Sringeri Sharada Peetham
Bala Manorama Part -iv
Front matter
PART XIV.]
[चतुर्दशो भागः।
। श्रीरस्तु।
SRI BÂLAMANORAMA
WITH
SIDDHÂNTA KAUMUDÍ
A NEW EDITION.
MAINLY BASED ON THE VARIOUS READINGS PREVALENT IN
SOUTHERN INDIA, CRITICALLY EXAMINED BY PUNDITS.
UTTARARDHAM.
॥ श्रीबालमनरमा ॥
। सिद्धान्तकौमुदीसहिता।
दाक्षिणात्यानेकमहनीयकोशस्थपाठानुसारेण विद्वद्भिः सम्यक् परिशोधिता।
॥ उत्तरार्धम् ॥
EDITED AND PUBLISHED BY
S. CHANDRASEKHARA SASTRIGAL,
TEPPAKULAM, TRICHINOPOLY.
PRINTED BY BR. JOSEPH S.J.,
AT THE ST. JOSEPH'S INDUSTRIAL SCHOOL PRESS, TRICHINOPOLY.
1911.
A Part of 48 pp. 8 Annas.]
[All Rights Reserved.
SELECTED OPINIONS. त. गणपतिशास्त्री, क्यूरेटर्, अनन्तशयनम्-"श्रीमन्तश्चन्द्रशेखरशास्त्रिणः, भवद्भिः संशोध्य मुद्यमाणाया बालमनोरमायाः पञ्चविंशपर्यन्तान् भागान् परितुष्टेन मनसा पर्येक्षिषि । सा हि सिद्धान्तकौमुदीव्याख्यास्वन्यतमा कृच्छ- विसंसनीयगहनार्थग्रन्थिसान्द्राणां सिद्धान्तकौमुदीगतानां पाणिनिसूत्रव्याख्यानवाक्यानां सर्वेषामर्थं सूत्रत आनीय प्रौढमनोरमा शब्देन्दुशेखरवीथीविहारकुतूहलजनिकया सुकुमारसरसया भङ्ग्या सम्यग्बोधयितुं समर्था बालपरमकारुणिकी 'अध्यापकनिरपेक्षा' इत्यपि नामधेयं मुक्तसंशयमर्हति । एनां वर्षपूगात् प्रारदमिळप्रन्थलिप्या मुद्रणगोचरमंशतः कथश्चिदासाद्य तिरोहितां विदितवता मया चिन्तितम्-अस्या वाग्विस्तरगुा उक्तलिप्यापि सामग्र्येण मुद्रणे बहुद्रव्यव्ययसापेक्षत्वादशक्ये, दूर एव कृत्न- भूमण्डलोपयोगानुगुणं देवनागरीमुद्रणं प्रति प्रत्याशेति । सेयं प्रत्याशा न केवलमुन्मीलिता भवद्भिः, किन्तु फलप्रान्तभूमिमपि नीतप्रायेत्यस्य महतो लोकोपकारस्य संस्कृतभक्तवर्गः सर्वो, मन्ये ऋणं भवयो धारयते । संशोधनञ्च ग्रन्थस्य भवद्भिः सम्य- ग्विहितं पश्यामि। मूलव्याख्याविभागविन्यासगतस्याक्षरसम्बद्धस्य पत्रकृतस्य वा गुणस्य पुस्तके संविधानमत्यन्तं वो रमणीयम्।" कविभूषणः श्री. ति. अ. ति. कुमारताताचार्यः निजाशयममायमावेदयते-- "दैवी वाण्यमला पुमर्थरचनावैशारदीशालिनी सापि व्याकृतिसंस्कृतैव घटते भावस्य संसूचने एषा पाणिनिदर्शितैव सुलभा तां गूढभावामिमां व्याख्यान्ती ननु वासुदेवकृतिनः प्रार्थ्या कवीन्द्रैः कृतिः ॥ जयतु निगमराशेस्तुङ्गमङ्गं धरण्यां जयतु कलिहतस्याप्यस्य रक्षाऽसदृक्षा। कथमिव तदुपायव्यापृतस्साधुलोकस्सुमतिभिरुपलभ्यो नाधुनाऽऽख्यातविज्ञाः ॥" भयि प्रेष्ठाः! श्रीचन्द्रशेखरवर्याः! " अवालोकिषतास्माभिर्भवद्भिर्मुद्रयितुं देवनागराक्षरैरुपक्रान्तायाः वासुदेवाध्वरिकृतेः श्रीमत्याः बालमनोरमायाः त्रयो भागाः । इयं हि कृतिः कौमुदीजिज्ञासमानानां महत्यायुपकृतये प्रभवतीति सत्यमातिष्ठामहे । अतोऽस्या मुद्रणे व्यापृतान् श्रीमतोऽपि निर्मायमुपतिष्ठामहे । यतोऽद्य विरलास्सयवसायशालिनस्सुरभारतीप्रचारसम्पादन- हेवाकायत्तचित्ता विद्वांसः । तदियमितो नातिचिरान्निष्प्रत्यूहोपसर्गमासादयतु पूर्तिमभङ्गुरेणालोकेन लोकैकेश्वरस्य परमकरुणा- करस्य श्रीमतो नारायणस्येति प्राध्वमाशास्महे" इति ॥ बङ्गळूनगरविराजमानचामराजेन्द्रसंस्कृतपाठशालायां व्याकरणशास्त्राद्धथापकः, निजगिल्ल करिगिर्याचार्यः सानन्दमावेदयते- "मनोज्ञपदविन्यासा वल्गुभावा मनोरमा । चित्तभ्यो रोचतां सर्वविदुषां गुणदर्शिनाम् ॥ सेयं बालमनोरमा मयाद्यावालांकि । या दुर्ग्रहानप्यान् विना प्रयासं सुकुमारतरपदसन्दभैरेव ग्राहयन्ती प्रक्रियाश्च तत्र तत्र नातिसंक्षेपं विवृण्वता तत्ववोधिन्यादिप्रौढप्रबन्धानप्यतिशेत इति श्रुतिपथमुपनीततया समुत्पादितदिदृक्षापि देवनागरैरमुद्रित- तया चिराय सुलभदर्शना नाभूत् । सम्प्रति सुन्दरैरक्षरैश्वारुतरपत्रेषु व्याख्यानव्याख्येययोरन्यूनानतिरेकसविभजनेन निपुण- तरम्मुव्यमाणा प्रकाशकमहाभागैरल्पीयसा मूल्येन वितीर्यमाणा आवर्जयेदेव सर्वेषाम्मनांसीति दृढतरम्प्रत्येोमि । आशासे चापूर्वप्रबन्धप्रचयमभिलपन्तः सर्वेऽपि गरीयसि कार्येऽस्मिन्दत्तादाणां शास्त्रिवर्याणाम् अवश्यसङ्ग्राह्यस्यैतत्पुस्तकस्य सङ्ग्रह सहकृत्वानो भवेयुः” इति ॥ Richard Schmidt, Ph. D., Bibliothek der Deutschen Morgenlandischen Gesellschaft :-"I beg to say.! you were thanks for your valu: ble edition of the Bålamanorama, Part I, of which you were so kind as to el the stated Library. South Indian Pundits are now very much occupied in Sanskrit philology, which is · Torked it in Errupe with great interest. श्रीरस्तु । कल्याणं भवतु । शिवास्ते सन्तु पन्थान इति भृशमाशास्ते। तत्रभवतामनुचरः।" Honourable Mr. Justice Asutosh Mookerjee, Saraswati, M.A., D.L., F.R.A.S., F.R.S.E., etc., Vice thancellor, Calcutta University, and Justice, High Court, Calcutta:-"I have looked through the splendid edition of the siddhinte kuuaudi with Balamanóruma, now in course of publication by Chandrasekhara Sastrigal. The Wirk hus lil-1: prepared with great care and attention, and is sure to be of great use to every student of the work of Paniui. Tue emmentary is remarkable for its simplicity, and may be strongly recommended to our B. A. (Honours and MI. A. students. There can be no reasouable doubt that a careful study of the work will greatly facilitate the alqui-ition of a critical knowledge of Sanskrit, and I shall anxiously look forward to its completion." Mr. Harinath De, B. A. (Cantab.), M. A. (Cal.), M.R.A.S. of the Indian Educational Service, Member of the Syndicate of the Calcutta University, Lecturer in Comparative Philology to the University of Calcutta, and Librarian, Imperial Library, Calcutta :-" I have glanced through much of the Balanzanorama published pirtich of Paridit Chandrasekhara Sastrigal. It is a very neatly and correctly printed work and likely to prove very 11-cſal to beginners of Pinini. The coinmentary, so far as I can judge, is simple and lucid. I beg leave to reculumetid the work strougly for the patronage of the Sanskrit-loving public." Pandit Umapatidarta Sharma Pandeya, B. A, M. R. A. S., and M. R. S. A. (London); Member of the Asiatic Society of Bengal, The Sahitya Sabha, The Bangiya Sahitya Parishad, The Imperial Library, The Barabazar Library, The Kanyakubjamandal Pusthakalaya and The Hindi Sahitya Sabha, formerly Principal, Shri Vishuddhananda Saraswati Vidyalaya in Calcutta, The Nagaripracharini Sabha of Benares, The Nagaripracharini Sabha of Arrah; Senior Professor of Sanskrit, Meerut College, and Examiner, Calcutta University, etc., etc., etc. :-"I have gone through your valuable edition of Paninian Vyakaran in the new garb of Bålaman orama. It will indeed be of inmense value to the students when complete, for they will find in a nut-shell all that is worth knowing in the Vyåkaran collected together from Kåshika, Vlahâbhâshya, Siddhanta Kaumud and other well-known works on the subject. The foot-notes contain sufficient hints to understand the text ep without the help of a teacher, provided the student has an elementary knowledge of Sanskrit. Some of the aphorisnis (Sutras) of Panini have been excellently elucidated. I wish this edition every success. Please send the other parts also when published. Thanking you in anticipation." . " तृतीयः पादः]] बालमनोरमा । ६२५ ३९९ । वहियुभ्यां णित् । वाहसोऽजगरः । यावसस्तृणसङ्घातः । ४०० । वयश्च । वय गतौ । वायसः काकः । ४०१ । दिवः कित् । दिवसम्-दिवसः । ४०२ । कृशशलिकलिगर्दिभ्योऽभच् । करभः । शरभः । शलभः । कलभः । गर्दभः । ४०३ । ऋषिदृषिभ्यां कित् । ऋषभः । वृषभः । ४०४ । रुषेनिल्लुष्च । 'रुष हिंसायाम्' । अस्मादभच् निकित्स्यात् , लुषादेशश्च । 'लुषभो मत्तदन्तिनि'। ४०५ । रासिवल्लिभ्याञ्च । रासभः । वल्लभः । ४०६ । जविशिभ्यां झन् । जरन्तो महिषः । वेशन्त: पल्वलम् । ४०७ । रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि । रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्त्वान्ङीष् । रोहन्ती । ४०८ । तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च । दशभ्यो झच्स्यात् । स च पित् । तरन्त: समुद्रः । तरन्ती नौका । भवन्तः कालः । वहन्तो वायुः । वसन्त: ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटा- दित्वान्मित्त्वं ह्रस्व: । 'अयामन्त-' (सू २३११) इति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्र: । नन्दयन्तो नन्दकः । ४०९ । इन्तेर्मुद हि च । हेमन्तः । मेदिनी। 'वेअस्तुट् च' इति पठित्वा ‘वी गत्यादिषु' इति धातुरुदाहृतः । वहियुभ्याम् ॥ 'अनगरे शपूर्वाहस इत्युभी' इत्यमरः । ‘वा तु क्लीबे दिवसवासरौ' इति च । कृशृ॥ 'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते' । 'शरभस्तु पशौ' इति मेदिनी । 'समौ पतङ्ग- शलमौ' इत्यमरः । 'कलभः करिशावकः' इति च । 'गर्दभं श्वेतकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः' इति मेदिनी। ऋषिवृषिभ्यां कित् ॥ 'ऋषभस्त्वौष- धान्तरे । स्वरभिदृषयोः कर्णरन्ध्रगर्दभपुच्छयोः। उत्तरस्थः स्मृतः श्रेष्ठ स्त्री नराकारयोषिति । शूकशिम्ब्यां शिरालायां विधवायां क्वचिन्मता ॥' इति मेदिनी । 'वृषभः श्रेष्टवषयोः' इति च । रासिवल्लिभ्याञ्च ॥ 'रास शब्दे' 'वल्ल संवरणे' । 'वल्लभो दयितेऽध्यक्ष सलक्षणतुरङ्गमे' इति च मेदिनी । विशिभ्यां झच् ॥ बाहुलकादहतेरपि झच् । 'अर्हन्तः क्षपणको जिनः' इति विक्रमादित्यकोशः। तृभू ॥ इह नन्दिय॑न्तः। तदाह । नन्दयन्त इति ॥ उज्ज्वल- दत्तस्तु नन्दन्त इत्युदाहृत्य पूर्वसूत्रेण गतार्थतामाशङ्कय अनाशीरथै नन्दिग्रहणमित्याह । तन्न । ॥ 79 सिद्धान्तकौमुदीसहिता [उणादिषु ४१० । भन्देनलोपश्च । भदन्तः प्रजितः । ४११ । ऋच्छेररः । ऋच्छरा वेश्या । बाहुलकाजर्जरझर्झरादयः । ४१२ । अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् । षड्भ्योऽरश्चित्स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमर: । चमरः । देवरः । वासरः । ४१३ । कुवः क्ररन् । कुररः पक्षिभेदः । ४१४ । अङ्गिमदिमन्दिभ्य आरन् । अङ्गारः । मदारो वराहः । 'मन्दार: पारिजातकः'। ४१५ । गडेः कड च । कडारः । ४१६ । शृङ्गारभृङ्गारो । शुभृभ्यामारन्नुम्गुग्घ्रस्वश्च । शृङ्गारो रसः । भृङ्गार.कनकालुका'। ४१७ । कञ्जिमृजिभ्यां चित् । कति: सौत्रः। कजारो मयूरः। मार्जारः। ४१८ । कमः किदुच्चोपधायाः । चिदित्यनुवृत्तेरन्तोदात्त: । कुमारः । ४१९ । तुषारादयश्च । तुषारः । कासारः । सहार आम्रभेदः । १ .. इहाप्याशिपात्यम्य स्वयमेवानुवर्तितत्वात् । बाहुलकादिति ॥ 'जर्जरं शैवले शक्रध्वजे त्रिषु जरत्तरे । झर्झरः स्यात् कलियुगे वाद्यभेद नदान्तर' इति मेदिनी । अर्तिकमि ॥ 'अरं छद कपाटयोः । भ्रमरः क.मुके भृङ्गे चमरचामरे स्त्री तु मञ्जरीमृगभेदयोः' इति च मेदिनी । वासर इति ॥ वसय॑न्तादर: । कचिन्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा ‘व. शन्दे' व.इयत वाशरः, कोकिल इत्याहुः । अङ्गिमदि ॥ ‘अङ्गार उल्मुकं न स्त्री पुन्हास्तु मह मुने' इति मंदिनी । 'मन्दार: स्यात् मुरद्रुमे । पारिभद्रऽर्कपणे च मन्दारो हास्तधूनयां.' इति च । 'नाद स्तु बादी' इत्यस्मात् बाहुलकादारुरपि । पारिभद्रे तु मन्दारु- मन्दार: पारिजानक' इति शब्दार्णवः । गडः ॥ ‘कडार: कपिले दास' इति मेदिनी । शृङ्गारभृङ्गारों ॥ शारः मुरते न य स च गजमण्डन । नपुंसकं लद जोऽपि नाग- सम्भवचूयाः' इ.न मंदिनी । “भूमारी झिल्लिकायां स्यात् कनकालौ पुनः पुमान्' इति च । कजिमाभ्यां ॥ ‘कजारो जठर सूर्ये विचौ चारण मुनौ' इति विश्वमेदिन्यौ । 'मानार आता खटा' इति च । कमेः ॥ 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालक वरुण नै ना न द्वयोजीत्यकाश्चन । कुमारी शैलतनयावनकाल्योर्नदीभिदि । सहापराजिता कन्य. जम्बूद्वीपयु च स्त्रियाम्' इति मदिनी । विश्वप्रकाशे तु 'कुनारी रमतरणी' इति पाठः । रामतरणी लताविशेषः सहति प्रसिद्धः । 'तरणी रामतरणी कणिका चारुकसरा । सहा कुमारी गन्धाच्या' इति धन्वन्तरिनिघण्टुः । 'जम्बूद्वीपसहाकन्याकुमार्योऽशाश्ववारके । बालक कार्तिकये च कुमारी भर्तृदारके' इति त्रिकाण्डशेषः । 'तुषारस्तुहिनं हिमम् । कासारः .
तृतीयः पादः] बालमनोरमा। ६२७ ४२० । दीङो नुद् च । दीनारः सुवर्णाभरणम् । ४२१ । सर्तेरपः षुक्च । सर्पपः । ४२२ । उपिकुटिदलिकचिखजिभ्यः कपन् । ' उपपो वह्निसूर्ययोः' कुटपो मानभाण्डम् । दलप: प्रहरणम् । कचपं शाकपत्रम । खजपं घृतम् । ४२३ । कणेः सम्प्रसारणश्च । कुणपम् । ४२४ । कपश्चाक्रवमणस्य । स्वरे भेदः । ४२५ । विटपपिष्टपविशिपोलपाः । चत्वारोऽमी कपन्प्रत्ययान्ता: । 'विट शब्दे'। विटप:' । विशतेरादः प: । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशते: प्रत्यय देरित्वम् । विशिपं मन्दिरम् । वलते: सम्प्रसारणम् । 'उलपं कोमलं सृणम् । , ४२६ । वृतस्तिकन् । वर्तिका । ४२७ । कृतिभिदिलतिभ्यः कित् । कृत्तिका । भित्तिका भित्तिः । लत्तिका गोधा। ४२८ । इष्यशिभ्यां तकन् । इष्टका । अष्टका । ४२९ । इणस्तशन्तशसुनौ । एतशो ब्राह्मणः । स एव एतशाः । ४३० । वीपतिभ्यां तनन् । 'वी गत्यादौ' । वेतनम । पत्तनम् । ४३१ । दृदलिभ्यां भः । दर्भ: । 'दल्भः स्यादृषिचक्रयोः' । ४३२ । अर्तिगृभ्यां भन् । अर्भः । गर्भः । ४३३ । इणः कित् । इभः । ४३४ । असिसञ्जिभ्यां क्थिन् । अस्थि । सक्थि । ४३५ । प्लुषिकुषिशुषिभ्यः क्सिः । प्लुभिर्वह्निः । कुक्षिः । शुक्षिातः । सरसी सरः ।' क्वणेः ॥ 'कुणपः पूतिगन्धं शवऽपि च' इति मंदिनी । विटपपिष्टप ॥ 'विटपो न स्त्रियां स्तम्बशाखाविस्त रपल्लवे । पीठाधिपे च' इति मेदिनी । आदेः प इति ॥ एनच्चोज्ज्वलदत्तरीयोक्तम् । अन्ये तु सूत्र ‘विष्टप' इति दन्त्योष्ठ्यादिमेव पठन्ति । युक्तञ्चैतत् । 'यत्र बध्नस्य विष्टपम्' इत्यादौ तथा दर्शनात् । ‘उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे' इति मेदिनी। लत्तिकेति ॥ लनि: सौत्रः। इष्टकति ॥ 'इष्टके- षीकामालानाम्' इति निर्देशात् 'प्रत्ययस्थात्' इति नत्त्वम् । अतिगृ ॥ 'गर्भो भ्रूणऽर्भके कुक्षौ सन्धौ पनसकण्टके' इति मेदिनी । इणः ॥ 'इभः स्वम्बेरमः पनी' इत्यमरः । .
६२८ सिद्धान्तकौमुदीसहिता [उणादिषु ४३६ । अशेर्नित् । अक्षि। ४३७ । इषेः क्सुः । इक्षुः । ४३८ । अवितृस्तृतन्त्रिभ्य ईः । 'अवीर्नारी रजस्वला' । तरीनौंः । स्तरीधूमः । 'तन्त्रीर्वाणादेर्गुणः । ४३९ । यापोः किद्दे च । ययीरश्वः । 'पपीः स्यात्सोमसूर्ययोः' । ४४० । लक्षेर्मुद् च । लक्ष्मीः । ॥ इत्युणादिषु तृतीयः पादः ॥ ॥ अथ उणादिषु चतुर्थः पादः ।। ४४१ । वातप्रमीः। वातशब्द उपपदे माधातोरीप्रत्ययः । स च कित् । वातप्रमी: । अयं स्त्रीपुंसयोः । ४४२ । ऋतन्यञ्जिवन्यज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कनिज्यतुजलि- निष्ठुनिष्ठजिसन्स्यनिथिनुल्यसासानुकः। द्वादशभ्यः क्रमात्स्युः। अर्तेः कत्निच्। यण् । 'बद्धमुष्टिः करो रनिः सोऽरनिः प्रसृताङ्गुलिः' । तनोतेर्यतुच् । तन्य- तुर्वायू रात्रिश्च । अञ्जरलिच् । अञ्जलिः । वनेरिष्ठुच् । वनिष्ठुः स्थविरान्त्रम् । लक्षेमुट् च ॥ लक्ष दर्शनाङ्कनयोः।' चुरादिण्यन्तः । अस्मादीप्रत्ययः स्यात्। तस्य मुडागमश्च । णिलोपः । 'लक्ष्मीः सम्पत्तिशोभयोः । ऋद्ध्यौषधौ च पद्मायां वृद्धिनामौषधेऽपि च । फलिन्यां स्त्री' इति मेदिनी ॥ इत्युणादिषु तृतीयः पादः। अयमिति ॥ 'द्विचतुःषट्पदोरगाः' इत्यमरेणोभयलिङ्गोक्तः, सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्तेश्चेति भावः । तत्र 'कृदिकारात्' इति पाक्षिको ङीष् कैश्चिदिष्यते। न हि 'कारप्रहणे केवलग्रहणम्' इति मुनित्रयेण परिभाषितम् । अत एव ‘वातप्रमीश्री- लक्ष्मीति पक्षे ड्यन्ताः सुसाधवः' इति रक्षितः । एतच्च दुर्घटग्रन्थ स्पष्टम् । 'आशीराश्यहि- दंष्ट्रायां लक्ष्मीलक्ष्मी हरिस्त्रियाम्' इति द्विरूपकोशः । अत एव 'आशीविषो विषधरः' इति सङ्गच्छते । ‘आशामिव कलामिन्दोः' इति राजशेखरः । 'आशीर्हिताशंसाहिदंष्ट्रयोः' इति सान्ते अमरात् सान्तोऽप्याशीःशब्द इत्यन्यदतत् । बद्धेति ॥ 'मुष्ट्या तु बद्धया । सरनिः स्यात्' इत्यमरः । सहस्त इत्यर्थः । प्रसङ्गादाह । अरनिरिति ॥ न रनिः अरनिः इति नसमासः । दशपादीवृत्तौ तु इह सूत्रे अर्तेरनिचमकितं विधाय अरनिः साधितः । उज्ज्वल- दत्तानुसारेणाह । वायू रात्रिश्चेति ॥ इह शब्दो मेघः, अशनिश्चेत्यपि बोध्यम् । 'आविष्कृ- णोमि तन्यतुर्न वृष्टिम्' इति मन्त्रे तन्यतुर्गर्जितमिति, 'सृजावृष्टिं न तन्यतुः' इति मन्त्रे तन्यतुर्मेघ इति, 'दिवश्चित्रं न तन्यतुः' इति मन्त्रे तन्यतुरशनिरिति वेदभाष्ये .. .. , चतुर्थः पादः] बालमनोरमा । । अरिष्ठच् । अजिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् , मत्स्य: । अतेरिथिन् , अतिथि: । अङ्गेरुलि:, अङ्गुलिः । कौतेरसः, कवस: । अच इत्येके । कवचम् । यौतेरास:, यवासो दुरालभा । कृशेरानुक् , कृशानुः । ४४३ । श्रः करन् । उत्तरसूत्रे किद्हणादिह ककारस्य नेत्त्वम् । शर्करा। ४४४ । पुषः कित् । पुष्करम् । ४४५ । कलंश्च । पुष्कलम् । ४४६ । गमेरिनिः। गमिष्यतीति गमी । ४४७ । आङि णित् । आगामी । ४४८ । भुवश्च । भावी । ४४९ । प्रेः स्थः । प्रस्थायी । ४५० । परमे कित् । परमेष्ठी । ४५१ । मन्थः। मन्थतेरिनिः कित्स्यात् । कित्त्वानकारलोपः । मन्था:-. मन्थानौ-मन्थान: । ४५२ । पतस्थ च । पन्था:-पन्थानौ । व्याख्यातत्वात् । 'अजलिस्तु पुमान् हस्तसम्पुटे कुटवेऽपि च' इति मेदिनी । स्थविरान्त्र- मिति ॥ 'वनिष्ठोहृदयादधि' इति मन्त्रस्य भाष्ये तथोक्तत्वात् । अञ्जिष्ठ इति ॥ केचिद- लेरिष्णुचमिच्छन्ति । तेषामञ्जिष्णुरित्युदाहरणम् । मदेरिति ॥ 'मत्स्यो मीनेऽथ पुंभून्नि देशे' इति मेदिनी । 'अतिथिः कुशपुते स्यात् पुमानागन्तुके त्रिषु । अङ्गुलिः करशाखायां कर्णिकायाङ्गजस्य च' इति मेदिनी । कवसः सन्नाहः कङ्कटजातिश्च । अच इति ॥ 'कवचो दुर्गभाण्डे च सन्नाहे पर्पटेऽपि च' इति मेदिनी । पुषः ।। पुष्यतेः करः स्यात् । स च कित् । 'पुष्करं खऽम्बुपद्मयोः । तूर्यवक्रे खड्ग फल हस्तिहस्तानकाण्डयोः । कुष्ठौषधे द्वीपतीर्थ- भेदयोश्च नपुंसकम् । ना रागनागविहगनृपभेदेषु वारुणा' इति मंदिनी । कलंश्च ॥ पुष्यतः कलन् कित्स्यात् । पुष्कलस्तु पूर्णे श्रेष्टे' इति हेमचन्द्रः । मन्था इति ॥ पथिमथीत्यात्त्वम् । इतोऽत्सर्वनामस्थाने । 'मन्था मन्थनदण्डे च बजे वातेऽपि च स्मृतः।' पन्था इति ॥ पथे गतौ अस्मात्पचाद्यचि अकारान्तोऽप्यस्ति । ‘वाट: पथश्च मार्गश्च' इति सुभूतिचन्द्रपुरु- षोत्तमौ । 'त्वचि त्वचः किरोऽपि स्यात् किरो प्रोक्तः पथः पथि' इति द्विरूपेषु विश्वः । इह ऋभवो देवाः क्षयन्त्यस्मिन्निति विप्रहे 'अन्येभ्योऽपि दृश्यते' इति डः । 'ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः । ततो मत्वर्थीये इनिः । ऋभुक्षिनिति नान्तं प्रातिपदिकम् । आत्त्वमत्वं च । ऋभुक्षा इन्द्रः । ऋभुक्षाणौ ऋभुक्षाणः इत्युज्ज्वलदत्तः । दशपाद्यान्तु 'अर्ते क्षिक्षिनक्' इति सूत्रमुपन्यस्तम् । 'ऋभुक्षणमिन्द्रमाहुव ऊतये' इति मन्त्रस्य वेदभाष्येऽपि तत्सूत्रमुदाहृतम् । ..
६३० सिद्धान्तकौमुदीसहिता [उणादिषु ४५३ । खजेराकः । खजाक: पक्षी । ४५४ । बलाकादयश्च । वलाका । शलाका । पताका । ४५५ । पिनाकादयश्च । पातेरित्त्वं नुम् च । 'क्लीबपुंसोः पिनाक: स्याच्छूलशङ्करधन्वनोः' । 'तड आघाते' । तडाकः । ४५६ । कषिदूषिभ्यामीकन् । कषीका पक्षिजातिः । ‘दूषीका नेत्रयो- मलम्'। ४५७ । अनिहृषिभ्यां किञ्च । अनीकम् । हृषीकम् । ४५८ । चङ्कणः कङ्कणश्च । ' कण शब्दे' अस्माद्यङ्लुगन्तादीकन धातो: कङ्कणादेशश्च । 'घण्टिकायां कङ्कणीका सैव प्रतिसरापि च' । ४५९ । शृपृवृनां दे रुक्चाभ्यासस्य । शर्शरीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीक: कुटिलकेशः । ४६० । पर्फरीकादयश्च । 'स्फुर स्फुरणे' । अस्मादीकन् धातो: पर्फरा- देश: । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झर्झरीकं शरीरम् । . अत्रायं विवेकः । आद्यमन्त्रेऽन्तोदात्तत्वं न्याय्यम् । अवग्रहाभावो बाहुलकात् । द्वितीये तु अवग्रहाभावो न्याय्यः । अन्तोदात्तस्तु वाहुलकादिति । खजाक इति ॥ 'खज मन्थे' बलाकादयश्च ॥ 'वलाका वकपङ्गिः स्यात् बलाका बिसकण्ठिका । बलाका कामुकी प्रोक्ता बलाकश्च बको मतः' इति विश्वशाश्वतौ । 'शलाका शल्यमदनशारिकासल्लकीषु च' इति मेदिनी। 'पताका वैजयन्त्याञ्च सौभाग्ये नाटकाङ्कयोः' इति च । ‘पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजऽपि च' इति विश्वः । पिनाकादयश्च ॥ ‘पिनाकोऽस्त्री रुद्रचापे पांसुवर्षत्रिशूलयोः' इनि मेदिनी । अमरोक्तिमाह । क्लीवेति ॥ किञ्च ‘पिष्ल सञ्चूर्णने' । षकारस्य णत्वं धानायुगागमः । 'पिण्याकोऽत्री तिलकल्के हिडबाहीकसिल्हके' इति मंदिनी। अमरोक्तिमाह। दूषीकेति ॥ किन दूषयतेः 'अच इः' इति इप्रत्यये दूषिः । 'कृदिकारात्' इति ङीष् । दूषी । उभाभ्यामपि स्वार्थे कनि दूपिका ह्रस्वमद्ध्यैव, 'कंऽणः' इति ङीषो ह्रस्वादेशात् । 'पिचण्डी दृषिका दूपिः पिचाटञ्च दृशी मलम्' इति विक्रमादित्यकोशः । 'दूषिका तूलिकायाञ्च मले स्यालोचनस्य च' इति मंदिनी । अनि हृषिभ्यां ॥ 'अनीकोऽस्त्री गणे सैन्येऽपि” इति मेदिनी । 'हृषीकं विषयीन्द्रियम्' इत्यमरः । पर्फरादेश इति ॥ उज्ज्वलदत्तरीत्योक्तम् । वस्तुतस्तु धातात्विम् । उकारस्याकारः सलोपः । ‘रुक् च भ्यासस्य' इति दशपायुक्तमेव न्याय्यम् । चरेर्नुम् चेन्युत्तरप्रन्थानुरोधेन द्वे रुक्चेत्यादेरनुवृतेाय्यत्वात् । किसलयमिति ॥ 'नेतौशव तुर्फरीपर्फरीका' इति मन्त्रम्य वेदभाध्ये तु 'जि फला विशरणे, पृ पालनपूरणयोः, पर्व पूरणे' एषामन्यतमस्य निपातनमिदमाश्रित्य शत्रूणां विदारयितारः स्तोतॄणां पालका चतुर्थः पादः] बालमनोरमा । ६३१ । तिन्तिडीको वृक्षभेदः । ‘चरेर्नुम् च' (गण १९९) । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणते:, पुण्डरीकं वादित्रम् । पुण्डरीको व्याघ्रोऽग्निर्दिग्गजश्च । ४६१ । ईपेः किद्भस्वश्च । इपीका शलाका । ४६२ । ऋजेश्च । ऋजीक उपहत: । ४६३ । सतर्नुम् च । मृणीका लाला । ४६४ । मृडः कीककर्णी । मृडीको मृगः । मृडङ्कणः शिशुः । ४६५ । अलीकादयश्च । कीकन्नन्ता निपात्यन्ते । 'अल भूषणादौ' । अलीकं मिथ्या । विपूर्वाब्यलीकं विप्रियं खेदश्च । · वलीकं पटलप्रान्ते इत्यादि । ४६६ । कृतृभ्यामीषन् । करीपोऽस्त्री शुष्कगोमय । तरीष: तरिता । ४६७ । गृभ्यां किच्च । शिरीष: । पुरीषम । ४६८ । अर्जऋज च । ऋजीपं पिष्टपचनम् । , विशिष्टार्थस्य पूरयिता। चति व्याख्यातम् । तिन्तिडीक इति ॥ तिमेर्मकारस्य डकारः । अभ्यासस्य नुक् च । 'तिन्तिडी चिञ्चाम्लिका' इत्य मरे तु शब्दान्तरम् । तथा च 'तिन्तिडी त्वम्लिका चिञ्चा तिन्तिडीका कपिप्रिया' इति वाचम्पतिः । 'अम्लीका चाम्लिका चिञ्चा तित्तिडीका च तिन्तिडी' इति चन्द्रः । अम्लिका चुक्रिका चुका माम्रा शुक्लाऽ । शुक्लिका । अम्लिका चिञ्चिका चिच्चा तित्तिडीका च तित्तिडा' इति धन्वन्तरिनिघण्टुः । यत्तु उज्ज्वल- दत्तेनोक्तम् ' उपदंशस्तृतीयायाम्' इति सूत्र नित्तिडोपदंशं भुते इति भाध्यप्रयोगात्साधुतेति, तदुपेक्ष्यम् । 'उपदंशः' इति सूत्रस्य भाष्यकाररस्पृष्टत्वात् । तदुदाहृनप्रयोगस्य भाष्ये कुत्राप्य- भावाच्च । 'भ्रमरश्चञ्चरीकः स्याद्रोलम्बा मधुसूदनः । इन्दिन्दिरः पुष्पकीटो मधुदा मधुकेशटः' इति त्रिकाण्डशेषः । 'कर्कर्यालूगलन्तिका' इत्यमरः । 'पुण्डरीकं सिताम्भोज सितच्छत्रे च भेषजे। पुंसि व्याघ्र च दिङ्नाग कोशकारान्तरऽपि च' इति मेदिनी । ईषेः ॥ 'ईपीका स्यादिश कापि वानायुजवनायुजा' इति द्विरूपकोशः । सतः ॥ 'मृणीका स्यन्दिनी लाला' इत्यमरः । मृडः कीक ॥ कित्त्वादन्तोदात्तः । कीकनित्युज्ज्वलदत्ता दिपाठस्तु प्रामादिकः । 'मृलोकेऽस्य सुमतौ स्याम । मृलीकावप्रियव्रजान्' इत्यादिषु चित्स्वरस्यैव दर्शनात् । अलीकादयश्च ॥ 'अलीकमप्रियेऽपि स्यात् दिव्यसत्ये नपुंसकम्' इति मेदिनी । 'अलीक- मप्रिये भाल वितथे' इति हेमचन्द्रः । तथा च प्रयुज्यते । “त दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । नच.: सदेव सविलासमलीकमग्ना ये कालतां कुटिलताञ्च न संत्यजन्ति" इति। 'व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीठक । ना नागरे' इति ६३२ सिद्धान्तकौमुदीसहिता [उणादिषु ४६९ । अम्बरीषः । अयं निपात्यते । 'अबि शब्दे' । 'अम्बरीष: पुमान्ध्राष्ट्रम्' । अमरस्तु 'क्लीवेऽम्बरीषं भ्राष्ट्रो ना' । ४७० । कृश्पृकटिपटिशौटिभ्य ईरन् । करीरो वंशाङ्कुरः । शरीरम् । परीरं फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कण्टक: कामश्च । 'शौटीरस्त्यागिवीरयोः' । ब्राह्मणादित्वात् ष्यम् । शौटीर्यम् । ४७१ । वशेः कित् । उशीरम् । ४७२ । कशेर्मुट च । कश्मीरो देशः । ४७३ । कृत्र उच्च । कुरीरं मैथुनम् । ४७४ । घसेः किच । क्षीरम् । ४७५ । गभीरगम्भीरी । गर्भ: । पक्षे नुम् च । ४७६ । विषा विहा । स्यते हातेश्च विपूर्वाभ्यामाप्रत्ययः । विषा बुद्धिः, विहा स्वर्गः, अव्यये इमे । ४७७ । पच एलिमच् । 'पचेलिमो वह्निरव्योः' । ४७८ । शीडो धुक्लक्कलञ्चालनः । चत्वारः प्रत्ययाः स्युः । शीधु मद्यम्। मेदिनी। 'वलीकनीत्रे पटलप्रान्ते' इत्यमरः । वलतेर्मुगागमे वल्मीकम् । 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः । वहतेर्वृद्धिश्च । वाहीको गौः, वाहश्च । सुप्रपूर्वादिणस्तुट् च । मुप्रतीकः । शाम्यतः शमीकः ऋजीषम् । एतच्च ऋजीषिणं वृषणं संसतश्रिये । आसत्या यातु मघवान् ऋजीषीत्यादिमन्त्रभाष्ये स्पष्टम् । अयमिति ॥ ईषन् प्रत्ययः, अरुट् च तस्यागम इत्यर्थः । बोपालितोक्तिमाह । अम्बरीष इत्यादि ॥ 'अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे। नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातके तु तापे च' इति मेदिनी । कृशृ ॥ 'वंशाङ्कुरे करीरोऽत्री वृक्षभिवटयोः पुमान् । करीरा चीरिकायाञ्च दन्तमूले च दन्तिनाम्' इति मेदिनी । 'शरीरं वर्म विग्रहः' इत्यमरः । अर्धर्चादित्वात् शरीरोऽपि । बाहुलकात् । 'हिडि गत्यनादरयोः।' हिण्डते इतस्ततो गच्छतीति हिण्डीरः । 'हिण्डीरो- ऽधिकफ: फेनः' इत्यमरः । 'डिण्डीरोऽपि च हिण्डीरः' इति द्विरूपकोशः । किर्मीरञ्जम्बीर- तूणीरादयोऽप्येवं बोद्ध्याः । 'किसरो नागरङ्गे च कर्बुरे राक्षसान्तरे' इति मेदिनी । 'जम्बीरः प्रस्थपुष्पे स्यात्तथा दन्तशठे द्रुमे' इति च । उशीरं वीरणमूलम् । उशीरोऽपि । 'मूले- ऽस्योशीरमन्त्रियाम् । अभयं नलदं सेव्यम्' इत्यमरः । कुरीरमिति ॥ कपिलकादित्वाल्लत्वे कुलीरः कर्कटकः । घसेः ॥ क्षीमिति ॥ उपधालोपः । कत्वं षत्वम् । 'क्षीरं दुग्धे च नीरे च' इति विश्वः । गमेरिति ॥ 'निम्नङ्गभीरङ्गम्भीरम्' इत्यमरः । पच एलिमच् । कर्तर्ययं कृत्यप्रत्ययेषु रिदुपसङ्ख्यातः। शेरतेऽनेन शीधुः । मद्यविशेषः । 'मैरेयमासवः शीधुः' चतुर्थः पादः] बालमनोरमा । । , शीलं स्वभावः। शैवलः । शेवालम् । बाहुलकान् वस्य पोऽपि । 'शेवालं शैवलो न स्त्री शेपालो जलनीलिका'। ४७९ । मृकणिभ्यामूकोकणौ । मरूको मृग: काणूक: काकः । ४८० । वलेरूकः। वलूक: पक्षी उत्पलमूलं च । ४८१ । उलूकादयश्च । वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । ‘शमेर्बुक् च' (गण २००) । शम्बूको जलशुक्तिः । ४८२ । शलिमण्डिभ्यामूकण् । शालूकं कन्दविशेष: । मण्डूकः । ४८३ । नियां मिः। नेमिः । ४८४ । अर्तेरूच्च । ऊर्मिः । ४८५ । भुवः कित् । भूमिः । ४८६ । अश्नोते रश्च । रश्मिः किरणो रज्जुश्च । ४८७ । दल्मिः । दल विशरणे । दल्मिरिन्द्रायुधम् । । इत्यमरः । अर्ध दिपाठात् क्लीबत्वञ्च । 'पुनपुंसकयो रुजीवातुस्थाणुशाधवः' इति त्रिकाण्ड- शेपः । ‘शीलं स्वभाव सद्वृत्ते' इति मंदिनी । 'जलनाली नु शवालं शैवलः' इत्यमरः । शवलं पद्मकाष्ट स्यात् शैवले तु पुमानयम्' इति मेदिनी । शब्दार्णवोक्तिमाह । शेवाल- मित्यादि ॥ उलूकादयश्च ॥ 'उलूकः पुंसि काकादाविन्द्र भारतयोधिनि' इति मेदिनी । वदेय इन्तादृकः । 'वाचायुक्तिपटुर्वाग्मी वावदृकश्च वक्तरि' इत्यमरः । शमेर्बुक् च ॥ 'शम्बूको गजकुम्भान्ते घोषे च शूद्भतापसे' इति मेदिनी । बाहुलकादुकप्रत्यये ह्रस्वमध्योऽपि । 'जम्बूकं जम्बुकं प्राहुः शम्बूकमपि शम्बुकम्' इति द्विरूपकोशः । जम्बूकवन्धूकादयोऽप्यत्रैव द्रष्टव्याः । 'जम्बूकः फेरवे नीचे पश्चिमाशापतावपि' इति विश्वमेदिन्यौ । 'बन्धूकं बन्धुनीवे स्यात् वन्धूकः पीतसारके' इति च । शलिमण्डि ॥ ‘सौगन्धिकन्तु कहारम्' इत्याद्युपक्रम्य शालूकमेषां कन्दः स्यात्' इत्यमरः । एषां सौगन्धिकादीनां कैरवान्तानां कन्दो मूलमित्यर्थः । नियो मिः॥ 'नेमिना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्' इति मेदिनी । बाहुलकादन्यतो- ऽपि । 'या प्रापणे ।' 'यामिः स्वमृकुलस्त्रियोः' इत्यन्तःस्थादौ रभसः । 'यामिः कुलस्त्रीस्वस्रोः स्त्री' इत्यन्तःस्थादौ मेदिनी । 'जै क्षये।' 'जामिः स्वसृकुलस्त्रियोः' इति चवर्गतृतीयादौ अजयकोशः । 'चवर्गादिरपि प्रोक्तो यामिः स्वसृकुलस्त्रियोः' इति द्विरूपेषु विश्वः । अर्तरूच्च॥ उच्चेत्युचितम् । 'मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः । वस्त्रसङ्कोचरेखायां वेदनापीडयो- रपि' इति मेदिनी । भूमिः, 'भूमिर्वसुन्धरायां स्यात् स्थानमात्रेऽपि च स्त्रियाम्' इति मेदिनी । अश्नोतेः ॥ 'रश्मिः पुमान् दीधितो स्यात् पक्षप्रग्रहयोरपि' इति मेदिनी । . 80 । । सिद्धान्तकौमुदीसहिता [उणादिषु ४८८ । वीज्याज्वरिभ्यो निः। बाहुलकाण्णत्वम् । वेणिः स्यात्केश- विन्यास: प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः । ४८९ । सृषिभ्यां कित् । सृणिरङ्कुशः । 'वृष्णिः क्षत्रियमेषयोः' । ४९० । अङ्गेर्नलोपश्च । अग्निः । ४९१ । वहिश्रिश्रुयुगुग्लाहात्वरिभ्यो नित् । वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणि: । ग्लानिः । हानि: । तूर्णिः । बाहुलकान्म्लानिः । ४९२ । घृणिपृश्निपाणिचूर्णिभूर्णि । एते पञ्च निपात्यन्ते । घृणि: किरणः । स्पृशतेः सलोपः । पृश्निरल्पशरीरः । पृषेवृद्धिश्च । पाणिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णि: कपर्दकशतम् । बिभर्तेरुत्वम् । भूणिर्धरणी। ४९३ । वृदृभ्यां विन् । वविर्घस्मरः । दर्विः । ४९४ । जृशस्तृजागृभ्यः किन् । जीवि: पशुः । शीविहिस्रः। स्तीवि- रध्वर्युः । जागृविनृपः । ४९५ । दिवो द्वे दीर्घश्चाभ्यासस्य । दीदिविः स्वर्गमोक्षयोः' । । वीज्या॥अमरोक्तमाह । वेणिः स्यादित्यादि॥ 'वेणी केशस्य बन्धने । नद्यादेरन्तरे देवताडे' इति मंदिनी । 'वणी गरागरी देवताडो जीमूत इत्यपि' इत्यमरः। 'ज्यानिस्नौ स्रवन्त्याञ्च' इति विश्वः । जूर्णिः स्त्रीरोगः । सृवृषि ॥ 'अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः । 'मृणिः स्यादङ्कुशे पुमान्' इति कोशान्तरम् । अत एव 'आरक्षमग्नमवमत्य सृणिं शिताग्रम्' इति माघः । 'वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डचण्डयोः' इति विश्वः । 'ऐन्द्रे वृष्णि षोडशिनि तृतीयम्' इति श्रुतौ वृष्णि मेषमित्यर्थः । अङ्गेः ॥ 'अग्निवैश्वानरेऽपि स्याचित्रकाख्यौषधौ पुमान्' इति मेदिनी । वहिश्रि॥ 'श्रेणिः स्त्रीपुंसयोः पती समाने शिल्पिसंहतो' इति च । कटिः श्रोणिः ककुद्मती' इत्यमरः । 'योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे' इति मेदिनी। घृणिपृश्नि ॥ धृ सेचने' निप्रत्ययो गुणाभावश्च । 'घृणिः पुनः, अंशुज्वालातरङ्गेषु' इति हेमचन्द्रः । 'पृश्निरल्पतनौ' इत्यमरः । 'पाणिः स्यादुन्मदः स्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे पादप्रन्थ्यधरेऽपि च' इति मेदिनी । भूर्णिधरणीति ॥ 'तक्वानभूर्णिः' इति मन्त्रे भाष्ये तु 'भूणिर्धारकः पोषको वा' इति व्याख्यातम् । दिवो द्वे ॥ 'दीदिविर्धिषणानयोः' इति विश्वः । 'दीदिविर्ना धिषणेऽने तदस्त्रियाम्' इति मेदिनी । धिषणो बृहस्पतिः । 'दीदिवि- दिशकरश्चक्षा सुरगुरुर्गुरुः' इति त्रिकाण्डशेषः । 'दीदिविद्वादशार्चिः स्याज्जीवः प्राक्फल्गुनी- सुतः' इति हारावली । 'ओदनोऽत्री सदीदिविः' इत्यमरः । अत्र सदीदिविर्दीदिविसहित इति व्याख्यानं न्याय्यम् । स इति छेदे तु अस्त्रियामिति न लभ्यते । ततश्च 'अन्ने तदस्त्रियाम्' . ."
चतुर्थः पादः] बालमनोरमा । ६३५ । ४९६ । कृविघृष्विलस्थितिफिकीदिवि । कृविस्तन्तुवायद्रव्यम् । घृष्वि- वराहः । छास्थोर्हस्वत्वं च । छविर्दीतिः । स्थविस्तन्तुवाय: । दीव्यते: किकी- पूर्वान् । किकीदिविश्वाष: । बाहुलकाद्भस्वदीर्घयोर्विनिमयः । 'चाषेण किकि- दीविना' । ४९७ । पार्डतिः। पतिः । ४९८ । शकेऋतिन् । शकुन् । ४९९ । अमेरतिः। अमति: काल: । ५०० । वहिवस्यतिभ्यश्चित् । वहति: पवन: । 'वसर्गृिहयामिन्योः' । अरति: क्रोधः । ५०१ । अञ्चः को वा । अङ्कतिरञ्चतिर्वात: । ५०२ । हन्तरंह च । हन्तेरति: स्यादंहादेशश्च धातो: । हन्ति दुरित- मनया अंहतिर्दानम् । 'प्रादेशनं निर्वपणमपवर्जनमंहतिः । ५०३ । रमेनित् । ‘रमति: कालकामयोः । ५०४ । मूङः क्रिः । सूरिः । इति मेदिनीग्रन्थो विरुध्यतेति ध्येयम् । ‘गोपामृतस्य दीदिविम्' इति मन्त्रे तु द्योतमान- मित्यर्थः । कृविवृष्वि ॥ एतेन क्विनन्ता निपात्यन्ते । घृप्विर्वराह इति ॥ · उग्रस्य पुन: स्थविरस्य घृष्वेः' इति मन्त्रं तु घृध्वः कामानां वर्षकस्येत्यर्थः, ‘धृषु सेचने ' इति धात्वर्था- नुगमात् । 'छविः शोभारुचोर्योषित्' इति मंदिनी । 'अथ चाषः किकीदिविः' इत्यमरः । विनिमय इति ॥ 'किकिदीविः किकीदिविः' इति द्विरूपकोशः । पातेः ॥ ‘पतिर्धवे ना त्रिवीशे' इति मेदिनी । शकः ॥ 'उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रियाम्' इत्यमरः । अमेरतिः ॥ 'अथामतिः पुंसि हिमदीधितिकालयोः' इति मेदिनी । 'अमतिश्चामतिः कालः' इति द्विरूपेषु विश्वः । वहिवसि ॥ 'वहतिः सचिवे गवि' इति विश्वः । वसतिः स्यास्त्रियां वासो यामिन्याञ्च निकेतने' इति मेदिनी । अमरोक्तिमाह । प्रादेशनमिति ॥ रमेः ॥ 'रमतिनार्यके नाके पुंसि स्यात्' इति मेदिनी । वृत्तिकारोक्तं कोशान्तरमाह । रमतिरित्यादि ॥ नित्त्वमायुदात्तार्थम् । रन्तिरसि-रमतिरसि । सूङः क्रिः ॥ ‘धीमान् सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः' इत्यमरः । दशपाद्यान्तु 'मुमो रिन् दीर्घश्च' इति पाठः । तत्र रिनो नकारो नानुबन्धः। उत्तरसूत्रे प्रत्ययान्तरारम्भात् । अनुबन्धत्वे हि लाघवादिहैव क्रिन्नुच्येत । तथा च सूरी सूरिणौ सूरिण इत्यादि रूपम् । अत एवाभिधानमालायां सूरीति नान्तमुदाहृतमित्यवधेयम् । यत्तु दशषादीवृत्तिकारैर्नित्त्वं स्वीकृत्य सूरिरित्युदाहृतम् । तदेतेन प्रत्युक्तम् । स्वरविरुद्धमपि, ‘सदा पश्यन्ति सूरयः' सिद्धान्तकौमुदीसहिता [उणादिषु ५०५ । अदिशदिभूशुभिभ्यः क्रिन् । अद्रिः । शद्रिः शर्करा । भूरि प्रचुरम् । शुध्रिर्ब्रह्मा। ५०६ । वङ्क्रयादयश्च । क्रिन्नन्ता निपात्यन्ते । वतिर्वाद्यभेदो गृहदारु पास्थि च । वप्रिः क्षेत्रम् । 'अंहिरतिश्च चरणः' । तदिः सौत्रो धातुः । तन्द्रिर्मोहः । बाहुलकाद्गुणः । भेरिः । ५०७ । राशदिभ्यां त्रिप् । रात्रिः । शत्रिः कुञ्जरः । ५०८ । अदेस्त्रिनिश्च । चात्रिप् । अत्री । अत्रिणौ । अत्तूिणः । अत्रिः । अत्ती । अत्त्यः । ५०९ । पतेरत्रिन् । पतत्रिः पक्षी । ५१० । मृकणिभ्यामीचिः। मरीचिः । कणीचि: पल्लवो निनादश्च । ५११ । श्वयतेश्चित् । श्वयीचिर्व्याधिः । ५१२ । वेत्रो डिच्च । वीचिस्तरङ्गः । नसमासेऽवीचिर्नरकभेदः । ५१३ । ऋहनिभ्यामूषन् । अरूष: सूर्यः । हनूषो राक्षसः । 'विमूरयो दधतो विश्वमायुः' इत्यादौ सूरिशब्दस्यान्तोदात्तत्वात् । अदिशदि ॥ ‘अद्रयो द्रुमशैलाकाः' इत्यमरः । 'भूरिनी वासुदेव च हरे च परमेष्ठिनि । नपुंसके सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकम्' इति मेदिनी । वकिरिति ॥ ‘वकि कौटिल्ये ।' तन्द्रिरिति ॥ ‘कृदि- कारात्' इति पक्षे ङीष् । 'तन्द्री निद्राप्रमीलयाः' इति मेदिनी । 'तन्द्री तन्द्रिश्च तन्द्रायाम्' इति द्विरूपकोशः । 'विभज्य नक्तन्दिवमस्ततन्द्रिणा' इति भारविः। राशदिभ्यां ॥ 'शत्तिनाम्भोधरे जिष्णो' इति मेदिनी । 'शत्रिमग्र उपमाङ्केतुमर्यय' इति मन्त्रस्य वेदे भाष्ये तु उपमामुपमानभूतङ्कतुं प्रख्यातं शत्रिम् एतन्नामकं राजर्षिमिति व्याख्यातम् । अदेस्त्रिनिश्च ॥ अती भक्षकः । अत्तिः ऋषिविशेषः । उज्ज्वलदत्तस्तु अदेस्त्रिन् इति पठित्वा अत्तिरित्युदा- जहार । तन्त्र, त्रिपैव सिद्धे प्रत्ययान्तरवैयर्थ्यात् । गोवर्धनस्तु 'अदेस्त्रिनिच्च' इति पठित्वा निदिति वचनानकारस्य नेत्संज्ञा । अत्ती-अत्तिणौ-अत्तूिणः इत्याह । तदपि न, आद्युदात्ता- पत्तः । न चेष्टापत्तिः । 'जहीन्या अत्तिणं पणिम् । दूरे वा ये अन्ति वा केचिदत्तिणः । अग्ने हंसीत्यत्तिणम्' इत्यादावन्तोदात्तस्य निर्विवादत्वात् । दशपादीवृत्तौ तु 'अदेस्त्रिनिच्च' इति पठित्वा चकारात्तूिबित्युक्तम् । तदपि न, त्रिनिचश्चित्त्वस्य व्यर्थत्वात् । इकारेणैव नकारपरित्राणे सति प्रत्ययस्वरेणैवेष्टसिद्धेः । अत एव 'वधैगुःशंसान्' इति मन्त्रस्य भाष्ये 'अदेस्त्रिनिश्च' इति माधवः । 'न लुमताङ्गस्य' इति सूत्रे कैयटोऽप्येवमाहेति दिक् । पतत्तिरिति ॥ पक्षिवाचकात्पतत्रशब्दान्मत्वर्थे इनि तु पतत्री पतत्रिणी इत्यादि। मृकणिभ्यां ॥ 'मरीचिः कृपणे दीप्तावृषिभेदे च दृश्यते' इति विश्वः । ‘मरीचिमुनिभेदे ना गभस्तावनपुंसकम्' इति मेदिनी । 'कणीचिः पुष्पितलतागुञ्जयोः शकटेऽस्त्रियाम्' इति च । वेञः ॥ 'वीचिः स्वल्पे चतुर्थः पादः] बालमनोरमा । - - ५१४ । पुरः कुषन् । 'पुर अग्रगमने:' पुरुषः । अन्येषामपि- (सू ३५३९) इति दीर्घः । पूरुषः । ५१५ । पूनहिकलिभ्य उपच । परुषम् । नहुष: । कलुषम् । ५१६ । पीयोरूपन् । पीय इति सौत्रो धातुः । पीयूषम । बाहुलकाद्गुणे 'पेयूषोऽभिनवं पयः'। ५१७ । मस्जेर्नुम्च । मञ्जूषा । ५१८ । गडेश्च । गण्डूष:-गण्डूषा । ५१९ । अङ्ग्ररुः । अररुः शत्रुः । अररू । अररवः । ५२० । कुटः किच्च । कुटसर्वस्वगृहम । कित्त्वप्रयोजनं चिन्त्यम् । ५२१ । शकादिभ्योऽटन् । शकटोऽस्त्रियाम । ककिर्गत्यर्थः । कङ्कट: संनाहः । देवट: शिल्पी । करट इत्यादि । ५२२ । कृकदिकडिकटिभ्योऽम्बच् । करम्बं व्यामिश्रम । कदिकडी सौत्रो । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम । ५२३ । कदेणित्पक्षिणि । कादम्बः कलहंसः । तरों स्यादवकाश मुख द्वयो.' इति विश्वमेदिन्यौ । पुरः ॥ 'पुरुषः पुरुष माङयज्ञ च पुन्नाग- पादपे' इति विश्वमेदिन्यौ । पृनहि ॥ परुषं कर्बुरे रूक्षे निष्ठरोक्ता च वाच्यवत् इति मेदिनी । 'नहुपो राजविशेष नागभिद्याप' इति हेमचन्द्रः । चित्स्वरेणान्तोदात्तत्व प्राप्त प्रामादित्वात् वृषादित्वाद्वा आयुदात्तोऽयम् । ‘एतच्च ‘देवा अकृण्वन्नहुषस्य विश्वम्' इति मन्त्रस्य भाष्य स्पष्टम् । ‘कलुप त्वाविलनसाः' इति विश्वः । पीयो ॥ ‘पीयूषं सप्तदिवसावधिारे तथा- ऽमृत' इति मंदिनी । 'पियूषं' इत्यादिस्त्वमरः । मस्जेः ॥ ‘पिटक पेटकः पेटा मञ्जूषा' इत्यमरः । गडेश्च ॥ ‘गण्ड्यो मुखपूर्नाम्भःपुष्करप्रमृतान्मिते' इति मंदिनी । अर्तररुः ॥ उकारान्तोऽयं प्रत्ययः । न तु सकारान्त इति स्फोरयति । अररुः इत्यादिना ॥ युक्तञ्च- तत् । 'कञ्चिद्वाविरररुं शूग्मय॑म् । अपाररुमदेवयजनो जहि' इत्यादिमन्त्रेयु तथा दर्शनात् । यत्तु 'मानः शंसा अररुषः' इति मन्त्रस्य भाप्ये सान्तोऽयमिति माधवनोक्तं तत्प्रौढिवादमात्रं न तु वास्तवम् , पदस्यायुदात्तत्वानुपपत्तिप्रसङ्गात् । उक्तप्रयोगस्य वसन्तन रातिना नसमासे सौष्टवात् । 'गुरुद्वेषो अररुषे दधन्ति' इयत्र स्वयमेव तथा व्याख्यानात् । 'यो नोऽने अररिवाम् अघायुः' इत्यादिमन्त्रान्तरसंवादाच्चेति दिक् । 'क्लीवेऽन: शकटोऽस्त्री स्यात्' इत्यमरः। 'करटो गजगण्डे स्यात्कुसुमे निम्बजीविनि । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायस' इति मेदिनी । कृकदि ॥ 'करम्बो मिश्रिते वान्तो भान्तस्तु दधिसक्तुषु' इति विश्वः । ‘कदम्बं निकुरुम्वे स्यानीपसर्षपयोः पुमान्' इति मेदिनी । 'कलम्बी शाकभेदे स्यात्कदम्बशरयोः पुमान्' इति च । कदः॥ ‘कादम्बः स्यात् पुमान् पक्षिविशेषे सायकेऽपि ना' इति मेदिनी ।
सिद्धान्तकौमुदीसहिता [उणादिषु ५२४ । कलिक?रमः । कलमः । कर्दमः । ५२५ । कुणिपुल्योः किन्दच् । 'कुण शब्दोपकरणयोः' । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः । ५२६ । कुपेर्वा वश्च । कुपिन्दकुविन्दौ तन्तुवाये । ५२७ । नौ षञ्जेथिन् । निषङ्गथिरालिङ्गकः । ५२८ । उद्यश्चित् । उदरथिः समुद्रः । ५२९ । सर्तेर्णिच । सारथिः । ५३० । खर्जिपिञ्जादिभ्य अरोलचौ । खर्जरः । कर्पूरः । वल्लूरं शुष्क- मांसम् । पितलं कुशवर्तिः । 'लङ्गेर्वृद्धिश्च' (गण २०१)। लाङ्गुलम् । कुसूल: । 'तमेढुंग्वृद्धिश्च' (गण २०२)। ताम्बूलम् । 'शृणातेढुंग्वृद्धिश्च' (गण २०३) शार्दूल: । 'दुक्कोः कुक्च' (गण २०४) । दुकूलम् । कुकूलम् । , कलि ॥ 'कलमः पुंसि लेखन्यां शालौ पाटच्चरेऽपि च इति मेदिनी। कुपेर्वा ॥ 'कुप क्रोधे ।' अतः किन्दच् । वकारान्तादेशश्च वा। 'तन्तुवायः कुविन्दः स्यात्' इत्यमरः । बाहुलकात् 'अल मूषणादौ ।' अलिन्दः । 'यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि' इति माघः । प्रज्ञादित्वादणि दीर्घादिरप्ययम् । निषङ्गथिरिति ॥ 'चजोः' इति कुत्वम् । “आभुरस्य निषङ्गथिः ।" रथकूबर इत्यर्थः । सर्तेः ॥ 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः। खर्जिपिनादिभ्यः॥ 'खर्ज मार्जने' एवमादिभ्य ऊरः । 'पिञ्ज हिंसायाम्' । एवमादिभ्य ऊलच् । 'खरं रूप्यफलयोः खजूरः कीटवृक्षयोः' इति मेदिनीहेमचन्द्रौ । 'कृपू सामर्थे ।' बाहुलकालत्वाभावः । 'अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इ.मरः । 'वल्ल संवरणे ।' वल्लूरम् । 'उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्ग- कम्' इत्यमरः। एवं शालूरमण्डूरादयः । 'भेके मण्डूकवर्षाभूशालूरप्लवदर्दुरा.' इत्यमरः । 'अथ मण्डूरं 'शिवाणमपि तन्मले' इति च । तन्मले तस्य पूर्वोक्तस्य लोहस्य मले इत्यर्थः । 'लालं पुच्छशेफसोः' इति मेदिनी । कुसूल इति ॥ 'कुस श्लेषण ।' दन्त्यसकारवान् । कुसूलश्च कुसीदश्च मद्ध्यदन्त्यमुदाहृतम्' इति विश्वः । ताम्बूलादयोऽप्यत्र । 'तमु ग्लानौ ।' 'ताम्बूली नागवल्ल्यां स्त्री क्रमुके तु नपुंसकम्' इति मेदिनी। 'शू हिंसायाम् ।' धातोद्धिः । दुगागमश्च । 'शार्दूलो राक्षसान्तरे । व्याने च पशुभेदे च सत्तमे तूतरस्थिते' इति मेदिनी- विश्वप्रकाशो । उत्तरस्थितमुत्तरपदम् । राजशार्दूल इति यथा । 'दु गतौ', 'कुङ् शब्दे' अनयोः कुक् च । 'दुकूलं श्लक्ष्णवस्त्रे स्यात्क्षौमे च' इति मेदिनी । 'कुकूलं शङ्कुसङ्कीर्णश्वभ्रे ना तु तुषानले' इति विश्वमेदिन्यौ । 'शिरीषादपि मृदङ्गी केयमायतलोचना । अयं कच . .
चतुर्थः पादः] बालमनोरमा । ५३१ । कुवश्चदीर्घश्च । कूची चित्रलेखनिका । ५३२ । समीणः । समीच: समुद्रः । समीची हरिणी । ५३३ । सिवेष्टेरू च । सूचो दर्भाङ्कुरः । सूची । ५३४ । शमेन् । शम्बो मुसलम् । ५३५ । उल्बादयश्च । बन्नन्ता निपात्यन्ते । 'उच समावाये। चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशय: । शुल्वं ताम्रम् । निम्बः । बिम्वम् । ५३६ । स्थः स्तोऽम्बजवको । तिष्ठतेरम्वच् अबक एतौ स्त: स्तादेशश्च । 'स्तम्बो गुच्छस्तृणादिनः' । स्तबकः पुष्पगुच्छः । ५३७ । शाशपिभ्यां ददनो। शादो जम्बालशष्पयो:' । शब्दः । ५३८ । अब्दादयश्च । अवतीत्यब्दः । 'कौतेनुम् (च)' (ग २०५)। कुन्दः । ५३९ । वलिमलितनिभ्यः कयन् । वलयम् । मलयः । तनयः । ५४० । होः पुग्दुको च । वृषय आश्रयः । हृदयम् । ५४१ । मिपीभ्यां रुः रुः। मेरुः । पेरुः सूर्यः । बाहुलकात्पिबतेरपि । 'संवत्सरवपुः पारुः परासीदिनप्रणीः' । ५४२ । जव्वादयश्च । जत्रु । जत्रुणी । अश्रु । अश्रुणी । कुकूलाग्निकर्कशा मदनानलः' इति प्रयोगश्च । कुवश्चट दीर्घश्च ॥ कूचः स्तनः । 'कुचकूची स्तने मतो' इति विश्वः। कूचीति ॥ टित्त्वान्डीप् । समीणः॥ इणः सम्युपपदे चट् स्यात् । दीर्घत्वञ्च धातोः । सिवः ॥ 'सूची तु सीवनद्रव्ये आङ्गिकाभिनयान्तरे' इति मेदिनी । शमेः॥ 'शम्बः स्यान्मुसलाग्रस्थलोहमण्डलके पौ । शुभान्विते त्रिषु' इति विश्वमेदिन्यौ उल्बादयश्च ॥ 'गर्भाशयो जरायुः स्यादुल्बञ्च कललोऽस्त्रियाम्' इत्यमरः । शुल्बमिति ॥ 'शुच शोके ।' लत्वादि प्राग्वत् । 'शुल्बे ताने यज्ञकर्मण्याचारे जलसन्निधौ' इति मेदिनी- हेमचन्द्रों । वैतेर्नुमागमा ह्रस्वत्वञ्च । 'बिम्बस्तु प्रतिविम्बे स्यात् मण्डले पुनपुंसकम् । विम्बिकायाः फले क्लीवं कृकलाले पुनः पुमान्' इति मेदिनी । स्थः स्तः॥ 'स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च' इति विश्वः । 'स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः' इति मेदिनी। स्यात् गुच्छकस्तु स्तबकः' इत्यमरः । शाशपि ॥'शादः स्यात् कर्दमे शष्पे' इति मेदिनी। 'अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान् । कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' इति च । वलिमलि ॥ 'वलयः कण्ठरोगे ना कङ्कणे पुनपुंसकम्' इति मंदिनी । 'मलयः पर्वतान्तरे । शैलांशे देश आरामे त्रिवृतायान्तु योषिति' इति च । 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । वृहोः ॥ ह्रियते विषयः हृदयम् । हट्टचन्द्रोक्तिमाह । संवत्स- रेत्यादि ॥ जञ्चादयश्च ॥ रुप्रत्ययान्ता निपात्यन्ते । ‘जनी प्रादुर्भावे। नकारस्य तकारः। .
६४० सिद्धान्तकौमुदीसहिता [उणादिषु ५४३ । रुशातिभ्यां क्रुन् । रुरुर्मंगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्धखत्वम् । ५४४ । जनिदाच्युसृटमदिषमिनमिभृभ्य इत्वन्त्वन्ननिन्शस्यढड- टाटचः। जनित्वौ मातापितरौ । दात्वो दाता। च्यौत्नो गन्ताण्डज: क्षीण- पुण्यश्च । सृणिरङ्कुशश्चन्द्रः सूर्यो वायुश्च । वृश आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्त्वाहिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरट: कुलालो भृतकश्च । ५४५ । अन्येभ्योऽपि दृश्यन्ते । पेत्वममृतम् । भृशम् । ५४६ । कुसेरुम्भोमेदेताः । कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितो जनपदः । ५४७ । सानसिवर्णसिपर्णसितण्डुलाकुशचषालेल्वलपल्वलधिष्ण्य- शल्याः। सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक्च । वर्णसिर्जलम् । पृ । पर्णसिर्जलगृहम् । 'तड आघाते' । तण्डुलाः । अकि जत्रु स्कन्धसन्धिः । ‘सन्धी तस्यैव जत्रुणी' इत्यमरः । तस्य पूर्वोक्तस्य स्कन्धस्य सन्धी इत्यर्थः । रुशातिभ्याम् ॥ 'रुदैत्य मृगेऽपि च' इति मेदिनी । जनिदा ॥ नवभ्यो यथासङ्खथं नव स्युः । जनरित्वन् इकारोच्चारणमुत्तरार्थम् । जनरिटा सिद्धत्वात् । सृणिरिति ॥ नित्स्वरेणाद्युदात्तोऽयम् । 'मृवृषिभ्याङ्कित्' इति निप्रत्यये त्वन्तोदात्तः । मत्स्य इति ॥ अन्तोदात्तोऽयम् । 'ऋतन्यन्नि' इति सूत्रे तु आधुदात्तः साधितः । षण्ढ इति ॥ 'षम पृम वैकल्ये । बाहुलकात्सत्वाभावः । ‘शमो ढः' इति सूत्रे तु तालव्यादिः साधितः । ‘सायं सायो भवेत्कोषः कोशः षण्ढश्च शण्डवत्' इति द्विरूपकोशः । कैयटस्तु 'ठस्येकः' इति सूत्रे शण्ड इति प्रतीकमुपादाय, 'जनिदाच्यम्' इत्यनेन ढप्रत्यये शण्ड इत्याह । 'नटी नीलौषधौ स्त्री स्वात् शैलूषाशोकयोः पुमान्' इति मेदिनी । अन्येभ्योऽपि दृश्यन्ते ॥ इत्वन्नादयो- ऽनुवर्तन्ते । कुसेः ॥ 'कुस श्लेषणे ।' 'कुसुम्भं हेमनि महाराजते ना कमण्डलौ' इति मेदिनी। 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति च । 'कुसीदं जीवने वृद्ध्या क्लीबं त्रिषु कुसीदके' इति च । इह सूत्रे तृतीयो ह्रस्वादिदीर्घादिश्च तन्त्रेणोपात्तः । 'वृषाकप्यमि' इति सूत्र ह्रस्व एवेति वृत्तिकारहरदत्तादिप्रयोगोपष्टम्भेन निर्णीतम् । 'पारलौकिककुसीदकमासीत् ' इति श्रीहर्षः । उक्तश्च ‘गाण्ड्यजगात्' इति सूत्रे ह्रस्वदीर्घयोस्तन्त्रेण निर्देशो वामनेनेति दिक् । उज्ज्वलदत्तमतेनाह । वृञो नुक्चेति ॥ दशपाद्यान्तु सानसिधर्णसीति पठित्वा धृषो नुक् च, धर्णसिर्लोकपाल: इति व्याख्यातम् । युक्तञ्चैतत् । धर्णसिम्भूरिधायसमित्यादि- दर्शनात् । तण्डुला इति ॥ उलच्प्रत्ययः, नुगागमः। 'त्रेधा तण्डुलान् विभजेत् ।' चित्स्वरः ।
चतुर्थः पादः] बालमनोरमा । ६४१ - लक्षणे उशच् । अङ्कुशः । 'चषेरालः । चषालो यूपकटकः' । इल्वलो दैत्य- भेदः । पल्वलम् । विधृषा ण्यः । ऋकारस्येकारः । धिष्ण्यम् । शलेयः । शल्यम् । ‘वा पुंसि शल्यं शङ्कर्ना' । ५४८ । मूशक्यबिभ्यः क्लः । मूलम् । शक्लः प्रियंवदे। अम्ब्लो रसः । बाहुलकादमेः । अम्लः । ५४९ । माछाससिभ्यो यः । माया । छाया । सस्यम् । बाहुलकात्सु- नोतेः । 'सव्यं दक्षिणवामयोः । ५५० । जनेर्यक् । 'ये विभाषा' (सू २३१९) । जन्यं युद्धम् । जाया भार्या । ५५१ । अघ्न्यादयश्च । यगन्ता निपात्यन्ते। हन्तेर्यक् अडागम उपधालोपश्च। तण्डुलः स्याद्विगण्डे च धान्यादिनिकरे पुमान्' इति मेदिनी । अंकुश इति ॥ अयमपि चित्खरेणान्तोदात्तः । तथा च मन्त्रः । दीर्घ ह्यङ्कुशं पथेति ॥ चषेराल इति ॥ प्रत्ययस्वरेणाद्युदात्तः । उज्ज्वलदत्तादयस्तु आलच् इति चितमाहुः । तन्न । 'चषालं ये अश्वयूपाय तक्षति । चषालवन्तस्तरवः पृथिव्याम्' इत्यादौ चित्स्वरादर्शनात् । अमरोक्तिमाह । चषाल इति ॥ इल्वल इति ॥ 'इल स्वप्नप्रेरणयोः ।' वलच गुणाभावः । 'इल्वला तारकाभेदे ना भेदे दैत्यमत्स्ययोः' इति मेदिनी । 'इल्वलाः तच्छिरोदेशे तारका निवसन्ति याः' इत्यमरः । तत्र 'इल्वकाः' इति पाठान्तरम् । तच्च 'इवि प्रीणने ''अस्मात् क्वुन् शिल्पि- संज्ञयोः' इति क्वुनि बोध्यम् । पिबतेर्वलच । लुगागमः । ह्रस्वत्वञ्च । पिबन्त्यस्मिन् इति पल्वलम् । अल्पसरः । 'वेशन्तः पल्वलञ्चाल्पसरः' इत्यमरः । इकार इति ॥ रपरत्वा- भावो ण्यप्रत्ययश्चति बोध्यम् । 'धिष्ण्यं स्थाने गृहे भेऽनौ' इत्यमरः । ‘धिष्ण्यं स्थानाग्नि- सद्मसु । ऋक्षे शक्तो च' इति मेदिनी । ‘धिष्ण्यं स्थाने च ऋक्षे चामो धिष्ण्यो नालये' इति धरणिः । शरिति ॥ ‘शल्ये तु न स्त्रियां शङ्कौ क्लीबं क्ष्वेडेषुतोमरे । मदनद्रुश्वाविधोर्ना' इति मेदिनी। मूशक्य ॥ 'मूङ् बन्धने ।' 'शक्ल शक्तौ ।' 'अबि शब्दे ।' 'मूलं शिफा- घयोः । मूलं वित्तऽन्तिक' इति मेदिनी। 'शक्लः प्रियंवदः' इति विशेष्यनिघ्नेऽमरः । 'अम्लो रसविशेषे स्यादम्ला चाङ्गेरिकौंषधौ' इति मेदिनी । माछा ॥ 'माया स्याच्छाम्बरीवुद्ध्योर्मायः पीताम्बरेऽसुरे' इति मेदिनी । 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कोचयोः कान्तिसच्छोभापदिषु स्त्रियाम्' इति विश्वमेदिन्यो । 'वृक्षादीनां फलं सस्यम्' इत्यमरः । 'सव्यं वामे प्रतीपे च' इति मेदिनी । जनेर्यक् ॥ ‘जन्यं हट्टे परीवादे सङ्ग्रामे च नपुंसकम् । जन्या मातृवयस्यायाञ्जन्यः स्याज्जनके पुमान् । त्रिपुत्पाद्यजनित्रोश्च नवोढाज्ञाति- भृत्ययोः । वरस्निग्धे' इति मेदिनी । अघ्न्यादयश्च ॥ कौतेयतिधुक् कुज्यमित्युज्ज्वल- दत्तादयः। 'यतोऽनावः' इत्यायुदात्तः । ड्यक्प्रत्ययोऽन्तोदात्त इत्यन्ये इति, 'निवाते वात- त्राणे' इति सूत्रे वृत्तिः।। गुणप्रतिषेधार्थात्ककारात् डकारस्येत्त्वं नेति तत्रैव हरदत्तः । एवं स्थिते यगन्ता इति प्रायोवादः । अडागम इति ॥ नपूर्वाद्धन्तेर्यगिति वा बोध्यम् । 81 ६४२ सिद्धान्तकौमुदीसहिता [उणादिषु अघ्न्या माहेयी । अघ्न्यः प्रजापतिः । 'कनी दीप्तौ' । कन्या। बवयोरैक्यम् । वन्ध्या। -- ५५२ । स्नामदिपद्यर्तिपृशकिभ्यो वनिप् । स्नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । 'अर्वा तुरङ्गगयोः' । पर्व प्रन्थिः प्रस्तावश्च । शक्का हस्ती । डीब्रौ । शक्करी अङ्गुलिः । ५५३ । शीशिरुहिजिक्षिसधृभ्यः कनिप् । शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः। मृत्वा प्रजापतिः । धृत्वा विष्णुः । ५५४ । ध्याप्योः संप्रसारणं च । धीवा कर्मकरः । पीवा स्थूलः । ५५५ । अदे च । अध्वा । ५५६ । म ईरशदोस्तुट् च । प्रेा प्रशत्त्वा च सागरः । प्रेवरी प्रश- त्वरी च नदी। ५५७ । सर्वधातुभ्य इन् । पचिरग्निः । तुडिः । तुण्डि: । वलिः । वटिः । यजिः । देवयजि: । काशत इति काशिः। यतिः । मल्लिः । मल्ली । केलि: । 'मसी परिणामे ।' मसिः । बाहुलकाद्गुणः । कोटि: । हेलिः । बोधिः । नन्दिः । कलिः। अध्न्या इति ॥ यत्तु 'अध्न्यस्य मूर्द्धनि' इति मन्त्रे वेदभाष्यकारैरुक्तम् । 'हन्तुमशक्यो- ऽन्यः पर्वतः' इति तत् प्रकृतसूत्रमभिप्रेत्यैव । यत्तु अहननमघ्नः तमहतीत्यर्थे 'छन्दसि च' इति य इति तत्रैवोक्तम् , तदुपायान्तरपरतया बोद्ध्यम् । 'माहेयी सौरभेथी गौरुस्रा माहा च शृशिणी। अर्जुन्यग्न्या रोहिणी स्यात्' इत्यमरः । सम्पूर्वाद्धाओ यक् । आतो लोपश्च । 'सन्ध्या पितृप्रसूनद्योश्चिन्तामर्यादयोरपि । प्रज्ञायां च सन्ध्याने सन्ध्या च कुसुमान्तरे' इति विश्वः। 'सन्ध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु' इति मेदिनी । 'सन्ध्या कुमारिका नार्यो- रोषधीराशिभदयोः' इति विश्वमेदिन्यौ । वन्ध्यति ॥ 'बन्ध बन्धने।' 'वन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजःस्त्रियाम्' इति मेदिनी । स्नामदि ॥ 'अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्य- लिङ्गके' इति मेदिनी । 'पर्व क्लीबं महे प्रन्थौ प्रबले लक्षणान्तरे। दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि' इति च । अंगुलिरिति ॥ एतच्च ‘आरोहतन्दशतं शक्करीमम' इत्यादि- मन्त्रव्याख्यायां स्पष्टम् । ‘शक्करी च्छन्दसो भेदे नदीमेखलयोरपि' इति मेदिनी। सर्वधातुभ्य इन् । यतिरिति ॥ 'यती प्रयत्ने।' 'यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान्' इति मेदिनी। 'कोटिः स्त्री धनुषोऽप्रेऽश्रो सङ्ख्याभेदप्रकर्षयोः । बोधिः पुंसि समाधेश्च भेदे पिप्पल- पादपे। नन्दिचूताङ्ग आनन्दे स्त्री नन्दिकेश्वरे पुमान् । कलिः स्त्री कलिकायां ना शूराजिकलहे ।
चतुर्थः पादः] बालमनोरमा । ५५८ । हपिषिरुहितिविदिछिदिकीर्तिभ्यश्च । हरिविष्णावहाविन्द्र भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे बाते च कीर्तितः । पेषि- र्वत्रम् । रोहिती । वर्तिः । वेदिः । छदिश्छेत्ता । कीर्तिः । ५५९ । इगुपधारिकत् । कृषिः । ऋषिः । शुचिः । लिपि: । बाहुलका- द्वत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली । कूर्चिका । ५६० । भ्रमः संप्रसारणं च । भृमिर्वात: । बाहुलकाद्भुमिः । ५६१ । क्रमितमिशतिस्तम्भामत इच्च । क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भि: समुद्रः । ५६२ । मनेरुच्च । मुनिः । युगे' इति च । इह इनित्येव सूत्रम् । अधिकन्तु प्रक्षिप्तं व्यर्थञ्च । एवं 'सर्वधातुभ्यष्ष्ट्रन्' इत्यादावपि । अत एव दशपाद्यामिनित्येव पठितमिति दिक् । हृपिषि ॥ हरतेः कीर्तयतेश्च 'अच इ.' इति प्राप्ते इतरेषां तु 'इगुपधात्' इति कित्त्वे प्राप्त वचनम् । 'हरिश्चन्द्रार्कवाताच- शुकभेकयमाहिषु । कपी सिंह हरेऽऽशी शके लोकान्तरे पुमान् । वाच्यवल्लिङ्गहरितोः' इति मेदिनी । 'वतिर्भेषजनिर्माण नयनाञ्जनलेखयोः । मात्रानुलेपनादीपदशादीपेषु योषिति । वदिः स्यात्पण्डिते पुमान् । स्त्रियामङ्गुलिमुद्रायां स्यात्परिष्कृतभूतले' इति च । 'कीर्तिः प्रसादयशसो- विकारे कर्दमेऽपि च' इति विश्वः । 'सा रसवत्ता विगता नवका विलसन्ति चरति नो कङ्कः । सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्य इति कविप्रयोगः। इगुपधाकित् ॥ इनः कित्त्वं विधीयते । केचित्तु किरिति पठित्वा इनाऽपवादः किप्रत्यय इत्याहुः । तन्न । प्रत्ययस्वरेण प्रातिपदिकानामन्तोदात्ततापत्तेः । न चेष्टापत्तिः । 'अग्निः पूर्वेभिर्ऋषिभिः । ऋषिविप्रः काव्येन । शुचिर्विप्रः शुचिः कविः' इत्यादी ऋषिशुचिप्रभृतीनामायुदात्तत्वदर्शनात् । कथं तर्हि 'अक्षा दिव्य कृषिमित्कृषस्व' इत्यादौ कृषिशब्दस्यान्तोदात्ततेति चत् । ‘इक् कृष्यादिभ्यः' इतीक्प्रत्यये सतीति गृहाण । 'ऋषिदे वसिष्ठादौ दीधितौ च पुमानयम् । शुचिर्तीमाग्निशृङ्गारेवोषधे शुद्धमन्त्रिणि' इति मेदिनी । यत्तु माधवेन ‘अग्निः पूर्वेभिरित्यग्व्याख्यावसरे ऋषिशब्दस्य- प्रत्ययान्तत्वमङ्गीकृत्य, 'ऋष्यन्धक' इति निपातनालघूपधगुणाभाव इत्युक्तं तत्प्रकृतसूत्र- विस्मरणमूलकत्वादुपेक्ष्यम् । भ्रमेः ॥ 'भृमि विद्यथावसवोऽजुषन्त' इति मन्त्र भृमि भ्रमण- शीलन्दरिद्रञ्जनमिति वेदभाष्यम् । क्रमितमि ॥ ‘क्रमु पादविक्षेपे।' 'कृमिना क्रिमिवत्कीटे लाक्षायां क्रिमिले खरे' इति विश्वमेदिन्यौ । 'पारतं पारदं वाऽस्त्री वासरः क्रिमिवत्कृमिः' इति द्विरूपकोशः । तिमिरिति ॥ ‘तमु काङ्खायाम् ।' 'अस्ति मत्स्यस्तिमिर्नाम तथा चास्ति तिमिङ्गिलः । तिमिशिलगिलोऽप्यस्ति तद्विलोऽप्यस्ति लक्ष्मण' इति रामायणे सप्तमे काण्डे रामवाक्यम् । 'शितिः कृष्णेऽसिते भूर्जे' इति विश्वः । 'शितिर्भूजें ना रसितासितयोस्त्रिषु' इति मेदिनी। मनेरुश्च ॥ 'मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने' इति मेदिनी । .
६४४ सिद्धान्तकौमुदीसहिता [उणादिषु ५६३ । वर्णेलिश्चाहिरण्ये । वणिः सौत्रः । अस्य बलिरादेशः । करो- पहारयोः पुंसि बलि: प्राण्यङ्गके स्त्रियाम् । वबयोरैक्यात वलिः । हिरण्ये तु वणिः सुवर्णम् । ५६४ । वसिवपियजिराजिनजि सदिहनिवाशिवादिवारिभ्य इञ् । वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः । राजी । ब्राजिा- तालिः । सादिः सारथिः । निघातिर्लोहघातिनी । वाशिरग्निः । वादिविद्वान् । वारिर्गजबन्धनी । जले तु क्लीबम् । बाहुलकाद्वारिः पथिकसंहतौ । ५६५ । नहो भश्च । नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम्। पुंस्य- पीति केचित् । ५६६ । कृषेर्दृद्धिश्छन्दसि । कार्षिः । ५६७ । श्रः शकुनौ । शारिः शारिका । ५६८ । कृत्र उदीचां कारुषु । कारिः शिल्पी । ५६९ । जनिघसिभ्यामिण् । जनिर्जननम् । घासिर्भक्ष्यमग्निश्च । । - . वर्णः॥ वलिदैत्यप्रभेदे च करचामरदण्डयोः। उपदायां पुमान् स्त्री तु जरया श्लथचर्मणि । गृहदाह- प्रभेदे च जठरावयवेऽपि च' इति मेदिनी । वसि ॥ एभ्यो दशभ्य इस्यात् । वाशिरिति ॥ दन्त्यसः । सूत्रे अष्टमस्तु तालव्यशः । द्वयमपि च्छेदनसाधने प्रयुज्यते । वास्यादीनामिव करणानाकर्तृव्यापार्यत्वनियमादिति वैशेषिकाः । वास्यर्थमित्यत्र 'स्कोः' इति सलोपः प्राप्नोतीति भाष्यम् । 'वाशीमन्य अष्ठिमन्तो मनीषिणः' इति मन्त्रः । 'राजिः स्त्री पतिरेखयोः' इति मेदिनी । इह वादीति ण्यन्तो निर्दिष्टः । बाहुलकादण्यन्तादपि । तथा च भूवादिसूत्रे 'वदन्तीति वादयो वाचकाः' इति न्यासकारादयः । 'वारिर्गिजबन्धयोः स्त्री क्लीबेऽम्बुनि वालके । वारी स्याद्गजबन्धन्याङ्कलश्यामपि योषिति' इति च। 'वारिः स्मृता सरखत्यां वारिहीभेदनीरयोः । वारी घटीभबन्धन्योः' इति विश्वः । 'हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम्' इति मेदिनी । खटतेः खाटिः । 'खाटिस्त्वसद्हेऽपि स्यात् किणे शवरथे स्त्रियाम्' इति मेदिनी । नहो भश्च ॥ स्त्रियामिति ॥ लिङ्गानुशासने स्त्रियामित्यधिकारे नाभिरक्षत्रिय इति सूत्रितत्वादिति भावः । केचिदिति ॥ तथा च मेदिनी । 'नाभिर्मुख्यनृपे चक्रमद्ध्य- क्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियाङ्कस्तूरिकामदे' इति । भारविश्व प्रायुत । 'समुल्लसत्पङ्कजकोशकोमलैरुपाकृतश्रीण्युपनीवि नाभिभिः' इति । श्रः ॥ ‘शारि क्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि च' इति मेदिनी । कपिलकादि- त्वाल्लत्वम् । शालिस्तु कलमादौ च गन्धमार्जारके पुमान्' इति मेदिनी । कृञः ॥ ‘कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि' इति मेदिनी। जनिघसिभ्यामिण ॥ प्रत्यया- न्तरकरणं स्वरार्थम् । यच घासिञ्जघास । आजिन्न जग्मुः सुकृतोतमर्णः' इत्यादौ घास्याजि- पाणिप्रभृतीनामन्तोदात्तत्वात् । जनिरिति स्त्रीलिङ्गम् । 'कृदिकारात्' इति पक्षे ङीष् । 'जनी चतुर्थः पादः] बालमनोरमा । ६४५ ५७० । अज्यतिभ्यां च । आजि: संग्रामः । आति: पक्षी । ५७१ । पादे च । पदाजिः । पदातिः । ५७२ । अशिपणाय्यो रुडायलुको च । अशेरुट् । राशि: पुतः । पणायतेरायलुक् । पाणि: करः । ५७३ । वातेर्डिच्च । वि: पक्षी । स्त्रियां वीत्यपि । ५७४ । प्रे हरतेः कूपे । प्रहिः कुप: । ५७५ । नौ व्यो यलोपः पूर्वस्य च दीर्घः। व्यत्र इण् स्याद् यलो- पश्च नेर्दीर्घः । नीवि: नीवी । वस्त्रग्रन्थौ मूलधने च । ५७६ । समाने ख्यः स चोदात्तः। समानशब्दे उपपदे ख्या इत्यस्मा- दिण् स्यान् स च डिच्च यलोपश्च । समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा । सीमन्तिनीवध्वोरुत्पत्तावोषधीभिदि' इति मेदिनी । 'आजिः सभावनौ युद्धे' इति विश्वः 'शरारिराजिराटिश्च' इत्यमरः । पादे च ॥ पादे उपपदे अज्यतिभ्यामिण । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः । अत एव निर्देशात् बाहुलकादजेर्वीभावो न । ‘पदाति- पत्तिपदगपादातिकपदाजयः । पद्श्व पदिकश्च' इत्यमरः । आशि ॥ ‘राशिर्मेषादिपुञ्जयोः' इति मेदिनी। प्रे॥ पुंस्येवान्धुः प्रहिः कूप उदपानन्तु पुंसि वा' इत्यमरः । नौ ॥ 'स्त्री- कटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । परिपणं मूलधनम् । समाने ॥ इण् स्यादिति ॥ यत्तज्ज्वलदत्तेनोक्तम् । इञ् स्यात् स चोदात्त इतीति । तन्न । इणः सन्निधानात् इसा विच्छिन्नत्वात् । यदपि तेनैव नौव्य इति पूर्वसूत्रे उक्तम् । इञवात्रानुवर्तते, न विण् । उत्तरत्रोदात्तवचनाज्ज्ञापकादिति । तदपि न, स चोदात्त इति हि नायं प्रत्ययं निर्देष्टुं तच्छब्दः, किं तु समानशब्दस्य स्थाने विधेयं निर्देष्टुं शब्दस्वरूपपरः । तथा च कथं ज्ञापकता । यदपि स इञिति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रतम् । तदपि न । विधायका- भावात् । यदपि स्वरमञ्जरीकारादिभिः 'समानस्य छन्दसि' इति सूत्रेणेत्युक्तं तदपि न । लोके सखिशब्दस्यासाधुतापत्तेः । अपि च–'सखा सखायमब्रवीत् । सखा सख्ये अयचत् । सखा- यस्त्वा क्वमहे । सखा सखिभ्य ईड्यः ।' इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम् । एवञ्च इञ् उदात्त इति व्याख्यानं वेदवार्तानभिज्ञत्वप्रयुक्तमेव । तथा च ज्ञापको- पन्यासोऽपि गर्भलावणेव गतः। अपि च। त्वत्पक्षे 'सख्य इण्' इत्येव सूत्र्यता, किं स चेत्यादिना, शब्दतोऽर्थतश्च गौरवप्रसङ्गात् । अपि च । इणित्यपि मास्तु । नौव्य इत्यादित्रिसूत्री जनिघसिभ्यामित्यतः प्रागेव उपेयताम् । एवं हि महदेव लाघवम् । स चोदात्त इति मण्डूकप्लुतौ ज्ञापकस्यानाश्रयणात् । ननु 'वातेर्डिच्च' इति डित्त्वोपजीवनार्थमित्थं पाठ इति चेत् । तही प्रकरणानन्तरमेव इप्रकरणं सर्वत्रास्तु । नौव्य इति सूत्रे इञ् पठ्यताम् । आङि .
सिद्धान्तकौमुदीसहिता [उणादिषु । - ५७७ । आङि श्रिहनिभ्यां ह्रस्वश्च । इण् स्यात्स च डित् आडो हखश्च । स्त्रियः पाल्यश्रिकोटयः । सर्प वृत्रासुरेऽप्यहिः । ५७८ । अच इः। रविः । पविः । तरिः । कविः । अरिः । अलिः । ५७९ । खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च । खनिः कषिर्हिस्रः । अजि: । असि: । वसिर्वस्त्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चलि: पशुः । ५८० । ठूतेश्छन्दसि । वर्तिः ।। ५८१ । भुजेः किच्च । भुजिः । ५८२ । कृगशपकुटिभिदिछिदिभ्यश्च । इ: कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राधिरोगयोः । गिरिणा काणः गिरिकाण: । शिरिः शलभो हन्ता च । पुरिनगरं गजा नदी च । कुटि: शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः। श्रीत्यस्यानन्तरं वसिवपीत्यादि पठ्यताम् । इञ् चानुवर्तिष्यते, न तु डित्त्वम् । वकाराद्यनेक- धातुपाठवैयर्थ्यांपत्तेरिति दिक् । तस्मादस्य उक्तैव व्याख्या सुधीभिरादर्तव्या । दशपादीवृत्ति- प्रन्थाः, ख्याधातौ माधवग्रन्थः, 'यस्ते सखिभ्य आवरम्” इत्यादीन् मन्त्रान् व्याचक्षाणानां वेदभाष्यकृतामनेकप्रघट्टकस्थिता ग्रन्थाश्चैहानुकूला इत्यवधेयम् । अश्रिः कोणः । अमरोक्तिमाह । स्त्रिय इति ॥ एवञ्च ‘सुप्रातसुश्व' इति सूत्रे चतुरश्रेति तालव्यपाठ एव । केषाश्चिद्दन्त्य- पाठस्तु एतत्सूत्रानालोचनमूलक इत्यवधेयम् । न चैतावता चतुरस्रमिति दन्त्यप्रयोगोऽशुद्ध इति भ्रमितव्यम् । अकारान्तेन दन्त्यगर्भेणास्रशब्देन विग्रह तत्सौष्ट्वात् । न च तादृशशब्देऽपि विप्रतिपत्तव्यम् । ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते' इति मेदिनीकोशात् । 'अहि- वृत्रासुरे सर्प' इति मेदिनी । अच इः ॥ ‘कुङ् शब्दे ।' 'कविर्वाल्मीकिशुक्रयोः । सूरौ काव्यकरे पुंसि स्यात् खलीने तु योषिति' इति मेदिनी। खनिकष्य ॥ 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । ण्यन्तात् 'अच इ.' इतीप्रत्यये खानिरपि । 'खनिरेवं मता खानिः' इति द्विरूपकोशः । 'प्रन्थिस्तु प्रन्थिपणे ना बन्ध रुग्भेदपर्वणोः' इति मेदिनी। वृतेश्छन्दसि ॥ बाहुलकाल्लोकेऽपि । 'वर्तिर्भेषजनिर्माणे नयनाञ्जनलेखयोः । गात्रानुलेपनीदीपदशादीपेषु योषिति' इति मेदिनी । कृगृ ॥ यत्तु 'न पदान्त' इति सूत्रे न्यासकारहरदत्ताभ्यां किर्योगिर्योरित्यत्र 'कृयोरिक्च' इत्युपन्यस्तम् । तत् क्वचिदुणादिवृत्तिषु अन्वेषणीयम् । कुर्वोः गुर्वोः । 'कृप्रोरुक्व' इति वा पाठः शोधनीयः । ‘वराहः सूकरो गृष्टिः कोल: पोत्री किरिः किटिः' इत्यमरः । 'गुपधज्ञाप्री' इति कप्रत्यये किरोऽपि । 'स्यात्किरौ किरः प्रोक्तः पथः पथि' इति द्विरूपकोशः । 'गिरि नेत्ररुग्भिदि । अद्रौ गिरिजके योषिद्गीर्णे पूज्ये पुननिषु' इति मेदिनी । कुटिरिति ॥ डीषि तु कुटी । 'कुटः कीटे पुमानस्त्री घटे स्त्रीपुंसथोहे । कुटी स्यात्कुम्भदास्याञ्च सुरायां .
चतुर्थः पादः] बालमनोरमा। ६४७ ५८३ । कुडिकम्प्योर्नलोपश्च । कुडि दाहे । कुडिर्देहः । कपिः। ५८४ । सर्वधातुभ्यो मनिन् । क्रियत इति कर्म। चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । इस्मन्निति हस्खः । छद्म । सुत्रामा । ५८५ । बृहे!च्च । नकारखाकारः । ब्रह्म तत्त्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ५८६ । अशिशकिभ्यां छन्दसि । अश्मा । शक्मा । ५८७ । हृभृधृमृस्तृशृभ्य इमनिच् । हरिमा काल: । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः । ५८८ । जनिमृङ्भ्यामिमनिन् । जनिमा जन्म । मरिमा मृत्युः । ५८९ । वेत्रः सर्वत्र । छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः । ५९० । नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् धामन् । सर्वे सप्त अमी निपात्यन्ते । नायतेऽनेनेति नाम । सिनोतेर्दीधः । सीमा। सीमानौ । सीमानः । पक्षे डाप् । सीमे । सीमा: । व्यञोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम। पाप्मा पापम् । धाम परिमाणं तेजश्च । । चित्रगुच्छके' इति मेदिनी । 'कपिर्ना सिलके शाखामृगे च मधुसूदने' इति च । सर्व- धातुभ्यः ॥ कर्म व्याप्ये क्रियायाञ्च पुनपुंसकयोर्मतम्' इति रुद्रः। 'चर्म कृत्तौ च फलके' इति मेदिनी । बृहेः ॥ 'ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे' इति मेदिनी । अश्मेति ॥ भाषायामपीष्यते । छन्दसीति तु शकिनैवान्वेति । हृभृ ॥ शरिमेति ॥ 'शृ हिंसायाम् ।' एतच्चोज्ज्वलदत्तरीत्योक्तम् । दशपाद्यान्तु शृणातिर्नेष्यते । तत्स्थाने सः प्रत्ययश्च दीर्घादिर्निच 'स्तृभृमृभ्य ईमन्' इति छन्दोग्रहणञ्चानुवर्तितम् । युक्तश्चैतत् । 'पिपृतानो भरीमभिः । वातस्य सर्गो अभवत्सरीमणि । स्तीर्ण बर्हिः सृष्टरीमा जुषाणा । यस्यामतिर्भा अदिद्युतत्सवीमनिहिरण्यपाणिः ।' इत्यादिमन्त्राणां तद्भाष्यस्य चानुगुण- त्वादुक्तप्रयोगाणां भाषायामदर्शनेन छन्दोऽनुवृत्तेाय्यत्वाच्च । अत एव 'वेञः सर्वत्र' इति सूत्रे सर्वत्रग्रहणं करिष्यति । नामन् सीमन् ॥ सर्वे इति ॥ मनिनन्ता इति शेषः । नामेति ॥ ‘ना अभ्यासे' मलोपः । सीमेति ॥ ‘सीमसीमे स्त्रियामुभे' इत्यमरः । पाप्मेति ॥ पिबतेः पुमागमः । बाहुळकादन्यतोऽपि । 'यक्ष पूजायाम् ।' 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः । 'धू प्रेरणे ।' सोमा चन्द्रः । 'डु धाञ् ।' 'धाम देहे गृहे रश्मौ स्थाने १. ध्यामन् इति क्वचित्पाठः ।
६४८ सिद्धान्तकौमुदीसहिता [उणादिषु ५९१ । मिथुने मानः । उपसर्गक्रियासंबन्धो मिथुनम् । न तु स्त्रीपुंसौ । स्वरार्थमिदम् । सुशर्मा। ५९२ । सातिभ्यां मनिन्मनिणौ । स्यतीति साम । सामनी । आत्मा । ५९३ । हनिमशिभ्यां सिकन् । हंसिका हंसयोषिति । मक्षिका । ५९४ । कोररन् । कवरः। ५९५ । गिर उडच् । गरुडः । ५९६ । इन्देः कमिर्नलोपश्च । इदम् । ५९७ । कायतेर्डिमिः। किम् । ५९८ । सर्वधातुभ्यः ट्रन् । वस्त्रम् । अस्त्रम् । शस्त्रम् । इस्मन्निति ह्रस्व- त्वम् । छादनाच्छत्रम् । ५९९ । भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च । नाष्ट्रः । गान्त्रं शक- टम् । नान्त्रं स्तोत्रम् हान्नं मरणम् । वैष्ट्रं पिष्टपम् । आष्ट्रमाकाशम् । ६०० । दिवेर्युच्च । द्यौत्रं ज्योतिः । ६०१ । उषिखनिभ्यां कित् । उष्ट्रः । खात्रं खनित्रं जलाधारश्च । । - जन्मप्रभावयोः' इति मेदिनी । सुशर्मेति ॥ कृदुत्तरपदस्वरेणान्तोदात्तं पदम् । मनिनि तु मद्ध्योदात्त स्यात् । सुष्टु शृणातीति विग्रहः । स्यति दुःखयति दुरध्येयत्वात्साम । 'साम क्लीबमुपायस्य भेदे वेदान्तरेऽपि च' इति मेदिनी । 'आत्मा पुंसि स्वभावेऽपि प्रसन्नमनसो- रपि । धृतावपि मनीषायां शरीरब्रह्मणोरपि' इति च । हनि ॥ 'मक्षिका भम्भराळी स्यात्' इति हारावळी । कवरः पाठकः । ‘बवयोरैक्यात्कबरी केशविन्यासः । 'जानपद' इति ङीष् । अन्यत्र कबरा । गिर उडच् ॥ इद सूत्रं केचिन्न पठन्ति । अत एव गरुता डयत इति विगृह्य डप्रत्यये पृषोदरादित्वाल्लोपे गरुडशब्दं व्युत्पादयन्ति । इन्देः कमिः ॥ उज्ज्वलदत्तस्तु कमिनिति नितं पपाठ । तन्न । 'इदन्त पात्रमिन्द्रियाणाम् । इदं ते सौम्यं मधु' इत्यादौ नित्स्वराभावात् । दशपाद्यान्तु 'इणो दमक्' इति सूत्रितम् । इदमिति ॥ सर्वनामशब्दो- ऽयं प्रत्यक्षपरामर्शी । कायतेर्डिमिः ॥'प्रयोजनाभावादेव मकारस्येत्संज्ञाविरहे सिद्ध इकारः उच्चारणार्थः । दशपाद्यान्तु डिमित्येव सूनितम् । किमिति सर्वनाम। सर्व ॥ दशपाद्यान्तु ष्ट्रनित्येव सूत्रम् । अत एवाधिकं प्रक्षिप्तमित्याहुः । 'असु क्षेपणे।' 'अस्त्रं प्रहरणे चापे करवाले नपुंसकम्' इति मेदिनी । 'पत्तन्तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः' इति मेदिनी । पिबतेः पातम् । षित्वात् ङीष् । 'पात्र्यमत्रे त्रिषु क्लीबं स्रुवादौ राजमन्त्रिणि । तीरद्वयान्तरे योग्ये' इति मेदिनी । भ्रस्जि ॥ 'क्लीवेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः । वैष्ट्रं विष्टपम् । उष्ट्रः ।
चतुर्थः पादः] बालमनोरमा । ६४९ ६०२ । सिविमुच्योष्टेरू च । सूत्रम् । मूत्रम् । ६०३ । अमिचिमिदिशसिभ्यः क्त्रः। आत्रम् चित्रम् । मित्तम् । शस्त्रम् । ६०४ । पुवो हस्वश्च । पुत्रः । ६०५ । स्त्यायतेईट् । स्त्री। ६०६ । गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः। गोत्रं स्यान्नामवंशयोः । गोत्रा पृथिवी। धर्ब गृहम् । वेत्रम् । पत्रम् । वक्रम् । यन्त्रम । सत्तम् । क्षत्तम् । ६०७ । हुयामाश्रुभसिभ्यस्त्रन् । होत्रम् । यात्रा । मात्रा। श्रोत्रम् । भस्त्रा। ६०८ । गमेरा च । गात्रम् । ६०९ । दादिभ्यश्छन्दसि । दात्रम् । पात्रम् । ६१० । भूवादिगृभ्यो णित्रन् । भावित्रम् । वादित्रम् । गारित्रमोदनम् । ६११ । चरेत्ते । चारित्रम् । इति ॥ 'उष्ट क्रमेलकमयमहाङ्गाः' इत्यमरः । सिविमुच्योः ॥ मूत्रिमूत्रिभ्यां चुरादि- ण्यन्ताभ्यामेरचा रूपसिद्धेः आधुदात्तार्थमिदं सूत्रम् । न च घञा तत्सिद्धिः । अचा घो बाधात् । ‘सूत्रन्तु सूचनाग्रन्थे सूत्रतन्तुव्यवस्थयोः' इति विश्वः । अमिचिमिदि ॥ आन्त्रमिति | 'अनुनासिकम्य विझलोः' इति दीर्घः । 'चित्राश्वपणांगीतुम्बासुभद्रादन्तिकामु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् । तिलकालख्ययोः क्लीवं कवुराद्भुतयोरपि । तद्युक्तयोस्त्वन्यलिङ्गम्' इति मंदिनी । 'मित्रं सुहृदि न द्वयोः सूर्ये पुंसि' इति च । 'शस्त्रं लोहास्त्रयोः क्लीबं छुरिकायान्तु योषिति' इति च । प्रत्ययस्वरेणैव अन्तोदात्ताः । 'शुन आन्त्राणि पेचे । चित्रं देवानाम् । मित्रं त्रयम् । शस्त्रस्य शस्त्रमसि' इत्यादि । पुवो ह्रस्वश्च ॥ पुत्र इति ॥ पुनातीति पुत्रः । पुनामा नरकः तस्मात् त्रायते इति तु व्युत्पत्त्यन्तरम् । स्त्रीति ॥ डित्वाहिलोपः । वलि लोपः । टित्त्वात् डीप । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । गुधृ ॥ 'गुङ् अव्यक्ते शब्दे ।' 'गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः । सम्भावनीयबोधे च काननक्षेत्रवर्त्मसु' इति मेदिनी । 'सत्रमाच्छादने यज्ञे सदा दाने धनेऽपि च' इत्यमरः । ‘सत्रं यज्ञसदादानाच्छादनारण्यकैतवे' इति मेदिनी । हुयामा ॥ होत्राशब्दः ऋत्विक्ष्वपि स्त्रीलिङ्ग इति ‘होत्राभ्यइछः' इति सूत्रे हरदत्तादयः । श्रूयते च। 'कारादद्धोत्राश्विनावाम् इति । होत्रं हविः । 'यात्रा तु यातनेऽपि स्यात् गमनोत्सवयोः स्त्रियाम् । मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । अक्षरावयवे स्वल्पे क्लीवं कात्स्न्ये- ऽवधारणे' इति च मेदिनी। 'कर्णशब्दग्रहौ धौनं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । 'भस्त्रा चर्मप्रसेविका' इति च । गमेः ॥ 'गाप्रमङ्गे कलेबरे । स्तम्बरमाग्रजङ्घादिविभागेऽपि समीरितम्' इति विश्वः । चरेर्वृत्ते ॥ चारित्रमिति ॥ इत्रप्रत्यये चरित्रमित्युक्तम् । .. 82 ६५० सिद्धान्तकौमुदीसहिता [उणादिषु ६१२ । अशित्रादिभ्य इत्रोत्रौ । अशित्रम् । वहित्रम् । धरित्री मही। त्रैङ् एवमादिभ्य उत्रः । त्रोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् । ६१३ । अमेर्द्विषति चित् । अमित्र: शत्रुः । ६१४ । आः समिनिकषिभ्याम् । संपूर्वादिगो निपूर्वात्कषेश्च आ स्यात् ।। स्वरादित्वाव्ययत्वम् । समया । निकषा । ६१५ । चितेः कणः कश्च । बाहुलकादगुणः । चिक्कणं मसृणं स्निग्धम् । ६१६ । मूचेः स्मन् । सूक्ष्मम् । ६१७ । पातेथुम्सुन् । पुमान् । ६१८ । रुचिभुजिभ्यां किष्यन् । रुचिष्यमिष्टम् । भुजिष्यो दासः । ६१९ । वसेस्तिः । वस्ति भेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहु- लकात् शास: शास्ति: राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शक- ध्वादिः । ६२० । सावसेः । स्वस्ति । स्वरादिपाठाव्ययत्वम् । ६२१ । वो तसेः । वितस्तिः । ६२२ । पदिप्रथिभ्यां नित् । पत्तिः । प्रथिति: । तितुत्रेष्वग्रहादीनाम् (वा ४३१३) इतीट् । ६२३ । दृणातर्हस्वश्च । दृतिः । न च तत एव प्रज्ञाद्यणा सिद्धे किमनेनेति वाच्यम् । स्वरे विशेषात् । धरित्रीति ॥ गौरा- दित्वान्डाए । अमेः ॥ इत्र एवानुवर्तते नोत्रः । आः समिण ॥ समयानिकषाशब्दौ समीपवाचको। बाहुलकाद्दुषेः दोषा । दिवेर्गुणाभावश्च । दिवा। स्वदेर्धश्च । स्वधा इत्यादि । अमरोक्तमाह । चिक्कणमिति ॥ सूचेः॥ सूक्ष्ममिति ॥ णिलोपे कृते कुत्वादि । 'सूक्ष्म स्यात्कण्टकऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी। पातेः ॥ डित्वाहिलोपः । उकार- नकारयोस्तु फलं 'पुंसोऽसुङ्' इति सूत्रेऽवोचाम । यत्तूज्ज्वलदत्तेनोक्तम् । उकार उच्चारणार्थ इति । तदाकरविरुद्धम् । 'पुंसोऽमुङ्' इति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक् सुन् ह्रस्वश्चति पठितम् । पूजो डुम्मुनित्यन्ये । भाष्ये तु सूतेः सप्प्रसवे पुमानित्युक्तम् । 'उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः' इति तु तत्त्वम् । रुचिभुजि ॥ ‘भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रक- दासयोः । स्त्रियां दासीगणिकयोः' इति मेदिनी । वसस्तिः ॥ 'वस्तिर्द्वयोर्निरूढे नाभ्यधो- भूमिदशासु च' इति मेदिनी । 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान्' इति च । सावसेः॥ अस भुवि बहुलवचनान्न भूभावः। वौ तसेः ॥ ‘अङ्गुष्ठे सकनिष्ठे स्याद्वितस्ति- दिशाङ्गुलः' इत्यमरः । 'स्त्रीपुंसयोर्वितस्तिः स्यात्' इत्यमरमाला । दृणातेः ॥ इतिश्चर्मपुटे .. ।
चतुर्थः पादः] बालमनोरमा। ६२४ । कृतृकृपिभ्यः कीटन् । किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः । ६२५ । रुचिवचिकुचिकुटिभ्यः कितन् । रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् । ६२६ । कुटिकुषिभ्यां क्मलम् । कुट्मलम् । कुष्मलम् । ६२७ । कुषेर्लश्च । कुल्मलं पापम् । ६२८ । सर्वधातुभ्योऽसुन् । चेतः । सर: । पयः । सदः । ६२९ । रपेरत एच । रेपोऽवद्यम् । ६३० । अशेर्देवने युट् च । देवने स्तुतौ । यशः । ६३१ । उब्जेबले बलोपश्च । ओजः । ६३२ । श्वेः संप्रसारणं च । शवः । शवसी । बलपर्यायोऽयम् । मत्स्ये ना' इति मेदिनी । 'कृतृकृपिकपिभ्यः' इति पठित्वा कृपीट इति चतुर्थमुदाहृतम् । 'कृपो रो ल.' इत्यत्र न्यासे तु कृकृपिभ्यामिति पठ्यते । अतस्तरतिरत्र प्रक्षिप्त इति कश्चित् । तरतेश्चति पृथक् पठित्वा 'तिरीटः कूलवृक्षः' इति कश्चित् व्याख्यत् । रुचिवचि ॥ ‘उचितं तु भवे न्यस्ते मिते जाते समञ्जसे' इति मेदिनी । 'कुङ्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे' इति मेदिनी । कुटिकुषि ॥ कुष्मलं छर्दनं विकसितमित्यन्ये । सर्वधातुभ्योऽसुन् ॥ दशपाद्यादिष्वसुन् इत्येव सूत्रम् । सर इति ॥ अयं स्त्रियामपि । गौरादित्वान्ङीष् । 'सरसी तु महासरः' इति शब्दार्णवः । महान्ति सरांसि सरस्य इति भाष्यम् । पय इति ॥ 'पीङ् पाने ।' 'पयः स्यात् क्षीरनीरयोः' इति मेदिनी । 'वर्च दीप्तौ ।' 'वों नपुंसकं रूपे विष्टायामपि तेजसि । पुंसि चन्द्रस्य तनये' इति मेदिनी । ‘णभ हिंसायाम् ।' भौवादिकः ऊयादिकश्च । 'तप सन्ताप', 'वह मर्षणे', 'मह पूजायाम् ', 'तमु ग्लानौ', 'रञ्ज रागे' एभ्यः षड्भ्योऽसुनि सान्तम् । अच्कयोरदन्तमपि । 'नभन्तु नभसा साधन्तपन्तु तपसा सह । सहञ्च सहसा सार्धं महञ्च महसा सह । तमेन च तमः प्रोक्तं रजेनापि रजः समम्' इति द्विरूपकोशः । 'तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः । सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः' इति च मेदिनी । 'मह उत्सवतेजसोः' इति च । 'तमः क्लीबं गुणे शोके सैंहिकेयान्धकारयोः' इति रभसः। तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुन्तुदे' इति मेदिनी । नभोरजसी तु व्याख्यास्यते । रुदिर् 'रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सह प्रयोगेऽप्यनयो रोदस्यावपि रोदसी' इति विश्वः। 'वी गत्यादिषु ।' 'बयः पक्षिणि बाल्यादौ यौवने च नपुंसकम् ' इति मेदिनी । 'अन प्राणने ।' अनो भक्तं तत्स्थानञ्च । 'अनो- ऽश्मायःसरसां जातिसंज्ञयोः' इति टचि तु अदन्तम् । 'पाकस्थानं महानसम्' इत्यमरः । रेपोऽवद्यमिति ॥ 'अरेपसा तन्वा' इति मन्त्रे निरवद्ययेति भाष्यम् । ओजो बले । । .
६५२ सिद्धान्तकौमुदीसहिता [उणादिषु ६३३ । श्रयतेः स्वाङ्गे शिरः किच्च । श्रयतेः शिर आदेशोऽसुन् किच्च । शिरः । शिरसी। ६३४ । अर्तेरुच्च । उरः । ६३५ । व्याधौ शुद् च । अर्शो गुदव्याधिः । ६३६ । उदके नुट् च । अर्तेरसुन्स्यात्तस्य च नुट् । अर्णः । अर्णसी। ६३७ । इण आगसि । एनः । ६३८ । रिचेर्धने घिच्च । चात्प्रत्ययस्य नुट । घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् । ६३९ । चायतेरन्न हस्वश्च । चनो भक्तम् । ६४० । वृङ्शीभ्यां रूपस्वाङ्गयोः पुट् च । वर्षो रूपम् । शेपो गुह्यम् । ६४१ । खुरीभ्यां तुद् च । स्रोतः । रेतः । ६४२ । पातेर्बले जुट् च । पाजः । पाजसी । . 'आजी दीप्ताववष्टम्भ प्रकाशवलयोरपि ' इति मेदिनी। श्रयतेः ॥ 'उत्तमाझं शिरः शीर्षम्' इत्यमरः । शृणातघनर्थे कप्रत्यये अदन्तोऽपि 'शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इति कोशान्तरम् । ‘पिण्डं दद्यात् गयाशिरे' इति वायवीये । 'कुण्डलोदृष्टगण्डानां कुमाराणां तरस्विनाम् । निचकत शिरान्द्रौणिनालेभ्य इव पङ्कजान्' इति महाभारतम् । अर्तेः ॥ 'उरो वत्सं च वक्षश्च' इत्यमरः । रिचेः ॥ इह दशपादीवृत्तौ तु नुट् नानुवर्तितः । रेकः रेकसी इत्युदाहृतञ्च । तन्न । उत्तरसूत्रे नुडनुवृत्तर्निर्विवादत्वात् मण्डूकप्लुतौ मानाभावात् लक्ष्यविसंवादाच्च । उज्ज्वलदत्तेन तु 'रिचेधने चिकिच्च' इति पठित्वा नुटं चानुवर्त्य कित्त्वात् गुणाभावे नुटश्चुवन अकारे रिञ्चमिति साधितम् । तदपि न । उक्तोदाहरणस्य लोकवेदयो- रप्रसिद्धत्वात् । 'नित्यं रेक्णे अमर्त्यः। परिषद्यं शरणस्य रेक्णः । रक्णः स्वत्यभिया वाममेति' इत्यादिमन्त्रेषु रेक्ण इति शब्दस्य प्रसिद्धत्वात् । वैदिकनिघण्टौ च सुवर्णपर्यायेषु तथा पाठात् । वेदभाष्यादिषु प्रकृतसूत्रेणेव तस्य साधितत्वाच्च रेक्ण इति प्रयोग एव साधीयानिति दिक् । चायते॥ चनो दधिष्वपचतः । सुनेदधिष्वनश्चनः । इत्यादिमन्त्रेषु चनशब्दः प्रसिद्धः । एतेन चोऽनमिन्युदाहृय वाहुलकाण्णत्वमिति वदन्तो दशपादीवृत्तिकारास्तदनुगाः प्रसादकारा- दयश्च परास्ताः । वो रूपमिति ॥ 'नन्छिश्नदेवा अभिवर्पसाभूः' इत्यादिमन्त्रेषु प्रसिद्ध- मिदम् । 'शेपः स्यादृषणं पेलम्' इति सुभूतिचन्द्रः । अकारान्तोऽप्ययमिति 'शेपपुच्छलाङ्गुलेषु शुनः' इत्यत्रावाचाम । 'शेपःशेपौ च शेफश्च शेफ प्रोक्तश्च शेफसा' इति द्विरूपकोशः । सुरीभ्याम् ॥ ‘स्रोतोऽम्बुवेगेन्द्रिययोः' इति विश्वः । 'रेतः शुक्रे पारदे च' इति मेदिनी । पातेले ॥ चवर्गतृतीयादिः । उज्ज्वलदत्तस्तु युट् चेत्यन्तस्थादि पपाठ । तन्न । 'विपाजसा चतुर्थः पादः] बालमनोरमा । ६४३ । उदके थुद् च । पाथः । ६४४ । अन्ने च । पाथो भक्तम् । ६४५ । अदम्धौ च । अदेर्भक्ते वाच्येऽसुन्नुमागमा धादेशश्च । अन्धो- ऽन्नम् । ६४६ । स्कन्देश्च स्वाङ्गे । स्कन्धः-स्कन्धसी । ६४७ । आपः कर्माख्यायाम् । कर्माख्यायां ह्रस्वो नुट् च वा । अप्नः । अप: । बाहुलकान् आप: आपसी । ६४८ । रूपे जुद् च । अब्जो रूपम् । ६४९ । उदके नुम्भौ च । अम्भः । ६५० । नहेर्दिवि भश्च । नभः । ६५१ । इण आगोऽपराधे च । आग: पापापराधयोः' । ६५२ । अमेहुंक्च । अंहः । ६५३ । रमेश्च । रंहः । ६५४ । देशे ह च । रमन्तेऽस्मिन्रहः । पृथुना । पृथुपाजा अमर्त्यः' इत्यादिमन्त्रतद्भाध्यविरोधात् । अदेः॥ 'भिस्सा स्त्री भक्तमन्धो- ऽन्नम्' इत्यमरः। 'द्विजातिशेषेण यदेतदन्धसा' इति भारविः । 'समन्धसा समदः पृष्ठ्यन' इति श्रुतिः । स्कन्देश्च ॥ असुन् धश्चान्तादेशः । आपः कर्माख्यायाम् ॥ असुन् । ह्रस्वश्च धातोः । प्रत्ययस्य नुडागमस्तु वा । 'अनस्वतीमश्विना । अपांसि यस्मिन्नधिसन्दधुः।' बाहुलकादित्युपलक्षणम् । ह्रस्वनुटौ वा स्त इति व्याख्यानादित्यपि वोध्यम् । तथा च ब्रुवते 'कतमेऽपि नपुंसकमापः' इति कोशमुदाहृत्य 'सर्वमापोमयञ्जगत्' इति प्रयोगो दुर्घटवृत्ती समर्थितः । रूपे ॥ आप्नोतेरसुन् ह्रस्वत्वञ्च धातोः प्रत्ययस्य जुद् चेत्यर्थः । अब्ज इति ॥ 'झलाजश् झशि' इति पकारस्य बकारः । नहेः ॥ 'नभो व्याम्नि नभा मेघ श्रावणे च पतद्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृतम्' इति विश्वः । 'नभः क्लीबं व्याम्नि पुमान् । घने श्रावणवर्षासु बिसतन्तौ पतद्रहे ' इति मेदिनी । 'नभन्तु नभसा सार्द्धम्' इति द्विरूपकोशादकारान्तोऽपि । विश्वाक्तिमाह । आग इति ॥ अमेः ॥ अमन्ति गच्छन्त्यधो- ऽनेनेत्यंहो दुरितम् । रमेश्च ॥ रहो वेगः । अहिरहिन्यामसुना सिद्धऽघिरघिभ्यामसनि अङ्घो रङ्घः इति माभूदिति सूत्रद्वयमिति गोवर्द्धनः। तथा च ' स्यान्मद्ध्योष्मचतुर्थत्वमंहसो रहसस्तथा' इति द्विरूपकोशः। एवञ्च 'दत्तार्घाः सिद्धसङ्कुर्विदधतु घृणयः शीघ्रमङ्घाविघातम्' इति । 'रङ्घः सङ्घः सुराणाजगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनो वः' इति धकारपाठोऽनुप्रासरसिकानां प्रामादिक इति वदन्ति । देशे ह च ॥ । । .
६५४ सिद्धान्तकौमुदीसहिता [उणादिषु ६५५ । अञ्च्यञ्जियुजिभृजिभ्यः कुश्च । एभ्योऽसुन्कवर्गश्चान्तादेशः । 'अङ्कश्चिह्नशरीरयोः' । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः । ६५६ । भूरञ्जिभ्यां कित् । भुवः । रजः । ६५७ । वसेर्णित् । वासो वस्त्रम् । ६५८ । चन्देरादेश्व छः । छन्दः । ६५९ । पचिवचिभ्यां सुट् च । 'पक्षसी तु स्मृतौ पक्षौ' । वक्षो हृदयम् । ६६० । वहिहाधाभ्यश्छन्दसि । वक्षा अनड्डान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्च: । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहे- रुपधावृद्धिः । इतरयो: 'आतो युक्-' (सू २७६१) इति युक् । 'शोणा धृष्णू नृवाहसा'। 'श्रोता हवं गृणत: स्तोमवाहा:' । 'विश्वो विहायाः ।' 'वाजम्भरो विहायाः' । 'देवो नयः पृथिवीं विश्वधायाः' । 'अधारयत्पृथिवीं विश्वधायसम्' । 'धर्णसं भूरिधायसम्' इत्यादि । ६६१ । इण आसिः। अया: वह्निः । स्वरादिपाठादव्ययत्वम् । ६६२ । मिथुनेऽसिः पूर्ववच्च सर्वम् । उपसर्गविशिष्टो धातुमिथुनं तत्रा- सुनोऽपवादोऽसि: स्वरार्थः । यस्य धातोर्यत्कार्यम् असुन्प्रत्यये उक्तं तदत्रापि भवतीत्यर्थः । अशेर्देवने युट् चेत्यादि सुयशाः । ६६३ । नजि हन एह च । अनेहाः । अनेहसौ। ६६४ । विधाबो वेध च । विद्धातीति वेधाः । रहस्तत्त्वे रते गुह्ये' इति मेदिनी । अञ्च्यजियुजि ॥ अङ्कः-अङ्कसी-अङ्कांसि । अङ्गः- अगसी-अङ्गांसि । योग:-योगसी-योगांसि । 'उच समवाये ।' अस्मादसुनि बाहुलकात् कुत्वं, न्यादित्वाद्वा । 'ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसकम्' इति मेदिनी । भूर- जिभ्याम् ॥ भुवः अन्तरिक्षम् । षष्ठ्यन्तप्रतिरूपकमव्ययमिदम् । रजो रेणु: । ‘रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते' इति मेदिनी । घअर्थे कप्रत्यये तु अकारान्तोऽप्ययम् । 'रजोऽयं रजसा सार्द्ध स्त्रीपुष्पगुणधूलिषु' इत्यजयकोशः । विरजां नदीम् । विरजां दीक्षामिति । चन्देरादेश्च छः ॥ छन्द इति ॥ 'छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः' इति मंदिनी । अकारान्तोऽपि । 'अभिप्रायवशौ छन्दौ' इत्यमरद्विरूप- कोशौ । पचिवचिभ्याम् ॥ पक्ष:-पक्षसी-पक्षांसि । अनीकाधिकरणे ‘पूर्वोत्तरे द्वे पक्षसी' इति शबरस्वाम्यादयः। माधवस्तु ‘पक्ष परिग्रहे' इत्यस्मादसुन् । पक्षः । छदिः संवत्सरा- धञ्चेत्याह । वहिहा ॥ अत्र पूर्वसूत्रात्सुटमनुवर्तयतां उज्ज्वलदत्तादीनां मतेनोदाहरणमाह । वक्षा इत्यादि ॥ प्राञ्च इति ॥ सकलवृत्तिकृतः प्रसादकारादयश्चेत्यर्थः । एतच्चायुक्तम् । उक्तोदाहरणानीह तावल्लोके दृश्यन्ते । न च सम्भवन्ति । छन्दसीति सूत्रात् । वेदे तु विपरीतमेवास्तीत्याह । वस्तुतस्त्विति ॥ वेदभाष्यकाराश्चेह साक्षिण इत्यवधेयम् । मिथुनेऽसिः ॥ सुपयाः सुस्रोताः इत्यायुदाहरणम् । विधाञः॥ 'वेधाः पुंसि हृषीकेशे चतुर्थः पादः] बालमनोरमा । ६५५ . ६६५ । नुवो धुर् च । नोधा: ऋषिः । ६६६ । गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च । असि: स्यात् । सुतपा: । जातवेदाः । 'गतिकारकोपपदात्कृन्' (सू ३८७३) इत्युत्तरपदप्रकृ- तिस्वरत्वे सति शेषख्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् । ६६७ । चन्द्रे मो डित् । चन्द्रोपपदान्माङोऽसि: स्यात्स च डित् , चन्द्रमा: । ६६८ । वयसि धात्रः । वयोधास्तरुणः । ६६९ । पयसि च । पयोधाः समुद्रो मेघश्च । ६७० । पुरसि च । पुरोधाः । ६७१ । पुरूरवाः । पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते । ६७२ । चक्षेर्बहुलं शिच्च । नृचक्षाः । ६७३ । उषः कित् । उषः । ६७४ । दमेरुनसिः। 'सप्ताचिर्दमुनाः' । ६७५ । अङ्गतेरसिरिरुडागमश्च । अङ्गिराः । ६७६ । सर्तेरप्पूर्वादसिः । अप्सराः । प्रायेणायं भ्रूनि । अप्सरस: । बुधे च परमेष्ठिनि' इति मेदिनी । नोधा इति ॥ ‘सद्योभुवद्वीर्याय नोधाः' इति मन्त्रे, नोधा ऋषिर्भवतीति निरुक्तम् । नवं दधातीति तु नरुक्तं व्युत्पत्त्यन्तरं बोध्यम् । अत्र स्वर- सूत्रम् ‘गतिकारकयोः पूर्वपदप्रकृतिस्वरत्वञ्च' इति कृदुत्तरपदप्रकृतिस्वरापवादोऽयम् । चन्द्रे ॥ चन्द्रं रजतम् अमृतञ्च, तदिव मीयते असौ चन्द्रमाः इति हरदत्तः । पुरसि च ॥ 'पुरोधास्तु पुरोहितः' इत्यमरः । 'पुरूरवाः बुधसुतो राजर्षिश्च पुरूरवाः' इत्यपि । 'विद्यात्पुरूरवःशब्दे रुकारस्यापि दीर्घताम्' इति द्विरूपकोशः । नृचक्षा इति ॥ शिच्चेत्युक्त सार्वधातुकसंज्ञा । अतः ख्याञ् न । उषः कित् । दशपाद्यान्तु वसः किदिति पाठः । 'वसति सूर्येण सहेत्युषा । अपो भीति सूत्रे उषसश्चेष्यते' इति वार्तिकस्य समुपद्भिरित्युदाहरणं विवृण्वद्भिर्हरदत्तादिभिरयं पाठः पुरस्कृतः । दमेनसिः॥ 'सप्ताचिर्दमुनः शुक्रः' इत्यमरः । पक्षे 'अन्येषामपि दृश्यते' इति दीर्घः । जुष्टो दमूनाः । दमूनसङ्ग्रहपतिं वरेण्यम् । दशपायां तु सूत्रे दीर्घः पठ्यते । तन्मते पक्षे ह्रस्वो बाहुलकाद्बोध्यः । प्रायेणेति ॥ 'स्त्रियां बहुष्वप्स- रसः' इत्यमरः । 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्णवः । 'अप्सर- स्स्वप्सराः प्रोक्ताः सुमनाः सुमनःसु च' इति द्विरूपकोशः 'एकाप्सरःप्रार्थितयोविवादः' इति ६५६ सिद्धान्तकौमुदीसहिता [उणादिषु ६७७ । विदिभुजिभ्यां विश्वे । विश्ववेदाः । विश्वभोजाः । ६७८ । वशेः कनसिः। संप्रसारणम् । उशनाः । ॥ इत्युणादिषु चतुर्थः पादः ॥ ॥ अथ उणादिषु पञ्चमः पादः ॥ ६७९ । अदि भुवो डुतच् । अद्भुतम् । ६८० । गुधेरूमः । गोधूमः । ६८१ । मसेरूरन् । मसूरः। प्रथमे पादे असेरुरन्, 'मसेश्च' इत्यत्र व्याख्यातः । ६८२ । स्थः किच्च । स्थूरो मनुष्यः । ६८३ । पातेरतिः। पाति: स्वामी । संपाति: पक्षिराजः । ६८४ । वातेर्नित् । 'वातिरादित्यसोमयोः' । ६८५ । अर्तेश्च । अरतिरुद्वेगः । ६८६ । तृहे को हलोपश्च । तृणम् । ६८७ । वृञ्लुटितनिताडिभ्य उलच तण्डश्च । त्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः । ६८८ । दंसेष्टटनो न आ च । 'दास: सेवकशूद्रयोः' । रघुः । विदिभुजिभ्याम् ॥ विश्वे । शब्दस्वरूपपरत्वात्स्मिन्नादेशो न कृतः । उदाहरणं विश्वं वेत्ति विन्दति भुते इति विग्रहः । अनोज्ज्वलदत्तेन विश्वेवेदा अग्निः । विश्वेभोजा इन्द्रः । 'तत्पुरुषे कृति' इति सप्तम्या अलुगित्युक्तम् । तन्न, तथा सति स्मिन्नादेशस्य दुरित्वापत्तेः 'सुमृलीको भवतु विश्ववेदाः । पूषा भग: प्रभृथे विश्वभोजा' इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात् वृत्त्यन्तरेषु तथैवोदाहरणाच्च । वशेः ॥ ‘वश कान्तौ ।' 'उशना भार्गवः कविः' इत्यमरः॥ ॥ इत्युणादिषु चतुर्थः पादः ॥ अद्भुतमिति ॥ अत् इत्यव्ययमाकस्मिकार्थे । तस्मिन्नुपपदे भुवः डुतच्प्रत्ययः । गुध्यते परितो वेष्ट्यते प्राणिभिरिति गोधूमः । 'गोधूमो नागरङ्गे स्यादोषधीव्रीहिभेदयोः' इति मेदिनी। मसेः॥ 'मसी परिणामे ।' स्थूरो मनुष्य इति ॥ 'स्थूरस्य रायो बृहतो ययीशे' इति मन्त्रे तु योगपुरस्कारात् स्थिरस्य इत्यर्थः। रभसकोशस्थमाह । वातिरिति ॥ वृञ्लुटि ॥ यद्यपि 'सानसिवर्णसि' इति सूत्रे तण्डुलशब्दो निपातितः । तथापि प्रत्ययवरेण मध्योदात्तः सः। अयं तु चित्स्वरेणान्तोदात्त इति विवेकः । दंसेः॥ 'दासः शूद्रे दानपत्रे भृत्यधीवरयोरपि' पञ्चमः पाद: बालमनोरमा । ६५७ ६८९ । दंशेश्च । दाशो धीवरः । ६९० । उदि चे.सिः । खरादिपाठादव्ययत्वम् । उच्चैः । ६९१ । नौ दीर्घश्च । नीचैः । ६९२ । रमेः क्तो दमे पूर्वपदस्य च दीर्घः । रमे: सुपूर्वाहमे वाच्ये क्त: स्यात् । कित्त्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च । ६९३ । पूजो यण्णुग्घ्रस्वश्च । यत्प्रत्ययः । पुण्यम् । ६९४ । स्रंसे शि कुद् किच्च । संसते: शिरादेशो यत्प्रत्यय: कित्तस्य कुडागमश्च । शिक्यम् । ६९५ । अर्तेः क्युरुच । उरणो मेषः । ६९६ । हिंसेरीरनीरचौ । हिंसीरो व्याघ्रदुष्टयोः । ६२७ । उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च । उदरम् । ६९८ । डित्खनेमुट् स चोदात्तः । अजल च डितस्याद्धातोर्मुट् स चोदात्तः । मुखम् । ६९९ । अमेः सन् । अंसः । ७०० । मुहेः खो मूर्च । मूर्खः । ७०१ । नहेर्हलोपश्च । नखः । ७०२ । शीडो हस्वश्च । शिखा । ७०३ । माङ ऊखो मय्च । मयूखः । ७०४ । कलिगलिभ्यां फगस्योच्च । कुल्फ: शरीरावयवो रोगश्च । गुल्फ: पादग्रन्थिः। इति विश्वः । दंशेश्च ॥ 'कैवर्ते दाशधीवरौ' इत्यमरः । पूजः ॥ 'पुण्यं मनोशेऽभिहितं तथा सुकृतधर्मयोः' इति विश्वः । अर्तेः ॥ 'मेट्रोरधोरणोर्णायुमेषवृष्णय एडके' इत्यमरः । डित्खनेः ॥ 'मुखं निःसरणे वक्रे प्रारम्भोपाययोरपि' इति विश्वः । सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्' इति मेदिनी। अमेः सन् ॥ 'स्कन्धो भुजशिरोंऽसो स्त्री' इत्यमरः। 'अंसः स्कन्धविभागे च' इति दन्त्यान्ते विश्वः । मुहेः ॥ ‘अज्ञे मूढयथाजातमूर्खवेधेय- बालिशाः' इत्यमरः । नहेः॥ 'नखः कररहे शण्ढे गन्धद्रव्ये नखं नखी' इति विश्वः । 'नखी स्त्रीलीबयोः शुक्तौ नखरे पुनपुंसकम्' इति मेदिनी । शीङः ॥ ह्रस्वविधिसामर्थ्याद्गुणो न । 'शिखाशाखाबर्हिचूडालाङ्गुलिष्वग्रमात्रके। चूडामात्रे शिफायाञ्च ज्वालायां प्रपदेऽपि च' इति मेदिनी। माङः॥ 'मयूखस्त्विट्करज्वालासु' इत्यमरः । गुल्फ इति ॥ 'तद्वन्थी घुटिके 83 ६५८ सिद्धान्तकौमुदीसहिता [उणादिषु ७०५ । स्पृशेः श्वशुनौ पृ च । श्वशुनौ प्रत्ययौ 'पृ' इत्यादेशः । पार्श्वम् 'पार्थोऽस्त्री कक्षयोरधः' । पशुरायुधम् । ७०६ । श्मनि श्रयतेर्छन् । श्मञ्छब्दो मुखवाची । मुखमाश्रयत इति श्मश्रु । ७०७ । अश्वादयश्च । अश्रु नयनजलम् । ७०८ । जनेष्टन्लोपश्च । जटा । ७०९ । अच्तस्य जङ्ग च । तस्य जनेर्जङ्घादेशः स्यादच्च । जङ्घा । ७१० । हन्तेः शरीरावयवे द्वे च । जघनम्। 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः'। ७११ । क्लिशेरन्लो लोपश्च । लकारस्य लोपः । केशः । ७१२ । फलेरितजादेश्च पः। पलितम् । ७१३ । कृनादिभ्यः संज्ञायां वुन् । करक:-करका । कटकः । नरकम्- नरकः । 'नरको नारकोऽपि च' इति द्विरूपकोशः । सरकं गगनम् । कोरकः । कोरकं च । गुल्फी' इत्यमरः। तयोः पादयोग्रन्थी इत्यर्थः । स्पृशेः ॥ 'पार्श्वङ्कक्षाधरे चक्रोपान्ते पशुगणे- ऽपि च' इति विश्वमेदिन्यो । श्मनि ॥ तद्वृद्धौ श्मश्रु पुंमुखे' इत्यमरः । पुरुषस्य मुखे तपां रोम्गां वृद्धौ श्मश्रुशब्दो वर्तते इत्यर्थः । अश्रादयश्च ॥ ‘अशू व्याप्तौ।' रुन्प्रत्ययः । नपूर्वात् श्रयतेंडुन् वा । यत्तु अश्नोतेर्छन् रुट चेत्युज्ज्वलदत्तेनोक्तं, तन्न । धातुलोपापत्तेः । तदभावोऽपि निपात्यत इति चेत् । तर्हि डित्त्वोत्प्रेक्षणं निष्फलमिति दिक् । जनेष्टन् लोप- श्च ॥ अलोऽन्त्यस्य । 'जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी' इति मेदिनी । हन्तः ॥ चादच अभ्यासकार्यम् । ‘अभ्यासाच्च' इति कुत्वम् । अमरोक्तिमाह । पश्चादिति ॥ 'जघनञ्च स्त्रियाः श्रोणिपुरोभागे कटावपि' इति मेदिनी । क्लिशेः ॥ 'केशः स्यात् पुंसि वरुणे कुविरे कुन्तलेऽपि च' इति मेदिनी । 'पलितजरसा शौक्ल्यं केशादौ' इत्यमरः । कृमादिभ्यः ॥ 'करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च कमण्डली' इति मेदिनी । कटक इति ॥ 'क्वुन् शिल्पिसंज्ञयोः' इति क्वुनाप्ययं सिद्धः । गुणभाज इहैवोदाहार्याः । गुणनिषेधभाजस्तु क्वुनि । उदासीनास्तु यत्र कुत्रचिदिति भावः । 'न नये ।' 'नरकः पुंसि निरये देवारातिप्रदेशयोः' इति मेदिनी । उदयनाचार्यास्तु न नरका- ण्येव सन्तीति क्लीबं प्रयुञ्जते । तत्र मूलं मृग्यम् । 'सृ गतौ ।' 'सरकोऽस्त्री शीधुपात्रे शीधुपानेक्षुशीधुनोः' इति मेदिनी । 'कुर शब्दे ।' 'कोरकोऽस्त्री कुट्मले स्यात् कक्कोलक- मृणालयोः' इति मेदिनी । 'विचकार कोरकाणि' इति माघः । 'कोरकः पुमान्' इत्यमरस्य ।
पञ्चमः पादः] बालमनोरमा । । ७१४ । चीकयतेरावन्तविपर्ययश्च । कीचको वंशभेदः । ७१५ । पचिमच्योरिच्चोपधायाः। पेचकः । मेचकः । ७१६ । जनेररष्ठ च । जठरम् । ७१७ । वचिमनिभ्यां चिच्च । वठरो मूर्खः । ‘मठरो मुनिशौण्डयोः' । बिदादित्वान्माठरः । गर्गादित्वान्माठयः । ७१८ । अर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च । 'ऊर्दरः शूररक्षसोः' । ७१९ । कृदरादयश्च । कृदरः कुसूल: । मृदरं विलसत् । मृदरः सर्पः ७२० । हन्तेयुनाद्यन्तयोर्घत्वतत्वे । घातनो मारकः । ७२१ । ऋमिगमिक्षमिभ्यस्तुन्वृद्धिश्च । क्रान्तु: पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः । ७२२ । हर्यतेः कन्यन्हिरच् । कन्यन्प्रत्ययः । हिरण्यम् । ७२३ । कुत्रः पासः । कर्पास: । बिल्वादित्वात्कार्पासं वस्त्रम् । ७२४ । जनेस्तु रश्च । जतुर्हस्ती योनिश्च । ७२५ । ऊर्णोतेर्डः। ऊर्णा । ७२६ । दधातेर्यन्नुट् च । धान्यम् । ७२७ । जीर्यतेः क्रिन्रश्च वः । जित्रिः स्यात्कलपक्षिणो:' । बाहुलकात् 'हलि च' (सू ३५४) इति दी? न । ७२८ । मव्यतेर्यलोपो मश्चापतुद् चालः । मव्यतेरालप्रत्यय: स्यात्तस्या- पतुडागमो धातोर्यलोपो मकारश्चान्यस्य । ममापतालो विषये । , प्रमादः । अपवरकावरकादयोऽपीहैव बोध्याः । चीकयतेः ॥ बाहुलकबललब्धोऽयमर्थः । एवमनुपदं वक्ष्यमाणं पचिमच्योरित्यपि बोध्यम् । 'कीचको दैत्यभिदाताहतसस्वनवंशयोः । पेचको गजलालमूलोपान्ते च कौशिके । मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्त वाच्यवत् क्लीबं स्रोतोऽजनान्धकारयोः' इति मंदिनी । जनेः ॥ ‘जठरः कठिनोऽपि स्यात्' इत्यमरः । जठरो न स्त्रियां कुक्षौ बद्धकर्कटयोस्त्रिषु' इति मेदिनी । वचि ॥ 'वठरः कुक्कुटे वण्टे शठे च' इति मेदिनी । ऊर्जि | 'तमूर्द रत्नपृणतायनेन' इति मन्त्रः । हर्यतेः ॥ ‘हर्य गतिकान्त्योः ।' हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः । अक्षय मानभेदे स्यादकुप्ये च नपुंसकम्' इति मेदिनी । जनेः ॥ तु इत्यविभक्तिकम् । तुप्रत्ययः । रेफश्चान्तादशः । ऊर्णोतेः॥ 'ऊर्णा मेषादिलोम्नि स्वादावर्ते चान्तरा ध्रुवोः' इत्यमरः । भ्रुवोर्मध्ये य आवर्त- स्ततेत्यर्थः । 'अन्तरान्तरेण' इति द्वितीया । दधातेः ॥ 'धान्यं ब्रीहिषु धान्याके' इति ।
६६० सिद्धान्तकौमुदीसहिता [उणादिषु ७२९ । ऋजे: कीकन् । ऋजीक इन्द्रो धूमश्च । ७३० । तनोतेर्डउः सन्वच्च । 'तितउः पुंसि क्लीबे च'। ७३१ । अर्भकपृथुकपाका वयसि । 'ऋधु वृद्धौ' । अतो वुन् । भकार- श्वान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबते: कन् । ७३२ । अवद्यावमाधमावरेफाः कुत्सिते । वदेर्नबि यत् । अवद्यम् । अवतेरमः । बस्य पक्षे धः । अवमः । अधमः । अर्वन् । अर्वा । रिफतेस्तौ- दादिकात् अ: रेफः। ७३३ । लीरीडोर्हस्वः पुट् च तरौ श्लेषणकुत्सनयोः। तरौ प्रत्ययौ क्रमात्स्तो धातो खः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् । ७३४ । क्लिशेरीचोपधायाः कन्लोपश्च लो नाम्च । क्लिशे: कन्यादु- पधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्त्वफलं चिन्त्यम् । ७३५ । अश्नोतराशुकर्मणि वरद च । चकारादुपधाया ईत्वम् । ईश्वरः । ७३६ । चतेरुरन् । चतुरः । ७३७ । प्रा (प्रेड) ततेररन् । प्रातः । ७३८ । अमेस्तुद् च । अन्तर्मध्यम् । मेदिनी । तनोतेः ॥ 'चालनी तितउः पुमान्' इत्यमरः । 'चालनं तितउन्युक्तम्' इति कोशान्तरम् । 'तितउ परिपवनं भवति' इति पस्पशायां भाष्यम् । ‘स्याद्वास्तु हिङ्गु तितउः' इति पुनपुंसकवर्गे त्रिकाण्डशेषः। अर्भक ॥ 'अर्भकः कथितो बाले मूर्खेऽपि च कृशऽपि च । पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् । पाकः परिणत शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च' इति मेदिनी । अवद्य ॥ 'निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः । विपूयकुत्सितावद्यखेटगाणकाः समाः' इति सर्वत्रामरः । 'अधमः स्याद्गद्य ऊनेऽपि' इति मंदिनी । 'अर्वा तुरङ्गम पुंसि कुत्सिते वाच्यलिङ्गकः । रेफो रवर्णे पुंसि स्यात् कुत्सिते पुन- रन्यवत्' इति च । लीरीङोः ॥ 'लिप्तं विषाक्ते भुक्ते च वाच्यवत् स्याद्विलेपितः' इति विश्वः । क्लिशेः ॥ ‘कीनाशः कर्षकक्षुद्रोपांशुघातिषु वाच्ववत् । यमे ना' इति मेदिनी । ईश्वर इति ॥ स्त्रियां टित्त्वात् ङीप् । ईश्वरी मद्ध्योदात्ता । वनिपि ङीबयोस्तु आधुदात्ता । पुंयोगलक्षणे डीषि अन्तोदात्ता। 'स्थेशभास' इति वरजन्तादपि तु ईश्वरेति विवेकः । 'ईश्वरो मन्मथे शम्भौ नाथे स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्' इति मेदिनी । 'ईश्वरः शङ्करेऽधीशे तत्पत्न्यामीश्वरीश्वरा' इति वोपालितः । विन्यस्तमङ्गलमहौषधिरीश्वरायाः' इति भारविः । दशपाद्यान्तु सूत्रान्तरमपि । “हन्तेरन् घश्च" रन्प्रत्ययः स्या- घश्चादेशः । हन्यते गम्यतेऽतिथिभिः घरः गृहम् । प्रातरिति ॥ “अत सातत्यगमने ।' प्रपूर्वः ।
पञ्चमः पादः] बालमनोरमा । ६६१ ७३९ । दहेर्गो लोपो दश्च नः । गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य नकारः । नगः । । ७४० । सिचेः संज्ञायां हनुमौ कश्च । सिञ्चते: कप्रत्ययो हकारादेशो नुम्च स्यात् । सिंहः । ७४१ । व्याङि घ्रातेश्च जातो । कप्रत्यय: स्यात् । व्याघ्रः । ७४२ । हन्तेरच्घुर च । घोरम् । ७४३ । क्षमेरुपधालोपश्च । चादच् । क्ष्मा । ७४४ । तरतेईिः । त्रयः । त्रीन् । ७४५ । ग्रहेरनिः । ग्रहणिः । ङीष् । ग्रहणी व्याधिभेदः । ७४६ । प्रथेरमच् । प्रथमः । ७४७ । चरेश्च । चरमः । ७४८ । मङ्गेरलच् । मङ्गलम् । ॥ इत्युणादिषु पञ्चमः पादः ॥ स्वरादिपाठादव्ययत्वम् । दहेः ॥ 'नगो महीरुहे शैले भास्करे पवनाशने' इति मेदिनी । सिचेः ॥ ‘सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थिते । सिंही क्षुद्रवृहत्योः स्याद्वासके राहु- मातरि' इति विश्वः । 'हिंसेर्वर्णव्यत्ययतः सिंहः' इति व्युत्पत्त्यन्तरम् । व्याङि ॥ 'व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरञ्जयोः । श्रेष्ठेनराद्युत्तरस्थः कण्टकार्याञ्च योषिति' इति मेदिनी । हन्तेः ॥ 'घोरं भीमे हरे घोरः' इति विश्वः । ग्रहः ॥ ‘ग्रहणी रुकप्रवाहिका' इत्यमरः । प्रथेः ॥ 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' इति मेदिनी । 'प्रथमचरम' इति सर्वनामत्वात्पक्षे जसः शी। प्रथमे प्रथमाः । चरेश्च ॥ चरमे । चरमाः । 'प्रथिचरिभ्याम्' इति सुवचम् । मङ्गरलच् ॥ उखवखेत्यादिदण्डके मगिः पठ्यते । 'मङ्गला सितदूर्वाया- मुमायां पुंसि भूमिजे। नपुंसक तु कल्याणे सर्वार्थे रक्षणेऽपि च' इति मेदिनी । भावे यत्रि माङ्गल्यम् । तत्र साधुरिति यत् । 'मङ्गल्यः स्यात्तायमाणाश्वत्थबिल्वमसूरके । स्त्रियां शम्या- मधःपुष्पीमिसिशुक्लवचासु च । रोचनायामथो दन्नि क्लीबं शिवकरे त्रिषु' इति मेदिनी ॥ ॥ इत्युणादिषु पञ्चमः पादः ॥ . प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतः । सोऽपि नेकप्रघट्टकतया । किन्तु विच्छिद्येति स्पष्टमेव । तत्रापि प्रमादं लेशतो दर्शयामः । 'भजो ण्विः' इति ण्विप्रकरणे, 'छन्दसि सहः, वहश्च' इत्युपन्यस्य, ‘परौ बजेः षः पदान्ते' इति ण्विस्तेनैव षः। परिव्राट् इति तावत् प्राचो प्रन्थः । तद्याख्यायां तत्पौत्रेण पञ्चपागुणादिसूत्रे इदं पठ्यते इत्युक्तम् । तन्न । क्विब्वचि सिद्धान्तकौमुदीसहिता [उणादयः . । इति क्विन्दीधौं प्रक्रम्य, 'परौ बजेः' इति सूत्रस्य पाठात् । अस्मिन्नंशे पञ्चपादीदशपाद्योरेक- वाक्यत्वात् । यदपि प्राचो प्रन्थे क्वचित्पठ्यते चिणिति तदप्यपाणिनीयत्वादुपेक्ष्यम् । एतेन प्रघकान्तरे स्तुद्रु परिव्रजां दीर्घश्चेति केचिदिति प्राचो ग्रन्थोऽपि प्रत्युक्तः। सूत्रारूढे सर्वसम्मते चार्थे केचिदित्युक्तेरप्रामाणिकत्वात् । यदपि धनर्तिचक्षिकपिनपिजनियजेरुस् इति पाठतं तदप्य- नाकरम् । तथा हि । जनेरुसिः । अर्तिपृवपियजितनिधनितपिभ्यो नित् । एतेर्णिच । 'चक्षेः शिच' इति सर्वसम्मतः पाठः । वपूंषि तस्मै वपुषो वपुष्टरम् ' इत्यादिमन्त्रेष्वायुदात्ततया अनु- कूलश्च । वेदभाष्येऽप्येवमेव स्थितम् ॥ इति द्वितीये प्रमादाः ॥ तृतीयेऽपि 'स्तनिदूषिपुषि- गदिमदिहृदिभ्यो रिलुच्' इति प्राचा पठितम् । तत्र दूषिहृदी प्राचां वृत्तिकृतां ग्रन्थे क्वापि न पठितौ । दूषयित्नुः हृदयित्नुरिति प्रयोगोऽप्याकरे न दृष्टः । स्तनिहृषिपुषिमुदिगदिमदिभ्य इति हि पञ्चपादीपाठः । घुषिगन्धिमण्डिजनिगामेभ्य इति दशपाद्यामधिकमित्यन्यदेतत् । यदपि श्रुदक्षिस्पृहिगृहिदृजिभ्य आय्य इति पठित्वा दाराय्यः जयाय्य इति प्राचोक्तं तदपि न । दृजिग्रहणस्याकरविरुद्धत्वात् । यदपि विशिभ्यां अच् गण्डिमण्डिजनिनन्दिभ्यश्चेत्युक्त्वा गण्ड- यन्तो जनयन्त इत्युदाहृतं प्राचा, यच्च गण्डयन्त इति प्रतीकमुपादाय मेघनादमिति व्याख्याय 'गडि वदनैकदेशे' इति व्याख्यातृभिर्विवृतं तदेतत्सर्व प्रामादिकम् । तथा हि उणादिवृत्तिषु गडीति निरनुषङ्गं पठित्वा 'गड सेचने' इति विवृतम् । अयामन्त' इति सूत्रवृत्तिन्यासहरदत्तादि- सकलग्रन्थेष्वेवम् । माधवप्रन्थेऽप्येवमेव । युक्तञ्चैतत् । मेघ इति व्याख्यानं प्रति सेचनार्थ- स्यैवानुगुणत्वात् । जनेः पाठोऽप्यप्रामाणिकः । जिधातुं पठित्वा जयन्तः पाकशासनिरिति सर्वैर्निवृत्तत्वात् अप्रसिद्धत्वाच ॥ इति तृतीये प्राचः प्रमादाः ॥ यदपि कृगृस्तृजागृभ्यः क्विन् । गीर्विः स्तृविरिति । तदपि लिपिभ्रमप्रयुक्तमेव । स्तृञ् आच्छादने' इति प्राचो ग्रन्थं विवृण्वतामुक्तिरपि मूलाशुद्ध्यैव हेया । जृगृस्तृजागृभ्यः क्विन् इति पाठः उणादिवृत्तिकृतां माधवादीनाञ्च सम्मतः । जीविः पशुः । शीविहिस्रः। स्तीविरध्वर्यु रिति च तत्तद्वन्थेचूदाहृतम् । स्तृ इत्यस्य दीर्घान्तत्वे एव हि, 'ऋत इद्धातोः' इतीत्त्वं लभ्यते, न तु ह्रस्वान्तत्वेऽपि । तस्माद्यथाकरमेव ग्रहीतुमुचितमिति दिक् । 'ग्लाज्याहात्वरिभ्यो निरित्य- प्यनाकरम् । वीज्याज्वरिभ्यो निरिति पठित्वा सूत्रद्वयानन्तरं वहिश्रीति सूत्रे ग्लाहात्वरिभ्यो नित्' इति सूत्रितत्वात् । तूणीरथः सदानव इत्यादावाद्युदात्तदर्शनाच्च । न च 'स्त्रियां क्तिन्' इत्यधिकारस्थं वार्तिकमेवेदं प्राचोदाहृतं न तूणादिस्थमिति वाच्यम् । एवमपि त्वरतेः पाठस्यानु- चितत्वात् । न ह्यसौ वार्तिकेऽस्तीति दिक् । एवं संस्त्याने स्त्यायते डिति प्राचोदाहृतमप्यनाकरम् । स्त्यायतेडूडित्येव सूत्रस्याकरे पञ्चपाद्यान्दशपाद्याञ्च उपलम्भात् । संस्त्याने स्त्यायते: स्त्री सूते सप्रसवे पुमान्' इति तु भाष्ये श्लोकपाठः। स एव माधवेनोपन्यस्तः । न तु सूत्रपाठस्य तथात्वं दृश्यते । एतद्वन्थव्याख्यातॄणामपि प्रमादा ऊह्याः । यथा पाणिन्यादिमुनीनिति व्याचक्षाणैरुक्तम् । मनेरुचोपधाया इति । न ह्येवंविधं सूत्रं पञ्चपाद्या दशपाद्यामप्यस्ति । अत इत्यनुवर्तमाने मनेरुच्चोते सूत्रितत्वात् इति दिक् ॥ इति चतुर्थे प्राचः प्रमादाः ॥ कृ विक्षेपे, गृ निगरणे, .
॥ श्रीरस्तु॥ ॥ अथ उत्तरकृदन्तप्रकरणम् ॥ ३१६९ । उणादयो बहुलम् । (३-३-१) एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः । 'संज्ञासु धातुरूपाणि प्रत्ययाश्च तत: परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु' (भाष्यम्) । ३१७० । भूतेऽपि दृश्यन्ते । (३-३-२) ३१७१ । भविष्यति गम्यादयः। (३-३-३) ३१७२ । दाशगोप्नौ संप्रदाने । (३-४-७३) अथ उत्तरकृदन्तप्रक्रियाः निरूप्यन्ते-उणादयो बहुलम् ॥ तृतीयेऽध्याये तृतीय- पादस्येदमादिमं सूत्रम् । वर्तमाने संज्ञायाञ्चेति ॥ 'वर्तमाने लट्' इत्यतः 'पुवस्संज्ञायाम्' इत्यतश्च तदनुवृत्तेरिति भावः । अत एव नजि हन एह च नपूर्वाद्धन्तेरसिप्रत्यये प्रकृतेः एहादेशे व्युत्पन्न अनेहस्शब्दो वर्तमानकाल एवेत्युक्तं भाष्ये । संज्ञाशब्दश्चात्र रूढशब्दपरः । वैदिकानामपि शब्दानामुपलक्षणम् । अत एव 'नैगमरूढिभवं हि सुसाधु' इति वार्तिकम् । वैदिका रूढशब्दाश्चौणादिका इति भाष्यञ्च सङ्गच्छते । रूढाश्चैते उणादिप्रत्ययान्ताः अवयवार्थ. शून्या असन्तमप्यवयवार्थमाश्रित्य प्रायः कर्तरि व्युत्पाद्याः । उणादयो वेत्यनुत्ता बहुलग्रहणस्य प्रयोजनमाह । केचिदविहिता अप्यूह्या इति ॥ तदेवाह । संशास्वित्यादि ॥ भाष्यस्थोऽयं श्लोकः । डित्यो डिबित्थ इत्यादौ धातुरूपाणि प्रत्ययाश्च यथासम्भवमूह्याः । गुण- निषेधादिकार्यवशात् अनूबन्धं विद्यात् । अनूबन्धमित्यत्र 'उपसर्गस्य घञ्यमनुष्ये' इति दीर्घः । एतत् उणादिषु शास्त्रं शासितव्यम् । 'कृवापाजि' इत्यादिसूत्राणि तु शाकटायनप्रणीतानि अस्यैव बहुलग्रहणस्य प्रपञ्च इत्यर्थः । भूतेऽपि दृश्यन्ते ॥ उणादय इति शेषः । वर्तमाना- धिकारादिदं भूतग्रहणम् । दृशिः प्रयोगानुसारार्थः । इदं सूत्रं बहुलग्रहणवत्प्रपञ्चार्थम् । भविष्यति गम्यादयः ॥ भविष्यति काले गम्यादयश्शब्दाः णिनिप्रत्ययान्ताः निपात्यन्ते इत्यर्थः । ग्रामङ्गमीति निपातनान्नात्र गित्वम् गमिष्यन्नित्यर्थः । प्रस्थायी प्रस्थास्यमान इत्यर्थः । ।
६६४ सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त एतौ संप्रदाने कारके निपात्येते । दाशन्ति तस्मै दाशः । गां हन्ति तस्मै गोनोऽतिथिः । ३१७३ । भीमादयोऽपादाने । (३-४-७४) भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः । ३१७४ । ताभ्यामन्यत्रोणादयः । (३-४-७५) संप्रदानापादानपरामर्शार्थ ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म । ३१७५ । तुमुन्ण्वुलौ क्रियायां क्रियायाम् । (३-३-१०) क्रियार्थायां क्रियायामुपपदे भविष्य यर्थे धातोरेतौ स्त: । मान्तत्वाव्य- यत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वाऽसरूपेण तृजादयो न । पुनण्वुलुक्तेः । ३१७६ । समानकर्तृकेषु तुमुन् । (३-३-१५८) अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा । तुमुन्ण्वुलौ ॥ क्रियार्थायामिति ॥ क्रियोद्देश्यभूतक्रियावृत्तिधातौ उपपदे इत्यर्थः । भविष्यतीत्यनुवर्तते । तुमुनि नकार इत् मकारादुकार उच्चारणार्थः । ण्वुलि णलावितो, वोरका- देशः । मान्तत्वादिति ॥ तुमुनो मान्तकृत्त्वात् 'कृन्मेजन्तः' इत्यव्ययत्वमित्यर्थः । ततश्च 'अव्ययकृतो भावेइति वचनाद्भावे तुमुन् । ण्वुल् तु कर्तर्येव । कृष्णं द्रष्टुमिति ॥ ‘न लोकाव्यय' इति न षष्ठी। कृष्णकर्मकं भविष्यदर्शनार्थ यानमित्यर्थः । अत्र यातीत्युपपदम् । अत्र तुमुन्प्रत्ययप्रकृत्यर्थस्य दर्शनस्य यानार्थत्वं तुमुना द्योत्यं वाच्यं वा । कृष्णं दर्शको यातीति ॥ कृष्णं द्रक्ष्यन् तदर्थ यातीत्यर्थः । 'अकेनोभविष्यदाधमर्ण्ययोः' इति न षष्ठी । ननु तुमुनो भावार्थकत्वे तद्विषये कर्तरि विहितानां तृजादीनामप्रवृत्तावपि ण्वुल्विषये कर्तरि तृजादयः कुतो न स्युः । न च विशेषविहितेनानेन ण्वुला तृजादयो बाध्यन्ते इति वाच्यम् । वासरूपविधिना तद्बाधस्य पाक्षिकत्वादित्यत आह । अत्रेति ॥ क्रियार्थक्रियोपपदे विषये वासरूपविधिना पक्षे प्राप्ताः ये तृजादयस्ते न भवन्तीत्यर्थः । आदिना 'नन्दिप्रहिपचादिभ्यो ल्युणिन्यचः' इत्यादिसङ्ग्रहः । कुतोऽत्र तृजादयो नेत्यत आह । पुनण्वुलुक्तेरिति ॥ ज्वुल् तृचौ' इति कालसामान्ये कर्तरि विहितो ण्वुल् क्रियार्थक्रियोपपदे विषये भवतीति पुनरिह बुल्विधानात् तदितरतृजादयो न भवन्तीति विज्ञायते इति भावः । समानकर्तृ- केषु ॥ 'तुमुन्ण्वुलौ क्रियायाम्' इत्येव सिद्ध किमर्थमिदमित्यत आह । अक्रियार्थेति ॥ ।
प्रकरणम्] बालमनोरमा । ६६५ ३१७७ । शकधृषज्ञाग्लाघटरभलभक्रमसहारेस्त्यर्थेषु तुमुन् । (३-४-६५) एकूपपदेषु धातोस्तुमुन्यात् । शक्नोति भोक्तुम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव संबध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् । ३१७८ । पर्याप्तिवचनेष्वलमर्थेषु । (३-४-६६) पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेपूपपदेषु तुमुन्स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशल: पटुरित्यादि । 'पर्याप्तिवचनेषु' किम् । अलं भुक्त्वा । अलमर्थेषु' किम । पर्याप्तं भुते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् । ३१७९ । कालसमयवेलासु तुमुन् । (३-३-१६७) पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेपूपपदेपु तुमुन्स्यात् । काल: समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते तेनेह न । 'भूतानि काल: पचतीति वार्ता'। , इच्छार्थेष्विति ॥ ‘इच्छार्थेषु लिङ्लोटौ ' इत्यतस्तदनुवृत्तेरिति भावः। इच्छति भोक्तु- मिति ॥ अत्र इच्छत्युपपदार्थस्य इच्छाया भोजनोद्देश्यत्वाभावेऽपि तुमुन् । इच्छावित्यर्थ- ग्रहणस्य प्रयोजनमाह । वष्टि वाञ्छति वेति ॥ यद्यपि वशेः छान्दसेषु परि. ५ तुपाठ । तथापि ‘वष्टि भागुरिः' इति वार्तिकप्रयोगात् लोकेऽपि प्रयोग इति भावः । शकधृष ॥ 'शकभूषज्ञा' इति सूत्रमप्यक्रियोपपदार्थम् । शक्नोति भोक्तुमिति ॥ अन शक्तीजनो- द्देश्यत्वाभावेऽपि तुमुन् । एवमिति ॥ धृष्णोति जानाति ग्लायति घटते आरभत लभते क्रमते उत्सहते अर्हति वा भोक्तुमित्युदाहार्यम् । अस्तिनैवेति ॥ न तु शकादिनेत्यर्थः । कुत इत्यत आह । अनन्तरत्वादिति ॥ सनिहितत्वादित्यर्थः । पर्याप्तिवचने ॥ पर्याप्ति इत्यस्य विवरणम् । पूर्णतेति ॥ अलमर्थेष्वित्यस्य विवरणम् । सामर्थ्यवचनेविति ॥ पर्याप्तो भोक्तुमिति ॥ अन्यूनसामर्थ्यवानित्यर्थः । वचनग्रहणस्य फलमाह । प्रवीण इत्यादि ॥ अलं भुक्त्वेति ॥ अत्र अलमिति प्रतिषेधार्थकम् । नतु पर्याप्त्यर्थकमिति भावः । पर्याप्तं भुङ्क्ते इति ॥ बहुलमन्नं भुक्ते इत्यर्थः । प्रभूततेति ॥ अन्नस्येति शेषः । कालसमयवेलासु ॥ अक्रियोपपदेऽपि प्रवृत्त्यर्थमिदम् । ननु कालपर्यायाणां कतिपयानां ग्रहणात्तदितरस्मिन् अनह आदिशब्दे उपपदे न स्यादित्यत आह । पर्यायोपादानमर्थो- पलक्षणार्थमिति ॥ अनुवर्तते इति ॥ प्रैषातिसर्गसूत्रादिति भावः । भूतानीति ॥ पृथिव्यादिपञ्चभूतानि कालः पचति उपचयापचयादिविकारं प्रापयति इति वार्ता लोकवृत्तान्त 84 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त ३१८० । भाववचनाश्च । (३-३-११) भाव इत्यधिकृत्य वक्ष्यमाणा घनादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति । 'तुमर्थात् ' (सू ५८२) इति चतुर्थी । ३१८१ । अण्कर्मणि च । (३-३-१२) कर्मण्युपपदे क्रियार्थायां क्रियायां चाण्स्यात् । ण्वुलोऽपवादः । काण्ड- लावो व्रजति । परत्वादयं कादीन्बाधते । कम्बलदायो ब्रजति । इत्यर्थः । भाववचनाश्च ॥ क्रियार्थायां क्रियायामिति भविष्यतीति चानुवर्तते । भावे चेत्येव सिद्धे वचनग्रहणस्य प्रयोजनमाह । भाव इत्यधिकृत्येति ॥ भावे इत्यधिकृत्य घनादयो विधास्यन्ते ये सामान्यतः ते क्रियार्थायां क्रियायां उपपदे भविष्यति काले विशेष. विहितनापि तुमुना समुचिता भवन्तीत्यर्थः । न च वाऽसरूपविधिना सिद्धमेतदिति शङ्कयम् । 'तल्युट तुमुन् खलर्थेषु वाऽसरूपविधिर्नास्ति' इत्युक्तेरिति भावः । ननु यागाय यातीत्यत्र यागस्य सम्प्रदानन्वाभावात् कथं चतुर्थी । नापि तादर्थ्यचतुर्थी तादर्थ्यस्य प्रत्ययेनैव लाभा- दित्यत आह । तुमर्थादिति ॥ अण् कर्मणि च ॥ चकारेण क्रियार्थायां क्रियायामिति समुच्चीयते । तदाह । क्रियार्थायां क्रियायाश्चेति ॥ तथा च क्रियार्थायां क्रियायां कर्मणि चन्युपपदद्वये सत्येवास्य प्रवृत्तिः नान्यतरस्मिन्निति भाष्ये स्पष्टम् । कञर्थकोऽयमण् । कर्तरि कृदित्यधिकारान् । अत्र ‘बुल्तृचौ' इति वाधित्वा 'कर्मण्यण' इति सामान्यविधिना अण् प्राप्तः तन्तावक्रियार्थायां क्रियायामुपपदे विशेषविहितस्तुमुन्ण्वुलाविति ण्वुल् बाधितुमुद्युते, पुनर्बुल्विधिसामर्थेन वाऽसरूपविधेरत्राप्रवृत्तेरुक्तत्वात् । तमिमं ण्वुलम्बाधितुमयमविधिः । तदाह । ण्वुलोऽपवाद इति ॥ 'तुमुन्ण्वुलौ' इति विहितस्य ण्वुलोऽपवाद इत्यर्थः । एवञ्च ण्वुलः बाधितस्य 'कर्मण्यण्' इत्यस्य अयमविधिः प्रतिप्रसवार्थ इति स्थितम् । ननु ण्वुला वाधितस्याणः प्रतिप्रसवेऽपि 'आतोऽनुपसर्गे' इति कप्रत्ययः कम्बलदायो व्रजतीत्यत्र दुर्निवारः । कप्रत्ययस्व कर्मण्यणपवादत्वात् सरूपत्वेन च वाऽसरूपविध्यप्रवृत्तेः । न चायं वैशषिकोऽविधिः कप्रत्ययस्याप्यपवाद इति शङ्कयम् । न ह्ययमपूर्वोऽविधिः । किन्तु लाघवात् 'कर्मण्यम्' इत्यणेवात्र प्रतिप्रसूयते । सच 'कर्मण्यण' इत्यण् सामान्यविहितः ‘आतोऽनुपसर्गे कः' इति वैशेषिकस्य नापवादः । प्रत्युत कप्रत्यय एव तदपवादः। अतः कम्बलदायो व्रजती- त्यत्र कर्मण्यगपवाद तुमुन्ण्वुलाविति ण्वुलम्बाधित्वा कप्रत्ययः स्यादित्यत आह । परत्वादयं कादीन् बाधते इति ॥ आदिना सामगो गुरुकुलं व्रजतीलादी गापोष्टगित्यादिसङ्ग्रहः । अण्कर्मणि चेति ह्यावर्तते । प्रतिप्रसवविधिरपूर्वविधिश्च । तत्र प्रतिप्रसवविधिना ण्वुला अणो बाधनिवृत्तिः । अपूर्वविधिविहितस्य त्वणः तृतीयपादीयस्य द्वितीयपादस्थकप्रत्ययापेक्षया परत्वत् कादिप्रत्यया अणा अनेन वाध्यन्ते इत्यर्थः । एतच्च भाष्ये स्पष्टम् । इत ऊर्ध्वम् ‘लुट् शेष च' इत्यादिसूत्रेषु क्रियार्थायां क्रियायामिति निवृत्तम् । भविष्यतीत्येवानुवर्तते इति प्रकरणम्] बालमनोरमा । ३१८२ । पदराजविशस्पृशो घञ् । (३-३-१६) भविष्यतीति निवृत्तम् । पद्यतऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः । ३१८३ । सृ स्थिरे । (३-३-१७) 'मृ' इति लुप्तविभक्तिकम् । स्थिरे कर्तरि सते: घस्यात् । सरनि कालान्तरमिति सारः । • व्याधिमत्स्यबलेषु चेति वाच्यम' । (वा २१६४) अतीसारो व्याधिः । 'उपसर्गस्य' इति दीर्घः । अन्तर्भावितण्यर्थोऽत्र सरते: । रुधिरादिकमतिशयेन सारयतीत्यर्थः। विसारों मत्स्यः । 'सारो बले दृढांश च । ३१८४ । भावे । (३-३-१८) सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घस्यात् । पाक: । पाको । ३१८५ । स्फुरतिस्फुलत्योर्घञि । (६-१-४७) अनयोरेच आत्वं स्याद्धनि । स्फारः । स्फाल: । ' उपसर्गस्य घनि- (सू १०४४) इति दीर्घः । परीहारः । 'इक: काशे' (सू १०४५)। काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः स्यात् । नीकाशः अनूकाश: । 'इकः' किम् । बोध्यम् । पदरुज ॥ कर्तरीत्येव । पद्यतेऽसाविति ॥ करणस्याप्यत्र विवक्षातः कर्तृत्वम् । 'एरच्' इत्यतः प्राक् घअधिक्रियते । सृ स्थिरे ॥ लुप्तविभक्तिकमिति ॥ लुप्तपञ्चमीक- मित्यर्थः। स्थिर कर्तरीति ॥ स्थिरे इति कर्तृविशेषणम् । न तूपपदमिति भावः । सतरिति ॥ भ्वादेर्जुहोत्यादेश्च ग्रहणम् , न तु जुहोत्यादरेव, व्याख्यानात् । तदाह । सरति कालान्तरमिति सार इति ॥ अर्ध दिपाठात् पुस्त्वं क्लीबत्वञ्च । अत एव च स्थिर इति नोपपदम् । व्याधीति ॥ वार्तिकमस्थिरार्थम् । सारो बल इति ॥ भाष्ये तु वले खदिरसार इन्यु दाहृतम् । भावे ॥ भावो भावना क्रिया सा च धातुत्वेन सकलधातुवाच्येत्यादि मूलव्याख्या- वसरे सर्वधातुवाच्यं क्रियासामान्यं तद्विशेषः पाकादिश्च धातुविशेषवाच्यः। तत्र क्रियासामान्य भावशब्दार्थः । तिवाच्यं लिङ्गसङ्खयान्वयायोग्यं साध्यावस्थापन्नम् । कृद्वाच्यन्तु लिङ्गसङ्ख्यान्वय- योग्यं सिद्धावस्थापनम् , कृदभिहितो भावो द्रव्यवत्प्रकाशत इति भाष्यादिति प्रपञ्चितम् । तदाह । सिद्धावस्थापन्न इत्यादिना ॥ धजिति ॥ ‘पदरुज' इत्यतस्तदनुवृत्तेरिति भावः । इकः काशे ॥ उत्तरपदे इति ॥ 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तरिति भावः । 'ठूलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते । 'उपसर्गस्य घञ्यमनुष्ये' इत्यतो घजीति । तेनैव सिद्धे नियमार्थमिदम् । तदाह । इगन्तस्यैवेति ॥ दीर्घः स्यादिति ॥ घजीति शेषः ।
६६८ सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त प्रकाशः । ‘नोदात्तोपदेश-' (सू २७६३) इति न वृद्धिः । शमः । आचमा- देस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् । ३१८६ । अकर्तरि च कारके संज्ञायाम् । (३-३-१९) कर्तृभिन्ने कारके घस्यात् । ३१८७ । घञि च भावकरणयोः (६-४-२७) रनलोप: स्यात् । रागः । 'अनयोः' किम् । रज्यत्यस्मिन्रङ्गः । प्रास्यत इति प्रासः । 'संज्ञायाम्' इति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं 'भावे' · अकर्तरि कारके' इति ‘कृत्यल्युटो बहुलम्' (सू २८४१) इति यावद्यमण्यनुवर्तते । ३१८८ । स्यदो जवे । (६-४-२८) स्यन्देत्रि नलोपो वृद्धयभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः । ३१८९ । अवोदैधौद्मप्रश्रथहिमश्रथाः। (६-४-२९) आचाम इति ॥ अनाचमेरिति पयुदासान्न बृद्धिनिषेध इति भावः। अपाणिनीयमिति ॥ 'नोदात्तोपदेशस्य' इति वृद्धिनिषेधादिात भावः । अकर्तरि ॥ कारक इति प्रत्ययार्थनिर्देशः। न त नाख्यानात् । संज्ञाशब्देन रूढिर्विवक्षितः । तेन राग इति वक्ष्यमाणमुदाहरणं सङ्गच्छत । बाज॥ 'अनिदिताम्' इति नलोपप्रकरणे 'रजेश्च' इत्युत्तरमिदं सूत्रम्। तदाह । रञ्जनलोपः स्यादिति ॥ सूत्रे शेषपूरणमिदम् । राग इति ॥ 'चजोः कु घिण्ण्यतो' इति जस्य गः, नलोप कृते उपधावृद्धिः रञ्जनक्रियेत्यर्थः, रञ्जनद्रव्यं वा । प्रास्यत इति ॥ प्रपूर्वान् ‘असु क्षेपणे' इत्यस्मात् 'अतरि च' इति करणे घञि प्रास इति रूपमित्यर्थः । प्रास्यन्त क्षिप्यन्ते शत्रवोऽननेति प्रासः आयुधविशेषः । प्रायिकमिति ॥ स्पष्टमिदं भाष्ये । ततश्च असंज्ञायामपि कचिदयं घञ् भवतीति भावः । तदाह । को भवतेति ॥ लाभ इति ॥ भाव घञ् । कः लाभः हिरण्यादिप्राप्तिरूपः लब्धः सम्पन्न इत्यर्थः । भवतेत्यस्य लब्ध इत्यत्रान्वयात् 'नलोक' इति षष्ठी निषेधः । अनुवर्तत इति ॥ अत्र व्याख्यानमेव शरणम् । 'स्यन्दू प्रलवणे' इत्यस्मात् 'अकर्तरि च' इति घनि क्डिदभावात् 'अनिदिताम्' इति नलोपो न प्राप्तः । तत्र स्यन्देश्चेत्युक्तो यद्यपि नलोपस्सिद्ध्यति । तथापि कृते नलोपे उपधावृद्धिः स्यात् । तत्र नलोपमुपधावृद्ध्यभावञ्च प्रापयितुमाह । स्यदो जवे ॥ स्यदो वेग इति ॥ देगे रूढोऽयम् । अन्यत्रेति ॥ प्रस्रवणे इत्यर्थः । अवोदैधौद्म ॥ अवोद, एध, ओद्म, प्रश्रय, हिमश्रथ, एषां द्वन्द्वः । अवोद इति ॥ घनि नलोपो निपात्यते । कृते नलोपे प्रकरणम् बालमनोरमा । . अवोद: अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेनलोपो वृद्धयभावश्च । प्रश्रथ: । हिमश्रथः । ३१९० । परिमाणाख्यायां सर्वेभ्यः । (३-३-२०) घञ् । अजपो धनार्थमिदम् । एकस्तण्डुलनिचाय: । तण्डुलानां निचायः राशिः परिच्छिद्यते। द्वौ शूर्पनिष्पावौ । शूर्पण निष्पावौ । द्वौ कारौ । अत्र विक्षिप्यमाणो धान्यादिः परिच्छिद्यते । 'दारजारौ कर्तरि णिलुक्च' (वा २१८२) । दारयन्तीति दारा: । जरयतीति जार: उपपतिः । आद्गुण: । लघूपधगुणस्तु न भवति । 'न धातुलोपे' इति निषेधात् । एध इति ॥ 'नि इन्धी दीप्तौ' इत्यस्मात् घनि नलोषः । 'न धातुलोप' इति निषेधं बाधित्वा गुणश्च निपात्यते । ओद्म इति ॥ उन्देरोणादिके मन्प्रत्यय नलोपो गुणश्च निपात्यते । श्रन्थेरिति ॥ प्रपूर्वस्य हिमपूर्वस्य च घनीति शेषः। परिमाणाख्यायां ॥ घनिति ॥ शेषपूरणम् । सर्वेभ्य धातुभ्य अकतीरे कारके वाच्ये घञ् स्यात् प्रत्ययार्थस्य परिच्छेद गम्ये इत्यर्थः । ननु ‘अकर्तरि कारके' इत्येव सिद्धे किमर्थमिदमित्यत आह । अजपोरिति ॥ ‘एरच्' 'ऋदोरप्' इति वक्ष्यमाणयो- धिनार्थमित्यर्थः । ‘अकर्तरि च' इति घञ् तु ताभ्यां विशेषविहिताभ्यां वाध्येत, सरूपत्वेन वाऽमरूपविधेरप्रवृत्तरिति भावः । एकस्तण्डुलनिचाय इति ॥ निष्कृष्य चीयते सङ्घीक्रियते इति निचायः। कर्मकारके वाच्ये 'एरच्' इत्यस्यापवादो घञ्। तण्डुलनिचायशब्दे विग्रहं दर्शयति। तण्डुलानामिति ॥ निचायशब्दस्य विवरणम् । राशिरिति ॥ परिच्छिद्यते इति ॥ तण्डुलावयवकसङ्घातात्मकः राशिरेकत्वेन परिच्छिद्यते इत्यर्थः । द्वौ शूर्पनिष्पावाविति ॥ निष्पूयते तुषापनयनेन शोद्ध्यते इति निष्पावः तण्डुलादिराशिः । कर्मणि घञ् अवपवादः । शूर्पण निष्पावः शूर्पनिष्पावः । ‘कर्तृकरण कृता बहुलम्' इति समासः । द्वित्वन्तु शूर्पद्वारा निष्पावेऽन्वति । अतश्शूर्पद्वित्वमार्थिकम् । न तु शाब्दमित्येकवचनं निर्वाधम् । तदाह । शूर्पणेत्यादि ॥ द्वौ काराविति ॥ कीर्यते विक्षिप्यते इति कारः। धान्यादिराशिः कर्मणि घा अबपवादः। तदाह । अत्र विक्षिप्यमाण इति ॥ न च धातोरित्यधिकारादेव धातु- मात्रासिद्धे सर्वग्रहणं व्यर्थमिति शङ्कयम् । प्रकृत्याश्रय एवापवादो बाध्यते । नत्वाश्रय इत्येतदर्थत्वात् । तेनेह न । एका तिलोच्छ्रितिः । उच्छ्रीयते ऊर्वीक्रियते इत्युच्छ्रितिः । ऊर्ध्वं कृतो राशिः कर्मणि स्त्रियां क्तिन् । स च अर्थाश्रयत्वात् प्रकृत्याश्रयत्वाभावात् नानेन घना बाध्यते । किन्तु एरच 'ऋदोरप्' इति प्रकृत्याश्रयावेब अजपा बाद्ध्येते इति भाष्ये स्पष्टम् । दारजाराविति ॥ वार्तिकम् । 'दृ विदारणे', 'जु वयोहानौ' आभ्यां ण्यन्ताभ्याङ्कर्तरि घञ् । णिलोपं बाधित्वा णिलुक् चेत्यर्थः । दारयन्ति चित्तं विद्रावयन्तीति दाराः दाराः पुंसि च भूम्न्येव" इत्यमरः । घत्रि णिलुक् । ण्याश्रयवृद्धौ निवृत्तायां घाश्रया वृद्धिः । तदाह । दारयन्तीति दारा इति ॥ जरयति नाशयति कुल- मिति जारः जुधातोर्ण्यन्तात् घञ् णिलुक् । णिलोपे सति तु तस्य परनिमित्तकत्वेन 'अचः परस्मिन्' इति स्थानिवत्त्वात् घनाश्रया वृद्धिः न स्यात् । न च णिनिमित्तैव भार्या ।
६७० सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त । - ३१९१ । इङश्व । (३-३-२१)) घञ् । अचोऽपवादः । उपेत्यास्मादधीयते उपाध्यायः । 'अपादाने खियामुपसंख्यानं तदन्ताच्च वा ङीष्' (वा २१८४) । उपाध्याया-उपाध्यायी 'शू वायुवर्णनिवृतेषु' (वा २१८५)। 'शू' इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । नित्रियते आत्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । 'गौरिवाकृतनीशार: प्रायेण शिशिरे कृशः' । अकृतप्रावरण इत्यर्थः । प्रदक्षिणप्रसव्यगामिनां शारा- णाम्' इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति । ३१९२ । उपसर्गे रुवः। (३-३-२२) घञ् । संरावः । ' उपसर्गे' किम् । रवः । ३१९३ । अभिनिसः स्तनः शब्दसंज्ञायाम् । (८-३-८६) अस्मात्स्तन: सस्य मूर्धन्य: अभिनिष्टानो वर्णः। शब्दसंज्ञायां किम् । अभिनिःस्तनति मृदङ्गः। वृद्धिरस्त्विति वाच्यम् । ‘जनीजृष्नसुरोऽमन्ताश्च' इति मित्त्वे 'मितां ह्रस्वः' इति णिनि- मित्तकह्रस्वापत्तेः । णिलुकि तु तस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाभावान ह्रस्वप्रसङ्गः । तदाह । जरयतीति जार इति ॥ उपपतिरिति ॥ “जारस्तूपपतिस्समौ” इत्यमरः । इङश्च ॥ घनिति शेषपूरणम्। 'इङ् अध्ययने' नित्यमधिपूर्वः। अस्मादकर्तरि कारके घनित्यर्थः । अकर्तरि चेति सिद्धेराह । अचोऽपवाद इति ॥ ‘एरच्' इवस्थापवाद इत्यर्थः। उपत्येति॥ समीपम्प्राप्य यस्मादधीते स उपाध्यायः इत्यर्थः । अपादाने घअिति भावः । 'आख्यातोपयोगे' इत्यपादानत्वम् । अपादाने इति ॥ अपादानकारके वाच्ये स्त्रीत्वे गम्ये इडो घन उपसङ्ख्या- नमित्यर्थः । तदन्ताच्च वा ङीषिति ॥ वार्तिकम् । ‘अपादाने स्त्रियाम्' इति विहितघन- न्तात् इत्यर्थः । अत्र पठितमेव वार्तिकं स्त्रीप्रत्ययाधिकारे या तु स्वयमेव अध्यापिका, तत्र वा ङीषित्युपन्यस्तं मूले । ननु ‘अकर्तरि च' इत्येव सिद्धे किमर्थको विधानमिति चेन्न । 'घअनुक्रमणमजपोर्विषये' इति ‘एरच् ' 'ऋदोरप्' इत्यजपोरेव विषये 'अकर्तरि च' इति घञ्चि- घिरिति भाष्यवचनात् स्त्रीत्वे गम्ये 'स्त्रियां क्तिन्' इति क्तिन्विषये घनि अप्राप्ते ‘अपादाने स्त्रियाम्' इति घवचनात् । उपाध्यायेति ॥ उपेत्य अस्यास्सकाशादधीयते इत्यर्थः । शृवाय्विति ॥ वात्तिकम् । अविभक्तिकमिति ॥ लुप्तपञ्चमीकमित्यर्थः । वायौ वर्णे निवृत्ते च कर्तरि शृधातोर्घजित्यर्थः । अपोऽपवादः । शारो वायुरिति ॥ शीर्यन्ते पर्ण- फलादीनि यैरिति विग्रहः । तदाह । करणे घजिति ॥ चित्रीकरणमिति ॥ शीर्यन्ते चित्रीक्रियन्ते पटादयः अनेनेति भावः। गौरिवेति ॥ भाष्यस्थं श्लोकार्धम् । नशिार इत्यत्र 'उपसर्गस्य घनि' इति दीर्घः । अक्षे शारशब्दं साधयति । प्रदक्षिणेति ॥ वार्तिककार- प्रयोगादिति ॥पञ्चमस्य द्वितीये अनुपदसर्वान्नायानयम्' इति सूत्रभाष्ये स्थितमिदम्। उपसर्गे --- प्रकरणम् ] बालमनोरमा । ६७१ । ३१९४ । समि युद्रुदुवः। ३-३-२३) संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः पिष्टविकारोऽपूपविशेषः । संद्रावः । संदावः । ३१९५ । श्रिणीभुवोऽनुपसर्गे । (३-३-२४) श्रायः । नाय: । भावः । 'अनुपसर्गे' किम् । प्रश्रयः। प्रणयः । प्रभवः । कथम् ‘प्रभावो राज्ञः' इति । प्रकृष्टो भाव इति प्रादिसमासः । कथम् । 'राज्ञो नयः' इति । बाहुलकात् । ३१९६ । वौ क्षुश्रुवः । (३-३-२५) विक्षावः । विश्राव: । 'वो' किम् । क्षवः । श्रवः । ३१९७ । अवोदोर्नियः । (३-३-२६) अवनायोऽधोनयनम् । उन्नाय: ऊर्ध्वनयनम् । कथम् ' उन्नय: उत्प्रेक्षा' इति । बाहुलकात् । ३१९८ । प्रे द्रुस्तुस्रुवः। (३-३-२७) प्रद्रावः । प्रस्तावः । प्रस्राव: । 'प्रे' इति किम् । द्रवः । स्तवः । स्रवः । ३१९९ । निरभ्योः पूल्वोः (३-३-२८) निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलावः । 'निर- भ्योः' किम् । पवः । लवः । ३२०० । उन्न्योHः । (३-३-२९) उद्गारः । निगारः । 'उन्न्योः किम् । गरः । ३२०१॥ धान्ये । (३-३-३०) कृ . रुवः॥ घअिति शेषः । उपसर्गे उपपदे रुधातोर्घजित्यर्थः । अबपवादः । समि युदुदुवः ॥ समित्युपसर्गे उपपदे यु टु दु एभ्यः घनित्यर्थः, अबपवादः। श्रिणी॥ उपसर्गे असति श्रि, नी, भू, एभ्यो घजित्यर्थः, अजपोरपवादः । बाहुलकादिति ॥ ‘कृत्यल्युटो बहुलम्' इति बहुलग्रहणादित्यर्थः । वौ क्षुश्रुवः॥ वि इत्युपसर्गे उपपदे क्षु, श्रु, धातोर्घजित्यर्थः । अवपवादः। अवोदोर्नियः॥ अव, उत् , अनयोरुपपदयोः नीधातोर्घजित्यर्थः । अजपवादः । उन्नय इत्यस्य विवरणम् । उत्प्रेक्षेति ॥ प्रे दुस्तुसुवः ॥ प्र इत्युपपदे दु, स्तु, खु, एभ्यः घनित्यर्थः । अबपवादः । निरभ्योः॥ निर्, अभि, अनयोरुपपदयोर्घजित्यर्थः । अबपवादः । उन्न्योHः ॥ उत्, नि, इत्युपपदयोर्घजित्यर्थः, अबपवादः । कृ धान्ये ॥ कृ इति