Bharatiya Vidya Bhavan Library, Mumbai

The Kathakautuka Of Srivara

Pandit,sivadatta · 2012/08

PDF Proofread

Front matter

Si' VAN काव्यमाला.७१. MERARI. पण्डितश्रीवरविरचितं कथाकौतुकम्। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्याय- पण्डितशिवदत्तशर्मणा, मुम्वापुरवासिपरचोपाह- पाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितम् । +0- तच्च मुम्बय्या निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । (अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वधा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारस ।) मूल्यं रूप्यकपादत्रयम् ।

श्रीवरपण्डितः। मुल्ला जामी नूरुद्दीन-अब्दुर रहमानविरचितयूसुफ-जुलेखानुवादात्मक्स्य कथाकौतुकमन्थस्य स्तरीय श्रीवरकवि कदा क भूमिमण्डल मण्डयाचकारेति जि. ज्ञासायामनेक्प्रन्धपालोचने प्रत्ते- 'प्राज्ये जाप्रति राज्येऽस्य पृथिव्या पृथिवीपते । शाके मुनिद्विवेदेन्दु(१४.७)गणिते विक्रमोष्णगो. ॥ ३७॥ स्थितेऽपि लौरिक वर्षे चन्द्राष्ट(८१)परिपूरिते। माधव मामि रामाया रवा मेषमुपागते ॥ ३८॥" इति कथाकौतुकप्रथमातुकायपद्यदर्शनत १४२५ मितेऽन्दे ८१ अड़योजनेन १५०८ (A. D 1451) वैक्रमे शादि वैशाखमासि पूर्णिमायामस्य ग्रन्थस्य निर्माणस. मयोले खोपलम्भात्यविवरस्याप्ययमेव सत्तासमय । अनेनेव कविवरेण पण्डितजोनराजा- दनन्तरं A D. 1477 समये तृतीया जेनराजतरगिणी निर्मितासीत् । 'तस्मिन्मया पण्डितजोनकाय नत्या गुरु पण्डितश्रीवरेण । भूगरतुष्टये मुररोक्वाण्यारम्भोऽध्यनामारि मनोहरोऽयम् ॥ ४० ॥' इति कथाकौतुकप्रथमौनुकीयोक्न , 'श्रीजोनराजपियुध बुज्राजतरङ्गिणीम् । सायकामि(३५)मिते वर्षे शिवसायुज्यमामदत् ॥ ६॥ शिप्योऽस्य जोनराजस्य सोऽह श्रीवरपण्डित । राजावलीमन्थशेषापूरण कमुद्यत ॥ ७ ॥ इति जैनराजतरङ्गिणीप्रथमतरङ्गीयपद्यदर्शनेन च श्रीवरसत्तायामेव जोनराज- सर्गमनलेखोपलम्भाध जोनराजदेशकालावेव श्रीवरदेशकाली । जोनराजय जै. नोल्लाभदीनराज्य(A D 1417-1467गमये फरमीरमण्डल मण्डयामासेल्यादि जोनराज श्रीवरविरचितराजतरङ्गिणीभ्या निश्चितम् । एतेनास्य कविवरस्य रित सपथदशशताब्दगुत्तराधै सनासमय प्रतीयते, इति चिन् । परे तु-विभेतस्य प्रन्थकनीम श्रीचरः श्रीधरो वेति चतुर्दश-पञ्चदशकौतुक्समा प्तिरेखदर्शनत संदिग्ध वर्तते । तत्र च रेरो पेनचिणिपिकानवधानतया श्रीवर स्थाने श्रीधरनाम स्थापितमुत चान्यन श्रीधरस्थाने श्रीवरनाम वा स्थापितमिति, अस्य हि धीयरस्य श्रीधरस्य या गुर पण्डितजोनको राजतरङ्गिणीकृतो जोन. राजादिनोऽमिनो बेति च न रितु सस्यते । अस्यैव प्रन्यम्य इग्लिभाषायामनुवादस्तु Ralph 'T. H. Griffith महारायवरैलण्डननगरे A. D. 1882 चमरे मुद्राय वा प्राक्षित २ यदि चाय पण्डितजोनको राजतरहिणीकर्तुजॉनराजादभिन्न स्यात्, तर्हि 'शिष्योऽस्य जोनराजस्य-' 'श्रीजोनराज विबुध -' इति जैनराजतरगिणीप यवत् 'तस्मिन्मया पण्डितजोनकाख्य' अनापि प्रन्थको 'पण्डितजोनराज' इति खगुरो स्फुट नाम पठितव्यमासात् , तच्छन्दोभङ्गायदोषाभावेऽपि विद्यमाने न पठितम्, अतो राजतरङ्गिणी जानराजाद्भिन एवाय कश्चन जोनककवि । किं च पण्डितजोनकान्तेवासी पण्डितश्रीवर श्रीधरो वा कवियद्यष्टोत्तरप श्वदशशता(१५०८)ब्दयामिम अथ रचयाचकारेत्युच्यते चेत्, तर्हि 'शाके मुनिद्विवे देन्दुगणिते-' एव श्लोक दर्शयता ग्रन्थकर्ना 'शाके वसुखवाणेन्दुगणिते' इत्थ पद्य रचयितु नाशाकि किम्, येनेत्यमविरचग्य मुनिद्विवेदेन्दौ १४२५ रूपात्मके क्लिष्टक (पनया चन्द्राष्ट(८१)संख्यया सकलय्य १५०८ सवत्सररूप ग्रन्थनिर्माणसमयाधारभूत दर्शितम् । किच जैनराजतरङ्गिणीतुं श्रीवरपण्डितस्य, कथाकौतुकान्यतु पण्डित श्रीवरस्य श्रीधरस्य वा प्रथरचनाया महारचनाभेदोऽप्युपलभ्यते । अत्तो जैनरा जतरङ्गिणीकर्तु श्रीवरपण्डितादपरोऽय पण्डितश्रीवर श्रीधरो वा कवि १४२७ (A D 1970) वैक्रमशरदि, 'चाट(८१)परिपूरिते' इति च, 'सायकामि(३५)मिते घर्ष' इति जैनराजतरङ्गिणीपयवत् एकाशीतिपरिपूर्णता गते क्स्यचिद्धरामण्डलभर्नु शकाब्दे एन ग्रन्थ रचयन् क भूमिमण्डल मण्डयामासेति च न वा शक्यते । एव चा स्मात्कथाकौतुककर्तु पण्डितश्रीवरात् मुल्ला जामी नूरहीन-अन्दुर रहमानय वनपण्डित प्राकालीन इति च सिद्ध्यति । एतेन मुल्ला-जामी नूरुद्दीन अब्दुर रह मानयवनपण्डितसमयसूचको Ralph T F Griffith महाशयवरलेखोऽय पण्डि तवरैश्चिन्तनीय - Nyuddin Abdur Ralman was born in the Sear 1414 A D, at Jam, a little town in Khuråsån, from which lie took the poetic name, Jimi, by which he is generally known At the age of fire received the name of Nuruddin, or, Light of the Faith, and in later life his learning fime, and sinctity gained for him the title of lonlint, or, on Master He studied at Herit and Samarkand, where he not only outstapped the ablest and most diligent of his fellow students, but puzzled the most learned of his teachers lhe fame of his learning soon sprend to the most distant piorinces of Persin, and into otlier Asiatic countries Sultan Abusr'ıd, Timur's uncle, invited hun to 11e court at Herit and all the princes, nobles, and learned men of the time sought the company of the distinguished poct. In 1472 A. D. Jaini performed the pilgrimage to Meceat, and, after soincbtayat Baghdad ietuined in the following year to Heråt, where he died in 1492.." अस्य च कविवरस्य नैव यवनशास्त्रपारंगमत्व प्रतीयते, नापि मुल्ला-जामी-नूरुद्दीन- अदुर-रहमानविरचितयूमुफ-जुलेखारयययनप्रन्थस्य क्रमशो निर्जरभाषयानुवाद उपलभ्यते, यहूना मुल्लाजामी नूरुद्दीन अब्दुर रहमाननिर्मितयूसुफ जुलेखा- न्तर्गनपदार्थानामवर्णनादन्ते क्थायास्त्यागाच । अस्य हि प्रन्थस्यैकमेव पुस्तक्मस्माभिः खर्यातमहामहोपाध्यायपण्डितदुर्गा- प्रसादशमणां सरस्वतीसदनत उपलब्धम् । तच कश्मीरलिपिलिसित जीर्णपण्नयति(९६) पनामक वर्तते । तस्यरस्याधारेण शोधितमुद्रितेऽस्मिन्मन्थे यत्रकुनचनाशुद्धिः स्थिता जाता या भवेत् , तन सहदयाहृदयाः संशोधयन्तु । यतः- गच्छत्तः स्पलन वापि भवत्येव प्रमादनः । हसन्ति दुर्जनास्तत्र समादधति सजनाः ॥ इति प्राधयत.- पण्डितशियदत्त काशीनाथी।

काव्यमाला। पण्डितश्रीवरविरचितं कथाकौतुकम् । प्रथमं कौतुकम् । सानन्दं हृदये विलोक्य विषदं यच्छुकशप्पोपम मन्यन्ते भुवनाधिपत्यमखिलं योगेन योगेश्वराः । ध्यात्वाप्येकनिमेपमात्रमपि यत्सौख्यं सदा प्राप्यते वन्दे सिद्धसुरेन्द्रवन्दितमदस्तेजः परं शांभवम् ॥ १॥ प्रणम्य विनौषहरं गणेशं निधास्वरूपामपि भारती ताम् । विरच्यते यावनशास्त्रबद्धकथा मया निर्जरभापयेयम् ॥२॥ क्रमेण येन भेदार्थो मेलाज्यामेन वर्णितः । तेनैव हि मया सोऽयं श्लोकेनाद्य निरूप्यते ॥ ३॥ प्रबोधयाशाकलिकां प्रसादमधुरप्रभो । तदुत्पन्ने प्रोतफलं दातुमर्हसि मे शुभम् ॥ ४ ॥ शोभितं कुरुते नैव मानसोयानमद्य मे । तत्सौगन्धेन शुद्धेन शरीरं परिपूरय ॥ ५ ॥ असारे खलु संसारे चिन्ताशतसमाकुले । अज्ञानत्व:)स्य देवेश प्रकाशं मे निदर्शय ॥ ६ ॥ मनो मेऽस्तु सदा शंभो भवेत्सेवापरस्परम् । वक्तुं गुणगणं नित्यं रसनेयं प्रवर्तताम् ॥ ७ ॥ १. एतमामकमनुध्येण, २. 'भवत्सेवापरायणम्' इति भवेन्, + २ काव्यमाला। मेधाम/भद्रिकायास्तु शुभवाग्योगमद्भुतम् । मां देहि भवेद्येन कार्यसिद्धिः सुखावहा ॥ ८॥ तुलयन्वाक्यरलानि(१) हृत्कोशान्मम भारतीम् । भवद्भक्तितुला देहे सुकर्णान्विता भवेत्(8) ॥९॥ स्थैर्य हि जगतेनेव नश्यते वचनं विना । शंभुभक्तियुतं तच्चेच्छोभते साधुपूजितम् ॥ १० ॥ पुण्यं शास्त्रामृत पीत्वा यातास्ते हि कवीश्वराः । निधाय विपुलां कीर्ति सुस्थिरां भुवनत्रये ॥ ११ ॥ नावशिष्टः कविः कश्चित्तेषां योऽद्यर्तनाद्भवेत् । क्षमः शिक्षयितुं स्वल्पकाव्यशक्तियुतान्स्वयम् ॥ १२ ॥ तस्मादेह्यधुना कालगतिं वीक्ष्य शुभाशुभम् । काव्यं यद्यस्ति ते शक्तिर्विधातु कुरु सत्वरम् ॥ १३ ॥ किं तु पूर्वमपूर्व यत्परं योगनिरूपणम् । कृतं मनीपया तेन तदन्ते कथ्यते मया ॥ १४ ॥ सर्वत्रार्य क्रमः पूर्व शृङ्गाररससंयुताम् । अभिधाय कथां पूर्वः शान्तोऽन्ते परिकीर्तितः ॥ १५ ॥ योऽयं महामदो नाम पैगंबरशिरोमणिः । कृतालापों खदेवेन सह शुद्धाशयोऽपि सन् ॥ १६ ॥ तदेज्ञयोवसंबद्धधर्मसेतुर्महाबलः । तत्प्रभावानभिज्ञात्वा तथा शास्त्रविपर्ययात् ।। १७ ॥ माहात्म्यं वक्तुमेवास्य विचारनिरतः परम् । न समर्थोऽस्म्यहं तत्र संशयाकुलिताशयः ॥ १८ ॥ तसात्संशयितं किंचिद्दोषायैवोपकल्प्यते । माहात्म्य किं तु तन्नानो वक्ष्यतेऽद्य महीपतेः ॥ १९ ॥ 1. 'जगतो नैव' इति भवेत्. २. 'नान्' इति स्यात. ३. 'वी' इति स्यात्. ४. 'प: खदेवे' इति स्यात्. ५. 'दाज्ञयावसंव-' इति स्यात्.

३
१ कौतुकम् ।
कथाकौतुकम् ।
जीयान्महामदः शाहिधर्मप्रवरगर्वितः ।
श्रीमान्काश्मीरभूपाल: फुल्लराजीवलोचनः ॥ २० ॥
यदेतन्निर्मितं थाना जगत्स्थावरजङ्गमम् ।
भवाविधानं नानार्थ नरदेववदद्भुतम् ॥ २१ ॥
तन्महामदभूपेन सर्वभूपालमौलिना ।
अधुना शोभितं संपन्नयनेन वपुर्यथा ॥ २२ ॥
को हि वक्तुं नृपस्यास्य महिमानं कवीश्वरः ।
शक्तो यस्य यशः शुभं पूरयित्वा महीमिमाम् ॥ २३ ॥
बलेनैव नभोनीनं छित्वा रूढं दिवं वियत् ।
सरन्धं सर्वतो जातं तेन ताराप्रमो वृथा ॥२४॥(युगलकम्)
सदा धर्मधृतोपाया हतापायाः सुकर्मभिः ।
देवप्रायाः प्रजाः प्रायो यस्मिन्शासति मेदिनीम् ॥ २५ ॥
अवाची दिशमाश्रित्य दिनेगोऽपि हतप्रभः ।
जाता यस्य विजित्या तां तेजोवृद्धिर्न तत्क्षयः ॥ २६ ॥
दृश्यते चैरिनिकरीमार्जुनसमो रणे ।
योऽयमर्थिगणो दाने कर्णाधिकगुणः सदा ॥ २७ ॥
तथैव ललनाभिर्यः कंदो मन्यतेतराम् ।
मप्रिभिर्मग्रकरणे गुरुकाव्योत्तमोऽनिशम् ॥ २८ ॥
तेजसोऽ, सकं दत्त्वा यम्मै प्रीत्या हरिः खयम् ।
यतस्तेनास्तमेवासौ पूर्णधामा दिवानिशम् ॥ २९ ॥
प्रीत्यै तु गोसहस्रस्य येन धर्मपुरेण च ।
ज्ञात्वा पूर्वपदार्थत्यं वधागावो विमोचिताः ॥ ३० ॥
योऽयमिन्द्राधिकः सर्वगुणो नामा शचीपतिः ।
शतमन्युरिय स्यातः शान्तक्रोधो महेश्वरः ॥ ३१ ॥
जित्या शरणे त्यक्तवैरतपुररक्षकः ।
योऽयं पुरंदरो बद्धोधो देशविदारणात् ॥ ३२ ॥

४ काव्यमाला। ............................... दग्ध्वा वैरिकुलाटवीं मुविततां व्योमेति रूढिं दृढां शून्ये शब्दगुणे खयं वितनुते तद्भूमसङ्गेन याः । भानु ति च विस्फुलिङ्ग इव तन्मध्येऽपि यस्याध्वनि शेकुस्ते कविशेखराः कवयितुं के वा प्रतापानलम् ॥ ३३ ॥ हस्ताम्भोजालिमालेव नखाजहरिणच्छविः । दानकुञ्जरगण्डोत्थमदधारेव निर्गता ॥ ३४ ॥ पराक्रमहूदोत्पन्नवालशेवालवल्लरी। ज्वलातापहुतभुग्धूमरेखानुकारिणी ॥ ३९ ॥ राजते वैरिललनावेणिवन्धाकृतिः करे । यथैवाप्ति ॥ २६ ॥(कुलकम्) प्राज्ये जाग्रति राज्येऽस्य पृथिव्यां पृथिवीपतेः । शाके मुनिद्विवेदेन्दुगणिते विक्रमोस्म गो:(१) ॥ ३७ ॥ स्थितेऽपि लौकिके वर्षे चन्द्राष्टपरिपूरिते । माधवे मासि राकायां रवौ मेपमुपागते ।। ३८ ।। मलाज्यामेन येसोहजोलेखा नाम विश्रुतः । रचितोऽप्यद्भुतः पूर्व अन्थो देवमुखोद्गतः ॥ ३९ ॥ तस्मिन्मया पण्डितजोनकाख्यं नत्वा गुरुं पण्डितश्रीवरेण । भूपालतुष्टौ सुरलोकवाण्यारम्भोऽध्वनाकारि मनोहरोऽयम् ॥ ४० ॥ (कुलकम्) विद्वन्मानससच्छास्त्रकुमुदानन्दकारकः । लीलज्ञानधनध्वान्तध्यान्तस्वान्तप्रकाशकृत् ॥४१॥ सत्यसंधो जितक्रोधो द्विजमण्डलनायकः । ब्रह्मण्येऽथ सदाचारः सदा भूपालपूजितः ॥ ४२ ॥ शान्तोऽनन्तगुणः सर्वश्रुतिस्मृत्यर्थपारगः । संध्यास्त्रानरतः शिप्यचकोरगणसंमतः ॥ ४३ ॥ १. एतनामकः कश्चन प्रन्यो भवेत, १ कौतुकम् । कथाकौतुकम् । गुरोरिव सभामध्ये दृष्टो गुरुगणान्वितः । गुरुज्योत्लाकराख्यो मे सततं वाक्सुधाकरः । आसीद्भुवि भवे भक्तो विभवी यः समन्वितः ॥ ४४ ॥ (पञ्चभिः कुलकम्) जयन्तु सततं सन्तः संतोपविपदाशयाः । परोपकारकरणे सदा बद्धधियोऽपि ये ॥ १५ ॥ शुभं परगुणं ज्ञात्वा स्वयं साध्विति वादिनः । न्यूने चोपस्कृतिपराः क्वचिन्नोपहसन्ति च ॥ ४६ ॥ (युगलकम्) तस्मान्न सज्जनभयं कवीनां जातु जायते सदस्यसारमेयानां... न कि भविष्यति ॥ ४७ ।। इति ज्ञात्वा रसमयं कथाकौतुकसंज्ञितम् । श्रीवराख्यो बुधो नूनं प्रवन्धं साधयाम्यहम् ॥ ४८ ।। नास्ति लोकेऽपरं किंचिचतुराग विना परम् । तत एव हि वैराग्यं जायते सुखदं पुनः ॥ १९ ॥ चित्तासक्तिवशेनैव स खयं भगवान्छिवः । शक्त्यैव सह सङ्गस्य सर्वमेतदवासृजत् ॥ १० ॥ द्वित्वहीनेऽप्यनिर्देश्ये जगन्नामविवर्जिते । कैवल्ये केवलं तस्मिन्नासीदेको महेश्वरः ।। ५१ ॥ नानारूपमयं दिव्यं सर्वलावण्यसंयुतम् । अनेककौतुफाकीर्णमनवद्यमनश्वरम् ॥ १२ ॥ पश्यन्नेवात्मनात्मानं सुधामादर्शमण्डले । समयेऽसिन्स देवेशो बभूवानन्दनिर्भरः ।। ५३ ।। कलैचिदर्शयाम्येतद्यावचिन्तान्वितः शिवः । तावदिच्छा समुत्पन्ना प्रादुर्भूतास्य मोहिनी ॥ ५४ ॥ १. 'पानराग' इति स्वात.

काव्यमाला ।
रूपस्यापहवं कर्तुं न शक्तो रूपवान्सस्त्रम् ।
तगोहरे निरुद्धे तु द्वारि सद्दर्शयिष्यति ॥ १५ ॥
स्थलारविन्दं पश्यैकं गुप्तं भूमौ समस्तकम् ।
समाकर्षति सौन्दर्यगुणेनैव कथं मदौ(३) ॥ १६ ॥
इच्छाशक्त्याथ संगम्य रागेणाप्याश्रिताश्रयः ।
स हि देवो महादेवस्तन्मयं व्यसृजजगत् ॥ १७ ॥
विधाय विविधां सृष्टिं स्वकीयांशयुतां ततः ।
कुर्वनरागमयीं लीलां विभात्यस्यां स्वयं विभुः ॥ १८ ॥
तेनेच्छया जगत्सर्वं रचितं यच्चराचरम् ।
रागेणापि न तज्जातु विरागं जायते कचित् ॥ ५९॥
रागेणैव तदा देवी त्रये सृष्ट्वात्ममायया ।
त्रीनेव पुरुषांल्लोके हेतुभूतः वदेहतः ।। ६० ।।
तदारमत तैः सार्धं यथेष्टं बहुवत्सरान् ।
ततो मे तदनुज्ञाताः पुरःसरमिवासृजन् ।। ६१ ॥
तस्मादागमयं सर्वे चेतनाचेतनं जगत् ।
प्रतिभात्येव यत्नेन रहितं तन्न गण्यते ॥ २ ॥
दृष्ट्वाचेतनं बद्धरागं धर्मरचाम्बुनम् ।
सुधांशुना च कुमुदं तत्सिकाः किं न मानवाः ॥ ६३ ।।
चित्तासत्तिरतिं वक्तुं न हि शक्तो नरः पराम् ।
तत्सहस्रं न चेदेकजिह्वयैव समन्वितः ।। ६४ ॥
तदेव हि शुभं तस्माद्यत्किंचिद्रसनिर्णयम् ।
करोत्यन्यहतः सर्वं नीरसं कथितं बुधैः ॥ १५ ॥
यदि चित्तं भवेद्राम() वृथा हीनं न तन्मनः ।
तन्न सत्पीडया व्यक्ता न सा मृद्वारिणा विना ।। ६६ ॥
विवृत्य वदनं लोकात्तत्रार्पय मुखं मुदा ।
संयोजनाधिकः प्रोक्तो रागो हर्षाय रागिणाम् ॥ १७ ॥

७ १ कौतुकम् । कथाकौतुकम् । तचिन्ता हृदि सर्वेषां न्यूना मा भूत्कदाचन । मनो मनसिनां तेन विहीनमपि जातुचित् ॥ १८ ॥ चक्रवर्तवशेनैव गमनं परिवर्तते । कोलाहलेन तस्यास्ति लोकोऽयं परिपूरितः ।। ६९ ।। तस्य दासत्वमाश्रित्य विमुक्तो भवबन्धनात् । तद्धीति हृदये धृत्वा सुखं प्रामोति शाश्वतम् ॥ ७० ॥ रागात्सर्व निपीयैव मदमानो नरस्तथा । लोकावृत्तेक्षणं सर्व वेत्तीदं तृणवद्यथा ॥ ७१ ॥ रागिणो रागचपकान्न पिबन्ति सदा जनाः । सरकं नाम गृह्णीयात्तेपां कोऽपि न कुत्रचित् ॥ ७२ ॥ धनिनो रूपवन्तश्च शतशोऽथ सहस्रशः । चिरायुषोऽपि पर्यन्ते निममाः(?) काव्यवारिधौ ॥ ७३ ॥ नावशिष्टं तु तन्नाम किचित्सत्यं पुनः क्षितौ । सखायेह(१) परत्रापि कथा नित्यैव रागिणाम् ॥ ७४ ।। श्रुतमेतत्पुरा कश्चिच्छिप्यो दीक्षा मुहुर्मुहुः । मां देहीति भगवन्विज्ञप्तिं गुरवेऽकरोत् ॥ ७९ ॥ सच तेन ततः पृष्टो यदि रागान्वितं मनः। तव कुत्रापि संजातं ततो दीक्षां ददामि ते ॥ ७६ ॥ यावन्न मातृकापाठं प्रकरोति नरः कचित् । वेदशास्त्रार्थकुशलस्तावद्भवति मूढधीः ॥ ७७ ॥ त्यक्त्वा लोकभयं रागप्रीतिं कुरु दिवानिशम् । कृत्वास्स निर्णय जन्तुर्मुक्ति प्रामोत्यसंशयम् ॥ ७८ ॥ दिया देवेन संसारसंभूतभयवर्जितः । त्यक्त्वान्यत्करणीयं तन्मार्गे हंसप्रवेशितः ॥ ७९ ॥ यदि मे मूर्धजा दुग्धसवर्णत्यमुपागताः । तथापि मानसे रागः प्रत्यहं तरुणायते ।। ८० ॥

काव्यमाला। एकदा पथि गच्छन्तं खेच्छया केवलं शनैः। प्रादुर्भूता नभोवाणी मामबोचन्मुहुर्मुहुः ॥ ८१॥ एक रसमयं शीघ्रं प्रबन्धं कुरु सांप्रतम् । यं श्रुत्वा मुनिवर्गोऽपि भवेत्कामविमोहितः ॥ ८२ ॥ असारे खल संसारे न किंचिदवशिष्यते । तस्माच्छास्त्रकथा लोके स्थिरा कल्पशतानि ते ॥ ८३ ॥ इति श्रुत्वा वचो दिव्यं किं विचार्य पुनः पुनः । ज्ञात्वा श्रुतं पराध्यानकृतमय मयाद्भुतम् ॥ ८४ ॥ संदीप्तः क्रियते रागवहिर्यस्योप्मतापिताः । पतन्ति गगनात्तारा निर्जराक्ष्यसबिन्दवः ।। ८५ ॥ दृश्यते सकलं विश्वं भारतीवशगं पुनः । सा चेक्रे कथं मौनं कुर्याहृद्धया हि संश्रितः ॥ ८६ ॥ वेद एव हि सर्वस्य प्रमाणं परिकीर्तितम् । तदेव मधुरं चेत्स्वान्नास्त्यन्यल्लाभकारणम् ॥ ८७ ॥ यदेतदृश्यते सर्व पुराणमथ वा नवम् । वचनाद्विद्धि संभूतं नान कार्या विचारणा ॥८॥ कुरु मार्ग यथापूर्वमिति श्रुत्वा वचोविधिः । वचनाद्देवदेवस्य चक्रे सर्व समाहितः ॥ ८९ ॥ वेदस्मृतिपुराणानि तर्कव्याकरणानि च । वचनेन निबद्धानि तसाद्वाक्यमयं जगत् ॥ ९ ॥ सत्यासत्यतया वाक्यं द्विधा तत्कथितं वुधैः । सूनृतं दुर्लभं लोके सर्वश्रेवेतरद्वचः ।। ९१ ॥ ऋताहते परो धर्मो नास्ति कश्चिप्रियः शुभः । नित्यं सत्यं प्रवक्तव्यं सर्वसिद्धिमुपेच्छता ॥ ९२ ॥ भूपर्ण द्वयमेवास्य सत्यताप्यल्पभाषणम् । क्षमाशीलं यथा लोके पुरुपस्य सुमेधसः ।। ९३ ॥

२ कौतुकम् । कथाकौतुकम् । अधुना तद्योपेतः प्रवन्धो रससंयुतः । रागिणां वल्लभः सोऽयं सतां भवतु प्रीतये ॥ ९४ ।। इति यवनशास्त्रपारंगमपण्डितश्रीवरविरचिते कथाकौतुके प्रथमं कौतुकम् । द्वितीयं कौतुकम् । अभूदनेकभूपालमौलिलालितशासनः । प्रतीच्या विक्रमोदारस्तैमो राजा क्षितीश्वरः ॥ १॥ यद्वाग्बल"माश्रित्य सदा सागरमेखला । मेदिनी मोदिता सर्वसंपत्तिसहिता परा ॥ २ ॥ प्रणामसमये नित्यमुपर्युपरि भूभुजाम् । पततां मुकुटैर्यस्य भाति मौलिमयं वपुः ॥ ३ ॥ न धर्मात्सुखदं किंचिज्जातं तद्धर्मचेतसः । कालतो जायते यस्य न भयं का कथारिणाम् ॥ ४ ॥ यन्नामनि श्रुते गर्भाः पतन्त्यहितयोपिताम् । नाधिव्याधिभयं लोके यस्मिन्छासति मेदिनीम् ॥ ५॥ जोलोखा नाम तनया तस्याभूत्सुमनोरमा । कविः कवयितुं को वा यद्रूपं शक्तिमान्भवेत् ॥ ६ ॥ यथामति विधातव्ये तदीये रूपनिर्णये । तेनेयं रसनात्यर्थनामधेयाभिजायते ॥ ७ ॥ श्यामा कुरङ्गनयना तनुमध्यभागा संपूर्णचन्द्रवदना पिकवाग्विलासा। बिम्बाधरा गजगतिः स्तनमारनम्रा मुक्तानुकारदशना नृपकन्यका सा ॥ ॥ अलकावलिभिस्तस्याः शुशुभे वदनं शुभम् । निधानमिव संपूर्ण वातं राजिलराजिभिः ॥ ९ ॥ दृष्टमत्यद्भुतं तस्यां द्वयमात्मविरोधकृत् । अहो मुखस्वरूपोत्थं तमी च कचसंभवा ॥ १०॥ २

काव्यमाला।
वक्षोजी नीरजप्रख्यौ सुवृत्तौ सूक्ष्मरूपिणी ।
लावण्यसागरोती काराविव बुहुदौ ॥ ११ ॥
नाद्रवद्रजतं सास्यं भुजयोहिमसंततिम् ।
नाकरोद्विसनी काण्डो रन्धयुक्तो मृगीदृशः ॥ १२ ॥
तारहारावलिः कण्ठे कम्बुकण्ठ्या विराजते ।
सेवितुं मुखशीतांशुं प्राप्ता नक्षत्रसंततिः ॥ १३ ॥
कथं निर्मलता तस्य वक्ष्यते हरिणीदृशः ।
यां दृष्ट्वा श्वासव्याजेन मालिन्य दर्पणं ययौ ॥ १४ ॥
यया ते विजिता गत्या हंसा वालमृगीदृशः ।
मध्यभागेन हरयो वनमेव समाश्रिताः ॥ १५ ॥
यां दृष्ट्वाप्सरसश्चकुनैव नेत्रनिमीलनम् ।
न पुनदर्शयामासुः शरीरं खं घृणातुराः ॥ १६ ॥
तादृशे जीवलोफेऽसिछूतपूर्वा न वीक्षिता ।
रूपलावण्यसंयुक्ता दुर्लभा रसनायिका ॥ १७ ॥
श्रुत्वाद्भुतं रूपमतीव यस्याः पिधाय कर्णौ खलु नागकन्याः ।
निमीलयन्त्यो नयनानि सर्वाः पातालमासाद्य न निर्गतास्ताः ॥ १८ ॥
सदा पद्मालया पना जलजं कथमाश्रिता ।
नूपुरव्याजमाश्रित्य यत्पादाम्बुजमागता ॥ १९ ॥
येनेदं रचितं विश्वं वेधसाद्भुतकर्मणा ।
स एव वक्तुं तद्रूपं शक्तो भवति नापरः ॥ २० ॥
एवं सा नृपतेः कन्या वसन्ती राजमन्दिरे ।
सखीगणावृता नित्यं पाञ्चालीकलितत्परा ॥ २१ ॥
सौघसंस्थां सदा वायुः सेवितुं मुखशीतलः ।
वाति नैव रविश्चन्द्रः करैः स्पर्शमवापतुः ॥ २२ ॥
विष्णुमाया यथा नाम विश्रुता दृष्टिगोचरा ।
मोहयत्येवमखिलं तथा सा नृपकन्यका ॥ २३ ॥

२ कौतुकम् ।
कथाकौतुकम् ।
एवं वसन्त्याः कन्याया अन्तर्वतिन्यललिता ।
जनयिष्यति यत्तस्याः कालमाया शृणुष्व (१) तत् ॥ २४ ॥
इन्द्रायाः सकला देवा मोहिता यस्य मायया ।
नमस्तस्मै भगवते पराय परमात्मने ॥ २५ ॥
एकदा केलिविश्रान्ता जोलेखा निद्रिताभवत् ।
प्रसाधिकाङ्के पादाजयुग्मं न्यस्य निशामुखे ॥ २६ ॥
अभूत्सा तादृशी रात्रिः सुखयुक्ता शरीरिणाम् ।
यस्यां तु निद्रिता लोका न प्राज्ञायत किंचन ।। २७ ॥
चञ्चच्चञ्चुपुटा यस्यां चकोरा मोदिताशयाः ।
पिबन्तश्चन्द्रिका रम्यां कुर्वन्तो मधुरस्वरम् ॥ २८ ॥
न हि कश्चित्प्रबुद्धोऽभूद्रजनीरमणं विना ।
गतिः सदागतेरासीन्न परस्यापि कस्यचित् ॥ २९ ॥
सुप्तसंयुक्तमनसः सर्वे प्राहरिकास्तदा ।
प्रतीहाराश्च सौवर्णवेत्रेषु धृतमस्तकाः ॥ ३० ॥
आसन्मदा सप्त(?)मीनाः सारसा ववर्जिताः ।
एक एव वराकोऽभूचक्रवाकोऽतिकातरः ॥ ३१ ॥
सुखसुप्ता निरीक्षन्ती सुशीलालं रविप्रिया ।
कृत्वा कमलिनीपद्ममध्ये मधुपबालकम् ॥ ३२ ॥
एवं सा नृपतेः कन्या गुणरूपसमन्विता ।
शयाना रत्नपर्य” कुसुमास्तरणे शुभे ॥ ३३ ॥
ततोऽद्भुतगुणा भाला निद्रिता चर्मचक्षुषा ।
किं त्वन्तःकरणेनेयं प्रवुद्धा वाभवत्तदा ।। ३४ ॥
अर्धरात्रे गते सुप्ते जने कंचिच्छुचिस्मिता ।
प्रविशन्तं गृहद्वारासुप्तेऽपश्यन्नृपात्मजा ॥ ३५ ॥
सुमस्तकं सुन्दरमालदेशं सुभूविलासं शुभपक्ष्ममालम् ।
सुलोचनं शुद्धकपोलमार्ग सुनासिकं हास्यमनोहरास्यम् ॥ १६ ॥

१२ काव्यमाला। सुचारुवदनं रम्यग्रीवं सिंहासमद्भुतम् । पीनोरस्कं महाबाहुं सुकुमारं सुवाससम् ।। ३७ ॥ काकपक्षधरं श्यामं रोमराजिविराजितम् । सुनाभिं समगुल्फ च सुचारुचरणाम्बुजम् ॥ ३८ ॥ चन्दनेनोपलिप्ताङ्गं वरताम्बूलधारिणम् । सर्वलक्षणसंपन्नं सुशोभितशरीरकम् ॥ ३९ ॥ शोभानिर्जितशीतांशुं प्रभास्तमितभास्करम् । सभावृहस्पतिसमं प्रभवाद्भुतदर्शनम् ॥ ४० ॥ अनगतोद्भतं दो संप्रमाटुंमुपागतम् । साक्षात्काममुपादाय तनुं मोहयितुं जगत् ॥ ११ ॥ अदृष्टपूर्व नो जातु गतं श्रुतिपथं क्वचित् । अनुभूतं न मनसा परं सुरसुतोपमम् ॥ ४२ ॥ हृत्वा चैतन्यसर्वखं हृत्वा चिन्तातुरं मनः । दर्शयित्वा निजं रूपं निर्गतं तद्गृहात्पुनः ॥ १३ ॥ (कुलकम्) दृष्ट्वाद्भुततरं भावं स्वमे सति फलप्रदे । पुलकाङ्कितसर्वाङ्गा ध्यायन्ती तं हृदि खितम् ॥ १४ ॥ भीता सा नृपतः कन्या हरिणीहारिलोचना । प्रबोधमागता यावत्तमी तावदुपारता ॥ ४५ ॥ प्रभातप्रायां रजनीं विलोक्यानन्दनिर्भराः । दासीगणयुताः सख्यो विचित्राभरणाम्बराः ॥ १६ ॥ सौष्णातिकाः समायाता सेवितुं तां नृपात्मजाम् । हसन्त्यश्चैव गायन्त्यः पञ्चमं स्वरमद्भुतम् ।। ४७ ॥ प्रबुद्धा सा रखो व्योम नीलनीरनिकान्तराज्(?) । सौवर्णाण्डोपमे कालकुहनेन निदर्शिते ।। १८ ।। व्योममानसतारोघहंससेनायिते रवौ। • विजहौ भूपतनया निद्रां दृष्ट्वाद्भुतं ततः ।। ४९ ।।

२ कौतुकम् ॥
कथाकौतुकम् ।
प्राचीमस्तफसलीने सुवर्णकलशोपमे ।
भास्करेऽन्युदिते तावप्रबुद्धा सा नृपात्मजा ।। ६० ॥
उत्थिता शयनाद्यावतावत्सर्वसखीजनः ।
विधाय प्रणति सेवारम्भं चके समाहितः ॥५१॥
काचिन्मजं विधायाशु कजलं हरिणीदृशः ।
समानिनाय पुरतो नयने तेन चाजयत् ॥ ५२ ।।
काप्यङ्गरागमादाय मृगनाभिपरिस्कृतम् ।
तस्याः संभावयामास शरीरं तेन सुन्दरम् ॥ १३ ॥
काचिद्ववन्ध सुदृशो वस्त्राण्यामरणानि च ।
काचिद्धारावलिं कण्ठे निष्क काचिन्मनोहरम् ॥ १४ ॥
काचिकटककेयूरान्काचित्ताम्बूलमुत्तमम् ।
समानीय पुरस्तस्याश्चक्रे भूपां मनोरमाम् ॥ १५ ॥
विहितेत्यद्भुते तस्या भूपणे भूपणोत्तमैः ।
ताबद्दर्पणमादाय सखी काचिदुपागता ॥ १६ ॥
अपश्यदर्पणे बाला खमात्मानं सुभूपितम् ।
न पुनस्तं पति कान्तं स्वमे दृष्टं हृदि स्थितम् ॥ १७ ॥
सखीभिः सहिता क्रीडोद्यानमेवाविशत्तदा ।
विचिन्वन्ती घरं तन हृदि ममं सुरोपमम् ॥१८॥
तदुद्यानं हिमाम्भोभिलतापत्रावलम्भितैः ।
सहितं शुशुभे तावन्मौक्तिकैरिव सर्वतः ॥ १९ ॥
नानावृक्षसमाकीर्ण सदापुष्पोपशोभितम् ।
सर्वर्तुगुणसंयुक्तं द्विजालिकुलनादितम् ॥१०॥
सारसाकुलनिर्हादाः कचित्कोकिलनिःसनः ।
कचिन्मधुकरारावखनासीत्सुमनोहरः ॥ ११ ॥
प्रातः फुल्लारविन्देन्यो निर्गच्छन्तो मधुनताः ।
जवेन भयदास्तासां नाराचा इव मान्मयाः ॥ १२ ॥

११
काव्यमाला।
क्रीडन्त्यो विविधैर्भावहसन्त्यश्च परस्परम् ।
ताः पुष्पावचयं कृत्वा जगुस्तस्याः पुरः सदा ॥ १३ ॥
सापि राजेन्द्रतनया तदालापपरा मुदा ।
सुप्तालोकितजीवे च संभाषणरताभवत् ॥ १४ ॥
ताभिर्विरचिता मालाः पश्यन्ती बाह्यचक्षुषा ।
किंतु हृत्पद्ममध्ये तं स्थितं सत्येन सुन्दरम् ॥ १५ ॥
मिथ्याक्रीडारसपरं ताभिस्तन्मानसं मुदा ।
परं तयानसंलीनसंवर्तसुखसंयुतम् ॥ १६ ॥
इति चिन्तयती बाला तन्मनस्का सुमध्यमा ।
किं दृष्टं विधिवैचित्र्यं केन मेऽपहृतं मनः ॥ १७ ॥
द्रक्ष्यामि क पुनः कान्तं तदीयं मुखपङ्कजम् ।
विलोचनयुगं यत्र मदीयं भ्रमरायितम् ॥ ६८ ॥
अज्ञातवसति कान्तं स्वमे कस्माद्विलोकितम् ।
अव्यक्तनामधेयं तं कथमन्वेषयाम्यहम् ॥ १९ ॥
एवं चिन्तातुरा बाला चित्रसंस्थेव तत्र सा ।
ध्यायन्ती तं पति तावद्दिवसोऽस्तमुपाययौ ॥ ७० ॥
सुखिनां सुखदो नित्यं हास्यक्रीडादिवस्तुभिः ।
निद्रया दुःखितानां च शोकविस्फूर्तिकारिणी ॥ ७१ ।।
प्रादुर्भूता ततो रात्री रात्रीशकररञ्जिता ।
कुर्वन्ती द्विगुणां चिन्तां तस्या बालमृगीदृशः ॥ ७२ ॥
तस्यां रात्रौ पुनर्वाला भूपतेः कन्यकातुरा ।
अकरोद्विप्रयोगेन करुणाक्रन्दनं परम् ।। ७३ ॥
सत्यं तद्विरहोद्भूतश्यामैरेव समन्ततः ।
मिन्नं ताराच्छलेनेदं सच्छिद्रं सत्पते(१) नभः ।। ७४ ।।
ततो वीणां समादाय नाडीतन्नं समाकुलम् ।
मूर्छनाग्रामसहितं चकारातुम्बरं ततः ॥ ७५ ॥

२ कौतुकम् ।। कथाकौतुकम् । यदि भूपोऽसि कृपया खं नाम कथयस्व मे । इति तारापतेर्भूमौ कथमागमनं भवेत् ॥ ७६ ॥ बलान्मनो मेऽपहृतं विहितं नैव दर्शनम् । चिन्ता वितीर्णा चिन्त्यानां न कथं नाशयिष्यति ॥ ७७ ॥ पृच्छामि कि वियोगार्ता न जाने नाम तावकम् । कथं ते विदितं स्थानं पश्यामि भुवि दुर्लभम् ॥ ७८ ॥ मा भूकस्यापि लोकेऽसिन्हृदि चिन्ता यथा मम । न मे स्वस्थं मनो नैव प्रियं पश्यामि सुन्दरम् ॥ ७९ ॥ अद्यापि मन्मथो नाशद्व(१)व्यानोपरिसंस्थितम् । न निद्रायां रुचि व जायते जातु मे जरे ॥८॥ चिन्तादावाग्निशान्त्यर्थ कृपाम्भो यदि मुञ्चसि । सुधामयातुल्यस्य का क्षतिस्तव जायते ॥ ८१ ॥ न सा बुद्धिमतां बुद्धिर्मुखमेवातिदुःखितम् । नयेत्कथं वह्निदग्धमनावेव निवेशयेत् ॥ ८२ ॥ सुखोद्यानेऽहमेवैका दुःखकण्टकवर्तिता । जाता शृङ्गारलतिकानन्दपुष्पौघसंयुता ।। ८३ ॥ इन्द्रजालं न ते वेभि कुतोऽपि परिशिक्षितम् । यद्दर्शनेन चैकेन सर्वे मेऽपहृतं त्वया ॥ ८४ ॥ सुमनःसुकुमारोऽयं तनुर्मे तनुतां गतम् । निद्रा न लभते चिन्ता कण्टकास्तरणेऽधुना ॥ ८ ॥ एवं वियोगविधुरा चिन्ताशतसमाकुला। प्रलापं सकलां रात्रिमकरोत्सा नृपात्मजा ।। ८६ ॥ तस्यां रात्रौ व्यतीतायां प्रभाते सा सुलोचना । बाष्पाम्बुक्लिन्नवस्त्रापि ममार्ज चदनं शुभम् ॥ ८७ ॥ यथा न परिवेचीदं कच्चिकर्म मया कृतम् । संतोषपरतावाला सखीभिः सह साभवत् ।। ८८|| इति यवनशास्त्रपारंगमपण्डितश्रीवरविरचिते कथाकौतुके द्वितीयं कौतुकम् ।

१६
काव्यमाला।
तृतीय कौतुकम् ।
रागबाणासनादिच्छा वाणो यदि विनिर्गतः ।
तदा हृढतरस्यापि न कार्य बुद्धिचर्मणः ॥ १ ॥
प्रसिद्धिर्बाह्यतो लग्नः कुर्यादन्तर्व्यथां शरः ।
स हि चात्यन्तरालीनो बहिणविधायकः ॥ २ ॥
कथयन्त्येव विवुधाः कथं गोपयितुं परम् ।
सौगन्ध्यको भवेच्छक्तश्चित्तरागेण नाभिजम् ॥ ३ ॥
मुगनाभिपदच्छन्ना सौगन्ध्येनैव लक्ष्यते ।
तथैव लक्षणे रागो मनःसंस्थायिरागिणाम् ॥ ४ ॥
तयान्तर्धाय तद्रागि यदप्यन्तः सुरक्षितः (१) ।
हृद्तं बहिरायातो भित्त्वेच्छार्ककरैर्दुतः ।। ५ ॥
जोलोखा नृपतेः कन्या विरहाकुलिताशया।
दिने दिने क्षामतनुः स्वयं तनुतराभवत् ॥ ६ ॥
नावेदात्मसुखं किंचिद्वहिरन्तस्तथावला ।
न प्रजल्पति केनापि न पाठयति वा शुकम् ॥७॥
नापि कलिकलां कांचिदकरोत्सा सुमध्यमा ।
त्यक्ताशना जीवितापि परं तत्संगमाशया॥८॥
सामुञ्चद्वाप्पनिक क्षणं श्वासासुलोचना ।
क्षणमुन्मत्तवहाला भ्रमन्ती विगतनपा ॥९॥
विलोक्य पाण्डवर्णी तां भृशं क्षामतनुं ततः ।
भयेनोद्विग्नमनसः सर्वेऽन्तःपुररक्षकाः ॥ १० ॥
परं दासीगणस्तन भयेनातुरतामगात् ।
सखीभिः सह तद्रूपवैपरीत्यं विलोक्य तत् ॥ ११ ॥
अमंस्त सहसा सख्यः कथयन्त्यः परस्परम् ।
अकस्मारिकमिदं जातं केनेदं कर्म वा कृतम् ।। १२ ।।
खं खं बुद्धिबलं सम्यक्त्वमाश्रित्य भयातुराः ।
नानार्थकुशलाः प्रोचुर्हावभावसमन्विताः ॥ १३ ॥

१७ ३ कौतुकम्] कथाकौतुकम् । तासामेकावदत्तत्र गच्छन्नागच्छनेव वा । कोऽपि नालोकितोऽस्माभिर्ज्ञातुमेतद्विधिः क्षमः ॥ १४ ॥ अपसपि वदन्मन्ये जिता बालमृगीदृशा । देवकन्याः पुनस्ताभिः क्रूरदृष्टया किमीक्षिता ॥ १५ ॥ तेनेयं तनुतां याता म्लानवर्णमनोरमा । नात्यं निमित्तं मन्येऽहं दैवमत्र हि कारणम् ॥ १६ ॥ अन्यापि चिन्तया युक्ता प्रोवाच वचनं शनैः । मन्यमाना स्वमेवयं रूपेणाप्रतिमं भुवि ॥ १७ ॥ किं वा तद्विम्बितं दृष्ट्वा मुग्धा दर्पणमण्डले। तच्चिन्तयैव तनुतां गता भूपतिकन्यका ॥ १८ ॥ अथापरावदत्तत्र प्राप्तकालमिदं वचः । एवं जानाम्यहं सख्यः कारणं शृणुताधुना ॥ १९ ॥ तनुं यन्ने लिखित्वास्या मात्रिकेनापि केनचित् । कार्य किं वावला नीता मन्त्रैरुचाटनादिभिः ॥ २० ॥ तथापरावदत्तत्र तासां बुद्धिबलोजिता । जानेऽहं कारणं सख्यः सत्यं तत्संभविष्यति ॥२१॥ किंचित्स्वप्नेऽनया दृष्टं सत्यं तन्मन्यमानया । तेन चिन्ताभरेणास्या गतं शिथिलतां वपुः ॥ २२ ॥ एवं ताः सहिताः सर्वा भयाकुलितमानसाः कर्मणोऽन्तं नाधिजग्मुः सत्त्वतो विस्मयान्विताः ॥ २३ ॥ तस्मिन्सखीजने लब्धपरमाते मृगीदृशः । तावन्ममागता धात्री कर्तु तत्कर्मनिर्णयम् ॥ २४ ॥ सापि सर्वार्थकुशला रासोल्लासविचक्षणा। त्रिजगन्मोहनी दक्षा मोहिनीवापराभवत् ।। २५ ॥ सामीप्यकारिणी सम्यक्तीपुंसोधिप्रयुक्तयोः) । प्रेमचित्तेन यस्यास्ति कर्तुं तेनान्वितं क्षमा ॥ २६ ॥ १. 'ली च पुमांश्च' इति द्वन्द्वे 'अचतुर-' (५।४।७७) इति पाणिनिसूत्रेण समासा. ३ काव्यमाला। चित्तासक्तिकथासक्ता वाले वयसि सा क्षमा । कस्यापि हर्तु हृदयं केनापि हृतमानसा ॥ २७ ॥ एकदागत्य सा रात्रौ विधाय मणति पुरा । कथयामास सेवां तां कृतां तस्याः पुरातनाम् ॥ २८ ॥ लावण्योद्यानमध्ये त्वां मन्ये कुसुममञ्जरीम् । त्वचिवाः कण्टकयुताः सर्वनीराजलोचनाः ॥ २९ ॥ सदा हर्षयुतास्ते तु मानसं वरवणिनि । चिन्ताविरहिता नित्यं भव प्रहसितानना ॥ ३० ॥ त्वद्भाग्यवशतः सुभु प्राप्तासि पदमुत्तमम् । श्रीतुमर्हस्यनाथाया विज्ञप्ति मम सांप्रतम् ॥ ३१ ॥ शय्यागृहेऽहमेवैका तदोद्दिष्टं च मुन्दरि । गर्भलेदादिकं सर्वं यदाभूजन्म ते शुभम् ॥ ३२ ॥ सुगन्धद्रव्यसंयुक्तैर्वारिभी रचितं मया । स्नानमुत्तमगन्धेति तदा ते नाम निर्मितम् ॥ ३३ ॥ अनन्तरं मया सुश्रु" 'क्तं स्तनमर्पितम् । यत्पीत्वा नयनानन्दकारिणीन्द्रकलोपमा ॥ ३४ ॥ सर्वलक्षणसंपूर्णा रूपातिशयशालिनी । सुकुमारानवद्यागी वर्धमाना दिने दिने ॥ ३५ ॥ खेच्छयैव यदा सुझु निद्रामुकुलितेक्षणा । क्षणमेकं प्रजातासि रजन्यां दिवसेऽपि वा ।। ३६ ॥ कदोत्तिष्ठति कल्याणयुतेयं भामिनी पुनः । इत्यहं जागरपरा तदा चिन्ताकुलाशया ।। ३७ ॥ यदा त्वं चश्चलापानि गतौ जातमनोरथा । सुकुमारातियुगला पतन्ती पुनरुस्थिता ॥ ३८ ॥ न्तविधिमकृत्वा 'स्त्रीपुसो.' इति प्रन्यकृतः प्रयोगोपादान प्रमादजम्. समासान्तविधेर• नित्यत्वात्कथंचित्यमाथेयम्. 'घीपरयो.' इति पाठकल्पन वा.

३ कौतुकम्] कथाकौतुकम् । १९ युक्ता हर्षेण महता ज्ञातभाग्योदयाप्यहम् । पूजयन्ती सुशिरसा जा(या)ता त्वत्पदपङ्कजम् ॥ ३९ ॥ यद्यद्वस्तु त्वया सुभ्र प्रार्थितं भुवि दुर्लभम् । तत्तत्त्वचित्तरक्षार्थ समानीय समर्पितम् ॥ ४०॥ एवं तदा मया सेवा विहिता ते सुमध्यमे । अधुनापि मनो नूनं शुश्रूषापरमस्ति मे ॥४१॥ जाने चिन्तापराधीनं मनो नीरजलोचने । तावकं मत्सकाशात्तां कि गोपयसि भामिनि ॥ ४२ ॥ सत्यं वदाधुना केन विप्रियं विहितं परम् । अहो चित्तानभिज्ञापि किं मना शोकसागरे ॥ ४ ॥ कथमुन्मत्तरूपैव जातासि वद सुन्दरि । वृथा चिन्ता परास्थापि कथं वा चारुलोचने ॥ ४४ ॥ मुखाम्भोज कथं चारु म्लानवर्ण दिने दिने । मुहुर्विनिर्गताः श्वासा दावामिसदृशः कथम् ॥ ४५ ॥ चिन्तानिशागमे भानु"रूपास्तं कथं गतः । यौवनोपसि किं चन्द्रकलेव तनुतां गता ॥ ४६ ॥ किं तु जानामि केनापि शशिरूपेण ते हृतम् । चैतन्यं वद सत्यं मे तमेवान्वेषयाम्यहम् ॥ ४७ ॥ स्वर्गस्थो यदि देवेभ्यो रूपमादाय निर्मितः । अविचिन्त्यगतिस्तद्वत्कश्चित्सुभ्र विलोकितः ॥ ८ ॥ त्वदाज्ञया समाराध्य मन्त्रं सद्यः फलप्रदम् । समानीय स्ववुद्ध्या तं दर्शयिष्यामि सांप्रतम् ॥ ४९ ॥ गन्धर्वजातिसंभूतो यदि वा बनगोचरः। कश्चिदालोकितो भद्रे रूपेणाप्रतिमो भुवि ॥ ५० ॥ त्वदाज्ञामात्रमासाद्य फुल्लेन्दीवरलोचने । विना यत्नेन तं बद्ध्वा तवाने स्थापयाम्यहम् ॥ ५१ ।।

२०
काव्यमाला।
किमाश्चर्य नृलोकस्थं वशे कर्तुं नरं मतः ।
तवाज्ञया मया वाच्यो विधिरपि विधीयते ॥ १२॥
एतावच्चारुनयने मय्यस्ति बलमुत्तमम् ।
त्यन चिन्तां कुरुप्वाज्ञां कार्य ते साधयाम्यहम् ॥ ५३॥
श्रुत्वा धात्रीवचः कर्णपीयूषमिव तत्र सा ।
विमुच्य सहसा श्वासान्प्रोवाच नृपकन्यका ॥ १४ ॥
सत्यं विना परं किंचिद्वक्तुं न विदितं मम ।
वाध्यतारावलयितं कृत्वा सुखसुधाकराः ।। ५५ ।।
हा मातर्नास्ति वक्तव्यं मदीक्षार्गलितं मम ।
मनःकोशमिदं मोक्तुं दुर्लभा बुद्धिकुञ्चिका ॥ ५६ ॥
तथापि शृणु वक्ष्येऽहं कौतुकं यदि ते हदि ।
सत्यमेतन्न विश्वासस्त्वां विनान्यत्र मे क्वचित् ।। ५७ ॥
खमेति यो मया दृष्टः कश्चिल्लोकेऽतिसुन्दरः ।
तस्य रूपमहं वक्तुं न क्षमाब्दशतैरपि ॥ १८ ॥
यद्ययं मन्मथो नूनं स कामः कामनां विना ।
न जातु जायते पुंसां काचित्सा मानसेन मे ॥ १९ ॥
दूरस्थो वर्णहीनः किं हंसस्तत्साम्यमाचरेत् ।
परस्परमहंसोऽयं मम मानससंस्थितिः ॥ ६॥
तन्नामरहितः खादुर्भवेत्कटुतरो रसः ।
तस्याभिधेयसंयुक्तस्तिक्तो मधुरतामियात् ॥ ६१ ॥
किं करोमि भृशं मातश्चिन्ता मनसि सांप्रतम् ।
कृतोपायमनायां मां रक्ष बुद्ध्या यथा पुरा ॥ १२ ॥
श्रुत्वा नृपसुतायास्तद्वचनं जातसंग्रमा ।
चिवस्थेवाभवत्तत्र धात्री ध्यानपरा पुनः ॥ १३ ॥
पूर्वमुक्तं त्वया सर्व कार्य ते साधयाम्यहम् ।
पथाच्छ्रुत्वाद्भुतं तस्या उपदेशपराभवत् ॥ ६ ॥

३ कौतुकम्] कथाकौतुकम् । शृणुष्वावहिता सुभ्र शरीरं मा वशोषय । अनुक्तनामधेयस्य कथमन्वेषणं भवेत् ॥ १५ ॥ तामुवाचेति प्रथमं कार्य कस्यापि मायिनः । भातीदं मायया कुर्वन्नद्भुतं कर्म नित्यशः ॥ ६६ ॥ दर्शयित्वाद्भुतं रूपं मया विरचितं जने । अपयातीव मायावी बलादाहृत्य मानसम् ।। ६७ ।। इत्याकर्ण्य नृपसुता प्रोवाच वचनं शनैः रूपं दर्शयितुं शक्तो न मायावीदृशं कचित् ॥ ६८ ॥ इत्युक्तेऽपि तया धात्री सान्त्वपूर्वमिदं वचः । उवाच मन्यमानाहं सुप्तेयमिति सुन्दरि ॥ १९॥ स्वमो मायाविधेः सोऽयं बहुधा परिकीर्तितः । भाक्तिो दृष्टिजः श्रौतो दिप्टक्षेत्रोत्थितस्तथा ॥ ७० ॥ वृथायं सकलः सुभ्र भव्योऽपि फलदा कचित् । असत्यवचनात्तस्मान्मा चिन्तां मानसे कुरु ॥ ७१ ॥ तामुवाच ततो बाला तनया चक्रवर्तिनः । यदि खमो वृथा किं तद्वश्या नित्यं खमेरसः(१) ॥ ७२ ॥ कथयन्त्येव सुधियः समशीलान्वितं द्वयम् । सत्यं सत्येन संयुक्तमितरेनेतरद्वचः ॥ ७३ ।। तामुवाच ततो वृद्धा साध्वी चिन्ताकुलाशया। बुद्धियुक्ता त्वमेवैका मुञ्चेमं दुःखसंचयम् ।। ७४ ।। यदेयं मत्करे कार्य भवेन्मातः कथं पुनः । खमेव दुःखसंयुक्तं करोमीति चदाधुना ॥ ७५ ॥ यातं हि मत्करे विद्धि कार्य नूनमसंशयम् । तच्चिन्ताकुलितं नित्यं न वशे मम मानसम् ॥ ७६ ॥ १. परस्मैपदिनः श्रुधातोलोंव्येवविधप्रयोगकरण ग्रन्थकर्तुः प्रमादः. 'शृणु चाव-' इति वाच्यश्चा

२२
काव्यमाला।
नित्यं प्रतिष्ठितं चित्रं मम मानसमन्दिरे ।
तथा दृढतरं मातः शिलारेखेव सांप्रतम् ।। ७७ ॥
न वायुवेगवन्नाम्भो यथा खण्डयितुं क्षमः ।
शिलाविरचितां रेखां मनश्चित्तां वचस्तव ।। ७८ ॥
एवं चिन्तातुरं ज्ञात्वा चिन्तारागेण तन्मनः ।
उपदेशाक्षमा धात्री तूप्णीमासीत्सुविस्मिता ॥ ७९ ॥
अविरुद्धगतिः सा तु नृपमन्तःपुरस्थितम् ।
प्रणम्य कन्यावृत्तान्तं तदग्रेऽकथयच्छनैः ।। ८० ॥
स भूपतिः समाकर्ण्य तद्वं विस्मयान्वितः ।
मन्यमानो बलयुतां संसारे भवितव्यताम् ॥ ८१॥
वीरं तन्मानसं पुंसां यत्र रागो निवारितः ।
स हि संसारसंभूतां चिन्तां दूरं करिष्यति ॥ ८२ ॥
सोऽग्निज्वालोपमं नित्यं मध्ये प्रकृतिमास्थितः ।
क्षमाचैतन्येन्धनौघं तदहं भाति(?) सर्वतः ।। ८३ ॥
नापवादमयं जातु जायते रागिणः कचित् ।
तृणतुल्यो भवेत्तस्य सदा वाच्यगिरिर्महान् ॥ ८४ ॥
यथा यथा सदा निन्दा क्रियते रागिणः परम् ।
तथा तथा तदासक्तं मनो भवति नित्यशः॥ ८ ॥
एवं सा चन्द्रलेखेव क्षीयमाना(णा)प्यहनिशम् ।
वर्ष) तावत्ततस्तस्य भाग्येन्दुर्वृद्धिमाययौ ॥ ८६ ॥
एकदा वाप्पपूरस्य संध्यारागारुणस्य च ।
स्थितमध्ये बभौ बाला कलेव शशलक्ष्मणः ॥ ८७ ॥
एवमेवावदत्तत्र विधिना सह केवला ।
अहो भाग्यरविधतः पाण्डुत्वं भवता कथम् ॥ ८ ॥
तनुर्भाना()मुना नम्रा विहिता दवता मम ।
निन्दा शिरस्यलक्ष्या मे मानसं कथमपितम् ॥ ८९ ॥

३ कौतुकम्]
कथाकौतुकम् ।
२३
निष्कृपाय त्वया तस्मै दत्तं मन्मानसं करे ।
न जानामि मुहुः किंचित्तस्माद्दुःखं विनापरम् ॥ ९० ॥
निहितं किंतु त्वत्प्रेमज्योतिर्हदि ममोत्तमम् ।
विदधाति कथं स्वमे दर्शनं सोऽतिसुन्दरः ॥ ११ ॥
निद्रा दरिद्रतां याति कथं तत्स्वानसंगमम् ।
पश्यन्त्या मम नैवायं चिरं तिष्ठति शान्तिके ॥१२॥
भाग्योदयफलं तं तु स्वप्नं जानाम्यसंशयम् ।
येन पश्यामि तं कान्तं सुकुमारं सुलोचनम् ॥ ९३॥
यदि भाग्यानि मे दैवात्मलितानीति निद्रया ।
कान्तं संयोजयाम्येनं स्वयं तद्वोधतः स्वकम् ॥ १४ ॥
एवमुक्तवती बाला तद्वियोगातुरा परम् ।
प्रहरत्रितयं रातः पश्चान्निद्रामुपागता ॥ ९ ॥
कंचित्स्वापं समासाद्य प्रबुद्धा मनसेव सा ।
यावनिमीलिताक्ष्येव सोऽपि तावदुपागतः ॥ ९६ ॥
वपुषाद्भुतरूपेणारटपूर्वेण संयुतम् ।
विलोक्यानन्दिता कान्तं वाला जितसुधांशुना ॥१७॥
उत्थाय शयनात्तस्मात्सतित्या पादयोस्ततः ।
विधाय प्रणति सान्त्वपूर्वपूजां वचस्तदा ॥९८ ॥
त्वमेव गुणिमुक्तौधनायको येन कल्पितः ।
लावण्याम्बुधिसंभूतः सुधांशुरिव दर्शितः ॥ ९९ ॥
त्वच्छिखा साध्वरचिता पक्ष्णवक्रत्वशालिनी ।
मन्मनोमृगयन्धार्थ यागुरेव निरूपिता ॥ १० ॥
त्वमेव सर्वरत्नानां महामणिरिवार्पितः ।
तथा रूपाणां मध्ये त्वं ख्यातः परमसुन्दरः ॥ १.१॥
सरला वंशसंभूता रचिता ते तनूलता ।
वदनं लितशोभाट मुन्दरं वनजोपमम् ॥ १०२ ॥

२४
काव्यमाला ।
:
येनैवाद्भुतलावण्ययुक्तं लोके कृतं वपुः ।
तस्यैव लोकनाथस्य शयनं(शपथं) ते ददाम्यहम् ॥ १०३ ॥
मुञ्च मुञ्चाधुना नाथ मनाकाठिन्यमेव में
मुखादमृतनिःस्सन्दि वचनं देहि सांप्रतम् ॥ १०४ ॥
सत्यं वदाधुना केन तपसा रूपमुत्तमम् ।
प्राप्तं कस्याभिजातोऽसि परं कौतूहलं हि मे ॥ १०५ ॥
कथं मनो मे सुहृतं वलेन भवता पुनः ।
स्वप्नसंदृष्टरूपेण कृपया वद सांप्रतम् ॥ १०६ ॥
यदा स्वप्ने मया दृष्टं त्वदीयं मुखपङ्कजम् ।
तदा प्रभृति मे नाथ चिन्ताशतयुतं मनः ॥ १०७ ॥
प्रहस्योवाच शनकैः किंचिजातमनोरथः ।
सोऽपि सर्वार्थकुशलो मोहयन्निव तां पुनः ॥ १०८ ॥
नाहं देहसमुत्पन्नो न च गन्धर्वसंभवः ।
पञ्चतत्त्वात्मकं सुभु विद्धि मां विधिवंशजम् ॥ १०९ ॥
करोपि यदि मत्प्रेम परमद्यैव मानसम् ।
यदि वा तद्भवेत्सत्यं वचनं चारुलोचने ॥ ११० ॥
तदा नित्यं समुदिता प्रेमरक्षा विधीयताम् ।
मत्संगमाप्तये सुभ्र कंचित्कालमुपेक्ष्यताम् ॥ १११ ॥
यथा वन्मानसे प्रेम मदीयं वरवणिनि ।
तत्पीतिसहितं विद्धि मदीयमपि नित्यशः ॥ ११२ ॥
एवमुक्त्वा ततोऽनुक्तनामधेयोऽपि तत्र सः ।
अकृत्वा देशनियमं प्रवुद्धा तावदेव सा ॥ ११३ ॥
उत्थाय शयनाद्भपकन्यका हर्षनिर्भरा।
अपश्यन्ती पुनः कान्तं चिन्ताद्वैगुण्यमादधे ॥ ११४ ॥
पूर्व स्वल्पैव चिन्ताभूत्वपक्षणवशेन सा ।
कृतेऽपि वाग्विलासेऽस्याः समं तेनाधिकाभवत् ॥ ११५ ॥

३ कोतुकम्] कथाकौतुकम् । २५ स्मारं सारं महत्प्रेम कारं कारं कथास्तु ताः । धारं धारं मनोमध्ये वारंवारं सुविस्मिता ॥ ११६ ॥ उन्मत्तेवाभवत्तत्र डाकिनी दतु(त्तोलोचना । मनःपतझोऽपि पुनर्लीनश्चिन्ताहुताशने ॥ ११७ ॥ प्रभाते पुनरुत्थाय त्यक्त्वा निद्रां सुमध्यमा । तचिन्तापूर्वचिन्तास्या न स्मृतिः काप्यभूत्तदा ॥ ११८ ॥ बहुदुःखान्वितं तस्या हृदयं हरिणीदृशः । तथा न कश्चिच्छक्तोऽभूद्वक्तुं वर्षशतैरपि ॥ ११९ ॥ ततः सा कुमुदस्यारिकलिकेव सुमध्यमा । तचिन्तार्ककराकान्ता मूर्छितेवापतद्भुवि ।। १२० ॥ क्षणमाक्रन्दनपरा क्षणं प्रहसितानना । क्षणं बुद्धिबलोपेता क्षणमुन्मत्तगामिनी ॥ १२१ ॥ क्षणं मालां विदधती मस्तके च कर क्षणम् । क्षणं नमा विनिर्यान्ती क्षणं दिव्याम्बरावृता ॥ १२२ ॥ क्षणं शयाना भूपृष्ठे महार्हाम्बरलक्षणा । अभूतदुष्करं किंचिल्लोके यन्न त्वया कृतम् ।। १२३ ॥ एवं विलोक्य तां बालां विरहोत्कण्ठिताशया। परिवनुस्तदा सख्यतारां शशिकलामिव ॥ १२४ ॥ यदि कुत्रापि संभिन्नं सखीनां मण्डलं भवेत् । चलिता तेन मार्गेण शीघ्रं शरगतिर्यथा ॥ १२५ ॥ पवन मुष्टिमध्येऽपि तूलराशौ हुताशनम् । धते शक्तो भत्कश्चिन्न हि तन्मानसें कचित् ।। १२६ ।। एवं ताः सहिताः सर्वा भयाकुलितचेतसः । तमोमयान्तिकं गत्वा तवं संव्यवर्णयत् ।। १२७ ।। इति यवनानपारंगमपण्डितश्रीवरविरचिते कथाकातुके तृतीयं कौतुकम् ।

२ काव्यमाला। चतुर्थ कौतुकम्। शृणु भूपाल ते कन्या किमप्युन्मत्तरूपिणी । जाता कस्मान्निमित्तं तु न जानीमो नरोत्तम ॥ १ ॥ राजेन्द्रतनयासाभी रक्षिता यलसंचयैः । नोपगच्छति चैतन्यं त्वयोपायो विधीयताम् ॥ २॥ श्रुत्वाद्भुतं तु तद्वाक्यमनन्यतनयोऽपि सन् । पुलकाङ्कितसर्वाङ्गः क्षणमासीद्विशांपतिः ॥ ३ ॥ ततो विचिन्त्य तद्रक्षाविधिमेकं नरोत्तमः । दृष्टवान्नोपायं किंचिद्विना कारागृहं ततः ॥ ४ ॥ उवाचानुचरान्सान्स्वर्णरौप्यमयीं ततः । शृङ्खलोच्छवला नागमूर्तिः शीघ्रं विधीयताम् ॥५॥ नागपाशोपमेनेयं बद्धा तेनैव भामिनी । जहात्युन्मत्तभावं ते तथा चक्रुः समाहिताः ॥ ६ ॥ तस्या बद्धं तु तेनैव बन्धनेनानुजीविभिः । निधानमिव नागेन शुशुभे चरणद्वयम् ॥ ७ ॥ अपूर्वगुणरलौघशालिनी नृपकन्यका । अभूदभ्यधिका नूनं निधानादायसाततः(1) ॥ ८ ॥ तस्माद्वाधकदुर्वर्णरचितेनामुना खयम् । बन्धनेनैव बद्धा सानायासेनेति मन्यते ॥ ९ ॥ यदेव बद्धं तत्वेन पाशेन चरणद्वयम् । बाप्पाकुलेक्षणाप्यूचे सान्त्वपूर्वमिदं वचः ।। १० ॥ मद्वपू रागपाशेन बद्धमेवास्ति निश्चितम् । स एव दुर्निवार्यों मे किमेतेन प्रयोजनम् ॥ ११ ॥ चलेन रहितं नूनं शरीरं कार्यमागतम् । भारयुक्तं ममानेन वृथा कुरुत माधुना ॥ १२ ॥ यलं नास्त्येव मोक्तुं मे श्वासान्मुहुरुपागतान् । कुत्रापि गन्तुं स्थातुं वा तथैव मम सांप्रतम् ॥ १३ ॥ .

४ कौतुकम्] कथाकौतुकम् । महतानेन पाशेन बन्धनं किं विधीयते । काठिन्यकरवालेन किं चित्तोच्छेदनं तथा ॥ १४ ॥ मति ध्यानपालस्य शङ्कया यो जयंगतः । अङ्गभूमौ स्वयं मनं वटवन्धेन पादपम् ॥ १५ ॥ वन्धनादिकृतं दुःखं तस्करायैव दीयते । मनो मेऽपहृतं येन स्वप्ने मायां विधास्य(योताम् ॥ १६ ॥ दर्शयन्नात्मनात्मानं क्षणं येनावतिष्ठते । भाग्यं फलितमेतन्मे यत्प्राप्तं बन्धनं त्विदम् ॥ १७ ॥ अनेनैवाधुना(ध्व)ना कान्तं बध्नामि स्वप्नसंगतम् । बद्धा दृढतरं तावत्स्थापयामि प्रियं पुरः ॥ १८ ॥ यावत्पश्यामि तद्वकं चिरं परमसुन्दरम् । किमुक्तं मुग्धया नाथ बदामे स्थापयाम्यहम् ॥ १९ ॥ ज्ञातं किं न मया कान्त सौकुमार्यसुदुर्लभम् । तस्याशुक(8) निपतितो रेणुः संदृश्यते क्वचित् । स एव जायते नूनं गिरिभारोपमो मम ॥ २० ॥ वरं मे सततं भूयात्पीडेयं बन्धनोत्थिता । मा भूत्तस्य कदाचित्सा क्षम्यतां नाथ दुर्वचः ॥ २१ ॥ ईशैरेव सद्वात्यैः कर्मण्यसिन्हताशयाः । रागिणो रागमास्थाय रमन्ति(न्ते) भुवि भाविताः ॥२२॥ एवं भूपालतनया सेहपूरितमानसा । तद्धयानोपरता नित्यं पीडां नैवान्वमन्यत ॥ २३ ॥ कदाचिद्विप्रयोगार्थकरुणाक्रन्दनान्तरा । कचित्तचिन्तनोद्भुतपरमानन्दनिर्भरा ॥ २४ ॥ एहोहि चित्तरागाव्य नानारागविधायक । मन्येऽद्भुतं भवत्कार्यद्वितयं दुष्करं परैः ॥ २५ ॥ कदाचिनिपुणं नूनं करोप्युन्मत्तरूपिणाम् ।

२८ काव्यमाला। तथैवोन्मत्तकं बुद्धियुक्तं कर्तुं क्षमो भवान् ॥ २६ ॥ योषिद्वकालके लमं यदि स्यान्मानसं परम् । तदैवोन्मत्तभावत्वं नयसीति विलक्षणम् ।। २७ ।। तचिन्तारहितं चेत्स्याद्धृदयं यस्य देहिनः । स एव मतिमानूनं रचितो भवता भुवि ॥ २८ ॥ रात्रौ तदैव सा वाला बुद्धिशून्यैव गन्दिरे । तद्वियोगव्यथाक्रान्ता चित्रासक्तिसमाकुला || २९ ।। तदेलामञ्जरीतुल्यनेत्रोत्थाम्बुकणैर्मुहुः । धरित्री कुर्वती पूर्णा मुक्ताभिरिव सर्वतः ॥ ३० ॥ वृथा पात्रेण पिबती शुकं रुधिरशोधकम् । अशोचदात्मनात्मानं कृत्वा जवनिकां मुखे ॥ ३१ ॥ जानेऽहं यदि तन्नाम तदा तज्जपतत्परा । विदितं यदि तत्स्थानं तत्र यास्यामि मोहिता ॥ ३२ ॥ पीतं मया चिरं रक्तं कलिकावत्स्वदेहजम् । तचिन्तयान्वितं तद्वत्वन्मनोऽहनिशं परम् ॥ ३३ ॥ दासीकर्म च नोऽस्त्येव तव मां पश्य चक्षुषा । युक्ता यदि न ते गेहे भवित्री गृहिणी त्वहम् ॥ ३४ ॥ मा भून्मत्सदृशी काचिद्दुःखिता लोकमण्डले । तथैव निन्द्या सर्वन भातृबन्धुषु सर्वदा ॥ ३५ ॥ मां दृष्ट्वा जनको मेऽद्य जायते लजयान्वितः । दासदासीगणः सर्वः कापि यातो विहाय त(ता)म् ॥ ३६ ॥ चिन्ताकुला केवलाहं ममा शोकाम्वुधौ परम् । धिक्ष्मदीयमिदं जन्म दुःखान्तरमनेकशः ॥ ३७ ॥ किं प्राप्त जीवलोकेऽस्मिन्वरं मरणमेव मे । एवं चिन्तातुरा यावत्तावन्निद्रामवाप सा ॥ ३८ ॥ तस्मिन्क्षणेऽथ संप्राप्तः सोऽपि पूर्वावलोकितः ।

} कौतुकम्] कथाकौतुकम् । दृष्ट्वा प्रियं तथा रूपयुतं सर्वातिसुन्दरम् । उत्थाय शयनात्तत्र पादौ जग्राह भामिनी ॥ ३९ ॥ सान्तपूर्व विधायैव प्रोवाच मधुराक्षरम् । प्रेक्षन्ती दीननयना निःश्वसन्ती मुहुर्मुहुः ॥ ४० ॥ कथं नाथ न जानासि मद्दत्तं तद्वियोगजम् । न सुखं नैव निद्रा मे कथं नास्ति कृपा तव ॥ ४१ ॥ सत्यं वदाधुना नाथ कुन वासोऽस्ति ते पुनः । तथा किनामधेयोऽसि रक्ष मां शरणागताम् ॥ ४२ ॥ श्रुत्वेति प्रहसन्प्राह कृत्वा भृकुटिमन्मुखम् । शृणुप्वा(स्वा)वहिता सुभ्र सत्यं ते कथयाम्यहम् ॥ ४३ ॥ प्रथितो हि नृलोकेऽस्मिन्देशो मे मेस्रसंज्ञितः । अजेजमेस्रनामाहं तथैव वरणिनि ॥ १४ ॥ इत्युक्त्वान्तर्हितस्तत्र तावत्सापि नृपात्मजा । प्रबुद्धा हर्पसंयुक्ता प्राप्य जीवं यथा मृतः॥ १५ ॥ शास्त्राम्बुधि समालोड्य प्राप्तनानार्थसंचयः। सुधियः कथयन्त्येवं चरितं परमाद्भुतम् ।। ४६ ॥ पूर्वमेको महानासीदीश्वरो मा यथा पुनः। ससर्जेऽदमनामानं सर्गार्थ पुरुषं परम् ॥ ४७ ॥ सदा लब्धगतिस्तेपे तपः परमदारुणम् । ततस्तुष्टो ददौ तस्मै दर्शनं भगवान्पुनः ॥ १८ ॥ विधाय दर्शनं तस्य मायाजवनिकान्तरे । स्थितास्या लोकयामास ततोऽसौ तत्समीपगान् ।। ४९ ॥ पैगाम्बरांस्ततः साध्यनामधेयानवस्थितान् । एकत्र ध्वजछत्रौषसहिताञ्जपतः परम् ।। १० ॥ सिद्धाभिधानानौलेयानेकन समवस्थितान् । अन्यत्रोत्पादिताञ्जीवान्कोटिकोटिसहस्रशः ।। ५१ ॥

काव्यमाला।
विलोकयन्समा रम्या विस्मयोत्फुल्ललोचनः ।
जीवात्मानं ददशैंकं योऽसौ भाग्यं नरोत्तमम् ॥ १२ ॥
स विलोक्यैव तं कान्तं विचारनिरतोऽभवत् ।
कोऽयं कमलपत्राक्षः कस्य वा याति पुत्रताम् ॥ १३ ॥
एवं तबादमे जाते विमर्शाकुलमानसे ।
अकस्मादुदभूद्वाणी सोऽप्येतामशृणोत्ततः ॥ १४ ॥
मा चिन्तां कुरु बालेयं त्वत्सृष्टौ जायते खयम् ।
जातेनानेन ते नाम प्रसिद्धिमुपयास्यति ।। ५५ ॥
याकोभिकाभिधानस्य गृहेऽयं संभविष्यति ।
जनयनयनानन्दं लोकानां लोकसंपदा ॥ १६ ॥
तद्वंशोद्यानमध्येऽयं सिंहोर्जितपराक्रमः।
बलेन महता शान्ति दुष्टसत्त्वान्विनेष्यति ॥ २७ ॥
खलेलोलाहकस्यायं मनःसागरकौस्तुभः ।
नास्य भानुः प्रतापेन कान्त्या तुल्यो न चन्द्रमाः ॥ ५८ ॥
यदोत्क्षपति प्रावारं स्कन्धदेशान्मुहुर्मुहुः ।
तदाय जीक्लोकस्य मनो हर्तुं क्षमो भवेत् ॥ ५९॥
न हि वक्तुं भवेत्कश्चिद्रूपमस्य मनोहरम् ।
तेनैव प्रथितो नूनं जीवलोके भविष्यति ॥ १० ॥
नित्यं दिव्याम्बरवृतः सदा मौलिविभूषितः ।
भालभानुर्भवेदस्य दोषरात्रिविवर्जितः ॥ ६१ ॥
प्रासादचन्द्रिकैतस्य नभोमण्डलमास्थिता ।
उन्नता प्रथिता लोके सर्वरनविभूपिता ॥ १२ ॥
मेस्राभिधानदेशेऽयं राजराजशिरोमणिः ।
अजेजमेसनामापि ख्यातः प्रियतया भवेत् ॥ १३ ॥
परमत्यद्भुतं रूपं दृष्ट्वा भाग्योदयं तथा ।
भातरोऽस्य भविष्यन्ति रलान्वेषणतत्पराः ॥ ६४ ॥

४ कौतुकम्] कथाकौतुकम् ।
दत्तमेतन्मया किं तु भवालोकपतिः कृतः ।
देह्यसै कि प्रदातासि संतुष्टं यदि ते मनः ॥ १५ ॥
इति श्रुत्वाद्भुतं वाक्यं बद्धाञ्जलिपुटं ततः ।
उवाच हर्पसंयुक्तः प्रश्रयानतमस्तकः ॥ ६६ ॥
यद्रूपं जीवलोकेऽस्मिन्मया दत्तं तदन्तरात् ।
तद्भयं द्वयमेतसै लोकायैकं तवाग्रतः ॥ ६७ ॥
नैतद्रूपेण सदृशः कश्चिद्भवितुमर्हति ।
अनेनापस्य(१)मन्येषां नास्य भूयात्परैः सह ॥ १८ ॥
इति संभाषणं कृत्वा सोऽपि संतुष्टमानसः ।
समालिड्य पुरो गत्वा चुचुम्बं वदनैः शनैः ।। ६९ ॥
दत्त्वाशिषं ततोऽमुष्मै समायाता महीतलम् ।
स विसृष्टो हि सर्गाथै ततस्तामकरोच्छुभम् ॥ ७० ॥
एतस्मिन्नेव संसारे सर्वे श्रीसहितं जनाः ।
आसाद्य समयं नाम डिण्डिमं ताडयन्ति च ।। ७१ ॥
इमं मायामयं सर्वं कथयन्ति विपश्चितः ।
भात्ययं दर्शयन्रूपैरनेकैस्तां मुहुर्मुहुः ॥ ७२ ।।
दिनं त्वनियमेनैतां कदाचिद्दर्शयिष्यति ।
जन्मादिवैपरीत्येन कदाचिद्वीर्यवानयम् ।। ७३ ।।
कृत्वा सर्ग गते तस्मिन्नदमाख्ये नृलोकतः ।
तद्वंशजोऽथ लोकेऽस्मिञ्शेषो नामाभवत्प्रभुः ॥ ७ ॥
विधायातमैश्वर्यं तस्मिन्याते दिवं पुनः ।
पद्रोमाख्योऽस्य तनयस्ततः सर्गमपालयत् ॥ ७९ ॥
समायातो यदेवासौ मायां बुद्धितरंगताम् ।
खलेलोलाहकाख्ये....."मा भूपतिस्तदा ॥ ७६ ॥
समारूढे दिवं तसिन्धर्मात्मनि महीपतौ ।
एसहाकाभिधानोऽभूभूपस्तद्वंशजः पुनः ॥ ७७ ॥

काव्यमाला।
तस्मिन्नपि महासत्त्वे गते नामावशेपताम् ।
जीवलोकेऽभवद्राजा याकोभाख्यो महामतिः ॥ ७८ ॥
कनानामोपसंस्थो()ऽसौ महावलपराक्रमः ।
मेस्रश्यामारिविषयान्बुभुजे भूपतिस्तदा ।। ७९ ॥
गजवाजिसहसौषैर्वृतो भूपशिरोमणिः ।
अद्भुतां राज्यलीलां तां वशयन्छुशुभे नृपः ॥ ८ ॥
रूपशीलगुणौदार्यसहिते शुद्धवंशजे ।
महिप्यौ नृपतेरास्तां धर्मकर्मक्षमे शुभे ॥ ८१ ॥
अयापैका तयोः पुत्रानेकादश महावलान् ।
अन्यैकं गर्भरतं ते योसोपाख्यमजीजनत् ।। ८२ ॥
जातेपु तनयप्वेवं याकोभाख्यो महीपतिः ।
येसोमनामधेयेन पुत्रेणावाप सत्सुखम् ॥ ८३ ॥
तमेवामे(१)समादाय बहिरन्तस्तथानिशम् ।
विचरन्भूपतिस्तत्र परां प्रीतिमवाप सः ८४॥
तेनैव बालकेनास्य प्रीतिः समभवत्तथा ।
यथामन्यत भूपोऽसावनुत्पन्नानिवापरान् ।। ८५॥
पूर्व संयोज्य मैत्र्यैवं मायया हर्षितावुभौ ।
विनियोक्ष्यति तौ पश्चात्कथं धाता विरोधकृत् ॥ ८६ ॥
अहो पण्डितमन्येन दुर्विदग्धेन वेधसा ।
अपराधं विना तस्य कृता घपकृतिः कथम् ॥ ८७ ]]
तजन्माभूत्सुखं तद्वत्सा प्रीतिर्जनकेन च ।
ऊनद्विवार्षिकस्यास्य जननी संस्थिता तदा ॥८॥
विहिते वेधसा कार्ये याकोभाख्यो महीपतिः ।
जगामातुरतां तत्र बालकेनामुना सह ॥ ८९ ॥
स्तन्यं नैवापरा माता ददौ तस्मै नृपाक्षिता()।
सपनीतनयं मत्वा न दद्या दयिताहदि ॥ ९ ॥

४ कौतुकम्] कथाकौतुकम् । विमृश्य बहुशो राजा भगिन्य तं ददौ ततः। पालयामास लेहेन सानपत्यापि भामिनी ॥ ९१॥ दिने दिने वर्धमानो, जननीसौल्यवर्जितः। तां प्राप्य मातरं पितृप्वसारं मुदमाप सः ।। ९२ ।। असमञ्जसवाक्येन गत्वा स्खलितया तया । प्रीति ततान वालोऽस्याः प्रणिपातादिकर्मणा ॥ ९ ॥ सापि तत्सेहपाशेन बद्धाभूचारुलोचना । क्षणमेकं विना तेन स्थातुं नैवाभवत्क्षमा ।। ९४ ॥ रजन्यां त्यक्तनिदापि लालयन्ती मुतं ततः । न चकार दिवा किंचित्कर्म तदर्शनं विना ।।९५ ॥ जनफोऽपि तदुत्कण्ठासहितोऽहर्निशं सदा । नामन्यत मुखं किंचित्तनयैस्तैमनोरमैः ॥ ९६ ॥ तचिन्तया समाकान्तो बाप्पसंरुद्धलोचनः । अविज्ञातखदेहोऽपि मुञ्चन्यासान्मुहुर्मुहुः ।। ९७ ।। एकदागत्य भूपालो भगिन्यो बहु रक्षयन् । मके कृत्वा मुखं सान्त्वपूर्वमूचे वदंततः ।। ९८ ॥ योसोभविप्रयोगावि विधुरं मां मुसान्वितम् । कर्तुं क्षमा त्वमेवैका नोपायो दृश्यते परः ॥.९९ ॥ यथा नूनं पालितो यलसंचयैः । तथा मामपि फल्याणि रक्ष तचिन्तयातुरम् ॥ १० ॥ अधुना देहि तां मह्यं तनयोऽद्धतदर्शनः । नाहं सोढुं समर्थोऽसि तद्वियोगव्ययां पुनः॥ १०१ || इति मापुर्वचः श्रुत्वा दोलारूदेव साभवत् । प्रफट मेहसंयुक्तमन्तःकोधयुतं जगी ॥ १०२ ॥ नाधुना नीयतां प्रातः सुतोऽयं सुमनोरमः । पूज्योऽसि मे सदैवैफस्त्यदधीनं हि जीवितम् ॥ १०३ ॥ +

३४
काव्यमाला ।
एवमुक्तवती वाक्यं बुद्धयुपायमथाकरोत् ।
यथा नैवाप तनयं व्यलीकं नापि भूपतिः ॥ १०४ ॥
तस्मिन्पैतामही नासीस्किचिद्वासः समर्पितम् ।
यद्वद्धा लोभनिर्मुक्तं तपोलीनं मनो भवेत् ॥ १० ॥
गुप्तं निधाय तद्वासस्तत्पदाभ्यन्तरे गतः ।
समानीय पुरस्तौ तनयं सं समर्पयत् ॥ १० ॥
तं गृहीत्वैव तनयं हर्पणोत्फुल्ललोचनः ।
तगृहानिर्गतो यावच्छूश्रावमं ध्वनि नृपः ॥ १०७ ॥
हा कष्टं किमिदं जातं केनाप्युपहृतं शुभम् ।
वासस्तदुर्लभं बद्धा यत्पार्न विलिप्यते ॥ १०८ ॥
श्रुत्वा प्रत्यागतः सोऽपि तनयेन सहापरे ।
एकत्र मिलिता भीत्या शङ्कमानः परस्परम् ॥ १०९ ॥
पृथक्पृथग्विधायैवं शपथं व्याकुलाशयः ।
खयं तदाकरोदिच्छा तद्वस्त्रान्वेपणं तदा ॥ ११ ॥
निर्मुच्य सर्ववासांसि न ददर्शाथ कुत्रचित् ।
पश्चादानीय तं बालं तथैवान्वेषणं व्यधात् ॥ १११ ॥
प्राप्य तत्रोत्तमं वासस्तद्वस्त्रान्तरसंस्थितम् ।
उवाच बालकेनैतद्वालबुध्यापहारितम् ॥ ११२ ॥
प्राप्तं मयैतत्सद्वासः स्तेयकृद्वध्यतामयम् ।
यथा नैवाचरेद्भूयः कर्म वै बुद्धिमोहितः ।। ११३ ॥
तस्मिन्देशे प्रतिज्ञेयं यो यस्य स्तेयमाचरेत् ।
चौरे गृहीते दासत्वं स हि तस्याभुते ततः ॥ ११४ ॥
इति बुद्ध्येव सा बालमनिच्छास्तेयकारिणम् ।
चकार मायया दासं नृपः प्रत्यागतस्ततः ॥ ११५ ।।
एवं कृतापि सा तन्वी चरिते परमाद्भुते ।
उयास हर्षिता नित्यं बालकेनामुना सह ॥ ११६ ॥

५ कौतुकम्] कथाकौतुकम् ।
कदाचिदथ तव्याप्तिहर्षिता विधिमायया ।
ज्वरदाहान्विता जाता याता नामावशेषताम् ॥ ११७ ॥
श्रुत्वा तदद्भुतं माता तस्या बालमृगीदृशः।
पुनरागत्य जग्राह तनयं खं मनोरमम् ।। ११८ ॥
लब्ध्वा तं बालकं कान्तं सर्वलक्षणसंयुतम् ।
पुनर्जातमिवात्मानं मन्यमानोऽन्वमोदत ॥ ११९ ।।
यदुर्लभतरं लोके वस्तु प्रीतिकरं सदा ।
तातेन सहसा प्राप्तं शरं तद्दर्शनाद्भुवि ।। १२० ।।
यस्किचित्सुखदं कर्म लोकेऽसिन्प्रथितं भवेत् ।
प्रियत्वात्सलोकस्य रूपेणाप्रतिमेन च ।
अजेजमेस्रनामायं लोके सत्यतया भवेत् ॥ १२१ ॥
अपरोऽप्यभवत्तन नामा नैव गुणेन च ।
यशसा प्रथितो लोके मन्त्री कस्यापि भूपतेः ॥ १२२ ॥
श्रुतं स्वप्ने तथाप्येवं सत्यं नाधिगतं तया ।
स दिवाजेणमेस्रस्य तस्स चैक्यममन्यत ॥ १२३ ॥
अत एव वदन्त्येके समो मायाविनिर्मितः ।
यथैवानेन वालेयं मोहिता नृपकन्यका ॥ १२४ ॥
एवं गतेऽपि चैतस्या दोषः कश्चिन्न विद्यते ।
असत्यमपि रागान्धः सत्यं जानाति रागतः ॥ १२५ ॥
श्रुत्वा प्रियतरं वाक्यं कान्तवनोद्भवं तथा ।
पुनर्जातमिवात्मानममन्यत नृपात्मजा ॥ १२६ ॥
पति यवनमापापारंगमपण्डितश्रीवरकते कथाकौतुके चतुर्थ कौतुकम् ।
पचम भातुकम् ।
प्रातरुत्याय सा घाला प्राप्तसर्वमनोरथा ।
विहायोन्मतभावं ते जातसंनाभवचदा ॥ १ ॥

काव्यमाला।
प्राप्तं सबै तदालापा यतेनापहृतं बलात् ।
तनौ वलं मुखं जीवे परमात्मनि संस्मृतिः ॥ २ ॥
सुप्तोन्मत्तेव सा बाला यदि तेन हृताशया ।
तदा भापणमाश्चर्य श्रुत्वा स्मृतिमथोत्थिता ॥ ३॥
कृतं समे यदा देशनामनिर्णयमद्भुतम् ।
तदैव प्राप्तमनया चैतन्यादि मृगीदृशा ॥ ४ ॥
समायैव तं दासीगणमाह सुमध्यमा ।
मैवं चिन्तां मदुन्मत्तभावजां यूयता()धुना ॥ ५॥
गत्वा त्वरितमद्यैव पितरं कथयन्तु मे ।
तन्मनो दुःखसंपूर्ण रचयन्तु सुखान्वितम् ॥ ६ ॥
चैतन्यशरमद्येयं प्राप्ता पूर्ववदेय सा ।
बुद्धिहंसावलिस्तद्वन्नूनं मानसमागता ॥ ७ ॥
निर्मोचयतु मर्यादबन्धनं भूपतिः खयम् ।
तत्करस्पर्शतो नूनं सुखमामोति मानसम् ॥ ८॥
दुर्वर्णरचितं तूर्णमपाकुरुत बन्धनम् ।
उन्मत्तभावजं नूनं न भयं मेऽस्ति सांप्रतम् ॥ ९ ॥
श्रुत्वैतद्वचनं भूपो दासीवदननिर्गतम् ।
प्रोत्फुल्लनयनस्तन्मन्दिरमुपाययौ ॥ १० ॥
दृश्या चैतन्यसंयुक्तां त्यक्तरागां मुदान्वितः ।
समानीयान्तिके बाला पुरस्तात्संन्यवेशयत् ॥ ११ ॥
नागपाशोपमं तद्वद्वन्धनं कृतवान्पृथक् ।
मेहमन्त्रेण भूपाल तत्पादनिहितः स्वयम् ॥ १२ ॥
तावदासीगणः सर्वैर्ववन्दे चरणद्वयम् ।
श्रुत्वा पादतले पादपीठं सौवर्णमुत्तमम् ॥ १३ ॥
यदैश्वर्यमभूत्पूर्व पुनस्तत्सर्वमर्पितम् ।
सख्यस्तं मस्तके मौलिं स्थापयामासुरद्भुतम् ॥ १४ ॥

५ कौतुकम्] कथाकौतुकम् । सर्वाः सुमध्यमास्तत्र समायाता मुदान्विताः। तदा तत्सुखसौभाग्यदीपे याताः पतङ्गताम् ॥ १५ ॥ तासां सवयसां मध्ये भूपालतनया ततः । निर्धूतकोकिलालापं वाग्विलासमथाकरोत् ॥ १६ ॥ सख्यः शृणुत नो जाने मानसं किं सकौतुकम् । अव्य(१)द्विहाय सकलं कर्तुं देशनिरूपिणम् ॥ १७ ॥ रोमश्यामादिकान्देशान्गणयामास तत्परा । माययोन्मत्तभावे स्यादेवं संदर्शितानपि ॥ १८ ॥ कृत्वा निरूपणं तेषां यावन्मेसमुपागता । नेत्राम्बुभिरसिञ्चत्सा मेषपद्धिरिवोर्वरम् ॥ १९ ॥ मेस्रनाम गृहीत्वापि मूर्छितेवापतद्भुवि । तत्रत्याजेजमेनाख्यविषमीगातुरासती ॥ २० ॥ तत्प्रेमवशिता पाला चक्रे देशनिरूपणम् । मेलमेस्रति कथनात्परं सुखमविन्दत ॥ २१ ॥ अभूदहनिशं कार्यमेतदेव मृगीदृशः। ये च तन्नामतद्देशवर्णनं क्रियते परम् ॥ २२ ॥ सा वाणी मुखदा नित्यं तद्यशो गीयते मया । नैवात्युक्तकथालापमूकेचावस्थिता तदा ॥ २३ ॥ तच्यानं मानसं वाचि कीर्तनं श्रवणं श्रुतौ । तदीक्षणं च सर्वत्र तन्मयीवाभवत्तदा ॥ २४ ॥ अभूद्यदपि सा बाला रागिणोन्मत्तरूपिणी । तथापि रूपकीास्याः पूर्ण भूमण्डलं तथा ॥ २५ ॥ यत्र यत्रापि तद्रूपकथा प्रादुरभूत्परा । शान्तात्मानोऽपि तां श्रुत्वा दोलारूढा इवाभवन् । २६ ।। राजानो राजपुत्राश्च तदाप्यासक्तमानसाः । तत्सभासु च तद्रूपलावण्याख्यानमुत्तमम् ॥ २७ ॥ १. 'राम्' इति भवेत काव्यमाला 1 तदा सर्वगुणोपेताः सर्वे मानधनोर्जिताः। गृहीतकामामुर्वी तामासन्नाकल्पशालिनः ॥ २८ ॥ सायि रूसगणोपेता यौवनोत्तमशालिनी । विहायोन्मत्तभावं तं यदा बुद्धिमुपागता ॥ २९ ॥ तदद्भुता नरेन्द्राणां नानादिग्भ्यः समागताः । रोमश्याममहीपालकम्पा नेपथ्यभूषिताः ॥ ३० ॥ दशानां भूमिपालानां तावन्त एव सेवकाः । संप्राप्ता नगरे तस्य तैमोसचमहात्मनः ॥ ३१ ॥ तेषामेकोऽथ संप्राप्तो गृहीत्वा परमाद्भुतम् । कोसलिकामेकद्वीपसमुत्पन्नार्थसंयुताम् ॥ ३२ ॥ अपरेऽपि तथैवैकसिलैमानस्य मुद्रिकाम् | आदाय समनुप्राप्ते भूपैश्चर्य निदर्शनम् ॥ ३३ ॥ गृहीत्वान्येऽपि संप्राप्ता एकैकं वस्तु दुर्लभम् । यदृष्ट्वा स हि तां मह्यं मह्यमेव प्रदास्यति ॥ ३४ ॥ यत्र कुत्रापि सा वाला वदनं वर्तयिष्यति । विषयेषु स हि ख्यातो देशो देशशिरोमणिः ॥ ३५ ॥ यस्मिन्भूपे मनःसम्यक्त्वाभिलापं मृगीदृशः। स हि प्रामादिकानाथो देशाधिपतिरुच्यते ।। ३६ ॥ यसिन्देशे मनः स्थातुं नामिलापं मृगीदृशः । स हि आमटिकातुल्यो देशाधिपतिरुच्यते ॥ ३७ ॥ भूपवद्यदि संदत्ते श्यामाख्ये नगरे सुखम् । तदानिशं प्रकुर्वन्ति तत्रत्यास्तु सदानिशम् ॥ ३८॥ यदीयं रोमनामानं वाचा संशृणुते परम् । जहाख्यं नगरं यावद्दासस्तत्पुरवासिनः ॥ ३९ ॥ इत्थं समागताः प्रेष्या भूपालानां विशेषतः । ऐश्वर्य कथयामासुस्तदर्थ प्रेपितास्तदा ॥ ४० ॥ १. 'सम' स्यात्, ५ कौतुकम्] कयाकौतुकम् । एवं वृत्ते समावृत्ते वार्ता तावच्छ्रुता तया । व्याकुलं मानसं तस्यास्तदागमनचिन्तया ॥४१॥ पप्रच्छानन्तरं बाला दासदासीगणं तदा । अजेजमेनदूतोऽपि प्राप्तो वा नेति कथ्यताम् ॥ ४२ ॥ तचिन्ता मानसे नित्यं तद्रामाकुलिताम्यहम् । मनो धावति में तत्र किं फलं तं विना भवेत् ॥ १३ ॥ यदि मेस्रगतो वायुर्वाति रेणुं किरन्मुहुः । मन्ये मृगमदं नूनं मुञ्चन्नेव प्रयात्ययम् ।। ४४ ॥ एवं चिन्ताकुला यावद्भूपान्ततनया भवेत् । जनकेन समाहूता तावत्सा चारुलोचना ॥ ४५ ॥ शृणु कल्याणि मद्वाक्यं सर्वदुःखविवर्जितम् । सर्वलक्षणसंपूर्णे नयनानन्दकारिणि ।। ४६ ॥ स्तम्भभूता नृलोकेऽस्मिन्ये भूता यशसान्विताः। येऽपि दग्धविनिर्मुक्ता नित्यं मुकुटधारिणः ॥ ४७ ॥ त्वचिन्तासहिता तेऽद्य त्वदाहितमनोधियः । त्वोमबीजं नियतं रक्षन्तः क्षेत्रसंनिधौ ॥ ४८ ॥ त्वदर्थ प्रेषिताः प्रेप्या भूपालाः सुमहात्मभिः । कोसलिकां समादाय मत्सकाशमुपागताः ॥ ४९ ॥ शृणु वक्ष्यामि भूपानां वृत्तं सेवकवर्णितम् । तेपु कोऽपि भवेत्सुनु प्रियस्ते तं वदस्व मे ॥ ५० ॥ यसिन्देशे नृपेणापि सामिला मनस्तव । तत्क्षणात्तं करिष्यामि वशगं चारुलोचनम् ॥ ११ ॥ एवं वदति भूपाले तूष्णीमेव नृपात्मजा । आसीत्तच्छ्वणं पूर्वदृष्टं का नु परस्परम् ॥ १२ ॥ वरं तच्छूवणं भूयाच्छन्दयुक्तं विशेषतः । कृत्वावधानं सततं परं मित्रकथाश्रुतौ ।। ५३ ॥

४
काव्यमाला।
दूतवृत्तं तु तत्सर्व भूपालैश्वर्यसंयुतम् ।
कथयित्वाजेजमेस्रनाम नेतुं कथंचन ॥ १४ ॥
न श्रुतं मे प्रवृत्तान्तं कश्चिन्नाप्यागतस्ततः ।
निराशैवोत्थिता बाला त्यक्त्वा जनकदर्शनम् ॥ ५५ ॥
बाप्पमुक्तावलि पक्ष्मवजरलेन सा पुनः।
भिन्दन्दिधैवमात्मानमनिन्दनृपकन्यकाः ॥ १६ ॥
परं मे मरणं श्रेष्ठं तथा धिग्जन्म सांप्रतम् ।
न जाने समये कसिञ्जाताहं निन्दिता परम् ।। ५७ ॥
मेघोऽम्बुधिविनिर्यातो मुञ्चन्नम्भः सुधामयम् ।
सत्यं मां तृपितां सत्वा()विनानि नैव मुञ्चति ॥ १८ ॥
अहितं विहितं किं वा न जाने वेधसा सह ।
कथं शोकाम्बुधौ बाला निमज्जयति मां मुहुः ॥ १९ ॥
मार्गे न दीयते मह्यं यदि कान्तान्तिके त्वया ।
कथं दूरीकरोष्येवं ततो मां मुहुरातुराम् ॥ १० ॥
यदि मे मृत्युकामोऽसि मृतेवाहं तथाधुना ।
अविचारेण ते जीवं पश्य भूयो ययाम्यहम् ॥ ११ ॥
यदि पारयितुं कामो मानसे तव मां मुहुः ।
स्थापितं तृणवद्गात्रं वृथा गिरितले मम ॥ १२ ॥
त्वया विचारबाणेन कृतं मे निचितं मनः ।
युक्तमेतत्प्रकुरुषे मया भेपजरोपणम् ॥ १३ ॥
तुष्टाहं यदि वा चिन्तापराहं तव किं सुखम् ।
जीविता मृतकल्पा वा वद् कि ते फलं ततः ।। ६४ ॥
काहं वराका वपुपा मम किं रक्षितेन ते ।
यशोऽथ वा मृतेनापि किं वा निन्दा भविष्यति ॥ १५ ॥
सुकुमारा सुरूपाश्च नराः शतसहस्रशः।
मृत्युवहिमुपादाय नीता भस्मावशेषताम् ॥ ६ ॥

DIA RATIPS Bpune rry कृतेन कलिकैवाभूदुक्ता पूर्णतनुस्तथा ॥ ६७ ATTARA ६ कौतुकम्] कथाकौतुकम् । ४१ एवमाक्रन्दनेनैव सकलं दिवसं तदा। असिञ्चद्धरणी बाप्पधाराभिस्तत्र भामिनी। विभेद सहसा रोषपापाणेन खमस्तकम् ॥ १८ ॥ दृष्ट्वा तां तु तां प्रीति तस्या भूमिपतिस्तदा । अजेजमेसेण समं क्षणमेकमचिन्तयत् ॥ १९॥ इयं मनोरमा बाला प्रथिता लोकमण्डले । अजेजमेखलब्धापि खयं किं क्रियतेऽधुना ॥ ७० ॥ दत्त्वा पृथक्पृथक्कुत्र द्विगुणं भूपतिस्तदा । कोसलिकानरेन्द्राणां प्रेप्यास्ताविससर्ज सः ॥ ७१॥ तामादायैव सहसा पूजितास्तेन भूभुजा ! प्रत्याययुः सुसंतुष्टाः कृत्वा सर्वे सदाशियम् ॥ २ ॥ इति यवनभाषापारंगमेन पण्डितश्रीवरेण विरचिते कथाकौतुके पश्चमं कौतुकम् । पष्ठं कौतुकम् । बभूव सा तदा कान्तरागात्राङ्कितमानसा । तन्नामग्रहणाद्वाला तद्वैगुण्यमथादधे ॥ १ ॥ दिवसस्य प्रकाशस्य ज्योतिः संदृश्यते कचित् । निरालोकं दिनं तत्स्यान्नैराश्यं यत्र जायते ॥२॥ यदा दृष्टं मनो राज्ञा तस्या मेस्रार्थमागतम् । तदा तत्प्राप्तये भूप उपायं समचिन्तयत् ॥ ३ ॥ कोऽप्यस्ति तादृशो लोके गत्वा मेस्रमितस्तु यः । भवेनीतिकरो बुद्ध्या जोलेखाजेजमेस्रयोः ।। ४ ।। गृहीत्वा मम' संदेशं याति प्रेत्यानयिष्यति । तथैवाजेजमेस्रेण मैत्री संजनयिष्यति ॥ ५ ॥ एकोऽतिनिपुणो दृष्टो राज्ञा निकटवर्तिनाम् । स्तुवन्तः सततं यस्य बुद्धिं बुद्धिबलोर्जिताः ॥६॥ ६

४२
काव्यमाला।
दत्तोपायनरलानि शतशोऽस्य करे नृपः ।
पुत्रमेकं च तद्वृत्तसहितं विससर्ज तम् ॥ ७ ॥
प्राह भूमिपतिस्तावत्संदेशं खयमग्रतः ।
त्वयाप्यजेजमेस्रस्य कथनीयमिदं वचः ॥ ८ ॥
तयास्त्यैश्चर्यमतुलं प्रत्यहं प्रथितं भुवि ।
लोके प्रियतया ख्यातं नाम सैवाधिका भवेत् ॥ ९॥
परं शशिमुखे श्यामाः कन्याः सन्ति महीभुजः ।
सकलङ्को मृगाकोऽयं जातो यद्रूपसाम्यतः ॥ १० ॥
यां स्वयंविहितां धाता जातोत्कण्ठो निरीक्षितुम् ।
ताराच्छलेन नेत्राणां शतान्याविष्करोत्यतः ॥ ११ ॥
एकनापीलितं जातु यन्मुख दर्पणं विना ।
यस्या निर्मलतासाम्यं न कुर्वन्ति हिमादयः ॥ १२ ॥
पिधाय वाससा वक्रं पश्यत्येव सुधाकरम् ।
करावलियथा नास्य जायते दाहकारिणी ॥ १३ ॥
मुखं स्पर्शयितुं शक्तो न वायुरलकान्विना ।
खात्मीयामपि यश्छायां विलोकयति नापराम् ॥ १४ ॥
संपूर्णे सुमुखी चाला नित्यं हर्म्यस्थितापि या ।
न करोत्यपरं कर्म विना पञ्चालिदेवताम् ॥ १५ ॥
यस्याः सौगन्ध्यसाम्याथै सुमनांसि नितान्यपि ।
बद्धात्मानं लतादेव कुर्वन्ति तप उत्तमम् ॥ १६ ॥
वल्गनेव कदाचित्सा कणकनकनपुरा ।
अन्तर बहिःशब्दो जमने बहुधा पार ॥ १७॥
प्रवेशं कुरुते तत्र वेशकर्मणि कोविदाः ।
सौरन्ध्री नापरः कश्चित्कदाचिजनकोऽपि वा ॥ १८ ॥
एवंविधापि भूपाल राजेन्द्रतनया परा ।
देवकन्येव सा भाति रूपशीलगुणान्विता ॥ १९ ॥

६ कौतुकम्]
कथाकौतुकम् ।
सर्वे भूपतयस्तस्यां समाहितमनोधियः ।
त्यक्त्वान्यकरणीयानि तच्चिन्तायां परायणाः ॥ २० ॥
रोमकाधिपतेर्दूतास्तथा श्यामस्य भूपतेः ।
तदर्थ भूप संप्राप्ता गृहीत्वोपायनं महत् ।। २१ ॥
केनापि नृपवर्येण सह सा सहसाकरोत् ।
नाङ्गीकारं नृपसुता प्रार्थितापि नरोत्तमैः ॥ २२॥
न मनो रोमके लग्नं तथा राजसुता नृप ।
श्यामाख्यं गणयामास नगरं कृपणं यथा ॥ २३ ॥
नेत्रद्वन्द्वं परं त्वस्या मेस्त्रार्थ जलदोपमम् ।
तन्नाम संगृहीत्वेव मृतकल्पेव जायते ॥ २४ ॥
न जाने साभिलापा किं सा तु मेस्रं सुमध्यमा ।
त्यक्त्वान्यत्सकलं सौख्यं तद्वद्भूतं किमीदृशम् ॥ २५ ॥
सत्यं तदम्भसा किं वा तद्भुवा रचिताबला ।
धात्रा जीवनमस्त्येवं लिखित्वात्र समर्पितम् ।। २६ ॥
यदि त्वन्मानसे राजन्प्रिया सा तनुमध्यमा ।
इतो गत्वानयिष्यामि क्षणेनैतां तवान्तिकम् ॥ २७ ॥
यदि नैपा सुरूपा ते प्रिया भवितुमर्हति ।
त्वद्गृहे राजतनया दासीकर्म करोत्ययम् ॥ २८ ॥
तच्छुत्वानेजमेस्रोऽपि संदेशं परमाद्भुतम् ।
हर्षेण महता युक्ता उच्चकैरकरोच्छिरः ॥ २९ ॥
विधाय प्रणति प्राह काहं क स महीपतिः ।
तत्संदेशोद्भवां चिन्तां धारयामि कथं हृदि ॥ ३०॥
तथापि तव राजासामुत्थापयति भूमितः ।
शोभते यद्यहं साम्यं करोमि विधिना सह ।। ३१ ।।
ततश्चेतुं नरेन्द्रो मां यत्तदने तृणोपमम् ।
स दृष्ट्याभदया वृष्टया पुनः संजीवयिष्यति ॥ ३२॥

काव्यमाला ।
यदि जिहासहस्रं मे सबले सुखमध्यगम् ।
नाहं तदा स्तुति कर्तुं शक्तो भूमिपतिस्तव ॥ ३३ ॥
भाग्यं फलितमेतन्मे सफलं धर्मकर्म च ।
संभावितो नरेन्द्रेण कार्येऽस्मिन्नमर्पयत् ॥ ३४ ॥
गच्छामि शिरसा तत्र रचयामि पुनः पुनः ।
प्रणति किं तु शृण्वेकं कारणमद्य मे सखे ॥ ३५ ॥
पराधीनोऽसि सेवायां सद्रोहं स्वामिना तथा ।
यथा न क्षणमेवैकं गन्तुं कुत्रापि शक्तिमान् ॥ ३६ ॥
क्षणमेकं यदा मया स्थीयते खेच्छया कचित् ।
न जाने किं यदेवायं मन्यते प्रकृति मम ॥ ३७ ॥
क्षम्यतामपराधोऽयं मम लेहातचेतसा ।
नृपेण संशयो वापि न कर्तव्यः कथंचन ॥ ३८ ॥
यदि वक्ष्यति भूपालो विवाहाथै मयाधुना ।
प्रहीयतेऽद्य सौवर्णकलीरथ शतद्वयम् ॥ ३९ ॥
दासदासीगणाश्चैव कञ्चकोणीपधारिणः ।
मागधा बन्दिनश्चैव बालवृद्धपुरःसराः ॥ ४० ॥
महाजना धर्मपराः सर्वे मत्पुरवासिनः ।
समानयन्तु तां कान्तां निर्गच्छन्तु ममाज्ञया ॥ ४१॥
परं तु प्रोच्यतां तत्र मदर्थ वचनं सखे ।
न तं मुञ्चति भूपालः क्षम्यता मम सत्तम ॥ ४२ ॥
इति चिन्तातुरं दृष्ट्वा प्राह दूतो महामतिः ।
विधाय विहितं पूर्व सान्त्वपूर्वमिदं वचः ॥ १३ ॥
अहो राजेन्द्र ते लक्ष्मीः प्रथिता लोकमण्डले।
धर्मार्थकफला नूनं वर्धमाना भवत्वियम् ॥ ४४ ॥
तथापि मम भूपालः ख्यातत्रिभुवनेऽप्ययम् ।
तदने श्रीमता लक्ष्मी को वक्तुं शक्तिमान्भवेत् ॥ ४५ ॥

६ कौतुकम्]
कथाकौतुकम् ।
गृहे तु नृपवृद्धस्य दासदासीगणा मुहुः ।
शक्तो गणयितुं को वा यथा तारा नभस्तले ॥ १६ ॥
यदायाति समामध्ये रत्नान्युन्मालिकापरः ।
ददाति गणितान्येव सक्तिभ्यः सिकता यथा ॥४७॥
सेवकेभ्यस्तथा भूपो वस्त्राण्याभरणानि च ।
असंख्यानि यथा वृक्षः पत्राणि प्रददात्ययम् ॥ १८ ॥
फलं तस्यामिलापोऽयं यथा प्रीतिस्त्वया सह ।
जायते न तु तद्वृद्धिदर्शनेऽस्ति मनोरथः ॥ ४९ ॥
एवंविधोऽपि भूपालः प्रथितो यशसा भुवि ।
त्वदाईकामिलापोऽस्ति तूर्णमाज्ञापयख तत् ॥ १० ॥
तथेत्यजेजमेस्रेण कथिते हर्षपूरितः ।
प्रत्यायातः खनगरं गृहीलोपायनं महत् ॥ ११ ॥
श्रुत्वा दूतमुखाद्वाक्यं जातानन्दो महीपतिः।
अमन्यतैकमात्मानं निर्मुक्तमिव बन्धनात् ॥ ५९॥
नेतुं विकाशं तद्भाग्यपुष्पं बद्धमनोरथः ।
विधा""मधुमासोऽयं प्रसन्नोऽभून्मृगीदृशः ॥ १३ ॥
संजाता स्वप्नमध्येऽपि बाला बन्धनबन्धिता ।
अद्भुतं भाग्यवशतः प्रत्यक्षं मोचिता वियम् ॥ १४ ॥
स हि धन्यो नृलोकेऽस्मिन्नसत्यमिव मन्यते ।
इदं सत्यं महाबुद्धियों नित्ये योगतत्परः ॥ ५५ ॥
कथं मायामयं स्वमं सत्यं जानाति बुद्धिमान् ।
दृष्ट्वापि तत्फलाकाली न स्यादि सुखी भवेत् ।। ५६ ॥
दृष्ट्वा सुतनयं हर्पयुक्तो राजशिरोमणिः ।
तदुक्तं रचयामास विवाहरचनां तदा ॥ १७ ॥
पूर्व तु कल्पयामास स्वर्णरलमयं ततः ।
सहस्रमेक क्रीडाथै पाञ्चालीनां महीपतिः ॥ १८ ॥

४
काव्यमाला।
एवं दासीसहस्रं तु दिव्यरूपं महामनाः ।
तथा रत्नमयं चैकं ताटकानां नरोत्तमः ॥ ५९ ॥
केयूरकटकादीनि संख्याविरहितान्यपि ।
सहस्रं मुकुटानां च महार्घमणिसंस्कृतम् ॥ १० ॥
चित्रकं वस्त्ररतानां सहस्रं धरणीधरः।
समानयामास परो ददर्श खयमाहृतम् ॥ ११ ॥
सहस्रमश्वरत्नानामुष्ट्राश्वतरदन्तिनाम् ।
तथैव कल्पयामास प्रत्येकं स महीपतिः ॥ ६२॥
तथा सौगन्ध्यसंयुक्तं यावद्रव्यं सुदुर्लभम् ।
तावदाराधयामास तदर्थ राजकुञ्जरः ॥ ६ ॥
तस्मिन्निष्पादिते कार्ये संतुष्टः पार्थिवोत्तमः ।
आज्ञापयामास ततः स्वयमाहूय मन्त्रिणः ॥ ६४
एक स्वर्णी रथं दिव्यं विमानः परमाद्भुतम् ।
परं नालोकितो जातु संवादयतु सत्वरम् ॥ १५ ॥
इति भूपवचः श्रुत्वा प्रणमन्तो मुहुर्मुहुः ।
तथा ते रचयामासुस्तदद्भुततरे भुवि ॥ ६६ ॥
रलस्तम्भमयं हये सुवर्णकृतवन्धनम् ।
तथा दृढतरं सुसु गवाक्षशतसंकुलम् ॥ १७ ॥
समानीयैव पुरतः कौतूहलशतान्वितम् ।
तत्रदा दर्शयामासुदृष्ट्वाभूत्सोऽपि विलितः ॥१८॥
निधाय तत्र तां वाला पाञ्चालीमिः सहोत्तमाम् ।
सदा तत्केलिनिरतां नवयौवनशालिनीम् ॥१९॥
दासदासीगणयुतां प्राप्तकामां मुमध्यमाम् ।
मे प्रस्थापयामास तनयां पार्थिवोत्तमः ॥ ७० ॥
पितरावमिवञ्चयाय होत्पन्नाध्रुवर्पिगी।
जोलेखा निर्जगामाय श्रिया परमया युता ॥ ७१ ॥

४७ ६ कौतुकम्] कथाकौतुकम् । तथा प्रासादिकाः सर्वा बालामनुप्रसाधनम् । कृत्वा विनिर्गता तारा तारा शशिकलामिव ॥ २ ॥ काचिदासेरिकारूढा काचिदश्चस्थिता ययौ । अपरा खयमेवासीचथापि गजगामिनी ॥ ७३ ।। तथैव सेवकास्तस्या उष्ट्राश्वगजगामिनः । प्रययुरबलाचक्र रक्षन्तः शस्त्रपाणयः ॥ ७४ ॥ वीणावेणुनिनादेन मृदाखनितेन च । कलालापेन चैतासां प्रतिध्वानितमम्बरम् ॥ ७९ ॥ गायन्त्योऽपि हसन्त्यश्च क्रीडन्त्योऽपि परस्परम् । ते तथा हर्पसंयुक्ताः प्रययुस्तत्पुरं प्रति ॥ ७६ ॥ तथा भूपालतनया सुखिताभूत्सुमध्यमा । तस्याश्चान्तरजं दुःखं यथा नैवान्वमन्यत ॥ ७७ ॥ चिन्ताराणां नूनं हर्षमित्रोदयो भवेत् । विप्रयोगमयस्यापि समीप्याभयता तथा ॥ ७८ ॥ तस्या नृपसुतायास्तु नैवाभवदखण्डिता । न ददर्श सुहस्राप्ति व्युष्टं यस्यां सुलोचना ॥ ७९ ॥ संप्राप्य निकटं तस्य नगरस्य नृपात्मजा । तत्रैव स्थापयामास बलं बुद्धिबलोर्जिता ॥ ८० ॥ श्रमं मार्गोद्भवं दूरीकर्तु यावदवस्थितम् । क्षणमेकं बलं तावदिवसोऽस्तमुपाययौ ॥ ८१ ॥ निशां तामतिवाबैकां प्रभाते भूपकन्यका । पार्श्व साजेजमेस्रस्य प्रेषयामास सेवकम् ॥ ८२ ॥ स त्वं शीप्रमितो गत्वा संदेशं प्रापयाधुना । तथास्य लोकनाथस्य कथनीयमिदं वचः।। ८३ ॥ जोलखानाम तनया तैमोरस्य महात्मनः । त्वदाज्ञयेह संप्राप्ता त्वया संभाव्यतामियम् ॥ ८ ॥ -

काव्यमाला।
श्रुत्वा दूतमुसाहाय प्रोफाइलोचनः ।
अमन्यतैफमात्मानं लोकेऽस्मिाटोकनायकः ॥ ८ ॥
दुन्दुभि ताटयामाम नगरेऽनमेस्रकः ।
सर्व लोका बहिरितो निर्गच्छन्तु माजया ॥ ८६ ॥
गजयाजिसहसौधरने कः सदिततथा ।
गृहीत्वा दुर्लभं वतु लोके सर्व समन्ततः ॥ ८७ ॥
समानतुं स्वयं सोऽपि निर्गतः सेवकैर्वृतः ।
तां भूपालमुतां रम्या सर्वलक्षणसंयुताम् ॥ ८८ ॥
ततस्तदाज्ञया सर्वे निर्गताः पुरवासिनः ।
नानातीर्थार्थकुशला नानोन्नयनपाणयः॥ ८९ ॥
सर्वालंकारसंयुत्ता अप्सरःसदृशो भुवि ।
तदैव निर्गताः सर्वा नर्तक्यो नर्ततत्पराः ।। ९० ॥
गायन्तो गायनाचैव गन्धर्वोपमनिःसनाः ।
तदाज्ञया विनिर्याता गीतशास्त्रविचक्षणाः ॥९१ ।।
नानार्थकुशलास्तद्वदूतमागधवन्दिनः ।
निर्ययुर्यत्र तत्तस्मात्तदाज्ञावशवर्तिनः ॥ १२ ॥
कुहका मान्त्रिकाश्चैव ये चान्ये मायिनः परम् ।
समायां दर्शयन्तस्ते निर्गतास्तदशाचदा ॥ ९३ ॥
वेणुवीणामृदङ्गानां निःस्वनेन समाकुलम् ।
शुशुभे तहलं तत्र देवसेनोपमं भुवि ॥ ९ ॥
कुतूहूलशताविष्टा यथा राजसुता गता ।
तथैवाजेजमेस्रोऽपि निर्गतो हर्षपूरितः ॥ ९ ॥
एवमेव तदा सर्वे हर्षपूरितमानसाः।
गायन्तश्च हसन्तश्च प्राप्तास्तन्निकटं शनैः ॥९६ ॥
यावआप्तोऽन्तिकं तारपल्लीवलयितुं पुरः।
तावदेकं ददर्शासौ सलं ताराधिपोपमम् ॥ ९७ ॥

४९ ७ कौतुकम्] कथाकौतुकम् । अवरुह्याथ वाहात्तु संमुखं रचयन्मुहुः । प्रणतिं प्रययौ हर्षपुलकाङ्कितविग्रहः ॥ ९८ ॥ दृष्ट्वा तमागतं भूपदासास्तस्या मृगीदृशः। सभाजनायोपगताः प्रणेमुर्मुदिताशयाः ॥ ९९ ॥ गृहीत्वा प्रणति तेभ्यो दत्त्वा तद्वत्सदाशिपः । कुन्ददन्तातिर्भूपस्तदाभूद्धसिताननः ॥ १० ॥ पप्रच्छानामयं तेपां हर्षेणोत्फुहलोचनः । कचिन्मार्गोद्भवं कष्टं नातं दूरगतैः परः ॥ १०१ ॥ ततोऽप्युपायनार्थं तद्वस्त्रानीतं खकेच्छया। सदने स्थापयामास स दिवेऽपि सुदुर्लभम् ॥ १०२ ॥ तथा तत्सेवकान्सर्वान्यथायोग्यतया नृपः । ततः संभावयामास प्रीतिमानधनादिभिः॥ १०३ ॥ एवं सोऽजेजमेनस्तान्पूजयित्वा पृथक्पृथक् । तत्रैवैकां निशां तस्यौ प्राप्तपूर्णमनोरथः ॥ १० ॥ अतिवादैव तो रात्रि कथाभिर्मुदिताशयः। प्रातः स नः प्रवेशयदध्व(१)भूपपुरे ततः ॥ १०५॥ इति यवनभाषापारगमपण्डितश्रीवरेण विरचिते कथा तुके यष्ठ कौतुवम् । सप्तम कौतुकम्। दर्शयन्नुत्पथा कालकुहकोपरथास्थितम् । किंचिद्विभाति यल्लोकविलप्रणविचक्षणः ॥१॥ आशालब्धं मनः पूर्व करोत्येकत्र मायया । पुनस्तदैव नैराश्यवशेनायं सुदुःखितम् ॥ २ ॥ दर्शयत्येव मधुरं किमस्याशु फलं पुनः । यद्भुक्त्वा जीवलोकोऽयं तिक्तास्यो जायते परम् ॥ ३ ॥ एवं प्रातस्तदाजेजमेस्रो यावत्समुत्थिनः । गन्तुं स्वनगरं सर्वान्समादायैव सत्वरम् ॥ ४ ॥ .

५०
काव्यमाला।
तावत्स्थलातुरोत्थेयं बाला हरिणलोचना ।
प्रोवाच वचनं धात्री तदुत्कण्ठाकुलाशया ॥ ५॥
उपायः क्रियतां मातयेन पश्याम्यमुं प्रियम् ।
विनैतद्दर्शनं काचितिनवास्ति मेऽधुना ॥ ६ ॥
जलं प्राप्य तृपार्तोऽपि न तत्पात्रं विना क्षमः ।
यथैव विद्धि मां मातस्तथैतद्दर्शनं विना ॥ ७ ॥
तादृशोत्कण्टितां बालां तत्रोपायेन साकरोत् ।
स्थले रन्धं विवृत्यै नेत्रमात्रं मनीपया ॥८॥
चक्रे तेनैव मागेण दर्शनं पार्थिवात्मजा ।
दृष्ट्वाजेजमेसं तमत्यजच्याससंततिम् ॥९॥
हा मातर्विहितं किं नु बेघसादुतकर्मणा ।
ममैव मन्दभाग्याया विपरीतं सुदुःसदम् ॥ १० ॥
हा कष्टमद्भुतं कर्म विहितं विधिना मम ।
असमाप्तं गृहं यावद्भित्तिनिप्पतिता कथम् ॥ ११ ॥
न हि सोऽयं मया दृष्टः स्वप्ने यो लोकसुन्दरः ।
यदथै विहितं मातरियदन्वेपणादिकम् ॥ १२ ॥
न हि सोऽयं स्वचैतन्यं येन मेऽपहृतं बलात् ।
विधायात्यद्भुतां मायां जडता प्रतिपादिता ॥ १३ ॥
न हि सोऽयं विलोक्यापि ममैवोन्मत्तरूपिणीम् ।
नीत्वा पुनः स्मृति कृत्वा नामदेशनिरूपणम् ॥ १४ ॥
हा कष्टं धिगिदं भाग्यं तदा सुखविवर्जितम् ।
तथैव मामकं जन्म निन्दितं चिन्तयान्वितम् ॥ १५ ॥
मया खजूरवृक्षोऽयं रोपितः फललुब्धया ।
तन्नैवाधिगतं किं तु प्राप्ता कष्टकसंहतिः ॥ १६ ॥
मनःक्षेत्रे मयोप्तं तु सुखबीजं खयेच्छया ।
परं त्वधिगतं मातः कथं दुःखफलं त्विदम् ॥ १७ ॥

6662
७ कौतुकम्] कथाकौतुकम् ।
प्रत्यहं कृपणैवाहं निधानाथै कृतश्रमम् ।
लब्ध्वापि तत्कथं कार्य पतितं भुजगैः सह ॥ १८ ॥
कुसुमावचयं कर्तुमुद्यानं प्रस्थितास्म्यहम् ।
न तदाप्तं परं जातं कण्टकैर्व्यथितं वपुः ॥ १९ ॥
अहो चिन्तातुरैवाहं धर्पितापि मरुस्थले ।
गच्छन्ती शुष्ककण्ठोष्ठतालुजिह्वा ततः परम् ॥ २० ॥
देवादृष्ट्वापि स्वच्छाम्भः पतिता पुनरुत्थिता ।
पातुं समागता यावत्तावत्पङ्कायितं जलम् ॥ २१॥
गृह्यते यदि लीलार्थ शशकोऽपि मया पुनः ।
मदर्थ विक्रमोदारः सोऽपि सिंहायते परम् ॥ २२ ।।
शोकाम्भोधौ निममामि चित्तोऽपि शतसंकुले ।
क्वचिदूर्व प्रयातापि तथैवाधः क्वचिन्मुहुः ॥ २३ ॥
यदि शोकाम्बुधौ दैवात्प्रकटाशा तरी कचित् ।
तदैव हर्पसंयुक्ता पूर्णाशा संभवाम्यहम् ॥ २४ ॥
पुरा स्वमेऽभवत्कान्तसामीप्यं सुखितं मम ।
सारं सारं तदैवादिकालोरगनिभं मुहुः ॥ २५ ॥
सत्यं चिन्तान्विता लोके नास्त्यन्या कापि मां विना ।
तथैव दुःखितानां च परं दुःखपरायणा ॥ २६ ॥
नास्ति मेऽद्य मनोऽवश्यं मनोहता न हस्तगः ।
अत एव स्वयं वक्षः कराभ्यां ताडयाम्यहम् ॥ २७ ॥
क्रौथै मुञ्चाधुनाद्यान्तःस्लेहार्द्र हृदयं कुरु ।
अबलादलना नूनं किमैश्वर्य भविष्यति ॥ २८ ॥
यदा न दीयते मह्यं कान्तवासः करे शुभम् ।
तथैव मा कुरुप्वाद्य भनो मे परकाड्डितम् ॥ २९ ॥
मा विदारय ते चिन्तानखानणांशुके मम ।
परस्परं करस्पर्शमलिनं वापि मा कुरु ॥ ३०॥

५२
काव्यमाला।
किं तु केनापि च कथं विहितं यत्पुरा मया ।
प्रापयान्तं तदैवाद्य वैपरीत्यं यथा विदम् ॥ ३१॥
दाहं मा कुरु कामामिज्वालया मामसांप्रतम् ।
चिन्तोरगपरीताचं निधानमिव मद्वपुः ॥ ३२ ॥
एवं चिन्तातुरा बाला बाप्पाकुलितलोचना ।
क्रन्दमानापि करुणं मूर्छितेवापतद्भुवि ॥ ३३ ॥
तावत्समुत्थितां वाणी शुश्रावैतां नृपात्मजा ।
अध्युत्तिष्ठ महाभाग्ये त्यज चिन्तां सुदुःस्थिताम् ॥ ३४ ॥
प्रियो नाजेजमेस्रस्ते विनैतां नाधिगच्छसि ।
कान्तममान्मते(१)भर्ती प्रसिद्धमुपयास्यति ॥ ३५ ॥
मा भूदजेजसकोत्थभयं ते चारुलोचने ।
अतोऽप्यक्षतशीलैव भविष्यसि वराङ्गने ॥ ३६ ॥
ख्यातः पुरुपरूपेण रहितस्तद्गुणैरयम् ।
तस्मात्सुभ्र न कर्तव्या चिन्तैतत्संगमोद्भया ॥ २७ ॥
इति श्रुत्वा वचो दिव्यं धरणीधरपुत्रिका ।
प्राप्तसंज्ञा बभूवाथ विस्मयाविष्टमानसा ॥ ३८ ॥ .
विहाय क्रन्दनं तत्र त्यक्तबाप्पारुणेक्षणा ।
ईपद्वर्षयुता वाला तदभूत्तनुमध्यमा ॥ ३९ ॥
विधाय सकला रात्रि रोदनं भूपकन्यका ।
प्रतीक्षन्तीव तद्वाक्यं धैर्ययुक्ता बभूव सा ॥ ४०॥
इति यवनभाषापारगमपण्डितश्रीवरेण विरचिते कथाकौतुके सप्तम कौतुकम् ।
अष्टम कौतुकम्।
प्रातरभ्युदिते सूर्ये प्राचीमस्तकशेखरे ।
दक्षिणोत्तरदिक्सूचकर्णसौवर्णकुण्डले ॥१॥
पश्चिमामुखशुद्धाग्निशिखासुतिलके पुनः ।
अपारगगनाम्भोधिमचरत्स्वर्णसागरे ॥२॥

A
ARATIYA
३
८ कौतुकम्] कथाकौतुकम्।
व्योममानसतारोघहंसश्येनायते तया ।
जित्या तमेनेहभूपदत्ताप्रापददु मौ(1) ॥ ३॥
हर्षेण महता युक्तो मौलिमण्डितमस्तकः ।
LIBRARI:
सर्वानानाययामास सामन्तान्स नराधिपः ॥ ४ ॥
विधायात्यद्धता भूषां विवाहसमयोचिताम् ।
तैरेव सहितोऽनेजमेस्रोऽसौ प्राविशत्सभाम् ॥५॥
शुशुभे स सभामध्ये वज्रपाणिरिवापरः ।
ध्वजच्छत्रपताकाभिः सहितोऽद्भुतदर्शनः ॥ ६ ॥
अद्भुतं तस्य तच्छत्रं दिव्यधर्यसमन्वितम् ।
यच्छायामधिगम्यैव नरो राजा भवेद्भुवि ॥ ७ ॥
कृतं नीराजनं तावत्सेवकर्मणिभिः परम् ।
तैरेवापतितो भूमौ सार्थकेयं वसुंधरा ॥ ८ ॥
तस्मिन्क्षणे महानासीदानन्दः पुरवासिनाम् ।
नर्तक्यो ननृतुस्तत्र नानागतिविशारदाः ॥९॥
वीणावेणुमृदङ्गाणां निःस्वनः स महानभूत् ।
मिलितानां च लोकानां तदा तस्मिन्महोत्सवे ॥ १०॥
गजवाजिसमाकीर्णा पदातिगणसंकुला ।
स्थानं तच्छुशुमे तत्र परानन्दमयं शुभम् ॥ ११ ॥
जोलेखासेवकास्तत्र हर्षिताः परमाद्भुतम् ।
मन्यमाना कथं वाला मुक्तेत्युन्मत्तभावतः ॥ १२ ॥
तदेवाजेजमेस्रोऽपि महाहर्षसमन्वितः ।
तदात्या सफलं जन्म जानवकमरिंदमः ।। १३ ॥
परं भूपालतनया मध्यकर्णे रथे स्थिता ।
एकैव दुःखिता तत्र दूपयामास वेधसम् ॥ १४ ॥
बत किं विहितं धातस्तव सत्यं मया(मा)हितम् ।
य(ब)त मां दुःखितामेव कथं नयसि दुःखताम् ॥ १५ ॥

१४
काव्यमाला।
................
न जाने विहितं किं तत्कार्य प्रत्ययकारतः ।
येन शोकाम्बुधौ मनां निमज्जयसि मां मुहुः ॥ १६ ॥
प्रथमं खममात्रेण मनो मेऽपहृतं म(त्व)या।
अविचारेण चिन्तापि वितीर्णा बहुशस्त्वया ॥ १७ ॥
त्वयैवोन्मत्तता नीता बन्धनेनापि बन्धिता ।
प्रसन्नेनापि" "योन्मोचिता पुनः ॥ १८ ॥
नैतज्जातं सुबुद्ध्या यद्दयितान्वेपणादिकम् ।
विहितं त्वामनाश्रित्य तदेवापकृतायितम् ॥ १९ ॥
दुःखमेकं तु संप्राप्तिनैराशि(श्य) मम सांप्रतम् ।
द्वितीयमपि संजातं भूपातिक्रमदर्शनात् ॥ २० ॥
निर्दयेन त्वया नित्यं कृतं मेऽपकृतं बहु ।
उपकारोऽधुना कार्यः कुरु सै(मै)वं शुभाशुभम् ॥ २१ ॥
मोहिताहं त्वया स्वप्ने किंचिद्दर्शय तद्रुतम् ।
वदसीति पुनः कामं मामवाप्स्यसि मोहयन् ॥ २२ ॥
इति भूपालतनया चिन्ताशतसमाकुला ।
बहिः प्रादुरभूच्छब्दस्तावदासीन्मुखोद्गतः ॥ २३ ॥
इह प्राप्तोऽद्य भूपालस्त्वदर्थ वरवर्णिनि ।
नीलापमातीरभूमिसंन्यवेसितसैनिकः ॥ २४ ॥
इति कृत्वा च भूपालतनया व्याकुलाशया ।
तदैवालोकयामास तेनृपंचा(तां नृपश्चा)रुलोचना[म्] ॥ २५ ॥
संप्राप्य दर्शनं तस्या हर्षितोऽभून्नरोत्तमः ।
चकार रात्रिका रत्नैः संख्याविरहितस्तदा ॥ २६ ॥
निधाय वर्णपात्रेषु मणिमुक्ताधिकं परम् ।
तथैव सेवकास्तस्याश्चर्नीराजनं ततः २७॥
पतितैर्मणिभिस्तत्र संपूर्णाभूद्वसुंधरा ।
चलितं न यथा शक्तो लोकौघः प्रस्खलद्वतिः ॥ २८ ॥

८ कौतुकम्]
कथाकौतुकम् ।
भ्रमद्वाजिखुरक्षुण्णरलसंगतनिर्गताः ।
यथा वह्निशिखास्तत्र प्रादुर्भूताः सहस्रशः ॥ २९ ॥
नीलापगापि सा तत्र प्रथिता जवशालिनी ।
पूर्णाभून्मणिमुक्ताभिः सिकताभिरिवापरा[गा) ॥ ३० ॥
एवं भूपालतनया रूपेणाप्रतिमा भुवि ।
अतीताजेजमेस्त्रेण श्रिया परमया युता ॥ ३१ ॥
ततस्तत्कौतुकं रम्यं नानाकौतुकसंयुतम् ।
अमन्यत तदा भूप सुताकरगृहोपमम् ॥ ३२॥
सापि तद्विप्रयोगाती रत्नपर्यकमास्थिता ।
कुसुमास्तरणोपेतं वेद कण्टकसंयुतम् ॥ ३३ ॥
तथैव मुकुटं दिव्यं नानारत्नोपशोभितम् ।
अमन्यताद्भुतं बाला गिरिभारोपमं तदा ॥ ३४ ॥
सर्वाण्याभरणान्येवं जातं नृपमयान्यपि ।
मन्यमानावला वहिविस्फुलिङ्गाकृतीन्यतः ॥ ३५ ॥
चिन्तया मानसं यस्या युतं प्रियसमुत्थया ।
लभते न सुखं ज्ञातु त्रिदिवेऽपि कदाचन ॥ ३६ ।।
कश्चिदेव रणे शक्तः स्थातुं वीरशिरोमणिः ।
शिरांसि यत्र शूराणां पतितानि सहस्रशः ॥ ३७ ॥
यदि चक्षुर्भवेत्पूणे बाप्पेणाहतदर्शनम् ।
तदा सौभाग्ययुक्तायास्तारायाः किं प्रयोजनम् ॥ ३८ ॥
चित्तं चेतोहरेणैव मिलितं यदि दैवतः ।
न जातु परसामीप्ये सामिलापं भविष्यति ॥ ३९ ॥
पश्य सूर्यप्रकाशेऽसौ पतङ्गः नेहसंयुतः ।
न तथा जायते दीपशिखासंसक्तमानसः ॥ ४०॥
सन्ति सौगन्ध्ययुक्तानि मुमनांसि न तेप्ययम् ।
रसायुःप्रीतिमादत्ते मालतीकुसुमेषु यः ॥ ४१ ॥

काव्यमाला।
तथा कमलिनी भानुकिरणासक्तमानसा ।
सुधांशुं नयनानन्दकारणं नेक्षते कचित् ॥ ४२ ॥
एवं साजेजमेस्रस्य गृहे राजसुता सुखम् ।
ना सत्यत(स्त) तदा सुप्त(ता) दृष्टकान्तामिलापिणी ।। ४३ ॥
तसिंस्तु मन्दिरे दासदासीगणसमाकुले ।
नित्यप्रमुदिते सैका,चित्रस्थेवाभवत्तदा ॥ १४ ॥
सौवो(वि)दल्लास्तदा चक्रुः शक्य(या) शङ्किताः परम् ।
नानाप्रहरणोपेता रक्षाधर्मपरायणाः ॥ ४५ ॥
एवं निशां ततीवीणा(१) तदा सवयसामपि ।
दासीनां चैव सा बाला विशेष नान्वमन्यत ॥ १६ ॥
सततं रचयन्त्येव तदर्थ शयनं शुभम् ।
अमन्यत स्वयं बाला कण्टकास्तरणोपमम् ॥ ४७ ॥
ससोभिः सह सा तत्र मिथ्यैवालापतत्परा ।
कि तु कान्तगुणाख्यातरसासक्तमनोरथा ॥ ४८ ॥
तन्मध्येऽपि हसन्त्ये सुधा(मुग्धा) परमया मुदा ।
हृदये चिन्तये(यो)पेतां विहिताक्रन्दना परम् ॥ ४९ ॥
मध्ये सखीजनस्यापि मूत्यैवासीत्प्रतिष्ठिता ।
तथापि मनसा कान्तध्यानशीलैव साभवे(व)त् ॥ ५० ॥
एवं राजेन्द्रतनया दिवसानि निनाय सा ।
अविज्ञातागया ताभिः म(स)वयोभिः कथंचन ॥ ११ ॥
गर्जिताक्रन्दनपरा त्राससौदामिनीयुता ।
विगलद्वाप्पधारौघा साभून्मेधानुकारिणी ॥ १२ ॥
सान्त्प(न्त्व)यन्नेव दयितं गिरा मधुरया तदा।
सा तु तद्विप्रयोगार्ता प्रोवाच वचनं शुभम् ॥ ५३॥
स्वयं मेस्राख्यया नाथ कृतं देशनिरूपणम् ।
पूर्व प्रियतराख्यातं नामापि कथितं वया ॥ १४ ॥

६७
८ कौतुकम्
कथाकौतुकम् ।
मयाप्तं सकलं किंतु विपरीतमिदं कथम् ।
कथं त्वदर्शनं नूनं मम भाग्यवशेन तत् ॥ ५५॥
न जानेऽद्य कियत्कालं ज्वलितेनापि(प्योहनिशम् ।
त्वद्वियोगामिना कान्त दह्यते मामकं वपुः ॥ १६ ॥
मधुवन्मानसोद्यान विकास मे नयाधुना ।
वपुःनेहौपधेनापि रक्ष चिन्तामयान्वितम् ॥ १७ ॥
त्वदनाप्या हतं कार्य पूर्वमासीत्त्वया पुनः ।
साधितं मे विधायैव देशे नामनिरूपणम् ॥ १८॥
श्रुत्वैतज्जीविताशा मे जीवितेशामवत्तदा ।
प्राप्यते नियतं कान्ते कृतोऽपि हृदि निश्चयः ॥ ५९॥
यदि बाप्पाकुलं चक्षुः सर्वतो हतदर्शनम् ।
मुखं तन्मे परं यत्त्वा(त्व) पश्य सेवैकमुत्तमम् ॥६० ॥
प्राध्यैकं दर्शनं नाय त्वदीयं मनसेप्सितम् ।
अद्वितीयमिमं लोके मन्ये नानार्थसंयुतम् ॥११॥
त्वमाप्तिरेव लोकेऽनिश्चिन्ता मनसि मेऽनिशम् ।
त्वय्येवाधिगते नाथे प्रार्थये नापरस्परम् ।। ६२ ।।
कृत्वैव सकलां रात्रि विपादं प्रातरेव सा ।
चायुं विज्ञापयामास ज्ञाताखण्डगतिः सदा ॥ १३ ॥
त्वमेव जीवलोकेऽसिजीवरुपेण जीवितम् ।
अनादिनिधनो देवो भूतचक्रप्रवर्तकः ॥ १४ ॥
त्वयैतत्सृज्यते विश्वं भवतैर हि याद(खाद्यते ।
तथाहि पाल्पते सर्व त्यज्यतेऽन्ते स्वमायया ॥ ६५ ॥
त्वमेकः सर्वभूतानामुत्तमः सर्वगो महान् ।
सर्वदेवमयः सर्वपूजितः सर्वसिद्धिदः ॥ ६६ ॥
पूर्वमेव हि भूपाल भद्रासनप्रतिष्ठितः ।
तथा तद्रलमुकुटदतुयादास्य(१) भवान् ॥ १७ ॥

काव्यमाला ।
इति नुत्वैव प्रथमं पवनं लोकपावनम् ।
प्रश्रयावनिता तत्र प्रोवाच नृपकन्यका ॥ १८ ॥
विदितं त्वदृते नान्यः कार्य मे साधयिष्यति ।
परोपकारकरणे विरला हि भवादृशः ॥ १९ ॥
बहुशोऽथ ददौ तस्मै संदेशं पार्थिवात्मजा ।
अन्वेषणार्थमेवास्य दयितस्य मुदान्विता ॥ ७० ॥
सकलेपु स मे कान्तः पुरग्रामाकरादिषु ।
वीक्षणीयः प्रयत्नेन भ्रमता सर्वतोदिशम् ॥ ७१ ॥
खुतनाख्यमितो गत्वा विषमं पश्य मे प्रियम् ।
श्येनाभिधाने सद्रूपनिधाने तं विलोकय ॥ ७२ ॥
मदालसगतिर्यत्र कुत्रापि स हि दृश्यते ।
मदर्थमननीयेऽसौ स्मृत्वैवेमां दशां मम || ७३ ॥
कदाचित्साथ मध्यस्थो दृश्यतेऽसौ प्रियो मम ।
अनन्यसदृशो लोके सर्वलक्षणलक्षितः ॥ ७४ ॥
तदन्तरार्थमेवैकं समानीय ममाग्रतः ।
संदर्शय सखे किंवा स एवासौ भविष्यति ॥ ७९ ॥
दृष्ट्वा तमद्भुतं तुष्टिं याति चेन्मानसं मम ।
तदा शक्रसमं मन्ये प्रफुलं दैवयोगतः ॥ ७६ ॥
वृथा पूर्णाशया तद्वद्वाप्पाकुलविमोचना ।
शनैः शनैर्विवखन्तमुदयन्तं विलोक्य सा ॥ ७७ ॥
दासीभिः संस्कृतां तावत्सधर्मा नवमां सभाम् ।
प्रविश्यानन्दिता बाला सख्ये(खी)मध्ये सुधाभवत् ।। ७८ ॥
एतदेवाभवत्कार्य प्रत्यहं हर(रि)णीहशः ।
तदीक्षणं तदालापस्तध्यानं सर्वतस्तदा ॥ ७९ ॥
गृहे नैवाभवत्स्थातुं तच्चित्तं चिन्तयान्वितम् ।
सहसा सहसा ताभिनिर्गता स्वगृहाबहिः ॥ ८ ॥

९ कौतुकम्
कथाकौतुकम् ।
क्षणमाक्रन्दनपरा क्षणमानन्दनिर्भरा ।
क्षणमुन्मत्ववाला क्षणं चैतन्यसंयुता ॥ १ ॥
अमुं च नितरां बाला भृशोऽसां श्वाससंतति ।
सत्यं तत्स्पर्शनो भानुस्तीक्ष्णांशत्वमुपागतः ।। ८२ ॥
कदाचिदेव विरहहिमाहतहरं मु(हृदम्बु)ना ।
तथा तत्प्राप्तिसुरभिर्चिकासितवपुलता ॥ ८३ ॥
विहाय राजपुत्री सा सर्व गृहसुखादिकम् ।
तस्थौ नीलाभिधानान्तां समाश्रित्य सरिद्वराम् ॥ ८४ ॥
नाविन्दत सुखं रात्रौ न दिवा वरवर्णिनी।
तचिन्तनपरा नित्यं विरहाकुलमानसा ॥ ८॥
मनस्तज्ज्ञाननिरतं चक्षुस्तदर्शनोत्सुकम् ।
तदर्थ सकलं कर्म तं विना वेदना परम् ॥ ८ ॥
परं तद्विरहोत्सन्नवैलव्यं सा यथागमत् ।
शक्यते नहि तद्वक्तुं तथा वर्षशतैरपि ।। ८७ ॥
यद्विप्रयोगनिस्त्रिंशनिक्षतं मानसं तदा ।
तत्संगमौपधेनास्याः करोम्यथैव निर्माणम् ।। ८८॥
इति यवनमापापारंगमपण्डितभीवरविरचिते कयाकीतुकेऽष्टमं कौतुकम् ।
नवम कौतुकम्।
अपरं कथयन्येवमितिहासं पुराविदः ।
नानोपाख्यानकुशलाः श्रुतसागरपारगाः ॥ १ ॥
दिने दिने वर्द्धमानो रूपेणाप्रतिमो भुवि ।
सत्यवाग्विजितक्रोधों दयावाअनवल्लभः ॥ २ ॥
सोऽपरेभ्योऽपि पुत्रेभ्यो योसौभाग्यो(योसोफाख्यो)ऽतिबुद्धिमान्।
प्रीति ततान विततां ततस्तातस ता तदा ॥ ३ ॥
मुख तजनफस्तेन पुनें नैवानुमन्यत ।
परं विहाय तनयानेकादश मनोरमान् ॥ ४ ॥

काव्यमाला। तमेवैकं समादाय""सुरं सुतोपमम् । याकोभ(याकूब)नामधेयोऽसौ दिनान्यगमयत्सुखम् ॥ ५ ॥ तस्यैवं वर्तमानस्य याकोभ(याकूब)स्य गृहान्तिके । दिव्यानुभावः स महानासीदेको वनस्पतिः ॥ ६ ॥ सर्वकामप्रदो नित्यं सदा पुण्यफलोदयः । सततं सेवितो देवैः कल्पवृक्षोपमो भुवि ॥ ७ ॥ भाति स विमला नित्यं यस्य पलवसंततिः । वक्तं गुणगणं शंभोजिह्वावलिरिवोत्तमा ॥ ८ ॥ महिमा पादपस्यायं जायते स यदा यदा । याकोभा(याकूबा)ख्यस्य तनयाः शाखैकैकस तत्क्षणम् ॥९॥ ज्ञात्वा स्वमात्मजं किंचिद्यौवने निहितक्रमम् । तद्वली तोमरं चारु करे तस्मै ददातु यम् ॥ १० ॥ एकैकं स ददौ भूपः पुत्रेत्य(?)वो परं शुभम् । प्रत्येक तत्समुद्भूतं योसोभा(यूसुफा)ख्यं विना स तम्॥११॥ उद्योगं नाभवत्तस्य प्रशस्तमपि तत्तदा । जातेऽप्यस्मिन्नवा वल्ली प्रादुर्भूतास्य शाखिनः ॥ १२ ।। समागत्यैकदा रात्रौ योसोभा(यूसुफाख्योऽतिसुन्दरः। जनकस्यान्तिकं वाक्यं प्रोवाच मधुरं शनैः ॥ १३ ॥ तपस्तप्वा परं तात मदथै तोमरं शुभम् । स्वर्गाच्छीघ्रं समानीय दीयतां मे सुखावहम् ॥ १४ ॥ आबाल्यादपि वृद्धत्वं यावद्र(स्तस्थमुत्तमम् । तदेव मे सदा स्वामी सर्वदुःख निवारणम् ॥ १५ ॥ यदशेनैव समरे सर्ववीरशिरोमणिः । अहमेको भविष्यामि लोके सोदरपूजितः ॥ १६ ॥ इति पुत्रवचः श्रुत्वा तदर्थ बन्धनिश्चयः । तुष्टाव परमेशानं याकोभाग्य:(याकूषाख्यः) सुतप्रियः॥१७

९ कौतुकम्] कथाकौतुकम् ।
तावज्यभ्रवे(जबई)लाख्यो देवदूतः समागमः ।
गृहीत्वा तोमरं दिव्यं निर्मित विश्वकर्मणा ॥ १८ ॥
तस्यायु"धवस्याथ प्रभावं स महामतिः ।
तोऽकथयत्सर्वं सर्वदा(सी) जितेन्द्रियः ।। १९ ।।
................
.............
न भयं जायते जातु दुष्टसत्वादिजं कचित् ॥ २० ॥
दस्यवः शत्रवश्चैव पलायन्तेऽस्य दर्शनात् ।
न बाधन्ते क्षुधा व्याधिर्नाधिर्नापि जरा तथा ॥ २१ ॥
स्तम्भभूतं दृढतरं विद्युतद्राज्यसद्मनः ।
इत्युक्तान्तहिते तसिन्देवदूते महात्मनि ॥ २२ ॥
तोमरं तत्समानीय ददौ तस्मै महीपतिः ।
सोऽपि संप्राप्य तद्रव्यं सर्वसिद्धिप्रदायकम् ॥ २३ ॥
तदैव चैरिणां पृष्टं निष्पिपेष महाबलः ।
तदृष्ट्वा दुर्लभं सर्वे भातरो वृद्धमत्सराः ॥ २४ ॥
प्रतीक्षन्तेऽपि तस्यासन्समये दुष्टचेतसः।
स च तत्सेहसंयुक्तः सर्ववैरिविवर्जितः ॥ २९ ॥
प्रावृणामात्मनो वापि विशेष नानुमन्यत ।
धन्यास्ते जीवलोकेऽस्मिन्सज्जना सर्वतो घरा ॥ २६ ॥
यद्धर्मवशतो लोकान्मारं धारयितुं क्षमः ।
एकपा स महाबुद्धिनिशीये जनकान्तिके ।। २७ ।।
स्थितोऽपि निद्रासंसक्तमानसः समपूजयत् ।
जनकोऽपि तद्भुतलेह"पद्धपाशेन यन्त्रितः ॥ २८ ॥
कान्तं तद्वदनं पश्यन्नभूजागरतत्परः ।
निद्रायामेव योसोम(यूसुफ)नामधेयोऽतिसुन्दरः ॥ २९ ॥
अकरोन्मधुरं हास्यं द्विवारं तं विमोहयन् ।
प्रबुद्धोऽसौ क्षणानिद्रामनुभूय ततः परम् ॥ ३० ॥

काव्यमाला। तमेवैकं समादाय"सुरं सुतोपमम् । याकोभ(याकृव)नामधेयोऽसौ दिनान्यगमयत्सुखम् ॥ ५॥ तस्यैवं वर्तमानस्य याकोभ(याकूब)स्य गृहान्तिके । दिव्यानुभावः स महानासीदेको वनस्पतिः ॥६॥ सर्वकामप्रदो नित्यं सदा पुण्यफलोदयः। सततं सेवितो देवैः कल्पवृक्षोपमो भुवि ॥ ७ ॥ भाति स विमला नित्यं यस्य पल्लवसंततिः । वक्तं गुणगणं शंभोर्जिह्वावलिरिवोत्तमा ॥ ८ ॥ महिमा पादपस्यायं जायते म यदा यदा । याकोभा(याक्वा ल्यस्य तनयाः शाखैकैकस्य तत्क्षणम् ॥९॥ ज्ञात्वा स्वमात्मजं किंचिद्यौवने निहितक्रमम् । तद्वली तोमरं चारु करे तस्मै ददातु यम् ॥ १० ॥ एकैकं स ददौ भूपः पुत्रेत्य(१)वो परं शुभम् । प्रत्येकं तत्समुद्भूतं योसोभा(यूमुफा)ख्यं विना स तम्॥११॥ उद्योगं नाभवत्तस्य प्रशस्तमपि तत्तदा । जातेऽप्यसिन्नवा वल्ली प्रादुर्भूतास्य शाखिनः ॥ १२ ॥ समागत्यैकदा रात्रौ योसोभा(यूसुफाख्योऽतिसुन्दरः । जनकस्यान्तिकं वाक्यं प्रोवाच मधुरं शनैः ॥ १३ ॥ तपस्तत्वा परं तात मदर्थ तोमरं शुभम् । खर्गाच्छीघ्रं समानीय दीयतां मे सुखावहम् ॥ १४ ॥ आबाल्यादपि वृद्धत्वं यावद्र(१)स्तस्थमुत्तमम् । तदेव मे सदा खामी सर्वदुःखनिवारणम् ॥ १५ ॥ यदशेनैव समरे सर्ववीरशिरोमणिः । अहमको भविष्यामि लोके सोदरपूजितः ॥ १६ ॥ इति पुत्रवचः श्रुत्वा तदर्थ बन्धनिश्चयः । तुष्टाव परमेशानं याकोभाग्यः(याकूबाख्यः) सुवप्रियः॥१७ -

९ कौतुकम्]
कथाकौतुकम् ।
तावज्ज्यभ्रवे(जावई)लाख्यो देवदूतः समागमः ।
गृहीत्वा तोमरं दिव्यं निर्मितं विश्वकर्मणा ॥ १८ ॥
तस्यायु"धवस्याथ प्रभावं स महामतिः ।
तदोऽकथयत्सर्व सर्वद (शी) जितेन्द्रियः ॥ १९ ॥
न बाधन्ते
न भयं जायते जातु दुष्टसत्त्वादिजं कचित् ।। २० ॥
दस्यवः शत्रवश्चैव पलायन्तेऽस्य दर्शनात् ।
क्षुधा
व्याधि धिर्नापि जरा तथा ॥ २१ ॥
स्तम्भभूतं दृढतरं विधैतद्राज्यसझनः ।
इत्युक्तान्तहिते तसिन्देवदूते महात्मनि ॥ २२ ॥
तोमरं तत्समानीय ददौ तस्मै महीपतिः ।
सोऽपि संपाप्य तद्र्व्यं सर्वसिद्धिप्रदायकम् ॥ २३ ॥
तदैव वैरिणां पृष्टं निष्पिपेष महाबलः ।
तदृष्ट्वा दुर्लभं सर्वे प्रातरो वृद्धमत्सराः ॥ २४ ॥
प्रतीक्षन्तेऽपि तस्यासन्समये दुष्टचेतसः ।
स च तत्लेहसंयुक्तः सर्ववैरिविवर्जितः ॥ २९ ।।
प्राणामात्मनो वापि विशेष नानुमन्यत ।
धन्यास्ते जीवलोकेऽस्मिन्सजना सर्वतो धरा ।। २६ ।।
यद्धर्मवशतो लोकान्भारं धारयितुं क्षमः ।
एकधा स महाबुद्धिनिशी जनकान्तिके ॥ २७ ॥
स्थितोऽपि निद्रासंसक्तमानसः समपूजयत् ।
जनकोऽपि तद्भुतलेहबद्धपाशेन यन्त्रितः ॥ २८ ॥
कान्तं तद्वदनं पश्यन्नभूज्जागरतत्परः ।
निद्रायामेव योसोमायूसुफ)नामथेयोऽतिसुन्दरः ॥ २९ ॥
अकरोन्मधुरं हास्यं द्विवारं तं विमोहयन् ।
प्रबुद्धोऽसौ क्षणानिद्रामनुभूय ततः परम् ॥ ३० ॥

२ काव्यमाला। अभूत्वमेऽद्भुतं दृष्ट्वा विस्मयाविष्टमानसः । तावत्प(प्र)च्छ तं बालं जनको विस्मयान्वितः ॥ ३१ ॥ विहितं किं त्वया स्वमे स्मितं किं दृष्टमद्भुतम् । सोऽप्युवाच ततस्तात मया खप्ने निरीक्षितु(त)म् ॥ ३२ ॥ अद्भुतं नैव जानामि फलं किं तत्समुद्भवम् । सूर्यादयो ग्रहाः सर्वे सनक्षत्राः सराशयः ।। ३३ ॥ बद्धाञ्जलिपुटास्तात दृष्ट्वा ममणती मया । श्रुत्वावोचत्पिता तूष्णीं भ[व] बालक मा पुनः ॥ ३४ ॥ कथयस्वान्तिकं वनं कस्यापि वचनान्मम । दृष्टमत्यद्भुतं स्वमं रानदं वैरिणस्तव ॥ ३५ ॥ कदाचित्कथयन्त्येवमन्यथा तत्फलं भवेत् । भवतोऽहनिशं वैरपरा दुष्टमनोधियः ॥ १६ ॥ न सहन्ते पुनः स्वप्नफलं ते प्रातरः परम् । यथोक्तं वचनं तेन जनकेन हितैषिणा ।। ३७ ॥ कंचित्कालं तथैवासौ पालयामास बुद्धिमान् । ततः कतिपयाहोभिः गतं तत्मकटं पुनः ॥ ३८ ॥ चतुका(कर्णागतं वाक्यं समझाले न विद्यते कवयः कथयन्त्येवं यदीच्छा जीवितुं चिरम् ॥ ३९॥ हस्तन्यस्य सु(क)खं जातु दीयते न मनो वचः। शुद्धं साधु वचो हंसं निर्गतं मुखपञ्जरात् ॥ ४० ॥ दुर्जनौ सुस्नुदादोष(१)नखाघातेन बाधते । गुप्तं श्रुत्वा जनोगीतं तत्समार्थमितस्ततः ॥ ११ ॥ सबै ते समविन्दन्त प्रातरोऽस्लेहता(तां) पितुः । किमप्यायें विचार्योंवमनार्य कार्यमद्य नः (1) ॥ ४२ ॥ कथं सर्वाञ्जहाहा)त्येकसुतलेहविमोहितः । न जानीमः किमस्त्यस्य जनकस्यात्र मानसे || ४३ ॥

९ कौतुकम्] कथाकौतुकम् ।
कथं न वेत्ति प्रेमान्धो दुःखमस्स(म)द्वियोगजम्
परं किं वा तपस्तप्तं योसोभा(यूसुफा)ख्येन दुष्करम् ॥४४॥
यदशेन पिता नैव क्षणमेकं जहत्यमुम् ।
तत्स्लेहेन जराजीर्णशरीरो वपुषोऽप्ययम् ॥ ४५ ॥
कथमस्मद्भुजस्तम्भमभितोऽप्यनवेत्त्ययम् ।
अथवा जीवलोकेऽस्मिन्वासना पूर्वकर्मजा ॥ ४६॥
अनिवापीअतो)याति सुखदुःखानुदिनी ।
किंवायं मोहितो धात्रा मायाजवनिकां पराम् ॥ ४७ ॥
प्रक्षिपो क्षणयो)स्तेन नेक्षतेऽसौ शुभाशुभम् ।
बुद्धिवृद्धस्य याता किं गृहीत्वायं शिशुं खयम् ॥ १८ ॥
यजहात्यधुना मोहादसाम्राज्यधुरांध(रंभारान् ।
नैकोऽयं राज्यभागी स्याद्वयमप्यशभागिनः ॥ ४९ ॥
कथं त्वमेव मत्पुत्रं(?)मंत्र तेन पिता परान् ।
एवं चिन्तातुराः सर्वे कथयन्त्या परस्परम् ॥ ५० ॥
तत्पीतिखण्डनोपायसमासतधियोऽभवन् ।
कथं प्रेमानयो(येत) क्षिप्रं."येः सारखण्डितं परम् ॥ ११ ॥
निपुणस्य यदा कार्य कठिनं संपतिप्यति ।
परबुद्धिवलं पाएं तदा तत्कर्मसिद्धये ॥ १२ ॥
यद्यप्येकेन दीपेन प्रकाशो न ग्र(गृहान्तरे ।
भवेत्तमोविनाशार्थ कल्पनीयास्तदा परे ॥ ५३ ॥
समाहूयात्मनस्तावत्सुहत्संवन्धिवान्धवान् ।
कृत्यै(वै)कदा सभां तस्यां निपण्णास्ते महौजसः ॥ १४ ॥
प्रोचुः पृथक् पृथक् सर्वे वचनं वैरतत्पराः ।
तेपामेकोऽवदद्वाक्यं कठिनं पापसंयुतम् ॥ ५५ ॥
जाते(त) श्रेयस्करं नैतद्वद कार्य विना परम् ।
गुप्तं भूमी निधायासु(मु)मितो नीत्वा वनान्तरम् ॥ १६ ॥

६४
काव्यमाला।
पुनः।
वैरिचिन्ताविनिर्मुक्ता गतबाधास्तदा वयम् ।
इति श्रुत्वा वचस्तस्य निघृणस्यापरोऽवदत् ।। ५७ ॥
अपराधं विना बालघातो दुःखाय देहिनाम् ।
प्रद्रुतोऽसौ तत(तो)ऽप्येनं पतितं मारयिष्यति ॥ १८ ॥
वयं शशास्पदं नैव न तथा दोपभागिनः ।
इत्याकर्याभवत्तापदपरोऽपि विचक्षणः ॥ ५९ ॥
यद्ययं क्रियतेऽस्माभिर्वधोपायः शिशौ
तदेव सुमहत्पापं सैव निन्दापि किं फलम् ॥ १० ॥
कार्यमेवाधुना कार्य परं जनकपुत्रयोः ।
यथानयोर्विप्रयोगः प्रेमातिशयशालिनोः॥६॥
गृध्रगोमायुसंकीर्ण यक्षोरगसमाकुलम् ।
पानीयपादे(द)पलतातृणगुल्मविवर्जितम् ॥ ६२॥
मुकुमारममुं घोरं दूरं नीत्वा वनान्तरम् ।
बालोऽयं त्यज(ज्योते तत्र किं वधेन प्रयोजनम् ॥ १३ ॥
तदायमबलो वाला:(लः) क्षुत्पिपासो(सा)पपीडितः ।
एकाकी विजने तस्मिन्वयं यातेव पञ्चताम् ॥ ६४ ॥
तद्द्वात्रनिपतन्निन स्रवद्रुधिररागतः ।
.भवतां मलिनं माभूच्छत्रं परमनिर्मलम् ॥६५॥
समाकाथ तद्वाक्यं परं बुद्धिर्ब(बोलोजितः ।
अपरोऽपि(प्य)वदत्तेषां प्राप्तकालमिदं वचः ॥१६॥
परं वघोमि(ऽपि)शस्त्रेण क्षणमेकं सुदुःखदा(दः) ।
भरणं क्षुत्पिपासाचं मा भूकस्यापि जातचित् ।। १७॥
एतावदुक्त्वा विरते तस्मिन्मतिमतां वरम् ।
प्रोवाच शनकैर्वाक्यमन्ये(न्यो)ऽप्येको दयान्वितः ॥ ६८ ॥
कूपमेकं निरीक्षध्वमि(मोतिदूरेऽन्तिकेऽपि वा ।
प्रक्षिप्यैनं शिशुं तत्र सुखं स्यात्परमे वनः(ने) ॥६९ ॥

९ कौतुकम् कथाकौतुकम् ।
तमस्य दैवयोगेन संप्राप्तोऽपि पिपासितः ।
जलाभिलापी सार्थस्तं समुद्रतिकूपतः ॥ ७० ॥
ततः सार्थपतिर्लब्ध्या शिशुमेनं दशान्वितः ।
दासमावा(व) सुतत्वं वा नयतीति विनिश्चयः ॥ ७१॥
दासतां सार्थपतिना नीतेऽप्यस्मिपितुस्ततः ।
भवेदाज्यादिकं सर्वमसार्क हस्तसर्वगम् ॥७२॥
इति श्रुत्वो(त्वे)व ते सर्वे महोत्फुल्ललोचनः(नाः)।
वचनं साधुमन्यन्त तत्कार्याबद्धमानसः(सा.) ॥ ७३ ॥
एतदेव दृढं मन्नं कृत्वा सर्व यशोदरः(सर्वेऽथ सोदराः)।
मुहृदस्तान्समामध्य प्रययुः खं खमालयम् ।। ७४ ॥
धन्यास्ते मानवा येषां द्वयावित्त(द्वयं चित्त) न जायते ।
ममता यौवनोद्भूतो(ते) मदेऽपि च सुदुःसहे || ७५ ॥
विरला जीवलोकेऽस्मिन्पुरुषाः समदृष्टयः ।
लोमकोयविनिर्मुक्ताः शिवध्यानपरायणाः ॥ ७६ ॥
दुर्लभा मनुजाः सर्व खममायोपमं जगत् ।
मन्यमानाः सदायोगी(गि) निपुणाः शेरते सुखम् ।। ७७ ॥
हिताहितकृतैकार्थविवेचनपरायणाः ।
सामान्यास्ते क्षितौ किंचिल्लोभादिवशवर्तिनः ॥ ७८॥
परमाहंकृतियुता वैरान्धधिषणाः सदा ।
अवरास्ते नरा भूमौ मारभूता विशेषताः(तः) ॥ ७९ ॥
अन्येद्युतिरः सर्वे मिलित्वा ननकान्तिकम् ।
उपाजग्म(ग्मुः) समारब्धमन्त्रसाधनतत्पराः ॥ ८॥
विधाय प्रणति तसे प्रश्रयानतमस्तकाः ।
जानुभ्यामवनिं गत्वा माययोचुः शुमा गिरम् ॥ ८१ ॥
विज्ञप्तिं शृणु ताताध सदैव गृहवर्तिनाम् ।
अलाफमस्ति रानेन्द्र मृगयारसिक मनः ॥ ८२ ॥

१६ काव्यमाला। योसोभा(युमुफाख्यसमुं(मम) वालं वनर्दन()लताकुलम् । मृगपक्षिगणाकीण नानापादपशोभितम् ।। ८३ ॥ क्वचिदंसे समारोप्य कचिद्वाहेऽथ कुझरे । सुकुमारममुं चालं पर्यटामो वनान्तरम् ॥ ८४ ॥ हनिप्यामो बहूस्तत्र हरिणाशशकांस्तथा । शिक्षिताप्यस्खविधेयं सफला मनुजेश्वर ॥ ८५ ॥ विधायात्यद्भुतां लीलां दर्शयित्वास्य तद्धनम् । शीघ्रमेवागमिप्यामो(मः) कुरुप्वाज्ञां नरोत्तम ॥ ८६ ॥ इति तेषां यचः श्रुत्वा प्रत्युवाच नराधिपः । तद्वियोगासहिष्णुस्तचिन्तयोद्वेगमानसः ॥ ८७ ॥ कर्तुमाखेटकं सर्वे भवन्तो बलशालिनः । प्रियां तु किंतु बालोऽयं कोमनाशिन वेत्ति तम्() ॥८॥ संभवन्ति वने दोप(पा) बहुपे(शो) (द)टसञ्यु(शत्रु)जाः । सोढुं तद्दर्शनोद्भूतं न शक्तो बालको भयम् ।। ८९ ॥ अथवा सुकुमाराज मुतमेनं विना क्षणम् । सुन्दरं भवसर्वखं स्थातुं नैव धृतिर्मम ॥१०॥ समाकाथ तद्वाक्यं विमर्याकुलितादयः । बद्धाञ्जलिपुटाः सर्वे जगदुस्ते शनैः शनैः ॥ ९१॥ तावन्नास्ति भयं किंचित्सिंहव्याघ्रादिकं कचित् । भवामि जीविता(१) यावन्न शङ्कां कर्तुमर्हसि ॥ ९२ ॥ चकाराज्ञां नृपः कर्तुं मृगयां पुत्रवत्सलः । योसोभा(यूमुफाख्येन तेनैव सहैव सरलाशयः ॥ ११ ॥ अनुज्ञां प्राप्य ते दुष्टधियो दृष्टाशयः(याः) परम् । संपन्नमिव मनं तम(द)मन्यन्त पुरा कृतम् ॥ ९४ ॥ इति यवनभाषापारंगमपण्डितश्रीवरविरचिते कथाकौतुके नवम कौतुकम् ।

१७
१. कौतुकम्]
कथाकौतुकम् ।
दशम कौतुकम् ।
धिग्दैवं कृपणं कर्तु द्वयं येनैव शक्तिमान् ।
दुःखितं सुखसंयुक्तं सुखितं च सदा सुखम् ॥ १॥
वैदग्ध्ये किं विधेः कूपे प्रक्षिप्ये वातिसुन्दरम् ।
योसोभा(यूमुफाख्यं सुखं(त) नास्य प्रातरो येत्र योजिताः ॥२॥
ततस्तदाज्ञयादाय प्रातरं तं यवीयसम् ।
कर्तुमाखेटकं सर्वे निर्ययुनगराद्वहिः ॥ ३ ॥
लालयन्तोऽपि भूपामे बलं बलवतां वराः।
यथा वलमती राजा बलात्कारं नवेत्त्ययम् ॥ ॥
कश्चिदंश समारोप्य तमेवं प्रियदर्शनम् ।
अविज्ञाताशयं तेषां गन्तुकामोऽभवत्तदा ॥ ५ ॥
कश्चिदेनं समालिङ्गच चुचुम्ब वदनं शनैः ।
पश्यतो जनकस्यामे वितन्वंस्तामुदं सुधा(ताः) ॥१॥
प्रफट मेहसंयुक्ता अन्तःकोपपरायणाः ।
जय जीवेति बहुशः प्रयुञ्जानाः सदाशिपः ॥ ७ ॥
एवं मायामय वर्मोहयित्वा नराधिपम् ।
निन्युम्ते दूरसंधानं निर्जन दुर्जनाः परम् ॥ ८ ॥
ततः स्कन्धादवारुख पदाति विरचय्य तम् ।
मेहाई हृदयं त्यक्त्या दुर्वचोमिस(र)मन्दयन् ॥९॥
तीक्ष्णकण्टकिना दुष्टमार्गेण बुद्धमत्सराः ।
पद्मापद्मोपमाभ्यां तमानिन्यु(र)वैरिणततः ॥१०॥
मुष्टुभिः(१) पादपातैस्तं ताडयन्तो मुटुर्मुहुः ।
मुदन्तं दीननयनं हसन्तस्ते मुदान्विताः ॥ ११ ॥
मुतोहार्द्रहृदयः परं तं फठिनागयः ।
प्रथयावनतो पाटते हि वैरपरायणाः ॥ १२॥
काय ते स पिता मेन त्वत्तेहान्धधिया परम् ।
त्वमेवेक समाश्रित्य पयं विलारित(ताः) सदा ॥ १३ ॥

१८
काव्यमाला।
त्यामधैव हनिष्यामः पितुभौतिनवास्ति नः ।
करिष्यामोऽथवा छिन्नशस्तापानादिकं कुधः ।। १४ ॥
एवं स[] त(न)यन्तस्तं सुकुमारमनागमम् ।
आसन्ममुदिताः सर्वे मोहिता विष्णुमायया ॥ ११ ॥
इति दृष्ट्वागुतं तेषां मनःकाठिन्यमातुरः ।
चिन्तयामास योसोम(यूहफ)नाममेयोऽतिदुःखितः ॥१६॥
अहित विहितं कलाद्विधिनाविधिना मम ।
संहितं निहित किंवा सौहादै सुहृदं परम् ॥ १७ ॥
सुदूरं जनको येन रक्षितोऽहं सुमेधसा ।
यलेनाथ सुदुःखान्ता (न्तः) शरण के समाश्रये ॥ १८ ॥
कथं मम पिता दूरस्थिते(तो) जानाति दुर्दशान् ।
नास्ति कश्चित्सुहृद्गत्वा वक्ष्यत्येवं तदअतः ॥ १९ ॥
नास्ति स मे बन्धुरिति श्रुतं वाक्य... श्रुतौ ।
विपरीतं तु तद्यन्मां हन्तुकामाः सहोदराः ॥ २० ॥
एवं दुःखातुरं बालं रुदन्तं कर्मणा सुर(त)म् ।
तमादाय समाजग्मुः कुया(पा)न्तिकमनागमम् ॥ २१ ॥
कथयन्ति स तं कूपमन्धकूपमिवापरम् ।
मुनिमममप्रमेयं पातालतलमाश्रितम् ॥ २२ ॥
घोरमध्योच(च्छोलद्वायुनितमेघध्वनि परम् ।
सदा गुल्मलताकीर्ण प्रसर्पत्सर्पसंकुलम् ॥ १३ ॥
ततो दृढतरं बध्वा बन्धनं तैर्नृपात्मजम् ।
अंशुकानि समाहृत्य संत्व(तु)यास्तत्र चिक्षिपुः ॥ २४॥
सं(त) तु ततेजसा कृप(पं) प्रजु(ज)ज्वाल समन्ततः ।
निरालोकेऽपि संदर्शः सप्रकाशोऽभवत्तदा ॥ २५
तेजस्तेजस्विना जातु कुत्रचिन्नैव हन्यते ।
उदयन्तं विवस्वन्तं बाधते किं निशातमः ॥ २६ ॥

जलाथै लोकमा(सार्थस्तं कूपमन्वेपयंलतः ॥ १९ ॥ १. कौतुकम्] कथाकौतुकम् । तमिन्क्षणे महेशानमगतीनां गतिं परम् । सोऽथ सस्मार योसोभ(यूसुफ)नामधेयोऽतिकातरः ॥ २७ ॥ पिता माता सुहृदाता न चान्ये बान्धवो यदा। समधी(ों) रक्षितुं नाथ तदा नाथेश्वरो भवान् ॥ २८ ॥ ततः सर्वेश्वरः शंभुः प्रसन्नजनवत्सलः । विद्यायैकशिलामटे() तन्मध्ये मायया विभुः ॥ २९ ॥ अरक्षत्सहसालोक्य पतन्तं तं हि(नि)राश्रयम् । अप्रमेयानुभावोऽसौ कर्तुं किं नैव शक्तिमान् ॥ ३० ॥ तेनैव पेषितस्ताबद्गहीत्वैकं सकभुकम् । पूर्वोक्तदेवहूतोऽथ समागत्याब्रवीद्वचः ॥ ३१ ॥ उत्तिष्ठोतिष्ठ भद्रं ते बध्वेदं देवकञ्चकम् । मृत्युभीतिः क्षुधा तृष्णा नहि त्वां बाधते कचित् ॥ १२ ॥ मुञ्च मुञ्चाधुना चिन्तां प्रसन्नस्ते महेश्वरः । रक्षितोऽसि स्वयं तेन दीनानुग्रहकारिणा ॥ ३३ ॥ यथेदं सुमहत्पुण्यं त्वयातं दुष्टयोगतः । तथाल्पैरेव दिवसैः सुखं प्राप्स्यसि शाश्वतम् ॥ ३४ ॥ धीरो भव महाबुद्धे दैन्यं मा नय मानसम् । जित्वा शत्रून्सुधर्मेण राजावश्यं भविष्यसि ॥ ३१ ॥ इत्युक्त्वान्तहिते तस्मिन्देवदूते स बुद्धिमान् । ध्यायन्मनमि देवेशं तस्थौ तत्र नृपात्मनः ॥ ३६ ॥ दिवसत्रितये सोऽभूजपेऽस्मिल्लोकचन्द्रमाः । नायमाख्ये पुरे रम्ये यथा बुध्या विनिर्मितः ॥ ३७॥ चतुर्थेऽहनि भूपालनयनानन्दकारकः । ततः समुह(ोतो बालः प्रमुणाद्भुतकारिणा ॥ ३८ ॥ देवाज्ञयाथ तद्वाम्ये वचनेऽपि समागतः ।

७० काव्यमाला। सार्थो विस्मृतमार्गोऽसौ क्षुत्पिपासोप्र(प)पीडितः । बद्धः स विपिने तस्मिन्विचिन्वंस्तमितस्ततः ॥ ४० ॥ तावत्स संगतस्तस्प प्रथितो वरुणाख्यया । वैजाभिधानस्तेनासौ समानीतस्तदन्तिकम् ॥ ४१ ॥ स तेन सहितो याव(त) कूपान्तिकमुपागमत् । ताव( पात्मजस्यापि देवदूतः समागतः ॥ ४२ ॥ ततो जगाद शनकैरुतिष्ठोत्तिष्ठ भारत । भाग्यं ते फलितं साधो त्यन चिन्तां सुदुस्त्यजाम् ॥ १३ ॥ वैनं चर्मपुटं क्षिप्त्वा समुद्र(द)रति कूपतः । तदन्तरे त्वया स्थेयं तूर्ण तदारसंयुतम् ॥ १४ ॥ ततोऽसौ ते समुद्भर्ता ज्ञात्वा पूर्ण जलेन तत् । अभिधाय गते तस्मिन्यथास्थानं नृपात्मजः ॥ ४५ ॥ प्रतीक्षमाणः समयमासीद्वद्धमनोरथः । क्षिसं चर्मपुटं तावजलोद्धरणवाञ्छया ।। ४६ ॥ केनापि सार्थनासौन्य(१)विशत्तत्र च सत्वरम् । नितरां गुरु तज्ज्ञात्वा समर्था न चरस्तदा ॥ ४७ ॥ अस्ति चर्मपुटं भारयुतं किमपि सांप्रतम् । तदैतन्मध्यगं किंचिहुर्लभ वस्तु मन्यते ॥ १८ ॥ एवमानिन्दितः कर्षशनैस्तद्रूपतस्ततः । शिशुमेकं ददर्शासौ कूपातिचयशालिनम् ॥ १९ ॥ कूपमं(सं) तसानेन विधिना कर्पितः शनैः। स शिशुः शुशुभे कुम्भस्थितो बालशशी यथा । अद्भुतं बालकं तूर्ण मंतुष्टा(संतुष्टः) सोऽपि सेवकः ॥१०॥ समानीयाप्रत(तः सा स्मार्थपतयेऽदर्शयत्ततः । समालोक्याथ तं बालं सोऽभूत्परमविस्मितः ॥ ११ ॥ १. 'बज्रईलनामा यवनदेवदूतविशेषः' इति यवनशास्त्रान्तर्गतयूसुफजुलेखा. २. जलम्.

१० कौतुकम् कथाकौतुकम् । ७१ तथैव सार्थलोकौषो विमर्पमकरोत्परम् । कोऽयं कस्यात्मजा(जः) कूपे केनैवायं ति(नि)पातितः॥५२॥ इति कोलाहलपरः समा(सार्थोऽभूत्समन्ततः । तस्य ते प्रातरस्तावन्मृगयानिरता वने ॥ १३ ॥ श्रुत्वा ध्वनि पुनर्पोरं कूपान्तिकमुपागताः । दृष्ट्वातिविपुलं साथै तत्र कूपासमन्ततम् ॥ १४ ॥ स्तुवन्तो विधिवैचित्र्यं तत्रासंस्थे(स्ते) सुविस्मिताः । प्रोचुः सार्थपति क्रुद्धाः कूपात्केनायमुद्धृतः ॥ १५ ॥ अस्माभिर्निहितोऽप्यत्र वध्यः पापरतः परम् । मत्तान्साथै चु(र्थच)रो भीतः पप्रच्छ विनयान्वितः॥ १६ ॥ भवद्भिरपनार्थन(१) केन क्षिप्तोऽत्र बालकः । प्रत्यूचुस्ते महात्मानं पापिनो नृपनन्दनाः॥ १७ ॥ अस्माकमासीदासोऽयं दासाज्ञाभङ्गकारकः । तेनायमपराधेन लिप्तोऽमुग्मिन्स संकटे ॥१८॥ अस्माभिर्भवता कार्य विहितं यत्समुद्धृतः । वधोपायः सदासाभिः ऋधासो(2) विहितः कचित् ॥ १९॥ फलितो न कथं वध्यः स हि यो दैवरक्षितः । हनिप्यामोऽथ चेद्दोपाद्भुतकं किं फलं ततः ॥ १० ॥ विक्रीतमस्त्यमुं दासं सामिलापं मनोऽद्य नः । इति सार्थपतिः श्रुत्वा कुमारं तं सुलोचनम् ॥ ११ ॥ क्रीत्वा तेल्योपवित्तेन चक्रे स्वात्मवशं ततः । तदर्ध स तु एकोम(याकूब)नामा वेति म नापरः ॥ १२ ॥ आसीदेकैव सा योग्याग्रहीतं तं नृपात्मजा । गृहीतो वाद्भुतं दासं शुभलक्षणसंयुतम् ॥ ६३ ॥ १. 'राधेन' इति स्यात्. २. 'तेभ्योऽत्पवि-' इति स्यात.

काव्यमाला, ततः सार्थपतिसं प्रत्यागाद्धर्मपूरितः । ततः कतिपयाहोमिः प्राप्तस्तु नगरान्तिकम् ॥ १४ ॥ श्रिया परमया युक्तः प्रथितः सार्थनायकः । तदुत्तरं समाकर्ण्य मन्त्री मेस्रमहीभुजा ॥६५॥ समाजनाय प्रहितस्तत्समीपमुपागतः । सभाजयित्वा तं सार्थपति तदनुगस्तिदा ॥ १६ ॥ तेनैव सहितोऽजेजमे(जीजमि)स्रोऽसौ निविशत्पु(पु)रम् । पप्रच्छानामयं सार्थनाथं मित्रं यथा सुहृत् ॥ ६७ ॥ दिष्टचाद्य कुशली प्राप्तः परं प्रेमनिधिर्भवेत् । कथयस्व सखे वस्तु किमत्रापहृतं त्वया ॥१८॥ भवतस्तन्मया सर्व गृह्यते साधुऽसा(ध्वसा)धु वा । तस्य तद्वचनं श्रुत्वा प्राह सार्थपतिस्ततः ॥ १९ ॥ मया नीतानि दिश्यानि राजन्पगत्यनी(न्यद्याप्यने)कशः(१)। तथाप्येको मया दासः क्रीता(तो)ऽतिविपुलैर्धनैः ॥ ७० ॥ कू(रूपेणाप्रतिमो लोके लोकनाथसमाहृतः । पर तमेकं मन्येऽहं नररत्नं नराधिप ॥ ७१ ॥ न तथा जायते प्रीतिनिधिलाभेन देहिनाम् । कलकोकिलनादेन न शारदसुधांशुना ॥ ७२ ॥ असमअसवाक्येन शिशोभृगमदेन च । नापि स्वर्गाधिपत्येन दर्शनेनास्य सा यथा ॥ ७३ ॥ तन्मुग्धमधुरालापमित()सावीक्षणादिभिः । तेनेदं मोहितं सर्व कुहकेनेव मायया ॥ ७४ ॥ एकस्यैव तदीयस्य चञ्चन्नेत्रेक्षणस्य च । अचला सकला मूल्यं स्वल्पं भूपाल मन्यते ॥ ७९ ॥ इति श्रुत्वाद्भुतं सम्यक्तस्य रूपनिरूपणम् । तचित्तोऽजेजमे(जीजमिस्त्र तं विससर्ज निजालयम् ॥ ७६ ॥ १. अत्र च समासान्तविधेरनित्यत्वाहजभावो बोध्यः, 'कतिपयाहै।' इति पाठकल्पनं वा.

१० कौतुकम्] कथाकौतुकम् ।
समेत्यायतनं सार्थपतिर्भूत्यं महामतिः ।
क्रीतं खद्रविणेनैतं प्रोवाच वचनं ततः ॥ ७७ ॥
अध्युत्तिष्ठ महाभाग परं स्नानादिकर्मणा ।
नय शोमां शरीरं खं सत्वरं धूलिधूसरम् ॥ ७८ ॥
ततो नीलाभिधानां तो नदीमत्यावगायन् ।
प्रसादयामास वपुः सुकुमारस्पदाज्ञया ॥ ७९ ॥
किंतु नीरजहीनापि तन्मुखाम्भोजशोमया ।
परं तदैव शुशुभे सापगा वेपशालिनी ॥ ८ ॥
तेनावगाहिता शुद्धवपुपा भ्रमताम्भसि ।
राजहंसोपमेनापि राजपुत्रेण सा बभौ ॥ ८१ ॥
अवगाहं ततः कृत्वा नीराती (ती)रमुपागतः ।
दिव्याम्बरधरो रेजे सुकुमारोऽतिशोभनः ॥ ८२ ॥
शरीरं भूपयित्वा तु सत्वरं भूषणोत्तमैः ।
समागत्य ततः सार्थपतये प्रणनाम सः ॥ ८३॥
सोऽप्यमुं सुन्दरतरं समालोक्य मनो दधे ।
गृहीतं खल्पवित्तेन विक्रीतं बहुभिर्धनैः ॥ ८४ ॥
अथ मात(सार्थ)पतिः सम्यग्व्यवहारविचक्षणः ।
मञ्चे निधाय तं मे(मित्रभूपान्तिकमुपानयत् ।। ८५ ॥
सोऽपि तं प्रेमहर्षेण तस्मै नीत्वान्तिकं पुनः ।
तस्मादाकृप्य तस्यैवं तस्मिल्लोके शुभं वपुः ॥ ८६ ॥
दर्शयामास मेधावी खार्थसाधनतत्परः ।
प्रश्रयावनतो भूत्वा रूपेणाप्रतिमो मुवि ॥ ८७ ॥
पृथुकं निर्गतं मश्चात(?) पारं तेजोन्वितं शुभम् ।
अमन्यत महीपालो द्वितीयमिव भास्करम् ॥ ८८ ॥
दृष्ट्वैव तं तथा भूपं प्रियमद्भुतदर्शनम् ।
आसन्प्रमदिताः सर्वे विस्मयाविष्टमानसाः ॥ ८९॥

काव्यमाला।
तावत्स चरित्रं तरसुरूपस्य स जन्मतः ।
तस्यैव तज्जनोद्गीतं प्रादुर्भूतं समन्ततः ॥ २० ॥
तन्नामतद्गुणाख्यानतत्कथावद्धमानसः ।
तन्मयत्वमवापन्ना आसंस्तत्पुरवासिनः ॥ ९१ ॥
आलेख्येऽपि लिखित्वामुं केचित्पश्यन्ततत्तमम् (१) ।
ध्यानेनान्ये मनोमध्ये तदाहितधियः परम् ॥ ९२ ॥
इति यवनशास्त्रपारगमपण्डितश्रीवरविरचिते क्थाकौतुके दशम कौतुकम् ।
एकादर्श कौतुक्म् ।
कर्तुं यत्न कचिच्छक्ताः सर्वदै(दे)वा[:] सवासवाः ।
विधाता संविधाता तद्वेद्धि)लयैव निरङ्कुशः ॥ १॥
एवं वर्त(वृत्त) समावृत्तं यावत्तस्य शिशोर्महत् ।
तत्कर्मण्यनभिज्ञासीत्तावत्सा पार्थिवात्मजा ॥ २ ॥
तद्वियोगेन सा बाला त्यक्तवस्त्रा मनोरमा ।
नित्यमुन्मतरूपासीद्धमन्तीव वनादनम् ॥ ३ ॥
एकदागत्य भूपालतनया नगरान्तिकम् ।
यावत्प्रतिष्ठा शुश्राव महत्कोलाहलं नृणाम् ॥ ४ ॥
ततो विस्मयमापन्ना हरिणीहारिलोचना ।
किमेतदिति पप्रच्छ सखीवृन्द मुहुर्मुहुः ॥ ५ ॥
काचित्तदाज्ञया तूर्णं गता प्रासादिका परम् ।
प्रष्टतं(पृष्ट्वा तदखिलं वृत्तं श्रुत्वा याता पुनस्ततः ॥१॥
समेत्य कथयामास यथावत्सर्वमादितः ।
दासीदासचरित्रं तन्मनःसंतोषकारणम् ॥७॥
समाकण्यैव किं नाम किंचिल्लब्धसुखावला ।
व्यसृजत्तं समानेतुं शिशुं सहचरी पुनः ॥ ८ ॥
समानीय ततो बालं तमेकं प्रियदर्शनम् ।
अपश्यत्सा स्वयं कान्तं मध्येकणेरथस्थितः ॥ ९ ॥

११ कौतुकम्]
कथाकौतुकम् ।
तं विलोक्य ततोऽपूर्वरूपलावण्यशालिनम् ।
बभूवानन्दिता भूपतनया तत्क्षणात्परम् ॥ १० ॥
तदर्शनाद्वियोगोऽर्थमानिनी विजहौ शुचम् ।
अमन्यत तदैवैकं सफलं जन्मवासरम् ॥ ११ ॥
चितुं()चैतन्यसंयुक्तं ज्ञात्वा चिन्तापराभवत् ।
शुभाशुभफलावाप्तिसाक्षीभूतं मनो नृणाम् ॥ १२ ॥
किंवा सोऽयं मया दृष्टः स्वप्ने यो लोकसुन्दरः ।
तं विना दयितं स्वास्थ्यं मनो मे कथमामुयात् ॥ १३ ॥
क्षणमेकं विमृश्यैवमत्यजच्छाससंततिम् ।
नवोद्भु(बोतवियोगो(गा) का नि:संज्ञा सापतद्भुवि ।॥ १४ ॥
तावत्सार्थपतिर्भूत्यं निनाय निजमन्दिरम् ।
दयित्वैव तत्पापा(ह)हृतचित्तं पुरौकसाम् ॥ १५ ॥
ततोऽपश्यद्विशालाक्षी धात्री राजसुतां शनैः
दशामपूर्वदृष्ट्वा(टां) तामवलोक्याकुला मया ॥ १६ ॥
अहो किंचित्क्षणं सौख्यमद्यैवापि गतं त्वया ।
दर्शनाबालकस्यास्य तावन्मूीमुपागता ॥ १७ ॥
किं शोकाम्बुधिममासि वद सुन्दरि सत्वरम् ।
इति तस्य वचः श्रुत्वा प्रत्युवाच मनस्विनी ॥ १८ ॥
जानेऽहानि गतान्येवं मातःखमयान्यपि ।
अधुनानन्दयुक्तानि प्रतिभान्त्येव तानि मे ॥ १९ ॥
योऽयं सार्थपतेर्दासो मेले(मिस्र)ऽस्मिन्वीक्षितस्त्वया ।
जीवितेशी मया स्वमे स एकालोकितः पुरः ॥ २० ॥
नित्यमेतद्वियोगामिज्वलि(ज्वाल)या ज्या(ज्योलितास्म्यहम् ।
विद्यमुं भवसर्वखं मम मातः सुदुर्लभम् ॥ २१ ।।
दर्शयित्वा निजं रूपं तदालोकमनोरमम् ।
हृतं चैतन्यमखिलं हेलयैव ममाधुना ॥ २२ ॥

१
काव्यमाला।
न जाने माययानेन कयाप्युन्मत्तरूपताम् ।
नीत्वा मां सर्वबन्धुभ्यः कथं दूरीकृताप्यहम् ।। २३ ॥
यत्किचित्सततं कष्टं मम मातनिरीक्षितम् ।
एतदर्थ मया सवै तदाप्तं प्रेमलुब्धया ॥ २४ ॥
अवेहि परमं लामं वाञ्छितं सर्वथाधुना ।
यदि सर्वगुणोपेतः प्राप्यतेऽयं स्वरूपवान् ॥ २५ ॥
नैतन्जाने कथं कार्य मम सिद्धिमुपेभ्यति ।
लभ्यते वा कथं नाथो यतोऽसौ दृष्टिगोचरम् ॥ २६ ॥
अमुमासाद्य रेमेण(१) रमत्येव सुमध्यमा ।
नैतज्जानाम्यहं मातः प्राप्तपुण्योदयाधुना ॥ २७ ॥
का वा सुलोचना रम्यं विशत्येतत्स्तनान्तरम् ।
धन्या का तन्मुखं नित्यं मदालसविलम्बनम् ॥ २८॥
पश्यन्त्रिम्बाधरं जन्म नयत्येव कृतार्थताम् ।
धन्या का कामिनी सौधे शीतांशुकरशीतले ॥ २९ ॥
अनेन परमं सौख्यं ममामोति महाधुना (6)
इति ब्रुवाणां तां बालां विरहोत्कण्ठिताशयम् ॥ ३० ॥
प्रत्युवाच
शनैर्धात्री भानयन्नथ मानिनी।
क्षमखाय पुनः पुत्री कंचित्कालं यथा पुरा ॥ ३१ ॥
अनायासेन सिद्धयन्ति क्षमाशीलस्य सिद्धयः ।
क्षमया लभ्यते सर्व यत्किचिन्मनसेप्सितम् ॥ ३२॥
नित्यं प्रमुदितो लोकः क्षमावानुन्नताशयः ।
सहनान्नापरं किंचिद्भूपणं भुवि भाविनाम् ॥ ३३ ॥
क्षमया पूजिता लोके तयैवोदेति भास्करः ।
स्वश्रेणिवर्गनिःश्रेणिः(१) कविमिः सैव कीर्तिता ॥ ३४ ॥
तसिंस्त्व(स्मात्य)यापि क्षन्तव्यं मुच मद्वचनाद्विधि)।
भनयवाखिलं कार्य सत्वरं साधयिष्यति ॥ ३५ ॥

११ कौतुकम्]
कथाकौतुकम् ।
इति तद्वचनं श्रुत्वा राजा(ज)पुत्री मुदान्विता ।
मतिमाना(न)विशद्नेहं दयितं हस्तसथि(संश्रयम् ॥ ३६॥
स एव समयः पूज्यो बरं तानि दिता(दिना)न्यपि ।
यत्रानन्दी सुहृन्मिन(४) सामीप्येन सदा भवेत् ॥ ३७ ॥
प्रियप्रेमाथ दीपोऽसौ यदि प्रज्वलितः सदा ।
विप्रयोगतमो नैव बाधते नयनं कचित् ॥ ३८ ॥
अन्ये च रथसाथै यः समनीया पणान्तरे(?) ।
विक्रि(क)यार्थ ततो दासं महाघ तस्य चाकरोत् ॥ ३९ ॥
ततो वृत्तं समाकर्ण्य सर्वे ते पुरवासिनः ।
धनान्यादाय तं दासं गृहीतं तूर्णमाययुः ॥ ४० ॥
श्रुतमत्यद्भुतं वृत्तं समाजे पुरवासिन(नाम् ।
त्वगस्थिशेपापि परं कुनाकारातिदुर्लभा ॥ ४१ ॥
योपिबद्धापि तत्रैका तद्गुणावर्जिताशया ।
दासं क्रीत(१)मनुप्राप्ता गृहीत्या सूत्रवर्तिकम् ॥ ४२ ॥
मयायं गृह्यते दास इत्युक्तेऽपि तया जनान् ।
हसतः प्रत्युवाचेदं मच्छूद्धागद्गदाक्षरम् ॥ ४३ ॥
महार्घ प्रथितं लोके क्रीतं नैव क्षमास्म्यहम् ।
अयमेव हि मे लाभो यगृहीतुमुपागता ।। ४४ ॥
तावत्सार्थपतिस्तस्स पुरमामकरादिपु ।
दुन्दुभिताडयामास विकि(क)याथै सुजन्मनः ॥ ४५ ॥
यः कश्चिद्धनवान्दासं फ्रीतुकामो भवेदस(मु)म् ।
स हि गृहाति त्वरित समागत्यातिसुन्दरम् ॥ १६ ॥
गृहे तत्सदृशं फश्चित्सकले लोकमण्डले ।
समभूर्भविता रूपसंपदा सुमनोहरः ॥ १७ ॥
श्रुत्वा दुन्दुभिनादं तं सदा मानधनोर्जितः ।
महाननाः समाजग्मुः प्रीतुं दाम(सं) तदद्भुतम् ॥ १८ ॥

काव्यमाला।
जपा)न्मे कोऽवदन्मूल्यं भद्रमेकं प्रदीयते ।
मयास्मै तेन दासोऽयं गृह्यते लोकसुन्दरः ॥ ४९॥
भद्रं तत्कथितं नूनं यत्र संख्याविचक्षणैः ।
सहस्रमेकं सौवर्णमुद्राणां परिकीर्तितम् ॥१५० ॥
तावता स वणिक्तजो(१) नैव मूलेन दत्तवान् ।
तत्तम तव दास क्षमातिशयशालिनम् ॥ ११ ॥
ततस्तद्विगुणं मूल्यमपरेय(भ्यो) ददौ वणिक् ।
नाङ्गीचकार तत्किंचित्स्वार्थसाधनतत्परः ॥ १२ ॥
एवं तत्रिगुणं कश्चिदव(दा)त्कश्चिच्चतुर्गुणम् ।
एवं कृत्वा शतगुणं तन्मूल्यमभवत्तदा ॥ १३ ॥
सहस्रकोटिगुणितं वृद्धिमूल्यमुपागमत् ।
तावतापि न तं दासं दत्तवान्स वणिक्पतिः ॥ १४ ॥
अथ नागरिकाः सर्वे सह मे(मिस्त्रमहीभुजा।
तदा हि तु गुदांशांता(१) विविशुः स्व(ख) स्वमालयम् ॥१५॥
एवं वृत्तं समाकर्ण्य मे(मिस्रभूपालमन्त्रिणः ।
दयितापि गतार्थाभूदेकैव वरवणिनी ॥ १६ ॥
हत्या चिरंतनं चिन्ता तन्निदेशे वशं सदा ।
हर्ष(प)णाजेजमे(जीजमि)तं ते(त) समायानवे(वी)द्वचः५७
गत्वा शीघ्रं महीभर्तुः समीपं विनयान्वितः ।
दत्त्वा जानुद्वयं भूमौ विज्ञप्तिं कुरु सत्वरम् ॥ १८ ॥
निःप्रजोऽहमसौ भूयात्पुत्रो मे तव सेवकः ।
इत्याज्ञा यदि ते दासो गृह्यते वनि(णि)जो मया ॥ ५९॥
अनु(न्व)हं प्राप्य भूभर्तस्तदा सार्थपति वद ।
उत्तमा! मया दासो गृह्यते भवतोऽधुना ॥१०॥
यावत्प्रार्थयिता मूल्यं स वणिक्वार्थतत्परः ।
तावदेवं प्रदातव्यं द्विगुणां वापि सत्वरम् ॥ ११ ॥

७९
११ कौतुकम्]
कथाकौतुकम् ।
वितु(३)चिन्ता न कर्तव्या कोशेऽस्मिन्नथ मामके।
सन्ति रलान्यसंख्यामि यथा तारा नभस्तले ॥ १२ ॥
यद्यहं दीयता(४) तेऽस्मिन्भवान्प्रियहिते रतः ।
समचित्तविनोदार्थ दासं तं शीघ्रमानय ॥ १३ ॥
प्राप्त(प्से)ऽमुस्मिन्मया दासे मनःसंतोपकारके ।
सफलं मन्यते जन्म चिन्ताविरहितं तदा ॥ १४ ॥
तथेति प्रतिश्रुत्यासी संदेश हरिणीदृशः।
तदा भाषणसंतुष्टः सर्व चक्रे समाहितः ॥११॥
अथ सार्थय(पोतेर्दासं गृहीत्वा विपुलैर्धनैः ।
सुभ्रुवोऽने समानीय स्थापयामास सुन्दरम् ॥ ६६ ॥
तंतु(रन्तु)कामोपसंवीक्ष्य प्राप्तकामा मनखिनी ।
हर्षवाप्पीपपूर्णाक्षी विमर्पमकरोत्तदा ।। ६७ ॥
अहो कि स्वममायेयं किं वा सत्यमिदं भवेत् ।
यसश्याम्यधुना लोके दुर्लभं प्रियदर्शनम् ॥ १८ ॥
आशा मन्मानसे नैव सासीद्विरह्यामिनी ।
प्रामोति दीर्घतां याता प्रियमित्रोदयं कचित् ॥ १९ ॥
अकस्मात्सुखिता कान्तमाया जातासि सांप्रतम् ।
शोभते विधिना साम्यं कर्तुं चेन्मानसं मम ॥ ७० ॥
मां विना नापरा काचिद्दुःखिता संस्तेः परा ।
अधुना मुखसंसक्ता प्राप्तकामापि कामिनी ॥ ७१ ॥
चिन्तां तीक्ष्णां सुसंतप्ते विप्रयोगमरुस्थले ।
पिपासिताम्यहं तत्र प्रमन्ती गतचेतना ॥ ७२ ।।
आश्चर्यकारिणी नित्यं हततृष्णा दयालना ।
प्रियप्राप्तिसुधावृष्टया दिएयाय विधिना कृता ।। ७३ ।।
निर्जनेऽपि निरालोके स्थितया प्रति सांप्रतम् ।
देवं भाग्योदयो नापि प्राप्त ज्योतिर्मया कृतम् ॥ ७४ ॥

१० काव्यमाला। मृत्युधियां(य) समाश्रित्य जाताहं निहिया भृशम् । न जाने केन पुण्येन पुनर्देवेन बोधिता ॥ ७५ ॥ जीयात्सार्थपति यात्तथा लाभान्वितास्सदा()। विक्रि(क)यार्थमिहानीतो दासोऽयं येन रूपवान् || ७६ ॥ कां(का) क्षतिश्चेन्मया दासो विक्रीतो बहुभिर्धनैः । वित्तं तद्धनिनां प्रोक्तं यत्स्वात्मार्थ प्रयुज्यते ॥ ७७ ॥ रक्षन्ति सततं रागहीना विवादिकं परम् । शरीरं द्रविणं सर्व प्रियाथै भुवि रागिणाम् ॥ ७८ ॥ धिताल्लोभान्धधिषणान्निन्याञ्जगति मानवान् । धनमेव प्रियं येषां न मुझेत्रीतिभाजनम् ॥ ७९ ॥ एवं विस्मयमापन्ना होत्फुल्लविलोचना । अमन्यत परं सौख्यं तदा सा नृपकन्यका ॥ १० ॥ प्रीत्यैव तन्मुखाम्भोज पश्यन्मुहुरुपागमत् । मूर्छा तत्संगमाहादलब्धसंज्ञाभवत्कचित् ॥ ८ ॥ यथाविन्दत सा बाला त्वद्वियोगातरा(ता)परा । सततं चिन्तयोपेता क्षणमेकं युगोपमम् ॥ ८२ ॥ तथा संप्राप्य दायतं कान्तं कमललोचनम् । निमेपमिव हर्षेण वर्ष भूपसुता तदा ॥ ८३ ॥ विश्वं मायामयो भावोयन्त्यो विभात्यजः । तस्मै नवनवाश्चैव(यैव)(१) विधये विधये नमः ॥ ८४ ॥ इति यवनभाषापारंगमपण्डितश्रीवरविरचिते क्थानौतुक एकादर्श यौनुरम् । द्वादश पौतुकम् । नोदेति रागिणं रागो दर्शनेनैव केवलम् । किं त्वयं जायते पुंसां श्रवणेनापि कुत्रचित् ।। १ ॥ श्रुतिरन्ध्रेण सद्रूपकथा यदि समागता । मनः सास्थ्यं तनुवलं तदैवोरकण्ठया हरेत् ॥ २ ॥ +-- ८१ १२ कौतुकम्] कथाकौतुकम् । नह्यन्यत्कर्म जानाति श्रवणं श्रवणं विना । श्रुत्यैव श्रुतवृत्तान्तं हृदयोद्वेगकारणम् ॥ ३ ॥ समयेऽसिानभूदेका कन्या देयाख्यवंशजा । सुकुमारानवद्यागी देशे तस्मिन्सुविश्रुता ॥ ४ ॥ तन्वी पूर्णेन्दुनयना नवयौवनशालिनी । मुक्तानुकारदशना पक्कबिम्बाधरा तथा ॥ ५ ॥ मध्येक्षामा स्वनानमा संत्रस्ता हरिणीक्षणा । श्रोणीभारलसद्गतिनिम्ननाभिपयोधरा ॥ ६ ॥ आसीच्छीलगुणौदार्ययुता परमसुन्दरी । कामं कामपताकेव भाविनी भुवि भामिनी ॥ ७ ॥ नित्यं सौधस्थिता बाला सवयोभिः समन्धिता । नापद्यदात्मनस्तुल्यं कंचिद्रूपादिभिर्गुणैः ॥ ८ ॥ समाकाथ तद्वृचं जनोद्गीतं समन्ततः । सापि तं द्रष्टुकामाभूदुत्कण्ठाकुलिताशया ॥९॥ स्थानेऽद्भुतं श्रुतं किंचिरस्तुतं सद्भिर्मुहुर्मुहुः । तदेव सहसा द्रष्टुमुत्कण्ठयति मानसम् ॥ १० ॥ भूपयित्वा()द(ब)तात्मानं भूषणैः प्रमदोत्तमा । परमद्धियुता मे(मि)समाययों तं निरीक्षितुम् ॥ ११ ॥ सर्वे गृहीतुकामास्तामासन मे(मिसर(प्रोवासिनः । नित्यं तद्रूपलावण्यसमावर्जितमानसाः ॥ १२ ॥ सहस्रमेकमुष्ट्राणां तथाश्वतरदन्तिनाम् । मवालमणिमुक्ताभिः काञ्चनेनायि पूरितम् ॥ १३ ॥ प्रासा तत्र समादाय रूपेणाप्रतिमं भुवि । येसोम(यूसूफ)नामधेयं तं क्रीतुकामापि साभवत् ॥ १४ ॥ नराणामथ नारीणां तदागमनकारणात् । सर्वत्र नगरे जातः पुनः कोलाहलो महान् ॥ १५ ॥ ११

८२
काव्यमाला ।
पप्रच्छागत्य तद्वाती लोकौघं चरवर्णिनी।
क्रियते स वणिग्दासः कुतोऽयमिति कथ्यताम् ॥ १६ ॥
संग्राले हाधुना हित्वा सर्व बन्धुजनादिकम् ।
श्रिया परमया युक्ता तद्रूपोत्कण्ठिताम्यहम् ॥ १७ ॥
यावत्तं दृष्टुकामाभूदबला समुपागता ।
यथा तेन जनेनासौ सोऽयमित्येव दर्शितः ॥ १८ ॥
अथ तं प्रथमं वीक्ष्य कान्तं कमललोचनम् ।
अनन्यसदृशो लोके रूपेणासीसुविस्मिता ॥ १९ ॥
मूर्छितेवापतभूमौ तमपूर्व विलोक्य सा।
लब्धसंज्ञाथ शनकैः प्रोवाच मधुराक्षरम् ॥ २० ॥
जाने जन्मसहस्राणि विधाय विधिवत्तपः ।
विधिना निर्मितो नूनं जयन्तो नाम विश्रुतः ॥ २१ ॥
विक्रमेणास्य तनयः कथं दासत्वमामुयात् ।
यद्यन्यदेवसंभूतो भवान्देवमुतः कथम् ॥ २२ ॥
सर्वसौख्ययुतं भूमौ नाकं हित्वावतिष्ठते ।
यदि गन्धर्वतनयः सोऽपि मेयप्रियः सदा ॥ २३ ॥
गौरवेण वचोऽप्येवं वदनाच्छूयते न ते ।
मन्ये मनीपया हित्वा विधाता तत्त्वपञ्चकम् ॥ २४ ॥
शरीरं तद्गुणेनैव रचितं केवलेन ते ।
अथ वा केन तपसा समाराध्य महेश्वरम् ॥ २५ ॥
त्वयाप्तमुत्तमं रूपं येनेदं मोहितं जगत् ।
अयं कस्यापि सद्वंशसमुत्पन्नः श्रियान्वितः ॥ २६ ॥
सुवृत्तः सुगुणानन्दो मुक्तामणिरिवोत्तमः ।
इति तस्या वचः श्रुत्वा प्रत्युवाच महामतिः ॥ २७ ॥
योगीव योगदृष्टया तां ज्ञानार्थो बोधयन्निव ।
नास्सिन्देवो न गन्धर्वो नासुरो न च पन्नगः ॥ २८ ॥

१२ कौतुकम् कथाकौतुकम् ।
पञ्चतत्त्वात्मकं विद्धि शरीरं मामकं शुभे।
नैतच्चित्रं विधे(?)लोके वस्तुरत्नान्यनेकशः ॥ २९ ॥
अत्यद्भुतानि सर्वत्र सन्ति केचिन्न तेप्वहम् ।
सैवं बुद्धिमतां बुद्धिनिश्रेयसकरी यया ॥३०॥
ध्यायन्ति सततं शंभुमनन्तं विश्वरूपिणम् ।
यदिदं दृश्यते सर्व नानाकौतुकसंयुतम् ॥ ३१ ॥
तद(वे)हि भवादशैं प्रतिबिम्बमिव स्थितम् ।
यथा किंचित्समालोक्य दर्पणे प्रतिबिम्बितम् ॥ ३२ ॥
मनो धावति तत्रैव कर्तुं तद्विनयं मुहुः ।
तत्रैव सकलं सुनु जगत्स्थावरजङ्गमम् ॥ ३३ ॥
दृष्ट्वा मायामयं शंभुं ध्यायन्त्येकं मनीषिणाम् ।
मानसं चेदरारोहे रूपदर्शनलालसम् ॥ ३४ ॥
पश्यैकं मरणं मत्तं हृदि देवे मनोरमम् ।
दृष्ट्वैव मामकं रूपं विनश्यत्किं सुखं तव ॥ ३१ ॥
स्थिरं सर्वगतं तमाच्छुभं सुनु विलोकय ।
इति तद्वचनं श्रुत्वा गतमोहेव साभवत् ॥ ३६ ॥
तत्क्षणात्तत्पदाम्भोज प्रणता(ना)म मुहुर्मुहुः ।
ततः सा गजरतानि तानि तां संपदां तथा ॥ ३७॥
विहायादाय कापायपट्टमेकं सुमध्यमा ।
भलभूपितसर्वाङ्गा बन्धुस्नेहविवर्जिता ॥ ३८ ॥
प्रवाजिनीव तपसे जगाम गहनं वनम् ।
कृच्छातिकृच्छ्धारार्कवतदूतमनोमला ॥ ३९ ॥
सर्वतीर्थावगाहेन शुद्धदेहाभवत्तदा ।
तथा नियमसंयुक्ता सामवद्वरवणिनी ॥ १० ॥
यथा विस्मयमापन्नाः पुरं सर्वे तपोधनाः ।
बोधयन्तः स्वमात्मानं श्रुत्वा तद्वृत्तमुत्तमम् ॥ ४१ ॥

८४
काव्यमाला।
स्तुवन्ततां वरारोहां तदा सन्मुनिपुंगवाः ।
मानसाद्य परं धैर्य शिखयाम्या मृगीदृशा ॥ ४२ ॥
धीरा नैव दृशं कर्तुं कर्मशक्तः कदाचन ।
सा चकार तपो येन जहारेन्द्रबलं महत् ॥ १३ ॥
न तत्किंचिद्भवेच्छतो वक्तुं वर्षशतैरपि ।
एवं हि रागिणां रागः कदाचित्सुकृतायते ॥ ४४ ॥
स एव मो(म्)ढमनसां कदाचिगुप्कृतायते ।
अथ तोम(तैमूसतनया भाग्यजाल सुविस्तृतम् ॥ ४५ ॥
तदादीर्घगुणं जात दैवाद्धंससुखाश्रयम् ।
जगच्छासनपट्ट तन्नाममुद्राश्चितं परम् ॥ ४६ ॥
तदेव शोभितं सम्यग्बभूवेदं समन्ततः ।
अधिगम्यैव तं कान्तं परप्रेमनिधि तदा ॥ ४७ ।।
रमणी साथ संसारचिन्ताविरहिताभवत् ।
गणयित्वाथ हर्षेण तदा वर्षदिनानि च ॥ ४८ ॥
सजीकृत्याशु कन्यासु तावन्त्येव मनस्विनी ।
नित्यं नवनवं वासो प्रथयन्मोचयन्नपि ॥ ४९ ॥
अहान्यगमयत्तस्य प्रीत्या परमया तदा ।
तथैवाशनपानादिपरिचर्यापरायणा ॥ १० ॥
तदा सत्यतया वाला निमेषमिव वासरम् ।
क्षणं सौधे स्थिता नूनं दयितेन क्षणं समम् ॥ ११ ॥
बहिरन्तः क्षणं मेने सुखं सा परमं तदा।
अवोचद्वसनं तेन प्रतिबद्धविमोचितम् ॥ १२ ॥
अयि वासो मया रम्यं किं नाप्तं तावकं वपुः ।
तथा सर्वाङ्गमालिङ्गय स्थीयते स्त्रं यथा त्वया ॥ १३ ॥
तथा तत्प्रेमलन्धाभूत्सततं सा वराहना ।
यथा मैच्छत्क्षणं स्थातुं तं विना शरणं कनिन् ॥ १४ ॥

१२ कौतुकम्]
कथाकीतुफम् ।
८५
मुश्चतीदं वपुच्छ(श्छा)या निशीथतमसान्विते ।
तल्लीना तस्य सा नित्यमनुगाभूदहनिशम् ॥ ५५ ॥
बद्धं यन्मृगशावाक्ष्या सुदृढं प्रेमबन्धनम् ।
तेन शाकं न तद्वक्तुं शक्तो लोकोऽस्ति कश्चन ॥ १६ ॥
एकदानीय तं बुधा निशान्त(?)लोकसुन्दरम् ।
अपृच्छजनवृत्तान्तं सा तदा भाषणोत्सुका ॥ १७ ॥
स तु तां प्रत्युवाचेदं क(ब)चः प्रहसिताननः ।
जन्मवृत्ति न तां नूनं पितरौ नैव वेश्यहम् ॥ १८ ॥
किंतु जानाम्यहं कूपचरितं परमाद्भुतम् ।
निःप्रकाशे निराहारस्तसिन्नासं दिनत्रयम् ॥ १९ ॥
चतुर्थेऽयुद्धृतं तस्माद्वणिजा पुण्यकर्मणा ।
तेनाहं तत्प्रसादेन प्राप्तोऽसि पदमुत्तमम् ॥ १० ॥
तन्मुखादथ श्रुत्वा तद्वचनं कर्कशं भृशम् ।
पुलकातितसर्वाङ्गा समभूत्प्रमदोत्तमा ॥ ६१ ॥
वेपमाना पतभूमौ क्षणासा वरवर्णिनी।
अधिगम्य शनैः संज्ञा शुशोच बहुशो बली ॥ १२ ॥
विलोक्य तां तथाभूतां पुनश्चिन्तान्वितां तदा ।
स्नेहान्धहृदया धात्री प्रोवाच करुणं वचः ॥ ६३॥
अपि कि मानसं सुभु वियोगविधुरं तव ।
चिन्ता कामवञ्चित्ते कामस्ते फलितोऽधुना ॥ ६ ॥
स्वयं सुन्दरि ते पूर्व शुप्फपत्रोपमं वपुः ।
आसीद्वियोगवातेन अमितं सर्वतोदिशम् ॥ १५ ॥
निपतत्स मुवं कापि तथैवाधोमुखं कचित् ।
तत्कथंचिस्थितं देवात्पुनः प्रासं दशान्तत(र)म् ॥ ६ ॥
किमेतदिति तद्वाक्यं समाकर्ण्य मनस्विनी ।
प्रत्युवाच गैला निःश्वमन्ती मुहुर्मुहुः ॥ १७ ॥

काव्यमाला। तत्कथं वक्ष्यते मातर्मयाप्तं दुःखमुत्तमम् । धन्या धारयितुं भूमिं मामेकामथापि तत् ॥ १८॥ धूलिवत्पतिता भूमौ चिरमासमसंशयम् । अकस्मात्सांप्रतं चिन्ता चक्रवातेन धूर्णिता ॥ १९ ॥ कथितं कूपवृत्तान्तं वल्लभं नाम नाधुना । समाकर्णापि में काचिद्वृत्ति वावशिष्यते ॥ ७० ॥ सन्तं मुहुर्मनोमित्रमानसं वेत्ति नापरा । यात्यस्मिन्सुखिते सौख्यं दुःखं दुःखान्वितेऽपि तम् ।। ७१ ॥ संबन्धं यन्मनोमित्रविप्रयोगेन(ण) रागिणः । सत्यं पश्यति तेनासौ गवाक्षेणैव तं मुहुः ॥ ७२ ॥ सत्यं तत्परमं ख्यातं.""मज्जोनलोलयोः (१)। न शक्यते तथा वक्तुं यथा प्रकृतिजीवयोः ।। ७३ ॥ न खारिः स्वभुजे यावत्सिरार्थ निहितं मया । मजोनोऽस्य कराचावहु सुनाव शोणितम् ॥ ७४ ॥ प्रकृतिः पीडिता चेत्स्याजीवोऽप्येवं यथातुरः । स यदा चिन्तयोद्भूतः तनुः कार्यमुपेत्यलम् ॥ ७९ ॥ यद्रागाहृदयो नरो वायुसमीरितम् । तद्वस्त्रात्पतितं रेणुं सहते नैव जातुचित् ।। ७६ ।। अनुभूतां पुराणेन क्षयावस्थां कथान्तरे । कथितामधुना मातः श्रुत्वा दुःखाकुलास्य(स्म्य)तः ॥ ७७ ॥ इति श्रुत्वा वचन्तस्य धात्री प्रोवाच सा वरम् । सत्यं चिन्तान्वितं चित्तं नित्यं मा कुरु सुन्दरी ॥ ८ ॥ सदये हृदये धैर्य धृत्वा हित्वाथ तां पुनः । चिन्ता तद्वचनाद्वाला जातु(त)हभिवत्तदा ।। ७९ ॥ तद्रागेना(णा)मवद्भूपसुतानन्दयता कचित् । कचिदुःखान्वितः किंचित्स साधुन विवेद्र तत् ।। ८० ॥ इति यवनभापापारंगमपण्डितश्रीवरविरचिते क्यारीतुके द्वाददर्श कौतुकम् ।

१३ कौतुकम्] कथाकौतुकम् ।
प्रयोदश कौतुकम् ।
स हि धत्ते नृलोकेऽस्मिनात्मारामः परिनसन् ।
हितार्थ हृदयं योपिचिन्तासक्तिविवर्जितः ।।१।।
विज्ञाय मानसं तस्य प्रेमहीनं तदाबला ।
स्वात्मनोऽपि तथा स्नेहयुतं विसयमाप सा ॥ २ ॥
न मया भाषिते किंचिन्मुनिवन्मौनमास्थितः ।
निःस्पृहोऽयं नृपसुता किं करोमीत्यचिन्तयत् ॥ ३॥
केनोपायेन वशतामानु(न)यिष्याम्यमं(मुं) तदा ।
यथो(3)वायं भवेन्नित्यं प्रणयकारकः ॥ ४ ॥
अद्यैनं दयितं दासं कोशाध्यक्षं करोमि चेत् ।
जायन्तेऽस्य ततः सर्वे वैरिणः किं सुखं मम ॥ ५ ॥
किं वा संयोजयाम्येनं कर्मण्यन्यत्र कुत्रचित् ।
तदास्य दुर्लभं मन्ये तदासक्तस्य दर्शनम् ॥ ६ ॥
किं तत्स्वल्पं भवेत्कार्य यस्मिन्संस्थापितः सदा ।
प्रयातेव प्रभातेऽसौ सायं प्रत्यागमिष्यति ॥ ७ ॥
पश्याम्येनं यथानित्यं ममैव निकटस्थितः ।
यथायमधुना वृद्धिस्तादृशी का विधीयताम् ॥८॥
बहुधाथ विमृश्यैवं भूपालतनया शुभम् ।
ज्ञात्वा तदेव बुद्ध्या तं पशुपालं व्यधात्तदा ॥ ९ ॥
स्थितेऽप्यत्यद्भुते नेहं तत्कवि) नियोजनम् ।
तस्य सर्वे तिरस्कारममन्यन्त पुरौकसः ॥ १०॥
योग्यं तस्याभवत्कर्म तदेव हि करोत्यलम् ।
पशुमावसमापन्नरक्षा देयांशसमवाम् ॥ ११ ॥
सर्वदेवशरीरेभ्यः प्रगृह्यांशं पृथक्पृथक् ।
विहितो वेधसा सोऽयं पाशुपालेऽमवत्ततः ॥ १२ ॥
समादायाथ मेपादीन्पशूनेवं तदाज्ञया ।
निदाघदहनं दाचं पालयन्त्यचरचदा ॥ १३ ॥

काव्यमाला।
प्रातर्गच्छन्गृहीत्वा तान्सायं प्रत्यानयनसौ ।
तदग्रं वं वपू रम्यं त्रिसंध्यं दर्शयन्सुदा ॥ १४
तत्कर्मनिरतो भूत्वा सवयोभिः समन्वितः ।
दिनान्यगमयत्तस्तै विरहनसंभवैः ॥ १५ ॥
मेपराश्यन्तरस्थोऽसौ बली बलवतां वरः ।
प्रतापोदयदुर्दशों रेजे तेजोनिधिर्यथा ॥ १६ ॥
नित्यं तदर्शनालापसमुत्कण्ठितमानसा ।
सा यथाभूत्तथैवासी विरक्तहृदयः परम् ॥ १७ ॥
यथा यथा वीक्ष्यमाणा तदीयाननपङ्कजम् ।
प्रीत्या तथा तथैवायं लजानम्रमुखोऽभवत् ।। १८ ॥
किंचित्कुतूहलेनेयं प्रादुकामापि कामिनी ।
यावत्तावन्महाबुद्धिः सोऽपि मौनं समाश्रितः ॥ १९ ॥
यावदुक्ते निलम्बिन्या त्वयाने स्थीयतामिति ।
तावद्भयेन धीरोऽसौ ययौ पश्चाच्छनैः शनैः ॥ २०॥
यथा तत्प्रेमविवशा सततं साश्रुलोचना !
तथैव हि महाबुद्धिर्विरकोऽसौ सुरूपवान् ॥ २१ ॥
शाबाशया तदा रागविहीन तनुमध्यमा ।
चक्रन्द चिन्तयोदता कुरीव दिवानिशम् ॥ २२ ॥
नावशिष्टं च तस्किचिदुःखं बालमृगीहशा ।
तया नैवानुभूतं यत्तहि योगोत्थितं तदा ॥ २३ ॥
ततः सा विमनस्केव जहारेह प्रसादनम् ।
नाकरोत्केशरचना नाञ्जनं नयनेऽञ्जयत् ॥ २४ ॥
नापि फेलिकलां काचित्सखीभिः सहसाकरोत् ।
नित्यं सुमध्यमानल्पविकल्पनिरताभवत् ॥ २५ ॥
इति चिन्तातुरां दृष्ट्वा पुनस्तां हरिणेक्षणीम् ।
बेहाहृदया धात्री प्रोवाच मधुराक्षरग ॥ २६ ॥

१३ कौतुकम्] कथाकौतुकम् । किंतु वाद्य विशालाक्षि मनश्चिन्तान्वितं पुनः । कामं कान्तं प्रियं प्राप्य न शोकं कर्तुमर्हसि ॥ २७ ॥ इति तद्वचनं श्रुत्या भूपालतनयावदत् । न तदाप्तं मया मातः सुखं यन्मनसेप्सितम् ॥ २८ ॥ सत्यं वेत्ति जनोऽयं मां प्राप्तकामार्थहारिताम् । न तु तन्मानसं ज्ञातुं का शक्तो वा पराशयम् ॥ २९ ॥ दुर्लभो हि लोकेऽस्मिन्नरो नरशिरोमणिः । गूढदुःखातुरं सम्यग्वेत्ति यः परमानसम् ।। ३० ॥ न जाने कर्मणा केन विपरीतेन मे विधिः । नित्यं वैरपरो यत्र जातं भन्मोद्यमं मनः ॥ ३१॥ कामेनाप्तवरं तावचिन्तासीत्केवलोपमे । अधुनाधिगते नैव जाता शतगुणाशये ॥ ३२ ॥ न हि शक्तां स्मितां वक्तुं वृथां कान्तवियोगजाम् । प्रश्नैरेवंविधैर्मातः पीडया मां मुहुर्मुहुः ॥ ३३ ॥ इत्यं निशम्य तद्वाक्यं तथान्यत्र तयेरितम् । गूढार्थमपि तजातं प्रकटं जनसंसदि ॥ ३४ ॥ तदन्तं तं समाकर्ण्य तच्छिन्द्राद्धमानसः । जहास भूपतनया तत्रान्तःपुरयोपितः ॥ ३५ ॥ हा धिग्वुद्धिमिमामस्या विपरीतां विमुच्य या । कान्तं खं भूपति दाससमासक्तमनोरथा ॥ ३६॥ केयं भूपसुता शुद्धकुला लावण्यशालिनी । क चाह मृतको ज्ञातवंशः परवशः सदा ।। ३७ ।। अविचार्य कृतं कार्यमनायें मुग्धयानया। व्यधाकोऽपि न वामाक्षि प्रत्ययं येन सांप्रतम् ॥ ३८ ॥ इति श्रुत्वापवादं तं सपत्नीभिः समीरितम् । दासरूपानभिज्ञाभिः चिन्तामापहरत्ययाम् ॥ ३९ ॥ :

९०
काव्यमाला।
पुरा लोकापवादेन दुनिवारण दूपितः ।
स हि रामो गुणारामः स रामो धर्मतत्परः ॥ १० ॥
काहं वराका कृपणा निन्द्या जगति नित्यशः।
किंतु शक्कासि तामद्य बुच्या नाशयितुं तथा
विधिरेप विधातव्यो निशान्ते वरया मया ।
पूर्वमाहूयते सर्वा निशान्तवरयोषितः ॥ ४२ ॥
तदने व्यवहारार्थ ततः किंचित्फलादिकम् ।
निधीयतेऽथवानीकरसं भोजनमुत्तमम् ।। ४३ ॥
ततस्तत्परिचर्याय भृत्यकोऽयं विसृज्यते ।
दृष्टेऽसिन्योषितः सर्वा यान्ति मोहवशं तथा ॥ ४ ॥
उपायेनामुना नूनं विहितेन हितेन या ।
आयुषो नाशमायाति मृत्योत्पन्नं ममाखिलम् ॥ ४५ ॥
इति कृत्वा मतिं भूपतनया तत्तथाकरोत् ।
पूर्वमुरिक काण्या(1) तदने निदधे स्वयम् ॥ ४६॥
शकलानि शलाकामिवित्तानि मृगीदृशः।
कुर्वन्ति स तया तावत्सेवार्थ प्रेषितस्ततः ॥ ४७ ॥
सशरीरमिवानगं तं विलोक्य गतं पुरः ।
मोहिताश्चिच्छिदुस्ताभिः स्वहस्तावेव योपितः ॥ ४८ ॥
तद्भणाकानि मोहेन पुरा जातानि यान्यलम् ।
अथ तान्येव हस्तस्थलेखालक्ष्येण लक्ष्यते ॥ ४९॥
एवं विसयमापन्नास्तद्रूपाकृष्टमानसाः ।
विजहुः प्रेमसंभूतमयं सौम्यास्तमगनाः ॥१०॥
दर्शदर्श यथा नित्यं साभवत्प्रेमविहला ।
क्षणमेकं विलोक्यैनं तथैवैताः सुलोचनाः ॥ ११ ॥
विहायापृथशो बुद्ध्या पुनर्भूपालनन्दिनी ।
तदासत्ताशया बाला समभृत्सा यथा पुरा ॥ १२ ॥

१३ कौतुकम्]
कथाकौतुकम् ।
९१
कचित्सानि सौधेऽपि सभायां विजने कचित् ।
स तदा दूयमानोऽपि नोपायातस्तदन्तिकम् ॥ १३ ॥
ज्ञाताशया तदा प्रेमविहीन तनुमध्यमा।
बहुशश्चिन्तयामास वशीकर्तुममुं पुरः ।। ५४ ॥
यथैक मन्दिरारूढं रचयामासम (तद्दु)तम् ।
सुचारुकारुभिः कर्म विश्वकर्मानुकारिभिः ॥ ५५ ॥
तदाज्ञया विमुश्या(ज्या)न्यजनालेख्यं मनोरमम् ।
यस्मिंश्चित्रद्वयं चित्रं कृतं चित्रकरैः परम् ॥ १६ ॥
विरक्तोऽस्याः स योसोभ(गूसुफोनामधेयोऽतिरूपवान् ।
सा च भूपसुताचार्यपरा तद्विरहातुरा ॥ १७ ॥
कृत्वा वासगृह सज्ज तूर्णं तचित्रसंयुतम् ।
उपायेनाथ तं तत्र निससर्ज नृपात्मजा ॥ ५८ ॥
किं वावेक्ष्य तदालेख्यं मनो यास्यति मार्दवम् ।
इत्याशया विसृज्यैनं पूर्वं तत्र सुमध्यमा ॥ ५९ ।।
स्वयमप्यागतं पश्चाजनैः सा प्रमदोत्तमा ।
अविज्ञाताशयं तस्याः सत्यधर्मपरायणम् ।। ६० ॥
प्रविष्ट मन्दिरे तसिंस्तमेवानुविवेश सा ।
चित्रं दृष्ट्वाद्भुतं तेन स यावद्रीडितोऽभवत् ॥११॥
विवृत्तवदना तावद्वचो भूपसुतावदत् ।
अयि जीवेश जीवाशा जीवलोके ममापरा ॥ १२॥
काचिन्नवास्ति कान्तं त्वां विना राजीवलोचनम् ।
अयि प्रणयिनां नित्यं परोपकृतितत्परः ॥ १३ ॥
वृथा मनोरमं कर्तुं कुशला न मवादृशः ।
द्वयं रूपान्वितं योग्यं लावण्यमपि मार्दवम् ॥ १४॥
तद्भतेन गृहीतं किं त्वया हृदि पराकमम् ।
त्वयि तद्विरहाक्रान्तां त्वत्प्राप्त्याशाश्रयां पराम् ॥ १५ ॥

९२
काव्यमाला।
पातयित्वाबला लोके जायतेऽपयशस्तव ।
जातं वचिन्तया चित्तं शीतलं सर्वतो मम ॥६६॥
जाने न हि कथं श्वासा दाहिनश्वाश्रुविन्दवः ।
अयि स्वद्विरही नैव शतच्छिद्रान्वितं मनः ।। ६७ ]
चद संदयिष्यामि विदार्याय निजोदरम् ।
अयि नाथानुभूतं यत्तदुःखं तद्वियोगजम् ॥ ६८ ।।
न तदद्य मया शक्यं वक्तं वर्षशतैरपि
किंतु तत्मीतये रम्यं वेश्मेदं विहितं मया ॥१९॥
ईदृचित्रान्वितं सम्यग्विलोकयितुमर्हसि ।
अभिधायेति वाक्यं तत्प्रेमनिर्भरमानसम् ॥ ७० ॥
समायाता निरोढुं तं बालेनैवाबलान्वितम् ।
सोऽपि तं हृदयं ज्ञात्वा निकामं कामपीडितम् ॥ ७१ ।।
तामनाहत्य वेगेन विनिर्यातो बहिः स्थितः ।
भयेनैवापयान्तं तमनुत्यावभामिनी ॥ ७२ ॥
पश्चाजग्राह राणेन(गेण) तूर्ण चीनांशुकम्बले ।
बालेनाकृष्यमाणं तद्वसनं तस्य चाशुभम् ।। ७३ ॥
शिरोधरायाः प्राग्भागे व्यदरत्तनृपात्मजा ।
अपयातुं तथैवा, जयेनैव नराधिपम् ॥ ४ ॥
बहुशोऽतर्जयकुद्धा पश्चाद्भूपालनन्दिनी ।
याहि याहि कुतो मूढ गम्यते कर्म तावकम् ॥ ७ ॥
कथयित्वा नृपाने त्वां हनिष्याम्येवमप्रियम् ।
तर्जयन्निति साजेजमे(जीजमि)सफार्थमुपागमत् ॥ ७९ ॥
गलिताश्रुकणा मन्युललितालकसंततिः ।
सोऽपि तां दयितां वीक्ष्य तथारूपामुपागताम् ॥ ७ ॥
विसायाविष्टहृदयः सान्त्वयनिदमनवीन ।
अयि सुन्दरि पद्वैरियोग्येयं दुर्दशा कथम् ॥ ७८ ॥

१३
१३ कौतुकम्]
कथाकौतुकम् ।
गृहीतैवं त्वयानन्तरोपाकुलमनीपया ।
मद्यलोकेन केनापि खण्डितं चन्मनस्तव ।। ७९॥
तदेव वद सुश्रोणि प्रसन्नं क्रियते मया ।
मन्युना वा परस्यापि कस्यचिद्रुत भामिनि ॥ ८॥
विमनस्कासि तं हर्तुं शक्तोऽस्मि तव सांप्रतम् ।
इत्थं निशम्य तद्वाक्यं प्रत्याहैनं नृपात्मना ।। ८१ ।।
क्रोधरक्तक्षणामुञ्चत्कदुष्णोच्छाससंततिम् ।
त्वदीयेन व्यलीकेन न दूये पार्थिवोत्तम ।। ८२ ।।
को वा कोपयितुं शक्तो मनो में प्राकृतो जनः ।
किं तु कर्म विधायकं दूये मुग्धधिया खयम् ।। ८३ ॥
अयोग्यमेव वक्तुं तच्छ्रुत्वा भूपाल क्षम्यताम् ।
योऽयं दासो मया क्रीतो नरेन्द्र बहुभिर्धनैः ॥ ८४ ॥
किं त्वभीकोतिक:(१) सोऽयं जातो मां प्रति पार्थिव ।
जातासि चिन्तया यावद्भूपाल लेख्यपुत्रिका ॥ ८५ ॥
सोऽपि तावन्निरोद्धं मां बलेन समुपागतः ।
तमागतं समालोक्य भृशं कामगतं वशम् ।। ८६ ।।
भयेनोद्धान्तहृदया संजाताहं तदा नृप ।
उपायो नेक्षितस्तस्मिन्विना युद्धं नखानखि ॥ ८७ ॥
विधाय तत्वधर्मोऽयं कथंचिद्रक्षितो मया ।
इति राजीवचः श्रुत्वा स भूपोऽमर्षपरितः ॥ ८८ ॥
तूर्णमानीय तं दासं क्रुधा कारागृहे न्यधात् ।
सह बन्दीकृतैस्तत्र बहुभिः कृतसंस्थितिः ।। ८९ ॥
तदामन्यत तदुःखं न किंचिद्धर्मतत्परः ।
किं तु तत्लेहपाशेन सैव भूपालनन्दिनी ॥ ९ ॥
वन्दिता चिन्तयोद्भूता कारावेश्मगताभवत् ।
एवं निवसतस्तस्य तत्र कारागृहे पुनः ॥ ९१ ॥

९४
काव्यमाला।
व्यतीयुनिर्विकारस्य दश वर्षाणि हेलया।
आस्तामासवशाली यस्तत्रैव च पुरोगवः ॥ ९२ ॥
उभौ बन्दीकृतौ राजा पूर्व क्रोधान्धचेतसा ।
एकोऽपश्यत्तयोः स्वप्ने स्वमात्मानं नृपान्तिके ॥ ९३ ॥
शीधुमात्रकर सम्यग्रचितापानविभ्रमम् ।
तथा न भाजनं साधु व्यञ्जनं मस्तके धृतम् ॥ ९४ ॥
निपतद्ध्वान्देन भक्षितं दृष्टवान्परः ।
किमेतदिति संभ्रान्तहृदयौ तौ मुहुर्मुहुः ॥ ९९ ॥
पप्रच्छ तज्जनान्सन्किारागृहगतानपि ।
कर्तुं तन्निश्चयं कश्चिन्नाभूच्छक्तस्तदापरः ।। ९६ ॥
किं तु योसोभ(यूसुफ)नामासौ प्रोदाचार्थविचक्षणः ।
स्वने येनैव भूभर्तुः पानलीला कृताधुना ॥९७ ॥
स्वभैरहोभिर्भगवच्छालीयत्तं समश्नुते ।
येनान्नं भक्षितं मूर्ध्नि वायसैः प्रेक्षितं परम् ॥ ९८ ॥
सं याति पञ्चतां शीघ्रं शिलासारण सांप्रतम् ।
यथैव स महाबुद्धिः कृतवानिलयं पुनः ॥ ९९ ॥
तथैवाय गतं ताभ्यां फलं स्वप्नसमुद्भवम् ।
एकोऽभून्मे(निमोस्रभूभर्तुः पानलीलासु दीक्षितः ॥ १० ॥
एकदा मे(मि)स्रभूपालः स्वमेऽपश्यत्स्वयं महान् ।
स पुष्टं महिषीवृन्दं भक्षयन्तं परं कृशम् ॥ १०१ ॥
प्रबुद्धोऽथ समानीय सचिवान्स महीपतिः ।
किमेतदिति पृच्छन्तमूचुस्ते न हि किंचन ॥ १०२ ॥
अब्रवीत्सोऽथ भगवच्छाली यस्तत्र भूपतिम् ।
दत्त्वा जानुद्वयं भूमौ प्राञ्जलि तकन्धरः ॥ १०३ ॥
योऽयं दासो महाबुद्धिों(जालेखाजेजमे(जीजमिस्त्रयोः।
कारागृहगतो राजन्सायं स्वमार्यपारगः ॥ १०४ ॥

१३ कौतुकम्] कथाकौतुकम् । पूर्व मयापि भूपालबन्दीवेश्मनि बीक्षितः । स्वप्नस्तेन यदैवोक्तं तदाप्तं फलमद्भुतम् ॥ १०५ ।। इति श्रुत्वा स भूपालः समानीयाशुभं(तं) ततः । स्वप्नार्थ परिपप्रच्छ समुत्कण्ठितमानसः ॥ १० ॥ शृणुप्वा(चावहितो राजन्कथयामि समासतः । स्वमार्थ सुखदं लोके यथा बुद्धिस्तवाज्ञया ॥ १०७ ॥ अस्य(द्य)प्रभृति लोकेन्द्र सप्त वर्षाणि मेदिनी । मासाश्च तावतः सर्वमस्य पूर्णा भविष्यति ॥ १०८ ॥ पश्चादुर्भिक्षपीडाजा बाद(प)न्ते सकलं जगत् । कार्य लोकहितार्थाय सर्वान्नग्रहणं विभो ॥ १०९ ॥ इत्याकर्ण्य धराधीशो ज्ञात्वा सत्यं परस्परम् । तमेव कल्पयामास सर्वान्नग्रहणे तदा ॥ ११ ॥ अथ भूपाज्ञया सोऽपि व्यवहारविचक्षणः । चकार सर्वतो खन्नाशीन्पर्वतसंनिभान् ॥ १११ ॥ एवं निष्पादितं कार्य यथा तेन विधेर्वशात् । भूपतिः सचिवश्चोभौ यातौ नामावशेषताम् ॥ ११२ ॥ ततः प्रकृतयः सर्वा अनाथास्तत्र कातराः । चकुस्तमेव योसोभ(यूसुफ)नामथेयं महीपतिम् ॥ ११ ॥ अधिगम्याथ सद्भाग्यै राज्यं राजपराक्रमः । विधिवत्पालयामास प्रजा धर्मेण धर्मवित् ॥ ११४ ॥ नित्यं प्रमुदिता लोके आसंस्तलिन्हितेश्वरे । विना तद्विरहाक्रान्ततनुतां नृपकन्यकाम् ।। ११५ ॥ यन्नते सस्य भात्येव याता बालमृगे ततः(४) । अहो तद्विप्रयोगान्धदृष्टिः सैवाभवत्तदा ॥ ११६ ॥ १. 'क्षजाः पीटा' इति भवेत,

१६
काव्यमाला।
अवश्यंभाविनोऽर्थस्य कोऽन्यथाकर्तुमीश्वरः ।
प्रासो येन स तदुःखं तथा प्रीतोऽपि पार्थिवः ।। ११७ ॥
इति यवनशास्त्रपारंगमपण्डितश्रीवरविरचिते कथाकौतुके प्रयोदशं कौतुफम् ।
चतुर्थशं कौनुकम् ।
एकदा शासतस्तस्य धरणी तत्र सोदराः ।
मे(मि)समर्थिनः प्राप्ता भृशं दुर्भिक्षपीडिताः ॥ १॥
दृष्ट्वा तान्दूरतः सर्वान्परिज्ञाय च भूपतिः ।
पप्रच्छ विनयानमः के भवन्तोऽपि दुर्बलाः ।। २ ।।
प्रत्यूचुत्ते महात्मानं वयं सर्वे सहोदराः ।
त्यक्त्वा स्वविषयं प्राप्तास्त्वत्सकाशं क्षुधातुराः ॥ ३ ॥
इत्याकये महीपालः पुनः पप्रच्छ तब तान् ।
किनामधेयो जनको भवतां विषयोऽपि वा ॥ ४ ॥
कनानघोपो याकोभ(याकूब)नामा ख्यातः पितास्ति नः ।
योसोभाग्य(यूसुफाख्योमुवोत्पन्नदुःखान्ततनयोऽपि सन् ॥६
अथ वृत्तं पुरावृत्तं श्रुत्वा सर्व महीपतिः ।
वस्त्रमेक स्वकं दत्त्वा दानकार्य महामनाः ॥६॥
प्रत्येकसनभारं च निधानं स्वर्णसंस्कृतम् ।
गुप्तं निधाय तन्मध्ये विससर्ज सु(स) सान्गृहान् ॥ ७ ॥
यथा यथा समीपत्वे प्राप्तास्ते नृपपूजिताः ।
तथा तथा पिताकसात्तेपामजनि हर्षितः ॥ ८ ॥
तस्याप्रती विहायैवं सकलं वसनादिकम् ।
तच्छशंसुर्महात्मानं नृपधर्मपरायणम् ॥ ९ ॥
यावदनन्धि वसनं तपित्रा स्वयमद्भुतम् ।
आविर्षभूव ज्योतिस्तस्पर्शेनैवास्य चक्षुषोः ॥ १० ॥
प्राप्तालोकः स याकोम(यायानामधेयोऽतिशोमनः ।
पुनर्जातमिवात्मानममन्यत महीपतिः ॥ ११ ॥

४ कोतुकम्] कथाकौतुकम् ।
संपातेऽथ प्रकाशोऽसौ विसायाविष्टमानसः ।
समाहूयात्रवीत्सर्वान्सुतान्वन्धूंश्च तत्क्षणम् ॥ १२ ॥
अहो कि विधिमायेयं क्षणानार्थप्रदर्शिनी ।
किंवा भाग्योदयो मेऽद्य पश्यामि यदिदं पुनः ॥ १३ ॥
योसौभाग्य(यूसुफाख्य)सुतोत्पन्नविरहान्धीकृतं पुरा ।
नेत्रद्वन्द्वममूर्तिक वा वसनं तस्य सांप्रतम् ॥ १४ ॥
यले कृतेऽपि नैर्मल्यमगायेनैव जातुचित् ।
अङ्कुशस्पर्शमात्रेण तन्मेऽद्यैव प्रकाशितम् ॥ १५ ॥
इति तद्वचनं श्रुत्वा वान्धवास्तनयास्तथा ।
स्तुवन्तो विधिवैचित्र्यं बभूवुहएमानसाः ॥ १६ ॥
अथ याकोभ(याव)नामासौ लयाविद्धः सहात्मजः ।
स्वयं मे(मि)साधिपं द्रष्टुमानगाम महीमतिः ॥ १७ ॥
स मे(मि)सरं समासाध समासीनं च भूपतिम् ।
दृष्ट्वा हृष्टमनास्तसौ पद्धाञ्जलिपुटः क्षणम् ॥१८॥
ततः स भूपतिर्देवा ननकं खं चिरायुपम् ।
भद्रासनात्समुत्थाय प्रणनाम मुहुर्मुहुः ।। १९ ॥
दण्डवत्पतितं भूमौ मुखं मुसनिधि पिता ।
तदेतदर्शनानन्दगताशेपपरिश्रमः ॥ २० ॥
पृद्धोऽमन्यत लोकं सं सद्भाग्योदयसंयुतम् ।
अथ पितृनिदेशको भ्रातृभिः परिवारितः ॥ २१ ॥
पालयामास विधिवत्मजा धर्मेण भूपतिः ।
ततः सा राजतनया जो(जोलेवानाम विधुता ॥ २२ ॥
तरुणी तद्वियोगान्धर्विद्धत्यमागता ।
समुपेत्य सभावार दुःसगद्दया गिरा ॥ २६ ॥
साप्पायुपूर्णनयना व्यानदार मिताक्षरम् ।
अहो माग्यविदीनाहमेका जगनि सांप्रतम् ॥ २३ ॥

२८
काव्यमाला।
इमामवस्था संप्राप्तां न मामवति यन्नृपः ।
त्वयि धर्मपरे राज्ञि प्रजानन्दकरे परम् ॥ २५ ॥
एका हि दुःखिता चेत्स्सामयशः कस्स सांप्रतम् ।
तद्यशो रक्ष भूपाल लोकद्वयहितावहम् ।। २६ ॥
दीनानाथपरित्राणं धर्म एव महीक्षिताम् ।
इति तद्वचनं श्रुत्वा सद्यः सर्वे महीपतिम् ॥ २७ ॥
प्रोचुः प्राञ्जलयो राजन्वृणीष्वेमां सुमध्यमाम् ।
निशम्य मन्त्रिवाक्यं तद्राजा सितमुखोऽवदत् ।। २८ ॥
क्केयं वृद्धान्धनयना व चाहं तरुणः सुदृक् ।
सख्यं हि समयोः प्रोक्तं न हीनोत्तमयोः कचित् ॥ २९ ॥
विपरीतं तु यः कुर्यात्स यात्येवोपहासताम् ।
इत्थं वदति भूपाले तावत्सापि सुमध्यमा ॥३०॥
व्याजहार वियोगेन प्राप्तास्मीमां दशां तव ।
प्रतीतिश्चेन्न ते राजन्स्त्रीणां चञ्चलचेतसाम् ॥ ११ ॥
सत्यं तदपि मच्चित्तपरीक्षां कुरु सांप्रतम् ।
यदि सादिसहसेपु गच्छत्सु पुरतो मम ॥ ३२ ॥
वृणीवेति भवद्वाहवल्गरमान्वितं मनः ।
इत्यं निशम्य भूपालः सर्व चके समाहितः ।। ३३ ॥
अग्रहीत्सापि तद्वाजिवल्गामवनिपात्मजा ।
पप्रच्छ तां नृपो बालां भूपते ज्ञातमे)त्कथम् ॥ ३४ ॥
संलमा हृदये राजस्ववाजिक्रमसंततिः।
ज्ञात्वा प्रेमयुतं चित्तं वित्तं वद्विपयीकृतम् ॥ ३५ ॥
मानयन्मानिनी राजा व्याजहार मिताननः।
वरं वरयं वामोरु संतुष्टं मम मानसम् ।। १६ ॥
एतावदेव विवृतं रक्ष मां शरणागतम् ।
बालोऽहं भवती वृद्धा न चेदेव याने ॥ ३७ ॥

९९
१४ कौतुकम्]
कयाकौतुकम् ।
अधुनैव गृहीतुं त्वां पतनोत्कण्ठितं मनः ।
यद्येवं यौवनं याचे शंभु भूपाल तेऽप्रतः ॥ ३८ ॥
स मे दास्यति तन्नूनमनाथगतिरीश्वरः ।
ओमित्याकर्ण्य तद्वाक्यं संतुष्टा नृपनन्दिनी ।। ३९ ॥
अस्तौपीत्पश्यतां तेषां सत्यानां परमेश्वरम् ।
नमः शिवाय शुद्धाय प्रपन्नाभयदायिने ॥ ४०॥
अष्टमेयानुभावाय पराय परमात्मने ।
नमो नाथगतित्राणकडे सद्भयहारिणे ॥४१॥
चन्दामौलये देवदेवायोरगहारिणे ।
दिगम्बराय नेत्रोद्भवतिसूर्येन्दुवर्चसे ॥ ४२ ॥
संपदा प्रभवे भक्तभक्तशोकहराय च।
नमोऽनन्तस्वरूपाय धर्माधर्मकसाक्षिणे ॥ ४३ ॥
गतिमेवंविधा प्राप्तां प्रपन्नां पाहि मां प्रभो।
इत्यभिष्ट्य भूपालपुत्री पशुपति विभुम् ॥ ४४ ॥
तब्धानानन्दसंपूर्ण चित्तवृत्तिरभूक्षणम् ।
ततः प्रादुरभूद्वाणी गगनासिद्धिदायिनी ॥ १५॥
उत्तिष्ठोत्तिष्ठ सुनु त्वं प्रार्थय खेप्सितं वरम् ।
प्रसन्नो भगवान्छेभुर्देवदेवो जगत्पतिः ॥ १६ ॥
यत्मार्थ्यतेऽधुना तूर्णं तद्ददाति महेश्वरः ।
इति श्रुत्वा वचो दिव्यं संतुष्टा पार्थिवात्मजा ॥ १७ ॥
यौवनं प्रार्थयामास विषयासक्तधीः पुनः ।
दत्तं ते यौवन सु शंभुनानायबन्धुना ॥ १८ ॥
रमणेनाधुना साध यथेष्टं मुखिता भय ।
किं तु शान्ते महाकल्ये स्वमात्मानं महेश्वरः ॥ ४९ ॥
उपाविशति लोकानां कर्तुं कर्मविनिश्चयम् ।
तथाभूतानि सर्वाणि तरुणानि समन्ततः ॥१०॥

१००
काव्यमाला।
संभवन्ति त्वमेवैका वृद्धा तेषु सुमध्यमे ।
सुखं दुःखमयं ज्ञात्वा पर्यन्ते संशयं परम् ॥ ११ ॥
कर्तव्यमुचितं सुभु कर्तव्यमधुना द्वयम् ।
एवमेतद्भवे तावद्यौवनं मे प्रदीयताम् ॥ १२ ॥
न शक्यते पुनः सोढुं दुःसहां विरहव्यथाम् ।
एवं सा भूपतेः कन्या जराजीर्णापि तत्क्षणम् ॥ १३ ॥
संजातापूर्वतारुण्यशालिनी प्रमदोत्तमा ।
तदद्भुतं विधेः कर्म शीलं धर्म च सुभ्रवः ॥ १४ ॥
प्रशंसन्तो महात्मानः सर्वे प्रमुदिता जनाः ।
अथ भूमिपतिर्लब्धप्रतीतिर्हष्टमानसः ॥ ५५ ॥
प्रगृह्य पाणिना पाणिं तस्या बालमृगीदृशः ।
सुरसमोपमं श्रीमत्कृतकौतुकमङ्गलम् ।। १६ ॥
गीतवादिनसंजुष्टं प्राविशदानमण्डलम् ।
मेने कृतार्थमात्मानं सदा भूमिपतिस्तदा ॥ १७ ॥
सापि तं रमण श्रेष्ठं प्राप्य भूपालनन्दिनी ।
अमन्यतैकमात्मानं लोके जन्मभृतां वरम् ॥ ५८ ।।
नित्यनूतनप्रेमाहृदयौ दम्पती भृशम् ।
चक्रतुर्विविधाः क्रीडा नानोपवनभूमिपु ॥ ५९ ॥
यथा विरहजं दुःखं न कश्चिच्छक्तिमानभूत् ।
वक्तुं संयोगसंभूतं सुखं लोके तथा तयोः ॥ ६ ॥
वियोग संनिक च द्वयं कर्तुं य ईश्वरः ।
तरी नवनवाश्चर्यनिधये विधये नमः ॥११॥
इति यवनशास्त्रपारंगमपण्डितनीध(बोरविरचिते क्भातुके चतुर्दश कोनुकम् ।
पमदश कौतुकम् ।
अभिधाय कथामेतां शृङ्गारद्विरसाहिताम् ।
अधुना वक्ष्यते शान्तो लोफद्वयहितावहः ॥१॥

6682-
१५ कौतुकम्] कथाकौतुकम् ।
असारे जीवलोकेऽसिन्कोऽयं मानसबालवत् ।
विहाँ सामिलापोऽसि सर्वमेतद्वथा त्विदम् ॥ २ ॥
अयं मानसहंसत्वं हित्वा वाञ्छसि सद्गतिम् ।
कथं दुर्जन कौघास्कि वा बुद्ध्या समुझितः ॥ ३ ॥
किंवा सेवे नृपं याचे धनिनं चा निराश्रयः ।
इति चिन्ताकुलो मूढ नयस्येव वृथा क्यः ॥ ४ ॥
तस्मादुत्तिष्ठ शरणं समुपैहि महेश्वरम् ।
यदुपासनया सौख्यं किमन्यैश्चित्तविनमः ॥५॥
यत्सेवया विना लोके को चा सिद्धिमुपागतः ।
ननु तत्मरणं जन्मसफलं साधुपु स्मृतम् ॥ ६ ॥
यन्नामस्मरणादेव क्षीयते कर्मवासना ।
विभुमेवंविधं हित्वा कस्ते शरणदोऽपरः ॥ ७ ॥
दीनानाथैकशरणं वरण्यं सिद्धिदायकम् ।
देवदेवं जगन्नाथं शरणं समुपैहि तम् ॥ ८ ॥
निजशक्तिप्रभावेण सृष्ट्वेदं निखिलं जगत् ।
अनुप्रविष्टस्तत्रासौ कुर्वल्लीला विभाति यः ॥ ९ ॥
नमस्तस्मै भगवते पराय परमात्मने
अचिन्त्यगतये सर्गस्थितिमलयहेतवे ॥१०॥
योगिनो यं विचिन्वन्तो विमलेन समाधिना ।
मृष्ट्वा भवभयां भीति न पश्यन्ति कदाचन ॥ ११ ॥
तन्मनो यन्महेशानध्यानलीनं मनसिनाम् ।
वचन शियनामकरसा नवरा मुसि ॥१३॥
नतीक्ष्णानि तपो नैव क्रिया ते तं पवित्रताम् ।
शुद्धेन मनसोद्गीतं शिवनाम यथा वपुः ॥ १३ ॥
अशान्ताय प्रशान्ताय विगुणाय गुणात्मने ।
नमो भवाय शर्वाय श्रीकण्ठाय मृडाय च ॥ १४ ॥

१०२
काव्यमाला।
मानुपं दुर्लमें प्राप्य सर्वाशापरकोद्भुतम् ।
धन्या भजन्ति दुःखौघहरं शरणदं हरम् ॥ १५ ॥
तुमुले मानसेऽस्माकं वाणी चन्द्रकरोज्वला ।
यद्विश्रम्यति रम्येत सौभाग्यं गिरिजापतेः ॥ १६ ॥
यदा शंभोनवेष्वेव धृतो वाग्विभवो मया ।
शुष्कशुष्कोपमं मन्ये शकासनपरिग्रहम् ।। १७ ॥
रोमाञ्चितवपुर्नेने बाष्पमूले च गद्दा ।
वाणी शिवशिवेत्येवं भवभक्तिजुषां नृणाम् ॥ १८ ॥
भव रुद्रोग शर्वेश शिवेशानेति भक्तितः ।
गद्दं गदतो हर्षान्मा गा भूमण्डलं वृथा ॥ १९ ॥
कालकिकरहस्तस्थपाशोन्नद्धं भयातुरम् ।
को मां मोचयितुं शक्तो विना त्वर्द्धकृति प्रभो ॥ २० ॥
अन्तरेण नृणां सम्यग्भवदशिनिपेवणात् ।
बिन्दु विनैव पद्मस्थजलबिन्दु चलाः श्रियः ॥ २१ ॥
शरणं त्वां समाश्रित्य महेशं करुणानिधिम् ।
अनीशश्चेदहं दोषः स मे प्राकर्मसंभवः ॥ २२ ॥
मूकमूढविपद्मारमन्धमन्धकनाशकृत् ।
भवाब्धिमनं राज्यन्धहर तार प्रतारय ॥ २३ ॥
पर्यटन्संविशन्कर्म कुर्वञ्छिवपरायणः।
यत्सुखं समवानोति न तच्छनासनस्थितः ॥ २४ ॥
अनागसमनाथं च कथं नेक्षसि मां प्रभो ।
त्वां विना कोऽपरो लोके गतिः कोद्धरणीक्षमः ॥ २५ ॥
पदं नात्र करोपीश हदि पापरतस्य मे ।
यद पूर्णकृपाम्भोधि:(धे) कतमा स्यादतिः पुनः ॥ २६ ॥
त्वत्परः को जगन्नाथ कर्णधारो भवाम्बुधौ ।
तारयत्युडुपं मूर्धा धारयन्योऽखिलं जगत् ॥ २७ ॥

१५ कौतुकम्] कथाकौतुकम् । कृतं कर्माशुभं प्राक्चेत्कथं शिवपरा मतिः । विमलं चेत्कथं नाथ शोकमोहादिकं त्विदम् ॥ २८ ॥ मनुष्यभावमाश्नित्य त्वां च निस्तारकं प्रभुम् । सोऽहं वसामि देव वद कस्य विडम्बना ॥ २२ ॥ याचे त्वामेव वरदं वरमेकं महेश्वर । भूयान्मम भवद्भक्तिर्लोकद्वयहितावहा ॥ ३० ॥ पिता बन्धुः सुहृत्स्वामी शरण्यः सर्वदेहिनाम् । अनन्यशरणं नाथ रक्ष मां परमेश्वर ॥ ३१ ॥ इति यवनभाषापारंगमपण्डितश्रीध(वारविरचिते कथागीनु पञ्चदश कौतुकम् । मानिितिगितमुसामामिपिरनिायूमुफालुदेगारमदानेन कपाताभ प्रारमिटाया मदारिदय प्रभो भया, प्रधानमन भटा

The Kathakautuka Of Srivara

Author
Pandit,sivadatta
Title
The Kathakautuka Of Srivara
File name
The Kathakautuka Of Srivara
Text
OCR done
Citation
1901
Published
2012/08
Publisher
Bombay.,pandurang Jawaji Nirnayasagar Press
Language
Sanskrit
Pages
109
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
312580
Barcode
99999990321354.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
mSh1OzJ5Zji
Download PDF

The Kathakautuka Of Srivara