Donar

Spandakaarikaa

Kallat'a · 2005/08/30

PDF Proofread

Front matter

No text on this page.

No text on this page.

DEPARTMENT JAMMU
31HINHS
THE
SPANDA KARIKĀS
WITH THE VRITTI
KALLATA,
स्पन्दकारिकाः
कल्लट-वृत्ति-समेताः
स
k2s
3HI1
श्रीनगर
(कश्मीर)
संवत १९७०

२ [१ नि० स्पन्दकारिकाः अनेन स्वस्वभावस्यैव शिवात्मकस्य संकल्प- मात्रेण जगदुत्पत्तिसंहारयोः कारणत्वं विज्ञान- देहात्मकस्य शक्तिचक्रैश्वर्यस्योत्पत्तिहेतुत्वं नम- स्कारद्वारेण प्रतिपाद्यते ॥१॥ यत्र स्थितमिदं सर्व कार्यं यस्माच्च निर्गतम्। तस्यानारतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ॥२॥ चित्रंसदाशिवादिपृथिव्यन्तं भावजातमव्यतिरिक्तमास्ते,तदेव शक्तिशब्देन व्यपदेश्यं नित्याव्यभिचरदेकस्वभावे शिवे समवेतं तयोरभेदस्य अभ्युपगतत्वात् । वस्तुतस्तु परा शक्तिरे कैव परिपूर्णहंपरामर्शशालि- त्वात् अत्यद्भुतशक्तिपरिस्फुरिते पारमैश्वर्य मायाशतयुद्भावितानन्तवै- चिन्या भावव्यक्तयः अवरपरामर्शोन्मुख्यमात्रोत्पन्नेन तु भेदोपभेदभाव- मापन्नेन भावराशिना अपभासमानतया बहुव्यपदेशा शक्तिशक्तिमता- रभेदाभिप्रायप्रत्यायिका । अयं भावः-शंकरात्मनि तदिच्छ्यैव विश्वमु- न्मीलितं लब्यस्थितिकमपि तच्छक्तिविज़म्भणमात्र, मायाशक्तया तु नानावभासि इति तन्नुतिद्वारा तत्समापत्तिराशंस्यते । २ नानाविभक्तवेद्यात्मतत्त्वनिचयस्य प्रकाशनस्थितिहेतुतया कर्तृ- तया च य आधारकारणभूतः प्रमेयसंपर्कासहिष्णुतया अप्रमेयो निरवच्छिन्नमहिमचिन्माकस्वरूपः स एवेह स्वस्वभावशब्दाभिमतो, न पं०५ ग पु० इदं विश्वमिति पाठः ।

३ ३ का०]] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । कथं पुनः स्वस्वभावस्यैव संसारिणः शिवत्वेन निर्देशः-इति यद्युच्यते, तत् यत्र स्थितम् इदं जगत् , यस्मात् च उत्पन्नं तस्य संसार्यवस्थायामपि अनाच्छादितस्वभावत्वात् न क्वचित् निरोधः, अतः शिवत्वमुच्यते ॥ २ ॥ जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥३॥ तु जातिव्यक्तयभिमानवता मायापहृतेश्वर्यसंविदाऽणः स्वरूपं, तस्य निरुद्धस्वभावत्वात् । ३ आदिशब्दनिर्देशेन स्वप्नसुषुप्ताख्ये अवस्थे विज्ञ ये । स्मृतिमद- मूर्छादयस्तयोरेवान्तर्भूताः। तत्र यस्यां बुद्धीन्द्रियैर्वहि विषयान् परिग्रहीतुं विकसितकरणेश्वरीको जनः परिस्पन्दते सा जागरावस्था। यत्र बाह्यतो सकलकरणशक्तिमता उपकल्पित. विषयोपभोगपरिग्रहणं सा स्वप्नावस्था। यत्र मनसोऽपि व्यापृत्युपरतो सत्यां प्रोक्तोभयथाकारविषयजातासंवेदनं सा सुषुप्तावस्था । स्मृतिर- नुभूतविषयासंप्रमोषः । मदः पानातिशयजन्यश्चित्तवृत्तिसंमोहः । मूर्छा विपादादिजनितमोहात्मा इति एतासु विज़म्भमाणास्ववस्थासु अनुसंधानैक्यबलवत्स्वानुभवप्रमाणेन उपलब्धृतायावस्थातुरभेदः सिद्धः। तदभिन्मेति बहुव्रीहिर्बोध्यः । व्युपरतकरणचक्रस्य मनसैव पं० २ घ' पु० इत्युच्यते इति यदि-शब्दहीनः पाठः ।

[१ नि० , स्पन्दकारिकाः। जाग्रदादिनापि भेदे प्रथमाने न तस्य स्वरूपम् अात्रियते, यस्मात् उपलब्धृरूपत्वं विष्वपि पदेषु साधारणम्, न तस्य स्वरूपान्यथाभावः, यथा विषस्याङ्कुरादिषु च पञ्चसु स्कन्धेषु ॥३॥ अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः । सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्रताः स्फुटम् ॥४॥ स चानुस्यूत एव सर्वास्ववस्थासु, यस्मात् 'य एंव अहं सुखी स एव अहं दुःखी' 'रक्तो वा , ४ संविद इति बहुवचनस्य (ज्ञानसंतान एव क्षणिकः स्वतन्त्रः स एव स्मृत्युत्प्रेक्षादिपद्धत्या दूरतरं विसार्यमाण बहुप्रकार शाखो- पशाखाद्भिन्नोऽहंप्रतीत्यापि बुद्धयाद्यालम्बनो नान्यस्य स्मद्रष्टता- भिमतस्य संबन्धितामवलम्बते) इत्येवमभिप्रायः, तथात्वे स्मृतिप्रत्य- भिज्ञाद्यनुसंधानं न स्यात् असति च तस्मिन् सर्वव्यवहारोच्छेदः प्रसज्येतेत्येतत् सर्व प्रसक्त परिहतु विशिष्यते अन्यत्रेति, सुखित्वादि- प्रत्ययसंतानेन प्रवर्तमानावस्थानामुपलब्धरि पूर्वापरव्यवस्थाव्यापकतया सर्वप्रमातृस्वानुभवसिद्ध निनिरोधानुसंधात्र काश्रयत्वस्वभावः शंकरः सुव्यक्तः। पं० १ ख घ. पु० भेदे प्रवर्तमाने इति पाठः । पं० ४ वृत्तस्याङ्करादिषु इति क्वाचिकः पाठोऽमौलिकः ।

५ ५का०] प्रीकल्लटाचार्यविरचितवृत्त्युपेताः । पश्चात् स्थित' इति अनुस्यूतत्वेन; अन्यत्र अवस्था- व्यतिरिक्ते । यदागमः '................स स्वभावः परः स्मृतः।' इति ॥४॥ नदुःखं न सुखं यत्र न ग्राहयो ग्राहको न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥५॥ तस्य चायं स्वभावो-यत् सुखदुःखग्राह्यग्राहक- मूढतादिभावैरस्पृष्टः स एव च परमार्थतोऽस्ति नित्यत्वात् ; सुखादयः पुनः संकल्पोत्थाः क्षण- ५ सुखादिरूपताप्रतिषेधेन बाह्याभ्यन्तरतया द्विविधवेद्यता प्रति- षिध्यते । ग्राहकशब्देन देहादिमायीयप्रमातृभावप्रतिक्षेपः। वेद्यवेदना- संचेतनावस्थापि उत्तरकालं प्रत्यवमृश्यमानत्वात् वेद्यभूमिमाश्रितैव इति ज्ञानगोचरप्रमेयवस्तुत्वनिषेधात् अभावमात्र प्रतिक्षेप्तुमाह तद- स्तीति । सदोदिताविलुप्तोपलब्ध्रकस्वभावं तत् वेद्यवेदकयोरन्योन्य विप्रकृष्टस्वभावत्वात् , वेद्यमसत्यस्वभावं क्षणभङ्गुरं, वेदितैव परमार्थ- सन् इति प्रतिपाद्यते । पं० १ क पु० पृथकस्थित इति, ध' पु० पश्वात्सित इति पाठः । पं०५ घपु० न ग्राह्यमिति पाठः । पं. क. पु० परमार्थोऽस्तीति पाठः ।

w [१ नि० स्पन्दकारिकाः भङ्गुरा अात्मस्वरूपबाह्याः शब्दादिविषयतुल्याः; न च, सुखादिस्वरूपो यदा नासौ तदा पाषाणप्रख्य एव ॥ ५॥ यतः करणवर्गोऽयं विमूढोऽमूढवत्स्वयम्। सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहतीः ॥६॥ लभते, तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमाँ॥७॥ (युगलकम् ) ६-७ उत्पत्तिः विविदिषितविषयमुखप्रेक्षित्वात्मसमुन्मिषदवस्था । स्थितिः उपरक्तार्थचमत्कृतिविश्रान्त्यवस्था । निरोधः कृतकृत्यतया विषयस्य स्वात्मसात्करणे स्वव्यापारोपरत्यात्मप्रत्यस्तमयावस्था इत्येता यत्संपर्कबलात् त्रयोदशसंख्यानां करणनां जडतयाभिमनानामुपल- भ्याः। परमार्थतत्त्वमात्मभावेन विज्ञातं करणस्वातन्त्र्याधानवत् सर्व- साधारणार्थस्वातन्यलाभायापि अभ्यासातिशयदशापरिपाके कल्पते, तस्य स्वेच्छामात्राधीनसमस्तनिर्मातृत्वलक्षणं स्वातन्यं समावेशसंपत्ति- मत्सु देहतद्दशाविशेषेषु उपादानसहकार्यादिकारणनिरपेक्षं सहजसिद्ध संसारिदशायामपि तन्महिम्नैव व्यवहारसिद्ध, मायाव्यामोहमात्रवशात् तु स्वात्मप्रत्यवमर्शाभावे व्यतिरिक्तकारणसापेक्षतया वस्तुसिद्ध पारतन्त्र्यव्यवहार इत्यत्र स्वातन्त्र्यप्रतिपादनात् उपादेयतातिशय्यते ।

८ का०] श्रीकल्लटाचार्यविरचितंवृत्त्युपेताः । यतः करणवर्गस्य अन्तश्चक्रसहितस्य विमू- ढस्याप्यमूढवत् उत्पत्तिस्थितिनिरोधाः, सोऽन्येषां चैतन्यापादने समर्थः कथं निःस्वभावः ॥ तस्मात तत् तत्त्वं यत्नेन परीक्षितव्यं योगिना, यथास्य करणादिषु चैतन्यदाने स्वातन्त्र्यम् , तथा परपुरा- दिष्वपि संभाव्यते ; स्वातन्त्यस्य स्वस्वभावभूतस्य सर्वत्राकृत्रिमस्याभ्यासात् यतो व्यक्तिः ॥६-७॥ न हाच्छानादनस्यायं प्रेरकत्वेन वर्तते । अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ॥८॥ ८ अयमत्राशयः-यथा परमेश्वरः पूर्णज्ञातृत्वकर्तृत्वशक्तिभ्यां जगन्ति प्रवृत्यादिव्यापारं लम्भयन् विश्वत्र ज्ञानक्रियावत्तामधिरोहति एवमनु- त्तरतबलसंपर्कादेव योगिना ज्ञातृत्वादिसामथ्यमुपजायते मायावशात् संकोचान्मुखीभावेन ज्ञानक्रिये शक्ती अपि अन्तर्वहिष्करणतया संकुचि- तीभूय प्रसृते प्रतिनिजनियतविषयेषु व्यापरितुं शक्नुतः इत्यतोऽणुरपि स्वस्वभावमध्यास्य करणचक्रप्रेरणदा स्वतन्त्रो न तु अस्य धर्माधर्म- संबद्धेच्छाख्यगुणप्रेरण्या करणचादितदात्रादिवदुपचरितकर्तृत्वम् । पं० १ ख' पु० यत इत्यनन्तरं चैतन्यस्वभावात्' इत्यप्यधिकः पाठोऽस्ति । पं० ७ क ग घ पु० यदा व्यक्तिः इति पाठः ।

N स्पन्दकारिकाः। [१ नि० न च इच्छाप्रेषणेन करणानि प्रेषयति, अपि तु स्वस्वरूपे स्थित्वा केवलं यादृशी तस्येच्छा प्रवर्तते तथाविधमेव स बाह्यान्तरं कार्यमुत्पादयति, तेन न करणविषयमेव सामर्थ्यम्, किं तु तस्य सर्वत्र ॥८॥ निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः। यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥६॥ स चास्य अात्मबलस्पर्शः सहजया अशुद्ध्या व्याप्तस्य कार्यमिच्छतोऽपि न भवति, किंतु यदा क्षोभः 'अहमिति' प्रत्ययभावरूपोऽस्य प्रलीयेत, ९ सत्यपि परमेश्वरसाम्यासादनात् ईश्वरपुरुषयोरभेदे केवलं पुरुषस्य रागादिनिबन्धनमलाक्रान्ततया अनित्यपरिपूर्णतृप्तिता, यया साध्यसाधनोपार्जनेषु अशक्तत्वेन शक्तिदारिद्रयम् , अत एव भेदनिबन्ध- नमीश्वरसाम्यं मायीयोपद्रवप्रलये पुनः संविदैकात्म्यमनुपचरितप्रथं सैव परमशुद्धिः। पं० १ ग पु० इच्छाप्रेरणेन करणानि प्रेरयतीत्यपि पाठान्तरं वर्तते । पं० ८ ख पु० स आत्मबलेति पाठः । पं० १० घ. पु० क्षोभो देहाद्यहमिति शोधितपाठः, प्रलीयते इति च पाठोऽस्ति ।

१० का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । तंदास्य भवति परमे पदे प्रतिष्ठानम् ॥६॥ तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः। . यतस्तदीप्सितं सर्वं जानाति च करोति च ॥१०॥ यतः, तस्मिन् प्रलीनक्षोभात्मके काले अकृ- त्रिमः सहजो ज्ञत्वकर्तृत्वभावरूपो धर्मो यस्मात्, तस्मिन् एव प्राप्तयोगात्मके काले यत् यत् ज्ञातुम् इच्छति तत् तत् जानाति च करोति च; नान्यदा संसार्यवस्थायाम् ॥१०॥ १० एकमेव अव्यभिचारि आत्मन उपलब्धृत्वं नाम अयुतसिद्धो गुणः स्वात्मप्रत्यवमर्शरूपः, स एव शेयकायविषयतया ज्ञानक्रियाद्वैरू- प्येण आम्नायते अस्यैव गुणस्य स्वमहिमविजम्भण निरुपराधं स्वसंवेद- नीयं केवलं सर्वज्ञत्वसर्वकर्तृत्वशक्तिविकासिन्युपलब्धृलक्षणे आस्पदे विकल्पकलकोपप्लवासंपृक्ते । यस्मात् तत्र ज्ञयकार्यप्रत्यवमृश्येषु नियन्त्रण स्वातन्त्र्यं, यत्तु संसार्यवस्थायामख्यातिमुग्धतया वेद्येषु ज्ञत्वकर्तृत्वाह- मतिः सा कृत्रिमा परिमिता च नियमितस्वातन्त्र्यगतिमत्त्वात् अतो शत्वकर्तृत्वलक्षणो धर्मः स्वभाव एव न पुनः क्षुब्यावस्था । तस्मात् स्वब- पं० २ क' पु० तदा स्यात् कृत्रिम इति पाठः । पं० ५ ख घ. पु० धर्म इति शब्दो नास्ति १० [१ नि० स्पन्दकारिकाः। तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतैः॥११॥ तदेवम् , यतः सर्वानुस्यूतः सर्वसामर्थ्ययुक्तश्च अात्मस्वभावः, तस्मात् तम् अधिष्ठातृभावेन सर्वव्यापकत्वेन स्वभावं पश्यन्, विस्मयाविष्ट इव यस्तिष्ठति, तस्य कुत्सिता मृतिः सरणं न भवति ॥११॥ नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदितिनिश्चयः॥१२॥ लसंस्पर्शात् करणचक्रप्रवर्तनादिकार्यवृत्त्या संयुज्यमानस्य तत्साम्यो- पलब्धिः। ११ उपपत्तिव्यवस्थापितस्य शंकरस्वभावस्य अविरतकालप्रबन्ध- तया सदोदितान्तर्बहीरूपतया स्फुरदधिष्ठातृत्वं प्रत्यभिजानता विस्मृत- शिवस्वरूपविज्ञानात् 'मायीयप्रमातृभावोऽसन्नेव इत्थं शुक्तिकारजतव- द्भासमानः' इत्येवं विम्रष्टुरनुक्षण नवनवानुत्तरातिशयचमत्काररसा- स्वादनेन विस्मयावस्थितिरलौकिकी अनुभवपदवीमधिशेते यत्प्राप्तो परि- मिताहमतिनिबन्धनः संसरणयासक्षोभो विरम्यते इति । १२ वेद्यवेदनोल खोच्छेदरूपे समाधौ कैश्चिदभाव इति मन्यते, न चैतत् तस्य भाव्यमानतया व्याघातात् तत्रलब्धप्रतिष्ठेन योगिना अभाव- ११ १२ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । न तु अभावो भावनीयो, यथा अन्योगिभिः उपदिश्यते, 'अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् ।' इति । न चैतत् युक्तम्, यस्मात् नाभावे भावना युज्यते मूढावस्थैव सा, यस्मात् उत्तरका- लम् अभियोगसंस्पर्शात् अभिलापसंयोगात् सा शून्यावस्था अतीता मम इति स्मयते, न च प्रात्म- स्वभाव एषः, यस्मात् न त्वेवं चिद्रूपत्वं मूढ़ावस्था- वत् स्मयते, तस्य सर्वकालमनुभवितृत्वेनानुभयो नित्योदितत्वात् ॥१२॥ समाधेर्युत्थाय उत्तरकालं ‘सा दशा मयान्वभूयत' इत्यनुसंधानेन तह- शान्तरं स्मयमाणतां नीयते तत् स्मरणमेव तदानीमनुभवितृसत्तां विवि- तामुपलम्भयेत् इति स्मर्यमाणं वस्तु अभावरूपं स्वात्मा भवितुं नार्हति सुखादिवत् तस्य वेद्यत्वात् इति। तस्मात् समस्तवेद्यधर्मोज्झितः पर- स्वभाव उपादेयः। पं० ६ कपु० अभिलाषेति, ग. पु० संयोगात्मा शून्येति च पाठः ।

१२ स्पन्दकारिकाः। [१ नि० अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥१३॥ अभावभावनालब्धभूमिकस्यापि कृत्रिमा अनि. त्या सा अवस्था, यथा सौषुप्ते पदे; यस्मात् चिद्रूपत्वं तु आत्मनः स्वरूपं नित्यसंनिहितम् , तदेव गुरुपदेशेन नित्यमेवानुशीलनीयम् ॥१३॥ अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यताक्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥१४॥ १३ अत्रैतदुच्यते--यथा माहधना सुषुप्तावस्था तदात्वे वेद्यवेदक- विभागाग्रहणमयी अभावरूपेव उपलभ्यमाना प्रबोधदशायामुदिताव- मर्शगोचरतामापद्य स्मर्यमाणत्वेनानित्या । एवमभावसमाध्यवस्थापि प्रतीतत्वेन प्रबोधकाले विचिन्त्यत्वात् अनित्या-इत्येवं-प्रायाः समाधि- विशेषाः सुषुप्तिदशान्तर्भाव्याः, न पुनरुपेयतमस्वरूपे एवंरूपो भूत- कालाक्रान्तः स्मरणप्रत्यवमर्शः स्मर्जन्तरस्मार्यः, परतत्त्वस्य सदोदित- विज्ञातृस्वभावतया शाश्वताविचलविद्यमानपरमसत्त्वात् । १४ अवस्थाशब्देनेदमत्र उद्देश्यम् । एक एव स्वतन्त्रः परमेश्वरो विश्वत्र परमार्थतः समस्ति । स एव अनुत्तरनिर्यन्त्रणस्वात्मैश्वर्यशक्ति- विज़म्भणया निरुपादानसंभारं द्विविधं स्वात्मानमवभास्य विक्रीडति । द्वैविध्यं च कार्यकर्तृत्वाख्यं, येन हेयतयोपादेयतया च द्वैलक्षण्यं वस्तु १३ १५ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । अवस्थायुगलम्, अवस्थाद्वयमेव कार्यकर्तृत्वसंज्ञं भोग्यभोक्तभेदभिन्नं, तत्र यो भोग्यरूपो भेदः स उत्पद्यते नश्यति च; भोक्तृभेदस्तु चिद्रूपः पुनर्न जायते, न कदाचित् विनश्यति तेन नित्यः ॥ १४ ॥ कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते॥१५॥ कार्यसंपादनसामर्थ्य बाह्यकरणव्यापाररूपं केवलं विलुप्यते, स्थगितेन्द्रियस्य तस्मिन् विलुप्ते सामर्थ्य १५ संगृह्यते । तत्र कार्यावस्था परप्रकाशोपजीविनी अन्तरेण प्रकाशयितार- मवस्थातुमप्रभुः तदभिन्नं निजरूपमावेदयति शाक्तोल्लासमयत्वात् , केवलं कार्यतापाधिरचिरायैव अनुविलयी, कर्तृतावस्थितिः पुनः सदो- दिताविलुप्तदृशिमात्रधर्मकत्वात् अविनाशिनी इति। तदेवं स्वमायोद्भासि- तविश्वोल्लासज्ञप्तिपूर्व स्वसंवेद्यमुत्तीर्णतममात्मानं निदिध्यासतां सर्वा- वस्थासु बन्धहेतुनिवृत्तिः। १५ वेद्योन्मुखतामवलम्ब्यैव सहजोद्यमनशक्तविश्ववैचित्र्योल्लेखन- कारितया बहिर्विलसितुं यः प्रसरणादरः स केवलमिन्द्रियव्यापार- विरतिदशायामनभिव्यक्ततया आत्मन्येव अवलीनः, तदव्यक्तिदशायाम- पं० १ क. ग. पु० अवस्थायुगलमिति वाक्यं नास्ति । पं० ३ ख. पु० भोक्तृरूप इति पाठोऽस्ति ।

१४ स्पन्दकारिकाः। [नि० स्वभावो मे विलुप्त इति अबुधो जानाति, न तु भावस्य विनाशोऽस्ति ॥१५॥ न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्य लोपःकदाचित्स्यादन्यस्यानुपलम्भनात१६ न तु यः अन्तर्मुखः अन्तश्चक्रारूढस्वभावः सर्वज्ञत्वादिगुणाश्रयः तस्य विनाशः कदाचित्, वुद्धस्य अयं परामर्शो यत् नाहमस्मीति स्वाभावं स मन्यते, नैतत् जानाति यत् अभावपरामर्श एव प्रत्युत तत्साक्षितया स्वात्मानं स्थिरीभावयति इति अताऽभावसमाध्याद्यवस्थासु तात्कालिकानुपलभ्य- तया आत्मनः क्षयित्वं नैवाक्षेप्तव्यम् । १६ एकैव पारमेश्वरी शक्तिः संकोचग्रहणपक्रमे स्वात्मानं द्विधा अवभास्य शानक्रियायुगलोद्भावनोत्तरमत्यन्तमर्वाचीनपदे अन्तर्वहिष्क- रणभावमुपाश्रयते संकोचहानदशापरिशीलनादी विविधीभूतं स्वं रूपं प्रत्याहृत्य सर्वती विमलनभःप्रख्ये वितताभोगे स्वस्मिन् स्वानुभूति- पारिपूर्ण्यचमत्कृतिमास्वदते । तत्र विभिन्नविभक्तवेद्याभावात् अन्तर्मुख- तत्त्वस्य विलोपः संभावयितुमन) यो बाह्यवेद्यग्रहणग्रहवद्भिः व्यामूढेः प्रतिपद्यते, अथवा चतुर्थपादस्य हेतुभावेन प्रयोगः, यस्मादुपलब्धृस्व- रूपस्य विलुप्तौ विश्वमनेलमूकप्रायं स्यात् विश्वव्यवहारोऽपि व्युच्छिद्यत इति । ०१ मे इति पदं घ. पुस्तकादुपन्यस्तम् १५ २७ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । तस्मात् द्वितीयस्यान्यस्याभावात् तत्स्वरूपमेव व्योमवत् चिद्रूपतया सर्वत्र अनुभवति इति ॥१६॥ तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी। नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु॥१७॥ तस्य चिद्रूपस्य सर्वगतस्य स्वस्वभावस्य उप- लब्धिः त्रिषु जाग्रदादिषु पदेषु नित्यं सुप्रबुद्धस्य भवति; तदाद्यन्ते अपरस्य प्रबुद्धस्य स्वप्नसुषु- तादौ ; जाग्रत्तुर्यो वागममात्रगम्यौ ॥१७॥ . १७ सर्वोत्तीर्णचिन्मात्रविषयो विश्वमयशाक्तचक्रविषयश्च-इति उप- क्रान्तनिर्वाह्यात्मकतया द्विविधोपदेशस्य प्रायशोऽप्रवुद्ध विषयेऽनुपयोगि- तैव सुप्रबुद्धस्येव पदत्रये स्वात्मोपलब्धेरयत्नसिद्धत्वात् , प्रबुद्धस्य हि पदद्वयवर्ति साक्षिरूपं प्रबोधावस्थायां परामृशता विश्वोत्तीर्णनिरुपराग- चेतयितृमात्रस्वरूपोपलब्धिः सौषुप्तप्रत्यवमृश्या, स्वप्नावगस्या च विश्व- मयनिर्माणविस्फुरणशालिनः कारणान्तरनिरपेक्षस्य सर्वकर्तृत्वधाम्नः स्वात्मन उपलब्धिरनायासं सिद्धयति । अप्रबुद्धः पुनयुक्तिसहस्रैरपि उपदेश्यमानं परतत्त्वं नैव पारयति हृदयंगमीकर्तुम् , अतोऽवशिष्टपदद्वये व्यवहित्यपरिचितिभ्यांदुर्बोधस्य परतत्त्वस्योपदेशमपेक्षते इत्युपदेशविषय- व्यवस्थितिः केवलं प्रबुद्धस्यैव । पं० ८ ख. पु० जाग्रत्तुयें प्रागममात्रगम्ये इति ग. पु० स्वप्नसुषुप्त्यादी जाग्रत्तुर्ययोस्त्वागममात्रगम्या इति पाठः ।

१६ [१ नि० स्पन्दकारिकाः। ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः । पदद्वये विभु ति तदन्यत्र तु चिन्मयः ॥१८॥ ज्ञानज्ञेयभेदेन द्विरूपे जाग्रत्स्वप्नात्मके पदद्वये संवेदनम्, सुषुप्ततुर्यात्मके पदद्वये पुनश्चिद्रूपत्वेन केवलम् अनुभवः, न तु द्वितीयमन्यत्वेन उप- लभ्यते॥१८॥ गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभाः सततं स्युर्जस्यापरिपन्थिनः १६ १८ परमेश्वर एव स्वमायाशक्तिमहिना विचित्रक्षेत्रज्ञभावेन प्रथ- मानः स्वाव्यतिरेकिणी पराशक्तिं पदद्वये जाग्रत्स्वप्नाख्ये आभ्यन्तरकर- णसुखादिना बहिष्करणनीलादिना च अवभास्य तत्तद्दशाव्यवहारानुद्भा- वयति परन्तु एतदेव शक्तः परत्वं यत् शिवप्रकाशमतिरोधाय अनन्त- वैभवेन स्फुरण, सुषुप्ततुर्ययोस्तु विभक्तभिन्नसंवेदनीयाभावात् स्वात्मनि समरसीभूतशक्तिरीश्वर एव प्रकाशते । भावानां स्थैर्यास्थैर्यप्रतिपत्तिवि- कल्पेन प्रथमपदयार्भेदः । अपरत्र चिन्मात्ररूपस्य उपलब्धृचमत्कृतिस- द्भावासद्भावाभ्यां भेदः इति चतुर्ष पदेषु सर्वोत्तीर्णतया सार्वरूप्येण च प्रकाशविज़म्भणम् । १९ पारमेश्वर्यानुग्रहशक्तया प्रत्युत्पन्नहेयोपादेयविवेकस्य नैविक- ल्पिको प्रतिष्ठामाश्रित्य सत्तांगमयुक्तयभ्यासोत्साहेन उच्चपदारुरुक्षा २०]] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । गुणस्पन्दस्य सत्त्वरजस्तमोरूपस्य ये निःष्यन्दाः प्रवाहाः, ते सामान्यस्पन्दमाश्रित्य प्रसृता अपि सततं ज्ञस्य विदितवेद्यस्य योगिनः स्युर्भवेयुः, भव- न्त्यपरिपन्थिनः अनाच्छादकाः स्वभावस्य ॥१६॥ अप्रबुद्धधियस्त्वते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥२०॥ स्वल्पप्रबोधास्तु स्वास्थतः चिद्रूपायाः स्थगन कृत्वा, गुणाः पातयन्ति दुरुत्तारे अस्मिन् विषमे संसारवर्त्मनि, यतस्तदात्मकमेव नित्यमात्मानं पश्यन्ति, न तु शुद्धबुद्धस्वरूपतया ॥२०॥ ते परिशीलयता ज्ञस्य मुखिदुःखिमूढतादिप्रत्ययप्रवाहाः खेचर्याद्यधिष्ठिताः क्रोडीकृतविश्वस्पन्दं परशक्तिस्फुरितं समाश्रित्यैव लब्धस्वात्मप्रतिष्ठाः स्वात्मवीर्याविर्भावनात् विगलितावरणसामर्थ्याः परतत्त्वोपलम्भं विहन्तुं न शक्नुयुरिति तात्पर्यम्। २० अप्रवुद्धो विद्यमानमपि स्वैश्वर्यं सार्वज्ञादिगुणस्पदं स्पन्दतत्त्व- मविदन् सर्वथा परतन्त्रं देहादिकमेव आत्मत्वेन स्वीकरोति । अत एव ज्ञानगुणप्रसराः परमात्मस्थितिं तिरोधाप्य यावत्प्रबोधप्राप्तिमप्रबुद्ध जन्मा- पं. ७ क ख पु० अल्पप्रबोधानामिति पाठः ।

१८ स्पन्दकारिकाः। [१ नि० अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये । जाग्रदेव निजं भावं न चिरेणाधिगच्छति ॥२२॥ अतः सततं सर्वकालं यः करोत्युद्योगं स्पन्द- तत्त्वस्य स्वरूपाभिव्यक्त्यर्थं, स जाग्रदवस्थायामेव निजमात्मीयं तुर्यभोगाख्यं स्वभावम् अचिरेणैव कालेन प्राप्नोति ॥२१॥ अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन्वा यत्पदं गच्छेत्तत्र स्पन्दःप्रतिष्ठितः ॥२२॥ तस्य च स्पन्दतत्त्वस्य अतिक्रुद्ध प्रहृष्टे धावमाने दिस्रोतस्यावर्तयन्त्येव-इत्यतः प्रबुद्धस्यैवोपदेश्यता निरूढढिमा, अप्र- बुद्धविषये विहितनिषेधेति भावार्थः २१ प्रकृतश्लोकनिर्दिष्टहताः प्रबुद्धस्यात्मीयपरमार्थसत्तायाः अधि- गमोऽनतिविलम्बेनैवेत्यर्थः। २२ तीव्रतरोपद्रवद्विपद्दर्शनादा मृतप्रत्युजीवितप्रियासंगमादी बल- वदभियुक्ततायां च तत्प्रतीकारकिंकर्तव्यताविचारणेऽपि निरालम्बनचित्त- वृत्तितया तत्तद्धर्षादिव्यञ्जकवस्तूत्पत्तेः प्रागेव समुद्भतमात्रस्थायिभावस्य प्रतिष्ठितस्पन्दस्योपलब्धिः। एवं कर्मेन्द्रियव्यापृतिविशेषेऽपि ऐश्वररूपस- मावेशः। पं० २ घ. पु. भावमचिरेणेति शोधितः पाठः ।

१९ २३ २४ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः। च किं करोमि, इत्येवं चिन्ताविष्टे यंदा शक्तिप्रत्य- स्तमयः, तदा स्पन्दतत्त्वस्य स्फुट एवोदयो गुरूप- देशात् अधिगन्तव्यः ॥२२॥ यामवस्थां समालम्ब्य यदयं मम वक्ष्यति । तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ॥२३॥ यां स्पन्दस्वरूपरूपामवस्थामवलम्ब्य यत्किचित् अयं मम वक्ष्यति, तत् अवश्यं करिष्यामि-इत्यध्य- वसोयन स्पन्दतत्त्वमधिष्ठाय यो वर्तते ॥२३॥ तामाश्रित्योर्ध्वमार्गेण सोमसूर्यावुभावपि । सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम्२४ २३ अत्र समालम्बनक्रियातः पूर्वभाविनि क्रियान्तरे परितिष्ठितवा- क्यस्यायमाशयः-यथा प्रभाराशानिर्वहणेऽवहितमनस्कतया सर्वा वृत्तयो विलीनाः संपद्यन्ते, निस्तरङ्गदशा चादेति । एवं सर्वात्मना समस्तान्यक- रणीयतां परिहृत्य स्पन्ददशावधाननिविडावमर्शस्याभ्यासात् परत- त्वोपलब्धिरिति । २४ सोमसूर्यावित्यस्य तात्पर्यमिदम् । स्पन्ददशामाश्रितस्य मनः पं० ७ अध्यवसायेनेत्यतोऽनन्तरं ख. घ. पु० 'वर्तते तथाविधाध्यवसायेन' इती- यापाठोऽधिकोऽस्ति । पं० १० ख ग पु० अस्तमितौ इति पाठः ।

२० स्पन्दकारिकाः। [नि० तस्य, तामवस्थामाश्रित्य पुरुषस्य, सोमसूर्यो द्वावपि सौषुम्ने अध्वनि मध्यनाड्यभिधाने, अस्तमयं कुरुतः; ब्रह्माण्डगोचरं शरीरमार्ग परित्यज्य योगिनः ॥२४॥ तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मढः प्रबुद्धः स्यादनावृतः ॥२५॥ तस्मिन् महाव्योम्नि प्रत्यस्तमितशशिभास्कर यस्य स्वस्वभावाभिव्यक्तिः न सम्यक् वृत्ता, स प्राण मध्यनाडयां लीयेते । संविदेव यथोत्तरं संकोचग्रहणेन संकुचिता ज्ञानक्रियाशक्तिभावप्राप्तिपूर्वं मनःप्राणप्रसररूपतामापद्यते । प्रत्याहर- णकाष्टाधिरोहणे उभावेव ज्ञानक्रियाशक्तिमयावुभयविधमेव हेयोपादेय- विषयवेदनं नाडीसंचारणात्मकार्यमपि परिहाय सामान्यमौलिकरूपं प्रत्यापद्यते इति । २५ परमाकाशे समस्तशेयकार्याणविलीनप्रायत्वात् मूढानां वर्णि- तपूर्वा तुर्यदशा सौषुप्तपदवत् शून्यरूपा, ईशितृशक्तिपातेन समुदितशा- नदृष्टीनां पुनस्तस्यां दशायामनुभूयमानतुर्यचमत्कृतिनिरावरण निर्भासते इति तत्र दशायां यथाकथंचित् सर्वेषामुपजायमानायां सत्यामपि उपदे- शनिरपेक्षण तमापदप्रवेशानर्थः स्यात् तत्परिहारायोपदेशस्य सापेक्षतेति।

२१
२५ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः ।
स्वप्नादिना मुह्यमानोऽप्रबुद्धो मिरुद्धः स्यात्
प्रबुद्धः पुनरनावृत एव भवति ॥२५॥
इति श्रीकल्लटाचार्यविरचितायां स्पन्दकारिकावृत्तौ स्वरुपस्पन्द
प्रथमो निःष्यन्दः ॥ १॥

अथ सहजविद्योदयाख्यो द्वितीयो निःष्यन्दः । तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः । प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम॥२६॥ तत् बलं निरावरणचिद्रूपमधिष्टाय, मन्त्राः सर्वज्ञत्वादिना बलेन श्लाघायुक्ताः प्रवर्तन्ते अनु- ग्रहादौ स्वाधिकारे । करणानि यथा देहिनाम् , नान्येन प्राकारादिविशेषेण ॥२६॥ तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः । सहाराधकचित्तेन तेन ते शिवधर्मिणः ॥२७॥ . २६ शाक्तबलाक्रमणदेव नियन्त्रितेतिकर्तव्यतासचिवा मन्त्राः प्राण- भृत्करणवत् यथास्वं प्रतिनियतप्रयोक्तव्यकार्यसिद्धिषु अप्रतिहतशक्तयः, तद्विना तृणमात्रमपि कुब्जयितुमसमर्थाः, नियतिशक्तिबलात् भिन्नभिन्न- नियोगेभ्यः प्रवर्तन्ते न सर्वे सर्वेभ्य इति भावः । २७ इदमत्र तात्पर्यम्-शिवशक्तिरेव मन्त्रसंनिवेशादिरूपधारिणी उदयास्तमयदशयोः शिवाभेदवत्त्वात् , यत्र यत्र शिवाभेदवत्त्वं तत्र तत्र २८ का०] २३ प्रीकल्लटाचार्यविरचितवृत्त्युपेताः । तत्रैव स्वस्वभावव्योनि निवृत्ताधिकाराः प्रलीयन्ते, शान्तरूपाः, मायाकालुष्यरहिताः, सह साधकचित्तेन; अनेन कारणेन शिवसंयोजनास्व- भावेन, इति शिवात्मका उच्यन्ते ॥२७॥ यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् । तत्संवेदनरूपणा तादात्म्यप्रतिपत्तितः ॥२८॥ सर्वात्मक एवायमात्मा सर्वानुभावोत्पत्तिद्वारेण शाक्तरूपत्वं, यथा संकल्पस्वप्नपुरादिषु, इति व्याप्त्यादिना सुदृढप्रतिपत्ते- मन्त्रवीर्यानभिज्ञस्य भेदविभ्रमात् नियतसाध्यसाधनाय पर्यवसायिनः प्रबुद्धस्य पुनर्मन्त्राः सर्वार्थसाधनाधिकारिणे भवन्ति, न केवलं मन्त्रा एव, यावल्लौकिकभाषामात्रमपि अमोघमन्त्रभावमुपगच्छति-इत्यनेन क्रिया शानं कार्य ज्ञेयं वा वस्तु शिवधर्मकमेवेत्युपलक्ष्यते । २८ संचेत्यमानं प्रत्येक वस्तु वस्तुतो विज्ञानिनो जीवस्य स्वाङ्ग- कल्पमेव-इति न केवलं भूतात्मकमेवास्य वपुः, यावद्भावात्मकमपि। घट- सुखादेर्भावस्य हि संवेदनं समुत्पत्तिः, संवेद्यमानतैव तत्स्वरूपप्रतिष्ठा असंवेद्यमानस्य स्वप्रतिष्ठानासादनात् इत्यतो जीवादपि सर्ववस्तु- समुत्पादः : । तस्मात्सोऽपि विश्वमयः । अवच्छिन्नाहंकृतिपदं शिरः- पाण्यादिमच्छरीरं भूतात्मकं, भावात्मकं तु शब्दादिविषयसंवेद्यम् । पं० ४ घ. पु० इति-शब्दानन्तरं ते इति पदमप्यस्ति । पं. ७ अयमितिपदं घ. पुस्तकादुपन्यस्तम् ।

२४ स्पन्दकारिकाः। [२ नि० अनुभूयमानस्यैव संवेदनात् बाह्यार्थमनुभूयमानमेव शरीरत्वेन गृह्णाति, न तु शिरःपाण्यादिलक्षितम् एकमेवास्य शरीरम् ॥२८॥ तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥२६॥ तेन तथाविधेन सर्वात्मकेन स्वभावेन, शब्दा- र्थयोः चिन्तासु न सा अवस्था या शिवस्वभावं न व्यञ्जयति, अतो भोक्तव हि भोग्यभावेन सर्व- त्रावस्थितो, न त्वन्यत् भोग्यमस्ति ॥२६॥ २९ प्रोक्तविश्वमयताप्रतिपत्त्या वाच्यवाचकात्मसु षडध्वजातेषु या काचित् संवित्तिप्रवाहपद्धतिः सा परप्रकाशात्मशिवमय्येव, तस्मात् ग्राहकात्मा परमेश्वर एवेच्छादिचक्रप्रेषणद्वारा ईशितव्यात्मशेयकार्य- वस्तुचमत्करणद्युक्तस्तत्तादात्म्यसंपादनात् सदोदितसार्वत्रिक स्थितिरिति स्वस्वभावस्यैव जगद्विकासमयशक्तिविभवनशीलता निव्यूंढा। पं० २ ख. पु. पाण्यादिरक्षितमिति, ग. पु. पाण्यादिलक्षणमिति पाठः । पं. ७ ग. पु० शिवं न व्यञ्जयति इति पाठः ।

२५ ३१ कां०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥३०॥ एवंस्वभावं यस्य चित्तं, यथा-मन्मयमेव जगत् सर्वम् इति, स सर्व क्रीडात्वेन पश्यन् नित्ययुक्त- त्वात् जीवन्नेव ईश्वरवत् मुक्तो, न त्वस्य शरीरादि बन्धकत्वेन वर्तते ॥३०॥ अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य यौ ॥३१॥ तत्संवेदनद्वारेण यः तदात्मग्रहो मन्त्रन्यासा- त्मकः स एवोदयः तस्य ध्येयस्य मन्त्रात्मनः ३० समनन्तरपद्योद्दिष्टनीत्या अव्युच्छिन्नपरामर्शावधानपरिशीलन- वता योगिनः सर्वेश्वरस्वतन्त्रचिभैरवीयपूर्णाहंभावप्रतिपत्त्या अशेषमिदं विश्व स्वरचितक्रीडनकलीलामात्रेण विभाव्य स्वलीलाजनितहर्ष- शोकाद्युपरागेऽपि शङ्कातङ्ककलङ्कयन्त्रणभिर्मनागपि नापलिप्तिरिति या- थात्म्यवेदितृत्वाजीवत एव मुक्तिरित्यर्थः । ३१ इदमिह प्रतिपादनीयम्, साधकचेतसो मन्त्रोच्चिचारयिषा- वस्थायां यदनायासेन ध्येयवस्तुना सहकात्म्यं संपाद्यमानं स एव मन्त्राभिधेयस्य स्मर्तव्यदेवस्य तत्तदर्थक्रियाकार्यमाघशक्तिना उपास्या- ३ २६ स्पन्दकारिकाः [२नि० साधकचेतसि, तादात्म्यं तत्स्वभावत्वप्राप्तिः मन्त्र- देवतया सह साधकस्य मन्त्रोच्चारणेच्छया संपा- दिता ॥१॥ इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीक्षाच शिवसद्भावदायिनी ॥३२॥ इयमेव सा मिथ्याज्ञानशून्यस्य साधकस्य निरावरणस्वस्वरूपसंवित्तिः अमृतत्वप्राप्तिः, न तु रसास्वादरूपस्य धातुसारस्य स्थूलस्यास्वादनम् अमृतप्राप्तिरुक्ता, यैव मन्त्रोच्चारणमात्रेणैव मन्त्र- स्वरूपावस्थितिप्राप्तिः सैवात्मनो ग्रहणमित्युक्ता । यस्मात् कारण प्रत्यक्षावलोकनात्मोदयः, न तु विभाव्यमाना व्यतिरिक्ताकृतिरिति प्रागुक्तोपपत्त्या सुगृहीतयाभेदोपलब्धिरुपेयते इति । ३२ प्राग्वर्णितायाः संविद एव अनित्यजडवस्त्वात्मनोऽमृतात् बाह्य- पं० १ क. पु० मन्त्रस्य देवतया इति पाठः । पं० २ ख. ग. पु० मन्त्रोच्चारणेच्छया संपादिका इति पाठः । पं० • ६ ख. ग. पु. मात्रेणैव स्वस्वरूपावस्थितीति पाठः ।

२७ ३२ कां०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः। 'श्रात्मनो ग्रहणं कुर्याद्दीक्षाकाले गुरुधिया' इति । न पुनर्लोष्टादिवत् हस्तेन तस्यामूर्तस्य ग्रहणं भवति, अत एव चेयमेव सा निर्वाणदीक्षा शिवस- द्भावदायिनी, परमशिवस्वरूपाभिव्यञ्जिका ॥३२॥ इति श्रीकल्टाचार्यविरचितायां स्पन्दकारिकावृत्तौ सहजविद्योदयो नाम द्वितीयो निःष्यन्दः ॥२॥ साधनाद्यवीनदीक्षातोऽपि अनुत्तमवैलक्ष्येण अनुत्तरामृतरसमयता, उत्तम विधिसंस्करणकारणत्वं चेति ।

अथ विभूतिस्पन्दाख्यस्तृतीयो निःष्यन्दः । यथेच्छाभ्यर्थितोधाताजायतोऽर्थान्हदिस्थितान्। सोमसूर्योदयं कृत्वा संपादयति देहिनः ॥३३॥ यथास्यानभिव्यक्तस्वस्वरूपस्य योगिनो जाग्र- दवस्थायां यथा यथा इच्छा भवति, तथैव तस्या- नेकार्थसंनिधानेऽभिमतस्यैव कस्यचिदर्थस्य दर्शनं भवति नटमल्लप्रेक्षादिषु सोमसूर्योदयं कृत्वा चक्षु- रादिष्ववधानेन ॥३३॥ तथा स्वप्नेऽप्यभीष्टार्थान्त्रगायस्यानतिक्रमात् । नित्यं स्फुटतरंमध्ये स्थितोऽवश्यं प्रकाशयेत्॥३४ तथा स्वप्नेऽपि अभीष्टार्थानेव पश्यति, प्रण- ३३ अर्थदिदृक्षोदिदृक्षावस्थायामीप्सितवस्त्ववधारणवधानस्व- भावमाविश्यैव इष्टार्थप्राप्तिरिति सावस्था प्रार्थनात्मेत्युपचरिता। वृत्तौ तु चक्षुषोरिति इन्द्रियान्तरोपलक्षणं, तेन शुभ्रषापिस्पृक्षावस्थापि एवमेवो- पचर्यते इच्छापूर्वकत्वादेव समस्तार्थस्फुरणस्येति । ३४ उक्तप्रकारेण निखिलग्राह्यग्राहकसंबन्धिदशासु तादात्म्यप्रति- २९ ३५ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । यस्यानतिक्रमात् इच्छाभ्यर्थनाया अनतिक्रमात्, यच्च तन्मध्ये हृदयं स्फुटतरम् अभिव्यक्तं नित्यं तदेतत् स्वप्नखातन्त्यम् इत्युच्यते, अयमेव तमो- वरणनिर्भेद इत्यर्थः ॥३४॥ अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ॥३५॥ अन्यथा तु स्वरूपस्थित्यभावे स्वतन्त्रा स्यात् स्वप्ने पालबिडालदर्शनरूपा सृष्टिः, यस्मात् तत्तत्त्वं सृष्टिस्वभावं प्रसवधर्मत्वात्; यथा सततं सर्वस्य पत्तिरूपस्य प्रणयस्यानुल्लङ्घनात् मनोवेद्यसृष्टिविषयेऽपि अभिमतार्थानां सुप्रकटतरमेव प्रथनमिति स्वाप्तिका अर्थाः स्वातन्त्र्येण प्रसतुं नैव प्रभ- वेयुरिति अता योगिनो निर्दिष्टदशयोरविशेषात् तमोवरणनिर्भेद आवि- भवेत् येन सिद्धयन्तरप्रसवः । ३५ ज्ञानशेयभावेन विज़म्भमाणे पदद्वयात्मनि शाक्तप्रसरे स्वसं- वित्समाधाननिविडपरिशीलनानपायात् नित्ययुक्तस्य सृष्टिस्वभावमुक्त- पदद्वयं शक्तिप्रतिबन्धं विधातुं नैव प्रभु, अन्यथावर्तमानस्तु लोकवत् स्वयैव भावसृष्टया परवशीक्रियते इति सदावहितेन भाव्यमित्यर्थः । पं० ८ ख ग पु० श्राडबिडेति पाठः । पं०६ क'ख' पु० यया सततमिति पाठः ।

३० [३ नि० स्पन्दकारिकाः लोकस्य जाग्रवृत्तौ स्वप्नावस्थायां च संबन्धा- संबन्धविकल्पाः ॥३५॥ यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयःस्फुटतरोभाति स्वबलोद्योगभावितैः॥३॥ यथा किल दूरस्थितः कश्चिदर्थः पुरुषेण पूर्व सावधानेनापि न लक्ष्यते स एव स्फुटतरो भवति, प्रयत्नविशेषेण निरूप्यमाणस्तत्रैव स्थितस्य ॥३६॥ तथा यत्परमार्थेन यदा यत्र यथा स्थितम् । तत्तथा बलमाक्रम्य न चिरात्संप्रवर्तते ॥३७॥ ३६ दिदृक्षोश्चक्षुविस्फारणमात्रोपक्रमे विषयस्यास्फुटतयोपलम्भात् क्षणान्तरे स्फुटतरप्रकाशः, यस्माद्रष्टुर्दर्शनविषयेऽतिरिक्तदर्शनसाधनं नैव किमपि आह्रियते वास्तवस्वभावानुप्रवेशमन्तरेण, तदनाक्रमणादेव यथात्म्यप्रथोपपत्तः इत्येवमर्थप्रथा सर्वसाधारणापि केवलं योगिन एवोक्तबलप्रत्यवमर्शप्रकाशिनी, नान्यस्य मायातिमिरान्धस्येति । ३७ एवमुक्तबलाधिष्ठानादेव तत्तदवस्थाकारदेशकालाद्यविसंवा- दिनया अतीतादिव्यवहितविप्रकृष्टवस्तूनां विज्ञानं सुलभमेवेति पूर्व श्लोकदृष्टान्तद्वारोपोलितमिति भावः । पं० १ घ' पु. स्वप्नावस्थायां च संबद्धा विकल्पा इति पाठान्तरं च संदृश्यते ।

३८ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । तथा तेनैव प्रयत्नविशेषेण यत् वस्तु येन रूपेण यदा यस्मिन् काले, यत्र देशे, यथा येना- कारेण संस्थितं, तत् वस्तु तथा स्वबलं स्वस्वरूप- माश्रितस्याचिरेणैव कालेन प्रतिभाति निरावरण- स्वरूपत्वात् तेनातीतानागतं ज्ञानं परिमितविषयं न किंचिदाश्चर्यम् ॥३७॥ दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेबुभुक्षां च तथा योऽतिबुभुक्षितः ३८ क्षीणधातुरपि तढलमुत्साहलक्षणमाक्रम्य यतः कार्ये प्रवर्तते, यथा च कश्चित् अशक्तोऽपि व्यायामाभ्यासेन महतीं शक्तिं प्राप्नोति उद्योग- वलेन, तथानेन स्वभावानुशीलनेन बुभुक्षामपि आच्छादयति योऽतिबुभुक्षितः स्यात्, यतः सर्व- ३८ बुभुक्षानिवृत्त्याद्यपि नित्यतृप्ताकृतकस्वबलप्रथनादेव सिध्यति इत्याधुपलक्षितोऽन्यः सिद्धिप्रपञ्चाऽपि प्रोक्ततत्त्वासादनादेव प्रोन्मील्यते। पं० १ क'ख' पु० स्वेन रूपेणेति पाठः । पं० १० ख. पु० तथा च कश्चिदिति पाठः ।

३२ स्पन्दकारिकाः। [३नि० वात्मस्वरूपस्य कार्यकारणसंपादनसामर्थ्यमवि- लम्बम् ॥३८॥ अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ३६ अनेनात्मस्वभावेन अधिष्ठिते व्याप्ते शरीरे सर्वज्ञतादयो यस्मात्, तत्र स्वल्पयूकाभक्षणमपि क्षिप्रमेव जानाति, तथा स्वात्मन्यवहितस्य सर्वत्र सर्वज्ञता भविष्यति ॥३६॥ बेलुम्पिका देहे तस्याश्चाज्ञानतः सृतिः । तदुन्मेषविलुप्तं चेत्कुतःसा स्यादहेतुकीं ॥४०॥ ३९ कल्पिताहंभावप्रत्ययप्रतिबन्धभङ्गात् चिन्मात्रात्मनि परप्रमातरि पूर्णाहंभाववतां निष्प्रत्यूहं सर्वविषयाः पूर्णज्ञातृत्वादयो गुण अभिव्य- ज्यन्ते । अत्र च सर्वकर्तृत्वसर्वज्ञत्वादिगुणनां व्यक्त्युपायः सनिदर्शनं प्रतिपाद्यते इति। ४० अज्ञानेनैव पारमार्थिकस्वभावाख्यातेः शरीरोपचयापचयादि- विकारास्तद्रहितचिदानन्दघनतत्त्वप्रत्यभिज्ञानात् पुनर्लान्यादेरभावः इति तत्त्वप्रत्यभिज्ञानमेव व्याधिवलीपलितादेरुच्छेदोपायः । पं० ६ क पु० विलुण्ठिका इति पाठः ।

३३ ४१ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । ग्लानिः किल शरीरस्य विनाशिनी, सा च ग्लानिरज्ञानादुत्पद्यते, तदज्ञानम् उन्मेषेणात्म- स्वभावेन यदि नित्योज्झितं तदा सा कुतः, कारण- रहिता भवेत् ; अनेनैव कारणेन वलीपलिताभावः शरीरदाढ्यं च योगिनाम् ॥४०॥ एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ४१॥ एकत्र विषये व्यापृतचित्तस्य यतो यस्मात् स्व- भावात् झगि[टि]त्यन्या चिन्तोपद्यते,स चिन्तायाः कारणम् उन्मेषो ज्ञातव्यः, स तु स्वयमेव योगिना लक्षणीयः, चिन्ताद्वयान्तापकतयानुभूय- मानः ॥४१॥ ४१ अनुसंधातव्यवस्तुद्वयव्यापिनो विशुद्धचिन्मात्रस्य सर्वकारण- स्यात्मन उन्मेषशब्देन व्यपदेश्यत्वात् तत्परिशीलनावधानादिकमेव उक्ताज्ञानविनाशीत्यर्थः। पं०३ यदि पदं घ. पुस्तकाश्रयेणोपन्यस्तम् । पं० ११ क. पु० द्वयान्ते व्यापकेति पाठः । ५ [३ निक स्पन्दकारिकाः। अतो बिन्दुरतो नादो रूपमस्मादतो रसः। प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥४२॥ अतः, अस्मादुन्मेषादनुशील्यमानात् विन्दुः तेजोरूपः, नादः प्रणवाख्यः शब्दः, रूपमन्धकारे दर्शनं, रसः अमृतास्वादो मुखे, एते क्षोभकत्वेन प्रवर्तन्ते अचिरेण कालेन ॥४२॥ दिदृत्तयेव सर्वार्थान्यदा व्याप्यावतिष्ठते । तदा किंबहुनोक्तेन स्वयमेवावभोत्स्यते ॥४३॥ दिदृक्षा द्रष्टुमिच्छा, तदवस्थास्थ इव सर्वान् ४२ धरातत्त्वध्यायिनां भ्रमध्यादिप्रदेशे प्रथमानस्तेजोविशेषो बिन्दुः । व्योमधारणाभ्यासवतां स्वयमुच्चरितो ध्वनिविशेषो नादः । तेजोधारणभ्यासिनामन्धतमसेऽपि दृश्यवस्तुदर्शनं रूपम् । रसवद्वस्तु- राहित्येऽपि तदास्वादो रसोऽप्तत्त्वध्यायिगम्यः इत्येतत्सर्वमुन्मेषाभ्यासिनो विनरूपं सिद्धिजातं समुल्लसतीत्यर्थः । ४३ यथा क्षेत्रज्ञानां स्वसंविदा दिदृक्षितभावानां दर्शनेच्छा- यामभेदः तथैव विश्वगतभावानां परमात्मतत्त्वादयतिरेक इति संवित्त- पं०४ ग पु० प्राणाख्य इति पाठः, अन्धकारे दर्शनमितिवाक्यं तु घ. पु. एव संदृष्टमुपन्यम्तम् । पं० ८ ख ग पु० स्वयमेवावगंस्यति इति पाठः ।

३५ ४४ का०] श्रीकल्लटाचार्यविरचितवृत्त्युपेताः । भावान् यदा व्याप्यावतिष्ठते, तदा किं बहुना उक्तेन, स्वयमेव तत्त्वस्वभावमवभोत्स्यते ज्ञास्यति ॥४३॥ प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् । एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ॥४४॥ प्रबुद्धोऽसंकुचितशक्तिः सर्वकालं तिष्ठेत्, ज्ञाने- नालोच्य गोचरम् ज्ञेयं परिच्छिद्य, एवमेकत्र तत्त्व- सद्भावे विद्यात्मके अारोपयेत् सर्वम्, ततोऽन्येन वक्ष्यमाणेन कलासमूहेन न पीड्यते ॥४४॥ त्त्वान्तीनान् भावात् विधाय प्रोक्तपरतत्त्वपरामर्शाभ्यासात् साधना. न्तरनिरपेक्ष तद्दशाफलं केवलं योगिन एव स्वसंवेद्य, विकल्पतिमि- रोपहतचक्षुषस्तु पाशवसृष्टौ स्वाभेदमपि वस्तु पराम्रष्टुमक्षमता कुतो नु जगद्भावाभेदपरामर्शप्रतिपदिति योग्येव एतत्प्रज्ञापात्रम् । ४४ यत्किंचिद्वस्तु प्रमाणेपारोहक्रमेण परप्रमात्रावेशभाक् अन्यथा प्रकाशपदव्यामनारूढेर्वस्तुसत्तानुपपत्तेः, इत्येतत्संबन्धेऽवहिता उद्विक्ता- यमानेनेव कलादिक्षित्यन्तेन वेद्याभिमानेन नैव खिद्यन्ते इत्युक्तोपदेशद्र- दिमा समर्थ्यते। पं० २ कः पु० तत्त्वस्वभावोऽवगम्यते इति, गपु० स्वभावमवगच्छतीति, घ. पु० स्वभावोऽवर्गस्यते इति पाठः । पं०६ घ. पु. तत्त्वस्वभावे इति पाठान्तरं च दृश्यते ।

३६ स्पन्दकारिकाः। [३नि० शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः ४५ शब्दराशिरकारादिक्षकारान्तः, तत्समुद्भूतस्य कादिवर्गात्मकस्य ब्राह्मयादिशक्तिसमूहस्य, भोग्यता गतः पुरुषो, ब्राह्मयादीनां कलाभिः ककाराद्यक्षरै- विलुप्तविभवः स्वस्वभावात् प्रच्यावितः पशुरु- च्यते ॥४५॥ परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥४६॥ परामृतरसात् स्वरूपात् अपायः प्रच्युतिः तस्य यः प्रत्ययोद्भवो विषयदर्शने स्मरणोदयो यतः, तेन पुरुषोऽस्वतन्त्रताम् असर्वगत्वं च प्राप्नोति, ४५ भूचर्यादिशक्तिभिरनवरतं प्रदर्श्यमानभेदप्रथत्वात् पराधीना- खिलवृत्तिकोऽपहतैश्वर्यः स्ववशीक्रियते इत्यर्थः । ४६ सहजमलमूलकमेव पशोरस्वातन्त्र्यं तदधिकरणेन विशेषवृत्ति- मायीयप्राकृतिकावरणेन अत्यन्ताश्यानदुर्भेदसुदृढावरणप्रतिबन्धोऽनर्थ- रूपोऽनन्तप्रतान इति भावः। पं० ११ ग' पु० विषयदर्शनस्मरणेति समम्तः पाठः ३७ प्रोकल्लटाचार्यविरचितवृत्त्युपेताः । स च प्रत्ययः तन्मात्रगोचरो रूपाद्यभिलाषा- त्मकः ॥४६॥ स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥४७॥ स्वरूपस्य स्वभावस्याच्छादने चास्य पुरुषस्य शक्तयो ब्राह्मयाद्याः पूर्वमुक्ता याः, ताः सततम् उद्युक्ताः, यतः शब्दरहितस्य प्रत्ययस्य ज्ञानस्य नास्त्येव कस्यचिदुद्भवः ॥४७॥ सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी। बन्धयित्री स्वमार्गम्था ज्ञाता सिद्धयुपपादिका ४८ सा चेयं क्रियास्वभावा भगवतः पशुवर्तिनी शक्तिः । यदुक्तम् ४७ कवर्गाद्युत्पन्ना एव प्रत्ययाः , तदधिष्ठान्यः पीठेश्वर्यो माहेश्या- द्यास्ता एव पशोः पारस्वरूपमावरीतुं सदोद्युक्ताः, अत एवोत्तरोत्तरं विषयभोगासक्तानामणूनां संसृतिरविरतप्रसरणेति । ४८ बहिर्भावपर्यन्तं प्रस्तायाः पारमेश्वर्याः क्रियाशक्तरेव हेतार्भेदा- भेदसंवेदननिबन्धनैव बन्धमोक्षविकल्पनेत्यर्थः ।

Spandakaarikaa

Author
Kallat'a
Title
Spandakaarikaa
File name
Spandakaarikaa
Text
OCR done
Citation
1970
Published
2005/08/30
Publisher
The Research Department Jammu And Kashmir State , Srinagar .
Language
Sanskrit
Pages
39
Library
Donar
Classification
Poetry. Poems. Verse
Keywords
The Research Department Jammu And Kashmir State
DLI number
495971
Barcode
2990100073041.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Digital Library Of India
VMLT id
mQGsed4OqBo
Download PDF

Spandakaarikaa