Bharti Bhawan Library, Allahabad
Brahmasutra
Front matter
No. 70. ]
[ Price Rupee One.
TBE
HOWKHAMBA SANSKRIT SERIES
LLECTION ARE & EXTRAORDINAR SANSKRIT
WORKS
NIC
ब्रह्मसूत्रभाष्यम्।
श्री भास्क रा चार्य वि र चि तम् ।
BRAHMASÚTRA
WITH
A COMMENTARY BY BHÂSKARACHARYA.
EDITED BY
Pandit Vendhyeshvari prasada Dvivedin,
Librarian Govt. Sanskrit College,
BENARES.
FASCICULAS I.
IBLISHED AND SOLD BY THE SECRETARY
CHOWKHAMBA SANSKRIT BOOK-DEPÓT:
BENARES.
AGENT:-OTTO HARRASSOWITZ, LEIPZIG:
Printed By Hari Das Gupta Proprietor
AT THE VIDYA-VILASA PRESS.
BENARES.
1903.
Registered According to Act XXV. of 1867.
भारती-भवन पुस्तकालय भारती प्रयाग क्रमिक संख्या ११६३३ क्रमांक विभाग विभाग ॥ श्री: ॥ 30000000000000000 आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाङ्कितभव्याभशतपत्त्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दामोदमोहितम् ॥२॥ BANI १ 437 2-2/ ॐ श्रीगणेशाय नमः । ब्रह्मसूत्रभाष्यम्। श्रीभास्कराचार्यविरचितम् । जन्मबन्धविनिवृत्तिकारणम् ब्रह्मसूत्रमिदमुद्वभौ(१) यतः । श्रोतृचित्तकमलैकभास्करम् वादरायणमृर्षि नमामि तम् ॥ सूत्राभिप्रायसंवृत्या खाभिप्रायप्रकाशनात् । व्याख्यातं यैरिदं शास्त्र(२) व्याख्येयं तन्निवृत्तये ।। अथातो ब्रह्मजिज्ञासा ॥ १ ॥ चतुर्वर्थेष्वथशब्दप्रयोगो दृश्यते । यथाऽऽनन्तर्ये भुक्त्वाथ ब्रजति । पथा पूर्ववृत्तापेक्षायाम् । पूर्व किश्चिदुक्त्वा विकल्पान्तरं कर्तुमिच्छ नाह अथायमभिप्राय इति । यथा माङ्गल्ये । ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ इति । यथाधिकारे अथ शब्दानुशासनमिति । तत्र नाधिकारार्थों ब्रह्मजिज्ञासाया अनधिकार्यत्वान्नापि मङ्गलार्थों मङ्गलस्य वाक्याथै ऽन्वयाभावात् पटहध्वनिवत् श्रवणमात्रगम्यत्वात् । पूर्ववृत्तापेक्षा- याश्चानन्तर्याव्यतिरेकात(३) । आनन्तर्यार्थ इह गृह्यते । तत्र किमापि पूर्ववृत्तं वक्तव्यं तदुच्यते पूर्व कर्मविचारो वृत्तोऽनन्तरं ब्रह्मजिज्ञा- सारभ्यते(४)। अत्राहुः । नायं वृत्तवर्तिप्यमाणसम्बन्ध उपपद्यते धर्म- (१) उदययो-पा० २ पु० । (२) यदिदं शास्त्रम् - पा० २ पु० । (३) अव्यभिचारात्-पा० २ पु० । (४) प्रारभ्यते-पा० २ । ३ पु० ।
२ क्रमां भास्करीयब्रहास्तूत्रभाष्ये जिज्ञासाया:(१) प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । न चात्र- क्रमस्य प्रतिपादकं प्रमाणमस्ति यथा हृदयस्याने विद्यति अथ जि- ह्वाया अथ वक्षस(२) इति न चात्राङ्गाङ्गिभावः प्रयाजादिवत् । नाप्यधिकृताधिकारो गोदोहनादिवतू । फलजिज्ञास्यभेदाच्च । अ- भ्युदयफलं धर्मज्ञान(३) निःश्रेयसकलं मोक्षज्ञान(४) साध्यश्च ध. मस्तत्र जिज्ञास्यः सिद्धरूपं ब्रह्मात्र । चोदनाप्रवृत्तिभेदाच्च । अनु- ष्ठानपर्यवसायिनी तत्र चोदना ब्रह्मचोदना पुनरवबोधपर्यवसा- यिनी नानुष्ठाने प्रवर्तयति । यथा प्रत्यक्षादिप्रमाणं स्वरूपावबोधक न प्रवर्तकमेवं तत्त्वमस्यादिवाक्यं खरूपावबोधकं न प्रवर्तकमिति । यद्येवं कस्य तौंदमानन्तर्यमुच्यते नित्यानित्यवस्तुविवेकः शमद- मादिसाधनसम्पत् इहामुत्र फलोपभोगविरागो मुमुक्षुत्वं चेति । एतत् पूर्ववृत्तमेतदानन्तर्यमथशब्देनोच्यते । सत्येतस्मिन् साधनचतुष्ट- ये ब्रह्मजिज्ञासोपपद्यते नान्यथेति । अतःशब्दो हेत्वर्थः यतः श्रुति- रेव कर्मणां क्षयित्वं दर्शयति । तद्यथेह कर्मजितो लोकः क्षी- यते एवमेवामुत्र पुण्यजितो लोकः क्षीयत इति । ज्ञानस्य चा- तफलत्वं दर्शयति । ब्रह्मविदाप्नोति परमिति । अतो हेतोब्रह्मजि- ज्ञासा कर्तव्येति । अत्र ब्रूमः । यत् तावदुक्तं धर्मजिज्ञासायाः प्रागपि ब्रह्मजिज्ञासोपपत्तेरिति । तदयुक्तम् । अत्र हि ज्ञानकर्म- समुच्चयान्मोक्षप्राप्तिः सूत्रकारस्याभिप्रेता । तथा च वक्ष्यति । सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति । कर्मणि चापरिज्ञाते विद्यायाः केन समुच्चयः केन नेति विभागो न शक्यते वदितुं(५) हेयोपा- देयप्रतिपत्त्यभावात् । पूर्ववृत्ते तु कर्मज्ञाने काम्यं प्रतिषिद्धं च हेयं नित्येन कर्मणा समुच्चय इति प्रतिपादयितुं शक्यते कर्मस- मृद्ध्यर्थानिवोद्गीथाधुपासनान्यत्र चिन्त्यन्ते तेषां च कर्माधिकृतपु- रुषविषयत्वात् । अविज्ञाते तु कर्मणि चिन्ता नोपपद्यते । पूर्व तु धर्मजिज्ञासा(६) कर्तव्या पुरुषमात्रविषयत्वात् । स्वाध्यायविधेश्चा- र्थावबोधपर्यवसानातू अधीतवेदस्य गुरुकुले तिष्ठतोऽर्थावबोधो- विश्यम्भावीति । ब्रह्मज्ञानं तु मुमुक्षोः कस्यचिदेव न च गुरुकुल एव वसतः कस्मादुपायान्तरसापेक्षत्वात् । यज्ञेन दानेनेति । तथा। (१) कर्मजिज्ञासाया:-पा० २ पु० । (२) चक्षुषः -पा० १ पु० । ( ३ ) कर्मज्ञानं - पा० २ घु० । (४) ब्रह्मज्ञान-पा०२ । ३ पु० । (पू) अवसितुम्-पा० पु.। (६) कर्म जिज्ञासा -- पा० २ पु० ।
१ अध्याये १ पादे १ सूत्रम् । ३ शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं प. श्येदिति विहितमुपायान्तरम् । न च स्वाध्यायविधिरुपायान्तर- माक्षेप्तुं क्षमः पुरुषान्तरेषु कर्मावबोधसमर्थेषु चरितार्थत्वातू आ- स्मनश्च दुर्विज्ञेयत्वादन्तःकरणस्य च रागाद्युपहतवृत्तित्वातू । श्र वणादिभिर्बहुभिर्यो न लभ्यते ण्वन्तोऽपि बहवो यं न विदुः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा(१) आश्चर्यो ज्ञाता कुशलोऽनुशिष्ट इतिदर्शनात् । एकमेवाद्वितीयम् अहं ब्रह्मास्मीति चाभेदज्ञानानुत्प- ते:(२)। तस्मिन्निवृत्ते तजिज्ञासानिवृत्तौ प्रसज्यमानायां प्रतिपन्ना- স্বলল নুনুগত্যাঙ্গালহাবিহী দ্বারঘিনি ब्रह्मजिज्ञासेयं प्रस्तूयते । कोऽसो विधिः । श्रोतव्यो मन्तव्यः सोऽन्वे. टव्यः स विजिज्ञासितव्यश्च तद्धिज्ञानार्थ स गुरुमेवाभिगच्छेत् । महाशाला महाश्रोत्रिया इतिदर्शनातू । ननु स्वाध्यायोऽध्येतव्य इतिश्रवणे सत्यध्ययने प्रवृत्तिः अध्ययने च, सति वेदार्थश्रवणे प्र. वृत्तिरितीतरेतराश्रयदोष इति चेत् । नैतदेवम् । अध्ययनविधि- कारितं च श्रवणादिवाक्यस्वीकरणं तचाध्यापनविधिप्रयुक्तम् । उक्तं च । उपनीय गुरुः शिष्यं वेद्मध्यापयेदिति । शिष्याचार्य- सम्बन्धस्यानादित्वादतो वर्षसहस्त्रे ऽप्यासीदिति नानवस्थादोषः । श्रवणे चाभिप्रवृत्तस्य कोऽसावात्मेत्यपेक्षायां स्वरूपावबोधपराणा- मिदं सर्व यदयमात्मा स एषो यदणिमैतदात्म्यमिदं सर्वमित्यादीति प्रतिवेदान्तं प्रवर्तन्ते । विदिते चात्मतत्वे प्रत्ययावृत्तिलक्षणं त- दुपासनमुपदिश्यते निदिध्यासितव्यो विज्ञाय प्रज्ञां कुर्वीतेति । कर्मो- पासनयोश्च समुच्चयो वक्ष्यते । अभेदज्ञानमध्यस्यमानमज्ञानवास- नामुच्छिनत्ति रागादिवासनां च । कर्म पुनः. कर्मवासनामित्युपरि-- धातू स्थास्यति । खाध्यायविधिकारिता इतरविधिकारिता वास्तु ब्रह्म जिज्ञासातः सर्वथा धर्मजिज्ञासाया:(३) पूर्वभावित्वं सिद्धम् । तस्मा- तू पूर्ववृत्ताद्धर्मज्ञानादनन्तरं ब्रह्मजिज्ञासति युक्तम् । यदप्युक्त-- मङ्गाङ्गिभावाभावादिति । तदप्यसिद्धम् । कर्मसमृद्ध्यर्थिनो यज- मानस्य उद्गीथाद्युपासनानां विहितत्वात् लोकेषु पञ्चविध सामो- पासीतेत्यादीनां च कर्माधिकृतस्यैवाभ्युदयार्थिनो विधानात् गोदो- हनादिवत् । यदप्युक्तं फलजिज्ञास्यभेदादिति । तदपि प्रत्युक्तम् । ( १ ) कुशलीऽप्यनुज्ञाता-पा० २ पु० । (२) अनुपपचे - पा. २ पु० । (३) कर्मजिज्ञासायाः -पा० २ पु० ।
क्रमां भास्करीयब्रह्मसूत्रभाष्ये समुच्चयाश्युपमात् केवलकर्मणां चाभ्युदयफलं धर्मज्ञानमिष्टमेव । जिज्ञासाभेदश्चोदनाप्रवृत्तिभेश्चास्मत्पक्षे ऽपि न विरुध्यत इति न किञ्चिद् दूषणं पश्यामः । नित्यानित्यविवेकादयोऽन्तःकरणधर्माः पूर्वाप्रकृताः स्वशब्देन वानिर्दिष्टाः कथमिव सूत्रकारस्य वि- वक्षिता इति प्रतिपतुं शक्यते तेषामनवस्थितत्वातू । यदप्युक्तं कर्मणां क्षयित्वं ज्ञानस्य च निःश्रेयससाधनत्वमतःशब्देन व्यप- दिश्यत इति । तदसत् । अतःशब्दो हि वृत्तस्यापदेशको हे- स्वर्थतया । यथा क्षेमः सुभिक्षोऽयमतोऽहमस्मिन् देशे वसामीति स्ववाक्योपात्तस्य अर्थाच्च गम्यमानस्य(१) हेतुत्वं वदति तद्यथेह कर्मजित • इति केवलस्य कर्मणः क्षयित्वमुच्यते न ज्ञानसहका- रिणः । तथा च श्रुतिः । स य आत्मानमेव लोकमुपास्ते न यस्य कर्म क्षीयत इति । स्वतः क्षणिकस्यापि कर्मणो ज्ञानरस- विद्धस्याक्षयिफलत्वान्न क्षीयत इत्युच्यते । कथमयमर्थों गम्यते तद्वा स्यात् ततः क्षीयत इत्यनेवंविदः कर्मक्षयमभिधायात्मविदस्तद- भावप्रतिपादनपरत्वाद्वाक्यस्य । तस्मात् पूर्वस्य कर्मज्ञानस्य(२) अ- तःशब्देनोपदिश्यते हेतुत्वम् । तच्चोभयत्र ब्रह्मज्ञानं प्रति हेतुत्वमारम्भ फलप्राप्तौ च । कर्मणि पूर्ववृत्ते तदपेक्षा ब्रह्मजिज्ञासा कर्तुं शक्यत इत्या- रम्भे हेतुत्वं कर्मणा समुचितं ज्ञानं क्षेमप्राप्तिनिमित्तमिति फल- प्राप्ती हेतुत्वम् । अन्ये पुनरन्यथा सम्बन्धं वर्णयन्ति । देवादि- भ्योऽवृणीभावः पूर्ववृत्तः प्रज्ञाकषायपरिपाकश्च एतदानन्तर्यमथ- शब्देनोच्यत इति । कथं वेदेन किल बुद्धिपूर्व स्वाध्यायाध्ययन- प्रभृति पुरुषः कर्मखेव प्रवर्त्यते । ततः शास्त्रीयनैसर्गिकवासनयो- भवाभिभवौ । ततश्च पुण्यापुण्ययोरुपचयापचयो । ततश्चोत्तमा- धिकारविधियोग्यः पुरुषो भवति । कः पुनरुत्तमाधिकारविधिः यं प्रति कर्मभिः पुरुषो योग्यतामापाद्यते । आत्मा वा अरे द्रष्ट- व्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति । तत्र योऽयं क- र्ता भोक्ता विज्ञानात्मा लोकप्रसिद्धः स दर्शनक्रियाकर्मत्वेन नि- यभ्यते द्रष्टव्य इति । द्रष्टव्ये च वस्तुनि विचिकित्सोपजायते कियतू पारमार्थिकं कियदौपाधिकमिति नानुमानागमगम्ये(३) । ततश्च त- स्मिन् रममाणस्य निरुपद्रवं परमात्मतत्त्वमुपदिस्यते श्रोतव्य इ- (१) अर्थाभ्यागम्यमा नस्य - पा० २ घु• । (२) पूर्व वृत्तस्य ज्ञानस्य - पा० २० । ( ३ ) नानुमानगम्ये -- पा० २ पु० । । ।
MAHARAMMANISHABARADALATASHA १ अध्याये १ पादे १ सूत्रम् । । ति(१) । तस्मिश्च श्रुते युपगमप्रधानं ज्ञानमुपदिश्यते मन्तव्य इ- ति । ततो ध्यानं निदिध्यासितव्य इति । सोऽयमनेन चतुर्विधेन विधिना ध्यानपर्यन्ते वेदार्थे नियुज्यते तत्प्रयुक्ता चेयं ब्रह्मजिज्ञासा प्रस्तूयते । ननु च मीमांसायामेव द्वादशलक्षण्यां शब्दव्यापारः कृत्स्नो निरूपितः तद्यतिरिक्तः शब्दव्यापारो नास्ति किमर्थ प्र- तिज्ञान्तरमुच्यते । सत्यमेवं तथापि दर्शपूर्णमासाक्षिप्तकल्पसूत्रा- दिप्रयोगशास्त्रवदुत्तमाधिकाराक्षिप्तं शरीरकं शास्त्रमारभ्यत इति । अत्र वदामः । तदिदं सम्बन्धकथनं न्यायविदो न श्रद्दधते । न हि धर्माधिकारस्य कृत्स्य पुरुषसंस्कारद्वारेणोत्तमाधिकारो- पयोगित्वे ऽस्ति किञ्चित् प्रमाणम् । स्वाध्यायविधिस्तावत् कर्माव- बोधार्थः तदवबोधश्च तदनुष्ठानार्थो दानाद्यर्थश्च । तथाचोक्तं सं- वर्तेन । विद्यादानेन सुमतिब्रह्मलोके महीयत इति । कर्म च त्रिविधं काम्यं नित्यं नैमित्तिकं च । तदपि पुरुषार्थ काम्यं ता- वत् स्वर्गकामः पुत्त्रकाम इति तावन्मात्रोपक्षीणत्वात् नान्यार्थ शक्यं कल्पयितुम् । यच्छब्द आह तदस्माकं प्रमाणमिति हि न्यायविदः । न च योग्यतानाम प्रयोजनान्तरं शब्दावगम्यते । यद्यपि नित्यं कर्म यावजी जुहुयातू सन्ध्यामुपासीतेति तत् पु- रुषस्यैव प्रत्यवायपरिहारार्थमभ्युदयार्थ च । तञ्चोक्तम् । अकुर्वन् विहितं कर्मेति । श्रुतिश्च भवति । त्रयो धर्मस्कन्धा इत्युपक्रम्य सर्व एते पुण्यलोका भवन्तीति । भावनाखाभाव्याद्वावश्यं भाव्येन के- नापि सामान्येन भवितव्यमिति पुरुषार्थपर्यवसायी सर्वो विधिः कर्मकाण्डे । न तस्य योग्यतापादनं नामापरं कार्य शक्यमुत्प्रेक्षितु- मत्यन्तातीन्द्रियत्वादस्यार्थस्य । दिव्यदृशो हि ते ये कल्पयन्ति पु- ण्यापुण्योपचयापचयौ च पुरुषार्थो नोत्तमाधिकारोपयोगिनौ वि- धानाभावात् । यं प्रति यो विधिः प्रवृत्तः क्रतुं पुरुषं वा स तदर्थ एव नान्यार्थः शक्यः कल्पयितुम् । विस्तरेण तन्तु समन्वया- दित्यत्र निराकरिष्यामः । यदप्युक्तं दर्शनक्रियाव्याप्यतया विज्ञा- नात्मा नियम्यत इति । तदप्यपव्याख्यानम् । तत्रात्मशब्देन पर- मात्मा विवक्षितः कथं वाक्यशेषात् । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या(२) विज्ञानेनेदं सर्व विदितमिति सर्वविज्ञानप्रति- ज्ञानात् । न च सकृदुश्चरितो जीवपरः परमात्मपरश्च शक्यो (१) उपदिश्यत इति - पा० २ १० । (२) मननेन - पा० २ पु । ।
क्रमां विभ কাজাখস্তুলুম্বনা ग्रहीतुम् । एकार्थनिवृत्तत्वादे(१)कस्मिन् प्रयोगे । किं चानधिग- तार्थगन्तृत्वाद्विधीनां प्रत्यभिज्ञाप्रत्यक्षश्चायं विज्ञानात्मेत्यात्मवादे स्थापितम् । न च प्रत्यक्षे वस्तुनि विचिकित्सा अग्न्योष्ण्यवतू प्र- त्युतानुमानागमगम्ये सत्तामाभावगमात् तद्विशेषे विचिकित्सा स्यात् । तस्मादयमर्थः । परात्मदर्शनं कुर्यादिति । न च द- शने पुरुषस्य साक्षात् खातन्त्र्यमस्तीति दर्शनार्थः पुरुषप्रयत्नो विधीयते । स च निर्विषयो न सम्भवतीति श्रवणादिरुपायो विधीयते । श्रवणादिनोपायेन प्रयतमानस्यात्मदर्शनमुत्पद्यत इति । यइप्युक्त प्रयोगशास्त्रावदारभ्यत इति । तदप्यपेशलम् । यथा ध- मैजिज्ञासा विप्रतिपत्तिनिराकरणार्थमारब्धा तथा ब्रह्मजिज्ञासा । सुन तरां चाल विप्रतिपत्तयो भवन्तिः मोक्षवादिनां तीर्थकराणां बन हुत्वात् । न च ब्रह्मविषयो विचारो मीमांसायां क्वचिदधिका- रणे वर्तते उपदेशविचारा(२)र्थत्वेन कृत्स्य शास्त्रस्य पर्यव- सानात् । यथा च तत्र द्वादशलक्षण्या विना धर्मविचारो न परिसमाप्यते । तथा चतुर्लक्षण्या विना ब्रह्मविचारः । प्रतिवाक्वं च वचनव्यक्तीनां दुर्विज्ञेयत्वात् अज्ञानसंशयविपर्यया स निवर्तेरन् । प्रमाणलक्षणं तु साधारणम् । श्रुत्यादिप्रमाणं चाविरुद्धमेकत्र स्थित तमन्यत्राश्रीयते अधीतवेदस्य श्रोतुरेकत्वात् । यदि पुनरेकलोक्तं प्रमाणमन्यत्नाप्युच्येत पुनरुक्तमेव स्यात् । अत एवोपवर्षाचा- येणोक्तं प्रथमपादे । आत्मवादं तु शारीरके वक्ष्याम इति । अतः पूर्वोक्त एव सम्बन्धः । ब्रह्मशब्देनेश्वरो गृह्यते न ब्रह्मणजातिजी- ववेदचतुर्मुखानां ग्रहणं ब्रह्मलक्षणस्य वक्ष्यमाणत्वात् । ब्रह्मणो जिज्ञासेति कर्मणि षष्टी कर्तृकर्मणोः कृतीति विशेषविधानात् । न सम्बन्धसामान्ये । अत एव चतुर्थी विभक्तिरपि न युज्यते ब्र- ह्मणे जिज्ञासेति । ब्रह्मणश्चेप्सिततमत्वात् प्राधान्यं सन्वाच्ये. च्छाया उपसर्जनत्वात् । इध्यमाणमिह ज्ञानं प्रधानं ज्ञानमपि झे- थार्थमिति ब्रह्मणः प्राधान्यमुक्तम् । किं पुनरिदं ज्ञानं नाम । अत्र केचिन्मीमांसका आहुः । नित्यानुमेया ज्ञानक्रिया ततो घटादिवि- षयं संवेदनमुत्पद्यते तत् तस्याः फलमिति । यथा पाकक्रि- याया ओदनमिति । तदिदमयुक्तमिति बमः । ज्ञानक्रियाकल्प- नायां प्रमाणाभावात् । येभ्यश्चक्षुरादिभ्यः करणेभ्यः क्रियोत्प- (१) एका नि सत्यात् - पा० २।३ पु०। (२) उपदेशातिदेशविचारा-पा० २१३ पु . । Mos १ अध्याय १ पादे १ सूत्र । त्तिरिष्यते तेश्य एवं प्रमितिरिच्यतां प्रमितिः संवेदनमनुभव इति चानान्तरं तद्भावमावित्वात् । आलोकेन्द्रियमन:संस्कारेषु हि स- त्सु संवेदनमुत्पद्यत इति तदभावे नोत्पद्यते । यदि पुनरपरं ज्ञानं कल्प्येत तस्याप्यन्यत् तस्याप्यन्यदित्यनवस्था स्यात् । न च ज्ञान- क्रियानुमाने लिङ्गमस्ति । संवेदनमिति चेत् । न । अगृहीतसम्ब- न्धत्वात् । यदि लिङ्गी प्रत्यक्षः स्यातू ततोऽनेनेदं लिंङ्गं व्या- प्तमिति शक्यते सम्बन्धो ग्रहीतुं यथाग्निधूमयोः न चात्र ज्ञानक्रिया प्रत्यक्षा । यदि च प्रत्यक्षा तत एव सिद्धत्वात् किमनुमानेन ज्ञा- तसम्बन्धस्यैकदेशदर्शनादिति हनुमानलक्षणम् । इन्द्रियशक्तयस्त्व- पत्तिसमधिगम्या इति स्थितम् । न चार्थापत्तिरस्ति इन्द्रिया- र्थसन्निकर्षादनन्तरमनुभवोत्पत्तेः । अतोऽनुभव एव ज्ञानं न तधति- रिक्तं किञ्चित् तस्य च हानादिबुद्धयः फलम् । पाकादिषु तूपपद्यते क्रियाकारकफलानां प्रत्यक्षसिद्धत्वात् । किं पुनर्ज्ञानस्य सतत्त्वम् । केचिदाहुरात्मप्रभेयमिन्द्रियद्वारोपाधिनिर्गमा(१) विषयेषु वर्तते अ- नेकच्छिद्रघटमध्यस्थप्रदीपप्रभावदिति । तदिमसम्यग्दर्शनम् । क्षणिकमिदं रूपादिज्ञानं नित्यमात्मचैतन्यं कथं नित्यानित्ययोरक्यम् । यदि च विषयविषयं ज्ञानमात्मचैत्यत्यमेव स्यातू ततः सर्वाणि तानि युगपदवतिष्ठेरनिति न कदाचिद्विषयविस्मरणं स्यात् । त- स्मादालोकेन्द्रियादिश्यो ज्ञानमुत्पद्यमानं निरुध्यमानं चान्यदा- त्मचैतन्यं चान्यदिति युक्तम् । ज्ञातुमिच्छा जिज्ञासेति प्रकृत्य- र्थप्रधानयमिच्छा धातोः कर्मण इति धातुवाच्यस्यार्थस्य ईप्सि- तत्वस्मरणात् । तत् पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा । यदि प्रसिद्ध न जिज्ञास्यमथाप्रसिद्ध नितरां सोऽयमनर्थको ब्रह्मजिज्ञासारम्सः । तदुच्यते । प्रसिद्धं तावद्ब्रह्म आगमप्रमाणगम्यत्वात् सदेव सौ- म्येदमय आसीदेकमेवाद्वितीयमिति जगत्कारणोपदेशात् ब्रह्मश- ब्दव्युत्पत्तेश्च बृहतेर्धातोर्ब्रह्म यतः परं वृहदधिकं नास्ति तन्मूल- कारणमेव पारिशेष्यातू कार्यप्रपञ्चे तु ब्रह्मशब्दो गौणः मुख्यपू. वश्व(२) गौणो भवति यथाग्निर्माणवक इति । किमर्था तर्हि जिज्ञासा तद्विशेष प्रति विप्रतिपत्तिनिराकरणार्था । केचित्रि- गुणं प्रधानं जगत्कारणमाहुः । अपरे परमाणुं प्रतिजानते । अतः प्रस्तूयते ब्रह्मजिज्ञासा । ब्रह्म च कारणात्मना कार्यात्मना जीवा- (१) हारेभ्यो विनिर्गता - पा० २ । ३ पु०। (२) अर्थपूर्वच - पा० २।३ पु.
भास्करीयब्रह्मसूत्रभाष्ये त्मना च त्रिधावस्थितम् । तत्राविशेषेण ब्रह्मजिज्ञासा प्रस्तूयते ब्रह्मैवेदं सर्वमिति ब्रह्मशब्दस्याविशेषात् । तत्न खरूपं प्रमाणं च प्रथमेनाध्यायेन प्रतिपाद्यते । द्वितीयेन स्मृतिविरोधपरिहारः परम- तनिराकरणं च तर्कपादे श्रुतीनां च परस्परविरोधपरिहारः । तृ- तीयेन संसारगतिवर्णनं जीवस्यावस्थाभेदो ब्रह्मसतत्वं विद्यानां भेदाभेदविचारो ज्ञानकर्मसमुच्चयश्चति । चतुर्थेन ज्ञानावृत्तिरर्चि- रादिमार्गनिरूपणं फलनिरूपणं च क्रियत इति ॥१॥ किं पुनस्तब्रह्मेति लक्षणमुच्यते केवलमागमैकसमधिगम्यत्वात तत्प्रसिद्धमेव लक्षणं दर्शयितुमाचार्यः प्रववृते । NAIRSONM जन्माद्यस्य यतः ॥२॥ जन्म आदिर्यस्य तदिदं जन्मादि सृष्टिस्थितिप्रलयम् । तद्गु- णसंविज्ञानो बहुव्रीहिः यथा लम्बकर्णमानयेति । अस्येति त्रि- जगन्निर्दिश्यते यत इति कारणम् । यस्मादीश्वरात् सर्वज्ञात् सर्व- शक्तः परमकारणादस्य जगतो नामरूपाभ्यां व्याकृतस्य विविध- विभक्तभोक्तृसंयुक्तस्य नियतदेशकालफलोपभोगाश्रयस्याचिन्त्यर- चनस्य सृष्टिस्थितिप्रलयाः प्रवर्तन्ते तदू ब्रह्मेति प्रतिपत्तव्यम् । उपादानं कारणं(१) चेह लक्षितम् । वैशेषिकाः पुनरनुमानेन के- वलं निमित्तकारणमीश्वरं साधयन्ति । बुद्धिमत्कारणपूर्वकं ज- गतू सावयवत्वात् कार्यत्वाद्वा घटादिवदिति । तदयुक्तम् । स- म्बन्धग्रहणाभावात् । न हि सावयवेनानेन जगता ईश्वरस्य स- म्बन्धोऽनुभूतपूर्वः(२) तस्यातीन्द्रियत्वात् । बुद्धिमत्कारणपू- वैकमिति च सिद्धसाधनं कर्मनिमित्तत्वात् संसारस्य कर्मणश्च बुद्धिमत्पूर्वकत्वात् । पुत्त्रादिजननमपि यत् प्रमाणान्तरसिद्धं तदपि बुद्धिमता क्रियते । यथा च दृष्टान्ते कुम्भकारादिः असर्वज्ञः श- रोरेन्द्रियवांश्च कर्ता तथा दार्शन्तिके ऽपि शरीरादिमत्त्वं रागा- दिमत्त्वं च प्रसज्यते ततश्चानीश्वरत्वम् । न च वादिनो योऽभि- मतो धर्मः स एव ग्रहीतव्यो न प्रतिवाद्युक्त इति नियन्ता क- श्चिदस्ति । अत्यन्तातीन्द्रिये वस्तुनि साध्यमाने यावन्तो धर्मा दृ- (१) उपादानं कारणं निमित्त कारणं - पा० २ । ३ पु० । (२) सम्बन्धः कारणानुभूतपूर्व :- पा० पु० अध्याये १ पादे ३ सूत्रम् । । । धान्ते(१) अन्वयव्यतिरेकपरिशुद्धाः सम्भवन्ति ते सर्वे प्र- सज्यमानाः केन वार्यन्ते । ननु चैवमनुमानोच्छेदः प्रसज्येत अ- नित्यः शब्दः कृतकत्वाद्धटादिवदिति दृष्टान्तधर्माः सर्वे शब्दे प्र- सज्येरन् । अत्रोच्यते । न भवता सम्यगनुमानवृत्तं व्यज्ञायि प्र- माणान्तरंगोचरे हि लिङ्गिनि तेन वारिता धर्मा निवर्तन्ते पा- क्यत्वादयः यः पुनः प्रत्यक्षाद्यविरुद्धो नित्योपनित्यो वेति प्रतिज्ञा- यते स तत्र हेतुना साधयितुं शक्यते अत्र पुनः सावयवत्वादित्य- नेन हेतुना यावन्तो धर्माः प्रतिबद्धास्ते सर्वे प्रसज्यन्त एव । वाधुक्तव- तू प्रतिवाद्युक्तमपि दूषणं ग्रहीतव्यम् । एवं सावयवत्वादिति चानैका- न्तिको हेतुः न केवलमयं विरुद्ध एव कथं बीजादङ्कुरो जायते न तत्र बुद्धिमत्कारणपूर्वकत्वम् । प्रत्यनुमानं च क्षित्यादीनि वायुपर्य- न्तानि कार्याणि न भवन्तीति महाभूतशब्दवाच्यत्वादाकाशवत् । अतः सावयवत्वात् कार्यत्वादित्यादयो हेतवो हेत्वाभासा इति स्थि- तम् । अत एवेदं सूत्रमनुमानप्रदर्शनार्थ न भवति किं तु वेदवाक्य- प्रदर्शनार्थ किं पुनस्तद् यतो वा इमानि भूतानि जायन्ते येन जा- तानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीति ॥२॥ जन्मादिकारणं ब्रह्मति कर्थमवगम्यते न हि पूर्वसूत्रे विशिष्योक्तं येन प्रमाणविशेषावधारणं स्यादत आह। शास्त्रयोनित्वात् ॥ ३ ॥ शास्त्रं योनिः प्रमाणं यस्य तदिदं शास्त्रयोनि ब्रह्म तस्य भावः शास्त्रयोनित्वं शास्त्रप्रमाणकत्वादिति यावत् । अत्र केचिदा- हुः । प्रपञ्चप्रविलापनद्वारेणात्मनः कार्यत्वान्नियोगविषयत्वमतश्च शास्त्रयोनित्वं न च खत उपाधिनिबन्धनायाश्च कर्तव्यतायाः प्रामा- ण्ये कश्चिद्विशेष इति । तदिदं निष्प्रमाणकमभिहितम् । नित्य आत्मा कथं कार्यत्वं प्रतिपद्यते कार्यश्चेद्धटवदनित्यः स्यातू कार्यश्च नित्यश्चेति परस्परव्याहतं वचनं न चान्यस्मिन् कृते ऽन्यः कृतो भवति नहि घटे कृते नभः कृतं भवति यदि श्रुतियादात्मानं कुर्यादिति तदा अशक्योपदेशादप्रमाणं स्याद् यथाग्निना सिञ्चेदुदकेनादीपयोदिति वचनमप्रमाणम् । अथैतद्दूषणभयात् प्रपञ्चप्रविलापनं कुर्यादिति (१) दृष्टान्ते दृश्यन्ते - पा. २ पु० । । २ वि. भास्करीयब्रह्मसूत्रभाष्ये वाक्याथै कल्पयेत् तदप्यशक्यत्वात् प्रविलापनस्याश्रुतत्वाञ्च न हि पुरुषमात्रेण पृथिव्यादीनि महाभूतानि प्रविलापयितुं शक्यन्ते समा- हिते मनसि सुषुप्ते वा सर्व तिरोहितं ब्युत्थितस्य तदेव सर्व पुर- तोऽवतिष्ठते न च प्रपञ्चप्रविलापने कश्चिदुपायोऽस्ति न हि प्र. पञ्चैनैव प्रपञ्चप्रविलापन शक्यं कर्तुमनवस्थाप्रसङ्गात् सोऽप्यन्ये- न तस्याप्यन्येन तस्याप्यन्येनेति(१)। साधारणो वा प्रपञ्चः प्रविला- प्यते विशिष्टो वास्ति । आत्मीयबन्धकारणस्याविद्याकामकर्मलक्ष- णस्य विनाशने प्रपञ्चविलापन यदि मन्यसे तत्र नास्ति विसं. वाद इति साधारणे च प्रविलापिते सर्वमुक्तिप्रसङ्गः शुकेन व्यास- सूनुना विनाशितं जगदद्य न दृश्येत । प्रपञ्चप्रविलापनविषयश्च(२) नियोगो नियोज्यपुरुषादिसापेक्षत्वात् । तत्र यदि कर्ता प्रविलापिता स्थात् तदेदानी नियोगः क्रियेत नियोगोऽपि कार्यरूपश्चेतू(३) क्रिया- वतः प्रपञ्च एव वा न च प्रपञ्चरूपेण नियोगेन प्रपञ्चविला- पर्न सम्भवति तुल्यत्वात् न च नियोगः कारकत्वेनोपदय॑ते कार्य- त्वेन परं न च साध्यत्वेन साधनान्तरं प्रपञ्चरूपमभ्युपगन्तव्यमिति कुतः प्रपञ्चप्रतिपादनप्रविलापनसम्भवः । किं च प्रतीतिवेलायामेवात्र प्रविलयोऽयुपगम्यते अन्यत्र पुनरग्निहोत्रादौ प्रतीतिकालोऽन्यो- ऽनुष्ठानकालोऽन्यः यदि च प्रतीतिमात्रेण नियोगसिद्धिरिहेष्यते तथा सर्वत्रेत्यनुष्ठानलोपः प्रसज्येत्त न हि प्रविलयः कर्तव्य इति- ज्ञानमात्रात प्रविलयो जायते न च ध्यानं प्रविलयहेतुः ध्यातृध्येयादि- प्रपञ्चोत्पत्तित्वाद्ध्यानाञ्च व्युत्थितस्य पृथिव्यादीनां तथावस्थानात् । किं च प्रविलापनं व्यापारः किं वा अभाव इति यदि व्यापारः प्रपञ्च- स्तद्वस्थ एव अथाभावस्तदा तद्विषयो नियोगो नोपपद्यते तस्याव- स्तुत्वप्रतिज्ञानात् । न हि शशविषाणविषयो नियोगः सम्भवति । अत एव कर्मकाण्डे ऽपि न कलश भक्षयेदित्येवमादिषु नियोगानुपपत्ति- रित्यलमतिप्रसङ्गेन । अथात्मज्ञानविषयो नियोगः परिकल्प्येत आ- स्मज्ञानं कुर्यादिति । तदप्ययुक्तम् । ज्ञानस्यापुरुषतन्त्रत्वात् । क्रिया हि कर्तुमन्यथा वा कर्तुं शक्यते अध्वेन गच्छति पद्भयां वा पुरुषेच्छानुरो- धित्वात् न ज्ञानं पुरुषच्छामनुरुध्यते प्रमाणप्रमेयवशवर्तित्वात् तदु- पायस्तु शक्यते विधातुमनुष्ठातुं च श्रवणादिः । न तु साक्षात् खे- ( १) तस्यतस्याप्यन्यै नेति - पा० २ । ३ पु० । (२) विलयविषयक - पा. २ । ३ पु०(३) कार्यवशात् -पा० २ पु.। । HAMARHI SHESTRONACHAN १ अध्याये १ पादे ३ सूत्रम् । च्छया ज्ञानं पुरुषो निष्पादयितुं शक्नोति । ननु च स्वाध्यायविधिना ज्ञानं विधीयते ।न। तत्राध्ययनं विधीयते अर्थानं तु फलं तच्च स्वप्र- माणादग्निहोत्रादिवाक्यात स्वप्रमेये स्वयं(१) जायते न पुरुषेच्छयति! इदं च भवान् पृष्टो व्याचष्टां किमात्मज्ञानमुत्पन्नमनुत्पन्नं वेति । य- धनुत्पन्न विषयासिद्धिर्न नियोगसिद्धिविषयसिद्धया हि नियोगसि- द्विरिष्यते यथा स्वर्गकामो यजेतेति यागसिद्ध्या नियोगसिद्धिस्त- द्वदत्रापि स्यात् । अथ श्रवणादिनोपायेनोत्पन्नं ज्ञानं तदा तेनैव पुरु- पार्थसिद्धेः किमन्तर्गडुना नियोगेन कल्पितेनेति(२) । तथा च श्रुतिः । तमेव विदित्वातिमृत्युभति नान्यः पन्था विद्यते ऽयनायेतीति । ज्ञान- नियोगयोश्च यदि सम्बन्धो नेष्यते अनन्वितो वाक्यार्थः स्यात् । अथ सम्बन्धोऽस्ति तत्रापि गुणप्रधानयोः परस्परसम्बन्ध इत्यवश्यमे- कस्य गुणभावोऽन्यस्य प्राधान्यं यदि नियोगो ज्ञानार्थः स्यातू । नि- योगस्य वाक्यार्थतया सर्वत्र यत् प्राधान्यं प्रतिज्ञातं तद्धीयेत । अथ ज्ञानं नियोगसिद्ध्यर्थ ततो मुक्त्यर्थत्व(३) न स्यात् न चोभयार्थत्वे प्रमा- णमस्ति न च नियोगो मुक्त्यर्थः अश्रुतत्वात् तमेव विदित्वेति ज्ञान- स्यैव साक्षादुपदेशात् । न च ज्ञानशब्देन नियोगो विधीयत इत्यत्र नियोगपरिकल्पनं कल्पनमेवेत्युपरम्यते ॥३॥ ननु च शास्त्रयोनित्वं ब्रह्मणो नोपपद्यते कस्मात् कार्यपरत्वाद्वेदस्य । तथाहि चोदनालक्षणोऽर्थो धर्मः तस्य ज्ञानमुपदेशः तद्भूतानां क्रिया- र्थेन समानायः आम्नायस्य क्रियार्थत्वादानर्थक्यमतदानामिति का- र्यपरत्वेनैव तत्रतत्रानुक्रमणात् । न च सिद्धरूपे ब्रह्मणि विधिः स- म्भवति साध्यार्थविषयोहि सः स्वर्गकामो यजेतेख्यातशब्देश्यःक्रिया प्रतीयते सिद्धरूपे च वस्तुनि वाक्यं प्रयुज्यमानं प्रमाणान्तरसा- पेक्षं यथा पचति गच्छतीति प्रमाणान्तरेणोपलभ्य प्रयुक्रेन च लोके स्वरूपपरःप्रयोगो दृश्यते । ननु नायं सो रज्जुरेवेति दृश्यते । नैतदे- वम् । तत्रापिविधिरध्याह्रियतेमाभैषीरिति।वृद्धव्यवहारे यत्परःप्रयोगो दृश्यते तत्परो वेदो भवितुमर्हति तत्पूर्वकत्वात् तद्यवहारस्य । किं च कार्यपरेषु वाक्येषु प्रयुज्यमानेषु पदानां वाचकशक्तिरवधार्यते तेन गामानयाश्वमानयोति तथा शुक्लां गां कृष्णामित्येवं जातिगुणक्रि- यावचनानां बहुशः प्रयोगदर्शनात् सम्बन्धव्युत्पत्तिर्भवति न च स्व- (१) प्रमेयेषिदं -पा० २ पु० । (२) जल्पितेन - पा० २ पु० । (३) ह्यर्थव-पा० १ पु० ।
FASTARARAM वि भास्करीयब्रह्मसूत्रभाष्ये रूपे व्युत्पत्तिईश्यते अतो व्युत्पत्तिशून्या स्वरूपावगतिः । अतो वे दान्तवाक्यानां कर्मापेक्षितकर्तुः स्वरूपसमर्पणेनार्थवत्त्वं जपार्थत्वं वा। तथा चोक्तम् । कर्मापेक्षाः सर्वे वेदान्ता इति केचिदेवं मीमांसका मन्य- न्ते।अपरे पुनर्मीमांसकदर्शनानुसारिणो वेदान्तमेवं समन्वयन्ति(१)। प्रतिपत्तिविधिविषयतया शास्त्रयोनित्वं न स्वरूपपरतया । तथा च विधिः। श्रोतव्यो मन्तव्यः सोऽन्वेष्टव्यः स विजिज्ञासितव्य इति । को- ऽसावात्मेत्यपेक्षायां सर्वेषां वेदान्तवाक्यानां स्वरूपप्रतिपादनार्थानां सदेव सौम्येदमग्र आसीदित्येवमादीनां तादर्थ्यनोपयोग इति कृ- लो वेदान्तः कार्यपर इति । भवतु तावद्वेदान्तगतानां वाक्यानामेव- मद्वैतात्मप्रतिपत्तिविधिपरत्वेन समन्वयः कर्मकाण्डस्य तु कथं स- मन्वय इति न चान्यतरस्य परित्यागःप्रामाण्याविशेषात् । अत्रोच्यते। भेदाभेदविषययोः कर्मज्ञानकाण्डयोः परस्परविरोधादन्यतरानुगुण्ये- नान्यतरद्याख्येयम् । तत्र निःश्रेयसफलप्रतिपादनपरस्य वेदान्तस्य न कर्मविधिशेषत्वेन व्याख्यान युक्तं कर्मविधीनां तु तादर्थ्य शक्यमव- गन्तुं कथमान्वयिकं प्रासङ्गिकं च द्विविधं कार्य दृश्यते । स्वर्गकामो ग्रामकाम इत्यान्वयिक कार्यम् । प्रासनिक पुनः स्वाभाविकीनां वा- ह्याभ्यन्तरप्रवृत्तीनामुपरमः कल्मषक्षयान्नियोगनिष्ठस्य च रागादिक्ष- यो दृष्टानुभविकभोगेध्विति । तत्र यद्यपि कर्मविधिभिरान्वयिक कान थैमाश्रितं तथाप्युत्तमाधिकारविधिना प्रासङ्गिक कार्यमपेक्षितमिति तदेव प्राधान्येन विवक्ष्यते नैसर्गिकाभिनिवेशसिद्धं च भेदमाश्रि- त्य कर्मविधीनां प्रवृत्तेरविरोधः । यथा श्येनविधिः शास्त्रान्तरनिषिद्धं हिंसाविषये न हिंस्यातू सर्वभूतानीति मिथ्यादर्शिनं प्रतिषेधमतिक्र- म्यावस्थितं पुरुषमाश्रित्य प्रवर्तते। दृश्यते च लोके मिथ्याविषय उप- देशस्तत्त्वज्ञानार्थपरः यथा किल कश्चिद्राजपुत्रः तस्करै(२)निषादरा- जाय निवेदितस्तेन चासौ पुत्रत्वेन परिगृहीतो म्लेच्छाचाराभिर- तिरेवास्ते तं राजमन्त्री तत्रागत्य म्लेच्छजात्यनुगुणमेवाचारं कञ्चि- दनुवर्ण्य पश्चाद्राजपुत्रोऽसि त्वं न म्लेच्छपुत्र इति ग्राहिते समस्तम्ले- च्छाचारं हित्वा स्वरूपमेव प्रतिपद्यत इति । तस्माद् वेदान्तानां प्र- तिपत्तिनियोगपरत्वं न स्वरूपपरत्वमिति प्राप्ते ब्रूमः । तत्तु समन्वयात् ॥ ४ ॥ (१) उन्नयन्ति - पा० २ । ३ पु० । (१) तस्करैरानीय-पा. २ । ३ पु० ।
HASHADHEHARMAHABIBISAIDS - १ अध्याये १ पादे ४ सूत्रम् । १३ तुशब्दः पूर्वपक्षं व्यावर्तयति । ब्रह्मस्वरूपं शास्त्रमवबोधयति न केवलं कार्यमेव कुतः समन्वयात् । समन्वितानि हि ब्रह्मस्वरूपप्र- तिपादनपरत्वेन सृष्टिप्रकरणगतानि वाक्यानि सदेव सौम्येदमन आ- सीदात्मा वा इदमेक एवान आसीत् तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इत्येवमादीनि । न च तेषां ब्रह्मपराणामर्थान्तरकल्पना युक्ता श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । न च कार्य एव प्रामाण्यं प्रतिपत्तुं युक्तं स्वरूपावबोधे ऽपि प्रामाण्यस्याविशिष्टस्वादपौरुषे यत्वं हि प्रामाण्ये कारणं तच्चाविशिष्टम् । अथोच्यते अग्निहोत्रादि- वाक्येषु कार्यावगतिः प्रामाण्ये कारणमिति । तदयुक्तम् । चैत्यवन्दन- वाक्ये ऽपि प्रसङ्गात् । अथापौरुषेयत्त्वे सत्यनपेक्षत्वात् प्रमाणता तदप्यनपेक्षत्वं वेदान्ते ऽपि तुल्यं लोके वेदे च पदानां स्वार्थप्रत्या- यने ऽनपेक्षत्वमविशिष्टम् । वाक्यानां तु लौकिकानां स्वरूपे कार्य वा प्रमाणान्तरापेक्षायां प्रामाण्यं तद्भाधे ऽप्रामाण्यं यथा खपुष्पं तिष्ठति खपुष्पं पश्येति वैदिकानामपौरुषेयत्वादतपेक्षत्वं प्रमाणा- तरानधिगतत्वाच मूलकारणस्य नापरिनिष्ठितत्वं कार्यत्वं वा प्रा- माण्ये कारणं किं त्वनाधिगतार्थगन्तृत्वम् । यथा हि प्रत्यक्षप्रमाण सिद्धरूपावबोधकं तद्वत् सृष्टिवाक्थमपि भविष्यति । न च कार्य- प्रतिज्ञायां तव प्रमाणान्तरवदिति दृष्टान्तोस्ति । यदुक्तं स्वरूपपर: प्रयोगो नास्तीति । तदपर्यालोचितवचनम् । कार्यवञ्च स्वरूपे प्रयोगो दृश्यते नायं सो रज्जुरेवेति नात्र विधिपदाध्याहारस्यावसरः रज्जुतत्त्वावबोधे हि भयं निवर्तते तदभावे विधिशतेनापि भयं न निवर्तते सम्पूर्णत्वाञ्चापि वाक्यस्य नाध्याहारसम्भवः । यदा तु वादिना वाक्यं प्रयुज्यते प्रतिवादिनं प्रति नित्यः शब्दः तत्त्वेन प्रत्यभि- ज्ञानातू सामान्यवादति तदपि वस्तुतत्त्वावबोधार्थ न तत्र विधि- विद्यते हेतुबलात् तत्रार्थप्रतिपत्तिर्न विधिबलात् न्यायसहस्रप्रतिपा- दकं च भाष्यं न विधिपरम् । तथा क गतो देवदत्त इति पृष्टे तीर्थयात्रां गत इत्युत्तरम् । एवं तत्रतत्र द्रष्टव्यम् । ननु स्वरूपावबोधने स- त्यपि किं कार्यमित्याकाङ्क्षा जायते । सत्यं कार्यवाक्ये ऽप्यपेक्षाऽवि शिष्टा याहि माणवकेत्युक्ते किमर्थमिति पृच्छति भोक्तुमित्युत्तरं दीयते । स्वरूपपरं कार्यपरं वा वाक्यं किञ्चित् प्रयोजनमुद्दिश्य प्र. युज्यते न प्रयोजनशून्यमित्येतावानत्र नियमः प्रयोजनं च नियोग एवेति नास्ति नियमः । यथा कर्मकाण्डे स्वर्गादिप्राप्तिः फलसत्रा- HW " भास्करीयब्रह्मसूत्रभाष्ये पवर्गप्राप्तिः फलमित्युपशाम्यतु भवान् । यञ्चोक्तं कार्यपरेषु सम्ब- न्धग्रहणात् तत्रैव तेषां शक्तिर्नान्यत्रेति । तत्रोच्यते । यद्येवं कार्ये ऽप्यग्निहोत्रादौ तेषां शक्तिः सुदुर्लभा प्रत्यक्षानुमानपरिच्छिन्ने ऽर्थे लौकिके व्यवहारे शक्तिदर्शनात् । किं च सम्बन्धग्रहणकाले यद्य- द्विशेषणं इष्ट देशकालप्रयोक्रादि तत्सर्व शक्तर्नियामकं स्यात् । अथ सम्बन्धग्रहणोपायः प्रत्यक्षादि यदिष्यते । कार्य च तद्वदेवेति तन्न शक्तर्नियामकम् ॥ इति । इतश्च कार्यमनियामकं नित्यत्वात् सम्बन्धस्य यस्त्वनित्योऽर्थः पाकादिकारकं सोऽनुरुध्यते । किं च उपेयवेदनं यावदुपायानां प्रतीक्षणम् । उपेये तु विदिते नोपायान्तरमपेक्ष्यते (१) । यथा रत्नपरीक्षाशास्त्रं रत्नखरूपसंवेदनार्थ स्वरूपे विदिते पश्चान्नोपायः पुनरपेक्ष्यते । किं चान्वयव्यतिरेकाभ्यां पदशक्त. विनिर्णयः प्रतिपदं च शक्त्यवगमो न पदसमूहस्य । ननु च पदान्तरापेक्षं तत् प्रयुज्यते ततश्च वाक्यस्यैव वाचकशक्ति - कस्य पदस्य । अत्रोच्यते । मुखमस्तीति किं नाम न प्र- लप्यते । यदि पदान्तरापेक्षा पदस्य वाचकशक्तिः स्यात् ततो गामानयेत्यत्र प्रयुक्तस्य गोपदस्य गां पश्येत्यत्र वाचकशक्ति- ने स्यादानयेतिप्रयोगाभावात् । ततश्च प्रतिवाक्यं सम्बन्धग्रहणा- यैव स्थातव्यं न व्यवहारः कश्चित् सिध्येत । किं चाश्वमानयेत्या- नयेतिसन्निधानादश्वपदस्य गोत्वं वाच्यं स्यातू खतोऽर्थाभावात् । अथाश्वशब्दस्याश्वत्वं वाच्यमिति अभ्युपगम्यते गोशब्दस्य गोत्वं सिद्धं तर्हि प्रतिपदमर्थभेदो न पदान्तरसन्निधिनिमित्तम् । शक्ति- मतामेव पदानां सहप्रयोगः प्रयोजनापेक्षः कारकाणामिव काष्ठा- दीनाम् । न पदत्वसामान्य(२)गता वाचकशक्तिः सर्वत्र सर्वार्थ- प्रतीतिप्रसङ्गात् । अतः पदविशेषगता वाचकशक्तिः सा च प्रति- पदमन्वयव्यतिरेकसामार्थ्यादित्यतोऽभिधीयमानानां पदार्थानाम- म्बयो नान्विताभिधानं शक्तितोऽवस्थितम् । न च सर्वेषां पदानां कार्य वाच्यं पर्यायत्वेन सहप्रयोगानुपपत्तेः तरुपादपशब्दवत् । अन्वय- व्यतिरेकाभ्यां लिङादिप्रत्ययवाच्यत्वं कार्यत्वं कार्यस्यातो यत्र लि- (१) नीपायः पुनरपेक्ष्यते -पा० २ पु. । (२) सामर्थ्यगता-पा० २ । ३ पु.। 24 Meavendra ।
१ अध्याये १ पादे ४ सूत्रम् । डादयः प्रयुज्यन्ते तत्र कार्यपरः पदसमन्वयः यत्र तु प्रमाणान्तरा. नधिगतस्वरूपप्रतिपादनं न तत्र तत्पर इति द्रष्टव्यं न सर्वत्रैकरूपा- पादने खेदनीयं मनः । यदि च दुर्ग्रहवलेन सर्वत्र कार्यपरत्वं वर्ण्यते सर्वत्र सर्वशक्तीश्वरस्य तत्त्वं न सिध्यति कुतः विध्यर्थवादमन्त्रात्मा त्रिधा वेदो व्यवस्थितः । स चेदिष्टः कार्यपरो न खरूपे प्रमाणता ॥ कि केन कथमिति व्यंशापेक्षो विधिः । व्यंशव्यतिरिक्त(१) च नि- योगो नाक्षिपति । शेषस्य वाक्यजातस्य सोऽरोदीदित्यादेः स्तुत्य- र्थेन समन्वयः । मन्त्राणां च प्रयोगस्मारकत्वेन अतो निरतिशयान- न्दब्रह्मस्वरूपप्रतिपादकप्रमाणाभावः । अथवा तत्परत्वमिष्यते का. र्थपरता हीयेत । नोभयपरत्वं वाक्य भेदप्रसङ्गात् । तस्मादवश्यं ख- रूपपरत्वमेवेष्टव्यमीश्वरमिच्छतेति । षष्ठश्च प्रपाठको जगत्कारणप्रति- पादनपरत्वेनानेकैदृष्टान्तैः पर्यवसितः तद्धास्य(२) विजिज्ञासुरित्यु- पसंहारातू। वाक्यतात्पर्यतः कल्प्यमत्यन्तातीन्द्रियं यदि । तात्पर्य किमभिप्रेतं तच्छब्देन किमुच्यते ॥ नियोगस्य वाक्यार्थत्वेनाभ्युपगमात् समस्तस्य पदजातस्य तत्प- रत्वं प्रसज्यते । प्रपञ्चविषयश्च नियोगो निष्प्रपञ्च ब्रह्म तयोः पर- स्परविरोधादसम्बन्धः अंशत्रयव्यतिरिक्तत्वाच्च ब्रह्मतत्त्वं नियोग- सिद्धौ नापेक्ष्यते ऽनुष्ठातृभिः । न च नियोगस्य वाक्यार्थत्वे मीमां- सायां भाष्याक्षरं शारीरके वा सूत्राक्षरं सूचकमस्ति । भावनाया- स्तु पुरुषप्रयत्नरूपाया वाचकं भाष्याक्षरं सूत्राक्षरं च विद्यते । भा- प्याक्षरं तावत् ये प्राहुः किमपि भावयेदिति ते स्वर्गकामपदसम्बन्धा- तू खर्ग भावयेदिति ब्रूयुरिति भावार्थाधिकरणे स्पष्टम् । सूत्राक्षरमपि कृतप्रयत्नापेक्षस्त्विति । शरीरीन्द्रियमनसामात्माधिष्ठितानां चेष्टावि- शेषः प्रयत्नः सर्वधात्वर्थसाधारणः धात्वर्थास्तु परस्पर भिद्यन्ते प्र- यत्नस्तु न भिद्यते नदीसन्तरणकाष्ठभेदेन गमनादिषु विस्पष्टमसौल- क्ष्यते स एव च साध्यत्वाद्वाक्यार्थो लोकवेदयोः नियोगस्तु तटस्थो रागादिवत्प्रवृत्ती निमित्तमात्रं न वाक्यार्थ इति स्थितम् । यदुक्तं वेदा- न्तानां कर्तृप्रतिपादनपरत्वं वा जपार्थत्वं वति । तदेवं सति निरस्तम्। (१) व्यतिरेक - पा. २ पु० । (२) तत्वस्य - पा० २ पु० । ।
२ A भास्करीयब्रह्मसूत्रभाध्ये न हि जगत्कारणं ब्रह्म कर्मसु कर्तृत्वेन नियुज्यते जीवस्तु नियुज्यते तस्य चास्तित्वं प्रत्यक्षेणात्मवादे(१) साधितमिति न वेदान्तवाक्या पेक्षा। प्रकरणांद्यभावाञ्च नकर्मशेषत्वं वेदान्तानाम् । यदप्युक्तं कर्मवि- धीनां कार्यद्वयमान्वयिकं प्रासङ्गिकं चेति। तदुत्प्रेक्षामात्रम्। आन्वयिक- मेवैकं कार्य श्रुतत्वात् । व्यंशापेक्षो हि विधिः फलांशं करणांशमिति- कर्तव्यतांशं चापेक्षते । परिपूर्णे च व्यंशे विधिः परिसमाप्तः कथं कार्यान्तराय कल्पते न च नैसर्गिकप्रपञ्चोपरमः कर्मानुष्ठानमात्रेण भवति यदा ज्योतिष्टोमादिषु प्रवर्तते तत्रापि यजमानविंग्ग्रहचम- सादिप्रपश्चोऽस्त्येव चक्षुरादिभिश्च रूपादिदर्शनस्य क्वचितू(२) प्रपञ्च- स्योपरमः कस्यचिदुद्भव इति न प्रपञ्चोपरम: प्रयोजनं दृश्यते न च कर्मणि प्रवृत्तानां त्रिवर्गपरीणामात्मज्ञानोत्पत्तेः प्रागवस्थायां व- तमानानां दृष्टादृष्टविषयोपयोगश्च निवर्तते कर्मिणां तु सुतरां रा- गो विवर्धते । तथा चोक्तं भगवता । भोगैश्वर्यप्रसक्तानामिति । श्रुति- रपि । यतू कर्मिणो न प्रवेदयन्ति रागादिति । तस्मात् प्रसङ्गिकं फल- मेवासिद्धम् । यद्यप्यस्ति तथाप्यविवक्षितं यश्चार्थादर्थो न सचोदनार्थ इतिन्यायात् । तथा च स्तुतिशास्त्राधिकरणे स्तौतिसंशत्योः(३) श्रुत- मपूर्वमेव प्रयोजनं देवतास्मरणं प्रासाङ्गिकमिति स्थितम् । ऐन्द्रया गा- हपत्यमुपतिष्ठत इति च गार्हपत्योपस्थानं प्रयोजनं गम्यमानमिति नेन्द्रोपस्थानम् । यथा च प्रकृतिर्विकात नापेक्षते परिपूर्णत्वात् विकृत तिश्च पुनः प्रकृतिमपेक्षते ऽपरिपूर्णत्वात् । एवं पूर्वो वेदभागः परं नापेक्षते स पुनः पूर्वमपेक्षते । वेदान्तवाक्यैरेव ज्ञानसहकारि- तया नित्यकर्मोपदेशात् तमेतं वेदानुवचनेनेति। ततश्चात्मज्ञानाधिकृत- स्थ कर्मभिर्विनापवर्गानुपपत्ते ज्ञानेन कर्म समुञ्चीयते । यत् पुनः केव- लकर्मिभिः क्रियमाणं कर्म पुरुषयोग्यतापादनद्वारेणोत्तमाधिकारवि. धिशेषत्वं प्रतिपद्यते । तदुत्प्रेक्षामात्रेण कल्पितम् । न च लौकिकेन ह- धान्तेन वैदिकोऽर्थो निरूपयितुं शक्यते ऽनुमानादीनामविषयत्वात् । यदप्युक्तं भेदाभेदयोर्विरोध इति । तदभिधीयते अनिरूपितप्रमाण- प्रमेयतत्त्वस्येदं चोद्यम् । एकस्यैकत्वमस्तीति प्रमाणादेव गम्यते । नानात्वं तस्य तत्पुर्व कस्माद्भेदोऽपि नेण्यते ॥ ( १ ) प्रत्यगित्यात्मवाद - पा० १ पु० । (२) क्वचित् कल्चत् - पा० २।३ पु० । (३) स्तौति संशयः - पा० २ पु.।
१ अध्याये १ पादे ४ सूत्रम् । पतू प्रमाणैः परिच्छिन्नमविरुद्धं हि तत् तथा । वस्तुजातं गवाश्वादि भिन्नाभिन्नं प्रतीयते ॥ नाभिन्न भिन्नमेव वा क्वचित केनचिद् दर्शयितुं शक्यते । सत्ता- ज्ञेयत्वद्रव्यत्वादिसामान्यात्मना सर्वमभिन्नं व्यक्तात्मना तु परस्पर- वैलक्षण्याद्भिन्नम् । तथाहि प्रतीयते तदुभय(१) विरोधः कोऽयमुच्यते । विरोधे चाविरोधेच प्रमाणं कारण मतम् ॥ एकरूपं प्रतीतत्वातू द्विरूपं तत् तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम् ॥ ननु शीतोष्णयोर्यथा परस्पर विरोधस्तथा भेदाभेदयोः किमि दमुच्यते नास्ति विरोध इति । अत्रोच्यते । भवता प्रज्ञापराधोऽय न वस्तुविरोधः कथं सहानवानं छायातपवद्भिनदेशवर्तित्वं च शीतोष्णवद्विरोधो नाम एतदुभयमिह कार्यकारणयोर्ब्रह्मप्रप- ञ्चयोनास्ति तदुत्पत्तेस्तत्रैवावस्थितेस्तक प्रलयातू । विरोधे हि त्रयमेतन्नोपपद्यते । न हि कृशानुनाकरोत्पत्त्यादिलक्षणः सम्ब- धो दृश्यते । कारणेन हि कृत्सुवर्णादिना कार्य सर्वदानुस्यूतं दृश्य- ते । तत्राक्षिणी निमील्य परस्परासङ्गतिलक्षणो विरोधो वैयात्यादू(२) वक्तव्यो भवेत् प्राथमिकश्रोत्रियश्रोत्रप्रतारणार्थ वा । शीतो- णयोर्भिन्नाधारवर्तिनोर्न कदाचिदुत्पाद्योत्पादकलक्षणः सम्बन्धी माधाराधेयलक्षण इति युक्तस्तयोः परस्पर विरोधः । तस्माच्छी- तोष्णवदित्ययुक्तं दृष्टान्ताभिधानम् । अत्र प्रागल्भ्यातू कश्चिदाह । यथा संशयज्ञानं स्थाणुर्वा पुरुषो वेत्याप्रमाणे तथा भेदाभेदज्ञान- मिति । तदसत । परस्परोपमर्दन में कदाचित् सहस्थितिः। प्रमेयानिश्चयाच्चैव संशयस्याप्रमाणता ॥ अंत्र पुनः कारण पूर्वसिद्धं मृत्सुवर्णादिलक्षण ततः कार्य पश्चाजायमानं तदाश्रितमेव जायते । कारणसमानार्थी हि का- र्थबुद्धिर्न कारणस्वरूपोपमर्दैन देशतः कालतो वा पृथग्भूतं का- र्य दृश्यते । तस्माद् यत्किञ्चिदेतत् यत् प्रपञ्चे मिथ्यात्वप्रतिज्ञानम्।न (१) चेदुभयं - पा. २ । ३ पु० । (२) वैजात्यात् -पा० २ ० ।
१८ भास्करीयब्रह्मसूत्रभाष्ये च पुरुषापेक्षया मिथ्यात्वं सत्यत्वं वा प्रपञ्चस्य कल्पयितुं शक्य मुमुक्षून प्रति मिथ्या इतरान् प्रति सत्यमिति । न हि रूपमन्धान प्र- ति असत्यमितरान् प्रति सत्यमिति शक्यं वक्तुम् । न हि पुरुषस्व- रूपानुरोधिनो भावा येन तदपेक्षया सत्यत्वमसत्यत्वं वा भजे- रना तथा च नरभेदान्न हि ज्ञेया वस्तुनः सदसत्यता। न हि रूपमनन्धानां सत्यमन्धेष्वसद् भवेत् ॥ यथा सहस्ररश्मिः स्तुवन्तं निन्दन्तं च तपति । किं च मुमुक्षून प्रत्यवस्तुत्वमितरान् प्रति वस्तुत्वमिति युगपत् तथ्यमिथ्यात्वप्र- सङ्गः । किं च प्रपञ्चास्तित्वमज्ञस्य तस्यैव शानिनः पुनः । स एव किल नास्तीति कथं सा(१) वचो भवेत् ॥ न हि द्विचन्द्रः प्रागासीतू पश्चान्नास्तीति युज्यते । द्विचन्द्रज्ञानतुल्यत्वं प्रत्यक्षादेस्त्वपेक्ष्यते ॥ मिथ्यात्वं किलागमेन प्रत्यक्षादिज्ञानस्य प्रतिपाद्यत इत्यभ्युपग- मात् सर्वदैवं मिथ्यात्वं द्विचन्द्रज्ञानवदिति युक्तमभ्युपगन्तव्यं बा- ल्यं त्वर्द्धजरतीयन्यायाश्रयणम् । यथागमेनापि मिथ्यात्वं न प्रतिपा- द्यते तथा तदनन्यत्वमित्यत्र वक्ष्यामः । न च तिमिरवत् प्रपञ्चमि- थ्यात्वे कारणदोषो गृह्यते । अतो भिन्नाभिन्नरूपं ब्रह्मति स्थि- तम् । सङ्ग्रहश्लोकः। कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥ इति । वेदान्ते निपुणम्मन्यः कश्चिदाह । अविद्या(२) कारणदोष इति । यद्येवमविद्यावतां यदुत्पन्नं ज्ञानं तच्चेन्मिथ्येत्यभ्युपगम्यते ब्रह्मज्ञानमपि मिथ्या स्यादविशेषात् अविद्यावानेव हि श्रोता तत्त्वमस्यादिवाक्यश्रवणे ऽधिक्रियते । यदि च तस्याविद्या नास्ति श्रवणमननविधानमनर्थकं स्यात् । अतश्च मूलोच्छेदात सत्यवादप्रसङ्गः । का चेयमविद्या भवतोऽभिप्रेता । किं भेद- दर्शनमुत तद्यतिरिक्तति । यदि तावद्भेददर्शनमविद्याभ्युपेयेति तत्रेदं वक्तव्यं कथं भेददर्शनस्याविद्यात्वम् । किं विद्या- (१) ग्राह्यं - पा. २ । ३ पु० । (२) अवाप्यविद्या-पा०२।३ पु० ।
अध्याये १ पादे ४ सूत्रम्। तोऽन्यत्वादविद्या अथ विद्याया अभाव इति । न तावदभावः संवेदनत्वस्य प्रत्यक्षत्वात् । इयांस्तु विशेषः परविद्याऽपरविद्या चेति । तथा चोक्तम् । द्वे विद्ये वेदितव्ये परा चैवापरा चेति । न च पर्युदासः सम्भवति । न हि भेदज्ञानं द्रव्यं गुण: क्रिया वा येन विद्यातोऽन्यत् स्यात् । विधेति ज्ञानमुच्यते भेदज्ञानमपि ज्ञानमेवेति अथ तद्विपरीताऽविद्या तत्रापि किं नित्या अनित्या वा सा च ब्रह्मणः किं जीवस्येति । यद्यनादिरविद्या त- दानीमनिर्मोक्षप्रसङ्गः तस्या उच्छेत्तुमशक्यत्वात् ब्रह्मवत् । अथा- दिमती कुतः सा जायते यदि चोत्पद्येत कार्यत्वाद्वस्तुत्वप्रसङ्गः । तत्रावस्तुभूताऽविद्येति प्रतिज्ञा(१) हीयते । न ह्यवस्तु शशवित्राणमु- त्पद्यते । न च ब्रह्मणोऽविद्या तस्य विशुद्धचिद्रूपत्वानिरतिशयानन्द- रूपत्वात् । न च जीवस्य ब्रह्मव्यतिरिक्तजीवानश्युपगमात् । प्रति- विम्बरूपस्य च जीवस्य कल्पितस्यावस्तुत्वात् । हन्त निराश्रयाऽवि- द्याभावपदवी प्राप्ता । तस्मान्न भेददर्शनमविद्या । नापीश्वरस्य किं तहि जीवस्य वस्तुभूतस्य देहादिष्वनात्मसु विपरीतज्ञानं ब्रह्मस्व- रूपाप्रतिपत्तिश्च तदुभयं ग्रहणामहणमविद्या सा तत्त्वमस्यादिवाक्य- श्रवणजनितया विद्यया निवर्तते न प्रपश्चदर्शनं ब्रह्म कार्यत्वात् प्रपञ्चश्य वस्तुत्वं ब्रौव हि कारणात्मना कार्यात्मना वावस्थितमित्युक्तम्।नहि ब्रह्मविषयं ज्ञानं मिथ्या भवितुमर्हति । यद्येवं प्रपञ्चसत्यत्वे कथं भवत्पक्षे मोक्ष इति । यस्यापि प्रपञ्चो मिथ्या तस्यापि कथं मो- क्ष इति वक्तव्यम् । यथा खमप्रपञ्चो निवृत्तोऽपि पुनःपुनरुत्पद्यते तथा जानत्प्रपञ्चोऽपि मुक्तस्याप्युत्पद्येत यथा सुषुप्तिप्रलय योस्तिमिररूपाय- स्थिताऽविद्या पुनः प्रपञ्चहेतुः तद्वदनवस्थायिनी च विद्या प्रदीपज्वा- लावत् तस्यां ध्वस्तायां तमोवदविद्या पुनरुत्तिष्ठेत् । ननु ज्ञानेनो- न्मथितस्य कथं पुनरुत्पत्तिः । अनोच्यते । कथमुन्मथनं मतं ज्ञान- स्यापि प्रपश्चत्वात् न प्रपञ्चेन प्रपञ्चोन्मथन सम्भवति तुल्यश- क्तित्वात् । अथात्मरूपं ज्ञानं यद्येवं सर्वदात्मरूपस्यावस्थितत्वात प्रपञ्चप्रतिभासनानुपपत्तिः तमस इव प्रदीपसन्निधौ । ततश्च संसाराभावान्नित्यमुक्तिप्रसङ्गः । तस्मादागमेन बन्धमोक्षव्य- वक्तव्या न तर्केण अनवस्थितत्वात् । अस्मत्पक्षे भवति सर्वतः । तथा चाह सर्वात्मा (१) विषक्षाप्रतिज्ञा-पा० ३ पु० । वस्था मुक्तः सर्वात्मा ।
भास्करीयब्रह्मसूत्रभाष्ये भवति सर्वज्ञः सर्वमेवाविवेशेति तद्धैततू(१) पश्यनृषिवा- मदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चेति मुक्त्यवस्थायामपि पूर्व- वत् प्रपञ्चसद्भावं दर्शयति । अत्राह अस्तु तर्हि केवलादेव ज्ञाना- न्मुक्तिः कर्मनिरपेक्षात् । चतुर्विधं हि कर्मकारकमुत्पाद्यं प्राप्यं विकार्य संस्कार्य चेति । न तावन्मोक्षाख्यं ब्रह्मस्वरूपमुत्पाद्यम- नित्यत्वप्रसङ्गात् अतो नोत्पत्यर्थमग्निहोत्रादिकर्म नापि कर्मणा ब्रह्माप्यते सर्वगतत्वेन नित्याप्तस्वरूपत्वात् । न च क्रियया विक्रि- यते चर्मवदनित्यत्वप्रसङ्गात् । नापि संस्क्रियते नित्यस्यातिशया. सम्भवात् । अतः कार्यानुप्रवेशो न शक्यते व्युत्पादयितुमिति । अ- बोच्यते । सत्यं त्रिविधं कर्म न सम्भवतीत्याप्यं तु न शक्यते नि- रसितुम् । यथैव ज्ञानेनाविद्यानिवृत्तिद्वारेण ब्रह्मस्वरूपमवाप्यत इत्य- भ्युपगम्यते । तथा कर्मसहितेनेत्यभ्युपगन्तव्यं यज्ञेन दानेनेतिवि- नियोगातू । यदि च नित्यप्राप्तो मोक्षः स्यादयत्नेन सिद्धत्वातू सर्वो लोको मुच्येत । अथाविद्याव्यवधानात् तन्निवृत्चिद्वारेण तन्निवृत्ति- श्व विद्यया विरोधादिति मन्यसे । अत्रोच्यते । तद्विपरीतं ते प्र- सज्यते भेदविज्ञानमविद्या भवतोऽभिप्रेता न तद्रियमाणशरीरस्य कस्यचिद्भेदज्ञानं विनिवर्तते चक्षुरादीनां तन्निमित्तत्वात् । न च निमित्ते सति नैमित्तिकं न भवति कर्मणां तद्भोगार्थत्वात् । कथं भोगार्थत्वं देहेन्द्रियविषयविभागज्ञानहेतुत्वात् । अपि चेतरेतरहेतु- त्वमविद्याकामकर्मणां बीजाकुरवा वद्यतः संस्कारचक्रमविरलमनु- धर्तते ततश्चाद्वैतज्ञानं बाध्यतामेति प्रतिपक्षबलीयस्त्वादप- घर्गाभावः प्रसज्यते । न च बाध्यसानाकारं भेदज्ञानं तिष्ठतीति शक्यते अनुन्मत्तेन वक्तुं स्थितिनिमित्ताभावात् । निमित्तसद्भावे हि निवृत्तमपि मिथ्याज्ञानं पुनरुत्पद्यते । द्विचन्द्ररज्जुसादौ भ्रा- न्तित्वेन निश्चिते प्रवृत्तिर्नोपपद्यते । दृश्यते च शौचाचमनव्या- ख्यानभोजनादौ क्षुत्पिपासयोरनिवृत्तत्वात तत्प्रेरितोऽस्वतन्त्र प्रवर्तते । बाधितकल्पं चाज्ञानमिति स्वानुभवविरुद्धं ब्रुवन्नुन्मत्तान विशिष्यते । न चाविद्यायाः सावशेषत्वं शक्यं कल्पयितुमवस्तु- स्वात् । न हि शशविषाणस्य सावशेषत्वं निरवशेषत्वं वास्ति । यदि च भेदज्ञानं सर्वात्मना निवर्तेत सम्प्रदायविच्छेदः स्यात् । असिद्ध- चार्य हेतुर्विरोधादिति । मनुव्यासयाज्ञवल्क्यादीनामुपेदशकर्तृ- (1) तदेतत् -पा० १ पुः | HINOSURKHANIHEMAISHET १ अध्याय १ पादे ५ सूत्रम् । स्वोपलब्धेः। शब्दादिभेदप्रतिभासे हि सम्प्रदायोपपत्तिः । तद्वैतत् पश्यन्निति च युगपदुभयानुवृत्तिश्रुतेः। निःसम्बोधो निराखादस्त्व- पक्षे मोक्षः स्यात् चैतन्यमात्रावशेषत्वात् वदन्ति केचित् शृगालत्वं बने वरमिति । अस्मत्पक्षेतुन भेदज्ञाननिवृत्तिरविद्यानिवृत्तिः किं तर्हि शरीरादावनात्मन्यात्मबुद्धिनिवृत्तिः तत्र च सिद्धो हेतुस्तन्निवृत्तौ शरीर- पातादनन्तरं सर्वज्ञः सर्वशक्तिनिरतिशयसुखसंवेदी मुक्तो भवतीति निरवद्यम् । अपि चानेकजन्मसञ्चितानां कर्मणामारब्धानारब्धफलानां कथं तन्निवृत्तिर्ज्ञानविरोधाभावात् । बन्धकारणत्वादपवर्गहेतुज्ञानेना- स्ति विरोध इति चेतू कथं बन्धहेतुत्वमवगतम् । शास्त्रादिति चेत् तर्हि आगतोऽसि मदीयं पन्थान(१) कुतस्ते विद्यामात्रवादिनस्तद्यति- रिक्तं कर्म तद्विभागो वा अबाह्यार्थवादित्वात् । अस्मत्पक्षे तु यु- ज्यते । यथा शास्त्रान्नित्यकर्मसमुच्चितादात्मज्ञानादविद्याकामकर्म- लक्षणबन्धनिवृत्तिस्तथा यज्ञादिश्रुतेरश्ववदित्यत्र दर्शयिष्यामः॥४॥ सांख्यास्तु त्रिगुणमचेतनं प्रधानं जगत्कारणमनुमीयते तत्रैव वेदान्तवाक्यानि योजयन्तः प्रत्यवतिष्ठन्ते। चेतनस्य ब्रह्मणो जगत्कार- णत्वे यत् प्रतिज्ञातं शास्त्रयोनित्वं सदेव सौम्येदमग्न आसीदित्यादि. बाक्यसमन्वयात् । तदसिद्धम् । सच्छब्दो वस्तुमात्रवाची प्रधाने या वकल्पते । अतोन चेतनं जगत्कारणमिति प्राप्ते ब्रवीति । ईक्षते शब्दम् ॥ ५॥ न प्रधानं जगत्कारणमशब्दं हि तत् । न विद्यते शब्दः श्रुतिर्यस्य सदशब्दं कस्मादीक्षतेरीक्षणश्रवणात् तदैक्षत बहु स्यां प्रजायेयेति । ईक्षतेरिति धात्वर्थनिर्देशो लक्षणया न धातुनिर्देशो यथेतिकर्तव्य ताविधेर्यजतेः पूर्ववत्त्वम् । ईक्षणं पर्यालोचनमध्यवसायः प्रत्यक्ष तद- चेतनस्य नोपपद्यते ॥ ५ ॥ अत्राह गौणमीक्षणं भविष्यत्यचेतने ऽपि चेतनवदुपचारदर्शना- तू । यथा आसन्नपतन कूलमालक्ष्य कूलं पिपतिषतीति प्रयुज्यते तथा प्रधाने प्रत्यासन्नसर्गे नियमेन प्रवृत्तिमालोक्य चेतनोपचारोभ- विष्यति । भवति चेहाप्यचेतनयोरप्तेजसोरुपचारः तत् तेज ऐक्षते- ति(२)। तस्माद्दौणमीक्षणम् । अत्र प्रतिविधत्ते । (१) यत् स्थानं-पा० १० । (२) तत् तेज ऐचत ता भाप ऐचन्त यज- निषु ये यजामहं कुर्यात्रा नुयाजेषु - पा० ३ ० ।
। भास्करीयब्रह्मसूत्रभाष्ये गौणश्चेन्नात्मशब्दात् ॥ ६ ॥ गौणमीक्षणमित्ययुक्तं कस्मादात्मशब्दात् सेयं देवतेत्यत्र हन्ताहमि- मास्तिस्रो देवताऽनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति तथा स आत्मा तत्त्वमसि श्वेतकेतो इत्यात्मशब्दश्वेतनवचनो लोके प्रसिद्धस्तेन जीवं व्यपदिशति देवता जीवश्च प्राणानां धारयिता प्रत्यक्षादिप्रमाणसिद्धस्तत्रात्मशैब्दप्रयोगो युज्यते । यद्यचेतनं प्रधान जगत्कारणं गुणवृत्त्या कलव्येत तदैव देवताशब्देन परामृष्येत ततश्चा- चेतनं चेतनस्यात्मेति विरुद्धमापद्येत ततो मुख्यमेवेक्षितृत्वम । कूले तु युक्तं गौणत्वं प्रमाणान्तराधीनत्वाल्लौकिकत्त्य प्रयोगस्य । अप्तेजसो- रपि प्रकृतदेवतानुप्रवेशात् तदीयमेवेक्षितृत्वं कार्यगतं चापदिश्यतु इत्यदोषः ॥६॥ अत्राहात्मशब्दोऽचेतने प्रधाने लक्षणया प्रयुज्यते पुरुषोपकारि- त्वात् । यथा राज्ञः सर्वार्थकारिणि पत्तिगणके भवत्यात्मशब्दप्रयोगो ममात्मा भद्रसेन इति । अथवा चतनाचेतनयोः साधारणोऽयमात्म. शब्दो यथा ज्योतिःशब्दः ऋतुज्वलनयोरिति । अत्रोत्तरं पठति । तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥ नायमात्मशब्दो गौणोऽत्र सम्भवति । प्रकृतेर्जगत्कारण- निष्ठस्य श्वेतकेतोस्तत्त्वमसीत्युपदिश्य मोक्ष उपदिश्यते । तस्य तावदेव चिरं यावन्न विमोक्ष्य ऽथ लम्पत्स्य इति । यावतू शरीरान विमोक्ष्यते प्रारब्धकर्मफलभोगप्रतिबन्धातू तावदवास्य विदुषश्चिरम् भुक्ते तु कर्मणि प्रतिबन्धाभावादथ ब्रह्म सम्पत्स्यत इत्यर्थः । तकार- लोपोऽत्र छान्दसो द्रष्टव्यः। यदि चाऽचेतनं प्रधानं तत्त्वससीति ग्राह- येत् ततो मिथ्यावादि शास्त्रं न प्रमाणं स्यातू । मातापितृवचनादपि प्रत्ययिततरं(१) यथाभूतवादि शास्त्रं त्वत्पक्षे मिथ्यादृष्टेर्मोक्षोपदेशा- नुपपत्तिः । सेनापती तु प्रमाणान्तरवशादुपचारो युक्तः । न त्वयं सा- धारणोऽनेकशक्तिकल्पनाया अपन्यायत्वातू प्रयोग उपपद्यते तत्रापत्तिक्षयाद्वाचकशक्तिकल्पनमयुक्तं यथा- निर्माणवक इति । चेतनोपकारित्वं चालोच्य अनात्मन्यात्मशब्दो लोके प्रयुज्यते भूतात्मेन्द्रियात्मेति । यत्र पुनर्गौणी वृत्तिन सम्भवति (१) प्रत्यायित्तव्यं - पा० २ पु. । तत्र गोण्या वृत्त्या १ अध्याये १ पादे ६-१० सूत्राणि । तंत्रानेकशक्ति कल्पना यथा अक्षाः पादा इति । ज्योति शब्दोऽपि त- माप्रतिपक्षे मुख्यः स च गौणः गोण्या वृत्त्या ऋतौ युज्यते ज्यो- तींषि स्तोमा अस्येति ज्योतिष्टोमोऽर्थवाददर्शनातू । एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा इति स एव प्रकृतो वसन्ते ज्यो- तिषा यजेतेति निर्दिश्यते ॥७॥ इतश्च नात्मशब्दो गौणः । हेयत्वावचनाच्च ॥८॥ यद्यनात्मैवाचेतनं प्रधान जगत्कारणं तत्त्वमसीति श्वेतकेतोरु- पदिष्टं स्यात् । स च पित्रोपदिष्टं प्रमाणीकुर्वन्नन्धगोलापॅलन्या- येन न कदाचिन्मुच्येत तस्य ततो हेयत्वं वक्तव्यं न चावोचत् । स- मात्रकारणनिष्ठेव षष्ठप्रपाठकपरिसमाप्तिः । अतः सच्छब्दवाच्य चेतनं ब्रह्मेति निश्चीयते । प्रतिज्ञाविरोधाच उत तमादेशमप्राक्षः येना- श्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति । प्रधाने बिज्ञाते हि तत्कार्य महदादि विज्ञातं स्यात् न भोक्तृवर्गाः । ब्रह्मणि पुनः का- रणे विज्ञाते भोक्तृभोग्यवर्गों विज्ञातौ स्यातां तदनन्यत्वात् ॥८॥ इतश्च प्रधानं न सच्छब्दवाच्यम् । स्वाप्ययात् ॥ ९॥ यत्रैतत्पुरुषः खपिति नाम सता सौम्य तदा सम्पन्नो भवति स्त्रयमपीतो भवति तस्मादेनं स्वपितीत्याचक्षत इति । स्वपिति- नामनिर्वचनेन खमपीतो भवतीति स्वस्मिन् प्रकृते सच्छब्दवाच्ये जीवस्याप्ययं दर्शयति । यदि प्रकृतं चेतनं स्यातू ततस्तस्मिन् चेत- नस्य खाप्यय उपपद्यते । अध्ययः प्रलयः सच्छब्दवाच्येनैकीभावः । तस्मानाचेतनं सच्छब्दवाच्यामिति ॥९॥ गतिसामान्यात् ॥ १० ॥ गतिः स्वगतिः । अथवा गतिः प्रवृत्तिस्तस्यास्तुल्यत्वात् । सर्व- वेदान्तेषु जगत्कारणावगतिस्तुल्या न तार्किकसमय इव भिन्नप्र- स्थानावगतिः । यथाग्नेज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेर- नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका इति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूत ।
भास्करीयब्रह्मसूत्रभाष्ये इति । यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तप इति महदेतत् प्रामाण्य- कारणं यत् सर्ववेदान्तानां संवादित्वम् ॥१०॥ इतश्च। ka श्रुतत्वांच्च ॥ ११ ॥ साक्षाञ्चेश्वरः सर्वज्ञो जगत्कारणं श्वेताश्वतराणां मन्त्रोपनि- अदि श्रूयते । न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिप इति । तस्मात् सर्वज्ञं ब्रह्म जगतः कारणमिति सिद्धम् । स्थितं शास्त्रयोनित्वं ब्रह्मणः । तत् कारणात्मना कार्यात्मना द्विरूपेणाव- स्थितमित्युक्तम् । व पुनस्तत्कार्यरुपं निर्दिश्यते व वा तद्विपरीत कारणमेवोपदिश्यत इति । तद्विवेकदर्शनायोत्तरप्रारम्भो वाक्या- थेषु वचनव्यक्तीनां विचित्रप्रतिभानोत्पत्तेः । शाब्दप्रमाणप्रकारैरेव भुत्यादिभिः षड्भिस्तदनुसारिणा च तकण च सर्वत्र निर्णयः क्रियते पदानां परस्परसमन्वये वाक्यैकवाक्यत्वे च तेषां सामर्थ्यात् ॥११॥ आनन्दमयोऽभ्यासात् ॥ १२ ॥ तैत्तिरीयके इनमय प्राणमय मनोमयं विज्ञानमयं चानुक्रम्या- नायते। तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्मानन्दमय इति । तत्र संशयः । किमानन्दमयशब्देन प्रकृतं ब्रह्मोच्यते किंवा ततो. इर्थान्तरमिति । किं पुनरत्र युक्तम् । आनन्दमयः प्राप्तश्वर्यो हिरण्य- गर्भादिय॑पदिश्यते न मुख्यः परमात्मा कस्मात् प्रियाद्यवयवयो- गाच्छारीरत्वश्रवणातू तस्य प्रियमेव शिर इति । यथान्नमयादी- नामवयवयोगादमुख्य(१)मात्मत्वमेवं तत्रापि स्याद्विकारापन्न एवं कश्चिदात्मा निर्दिश्यते । आनन्दमय इति च विकारे मयट्प्रत्ययश्र- घणात् । तस्यैष एव शारीर आत्मा यः पूर्वस्येति शरीरयोगः श्रूयते । तस्य पूर्वस्य विज्ञानमयस्यैष एव शरीरे भवः (शारीर आत्मा यः स आनन्दमय इत्यर्थः । तस्मात् संसार्येवात्मानन्दमय इति प्राप्ते ब्रूमः। ब्रह्मेवानन्दमयो न विकारापन्नः)(२) कुतोऽभ्यासात आनन्दशब्दस्य (१) योगानुन – पा० २ पु • । योगादयुक्त -पा० ३ ० (१)()एतन्मध्यस्थः पाठी नाति ( पु० ।
१ अध्याये १ पादे ११-१५ सूत्राणि । यदेष आकाश आनन्दो न स्यातू सैषानन्दस्य मीमांसा आनन्दो ब्र- ोति व्याजाना(१)दानन्दं ब्रह्मणो विद्वानतमानन्दमयमात्मा- नमुपसंक्रामतीति । यत् पुनरुक्तमन्नमयादिवमुख्य आत्मेति । नायं दोषः । सर्वान्तरश्रुतेः आनन्दमयः परमात्मेति निश्चीयते । अन्नम- यादीनामापेक्षिकमन्तरत्वं शाखाचन्द्रन्यायेन प्रतिपत्तिसौकर्यार्थ- मुपन्यस्यते सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकृतस्य ब्रह्मणः प्रतिपादयि- षितत्वात् । उपक्रमोपसंहारयोरेकार्थत्वमेकवाक्यत्वात् । यथा जातेष्टौ वैश्वानरं द्वादशकपालं निर्वपेतू पुत्रे जाते तस्य यदष्टाकपालो भवतीत्यष्टत्वादीनामुपन्यासो द्वादशकपालप्रशंसार्थ एवमत्राप्यन्यार्थोऽन्नमयाद्युपन्यासो न मुख्यार्थप्रतिपत्त्यर्थो नोपास- नार्थो वा वाक्यभेदप्रसङ्गात् न चात्रोपास्वेति विधिः श्रूयते फलं त्वन्यतः सिद्धमनूद्यते मनोमये तूभयं नास्ति छान्दोग्ये हि सप्तमे नामोपास्वेति प्रतिवाक्यं विधिश्रुतेः। फलश्रुत्या चावान्तरपुरुषार्थों विवक्षितोऽवगम्यते । तस्मादानन्दमयप्रतिपादनं कृत्स्नं प्रकरणं न स्वनिष्ठमिति । यदुक्तमवयवयोग इति तत् प्रायापत्यापि पुरुष- विधित्वकल्पनार्थों नावयवशरीरप्रतिपत्त्यर्थ इत्यदोषः ॥१२॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥ विकारार्थवाचिनो मयट्प्रत्ययस्य दर्शनादन्नमयादिवमुख्य आत्मानन्दमय इति चेत् न प्राचुर्यार्थे ऽपि मयटो विधानात् । प्रभूत- वचने मयडिति हि प्रभूतायां विधीयते । यथान्नमयो यज्ञ इति ॥१३॥ तहेतुव्यपदेशाच्च ॥१४॥ तस्य प्रकृतस्य ब्रह्मण आनन्दहेतुत्वं व्यपदिशति श्रुतिः । एष होवानन्दयातीति । आनन्दयतीत्यर्थो यो ह्यन्येभ्यो धनं प्रयच्छति स प्रचुरधन इति प्रसिद्धमेवं यो जीवानानन्दयति स प्रचुरानन्द इति गम्यते ॥१४॥ मान्त्रवर्णिकमेव च गीयते ॥ १५॥ यन्मन्त्रेणोक्तं तन्मान्त्रवर्णिकम्। सत्यं ज्ञानमनन्तं ब्रह्मेति तदेवा- प्रानन्दमयशब्देन गीयते ॥ १५ ॥ (१) व्याख्यानात्-पा. २ पु०॥ ॥ ४ RAUNARIUSHION PHASRANAMATIPRISE २६ भास्करीयब्रह्मसूत्रभाष्ये नेतरोऽनुपपत्तेः ॥ १६॥ इतरो जीवः संसारी नानन्दमयः कस्मादनुपपत्तेः आनन्दमयं प्रकृत्य सोऽकामयत बहु स्यां प्रजायेयेति स्यां प्रजायेयेति स्रष्टत्वं श्रूयमार्ण जीवे नोपपद्यते । सच त्यञ्चाभवदिति च सर्वात्मकत्वम् ॥ १६ ॥ भेदव्यपदेशाच ॥ १७ ॥ इतश्च नानन्दमयः संसारी प्रकृतमानन्दमयशब्देनोक्त्वा(१) तथेतरं लब्धारं दर्शयति रसो वै सः रसं ह्येवायं लब्ध्यः आनन्दी भवतीति न हि लब्धव लब्धव्यो भवतीति । अत्र केचित् स्व. मतिकल्पितदर्शनपरित्राणाय सूत्रार्थ विनाशयन्तो व्याचक्षते । न हीश्वरादन्यः संसारी विद्यते स एव संसारी । तत्र नेतरोऽनुपप- तेभैदव्यपदेशाच्चेति कथं सूत्रद्वयमिति चेत् । नैष दोषः । उपा- धिकृतभेदमात्राङ्गीकरणादिदमुच्यते । यथा घटाकाशः पटाकाश इत्याकाशस्य भेदव्यपदेशः कल्पनामात्रेणेति । तदेतदयुक्तम् । यथाश्रुतसूत्रार्थसम्भवे भक्त्या व्याख्यानस्यापन्यायत्वात् । यथा चे- श्वरान्यस्यासंसारित्वं जीवपरयोश्च भेदाभेदी तथोत्तरत्रांशो ना. नाध्यपदेशादित्येवमादौ विस्पष्टं वक्ष्यामः ॥ १७॥ कामाच नानुमानापेक्षा ॥ १८ ॥ ननु च सत्त्वगुणस्यानन्दहेतोः प्रधाने विद्यमानत्वात् तदेव प्रधानमानन्दमयं स्यान्नेत्युच्यते । अनुमीयत इत्यनुमान प्रधान तदपेक्षा चास्मिन्नानन्दमये वाक्ये नास्ति कुतः कामाच्च । सोऽका- भयत बहु स्यामिति । कामश्चेच्छा चेतनधर्मों नाचेतनस्य गतिसा- मान्यसमर्थनायेदं प्रसङ्गादुक्तम् ॥१८॥ अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥ इतश्चानन्दमयः परो न संसारी न प्रधानं अस्मिन्नानन्दमये प्रकृते अस्य जीवस्य प्रतिबुद्धस्य तद्योगं तेन योग मुक्ति शास्ति शास्त्रम् । यदा होवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने (१) आनन्दमयं रसशब्द नीकला - पा. १ पु० । Seari २७ १ अध्याये १ पादे १६-१९ सूत्राणि । ऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवतीति तदेतस्मिन् मुक्तिशासनं परमात्मपरिग्रहे ऽवकल्पते नान्यथेति स्थितम् । अत्र केचिदिमं सिद्धान्तं दूषयित्वा पुच्छब्रह्मप्रतिपादनाय यतन्ते । नान- न्दमयस्य ब्रह्मत्वं विकारार्थमयप्रवाहपतितत्वात् । अयमपि विका- रार्थ एव युक्तः प्रियशिरस्त्वाद्यवयवयोगाश्च ब्रह्मपुच्छं प्रतिष्ठति च एकस्यावयवावयवित्वासामञ्जस्यातू ब्रह्मपुच्छमित्यत्र च ब्रह्मशब्द- प्रयोगात् । असन्नेव स भवति असब्रह्मेति वेद चेदिति चातुकर्षात् । किं चानन्दमये ब्रह्मण्यभ्युपगम्यमाने सविशेषं ब्रह्माभ्युपगतं स्यात् निर्विशेषं त्विह वाक्यशेषे श्रूयते । यतो वाचो निवर्तन्त इति । किं चानन्दप्रचुर इत्युक्त दुःखाल्पत्वमपि गम्यते । प्रा- चुर्यस्य प्रतियोग्यल्पतापेक्षित्वात् । प्रातिपदिकमात्राभ्यासाच्च ना- नन्दमयाभ्यासः शक्यते वर्णयितुं ततो ब्रह्मपुच्छं प्रतिष्ठेति ब्रह्म प्रतिपत्तव्यम् । आनन्दमयस्तु संसारी कश्चिदितिः । सूत्राणि त्वेवं योजयितव्यानि ! आनन्दमय इत्येतस्मिन् वाक्ये ब्रह्मपुच्छं प्रतिष्ठेति प्रकृतं ब्रह्म प्रतिपत्तव्यं कस्मानिर्विकारस्यानन्दप्रातिपदिकस्याभ्यासा- तू।विकारशब्दान्नति चेद्विकारशब्दोऽवयवशब्दः पुच्छशब्द इत्यर्थः । तत्रोत्तरम्।न।प्रायापत्तिः(१)सर्वत्र पुच्छशब्दप्रयोगानुवृत्त्यात्रापि पु- च्छशब्दः प्रयुक्तो न च तत्परत्वेन पुच्छं परायणं सर्वस्यानन्दजात- स्योति पुच्छशब्दः प्रयुज्यते न पुच्छत्वविवक्षया । पराण्यपि सूत्राणि यथासम्भवं योजनीयानीति । अत्र वदामः । स्वमत्युत्प्रेक्षितहेत्वाभास- विजृम्भितेयं गमनिका न श्रुत्यनुगता सूत्रानुगतावा।कथमिह तावद- न्यस्यार्थान्तरतमस्यासङ्कीर्तनात् प्रकरणपर्यवसानमानन्दमये लक्ष्यते। आन्तरश्रुतिश्च तस्मात् सर्व बोधयति । यद्यप्यन्नमये विकारार्थो मय- ट्प्रत्ययः प्राणमयादिषु तु न विकारार्थः सम्भवति । पञ्चवृत्तेः प्राण- स्यैकत्वान्न प्रकृतिविकारभावः सम्भवति। तत्रायमर्थो निश्चितः खार्थे मयट्प्रत्ययो वृत्तिबाहुल्यविवक्षया वा । ततः परेषु विकारविवक्षा नास्तीत्यानन्दमये द्विधा मयट्प्रत्ययो घटते यदि चानन्द एवानन्द- मयः प्रभूतानन्दो वा भवति चैकस्यापि शब्दस्य सामर्थ्याद्भिन्ना- र्थता विवक्षया यथा पौर्णमास्यां पौर्णमास्या यजेतेति सप्तम्यन्तः कालवाची तृतीयान्तः कालयुक्तकर्मवचनो बहुधापि विवक्षा लो- कवेदयोः शब्दप्रयोगेषु । यदप्युक्तं प्रियशिरस्त्वाद्यवयवसङ्कीर्त- (१) न प्राचुर्यात् प्राचुर्य प्रायोतिः - पा० ३ पु. ।
। । भास्करीयब्रह्मसूत्रभाष्ये नादिति । तदविरुद्धमन्यार्थत्वात् । लोके ऽपि सर्वभूतानां यत् प्रीति- सामान्यं मोदादयश्च प्रीतिविशेषास्तत् सर्वस्यैवानन्दस्यांश इतिप्र- दर्शनार्थत्वात् । तथा च श्रुत्यन्तरम् । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति । एवमर्थ च मयटः प्रयोगोऽक्षयानन्दः पर- मेश्वर इति शतगुणोत्तरक्रमेण प्रतिपादनात् । अत एवैतत् परिहतं बाहुल्यस्यान्यत्राल्पस्यापेक्षत्वादिति न हि खात्मन्येव प्राचुर्यम- ल्पत्वमपेक्षते। यथा प्रचुरप्रकाशः सवितेतीन्दुवह्निप्रभृतीनपेक्ष्य प्रयु- ज्यते। मोदादीनां च जीवगतानामुच्चावचप्रभेदात् तन्निवृत्त्यथै कारण- गतमानन्दगुणं मयट्प्रत्ययेन विनैव उपसंहरत्यानन्द आत्मेति ब्र- झापुच्छं प्रतिष्ठति च प्रस्तुतस्यानन्दजातस्याश्रयभूतं निर्दिशति । न हि गुणो गुणिनमन्तरेणात्मानं लभते शीतोष्णादिवत् । एतदुक्तं भ- वति । पूर्ववत् पुरुषविकल्पनया निरतिशयानन्दगुणं ब्रह्मेत्यन्यथा सु- खरहितं ब्रह्म वैशेषिकादिमतवत् प्राप्नोति । श्रुत्यन्तरं च । विज्ञानमा- नन्दं ब्रह्मेति । सति चैवमनन्तरश्लोके असन्नेव स भवतीति गुणिमा- अनिर्देशे ऽपि गुणप्रतिपत्तिः सगुणस्य ब्रह्मणः प्रस्तुतत्वं स्यात् । यथा वा एषा सर्वदेवत्या पदजा वसा वायव्यामालभेतेति वसागुणा- यामजायां प्रकृतायां केवलेन गुणवचनेन सगुणा गृह्यते छागायै वपायै मेदसोऽनुQहीत्येतस्मिन् मन्त्रे । यदप्युक्तं निर्विशिष्टं ब्रह्मात्र विवक्षितमिति। तदप्ययुक्तम् । आनन्दगुणस्य ब्रह्मणो विवक्षितत्वात् । अत एवोत्तरत्र केवलेन गुणवचनेन गुणी निर्दिश्यते । सैषानन्दस्य मीमांसा आनन्दाद्ध्येव खल्विमानि भूतानि जायन्त इति । यतो वाचो निवर्तन्त इति च रागादिदोषदूषितयोर्वाङ्मनसोरगोचरं ब्रह्मेत्यर्थः शुद्धयोस्तु पुनर्गोचर एव । तथा च श्रुत्यन्तरम् । दृश्यते त्वप्रया बुद्ध्या ज्ञानप्रसादेन विशुद्धसत्त्व इति च । तस्मानिरवद्यमा- नन्दमयेनैवोपसंहारः क्रियते । पुरस्तादानन्दप्राचुर्य प्रतिपाद्य एत- मानन्दमयमात्मानमुपसंक्रामतीति स च तस्य ब्रह्मत्वे ऽवकल्पते । भार्गव्यां च वारुण्यां विद्यायां विदुषो मुक्तिफलमुपसंहर्तुमानन्द- भयान्ता श्रुतिः प्रवृत्ता एतमानन्दमयमात्मानमुपसंक्रम्य इमाल्लोकानू कामात्मा कामरूप्यनुसञ्चरन्निति । उपसंक्रमणं च विद्यासामर्थ्या- दर्चिरादिमार्गेण संसारमण्डलमतीत्य हिरण्यगर्भपर्यन्तं सम्प्राप्तिः परमात्मनैकता। तत्र यद्यानन्दमयस्य ब्रह्मत्वं न स्यानिर्विषयत्वादु- पसंक्रमश्रुतिरुपरुध्येत द्वितीयाविभक्तिश्चानुपपद्येत । अन्यस्य चा- । - THTHAT १ अध्याये १ पादे २० सूत्रम् । २९ । श्रुतस्य कल्पनायां स्वमनीषिकैव स्यात् । श्रुतहान्यश्रुतकल्पनाप्रस- ङ्गात् । ततश्चोपसंक्रमणफलश्रुतिर्बाध्येत सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता सहेति सर्वैः कामैः सहाश्नुते ब्रह्म प्राप्नोतीत्यर्थः । विभक्तिव्यत्ययोऽत्र द्रष्टव्योऽन्यथा हि ब्रह्मणोप्राधान्यं स्यात् सहयुक्त चाप्रधान इतिस्मरणात् । यथा सह शाखया प्रस्तर प्रहरतीति प्रस्तरेण सह शाखां प्रहरयतीत्यर्थः । तस्मात् सम्प्रदायपरम्परया च तद्याख्यानं शोभनमिति स्थितम् ॥ १९॥ अन्तस्तद्धर्मोपदेशात् ॥ २० ॥ अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्य- श्मश्रुर्हिरण्यकेश आप्रणखात सर्व एव सुवर्णस्तस्य यथा कप्यासं पु- ण्डरीकमेवमक्षिणी तस्योदिति नाम स एव सर्वेभ्यः पापमय उदित उदिते ह वै सर्वेश्यः पाप्मभ्यो य एवं वेदेत्यधिदैवतमथा- ध्यात्म य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति छान्दोग्ये श्रूयते । तत्र संशयः । किमादित्ये चक्षुषि चोपास्यत्वेन कश्चित् संसारी निर्दि- श्यते किं वा ईश्वर इति । किं तावद्युक्तं प्राप्तोत्कर्षः कश्चित् संसारीति कुतो रूपश्रवणादरूपा च परा देवता अशब्दमस्पर्शमरूपमव्यय- मितिश्रुतेराधारश्रवणाद्वा सर्वगता च परा देवता। ऐश्वर्यमर्यादावच- नाच । ये चामुष्मात् पराञ्चो लोका ये चैतस्मादर्वाञ्च इति । तस्मादा- दित्यादिक्षेत्रज्ञ इति प्राप्ते ब्रूमः । अन्तर्मण्डलाभ्यन्तरे चाक्षिणि च उपदिश्यमानः पर एवात्मा भवितुमर्हति तद्धर्मोपदेशात् सर्वपाप्मो- दयो नाम तस्य धर्मः । तन्निर्वचनार्थमेवैनमुन्नामानं करोति । तस्यो- दिति नामेत्यक्षिपुरुषस्यापि तदेव नामातिदिश्यते यन्नाम तन्नामे- ति । न च संसारी कश्चित् सर्वपापविनिर्मुक्तोऽस्ति अन्यथा संसारि- स्वानुपपत्तेन चैषा श्रुतिरन्यथा परिणेतुं शक्या हेत्वभावात् । ननु रूपादिश्रवणं हेतुर्न परमेश्वरस्यापि सर्वशक्तित्वादुपासकानुन- हाय रूपोपादानसम्भवात् । किं मायामयं रूपं नेति ब्रूमः पारमा- र्थिकमेवैतत् । यथाभूतार्थज्ञापकं हि शास्त्रं यत्र कारणमात्रस्वरूपं विवक्षते तत्र तत्परास्ताः श्रुतयोऽस्थूलमनण्वह्रस्वमदीर्घमरूपम- व्ययमित्येवमाद्याः स्थानव्यपदेशश्चोपासनार्थ एव मर्यादावचनं चा- धिदैवाध्यात्मविभागापेक्षया सर्वेशितृत्वमेवानेन प्रकारेणोक्तं भव- ति । न हि निरङ्कुशमैश्वर्यमीश्वरादन्यत्रावकल्पते । सैव ऋक् ३० भास्करीयब्रह्मसूत्रभाध्ये तत् साम तदुक्थं तद्यजुस्तब्रोति सर्वात्मत्वमन्यत्र नावकल्पते । (तद्यदि वीणायां गायन्त्येतम् ते गायन्ति लौकिकस्यापि गानस्यैत- द्विषयत्वं दर्शयति तदन्यत्र नावकल्पते ।) (१)॥२०॥ भेदव्यपदेशाच्चान्यः ॥ २१ ॥ इतश्चादित्यादिक्षेत्रज्ञादन्यः । कथं भेदव्यपदेशात् । य आदित्ये तिष्ठन्निति ॥ २१॥ आकाशस्तल्लिङ्गात् ॥ २२ ॥ छान्दोग्ये श्रूयते । अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्र- त्यस्तं यन्त्याकाशो होवैश्यो ज्यायानाकाशः परायणमिति । तत्र सं- शयः । किमाकाशराब्देन भूताकाशमुच्यते किं वा परं ब्रह्मेति । कुतः संशयः प्रयोगदर्शनादुभयत्र भूनाकाशे तावत् प्रसिद्धः प्रयोगः पर- मात्मन्यप्याकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तब्रह्मोति अतो युक्तः संशयः । किं तावत् प्राप्तं लोकप्रसिद्ध ताकाशो गृह्यते । ननु सर्वभूतोत्पत्तिप्रलयवचनं भूताकाशे नोपपद्यते पवनाद्यपेक्षयोत्प- त्तिप्रत्यस्तमयश्रुतिराकाशे ऽवकल्पिष्यति । अत्र कश्चिदाह । ननु पू- पक्षे कर्मशास्त्रमिदं प्राप्नोति न विद्याशास्त्रमिति । अत्रोच्यते । के- नैतत् परिभाषितं वेदान्तशास्त्रे कर्म न विधातव्यमिति । भवतु क- मशास्त्रं को विरोधः सिद्धान्ताभिप्रायेण तु ब्रह्मशास्त्रमिति गीयते । न हि पूर्वपक्षो वेदान्तवाक्यार्थो भ्रान्तिप्रभवत्वात् । एवं प्राप्ते ऽभि- धीयते । आकाशः परमेश्वर: स्यात् कुतः तल्लिङ्गात् तल्लिङ्गमव्यभि- चारी धर्मः । तेन धर्मिविशेषः परिच्छिद्यते धूमेनेवाग्निः किं पुनस्त- ल्लिङ्गम् । सर्वभूतोत्पत्तिः प्रत्यस्तमयश्च । न हि सर्वेषां भूतानां भूता- काशादुत्पत्तिः प्रलयो वा श्रूयते किं तर्हि परमेश्वरादेव भूतशब्दश्च जीवाधिष्ठितभूतवचनो महाभूतवचनश्चो(२)मयथोपपद्यते तत्राका- शस्याप्युत्पत्तिप्रलयौ परायत्ताविति सर्वभूतश्रुतिस्तत्र नावकल्पते । तस्मादाकाश: परमात्मा प्रयोगश्च दर्शितः। क्रियायोगेन वा आकाशो- (१)() एतन्मध्यस्थी नास्ति ३ पु० । (२) भूतशब्दश्च जीवन्त दष्ठितभूतवचन - पा.३ पु० । । ।
HASHMAHITENAMARSHAN वै १ अध्याये १ पादे २१-२४ सूत्राणि । अभिविधौ सर्वमभिव्याप्य प्रकाशत इत्याकाशः तत्साहश्याद्वोत ॥२२॥ अत एव प्राणः ॥२३॥ या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते । कतमा सा देव- तेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवा- भिसंविशन्ति प्राणमयुजिहते सैषा देवता प्रस्तावमन्वायत्तेति । तत्र संशयः । किं पञ्चवृत्तेःप्राणस्य परिग्रहः किं वा परस्योपादानमिति । लोकप्रसिद्धः पञ्चवृत्तेः परिग्रह इति प्राप्ते ब्रूमः । अत एव पूर्वनिर्दि- शाल्लिङ्गात् प्राणः परमात्मा संवेशनोद्गमनं पारमेश्वरं लिङ्गमभ्यु- जिहत इत्युगमनमुत्पत्तिरित्यर्थः। ननु पूर्वेणैव न्यायेन सिद्धत्वात् पृ. थगारम्भो न युक्तो यदि वा तुल्या शङ्का स्यात् ततोऽयुक्तमारधुम् । अत्रोच्यते । पूर्वत्रोत्पत्तिप्रलयौ न श्रुतिप्रसिद्धौ भूताकाशे अत्र पुनः प्रसिद्धौ कथं यदा पुरुषः स्खपिति प्राणं तर्हि वागप्ये- ति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः मनः स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इति प्रत्यक्ष चैतत् प्राणवृत्ती व र्तमानायामिन्द्रियवृत्तयः परिलुप्यन्ते भूतानां चेन्द्रियसारत्वात उद्गमनसंवेशनवादी वाक्यशेषस्तेषामेवोद्गमनसंवेशनपर इति न विरुध्यते । किं चोद्गीथप्रतीहारयोरत्रादित्यौ देवते तयोश्चाब्रह्मत्वात् तत्साहचर्यात प्राणोपि तथाभूतो गृह्यत इति विशेषाशङ्का । परिहा- रस्तु न भूतानां संवेशनोद्गमनं श्रूयते करणवृत्तिमात्रोपसंहारः श्रृ- यते । तत्र च भूतोगमनसंवेशनवादिनी श्रुतिरपराधिता स्यात् । अपि च स्वापकालापेक्षया संवेशनं व्याख्येयमिह वा विशेषेण श्रूयते तत् परमात्मपक्षे युज्यते । अत एव श्रुत्या निर्णीयते साहचर्यमकि- ञ्चित्करं यथैवात्रादित्ययोः परस्परवैलक्षण्यमेवं ताभ्यां प्राणस्य प्राणं प्राणबन्धन सौम्य मन इति परस्मिन्नपि प्राणशब्दप्रयोगात् । प्रकर्षेण अणिति स्थिति लभते तस्मिन् कृत्स्नं जगदिति प्राणः ॥ २३ ॥ ज्योतिश्चरणाभिधानात् ॥ २४ ॥ अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेघूत्तमेषु लोकेश्चिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरिति । तत्रायमर्थः सांशयिकः किं ज्योतिःशब्देनादित्यादि- ज्योतिरभिधीयते किं वा परमात्मेति । प्राणाकाशयोरसाधारणधर्म- । । । Hirine भास्करीयब्रह्मसूत्रभाष्ये श्रुतेनिर्णयः कृतः तथा सर्वपाप्मोदयश्श्रुत्या मण्डले प्रकरणादान्त- रश्रुत्या चानन्दमयोऽत्र तु निर्णायकवाक्यशेषाश्रवणात् प्रकरणानु- वृत्तेश्चासिद्धत्वात् । तद्वयुत्पादनार्थमारभ्यते । किं तावत् प्राप्त ज्यो- तिःशब्देन तमसो निवर्तकं प्रसिद्धः परिगृह्यते दीप्यत इति च तस्यै- वोपपद्यते । परमात्मनि तु न ज्योतिःशब्दप्रसिद्धिः। न च दीप्तिक्रियां कुर्वन्नास्ते विश्वतः पृष्ठेष्विति चाधारबहुत्वं तस्मिन्नोपपद्यते धुम. दत्वं च सर्वगतत्वात् । ननु कार्यज्योतिषोऽपि द्युमर्यादत्वम- सिद्धमर्वागपि दिवो दर्शनातू । अस्तु तर्हि प्रथमजमत्रिवृत्- कृतं तेजः । न । तस्य प्रयोजनाभावात् । ननु चेदमेवोपासनं भवत्प्र- योजनं भवतु । न । त्रिवृत्करणस्य सर्वप्रयोजनार्थत्वात् न चात्रिवृत्कृ- तस्य प्रसिद्धमस्तित्वं धुमर्यादत्वं चासिद्धमेवं तर्हि कार्यज्योतिरेवास्तु तस्योपासनार्थ द्युमर्यादत्वं न तु निष्प्रदेशस्य ब्रह्मणः चक्षुष्यः श्रुतो भवतीत्यल्पफलश्रवणाञ्चेत्येवं प्राप्ते ऽभिधीयते । ज्योतिः परं ब्रह्म कुतः पूर्वत्र चरणाभिधानात् । त्रिपादस्यामृतं दिवीति । इदमुक्तं भ- वति । प्रकृतं ब्रह्मास्मिन् वाक्ये प्रत्यभिज्ञायते प्रसिद्धानुवादातू । कथं यच्छब्देन व्यपदेशातू यदतः परो दिवो ज्योतिः प्रसिद्धमिदं वाव तदिति विशेषविधानात् कौक्षेये ऽनले परं ज्योतिरध्यस्योपासनी- यमिति तात्पर्यार्थः । ज्योतिःशब्दो ब्रह्मण्यपि प्रयुक्तस्तहेवा ज्यो- तिषां ज्योतिरायु)पासते मृतमिति । दीप्यत इति चोपपद्यते नि- त्यप्रकाशरूपत्वात् । वर्तमानप्रत्ययश्चैवमुपपद्यते । अधिकरणनिर्दे- शश्नोपासनार्थों द्युमर्यादत्वं च संसारविषयात काललोकात्मकादा- दित्यमण्डलात परमवस्थितं कारणरूपं ब्रह्म त्रिभिर्जाग्रत्स्वप्नसुषुप्त्या- ख्यैः पादैरुपलक्षितं तैरसंस्पृष्ट कारणरूपं ब्रह्मेति विवक्षित्वोच्यते न पुनरव्यापित्वविवक्षयेत्यदोषः। यत् पुनश्चक्षुष्यः श्रुतो भवतीत्य- ल्पफलत्वमुक्तं तदप्युपपन्न न हीयते फलाय ब्रह्मोपासननिय- मोऽस्ति यत्र यथोपासनं तत्र तथा फलम् । तथा चानिरहस्ये वा- जिनां श्रुतिः । तं यथायथोपासते तदेव भवतीति ॥ २४ ॥ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथाहि दर्शनम् ॥ २५॥ गायत्री वा इदं सर्व भूतं यदिदं किञ्चेति गायत्र्याख्यस्य छन्द- १ अध्याये १ पादे २५-२७ सूत्राणि । सोभिधानान पूर्वप्रकरणे ब्रह्म निर्दिष्टमस्त्विति चेत् ।न । तत्र छन्दो- मिधानं तथा च्छन्दोवचनेन गायत्रीशब्देन संख्यासामान्येन चतुर्भिः पादैः पाद्वब्रह्माभिधीयते तस्मिश्चित्तसमाधानोपदेशविवक्षया एवम- न्यत्रापि संख्यासामान्याच्छन्दोऽभिधायी छन्दोर्थान्तरेषु प्रयुज्यमा- नो दृश्यते तद्यथा ते वा एते पञ्च ये पञ्चदश सप्त इत्युपक्रम्याह सैषा विराडनादीति संसर्गविद्यायाम् । एवं छन्दसि न ब्रह्मोपासनम् । अत्र यत् कैश्चितू कल्प्यते गायत्रीच्छन्दसि ब्रह्मोपासनमिति तन्निरस्तं भव- तिन चात्र प्रसिद्धा गायत्री प्रत्यभिज्ञायते सैषा चतुष्पदा षड्विधेति षडक्षरैः पादैश्चतुष्पदा गायत्री निर्दिश्यते । प्रसिद्धातु त्रिपदाष्टाक्षरैः पादैर्वाजसनेयिनां तु यामेवार्थमन्वाहैषैव सेत्युपनयकाले अधिगता प्रत्यभिज्ञायते पादकल्पना । तत्रान्यथा उपास्याभेदे ऽपि प्रकारभेदादेव सर्वत्र विद्याभेदः शाण्डिल्यविद्यादौ तस्मादिह विद्याभेदाः। एतावा- नस्येति पुरुषसूक्ते मन्त्रः तञ्च सूक्तं श्वेताश्वतराणां परविद्याधिकारे पठितं ततश्च न मन्त्रेण छन्दोनिर्दिष्टमितीयं श्रुतिर्नोपपद्यते छन्दोमा- त्राभिधाने तदेतदन्तराभ्यनूक्तमिति । तस्मादयमस्य गायत्री ब्राह्म- णस्य तात्पर्यार्थो विकारपाद्यैर्विशिष्टं ब्रह्म हृदयकमले द्वारपालो- पासनपर्यन्तमुपास्यममृतत्वफलायेति । अथ यत्र इति च प्रती- कोपासनमन्यदेव फलान्तरायेति ॥२५॥ भूतादिपाव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥ इतश्चैवं पूर्ववाक्ये प्रकृतं ब्रह्मेति भूतादिपादव्यपदेशोपपत्तेः। भू- तपृथिवीशरीरहृदयानि निर्दिश्याह सैषा चतुष्पदा षड्विधा गायत्री। वाक्प्राणाभ्यां च षड्विधत्वं षडक्षरपरैः पादैरस्ति चतुष्पदा गा- यत्रीति । स्मरन्ति च । इन्द्रः शचीपतिर्बालेन ब्रीडितो वुधवनो: वृषा समरसुतासहेषद्भिरिति शौनकादयः ॥ २६ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्याविरोधात् ॥२७॥ पूर्वत्र त्रिपादस्यामृतं दिवीति द्यौरधिकरणत्वेनोपदिष्टा। अत्र पुनः पञ्चम्या अतोऽप्रत्यभिज्ञानमिति चेत् । नायं दोषः। उभयमप्यविरो- धात् सप्तम्यन्ते पञ्चम्यन्ते चैकत्वं न विरुध्यते । यथा वृक्षाने श्येनो वृक्षानात् परतः श्येन इति । तस्मात् परमेव ज्योतिःशब्दवाच्यं न कार्यज्योतिरिति सिद्धम् ॥ २७ ॥ ५ LARISHAMAKAREINYASASAMAY भास्करीयब्रह्मसूत्रभाष्ये प्राणस्तथानुगमात् ॥ २८ ॥ अस्ति कौषीतकीनां प्रतर्दनविद्या । प्रतर्दनो ह वै देवो- दासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण चेत्यारभ्या- म्नाता । तत्र श्रूयते । स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृत- मित्युपाखति । तथोत्तरत्र अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परि- गृह्योत्थापयतीति तथा न वाचं विजिज्ञासीत वक्तारं विद्यादिति । समाप्तौ च स एष प्राण एव प्रशात्मानन्दोजरोऽमृत इति । किमत्र प्राणशब्देन वायुमात्रमभिधीयते किं देवतात्मा उत जीवोऽथवा परं ब्रोति नानालिङ्गदर्शनातू संशयः । किं तावद् युक्तम् । देवतात्मेन्द्रः प्राणशब्दो भवेत् । प्राणो हि बलं तस्य तेजो देवता या च काचन क- तिरिन्द्रकर्मैव तदित्यभियुक्तवचनात् । मुख्यप्राणो वा स्यात् प्रसिद्धोरिति प्राप्ते ऽभिधीयते । प्राणः परमात्मा तथा ब्रह्मप्रतिपा- दनपरत्वेन वाक्यानां समन्वयादुपक्रमे तावद्वरं वृणीष्वेतीन्द्रेणोक्तः प्रतर्दनः प्रोवाच । त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं म- न्यस इति । हिततमं च ब्रह्मप्राप्तेरन्यन्नोपपद्यते तं मामायुरमृतमुपा- खेति च ब्रह्मपरिग्रहे ऽवकल्पते । स एष प्राण एव प्रज्ञात्मानन्दोज- रोऽमृत इति चोपसंहारोऽवकल्पते ॥२८॥ न वक्तुरात्मोपदेशादिति चेद्ध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥ पूर्वपक्षाभिप्रायः प्रीते।न वक्तुरिन्द्र स्यात्मोपदेशाद् विग्रहवान् देवताविशेषः खमात्मानं प्रतर्दनायोवाच । मामेव विजानीहि प्रा- णोऽस्मि प्रज्ञात्मेति । निश्चिते च देवतात्मोपदेश उपक्रमवशेनान- न्दोऽजरोऽमृत इत्युपसंहारो नेतव्यः कस्मादुपक्रमे यद्विज्ञातं त- दनुपजातविरोधित्वात् तथैव ग्रहीतव्यं तद्विरोधित्वादुपसंहारवि- ज्ञानं तदशेनावतिष्ठते अन्यथा होकवाक्यता न स्यादिति प्राप्ते समाधानमुच्यते । अध्यात्मसम्बन्धभूमा ह्यस्मिन्निति । आत्मन्यध्यु- परि वर्तमानः सम्बन्धोऽध्यात्मसम्बन्धः प्रत्यगात्मविषयसम्बन्धभूय- स्वादित्यर्थः । अस्मिन्नध्याये यावद्ध्यस्मिन् शरीरे प्राणो वसति ता- बदायुरिति प्राणस्यैव प्रज्ञात्मनः खातन्त्र्यं दर्शयति । तथा प्राण RTISTITTWITTS १ अध्याये १ पादे २८-३१ सूत्राणि । एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतीति न वाचं विजिज्ञासीत वक्तारं विद्यादिति चोपक्रम्य तद्यथा रथस्यारेषु नेमिरर्पिता नाभा- घरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्राखर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृत इति सर्वा- श्रयं नाभिभूतं परमात्मानमेवोपसंहरति । स म आत्मेति विद्यादिति चोपसंहरति अयमात्मा ब्रह्म सर्वानुभूतिरिति च श्रुत्यन्तरम् । तस्मा- दात्मविषयवाक्यभूयस्त्वान्न देवतात्मोपदेशः शक्यो विज्ञातुम् ॥२९॥ कथं तर्हि वक्तुरात्मोपदेशस्तदुच्यते । शास्त्रदृष्टया तूपदेशो वामदेववत् ॥ ३० ॥ इन्द्रो देवताविशेषः स्वमात्मानं परमात्मत्वेनाहमेव परं ब्रह्मे- त्यारेण दर्शनेन पश्यन्नुपदिशतिस्म । मामेव विजानीहीति । यथा त?. तत् पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चेति । तस्मा- द्वत्तुरात्मोपदेशः परमात्मपरिग्रहे न विरुध्यते ॥ ३० ॥ पुनः प्रत्यवतिष्ठते । यद्यपि देवतात्मोपदेशो न भवति तथापि न ब्रह्मोपदेशपरत्वमस्मिन्नध्याये प्रतिपत्तुं शक्यत इति तदेत- चोद्यमुपन्यस्य निराकर्तुमाह । जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यात् ॥३१॥ न ब्रह्मप्रतिपत्तिरेकान्तेनाश्रयितुं शक्या कुतो जीवलिङ्गान्मु. ख्यप्राणलिङ्गाच्च । जीवलिङ्गं तावन्न वाचं विजिज्ञासीत वक्तारं विद्या- दिति । मुख्यप्राणलिङ्गम् । अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परि- गृह्योत्थापयतीति । तस्मान्न ब्रह्मवाक्यमिति चन्नैतदेवं उपासात्रैवि- ध्यादेवं सति त्रिविधमुपासनं प्रसज्येत जीवोपासनं मुख्यप्राणो- पासनं ब्रह्मोपासनं चेति । अत्र चोपक्रमोपसंहारयोरेकार्थपरत्वादेक. मिदं वाक्यं निश्चितम् । कथं पुनरुपक्रमोपसंहारयोरेकार्थपरत्वं हि. ततमोपदेशादुपक्रमे तं मामायुरमृतमुपास्वेत्यमृतशब्दात् स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृत इत्युपक्रमोपसंहारौ दृश्येते। तन्मध्यप- तितानां वाक्यानां तत्परत्वेनान्वयो युक्तो नार्थान्तरत्वं वाक्यभे- ददोषप्रसङ्गात् । जीवप्राणलिङ्गयोश्च परमात्मपरत्वेन परिणेतुं श- क्यत्वात् प्राणस्तावत् परमात्मा यतस्तथा च श्रुतिः ।
भास्करीयब्रह्मसूत्रभाष्ये न प्राणेन नापानेन मर्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ इति । जीवलिङ्गमपि परिणेतुं शक्यं न वाचं विजिज्ञासीत वक्तारं विद्यादिति । वचनक्रियाहेतुभूतं परमात्मानमात्मत्वेन विद्यादित्यर्थः । तथा च श्रुतिः । यद्वाचानयुदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति । येन वागिन्द्रियं प्रवर्त्यते सर्वा- म्तरं तदेव ब्रह्म त्वं विद्धि नेदं दृश्यजातं शरीरेन्द्रियविषयसंझं य- दिदमुपासते प्राणिनः सेवन्त इत्यर्थः। एवं च सर्वकार्यकारणप्रत्या- ख्यानेनान्तर्यामिनं सामान्यभूतं वेदितव्यमुक्त्वोपसंहरति न वाचं विजिज्ञासीत वक्तारं विद्यात् । तद्यथा रथस्यारेषु नेमिरर्पिता नाभा- वरा अर्पिता एवमेवैता भूतमात्रा इत्युक्त्वा स एष प्राण एव प्रज्ञात्मा- नन्दोऽजरोऽमृतः स न साधुना कर्मणा भूयान्नो एवासाधुना कनी- यानेष ह्येव साधु कर्मकारयति तं यमेश्यो लोकेश्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमेश्यो लोकेभ्योऽधो निनीषत एष लोकपाल एष लोकाधिपतिः स म आत्मेति विद्यादिति । अन्यत्रापि ब्रह्मणि प्राणशब्दप्रवृत्तेराश्रितत्वात् । प्राणबन्धनं हि सौम्य मन इति। इह तु धनुपपत्तेः । अपरे तु त्रिविधमुपासनमिह विवक्षितमिति सू- त्रार्थ वर्णयन्ति । प्राणोपासनं जीवोपासनं ब्रह्मोपासनमिति । एत- दुक्तं भवति प्राणधर्मेण जीवधर्मेण स्वधर्मेण तुल्योपास्यमिति ॥३१॥ इति शारीरकमीमांसाभाष्ये भास्करभगवत्प्रणीते प्रथमा- ध्यायस्य प्रथमः पाद: समाप्तः॥
ॐ नमः परमात्मने। भास्करीयब्रह्मसूत्रभाष्ये प्रथमाध्याये द्वितीयः पादः । । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामेवान्योन्यबलाबलावधा- रणसंदिह्यमानवचनव्यक्तिषु वाक्येषु निर्णयार्थ द्वितीयतृतीयौ पादा- वारभ्यते। सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीत अथ खलु क्रतु- मयः पुरुषो यथा ऋतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राण शरीर इत्यादि समास्नायते । तत्र संशयः। किमत्र मनोमयत्वादिधर्मः शारीर उपास्यत्वेनोपदि- श्यते किं वा ब्रह्मेति । किं तावत् प्राप्तं शारीर इति । कुतस्तस्य हि म- नोमयत्वादिलिङ्गाव्यभिचारान्न परस्य अप्राणो ह्यमनाः शुभ्र इति म- नःप्राणसम्बन्धाभावश्रुतेः । ननु च लिङ्गात् तच्छ्तिर्बलीयसी श्रूयते च ब्रह्मशब्दः। सत्यमेवम् । इह तु ब्रह्मश्रुतिरन्यार्था समविधिपरं हीदं वाक्यं कथं यस्मात् सर्वमिदं विकारजातं ब्रह्मव तजत्वात तल्लत्वात तदनत्वाच्च । सर्वस्य चैकत्वेन क्वचिद्रागादयः प्रवर्तेरन् । अतः शान्त उपासीतेति स क्रतुं कुर्वीतेति उपासनं विधीयते । अतो मनोमययत्वादिभिर्धमैर्विशिष्टस्य जीवस्य उपासनमत्र विधीय- ते । अणीयस्त्वशूतिश्चैवैष म आत्मान्तहृदये ऽणीयान् ब्रीहेर्वा य. वाद्वेति जीवस्याराग्रमात्रस्यावकल्पते नाप्रमेयस्य ब्रह्मणः ज्याय- स्त्वं तु ब्रह्मभावापेक्षयाऽवकल्पिध्यत इति प्राप्ते ब्रूमः परं ब्रह्मा- भोपास्यं कुतः सर्वत्र सर्वेषु वेदान्तेषु मूलकारणस्य प्रसिद्धस्या- त्रोपदेशात् सर्वं खल्विदं ब्रह्मेति । नन्वन्याथै ब्रह्मग्रहणमित्युक्तम् ।
भास्करीयब्रह्मसूत्रभाष्ये ते परस्मिन् ब्रह्म- सत्य तथापि सन्निहितत्वात(१) तदपेक्षया प्रकरणगतानामुत्तरेषां वाक्यानां प्रवृत्तेः शान्त उपासीतेत्युक्ते किमुपासीतेत्यपेक्षा जायते। तत्रायं विधिरवतरति स क्रतुं कुर्वीत ऋतुः सङ्कल्पः समाधिरित्य- र्थः । ब्रह्मोपासीतेतिप्रकृते न ब्रह्मपदेन निराकाङ्क्ष वाक्यं सम्पद्यते । अस्य च सामान्याविधेर्गुणविशेषविधानार्थमुत्तरं वाक्यजातम् । जीवस्य पुनरुपक्रमे अनुपादानान्नोत्तरत्रानुवृत्तिरिति न तस्योपास्यत्वम् । म- नोमयत्वं ब्रह्मण्युपपद्यते । मनसा विशुद्धेनोपलभ्यते ऽतो मनो- मय उच्यते । प्राणप्रेरितशरीरवृत्तित्वाञ्च प्राणशरीर उच्यते। अप्राणो ह्यमना इति केबलकारणविवक्षयेत्यविरोधः ॥१॥ विवक्षितगुणोपपत्तेश्च ॥२॥ वक्तुमिष्टा गुणा विवक्षिताः सत्यसङ्कल्पादयः ण्युपपद्यन्ते । कथं पुनरकृत्रिमे वेदे वक्तुमिच्छा सम्भवति । नायं दोषः। उपादेयत्वेनानुपादेयत्वेन च विवक्षितत्वमविवक्षितत्वं चो- च्यते । यदुपासनार्थमुपादीयते तद्विवक्षितमित्ययं सूत्रोपालम्भः ॥२॥ अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ तुशब्दोऽवधारणार्थो ब्रह्मैवोपास्यं न शारीरः कस्मात् तस्मि- न सत्यसङ्कल्पादीनामनुपपत्तेः ॥३॥ जीवविषयः पूर्वपक्ष इतिप्रदर्शनार्थ व्यतिरेककथनार्थ च सूत्रम् । कर्मकर्तृव्यपदेशाच्च ॥ ४॥ इतश्च न शारीरो मनोमयो यस्मात् तस्य कर्तृत्वेनोपासकत्वेन व्यपदेशः कर्मत्वेनोपास्यत्वेन प्राप्यत्वेन च ब्रह्म व्यपदिश्यते । एत- मितः प्रेत्याभिसम्भवितास्मीति । एतं प्रकृतं मनोमयत्वादिगुणमा- मानमितः शरीरपातादूर्ध्वमभिसम्भविता प्राप्तास्मीति यस्यैवं निश्चिता बुद्धिः स प्राप्नोत्युपासक इत्यर्थः ॥ ४॥ शब्दविशेषात् ॥ ५ ॥ समानप्रकरणे वाजिनां श्रुतिः यथा । ब्रीहिवा यवो वा श्या- (१) सहितलात-पा० २ पु० ।
१ अध्याये २ पादे १-८ सूत्राणि । ३९ माको वा श्यामाकतण्डुलो वा एवमयभन्तरात्मन् हिरण्मयः पुरुष इति । अन्तरात्मन्निति सप्तम्यन्तो जीववचनस्ततो यः प्रथमान्तःशब्द- विशेषः तयोश्च भेदादुपासको जीवो नोपास्य इति ॥ ५ ॥ स्मृतेश्च ॥ ६ ॥ ईश्वरः सर्वभूतानां हृदेशे वसते ऽर्जुन इति(१)। तदेवं चतु- भिः सूत्रैर्जीवपरयोर्भेदः प्रतिपादितो न्यायोपपन्नश्च प्रत्यक्षा- नुमानागमसिद्धत्वादभेदश्च सिद्धो नान्योऽतोऽत्रास्ति द्रष्टा तत्त्वम- सीति । तदेतद् भेदाभेददर्शनं सूत्रकाराभिमतमरोचयमानाः केचि- मायावादिनो वदन्तीश्वरस्यैव संसारित्वं तदंशभूतो जीवो नामा नास्त्यविद्याकल्पितोपाधिकृतभेदाद्यवहारः संसारीति । तदेतदयुक्तम् । नेश्वरस्य संसारित्वमविद्याऽयोगाद्विज्ञानमानन्दं ब्रह्मेति निरतिश- यानन्दस्वरूपत्वात खभावसिद्धविद्यारूपत्वाच । न तस्याविद्यायोगः सम्भवति स च सर्वज्ञः सर्वशक्तिः सन् कस्मादात्मानं संसारिणं कुर्यात् यो हि परतन्त्रः स बन्धनागारे प्रवेश्यते ऽपि । तस्मात् तदंश- भूतस्य जीवस्याविद्याकामकर्मयोगात्तु संसारित्वम् । यथा चैतत् त- थोरत्र निपुणं वक्ष्यामः ॥६॥ अर्भकौकस्त्वात् तद्यपदेशान्नेति चेत् न निचाय्य- त्वादेव(२) व्योमवञ्च ॥ ७ ॥ अर्भकमल्पमोको नीडमायतनं यस्यासावर्भकोकास्तस्य भाव- स्तत्त्वं ततः परिच्छिन्नायतनत्वादेष मे आत्मान्तर्हृदय इति खश- ब्देन च व्यपदेशादणीयानिति जीव एवोपास्योन सर्वगतः परमात्मोत चेत् । नैतदेवम् । अल्पपरिमाणहृदये निचाय्यत्वादेवं व्यपदिश्यत न सर्वगतनिवृत्त्यर्थम् । अणीयस्त्वं च सूक्ष्मत्वविवक्षया न परिमा- णाल्पतया ज्यायान् पृथिव्या इत्युत्तरश्रुतिविरोधात् । यथा च सूची- पाशापेक्षया काशाल्पत्वं व्यपदिश्यते तद्वत् ॥ ७॥ सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् ॥ ८ ॥ (१) हद्देशे ऽर्जुन तिष्ठतौति - पा० २ पु. । (२)चेत् नित्यनि चाय्यत्यादिवं-पा० १ पु.।
भास्करीयब्रह्मसूत्रभाध्ये सर्वहृदयसम्बन्धात सुखदुःखाधुपभोगप्राप्तिरिति चेन्न वैशेष्यात विशेषो हि जीवपरयोर्भवति । जीवस्य हि सुखदुःखभोगे कर्म निमित्तं नेश्वरस्य अपहतपापमादिगुणश्चासौ श्रूयते । न च देशप्राप्तिमात्रेण तदीयधर्मप्राप्तिन हि नभसोऽग्निदेशसम्बन्धादाहयोगः । तस्मा- जीवस्यैवोपभोगो न परस्येति सिद्धम् ॥ ८॥ अत्ता चराचरग्रहणात् ॥ ९ ॥ कठवल्लीषु पठ्यते । यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनो मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इति । ओदनग्रहणेन भोज्यं निर्दिश्यते तस्य च भोक्त्रा भवितव्यमिति अत्ता प्रतीयते स कि- मग्निर्जीवः परमात्मेति सन्दिह्यते त्रयाणामिह प्रकृतत्वात् । अग्निर- तेति तावत् प्राप्तम(१) । तस्य ब्रह्मक्षत्रादिदहने सामर्थ्यात् । विज्ञाना- त्मा वा स्यात् तस्य भोक्तृत्वप्रसिद्धः पिप्पलं खाद्वत्तीति । नप- रोऽनश्नन्निति प्रतिषेधादेवं प्राप्ते बमः । अत्ता पर एव स्थावर- जङ्गमग्रहणात् । ननु नास्तीह तादृशः शब्दः तथापि सामर्थ्यादव- गम्यते(२) । मृत्यूपसेचनग्रहणात् मृत्युविनाशस्तेन व्याप्तिरुपसेच- नमभिप्रेतं कृत्स्नं च तेन व्याप्त कार्यजातं तच्चोपसंहरन्नीश्वर एवाते- त्युपपद्यते । न च जीवस्यैतत् सामर्थ्यम्। न चाग्नेराकाशाद्युपसंहारे। न चात्राग्निः साक्षात् प्रकृतोऽस्ति इत्यग्नेः प्रकृतत्वात् । अनश्नन्निति च कर्मफलभोगप्रतिषेधः । उपसेचनश्रुत्या सर्वप्राप्तेब्रह्मक्षत्रग्रहया- मनुवादमात्रमन्यनिवृत्तौ वाक्यभेदात् ॥ ९ ॥ प्रकरणाच॥ १० ॥ परस्यैतत् प्रकरणम् । न जायते म्रियते वा विपश्चिदिति । प्रकृत- त्वाद् बुद्धौ विपरिवृत्तिः सन्निधिरधिकार इति चानर्थान्तरमतो लिङ्गप्रकरणाभ्यां पर पवेति स्थितम् ॥ १० ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥ कठवल्लीष्वेवं पठ्यते । ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्र- विष्टौ परमे पराये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च ( १ ) प्रतिपत्तव्यम् -पा० २ । ३ पु० ॥ (२) रयते -पा० २ पु० । गम्यते-पा०३ पु०। MMINTIS - । १ अध्याये २ पादे ९-१३ सूत्राणि । ४१ त्रिणाचिकेता इति । तत्र सन्देहः किं बुद्धिजीवी निर्दिष्टावुत जीव- परमात्मानाविति । किमत्र युक्तं बुद्धिजीवी गुहां प्रविष्टावितिविशे- षणात् । न सर्वगतस्य ब्रह्मणो गुहाप्रवेशकल्पनं युक्तं शरीरं हृदयं वा गुहा । सुकृतस्य लोक इति चान्तःकरणजीवयोरुपपद्यते । अ- म्तःकरणयुक्तो हि जीवः कर्मकृतो लोके फलममृतव्यपदेश्यं मुझे न पर इति प्राप्ते ब्रूमः । गुहां प्रविष्टावात्मानौ हीति । हि हेतौ य- स्मात् ती चेतनत्वातू समानखभावी संख्याश्रवणेन च समानजाती- यप्रतिपत्तिदृश्यते । अस्य गोर्द्वितीयोऽन्वेष्टव्य इति गौरव प्रतीयते नाश्वः । यदुक्तं गुहाप्रवेशकल्पनमयुक्तमिति । न । कल्पते तदर्शनातू । प्रवेशस्य श्रुत्यन्तरे दर्शनात् । यो वेद निहितं गुहायामात्मानम- न्विच्छ गुहां प्रविष्टं गुहाहितं गह्वरेष्ठं पुराणमिति । कथमत्र मान- मिति चेन्नायं विरोधः छत्रिन्यायेनोपपत्तेः । यदि वा जीवः पिबति तमितरः पाययतीत्युभयोः पानकर्तृत्वं प्रमाणान्तरसिद्धमनूद्यते । छायातपवदन्योन्यविलक्षणत्वान्न विरुध्यते छायातपाविति ॥ ११ ॥ विशेषणाच ॥ १२ ॥ गन्तृगन्तव्यभेदेन विशेषणात् । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदमिति । द्वा सुपर्णेत्यत्राप्ययमेव म्यायः । परप्रकरणे श्वेता- श्वतराणामप्ययं मन्त्रः पठ्यते । अनन्तरश्च मन्त्रस्तावेव दर्शयति । समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इति । तदेवं श्रुतिसू- त्रकारी जीवपरयोर्भेदं दर्शयतः। केचित्तु श्रुत्यर्थमाचार्योक्तिं च पृ- ठतः कृत्वा मायामानं स्वबुद्ध्या कल्पयित्वान्यदेव दर्शनं रचयन्ति । वन्न । तत्रायमपि। गतानुगतिको लोको न लोकः पारमार्थिकः । पश्य लोकस्य मूर्खत्वं नाशितं तानभाजनम् ॥ इति ॥ १२ ॥ अन्तर उपपत्तेः ॥ १३ ॥ य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एत. दमृतमभयमेतद् ब्रह्मेति छान्दोग्ये श्रूयते। तत्र सन्देहः किं छाया- माक्षिणाने निर्दिश्यते किं वा जीवोऽधिष्ठात्री देवतादित्योऽयबे- ६ ।
४२ भास्करीयब्रह्मसूत्रभाष्ये श्वर इति । किं तावन्न प्रतिभाति छायात्मा तस्य दृश्यत्वप्रसिद्धः। विज्ञानात्मनो वायं निर्देशः स हि रूपग्रहणार्थ चक्षुषि सन्नि- हितो भवति । देवता वा रश्मिभिरेषोऽस्मिन् प्रतिष्ठित इतिश्रुतेरा- त्मत्वामृतत्वादि च देवताजीवयोः कथञ्चिदुपपद्यते । अतो नेश्व- रग्रहणं स्थानविशेषनिर्देशादिति प्राप्ते ब्रूमः । पर एव चक्षुध्यन्तरः पुरुष इहोपदिष्टः कस्मादात्मत्वामृतत्वाद्युपपत्तेर्मुख्यया वृत्त्या श- ब्दार्थश्च प्रथम प्रतीयते स शब्दार्थो नेतरः पौरुषेयो हि सः संय- द्वामाग्रुपपत्तेश्च(१) एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वा- मान्यभिसंयन्ति । एष उ एव वामनीरेष हि सर्वाणि वामानि न- यति । कल्याणानीत्यर्थः । एष उ एव भामनीरेष हि सर्वेषु लोकेषु भातीति ॥ १३॥ स्थानादिव्यपदेशाच्च ॥ १४ ॥ कथं पुनः सर्वगतस्य स्थानव्यपदेश इत्युपासनार्थमिति ब्रूमः । यथा दहरं पुण्डरीकमादित्ये चक्षुषि तिष्ठन्निति च तत्रतत्र सन्नि- धानं दर्शयतीति । आदिग्रहणमुपासनार्थ नामरूपमप्यस्य निर्दिश्यते । तस्यादिति नाम हिरण्यश्मश्रुरित्यादि । चशब्दः सम्भावनायाम् ॥१४॥ सुखविशिष्टाभिधानादेव च ॥ १५ ॥ पूर्वत्र सुखविशिष्टस्य ब्रह्मणोऽभिधानात तदेव प्रकृतमत्र पराम- श्यते संयद्वामादिगुणविधानार्थ गतिविधानार्थ च ।प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति। तत्र सूत्रात्मा समस्तजगद्विधारयिता प्राण इति निर्दिश्यते। तद्विशिष्टं ब्रह्मोपास्यमित्यर्थः । कं ब्रह्मेत्यनेन सुखविशिष्टत्वमुच्यते । कंखंशब्दश्चान्योन्यव्यवच्छेदे नतु ब्रह्मसम्बन्धार्थ पुनरुक्तम् । यद्वाव के तदेव खं यदेव खं तदेव कमिति कंशब्देन सुखवाचिनाकाशे विशे- षिते भूताकाशो निवर्तते खंशब्देन चाकाशवाचिना सुखे विशेषिते सामान्यसुखनिवृत्तिः । तदेवं निरतिशयानन्दगुणं ब्रह्म प्राणविशिष्ट चोपास्यमिति समुदायार्थः । चशब्दो हेतुसमुच्चयार्थोऽवधारणार्थ एवकारः । यथा पुष्करपलाशे आपो न श्लिष्यन्ते एवमेवंविदि ( १ ) संयत्याया इत्युपपत्तेश्च - पा. २ पु० । एवमग्रेऽपि TAILS १ अध्याये २ पादै १४-१८ सूत्राणि । पापं कर्म न लिष्यत इसीयं श्रुतिरन्यत्र नावकल्पते । अत्राबसरे इत एव तद्ब्रह्मति(१) सूत्रमन्ये पठन्ति तत् पुनर्गतार्थमिति अन्यैर्ना- भिधीयते ॥ १५॥ श्रुतोपनिषत्कगत्यभिधानात् ॥ १६ ॥ श्रुता उपनिषद् आत्मविद्या येनासौ श्रुतोपनिषत्कः । उपनि- षीदन्ति विशीर्यन्ते संसारग्रन्थयो यस्यां सा उपनिषद् विद्या मुख्य- या वृत्त्या । तत्संयोगाद्भन्थोऽप्युपनिषदुच्यते । तस्य ब्रह्मविदो या ग- तिर्देवयानाख्या प्रसिद्धा श्रुत्यन्तरे अथोत्तरंण तपसा ब्रह्मचर्येगा श्रद्धया विद्ययात्मानमन्विष्यादित्यभिजयन्ते(२) एतद्वै प्राणा- नामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त इति । सैवेहोपकोशलस्य श्रुतोपनिषत्कस्याभिधीयमाना दृश्यते ते ऽर्चिषमभिसम्भवन्तीति तया प्रसिद्धया ब्रह्मनिर्देशोऽयमिति निश्ची- यते ऽन्यथानुपपत्त्या॥ १६ ॥ अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥ न छायापुरुषः कस्मादनवस्थितेः । न ह्यसौ चक्षुष्यवस्थितो ये- नास्योपदेशः स्यात् पुरुषान्तरसन्निधाने हि दृश्यते । न च तथा वा- क्यार्थः शक्यः कल्पयितुम् । यथाश्रुतोपपत्तेरसम्भवाश्चात्मत्वामृ- तत्वादीनाम् । अचेतनत्वाद्विज्ञानात्मदेवतयोरसम्भवः । न चामृतत्व- मभयत्वं च जीवस्योपपद्यते । सर्वदा सांसारिकता आघ्रात- त्वात् । देवतायाश्च भयमस्ति । तथा च भीषास्माद्वातः पवते भी- षोदेति सूर्यः भीषास्मादग्निश्चेन्दुश्च मृत्युर्धावति पञ्चम इति मन्त्र- वर्णाद्विद्वद्भिः समाहितचतोभिदृश्यत इति द्रष्टव्यम् ॥ १७ ॥ अन्तर्याम्यधिदैवाधिलोकादिषु(३) तहर्मव्यपदेशात् ॥१८॥ य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो य- मयतीत्युपक्रम्य श्रूयते । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृ- (१) श्रीभाष्ये रामा नुजाचार्यैरिदं सूचं घृतम् । तब च अत एक च स मी ति पाठः । (२) प्रात्मानमभिजयन्ते - पा. २ । ३ पु. । (३) अन्तर्यामधिदैवादिध्विति शाङ्करभाषा पाठः । ANYA ANDANATAKAASAHISAMAGARHINGAME SOMAIN ४४ भास्करीयब्रह्मसूत्रभाध्ये । थिवी न वेद यस्थ पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त भात्मान्तर्याम्यमृत इति । तत्र । अधिदैवतमधिलोकमधिवेदमधियज्ञ- मधिभूतमथाध्यात्मं च कश्चिदन्तरवस्थितो ययिता चान्तर्यामीति व्यपदिश्यते । तत्र सन्देहः किं देवतात्मा यमयिता कश्चित् किंवा जीवः किं वा परमात्मेति । किं तावद्युक्तं जीवः स्यात् स हि का- र्यकारणसङ्घातमात्मीयं भोगार्थमन्तरवस्थितो यमयतीति लिप्यते । न परमात्मा तस्याकार्यकारणत्वात् । देवता वाभिमानिनी नियन्त्री स्यादिति प्राप्त उच्यते । अन्तर्यामी पर एव कुतस्तद्धर्मव्यपदेशात् । सर्वभूतयमयितृत्वं नाम तस्य धर्मों नान्यस्यावंकल्पते । समस्तं हि विकारजातमनुप्रविश्य कारणत्वान्मृदादिवत्सर्वशक्तित्वाञ्च(१) नि- यमयितृत्वमुपपन्नमात्मत्वममृतत्वं च तस्मिन्नेव मुख्यम् । अतः श्रु. तिलिङ्गाभ्यामीश्वरोऽन्तर्यामीति निश्चीयते । श्रुति म यत्र श्रवणादे- धार्थोऽवगम्यते न निमित्तान्तरात् स श्रुत्यर्थः । श्रवणं श्रुतिः । यत्र सामर्थ्यादर्थनिश्चयस्तल्लिङ्गम् । संहत्यार्थाभिधानं पदानां यत्र त- द्वाक्यं मुख्यया वृत्या गोण्या लक्षणया वा। प्रकरणं तु व्याख्यातं पुरस्तात् । यं पृथिवी न वेदेति च देवतापरिग्रहे नोपपद्यते सा हि खात्मानं विजानीयात् । एष त आत्मेति चाव्यतिरेकषष्ठी जीवपरि- ग्रहे नोपपद्यते । ये नियमयत्यन्तर्यामी तदीयमेव कार्यकारणमनुप्र- विश्य नियमयति सर्वशक्तित्वादिति नास्य कार्यकारणमपरम- पेक्षणीयम् ॥ १८॥ न च स्मार्तमतद्धर्माभिलापात्(२) ॥ १९ ॥ यद्यप्यदृष्टादयो धर्माः प्रधानस्यापि सम्भाव्यन्ते तथापि न स्मात प्रधानमिह नियन्तृ परिगृह्यते । स्मृतिप्रतिपन्नं स्मार्तम् । क- स्मादतद्धर्माभिलापात् । तस्य धर्मस्तद्धर्मः न तद्धर्मोऽतद्धर्मः त. स्याभिलापादभिधानाचेतनधर्मोपदेशादित्यर्थः । अदृष्टो द्रष्टा अधुतः श्रोतेति । ईक्षते शब्दमित्यत्र निरस्तमप्यदृष्टादिधर्मसम्भवादाश- ड्य पुनर्निरस्यते ॥ १९ ॥ यद्यचेतनम(३)न्तर्यामि न सम्भवति माभूत (१) सर्वज्ञत्वात् सर्वक्रित्वाञ्च - पा० २ १ ३ पु० । (२) न च स्मार्तमवद्धर्माभिलापाच्छारीरशेति सूच पाठः श्रौभाषण दृश्यते । (३) यद्यचेतनत्वात् प्रधानम् - पा० २ । ३ पु० । TOTTIMILS चेतनत्वात्तु - १ अध्याये २ पादे १९-२१ सूत्राणि । जीवः स्यात् स हि द्रष्टा श्रोता चेत्याशय निराकरणायाह । शारीरश्चोभये ऽपि हि भेदेनैनमभिधीयते (१)॥२०॥ नेति पूर्वसूत्राञ्चशब्दनानुकृष्यते । न जीवोऽन्तर्यामी तस्य पृथि. व्यादिषु नियमनसामर्थ्य न सम्भाव्यते अत्र चैकस्यैव सर्वविका- रेषु नियन्तृत्वं श्रूयते । अपि चोभये काण्वा माध्यन्दिनाश्च विज्ञा. नात्मनो देनैनमन्तर्यामिणमभिधीयते । यो विज्ञाने तिष्ठन्निति काण्याः । य आत्मनि तिष्ठन्निति माध्यन्दिनाः। विज्ञानशब्देन च वि- ज्ञानप्रधानो जीव एवोच्यते। अत्र केचिदाहुः । ननु कथमेकस्मिन् देहे द्वौ द्रष्टारौ सम्भवत इति । को विरोधो येनैवमुच्यत इति । श्रुतिर्हि नान्योऽतोऽस्ति द्रष्टेति प्रकृतादन्तर्यामिणोऽन्यं वारयतीति । अत्रोच्यते। यथैवेयमेव भेदं दर्शयति तथा पूर्वमुदाहृतम् । आत्मनि तिष्ठन्निति भेदं दर्शयति किं न पश्यसि न हस्याः श्रुतंर्वचनं सुभगावच- नमिवानादरणीयम् प्रामाण्यतुल्यत्वादतो भेदाभेदौ ग्रहीतव्यौ न च तात्पर्यकृतो विशेषोऽन्तर्यामिखरूपविज्ञानपरत्वात् प्रकरणस्य नियन्त्रन्तराशङ्कानिवृत्त्यर्थमपि शक्यते वर्णयितुम् । नान्यः सर्वस्य द्रष्टास्ति सर्वथा यं पृथिवी न वेदेति देवतादिक्षेत्रज्ञानुपन्यस्य त- दपलापो न युज्यते ॥ २०॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥ आथर्वणे श्रूयते । अथ परा यया तदक्षरमधिगम्यते । यत्तदद्रे- श्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्व- गतं सुसूक्ष्मं तव्ययं यद्भूतयोनि परिपश्यन्ति धीरा इति । तत्रेदं चिन्त्यते । कि प्रधानमदृश्यत्वादिगुणकमथ विज्ञानात्माऽथ पर- मात्मेति। किं तावत् प्राप्त प्रधानमिति । पूर्वत्र द्रष्टत्वादिगुणत्वासम्भ- वातू पयुदस्तम् । इह त्वदृश्यत्वादिगुणसम्भवाद्विवक्षा युक्तति । ननु चात्रापि यः सर्वज्ञः सर्वविदिति गुणान्तरं न सम्भवति। नायं दोषः। अक्षरात परतः परो यः स सर्वज्ञो भविष्यतीत्यक्षरवाच्यं तु प्रधान- मेवेति मन्यते पूर्वपक्षवादी । जीवो वा भूतयोनिः तस्य स्वकर्मा- (१) अव च श्रीभाष्ये उभये ऽपि हि भेदेनैनमधीयत इति सूत्रपाठी दृश्यते । शाकरभाष्ये तु अभिधीयत इत्यत्र अधोयत इति पाठः । ।
Saw । भास्करीयब्रह्मसूत्रभाष्ये र्जितत्वाद्भूतानां निमित्तभावोऽस्ति योनिशब्दोऽस्मिन् पक्षे निमि- तवचनो व्याख्येयः। अपि चाचेतनानां पृथिव्यादीनां दृष्टान्तान्तरेणो- पादानादचेतनं प्रधानं युक्ततरं गृहीतम् । ऊर्णनाभिशरीरं च सू. त्रस्य योनिश्चेतनाधिष्ठितं न चेतनादेव सूत्रं जायत इति चेतन- स्य योनित्वं नास्तीति प्राप्ते ऽभिधीयते । अदृश्यत्वादिगुणकः परो भवितुमर्हति । कुतो धर्मोक्तेस्तदव्यभिचारी धर्म इहोच्यते । यः स- र्वज्ञःसर्वविद् यस्य ज्ञानमयं तप इत्यनन्तरं च यथा सुदीप्तात् पावका- द्विस्फुलिङ्गाः सहस्रशः प्रभवन्ति सरूपास्तथाक्षराद्विविधाः सौम्य भावा इति प्रकृताद्भूतयोनेरक्षरादुत्पत्तिं दर्शयति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वमिति । विशेषक्रमश्चैवम् । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्टाय पुत्राय प्राहेति । तदपे- क्षयोत्तराणि(१) वाक्यानि प्रवृत्तानि । द्वे एव तु विद्ये वेदितव्ये इति चोक्ता अथ परा यया तदक्षरमधिगम्यत इति । परत्वं च विद्यायाः परब्रह्मप्राप्तिहेतुत्वात् किं तदक्षरमित्यपेक्षायां यत् तद्रश्यमित्याद्या- नातम् । तत्र कथमकस्मात कूष्माण्डपात्रवत् प्रधानं प्रतीयते ॥२१॥ विशेषण दव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ न जीवो न प्रधानं कस्माद्विशेषणात् । दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो हजः अप्राणो ह्यमनाः शुभ्र इति । सप्राणः स- मनाश्च जीवः प्रधानाभेदेन भूतयोनिनिर्दिश्यते । परेण श्लोकपादेन अ- क्षरात् परतः पर इति सर्वस्मात् परोऽविकारोऽक्षरं भूतसूक्ष्मं यद- व्याकृताकाशमिति प्रसिद्धं वेदान्तवादिनां नादृशादक्षरात् प्रधानश- ब्दवाच्यात् स्वविकारेश्यः परातू परो भूतयोनिः सर्वज्ञः सर्वविदिति भेदेन व्यपदिश्यते । अत्र च भूतयोनी भूतसूक्ष्मे चाक्षरशब्दः प्रयुक्तः तत्र व्युत्पत्तिभेदादर्थभेदः । न क्षरति न च्यवते अक्षरं भूतयोनिः । अश्नुते व्याप्नोति स्वविकारानित्यक्षरं भूतसूक्ष्मम् ॥ २२ ॥ रूपोपन्यासाच्च ॥ २३ ॥ योऽयं भूतयोनिः कारणात्मा स एव कार्यात्मनावस्थित इति द. शयितुं रूपमुपन्यस्यते । अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यो दिशः श्रोत्रे (१) अन्तराणि -पा० २ पु ।
१ अध्याये २ पादे २२-२४ सूत्राणि । धाग्विवृत्ताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी येष सर्वभूतान्तरात्मेति । हिरण्यगर्भस्यैतद्रूपमिति केचिद्वदन्ति । त- दयुक्तम् । प्रकरणविरोधात् । प्रकरणिनि परमकारणे यदीदं रूपं नोप- पद्यते तदान्यत्र सञ्चार्यताप्रस्तुते । प्रत्युत(१) हिरण्यगर्भस्यापीदं रूपं परमात्मद्वारेणोपचर्यते नान्यथेति स्थितम् ॥ २३ ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ को न आत्मा किं ब्रह्मति आत्मानमेवेमं वैश्वानरं सम्प्रत्य- ध्येषितमेव नो बहीति चोपक्रम्य द्युसूर्यवाय्वाकाशजलपृथिवीनां सु- तेजस्वादिगुणयोगमेकैकोपासननिन्दया च धुमूर्दादिभावमुपदि- श्यान्नायते । यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमु- पास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादा- बुर एव वेदिौमानि वर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीय इति । तत्र सन्दिह्यते किमुदरस्थोऽग्निरुपदिश्यते किं वा भूताग्निस्तदभिमानिनी वा देवता शारीरो वा उत परमेश्वर इति।कि पुनरत्र युक्तम् । जाठरोऽग्निस्तत्र वैश्वानरशब्दप्रसिद्धरगमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यत इतिप्रयोगात् । भूताग्निर्वा सामान्ये- नापिलोके वैश्वानरशब्दप्रयोगदर्शनात् । अभिमानिनी वा देवता वैश्वा- नरं केतुमह्नामकृण्वन्निति वैश्वानरस्य सुमतौ स्याम राजा हि के भुव- नानामभिश्रीरिति च। ब्रह्मात्मशब्दौ च गुणवृत्त्या योजनीयौ । यदि वा बृहत्त्वाद्ब्रह्म आप्नोतरात्मेतिव्युत्पत्त्या कयाचिदपेक्षया योजनीयम् । ( वैश्वानरशळप्रसिद्धर्बलीयस्त्वादात्मशब्दस्य मुख्यार्थत्वाश्रयणे जीवो ग्रहीतव्यो )(२) वैश्वानरशब्दस्तु तत्र गौणस्तदुपकारित्वा- दुदराग्निना जीवस्योपकारः प्रत्यक्षो निर्वय॑ते न परमात्मन इति । कश्चित् पुनरात्मशब्दानुरोधादिह शारीर एव पूर्वपक्षपतितः। अत्र वै- श्वानरशब्दानुपपत्तिः सिद्धान्ते चाग्नेनिराकरणमनुपपन्नं स्यादेवं प्राप्ते ऽभिधीयते वैश्वानरः परमात्मा कुतः साधारणशब्दविशेषात् (१) प्रस्तुत - पा० १ पु.। (२)() एतन्मधास्थी नाति १ पु० ।
- भास्करीयब्रह्मसूत्रभाष्ये साधारणशब्दयोरात्मवैश्वानरशब्दयोर्विशेषात् त्रयाणां साधारणोवै- श्वानरशब्दो द्वयोरात्मशब्दो जीवपरयोः। तथापीह येन पर एवा- वगम्यते स विशेषो विद्यते । सूद्धैव सुनेजा इत्यादिविशेषः परमे- श्वरस्योपपद्यते तद्विकारत्वात् । परमकारणस्य हि द्युप्रभृतयः पृथिवीपर्यन्ता अवयवा व्यपदेष्टुं युज्यन्ते नान्यस्य । को न आत्मा किं ब्रह्मेति चोपक्रमः परमात्मपरिग्रहे विकल्पते । बलवच्चोपक्रमे यद्विज्ञानमनुपसञ्जातविरोधित्वात् तदुत्तरकालीनं तदविरोधित्वात तबलेनेवोपतिष्ठते । तथा चोपसंहारः । एवं हास्य सर्वे पाप्मानः प्रदूयन्त इति सर्वपाप्मप्रदाहश्च परमात्मपरिग्रहे विकल्पते ॥ २४॥ स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥ इतश्च पर एव । इतिशब्दो हेत्वर्थः। स्मर्यमाणरूपमनुमानम् । अ- नुमीयते श्रुतिर्येन तदनुमानम् । किं पुनारूपस्मरणम् । द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभि चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षिति च सोऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ इति ॥ २५ ॥ शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेत् न तथादृष्ट्युप- देशादसम्भवात् पुरुषमपि चैनमधीयते ॥ २६ ॥ नायं विरोधस्तथा तेन प्रकारेण जाठरवैश्वानरगुणविशिष्टस्य परस्योपासनोपदेशात् । यथा शाण्डिल्यविद्यायां प्राणशरीरो भारूप इति । कस्मादेवं व्याख्यायते । अन्यथा परमेश्वरानाश्रयणे धुलोकावयवस्यासम्भवः स्यात् । न हि विकारस्य विकारान्त- रमवयवो(१) भवति सम्बन्धहेत्वभावात् । परमकारणस्य तु उत्पादकत्वात् तदात्मनावस्थानादस्ति तादात्म्यलक्षणः सम्बन्धः । अपि चैनं पुरुषविधमधीयते वाजसनेयिनः । स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषे ऽन्तःप्रतिष्ठित घेदेतीश्वरस्य पुरुषत्वं पुरुषविधत्वं च मूर्दैव सुतेजा इति श्रुति- (१) समवायो-पा० २ पु. । TIMINTIS १ अध्याये २ पादे २५-३० सूत्राणि । कल्पितं सर्वात्मत्वादुपपद्यते केवलकोख्याग्निपरिग्रहे पुरुषे ऽन्तःप्र- तिष्ठितत्वं स्थान पुरुषविधत्वम् ॥ २६ ॥ अत एव न देवता भूतं च ॥ २७ ॥ अत एवोक्तेभ्यो हेतुभ्यो न देवता न भूताग्निः प्रतीयते ॥२७॥ साक्षादप्यविरोधं जैमिनिः ॥२८॥ नायं वैश्वानरशब्दो जाठराग्न्यभिप्रायेण प्रयुक्तो यदनुरोधातू तद्गुणकस्येश्वरस्योपासनं कल्प्येत । यौगिकोऽयं शब्दोऽत्र विश्वान् নি नयतीति वैश्वानरः स्वार्थे तद्धितः राक्षसवायसादिवत् । आ- भिमुख्येनापि चित्रं जगन्निर्मिमीते अभिगतश्चासौ विगतमानश्चेति वाभिविमानो वैश्वानरशब्दस्य यौगिके ऽर्थे सति जाठरानलविशि- टात्मोपासनमनभिध्यातम(१) बादरायणस्यापि । छान्दोग्यश्रुतेर- यमत्र समुदायार्थः । अधिदैवतं योऽसौ पुरुषविग्रहः परमात्मा थुप्र- भृतिभिरवयवैः प्रविभक्तो दर्शितस्तस्मिन् स्वावयवान मूर्द्धादीन यथा- झम सम्पाद्याहं वैश्वानरः परमात्मास्मीति उपासीतेति । उक्तं चै- तदभिरहस्ये वैश्वानरविद्यायामध्यात्ममुपासनम् । अत्राधिदैवत- मिति भिन्नप्रस्थानत्वात् । श्रुतेर्नान्यतरानुरोधेनान्यतरबाधः कल्प्यः। यद्यपि प्रत्यभिज्ञानं तथाप्युपासनाप्रकारभेदादू व्यवस्थेति । गार्हपत्या- दिकल्पनमाहुतिपर्यन्तं वैश्वानरविद्याङ्गत्वेनोपदिष्टमित्यदोषः ॥ २८ ॥ अभिव्यक्तरित्याश्मरथ्यः ॥ २९ ॥ प्रादेशमात्रभुतिं ब्याचष्टे । पूर्वेषामुपासकानामनुग्रहायानन्तस्या- पीश्वरस्य प्रादेशमात्रमभिव्यज्यत इत्याश्मरथ्यो मन्यते। अथवा धुलोकादिषु प्रदेशेषु मीयते परिच्छिद्यत इति प्रादेशमात्रः ॥ २९ ॥ अनुस्मृतेर्बादरिः ॥ ३० ॥ प्रादेशमात्रेण दृदयेनानुस्मरणात् प्रादेशमात्र इत्युच्यत इति बादरिर्मन्यतेस्म ॥ ३०॥ (१) पनभितम् - पा. २ । ३ पु.॥
५० वै भास्करीयब्रह्मसूत्रभाज्ये सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति ॥ ३१ ॥ वादरायणाभिप्रायोऽस्माभिरुक्तोऽधिदैवतं व्याप्यावस्थितस्योपा- सनमिति (जैमिनेराचार्यस्याभिप्रायोऽधुना वर्ण्यते । सम्पत्तिनिमिता प्रादेशश्रुतिरिति)(१) जैमिनिराचार्यों ददर्श । किं स्वबुद्ध्या नेत्युच्यते तथाहि दर्शयति । समानप्रकरणे वाजसनेयिब्राह्मणं धुलोकप्रभृ- तीनवयवान् यथाक्रमं मूर्द्धप्रभृतिषु चिवुकपर्यन्तेषु देहावयवेषु स- म्पादयति । स होवाच मूर्धानमुपदिशन्नुवाच एष वै अतिष्ठा(२) वै- श्वानर इति । (चक्षुषी उपदिशन्नुवाच एष वै सुतेजा वैश्वानर इति नासिके उपदिशन्नुवाच एष पृथग्वा वैश्वानर इति मुख्य- माकाशमुपदिशन्नुवाच एष वै बहुलो वैश्वानर इति मुख्या अप उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति चिबुकमुपदिशन्नुवाच एष वै प्रतिष्ठा वैश्वानर इति)(३)। चिबुकमधरं मुखफलकमुच्यते। वाजसनेयके धौरतिष्ठात्वगुणा आदित्यश्च सुतेजस्त्वगुणः छान्दोग्ये तु द्यौः सुतेजस्त्वगुणा आदित्यश्च विश्वरूपगुण इति प्रकारो भिद्यते । चीयमानाग्निसम्बन्धित्वेन तत्र वैश्वानरशब्दः प्रयुक्तो न च छान्दो- ग्यवत् को न आत्मा किं ब्रह्मेति ब्रह्मोपक्रमोऽस्ति तस्माद्विद्याभेदः॥३१॥ यद्येवं कथं पुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदेति वचनमत आह । आमनन्ति चैनमस्मिन् ॥ ३२ ॥ एवं नित्यमग्निमस्मिन्नेव सम्पाद्यमानं पुरुषविधं पुरुषे ऽन्तःप्रति- ष्ठितमिति च समामनन्ति वाजसनेयिनः। चिवुकमुपदिशान्नित्युक्त्वान- न्तरमेतत् पठ्यते । अन्तःशब्दश्चास्य बिलाद्यपेक्षया ॥ ३२ ॥ इति श्रीभास्कराचार्यविरचिते ब्रह्मसूत्रभाष्ये प्रथमस्या- ध्यायस्य द्वितीयः पादः॥ ( १ ) () एतन्मध्यस्थी नास्ति ३ पु०। (२) एष वा प्रतिष्ठा - पा. १ पु. । (२)) एतन्मध्यस्थी नाति ३ पु० ।
ॐ नमः परमात्मने। भास्करीयब्रह्मसूत्रभाष्ये प्रथमाध्याये तृतीयः पादः । । द्युभवाद्यायतनं स्वशब्दात् ॥ १ ॥ यस्मिन् द्यौः पृथिवी चान्तरीक्षमोतं मनः सह प्राणैश्च सर्वैस्त- मेवैकं जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुरिति श्रूयते । अत्र सन्देहो यदेतद् द्युप्रभृतीनां सप्तम्यन्तमायतनं निर्दिष्टं किं तत् परं ब्रह्म स्यादाहोखिदर्थान्तरमिति किं तावत् प्राप्तं प्रधानमायतनं वधि- कारस्य हि कारणमाश्रयः कस्मादेवं सेतुश्रुतेः। पारवान् हि सेतुरव- गतो लोके न ब्रह्मणः पारवत्त्वमनन्तमपारमितिश्रवणात् । आत्मशब्द- श्चैवं तदुपकारित्वात् प्रधानविषयः प्रयुक्त इति व्याख्येयम् । यद्या- स्मश्रुतेः सेतुश्रुतेश्च जीवो वा ग्रहीतव्यः तस्याप्यायतनत्वमुपपद्यते कर्मनिमित्तत्वात् धुलोका(१)धुपपत्तेः । सिद्धान्ते यमर्थ सूत्रकारो निराकरोति स एव सर्वत्र पूर्वपक्षे प्रदर्शनीयो न यः कश्चित् खमनी- षिकया । अत्रोच्यते। परं ब्रह्म द्युभवाद्यायतनम् ।द्योश्च भूश्च धुभुवौ तौ घुमुवावादी यस्य तदिदं शुभ्वादि तस्यायतनम् । आयतनशब्दो नपुं- सकलिङ्गः। तत्र धुभवाद्यायतनमिति पाठो युक्तः।कस्मात् स्वशब्दादा- मशब्दात् । तमेवैकमिति विकारजातं तस्मिन्नेव चेतसोपसंहृत्य तमेव कारणात्मानं जानथोपासीतेत्यर्थः । सर्वत्र हि विदिनोपक्रम्योपासिनो- पसंहरत्युपासिना चोपक्रम्य विदिनोपसंहरति श्रुतिरतो यत्रान्य- तरोपादानं तदैकार्थतैव प्रत्येतव्या । ये पुनः प्रपञ्चबहिरङ्गो धुचैतन्य मात्रं ध्येयमुपदिशन्ति । तेषां सर्व तं परादादितिश्रुतिविरोधः?। से- तुश्रुतिश्चामृतत्वावधारणमात्रविवक्षया तदधीनममृतत्वमित्यर्थः । (१) कर्मनिमित्तकालीका - पा• ३ पु० । कर्मनिमित्तमिति युलोका - पा०२पु० ॥ ।
૧૨ भास्करीयब्रह्मसूत्रभाष्ये न पारवत्त्वविवक्षयति न सर्वथा सेतुसाम्यम् । कश्चिदाह आत्मशान सेतुश्रुत्या निर्दिष्टमिति । तदयुक्तम् । एष इत्यनन्तरवृत्तस्य प्रधानस्य वाचक सर्वनाम्नोपसर्जनस्य शानस्येति ॥१॥ मुक्तोपसृप्यव्यपदेशात् ॥ २॥ इतश्च परप्रतीतिः रागद्वेषादिदोषमुक्तर्विद्वद्भिरुपसृप्यं गन्तव्यमा- यतनं निर्दिश्यते । तथाहि विद्वान् नामरूपाद्विमुक्तः परात् परं मुपैति दिब्यमिति ॥२॥ नानुमानमतच्छब्दात् ॥ ३ ॥ अनुमीयत इत्यनुमान प्रधानम् । तद्वाचकशब्दाभावादितरस्थ चेतनस्यास्ति यः सर्वज्ञः सर्वविदिति ॥ ३॥ भवतु तर्हि शारीरस्तस्य पर्यायेण सर्वज्ञत्वोपपत्रात्मत्वस्य च भत आहा AHIRANS प्राणभृच ॥४॥ न मुख्यया वृत्त्या सर्वशत्वं तस्यावकल्प्यते । न च पर्यायवाची शब्दोऽत्र प्रयुक्तः। पृथग्योगकरणमुत्तरार्थम् ॥ ४॥ भेदव्यपदेशात् ॥ ५ ॥ तमेवैकमिति शातृशेयतया भेदव्यपदेशात् ॥ ५॥ प्रकरणाच्च(१) ॥ ६ ॥ परप्रकरणं चेदमुपक्रमे पृष्टत्वात् । कस्मिन्नु भगवो विशाते सर्वमिदं विज्ञातं भवतीति । प्रकरणे च जातिगुणक्रियाशब्दाः प्रयु- ज्यमानाः सन्निहितार्थविषया एवेत्याग्नेयाधिकरणे स्थितम् ॥ ६॥ स्थित्यदनाभ्यां च ॥ ७ ॥ इतश्च न प्राणभृत्।द्वासुपर्णेति शुभाशुभफलभोजनादत्तीति व्य- (१) पत्र बकाररहितः सूत्रपाठ: शाजारभाष्य ।
१ अध्याये ३ पादे २-८ सूत्राणि । पदिश्यते । अनमन्निति औदासीन्येन स्थितिः। अभिचाकसीति दीप्यत इत्यर्थः । अत्रापि सूत्रकारो जीवपरयोर्भेदमुपगम्य जीवनिराकरणं च- कार । अपरे तु खानुभवमप्यपहृवाना भेद मायामात्रं सङ्गिरन्ते । भूतयोनिवाक्ये निराकृतमपि प्रधान सेतुश्रुत्या पुनराशय निरस्त- मित्यपौनरुत्यम् ॥ ७॥ भुमा सम्प्रसादादध्युपदेशात् ॥८॥ इदमानायते। भूमा त्वेवं विजिज्ञासितव्य इति भूमानं भगवो वि- जिशास इति यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यद्विजानाति स भूमा अथ यत्रान्यत् पश्यत्यन्यच्छृणोति अन्यद्विजानाति तद- ल्पमिति । तत्र संशयः किं प्राणो भूमा किं वा पर इति । किं तावद्युक्तम् । भूमेति बहुत्वं वैपुल्यमुच्यते । तत्कस्येत्यपेक्षायां प्राणो वा आशाया भूयानितिप्रकरणात प्राणो भूमेति गम्यते । किं च पुनः प्रश्नप्रतिवचनाभावात् । यथा अस्ति भगवो नानो भूय इति वा- ग्वाव नानो भूयसीति न तथात्रास्ति भगवः प्राणाद् भूय इति । अ- तिवादित्वं प्राणोपासकस्य व्रतमुक्त्वा सत्यादिपरम्परया भूम्नोऽत्र- तारात् प्राणस्यवायं गुणो न परस्येति निश्चीयते । कथं पुनः प्राणप- रिग्रहे यत्र नान्यत् पश्यतीत्येतद्वचनम् । नायं विरोधः । सुषुप्ताव- स्थायां प्राणग्रस्तषु करणेषु दर्शनादिव्यवहारनिवृत्तेः । यो वै भूमा तत् सुखमित्यप्यविरुद्धम् । अत्रैष देवः स्वप्नान पश्यत्यथ यदेतस्मिन् शरीरे सुखमनुभवतीति । ननु च तरति शोकमात्मविदित्यात्मज्ञान- विवक्षया प्रकरणोत्थानं प्राणपरिग्रहे नावकल्पते । तथात्मतः प्राण आत्मत आशेत्युपसंहारः । एवं मन्यते पूर्वपक्षवादी भूमपर्यन्ता प्राणविद्यैव अतः परमात्मविद्या भविष्यतीत्येवं प्राप्ते ऽभिधीयते परमा- स्मैव भूमा कुतः सम्प्रसादादध्युपदेशात् सम्प्रसीदत्यास्मिन् जीव इति सुषुप्तस्थानमुच्यते तेन च प्राणो लक्ष्यते । तत्र च प्राणो जागर्तीति प्राणादुपरिष्टादुपदिश्यमानत्वाद् भून इत्यर्थः । नन्व- सिद्धो हेतुः । अत्रोच्यते नासिद्धः। कथम् । एष तु वा अतिवदति यः सत्येनातिवद्तीति न प्राणवाद्यतिवादीत्यवच्छेदाय तुशब्दः । यः स- त्यरूपं ब्रह्मविषयं वदनं करोति सोऽतीत्य प्राणपर्यन्तं प्रपञ्च वद- तीति मुख्यं तस्यातिवादित्वमिति । सत्यं शानमनन्तमिति सत्यशब्दः १४ भास्करीयब्रह्मसूत्रभाष्ये परमात्माभिधायी सोऽहं भगवः सत्येनातिवदानीति च प्राणातिवा- दित्वपरित्यागेन सत्यवदनानुशानं प्राणप्रकरणविच्छेदं विज्ञापयत्यतो विज्ञानादिसाधनपरम्परया तस्यैव सत्यस्य भूम्न उपदेश इति नि- श्चिनुमः । अथात्मतः प्राण आत्मतः आशेति प्राणस्याप्युत्पत्तिमा- त्मनो दर्शयति तरति शोकमात्मविदिति तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमार इत्युपक्रमोपसंहारयो- रेकविषयत्वात् स एवात्र प्रकरणी । सर्वमन्यत् प्राणपर्यन्तं प्रासङ्गि- कमात्मज्ञानाच्चान्यत्रामृतत्वं नोपपद्यते ॥८॥ धर्मोपपत्तेश्च ॥ ९॥ यत्र नान्यत् पश्यति यत्र भूम्नि सुखे वर्तमानो ऽन्यद् दुःखं न पश्यतीत्यर्थः।अन्यशब्दः प्रकृतात् सुखादन्यत् प्रतियोगि दुःखमाह न पुनर्वस्त्वन्तराभावोऽत्र विवक्षितः । न च निःसम्बोधो मोक्षो भूमसु- खस्य मुक्तं प्रति श्रुत्यैव दर्शितत्वात् । अमृतत्वं च परस्मिन्नेवावकल्पते। तथा चाह न पश्यो मृत्यु पश्यति नोतरागं नोतदु:खितां सर्व हि पश्यः पश्यति सर्वमाप्नोति सर्वश इति । तस्माद्भूमा परमा- त्मेति सिद्धम् ॥ ९॥ अक्षरमम्बरान्तधृतेः ॥ १० ॥ कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्वमदीर्घमलोहितमस्नेह- मच्छायमिति श्रूयते । तत्रायमर्थः सांशयिकः किमक्षरशब्देन प्रधान- मुच्यते किं वा ब्रह्मेति।किं तावत् प्राप्तं प्रधानं वक्तुं युक्तं तस्य स्ववि- कारधारणोपपत्तेरोतत्वं(१) युज्यते । अस्थूलादि च तस्मिन्नुपपत्तेः रूपादिहीनत्वाभ्युपगमात् । केचिदक्षरशब्दस्य वर्णे प्रसिद्धत्वाद- क्षरमोङ्कार इति पूर्वपक्षयन्ति वैयाकरणदर्शनं च स्फोटः शब्द इत्यवतार्य गकारादयो वर्णा एव शब्दा इति स्थापयन्ति । तदेत- दधिकरणेनासम्बद्धम् । अलोहितमस्नेहमच्छायमित्येवमादिप्रतिषेधा- नुपपत्तेः।प्रधानस्य तु युज्यते विकारधर्माणां कारणप्रसक्तेः। कार्यका- QUINTUITI (१) पोतप्रोवन'-पा० २ पु० ।
१ अध्याये ३ पादे ९-१३ सूत्राणि । रणयोश्चानन्यत्वाभ्युपगमात् सांख्यानाम् । किं च वृत्तिकारेण मीमां- सायामथ गौरित्यत्र कः शब्द इति स्फोटनिराकरणं कृतं न सूत्र- कारण । अत्रापि यदि वक्तव्यं वृत्तिकारैरेवोच्यतां न सूत्रकारस्यो. परि तदध्यारोपः कर्तव्यो यत्र वेदवाक्यात् सन्देहो जायते तन्निरा- करणे सूत्रकार. वृत्तिः । प्रथमतन्त्रसिद्धत्वाश्चात्र स्फोटनिराकरण निष्फलं स्यात् । यत्र विप्रतिपत्तिस्तन्निराकरणार्थ युक्तं वक्तुं नान्यत्रेति। प्रधानत्वे ऽक्षरमिति प्राप्ते बमोऽक्षरं ब्रह्म कस्मादम्बरान्तधृतेरा- काशपर्यन्तस्य धारणात् ॥ १०॥ ननूक्तं प्रधाने ऽप्युपपद्यत इति तत्रोत्तरं पठति । साच प्रशासनात् ॥ ११ ॥ सा च धृतिः परस्यैव कुतः प्रशासनात् । एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इति प्रशासनमाशापयितृत्वं चेतनधर्मः ॥ ११॥ अन्यभावव्यावृत्तेश्च ॥ १२ ॥ यद्यपि प्रशासन प्रधाने ऽपि कथञ्चित् प्रकल्प्यते तथापि ह्यत्र तस्य ग्रहणं नास्ति कथमन्यस्य भावस्य प्रधानस्य व्यावृत्तिश्रुतेः । तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञात्रिति। नान्यदतोऽस्ति द्रष्ट इति । तस्मात् परमेवाक्षरं स्थितमिति ॥ १२ ॥ ईक्षतिकर्मव्यपदेशात् सः ॥ १३ ॥ एतद्वै सत्यकामः परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विछाने- तेनैवायतनेन एकतरमन्येतीति प्रकृत्य श्रूयते यः पुनरेतं त्रिमात्रेणो- मित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीतेति । तत्र सन्देहः किमपर ब्राध्यातव्यं किंवा परमिति। उसयोः प्रकृतत्वात् ।स सामभिरुन्नीयते ब्रह्मलोकमिति लोकश्रुतेरपरं ब्रह्मेति पूर्वपक्षः । कथं परं पुरुषमिति विशेषणं पुरुषान्तरापेक्षया वा भविष्यतीति प्राप्ते प्रतिविधीयते । स एव परमात्माभिध्येयः य ईक्षतिकर्मत्वेन व्यपदिष्टः। स एत- स्माजीवधनात् परातू परं पुरिशयं पुरुषमीक्षत इति परपुरुषश- दाभ्यां प्रत्यभिज्ञानात् । ज्ञानस्य चेदं फलम् । यो ध्यायति परं पुरुषंस । ५६ भास्करीयब्रह्मसूत्रभाष्ये तमेव पश्यतीति । परमिति च श्रुत्या विशेषणात् प्रकृतबुद्धिरपरवि- षया बाध्यते । यत् तत् शान्तमजरममृतमभयं परं चेत्युपसंहारा- तू परशब्दः परमात्मपरो निश्चीयते । परस्य च प्रकृतत्वात् । अ- परग्रहणं चैकैकमात्रोपासनापेक्षं द्रष्टव्यम् । जीवधनादिति कोऽर्थः । तदुच्यते । धनो मूर्तिरविद्याकर्मभ्यां मूर्तिभावमापन्नो जीवः शरीरे- न्द्रियेभ्यश्च परस्तस्मात् । अथवा कार्यब्रह्मलोको हिरण्यगर्भनिवासो लोकानां परलोकः करणपरिवृत्तानां तत्र घनभावोपपत्तेः ततः प- रात् परमात्मा स सामभिरुन्नीयते ब्रह्मलोकमिति । ब्रह्मैव लोक इति व्याख्येयम् । न हि सगुणनिर्गुणकृतो भेदोऽस्तीति वक्ष्यामः ॥ १३ ॥ दहर उत्तरेभ्यः ॥ १४ ॥ TITUTI DELLA अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्न- न्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिशासितव्यमिति श्रूयते । दहरोऽस्मिन्नन्तराकाश इत्यत्र सन्देहः किं भूताकाशः किं बा जीवोऽथ पर एवेति । भूताकाश इति ब्रमः प्रसिद्धः। ननु च या- घान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश इत्येकस्यैवोपमानो- पमेयभावो नोपपद्यते नायं विरोधो बाह्याभ्यन्तरकृतं भेदमङ्गीकृत्यो- पपत्तेः । जीवो वा स्यादन्तर्निवासित्वादू दहरश्रुत्युपपत्तेश्च । दहर- मल्पम् । आराममात्रश्च जीवः तथाहि शूतिः।आराग्रमात्रो ह्यवरोऽपि अष्ट इति प्राप्ते ऽभिधीयते पर एव दहराकाशः कस्मादुत्तरेभ्यो वाक्य- शेषगतेभ्यो हेतुभ्यो यावान् वा अयमाकाश इति प्रसिद्धनाकाशेनोप- मीयते दहराकाशः भिन्नयोश्चोपमानोपमेयभावो गोगवयवतू नैकस्यै- कश्रुत्यर्थपरित्यागप्रसङ्गात् । उभे अस्मिन् द्यावापृथिवी अन्तरेव स- माहिते इति समस्तविकाराधारत्वं परमकारणस्योपपद्यते एष आ- स्माऽपहतपाप्मा विजर इत्यात्मत्वादिरपहतपाप्मत्वादिवदन्यत्र ना- वकल्पते । अत एव जीवोऽपि न गृह्यते । दहरत्वं पुनः पुण्डरीकद- हरत्वेनैवीपाधिकं तन्निवृत्त्यर्थमेव चोपमोपादानम् ॥ १४ ॥ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥ १५ ॥ उत्तरे हेतवः सामान्योक्ताः प्रपञ्च्यते । एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीति प्रजानां गतिः । दृष्टं सता सौम्य तदा सम्पन्नो भवतीति । तेषामेवैष ब्रह्मलोक इति १ अध्याये ३ पादे १५-१९ सूत्राणि । यश्च ब्रह्मलोकशब्दस्ताभ्यां दहराकाशं ब्रह्म प्रतिपद्यामहे । तथाहि वाक्यशेषो लिङ्गम् । अथवा लिङ्गं सामर्थ्य ब्रह्मैव लोक इति विशेषण समासपरिग्रहे । न हि प्रजानामहरहब्रह्मणश्चतुर्मुखस्य लोकगमनं सम्भवति ॥ १५॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥१६॥ धृतेश्च हेतोः पर एवायम् । अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदायति । विधृतिर्विधारयितेत्यर्थः कर्तरि व्युत्पत्तेः। अ- ध्यात्माधिदेवभेदभिन्नानां लोकानां विधारयिता । असम्भेदायासङ्क- राय विदारणाय वा। तेन हि विधृता लोका न स्फुटन्ते । अस्य च म- हिन्नोऽपि धृतेरस्मिन्नीश्वरे ऽन्यत्रोपलब्धेरेतस्य वाक्षरस्य प्रशासने गार्गीति ॥ १६॥ प्रसिद्धेश्च ॥ १७ ॥ परस्मिन्नप्याकाशशब्दप्रसिद्धः। आकाशो वै नामरूपयोनिर्व- हितेति ॥ १७॥ इतरपरामर्शात् स इति चेन्नासम्भवात् ॥ १८ ॥ इतरस्य जीवस्य वाक्यशेषे परामर्शात् । अथ य एष सम्प्रसा- दोऽस्माच्छरीरात समुत्थाय परं ज्योतिरुपसम्पद्य खेन रूपे- णाभिनिष्पद्यत एष आत्मेति होवाचति । स एवोपक्रमे दह- राकाश इति चेन्न असम्भवादपहतपाप्मादीनां गुणानां त- स्मिन्नसम्भवात् ॥ १८ ॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ उत्तरात् प्राजापत्याद्वाक्याद् य आत्मापहतपाप्मेत्युपक्रम्य य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मति जीवः प्रतीयते । स एवो- पक्रमे ऽपि दहराकाशः स्यात् तथोत्तरत्राप्यनुकर्षणं भवत्येव एतं त्वेव ते भूयोऽनुव्याख्यास्यामीति । य एष स्वप्ने महीयमानश्चरत्येष त आत्मेति तद् यत्रतत्सुप्तः समस्तः सम्पन्नः स्वप्नं न विजानातीति सु.
GE भास्करीयब्रह्मसूत्रभाष्ये धुप्तावस्थायामपि स एव व्याख्येयत्वेनानुकृप्यते । पुनश्चोपसंहर- त्येवमेवैष सम्प्रसादोऽस्माच्छरीरात समुत्थाय परं ज्योतिरुपसम्पद्ये- त्यतो जीव एवेति चेत् । परिचोदनानिवृत्त्यर्थस्तुशब्दः । जीवोऽत्रावि- भूतस्वरूपो विवक्षितः । आविर्भूतं स्वरूपं यस्य सोऽयमाविर्भूत- स्वरूपः । परमात्मखरूपेणायं जीवो विवक्ष्यते न जैवेन रूपेणा- नाविर्भूतं हि तस्य जीवावस्थायां पररूपमविद्याकामकर्मतिरस्कृत- स्वात्।तत् पुनर्विद्ययाभिसम्पत्तव्यं तेनाकारेण जीवो निर्दिश्यते।तत- श्चापहतपाप्मादयो धर्मा उपपद्यन्ते जैवे रूपे ते विरुध्यन्ते ॥१९॥ यद्येवं जीवरूपोपन्यासः किमर्थः य एषोऽक्षिणीत्याशयाह । अन्यार्थश्च परामर्शः ॥ २०॥ चशब्दः सम्भावनायाम् । अनादिकालप्रवृत्तप्रत्यक्षादिप्रमाण- सिद्ध कर्तृभोकादिरूपं परामृश्यते ऽनूधते प्रजापतिना परमरूपं मघवते करतलस्थबिल्ववत् प्रदर्शयितुमित्यविरोधः। प्रस्थानादिग- तयः काश्चित् परं प्रतिपाद्य तदसीति ग्राहयन्ति यथा तत्त्वमसीति । काश्चित् पुनर्जीवमेवाधिकृतां तांतामवस्थां प्रत्याख्याय ततः परमा- त्मरूपं दर्शयन्ति । यथा कतम आत्मा योऽयं विज्ञानमय इत्युपक्रम्य अनस्थिकोऽशरीरः स वा एष महानज आत्मेत्युपसंहारात् । परमा- त्मना सम्पन्नस्यैकात्मनः कर्तृभोक्तृस्वरूपविनिवृत्तिः सा च श्रुत्या दर्शिता। अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः अस्माच्छरीरात समुत्थायेति च । प्रारब्धकर्मफलभोगस्यावश्यम्भावित्वाद्भियमा- णशरीरस्यावश्यम्भावी सुखदुःखानुभवस्तस्माजीववदेवमुक्तमिति ये प्रतिजानते ते(१) श्रुतिमतिवर्तन्ते दृष्टानुभवं बाधन्ते ॥ २० ॥ अल्पश्रुतेरिति चेत् तदुक्तम् ॥ २१ ॥ दहरश्रुतेने परमेश्वर इति चेत् तत्र यद्वक्तव्यं तदुक्तं पुरस्ता- दर्भकौकस्त्वादिति ॥ २१॥ अनुकृतेस्तस्य च ॥ २२ ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कु- (१) जीवदेहमुक्ताये प्रतिमानते ते-पा० २ पु. ।
- १ अध्याये ३ पादे २०-२४ सूत्राणि । ६९ तोऽयमग्निः तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं वि- भातीति श्रूयते । तत्र सन्देहः यं भान्तमनुभाति इदं सर्व यस्य च भासेदं सर्व जगद्विशेषेण भाति स तेजोधातुः कश्चिदथवा पर- मेश्वर इति । किं तावद् युक्तं तेजोधातुः कस्मात् पूर्वत्र दहरश्रवणे ऽपि वाक्यशेषैः परमात्मा निर्णीतोऽत्र तु विशेषत्वभावान्न परो गृह्यते सूर्यादीनां च तेजःस्वभावानां भानप्रतिषेधात् तत्समानजा- तीयमेव तेजः प्रतीयते । किं च समानजातीये ऽनुशब्दो दृष्टो यथा ग- च्छन्तमनुगच्छन्तीति प्राप्ते ऽभिधीयते प्राज्ञो भवितुमर्हति कुतोऽनु- कृतेः । अनुकरणमनुकृतिस्तमेव भान्तमनुभाति सर्वमिति भान्तं विज्ञप्तिरूपेण प्रकाशमानमनुभाति सर्व स्वयमपि प्रकाशते यथाग्निं भान्तमयःपिण्डोऽनुभात्यनुकरोति सर्वे च तेजोधातवस्तस्मिन् प्रति- षिद्धा ये प्रसिद्धास्तस्य भौतिकतेजोव्यतिरिक्तं ब्रह्म निर्दिष्टमनुग- म्यते । समत्वे चानुभानं नोपपद्यते । न हि प्रदीपः प्रदीपमनु- भाति । न चानुकरणं समानजातीयविषयमेव भौमं रजो वायुं व- हन्तमनुवहतीति । तस्य चेति श्लोकस्य चतुर्थः पादो निर्दिश्यते । तस्य भासेति तृतीयपादहेत्वपदेशातू प्राज्ञो गम्यते ॥ २२ ॥ अपि च स्मर्यते ॥ २३ ॥ प्राज्ञस्यैवात्मनः सूर्यादिप्रकाशननिमित्तत्वं तेषां च तत्राप्रवृत्तिः स्मर्यते । यदादित्यगतं तेजो जगद्भासयते ऽखिलमिति ॥२३॥ शब्दादेव प्रमितः ॥ २४ ॥ अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । तथाङ्गुष्ठमात्रः पु- रुषो ज्योतिरिवाधूमक ईशानो भूतभव्यस्य स एवाद्य स उ श्व एतद्वै- तदिति च श्रूयते । तत्र सन्देहः किं विज्ञानात्मा उत परमा- त्मेति । किं तावत् प्राप्तं विज्ञानात्मेति परमात्मश्रुतेन त्वनन्तस्या- पारस्य परिमाणश्रुतिरुपपद्यते जीवस्यापीशानत्वं स्वगोचराभिप्रा- यमवकल्पते । सावित्र्युपाख्याने वा अथ सत्यवतः कायातू पाशवर्द्ध वशं गतम्। अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥ इति स्मृतेर्जीवो निश्चीयते । तत्र ब्रूमः । प्रमितः परमात्मा कुतः HERE -- ALIGINATILBARSHURARNEA । PYA EHATIRAN PRNER भास्करीयब्रह्मसूत्रभाष्य शब्दादेवेशानो भूतभव्यस्यति । सर्वेशित्वमप्रतिहतं श्रूयमाणमीश्वरं गमयति । न हि लक्षणया श्रुतिर्भक्तुं शक्यते । श्रुतिलक्षणाविषये हि थुतिर्बलीयसी ॥ २४ ॥ ननु चाङ्गुष्ठश्रुतिरपि भक्तुं न शक्यते तत्र ब्रूमः । हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥२५॥ अङ्गुष्ठमात्रपरिमाणेन हृद्यकमलमुकुलेनोपलभ्यत्वात् तत्परिमा- णापेक्षया व्यपदेशो न विरुध्यते । ननु को विशेषोऽङ्गुष्ठश्रुतिौणी ई- शानश्रुतिर्मुख्येति । तदुच्यते । एतद्वै तदिति सर्वनामश्रुतेः प्रकृतपरा- मर्शात् । एतद्वै तत् यत् पृष्टम् । ब्रह्मेत्यर्थः । अन्यत्र धर्मादन्यत्राधर्मा- दन्यत्रास्मात् कृताकृतादन्यत्र भूतभव्याञ्च यत्तत् पश्यसि तद्वदेति । ननु हृदयानामनवस्थितत्वात् तदपेक्षयाङ्गुष्ठश्रुतिर्न शक्या नेतुम् । अत्रोच्यते । मनुष्याधिकारत्वात् मनुष्यहृदयापेक्षयोपपत्तेः तेषां हि श्रौतस्मातेषु कर्मस्वाधिकार इति षष्ठे ऽधिकारलक्षणे स्थापितम् । अथ सत्यवतः कायादिति यदुक्तं जीवाभिप्रायं तत् परलोकव्यव- हारस्य पूजाप्रतिपादनायेत्यविरुद्धम् ॥ २५ ॥ तदुपर्यपि वादरायणः सम्भवात् ॥ २६ ॥ मनुष्यहृदयापेक्षयाङ्गुष्ठश्रुतिरित्युक्तं तेषां शास्त्रे ऽधिकारादिति तत्प्रसङ्गेन देवानामपि परविद्यायामधिकारप्रतिपादनार्थमिदमधि- करणमारभते स्म । तदुपर्यपि मनुष्याणामुपरिष्टाद ये वर्तन्ते देवादय- स्तानप्यधिकरोति शास्त्रमिति वादरायण आचार्यो मन्यते स्म । कु- तस्तेषामण्यर्थित्वसम्भवादपवर्गविषयमर्थित्वं सम्भवति प्रपञ्चविष- यस्यैश्चर्यस्यानित्यत्वदोषपर्यालोचनात् । सामर्थ्यमपि सम्भवति म- न्त्रार्थवादेतिहासपुराणेभ्यो विग्रहवत्त्वाभ्युपगमात् । परिज्ञानंचतेषां सार्वत्रिकमस्ति । तथा चाग्ने नय सुपथेति मन्त्रोऽग्नेः सर्वज्ञत्वं दर्श- यति । विश्वानि देववयुनानि विद्वानिति वयुनानि ज्ञानानीति । लिङ्ग च भवति। एकशतं ह वै वर्षाणि मघवान(१) प्रजापतौ ब्रह्मचर्यमुवास भृगुर्ह वै वारुणिर्वरुणं पितरमुपससारोति । यत्कर्माधिकारकारणं न देवा देवतान्तराभावादित्यादि तदिह नास्ति। परविद्याया मनोवृत्ति- (१) भगवान् - पा० २ पु. । VW ARTHAN HINTAIRSANATANTws १ अध्याये ३ पादे २५-२८ सूत्राणि । मात्रविषयत्वात्।किं पुनः कारणं महता यत्नेन देवानामधिकारः प्रति- पाद्यते।अस्ति प्रयोजनं ब्रह्मोपासनसिद्ध्यर्थे तावद्विग्रहवत्त्वादिप्रतिपा- दनं कर्तव्यं शरीरेन्द्रियमनोभिर्विनोपासनानुपपत्तेस्तदुपासकानां च सायुज्यं सालोक्यं च फलं श्रूयते । ततश्चन्द्रादिभावप्राप्तानामपि म- नुष्याणां कथं नाम ब्रह्मविद्याभ्यासातू तत एव मुक्तिरनायासेन स्या- दित्येवमिदं निरूप्यते । तद् यो देवानां प्रत्यबुध्यतेति दर्शनात् ॥ २६ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥२७॥ विग्रहवत्त्वमस्मदादिवदेवानामेवं सत्यभ्युपगन्तव्यं श्रवणम- नननिदिध्यासनेषु शरीरेन्द्रियमनोयुक्तस्य प्रवृत्तिसम्भवात् । ततश्च कर्मणि यागेविरोध इति चेन्नायं विरोधः। अनेकप्रतिपत्तेरनेकविग्रह- प्रतिपत्तरित्यर्थः । कथं गम्यते दर्शनात् । कति देवा इत्युपक्रम्य त्र- यश्च त्री च शता त्रयश्च त्री च सहस्रेत्युक्त्वा महिमान एवैषामेते त्र- यस्त्रिंशत्त्वेव देवा इत्येकैकस्यानेकरूपतां दर्शयति योगशास्त्रेषु चा- नेकशरीरयोगं योगिनां वर्णयन्ति । प्राप्नुयाद्विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । सङ्क्षिपेञ्च पुनस्तानि सूर्यस्लेजोगणानिव(१)॥ इति । ततश्च बहुषु यागेषु सन्निधानमदृश्यत्वं चान्त नशक्तियोगा- दुपपद्यते । अनेकप्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या । अनेका नाना- रूपप्रतिपत्तिः तस्या दर्शनाद् यथैको विप्रो युगपदनेकत्र भोजयितुं न शक्यते स एव स्वस्थानस्थितोयुगपदनेकैर्नमस्क्रियते । तथात्र स्वस्थानस्थितां देवतामुद्दिश्य खंखं द्रव्यमुत्सृजन्तीत्युपपद्यते ॥२७॥ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्॥२८॥ विग्रहवत्त्वे ऽस्मदादिवदुत्पन्तिमत्त्वादनित्यत्वं प्रसज्यते । ततश्च वैदिके वस्वादिशब्दे देवतादिवाचिनि विरोधः स्याद्वेदस्यादिम- स्वप्रसङ्गादिति चेन्नास्ति विरोधः । कस्मादतःशब्दादेव जगतः प्रभ- घादुत्पत्तेः प्रलयकाले ऽपि हि ब्रह्मणि सूक्ष्मरूपेण वेदराशिरवस्थितः । सृष्टिवेलायां परमेश्वरानुग्रहादाद्यस्य शरीरिणो हिरण्यगर्भस्य यः पू- स्मिन् जन्मनि द्वैतैकत्वभावनया प्रजापतिर्भविष्यामीति कर्म कृत- वान् स हिरण्यगर्भ उच्यते । तस्य मनसि वेदोऽवस्थान्तरमनापन्नः सु- (१) सूर्यो रश्मिगणा निवेति कचित् पाठः ।
હર भास्करीयब्रह्मसूत्रभाष्ये घुप्तप्रतिबुद्धस्येव प्रादुर्भवति तेन प्रदीपस्थानीयेन सुरनरतियंगा- दिप्रविभक्तं जगदभिधेयभूतं निर्मिमीते । अयमत्र प्रभवोऽभिप्रेतः । जन्माद्यस्य यत इत्युपादान(१)कारणविवक्षयोक्तम् । कथमिदं ग- म्यते प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । प्रत्यक्ष श्रुतिरनपे- क्षत्वादनुमानं स्मृतिरनुमीयमानश्रुतिसापेक्षत्वात् । एत इति वै प्रजा- पतिर्देवानसृजतासृनमिति मनुष्यानिन्दव इति पितृस्तिरःपवि. त्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रभभिसौभगे- त्यन्याः प्रजा इति । स्मृतिरपि । अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ इति पौराणिकाः। तथा नामरूपे च भूतानां कर्मणां च प्रवर्तनम् । वेदशब्देश्य एवादौ निर्ममे स महेश्वरः ॥ सर्वेषां च स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देश्य एवादी पृथक्संस्थाश्च निर्ममे ॥ इति । कः पुनरत्र शब्दोऽभिप्रेतो वर्णात्मको लोकप्रसिद्धरुपवर्षा- चार्यागमाञ्च(२) न वैयाकरणकल्पितः स्फोटः तस्य चानुपपत्तिरुक्ता प्रथमतन्त्र इत्यत्र नोच्यते अबहुश्रुतप्रतिपत्त्यर्थ दिङ्मात्रं प्रद. इयते । स्फोटः शब्द इति ज्ञाते स एव चार्थप्रत्यायको वाचकरूपेण स एवावस्थितो व्यवहारहेतुर्वर्णाश्चानृतरूपा मानसाः परिकल्पिताः । किं च वर्णेभ्योऽर्थप्रतीतिर्नोपपद्यते । कथम् । एकैकवर्णोंपलब्धौ प्रती- त्यभावात् । न च युगपदवतिष्ठन्ते क्षणध्वंसित्वात् । न च तदुपल- ब्धिरर्थप्रतीतिहेतुस्तस्याश्च क्षणिकत्वात् क्रमभावित्वाञ्च । अत एव वर्णस्मृतिरपि नार्थप्रतीतिहेतुः । पूर्वपूर्वजनितसंस्कारसहितादन्त्या- द्वर्णादर्थप्रतीतिरिति चेत् । न । संस्कारकल्पनायां प्रमाणाभावात् । केन पुनः प्रमाणेन स्फोटो गृह्यते प्रत्यक्षेणेत्याह । तथाहि गौरित्युक्ते अक्रमैकाकारा बुद्धिरुत्पद्यते । तथा चाह । नादैराहितबीजाया(३)मन्त्येन ध्वनिना सह । (1) जनवादास्थयतोऽन्वयादित्युपादान - पा० १ पु० । ( २ ) उपवर्षों जैमिनिसूत्रहृत्तिकारः । (३) जीवाया - पा. २ पु. । नादेनाहित बीजाया। पा. ३ पु.। VIRTUTISETAS SARAPEATHERANAPANKSMSHAURARIA १ अध्याये ३ पादे २९ सूत्रम् । आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ इति । अत्र क्रमः। गौरित्यत्र गकारौकारविसर्जनीया इति भगवानुप- वर्षाचार्य इत्यागमपरम्परायातन्यायोपपन्नं च वर्णानां शब्दत्वम् । कथमश्वदेवदत्तादिशब्देषु श्रोत्रेण वर्णा एव गृह्यन्ते न वर्णव्य- तिरिक्तमवैयाकरणः कश्चित् प्रतिपद्यते । अध्येतारश्चोपाध्या- यसकाशातुपश्रुत्य स्वरमात्राक्षरक्रमयुक्तान् वर्णान् मनसाव- धार्य वर्णयन्तो दृश्यन्ते । एकैकस्य वर्णस्य वा अन्यथाकरणे भर्त्सयित्वा यथारूपप्रतिपादनं कुर्वन्तो दृश्यन्ते । सम्बन्धग्रहण- काले च यावन्तो यादृशैर्यत्र प्रयुज्यन्ते वर्णास्तेषामेव सम्बन्धानाना- पार्श्वस्थाःप्रतिपद्यन्ते न वर्णव्यतिरिक्तस्य स्फोटस्यानुपलक्षितस्य । स- म्बन्धातू कालान्तरे च तेभ्य एव च यथावधारितसम्बन्धेश्योऽर्थ प्रतिपद्यन्ते याचवित्राणां वर्णानां वाचकशक्तिं व्यासज्यवृत्तिमानीता. मालम्ब्यैवैकाकारा बुद्धिरुपपद्यते । अतश्चैकबुद्धेरन्यथासिद्धत्वातू किंनिमित्ता स्फोटकल्पना । अथ वर्णेभ्योऽर्थप्रत्ययानुपपत्तेरिति चे- द्वर्णानां स्फोटाभिव्यक्तावनुपपत्तिः समाना । न च गकारोचारण- वेलायां पदस्फोटः प्रतीयते । अथ चेत् कश्चिद् बयात प्रथमवर्णवेला- यामप्यभिव्यज्यत इत्यनुभवशून्यं ब्रूवतः किमुत्तरं स्यात् तत्र पूर्ववर्ण- जनितसंस्कारसहितेन वर्णेन स्फोटोऽभिव्यज्यत इत्युपगन्तव्यम् । तत्र संस्कारवर्णकल्पना स्फोटकल्पना तस्य वा गृहीतसम्बन्धस्य वाचकशक्तिकल्पनति कल्पनात्रयमस्मत्पक्षे संस्कारकल्पनामात्र- मिति । विशेषोऽपि सङ्कलनाप्रत्ययसमारूढास्त्रयो वर्णा वाचकास्तेषां सम्बन्धग्रहणातू क्रमोश्चारणानन्तरस्मृत्या प्रत्याययन्तीति सर्वेषां नः प्रत्यक्षम् । तस्माद्वर्णा एव शब्दा इति स्थितम् ॥ २८ ॥ अत एव च नित्यत्वम् ॥ २९ ॥ यदुक्तं विग्रहवत्त्वे सत्यनित्यत्वं वेदस्य प्राप्नोत्यनित्यार्थाभिधा- नादिति । तत्र बमोऽत एव शब्दप्रभवत्वात् शब्दपूर्वकत्वात् सृष्टेः । शब्दार्थसम्बन्धानां त्रयाणां नित्यत्वं सम्बन्धकर्तुश्चास्मरणादिति च गवादिशब्दानां तावद्वृद्धव्यवहारे ऽन्वयव्यतिरेकाभ्यामाकृतेर- भिधायकत्वान्न व्यक्तीनामनित्यानां वाच्यत्वमिन्द्रादिशब्दाना- मप्याकृतियोगो मन्त्रार्थवादेभ्योऽवगम्यते । विश्वकर्मप्रणीते च शा- ने देवानामाकृतिविशेषा उक्ताश्चित्रकर्मप्रसिद्ध्यर्थ यमं दण्डहस्त- CANJA4545200000 TAMILLily HING । भास्करीयब्रह्मसूत्रभाष्ये मालिखन्ति वरुणं पाशहस्तमित्यझ्यासे चाकृतियोगः सुप्रसिद्धो दृश्यते । अथ नानास्थानसम्बन्धात् तस्य च नित्यत्वाद् योयस्तत्स्था- नमधितिष्ठति सस इन्द्र इत्युच्यते पृथिवीपतिवदितरैश्वर्यवच्चे- न्द्रशब्दः यावकादिवत् । तस्मानित्येनार्थेन नित्यस्य शब्दस्य नित्यः सम्बन्ध उपपद्यते ॥ २९ ॥ समाननामरूपत्वात् (१) चावृत्तावप्यविरोधो दर्श- नात् स्मृतेश्च ॥ ३०॥ ननु वृद्धव्यवहारस्यानादित्वे सति वाच्यवाचकसम्बन्धस्या- कृतिमत्त्वोपपत्तेरुपपद्यते वेदप्रामाण्यं यदा खलु भवतः सकलं ज- गतू प्रलीयते जायते चाभिनवं तदा समस्तस्य विच्छेदात् कथं वेदस्य नित्यत्वं कथं च तत्प्रभवत्वं जगतः प्रतिज्ञायत इत्याशङ्ख्याह । आवृत्ता- वष्यविरोध इति । चशब्दस्तुशब्दाथै ऽपिशब्दः सम्भावनायाम् । सु. ष्टिप्रलयात्मिकायामावृत्तावभ्युपगम्यमानायां न त्वदुक्तो विरोधः। सु- पुप्तप्रतिबुद्धन्यायेन कल्पान्तरवृत्तपदार्थस्मरणोपपत्तेः कल्पादावीश्व- रानुग्रहात् प्रजापतेः । न हि प्रलयोऽस्माभिरत्यन्तविनाशोऽभिप्रेयते । सुषुप्त्यवस्थायामिव सूक्ष्मतापत्तिमात्रम् विद्यमानस्य चाभिव्यक्ती- करणमात्रं सृष्टिः । कथं समाननामरूपत्वातू कल्पान्तरातीतैरिन्द्रा- दिभिः कल्पादौ सृज्यमानानां नामवाचकः शब्दो रूपमाकृतिः । कथं तुल्यनामरूपत्वं गम्यते दर्शनात स्मृतेश्च । यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै त ह देवमात्मबुद्धिप्रकाशं मुमुक्षु शर- णमहं प्रपद्य इति श्रुतेः । तथा सूर्याचन्द्रमसौ धाता यथापूर्वम- कल्पयत्। यथा पूर्वस्मिन् कल्पे धाता प्रजापतिः सृष्टवांस्तथास्मिन्नपि कल्पे सूर्याचन्द्रमसावकरोदित्यर्थः । तथा यो ह वा अविदिताःय- च्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणु चर्छति गर्त वा प्रपद्यत इत्युपक्रम्य तस्मादेतानि मन्त्रेमन्त्रे वि- द्यादिति छान्दोग्यश्रुतिः । शौनकादिभिश्च मधुच्छन्दप्रभृतयो- ऽग्निमील इत्यादीनामृषयः स्मर्यन्ते । स्मृतिरपि । ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवेभ्यो दात्यजः ॥ (१) समानरूपनामलादि ति कचित् पाठः ।
MEANI १ अध्याये ३ पादे ३०-३१ सूत्रे। यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथाभावा युगादिषु ॥ यथाभिमानिनोऽतीताः तुल्यास्ते साम्प्रतरिह । देवा देवैरतीतैर्हि रूपैर्नामभिरेव च ॥ इति । अत्र मीमांसकाश्चोदयन्ति । कथं युगादौ कस्यचित् पुरुषस्य सम्प्रदायमन्तरेण वेदग्रहणमेकस्य च प्रतिभाने वेदस्य कृतकत्वं प्रसज्यते । अत्र वदामः । वेदस्य तावत् प्रामाण्यं प्रथमपादोक्तेन न्या- येन वाच्यवाचकसम्बन्धनित्यत्वादस्मार्यमाणकर्तृकत्वात् प्रया- जादिवदनपेक्षत्वादनधिगतार्थगन्तृत्वादावयोः समानम् । स्वसिद्धार्थ- स्वरूपे प्रामाण्यं च पुरस्तात् प्रतिपादितम् । तेन यथा स्वर्गास्तित्वं भवान् प्रतिपद्यते तथाहमपि सृष्टिस्थितिप्रलयकारणं परमात्मानं सर्वशं सर्वशक्ति प्रतिपद्ये स च सर्वज्ञःप्राणिनामुपभोगकालं ज्ञात्वा प्रथमं भूतसूक्ष्ममव्याकृताकाशं सृजति तदनन्तरं हिरण्यगर्भ त- स्मिन्ननुप्रविश्य तदात्मना स्थित्वाकाशादिक्रमेणाण्डं सृष्ट्वा ततः स्थावरपर्यन्तं सृजति प्राणिनां कर्मानुरूपेण । न च तस्यात्मनः प्र- योजनं किञ्चिदस्याप्तकामत्वादपहतापाप्मा विजरी विमृत्युः सत्य- कामः सत्यसङ्कल्पादिरतिशयानन्दसद्भावः श्रूयन्ते । एतस्यैवान- न्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति संसारिणः सर्वे तदीय- मानन्दैकदेशमुपजीवन्तीति ब्रुबस्तस्य प्रयोजनाभावं दर्शयति । खभावतस्तु प्रवर्तते तत्र यथेदं जगदाविर्भवति पुनश्च तस्मि- नेव प्रलयकाले ऽवतिष्ठते । तथा वेदोऽपि तस्मिन् ब्रह्मणि प्रतिष्ठितः सर्गादौ तदनुग्रहातू प्रजापतेर्मनसि प्रादुर्बभूवति न कश्चिद्दोषः । प- रमात्मनश्च नित्यत्वात् तदात्मत्वाच्च वेदस्य सुलरां नित्यत्वमुपपद्यते संसारस्य चानादित्वात् । यथा तव सुप्तावस्थायां वेदाः प्रलीना इव प्रतिबोधे चाविर्भवन्ति तथा सृष्टिप्रलययोरिनि स्थितम् ॥ ३० ॥ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥ असावादित्यो . देवमध्वित्यादिषूपास्यान्तराभावादादित्यवखा- दीनामनधिकारः सिद्धस्ततश्च विद्यात्वसामान्याब्रह्मविद्याया- मनधिकारं जैमिनिर्मन्यते स्म ॥३१॥ नन्वसमर्थो हेतुर्विद्यात्वसामान्यादिति न हि क्वचिदनधिकारा- UTILITATISTIT । भास्करीयब्रह्मसूत्रभाष्ये दन्यत्रानधिकारोऽनुमातुं शक्यते कर्मकाण्डे तथादर्शनादित्याशयाह। ज्योतिषि भावाच ॥ ३२ ॥ ज्योतिर्मण्डले सवित्रादयः शब्दाः प्रयुज्यन्ते न विग्रहयतीषु देवतासु अविग्रहवतां चेन्द्रादीनां कथमधिकार इति मुख्यहेतूप- न्यासः ॥ ३२॥ भावं तु(१) वादरायणोऽस्ति हि ॥ ३३ ॥ तुशब्दः पक्षव्यावृत्तौ । अधिकारभावं भगवान् वादरायणो मेने । यस्मादस्ति श्रौत्रं दर्शनम् । तद्यो यो देवानां प्रत्यबुध्यत स एव तद- भावत् तथर्षीणां तथा मनुष्याणामितीन्द्रो ह वे देवानामभिप्रवत्रा- जेति च । यदुक्तं विग्रहवत्त्वं नास्तीति । तदयुक्तम्। उपनिषत्सु देवतो- पासनस्य सायुज्यादिप्राप्तेश्चाभिधानात् । देवो भूत्वा देवानप्येतीति । तथा कति देवा याज्ञवल्क्येत्युपक्रम्य त्रयश्च त्री च सहस्रेत्यनेकरूपो- पादानमैश्वर्ययोगादुपन्यस्य महिमान एवैषामेते प्रयस्त्रिंशत्त्वेव देवा इति तात्पर्यतो देवतानिरूपणं ब्रह्मणा चोक्तमष्टी वसव एका- दश रुद्रा द्वादशादित्याः पजापतिश्च वषटारश्चेतीन्द्रो वषटारश- ब्देन तत्रोक्तः । अपि च मन्त्रार्थवादेतिहासपुराणेभ्योऽष्टगुणैश्चर्योपेताः समधिगम्यन्ते । न च मन्त्रार्थवादप्रभवस्य ज्ञानस्य मिथ्यात्वं वदितुं शक्यं करणदोषबाधकप्रत्यक्षाभावात् त्रिधा हि मन्त्रार्थवादाः प्र- माणान्तरविरुद्धार्थवाचिनो विरुद्धार्थविषयाः प्रमितार्थाश्चेति । यथा धूम एवाग्नेर्दिवा दर्शनार्चिरिति । अग्निर्हिमस्य भेषजं पूत एव स तेजस्वी अन्नाद इन्द्रियवाची पशुमान् भवतीति । तत्र विरुद्धार्थेषु गुणवादोऽवतिष्ठते । तत्रापि पौर्वापर्यान्वयादेव गुणनिष्ठता प्रती- यते । प्रमितार्थाविरुद्धार्थेषु तु श्रूयमाणमेवालम्बनं युक्तं न हि निरालम्बनं विज्ञानमस्तीति स्थितं निरालम्बनवादे । ननु परार्थत्वा- दर्थवादानांधूयमाणार्थत्वं नास्तीति । तदिदमसमीक्षितं वचनम् ।नहि परार्थत्वं मिथ्यात्वहेतुः । उभयं हि मिथ्यात्वकारणं करणदोषो बाध- कप्रत्ययो वेत्युक्तम् । न हि प्रयाजादीनां स्वरूपाभावः परार्थत्वाद- भ्युपगम्यते । न च गर्भदासादीनां विद्यमानस्य हि स्वार्थता परा- (१) भावात इति पाठः कचित् । ।
१ अध्याये ३ पादे ३२-३५ सूत्राणि । ६७ र्थता वा नासतः शशविषाणस्योभयं दृश्यते अर्थवादगतेभ्यः पदेश्यः पदार्थप्रतीतिः ततो वाक्यार्थावगतिः तस्यास्तु क्रत्वर्थपुरुषार्थोपयोगि- त्वाभावान्निन्दा स्तुतिर्वा प्रयोजनं कल्प्यते । न हि प्रयोजनवशात् स- दसत्त्वे किं तर्हि प्रत्ययवशात् तृणलोष्टादिवदतो विग्रहवत्वादि प्रतीयमानं प्रमाणान्तराविरुद्धं च प्रतीतिशरणर्युक्तमभ्युपगन्तु- मिति च विधिभिरेव रूपवत्वमपेक्षितमेवं हि श्रूयते । यस्यै देवता- थै हविहीतं स्यात्तां मनसा ध्यायेत् वषट्करिष्यन्निति नीरूपस्य ध्यानानुपपत्तेमन्त्रार्थवादसमर्पित रूपमाश्रयणीयं न खबुद्धिकल्पि- तमित्यलमतिप्रसङ्गेन । यतू पुनर्देवताधिकरणे विग्रहवत्त्वादिनिरा- करणं तहेवतातः फलमिति सांख्यायो मन्यन्ते तदभिनिवेशनि- राकरणमात्रपरमिति द्रष्टव्यम् ॥ ३३ ॥ शूद्रस्य(१)तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि॥३४॥ मनोवृत्तिमात्रसाध्यत्वाद्विद्यायाः शूद्रस्याप्यधिकारमाशय नि- राक्रियते लिङ्गदर्शनाच । संवर्गविद्यायां जानश्रुतिं पौत्रायणं शूद्रशब्देन परामृशति । अह हारे त्वा शूद्र तवैव सह गोभिर- स्त्विति । सिद्धान्तस्तु न तस्य वैद्यत्वात् कर्मणीव ब्रह्मविद्यायामनधि- कार उपनयनाध्ययनार्थाधिगमाभावालिङ्गयुक्तं न तत्समर्थम् । यौ- गिकस्तत्र शूद्रशब्दः प्रयुक्तः । कथम् । हंसवचनादस्य जानश्रुतेः शुगु- त्पन्ना शोको जातः । कं वर एनमेतत् सन्तं सयुग्वानमिव रैकमा- स्थेत्यनादरश्रवणात् । तदाभवत्तपोपासूपपरिघण्डितहृदययोरैक्यमू- ष्टिद्रुद्रावाजगामैतस्माद्धेतोः शूद्र इत्युक्तिः। किं पुनः कारणे शूद्रशब्देन जानश्रुतिमभाषीत सूच्यते हि रैक्येण राज्ञः शुगुत्पन्ना आत्मनः परो- क्षज्ञानोत्थापनायाह कृपणो धनार्थी सर्वज्ञोऽस्मीति प्रकटयितुम्॥३४॥ क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात(२)॥३५॥ इतश्च जानश्रुतेः क्षत्रियत्वं कथं संवर्गविद्यायामुत्तरत्र वाक्यशेष चैत्ररथेनाभिप्रतारिणा सह समुश्चारणालिङ्गादवगम्यते समानजा- (१) शुगरखे ति क्वचित् पाठः । (२) बीमाष्ये तु मात्रियत्वगलेश्चेत्येक सूत्रम्। उत्तरच चैवरथेन लिङ्गादिक परं सू- वमिति दृश्यते ।
RATANDRAMANIANE भास्करीयब्रह्मसूत्रभाष्ये तीयानामेवैकस्यां विद्यायां सङ्कीर्तनं युक्तम् । किं पुनस्तल्लिङ्गम् । अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनि परिवीक्ष्यमाणो ब्रह्मचारी विभिक्ष इति । कथं पुनरभिप्रतारिणश्चैत्ररथत्वं कापेयेन शौनकेन योगादेतेन वै चैत्ररथं कापेया अयाजयस्तमेकाकिनमन्नाद्यस्याध्यक्ष- मकुर्वत । तस्माच्चैत्ररथिर्नामकः क्षत्रपतिरजायत इति छन्दोगानां द्विरात्रे श्रूयते ॥ ३५ ॥ संस्कारपरामर्शात् तदभावाभिलापाच्च ॥ ३६ ॥ इतश्च विद्यायामनधिकारः । संस्कारस्य चोपनयनस्य परामर्शात तत्सङ्कीर्तनात् । विद्याप्रदेशे तं होपनिन्ये अधीहि भगव इति तस्य भावाभिलापादभिधानात् । शूद्रश्चतुर्थो वर्ण एकजातिन च संस्का- रमहतीति श्रुतेः ॥ ३६ ।। तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥ शूद्रत्वाभावनिर्धारणे निर्णये सति जाबालमुपनेतुमनुशासितुं च गौतमत्व प्रवृत्तः समिधं सौम्याहरोप त्वानेष्ये न सस्यादगा इति॥३७॥ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च(१)॥ ३८ ॥ श्रवणाध्ययनतदर्थपरिज्ञानतदनुष्ठानानां प्रतिषेधाच्च स्मरणात्। अथास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रपरिपूरणम् । तस्माच्छूद्र- समीपेनाध्येतव्य इति ॥ ३८ ॥ कम्पनात् ॥ ३९ ॥ कठवल्लीषु पठ्यते । यदिदं किं च जगत् सर्व प्राण एजति निवृतं महद्भयं वनमुद्यतं य एतद्विदुरमृतास्ते भवन्तीति । तत्र संशयः किं पञ्चवृत्तिायुः प्राणः किं वा ब्रह्मेति । कि तावद्यक्तं प्रसिद्धेर्वायुः प्राणः समष्टिव्यष्टिभावेनावस्थितः । यद्य- पीदं ब्रह्मप्रकरणं तथापि श्रुतिर्बलीयसीति पूर्वः पक्षस्तत्र जगत्परि- (१) श्रीभाध्य तु अधणाध्ययनार्थ प्रतिषेधादित्येकं सूत्रम् । स्मृतेशेत्यपरं सूत्र- मिति दृश्यते ।
१ अध्याये ३ पादे ३६-४१ सूत्राणि । वर्तमानमेजति कम्पते वज्रमशनिः प्रसिद्धः । एवं प्राप्ते धूमो ब्रह्मैव प्रतिपत्तव्यं कस्मातू पूर्वापरपर्यालोचनातू प्रतीतेः । तदेव शुक्लं तब्रह्म तदेवामृतमुच्यते इति पुरस्तादुपक्रमादुत्तरत्रापि भयादस्थानिस्तपति भयात्तपति सूर्यः भयादिन्द्रश्च ध वायुश्च मृत्युर्धावति पश्चम इति । तन्मध्यपतिते ऽस्मिन् वाक्ये ब्रह्मैव निर्दिष्टं गम्यते न वायुः । कस्माजगतः कम्पनात् । ब्रह्मणो हि निखिलं जगदबिभ्यतू कम्पते खव्यापारे नियमेन प्रवर्तत इत्यर्थः ॥ ३९ ॥ ज्योतिर्दर्शनात् ॥ ४०॥ STUDIENIS एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपस- स्पद्य खेन रूपेणाभिनिष्पद्यत इति । तत्र सन्देहः किं तमोपहं तंजः किं वा ब्रह्मेति । किं तावद्युक्तं तमोपहं तेजः प्रसिद्धः अथ यदतः परो दिवो ज्योतिरिति परप्रत्यभिज्ञानात् पर ज्योतिरित्यध्यवसित- मिह तन्नास्तीति पूर्वः पक्षः। सिद्धान्तस्तु तद्ब्रह्मप्रतिपादनाय प्रक- रणं समुत्थाय आत्मापहतपाप्मेत्युपक्रमादेतं त्वेव ते भूयोऽनुव्या- ख्यास्यामीत्यनुसन्धानादशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इत्यवधारणादशरीरो वायुरिति च दृष्टान्तोत्पादनात् परम कारणं ज्योति वस्योपसम्पत्तव्यमथ यदत इति परस्मिन्नपि ज्योतिःश- ब्ददर्शनायोति स्थितम् ॥ ४० ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात(१)॥४१॥ आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मेति श्रूयते । तत्र सन्देहः किं भूताकाशः किं वा पर इति । भूताकाशमिति प्राप्तम् । अवकाशादिदानेन तस्य नामरूपनिर्वहन स- म्भवतीति प्राप्ते उच्यते । पर एवाकाश कस्मादन्तरत्वेन व्यप- देशादाकाशस्य ते यदन्तरेत्याकाशस्यापि नामरूपत्वात् ततिरेकेणा- भिधानादादिशब्देन ब्रह्मत्वामृतत्वात्मत्वसंकीर्तनं युज्यते आकाश. स्तल्लिङ्गादिति स्पष्टलिङ्गनामरूपनिर्वहणमन्यत्रापि स्यादित्याश- ङ्कातिरेकः ॥ ४॥ (१ ) अर्थान्तरतादित्यपदेशादिति क्वचित् पाठः ।
७० भास्करीयब्रह्मसूत्रभाष्ये - TELLITERATE सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥ व्यपदेशादित्यनुवर्तते । वृहदारण्यके षष्ठप्रपाठके कतम आत्मेति योर्य विज्ञानमयःप्राणेषु हृद्यन्तज्योतिः पुरुष इत्युपक्रम्यात्मविषयं नि- रूपणं क्रियमाणं किं संसारिखरूपपरं किं वा परमात्मस्वरूपपरमिति संशये विज्ञानमयः प्राणेष्विति लिङ्गात संसारिस्वरूपप्रधानमन्वाख्या- नमिति प्राप्ते ब्रूमः पररूपपरयिति कुतः सुषुप्तावुत्क्रान्तौ च शा- रीरादू भेदेन परस्य व्यपदेशात् । प्राज्ञनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेदेति प्रकृष्टया सर्वज्ञलक्षणया प्रज्ञया युक्तः प्राज्ञः परमे- श्वरस्तेन सम्परिश्वत्तो जीवः । तथोक्रान्तावप्ययं शारीर आत्मा प्रा- क्षेनात्मनान्वारूढ उत्सर्जन यातीति यः पुनरुपक्रमे प्राणसम्बन्धः सोऽनुवादः प्रमाणान्तरसिद्धः।सर्वोपाधिरहितचैतन्यानन्दस्वरूपप्र- तिपादनाय । तथाहि स वा एष महानज आत्मेत्युपसंहरत्यसङ्गो ह्ययं पुरुषोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्थों हि तदा सर्वान् शो- कान् हृदयस्य भवतीति पुण्यपापाझ्यामसम्पृक्तं समस्तशोकातीतं विज्ञानात्मनः परं रूपं परमात्मसझं दर्शयति ॥ ४२ ॥ पत्यादिशब्दभ्यः ।। ४३ ॥ इतश्च सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिरिति पत्यादि- शब्देश्यः परमात्मा निश्चीयते ॥४३॥ इति श्रीभास्कराचार्यविरचिते शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥
ॐ नमः परमात्मने। भास्करीयब्रह्मसूत्रभाष्ये प्रथमाध्याये चतुर्थः पादः। MARATHI आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त- गृहीतेर्दर्शयति च ॥ १ ॥ अनुमानिकमनुमाने भवं प्रधानमध्येकेषां शाखिनां शब्दवदुप- लभ्यते । अपिशब्दः सम्भावनायाम् । कठवल्लीषु पठ्यते । महतः पर- मव्यक्तमव्यक्तात्पुरुषः पर इति । पुरुषो भोक्ताव्यक्तं प्रधानमिति । तत्र क्रमः सांख्योक्तः प्रत्यभिज्ञायत इति चेन्न शरीरस्य रथरूपक- विन्यस्तस्याव्यक्तशब्देन ग्रहणात् । केनचित् सादृश्येन वस्त्वन्तरे ब- स्त्वन्तरकल्पनं रूपकम् । यथा भारतामृतं चक्रवाकस्तनीति । आत्मानं रथिनं विद्धि शरीरं रथमेव बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ इति । रथक्लप्ति दर्शयित्वेन्द्रियादिश्यः परत्वेन सोऽध्वनः परमा- मोति तद्विष्णोः परमं पदमिति दर्शयति । कथम् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ इति । इन्द्रिये यो वर्थानां परत्वमितिग्रहणादुत्कृष्टवचनोऽत्र परशब्दः। पूर्वस्मिन् अन्थे शरीरस्य सन्निधानादव्यक्तं शरीरं प्रतीयते पारिशे- प्याश्चेति न शब्दात सर्वस्मात् परमपदस्य परत्वमिह विवक्षितं बुर्वि- भास्कररीयब्रह्मसूत्रभाष्ये TTTTT. । शेयत्वात्तथा च। एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वग्यूया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ इति । वैष्णवस्य पदस्य दुर्दर्शत्वमुक्त्वा तत्प्रतीत्युपायं दर्शयति । यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छतू ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छंच्छान्त आत्मनि ॥ इति । वाचं समस्तबाह्येन्द्रियव्यापार मनसि संयच्छेदित्यर्थः । तञ्च मनो ज्ञानात्मनि बुद्धिस्वरूपे नियमयेन्मनो नाम सङ्कल्पकामस्मर- णादिहेतुः । बुद्धिः पुनरध्यवसायात्मिका तस्याश्च धमाऽहङ्कारः ते बुद्धिमनसी द्वे अन्तःकरणे वेदान्तवादिन इच्छन्ति । तां बुद्धिं म- हत्यात्मनि क्षेत्रज्ञे भोक्तरि स्थापयेत् । तं च शान्ते प्रपञ्चातीते स- वव्यापिन्यमृतरसे संसृजेत् स एवाहमस्मीति भावयत् । सनकादौ च योगशास्त्रे ऽयमेव योगः प्रदश्यते । ध्यानं धारणा समाधिरिति । ध्यानमभिप्रेतार्थप्राप्त्यर्थ चित्तैकाग्रतोच्यते । प्राणेन्द्रियबुद्धिमनसां युगपतसन्धानं धारणा । श्रद्धाप्रयत्नाभ्यां नित्यचिन्ता समाधिः । उक्तं च सनकेन । न योगादुत्तमं ह्यस्ति योग एव परा गतिः । देवा महर्षयश्चैव योगेन श्रेष्ठतां गताः ॥ श्लिष्यमाणोऽपि कुर्वीत निग्रहं मनसः सदा। न निर्वेदं मुनिर्गच्छेत् कुर्यादेवात्मनो हितम् ॥ इति ॥१॥ सूक्ष्मं तु तदर्हत्वात् ॥२॥ कथं पुनः शरीरमव्यक्तशब्दाहमित्याशङ्कानिवृत्त्यर्थस्तुशब्दः । शरीरकारगं भूतसूक्ष्मम व्यक्तीकृतमीश्वरशक्तिराचं तत्त्वमचेतनं यतः सर्वोऽयमाकाशादिरचेतनप्रपञ्चो जायते । कारणं मुक्त्वा कार्य स्थूलमपि शरीरमुक्तम् । कार्यकारणयोरनन्यत्वादित्यभिप्रायः । किं पुनः कारणं स्थूल शरीरे प्रकृतभूतसूक्ष्मं व्यपदिश्यते । तदहत्वाद- व्यक्तशब्दाभावातू ॥ २॥ तदधीनत्वादर्थवत् ॥ ३ ॥ ।
७३ १ अध्याये ४ पादे ३-५ सूत्राणि । यदव्याकृतमभ्युपगम्यते तदेव प्रधानमित्याशङ्ख्याह । तधी- नत्वादीश्वराधीनत्वाव्याकृतावस्थायाः । त्वदभिप्रेतं नित्यमचेतनं प्रधानं न सिध्यति तञ्चाव्याकृतमर्थवदभ्युपगम्यते प्रयोजनवत् । न हि तेन विना प्रपश्चोत्पत्तिः सम्भवतीति केचिदेवं व्याचक्षते । अपरा व्याख्या सूक्ष्म लिङ्गशरीरं स्थूल शरीरापेक्षया सूक्ष्ममिति व्यप- दिश्यते । कस्मात् तदर्हत्वादव्यक्तशब्दस्य । पञ्चानां भूतानां प्रतिपु. रुष सूक्ष्मावस्था काचित् कर्मकारितास्ति । तदन्तरप्रतिपत्तौ वहन्ती- त्यत्र प्रसाध्यते । तस्मिन् शरीरे पश्च वायव एकादशेन्द्रियशक्तयो बुद्धिश्चेति तदिदं लिङ्गशरीरं पुर्यष्टकमिति गीयते । तेन बद्धो बद्ध उच्यते । तेन च मुक्तो मुक्त इत्युच्यते । तदेतदाह । तदधीनत्वा- दर्थव॑त् । सूक्ष्म शरीराधीनत्वाद्बन्धमोक्षयोरर्थवदिति दृष्टान्तवच. नमिन्द्रियेभ्यः परत्वं यथार्थानां तथा महतो जीवाव्यक्तस्य प- रत्वं शरीरं रथमित्यत्रापि लिङ्गशरीरमुपात्तं तेन विना संसरणं रोग- योरभावादतः प्राकृतमेव सूक्ष्मशरीरमित्युपपन्नं द्वितीयं व्याख्यानम् । लिङ्गशरीररहितः परमात्मति ततः परत्वं तस्योपपद्यत इति ॥३॥ ज्ञेयत्वावचनाच ॥ ४ ॥ ज्ञेयत्वेन सांख्यैः प्रधानं स्मर्यते गुणपुरुषविवेकज्ञानान्मुक्ति- रिति । इह तदभावान प्रधानमव्यक्तम् ॥४॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥५॥ शेयत्वं वदति श्रुतिरिति चेत् अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धबच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखातू प्रमुच्यते ॥ इति । न प्राज्ञो हि तस्य हीदं प्रकरण पुरुषान परं किञ्चि- दित्युपक्रमात न च प्रधानस्य प्रक्रियास्ति कथं पुनरीश्वरवि- षयं ज्ञानं जीवस्य मुक्तिकारणं न हि गोविषयेण ज्ञानेन तैमि- रिकस्य द्विचन्द्रज्ञानं निवर्तते । वचनसामर्थ्याद्भवतीति चेत् न वचनशतेनाप्यनिवृत्ताबित्यस्य मुक्तिरुपपादयितुं शक्यते । ज्ञान- मज्ञानस्य निवर्तकं दृष्टत्वात् तश्च प्रकाशकत्वात् प्रदीपवत् । भत्रो- GIULID Mu ७४ भास्करीयब्रह्मसूत्रभाष्ये च्यते । न गोपुरुषवदत्यन्तभेदो जीवपरयोर्यदेव पररूपदर्शने सैवाविद्या सा च विद्यया निवर्तते । ततश्च स्वरूपं प्रतिपद्यत इति किमत्र चित्रमत इदमुक्तम् । निचाय्य तं मृत्युमुखात् प्रमु- ब्यत इति ॥ ५॥ त्रयाणामेव चैव मुपन्यासः प्रश्नश्च ॥ ६ ॥ इतश्च नाव्यक्तं प्रधानम् । एवशब्दोऽवधारणे । त्रयाणामग्निजीव- परमात्मनामुपन्यासो व्यक्तव्यतया प्रश्नश्च शेयतया एवमिति प्रकारनिर्देशो ग्रन्थारूढः प्रकारो निर्दिश्यते । स त्वमग्निं स्वर्ग्य- मध्येषि मृत्योः प्रब्रूहि तं श्रद्दधानाय मह्यमित्यग्निप्रश्नः । येयं प्रेते विचिकित्सा मनुष्ये ऽस्तीत्येके नायमस्तीति चैके एतद्विद्यामनु- शिष्टस्त्वयाहं वराणमेष वरस्तृतीय इति जीवप्रश्नः । सौमनस्य प्रश्ना- पेक्षयायं तृतीयः । अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृता तात् अन्यत्र भूताञ्च भव्याश्च यत् तत् पश्यसि तद्वदेति परविषयः प्रश्नः। उपन्यासोऽपि। लोकादिमग्निं तमुवाच तस्मै । योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ इति । जीवविषयं प्रतिवचनम् । न जायते म्रियते वा विपश्चिदिति परविषयमेव । नास्ति प्रधानस्येति तात्पर्यार्थः॥६॥ महबच्च(१) ॥ ७ ॥ इतश्च महच्छब्दो बुद्धौ सांख्यैः प्रयुक्तस्ततोऽन्यत्रापि वेदे ह- श्यते । वेदाहमेतं पुरुषं महान्तम् । तथान्यक्तशब्दः शरीरे भ- विष्यति ॥ ७॥ -~- चमसवदविशेषात(२) ॥ ८ ॥ श्वेताश्वतराणां मन्त्रोपनिषदि श्रूयते। अजामेकां लोहितशुक्लकृष्णां वहीः प्रजाः सृजमानां सरूपाः। (१) महत्त्वाचे ति क्वचिदादर्श पुस्तके पाठः । .(२) अविशेषाच-पा- २ पुरु।
१ अध्याये ४ पादे ६-११ सूत्राणि । ७५ TIPMAITHILD अजो ोको जुषमाणोनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ इति । तैत्तिरीयाणामपि नारायणोपनिषदि श्रूयते । अस्मिन् मन्त्रे त्रि- गुणात्मिका प्रकृतिः । सांख्यस्मृतिप्रसिद्धा प्रत्यभिज्ञायते । अतः प्रधानं प्रतिगम्यमेवेत्याशङ्कां निराकरोति। न प्रधानमनेन मन्त्रेण निर्दिश्यते कस्मादविशेषात् लोहितादिशब्दानां रक्तशुक्लकृष्णवर्ण- वाचिनां सर्वत्राविशेषाञ्चमसवदर्वाम्विलश्चमस ऊर्ध्वबुन इत्य- स्मिन् मन्ने चमसक्रियायोगाचमसशब्दो यथाविशिष्टस्तथेहापि ॥८॥ ननु तत्र इदं तच्छिर इति वाक्यशेषाच्छिरश्चमसो गम्यते ऽत्र कथं विशेषप्रतीतिरत आह । ज्योतिरुपक्रमा तु तथाह्यधीयत एके ॥ ९ ॥ तुरवधारणे । ज्योतिरुपक्रमो यस्याः प्रकृतेः सा ज्योतिरुप- क्रमा तथा तेन प्रकारेणके शाखिनः छन्दोगा अधीयते । हीति हेतौ । यदने रोहितं रूपं तेजसस्तद्रूपं यत् शुक्लं तदपां यत् कृष्णं त- दन्नस्योति शाखान्तरे विशेषदर्शनात अविशेषश्रुतिनिर्णीयते । य- थाग्नेयं चतुर्धा करोतीति विशेषश्रुत्या पुरोडाशं चतुर्धा करोतीति सामान्यश्रुतिनिर्णीयते तद्वत् ॥ ९ ॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥ चशब्दः सम्भावनायाम । ईश्वरादुत्पन्नायामपि चराचरप्रकृता- वजा सादृश्यकल्पनयोपदेशादविरोधः । यथा काश्चिदजां बहुव. करां यहच्छया कश्चिदजोऽनुशेते अपरो जहाति तथेमां प्रकृतिम- विद्वाननुशेते व्यपगताविद्यातिमिरो जहातीति जीवानां पर- स्परं भेद एव परमात्मना चाभेदः । फेनतरङ्गादीनामिव सत्येव- मेकस्मिन् मुक्त परो न मुच्येत इत्युपपद्यते बन्धमोक्षव्यवस्था म- ध्वादिवदादित्यस्य । मधुनो मधुत्वं वाचश्च धेन्वा धेनुत्वं सादृ- श्यातू कल्प्यते ॥ १०॥ न संख्योपसंग्रहादपि नानाभावादतिरेकाच ॥११॥ यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः तमेवमन्य आ- MITTEE ७६ भास्करीयब्रह्मसूत्रभाष्ये स्मानं विद्वान् ब्रह्मामृतोऽमृतमिति । अस्मिन् मन्त्रे पञ्चसंख्याविषया अपरा पञ्चसंख्या श्रूयते ततश्च पञ्चपञ्चकाः पञ्चविंशतिपदार्थाः सम्पद्यन्ते । अर्थतश्च स्मर्यन्ते सांख्यैः । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । अत्रोच्यते । न संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वम् । अपिशब्दः सम्भावनायाम्।कुतः नानाभावात् सांख्यकल्पितानां पञ्च- विंशतितत्त्वानां पृथग्भावात् । अन्तरार्थे पञ्चसंख्यानिबन्धनं नास्ति यत्रावान्तरसंख्या निवेशतः । संख्याशब्दो हि प्रयुज्यमानो जा. तिगुणक्रियां चोपादाय प्रयुज्यते । न चात्रान्तराले पञ्चसंख्या- निवेशनिमित्तमन्यतमं यत् पश्यामः । तस्माद् दिक्संख्ये संज्ञायामिति समासोऽनुसतव्यः । पञ्चजना नाम केचित् ते पञ्चतिसंख्यया वि- शिष्यन्ते।यथा सप्तर्षयः सप्तेत्येकैकोपि सप्तर्षिः । जनशब्दोऽपि न तत्वे प्रसिद्धस्तस्मादप्रत्यभिज्ञानम् । अतिरेकाच्च । यस्मिन्निति सप्त- म्यात्मा निर्दिश्यते । तथाकाशश्च प्रतिष्ठित इत्याकाशोऽतिरि- च्यते । ततश्च सप्तविंशतितत्त्वानि सम्पद्यन्ते ॥ ११ ॥ प्राणादयो वाक्यशेषात् ॥ १२ ॥ के पुनस्ते पञ्चजनाः प्राणादयः कथं वाक्यशेषात् । प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुरिति ॥ १२॥ ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥ । माध्यन्दिनानां मन्त्रे अन्नेन प्रपूरणं असत्यने ज्योतिषा पूरण- मेकेषां काण्वानां न तऽन्नं प्राणादिषु पठन्ति पञ्च पञ्चजना इत्य- स्मात् पूर्वस्मिन् मन्त्रे तद्देवा ज्योतिषां ज्योतिरिति पठन्ति ॥ १३ ॥ करणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥ क्वचिदाकाशादिका सृष्टिरुच्यते । आत्मनः आकाशः सम्भूत इति । क्वचित्तेजःप्रमुखा तत्तेजोऽमृजतेति । क्वचित् प्राणादिका स प्रा.
SERSKAISESSMENSITAMANDESAIRMEMANTIBIKAN १ अध्याये ४ पादे १२-१६ सूत्राणि । णमसृजतोति । क्वचिदक्रमा लोकसृष्टिः स इमाँल्लोकानसृजताम्भो मरीचीर्मरमाप इति । क्वचिदसत्पूर्विका सृष्टिरसद्वा इदमग्र आ- सीत्ततो वै सदजायतेति । क्वचिदसन्निराकरणे सत्पूर्विका सृष्टिः कथमसतः सज्जायतेति सदेव सौम्येदमन आसीदिति सृष्टि- क्रमविपतिपत्तेः । स्रष्टाप्यनेको नैकं ब्रह्म जगत्कारणमित्याशङ्ख्य निराक्रियते । चशब्दस्तुशब्दार्थो यथाशब्दः प्रकारवचनो यत्प्रकार सर्ववित्त्वादि(१)गुणयुक्तं ब्रह्मकारणत्वेन व्यपदिष्टमेकस्मिन् वेदान्ते तत्प्रकारस्य सर्ववेदान्तेषूक्तेन कारणविज्ञानमाकाशादिषु सज्यमाने सत्यर्थप्रत्यभिज्ञानात् सत्यं ज्ञानमनन्तं ब्रह्मोति यदेकत्रोक्तं तदे- वैतद्वहु स्यां प्रजायेथेति । तथात्मा वा इदमेक एवान आसीना- न्यत् किञ्चन मिषत् स ऐक्षत लोकानुसृजा इति । यथा कुम्भ- कारो मत्रजातं (?) निर्मिमाणः कदाचिद्धटपूर्विकां सृष्टिं करोति कदाचिच्छरावपूर्विकां तथापि कर्ता न भिद्यते ॥ १४ ॥ समाकर्षात् ॥ १५ ॥ यदुक्तमसद्वा इदमन आसीदिति असत्पूर्विका सृष्टिरुच्यत इति। तत्रोत्तरम् । सोऽकामयतेति प्रकृतसमाकर्षादसद्वा इदमग्र आ- सीदित्यनेन श्लोकेन पूर्वोक्तमेवात्मानमालम्ब्य विषयीकृत्योत्तर- वाक्यप्रवृत्तरित्यर्थो यदिदमाभिव्यक्तं जगदुपलभ्यते तदस- दिवासीदस्यष्टमिवाभूदित्यर्थः । न निरात्मकमवस्तुकारणत्वेन कथ्य- ते । असदेवेदमन आसीदित्यत्रापीयमेव योजना । तत् सदासीदिति समाकर्षणात्तद्धेदं तहव्याकृतमासीदित्यत्रापि ईश्वरे व्याकर्तरि सत्येव कर्मकर्तृनिर्देशो द्रष्टव्यः । तस्मादेवमेव चेतनं जगत्कार- णमिति सिद्धम् । यदुक्तं गतिसामान्यादिति न तार्किकाणामिव ज- गत्कारणे विगानमिति विप्रतिपत्तिरित्यभिप्रायः । न वियदश्रुते- रित्यारझ्याकाशादिविषयामपि विप्रतिपत्तिं निराकरिष्यति ॥ १५ ॥ जगद्वाचित्वात् ॥ १६॥ कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते । यो वै वा- लाक एतेषां पुरुषाणां कर्ता यस्य चैतत् कर्म स वै वेदितव्य इति। अत्र (1) सर्वज्ञवाद - पा० ३ पु. । WATUITA VIINID LI ।
७८ । FEELA भास्करीयब्रह्मसूत्रभाष्ये सन्देहः किमत्र प्राणो वेदितव्यत्वेनोपदिश्यते किं वा जीवः परमा- त्मति ।प्राणास्यैतत् कर्मेति तावत् प्राप्तं कर्मशब्दः क्रियावचनः सर्वा चक्रिया चलनात्मिका परिस्पन्दलक्षणश्च वायुः तेन प्राणो गम्यते धूमेनेवाग्निः येन बालाकिना निर्दिष्टाः पुरुषाः य एष आदित्ये पुरुषश्चन्द्रमसि पुरुष इति । तेषामपि वायुः कर्तोपपद्यते । सूत्रा- त्मनः प्राणस्य महिमानोऽपि सर्वे देवताप्रभेदा इति जीवो वा वेदि- तव्यो यस्य चैतत् कर्मेति धर्माधर्मलक्षणं कर्म प्रसिद्धं तद्भोगाथै जग- दुत्पद्यत इति बालाकिना निर्दिष्टानां पुरुषाणामपि जीवः कर्ता कथ- चिदुपपद्यते। तस्माद्विज्ञानाख्यो वेदितव्य इति प्राप्ते ऽभिधीयते । पर एवात्र वेदितव्यतयावगम्यते । कथमुपक्रमे ब्रह्म ते ब्रवाणीति बाला- किना ब्रह्मोपक्षिप्तं तदेवात्र बुद्धौ विपरिवर्तमानं यस्य चैतत् कर्मेत्यत्र समुच्यते न प्राणो जीवो वा प्रकरणाभावात् कर्मशब्दश्चैतच्छब्दन सम्बध्यमानप्रत्यक्षादिप्रमाणसिद्धं जगत् प्रत्याययति क्रियत इति कर्मेतिव्युत्पत्तेः स भगवानेतेषां पुरुषाणां कर्ता ईश्वरः कोपपद्यते नान्यः चशब्दस्य चायमर्थः किं विशिष्याभिधीयते यस्य चेदं कृत्स्म कर्म सामान्येन स वै वेदितव्य इति किं च अजातशत्रुणा बाला- क्युपदिष्टं ब्रह्म प्रत्याख्याय तदधिकविवक्षयेदं वाक्यमवतारितम् । तस्मात् परविषयमिदम् । उपसंहारे च सर्वान् पाप्मनोपहत्य सर्वेषां भूतानां श्रेष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेदेति सर्वेषामुपा- सनमित्युक्तम् ॥ १६ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत् तद्याख्यातम् (१)। अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १७ ॥ अन्यथार्थ ब्रह्मोपलक्षणार्थमस्मिन् प्रकरणे जीवप्राणग्रहण- मिति जैमिनिराचार्यों मन्यते स्म । प्रश्नव्याख्यानाभ्याम् । प्रस्तावत् कैष बालाके पुरुषोऽशयिष्ट क वा एतदभूत् कुत एतदागादिति व्या- ख्यानमपि यदा सुषुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका इति सुषुप्तिकाले समस्तं करणग्राम म- (१) जीवमुख्य प्राणलिङ्गाने ति चेत् तयाख्यातमिन्येकं पृथक सूत्र माङ्करभा- ध्यत्रीभाष्ययोाव्यातम् । MARAT १ अध्याये ४ पादे १७ सूत्रम् । * इत्यत्र नसा सह्याय जीवोऽन्यं विज्ञानात्मानमनुप्रविश्य खस्थः सम्प्र- सन्नः पुनर्भोगायागच्छति । सोऽयमीश्वरोत्र वेदितव्यो न जीवः । अपि चैवमेके वाजसनेयिनः एवमेवाधीयते । तत्रापि बालाक्यजात- शत्रुसम्बादरूपामाख्यायिकामवतार्य प्रश्नप्रतिवचने भवतः । य एष विज्ञानमयः पुरुषः वैष एतदूवा लोके पुरुषोऽशयिष्ट क्व वा एतदभूत कुत एतदागादिति प्रश्नः प्रतिवचनमपि य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेत इत्याकाशशब्दो ब्राणि प्रयुक्तम् इत्युक्तं दहरोऽस्मिन्नन्तराकाश ननु पुनरुक्तमिवाभाति । न दोषः प्रतर्दन जीवमुख्यप्राणलिङ्गयोर्ब्रह्मोपलक्षणार्थत्वं व्याख्यातमुपक्रमोपसंहारपर्यालोचनया त्रिविधमुपासनं तत्रा- भिप्रेतं इह तूपलक्षणार्थमिति कोचित् । अथवास्तु तत्राप्यु- पलक्षणार्थत्वं तथापि विशेषाशङ्का शक्यते दर्शयितुं युक्तं तत्र व- क्तुरात्मोपदेशः वामदेवपरमात्मोपासनमेव विज्ञानातीति व- क्तुं तदेकवाक्यत्वाञ्चोत्तरमपि ब्रह्मविषयं वाक्य जातमिह पुनरेव- मानायतेति होवाच अजातशत्रुः क्वैष एतद्वालाके पुरुषोशयिष्ट क्व वा एतदभूत् कुत एतदागादिति बालाके रप्रतिपत्त्या खयमेवाजातश- त्रुरुत्तरमुक्तवान् । हितानामहितानां प्रस्तासु तुदा भवति । यथा सुषुप्तः खप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति । तथा तदेव वाक् सर्वैर्नामभिः सहाप्येति मनः सवैानैः सहाप्यति स यदा प्रतिबुध्यते यथाप्नेज्वलतः सर्वा दिशो विस्फुलिङ्गा वि. प्रतिष्ठेरनेवमेतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेश्यो देवा देवस्यो लोका इति । नात्र परमात्मलिङ्गं विस्पष्टं कीय॑ते ततो जीवमुख्यप्राणलिङ्गयोमुख्यत्वमेव युक्तं यस्य चैतत् कर्मेति च कर्मशब्दः क्रियावचनः प्रसिद्ध इति समाधानं तु जगद्वाचित्वात् कर्मशब्दस्य तदनुसारित्वाञ्चोत्तरवाक्यप्रवृत्तेः प्राणशब्दः परमा- त्मपरो निश्चीयते । य एतस्मादात्मन इति च आत्मशब्दादुप- संहारे चाधिपत्यकीर्तनात् शाखान्तरे कैष तदाभूत कुत एत- दागादिति क्वेत्यधिकरणवाचिनः परमात्मवाचित्वेन प्रयोगादा- काशे शेत इति च परमात्मनि खापसंकीर्तनात् । सता सौम्य तदा सम्पन्नो भवतीति चात एव पूर्वत्रापरितोषात् परिहारा- न्तरं वक्तुमाहान्यार्थ तु जैमिनिरिति ॥ १७ ॥ WANTISTITI ।।।।
भास्करीयब्रह्मसूत्रभाध्ये RETTE - वाक्यान्वयात् ॥ १८ ॥ बृहदारण्यके मैत्रेयब्राह्मणे श्रूयते । न वा अरे पत्युः कामायेत्युपक्रम्य न वा अरे सर्वस्य कामाय सर्व प्रियं भवत्यात्म- नस्तु कामाय सर्व प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो म- न्तव्यो निदिध्यासितव्यो मैत्रेयात्मनो वा अरे दर्शनेन श्रवणेन म- त्या विज्ञाननेदं सर्व विदितमिति । तत्र संशयः । किं विज्ञाना- त्मप्रतिपादनपर इति किं वा परमात्मप्रतिपादनपर इति । तत्र पूर्व- पक्षवादी मन्यते विज्ञानात्मा प्रतिपाद्यते स दर्शनादिक्रियाविषय- त्वेनोपदिश्यते जायापुत्रवित्तादिश्योग्यजातमात्मनः प्रियं भवती- तिनिर्देशातू । तथा विज्ञानधन एवैतभ्यो भूतेभ्यः समुत्थाय ता- न्येवानुविनश्यति न प्रेत्यसंज्ञास्तीतिसमुत्थानवचनात् तथा विज्ञा. तारमरे केन विज्ञानीयादिति कर्तुर्वचनेनोपसंहारादेवं प्राप्ते ऽभि- धीयते । परमात्मैव दर्शनादिविषयो निर्दिश्यते । कुतो वाक्या- न्वयात् । वाक्यं नामैकार्थप्रतिपादनपरं विभज्यमानसाकाङ्क्षा- वत्पद्जातमुच्यते तत्रोपक्रमोपसंहारयोः पर्यालोच्यमानस्य पदजातस्य परमात्मप्रतिपादनपरतयाऽन्वयावगमात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति धनेन नामृतत्वप्राप्तिस्तदेव मे बहीति मैत्रेयेण याज्ञवल्क्यः प्रार्थितः इदमात्मज्ञानमवतारयतिस्म । तथात्मविज्ञा- नातू सर्वविज्ञानमुच्यमानं परमात्मनोऽन्यत्र नोपपद्यते । तथात्मबाह्य प्रपञ्च ब्रुवतो दोषं दर्शयति । सर्व तं परादाद्योऽन्यत्रात्मनः सर्व- वेदेति तस्मादात्मनोऽव्यतिरिक्तमिदं जगदित्यवधारणात् प्रपञ्चका- रणं बृहीत्यत्रात्मा(१)विवक्षित इति गम्यते । इदं सर्व यदयमात्मति चोपसंहारातू । अस्य महतो भूतस्य निःश्वसितमेत्तद्यदृग्वेद इत्या. दिवचनाञ्च ॥ १८ ॥ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ १९ ॥ जीवेनोपक्रमणं कथमिति तदुपपादनार्थमारभते । आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतीत्यस्याः प्रतिज्ञायाः सिद्धेर्लिङ्गमेक- मेतत् । यत्प्रियादिसम्बन्धिना प्रमाणान्तरसिद्धेन भोक्ता जीवेन (1) भेदसहिष्णुरभेदस्तादात्म्यात् ब्रह्मात्रात्मा-पा० ३ पु.।
८१ १ अध्याये ४ पादे १८-२१ सूत्राणि । वाक्योपक्रमणमित्याश्मरथ्यो भन्यते स्म । यद्यत्यन्तभिन्नो जीवः प- रमात्मनस्ततो वाक्योपक्रमो जीवेन परमात्मना चोपसंहार इति वा- क्यमसम्बद्ध स्यातू प्रतिज्ञा च न सिद्धयेत् । तस्मादभेदांशेनोप- क्रमः। कियानपि जीवपरयोर्भेदोऽस्तीत्यस्याभिप्रायः ॥ १९ ॥ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥२०॥ जीवः परमात्मनोऽत्यन्तभिन्नः तस्य पुननिध्यानसमाधिसम्पन्न- स्य शरीरोन्द्रियसङ्घातादुत्क्रमिष्यतो मुत्त्यवस्थायामेवं तावजीवोपक्रमे इत्यौडुलोमिराचार्यों मन्यते स्म । श्रुतिरपि नदीहष्टान्तेनेममर्थ ज्ञा- पयति । यथा नद्यः स्यन्दमानाः समुद्रे ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम् ॥ इति । पाश्चरात्रिका अप्येवमाहुः । आमुक्तभैद एव स्थाजीवस्य च परस्य च । मुक्तस्य च न भेदोऽस्ति भेदहेतोरभावतः ॥ इति ॥२०॥ HTPUT अवस्थितेरिति काशकृत्स्नः ॥ २१ ॥ न प्रकृतिविकारभावो नाप्यत्यन्तभिन्नस्य जीवस्य मुक्त्यवस्थाया- मभेदापत्तिः किं तद्युत्क्रमणात प्रागपि जीवरूपेण परमात्मनोऽव- स्थानादभेदेनोपक्रम इति काशकृत्स्नो मन्यते स्म । तथा च श्रुतिः । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति परस्यैव जीव- रूपेणावस्थानं दर्शयति । ननु यदि पर एव साक्षादयं जीवो नाम स्यात् तत उपदेशोऽनर्थको मैत्रेय्याः। स वा एष महानज आत्मेति । न हि सर्वज्ञस्योपदेष्ट्रा प्रयोजनम् । अत्रोच्यते । सम्यगाह भवा- नस्ति भेदोऽप्यनादिकालप्रवृत्ताविद्याकर्मोपाध्यवच्छेदादशो हि पर- स्याहं जीवो नाम यथाग्नेर्विस्फुलिङ्गाः यथाकाशस्य पार्थिवा- घधिष्ठानोपाध्यवच्छिन्नः छिद्रप्रदेशः तदंशशब्दग्रहणशक्त्यपेक्षा यथा च वायोः प्रतिशरीरं पञ्चवृत्तिः प्राणस्तथायं भिन्नाभिन्नखभावो जी- वःसंसारी न कदाचिन्मुक्तपूर्वः । तस्य मुक्त्यर्थ विद्योपदेशोऽर्थ- ८२ আজীবজন্তুজা वान् संसारावस्थायां विविधवासनायोगात् परं श्रेयः प्रार्थयमानानां जीवानामुपदेशः क्रियमाणोऽर्थवान् । नैयायिका अन्याहुः । ननु मुक्ति- प्रार्थना रागो रागश्च बन्धहेतुः कथं मुक्तिः । अत्रोच्यते । रागो हि परमात्मविषयो यः स मुक्तिहेतुः विषयविषयो यः स बन्धहेतुः शास्त्रादयं विभागो गम्यते । अथाकामयमानो योऽकामो निष्काम आ- त्मकाम इति । यथा स्वभार्यागमन धर्माय परभार्यागमनमधर्मायेति । ननु कर्मसहितं ज्ञानं यदि मुक्तिसाधनं ततः क्रमेण मुच्यमानेषु संसा- रस्यान्तवत्वं स्यात् । उच्यते । कोयं भवतः सम्मोहः। को हि नामानु- पहतबुद्धिःप्राप्तममृतमपीत्वा तृषितो मृगतृष्णामनुधावेत् । मातृतुल्या हि श्रुतिःश्रेयःश्रावयति।तदशङ्कितत्वेनोपादेयम् अनन्तानां च संख्या. रहितानांजीवानामन्तो नास्ति समुद्रोदकवत । शास्त्रप्रामाण्याश्च मुक्ति रपि गम्यते । जगञ्चाच्छिन्नमद्य दृश्यते तथा कालान्तरे । किं च यो हि जगतः स्रष्टा पालयिता संहर्ता च स एव चिकित्सां वेत्स्यति किंत- वानया चिन्तयातिगम्भीरया विरस्य मुक्तये प्रयतखेति । केचित्र मायावादिनो ब्रुवते । स एवेश्वरः साक्षाद्देहे ऽप्यनुप्रविश्यावस्थितः स एव संसारी नान्योऽस्ति ब्यतिरिक्तो जीवो नामेति । कथं तस्य संसारित्वमिति चेत् । अविद्याकृतनामरूपोपाधिवशादिति । तत्र ब्रूमः । कस्येयमविद्या न तावजीवस्य वस्तुभूतस्य तस्यानभ्युपग- मात् । नापीश्वरस्य नित्यविज्ञानप्रकाशत्वादज्ञानं विरुध्यते । यदि च तस्य संसारित्वं तदेश्वरत्वं विरुध्यते । सुखदुःखमोहा- दिरहितत्वं हीश्वरत्वमुच्यते । तद्योगित्वं च संसारित्वं तदत्र संसारित्वासंसारित्वयोरविद्याविद्यात्वयोर्बन्धमोक्षयोश्चैकस्मिन्नारम- नि समवायविरोधात् । शीतोष्णयोरिवान्यत्तरपरित्यागो बलात् प्राप्नोतीश्वरश्चन्न संसारी संसारी चेन्नेश्वर इति श्रुतिश्चासंसा- रित्वं दर्शयति । निष्क्रिय निष्कलं शान्तं निरवा निरञ्जनम् अवद्यु निन्द्यमुच्यते । अञ्जनमविद्या सा च जीवानामविद्यायामन्तरे ब- तैमानानामिति श्रुतेः । तस्मादन्य ईश्वरस्तदंशो जीवः संसारी- ति बलादश्युपेयम् । भवन्ति चात्र श्लोकाः। श्रवणं मननं 'ध्यानं ब्रह्मचर्य क्षमादि च । अनपेक्ष्याप्यपाहेत साक्षाजीवो यदीश्वरः ॥ विश्वरूपो यथा मायां नारदाय व्यदर्शयत् । उपसंहृतवास्तावत् स्वेछया भगवान् प्रभुः ॥ । HARE १ अध्याये ४ पादे २१ सूत्रम् । कानुद्दिश्य सृजेन्मायां माथा तावामार्थका । संसारितां कथं कुर्यादात्मनः खयमिच्छया ॥ स्वयंनिर्मितमायात्मा वेदान्तश्रवणादिना । ज्ञानं प्राप्नोति सुक्त्यर्थ सर्वज्ञ इति कः क्रमः॥ सर्वोपाधिविनिर्मोको युगपञ्च हि सम्भवेत् । एकोपाधिविनिर्मोके को लाभ:(१) परमात्मनः॥ देहान्तरेषु दुःखित्वं यदि वाभ्युपगम्यते। एकोपाधिनिवृत्त्यर्थः क्लेशस्ते निःप्रयोजनः ॥ तेषु चेन्नास्ति(२) दुःखित्वं क्लेशस्ते निःप्रयोजनः । कृमिकीटाधुपाधीनामनन्तत्वान्न शक्यते । तस्मात् स्वतन्त्रः सर्वज्ञः सर्वशक्तिनिरञ्जनः । ईश्वरोभ्युपगन्तव्यो जगत्सृष्टिलयश्रुतेः ॥ अन्ये तु स्वयमुत्प्रेक्षितदर्शनाः प्राहुः । अपहतपाप्मादिरूपमा- स्मतत्त्वं कर्तव्यम् श्रवणमननादिनियोगानुष्ठानेन । स च नियोगः प्रपञ्चप्रविलापनमापादयतीति सुसिद्धार्थमेवेति । तदेतदपेशलमु- कमस्माभिः । प्रपञ्चप्रविलापनमशक्यं पुरुषमात्रेण कर्तुमिति । यदि चात्मतत्त्वमपहतपाप्मादिरूपं क्रियते अनित्यत्वं प्राप्नोति घटादिवत् । न च प्रपश्चप्रविलापने ऽन्यस्मिन् कृते वस्त्वन्तरमात्म- सत्त्वं भवति । न हि प्रदीपेनान्धकारापनये कृते घटः कृतो भ- वति । यथा वा घटस्य विनाशे कृते नाघटविनाशः कृतो भवति । अर्थत्वात् । एवमत्रापि । न च नियोगः प्रविलापनमापादयतीति शक्यते वक्तुम् । तस्याकारकत्वात् । न च तस्य प्रविलयोऽश्रुत- स्वात् । यदुत्प्रेक्षितमात्मना तत्सर्व नियोगमस्तके ध्यारोप्य व्य- वह्नियते । यदि तावनियोगः शब्दात्मको लिङादिप्रत्ययः स पुरु- षव्यापारकर्तव्यतामात्रं ज्ञापयति यजेत जुहुयादिति । अथ प्रमे- यरूपो नियोगः तस्य का गतिः स्वयं प्रमेयत्वात् प्रमाणरूपता तस्य कल्पयितुमशक्या प्रमाणाभावात् । यदप्युच्यते । प्रपञ्चस्य मि- थ्यात्वमागमादवगम्यते । स्वत एव तु प्रत्यक्षादीनां प्रामाण्य- मिति । तदप्यसत् । सर्वत्र हि परत पव मिथ्यात्वं गृह्यते न CINETTE MIDA HTAR (१) कोल्पश:- पा०२ पु.। (२) तेषु बेहाति -पा० २ पु. । तेषु चात्मास्ति - पा. १ पु.।
- ८४ भास्करीयब्रह्मसूत्रभाष्ये खतः । यथा शुक्तिकाज्ञानेन रजतज्ञानस्य मिथ्यात्वं न तेनैव तस्य गृह्यते । शास्त्रेण चेतू प्रत्यक्षादीनां मिथ्यात्वं परिच्छिद्यते । तस्य नित्यत्वात् प्रपञ्चमिथ्यात्वं सर्वदैव स्यात् । न विद्वदविद्वद- पेक्षया सत्यत्वं मिथ्यात्वं वा । न हि पुरुषैर्भावाः क्रियन्ते येन तद्वयादवतिष्टेरन् । द्रष्टारो हि ते सत्यामालोकेन्द्रियसामग्रयां द- शनं निष्पाद्यन्ते । तदभावे नास्तीत्यलमितिप्रसङ्गेन । छान्दोग्ये च त. त्रतत्रानयोर्मायाप्रविलयवादिनोनिराकरणं विस्तरेण कृतमित्युप- संह्वियते । यदुक्तं विज्ञानघन एवैतेश्यो भूतेश्य इति विज्ञानक- रसः शरीराकारपरिणतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुभू- तानि विनश्यति तत्कृतमोपाधिकं रूपं विजहातीत्यर्थः । प्रेत्य वि- शेषसञ्ज्ञा निवर्तते मुक्तः परमात्मा भवतीति समुदायार्थः । वि. शातारमित्यपि सर्वस्य विज्ञातारं परमात्मानं केनाप्यन्तरेण क- रणेन वा विजानीयादित्यर्थः । न हि मुक्त्यवस्थायामात्मान्तर करणान्तरं वास्ति ॥ २१ ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २२ ॥ उक्तं प्रधानं जगत्कारणं न भवति किं तु ब्रह्मैवेति । तत्रेद- माक्षिप्यते । चेतनानामीश्वराणां राजवैवखतप्रभृतीनां निमित्त- कारणत्वमेव इष्टं नोपादानकारणत्वम् । अचेतनानां मृदादीनां तु दृष्टं तञ्च निरस्तं भवता तदिदानी बलादेष्टव्यम् । अन्यथा सर्गानुपपत्तेरिति प्राप्ते ऽभिधीयते । प्रकृतिरुपादानकारणं चश- दानिमित्तकारणं च कुतः प्रतिज्ञादृष्टान्तयोरनुपरोधादबाधनात् । यदि ब्रह्मैवोपादानकारणं ततस्तदुक्तमुपपद्यते । उत तमादेशम- प्राक्षो तंथानये श्रुतं भवत्यमतं मतं भवत्यविज्ञातं विज्ञातं भ- वतीति । यथा सौम्यैकेन मृत्पिण्डेन सवै मृण्मयं विज्ञातं भव- तीति कार्यकारणयोरनन्यत्वात् । कारणानुस्यूतमेव हि कार्यमतो- ऽवगते हेती कारणे कार्य सामान्येनावगतं भवतीति विज्ञान- व्याप्तिः कार्यस्योच्यते । श्रुत्या न प्रविलयः तत्र यत्केनचिदुक्तं प्रविलयमानः प्रपञ्चो विज्ञातो भवतीति तत्वबुद्ध्युत्प्रोक्षतमि- स्युपेक्षणीयम् । न चानुमानेनास्माभिर्जगत्कारणं वर्ण्यते येन रा- आदिदृष्टान्तमपेक्षामहे ॥ २२ ॥ ।
१ अध्याये ४ पादे २२-२५ सूत्राणि । ८५ अभिध्योपदेशाच्च ॥ २३ ॥ इतश्योपादानम् । तदक्षत बहुस्यां प्रजायेयेति बहुभवामीति सङ्कल्यपूर्विका प्रवृत्तिरभिध्यानम् ॥ २३ ॥ साक्षाच्चोभयाम्नानात् ॥ २४ ॥ इतश्च सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्ययन्तीत्युत्पत्तिप्रलययोरान्नानाद्यतश्च यदुत्पद्यते तत्रैव तत् प्रलीयते यथा पृथिव्यां भूतग्रामः ॥२४॥ आत्मकृतेः परिणामात् ॥ २५ ॥ इतश्च तदात्मानं स्वयमपकुरुतेत्यात्मनः कृतिः करणं कर्तृत्वेन कार्यत्वेनात्मा निर्दिश्यते । कथं पुनरात्मनः करणं सम्भवतीत्याह । परिणामादिति । परमात्मा स्वयमात्मानं कार्यत्वेन परिणमयामा- सेत्यर्थः । शक्तिविक्षेपं कृतवान् । अनन्ता हि तस्य शक्तयो- ऽचिन्त्याश्च । तासां विक्षेपं करोति सृष्टिस्थितिकाले यथा सूर्यो र. श्मीनां तदेव संहरति । तथा च मन्त्रवर्णः श्वेताश्वतराणाम् । न तस्य कार्य कारणं च विद्यते न तत्समश्चाप्यधिकश्च हश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ इति । ननु च न जायते ऽजो नित्य इत्यजत्वं श्रूयते । न दोषः परतो जन्मप्रतिषेधाच्चतुर्मुखादिवत् । तदुक्तम् । न तस्य कश्चिजनिता न चा- श्रय इति । तस्मात् स्वतन्त्रस्य शक्तिविशेषोपसंहारौ न विरुद्धौ सूत्र- कारः श्रुत्यनुकारी परिणामपक्षं सूत्रयांबभूव अयमेव छान्दोग्ये घाक्यकारवृत्तिकाराभ्यां सम्प्रदायमतः समाश्रितः । तथा च वाक्यं परिणामस्तु स्याद् दध्यादिवदिति विगीतं विच्छिन्नमूलं माहायानिकबौद्धगाथितं मायावादं व्यावर्णयन्तो(१) लोकान् व्यामो- हयन्ति ॥ २५॥ VINTUICID Jull M (१)मासायानिकबौद्धगन्धितं मायावादं मायावादिनी व्याकर्ण यन्ती-.पा २ पु.।
PRASNASE ca भास्करीयब्रह्मसूत्रभाष्ये योनिश्च हि गीयते ॥ २६ ॥ हीति हेती । कर्तारमीशं पुरुषं ब्रह्मयोनिमिति । तथा यद्भूत- योनि योनिरुपादानकारणं पृथिवी योनिरौषधीनामितिदर्शनात ॥२६॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ २७ ॥ एतेन प्रधाननिराकरणन्यायेन सर्वे परमाण्वादिकारणवादा हेय. तया व्याख्याता वेदितव्याः। द्विरश्यासोऽध्यायसमाप्तिद्योतनाय ॥२७॥ इति भगवद्भास्कराचार्यप्रणीते(१) शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य चतुर्थः पादः समाप्तः। समाप्तब्ध प्रथमोऽध्यायः। (१) बरिते - पा.पु.॥
ॐनमः परमात्मने। भास्करीयब्रह्मसूत्रभाष्ये द्वितीयाध्याये प्रथमः पादः । MILI WETTINIS स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यन- वकाशदोषप्रसङ्गात् ॥१॥ प्रथमाध्याये सर्वशं सर्वशक्ति ब्रह्म जगतः कारणमिति प्रति. पादितम् । स्मृतिन्यायविरोधपरिहारः परदर्शनानां च तर्कामासवि- जृम्भितत्वं सृष्टिश्रुतीनां परस्परं विप्रतिपत्तिसमाधानमित्यस्यार्थ- जातस्य प्रतिपादनार्थ द्वितीयोऽध्याय आरभ्यते । अत्र सांख्या: प्रत्यवतिष्ठन्ते । यदि ब्रह्मैवोपादानकारणं निमित्तकारणं च ततः कपिलमहर्षिप्रणीतषष्ठितन्त्राख्यस्मृतेरनवकाशो निर्विषयत्वं स एव दोषस्तस्य प्रसङ्गो मन्वादिस्मृतीनां तु धर्माधर्मप्रतिपादनार्थ- त्वादानर्थक्यं नास्ति । अस्यास्तु स्मृतेः तत्त्वाधबोधविषयत्वात् तदस- म्भवे प्राप्तमनवकाशत्वम् । तस्मात् प्रधानमेव उपादानकारणमभ्यु- पगन्तव्यम् । श्वेताश्वतरश्रुतिश्च कपिलमाहात्म्यं दर्शयति ऋषि- प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्विभर्ति जायमानं च पश्येदिति तीर्थ- करस्य कपिलमहर्षेः सम्यग्दर्शितत्वात् तन्मन्त्रानुसारेण वेदान्तार्था- वधारणं कर्तव्यं न स्वतन्त्रतयेत्यभिप्रायः । एवं प्राप्ते प्रतिविधी- यते । नैतदेवमन्यस्मृत्यनवकाशदोषप्रसङ्गादिति । स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलमेव दर्शनीयमिति । शत्त्यन्तरात्मा भूतानां क्षेत्राश्चेति कथ्यते । तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ।। इतीतिहासे॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । TITLE R ८८ भास्करीयब्रह्मसूत्रभाष्ये SARETTER यस्मिश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा । इति गीतायामन्योन्यविरोधे च श्रुत्यनुसारिणी स्मृतिरुपादेया। श्रुतौ च चेतनं जगदीजमुक्तं तद्विरुद्धा स्मृतिरप्रमाणम् । तदुक्तं प्रमाणलक्षणे । विरोधे त्वनपेक्षं स्यादसति हनुमानमिति । श्रुतिस्मृतिविरोधादियं स्मृतिः कपिलस्येति स्थितम् । या पुनः श्रुतिरुदाहृता तत्र कपिलशब्देन हिरण्यगर्भः सवितृमण्ड- लावस्थाऽभिधीयते कनककपिलवर्णत्वात् । तथा चोक्तं पुराणे । आदित्यसंस्थः कपिलोऽग्रजोऽग्निरिति । तस्यामेव श्रुताबुक्तम् । हिरण्यगर्भ जनयामास पूर्व मनोबुद्ध्या शुभया(१) संपुनन्त्वि- ति । न ह्यपरपुरुषापेक्षा श्रुतेः स्वतः प्रामाण्यात् ॥ १॥ इतरेषां चानुपलब्धेः ॥ २ ॥ इतश्च सांख्यस्मृतिर्नादर्तव्या प्रधानादितरेषां महदहङ्कारत- मात्राणां लोकवेदयोरनुपलब्धेर्महाभूतप्रकृतित्वेन बुद्धिरन्तःक- रणं तद्धर्मश्चाहङ्कारः प्रसिद्ध एव ॥२॥ एतेन योगः प्रत्युक्तः ॥ ३ ॥ इदमतिदेशसूत्रम । एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्युक्ता वेदितव्या । ननु चासादृश्याशङ्कायां सादृश्यप्रतिपादन- मतिदेशः कात्र तुल्या शङ्कति तदुच्यते श्रुतौ योगोपदेशात् । तत्सं- वादित्वात् पातञ्जलादीनां योगशास्त्राणां तदुपनिबद्धानां प्रधाना- दीनामपि श्रौतत्वबुद्धिः कस्यचित् स्यात् सातिदेशेन व्यावय॑ते । कः पुनर्वेदे योगोपदेशः श्वेताश्वतरोपनिषदि त्रिरुन्नतं विरुद्धत्वं स्थाप्यासमं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्यते । तथा पृथ्व्यप्तेजोनिलखे समुत्थिते पश्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न दुःखं प्राप्तस्य योगाग्निमयं शरीरम् ॥ इति। ") श्रुतया - पा. २ प० ।
२ अध्याये १ षादे १-५ सूत्राणि । ८९ भवतु श्रुतिसंवादात् । सम्यग्दर्शनोपायोपदेशांशस्य तथात्वं विप्रतिपन्नांशस्य तु मिथ्यात्वं पुरुषाणामन्यथार्थदर्शितत्वस- म्भवातू ॥३॥ MILUTURIS न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥ इत आरभ्यापादसमाप्तेस्तर्कावष्टम्भेन सांख्यादीनां य आक्षेप स्तत्समाधानं क्रियते । ननु च चोदनायाः खतः प्रामाण्यात कथं त- निमित्तो ह्याक्षेपः सम्भाव्येत।अनोच्यते। सिद्धवस्तुविषयत्वाद्वेदा- न्तानां तत्र च तर्कस्यापि प्रवेशादर्शनात् । यथात्मा नित्योऽनित्यो वेति विचार्य निस्य एवेत्यवधार्यते। श्रुतिश्च तर्कानुप्रवेशं दर्शयति श्रोतव्यो मन्तव्य इति । न चेतनं ब्रह्म जगत्कारणमुपपद्यते । विलक्षणत्वादस्य कार्यस्य प्रकृतिधर्मानुविधायित्वे हि प्रकृति- विकारभावो दृष्टः सुवर्णकुण्डलयोरिव । न चेह कारणधर्मस्य चै- तन्यस्याकाशादिध्वनुवृत्तिईश्यते । नन्वयमसिद्धो हेतुर्ब्रह्मकार्य- त्वादेव तद्धर्मानुवृत्ति पाषाणादिष्वनुमिमीमहे । ननु च यदि श- रीरोन्द्रियविषयाणां चैतन्यमभ्युपगम्यते तेषामपि देवदत्तादिवत् ख- तन्त्रत्वातू भोक्तृभोग्यत्वेनाङ्गभावं न प्रतिपद्यरन् न च लोके चेत- नत्वं तेषां प्रसिद्धम् । अत्रोच्यते । केचिदभिव्यक्तचैतन्याः केचि- दनभिव्यक्तचैतन्याः तत्र गुणप्रधानभावो न विरुध्यते । अत एव चाप्रसिद्धिरुपपद्यते ऽत्र क्रमो न लोष्टादीनां चैतन्यास्तित्वे प्रत्यक्ष- मनुमानं वा प्रमाणमस्ति हिताहितप्रवृत्तिनिवृत्त्यदर्शनादिदमेवा- चैतन्यं यदस्मदादिलक्षण्यं (तस्मादविभावितचैतन्या लोष्टा- दय इति प्रतिज्ञामात्रमतः सिद्धो हेतुर्विलक्षणत्वादिति । )(१) किंच तथात्वमचेतनत्वं च शब्दादवगम्यते । विज्ञानं चाविज्ञानं चेति । ननु च मृदब्रवीदापोब्रुवंस्तत्तेज ऐक्षतेति च मृदादीनामप्रसिद्ध- चैतन्यानामपि चैतन्यं श्राव्यते ॥४॥ नैतदेवम् । अभिमानिव्यपदेशस्तु विशेषानुगताभ्याम(२)॥५॥ (१)() एतन्मधास्थी नास्ति २ पु० । (२) विशेषानुगतिभ्यामिवि शाइरभाष्ये पाठः। १२ RAUSHADHUNITASANKHURRIOR भास्करीयब्रह्मसूत्रभाष्ये अभिमानिन्यो देवतास्तत्र व्यपदिश्यन्ते । कथं गम्यते को- षीतकिना(१) देवताशब्देन विशेषणाद् देवा ह वै देवता अहं अश्रेयसे विवदमाना इति । ता वा एता देवताः प्राणो निःश्रेयो विदित्वति तथानुगते चैतरेयके श्रूयते ऽग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यः चक्षुर्भूत्वा अक्षिणी प्राविश- दितीन्द्रियेष्वनुगतां देवतां दर्शयति । यं पृथिवी नावेदयमापो न विदुरिति चान्तर्यामिब्राह्मणे पृथिव्यादीनामभिमानिनी देवतां दर्शयति । कथमन्तर्यामिनं न जानातीति विशेषप्रतिषेधातू । त- स्माद्विलक्षणत्वात् ब्रह्म जगत्कारणमिति प्राप्ते ऽभिधीयते ॥५॥ दृश्यते तु ॥ ६॥ तुशब्दः पदं व्यावर्तयति सति सादृश्ये प्रकृतिविकारभावो- ऽसति पुनः सादृश्ये तदभाव इति नैवं व्याप्तिः सिद्धा येन वैलक्ष- ण्यत्वे हेतुरुच्यते । सत्यपि वैलक्षण्ये दृश्यते कारणभावः यथा भुक्तो- दत्वात् केशलोमनखादिविलक्षणं कार्य जायते गोमयादश्चिको जा- यते शालूकाद् दूर्वाङ्करः शृङ्गाच्छर इति सर्वत्र साधर्म्य वैधयं च कार्यकारणविषय केनचिदंशेनास्ति । यदि च सर्वसादृश्यं स्यात् प्रकृतेर्विकारभाव एव न स्यादस्ति चात्रापि केनचिदंशेन सा- दृश्यम् आकाशादौ कार्ये सत्तामूर्तत्वादिधर्मानुवृत्तेस्तस्माद्विलक्षण- त्वादित्यसिद्धो हेतुः। यदुक्तं मन्तव्य इति तर्कस्यानुप्रवेशं श्रुतिः श्रावयतीति नवीनया श्रुत्या शुष्कतों ऽभ्यनुज्ञायते । किं तांगमा- नुसारी यस्तर्कस्तदुपपत्त्यर्थं स एवानुज्ञायत इति ॥ ६ ॥ असदिति चेन्न प्रतिषेधमावत्वात् ॥ ७ ॥ EwHity शब्दस्पर्शादिहीनाद्ब्रह्मणः शब्दस्पर्शादिमत्कार्य जायते इत्यस- कार्यवादः प्रसज्यते इति चेन्नैतदेव(२) प्रतिषेधमात्रत्वात् सत्कार्य- वादस्य प्रतिषेधमात्रमेतन्न सत्कार्यवादस्त्वया प्रतिषिध्यते । यथा सत्कार्य भवति तथा तदन्यत्वमित्यत्र वक्ष्मामः ॥७॥ (१) कौषीतकोनां - पा. २ पु० ॥ (२) नैबम् - पा• २ पु० ।
२ अध्याये १ पादे ६-११ सूत्राणि । । अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥ यदि चेतनादचेतनं स्थूलमशुद्धं च कार्य जायत इत्यभ्युपग- म्यते । तस्यापीती प्रलयबेलायां तद्वत्प्रसङ्गाद्यथा कार्य स्थूलमशुद्ध च तथा कारणस्यापि प्रसज्येत इत्यसमञ्जसमोपनिषदं द. निमितश्चासमञ्जसं ब्रह्मण्यविभागप्राप्तानां जीवानां पुनरुत्थाने मुक्तानामपि प्रसङ्गात् । अथ कारणे ऽपि कार्य पृथगवावतिष्ठते तथा सत्यपीतिरेव न स्यादित्यसमञ्जसम् ॥ ८॥ UNUITINTIS न तु दृष्टान्तभावात् ॥ ९ ॥ न तु तद्वत्प्रसङ्गः कुतो दृष्टान्तभावात् । यथा शरावादयोपीति- गच्छतः खधर्म(१) हित्वाभावमापद्यन्ते यथा च पृथिवीविकाराः पृ. थिवीमपि गच्छन्तो वृक्षादयो न ते खधर्मेण तद्दूषयन्ति तथायं प्रपञ्चः प्रविलीयमानः शक्यात्मना कारणमने ऽनुप्रविशति । तथा च ब्रह्माप्येति प्रपञ्चोयं रूपं हित्वा तु वैकृतम् । जहाति कठिनावस्थां जलस्यं(२) लवणं यथा ॥ इति । मुक्तानामुत्थानहेत्वभावानोत्तिष्ठेयुः (इतरे ऽविद्याकर्मानुबन्धा- दुत्तिष्ठेयुरिति )(३) इत्यविरोधः ॥९॥ स्वपक्षदोषाच्च ॥ १० ॥ सांख्यस्य त्रिगुणमचेतनमरूपं निरवयवं च प्रधान कार्याकारण परिणमत इति स्वपक्षे त्राप्यस्य(४) दोषस्याविशेषान्नकः पर्यनु- योक्तव्यः॥१०॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवम- प्यनिर्मोक्षप्रसङ्गः(५) ॥ ११ ॥ (१) खभावं-पा. २ पु० । (२) जलधौ - पा० २ पु० । ( ३ ) ()एतन्मध्यस्थी नाति २ पु० । ( ४ ) खपक्षस्तथाध्यम्य - पा० २५० । (५) अवधीभाष्ये तर्काप्रतिष्ठानादित्येकं भूवमन्यथानुमेयमिति इदेवमप्यनिर्मोच- प्रसङ्ग इत्यपरमिति सूवयं दृश्यते । अविमोचप्रसन्यः -.पा. शारभावानुमृतः । All All
९२
भास्करीयब्रह्मसूत्रभाष्ये
चार्थोपिशब्दः तर्कस्यानवस्थानाच न वेदान्तदर्शनस्यासाम-
अस्थम् कः पुनरयं तर्को नाम प्रमाणानामनुग्राहक ऊहो ऽनधिगतत्वे
वस्तुनि क्रियमाणस्तत्त्वपरिज्ञानप्रयोजनो यथात्मनि नित्यत्वमनित्यत्वं
वा इत्यज्ञायमाने तत्त्वे प्रमाणसम्भवान्नित्यत्वमनुजानाति तदस-
म्भवाच्चानित्यत्वमुपेक्ष्यते सोऽयं निरूपणात् प्रत्ययस्तर्क इत्युच्यते ।
तथा च न्यायसूत्रम् अविज्ञाततत्त्वर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमू-
हस्तर्क इतीहशस्य तीर्थकरबुद्धिवरूप्यादनवस्थानादेकेन कपिलेन क-
णभुजा वा तर्कावष्टम्भभेव्यवस्थापितोऽर्थः सोन्येन प्रतिषिद्ध्यते । अ-
थापरेण समर्थ्यत इति परस्परविरोधान सम्यग्ज्ञानसिद्धिः। अथोच्यते
यथानवस्था न भवति तथानुमेयं जगत्कारणमनुमानादिभिश्च हेतुभिः
प्रधान प्रतिष्ठाप्यते न तत्रानवस्थेति चेदेवमप्यनवस्थादोषादनिर्मोक्ष-
स्तकोणां कथमत्यन्तातीन्द्रिये विषये साधर्म्यवैधाभ्यां प्रत्यवस्था-
नासम्भवानानुमानेनाभिप्रेतार्थसिद्धिः कस्यचिदतः श्रुतिमूलमेव
जगद्वीजावधारणमिति स्थितम् ॥ ११ ॥
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
एतेन प्रधानमतनिराकरणन्यायेनानेनातिनिर्दिश्यते । वैशेषि-
कायुक्तं दूषणं परिहर्तुमशक्यमिति माभ्रान्तिः कस्यचिदभूदित्येतन
प्रधानवाद्युक्ताक्षेपनिराकरणेन शिष्टैर्मनुव्यासप्रभृतिभिरपरिगृहीताः
परमाण्वादिकारणवादा व्याख्याता निरस्ता वेदितव्याः । परिगृ-
वन्त इति परिग्रहाः शिष्टैन केनचिदप्यंशेन परिगृहीता इत्यर्थः ॥१२॥
भोक्तापत्तेरविभागश्वेत् स्याल्लोकवत् ॥ १३ ॥
अन्यथा पुनराक्षिप्यते । ब्रह्मणोऽनन्यत्वाद्भोक्तृभोग्ययोरविभागः ।
कथं भोक्तुर्जीवस्य भोग्यापत्ते ग्यस्य च शरीरेन्द्रियविषयलक्षस्य भो-
तापत्तेरापत्तिरेकीभावः ततश्चासमञ्जसं दर्शनं लोकप्रसिद्धविभा-
गपरिलोपादिति चेदत्रोच्यते । स्याल्लोकवत् भवेदस्मत्पक्षेऽप्यनयोर्वि-
भागः परमात्मना वा विभागो लोके समुद्रेणानन्यत्वे ऽपि फेनतरङ्गा-
दीनां परस्परविभागो नाभेदापत्तिरेवमत्रापि स्यात् । भेदाभेदयोहि
सर्वप्रमाणसिद्धत्वादुपपत्तिः ॥ १३ ॥
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
। २ अध्याय १ पादे १२-१४ सूत्राणि । ब्रह्मणोऽनन्यत्वं भोग्यभोक्तृवर्गयोः सिद्धवत् कृत्वा विभागो वर्णि- तः अथेदानीमनन्यत्वमसिद्धमिति साध्यते । अत्र वैशोषिकाः प्राहुः । कार्यकारणयोरत्यन्तं भेदः कारणं मृत्पिण्डः शरावादिकार्य भेदेनोपलभ्यते कार्यस्य चोदकाहरणादिकार्य न मृत्पिण्डस्या- तोऽनयोर्भेदोऽसच्च कार्यमुत्पद्यत इति शोषिका मन्यन्ते । तन्निराक- रणायाह तयोरनन्यत्वमारम्भणशब्दादिभ्यः एकविज्ञानेन सर्ववि- ज्ञानं प्रतिज्ञाय तत्सिसाधयिषया दृष्टान्त उपादीयते। यथा सोम्यैकेन मृतपिण्डेन सर्व मृण्मयं विज्ञातं स्याद् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति वार्थो वागिन्द्रियस्योभयमारम्भणं विकारो नामधेयं च विकारोभिधेयोपपत्तिस्तदभिधेयं नामधेयं उभयमाल- व्य वाग्व्यवहारः प्रवर्तते घटेन उदकमाहरेति मृण्मयमित्यस्येदं व्याख्यानम् । यदि तर्हि व्यवहारहेतुः कार्य न तर्हि कार्यकारणयोरन- न्यत्वमित्याशझ्याह । मृतिकेत्येव सत्यमिति । कारणमेव कार्यात्मना घटवदवतिष्ठते मृत्समन्वितं हि कार्यमुपलभ्यते विष्वपि कालेषु कारणाधीनं कार्य नाश्वमहिषवद्देशतः कालतो वा व्यतिरिक्तमु- पलभ्यते कारणस्यावस्थामा कार्य व्यतिरिक्ताव्यतिरिक्त शुक्ति- रजतवदागमापायधर्मित्वाच्चानृतमनित्यमिति च व्यपदिश्यते तदर्थ- मेव मृत्तिकेत्येव सत्यमित्युक्तम् । प्रत्यक्षसिद्धमेव हि सत्यत्वमनूद्यते न विधीयते दृष्टान्तत्वेनोपादानात् । प्रमाणान्तरसिद्धो हि दृष्टान्तो भ- वति। तथा च न्यायसूत्रं लौकिकपरीक्षकाणां यत्र बुद्धिसाम्यं(१) सह- ष्टान्त इत्यप्ययागादग्नेरग्नित्वमिति च कारणात्मना निरीक्षमाणं कार्य चातिरिक्तं नोपलभ्यते कारणात्मन्येव तिरोहितं भवतीत्यभि- प्रायेण उक्तमादिशब्देनैतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वम- सीत्येवंजातीयकं वचनं गृह्यते । तथा च श्रुत्यन्तरमात्मव्यतिरिक्त स्य प्रपञ्चस्य सत्यतां दर्शयति । अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यमिति । यदि चानृतत्वमभिप्रेयात् प्राणा अस- त्यमिति अत्र केचिन्मायावादमवतारयन्ति । मृत्तिकेत्येव मित्यवधारणात् कारणमेव सत्यं कार्यमनृतमसत्यमनादिकालप्रवृत्ता- विद्यावशादयं भेदः प्रतिभासते न परमार्थतोस्ति । यद्येवं प्रत्यक्षात प्र- WMNUN NILAD ब्रूयात् । सत्य- (१) परीक्षकाणी यस्मिन्नर्थे बुद्धिसाम्य मिति न्यायभाषाभानिकानुसृतः पाठः ।
भास्करीयब्रह्मसूत्रभाष्ये स्यक्षादिप्रमाणव्यवहारः कथं वा विधिप्रतिषेधशास्त्राणामर्थवत्तार कथं वा मोक्षशास्त्रेणासत्येन ब्रह्मज्ञानमुत्पद्यत इति । नायं दोषो मिथ्या- रूपो व्यवहारो बाधकप्रत्ययाभावातू अव्याहतः प्रवर्तते प्रमाणानि च प्रत्यक्षादीन्यविद्यावद्विषयाणि न विरुद्धयन्ते बाधकप्रत्ययमासाद्य निवर्तन्ते । अत एवाविद्यावत्पुरुषविषयों विधिप्रतिषेधावुपपन्नाव- सत्यार्थेक्षणात् सत्यप्रतिपत्तिर्भविष्यति । यथा स्वप्ने शुभाशुभसू- चनं लिप्यक्षरेभ्यश्च पारमार्थिकवर्णप्रतीतिरिति । न च निरवयवस्या- त्मनः परिणामो वकल्प्यते तस्मान्मायामात्रमिदं प्रपञ्चजातमित्यत्र बमो मृत्तिकेत्येव सत्यमित्यस्यार्थो व्याख्यातः । यदि च प्रपञ्चास- त्यत्वं मृत्तिकाया अप्यसस्यत्वं प्रपञ्चत्वात् कथं वा मिथ्यात्वमवगतम्। न तावत् प्रत्यक्षानुमानाभ्यां हीदं प्रपञ्चजातं परिच्छिन्नं न चाकारण- दोषबाधकप्रत्ययौ स्तः पृथिव्यादिज्ञानस्यासंसारं सर्वेषां प्राणि- नामनुवृत्तेरतः पारमार्थिक एवायं भेदस्तन्निबन्धनश्च व्यवहारः । तथैव याद च मिथ्यात्वं सिद्धं स्यात् ततो दिङ्मोहादिवबाधकप्र- त्ययाभावादनुवर्तते बाधकप्रत्ययं चासाद्य निवर्तत इति कल्पना युज्येत । ननु प्रमितिवादिवदविद्याऽत्रापि कारणदोषः स्यात् तद्वतां प्रमातृणां भेदविज्ञानमुत्पद्यमान मिथ्या स्यात् द्विचन्द्रज्ञानवत् । अत्रो- च्यते । स हेतुः परदूषणाय वक्तव्यो यः स्वसिद्धान्तं न बाधते अर्थ तु तवैव दोषमावहति यथाविद्यावतप्रमातॄणामुत्पन्नं भेददर्शनं मिथ्या तथाऽद्वैतब्रह्मशानमपि मिथ्यैव यो हि श्रोता मन्ता वा प्रा- गवस्थायामविद्याधानेन हिसः अविद्यावत्वं चेन्मिथ्यात्वे कारणमस- त्यपि बाधकज्ञाने मिथ्यात्वमनुमानात प्रसक्तं ब्रह्मज्ञानस्य केन वा- येते किं प्रपश्चज्ञानस्य बाधकप्रत्ययोस्त्यविद्यावत्त्वमेव न तत्रापि कारणं भवता व्यपदिष्टं तत् समानं सर्वत्र मिथ्यात्वे ततश्च मूलो- च्छेदः प्रसज्यते । अनुमानान्तरं च ब्रह्मज्ञानं मिथ्या ज्ञानत्वात् प्रप- অঙ্গানন অখা লিল্লাহ জাহাঙ্গীমাহির হালয় सर्वस्य मिथ्यात्वमापद्यते थथा चारण्ये तैमिरिकगतस्य वसतो ब्लूि- चन्द्रज्ञानमबिशिष्टम् । न च तेषां बाधकप्रत्ययोस्तीति न चासत्यात सत्यप्रतिपत्तौ दृष्टान्तोऽस्ति न च शशविषाणातू कस्यचित् प्रतिप- त्तिरस्ति । यदुक्तं खप्नवदिति तद्युक्तम् । तत्रापि वस्त्वेव सूचकं स्याद- विषयं यदिशानं तद्वस्तुरूपं शुभस्य सूचकं हश्यं चन्द्रादि स्मर्य- माणं न च पुनर्न दृश्यं न ज्ञानमिति सूचकं नास्ति ज्ञानस्यापि प्रपञ्चान्त:- २ अध्याये १ पादे १४ सूत्रम् । पातित्वात् । न च तदात्मरूपमेव उत्पन्नप्रध्वंसित्वात् लिप्यक्षर- मपि वस्त्वेव सङ्केतवशाद्गमकं समस्तद्रव्यं हि विन्यासविशेषाव- स्थ चक्षुर्ग्राह्यं श्रोत्रग्राह्यस्य वर्णस्य गमकं गम्याभेदे ऽपि लिप्यक्षराणां देशान्तरें भेदो दृश्यते । यदि वा वस्तुत्वाद्गमकत्वं चकारे दृष्टे वकार- प्रतिपत्तिः स्यात् प्रतिपत्ति च करोत्यवस्तु चेति विरुद्धम् इदमेव हि वस्तुत्वं यत् सतप्रतिपत्तिकारणत्वं नाम न हि शशविषाणस्य क. चित् कारणत्वं दृष्टम् । यदप्युच्यते शङ्कादिरयं मरणहेतुरिति तद- सद्विषयमेव शङ्कयास्मर्यमाणं मृतिहेतुश्च भ्रातृपुत्तादिशोकेन क- स्यचिन्मरणं यथा । यथा च दशमावस्थां गतः कामो मृतिहेतुस्तस्मात् असत्यात् सत्यप्रतिपत्तौ दृष्टान्तो नास्तीत्यवस्थितम् । आगमातूप्रपञ्चस्य मिथ्यात्वमुच्यते तदयुक्तं श्रोत्रप्रभवस्य ज्ञानस्य मिथ्यात्वावर्णा- त्मकस्म तत्त्वमस्यादिवाक्यस्याभावस्ततश्च केन मिथ्यात्वं प्रतिप- घेत नेह नानास्तीत्यपीहशब्दोपादानात् । कारणखरूपे नानात्वं नास्तीति विवक्षितं स्थितं स्थित्यवस्थायां तु कार्यमप्यस्तीत्यवि- रोधः। स एष नेति नेत्यात्मेति शरीराधनात्मपर्युदासेनात्मख- कपमुपदिश्यते प्रपञ्चाभावो यत्र स द्वैतमिवेतीवशब्दोऽनर्थको य. था विततमिवेति । अवधारणार्थो चा यथाश्व इव इति सा- दृश्यार्थी वा यथात्रैवाग्नेरिति धूमविस्फुलिङ्गादिवद्विविधं वि- कारजातं यस्यामवस्थायां भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत् तदा केन बलेन के विषयं पश्येदिति विषयज्ञानं निषिध्यते कारणप्राप्तावित्येव सर्वमविरुद्धम् । का चेयमविद्या सत्वा- सत्त्वश्यामनिर्वचनीयेति चेत् अनिष्टोत्तरमेतत् । यस्याः कार्यमिदं कृत्स्नं व्यवहाराय कल्पते । निर्वक्तुं सा न शक्योति वचनं वचनार्थकम् ॥ यदि वानिर्वचनीया कथमाचार्यः शिष्येभ्यः प्रतिपादयेत् अप्र- तिपन्नया च तया कथं व्यवहारः क्रियते । किञ्चादिमती साऽनादि- रिति वक्तव्यम् अनादित्वे नित्यत्वादुच्छेतुमशक्येत्यनिर्मोक्षप्रसङ्गः । ब्रह्म चेन्निमित्तं तदयुक्तमित्युक्तं पुरस्तात् । अथात्मस्वरूपं नि- मित्तमप्येतन्निमित्तनित्यत्वान्नैमित्तिकानुपरमादनिर्मोक्ष एव । अथ सत्यसती च अविधा तदा सद्भावाभावरूपत्वानुपपत्तेः न हि युगप- देकत्र विरुद्धज्ञानसम्भवः । अथाव्याकृताकाशमाद्याविद्येत्युच्यते उच्यतां न संज्ञायां विरोधो वस्तुत्वं तु प्रामोत्युत्पत्तिमत्वादकरा- MINUTE भास्करीयब्रह्मसूत्रभाष्ये । दिवत् । न चाग्रहणमविद्या ग्रहणाभावस्थावस्तुत्वे बन्धहेतुत्वाभा- वात् । तथा ह्यवस्तु चंदग्रहणं न बध्नाति खपुष्पवत् बन्धकं चेदव- स्तुत्वं विरुद्ध मत्स्यबन्धवदत एव निर्वचनीयत्वमविद्यायाः । वि- द्याया अन्या त्वविद्या विपरीतज्ञानं देहादिषु तद्धेतुकं ख- रूपाग्रहणम् । योपि मन्यते नामरूपमविद्याशब्दवाच्यमिति तदाप्य- निर्वचनीयत्वं नास्ति निरुच्य वचनं निर्वचनमुच्यते गवादिशब्दाश्च स्पष्टा एव निरुच्यन्ते व्याकरणे तद्वाच्याश्वगवादयो निरुक्ताः तस्मात् भेददर्शनतोऽविधा न मिथ्या परमात्मनोऽवस्थाविशेषः प्र. पञ्चीयमत एव वस्तुत्वं सत्त्वादात्मकत्वादाकाशादिषु सत्ता अपू- र्णत्वादिधर्मानुवृत्तरिति प्रोक्तम् । कथं पुनः परिणामो निरवयवस्या काशकल्पस्येति चेत् । अनोच्यते परिणामस्खाभाव्यात् क्षीरवत् स. र्वज्ञत्वाच्च सर्वशक्तित्वाञ्च खेच्छया परिणामयेदात्मानमिति श- क्यते वक्तुम् । ननु सावयवत्वात् क्षीरस्य परिणामोपपत्तिः उच्यते न सावयवत्वं तत्र परिणतिहेतुर्यदि स्यात् अम्बुनोपि दधिभावेन परिणामः स्यादतोऽप्रयोजकं सावयवत्वम् । परिणामखाभाव्यादेव हि पयः परिणमते तदापीदं चिन्त्यम् । किमवयविनः परिणामे श- तिराहोस्विदवयवानामिति न हि तस्मिन् द्रवद्रव्ये ऽवयवी नाम व्यतिरिक्तो ऽभ्युपगम्यते मायावादिना । ततः पारिशेष्यादवयवानां शक्तिस्ते च निरवयवा न हवयवानामवयवाः सन्ति येन सावयव- स्य परिणामो वयेत । ये चावयवानामवयवाः कल्पितास्ते किं प- रिणमन्ते नेति । यदि न परिणमेतरन् दधनि पयो दृश्येत तस्मात् सर्वेषामवयवानां परिणामित्वमेष्टव्यम् । किं चावयवानामवयवक- ल्पने तेषामप्यवयवकल्पने वनवस्था क्षीरसमुद्रश्च कुण्डे स्या- दवयवानामानन्त्यात् तस्मान्निरवयवस्यैव परिणामो दृश्यत इति ब्रह्मणोप्युपपद्यते तथा च न्यग्रोधानां दृष्टान्तेन परिणामो वर्णितः श्रुत्याचष्टे । अप्रच्युतखरूपस्य शक्तिविक्षेपलक्षणः । परिणामो यथा तन्तुनाभस्य पटतन्तुवत् ॥ पटवञ्च यथाप्रच्युतखरूपाणां तन्तूनां पटात्मनावस्थानं यथाका. शादप्रच्युतखभावाद्वायुरुत्पद्यते इति सोऽयं शक्तिविक्षेपोपसं. हारवादः सूरिभिराश्रितः । प्रमाणवत्वादत्राह न प्रमाणवत्त्वमस्य क्षीरस्येव ब्रह्मणः कृत्स्नपरिणामप्रसङ्गादनित्यता स्यात् नित्यं वि- २ अध्याये १ पादे १४ सूत्रम् । १७ च श्रुतिर्विरुध्येत । विकारापन्नमेव ब्रह्मेति सर्वलोको मुच्येत पद्धत्वादुपदेशानर्थक्यमतोनुपपत्तेरस्य पक्षस्य माया- रन्तरे भिर्नियुणमतिभिराश्रितः । श्रुतिश्च मायां तु प्रकृति वि- स्मृतिरपि मम माया दुरत्यया इति । अत्राभिधीयते । न हि T दृष्टान्तसाधय किश्चिदुपपद्यते यथा तावदचेतना- रस्परं परिणामवैचित्र्यं क्षीरस्यैकः परिणामो दध्यव- तेकः केशनखदन्तपिशितादिलक्षणो यथोर्णनाभस्योर्णा प्राण्यन्तरेष्वत्यन्तमसम्भाव्यमानो दृश्यते। न हि भावानां नचित् प्राकृतबुद्धिना परिच्छेत्तुं शक्यन्ते तर्काणाम- साधर्म्यवैधय॑स्य सर्वत्र योजयितुमशक्यत्वात् । किमुत वज्ञस्य सर्वशक्तेः स्वतन्त्रस्य शास्त्रैकसमधिगम्यस्य ज- परिणामो व्यवस्थाप्येत । स हि स्वेच्छया खात्मानं लोक- णामयन् खशक्त्यनुसारेण परिणामयति। तथा च श्रुतिः। काशः सम्भूतस्तत्तेजो ऽसृजतेति वाऽचेतनं महाभूतं सृ- चेतनरूपेण पृथगेधावस्थितः तथा च दर्शितं हन्ताह- तो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवा- था देवानां त्रयश्च त्रीणि च सहस्रेत्युक्त्वा महिमान एवैषा- ते सङ्कल्पमात्रेणानेकधा भावं दर्शयित्वोपसंहरति त्रयस्त्रि- । देवा इति तेषामपि यः स्रष्टेश्वरस्तस्य सामर्थ्य को वेदितुमर्ह- शयतश्च मन्त्री को अद्धा वेद को इह प्रावोचत् कुत आयाता इयं विसृष्टिः अर्वाग्वेदा अस्य विसर्जनेनाद्धा को वेदयत आ- यदि वा दधे यदि वा न योस्याध्यक्षः परमे व्योमन् सोङ्गं वेद मान वेदेति(?)स एव परमेश्वरः सृष्टयवस्थायां प्रविभक्तनामरूपं धभोक्तभोग्यं प्रपञ्चं वेद प्रलयावस्थायां स्वात्मनि प्रलीनं क्तं न वेदेत्यर्थः । श्वेताश्वतरा अपीश्वरमचिन्त्यशक्तिमा- TTITATI || तमीश्वराणां परमं महेश्वरम् तं देवानां परमं च दैवतम् । पति पतीनां परमं पुरस्तात् विदाम देवं भूवनेशमाद्यम् ॥ न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । 2100mAMIUITMAY १३ भास्करीयब्रह्मसूत्रभाध्ये परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ न तस्य कश्चित् पतिरस्ति लोके न वेदिता नैव च तस्य लिङ्गम् । स कारणं कारणाधिपाधिपो न चास्य कश्विजनिता न चाधिपः ॥ इति विविधा शक्तिः सा च स्वाभाविकी न चागन्तु कुतार्किकचोधं किं नाम न परिहृतम् । न च निरवय नास्ति यथा मनसः कामक्रोधलोभमोहादयः पर समुद्रोर्मय इवोद्भवन्ति मनःखरूपं चाप्रच्युतम् । र्दा मन एवेति यथा नभसो वायुयोरग्निरसिद्धो हर धिरस्त्वं किं श्राययन्ती श्रुतिं न शृणोषि । णोमि पपन्नार्थवादित्वादिति चेदूर्णनाभिं प्रजापतिप्रियं य पपन्नमिति चेदत्राप्यविशिष्टं शास्त्रदृष्टत्वं न च प्रा शेषः स्वेखे विषय। श्रथ मन्यसे नेदं शास्त्रं सृष्टिप्रतिप अद्वैतप्रतिपादनपरं सृष्टौ प्रयोजनाभावाद् भेदस्य ३ सिद्धत्वादिति । अत्रोच्यते कार्यकारणयोरनन्यत्वारि स्मैकत्वं प्रतिपाद्यते भवता स चायमसिद्धो हेतुः वियदादि सर्व नित्यं मीमांसकानामिव प्रसज्यते । योजना विज्ञानात्मनां भोगज्ञानार्थत्वातू सत्सु हि शरी ज्ञानं चावकल्पते अग्निहोत्रादिलक्षणस्य क्रिया कस्य व्यवहारस्य भेदमन्तरेणानुपपत्तेः। खभावसिर कर्मकाण्डव्यवहारोपपत्तन भेदः शास्त्रीय इति चेदर सामान्यात्मना सर्व वस्तुजातमाभिन्नमनुवृत्तिप्रत्यर तत् द्विविधं सामान्यं परमपरं च सत्तालक्षं गो ततश्चाभेदोप्यशास्त्रीयः प्रसज्यते । अथ मनुषे ब्रह्मा नन्यत्वमन्यतोऽसिद्धमिदं सर्व यदयमात्मा इत्यभे शोभनमभ्यधायिन्यायेनानेन(?) धर्मोप्यग्निहोत्रादिल न्द्रियः शास्त्रेणैवावगम्यते इति न विशेषं पश्यामः मायामात्रविषयत्वमद्वैतवाक्यानां च परमार्थवस्तु विरुद्धम् । भेदाङ्गीकरणं युक्तं प्रामाण्यतुल्यत्वा भिश्च भेदः प्रतिपाद्यते न च सत्तामात्र प्रत्यक्षस्य विष २ अध्याये १ पादे १४ सूत्रम् । विषयत्वात् । न च सत्ता सन्यो निष्कृष्य केनचिदि- वेषयीक्रियते तस्मात् सत्तवासिद्धान्तविषय इति प्रति- मौषधमन्वेष्टव्यमतो यदुच्यते कोचिदाहुर्विधातृप्रत्यक्षं धृविपश्चित इति तदनुज्ञायते किं रूपादिविधातृत्वान्न प्रत्य- षेधकं स्वविषयतामात्रपर्यवसानादन्यनिवृत्तिरभावप्रमा- । तथाहि स्वरूपमेव वस्तूनां परस्परविलक्षणम् । नानात्वं तत्सु संवेद्यं भेद इत्यभिधीयते ॥ -पं पटे नास्ति पटरूपं घटेन हि । देशान्तराभाव अन्योन्याभाव उच्यते ॥ तामात्राहकं सर्वमिद्रियमिति सङ्करः स्यात् । अन्धो- पेधिरोऽपि शब्द शृणुयातू । अथ शब्दादिविषयभेदग्रह- न तर्हि सत्ताविषयत्वं यथानुवृतिप्रत्ययातू सत्तेभ्यते तथा मान्तरसामान्यमपि प्रसज्यते तदाश्रयभूतं चेद्रव्यं सामातू अतः सामान्यविशेषात्मकं वस्तु सिद्धम् । इदं यं सत्ताज्ञानं ततो व्यतिरिक्तमव्यतिरिक्तं वेति । यदि के द्वैतप्रसङ्गोऽनवस्था च ज्ञानसत्ताऽन्येन ज्ञानेन तत्सत्ता- ।। अथाव्यतिरिक्तं ग्राहकाभावात ग्राहा सत्ता न सिद्धयति प्रत्यक्षमिति च प्रतिज्ञाहानिस्ततश्च सन्मात्रवादिनो न म- द्रयं न ज्ञानं न शेयमिति सर्वशून्यता प्राप्ता स कथं परं प्रत्याप- प्रयं वा कथं बुद्ध्यत इति । सन्मानप्रतिमाद्यैव प्रतिभाति नः वेद्यानां चोमित्येतदक्षरमुद्गीथमुपासीतेत्यारब्धानां कर्मा- पुरुषाणां प्राणप्रतीकाद्युपासनानां च भेदमन्तरेणात्म- नुपपत्तेः । कथमिदं मायामात्रं प्रमाणमन्तरेण प्रतिज्ञातुं श- वृतं त्रिवृतमेकैकं करवाणीति बहुद्विपूर्व परदेवताप्रवृत्ते- प्रायमज्ञात्वा कोनामादृष्टनिर्भयः सर्व मिथ्येति कल्पयितु- यदि च दृष्टसाधम्र्येणादृष्टं निर्णेतुमिप्येत तदा च दृष्टमष्टं -- । कृतश्चायमवगमो भवतः न हि सूत्रकारः कचिन्मायाशब्दं "बानान्मायामात्रं तु कात्स्न्येन अनभिव्यक्तखरूप- भाञ्च न खन्नादिवदिति वैधर्म्यमुक्तमी- पत्यधिकरणं : स्मृतिमन्तरेण नोपपद्यते इत्यारश्य - मपंख्याधुभाषितदू- M १०० भास्करायब्रह्मसूत्रभाष्ये षणोद्धरणार्थ प्रत्यधिकरणं प्रयासोनर्थकः स्यात वियदश्रुतेरिति चारभ्य भूतानामुत्पत्त्यादिविच ननु सूत्रकारो न स्थानतोपि परस्योभयलिङ्गं सर्व रिक्तं सर्व मायेति वक्ष्यति । मैवं वोचस्तस्याधि स्वान्न प्रपञ्चाकारं ब्रह्मोपास्यं किं तर्हि निराव तात्पर्यम्।यदप्युक्तं मायां तु प्रकृतिं विद्यादिति त मिति तेजोवनलक्षणा प्रकृतिः प्रकृता सा म प्रकरोति स्वविकारानिति प्रकृतिरुच्यते । गीत प्रकृतिर्भूतामपीति व्यपदेशात् । क्वचिन्मायाशब्द यते परिच्छिद्यते ऽनयेति प्रज्ञोच्यते यथेन्द्रो मा मायाशब्दमात्रेण कृत्स्नो वेदः सुप्रमेयं स्वर्गा भूतं प्रत्याययनप्रमाणमसत्यमिति वा कल्पयितु तते वेदार्थ यथा वहेर्दूमशक्त्या यथा प्रवर्तन्तारि भावे चोपलब्धेः ॥ १५ इतश्चानन्यत्वं कारणभावे कार्यस्योपलक त्पिण्डे घटो न देशान्तरे कालान्तरे चोपलभ्यते। तद्देशान्तरे कालान्तरे चोपलभ्यते यथा गोर पेक्ष्यते । ननु चाग्निभावे धूमो जायते न चानन मित्तकारणमग्निः पुत्रस्येव पितरि विनष्टे ऽप्यन्नौ तूपादानकारणापेक्षयानन्यत्वमुच्यते अस्ति धूमे तेषामेषामेव धूमावस्थेत्यनन्यत्वम् ॥ १५ ॥ सत्त्वाचावरस्य ॥ १६ इतश्चानन्यं सदेव सौम्येदमन आसोदि कार्यस्य अवरकालीनस्य कारणे सत्त्वादनन्यत्र मानाधिकरण्यात ॥ १६ ॥ असयपदेशान्नेति चेन्न धर्मान्तरेण वा असद्धा इदमन आसीदित्यसद्या वादित्यसिद्धो हेतुरिति चेत् १ (१) कल्पयिमिति ज्ञाती Hin