालित्वात् ॥ ७ ॥
।
,
भगदत्तप्रयुक्तनारायणास्त्राद् , जयद्रथवधप्रतिज्ञायाः, कर्णनागास्त्राच्चार्जुनं
रक्षितवानित्याह -
युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं
वक्षस्याधत्त चक्रस्थगितरविमहाः पादयन् सिन्धुराजम् ।
नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं
तत्रे तत्रापि पार्थ किमिव न हि भवान् पाण्डवानामकार्षीत् ॥८॥
युद्ध इति । चक्रेण स्थगितं तिरस्कृतं रविमहो येन । सिन्धुराज जयद्रथम् ।
कृत्तमौलिं खण्डितसकेशकिरीटम् । तत्रे ररक्ष । पाण्डवानां किमिवोपकारं भवान्
नाकार्षीत् ॥ ८॥
युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ-
नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा ।
यज्ञघ्नं बल्खलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते
सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥९॥

दशकम् ८६] भारतयुद्धवर्णनम् । २९५ युद्धादाविति । ऋच्छन् गच्छन् अप्रत्युत्थायिनः सूतस्य रोमहर्षणस्य क्षयकृद् वधं कुर्वन् अथ मुनिवचनात् सुतं तत्पुत्रं तत्पदे मुनिदत्ते ब्रह्मासने । पर्वणि पर्वणि यज्ञप्नं बल्वलं दैत्यं परिदलयन् निन्नन् ॥९॥ संमुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जहे। उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षनङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिविभो ! त्वम् ॥१०॥ संसुप्तेति । संसुप्तपञ्चद्रौपदेयक्षपणेने हतधियम् अविदितेतिकर्तव्यताकं द्रौणिम् अश्वत्थामानमेत्य तेन अश्वत्थाम्ना मुक्तं ब्राह्ममस्त्रं त्वदुक्त्या विजयः समहृत संहृतवान् , तस्य मौलिरत्नं च जेहे । पाण्डवानामुच्छित्त्यै मूलच्छेदाय पुनस्तत्प्रयुक्ते अस्त्रे ब्रह्मास्त्रे उत्तरागर्भ विशति सति अङ्गुष्ठमात्रवपुश्चक्रपाणिः सन् त्वमुत्तराया जठरमगाः किल ॥१०॥ अथ धर्मजभीष्मयोभुक्तिमुक्ती प्रदाय कृतकृत्यो भगवानित्याह- धौ धर्ममूनोरभिदधदखिलं छन्दमृत्युः स भीष्म- स्त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । संयाज्याथाश्वमेधैस्विभिरतिमहितैर्धर्मजं पूर्णकाम सम्प्राप्तो द्वारकां त्वं पवनपुरपते ! पाहि मां सर्वरोगात् ॥११॥ धौघमिति । सः भूभारहरणे परमसुहृद् भीष्मः त्वां पश्यन् त्वद्भक्ते- भूम्नैवानपायिन्या भक्त्या निष्कलब्रह्मभूयं निष्कलब्रह्मत्वं मोक्षं सपदि ययौ । अथाश्वमेधैः संयाज्य याजयित्वा ॥११॥ । ! इति साल्वादिवधवर्णनं भारतयुद्धोपक्रमवर्णनं भारतयुद्धवर्णनं च षडशीतितमं दशकं सैकम्। २. 'हे। उच्छिक.ग. पाठः, १. 'न हता धीनष्टा बुद्धिर्यस्य तं द्रौ' क. पाठः. 'व। जठ' क. पाठः.. ४. "क्षम् । सं' क. ग. पाठः, ३.

९ नारायणीये [स्कन्धः-१. कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः। त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी॥१॥ कुचेलनामेति । सतीर्थ्यतां सब्रह्मचारिताम् । त्वदेकरागेण त्वयि प्रेम- लक्षणया भक्त्या । प्रशमी जितेन्द्रियः ॥१॥ समानशीलापि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी। कदाचिदूचे वत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥२॥ । १ समानशीलेति । यद्यपि समानशीला, तथापि तथैव कुचेलवच्चित्तजयं धनादिनिःस्पृहत्वं नो समेयुषी प्राप्तवती । वृत्तेजीवनोपायस्य लब्धये रमापतिः । सखेति निषेवौचित्यम् ॥२॥ इतीरितोऽयं प्रियया क्षुधातया जुगुप्समानोऽपि धने मदावहे । तदा त्वदालोकनकौतुकाद् ययौ वहन् पटान्ते पृथुकानुपायनम् ॥ ३ ॥ इतीरित इति । पटान्ते उपायनम् उपहारं वहन् द्वारकां ययौ ॥३॥ गतोऽयमाश्चर्यमयीं भवत्पुरी गृहेषु शैब्याभवनं समेयिवान् । प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ ४ ॥ गत इति । आश्चर्यमयीम् अनल्पशिल्पां भवत्पुरी द्वारकां गतोऽयं कुचेलः तत्र गृहेषु यष्टसहस्रेषु मध्ये शैव्याया भवनं समेयिवान् प्राप्तः । तवाति- सम्भावनया अतिसम्मानेन निवृतिं सुखमवापेति किं पुनरुच्यते ॥ ४ ॥ प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतम् । यदिन्धनार्थ गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥५॥ प्रपूजितमिति । अपतौं वर्षर्तुव्यतिरिक्तकाले तत् सुमहद् वर्षममर्षि सो- ढमिति यत्, तत् पुरा कृतं गुरुकुले कृतं कर्माकथयः ॥ ५॥ १. ति किं न निषेव्यते इत्यूचे उक्तवती ॥' क. पाठः.. २. 'तं क क. पाठ:.

दशकम्-८७] कुचेलोपाख्यानवर्णनम् । २९७ त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । कृतं कृतं नन्वियतेति सम्भ्रमार रमा किलोपेत्य कर रोष ते ॥६॥ त्रपाजुष इति । त्रपाजुषः श्रीपतये पृथुकप्रसृतिप्रदानलज्जयावाङ्मुखाद् बलात्कारेण पृथुकं प्रगृह्य त्वया मुष्टौ सकाशिते सति रमा श्रीः सन्त्रमादुपेत्ये- यता प्रसादेन कृतं कृतम् अलमलं ननु इतोऽधिकत्वत्प्रसादोचितसम्पत्सम्पादनेऽह- मसमर्थेति ते करं रुरोध किल ॥६॥ -- भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । वतापरेाविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥७॥ भक्तेष्विति । भक्तेषु उद्धवादिषु भक्तेन प्रीतियुक्तेन त्वया सः कुचेलः मानितः पूजितः, बतेति खेदे, अपरेधुः श्वोभूते द्रविणं धनं विना ययौ । विचि- त्ररूपः समक्षासमक्षादिभेदेन बहुप्रकारः ॥ ७ ॥ यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्या किमिति वजन्नसौ । त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीपमालयम् ॥ ८॥ यदीति । यद्यहमयाचिष्यं, तमुच्युतोऽदास्यत् । नाहं याचितवान् अच्यु- तश्च न दत्तवानित्यर्थः । अतो भायाँ किं वदामीति चिन्तयन्नेव व्रजन् तवोक्तौ ली. लायां मिते च मना धीर्यस्य । मणिभी रत्नैः दीपं दीपनशीलम् आलयं निजभवनं क्रमादपश्यत् ॥८॥ किं मार्गविभ्रंश इति भ्रमन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । सखीपरीतां मणिहेमभूषितां बुवोध च त्वत्करुणां महाद्भुताम् ॥९॥ किमिति । किं मार्गविभ्रंशः पुनरपि द्वारकामागतवानहमिति क्षणकालं अमन् गृहं प्रविष्टः वल्लभां दृष्ट्वा महाद्भुतां त्वत्करुणामात्मसम्पदं तद्धेतुकां बुबोध च ॥९॥ १. 'या पृथुकमु' क. ग. पाठः, २९८ नारायणीये स्कन्धः-१० स रत्नशालासु वसनपि स्वयं ससुन्नमद्भक्तिभरोऽमृतं ययौ। त्वमेवमापूरितभक्तवाञ्छितो मरुत्युराधीश ! हरस्व मे गहान् ॥१०॥ स इति । सः स्वयं रत्नशालामु कामोद्दीपनविभावेषु वसन्नपि समुन्न- मद्भक्तिभरः क्रमात् प्रवृद्धभक्त्यतिशयः अमृतं मोक्षं ययौ ॥ १० ॥ इति कुचेलोपाख्यानं सप्ताशीतितमं दशकम् । प्रागेवाचार्यपुत्रातिनिशमनया स्वीयपदसनुवीक्षा काङ्क्षन्त्या मातुरुक्त्या सुतलमुवि बलिं प्राध्य तेनार्चितस्त्वम् । धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कसभग्ना- नानीयैनान् गदर्थ स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥१॥ प्रागेवेति । मृतं पुत्रमानीयाचार्य दक्षिणां कृतवानिति निशमनया श्रवणेन कंसहतस्वीयषट्सूनुवीक्षां प्रागेव अतिचिरं काङ्क्षन्त्या मातुर्देवक्या उक्त्या महा- बलिं प्राप्य पूर्व मरीचेः पुत्रान् स्मरोद्गीथपरिप्वङ्गपतङ्गक्षुद्र ग्वृण्याख्यान् पुनश्च धातुर्ब्रह्मणः शापाद् हिरण्यकशिपुभवान् शौरिजान् वसुदेवपुत्रान् मात्रे प्रदर्य स्वपदं स्वर्गम् अनयथाः प्रापयामासिथ ॥ १॥ श्रुतदेव इति श्रुतं द्विजेन्द्र बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत् त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः॥२॥ श्रुतदेव इति । श्रुतं विश्रुतम् ॥२॥ गच्छन् द्विमूर्तिरुभयोर्युगपनिकेत- मेकेन भूरिविभवविहितोपचारः। अन्येन तदिनभृतैश्च फलौदनायै- स्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥३॥ १.भ' क. पाठः, ८८ अर्जुनगर्वापनयनवर्णनम् । गच्छन्निति । द्विमूर्ति : अङ्गीकृतशरीरद्वयः। एकेन बहुलाश्वेन भूरि- भिर्विभवैः उपकरणः विहितः कृतः उपचारः पूजा यस्य ॥३॥ अथ द्विजस्य मृतपुत्रानयनेनार्जुन य गर्वायनअनपूर्वकमात्मनि तत्त्वबुद्ध्या- पादनप्रकारमाह भूयोऽध द्वारवत्या हिमतनयायति समलापनषि त्वं को वा देवं निसन्ध्यादितिाकलययन् विश्ववोडाप्यसोढाः। जिष्णोग विनेतुं त्वयि मलुधिया कुण्ठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परयतमपक्षणेनेति मन्ये ॥४॥ भूय इति। देवं स्वकर्मफलं को निसन्ध्याद् अन्यथाकतु कः समर्थ इति कथयन् त्वं तस्य द्विजस्य प्रलापानपि विश्ववोढा जगदीश्वरोऽपि असोढाः मर्षि- तवान् । परमतमस्य पदस्य वैकुण्ठपदस्य प्रेक्षणेन अस्य जिष्णोः गर्व विनेतुम् अपनेतुम् । मनुजधिया त्वयि कुण्ठितां निश्चयरहितां तत्त्वारूढां विधातुम् इद- मिति मन्ये ॥४॥ नष्टा अग्रस्य पुत्राः पुनरपि तब तूपेक्षया कष्टवाइ स्पष्टो जातो जनानामय तहबसरे द्वारकामार पार्थः । मैया तोपितोऽसौ नवमयुतमृती विश्वर्यासेद श्रुत्वा चक्रे प्रतिज्ञापनुपहललुतः सनिवेश्ये कृशानुम् ॥५॥ नष्टा इति। अस्य द्विजवरस्य अष्ट पुत्रा नष्टाः। तदा तु तवोपेक्षया द्विजसुतरक्षणौदासीन्याद् जनानां कष्टवादो लोकापवादो जातः। तदवसरे पार्थो द्वारकाम् आर प्राप । मेव्या सख्येन तत्रोषितः उवास । अनुपहृतथुतः अदत्तज- निष्यमाणकुमारश्चेद् अहं कृशानुम् अभिं सन्निवेक्ष्वे प्रषिशामि ॥ ५ ॥ मानी स त्वामपृष्ट्या द्विजनिलयगतो बाणजाले हाच रुन्धानः सुतिगेहं पुनरपि सहसा दृष्टनटे कुमारे । १. 'नसि' क. पाठः. २. 'ष्णवप' क. ग. पाठः.

नारायणीये स्कन्धः-१० याम्यामैन्द्री तथान्याः सुरवरनगरीविद्ययासाद्य सद्यो मोघोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥६॥ मानीति । स पार्थः मानी आश्रितरक्षणेऽद्वितीयोऽहमित्यभिमानी । अत एव त्वां परमवन्धुमप्यपृष्ट्वा महास्त्रैः आग्नेयादिभिः सूतिगेहं रुन्धानः कृतशर- पञ्जरः दृष्टनष्टे जातमात्र एव सशरीरमदर्शनं गते याम्यां यमनगरीम् ऐन्द्रीम् इन्द्रस्य नगरीम् अन्याः वरुणकुबेरादिसुरवरनगरीः विद्यया योगैश्वर्येण आसाद्य प्राप्य हुतभुजि अग्नौ पतिष्यन् पतितुमारब्धो भवता सस्मितम् । पौरुषस्य दैवसा- पेक्षत्वम् इदानीं किमवसितमित्यर्जुनस्य भावावेदनं तव स्मितहेतुः ॥ ६॥ साधतेन प्रतीची दिशमतिजविना स्यन्दनेनाभियातो लोकालोक व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं प्राददर्शः किमपि हि तयसां दूरदूरं पदं ते ॥७॥ सार्थमिति। अतिजविना वेगातिशयवता। वारा पारे कारणजलमध्य- वर्तिनि किमपि अनिर्देश्यं तमसा दूरदूरम् अत्यन्तदूरस्थितम् ॥ ७॥ तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाये. रावीतं पीतचेलं प्रतिनवजलश्यामलं श्रीमदङ्गम् । मूर्तीनामीशितारं परमिह तिमृणामेकमर्थ श्रुतीनां त्यामेव त्वं परात्मन् ! प्रियसखसहितो नेमिथ क्षेमरूपम् ॥८॥ तत्रेति। तिसृणां मूर्तीनामीशितार नियन्तारम् अत एव परं जगत्कारणं श्रुतीनामेकमर्थ प्रधानप्रतिपाद्यं क्षेमरूपं पुरुषार्थभूतं त्वामेव त्वं नेमिथ नमश्च- कृषे ॥८॥ युवां मामेव द्वावधिकवितान्तर्हिततया विभिन्नौ सन्द्रष्टुं स्वयमहमहापं द्विजसुतान् । १. 'तिदू' क. पाठः.

दशकम् - ८८] अर्जुनगर्वापनयनवर्णनम् । ३०१ नयेतं द्रागेनानिति खलु वितीर्णान् पुनरमून् द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥९॥ युवामिति। युवां कृष्णार्जुनौ मामेव मदंशभूतावेव द्वौ अधिकविवृता- न्तर्हिततया विभिन्नौ । एकः शुद्धसत्त्वोपाधिकतयाधिकविवृतः प्रकटितनिजैश्वर्यः । अन्य उपाध्यन्तर्हितनिजैश्वर्यः । अतो जीवेश्वररूपेण विभिन्नौ द्विधाभूतौ सम्द्रष्टुं स- मीपे द्रष्टुमहं स्वयं द्विजसुतानहार्षम् आनीतवान् । एनान् द्राग् झटिति नयेतं द्विज- वरनिकटं प्रापयेतम् इति वितीर्णान् दत्तान् अमून् द्विजसुतान् आदाय ब्राह्मणायादाः दत्तवान् । पाण्डुजनुषा पार्थेन प्रणुतः स्तुतो महिमा यस्य ॥९॥ एवं नानाविहारैर्जगदभिरमयन् वृष्णिवंशं प्रपुष्ण- नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः। भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः पूर्ण ब्रह्मैव साक्षाद् यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥१०॥ एवमिति। भूभारक्षेपमिषेण मनुजतया रूषितो बहिर्लिप्तः ॥१०॥ प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसाई- स्तस्माल्लेभे कदाचित् खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते बदर्याम् ॥११॥ प्रायेणेति। श्रीनारदः प्रायेण दक्षशापाच्चिरमेकत्र स्थातुमशक्यतया गता- गतपूर्वकं द्वारवत्यामवृतद् वर्तते स्म। तदा तस्मान्नारदात् । जनहिताय भक्तानां ज्ञानोपदेशाय ॥ ११॥ सोऽयं कृष्णावतारो जयति तव विभो! यत्र सौहार्दभीति- स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमोगभेदैः । १. 'या एक ग. पाठः, ३०२ नारायणीये [स्कन्धः-१० आति तीर्खा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः स त्वं विश्वार्तिशान्त्यै पवनपुरपते! भक्तिपूत्यै च भूयाः ॥१२ ॥ सोऽयमिति। यत्र श्रीकृष्णे सौहार्दादिभिः योगभेदैः श्रीकृष्णे मनोनि- वेशनोपायविशेषैः। तत्र सौहार्दात् पाण्डवादयः, भीत्या कंसः, स्नेहाद् यदवः, द्वेषात् शिशुपालादयः, अनुरागाद् गोप्यः । सर्वतः सर्वत्र । सर्वे लोकाः समस्ता- माध्यात्मिकादिरूपाम् आति पीडां ती. अतिक्रम्य अमृतपदं मोक्षम् अगुः जग्मुः । विश्वातिशान्त्यै सकलपीडापहत्यै भक्तेः प्रारब्धायाः पूत्यै प्रवृद्धये च भूयाः ॥ १२ ॥ इत्यर्जुन गओपनयनवर्णनम् अष्टाशीतित दशकं सद्विकम् । रमाजाने ! जाने यदिह तव भक्तेषु विभवो न सम्पयः सद्यस्तदिह मदकृत्त्वादशमिनाम् । प्रशान्ति कृत्वैव प्रदिशसि ततः काममखिलं प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥१॥ रमाजान इति । हे रमाजाने ! लक्ष्मीपते ! तव भक्तेषु विभवः फलं न सद्यः किञ्चिद् भजनमात्र एव सम्पद्यः परिणतो न भवति यत् , तद् मदकृत्त्वाद् विभ- वस्य मदजनकत्वादिति जाने। अतः अशपिनाम् अशान्तानां प्रशान्ति कृत्वैव कामम् अभीष्टमखिलं प्रदिशसि । प्रागेव प्रशान्तेषु तु क्षिप्रं प्रदिशासे । अतस्त्वदीये त्वद्भक्ते न खलु च्युतिकथा भ्रंशस्य कथा शब्दोऽपि नास्त्येव ॥१॥ विधिशङ्करादयस्तु न तथेत्याह सद्यःप्रसादरुषितान् विधिशङ्करादीन केचिद् विभो! निजगुणानुगुणं भजन्तः । सम्पद्यत इति सम्पद्यः। 'कृम्वस्तियोगे सम्पद्यकर्तरि' (५. ४. ५०.) इत्यत्र कर्तृशप्रत्ययान्ततया निपातनात् साधुता ।

३०३ दशकम् - ८९] वृकासुरवधवर्णनम् । भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्टया स्पष्ट कालुर उदाहरणं किलास्मिन् ॥२॥ सब इति । सद्यः अलाभ्यां गुणदोषाभ्यां. सद्यःप्रसादाः सद्योरुषिताश्च विधिशङ्करादयः । केचिद् निजगुणानुगुणं स्वस्ववासनानुसारेण तान् भजन्तः अन- न्तरमशान्ततया तद्रोपेणैव भ्रष्टा भवन्ति । कष्टं बतेति खेदे। अदीर्घदृष्टया अति- चिरविष्णुभजनमान्द्यादेवान्यभजनमिति भावः । तदुक्तं " रागी स पुरुषोऽवश्यं फलं प्रेप्सति शङ्करात् । ततः फलं स लभते ततस्तं विस्मरिष्यति ॥ mumes इति । अस्मिन्नर्थे वृकासुरः स्पष्टम् अनुरूपम् उदाहरणम् ॥ २॥ शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । सच दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥३॥ शकुनिज इति । स हि वृकासुरः त्वरिततोवं सद्यःप्रसादमधीश्वरमपृच्छत् ।। तपस्तप्त्वा घोरं स खलु कुपितः सहमदिने शिरश्छित्वा सद्यः पुरहरमुपस्थाप्य पुरतः। अतिक्षुद्रं रौद्रं शिरसि करदानेन निधन जगन्नाथाद् बत्रे भवति विमुखानां क शुभधीः ॥४॥ तप इति । उपस्थाप्य प्रत्यक्षीकृत्य । अतिक्षुद्रम् असारम् । रौद्रं क्रूरम् । भवति विष्णौ ॥ ४॥ मोक्तारं वन्धमुक्तो हरिणपतिरिव प्राद्रवत् सोऽथ रुद्रं दैत्याद् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः। तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्रीक्ष्य शर्वे दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ५॥ ..त्यो भी' क. घ. ड. च. पाठ:.

नारायणीये [स्कन्धः-१० मोक्तारमिति । स दैत्यः रुद्रमेव प्राद्रवत् । बन्धमुक्तो हरिणपतिमगेन्द्रः मोक्तारमिव । तव पदं वैकुण्ठम् । तस्थिषे दानवाय वृकासुरायात्मानं प्रकाश्य स्थितवान् ॥५॥ भद्रं ते शाकुनेय! भ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहश्चन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग! मौलौ । इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥६॥ भद्रामिति । छिन्नपातमपतत् छिन्नमूलतरुवत् पपात । परोपासितुरप्येवं त्वत्कृतो भ्रंशो भवति । शूलिनोऽपि गतिः शरणं च त्वं विष्णुरेव भवति ॥६॥ भृगुं किल सरस्वतीनिकटवासिनस्तापसा- त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥७॥ भृगुमिति । अधिकसत्त्वतां महत्त्वम् । अयं भृगुः ब्रह्मपुत्रः अकृतप्रणा- मस्तदनादरादुदितः पुनश्च रुद्धो रोषो येने तथाविधे सति विधौ हरे रुद्रेऽपि च भ्रातृस्नेहेन परिरम्भणारम्भे तदनादरजनितरुषा जिहिसिषौ हन्तुमिच्छति सति गिरिजया धृते वारिते च सति वैकुण्ठमगात् ॥ ७ ॥ सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । सर्व क्षमस्व मुनिवर्य ! भवेत् सदा मे त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥८॥ मुप्तमिति । त्वत्पादचिह्र श्रीवत्साख्यम् ॥ ८॥ १. "किं घ. पाठः, २. 'यस्य त' क. ग. पाठः,

दशकम् -९०]
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
३०५
निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत ! पुनश्च्युतिदोपहीनं
सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ९॥
निश्चित्येति । बद्धो भावो भाक्तयेषाम् । सारस्वताः सरस्वतीतीरवासिनः॥९॥
जगत्सृष्टयादौ त्वां निगमनिवहैर्वन्दिभिरिव
स्तुतं विष्णो! सच्चित्परमरसनिद्वैतवपुषम् ।
परात्मानं भूमन् ! पशुपवनिताभाग्यनिवह
परीतापश्रान्त्यै पवनपुरवासिन् ! परिभजे ॥१०॥
जगदिति । निगमनिवहैः मूर्तिमतीभिरुपनिषद्भिः जगत्सृष्टयादौ सगुणत्वेन
स्तुतम् । सच्चिदिति । सच्चिदानन्दाद्वयपरमात्मरूपेण च स्तुतमिति भावः । पशुपवनि-
तानां भाग्यं तत्फलं नितरां वहति प्राययतीति तथा । यद्वा भाग्यानां निवहं श्रीकृ.
ष्णरूपेण परिणतमिति । एवञ्च त्रिमूर्तिषु विष्णोरेव महत्त्वमित्यस्मिन्नर्थे सारस्वता
मुनिवरा निगमनिवहाश्च प्रमाणमित्यप्युक्तं वेदितव्यम् ॥ १० ॥
इति वृकासुरवधवर्णनं मूर्तित्रितये भगवतः श्रेष्ठयवर्णनं च
एकोननवतितमं दशकम् ।
ननु त्रिमूर्तिषु महत्त्वं श्रीशङ्करस्यैवेति स्कान्दादौ बहुशः श्रूयत इत्या-
शङ्कय परिहरति-
वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते-
ध्वयि तव हि महत्त्वं सर्वशादिजैत्रम् ।
स्थितमिह परमात्मन् ! निष्कलार्वागभिन्न
किमपि यदवभातं तद्धि रूपं तवैव ॥ १ ॥

mom १०६ नारायणीये स्कन्धः-१० वृकेति । मोहिनी विष्णुमाया। तब विष्णोर्महत्त्वं सर्वेषां शर्वादीनां देवानां जैत्रं न्यूनतापादकम् । तत्र वृकादिचतुर्णा चरितेषु शिवस्य जैत्रं स्वन्महत्त्वम् , इन्द्रयाग-नन्दहरण-बालानयन-अनलपान- वत्सस्तेयादिषु इन्द्रवरुणयमानलब्रह्मा- दिजैत्रं त्वन्महत्त्वमिति स्थितम् अत्रैव दृढीकृतम् । अन्न हेतु : परमात्मन्निति। निरुपाधिकपरमात्मत्वमेवोपपादयति-निष्कलेति । निष्कले परमात्मनि ततोऽर्वाक् सकलेषु ब्रह्मविष्णुगिरीशादिषु च यत् किमप्यभिन्नं रूपं परमात्मतत्त्वम् अवभातं, तदेव तव विष्णो रूपं तद्रूपं च तवैव, न तेषाम् । हि यस्मादेवं विष्णोरवस्थाभे- दा गिरिशादयः, तस्मात् त्रिमूर्तिषु विष्णोरेव महत्त्वमुक्तमित्यर्थः । तदुक्तं श्रीभागवते- " सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः।।" इति ॥ १ ॥ (स्क. १. अ. २. श्लो. २३) ननु "एवमेको महादेवो मायया गुणरूपया। नामरूपक्रियाभेदैभिन्नवत् प्रतिभासते॥" इति वचनात् शिवस्यैवावस्थाभेदो मूर्तित्रयप्राधान्यं चेत्याशङ्कय संज्ञाभेद एवायं, न संज्ञिनि वस्तुस्वरूप इति परिहरति--.. मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् पाहुः परात्मवपुरेव सदाशिवोऽस्मिन् । तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥२॥ मूर्तित्रयेति। ब्रह्मविष्णुगिरिशेश्वरसदाशिवाख्यमूर्तिभेदेन पञ्चात्मकः शिव इति यत् प्राहुः शैवाः, तत्र शैवानां पक्षे यः सदाशिवंशब्दवाच्यः, सोऽस्मिन् , १. 'तुत्वेन सम्बोधयति- हे परमात्मन् ! । नि' क. ग. पाठः. २. 'तु ब्रह्मगिरिशादेः । हि' क. ग. पाठः. ३. 'यं विवादो, न क, ग, पाठः, ४. 'ववा' ख, पाठः,

दशकम् -९०] आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
३०७
पक्षे "विष्णुं पञ्चात्मकं वन्दे" इत्युक्ते श्रीभागवतपक्षे परात्मवपुः परमात्मस्वरू-
पस्त्वं विष्णुरेवेत्यर्थः । एवं विकुण्ठपदो वैकुण्ठवासी त्यमेवेश्वरशब्दवाच्यः। त्रयो
भागा ब्रह्मविष्णुशिवलोका यस्मिंस्तत् त्रिभागं तस्मिन् सत्यपदे सत्यलोके त्रयो
ब्रह्मविष्णुगिरिशाः तेषां भावन्नित्व, सत्यलोकस्थब्रह्मविष्णुशिवलोकेषु त्रिमूर्तित्व-
मपि त्वमेव भजसीत्यर्थः । यथा हरिवंशे-----
। अहं त्वं सर्वगो देव! त्वमेवाहं जनार्दन ! ।
आवयोरन्तरं नास्ति' शब्दैरथैर्जगत्पते! ॥"
इति ॥२॥
ननु यदि विष्णुशिवयोरभेदः, तर्हि कथं विष्णोः प्राधान्यमुच्यते। सत्यम् ।
यद्यपि तत्त्वदृश्या भेदो नास्ति, तथापि गौणो भेदः उत्कर्षों निकर्षश्चानयोर्भ-
वत्येवेत्याह-
तत्रापि सात्त्विकतनुं तव विष्णुगाहु-
र्धाता तु सत्वविरलो रजसैव पूर्णः।
सत्त्वोत्कटत्वमपि चास्ति तमोविकार-
चेष्टादिकं च तव शङ्करनाम्नि मूतौ ॥३॥
तत्रापीति । तत्र त्रिमूर्तिषु तव सात्त्विकी शुद्धसत्त्वमयीं तनुं विष्णुं
केवलविष्णुशब्दवाच्यामाहुरित्यर्थः। तदुक्तं--
"राजसो भगवान् ब्रह्मा सात्त्विको विष्णुरुच्यते।
ईषत्तमोगुणो रुद्रः सृजत्यवति हन्त्यजः॥"
इति ॥३॥
ननु "तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेवे"त्युक्तम् । तदयुक्तम् ,
"अम्बिकापतिरीशान उपास्यो गुणमूर्तिभिः ।
ईश्वरः परमात्मैको मायया स त्रिधा स्थितः ॥"
इति वचनादिति चेद्, नेत्याह-
तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां
शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
शंसन्त्युपासनविधौ तदपि स्वतस्तु
त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥४॥

३०८ नारायणीये [स्कन्धः-१० तं चेति । त्रिमूर्त्यतिगतं मूर्तित्रयात् परं तं शैवानामीश्वरशब्दवाच्यं परं ब्रह्माण्डाद् बहिष्ठं पुरुषम् एकांशेन पुरं ब्रह्माण्डं प्रविश्य च स्थितम् अन्तर्गतानेकब्रह्माण्डं त्वां खलूपासनविधौ शैवान् प्रति शर्वात्मना शिवस्वरूपेणापि शंसन्ति पौराणिकाः। सर्वमयत्वहेतोरिति । तव त्रिमूर्त्यधिष्ठानत्वात् तदपि नात्यन्तमयुक्तमित्यर्थः । तदपि तथापि स्वतः परमार्थतस्त्वद्रूपमेव तद्, न ब्रह्म- शिवयोरित्यत्र बहु नः प्रमाणमिति । श्रुतिपुराणवचनप्रत्यक्षादिप्रमाणानि बहूनि सन्तीत्यर्थः। श्रुतिस्तावत् पुरुषसूक्तादौ। 'केदृग्विधाविगणिते त्यादीनि पुराण- वचनानि । एवंरूपस्यार्जुनादिभिर्दृष्टत्वात् प्रत्यक्षमपि प्रमाणमित्यलम् ॥ ४ ॥ - श्रीशङ्करोऽपि भगवान् सकलेषु तावत् त्वामेव मानयात यो न हि पक्षपाती। त्वनिष्ठमेव स हि नामसहस्रकादि व्याख्यद् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥५॥ श्रीशङ्कर इति । किञ्च श्रीशङ्करः भगवत्पादाचार्यः। त्वन्निष्ठं विष्णुपरम् । नामसहस्रकादीति । आदिशब्देन श्रीगीतादि गृह्यते। सोऽपि तदुभयमपि शिवपर- तया व्याख्यातुं शक्यमपि विष्णुपरतयैव व्याख्यातवान् । अन्ते च भवत्स्तुतिपरः श्रीमत्पादादिकेशस्तुतिं कुर्वन् गतिं मोक्षं गतः, न तु शिवस्तुतिपरः ॥५॥ सकलेषु त्वामेव मानयतीति यदुक्तं, तदेवाह- मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र- स्यादौ कलायसुषमं सकलेश्वरं त्वाम् । ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् ॥६॥ पाठ.. ६१. 'रं गतं शै' क. पाउः., 'रतः शै'ख.पाठः, २. 'द्धेतोः त' क.ग. पाठः. ३. 'ताण्डपराणु- चर्यावाताध्वरोमविवरस्य च ते महित्वमित्या (श्री. भा. १०. १४. ११) क. ग. ४. 'हि' क. घ. इ.च. पाठः. ५. 'वान् । त्व' क. पाठः., "वत्पादः । त्व' ग. पाठः. 'ते। श्रीशङ्कराचार्यों हि सहस्रनामगीतादिकं शि' क. ग. पाठः. ६.

दशकम् -९० आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् । ३०९ मूर्तित्रयेति । मूर्तियातिगं चतुर्थं परमेश्वरं त्वां कलायसुषमं श्रीकृष्ण- मुवाच । प्रणवे प्रणवार्थत्वेन तत्र निष्कलध्यानाङ्गत्वेन सकलं त्वामेव निजगाद, नान्यं शिवमित्यर्थः ॥६॥ पुराणानां विष्णुमहिमपरत्वं पुराणसंग्रहे स्पष्टमित्याह- समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥७॥ समस्तेति । ननु वैकुण्ठलोकः सत्यलोकान्तर्गतः ब्रह्माण्डाद् बहिष्ठस्तु नहि लोक इति चेद् नैवमित्याह-त्रिमूर्तीति । मूर्तित्रययुक्तेभ्यः सत्यलोकस्थ- लोकत्रयेभ्यः परं ब्रह्माण्डाद् बहिष्ठं यत् पदं लोकः, तत् ते तव वैकुण्ठलोक एवेति पुराणसंग्रहे कथितम् ॥७॥ यद् ब्राह्मकल्प इह भागवतद्वितीय- स्कन्धोदितं वपुरनावृतमीश! धात्रे । तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधवः शिवपरोऽपि पुराणसारे ॥८॥ यदिति । यस्मिन् ब्रह्माभूत् स ब्राह्मः कल्पः, तस्मिन् भगवता धात्रे प्रत्यक्षीकृतं यद् वपुः, तस्य वपुष एव हरिशर्वमुखं नाम जगाद श्रीमाधवाचार्यः पुराणसारे । यद्यप्यसौ शिवपरस्तथापि पुराणसारे धात्रे दर्शितस्य वपुषो न शिवमूर्तित्वमुक्तवान् , सर्वमयस्तु त्वमेवेति च त्वामेवोक्तवानित्यर्थः ॥ ८॥ ननु “गोप्ता विष्णुस्तमोमूर्तिर्व्यापारेण तु सात्त्विकः।" "तदधीनो हरिः साक्षाद्" १. 'म् ॥' क. ग. पाठः. २. 'ष्टः शिवलो' ख. ग. पाठः. ३. 'पा' क. घ. ङ. चः पाठः. 'त्रे ब्रह्मणे अनावृतं प्र' ग. पाठः. ५. 'न् सर्वमूर्तित्वमेवोक्तवान् , स' क.ग. पाठ:.

३१० नारायणीये [स्कन्धः-१० "विष्णुर्विरिञ्चश्च यत्पादपझं शिरसा बिभर्ति " इत्यादिवचनैहरेनिकृष्टता व्यासेनैवोक्ते पाशङ्कय तस्यार्थवादत्वेनातत्परत्वमाह 'ये स्वप्रकृत्यनुगुणम्' इति द्वाभ्यां ये स्वप्रकृत्यनुगुणा गिरिचं भजन्ते तेषां फलं हि दृढयैव तदीयभक्त्या । व्यासो हि तेन कृतवानधिकारिहेतोः स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥९॥ य इति । “यस्येच्छा जायते यस्मिन् तं देवं स समाश्रयेद्" इति न्यायेन स्वप्रकृत्य गुणं प्राग्जन्मवासनानुसारेण । तेषां दृढया तदीयभक्त्यैव फलं भाविष्यतीति यत् तेन हेतुना व्यासो ह्यधिकारिहेतोः गिरीशभजनाधिकारिणं प्रति अर्थवादैः तवं हानिवचो न्यूनतावचनानि कृतवान् । अर्थवादाश्च गिरिश- भजनरुच्युत्पादनार्थाः ॥९॥ ननु रुच्युत्पादनार्थं चेद् , गिरिशं स्तूयादेव, नान्यहानिवचः कुर्यादित्यत्राह- भूतार्थकीर्तिरनुवादविरुद्धवादी त्रेधार्थवादगतयः खलु रोचनार्थाः । स्कान्दादिकेषु ववोत्र विरुद्धवादा- स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥१०॥ भूतार्थेति । भूतार्थकीर्तिः यथावस्थितार्थकीर्तनम् , अनुवादोऽविरुद्धगुणा- रोपः, प्रमाणान्तरविरुद्धार्थकथनं विरुद्धवाद इति त्रेधार्थवादस्य गतयो मार्गाः । त्रयोऽपि रोचनार्था एव । तत्र तेषां मध्ये त्वत्तामसत्वादयो विरुद्धवादाः प्रमाणा- न्तरविरुद्धवचनानि ते च रोचनार्थाः । विष्णुरपि यत्प्रसादमपेक्षते, अहो गिरि- -- १. 'ता श्रीवेदव्या' क. ग. पाठः. २. 'णं व्याख्यासम्मतः पाठः. ३. 'नुसारेण प्रा क. ग. पाठ: ४. व विष्णोही क. ग. पाठः. 'स्तुवीतैव व्यासः । किमर्थं हा- निवचः कृतवान इत्याशङ्कायामाह- क. ग. पाटः. ६. 'वलम्बते' क. ग. पाठः.

दशकम् -९०] आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् । ३११ शस्य प्राधान्यमिति गिरिशभजनरुच्युत्पादका एवैत, न तु विप्णोस्तामसत्वपरा- जयादिज्ञापनादौ प्रमाणभूताः ॥ १० ॥ उक्तेऽथै स्वकपोलकल्पितत्वशां वारयन् कविः श्रोतृश्रद्धा सम्पादयति- RAINLANDAasha यत्किञ्चिदप्यविदुपापि विभा. मयोक्तं तन्मन्त्रशास्त्रवचनाद्यभिष्टमेव । व्यासोक्तिसारमयभागवतोपगीत! क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ! ॥ ११ ॥ यत्किञ्चिदिति । व्यासोक्तयः पुराणानि तेषां सारमयं श्रीभागवतं, श्री- वेदव्यासस्य कृतकृत्यतापादकत्वात् , तदुपगीत! तत्प्रतिपाद्य ! ॥ ११ ॥ ५५९।। इति आगमादीनां भगवत्येव परमतात्पर्यनिरूपणं नवतितमं दशकं सैकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तनियाख्यायां दशमस्कन्धपरिच्छेदः। आदितः श्लोकसङ्ख्या ९३४. १. 'दनार्था ए' क, ग. पाठः, अथैकादशस्कन्धपरिच्छेदः। प्रवृत्तिलक्षणा लीला प्राच्यैः पद्यैः प्रकीर्तिता। निवृत्तिलक्षणा सेयं हरेलीला निरूप्यते ॥ सम्प्रति भक्तानां मुक्तिमार्गप्रदर्शनाय भगवद्गुणान् वर्णयितुमारभमाणः प्रथ- मं मोक्षोपायमौलिभूतस्य भगवदुपासनस्य माहात्म्यं दर्शयति- श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे- मर्त्यस्यातस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव । यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे धावन्नप्यावृताक्षः स्खलति न कुहचिद् देवदेवाखिलात्मन् ! ॥१॥ श्रीकृष्णेति । बद्धा रूढपदा मिथ्यार्थे शरीरादौ दृष्टिः अहम्ममाभिमानो यस्य, अत एव मर्त्यस्य जननमरणधर्मिणः, तम्मादातस्य आध्यात्मिकादिदुःख- पीडितस्य त्वत्पदोपासनमभयतमं न विद्यते भयं यस्मात् तदभयम् अतिशयेना- भयम् अभयतमं भवभयनिवर्तकं मन्ये । अभयतमत्वमाह-येनेति । येन त्वत्प- दोपासनेन भयं सर्वात्मनैव निरवशेषमेव व्यपसरति अपगच्छति । उपासनसाध- नेषु च भगवद्धर्मोऽकुतोभय इत्याह -यदिति । इह भगवद्भजनमार्गेषु मध्ये त्व- प्रणीतान् भक्तानुग्रहाय भगवतैव स्वमुखेनैव प्रोक्तान् अत एव भागवताख्यान् भजनविधीन् धर्मान् तावत् सत्सङ्गद्वारा क्रमादास्थित आश्रितः सन् मोहमार्गे अज्ञानद्वारभूतरथ्यापणगाणिकालयगोष्ठयादिप्रदेशेष्वास्थितो धावन् किञ्चित् किञ्चि- दतिक्रम्यातिक्रम्य अतिशीघ्रमनुतिष्ठन् अपिच आवृताक्षः निमीलितश्रुतिस्मृत्याख्य- नयनद्वन्द्वः । अज्ञात्वापीत्यर्थः । यदाहुः RASAlamaula "श्रुतिस्मृती उभे नेत्रे विप्राणां परिकीर्तिते। एकेन रहितः काणो द्वाभ्यामन्धः प्रकीर्तितः ॥" १. 'म जननमरणभय . ग. पाठः, २. 'श आस्थि क. पाठः.

दशकम्-९१] भक्तिस्वरूपतत्कार्यवर्णनम्। इति । कुहचित् कुत्रापि न स्खलति अनुष्ठानवैकल्यादिना न प्रत्यवायी स्यात् । नापि फलस्यानित्यतया पुनरपि संसारी स्यादित्यर्थः । इति यत् , तदभयतम मन्य इति पूर्वेणान्वयः ॥ १ ॥ भगवद्धानाह- । भूमन् ! कायेन वाचा मुहुरापि मनसा त्वदलप्रेरितात्मा यद्यत् कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । जात्यापीह श्वपाकस्त्वयि निहितमनःकर्मवागिन्द्रियार्थ- प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद् विप्रवर्यः॥२॥ भूमनिति । कायेन शिरःपाण्यादिना वाचा वागिन्द्रियेण मनसा अन्तरि- न्द्रियेण । अपिशब्दात् सर्वेन्द्रियैरित्यर्थः । तव अन्तर्यामिणः बलेन वासनारूपेण प्रेरित आत्मा मनो यस्य स तथा मुहुः यद्यत् कुर्वे इति । अयमर्थः- न केवलं विहितं कमैवेति नियमः, किन्तु स्वभावानुसारि लौकिकमपि कर्म श्रीकृष्णे समर्पि- तं चेद् भगवद्धर्मों भवत्येवेति । असावहं तत् समस्तं परतरे परमात्मनि त्वयि श्रीकृष्णे अर्पयामि श्रीकृष्णायेदमिति समर्पयामि । अयं चाशयः - यथा राज्ञा प्रेरितस्य राजपुरुषस्य कर्म राज्ञः प्रीतये भवति, तथा सर्वात्मनेश्वरेण प्रेरितस्य मम सकलमपि कर्म श्रीकृष्णप्रीतये स्यादिति । अथवा तत्समर्पणमन्त्रपूर्वकं सम- र्पयामीति । एवं भगवद्धर्मानुष्ठातुर्माहात्म्यमाह - जात्येति । मनः सङ्कल्पविकल्पा- त्मकं मानसं कर्म । कर्म कायिकम् । वाग वाचिकम् । इन्द्रियाणि ज्ञानकर्मलक्षणानि। अर्थास्तद्विषयाः। प्राणाः पञ्च । विधिप्रतिषेधलक्षणं सर्व कर्म शरीरवाङ्मनःप्र- धानं, तदङ्गतया चेतरेन्द्रियकर्मेति त्रयाणां पृथगुपादानम् । त्वयि ईश्वरे निहिताः समर्पिताः मनःकर्मवागिन्द्रियार्थप्राणा येन तथाभूतः सन् जात्या श्वपाकोऽपि विश्वं पुनीते । किमुच्यते स्वात्मानं पुनीत इति । त्वत्पदाद् विमुखं स्मरणादिरहितं मनो यस्य स तथा । एवम्भूतस्तु विप्रवर्यः सन्नपि नासौ परं चात्मनं वो शोध- यितुं समर्थ इत्यर्थः ॥२॥ । १. 'ये इति' ख. पाठः २. 'चक, ग, पाठः नारायणीये स्किन्धः-११ ननु विषयविक्षिप्तचेतसां कुतो मनःकर्मवागादीनामीश्वरे समर्पणं संभवतीत्या- शङ्कय न तावद् विषयो नाम वास्तवोऽस्ति किन्तु मनोविलासमात्रम् । अतो म- नोनिरोधपूर्व सर्व समर्पयेदित्यभिप्रायेणाह mamta भीतिर्नाम द्वितीयाद् भवति ननु मनःकल्पितं च द्वितीयं तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । मायाविद्धे तु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं तत् त्वां भक्त्या महत्या सततमनुभजनीश! भीतिं विजह्याम् ॥३॥ भीतिरिति । द्वितीयाद् आत्मात्मीयत्वेनाभिमन्यमानाच्छरीरादेः । नाम प्रसिद्धौ । देहात्मवादिनामन्येषामपि देहस्यैव जन्मादि, नात्मनः, तस्य नित्यत्वा- दिति प्रसिद्धम् । मनःकल्पितं मनसा सङ्कल्पविकल्पात्मिकयान्तःकरणवृत्त्या कल्पि- तम् आरोपितम् । ऐक्याभ्यासशीलः यथा मृदादेरुत्पन्नस्य घटादेर्मुदाद्यात्मकत्वं, तथा ब्रह्मण उत्पन्नत्वाद् ब्रह्मवेदं सर्वं न ततः पृथक् किञ्चिदस्तीति चिन्तनशीलः सन् हृदयं बुद्ध्या निश्चयात्मिकयान्तःकरणवृत्त्या यथाशक्ति यावहुद्धिबलम् इह चिन्तिते- ऽर्थे निरुन्ध्यां नियच्छेयम् । तस्मिन् हृदये मायाविद्धे मायाकार्यकामक्रोधादिरञ्जिते सति पुनरपि निगृहीतेऽपि हृदये तथा न भाति नैक्यज्ञानमवतिष्ठते । तत् तस्माद् मायाधिनाथं मायाखामिनं त्वां महत्या अनपायिन्या भक्त्या प्रेमलक्षणया सत. तमनुभजन् यथावसरं सेवमानः भाति संसारभयं विजयां विशेषेण सर्वासना त्यजेयम् ॥ ३॥ some भक्त्यानुभजान्नित्युक्ते भक्तरुत्पत्तिहत्वपेक्षायामाह भक्तरुत्पत्तिवृद्धी तव चरणजुषां सङ्गमेनैव पुंसा- मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । तत्सङ्गो देव! भूयान्मम खलु सततं तन्मुखादुन्मिषद्भि- स्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुधूतपापा ॥४॥ aidikshi Pyanti १. 'तं त्वां ग. घ. पाठः २. 'त्मत्वं' क. ग. पाठ:. ३. कान्तः क.ग. पाठ दशकम्-९१] भक्तिस्वरूपतत्कार्यवर्णनम्। भक्तरिति । उत्पत्तिश्च वृद्धिश्च उत्पत्तिवृद्धी तवेश्वरस्य चरणौ जुषन्ते सेवन्ते इति चरणजुषो भक्ताः, तेषां सङ्गमेन संसर्गेणैव पुंसां शरीरिणाम् आसाद्ये लब्धं शक्ये, नान्योऽत्रोपाय इत्यर्थः । 'सत्सेवया विना कस्य विष्णुभाक्तिः प्रजायत' इति वचनात् । तर्हि सत्सङ्गमः कथं स्यादित्यत आह-पुण्यभाजामिति । अनेकजन्मार्जि- तपुण्यसञ्चयानामेव सत्सङ्गमः स्यादिति भावः । अत्रानुरूपं दृष्टान्तमाह-श्रिय इवेति । यथा श्रियो धनधान्यादेरुत्पत्तिवृद्धी श्रीमतां सङ्गमेनैवोत्पाद्ये, तथेत्यर्थः । हे देव! श्रीकृष्ण! मम खलु सततं तत्सङ्गः तेषां भक्तानां सङ्गः संसर्गः भूयात् । तन्मुखात् तेषां तव चरणजुषां मुखाद् उन्मिषद्भिः मिथस्त्वच्चरितप्रस्तावप्रादुर्भूतैः न तु तैरुपदिष्टैः । अनेन च तेषां भगवच्चरितवर्णनशीलत्वं व्यज्यते । त्वन्माहात्म्य- प्रकारैः तव विष्णोर्माहात्म्यस्य प्रकारैः श्रवणकीर्तनस्मरणाद्याश्रिततया मार्गभेदैः भवति श्रीकृष्णे सुदृढा अनपायिनी उधूतपापा यथा दूरतोऽपसारिततिमिरनिकर एव तरणिरुदोत, तद्वद् दूरोत्सारितदुरितनिचया प्रेमलक्षणा भक्तिश्च मम सतत भूयादित्यनुषज्यते ॥ ४ ॥ अथ सत्सङ्गमात्रेण स्वस्य साधनभक्तिद्वारा साध्यभक्त्युत्पत्तिप्रकारमुत्पश्यन् प्रथमं स्वस्य भक्तिमार्गेऽधिकारप्राप्तिमाह - श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो गायन क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । उद्यद्धासः कदाचित् कुहचिदपि रुदन कापि गर्जन् प्रगाय- चुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्वरेयम् ॥ ५ ॥ श्रेयोमार्गेष्विति । श्रेयसः पुरुषार्थस्य मार्गेषु प्राप्तिसाधनेषु कर्मज्ञान- तपोदानव्रतादिषु मध्ये भक्तौ भक्तिमार्गे अधिका बहुमतिः श्रद्धा यस्य सोऽधिक- बहुमतिः। सोऽयं भक्तिमार्गेऽधिक्रियत इति भावः। यदुक्तं- "यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः॥" wwe । १. 'धनिनां स क. ग. पाठः, २. 'वे प्रा' क. ग. पाठः. नाथा क. ग. पाठः. ३. 'णस्मरणनामकीर्त- नारायणीये [स्कन्धः-११ इति। जन्मकर्माणि अवतारतचरितानि तन्निबन्धनानि नामानि च क्षेमाणि पुरुषार्थरूपाणि तदुपायभूतानीत्यर्थः । एतच्च जन्मादित्रयविशेषणम् । भूयः पुनः पुनर्गायन् कीर्तयन् । एतच्च स्मरणादीनामप्युपलक्षणम् । एवं साधन- भक्त्यनुष्ठानेन सञ्जातप्रेमलक्षणभक्तेः संसारधर्मातीतां गतिमाह -तदुभयत इति । जन्मकर्मकीर्तनान्नामकीर्तनाच्च हेतोरित्यर्थः । प्रद्रुतमतिशीघ्रं प्रद्रुतः द्रवीभूत आत्मा मनो यस्य स प्रद्रुतात्मा कदाचिद् उद्यद्धासः भक्तपराजितं भगवन्त- माकलय्य सहस्तताडनं हसतीत्यर्थः। कुहचिद् क्वचिद् रुदन्नपि एतावन्तं काल- मुपेक्षितोऽस्मीति रोदिति, अथवा भगवति चित्तस्यानेकाग्रताखेदात् । यद्वा तद्रूपसाक्षात्काराद्धर्षाणि मुञ्चन्निति । क्वापि कदाचिद् गर्जन् अत्यौत्सुक्यादुच्चै- श्शब्दं कुर्वन् अतिहर्षेण प्रगायन् क्वचिच्च जितं जितमिति प्रनृत्यन् प्रकर्षण सहस्ततालं सशिरःकम्पं नर्तनं कुर्वन् । किं तर्हि भक्तोऽयमिति परान् प्रति प्रकाशयितुमेतदिति चेद्, नेत्याह-उन्मादवेिति । ग्रहगृहीत इवेत्यर्थः । अयि भगवन्! मयि करुणां कुरु, येनाहमेवं लोकबाह्यश्वरेयम् अलौकिको भूत्वा चरेयम् ॥५॥ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन मान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदाय विराग- स्त्वत्तत्वस्यावबोधोऽपि च भुवनपते ! यत्नभेदं विनैव ॥६॥ भूतानीति । किञ्च भूतानि पृथिव्यादीनि पञ्चैतानि । भूतात्मकं पाञ्च- भौतिकं सकलं चराचरात्मकमपि पक्षिमत्स्यान् मृगादीन् जलस्थलाद्याश्रितान् मान् मित्राणि शत्रूनपि बन्धुशत्रूदासीनांश्च त्वन्मयानि त्वद्रूपाणीति यमित- मतिः एतानि सर्वाणि श्रीहरे रूपाणीति अनुसन्दधानः सन् आनमानि प्रणाम करवाणि । ननूक्तलक्षणा भक्तिर्योगिनामपि बहुजन्मसाध्या कथं भजनमात्रेणैकस्मिन् जन्मनि भवेदित्याशङ्कयाह-त्वत्सेवायां हि सिध्येदिति। सर्वकर्मणां समर्पणं, ३. 'यः अ' क. ग. पाठः. 1. 'र्षादधू' क. पाठः. २. 'ति बोधयि' क. पाठ:. ४. "नि दृष्टश्रुतानि । भूक. ग. पाठः.

दशकम्-९१] भक्तिस्वरूपतत्कार्यवर्णनम् । जन्मकर्मणां नाम्नां च कीर्तन, सर्वत्रेश्वरदृष्टया प्रणामश्चेह त्वत्सेवोच्यते । तस्यां सत्यां तव कृपावश्यंभाविनी। तया मम भक्तरीश्वरप्रेम्णो दायै स्थैर्य, ततो विरागो विषयविरक्तिः, ततस्त्वत्तत्त्वस्येश्वरयाथातथ्यस्यावबोधः सम्य- गनुभवः, एतत् त्रितयमपि च सिध्येत् । यत्नभेदं विनैवेति। त्वत्कृपायामेव मया यत्नः कार्यः। तस्यां जातायाम् एतत् त्रयं युगपदेव सिध्येदित्यर्थः ॥६॥ किञ्चैवमीश्वरकुपया भक्तिविरक्तिज्ञानेषु जातेषु भक्तकुलोत्तंसतां प्राप्नुया- मित्याह- नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः। इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा- ज्योत्स्नाभिस्त्वनखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥७॥ नो मुह्यन्निति । नो मुह्यन् परवशतामगच्छन् । क्षुत्तृडाद्यैः भयतर्षकृच्छ्रादिभिः भवसरणिभवैः अनादिसंसारमार्गोत्थैः । त्वन्निलीनाशयत्वात् त्वयि ईश्वरे समाहित- चित्तवृत्तित्वात्। किञ्च, चिन्ताया उपासनायाः सातत्यं सततमनुष्ठानं तदस्यास्ती- ति तथा । निमिषलवमपि निमेषकालस्यार्धमपि कालं त्वत्पदाद् भगवत्पादारविन्द- भजनाद् अप्रकम्पः प्रमादरहितः इष्टानिष्टेषु सत्सु तुष्टिव्यसनविरहितः इष्टेषु पुत्रजन्मादिषु तुष्टिविरहितः अनिष्टेषु पुत्रमरणादिषु व्यसनविरहितः । मायिकत्वा- वबोधाद् शरीरादेर्नोग्यस्य मायानिर्मितत्वानुसन्धानात् । ज्योत्स्नाभिः शीतलाभिर्दी- प्तिभिः । त्वन्नखेन्दोः त्वत्पादनखचन्द्रस्य । अधिकशिशिरितेन सन्तापराहित्यादति- शयेन सञ्जातानन्देन आत्मना मनसा उपलक्षितः सन् सञ्चरेयं वर्तेय ॥७॥ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत् त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥८॥ १. 'र्थ्यस्या' कं, ग. पाठः. २. नु' घ. इ.च. पाठ:.

नारायणीये स्कन्धः-११ भूतेष्विति । एषु भूतेषूत्कृष्टेषु निकृष्टेषु मशकादिष्वपि जगदाश्रयस्याप्रच्यु- तैश्वर्यस्य तवेश्वरस्यैव जीवरूपेणावस्थानाद् यदैक्यं तस्य स्मृतिरनुसन्धानं तस्य सम- धिगतिः प्राप्तिः सर्वभूतेष्वन्तर्बहिश्च परिपूर्णतया भगवदृष्टिर्भागवतोत्तमधर्मः तत्प्राप्तौ ममाधुनाधिकारो न चेत् त्वयि ईश्वरे प्रेम, त्वत्केषु त्वदीयपुरुषेषु भक्तेष्विति या- वद्, मैत्री सख्यं, जडमतिषु मूढेषु कृपा, द्विट्सु शत्रुषूपेक्षा च भूयात् । अत्रेश्व- रादिषु भेददृष्टेरपि सद्भावादेते मध्यमभागवतधर्माः । तत्राप्यधिकारो न चेद् अर्चा- यां प्रतिमायां या समर्चा पूजा तस्यां कुतुकम् आग्रहः उरुतरया ईश्वरगुरुशास्त्र- विषयया श्रद्धया विश्वासेन । तथा त्वत्संसेवी अधमभक्तः । सोऽपि द्रुतम् अस्मिन् जन्मन्येव । उपलभते प्रामोति । अधमोऽपि क्रमादुत्तमभक्तो भविष्यतीत्यतोऽधमत्व- मपि प्रार्थ्यत इति भावः ॥ ८ ॥ । 'मायाविद्धे तु'(श्लो. ३) इत्युक्तेर्मायास्वरूपजिज्ञासायामाह आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती जीवान् भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती । त्वन्माया माभिभून्मामयि भुवनपते! कल्पते तत्पशान्त्यै त्वत्पादे भक्तिरेवेत्यवददयि विभो! सिद्धयोगी प्रबुद्धः॥९॥ आवृत्येति । त्वत्स्वरूपं तव स्वीयं रूपं ब्रह्म आवृत्य आवरणशक्त्याच्छा- द्य। क्षितिजलमरुदादीत्यादिशब्देन स्थूलसूक्ष्मात्मकं भूतपञ्चकं चतुर्विधस्थूलशरी• राणि ब्रह्माण्डं च गृह्यते । तेत्तदात्मना स्वरूपेण विक्षिपन्ती विक्षेपशक्त्याविर्भाव. यन्ती जीवान् शरीरिणः भूयिष्ठकर्मावलिविवशगतीन् भूयिष्ठानि काम्यनिषिद्धभे- देन बहुप्रकाराणि कर्माणि तेषाम् आवलिः समूहः तया तज्जन्यादृष्टवासना- 1. 'वी प्राकृतभ क. पाठः. २. 'तदात्मना तत्स्व क. ग. पाठः. + "इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरो मायामजस्तरति दुस्तराम् ॥" (श्री. भा. स्कं. ११: अ. ३. श्लो. ३३) इति प्रबुद्धोक्तिः ।

Y दशकम्-९१] भक्तिस्वरूपतत्कार्यवर्णनम् । भ्यामिति भावः । विवशा अस्वतन्त्रा गतिः उच्चावचशरीरप्राप्तिर्येषां ते तथा । दुःखजाले संसारार्णवे क्षिपन्ती पातयन्ती त्वन्माया त्वदधीना माया मां त्वत्सेवक- मपि माभिभूद् मद्बुद्धिमाक्रम्य त्वत्स्मृतिं मापनैषीत् । आय भुवनपते! श्रीकृष्ण! तां वारयेति भावः । त्वत्पादे भक्तिरेव तत्प्रशान्त्यै तस्या मायायाः प्रहाणाय कल्प- ते उपायो भवति, नान्योऽस्त्युपाय इत्यवदत् । सिद्धयोगी सिद्धो जीवन्मुक्तः योगी चेति सिद्धयोगी नवयोगिष्वन्यतमः । योगिषु मध्ये ज्ञातृज्ञेयज्ञानरहितत्वात् प्र- बुद्ध इति संज्ञा । स हि विदेहाय राज्ञे "तन्माययातो बुध आभजेत् तं भक्त्यैकये- शम्" (श्री.भा. स्क. ११. अ. २. श्लो. ३७) इति मायातारकत्वेन भक्तिमेवावो- चत् ॥ ९ ॥ अथ वैराग्यविवेकद्वारा गुरूपसत्तिलब्धभाक्तज्ञानसमुच्चयेन मायाजयप्रका- रमाह m दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या- ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथायुद्भवद्भक्तिभूमा । मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥ १० ॥ दुःखानीति । जन्तुषु सदैव दुःखपरिहाराय सुखप्राप्तये च प्रयतमानेषु शरीरिषु तत एव जातानि दुःखान्यालोक्य अलम् अतिशयेन उदितविवेकः यथे- ह पुत्रमित्रधनादयः सुखसाधनत्वेनाभिमन्यमानाः दुःखमेव जनयन्ति कर्मनिर्मित- त्वाद् , एवं स्वर्गेऽपीत्युत्पन्नविविक्तज्ञानः सन् अहमाचार्येषु ज्ञानविज्ञानसम्पन्नेषु वर्यः परोपदेशकुशलः तस्मात् त्वद्रूपस्य ईश्वरस्वरूपस्य तत्त्वं सम्यग्ज्ञानं लब्ध्वा अवाप्य गुणचरितानां गुणानां भक्तवात्सल्यादिभगवद्गुणानां तच्चरितानां च कथा कथनम् । आदिशब्देन कीर्तनादि गृह्यते । गुणचरितकथादिभिः उद्भवन् भक्तेमा बाहुल्यम् अनपायित्वं यस्य स तथा । एनामित्युक्तिर्मायाकार्यस्य रागादेरनुभूय- १. 'क्तश्चासौ यो' क. ग. पाठः. इयं तु कविनाम्न: सिद्धयोगिन उक्तिः ३२० नारायणीये स्कन्धः-११ मानत्वाद् । तरित्वा अतिक्रम्य परमसुखमये निरतिशयानन्दस्वरूपे त्वत्पदे पद्यत इति पदं ब्रह्म त्वत्स्वरूपे ब्रह्मणीत्यर्थः । अथवा परमसुखमये निरतिशयानन्दज- नके त्वत्पदाब्जे मोदिताहे प्रसन्नो भवितास्मि भक्तजनैः सह भागवतधर्माभ्यासेन सेविष्य इति भावः । तस्य मोदस्य अयं मायाजयः पूर्वरङ्गः कारणत्वेन प्रथमम- नुष्ठेयः । यदाह बोप्पदेवः- 'मायाजयोऽपरा भक्तिर्ज्ञानकर्मसमुच्चयाद्, इति । यद्वा तस्य मायातरणादेर्मदनुष्ठेयस्यार्थस्य अयं मयासकृत् प्रार्थ्यमानो मद्रोगनाशः पूर्वरङ्गः नाटकप्रयोगे नान्द्यादिवत् प्रथममवश्य निवर्त्यः । स च त्वत्करुणैका- यत्त इति त्वामेव प्रार्थयामीत्याशयेन प्रार्थयते-- पवनपुरपते! इति ॥ १० ॥ इति भक्तरेव निःश्रेयसावाप्तिहेतुत्ववर्णनं, भक्तिस्वरूपतत्कार्यवर्णनं च एकनवतितमं दशकम्। ननु सर्वकर्मणां भगवद्धर्मत्वापादनाय विना फलानुसन्धानमीश्वरसमर्पणेना- नुष्ठानमुक्तम् । तदनुपपन्नं, स्वर्गाद्यर्थमेव ज्योतिष्टोमादीनां विहितत्वात् फलकामस्यै- व च तत्राधिकारादित्याशङ्कय वेदस्य परोक्षवादत्वात् तात्पर्य दुर्जेयमित्यभिप्रायेण परिहरति वेदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्या तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश। मा भूद् वेदैनिषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति- दुर्वज चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥१॥ वेदैरिति । वेदैः विधिवाक्यैः सर्वाणि ज्योतिष्टोमादीनि कर्माणि अफलप- रतया वर्णितानि न फलसाधनत्वेन विहितानि, किन्तु नैष्कार्थ विहितानि । फलश्रुतिस्तु रोचनार्था । यथा माता बालमौषधं पाययन्ती गुडशर्करादिभिः प्रलोभ- यन्ती पाययति, ददाति च गुडशर्करादि । नैतावतौषधपानस्य तल्लाभः प्रयोजनम् , अपि तु रोगनिवृत्तिः, तथा वेदोऽप्यवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्म विदधातीति बुद्ध्वा तानि फलपरत्वेन श्रुतान्यपि । एवकारेण फलाभिसन्धिा- वय॑ते । ननु यदि नैष्कर्म्यं कर्मणां फलं, तर्हि प्रथममेव कर्म त्यज्यतामित्याश- । ।

दशकम्-९२] कर्ममिश्रमक्तिस्वरूपवर्णनम् । कायाम् एवं सति विकर्मलक्षणेनाधर्मेण पततीत्यभिप्रायेणाह- समनुचरन्निति । नैष्कर्म्य कर्मनिवृत्तिसाध्यं ज्ञानं यानि प्राप्नुयामित्यर्थः । वेदैरिति स्मृत्यादेरप्युप- लक्षणम् । निषिद्धे अभक्ष्यभक्षणादौ कुहचिदपि अल्पदुष्कृतेष्वपि कर्मसु मनःक- मवाचा प्रवृत्तिः मा भूत् । दुवैजै वर्जयितुमशक्यं यद् निषिद्धकर्म, तच्चेदवा- सम् अनुष्ठितं तर्हि तदपि भवति चित्प्रकाशे ब्रह्मणि अपये मन्त्रपुरस्सरं समर्पया- मीत्यर्थः ॥ १॥ वैदिकं कर्मयोगमुक्त्वा तान्त्रिकमाह - HERDANA यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्ति हृयां सत्त्वैकरूपा दृषदि १दि मृदि कापि वा भावयित्वा । पुष्पैर्मन्धनिवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै- नित्यं वां सपर्या विदधदयि विभो स्वलसादं भजेयम् ॥ २ ॥ यस्त्विति । अन्यः वैदिकावन्यस्तान्त्रिकः तव भजनमयः त्वत्पूजारूपः आशु त्वत्प्रसादजनकः। अभीष्टां श्रीनारायणवासुदेवादिरूषां मूर्ति हृद्याम् अतिम- नोहरवेषविशिष्टां सत्त्वैकरूपां शुद्धसत्त्वमयीं दृषदि शिलामय्यां मृदि लेप्यायां हृदि मनोमय्यां क्वापि कांस्यरजतसुवर्णादिप्रतिमायां वा । यथोक्तं- "शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥" (श्री.भा. स्क. ११.अ. २७. श्लो. १२) इति । भावयित्वा तव मूर्तिं सङ्कल्प्य विरचितैः सम्पादितैः शक्तितः यथा- शक्ति “पत्रं पुष्पं फलम् "(गी.९.२६) इत्यादिवचनात् । भक्तिपूतैः पुष्पादि- भिः नित्यं नियमेन त्रिकालं वा वयाँ ‘पुसि जायालयः पूजे'त्युक्तरीत्या ईश्वरे स्वशरीरारम्भकार्यकारणलक्षणप्रकृतिलयात्मकतया श्रेष्ठां सपर्या पूजां विदधत् कुर्वन् ॥ २॥ १. "पि कुत्रापि अंक. ग. पाठः, २. 'ति त्वयि चि' क. पाठः. ध्याख्यानुसारी पाठः ३. 'मृदि हृदि ३२२ नारायणीये [स्कन्धः-११ सम्प्रति भक्तिदाक्याभक्तानामनिष्टां गतिं वर्णयति 'स्त्रीशूद्रा' इति द्वाभ्यां स्त्रीशूद्रास्त्वत्कथादिश्रवणविशहिता आसता ले दयाहा- स्त्वत्पादासन्नयातान् द्विजकुलजनुपो हन्त शोचाम्यशान्तान् । वृत्त्यर्थं ते यजन्तो वहुकथितमपि त्वामनाकर्णयन्तो दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशं मा कृथा माम् ॥३॥ स्त्रीशूद्रा इति । आदिशब्देन नामादि गृह्यते । श्रवणं कीर्तनादेरप्युपल- क्षणम् । त्वत्कथाश्रवणत्वन्नामकीर्तनत्वत्त्मरणादिविरहिता इत्यर्थः। एतच्चाज्ञानाद् , नानधिकारात् । भक्तिश्चेच्छूद्रयोषितामिति वचनात् । अत एव ते दयार्हाः सद्भि- दयया सुखं बोधनीयाः । ते तावत् तिष्ठन्त्विति भावः। त्वत्पादासन्नयातान् उप- नयनादिसंस्कारैरवबोधपर्यन्तेनाध्ययनेन च त्वत्पादभजनाधिकार प्राप्तान् द्वि- जानां त्रैवर्णिकानां कुले जनुर्जन्म येषां तान् अशान्तान् विषयपरान् हन्त शोचा- मि। ज्ञानलवदुर्विदग्धतया बोधयितुम शक्यौ एते इति मम खेद इति भावः। वृत्त्य- र्थम् उदरभरणार्थं यजन्तः पशुहिंसां कुर्वन्तः बहुकथितमपि श्रुत्यादिषु सगुणनि- गुणभेदेन प्रतिपादितमपि त्वाम् ईश्वरम् अनाकर्णयन्तः शृण्वन्तोऽप्यश्रद्दधानतया श्रवणफलमनासादयन्तः। अत्र हेतुमाह-दृप्ता विद्याभिजात्यैः। 'विद्यामदो धन- मदस्तृतीयोऽभिजनो मद' इत्युक्तमन्त्रययुक्ताः किमु न विदधते किं न कुर्वन्ति । आभिचारसज्जननिन्दाद्यपि कुर्वन्त्येवेत्यर्थः । मां तादृशम् आत्महनं मा कृथाः॥३॥ । सन्निन्दामेव प्रपञ्चयति- wweRNHARMA पापोऽयं कृष्ण! रामेत्यभिलपति निजं गृहितुं दुश्चरित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विनितानि । भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधास्ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतीस्तादृशं मा कृथा माम् ॥४॥ पाप इति । अयं पापः परद्रव्यापहारी । तत् कथमवगम्यते, कृष्ण! रामेत्य- १. 'एतच तचाज्ञानानाधि' क. पाठः. २. 'क्या हि ते' क. पाठ:. --- दशकम् -९२] कर्ममिश्रभक्तिस्वरूपवर्णनम् । भिलपति। तच्च निजं स्वेनानुष्टितं दुश्चरित्रं मोषणादि गृहितुं साधुरयं तादृशं न करोतीत्यस्मान् प्रतिबोध्यापहोतुम् । अस्य निर्लज्जस्य हरिभक्तेरन्यत् सारं नास्ती- त्याद्यस्मत्सन्निधौ लज्जां निर्जित्य जल्पतोऽन्य याचा हेतुना मे बहुतराणि कथनी- यानि बन्धुभिर्निरूपणीयानि कार्यजातानि विमितानि । ननु तस्मिन् कणि भ्राता किं न नियुज्यत इति चेत् तत्राह-प्राता मे बन्ध्याल इति । बन्ध्यं निष्फलं शीलं यस्य स तथा । तेन ममोपकारो नास्तीति भावः । सदा विष्णुं भजति किल पुष्पाञ्जलिनमस्कारनामकीर्तनादि करोति । तत् किल विष्णुभजनम् । तेन तस्य मम वा किं स्यात् । इत्थं ते अशान्ताः बुधान् भक्तान् निन्दन्ति । त्वयि ईश्वरे निहिता स्थिरीकृता रतिः प्रेमलक्षणां भक्तियैस्तान् उच्चैहसन्ति त्वद्दास्या- दिप्रार्थनामन्यैः सह परिहसन्ति । एतेषां कदाचिदपि संसारनिवृत्त्यसंभवाद् मां तादृशं मा कृथाः ॥४॥ : युगानुरूपं सेवाप्रकारमाह- श्वेतच्छायं कृते त्वां मुनिवरवपु मीणायन्ते तपोभि- खेतायां सुनुवाद्यक्तिगरुणतर्नु राज्ञरूपं यजन्ते । सेवन्ते तन्त्रमार्गविलसदारिगद हायरे श्यामलाङ्गं नीलं सङ्कीर्तनाचैरिह कलिसमये मानुपास्त्वां भजन्ते ॥ ५ ॥ श्वेतच्छायमिति । श्वेतच्छायं शुक्लवर्ण कृते कृतयुगे मुनिवरवपुषम् । अत्र मुनिशब्देन ब्रह्मचारी विवक्ष्यते, जटावल्कलकृष्णाजिनोपवीताक्षमालादण्डक- मण्डल्वादीन् विभ्रतमित्यर्थः । त्वां चतुर्बाहुं तपोभिः ध्यानमार्गः प्रीणयन्ते प्रसादय- -न्ति। मानुषा इति सर्वत्रानुषज्यते । त्रेतायां त्रेतायुगे झुक्नुवाद्यङ्कितं सुग् जुहूः सुवश्च तदादिभिः कराग्रस्थितैः अङ्कितम् उपलक्षितं यजन्ते। वैदिकैः कर्मभिरिति शेषः । द्वापरे तन्त्रमार्गः पूजाप्रकारैः सेवन्ते पूजयन्ति । विलसदरिगदं विलसन्त्यौ १. 'त्यस्म' क.पाठः. २. 'णि तहि त्रा' क. ग. पाठः. ३. 'व: । किञ्च स' क. ग. पाठः. ४. 'मसङ्कीत" क. पाठः. ५. 'नायाम' क. ग. पाठः. ६. त्यभा' क. ग. पाठः, ७. 'गैः प्रख. पाठः, ८, 'तम् अरुणतनुं य' क. ग. पाठः.

नारायणीये स्कन्धः-११ अरिगदे यस्य तम् । एतच्चान्यायुधानामप्युपलक्षणम् । श्यामलाङ्गम् अतसीकु- सुमच्छायम् । इह कलिसमये नीलं कृष्णवर्णम् । सङ्कीर्तनं नामोच्चारणम् आचं प्रधानं येषां तैः भजन्ते सेवन्ते ॥ ५ ॥ तत्र कलौ सेवासौकर्यमाह पञ्चभिः सोऽयं कालेयकालो जयति मुररिपो! यत्र सङ्कीर्तनाथै- निर्यत्नैरेष मार्गेरखिलद! नचिरात् त्वत्प्रसादं भजन्ते । जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्वे दैवात् तत्रैव जातान् विषयविषरसैर्मा विभो! वञ्चयास्मान् ॥६॥ सोऽयमिति। स पूर्वोक्तः अयं वर्तमानः कलेरयं कालेयः कालो जयति इतरयुगेभ्य उत्कृष्टो भवति । यत्र कलियुगे निर्यलैः यत्नविरहितैः सङ्कीर्तनाथै- मौगैरुपायैरेव नचिरात् शीघ्रं त्वत्प्रसादं भजन्ते लभन्ते। ननु कृतादिषु जाता अप्येवंवादिनः, नेत्याह-जाता इति। हिशब्दसहितः किलशब्दोऽस्यार्थस्य पुराणादिप्रसिद्धिं द्योतयति। दैवात् सुकृतपरिपाकेन तन्त्र कलावेव जाताचस्मान् विषयविषरसैः विषया एव विषरसा विषद्रवाः, यस्मात् तदुपयोगे मोहं गच्छेयुः । तैर्मा वञ्चय ॥९॥ भक्तास्तावत् कलौ स्युमिलभुवि ततो भूरिशस्तत्र चोच्चैः कावेरी ताम्रपर्णीमनु किल कृवमालां च पुण्यां प्रतीचीम् । हा मामप्येतदन्तर्मवमपि च विभो! किञ्चिदञ्चसं त्व- य्याशापाशैविध्य भ्रमय न मगवन् ! पूरय त्वनिषेवाम् ॥७॥ भक्ता इति । तावत् प्रथममेव कलौ भक्ताः भूरिशः तत्र तत्र बह्वः स्युः, ततस्तत्र कलावपि द्रमिलमुवि भूरिशः। तत्र च द्रमिलविषयेऽपि पुण्या कावेर्यादिन- दीमनु तत्तीरेषु उच्चैः ततोऽप्यधिकोः स्युः। कावेर्यादीनां जलं ये पिबन्ति, तेऽतीव १. 'मकीर्तनम् क. पाठः. २. 'स्युः । तत्र' ख. ग. पाठः, ३. कं स्युः' ख. पाठः, दशकम् -९२7 कर्ममिश्रभक्तिस्वरूपवर्णनम् । भक्ता भवन्तीति भावः। एतदन्तर्भवं द्रमिलविषयान्तःपातिनम् अपिच त्वाय किश्चि- दश्चद्रसम् ईषदारब्धभक्तिं मां न भ्रमय ॥७॥ दृष्ट्वा धर्मगुहं तं कलिमपकरुणं प्राङ् महीक्षित परीक्षि- दन्तुं व्याकष्टखड्गोऽपि न विनिहतवान सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु- यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥८॥ दृष्ट्येति। प्राक् पुरा परीक्षिन्नाम महीक्षिदू राजा धर्मद्रुहं वृषरूपिणं धर्म दण्डेन प्रहरन्तं तं कलिं दृष्ट्वा हन्तुं व्याकृष्टखङ्गोऽपि गुणांशा, न विनिहतवान् । ननु गुणांशे सत्यपि धर्मद्रुहं किं न निहतवानित्यत्राह-सारवेदीति । अल्पत्वेऽपि गुणस्य सारांशत्वं जानन्नित्यर्थः। तदेवाह-वत्सेवादीति । अर्चननामकीतनादि आशु इह जन्मन्येव सिध्येद् भक्तिद्वारा मुक्तिमुत्पादयेत् । असद् दुष्कर्म तु इह कलौ न तथा नाशु सिध्येत् । किञ्च, त्वत्परे त्वद्भक्तविषये चैष कालीरुः ईश्वरविमुखेष्वेव कलिः प्रभवतीति भावः । किञ्च, प्रागेव त्वत्सेवाद्यारम्भात् पूर्वमेव रोगादिभिरपहरते त्वद्भजनान्निवर्तयतीति तु यत् हा मम तु तदेवापतितम् । तन्त्र अपहरणे एनं कलिं शिक्षये । यथा त्वत्सेवायामुयुक्तात् कलिर्दूरतोऽपसरति, तथैनं कुर्विति भावः ॥८॥ गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् सालग्रामाभिपूजा परपुरुष! तथैकादशी नामवर्णाः। एतान्यष्टाध्ययनान्यायि कलिससये त्वत्प्रसादमद्ध्या क्षिपं मुक्तिप्रदानीत्यभिदधुपयस्तेषु मां सज्जयेथाः ॥९॥ गङ्गेति । त्वत्प्रसादप्रवृद्ध्या तवारेण मुक्तिप्रदान्येतानीत्यत्र स्मृतिप्रमाण- त्वमाह--अभिदधुर्ऋषय इति ॥ ९ ॥ १. 'म अपि त्व' ख. पाठः, २. 'तम् उक्तगुणं क' क. ग. पाठः. भूताद् न' क.ग. पाठः, ४. ति य क. पाठः ५. “य ॥' क, ख. पाठः. तान्यय क. पाठ:. ३. देतु- ६. 'अष्टावे ३२६ नारायणीये स्कन्धः-११ ननु त्रिभिः ऋणैर्जातस्य तदनपाकरणे कथं मुक्तिः स्यादित्यत आह- देवर्षीणां पितॄणामपि न पुनर्भणी किङ्करो वा स भूमन् योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा । तस्योत्पश्च विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोत्थतापान पवनपुरपते ! रुन्धि भक्तिं प्रणीयाः ॥१०॥ देवर्षीणामिति । देवानाम् ऋषीणां पितॄणामपि, यथा अभक्त ऋणी अध- मों भवति । अत एव तदपाकरणाय यज्ञाध्ययनपुत्रोत्पादनादि तेन कर्तव्यमिति तेषां किकरश्च भवति । तथाच स्मृतिः "हीनजाति परिक्षीणमृणार्थ कर्म कारयेत् "(याज्ञ. अ. २. श्लो.४३) इति । स भक्तः पुनर्ऋणी किङ्करो वा न भवति । तत्र हेतुमाह --- योऽसाविति । यः पुरुषः सर्वात्मना सर्वभावेन त्वां शरणमुप- गतः सर्वकृत्यानि विहितसकलकर्माणि हित्वा । न तर्हि सर्वात्मना निषिद्ध- कर्मणोऽपरिहार्यत्वात् प्रायश्चित्तादिकर्म कर्तव्यं, नेत्याह-तस्येति । विकर्म निषिद्धकर्मणः फलं तस्य त्वां शरणं गतस्य तावन्न संभवति । यदि प्रमादा- दिना भवेत् , तर्हि तदपीत्यपिशब्दार्थः । अखिलं निरवशेषम् अपनुदसि नाशयसि । ननु नास्य पापक्षयार्थ भगवदुपासनम्, अत आह-चिचस्थितस्त्वमिति । न हि वस्तुशक्तिरर्थितामपेक्षते कार्योत्पादनाय, यथा ह्यौषधं फलार्थिनामफलार्थिना- मप्यविशेषेणारोग्यादि जनयति तथेति भावः। तत् तस्माद् यस्माञ्चित्तस्थः पापम- पनुदसि, पापोत्थान् पापकर्मजनितान् तापान् दुरितानि रुन्धि वारय । भक्तिं प्रणीयाः अनपायिनी कृषीष्ठाः ॥१०॥ इति कर्ममिश्रभक्तिस्वरूपवर्णनं विनवतितमं दशकम् । १. 'वातोत्थ' घ. पाठः. २. 'नु स' ख. पाठः, ३. 'सि । ना' ग. पाठः.

देशकम् -९३] पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् । एवं विंशत्या श्लोकः कर्ममिश्रां भातं निरूप्य अनन्तरं ज्ञानमिश्रां निरू- पयिष्यन् प्रथमं तदधिकार प्राप्तिमाह- बन्धुस्नेहं विजयां तव हि करुणया त्वय्युपावेशितात्मा सर्व त्यक्त्वा चरेयं सकलमपि जगद् वीक्ष्य गायाविलालम् । नानात्वाद् भ्रान्तिजन्यात् सति खलु गुणदोषाववोधे विधि व्यासेधो वा कथं तौ त्वयि निहितमतेवीतवैषम्यबुद्धेः॥१॥ बन्धुस्नेहमिति । बन्धुषु पुत्रमित्रकलत्रादिषु स्नेहं यतस्त्वन्मायाकृतम् अतस्तव कृपया विजयां त्यजेयम् । हिशब्दस्तद्धाने साधनान्तरराहित्यं दर्शयति । ततस्त्वत्कृपयैव त्वयि उपावेशितात्मा समाहितचित्तः सन् जगदै मायाविलासं त्वन्मायाकल्पितं वीक्ष्य अवगम्य बदुपासनातोऽन्यत् सर्व कर्म विधिनिषेधभेदमपि त्यक्त्वा चरेयमिति गृहाद्यनपेक्षा द्योत्यते । ननु विहितस्य कर्मणोऽननुष्ठानं न युक्तं, पापोत्पत्तौ प्रायश्चित्तमपि कार्यमेवेत्याशङ्कय कर्मणामविद्वदधिकारित्वेन विदु- पस्तदकरणे न दोष इत्याह नानात्वादिति । मनुष्योऽहमिति देहे अहमभिमानो भ्रान्तिः । तजन्यं नानात्वं वर्णाश्रमादिभेदः । तत्सत्यताङ्गीकार एव गुणदोषौ नित्यनैमित्तिकं कर्म सत्त्वशोधकत्वाद् गुणः, हिंसादि दोषः, पापक्षयसाधनत्वात कृच्छ्चान्द्रायणादि गुणः इत्यादिगुणदोषावबोधे सत्येव विधिप्सेधो निषेधो वा भवेत् । त्वयि निहितमतेः ब्रह्मैवेदं सर्वमिति निश्चितबुद्धेः अत एव वीतवैषम्यबुद्धेः त्यक्तनानात्वभ्रमस्य ममै तु कथं तौ विधिनिषेधौ स्याताम् । अतो विधिनिषेधा- नधिकारात् सर्वं त्यक्त्वा चरेयमित्यर्थः । एवञ्च विधिनिषेधातीतो ज्ञानमि- श्रायां भक्तावधिकारीत्यपि दर्शितम् । तदुक्तं मुक्ताफले "ज्ञानमिौका भिक्षूणाम्" इति ॥१॥ एतत् सर्व पुरुषशरीरेणैव साध्यमिति वक्तुं तिर्यगादिदेहेभ्यः पुरुषतनुरुत्कृ- ष्टेति पुरुषत्वं स्तौति- १. 'तू त्व' ख. पाठः. २. 'क्षता द्यो' क. ग. पाठ:. ३. *म क' क. पाठः, VERSE KAISING's ३२८ नारायणीये स्कन्धः-११ क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवः सन्त्यनन्ता- स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव । तत्राप्यात्मात्मनः स्यात् सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता- स्तापोच्छित्तेरुपाचं स्मरति स हि मुहत् स्वात्मवैरी ततोऽन्यः॥२॥ । - क्षुत्तृष्णेति । क्षुत्तृष्णयोः अशनीयापिपासयोः लोपः तृणकवलनजलपानादि एतावन्माने सततं कृतधियो निश्चितबुद्धयः जन्तवः पश्वादयः अनन्ताः बहवः सन्ति । तेभ्यः विज्ञानवत्त्वाद् आत्मदर्शनसामर्थेन इह भूमौ पुरुषो मनुष्यः वरः श्रेष्ठः । तज्जनिर्मनुष्यजन्म । तत्रापि मनुष्येष्वपि आत्मैवात्मनः सुहृद उपकारी रिपुः अपकारी च । विवेकमाह---यस्त्वयि न्यस्तचेताः अत एव तापोच्छित्तेः मोक्षस्य उपायं साधनं स्मरति जानाति, तथाविधश्चैदामा स्वयमेव आत्मनः स्वस्य सुहृद् बन्धुः स्यात् । ततोऽन्यः नैवंविधः स आत्मवैरी आत्महा ॥२॥ नन्वात्मैवात्मनो गुरुरित्युक्तं तदसङ्गतमित्याशङ्कय यद् यस्याज्ञाननाशहेतुः स तस्य गुरुरितीह विवक्षितत्वात् स्थिरचराणामपि तद्धेतुत्वाद् गुरुत्वमूरीकरणीयं, किं पुनरात्मन इति परिहरन् पृथिव्यादिभ्यो गुरुभ्यः शिक्षणीयानि क्षमादीन्यात्मनः प्रार्थयते- ma त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन् सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमा शिक्षयेयम् । गृह्णीयामीश! तत्तद्विषयपरिचयेऽप्यप्रसक्तिं समीराद् व्याप्तत्वं चात्मनो मे गगनगुरुवशाद् भातु निर्लेपता च ॥३॥ १. नेच्छापि' ग. पाठः, २. 'शेषमा' क. पाठः, ३. विभूमन्निति व्याख्यासम्मतः पाठः, दशकम् -९३] पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् । ३२९ त्वत्कारुण्य इति । क इव नहि गुरुः, न केवलमात्मैव, पृथिव्यादिप- दार्था अपि गुरव एवेति भावः । किमेभ्यः शिक्षणीयं, तदाह-लोकवृत्त इति । लोकाः स्थिरचरादयः तेषां वृत्तं क्षमानिस्सङ्गत्वालेपकत्वादिस्वभावः । तत्रैते गुरव इत्यर्थः । हे विभूमन् ! विष्णो! भूमिः सर्वैः खलैराक्रान्तापि न चलति हि । ततः भूमेः सत्क्षमा स्वमार्गादचलनरूपां शिक्षयेयं कर्तव्यतयावगच्छेयम् । तत्तद्विष- यैर्गुणवद्भिर्दोषवद्भिश्च परिचये सम्पर्के सत्यप्यप्रसक्तिम् असङ्गत्वं समीराद् गृह्णी- यां शिक्षयेयम् । आत्मनः शरीरपरिच्छिन्नतया प्रतीयमानस्य व्याप्तत्वं सर्वशरी- रेष्वन्तर्बहिश्च व्याप्तत्वम् । मे गगनगुरुवशादिति । गगनं हि घटादिपरिच्छिन्नतया प्रतीयमानमपि बहिरन्तश्च व्याप्तम् । किञ्च, निर्लेपता शरीरस्थत्वेऽपि तत्स्पर्शर- हितो निर्लेपः, तस्य भावो निर्लेपता । सा च गगनगुरुवशादेव मे भातु । यथा गगनं मेघादिभिर्न स्पृश्यते तथेति ॥ ३ ॥ जलानलशशिरविभ्यः शिक्षणीयमाह- स्वच्छः स्यां पावनोऽहं मधुर उदकवद् वह्निवन्मा स्म गृह्णां सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । पुष्टिनष्टिः कलानां शशिन इव तनो त्मनोऽस्तीति विद्यां तोयादिव्यस्तमार्तण्डवदापि च तनुष्वेकतां त्वत्प्रसादात् ॥ ४ ॥ स्वच्छ इति । अहमुदकवत् स्वच्छो निर्मल: पावनः दर्शनमात्रेण पापशोधकः मधुरो मधुरालापी च स्याम् । सर्वान्नीनः सर्वभक्षोऽपि वह्निवद् दोष' मा स्म गृहां पापं नादद्याम् । अनेर्लाह्यान्तरमाह-तरुष्विति । तरुषु काष्ठेषु तममिमिव यथा काष्ठेषु प्रविष्टोऽग्निः काष्ठसमानरूपो ह्रस्वदीर्घस्थूलसूक्ष्मादिरूपोऽव- गम्यते, तथा माम् आत्मानमपि सर्वभूतेषु सुरनरतिर्यगादिशरीरेषु तदुपाधिवशात् तत्तत्समानरूपोऽवगम्यत इति अवेयाम् अवगच्छेयम् । शशिनः शिक्षणीयमाह- १. पंपा' ख. पाठः, २. 'ममात्मापि स' क. पाठः. ६ आंदद्यामित्यस्य स्थाने 'आददीय' इति साधु ।

३३० नारायणीये स्किन्धः-११ पुष्टिरिति । पूर्वपक्षप्रतिपदमारभ्य क्रमाद् दूरस्थितस्यादित्यमण्डलस्य पञ्चदशः पञ्चदशो भागो जलमये चन्द्रमण्डले प्रतिबिम्बितो दृश्यते। ते प्रतिबिम्बाश्चन्द्रस्य कला इत्युच्यन्ते । यथा तासामेव पुष्टिं नष्टिं च विद्यां, न शशिनः, तद्वत् तनोरेव जन्मास्तित्वविपरिणामविवृद्ध्यपक्षयविनाशरूपाः षड् भावविकाराः, न त्वात्मन इति विद्यामित्यर्थः । आदित्यदृष्टान्तेनावगन्तव्यमाह-तोयादीति । यथैको मार्तण्डो- ऽनेकेषु घटोदकादिषु व्यस्तोऽनेको दृश्यते, तद्वत् तनुषु सर्वशरीरेषु आत्मन उपा- धिभेदेन भेदप्रतीतावप्येकतामपि च विद्याम् । त्वत्प्रसादादिति सर्वत्र योज्यम् ॥ स्नेहाद् व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं प्राप्तं प्राश्नन् सहेये क्षुधमपि शयुवत् सिन्धुवत् स्यामगाधः। मा पप्तं योषिदादौ शिखिनि शलभवद् भृङ्गवत् सारभागी भूयासं किन्तु तद्वद् धनचयनवशान्माहमीश' प्रणेशम् ॥५॥ स्नेहादिति । स्नेहः सन्तापहेतुरिति कपोताद् ग्राह्यमित्याह-स्नेहादिति । व्याधन लुब्धकेन अस्तेषु निगृहीतेषु पुत्रेषु प्रणयेन मृतो यः कपोतः स इवाचरतीति तथा । कश्चिद् वनेचरो कश्चिद् वनेचरो नीडान्तिके सञ्चरतः पक्षिणो जालमातत्य प्रतिपालयामास। तत्र प्रथममजानन्तः कपोतशिशवो जालेना- वृताः। तान् दृष्ट्वा कपोती च दुःखेनापतत् । कपोतश्च पुत्रभार्याविलपनविचे- ष्टनादिदर्शनजनितदुःखप्रणयकरुणान्धधीः स्वयमपि विलपन्नपायमगमत् । एवं मा भूवमिति भावः । अजगरादुपदेष्टव्यमाह–प्राप्तमिति । शयुः अजगरः तद्वत् प्राप्तं प्राश्नन् यथालब्धेन शरीरनिर्वाहमानं कुर्वन् क्षुधं सहेय सोढुं शक्तो ३. "पि विक. ग. पाठः. १. 'रदेशस्थि' क. ग. पाठः. २. कोऽपि मा' ग. पाठः. ४. 'वैवाक्यशेषः' क. ग. पाठः, ५. 'य' क. पाठः. * नशेलङि पुषादित्वादङ् । 'नशिमन्योरलिध्येत्वमिति भाष्यवार्तिकादत एत्वम् । छन्दोग्रहणं तु वाक्यभेदेनामिपचोरेव सम्बध्यते, 'अनेशद् मेनकाम्' इत्यादिलक्ष्यानुरोधादिति वृत्त्यनुसारेणेदम् ।

। दशकम् -९३] पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् । भवेयम् । अनेन च प्रारब्धकर्मफलस्यावश्यभोग्यत्वात् सुखदुःखप्राप्तिपरिहारार्थः प्रयासोऽपि वृथाकालक्षेपैकफल इत्यपि दर्शितम् । अगाधो गम्भीरः एवम्भूत इति परिकलयितुमशक्यः । रूपविलासमोहितो नश्यतीति शलभाच्छिक्षणीय- मित्याह मा पप्तमिति । योषिति प्रमदायां हावभावादिभिः, आदिशब्दात् कटककटिसूत्रहारदुकूलादावतिमनोहरे वस्तुनि परमार्थतो दुःखहेतावुपभोग्यधिया मा पप्तं यथाग्नौ तद्वर्णलोभितः पतङ्गः पतति तद्वत् । किञ्च, यथा भृङ्गः पुष्पेषु सारभूतं मधु भजति, एवं सर्वशास्त्रेषु सारं श्रीनारायणस्मरणरूपमर्थमेव भजेयम् । शिक्षणीयान्तरमाह-किन्त्विति । किन्तु विशेषोऽस्ति। तद्वद् भृङ्गवत् । यथा भृङ्गो विशिष्टगन्धलोभेनैकस्मिन्नेव पद्मे वसन्नस्तमये मुकुलिते तस्मिन् बध्यते, तद्वदह- मप्यर्थार्जनाद्याभिनिवेशेनैकत्र सक्तो न नाशं गच्छेयमित्यर्थः ॥ ५॥ मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौचं हान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्यगीतैः नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः सुप्यां भर्तव्ययोगात् कुरर इव विभो! सामिषोऽन्यैर्न हन्यै ॥६॥ मेति । स्त्रीणामङ्गसङ्गो बन्धहेतुरिति गजाच्छिक्षणीयमित्याह-मा बध्यास- मिति। वशया करिण्या। गजो हि करिणीं प्रदर्य निखातपिहितगर्ते निपात्य बध्यते । करिणीजठरे बद्धचर्मान्तर्भूतपुरुषेणेति वा । त्यागभोगहीनं धनं न सञ्चिनुयादिति माध्वीहराच्छिक्षणीयमित्याह--नार्जयेयमिति । तं धनौघम् अन्यश्चोरादिः हर्ता हरि- ष्यति । माध्वीहरो हि तरुकोटरादिषु मक्षिकाभिः सञ्चितं मधु हरति, तद्वत् । गीतादिशब्दसक्ति शहेतुरिति मृगाच्छिक्षणीयमित्याह-मृगवदिति । मृगो हि मृगयोर्गीतेन मोहितस्तेन निगृह्यते, तद्वत् । ग्राम्यगीतैरिति । भगवद्गीतेष्वेवासक्तिर्म- वेदिति भावः । रसासक्ति शहेतुरिति मीनाच्छिक्षणीयमित्याह-नातीति । झषो मत्स्यः बडिशे आमिषावृतलोहकण्टके । आशा दुःखहेतुः नैराश्यं सुखहेतुरिति पिङ्गलायाः शिक्षणीयमित्याह-पिङ्गलावदिति । पिङ्गला नाम स्वैरिणी अर्थाशया १. 'वविलासैः आ' क. पाठः. २. 'नि दु: ख. पाठः. ३. 'र्णप्रलो' क. पाठः. ४. 'ते। त्या' क. ग. पाठः. ५. 'त्यत्र मृगो गुरुरित्या' क. ग. पाठः.

३३२ नारायणीये स्कन्धः-११ प्रथममागतान् स्वल्पार्थदान् पुरुषाननादृत्य अपिनामान्यो भूरिप्रदो मामुपेष्यती- ति दुराशया दूयमानमनाः निशीथेऽपि जाग्रती पुनश्च निर्वेदासिना धनादौ दुरा- शांपाशांश्छित्त्वा सुखं सुष्वाप । एवं निराशो भूत्वा । सुप्यामिति सुखं लभेयेत्येव विवक्ष्यते । कस्यचिदपि ममत्वेन स्वीकारो दुःखहेतुरित्यत्र कुररो नाम पक्षी गुरु- रित्याह-भर्तव्येति । आमिषं गृहीत्वापतन्तं कुररमन्ये पक्षिणो जघ्नुः । तद्वद् भर्तव्ययोगाद् ममत्वेन रक्षणीयद्रव्यसम्बन्धाद् अन्यैः बलिभिः न हन्यै न हतो भवेयम् ॥ ६॥ वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः । त्वचित्तो नावबुध्यै परमिषुकदिव क्ष्माभृदायानघोष गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोमन्दिरेषु ॥ ७॥ वर्तेयेति ।मानावमानपरित्यागः सुखहेतुरित्यर्भकाच्छिक्षयेयमित्याह-वर्ते- येति । बहुभिः सह सञ्चारे गोष्ठीकलहादिना श्रीहरिस्मरणकर्तिनादौ प्रमादो भवेदिति कन्यायाः शिक्षयेयमित्याह-निस्सहाय इति । काचित् कन्यकात्मवरणायागतान् पुरुषान् भोजयितुं स्वयं शाल्यवहननं कुर्वती प्रकोष्ठस्थशङ्खवलयस्वनजुगुप्सया श- वलयमेकावशिष्टमकरोत् । स इव वर्जितान्योन्यघोषः त्यक्तेतरेतरव्यर्थप्रलापादिः। ईश्वरे समाधावितिकर्तव्यतां शरकाराच्छिक्षयेयमित्याह-त्वञ्चित्त इति । यथेषुकृद् इष्वृजूकरणे दत्तचित्ततया क्ष्माभृदायाने भेर्यादिघोषं न बुबुधे, तद्वत् त्वाच्चित्तोऽह- मपि परम् अन्यं नावबुध्यै । विषयवासनया मनो न विक्षिपेद् , नापि सुषुप्ताविव सर्वथा लीयेतेति भावः। गृहारम्भोऽनयेति सर्पाच्छिक्षयेयमित्याह-गेहेष्विति । अहिर्यथोन्दुरोर्मूषिकस्य मन्दिरेषु कुहरेषु वसति, स इव निवसानि ॥ ७ ॥ त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां त्वचिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् । १. 'शाश्छि' ग, पाठः, दशकम्-९३] पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् । ३३३ विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्ति धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥८॥ त्वयीति। ईश्वरस्य जगत्कारणत्वमूर्णनाभाच्छिक्षणीयमित्याह त्वयीति । त्वत्कृतं त्वया निमित्तोपादानकारणभूतेन सृष्टं त्वय्येव क्षपयसि संहरसि । ऊर्णनाभ: लूता। स हि निमित्तोपादानभूतेन स्वात्मना सृष्टं तन्तुवितानं स्वस्मिन्नेव स्वयं संह- रति । भगवड्यानं तत्सारूप्यमापादयतीति पेशकाराच्छिक्षयेयमित्याह-त्वचिन्तेति। त्वत्स्वरूपं त्वत्सारूप्यम् । दृढं निश्चितम् । पेशः क्षुद्रकुटी, तां करोतीति पेश- कारो भ्रमरविशेषः । तेन क्षुद्रकुटी प्रवेशितो निरुद्धः कीटो भयेन तमेव ध्यायन् तत्सारूप्यं गच्छति । स्वशरीराच्छिक्षणीयमाह-विडिति । देहो मम गुरुवरो भवति । कुतः, सञ्चिन्त्यमानो विरक्तिं विवेकं च धत्ते करोति । दुर्लभत्वोपकारित्वे चिन्त्यमाने आत्मानात्मविवेकहेतुः अनित्यत्वपारक्यत्वदुःखोदकत्वेषु चिन्त्यमानेषु विरक्तिहेतुश्च भवतीति भावः । विरक्तिविवेकहेतुत्वमाह-विड्भस्मात्मेति । यदि श्वादिभिर्भक्षितः, तर्हि विष्ठात्मा भवति । यद्यग्निना दग्धः, तर्हि भस्मात्मा भव- ति । अतः परकीयोऽनित्यश्चायम् । आत्मा तु सच्चिदानन्दस्वरूपस्तव्यतिरिक्त इति भावः । किञ्च, मम तु अयं देहः बहुरुजापीडितः विविधाभिर्वेदनाभिः परवशीकृतः सन् विशेषाद् विवेकं विरक्तिं च धत्त इति पूर्वेणान्वयः ॥ ८ ॥ ननु विवेकहेतुत्वेनोपकारिण देहे मोहः कथं न सम्भवेदित्याशङ्कय देहमोहे दोषमाविष्कुर्वन् भगवन्तं प्रार्थयते- ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतो- गेंहे वित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति । सोऽयं वह्नः शुनो वा परामिह परतः साम्प्रतं चाक्षिकर्ण- त्वजिहाद्या विकर्षन्त्यवशमतइतः कोऽपि न त्वत्पदाब्जे ॥९॥ ही हीति । ही ही एवम्भूतेऽपि देहे मम महान् मोह इत्येतदाश्चर्यम् । तं देहमोहं देहविषयसुखसाधनत्वभ्रान्ति त्यज । तत्र दोषमाह-यत्प्रेमहेतोरिति यास्मिन् देहे प्रेम्णा हेतुना गेहादिषु विवशिताः तद्योगक्षेमैकचित्ताः । किञ्च, सो- नारायणीये स्कन्धः-११ ऽयं देहः इह सकलजन्तुष्वपि परतः अवसाने परं केवलं वहेर्दहनाय शुनो भक्षणाय वा भवति । साम्प्रतं च जीवत्यपि सति । अक्षिकर्णत्वग्जिह्वाद्या इति तदधिष्ठातारोऽर्कादिदेवा गृह्यन्ते, अक्ष्यादीनां तदधीनप्रवृत्तित्वात् । आदिशब्देन वाक्पाण्यादि गृह्यते । एनम् अतइतः स्वस्वविषयेषु रूपादिषु कर्षन्ति । एषु कोऽपि त्वत्पदाब्जे भगवत्पादारविन्दविषये न कर्षति ॥९॥ ननु प्रारब्धकर्मफलस्यावश्यं भोग्यत्वात् तद्भोगस्य च देहगेहासक्त्याय- त्तत्वात् तत्त्यागोऽशक्य इति चेत् तर्हि प्रकारान्तरेण मम जन्मसाफल्यं कुर्विति प्रार्थयते- दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् हृत्वा भक्तिं द्रविष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष! । नूनं नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेह क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश! ॥१०॥ दुर्वार इति । यदि पुनर्देहमोहो दुर्वारः, तर्हि अधुना अस्मिन् जन्मन्येव निश्शेषान् बाह्यान् वातादिरोगान् आन्तरान् रागादिरोगान् । द्राढिष्ठाम् अनपा- यिनीम् । अतिदुर्लभस्यास्य विप्रदेहस्य सफलीकरणेन मां पाहीत्याह- नूनमिति ॥१०॥ - इति पञ्चविंशतर्गुरुभ्यः शिक्षणीयस्य वर्णनं त्रिनवतितमं दशकम् । एवं पञ्चविंशत्या गुरुभिरुत्पन्नविवेकज्ञानस्य तत्त्वज्ञानोत्पत्तिप्रकारं दर्शयति- nama शुद्धा निष्कामधमैः प्रवरगुरुगिरा तत् स्वरूपं परं ते शुद्धं देहेन्द्रियादिव्यपगतमखिलं व्याप्तमावेदयन्ते । ३. 'नी कुरु । अ' ग. पाठ:. १. 'श्यभो' क. ग. पाठः.. २. 'ह' क. पाठः. ४. 'स्य चि' ख. पाठ:.

दशकम्-९४] तत्त्वज्ञानोत्पत्तिप्रकारवर्णनम् । ३३५ नानात्वस्थौल्यकाश्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते वहेर्दारुमभेदेष्विव महदणुतादीप्तताशान्ततादि ॥१॥ शुद्धा इति । निष्कामधर्मैः फलकामनामन्तरेणानुष्ठितैर्वर्णाश्रमधर्मैः शुद्धाः रागादिदोषरहिताः, शमदमादिसाधनचतुष्टयसम्पन्ना इति यावत् । प्रवरस्य वेदतदर्थनिष्णाततया श्रेष्ठस्य गुरोः अज्ञाननिरोधनचतुरस्य गिरा प्रवचनात्मि- कया ते तवेश्वरस्य तद् निष्कलस्वरूपम् आवेदयन्ते अवगच्छन्ति । कीदृशं, देहेन्द्रि- यादिभ्यो व्यपगतं व्यतिरिक्तम् अत एव शुद्धं मायातत्कार्योपरागरहितं परं परब्रह्माख्यम् अखिलं व्याप्तं सर्वाश्रयं सर्वानुस्यूतं च । नन्वखिलव्याप्तत्वं कृशोऽहं स्थूलोऽहमित्यादिप्रतीतेः प्रतीतिविरुद्धमित्याशङ्कयाह-नानात्वेति । तवात्मनो नानात्वादि तु गुणजवपुस्सङ्गतः मायामयशरीरोपाधित्वेन अध्यासितं कल्पितम् । अत औपाधिकत्वेन नानात्वादयो नात्मधर्मा इत्यर्थः। अत्रानुरूपं दृष्टान्तमाह-वढेरिति। दारुप्रभेदेषु काष्ठेषु स्थितस्य वहेर्यथा महदणुतादि। मह- त्त्वमणुत्वं दीप्तत्वमुत्पन्नत्वं शान्तत्वं नष्टत्वम् । आदिशब्देन नानात्वादि गृह्यते। एते दारुधर्मा अपि यथाग्नेर्दारुणोऽविविक्तत्वादग्निधर्मतया प्रतीयन्ते, तथात्मनः शरी- रस्यापि विविच्य ज्ञानाभावान्नानात्वादयो जरामरणादयोऽप्यात्मधर्मा इव प्रतीयन्ते न परमार्थत इति भावः ॥१॥ एतच्च ज्ञानमाचार्यालब्धमेवाज्ञानतत्कार्यनिरसनक्षममिति स्फुटीकर्तुं विद्यो- त्पत्तिं रूपकेण निरूपयति आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार- ण्यावेधोद्भासितेन स्फुटतरपरिवोधाग्निना दह्यमाने । कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥२॥ आचार्याख्येति। आचार्याख्यो योऽधरस्थारणिः अधोगतमथनकाष्ठविशेषः, समनुमिलन् उपनयनद्वारी आचार्यसन्निधिं प्राप्तो यः शिष्यः, तद्रूपो य उत्तरा- 'न्वात्मनो नानात्वशरीरत्वपरिमाणत्वक्षणिकत्वादिधर्मान् केचिदाचक्षते । कथं सच्चिदानन्दादिस्वरूपत्वेन ज्ञातव्यमित्याह' ग. पाठः. २. 'व्यतिरिक्त ख. पाठः, ३. 'रा स ख. ग. पाठः नारायणीये स्कन्धः-११ राणः, तयोरावेधः प्रवचनरूपेण मथनदण्डेन संघट्टनं, तेनोद्भासितेन प्रकाशितेन स्फुटतरपरिबोधः सम्यग्ज्ञानं तद्रूपेणाग्निना कर्मालीवासनाः सजातीयकर्मोत्पादकाः संस्काराः, तत्कृता तनुभुवनभ्रान्तिः शरीरादिप्रपञ्चविषयमज्ञानं, तद्रूपे कान्तारपूरे वनसमूहे दह्यमाने सति दाह्याभावेन इन्धननाशेन विद्या ब्रह्मज्ञानं, तच्चाज्ञान- तत्कार्यनाशे सति स्वयमपि तदन्तःपातितया नश्यतीत्यग्निसाम्यात्, तद्रूपे शिखिनि अग्नौ च विरते कार्यकारणाव्यवधानात् त्वन्मयी खल्ववस्था त्वद्रूपेणैवा- वस्थानम् । सच्चिदानन्दरूपो भवतीति भावः ॥२॥ एवं श्लोकद्वयेन सर्वतो विरक्तस्य तत्त्वज्ञानेन संसारदुःखोच्छेदः परमानन्दा- वाप्तिश्चेत्युक्तम् । तदेव दृढीकर्तुं मतान्तरं निरस्यति- mein एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः। दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यायवाप्ता मत्तास्त्वां विस्मरन्तःप्रसजति पतने यान्त्यनन्तान् विषादान् ॥३॥ एवमिति । ननु नानाविधैर्मणिमन्त्रौषधरसायनप्रयोगैः षण्णयैश्चतुरुपायैः स्वर्गादीष्टसाधनज्योतिष्टोमादिभिरध्यापनादिभिश्च कर्मभिरेव देहिनां निखिलक्लेश- हानेः सम्भवात् किमर्थमतिदुष्करं निवृत्तिमार्गाश्रयणमित्याशङ्कायामाह-नैकान्तेति। अगदाः औषधान्यायुर्वेदोक्ता आरोग्याद्युपायाः, षड्गुणा एव षाड्गुण्यं दण्डनी- त्युक्ताः सन्धिविग्रहादयोऽर्थार्जनोपायाः, षट्कर्माणि अध्ययनाध्यापनादीनि, वेदोक्ता योगा उपायाः ये, ते नैकान्ताः न कृत्स्नदुःखनिवर्तकाः दुःखमिश्रसुखहेतु- न चात्यन्तिकाः न दुःखपुनरावृत्तिनिवर्तकाः अनित्यफलत्वात् , कृषिवत् । नन्विह पुत्रमित्रधनधान्यारोग्यादिपरिपन्थिनिरासफलकानि परत्र स्वर्गादिसाधना- न्यपि वैदिककर्माणि विद्यन्ते, तत्राह-दुवैकल्यैरिति । निगमपथाः वेदमार्गाः दुवै- कल्यैः अपरिहरणीयैव्यकर्मकालकर्तृदोषरूपैर्वैगुण्यैः अकल्या अशक्यानुष्ठाना अ- पि केवलं नैकान्तात्यन्तिका एवेत्यपिशब्दार्थः। किञ्च, कथञ्चिन्निर्वैकल्यास्तत्फलानि त्वाद्, । 'कसं २ का पाठः, MAASECIENCERTIES दशकम्-९४] तत्त्वज्ञानोत्पत्तिप्रकारवर्णनम् । ३३७ स्वर्गादिफलानि प्राप्ताः मत्ताः विमाने स्त्रीभिः सह नन्दनादिषु क्रीडन्तः प्रमत्ताः कर्मक्षयेण पतने अधःपतने प्रसजति सति अनन्तान् विषादान् दुःखानि यान्ति ॥३॥ ननु वेदोक्तोपासनादिकर्मभिः सत्यलोकं प्राप्ताः क्लेशरहिता ब्रह्मणा सह मोदन्त इत्याशङ्कायामाह- न । स्वल्लोकादन्यलोकः क नु भयरहितो यत् परार्धद्वयान्ते त्वद्भीतः सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ!। एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिन्धि बन्धं वरद ! कृपणवन्धो ! कृपापूरसिन्धो! ॥४॥ स्वल्लोकादिति । वल्लोकाद् वैकुण्ठाद् अन्यलोकः सत्यलोकादिः भयरहितो विनाशभयरहितः क नु नास्तीत्यर्थः । अत्र हेतु:-परार्धद्वयम् अन्तोऽवधिर्यस्य स तथा तादृशे सत्यलोके स पद्मभूरपि त्वत् कालस्वरूपादीश्वराद् भीतः अतो न सुखवसतिः सुखरूपा विनाशभयरहिता वसतिर्वासो यस्य स तथा । पद्मभूरिति ब्रह्मण उत्पत्तिविनाशौ द्योतयति । एवंम्भावे एवं सति विद्याकर्मभ्यां प्राप्तैश्वर्यस्य ब्रह्मणोऽपि दुःखात्यन्तिकनिवृत्त्यभावे सति अधर्मैरार्जितं बहुतमो दुरितं येषां तेषां नारकाणां नरकंपतितानां संसारिणां क्लेशहानेः का कथा । तत् तस्माद् बन्धं शरीराद्यहम्ममाभिमानं छिन्धि, मोक्षं प्रयच्छेत्यर्थः ॥ ४॥ ननु जीवो नाम नेश्वरादन्यः । कुतस्तस्य बन्धमोक्षावित्याशङ्कय परिहरति याथार्थ्यात् त्वन्मयस्यैव हि मम न विभो ! वस्तुतो बन्धमोक्षौ मायाविद्यातनुभ्यां तव तु विरचितौ स्वमबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको भुले देहद्रुमस्थो विषयफॅलरसान् नापरो निर्व्यथात्मा ॥५॥ ३. 'के क. ग. पाठः. १. 'तत्वाद् न' ख. पाठः. २. 'वं स' ख. पाठः. ४. 'रसफलं ना' व्याख्यानुसारी पाठः, । । नारायणीये [स्कन्धः-११ याथार्थ्यादिति। परमार्थतस्त्वन्मयस्य ईश्वरादभिन्नस्यैव मम जीवस्य न वस्तुतो बन्धमोक्षौ, तथापि तव ईश्वरस्य मायाविद्यातनुभ्यां विद्याविद्यारूपशक्तिद्वयेन विरचितौ तौ बन्धमोक्षौ । अविद्यया बन्धो विद्यया च मोक्ष इति भावः । तौ च स्वमबोधोपमौ यथा स्वमद्रष्टुः स्वप्नदृष्टेन देहेन बन्धः प्रबुध्य च तन्मोक्षः, तद्वद् अविदुषो देहबन्धः विदुषो मोक्षश्च । तथाच स्वप्नवन्मायामयत्वेऽपि बन्धस्य दुःखहेतुत्वाद् ज्ञानेन बन्धच्छेदः प्रार्थनीय इति भावः। तदेव बद्धमुक्तयो(लक्षण्य- माह-बद्ध इति । बद्धे संसारिणि जीवद्विमुक्तिं गतवति जीवन्मुक्ते च तावत् तावती वक्ष्यमाणरूपा । एको बद्धः देह एव द्रुमः, द्रुमवदनित्यत्वादिधर्मत्वात् , तत्स्थः तस्मादपृथग्भूतः सन् विषयरसफलं विषयानुभवरूपं कर्मफलं भुते । अपरः जीवन्मुक्तः न विषयरसफलं भुङ्क्ते । तथापि ज्ञानशक्तया निय॑थात्मा पीडारहितः ॥५॥ ननु तर्हि जीवन्मुक्तत्वमेव प्रार्थ्यतामित्याशङ्कय तदनधिकारमाकलय्य भाक्तं प्रार्थयते- जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे तन्नामाशुद्धबुद्धेन च लघु मनसः शोधनं भक्तितोऽन्यत् । तन्मे विष्णो! कृषीष्ठास्त्वयि कृतसकलपार्पणं भक्तिभारं येन स्यां मक्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥६॥ जीवन्मुक्तत्वमिति । वचसा किं फलं, न तत्प्राप्तिः स्यात् । अशुद्ध- बुद्धेः रागादिदुष्टान्तःकरणस्य तद् जीवन्मुक्तित्वं दूरे नाम । तन्तःकरणशुधु- पाया अन्वेष्टव्या इत्याशङ्कय किमुपायान्तरेण भक्तिरेव लघुरुपाय इत्याह-न चेति । न च भक्तितोऽन्यद् मनसः शोधनं शुद्धयुपायः तीर्थस्नानादि लघु अतिशीघ्रम् अप्रयत्नं च भवति । तत् तस्मात् त्वयि भक्तिभारम् अनपायिनी भक्ति कृषष्ठिाः । कृतम् अनुष्ठितं सकलानां शरीरतत्सम्बन्धिनां प्रार्पणं मन्त्रपुरस्सर समर्पणं यस्मिन् भक्तिभारे । किञ्चिद्गुरुवचनेति भक्तौ सत्यां स्वयमेव ज्ञानोत्पत्तिरिति दर्शयति । मञ्जु शीघ्रं गुरुवचनमात्रनिमित्तेन मिलता सञ्जातेन त्वत्प्रबोधेन ब्रह्मज्ञानेन त्वदात्मा मुक्तो भवामीत्यर्थः ॥६॥ a १, 'स्येश्वरस्यै' क. ग. पाठः, २. 'धत्व व्याख्यासम्मतः पाठा.

दशकम्-९]] अभक्तनिन्दापूर्वकं भक्तिप्रार्थनावर्णनम् । अभक्तानां शास्त्रश्रमोऽपि पाण्डित्यमात्रफल इत्याह---- शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां विभ्रते निष्पसूतिम् । यस्यां विश्वाभिरामाः सकलमलहरा दिव्यलीलावताराः सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥७॥ शब्दब्रह्मणीति । मीमांसाधुपाङ्गोपबृंहिते साङ्गे वेदे प्रयतितमनसः कृत- श्रमा अपि इह केचित् तत्प्रधानप्रतिपाद्यं त्वां परं ब्रह्म न जानन्ति नोपासनादि कुर्वन्ति । कष्टम् । ते वन्ध्यश्रमाः व्यर्थपरिश्रमाः। ते चिरतरं दीर्घकालं निष्प्रसूति भक्तिज्ञानफलोत्पादनरहितां गां वाचं जल्पवितण्डाख्यां बिभ्रते । अथवा प्रसवहीन- तया निर्दोहां गां धेनुं बिभ्रते पुष्णन्ति । अहं तु यस्यां वाचि विश्वान् सर्वजनान् अभिरमयन्तीति विश्वाभिरामाः सकलानां मलानां दुरितानां रागादीनां च निवर्तकाः दिव्याः शुद्धसत्त्वमयाः श्रीरामकृष्णाद्यवतारा न निगदिताः, सच्चित्सान्द्रं रूपं परं ब्रह्म न निगदितं न प्रतिपादितं, तां सगुणनिर्गुणेश्वरप्रतिपादनविधुरां वाचं न भ्रियासं न व्यवहरेयम् ॥७॥ अथ सत्सङ्गमद्वारा भक्ति प्रार्थयते त्रिभिः- यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम- नेवश्चानन्यथावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् ! । त्वल्लिङ्गानां त्वदध्रिप्रियजनसदसां दर्शनस्पर्शनादि- भूयान्मे त्वत्मपूजानतिनुतिगुणकर्मानुकीादरोऽपि ॥८॥ य इति । यः यत्स्वरूपः यावान् यादृङ्महिमा यादृशः यद्धर्मों वा त्वमिति किमपि नैवावगच्छामि । हे भूमन् ! ईश्वर! एवञ्च सति अनन्यभावः त्वदेकचित्तः सन् त्वदनुभजनं त्वत्सेवामेवाद्रिये । कथमज्ञात्वा मद्भजनमित्यत आह-चैद्यवैरिन्निति । शिशुपालवैरिन् ! गोपालबालकतया श्रुतत्वादेतावदव- गच्छामीति भावः । त्वल्लिङ्गानां त्वत्प्रतिमानां त्वदनिप्रिया भक्तजनाः, तेषां सदसां सभानाम् । दर्शनस्पर्शनादिरिति नमस्कारादि गृह्यते । यद्वा सत्सङ्ग- नारायणीये [स्कन्धः-११ विशेषणत्वात् पुंल्लिङ्गत्वम् । प्रकृष्टा समग्रोपचारयुक्ता पूजा प्रपूजा, नतिर्नमस्कारः, नुतिः स्तवनं, गुणैः सत्त्वादिभिः कृतानां सृष्टयादिकर्मणामनुकीर्तिः, आसु आदरोऽपि मे भूयात् ॥८॥ यद्यल्लभ्येत तत्तत् तव समुपहृतं देव! दासोऽस्मि तेऽहं त्वद्नेहोन्मार्जनाचं भवतु मम मुहुः कर्म निर्मायमेव । सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमाईत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥९॥ यद्यदिति । समुपहृतं समर्पितम् । त्वद्गहेषु क्षेत्रादिषु उन्मार्जनं रजसोऽपा- करणम् आद्यं यस्य सेचनपुष्पोपहारादेः निर्मायं दाम्भिकतारहितं कर्म मम मुहुर्भवतु । पूजाधिष्ठानान्याह-सूर्येति । आदिशब्देन गवादि गृह्यते । एष्वधिष्ठा- नेषु लसितचतुर्बाहुमाराधये सौरसूक्तहविरातिथ्यविषयभोगयवसादिभिः पूजयामि । त्वत्प्रेम्णा आो द्रुतहृदयः, तस्य भावस्तत्त्वं, तद्रूपो भक्तियोगो मम सततम- भिष्यन्दतां त्वद्विषये प्रवाहरूपेण प्रवर्ततामित्यर्थः ॥९॥ ऐक्यं ते दानहोमव्रतनियमतपस्साङ्ययोगैर्दुरापं त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् । भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण! वातालयेशः ॥१०॥ ऐक्यमिति । दानादिभिर्योगिनामपि दुरापं ते तव ऐक्यं मोक्षं गोप्य- स्त्वत्सङ्गेनैव प्रापुः किल । अतस्ताः सुकृतितमाः । आनन्दसान्द्रम् आनन्दैक- रसम् । अन्येषु भूयस्सु बहुष्वपि भक्तेषु उद्धवादिषु सत्स्वपि त्वम् आसां गोपिकानां भक्तिमेव बहुमनुषे । तत् तस्माद् मे त्वयि प्रेमलक्षणां भक्तिभेव द्रढय अनपा- यिनी कुरु ॥ १० ॥ इति तत्त्वज्ञानोत्पत्तिप्रकारवर्णनं, बन्धमोक्षस्वरूपवर्णनम् , अभक्तनिन्दापूर्वकं भक्तिप्रार्थनावर्णनं च चतुर्नवतितमं दशकम् । १. ति। आत्मान्तर्यामी । आ' क. ग. पाठः, AA Rec HREE दशकम् -९५] भक्तया विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम्। ३४१ ननु भक्त्या जीवेश्वरैक्ये सति संसारनिवृत्तिरित्युक्तम् । तद्नुपपन्नं, तयोर्भ- नत्वे सत्यैक्यायोगाद् , अभिन्नत्वे तयोर्जीवस्य संसारानुपपत्तेरित्याशङ्कय ईश्वरस्यैव मायामयशरीरसम्बन्धात् संसारित्वं तदपाये स्वस्वरूपेणावस्थानं च भवतीति परिहरति- आदौ हैरण्यगर्भी तनुमविकलजीवात्मिकामास्थितस्त्वं जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने। तत्रोवृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन- च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥१॥ । आदाविति । आदौ ब्रह्मप्रलयावसाने तव सिसृक्षायां सत्यां त्वं हिरण्य- गर्भस्येयं हैरण्यगर्भी, तां तनुमास्थितः तदभिमान्यभूः । कीदृशीम् , अविकल- जीवात्मिकां । अत्र जीवशब्देन सूक्ष्मशरीरमुच्यते । सूक्ष्मशरीरसमष्टिरूपा- मित्यर्थः । किमर्थमित्यपेक्षायां तद्धेतुत्वेन सम्बोधयति ---विश्वयोने! इति । वि- श्वस्य विराट्च्छरीरस्य प्रपञ्चस्य योनिः कारणम् । सूक्ष्मशरीराद्धि स्थूलशरीरो- त्पत्तिः। एवञ्च जगत्सृष्ट्यर्थं हिरण्यगर्भो ब्रह्माभूरिति भावः। एवम्भूतस्त्वमेव तद्याष्टि- रूपं जीवत्वं प्राप्य मायागुणानां मायाकार्याणां महदहङ्कारभूतेन्द्रियप्राणपञ्चक- रूपाणां तत्त्वानां गणेन, तत्सङ्घातात्मकेन शरीरेणेत्यर्थः, खचितः सम्बद्धो वर्तसे त्वमेव शरीराभिमानितया संसारी भवसि । अतो मम त्वद्रूपत्वात् त्वदै. क्यम् युज्यत इति भावः। एवं संसारिणो जीवस्य रजस्तमोवृद्धौ संसारानिवृत्तिः। सत्त्ववृद्धौ विशेषमाह-तत्र त्विति । तत्र मायागुणेषु तु सत्त्ववृद्धौ विशेषोऽस्ती- त्यर्थः। सात्त्विकपदार्थसेवया उद्वृद्धेन अत एव भक्तिभावं गतेन भाक्तिरूपण परिणतेनेत्यर्थः । गुणयुगलं रजस्तमश्च तत्कार्यभूतं शरीरादिकं च छित्वा माया- मयत्वेन ज्ञानमुत्पाद्यापाकृत्य कृतकार्यतया साधनरूपं सत्त्वं च हित्वा पुनः कार्य- कारणाव्यवधानाद् अनुपहितः परिपूर्णस्त्वमेवाहं वर्तिताहे त्वदेकीभावमनुभविता- स्मीति भावः ॥ १॥ ।

नारायणीये स्किन्धः-११ ननु तर्हि सत्त्ववृद्धिरेव प्रार्थ्यतां, किं भक्त्येत्याशङ्कायामाह- सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन् ! भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा । चित्तं तावद् गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोड़े तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसरूपी न्यगादीत् ॥२॥ सत्त्वोन्मेषादिति । सत्त्वस्य उन्मेषो वृद्धिः, ततः खलु विषयरसे विष- यास्वादे दोषबोधे सत्यपि भूयोऽप्येषु विषयेषु प्रवृत्तिर्दुर्निवारा भवति । तत्र हेतुः-सतमसि रजसि प्रोद्धत इति । रजस्तमोभ्यां सत्त्वस्याभिभवादिति भावः । यावदेवं, तावद् गुणा विषयाश्चित्तं च मिथो ग्रथितं भवति । चित्तं हि रागादि- वशाद् विषयेषु प्रविशति । ते चानुभूता विषया वासनारूपेण चित्ते च प्रविश- न्ति । ततो मिथो ग्रथितं भवतीत्यर्थः । तानि सर्वाणि गुणचित्तरजस्तमांसि रोढुं त्यक्तुं तुर्ये अवस्थात्रयातीते तत्साक्षिणि त्वयि ईश्वरे भक्तिरेव शरणम् । हंसरूपीति । क्षीरनीरविवेकचतुरो हंसः, तद्वदात्मानात्मविवेकचतुरतया परमहंसः परित्राट् , तद्रूपी भूत्वा भवान् ब्रह्मणः पुरतः सनकादिभ्यो न्यगादीद् उपदिदेश । । ननु किं भक्तितुल्यं श्रेयस्साधनमस्ति, नेत्याह- सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः। त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥३॥ सन्तीति । श्रेयांसि श्रेयस्साधनानि कर्मिणां रागादिना कर्माधिकारि- णां रुचिभिदया अधिकारभेदेन निर्मितानि बृहस्पतिव्यासपतञ्जलिप्रभृतिभि- राचार्यैः प्रोक्तानि । तेभ्यः श्रेयस्साधनेभ्यः बहुविधाः स्वर्गादिरूपाः गतयः फलानि भवेयुः। किन्तु ताः क्षुद्रानन्दाः दुःखमिश्रतया स्वल्पसुखाः सान्ताः । 'तं' क. ग, पाठः. २. 'मुखैरा' क. पाठः.

Casswasana दशकम्-९५ भक्तया विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम् । ३४३ अनित्याश्च । त्वं तु श्रेयसां मध्ये भक्तिम् एकां केवलाम् अव्यभिचरिणी वा महिततमाम् अतिशयेन पूजनीयां सख्ये उद्धवाय आचख्याथ आख्यातवान् । विषयजुषाम् इन्द्रियाणि प्रीणयतां त्वद्भक्त्या य आनन्दस्तत्तुल्यः सम्मदः सुखं केन वा स्याद् , न केनापीत्यर्थः ॥ ३ ॥ तदेवाह- त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः । सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥४॥ त्वद्भक्त्येति । त्वद्भक्त्या प्रेमलक्षणया तुष्टबुद्धेः भक्त्यैवालं किमन्यैरिति जातालंबुद्धेः अत एव विच्युताशस्य विषयतृष्णारहितस्य अत एव इह सर्वत्र सुखं चरतः आशाः दिशः सर्वाः सौख्यमय्यः स्युः । अनुभूयमानं सर्व सुखात्मकमेवेति भावः । यथा सलिलकुहरं महाहूदः, तद्गस्य मत्स्यादेः सर्वा दिशस्तोयैकमय्यो भवन्ति, एवं त्वद्भक्त्यानन्दनिमग्नस्य भक्तस्यापि सर्वा दिशः सौख्यमय्य एवेत्यर्थः । किञ्च, सोऽयं भक्तः खलु इन्द्रादिलोकं हृयो मनोहराः योगसिद्धीः उपासनेफलभूताः परकायप्रवेशाष्टैश्वर्यदूरश्रवणदर्शनाद्याः नाकाङ्क्षती- त्येतदास्ताम् , असौ मोक्षसौख्येऽप्यनीहो निराग्रहः। किं तर्हि दुष्करतादृष्टेः, न । स्वयमनुपतिते भक्तिमहिना स्वयमेव प्रादुर्भूते ॥ ४ ॥ आस्तान्तावदुत्तमभक्तकथा यतः प्राकृता अपि भक्ताः कृतार्था इत्याहः- त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो- भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः। सप्ताचिर्दीपिताचिर्दहति किल यथा भूरिदारुपपञ्च त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः केन्द्रियाणाम् ॥ ५ ॥ त्वद्भक्त इति । इन्द्रियाशान्तेः अवशीकृतेन्द्रियत्वाद्धेतोः विषयरसैर्बाध्यमानः आकृष्यमाणोऽपि तै भिजय्यः न वशीकर्तुं शक्यः । अत्र हेतुः-दुर्बलैरिति । १. 'या यो' ख. पाठः. २. नाख. पाठः है नारायणीये [स्कन्धः-११ तत्र हेतु:-भक्त्या बलवत्या आक्रम्यमाणैः अभिभूयमानैरिति । पुनरपि भक्तौ जातायामित्यर्थः । यथा सप्ताचिः अग्निः भूरिदारूप्रपञ्चं महान्तं काष्ठसञ्चयं दहति, तथैव त्वद्भक्तेरोधे प्रवाहे दुरितं दहति सति भक्तेः पुरतः इन्द्रियाणां व दुर्मदो गर्वः । अनेनेन्द्रियाणां भक्तिप्रातिकूल्याशक्तेर्दुरितस्य मूलच्छेदो दर्शितः ॥५॥ - भक्त्यभावेऽन्यत् साधनं व्यर्थमित्याह- चित्ताीभावमुच्चैर्वपुषि च पुलकं हर्षबाष्पं च हित्वा चित्तं शुध्येत् कथं वा किमु बहुतपसा विद्यया वीतभक्तेः । त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत् तत्त्वमूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोच्या ॥६॥ चित्ताीभावमिति । चित्ताीभावादि हित्वा स्फुटप्रतीयमानैश्चिह्नर्गम्य- मानया भक्त्या विना कथं चित्तं शुध्येदित्यर्थः । ननु ब्रह्मज्ञानादेवाज्ञानकल्पितसं- सारनिवृत्तिस्तत्स्वरूपावाप्तिश्च, किमत्र भक्तिः करोतीत्याशङ्कायामाह-त्वद्गाथेति । त्वत्पुण्यगाथानामास्वादः श्रवणं कथनं वा, तदेव सिद्धाञ्जनं, तेन सततमरीमृज्य- मानः पुनः पुनः शोध्यमानः अयमात्मा चित्तं तत्त्वम् अनारोपितं यत् सूक्ष्म वस्तु परं तत्त्वं, तद् भजति विषयीकरोति । अभ्यस्तया आवर्तितया तर्ककोट्या युक्तिसमूहेन तथा न भजति। भक्तेरवान्तरव्यापार एव ज्ञानम् । अतस्तत्प्रयासो व्यर्थ एवेति भावः ॥ ६ ॥ एवं शुद्धचित्तस्य ध्यानयोग्यतामाहmusbanned ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र- न्यस्ताक्षः पूरकायैर्जितपवनपथश्चित्तपमं त्ववाश्चम् । ऊर्धानं भावयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात् तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥७॥ १. 'मपीस' क. ग. पाठ..

दशकम्-९५] भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यताबर्णनम् । ३४६ ध्यानमिति । समतनुः समकायशिरोत्रीवः सुखबद्धासनः । नास्ति स्वस्तिकादिनियमः । अक्ष्णोनिमीलने मनोलयः, उन्मीलने मनोविक्षेपः, तदुभया- भावाय मुकुलीकरणेऽक्ष्णोर्नासिकाग्रन्यस्तता स्वयमेव स्यात् । पूरकरेचककुम्भ- कभेदैः प्राणायामैः जितः कफादिदोषनिरसनेन शोधितः पवनपथः वायुसञ्चरण- स्थानं नाडीविवरं येन स तथा चित्तपनं हृदयाम्बुजम् अवाश्चम् अधोमुखम् ऊर्ध्वायं भावयित्वा तत्कर्णिकायां रविशशिशिखिनः उपरिष्टाद् उत्तरोत्तरं संविचिन्त्य तत्रस्थं वह्निमध्यस्थम् ॥ ७ ॥ आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास- स्यन्दा, कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । श्रीवत्साङ्क्ष सुवाई मृदुलसदुदरं काञ्चनच्छायचेलं चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ ८॥ आनीलेति । अतिशयेन नीलाः श्लक्ष्णाः श्लिष्टाः केशा यस्य, ज्वलित मकराकारे सती कुण्डले यस्य, मन्दहासस्य स्य-दो द्रवः तेन आई स्निग्धं, कौस्तुभ. श्रीभिः परिगतया व्याप्तया वनमालया उरुहारैः हारपटलैः अभिरामं, वक्षोदक्षिणभागे श्रीवत्साख्योऽको यस्य, शोभना दीर्घपीवरा बाहवो यस्य, मृदु लसत् शोभमान- मुदरं यस्य, काञ्चनच्छायचेलं परिहितपीताम्बरं, चारू स्निग्धौ मांसलावूरू यस्य, तं भवन्तं भावये चिन्तयामि ॥ ८ ॥ अथ क्रमात् समाधिभूमिकारोहणप्रकारमाह- सर्चाङ्गेष्वङ्ग! रङ्गत्कुतुकमतिमुहुर्धारयन्नीश! चित्रं तत्राप्येकत्र युजे वदनसरसिजे सुन्दरे मन्दहासे । तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व- नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥९॥ सर्वाङ्गेष्विति । रङ्गत्कुतुकं प्राप्तकौतुकं चित्तं सर्वाङ्गेषु अतिमुहुः पुनः पुनः धारयन् तत्र अवयवेष्वपि मध्ये एकत्र एकस्मिन्नवयवे युञ्जे । तत् कुत्र, वदनसरसिजे । मन्दहास इति वदनसरसिजविशेषणम् । मन्दः हासो यस्मिन् तत्र श्रीमुखे आलीन नारायणीये [स्कन्धः-११ । सुस्थिरं तु चित्तं परमसुखचिदद्वैतरूपे सच्चिदानन्दस्वरूपे ब्रह्मणि वितन्वन् ब्रह्माकारं कुर्वन् अन्यद् ध्यातृध्येयविभागादि नो चिन्तयेयम् । मुहुः यावज्जीवं ब्रह्मैक्यं पुनः पुनः इति अनेन प्रकारेण समुपारूढयोगः भगवदुपासनशीलः भवेयम् ॥९॥ इत्थं त्वयानयोगे सति पुनरणिमायष्टसंसिद्धयस्ता दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे!। त्वत्सम्पाप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं त्वामेवानन्दपूर्ण पवनपुरपते ! पाहि मां सर्वतापात् ॥१०॥ इत्थमिति । इत्थम् उक्तप्रकारेण त्वद्धयानमेव योगः पुरुषार्थस्योपायः तस्मिन् सति ताः सत्त्वोत्कर्षजाः अष्टौ संसिद्धयः अष्टैश्वर्याणि दूरश्रवण-दर्शन- त्रिकालज्ञत्वादिक्षुद्रसिद्धयोऽपि अहमहमिकया सम्पतेयुः । इदमखिलं त्वत्सम्प्राप्तौ विलम्बावहमित्यहं नाद्रिये । किं तु अहम् आनन्दपूर्ण मोक्षरूपं त्वामेव कामये। मां सर्वतापात् संसारात् पाहि । पुनरप्यष्टैश्वर्यादिभिः संसारार्णवे निक्षिप्य मा मां भ्रामयेति भावः ॥१०॥ इति भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनं पञ्चनवतितमं दशकम्। अथोक्तध्यानयोग्यतासिद्ध्यै विश्वमूर्तीशोपासनाय भगवद्विभूति निरूपयति- त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्त्रक्षराणामकार- स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । भलादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो नागानामस्यैनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते! ॥१॥ 1. 'नाधिकारिता' ख. पाठः. २. 'तीनि' ख. ग. पाठ:. प्य क. पा..

दशकम्-९९] भगवाद्विभूतिवर्णनम् । त्वं हीति । हे उरुमहिमन् ! विश्वमूर्ते ! त्वं हि साक्षात् परं ब्रह्मैवं । सर्वत्र षष्ठीसप्तम्यौ निर्धारणे । अक्षराणां मध्येऽकारः, मन्त्रेषु तारः प्रणवः, त्वमिति योजनीयम् । मुनिष्विति । ब्रह्मर्षिषु भृगुः देवर्षिषु नारदः ॥ १ ॥ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्व त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित् प्रपञ्चे ॥२॥ ब्रह्मण्यानामिति । ब्रह्मण्यानां ब्राह्मणभक्तानाम् । बलिनां तेजस्विनामिति सम्बन्धे षष्ठी । यतस्त्वद्विभूतेरन्तो नास्ति अत एतदवधारयामि । विकसदति- शयं स्फुटप्रतीयमानातिशययुक्तं यद् वस्तु तत् सर्वं त्वमेव । किञ्च, त्वं जीवः, त्वं प्रधानं, प्रकृतिपुरुषौ त्वमेव । अतः प्रकृतिपुरुषात्मके इह अस्मिन् प्रपञ्चे तत् तादृशं किश्चिदपि नास्ति, यद् भवदृते त्वयतिरेकेण प्रतीयते। त्वमेवेदं सर्वमित्यर्थः ॥२॥ उक्तोपासनादावनधिकारिणामीश्वरार्पणेन स्वधर्मानुष्ठानाद् वैराग्यद्वारा मुक्तिरि. त्याहmpRISHAD धर्म वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्न निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ ३ ॥ धर्ममिति । वर्णानामाश्रमाणां च पृथक् पृथक् श्रुतिपथविहितं नित्यनैमि- त्तिकादिरूपं भक्त्या त्वत्परत्वेन ईश्वरार्पिततया कुर्वन्तः शनैरन्तर्विरागे विकसति प्रादुर्भूते सति सन्त्यजन्तः विहितानि कर्माणि विधिना त्यजन्तः परमहंसा भूत्वा विशुद्धं विषयाकारशून्यं त्वद्विबोधं त्वत्स्वरूपभूतं विबोधं परं ब्रह्मे परममहं परं ब्रह्मैवाहम् इति ३. 'के अ'ख. पाठः, १. 'व । अ' क. ग. पाठः. २. 'णे | मु' ख. पाट:. ४, 'तिवि' क. पाठ:. ५. 'बैवा' ख. पाठः , ३४८ नारायणीये अनेन प्रकारेण लभन्ते प्राप्नुवन्ति । ब्रह्मणस्तटस्थलक्षणमाह-विश्वमूलमिति। जग जन्मादिकारणमित्यर्थः । तदुपपादयति-अखिलपदार्थेविति । भिन्नेषु स्वभावतः पृथग्भूतेषु अखिलपदार्थेषु स्वमृष्टेषु कार्येषु अभिन्नं कारणरूपेणैकत्वेन स्थितं, कटककुण्डलादौ सुवर्णवत् । ननु तद्वत्सच्चिदानन्दं ब्रह्म खसृष्टेषु कार्येषु न दृश्यत इति चेद् दृश्यत एवेत्याह-सत्तेति । येयं भिन्नेषु घटपटादिषु घटः सन् पटः सन्नित्येकरूपा सत्ता प्रतीयते, या च भिन्नेष्वभिन्ना घटोऽयं पटोऽयमि- ति स्फूर्तिज्ञानमेकरूपं प्रतीयते, यच्च भिन्नेषु सकन्दनादिषु अभिन्नं प्रियत्वम् आनुकूल्यं सुखमिति यावत् , तानि सत्तास्फूर्तिप्रियत्वानि आत्मा स्वरूपं यस्य तदेव ब्रह्मेत्यर्थः । अत्र च भिन्नेष्वभिन्नमित्यनेन कार्यकारणानन्य- त्वोक्तेरद्वितीयत्वमप्युक्तम् । अतः सत्तास्फूर्तिप्रियत्वात्मकमिति च सच्चिदानन्दा- द्वयं ब्रह्मेति स्वरूपलक्षणमपि दर्शितम् । निर्मूलं निष्कारणं नित्यम् । अतस्तत् प्राप्तानां न पुनरावृत्तिरित्यपि सूचितम् ॥ ३ ॥ ननु भक्त्यैव कृतार्था इत्युक्तं प्राक् 'सन्ति श्रेयांसि' (दश. ९५. श्लो. ३)इत्या- दिना । किमिदानी कर्मज्ञानयोगोपादानमित्याशङ्कयाधिकारिभेदादित्याह- । ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्यापकं तत्र तावद् निर्विण्णानामशेषे विषय इह भवेद् ज्ञानयोगेऽधिकारः। सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥४॥ ज्ञानमिति । भवत्प्रापकं मोक्षसाधनम् । तत्र तेषु त्रिषु मध्ये । अशेषे विषये इहामुत्र सक्कन्दनादौ अमृतादौ इह शरीरे च निर्विण्णानां विरक्तानां ज्ञानयोगेऽधिकारो भवेत् । सक्तानामनिर्विण्णानां हि त्वयि विनिहितः ईश्वरे समर्पितः कर्मयोगः । ये तु मध्यस्थाः त्वयि ईश्वरे धृतरसा यदृच्छया त्वत्कथादौ जातश्रद्धाश्चेत्यर्थः। तेषाममीषां भक्तियोगः ॥ ४ ॥ । - 1. 'त' ख. पाठः. २. 'थे खलु बिषयरसे ज्ञा' क. पाठः. ३. 'तु' क. पाठः, दशकम्-९६] कर्मज्ञानभक्तिमार्गाधिकारिवर्णनम् । एतच्च त्रितयं मनुष्यशरीरसाध्यामिति तत्प्राप्तौ न कालक्षेपः कर्तव्य इत्यभिप्रा- येणाह- MANDU ज्ञानं वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात् तत्रैव जन्म स्पृहयति भगवन् ! नाकगो नारको वा । आविष्टं मां तु दैवाद् भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥५॥ ज्ञानमिति। त्वद्भक्ततां वा लघु अनायासेन । दैवात् सुकृतेन भवजलनिधी पोतवदाचरिते आविष्टं प्रविष्टं तु तरणोपायविधुरं मां गुरुमुपदेष्टारं कर्णधारं ना- विकं कृत्वा त्वं वातालयेशः स्वयमनुगुणवातवदाचरन् तारयेथाः पारं नय ॥५॥ तत्र साधनेषु भक्तिरेव सुगममार्ग इत्याह- अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि! भवत्प्रापको वर्धतां मे ॥ ६॥ अव्यक्तमिति । केवलज्ञाने लुब्धाः केवलं ज्ञानलुब्धा वा श्रुतिभिरुप- निषद्भिः नयैः मीमांसोक्तयुक्तिभिरपि अव्यक्तं ब्रह्म मार्गयन्तः विचारयन्तः अतीव क्लिश्यन्ते । बहुतरजनुषामन्त एव सिद्धिं फलमाप्नुवन्ति । कर्मयोगोऽपि च परमफले परमपुरुषार्थे मोक्षे दूरस्थः कालान्तर एव फलप्रदः क्लेशरूपश्च । पितृ- लोकसत्यलोकावाप्त्यादिरूपेण त्ववान्तरफलेन दूरस्थः । भक्तियोगस्त्वामूलात् श्रवणकीर्तनादिक्रमेणारम्भात् प्रभृत्येव हृयः त्वरितं भवत्प्रापकश्च । अयि भगवन् ! मम स एव वर्धताम् ॥ ६॥ उक्तमर्थ सदाचारप्रमाणेन द्रढयति- ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् गादं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराये।

नारायणीये स्किन्धः-११ । त्वयानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो- रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥७॥ ज्ञानायैवेति । ज्ञानायैव केवलं ज्ञानमेव प्राप्तुम् अतियत्नं बहुग्रन्थाभ्यासं मुनिर्वेदव्यासः अपवदते पुराणेषु तत्र तत्र प्रतिषेधति । किं तु ब्रह्मतत्त्वं सिद्धा- न्तसारमात्रं शृण्वन् युक्त्यानुसन्दधानः गाढम् अतिशयेन त्वत्पादे भक्तिं यः शरण- मयति तस्य मुक्तिः कराग्रे । जीवन्नेव मुक्त इति भावः । इह यमादिसहिते त्वयानेऽपि चित्तस्य चाञ्चल्याद्धेतोरसुकरता दुरनुष्ठेयता तुल्या। तदपि दुष्करमपि ध्यानं त्वत्कृपया त्वच्चारुतया श्रीमूर्तेः सौन्दर्येण चाभ्यासादाशु वशयितुं वशीकर्तु शक्यमित्यर्थः ॥ ७॥ निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते ! नैव शक्रोमि हातुम् । तद् भूयो निश्चयेन त्वयि निहितमना दोषबुद्धया भजस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्घ नश्यन्ति सङ्गाः॥८॥ निर्विण्ण इति । किञ्च, विषमतमे दुःखभूयिष्ठे कर्ममार्गे स्वर्गादौ निर्विण्णः विरक्तः त्वत्कथादौ जातश्रद्धश्च यद्यपि भवति, तथापि कामान् काम्यमानान् पुत्रमित्र- वित्तादीन् नैव हातुं शक्नोमि । तत् तस्माद् भूयः पुनः पुनः निश्चयेन त्वाय निहितमना भूत्वा दोषबुद्धया तान् कामान् भजन सेवमानः भक्तिमेव पुष्णीयाम्। एवं भक्त्या भजनेन त्वयि हृदयगते सङ्गा विषयश्रद्धाः मञ्जु झटिति नक्ष्यन्ति नाशं गमिष्यन्ति ॥ ८॥ भगवद्भजने मनोनिग्रहस्यावश्यकत्वाद् भिक्षुपुरूरवसोर्निदर्शनेन चित्तशान्ति प्रार्थयते द्वाभ्यां- कश्चित् क्लेशार्जितार्यक्षयविमलमतिर्नुद्यमानो जनौधैः प्रागेवं प्राह विमो न खलु मम जनः कालकर्मग्रहा वा। २. 'न भ' ख. पाठः.

दशकम्-९६] चित्तोपशमप्रार्थनावर्णनम् । चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत् सर्वकारी- त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो! तादृशीं चित्तशान्तिम् ।। कश्चिदिति । प्राक् पुरा काश्चिद् विप्रः महता क्लेशेनार्जितस्यार्थस्य क्षयेण चोरादिभ्यो जातेन नाशेन सन्तप्यमानो निर्विण्णः सन् विमलमतिः प्रव्रजन् पुनरपि नुद्यमानः पीड्यमानः सन्नेवं प्राह- अहं तावद् जनैः पीडित इव प्रतीये। न खलु मम जनो दुःखहेतुः, अस्य ममात्मनश्चैकत्वात् । न च कालः, तस्येश्वरा- त्मकत्वाद् , ममात्मनश्चेश्वरांशत्वात् , स्वांशस्य सतः पीडायोगाच्च । न च कर्म दुःखहेतुः, अचेतनस्य देहस्य चित्स्वरूपस्यात्मनश्च कर्मयोगात् । न ग्रहा दुःख- निमित्तं, यतो जन्मलग्नापेक्षया द्वादशाष्टमादिराशिस्थैर्ग्रहैः जनिमतो देहस्यैव पीडा न ममात्मनः । किन्त्वात्मत्वेनाभिमन्यमानं चेत एव मे दुःखहेतुः । तचित्तम् इह आत्मनि स्वगतं कर्तृत्वभोक्तृत्वादिरूपं गुणगणं भावयद् आरोपयत् सत् सर्वकारि सुरनरनारकीयादिशरीरभोग्यभोगस्थानादि सर्व करोतीति सर्वकारी- त्युक्त्वा शान्तः सन् त्वां गतः मुक्तो बभूव । मम च ममापि तादृशीं चित्तशान्ति "परस्य संसृतिश्चित्त्वादचित्त्वाद् मनसोऽपि न । मनोभिमानिनश्चित्त्वादचित्त्वाच्च परस्य सा॥" इति सिद्धान्तः ॥९॥ ऐलः प्रागुवंशी प्रत्यतिविवशमनाः सेवमानश्चिरंतां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत् तद्वदुडूर्य सङ्गं भक्तोत्तंसं क्रिया मां पवनपुरपते ! हन्त मे रुन्धि रोगान् ॥१०॥ ऐल इति । ऐलःप्रागुवंशीमित्यादि स्पष्टम् । प्राक् पुरूरवाः स्वयमागतामुवंशी सेवमानः पुनः समयभङ्गेन स्वर्लोकं गतां तां यज्ञैः प्राप्य चिरं सेवमानो निर्विद्य शान्तचित्तोऽभूदिति वेदपुराणप्रसिद्धिः ॥१०॥ इति भगवद्विभूतिवर्णनं कर्मज्ञानभक्तिमार्गाधिकारिवर्णनं चित्तोपशमप्रार्थनावर्णनं च षण्णवतितमं दशकम्। १. 'पि जनौधैर्नुद्य' क. म. पाठ:. २. 'त' ग. घ.. च. पाठः, ३५२ नारायणीये स्कन्धः-११ अथ गुणत्रयवृत्तिजयेन द्वन्द्वोपरमाय त्रैगुण्यविभागमाह- Meena त्रैगुण्याद् भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य- ज्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः। त्वत्क्षेत्रत्वन्निपेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्व पाहुनैर्गुण्यनिष्ठं तदनुभजनतो मक्षु सिद्धो भवेयम् ॥१॥ त्रैगुण्यादिति । इह भुवने ज्ञानादि यद् वस्तु तत् सर्वं त्रिगुणमयत्वाद् भिन्नरूपम् अत एव हीनमध्योत्तमं च भवति । तत्र सर्वभूतेष्वात्मन एकत्वज्ञानं सात्त्विकं, पृथक्त्वेन ज्ञानं राजसं, बालादितुल्यं ज्ञानं तामसम् । श्रद्धा चाध्यात्मिकधर्माधर्मविषयतया त्रिधा । कर्ता च वैराग्यरागाज्ञानभेदेन त्रिविधः । वनग्रामद्यूतसदनभेदेन वसतिरपि त्रिधा । आत्मानुभवसुखं विषयसुखं निद्राद्युत्थ- सुखमिति तच्च त्रिविधम् । ईश्वरार्पितकाम्यनिषिद्धभेदेन कर्मापि त्रिविधम् । शुद्धमिन्द्रियप्रेष्ठमशुचि चेत्याहारद्रव्यमपि त्रिविधम् । एतत् सर्वमीश्वरविषयतया निर्गुणं भवतीत्याह-त्वत्क्षेत्रेति । इह पुनस्त्वत्क्षेत्रत्वन्निषेवादि तु यत् तत् त्वत्परं न फलपरं चेद् भवति, तर्हि तत् सर्व नैर्गुण्यनिष्ठं निर्गुणं प्राहुः । तदनुभजनतो मक्षु झटिति मुक्तो भवेयम् ॥ १॥ ७ सम्प्रति श्रीकृष्ण! त्वत्पदोपासनम् ' ( दश. ९०. श्लो. १) इति प्रस्तुतं भागवतं धर्ममुपसंहरति द्वाभ्यां त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थ त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् । दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान- स्पर्धामयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥२॥ त्वय्येवेति । सर्वा विहिता अविहिताश्च चेष्टाः कर्माणि त्वदर्थ कुर्व- निति शेषः । त्वद्भक्तैः सम्प्रति सेव्यमानान् चरितचरान् तैरेव पूर्व सेवितान् । अथवा त्वद्भक्तैः सेव्यमानान् देशान् , तैश्चरितचरान् पुण्यान् पुण्यकर्माणीति विभज्य योजना । दस्यौ नीचे विप्रे उत्तमे मृगादिष्वपि । आदिशब्देन चण्डा- ।

दशकम्-९७] उत्तमभक्तिप्रार्थनावर्णनम् । लादिष्वपि सममतिः सन् । अत्रोपायमाह - मुच्यमानेति । ऐकात्म्यज्ञानबलेन मुच्यमाना अवमानस्पर्धासूयादयो देहाभिमानकृता दोषा यस्यैवम्भूतः सन् त्वाम् अखिलभूतेषु सततं संपूजये । अथवा सममतित्वस्यावान्तरफलमाह नेति । अवमानादिदोषनाश एवावान्तरफलम् ॥ २ ॥ मुच्यमा- एवं समदृष्टयोपासनस्यावधिमाह - त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं छुपास्ति कुर्वनैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । त्वद्धर्मस्यास्य तावत् किमपि न भगवन् ! प्रस्तुतस्य प्रणाश- स्तस्मात् सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्ग मनोज्ञम् ॥३॥ त्वद्भाव इति । एषु दस्युविप्रादिषु सर्वजन्तुष्वपि त्वद्भावः तवान्तर्यामिरू- पेणावस्थानं यावत्कालपर्यन्तं न विशदं स्फुरति न सम्यगनुभवपदवीमवतरति, तावत्कालपर्यन्तम् एवं हि पूर्वोक्तप्रकारेणैव उपास्तिं कुर्वन् त्यक्तलज्जश्च चण्डाला- दिभ्योऽप्यन्तर्यामिरूपेणेश्वरोऽत्र वर्तत इति दृष्ट्या नमस्कारादि कुर्वन्नित्यर्थः । ततश्च झटित्यैकात्म्यबोधे विकसति सर्वभूतेष्वेक एवात्मेति ज्ञानेऽनुभवरूपे सति अहं त्वन्मयश्चरेयम् । हे भगवन् ! त्वद्धर्मस्य भागवतधर्मस्यास्य प्रस्तुतस्यारब्धम्य तावद् आदित आरभ्य यावत्समाप्ति किमपि किञ्चिदपि प्रणाशो वैकल्यं न भवति यथा यागादेः । तस्माद् अनुष्ठानादिसौकर्याद् मम मनोज्ञं समीचीनं भक्तिमार्ग प्रेमलक्षणाया भक्तेः साधनरूपं भगवद्धमै सर्वात्मना तदपेक्षिताधिकाराङ्गादिसहितं प्रदिश, मां तत्राधिकारिणं कुर्वित्यर्थः ॥ ३॥ आरोग्यहीनो न कुत्रापि कर्मण्यधिकारीति तदेव प्रार्थयते priom तं चैनं भक्तियोगं द्रढयितुमयि! मे साध्यमारोग्यमायु- र्दिष्टया तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । वत्पर्य' ख. पाठ.. मा ३५४ नारायणीये स्कन्धः-११ मार्कण्डेयो हि पूर्व गणकनिगदितद्वादशाब्दायुरुच्चैः सेवित्वा वत्सरं त्वां तव भटनिवहै वयामास मृत्युम् ॥४॥ तं चैनमिति ।तं पूर्वोक्तम् एनम् उपसंहृतं भक्तियोगं साध्यसाधनरूपं गुढ. यितुं किञ्चिदारब्धं स्थिरीकर्तुम् अयि! भगवन् ! मे मम आरोग्यं बाह्यान्तररोगरा- हित्यम् आयुश्च साध्यम् । तत्र आयुरारोग्यनिमित्तमपि तव चरणं मया सेव्यम् । अहो दिष्ट्या साधनस्यापि सुखरूपत्वादहं कृतार्थो जातः । भेषजाय दुग्धमिव यथा सन्निपातज्वरादिनिवृत्तये पयः पातव्यं भवति, तथेत्यर्थः । नन्वायुषः प्रारब्धकर्म. नियमितत्वात् तदधिकस्य लाभः प्रार्थनयोपि न सम्भाव्यते इत्याशङ्कय मार्कण्डेय- दृष्टान्तेन परिहरति-मार्कण्डेय इति । ननु तस्य चिरायुष्वं प्राक् कल्पितं न तु भगवत्सेवया लब्धमिति चेद्, नेत्याह-गणकेति । गणकेन जातककोविदेन निग- दितम् उक्तं द्वादशाब्दायुः यस्य स पुनः 'अत्युत्कटैः पुण्यपापैरिहैन फलमश्नुत' इति न्यायेन संवत्सरं त्वाम् उच्चैस्तीत्रेण समाधियोगेन सेवित्वा द्वादशाब्दान्ते आत्मानं नेतुमागतं पाशदण्डहस्तं मृत्युम् अन्तकं तत्कालोपनतैः तव भटनिवहै: विष्णुदूतैः द्रावयामास पलायनमकारयत् ॥ ४ ॥ ६४ ॥ इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायाम् एकादशस्कन्धपरिच्छेदः। आदितः श्लोकसङ्ख्या ९९८. 'ने प्रस्तुतं द्र' स. पाठः. २. 'या न क. पाठः, S अथ द्वादशस्कन्धपरिच्छेदः। मुक्तानां सच्चिदानन्दब्रह्मरूपतया स्थितिः। द्वादशस्था हरेर्लीला सम्प्रति प्रतिपाद्यते ॥ इदानी मार्कण्डेयकथाप्रसङ्गेन तस्य तपसा विष्णुमायाशिवदर्शनादिचरित्रक- थनमिषेणाधिकारिणो योगत्रयेण ब्रह्म प्राप्तस्य ब्रह्ममात्रतयावस्थानं निरूप्यते- मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा- तीरे निन्ये तपस्यन्नतुलसुखरतिः षद् तु मन्वन्तराणि । देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरशकत् त्वज्जनं निर्जयेत् कः ॥५॥ मार्कण्डेय इति । स खलु पुनरपि चिरायुष्ट्वे लब्धेऽपि त्वत्परो भगवद्भजन- परोऽभूत् । अत्र हेतुः-अतुलसुखरतिरिति । निरतिशयसुखरूपे त्वद्भजने रतिः श्रद्धा यस्य सः पुष्पभद्रातीरे हिमवदुत्तरपार्श्वे यस्यास्तीरे चित्रशिला नाम शिला भद्रवटो नाम वटश्चास्ति, तस्याः पुष्पभेद्रानामनद्यास्तीरे तपस्यन्नेव षड् मन्वन्त- राणि एकसप्ततिचतुर्युगलक्षणानि निन्ये । देवेन्द्रः सप्तम इति मन्वन्तरेष्विन्द्रादीनां व्यत्यासं दर्शयति । सप्तमे मन्वन्तरे यः सप्तमो देवेन्द्रः सोऽयं तपसा स्वधाम जिघृक्षतीति भिया तं मार्कण्डेयं सुरयुवतिभिः अप्सरोभिः मरुता वासन्तेन मारुतेन मन्मथेन च मोहयिष्यन् योगस्य तपस ऊष्मणा प्लुष्यमाणैः दह्यमानैस्तैः सुरयुव- त्यादिभिः न तु पुनरशकत् तं मोहयितुमशक्तोऽभूत् । त्वज्जनं त्वद्भक्तं को निर्ज- येद् न कोऽपि । अहो मोहो देवेन्द्रस्यापीति भावः ॥ ५ ॥ प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्व तुष्टया तोष्ट्रयमानः स तु विविधवरैलॊभितो नानुमेने । द्रष्टुं मायां त्वदीयां किल पुनरवृणोद् भक्तितृप्तान्तरात्मा मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः॥६॥ १. 'पं त्वद्भजनमिति तत्रैव र' क. ग. पाठः, नारायणीये [स्कन्धः-१२ पीत्येति । तत्तपसा जातेन प्रसादेन नरसखो नारायणाख्यस्त्वमस्य पार्श्व प्राप्तवान् । अथ अनन्तरं स तु तुष्या तोष्ट्रयमानः पुनः पुनरतिशयेन वा स्तुति कुर्वन् त्वया विविधैर्वरैः प्रलोभितो नानुमेने न तान् वरानवृणोत् । अत्र हेतु:- भक्तितृप्तान्तरात्मेति । भक्त्या तव भजनेनैव तृप्तः पूर्णः अन्तरात्मा मनो यस्य । किञ्च, त्वदीयां मायां द्रष्टुमवृणोच । कोहि नाम दुःखदात्री मायां वृणुयात् । अतोऽस्मिन्नसम्भावनीयमेतदिति किलशब्दार्थः । अथवा मायया यद् दुःखं, तद- नभिज्ञो जन्मप्रभृति । अत आश्चर्यहेतोः अननुभूतस्य दर्शने ह्याश्चर्य भवति, अतः तदपि मायादुःखमपि मृगयते अनुबुभूषति नूनम् इति तर्कयामि ॥६॥ याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्ण- त्सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः । दीनः प्रैक्षिष्ट दूरे वटदलशयनं कश्चिदाश्चर्यवालं त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥७॥ यात इति । त्वयि नरनारायणाख्ये आशु तस्य मायाँदर्श प्रार्थनानन्तरमेव याते बदरिकाश्रमं प्रति गते सति । वातेन आकुलेभ्यः इतस्ततश्चलितेभ्यो जल- देभ्यो गलता तोयेन पूर्णैः अत एव अतिघूर्णद्भिः उपर्युपरि प्रसर्पद्भिः सप्तार्णोरा- शिभिः जगति मग्ने सति स तु मार्कण्डेयः वर्षकोटीः जले सम्भ्रमन् दीनो वटदलशयनं कञ्चिदाश्चर्यबालं दूरे प्रैक्षिष्ट ॥ ७ ॥ दृष्ट्वा त्वां दृष्टरोमा त्वरितमभिगतः स्पष्टुकामो मुनीन्द्रः श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् । भूयोऽपि श्वासवातैहिरनुपतितो वीक्षितस्त्वत्कटाक्ष- र्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥८॥ दृष्ट्वेति। श्वासेनान्तः प्रविष्टो विष्टपौघं चतुर्दशभुवनात्मकं जगद् दृष्टवान् । । १. 'को नाम दु:खदां मा' ख. पाठः. २. 'र्थः । आख. पाठ:. ३. 'या' क. पाठ:. ४. 'ति यतः, अ' क. पाठः. ५. 'यात्रा' क. पाठः. ६. 'नवरणान' ख. पाठः, ५. 'मुपग' ग, घ. इ. च. पाठः, दशकम्-९७] मार्कण्डेयस्य परमेश्वरप्रसादवर्णनम् । पुनश्च बहिरनुपतितः त्वयि पिहिततनौ अन्तर्हिते सति स्वाश्रमे पुष्पभद्रातीरे प्राग्वद् यथास्थानं स्थितश्चासीत् । अत्र च मायायाः स्वरूपतः प्रदर्शनस्या- शक्यत्वाद् भगवता कार्यमुखेन दर्शितेति द्रष्टव्यम् ॥ ८॥ अथ विष्णुभक्त्या सन्तुष्टस्य शिवस्यानुग्रहप्रकारमाह- गौर्या सार्धं तदने पुरभिदथ गतस्त्वत्मियप्रेक्षणार्थी सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा- न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥९॥ गौर्येति । तस्य मार्कण्डेयस्य अग्रे पुरतः। अस्य स्वयं सिद्धान् स्वतपः- प्रभावेणैव प्राप्तान अजरामृत्युतादीन् , आदिशब्देन विष्णुभक्तियशोज्ञानविज्ञानपु- राणाचार्यतादीन् वरान् दत्त्वा अयं शिवः गतोऽभूत् । अनेन च विष्णोः सर्वेश्वरत्वं सिद्धमित्याह-एवमिति । त्वं विष्णुः सकलनियन्ता सर्वेश्वर इति सुव्यक्तं निश्चितमासीत् । अत्र हेतुः-मूर्तित्रय्यात्मकस्त्वं नन्विति । मूर्तित्रयी ब्रह्म- विष्णुगिरीशाः तदात्मकः तत्स्वरूपः । अत्र हेतु:-त्वत्सेवयेति । स स्मर- रिपुरपि त्वत्सेवयैव प्रीयते येन तस्माद् विष्णोरेव कार्यनिमित्तमवस्थाभेदो मूर्तित्रयमित्यभिप्रायः ॥ ९ ॥ ननु शिवस्यावस्थाभेद इति किं न स्यादित्याशङ्कय स्थानभेदेन विष्णो- स्तेभ्यो व्यतिरेक ऐक्येऽपि सम्भवतीत्याह--- त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्व तेभ्योऽप्यूर्व तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः । तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चिद्ब्रह्माद्वयात्म पवनपुरपते! पाहि मां सर्वरोगात् ॥१०॥ व्यंश इति । त्रयो ब्रह्मविष्णुशिवलोकरूपा अंशा लोकाः यस्मिन् स त्र्यंशः, तस्मिन् सत्यलोके ऊर्ध्वमूर्ध्वमिति प्रथमं ब्रह्मलोके विधिमन्दिरं, तदु- ३५८ नारायणीये परि विष्णुलोके विष्णुमन्दिरं, तदुपरि शिवलोके शिवमन्दिरमिति । तत्रस्थाः सृष्टिस्थितिसंहारकर्तारस्त्रिमूर्तयः । तेभ्योऽप्यूज़ तु ब्रह्माण्डाद् बहिः । अत एव मायाविकृतयः महदहङ्कारादयः षोडशविकाराः, तैर्विरहितः शुद्धसत्त्वगुणमयो वैकुण्ठलोको भाति । तत्र वैकुण्ठलोके कारणाम्भसि आवरणोदके पशुपकुले नन्द- गेहेऽपि त्वं शुद्धसत्त्वैकरूपी तत्स्वच्छतयावरणाभावात् सच्चिद्ब्रह्माद्वयात्मा सच्चि- दानन्दाद्वयब्रह्मवपुरेव त्वम् । अतः सर्वरोगान्मां पाहि मोचयेति ॥१०॥ इत्युत्तमभक्तिप्रार्थनावर्णनं मार्कण्डेयस्य प्रलयप्रदर्शनवर्णनं, परमेश्वरप्रसादवर्णनं च सप्तनवतितमं दशकम्। एवं स्तुत्यस्य विष्णोर्निप्कलत्वं प्रसाध्य तद्रूपेण स्तौति- यस्मिन्नेतद् विभातं यत इदमभवद् येन चेदं य एतद् योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण! तस्मै नमस्ते ॥१॥ यस्मिन्निति । हे कृष्ण ! तस्मै सच्चिदानन्दस्वरूपाय ते नमः। ननु स्तूयतां, किं नमस्कारमात्रेणेत्यत्राह-यस्येति । देवा मुनीन्द्रा अपि यस्य तत्त्व- रूपं, तदिति सर्वनाम, सर्व च ब्रह्म, तस्य भावस्तत्त्वं ब्रह्मत्वं, तद्रूपं न विदुः । के पुनरत्र वयं ज्ञातुं स्तोतुं वेति भावः । दुर्जेयत्वमेवाह-यो वाचामिति । लौकिकानां वैदिकानामपि वचसां दूरदूरे, वाच्यवाचकसम्बन्धाभावात् । पुनर्मन- सामपि दूरदूरे । अत्र हेतुः--यस्य भासा चिच्छक्त्या सकलमिदं जगद् भासितं प्रकाशितम् । यत्प्रकाशेन लब्धसत्ताकं मनआदि, तेन तत्प्रकाशनमशक्यमित्यर्थः । तर्हि ज्ञातुमशक्यत्वादसदेवेदमित्यत्राह—यस्मिन्निति । यस्मिन्नधिष्ठाने एतद् जगद् विभातं तिष्ठति । यतो निमित्तोपादानकारणभूतादिदं जगदभवत् । येन इदं जगद् , चकारादैक्यं याति लीयत इत्यर्थः । अतो जगत्कारणत्वाद् एतद् जगद् यः यद्रूपः ईश्वर एव जगदात्मना भाति । अतो जगदात्मना प्रतीतस्य सिद्धौ न प्रमाणान्तरापेक्षेति भावः । नन्वीश्वरस्य जगदात्मत्वे विकारित्वप्रसङ्ग । । 1. 'पुरभिल्लोके पुरभित्पुरमि' क. ग. पाठः.

दशकम्-९८] सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् । इति चेद् , नेत्याह----योऽस्मादिति । अस्माद् आत्मन्यविद्याकल्पिताज्जगतः उत्तीर्ण व्यतिरिक्तं रूपं यस्य ॥१॥ एवमीश्वरस्य जगत्कारणत्वमुपपाद्य अनन्तरं जगदनुग्राहकत्वमाह--- जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतये यः स्वयमनुभजते तानि मायानुसारी । विभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो ! नमस्ते ॥ २ ॥ जन्मेति । जन्म श्रीकृष्णाद्यवतारः अथो अनन्तरं कर्म कंसहननादि नाम जन्मकर्मनिमित्तम् । गुणदोषाः निग्रहानुग्रहादयः । आदिशब्देन पुत्रमित्रादयः। एतानि यस्मिन् स्फुटं परमार्थतो न सन्ति, तथापि लोकानामूतये जगदनुग्रहाय मायानुसारी तानि जन्मकर्मादीनि स्वयम् अनन्याधीनस्वभावः सन् अनुभजते अङ्गीकरोति अपिच शक्तीः विद्याविद्याज्ञानेश्वर्यादिलक्षणाः बिभ्रत् स्वयमरूपो निर्गु- णोऽपि स्थावरजङ्गमभेदेन सुरनरतिर्यगादिभेदेन च बहुतररूपश्चावभाति, अतो- द्भुतात्मा आश्चर्यस्वरूपः, तस्मै जगदनुग्राहकाय पररसेन परमानन्देन परिपूर्णाय अत एव कैवल्यधाम्ने मोक्षप्रदाय ॥ २ ॥ ननु बहुतररूपत्वे कथमरूपत्वमित्याशङ्कय तत्स्वरूपस्य सर्वद्वैतनिषेधाव- धित्वेनोपपादयति HITRINAR नो तिर्यञ्चं न मयं न च मुरमसुरं न स्त्रियं नो पुमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद् वापि ते रूपमाहुः। शिष्टं यत् स्यानिषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कुच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ ३ ॥ १.पो विभा क. ग. पाठः, नारायणीये [स्कन्धः-१२ नो तिर्यञ्चमिति । ते तवेश्वस्य रूपं परब्रह्म नो तिर्यञ्चं न पशुपक्ष्यादि- कमाहुः आगमास्तद्विदो वा । न मयं मनुजं सुरं देवम् असुरं न स्त्रियमिति । स्त्रीपु- नपुंसकभेदेन त्रिप्रकारं शरीरमुच्यते । द्रव्यं विषयान् । कर्म कर्मेन्द्रियाणि । जाति ब्राह्मणत्वादि । गुणं ज्ञानेन्द्रियाणि । सद् अन्तःकरणम् । असद् अव्यक्तम् । देवादीनां परिच्छिन्नत्वेन देहादीनां जडत्वेन चैतानि न ते स्वरूपमाहुः, किन्तु निगमेनैवं निषेधे सति यत्तच्छिष्टम् अवधिभूतं स्यात् । अत एव निगमशतैः उपनिषद्भिः कृच्छ्रेण वाच्यवाचकसम्बन्धं विना लक्षणावृत्तित आवेद्यमानं प्रतिपाद्यमानं परमसुख- मयं परमानन्दरूपं भाति च । अत्र निषेधवाक्यस्य मुख्यार्थस्य निषेधे बाधितत्वात् तदवधिभूतेऽर्थे या वृत्तिः , सा लक्षणावृत्तिः । तथा प्रतिपाद्यमानं सद् अहं ब्रह्मा- स्मीति निष्कर्मतया त्वत्स्वरूपभूतं परं ब्रह्म प्रकाशत इत्यर्थः ॥ ३ ॥ अथ निषेधशेषस्याशेषत्वमशेषसाक्षित्वेन प्रतिपादयति- मायायां विम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै- भूतग्रामेन्द्रियायैरपि सकलजगत् स्वमसङ्कल्पकल्पम् । भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥४॥ मायायामिति । स्वस्मात् पृथगवस्थितायां मायायां चिच्छक्त्या प्रतिबि- म्बितस्त्वं महत्तत्त्वेन अहङ्कारभेदैः राजसतामससात्त्विकैः शब्दस्पर्शरूपरसगन्धा इति पञ्चतन्मात्रभेदैः भूतादिभिः एकादशेन्द्रियैः आदिशब्देन प्राणादिभिरपि सकलं जगत् सृजसि । स्वप्नसङ्कल्पकल्पमिति आगमापायित्वात् स्वप्नसङ्कल्पवदयं जाग्रत्प्रपञ्चो मिथ्येत्यर्थः । भूयः पुनश्च यथा कूर्मश्चिरं विहृत्य भूयः स्वपदानि स्वस्मिन् संहृत्य तूष्णीं भवति, एवं कालशक्त्या सर्व संहृत्य आत्मना स्वस्वरूपे- व भासि । एवञ्चादावन्ते चासत्त्वात् प्रपञ्चस्य मध्येऽपि मिथ्यात्वमुक्तम् । ईश्वरस्यादिमध्यान्तेषु प्रपञ्चप्रकाशकत्वेन सत्त्वात् साक्षित्वं नित्यत्वं चोक्तम् । ननु १. धबार क. ग. पाठः२. ध्यावसानेछ । क. ग. पाठः, शासन ।

दशकम्-९८] सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् । ३६१ सर्वविनाशे ईश्वरस्यापि नाश इति किं न स्यादित्यत्राह-गम्भीर इति । गम्भीरे अप्रतक्ये तमसि सुषुप्तौ जायमान इति । अयमभिप्रायः--सर्वसंहारे सुषुप्तौ सति सकलजगन्निदानभूतमज्ञानं तमश्शब्दवाच्यं न लयं गच्छति, अन्यथा जगत: पुनरुत्पत्त्यभावात् , सुखमहमस्वाप्सं न किञ्चिदवेदिषमित्युत्थितस्य परामर्शानुपप- तेश्चेति । एवञ्च तदापि वितिमिरः नित्योदितानस्तमितप्रकाशरूपतयाज्ञानसाक्षि- त्वेन भासि । द्रष्टुभावे दृश्यासिद्धरित्यभिप्रायः । य एवम्भूतः, तस्मै नमस्ते ॥४॥ नन्वीश्वरस्य जगत्कारणत्वमसिद्धं वादिविप्रतिपत्तेरित्याशङ्कायां संज्ञाभेद एव विप्रतिपत्तिः न संज्ञिनीत्याह - शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् ! काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदान्तर्यत् तु गीतं पुरुषपरचिदात्माभिध तत् तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण! तस्मै नमस्ते ॥५॥ शब्दब्रह्मेति। त्वामेकमेव शब्दब्रह्मेत्यादिभिः शब्दैः विश्वहेतुं जगत्कार- णमालपन्ति वादिनः । शब्दब्रह्म जगत्कारणमिति केचिदालपन्ति, केचित् कर्म जीवादृष्टमिति, अन्ये परमाणुरिति, अपरे काल इति । एषां शब्दानां त्वमेक एवाभिधेय इति भावः । अत्र हेतु:- सकलमयतया तव सर्वात्मकत्वेन । सर्वथा तत्तद्दर्शनानुसारेण शब्दब्रह्मादिरूपेण तवैव कल्प्यमानत्वादित्यर्थः । सिद्धान्तमाह-वेदान्तैरिति । वेदान्तैस्तु यत् पुरुषपरचिदात्माभिधं तत्त्वं, तत्तु प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृद् गीतमित्यन्वयः । अत्र पुरुषः ‘मायायां बिम्बि- तस्त्वम्' (श्लो. ४) इति प्रागुक्तंः, परः मायासम्बन्धरहितः, चिदिति शुद्धचैतन्यम् , आत्मा सर्वानुगतः । पुरुषादिशब्दा अभिधा यस्य तत् तथा । तत्तु तदेव तत्त्वं परं ब्रह्म प्रेक्षामात्रेण मायाप्रेरणमात्रेण मूलप्रकृतिर्माया, तस्या विकृतिः कार्य जगत् , तत् करोतीति तथा । ननु प्रकृतेः कार्य कथं ब्रह्म करोतीति । उच्यते । यथा राजा प्रेक्षणमात्रेण सन्निधिं प्राप्तया प्रतीहार्या कर्म करोति, तद्वत् स्वसमवेतक्रिया- । । १. 'शः किं न. पाठः, २. 'ययाति' ख. पाठः. ३. 'ति । एके वादिन- स्त्वां शब्दब्रह्म ख. पाठः ४. 'त्याल' ख. पाठः. ५. 'तू जी' ख. पाठः, ६. 'तत्युिच्यते । उच्यत एव । य' ख, पाठः, ३६२ नारायणीये [स्कन्धः-१२ ! । फलशालित्वलक्षणमुख्यकर्तृत्वं विना प्रकृतिमुखेनेश्वरस्य जगत्कर्तृत्वमिति भावः । हे कृष्ण ! य एवं, तस्मै ते नमोऽस्तु ॥ ५ ॥ ननु केयं मूलप्रकृतिरित्याशङ्कय सदसत्त्वाभ्यामनिर्वचनीया विद्याविद्यात्मि- केश्वरस्य शक्तिरित्याह- सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद् विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यसबस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥६॥ सत्त्वेनेति । यस्येयमविद्या तज्ज्ञाने सति निवर्तते । अतः सतीति वक्तुम- शक्या, सत्तास्फूर्त्यनुपपत्तेः । नासती च, एकैव सती असती चेति नितरामनु- पपन्ना विरोधात् । अतोऽविद्या सत्त्वेनासत्तया सदसत्त्वेन वा न निर्वाच्यरूपा निष्कृष्य वक्तुमशक्यं स्वरूपं यस्याः सा तथा । तर्हि नास्तीति चेद् , नेत्याह- असाविति । 'अहमज्ञ' इति सर्वानुभवसिद्धतया तदनवकल्पनमशक्यमिति भावः। यासावविद्या गुण फणिमतिवद् रज्जुसर्पभ्रान्तिवद् विश्वदृश्यस्य सकलजगतः अवभासं जीवस्य संसारदुःखनिवासभूतं शरीराद्यहम्ममाभिमानादिरूपं धत्ते करोतीत्यर्थः । यस्येश्वरस्य कृपायाः स्यन्दः प्रवाहः, तस्य लाभे सति सैव अविद्या श्रुतिवचनलवैः वेदान्तवाक्यलेशैः, श्रवणमात्रेणेत्यर्थः, विद्यात्वं याता विद्यारूपिणी भूत्वा संसाररूपस्यारण्यस्य वनस्यातिनिशिततया सद्यः शीघ्रं त्रुटने खण्डने परशुतामेति, तस्मै नमस्ते ॥१॥ एवं प्रकृत्यधिष्ठितस्य ब्रह्मणो जगत्कारणत्वमुक्तम् । अथ तदनन्यत्वेन जगदात्मत्वमुच्यते-- भूषासु स्वर्णवद् वा जगति घटशरावादिके मृत्तिकावत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद् विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण ! तस्मै नमस्ते ॥७॥ १. 'रश' क. ग. पाठः. २.त्मकत्वक.ग. पाठः, दशकम्-९८] सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्यादिनिरूपणम् । ३६३ भूषास्विति । ते तद् जगत्कारणभूतम् अद्वितीयं परब्रह्माख्यं वपुः स्वरूपम् (अधुना) अद्यापि जगतः स्थितिकालेऽपि जगति जगद्विषये स्फुरति । नन्विदं ब्रह्मेति कस्यापि नानुभव इत्यत्राह- तत्त्व इति । तत्त्वे परमार्थे सञ्चिन्त्यमाने विचार्यमाणे । ब्रह्म उपादानं, जगत् तत्कार्य, कार्यकारणयोरनन्यत्वं च शास्त्रे स्थितम् इत्यनुसन्दधतो ब्रह्मैवेदं सर्वमिति स्फुरणं सम्भवत्येवेति भावः । अत्र दृष्टान्तमाह -- भूषास्विति । कटककुण्डलादिषु यथा स्वर्ण स्फुरति, यथा वा घटशरावा- दिके मृत्ति का, स्वर्णादिभिः क्रियमाणेषु कार्येषु कटकादिषु स्वर्णमेवेदमित्यनु- भवरूपा प्रतीतिरुदेति, तद्वदित्यर्थः । किञ्च, विद्यालामे ब्रह्मज्ञाने सति अविद्यास्तमयात् स्फुटं विकसेदपि प्रपञ्चाकारपरित्यागेनाखण्डं ब्रह्मेति प्रकाशेत चेत्यर्थः । अत्र दृष्टान्तः-स्वप्नेति। स्वप्नद्रष्टुः प्रबोधे सति यद्वदज्ञानकल्पित- प्रपञ्चलयः, यद्वच दीपादिना तिमिरलयविधौ जीर्णरजोर्ज्ञानेन तदज्ञानकल्पित- सर्पलयः, तथैवेत्यर्थः । हे कृष्ण! यस्य ते वपुरुक्तप्रकारेण विकसेत् , तस्मै नमस्ते इति योजना ॥७॥ एवं सप्रपञ्चनिष्प्रपञ्चभेदेन तत्स्वरूपं स्तुत्वा सर्वनियन्तृत्वेन स्तौति- , AMIDARSHAN यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् । येनैवारोपिताः प्राङ् निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण! कुर्मः प्रणामम् ॥८॥ । यद्भीत्येति । यस्माद् भीत्या सूर्य उदेति । उचितबलीन् यथाधिकार विहिताः पूजा आहरन्ते प्रयच्छन्ति । ते पद्मजाद्याः येन प्राङ् निजपदं सत्यलो- कादि आरोपिताः प्रापिताः, पश्चाद् द्विपरार्धाद्यवसाने येन च्यावितारः च्युति प्रापिताश्च भविष्यन्ति, तस्मै विश्वं नियन्त्रे ब्रह्मादीनामपि नियामकाय सर्वेश्वराय वयमपि भवते हे कृष्ण! प्रणाम कुर्मः ॥८॥ १. “ति स्फु' ख पाठः. २. 'भिः कार्यस्य कर्तव्यस्य कटकादिभिः क्रियमाण- त्वात् स्व' क. पाठः, 'भिः कार्यस्य कटकादिभिः क्रियमाणत्वात् स्व' ग. पाठ:.

नारायणीये [स्कन्धः-१२ किश्च, त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं व्यक्षरस्यैकवाच्य त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं विक्रमंक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥९॥ त्रैलोक्यमिति । इदं त्रिगुणमयं सत्त्वरजस्तमस्तारतम्येन विलक्षणं त्रैलोक्यं भावयन्तं नियमेन सृजन्तं व्यक्षरस्य प्रणवस्य एवं प्रधानं वाच्यम् अभिधेयं त्रशिानां त्रिमूर्तीनाम् ऐक्यं स्वरूपं यस्य तम् । ब्रह्मा विष्णुश्च रुद्रश्च परस्यैव विभूतयः" इति वचनात् । त्रिभिनिगमैः त्रय्या गीयमानं प्रतिपाद्यमानं रूपं यस्य । तिस्रोऽवस्थाः जाग्रत्स्वप्नसुषुप्तयः, ता वेत्तीति विदन् अवस्थात्रयसाक्षी तम् । कृतयुगे प्रजानां कृतकृत्यतयावतारप्रयोजनाभावादितरेषु त्रिषु त्रेताद्वापरकलि- युगेषु जनिम् अवतारं जुषत इति तथा । त्रिभिः क्रमैः पदविक्षेपैः कान्तम् आक्रान्तं विश्वं येन । त्रैकाल्ये भूतभविष्यद्वर्तमानेषु कालेषु भेदहीनम् अद्वितीयं, जायते- ऽस्तीत्यादिषड्भावविकारहीनं वा। एवम्भूतं त्वाम् अहमनिशं त्रिभिर्योगभेदैः कर्मज्ञानभक्तियोगैः भजे ॥९॥ किञ्च, सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीह निर्द्वन्दं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तनिरवधिमहिमोल्लासि निर्लीनमन्त- निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ १० ॥ सत्यमिति । तव तद्वपुः स्वरूपं जयति आविर्भूतनिरतिशयोत्कर्ष प्रका- शते । सत्यादीनि वपुर्विशेषणानि । सत्यं परमार्थसत्यम् असतः सत्ताप्रदत्वात् । विबुद्धं स्वप्रकाशसिद्धम् । मुक्तावस्थाया जन्यत्वेऽसत्यत्वप्रसक्तेः नित्यमुक्तम् । निरीहं 'मा' क. ग. पाठ... २. "त्वेऽनित्य' क. ग. पाठः, दशकम्-९९] भगवन्महिमानुवर्णनम् । कर्तृत्वभोक्तृत्वादिरहितम् । निर्द्वन्द्वम् अद्वितीयम् । निर्विकार परिणामादिविक्रियार- हितम् । निखिलानां ये गुणगणाः क्षमासत्यदयैश्वर्यादयः, तेषां व्यञ्जनम् उत्पत्तिः, तदाधारभूतम् । यदुपासने हि महागुणानामुत्पत्तिः । निर्मूलं निष्कारणम् । निर्मलं रागादिदोषहीनं, चित्प्रकाशत्वाद् निरस्ताज्ञानम् । निरवधिमहिमोल्लासि कालदे- शापरिच्छिन्नवैभवयुक्तम् । निस्सङ्गानां मुनीनामन्तः समाधौ निर्लीनं प्रतिष्ठितम् । निरुपमः परमानन्दः सान्द्रः प्रकाशः सान्द्रावबोधश्च यास्मन् ॥ १० ॥ अथोक्तरूपं परं ब्रह्म प्राप्तानां न पुनः संसार इत्यभिप्रायेण कालचक्रपरिभ्रम- भयनिवृत्तिं प्रार्थयते- दुर्वारं द्वादशारं त्रिशतपरिमिलत्पष्टिपर्वाभिवीतं संभ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्ब विष्णो! कारुण्यसिन्धो! पवनपुरपते! पाहि सर्वामयौघात् ॥११॥ दुर्वारमिति । हे विष्णो! ते कालचक्रं संवत्सरात्मकं चक्रं न तु मां व्यथयतु संसारदुःखं मा कार्षीत् । कीदृशं, दुर्वारं केनाप्यनिवारणीयम्। संव- त्सरस्य द्वादश मासाः, तदात्मकद्वादशशिखरयुक्तम् । त्रिशतपरिमिलत्पष्टया षष्ट्युत्तरशतत्रयेण दिनैः पर्वभिर्धारासन्धिभिः अभिवीतम् अभिव्याप्तम् । संभ्राम्यद् बंभ्रम्यमाणम् । क्रूरवेगं क्षणमनु प्रतिक्षणं जगदाच्छिद्य आदायादर्शनं नेतुं सन्धावमानम् ॥ ११ ॥ इति सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् अष्टनवतितम दशकं सैकम् । अथ नवभिः श्लोकैर्भगवन्महिमा वर्ण्यते- विष्णोर्याणि को वा कथयतु धरणेः कश्च रेणून् मिमीते यस्यैवाघ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पन् ।

नारायणीये [स्कन्धः-१२ योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः॥१॥ विष्णोरिति । वीर्याणि महिम्नः को वा कथयतु गणयेद्, न कोऽपि । कश्च धरणेः रेणून मिमीते । तदपि न कोऽपि । यस्य विष्णोः अघित्रयेण त्रिभिः पदन्यासैः त्रिजगत् त्रैलोक्यम् अभिमितं परिच्छिन्नम् । अतो बलेरादाय स्वभुज- गुप्ततया पूर्णसम्पद् मोदते सन्तुष्टसकलजनं च वर्तते । किञ्च, योऽसौ विष्णुः विश्वानि सर्वलोकं धत्ते योगैश्वर्येण धारयति, तस्य प्रियं धाम वैकुण्ठम् अभिया- याम् अहं प्राप्नुयां, यत्र तद्भक्ता माद्यन्ति । अमृतरसो मोक्षसुखं, तद्रूपस्य मर- न्दस्य मधुनो यत्र वैकुण्ठे प्रवाहः सर्वतो निष्यन्दः ॥ १ ॥ आद्यायाशेषकत्रे प्रतिनिमिषनवीनाय भत्रे विभूते- भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ । कृष्णायं जन्म यो वा महदिह महतो वर्णयेत् सोऽयमेव प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमन्ते पदं तत् ॥२ आद्यायेति । आदौ भवाय अत एव अशेषकर्ने सर्वकारणाय प्रतिनिमि- षनवीनाय उपासकानां नित्यनूतनाय विभूतेः श्रियः भनें । प्रेमलक्षणभक्तियुक्त आ- त्मा मनो यस्य सः । यस्तथाभूतः उक्तरूपाय विष्णवे यज्ञाचनादौ हविरादीनि प्रदिशति, यो वा महतो विष्णोः महत् पूजनीयं कृष्णाद्यं जन्म अवतारं वर्णयेत् , सोऽयं भक्त एवेह यथेष्टसुखानुभवेन प्रीतः यशोभिः पूर्णः अन्ते शरीरपाते त्वरि- तं जन्मान्तरविलम्बमन्तरेण तत् पदं वैकुण्ठलोकम् अभिसरेत् प्राप्नुयाद्, नान्यः॥ यत एवम् , अतस्तमेव स्तुवीध्वमित्याह RAJanwar हे स्तोतार!! कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः । 'ते' क. गपाठः दशकम्-९९] भगवन्महिमानुवर्णनम् । ३१७ जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं हे विष्णोः कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥ हे स्तोतार इति । इह ये कवीन्द्राः काव्यकुशलाः अत एव स्तोतारो राजा- दिवर्णनपराः, ते खलु यूयं यथा चेतयध्वे अवगच्छथ, तथैव जननैरवतारैः उपात्ता- भिरङ्गीकृताभिः लीलाभिः तं विष्णुं प्रणुवत स्तुतिं कुरुत । व्यक्तं प्रमाणसिद्धं वेदस्य सारं प्रधानप्रतिपाद्यम् । हे जानन्तः! परमार्थज्ञाः! अस्य विष्णो मान्यखि- लसुखकराणि मोक्षप्रदानीत्यतः सङ्कीर्तयध्वम् । हे विष्णोः महतस्तव कीर्तनाद्यैः खलु तत्त्वबोधं तत्त्वज्ञानं भजेयम् ।। ३ ॥ किञ्च, विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानवनाद् यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत् क्षेमकारी। वीक्षन्ते योगसिद्धाः परपदमनिशं यस्य सम्यक्प्रकाशं विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच निर्भासयन्ते ॥४॥ विष्णोरिति। यूयं विष्णोः कर्माणि चरितानि मनसि सदा संपश्यत चिन्तयत। स विष्णुः यैः दुष्टनिग्रहविद्यास्थापनलोकसंग्रहणरूपैः कर्मभिः धर्मान् अभ्युदयनिः- श्रेयसार्थान् अबध्नात् तत्तदधिकारिभिः संयोजयामास, तानि कर्माणि संपश्यतेत्यर्थः । एष विष्णुरिन्द्रस्य त्रैलोक्यरक्षायामात्मनाधिकृतस्य भृत्य इव, इन्द्रकर्तृकस्य जग- द्रक्षणस्य तदशक्ते : स्वयं करणात्। अत एव महतोपकारेणास्य प्रियसख इव च भगवान् यानि कर्माणि व्यातनोत् चकार । क्षेमकारी एवं जगद्रक्षणशील इत्यर्थः। किञ्च, योगसिद्धाः समाधिनिर्जितसमग्रैश्वर्यादिगुणा मुनयो यस्य परपदं मायासम्बन्धरहितं प्राप्तिस्थानमनिशं वीक्षन्ते पश्यन्ति । सम्यक् प्रकाशं यस्मात् सर्वस्येति परपदं विशेष्यते । यत् परपदं विप्रेन्द्रा जागरूकास्तात्पर्यवन्तः कृत- बहुनुतयः सगुणनिर्गुणभेदेन स्तुतिं कुर्वन्तो निर्भासयन्ते प्रकाशयन्ति ॥ १॥ १.णि मस.पाठः,

३६८
नारायणीये
[स्कन्धः-१२
नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं
देव! श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो।
तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या-
प्यूचं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥५॥
नो जात इति । हे देव! जातो जायमानश्च यः पुरुषः, स कोऽपि
त्वन्महिम्नोऽवसानं नाधिगतः न प्राप्तः । अतोऽहं श्रेयांसि विद्वान् इदेमव श्रेय
इति निश्चित्य प्रतिमुहुः अनिशं ते नाम शंसामि सङ्कीर्तयामि । हे विष्णो!
तमपरिच्छिन्नमहिमानं त्वां नानाविधस्तुतिवचनैः संस्तौमि । निर्गुणे मनोनव-
गाहात् सगुणं त्वां स्तौमीत्यर्थः । अस्य लोकत्रयस्य ब्रह्माण्डस्योर्ध्व विभ्राजमाने
तत्र वेकुण्ठलोके विरचिता वसतिर्वासो यस्य ॥ ५ ॥
अथ श्रीनारायणरूपं स्तौति-
आपः सृष्टयादिजन्याः प्रथममयि विभो! गर्भदेशे दधुस्त्वां
यत्र त्वय्येव जीवा जलशयन ! हरे ! सङ्गता ऐक्यमापन् ।
तस्याजस्य प्रभो! ते विनिहितमभवत् पद्ममेकं हि नाभौ
दिक्पत्रं यत् किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥६॥
आप इति । सृष्ट्यादिजन्याः ‘अप एव ससर्जादौ' (मनु. १.९)
इति वचनाद् आपः प्रथममादौ त्वां गर्भदेशे दधुः। यत्र अपां मध्येऽवस्थिते
त्वय्येव जीवाः सङ्गताः प्राप्ताः ऐक्यमापन् अनुशयिता अभवन् । कल्पान्ते सर्व-
जीवा ब्रह्मणा सह जलशायिनि श्रीनारायणे सङ्गता अनुशेरते । तस्य जलशयनस्य
अजस्य विष्णोस्ते नाभौ विनिहितमधिष्ठितमेकं पद्ममभवत् । यत् पद्मं लोकरूपमाहुः ।
तदेवाह-दिशः पत्राणि दलानि यस्य, कनकधरणिभृद् महामेरुः कर्णिका यस्य
तत् । श्रीविष्णुरेव कमलजः सन् नाभिकमलेन भुवनमजनयदित्यर्थः ॥ ६ ॥
उक्तरूपं विष्णुमजानतः शोचन्नाह -
हे लोका विष्णुरेतद् भुवनमजनयत् तन्न जानीथ यूयं
युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् ।
नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः
प्राणप्रीत्यैकतृप्ताश्वरथ मखपरा हन्त नेच्छा मुकुन्दे ॥७॥

दशकम्-९९] भगवन्महिमानुवर्णनम् । हे लोका इति । हे लोकाः! जनाः! यो विष्णुः एतत् परिदृश्यमानं भुवनम- जनयत् , तं विष्णुं यूयं किं न जानीथ । किञ्च, युष्माकमन्तरस्थं शरीरान्तर्भूतमपि तदपरं तस्मादन्यत् संसारधर्मयुक्तं विष्णुरूपं विद्यते । अहो तदपि न जानीथ । किमिति न जानीमः, तत्राह-नीहारेति । आवरणशक्त्या हिमतुल्यया मायया परि- वृतं व्याप्तं मनो येषां तथाभूताः सन्तः नामरूपैर्मोहिता मिथ्याभूतेषु शरीरादिष्व हममेत्यभिमन्यमानाः प्राणानामिन्द्रियाणां प्रीतिरेवैका प्रधानभूता तया तृप्ताः अत एव स्वर्गादिसुखेच्छया मखपराः काम्यकर्मपराः चरथ । हन्त अहो कष्टं मुकुन्दे मोक्षप्रदे विष्णौ नेच्छा ॥ ७ ॥ अथामूर्ती विश्वमूर्तेर्मूर्तिमनुसन्धत्ते - मूर्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं तत् प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि । भूतं भव्यं च सर्व परपुरुष! भवान् किश्च देहेन्द्रियादि- वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुक्षे त्वमेव ॥ ८ ८॥ मूर्धामिति । त्वं विराडभिमानी मूर्नामक्ष्णां पदानां च सहस्राणि वहसि । ब्रह्माण्डानामनेकत्वात् तत्स्थसत्यलोकादिरूपाणां मूर्धादीनामनेकत्वम् । ततो विश्वं ब्रह्माण्ड सम्पूर्य व्याप्य तद् ब्रह्माण्डं प्रोत्क्रम्य अतिक्रम्य तिष्ठन्नपि परिमितविवरे अतिसंकुचिते चित्तान्तरे हृदयाकाशे भासि । हे परमपुरुष! भूतं भव्यं सर्व भवांश्चैव किञ्च, देहेन्द्रियादिष्वाविष्टो यस्त्वं विषयरसान् भुङ्के, स त्वमेव तस्मादुद्गतत्वाद- मृतसुखस्य परमानन्दस्य रसं चाप्यनुभुझे ॥ ८ ॥ यत् तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध- ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत । स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥९॥ १. 'हमत्यैवाभि क. पाठ... २. 'म्य ति' क. पाठः ३. 'तोऽनन्त ! शु' व्याख्यानु- सारी पाठः । ४. वत् व्याख्यानुसारी पाठः.

३७० नारायणीय स्किन्धः-१२ । यचिति । हे अनन्त । त्रैलोक्यमयं रूपं दधदपि ततो निर्गतो बहिः शुद्धज्ञानात्मां च वर्तसे त्वमिति यत् , सोऽपि तावत् तव खलु महिमा । किमन्यद् न किञ्चिदपि । अपिच, ते स्तोको भागः पादकल्प एवाखिलभुवनतया ब्रह्माण्डरूपेण दृश्यते । व्यंशकल्पं प्रायेण यंशव्यवहारयोग्यं भूयिष्ठम् अधिकतरं ते रूपं सान्द्र- मोदात्मकं परमानन्दरूपं ततो ब्रह्माण्डाद् उपरि वहिर्देशे भाति । तस्मै अपरि- च्छिन्नात्मने ॥९॥ । एवं यस्मिन् (द.९८. श्लो. १)इत्यारभ्य विंशत्या श्लोकैः सगुणनिर्गुणभेदेन भगवन्तं स्तुतिभिषेणानुसन्दधानः स्वस्य तत्रानधिकारमाशङ्कमानोऽभीष्टायां मूर्ती चित्तमवतारयितुमारभते- अव्यक्तं ते स्वरूपं दुरधिगमतमं तत् तु शुद्धैकसत्त्वं व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम । सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्ती मूर्ति ते संश्रयेऽहं पवनपुरपते! पाहि मां कृष्ण रोगात् ॥१०॥ - अव्यक्तमिति । ते अव्यक्त कनापि न व्यज्यत इत्यव्यक्तं ब्रह्मस्वरूपं दुर- धिगमतमम् अतिशयेन दुरधिगमं दुःखेन ज्ञातुं प्राप्तुं वा शक्यं, "क्लेशोऽधिकतर- स्तषामव्यक्तासक्तचेतसाम्" (भ.गी. १२.५) इति भगवद्वचनात् । तत् शुद्धैकसत्त्वं शुद्धसत्त्वात्मकं तु ते स्वरूपं व्यक्तं ज्ञातुं शक्यम् । अपिच एतदेव श्रीकृष्णादिरूपम् अमृतरसाम्भोधिकल्लोलतुल्यं ब्रह्मानन्दामृतरसाम्भोधेः कल्लोलेन तुल्यं सुखसेव्यम् । यस्मादेवं तत् तस्मात् सर्वोत्कृष्टामभीष्टाम् इह भगवति ये गुणा भक्तवात्सल्यादयः त एव रसाः आस्वादनीयत्वात् , तेनैव चित्तं हरन्ती मनोहरां ते मूर्तिमहं संश्रये स्तोतुं ध्यातुं वा समारभे । हे पवनपुरपते ! श्रीकृष्ण ! मां रोगात् संसारलक्षणात् पाहि ॥१०॥ इति भगवन्महिमानुवर्णनमेकोनशततमं दशकम् । १.त्मा ब ख. पाठः-२ व तस्मा

दशकम्-१००
केशादिपादवर्णनम् ।
एवं भगवदवतारचरितम्मरण कीर्तनादिभिरुपबृहितप्रेमलक्षणभक्तिपरिपाक-
वशेन हृदयाकाशमवतीर्ण स्फुटप्रतीयमानावयववेषविशेषादिकं भगवद्रूपं पुर इवा-
वलोकयन् यथानुभूतं स्तौति
WDHURINARH
अग्रे पश्यामि तेजो निविडतरकलायावलीलोभनीय
पीयूषाप्लावितोऽहं तदनु नदुहरे दिव्यकशोरवेपम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चितारे-
रावीतं नारदाचविलसदुपनिषनमुन्द्रगमण्डलैश्च ॥१॥
अग्र इति । तेजः प्रभामण्डलम् । तदनु तद्दनानन्दरं दिव्यः सात्त्विकः
प्रकाशोज्ज्वलः आ षोडशाव्दात् केशारः, तलाम्बन्धी वेषो यस्मिन् । तारुण्यारम्भ-
रम्यं षोडशवर्षीयं किमपि रूपं च पश्यामि । आगीतं परिवारितम् । उपनिष-
सुन्दरीमण्डलैरित्यनेनेदमवगम्यते परं वा श्रीपणा, गोप्यस्तत्प्रतिपादकोप-
निषदः, श्रीनारदादयस्तदुपदेष्टारः . दृष्टाधिकारी ॥१॥
JihwSAMMEANIN
दिव्यकैशोरवेषमिति यदुक्तं, तदेवाह----
नीलामं कुञ्चिताग्रं धनममलता मंचनी चारुमन्या
रत्नोत्तंसाभिरामं बलगितमुदयचन्द्रकै पिच्छ जालैः ।
मन्दारसनिषीलं नव पृथुकवरोभारमालोकयेऽहं
स्निग्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालवालेन्दुवार्थीम् ॥२॥
नीलाममिति । धनं निविडम् । उदयचन्द्रकै प्रकाशमानाप्रदेशस्थचित्र-
वर्णैः । मन्दारसजा सुरकुसुमविरचिताम्लानमालया निवीनं वेष्टितम् ॥२॥
imabhumravina
यथानुभृतं नेत्राम्बुजद्वन्द्वं स्तौति
हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलविलासै-
रानीलस्निग्धपक्ष्मावलिपरिलहितं नेत्रयुग्म विभो! ते ।
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥३॥

३७२ नारायणीये [स्कन्धः-१२ हृयामिति । अनाथे अशरणे ॥३॥ । उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली- व्यालोलकर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीपम् । उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्त:- प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्रमुद्भासतां मे ॥४॥ उत्तुङ्गेति । हरिमणिमुकुरवद् इन्द्रनीलमणिमयदर्पणवत् प्रोल्लसन्त्यां गण्डपाल्यां कपोलदेशे व्यालोलता बिम्बप्रतिबिम्बहरूप्येण दोलायमानेन मकरा- कारयोर्मणिकुण्डलयोर्द्वन्द्वेन दीपं दीपनशीलम् ॥ ४ ॥ बाहुद्वन्द्वेन रत्नोजलवलयभृता शोणपाणिप्रवाले- नोपात्तां वेणुनाली प्रसृतनखमयूखागुलीसङ्गशाराम् । कृत्वा वक्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानः शब्दब्रह्मामृतस्त्वं शिशिरितभुवनैः सिश्च मे कर्णवीथीम् ॥५॥ बाहुद्वन्द्वेनेति । प्रसृतनखमयूखागुलीसङ्गशारां प्रसृतनखमयूखानाम् अङ्गु- लीनां सङ्गेन शारां शबलवर्णाम्। सुमधुरो विकसन् प्रकाशमानो रागो गीतविशेषो यस्मिन्निति क्रियाविशेषणम् । उद्भाव्यमानैः प्रकाश्यमानैः शब्दब्रह्मामृतैः नादामृतैः ॥ ५॥ उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीपहारप्रतानम् । नानावर्णप्रमूनावलिकिसलयिनीं वन्यमालां विलोल- लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥६॥ उत्सर्पदिति । हारप्रतानं मौक्तिकमालाजालम् । विलोलल्लोलम्बामुरास तथा रत्नमालां च भावये ।। ६ ॥ जी - दशकम्-१००] केशादिपादवर्णनम् । अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्किणीमण्डितं त्वाम् ॥ ७॥ अङ्ग इति । पञ्चाङ्गरागैः हरिचन्दनगोरोचनादिभिः अतिशयेन विकसता व्याप्तेन सौरभेणाकृष्टा लोका येन स तथा । लीनानेकत्रिलोकीम् अन्तर्गतानेक. ब्रह्माण्डामपि कृशामिति । अयमर्थः- यद्यपीदमपि ब्रह्माण्डं श्रीकृष्णोदरस्थं, तथापि एतद्ब्रह्माण्डान्तस्थानां तदानीन्तनानां स्वमूर्तेरिदन्तया प्रदर्शनं भगवतो योगवयवैभवेन । एवञ्च मध्यवल्ल्याः कृशत्वापादनं नास्ये किञ्चिद् भार इति । शक्राश्मेति । भगवन्मूर्तेरिन्द्रनीलश्यामत्वात् पीताम्बरस्य कनकनिभत्वाच्च सञ्जा- तपरभागमिति भावः । दीप्ताभिः रश्मिभिः मणिदीप्तिभिः स्फुटया प्रकाशमा- नया ॥ ७॥ ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया विश्वक्षोभं विशङ्कय ध्रुवमनिशमुभौ पीतचेलावृताङ्गो । आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्- च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्ग्रे निषेवे ॥ ८॥ ऊरू इति । विश्वक्षोभं लोकोचररामणीयकत्वेन द्रष्टजनपारवश्यं विशङ्कय । समस्तार्थपालीनां सकलपुरुषार्थसार्थानां यः समुद्गः सम्पुटकः, तस्यच्छाया शोभेव शोभा यस्य ॥ ८ ॥ मञ्जीरं मञ्जुनादेरिव पदभजनं श्रेय इत्यालपन्तं पादाग्रं भ्रान्तिमज्जपणतजनमनोमन्दरोद्धारकूर्मम् । उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानां सन्तापध्वान्तही ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ९ ॥ १, 'र्येण । ए' क. ग, पाठः, २. 'स्यातिभा क. ग. पाठः, ३७४ नारायणीये स्कन्धः-१२ मञ्जीरमिति । भ्रान्तिरूपेऽब्धौ मज्जतां प्रणतजनानाममृतार्थिनां मनो- रूपस्य मन्दरस्य उद्धारे कूर्मम् । सन्तापस्य ध्वान्तस्य अज्ञानस्य च हन्त्रीम् ॥९॥ योगन्द्रिाणां त्वदड्रेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षातरुकिसलयं नाथ! ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते! कृष्ण! कारुण्यसिन्धो! हृला निःशेषतापान प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ १० ॥ योगीन्द्राणामिति। योगीन्द्राणां ध्यातॄणां त्वदनेषु मध्येऽधिकसुमधुरम् । मुक्तिभाजां तु निवास आश्रयः । परमानन्दसन्दोहलक्ष्मी मोक्षम् ॥ १० ॥ एवं स्तुतिमुपसंहृत्य तत्र वैगुण्यादिसम्भवमाशङ्कय स्तोत्रस्य साद्गुण्यकरणा- येश्वरे समर्पयन वक्तृश्रोतृणां पठनश्रवणफलमाशाम्ते-- ! अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ ! क्षमेथाः स्तोत्रं चैतत् सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥ ११ ॥ अज्ञात्वेति । द्वेधा नारायणीयं नारायणमधिकृत्य कृतत्वाद् नारायणेन प्रोक्त- त्वाच्च । ननु विहितमविहितं वेदं स्तोत्रं त्वत्प्रसादाय भूयादिति समर्प्यत इति चेत्, श्रुतिविहितमेवेत्याह-श्रुतिप्विति । जनुषा अवतारैर्भगवतः स्तुत्यतया वर्णनं विधिर्विद्यते, तेनं स्फीतं व्याप्तम् , अथवा श्रुतिषु या जनुषा स्तुत्यता, तस्याः 'हे स्तोतारः' (द. ९९. श्लो. ३) इत्यादिशब्दान्तरेण वर्णनेन लीलाव- १. 'नेदं लीलावतारैः स्फी' क. ग. पाठ.. २. "तं कृतम् , अक, ग, पाठः.

दशकम् - १००] केशादिपादवर्णनम् । ३७५ तारैश्च स्फीतम् इदं स्तोत्रम् इह वक्तृश्रोतृणाम् आयुरारोग्यं चान्ते सौख्यं मोक्षं व कुरुताम् ॥ ११ ॥ ३८ ॥ इति केशादिपादवर्णनं शततमं दशकं सैकम् । अ श्रीभागवततयाख्यादृष्टानाः पदान्यपि । स्तोत्रव्याख्यानरूपेण रचितानि परं मया ॥ यन्नान्ना सम्मतं स्तोत्रं जनानामन्तरान्तरा। ताभ्यामेव हृदिस्थाभ्यां मया नेयं कृता ऋतिः ।। इति नारायणीयस्तोत्रव्याख्यायां भक्तमियाख्यायां द्वादशस्कन्धपरिच्छेदः। आदितः श्लोकसंख्या १.३६. समाप्तचायं ग्रन्थः। शुभं भूयात्।

Trivandrum Sanskrit Series No.xviii

Author
T. Ganapati Sastri
Title
Trivandrum Sanskrit Series No.xviii
File name
Trivandrum Sanskrit Series No.xviii
Text
OCR done
Citation
1912
Publisher
The Supritendent Government Press, Trivandrum
Language
Sanskrit
Pages
391
Library
Archaeological Survey Of India, New Delhi
DLI number
284106
Barcode
5990010905198.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
mEfA8aINOZ4
Download PDF

Trivandrum Sanskrit Series No.xviii