Bharatiya Vidya Bhavan Library, Mumbai

Manameya Prakashika

Shastri,harijivandas · 2012/08

PDF Proofread

Front matter

श्रीस्वामिनारायणो विजयतेतराम् । विज्ञप्तिः। योगिखान्तविहारी सहजानन्दो हरिर्जयत्यनिशम् । रम्यो मुक्तिपथोऽयं प्रवर्तितो येन राजते नितराम् ।। चामनश्चक्षुरादीनां वानश्चक्षुरादिकः। स्वामिनारायणः सोऽयं भगवान् मे सदा गतिः॥ विदितमेवैतस्समेषां यद्गवता श्रीखामिनारायणेन प्रवर्तितः श्रीमानौ- द्ववः सम्प्रदायोऽयं वेदादिसच्छाम्नमूलो विशिष्टाद्वैवावलम्बी विलसतितरां जगतीवले सर्वसम्प्रदायशेखरीभूत इति । पुतरसम्प्रदायप्रवन्धेषु च शिक्षापत्री-सस्सशिजीवन-हरिवाक्यसुधासिन्धु. प्रवृतिषु मुमुक्षुभिरास्तिकजनैः सर्वैरप्युपजीव्यतमं प्रमाणप्रमेयसर्वतश्ववि. ज्ञानं केशवो लब्धव्यं वर्तते सर्वतत्वनिरूपकेष्वपि, यतस्तन तन विप्रकीर्ण- तया तत्तत्तत्वमस्ति निरूपितम्। बधिरादियमुत्कण्ठा समनुवृत्ता नाम ममैवास- म्प्रदायनिष्ठानां पहूनां चिदुपामन्येषां च मनसि-सर्वतावसङ्ग्राहकं प्रकरणं सम्प्र- दायस्यास्य किञ्चित्सर्वमूलमन्थाऽविसंचादि साञ्चेदरम्, यतः सर्वेषां सर्व. तावसुखप्रहणं सम्परस्पत इति । सेयं फलेपहिरभूच्छ्रीहरिकृष्णकृपाकटाक्षवीक्ष- णमसरणादधुना प्रकरणयास मानमेयप्रकाशिकानाम्नः प्रकटीमावतः। एतरप्रकरणसम्पादने मया भूतपूर्ववृत्तालयसंस्कृतपाठशालाप्रभानपण्डि वानां भावःमरणीयकीर्तिवैभवाना विद्वद्वरेण्यानां मम विधागुरूणां श्री- पम्वार कृष्णमाचार्याणां धर्तमानमधानपण्डिवानां च प्रतिवादिमयकरा- चार्यान्वयसम्भूतानां श्रीमतां अण्णरावार्याणां सर्वविघं परिपूर्ण साहाम्प- मधिगतमिति कृतज्ञतातेपु मदीया सादरं निवेपतेऽत्र ।

विज्ञप्तिः। - " मुद्रापणे चैतरप्रकरणस्य धर्मधुरन्धराचार्यवयः श्रीवृत्तालयस्थाचार्यपीठा- धीश्वरैः श्री १०८ आनन्दप्रसादमहाराजश्रीश्रीपतिप्रसादमहाराजै- राज्ञा प्रदत्तेत्येतेभ्यश्च धन्यवादा भूयास उपहारीक्रियन्ते मया सादरम् । मुद्रणकर्मणि चैतमबन्धस्य सम्प्रसक्त सर्वस्यापि महार्यतया महत्यर्धव्यये आर्थिक साहाय्यमनधमारचितवता संसङ्गिठानां श्रेष्ठिनां- १गुलावदास केवलराम (सुरत) २ छवीलदास हरगोविंददास ३ पा-घेलाभाई अंबादास ४ शा. माणकचंद माधवजी .(मुंबई) इसमीपां च धन्यवादा भूयांसः । एतस्प्रकरणसकलनप्रयासं च मदीयं सफलयन्तु सर्वेऽपि प्रेक्षावन्तः सह- दया एतप्पयन्धसारसग्रहणेनेत्यम्यर्थये। माशासेवतरां परिवस्थया ययाकया- धनानया श्रीमद्विशिष्टाद्वैतसिदान्तस्य महत औद्धवस्य च सम्प्रदायस्यैतत्प्रक- रणप्रबन्धप्रणयनप्रकाशनलक्षणया प्रसनो भूयाट्रीहरिरिति । शास्त्री हरिजीवनदासा वडताल.

। श्री। जयति भगवान् श्रीवासुदेवः। श्रीमते रामानुजाय नमः। नमश्चास्महुरुपरम्पराभ्यः प्रस्तावना -- प्रवृद्धतमसावृतं भवपथं श्रितान् मुखतो विलोक्य कृपया प्रदीपमिय सत्प्रमाणत्रयम् । विशोध्य वितरन् विभुस्विविधतत्वनिर्वाहको गुरुर्जयति लक्ष्मणो मुनिरसौ सतां सद्गतिः ।। इह खल प्राणिनी व्याहारा व्यवहारा वा प्रत्यक्षानुमानव्यपदेशस्मृत्याश्रया वरीवृतति । तथा हि-चक्षुषा तावदवलोकयन् कश्चनार्थ यदीष्टं तत्साधनं वा तमनुसन्धत्ते तदोपादेयत्वबुध्या प्रवर्तते । यदि वाऽनिष्टं तत्साधनं वा तदा परिह- रणीयत्वबुद्ध्या निवर्तते । यदि वोदासीनं तदोपेक्षते । एवमेव रसयन् जिघ्रन् स्पृशन् शृण्वन् वा विषयं तं तं काम्यजातीयमेव पुनः पुनरुपादित्सति, द्वेष्य- नातीयं च परिनिहीतीत्यपरोक्षमेतत् । एवमनुकूलप्रविकूलानुभयात्मना निवर्ग- विन्द्रियार्थेषु तत्तदैन्दियिकप्रत्यक्षप्रयोज्या व्यवहृतिमेदा न शक्या निन्हीतुम् । एवमेवानुमानाश्रया भपि व्यवहारा बहुलमुपलभ्यन्ते । यथा-सौरभाभि- लाषी कश्चिमूलं पश्यन् कञ्चन चन्दनखण्डं तत्संस्थानस्य सौरभाविनामावं च स्मरन् सौरभमनुमाय पुरोवर्तिनि प्रवर्तमानो दृष्टः। रसास्वादलम्पटश्च फश्चिन- वोपनीते कस्मिंश्वित्फलमोदकादौ रूपविशेष रसविशेषेणाविनाभूतं दृष्ट्वा तदनु- मानेन प्रवृत्तः। एकार्यसमवायिलिङ्गकमनुमानमत्र । धूमादिना वहयाद्यनुमान च कार्यलिङ्गकम् । उत्यापितां यष्टिमालोक्य ऊहित्वा मारण पलायते पशुर्वालको वा । कारणलिङ्गकमिदम् । गाढान्धकारगतः कुख्यान्तरितो वा विलक्षण- शब्दप्रयोगतोऽनुमीयते शब्दोत्रा। समवाय्यनुमानमेतत् । शीतत्वेनोष्णत्वेन वोपलभ्यमानः शिलासनादिः ससंयुकं जलांशमभ्यंशे वा गमयति । संयोग्यनु मानमत्र । अनुपनिपतितेन च दुर्दिने वर्षापावेन प्रतिवन्धकं वास्वनसंयो.

४ मानमेयप्रकाशिकाय गायुषयामः । विरोधिलिङ्ग चेदम् । त इमे व्यवहतिमेदप्रयोजका अनुमानमेदा निर्दिष्टाः कणभक्षेण 'संयोगि समवाय्येकार्थसमवायि विरोधि च' इति । चकारोऽत्र कार्यकारणलिङ्गकानुमानसमुच्चायकः । 'अनुमाय च गुरो- निवत्त्वं शिष्येणोपसत्तिः क्रियते' इति च श्रीमद्भाष्यकृतः। एवमनु- मानाधीन व्यवहारवैविध्य निदर्शितम् । व्यपदेशः शब्दः । तदाश्रयाच व्यवहारा अनन्ता एव । व्युत्पन्नानां तावदाप्तो- पदेशत एव बप्रतीतार्थप्रतिपत्तिर्बहुधा दृश्यते । शब्दमूला एव चार्यावर्तक- निकेतनस्य पाश्चात्यादिदेशगतविशेषप्रतिपत्तयः। शब्दप्राहि यन्त्र चान बहूप- करोति । एतत्समानयोगक्षेमचारसदृश्यानी खर्गनरकादिकानामर्यानो सद्भावनि- वयस्तत्तपमहर्षिवचनादिमूलः । ततश्च नास्तिकता न साधीयसी वेदिकेष्वर्थेषु नास्ति कर्म पारलौकिक नास्ति कर्मफलमिति । स्मरणाधीनाम्प प्यपहारा पहवोऽन्वमनुभूयन्त एव । पूर्वाद्दे नेमकृतं स्मृत्वैव सल पराहे तरसमापनप्रत्तिदृष्टा । देशान्तरगतमभिमतं यस्तु संस्मृत्य तदा- द्रयणमपि दृष्टम् । प्रतिकूलं चात्मनोऽनुस्मृत्य तत्परिहरणोपायविचारोऽपि दृष्ट इति। चार्वाकोऽपि वराको बहिनिर्गतो गृहपत्रकलनादि संस्मृत्यैव पहान् प्रतिनिव- वैत इति सप्रश्तावविसेवदमानेन तेनापि स्मरणमपि शरणीकरणीयमेव व्यवहार- पथ इति स्थितम् । यथा च लोकव्यवहारनिर्वाहकाणि प्रमाणानि परिगण्यन्ते श्रुतौ 'स्मृतिः प्रत्यक्षमैतिधमनुमानं चतुर्विधम्' इति । निःश्रेयसपासादारोहणसोपानपालि श्रयणमनननिदिध्यासनदर्शनानि शान्दादिप्रमेदा एव । तपाहि-अवणं नाम गुरोर्मुखातू मीमांसासंस्कृतश्रुत्स. न्तार्षपदणं धान्दवोपात्मकम् । मननं च भुत्यनुसारिणीभिः सयुक्तिभिः श्रुत- सास्सिारमनि प्रतिष्ठापनमनुमानलक्षणम् । इदं चासम्भावनाविपरीतसम्भा- बनानियसोफ्योगि। सुवप्रतिष्ठापितस्योपासासानवरतमावना निदिध्मासनम् । ईप एलिसन्ततिरेय । प्रेमपूर्व क्रियमाणमिदमेव भफिसन्दवाच्यम् । 'स्नेह- पूर्वमनुप्पानं भविपरित्यभिपानात् । मवति च स्मृत्यभ्यासात्स्फुटाव- भायः। पापि गतिरेर गवति किविपयिताचालिनी भावनाप्रकपतः। नर या दर्शनामुल्यार्पः । नया तसा पपात्यनियमा, कामिनीभावना.. मानसमा पानिन्दरमासवत् । पापि प्रलपारमपरमात्मभावनयोरएद्वारा.

प्रस्तावना पित्तशुद्विद्वारा च यथार्थतत्स्फुटावमासयोर्मानसयथार्थतत्साक्षात्कारयोश्च सम- स्त्येव हेतुभावः । अन्तर्दृष्टीना हि हृदयेऽवस्थितः प्रत्यगात्मा परमात्मा या विशुद्धेन मनसा पाय एव भवति । श्रावयन्ति च श्रुतयो योगजमेनयोर्मानससा- क्षात्कारमपि 'एपोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्च. घा संविवेश' 'न सन्टशे तिष्ठति रूपमस्य न चक्षुपा पक्ष्यति फश्चनैनम् । हृदा मनीया मनसाभिकृतो य एनं विदुरमृतास्ते भवन्ती त्याचा । पर मानसेऽपि साक्षात्कारे दर्शनशब्दस्यामुख्यत्वमेव स्थाचाक्षुषवाचिनो दर्शनसमानाकारानुस्मृताविवेति न विस्मर्तव्यम् । नन्वेवमपि मानससाक्षात्कार एष स्यात्साक्षान्मोक्षसाधनं न भक्तिरूपापनं भुवानुस्मरणमिति चेत् । मैवम् । सत्येव परमपुरुषसाक्षात्कारे ध्यानफले तदनन्तरमाव्युत्कटप्रेम- गर्भतदनुध्यानस्यैव परमभक्तिशब्दितस्य साक्षात्तत्प्राप्तिलक्षणायां परममुक्ती कारणत्वात् । तथा च गीता 'भत्तया त्वनन्यया शक्य अहमेवं. विधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप । इति । अत्र तत्त्वतो ज्ञानदर्शनप्राप्तीनां प्रयाणामपि भक्तिसाध्यत्वमुक्तम् । पर्वमेदाद्भक्तेः सर्वमुपपामेव । तदेवं प्रत्यक्षादियतुष्टयं मुमुक्षणामप्युपादेयमिति न्यरूपि । अत्र प्रमाणभूतामपि स्मृति पूर्वानुभवपारतम्यतः पृथगविवक्षित्वा पुनः प्रमाणधमभिदधते स प्रामाणिकाः । साक्षि चान मनुषचनम्-'प्रत्यक्ष. मनुमानं च शास्त्रं च विविधागमम् । अयं सुविदितं कार्य धर्म- सिद्धिमभीप्सता।' इति । यद्यपि प्रमाणसळ्याय विवापो पादिनाम् । यथोक्त मानमैयोदये भादृप्रकरणे 'चार्वाकास्तावदेके द्वितयमपि पुनौद्धवैशेषिको द्वौ भासर्वशश्च सायनितयमुदयनाद्याश्चतुष्कं चदन्ति ! प्राहुः प्राभाकराः पञ्च- कमपि च वयं तेऽपि वेदान्तविज्ञाः पदं पौराणिकास्त्वष्टकमभिद- घिरे सम्भवैतिहयोगात् ॥' इति । अथाप्यधिकाना त्रितयेऽन्तर्भावा- प्रमाणेषु त्रित्वमेव साधीयः । अन्तावप्रकारचात्रैव प्रन्ये प्रदर्शितो प्रत्यकृता। नचैवं विष्वप्यन्यतमस्य द्वयोरेव वा परिशेषः शक्यशष्ठः । तथाहि-मक्षसनि- कृष्ट विषयं प्रसक्षम् । अक्षासलिष्टस्याप्यक्षसभिकृष्टनिष्ठाविनाभाषप्रतिसम्ब- निधनो भासकमनुमानम् । न चेदं सारणमात्रम्। पर्मिसम्बन्धस्यापूर्वस्य भासनात्। भपूर्ववाक्यार्थप्रसायकल व्युत्पन प्रति शन्दा प्रमाणान्तरमिति ।

मानमेयप्रकाशिफायां यत्त्वनाऽविनाभावस्य दुर्ग्रहलादप्रामाण्यमनुमानस्येष्यते चार्वाकः तन्न सम्यक। साध्यहेत्वोभूयः सहचारदर्शनतो व्यभिचाराप्रहादृश्योपाधीनामनुपलम्भवाघ- तथ तस सुप्रहत्वाद । उपाधिशद्वाधीनायाश्चाविचारशङ्कायालणैव विमशी- स्मफेनापनयनात् । राकमूलव्यातावप्यविचारः शष्ठ्येत यदा तदा पुनस्तान्तर- मन्वेष्टव्यम् । न चैवमनवस्थानप्रसफिः । अन्ततः शङ्काया व्याघातादेवानुद- यात् । देशान्तरादावविचारशङ्कायास्तदनुमानसापेक्षवादपि नानुमानसामान्या- प्रामाण्यम् । तदुक्क न्यायाचार्योदयनेन 'शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्क शङ्कायधिर्मतः ॥ इति । अतीन्द्रियोपाधिध न शहनाईतित्वस्मै तत्साध्ययमव्याप्त्यादौ च प्रमाणाभावात् । यदि स्थाझिम्, खयं निरुपध्येव तत्साधयिध्यतीसायातमनुमानप्रामाण्येन । अतिशाने तु निवाजे खसतायो खपत्यादिपत्तादी चाति शङ्कनमापद्यते। तयाच सकलव्यवहारोच्छेदप्रसक्तिः । 'संशयात्मा विनश्यति' 'न सुखं संश- यात्मनः' इत्यायुफेर्लक्ष्य च भवत्यविशष्ठितेति । तस्थितमविनाभावमहसम्भवा. दनुमानस्थ प्रामाण्यम्। मन्धेयमपि वैशेषिकप्रक्रियया शब्दस्यानुमान विधयैव बोधकत्वं स्थाज्ञात- लिहिसम्बन्धस्येव लिनस्य शातायडम्बन्धस्य । मैवम् । योधनप्रवृत्तिभेदेन पृथक प्रमाणावस्यैव राम्यपावात् । अन्यथा हि तावदनुमानस्य प्रवृत्तिाप्यादिप्रतिस- म्यानपूर्विका, अन्यथा प शन्दस्य योग्यतादिपरामर्शपूर्षिका । न च योग्यता- युभरादियम्मत्यनन्तरमपि व्यायादिप्रतिसन्धानविलम्बेनार्थबोधे विलम्बो दृष्ट- परः। अनुष्यवसायश्च शन्दादमुमर्थ प्रत्येमीत्येव, न तु शन्दलिझादनुमिनोमीति। अवश्यं पितथ्य प्रमाणान्तरत्वं शम्दस । भत्सन्तासीन्द्रियाणामनुमानत एकान्ततोऽपि नजावीयेन प्रतिपाधः शश्यमहः । देशान्तरमैयोगेन प्रसोणाऽसमक्षादिखगरनुमानं तु नासम्भवम् ॥ साप्यजातीयस्य गमनस्यान्यन प्रसस्पेनालन्तातीन्दियत्वामावास्याप्यस्य । इदमेव सामान्यतोदृष्टं नाम । धूमा- दापनुमानादिकं तु विशेषतोरटम् । पक्षीयवाध्यादेरप्यमदारीन्द्रियमाणत्याए । मनु सामाम फेयतम्यतिरेकिमावीन्द्रियाविदिः। यया-वित स्वप्रकाश वि. पार। दो भय पपा घटः। मेदः पर्यशमधीतो येदवार पविरेफेगोदाहरणं बपिगम्या नेवम् । मनिस्सारणप्पस तिरेकस्साप्यसिसा व्यतिरेक- मोरपि भवाराणप्पप्रशिशिरपन्तत मागमत एवं प्रसेत्स्यतीति तत एवं 5 प्रस्तावना। सर्वसिद्धौ कृतं केवलन्यतिरेकिणा। असाधकता चास्य प्रसाधिता ग्रन्थकृतास्मिन्नेव प्रकरणेऽनुसन्धेया। नन्वेवमपि सामान्यधर्मपुरस्कारेण व्याप्तिप्रहणमेव दृष्टजातीयाधसहकार- तोऽदृष्टजातीयमनुमापयेत् । इदमेव च परिशेषानुमानमिति गीयत इति चेदन ब्रूमः । अष्टद्रव्यातिरिक्तद्रव्याश्रितः शब्दः, अष्टद्रव्यानाधितत्वे सति द्रव्याधित- त्वादिति हि परिशेषानुमानं विवक्षितम् । अत्र च हेतुविशेषणासिद्धिः । वाय्वादि- गुणत्वस्यैव शब्दे सम्मवादुपलम्भानुसारतः। न पृथ्व्यादिगुणः शब्दोऽपाकजा. कारणगुणपूर्वकप्रत्यक्षत्वादित्यादेरप्रयोजकत्वादसिद्धेश्व । स्वच्छन्दपर्युदासाश्रयणं चातिप्रसजकं भवेत् । यथा न विभुगुणः शब्दो बाह्येन्द्रियग्राह्यत्वाद्रूपवदिति । अस्याप्रयोजकत्वं चेस्पृथिव्यादिगुणत्वप्रतिषेधकानुमानस्यापि तुल्यमप्रयोजकत्व- मिति । अत्यन्तातीन्द्रियस्यार्थस्यानुमानेन साधने विशेषवाधकं नाम दूषण- मुच्यते भाई:-'व्याप्त्यैकशरण तावदनुमानमिति स्थितम् । तद्व्याप्ति- दर्शितान्मार्गाच्चलितुं क्षमते कुतः॥ ततश्च व्याप्तिविज्ञाने याहशं वस्तु दृश्यते । ताडगेवानुमातव्यं यथोप्णो भास्वरोऽनलः ॥ न चातीन्द्रियवस्तूनां प्राग्दृष्टाकारयोगिता दृश्यत्वं तेजसा दृष्ट चक्षुपस्तदसम्भवात् । अत एव हि सर्वत्राप्यत्यन्तादृष्टसाधने । विशेपवाधकं नाम दोषं घोपयतामहे । तस्माद्रूपादिसन्दर्शना. न्यथानुपपत्तितः । चक्षुराद्याः प्रसाध्यन्ते न तेष्वनुमितिर्मता ॥' इति । इयोस्तु विशेषः-अर्यापत्तेरप्यनुमानान्तर्भावात् सिद्धान्ते गोलकातिरिक्त न्द्रियसिदिरप्यागमिक्येवेति । एवं साख्यानां जगत्सलक्षणतया निगुणप्रधानस्यो- पादानतयाऽनुमानमप्यसम्भवि वेदितव्यम् । विलक्षणयोरप्युपादानोपादेयभाव- दृष्टः । अत एवाभिहितं श्रीमनिगमान्ताचार्य स्वत्त्वमुक्ताकलापे 'स्वच्छन्देनाग- मेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिर्नाध्यक्षेणाप्रतीतेन पुनरतु. मया व्याप्तिलिङ्गाद्यसिद्धेः' इति । एवं देहादिव्यतिरिक्तात्मविनिर्णयोऽप्यागमत एवैकान्ततः सम्पत्स्यते । यद्यप्या- माऽपरोक्ष एवाहमिति भासमानः । अथापि पामराणां देहादावेवाऽहम्बुख्या म तान् प्रति विलक्षणात्मसद्भावप्रतिपादनक्षममध्यक्षम् । ज्ञानादिना च गुणेनानु- मीयेताश्रयमात्रम् । देहादिष्यतिरिफेनैव तेन भाव्यमिति तु कुतः । मास्तु नाम करचरणादेरात्मत्वम् । सूक्ष्मतमस्यैव कस्यचिदान्तरस्यान्तःकरणादेर्भवतु तदिति मानमेयप्रकाशिकायां सम्भावना हि निरर्गलप्रसरा । अत एव वर्णितं श्रीमद्यामुनमुनिभिरामसिद्धौ 'आनुमानिकीमायात्मसिद्धिमश्रधानाः श्रौतीमेव तां श्रोत्रिया: सहिरन्ते' इति ।, प्राहुध बेकटनाथार्याः 'स्याद्वाऽसौ चर्मरोरय- महमिति धीदेह एवात्मजुटे निष्टते लोहपिण्डे हुतवहमतिवद्धे दुकाख्यातिमूला ॥ श्रुत्यर्थापत्तिभिश्च श्रुतिभिरपि च ना.सर्चदो पोज्झिताभिदेही देहान्तरातिक्षम इह विदितः संविदानन्दरूपः॥' इति । एवमेव लोकदृष्टकर्तृविलक्षणस्येश्वरस्यापि नानुमानतः साधनसम्भवः । महीमहीधरादेः कार्यत्वे प्रमाणाभावात् , कार्यत्वे का सकर्तृकत्वे प्रमाणाभावात, सकर्तृकत्वे वैककर्तृकरवे व्यवस्थापकामावात् । तच्छास्कप्रमाणक ईश्वरः। तथा च. सूर्य 'शास्त्रयोनित्वात्' इति । 'नाविन्मनुत्ते तं वृहन्तम् 'तं त्यौपनिषदं पुरुपं पृच्छामी' वि च श्रुतिः। 'व्यात्याद्यव्याकुलाभिः श्रुतिमिरधिगतो विश्वनेता' इति च श्रुत्यन्ताचार्याः । नन्वेवं परमात्मनो मननं प्रीतमनुमानलक्षणं नोपपोत । नैष दोषः । स्वातन्यमेव पनुमानस्यास्मिन्नर्थे निवार्यते । श्रुतिप्रतिपत्रस्य श्रुतिमूलाभिः श्रुतिसमनुगृहीताभिध युक्तिभिरनुचिन्तन तपक्षमेवेति । 'मातोपदेशसामाच्छब्दादर्थसम्प्रत्ययः' : इति न्यायसनाविवरणे च पात्स्यायनोसोतकराभ्यां खर्गाद्यतीन्द्रियार्थप्रविपत्तिलौकिक- स्थाप्लोशन्दपणदेव सेत्स्यवीवि भनितम् । ममाणि बानुमानस्य केवलस्याश्या. विनिधायनेऽसामप्य को 'श्रुतिसाहाय्यरहितमनुमान न कुत्रचित् । निश्चयात्साधयेद प्रमाणान्तरमेव च ॥ इति । तत्सिद्धं प्रमाणत्रयम् । प्रमाणेप्यान्तरो विभागधेयम्-प्रत्यक्ष तावोधा घायन्द्रियकरणकं यास्यन्द्रियाः करणकं चेति । सामान्यलक्षणाप्रत्यासत्तिजनित ज्ञानलक्षणाप्रत्यासतिजनितम- प्याप एवान्तर्भूतम् । मान तूपनीतभानमतिरिचमस्तु वा, रस्त्यादिशानद्वयमेव सारस्थलामिपिर्क गनु । शानदयाय विशिष्टथ्यवहारो प्रमस्थल इव नरन्तर्य- मानासम्मविष्यतीति । अनुमान च विविध सामान्यतोष्टं विशेषतोदष्ट चेति । शन्दोऽपि तथा स्रष्टात्यात पौषेयापारपेयभेदादा । अन्वययोधो भवति देपा पदोपस्थितपदाकरणः प्रशयन्तरोपस्थितपदार्थकरणकति घ केपित् । मापोखरा प्रमाणार्भ प प्रमेयापयोधनप्रातानो नेशनिक तथाभूताविभोधकरवलक्षण सामाग्यम् । विशेषोऽभिमयानभान्सादिमनकता । 'यथा सये- प्रस्तावना। विज्ञान मिति पक्षेऽपि भेदाग्रहसहितं ज्ञानद्वयादिकमेव भवति सान्त्यादिव्यव- हारालम्वनं व्यवहारविसंवादि । तत्र चास्त्येव दोषस्य प्रयोजक्ता। दोषश्च प्रत्य- क्षेऽथंगतोऽक्षगतश्च सम्भवति । अव्याप्ये च्याप्यत्वाभिमानादिरनुमाने दोषः । तत्र च मूल सादृश्यादि । शब्दे तु वक्तुम्रमप्रमादाशक्तिविप्रलिप्सा भवन्ति दोषाः । मत- थापौरुषेयाणां वेदवचसामनायाससिद्धं प्रामाण्यम् । ननु आनुपूर्वीसामान्यमुचा- रणझमाधीनम् ॥ तत्कथं वेदानुपूर्या भपौरुषेयता । उच्यते । उच्चारणं तावद्धि. विध स्वतन्त्रपरतत्रभेदात् । पूर्वतनानुपूर्वीस्मरणपूर्वकं तत्कमेणवोचारणं पर- तनम् । एतत्यर्तुर्न पाक्ये करत्वम् । यथामदादे रघुवंश लोकादौ । यः पुनः खात- येणैव रचनाविशेषविशिष्टं समुच्चारयति स एव तु वाक्ये कर्तेति व्यपदिश्यते । तथा चेश्वरोऽपि गतकल्पीयानुपूर्वीविशिष्टमेव वेदमनुष्यायन् प्रतिकल्पं तथैव चतुर्मुखायोपदिशतीति न वेदापौरुषेयस्ववाचोऽयुक्तिः । खाज्ञारूपं वेदं सदै- फरूपमेव व्यवस्थापयति सर्वेश्वर इति च युफिमत् । तथा च सदैकरूपत्वं नित्यत्वं च श्रूयते श्रुतेः 'वाचाऽविरूपनित्ययेति । अस्याच प्रमाणमूर्धन्यत्वं सर्वा- ऽऽवेदकत्वात् । तथा चान्वर्या संज्ञा चेद इति । प्रमाणानां यथाभूतार्थनाहित्वं स्वभाव इत्युक्तम् । प्रमाणप्रायोऽर्थतथाभावश्च तत्वम् । तदिदं तत्त्वं यत्र प्रतिपाद्यते तद्दर्शनमिति निगद्यते । तत्वं च प्रमासू- मतिमेदाद्भिनं तद्राहि प्रमाणमपि । तथा च प्रमाणत्वाभिमतेन प्रमेयस्वाभिम- तार्थतत्त्वप्रतिपादकस्तीर्थकराणां सूक्तिसन्दर्भो दर्शनमित्युक्तं भवति । भूयासि नाम प्रयन्तेतरां दर्शनानि, तत्त्वानि च भूयास्येव । न च सर्वेषामेव वास्तवार्थत्वं परस्परविरुद्धरूपाणां सम्मपति, किन्तु भाभिमानिकमेव । यथास्थितप्रमाण- प्रमेयावबोधकं तु स्यादेव दर्शनं यत्किञ्चित् । वस्तुतः सर्वत्रापि दर्शने यः कथ- नार्थः पुमर्थोपयोगी वर्णित एवास्ति । अतः सर्वतन्त्रपरिभ्रमोऽपि विधेय एव कुशलमतिभिः शान्तिसुखार्थिभिध । उक्तं च गहाभारते 'शमार्थ सर्वशा- साणि विहितानि मनीषिभिः।' इति । दर्शनानि च द्वेधा विभक्तान्यास्तिकनास्तिकभेदतः । यो मन्यते वेदस्य प्रमा. णतयास्तित्वं स ातिकः । तत्प्रवर्तितमास्तिकदर्शनम् । यद्य नास्तित्वंस नास्तिकः । तत्प्रणीतं नास्तिकमिति व्यवहियते । चार्वाक्यौद्धार्हतानि तत्र नास्तिकेषु गम्यन्ते । न्याययोगमीमांसादीनि त्वास्तिकेषु । एषु च मीमांसादर्शनं कात्र- यात्मक विंशविलक्षणं सर्वकर्मसमाराध्यसर्वदेवतान्तर्यामिमुमुक्षपापपरब्रह्मभूत- मानमेयप्रकाशिकायां पुरुषोत्तमपारम्यपरं कर्माद्याकभक्तियोगप्रतिपादकमेकं शानमभिमन्यते विशि- टाद्वैतिभिः । अत एव चैतन्मूलं विशिष्टाद्वैतदर्शनं 'सेश्वरमीमांसादर्शन- मिलपि प्रथामथुते । कर्ममीमांसां ब्रह्ममीमांसां च भिन्ना मिनामभिमन्यन्ते तु बदः । तत्र वेदान्तानामूषरप्रायतामभिप्रेत्य कर्मणैव फलं मन्यमानानां कर्ममी- मांसकानां दर्शनमेकम् । अत्र च भाई प्रामाकरमिति प्रस्थानद्वयं प्रथतेतराम् । कर्मभागस्य झल्पितमेदपरत्वमाश्रित्य तत्त्वपरत्वेनाश्रीयमाणं ब्रह्ममीमांसादर्शनं चापरम् । यतस्तत्त्वपरत्वेन वेदान्तमेवावलम्बन्तेऽतो वेदान्तिन इत्येषां प्रथा सम- भूनाम । बौद्धप्रचुरे जगतीतले प्रथमतः श्रीशङ्करभगवत्पादैर्वेदान्तवाक्याव- लम्बनेनाद्वैतस्य व्यवस्थापनाद्वेदान्तीति परैः संबोधिता एते तथैवैतदनुयायिभिः प्रसिदि समुपनीता इति च शक्यमुत्प्रेक्षितुम्। वर्णितत्वेवं तत्त्वसारे कवेदान्ताः कामी निहितमतयः शङ्करमते वदन्तः प्रामाण्यं भ्रमविलसितं वेद्वचसाम् । अहो यद्वगुद्धग्रथितफणितीनामथ च ते कलिनाह- अस्तैरगणिपत वेदान्तिन इति ॥' इति । अस्तु नामैतत् । पाणिनीयं तु वेदाङ्गभूतमास्तिकमपि पदवाक्यसाधुत्वानुशासनमात्रप्रवृत्तं न सत्यविपये तत्परम् । लोकप्रसिद्धजातिच्यतयादिपदार्थाश्रयणेन वाचकश. ब्दस्वरूपप्रकियानिरूपकं हि तत् । तच स्वप्रयोज्यप्रक्रियाज्ञानपूर्वकशब्दप्रयो- गजारद्वारा प्रयोक्तुः श्रेयःसंसाधने विश्रान्तम् । तथा चाचभापे 'सिद्ध राम्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनि- यमः' इति, 'शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन' इति च । श्रुविध 'एका शब्दः सम्यग् शातः शास्त्रान्चितः सुषु प्रयुक्ता समें लोके कामधुर भवति' इति । स्फोटवाचकत्ववाच्यवाचकामेद- सत्तामाप्रपदार्थतत्त्ववादाः पुनर्व्याख्यातॄणामेय विकल्पनामया मन्तव्याः यसमुदायस्पैव योपावं तु भगवत उपवर्षाचार्यस्य सम्मतं कृत्वमीमांसाय- तिता अयमेव स्थागवदोपायन इति तत्त्वटीकाकाराः । विवेचितश्चायमों पिस्सरसो दर्शनोदयेऽनुसन्धेयः । भागभैकमूलान्यपि सन्येव दर्शनानि पाशुपतशेयप्रत्यभितारसेश्वरसाकसौर- मारगाणरतानि । इमानि च वेदविरुद्धतत्त्वहितप्रक्रियानिरूपकत्वाद्वेदान्तः रात्रप्रतिक्षितामान्यस्याथ न येतान्तपादानुकूलानि । उच्यते चागमिकः आपरेष-पेरतो नेवरस पापप्रतिपत्तिः । अतस्तेनेव वेदवत्खतन्त्रतयाss. ।

प्रस्तावना। गमः प्रणीतः । वेदसिद्धान्तो भिन्न आगमसिद्धान्तथ भिन्नः। अभिन्ननिमित्तोपा. दानं ब्रह्म वेदे । भागमे तूपादानं विष्णु, महेश्वरवाधिष्ठाता । अयमेव सर्वसा. पर इति। श्रीवैष्णवदर्शनं तु न वेदान्तवादाननुगुणम् । किन्तु सेश्वरमीमांसाधार विशि- टाद्वैततत्परं पञ्चरात्रागममूलमपि पाघराणस्य काररुयेन वेदाविरुद्धत्वादानुगु- णत्वाद्वेदान्तसारार्थगर्भितत्वाद्वेदान्तसूत्रप्रविष्ठापितप्रामाण्यक्त्वाध वैदिकदर्शनत्वेन घेदान्तदर्शनत्वेन चासैव व्यपदेशमईतीवि विशेषः । न हि महता संरम्मेण मोक्षधर्मे पाचरातस्य सर्ववेदानुकूलत्वेन प्रमाणतमत्वं निःश्रेयसाधिकारिभि- रधिकर्तव्यत्वं चोपश्लोकयन् भगवान् बादरायणस्तस्यैव प्रामाण्यं ब्रह्मसू- त्रेषु प्रविचिक्षेपेति सुवचम् । प्रत्युत सम्भवदाशङ्कानिरासमुखेन तत्प्रामाण्यमेव प्रत्यतिष्ठिपत् सायवैशेषिकबौद्धार्हतपाशुपतमतप्रतिक्षेपपूर्वकमिति समयसम् । निर्दिष्टस्य सायादिपञ्चकस्यैतत्सन्निधौ रात्रीयमाणत्वादस्य पञ्चरात्रमिति समाख्या- च साधीयसी। तथा च पामतन्त्रवचनं 'पञ्चेतराणि शास्त्राणि रात्री- पन्ते महान्त्यपि । तत्सन्निधौ समाख्यासौ ततो लोके प्रवर्तते ॥" इति । बहुधा च पञ्चरात्रशब्दस्य निरुक्तिश्यते 'रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रं च प्रवदन्ति मनीपिणः ॥ (नारदपाचरात्रे) 'इदं महोपनिषदं चतुर्वेदसमन्वितम् । साल्ययोग. कृतान्तेन पञ्चरात्रानुशब्दितम् ॥' 'एवमेकं साङ्ख्ययोगं वेदारण्य-. कमेव च । परस्पराङ्गान्येतानि पञ्चरात्रं तु कथ्यते ॥' (मोक्षधर्मे) इति । 'आद्यमेकायनं वेदं रहस्यानायसंहितम् । दिव्यमन्त्रक्रियो- पेतं मोक्षकफललक्षणम् ॥ पञ्चापि पृथगेकैकदिवारानं जगत्मभुः। अध्यापयामास यतस्ततस्तन्मुनिपुङ्गवाः ॥ शास्त्रं सर्वजनैलोंके पञ्चरात्रमितीर्यते' इवीश्वरसंहितावचनाद्रहस्याम्नायपर्यायकायनश्रुतेः पञ्चरा- नसंज्ञा ज्ञायते । तन्मूलकत्वाचागमस्यास्य पञ्चरानमिति पाश्चरात्रमिति वा संज्ञा स्थानाम । एकायनश्रुतेर्मूलसंहितेत्यपि प्रसिद्धिः । अत्र वाको निषदिति व व्यवहारः । सहस्रनामभाप्ये च मूलसहितावचनोपादानं स्थाने स्थाने समय- लोक्यते । वेदान्तसारार्थगर्भितत्वं च पाश्चरात्रस 'वेदान्तेपु यथा सार सह्य भगवान् हरिः। भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथा- मुखम् ॥' इत्यादिवचनैरवगम्यते । तदेकायनश्रुतिश्रुत्सन्तमूलकं पाचरा मानमेयप्रकाशिकायां श्रुतिगीतादिप्रसिद्धपरमापरतत्यपरमपुरुषधियापतिपारम्यतचरणारविन्दयुगलश- रणागतितलिष्ठाधिकारिकृत्यादिप्रपचप्रतिपादकं वैदिकमेव भवति सुतरामिति तत्रा- न्तरसामान्यमत्र न शक्यशङ्कमिति स्थितम् । न्यायादिदर्शनानि च सूत्रनिबद्धानि महर्षिभिरक्षपादादिभिः। न चानृपे- दर्शनमस्ति किञ्चित् । तत्र फुल्नघेदाथैविचारशास्त्रमारिरचयिभंगवान् यादरा. यणः साराध्यकर्मविचारशास्त्रं स्खशिष्येण जैमिनिना निवर्स स्वयं प्रधाननझभाग- विचारशास्त्रमारीरचदिति शक्यं सम्भावयितुम् । देवताकाण्डस्यापि. जैमिनि- प्रणीतत्व जैमिनीयेन पोडशलक्षणेने ति वृत्तिमन्यतोऽवगम्यते । अभ्य- धायि चैवमेव प्रस्थानभेदे मधुसूदनसरखतीभिः। काशकरनीयत्वप्रथा तु तस्य फाशकत्सद्वारा प्रवर्तितत्वनियन्धना स्यात् । न्यायादिषु च दर्शनेषु कृतो नामा- ध्यात्मविचारः। पर तानि न तत्र तत्पराणि । तया हि-न्यायदर्शनं तावत्परिक करप्रमाणनिरूपणे व्यापृतिमत् । काणादं तु सप्तपदार्थाविवेचने । योगच योगवैभव. च्युत्पादने मीमांसापूर्वमागध सानुबन्धकर्मस्वरूपनिरूपणे । यद्यपि कापिले पलक्ष: णीलक्षणे वर्णितानि नाम तत्त्वानि पञ्चविंशतिधा। परन्तु युक्या फेवलया। मोप- निषदप्रक्रियाविरोधश्च बहुन । औपनिषदस्य परमपुरुषस्य कथा तु सुदूरे। तदात्म- परमात्मययावत्प्रतिपत्ती मीमांसोत्तरमाग एव शरणं समेषामित्यविगीतमेतत् । वेदान्तसूत्रेषु च खल्पाक्षरस्वविश्वतोमुखत्वादिसून लक्षणसम्पधेषु सम्पष्माना देच्या शफिसम्पदा महनीयमति विभवानां माध्यकृतो माण्याणि बहुधैव प्रावर्तन्त। भेदाभेदश्रुतिसमन्वये मतिमेदाच्चैदेषु • योजनामेदः सम्प्रसकः । व्याख्याद- मंतिमेदनिबन्धनयोपनिषदे तत्वे मतमेदः प्रपतेतर द्रुतं, केवलाद्वैतं, द्वैताद्वैत, शुद्धादेतं, विशिष्टदिसमिति । समासत एवैतेषो मताना स्वरूपाणि विवेचयामस्तावद। दैतमतस्य तावत्प्रवर्तकः पूर्णप्रज्ञाचार्यः प्रभजनात्मा। मध्याचार्य इति चासैव प्रथा । तत्वं चैतन्मठे द्विविष खत परतन्त्रमेदात् । 'स्वतन्त्रो भगवान विष्णुनिदापोऽशेपसहुणः ।' अखतन्त्रमनेफ स्वादात्मानात्मादि. मेरमा ॥ (तत्वविवेके) मेदपयकारमका प्रपयोऽनादिः परमार्थव । 'जीवेश्वरमिदाचैय जडेभ्यरमिदा तथा जीवमेदो मिथश्चैव जर जीयमिदा तथामिप जडभेदोऽयं मपञ्चो भेदपञ्चकः सोऽयं सरसोऽप्यनादिश्च सादिशेमारामामुयात् ॥ न च नाशं प्रयास्येष नवासी भ्रान्तिकरिपतः । फरिपतनिवर्तत न घासी षिनिद.

- - प्रस्तावना। १३ तते ॥द्वैतं न विद्यत इति तस्मादशानिनां मतम् । मतं हि शानिना- मेतत् मितं पातं व विष्णुना ॥ दस्मान्मात्रमिति प्रोक्तं परमो हरिरेषतु ॥ एतेन 'प्रपञ्चो यदि चर्तेत निवर्तेत न संशयः। माया- मात्रमिदं द्वैतमद्वैतं परमार्थतः' इति माण्डूक्यकारिकाऽपि गतार्यो वेदितव्या द्वयोर्भावो द्विता, द्वितव द्वैत मेदा, द्वैत तत्वमस्मिन्मते । तथा चेदं द्वैतदर्शनमिति संज्ञां भजते सत्येष भेदे शरीरशरीरिणोः स्थूलदृष्ट्याऽमेदव्यवहाराः प्रवतिरे । सूक्ष्मदृया चमेदव्यपदेशाः । जीवब्रह्मणोरपि भेदः परमार्थ एव 'सत्य आत्मा सत्यो जीवः सत्यं भिदा' इत्यादिश्रुतेः। तथा च स्फुटमभिधीयते "विष्णुं सर्व- गुणैः पूर्ण ज्ञात्वा संसारवर्जितः। निर्दुःखानन्दमुनित्यं तत्समीपे स मोदते ॥ मुक्तानां चाश्रयो विष्णुरधिकोऽधिपतिस्तथा । तशा एव ते सर्वे सदैव स ईश्वरः ॥ इति । 'ब्रह्म वेद ब्रह्मैव भवतीति तु प्राशस्त्याभिप्राय 'संपूज्य ब्राह्मणं भत्तया शुद्रोऽपि ब्राह्मणो भवे' दिति यथा । ज्ञानानन्दगुणकत्वसाम्याचामेदव्यपदेशो घटवेतराम् । तथा च श्रुतिस्मृतिसूत्राणि 'जीवस्य परमैक्यं तु वुद्धिसारूप्यमेव तु । एकस्थाननिवेशो चा व्यक्तिस्थानमपेक्ष्य सान स्वरूपैकता तस्य मुक्तस्यापि विरूपतः । स्वातन्यपूर्णते अल्पत्वपारन्ये विरूपते ।' 'भिन्नाः जीवाः परो भिन्नस्तथापि वानरूपतः। प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वश: ' 'तहुणसारस्वात्तव्यपदेशः प्राज्ञव' दिया- दीनि । एवेन 'तत्वमसी' स्यादिकममि व्याख्यातं साश्यामिमायम् । तत्पदों- तरषघ्या लका वा तच्छेषभूतस्त्वमिसेवेपरमिदम् । आधिपत्यनिवन्धनाथ जग- ब्रह्मामेदव्यपदेशाः। एकविज्ञानेन सर्व विज्ञानप्रतिज्ञा च प्रधानज्ञानेनेव प्रामस्थ ब्रह्मज्ञानेन जगतो शातत्वपरा सादृश्यत एकस्य ज्ञानतोऽन्यज्ञानसम्भवपरा च । जीवाना ब्रह्माशत्वं च सहशरवे सत्यल्पत्वलक्षणं महीधरादेरिवशित्वं गोपुरादे- बोध्यम् । अंशांशिभावेन वामेदव्यपदेशोऽस्ति कृतो जीवब्रह्मणोः । अंशत्वाभिप्रा- यक एवं स्वादभेदभावनोपदेशोऽपि । वस्तुतः खाधिकरवेनैव हरेर्भावना स्यात् पुंसः श्रेयसे । तया व लौकिडी नीतिः 'यातयन्ति हि राजानो राजाऽहमिति चादिनः। ददात्यखिल मिष्टं च स्वगुणोक्तप्रवादिने ॥' इति । "जीवानामशुत्वं शातत्वादि च । भखि च जीवेषु श्रीपुंजातिभेदः । मोक्षे चानन्द- १४ मानमेयप्रकाशिकायां तारतम्य मुक्तानां मतम् । नित्यमुक्तानात्र सम्मताः। लक्ष्मीरेकैवतु जीवकोटिप्रविष्टा निसदेवती मता विभ्वी च । तत्परश्च पुरुषोत्तमः सद्गुणगणो विष्णुनारायणी मुक्तेश्वरः शास्त्रकवेद्यः परब्रह्म । यथोच्यते 'सदागमैकविज्ञेयं समतीतक्ष- राक्षरम् । नारायणं सदा वन्दे निर्दोषाशेषसहुणम् ॥' (विष्णुतत्वे) इति । 'ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षरा लक्ष्मीरक्षर बेहत्वादक्षरा तत्परो हरिः ॥ खातन्यशक्तिविज्ञानसुखाये. रखिलैर्गुणैः। निम्सीमत्वेन ते सर्वे तदशाः सर्वदैव च ॥ इति च । शास्त्रखरूपं च वर्णित रकान्दै 'ऋग्यजुः सामाथर्वा च भारतं पाञ्च- राधकम् । मूलरामायणे चैच शास्त्रमित्यभिधीयते॥ यच्चानुकूलमे- तस्य तय शाखं प्रकीर्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुधर्म तत् ॥' इति । परमपुरुपगुणगणानपूर्विका सेवामतिश्च पुरुषस्य निःश्रेयससाधनम् । सेवाच विविधा भकननामकरणभजनभेदात् । अङ्कनमत्र तप्तचक्रादिमुद्राधा- रण भगवद्रूपस्मारकम् । भगवत्सम्बन्धिनामकरणं च पुत्रादेर्भगवनामस्मृत्यर्थम् । मजनं च दशधा । वाचा सस हितं प्रियं खाध्यायः । कायेन दानं परित्राणं परि- रक्षणम् । मनसा या रहा श्रद्धा च । एककमपि निष्पाद्य नारायणे समर्पण भजनम् । एवंविधभजनादिप्रीतपरमपुरुषप्रसादानिःश्रेयस निर्विशः निष्पत्यते 'यस्स प्रसादात्परमार्तिरूपादनासंसारामुच्यते नापरेण । नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मा' (नारायणस्मृती) इत्यादिवचन निचयप्रामाण्यादित्येतन्मतसङ्केप । एतन्मतेऽमेदयुतीनाममुपयार्पता । जीवानां प्रमोशत्वमप्यमुख्यमेव । एक- मरत्वैवदेश दि मुख्यमंशत्वम् । तभानेति । केवलादेतस्स य प्रवर्दकः शहरावतारः शङ्कराचार्यः । एतन्मतसपो यथा- भमिसस भेदः सम्भवेनामोपाधिमेदतः । मिनस त्वमेदो मेव घटेत । अतोऽमे- थुक्यो मुख्याः । नेदश्रुतयख यल्पितमेदावलम्भना मोभ्याः । निरस्त. प्रमसमेदारमानन्देकरस सामानं प्रोव परमार्यतः 'सत्यं शानमनन्त मा मानन्दो ग्रह 'एकमेवाद्वितीयम्' इत्यादिश्रुतेः। अनादविद्यया रोहिनसस्पे तामधेर नानाविधा मेदामासाः । तमाचेतनदानामविवादित मारवादपारमापंमेप । जीवनरूप तु परमापः। 'तत्सत्यं समात्मा प्रस्तावना। तत्त्वमसी' ति सत्यव्रह्मामेदस्य तस्मिन् बोधनात् । जीवभावः पुनः कल्पित एव । एवमीश्वरभावोऽपि मायोपाधिकरवान्मिध्यैव योध्यः। मायोपहितं चैतन्य- मीश्वरः। अन्तःकरणोपहितं चैतन्यं जीवः । ईश्वरस्य चैतन्यस्य वान्तःकरणेषु प्रतिविम्वमेदा जीपा इति च भूयोवादः । उपहितवादे महायाशांशस्वमिव घटाराशादेजॉवस्य ब्रह्मांशत्वम् । परिमाणं चास्य पारमार्थिकमनवच्छिन्नमेव । औपाधिकं तु परिच्छिन्नम् । ईश्वरस्तु सगुणब्रह्मशन्दितो मायोपायेयापकत्वा- ध्यापक एव । सृष्टयादिकार्योपयोलितयाऽनेनेय उद्भूततत्तगुणमायामयनवर्मुसा. दिरूपपरिमहात् त्रिमूर्तिसाम्यं च व्यवहारदशायाम् । अविद्या च प्रपयोपादानभूताऽनादिरनिर्वचनीया तत्त्वज्ञानोदयादन्तवती च । तत्वज्ञानं च 'तत्वमसी' ति वाफ्यजनितमपरोक्षात्मकं निर्विशेषब्रह्मात्मैक्यवि. शानमेव । एवम्भूतनिर्गुणपरब्रह्मविद्यानधिकारिणोऽप्यनुकम्पयितुं पुनः सगुणा. परब्राह्मोपासाविषयः प्रवृत्ताः। गुपयोपासनार्थाः मायिका एव । उपासनया पगुणब्रह्मणस्तलोकं प्रातानां तव चित्तपरिपाकाभिर्गुणमा विद्याधिक्रियायो पुनः परमा मुकिरपि नासम्भवा । उर्फ च फ्ल्पतरौ निर्विशेष परंना साक्षात्कर्तुमनीभ्यराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरू पणैः ॥ वशीकृते मनस्येपां सगुणब्रह्माशीलनात् । तयापिथे. साक्षादपेतोपाधिकल्पनम् ॥' इति । फेवलस्य निर्विशेषस्य प्राण एकस्यैव पारमायॊपगमालेवलादितनानाऽत. नाना च व्यपदिश्य मतमिदम् । महान्याविवादिकम्पन इधरतणान गायिरपकपनं मसेऽस्मिन् शुवि. विप्रतीपम् । अचितोऽपारमावर्णनं चागन्तलप्रतिपादनात्तस्वानुपपरमेव । गीतायामपि मायायावरणमेव नया इव परपारमाप्तिफलं पर्दते। न तापता मायाया पिनासः निरोगया इस । भविगाचिभापस शापारमाय नोपगमाई. मिति दिरु।

मानमेयप्रकाशिकायां रमना कार्यात्मना जीवात्मना च । तथा च ध्रुतिः 'त्रिविधं ब्रह्ममेतत्' इति । हे च शक्ती स्थ ईश्वरस भोग्यशक्तिभोक्तशक्तिश्चेति । भोग्यशक्तिर्नामा. माशादिरूपाचेतनपरिणामापत्तिः । भोक्तृशक्तिवेतना पीवरूपेण व्यवतिष्ठते । तथा चाचेतनप्रपञ्चोऽपि ब्रह्मकार्यत्वात्परमार्थ एव । बाचारम्भणश्रुतिध न कायमिथ्यात्वमाह, किन कारणानन्यत्वम् । कारणमेव तु कार्यात्मनाऽवतिष्ठते । मृत्समन्वितं हि कार्यमुपलभ्यते । विष्वपि कालेषु धारणाधीन कार्यम् । नाव महिषवद्देशतः कालतो या व्यतिरिकमुपलभ्यते । कारणसावस्थामा च कार्य व्यतिरिकाव्यतिरिक्तं व्यवहारालम्रनम् । आगमापायित्वाच्चैतदन्तमनित्यमिति च व्यपदिश्यते । तदर्थगेय 'मृत्तिकस्येव सत्यमित्युक्तम् । एवं च कार्यस्य सत्यत्वं कारणतो मिनागिनत्वं च न तु मिथ्यात्वमिति स्थितम् । कार्यमिथ्यात्वाय मायावादिमिरारिताऽनिर्वचनीयाविद्या स्वनिर्वचनीयैव । यथोच्यते 'यस्था कार्यमिदं कृत्स्नं व्यवहाराय कल्पते। निर्वक्तुं सा न शक्येति वचनं धञ्चनार्थकम् ॥' इति । सशक्विविक्षेपेण भवत्युपादनं ब्रह्म प्रपञ्चं प्रति । 'अप्रच्युतस्वरूपस्य साक्तिविक्षेपलक्षणः । परिणामो यथा तन्तुनामस्य पटवन्तुषत् ॥' परिणामा एप ब श्रुतिसूत्रनिद्धो सिकारादिसम्प्रदायागतः । तथा च वाक्य 'परिणामस्तु स्याध्यादिव' दिति । ब्रह्मकार्यस्य च ब्रह्मावस्थारूपस जगतो ममतो मेदोऽभेदद्या उपाय'कार्यरूपेण नानात्वममेदः कारणात्मना। हेमात्मनायथाऽमेदः कुण्डलाधात्मना भिश' इति । न च भेदाभेदयो. विरोधः। प्रमाणप्रतिपनायादेव । 'एकस्यैकत्वमस्तीति प्रमाणादेव गम्यते। नानात्यं तस्य तरपूर्य फरमाझेदोऽपि नेष्यते ।। तथा च 'यत्प्रमाण परिच्छिन्नमविरुद्धं हि तत्तथा। वस्तुजातं गधाभ्वादि मिशामिन्नं प्रतीयते ॥ इति । जीवात नालन्तं भिवा इचरात् । किन्त्यानेविस्फुलिङ्गा इव वायोः प्राणादय इव भोगाीय प नमशभूतासस्थान्तःकरगोपाध्यवरिउमप्रदेशभेशात्माः। गुरतु तदमे एक । परमेश्वरभावयोग्यानामप्येषामविपत्ति विप्रतिपत्तिलक्ष. गानाविदपा रामदेपरपितान्तरमाणो नानाविधPAणर्मगठिमिर्भवति संसा- ART. FAIR पिकामतापोहतानी प्रामाभेदमापनाज- निताकारेण पनि मखापर्गः । कर्मसमुचितमेव च गाने मतं प्रस्तावना मुक्तिसाधन 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इति सूत्रयतः । कर्म चारादुपकारकमभिमतम् । अविद्याश्ममूलकस्य पन्धस्य निवृत्तौ च ज्ञानकर्मवि- शेषयोरपेक्षा युज्यत एव । पारमार्थेऽपि प्रपञ्चस्य खाविद्याकर्ममूलस्य स्वीयान- र्थ स्यैवं सदुपायतः परिहरणसम्मवान्न मुक्तिसिद्ध्यर्थमपि मिथ्यात्यं तस्याभिमन्त- व्यम् । मुक्तिश्च न निःसम्बोधलक्षणा चैतन्यमात्रपरिशेषात् निराखादलक्षणा वा । किन्तु सार्वत्यसर्वशक्त्याविष्कारेण निरतिशयसुखसंवेदनलक्षणैवेति । मिनाभिन्नत्वाभ्युपगमवावद्विरुद्धः । न च दृष्टत्वादविरोधः । धर्मिभेदस्य धर्माभेदस्यैव च दर्शनात् । न च तयोरपि भेदाभेदी सम्भवतो विरोधादेव । एवं शक्तिशक्तिमतोरपि भेदाभेदी न सम्भवतः । अभेदे ब्रह्मण्येव विकारापत्तिः। भेदे च, शक्तरेवोपादानता स्यात्, न तु ब्रह्मणः । एवं ब्रह्मणः सर्वज्ञलेन खांशभूत. जीवदुःखप्रतिसन्धानावश्यम्भावनापुरुषार्थान्वयप्रसङ्गति विचारणीय सुधीभिः । यादवप्रकाशीयप्रकिया यथा-सच्चिदानन्दमानं परब्रह्मैव सर्वशक्तिमदीश्वर- रूपेण विचित्र जडजीवरूपतच विपरिणतं भवति समुद्र इव फेनवुहुदतरङ्गभेदतः । उपादानोपादेययोश्च भेदाभेदो खाभाविको । तत्राऽचिच्चिदशेषु विकारदोषप्रसङ्गेऽपि निर्दोपः समस्तकल्याणगुणक एवेश्वरांशो व्यवतिष्ठते । सर्वत्र तादात्म्येनाऽनु- वृत्तारपि ब्रह्मणश्चैतन्यस्याचिदंशेषु नित्यमनुद्भवो रनगन्धादिनयात् । भेदतो गुण- दोषव्यवस्था। अभेदतश्च समानाधिकरणव्यपदेशाः। भेदसमानाधिकरणाभेद- लक्षणं तादात्म्यं च सामानाधिकरण्यार्थः । चिदचितां ब्रह्मणो भेदभेदाभावावेकर- पावेव वक्तव्यो, तथैव श्रुतेः । यन्धः परमार्थ एवात्रापि मते । प्रतिवन्धनिति ब्रह्मसम्पत्तिलक्षणे द्विरूपे मोक्षे साधनमपि द्विरूपमेय मतं फर्मशानलक्षणम् । तपा च श्रुतिः 'विद्या चाऽविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु तीर्ण विद्ययाऽमृतमश्नुते ॥' इति । निष्पतिपर्यन्तं विद्यायां सन्निपत्योपगारकरयमपि सम्मतं निष्कामकर्मणः 'तमेतं घेदानुवचनेन ब्राह्मणा विविदिपन्ति यशेन दानेन तपसाऽनाश- केन' इत्यादिश्रुतेः। थम च सनन्तस्थले सन्प्रान्वये करणतृतीयान्वयम्यु. परया असिना जिघांसतीत्यादिस्थलसिद्धया यज्ञादिकरणत्वं वेदनस्यैव सिसाधषि- पित्रस्य विवक्षितमिति । माध्यैव मोक्षगतनानाविशेषाणां कर्मापेक्षत्यनिध्यते । मायायादिनस्तु विविदिपायामेव कर्मणामुपयोगमाहुः, न विद्यापाम् । मस मामार्य विचारः।

मानमेयप्रकाशिकायां 'ईश्वराव्याकृतप्राणैर्विराह सिन्धुरिपोर्मिभिः। यत्मणत्य दिया- भाति तसै सहह्मणे नमः । (कालायनकारिका) इति प्राचीनपशिम: सर्वानुगतसहक्षणब्रह्मवाद एव यादवप्रकाशादिभिः परिष्कृत इति ध्येयम् । अनन्तजडीवरूपेण ब्रह्मण एव परिणामादनन्तविकारादिदोपास्पदत्वादनिर्मोक्ष एव। भेदाभेदविरोधोऽपि तदवस्थः। सर्वेश्वरस्यैव सर्वसापरत्वस्य 'तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्' 'न तत्समचाभ्यधिः कश दृश्यते' इत्यादिषु श्रुतत्वेन तदधिकसन्माननमकल्पनाऽसम्भवश्चेत्यादि समाकलनीयमत्र मते। निम्बाकायतत्वनिरूपण प्रणाली घेयम् । खतन्त्रराताश्रयो विभुरेक्धेतनो देव- देवो रमाकान्तो वासुदेवः परब्रह्म। स एवाचिन्त्यस्वाभाविकखरूपगुणदाचिभि- महत्तमः सर्वनियाता संसारबन्धस्थितिमोक्षाणां भवति निर्वाहकः । परतन्त्रसत्ता. भयाश्चेतना जीवा अणवोऽसयाता नित्याश्च । द्वेधा च ते यद्धमुक्तभेदात् । मुका अपि देव-नित्यनिवृत्ततमसो गरडविष्वक्सेनसनन्दनादयो नित्यसिद्धा उपायनिगृततमसः साधनसिद्धाश्चन्द्रध्वजाय इति । परतत्रं सजर्ड निविध प्रकल विकालकर्मभेदात् । परतन्त्रं सदनमपि विशुद्धसत्वात्मकं द्रव्यमप्राकृतमचेतन. मस्तीरयके । भगवदभिन्ना पराशक्तिर्या खप्रकाशास्ति चेतना सैव भगवद्विग्रहात्मना गगवलोकारमना च भवतीति मन्यन्ते परे । 'साक्षात्मकृतिपरोऽयमात्मा गोपाल 'साक्षाद्रल गोपालपुरी' इत्यादिश्रुतेः 'दर्शयामास खं लोक गोपानां तमसः परम् । सत्यं शानमनन्तं यद्रमज्योतिः सनात. नम् । इत्यादिस्मतेचा निन्यादिलदशाटोकीमाप्ये विस्तरः । धेतनाचेतनाना परमात्मनः शक्तिभूतानो तो मेदोऽस्येव परमार्यतः । तद. पीनतित्यतया यत्वाभ्यो नातिमत्तदात्मकत्वेन बामेदवणमपि नानुपप- मम् । तपा चे सयंत 'सर्व समामोपि ततोऽसि सर्प' 'योऽयं तवा. गतो देव समीपं देयतागणः । स त्वमेव जगत् स्रष्टा यता सर्प. गतो भवान् ॥ इति । 'प्रकृतिर्याऽस्योपादानमाधार पुरपः परः । सतोऽमिपसका कालो प्राध तनित्तय त्यहम् ॥' इति । उपठोकि- तपाययों दरासप निम्बार्याचाग 'सर्व हि विज्ञानमतो यथार्थक भुतिस्मृतिम्पा निखिलम्य यस्तुना । प्रमात्मफत्यादिति वेदवि- म्मतं तिरुपतापि श्रुतिसूपसाधिता।' इति । समन्वयसूमव्याख्यान्ते प्रस्तावना .. चाभाषि 'तस्मात् सर्वज्ञः सर्वाचिन्यानन्तशक्तिविश्वजन्मादिहेतुर्वेदैकप्रमाणगभ्यः सर्वमिन्नाभिन्नो भगवान् वासुदेवो विश्वात्मैव जिज्ञासाविषयः, तत्रैव सर्व शास्त्रं समन्वेतीयोपनिषदानां सिद्धान्तः' इति । भगवद्गुणविप्रहाणां तु भगवतोऽनन्यत्वमेव । अथापि भेदप्रतिपत्तिव्यवहारी विशेषात्सङ्गच्छेते । विशेषो नाम भेदप्रतिनिधिः सत्ता सत्तावतीसादिप्रतीवेनिर्वा- हकः । माध्वरप्ययं विशेषोऽजीकृत इति बोध्यम् । परब्रह्मभूतः पुरुषोत्तमः सर्वावताररूपधारी श्रीकृष्ण एव सह राधया मुमुक्षु- पास्यः । तदुक्तं दशश्लोक्याम्-'स्वभावतोऽपास्तसमस्तदोपमशेषकल्या. णगुणेकराशिम् । व्यूहागिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमले- क्षण हरिम् ॥ अङ्गे तु वामे वृपभानुजां मुदा विराजमानामनुरू. पसौभगाम् । सखीसहस्रः परिवेष्टितां सदा सरेम देवीं सकलेट- कामदाम् ॥ उपासनीयं नितरां जनैः सदा प्रहाणयेऽज्ञानतमोनु- वृत्तेः । सनन्दनायैर्मुनिमिस्तथोकं श्रीनारदायाखिलतत्त्वसा- क्षिणे ॥ नान्या गतिः कृष्णपदारविन्दात्तन्दृश्यते ब्रह्मशिवादि- वन्दितात् । भक्तेच्छयोपात्तसुचिन्त्यविग्रहादचिन्त्यशकेरविचि- न्यसाशयात् ॥' इति । (अविचिन्त्या ब्रह्मादिभिः सा लक्ष्मीः, तस्या आशयो भावो यस्मिन् तस्मात् ) भन्न च 'व्यूहागिन मिति नानावताररूपवत्त्वं श्रीक. ष्णस्योक्तम् । 'नेह नानास्ति किञ्चन' 'सर्वत्र च स्वगतमेदवियर्जि- तात्मा' इति ब्रह्माणि मेदनिषेधाचे कस्यैव नानावताररूपधारस्त्वं युक्तम् । अन्यथा तु नृसिंहादीनामपि परब्रह्मत्वस्य नृसिंहतापनीयादिसिद्धत्वेनावतारेपु चेत- नभेदे ब्रह्मणि भेदः प्रसज्येत । चेतनेत्येऽप्यवतारेषु कलाशादिभेदवर्णनं स्वनन्तगु- पशगुणशक्त्याविष्कारतारतम्यनियन्धनं स्यात् । कृष्णस्य तु पोडशकलापरिपूर्ण त्वमेव 'कृष्णस्तु भगवान् स्वयम्' इत्यादिवचननिचयप्रामाण्यादित्याशयः । भर्यपञ्चकं च ज्ञातव्यत्वेन सहीतं यथायथं खागायोपादानाय वा 'उपा- स्यरूपं तदुपासकस्य च रुपाफलं भक्तिरसस्ततः परम् । विरो- धिनो रूपमथैतदाझेया इमेऽा अपि पञ्च साधुभिः ॥ इति । (कृपाफल प्रपत्तिः) भक्तिरसच भवति पयचा स्मर्टमाषनाभेदारछान्तिदास्स- सख्यपारसल्यौपल्यपूर्वः । तत्रायो वामदेयादेः। द्विवीय उवादेः । तृतीयोऽ- र्जुनादेः । चतुर्षों बसुदेयादेः । पयमो रापापविमण्यादेः। प्रेमविशेषक्षायाः 6 मानमेयप्रकाशिकायां परमभसेतुः श्रवणादिका नवविधा भक्तिरपरा। तथा च दशश्लोक्या.पठ्यते 'कृपास्य दैन्यादियुजि प्रजायते यया भवेत् प्रेमविशेषलक्षणा । भक्तियनन्याधिपतेर्महात्मनः सा चोत्तमा साधनरूपिका परा.' इति । इयं च दे॒धा विधिप्रवृत्ता रुचिप्रवृत्ता चेति । महेश्वर्यप्रधाना द्वारकेशवि- पयादिमा । मधुरैश्वर्यप्रधाना मजेशविपया चान्तिमा । इयं च झमान्माहेश्वरी भक्तिमाधुरी भक्तिरिति संज्ञा लभते । विस्तरस्तु दशश्लोकीमाप्यादी इष्टव्यः ।। अपमाचारों नियमानन्दापरनामधेयः सुदर्शनांशो वर्ण्यते । एतदाप्यव. मुहार्थ च दशश्लोकीभाष्यस्थः श्लोकोऽयमद्भियते 'ब्रह्म सत्यं जगत्सत्यं सत्सं भेदमपि ध्रुवन् । निम्बार्को भगवान् विद्भिः सत्यवादी निरायते' इति । शक्तिशत्तिमद्भावेन जगह्मणोरभेद उच्यतेऽन। शतः शकिमतः स्वरूपा- देदे परमार्थसति कथमभेदो मुख्यः स्यात् । भातश्चेदभेदोऽपृथक्सिङ्ख्यादेमन्येत तहि विशिष्टाद्वैतस्य प्रसासनमेव मतमिदं सम्पद्येत । गुणगुणिनोरपि पृथक्सिद्ध्य- भावमानम् । न स्वभेदो युक्तः । गुणानां बहुत्वादुगिनस्वेकत्वात् । न च गुणानां समात एको गुणीति वाच्यम् । सद्भातस्य सहातिभ्योऽनतिरिक्तवादतिरिकरवे वा तरामभूतस्य धमिरवायोगात् । गुणातिरामविवक्षया पुनः कचिदभेदव्यपदेशः "जोयलेभ्वर्यमहाययोघसुवीर्यशयादिगुणैकराशिः ॥' इत्यादी तपोऽतिशयविवक्षया तप एव मूर्तिमदित्यादिव्यपदेशवत् । ब्राह्मण एव लोफरूपेण विग्रहरूपेण चावस्थानमिति च वर्णनं न चारुतरम् । सावमवत्वादेखरिमन् प्रस- तात् । प्रमाणस्य चान्यपर्यात् । किश ब्रह्मस्वरूपरवे निपाद्विभूतेस्तदपेक्षयापी- पया लीलाविभूतेरपि प्रदासस्पत्यमेव ले नेष्यते। वस्तुतः परस्य ब्रह्मणः परशकिपस विभदाचारमना परिगामशीलस्याप्राकृतस्यापि द्रव्पस्य स्वप्रकाशस्य प्रारमयस्य ग्रहाशम्देन व्यवहारोऽस्ति प्रतः शानेषु । नियमहरगुणवत्सर. म्माध रूखरूपयोरभेदनिर्देशोऽपि सङ्कटतेवि ध्येयम् । अम सम् । प्रवक्यास श्रीयमाचार्यों वैश्वानरः । प्रक्रिया वतीया उनुपर्यते-एकमेव तत्वं परममा तदेव रिरम सहल्प्यात्मनो पहुमायं सरसा. मुरितः रापिदाननांगजनीपान्तमिरे विकतवे ऐगेय कटरमुश्वाधारनना। तपापयुवः स एकाफी न रम सद्वितीयमैच्छत्' वक्षत माशा मजायेयेति' 'दामान सयमपुरतं' हलादिका । खदोऽनव.

- प्रस्तावना। २१ च्छिन्नज्ञानानन्दैकलक्षणस्य ब्रह्मणो गुणतिरोधानमन्तरा कार्यवैचिश्यस्य रमणमयो- जफस्यापदमानतया तदिच्छात एव चिदंश मानन्दस्य सदशे ज्ञानानन्दयोध भवति तिरोधिः । तदुक्तं तत्वदीपनिवन्धे वल्लभाचार्येण 'या स्यां मजायेयेति वीक्षा तस्य ह्यभूत्सती। तदिच्छामात्रतस्तसाद्रमभूतांशचेतनाः॥ सृष्ट्यादौ निर्गताः सर्वे निराकारास्तदिच्छया । विस्फुलिङ्गा इवा. मेस्तु सदंशेन जडा अपि ॥ आनन्दांशस्वरूपेण सर्वान्तर्यामिरू- पिणः । सच्चिदानन्दरूपेषु पूर्वयोरन्यलीनता ॥ अत एव निरस- कारौ पूर्वावानन्दलोपतः। जडोजीवोऽन्तरात्मेति व्यवहारसिधा मतः॥ इति । तिरोहितमानन्दमनु विरोधीयते पाडण्यमपि । तथा च सूर्य 'परामिध्यानात्तु तिरोहितं ततो ह्यस्य वन्धविपर्ययो' इति । तत्रैश्वर्यति- रोधानाद्दीनत्वपराधीनत्ये । वीर्यस्य तिरोधानात्सर्वदुःखसहस्वम् । यशस्तिरोधेः धर्वहीनत्वम् । श्रियस्विरोधानाजन्मादिसर्वापत् । ज्ञानतिरोधानाद्विपर्ययः । वैराग्य- तिरोधेविषयासक्तिः । ऐश्वर्यादिचतुष्टयतिरोधानान्धः शेषयोस्तिरोधानादहन्ताम- मतालक्षणो विपर्ययश्चेति भावः। पञ्चपर्वा चाऽविद्या खरूपाज्ञानं देह इन्द्रियेवन्त:- करणे प्राणे चात्मभावाध्यास इति । भविद्याप्रसत्ताभ्यां रागद्वेषाभ्यां प्रयुक्तन 'विविधकर्मकरणाद्भवति संसरणं जीवानां चिदंशानाम् । अन्यच्चेदम विद्याकार्य संस- रणम् । अन्यदेष तु ब्रह्मणो बहुभवनसामर्थ्यलक्षणमायाकार्य जगद्ब्रह्मात्मकम् । पारणावस्थायां कार्यावस्थायां च विशुद्धमेव ब्रह्मेष्यते हेमवत् । रत एवायं सिद्धान्तः प्रथामश्नुते 'शुद्धाद्वैत'मिति ।ब्रह्मण एव। जगदावोपगमा 'ब्रह्मवाद' इति च । विद्यया च पञ्चपर्वयाऽविद्यानिवृत्तिः । यथोक्तं निवन्धे 'तस्य ज्ञानाद्धि फैघल्यमविद्याविनिवृत्तितः। वैराग्यं साह्ययोगी च तपो भक्तिश्च केशये ॥ पञ्चपर्वेति विद्येयं यया विद्वान् हरि विशेत् । सत्त्वर- टिप्रवृत्तानां देवानां मुक्तियोग्यता ।' इति । विविधं च परब्रह्मणः स्वरूपमाधिदैविकमाभ्यात्मिकमाधिभौतिकमिति । तत्रा- घिमौनिक जगत् । आध्यात्मिकमक्षरं ब्रह्म । आधिदैविक पुरुपोत्तमः श्रीकृष्णः । क्रमाचैतप्रितयं प्राप्यं कर्ममार्गतो ज्ञानमार्गतो भक्तिमार्गतः । अक्षरब्रह्मणः सच्चि- दानन्दलक्षणस्यैष पुरुषोत्तमापेक्षया किषिदानन्दाशतिरोभाव इव भवति सृष्टी. छया व्यापृतस्यात् । अत एव गणितानन्दत्वम् । सानप्रकऽक्षरखमानन्द्रप्रय पुरुषोत्तमत्वमिति घ वर्ग्यवे । मानन्द एर च करपरणायवयवसमर्पको निराकरे २२ मानमयप्रकाशिकाय परब्रह्मणि 'आनन्दमात्रकरपादमुखोदरादिरियादिस्मृतेः । अक्षरन- झणः कार्याशावेव च प्रकृतिपुरुषो, यतो महदादिसृष्टिः । इदमेव शकलजगत्का- रणम् । पुरुषोत्तमाधारभूतमिदं धामरूप चरणरूपं तस्य हंसाकृती पुच्छरूपं च . भवति । एतदुपासनया निष्पन्नेन विशदज्ञानेनास्मिन्नेव परमात्मानुभवो भवति साध. सस्य फणस्तु भक्तिप्राप्य उत्कृष्ट एतसात्। वर्णितं चैतत्सर्व निबन्धादौ 'प्रकृतिः पुरुपश्चोभी परमात्माभवत् पुरा। यद्रूपं समधिष्ठाय तदक्षर- मुदीर्यते । मानन्दांशतिरोभावः सत्त्वमात्रेण तत्र हि । मुख्यजीव- स्ततः मोक्तः सृष्टीच्छावशगो हरिः । इच्छामात्रात्तिरोभावस्तस्या- यमुपचर्यते । ब्रह्माकूटस्थाव्यक्तादिशब्दैर्वाच्यो निरन्तरम् ॥ सर्वाव. रणयुकानि तस्मिन्नण्डानि कोटिशः । मुलाविच्छेदरूपेण तदाधा- रतया स्थितः ॥ प्रभुत्वेन हरेः स्फूर्ती लोकत्वेन तदुद्भवः । अन्त. पास्यवतारादिरूपे पादत्वमस्य हि ॥ हंसाकृतित्वकथने पुच्छत्वं परमात्मनः । तदुपासनया ज्ञानात्परमात्मत्वमस्य हि ॥ ज्ञानमार्ग घेतदेव सेव्यं कृष्णस्ततोऽधिकः ।' इत्यादौ । भव्यक्तोपासनमार्गाद्भगवद्भक्तिमार्ग एव सुकरो रसपूर्णश्च । ज्ञाननिष्टानामक्षरब. दण्येव लयः । भक्तिनिधानां तु अलौकिकाकारसम्पत्यर्थ मेव तत्र प्रवेशः। ततः' परमपुरपेण खकीयतापरणेन कृपात उद्धारण स्वीयदिव्यलीलानन्दानुभावनं चेति निशेपः उ र शुद्धाद्वैतमार्तण्डे 'मामेव ये प्रपद्यन्ते मायामेतां तरन्ति है। इति वाफ्यातु भक्तानामविद्याविनिवृत्तितः॥ अलौकिकाका- रसिद्धये प्रवेशो हरिणोदितः। अव्यक्तोऽक्षर इत्युक्तस्तमाछुः परमा गतिम् ॥ यं प्राप्य न निवर्तन्ते तझाम परमं मम । इति वाक्येन भगवद ग्राम प्रकीर्तितम् ॥ पुरुषः स परः पार्थ भत्त्या लभ्यस्त्व. नन्यया।इत्यग्रिमेण वाक्येन गेहाधीशो निरूपितः॥ भत्तया लामो दिनिर्दिष्टो भतिवाचार्यसंधयात् । श्रीमदाचार्ययरणभजनादेव नास्यथा ॥ ब्रह्ममा छ सम्पराध परमानमहाद्विभुः। गृहस्थित सीपजीयं समुद्धरति यततः ॥ उमृती परमलेशो पिरवानल. समयः । यदा देवादिनाशाप समर्थो जायते तदा । निज थीम- रणयादा साधिकारानुसारतः ! परमानन्दलीलो तामनुभाव- यति प्रभुः ॥ इति श्रीवल्लभाचार्यचरणालरूपाभरात । प्राप्यते प्रस्तावना। २३ नान्यथा चैतब्रह्मादीनां सुदुर्लभम् ॥ ये तु शानकसन्निष्टास्तेषां तु लय एव हि । भक्तानामेव भवति लीलाखादोऽतिदुर्लभः ॥' इति । अतो भक्तिरेव कार्येति सिद्धम् । यतः श्रीमत्कृष्णचन्द्र परमफिरसस्य परिपोषकं श्रीमद्भागवतमेवातस्तनित्य- दाभ्यसनीयमिति च निर्दिदिशे निवन्धे 'प्रेम्णोऽन्यत्साधनं लोके नास्ति मुख्य परं महत् । श्रीभागवतमेवान परं तस्य हि साधनम् ॥' 'पठनीयं प्रयत्नेन निर्हेतुकमदम्भतः' इति ! प्रमाणानि चान परिगणितानि 'वेदाः श्रीकृष्णधाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं तचतुष्टयम् ॥ उत्तरं पूर्वसन्देहवारकं परिकीर्ति- तम् । अविरुद्धं तु यत्त्वस्य प्रमाणं तच्च नान्यथा ॥' इति । ( समाधि- भाषा श्रीमद्भागवतम्) 'शङ्खचक्रादिकं धार्य मृदा पूजामेव तत्। तुल- सीकाप्ठजा माला तिलकं लिङ्गमेव तत् ॥' इति याह्य लिङ्गं च वर्णित- मस्ति । तप्तमुद्राधारणं तु नानुमन्यतेऽत्र । मर्यादा पुष्टिरिति मार्गद्वयं प्रथतेऽत्र । अनयोः खरूपं चाभ्यधायि कृतिसाध्य साधनं ज्ञानभक्तिरूपं शास्त्रेण बोध्यते। ताभ्यां विहिताभ्यां मुक्तिमर्यादा । तद्रहि- तानामपि खस्वरूपबलेन खप्रापणं पुष्टिरित्युच्यते' इति । 'पुष्टिमार्गोऽनुग्रहैक- साध्यः प्रमाणमार्गाद्विलक्षण' इति च । 'पोषणं तदनुग्रह' इति श्रीभागवतव- चनं चान मूलम् । पुष्टिप्राधान्योपगमात् 'पुछिसम्प्रदाय' इति चास्य प्रसिद्धि- रिति दिन। अनेदं विमर्शनीयम्। यत्तु ब्रह्मण एव रमणार्थ वहुभवनेच्छया खांशेष्यानन्दा- दिखगुणतिरोधानं जीवादिभावश्चेति । तन्न युक्तम् । तिरोधानाभ्युपगमे हि ब्रह्म- गुणानां ब्रह्मणः सदाऽतिरोहितस्वभावत्वपरवविव्याकोपः। ब्रह्मांशानां जडजीवानां ब्रह्माभिनवोपगमाद्ब्रह्मण्येव सकलदोषप्रसक्तिश्च । न च हेमनिदर्शनेन निर्दोपत्वं साधयितुं शक्यते वैषम्यात् । कटकाववस्थायामपि न हि हेयधर्मसम्बन्धोऽस्ति। जगति तु हेयधर्मा बहवः समुपलभ्यन्त एवेति । ब्रह्माशानां तेषां ब्रह्मभिनवो- पगमे तु विशिष्टाद्वैतसिद्धान्त एवोररीकृतः स्यात् । वात्मानन्दमसन्तमिव कृत्वा खात्मैकदेशेष्वेव दुःखाद्युत्पादनेन रमणमपि तामसकृयं न परस्मिन् ब्रह्माणि समच्छेततराम् । किय निरेशस्याखण्डस्य च भगवतः खरूप एनांशभेदपरिक- रुपनं तेषां ततो ध्युचरणकल्पनमप्ययुक्तम् । न चाऽदितीयत्वश्रुत्याने जडनी- प्रस्तावना २५ नानां सिद्धयति । थाधोमिधूमनिदर्शनेनोर्णनामिनिदर्शनेन च विशिष्टस्यैव ब्रह्मणो जगद्धेतुभावोऽवगम्यते । यथोर्णनाभिः स्वशरीरैकदेशोविशिष्टषेण लुतायामु. पादानं विदरणेच्छया निमित्तं च । एवं सूक्ष्मचेतनाचेतनशरीरकं ब्रह्मोपादानं जगत्प्रति सङ्कल्पतो निमित्तं च । विशेष्यविशेषणभावापन्नतत्वत्रयसवातात्मकं च जगत् । 'हन्ताहसिमास्तिस्रो देवता अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' 'इदं सर्वमसृजत यदिदं तिञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनु प्रविश्य सच त्यञ्चाभव'दित्यादिश्रुतेः तथा च कारणभूतसूक्ष्मचेतनाचेतनविशिष्टब्रह्मणो ज्ञानेन कार्यभूतस्य स्थूलचेतना- चेतनविशिष्टब्रह्मरूपस्य जगतो ज्ञातता कार्यकारणयोरनन्यतया सम्भवतीवि सत्कार्यवादनिरूपणेन जगतो ब्रह्मात्मक्त्ववर्णने विशिष्टैक्यव्यवस्थापने च सद्विद्या. यास्तात्पर्यम् । एतेन मृत्पिडघटादिनिदर्शनेन क्षीरनिदर्शनेन च स्वरूपपरिणाम एव स्थाद्विवक्षितो न तु विशिष्टस्य विशिष्टं प्रत्युपादानभाव इति शङ्काऽपास्ता । क्षीरत्वदधित्वपिण्डत्वघटस्वादिहेतुहेतुमद्भावावच्छेदकधर्मस्थानीयत्वात्सूक्ष्मस्थूल- पिदचिद्वत्वस्य । भवस्थान्तरापत्तिमाने मृत्पिण्डघटादिदृष्टान्तोपपत्तेः सहकार्यनपे. क्षकार्यकरत्वे क्षीरनिदर्शनोपपत्तेश्च । तथा च सूत्रं 'उपसंहारदर्शनानेति चेन्न क्षीरवद्धि' इति । तत्तत्स्थूलसूक्ष्मचेतनाचेतनशरीरविशिष्टषेण ब्रह्मण एवं कार्यत्वं कारणत्वं च खरूपपरिणामाभावेऽपि तत्तदवस्थचेतनाचेतननियमन- विशेषलक्षणावस्थामेदतो मुख्यमेव प्रसिद्ध श्रुतिस्मृतिषु । शाकप्रमाणके च यथाशास्त्रमेव प्रतिपत्तव्यम् । विशिष्टयोः कार्यकारणयोरेक्योपगमाचार्य सिद्धान्तो "विशिष्टाद्वैत'नाना प्रथते नाम। तत्वनये तावदपेतन भोग्यजातं भोक्ता च जीववर्गः प्रसिदतर एव लोके । एताभ्यामेव सकललोकयात्रानिर्वाहे कृतं नियन्त्राऽन्येनेति निरीश्वरवादस्तु न शोमनः । सर्वनियन्तुविरहे कस्यचिदराजराज्यवद्वहुराजकराज्यवदा लोक- व्यवस्थाविप्लवस्थावर्जनीयत्वात् । अतः शक्यमभ्यूहितुं स्यात् कश्चित्सर्वेपो नियन्ता यच्छासनतोऽनादेः कालादविच्छिन्नसोतीरूपेण प्रवर्तते लोकयात्रा व्यवस्थितया मर्यादयेति । भावयति च श्रुतिः सर्यनियन्तारमानन्दमय परमात्मान. मन्दिा 'भीपासादातः पयते भीपोदेति सूर्यः भीपास्मादग्निश्चे. न्द्रय मृत्युर्धावति पञ्चम' इत्यादिका । अतः सर्वेवरोऽपि माननीय एव ययाप्रमाणमिति स्थितम् । एतेषां तस्वाना सरूपमैदोपगमादधतेमुख्यत्वम् ।

मानमेयप्रकाशिकायां शरीरशरीरिभावोपगमाद्धटकथुतेर्मुख्यत्वम् । शरीरवाचिनां निष्कर्षकेतरेषा शब्दानों शरीरिपर्यन्तचोधनस्वाभाव्यादभेदश्रुतेश्च मुख्यत्वम् । ब्रह्मणो निर्दोषत्व- समस्खकल्याणगुणाकरत्वयोः सुरक्षा च ।इदं च वैशिष्ट्यं विशिष्टाद्वैतमतस्य मतान्त- रेभ्यः । केवलदैतपक्षे हि क्लेशेन निर्वहणीयताऽभेदश्रुतीनाम् । केवलाद्वैतादि- पक्षेषु च ब्रह्मण्येव दोषप्रसक्तिरिति । एतदभिप्रायेणैव च श्रीभाष्यकारैर्गमीर- भाषणमारचितं वेदार्थसङ्ग्रहे "एवं च सत्यमेदो वा भेदो वा यात्मकता या वेदान्तवेद्यः कोऽयमर्थः समर्थितो भवति । सर्वस्य वेदवेयत्वात् सर्व समर्थि- तम् । सर्वशरीरतया सर्वप्रकार ब्रह्मवावस्थितमित्यभेदः समर्थितः । एकमेव ब्रह्म नानाभूतचिदचिवस्तुप्रकारं नानात्वेनावस्थितमिति गेदाभेदो। अचिवस्तुनश्चि- वस्तुनधेश्वरस्य च खरूपसमाववैलक्षण्यादसहराच भेदः समर्थित' इति । भन्न तापर्यीपिका 'परोकोऽभेदो भेदाभदौ च भेदश्रुतिविरोधादमुख्यत्वाच्च न प्रामाणिकी। भेदश्रुयविरुद्ध भेदाभेदावभेदश्चास्माकमभिमत इत्यस्माकं भेदपक्ष एयेति भावः' इति । प्रकार्यकत्यपराऽभेदश्रुतिः । एकस्यैय नानाप्रकारकत्वपरा भेदाभेदश्रुतिः । प्रकार प्रकारिणोः प्रकाराणां च मियो भेदपरा भेदश्रुतिरिवि यावद। एतेन जगमगो)दस्याभेदस्य च प्रतिपादनात्तत्र तत्र जैनगन्धित्वमित्येतत्सिद्धान्ते दूपणोद्धावन परपामनपसरं व्याख्यातम् । भास्करादिपक्ष एष तु तत्सद्दतिरिति निमावनीयम् । जगदम्देन ब्रह्मपर्यन्त विवक्षायामभेदप्रतिपादनं चेतनातन- मात्र विवक्षायां च भेदप्रतिपादन मिति यावत् । मित्वेऽपि समानाधिकरणव्यपदेशाईत्वलक्षणं तादात्म्यं जगतो ब्रह्मतोऽ- पृपपिरादेः । मत्वायप्रत्ययानपेक्षमामानाधिकरवे चेयमेव नियामिका । शरी- रस्य पारमारथविरादर्स व्यवस्थितम् । तथा च शरीरतया नियतप्रकारभूतसर्व- पेतनातनविशिष्टमोरयं 'सवै सल्विदं ब्रहो' स्यादि समानाधिकरणपायाः पासति । अंशुमदादिवसापातर्भाव इस बातचित्ता शरीरपरमा- स्मान्तीयो विशिष्टयपर्यरसायी विभायः । इदमेव व विशिष्टाद्वैतं श्रुति परम्-पत् पनस्तापचिरप्रकारविशिष्टस अक्षणोऽद्वतं समाभ्यधिकरा- RAI । मादिरमे सब जगरपति सपेविषकारणवस्य प्राप्येय प्रति- पारनाराजगारमापरेण समस्यान्यस्य प्रतिषेपः फलति । पराधिकरणे घेतः परोन्यः प्रीिपिर एसेटीदमेव विशियादेत स्पधराभिमतमिति सिायते । 'शारीरक मल प्रमीमांण नाम पास्पद प्रपन्तधिमान्तय समयति ।

प्रस्तावना। शारीरशब्दो हि सफलचिदचिच्छरीरके परमात्मन्येव मुख्य उपनिषदि प्रयुक्तश्च 'तस्यैष एव शारीर आत्मा' इति । कृतयुगसिद्धान्त इति चास्य प्रसिद्धिः । जगह्मणोः शरीरात्मभावो नारायणस्यैव सकलजगत्कारणत्वं निरुपाधिक सर्वेश्व- रत्वं विलक्षणविग्रहवत्वं मुमुक्षुध्येयत्वमित्याद्यर्थजातं हि सिद्धान्तेऽस्मिन् प्रसिद्ध स्मृतं मनुना खनिवन्धे कृतयुग एवेति । यत्त्वत्र चोयते वैश्चित्-जडजीवयोर्ब्रह्मतो भेदमाज्ञाय पुनर्विशिष्टब्रह्मान्तर्भावलक्ष- गैक्यखीकारापेक्षया साक्षादेव मेदामेदौ लाघवादुपगमाहौँ । किश्च चिदचितोर्षि. शेषणत्वमपि न घटते । व्यावर्तकरवस्वाभाच्याविशेषणानां प्रकृते च व्यावलसा- न्यस्याभावात् । किञ्च सशरीरत्वे ब्रह्मणो भोगप्रसतिथेति । तन्मन्दम् । साक्षा- झेदामेदयोर्विरुद्धयोरुपगमे जैनगन्धिताप्रसक्तः । सरलचेतनाचेतनात्मक विभूति- वैशिष्ट्यस्य च कतिपयचिदचिद्विभूतिकाद्देवतान्तरात्परब्रह्मणो व्यावर्तक्रवो. पपत्तेः । छनचामरादिपरिच्छदजातं सार्वभौमलक्षणं स्वयं व्यावहँकोटिघटितमेव यथा तस्य व्यावर्तकं भवति तथा वन भाव्यम् । सशरीरत्वेऽप्यनन्यवश्यत्वादेव भोगाप्रसकेश्च । तथा च सूत्राणि 'सम्भोगप्रातिरिति चेन्न वैशेप्यात्' 'भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत्' 'न स्थानतोऽपि परस्योभ- यलिङ्गं सर्वत्र हि' इति । सर्वत्र सदोषेषु खेच्छयैवान्तर्यामितया प्रविश्य स्थित- स्थापि परस्य ब्रह्मणोऽलेपस्वभावस्य नेय दोषप्रसक्तिः सर्वास्वप्युपनिपत्सु निदोपत्व- समस्तकल्याणगुणाकरत्वलक्षणोभयलिनस्यास्मिन् व्यवस्थापितत्वादिति 'न स्थान. तोऽपीति सूत्रार्थः । नैवान सूत्रे निर्विशेषवं स्थाप्यते किन्तु निदोपत्वमेव । गुणतोऽपि वृहत्वपरब्रह्मशब्देन वेदान्तवेद्यपरतत्वनिर्देशपूर्वक विचारशास्त्रमुपा- ममाणस्य भगवतो यादरायणस्य सविशेष एव तात्पर्य हि शक्यमुनेतुम् । मायिमतवैलक्षप्यं चान मते स्फुटं समावि तत्पसारे 'आदी मेदश्रुतीना. मनृतविपयता लक्षणा चैक्यवाचां दूरे तावत् महाणं तदुभयघ. टनातत्पराणां श्रुतीनाम् । प्रत्यक्षादिप्रमाणखरसगतिहतिस्तर्क- याघोऽपि भूयान् मायावादे तदेतत्सकलमितरथा लक्ष्मणार्यस्य पक्षे ॥' इति । तत्यमुक्ताक्पे च दर्शनान्तरेभ्यो लक्षयं व्यपारिदिशे 'एऽपाहुत्यभावादनुमिति यिपये लाघवस्यानुरोधात् शास्त्रेणया बसेये विदति विरहिते नास्तिकत्यप्रहाणात् । नायोपशं प्रवृत्तं याहुभिरुपचितं यामुनेयप्रयन्धनातं सम्यग्यती ट्रैरिदमपिलतमः.

૨૮ मानमेयप्रकाशिकाय फर्शनं दर्शनं नः ॥ इति । प्रत्यक्षापहारका बौद्धादयः। अनुमितो गुव्यः प्रक्रियाः समाश्रिता नैयायिकादिभिः । यथा-अत्यन्तातीन्द्रियाणामप्यनुमानेन प्रसा-. घनम् । केवलब्धतिरे कि प्रामाण्योपगमः । महाविद्यादिषु व्याहतसाध्यविपर्ययकव्य- तिरिक्तस्यापि केवलान्वयिनः प्रमाणावोररीकरणमिति । शास्त्रंकवेषु च ब्रह्मसगुण- स्वसाकारत्वोभयविभूतियोगादिषु नास्तिकता पाम् । नैचमत्र सिद्धान्त इति भावः। श्रीमनारायणपारम्योपगमाचायमेव वैदिकोत्तमसिद्धान्तः । तथा हि तस्यैव पारम्यं सकलं श्रुतिसम्मतम् । तथा च वचनानि 'नारायणपरा वेदाः 'वासुदेवपरा वेदाः 'मुख्यं च सपैवेदानां तात्पर्य श्रीपतीपरे। उत्क तु तदन्यत्र तात्पर्य स्यादवान्तरम्' इत्यादीनि । सर्ववेदसारस्य प्रणवस्याप्यत्रैव प्रावण्यम् । तथा हि खाध्यायप्रवचनप्रारम्भावसानयोः 'हरिःओं' इति सार्थकप्रणवसकीर्तन सङ्गच्छतेतराम् । नारायणपारम्ये मुख्यानि प्रमाणानि च समुल्लिखितानि तत्व- मुक्ताकलापे-'आद्यं रामायणं तत्स च निगमगणे पञ्चमः पाञ्चरात्रं सत्त्वोपर्श पुराणं मनुमुखमुनिभिर्निर्मितं धर्मशास्त्रम् । त्यक्तान्यो मूलघेदः कठपरिपठिता वल्लिकास्तापनीयं सौवालब्रह्माबिन्दुप्रभृ. तिकमपि नस्तत्परं तत्परत्वे ॥' इति । परयुरिय श्रियः श्रियोऽपि शेषित्वशरस ण्यत्वप्राप्यत्वान्युपगतान्यत्र राद्धान्ते । एतसिद्धान्तप्रवर्तकगुरुपरम्परायां श्रियो घटकतया च 'श्रीसम्प्रदाय' इति प्रसिद्धिरेतत्सम्प्रदायस्य । अत्र च गतिद्वयं प्रयते उपासना प्रपत्तिरिति । भाद्या साधनभक्तिरन्या साध्य- भक्तिरिति च व्यपदिश्यते । शरणागतिनिछानां तु भगवदनुग्रह एव केवलं मतः समुत्तारकः । अतः शरणागतिमार्ग एव भवति पुष्टिमार्गः । पुष्टिशब्देन व्यवहारः पुनर्नात्र प्रसिद्धः । पुष्टिप्रपञ्च बहुधा वल्लभीयैः कृतमिति चान प्रसङ्गे निवेदयामः सौभ्राण। शरणागतावधिकृतस्य च संस्काराः पञ्च पारमैकान्त्यहेतव उपदिय भगवच्छा- नेपु तापादयः । नित्यायं चैषां स्मृतम् 'अग्निहोत्रं यथा नित्यं वेदस्या- ध्ययनं यथा । ब्राह्मणस्य तथैयेदं ततमुदादिधारणम् ।।' 'उपवी- तादिवद्धार्याः शङ्खचक्रगदादयः । ब्राह्मणस्य विशेपेण वैष्णवस्य विशेपतः ॥' इति । घलयादेरिव पतिसम्यन्यस्य परसम्बन्धस्यावेदकत्वात् 'वैष्णवस्य विशेषत' इत्युकम् । निरुक्तं च वैष्णवत्वं विष्णूपायो विष्णु- फलो वैष्णवः' इति । सपरिवारस्म सर्वामिणध तप्तमुदादिधारण विधीयते प्रस्तावना। 'अवयेत्तप्तचकाचैरात्मनो वाहुमूलयोग कलनापत्यभृत्येषु पश्वादिषु च सर्वशः ॥' 'पशुपुत्रादिकं सर्व गृहोपकरणानि च । अङ्कयेच्छा- चक्राभ्यां नाम कुर्याच वैष्णवम् ॥ स्त्रिया सहैव कर्तव्यं गृहस्थस्य विधानतः। संस्कारपञ्चकं तेन भवेत्सा धर्मचारिणी ॥ तापाया: पञ्च संस्कारा गृहस्थस्य यथाविधि । आचार्येण सदा कार्या: सगृह्योक्तविधानतः ॥' 'प्रथमं तापसंस्कारं तापसैर्मुनिमिः स्मृतम् । सर्वाश्रमेषु वसतां स्त्रीणां च द्विजसत्तमाः ॥ इति । पञ्चायुधमुद्राधारणं शङ्खचक्रमुदामानधारणं वा यथासम्प्रदायम् । रामानुजीये तु शङ्खचक्रमुद्राधारणगेव 'ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च श्रद्धयान्वितः । चक्र च पाञ्चजन्यं च विभृयादग्निसंयुतम् ॥' (विष्णुस्मृतौ ) 'दक्षिणे तु भुजे विप्रो विभृया? सुदर्शनम् । सव्ये तु शहं विभृयादिति ब्रह्मविदो विदुः ॥' (पाद्मे) इत्याविस्मृत्यनुसारात् । ऊर्ध्वपुण्डे श्वेत. मृत्तिका परिगृहीता 'श्वेतं वैष्णवमुच्यते' इति स्मरणात् । नानि च भग. वत्सम्बन्धि । 'एकान्तीव्यपदेष्टव्यो नैव ग्रामकुलादिभिः। विष्णुना व्यपदेष्टव्यस्तस्य सर्व स एव हि ॥ इति विधानात् । मन्ने श्रीमदष्टाक्षर- महामन्त्रादिः । यागो नामात्महविषो भगवति समर्पणात्मा दण्डवत्प्रणिपातो भगवत्सन्निधावाचार्येण कार्यमाणः, आचार्यप्रसादितप्रतिमापूजनं वा । तुलसी- मणिमालिका पद्माक्षमालिका च कण्ठे धार्य शुचिसमये पुम्भिरिति व्यवस्थान संदृश्यते । औद्धवाध्यन्यपि संस्कारपञ्चकमभ्युपगतमेव । पुण्ड्रद्रव्ये कण्ठमालिकाया- मुपदेश्यमन्त्रे च विशेषः । स चाने प्रपञ्चयिष्यते । निरुक्तसंस्कारसंस्कृतानां वैष्णवानां महिमा च बहुधा प्रपञ्चितो महर्षिभिः 'शङ्खचक्राङ्किततनुस्तुल. सीमालिकाधरः । गोपीचन्दनलिताङ्गो दृष्टश्चेत्तदघं फुतः ॥' 'ये कण्ठलग्नतुलसीनलिनाक्षमाला ये याहुमूलपरिचिह्नितशङ्खचक्राः । ये वा ललाटफलके कलितोर्ध्वपुण्ड्रास्ते वैष्णया भुवनमाशु पवि- प्रयन्ति ।' 'अतिपापप्रसक्तोऽपि विष्णुचक्राङ्कितस्य तु । पादोदकं पिवेधस्तु सर्वपापैः प्रमुच्यते ॥” इत्यादौ । तप्तमुद्रा धारणनिषेधलनिन्दादि- बाक्यानो समन्वयव सुदर्शनसुरहमादिषु कृतो द्रष्टव्यः । औदवसम्प्रदायीये शिक्षा- पनीभाष्येऽपि सुष्छु विवार्य निर्धारितो विलोकनीयः कुतुतिभिरिसलं विस्तरेण ।

३० मानमेयमकाशिकायां अथौद्धवः सम्प्रदायः । प्रवर्तकश्वास्य श्रीखामिनारायणः। श्रीहरिहरिकृष्णः सहजानन्दस्वामी नारायणमुनिः इत्यादिनाना चास्य प्रसिद्धिरत्री श्रीमद्रामानुजा चार्यप्रवर्तितं विशिष्टाद्वैतराधान्तमेवायं खमतत्वेन पर्यगृहात्। तथा च शिक्षापत्री 'मतं विशिष्टाद्वैतं में' इति । चिदचिदीश्वरांत्मकं तवनयमभिमतं श्रीहरः, जगह्मणोः शरीरात्मभावश्च । शिक्षापत्र्यो हरिगीतायामपि चेदमेव तत्वत्रय विवेचितं नाम । अध्यात्मज्ञानसिद्ध्यै च श्रीभगवद्रामानुजप्रणीता एव प्रन्या मुख्यतया व्यवस्थापिता अनेन । गुरुपरम्परायां च खगुरो रामानन्दस्वामिनो गुरुपेन रामानुजखामी व्यपदिष्टः । अक्षराख्यमप्राकृतं धाम दिव्यगोलोकमध्यस्थं प्राप्यतया प्रथवेऽत्र सम्प्रदाये। श्रीकृष्णश्च राधालक्ष्मीयुत एतद्धामाधिपतिरभिमत उपास्य इष्टदेवश्च । वैकुण्ठादि- धामान्तराग्यपि स्वीकृतान्येवाप्राकृतानि धाममेदेन नामाकारमेदेऽपि भगवतो धर्मिण एकत्वं च । तथा च शिक्षापत्री ‘स राधया युतो शेयो राधाकृष्ण इति प्रभुः । रुक्मिण्या रमयोपेतो लक्ष्मीनारायणः स हि ।। शेयोर्जुनेन युक्तोऽसौनरनारायणाभिधःवलभद्रादियोगेन तर नामोच्यते स च ॥ एते राधादयो भक्तास्तस्य स्युः पार्श्वतः फचित् । धचित्तदङ्गेऽतिहास तु शेयस्तदैकलः ॥ अतश्चास्य स्वरूपेषु मेदो शेयो न सर्वथा। चतुरादिभुजत्वं तु द्विवाहोस्तस्य चैच्छिकम् ॥ इति । मायाजीवेश्वरब्रह्मपरब्रह्मलक्षणाः पधार्थाश्च तत्वत्रयान्त- र्गता एव विशेषतः सानुवर्णिताः साम्प्रदायिकग्रन्थे तत्र तत्र । कचिरकवि- तत्वनिरूपणादौ वल्लभादिप्रक्रियानुरोधः प्रतीयते नामापाततः । विशिष्टाद्वैतप्र- किमाया अविरोधेन तत्समन्वयः कृत एवं व्याख्यातृभिः सद्गुरुवयः। मुख्यार्थी- पिरोधेनार्थान्तरोपनीवनं च नैव दोषाय । श्रीभागवतप्रक्रियेव चान सर्वत्र समाहता विशेषत इति चावधेयम् । वणव्यां च दीक्षायामन श्रीकृष्णाष्टाक्षरमन्त्रोपदेशः प्रवर्तितः । अतः 'कृष्णदीक्षा' इति व्यपदेशः कृतोऽति शिक्षापत्र्याम् । अस्यां च कृष्णाग- रागत्वगोपीसम्बन्धप्रयुक्तोरवीगोपीचन्दनमूर्ध्वपुःदव्यत्वेन सहीतम् । राधा- लक्ष्मीप्रसारीभूतं बुम र पुमध्ये करपीयचन्द्रकद्रव्यत्वेन । द्विसरतुलसी- काठादिमालिकायाश्च दीक्षितः सर्वैः सदा कण्ठे धारणीयवं व्यवस्थापितम् ।..

प्रस्तावना। - पुम्भ्य एवाचार्य उपदिशेसाक्षात्। त्रीभ्यस्तु स्वपन्नीमुखत एव । पत्योपदिष्टस्य मन्त्रस्याज्ञया पत्युरुपदेशेऽधिकारः पल्याः शास्त्रानुमत एव । 'धर्मोपदेशं या नारी दानं तीर्थ व्रतानि च । करोति निष्फलं तद्वै विनाशां पत्यु रात्मनः ॥' इत्यनाशयोपदेशस्यैव निन्दितत्वात् । भासनसम्बन्धहीननीप्रसङ्ग- स्थानावहतादियमेव रीतिर्धा साधीयसीति श्रीहरेराशयः । तथा च व्यवस्थाs- कारि शिक्षापत्र्यामनेन 'मज्येष्ठावरजभ्रातृसुताभ्यां तु कदाचन ! खासनसम्बन्धहीना नोपदेश्या हि योपितः ॥' 'मदाथितानां सर्वेषां धर्मरक्षणहेतवे । गुरुत्वे स्थापिताभ्यां च ताभ्यां दीक्ष्या मुमुक्षयः ॥' 'अर्थतयोस्तु भार्याभ्यामाझया पत्युरात्मनः । कृष्ण मन्त्रोपदेशश्च कर्तव्यः स्त्रीभ्य एव हि ॥' इति । वर्णाश्रममेदेन च समाख्यामेदो दीक्षिताना मोक्षाधिकारिणां प्रसिद्धोऽन वर्णी साधुर्भक्तः सत्सङ्गीति। वैष्णवापरपर्यायाणा सत्सनिनावैष्णवोत्तमापरपर्यायाणा- मात्मनिवेदिनां च दिनचर्यावृत्तिरपि प्रपश्चिता शिक्षापत्र्या सत्सजिजीवनादौ चानु. सन्धया । समुल्लिखामश्च पवनानि पानिवनात 'प्रत्यहं तु भवोद्धव्यं पूर्व- मेवोदयाद्रः। विधाय कृष्णसरणं कार्यः शौचविधिस्ततः । उपविश्यैव चैकत्र कर्तव्यं दत्तधावनम् । सात्या शुच्यम्युना धौते परिधार्ये च वाससी ॥ उपविश्य ततः शुद्ध आसने शुचिभूतले । असङ्कीर्ण उपस्पृश्यं प्राड्मुखं वोत्तरामुखम् ॥ कर्तव्यमूर्ध्वपुण्डू च पुम्भिरेव सचन्द्रकम् । कार्या सधवनारीभिर्भाले कुङ्कमच. न्द्रकः ॥ पुण्द्र वा चन्द्रको भाले न कार्यो मृतनाथया । मनसा पूजनं कार्य ततः कृष्णस्य चाखिलैः ॥ प्रणम्य राधाकृष्णस्य लेख्यार्थी तत आदरात् । शश्या जपित्या तमन्नं कर्तव्यं व्यावहारि- कम् ॥' इति । 'ये त्वम्परीपवद्गताः स्युरिहात्मनिवेदिनः । तैश्च मानसपूजान्तं कार्यमुक्तकमेण चै ॥ शैली वा धातुजा मूर्तिः शालग्रामोऽर्च्य एव तद्रव्यैर्यथासैः कृष्णस्य जप्योऽथाष्टाक्षरो मनुः॥ स्तोत्रादेरथ कृष्णस्य पाठः कार्यः सशकितः। तथानधी- तगीर्वाणैः कार्य तन्नामकीर्तनम् ॥ हरेविघाय नैवेद्यं भोज्यं प्रासा- दिकं ततः ! कृष्णसेवापरैः प्रीत्या भवितव्यं च तैः सदा ॥ प्रोक्तास्ते निर्गुणा भत्ता, निर्गुणस्य हरेर्यतः। सम्बन्धात्तक्रिया: मान..३ - 1 ३२ मानमेयप्रकाशिकायां सर्वा भवन्त्येव हि निर्गुणाः ॥ भक्तरेतैस्तु कृष्णायानर्पितं वार्यपि कचित् । न पेयं नैव भक्ष्यं च पत्रकन्दफलाद्यपि ॥ इति । 'आपभो भरतः पूर्व जडविप्रो यथा भुवि । अवर्ततात्र परमहंसैर्वृत्यं तथैव तेः॥' इति च । धर्मा वर्णाश्रमाणो धर्माश्च देशिकादीनां निर्मथ्य धर्मशास्त्राधि साररूपणः स्फुटमुपवर्णिता अनायासेनैव मन्दमतीनामपि प्रहणसौाय शिक्षाप- ज्यादाविति च सादर निवेदयामः । नैष्ठिकमतपरिपालनस्य सर्वतो मुख्यत्वं चान सुनिरूपितमस्तीत्सवधेयम् । स्वधर्मज्ञानवैराग्यानिका भक्तिश्च मुक्तिसाधनमिष्यतेऽनं । खरूपं च सहीतं धर्मादीनां श्रीहरिणा शिक्षापत्र्यां 'धर्मो ज्ञेयः सदाचारः श्रुतिस्मृत्युपपा- दितः । माहात्म्यज्ञानयुग्भूरिस्नेहो भक्तिश्च माधये ॥ वैराग्य शेयमप्रीतिः श्रीकृष्णेतरवस्तुपु । शानं च जीवमायेशरूपाणां सुष्टु वेदनम् ॥' इति । जीवादीनां वरूपं च 'हत्स्थोऽणुसूक्ष्मश्चिद्रूपोशाता व्याप्याखिला तनुम् । शानशत्तया स्थितो जीयो शेयोऽच्छेद्यादि- लक्षणः ॥ त्रिगुणात्मा तमः कृष्णशक्तिदेहतदीययोः । जीवस्य चाहम्ममताहेतुर्मायावगम्यताम् ॥ हृदये जीववजीवे योऽन्तर्या- मितया स्थितः । मेयः खतन्त्र ईशोऽसौ सर्वकर्मफलप्रदः ॥ स श्रीकृष्णः परं ब्रह्म भगवान् पुरुषोत्तमः । उपास्य इष्टदेवो नः सर्वाविर्भावकारपणम् ॥' इति । तत्वत्रयज्ञानफलं च ब्रह्मात्मकनिष्कृष्टवरूपा- नुसन्धानपूर्वकं भगवद्भजनमनुशिष्टं "निजात्मानं ब्रह्मरूपं देहत्रयविल- क्षणम् । विभाव्य तेन कर्तव्या भक्तिः कृष्णस्य सर्वथा ॥' इति । द्विविधा च भक्तिर्मताऽत्रापि श्रवणाद्यामिका नवविधा साधनभक्तिः, निरतिशय- प्रेमलक्षणा च गोपिकानामिव श्रीकृष्णे साध्यभक्तिरिति । मन्त्रजपः शरणागतिरपि नवविधभक्त्यामेवान्तर्भवत इति चावधेयम् । श्रीकृष्णोत्सवसेवाप्रकारास्तु श्रीविठ्ठलेशकृतव्रतोत्सवनिर्णयोदिताः समादृताः । सर्वतः सारग्राहित्वं श्रीहरेर्व्यक्तमतः । शङ्करोऽपि वैष्णवराजत्वात्सम्मान्यो मतः । मह?लक्षण्यमिदं वैष्णवमतान्तरत एतन्मतस्य । सर्वलोकप्रियवं चातः सम्पन्नमस्य । समाहतेष्वपि सर्वधर्मपु अन्नदाने विद्यादाने चात्यन्ताभिमतिः सीया प्रकटीकृता श्रीहरिणा 'भगवन्मन्दिरं प्राप्तो योऽन्नार्थी कोऽपि मानयः । आदरात्स तु सम्भाव्यो दानेनानस्य शक्तितः ॥'.

प्रस्तावना। ३३ "संस्थाप्य विप्रं विद्वांसं पाठशालां विधाप्य च। प्रवर्तनीया सद्विद्या भुवि यत् सुकृतं महत् ॥” इति विशिष्यानुशासनात् । अष्टौ च सच्छात्राणि खेष्टत्वेन परिगणितानि 'वेदाश्च व्याससूत्राणि श्रीमद्भागवताभिधम् । पुराणं भारते तु श्रीविष्णोर्नामसहस्रकम् ॥ तथा श्रीभगवदगीता नीतिश्च विदुरोदिता। श्रीवासुदेवमाहात्म्य स्कान्दवैष्णवखण्डगम् ॥ धर्मशास्त्रान्तर्गता च याज्ञवल्क्यऋषेः स्मृतिः। एतान्यष्ट ममेष्टानि सच्छास्त्राणि भवन्ति हि' इति.! व्याख्यानतो विशेषप्रतिपत्तिरेतेषु । अत्र च श्रीभागवतदशमस्कन्धस्य श्रीकृष्ण- विषयकभफिरसपरिपोषकतया श्रवणपठनाद्यनुशिष्टं यथाशक्ति करणीयत्वेन, पुरश्चरणं चाभीप्सितफललामाय श्रीविष्णुनामसहस्रादेरपि। भूताद्युपदवप्रसके चैवं नियम्यते 'भूताद्युपद्रवे कापि धर्म नारायणात्मकम् । जप्यं च हनुमन्मन्त्रो जष्यो न क्षुद्रदैवतः ॥ इति । वेदादीनां मूलत्वेन परिगण- नादेतत्सम्प्रदायस्य रीतिवैदिक्येवेति च विभावनीयम् । श्रीमदुद्धवावतारेण रामानन्दस्वामिना व्यपस्थापितत्वात् सम्प्रदायोऽयमन्या- ख्यायते 'उद्धवसम्प्रदाय' इति । श्रीकृष्णावतारेण खामिनारायणेन प्रवर्ति- तत्वाच 'स्वामिनारायणसम्प्रदाय' इति । अस्यैव श्रीस्वामिनारायणाख्यप्रादु- भोवस्य प्राधान्येनोपासनादिकं सम्प्रदायेऽस्मिन् प्रचलतितरामित्यलं पल्लविवेन । तस्य तस्य मतस्येत्यं सर्पाद्वर्णनं कृतम् । सुखयोधाय मोदाय सुधियां च यथामति ॥ एकैका च योऽथोऽस्ति युक्तियुक्तः प्रकीर्तितः। अविरोन्युपयुक्तश्चेदन्यत्रापि स गृह्यताम् ॥ तत्तद्देमादिशाकालायनुसाराच भूतये । तदा तदा सम्प्रदायः स स आविष्कृतो भुवि ।। प्रथमं शङ्कराचार्यस्ततो भास्करयादवी । ततो रामानुजाचार्यो मध्वाचार्योऽप्यनन्तरम् ॥ निस्वार्को यल्लमा पश्चात् सामिनारायणस्त्वथ । तचन्मतस्यापकानां देशिकानां क्रमस्त्ययम् ॥ प्रश्वमनुसरामः। श्रीहरिणा श्रीकृष्णार्थनादिविधावनुसतेऽपि यलमीये निये तत्वनिर्णये श्रीविभिटादेतप्रक्रियेय समारता नामैतभिष्पपर्यालोचना । मस्य मानमेयप्रकाशिकायां च श्रीहरिसम्मानितस्य विशिष्टाद्वैतसिद्धान्तस्य सन्ति नाम प्राकरणिका प्रन्या प्राचीना बहवः तत्वत्रयं यतिपतिमतदीपिका न्यायपरिशुद्धियायसिद्धाजनं तत्वमु. काकलापः सर्वार्थसिद्धिरित्यादिकाः । एषु च तत्वत्रयं प्रमेयमाननिरूपणविधान्तम् । प्रमाणप्रमेयनिरूपणे व्यापृताऽपि यतिपतिमतदीपिकातिसङ्कुचितप्रवृत्तिस्तकौमु- द्यादिवत् । न्यायपरिशुद्ध्यादयस्त्वतिविस्तृताः कर्कशतर्फजालजटिलशरीरा नैव मितम्पचमतीनां झटिति सुभगावगाहा ..भवन्ति, न्यायमअरीकिरणावल्यादिवत् । भतोऽनतिविस्तारसझेपया शैल्या धृहत्तर्कप्रकाशादिवन्मानमेये निरूपयन्तीयं कृति नाना च मानमेयप्रकाशिका सम्प्रति लब्धोदया कस्य वा विशिष्टादै तिनः सचेतसश्चतःप्रसादं नोपजनयेत् । यावदुपयुक्तविषयविचारप्रचुरेयं कृतियायपरि- शुद्धयादिगतविचारधारादिप्रदर्शिका च मानमेययोस्तत्वं जिज्ञासमानानो प्रवि. विक्षूणां च प्रौदप्रन्येषु महते प्रकल्पेतोपकारायेति नः प्रत्ययः । श्रीरामानुजसम्प्रदाय प्रसिद्ध प्रमेयं तं तं प्रमाणोपपत्तिभ्यां व्यवस्थाप्य प्रथमत औद्धवसम्प्रदायग्रन्थसंवादश्च तन तत्र प्रदर्श्यतेऽत्र ग्रन्थकृता । औद्धवसम्प्रदाय- प्रसिद्धाश्चेत्स्युर्विशेषास्तेऽपि प्रदश्यन्ते तत्र तत्र । अत इदं विशिष्टाद्वैतप्रकरणं भवत्यौद्धवसम्प्रदायानुसारि । सम्प्रदायद्वयप्रमेये वैकरस्थमभिनिष्पादितं चैतत्प्र. नन्धप्रणयनतः प्रायशः । औद्धवसम्प्रदायप्रवृत्तिप्रकारमवजिगमिषूणामपि भवि. यति कृतिरियमुपकारिणी, यत एतत्परिचयोऽपि दत्तोऽस्त्यत्र समासतो प्रन्यकृता तत्समेषां भवेदिदमुपादेयं चित्तरक्षकञ्चेति प्रतीमः । प्रकरणस्य चास्य सहीतारो गृहीतपरमहंसदीक्षाः सद्गुरवः शास्त्रिधी हरि जीवनदास नाम्ना विख्याताः शूर्जरेपु वृत्तालये (वडताल) कृतवसतयः श्रीस्वामिनारायणचरणकमलसमाश्रिताः। एते च साम्प्रदायिकमन्थानां दशोप- निषदाप्यशिक्षापत्रीटीकाभाष्यसत्सन्निजीवनवचनामृतप्रमृतीनां संशोधनपरिष्क- रणटिप्पणीभूमिकागूर्जरभाषानुवादकरणैः प्रसिद्धतराः साम्प्रदायिकजन समुदाये । अस्मत्प्रियसुहृद्भूतैश्चतैः प्रकरणस्यास्य संशोधने परिष्करणे च प्रोत्साहिता धर्व यथामविविमवं संशोधनाद्य काम । अथापि पुंधर्मतया भ्रमप्रमादयोरत्र समा- पतिताः सर्वेऽपि दोषा दोषरपि गुणैकपक्षपातिभिःसहृदयैरनुकम्पयाऽकम्पया मर्पणीया इति शम्। श्रीखामिनारायणसंस्कृतपाठशाला ] P.B.अण्णारावार्यः (तिरुनार) न्यायव्याकरणशिरोमणिः, वेदान्त- वि.सं. २००५ विद्वान् प्रधानपण्डितः। वडताल.

ॐ -- श्रीस्वामिनारायणो विजयतेतराम् । मानमेयंप्रकाशिका ।" अनादिनिधनं वस्तु परमेकमुपास्महे । व्यक्ताव्यक्तात्मकमिदं विश्वं यस्मिन् प्रतिष्ठितम् ॥ १ ॥ स वासुदेवो भगवान वेदवेदान्तगोचरः। धर्मभक्तिसमाराध्य श्रेयसे भूयसेऽस्तु नः ॥२॥ योऽसावक्षरनायको गुणनिधिः श्रुत्यन्तसंविश्रुतो यं पीरा अनुमातुमीशमभितो वाञ्छन्ति सद्युतिभिः। योऽष्टानेन समाधिना सुविमले चित्ते स्फुरत्यजसा सोऽयं वै पुरुषोत्तमो विजयते श्रीस्वामिनारायण ॥३॥ यन्मायाकर्मपाशग्रथित इह पुमान् संसरन् मुद्धति द्राक् यस्योपास्त्येव मुक्कोऽञ्चति पुनरनधो धीविकासं समन्तात् । यो मुकैरक्षरे धान्युपचरितपदो मोदते थ्यादिभि. स् सामी सर्वस्य नारायण इह सहजानन्दरूपोऽस्तु माये ॥४॥ जयन्तु ते प्रमातारः सात्त्विकास्तत्त्वदर्शिनः । तत्त्वाववोधोऽप्यस्माकमेप येपामनुग्रहात् ॥ ५॥ श्रीमद्रामानुजाचार्य श्रीमाप्यादिपु वर्णितः। विशिष्टाद्वैतसिद्धान्तः सर्वश्रुत्यन्तसम्मत ॥६॥ खीरत. स्वमतत्वेन शिक्षापत्र्यां समादरात् । भगवत्सहजानन्दस्वामिना यह स्पम् ॥ ७॥ तसिद्धान्तानुसारेण मानमेयप्रकाशिकाम् । कुते मे स भगवान् धियं शुमा प्रयच्छतु ॥cn .

मानमेयप्रकाशिकाय [प्रमाण- २ " प्रमाऽप्रमाभेदनिरूपणम् -- प्रमाणाधीनः प्रमेयनिर्णय इति प्रथमतः प्रमाणं निरूपयामः । यथावस्थितन्यवहारानुगुणं ज्ञानं प्रमाणम् । प्रमाणमिति भावे युट् । अमेति यावत् । फलमिष्टाधिगमादि । करणल्युडन्तवां प्रमाणशब्दस्वेच्छन्तः प्रमाकरणं प्रमाणम् , अर्थपरिच्छित्तिः फलमिति केचित् । भ्रमस्तु न यथारस्थितव्यवहारानुगुणः । न हि भवति शुक्तिरूप्यज्ञानेन यथावस्थिवव्यवहारः । भ्रमाजा- यमानो व्यवहारो हि वाध्यते नेदं रजत मिति । अवाध्यो यो व्यवहारः स तु यथावस्थितव्यवहारः।' ननु-स्त्या 'धारावाहिशानाच भवत्यवाधिवो व्यवहारः । का क्षतिः । ननु वे अपि प्रमाणे स्याताम् । को नेति ब्रूते । दृष्टमनु प्रवर्तमानस्येव स्मृतमनु प्रवर्तमानस्यापि हि भवत्यवि. संवादिनी प्रवृत्तिः। कचित् प्रवृत्तेर्विसंवादस्तु उभयत्र तुल्यः । स्मृतिमात्रस्याप्रामाण्यमनुभूतिमात्रस्य च प्रामाण्यमिच्छन्तः केचित् 'अनुभूतिः प्रमाण मिति वर्णयन्ति । स्मृतेः प्रामाण्ये प्रवेपः फस्मा- देषामिति विचारयन्तो वयं कारणं नोपलमामहे। ननु-स्मृतिरसद- र्थावलम्बिनी कथं प्रमाणं भवितुमर्हति । कथ वाऽतीतानागतावल म्यनुमानम् । ननु अतीतमनागतं' वा तथैवावलम्ब्य प्रवर्त- तेऽनुमानम् न वर्तमानवयेति चेत् स्मृतिरपि तथैवेति तुल्यम् । ननु-स्मृतिः पूर्वानुभवपुरस्कारैव प्रादुर्भवति । सत्यम् । कुतस्ता- वताऽप्रामाण्यम् । किश्चैवं प्रत्यभिज्ञाया अप्यप्रामाण्यमापतेत्, तस्या अपि वयात्वात् । अनुभवपारतक्ष्यमात्रानाप्रामाण्यम् । कार्यस्य स्वहेतुपारतक्ष्यं हि न वैगुण्याय । तस्मात् स्मृतित्वाद- प्रामाण्यमित्येतत् परास्तम् ।

F " - प्रकाशे] प्रत्यक्षपरिच्छेद। अनुभूतिमानस्य वा कथं प्रामाण्यम् ? शुक्तिं पश्यतो या इदं रजत मिति अनुभूतिः सो हि 'नेदं रजत मिति बाध्यते । ननु भोः! भ्रमस्थले नैका विशिष्टधीः, अपि तु, 'इद'मिति सनिक- प्टस्य भवत्यनुभूतिः, 'रजत मिसापणे दृष्टस्य भवति स्मृतिः, दृश्य- मानस्मर्यमाणयोर्मेंदाग्रहात् जायमाना रंजवार्थिनः प्रवृत्तिर्भवति विसंवादिनी, वतोऽयं भ्रान्त उच्यते । नेदं रजत मिति तु पश्चा दो गृह्यते, न तु विशिष्टधीर्जातपूर्वा याध्यते । अस्तु नाम, पीत: शङ्ख' इति भ्रमे के निर्वाहं पश्यसि ?, शङ्ख इव पीतमपि, चक्षुपैव गृह्यते । शो दृश्यते, पीतं मर्यते' इति भेदकल्पना नेह घटते। तदिह पीतज्ञानमनुभवात्मकमप्यप्रमाणमेव । ननु नाप्रमाणं; अनुभूतित्वादेव । किन्तु शारीरमान्तरं पित्त- द्रव्यमेव नयनरश्मिभिः सह विनिर्गतं शङ्के निपतितं. चक्षुपा गृह्यते, तयोरसंसर्गाग्रहात् भ्रम उच्यते । अनुभूतिमात्रस्य प्रामाण्यं वदता भवता नैवं, वक्तुं शक्यते . 'अनुभूतिरथापि भ्रम' इति । प्रमा च भ्रमश्चेति व्याहतं वः। उक्तं च वेदान्ताचार्यः-"पीत- शवभ्रमादौ च न ह्येतदुपपद्यते । चक्षुषैव हि शतादेः पीतिमादेश्च तत्र धीः॥” इति । ननु-'सर्व ज्ञान यथार्थ मिति वदतो भवतो वा कखन निर्वाह:11 नययमनुभूतित्वात् प्रमात्वं स्मृतित्वादप्रमात्वं वा धूमः । किन्तु विषयव्यवहारवाधायाघाभ्यां भ्रमत्वप्रमात्वे । आश्रितश्चास्माभि- भ्रमस्थले सख्यातिवादः । शुकिं पश्यवो - "यदिदं रजत मिति १ अयं प्रामाकरः पक्षः पार्थसारपिमिधेरप्येवमेव निरसः । पीतारान- मप्यनुभूतित्या प्रमाणे स्यात् । इएमेवेति यदतो नोकपिरोपः' इति । - - 3 मानमेयमकाशिकाय [प्रमाण- इदमत्र तत्त्वम्-भ्रमस्थळे 'इद'मिति भास्वरदन्यं चक्षुःसन्नि- कर्पादिदंत्वेन गृह्यते, तथा धनुःसन्निकर्षादोपवशादगृहीतशुक्यंशो रजतांशोऽल्पीयानप्यदृष्टवशात् रजतत्वेन गृह्यते । पदिह भवति चाक्षुपं ज्ञानद्वयम् । विपचयोस्तादात्म्याग्रहेऽपि धर्ममिभावान- हेऽपि च तद्हविरोधिग्रहामावविशिष्टतया रजतार्थिनः प्रवृत्ति प्रति भवति कारणम् । उक्तं च टीकाकार:-'इष्टरूपरूपिनिरन्तरभानाम- वृत्तिः, द्विष्टरूपरूपिनिरन्तरभानानिवृत्तिः । रूपरूपिणोर्धय॑न्तर- निष्ठत्वविरोधिधर्मान्तराश्रयत्वभानविरहेण विशेपितं भानं निरन्त- रभान मिति । इष्टं रूपं रजतत्वं, रूपि 'इद मिति प्रतीयमानं धर्मिः तयोनिरन्तरभानात्प्रवृत्तिः । द्विष्टं रूपं सर्पत्वं रूपि 'अय'मिति प्रतीयमानो धर्मी, तयोनिरन्तरभानानिवृत्तिः । भ्रमप्रमासाधार- ण्येनायं कार्यकारणभावः । भ्रमे ज्ञानद्वयं, प्रमायां विशिष्टं ज्ञानम् , उभयसाधारण्येनेसेतत् । इष्टरूपरूपिणोष्टिरूपरूपिणोः सान्तरे तु भाने न प्रवृत्तिर्न वा निवृत्तिः । इष्टस्य रूपस्य रजतत्वस्य द्विष्टस्य रूपस सर्पत्वस्य च प्रकृतधर्म्यवृत्तित्वग्रहेण बाधकज्ञानसद्भावात् । पीतः शङ्ख इत्यादिभ्रमेऽप्येवमेव । ननु-यद्येवं प्राभाकरैरिव स्मृतिरित्येवेष्यताम्, किं सत्ल्यात्या- श्रयणेन । नैवम् । 'रजतं पश्यामी'त्येव ह्यनुव्यवसायः, न 'स्मरा- भीति । श्रुतिमूलश्वाय सत्ख्यातिवादः । “योऽन्यथा सन्तमा- मानमन्यथा प्रतिपद्यते।" इत्यादिवचनखारस्यादन्यथाख्याति- मप्येकदेशिनोऽभ्युपगच्छन्ति । नाथयानुनादिपूर्वाचार्यपरिगृहीतस्तु सत्ख्यातिपक्ष एव। १ टीकाकारा श्रुतप्रकाशिकाचार्यो ।

- प्रकाशे], प्रत्यक्षपरिच्छेद। प्रसङ्गात् भ्रमस्थले सर्वादिभिराहतान् ख्यातिभेदान निरूप- याम: 1 योगाचारास्तावद्बाह्यानर्थान् सांवृवान् व्याचक्षाणा ज्ञानमेवात्मना भासत इति वदन्त आत्मख्यातिमाश्रयन्ते। आत्मा ज्ञानं, तस्यैवार्थात्मना ख्यातिरवभासः ! माध्यमिकास्तु-न बाह्यः कश्चिदर्थः, नाप्यान्तरं विज्ञानम् , शून्यमेव तु सर्वमिति वदन्तः 'असदेव सर्वत्र ख्यायते' इति असल्यातिमाश्रयन्ते । नियविज्ञा- नवादिनस्तु-क्षणिकविज्ञानवादिन इव विज्ञानादन्यविद्यार्कल्पितं वदन्तो नित्यविज्ञानेऽधिष्ठानेऽविद्यया सदसद्विलक्षणस्य सर्वस्यास्य प्रपञ्चस्योत्पादमधिष्ठानस्वरूपसाक्षात्कारेण वा भ्युपगच्छन्तः सदसदनिर्वचनीयख्यातिमाश्रयन्ते ख्यायमानतया शशशङ्गवन्ना सत् , ज्ञानवाध्यतया च. नात्मेव 'सत्, अवे इदं सदसद्विलक्षण- मनिर्वचनीयमित्युच्यत: इति चवदन्ति । काणादास्तु-दोपवशा- दन्यस्यान्यथाख्यातिमाश्रयन्ते । शुक्तिः पुरःसनिकृष्धा असनिकृष्ट- रजवात्मना ख्यायते इति । मीमांसकेपु प्राभाकरा:-अमस्य ज्ञान- द्वयात्मकतामाश्रित्य भेदामहेण :भ्रमरूपता निर्वहन्तो भेदस्याख्या- तिमाहुः । संख्यातिवादे विशेषस्तूपदर्शितः । वमिमं सत्ल्यातिपक्षं श्रीमाष्यश्रुतप्रकाशिकादिपूर्वाचार्यश्रीसूक्तिगवं विमृशन्तो अमस्यले शानद्वयीयविशेष्यताप्रकारतयोनिरूप्यनिरूपकभावाश्रयणेन , परि- कुर्वन्ति भ्रमंलक्षणम् ।। अन्यविस्तरभयात्ल्यात्यन्तरनिरासपूर्वक सख्यातिसमर्थने नाय वयमवरामः ! १ अमस्थले 'इदमित्येकं ज्ञानं 'रजत मिति चापरम् । तत्र पूर्वज्ञानीया या इदमयनिष्ठा विषयता, द्वितीयज्ञानीया या रजतत्वनिष्टाविषयता, तयोनिरूप्य- निहाकमाव इप्यते, नान्यत्र प्रामाकरैरप्यीक्तमेतत् । यवमन्ययायाविर- भ्युपेतेय भवति, रजतत्वाभाववनिष्ठविशेप्पतानिरूपितरजवत्वनिधकारवा.

। मानमेयप्रकाशिकायां भवति ज्ञानमू, तस्मिन् सदेव रजतं विपयोभवति । ननु सन्नि- छटा तु शुचिः, असन्निकटं रजतं कथं 'विपयो भवितुमर्हति । येयं सन्निकृष्टा शुक्तिः सा हि अल्पीयसा रजतांशेन संवलित्ता शुयश- भूयिष्ठा.शुक्तिशब्दामिलप्या, पञ्चीकरणप्रक्रियया रजतांशो हस्ति शुक्तये । तदुकम्-श्रीभाष्ये-"सोमाभावे च पूतीक्रग्रहणं श्रुति- लोदितम् । सोमावयवसद्भावादिति न्यायविदो विदुः ॥ बीह्यभावे व नीवारग्रहणं ब्रीहिभावतः । तदेव सदृशं तस्य यत्तद्रव्यैकदेशभाक् ॥” इति । भ्रमस्थले दोपवशाझ्या- नपि शुक्क्यंशो न गृह्यते, रजवांशोऽल्पीयांस्तु गृह्यते, तस्मात् सदेव तु रजतं ख्यायवे । ख्यायमानश्वार्य रजतांशो व्यवहार- • योग्यः, न हि तेन पटेत चपककलशाद्याधानम् । प्रभास्थले तु विषयस्य रजतस्यास्ति व्यवहारयोग्यता । अयं व्यवहारयोग्योऽयं तु नेति योग्यायोग्यविभेदाग्रहात् रजतार्थिनो भवति प्रवृत्तिः, ब्यवहारयाधाच भ्रम उच्यते । उक्तं च वेदान्ताचार्य:-"शुको रूप्ये प्रभाम्भः श्रुतिनयवातः स्वाममप्यस्तु सत्यं योग्या- न्योन्यादिमेद्राग्रह इह चरमा गाहते संप्रतिष्ठाम् ।" इति । व्याख्यातं च तैरेव 'यतु झुत्ती सादृश्याद्रज्ञतसझावो मरी- निकायां पश्चीकरणानुरोधेन सोयसद्भावः स्वप्ने च रथादेः सृष्टि- विषयतया सत्यत्वं भापिवं तन्त्र विषयसत्यत्वेऽप्यप्रमाणव्यवहार- निदानमानिख्यासुर्यथाभापितमनुभापत-शुकाविति । प्रभाम्भ:- सूर्यममायां दृश्यमानं तोपमित्यर्थः । खान-स्वप्रसिद्धं रादि । यद्यप्यताभिस्तद्बुद्धिनास्त्रि सजातीयभेदाग्रहश्य ने प्रवर्तकः, स्थापि वजातीये स्वाभीष्टयोग्यायोग्यादिभेदामहाप्रवृत्ता व्यवहृति- प्रकाशे]. “प्रत्यक्षपरिच्छेदः। विसंवदेतेत्यप्रमाणव्यवहारोंऽत्यर्थ घटेंतेत्यभिप्रायेणाह-योग्येति । शुक्तिलीनं रजतं मरीचिकास्थं जलं चाङ्गुलीयकसेंकाद्यनहम्, अत- स्तदनहूँ तदहभेदामहात्प्रवृत्तिर्विवथा भवति, एवं स्वामेष्वपि धन: पित्रादिपु जांगरदृष्टसरूपेषु तत्तद्भेदाग्रहात्प्रवृत्ता दुराशा मोपा भवति । आदिशब्देन नष्टानष्टादिसवहः । चरमों संप्रविष्ठां-व्यव- हारविसंवादनिदानतामित्यर्थः' इति । यत्तु भ्रमे रजतभेदामहात्प्रवृत्तिरिति, न तद्युज्यते । नयग्रहस्य कापि दृष्टा हेतुता । किञ्च-रजतप्रमास्थले रजवाभेदग्रहस्य प्रवर्व- कत्वं दृष्टमिति, वस्येहाभावात् न प्रवर्तत । ननु वत्रापि रजतभेदा- ग्रह एव प्रवर्तकः । अथ रजतार्थिनो जात्वरजतानिवृत्तिरपि रज- ताभेदप्रहाभावात् दृष्टेति इह निवृत्तिकारणीभूतरजताभेदग्रहाभाव- सद्भावात्ततो निवर्तेतापि। ननु सत्ख्यातिमाश्रयताऽपि भवता ख्यायमाने रजतांशे व्यव- हारायोग्यता नावधृतेत्यतः प्रवृत्तिरिति... प्रवृत्त्युपपादनेऽख्यातिरेव शरणमाश्रीयते । ननु भोः! महदस्ति वैपम्यम् । पश्चीकरणप्रक्रियया खामसृष्टिश्रुत्या च ौतो नः सख्यातिवादः । ख्यायमाने वस्मिन् सत्यपि, व्यवहारायोग्यमिदमित्ययोग्यतामहे प्रतिरुध्यते प्रवृत्तिः। 'असति च तस्मिन् इष्टसाधनजातीयताज्ञानाद्भपति.प्रवृत्तिः । अयो- ग्यतामहस्य प्रतिवन्धकता लोकदृष्टा नाम | पल्वले हि परमूर्यि- प्टमल्पावशिष्टमपि तोयं दूरात्पश्यन् निदाघवप्त इष्टसाधनजातीय वाशानादभिधावति. । सानपानादिव्यवहारायोग्यमित्ययोग्यताम- पधारयति चेत् समुपरुद्धप्रवृत्तिर्न तदभिधावति । तत् न वय फेयलमख्यातिवादिनो यूयमिव ।।

मानमेयमकोशिकायां [प्रमाण- • एवं संशयेऽपि नान्यथाख्यातेरवसरः सामान्यवोधर्मिस्फुरणे सति :अप्रतिपन्नतद्विरोधयोः प्रतिपन्नमिथोविरोधयोधर्मयोधर्माणां दा. मरणं संशयः । यथा स्थाणुपुरुपसाधारणोयताविशिष्टस्य अगृहीतविशेषस्य धर्मिनात्रस्यायमित्यनुभवःस्थागुपुरुषसापार- गोर्खतादर्शनोद्वोधितसंस्काराभ्यां , स्थाणुत्वपुरपत्वयोः स्मरणम्- 'स्थाणुर्या, पुरुषो वेति । तस्मात् अयं स्थाणुओं पुरुषो वेति नैको धीरिति नान्यथाख्यातिः । तथा चोकमाचा सर्वार्थसिद्धी-'यदि स्थाणुत्वविशिष्टतया पुरोवर्ति भायात्पुरुषत्वविशिष्टतया नभायादेव, तथाऽन्यत्र सर्वत्र दृष्टेः ततश्च पुरोवर्तिमान स्थाणुपुरुषमानं च मिथो मिनमिति सिद्धम् । तस्मादूर्ध्वव्यक्तिमानमर्नुभवः, स्थाणुपुरुषमानं तु स्मरणम्' इति । अनुभूतिस्मृत्योर्निरन्तरंमानमिति तु संशय उच्यते। परिष्कारस्तु-भ्रम इव संशयेऽपि अनुभवीयधर्मिविषयतायाः सारणीयधर्मविषयतायाश्च निरूप्यनिरूपकमावमुररीकुर्वन्ति। 'अत्र फश्चिवाह-ये चानिर्वचनीयं भ्रमसले ख्यायते इति वदन्ति, ये ५ सदेव ल्यायते इति वदन्ति, उमाभ्यामभि ख्यायमानस्य व्यव- हारानेनुगुणस्थापि व्यवहारानुगुणतया मानमवश्यमेव. स्वीका- यम् , तया सत्सन्ययाख्यातिरपर्जनीयैवेति । अत्र बम: व्यव- हांगननुगुणत्याहादेय भ्रान्तः प्रवर्तते, व तु तस्ये नियमेन मववि 'इदं व्यवहारानुगुणमित्यपि ज्ञानम् । तदख्यातिसंवलिवा सत्स्यातिरेय भ्रमस्थले सर्वत्रेति युजम् । पाहिला नसा । नेसत् । सानेपये तु स्यात्यम् । शानदायन्यवाझ्या. येरनपणनधिविमानस्य प्रमत्वम् । वैशिष्टय समिमायलनिष्टविपयिता- निपलविस्तानिएपितपियवानिरूपविशयितात्रयस्योमपामधेन । दिप- स्खे विशेपटारमा शी सारा .

प्रकाशे].. प्रत्यक्षपरिच्छेदः। यत्तु एकाप्रया दृष्ट्या पुरःस्थितं पश्यतो 'घटोऽयं घटोऽयमिति भवति धारावाहि ज्ञानं वस्यामामाण्यमिच्छन्तः फेचन अन- धिगतार्थप्राहित्वेन प्रमाणलक्षणं विशेषयन्ति । वयं तु तस्याप्ता- माण्ये 'कारणं न पश्यामः, तेन जायमाना प्रवृत्तिरप्यविसंवादि- न्येव हि । अत्र पूर्वाचार्येप्वस्ति मतभेदः, स च न्यायसिद्धाञ्जने निरूपितः-'अत्र धारावाहिकविज्ञानं नीरन्ध्रनिर्यातमणिमयूसवदेक- रूपं या नेहदशादिसमवायसन्तन्यमानदीपवत् सन्ततिरूपं वेति चिन्तनीयम्, तत्र वरदनारायणभट्टारकै: 'प्रथमः पक्ष उक्तः । तथाहि-प्रज्ञापरित्राणे स्मृत्यप्रामाण्यप्रसङ्गेनोक्तम्, 'धारावाहिक- पश्चि स्वकालीनार्थभासिका । मेधातिरेकसद्भावात् नैरपे- क्ष्यादपि प्रमाः ॥ स्तम्भः स्तम्भः स्तम्भ इति धीर्धारावाहिका मता । धारावाहिकविज्ञानमेकरूपं मतं हि नः ॥' इति । अत्रे पूर्वलोकेन परपक्ष उत्तरझोकेन च स्वपक्षः प्रदर्शितः। धारावाहिकप- निश्चेति पनिशब्दखारस्यान्नकं ज्ञानम् , किन्तु सजातीयज्ञानधारेति स्पष्टं गम्यते । अस्मिंश्च पक्षे "ध्यानं च तैलधारावदविच्छिन्नस्मृति- सन्तानरूपाभुयानुस्मृतिरिति श्रीभाष्यस्वारस्यानुगुण्यमिति । स्वका- लीनार्थभासिके'त्यतः पूर्वपूर्वज्ञानागृहीततत्तत्क्षणविशेषग्रहणादनधि- गवार्थग्राहिता चोत्तरोत्तरज्ञानधाराया गम्यते । पडिन्द्रियवेद्यता च कालस्याभ्युपगतैव । मीमांसकसमयसम्प्रतिपन्नं चैवत् । पक्षद्वयेऽपि धारावाहिज्ञानस्य प्रामाण्यमनपायम् , यथावस्थितव्यवहारानुगुण- त्वात् । संशयस्थलेऽनवस्थितन्यवहाराद्धमस्थलेऽयथाव्यवहाराच न सयोः प्रमाणत्वव्यवहारः। प्रमात्मकज्ञान एव च ज्ञानपदस्य निरुपपदस्य स्वारसिका प्रयोगः । तत्त्वदश्र्येव हि ज्ञानीति व्यप- मानमेयमकाशिकायां [प्रमाण- दिश्यते न तु भ्रान्तः । एतदभिप्रेत्यैव ज्ञानस्वरूपमभिहितं सत्सद्विजीवने-"यद्वस्तु यादृशं तस्य तादृक्त्वेन प्रमाणतः । वेदनं यत्तदुदितं मातानस्य लक्षणम् ॥” इति । 'ताहक्त्वेन वेदन'मित्युक्त्या यथावस्थितव्यवहारानुगुणं ज्ञानं लभ्यते । अतो यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणमिति सिद्धम् । , -प्रमाणविभागः। तस्करणानि च प्रमेयसिध्ययोनि प्रमाणानि प्रत्यक्षमनुमान शब्दश्चेति श्रीण्येव । यथाह. मनु:-"मत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्य धर्मसिद्धिमभीप्सता॥" इति । 'प्रत्यक्षेणानुमानेन शाब्देन च विवेकिमिः । असत्यता- कृतीनां च निश्चिता सत्यताऽऽत्मनाम् ॥ इति प वासुदेव- माहाल्ये । प्रमाणान्तराणां च पाधन्तराभिमवानामनैव यथाऽन्त- मावसथानन्तरमेव स्फुटीभविष्यति । मनु-स्मृतेरपि प्रामाण्याङ्गीकारात् कथं त्रीण्येव प्रमाणानि । सत्यम् । प्रत्यक्षादिभूलक्तया तदनधिकार्थवया च तदविशेषमभि- प्रेम तु पृथगनुतिः। (आईता: परोक्षापरोक्षभेदेन प्रमाणस्य दैविध्यं घदन्तोऽनुमानादिपरोक्षकोटो स्मृति वर्णयन्ति ) श्रीभाप्ये पपयार्यख्यातिसमर्थनावसरे...'प्रत्यक्षानुमानागमाख्यं प्रमाणजातं .......अभ्युपगच्छतामस्माकम्' इति प्रमाणनिवयमेव मुक्तकण्ठ- मुहं श्रीमद्रामानुजाचार्यः। सोऽयं देवदत्त इति प्रत्यभिज्ञाया अपि अक्षसनिकृष्टविपयन्या प्रत्यक्ष एपान्तर्माधःतचांदो संस्कारसापेक्षत्वेऽपि न स्मृतित्वम् ।

" प्रकाशे] प्रत्यक्षपरिच्छेदः। संस्कारमात्राजन्यत्वात् । संस्कारसहकवादेवेन्द्रियात्तत्ताविशिष्टेद- मंशसाक्षात्कारः । अनूदितं च न्यायपरिशुद्धौ श्रीविष्णुचित्तार्य- वचैनमत्र-'अपरोक्षक्यसाधिका । सा मत्यभिज्ञा सोऽयं वै पुमानित्येवमात्मिका । संस्कारमात्रजन्यत्वान्न स्मृतिर्मान- मेव तत् ॥' इति । अमावस्य भावान्तररूपत्वेन भावप्राहकप्रमाणादेवाभावप्रनिति- सिद्ध भावग्राहकतया पराभिमतमनुपलब्ध्याख्यं प्रमाणान्तरममा- भिरभ्युपगम्यते । गां पश्यतो गौरियमिति भवति धीः, तथा नाय- मश्व इति च । उभाभ्यामपि योऽयमसाधारणो गवां संस्थानविशेष- लक्षणो भावः स. एव गृह्यते । यदा पुनः प्रतियोगिनोऽश्वस्य स्मरणं भवति तदा ततो भेदात्मना तदेव संस्थानं गृह्यते, न भाव- तोऽन्यदभावाख्यं तत्त्वम् । प्रतियोगिस्मरणसापेक्षतामात्रेण च न प्रत्यक्षाद्यतिरिक्तप्रमाणसिद्धिः । तथा चोकं न्यायपरिशुद्धौ-'अभा- वस्त्वस्मन्मते भावान्तरात्मा,स चाक्षादिभिर्यथासम्भवं सिद्ध्यति । अभावात्मना तु प्रणेऽपि प्रतियोगिस्मरणादिसहकवानि वान्येवा प्रमाणानीति न तदतिरिक्तकल्पनावसर: इति । । ननु-अभावमपलपता वक्तव्यम्-घटो नास्तीति प्रतीतेः किमा. लम्बनम् ।। नन्वधिकरणं भूतलमेव । सत्यसति च घटे तत्तुल्यम् । ननु भूतलमात्रम् । मानमिति किं व्यावय॑ते ? । घटसंयोगश्चेत् वर्हि अभावोऽभ्युपगत एव । उच्यते-न वयमपलपीमोऽभावम् । भाव- स्यैवावस्थाद्वयं अस्तित्वं नास्तित्वं च । यथा दुग्धे दनो योऽभाव: प्रागभाव इति त्वयोच्यते स हि दुग्धत्वावस्यैव, सा च विशिष्टरून परसादिलक्षणैव । अक्षप्रावि तु सा । एवं दनि यो दुग्धामाव:

मानमेयप्रकाशिकायां [प्रमाण- प्रध्यसोभावतयाऽभ्युपगतः साऽपि दधित्वावस्थैव विशिष्टरूपरसा- दिलक्षणा । यश्चे गवि अश्वभेदः स च गोः संस्थानविशेषः । नन्वननुगतोऽयमापतेत् ; गवाद्यधिकरणभेदात् । का हानिस्ततः। फयमनुगतप्रतीतेनिर्वाह:१केयमनुगतप्रतीतिः नन्वश्वो नैति । नैतत् । नहि प्रतियोगितमिवानुयोगिनमन्तराप्यभावः प्रतीयते । अयमयं नेत्येव हि प्रतीतिः, न केवलमयं नेति अश्वतादाम्य- धीविरोधित्वेन विरोधिधर्माणामनुगमाञ्च गवादिकमश्वभिन्न मित्य- नुगतप्रतीतेरपि 'नाऽनुपपचिः । यश्च वायौ रूपाभावकालि- कामविसंज्ञः स च वाय्यात्मा वायुस्वभाव एव ।। नातिरिक्त ननु पईि, वायो रूपाभावस्य पाशुपं न स्यात् । वायुवमा- वस्थाचालपत्वात् । मास्तु चानुपम् । अनुमानादिव एव उत्मिः, वायू रूपाभाववान् अचाक्षुपत्वात् रूपवत्वावेद- फममाणरहितत्वादियादेः। यस्तु कश्चित् सामयिकाभाव इती- प्यमाणो भूतले घटाभावः स च भूतलस्य विशिष्टदेशतालक्षणाय- स्थापिशेप एव । ननु स कः । अयं स:-अयमिहेदानी नास्तीत्येव हि प्रतीयते, न तु कालविशेपासंपलितो देशविशेपासंचलितो का?, वया च, सिद्धं तचरक्षणविशेषविशिष्टतत्तदेशवालक्षणो विशेष इति, विशेपश्चायं नोपनीते घटे, अपनीत एव तु वस्मिन् । एते- मानुपरन्धिप्रामाण्यवादिनां माहानामाक्षेपः पयस्तः । • यश पदन्ति-सर्व यरतुसदसदात्मकतया द्विविधम्, यद्यदा यत्र सापेण पर्वरी पटादि उदा प्रत्यक्षेण गृहाते, यदा त्यसदूपेण वर्तते उदा यादर्शनसमगेन योग्यानुपलब्धिप्रमाणेन गृह्यत इति । वान् पृच्छामः असापेण पर्वत इति किमभिप्रेवम् । । व्याहतं तु वद- । प्रकाशे] "प्रत्यक्षपरिच्छेदः।। चः, न ह्यसता रूपेण कस्यचित् वृत्तिरवच्छेत्तुं शक्यते । यदि घटो वर्तत; खेनैव रूपेण वर्तेत न पररूपेणासता । परैरप्ययं पक्षोऽध निरस्त:-"स्वरूपपररूपाभ्यां नित्यं सदसदात्मके। वस्तुनि ज्ञायते किञ्चित् रूपं कैश्चित्कदाचन ॥ प्रत्यक्षाधवतारश्च भावांशो गृह्यते यदा। व्यापारस्तदनुत्पत्तिरभावांशे जिघृ- क्षिते ॥ स्वरूपमेव वस्तूनां ननु व्यावृत्तमिष्यते । तेनात्मना सदेतच्च प्रत्यक्षममुनाऽऽत्मना ॥” इति । यच्च कार्यस्य कार- णमसद्रूपं कारणस्य कार्यमसद्रूपमित्यभिप्रेत्य, कारणे कार्यस्य प्राग- भावः कार्ये च कारणस्य प्रध्वंसाभावः पष्ठप्रमाणगम्य इति । तदापि वैर्निरस्तम्-"कार्यादीनामभावो हि यो भावः कारणादिना। स चापरविविक्तात्मा प्रत्यक्षेणैव गम्यते ॥” इति । न च नेति नबुलेख्यप्रतीतिविपयत्वात् भावादन्येनाभावेन भाव्यम् । प्रतीत्यु- लेखकशब्दभेदमात्रतोऽर्थान्तरकल्पना ह्यप्रामाणिकी। इदमत्र केचिद्विमृशन्ति-एकस्यैव द्रव्यस्य दुग्धदधिनवनीवा- वस्थाभेदा विपरिवर्तन्ते । तत्र दध्यवस्थायां दुग्धाभावप्रतीतिर्नव- नीताभावप्रतीतिश्च भवति । प्रतीतिभेदेऽपि विषयस्तु दध्यवस्थातो नातिरिच्यते इति सत्यम् । किन्तु अतीतेनानागतेन च रूपेण नास्तीत्येव भवति प्रतीतिः प्रतियोगिज्ञानादिसापेक्षतया क्षणविलंम्व- भाविन्याश्चक्षुरुन्मीलनक्षण एव जायमानचालुपे कथं समावेशः । नापि स्मरणं, संस्कारनिरपेक्षत्वात् । अतोऽनुपलब्धिसहकवं चाक्षु- पमध्यक्षमिति । अर्थापत्तिरपि न प्रमाणान्तरम्, अनुमानेनैव गतार्थत्वात् । 'दिवाऽमुञ्जानत्वविशिष्टेन पीनत्वेन लिङ्गेन रात्रिभोजनसिद्धः । एवं " मानमेयप्रकाशिकायां [प्रमाण- जीवतो गृहास्थित्या लिङ्गेन महिःस्थितिसिद्धेः। तत्र दिवाऽभुञ्जानत्वं पीनत्यं च प्रत्यक्षेणावगतपूर्वम्, तद्भवति रात्रिभोजने लिङ्गम् । एवं जीवित्वं गृहेऽसत्त्वं च प्रमाणान्तरेणावधृते भवति बहि:स्थिती “लिङ्गम् । ननु गृहे चैत्रमपश्यतस्तजीवनेऽपि स्यात्संशयः, तत् कथं भवेत् गृहेऽमावो घहिर्भाव लिङ्गम् ? । ननु को ब्रूते केवलं गृहेऽभावो लिङ्गमिति ?, जीवनविशिष्टो हि स लिङ्गमुच्यते । ननु गृहेऽसतो 'यावत् बहिर्भायो नावधार्यते तावजीवने स्थादेव संशय इति सन्दिग्धेन लिङ्गेन कथं साध्यसिद्धिः? अवधृते च बहिौवे सिद्ध- साध्यता । ननु भोः अर्थापत्ति प्रमाणान्तरमिच्छताऽप्यत्र प्रति- बकव्यम् । न च संशयाधायकस्य प्रामाण्यम् । जीवनं चेदासवच- नादधगतपूर्वम् , तुल्यं तदनुमानेऽपीति किं प्रमाणान्तरेण । अनमिझो भवानीपत्तिस्वरूपस्य । प्रमाणयोमिथो विरोधे प्राप्त विरोधप्रशमनायार्थकल्पना अर्थापत्तिः। सा यथा-जीवति देव- 'दत्त इति त्यवतम् , जीवतः कचित्सत्ता च नियता, तेन गृहेऽपि सत्ता प्राप्ता, अथ गृहे तददर्शनात् असत्ताऽपि प्रामा, तदेवं प्रमाण- प्रयप्रतिपन्नयोरर्थयोविरोघे नैकार्थावगतिः, तदुपशमनाय या बहि- मविपल्पना सेयमापत्तिः । विरोधोपशमं यावन्न लिलावगतेर- वसरः। उपशान्ते तु नायशिष्यते साध्यम् 1 व्याल्यातं चैतत्पार्थ- सारथिमिः शानदीपिकायाम्-"ननु प्रमाणान्तरत्वेऽपि जीवन- माप्रस गृहामायमानख वा गमकत्याभायात्संसष्टमुभयं गमकमि- सदीयतव्यम्, संसृष्टधियय प पहिर्माणस्य बुद्धत्वान्न पश्चाप्रमेयं विशिदपशिष्यत इति तुल्योऽय दोपः । उच्यते । इयमेय संसृष्ट- भीरयांपतिरित्सम्युपगम्य शाम्यतु भवान् । किं पुनस्तस्याः फारणम् ?

- . प्रकाशे] 'प्रत्यक्षपरिच्छेदः। द्वयोहाभावजीवनयोः परस्परंप्रतिघात इति ब्रूमः। यथा खल्वेकेन नद्यावीरे, पञ्च फलानि सन्तीत्युक्ते अपरेण च न सन्तीत्युक्त घलांबलविशेपमजानानः श्रोता निथः प्रतिहतमुभयं बुध्यते, न पान्यतरदपि ग्रहीतुं त्यक्तं वा शक्नोति, तथापि तु नासत्त्वासत्त्वे समुचिनोति विरोधात् । एवमिहापि गृहे या बहिवाऽवस्थित इति फेनचित्प्रमाणेन प्रतीतम्, अन्येन च गृहे नास्तीति, तदुभयं समु- चितं परस्परप्रतिघाति प्रतीयते ।......तेन प्रमाणसिद्धयोर्द्वयोरर्थयोः परस्परं, प्रतिघातोऽर्थान्तरफल्पनया 'समाधेयत्वेनालोच्यमानोऽर्था- पत्तेः कारणम्, तत्समाधानाय पार्थान्तरकल्पनाऽर्थापत्तिः प्रमाणा- न्तरमनुमानात् ।" इति ।। अत्र बेम:-मिथः प्रमाणयोरिह विरोध इतीदमस्थाने, जीवता कचित् सता भाव्यमिति सत्यम्, गृहेऽसत्तावगमानोपमृद्यते तस्य कचित्सत्ता, कचिदित्यतोऽनिर्धारितदेशविशेपं सामान्यतो .देशसत्त्वं हि गम्यते,. देशत्वरूपसामान्यधर्मावच्छिन्नाधिकरणतानिरूपिता- धेयवा तु सा, प्रत्यक्षप्रमाणेन तु गृहत्वावच्छिन्नाधिकरणतानिरू- पिताधेयत्वाभावो गृह्यते । न च विरोधोऽनयोः । न हि नीटपटा- भावपत्ताशानेन घटयत्ताज्ञानस्योपरोधः । तदेवमविरोधाप्रमाण- द्वयावगतेन जीवनविशिष्टेन गृहाभावेन लिङ्गेन बहिर्भावोऽनुमीयते इति अर्थापचेः प्रमाणान्तरत्वं नेवि सुस्थितम् । आचार्यायपरिशुद्धौ तदेतत्परपक्षनिरसनपुरःसरं सम्यक्र समर्थितम् । तथा हि-"अर्थापत्तिस्त्वनुमानमेव, तथाहि अनुप- पद्यमानदर्शनादुपपादककल्पनं घ व्याप्यावयापकविज्ञानम्, अन्या- प्यस्य तेन विनाऽनुपपद्यमानत्वाभावात्, अव्यापफस्य च तदुप- . .

मानमेयप्रकाशिकाय - [प्रमाण- १६ पादकत्वायोगादिति । प्रमाणद्वयविरोधे सति विषयव्यवस्थापन- मापत्तिरियपि न वाच्यम्, प्रमाणयोः सतोर्विरोधाभावात् । विरुद्धयोरपि प्रामाण्यायोगात्। ननु देवदत्तस्य जीवने कुनश्चित प्रमाणाप्रमिते जीवता कचिरस्थातव्यमित्यविशेषेण देशसामान्यस- म्बन्धावगतौ गृहमप्यास्कन्दन्त्यां सत्या प्रत्यक्षे च गृहे तदभावं प्रतिपादयति स्पष्टो बिरोधः, अतस्तच्छान्सै बहिनीवकल्पनमर्थोप- त्तिरिति । मैवम् । कचिदिति चिदितस्य जीवनस्य नियमामावाद्व- हिविद्यमानतासन्देइ, निश्चयरूपेण गृहामावप्रत्यक्षेण प्रतिस्पर्षितः मसामयीत् । न च विरुद्धविपययोवास्तवं कुत्रापि समचलत्वं समस्ति, उभयाप्रामाण्ये तु कथञ्चित्स्यात्" इति । उपमानमपि न प्रमाणान्वरम्, अन्यत एव तदर्थसिद्धः । यतु फश्चिदाह-की गवय इति पृष्टः कश्चिदाह गोसदृशो गवय इति, तदिदमुपमानमिति । अस्य च शब्द एवान्वर्भावः, तेनैव वाक्येन सदशो गवय इति गवयत्वावधारणात् । अपरे आहुः-मागेव नगरे गा रष्टवतोऽवगतगोजाते; गोसदृशो गवय इत्यारण्यकपाक्यं श्रुतवतस्ततो जातु गवयं पश्यतः स गवयोऽयमिति यज्ज्ञानं भवति तदुपमानमिति । एतदपि न युज्यते, अयमिति चाक्षुपं विज्ञानं स इति तु आरण्यकयास्यश्रवणसमयावधृतस्य गोसादृश्यस्य संसारतः स्मर्यमाणस्य सन्निकष्टस्य गवयस्य विशेषणतया भानम् । तदिदं प्रत्यक्ष स्थान्वर्भयतीति नोपमान प्रमाणान्तरम्। यत्तु परैरुच्यते-गोसशो गवय इति आरण्यकवाय श्रुतयतो जात्वरण्यं गतस्य गवयं पश्यता 'अयं गत्यपदयाच्य' इति मपति शक्तिमहः । वनाविदे- अयाफ्यार्यानयुपमानम्, तत्सरण व्यापार, शपिप्रहः फलम्। .

प्रकाशे] प्रत्यक्षपरिच्छेदः। गोसादृश्यविशिष्टपिण्डदर्शनं तु संस्कारोद्बोधकतया व्यापारांश उपयुज्यते । तदुपमानं प्रमाणान्तरमिति । अत्रापि न शब्दादन्यस्य प्रमाणस्यावसरः शक्तिमहो हि आप्तस्यारण्यकस्य वचनादेवावगतः। ननु वचनान्न तदवगमः। संज्ञाप्रवृत्तौ यन्निमित्तं गवयत्वं तत्तु गव- यदर्शनानन्तरमेव हि प्रतीयते । नैवम् । गवयपदप्रवृत्तौ निमित्तं हि गवयत्वलक्षणो जातिविशेषः। स च गोसादृश्येनोपलक्षितः प्रागे- वावगतो नाम । गोसादृश्योपलक्षितः कश्चिद् गवय इति वाक्या- देव ह्यवगतम् । उक्तं च न्यायपरिशुद्धावाचार्य:-"यत्तु 'सादृश्य- स्यानिमित्तत्वानिमित्तस्याप्रतीतितः।समयो दुर्ग्रहः पूर्व शब्दे- नानुमयापि वा ।।' इति । तत्र निमित्तस्याप्रतीतित इति त्वसि- द्धम् । गवयत्वादेरेव जातिविशेपस्य गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः, गोसादृश्योपलक्षितः कश्चिदर्थ- विशेपो गवय इति हि प्रतीतिः। पश्चात्प्रत्यक्षितगवयस्य तद्वैशद्य- मात्रमेव" इति । यत्तु शावरैरुच्यते-गृह्यमाणपदार्थगतसादृश्यविज्ञानात्स्मर्यमाण- पदार्थगतसादृश्यविज्ञानमुपमानमिति । तन्न । स्मृतिमानं हि तत् । गोसदशगवयदर्शनाद्भवति पूर्वदृष्टगोस्मृतिः । ननु सादृश्यमधिकं मर्यमाणस्य विशेपणतया भासते । भासताम् ; तथ सादृश्यं भूयोऽवयवसामान्ययोगः, अवयवसामान्यं च तत्तत्संस्थानानातिरि- कम्, वच दृष्टपूर्वमेवेति किमधिकमुपमानप्रमाणस्य प्रमेयम् । प्रति- योगिपरामर्शोपाधिक्स्तु गवयसदृशी सेति व्यवहारः । यद्वा-गवये दृष्टे गौः स्मर्यते सादृश्यात् । सादृश्यं संस्कारोद्बोधकः सम्बन्धः, तच 'गोसहशोऽयं गवय गवयसदृशी सा गौरिति वा उदी- २० मानमेयप्रकाशिकायां [प्रमाण- बालमूकतिर्यगादीनां ज्ञानं संज्ञाविकल्परहितमपि गुणसंस्थानादिवि- कल्पविशिष्टविपयमेव । निर्विकल्पकविचारः। यत्तूक्तम्--'अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् ।' बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥' इति । किमभि- प्रेतमेवंवदता।'नसोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइतें' इति वैयाकरणैर्यत् शब्दानुगत्या प्रत्ययमात्रस्य सविकल्पतेष्यते तन्निरासमानं चेत्, न तत्र नो विवादः । यदि तु 'जात्यादिकं न गृह्यत' इति निर्विकल्पतोच्यते, तन्न मृष्यामहे वयम् । यचक्षुः- पथमुपैति योग्यं न तद्गृह्यते इति सम्भावितम् । संस्थानविशेपा- दनतिरिक्तैव तु जातिः। अन्यैव वा भवतु।सा च योग्यवृत्तिर्योग्यैव । जातिव्यच्योरभेदमपीप्यता भवता च व्यक्ती गृह्यमाणायां जातिर्न गृह्यत इति कथं वक्तुं शक्येत । ननु भोः वयं जातिव्यत्योभदाभेद सत्यं घूमः । किन्तु वदेव तु सामान्य अस्येदं सामान्यमयं तु विशेष इति प्रथमदर्शने नावधार्यते, द्वितीयादिदर्शने तु भवत्यव- धारणं अस्येदं सामान्यमिति । यद्येवं वर्हि जातेः प्रथमपिण्डदर्शने अयमित्यमिति प्रकारप्रकारिभावेनावधृताया या जातिता सामान्यता बहनुगतत्वलक्षणा सा न गृह्यते, सा तु द्वितीयपिण्डदर्शन एवेत्य-. भ्युपगतं तदिष्टमेव नः । परं संस्थानातिरिक्तत्वे भेदाभेदे प दियादः। प्रथमपिण्डाहणे यद्यपि 'अयमेतजातीय' इति न गृऐत कामम् । 'अयं फोऽपि विजातीय' इति दृष्टेभ्यो पैजायं तु गृहात एय, त्या शुष्टनीलादिषेपम्यमपि। शुद्धवस्तुजमिति च किम- भिप्रेवम् ? विशेषशून्येन परतुना जावमिति भयता न शक्यते वहम् , 'प्रकाशे] प्रत्यक्षपरिच्छेदः। २१ अपसिद्धान्तापातात् । अगृहीतधर्मधर्मिभाववस्तुमात्रविषयमिति च प्रतीतिस्वभावविरुद्धम् । दृष्टमात्रमिदमित्थमित्येव प्रतीयते इति । ननु-अवश्यमेवाभ्युपगन्तव्यं निष्प्रकारकं ज्ञानम् । विशिष्ट- ज्ञानेन हि विशेषणज्ञानपूर्वकेण भाव्यम् । 'सुरभि चन्दन मिति विशिष्टप्रत्यक्षं हि सौरमज्ञानपूर्वकमेव भवति । तथा च 'अयं गौरिति गोत्यविशिष्टज्ञानं गोत्वज्ञानपूर्वकमेवेति सिद्धम् । तच्च गोत्वज्ञानं विशेष्यविशेषणभावानवगाहीति ।। मैवम् । सर्वेणैव विशिष्टज्ञानेन विशेषणज्ञानपूर्वकेणैव 'भाव्यमिति हि न नियमः। ययोविंशेपणविशेष्ययोनेकेन्द्रियग्राह्यता तत्र विशेषणग्रहेण पूर्वमेव भाव्यम् । यथा 'सुरभि चन्दन'मित्यत्र सौरभं विशेषणं घ्राणेन्द्रिय- ग्राह्यम् , चन्दनं तु चाक्षुषम्, तस्मात् प्राक् घ्राणेन्द्रियेण गृहीतं सौरभं पूर्वानुभवजनितसंस्कारवलेन स्मृतं सन्निकृष्टचन्दनस्य विशे- पणतयाऽवभासते। तस्मात् विशेपणस्वाभाव्यान्न पूर्वग्रहणम् ; अपि तु भिन्भेन्द्रियग्राह्यत्वात् । गोतत्संस्थानादि तु एकेन्द्रियग्राह्यमिति सेयं विशिष्टधीने विशेषणग्रहणं पृथगपेक्षते इति । यत्तु योगशास्त्रे निर्विकल्पकसमाध्युपदेशानिष्प्रकारकज्ञानमे पितव्यमिति । तन्न । निर्विकल्पकसमाधावपि प्रहादादीनामनन्तगुणविशिष्टस्य ब्रह्मण एवानुभाव्यत्वदर्शनात् । यत्र च ध्याने ध्येयापेक्षया ध्यानस्य ध्येयस्य च पृथग्भानमस्ति, तत्सविकल्पकम् । यत्र तु ध्येयार्थस्या- ऽत्यन्तवैद्यात्तन्निगीर्णतया ध्यातुर्ध्यानस्य च पृथगवभासो नास्ति सतोऽपि, तनिर्विकल्पकमित्येव योगशालतात्पर्यम् । न च तावता -निष्पकारकज्ञानसिद्धिरित्यन्यत्र विस्तरः । सविकल्पकवर्णनम् । सप्रत्सवमर्श प्रत्यक्षं सविकल्पकं, चद्रहिवं प्रत्यक्षं निर्विकल्प- - मानभैयप्रकाशिकायां [प्रमाण- च्यबोधे विषयीभवतीति । किञ्च मिथः स्वहस्तयोईष्टसादृश्यस्य गोसदृशं गवयं पश्यतः गवयसदृशावानुमानमेवेदमिपि वक्तुं शक्यते । उक्त बाचार्यन्यायपरिशुद्धौ-"उपमानमपि यदि गृह्यमाण- पदार्यगतसादृश्यविज्ञानात्मर्यमाणपदार्थगतसादृश्यविज्ञानम् ; दवा स्मृतिः, तत्तद्वस्तुसंस्थानविशेषाद्यतिरिक्तस्य सादृश्यस्याभावात् , तस्य च पूर्वदृष्टत्वात्, पर्यमाणत्वाच । व्यवहारस्स्यपूर्वस्तत्तद्व्यव- हारपतिसम्बन्धिविशेपपरामशीपाधिकः । यद्वा-यो यसहशः स. सद्गतसादृश्यप्रतियोगी; यथा मिथ: स्वहस्तौ, इति व्याप्तिसिद्धौ, गौरतत्सदृशी, एतद्गतसादृश्यप्रतियोगित्वात् , इत्यनुमानात् मर्य- माणगतसादृश्यसिद्धिः" इति । किञ्च-गृह्यमाणसादश्यविज्ञानास्मयमाणसाश्यविज्ञानमपि प्रमाणान्तरत्वेन किं नेष्येत । एतुरंगविसदशं गवयं पश्यत एत. द्विसदृशस्तुरग इवि हि वैसाश्यग्रहणं भवति । एवं तरुनेण्या दृश्यमानायां प्रथमतरदर्शनेऽनयगतं तरोराद्यत्वं द्वितीयतरुदर्श- नानन्तरं प्रथमदृष्टे तरौ विज्ञायते स सरुराय' इति । तदस्या अपि प्रतीतेः प्रमाणावरत्वं स्यात् । तथा चोक्तं परैः-'गवयस्योपलम्मे तु तुरगादी प्रवर्तते । तद्वैसादृश्यविज्ञानं यत् तदन्या प्रभा न किम् ॥ तरुपतयादिसंस्ष्यवेकपादपदर्शनात् । द्वि- तीयशाखिविज्ञानादाद्योऽसाविति निश्चयः ॥ प्रमाणान्तरमा- सरं सादृश्यायनपेक्षणात् ।' इति । न्यायपरिशुद्धारप्युक्तम्- 'गृहमाणसादृश्यविज्ञानासर्यमाणपैसाहश्यविज्ञानमपि मानान्तर स्यात्' इति ॥ अनुमानगतार्थता पेमकतेऽपि सा तुल्येति । 'शते पाशसम्मपनी' सादेः सम्मपस्य, इह पटे यक्षस्तिष्टती सादेरे- प्रकाशे] प्रत्यक्षपरिच्छेदः। तिह्यस्य चाशातमूलवक्तृकव्यवहारपारम्पर्यलक्षणस्य यथायोगमनु- माने शन्दे चान्तर्भावः । अतः सिद्धं त्रिविधान्येच प्रमाणानीति॥ प्रत्यक्षपरिच्छेदः। प्रत्यक्षलक्षणम्। अथ प्रत्यक्षं निरूप्यते-साक्षात्कारिप्रमा प्रत्यक्षं तत्करणं प्रत्यक्ष- प्रमाणम् । साक्षात्करोमीत्यात्मसाक्षिकः कश्चित् ज्ञानस्य स्वभाववि- शेपः प्रत्यक्षत्वम् । तथा च न्यायपरिशुद्धौ-'वन साक्षात्कारिप्रमा प्रत्यक्षम्, साक्षात्त्वं जातिरूप उपाधिरूपो वा कश्चित् ज्ञानस्व- भावविशेषः स्वात्मसाक्षिकः। 'ज्ञातकारणजज्ञानस्मृतित्वरहिता मतिः । अपरोक्षेति निष्कर्षे नाव्याप्त्यादिप्रसञ्जनम् ॥' इति । ज्ञातकरणजत्वरहिता स्मृतित्वरहिता च या मतिः 'साऽपरोक्षेत्यर्थः । प्रथमविशेपणेनानुमानादिव्यावृत्तिः, द्वितीयेन स्मृतिव्यावृत्तिः । अनूदितं च तत्रैव प्राचामाशयवैविध्यम् 'प्रमेयसअहे पेवमुक्तम्- साक्षादनुभवः प्रत्यक्षम्, साक्षात्वं जातिरिति । वरदविष्णुमित्रैर्मा- नयाथात्म्यनिर्णये त्वेवमुक्तम्-अपरोक्षप्रमा प्रत्यक्षम् , प्रमाया आप- रोक्ष्यं नाम विशदावभासत्वमिति झूमः । किमिदं वैशधं नाम ?, असाधारणाकारेण वस्त्यवभासकत्वं इत्यादी'ति । वध प्रत्यक्षं द्विविधम्-निर्विकल्पं सविकल्पकं चेति । निष्प्रका- रकं ज्ञानं निर्विकल्पकं, सप्रकारकं ज्ञानं सविकल्पफमिति तु सार्किकाः । नैताज्यते । न हि किमपि ज्ञानमविशिष्टवस्त्ववमास- * कम्, गुणसंस्थानादिविशेषणविशिष्टमेव तु ज्ञानेन गोचरीक्रियते । a मानमेयप्रकाशिकायां [प्रमाण- कम् । अदृष्टपूर्व पिण्डविशेषं गवादिकं पश्यतः 'अयमीदृशः कोऽपि पशुरिति भवति प्रत्यवमर्शरहित प्रत्यक्षम् । अथापरं तज्जा- 'तीयं पश्यतः 'अयमपि स एवेति.भवति प्रथम दृष्टस्य जातिविशे- पस्य प्रत्यवमर्शः, प्रत्यवमर्श चास्मिन् पूर्वानुभवजनितसंस्कारो- द्वोधः सहकारी । संस्कारस्य सहकारितामात्रेण न प्रत्यक्षत्वभङ्गः, अक्षप्राधान्यात् । उक्तं च न्यायपरिशुद्धौ-'सहकारिविशेषेण न बैजात्यं प्रसज्यते। तज्जातीये तु यत्किञ्चिद्वैपाय सम्भवेदपि। यत्र दृश्येत वैजात्यं तथा तनाभ्युपेयते । तावता नैव सर्वत्र भवेदेतस्य कल्पनम् ॥ केवलेन्द्रियजं चापि न किञ्चित् ज्ञान- मिप्यते। सहकारिविशेपा हि विभिद्यन्ते प्रतीन्द्रियम् । अतः संस्कारसम्भेदेऽप्यपरोक्षत्वयोगतः । प्रत्यक्षत्वं विकल्पस्य न क्वचिद्विनिवर्तते ॥' इति । तथा चैतत् निष्कृष्टं लक्षणम्-संस्का- रोबोधसहकृतेन्द्रियजं ज्ञानं सविकल्प प्रत्यक्षम्, संस्कारोबोध- निरपेक्षेन्द्रियजं ज्ञानं निर्षिफल्पकं प्रत्यक्षमिति । द्वितीयपिण्डमह- णेऽपि दृष्टमात्रे सपदि समुद्भवति प्रत्यवमर्शरहितं निर्विकल्पकम् , अथ संस्कारोदोघसहकृतेनेन्द्रियेण भवति सप्रत्यवमर्श सविकल्पक प्रत्यक्षमित्येप विदोपः। अनूदितं घ न्यायपरिशुद्धौ श्रीविष्णुचित्तव- पनमत्र संवादितया, 'संस्कारोद्वोधसहकतेन्द्रियजं ज्ञानं सविकल्प- कम्, एकजातीयेपु प्रथमपिण्डाहणे द्वितीयपिण्डाहणेषु पक्षमाक्ष- 'पातसन्निपातजं च ज्ञानं निर्विकल्पफम्' इति । प्रत्यक्षविमागः। द्विविधं पुनः प्रत्यक्षमर्याधीनमनर्वाचीनं चेति। अर्वाचीनं द्विवि- पम्-इन्द्रियसापेक्षं तनिरपेशं चेति। इन्द्रियनिरपेक्षमपि द्विविधम्- सयंसिद्ध दिव्यं पेति । योग स्वयंसिद्धमुच्यते, मगयत्प्रसादजंतु A प्रकाशे] प्रत्यक्षपरिच्छेदः। ૨૨ दिव्यमुच्यते । योगाभ्यासतपश्चर्यादिजः प्रकृष्टादृष्टविशेपो भवति निमित्तं योगजे । एतेन योगजस्य केवलभावनावलजत्ववादो नि- रस्तः । श्रीभाष्यादौ तु , भावनाचलमात्रजस्यादृष्टासहकृतस्य प्रामा- ण्यप्रतिक्षेपः कृतो नादृष्टसहकृतविशुद्धमनोनिष्पाद्यस्येति बोध्यम् । योगजं महीणाम् । दिव्यं पराङ्कुशादिभक्तवर्याणां गोपालानन्द- स्वामिप्रभृतीनां च । अनावीनं नित्यानां मुक्तानामीश्वरस्य च । प्रज्ञापरित्राणे तु इन्द्रियनिरपेक्षस्य सर्वस्य दिव्यत्वमुक्तम्-'अत्रे- न्द्रियानपेक्ष- यत् ज्ञानमर्थावभासकम् । दिव्यं प्रमाणमि- त्येतत्प्रमाणज्ञाः प्रचक्षते ॥ परमेश्वरविज्ञानं मुक्तानां च धिय- स्तथा । सञ्जयार्जुनवाल्मीकिप्रभृत्याधियोऽपि तत् ॥ स्वाभा- विकस्य ज्ञानस्य स्वतः सर्वावभासिनः। अविद्याप्रतिवद्धस्या- प्रतिवन्धोऽक्षयोगतः ॥ अविद्याहानितो मुक्तपुरुषाणां हि संविदाम् । स्वाभाविकस्वरूपेण निखिलार्थावभासिता । परे- णानुगृहीता धीःऋपीणां सर्वभासिका।' इति । अर्वाचीनं त्वस्मदादीनामिन्द्रियसापेक्षं प्रत्यक्षम् । अनुमानादी- नामप्येतदुपजीव्यत्वेनास्य ततः प्राधान्यम् । परितः प्रसरणशीलस्या- प्यात्मधर्मभूतस्य ज्ञानस्याविद्ययोपरुद्धस्येन्द्रियादिप्रसरणे भवति निमित्तम् । इन्द्रियद्वारकप्रसरणविशिष्टं प्रत्यक्षमुच्यते । लिङ्गज्ञाना- दिना लिनयादिप्रकाशकं त्वनुमानादि । तत्र सन्निकृष्टमेवार्थ ग्राह्यतीन्द्रियम् । सन्निकर्षश्च संयोगाहेष्व: र्थेषु संयोगः,- अतदहेपु रूपादिपु संयुक्तापृथसिद्धिः । यथोकं तत्त्वरत्नाकरे-'अन्न वृद्धा विदामासुः संयोगः, सन्निकर्पणम् । संयुक्ताश्रयणं चेति यथासम्भवमूह्यताम् ॥ इति । यद्यपि धनुः स्वदेशानान्यत्र प्रसर्पति, घटादिरोऽपि तथा, अथापि चक्षुपो ..

अयं शब्दः मानमेयप्रकाशिकायां [प्रमाण- वृत्तिःप्रसरणशीलाऽर्थदेशं प्राप्नोति, ततश्च तहारा भवति सनिकपः। अन्येपामिन्द्रियाणां तु स्वदेशप्राप्तार्थग्राहकतैव । यथा वायूपनीतपा- र्थिवांशगतगन्धेन सह स्वदेशस्थस्यैव घ्राणस्य भवति सन्निकर्षः । वायोः श्रोत्रदेशप्राप्त्या भवति शब्देन श्रोत्रस्य सन्निकर्पः। शब्दो हाफाशस्येव तद्विकृतेर्वायोरपि गुणः । प्रत्यक्षसिद्धश्च वायावपि । उक्तं च सर्वार्थसिद्धौ-'अत्र केचित् शब्दस्याकाशमानाश्रितत्वमाहुः, सन्नेति प्रतिपादयतीत्यादिना । यत्तु वीचीतरङ्गन्यायेन श्रोत्रदेश यावत् शब्दधारा जायते, तन यः शब्दः श्रोत्रप्रदेशे समुत्पन्नः, स एव श्रोत्रेण सन्निकृष्टः प्रत्यक्षीक्रियत इति । तन्न।माच्यां दिशि जातः श्रूयते शब्दः प्रतीच्यां दिशि श्रूयते शब्दः, समीपे श्रूयतेऽयं तु दूर इत्यादिप्रतीतेनुपपत्तेः । केचित्तु श्रोन- स्यापि चक्षुप इव वृत्तिरर्थदेशं यावत् प्रसरतीत्याहुः । चक्षुरादीनागिन्द्रियाणां प्रतिनियतरूपादिविपयतया च चाक्षुपं भावणं रासनं त्वाचं घ्राणमिति पश्चविध तावदिदं प्रत्यक्षम् । ननु मानसं मुसादिप्रत्यक्षमस्तीति कथं पञ्चधैवेति । अत्र पूर्वा- चार्या वदन्ति । सुखादिकं हि ज्ञानस्यैवावस्थाविशेषः । ज्ञान ज्ञाताs. हमर्य आत्मा च स्वयं प्रकाशे। इति न तस्य मनःसापेक्षप्रत्यक्षवि- पयवा । तस्माचक्षुपो रूपादिकमिय मनसो न कश्चिदसाधार- पोऽर्थः । ज्ञानस्य सुखत्वाद्यवस्थाप्राप्तो पुनर्मनसो व्यापारो न निवार्यते । प्रकाशस्तु स्वयमेव सम्भवतीति । अणुत्वनित्यत्वभ- गवच्छेपत्यादिविशिष्टस्य योगाभ्यासजनितादृष्टसंस्कृतमनोनिष्पाद्यो विशदायमासस्त्यात्मन इप्यत एष । विस्तरस्त्यन्यन द्रष्टव्यः । ॥ इति प्रत्यक्षपरिच्छेदः ।

२५ .. प्रकाशे] अनुमानपरिच्छेदः। अनुमानपरिच्छेदः। अनुमानप्रामाण्यसमर्थनम् । अथानुमानं निरूप्यते-भूयोदर्शनसापेक्षत्वेन व्याप्तिनिश्चयस्य भवत्यनुमान प्रत्यक्षोपजीव्यकम् , वृद्धव्यवहाराधीने शक्तिप्रहे भव- त्यनुमान मूलमिति प्रत्यक्षनिरूपणानन्तरं शब्दनिरूपणतः प्राग- नुमानं निरूप्यते। ननु-अनुमानं न प्रमाणम् । तथाहि-अनुमितेः पूर्व विशेपा- महात् (पर्वतीयवहेरग्रहात्) न विशेषयोाप्तिग्रहः । सामा- न्ययोश्चेत् ; हन्त पर्वतीयवहिरपि सामान्यतः सिद्ध एवेति सिद्ध- साधनम् । तथा चोक्तम्-'विशेपेऽनुगमाभावः सामान्य सिद्ध- साधनम् । अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः ॥ इति । ननु पर्वते धूमं पश्यतो वहयर्थिनो भवति प्रवृत्तिः । अस- त्यनुमानप्रामाण्ये कथं प्रवृत्तिर्घटेत । नैवम् । संशयादपि प्रवृत्तेः । अत्रोच्यते-अनुमानप्रामाण्यं निरस्यतस्तव वचनमेवानुमानप्रामाण्यं समर्थयतीति व्याहतं स्ववचनेनैव । तथाहि-अनुमानस्यामामाण्यं साधयता त्वया 'विशेपानुगमाभावः सामान्ये सिद्धसाधनम् इत्यनेन व्याप्त्ययोगो हेतुरुक्तः। स किमनुमानाप्रामाण्येन व्याप्तो न वा, यदि व्याप्तस्तर्हि अभ्युपगतमनुमानप्रामाण्यम् । यदि न व्याप्तो हेतुः, अनुमानप्रामाण्यपक्षोऽस्मदीयो दूपणासंस्पर्शेन विज- यत एव । तथा चोकम्-'न व्याप्तिर्नियमायोगादिति व्यावमिदं न वा । व्यावं चेत्स्वीकृता व्याप्तिः न व्याप्तं चेन दूप- णम् ।।' किञ्च-अनुमानमात्रस्याप्रामाण्यं समर्थयता त्वया सर्वो हेतुर्व्यभिचारीति साध्यते उत यः कश्चिदिति । आये व्यभिचारि- मानसेयप्रकाशिकायां [प्रमाण- चोक्तयैव दिशा । केचितु-सति विपक्षे तद्वयावृत्तिरङ्गम् ; असति तु न तदङ्गमिति वदन्ति । च्याप्यव्यापकभावश्च कयोश्चित् कालतो देशतश्च । यथा-धूम- बयोः । कयोश्चित् कालमात्रतः । यथा-छायाविशेपसूर्यस्थितिवि- शेषयोः । पुरुषो हि खच्छायया भूतलगतया स्वचरणमानमितया नमोभागविशेपे सूर्यस्य स्थितिमनुमिनोति । देशमानतो यथा- रूपान्तरेण विलक्षणतेजासंयोगलक्षणपाकस्यातीतस्य । प्रवहता वि. शिष्टनदीपूरेणोपरिवनदिश्यतीताऽपि दृष्टिलुमीयते, तत्रापि नदी- तीरभदेशत्वेन देशैक्यं धृष्टिपूरयोरविनाभावप्रयोजक मन्तव्यम् । ननु-धूमो महानसीयवहेरधिकदेशवः कथं व्याप्यो भवितुम- ईति; यहिवीं महानसीयो धूमसामान्यतो न्यूनवृत्तिः कथं व्यापको भवितुमर्हति । नैवम् । धूमसामान्यवद्विसामान्ययोरस्त्येच व्याप्य- व्यापकमावः । घूमत्वावच्छिन्नाघेयतानिरूपिताधिकरणतावनिष्ठा सन्ताभाषप्रतियोगितानवच्छेदकत्वात् वह्नित्वस्य, वहिवावच्छिन्न- प्रतियोगिताकाभावपत्तिवानवच्छेदकत्वाच धूमत्वस्य । सूचित पैतन्यायपरिशुद्धौ-'अत्रेदं तश्यम्-यापस्य यद्देशकालवर्तिनो यस्य याभूपेण यद्देशकालवर्तिना येनाविनाभावः, दिदसविना- भूवं व्याप्यं तत्प्रठिसम्बन्धि व्यापक मिनि । च्यासिग्रहोपायवर्णनम् । व्याप्तिप्रहश्च भूयोदर्शनवः । सफत्सहपारदर्शनं व्यभिचारिण्यपि स्यात् । नापि आयेव व्यातिपदा सत्सहपारदर्शनमानेणेधि। यपपि भूयसां सहपारदर्शनानां नैकदा समवायः, येन संमूग ध्यातिप्रदं जनयेयुः, क्षणविनाशीनि हि शानि । अयानि मूयोदर्श- प्रकाशे] अनुमानपरिच्छेदः। २९ नजनितसंस्कारप्रचयसहकृवचरमसहचारदर्शनावति व्याप्त्यवधा- रणम् । तच्च चाक्षुपमुदीच्यमानसं वेत्यन्यदेतत् । ननु वहिधूम- व्यक्तयोऽसहोयाः, वासु कतिपयव्यक्तीनां सहचारदर्शनमात्रेण कथं धूमसामान्यवह्विसामान्ययोर्व्याप्तिप्रहः । देशविशेपे पिण्डखजूरादपि वृश्चिकोत्पत्तिदृष्टा, तदयं धूमः कारणान्तरजन्यः किं न स्यादिति स्यादेव शङ्का । मैवम् । सेयं शङ्कापिशाचिका ह्यस्थाने दत्तावसरा सर्वत्रैव प्रसत् , तथा सत्यनुमानकथैव विलुप्येत । उपाधिशङ्कायां तु स्यान्नाम व्यभिचारशङ्का; तदा तु व्याप्त्यवधारणं माभूत् । अन्यथा तूत्सर्गतः स्यादेव व्याप्त्यवधारणं भूयोदर्शनतः । इदमिहावधेयम्-भूयोदर्शनतो जायमानं व्याप्त्यवधारणं किं लौकिकं प्रत्यक्षमुतालौकिकमित्यत्र केचिदाचक्षते-पहिरवधूमत्वसा- मान्यलक्षणाप्रत्यासत्त्या जायमानमलौकिकं प्रत्यक्षमिति । केचिदा- चार्यास्तु-चक्षुःसंयुक्ताश्रिताश्रयत्वं लौकिकः सन्निकर्पः, सोऽयं तृतीयः सन्निकर्पः । तथा चोक्तं तत्त्वरत्नाकरे-'तृतीयः सन्निक- र्पोऽयं सन्निकर्पनिरूपणे । अनुक्तस्तत्प्रमेयस्य व्याप्तेरत्रैव सा. धनात् ॥' इति । अनेन सन्निकर्पण धूमवयोः सकृत्सहचारदर्शन- तोऽपि भवति व्याप्त्यवधारणम् । तथा चोक्तं तत्रैव-'सम्बन्धोऽयं सकृद् ग्राह्यः प्रतीतिस्वरसात्तथा । प्रतीतयो हि स्वरसाद्धर्म- धर्म्यवधीन विदुः ॥' इतीति वदन्ति प्रौढवादोऽयमिति तु मन्या- महे । यद्ययं तृतीयः सन्निको लौकिकः, एकस्यां गोव्यक्तौ दृष्टायां सर्वासामेव गोव्यक्तीनां दृष्टत्वमापतेत् । नन्वेकस्यां दृष्टायामपरा- स्तनातीया दृष्टप्राया एव । एवमपि गवि दृष्टायां चक्षुःसंयुक्ताश्रित- पशुत्वाश्रयत्वेन सन्निकर्पण सर्वेपामेव पशूनां दृष्टताप्रसङ्गो दुष्परि , ..

मानमेयनकाशिकायां [प्रमाण- त्वसाधकतया स्वया प्रयुज्यमानोऽपि सर्वान्तर्गत इति न वेष्ट- सिद्धिः। अथ यः कश्चित्तदाऽन्यस्याव्यभिचारित्वमप्रतिहतमित्यनु- मानप्रामाण्यमव्याहतम् । तथा चोक्तम्-'सर्वस्य व्यभिचारित्वे व्यभिचारो न सिद्धयति । एकस्याव्यभिचारित्वे न सर्व- व्यभिचारिता।' इति । किश्च-गृहीतव्याप्तिकं लिङ्गं पक्षे दृष्टं सत् तर लिजिनमुपस्थापयतीत्येतदनुभववलसिद्धम् । धूमं पश्यतो वही प्रवृत्तिः संशयादिति वदता संशये कारणं वाच्यम् । तच्च न धूमदर्शनमात्रम् । धूमपहयोः सम्वन्धेऽगृहीते नहि तेन संशयो भवति । भूयोदर्शनजनितो वहिसामान्यधूमसामान्ययोः नियत- साहचर्यरूपसम्यन्धनहरतु पक्षधर्मताप्रहसहकृतो निश्चयाकारामेवा- तुमिति जनयेत्, न संशयम् । सामान्यतः प्रसिद्धस्य धर्मस पक्षे धर्मिणि सम्बन्धावधारणगानमगुमितिः, तेन नाप्रसिद्धस्य साध्यता, न वा सिद्धसाधनमसग इति । ननु-लिङ्गदर्शनानायता धर्मिणि लिहिनिश्चयः, परं स प्रत्यक्षा- नातिरिच्यते । प्रत्यक्षमूलको हि सः । नैवम् । चक्षुरादिसनिकर्प- घटिता हि प्रत्यक्षसामग्री लिगं प्राहयित्वा वावन्माचे चिनाम्यति । मनु लिङ्गदर्शनं द्वारम् । नैतद्युक्तम् । निमीलितनयनस्याप्यपगतेऽपि पाचपे स्मरतो लिङ्गं भवति साध्यनिश्चयजननदर्शनात् । न च स्मरणं चक्षुरादेवीरं भवति । ननु-संस्कारप्रभृतिप्रत्यासत्या मानसं वदस्तु । मैवम् । तथासति तुल्यनयेन सर्वेपामेव चानुपादीनां वत्तदिन्द्रियरानिकर्पमत्यासत्त्या मानसप्रत्यक्षवापातः । सर्वाण्य- पीन्द्रियाणि विना मनासम्बन्ध नाहि प्रमयन्ति प्रत्यक्षाय) पदि प मनसो पहिरसातश्यापधुरादेः पृया प्रमाणत्यं तहानुमान- स्थापि तुल्यम् । सम्मान अनुमान प्रमाणान्तरमेवेति सुस्थिता ।

. प्रकाशे] अनुमानपरिच्छेदः। २७ व्याप्यव्यापकभावनिरूपणम् । व्याप्यस्य व्याप्यत्वानुसन्धानात् व्यापकविशेषप्रनितिरनुमितिः, तत्करणमनुमानम् । अव्याप्ये धूलीपटले धूमत्वभ्रमात्स्यात् व्याप्य- स्वानुसन्धानं न ततो व्यापकविशेषप्रमितिः, अतो व्याप्यस्य व्याप्यत्वानुसन्धानादिति । व्यापकविशेषप्रमितिरनुमितिः, तत्करण- मनुमानम् , तच व्याप्यस्य व्याप्यत्वानुसन्धानमित्युक्तं भवति । तत्र व्याप्यमनधिकवृत्ति, व्यापकमन्यूनवृत्ति । धूमो वह्रिदेश एव वर्तते, न ततोऽधिकदेशे । वहिणूंमतोऽन्यूनवृत्ति, न हि वहिघूम- वति देशे नेति । यत् यदधिकरणनिष्ठाभावाप्रतियोगि तत्तस्य व्याप- कम् । व्यापकत्वे निरूपिते तत्प्रतिसम्बन्धित्वलक्षणं व्याप्यत्वमपि निरूपितप्रायम् । अत्र कश्चिदाह-व्याप्यमनधिकवृत्तीति लक्षणमसङ्गतम्, न हिं ज्ञेयत्वेन वाच्यत्वे साध्ये वाच्यत्वव्याप्यता ज्ञेयत्वस्य घटेत, अधिकदेशाप्रसिद्धेः । वाच्यत्वं हि केवलान्वयि । सत्यं केवला- न्वयि, 'अत एवाधिकदेशाप्रसिद्ध्याऽधिकदेशवृत्तित्वलक्षणव्यभि- चारस्याभावात् व्याप्यता तस्य युक्तैव । तथा चोक्तं न्यायपरिशुद्धौ- 'तर्हि विपक्षरहितस्य केवलान्वयिनो विपक्षवृत्त्यभावः कथमिति चेत्, हन्त किं तस्य विपक्षवृत्तित्वमस्ति, तदपि नास्तीति चेत् तर्हि तावदेवानुमानाङ्गमित्युक्तम् , 'तदभावेऽपि तद्नुत्तिरवलक्षणविशिष्ट- स्याप्रसिद्धेरिति' इति । अयमाशय:-अनुमानाङ्गभूतैः पञ्चमी रूपै- रुपपन्नं लिङ्गं प्रभवति साध्यसाधने । तानि च पक्षसत्त्वं सपक्ष- सत्त्वं विपक्षासत्त्वं अयाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । केयलान्वयिलिङ्गमभ्युपगच्छद्भिर्विपक्षाव्यावृत्तिरुपपादनीया, "सा - मानमेयप्रकाशिकायां [प्रमाण- हरः । चक्षुःसंयुक्ताश्रितममेयत्वाश्रितत्वेन सन्निकण दृश्याना- मश्यानां च प्रत्यक्षताप्रसङ्गन्ध । तस्मात् भूयोदर्शनजनितसंस्कार- समुदायाधीनविमर्शविशेषानुपाधिशानिरासे भवति व्यायवधार- 'णमित्येव युक्तम् । सौगतास्तु भूयोदर्शनस्य व्याप्त्यवधारकत्वं न सहन्ते । आहुश्च- 'कार्यकारणभावावा स्वभावाद्वा नियामकात् । अविनाभाव- नियमो दर्शनाने न दर्शनात् ॥' इति । (अन्वयात् व्यतिरे- काढा नेत्यर्थः) ता.धूभवहयोः कार्यकारणभाषः, वृक्षशिशुपयोः खमाव:-खो भावः तादात्म्यम् । तादात्म्यं तदुत्पत्तिवी अविना- भावे प्रयोजक नेतर योदर्शनादि इति । अत्र ब्रूमः-रूपे न रसतादात्म्यं न चैव रसजन्यता । रसादूपानुमानं तु दृष्टं तदटते कथम् ।। कृत्तिकोदयतो रोहिण्युदयो ननु साध्यते । न तादात्म्यं तयो व कार्यकारणताऽपि वा ॥ तादात्म्ये न च भेदोऽस्ति तस्मिन्नसति सा कथम् । व्याप्तिनियतसम्वन्धः .सोऽविनाभाव उच्यते ॥ केन कस्याविनाभावः स हि भेदम-' पेक्षते । ननु सामान्यरूपेण वस्तुन्यपि तदात्मनि ॥ भेदो विशेषरूपेणेत्यापातमधुरं वचः । अन्यदेव हि सामान्यं विशे- पस्त्वन्य एव हि ॥ वृक्षत्वं खलु सामान्य विशेपस्त्वाम्रतादि- कम् । ऐक्ये तयोरिप्यमाणे स्यादामः सकलस्तरुः ॥ साध्य- हेत्वोस्तथा चैक्यं न सामान्यविदोपयोः। अतोऽकार्यानात्मनां घ भयेण्याप्तिरसंशयम् ॥ अन्ययतो व्यतिरेकत्तश्च भवति' व्याप्तिः । साधनान्वयतः साप्यान्वयविधानमुसेन प्रपत्ताऽन्वयतो व्याप्तिः। साध्यव्यतिरे- " प्रकाशे] अनुमानपरिच्छेदः। ३१ कतः साधनव्यतिरेकविधानमुखेन प्रवृत्ता च व्यतिरेकतो व्याप्तिः। सेयं द्विविधाऽपि व्याप्तिरसत्युपाधौ । सत्युपाधौ तु व्याप्ति- भ्रमादेवानुमितिः । न हि धूमेन वहिरिव वह्निना धूमो भूयोदृष्ट- साहचर्योऽप्यनुमातुं शक्यते । तनह्याट्टैन्धनसंयोग उपाधिः । उपाधिनिरूपणम् । यो हि भवति साध्यव्यापकः साधनाव्यापकश्च सोऽयमुपाधिः। यत्र यत्र धूमस्तत्र तत्रास्ति आन्धनसंयोगः, यत्र यत्र वह्निस्तत्र तत्र नाट्टैन्धनसंयोगः, अयोगोलके सत्यपि वहौ तदभावात् । साक्य- चत्वेनानियत्वसाधने कृतकत्वमुपाधिर्माभूदिति साधनाव्यापकत्वं विशेषणम् । कृतकत्वेनानित्यत्वे साध्ये सावयवत्वमुपाधिर्माभूदिति साध्यव्यापकत्वं विशेषणम् । नहि कृतकमपि रूपादि सावयवम् , तथाऽऽनित्यमपि तन्न सावयवम् । असम्बद्धस्यापि स्वसम्बन्धात् सम्बन्धमापादयतीत्यतः सोऽयमुपाधिशब्देन व्यवहियते । वढेधू- मेनाविनाभावलक्षणसम्बन्धेऽसत्यपि आईन्धनसंयोगः स्वसम्ब- न्धात्तस्य तं सम्बन्धमापादयतीति सोऽयमुपाधिः । तथा चोक्तं तत्त्वरत्नाकरे-'केनचिद्यस्य सम्बन्धे योऽवच्छेदक एव हि । तस्योपाधिर्यथा वढेराधो धूमसङ्गमे ॥ श्रोत्रत्वयोगे नभसो यथा वा कर्णशष्कुली । संसारयोगे जीवस्य कर्माविद्यादि वा यथा ॥ इति । सोपाधिकतया हेतुाप्यत्वासिद्ध उच्यते । रूपपञ्चकवर्णनम् । हेतोरनुमित्यगभूते द्वे रूपे-पक्षधर्मता व्याप्तिश्चेति । यानि पक्षे १ इदं च परमताभिप्रायेण, सिद्धान्ते सावयवस्यापि भगवद्दिव्यविग्रहस्य नित्यत्वाभ्युपगमात् । उभयसाधारण्येन तु धूमेन बही साध्ये इन्धनसयोगस्यो- पाधित्वव्यावृत्तिः साधनाव्यापकत्वविशेषणस्य प्रयोजनं धोध्यम् ।

मानसेयप्रकाशिकायां [प्रमाण- सत्त्वं सपक्षे च सत्त्वं विपक्षात् व्यावृत्तिः अबाधितविषयत्वमसत्य- तिपक्षत्वं चेति पञ्च रूपाण्यनुमित्यङ्गानि कैश्चिदुच्यन्ते, तानि त्वन- योरेव प्रपश्चरूपाणि । तद्यथा-असति सपढेऽव्यावृत्ते च विपक्षात् व्याप्त्यसिद्धिः । असति पक्षे न पक्षधर्मता । तथा बांधिते च व्यापकवाधात् व्याप्यस्यापि वाध इति न पक्षधर्मता, हदे वह- पांचे धूमस्यापि बाध इति । यदि पुनः प्रमेयत्वं हेतुस्तदा तु साधा- रण्याद्व्याप्तिभङ्गः, यदि पुनः पक्षासाधारणो जलादिहेतुस्तदा विरो- धाद् च्याप्तिमङ्गो विरुद्धसाधकतया वैपरीयं च । सत्प्रतिपक्षे तु द्वयोः साधनयोरन्यतरस्य व्याप्तिभङ्गः पक्षधर्मताभङ्गो वा नियत इति । एतेन साधनाङ्गवैकल्यनिवन्धनाः साधनदोपा अप्युक्तप्राया। साधने पक्षेऽसत्यसिद्धिर्दोपः, सपक्षेऽसति ( पक्षमानवृत्ती) धारण्यम् , विपक्षेऽपि सत्यनकान्त्यम्, विपक्षमात्रवृत्तौ विरोधा, साध्ये बाधिते बाधितविषयता, साध्यतदभावसाधकसाधनद्वयप्रयोगे घ सत्प्रतिपक्षतेति । तत्र वाधसत्प्रतिपक्षयोः साक्षानुमितिविरो- धिता। अन्येपां तु कारणज्ञानविघटकस्वमिति बोध्यम् । अनुमानद्वैविध्यम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकीति त्रैविध्य लिङ्ग- स्थालपादेरभ्युपगम्यते । तत्र पूर्वयोर्द्वयोर्न विवादः । तृतीये तु विवादः, पक्षमात्रवृत्तित्तयाऽसाधारणाख्यदुष्टसाधात् । पक्ष- मात्र सता भाव्यं केवलव्यतिरेकिणा । पक्षादन्यत्र चेत्सो- ऽन्यः सपक्षश्चत्तदाऽव्ययी ।। विपक्षश्चेदनैकान्त्य पक्षासाधा- रणस्ततः ॥ उक्त पारमसिद्धौ-केयलव्यतिरेकि तु साधन- दशामेय नासादयति, सपक्षान्वयविरहादसाधारणवत्' इति । असा- . - प्रकाशे] अनुमानपरिच्छेदः। ३३ केवलव्यतिरेकिविचारः । तथा हि । यथाऽसाधारणस्य साध्यान्वयादर्शनादाभासत्वं, एवं केवलव्यतिरेकिणोऽप्याभासत्वमेवोचितम् । यद्यत्र पक्ष एव साध्यान्वय इष्यते, तबसाधारणेऽपि तथा किं न स्यात् । किश्चा- नुमानाद्धेतोः साध्यान्वयग्रहः, ततश्चानुमानमित्यन्योन्याश्रयणम् । अभावव्याप्तिवैपरीत्येन भावव्याः सार्वत्रिकत्वाद्विनाऽप्यनुमान हेतोः साध्यान्वयः शक्यावगम इति चेत्तुल्यमसाधारणेऽपि । यथा पृथिवी नित्या गन्धवत्त्वादित्यत्र नित्यत्वाभावव्यापकत्वं गन्धवत्त्वा- भावस्य जलादौ गृह्यते स च पक्षाव्यावर्तमानः स्वव्याप्यं नित्यत्वा- भावमपि व्यावर्तयतीति नित्यत्वव्याप्यता गन्धयत्त्वस्य प्राप्नोतीति । नन्वेवं साध्यविरुद्धधर्मेणानित्यत्वेनापि व्याप्तिग्रहस्य सम्भवादाभा- सत्यं तस्येति चेत् वस्त्वन्तरासाधारणधर्मस्यापि प्रकृतसाध्येन व्यति- रेकन्याप्तिर्ग्रहीतुं शक्यत इति केवलव्यतिरेकिणोऽप्याभासता समाना । यथा-अनुभूतिरननुभाव्या अनुभूतित्वात् यन्नैवं तन्नैवं यथा घट इत्यत्र व्यतिरेक्व्याप्तिरनुभूतित्वस्य यथेष्यते एवं पट. त्वादेरपि सा सुवचा, पटोऽननुभाव्यः पटत्वात् ययं तम्नैवं यथा घट इति । अनुभाव्यत्वेऽननुभूतित्वप्रसङ्ग इति तानुग्रहा- त्पूर्वस्य सल्लिङ्गत्वमिति चेदनुभाव्यत्वे पटस्य घटवदपटत्यप्रसङ्ग इति तर्फस्सानापि सुवचत्वात् । आमासोऽयं वर्क इति चेत्पूर्वस्य याs- नाभासत्वं फुतो निश्चितम् । वाघश्चोभयन्न समानः । पूर्वानुभवा- देानान्तरेण प्रहणदर्शनात् । किय-येयलव्यतिरेरिस्थलेऽनुमानात्पूर्व माध्यं गृहीतं न था। गृहीतं पक्षे सिद्धसाधनम्, अन्यत्र पेत्तर देतोरन्वयेऽन्यायित्वं, मान.प्र.३ ३४ , भानमेयप्रकाशिकायां [प्रमाण- अनन्वयित्वे त्वसाधारण्यम् । अथागृहीतं कचिदपि, तर्हि साध्या- प्रसिद्धिः । साध्यस्यामहे तत्प्रतियोगिकत्वोपरक्तचेपेण व्यतिरेकस्य साधनामावल्याप्तिश्च दुर्महा । नन्वरस्वेचं भावसाध्यके । अभाव- साध्य तु केवलव्यतिरेकिणि साध्याभावस्य भावरूपतयाऽगृही- त्वेव साध्यं व्यतिरेकव्याप्तिः सुग्रहेति चेत् । मैवम् । प्रकृतसाध्य- प्रतियोगिकत्वोपरागेण व्यतिरेके गृह्यमाणाया व्याप्सेरेव प्रकृवसा- भ्यगमकतौपयिकत्वादिति । ननु केवलव्यतिरेकिणः प्रामाण्यानङ्गीकारे लक्षणानामितरव्या- वर्तकत्वादि न स्यादिति चेत् । मैवम् । अन्वयिव्यतिरेकिविघयैव तत्सम्भवात् । यथा-इयं गौः सानादिमत्त्वात् यथा मदीया, अयं महिपादिभिन्नः सानादिमत्त्वात् यथा सम्मतिपन्ना, इदं शरीरं पार्थिवं गन्धवत्त्वात् घटवत्, इदं आप्यादिकं न भवति गन्धव- क्वात् घटवात् , इत्यादियहुलमुपलभ्यते हि । गवादिसामान्यपक्षी- कारेण प्रयोगे चांशतः सिद्धसाधनम् । अवच्छेदकावच्छेदेन साध्य- सिद्धरुदेश्यत्वादशतः सिद्धसाधनं न दोपायेति चेत् । एवमपि सम्प्रतिपन्नगवाद्यन्ववेनान्वयव्याप्तिरपि ग्रहीतुं शक्यत एवेति न फेवलव्यतिरेकिता गन्धयत्तादेः । स्थादेव नानाव्यतिलक्ष्यके लक्षणे । एकभ्यक्तिलक्ष्यके कथम् । यथा सर्वजगत्कारणत्वादिरूपे प्रझलक्षणे । सत्यम् । लक्ष्यासाधार- पाकारविज्ञानं हि लक्षणस्य फलम् । तच तत्र 'यतो वा' इत्यादि- साखर १५ सिस्वतीति न केवलव्यतिरेकिणोऽयसरः । ब्रह्मल- मणध्यतिरेफेगालक्ष्यमूतेषु चतुर्मुसादिपु लक्ष्यभेदेऽन्वायना साध्य- मानेऽलक्ष्यध्यावृत्तिरपि लक्ष्यभूवस्य ममणोऽर्थसिद्धय, तन्निछान्यो- . प्रकाशे] अनुमानपरिच्छेदः। न्याभावप्रतियोगिनस्तत्प्रतियोगिकान्योन्याभाववत्त्वनियमादिति । नेतरव्यावृत्तिसिद्ध्यर्थमपि केवलव्यतिरेकिण आवश्यकता समस्ति । विस्तरतः केवलव्यतिरेकिमङ्गप्रकारस्तु न्यायपरिशुद्ध्यादावन्वेष्टव्यः। उक्तं च न्यायकुलिशे न च सिद्धान्तिनोऽयं प्रसङ्गः। केवलव्य- तिरेकिप्रामाण्यानभ्युपगमात् । इति । केपाश्चित्केवलव्यतिरेकिनि- रूपणं तु परमतानुसारेणेति ध्येयम् । पञ्चावयववर्णनम् । इदं चानुमानं स्वार्थपरार्थभेदेन द्विविधमिति बहवः । अत्रेदं विवेचनीयम् । न हि परस्यानुमानेन परस्यानुमितिः । परकीय- न्यायप्रयोगलक्षणाद्वाक्याद्भवत्यनुमितिरिति चेत् ततः किं परस्यानु- मानात्परस्यानुमितिः । न च वाक्यादेव साक्षादनुमितिः । वाक्य- प्रयोज्यादनुमानादेव तु भवत्यनुमितिः। तस्माद्भूयोदर्शनं न्यायप्र- योगश्चेति अनुमानसामग्रीद्वैविध्यमेव तु युक्तम् । : न्यायश्च-प्रतिज्ञाद्यवयवसमुदायः । प्रतिज्ञाहेतूदाहरणोपनयनि- गमनानीति न्यायस्यावयवाः पञ्च । तत्र पक्षवचनं प्रतिज्ञा, तच धर्मिणमुद्दिश्य साध्यधर्मस्य विधानात्मकम्-पर्वतो यहिमानिति । लिङ्गवचनं हेतुः, साधफत्वप्रकाशकविभक्तिसमभिव्याहृतं हेतुवच- नमिति यावत्, धूमात् इति । व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनमुदा- हरणम्, तधान्वयव्याप्तिव्यतिरेकव्याप्तिभेदात् द्विविधम् , यो यो धूमवान् सो सोऽग्निमान् यथा महानसः, यो यो निरमिः स स निधूमः, यथा महाहदः इति । दृष्टान्तनिदर्शनेन व्याप्यतयाऽयग- तस्य तेनैवाकारेण पक्षे उपसंहरणमुपनयः, व्याप्तिविशिष्टपक्षधर्म- सावधनमित्येवत्, स यथा-अयं च तथा धूमवानिस्सन्ययेनोपनयः, मानमेयप्रकाशिकायां [प्रमाण- अयं न तथा निर्धूम इति व्यतिरेकेणोपनयः । हेतुपूर्व पक्षे साध्यो। पसंहरणं निगमनम् , यथा तस्मादयमग्निमानिति । इदं चान्वयेन । व्यतिरेकेण तु तस्मादयं न निरग्निरिति । अन नैयायिकाः पश्चा- नामप्यवयवानां प्रयोक्तव्यतां मन्यन्ते, त एते पञ्चावयववादिनः । मीमांसकास्तु प्रतिज्ञाहेतूदाहरणानां त्रयाणाम् ; उदाहरणोपनयनिग- मनानां वा त्रयाणामवश्यं प्रयोक्तव्यतां मन्यन्ते, त एते व्यवयव- वादिनः । सौगतास्तु उदाहरणोपनययोयोरेवावश्यं प्रयोक्तव्यतां मन्यन्ते, त एते पचयववादिनः । स्थूलमध्यमसूक्ष्ममतितारतम्या- नुरोधेन पञ्चानां त्रयाणां द्वयोर्वा प्रयोक्तव्यतयाऽनियमवादिन सिद्धान्तिनः । दृष्टश्च मृदुमध्यतीक्ष्णधियां विपये विस्तरसङ्ग्रहाभ्यां व्यवहारः । निरूपित एतावता सदनुमानभेदः । अत्रेदं वोध्यम् । व्याप्तिपक्षधर्मताज्ञानाभ्यामेयानुमितेः सम्भवे तृतीयलिङ्गपरामर्शस्य न सर्वनानुमितेः प्राकाले नियतत्वं कल्प्यम् । वहिव्याप्यवानयमित्यादिस्थले च लिङ्गतावच्छेदकस्य विशेषतोड़- ज्ञानेऽपि व्याप्यतावच्छेदकयत्किञ्चिद्धर्मवत्तावधारणादेवानुमितिः। तथा च पक्षधर्मताज्ञानसहकृतं व्याप्तिज्ञानमेव भवत्यनुमितिकर- णम् । फलायोगव्यवच्छेदात् । एवं प्रत्यक्षादिस्थलेऽपि तत्तदर्थस- निकष्टाक्षादेरेव तत्र तत्र करणत्वं सम्भवति । तत्र व्याप्तिग्रहण- प्रकारः सामान्यलक्षणयोक्तः । सामान्यलक्षणानगीकारेऽपि यो यो धूमसंस्थानः स स पहिसंस्थानेनाविनाभूत इति संस्थानप्रकारेणा- विनामावनिश्चयवलादेवापूर्वहेतुपिण्टदर्शनस्थलेऽपि व्याप्तिस्मृतेना- गुमितेरनुपपत्तिः । पक्षधर्मताशरीरप्रविष्टा पक्षता प सन्दिग्ध- साध्यफता सिपाधयिपितसाध्यकता वा । धनगर्जितेन मेघानुमान- ।

प्रकाशे] अनुमानपरिच्छेदः। स्थले च मेघध्वनिश्रुत्या स्मृतस्य मैघस्य गगने संशये सिपाधयिषा- पूर्विकाया एवं व्याप्त्यादिप्रतिसन्धानानुमित्युत्पत्तेः सम्भवात् । सिद्धिकालिकानुमितौ चाहार्यसंशयस्यैव पक्षतात्वं बोध्यम् ।, यद्वा सिपाधयिषायोग्यतैव सर्वत्र पक्षता । सा च वाधनिश्वयाभावरूपा। सिद्धिकालीनानुमितौ च सिपाधयिपाया विशेषहेतुत्वं कल्पनीयम्। सिपाधयिषाविरहविशिष्टसिद्ध्यभावस्यैव सर्वत्र पक्षतात्वं वास्तु । तत्र पक्षत्वोपलक्षितधर्मिवृत्तिता ज्ञाताऽनुमितिकारणं पक्षता च स्वरूपसतीति विवेकः । इति । हेत्वाभासनिरूपणम् । पक्षसत्त्वादिरूपपञ्चकोपेतो हि सद्धेतुः । तदन्यस्त्वसद्धेतुः हेत्वाभास इति चोच्यते । निरूपयामश्चैतत्स्वरूपादिकं सद्धेपतः । स्वपक्षसाधकहेतोर्निर्दोपत्वाय प्रतिपक्षसाधनप्रतिक्षेपाय चैतदवगति- एपेक्षिता । हेतुभिन्नत्वे सति हेतुव्यवहारविषयो हेत्वाभासः । भवति चाहेतुष्वपि हेतुव्यपदेशोऽनिरूपकाणां हेतुरूपैकदेशयोग- मात्रतः । पक्षसत्त्वादिरूपान्यवमराहित्यं हेत्वाभाससामान्यलक्ष- णम् , निश्चितव्याप्तिपक्षधर्मतारहितत्वं वा । यथोकं तत्त्वरत्नाकरे- 'सर्वानुमानाभासानां तश्मावयवक्षतिः । व्याप्यत्वपक्षध- मत्वहानिर्वा लघुलक्षणम् ॥' इति । रूपपञ्चकोपपन्नत्वरूपं यद- नुमानस्य लक्ष्म तदन्यतमवैकल्यमिति पूर्वार्धस्यार्थः । च्याप्यत्व- पक्षधर्मत्वहानिरित्यस्य निश्चितन्याप्तिपझधर्मवाविरह इत्यर्थः । समासतो द्विविधो हेत्वाभास:-अव्याप्तोऽपक्षधर्मश्चेति । असि- द्वादिविभेदस्वस्यैव प्रपश्नः कयासु पृथगुद्भाव्यत्वाय फल्पते यथोकं न्यायपरिशुद्धौ-'अन्याधापक्षधर्मो द्वी हेत्वाभासी समा- . - . ३८ मानमेयप्रकाशिकायां [प्रमाण- सतः । तयोरेव प्रपञ्चेन स्यादसिद्धादिकल्पना ॥' इति । असि- दोऽनैकान्तिको विरुद्धः कालात्ययापदिष्टः प्रकरणसम इति पञ्चधा विभागः प्रतिपादितस्तत्र । यद्यपि हेत्वाभासत्रैविध्यमुक्तं न्या- यतत्त्वे-'असिद्धानकान्तिकविरुद्धा हेत्वाभासा' इति । इदं चोपलक्षणं कालात्ययापदिष्टप्रकरणसमयोः। अत्र पक्षादीनां वरूप- मेवासिद्धमिति भवति प्रथममुपस्थिविरसिद्धः । सिद्धत्वेऽपि न साधनस्यान्यतरपक्षकान्तत्वमित्यनन्तरमनैकान्तिकस्य । अथैकान्त- त्वेऽपि प्रकृतसाध्यविपरीतकान्तं साधनमिति विरोधस्य । अथ प्रकृतसाध्यैकान्तमपि न साध्यं साधयितुमलं, धर्मिणि साध्याभाव- निश्चयादिति बाधस्य । अथ धर्मिणि वाधस्यादर्शनेऽपि प्रकृतसा- ध्यविपरीतसाधकं लिङ्गान्तरं दृश्यत इति सत्प्रतिपक्षस्य । एवं सम्भाव्यमानदोपोपस्थितिक्रममनुसन्धायासिद्धादिविभजनक्रम आ- श्रितो न्यायसूत्रोक्तक्रमं परित्यज्येति विभाव्यम् । असिवर्णनम् । तत्र व्याप्तिपक्षधर्मतानिश्चयरहितोऽसिद्धः । यद्यपि व्याप्तिपक्ष- धर्मतयोरनिश्चयः सत्प्रतिपक्षादावपि वर्तते, अथापि तद्भिन्नत्वचि- शेपितं व्याप्तिपक्षधर्मतानिश्चयराहित्यमसिद्धलक्षणं । बोध्यम् . 1 व्याप्त्यादेरज्ञानकाले सद्धेतोरप्यसिद्धत्वात् व्याप्तिपक्षधर्मताराहिलं लक्षणतया नाश्रितम् । व्याप्त्यादेरज्ञानात्सन्देहाद्विपरीतनिश्चयाद्वाs- सिद्धो भवति । आद्याऽज्ञानासिद्धिर्द्वितीया सन्दिग्धासिद्धिः । तत्र व्याप्यत्वासिद्धः साध्याप्रसिद्धेस्तद्विशेपणाप्रसिद्धेात्यसिद्धा सम्मवति । पक्षधर्मत्वासिद्ध आश्रयासिद्धस्तद्विशेषणासिद्धेः पक्ष- त्यासिद्धेः स्वरूपासिद्ध गासिद्धेर्वा । हेलप्रसिद्धेस्तद्विशेषणाप्रसिद्ध .

.. . प्रकाशे] अनुमानपरिच्छेदः। श्चोभयासिद्धसम्भवः । हेतौ हि व्याप्तिपक्षधर्मतयोः सिद्धिरनुमि- सङ्गम् । न हि तस्यैवासिद्धौ तद्वृत्तित्वविशिष्टयोस्तयोः सिद्धिरिति । न्यायपरिशुद्धौ असिद्धभेदाः . क्रोडीकृता:-'पक्षतद्धर्मभागानां साध्यतद्धर्मयोस्तथा । हेतुतद्व्याप्तिधर्माणां स्वरूपेणाप्रसि- द्धितः॥ हेत्वंशयोरिहासिद्धेर्वा वैयधिकरण्यतः॥ इत्यादिना । साध्याप्रसिद्धिः-पर्वतः काञ्चनमयवह्निमानित्यादौ । नहि काञ्च- नमयवह्निः प्रसिद्धः । तत्रैव काश्चनमयधूमहेतो साधनाप्रसिद्धि- नुसन्वेया । साध्यविशेषणाप्रसिद्धिः-इदं धनुः शशशृङ्गजन्यं सुन्दरत्वादित्यादौ । अत्र हि जन्यत्वरूपसाध्यविशेषणं शशशृङ्गम- प्रसिद्धम् । अत्रैव साध्यसाधनयोः साधनसाध्यभावे हेतुविशेप- णाप्रसिद्धिोध्या। व्यायसिद्धिः क्वचिद्वयाप्तिमाहकप्रमाणाभावात् । यथा--विमतं क्षणिकं सत्त्वात् । नपत्र सत्त्वक्षणिकत्वयोाप्ति- प्राहक प्रमाणं सम्भवति, तद्धि भूयः सहचारदर्शनम् , तच्च स्थिरत्वे घटत इति । कचिदुपाधिसद्भावात् । यथा-भगवत्सेवा दुःखहेतुः सेवात्वात् राजसेवावत् । अत्र पापारब्धत्वमुपाधिः । नहि भगवदनुभवजनितप्रीत्या किश्चिदकृत्वा स्थातुमशक्नुवतः प्रीति- कारिता सेवा दुःखाय कल्पेत, किन्त्वमन्दानन्दायैव स्यादिति । अत एव श्रीकृष्णसेवा मुक्तिरिति भगवतैव प्रतिपादितं शिक्षाप- त्र्याम्-'मतं विशिष्टाद्वैतं मे गोलोको धाम चेप्सितम् । तत्र ब्रह्मात्मना कृष्णसेवा मुक्तिश्च गम्यताम् ।। इति । सर्वेषु सप- क्षेपु साध्येन दुःखहेतुत्वेन सहयरितं दृष्टं पापारब्धत्वम् । तेन विना पक्षे स्थित सेयात्वं सन्दिग्धव्याप्तिकं भवति किमस्य स्थाभा- विकः साध्यसम्बन्ध उन परप्रयुक्त इति । अतः सोपाधिकः सन्दि.

मानमेयंप्रकाशिकायां [प्रमाण- ग्धव्याप्तिक इति केचित् । यथाऽनूदितं न्यायपरिशुद्धौ-'साध्या- दन्येन धर्मेण सपक्षेप्नुयायिना । विना पक्षे स्थितो धर्मः सन्दिग्धव्याप्तिको मतः । इति । सर्वसपक्षानुगतस्यैव साध्य- प्रयोजकत्वे सम्भवति न्यूनवृत्तिरप्रयोजकः । अत एव सोपाधिको हेतुरप्रयोजक इत्यप्युच्यते । तदुक्तं-'समासमाविनाभूतावेकन स्तो यदा तदा । समेन यदि नो व्याप्तस्तयोहीनोऽप्रयोजकः।।' इति । साध्यसमव्यातविषमव्याप्तयोर्हेत्वोः समव्याप्ताव्याप्यो विष- मध्याप्तो हेतुरप्रयोजक इत्यर्थः । यथा-अनीपोमीयहिंसा अधर्म- हेतुः हिंसात्वात् ऋतुयाह्यहिंसावत् इत्यनाधर्मसाधकत्वेन साध्येन समव्याप्तं यन्निपिद्धत्वं तव्याप्यं हिंसात्वमप्रयोजकम् । अधर्म- साधनत्वाभावेऽपि विहितहिंसाया: परमदयाविष्टहृदयपारमैका- तिकजनानधिकारिकतामभिप्रेस तु भगवाननुशास्ति शिक्षापत्र्यां- 'देवतापितृयागार्थमप्यजादेश्च हिंसनम् । न कर्तव्यमहिंसैव धर्मः प्रोकोऽस्ति यन्महान् ॥' इति । अहिंसैव महान् धर्म:- पारमैकान्तिकधर्म इति भावः । विस्तरस्तु तद्भाष्यादावनुसन्धेयः । अप्रयोजकस्थले च विपक्षे वाधकविरहात् व्याप्यत्वासिद्धिः ।. तदुक्तं न्यायपरिशुद्धौ-'विपक्षे नहि निर्बाधे व्याप्तिः वापि प्रसि- यति । इति । नीलधूमादी व्यर्थविशेषणे व्याप्यत्वासिद्धिं वदन्ति नैयायिकाः । तन्न युक्तम् । नहि धूमे वर्तमानस्याविनाभावस्य नीलत्वविशेषिते विरहः सुपचः । व्यर्थाभिधानेन वादी तु निगृह्ये. वार्थान्तरेण, न पुनहतोरामासतेति । आश्रयासिद्धिः-मणिमयेगिरिर्वहिमान धूमादित्यादौ । आश्रय- विशेषणासिद्धिः मणिमयगिरिमान देशः सुन्दरो विलक्षणदेशत्वा- प्रकाशे] अनुमानपरिच्छेदः । ४१ दित्यादौ । पक्षताया असिद्धिः सिद्धसाधनस्थले। रूपपञ्चकोपपन्नो हि हेतुर्गमकः । धर्मिणि साध्यनिश्चये तु तस्य सपक्षान्तर्भावान पक्षतेति न रूपपञ्चकसम्पत्तिः। एवं वाधस्थले धर्मिणो विपक्षा- न्तर्भावान्न पक्षतेति हेतोः पक्षधर्मतावैकल्यं स्फुटम् । यादृशधर्मि- वृत्तित्वं हेतोर्गमकत्वायापेक्षितं न तसिद्धिकाले वाधनिश्चयकाले वा। एतेनासवीर्णवाधस्थले हेत्वाभाससामान्यलक्षणस्याव्याप्तिः । तन हेतौ व्याप्तिपक्षधर्मतयोरनपायादित्यपि समाहितम् । नन्वेवं सिद्धसाधनवत् वाधितस्यापि असिद्ध एवान्त योऽस्तु, किं बाधित- हेतोः पृथगणनया । सत्यम् । तत्रासिद्धिसम्पादकस्य वाधस्यैव नियमतो दोपत्वस्य सम्भवात् वाधितः पृथगुपदिष्टः । सिद्धसाध- नस्य तु न नियमेन दोपरूपता, सत्यामपि सिद्धौ सिपाधयिपयाs- नुमानोदयात् । अतः सिद्धसाधनस्थले पक्षधर्मत्वासिद्धिरेव दूप- णमभ्युपगम्यत इति सूक्ष्मेक्षिकयाऽऽलोचनीयम् । पक्षमात्रावृत्तिः खरूपासिद्धः, अयमेव व्यधिकरणासिद्ध उच्यते । यथा-जीय: प्रमेयः चाक्षुपत्वात् । नात्र पक्षे जीवे हेतुरस्ति । पौकदेशावृत्ति- भांगासिद्धः। यथा-आत्मानो दुःखवन्तः संसारित्वात् । नहि संसारित्वं यावत्पक्षवृत्ति । नित्यमुक्कादौ पक्षकदेशभूतेऽवृत्तेः । इति। व्यभिचारिनिरूपणम् । अनेकान्तिकः सव्यभिचारः। व्यभिचारो नाम स्वस्थानाति- क्रमः । पक्षसपक्षमानविपयस्य हेतोरन्वयस्य विपक्षगामिता व्यमि- पारः, सपकदेशमात्रविषयस्य हेतोयतिरेकस्य सपक्षव्याप्तिश्च । आद्यः साधारणे द्वितीयोऽसाधारणे। वयाहि-पक्षसपक्षविपक्ष- ४२ " मानमेयप्रकाशिकायां [प्रमाण- वृत्तिः साधारणः । 'पक्षत्रयव्यापकः, पक्षत्रयैकदेशवृत्तिः, पक्ष- व्यापकः सपक्षविपकदेशवृत्तिः, सपक्षव्यापकः पक्षविपक्षक- देशधृत्तिः, विपशव्यापकः पक्षासपझेकदेशवृत्तिः, पक्षसपक्ष- व्यापको विपक्षकदेशवृत्तिः, सपक्षविपक्षव्यापकः पक्षकदेशवृत्तिः, पक्षविपक्षव्यापकः सपक्षकदेशवृत्तिरिति स भवत्यष्टधा । यथोकं न्यायपरिशुद्धौ-'त्रयाणामपि पक्षाणां व्यापकोऽव्यापकस्तथा । एकद्विव्यापकाः पद चेत्येवं साधारणोऽटधा॥' इति । पक्षन्नयव्यापको यथा-क्षित्यादिकं सकतकं प्रमेयत्वात् घटवत् । हेतुः प्रमेयत्वं यावत्पक्षसपक्षविपक्षवृत्ति, केवलान्यायित्वात् । पक्षत्रयैकदेशवृत्तिर्यथा-क्षित्यादिकं सकर्टकं परिमितपरिमाणत्वात. घटवत् । अत्र हेतुः पक्षसपक्षकदेशयोर्गुणकर्मणोविपक्षकदेशे चेश्वरादी नास्ति । यस्य गुणादेः कार्यस्य सकर्तृकत्वं न सिद्धं तस्य सर्वस्य पक्षान्तभावोऽत्र विवक्षितः । परमाण्याद्यन्तर्भावेण विपक्ष- त्तित्वं बोध्यम् । पक्षमात्रव्यापको यथा-पर्वता विनाशिनः ऐन्द्रिय- कत्वात् घटवत् । ऐन्द्रियिकत्वं सपफदेशे व्यणुकादौ विपक्षे चेश्वरादी नास्ति । विपक्षवृत्तिवं घटत्वादिसामान्यान्तर्भावेण । (इदं च वैशेपिकमतेन) सपक्षमानव्यापको यथा--कालजीवौ अनित्यौ अचे- सनत्वात् पृथिवीपत् । अर पक्षैकदेशे जीवे विपक्षे चेश्वरे हेतुर्नास्ति। विपक्षमानव्यापको यथा-कालजीयौ अनित्यौ कालघटव्यतिरिक्त- स्वात् पटवत्। पढेकदेशे काले सपक्षे च घटे हेतुर्नास्ति । पक्षसप- क्षमानन्यापको यथा-त्रसरेणुः साक्यवो द्रव्यत्वात् घटबत् । अत्र विपक्षे रूपादों हेतुनास्ति । सपक्षविपक्षमात्रज्यापको यथा-घट- १ सन्दिग्यसाध्यवान् पक्ष । निश्चितसाध्यवान सपक्ष । निश्चितसाध्याभाव- धान विपक्षः। तदिदं मक्षत्रयम् ।

प्रकाशे] अनुमानपरिच्छेदः । ४३ जीवौ अनित्यौ घटव्यतिरिक्तत्वात् पटवत् । पक्षकदेशे घटे हेतु- नास्ति । यद्यपि पक्षकदेशमात्रवर्तिनां भागासिद्धिरस्ति, अथापि व्यभिचारादनकान्तिकत्वमपि । उपधेयसङ्करेऽप्युपाघेरसङ्कर इति न्यायात् । पक्षविपक्षमात्रव्यापको यथा-जीवो नित्यः कालव्यति- रिक्तत्वात् ईश्वरवत् । अत्र सपक्षस्य कालस्य न कालव्यतिरिक्तत्वम् । पक्षमात्रवृत्तिरसाधारणः। स च सपक्षविरहितो विपक्षवि- रहितः सपक्षविपक्षविरहितः सपक्षविपक्षवानिति चतुर्धा । चतु- विधस्यास्य पक्षव्यापकत्वपक्षकदेशवर्तित्वाभ्यां भवत्याष्टविध्यम् । तथा चोक्तं न्यायपरिशुद्धौ-'निःसपक्षो निर्विपक्षो द्वयं निर्विपयं तथा । पक्षव्याप्तितदव्याप्त्योरप्टाऽसाधारणा मताः ॥' इति । तत्र सपक्षशून्यः केवलन्यतिरेकी । यथा-संवित् निर्विशेपा संवि- स्वात् । न ह्यत्र साध्यसाधनयोः सम्बन्धः सुमहः । न च सपक्षे सति तद्व्यावृत्तस्यैवासाधारणत्वम्, न त्वसत्सपक्षस्येति वाच्यम् । असत्सपक्षस्यापि दुष्टतायाः कचिदेष्टव्यत्वात् । यथा-सवं नित्य सत्त्वात्। नन्वनुपसंहारीदं हेत्वाभासान्तरम् । मैवम्। साध्यसाध- नयोरन्वयोपसंहारस्थलाभावयत एवानुपसंहारिशब्दार्थतयाऽसाधा- रण्यस्यैव तत्र सम्भवे हेत्याभासान्तरकल्पनाया अनवमरात् । यथा सपक्षे सत्यपि ततो हेतोावृत्त्या न साध्यसाधनसम्बन्ध- महसम्भवः, एवं सपक्षाभावेऽपि समानं सम्यन्धापणं अनुप- संहारिफेवलव्यतिरेकिणोरित्यसाधारणान्ताव एव हि तयोरुचितः। ननु फेवलव्यतिरेकिणि विशेपन्यापकासंवित्वनिवृत्त्या विशेषाभाय- साधनं सम्मपत्यन्ययव्याप्त्यप्रदेऽपि । मेवम् । आभामसगान- योगक्षेमत्वादस्य । घटेऽपि : पक्षे विशेपन्यापफापटत्वव्यात्या मानमेयप्रकाशिकायां [प्रमाण- विशेपाभावसाधनं हि तुल्ययुक्त्या प्रसज्यते । अप्रयोजकत्वादस्या- साधकत्वमिति चेत्तुल्यं प्रकृतेऽपि । सविशेषत्वाहिप्रत्यक्षबाधश्च समानः । संविदोऽपि प्रत्यक्षत्वचाक्षुपत्वादिविशेषाणामनुभूयमान- व्यात् । किञ्च विशेषसामान्यशून्यत्वसाधने व्याइतिश्च । हेतुसा- ध्यलक्षणधर्मान्धयस्यावश्यम्भावात् । किञ्च-केवलव्यतिरेकिणि साध्यं चेत्प्रसिद्धं यत्र कुत्रचित् , तत्र हेतोग्न्वये केवलव्यतिरेकित्व- भङ्गः । अनन्वये च सपक्षच्यावृत्त्यादसाधारण्य भवताऽप्येष्टन्य- मेव । साध्यं चेदप्रसिद्ध तीसिद्धताऽपि सम्भिद्यत इति । विपक्ष- रहितोऽसाधारणस्तत्र, सर्वं कार्य पक्षीकृत्य यन्न प्रयुज्यते-विमतं नित्यं कादाचित्कयात् इति । सर्वस्य कार्यस्य पक्षीकारान्न विपक्षः कोऽपि । पक्षमात्रवृत्ति च कादाचित्कत्वं भवत्यसाधारणम् । सपक्षविपक्षरहितो यथा-सर्वमनित्यं सत्त्वात् । अन सर्वस्यापि पक्षत्वान्न सपक्षः नापि विपक्षः । पक्षमात्रवृत्ति च सत्यम् । सप- क्षविपक्षवान यथा-आत्मा अनित्यः चेतनत्वात् । अस्यन सपक्षो घटादिविपक्षश्च कालादिः । तव्यावृत्तं च चेतनत्वं पक्षमानवृत्तीति भवत्यसाधारणम् । सर्वेऽप्येते पक्षव्यापका असाधारणाः। पक्ष- कदेशघर्तिनस्तु स्वयमूह्याः । विरुद्धविवेचनम् । साध्यविपरीतव्याप्तो विरुद्धः । अयं च पक्षव्यापको विपक्ष- ध्यापक उभयव्यापफ उमयैकदेशत्तिरिति चतुर्धा भवति । सपक्ष- सद्भावासद्भावाभ्यामाष्टविध्यमत्राप्यनुसन्धेयम् । यथोक्तं न्याय- परिशुद्धौ-सपक्षे सत्यसति च पृथपक्षविपक्षयोः । व्याट्य- ध्याप्त्योदयोश्चेति विरुद्धोऽप्यष्टया मतः ॥ इति । वत्र पक्ष- ..

प्रकाशे], .. अनुमानपरिच्छेदः। व्यापको विपक्षैकदेशवृत्तिर्यथा-जीवोऽनित्यश्चेतनत्वात् । अनित्यत्व- विपरीतेन नित्यत्वेन व्याप्तं चेतनत्वमिति भवति विरुद्धम् । यावत्सु जीवेषु पक्षभूतेषु विपक्षैकदेशे चेश्वरे वर्तत इदम्, न विपक्षे कालादौ । विपक्षव्यापकः पक्षकदेशवृत्तिर्यथा-पृथिव्यात्मानौ नित्यौ कृतकत्वात् । नित्यत्वविपरीतव्याप्तं कृतकत्वं पक्षकदेश आत्मनि न वर्तते । पक्षविपक्षव्यापको यथा-नित्यः शब्दः इतकत्वात् । कृतकत्यं पक्षभूते शब्दे विपक्षेपु च घटादिपु सर्वत्र वर्तत इति । उभयाव्यापको यथा-पृथिवीजीवौ अनित्यौ चेतनत्वात् । अनित्यत्वाभावव्याप्तं चेतनत्वं भवति विरुद्धम् । इदं च पक्षक- देशे जीवे विपक्षैकदेशे चेश्वरेऽस्ति, न तु पृथिव्यां कालादा वेति । अन्न सर्वत्र सपक्षोऽस्ति । सपक्षरहितास्तु विरुद्धभेदा ऊह्याः । पक्षमात्रावृत्तिरपि विरुद्धभेदोऽस्ति । यथा-आत्मा नित्यः कृतक- त्वात् । अयं च हेतुर्विपक्षव्यापको न पक्षभूतेप्वात्मस्वस्ति । पक्ष- मात्रावृत्तिर्विपक्षैकदेशवृत्तिरपि भवति । यथा-आत्मा नित्यो जन्य- परिमाणवत्त्वात् । रूपादौ विपक्षे न हेतुरिति । अन सपक्षोऽस्ति । एवं सपक्षाभावेऽप्युदाहरणमन्वेष्टव्यम् । याधितवर्णनम् कालाव्ययापदिष्टः प्रवलप्रमाणबाधितसाध्यकः । हेतुप्रयोगयो- ग्यस्य धर्मिणि साध्यसन्देहकालस्यात्ययेऽपदिष्टः प्रयुक्तो हेतुः काला- सयापदिष्टः । साध्यविपरीतनिर्णयाद्धि धर्मिणि न साध्यसन्देहस्या- वसरः । सिद्धसाधनस्थले तु नैकान्ततः कालात्ययापदेशः। सत्या- मपि सिद्धी सिपाधयिषया हेतुप्रयोगस्य सम्भवात् । सति तु बाथ- निर्णये न सिपाधयिपयाऽप्यनुमानस्य प्रवृत्तिः । आहार्यपरोक्षा.

४६ मानमेयप्रकाशिकायां [प्रमाण- सिद्धेरिति विवेकः । वस्तुतस्तु व्युत्पत्तिनिगित्तमानमिदम् । प्रवल- अमाणवाधितसाभ्यक्त्वमेव तु व्यवहारनिमित्तं योध्यम् । अयं च प्रत्यक्षयाधितोऽनुमानवाधित आगमयाधितः प्रत्यक्षा- नुमानाभ्यां चाधितोऽनुमानशब्दाभ्यां वाधितः प्रत्यक्षशब्दाभ्यां चाधितः प्रत्यक्षानुमानशोधित इति साप्तविध्यं भजते । यथोक्तं न्यायपरिशुद्धौ-'कालात्ययापदिष्टस्तु वलवन्मानवाधितः । कालातीतोऽतीतकालो बाधितश्च स उच्यते ॥ एकैकद्वित्रि- बाधेन सप्तधा स विभागवान् ।' इति । तर प्रत्यक्षवाधितो यथा-पहिरनुप्ण: पदार्थत्वात् । अन्न वढेरुष्णत्वं प्रत्यक्षेणैव गृह्यते । नन्येवं ज्वालैक्यमाहिप्रत्यक्षयाध्यत्वं ज्वालाभेदानुमानस्य स्यात्, प्रत्यक्षस्यानुमानबाधकत्वात् । मैवम् । न वयमेकान्ततोऽनुमानस्य वाध्यत्वं प्रत्यक्षस्य वाधकत्वं च धूमः । किन्सनन्यथासिद्धं बाप- कमितरद्वाध्यमिति । तन हि ज्वालैक्यप्रत्यक्षं सारश्यमूलतया- ऽन्यथासिद्धम् । निर्वापितपुनरारोपितदीपादौ तथादृष्टेः । भेदसा- धिकाया वर्तिकावयव विशेषतैलसयोगादिलक्षणदीपसामग्र्यनुवृत्त - वमन्यथासिद्धिः सम्भवति । अतो भिन्नसामग्रीजन्यत्वलिङ्गकं ज्वालाभेदानुमानं वाधकम् । एतमभ्युष्णताप्राहिप्रत्यक्षस्यापि नान्य- थासिद्धिः सम्भाव्यते । अग्नेरन्यस्य खत उष्णस्पर्शस्यानुपलब्धेः । येन तत्ससौपाधिकताऽम्युष्णतायाः शक्यते निरूपयितुम् । अत. स्तन प्रत्यक्षं वाधकमिति स्थितम् । अनुमानवाधितो यथा-प्रथमाद्यास्तिथयः सम्भवञ्चन्द्रसूर्यो- परागाः तिथित्वात्पर्ववत् इति । अन पर्वान्तनियतभावित्वग्राहिणा गणिवानुमानेन बाधितताऽवसेया । शाखबाधितो यथा-भगव.

प्रकाशे] अनुमानपरिच्छेदः।। द्विग्रहादिरुत्पचिविलयवान् सावयवत्वादस्मदेहवत् । अस्य भगव- 'द्विग्रहादेर्नित्यत्वबाहिभिः 'नित्यं नित्याकृतिधरम्' 'नित्याऽलिङ्गा स्वभावसंसिद्धिः 'दिव्यं स्थानमजरं चाप्रमेयम्' 'स्थानमेत- न्महाराज ध्रुवर्मक्षरमव्ययम्' इत्यादिभिः शास्त्रैरवाधितैर्वाधः । नहि शास्त्रमन्तरा पक्षसिद्धिः । न चासिद्धे पक्षे हेतोः साधक- स्वम् । धर्मिग्राहकप्रमाणसमानयोगक्षेमाणि चेमानि वचनानीत्ये- तैरनुमानबाधो युक्त एय। प्रमाणद्वयेन तन वाधो यत्र घटभिन्नं सर्व पक्षीकृत्योच्यते विप्र- विपन्नं सर्व दण्डाधीनोत्पत्तिविलयं वस्तुत्वात्सम्प्रतिपन्नघटवत् इति । अत्र सर्वान्तर्गते पटादौ प्रत्यक्षबाधः। कालादावागमवाधः। तत्तत्प्रमाणविरुद्धानेकसाध्यस्य सह साधने त्रिभिरपि वाधः सम्भ- वति । यथा-घटो नित्यः स्वयंप्रकाशः स्वनिष्ठश्च वस्तुत्वादीश्वर- वत् । अत्र नित्यत्वे प्रत्यक्षवाधः । स्वयंप्रकाशत्वेऽनुमानवाधः । चाशुपत्यादिनाऽस्वयंप्रकाशताया अनुमानात । स्वनिष्ठत्वे च शास्त्र- बाधः । सर्वस्य परमात्मशरीरतायाः शास्त्रेपूपदिष्टत्वादिति । सत्मतिपक्षप्रतिपादनम् । प्रकरणसमः सत्प्रतिपक्षः तुल्यप्रमाणतयाऽभिमतेन प्रतिरुद्ध कार्यकः । यथा-वायुः प्रत्यक्षः प्रत्यक्षरपश्रियत्वात् घटवदित्यस्य पायुरप्रत्यक्षो नीरूपस्यात् व्योमवदित्यनेन सत्प्रतिपक्षितता । एकत्र धर्मिणि विरुद्धमायाभावव्याप्तलिङ्गदर्शने हि भवत्युभयत्रापि म्याप्तिपक्षधर्मत्ययोः सन्देहः । प्रकरणं पक्षा, स यथा साम्यय- उया सन्दिग्धा, एवं उत्साधफतया प्रयुफो हेतुरपि व्याप्तिपक्षधर्म- ४८ मानमेयप्रकाशिकायां [प्रमाण- तावत्त्वेन सन्दिग्धो विरुद्धलिङ्गदर्शनादिति भवति प्रकरणसम- संज्ञः सत्प्रतिपक्षः । तत्राऽऽभासेन मानस्य, मानेनाऽऽभासस्य, आभासेनाऽऽभासस्येति विधा भवति प्रतिरोधः। तथा चोक्तं न्यायपरिशुद्धौ-'मानमाभाससंरुद्धं मानरुद्धस्तथेतरः। आभा- सरुद्ध आभासः प्रतिरुद्धस्त्रिधा मतः॥' इति । वस्तुत आभा- सोऽप्याभासत्वाज्ञानदशायां समवलतयाऽभिमतोऽविदिताधिक- बलस्य मानस्य प्रतिरोधको भवति । एतदप्युक्तं तत्रैव-'अतुल्यं तुल्यमपि वा य तुल्यमभिमन्यते । तेन यः प्रतिरुद्धयेत तमाहुः प्रक्रियासमम् ॥' इति । आभासेन मानस्य प्रतिरोधो यथा-देवदत्तात्मा यज्ञदत्तात्मनो भिन्नः तदनुभवजन्यस्मृतिरहि- तत्वात् घटवत् इत्यस्य अयं तस्मादभिन्नः आत्मत्वात् तद्वदेव इत्याभासेन प्रतिरोधः। अत्रैव द्वितीयस्य प्रथमेन प्रतिरोधो माने- नामासस्य प्रतिरोधे समुदाहर्तव्यः । आभासेनाऽऽभासस्य प्रति- रोधो यथा-शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् इत्यस्य अनित्यः शब्दः प्रत्यक्षत्वात् घटवत् इत्यतः। मानेन तु मानस्य प्रतिरोधो न भवति । तयोरभिन्न विषयत्वेऽ. त्यन्तभिन्न विषयत्वे वाऽविरोधात् । विरुद्धभावाभावासाहित्वे त्वन्य- तरस्यामानत्वध्रौव्यात् । 'अतिराने पोडशिनं गृह्णाति' 'नाति- रात्रे पोडशिनं गृह्णाति' इत्यादौ कथम् । तत्रापि तात्पर्य विष- थीभूतार्थेऽविरोध एव । प्रयोगभेदविषयत्याद्विधिनिषेधयोः । प्रयो- गभेदे चाश्रीयमाणे ब्रीहियववद्विकल्पेनोभयोरप्यनुष्ठानं सेत्स्यति । एवमन्यत्राप्यापाततो विरुद्धार्थतया प्रतीयमानानां वैदिकवाक्या- नामविरुद्धेऽर्थान्तरे तात्पर्योन्मानत्वमनपेवमिति यावत् ।

4 प्रकारो] अनुमानपरिच्छेद प्रतिरोधोऽयं हेतोईत्वन्वरेणैवेति नियमो नास्ति । प्रमाणा- न्तरेऽपि बलावलाप्रहदशायां: परस्परप्रतिरोधोपपत्ते यथा- ब्राह्मणासुरां न पिवेत्' इति श्रौतस्य, वाक्यस्य सुरायाः पात- व्यत्वपरात्कापालिकाविबाह्यागमवाक्यात्प्रतिरोधः-1, वस्तुतो यही- यस्थ-देवतानिवेदितस्यापि मद्यादेर्भक्षणं मद्यादिरसास्वादलम्पटता- प्रसञ्जकत्वेनः निषिध्यते ऐकान्तिकभक्तान्प्रति भगवता, शिक्षापया न-भक्ष्यं सर्वथा मांसं यज्ञशिष्टमपि क्वचित् । न पेयं च सुरामद्यमपि देवनिवेदितम् ॥ इति ध्येयम् । आईवस्य मोक्ष- हेतुवया फेशोल्लुन्छनकर्तव्यत्वोपदेशस्य प्रतिरोधश्च तदकर्तव्यत्व- पराहयादिमोक्षोपायत्वप्रतिपादकाद्वौद्धवाक्यात् 1.-.":":- एवमनुमानाभासा निरूपिता नाम ति इमे कथासु स्वप्रयोक्तु- निग्रहं प्रयोजयन्तीति-न्यायसूत्रे निग्रहस्थानेष्वेतेपां. परिगणनमक्ष- पादस्य युक्तमेव ।; परन्त्वेवं प्रत्यक्षाद्याभासानामपि प्रयोक्तुर्निग्रह- प्रयोजकताया अविशिष्टत्वात्तेपामपि निग्रहस्थाने परिगणनं न्याय्यम् । अत एव प्रमाणाभासत्वेनैपां सर्वेषां निग्रहस्थानेऽन्तर्भावो न्याय- परिशुद्धौ वर्णितः। कथानिरूपणम् । प्रसङ्गादत्र कथास्वरूपादि वर्णयामः । विचारविषयगोचो वादिप्रविवादिनोर्वाक्यसन्ततिविशेपः कथा । सा द्विविधा- वीतरागकथा विजिगीपुकथा चेति । आद्या वादकथा तत्त्वनिर्ण- योर्यो । द्वितीयाsपि द्विविधा जल्पवितण्डाभेदात् । 'वादजल्प- वितण्डामिः इत्याद्यागमसम्प्रतिपन्नं. . च. कथात्रयम् । श्रीमाप्य- फ्रारेमि कथामयमभ्युपगवम् । वादःप्रयंदतामहम्' इति गीग- मान.प्र.४ ५० मानमेयप्रकाशिकायां [प्रमाण- सोकव्याख्याने 'जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः सोऽहम्' इति भाषितत्वात् । कथात्रयस्य लक्षणमुक्तं न्यायतत्त्वे श्रीमन्नाथमुनिभिः-'प्रमाणतर्काभिमानास्पदसाधननिश्चितार्थगोचरौं व्यवहारो वादः, स्वपक्षप्रामाण्यपरपक्षाप्रामाण्यनिश्चयार्थो व्यवहारो अल्पः, प्रतिपक्षाप्रामाण्यमात्रनिश्चयार्थी व्यवहारो वितण्डा' इति । प्रामाणिकत्वेनाभिमतैरेव प्रमाणतः साधनोपालम्भौ वादे | इतर- योऽस्तु दुष्टत्वेन ज्ञातैरपि । तत्रोभयपक्षस्थापनावती कथा जल्पा, एकतरपक्षमात्रस्थापनावती वितण्डेति विवेकः । स्वपक्षस्थापनरप- झदूपणात्मिकायाः कथायाश्चत्वार्यद्वानि-सभ्यसभापतिसंवरणं, वादिप्रतिवादिनियमः, कथाविशेपव्यवस्था, निरूप्यनिर्णय इति । पर नानासिद्धान्तसाधारणोऽर्थो विचारविपयस्तत्र सिद्धान्तविशेष- नियमोऽप्यपेक्षितः । अन्यथा हि व्यवहारसायं स्यात्, कथाया अपर्यवसानं च। तदेवमनेषु चतुर्यु पञ्चसु वा सिद्धेष्ववहितेषु सभ्यप्रतिवादिपु वादिना स्वसाध्यमुद्दिश्यामिमतस्य प्रमाणविशेष- स्योपन्यासः करणीयः । तत्र प्रतिवाद्युद्भावितो दोपश्च परिहरणीयः । विपक्षे वाधकाभावे आपादिते वर्को वाच्यः प्रतिवादिना तत्तदनु- भाषणपूर्वकं वर वत्र दूपणं वाच्यम् । वादजल्पयोः स्वपक्षश्व स्थाप्यः । अनन्तरं यादिना प्रतिवाशुकानुवादपूर्वकं स्वपक्षे दोपा- पामुद्धारः करणीयः परकीयस्थापने च दूपणं वाच्यम् , अनन्तरं प्रतियादिना, इत्येवं परस्परयाक्यानुवादप्रतिक्षेपाभ्यामुक्तिप्रत्युक्ति- रूपो यो व्ययहारो धादिप्रतिवादिनोर्भवति सेव कथा । एवं विधेघ य्यपहारे लिमहस्यानानि ययाययमाविर्भयन्ति । यस्यां कक्ष्यायां यभिप्राइस्थानं यस्य भवति तदनन्दरपक्ष्यायामितरेण वस्योद्भावनं प्रकाशे] अनुमानपरिच्छेदः। कर्तव्यम् । तत्र वादकथा तत्त्वनिर्णयपर्यन्ता वा स्यादेशक्तिपर्यन्ता वा । विजिगीषुकथा च निग्रहस्थानपर्यन्ती । तदुक्तं प्रज्ञापरित्राणे-- 'निग्रहस्थानपर्यन्ता विजिगीपुकथा मता। तत्त्वनिर्णयपर्यन्तो वादः स्याच पुनः पुनः॥ इति । उक्तं च न्यायपरिशुद्धी कथासामान्यपर्यवसाने निदानं 'हेत्वाभासापसिद्धान्ताननुयो- ज्यानुयुक्तयः । दृश्यन्ते यत्र वा तत्र वादोऽवसितवा- न्भवेत् ॥” इति । । निग्रहस्थाननिरूपणम् । तत्त्वाप्रतिपत्तिसूचकं वक्तुरपजयप्रयोजकं निग्रहस्थानम् । तथा घन्यायसून 'अप्रतिपत्तिर्विप्रतिपत्तिश्च निग्रहस्थानम्' इति । अज्ञा- नेऽन्यथाज्ञानेऽपि च समाना तत्त्वाप्रतिपत्तिः । एवं व किश्चिदप- तिपचिसूचक किश्चिदन्यथाप्रतिपत्तिसूचकं चेति द्वैराश्य निग्रहस्था- नानाम् । एफर्षिशतिधा भवन्तीमानि-उत्तहानिः, उक्तविशेषणं, उक्तापलापः, उक्तविरोधः, अपसिद्धान्तः, अवाचकं, अनन्वितं, अप्राप्तकाल, अविज्ञातार्य, अर्थान्तर, न्यून, अधिक, पुनरुक्त, अननुभापण, अज्ञानं, अप्रतिमा, विक्षेपः, मतानुशा, पर्यनुयोज्यो- पेक्षण, निरनुयोज्यानुयोगः, प्रमाणामासाश्चेति । लक्षणानि चैतेपां'सगृहीतानि प्राचीनेराचार्यः मुखमहणाय प्रद- श्यन्ते-१) कथायां स्वोक्तपक्षाध्यक्षादावन्येन दूपिते।स्वेनैव तत्परित्याग उक्तहानिरितीप्यते ॥' यथा-नित्यः शब्द इति साइरेन प्रतिज्ञातेऽपसिद्धान्तेन दूपिते परेण त्यग्यत इयं प्रतिज्ञा अनित्योऽस्तु शब्द इति । एवं इत्यादिहानिरुसा । (२) 'अविरो- पितपूर्वोकिदूपणे तद्विशेपणे। तेनैव दत्तेऽभिज्ञास्तत्माहरुक्त- .

मानमेयप्रकाशिकायां [प्रमाण विशेषणम् ॥ यथा-अनित्यः शब्दः प्रत्यक्षत्वादित्युक्ते नैयायिकेन सामान्यादावनैकान्त्येन दूपिते अस्तु नहि.सामात्यवत्त्वे सति अस्स- दादिलौकिकप्रत्यक्षत्वादिति । एवं पक्षविशेपणादिकमपि, चोध्यम् । (३) 'स्वयंकृतस्य सभ्यादिविदितस्यान्यदूपणे। निगृहनं स्यादु कापलापःस वहुधा मतः॥ खोक्ते हेत्वादौ परेण दूपणे दत्ते नाय' मयोक्त इत्यपलापः। (४) 'स्ववाचः स्वाझीकृतेर्वा स्वकृतिश्चेद्वि- रोधिनी। तदा झुक्तविरोधः स्यात्स चनेकविधः स्मृतःयथा- ईश्वरोऽनीश्वर इत्यादिः। (५) 'आदौ सिद्धान्तमेकं तु समालम्व्य ततः परम् । तद्विरुद्धाभ्युपगमेऽपसिद्धान्तं प्रचक्षते ॥' प्रामा- णिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः । स च त्रिविधः-सर्वतत्रप्रतित- साभ्युपगमसिद्धान्तभेदात् । तत्र प्रमाणात्प्रमेयसिद्धिरित्यादिः सर्वत प्रसिद्धान्तः, सर्वैरपि तान्त्रिकैरभ्युपेतत्वात् । स्वतन्त्रमानसिद्धः पर- तत्रासिद्धः प्रतितसिद्धान्तः । यथा-विशिष्टाद्वैतिनां परमात्मनः सर्वशरीरित्वमित्यादिः । तत्रद्वयसाधारणोऽर्थोऽभ्युपगमसिद्धान्तः। यथा-ज्ञानातिरिक्तापारमाय योगाचारमायावादिनः । एवमुदाह- रणान्तराण्यपि बोध्यानि । अधिकरणसिद्धान्तोऽप्यानुषङ्गिकार्थसि. द्धिलक्षण: त्रैविध्यान्तर्भावादेव पृथकोपदिष्ट इति बोध्यम् । स्वाभ्युपगतसिद्धान्तविरुद्धाभ्युपगमोऽपसिद्धान्तः । यथा-सायस्य आत्मा कर्वेति, यथा वा वैशेपिकस्य आत्मा ज्ञानरूप इति । (६) 'शब्दशास्त्रविरुद्धं यत्तदवाचकमुच्यते । तत्तद्भाषाव्या फरणं शब्दशास्त्रमिहेष्यते ॥' यद्भापया कथा प्रवर्त्यते । तद्भा- माव्याकरणसिद्धमेव- पदं प्रयोकव्यं तत्र। व्याकरणविरुद्धं तु मयुक्तमवाचकम् । (G) 'आकाक्षासत्तिविरहाद्यत्र नात्वयसी , आकाशे] अनुमानपरिच्छेद म्भवः। अनन्वितं तद्भदः स्यात्पदवाक्यप्रभेदतः पदाना- सनन्वयो यथा-स्तम्भः कुम्भ: फुड्यांफुसूलमित्यादिषु वाक्यान- न्वयो यथा-गिरिर्वह्निमान् हदो बबानित्यादिषु । अत्र पूर्वोत्तर- चास्ययोरेनाकाढितार्थपरत्वादनन्ययों बोध्यः । (८) विवक्षितः कमोर्यत्र विपर्यासं प्रपद्यते । अप्राप्तकालता तत्र सेयं चहुविधा स्मृता ।।' प्रतिज्ञाहेतुदृष्टान्तानां विपर्योसेन वचनेऽवयवविपर्यास इत्यादिः (९) "त्रिवारमभिधानेऽपि सभ्यैश्च प्रतिवादिना । अज्ञातार्थ वचो यत्तदविज्ञातार्यमुच्यते॥' अप्रसिद्धप्रयोग उदा- हरणम् । यथा-अहार्यो वीतिहोत्रवानित्यादि । अहार्यः पर्वतः । चीतिहोत्रोऽग्निः (१०) 'प्रकृतानुपयुक्तानामुक्तिरर्थान्तरंमतम् । अयं राजा महान् गुण्य इत्यादिकमुदाहृतिः। (११) 'वतन्यस्य स्वसिद्धान्तसिद्धस्यैकांशकीर्तनम् । न्यून स्यात्तत्मभेदस्तु न्या- यावयवभेदतः॥ यथा-पश्चावयववादिनो नैयायिकस्य व्यवयव- प्रयोगादि न्यूनम् । (१२) अन्वितस्योपयुक्तस्य पौनरुक्त्यमग- च्छतः कृतकार्यतया स्वाङ्गीकृतस्योफिरिहाधिकम् ॥' यथा- धूमवत्त्वादालोकपत्त्यादिति हेत्वधिकम् । एपमन्यदपि योध्यम् । (१३) स्वोक्त्या शब्दादर्यतो वा योऽर्थोऽन्यस्य धियं गतः। तस्योतिर्थरहिता पुनरुक्तिर्निगद्यते ॥ देवदत्तो गृह एयास्ति यहिर्नास्तीत्यादिपमुदाहरणम् । (१४) 'निरुक्त्या सभ्यविदित- स्यानुक्तस्याप्रतीतिना । योग्यानुवादाभायोऽननुभाषणमिहो- च्यते ॥ (१५) 'त्रिरुकेऽर्थे सदस्येषु केनापि विदिते सति। न मया ज्ञायत इति वचोऽज्ञानमिदं मतम् ॥' (१६) 'यदा- गीकृतवादः सन् फवनाय न कत्पते । अप्रतीत्या तदो [प्रमाण- । मानमेयप्रकाशिफायां भाव्या सेयमप्रतिभा मता ॥' (१७)'वादावावतीर्णस्तद्वि- च्छेदेच्छावशायदा । आवश्यकेतरद् घूयाचदा विक्षेपस- म्भवः ॥ (१८), 'स्वदोपमभ्युपेत्यैव परदोपप्रसञ्जनम् । मतानुज्ञा स्वदोपाङ्गीकारांशेनेह दूपणम् ॥' (१९) 'अवश्यो- झावनीयस्यावसरे सत्युपेक्षणम् । तज्ज्ञैः पर्यनुयोज्योपेक्षण- मित्यभिधीयते ॥ यदा निप्रस्थानं प्रसज्यत एकस्य तदनन्तरक- क्ष्यायां परेण तस्योद्भावनं करणीयम् । अकरणे पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानं परस्य भवेत् । इदं च मध्यस्थैरुद्भाव्यं न पूर्वेण खदोपाविष्करणस्यानौचित्यादिति केचित्। अत्रेदं बोध्यम्-तत्त्वनिर्ण- यार्थत्वाद्वादस्य तत्र वादिनापीदमुद्भावयितुं शक्यते । जल्पवितण्ड- योस्तु यावन्निग्रहस्थानोद्भावननियमे कृतेऽकृते वा परस्य निग्रहस्था- नान्तरसन्निपाते तदुपसर्जनतयेदमप्युद्भाव्यम् । एतत्परीक्षार्थमस- देव मयोक्तं तदप्यनेन न ज्ञातमित्येवं स्वस्यावष्टम्भविजयावहत्वा- दिति । (२०) निरनुयोज्यानुयोगोऽसदभुयोगः । स चतुर्धा-अन- वसरग्रहणं निग्रहस्थानान्तरे निग्रहस्थानान्तरोद्भावनं छलोत्तरं जात्यु- त्तरं चेति । तनाद्यं यथा-चतुर्थकक्ष्यायां स्थितः प्रतिवादी वादि- नमाह प्रथमकक्ष्यायां त्वयाऽपशब्दितमिति । द्वितीयं यथा-उक्तहा- न्यादिप्रसङ्गेऽपलापायुद्धावनम् । तृतीयं यथा-अविवक्षितशब्दा. रोपेण दूपणम् । यथा-नूतनकम्बलवत्त्वतात्पर्येण नवकम्बलोऽ- यमित्युक्ते परो यन दूषयति समाविशेषमर्थमारोप्य, कुतोऽस्य नव फम्यलाः एक एव तु दृश्यत इति । चतुर्थ-स्वव्यापिदूषणं जातिः । यथा-स्थावरशारीर भोक्तधिष्ठिवं जीवननिद्राप्रबोधयुक्तत्वात् मनु- प्यशरीरवत् इति साधम्र्येण वा यन्न भोक्त्रधिष्ठितं तन्न निद्रादियोगि. ।

प्रकाशे अनुमानपरिच्छेदः। घटवत इति वैधण वोक्त यदि मनुष्यादिशरीरसाधर्म्याटाविवैध- याद्वा भोक्वधिष्ठितत्वमुच्यते स्थावरशरीरस्य; तर्हि घटादिसाध- ात्पाणिपादादिराहित्यान्मनुष्यादिशरीरवैर्धाद्वा भोक्ननधिष्ठि- तत्वमेव किं न स्यादिति दूषणं जातिः। तथा च न्यायसूत्रं-साध- यंवैधाभ्यां प्रत्यवस्थानं जातिः' इति । साधर्येण प्रत्यवस्थाने साधर्म्यसमा । वैधयेण तु वैधय॑समा । अनित्यसमादिकमपि एवमुदाहर्तव्यम्। असदुत्तरं चैततू, साधर्म्यमात्रस्य वा वैधय॑मानस्य वाऽसाधकत्वात् । स्वपक्षस्यापि विरुद्धयत्किश्चित्साधाद्विरुद्धप- क्षताप्रसगात्स्वव्याघातकत्वमत्र बोध्यम् । छलजात्योरसद्धत्तरत्वेऽपि परस्य एतहूपणासामध्ये विजयावहत्वात्प्रयोक्तुर्विजिगीपुकथा- यामेनयोरुपयोगः । सत्प्रमाणैरेव तत्त्वावधारणं भवति । तदर्थ च वाद एव शरणीकरणीयः । प्रमाणाधीने तत्त्वनिर्णये विश्वासमा- न्याद्यापादकानां वाह्यकुदृष्ट्युत्प्रेक्षितानां कल्पनाविशेषाणां निर- सनाय तु जल्पवितण्डयोरुपयोगः । तदुक्तं न्यायसूने-'तत्वाध्य- वसायसंरक्षणार्थ जल्पवितण्डे वीजप्ररोहसंरक्षणार्थ कण्टकशासा- वरणवत्' इति । (२१) प्रमाणाभासेपु अनुमानाभासा निरूपिताः। दोषसहकृतेन्द्रियजन्यं ज्ञानं प्रत्यक्षामासः । भ्रमविप्रलिप्सादिमूला वाह्यकुदृष्टीनां प्रयन्धा आगमाभासा अनुसन्धेयाः। आगमाभासता चेपा मनुनैवोका 'या वेदवाह्या स्मृतयो याश्च काश्च कुट्ट- टयः। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥' इति । कृतं विस्तरेण । इति अनुमानपरिच्छेदः।

[समान . M मानमेयप्रकाशिकायां शब्दपरिच्छेदः। अथ शब्दो निरूप्यते--अनातानुकवाक्यं शब्दप्रमाणम् । तन- निततदर्थविज्ञानं शाब्दप्रमा । अनातोक्तवाक्यस्य प्रामाण्यव्युदासाय अनाप्तानुक्तेति । वेदप्रामाण्यसंरक्षणाय अनाप्तानुक्तेवि नञ्- द्वयनिवेशः। वेदस्यापौरुषेयत्वम् । नहि वेदोभारतादिवत् पौरुपेयः, येनाप्तोचरितत्वेन तस्य प्रामाण्यं घटेत । स हापौरपेयः । पुरुपबुद्धिमूलकत्याभावात् तत्प्रयुक्तंभ्रमवि- प्रलम्भाधनवकाशात् प्रामाण्यमस्य सुस्थितम् । ननु वाक्यं सर्वमेव पौरुपेयम्, नैकमपि वाक्यं पुरुषरचनाऽगोचरम् , वर्णनित्यत्वप- क्षेऽपि तेषां पौर्यापर्यस्य पुरुषप्रणनयनाधीनत्वात् । नैतत् । लौकिकेषु वाक्येषु तथैव । वैदिकेपु यो वर्णपदानां पौर्वापर्यनियमः सन पुरु: परचनाविशेषमूलः । स चानादिरध्यापकपरंपरया पाठक्रमप्राप्तः । पुरुपस्वातव्याधीनरचनाविशेपवैशिष्ट्यमेव पौरुषेयत्वं, तदभाव एव त्वपौरुषेयता । सर्वस्मिन्नेव सर्गादौ सर्वेश्वरोऽपि अप्रस्खलि- तवर्णखरादिनियमं पूर्वपूर्वकल्पीयं वेदं तथैव स्मृत्वाऽध्यापक इवाध्यापयति केवलं हिरण्यगर्भम् । इति तस्यापौरुषेयता । ननु वाक्ये पौरुपेयापौरुपेयविभागोऽनुपपन्नः । तथाच प्रयोग:-वेदः पौरपेयः वाक्यत्वात् भारतादिवत् । इति चेन्न । वाक्येन पौरुपे- येणैव भाव्यमिति कोऽयमभिनिवेशः । नहि विपक्षे बाधक पश्यामः । नन्वस्ति बाधकम् , असति कारणे कार्योत्पत्तिप्रसङ्ग इति । यदि कार्यवा वाक्यमाने निश्चिता तदाऽयं प्रसङ्गो घटेत, पौरुषेयत्वं प्रसाधयता त्वया कार्यता हीदानीमेव साध्यते, तत्रैव ।

. प्रकाशे] शब्दपरिच्छेदः। विप्रतिपत्तिरिति किमत्र बाधकापादनम् । ननु श्रुत्यैव श्रुतेः पौरुषेयत्वं गम्यते । तथा च श्रुति:-'तस्य हवा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः 'ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत' 'मन्त्रकृयः' इति । 'प्रतिमन्वन्तरं चैपा श्रुतिरन्या विधीयतें' इति च स्मृतिः। तथा 'काठकादिसमाख्या च पौरुषेयत्वं गमयति । न च प्रवचनमात्रतः सा समाख्या भवितुमर्हति, अनेकसाधारण्यात्प्रवचनस्य । कादाचि- कानां पुरुषविशेपाणां कथाश्च श्रूयमाणा वेदस्यानित्यतां गम- यन्ति । प्रयोगश्च-वेदः सर्वज्ञप्रणीतः वेदत्वात् , यन्नैवं तन्नैवम्, यथा किरातादिः, इति । मैवम् । प्रलयेऽध्ययनाध्यापनपरम्परों- च्छेदेनान्तर्हितान् वेदान् सर्गादौ सर्वेश्वरो प्रदाणं व्यष्टिसृष्टिद्वारभूत सृष्वा तस्मै स्वयमुपादिशत् । तिरोहितानां वेदानां प्रथमप्रकाशक- - त्वात् तस्माद्वेदानां प्रादुर्भावः श्रूयते । न त्वपूर्वस्योत्पत्तिः । तथा ब्रह्मणो नियोगात्तपसा लब्धमहिमानो महर्पयोऽनधीतानपि तांस्तान वेदभागानुपलभ्य प्रावर्तयन् । ततः प्रथमप्रवर्तकतया तत्तद्वेदभागस्य तत्तत्समाख्यायोगः । अत एव मरुत्त्वव्यपदेशोऽपि । तथा च श्रुतिस्मृती-'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै 'वाचा विरूपनित्यया पूर्वेपूर्वेभ्यो वच एतदूचुः' 'अजान् ह वै प्रश्नीस्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानपत् । तदृपयो- ऽभवन् तदृपीणामृपित्वम्' 'अनादिनिधना ह्येपा वागुत्सृष्टा स्वयंभुया' 'युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा' इति । इतिहासशब्दोऽत्र सत्तद्वृत्तान्तपरः । तेन भारतादेरपि वेदवदनादिवशका परास्ना। येषां परिवं भूयते ते पाधिकारिफपुरुषाः प्रतिसर्ग सूज्यन्ते, तो [प्रमाण- मानमेयमकाशिकायां न अनित्यसंयोगो दूपणम् । तथा चोकं वासुदेवमाहाल्ये 'प्राकल्ये थाशी संज्ञा वेदाः शास्त्राणि च क्रियाकल्पेऽन्ये तादृशाः सर्वे धर्माः स्युचाधिकारिणः ॥ इति । अपञ्चित चैतत्सर्व न्यायपरिशुद्धौ । अनूदितं चान प्राचां वचनम्-'यादृक्प्रभावाः श्रूयन्ते ऋष्याचा वेदराशिपु । तादृशा एव सृज्यन्ते वेदान दृष्ट्वा स्वयम्भुवा ॥ अतस्तेभ्यः पुरा वेदसत्त्वाद्वेदस्य नित्यता । अनधीत्यैव वेदानामाविर्भावयितृत्वतः ॥ तपसा माप्य संस्कारान् तत्सूकत्वादिसम्भवः । काठकादिसमा ख्याया निमित्तं चेदमेव वा । प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता ॥' इति । यच्च वेदस्य सर्वज्ञेश्वरप्रणीतत्वे केवल• व्यतिरेकि लिङ्गमुक्त, तच्च विपक्षे वाधकामावादप्रयोजकम् । अनु. माने निरस्तं च केवलव्य तिरेकि । सत्स गिजीवने च वेदानां सनावनत्वं अत एव स्वयम्भूत्वं प्रमा• णतमत्वं पुरातनानामेव सर्गादौ नारायणादाविर्भूतत्वं च प्रतिपा- द्यन्ते--'नारायणात्मको वेदो यतः प्रोक्तः सनातनः । वेदो ना- रायणः साक्षात्स्वयम्भूरिति गीयते । प्रमाणानां हि सर्वेषां वेद एव पुरातनः । प्रमाणं परमं प्रोक्तः सम्झिस्तत्त्वार्यवेदिभिः ।। इत्थं नारायणादेव साक्षाच्छीपुरुषोत्तमात् । आविर्बभूव सध्यादौ वेदः सर्वार्थवोधकः ॥ इति । ननु वेदस्य कथं प्रामाण्यम् । प्रामाण्यं हि गुणायत्तम् । वाक्यस्य गुणस्त्वातोश्चरितत्वम् । वेदे च न सदिष्यते भवता । नैवम् । वाक्य- मानस्य प्रामाण्य खत एव । औत्सर्गिक चैतत् । सति वाधे तु न। 1५९तु दोपात् । दोषश्वानातोचवम् । तथा च वाक्यस्यामामामं - प्रकाशे शब्दपरिच्छेदः। परतः । प्रामाण्यं तु खतः। न भवति किमस्य वक्ता आत:' इति गुणजिज्ञासा । सत्यम् । दोपशङ्काप्रसङ्गे तन्निराकरणाय तु तजिज्ञासा। उक्तं च न्यायपरिशुद्धौ-गुणास्तु सम्भावितदोषस्थले दोपनिराकरणौपयिकाः' इति । उक्तं च श्रीयामुनाचार्य:-'नवं शब्दे स्वतो दोपाः प्रामाण्यपरिपन्थिनः। सन्ति किन्तु स्वत- 'स्तस्य प्रमाणत्वमिति स्थितिः॥ वतुराशयदोषेण केपुचित्त- दपोद्यते । अडल्यग्रे हि मातङ्गयूथमित्येवमादिषु ॥' इति । ये पुनः परमेश्वरप्रणीतत्वेन वेदानां तस्य चाप्ततमत्वेन गुणप्र- युक्तमेव प्रामाण्यं मन्यन्ते तान पृच्छामः-वेदप्रणयनकारणभूतं यत्तस्य ज्ञानं तर कं गुणं पश्यति भवान् , न ह्यस्मदादीनामिव अदु- प्टेन्द्रियजन्यत्वलक्षणो गुणोऽस्तीति वक्तुं शक्यते । ईश्वरस्य ज्ञानं हि नित्यम् । ननु नित्ये ज्ञाने तदनपेक्षा इति चेत्, नित्येऽपि वाक्ये तथै- वेति साम्यं कि न पश्यति भवान् । उक्तं च न्यायपरिशुद्धौ-'नित्ये हेतुगुणापेक्षा वेदे नास्तीशबुद्धिवत् । हेत्वभावान्न दोपश्चेद्ध- भावादिहापि नः ॥ अकारणं यथा ज्ञान प्रमात्वमधिग- च्छति । अकारणं तथा वाक्यं स्वतः प्रमितिकारणम् ॥ यदि हेतुगुणाभावादप्रामाण्यं प्रसज्यते । तदेश्वरप्रमायामप्व- निवार्यमिदं तव॥ इति । अतः सिद्धं नित्यनिर्दोपत्वाद्वेदानां प्रामा- ण्यम् । लौकिकानि च कारणदोपराधकप्रत्ययरहितानि वाक्यानि प्रमाणान्येव 'अस्त्युत्तरस्यां दिशि महान् गिरिराजो हिमालयो नामें सादीनि । इत्यं च सिद्धं शब्दप्रमाणस्य पौरुषेयापौरुषेयवाक्य- भेदेन वैविष्यम् ॥

मानमेयमकाशिकायां [प्रमाण- "पिदवृत्तितिरूपणम् । । शतं पदम् । पदानामोवयोधकत्वममेरोष्ण्यमिव जलस्येवं "शैवं खभावः । सोऽयमभिधेति शक्तिरिति चोच्यते । इय- मेव पदानामर्थे "सुख्या वृत्तिः । ज्ञाता यमुपयुज्यते शब्दयो. धादौ न स्वरूपतेः शान वैतस्याः पदशाकरणादितः । सथा चोक्तम्-'शक्तिमहं व्याकरणोपमानकोशातवाक्या- ध्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य . वृद्धाः ॥ इति । मुख्यार्थवाः तदासन्नार्थे मृत्ति- रौपचारिकी च लक्षणा गौणी चेति द्विविधा । यत्र मुख्यार्थयाचे तत्सम्बन्धिनो भवति बोधस्तत्र लक्षणा ! शक्यार्थ- सम्वन्धो लक्षणेति यावत् । यथा-गङ्गायां घोप इत्यत्र प्रवाहा: र्थवाधेन तत्सम्बन्धिनि तीरे लक्षणावृत्तिराधीयते । सिंहो देवदत्त इत्यत्र सिंहगतशौर्यगुणयोगेन देवदत्ते भवति सिंहशब्दप्रयोगः । सेयं गौणीवृत्तिरुच्यते । शक्यार्थसम्बन्धः कचित्संयोगादिः कचि- त्साहश्यमिति सम्बन्धत्वाविशेपालक्षपानतिरिक्त गौणी काणादा । अन्यन्ते । लक्षितलक्षणास्थले च शक्यार्थेन परम्परासम्बन्धी द्विरेफादिपदे । तत्त्वरत्नाकरे चे पॅत्तिद्वयमुक्तम्-अभिधानाभि- घेयत्वमतः शब्दार्थयो स्थितम् । सम्बन्धोऽत्राभिधा द्वेधा योध्या मुख्यजघन्यतः ॥ अभिधाऽर्थावगत्यात्मा शब्दं व्याने पारयिष्यतः । शब्दशक्तिनिमित्ता सा स्वार्थे मुख्याऽभिधी- यते ॥ स्वार्थाभिधानद्वारा स्याजघन्यार्थान्तरे मता' इति । मुख्या वृत्तिरतु रूदियोगतत्समुथयभेदाचति बहुविधा ! रुढिरस्तु पोष्यबोधकभावः, न तु बाध्यवाचकभावः ।

प्रकाशे]] शब्दपरिच्छेदः। जातियोगाद्गुणयोगाद्वा । येथागवादि पदं रुढं गोत्यादिजातियो- गीत गयाद्यर्थे प्रवर्वते, शुक्छमधुरादिपदं च शौछयमाधुर्यादिगुणंयो- गाद्रव्ये | अवयवार्थयोगो.योग उच्यते । पाचकादिपदं हि यौगिक पाककर्तृत्वाद्यवयवार्थयोगात् पाककर्नादिविशिष्टयोधकम् । पङ्कजा- दिपदमुभययोगात्।। पङ्कजनिकर्तृत्वमवयवार्थः ।..पद्मत्वजातिः रूत्यर्थः । योगरूदिभ्यां विशिष्टार्थवाचक..योगरूढमित्युच्यते। अवयवशत्या रूढयां च भिन्नभिन्नार्थोपस्थापकं,तु पदं यौगिकरूढ- मित्युच्यते । यथोद्भिदादिपदम् । तद्धि उद्भिद्यतेऽनेनेति-योगव्यु, पत्त्या खनित्रादेर्वाचकम् । रुढ्या च यागविशेषस्येति ।::m ii. .. पदशक्तेर्धर्मिपर्यन्तत्वसमर्थनम् । -. :- - तन गयादिपदाना जातादेव शक्तिः इति जैमिनीयाःतन प्राभाकरास्तु जातौ शक्तिग्रह एव जाति पुरस्कृत्य व्यक्तिमपि ज्ञापन यतीति मन्यन्ते । गवादिपदस्य गोत्वे शक्तिमहादेव गोत्वप्रकारेण व्यक्तिस्मृतिः, तप्रकारकव्यक्तिबोधश्च भवतीति यावत् । जाता. वेव शक्तिः, व्यक्तिमानं लक्षणयेति तु भाट्टाः। अत्र घूम:-लक्षणा हि तत्रैव फलप्यते; यत्र पदार्थयोरन्वयानु पपत्तिः प्रतिसन्धीयते। न चैतदस्ति 'गौरस्ति' गौ प्रमेयः' इत्यादो। विनाऽप्यन्ययानुपपचिप्रविसन्धान स्वरसतोऽनुभूयमानो व्यफियोप औत्सर्गिके पदानां व्यतिपर्यन्तत्रोधनसामर्थे भवति लिङ्गम्। किञ्च गदि पदानां जावावेघ मुख्या वृत्तिः व्यक्ती प.लक्षणा तर्हि जातो गवादिपदानां प्रचुरप्रयोगो भवेत् । मुख्यार्य एव हि पदानां प्रयोगः प्रचुरोदृश्यते। यथागङ्गापदस्थ ग्रंयाहे।थया वाऽनिशब्दस्य ज्वलने। न्यको प्रयोगमाधुर्यस्सोपलम्माच गवादिपदानां पत्र मुख्या वृत्तिरव.

[प्रमाण- मानमेयप्रकाशिकायां सीयते। किश्च यदि जातिरेव मुख्योऽर्थस्तर्हि बद्धोधनाव त्वतलोनर- पेक्ष्य प्रसज्यते भावार्थे च तयोरनुशासनं 'तस्य भावस्त्वतलौं' इति । भावो नाम प्रकृत्यर्थतावच्छेदको धर्मः, न तु प्रकृत्यर्थवृत्तिध- मैमात्रम् । पृथिवीत्वपदाद्गन्धयत्त्वस्यायोधात् । गोत्वपदागोत्यजाते- |धाच गोपदस्य गोत्वविशिष्टयाचित्वमेपितव्यम् । जातिशक्तिरेवा- विनाभावलक्षणादर्थसम्बन्धविशेषाजात्याश्रयव्यक्तियोधं प्रयोजय- तीति पक्षे तु समायात व्यक्तिशक्या। औत्सर्गिकमर्थविशेपस्य वोध- कत्वं हि शक्तिींम। किञ्च अर्थसामाद्यदि व्यक्तिबोध इष्यते तर्हि जातिः सामान्यमित्यादिपदादपि व्यक्तिबोधापत्तिः । ननु जात्यादि- पदं स्वतन्त्रां जाति बोधयति; गवादिपदं तु व्यक्तिपरतवाम् , अतो गवादिपदादेव व्यक्तियोधो न जात्यादिपदात् । यद्येवं; सिद्धं नः स- मीहितम् । न खलु व्यक्तिमनवयोध्य तत्पारतव्येण जातिरवबोधयितुं शक्यते । अतः पारतच्याववोधनाय व्यक्तियोधकत्वमावश्यकम् । इमेव च व्यक्तिपारतख्येण भानं जाते; यत्तत्प्रकारतया भानम् । अतो गवादिपदानां जातिप्रकारकव्यक्तिबोधसामध्यं वाच्यमिति सिद्धा व्यक्तिपर्यन्ता गवादिपदशक्तिः।। उक्तं च न्यायपरिशुद्धौ- 'गवादिशब्दाभिहितगोत्वाद्यर्थस्वभावतःव्यक्तिधीर्यदितद्ध- स्यानिष्कर्पकपदेष्वपि । गवादिशब्दा जात्यादीन् परतन्त्रान प्रचक्षते ॥ तेनाश्रयंप्रतीतिश्चेत्तन्नः सिद्धं समीहितम् । परं कथमविज्ञाप्य पारतन्त्र्यस्य वोधनम् ॥ विज्ञाप्य यदि शब्दस्य तत्र शक्तिन किं भवेत् ।' इति । न च व्यक्तीनामानन्यात्तन व्युत्पत्तिर्दुःशका, यन गोत्वं वन गोपदस्य शक्तिरिति सामान्यत- वस्याः सम्भवात् । अभ्यक्षिते तु पिण्डविशेषेऽयमपि"गोपद . १॥ - प्रकाशे] शब्दपरिच्छेदः। वाच्य इति भवति विशेषतः प्रतिपत्तिमानमिति । एवं घटादिशब्दा अपि ! न जातिमा वोधयन्ति, किन्तु तद्विशिष्ट व्यक्तिमेवो- त्सर्गतो वोधयन्ति । त इमे जातिप्रवृत्तिनिमित्तकाः शब्दाः जाति- शब्दा इत्युच्यन्ते । ननु जातिशकाना पदानां व्यत्तौ निरूढ- लक्षणा याच्या । मैवम् । अनादितात्पर्यसिद्धा हि लक्षणा निरूढ- लक्षणेत्युच्यते । अनादेः कालाचेत् गवादिपदाना व्यक्तियोधनाय प्रयोगतात्पर्यम् , तर्हि तन मुख्यवृत्तेः स्वीकारे किं वाधकम् अनादितः कालादौत्सर्गिकमर्थविशेषयोधनसामर्थ्यमेव हि पदाना तन मुख्या वृत्तिरिति । एवं गुणयाचकानां शुक्छनीलादिपदानामपि गुणिपर्यन्तबोधन- सामर्थ्यमौत्सर्गिकम्, अनादिवः कालाद्गुणिपर्यन्वयोधनार्थ खर- सतः प्रयुज्यमानत्वात् । गुणिवाचिपदवैयधिकरण्येन प्रयोगे तु तत्पर्यन्तवोधनसामध्यं कुण्ठितप्रसर गुणवोधनमाने विश्राम्यति घटस्य शुक्ल इत्यादौ । रूपं वर्ण इत्यादिकं पदं तु गुणवाच्यपि न गुणिपर्यन्तयोधनसामर्थ्यवत् ; नियतनिष्कर्षकत्वात् जात्यादिश- ब्दवत् । अवस्तत्सामानाधिकरण्येन प्रयोगेऽपि गुणमाने विश्रा- म्यति शुष्ठादिपद शुष्ठं रूपमित्यादौ । वाधकाभावे तु गुणिपर्यन्तं बोधयत्येवाफुण्ठितप्रसरेण स्वसामर्थेन । 'गुणे शुक्लादयः पुंसि गुणिलिनास्तु तद्वति' इति पामरः । यद्यपि परवप्लिहत्यमुक्क शुछादिशब्दाना पाणिनिना 'गुणवचनं च' इति । अथापि विशेष्य- वाचिपदसमभिव्याहाराभावे गुणमात्रपरत्वे पुलिगवा । गुणि- पर्यन्वतात्पर्य तु,यहिहं गुणि विवक्षितं वष्टिहवेत्यस्याशयः । अनेन चौत्सर्गिक गुणिपर्यन्तयोधनसामर्थ्य शुष्टादिपदानामुपोदल्यते । न ६४ मानमेयमकाशिकायों [प्रमाण ध गुणवाचकानां गुणिनि लक्षणा। विनाऽप्यत्वयानुपित्तिज्ञानं नीलों घेट इत्यादितो नीलादिविशिष्टयोधस्यानुभाविकत्वात् । ननु शुलादिपदानां गुणमायाचित्वमेव, गुणिपर्यन्तवा तु मतुवन्त- स्यैव । ननु नीलो घट इत्यादौ न मतुवू दृश्यते । ससम् । जात एव तु लका लुप्तः । प्रत्ययलक्षणेन तु भवति मतुवन्तं शुष्ठादिपदम् । आह , कात्यायन:-'गुणवचनेभ्यो मतुपो लुगू पकव्यः, तथा व लिङ्गवचनसिद्धिः, स्वरविशेपाय च भवति' इति । अत्रोच्यते-खतो गुणिपर्यन्तयोधनसमर्थानामेव लिगोधर्थ सान्मतुल्लुगनुशासनम् । न पुनर्मतुब्लोपेनैव गुणिपर्यन्तवोधकता । अन्यथा स्वतो गुणि- वोधनासमर्थानां रागादिपदानामपि स्याहव्यपर्यन्तता निरुक्तानुशास- नबलात् । न हि क्वचिदपि रागपदस्य द्रव्यपरतया प्रामाणिक प्रयोगो दृष्टचरः । तथाच सिद्धम् , यथा द्विशब्देनैव द्वित्वविशिष्टप्रतिपत्तेः सम्भवेऽपि साधुत्वार्थ द्विवचनप्रयोगः। एवं गुणिपर्यन्तबोधनसम. नामेव लिझाद्यर्थ मतुल्लुगानुशासनमिति । उक्तं च न्यायपरि- शुद्धौ-'गुणवाचिन्यपि पदे जातिशब्दोक्तनीतितः। अपृथ- क्सिद्धवाचित्वान्न युक्ता गुणिलक्षणा ॥ स्वरलिगविशेषार्था मतुल्लोपेन संस्क्रिया । विशिष्टवाचकत्वं तु तदायत्तं न मन्महे ।।' इति । एते शुक्छादिशब्दा गुणप्रवृत्तिनिमित्तका गुणशब्दा इत्युच्यन्ते । एवं क्रियाप्रवृत्तिनिमित्तकाः क्रियाशब्दाः । यथा पाचकादिशब्दाः । पिण्डविशेपेष्वाधुनिकैः सङ्केतिता डित्यादिशब्दा यदृच्छाशब्दा इत्युच्यन्ते । अन तु तत्तत्सझैव प्रवृत्तिनिमित्तम् । दित्यो डित्यसज्ञक इत्यर्थः । पाणिनिना कृता अणादिसशा अपि अत्रैवान्तर्मवन्ति । वानिकसङ्केतः परिभाषा । एतन्मूलका दान पारिभाषिकशब्दत्वेन व्यवहरन्ति । श्त्यासो तावत् 1 :

। . प्रकाशे]. शब्दपरिच्छेदः। ननु-अपृथक्सिद्धविशेषणवाचिना शब्दानां विशेष्यपर्यन्त- याचित्वं चेभ्युपगम्यते, सर्हि प्रभा संयोगः शक्तिः पाको गमन- मित्यादिपदानामपि धर्मिपर्यम्तवाचित्वं प्रसज्येत, प्रभादीनामपि प्रदीपाद्यपृथक्सिद्धविशेषणत्वात् । मैवम् । न खल्वपृथक्सिद्ध- विशेषणवाचित्वमा धर्मिपर्यन्तत्वे प्रयोजकम् , जात्यादिपदेषु धर्मिपर्यन्वताया अदर्शनात् । किन्तु नियतनिष्कर्षकेतरत्वसना- थम् । प्रभादिशब्दास्तु नियतनिष्कर्षकाः । तथाहि-शब्दा द्विविधाः निष्कर्षका अनिष्कर्षकाश्चेति । निष्कर्षका धर्मनिष्कर्पहेतवः, यथा जाति: सामान्यमित्यादयः । अविशिष्टेऽपि जातिवाचित्वे गवादिपदं व्यक्ती प्रयुज्यते; न जात्यादिपदम् । नहि कदा- चिदप्येषां जातिरूपादिपदानां व्यक्तिगुणिपर्यन्तप्रयोगः कचिदृष्ट- चरः। अतो जातिरूपादिशब्दा विशेपणमानवाचिनो व्यक्ति- गुण्यपेक्षया जातिगुणयोर्विवेकप्रतिपादनोपयुक्ता नियतनिष्क- का उच्यन्ते । एवं प्रभादिशब्दा अपि । अर्थविशेषवाचित्वे हि पदानामनादिप्रयोग एव शरणम् । तुल्यं चेदं निष्कर्पकानिष्कर्प- कविभागेऽपीति । नियतनिष्कर्षकेतरेपां शुल्लादिपदानामपृथक्सिद्धविशेषणवाचिनां यथा धर्मिपर्यन्तबोधकत्वं मुख्यम्, एवं देवादिशब्दानां पिण्डवि- शेपवाचिनामप्यात्मपर्यन्तबोधकत्वं मुख्यम् । आत्मोत्क्रमणे निशी- येमागत्वाच देहानामात्मप्रकारकखभावत्वं शक्यं ज्ञातुम् । न चात्माऽपृथक्सिद्धत्वे देहस्य तदुपलब्धिवैलायामात्माऽप्युपलभ्ये- तेति शवयम् । न ह्येवं नियमो नियतप्रकारप्रकारिणोः सहैवोपल- ब्धिरिति । न हि घटचाक्षुपे गन्धो विषयः । न वा गन्धघ्राणजे मान.प्र.५ मानमेयप्रकाशिकायां [प्रमाण- परः। न च चावता नियतप्रकारप्रकारिमायस्तयोर्यपैति । कुत्रचि. सहोपलम्भस्तु एकसामग्रीवेद्यत्वात्तयोः । आत्मनस्त्वपाशुपत्वाल देहोपलब्धिकाल उपलब्धिः। नैतावताऽऽत्मप्रकारत्वं देहत्यापैति । दृश्यन्ते च देहात्मनोः समानाधिकरणप्रयोगाः प्रामाणिका: 'गोरधो मनुष्यो देवः पुरुषो योपित् पण्ढ आत्मा फर्मभिर्जाता इत्यादयः । 'वाचिकैः पक्षिमृगतां मानसरन्त्यजातिताम् । शरीरजैः कर्मदोपैति स्थावरतां नरः ॥ इति च मनुः । न विकारस्वरूपस्यात्मनो देवमनुप्यपशिस्थावरादिशरीरतया परि- गामित्वं सम्भवति । अतो मनुष्यादिशब्दास्तच्छरीरकजीवात्म- पराः प्रयुक्ता इत्येष्टव्यम् । न च पामरव्यवहारा इव देहात्मैक्य. भ्रान्तिमूला इमे श्रुत्यादिगता व्यपदेशा इति शक्यमुद्भावयितुम् । न या लक्षणयैते प्रयोगा निर्वाह्याः । सम्भवन्त्यां मुख्यस्तो लक्षणाश्र- यणस्थानौचित्यात् । न हि मन्यादयोऽपि महर्षयो बहुबहु लाक्षणिक प्रायुञ्जतेति शक्यमुत्प्रेक्षितुम् । देहतन्यादिशब्दास्तु नियतनिष्क- पंकाः। तद्भिन्नानां च देवादिशब्दानां वारसिकमामाणिकप्रयोग- प्राचुर्येणात्मपर्यन्तमुख्यवृत्तत्वमेव युक्तम् । यतः शरीरवाचकानां शब्दानां शरीरिणि मुख्या वृत्तिरतश्चेतना- चेतनवाचिनोऽपि शब्दातच्छरीरके परमात्मनि मुख्यवृत्ता एव भवन्ति । अतः 'सर्व खल्विदं ब्रह्म 'अयमात्मा ब्रह्म 'तत्त्व- मसि' इदं हि विश्वं भगवान्' ज्योतीपि विष्णुर्भुवनानि विष्णुः क्षेत्रज्ञं चापि मां विद्धि' इत्यादयः समानाधिकरणव्य- पदेशाः श्रौताः स्माश्चि मुख्यतयैवोपपद्यन्ते । 'राजा राष्ट्र' मित्या. दिवदाधिपत्यमात्रनिवन्धनं सामानाधिकरण्यं लगद्ब्रह्मणोर्वदन्ति प्रकाशे शब्दपरिच्छेदः।। नयायिकाः । शरीरशरीरिमावेन मुख्य तस्मिन् सम्भवत्यमुख्यान- यणं न युक्तिमत् । सर्वशब्दमुख्यवृत्तिविषयत्वं परमात्मन उच्यते 'वचसां वाच्यमुत्तमम्' इति । सर्वशब्दवाच्यत्वे हेतुः सर्वत्रा- न्वर्यामितया व्याप्तत्वमिति च गीयते 'सर्व समामोपि ततोऽसि सर्वः' इति । तैत्तिरीयके च सृष्टेपु चेतनाचेतनेष्वन्तर्यामिवया स्थित- त्वात्तत्चद्वाचिसत्त्यदादिशब्दवाच्यं ब्रह्माभूदित्यन्वाख्यायते 'तद- नुप्रविश्य सच्च त्यच्चाभवत्' इति । चेतनाचेतनवाचिनां शब्दानां ब्रह्मणि मुख्यवृत्तत्वं सहेतुकं सूत्रितं च भगवता बादरायणेन 'चराचरव्यपाश्रयस्तु स्यात्तव्यपदेशोऽभातस्तभावभावि- त्वात्' इति । चेवनाचेवनवाचिनां ब्रह्मणि प्रयुक्तानां शब्दानां तनाभावत्वं मुख्यवृत्तत्वमेव । सत्यन्तर्यामितया तस्मिन् सर्वेपां पदार्थानां नामरूपयोर्भावित्वादिति सूत्रार्थः । इदमेव ब्रह्मप- यन्तवोधनसामर्थ्यमपर्यवसानवृत्तिरित्युच्यते । विशिष्टशक्तस्य पदस्य विशेषणमानेऽवस्थानं घशक्यम् । चिदचिद्वाचिनः शब्दा ब्रह्मण्येव प्रतिष्ठिताः। स्वार्थमात्रेऽपर्यवस्यच्छक्त्या तत्तच्छरीरके ॥ स्मर्यते च सर्वशब्दानां पर्यवसानभूमित्वं पर- मात्मनः 'नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती' इति । परमात्मपर्यन्तबोधनसमर्थानामपि पदानां सामर्थ्यभञ्जनेन कचि- स्कचिचेतनाचेतनमात्रेऽपि प्रयोगो वोध्यः । 'चराचरे'ति सूत्रे भाक्त इति पदच्छेदेनायमर्थों लभ्यते । भक्त्वा प्रयुक्तो भाक्तः । 'यस्यात्मा शरीरं' 'यस्य पृथिवी शरीरं' इत्यादी च नियत- निष्कर्षकशरीरसदसमानाधिकरणत्वादात्मादिशब्दास्तन्मात्राचिनः। व्यधिकरणप्रयोगाच । 'दासभूताः स्वतः सर्वे ह्यात्मानः परमा- स्मनः' इत्यादी च वयात्वं योध्यम् । -- ६८ मानमेयमकाशिकाय [प्रमाण- • ननु सर्वेपो शब्दातां परमात्मपर्यन्तवाचिये लौकिकव्युत्पत्ति प्रकारो विरुध्यते । लोके हि तत्तदर्थमाने तं तं शब्द व्युत्पादयन्ति शिक्षकाः, व्युत्पद्यन्ते च वालाः। सत्यम् । अतीन्द्रियत्वात्परमात्मनः सतोऽपि वप्रकारत्वस्थानवगमातत्तत्पदार्थमा व्युत्पत्तिर्वेदान्त- ज्ञानरहितानाम् । यदा तु वेदान्तवाक्यैः सःपा पदार्थानां ब्रह्मप्रका, स्तैकस्वभावत्वमवगम्यते, तदा तत्तद्वाचिशब्दानामपि तत्पर्यन्वयो- धकत्वं शक्यावगमम् । यथावस्थितवस्तुस्वरूपावबोधनार्थों हि शब्दः। अत एव नव्यन्तविदामाभणनं 'वेदान्तेत व्युत्पत्तिः पूर्यते' इति । किश्च चेतनाचेतनवाचिना शब्दानां ब्रह्मपर्यन्तवाचि त्वमनुमानादपि सिद्ध्यति । प्रपञ्चवाचीनि पदानि ब्रह्मपर्यन्तवाचीनि, निष्कर्षकेतरत्वे सति तन्मूर्तिवाचित्वात् , यया रामकृष्णादिपद- मिति विशेषतः । थनिष्कर्षकेतरत्ने सति थन्मूर्तिवाचकं तत्तत्पर्य- न्तवाचक, यथा देवादिपदमिति सामान्यतोवा। उक्तं च तस्वमु. ताकलापे-'निष्कर्षाकूतहानौ विमतिपदपदान्यन्तरात्मानमेकं तन्मूर्तेर्वाचकत्वादभिदधति यथा रामकृष्णादिशब्दाः । सर्वेपामाप्तमुख्यैरगणि च वचसांशाश्वतेऽस्मिन् प्रतिष्ठा वाले- स्तस्याप्रतीतेजगति तदितरैः स्याच्च भक्त्वा प्रयोगः ॥" इति । निरूपिता नाम पदवृत्तिः । वाक्यलक्षणम् । योग्यासन्नसाकाङ्क्षपदसमुदायश्च वाक्यम् । घटः पटः स्तम्भः फुम्भः इत्यादि न वाक्यम् , अनाकासव्वात् । गिरि. सुप्त सटाया- ममिमान् देवदत्तेनेयादि न वाक्यम् । आसत्तिराहित्यात् । वह्निना सिञ्चतीलादिक न वाक्यम्, अयोग्यार्थत्वात् । किन्तु वाक्याभास, प्रकाशे] 'शब्दपरिच्छेद। 'एव । आकाहादिविशिष्टं तु वाक्यं प्रमाणं भवति लौकिकं वैदिकं च । तात्पर्यविषयीभूते चार्थे शब्दस्य प्रामाण्यम् । तात्पर्य च लौकि- कवाक्येषु -वक्कुरिच्छाविशेपः । वेदे चापौरुषेयेऽपीश्वरतात्पर्य सम्भवत्येव । नित्यस्यापि तस्य नित्यभगवच्छासनात्मकत्वात् । तथा च भगवतैवोक्तं 'श्रुतिस्मृती ममैवाऽऽज्ञा यस्तामुल्लङ्घय चर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः' इति । तथा चोपश्लोक्यते स्म भट्टपराशरपादेः 'आज्ञा ते सनिमित्तनित्यविधयः स्वर्गादिकाम्यद्विधिः सोऽनुज्ञा शचित्तशास्त्रवशतोपायो- ऽभिचारश्रुतिः। सवींयस्य समस्तशासितुरहो श्रीरङ्गसर्वस्व ते रक्षाकूतनिवेदिनी श्रुतिरसौ त्यनित्यशास्तिस्ततः॥ इति । अत एव विध्यर्थोऽपीश्वराभिप्रायविशेष इष्यते। तथा च भापितं 'स्वशा- सनावबोधि शास्त्रं प्रदिश्य'ति श्रीभाष्ये । 'चोदनालक्षणोऽर्थों धर्म' इति सूत्रयता जैमिनिना चाहवेश्वरस्य विध्यर्थ इति सम- सूचि । तथा च विधिवाक्यस्थले तत्तत्कर्मणस्तत्तत्फलार्थिकर्तव्य- स्वप्रकारकेशाभिप्रायविषयत्वमवबुध्य तत इसाधनत्वाद्यनुमान- द्वारा तस्य तस्याधिकारिणस्तन तन कर्मणि प्रवृत्तिरिति प्राप्तम् । कृति- साध्यताया विध्यर्थत्व च 'अतो विधिवाक्येप्वपि धात्वर्थस्य कर्तृव्यापारसाध्यत्वं शब्दानुशासनसिद्धमेव लिडादेर्वाच्यमि- त्यध्यवसीयते' इति श्रीमाप्यसूक्त्यादेरवगम्यते । आज्ञाविषयतया कृतिसाध्यत्वस्य विध्यर्थत्वमिति स्वीकारे च वाक्यद्वयैकाध्य सि- द्ध्यति । अपूर्वकार्यस्य लिङार्थवावादश्च निरस्तः श्रीभाष्यादौ। अत एव कार्यान्वित एवार्थे शब्दः प्रमाणमित्यपि ने युक्तिमत् । सिद्ध- रूपे कार्यरूपे वा प्रमाणान्तरानाधिते विशिष्टार्थ शब्दस्य प्रामाण्य ७० . मानमेयप्रकाशिकायां [प्रमाण- सुस्थिरम् । प्रमाणान्तराप्राप्ते चार्थे शाखमर्थवत् । कचित्प्रमाणान्तर- प्राप्तार्थप्रतिपादनं च श्रुतावनुवादरूपं ज्ञेयम् । । अतीन्द्रियार्थे शास्त्रस्यैव प्रमाणत्वम् । अत्यन्तालौकिके चार्थे शास्त्रमेव प्रमाणम् । न हि युक्तः केव- लाया एकान्ततस्तत्सिद्धिः सम्भवति। दृष्टानुसारिण्यः सलु कल्पना भवन्ति । दर्शनं चानैकान्तम् । यथा-अल्पपरिमाणानामवयवाना- मिष्टकादीनां समूहेन महत्कार्य रचितं दृष्टं प्रासादादि, अतोऽत्यल्प- परिमाणाः परमाणव एवान्ततः कार्यद्रव्यसामान्ये भवन्त्युपादा- नमिति वैशेपिकाः कल्पयन्ति । महतो मृत्पिण्डस्यांशैरनेकैर्घटम- णिकादिविविध कार्यमुत्पन्नं दृष्टम् , अतोऽपरिच्छिन्नं प्रधानमेव विवि. धविचित्रास्पदं निखिलं जगत्प्रत्युपादानं भतितुमर्हतीति च सायाः। तत्राप्यचेतनानां कारणानां पुरुपाधिष्ठानमन्तरा न कार्यकारित्वं दृष्टं मृद्दण्डचक्रादीनाम् । अत ईश्वराधिष्ठिता एव परमाणव: कार्यनिष्पादने समर्था इति पूर्व मन्यन्ते । परार्थैकवेषतयाऽचेतनस्य खत एव प्रवृत्तिः, न चेतनाधिष्ठानमपेक्ष्येति तु परे। निदर्शयन्ति च क्षीरप्रवृत्तिं 'वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुपविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥' इति । एवं क्षणि- कत्वादिसाधिका वाह्यानां युक्तयोऽप्यनुसन्धेयाः। सर्वेऽप्येते केवलया युक्त्या नानास्वभावं नानाजगत्कारणमातिष्टमाना दरीदृश्यन्ते । एवं कारणविपये तर्काणामनच स्थितत्वं स्थितम् । तथा च सूनं 'तर्काप्र- तिष्ठानादपि' इति । अतः प्रधानादिस्वरूपं शास्त्रत एव प्रतिपत्त- व्यम् । ईश्वरोऽपि विश्वस्य स्रष्टा सर्वज्ञः सर्वशक्तिर्न युक्त्या केवल थैकान्ततः सिद्धयति । युगपत्सर्वनिरोधः सर्वोत्पत्तिश्च न हि शास्त्र 1 ! .

. । प्रकाशे] शब्दपरिच्छेदः। ७१ मन्तरा निश्चेतुं शक्यते।.कत्सालयानुमानानां विमतः कालो न लोकशून्यः कालत्वात् वर्तमानकालवत्' इत्यादिना सत्प्रतिप- क्षितत्वात् । असिद्धे च कृत्स्नप्रलये जीवविशेपा एवोपचितपु- ण्यशालिनो विचित्रार्थसर्जनसामर्थ्यमासाद्य तं लोकविशेष लक्ष्य- न्तीति कृतमीश्वरेण । किञ्च कार्यत्वं शरीरिकर्मपरवशकर्तृकत्वनियत दृष्टं घटादाविति क्षित्यादीनामपि सादृशकर्तृकत्वमनिष्टमापादयेत्, शरीरिकर्तृकत्वेन सोपाधिकं वा भवेदिति न तेन क्षित्यादेः कर्तुरीश्व- रस्य सिद्धिः। सिद्ध्यन्नपि वाऽनुमानेन निमित्तमानं सिद्ध्येत् , नोपादानतयापि । अतोऽभिन्ननिमित्तोपादानभूते परमात्मनि शास्त्र- मेव भवति प्रमाणम् । तथा च सूत्र-शास्त्रयोनित्वात्' इति । विद्यास्थानानि । अपौरुपेयः स्वतःप्रमाणभूतो वेद एवैकं शास्रम् । तदर्थोपवूह- णरूपत्वात्स्मृतीतिहासपुराणानामपि शास्त्रत्वमनपेतम् । स च ऋग्यजुःसामाथर्वात्मना चतुर्धा, पुनरनन्तशासः कर्मब्रह्मपरभाग- द्वयात्मको भवति । भागद्वयात्मके वेदराशौ विध्यर्थवादमन्त्रात्मना विभागो वाक्यानामवसेयः। तत्र हितानुशासकं वाक्यं विधिः । स च विधानप्रतिषेधरूपेण भवति द्वेषा । 'ज्योतिष्टोमेन स्वर्गकामो यजेते त्यादिकं तावद्वाक्यं विधानरूपम्। 'न कलझं भक्षये दित्यादि च प्रतिपेयरूपम् । इष्टसाधनप्रवृत्तेरिवानिष्टसाधनतो निवृत्तेरपि हि हितरूपत्वम्। विधानघटकान्येव च नामधेयानि। स्तुतिनिन्दान्यतरपरं वाक्यमर्थवादः। स च द्वेधा-विधानशेपः प्रतिपेघशेपश्चेति । तत्राद्यो विधेयस्य प्राशस्त्यं प्रतिपादयन विध्यधीनां प्रवृत्तिमुत्तम्भयति । अन्य- श्व निषेध्यस्य निन्दितत्वं प्रतिपादयन्नहितानिवृत्तिं निपेधाधीनां - मानमेयप्रकाशिकायां [प्रमाण- द्रढयति । प्राशस्त्यनिन्दापराणामप्यर्थवादानां प्राशस्त्यायुपपत्तये खपाच्यार्थेष्वप्याधितेषु प्रामाण्यमस्त्येव । यत्र च चांध इव दृश्यते 'आदित्यो यूप' इत्यादौ, सनापि औपचारिकार्थप्रतिपादनमुखेन स्तुतिपर्यवसान मन्तव्यम् । न चात्यन्ताय स्वार्थहानम् । तथा सति बहु बहु वाक्यजात हानर्थकपदलालात्मक कण्ठशोपमानफलफमाप- घेत । अर्थवादाना च विधेयप्राशस्त्यसमर्पणद्वारा विधिवाक्येक- वाक्यच्या प्रयोजनपर्यवसानं वर्णित पूर्वमीमांसायां विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः' इत्यन ! अयं पोत्सर्गः । ब्रह्ममीमासाया समन्वयसूत्रेतु 'अपवरके निधिरस्ती'त्यादिवाक्यव- सिद्धार्थपराणामपि पुरुषार्थावेदकाना वाक्याना 'आनन्दो ब्रह्म' 'रसो वै सः' इत्यादीनां प्राप्यस्यापरिच्छिन्नसुखरूपत्वप्रतिपाव- नपराणा स्वत एव पुरुषार्थपर्यवसानसम्भय उक्तः । अतोन विरोध । वैदिकाना मत्रपदव्यवहारविषयो यो वेदभागः स मत्र इत्युच्यते । स चानुष्ठेयार्थप्रकाशनादिना ऋतुपूपयुज्यते । जपा- दिना स्वयमपि प्रयोजननिष्पादकत्वमस्त्येव मन्त्राणाम् । अर्थवा- दोक्तन्यायेन मन्त्राणामपि देवतारूपादौ तात्पर्यमस्त्येव । अन्यथा तत्स्मारकत्वादेश्यानुपपत्तः । वेदश्च पडगो वर्तते । अङ्गानि पुन शिक्षादीनि । यथाहुः-'छन्दः पादौ शव्दशास्त्रं च वक्र कल्पः पाणी ज्यौतिष चक्षुपी च । शिक्षा माणं श्रोत्रमुक्त निरुक्तं वेदस्यागान्याहुरेतानि पटू च॥ इति । तत्र शिक्षा-वर्णाना स्थानकरणादिप्रतिपादिका । व्याकरण-पदाना साधुत्वानुशासकम् । छन्दः-गायल्यादिलक्षण- प्रतिपादकम् । निरुक-वैदिकानामपूर्वशन्दानामर्थप्रतिपादकम् ।

प्रकाशे] शब्दपरिच्छेदः। ज्योतिष वेदाध्ययनवैदिकयज्ञाद्यनुष्ठानौपयिककालप्रभृतिनिर्णाय- कम् । कल्पः-यज्ञादिप्रयोगप्रतिपादकः । वेदस्वरूपस्थितौ तदर्थ- तिपत्तौ तदानुष्ठाने चैपां यथायथमुपयोगोऽवसेयः। धर्मशास्त्रेतिहासपुराणानि तु कर्मनाभागोपबृंहणरूपाणि वेदार्थ- स्फुटप्रविपत्तिसाधनानि । उपबृंहणं नाम अधीतशासावगवार्थस्यान- धीवशाखागतवाक्यार्थप्रतिपादकैमहर्पियचोभिदृढत्वापादनं वैशद्यस- म्पादनं च । महर्पयो हि व्युच्छिन्ना अपि वेदशासास्तपःप्रभावेन सा- 'क्षात्कृत्य सर्ववेदानुगतानर्थान् स्मृत्या स्मृत्वा ग्रन्थान प्रणिन्युः । तत्र प्रायशः कर्मभागोपबृंहणं धर्मशास्त्रम् । ब्रह्मभागोपबृंहणभूतानि चेति- हासपुराणानि । न्यायविस्तरस्तु वैदिक्यामर्थप्रतिपचौ सहकारिणं तक सपरिकरं निरूपयन्नुपाङ्गतयाऽनुमतः । उक्तं च मनुना वेदार्थनि- 'र्णयसहकारित्वं तर्कस्य-'आप धर्मोपदेशं च वेदशास्त्राविरो- 'धिना'। यस्तणानुसन्धत्ते स धर्म वेद नेतरः ॥ इति । मीमांसा पुनर्वैदिकेपु वाक्येपु प्रसतेऽर्थविशेपसन्देहे वाक्यतरु- पक्रमोपसंहारादितात्पर्य लिगसनाथैरर्थविशेषनिर्णयमुपजनयति । तदुक्तं-'धर्म प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्य- तामागं मीमांसा पूरयिष्यति ॥ इति । कर्मब्रह्मभागद्वयात्मकवेदाख्यैकशास्त्रविचाररूपतया च पूर्वोत्तर- मीमांसयोरैकशाख्यम् । कर्मब्रह्मरूपावान्तरविषयभेदेनावान्तरप्रकर- णभेदेऽपि नैकशाख्यस्य क्षतिः । विशिष्टार्थेक्यस्यैकशाठ्यप्रयोजकस्य सत्त्वात् । साझसशिरस्कवेदाध्यायी कृत्ववेदार्थनिर्णयकामोऽधि- कारी । स चाधीवक्रमेण प्रथमं कर्मभाग विचार्यानन्तर ब्रह्मभागं विचारयतीति नाधिकारिभेदेनापि पूर्वोत्तरमीमांसयोभिन्नशा- मानमेयप्रकाशिफायां [प्रमाण- खत्वं शङ्यम् । भगवता योधायनमहर्पिणा चोक्तम्-'संहितमेत: च्छारीरक जैमिनीयेन पोडशलक्षणेनेति शास्त्रैकत्वसिद्धि' इति । यद्यपि द्वादशलक्षण्या जैमिनीयत्वप्रसिद्धिः । देवताकाण्डस्य तु चतुरध्याय्यात्मकस्य काशकृत्स्नीयत्वप्रथा । अथापि कासक- लद्वारा प्रवर्तितत्वात्प्रयोज्यप्रयोजककस्तया वा व्यपदेशद्वयमपि “निर्वहणीयमित्यन्यत्र विस्तरः । धर्माध्यात्मविद्यास्वरूपप्रतिपत्ति- साधनतयैते विद्यास्थानत्वेनान्वाख्यायन्ते-'पुराणन्यायमीमांसा धर्मशास्त्राहमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥' इति । स्मृत्यादिप्रामाण्यविचारः। तत्र वेदानां स्वतःप्रामाण्यम् । स्मृतीनां तु मूलभूतश्रुत्यनुमा- नद्वारा । प्रत्यक्षश्रुतिविरुद्धार्थायास्त्वन्यथासिद्धत्वेनाप्रामाण्यमेव । यथा- औदुम्बरी सर्वा वेष्टयितव्या' इति स्मृति: 'औदुम्बरी स्पृष्ट्वोद्गायेत्' इति प्रत्यक्षश्रुतिविरुद्धत्वादप्रमाणमेव । निर्णीतश्चा- यमों धर्ममीमांसाया 'विरोघे त्वनपेक्षं स्यादसति हनुमानम् इति । स्मृतीनां वेदमूलतया प्रामाण्यं सत्सङ्गिजीवनेऽपि प्रत्यपादि- 'वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात्स्वयम्भूरिति गीयते ॥ धर्मा वेदेन ये प्रोका ऋपि- भिस्तत्त्वदर्शिभिः । प्रोक्तास्त एव स्मृतिषु प्रमाणं तास्ततः स्मृताः ॥ इति । एवमविगीतशिष्टाचाराणामपि धर्मे प्रामाण्य- मनुष्यापकत्यलक्षणमस्त्येवेति बोध्यम् । पुराणानि पुनः सात्त्विकराजसतामसभेदेन त्रिविधानि । तत्र सात्त्विकेपु पुराणेषु श्रौतानां तत्त्वहितपुरुषार्थानां वाद्रूप्येण वर्णनात्त- प्रकाशे] शब्दपरिच्छेदः। दुपजीविनां निःश्रेयससिद्धिनिष्पत्यूहा । राजसवामसपुराणानाम- प्यविरुद्धांशेपु प्रामाण्यमनपेतम् । विरुद्धांशेपु तु भ्रान्त्यादिमूलत- याऽप्रामाण्यमेव विरोधाधिकरणन्यायेन । तदिदं मात्स्यपुराणे प्रति- .पादितम्-'अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते। राज- सेषु च माहात्म्यमधिकं ब्रह्मणो विदुः॥सात्त्विकेवथ कल्पेषु माहात्म्यमधिकं हरेः। तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥' इत्यादिना । साययोगयोरपि प्रकृतिपुरुपविवेकाष्टाङ्ग- योगयोः श्रुत्यविरुद्धांशयोः प्रामाण्यम् । स्वतन्त्रप्रधानकारणत्वनि- मित्तमात्रेश्वरादिप्रतिपादनांशे तु अप्रमाणत्वमेवेति ब्रह्ममीमांसायां स्थापितम्-'स्मृत्यनवकाशदोपप्रसङ्ग इति चेन्नान्यस्मृत्यनव- काशदोपप्रसङ्गात् ! 'एतेन योगः प्रत्युक्तः' इत्यादिना । पाञ्चरात्रप्रामाण्यम् । पाश्चरात्रस्य तु भक्तानुकम्पया परमपुरुपप्रणीतत्वात्कारन्यून श्रुत्यविरोधाच्च प्रामाण्यमनपेतम् । यथोक्तम्-'पाश्चरात्रस्य कृत्स्नस्य वक्का नारायणः स्वयम्'। 'वेदान्तेषु यथा सारं सपृह्य भगवान हरिः। भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् ॥” इति । पाञ्चरात्रस्य प्रामाण्यं च भगवता बादरायणेन मुक्तकण्ठमुक्तं मोक्ष- धर्म-'इदं महोपनिषदं चतुर्वेदसमन्वितम् । साङ्ख्ययोगकृता- न्तेन पाश्चरात्रानुशब्दितम् ॥ इदं श्रेय इदं ब्रह्म इदं हित- मनुत्तमम् । ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ भवि- प्यति प्रमाणं वै एतदेवानुशासनम् ॥' इति । एवं महाभारते मुक्त- कण्ठं पाश्चरात्रस्य प्रामाण्यमभिवदन् भगवान् बादरायणः शारी- रके तस्यैवाप्रामाण्यं समर्थयति स्मेत्यसम्भावनीयमिदम् । अत उत्प- प्रमाण- मानमेयंप्रकाशिकायां त्यसम्भवाधिकरणं पाश्चरात्रप्रामाण्यसमर्थनपरमेव । वर्णित चैवमेव 'श्रीयोमुनमुनिभिरागमप्रामाण्ये श्रीभाष्ये च श्रीमद्रामानुजेखामि- "मिः। 'साडेपु वेदेषु निष्ठामलभमानः शाण्डिल्यः पाञ्चरात्रतत्रंमधीव- वानियादिना तत्र प्रतीयमाना वेदनिन्दा च भूमविद्यायामिव नहि- निन्दान्यायेन पाश्चरात्रप्रशंसायामेव पर्यवस्वति । जीवोत्पत्तिवा- दश्चद्वेद इव विशिष्टशरीरयोगविषयो नेयः, नं तु खरूपोत्पत्ति- परः । जीवानां स्वरूपत उत्पत्तेतत्रैव निपिद्धत्वात् । यथोक्तं परम- संहितायां-'अचेतना परार्था च नित्या सततविक्रियात्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते॥ व्याप्तिरूपेण सम्बन्धस्तस्या- च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चितः ।। इति । 'वासुदेवात्सङ्घर्पणो नाम जीवो जायते, सङ्कर्षणात्प्रद्युम्न- संशं मनो जायते, तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते' इत्यत्र तु न जीवादीनामुत्पत्तिर्विवक्षिता । किन्तु तत्तदभिमानिव्यूहत्रयप्रा- दुर्भाव एव । अतः श्रुत्यविरोधेन भय्यन्तमूलकत्वेन एकायनश्रुति- मूलकत्वेन च प्रामाण्यं पाश्चरांत्रस्याक्षतम् । उक्तं च तत्त्वमुक्ताक- लापे-'निर्दोपाम्नायमौलिश्रुतनिखिलजगन्मूलसर्वज्ञमूले हेतु व्यूढे चतुर्धा कचिदपि न भवेद्विभ्रमः पाञ्चरात्रे । युक्ता भक्तानुकम्पागरिमसमुदिते विप्रलिप्साऽपि नास्मिन् वेदा- ष्ठयोक्तिरर्यस्थितिविंशदतया भूमविद्यादिवच्च ॥ जीवोत्प- त्यादिवादो निगमवदिह तन्नित्यतोक्तेश्च साम्यात् जीवाद्या- ख्यानिरूढिस्त्वभिमतिभिदया स्थाच सङ्कपणादौ । मन्वादे- चोपजीव्यं हिततममिदमित्यादिकं भारतोतं तत्क्वाप्पैक्यं · विकल्पः क्वचिदभिमतवत्तादृशाम्नायभेदात् ॥ इति । याश- , ३ - । प्रकाशे शब्दपरिच्छेदः। ७७, वल्क्यमहर्पिणाऽपि पाञ्चरानस्य प्रामाण्यं व्यञ्जितम्-'ओङ्काररथ- मारुह्य मनः कृत्वा तु सारथिम्- ब्रह्मलोकपदान्वेपी याति विष्णोः परं पदम् ॥ पाश्चरात्रे, तथा ह्येप, भगवद्वाचकः, स्मृतः॥ इति । 7 भगवतः श्रीहरेरपि पाश्चरात्रं प्रमाणतयाऽभिमतम् । तथा च सत्सगिजीवने श्रीहरेर्वचनस्य वेदशास्त्रपुराणपाश्चरानागमसिद्धान्ता- र्थगर्मितत्वं वर्णितमस्ति-'वेदशास्त्रपुराणानां पाञ्चरात्रागमस्य च । सिद्धान्तं पुत्रवाक्यं सा श्रुत्वोवाच पुनः प्रसूः ॥' इति । भगवन्मन्दिरप्रतिष्ठापूजाविधान पाश्चरानसहितानुसारि ग्राह्यमिति चोक्तं तत्रैव-"हरेरुपासातन्त्राणि पुरा प्रोक्तानि तेन वै। पञ्च- रात्राभिधानानि' इत्यादिना 'एतेष्वन्यतमेनोकमाश्रित्य चैष्णवं विधिम् । मन्दिरं तत्प्रतिष्ठां च पूजनं च समाचरेत् ॥' इत्य- न्तेन । हरिवाक्यसुधासिन्धौ च साययोगादिना भगवद्रूपस्य स्फुटाप्रतिपत्तेः पाञ्चरात्रं भगवत्साकारत्वस्य स्फुटप्रतिपादकं भग- वतैव रचितमिति वय॑ते-'सुवोधं तत्र कृष्णस्य नाभूद्रूपस्य वर्णनम् । पञ्चरात्रं ततश्चक्रे भगवान् नारदात्मना । वासुदेवादिरूपेण चतुर्ग्रहो निरूपितः। तत्र कृष्णस्ततस्त- स्याकृतिः स्पष्टं विभाव्यते ॥' इत्यादिना । अतो भगवदिव्य- साकारत्वादौ पाश्चरानं प्रमाणमित्यनवद्यम् । सच्छास्त्राष्टकम् । अष्टो पुनः सच्छास्त्राणि विशेषतः समादृतानि श्रीहरिणा। तथा च शिक्षापच्या स्वयमेवोक्तम्-'वेदाश्च व्याससूत्राणि श्रीमदा- गवताभिधम् । पुराणं भारते तु श्रीविष्णोर्नामसहस्रकम् ॥

७८ मानमेयमकाशिकायां प्रमाण- तथा श्रीभगवद्भीता नीतिश्च विदुरोदिता । श्रीवासुदेवमा- हात्म्यं स्कान्दवैष्णवखण्डगम् ॥ धर्मशास्त्रान्तर्गता च याज्ञ- वल्क्यऋषेः स्मृतिः। एतान्यष्ट ममेष्टानि सच्छास्त्राणि भव- न्ति हि ॥ इति । भगवत्स्वरूपरूपादिसत्यत्वप्रतिपादकानि भवन्ति सच्छास्राणि । उक्तं च सच्छाखलक्षणं सत्सगिजीवने-'स्थापिते येषु कृष्णस्य साकारत्वविशुद्धते । सच्छास्त्राणि तु तान्येव वेदार्थानुसृतानि हि ॥' 'मूर्तयश्चावताराणां श्रीविष्णोः प्रतिपादिताः । श्रीरामकृष्णमुख्यानां यत्र सच्छास्त्रमेव तत् ॥' इति । अतीन्द्रियेष्वर्थेषु वेदानामेव स्वतः प्रमाणतया स्मृत्यादिमूलतया च त एव सच्छास्त्रष्टाके प्रमाणतमत्वेन प्रथमं परिगणिताः । वेदा- न्ततात्पर्यसिद्धपरमपुरुषसगुणत्वसाकारत्वनिर्णायकतया शारीरक- सूत्राण्यपि अभिमतानि विशेषतः । स्वाभिमतपारमहंसधर्मप्रतिपा- दकत्वाद्भगवद्भक्तिरसपरिपोषकत्वाञ्च पुराणेषु श्रीमद्भागवतमत्यन्ता- भिमतम् । विष्णोर्नामसहस्रकस्य 'यानि नामानि गौणानि' इत्युक्तरीत्या भगवत्कल्याणगुणगणप्रतिपादकत्वेन गुणानुभवपरिक- रतया पाठमात्रेण सकलपुरुपार्थसाधकतया चात्यन्ताभिमसत्त्वम् । महाभारतसारत्वात् वेदान्ततात्पर्यविषयपरमतत्त्वहितस्फुटप्रतिपाद- कत्वाच भगवद्गीताया विशेषतः समाहतता। ब्रह्मनिष्ठविदुरप्रवक्तृ- कतया धर्मपरतया च विदुरनीतेरादरपानता । अक्षरधामाधिपतेः श्रीपुरुषोत्तमस्य याथात्म्यस्य स्फुटप्रतिपादनाद्वासुदेवमाहात्म्येऽत्य- न्ताभिमविः । स्मृतिपु याज्ञवल्क्यस्मृतेब्रह्मविद्ग्रेसरयाज्ञवल्क्य- मर्पिप्रवक्फत्वात् अध्यात्मतत्त्वविचारवाहुल्याचाहतत्वं विशेषत इति योध्यम् ।

प्रकाशे] ७९ शब्दपरिच्छेदः। श्रीहरेबहुमानप्रयोजकस्तत्र तत्र विशेष उपपादितश्च शिक्षापत्री- भाष्ये । यथा-"तत्र वेदानां जानतामजानतां शुभावहत्वं मातृ- वत्प्रियहितपरता चेति विशेषः । निखिलवेदतात्पर्यविपयस्य परस्य ब्रह्मणो निर्णायकत्वं व्याससूत्रे विशेषः । ब्रह्मप्राप्त्युपायभूतभक्ति- प्रकाशनपौष्कल्यं भागवते विशेषः, विशिष्यभागवतधर्माववोधनं घ। भारते विष्णुनामसहस्रस्साय विशेषः सकलपुरुषार्थसम्पादक- स्यादुतमलघुतरोपायत्वम् । भगवन्मुखारविन्दविनिर्गलितत्वं सर्वो- स्कृष्टप्रपत्त्युपायपरता घ गीतायां विशेषः। वक्तवैलक्षण्यं धर्मप- रता चेति विदुरनीती विशेपः । परब्रह्मभूतदेवताविशेपप्रतिपत्ति- सुदेवमाहात्म्ये विशेषः । अध्यात्मविचाराधिक्यं स्मृत्यन्तरतो याज्ञवल्क्यस्मृतेर्विशेषः, स्मर्ता प याज्ञवल्क्यो ब्रह्मविदाम- सरः" इति । महत्यस्मिन्नौद्धवे संप्रदाये प्रमाणपन्थत्वेन स्खेनात्यन्तं मानितानां सच्छात्राणां यथाशक्ति यथाधिकारं च श्रवणादिकमवश्यकर्तव्यत्वेन स्वशिष्यान् प्रत्यादिश्यते श्रीहरिणा तत्रैव-'स्वहितेच्छुभिरेतानि मच्छिष्यैः सकलैरपि। श्रोतव्यान्यथ पाठ्यानि कथनीयानि च द्विजैः ॥ इति । सत्सड्गिजीवने च सच्छास्त्राणामभ्यासस्याऽऽव- श्यकतोक्ता-धर्माधर्मों साध्वसाधू न्यायान्यायौ च तत्त्वतः। कृष्णस्वरूपतद्भक्ती वुद्ध्यन्ते शास्त्रतः सतः ॥ अवश्यमेव कर्तव्यः सच्छास्त्राभ्यास आदरात् । स्वस्वबुद्ध्यनुसारेण भव- निर्मदुपाश्रितः ॥ नैर्गुण्यस्थितिमाप्यापि न सच्छाखाणि सन्त्यजेत् । सगन्धवर्जनासिद्धा अपि जाड्यं व्रजन्ति यत्॥ उत्साहशक्तिभङ्गश्च कृष्णभको ततो भवेत् । बुद्धिमोहश्च 1 मानमेयप्रकाशिकायां, [प्रमाण- शैथिल्यं श्रद्धाया:अपि जायते.॥' इति । तत्रैव सत्सङ्गिशब्द- निर्वचनेऽपि सत्सु.शास्त्रेपु श्रवणपठनादिरूपः सोऽवश्य फरणीय इति प्रतिपाद्यते । तथाहि सत्सङ्गिशब्दो -निरुच्यते-'सच्छब्देन परब्रह्म साधवश्च तदाश्रिताः। मोक्तास्तदीयो धर्मश्च शास्त्र चैतत् त्रिकाश्रयम् । सच्छब्दवाच्यमेतञ्च त्रितयं यत्र वणि: तम् । स्यात्तत्सच्छास्त्रमुदितं सङ्क्षिसं वाऽपि विस्तृतम् ॥ वेदाः श्रीमद्भागवतं नीतिश्च विदुरोदिता । विष्णोर्नामसहस्र च गीता भागवती तथा । शारीरकाख्यसूत्राणि याज्ञव- ल्क्यस्मृतिस्तथा । श्रीवासुदेवमाहात्म्यमिति तज्ज्ञेयंमष्टकम् ॥ येऽनुसृता भवेयुश्च सदन्था एतदष्टकम् । तेऽपि सच्छास्त्र, मित्युक्ता मुमुक्षूणां हितावहाः॥ सतः शास्त्रस्य. समस्तु कृष्णभक्त्यादिपुष्टये । श्रवणं कीर्तनं प्रीत्या पाठनं श्रावणं, तथा ॥ एतेषां हि सतां सङ्गो येपामीहरभवेद्भुवि । सत्स- निनस्ते कथिताः सम्प्रदाय इहौद्धवे ॥' इति । वेदस्य नित्यं सहार्थेनाभ्यसनीयत्वं च प्रतिपाद्यते तत्रैव नैष्ठिकवर्णिधर्मनिरूपण- प्रसङ्गे भगवता -'वेदाभ्यासः प्रकर्तव्यः प्रत्यहं ब्रह्मचारिणा.. नारायणात्मको. वेदो यतः प्रोक्तः सनातनः । माहात्म्याति शयज्ञानं हरेर्वेदार्थवोधनम् । विना नैव भवेत्तस्माञ्चिन्त्यो यस्तस्य चादरात् ॥' इति । सच्छास्त्राष्टके शारीरकसूत्राणां बृहदारण्यकाद्युपनिपदर्थ विचार, रूपत्वम् ,. गीतायाश्योपनिषदर्थोपबृंहणरूपत्वम् । तत्त्वार्थनिरूप: परापराधोपनिषदः । यद्यपि सर्वे वेदाः परमात्मनमेव परमतत्व, भूतं ततदिन्द्रादिदेवतान्तर्यामितया तत्तत्कर्मसमाराध्यतया तत्तत्कः. - , J प्रकाशे] शब्दपरिच्छेदः। मफलप्रदातया च प्रतिपादयन्ति । तथा च श्रुतिः-'सर्वे वेदा यत्पदमामनन्ति' 'सर्वे वेदा यत्रैकं भवन्ति' इति । गीतायां च स्वयमेधोक्तम्-'वेदैश्च सर्वैरहमेव वेद्यः' इति । भागवते च 'नारा- यणपरा वेदाः' 'वासुदेवपरा वेदाः' इति । अथापि साक्षाद्ध- गवत्प्रतिपादकत्वमुपनिषदां विशेषः । उप निषीदन्तीति ह्युपनिपद: समीपे तिष्ठन्ति, साक्षाद्ब्रह्म प्रतिपादयन्तीति यावत् । उपनिपदां च शारीरकसूनभगवद्गीतान्वितानां श्रवणात् ज्ञाननिष्ठोदयः सम्भवती- त्युच्यते हरिवाक्यसुधासिन्धौ-'बृहदारण्यमुख्यानां तथोपनिपदा श्रुतेः । गीताशारीरकादेश्च ज्ञाननिष्ठोदयो भवेत्॥' इति । तन श्रीशारीरकमीमांसायाः श्रीमद्भगवद्गीतायाश्च भगवद्रामानु- जाचार्यकृतभाष्यसहितायाः स्वाभिमतवं भाष्यद्वयस्याप्यध्येवव्यत्वं उभयाध्ययनेऽशक्तस्यापि श्रीभगवदगीताभाष्याध्ययनावश्यकत्वं च वर्णितं भगवता सत्सगिजीवने-'तत्रापि भगवद्गीता तथा शारीरकाणि च । इति रामानुजाचार्यभाष्योपेतं मतं द्वयम् ।। एतदभ्यासतो धुद्धिः कृष्णभक्त्यैव वासिता। भवेत्ततोऽन्य- शास्त्राद्यैर्न पतेदौद्धवाध्वतः॥अशक्तो द्वाविमौ ग्रन्थावध्येतुं यः स सर्वथा । गीतां रामानुजाचार्यभाप्योपेतां पठेन्नरः ॥' इति । शिक्षापत्र्यामप्युक्तं स्वयमेव-'शारीरकाणां भगवी- तायाश्चावगम्यताम् । रामानुजाचार्यकृतं भाष्यमाध्यात्मिक मम ॥' इति । अन टीका-'अन्न स्वाभिमतभगवत्साकारत्वस्य सप्रपञ्चं प्रतिपादितत्वादिदमेवारमध्यात्मज्ञानशास्त्रमिति भवद्भि- रप्येतदध्येतव्यं श्रोतव्यं चेति भावः' इति । अत्र 'भगवतो रामा- नुजमुनेराचार्यान्तनिर्देशात् आत्मीयान् प्रत्याचार्यकोटाववश्यम- मान०प्र०६ मानमेयप्रकाशिकायां [प्रमाण- नुस्मरणीयता व्यज्यते' इति श्रीरघुवीराचार्यविरचितं भाष्यम् । तथा हि हरिवाक्यसुधासिन्धौ भगवता गुरुपरंपरायां सम्प्रदायप्रवर्तकस्य स्वगुरो रामानन्दस्वामिन उद्धवावतारस्य गुरुत्वेन श्रीरामानुजाचार्यों वर्णितः 'सम्प्रदायस्तथाऽभीष्टग्रन्था गृहिसतां वृपाः। इष्टदेव- श्चेति सम्यक् बोध्यं सत्सङ्गिपूरुपैः ॥ तत्राद्यः सम्प्रदायस्तु स्वगुरूणां परम्परा । गुरुस्तत्रादिमो ज्ञेय उद्धवोऽध्वप्रवर्त- नात्॥वोध्यः स रामानन्दो हि कृष्णार्पितगुरुत्वधूः । स्वामि- नस्तस्य च ज्ञेयः साक्षाद्रामानुजो गुरुः ॥ श्रीरङ्गाख्ये महा- क्षेत्रे समाधौ स गुरोस्ततः । प्राप्तवान् वैष्णवी दीक्षां तस्य शिष्यो भवाम्यहम् ॥ मयाऽयोध्याप्रसादे च रघुवीरे सुते स्विका । धर्मवंश्येऽस्ति निहिता गुरुतेति गुरुक्रमः ॥' इति । सत्सङ्गिजीवनादौ विस्तरोऽनुसन्धेयः। अत्रापि सम्प्रदायपरिचये स्फुटीभविष्यति । रामानुजग्रन्थानां सम्मान्यत्वम् । सम्प्रदाये चास्मिन् तत्त्वज्ञानसम्पादनार्थतया श्रीरामानुजाचा- यकृता एव ग्रन्थाः समाहताः । तथाहि रामानन्दस्वामिना श्रीह- रेर्जनकं धर्मदेवं दीक्षयित्वोक्तम्-'जीवमायापरेशानां स्वरूप बोद्धमञ्जसा । रामानुजाचार्यकृता ग्रन्थाः पाठ्यास्त्वयाऽs. दरात्॥ नैपुण्यं लक्ष्मणार्यस्य यतो ज्ञानांशनिर्णये । यथाऽस्ति न तथाऽन्येषां इत्येते सम्मता मम ॥' इति । सोऽपि तथाs- करोदित्युच्यते- 'ग्रन्थान् रामानुजाचार्यकृतान् गुर्वाज्ञया स च । पपाठ गीताभाप्यादीन् पाठयामास चादरात् ॥' इति । श्रीहरि प्रत्यप्यादिष्टं श्रीरामानन्दस्वामिना-'अध्यात्मज्ञानसिद्धय तु प्रकाशे] शब्दपरिच्छेदः। रामानुजकृता मया । ग्रन्थाः संस्थापिताः सन्ति कृष्णोपास- नपोपकाः॥ अतो रूपाणि निश्चेतुं जीवमायापरात्मनाम् । रामानुजाचार्यकृतभाष्यादि त्वं प्रवर्तये॥' इति । श्रीहरिणा च भेदाभेदश्रुतीनामविरोघेनार्थोपन्यासपूर्वकमुक्तम्-'श्रीमद्रामा- नुजाचार्यैरयमर्थः सविस्तरम् । निर्णीतोऽस्ति महाभाप्ये सद्धे- पात्स मयोदितः॥' इति । श्रीभाष्ये च स्वस्यात्यादरः श्रीहरिणा प्रदर्शितः । यथोच्यते-'श्रीभाप्येण सहैवासौ व्याससूत्राणि तत्र च । अपराहेऽन्वहं राजन शुश्राव परया मुदा ॥ रामा- नुजाचार्यकृति प्रशंसंस्तत्कयां हरिः। तिथौ धनत्रयोदश्यां समाप्याऽऽर्चच्च वाचकम् ॥' इति । श्रीरामानुजस्वामिनोऽभि- मता:-जीवमायापरेशानां वास्तविको भेदः, अक्षराधिपतेः श्रीपु- रुपोत्तमस्य दिव्याकारवत्त्वं, दिव्यविभूतिमत्त्वं, दास्यभावेन तस्यो- पासना चेतीमेऽर्थाः भगवता स्वीकृताः। तथा च हरिवाक्यसुधा- सिन्धौ वचनानि-विशिष्टाद्वैतसिद्धान्तो मतो रामानुजेन तु । जीवेशमायाभेदश्च तात्त्विको न तु कल्पितः ॥ आकारो वैभवैश्वर्य दिव्यं भगवतस्तथा। दास्येनोपासना तस्य कार्या जीवैः सदेति च ॥ रामानुजाचार्यमतश्चोपास्यः पुरुषोत्तमः ॥' इति । किं बहुना शिक्षापत्र्यां मुक्तकण्ठं चोकम्-'मतं विशिष्टा- द्वैतं में' इति अस्य च टीकायां शतानन्दमुनिविरचितायाम्- 'द्वैताद्वैत-शुद्धाद्वैत-विशिष्टाद्वैतादीनि मतानि प्रसिद्धानि सन्ति तत्र विशिष्टाद्वैताख्यं श्रीरामानुजाचार्यप्रवर्तितं मतं मे मतमस्तीति ज्ञेयम् । एतेन स्वसम्प्रदायस्य श्रीरामानुजसम्प्रदायमूलकत्वमपि सूचितम्' इति वर्णितम् । किञ्च श्रीहरिणा शिवरामं विप्रं प्रति मानमेयप्रकाशिकायां [प्रमाण- खगुरो रामानन्दस्वामिनो वृत्तकथनावसरे प्रतिपादितम्-'वाह्य श्रीवैष्णवाचार्यलिङ्गं सोपद्रवं ततः। हित्वा शास्त्रानुसारेण नवीनं तदकल्पयत् ।। रामानुजकृतान् ग्रन्थांस्त्वध्यात्मज्ञान- सिद्धये । तानेव रक्षन् भगवद्धर्म प्रावर्तयत्पुनः ॥ इति।। एतेन प्रद्वेपिश्रीवैष्णवलोककृतोपद्रवकारणात् । याह्यलिङ्गमानस्य श्रीरामानुजसम्प्रदायसिद्धस्य सच्छास्त्रानुसारि परिवर्तनं कृतमिति सिद्धयति । अतो निरुक्तवचनानुसाराद्देशकालाद्यनुसारेण बाह्य- चिहेपु अर्ध्वपुण्ड्रादिपु मनाग्भेदेऽपि न सिद्धान्तितार्थतत्वेषु भाग- वते च धर्मे भेद इत्यनुसन्धेयम् । अन्यथा त्वन्यैरप्यनेकैर्वचनैः सह विरोधः प्रसज्येतेति । अत एव 'विशिष्टाद्वैतमतधृत् 'रामा- नुजकृतग्रन्धश्रुतिपाठप्रवर्तकः' इत्यादीनि मगलानि नामानि पठ्यन्ते श्रीहरेः । एतेन श्रीरामानुजसिद्धान्तादन्य एवायं सिद्धान्त: श्रीहरिणा प्रथर्तित इति प्रवादस्य नावसर इति स्थितम् । साम्प्रदायिकग्रन्थविवरणम् । भगवदादेशरूपा शिक्षापत्री, भगवद्दिव्यलीलाचरितादिप्रति- पादकं सत्सगिजीवनं, नानाशास्त्रार्थसारगर्भभगवहिव्यसूक्त्यमृत- मयो हरिवाक्यसुधासिन्धुरितीमे ग्रन्थाः प्रमाणतमतयोपादेयाः सम्प्रदायेऽस्मिन् । यत इमे स्वयमेव सम्पादिता भगवता । एतेपा प वेदादिसच्छास्त्रसारार्थप्रतिपादकतया प्रामाण्यमनपायम् । शिक्षापयास्तावत् वेदादिसच्छास्त्रसाररूपत्वमुक्तं तत्रैव- "सच्छास्त्राणां समुद्धृत्य सर्वेषां सारमात्मना । पत्रीय लिखिता नृणामभीष्टफलदायिनी ॥' इति । सत्सङ्गिजीवने चोक्तम्- *सच्छास्त्राणां स सर्वेषां सारमाकृप्य सद्धिया । लिलेख . प्रकाशे] शब्दपरिच्छेदः।- पत्रिका स्वामी सद्धर्म स्थापयन्भुवि ॥ इति । इयं च शिक्षा- पत्री महाभारतसारभूता गीतोपनिपदिव सत्सगिजीवनाख्यमहा- शास्त्रसाररूपा वेद्योपादेयपरिहरणीयविवेफस्फुटप्रतिपादिका सक- लजनोपसेव्या नाम । सत्सगिजीवनं च महाभारतादिवद्धर्मज्ञानवैराग्यभच्यादिप्रति- पादकं शतानन्दमहर्पिप्रणीतं सच्छाखानुसारित्वात्प्रमाणमेव । तथा च वचनम्-'वेदशास्त्रपुराणानां साररूपं परम्' इति । सच्छा- स्रसिद्धान्ततत्त्वापयोधकत्वं च तत्रैव व्यक्तम्-'धर्मज्ञानविरक्तीनां भक्तश्चावगमाय च । ग्रन्थं कर्ता शतानन्दो मच्चरित्रो- पबृंहितम् ॥ सिद्धान्तं सर्वशास्त्राणां तेन ज्ञास्यन्ति म- च्छ्रिताः॥ इति । फर्ता च शतानन्दो 'वेदशास्त्रपुराणज्ञः पञ्चरात्रार्थको- विदः' इत्यादिना सर्वशास्त्रार्थज्ञानीति विशेष्यते । किञ्च चतुर्मु- खेन महाल्मीकेर्यथाऽनुग्रहो विहितः रहस्यं वा प्रकटरूपं वा यद्यद्रामचन्द्रस्य चरितं तत्सर्वं धर्मवीर्येण त्वं द्रक्ष्यसि, येन तथ- रित्रवर्णने त्वदीये न काप्यन्यथाशङ्काया अवसरो भवेदिति, एवं श्रीहरिणैव स्वीयानि दिव्यलीलामानुपचेष्टितानि वर्णयितुमुत्सुफस्य शतानन्दमुनेरनुप्रहो विहित:-'यथाश्रुतं यथादृष्टं चरितं मम वर्णय । ज्ञानं त्रैकालिकं बुद्धौ भवत्येव तवानघ ॥ मनःस्था- नप्यभिप्रायान् सर्वेषां वेत्स्यसि ध्रुवम् । न ते स्वविदितं किञ्चिद्भविताऽतिप्रियोऽसि मे ॥ इति । अतो वक्तुराप्ततमत्वान्न तत्कृते शाखेऽस्मिन् कुत्रचितिशकाया अवसरः ।

मानमेयप्रकाशिकायां [प्रमाण- हरिवाक्यसुधासिन्धुग्रन्थोऽपि तेनैव मुनिना विरचितः सर्वस. च्छास्त्राविरद्धस्तदभिमतार्थप्रतिपादक एव। 'सच्छास्त्रैः सम्मितानि च' 'सच्छास्त्रैः सम्मानितः' इत्यस्य विशेपितत्वात् । तत्रैव तन तत्र शास्त्रप्रमाणैरेव निर्धार्यायमर्थ उच्यते न स्वबुद्धिमाजकल्पनयेति श्रीहरिणव प्रतिपादितत्वाच । यथा 'मया मतानामष्टानांसच्छा- स्त्राणामपि स्फुटम् । अयमेवाशयोऽस्तीति बुद्धिमद्भिर्विभा- व्यताम् ॥' इति । अतो वेदादितात्पर्यानुसार्येव सिद्धान्तः श्रीहरिणा प्रवर्तितः न स्वतत्र इति सुस्थिरमेतत् । 'सच्छास्त्रव्यसन' 'निगमाद्यष्टसच्छास्त्रातिरुचिः' 'सच्छास्त्रानुगतप्रज्ञः' 'सर्व- सच्छास्त्ररसदोहनः' इत्यादीनि श्रीहरेर्मगलानि नामानि चामुम- र्थमुपोद्वलयन्ति । तदेवं वेदादीनां तदविरुद्धतत्तापर्यविपयार्थप्रति- पादकानां सत्सगिजीवनादिसाम्प्रदायिकग्रन्थानामपि प्रामाण्यम- क्षतम् । भगवता स्वयमेव् सम्पादितेभ्यो मूलभूतेभ्यो ग्रन्थेभ्यो विरुद्धार्थप्रतिपादकास्तदनभिमतविविधविचिनार्थकल्पनामयाः पा- श्चात्या निबन्धास्त्वप्रमाणमेव विरोधाधिकरणन्यायेन । अविरुद्धा- र्थप्रतिपादकास्तु भगवदभिमतार्थविवरणपराः पाश्चात्या अपि प्रवन्धाः प्रमाणभूता एवेति ध्येयम् ॥ वेदादिसच्छास्त्रगणं च मूलं प्रवन्धजातं परिपोपकं च । रामानुजाचार्यकृतं स मेने स्वसम्प्रदायस्य हरिस्तु साक्षात् ॥ अतो विशिष्टैक्यमतावलम्बि वेदादिसारार्थमयं निवद्धम् । प्रवन्धजातं हरिसम्मतं च प्रमाणमेवेति विभावनीयम् ॥ इति शब्दपरिच्छेदः।

८७
प्रकाशे]
शब्दपरिच्छेदः।
प्रत्यक्षमनुमानं च शब्दश्चेति समासतः ।
प्रमाणं त्रिविधं मेयसिद्ध्यमिह चर्णितम् ॥
यन्यायपरिशुद्ध्यादौ विस्तरेण प्रपञ्चितम् ।
प्रायस्तदत्र सद्धेपाद्वर्णितं सुग्रहाय तु ॥
प्रत्यक्षमेकं चार्वाकाः प्रमाणमभिमेनिरे ।
नैतावता लोकयात्रा नियूंढा सकला भवेत् ।।
अज्ञातमर्थजातं हि बुट्वाऽऽप्रोक्तवचस्ततेः ।
असंशयं प्रवृत्तश्च लभतेऽर्थ यथोदितम् ॥
न हि वाक्यात्संशयात्मा बोधो भवति शृण्वतः ।
अतः संशयमूलैच प्रवृत्तिरिति दुर्भणम् ॥
अज्ञातार्थज्ञापकत्वाच्छब्दस्येत्थं प्रमाणता ।
एवमेवानुमानस्य प्रामाण्यमपि सुस्थितम् ॥
ततोऽपि भूयसी लोके साध्यस्य प्रमितेः खलु ।
अविसंवादिनी चैव प्रवृत्तिः परिदृश्यते ॥
गुरोर्ज्ञानानुमानाद्धि शिष्यस्तमुपसर्पति ।
वदान्यत्वानुमानाच्च प्रभुं लोकोऽनुधावति ॥
न साध्यसम्भावनया प्रवृत्तिरिति युज्यते ।
अदृष्टेर्नास्तिता ह्येव निश्चीयेत भवन्मते ॥
यावयाप्यस्य लिङ्गस्य पक्षे न ग्रहणं भवेत् ।
तावत्सामान्यधर्मस्य ज्ञानात्स्यात्संशयः पुनः॥
व्याप्यस्य पक्षे सद्भावो यदा स्यात्तु वित्तिश्चितः।
साध्यनिर्णयरूपा तु स्यादेवानुमितिस्तदा ।

मानमेयप्रकाशिकायां। [प्रमाण- न चानुमानं लिङ्गस्य दर्शनाल्लिशिनः स्मृतिः। पक्षसम्बन्धवत्ताया अपूर्वाया ग्रहो यतः ॥ एवं पदार्थसंसर्गरूपापूर्वार्थनिर्णयात् । शब्दस्यापि प्रमाणत्वं ज्ञायमानस्य सम्भवेत् ॥ न चैवमनुमानत्वं शब्दस्य स्यात्तु लिङ्गवत् । ज्ञायमानतयाऽपूर्ववाक्यार्थस्य प्रमापणात् ।। लिङ्गे ज्ञापकतार्थ हि सम्बन्धान्तरमिप्यते । अविनाभावघटकं शब्दे नैवमपेक्ष्यते ॥ किन्तु वोधकतैवास्य स्वभावः परिकल्पितः । किञ्चानुमानसामग्री व्याप्त्यादिज्ञानगर्भिता ।। अन्या तु शाब्दसामग्री योग्यताध्यादिगर्भिता । तस्मात्पृथक्प्रमाणत्वं शब्दस्येति तु साम्प्रतम् ।। अतः प्रमाणत्रितयं माननीयं मनीपिभिः। लोकयात्रोपयोगित्वादिति विस्तरतस्त्वलम् ॥ इति मानमेयमकाशिकायां प्रमाणप्रकाशः।

प्रमेयप्रकरणम् . . प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । यस्याववोधनार्थानि प्रमेयं तत् प्रचक्ष्महे ।। प्रमेयलक्षणं तद्विभागश्च । प्रकृष्टा मितिः प्रमा । प्रकर्पश्च मिती याथार्थ्यलक्षणः । तथा- विधमिति विषयः पदार्थः प्रमेयं सत् वस्तु इति चोच्यते । सविशे- पमेव तु सर्व वस्तु । इदमित्थमिति प्रतीतेः। ननु स्यान्नाम धर्मण धर्मी सविशेपः, धर्मस्तु कथम् ' धर्मान्तरेण तस्यापि सविशेषत्वे- ऽभ्युपगम्यमाने घनवस्था स्यात् । मैवम् । धर्मेण धर्मी सविशेपो धर्मिणा च धर्मः। विशेपो हि व्यावर्तकः । यथा शुल्लादिरूपं स्वाश्रयं पीताद्याश्रयतो व्यावर्तयति, एवं धर्म्यपि घटादिः स्व- त्तिरूपादिकमन्यनिष्ठाद्रूपादेयावर्तयतीति । तदिदं द्विविध प्रमेयं द्रव्यमद्रव्यं चेति । प्रमेयविभागपरिशीलनम् । भावाभावभेदतोऽस्य द्वैविध्यमाहुर्वैशेपिकाः । सन्न सम्यक् । अभावस्य भावान्तररूपत्वात् । समर्थितं चैतत्सूत्रकृतैव-'असन्य- पदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेपायुक्तेः शब्दान्तराच' इति । स्थूलत्वविरोधिसूक्ष्मत्वलक्षणधर्मान्तरण जगतोऽसत्त्वव्य- पदेशो वाक्यशेपादिवलादित्यर्थः। यदपि भावस्य पोढा विमजनं द्रव्यगुणकर्मसामान्यविशेप- समवायभेदात्, तदपि समवायदूपणेनैव दूपितप्रायम् । तथा च सूत्रं-'समवायाभ्युपगमाच साम्यादनवस्थितेः' इति । अयु- मानमेयप्रकाशिकायां [प्रमेय- तसिद्धानां धर्माणां विशिष्टवुद्धिनियामकतया हि समवायः सम्बन्धः कल्प्यते, तस्यापि तथात्वात् तद्विशिष्टबुद्धिनियामक- तया सम्पन्धान्तरं कल्प्यमियनवस्था स्यादित्यर्थः । अथ चेन्मनुषे पृथक्सिद्धानामेव विशिष्टयुद्धेनिहाय सम्बन्धान्तरापेक्षा न तु अपृथक्सिद्धस्य समवायस्य, अस्य तु स्वरूपमेव सम्बन्धो भवि. प्यतीति । यद्येवं, वर्हि व्यर्थी समवायकल्पना । रूपादीनामेवा- पृथक्सिद्धविशेपाणां तुल्यन्यायेन विशिष्टबुद्धिनियामकत्वोपपत्तेः । नहि निपुणं निरूपणेऽपि शुक्लो घट इत्यादौ विशेपणस्वरूपातिरिक्त- सम्बन्धप्रतीतिः । किञ्च समवायाख्यं चेद्गुणगुण्यादीनां सम्ब- न्धान्तरं कल्प्यते तर्हि विपयविपयिणोरपि स्वरूपापेक्षयाऽतिरिक्त विषयत्वविपयित्वादिकल्पनीयं प्रसज्यते न्यायसाम्यात् । उक्तं च तत्त्वमुक्ताकलापे-'वन्धं नाध्यक्षयामः समधिकमपृथक्सिद्ध- योस्तत्स्वरूपात् कल्प्ये तस्यातिरेके तदुपरि च तथेत्यप्रकम्प्या- ऽनवस्था । ताभ्यामेपः स्वभावात् घटित इति कृता भक्ति- रस्त्वेतयोस्ते नो चेज्ज्ञानादिकानां विषयविपयिताद्यापते- दन्यदेवम् ॥ इति । अनवस्थापादकं समवायं दूषयतः सूत्रकृतस्तादृशविशेषाद्यभ्यु- पगमेऽपि दूपणमभिप्रेतम् । तथाहि-नित्यद्रव्याणां मिथो व्यावर्त- कतया हि विशेषाः कल्प्यन्ते, तेषां मिथो व्यावृत्तये च विशेषान्त- राणि स्वीकरणीयानि, तेषां च तथेसनवस्था तवस्था। यदि विशे- पाणां स्वतो व्यावृत्तत्वस्वभावः कल्प्यते, ताश्रयाणामेव तथा स्वभावः किं न कल्प्येत 'धर्मिकल्पनातो परं धर्मकल्पने ति हि नीतिविदः । भवदभिमतैः पृथक्त्वैरेव वा व्यावृत्तबुद्धिः सेत्स्य- । प्रकाशे] जडपरिच्छेदः। तीति विशेषकल्पना निर्विशेषा । पृथक्त्वत्वलक्षणकजातिकोडीकृत- त्वेन तेपां न व्यावर्तकत्वमिति चेत् तुल्यमव्यावर्तकत्वं विशेषाणा- मपि प्रसन्यते, विशेपत्वलक्षणकोपाधिक्रोडीकृतत्वात् । वस्तुतो जातिगुणावस्थादिभिरेय पदार्थानां मिथो व्यावृत्तिः सेत्स्यति यथा- यथमिति व्यर्थो विशेषः । किच-येषां नित्यद्रव्याणां व्यावर्तनाय विशेपाः कल्प्यन्ते कानि वानि । न तावत्परमाणवः । सर्वेपां भूतादीनां प्रकृतिकार्यत्वेन जगदुपादानभूतानां तेषामसिद्धेः । पृथिव्यादिसूक्ष्मांशभूतानां च नित्यद्रव्यत्वाभावात् । नाप्याकाशकालदिगात्ममनांसि । तत्राकाशं तावन्न नित्यम् । कार्यस्य च स्वकारणभेदादेव व्यावृत्तिसिद्धिः । नित्यत्वेऽमि खासाधारणधर्मादेव तथा च । न तस्यावान्तरभेदः येन मिथो व्यावर्तनाय विशेष आवश्यको भवेत् । नापि दिगिति विभु तत्त्वान्तरम् । तत्तद्दिगुपाधीनां उदयाचलास्ताचलसुमेरुसन्नि- धिव्यवधानजुपां मूर्तानामेव प्राच्यादिव्यवहारनियामकत्वात् । अस्तु या तत्तदुपाध्यवच्छिन्नमाकाशमेव प्राच्यादि, तस्स भेदो भवत्युपाधिभेदात् । उपाधीनां तु देशादिभेदादिति न विशेपा- पेक्षा । कालस्तु क्षणलवाद्यात्मनैव प्रतीयते नतु स्वात्मना । येना- कारेण प्रतीयते तेन च मिथो व्यावृत्तिः सिद्धव । यश्चैकोऽनादि- रनन्तः सर्वकार्यसहकारी महाकालः, सोऽपि स्वासाधारणरूपेणै- वेतरेभ्यो व्यावृत्त इति किं विशेषेण । यश्चात्मा जीवपरभेदभिन्न- सन जीवपरयोरीशत्वानीशत्वादिभिर्व्यावृत्तिः सिद्धा । ये जीया- स्तेऽपि सुखदुःसादिवैचित्र्यादेव, मिथो व्यावृत्ताः । ये पुनर्मुक्ता नित्याच तेऽपि अपहतपाप्मत्वादिना समा अपि भगवत्सेवासकल्प- ९२ मानमेयप्रकाशिकायां [प्रमेय भेदादिना मिथो व्यावृत्ता एवेति ,नात्मव्यावर्तनायापि विशेष आवश्यकः । मनसां त्वनित्यत्वमेव । तेपां च पुरुषभेदात्कार्यभेदाच मिथो व्यावृत्तिः सिद्धेवेति न विशेषकल्पनायाः प्रयोजनं किञ्चित् । किच-विशेषाणामतीन्द्रियत्येन न वैरस्माकं व्यावृत्तबुद्धिः संभवति । योगिनां तु योगजधर्मात्तत्तद्वस्त्वसाधारणाकारज्ञाना- देव व्यावृत्तिबुद्धिः सम्भवतीति न विशेषतः साध्या सा । ईश्वरीयं ज्ञानं तु नित्यं व्यावृत्तविषयं विश्वगोचरं न विशेषा निर्वर्तयिष्य- न्तीति कृतं विशेपैः । तथा चोक्तं तत्त्वमुक्ताकलापे-'नास्मदृश्या विशेपा प्रणिहितमनसां तद्धियां कोपयोगः तत्तद्वस्तुप्रकाशः सुलभ इह पुनर्भिन्नधीरस्तु मा वा। विश्वस्रष्टुर्विशिष्टप्रमि- तिमिह न ते कुर्वते नित्यसिद्धां तस्मात्तत्सित्यसिद्ध्योर्न फल- मनुमया नागमोऽप्यत्र तादृक् ॥' इति । अथ जातिरिति यत्पदार्थान्तरमभ्युपगम्यते तदपि न विचार- सहम् । गोत्वं नाम न किञ्चित्संस्थानतोऽतिरिक्तमनुगतव्यवहा. रस्य कारणमुपलभ्यते । नापि कल्प्यं तद्नुरोधात् । संस्थानसौ- सादृश्यादेव गौगौरित्यनुगतव्यवहारस्योपपत्तेः। यद्यपि सानादि- सस्थानं प्रतिव्यक्ति मिन्नम्, अथाप्येकव्यक्तिनिष्ठस्य तस्य व्यत्य- न्तरनिष्टस्तै: सप्रतियोगिफत्वस्वमायतेप्यते, इदमेव सोसादृश्यं नाम । एवं संस्थानान्येव मियः समतियोगिकत्वस्वमायानि तजा- तीपत्पव्ययहारमनुगतव्यवहारं च प्रयोजयन्ति इति नातिरि- हाया जातेरपसरः । सानादेः सानादिभिरेव सप्रतियोगि- फत्यम्पमायः सोसारश्यरूपः, न फेसरादिभिरिति नियमस्तूप- सस्थिव्यवस्थाप्या । स्वभावो नाम प्रामाणिकसरूपमेय । यद्यया ।

प्रकाशे] जडपरिच्छेदः।. प्रतीयते तत्तथैव स्वीक्रियतेऽसति वाधक इति हि नीतिविदः। यथा- ऽग्नेरौप्ण्यं जलस्य शैयमित्यादिधर्मनियमः, - घटाभावस्यैव घट- प्रतियोगिकत्वं न पटामावस्येति निषेध्यनिषेधनियमः, सामादि- कमेव गोत्वव्यञ्जकं कम्बुग्रीवादिकमेव च घटत्वव्यञ्जकत्वमिति ' व्यङ्ग्यव्यञ्जकनियमश्चोपलब्धिव्यवस्थाप्यस्तद्वत् । किञ्च-अति- रिक्तजातिवादिभिरपि संस्थानसौसादृश्यादेव . मृत्सुवर्णघटेपु घट इत्यनुगतप्रनीतिनिर्वाहा । न हि एका घटत्वजातिस्तपु, मृत्त्वा- दिना सायप्रसङ्गात् । किञ्च-अनुगतप्रतीतेरनुगतजातिसाधकत्वे मूर्त मूर्तमित्याद्यनुगतप्रतीत्या मूर्तत्वादिकमपि जातिर्भवेत् । सा चेत्सादृश्यमूला, अन्यत्रापि तथैव किन्न स्यात् । ननु-स्यादेवं ससंस्थानेषु, असंस्थानेषु कथम् ? उच्यते-तेपां तु स्वरूपमेव.मिथः सप्रतियोगिकत्वस्वभावमनुगतप्रतीतेर्नियामकम् । यथा जाति तिरिलनुगतप्रतीतिः सौसादृश्यमूला, एवं रूपं रूप- मित्याद्यनुगतप्रतीतिरपि । तदिदं मिथः सप्रतियोगिकत्वस्वभावं स्वरूपमेय संस्थानं तेपाम् । तथा च श्रीभाष्यम्-'संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसन्धेयम्' इति । संस्थानस्य स्वासाधारणरूपत्वात् वत्तद्वस्तुपु यथायथं स्वरूपातिरिक्त- मनतिरिकं वा संस्थानमभ्युपगन्तव्यमित्यर्थः । तत्र रूपस्य रूपा- न्तरं प्रयेव सप्रतियोगिकत्वखभावः सौसादृश्यमिति नियमस्तुप- लब्धिव्यवस्थाप्य एव । रुपस्यैव रूपत्वजात्याधारता न रसाढ़े. रित्यादिर्यथा । अतः संस्थानानतिरिव जातिः। किञ्च-अनुगतप्रतीत्याऽतिरिका जातिश्चेत्कल्प्यते, तर्हि जाति- प्वप्यनुगवप्रतीत्या जात्यन्तरं कल्पनीयं स्यात् । एवं तजातितदा- [प्रमेय- मानमेयमकाशिकायां अयजातियु पुनर्जायन्तरं कल्पनीयं सादिसनवस्था । जातिष्वनु- वृत्तप्रतीतिश्वेत्सौसादृश्यरूपादुपाः, तर्हि व्यक्तिष्वेव तथा किन स्यात् । वदिवमुक्तं तत्त्वमुक्ताकलापे-'युज्येतोपाधितश्चेदनुगत- धिपणा तत्र नेष्टान्यक्लप्तिस्तस्मात्सवातवर्गेष्ववयवरचनाभेद- तोऽन्यन सिद्धयेत् । सौसादृश्यात्तु जातिव्यवहतिनियमस्तेन नातिप्रसक्तिों चेन्मूर्तत्वमुख्यस्त्वदभिमतनयायज्यतां जा- तिरन्या ॥ गन्धादौ सन्निवेशो नहि भवति न च द्रव्यभेदे निरंशे तस्माजात्यानुवृत्तव्यवहृतिरिति चेदुक्ततुल्योत्तरं तत् । तत्तद्वस्तुस्वभावादरत इह मिथः सप्रतिद्वन्द्विकत्वं तज्जा- त्याधारतादेरपि तब नियतिस्तत्र न हन्यतः स्यात् ।।' इति । किञ्च-पराभिमता जाविरनुपपन्नतेकवेषा। तथाहि-जाति- रेका प्रतिव्यक्ति परिपूर्णव वर्तते । अपूर्वमिदमैश्वर्य जाते. को वेद तत्त्ववित् ॥ नष्टाश्रया सा प्रलये गगने हन्त सीदति। प्राप्याश्रयमसहयेयं सर्गे सा हन्त हृप्यति ॥ नापयाति न घायाति निष्क्रियाऽधापि साऽन्वहम् । अपसर्पति नटेश्य उत्पन्नानुपसर्पति । अयं हि महिमा जातेरन्यैरनुपलक्षितः । आक्षपादादिभिर्दष्टस्तगोट्यामेव शोभताम् ॥ अयं च जाति- बादो भगवतो बादरायणस्थानभिमतः । आरम्भणाधिकरणे हि एकस्यैव द्रव्यस्थावस्थाद्वयान्चयेनोपादानोपादेयभावात्कार्यकारणयो- रनन्यत्यं समर्थिवम् ! न १ पूर्वमसतो घटजातीयस्य कार्यस्पो- पत्तात्रयुपगम्यमानायामनन्यता घटेतेति । यत्तु-कर्म तत्प्रत्यक्षेणैव गृह्यते घटतीवि नापहवाहम् । निपुर्ण निरूपणे तु तत् देशविगागपूर्षकोचरदेशमा तिरिच्यते । गमने प्रकाशे] जडपरिच्छेदः। हत्तरोत्तरदेशप्राप्तिमात्रमध्यक्ष्यते । अतः कर्महेतुत्वेनाभिमतया सामग्र्या तत्फलस्यैव जननमिति युक्तम् । न च विभागपूर्वकसंयो- गस्यैव कर्मत्वे यावत्संयोगसत्तं चलतीति प्रत्ययापत्तिरिति वाच्यम्, वदुत्पत्तरेव कर्मरूपत्वात् , आद्यक्षणावच्छिन्नस्यैव तस्य चलतीति प्रत्ययविपयत्वोपगमाच्च । निरन्तरोत्तरदेशसंयोगसन्तान एव च चलतीति प्रत्यक्षव्यवहारौ स्वारसिकौ । तारकादौ तादृशसन्तानस्या- नुपलम्भाच न चलतीत्यध्यक्षम् । प्रवहति जले जलाकाशप्रदेश- विशेषाणां विभागसंयोगसन्ताननरन्तयेऽपि जल एव चलतीति व्यवहारो न गगन इति व्यवहारनियमस्तु विभागपूर्वकसंयोगस्यो- पलम्भानुसारतः कचिदेव चलव्यवहारनियामकत्वमन्यत्र संयुक्त- व्यवहारनियामकत्वमेवेति प्रतिनियतस्वभावत्वकल्पनातो निरूह्यते । यद्वा गगनजलयोरचलत्व-चलत्वप्रतीसा विभागपूर्षकसंयोग- सन्तानहेतुभूतं कर्मास्त्वतिरिक्तम् । तत्तु योग्यवृत्ति चेद्योग्यमेव । सूर्यादिगतिस्तु दूरत्वादेव न गृह्यते । यत्तु आदित्यगतिवत्कर्मसा- मान्यमतीन्द्रियमनुमेयमिति, तन्न । अतीन्द्रियत्वे व्याप्तिग्रह्णस्यैव दौलभ्यत्वात् । किञ्च अनुमेयत्वे कर्मणो मेषयोर्मल्लयो सन्निपात- स्योभयकर्मजत्वात्पर्वतश्येनसंयोगस्यापि उभयकर्मजत्वमनुमीयेत । पर्वतस्याचलत्वात्प्रत्यक्षवाधितं चेदनुमानं, आयातं कर्मणः प्रत्यक्ष- त्वेन । चलाचलविभागस्य प्रत्यक्षव्यवस्थाप्यत्वादिति । उकं च तत्त्वमुक्ताकलापे-'केचिद्देशान्तराते निमभिदधते कर्म या कर्मजेष्टा नेत्येकेऽम्भःप्रवाहस्थिरवपुषि झपे तत्प्रतीतेरभा- वात् । खादी स्रोतम्प्रदेशान्तरयुतिरुदके खादिदेशान्तराप्ति- स्तुल्या तल्ौल्यवृष्टिः पयसि तदधिकं कर्म नालम्बते चेत् ॥ । ..

मानमेयप्रकाशिकायां [प्रमेय कर्मत्वान्नाक्षयोग्यं विमतमिति यदि व्याप्तिशून्यं तदेतत् योग्यत्वेऽपि ह्यदृष्टिः सहकृदपगमादर्यमादिक्रियाणाम् । नो चेत्कमैव न स्यात्फलमपि हि भवेत्कर्महेतोस्त्वदिष्टात् द्विष्ट- त्यादौ फलस्य द्वितयमपि भवेत्कर्मवत्सर्वदा वः ॥' इति । अतिरिक्तमपि कर्माऽद्रव्यत्वेन क्रोडीकृतं भवतीति न पृथग्विभज- नारसरः । द्रव्यं गुण इति विभागस्तु न युक्तः । अपृथक्सिद्धवि- शेपणमानस्य गुणशब्दार्थतया प्रभाज्ञानादेव्यस्यापि गुणत्वात् । पराभिमतगुणत्वजातेश्चाप्रामाणिकत्वात् । अतो निरुक्त एव द्रव्या- द्रव्य विभागः साधीयान् । धर्मधर्मिभेदः। ' ननु द्रव्याद्रव्यभेदाद्विभागो नोपपद्यते । इदं रूपमयं रूपीत्यस्ति नैव विविक्तधीः॥पञ्चानां चक्षुरादीनामर्थाः रूपा- दयः क्रमात् । तेपूपक्षीणशकीनां द्रव्यग्राहकता कथम् ॥ न चान्यदिन्द्रियं पठं द्रव्यासाधारणं भवेत् । न पृथिव्यादि- रूपादिसद्दातादतिरिच्यते ॥ गन्धरूपरसस्पर्शसङ्घातः पृथिनी खलु । रूपादित्रयसहातात्सलिलं नातिरिच्यते ॥ रूपस्पर्श- द्विकं तेजः स्पर्शशब्दद्विकं मरुत् । ननु रूपं रूपिणोऽन्यत् यजपासुमसन्निधौ ॥ नैवोपल- भ्यते शुहं स्फटिक तूपलभ्यते । कापायरञ्जितं चासो रक्तत्वे. नोपलभ्यते ॥ तद्रूपानुपलम्भेऽपि तद्न्यस्योपलम्भतः । रुपरूपिविभेदोऽयमपहोतुं न शक्यते ॥ ननु यत्स्फाटिक शुलं अनन्यत्स्फाटिकातु तत् । रूपा न्तरात्मना भाति द्रव्यं नान्यस्य रूपतः ॥ . TH प्रकाशे] "जडपरिच्छेदः।। चीजस्य तत्पूर्वतनवीजाद आवश्यकः । एवं तत्तत्पूर्वतनवीजस्य तत्तत्पूर्ववनादिति क्षणिकत्वसिद्धिरित्यपास्तम् । स्थिरस्यैव समर्थ- स्यापि सहकारिसमवधानासमवधानाभ्यां कदाचित्कार्यारम्भकत्व- सम्भवात् । समवधानासमवधानयोश्च तत्तत्सामग्र्येव नियामिकेति न योगपद्यम् । एवमविरोधानभ्युपगमे तु देशभेदेन करणाकर- णयोः क्षणस्यापि क्षोदः प्रसज्येत । एतेन क्षणोपाधिदृष्टान्तेन मेय- त्वादिना सर्वस्य क्षणिकत्वानुमानमित्यप्यपास्तम् । स्थिरस्यैव स्थिरा न्तरविशेपितस्य क्षणोपाधित्वसम्भवात् । यथा स्वजन्यविभागप्रा- गभावावच्छिन्नं कर्माद्यक्षणोपाधिरिति । एवं क्षणिकत्वे प्रमाणाभा- वादाधितप्रत्यभिज्ञायलाच वस्तुनः स्थिरत्वं सिद्धम् । किञ्च- भ्रान्तिरूपा वा प्रत्यभिज्ञा ज्ञातुः स्थैर्यमन्तरा नोपपद्यत इत्यनुपपन्न सर्पस्य क्षणिकत्वम् । वर्णितं चैतत्सर्व तत्त्वमुक्ताकलापे-"वस्तुस्थैर्य विरुद्धानुपहितविपया साधयेत्प्रत्यभिज्ञा नैकस्मिन् शक्त्य- शक्ती कृतितदितरयोः सा ह्यभेदेन सिद्धेः। एकस्मिन् काल- भेदाभवति च सहकार्यन्वयानन्वयादिनॊचेन्नो देशभेदादपि सुपरिहरस्तेन नैक क्वचित्स्यात् ॥ तत्त्वेदन्त्वे हि कालान्तर- घटनमये नैककाले घटेतां कालद्वैतेऽनवस्थाद्यत इह न मितिः प्रत्यभिज्ञेति चेन्न । स्वस्य स्वाभावकाले विहितनियम- नात्स्वेन चात्रककाल्या काले कालानपेक्षे कथमपि सुवची नानवस्थाविरोधौ ॥ प्रत्यक्षं वर्तमानं प्रथयति यदिहावर्त- मानाद्विभक्तं तस्मात्तेनैव सिद्धं क्षणिकमिति न सत्तावदित्य- प्रतीतेः । तत्कालासत्त्वमेव ह्यपनयति सतो वर्तमानत्वबोधः कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसङ्गाना" इत्यादिनेत्यास्त्रां चावत्।

मानमेयप्रकाशिकायां । प्रमेय लसम्बन्धिनो व्यावृत्तमवगमयत् क्षणिकत्वे भानम् । मैवम् । ततोऽवर्तमानव्याधुतिमात्रस्य सिद्धेः । 'पर्वमानस्यैव पूर्वोत्तरक्षण- सम्बन्धेऽविरोधात् । न च स्वापेक्षया पूर्वोत्तरक्षणसम्बन्धः स्वस्थ 'विरुद्ध इति वाच्यम् । न ब्रूमः स्वापेक्षयैव पूर्वोत्तरक्षणसम्बन्ध वस्तुनः । किं तर्हि, नानाक्षणसम्बन्धः सम्भवतीत्येव । ननु स्यादेवं यदि नानाक्षणसम्बन्धे प्रमाणं स्यात् । अत्त्येवेति झूमः । सोऽयं घुट इत्यादिप्रत्यभिज्ञा दि पूर्वतनवर्तमानक्षणसम्बन्धिनमेकमर्थम- वंगमयति । नन्वियं भ्रान्तिः सेयं दीपज्यालेविवत् । मैवम् । स्यान्नाम भेदे प्रामाणिके सादृश्यदोपमूला भ्रान्तिरिति । यथा दीप- शिसायाम् । तत्र हि पर्यवयवतैलाग्निसंयोगलक्षणसामग्रीसन्तत्या 'मिन्नभिन्नदीपशिसासन्ततिरुपजायते। न चैवं प्रतिक्षणं घरादेशप- त्तिविनाशकारणमुपलभ्यते । येन क्षणिकत्वमध्यवस्येम । प्रत्यभिज्ञां वा सादृश्यमूलामुपपादयेम । दीपशिखाया अपि द्वित्रिक्षणावस्था- यित्यसम्भव इति न क्षणिकत्वम् । न.च जातस्य मृत्युप्रौव्याद- हेतुक एव विनाशः स्यात्प्रतिक्षणमिति वाच्यम् । भुषभाविनोऽपि पटादेविनाशस्य मुद्गरामिधातादिनिमित्तसापेक्षताया दर्शनादिति । ननु-माऽस्तु क्षणिक्ये प्रत्यक्षम् । यत्सत्तक्षणिकं यथा घट इत्यनुमानादेवास्तु क्षणिरत्यसिद्धिरिति चेन्न । घटस्य क्षणिकत्वा- सिद्धेः । न प मास्त्पन्वयदृष्टान्तः, शशशृङ्गादिख स्यापतिरेक- रसान्त इति वाच्यम् । तुल्यनयेनालीकेन व्यतिरेकदृष्टान्तेन स्थिर त्यम्यापि सापनसम्भयात् । फिश अर्यक्रियाकारित्वलक्षणं सत्त्वं स्थिरस्वैय सम्मवेदिति न वेन क्षगिफत्वसाधनसम्भवः । एतेन- पिरत्वे कार्यकरणाफरणलक्षणविरुद्धधर्माच्यासप्रसङ्गेनाकुरजनक प्रकाश] ' 'जडपरिच्छेदः॥ बीजस्य वत्पूर्वतनवीजीनेद आवश्यकः। एवं तत्तत्पूर्वतनवीजस्य तत्तत्पूर्वतनादिति क्षणिकत्वसिद्धिरित्यपास्तम् । 'स्थिरस्यैव समर्थ- स्यापि सहकारिसमवधानासमवधानाभ्यां कंदाचित्कार्यारम्भकत्व- सम्भवात् । समवधानासमवधानयोश्च तत्तत्सामग्र्येव नियामिकेति न योगपद्यम् । एवमविरोधानभ्युपगमे तु देशभेदेन करणाकर- णयोः क्षणस्यापि क्षोदः प्रसज्येत । एतेन क्षणोपाधिदृष्टान्तेन मेय. त्वादिना सर्वस्य क्षणिकत्वानुमानमित्यप्यपास्तम् । स्थिरस्यैव स्थिरा: न्तरविशेपितस्य क्षणोपाधित्वसम्भवात् । यथा स्वजन्यविभागप्रा- गमावावच्छिन्नं कर्माद्यक्षणोपाधिरिति । एवं क्षणिकत्वे प्रमाणाभा- वादवाधितप्रत्यभिज्ञावलाच वस्तुनः स्थिरत्वं सिद्धम् । किश्च- भ्रान्तिरूपा वा प्रत्यभिज्ञा ज्ञातुः स्थैर्यमन्तरा नोपपद्यत इत्यनुपपन्नं सर्वस्य क्षणिकत्वम् । वर्णितं चैतत्सर्वं तत्त्वमुक्ताकलापे-“वस्तुस्थैर्य विरुद्धानुपहितविषया साधयेत्प्रत्यभिज्ञा नैकस्मिन् शक्त्य- शक्ती कृतितदितरयोः सा ह्यभेदेन सिद्धेः। एकस्मिन् काल- मेदाद्भवति च सहकार्यन्वयानन्वयादि।चेन्नो देशभेदादपि सुपरिहरस्तेन नैक क्वचित्स्यात् ॥ तत्त्वेदन्त्वे हि कालान्तर- घटनमये नैककाले घटेतां कालद्वैतेऽनवस्थाद्यत इह न मितिः प्रत्यभिज्ञेति चेन्न । स्वस्य स्वाभावकाले विहितनियम- नात्स्वेन चात्रैककाल्यात् काले कालानपेक्षे कथमपि सुवचौ नानवस्थाविरोधौ । प्रत्यक्षं वर्तमानं प्रथयति यदिहावर्त- मानाद्विभक्तं तस्मात्तेनैव सिद्धं क्षणिकमिति न सत्तावदित्य- अजीते तत्कालसत्वमेव हमालयति सतरे वर्तमानकोशः कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसङ्गः ॥" इत्यादिनेत्यास्तां तावत्। ..

१०० मानमेयप्रकाशिकायां प्रमेय द्रव्याद्रव्यलक्षणम् । तनावस्थाश्रयो द्रव्यम् । अवस्थारहितमद्रव्यम् । आगन्तुकापृथ- क्सिद्धधर्मोऽवस्था । महत्त्वक्षणत्यादीनामागन्तुकापृथक्सिद्धधर्मा- णां प्रकृतिकालादौ सत्त्वाल्लक्षणसमन्वयः । सुखदुःखेच्छादिकं जी- चात्मनोऽवस्था । मुक्तानामपि तादात्विकसेवासङ्कल्पभेदादयोऽव- स्थाः। ईश्वरस्य स्थूलसूक्ष्मचिदचिन्नियमनाद्यवस्था। धर्मभूतज्ञानस्य "इच्छात्वद्वेपत्वादिरवस्था । अक्षरब्रह्माख्यनित्यविभूतेरपि गुक्तेश्वरे- च्छानुगुणतादात्विकाप्राकृतभोग्यादिपरिणामलक्षणाऽवस्था अस्त्येव । प्रमेयत्वांश्रये शब्दादावतिप्रसङ्गो माभूदित्यागन्तुकेति । प्रमेयत्वं तु नागन्तुकम् । आगन्तुकता च न जन्यतामात्रम् । शब्दादावद्रव्येऽपि शफेरभ्युपगमपक्षे साहजिक्यास्तस्या धर्मिणा शब्दादिना सह जन्य- त्यादपृथक्सिद्धत्वाच्च तत्रातिप्रसङ्गापातात् । किन्तु स्वाश्रये पूर्वमस- व । स्वाश्रयकालवृत्तिप्रागभावप्रतियोगित्वमिति यावत् । द्रव्य- निष्ठाया अपि अवस्थायाः सामानाधिकरण्येनाद्रव्ये सत्त्वादतिप्रसङ्गः स्यादिति अपृथक्सिद्धिसम्बन्धेन तद्वत्त्वं वाच्यम् । एतल्लाभार्य- मपृथक्सिद्धेति। संयोगवत्त्वं संयोगरहितत्वमिति च लघुनी लक्षणे द्रव्याद्रव्ययोर्योध्ये। द्रव्यविभाग द्रव्यं सामान्यतो द्विविधं-चिदचिच्चेति । तत्र चिन्नाम घेतन:-शांनाश्रयः । स प द्विघा-जीवात्मा परमात्मा चेति । अचिनामाचैवनम्-प्रकृतिः कालोधर्मभूतज्ञानं नित्यविभूतिश्च। यदि पेपन एय सन् परमात्मा सेतरसमतेश्वरत्वलक्षणाद्वैभवाति. पायात्पृथगुदिश्यते वदि प्रेघा विभाग:-चिदचिदीश्वर इति । .

१०१ . प्रकाशे] जडपरिच्छेदः। सदा चिच्छन्दो जीवमात्रपरो योध्यः । गोवलीवर्दन्यायात् । विशेष- तस्तु पवियम्-मायाकालात्मपरमात्मधर्मभूतज्ञाननित्यविभूति- भेदात् । द्रव्ये किञ्चित्प्रकाशरूपत्वात्स्वयंप्रकाशं किञ्चिच्चास्वयंप्रकाश भवति । स्वयंप्रकाशमजडं अस्वयंप्रकाशं च जडमित्युच्यते । तत्र मायाकालौ जडौ। स्वयंप्रकाशमपि स्वस्मै भासमानं परस्मा एव भासमानं चेति भवति द्विधा । आद्यं प्रत्यक् अन्यं परागित्युच्यते। आत्मेश्वरश्च प्रत्यञ्चौ । स्वप्रकाशफलं स्वव्यवहारः खस्यैव भवती येतो प्रत्यक्त्वेन व्यवहियेते । धर्मभूतज्ञाननित्यविभूत्योस्तु - प्रका- शफलं व्यवहारो न तनिष्ठः, किन्तु ज्ञात्रीश्वरादिगत इति ते पराची इति विवेकः । इमान्येव द्रव्याणि श्रीरामानुजसंप्रदायसिद्धानि भगवता श्रीह- रिणा स्वीकृतानीति न प्रमेयभेदः । तथाहि-धर्मभूतज्ञानं तावजी- वस्य ज्ञातृत्वकीर्तनाल्लव्धम् । जीवस्य तावज्ज्ञातृत्वनिर्देशः 'हृत्स्थो- ऽणुः सूक्ष्मश्चिद्रूपो ज्ञाता व्याप्याखिलां तनुम् । ज्ञानशक्त्या स्थितो जीवः' इति । 'विशेषसत्तया वास्ते हृदि क्षेत्रज्ञ एव च । रत्नदीपप्रतीकाशो ज्ञाता सूक्ष्मोऽणुवद्भुवः ।' इति च । सर्वेश्वरस्य च सार्वझ्यप्रतिपादनात् । सर्वज्ञः सत्यस- कल्पः सर्वकर्मफलप्रदः' 'सत्यं ज्ञानमनन्तं च यः सर्वज्ञश्च सर्ववित्' इति । नित्यविभूतिरेव गोलोकवैकुण्ठचिदाकाशपरमव्योमपरमपदाक्ष- रब्रह्मधामपराप्रकृतिप्रभृतिनामभिर्व्यपदिष्टा तत्र तत्र । इयमप्राक- तलोकरूपेण मुक्तादीनामप्राकृतमूर्तिरूपेणाप्राकृतानन्तभोग्यभोगोप- करणादिरूपेण च वर्तमाना परब्रह्मसेवारूपात्यन्तिकमुक्तिस्थानतया "36291 मानमेयप्रकाशिकायां [प्रमेय- विराजत इति ष सांप्रदायिकशापूपवर्ण्यते । एतत्स्वरूपं गोलोक- शब्देनोक्तं शिक्षापत्र्या' 'गोलोको- धाम चेप्सितम्" इति । 'एतदेव धाम वैकुण्ठशब्देनाप्युक्तम्' इति शिक्षापत्रीटीका । सत्सशिजीवने चैतत्स्वरूपं वर्णितमस्ति-'भक्ता एते तु देहान्ते धाम गोलोकमुत्तमम् । लभन्ते राजते यत्र श्रीराधाकृष्ण ईश्वरः। ततः परं चिदाकाशमस्ति तेजोमयं महत् । अनाद्यनन्तं तद्धाम परमव्योमसंज्ञितम् ॥' 'धामाक्षरं तु यत्तस्य तद्ब्रह्मपुरमुच्यते' इति । हरिवाक्यसुधासिन्धौ चोपर्वणि- तम्-'नित्यमप्राकृतं दिव्यं सच्चिदानन्दमक्षरम् । ब्रह्मांख्य धाम तत्प्रोक्तं कृष्णस्यानन्तमुज्वलम् ॥' सच्चिदानन्दरूपं यद्ब्रह्म निर्गुणमक्षरम्' 'अनाद्यन्तं च यत्तस्य धामेति प्रोक्त- मस्ति हि ।' 'कृष्णेच्छयाऽय दिव्योऽस्य पराप्रकृतितो मुने । आविर्भवति देहो वै वेन संयुज्यते च सः॥ 'यदुच्यते ब्रह्मपुर ब्रह्म चामृतमक्षरम् । चिदाकाशं च परमव्योमाथं परमं पदम् ॥' इति । कालोऽपि पृथक् द्रव्यभूतो मायागुणक्षोभक ईश्वराधिष्ठितः स्यादौ सहकारीति,समनुवण्यते सत्सद्विजीवने- "पुरुपाधिष्ठितेनाथ प्रधाने विगुणात्मके । प्रामुवन्ति गुणाः क्षोभं कालेनैवादितस्रयः ॥" 'कालस्यापि हियः कालः' 'कोलो माया पुमान्' इति । हरियायसुधासिन्धो च-"पुरुष प्रकृति कालं तत्वानि च यदा पुमान् । वेत्ति स्वरूपंत- सम्यक् वदन्यात्तर्हि मुच्यते ॥" इति । मायादिपञ्चकविभागे निर्दिष्टाना जीवेघरमाणां पोडा विभागे. यथासम्भवमात्माध- बमाय पवेदि।

स प्रका] जडपरिच्छेदः। १०३ अद्रव्यविभागः। अद्रव्यं च दशपा-सत्त्वं रजतमः शब्दः स्पर्शो रूपं रसोगन्धः संयोगः शक्तिरिति । यद्यपि प्रकृत्यादीनामवस्थाभेदा विविधविचि- नाः सन्ति परःसहस्रमद्रव्यभेदाः । अथापि लोकशानयात्रात्य- 'न्तोपयुक्ता मुख्या अद्रव्यभेदा दशैव विवेचिता 'आचार्यवयः। दशसु चाद्रव्येषु संयोगशक्ती सामान्यगुणौ, यावद्रव्यवृत्तिकत्वात् । अन्ये तु विशेषगुणाः, द्रव्यत्वन्यूनवृत्तित्वादिति विवेकः । अद्रव्येषु न्यूनाधिकभावो वैशेपिकैरिप्यते नाम । यथा सत्त्वर- जस्तमांसि न गण्यन्ते प्रधानगुणाः प्रकृतिप्राकृतवृत्तीनि । तथा सर्वद्रव्यवृत्तिः शक्तिश्च प्रधाना । पृथक्त्वादयस्तु पृथक् परिगण्यन्ते । प्रमाणगौरवपराहतोऽयं पक्षः। तथाहि-'अजामेकां लोहित- शुक्लकृष्णां यह्वीः प्रजाः सृजमानां सरूपाः' 'प्रकृतेः क्रिय- माणानि गुणैः कर्माणि सर्वशः' 'सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः' इत्यादिना तावत्रैगुण्यसिद्धिः । शक्तिश्च तत्तत्कार्यजननसामर्थ्यलक्षणा तत्र तन प्रतिनियतकार्यो- त्पाददर्शनानुमेया । कारणत्वनिर्वाहकोऽतीन्द्रियो धर्मः शक्तिः। सत्यपि सहकारिसाकल्ये विपंजवाघातस्य वीजादेः शक्तिविघाता- देव न सम्यक्कार्यारम्भकत्वमिति शक्तेरावश्यकता । सहकारिसम- वधानेऽपि शक्तस्यैव कार्यजनकत्वं नाशक्तस्येति च सर्वेपामनुभयो दुरंपहवः । किश्वं सत्यपि करतलानलसंयोगे मणिसमवधाने दाहा- जननाद्वह्रौ दाहानुकूलाऽतिरिक्ता काचन शक्तिरेपितव्या । मण्या: दिश्च तस्याः प्रतिरोधकः । अत एव मण्यादेः प्रतिवन्धकत्वमपि घटते । कार्यानुकूलधर्मविघटकरवं च तत् । अपसरणे मण्यारुत्ते- १०४ मानमेयप्रकाशिकायां [प्रमेय- जकसम्पाते वा दाहजननाच मणिः शक्तेन नाशकः किन्तु प्रतिरोधक इति कल्पनं वरम् । अन्यथा ह्यनियतहेतुकत्वं शक्रसकृदुत्पादवि- नाशशालित्वं च कल्पनीयं प्रसज्यत इति । 'पराऽस्य शक्तिर्वि- विधैव श्रूयते' 'शक्यः सर्वभावानामचिन्त्यज्ञानगोचरा' इत्यादिप्रमोणसिद्धा चेयम् । शब्दादिपञ्चकं तु सर्वाभ्युपेतमेव । संयोगश्च तथा । यत्तु केपा- ञ्चिन्मतं अन्तरालविरहलक्षणं नैरन्तर्यमेव संयोग इति । तन्न । इदं नैरन्तयं किं स्वरूपं उतागन्तुको धर्मः । स्वरूपं चेत्सर्वदा संयुक्त- त्वव्यवहारापत्तिः । आगन्तुकं चेदतिरिक्तसिद्धिः । अस्त्वेवमप्य- भावरूपमेव । मैवम् । अभावस्य भावान्तररूपत्वात् । तथा च समासझदेशसंयोगलक्षणमेव तदित्ययश्याभ्युपगमनीयः संयोगः । किश्चोतप्रोतभावेन विलक्षणसंश्लेपस्यैव तुरीवेमादिकारकव्यापार- निर्त्यतयाऽवश्यमभ्युपगमनीयः संयोगः । संयोगस्य सकललोक- यात्रानिर्वाहकत्वेन दुरपह्नवत्वं चोकं तत्त्वमुक्ताकलापे,'संयो- गाद्विश्वसृष्टिः प्रकृतिपुरुपयोस्तादृशैस्तद्विशेपैह्मादिस्तम्वनि- ठा जगति विषमता यन्त्रभेदादयश्च । अक्षाणामयोगाद्वि- विधमतिरनाद्यन्वयादगुरादिः शुद्धाशुद्धादियोगान्नियतम- पि फलं न्यायतत्त्वेऽस्य घोपः ॥' इति । संयुक्तप्रत्ययासाधारण- कारणत्यं संयोगस्य लक्षणम् । निरन्तरयोर्विभ्वोरपि मिथः संयोग एपितव्यः, नैरन्तर्यस्य मिथः संयोगव्याप्यत्वात् । स चाजः वैशेषिक: पुनर्नेप्यते विमुद्वयसंयोगः । तन्न शोभनम् । विभोरपि कालादेः स्वस्वकार्यप्रवृतेरीश्वरानुप्रवेशनिवन्धनत्वस्यागमसिद्धत्वात् । 'सर्वाधार धाम विष्णुसंज्ञ' 'सर्वव्यापी च भगवान्' 'यञ्च फिश्चिजगत्यस्मिन् दृश्यते श्रूयतेऽपि या । अन्तर्वहिश्च तत्सर्व ॥

. प्रकाशे] जडपरिच्छेदः। १०५ व्याप्य नारायणः स्थितः ॥' इत्यादिना च सर्वशब्दासकोचा- द्विभूनामपि परमात्मना संयोगः सिद्धः । अत्र 'अन्तरिति अनणु- विषयं 'वहि'रिति चाविभुविषयं यथासम्भवं योज्यम् । परमात्म- नाऽव्याप्यः कोऽपि प्रदेशभेदो नास्तीत्यत्र तात्पर्यात् । तथा चोको विभुद्वययोगस्तत्त्वमुक्ताकलापे–'नरन्तयं विभूनामपि भवति त- तोऽन्योन्ययोगोऽपि योग्यः केचित्तं हेत्वभावाजहति विहति- कृन्नित्यधीकल्पने तत् । स्याद्वा तत्सिद्ध्यसिद्ध्योरनुमितिरप- टुर्वाधहानेविपक्षे शास्त्रैरन्यद्विभु स्यात् परधृतमपृथक्सिद्धि- रेवं ततोऽस्य ॥ इति । मूर्तानां मिथोऽमूर्तश्च संयोगो जन्योऽनि- त्यश्च । अन्यतरक्रिययोभयक्रियया वा जायतेऽयम् । यथा श्येन- पर्वतयोर्मल्लयोमपयो। संयोगजः संयोगस्तु वैशेपिकादृतः । यथा हस्तपुस्तकसंयोगात्कायपुस्तकसंयोग इति । तन्न । अतिरिक्तस्यावय- विनोऽभावाद्धावे वा हस्तक्रिययैव कारणैकार्थ्यप्रत्यासत्त्या काय- पुस्तकसंयोगस्य सम्मवादिति । सत्त्वरजस्तमसा शब्दादिपञ्चकस्य च विंशोधनं तु प्रकृतिनिरूपणे महाभूतानिरूपणे च करिष्यते यत्तु संख्यापरिमाणपृथक्त्वविभागपरत्वापरत्वगुरुत्वद्रवत्वस्ने- हसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां अतिरिक्तत्वेन परि- गणनं कृतं गुणेषु काणादैः, तदपि मन्दम् । सुखदुः खेच्छाद्वेपप्रय- बधर्माधर्मभावनाख्यसंस्काराणां धर्मभूतज्ञानावस्थारूपतया बुद्ध्य- न्तर्भूतत्वात् । बुद्धश्च द्रव्यत्वमात्मनिरूपणे • वर्णयिष्यते । धर्मा- धर्मयोश्च ईश्वराज्ञारुपशास्त्रोक्तविधिनिषेधानुवृत्त्यतिवृत्तिप्रयुक्ततत्त- जीवगोचरेश्वरानुपहनिग्रहसङ्कल्पलक्षणयोरीश्वरीयधर्मभूतज्ञानाव- स्थारूपत्वमेवेति ॥ ।

मानमेयप्रकाशिकायां [प्रमेय- अन्ये विदानी चिन्त्यन्ते । तत्र द्विश्यादिसंख्यास्तावत्तत्तत्का- रणतयाऽभिमतापेक्षाबुद्धिविशेषविपयत्वलक्षणा एव । एकत्वव्यव- हारगोचरस्तु तत्तद्वस्त्वसाधारणाकार एवेति युक्तम् । प्रकृतक्रियायां समप्रधानतया समुचीयमानवस्त्वन्तरप्रतिपत्त्यभावकालीनप्रतिप- त्तिविषयत्वं च द्रव्याद्रव्यसाधारणं निष्कृष्टमेकत्वं बोध्यम् । बुद्धिविशेषविषयत्वलक्षणायाश्चैकद्विच्यादिसंख्याया, अद्रव्यनिष्टत्व- मपि सुसगच्छते । अणुमहद्दीर्घहस्यभेदेन भिन्नं परिमाणमपि तत्तद्देशव्याप्तिवि- शेपरूपमेव । न्यूनाधिकदेशसंयोगभेद एव तत्तत्प्रतिसम्बन्धिनिरू- पितवेपेण तत्तदपेक्षया महत्त्वादिव्यवहारगोचरः । तथा चोक्तं न्यायसिद्धाञ्जने - "यत्संयुक्तं देशं देशान्तरं च यद्युगपदाक्रमितुं शक्तं तत्ततोऽधिकपरिमाणम् , यत्संयुक्त देशमसिलमेकदैव यदा- ऋमितुं न शकं तत्ततो न्यूनपरिमाणमिति । तथा एकदिगार्जवावच्छे- देन ( सयोगस्य ) आधिक्यं देयम् , तेनैव न्यूनमायो ह्रस्वत्वम् । यहुदिगवच्छेदेनाधिक्वं महत्त्वं, तेनैव न्यूनभावोऽणुत्व मित्यादि । पृथक्त्वमपि तत्तदसाधारणधर्मरूपभेदखरूपानतिरिक्तमेव । शब्दखभावनिवन्धनस्तु इदमिदं न भवति' 'इदमस्मात्पृथ' गिति व्यवहारभेदः। विभागस्तु संयोगनाशहेतुलाभिमतः संयोगनाशरूप एव, अति- रिफस्यानुपलब्धेः । क्रियया समनन्तरमेय हि पूर्वदेशसंयोगनाशो लक्ष्यते । न मध्यतो विभागो नाम कश्चनोपलभ्यते । सोऽपि पूर्वदेशसंयोगनाशो नाशकालिकसरपाभिन्नः, देशान्तरसंयोगलक्षण एप था। नियया पूर्वदेशतो वियुज्य देशान्वरेण संयुज्यत इति 4 । प्रकाशे] जड़परिच्छेदः। १०७ व्यवहारोऽपि 'मुखं व्यादाय स्वपिती तिवत्समानकालविषय, आ- कारभेदनिबन्धनश्च नेयः। आन्तरालिकपवनादिसंयोगपूर्वकाभि- मतदेशसंयोगविपयो वा परत्वापरत्वयोर्देशकालकृतयोवुद्धिव्यवहारावपि तत्तद्देशकालस- म्बन्ध्युपाधिसम्बन्धभूयस्त्वाल्पत्वाभ्यामेव निर्वाह्यो। यथा प्राक्त्व- प्रत्यक्त्वादयः पूर्वत्वोत्तरत्वादयश्च दिक्कालसंयोगविशेपमात्ररूपा- स्तथैवेमे अपीति युक्तमभ्युपगन्तुम् । पतनहेतुभूतं गुरुत्वमपि जलक्षितिगतं तत्तच्छक्तिविशेपरूपमेव । अतिरिक्ते गुरुत्वे पतनहेतुत्वस्वभावस्य कल्पनापेक्षया स्वरूप एव तत्कल्पनौचित्यात् । यथा वायुतेजसोस्तिर्यगूर्ध्वपतनस्वभावत्वं, तथाऽत्रापि बोध्यम् । अन्यथा तयोरपि गुणान्तरकल्पनापत्तिः । रसवद्रव्यगतावयवाल्पत्वाधिक्याभ्यां पतनतारतम्यम् । तोलनं च तत्परिज्ञानफलकमेवेति। एवं स्यन्दननिदानं द्रवत्वं सलिलगतं जलत्वनियतावयवसंश्लेष- विशेपलक्षणमेव । तथा चोक्तं न्यायसिद्धाञ्जने 'द्रवत्वं नाम निम्नो- अतिलेशरहितसंयोगविशेप' इति । पाश्चभौतिकत्वात् धृतादावपि तदन्तर्वर्तिजलभागस्यैव द्रवत्वम् , अग्निसंयोगेन तदंशोद्भवश्व यथोप- लम्भं स्वीकार्यः। यद्वा पृथिवीतेजसोरपि द्रवत्वं पाकजमस्तु जले तु सांसिद्धिकमेव तत् । करकादौ तु पार्थिवभागोपष्टम्भात्तदप्रतीतिः । स्नेहोऽपि जलस्य चूर्णादिसङ्ग्रहणहेतुर्गुणो नातिरिक्तः । शक्ति- विशेपादेव तदुपपत्तेः । अन्यथा तेजसि विशरणहेतुभूतं रूक्ष- त्वमपि गुणान्तरं स्वीकरणीयं भवेत् । स्निग्धव्यवहारश्च रूपवि- शेपाद्यालम्बन एवास्तु इति ।

[प्रमेय १०८ मानमेयप्रकाशिकायां संस्कारोऽपि त्रेधा प्रोको वैशेपिकैः-वेगो भावना स्थितिस्थाप- कश्चेति । तत्र वेगः कर्मगत एव कश्चनातिशयः । शीघ्रं गच्छतीति प्रतीतेः । इषुप्रयोगलक्ष्यसंयोगमध्यकालाल्पत्वमिपुगतेर्वेगः । स च बलवत्प्रेरणाधीनः । पूर्वपूर्वकर्मणैवोत्तरोत्तरकर्मसन्तानसम्भवे मध्ये वेगो नाम गुणान्तरमुत्तरोत्तरकर्महेतुतया नैव कल्पनापदमश्चति । येगेन गच्छतीति प्रयोगोऽपि प्रयत्नाधीनक्रियातिशयपर एव । अन्यथा मान्यस्यापि गुणान्तरत्वं कल्पनीयं स्यादिति । भावना नामानुभवजनितः स्मृतिहेतुः संस्कारः। स च धर्मभूतज्ञानावस्था- विशेप एव । स्थितस्थापको नाम आकृष्य मुक्तस्य शाखादेः पुनर्यथा देशप्राप्तिहेतुः । सच तत्तद्वरतुगतसंस्थानभेदानातिरिक्त इति । न्यायसिद्धाञ्जनायुक्तः प्रकारोऽत्र समासतः । अद्रव्याणां वर्णितो वै विज्ञेयो विस्तरस्ततः ॥ यद्यपि परमार्थविविधभेद- वादिनामस्माकं पृथग्विविधगुणकल्पनं न क्षतिकरम् । अथापि वैशेपिकोक्तगुणविभागो नातीय समीचीनः । कृप्तान्तर्भावसैवा- तिरिक्ततया. परिगणिवानां केपाश्चिद्गुणानां सम्भवात् । पृथक्क- पनायां वाऽन्येऽपि समानयोगक्षेमा गुणाः पृथकूपरिगणनीया भवन्तीति प्रतिपादन एव हार्दमित्यास्तां तावत् । सोऽयं समान्यतः प्रमेयविभागप्रकारोऽवसेयः। प्रमेयविभंजनप्रकारान्तरम् । यदा पुनः प्रको मिती संसारनिवृत्तिप्रयोजकत्वलक्षणो विव- क्ष्यते तदा तथाविधमितिविपयीभूतानि प्राधान्येन मुमुक्षुभि - यानि त्रीणि तत्त्वानि-माया-जीव-ईश्वरश्चेति । अत्र माया- शन्दन मूलप्रकृतिः सकार्योच्यते । जीवशब्देनात्मसामान्यम् । ननु ।

प्रकाशे] , जडपरिच्छेदः। १०९ जीव प्राणधारण इति धातोनिष्पन्नो जीवशब्दः प्राणाधार बद्धमेव वदेत् न मुक्तम् । मैवम् । अन्यद्धि व्युत्पत्तिनिमित्त मन्यच व्यवहारनिमित्तम् । गोशब्दस्य गन्तृत्वं व्युत्पत्तिनिमित्तं, व्यवहारनिमित्तं तु गोत्वंसामान्यमेव । अन्यथा तिष्ठन्त्यां गवि गोशब्दव्यवहारस्य विलोपप्रसङ्गात् , गच्छत्यश्वादौ तस्य प्रसद्भाच । एवं जीवशब्दस्यापि व्यवहारनिमित्तं जीवत्वसामान्यमेव । तब परब्रह्मभिन्नचेतनत्वरूपं मुक्तेष्वपि समानम् । प्राणाधारत्वस्य व्यवहारनिमित्तत्वे तु महाप्रलये बद्धस्यापि जीवशव्दव्यवहार्यता न स्यात् , तदा प्राणाधारत्वाभावादिति । वर्द्धमुक्तनित्यसाधारणोऽपि जीवशब्दः क्षेत्रज्ञव्यष्टौ प्रचुरप्रयोगात्प्रसिद्धतरः । प्रसिद्धिप्राचुर्योप- जीवनेनैव साम्प्रदायिकग्रन्थेषु पञ्चधा विभागे जीवशब्दस्तन्मात्र- परतया प्रयुक्तोऽनुसन्धेयः । तथा च वासुदेवमाहाम्ये वचनम् 'ब्रह्मणो ये समुत्पन्ना देवासुरनरादयः। ते जीवसंज्ञा ह्यल्पज्ञाः परतन्त्रा भवन्ति च ॥” इति । 'वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः से विज्ञेयः' इत्यादौ चात्मसामा- न्यपरतयैव जीवशब्दः प्रयुक्तः । अतस्तत्त्वत्रयविभागे जीवशब्द आत्मसामान्यपर एवेति योध्यम् । अस्तु वात्मशब्दो जीवशब्दस्थाने। ईश्वरशब्देन च सर्वेश्वरः परमात्मा पुरुषोत्तमः । ईश्वरशब्दो ह्यसङ्कुचितवृत्तिः, सर्वेश्वरमेव वक्ति स्वरसतः । अन्येषां तु यदी- श्वरत्वं तत्कतिपयविपयं सापेक्षं च । पु चेश्वरशब्दप्रयोग उप- चाराद्वोध्यः । प्राधान्येन मुमुक्षुभिर्जेयत्वमभिप्रेत्यैव च मुमुक्षणा- मुपादेयं ज्ञानं जीवादित्रयविषयमिति शिक्षापत्र्यां भगवतेवोतम्- 'ज्ञानं च जीवमायेशरूपाणां सुष्टु वेदनम्' इति । हरिगीतायां घ तत्वत्रयस्यैव लक्षणोक्तिपूर्वकं ज्ञातव्यतोक्ता ।

[प्रमेय मानमेयप्रकाशिकायां तत्वत्रयविभागप्रकारोऽयं 'भोक्ता भोग्यं प्रेरितारं च मत्वा सर्व प्रोक्तं त्रिविधं ब्रह्ममेतत्' इति श्वेवाश्वरप्रक्रियानुगुणः । तथा तत्र तत्त्वत्रयस्यैव विशेपतो ज्ञातव्यत्वेन निरूपणं कृतम्- 'संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः। अशनीशश्चात्मा वक्ष्यते . भोक्तभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः॥' 'ज्ञाज्ञौ द्वावजावीशनीशी अजा ह्येका भोक्नु-, भोगार्थयुका । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥' 'अस्मान्मायी सुजते विश्वमेतत्तस्मि- थान्यो मायया सन्निरुद्धः । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् ॥ स कारणं करणाधिपाधिपः' 'प्रधानक्षेत्र- ज्ञपतिः' इत्यादी। भोकेयादेरयमर्थः-मोझादित्रितयं प्रोक्तमेत- त्सवं मत्या-परस्परविलक्षणत्वेनानुसन्धाय ब्रह्मा-मुक्तो भवति । अनामिति छान्दसः प्रयोगः । भवतीत्यध्याहारेण योजना । 'प्रयं यदा विन्दते' इत्यत्राप्येयमेव । तत्त्वत्रयं परस्परविलक्षणत्वेन यदा साक्षात्करोति, अथ मुक्तो भवति इति । एवं तत्त्वत्रयज्ञानस्य मुक्तिहेतुत्वं श्रुत्यैव प्रतिपादितम् । यद्यपि 'अध्यात्मयोगाधिग- मेन देवं मत्वा धीरो हर्पशोको जहाति' इत्यादिपु जीवेशविज्ञा. नयोरेयागाद्गिभावेन मुक्तिसाधनत्वं प्रतीयते अथापि देहाय- विलक्षणत्वेन क्षेत्रशस्वरूपविज्ञानस्य मायातकार्यज्ञानसापेक्षरयात् मायावत्कार्यविज्ञानमन्तरा लक्षण्येनात्मस्वरूपसम्यग्निर्णयस्सा- सम्मपाय तक्षानमप्यपेक्षिवमेयं । एतदभिप्रायेणैव वितयज्ञानस्य अहिं प्रत्यपेक्षिनत्यं श्वेताश्वतरेऽमिहिवम् । श्रीमद्रामानुजाचार्यर- ममेय परवप्रयविभागः समारत:-' -'अदशेपचिदचिवस्तुशेषिणे ।

प्रकाशे] जडपरिच्छेदः। शेपशायिने 'स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्ति- भेदम्' इत्यादी तत्त्वत्रयस्यैवोल्लेखात् । रामानुजाचार्यैः परिगृहीतस्तत्वत्रयविभाग एवं शिक्षापत्र्यां श्रीहरिणा समाश्रित इति ध्येयम् । यद्यपि मायाऽचिदित्युक्ता जीवश्चिदिति । अथाऽपि संज्ञाभेदमानं नार्थ भेदः । न हि नामा- न्तरेण निर्देशमात्रेणाथै क्यमपैति । सत्सशिजीवनेऽपि 'अनेकमा- यापुरुषेश्वराय ते' इत्यादाविदमेव तत्त्वत्रयं निर्दिष्टम् । हरिवा- क्यसुधासिन्धौ च 'भूमिरापोऽनलो वायुः', 'अपरेयमितस्त्वन्यां' 'यस्मात्क्षरमतीतोऽहं' इत्यादिगीताश्लोकोदाहरणपूर्वकं अचित् चित् तदन्तर्यामी परात्मा चेति तत्त्वत्रयं प्रतिपादितम् । लक्षणादिकं चैपां: रामानुजाचार्योपपादितप्रकारेणैवावसेयमिति च व्यक्तं सत्सङ्गिजी- वने 'जीवमायापरेशानां स्वरूपं वो मजसा । रामानुजा- चार्यकृता ग्रन्थाः पाठ्यास्त्वयादरात् ॥ स्वरूपनिर्णयो ज्ञेयो जीवमायापरात्मनाम् । रामानुजाचार्यकृतग्रन्थेभ्यस्तत्त्वत- स्त्वया ॥' 'अतो रूपाणि 'निश्चेतुं जीवमायापरात्मनाम् । रामानुजाचार्यकृतभाष्यादि त्वं प्रवर्तयेः ॥ इति । अतो न तत्त्वभेदः शङ्कनीयः। यञ्च पञ्चधा विभजनं सत्सगिजीवनादौ (स.प्र. १ अ. ५१, सुधासिन्धौ प्र. ७ म. ३१ अं१०) वर्णितं-माया जीव ईश्वरो ब्रह्म परंब्रह्मेति । यथा-'जीवमायेशपुरुपकृष्णा इति च पञ्चकम् । अन्योन्यभिन्नं चानादि वर्तते मत औद्धवे ॥ इति । तत्रेश्वरो वैराजादिरक्षरपुरुपश्च ब्रह्मशब्दितः परमझभिन्न- चेतनश्च जीवशब्देनैव गृहीतो वेदितव्यस्तत्वत्रयविभागे। शेषत्वे [प्रमेय मानमेयप्रकाशिकायां सति चेतनत्वमित्यादि जीवलक्षणं हि तत्साधारणम् । जीवलक्षणे तत्तद्भिन्नत्वविशेषणप्रक्षेपेण चेत्तस्य पृथग्भाव इष्यते, तर्हि देवा दिभिन्नत्वविशेषणप्रक्षेपेण देवादेरपि जीवतः पृथग्भावः किं न स्यात् । अतो ज्ञातव्यविशेपाकारविवक्षया ब्राह्मणवसिष्ठन्यायेन पृथग्व्यपदेशः पञ्चधाविभाग इत्येवोचितम् । तथा च मायादीनामाकारविज्ञानस्योपयोगं प्रतिपादयामः- मूलप्रकृतिरेव तावद्विचित्रविविधपरिणामिनी भोग्याभासान् प्रदर्य जीवान् मोहयतीति मायेत्युच्यते । यया स्वरूपमात्मनस्तिरोधीयते; या स्वगुणैरावध्यात्मानं संसारसागरे पातयति; यतो भयं विज्ञा. यैव मुमुक्षयो भवन्ति; या च दुर्मोचत्वेन प्रोक्ता 'देवी ह्येषा गुणमयी मम माया दुरत्यया' इति; सा हि प्रबलविरोधिनी सम्यक् प्रथमं ज्ञातव्या नाम मुमुक्षुभिहेयत्वाध्यवसायपूर्वक वत्सङ्गपरिहाराय । यश सार्वभौमादिपदं जीवस्य, यदपि ज्ञानिनामपि प्रलोभकमी- श्वरपदगण्डाधिपत्यादिलक्षणम् , तापत्र्यास्पदतया क्षरणस्वभावतया वा तय हेयतयैव ज्ञातव्यं भवति । यत्तु जीवस्य देहत्रयविलक्षणं निकृष्टं स्वरूपं ब्रह्मशब्दितं तज्ज्ञातव्यं नामोपादानाय । खस्वरूपा नुसन्धान हि भक्तियोगानतया करणीयं भवति । उच्यते घ शास्त्रेषु ज्ञानयोगस्य भक्तियोगाङ्गत्वम् । उक्तं च शिक्षापत्र्यां 'निजा. स्मानं ब्राह्मरूपं देहत्रयविलक्षणम् । विभाव्य तेन कर्तव्या भक्तिः कृष्णस्य सर्वदा॥' इति । अत्र ब्रह्मशब्देन प्रकृतिविनिर्मुकं परिशुद्वात्मस्वरूपं गृह्यते । टीकाभाष्ययोः वधेय व्याख्यानात् । सप मान्यो भूरिशः प्रयुधो गीतादिषु 'ब्राह्मभूतः प्रसन्नात्मा - । [प्रमेय- - मानमेयप्रकाशिकायां 'विरासूत्राव्याकृतानां प्रकृतेः पुरुषस्य च । अक्षरब्रह्मणः साक्षाद्धरे(म्नश्च वेदनम् । तत्परस्य हरेश्चापि दिव्यमूर्तेर्यथा- र्थतः । ज्ञानमित्यादि सकलं यत्स ज्ञानांश उच्यते ॥' इति । तदेवं मुमुक्षुभितिव्यविशेषाकारज्ञापनाय पञ्चधा वर्णनं कृतमिति योध्यम् । न पुनसत्त्वसङ्ख्यापरिसमानार्थम् । तदनन्तर्गतल कालादेरपि सिद्धान्तसम्मतत्वात् । भेदवादिभिः काणादादिभिर्दर्श- नकारैरप्यात्मनि द्वैविध्यमेवोररीकृत जीवात्मा परमात्मा चेति । तदेव युक्तत्वाभ्युपगन्तुमुचितम् । अतश्च मायादिपञ्चकविभाग उक्तयोरीश्वरब्रह्मणोर्यथायोग्यं तत्त्वत्रयविभागे जीवेश्वरान्यवरान्व- भाव एव वस्तुतः । तथा हि-तत्रेश्वरशब्देन वैराजपुरुपत्तदुत्सनाः ब्रह्मविष्णुरुद्राश्च विवक्षिताः । तथा च वासुदेवमाहात्म्ये वचनम्- 'वैराजः पुरुपो योऽत्र प्रोकोऽसावीवराभिधः। ज्ञेयः स्वतन्त्र सर्वज्ञो वश्यमायश्च नारद ॥ एतस्यैव स्वरूपाणि ब्रह्मविष्णु. शिवास्त्रयः । रजआदिगुणोपेताः स्वगुणानुगुणक्रियाः ॥' इति । तत्र ब्रह्मरुद्योर्जीवकोटिप्रविष्टत्वमविवादम्। विष्णोस्त्व ववाररूपत्वं 'रक्षार्थ सर्वलोकानां विष्णुत्वमुपजम्मिवान इत्यादिवचनैरवगम्यते। वैराजपुरुपस्य तु व्यूइभेदरूपत्वं युक्त मित्यने वक्ष्यते । व्यूहविमवयोबहुलं चेतनान्तराव्यवहित एवं परब्रह्मणः प्रवेश इति च मुख्यगोणावतारविभागवचनेरवगम्यते । अवो वैराजरूपविष्णुरूपयोः चेतनव्यवहितप्रवेशाभ्युपगमे जीव कोटिप्रविष्टत्व, साक्षात्प्रवेशे च परप्रसवत्सान्ताव मह्मशब्देनोक्तस्स मुक्तवृन्दस्य, अक्षरपुरुषस्य च कस्यचिनित्यमुज्जमा जीवकोटियटिवत्यमेव । महाशब्दितस्वाक्षरधानख परमभूषा ।

मानमेयप्रकाशिकायां [प्रमेय- " - गणनायां प्रसक्तायां परिगणिते त्वेकस्मिन्नन्यस्य तत्तुल्यस्य सहगण- नायोग्यस्यालाभाद्वितीयत्वं तस्य-स्थितम् । नैतावता तत्प्रजाराज्या- दिविभूतेर्विलोपः । तद्विलोपे त्विष्यमाणे किं प्रत्यस्य सार्वभौमत्वं भवेत् । एवं सर्वेश्वरस्य सर्वेश्वरत्वसिद्ध्यर्थमेव ईशितव्यसद्भाव एपितव्यः । न च सर्वेश्वरत्वमस्य' काल्पनिकमेवेति वाच्यम् । तस्य नित्यत्वाहेतुजन्यस्वनवणात् 'य'ईष्टेऽस्य 'जगतो नित्यमेव नान्यों हेतुर्विद्यते ईशनाय' इति । एवं च नियन्तव्यस्य चिदचित्प्रपञ्चस्य विभूतिभूतस्य' सत्त्वेपि तस्याप्रधानतैकवेषतया प्रधान तत्त्वमशेपचिदचिद्विशिष्ट ब्रह्मैवेति विशिष्टकतत्त्वाभ्युपग- मस्य न विरोधः । तथा चोक्तं शिक्षापत्रीभाष्ये-'वियद्वायुस्तेजा- सलिलमवनिश्चेति यदिदं विकाराणां या च प्रकृतिरपि यश्चे- तनगणः। न चैपामेकं वा यदगुणतया स्यात्तनुतया प्रकारी- भूयास्ते निखिलमपि यद्ब्रह्मण इदम् । तथा च स्वैकान्तैर- खिलचिदचिद्धर्मनिचयैर्विशिष्ट ब्रोकं भवति न च तत्वं तदधिकम् । अतो नाना नेति श्रुतिशिरसि जोघुष्यत इदं विशिष्टाद्वैतं तन्न हि गुणविभागं न सहते ॥ इति । अयमर्यः सत्सगिजीवने 'कालो माया पुमान् यस्य महत्तत्त्वादयस्तथा। शकयः सन्त्येकमेवाद्वितीयं ब्रह्म यः प्रभुः॥' इत्यस्य व्या. ख्याने व्यक्तमुक्ता एवं प्रधानतत्त्वस्य परिगणनायां प्रसन्तायामशे- पचिदचिद्विशिष्टं ब्रौकमेव प्रसिद्धयति तत्त्वमिति । इदमेव तत्वप्रा. धान्यमभिप्रेत्य महर्षिभिरुरोपितं 'तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः। तत्त्वमेको महायोगी हरिनारायणः परः।।' इति । युज्यत इति योगा-प्रकार:, सर्वमेवास्य प्रफरो भवतीति प्रकाशे] •जडपरिच्छेदः। ११७ महायोगी हरिरेकं परं तत्त्वमिति यावत् । विशिष्टेकवत्त्वाभ्युप- गमादेवाय सिद्धान्तो विशिष्टाद्वैतसिद्धान्त इति प्रथतेतराम् । एवं समस्तचिदचिद्विशिष्टं परमं मतम् । तत्त्वमेकं परब्रह्म वासुदेवसमाह्वयम्॥ तज्ज्ञानमेव मुक्तर्हि साक्षात्साधनमिष्यते। विशिष्टप्रतिपत्तिश्च विशेषणधियो भवेत्॥ नागृहीतविशेषा हि विशिष्टमुपधावति । धीरित्यतश्चिदचितोर्वर्णनेऽपि यतामहे ॥ मायास्वरूपे विदिते सकार्ये क्षेत्रसंज्ञिते । स्वरूपं तद्विदो ज्ञातुमञ्जसा शक्यमित्यतः ।। प्रथमं वर्णयामोऽत्र मायारूपं सविस्तरम् । दृश्यप्रपञ्चमूलत्वादपि तत् प्राग्घ्युपस्थितम् ॥ त्रिगुणं यद्धरेः शफिरूपं द्रव्यं सविक्रियम् । ध्रुवमेकमनेकाकारानन्तपरिणामभाक् ॥ ज्ञानानन्दमयस्यात्मस्वरूपस्य च बन्धकम् । मोहकं सर्वभूतानां तन्मायेति तु कीर्तितम् ॥ प्रकृतिनिरूपणम् । प्रकृतिरेव तावद्विविधविचित्रपरिणामशालिनी त्रिगुणा मायेति वर्ण्यते श्रुतौ 'भायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्' इति । प्रकरोत्यस्या विकारजातमीश्वर इति प्रकृतिः । तथा च श्रुतिः 'अस्मान्मायी सृजते विश्वमेतत्' इति । नियेयं सततपरिणामशीला च। तथा च श्रुति:-'विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्'.. 'गौरनाद्यन्तवती सा जनित्री भूतभाविनी' 'अजामेकां लोहितशुक्लकृष्णाम्' इति । स्मृतिश्च-'अचेतना परार्थाच नित्या सततविक्रिया' इति । सततविकारशालिन्या अपि नास्याः स्वरू- पस्यात्यन्तिकोच्छित्तिः कदापीति ध्रुवत्वम्। सूक्ष्मरूपेणास्याः सर्वदा मानमेयप्रकाशिकायां [प्रमेय सत्त्वादजत्वं स्थूलपरिणामैः परमात्मकार्यत्वं च वर्णित चमसाधि- करणे 'ज्योतिरुपक्रमा तु तथाह्यधीयत एके 'कल्पनोपदेशाच मध्वादिवदविरोधः' इति । गीतायां च प्रकृतेरप्यनादित्वमुच्यते- 'प्रकृति पुरुषं चैव विध्यनादी उभावपि' इति । 'अज्ञान' 'अचेतना' इत्यादिवचनादचेतनेयं जहरूपा च । 'तम आसीत्' इति तमाशब्देन कीर्तितत्वात्। तमोह्यप्रकाशरूपम्। स्वतःप्रकाशरू- पत्वाभावश्च जड़त्वम् । किञ्च-प्राकृतानां पदार्थानां तावत् घटा- दीनां विद्यमानतादशायां सर्वदाऽभानानेत्रालोकादिसहकारिसम्प- स्तावेव भानाच जडत्वं सिद्धम् । अतो मूलप्रकृतेरपि तत्तद्रूपपरिणा- मिन्या जडत्वमेष्टव्यम् । 'ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः। सूयते पुरुपार्थ च तेनैवाधिष्ठिता जगत् ॥ गौरनाद्यन्तवती सा जनित्री भूतभाविनी। सिताऽसिता च रक्ता च सर्वकामदुधा विभोः॥ पिवन्त्येनामविपमामविज्ञाताः कुमारकाः। एकस्तु पिवते देवः स्वच्छन्दोऽत्र वशानुगाम् ॥ ध्यानक्रियाभ्यां भगवान् भुक्तेऽसौ प्रसभं विभुः । सर्वसाधारणी दोग्धी पीव्यमानां तु यञ्चभिः ।।' इत्यत्र परमात्माधिष्ठानेन विचित्र- फार्यकरत्वं परमात्मनो लीलारसनिष्पादकत्वं जीवानां तत्तत्कर्मा- नुगुणपुरुषार्थप्रसवितत्वं च प्रकृतेर्यय॑ते । अयमर्थः- ध्यायते- परमात्मना सङ्कल्परूपक्षानेन ज्ञायते । अध्यासिता-अधिष्ठिता । वन्यवे-विवार्यते, समष्टिभूतरूपेण क्रियते । पुनः प्रेर्यते व्यष्टि- सार्पम् । पुरुपेणार्यमानं भोग्यमोगोपकरणभोगस्थानरूपं जगत् सूर्यवे'। गच्छति-जनयति अनवरतमवस्यान्वरं प्राप्नोतीति गौः- प्रकाशे] जडपरिच्छेदः। सततपरिणामशालिनी प्रकृतिः । जनित्री समष्टिभूतानाम् । भूतभा- विनी-व्यष्टिकारणीभूता । सत्त्वादिगुणत्रयाश्रयीभूता विभोः सर्वेश्व- रस्स सृष्टिस्थितिसंहाररूपलीलारसदोग्ध्री । तत्तत्कर्मानुगुणपरिणामि- त्वादविपमा । यज्वभिः कर्मानुगुणफललाभाय कर्मद्वाराऽद्यमाना- मेनां प्रकृति मायेश्वरः स्वसङ्कल्पानुसारिसृष्ट्यादिव्यापारेण तत्तत्क- मविपाकानुसारं विपरिणमय्य खयं स्वच्छन्दतो लीलारसं मुझे इति । गीतायां च 'सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ प्रकृति स्वाम- वष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् हेतुनाऽनेन कौन्तेय जगद्धिपरिवर्तते ॥' इति प्रकृतेः खशेपत्वं स्वाधिष्ठानेनैव विविधभूतजातप्रसवितृत्वं चोच्यते । एवं भगवच्छे- पभूता भगवतो लीलारसानुभवे मुख्योपकरणभूता मायेति स्थितम् । अत एव मायापरिणाममयीयं विभूतिीलाविभूतिरुच्यते । श्रीभाष्यकारैः प्रकृतेर्दुर्विवेचंत्वं निगुणत्वं विकारित्वं अचेतनत्वं दुर्मोचत्वं भगवन्मायात्वं चेतनस्यानवच्छिन्नज्ञानानन्दलक्षणस्व- रूपतिरोधायकत्वं च वर्णितं गद्यत्रये-तिलतैलवत् दारुवह्निवत् दुर्विवेचत्रिगुणक्षणक्षरणस्वभावाचेतनप्रकृतिव्याप्तिरूपदुर- त्ययभगवन्मायातिरोहितस्वप्रकाशः' इति । यद्यपि 'भूमिरापोऽनलो वायुःखं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।' इत्यादी देवादिभूता- रम्भकद्रव्याणि देवादिकं प्रति प्रकृतित्वेनोच्यन्ते, एवं महदादिश्चा- हकारादेः प्रकृतिर्भवति । अथापि विकृतित्वासमानाधिकरणप्रकृ- 1 १२० मानमेयप्रकाशिकायां [प्रमेय- तित्वानयभूता मूलप्रकृतिर्बोध्या । गुणवैषम्यप्रयुक्ताऽवस्था विकृति- शब्दविवक्षिताऽत्र । यद्यपि प्रकृतावेव सूक्ष्मसूक्ष्मतरसूक्ष्मतमाव- स्थाभेदाः सन्ति । अथापि सर्वाखवस्थासु गुणसाम्यस्यानपायेन गुणवैपम्यप्रयुक्तं न विकृतित्वमिति बोध्यम् । अस्याश्च गुणत्र- यसाम्यावस्थापन्नत्वं लक्षणम् । गुणवैपम्यप्रयुक्तं यन्महत्त्वादि तद्रहितत्वे सति त्रिगुणत्वमिति यावत् । अतो गुणत्रयाश्रयत्वस्य महदादिसाधारण्येऽपि न क्षतिः । प्रकृतेर्मायाशब्दवाच्यत्वम् । इयमपरिच्छिन्नज्ञानानन्देकलानतामात्मनां तिरोधाप्यात्मपरिणा- मेपु वस्तुपु भोग्यतानममुत्पाथ मोहकत्वाद्विविधविचित्रकार्यकर- त्याद्वा भाया भवति । एतत्कार्येषु चोदन्वदादिपु केपुचिदाश्चर्य- भूतेषु पदार्थेषु मायाशब्दः प्रयुक्तो महर्षिभिः आसुरराक्षसानेषु च विचिन्नार्थकारिपु 'मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फुरितानि वायोः। विद्युद्विभङ्गो गतमुष्णरश्मेविष्णोविचित्राः प्रभवन्ति मायाः॥' 'तेन मायासहवं तच्छम्बरस्याशुगामिना। वालस्य रक्षता देहमेकैकश्येन सूदितम् ॥ इत्यादौ । प्रकृतिप्रा- मृतसाधारणं तु मायालक्षणं रजोवत्त्वं तमोवत्त्वं वा । सत्त्ववत्त्वं तु न लक्षणं, नित्यविभूतावविप्रसङ्गात् । रजस्लमोमिश्रसत्त्ववत्त्वस्य समणत्वे च गौरवमिति । कालभिन्नत्वे सति जडत्यमपि वथा । इदं प नियविभूतेरजडत्वाभिप्रायेण । अद्रव्येऽतिव्याप्तिवारणाय द्रव्यत्ये सनीति विशेषणीयम् । यर्णितं वायन्मायायाः स्वरूपस्वभावादि शिक्षापत्र्यां-'निगु- पारमा तमः कृष्णशफिर्देहत्तदीययोः। जीवस्य चाहंममता- - . प्रकाशे] जडपरिच्छेदः।- हेतुर्मायाऽवगम्यताम् ॥ इति । त्रयो गुणा यस्याः सा त्रिगुणा, सा चासावात्मा च त्रिगुणात्मा । आत्मशब्दः स्वरूपवचनः । गुणत्रयवन्मायास्वरूपमिति यावत् सत्त्वं रजस्तम इति गुणास्त्रयः। गुणत्रयमेव मायेति कापिलाः । तन्न । मायागुणत्वेनैषां स्मरणात् 'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः' 'सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः' 'ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धीः स्वगुणैर्विधत्ते' 'सत्त्वं रजस्तम् इति प्रकृतेर्ग- णास्तैः' 'एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम' इति । 'अजा-- मेकां लोहितशुक्लकृष्णाम्' इति श्रुतिश्च मायायाः सत्त्वाद्या- श्रयत्वमाह। त्रैगुण्यवर्णनम् । प्रसङ्गतोऽत्र सत्त्वादीनां प्रकारो निरूप्यते । सत्त्वं नाम प्रका- शसुखादिनिदानमतीन्द्रियं शक्यतिरिक्त अद्रव्यम् । तच्च द्विविधं- शुद्धमशुद्धं चेति । रजस्तमाशून्यद्रव्यवृत्ति सत्त्वं आद्यं नित्यवि- भूतौ । रजस्तमःसहचरितं धान्यं प्रकृतिप्राकृतेपु । सत्त्वस्य प्रकाशादिजनकत्वं गीतायामुक्तम-तत्र सत्त्वं निर्मलत्वात्प्रका- शकमनामयम्' इति । प्राकृतमेव तु सत्त्वं वन्धकम् । अस्य च बन्धकत्वं प्राकृतशब्दादिविषयभोग्यताज्ञानजननमुखेन तदनुभव- सुखसङ्गहेतुत्वात् । एतच्चोक्तं 'सुखसङ्गेन बनाति ज्ञानसङ्गेन चानघ' इति । लोभप्रवृत्त्यादिनिदानमतीन्द्रियं शत्यतिरिक्तमद्रव्यं रजः । इदं कर्मसङ्गजननेन बन्धकम् । तथा चोक्तं तत्रैव-रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निवभाति कौन्तेय कर्मसङ्गेन देहिनम् ॥' इति । प्रमादमोहादिनिदानमतीन्द्रियं . १२४ मानमेयप्रकाशिकायां [प्रमेय- गर्भवं विवेक्तुं शक्यते। यदा तद्विवक्तुं न शक्यतेऽस्या अतिसूक्ष्म शामात्या, वदा तमाशब्दवाच्येयं भवति । अस्या अपि स्वरूपं यदा न विवेक्तुं शक्यते विलक्षणसंयोगवशात्परमात्मनि, तदा त्व- विभक्तं तम इत्युच्यते । अवस्थाचतुष्टयं चैतत्सनिदर्शनमुपपादितं (तद्भाध्ये व्यासायः) 'भूतलनिहितवीजस्थानीयमविमकं तमा, मुनिःसृतवीजस्थानीय विभक्तं तमः, सलिलसंसृष्टा-पृथ्ववयववीज- तुल्यमक्षरं, उच्छूनवीजसमानमव्यक्तं, अङ्कुरस्थानीयो महान्' इति । अवस्थाचतुष्टयेऽपि गुणत्रयसाम्येन तद्वैपम्यप्रयुक्तकार्यविरहास्थग- विगणय्य मूलप्रकृतितो महत्तवप्रभृतिरेव कार्यवर्गः परिगण्यते । मायाया भगवदात्मकत्वम् । न स्वतश्रेयं किन्तु शक्तिरूपा वासुदेवस्य तत्परतत्रा तदीक्षणे- नेपाहित्तवीर्या विचित्रकार्यजनने प्रभवति । अस्या भगवतः शक्ति- रूपत्वमुक्कं नीमागवते-'सा वा एतस्य सद्रष्टुः शक्तिः सदस- दात्मिका । माया नाम महाभाग ययेदं निर्ममे प्रभुः।। 'स्वशक्त्या मायया युकः सृजत्यत्ति च पाति च ॥' इति । वदुच्यते-'कृष्णशक्ति'रिति । 'ते ध्यानयोगानुगता अपश्यन् देवात्मशकिं स्वगुणैर्निगूढाम्' इति च श्रुतिः । गीतायां भगव- वोक्त स्वाशेपत्वं मायाया लीलारसमनुभूपुणा स्खेनैव प्रवर्तितत्वं प-'देवी खेपा गुणमयी मम माया दुरत्यया' इति । 'दिवु कीडायां' इति हि पातुः । जगत्सवादिक्रीडाप्रवृत्तो देषः, तस्ये- यमुपफरणमूना गाया 'देवी'वि व्यपदिश्यते । अस्याच मायाया देवप्रवािया देवप्रसादेनेव शरणागविजनिवेन मुतरत्वं घोकं संव-मामेव ये अपयन्ते मायामेतां तरन्ति इति ।

प्रकाशे] जडपरिच्छेदः। १२५ सत्सङ्गिजीवने च मायायाः स्वरूपखभावाद्युक्तम्-'जन्मक्षेत्रं च जीवानामनादिश्चिज्जडात्मिका । तमोमयी हरेः शक्तिः कार्यकारणरूपिणी ॥ गुणत्रयात्मिका चाजा या चोकाs- ज्ञानसंज्ञिका । सा मायेति त्वया ज्ञेया यां तरन्त्याश्रिता हरेः॥ इति । स्वयं त्रिगुणत्वाजडत्वं, परप्रकृतिभूतचित्समष्टि- गर्भवाञ्चिदात्मकत्वम् । अत उक्तं 'चिज्जडात्मिका' इति । हरि- वाक्यसुधासिन्धौ च-नित्या च भगवच्छक्तिस्त्रिगुणा चिजडा- त्मिका । निर्विशेपा जीवमहत्तत्त्वादिक्षेत्रमव्यया ॥ इत्युक्ता प्रकृतिस्तस्याः साम्यस्थगुणचालनः । कालो ज्ञेयः' इति । कालानुगुणगुणवृत्तिमय्यां प्रकृतौ स्वात्मकपुरुपद्वाराऽनुप्रविश्य वीर्य सृष्टिसामर्थ्यलक्षणमुत्पादितवान् वासुदेव इति वर्ण्यते भाग- वते-कालवृत्त्यां तु मायायां गुणमय्यामधोक्षजः । पुरुषे णात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥' इति । एवं भगवा खात्मकपुरुषद्वाराऽऽपादितसामाया मायाया महत्तत्त्वमभवदि- त्युच्यते-'ततोऽभवन्महत्तत्त्वमव्यतात्कालचोदितात्। विज्ञा- नात्मात्मदेहस्थं विश्वं व्यञ्जस्तमोनुदः॥ इति । अत्र विज्ञान- शब्दितजीवशरीरकः परमात्मा स्वशरीरभूतप्रकृतिलीनं कार्यजावं व्यञ्जयितुं सूक्ष्मावस्थप्रकृतिप्रेरकः सन् स्वात्मकादव्यतारखेनापा- दितसामर्थ्यात्कालक्षोभितगुणत्रयान्महत्तत्त्वरूपेणाभूदिति विवक्षि- तोऽर्थः । 'विज्ञानात्मा महदभूदिति सामानाधिकरण्यं च शरी- रात्मभावनिबन्धनम् । एवं च प्रकृतिपुरुषशरीरक एव परमात्मा महत्तत्त्वशरीरकोऽभूदिति फलति । एतेन पावञ्जलानामिव न केवलं प्रकृतेरधिष्ठानेनेश्वरस्य निमित्तत्वमानं विवक्षितं. किन्तु परमात्मन- १२२ . मानमेयप्रकाशिकायां [प्रमेय- शत्स्यतिरिक्तमद्रव्यं तमः । अस्य कर्तव्यानवधानाद्यापादनेन बन्ध- कत्वं च तत्रैवावर्णि-'तमस्त्वज्ञानजं विद्धि मोहन सर्वदेहि- नाम् । प्रमादालस्यनिद्राभिस्तन्निवनाति भारत ॥' इति । सत्त्वस्य यथार्थज्ञानहेतुत्वं रजसोऽन्यथाज्ञानहेतुत्वं तमसो विप- रीतज्ञानहेतुत्वमपि तत्रैवाभ्यघायि-'प्रवृत्तिं च निवृत्तिं च कार्या- कार्ये भयाभये । बन्ध मोक्षं च या वेत्ति वुद्धिः सा पार्थ सात्त्विकी ॥ यया धर्ममधर्म च कार्य चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी । अधर्म धर्म- मिति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥' इति । तथा लाघवोपष्टम्भनगौरवाणि च त्रैगुण्यस्य कार्याणि क्रमशः । तत्र लाघवं कार्यपटुता । उपष्टम्भनं उत्तेजकता । गौरवं स्तब्धता । एतेषां च प्राचीनकर्मवशाच्छरीरा- प्यायकाहारवैपम्याचोद्भवाभिभवरुपेणावस्थानं सृष्टी। प्रलये तु समतयेय । गुणानामुद्भयभेदश्च कार्यकसमधिगम्यः । यथोच्यते- 'सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ लोभः प्रवृत्तिरारम्भः कर्मणा- मशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ । अप्रकागोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥' इति । एते च गुणाः सध्याा- पयुष भगवता सर्पणादिमूर्तिभिरधिष्ठीयन्ते । तदधिष्ठानप्रयु- फोद्धयामिमयभेदेन प विषमसृष्टिः। यर्णितं चैतत्सर्व तत्त्वमु- कारलापे-"स्थित्युत्पत्त्यन्तलीलाविधिषु भगवताऽधिष्ठिताः शास्रयेद्याः सत्त्वाद्याः स्थूलसूक्ष्मप्रकृतिगतगुणा हेतुभूताः .

प्रकाशे] जडपरिच्छेदः। १२३ सुखादेः। साम्ये तेषां त्रयाणां सदृशपरिणतिः स्यादिहान्या- न्यथात्वे कृप्ताऽन्यैव्यतैपां श्रुतिपथविहिता कुत्रचित्तूप- चारः॥ इति । त्रिगुणात्मके देहे वर्तमानोऽपि पुमान् सात्त्विकाहारसेवादिना रजस्तमसी अभिभाव्योद्भूतसत्त्वगुणतया देहेन्द्रियादेरवस्थापनेन निःश्रेयसाथ योगं योक्तुं प्रयतेतेति चाध्यात्मशास्त्रोपदेशप्रणालिके- त्यास्तां तावत् । मायायास्तमाशब्दवाच्यत्वम् । त्रिगुणायां च प्रकृतावत्यन्तसूक्ष्मावस्थापन्नायामन्तर्निममा बद्ध- जीवराशयो गाढान्धकार इव निपतिताः पदार्था न विवेक्तुं शक्यन्त इति सेयमत्यन्तसूक्ष्मावस्थापन्ना तमाशब्देनाभिधीयते । 'नासदा- सीन्नो सदासीत्तदानीं तम आसीत् तमसा गूढमने प्रकेतम्' इति च श्रुतिः। आह च मनु:-'आसीदिदं तमोभूतमप्रज्ञात- मलक्षणम्' इति । भागवते च 'तमस्तदानीं गहनं गभीरम्' इति । 'प्रकृतिर्गुणसाम्यं वै' इत्युक्तप्रकारेण गुणत्रयसाम्यलक्ष- णाया अप्यस्याः सूक्ष्मसूक्ष्मतरावस्थाभेदेनाव्य॑तमक्षरमिति च व्यपदेशः सुबालोपनिपदि दृश्यते लयप्रकरणे-'महानव्यक्त ली- यते अव्यकमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देवे एकीभवति' इति । महत्त्वलक्षणकार्योन्मुखावस्थायामव्यकं अव्या- कृतं प्रधानमित्यप्युच्यते-'यत्तत्रिगुणमव्यक्तं नित्यं सदसदात्म- कम् । प्रधान प्रकृति प्राहुरविशेष विशेषवत् ।। 'शुद्धं गुण- त्रयं ह्येतत् प्रोच्यतेऽव्याकृताभिधम् । इति । महत्वलक्षण- कार्योन्मुख्यरहिताऽक्षरावस्था । अस्यां दशायां तन्निष्ठं चित्समष्टि- 5 मानमेयप्रकाशिकायां [प्रमेय स्तत्तच्छरीरफत्वेनोपादानत्वमपि श्रुत्यन्तसिद्धमिति ध्येयम् । एवं कालकर्मस्वभावान् सहकारिणः स्वस्वकार्योन्मुख्यमापाद्य प्रकृति च स्वात्मकपुरुषद्वाराऽधिष्ठाय तां महदादिरूपेण परिणामयति ते स्वशक्तिभूतैरिति चोतं तत्रैव-कालं कर्म स्वभावं च मायेयो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूपुरुपाददे ॥ कालाद्गुणव्यतिकरात्परिणामस्वभावतः। कर्मणो जन्म महतः पुरुपाधिष्ठितादभूत् ॥' इति । अभाव्यतादिति शेषः । सत्स- शिजीवने चायमों वर्णित:-'सगुणब्रह्मसंज्ञोऽसौ सिसूक्षु: पुरुषो जगत् । कालं कर्म स्वभावं च प्रामोत्यादौ हरी- च्छया ॥ ईक्षणं वीर्यमाधत्ते महापुरुपवीक्षितः। पुरुषः स प्रधानाख्यप्रकृतौ तैः समन्वितः॥ पुरुपाधिष्ठितेनाथ प्रधाने त्रिगुणात्मके । प्राप्नुवन्ति गुणाः क्षोभ कालेनैवादितस्त्रयः ।। परिणामः स्वभावेन ततस्तेषां प्रजायते । महत्तत्त्वस्य जननं जायते तेन कर्मणा ॥ इति । हरिवाक्यसुधासिन्धौ च-'कृष्णः पुरुषरूपेण मधाने गर्भमीक्षणम् । दधाराथ महत्तत्त्वं चित्ता- त्मकमभूत्ततः ।।' इति । अनेदं योध्यम्-मूलप्रकृतेरेय महदादिकार्यारम्भकायस्थाप्राप्ती प्रधानं प्रकृति रित्यपि व्यपदेशः । प्रधानस्यापि चिन्मिश्रित्तत्वात्पुरु- पाधिष्ठितत्याहा सपुरुपयोक्तिः प्रत्यण्डमण्हान्तर्गतसमस्ततत्त्यफा- रणत्याच प्रधानस्य सपुरुपस्याण्डयदुत्वनियन्धनो बहुत्वव्यपदेशश्च सम्प्रदायप्रन्येषु कृतोऽस्ति । मूलप्रकृतेरवस्थाभेदमानत्वाच प्रधानस्य न नवसत्त्यमेदः । 'सदेन सोम्येदं तदक्षत बहु स्यां 'तते- जोञ्जत' 'इन्तामिमास्तिस्रो देवता:' 'प्रकृतिं पुरुषं चैव प्रकारो] जडपरिच्छेदः। ર૭ प्रविश्यात्मेच्छया हरिः क्षोभयामास सम्प्राशे सर्गकाले व्यया- व्ययौ॥' 'मम योनिर्महद्बह्म तस्मिन् गर्भ दधाम्यहम्' 'याव- सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्त- द्विद्धि भरतर्षभ।' 'एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवःप्रलयस्तथा॥' इत्यादिशास्त्रेषु सम- प्टिप्रकृतिपुरुपयोय॑ष्टिभूतक्षेत्रक्षेत्रज्ञयोश्च विलक्षणसंयोगादेव परम- पुरुपसङ्कल्पकृताजगत्सृष्टिचर्णिता । न तन सृज्यजीवकोट्यघटि- तानां अक्षरपुरुषप्रधानपुरुपाणां पृथक्त्वेन प्रस्तावोऽस्ति । अथापि कतिपयपुराणवचनानुसारेण पृथग्भूताक्षरप्रधानपुरुपद्वारकसृष्टि- वादः कृतोऽस्ति कचित्साम्प्रदायिकमन्थेषु । अक्षरपुरुपप्रधानपुरु- पाणां महामायाप्रधानामिमानितया निर्वाहोऽस्य करणीयः । तत्र मूलप्रकृतेरभिमानी अक्षरपुरुषः, प्रधानस्याण्डभेदेन भिन्नस्याभि- मानिनस्तु पुरुषा इत्युच्यन्ते । विस्तरस्तु सम्प्रदायग्रन्थेषु द्रष्टव्यः । परमाणुस्वतन्त्रप्रधानकारणत्वनिरासः। एवं ईश्वराधिष्ठितमायाकारणत्वस्य श्रुतिस्मृतिसिद्धत्वादेवेश्वरा- धिष्ठितपरमाणुकारणवादो वैशपिकानां स्वतत्रप्रधानकारणवादश्च कापिलानां निरस्तो वेदितव्यः । तथाहि । काणादास्तावदेवमभिम- न्यन्ते-ईश्वरस्य चिकीवशात्परमाणौ क्रिया, द्वयोः परमाण्वोः संयोगात् घ्यणुकं, त्रिभिस्तैः संयुक्तरुयणुकमित्यादिक्रमेण जगत आरम्भः । ते च परमाणवः क्षियप्तेजोवाय्वारम्भकाश्चतुर्विधाः सन्ति गन्धादिलक्षणा इति । निरस्तश्चायं वादः सूत्रकारण-'मह- दीर्घवद्वा हस्वपरिमण्डलाभ्याम्' इति । न पराभिमते परमाणो प्रमाणं किमपि पश्यामः । अदृश्ये तस्मिन् अनुमानं यदुत्प्रेक्ष्यते-- १२८ मानमैयप्रकाशिकायां [प्रमेय जालसूर्यमरी चिस्यं यत्सूक्ष्मतमं दृश्यते तत् कार्यद्रव्यारब्धं चाक्षु- पद्रव्यत्वात् तस्य च कार्यद्रव्यस्य सावयवत्वेन तदवयवः कश्चन स्वीकरणीयः । तेन चावयवधाराविश्रान्तिस्थानभूतेन भाव्यम् । अन्यथाऽनवस्थापात:, मेरुसर्पपयोः साम्यप्रसङ्गश्चेति । तन्न । विपक्षे वाधकाभावात् । न हि द्रव्यस्य चाक्षुषत्वे कार्यद्रव्यार- ब्धत्वं प्रयोजकम् । उद्भूतरूपस्यैव तु तत्र प्रयोजकता । ननु कानि- चिदृश्यान्यपि न विशदावभासानि, कानिचित्तु विशदावभासानि । तत्र निमित्तं महत्त्वतारतम्यम् । यत्र महत्त्वप्रकर्पस्तत्र चाक्षुपप्र- कर्पः, यत्र तु न तत्प्रकर्पस्तत्र न चाक्षुषप्रकपः । असति महत्त्वस्य चाक्षुपे कारणत्वे तत्प्रकर्पयोः कार्यकारणभावोऽयं न घटेत । तस्मात्सिद्धं महत्त्वस्य द्रव्यचाक्षुपे हेतुत्वम् । तथैवावयवसङ्ख्याप्रकर्षे चाक्षुपप्रकर्पस्तदप्रकर्षे तदपकर्ष इति चानुपविशेपेऽवयवसायनि- शेपस्य हेतुत्वात् कार्यद्रव्यारब्धत्वं चाक्षुपत्वे भवति निमित्तम् । इति चेन्न । अवश्यक्लप्तनियतपूर्ववृत्तिना उद्भूतरूपेणैव द्रव्यचाक्षुपे सम्भवति तत्सहभूतमन्यथासिद्धम् । सत्यपि महत्त्वेऽसत्युद्भूतरूपे न भवति चाक्षुपम् । तत् द्रव्यनिष्ठविषयतासम्बन्धेन चाक्षुपं प्रत्युद्भूतरूपस्य कारणत्वं क्लुप्तमिति तत्सहभूतत्वमात्रेण महत्त्वस्य खुतः कारणता न च महत्वप्रकर्षस्य चाक्षुषप्रकर्षे हेतुत्वं महत्त्वस्म चाक्षुपे हेतुत्वं विना न घटेत । यथोपलम्भ, योग्यता स्वी- कार्या। किश्च विप्रतिपन्ने कार्यद्रव्यारब्धत्वं साधयवस्तव नाभिल- पिवसिद्धिः । सर्वस्य परम्परया प्रकृतिकार्यत्वं यदतामस्माकं पर- परयाऽऽकाशादिकार्यद्रव्यारब्धत्वं तस्यापीष्टमेव हि । यदप्यणुप- रिमाणतारतम्येन फचिद्विश्रान्तेन मान्यमिति, भवतु नाम विश्रा- प्रकाशे] जडपरिच्छेदः। । न्तिस्थानम् । अदृश्येनैव भाव्यमिति कोऽयं निर्बन्धः । दृश्ये- प्वेव सर्वतः सूक्ष्मतमं यत् तदेव तद्भवतु । का चेयं मर्यादा- परमाणुयणुकं चेति द्वावेवाणू, व्यणुकप्रभृति तु महदिति । सर्पपे तत्तुल्यपरिमाणेष्वपि हि लोकेऽणुव्यवहारो दृष्टः, ततोऽप्यपकृष्ट- परिमाणेपु अणुतरोऽयमणुतम इति च । तथा सर्पपादप्यत्यन्तमप- कृष्टपरिमाणं धान्यविशेषमपेक्ष्य भवति सर्पपेऽयं महानिति व्यव- हारः । तस्मादनुमानतः कारणकाष्ठाकल्पनातः श्रुतितः कल्पनैव तु न्याय्या। तथा च प्रकृतिर्गुणमयी मायाशब्दाभिलप्या विक- तीनां सर्वासामासामाकाशादीनां मूलमिति सिद्धम् । यञ्च कापिला मन्यन्ते-गुणत्रयात्मिकैव प्रकृति डाऽप्यधिष्ठा- तृचेतननिरपेक्षं स्वयमेव महदाद्यात्मना विकरोतीति । तदिदं सूत्र- कारेण 'रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च' इत्यादिना निर- स्तम् । यच्च तैः श्रुतिर्वलात्स्वाभिमते प्रधानकारणवादे नीयते तदपि 'ईक्षते शब्दम्' इत्यादिना निरस्तं सूत्रकृता । तेषामेपा प्रक्रिया- सततपरिणामशीला विकरोति गुणत्रयी स्वयं जातु । जन- यति विविधान् भावान् एकैकगुणोद्भवाभिभवभेदात् ॥ अपगतविविधविकारा सन्त्यकान्योन्यवैपम्या । श्रान्तेवास- यातात्प्रसवाद्विश्राम्यति स्वयं जातु ॥ पुंसः सन्निधिमात्रा- पुनरपि विकरोति विविधभावेन । अर्थाय पुंस एव प्रवृत्ति- रस्या निवृत्तिश्च ॥ इति । अत्र सिद्धान्तिनः प्रतिवदन्ति-पुंसः सन्निधिमानं सततं तुल्यं विभुः स नित्यश्च । स ह्यविकारः पुरुषः सत्तामात्रात्तु सन्निधिर्नान्या ॥ तत्सर्गप्रतिसर्गन्यव- स्थितिःव वो घटते। पुरुपानधिष्ठितायां न जडायां तु कचित् -- मान.प्र. ९ १२८ मानमेयप्रकाशिकायां [प्रमेय जालसूर्यमरीचिस्यं यत्सूक्ष्मतमं दृश्यते तत् कार्यद्रव्यारब्धं चाक्षु- पद्रव्यत्वात् तस्य.च कार्यद्रव्यख सावयवत्वेन तदवयवः कश्चनं स्वीकरणीयः। तेन् चावयवधाराविश्रान्तिस्थानभूतेन भाव्यम् । अन्यथाऽजवस्तापातः, मेरुसर्पपयोः सास्यप्रसङ्गश्चेति । सुन्न । विपक्षे वाधकाभावात् । न हि द्रव्यस्य चाक्षुषत्वे कार्यद्रव्यार ब्धत्वं प्रयोजकम् । उद्भूतरूपस्यैव तु तत्र प्रयोजकता । ननु कानि- चिदृश्यान्यपि न विशदावभासानि, कानिचित्तु विशदावभासानि । तत्र निमित्तं महत्त्वतारतम्यम् । यत्र महत्त्वप्रकर्षस्तत्र धानुषप्र- कपः, यत्र तु न तत्प्रकर्पस्तत्र न चाक्षुपप्रकर्षः । असति महत्त्वस्य चाक्षुपे कारणत्वे तत्प्रकर्पयोः कार्यकारणभावोऽयं न घटेत । तस्मारिसद्धं महत्त्वस्य द्रव्यचाक्षुपे हेतुत्वम् । तथैवावयवसाध्याप्रकर्षे चाक्षुषप्रकर्पस्तदप्रकर्षे तदपकर्ष इति चाक्षुषविशेषेऽवयवसायवि- शेषस्य हेतुत्वात् कार्यद्रव्यारब्धत्वं चाक्षुषत्वे भवति निमित्तम् । इति चेन्न । अवश्यक्लप्तनियंतपूर्ववृत्तिना उद्भूतरूपेणैव द्रव्यचाक्षुपे सम्भवति तत्सहभूतमन्यथासिद्धम् । सत्यपि महत्त्वेऽसत्युद्भूतरूपे न भवति चाक्षुपम् । तत् द्रव्यनिष्ठविषयतासम्बन्धेन चानुपं प्रत्युद्भूतरूपस कारणत्वं क्लृप्तमिति तत्सहभूतत्वमात्रेण महत्त्वस्य . कुतः कारणता।न. महत्त्वप्रकर्षस्य चाक्षुषप्रकर्षे हेतुत्वं महत्त्वस्य चाक्षुपे हेतुत्वं विना न घटेत । यथोपलम्भं च योग्यता स्वी- कार्या । किन विप्रतिपन्ने कार्यद्रव्यारब्धत्वं साधयतस्तव नाभिल- पितसिद्धिः। सर्वस्य परम्परया प्रकृतिकार्यत्वं यदतामस्माकं पर- परयाऽऽकाशादिकार्यद्रव्यारब्धत्वं तस्यापीष्टमेव हि । यदप्यणुप- रिमाणतारतम्येन फचिद्विश्रान्तेन भाव्यमिति, भवतु नाम विश्रा- प्रकाशे] जडपरिच्छेदः। न्तिस्थानम् । अदृश्येनैव भाव्यमिति कोऽयं निर्बन्धः । दृश्ये- ष्वेव सर्वतः सूक्ष्मतमं यत् तदेव तद्भवतु । का चेयं मर्यादा- परमाणुर्यणुकं चेति द्वावेवाणू, ज्यणुकप्रभृति तु महदिति । सर्षपे तत्तुल्यपरिमाणेष्वपि हि लोकेऽणुव्यवहारो दृष्टः, ततोऽप्यपकृष्ट- परिमाणेषु अणुतरोऽयमणुतम इति च । तथा सर्पपादप्यत्यन्तमप- कृष्टपरिमाणं धान्यविशेषमपेक्ष्य भवति सर्पपेऽयं महानिति व्यव- हारः। तस्मादनुमानतः कारणकाष्ठाकल्पनातः श्रुतितः कल्पनैव तु न्याय्या । तथा च प्रकृतिर्गुणमयी मायाशब्दाभिलप्या विकृत तीनां सर्वासामासामाकाशादीनां मूलमिति सिद्धम् । यच्च कापिला मन्यन्ते-गुणत्रयात्मिकैव प्रकृतिर्जडाऽप्यधिष्ठा- तृचेतननिरपेक्षं स्वयमेव महदाद्यात्मना विकरोतीति । तदिदं सूत्र- कारेण 'रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च' इत्यादिना निर- स्तम् । यञ्च तैः श्रुतिबलात्स्वाभिमते प्रधानकारणवादे नीयते तदपि 'ईक्षते शब्दम्' इत्यादिना निरस्तं सूत्रकृता । तेषामेपा प्रक्रिया- सततपरिणामशीला विकरोति गुणत्रयी स्वयं जातु । जन- यति विविधान् भावान् एकैकगुणोद्भवाभिभवभेदात् ॥ अपगतविविधविकारा सन्त्यकान्योन्यवैषम्या । श्रान्तेवास- ब्यातात्प्रसवाद्विश्राम्यति स्वयं जातु ॥ पुंसः सन्निधिमात्रा- पुनरपि विकरोति विविधभावेन । अर्थाय पुंस एव प्रवृत्ति- रस्या निवृत्तिश्च ।। इति । अत्र सिद्धान्तिनः प्रतिवदन्ति-पुंसः सन्निधिमात्रं सततं तुल्यं विभुः स नित्यश्च । स ह्यविकारः पुरुषः सत्तामात्रात्तु सन्निधिर्नान्या ॥ तत्सर्गप्रतिसर्गव्यव- स्थिति व वो घटते।पुरुषानधिष्ठितायां नजडायां तु कचित् मान०प्र०९ मानमेयप्रकाशिकायां [प्रमेय- क्रिया दृष्टा ॥ सर्गोपपादनार्थ पडूग्वन्धनिदर्शनं यदपि । ननु विषम तद्धि तयोापारः कश्चिदस्ति नात्रैवम् ॥ गन्तुं अभवत्यन्धः शक्नोति हि पङ्गुरादेष्टुम् । निर्व्यापारः पुरुषः सत्तामानं च सर्वदास्त्येव ॥प्राग्विकृतेर्गुणसाम्यात् व्यापारः कोऽपि न प्रकृतौ। अत एव नात्र घटते लोहादिनिदर्शनं चापि ॥ इति । मायाया अनन्तत्वम् । इयं तिर्यगधश्चानन्ता, अवं तु परिच्छिन्ना । नित्यविभूतेस्तमसः परत्वश्रुतेः । 'तदनन्तमसलयातमप्रमाणंच' इत्यच्यक्तस्यापरि- च्छिन्नत्ववचनं च तिर्यगधःप्रदेशविषयं बोध्यम् । नानया परितो व्याप्तयाऽपि मध्ये सश्चरतां मूर्तानां गत्यागत्योरुपरोधो गगनेनेव । अस्पर्शत्वेनाप्रतिघातकत्वात् । सततपरिणामशीलत्वादियं समान विषमांश्च परिणामान कालभेदेन देशभेदेन चारभते । गुणवैपन्या- नापन्नाः परिणामा महाप्रलये । सर्गे तु गुणवैषम्यारंपदानास्पदप्रदें- शभेदेन समासमपरिणामाः । • मायाया निरवयवत्वम् । न चास्याः परिणतिभेदा महदादिरूपेण घटादिपरिणतय इव मृपिण्डस्य खण्डितत्वमापाद्यन्ति । निरवयवत्वात् । काणादानां पक्षे निरवयवतया अंशरहितस्याप्याकाशस्य कचित्तीप्रशब्दजनकत्वं फविध मन्दशब्दजनस्त्वमिव निरंशाया अपि प्रकृतेर्महदादितत्त्व- भेदजनकत्वमुपपद्यते । नन्वाफाशस्य भेरीमृदगाद्युपाधिभेदादंश- भेदकल्पनोपपद्यते। तेस्तु न तथाविध उपाधिः कश्चिदस्ति ।

प्रकाशे] जटपरिच्छेदः। मैवम्। 'अत्र महान् जायतामत्राहकारो जायता मित्यादेरीश्वर- सङ्कल्परूपोपाधेरैव प्रदेशभेदकल्पकत्वात् । सङ्कल्पश्च द्रव्यमेव, सिद्धान्ते धर्मभूतज्ञानस्य द्रव्यत्वात्तद्विशेषत्वाचास्य । अतस्तत्तत्सं- युक्तप्रदेशे तत्तद्विकारविशेप उपपद्यते नाम । ननु सङ्कल्पविशेष- लक्षणद्रव्यसंयोगो वा प्रादेशिको निरंशायां कथं घटेत । भेर्या- दिसयोगो वा प्रादेशिको निरंशे गगने कथम् । स्वाभावसामाना धिकरण्येन प्रतीयमानोऽयमेव स्वानुबन्धन प्रदेशभेदबुद्धिहेतुर्भ- वतीत्यस्य स्वभाव इति चेत्तुल्यं प्रकृतेऽपि । तदुक्तं न्यायसिद्धाजने- “प्रदेशवर्तिसंयोगाद्याधाराणुविभुक्रमात् । निरंशस्यापि घटते प्रादेशिकविकारिता ॥” इति । अस्याश्च गन्धादिलक्षणपरिणा- मभेदे छेदनादियोगोऽपि यथोपलम्भं स्वीकार्यः । विस्तरस्तु न्याय- सिद्धाञ्जनादौ योध्यः। यद्वा प्रकृतेरपि सांशत्वमस्तु । यथा 'व्योन्नोऽर्धभागाश्चत्वारो वायुतेजःपयोभुवाम्' इत्यादिना आकाशादेः सावयवत्वं प्रतीयते तद्वत् । यथा केचन मृदंशा घटत्वलक्षणविशिष्टंकावस्था कारक- व्यापारात्प्राप्नुवन्ति । एवं प्रकृतेरप्यंशाः कतिचन महत्त्वावस्वां प्रामुवन्ति । महदादेश्व कतिचनांशा अहङ्कारत्वाद्यवस्थाम् । नन्वेवं प्रकृतेः सांशत्वे परमाणुपुञ्जरूपतेव प्राप्ता । मैवम् । परमाणूनां हि पृथिव्यायशानां गन्धादिमत्त्वं सत्त्वादिगुणराहित्यं परस्पर- प्रतिघावकत्वं असुश्लिष्टत्वं च परैरभ्युपगम्यते । प्रकृत्यंशानां तु तद्विलक्षणत्वमेव । तथा च 'शब्दस्पर्शविहीनं तद्रूपादिभिर- संयुतम् । त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ॥' इत्या- चागमप्रतिपन्न मिति न दोपः। है १३२ मानमेयप्रकाशिकायां [प्रमेय- प्रकृत्यादीनां पांशत एव महदादिरूपेण परिणामित्वमेष्टव्यम् । अन्यथा त्वेकतत्त्वपरिशेषप्रसङ्गेन तेपां श्रूयमाणमण्डावरणत्वमनु- पपन्नं स्यात् । तथा च वचनम्-'वारिवक्ष्यनिलाकाशस्ततो भूतादिना बहिः । वृतं दशगुणैरण्डं भूतादिमहता तथा ॥ अव्यक्तेनावृतो ब्रह्मन् तै सर्वैः सहितो महान् । एभिरावर- पैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥' इति । हरिवाक्यसुधासिन्धौ चांशत उत्पत्तिः स्पष्टमुक्ता ज्ञातव्या । सत्कार्यवादः। अस्याश्च प्रकृतेर्महदहङ्कारैकादशेन्द्रियतन्मात्रपञ्चकभूतपञ्चका- त्मना परिणतिभेदैर्भवति चतुर्विशतिविधत्वम् । अत एव कार्य- कारणयोरनन्यता । परिणामो हि सत एव द्रव्यस्यावस्थान्तरापत्ति- मात्रम् । यथा मृदः पिण्डावस्थाप्रहाणेन कम्बुप्रीवाद्यवस्थाप्राप्तिः । एतेनावयवावयविभेदमाश्रित्य योऽयमसत्कार्यवादः नैयायिकायुक्तः स परास्तः। तन्तव एव हि संश्लेपविशेष विशिष्टाः पटात्मना । दृश्यन्ते । अवाधिते च प्रत्यक्षे न तद्विरुद्धोऽर्थः प्रमाणपथमधि- रोइति । ननु सत एव चेत्कार्यता कारकव्यापारनरपेक्ष्यमापद्येत । अपूर्वार्थनिप्पादनं हि कारकव्यापारस्य प्रयोजनम् । नामभेदश्चा- गान्तरमपेक्षते । प्रयोजनभेदश्व-अन्यदेव पटस्य प्रयोजनमाच्छा. दनादि अन्यदेव तु तन्तूनाम् ! तथा सङ्ख्याभेदः :-तन्तवः सहस्रं पटस्त्वेकः । तथा च कालभेदः-कारणं प्राक् कार्य तु पश्चादेव । रस्मात् उपादेयेनोपादानादन्येनैव भाव्यम् । मैवम् । अवस्था- नेदेनैव सर्वनिर्वाहात् । द्रव्यैक्येऽप्यवस्था हि भिद्यते । यथा- एकस्यैव मृद्रव्यस्य प्रारू पिण्डावस्था पश्चात्तु कम्बुप्रीवादिलक्षण- ।

प्रकाशे] जडपरिच्छेदः। १३३ घटावस्था । तन्तूनामेव पूर्व विश्लिष्टानां पञ्चाब्यतिपङ्गविशेपलक्षण- पटावस्था । अवस्थावैचित्र्यस्यैवापूर्वस्य कारकव्यापारसापेक्षता । अवस्थाभेदादेव नामभेदादिश्वोपपद्यते । किञ्च द्रव्यान्तरवादिनां यः पूर्वमिह मृत्पिण्ड आसीत् स एवायेह घटशरावाद्यात्मनाऽस्ति' इत्यबाधिता प्रत्यभिज्ञा विरुद्ध्येत । तथा तन्तुगुरुत्वतो द्विगुणं गुरुत्वं पटे प्रसज्येत । भिन्नयोरुपादानोपादेययोरेकन सम्भूय स्थिते । इप्यमाणे च गुरुत्वाधिक्ये पतनातिरेकः प्रसज्येत् , तोलने चाधिक्यमुपलभ्येत । निरस्तश्यायमसत्कार्यवादस्तत्त्वगुक्ता- कलापे-'कार्योपादानभेदे न कथमधिकता गौरवादेः स्वकार्ये नान्यत्वं नामसङ्ख्याव्यवहृतिधिपणाकारकालादिभेदैः। द्रव्या- भेदेऽप्यवस्थान्तरत इह तु ते पत्रताटङ्कवत् स्युः नोचे- दंशांशिनोः स्यात् प्रतिहतिरुभयोः स्पर्शवत्त्वाविशेषात् ॥' इत्यादिना । न्यायसिद्धाञ्जने च विस्तरेणैतदुपपादितम् । निरस्त- श्वायमसत्कार्यवादः शास्त्रदीपिकायाम्-'ननु तन्तुपटादिषु द्रव्या- न्तरोत्तत्तिरेवाभिमता, अन्यथा यवयव्यपलापः स्यात् । न वयम- वयविनमपद्भुमहे, द्रव्यान्तरोत्पत्ति तु नेच्छामः, प्रतिपत्त्यभा- वात् । तन्तव एव हि संयोगविशेषादेकद्रव्यतामापद्यन्ते अवयनी घ भवन्ति । तादृशाश्च पटजाति स्थौल्यं च विभ्रत एकपट- स्थौल्यबुद्ध्या गृह्यन्ते इति लौकिकी प्रतिपत्तिः । अतो न द्रव्यस्य कदाचिदागमोऽपायो वा, घटपटगवाश्वशुम्लरचावस्थानामेवागमा. पायो' इति । सतोऽपि द्रव्यस्योत्पादविनाशन्यवहारालम्बनं यत्स बावस्था । यथा-घटस्य भनस्य या रुपालावस्था सा घटावस्थ. याऽवस्थितन्यापेक्षया नाश उच्यते, सैव स्वावस्थयाऽवस्थितब- मानमेयप्रकाशिकायां [प्रमेय- स्त्वपेक्षयोत्पत्तिरुच्यते । भग्नो घटः कपालो जात इति हि भवति व्यवहारः । नन्ववस्थाविशेषस्य पूर्वमसतः पश्चादुत्पत्त्यभ्युपगमे. नासत्कार्यवादो भवताऽप्याश्रयणीय एव । सत्यम्, अपूर्वः कोऽप्य- चयवी अवयवेषु तेभ्योऽन्य उत्पद्यते इति योऽयमसत्कार्यवादः परैराश्रितः स तु प्रयस्यते । प्रथितश्चायमेवासत्कार्यवाद इति । यत्पुनः कापिला मन्यन्ते-कूर्मकपरे तदङ्गानीवोपसंहियमा- णानि घटाद्यवयविद्रव्याणि तदवयवे मृत्पिण्डे निलीनानि कुलाला- दिकारकव्यापारेणाविर्भवन्ति । तदेवं सर्वमेवोपादेयद्रव्यमुपादाने प्राक् निलीनं पश्यादाविर्भवति । तस्मान्नासज्जायते । नासतो जनि- घंटेत । ननु न गगनकुसुमवदसत्, प्राक्त असदुच्यते । जातु असत् जातु सदिति कथम् ? । असत् असदेव । अतोऽसतः करणा- योगः। किश्च घटकरणाय मृदेवादीयते न तन्तवः।असतो घटस्य चेदुत्पादः, अतद्गर्भो मृत्पिण्ड इव अतद्गर्भस्तन्तुः किं नोपादीयते घटाधानाय । सर्वतः सर्वस्य सम्भवः प्रसज्यते च । ननु शक्कादेव शक्यसम्भवो नाशक्तादिति चेत् कार्यगर्भतां विना कारणे शक्तिम- परां न पश्यामः । उपादेयगर्भव तूपादानस्योपादेयजनने शक्तिः । यथा तिलानां वैलजनते । स्यूलमपि कार्य सूक्ष्मेण रूपेण सन्निधत्ते कारणे । तस्मात्तिरोभूतस्य प्रादुर्भाव एव जनिरिति । हन्त सत्कार्यवादस्य प्रतिष्ठापनकौशलम् । इमांकारकसामग्री प्रथि- तां लोकवेदयोः॥व्यजिकैवेति वदता तद्विरोधस्तृणीकृतः। घटकारकसामग्या घटवत्करकादिकम् ॥ व्यज्यतां स हि मृत्पिण्डः प्रभवः करकस्य च । न व्यज्यते किमेकेन दीपे- ।

प्रकाशे] । जडपरिच्छेदः। नाप्यदिक्षितम् ॥ सत्यं नानाविकाराणामेकः स्यात्प्रभवा- स्पदम् । किन्तु व्यञ्जक्वैचित्र्याव्यज्यते नेतरत्तदा ॥ तस्मि- नसिद्धे तत्सियै तद्वैचित्र्यं प्रकल्पयन् । सत्कार्यवादश्रद्धां खां प्रदर्शयति भूयसीम् ॥ किञ्च-अन्यैव त्वर्थसामग्री दण्ड- चक्रादिलक्षणा | तदर्थव्यञ्जिका त्वन्या चक्षुरालोकलक्षणा ॥ अभिव्यक्तिः पदार्थानां जन्मनस्त्वतिरिच्यते । जातोऽप्य- र्थोऽनभिव्यक्तोऽप्यास्ते कश्चित्वचिन्ननु ॥ ननु ग्राहकसा- मग्री चक्षुरालोकलक्षणा । न सा व्यञ्जकसामग्री व्यक्त - र्थान्तरं जनिः ॥ अन्यैवेयमभिव्यक्तिः प्रकाशाज्ञाततात्म- कात् । अथ केयमभिव्यक्तिरगतस्य धियः पदम् ॥ उपादाने निलीनस्य ननु निःसरणं ततः। विभागो नन्वयं तस्मादव- स्थाभेद एव सः॥ तथा चाश्रयणीयश्चेदवस्थाभेद ईदृशः। कल्प्यते दुर्घटा कस्मात्स्वाकारेण निलीनता ॥ आकारभेदरू- पोऽयमवस्थाभेद इप्यताम् । तिलेभ्यो ननु तैलस्य ब्रीहिभ्य- स्तण्डुलस्य च ॥ स्वाकारेण निलीनस्य दृष्टं निःसरणं खलु । ननु भो' किंततः प्राप्तं तैले हि न तिलान्वयः॥न तण्डुलेषु वीहीणां तेपूपादानता कुतः । व्रीहितण्डुलयो पि न चापि तिलतैलयोः ॥ अभेदप्रत्ययो दृष्टो लोके मृद्धटयोरिव । स्वाकारेण निलीनस्य प्रादुर्भावावधिस्तु यः ॥ नोपादानं भवेत्तस्य ननूधःपयसो प्रथा । अनलस्यारणेयस्य नोपादानं यथाऽरणिः ॥ नन्वन्तीनतामात्रे तिलतैलनिदर्शनम् । १ शकते-सत्यमिति। २ परिदरवि-तस्मिनिति। ३ नन्विति वायाम् । ४ परिहरवि-ननु मो. इति । ..

मानमेयप्रकाशिकाय [प्रमेय- स्वेनैव सूक्ष्मरूपेण भावे कार्यस्य कारणे ॥ ननु न्यग्रोधत- द्धानाः सद्विद्यायां निदर्शिताः। किं तेन ननु तत्रापि दशा- भेदो हि दर्शितः ॥ अणिमा योऽयमस्यैव न्यग्रोधोऽयं महानिति । कार्यकारणयोः स्थौल्यसौक्ष्म्ययोगो हि दर्शितः॥ तस्मादस्माभिः कृतमवस्थाभेदेन सत्कार्यवादसमर्थनमेव युक्तम् । 'मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस्ततोऽणुः' (वि. पु.) इयत्र चानन्तपरिणामलक्षणावस्थायोग एवोक्तोऽचित:, न पुनः कार्यावस्थयाऽपि पूर्व सत एवाऽऽविर्भावमात्रम् । इति । अवस्थान्तरप्राप्तिरेवोत्पत्तिरतः कार्यकारणयोरभेद इत्ययमर्थः सनि- दर्शनमुपपादितो वचनामृतेऽमि-(मध्य-३४) “यथा पृथिव्या एकत्या एव स्वांसमजास्थिस्नायुरूपेण परिणामभेदा आध्या- त्मिकाः, तस्या एव समर्थ शिल्पिविशेपाधिष्ठानेन काचादिरूपेणाश्च- यरूपा विचिन्ना विविधाश्च परिणामा भवन्ति, नच तावता तेषां पृथिवीद्रव्यत्वमपैति । एवं प्रकृतेरेय जडायाः सूट्युपक्रमे सर्वज्ञ- स्थानन्तशक्तेः परमात्मनोऽधिष्टानेन महदादिद्वारा देहेन्द्रियादिवि- विधविचित्रपरिणामशालित्वं भवति । जडप्रकृतिपरिणामतया च महदादीनां देहेन्द्रियादीनां च जडत्वमेव" इति । एवं चतुर्विश- तितत्त्वात्मिका प्रकृतिरिति स्थितम् । श्रीभागवते-पञ्चभिः पञ्चभिर्मातश्चतुभिर्दशभिस्तथा। एत- चतुर्विंशतिकं गणं प्राधानिक विदुः ॥ महाभूतानि पश्चैव भूरापोऽनिर्मल्नभः । तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ इन्द्रियाणि दश श्रोनत्वग्नसननासिकाः । वाकरी घरणी भेदं पायुर्दशम उच्यते ॥ मनोवुद्धिरह- " प्रकाशे] जडपरिच्छेदः। १३७ कारश्चित्तमित्यन्तरात्मकम् । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य हि । सन्निवेशः' इति चतुर्विंशतिकत्वं प्राकृतिकगणस्योक्तम् । अत्र यद्यप्यन्तरात्मनोऽन्तःकरणस्यैकस्यैव सङ्कल्पाभिमानाध्यवसायचि- न्तालक्षणवृत्तिभेदान्मनोऽहतारो बुद्धिश्चित्तमिति व्यपदेशभेदमा- त्रम् । अत एकविंशतिकत्वमेव स्यात् । मैवम् । अन्तःकर- गस्यैकत्वेऽपि चित्ताख्ये वृत्तिविशेपे तदीयेऽनुग्राहकमव्यक्तं बुद्ध्या- ख्येऽनुप्राहकं महत् अभिमानाख्येऽनुपाहकोऽहकार इति तैर्भवति चतुर्विशतिकत्वम् । शोके च अहङ्कारवुद्धिचित्तशब्दा अनुप्राहकत- त्त्वपरा योध्याः । अनुग्राह्यानुप्राहकयोश्चैक्यविवक्षा । यद्यपि चिन्तनाध्यवसायादिकं धर्मभूतज्ञानावस्थाविशेषः, अथापि तत्त- देवस्थानुकूलान्तःकरणव्यापारविशेषश्चिन्तादिशब्देनोच्यते । तत्त- व्यापारानुग्राहकं चाव्यक्तादि वोध्यम् । 'भूतेन्द्रियाणि मात्राश्च मनोवुद्धिरहकतिः । चित्तं चेति प्राकृतोऽयं चतुर्विंशतिको गणः ॥ इति सत्सगिजीवनश्लोकोऽप्येतेन व्याख्यातः । 'चतुर्वि- शतिसहयातमन्यतं व्यकमेव च' इत्यादिवचनात्मकृत्या 'सहेय चतुर्विशतिकत्वं प्राकृतिकगणस्य बोध्यम् । अत एव प्रकृतिप्राकृतवि- लक्षणस्यात्मनः पञ्चविंशत्वं कीर्त्यमानमुपपद्यते 'पञ्चविंश आत्मा भवति' (श्रुतिः) 'आत्मा तु समकारेण पञ्चविंशः प्रकीर्तितः' (पाद्मोत्तर) 'यः परः प्रकृतेः प्रोकः पुरुषः पञ्चविंशकः' 'अबु- समानां प्रकृति वुध्यते पञ्चविंशकः । न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ॥' इत्यादिषु । महदादीनि चतुर्विशतित- त्वानीति पचित्कीर्तनं तु विवक्षानुसारेण युद्धर्मनसः पृयग्गणनया निर्वहणीयम्। जस्मिंश्च पोदारचित्तयोर्मनोबुयोरन्तर्भायो शेयः।

मानमेयमकाशिकायां [प्रमेय: महत्तत्त्वनिरूपणम् । अथ महत्तत्वम् । प्रकृतेर्महान् । 'महानन्यक्के लीयते' इति महतोऽव्यक्ते लयस्य प्रतिपादनादव्यक्तोपादानत्वं लभ्यते । उपादाने हि कार्यस्य लयः। 'दैवात् क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्य सासूत महत्तत्त्वं हिरण्मयम् ॥' ' इति च जगद्योनिभूतायाः प्रकृतेः साक्षान्महत : उत्पत्तिरुच्यते । कालकृताद्गुणक्षोभान्महदादिसृष्टिः । गुणक्षोभश्च परस्परोद्भवाभि- भवरूपेण गुणानामवस्थानम् । 'रजस्तमश्चाभिभूय .सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ इति हि गीयते । उद्भूतमिति शेषः । तत्र त्रिगुणायाः प्रकृते रजः- सहकृतसत्त्वोद्रेकान्महत्तत्त्वस्योद्भवः । तदुक्तं 'यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदाह्वयम् ॥' इति । अत्र चित्तानुग्राहकत्वाव्यतस्य चित्त- मिति व्यपदेशः । अधिष्ठात्राधिष्ठेययोरैक्यविवक्षया च वासुदे- वाल्यमिति । वासुदेवाख्यन्यूहाधिष्ठितमब्यक्त चित्तानुपाहकमु- द्रितसत्त्वगुणं महत्तत्त्वमभूदित्यर्थः । यदाऽन्तःकरणस्य शान्तत्वं- अभिभूतरजस्तमरकत्वं, अत एवाविकारित्व-विक्षेपादिरहितत्वं, खच्छत्वं-प्रकाशकत्वं, भगवतः पदत्वं-भगवदुपलब्धिस्थानत्वं च भवति, ततैर्लक्षणैरख्यकानुगृहीवत्वं ज्ञातव्यं नाम तस्य । तथा- भोक्तं 'स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः। वृत्तिभि- लक्षणं प्रोकम्' इति । एवमध्यवसायादिवृत्तिभिरन्तःकरणस्य महदायनुगृहीतत्वं ज्ञातव्यमिति भागवतव्याख्याने वीरराघवीये प्रतिपादितम् । स्वच्छत्वादिकं चित्तस्योक्तं सत्सगिजीवने-'पद प्रकाशे] जडपरिच्छेदः। साक्षाद्भगवतः शान्तं सत्त्वगुणं शुचि । अविकारीति च प्रोक्तं वृत्तिभिश्चित्तलक्षणम् ॥' इति । उद्रितसत्त्वादव्यक्तान्मह- दुत्पन्नमित्युच्यते सत्सनिजीवनेऽपि-'उद्बुद्धशुद्धसत्वादित्रिगुणा प्रकृतिस्तु सा । तदा सत्त्वगुणद्वारा महत्तत्त्वं प्रसूयते ॥' इति । 'महान् वै बुद्धिलक्षणः' इति वचनाञ्च बुद्धिशब्दिताध्यव- सायलक्षणान्तःकरणवृत्त्यनुप्राहकत्वं महतो वोध्यम् । महतो लक्षणम् । अव्यक्तावस्थाऽव्यवहितोत्तरा अहङ्कारावस्थाऽव्यवहितपूर्वा च याऽवस्था तदाश्रयत्वमेव महतो लक्षणम् । अवस्थायामव्यवहितो- त्तरत्वं च स्वोत्तरत्वे सति खोत्तरावस्थानुत्तरत्वम् । स्वोत्तरत्वखो- त्तरावस्यानुत्तरत्नस्वसामाधिकरण्यैतत्रितयसम्बन्धेन अव्यक्तत्वाव- स्थाविशिष्टा याऽवस्था तदाश्रयत्वं महतो लक्षणं फलितम् । अव्य- केऽतिप्रसङ्गवारणाय प्रथमसम्बन्धनिवेशः। अहवारेऽतिप्रसङ्ग- वारणाय द्वितीयसम्बन्धनिवेशः । तात्कालिकक्षणत्यावस्थामादाय कालेऽतिव्याप्तिवारणाय तृतीयसम्बन्धनिवेशः । सामानाधिकरण्यं पापृथक्सिद्धत्वसम्बन्धेन । यद्वा-अव्यक्तत्वावस्थानाशात्मिका अ- व्यक्तत्वावस्थानाशलक्षणावस्थानाशानात्मिका च याऽवस्था सेव अव्यकत्वावस्थाव्यवहितोत्तरावस्था, ददाश्रयत्वं महतो लक्षणम् । अव्यक्ताव्यवहितोचरत्वस्य क्षणविशेपसाधारण्येऽपि नाव्यकायस्था. नाशात्मता कालपरिणतिविशेषलक्षणक्षणायसायाम् । तत्तद्रव्यप- रिणतिविशेपलक्षणावखानाशरूपता हि वत्तद्रव्यपरिणतिविशेपलक्ष- गोचरावस्थाया एव । तस्मिन् परिकारे न तृतीयसम्यन्यनिवे. शापेक्षा । न घेवकल्पीयान्यस्त्यावस्थायाः पूर्यफल्सीयाव्यक्तत्वा- [प्रमेय मानमेयप्रकाशिकायां वस्थोत्तरत्वेऽपि तद्व्यवहितोत्तरता तन्नाशरूपता वा । नहि भवति पुरा (पूर्वकल्पे) यदव्यक्तमासीत्तदिदानी अव्यक्तात्मना परिणत मिति विदुषां व्यवहारः । एतत्कल्पीयाव्यकमहदादिपु पुनर्या प्रक- तिर्गुणसाम्यावस्थालक्षणा प्रागासीत् सैवेयमधुना अंशतो नहदह- कारादिरूपेण परिणतेति भवति व्यवहारः अपि च प्रथमं मृत्पिण्डेन द्वौ कपालौ विधाय ताभ्यां घट निर्माय भन्ने तस्मिन् पुनस्तमेव चूर्णीभूतं पिण्डतामापाद्य तेन मृत्पिण्डेन द्वौ कपालौ विधाय ताभ्यां च घटो यदा निर्मितस्तदा प्राथमिकी या मृदः पिण्डावस्था न तन्नाशरूपता व्यवह्रियते द्वितीयपिण्डकपालाद्यवस्थासु । तां प्राथ- मिकी पिण्डावस्थामुपमृद्य प्राथमिकी कपालाद्यवस्थैव हि निष्पादिता, तत्रैव तु युक्तः तब्यवहारः । तथा च न्याय्यं एतत्कल्पीयाव्यक्तमह- दहारादिषु प्रयोजकप्रयोज्यभावमापनेषु पूर्वपूर्वावस्थानाशरूपत्व- मुत्तरोत्तरावस्थासु यथाव्यवहारम् । इत्थं च पूर्वकल्पीयाव्यक्ताव- स्थामादाय एतत्कल्पीयाव्यक्तावस्थायास्तन्नाशरूपत्वापादनस्य नैवाव- सरः । एतेन अव्यक्तावस्थानाशरूपत्वे सत्यहङ्कारप्रागभावरूपत्वं महत्त्वमिति लक्षणमपि नियूंढम् । सात्त्विको राजसस्तामसवेति महान त्रिविधो भवति । तथा घोक्त 'सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ॥' इति । निगुणत्वं हि प्रकृतिप्राकृतानां समम् । तत्तद्गुणकार्यभूयस्तया तु वत्तद्गुणप्राधान्येन व्यवहारो भवति । यथा सत्वात्मकं महत् बामसोऽहसार इति । 'महतस्तु विकुर्वाणाद्रजःसत्त्वोपहि- तात् । तमःप्रधानस्त्वभवव्यज्ञानक्रियात्मकः ॥ सोऽह- शार इति प्रोतः' इत्यत्र महतो रजःसहकृतसत्त्वोद्रेकोऽहकारस्य प्रकाशे] जडपरिच्छेदः। च तमोगुणोद्रेक उक्तः । हरिवाक्यसुधासिन्धौ च-'महत्तत्त्वं चित्तैक्येन प्रकीर्तितम् । शुद्धसत्त्वमयं शान्तं कूटस्थं चाति- निर्मलम् । जगदड्कुररूपं च ज्ञेयं तदपि लक्षणैः' इति सत्त्व- प्रधानत्वं महत उक्तम् । बुद्धिचित्तयोरनुमाह्यानुप्राहकयोश्चैक्यविव- क्षया चित्ताभेदेन महदुच्यते सत्सगिजीवनादौ 'प्रकाशरूप शान्तं च कूटस्थं जगदगुरम् । ज्ञानक्रियाभ्यां शक्तिभ्यां चित्तं सूत्रं च यद्विदुः ॥' इति । ज्ञानवृत्त्यनुग्रहणलक्षणसाम- येन चित्तमिति भूतेन्द्रियगणोपादानत्रिविधाहकारजननसामर्थेन च सूत्रमित्युच्यते । त्रिगुणारब्धत्वात्कार्यवर्गांधारत्वाच्च सूत्रसा- धात्सूत्रमित्युक्तिः । सर्वधारकत्वविवक्षयैव महाप्राणशब्देना- प्युच्यते महान् । चिन्तावृत्तिविशिष्टस्यान्तःकरणस्याधिष्ठाता चतुर्मुखः क्षेत्रज्ञसं- शितः । 'चित्तं चैत्यस्ततोऽभवत्' इत्युक्तेः । चैत्यश्चित्ताभिमानी क्षेत्रज्ञः । बुद्ध्याख्यवृत्तिविशिष्टस्य तस्याधिष्ठाता च वाचस्पतिः । 'बुद्धेगिरांपतिः' इत्युक्तः। अव्यकमहतोस्त्वधिष्ठाता व्यूहवा- सुदेव इति च कपिलदेवहूतीसंवादे वीरराघवीये भागवतव्या- ख्याने उक्तम् । बुद्धेब्रह्मा चित्तस्य क्षेत्रज्ञोऽधिष्ठाता इति च पक्षा- न्तरम् । सत्सगिजीवनादौ समाहतमिदमेव । अहङ्कारनिरूपणम् । महतः क्रियाशक्रिमानहङ्कारः सात्त्विकराजसतामसभेदेन त्रि- विधः सञ्जाव इत्युच्यते-'महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यचौदि- तात् । क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ वैकारिकस्तै- जसश्च तामसश्च यतो भवः । मनसश्चेन्द्रियाणां च भूतानां मानमेयप्रकाशिकायां [प्रमेय- महतामपि ॥” इति । अंशगुणकालात्मा जीवगर्भो गुणमयः कालवश्यश्च महान् परमात्मात्मको वीर्यशब्दित्ताद्भगवत्सङ्कल्पविशे- पादहन्त्वेन परिणत इति च 'सोऽप्यंशगुणकालारमा भगवट्ट- ष्टिगोचरः। आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसूक्षया ।। महत्तत्त्वाद्विकुर्वाणादहन्तत्त्वमजायत । कार्यकारणकात्मा भूतेन्द्रियमनोमयः।। इति । अन्नांशशब्दितजीवात्मयुक्तस्वं महत उक्तम् । सर्वत्र च प्रकृतिप्राकृतेपु जीवाः संसृष्टा वेदितव्याः । 'अव्यक्तादिविशेपान्तं चेतनाचेतनात्मकम्' इति भगवत्परा- शरवचनात् । आत्मशब्दः परमात्मवाची, तच्छन्दो महद्वाची । तयोः सामानाधिकरण्ययलाच महच्छरीरकः खसङ्कल्पेनाहङ्कारश- रीरकोऽभूदिति ज्ञायते । सत्सगिजीवने चोक्तम्-'अथ मायाका- लकर्मस्वभावैश्च विकुर्वतः । महत्तत्त्वादहङ्कारः सह रुद्रेण जायते ॥ ज्ञानशक्तिः क्रियाशक्तिद्रव्यशक्तिश्च स विधा। धैकारिकस्तैजसश्च तामसश्चेति कथ्यते ॥ इति । अभिमाना- ख्यान्तःकरणवृत्तेरनुप्राहकोऽहकारः। अनुग्राह्यानुप्राहकयोरभेदधि- वक्षया च अमिमानामिमानिरुद्राभिमानिकत्वमहङ्कारस्योक्तं वेदित- व्यम् । 'रुद्रोऽभिमत्या हृदयम्' इत्यादी रुद्रस्याभिमानदेवता- स्वप्रतिपादनात् । अहङ्कारस्य लक्षणं (शापर्क) उक्त-'कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्तघोरविमूढत्व- मिति या स्थादहङ्कृतेः ।। इति । कार्यकरणे देहेन्द्रिये खहेतोरह- द्वारस्य लिई ज्ञापफम् । कर्तृत्वाभिमानश्च । यदा कर्तृत्वाभिमानो भयसन्तःकरणेन पदाऽहद्वारानुगृहीतत्वं वस्य ज्ञातव्यमिति भावः। 'सहनशिरसं साक्षाधमनन्तं प्रचक्षते । सर्पणाख्य पुरुष । . प्रकाशे] जडपरिच्छेदः। भूतेन्द्रियमनोमयम् ॥” इति चाहकारस्य सङ्कर्पणोऽधिष्ठाता प्रतिपाद्यते । अयं च सामान्येनोक्तः तामसाहकारस्य वोध्यः, यत- स्तैजसस्यानिरुद्धो वैकारिकस्य तु प्रद्युम्नोऽधिष्ठाता तत्रैव प्रत्यपादि। वैकारिकस्य 'कामसम्भवः' इति विशेषणात्, (कामस्य प्रद्युम्नस्य सम्भवो विभूतिरित्यर्थः ) 'यं विदुयनिरुद्धाख्यम्' इति तैजस- स्थानिरुद्धसामानाधिकरण्येन निर्देशाच । अहङ्कारलक्षणम्। महत्त्वावस्थाऽव्यवहितोत्तरावस्थाश्रयत्वं इन्द्रियाव्यवहितपूर्वा- वस्थाश्रयत्वमेव वाऽहङ्कारस्य लक्षणम् । यथा अव्यक्तावस्थानाशरूपा अहङ्कारावस्थामागभावरूपा च याऽवस्था तदाश्रयत्वं महतो लक्षणं, एवं महत्त्वावस्थानाशरूपा इन्द्रियावस्थाप्राकालिकी च याऽवस्था तदाश्रयत्वमहङ्कारस्य लक्षणमिति केचिद्व्याचक्षते । सिद्धान्ते एक. वावस्था पूर्वापेक्षया नाशरूपा भाव्यपेक्षया प्रागभावरूपा चेति यथायथं लक्षणसमन्वयः । अव्यक्ताहङ्कारयोर्मध्यमावस्था महत्त्वा- वस्था महदिन्द्रिययोर्मध्यमावस्था अहङ्कारावस्थेत्युक्तं भवति । यत्तु अध्यवसायरुपवृत्तिर्महानिति अभिमानोऽहकार इति च महदहकारयोर्लक्षणमाहुः साङ्ख्याः, वदनुपपन्नम् । अध्यवसायो ह्यात्मनो धर्मः, स हि ज्ञाता, न च ज्ञातुरन्यस्याध्यवसायः । अभि- मानोऽप्यनात्मन्यात्याभिमानो ज्ञातुरेव स्वरूपाज्ञानकृतः । यद्यमि- मानहेतुरहङ्कारः, कालादृष्टादेरपि तथालादतिप्रसङ्गः । अन्तःक- रणगततत्तजनकवृत्त्यनुप्राहकत्वं पुनर्महदहङ्कारयोः स्यात् । अनह- महतियतेऽनेनेत्यहकारः, देहे आत्माभिमानकारणीभूत इत्यर्थः । देहे आत्माभिमाने जाते तत्सम्बन्धिषु मदीयत्वाभिमानोऽपि ।

. मानमेयप्रकाशिकायां [प्रमेय भवत्येव । अतोऽहङ्कारममकारहेतुरिति फलति । तदुक्तं विशेषणं मायायाः 'देहतदीययोः । जीवस्य चाहंममताहेतुः' इति । इदं च स्वतन्त्रात्माभिमानादेपलक्षणम् । देहायात्मभ्रमादिलक्षणा- मिमानहेत्वन्तःकरणवृत्त्यनुप्राहकमहङ्कारतत्त्वमिति यावत् । सात्त्विकराजसतामसभेदादहकारस्य त्रैविध्यम् । हरिवाफ्यसुधा- सिन्धौ चोक्तम्-'शान्तघोरविमूढात्माऽहङ्कारस्त्रिविधो मतः।' इति । शान्तत्वं-प्रकाशकत्वं सात्त्विकत्वमिति यावत् । घोरत्वं-- विक्षिप्तत्वं राजसत्वमिति यावत् । विमूढत्वं-स्तब्धत्वं तामसत्व- मिति यावत् । तत्र मनः सात्त्विकाहङ्काराजायते, श्रोत्रादीनीन्द्रि- याणि राजसात्; तामसाच्छन्दतन्मानं च । एकादशापीन्द्रियाणि सात्त्विकाहङ्कारात्, शब्दतन्मानं तामसाहकारात्, राजसाह- कारस्तूभयोः कार्याधाने उपकारक इति परे । अयमेव पक्षः श्रीभाष्यकारैराहतः। इन्द्रियाणामाहङ्कारिकत्वम् । ननु-श्रुतिविरुद्धमिन्द्रियाणामाहकारिफत्वम् । सुबालोपनिषदि हि इन्द्रियाणां वन्मात्रेपु लयः श्रूयते-'आकाशमिन्द्रियेषु इन्द्रि- याणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते भूतादिहिति लीयते महानव्यक्ते लीयते अव्यकमक्षरे लीयते अक्षरं तमसि लीयते तः परे देवे एकीभवति' इति । यत्र यस्य लयस्तत एव तु तस्योत्पत्तिः । उच्यते । सत्यमिन्द्रियाणि तन्मात्रेविति भूयते न तु वन्मात्रेषु लीयन्ते इति । ननु भूतादौ लीयन्ते इत्यतो लीयन्ते इति अनुपज्यते ।, यद्येवमरकाशमिन्द्रियेवियत्रापि किं नानुपज्यते । आकाशस्य नेन्द्रिय प्रकृतिरिति चेत्, इन्द्रियाणां - , प्रकाशे] जडपरिच्छेदः। तन्मानाणि न प्रकृतय इति तुल्यमत्रापि । यदि लीयन्ते इत्यस्य नानुपगस्तर्हि किञ्चिलियावाचिपदमध्याहर्तव्यम् । सत्यम् । आकाशमिन्द्रियेप्चित्यत्राप्यध्याहर्तव्यम् । ननु किमनया प्रतिवन्द्या, अर्थस्तु वक्तव्यः । उच्यते । आकाशमिन्द्रियेपु संयुज्यते इन्द्रि- याणि तन्मात्रेपु संयुज्यन्ते इति । ननु कोऽयमपूर्वः संयोगः । अयमेव-पृथिव्यादीनां भूतानां वायुपर्यन्तानां स्वस्वकारणे लये जाते प्राणादीन्द्रियाप्यायकानां पृथिव्यायशानामप्याकाशरूपतया- ऽवस्थितेराप्यायकतयाऽऽकाशमानमवशिष्टं इन्द्रियेपु संयुज्यते- संसृष्टं भवति, तस्मिन्नप्याकाशे शब्दतन्मात्रे विलीने सति, तान्ये. बेन्द्रियाणि शब्दतन्मात्रापन्नैः स्वाप्यायकांशः संसृष्टानि भवन्ति, तद्युतानि तन्मात्राणि च स्वप्रकृतावहङ्कारे लीयन्ते इति । 'तन्मा- त्राणी' ति बहुवचनमपि शब्दतन्मात्रतापन्नाप्यायकभूतांशभेदता- त्पर्यकमेव । 'आपो ग्रसन्ति वै पूर्व भूमर्गन्धात्मकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ असतेऽम्बुगुणं तेजो रसं तल्लीयते ततः। रूपं तेजोगुणं वायुप्रंसते लीयतेऽथ तत् ॥ वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः। प्रशाम्यति तदा वायुः ख तु तिष्ठत्यनावृतम् ॥ भूतादिस्तद्गुणं शब्द ग्रसते लीयते च खम् । इन्द्रियाणि मनश्चापि लीयन्तेऽहतौ ततः॥ अहङ्कारो महत्तत्त्वे त्रिविधोऽपि प्रलीयते ॥' इति अहङ्कारे लयप्रतिपादनाच्चेन्द्रियाणामाहङ्कारिकत्वमेव । आहङ्कारिकाणामप्येपां भूतान्याप्यायकानि तु भवन्ति । अत इदमुच्यते मोक्षधर्मे-'शब्दः श्रोत्रं तथा खादि त्रयमाकाश- सम्भवम् । वायोः स्पर्शस्तथा चेष्टा त्वक् चैव त्रितयं मान०प्र० १० मानमेयप्रकाशिकायां [प्रमेय- स्मृतम् ।। रूपं चक्षुस्तथा व्यक्तिस्वयं तैजसमुच्यते । रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः॥ घ्राणं प्रेयं शरीरं च ते तु भूमिगुणाः स्मृताः । इति । आप्यायकत्वं नाम पोप- कत्वं, मन्दशक्तिकानां शत्त्युत्तेजकत्वमिति यावत् । श्रूयते चाप्या. यकत्वं 'अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक्' इति । प्राणस्य हि वाय्ववस्थारूपस्य न जलकार्यत्वं किन्तु जलाप्यायितत्वमेव । तत्तुल्यमन्यत्रापीति । 'वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत । यत्सङ्कल्पवि- कल्पाभ्यां वर्तते कामसम्भवः ॥ तैजसात्तु विकुर्वाणाहु- द्धितत्त्वमभूत्सति । द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः ।। संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥ तैजसानीन्द्रियाण्येव क्रियाज्ञा- नविभागशः । प्राणस्य हि क्रियाशक्तिर्बुद्धविज्ञानशचिता।' इत्यत्र सात्त्विकाहङ्कारान्मनसः तैजसाबुद्धितत्त्वस्येन्द्रियाणां चोत्प- तिरुक्ता । 'ज्ञानशक्तिः क्रियाशफिर्बुद्धिः प्राणश्च तैजसात्' । इत्यत्र च प्राणस्यापि राजसाहङ्कारकार्यत्वमुक्कं प्रतीयते । एतत्प्रक्रि- यानुसारेणैव सत्सडिजीयनादौ वर्णितमस्ति-वैकारिकादहङ्का- रात्सचन्द्रं जायते मनः । देवता इन्द्रियाणां च जाता वैका- रिकादश ॥ दशेन्द्रियाणि वुद्धिश्च ब्रह्मा प्राणश्च तैजसात् ।' 'तस्मादभूदहङ्कारस्त्रिगुणस्तत्र सात्त्विकात्।मन इन्द्रियदेवाश्च राजसादिन्द्रियासवः।' इति । 'तेजसानीन्द्रियाण्याहुर्देवा चैकारिका दश । एकादशं मनश्चान्न देवा वैकारिकाः स्मृताः ॥' इति विष्णुपुराणवचनमप्युषार्थपरमेष । 'इन्द्रियाणि प्रकाशे] जड़परिच्छेदः। १४७ तेजसानि राजसाहवारफार्याणि । इन्द्रियदेवता दश एकादर्श मनोऽत्र मनसि अन्तःकरणे ये देवाश्चत्वारस्तेऽपि सात्त्विकाहवार- कार्यभूताः' इति व्याख्यानात् । वन बुद्धः राजसाहकारादुत्पत्ति- वर्णनमन्तःकरणस्य ज्ञानजनने राजसाहकारानुमायत्वनिवन्धनम् । प्राणानामपि वाय्ववस्थाविशेषाणां स्वस्वव्यापारकरणे राजसाहका- रानुमाह्यत्वनियन्धनमेव राजसाहवारकार्यत्वप्रतिपादनम् । इन्द्रि- यदेवतानां दिगादीनां वैराजसृज्यत्वेन वर्णितानां सात्त्विकाह- झारकार्यत्वप्रतिपादनं घ तेपामिन्द्रियाधिष्ठानशक्तेः सात्त्विकाहका- रानुग्राह्यत्वनिवन्धनं, तेषां सात्त्विाहकारमयसूक्ष्मशरीरसम्बन्धा- भिप्राय वेति यथासम्भवमूहनीयम् । परे वेवं मन्यन्ते-'तेजसानीन्द्रियाण्याहुः' इति विष्णुपुराण- वचनस्यायमर्थः-आहुरित्युक्त्या इन्द्रियाणां राजसाहकारकार्यत्वं परमतानुसारेणेति ज्ञायते 'देवा वैकारिका दश । एकादशं मनश्च' इति पक्षान्तरम् । अयमर्थः-'देवाः-इन्द्रियाणि दश मनश्च सात्त्वि- काहङ्कारकार्याणीति । श्रूयते हि इन्द्रियेषु देवशब्द:-'न चक्षुपा गृह्यते नापि वाचा नान्यैर्देवैः' 'सहैव सन्तं न विजानन्ति देवाः' इति । एवं पक्षभेदे स्वमतमुच्यते 'अत्र देवा वैकारिकाः स्मृताः' इति । अत इन्द्रियाणां सात्त्विकाहकारकार्यत्वमेव इति । 'वैकारिकान्मनो जज्ञे देवा वैकारिका दश । दिग्वातार्क- प्रचेतोऽश्विवहीन्द्रोपेन्द्रमित्रकाः ॥ तैजसातु विकुर्वाणादि- न्द्रियाणि दशाभवन् । ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राण- श्च तैजसात् ॥ इत्यत्रापि देवशब्देन देवाधिष्ठितानीन्द्रियाण्ये- वोच्यन्ते । 'अग्निर्वाग्भूत्वा' इत्यादाविवाधिष्ठात्रधिष्ठेययोरैक्य- [प्रमेय- " १४८ मानमेयप्रकाशिकायां विवक्षया देवशब्दप्रयोग इन्द्रियेषु । वैकारिकशब्दोऽत्र राजसा- हङ्कारसहकृतसात्त्विकाहवारपरः। 'तैजसात्तु' इति पक्षान्तरोक्तिः। यद्वा-पूर्वस्मिन्नपि पक्षे-राजसाहकारस्य सात्त्विकाहङ्कारादिन्द्रिय- मनोजननेऽनुप्राहकत्वमङ्गीकरणीयमेय । स्वस्खकार्ये प्रवृत्तिक्षमाणा- मिन्द्रियाणां जनकस्यापि सात्त्विकाहङ्कारस्य प्रवर्तकरजोमिनि- तत्वावश्यम्भावात् । अतस्तैजसजन्यत्ववाद इन्द्रियेपूपपन्न एव । प्राणशब्द इन्द्रियवाची, 'सर्वे प्राणा अनूत्नामन्ति' इति श्रुतेः । क्रियाशक्तिः प्राण:-कर्मेन्द्रियगणः, ज्ञानशक्तिः प्राण:-ज्ञानेन्द्रि- यगणः, बुद्धिः- :-अन्तःकरणचतुष्टयं च, तैजसात्-राजसाहङ्कारा- त्सहकारिकारणात् जायते इत्यर्थः । न चेन्द्रियदेवतानां दिगादीनां वैराजपुरुपसृज्यत्वेन श्रुतानां पूर्वमेवोत्पत्तिवर्णयितुं शक्यते । अतो देवादिशब्दस्तदधिष्ठेयेन्द्रियवाच्येव युक्तः । ननु अविद्यमानैर्वा तैः कथमधिष्ठितत्वं सम्भवति ? । मैवम् । अधिष्ठानाहत्वस्यैव विव- क्षितत्वात् । यद्वा परमाकाशवर्तिभिरेवेन्द्रियाभिमानिभिरधिष्ठितत्वं समष्टीन्द्रियाणाम् । तथाहि परमाकाशशब्दितेऽप्राकृते धानि चतु- विशतितत्त्वाभिमानिनां शक्तिविशेपाणां सद्भावो वर्ण्यते-'वृतं चतुःपोडशपञ्चशक्तिभिः' इति । श्रोत्राद्यभिमानिनां तेपां श्रोत्रा- देस्तु स्वयमेवाधिष्ठातारः स्वपरनिर्वाहकत्वन्यायात् । यद्वा-परमात्मैव वनाधिष्ठाताऽस्तु । परमाकाशस्थितानां तु देवानां नेदानी सृष्टिः सम्भ- यति। दिगादिसृष्टिस्तु वैराजकका व्यष्टीन्द्रियाधिष्ठानार्था । तैज- सातु विकुर्याणाद्बुद्धितत्त्वमभूत्' इत्यादेरयमर्थः-युद्धसतेऽने- नेति युद्धिः-मानजनक तस्य तत्व-ज्ञानजननसामर्थ्य, वदिन्द्रियाणां राजसाहकारादभूत् । अयमेवेन्द्रियाणां वत्कृतोऽनुग्रहः । ज्ञानस्य +7 .. , प्रकाशे] जडपरिच्छेदः। १४९ च भेदा उक्का 'द्रव्यस्फुरणविज्ञानम्' इत्यादिना । एवैश्च शानभेदैः कार्यरूपैरिन्द्रियाणां राजसाइट्वारकत: ज्ञानजननसामर्थ्यलक्षणोऽनु- ग्रहो लक्ष्यते-ज्ञायते । प्राणस्य कर्मेन्द्रियस्य क्रियाशक्तिस्तत्तकिया- जननशक्तिः बुद्धर्ज्ञानेन्द्रियस्य विज्ञानजननशक्तिश्व राजसाहाकारात् । इन्द्रियाणां . स्वस्वकार्यप्रवृत्तिशक्तिर्हि राजसाहकारानुप्रत एव सम्भवति, अतस्त्रानि तैजसानीति उच्यन्ते इति । किञ्च सात्त्वि- काहकारस्य ज्ञानशक्तिरिति विशेपणेन ज्ञानेन्द्रियजनकत्वमपि वस्यैव युक्तम् । अतस्तत्सन्नियोगशिष्टानां कर्मेन्द्रियाणामपि वैका- रिकत्वमेव । वैजसस्य क्रियाशक्तिरिति विशेपणं तु सात्विकता- मसयोः स्वस्वकार्येषु प्रवर्तनलक्षणक्रियाशक्तिपरमेव, न राज- साहङ्कारस्य पृथक् कार्य क्रिमपीति वदन्ति । अयं च पक्षभेदो वर्णितः 'तैजसस्य पृथकार्य केचिन्नेच्छन्ति कापिलाः । सात्त्वि- कात्तामसाज्जातं यत्कार्य तस्य तद्विदुः ॥ इति । भवन्तु राज- साहकारसहकृतसात्त्विकाहङ्कारकार्याणि मनोभिन्नानीन्द्रियाणि, भवन्तु वा राजसाहकारकार्याण्येव । पुराणेष्वेवाभिप्रायभेदो धन दृश्यते इति । सात्त्विकाहङ्कारादेकादशेन्द्रियाणां जननमिति पक्षे उत्पत्तिक- मोऽपि वर्णितो विष्णुपुराणव्याख्याने विष्णुचित्तीये-'अयमेवेन्द्रि- यसृष्टिक्रमः । वैकारिकात् क्रमेण शब्दादिपञ्चफसहायात् श्रोत्रादे- ज्ञानेन्द्रियपञ्चकस्य सृष्टिः, तस्मादेव श्रोत्रादिसहायात् क्रमेण वागा- दिकर्मेन्द्रियपश्चकसृष्टिः, असहायात्तु तस्मान्मनसः सृष्टिः' इति । अन शब्दादिपञ्चकं तन्मात्रपश्चक वेदितव्यम् । विशेपस्तु तत्रैव द्रष्टव्यः। , १५० मानमेयप्रकाशिकायां प्रमेय- इन्द्रियलक्षणम् । इमानि चेन्द्रियाणि का जीवेन व्यापार्यमाणानि तत्तदुपलम्मा- दिकार्ये साधनानि भवन्तीति करणान्युच्यन्ते । व्यापारवत्कारणं हि करणम् । लक्षणं चेदमुक्तं न्यायसिद्धाञ्जने-'प्राणाद्यतिरिक्तत्वे सति हृत्कण्ठचक्षुरादिशरीरप्रदेशविशेषावच्छिन्नव्यापारवत्तया तत्तत्का- यविशेपशक्तमिन्द्रियम्' इति । शरीरमाणान्यत्वे सति आत्म- प्रयत्नजन्यव्यापाराश्रयत्वमिन्द्रियसामान्यस्य लक्षणमिति यावत् । तत्र रजोरहितत्वे सति तमोरहितत्वे सति वा इन्द्रियत्वमप्राकृते- न्द्रियाणां लक्षणम् । रजोवत्त्वविशेपितमिन्द्रियत्वं तु प्राकृतानाम् । ज्ञानप्रसरणहेतुत्वे सतीन्द्रियत्वं ज्ञानेन्द्रियलक्षणम् । (इन्द्रिय- सन्निकर्पेऽतिव्याप्तिवारणायात्र विशेष्यदलम् ) यद्यप्यप्राकृतेन्द्रि- याणां न मुक्तादिज्ञानप्रसरणहेतुत्वम्, इन्द्रियानपेक्षप्रसरत्वात- ज्ज्ञानानाम् । अथापि ज्ञानप्रसरणहेतुतावच्छेदकधर्मवत्त्वं लक्षणं बोध्यम् । ते च धर्माश्चक्षुष्ट्वादयोऽप्राकृतेन्द्रियेष्वपीति । उच्चारणा- धन्यतमजनकेन्द्रियत्वं कर्मेन्द्रियाणां लक्षणं बोध्यम् । अहङ्कारेण खोपादानेनोपादेयस्येन्द्रियस्य लक्षणं तु अप्राकृतेष्विन्द्रियेष्वव्याप्त. त्वादुपेक्षितम् । इन्द्रियाणामेकादशत्वम् । बागादिकर्मेन्द्रियं नाभ्युपगच्छन्ति केचित् । श्रुतिस्तु श्रावयति एकादशेन्द्रियाणीति । एका कन्या दशेन्द्रियाणि' 'दशेमे पुरुपे प्राणा आत्मैकादश इति । कन्येति मन उच्यते । प्राणा:-इन्द्रि- याणि । स्मृतिश्च 'इन्द्रियाणि दशैकं च' 'देवा वैकारिका दश । एकादशं भनश्चात्र' इति । तथा-'चक्षुरध्यात्मं द्रष्टव्यमधिभूतं ।

प्रकाशे] जडपरिच्छेदः। आदित्यस्तत्राधिदैवतम्' 'नासाऽध्यात्मं प्रातव्यमधिभूतं पृथिवी तत्राधिदेवतम्' 'जिह्वाऽध्यात्म रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतम्' 'त्वगध्यात्म स्पर्शयितव्यमधिभूतं वायु- स्तत्राधिदैवतम्' 'मनोऽध्यात्म मन्तव्यमधिभूतं चन्द्रस्तत्रा- पिदैवतम् 'वुद्धिरध्यात्म बोद्धव्यमधिभूतं ब्रह्मा तत्रापिदै- वतम्' 'अहङ्कारोऽध्यात्म अहङ्कर्तव्यमधिभूतं रुद्रस्तत्राधिदै- वतम् 'चित्तमध्यात्म चेतव्यमधिभूतं क्षेत्रज्ञस्तत्राधिदैवतम्' 'वागध्यात्मं वक्तव्यमधिभूतं अग्निस्तत्राधिदैवतम् 'हस्ताव- ध्यात्म आदातव्यमधिभूतं इन्द्रस्तत्राधिदैवतम्' 'पादाव- ध्यात्म गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतम्' 'पायुरध्यात्म विसर्जयितव्यमधिभूतं मृत्युस्तत्राधिदैवतम्' 'उपस्थोऽध्यात्म आनन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम्' इति (सु- वालोपनिपदि) इन्द्रियतदर्थभेदप्रस्तावे कर्मेन्द्रियतदर्थभेदा अपि श्रूयन्ते । तथा बृहदारण्यके-'अष्टौ ग्रहा अष्टावतिग्रहा: 'प्राणो वै प्रहः सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि गन्धान जिघ्रति' 'वाग्वै ग्रहः स नाम्नाऽतिग्रहेण गृहीतो वाचा हि नामान्यभिवदति' 'जिह्वा वै ग्रहः स रसेनातिग्रहेण गृहीत' 'चक्षु ग्रहः स रूपेणातिग्रहेण गृहीतः' 'श्रोत्रं वै ग्रहः स शब्देनातिग्रहेण गृहीत' 'मनो वै ग्रहः स कामेनातिग्रहेण' 'हस्तौ वै ग्रहः स कर्मणाऽतिग्रहेण 'त्वग्वै ग्रहः स स्पर्शेना- तिग्रहेण' इत्यत्र च कर्मेन्द्रियभेदोऽपि श्रूयते । । यत्पुनरनादृत्य श्रुतिस्मृती अधिष्ठानातिरिक्तकर्मेन्द्रियनिरसनं, १ मन एव वृत्तिमेदात घुश्यहवारचित्तशब्दैर्घ्यपदिश्यते।

१५२ मानमेयप्रकाशिकायां [प्रमेय- तत् प्रतिवन्या पराहतम् । अधिष्ठानातिरिक्तज्ञानेन्द्रिये यस्तकः स तुल्यो हि कर्मेन्द्रियेऽपि । तथाहि-रूपाद्युपलब्धेः क्रियात्वेन क्रिया- याच करणपूर्वकत्वनियमेन करणेन भाव्यम्, तेन च गोलकाद्यति- रिक्तेन भाव्यमिति यदि मन्यते तर्हि वचनादेरपि क्रियात्वेन तेनापि तथाविधकरणपूर्वकेणैव भाव्यम् । उक्तं च तत्त्वमुक्ताकलापे-रूपा- दिज्ञानसिद्धौ यदि करणतया कल्पनं धीन्द्रियाणां तद्वद्गत्या- दिकर्मस्वपि करणतया सन्तु कर्मेन्द्रियाणि । कर्मज्ञानाक्षहेत्वोः समपरिहरणा ह्यन्यथासिद्धिशङ्का तस्मादेकादशाक्षाण्यपि निगमविदो मन्वते न्यायपूर्वम् ॥ इति । अतएव च काणादैः कर्मेन्द्रियव्यावृत्तं ज्ञानसाधनत्वघटितमिन्द्रियलक्षणं निरुच्यमानमपि निरस्तम् । तथा चोक्तम्-'सिद्धानुगममानं हि कर्तुं युक्तं परी- क्षकैः । न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥' इति । कर्मेन्द्रियाणामपीन्द्रियत्वं सप्तगत्यधिकरणे विचार्य निर्णीतं भग- वता यादरायणेन । तथाहि-सतैवेन्द्रियाणि, तेपामेव जीवेन सह गतिश्रवणात्-'सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सतसत' इति, योगदशायां च तेपामेव विशेषितत्वात् 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचे- टेत तामाहुः परमां गतिम् ।। इति । एवं 'सप्तगतेविशेपित्वाच' इति सूत्रेण पूर्वपक्षयित्वा सिज्ञान्तितम्-'हस्तादयस्तु स्थितेऽतो नैवम्' इति । हस्तादयोपि हि शरीरे स्थिते जीव उपकारकाः । अत उपचारकत्वाविशेपात्तेपामपीन्द्रियत्वम् । चक्षुरादि शरीरदे- शाहिरपि धृत्तिद्वारा व्याप्य विषयान् गृहाति, कर्मेन्द्रियं तु शरी- रप्रदेशामानावच्छिन्नकार्यजनकमिति विशेपो घोत्यते 'स्थिते' इति प्रकाशे] जडपरिच्छेदः। पदेन । 'अतो नैवम्' इति च कर्मेन्द्रियाणामपीन्द्रियत्वप्राहि प्रमा- गदादाभिप्रायम् । सन्ति हि प्रमाणानि इन्द्रियाणामेकादशत्वे । तानि चोदाहृतानि प्रागेव । योगदशायां ज्ञानेन्द्रियाणामेव विशेषणं प्राधान्याभिप्रायेण । सप्तानां गत्यादिश्रयणमपि आपेक्षिकमाधान्या- मिप्रायमुपलक्षणं वा । अतएव 'प्राणमनूनामन्तं सर्वे प्राणा अनूनामन्ति' इति सर्वेपामिन्द्रियाणां स६ गमनं श्रूयत इति । एकादशत्वकथनं चेन्द्रियाणां समष्टिविपयम् । व्यष्टिदशायां तु एकादशैकादशेन्द्रियाणि पुरुपभेदेन व्यवस्थितानि द्रष्टव्यानि । सम- धीन्द्रियाणां सांशानां सूक्ष्मांशरूपाणीमानीति बोध्यम् । तथा च वचनम्-'तेपां त्ववयवान् सूक्ष्मान् पण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥” इति । अन्न पण्णामित्युपलक्षणम् । अणुत्वं चेन्द्रियाणां सूत्रितं 'अणवश्व' इति । उत्क्रान्तिश्र- वणान्न विभुत्वं किन्तु परिच्छिन्नत्यमेव । पार्श्वस्थैरनुपलभ्यमान- स्वाचातिसूक्ष्मत्वम् । इदमेवाणुत्वं परिच्छिन्नत्वे सत्यतिसूक्ष्मत्वरूप- मत्र विवक्षितम् । अत एव परिमाणावान्तरभेदे सत्यपि त्यच ई- शमणुत्वं सम्भवति । 'त एते सर्व एव समाः सर्वेऽनन्ता'इत्या- नन्त्यकीर्तनं चेन्द्रियाणां वृत्त्यानन्याभिप्राय तथोपासनाविधिशेषभू- तम् । श्रूयते चोपास्तिस्तत्रैतेपां 'अथ यो हैताननन्तानुपास्ते' इति । तत्त्वमुक्ताकलापे चेन्द्रियाणामणुत्वमुक्तम्-'सूक्ष्माण्येकाद- शाक्षाण्यपि न यदि कथं देहतो निष्क्रमादिश्चित्ताणुत्वे तु सर्वे- न्द्रियसमुदयने धीक्रमोऽप्यस्तु मानम् ।' नन्वणुचे कथं चक्षु- रादेर्दूरस्थार्थप्राहकता वनाह 'वृत्त्याक्ष्यादेर्दवीयम्प्रमितिजनकता . मानमेयप्रकाशिकायां [प्रमेय- वृत्तिराप्यायनार्थैर्भूतैर्जातः प्रसर्पः' आनन्यश्रुतिः कथं ? तत्राह-'श्रुतिमितमपि चानन्त्यमेपां स्वकार्यः॥ इति । कापिलास्तु श्रोत्रादिपञ्चकं ज्ञानेन्द्रियं, वागादिपञ्चकं कर्मेन्द्रिय मनस्तुभयात्मकमिति मन्यन्ते । न तद्युक्तम् । प्रवृत्तिमात्रस्य मन:- पूर्वकत्वेऽपि नहि मनसः कर्मसु करणत्वम् , अवबोधनमात्र एव विश्नान्तेः । अन्यथा चक्षुःश्रोत्रादेरप्यवबोधनद्वारा तत्तत्कर्मसु करणत्वं किं न स्यात् । अतः पोढा ज्ञानेन्द्रियाणीत्येय युक्तम् । 'मनःपठानीन्द्रियाणि' 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह' इति ज्ञानेन्द्रियसहपठितत्वात् । तेषु मनः स्मृत्यादिकारणमा- भ्यन्तरमिति विशेषः । याह्येषु च ज्ञानेन्द्रियेषु त्वक् चक्षुपोरेव द्रव्यमाहकतेति च । प्राकृताप्राकृतभेदेन भवतीन्द्रियाणां द्वैविध्यम् । अप्राकृतविभाग तु नित्यविभूतिनिरूपणे निरूपयिष्यामः । प्राकृतान्येव तु अद्य निरूप्यन्ते । मिश्रसत्त्वाश्रयत्वादप्राकृतेभ्यो व्यावृत्तिः । तत्र स्मृतिकरणमिन्द्रियं मनः । श्रोत्रादीनां तत्तदसाधारणशब्दाद्यर्थोप- लम्भसाधनत्वं लक्षणं बोध्यम् । यद्यपि मनसो ज्ञानसामान्ये कारणत्वेन शब्दसाक्षात्कारेऽप्यस्ति कारणत्वम् , अथापि शब्दसा- क्षात्कारत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं न ज्ञानत्वेन मनस्त्वेनैव कार्यकारणभावात् । वागादिकर्मेन्द्रियाणां तत्तदसाधारणवर्णोधारणादिक्रियाकरणत्वं लक्षणं बोध्यम् । सत्स- निजीयने चेन्द्रियाणां लक्षणान्युक्तानि-श्रवणादिक्रियासिद्धौ करणत्वं तु लक्षणम् । श्रोत्रादीनामिन्द्रियाणां विज्ञातव्यं पृथक् पृथक् ॥ 'श्रूयते येन तच्छोनं सा त्यक्त्वच्यते यया। मनसः, , प्रकाशे] जडपरिच्छेदः। चक्ष्यते येन तच्चक्षुर्जिह्वा लेढि यया रसम् ॥ घ्रायते येन तद् घ्राणमुच्यते वाग्यया वचः। पण्यते येन पाणिः स पादो येन च पद्यते ॥ तद्गुदं गूयते येन मे, मेहति येन च । करणानि दशैतानि वाह्यानि कथितानि वै ॥' इति । इन्द्रियाणां स्थानभेदो यथा-हृदयप्रदेशवृत्ति मनः । मनुष्याणां कर्णशष्कुल्यवच्छिन्नाकाशप्रदेशवृत्ति श्रोत्रम् । द्विजिहानां तु नय- नवृत्ति । सर्वशरीरवृत्ति वगिन्द्रियं विकासशक्त्या वृत्त्या वा। चक्षुः कृष्णताराप्रवृत्ति । रसनं जिह्वाप्रवृत्ति । नासाप्रवृत्ति प्राणम् । वाक् तु वर्णोत्पत्तिस्थानाष्टके वर्तते । वर्णोत्पत्तिस्थानानि तावत् हृदयं, कण्ठो, जिह्वामूलं, तालु, दन्ताः, ओष्ठौ, नासिका, मूर्धेति । पाणिरडल्यप्रवृत्तिः गजादीनां तु शुण्डादिवृत्तिः । चरण- वृत्ति पादेन्द्रियं भुजगपतगादीनां तूरःपक्षवृत्ति । पायूपस्थौ च तत्तदवयवविशेपवृत्ती । इति । इन्द्रियाणां गतिमत्त्वम् । एतानि चेन्द्रियाणि उत्कामन्तं जीवमनूकामन्ति । श्रूयते हि- 'तमुत्नामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्नामन्तं सर्वे प्राणा अनूनामन्ति' इति । स्मर्यते च-'शरीरं यदवामोति यच्चाप्यु- कामतीश्वरः। गृहीत्वैतानि संयाति वायुगन्धानिवाशयात् ॥' इति । यत्तु कस्यचिन्मतम्-ज्ञानेन्द्रियाणामेवानूनामणं न कर्मेन्द्रि- याणां हस्तादीनाम् , तेपां शरीरनाशमनु नाशादिति । तत् श्रुति- विरद्धम्, 'प्राणमनूत्क्रामन्तं सर्वे प्राणा अनुत्कामन्ति' इति हि श्रूयते । अनुचितश्च सर्वशब्दस्य सोचः । भगवता नारायणेन च वागादीनामन्यादावप्ययशङ्कां निरस्य जीवेन सहोत्नामणं सम- र्थितम् 'अग्यादिश्रुतेरिति चेन्न भाक्तत्वात्' इति । ।

. १५६ मानमेयप्रकाशिकायां [प्रमेय- एवानीन्द्रियाणि आसर्गादाप्रलयं संसरन्तं जीपमनुगच्छन्त्येवानु- योनि तस्योपकरणानि भवन्ति । प्रतिनियतानि च प्रतिजीवं तत्तद- दृष्टनियतानि । अत एवैकस्योपकरणीभूतान्यन्यस्योपकरणतां न प्रपद्यन्ते । परकायप्रवेशेऽपि स्वस्यैवेन्द्रियाणि उपकरणतां प्रपद्यन्ते न परस्य, परकाये प्रविशता च योगिना खोपकरणभूतानीन्द्रियाणि सहैव नीयन्त इति दिक् । इन्द्रियाणां प्राप्यकारित्वम् । इदमिह वोध्यम् -रसना त्वक् च स्वाधिष्ठानप्रदेशसम्बद्धद्र- व्यगत रसं स्पर्श च ग्राहयतीत्येतद् व्यक्तम् । घ्राणेन्द्रियं तु वायुना स्वसन्निधिं प्रापितानां पार्थिवसूक्ष्मांशानां गन्धं ग्राहयति । चक्षुरि- न्द्रियं तु विपयदेशं वृत्तिद्वारा प्राप्य रूपि द्रव्यं ग्राहयति तद्पादि च । आहङ्कारिकस्य चक्षुरिन्द्रियस्य वृत्तिप्रसरणमिष्यते 'दिवीव चक्षुरा- ततम्' इति श्रोतव्यवहारात् । तेजसः प्रभाप्रसरणवत् । काचादि- स्वच्छद्रव्यं वृत्तिप्रसरणे भित्त्यादिवन्न प्रतिरोधकम् । तस्मात् तेन व्यवहितमपि चक्षुर्याहयति । अञ्जनादिना संस्कृतस्य तु चक्षुपो धृत्ति- प्रसरणे भित्त्यादेरपि न प्रतिरोधकता। चक्षुप एव विपयदेशप्राप्त्या विपयवाहकता । अन्येषां तु स्वदेशसन्निहितविपयग्राहकता। ननु वृत्तिप्रसरणवादोऽयमसङ्गतः । सन्निहितात्यन्तविप्र- पृष्टपणेवविलम्बविलम्बप्रसद्गात् । प्रसरणं हि क्रमभावि । प्रस- रतः सन्निहितदेशप्राप्तो यावत्क्षणातिपातः अत्यन्तविप्रकृष्टदेशप्राप्ती सतोऽधिकक्षणातिपातोऽवश्यम्भावीति । वस्तुत उन्मीलिवमाने नयने यथा सन्निहितं गृह्यते तथा वियत्तलगवः सुदूरविप्रकृष्टोऽपि चन्द्रादिपते इत्यप्राप्यकारित्वमेव तु न्याय्यम् । भैवम् । प्राप्य- -प्रकाशे] जडपरिच्छेदः। कारित्वेऽपि उन्मीलितमात्रे चक्षुपि चन्द्रादिमणमुपपद्यत एव । इन्द्रियवृत्तेर्वेगातिशयात् । वत् सन्निकृष्टविप्रकृष्टग्रहणयोः सन्नपि क्षणभेदो न लक्ष्यते पद्मपत्रशतवेधनीत्येति । साधितं च प्राप्यमा- हित्वं तत्त्वमुक्ताकलापे-'प्राप्यग्राहीन्द्रियत्वात् विमतमितर- वत् प्राप्तिरुक्तप्रकारा' इति । . एवं श्रोनेन्द्रियस्यापि कर्णशप्पुलीस्थस्याणोवृत्त्यभ्युपगमेन सुदू- रोत्पन्नस्यापि शब्दस्य ग्रहणं केचिन्मन्यन्ते । तस्याश्च वृत्तेश्चाक्षुष्या इवाप्यायकभूततारतम्यानुरोधेन प्रसरणतारतम्यमुपपद्यते । उपप- द्यते च प्राच्यां दिशि शब्दः श्रूयते प्रतीच्या दिशीति शब्दोत्पत्त्यव- च्छेदकपाच्यादिदिग्भेदग्रहणमपि तत्तद्देशगतवृत्तिकृतम् । परेवा- चार्याः प्राहुः-शब्दाश्रयद्रव्यमेव श्रोत्रप्रदेशमभ्येति । ततश्च भवति शब्दग्रहः । तच द्रव्यं वायुः। नन्वाकाशो ह्याश्रयः शब्दस्य, तस्य कथं गमनमागमनं वा । सत्यमाकाश आश्रयः । आकाशविकृति- भूतो वायुरपि भवत्येव तस्याश्रयः । स चाभ्येति श्रोत्रदेशम् । अत एव चोत्पत्तिश्रवणक्षणयोरन्तरमुपपद्यते । उपपद्यते च पवनेऽनुकूले सुदूरोत्पन्नस्यापि शब्दस्य ग्रहणं प्रतिकूले तु निकटोत्पन्नस्याप्यग्रह- णम् । न च काणादैरिवास्माभिराकाशमात्रगुणत्वं शब्दस्येप्यते । 'आकाशाद्वायुयोरग्निरग्नेराप अद्भ्यः पृथिवी' इति श्रूयमा- णोऽयमुपादानोपादेयक्रमो हि पूर्वपूर्वभूतगुणानामुत्तरोत्तरभूतगुण- त्वमपि गमयति । प्रतिध्वनिः शब्दवेगेन गृहाभ्यन्तरप्रदेशे कम्पश्च शब्दाश्रयद्रव्याभिघातं विना न सम्भवतः । अतश्च शब्दाश्रये- त:प्रविष्टेन भाव्यम् । अयमेव श्रोत्रवृत्तेर्विपयदेशे गमनमिति पक्षाच्छब्दाश्रयद्रव्यागमनपक्षस्य विशेषः । तदुक्तं सर्वार्थ- णान्तः मानमेयप्रकाशिकायां [प्रयेय- सिद्धौ-'गुहासौधादिसोभः प्रतिशब्दश्च जृम्भते । निःसा- णादिप्रणादेन तदेतत् पक्षसङ्गतम् ॥ इति । प्राच्यादिदिगांग- तवायुगतशब्दोपलम्भाच्च शब्दस्य प्राच्यत्वादिप्रतीतिरानुमानिकी। यथा मयूरवीणादिवरत्वम् । एतदप्युक्तं तत्रैव-'यथा मयूरवी- णादेः शब्दोऽयमिति गृह्यते । तथा प्राच्यादिशब्दोऽयमिति लिङ्गात्तथाविधात् ॥” इति । पक्षद्वयं च सङ्गृह्य निरूपितं तत्त्व- मुक्ताकलापे-'शब्दं गृह्णाति दूराभ्युदितमपि वहिः सन्तता श्रोत्रवृत्तिदिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधा- नात् । इत्येकेऽन्ये तुदूरान्तिकगतजनताशब्दधीकालभेदात् श्रोत्रायातस्य तस्य ग्रहमनुमितिमप्याहुरस्मिन् दिगादेः॥ इति । तन्मानभूतोत्पत्तिप्रकारः। अथ तन्मात्रादिकं निरूप्यते । तामसाहकारात् शब्दतन्मात्रं जायते तत आकाशं, तस्मात्स्पर्शतन्मानं ततो वायुः, तस्माद्रूपत- न्मानं ततस्तेजः, तस्मादसतन्मानं ततो जलम् , तस्माद्गन्धतन्मानं ततः पृथिवीति क्रमः। अयं च क्रमः श्रीभागवत उक्त:-'तामसात्तु विकुर्वाणाद्भगवद्वीर्यचोदितात् । शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ नभसः शव्दतन्मात्रात्कालगत्या विकु- र्वतः स्पर्शोऽभवत्ततो वायुस्त्वक् स्पर्शस्य च सङ्ग्रहः॥वायोश्व स्पर्शतन्मात्राद्रूपं दैवेरितादभूत् । समुत्थितं ततस्तेजश्चक्षु रूपोपलम्भनम् ॥ रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात् । रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः ॥ रसमानाद्विकुळ- णादम्भमो देवघोदितात्। गन्धमात्रमभूत्तस्मात्पृथ्वीप्राणस्तु गन्धगः ॥' इति । अत्राकाशादेः शब्दतन्मात्रत्वादिना विशेपणं :

-प्रकाशे] जडपरिच्छेदः। १५९ शब्दाद्यसाधारणधर्मत्वनिवन्धनम् । श्रोत्रादि वत्तद्भूतगुणग्राहीति चोच्यते 'श्रोत्रं शब्दग'मित्यादिना । 'परस्य दृश्यते धर्मो ह्यपर- स्मिन् समन्वयात्' इत्यनेन प पूर्वपूर्वभूतगुणस्योत्तरोत्तरभूते उपलम्भः पूर्वपूर्वभूतान्वयादुत्तरनेत्युच्यते । अयमेव प्रकारः सत्स- गिजीवने वर्णित:-'तामसाच्च विकुर्वाणापूर्वोक्तरेव हेतुभिः । शब्दो भवति तस्माच्च नभः शव्दगुणं किल ॥ विकुर्वतश्च खात्पर्शो जायते पूर्वहेतुभिः । ततो वायुः स्पर्शगुणः शब्द- वांश्च परान्वयात् ॥ वायोर्विकुर्वतो रूपं तेजस्तस्माच्च जायते। स्वतो रूपगुणं शब्दस्पर्शवञ्च परान्वयात् ॥ तेजसोऽथ रस- स्तस्माजायतेऽम्भो विकुर्वतः । परान्वयाच्छन्दस्पर्शरूपवद्र- सवत्स्वतः ॥ अम्भसो जायते गन्धस्ततो गन्धगुणा धरा । शब्दस्पर्शरूपरसगुणैर्युक्ता परान्वयात् ॥” इति । हरिवाक्यसु- धासिन्धौ चायमेव क्रमो निर्दिष्टः-'तामसाच्छन्दतन्मात्रद्वाराऽs- काशमजायत । ततः स्पर्शस्ततो वायुस्ततो रूपं ततोऽनलः ॥ ततो रसस्ततश्चापस्ततो गन्धस्ततश्च भूः। भिन्नभिन्नस्वभावानि तत्त्वान्येतानि देवताः ॥' इति । देवस्य परमात्मनः शरीरत्वा- देवाधिष्ठितत्वाद्वा देवतेति तत्त्वानां निर्देशः। 'हन्ताहमिमास्ति- स्रो देवताः' इत्यांदाविव । अन शब्दादयो न गुणमात्रं किन्तु तत्तद्गुणकभूतसूक्ष्मरूपा एव विवक्षिवाः । गुणानां द्रव्यानारम्भक- त्वात् । तत्रत्यस्य 'शब्दादयो गुणाः पञ्च तन्मात्राख्यां इहो- दिताः' इति वचनस्याप्ययमेवाशयः । तत्तत्तन्मात्रा तचद्भूतस्य सूक्ष्मावस्था । शब्दादिस्तत्तद्भूतगुणतन्मात्रावस्थायामनुद्भूत आका- शादौ तूभृतः । उद्भूते हि शब्दादौ शान्वत्वादिविशेपयोगो नानु- :: मानमेयप्रकाशिकायां [प्रमेय- द्भूते । अत एयाविशेपं तन्मात्रमिति चोच्यते । तथा च वचनम्- 'तस्मिंस्तस्मिंस्तु तन्मानं तेन तन्मात्रता स्मृता । तन्मात्रा. ण्यविशेपाणि अविशेपास्ततो हि ते ॥ न शान्ता नापि घोरास्ते न मूढाश्चाविशेपिणः ।' इति । उक्तं च न्यायसिद्धाञ्जने-'भूतानामव्यवहितसूक्ष्मावस्थाविशि- टद्रव्यं तन्मात्रम् । दधिरूपेण परिणममानस्य पयसो मध्यमावस्या- वत् भूतस्यरूपेण परिणममानस्य द्रव्यस्य ततः पूर्वा काचिदवस्था तन्मात्रा, तद्विशिष्ठमपि द्रव्यं तन्मात्रमुच्यते' इत्यादि । सौम्य चात्र शब्दादीनामनुद्भूततया बोध्यम् । उक्तं च सर्वार्थसिद्धौ ‘आग- मेन विना सिद्धिस्तन्मात्राणां सुदुर्वचा। उद्भवानुभवायैस्तु लोके सूक्ष्मार्थकल्पना ॥' इति । कापिलास्तु-तामसाहकारात्पश्चापि तन्मात्राणि जायन्ते, शब्दत-. न्मात्रात् आकाशम्, शब्दतन्मात्रसहकृतात्पर्शतन्मात्राद्वायुः, एवं क्रमेण पूर्वपूर्वभूतारम्भकतन्मात्रसहकृतैस्तत्तन्मान्नैस्तत्तद्भूतारम्भ इति वदन्ति । 'आकाशाद्वायुयोरग्निरग्नेराप अन्यः पृथिवी' इति भूताद्भूतान्तरोत्पत्तिं वदन्ती श्रुतिस्तं पक्षं नानुमन्यते । न च भूताद्भूतान्तरोत्पादस्य तन्मात्रव्यवहिततायामुक्तश्रुतिवि- रोधः। तन्मात्राणां तत्तद्भूतसूक्ष्मावस्थारूपत्वेन ततोऽनतिरेकात् । स्थूलावस्थं प्रति सूक्ष्मावस्थस्य कारणत्वेन पूर्वभावश्चाविरुद्धः । मर्यते च भूताद्भूतान्तरोत्पादस्य तन्मात्रव्यवहितता-भूतादिस्तु विकुर्वाणः शब्दमानं ससर्ज हि । ततः ससर्ज तन्मात्र- माकाशं शब्दलक्षणम् ॥ आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह। बलवानभवद्वायुस्तस्य स्पर्शी गुणो मतः ॥ ततो वायुर्विकुर्वाणो रूपमा ससर्ज ह' इति ।

जडपरिच्छेदः। । १६१ तन्मात्रभूतलक्षणम् । शब्दवत्त्वं तन्मात्रतत्कार्यभूतोभयसाधारणं लक्षणम् । शब्दो .हि तन्मात्राणां पञ्चानां भूतानां च पश्चानां साधारणः । न सुपा- दानगुणरहितान्युपादेयानि भवन्ति । भूतावस्थाऽव्यवहितपूर्वाव- स्थाविशिष्टत्वं तन्मात्रसामान्यलक्षणम् । ननु गन्धतन्मात्रावस्थाया भूतावस्थाऽव्यवहितपूर्वत्वेऽपि रसतन्मात्राद्यवस्थायाः पृथिव्यात्म- कभूतावस्थाव्यवहितत्वेन तदभावरूपाऽव्यवहितत्वाभावेन रसत- न्मात्रादिष्वव्याप्तिः । मैवम् । अव्यवहितपूर्वत्वसम्बन्धेन भूताव- स्थाविशि स्थावत्त्वमिति तदर्थात् । तथा च उक्तसम्बन्धेन पृथिव्यात्मकभूतावस्थावैशिष्ट्यस्य रसवन्मात्रेऽसम्भवेऽपि जलात्म- कभूतावस्थावैशिमं तस्मिन्, एवं रूपतन्मात्रादिपु तत्तत्कार्यतेज:- प्रभृतिभूतावस्थावैशिष्ट्यं त्वक्षतमिति न क्षतिः । वपूर्वावस्थापूर्व- त्वाभाववत्त्ववपूर्वत्योभयसम्बन्धेन भूतावस्थाविशिष्टावस्थावत्य- मिति तु निर्गलितार्थः । स्पर्शशून्यत्वे सति शब्दवत्तन्मात्रत्वं शब्द- तन्मात्रस्य, रूपशून्यत्वे सति स्पर्शवतन्मात्रत्वं स्पर्शतन्मात्रस्य, रस- शून्यत्वे सति रूपवत्तन्मात्रत्वं रूपतन्मात्रस्य, गन्धशून्यत्वे सति रसवत्तन्मात्रत्वं रसतन्मात्रस्य, गन्धवत्तन्मात्रत्वं गन्धतन्मात्रस्य च लक्षणं वोध्यम्। आकाशादिभूतेष्वविव्याप्तिवारणाय तचल्लक्षणे तन्मा- ऋत्वनिवेशः। उत्तरोत्तरतन्मात्रेष्यतिव्याप्तिवारणाय सत्यन्तनिवेशः। स्पर्शरहित उद्भूतशब्दवान आकाशः । वाय्वादिरुद्भूतशब्दवा. नपि न स्पर्शरहितः, भूतादिनि:स्पर्शोऽपि न शब्दवान् । शब्दतन्मानं शब्दवदपि नौद्भूतशब्दवत् । रूपरहित उद्धृतस्पर्शवान वायुः । आकाशो रूपरहितोऽपि न स्पर्शवान् , स्पर्शतन्मानं स्पर्शवदपि नोद्भू- मान०प्र०११ [प्रमेय- . - 14 मानमेयप्रकाशिकायां तसर्शवत्, तेजःप्रशृतिरुद्भूतस्पर्शवानपि न रूपरहितः । रस- रहितमुद्भूतरूपवत्तेजः । वायुः रसरहितोऽपि न रूपवान, रूपत- न्मान रूपवदपि नोद्भूतरूपवत् , जलं तूद्भूतरूपवदपि न नीरसम् । गन्धरहिता उद्भूतरसवत्य आपः । गन्धरहितमपि तेजो न रसवत्, रसवदपि रसतन्मात्रेनोद्भूतरसवत् , उद्भूतरसा च पृथ्वी न निर्गन्धा। उद्भूतगन्धवती च पृथिवी । कचिद्गन्धस्यानुभूतत्वेऽपि उद्भूतगन्ध- वजातीयत्वविवक्ष्या नाव्याप्तिः । आकाशादिपञ्चकान्यतमत्वं तन्मात्रभिन्नत्वे सति शब्दवत्त्वं वा भूतसामान्यलक्षणं वोध्यम् । आकाशविचारः। तनाकाशे प्रथममहाभूते भवति बहुधा विप्रतिपत्तिः अस्ति नास्तीति, नित्यमनित्यमिति, अचाक्षुपं चाक्षुपमिति, अरूपि रूपीति । नास्त्येवेति सौगतादयः । आहुश्च-नहि घटादिवत्किमप्युपलभ्यते गगनमिति वस्तु,आवरणाभावमात्रं तु तदवस्त्वेव । यत्र पुनरावरणं न तत्राकाशः, आवरणं चेद्भिद्येत शून्यमेव हि तदा तत्र। तस्मात् शब्द- ज्ञानानुपाती वस्तुशून्यो विकल्प एव नभो नभ इति । ननु भवति नीलं नम इति ग्रहः । सत्यम् , स तु भ्रमः, नीलं तम इतिवत् । आलोकाभाव एव तमः, तत्र नैल्याद्यध्यासो वैशेषिकैरपि हीष्यते। भवति च शून्येऽपि शब्दप्रयोगो मिथ्याजले मृगतृष्णिकादिशब्दप्र- योग इवेति । तदिदं प्रतीतिपराहतम्। प्रतीतिर्हि सदात्मनैव । सद्रूपेण भासमानस्य कथमभावात्मता । न च ननुल्लिखितप्रतीतिविपयता । ननु नेहापरणं किमपीति प्रत्ययोऽस्तीति चेन्न अभावस्य भावान्तर- रूपतया सस्याप्याकाशविपयत्वात् । अभावस्य भावान्तररूपत्वान- भ्युपगमेऽपि इत्यधिकरणतयोल्लिख्यमानस्तु आकाश एव । इह , प्रकाशे] जडपरिच्छेदः। पतगः पततीत्यपि भवति प्रतीतिः। अत्राप्यधिकरणतया प्रमीय- माणः स एव । न च सूर्यालोकादेराधारतयोल्लेखः, अहो महानात- पोऽयमधुना विहायसीति तस्याप्याधारतया ह्याकाशः प्रतीयते । काणादास्तु यद्यप्याकाशोऽप्रत्यक्षः । न हि चक्षुस्तद्हणे प्रभवति, अरूपित्वात् । अत एव नापि त्वगिन्द्रियम् । स्पर्श न्यत्वाच न तत्प्रसङ्गोऽपि । प्राणादि तु न द्रव्यग्रहणाय प्रभवति । मनस्त्वाभ्यन्तरमेव । अंथाप्यनुमानेन तत्सिद्धिः-भूयमाणेन शब्देन द्रव्याश्रितेन भाव्यम्, गुणत्वात् । न च दिकालमनसामेप गुणः, विशेषगुणो ह्ययम् । नाप्यात्मनः, वहिरिन्द्रियग्राह्यो ह्ययम् । नापि पृथिव्यादिभूतचतुष्टयस्यायं चिशेपगुणः । नवयं कारणगुणपूर्वकः, नवा अग्निसंयोगासमवायिकारणकः, न चाप्रत्यक्षः । रूपादिर्हि पार्थिवो विशेषगुणः कारणगुणपूर्वकः पाकजो चा दृष्टः, जलीयस्तु स कारणगुणपूर्वकः, जलपरमाणुगतस्तु न प्रत्यक्षः, तथा वायवी- योऽपि । तस्मात् शब्दस्याश्रयीभूतं अष्टद्रव्यातिरिक्त नभः सिद्धव- तीति । इदं हि परिशेपानुमानं न प्रभवति स्वार्थसाधनाय, परिशेष- स्यैवासिद्धः । भवति चावाधितो व्यवहारः प्रामाणिकानामपि-- भेर्याः शब्दोऽयम् , मृदगस्यायं ध्वनिः, वीणाया नादोऽयम् , अवहतो जलस्यायमुरोपः, महार्णवस्य महानयमुद्धोपः, प्रचण्ड- यातस्यायं दारुणः शब्दः, इति । अयं चान प्रतिप्रयोगः-शब्दोन विभुगुणः, बाह्येन्द्रियग्राह्यगुणत्वात् रूपादिवत् । यद्यपि ज्ञानसु- खादिर्विभुगुणः, अथापि स न बाह्येन्द्रियग्राह्यः । स्पर्शो न पृथि- व्यादिधर्मः, नीरुपेन्द्रियग्राह्यत्वात् शब्दवत् इत्यनुमानेन स्पर्शा- श्रयस्य पृथिव्याद्यतिरिक्तताकल्पनाप्रसङ्गश्च । विपक्षे वाधक न पश्याम इति चेत्तुल्यमेतदवापि । । . .

मानमेयप्रकाशिकायां [प्रमेय- यत्तु असति नभसि निष्क्रमणं प्रवेशनं च प्राणिनां न घटेतेति निष्क्रमणप्रवेशनाभ्यां तत् सिद्धयतीति । तदप्यसत् । आकाश- न्याप्ते कुड्यादौ तदसम्भवात् । न च कुड्यादावाकाशं नास्ति । तथासति तत्र छिद्रासम्भवः । जातु भवति तत् सच्छिद्रमपि । ननु सत्यमाकाशेन व्याप्तमेव कुड्यादि तथापि सहकारिकारणवै- कल्यात् न निष्क्रमणादि कार्यमिति । ननु कि तत् सहकारि- कारणम् । ननु प्रतिरोधककुड्याद्यमाव एव चेत् तर्हि किं नम:- कल्पनया; निष्क्रमणं प्रवेशनं च देहादिगतः क्रियाविशेषः । स च प्रतिरुध्यतां नाम प्रतिरोधकेन । असति रोधके देहे स क्रियाविशेषः प्रयत्नादिना स्वकारणेन भवेदेव । तस्मिन् क्रियावि- शेपे नभो न समवायिकारणं, नाप्यसमवायिकारणम् । न च निमित्तम् ? । प्रयत्नप्राणव्यापारादेरेव देहसन्निहितस्य तथात्वात् । तस्मादनुमानेन नमसः साधनमनुपपन्नम् । तदेतत् सर्वं तत्त्वमुक्ता- कलापे प्रतिपादितम्-'प्रत्यक्षं व्योम नीलं नम इति हि मतिश्चक्षु- पैवास्मदादेः कूपोऽसौ रन्ध्रमेतत्पतति खग इहेत्यादिधीश्चात्र- मानम् ।आधारोऽत्रातपादिर्यदि भवति कथं तस्य चेहेति वोध- स्तस्यांशैश्चैतच्यणौ तच्छिथिलगति न च व्योमवागातपादौ । रूपस्पर्शोज्झितत्वान भवति गगनं दर्शनस्पर्शनाहं प्राणश्रोत्रे रसज्ञाऽप्यचगमयति न द्रव्यमन्यत्त्ववाह्यम् । तस्मानाध्यक्ष वेद्यं वियदिति यदि न प्रत्ययस्यापरोक्ष्यात् पञ्चीकारेण नल्यं पटमलिनिभवद्भापितं वोपकुर्यात् ॥ शब्दस्याधारभूतं कथमपि गंगनं शक्यते नानुमातुं स्वेच्छातः पारिशेप्यक्रम इह कथि- तोतिप्रसादिदुःस्थः । निष्कान्त्यादेन तद्धीः सति नभसि प्रकाशे] जडपरिच्छेदः। यतो नास्ति कुड्यादिकेऽसौ रोधस्त्वावारकैश्चेत्तदभवनवशा- निष्क्रमादिश्च सिद्धयेत् ॥' इति । यद्यपि तेजःप्रभृतिष्वेव रूपं न व्योग्नि, अथापि तद्भवत्येव चाक्षुपम् । न च चाक्षुपेण रूपवतैव भाव्यम् । रूपं हि नीरूप- मपि भवत्येव चाक्षुपम् । तथा नीरूपमपि घटत्वादिकं भवत्येव चाक्षुषम् । ननु चाक्षुपेण द्रव्येण रूपयवैव भाव्यम् । तद्रहि- तानि वायवादीनि द्रव्याण्यचाक्षुपागि हि । भवतु । यदि द्रव्या- दन्यस्य चाक्षुपत्वे न रूपापेक्षा, तर्हि रसादेः कुतो न चाक्षु- पता? । ननु रूपरूपिणोतज्जात्योः रूपिद्रव्यसंयोगस्यैव घ चाक्षु- पता नान्यस्येति चेत्, कस्मादेप नियमः। ननु योग्यता नियम. यति । श्रोत्रादीनां पञ्चानामिन्द्रियाणां हि शब्दादयः पञ्चाः प्रति- नियताः । तेषु तत्तदिन्द्रियार्थेषु तत्तदिन्द्रियगोचरत्वयोग्यता च प्रतिनियता। सा च तस्य तस्य स्वभावविशेपः । तनरूपं चाक्षुपप्रत्य- क्षयोग्यं भवति । तस्य चायं विशेष:-स्वाभयद्रव्यस्य तत्समवेत- जाते: स्वसमवेतजाते: स्वाश्रयद्रव्यद्वयसंयोगस्य च चाक्षुपयोग्य- तामापादयति स्वसम्बन्धविशेषादिति । यद्येवं..पञ्चीकरणवशात् स्वाश्रयद्रव्यसंवलितेऽप्याकाशे स्वाश्रयसंवलनलक्षणसम्बन्धविशेषात् चाक्षुपत्वयोग्यतां किमिति नापादयेत् । ननु वायुरपि पञ्चीकरणव- शात् रूपवद्र्व्यसंवलित एवेति स्यात्तस्यापि चाक्षुपप्रत्ययगोचरता। नैवम् । सत्यपि रूपिद्रव्यसंबलने मोद्भूतरूपवद्र्व्यसंवलनमिति व्यवस्थापनात् । वस्तुतस्तु-रूपि वा स्यादरूपि या, यथोपलम्भम- र्थानां तत्र तत्रोपलम्भे योग्यता, तत्तदिन्द्रियस्य च तत्तदर्थग्रहणे शक्तिः स्वीकार्या। अत एव हि कालस्य पडिन्द्रियवेद्यता। इदानीमिहायं शब्दः, इदानीमिदमुष्णम्, इदानीमिदं रकं, इदानीमिदं मधुरम्, इदानीमिदं मानमेयप्रकाशिकायां [प्रमेय- सुरभि, इदानीमहमस्मि सुखी, इत्येवमुपलम्भो ह्ययाधितो लोके प्रवर्तते । तथैवायं पतग इह पततीति पतगपतनाधारतयाऽऽकाश- स्योपलम्भात् आकाशस्थापि चाक्षुपयोग्यता निरावाधैवेति । यः पुनराकाशस्य नित्यत्ववादः काणादानां, सच श्रुतिविरुद्ध इति दूरतः परिहार्यः । श्रूयते हि 'आत्मन आकाशः सम्भूतः' इति । ओबाप्यायकश्यायमिति । वायुविवेचनम्। आकाशात्स्पर्शतन्मानं ततो वायुः । त्वगिन्द्रियाप्यायकश्वायम् । तदाप्यायकता च तेन सह वाय्वंशानां सङ्घातविशेपभावापत्त्या भवति । प्राणनिरूपणम् । शरीरधारणहेतुः शरीरान्तःसंचारी प्राणोऽपि वायुविशेष एव । सच प्राणः तरुगुल्मादिस्थावरशरीरेष्वपि वर्तते, भनक्षतसंरोहणा- दिना तदुन्नयनात् । पञ्चवृत्तिता तु न तत्र । ननु 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुयॊतिरापः पृथिवी विश्वस्य धारिणी' इति प्राणस्य वायोश्च पृथगुत्पत्तिः श्रूयते, तत् कथं वायोरनन्यः प्राण: ? । उच्यते । अनन्य एवायम्, वायुत्वावस्थाया अप्रच्युतेः । अत एव न तत्त्वान्तरम् । परं वायुरेव घनीभावेन फरकात्मतां जलमिव कमपि विशेपं प्राप्य शरीरधारणलक्षणकार्या- धायको भवति । श्रूयते च-'यावदस्मिन् शरीरे प्राणो वसति तावदायुः' इति । सृष्टौ वायुना सह परिगणनं विशेषमभिप्रे- त्यैव । मनस इन्द्रियत्वेऽपि चक्षुरादिभ्यो विशेषमभिप्रेयैव यथा 'मनः सर्वेन्द्रियाणि च' इति निर्देशः । तथा चोक्तम्-'न प्राणो वायुमानं सहपरिपठनान्न क्रिया द्रव्यतोकेस्तेजोवद्वा प्रकाशे] जडपरिच्छेदः। १६७ न तत्त्वान्तरमगणनतो वायुतानुज्झनाच । तस्माद्वातो विशेष धनजलकरकन्यायतः प्राप्य कञ्चिदेहान्तर्दाशविध्यं भजति बहुविधोपक्रियो वृत्तिभेदैः ॥” इति ।, ननु प्राण इन्द्रियेष्वन्यतमः, तेष्वेष श्रेष्ठः । तथा हि छान्दोग्ये ''अथ ह प्राणा अहं श्रेयसि न्यूदिरे अहं श्रेयानहं श्रेयानिति' इत्यादिना विवादः प्राणानां समभूदित्याख्यायिका श्रूयते । विवद्- मानेप्वन्यतमोऽयं प्राणः । प्राणशब्देनाविशेषेणेन्द्रियाणि च निर्दि- श्यन्ते । तान होवाच यस्मिन् उत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठः' तत्सत्र 'वः' इति निर्धारणे षष्ठी च चक्षुरादीनां प्राणस्य चैकजातीयतां गमयति । मैवम् । न हि सहपठनमात्रात्साजा- त्यम् । न च शब्दैक्यादैकजात्यम् । एक एव शब्दो मुख्यः कचिः स्कचिद्भातश्च प्रवर्तेत । अत्र चेन्द्रियेषु प्राणशब्दो भाकः प्रवर्तते । प्राणाधीनसत्ताकत्वाञ्च प्राणशब्देन इन्द्रियाणां निर्देशः । तथा च श्रूयते तत्रैव-'न ह वै वाचो न चक्षुपि न श्रोत्राणि न मनां- सीत्याचक्षते प्राणो ह्येवैतानि सर्वाणि भवति' इति । आगमज्ञा वागादीनीन्द्रियाणि वागादिशब्दै व्यवहरन्ति प्रायः, प्राणशब्देनैव व्यवहरन्ति, प्राणाधीनसचाकानि हि वानि, यदंधीना यस्य सत्ता तत्तदित्येव भण्यते इति न्यायात् इति तदर्थः । 'वः' इति निर्धारणे पष्ठी तु विवदमानत्वेन साधयं गमयति । यदपि क्षेत्रशो- पकरणत्वाचक्षुरादेरिवेन्द्रियत्वं प्राणस्येति, तदप्यसङ्गतम् । नाप- करणं भवत् सर्वमिन्द्रियं भवितुमर्हति । भवति हि शरीरं क्षेत्रज्ञस्य इन्द्रियेभ्योऽप्यत्यन्तमुपकारकम् । प्राणस्येन्द्रियत्यामावः सूत्रकृतो- , योगाउपयुक्शानवेशविशेषवान विदारयमिति व्याख्यातं साधरिती । अपितु - १६८ मानमेयप्रकाशिकायां [प्रमेय- ऽप्यभिमतः 'त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्' इति सूत्रेण श्रेष्ठप्राणभिन्नानामेवेन्द्रियत्वस्य शंसनात् । मुख्यप्राणस्या- प्यणुत्वमिन्द्रियाणामिव पुनः सूनितं च 'अणुश्च' इति । प्राण एकोऽपि प्राणापानादिवृत्तिभेदात्पश्चघेति घ सूनितं 'पञ्च- वृत्तिर्मनोवद्व्यपदिश्यते' इति । तथा च श्रुति:-'प्राणोऽपानो व्यान उदानः समान इत्येतत्सर्वः प्राण एवं' इति । स एव नाग- कूर्मककरदेवदत्तधनञ्जयवृत्तिभेदैः सह दशधा चोच्यते-'प्राणो- ऽपानः समानश्च उदानो व्यान एव च । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः॥ चरन्ति दश नाडीपु दश प्राणादिवा- यवः । इति । निरूपितं चैतत्सर्वं सत्सगिजीवने-'एकः प्राणो वृत्तिभेदात्प्रोकः पञ्चविधः किल । प्राणोऽपानो व्यानोदानी समान इति नामभिः ॥ नागः कूर्मश्च कृकलो देवदत्तो धन- अयः । इत्यन्ये तस्य भेदास्तु सन्त्येतेष्वेव सङ्गताः। हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदे- शस्थो व्यानः सर्वशरीरगः ॥ प्राणः प्राग्गतिमान् ज्ञेयोs- पानोऽधोगतिरुच्यते । भुक्तपीतान्नतोयादेः समानः साम्य- कृन्मतः । उदान उत्क्रमणकृयानः सर्वाङ्गचेष्टनः। नाग उद्गारकृत्कूर्म उन्मीलनकरः स्मृतः ॥ कृकलः क्षुत्करो देव- दत्तो जृम्भणकृत्तथा । धनञ्जयः पोपणकृत्प्रोकः साङ्ख्यवि- शारदैः ॥ देवदत्तो मतः प्राणेऽपाने तु कृकलः स्मृतः । धनञ्जयः समाने च कूर्मो च्याने स्थितः खलु ।। उदानेऽन्त- हितो नाग इति पञ्चविधो ह्यामुः। इति । अलं प्राणमीमांसया ।

. प्रकाशे] जडपरिच्छेदः। १६९ वायोः प्रत्यक्षत्वम् । वायुश्च प्रत्यक्षः । त्वगिन्द्रियपवनसंयोगे सति वातो वातीति सपदि भवति हि धीरवहितस्य पुरुपस्य । सा च त्वाचं प्रत्यक्षमेव । न चेदमनुमानम् , उन्मीलितमात्रे नयने गौरयं गच्छतीति धीरिव स्पृष्टंमाने वाते वातोऽयं वातीति धीर्जायमाना हि तत्समानयोगक्षेमा। न च ब्राणेन गन्धमात्रमिव त्वचा स्पर्शमानं वायोगॅह्यते न वायुरिति सुवचम् । रूपरहितत्वाद्वायुरप्रत्यक्ष इति चेत् रूपरहितस्यात्मनः कथं प्रत्यक्षता! । ननु मानसं तदिति चेत् इदं तु त्वाचमितीन्द्रियभेदः किं न गण्यते ? । ननु वाह्यमिदमिति चेत् । सत्यम् । चाक्षुपे चेदूपापेक्षा त्वाचे सा का? । अन्येन्द्रियग्राह्यविशेषगुणशून्यता वा इन्द्रियान्त- रेण जायमाने प्रत्यक्षे कथं प्रतिरोधिका । अन्यथा रसशून्यतया तेजसोऽप्यचाशुपता प्रसज्येत । किञ्च-गाढान्धकारमध्यमध्यासी- नस्य भवति त्वचा द्रव्यग्रहणम् । ननु तद्रूपीति चेत् अगृह्यमाणेन रूपेण कस्तत्रोपकारः । ननु वायुश्चेत्त्वचा गृह्येत तर्हि अयमेको घटः अयमेको घटः, इमों द्वौ, अयं दीर्घः, अयं हस्यः इति पटादिगत- सहयापरिमाणवत् अयमेको वायुः अयमेकः, इमी द्वौ इति तद्गत- समापरिमाणादिकमपि त्वचा गृह्येत । हन्त भोः ! आत्मन्यह- मिति मनसा गृह्यमाणे तद्गतं परिमाणादिकमपि तेन युतो न गृह्यते । नन्यात्मतद्विशेपगुणभूतसुखदुःसादिग्रहण एव मनसः शक्तिः, न तु शास्त्रैकगम्ये गुणे इति चेन् वथैव त्यचो वायुगतसहयादिमणे न शक्तिरित्यास्थीयताम् । यथोपटम्म हि शक्तिरिन्द्रियाणां व्ययस्था- प्येत्युकं प्रागेव । वस्तुतस्तु त्वया वायुरिय उद्वसदनापरिमाणा- दिकमपि गृह्यत एप । तदुक्तं वत्यमुजाफ्लापे-'सानुयायाः १७० मानमेयप्रकाशिकाय [प्रमेय- स्पर्शनाः स्युस्तदधिकरणकाः स्पर्शने गन्धवाहे तेषां द्रव्योप- लम्भप्रतिनियतनिजाध्यक्षयोग्यत्वतश्चेत् । इष्ट त्वंशे न चात्मप्रभृतिषु सह ते तैः प्रसिद्धयन्ति सर्वे तद्वाह्ये व्याप्ति- रिष्टा यदि सततगतेरप्यसावस्तु वाह्ये ॥ इति । तेजोनिरूपणम्। वायो रूपतन्मानं ततस्तेजः। 'वायोरग्निः' इति श्रुतावग्निश- ब्दस्तेजोमात्रपरः । अग्निस्तु व्यष्टिसृष्टौ समुपलभ्यमानस्तृणकाष्ठा- दीन्धनः । उपारपर्शवत्वं तेजसो लक्षणम् । तच वागिन्द्रियस्थ चक्षुरिन्द्रियस्य चोपकारकम् । तथा च श्रुतिः-'तेजोमयी वाक्, आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्' इति । भवति च पाके निमित्तम् । पच्यते ह्यन्नमग्न्यात्मना तेन, वैश्वानरात्मना च शरी- रान्तः । तच भौमादिव्यौदर्याकरजभेदाश्चतुर्धा । तत्र भौम-तृणा- दिपार्थिवमानन्धनम् । दिव्यं अबिन्धनं विद्युदादि । औदर्य-- पार्थिवजलोभयेन्धनं जाठरं वैश्वानराख्यं प्राणघायोः संयोगादशि- तपीतादिपाकहेतुः 'अहं वैश्वानरो भूत्वा प्राणिनां देहमा- श्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥' इति स्मर्यमागम् । तथा चोक्तं-'प्राणापानाख्यभखारभसविस्मरः प्राप्य वैश्वानराख्यां मध्ये देहं हुताशो वसति जलनिधावी- वत्सर्वभक्षः।' इति । आकरज-सुवर्णादि । 'पभाप्रकारवर्णनम् । प्रभाप्रभावद्रूपेण सामान्यतो द्विविधमपि भवति । दीपादेः प्रमा हि परितः प्रसरणसभावा प्रभावतो दीपादेरपृथक्सिद्धधर्ममूता । धर्मता पास्यास्तत्सत्ताधीनसत्ताकत्वात् । यवनिकाद्यावरणमस्याः - प्रकाशे] जडपरिच्छेदः। प्रसरणप्रतिरोधकम् । प्रसरणतारतम्यं च प्रभासु प्रभावतः प्रकर्पापकर्पनिवन्धनतत्तद्वेगशक्तिभेदकृतम् । जनिनाशौ चास्याः प्रभावता सहेच । प्रभामभावतोस्तेजस्त्वाविशेपेऽपि अभिभवान- मिभवतारतम्यानुसारेण प्रभायां अग्रे(विदूरे) उष्णस्पर्शानुपलम्भः मूले तु (प्रभावतो निकटे) उष्णस्पर्शोपलम्भः । दीपशिखायाः समीपे प्रभाया औण्यप्रकाशाधिक्यं दूरे च तन्मान्द्यं यथोप- लभ्यं व्यवस्थाप्यम् । दीपज्वाला च सायं प्रज्वालिता आप्रातरनुवर्तमाना एकैवेति पामरैर्गृह्यते । वस्तुतः स्नेहवर्तिसंयोगादिलक्षणकारणक्रमोपनिपा- तादाशुतरविनाशोत्पादशालिनी मिन्नभिन्नाऽपि विनाशोत्पादयोर- विलम्बेन प्रवहन्ती सलिलधारेवाऽगृहीतभेदा एकेति प्रत्यभिज्ञा- यते । सा तु प्रत्यभिज्ञा भ्रान्तिरेव । उक्तं च न्यायसिद्धाञ्जने- "तत्र हुतवहस्य ज्वालात्मकस्य दाहनाशे नाशदर्शनात् पुष्कलका- रणक्रमोपनिपातादेकदाऽनेकदीपादर्शनाचाशुतरविनाशित्वरूपं क्षणि- कत्वं सिद्धम् । प्रत्यभिज्ञा तु निष्क्रान्तप्रविष्टवदसम्भवात् निर्वा- पितारोपितदीपादिविधान्यथासिद्धा । प्रत्यक्षत्वं घ ज्वालाभेद-. स्योक्तं तत्त्वरनाकरे-'निपुणनिरीक्षणे च जलवेणिकावत् ज्वाला- सचरणं दृश्यते' इति । अन केचिदाहुः-सत्सं नाम आशुतरविनाशशालिनी दीपज्वाला, परं तदवयवा एव विशीर्णा निपतिताः प्रति व्यपदिश्यन्ते नाति- रित्तो धर्म इति । तान् पृच्छामः-ननु भोः! दीपः किं पिण्डीमावस्ख- भावः उत विशरणस्वभावः । आये विशरणं नोपपयेव । द्वितीये पिण्डीभावो नोपपयेव । अथ नैसर्गिकः पिण्डीभावः, औपाधिक मानमेयप्रकाशिकायां [प्रमेय- विशरणमिति चेत् ऊर्ध्वगतिशीलस्य तेजसो विष्वग्विशरणं कथं घटेत ? । ननूपाधित एव । उपाधिस्तादृशः कोऽपि नोपलभ्यते । वाय्वादिमूर्तद्रव्याभिघातेन तूपाधिना भाव्यम् । अनुपलभ्यमान- स्थापि कल्पनं स्वोत्प्रेक्षितस्य संरक्षणाय पुनरन्यस्योत्प्रेक्षणमानम् । नियमेन विशरणकल्पनं, तनिहाय नियमेनोपाधिकल्पनं च हि साहसम् । ननु निसर्गोऽयं ज्वालायाः किञ्चिदूवं गत्वा परितो विशर- णमिति । अस्त्वेवम् । अथापि यत्रविशेषतो वेगेन निःसृता अम्बुधारा वेगानुगुणमूवं प्रसृता वेगापगमे विशीर्णा निपतिता परितः प्रदेश वहुलजलापूर्ण यथा करोति, तथाऽनुक्षणं तैलवर्तिसंयोगलक्षणका- रणक्रमोपनिपातसंभूता दीपज्वालाः विशीर्णाः परितो निपतिताः परितः प्रदेशं तेजःपुञ्जेन सम्भृतं किमिति न कुर्वन्ति । ननु विशीर्णी सपदि विनश्यन्ति, पुनरपरायाः समुत्पन्नाया ज्वालाया विशीर्णे- रवयवैः पूर्ववत् स प्रदेश आपूर्यते, अतो न तेजःपुञ्जाधिक्यम् । अस्त्वेवं कल्पना, रत्नस्य स्थिरस्य प्रभायां परितः प्रसरन्यां काम- मुपपत्तिं पश्यसि ? । तदवयवा विशीर्णास्तत्प्रभा चेत् कालेन रनम- पचीयेत, नश्येत चान्ततः । ननु रत्नमेव न तेजः, तत्रान्तस्तद्- वलम्वनं तेजोऽस्ति, तस्य तेजसोऽवयवा विशीर्णाः प्रसृता प्रभे- त्युच्यते । हन्त तर्हि आश्रयीभूतस्य तेजोद्रव्यस्यापि रत्नपार्थिव- भामस्येव स्थिरत्वेन तवयवानामनुक्षणं ततो निःसृत्य परितः पतनात्तेजसोऽवयविनोऽपचयः कालेन क्षयश्च स्यादेव । तस्यापि दीपज्वालाया इव आशुतरविनाशोत्पादकल्पना तु केवलं साहसम् । नहि दीपज्यालायां तैलयर्तिसंयोगादिलक्षणामियानुक्षणमुद्भवन्ती ऋमिका कारणधारा कामपि तत्र पश्यामः । तथा चोक्तं तत्त्व- , प्रकाशे] जडपरिच्छेदः। १७३ मुक्ताकलापे-'धर्मो भाति प्रभैका वहलविरलताद्यत्र दृष्टानुसा- रात् सा दीपांशा विशीर्णा इति यदि बहुधा कल्पनागौरवं स्यात् । इति । ननु प्रभायाः प्रभावदपृथक्सिद्धत्वमनुपपन्नम्, । ग्रीष्मे हि अस्तंगतेऽपि भास्वति रात्रावाष्ण्यमुपलभ्यते, तदवश्यं भास्वतः पृथग्भूता प्रभाऽभ्युपगन्तव्या। मैवम् । सत्यमुपलभ्यते नामोष्ण्यम् , तदाश्रयद्रव्यं तु न प्रभा, किन्तु विशीर्णा अन्ये तेजसोऽणवः । ननु केते ? ग्रीष्मे रविकिरणैरुपात्तमुक्ताः। तथा चोक्तं श्रुतप्रकाशिका- याम्-'आतपतप्तेष्वपि न किरणविशरणावयवसङ्क्रमः । तुहिनक- णानामिव रविकिरणोपात्तमुक्तानामन्यवयवानां सङ्क्रमणादौपण्यो- पलम्भोपपत्तेः । न चात्र कल्पकमन्वेष्टव्यम् , नापि कल्पनागौरवं प्रसजति, आगमसिद्धत्वादस्यार्थस्य । तथाहि मात्स्ये पुराणे कथ्यते-'वसन्ते ग्रीष्मके रश्मिशतैः सन्तपति त्रिभिः। शरद्यपि च वर्षासु चतुर्भिः सम्प्रवर्पति ॥ हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः।' इति । यथा वर्पासु हेमन्ते च रवि- किरणमुक्ताः सलिलकणास्तुहिनकणाश्च न विशीर्णकिरणावयवाः किन्तु किरणोपात्तमुक्का आप्यावयवा एव, एवं श्रीप्मे रविकिरण- जन्यं सन्तापनं न तद्विशीर्णावयवकार्यम्, किन्तु तदुपात्तमुक्ता- ग्यवयवकार्यमिति प्रतीयते इति' इति । जलनिरूपणम् । तेजसो रसतन्मात्रम् , तस्मादापः । अपां शीवस्पर्शवत्त्वं, गन्ध- शून्यत्वे सति रसवत्त्वं, अपाकजगुरूपवत्त्वं इत्यादि लक्षणं पोध्यम् । अस्ति वाय्यादी स्पर्शः सन शीतः, असि रसः पृथिव्यां [प्रमेय- मानमेयप्रकाशिकायां न सा निर्गन्धा, अस्ति शुक्लं रूपं पृथिव्यां तत्तु पाकजम् । कृष्णं रूपमेव तु नैसर्गिक पृथिव्याः। यत्कृष्णं तदन्नस्य' इति श्रुतेः । शुक्लादिरूपं तु पाकत एव । अपां प्राणाप्यायकत्वम् , 'आपोमयः प्राणः' इति श्रुतेः । रसनाप्यायकत्वं च ताल्वन्तर्गतजलत इति लोकतो दृष्टम् । पृथिवीवर्णनम् । अद्भ्यो गन्धतन्मात्रं, तस्मात्पृथिवी । गन्धवत्त्वं तल्लक्षणम् । ननु गन्धतन्मात्रेऽतिव्याप्तिः । उद्भूतगन्धवत्त्वे तात्पर्यान्नाति- व्याप्तिः । ननु पापाणे गन्धो नोद्भूत इत्यव्याप्तिः । उद्भूतगन्धव- जातीयत्वविवक्षया समन्वयान क्षतिः । रूपवत्त्वे सत्यनुष्णाशीत- स्पर्शयत्त्वं इत्याद्यपि तल्लक्षणम् । यद्यपि रूपं जलतेजसोरपि, . अथापि न तयोरनुष्णाशीतः स्पर्शः । वायावस्त्यनुष्णाशीतस्पर्शः, न तत्र रूपम् । इति । शब्दादिविपयपञ्चकम् । अथ महाभूतगुणाः शब्दादयो विविच्यन्ते-पूर्वपूर्वतत्त्वतः स्वखतत्त्वस्य विशेषकत्वादेते विशेष इति कथ्यन्ते । तत्र अस्म- दादिश्रोत्रग्राह्यविजातीयव्यावृत्तोऽद्रव्यविशेषः शब्दः । अप्राकृ- तशब्दस्यास्मदादिश्रोत्रमाहत्वाभावाव्याप्तिवारणाय 'विजातीय- व्यावृत्तेति । अप्राकृतोत्रादे नयनश्रवणो दृशा शृणोती'त्युक्त- प्रकारेण विषयनियमाभावादस्मदादीति । कालस्य पडिन्द्रिय- वेद्यत्वपक्षे तयुदासाय अद्रव्येति । स च द्विविधो ध्वन्यात्मको वर्णात्मकञ्चेति । द्विविधोऽपि सन्तानक्रमेण श्रोत्रप्रत्यासन्नः श्रोत्रग्राह्य दत्येकः पक्षः । श्रोत्रस्यैव विषयदेशे वृत्तिद्वारा सम्बन्धाच्छन्दग्रहण- प्रकाशे] जडपरिच्छेदः। मिति चापरः। शब्दश्चाकाशादिभूतपञ्चकधर्मः, शबो नदति समुद्रो गर्जतीत्यादिव्यवहारादित्येके । तत्तदवच्छिन्नाकाशगत एवा- भिघातादिना जन्यो व्यङ्गय एव वा इति चापरे। तत्र वर्णात्मकस्य शब्दस्य कोष्ठ्यस्य वायोः प्रयत्नप्रेरितस्य मनुष्यादिताल्वाद्यभिधातोऽ- भिव्यञ्जकः।वर्णधर्माश्च अत्वकत्वसत्वादयः पञ्चाशत् ।अचः योडश अको इखदीर्घयोरेचां चतुणां अनुस्वारविसर्गयोश्च मेलनेन । यद्यपि लू न संस्कृते किन्तु प्राकृते द्रष्टव्यम् । स्पर्शाः पञ्चशितिः । अन्तःस्थाश्चत्वारः । ऊष्माणश्चत्वारः । क्ष एकः । एवमेव मातृ- काध्याने वर्णितम् । इति । आकाशगनाश्च वर्णा इमे सहैवाकाशेनो- त्पत्तिविनाशवन्त आकल्पस्थायिनः । तारत्वमन्दत्वादयस्तु व्यञ्ज- कवायुधर्मा एव तत्र तत्रारोप्यन्त इति चैकः पक्षः । अस्मिन् पक्षे 'सोऽयं ककार' इत्यादि प्रत्यभिज्ञायाः सारस्यं बोध्यम् । तत्तत्स्था- नाभिघातेन जातास्तत्तद्वर्णास्तारत्यादिधर्मवन्तः कोष्ठ्यस्य वायोर्ध- र्मभूता इति चापरः । यथा स्पर्शादी मार्दवकाठिन्यादि, तथा,शब्द- स्यैव मन्दत्लतीनत्वादि सम्भवेदित्याशयः । यथायोग्यमस्तु नाम । ध्वनीनां वायुधर्मत्वं वर्णात्मकानां तु शब्दानां नित्यत्वं द्रव्यत्वं च पदन्ति कोमारिलाः । तद्युक्तम् । प्रलये लयश्रवणात् । द्रव्यधर्मत्येव श्रुतिस्मृतिपु प्रतिपादनाश । यद्य साक्षात्सम्बन्धे- नेन्द्रियमाणत्वाद्रव्यत्वं घटादेरिवानुमीयते । तदनुपपन्नम् । श्रोत- समरायो हि साक्षात्सम्बन्धः । ततसद्धर्मलमेय मिदिति स्वनिष्ठद्रव्यत्वसाध्यविपरीतपर्यवसायित्यान् । द्रव्यत्वे सिद्ध मानमेयप्रकाशिकायां [प्रमेय- अथ रसो जलक्षितिवृत्तिः । अस्मदादिजिह्वाग्राह्यविजातीय- व्यावृत्तो रसः । सच पड्विधः, मधुराम्ललवणतिक्तकटुकपाय- भेदात् । तत्र जले मधुर एव । रसान्तरप्रतीतिश्चाश्रयौपाधिकी । पृथिव्यां तु पाकवशान्नानारससम्भवः । अथ गन्धः पृथिवीमात्रवृत्तिः । अस्मदादिघ्राणग्राह्यविजातीय- व्यावृत्तो गन्धः । स द्विविधः सुरभिरसुरभिश्चेति । तत्र क्षियाः स्वाभाविको गन्धः सुरभिरेव । असुरभिस्तु पाकजः । पाकजा अपि विलक्षणा यहवः सुरभिगन्धभेदा उपलब्धिसिद्धाः। पृथिव्यामेव च पाकः, न तु जलपवनयोः । तत्रौष्ण्यप्रतीतेः संसर्गत एवोपपत्तेः। अग्निसम्पर्कस्यात्यन्तनिवृत्तावपि ये गुणा अनुवर्तन्ते त एव तु पाकजाः । यथा सहकारफलादौ रक्तादयः । परमाण्ववयविकल्प- नाया विरहेण पीलो पाको वोत पिठरे इत्यादिवादस्य नावसरः । एतावत्तु मन्तव्यं-पाके अंशानामशीर्णत्वमेव बहुलम् । कचिदवयव- विशरणमपि यथोपलम्भमिति | आकाशे नैल्यप्रतीतिस्तु पञ्चीकर- णवशादिति । विस्तरस्त्वन्यत्र द्रष्टव्यः। शब्दादीनां भूतगुणानां भूतानां च कार्यरूपाणि स्वभावरूपाणि व लक्षणान्युक्तानि श्रीभागवते । यथा-शव्दस्य तावत् 'अर्था- श्रयत्वं शब्दस्य द्रष्टलिङ्गत्वमेव च । तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥' अर्थाश्रयत्वं-अर्थप्रत्यायकत्वं श्रोतुः । द्रष्टुः पुरुपस्य लिङ्गत्वं-अनुमापकत्वम्, अन्धकारे फुड्यादिव्यव- धाने वा, शब्देन हि पुरुपोऽनुमीयते इति । नमसस्तन्मात्रत्वं- नमसः सूदमावस्थाभूतत्वं च शब्दस्य स्वभाव इति यावत् । पर्शस्य यथा-'मृदुलं कठिनत्वं, प शैत्यमुप्णत्वमेव च । . - / .. प्रकाशे] जडपरिच्छेदः। १७९ एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥. मृदुत्वादयः वायोः सूक्ष्मावस्थाभूतत्वं च स्पर्शस्य स्वभाव इति यावत् । रूप- स्य यथा-'द्रच्याकृतित्वं गुणता व्यक्तिसंस्थानमेव च । तेजस्त्वं तेजसः साध्धि रूपमात्रस्य वृत्तयः॥' द्रव्याकृतित्वं-द्रव्योपल- म्भकारणत्वम् , गुणता-नित्यं द्रव्याग्नितत्वम्, व्यक्तिसंस्थान-- व्यक्ते: व्यक्त्यन्तरापेक्षया व्यावर्तकत्वम् , तेजसः सूक्ष्मावस्थात्वं च रूपस्य स्वभाव इति यावत् । रसस्य यथा-'कपायो मधुर- स्तिक्तः कटुम्ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते ॥' भौतिकानां सांसर्गिकद्रव्याणां विकारेण मधुरत्वादिनानाधर्मभाक्त्वं रसस्य स्वभाव इति यावत् । गन्धस्य यथा-'करम्भभूतिसौरभ्यशान्तोग्राम्लादिभिः पृथक् । द्रव्या- वयववैपम्याद्गन्ध एको विभिद्यते ॥' ससर्गिद्रव्यविकारात्कर- म्भत्वादिनानाधर्मभारत्वं गन्धस्य स्वभाव इति यावत् । तन करम्भो मिश्रगन्धः, पूतिर्दुर्गन्धः, सौरभ्यं कर्पूरादेः, शान्तगन्धः शतपत्रादेः, उपगन्धो लशुनादेः, आम्लगन्धः पर्युपितानादेः, इति विवेकः। शब्दादीनां सम्भवत्कार्यस्वभाववर्णनस्पत्यमेपां चच- नानां बोध्यम् । अतोऽव्याप्त्यतिव्याप्तिभ्यां केपाश्चिद्धर्माणां लक्ष- णत्वासम्भवेऽपि न क्षतिः। भूतेषु आकाशस्य यथा-'भूतानां छिद्रदातृत्वं पहिरन्तरमेव च । प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥' अवकाशप्रदुत्वं भूतानाम्, वाह्याभ्य- न्तरव्यवाहारविषयत्वम्, नाडीहृदयादिछिद्रद्वारा प्राणेन्द्रियात्मना- मानयत्यं पाकाशस्य स्वभाव इति यावत् । अनावकाशप्रदा- नमापाशम्य कृत्यम् । यायोर्यथा-'चाटनं व्यूहनं प्राप्तिर्नेतृत्व [प्रमेय- १७६ मानमेयप्रकाशिकायां साक्षात्सम्बन्धेन ग्रहणसिद्धिः, साक्षात्सम्बन्धेन प्रणसिद्धी च द्रव्यत्वसिद्धिरियन्योन्यसंश्रयश्च । किञ्च सिद्धान्ते श्रोत्रस्य वैकारिक- तया तेन साक्षात्सम्बन्धः समवायोऽपि दुर्घट एवं नमोधर्मस्य शब्दस्य । ध्वनेरिव समानेन्द्रियग्राह्यत्वसमानकण्ठतास्वादिव्यापार- जन्यत्वाभ्यां वर्णानामपि जन्यत्वमद्रव्यत्वं तारत्वादिधर्मवत्त्वं चैव तुयुक्तमिति । तथा चोक्तं तत्त्वमुक्ताकलापे--"शब्दोऽवस्थाविशेषः श्रुतिभिरभिहितस्तेन नैप स्वनिष्ठः व्योमादेश्वाविभुत्वात्क्वचि- दपि न तु तत्सन्निधिस्तद्विदरे । साक्षादक्षाप्तिसाक्षात्कृत इति घटवद्व्यमित्यप्यसारं साध्यात्प्राग्धेत्वसिद्धेहि परमतवन्ना- भसं श्रोत्रमत्र ॥ ध्वन्यात्मा वायुभेदः श्रुतिविपयतयाऽपाठि तौतातितायैस्तद्वद् पञ्चाशदेते समकरणतया वर्णिताः किन्न वर्णाः। तैग्यादिवर्णधर्मो नियत इति यधादर्शनं स्थापनीयं स्पर्शादौ चैवमिष्टं तदिह न सुलभा द्रव्यता नित्यता च ॥" इति । आकाशादिधर्मः शब्दस्तत्पूर्वतनेषु तत्त्वेपु नैवास्ति । नित्य- विभूती तु अप्राकृतानि पञ्चभूतानि पञ्चशक्तिशब्दवाच्यानि तद्ध- मांश्च विलक्षणाः कल्याणतमाः शब्दादयः शाकसमधिगम्याः । यथा गन्धसाम्येऽपि सौरभविशेपः कस्तूरीचम्पकादौ दुरहावः । एवं प्राकृतेभ्योऽत्यन्तविलक्षणा एवाप्राकृता अमी प्रतिपत्तव्या यथाप्रमाणम् । उक्तं चैतत् . तत्त्वमुक्ताकलापे-'कस्तूरीचम्पकादौ समविपयतया सम्मतः सौरभादिस्तद्वच्छब्दादयोऽमी त्रिगु- णतदधिकद्रव्यनिष्ठाः गुणाः स्युः। निष्कृप्टे शास्त्रदृया न कथमपि मिथः सङ्करः शङ्खनीयः स्वाच्छन्द्याच्छङ्कमानः स्वमिव सुरगुरुं किन्न शङ्केत मुग्धम् ॥” इति ।

प्रकाशे] जडपरिच्छेदः।.. १७७ अथ स्पर्शो वाय्वादिचतुष्टयगुणश्चिन्त्यते । असदादित्वगिन्द्रिय- ग्राह्यविजातीयव्यावृत्तमद्रव्यं स्पर्शः । स त्रिविधः-शीतोष्णानुष्णा- शीतभेदात् । शीतो सले उगतेजसि अनुष्णाशीतः पृथिवी- वाय्वोः । भूतान्तरसंसर्गातु अन्यन्नान्यस्पर्शावभासः स्वस्पर्शानव- भासश्च । यथा पृथिवीवाय्वोरग्निसम्पर्कादौष्ण्योपलम्मे तद्गतस्या- नुष्णाशीतस्यानुपलम्भः । अनुष्णाशीतोऽपि स्पर्शविशेष एव न तु शीतोष्णाभावमात्रम् । आकाशादावनुष्णाशीतप्रतीतेरभावात् पृथिवीवायबोः स्पर्शवत्त्वस्य शाखसिद्धत्वाञ्च । तत्र पाकजः पृथिव्यां; अपाकजस्तु मातरिश्वनि । जलान्योः शीतोष्णावयपाकजावेव । मार्दवकाठिन्यादयश्च त्वचा ग्राह्यत्वात्पाकजस्पर्शभेदा एव । करकादौ काठिन्यं तूपष्टम्भकपार्थिवांशगतम् । मृदुः पवन इति च वेगा- भावनिमित्तको व्यवहारः । जलाग्निसम्पर्कनिमित्ते च शैत्योषण्ये पृथिव्यामौपाधिके एव न पाकजे, उपाधिनिवृत्तौ निवृत्तेः । अथ रूपं तेजोववनिवृत्ति । अस्मदादिचक्षुरिन्द्रियैकग्राह्यविजा- तीयव्यावृत्तमद्रव्यं रूपम् । संयोगेऽतिव्याप्तिवारणायैकपदम् । अन्यत्सर्वं पूर्ववत् । तच त्रिविधं लोहितशुष्टकृष्णभेदात् । तथा च . श्रुति:-'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुल्लं तदपां यत्कृपणं तदन्नस्य' इति । पीतमपि रक्तावान्तरभेद एव निरुत श्रुत्यनुरोधात् । कालिन्दीजलादौ नीलामुपलब्धिस्तु आश्रयौपाधि- क्येव । तत्र तेजसि भाखरशुभम् । अभास्वरं शुष्ठं जले । पृथिव्यां तु पाकतो बहुविध रूपं भवत्यभास्वरम् । अवययगतानि नानारू- पाण्येय प संहवानि चित्रप्रतीतिव्यवहारनिर्वाहकाणि । अतो न चित्रं रुपमतिरिक्त कल्पनीयम् । अन्यथा चित्ररसादेरपि कल्पना- चित्रप्रतीतेरविशेपात् । । प्रसन्न क मान०म०१२ - क " १८० मानमेयप्रकाशिकायां [प्रयेय- द्रव्यशब्दयोः । सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिल- क्षणम् ॥' वृक्षशाखापर्णतृणादेश्चालनम्, व्यूहन-विभजनं संयु- कानाम् , प्राप्ति:-वियुक्तानां संयोजनम् , गन्धाश्रयद्रव्यस्य शब्दस्य च वत्तदिन्द्रियसमीपनेतृत्वम्, सर्वेन्द्रियाधारत्वं च मुख्यप्राणा- त्मना, वायोः कार्यरूपाणि लक्षणानि लिङ्गानि । एतैः कार्य: लिङ्गभूतैः कारणतया वायुर्लिङ्गयते--अनुमीयते इति यावत् । तेजसो यथा-'द्योतनं पचनं पानमदन हिममर्दनम् । तेजसो वृत्तय- स्त्वेताः शोपण क्षुत्तृडेव च ॥' प्रकाशनं घटादेरर्थस्यालोका- स्मना, पचनं तण्डुलादेः, क्षुत्तृडुपजननद्वारा पानमदनं च, हिमस्य नाशनम् , शोपणं च पर्णजलादीनाम् , तेजसो वृत्तयः-कार्या- णीति यावत् । जलस्य यथा-'क्लेदन पिण्डनं तृप्तिः प्राणनाप्या- यनौन्दनम् । तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः॥' छेदनं-आर्द्राकरणम् , पिण्डनं चूर्णादेः, तृप्तिप्रदत्वं-पाथसि पीते हि तृष्णा शाम्यतीति, प्राणनं-जीवनापादनम्,'आपोमयः प्राणः' इति हि श्रुतिः, आप्यायनं-पोपणम् , औन्दनं-मृदूकरणम् , धर्मा पनयनम्, भूयस्त्वं-कूपादावुद्धतेऽपि जलेऽन्यूनता च जलस्य कार्याणि स्वभावाश्चेति यावत् । पृथिव्या यथा- भावनं ब्रह्मणः स्थानं धारणं सद्विशेपणम् । सर्वसत्वगुणोझेदः पृथिवी- वृत्तिलक्षणम् ॥' भावनं-उत्पादनं घटादेः, धारण-ब्राह्मणोपल- धितचतुर्विधभूताधारत्वम्, सतां कार्याणां ब्रीह्यादीनां विशेषणत्वं देशभेदेन तेषां सारासारत्वदर्शनात् । सर्वसत्त्वगुणोद्भदः-तत्तद्दे- शस्थप्राणिनामाकारविशेषहेतुत्वं, यद्वा शब्दादिपञ्चकाश्रयत्वं च पृथिव्याः लक्षणानि यथाययं कार्यस्वभावरूपाणीति यावत् । . 4 प्रकाशे] घटते-'एतस्मा- जडपरिच्छेदः। १८१ सत्सङ्गिजीवने चैतेऽन्येऽपि कतिचन विशेषा उपदर्शिताः । (प्र० ४ अ० ६९ श्लो० १९-३५) हरिवाक्यसुधासिन्धौ 'च (तरंग १२) इति अलं विषयप्रसङ्गतः । निरूपिता नाम महदादिक्रमेण महन्तानां तत्त्वानामुत्पत्तिः अत्रेदं वोध्यम्-पूर्वपूर्वतत्त्वशरीरकात्परमात्मन एव उत्तरोत्तरत- त्योत्पत्तिः । अत एव च अहङ्काराद्युत्पन्नानामपि इन्द्रियमनःप्राण- महाभूतानां साक्षात्परमात्मन उत्पत्तिः श्रूयमाणा जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुयोतिरापः पृथिवी विश्वस्य धारिणी' इति । अहङ्कारादिशरीरकब्रह्मण इन्द्रिया- दिनिप्पत्तौ श्रुतेस्तात्पर्यम् । सूत्रितश्चायमों 'विपर्ययेण तु क्रमो- ऽत उपपद्यते च' इति । 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इती- क्षणश्रवणात्तेज:प्रभृतिशब्दास्तेजःप्रभृतिशरीरकपरमात्मपरा इति च निर्णीत 'तदभिध्यानादेव तु तल्लिङ्गात्सः' इति सूत्रे । एतेन भागशादिशब्दानामपि तत्तच्छरीरकनझपरत्वं सिद्धम् , तेजः- ममृतिशब्दसमानयोगक्षेमत्वात् । किन्न नभःप्रभृतीनामपि काल- गायागुणांशयुक्तानां भगवद्वीक्षितानामेवानिलादिरूपेण भवनमुकं श्रीभागयते-'तामसो भूतसूक्ष्मादिर्यतस्तल्लिङ्गमात्मनः। काल- मायांशयोगेन भगवद्वीक्षित नभः ॥ नभसोऽनुसृतं स्पर्श विकुर्वन्निर्ममेऽनिलम् । अनिलोऽपि विकुर्वाणो नभसोरुव- लान्वितः ॥ ससर्ज रूपतन्मानं ज्योतिर्लोकस्य लोचनम् । अनिलेनान्वितं ज्योतिर्दिकुर्वत्परवीक्षितम् ॥ आपत्ताम्भो रममयं कालमायांशयोगतः । ज्योतिपाम्भोऽनुसंसृष्टं विकु- चंद्राणवीक्षितम् ॥ महीं गन्धगुणामाधारकालमायांदायोगतः। -- [प्रमेय- मानमेयप्रकाशिकायां इति । अंत: कालो जीवीयं कर्म परमात्मसङ्कल्पश्च तत्त्वात्तत्वा- न्तरनिष्पत्तो कारणमित्युक्तं भवति । तत्र भगवतः स्वस्यैव 'बहु स्यां प्रजायेय' इति सङ्कल्पस्य श्रुतत्वाच पूर्वपूर्वतत्त्वविशिष्टस्यो- त्तरोत्तरतत्त्वविशिष्टतया बहुभवनमेपितव्यम्। नाविकारस्य स्वरू- पतो बहुभवनं घटेत चिदचिद्विशेषणद्वारमन्तरा। अतः कार्यकार- णभूतव्येष्टिसमष्टिचिदचिच्छरीरकः परमात्मैव कार्यकारणरूपेण वर्तते इति नैगमिकः पन्थाः । अन्तर्यामिरूपेण पूर्वपूर्वतत्त्वात्मनो भगवतो वीक्षणादुत्तरोत्तरतत्त्वस्य भवनमित्ययमों हरिवाक्य- सुधासिन्धौ च (तरंग ४१) वर्णितः । तमोनिरूपणम् । ननु अन्तर्यामिब्राह्मणे 'यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येप ते आत्मा- ऽन्तर्याम्यमृतः' इति तमो नाम किमपि द्रव्यं परमात्मनः शरीर- तया श्रूयते । न चेदं तम आलोकाभावमात्रम् , शरीरत्वानुपपत्तेः । अस्य च जडद्रव्येषु परिगणनाऽभ्युपेया। प्रकृत्यादिषु पृथिव्यन्तेषु तत्त्वेषु न पर्यगण्यत । अथ क समावेशोऽस्य ? । उच्यते । इदमेव तु तावत्प्रथमं विचारयामः । वहयः खलु द्रव्यत्व एव तमसो विप्रतिपद्यन्ते । तत्र काणादा आहुः-तेजोऽभाव एव तमो नातिरिकं द्रव्यम् । नीलं तमश्चलतीति प्रतीतिरतु भ्रान्तिः । यदि तत् रूपि स्यात् तर्हि तच्चाक्षुपे आलोकसापेक्षता स्यात् । रूपिद्र- व्यचाभुपे ह्यालोकः सहकारिकारणमिति । अपरे-रूपादर्शनमेय तमः । अन्धोऽपि किमप्यपश्यन् तमसावृतमित्येव वेत्ति। अस- लालोके मलिने भूतलादावारोपितं नैल्यमेव तम इति तु परे । ।

सा प्रकाशे] जड़परिच्छेदः। वैदिकतया विख्याताः प्राभाकराः पुनः आलोकामावान्नापरं तमः । अभावस्य भावान्तररूपत्वेन व्यपेतालोको देशभाग एव तत् । नीलं तम इति तु भ्रम एव ! केचिंत्याहुः-छायैव तमः, चलत्वाचलत्वमहत्त्वाल्पत्वदूरत्वासन्नत्वादिगुणयोगिनी तेजाप्रति- रोधिका । यथा यथा इयं सञ्चरति तथा तथा आलोक एकतः प्रतिरुद्धयते अपरतः प्रतिमुच्यते च। (यतो निःसरति तत्र विमोक्षः, यं देशं व्याप्नोति तत्र प्रतिरोधः) महत्त्वं चास्याः सौरतेजसः सौरमण्डलस्यापि प्रतिरोधात् । अल्पता चान्यत्र । निरस्तश्चाय पक्षः परैः-तमश्चेचाक्षुपं रूपि द्रव्यं तर्हि तेन महता भाव्यम् । अन्यथा- ऽचाक्षुपत्वप्रसङ्गात् । द्रव्यचाक्षुपे महत्त्वस्यापि कारणत्वात्। महत्त्वं चानेकद्रव्यारब्धत्वप्रयोज्यम् । अनेकद्रव्यारब्धता चावयवस- याप्रचयायत्ता । छायायां तु न तामुपलभामहे । यदप्यालोकस्य सञ्चरता तमसा प्रतिरोधविमोक्षाविति, तदप्येतेन निरस्तम् । विप- रीता चेयं कल्पना-तमसाऽऽलोकः प्रतिरुध्यते इति । गिरिगुहाम- ध्यवर्तिना पुरुषेण प्रदीप प्रज्वालिते सपदि विलीयते हि तमः । तमसश्चेत्प्रतिरोधकत्वं स्वभावः, कुतस्तमालोकं न प्रतिरुणद्धि ? । यद्यालोकेनाभिभूतं तमस्तदाऽपसृत्य ततो दूरे वर्तते, तदाऽऽलोफमध्ये निवसतः' शिरःपाण्यादिपिण्डविशेपलक्षणस्य पुरुषस्य छायात्मा तवयवसंस्थानसमानसंस्थानेन भूत्वा कुतः कथमागत्य स्थीयते ? तयुक्तम्-अपवारितालोकादेशविशेषान्नातिरिकं नमो नाम इति । माहाः पुनराहुः नीलं तमश्चलतीत्ययाधिवप्रतीते:; भाववाचिना तमाशब्देनोप्लेखात् पिना प्रतियोगिस्मरणं इदमिह वग इति प्रतीतेश्च वमो द्रव्यमेय ।न प वाच्यं रुपवत्तया सर्शवत्वप्रसङ्गः, मानमेयप्रकाशिकायां [प्रमेय- रूपवतां क्षितिसलिलतेजसा स्पर्शवत्त्वं हि दृष्टमिति । स्पर्शवतां तेपो रूपवत्त्वं दृष्टमिति किं वायू रूपवानपि ? तत् यथोपलम्भ वस्तु व्यवस्थाप्यम् । पदलपिहितलोचनानां निमीलितनयनानां च नीलं तम इति बुद्धिस्तत्तदावरणच्छायाग्रहणरूपा । जात्यन्धस्य तु नैव नीलधीः । तञ्च द्रव्यं काणादैः सम्प्रतिपन्नेभ्यो नवभ्यो मिन्नमिति । अत्राहुस्तत्त्वविदः-पार्थिवो विकारविशेष एव तमः । ननु विनाऽऽलोकं कथं चक्षुपा गृह्येत?। चाक्षुपे ह्यालोकः कारणम् । ननु भोस्तेजः कथमालोकनिरपेक्षं चक्षुषा गृहाते ? । ननु स्वयमे- वालोकलक्षण इति नालोकान्तरापेक्षा। आलोकातिरिक्तस्य चाक्षुपे त्वालोकसंयोगापेक्षा। हन्त भोः! तमस्त्वेन भवता व्यपदिश्यमानस्य वा कथमालोकनिरपेक्षं चाक्षुपम् ? । नन्वालोकाभावो हि सः । स चानुपलब्ध्या गृह्यते । नन्वनुपलब्धिस्तव न प्रमाणान्तरम् । इन्द्रि- याणां प्रत्यक्षकरणानां सहकारिण्येच सा। तस्मात् तत्सहकृतं चक्षुरेव तु तत्र मतं ग्राहकम् । सत्यम् । आलोकचाक्षुपे आलोकनरपेक्ष्यमिव तदभावचाक्षुपेऽपि तदनपेक्षेति चेत् तद्विरोधैकस्वभावस्य द्रव्य- स्यापि तमसश्चाक्षुपे न तदपेक्षेति समः समाधिः । नीलं• तम इत्यवाधितप्रतीतेश्रोन्तित्वकल्पनं पुनस्तव साहसम् । किश्च तम- सोऽन्यस्य पार्थिवविकारस्य चाक्षुपे आलोकसापेक्षत्वदर्शनैन चाक्षु- पमात्र तदपेक्षाकल्पनं न विचारसहम् । यथा वेदादिगतशैत्यग्रहे त्वगिन्द्रियस्य वायुसापेक्षत्वेऽपि स्पर्शमानमहे ,न तत्सापेक्षता । यतो यस्तुस्वभावो यथोपलम्भं व्यवस्थामहति ॥ यश्वान परेपां प्रयोगः-मोन द्रव्यं, आलोकाभावे गृह्यमाणत्वात् आलोकामा- अपदिति । स प विपक्षे पांधकामावादप्रयोजकः । किन-आलो. ।

. 1 प्रकाशे] जडपरिच्छेदः। काभाव एव तम इति वदतो न दृष्टान्तसिद्धिः पक्षानतिरेकात् । अभावस्य भावान्तररूपता वदंत आलोकाभावस्यं निरालोकभूतला- त्मकतया तस्य द्रव्यत्वेन दृष्टान्ते साध्यवैकल्यं चेति । नीलरूपाश्र- यतया च तमसः पार्थिवत्वमेव । सलिले तु शौक्ल्यम् , तेजसि तु भाखरशुलं पररीत्या, श्रीतप्रक्रियया तु लोदितं 'रूपम्, पायुस्तु नीरूप इति । 'यत्कृष्णं तदन्नस्य' इति च श्रुतिः। न चोद्धृतरूप- वव्यस्योद्भूतस्पर्शवत्वनियमः। इन्द्रनीलालोकादी व्यभिचारात् । आलोकापसरणाधनुविधायिप्रसरणादियोगश्च तमसि यथोपलम्भ व्यवस्थाप्यः । उकं च तत्त्वमुक्काकलापे-'नल्यान्दोमं तमिनं चठ्ठलवहलताद्यन्वयात्तन्न नैल्यं छायावत्पारतत्र्यं त्वयस इव मणी दृष्टिसिद्धात्स्वभावात् । स्पर्शाख्यातिन रूपं . हरति हरिशिलालोकवत्तत्र चाक्ष्णो लोकोऽर्थ्यः ससिद्धाञ्जननयन- दिवाभीतदृष्ट्यादिनीतेः ॥ नालोकाभावमानं तिमिरमविरतं नीलमित्येव दृप्टेनॆल्यं त्वारोयितं चेत्कथमिव न.भवेत्कापि कस्यापि वाधः। आरोपे चात्र नेल्यं न भवति नियतं भास्व- रान्यत्वसाम्यान्नात्रादृष्टं नियन्तृ प्रतिनियतगुणारोपहप्तेर्गु- रुत्वात् ॥ ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि संवर्तवार्ता भावाभावी निपेढुं तदुभयविधिवद्व्याहतत्वादश- क्यम् । अन्तर्यन्तुश्च तेजःसहपठिततमो देह इत्यामनन्ति स्थाचाभायोऽपि भावान्तरमतिमथने यस्यमाणक्रमेण ।' इति । यद्यपि मूलप्रकृतेरत्यन्तसूक्ष्मावस्थायां तमाशब्दयाच्यत्वं मयति । अत एव ग्रूयते-'यस्याव्य शरीरम्' 'यस्याक्षर शरीरम्' 'यस्य तमः शरीरम्' इति । अथापि विकार्यान्तर्गत . मानमेयप्रकाशिकायां [प्रमेय- वमो नीलरूपचदपि मन्तव्यं पार्थिवविकाररूप तेजोविरोधि किञ्चिद्व्यम् । यस्य तेजसा सहा विशिष्टं परमात्मनः शरीरत्वमु. च्यते विकारकोटिघटितस्य 'यस्य तेजः शरीरम्' 'यस्य तमः शरीरम्' इति । उद्भूतपर्शरहितत्यादेव गतिप्रतिरोधकत्वाभावोऽप्यु- पपद्यतेऽस्य । अस्तु वाऽऽकाशावस्थाविशेषरूपं तमो गत्यप्रतिरोधक- स्यात् । पलीकरणप्रक्रियया चास्य नीलरूपवत्त्वं घटेत । विस्तरस्तु श्रुतप्रकाशिकादिपु द्रष्टव्यः । अवसितसमोवादः। पञ्चीकरणप्रक्रिया। पृथस्थितानां च भूतानां नाण्डोत्पादनसामर्थ्यम्, किन्तु यथा जलसिकताचूर्णकमत्तिकानां न पृथक्स्थितानां भित्त्याद्यारम्भकत्वं, किन्तु परस्परं मर्दनादिना संयोगविशेष प्राप्तानामेव, एवं परमा- त्मनः सङ्कल्पविशेषेण परस्परसंमिश्रणलक्षणमैक्यपर्यायं संयोग- विशेष प्राप्तानामेव । इदमेव भूतानां परस्पर संमेलनं पञ्चीकरण- मित्युच्यते । धान्दोग्ये 'तासां त्रिवृतं निवृत्तमेकैकं करवाणि' इवि निवृत्करणसङ्कल्पः श्रूयते । वत्र भूतत्रयसृष्टेरेवोक्तत्वात् त्रि- स्करणमुक्तम् । यथा तेज:प्रभृतिसृष्टिराकाशादिसृष्टरुपलक्षणार्था, एवं विवृकरणमपि पश्चीकरणादेरुपलक्षणं वेदितव्यम् । एकैक- भूतस्य भूतान्तरभागः सभागत्वापादनं पञ्चीकरणम् । पञ्चीकरण यथा--एफैकभूतं द्विधाकृत्य वत्रैकमधं तथैवावस्थाप्य अर्धमन्य- अातुर्धाकृत्य चतुर्यु भूतान्तराधेषु संयोजनम् । तथा च पञ्चीकृतायां पृथिव्यामधुमागः पृथिव्याः, जलादीनां चाटमा भागाश्चत्वारः। एवं जलादिष्वपि । एवं च पृथिव्यादिपु जादिभागस्य 'सत्त्वेऽपि तत्तगतमागस भूयस्त्यात्पृथिव्यादिव्यवहारः । तथा च सूत्रम्-- प्रकाशे] । जडपरिच्छेदः।. १८७ 'भूयस्त्वात्तु तद्वादस्तद्वादः' इति.। 'व्यात्मकत्वात्तु भूयस्त्वात्' इति तु विवृत्करणाभिप्रायम् । अण्डागताश्च पृथिव्यादयः पञ्ची- कृता एव । अण्डावरणभूतास्तु शुद्धा वेदितव्याः । तत्र पञ्चीकरणं 'एवं जातेषु भूतानि प्रत्येकं स्युबिधा ततः। चतुर्धा भिन्नमे- कैकमर्धमध तथा स्थितम् ।। व्योम्नोऽर्धभागाश्चत्वारो वायु- तेजःपयोमुंवाम् । अर्धानि यानि वायोस्तु व्योमतेजःपयो- भुवाम् ॥' इत्यादिपुराणवचनसिद्धम् । सप्तीकरणं तु 'नानावीर्याः पृथग्भूतास्ततस्ते संहति विना । नाशक्नुवन् प्रजाः स्रष्टुम- समगम्य कृत्लशः ॥ समेत्यान्योन्यसंयोगं परस्परसमा- श्रयाः। एकसातलक्ष्यास्तु सम्प्राप्यैक्यमशेषतः॥ महदादयो विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ इत्यादिपुराणवचनसिद्धम् । सप्तीकरणपक्षे च एकस्मिन् तत्त्वे तत्त्वान्तराणां द्वादशा भागाः सङ्गता वेदितव्याः। श्रीभागवते च पञ्चानां भूतानां सप्तानां च महदादीनां पर- सरसम्मेलनं परमात्मसङ्कल्पकृतमण्डोत्पत्तिप्रयोजकमुक्तम्-'तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम् । संहत्य दैवयोगेन हममण्डमथासुजन् । सोऽशयिष्टाब्धिसलिले अण्डकोशो निरात्मकः । सायं वै वर्षसाहस्रमन्यवात्सीत्तमीश्वरः ॥ यस्य नामेरभूत्पनं सहस्राऊरुदीधिति । सर्वजीवनिकायीको यत्र स्वयमभूत्स्वराद ।। सोऽनुप्रविष्टो भगवता यः शेते सलिटा- शये । लोकसंस्था यथापूर्व निर्ममे संस्थया स्वया ॥' इत्यादी। अत्र पनीवर्भूतरारम्यस्याण्डस प्रकाशयझुलस्वाधिष्टारचेवनरहित- खोददायत्वप्रतिपादनादण्डोत्पत्तेः पार गर्मोदकटिरर्यसिद्धा ।

१८८ मानमेयप्रकाशिकायां [प्रमेय- बहिरन्तश्चोदकेन व्याप्तेऽण्डे दिव्यानि वर्षाणि सहस्रं यावत् भग- बानागपर्य के शेते स्म । तस्य च नाभिपद्माचतुर्मुसो जीवसमष्टिरूपो जातः । स च सलिलेशयेन भगवताऽनुप्रविष्ट आहितशक्तिको लोकसंस्थानानि यथापूर्व निरमिमीतेति समुदितोऽर्थः। 'सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते' इति पुराणवचनान्तरै- कार्याञ्च चतुर्मुखस्य व्यष्टिसृष्टौ परमात्मनो द्वारत्वं बोध्यम् । उदके- शयस्येश्वरस्य नारायणत्वं च 'आत्मनोऽयनमन्विच्छन् आपोs- साक्षीच्छुचिः शुचीः। तास्ववात्सीत्स्वसृष्टासु सहस्रपरि- वत्सरान् ॥ तेन नारायणो नाम यदापः पुरुषोद्भवाः ।' इति वचनसिद्धम् । अयं च पुरुपो भगवान वासुदेव एव । 'द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ एको नानात्वमन्विच्छत् योगतल्पा- समुत्थितः । वीर्य हिरण्मयं देहं मायया व्यसृजत्रिधा ।' इत्यनन्तरश्लोकाभ्यां कालादिसताहेतुत्वस्य योगशयनादुत्थानस्य आत्मनो बहुभवनसङ्कल्पस्य खदेहभूतस्य वीर्यमूतस्य. कारणद्रव्यस्य चिदचिदात्मकस्य फरणभोक्कृविपयरूपेण निधा विभजनस्य समष्टि- पुरुपद्वारकस्य घ प्रतिपादनात् । 'एतदण्डं विशेपाख्यं क्रमवृद्वैर्दशोत्तरः। तोयादिभिः परिवृतं प्रधानेनावृतैर्वहिः ॥ यत्र लोकवितानोऽयं रूपं भग- चतो हरेः॥ इति वचनानुसाराजलतेजोवाय्वाकाशाहकारमहल- धानरूपोत्तरोत्तरदशगुणितावरणसप्तकातमिदं ब्रह्माण्डं चतुर्दश- लोकात्मकं भगवतः स्थूलं रूपं चेतसो धारणाश्रयः । स्थूले हि रूपे विघृतेऽनन्तरं 'मनसः सूक्ष्मे रूपे स्थितिः स्थिरा भवेत् ।

प्रकाशे] - जडपरिच्छेदः। १८२ तदुच्यते-'जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः। स्थूले भगवतो रूपे मनः' सन्धारयेद्धिया ॥ विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं दृश्यते विश्वं भूतं' भव्यं भवञ्च यत् ॥ अण्डकोशे शरीरेऽस्मिन् सप्तावरण- संयुते । वैराजः पुरुपो योऽसौ भगवान् धारणाश्रयः ॥' इति । अयं च वैराजः पुरुपो विराजोऽनिरुद्धस्यांशभूतो ब्रह्माण्ड- स्वाभिमानी तच्छरीरको वैश्वानरसंज्ञितो वैश्वानरविद्योपास्यः । चतुमुखोऽप्येतस्यैव धारणयावाप्तसृष्ट्युपयुक्तज्ञानसामों ससर्ज यथापूर्वमित्युच्यते-'एवं पुरा धारणयाऽऽत्मयोनिनष्टां स्मृति प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघदृष्टियथाऽप्यया- पार व्यवसायबुद्धिः ॥ इति । अस्य च वैराजपुरुषस्य ब्रह्माण्ड- शरीरत्वमनिरुद्धात्मकत्वं नारायणत्वमीश्वरत्वं च वर्ण्यन्ते, अस्यैव नाभिकमलाञ्चतुर्मुखस्योत्पत्तिश्च स्कान्दे वासुदेवमाहात्म्ये-'प्रेरिता वासुदेवेन स्वस्वाशैरैश्वरं वपुः। अजीजनविराट्संज्ञं ते चराचरसंश्रयम् । स वै वैराजपुरुषः स्वसृष्टास्वप्स्वशेत यत् । तेन नारायण इति प्रोच्यते निगमादिभिः ॥ तन्नाभिपद्मा- ब्रह्मासीद्राजसोऽथ हृदम्बुजात् । जज्ञे विष्णुः सत्त्वगुणो ललाटात्तामसो हरः ॥' 'एकार्णवे जले तस्मिन् वैराजपुरुपः सतु । अनिरुद्धात्मकः शेते नागेन्द्रशयने प्रभुः' इति । विराट- शब्दश्य फचिद्रह्माण्ड कचिदनिरुद्धे फचितुर्मुखे च प्रयुज्यते । अत एव दक्षादयोऽपि राजा उच्यन्ते चतुर्मुखोत्पमाः । प्रमाण्डा- मिमानी तु वैराजपुरुपो न्यूहांश इति युफमभ्युपगन्तुमुपात्तवचन- 1 विराट् प्राग्डम् ।

१९० भानमेयप्रकाशिकायों [प्रमेय- स्वारस्यानुसारात् । अयमर्थः सत्सङ्गिजीवनेऽपि (प्र. ३ अ. २९) मोक्तः । जीवत्वप्रतिपादनं च अस्य कचिजीवसमष्टिरूपचतुर्मुखैक्य- विवक्ष्या। ऐक्यं चेदं चतुर्मुखाभिमानित्यनिवन्धनम् । तथा च वैरा- जैक्यभाषनया चतुर्मुखस्य सृष्टिसामर्थ्य गाविरभूदिति प्रत्यपादि वा- सुदेवमाहात्म्वे-'इत्युक्त्वान्तर्दधे विष्णुमायैक्यसमाधिना । वैराजेंनाथ लोकान् प्राग् लीनान् सर्वान् स्व ऐक्षते ॥' इति । ब्रह्माण्डान्तर्गताच लोका अखैव पादादिप्रदेशभेदत्योपास्यन्ते योगिभिः । तथा चोक्तं भागवते-'पातालमेतस्य हि पादमूलं पठन्ति पाणिप्रपदे रसातलम् । महातलं विश्वसृजोऽथ गुल्फी तलावलं वै पुरुषस्य जड़े ॥ द्वे जानुनी सुतलं विश्व- मूर्तरूरुद्वयं वितलं चातलं च । महीतल तजघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ उरःस्थलं ज्योतिरनीकंमस्य ग्रीवामहर्वदनं वै जनोऽस्य । तपो रराटी विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्णः ॥ इति । चतुर्दशलोकवर्णनम् ।. तन्त्र सप्तोपरितना लोका:-भूर्भुवःस्यमहर्जनस्तपःसत्यमिति । भुवोऽयस्ताच सप्तातलादयः । एकेकोऽपि दशसाहस्रयोजनोच्छ्रा- थोऽतलादिदैत्यदानधयक्षमहानागादिनिवासस्थानम् । तथा चोक्तं विष्णुपुराणे-'दशसाहस्रमेकैकं पाताल मुनिसत्तम । अतलं वितलं चैव नितलं च गभस्तिमत् ।। महाख्यं सुतलं चाय पातालं चापि सप्तमम् । शुक्लकृष्णारुणाः पीताः शर्कराः शैलकाशनाः ॥ भूमयो यत्र मैत्रेय वरप्रासादमण्डिताः । तेषु दानवदैतेया यक्षाश्च शतास्तथा ॥ निवसन्ति महानाग• -प्रकाशे] । जडपरिच्छेदः। जातयश्च महामुने ॥' इति । विचित्रभोग्यभोगोपकरणादिसम्प- त्तिश्च पातालेषु विस्तरशोऽत्र वर्णिताऽस्ति । श्रीभागवते च अतलादयः सप्त लोका भूमेरधस्ताद्भूविवररूपा वर्णिता सविस्तरम्-'अवनेरप्यधस्तात्सप्त भूविवरा एकैकशो योजनायुतान्तरोच्छ्रित्तायामविस्तारेण तारतम्येन चोपनुप्ताः । अतलं वितलं सुतलं रसातलं तलातलं महातलं.पाताल'- मिति । अतलादिपु प्राधान्येन वर्तमाना अपि निर्दिष्टास्तत्रैव-'अतले मयपुत्रो वलो नामासुरो निवसति । येन ह वा इह सृष्टाः 'पण्णवतिमायाः काश्चनाद्यापि मायाविनो धारयन्ति । ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्पदभूत- गणावृतः प्रजासर्गोपबृंहणाय भवान्यापि स मिथुनीभू- यास्ते । ततोऽधस्तात्सुतले पुरश्रवाः पुण्यश्लोको महाभाग- वतो विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्ष- माणेन चामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव:, पुनः प्रवेशितः इन्द्रादिप्वविद्यमानया सुसमृद्धया श्रिया- ऽभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्तमपगतसाध्यस आस्तेऽधुनाऽपि । यस्य भगवान् स्वयमखिलजगद्गुरु रा- यणो द्वारि 'गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः । ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रि- पुराधिपतिभंगवता त्रिपुरारिणा त्रिलोक्याः शं चिकीर्पणा निर्दग्धपुरस्तत्मसादाडव्धपदो मायाविनामाचार्यों महादेवेन परिरक्षितो विगतसुदर्शनभयों महीयते । (मुदर्शनमक्तिमता १९२ [प्रमेय . . मानमेयप्रकाशिकायां महादेवेन रक्षितत्वाद्विगतसुदर्शन यत्त्वं बोध्यम् ) ततोऽधस्ता न्महातले कावेयाणां नैकशिरसां क्रोधवशानां (सर्पाणां): गणः । ततोऽवस्तासातले दैतेया दानवाः पायो नाम निवातकवचा कालकेया हिरण्यपुरवासिन इति विवुधप्रत्य- नीकाः । ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः महाभोगिनो महामाः निवसन्ति । येपामुह वै पञ्चपट्सप्त: दशशतसहस्रशीणा फणानां विरचिता महामणयोरोचि- प्णवः पातालविवरे तिमिरनिकरं स्वतेजसा विधमन्ति ॥' इति । पाताललोकसप्तकस्य चाधरताच्छेपः सहस्रफणामण्डलमण्डित एकैनैव मूर्धा सर्वामूर्वी विभ्रदास्तेऽनन्तवीर्यः ‘सुरjर्चित इति , वर्ण्यते विष्णुपुराणे-'पातालानामधश्चास्ते विष्णोर्या तामसी तनुः शेपाख्या यद्गुणान् वक्तुं न शक्का दैत्यदानवाः ॥ योऽनन्तः पठ्यते सिद्धैर्देवो देवर्पिपूजितः । स सहस्रशिरा' ध्यक्तस्वस्तिकामलभूपणः॥स विधच्छेखरीभूतमशेष क्षिति- मण्डलम् । आस्ते पातालभूलस्थः शेपोऽशेपसुरार्चितः ॥ यस्यैपा सकला पृथ्वी फणामणिशिखारुणा । आस्ते कुसुम- मालेव कस्तद्वीयं वदिष्यति ॥ यदा विजृम्भतेऽनन्तो मदा- चूर्णितलोचनः। तदा चलति भूरेपा.साधितोया सकानना। तेनेयं नागवर्येण शिरसा विधृता मही । विभर्ति मालां लोकानां सदेवासुरमानुपाम् ॥' इति । श्रीभागवते च पाताल लोकानामधः रसाया मूलेऽनन्तस्य स्थितिः सहसशिरसस्तस्यैक- स्मिन्नेव शिरसि क्षितितलस्य करनस्यायस्थानं च वण्येते-'तस्य। मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगव- .

प्रकाशे] जडपरिच्छेदः। तस्तामसी समाख्याता अनन्त इति । यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्पणि ध्रिय- माणं सिद्धार्थ इव लक्ष्यते ।' इति । (सिद्धार्थः श्वेतसर्पपः) शेपस्याधश्च महाफूर्मों गोंदकस्य महाजलस्योपर्यासे । पावालस्याघस्वान्नरका शेयाः । ततश्च नरका विम भुवोऽधः सलिलस्य च' इति वचनात् । 'पातालभूमेरधस्तात्तमोगोंद- कस्य सलिलस्याघो नरका अण्डकटाहस्यान्तराले' इति व्याया- वम् । ते प पापिनां पापफलानुभयस्थानानि प्राधान्येनाष्टाशि- विधा भयन्ति । तदुषं भागयते-'तामिम्रोऽन्धतामिस्रो रौरवो मदारीरवः सुम्मीपाकः कालसूत्रमसिपत्रवनं सूकरमुसमन्ध- मूपः मिभोजनः संदंशस्तप्तोमिः पत्रकण्टकशाल्मली पैतरणी पृयौदामाणरोधो यिशसनं लालाभक्षः मारमेयादन. मीचिरयःपानमिति । फिश धारकर्दमो रक्षोगणभोजनः शूटमोतो दन्दको पटनिरोधनः पर्यावर्तनः सूपीमुरामि- त्यष्टायिंगतिनरका विविधयातनाभूमयः' की। पापविण गररानुमानिय भागपणारिपूर्ण राग एपानुमायम् ।

मानमेयप्रकाशिकायां [प्रमेय प्रविष्टश्चतुरशीतिसाहस्रोच्छ्रायश्च । मेरोरुपरि ब्रह्मणो दिपालकानां च पुर्यो वर्णिता:-चतुर्दश सहस्राणि योजनानां महापुरी।मेरो- रुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥ तस्याः समन्ततश्चाष्टौ दिशासु विदिशासुच। इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः॥' इति । मेरोदक्षिणवो हिमवान हेमकूटो निषधश्च वर्षपर्ववाः । नीलः श्वेतः शृंगीति यस्तूत्तरतः । तमभितो नव च वर्षाणि । यथा-"प्रथम भारत वर्ष ततः किंपुरुपं स्मृतम् । हरिवर्ष तथैवान्यन्मेरोदक्षिणतो द्विज।। रम्यकं चोत्तर वर्ष तस्यैवानु हिरण्मयम् । उत्तराः कुरवश्चैव यथावै भारतं तथा॥ नवसा- हस्रमेकैकमेतेषां द्विजसत्तम । इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः॥ मेरोश्चतुर्दिशं तत्तुनवसाहस्रविस्तृतम् । भद्रावं पूर्वतो मेरोः केतुमालंच पश्चिमे वर्षे द्वेतु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ॥' इवि। सायम्मुवमनोरपत्यं प्रियतः सप्तद्वीपसागरी महीमसण्डाम- पालयत् । तस्य पुनेपु दशसु वयो वीतरागा महावीरसपनकवयः । अन्ये सप्तामीघ्रध्मजिहयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहो- प्रास्तेन सप्तद्वीपाधिपतयः कृताः । तत्र जम्बूद्वीपस्याधिपतिरप्रीम्रो नयभ्य धात्मजेभ्यो चर्पनामभ्यो जम्बूद्वीपस्य नव वर्षाणि विभ- ज्यादार । तत्र नाभेशोत्पन्नस्य भरतस्य नाना भारतं पर्ष प्रसिद्धम् । पूर्वमसाजनाममित्यासीग्राम । उन भारतं वर्ष नवयो. पानमादयविस्तारशालि । अन प महेन्द्रादयः सा एलपर्वताः । पया-'उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्प तदारतं नाम भारती यन सन्ततिः॥ नवयोजनसाहस्रो विस्तारोऽस्व प्रकाश | जपरिच्छेदः । महामुने । महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।। विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः।' इति । नद्यश्च कुलपर्वतेभ्य उक्तेभ्यः प्रसरंन्यो वर्णितास्तत्रैव-'शतद्भूचन्द्रभा- गाद्या हिमवत्पादनिर्गताः । वेदस्मृतिमुखाद्याश्च पारियात्री- भवा मुने ॥ नर्मदासुरसाद्याश्च नद्यो विन्ध्यादिनिर्गताः। तापीपयोष्णीनिर्विन्ध्याप्रमुखा ऋक्षसम्भवाः ॥ गोदावरी- भीमरथीकृष्णवेण्यादिकास्तथा। सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ कृतमालातावपर्णीप्रमुखा मलयोद्भवाः । त्रिसामाचर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ ऋपिकुल्या- कुमार्याद्याः शुक्तिमत्पादसम्भवाः। आसां नद्य उपानध: सन्त्यन्याश्च सहस्रशः॥ इति । भारतं वर्ष चेदं पहुधा प्रशस्यते। यथा-'चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरं च कलिश्चान्यत्र न कचित् ॥ तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः। दानानि चात्र दीयन्ते परलोकार्थमादरात्॥ पुरुषैर्यज्ञपुरुपो जम्बूद्वीपे सदेज्यते। यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने। यतो हि कर्मभूरेपा ह्यतोऽन्या भोगभूमयः ॥अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । कदा- चिहभते जन्तुर्मानुष्यं पुण्यसथयात् ॥ गायन्ति देवाः किल गीतकानिधन्यास्तुते भारतभूमिभागे।स्वर्गापवर्गास्पदमार्ग: भूते भवन्ति भूयः पुरुषाः सुरत्वात् ।।' इत्यादिना । श्रीमान- यतेऽपि भारतवर्पस्य श्रेष्ठ्यमुरुघा वर्ण्यते-'अहो अमीपां किमकारि शोभनं प्रसन्न एषां स्त्रिदुत स्वयं हरिः। यैर्जन्म लब्धं नृप . . भानमेयप्रकाशिकायां [प्रमेय- भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ कल्पायुपां स्थानजयात्पुनर्भवात् क्षणायुषां भारतभूजयो वरः। क्षणेन मर्येन कृतं मनस्विनः सन्यस्य संयान्त्यभयं पदं हरेः ।। इत्यादिना । 3.अस्मिंश्च भारते व उपासो नरनारायण उक्तः, परमभक्तिभावे- नास्योपासकश्च नारदः सावर्णये पाश्चरानोपदेष्टा वर्णितः, भारत- वर्षगताश्च प्रजाः वर्णाश्रमाचारवत्य उपासकत्वेन वर्णितास्तत्रैव । किंपुरुपे च भगवान् रामचन्द्र उपास्य उक्तः, उपासकश्च हनुमान सह किंपुरुषवर्पस्थैः । हरिवर्पे च नृहरिरुपास्यः, उपासकश्च प्रह्लादः सह तद्वपीयैः । रम्यके च मात्स्यरूपमुपास्यम् , तद्वर्षाधिपतिश्च मनुरुपासका सह तद्वीयैः । हिरण्मये च कूर्मतनुर्भगवानुपास्यः, उपासकश्चार्यमा सह तद्वर्षपुरुषैः पितृगणाधिपतिः । उत्तरकुरुवर्षे च यज्ञवराह उपास्य:, भूदेवी च सह सद्वर्षीयैरुपासकत्वेनोक्ता भद्राश्वे च हयशिरा देव उपास्यः, सह तद्वर्षीयैः पुरुषैर्भद्राश्वश्चो- पासकः । केतुमाले च प्रद्युम्नः कामदेव उपास्यः, उपासिका च रमा सह रात्रिन्दिवाभिमानीभिर्देवताभिः। इलावृते तु भवानीपति- रुपासकः सङ्कर्षणमूर्तेः । एव नववर्पयुक्तो जम्बुद्वीपो लक्षयोजनं मेरुमभितो वर्तमानः स्वयं च लक्षयोजनात्मकः । अस्य चोपद्वीपा अष्टौ वर्णिता भागवते-'जम्बूद्वीपस्य राजनुपद्वीपानष्टाविहोप- दिशन्ति सगरात्मजैरश्चान्वेपणे इमां महीं परितो विखन- निरुपकल्पितान् ।' तद्यथा-स्वर्णप्रस्था, चन्द्रशुक्छः, आवर्तना, रमणकः, मन्देहारुणः, पाञ्चजन्यः, सिंहला, लङ्का इति । अयं ध जम्यूद्वीपः लक्षयोजनविस्तीर्णन लवणसमुद्रेण वेष्टितः। स. प द्विलक्षयोजननिस्तीर्णेन लक्षद्वीपेन । अस्याधिपतिः प्रियता । -प्रकाशे] जडपरिच्छेद २९७ तात्मज इध्मजितः । अन्न घसप्त वर्षाणि-शिव यशस्य सुभद्रं शान्त क्षेममभयममृत्तमिति तत्पुनेभ्यो वर्षसमाननामभ्यः सप्तभ्यो विभ- तानि । अत्र च वर्तमानाश्चत्वारो वर्णा हंसपतङ्गोर्खायनसत्याग- संज्ञा देवसमानसंदर्शनाः सहस्रायुपः सूर्यमात्मानं यजन्ते । अयं च द्विलक्षयोजनविस्तीर्णेनेक्षुरसोदेनावृतः । स च द्विगुणपरिमा- णेन चतुर्लक्षयोजनविस्तारलक्षणेन शाल्मलीद्वीपेन । अत्र च मह- स्तरः शाल्मलीवृक्षः । यत्र गरुत्मतः पक्षिराजस्य नीडं वर्तते । एतदनुवन्ध्येव नाम द्वीपस्य । एवं जम्बूप्लक्षद्वीपयोरपि तत्तद्वृक्ष- विशेषानुवन्ध्येव नाम योध्यम् । एतस्याधिपतिः प्रियव्रतात्मजो यज्ञबाहुः । अवापि सप्तवाणि-सुरोचनं सौमनस्यं रमणकं देव- यह पारियह आप्यायनं अभिज्ञातमिति तत्पुत्रेभ्यो वर्षसमानना- मभ्यः सप्तभ्यो विभक्तानि । एतद्वर्षपुरुपाः श्रुतधरविद्याधरवसुन्ध- रेपन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं यजन्ते । अयं च द्वीपः स्वसमानप्रमाणेन सुरोदेनाभिवेष्टितः । स च तद्विगुणेना- ष्टलक्षयोजनपरिमाणेन कुशद्वीपेनावृतः । यस्मिन् कुशस्तम्बो देवक- तस्तद्वीपाख्याकरो ज्वलन इवापरः स्वशष्परोचिपा दिशो दश विराजयति । अस्य चाधिपतिः प्रेयव्रतो राजा हिरण्यरेता नाम खं द्वीपं सप्तभ्यः स्वसुतेभ्यो विभज्य स्वयं तु तप आविष्ठत । तत्पुः चतुल्यनामानि वर्षाणि सप्त वसुदानढरुचिनाभिगुप्तसत्यव्रतविप्र- वामदेवसंज्ञानि । कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलकसंज्ञाः भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते । अयं च द्वीपः स्वसमानपरिमाणेनाऽऽवेष्टितो धृतोदेन । स च द्विगुणेन पोडशल- क्षयोजनपरिमाणेन गोलद्वीपेन । यन क्रौञ्चनामा पर्वतराजो ।

मानमेयप्रकाशिकायों [प्रमेय द्वीपनामनिर्वर्तकआस्ते । तस्य धाधिपतिः प्रैयतो घृतपृष्ठो नाम खं द्वीपं सप्तधा विभज्य स्वपुत्रेभ्यः सप्तभ्यो दत्तवान् । आमोदो मधुवहो मेघपृष्ठः सुदामा ऋपिज्यो लोहिता! वनस्पतिरिति तत्पु- त्रनामसमाननामानि च सप्त वर्षाणि । एतद्वर्षपुरुषाश्च पुरुपप- भद्रविणदेवकसंज्ञा आपोमयं देवमद्भिः पूर्णेनामलिना यजन्ते । अयं च द्वीपः स्वसमानमानेन क्षीरोदेन परिवृतः । स च क्षीरोदो द्विगुणमानेन द्वात्रिंशल्लक्षयोजनायामेन शाकद्वीपेन । यस्मिन् शाको नाम महान् महीरुट् महासुरभिगन्धस्तं द्वीपमनुवासयति । एतस्य चाधिपतिः प्रयव्रतो मेधातिथिः । अत्र च सप्त वर्षाणि सप्तभ्यः पुत्रेभ्यः पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफवहुरूपविश्वधार- नामभ्यो विभक्तानि । एतद्वर्षपुरुषाश्च ऋतव्रतसत्यव्रतदानव्रतानु- व्रतनामानो भगवन्तं वाय्वात्मकं यजन्ते । अयं च द्वीपः स्वस- मानगुणेन दधिमण्डोदेन वेष्टितः । स च द्विगुणमानेन पुष्कर- द्वीपेन चतुःपष्टिलक्षयोजनविस्तारेणावृतः । यस्मिन् बृहत्पुष्कर ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् । अस्मिंश्च द्वीपे द्वे व तदधिपतिना प्रेयव्रतेन वीति- होनेण स्वपुत्राभ्यां रमणकधातकिनामभ्यां विभक्त । अस्य च मध्ये एक एयाचलो वर्षद्वयमर्यादाकरो मानसोत्तरनामाऽयुतयोजनो- च्छायायामोऽस्ति । वन च चतरपु दिक्षु चत्वारि पुराणि लोक- पालानामिन्द्रादीनाम् । उपरिष्टाच मेलं परिभ्रमतः सूर्यरथस्य चक्र संवत्सरागकं देवानामहोरानाभ्यां परिभ्रमति । एतद्वर्षपुरुषाश्च भगवन्तं ब्रह्मरूपिणं सकर्मफेन फर्मणाऽऽराधयन्ति । अयं च खसमानमानेन शुद्धोदेनावेष्टितः । सप्तद्वीपात्मकोऽयं द्विगुणी, . प्रकाशे] जडपरिच्छेदः। कृवया काश्चनभूम्याऽऽवृतः । ततो लोकालोकापला । लोकालो- फयोरन्तर्वर्तित्वालोकालोक इति नामास्य । तदुपरिष्टाश्चतसृप्या- शासु जगद्धानाधिनिवेशिताश्चत्वारो दिग्गजा:-ऋपभः पुष्कर- चूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः । अत्र च लोकालोकाचले स्वविभूतीनां लोकपालानां च विविधवीर्योपह- णाय महाविभूतिमहापुरुपोऽनम्तैः विष्वक्सेनादिमिः स्वपार्पदप्रवरैः परिवृत आस्ते सन्निधाय सकललोकस्वस्तये इति च भागवते (कं. ५ अ. २०) वर्णितमस्ति । ततोऽन्धं तमः, ततो गर्ता- दकं, ततोऽण्डकटाहश्च । श्रीविष्णुपुराणे चोक्तम्-'एवं दीपा: समुद्राश्च सप्त सप्तभिरावृताः। द्वीपश्चैव समुद्रश्च समानौ द्विगुणी परौ ।।...स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः । द्विगुणा काश्चनी भूमिः सर्वजन्तुविवर्जिता ।। लोकालोकस्ततः शैलो योजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्रा- ण्यचलो हि सः॥ ततस्तमः समावृत्य तं शैलं सर्वतः स्थितम् । तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ पञ्चाशत्कोटिवि- स्तारा सेयमूर्वी महामुने1 सहैवाण्डकटाहेन सद्धीपाधि- महीधरा ॥' इति । भूमण्डलं व्याख्यातम् । अथोपरितनान लोकान् वर्णयामः । ते च समासतो निरूपिता विष्णुपुराणे-"रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्र- सरिच्छैला तावती पृथिवी स्मृता ॥ यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् । नभस्तावत्प्रमाणं वै व्यासमण्डलतो द्विज ॥ भूमेर्योजनलक्षे तु सौर मैत्रेय मण्डलम् । लक्षादि- वाकरस्यापि मण्डलं शशिनेः स्मृतम् ॥ पूर्णे शतसहने तु . ।

1 २०० मानमेयप्रकाशिकायां [प्रमेय- योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रका- शते ॥ढे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात् । ताव- त्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः॥सौरिबृहस्पतेश्चोर्ध्व द्विलक्षे समवस्थितः। सप्त- पिमण्डलं तस्माल्लक्षमेकं द्विजोत्तम । ऋषिभ्यस्तु सहस्राणां शतादूर्व व्यवस्थितः ॥ मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । त्रैलोक्यमेतत्कथितं उत्सेधेन महामुने ॥ इज्याफ- लस्य भूरेपा इज्या चात्र प्रतिष्ठिता । धुवादूर्व महर्लोको यत्र ते कल्पवासिनः ॥ एकयोजनकोटिस्तु यत्र ते कल्पवासिनः। द्वे कोटीतु जनो लोको यत्र ते ब्रह्मणः सुताः॥सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः । चतुर्गुणोत्तरे चोय जनलोका- त्तपः स्थितः। वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः॥ (बैराजा:-प्रजापतयः) पडणेन तपोलोकात्सत्यलोको विरा- जते । अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः ॥' इति । भूमेरुविधिरुतस्तत्रैव-'पादगम्यं तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तरोऽस्य मयो- दितः॥' इति । परणसंचारयोग्यं गिरिशिखरादि यावत्तावदुत्सेधो भूर्लोक इति यावत् । श्रीभागयते च विधिर्मुवो वर्णित:- 'यावर्द्धसभासश्येनसुपर्णादय पतत्रिप्रवरा उत्पतन्ति' इति । 'भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम । (वि. पु.) भूमेरुपरि लक्ष- योजनदूरे सूर्यमण्डलम्, वावदन्तरिक्षं भुप”क इति यावत् ।

, प्रकाशे] जडपरिच्छेदः। २०१ सूर्यमण्डलस्याधस्तायोजनायुते राहुमण्डलम् । तच त्रयोदशसहस्र- योजनविस्तारम् । सूर्यमण्डलं योजनानामयुत (दशसहस्र)परिमाणं, चन्द्रमण्डलं च द्वादशसहस्रपरिमाणम् । अत्रोपरागविषय उक्तम्- राहुः कदाचित्पर्वणि तद्वैरानुवन्धः सूर्याचन्द्रमसौ अभिधावति कलहाय । तन्निशाम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतम् । तत्वेजसा दुर्विपहं चक्रं मुहुः परिवर्तमानमभ्य- वस्थितो मुहूर्तमुद्वेजमानश्चकितहृदय आरादेव निवर्तते । तदुप- राग इति वदति लोकः' इति । (अभिधावनदशायां यत्स्वमण्डलेन सूर्यचन्द्रमण्डलाच्छादनं तदेव ग्रहणमिति उपरागस्वरूपज्ञा पदन्ति जनाः। तत्र ऋजुवक्रस्थितिभ्यामर्धग्राससर्वप्रासौ न तु वस्तुतो ग्रासोऽस्ति, दूरान्तरत्वादिति भावः) अधस्तात् राहुम- ण्डलाद्योजनायुतान्तरे सिद्धचारणविद्याधराणां सदनानि सन्ति । ततोऽधस्ताच यक्षपिशाचप्रेतभूतगणानां विहाराजिरम् । अन्तरिक्ष- स्याधस्तादवधिस्तावान् यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते । इति । (भा. स्कं. ५ अ. २४) 'ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश । स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः॥ त्रैलोक्यमेतत्कृतर्फ मैत्रेय परिपठ्यते । (प्रतिकल्पमुत्पत्तिविनाशयोगतः ) जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ (प्रतिकल्पमविनाशात्) कृतका- कृतयोर्मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पान्ते योऽत्यन्तं न विनश्यति ॥' (वि. पु.) इति सप्तलोक्यावि- ध्यमुक्तं कृतफाकृतककृतकाकृतकभेदात् । श्रीभागवते तु पातालानां भूविवरत्वमाश्रित्य महरादीनां च सर्लोकान्तर्भावं विवक्षित्वा २०२ मानमेयप्रकाशिकाय [प्रयेय- त्रैलोक्यव्यवहारः कृतोऽस्तीत्यादि च तत एवानुसन्धेयम् । ब्रह्मा- ण्डान्तर्गतायेमे लोकाः पुण्यपापमिश्रकर्मवतां कर्मफलानुभवभूमयो विविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धा वोध्या: सत्यलोकादुपरि च तमो गर्वोदकमण्डकटाहश्च । गर्तोदकाण्डक- टाहमानं च शैव उक्तम्-'सप्तसागरमानस्तु गतॊदस्तदनन्तरम् । कोटियोजनमानस्तु कटाहः स व्यवस्थितः ॥ इति । अण्डक- टाह एव पृथिव्यावरणं बोध्यम् । तिर्यगूर्वमधश्च ब्रह्माण्डमण्डक- टाहेनावृतम् । तदुक्तम्-'एतदण्डकटाहेन तिर्यक् चोर्ध्वमध- स्तथा । कपित्थस्य यथाबीजं सर्वतो वै समावृतम् ॥' इति । (वि. पु.) अण्डकटाहादशगुणं जलावरणम् । एवं उत्तरोत्तराव- रणस्य पूर्वपूर्वावरणतो दशगुणत्वं बोध्यम् । अण्डकटाहरूपपृथि- व्यावरणेन सहाव्यक्तावरणपर्यन्तं परिगणनेनाष्टावरणत्वं बोध्यम् । जलाद्यावरणपरिगणनायां तु सप्तावरणत्वम् । ब्रह्माण्डानन्यं चोक्तं तत्रैव-'महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते । तदनन्तमसङ्ख्यातप्रमाणं चापि वै यतः। हेतुभूतमशेपस्य प्रकृतिः सा परा मुने । अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥ इति । वर्णितं च ब्रह्माण्डस्वरूपं सत्सगिजीवने पञ्चमप्रकरणे द्विपष्टितमेऽध्याये ततोऽनुसन्धेयम् । सृष्टेनानाविध्यम् । सप्रपञ्चं निरूपित नाम ब्रह्माण्डस्वरूपम् । महदादिभिः पृथि- व्यन्तैः परस्परसंहतेनहाण्डमुत्पाद्य तत्रं चतुर्मुसं सजतीश्वरः पतुर्मुनपर्यन्ता सष्टिः समष्टिष्टिरित्युच्यते । चतुर्मुसकर्षका प प्रकाशे] जडपरिच्छेदः। देवतिर्यमनुष्यस्थारादिसृष्टिय॑ष्टिसृष्टिरुच्यते । सृष्टिरियं नवधा वर्णिता भागवते-सों नवविधस्तस्य प्राकृतो वैकृतश्च यः इत्यादिना । आद्यस्तु महतः सों द्वितीयस्त्वहमः, तृतीयो द्रव्य- सर्गश्चतुर्थं इन्द्रियसर्गः पञ्चमो देव(मनः) सर्गः पाठोऽण्डसर्ग इति प्राकृताः पट् । स्थावराणां सर्गः सप्तमः पविधः, तिरश्चा सर्गोऽष्टमोऽष्टाविंशतिधा, नवमो मनुप्यसर्गः । प्राकृतसगै प्रसङ्गा- दुक्तो देवसर्गोऽपि वैकृत एव । तदन्तर्गतः कौमारसर्गस्तु उभया- स्मकः।सनकादीनामादावेव सृष्टत्वात्प्राकृतत्वम् । कुमारेष्वन्तर्गतस्य नीललोहितस्य तु तैः सह सृष्टस्यापि प्रतिकल्पं सृज्यत्वाद्वैकृतत्वमिति । प्रतिकल्पं च सृष्टिकृतसर्गत्वेनामिमता । देवसर्गश्चाष्टविधो मत:- वियुधाः पितरोऽसुराः, गन्धर्वाप्सरसः, सिद्धा, यक्षरांसि, चारणाः, भूतप्रेतपिशाचाः, विद्याधराः, किन्नरायः इति । प्रलयत्रैविध्यम् । एवं नाशोऽपि प्राकृतानां त्रिविध उक्तो नित्यनैमित्तिकप्राकृत- भेदात् । 'कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः' इति । (स्कं. ३ अ. १०) मृतिकाले व्यवस्थितः प्रलयो नित्यः, द्रव्येण सङ्कर्षणमुखाग्यादिना जातः प्रलयो नैमित्तिकः, गुणसाम्यावस्थया जातो महदादीनां च प्रलयः प्राकृत इत्युच्यते । आसन्तिकालयश्च मोक्ष इति वर्णितं विष्णुपुराणादौ । 'तमः परे देव एकीभवति' इत्युक्तरीत्या मूलमायापुरुपयोर्भगवत्यविभागलक्षणो लयोऽपि आ- यन्तिक इत्युच्यते । तथा चोक्तं वासुदेवमाहात्म्ये-'यदा च मायापुरुपौ कालोऽत्यक्षरतेजसि । तदिच्छया तिरो यान्ति स त्वेको वर्तते प्रभुः ॥ तदा स प्रलयो ज्ञेयो नारदात्यन्ति- २०४ मानमेयप्रकाशिकायां प्रिमेय- काभिधः ॥' इति । सत्सगिजीवनेऽपि चतुर्धा प्रलय उक्त:- 'नित्यो दैनन्द्रिनश्चैव प्राकृताख्यस्तृतीयकः। आत्यन्तिक- श्चेतिमातः मलयोऽस्ति चतुर्विधः॥' इति । हरिवाक्यसुधासिन्धौ च । (तरंग १२) मोक्षस्यात्यन्तिकालयरूपत्वमपि तत्रैवोक्तम्- 'ज्ञानेन माथिकोपाधिलयश्चात्यन्तिको मतः' इति ।(तरंग २२२) चतुर्विधानां प्रलयानां कालगत्यनुविधायित्वं च श्रीभागवते वर्णि- तम्-'नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः । आत्य- स्तिकच कथितः कालस्य गतिरीदृशी ॥' इति । (स्कं. १२) (भूभ्रमणपतनवादनिरासा) प्रसङ्गतो भूमण्डलस्य भमण्डलस्य च भ्रमणाभ्रमणपक्षमुपपाद- यामः समासत:--'हिरण्मयेन सविता रथेनाऽऽदेवो याति भुव- नानि पश्यन्' इति श्रुत्याऽऽदित्यस्य तावत् भ्रमणं सिद्धम् । पुराणेषु प्रहाणा नक्षत्राणां च भ्रमणममिहितम्-'स हि ध्रुवः सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिपेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शवदवभासते। त एते कालचक्र आयोजिता ध्रुवमेवाच- लम्व्य वायुनोदीर्यमाणा आकल्पान्तं परिभ्रमन्ति' इत्या- दिना । (भाग. स्कं. ५ अ. २३) यथा वेगेन गच्छद्भिरचला: पदार्या गच्चन्त इय प्रतीयन्ते एवं सूर्यादिरल्या भूमिर्धमतीय । मार्यमन प भवप्रास्यैव समहस्य भ्रमणमभिहितम्-'उदयास्त- मयनिमित्तं नित्यप्रयहेण वायुना क्षिप्तः । लक्षासमपश्चिमगो सपनरः समदो भ्रमति' इति । 'आकाशे पृथिवी प्रतिष्ठिता' श्री मुन्या पशुपः प्रविधिवत्यमेव । वदप्युकं 'मध्ये समन्ता- -प्रकाशे] . जडपरिच्छेदः। दण्डस्य भूगोलो व्योम्नि तिष्ठति । विभ्राणः परमां शक्ति ब्रह्मणो धारणात्मिकाम् ॥' इति । (सूर्यसिद्धान्ते भूगोला- ध्यायः ३२३) 'नित्यं त्रिलोकी भ्रमति श्रुतिवाक्यानुसारतः। अतो भचक्र भ्रमति विपरीतं ग्रहान्वितम् ।।' इति तु गणिते- कदेशिमतम् । पूर्वाभिमुखं भ्रमति क्षोणी नास्ति भ्रमः खग- आणा'मिति चैकदेशिमतान्तरम् । अन पक्षे प्राग्देशपतनार्थमु- क्षिप्ताः शिलादयो परभाग एव नियमतः पतेयुः, भुवस्तीजतरभ्र- मणात् । प्रत्यङ्मुसं च गच्छतां पतत्रिप्रभृतीनां पुनः स्वावासनीडा- दिप्राप्तिश्च दुर्घटा, पृथिव्या द्रुततरप्राग्गतिमत्वेन स्वावासस्यातिदवी- यस्तायाः प्रसङ्गात् । किञ्च एकदेशस्थिते च वर्पति यलाहके मुहूर्त- मानान्महीशतयोजनाऽऽसिच्येत । अतिकुशलानामपि धन्विनां दक्षि- णोत्तरावस्थितस्थिरलक्ष्यवेधो न स्यात् । अथ स्यात् शरविहङ्गमादीना- मपि धरणीसममेव वायुना नोदनान्नोक्तप्रसङ्गः इति ।मैवम्। प्रवलेन वायुना प्राड्मुसतया प्रसभमाकृष्यमाणानां प्रत्यड्मुखगतिप्रति- रोधप्रसङ्गात् । ज्योतिर्गणभ्रमणहेतोर्वायुविशेषस्य शास्त्रानुमत्या स- म्भवेऽपि भूभ्रमणहेतोर्वायोः शास्रोपलम्भविरोधेनासम्भवाचेति । जैनाभिमतः पतति गुरुत्वान्नित्यं पृथिवीति पक्षोऽप्येवमसम- असो वेदितव्यः । गुरुत्वात्पतनस्य सति प्रतिवन्धके निरोघोप- पत्तेः । श्रूयते हि-एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावा- पृथिव्यौ विधृतौ तिष्ठतः' इति । स्मयते च-'वासुदेवस्य वीर्येण विधृतानि महात्मनः' इति । किश्च मुवः पतनेऽतिगुरु- भूतायास्तस्याः पवनाविशयादुत्क्षिप्ताः शिलादयस्तदपेक्षयाऽतिल- भीयांसो न कदाचिगुवमासीदेयुः । तेपां भुवोऽप्यतिशयितपतनः ૨૦૮ मानमेयप्रकाशिकायां [प्रमेय- पुरुषरूपेण कालरूपेण यो वहिः । समन्वेत्येष सत्त्वानां भग- वानात्ममायया ॥' इति । (स्कं. ३, अ. २६) श्रीविष्णुपुराणे -'तदेव सर्वमेवैतत् व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुष- रूपेण कालरूपेण च स्थितम् ॥ इति प्रकृतिपुरुषकालानामेक- रूपमेव रूपत्वं वर्णितम् । 'कालोऽस्मि लोकक्षयकृत्' इति च कालाभिमानिरूपपरम् । अतो भगवतः सृष्ट्यादिलीलोपकरणभूत- स्तद्विभूतिभूतः काल इति सिद्धम् । तथोक्तं गीतायाम्-'अहमेवा- क्षयः कालः' इति । उक्तं च तत्त्वमुक्ताकलापे-'कालोऽस्मीति स्वगीता कथयति भगवान् काल इत्याप्तवर्यो हेतुः सर्वस्य नित्यो विभुरपि च परः किं परेणेति चेन्न । कालान्तर्यामि. तादेः स खलु समुदितः सम्मतीते तु भेदे साधर्म्य नैक्यहेतुः स हि तदितरवद् घोषितस्तद्विभूतिः ।।' इति । कालस्यानाद्यनन्तत्वम् ।, अनादिरनन्तश्चायम् । 'सदेव सोम्येदमग्र आसीत्' इत्यादी सर्वोपसंहारेऽपि कालस्य श्रवणात् । सर्गात्पूर्व प्रलयानन्तरं च फालो नास्त्रीयेतत्तु स्ववाचैव व्याहतम्, पूर्व पञ्चादिति व्यपदेशस्य कालविशेषसम्यन्धनिर्वाहात्यात् । 'अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते' 'अहमेवाक्षयः कालः' इत्यादि चास्या- माधनन्तत्वे प्रमाणम् । नाप्यस्य देशतः परिच्छेदः, नित्यविभूता- . प्रकाशे] जडपरिच्छेदः। सण्डकालस्यापि तत्रत्यवस्तूनां परिणामहेतुत्वाभावमाह । नित्यविभू- तावपि सत्त्वाकालस्य गुणत्रयरहितत्वं चेति बोध्यम् । - सत्त्वादिरहिताचिद्रव्यत्वं कालिकसम्बन्धेन नित्यविभूतिमिन्नं कार्यसामान्य प्रति तादात्म्येन कारणत्वं कालिकसम्बन्धेन सर्वा- धारत्वं च कालस्य लक्षणं भवति । ननु नित्यविभौ काले क्षणलवादिव्यवहारो न स्यात् । मैवम् । तत्तत्सूर्यपरिस्पन्दादिलक्षणोपाधिभेदात् क्षणादिव्यवहारोपपत्तेः । एवं काले भूतभविष्यद्वर्तमानत्वादिव्यवहारोऽपि उपाधिवलादेव निर्वाह्यः। तथा हि-प्रकृतशब्दप्रयोगाधिकरणीभूतः कालो वर्तमानः, वर्तमा- नकालिकध्वंसप्रतियोगी अतीतः, वर्तमानकालिकप्रागभावप्रतियोगी चागामी बोध्यः । केचित्तु वर्तमान कालं नेच्छन्ति । तन्मतेऽती- तानागतयोरप्यसिद्धिप्रसङ्गः, तयोस्तधीननिरूपणत्वात् । किन वर्तमाननिषेधे प्रत्यक्षसामान्योच्छेदापत्तिः,वर्तमानकविषयत्वात्तस्य। नन्वेवं कालोपाधिभिरेव सर्वव्यवहारे फालकल्पनाऽपार्थिकेति चेन्न । आगमसिद्धत्वेन कालस्याकाल्पनिकत्वात् । कालस्य क्षणादिविकारवत्त्वम् । यद्वा कालस्यापि लवक्षणादिलक्षणविकारोऽभ्युपगम्यते । 'सर्वे निमेषा जज्ञिरे विद्युतः पुरुपादधि । कला मुहूर्ताः काठाश्चा- होरात्राश्च सर्वशः । अर्धमासा मासा ऋतवः संवत्सरश्च कल्पताम् ॥' (ते. ना.) इति कलादिकालविकाराणां सृज्यत्वश्र- वणार न चानोपाधिसटिरमिमानिसृष्टि विवक्षितेति वाच्यम्। स्वरसप्रतीतानां कालविकाराणामसति बाधके त्यागायोगात् । नत्र कालस्य विभुत्वमेय वाधकं विकारित्व इति वाच्यम् । स्थूलत्व. । मान.प्र. १४ २०६ मानमेयप्रकाशिकाय [प्रमेय- फल्पनं तु अतिसाहसम् । उपष्टम्भकवायुविशेषाद्भुवो मन्दं पतन- मिति चेत्ततोऽपतनमेव किं नेष्यते । इति । उक्तं घ कान्ति- कैरपि-'अनिलाधाराः केचित्केचिल्लोका वसुन्धराधाराः । वसुधा नान्याधारा तिष्ठति गगने स्वशक्त्यैव ॥ इति । (महा- सिद्धान्त-१६-४) तदुक्तं तत्त्वमुक्तांकलापे-'तिष्ठत्युवी भचक्र पवनरववशादाम्यतीत्युक्तमाप्तैन्तैिः कृप्तं त्रिलोकीभ्रमण- मिह तथा मेदिनीभ्रान्तिपातौ। तद्भान्तौ प्राक्प्रतीचोः प्रसजति पतने पत्रिणोस्तारतम्यं पाते गुयोस्तु तस्याः प्रलघु दिवि समुत्क्षिप्तमेनां न यायात् ॥' इति । विवृतं च सर्वार्थसि- द्धावित्यलं प्रसक्तविचारेण । एवं माया सकार्या वै वर्णिताऽत्र समासतः।चतुर्विंशतिधा यस्या विकारा महदादयः ॥ समेत्यान्योन्यमीशस्य सङ्कल्पा- 'दण्डकारिणः । ब्रह्माण्डान्तर्गता लोकाश्चतुर्दश समीरिताः॥ चतुर्विधानां भूतानां भुवः कर्मफलस्य च । अण्डलोकान्तर्ग- तानां पदार्थानामनन्तता ॥ मायिकानां यद्यपि तथाप्ये- तत्सङ्ख्या तु सुस्थिरा। यतस्तेषां पञ्चभूतात्मकत्वान्नातिरे- किता॥ कालाधीनो विनाशोऽपि मायिकानामुदीरितः । यतो मायिकभावेषु वैराग्यं स्याद्विवेकिनः ।। अथ कालनिरूपणम् । अथ कालं वर्णयामो योऽयं क्षोभक ईरितः । मायागु- णानां सर्गादौ यतः सर्गः प्रवर्तते ॥मायिकानां च सर्वेषां कालाधीना हि चै यतः। उत्पत्तिस्थितिनाशाश्च ज्ञायन्तेऽक्षा- गमादितः ॥ अतः कार्यस्य कृत्स्नस्य निमित्तं मायिकस्य तुरे प्रकाशे] जडपरिच्छेदः। २०७ कालोऽयं किश्च .भूतादिव्यवहारेषु गोचरः ॥ सोऽयं लवक्ष- णाद्यात्मा गृह्यतेऽक्षयथायथम् । विशेपणतयाऽर्थस्य शब्दादे- स्तस्य तस्य च ॥ माया कालकृतानन्तपरिणामास्पदं यतः । अतः कालस्य मायाकार्येषु नित्यप्रकारता ॥ अखण्डस्तु महाकालो नित्यो विभुरपि स्मृतः । अचित्वादपि मायाव- .दन तद्वर्णनं मतम् ॥ कालस्यातिरेकः। 'अनादिर्भगवान् काल' इत्याद्युक्त्याऽन केचन । कालस्ये- शानन्यभावं मन्यन्ते तन्न युक्तिमत् ॥ 'ब्रह्मा दक्षादयः काल' इत्यादौ तद्विभूतिता। स्फुटा ननु तदन्तर्यामित्वादै- क्यवचोगतिः ॥ कालस्यापि च रूपत्वं वर्णितं पुंप्रधानवत् । मन्तव्यमीशादन्यत्वमतश्चास्य विवेकिभिः॥ तथा हि विष्णु- पुराणे वचनम-'विष्णोः स्वरूपात्परतोदिते द्वे रूपे प्रधान पुरुषश्च विप्र । तस्यैव तेऽन्येन धृते वियुक्त रूपान्तरं तद्विज कालसंज्ञम् ॥' इति । श्रीभागवतेऽपि प्रकृतेश्चतुर्विंशतिविधत्वमुप- पाद्य कालसदतिरिक्त उक्त:-'यः कालः पञ्चविंशकः' इति । तथा तत्रैव परमपुरुपस्य सर्गादिनियमनसामर्थ्यमेव काल इति केषाश्चिन्मवमुक्त्वा प्रलये प्रकृतिलीनस्य पुरुपस्य नामरूपरहितस्य गुणसाम्यलक्षणस प्रधानस्य च जगन्निर्माणोपयुक्तप्रवृत्तिहेतुः कालो भगवदात्मकः, यथा पुरुपो भगवतो रूपं तथा कालश्वेत्युक्तम्- 'प्रभावं पौरुपं प्राहुः कालमेके यतो भयम् । अहङ्कारविमू- ढस्य कर्तुः प्रकृतिमीयुपः ।। प्रकृतेर्गुणसाम्यस्य निर्विशेपस्य मानवि। चेष्टा यतः स भगवान काल इत्युपलक्षितः॥अन्त:- - २१० मानमेयमकाशिकायां [प्रमेय कृशत्वलक्षणस्य विकारस्य विभावसम्भवेऽप्यवस्थान्तरापत्तेः सम्भ- वात् । विभोरपीश्वरज्ञानस्य सृष्टिसङ्कल्पादिलक्षणावस्थाभेवयोग- वत् । कालस्येव तद्विकाराणामपि विभुत्वमेव, क्षणादिनैव विश्वस्यापि विशेषणात् 'विश्वमिदानी वर्तते' इति । न चाविभुत्वेऽपि क्षणादेः कालिकसम्बन्धेन विश्वाधारत्वं घटत इति वाच्यम् । क्षणादिलक्ष- णकालसंयोगातिरिक्तस्य कालिकसम्बन्धस्याप्रामाणिकत्वात् । अद्र- व्येषु च संयुक्तापृथक्सिद्धेरेव क्षणाविसम्बन्धरूपत्यात् । तदुक्तं न्यायसिद्धाञ्जने-'एकेनैव क्षणेनास्य विश्वस्यापि विशेषणात् । कालचत्तत्क्षणानां च व्यापित्वमवगम्यते ॥' इति । क्षणदिन- मासायनसंवत्सरादिरूपेण परिणामेऽपि कालस्य तत्तत्कालविशेप- व्यञ्जकत्वमुपाधीनामृतुलिङ्गादीनामक्षुण्णमेव । ज्येष्टे कालकृतं परत्वं क्षणसम्बन्धप्रकर्पः, कनिष्ठे कालकृतमपरत्वं च क्षणसम्बन्धाल्पता क्षणादिना कालपरिणामेन निर्वाह्ये । कालस्य प्रत्यक्षत्वम् । क्षणादिपरिणामैश्चायं प्रायतेपु कार्येषु भवति हेतुः, तद्विशेष. णतया प्रत्यक्षश्च, इदानी घटः इदानीमत्र रक्तं रूपं इदानीं मधुरो रसः इदानीं सुरभिर्गन्धः इदानीमुष्णः स्पर्शः इदानीं शब्दो मन्दः इदानी मे सुसमिति । एवं पडिन्द्रियवेद्यत्वं कालस्य स्थितम् । योग्यत्यादि एपलम्मव्यवस्थाप्यम् । उपलभ्यते घ फालतत्तदर्य.. विशेपणतयेवि तत्तदिन्द्रियमहणयोग्यताऽपि फालस फरपतीयेति । तदु मीमांसफै:-'न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते' इति । उकं प सत्त्वगुणाकलापे-'कालोऽध्यक्षावसेयः क्षणदयदियगावंशतोऽर्थान् पिशिंपन् साक्षादीस्तत्तदप्पिय . प्रकाशे] जडपरिच्छेदः । भवति हि नः काऽपि कालान्वयेऽपि । तत्संयोगाः परत्वा- दय इति च ततोऽप्येप नैवानुमेयो नो चेन्न क्वापि लोक- व्यवहतिविपयोऽव्यक्तवत्स्यादनेहा ॥ कालस्योपाधिभेदात्क- तिचिदभिदधत्यन्दमासादिमेदं तत्तद्रूपेण कालः परिणमत इति प्राहुरेके तदा तु । ये तत्रोपाधयः स्युस्तदिह परिणति प्राप्नुयुः सानुबन्धाः नित्यो व्यापी च तादृक्परिणतिभिरसी सर्वकार्ये निमित्तम् ॥' इति । निमेपादिभेदः। कालस्य परिणामभेदा निमेपादयो वर्णिता विष्णुपुराणे-'नि- मेपो मानुपो योऽसौ मात्रा मात्राप्रमाणतः। तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठा कला स्मृता ॥ नाडिका तु प्रमाणेन सा कला दशपञ्च च । नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजस- त्तम ॥ अहोरात्रं मुहूर्तास्तु त्रिंशन्मासो दिनैस्तथा । मासै- रॅदशभिर्वपमहोरात्रं तु तद्दिवि ॥ त्रिभिर्वर्षशतैर्व पट्या चैवासुरद्विपाम् । तैस्तु द्वादशसाहस्रेश्चतुर्युगमुदाहृतम् ॥ चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् । (अहः) स कल्प- स्तत्र मनवश्चतुर्दश महामुने ॥तदन्ते चैव मैत्रेय ब्राह्मो नैमि- त्तिको लयः ॥' इति । एकमात्रलयक्षरोच्चारणकियोपलक्षितः कालो निमेपः । दिव्यैर्वादशसहस्रैश्चतुर्युगम् । अन्यस्पष्टम् । भागवते च द्वे नाडिके मुहूर्तः, पटू सप्त वा मुहूर्ताः (पृद्धिहासापेक्षया) यामः प्रहर इत्यप्युच्यते। चत्वारो यामाः अहस्तावत्प्रमाणाच रानि- रित्यप्युक्तम् । तथा चतुर्युगस्य मानं च वर्णितम्-'कृतं त्रेतां द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशभिर्वः सावधान . ।

[प्रमेय- । ૨૧૨ मानमेयप्रकाशिकायां निरूपित्तम् ॥ चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ सन्ध्यास- ध्यांशयोरन्तो यः कालः शतसङ्ख्ययोः । तमेवाहुर्युगं तज्ज्ञा यन धर्मों विधीयते ॥ इत्यादिना । अयमर्थ:-कृतयुगं चतुःसह- नदिव्यचर्षकालिकम् , तस्य पूर्वसन्ध्या चतुःशतं उत्तरसन्ध्या च तावती । त्रेतायुगं बिसहस्रदिव्यवर्षात्मकम् , तस्य पूर्वसन्ध्या त्रिशतं उत्तरसन्ध्या च तावती सन्ध्यांशसंज्ञिता । द्वापरं द्विसहस्रदिव्यवी- त्मकम् , तस्य पूर्वसन्ध्या द्वे शते, उत्तरसन्ध्या च द्वे शते। कलिरेक- सहस्रदिव्यवर्षात्मकः, तस्य पूर्वसन्ध्या एकं शतं सन्ध्यांशश्च तावा- निति । त्रैलोक्यावहिश्चतुर्युगसहस्रदिनं तावती च रात्रिः । तद्-. प्युक्तं-'त्रैलोक्याधुगसाहस्रं बहिराब्रह्मणो दिनम् । ताव- त्येच निशा तात यन्निमीलति विश्वस्ट् ॥' इति । चतुर्दशानों मनूनां कालावधिरप्युक्तस्तत्रैव-'स्वं स्वं कालं मनु ले साधिका ह्येकसपतिम् ।' इति । क्रिश्चिदधिकचतुर्युगैकसप्ततिरेकैकस्य मनोः काल इत्यर्थः । इन्द्राश्च चतुर्दश प्रतिकल्पम् । सप्तर्षयोऽपि तथा । भन्वादयः स्वस्खाधिकारनिवृत्तौ कल्पान्तं यायत्स्वायुःपरिमाणं मह- रादौ लोके वर्तन्त इति चान्यत्र व्यक्तम् । मनुष्यादीनां स्वस्पर्ष मानेन शतवर्पजीवित्वमुत्सर्गः 'शतायुर्वे 'पुरुष' इति श्रुतेः । ब्रह्मणोऽपि स्वीयाहोरात्रप्रमाणेन मासायनसंव- त्सरफमेण शतवर्पजीवित्वमेव । तदुक्तं विष्णुपुराणे-'एवं तु ब्रह्मणो वर्षमेवं वर्षशतं स्मृतम्' इति । 'निजेन तस्य'मानेन घायुर्वर्षशतं स्मृतम् । तत्पराख्यं तदधं तु परार्धमभिधी- यते ॥ इवि पापरार्धपर्यन्तावधित्वाद्गणनाया द्विपरार्धकालो प्रहा . प्रकाशे] जडपरिच्छेदः। २१३ युरित्युच्यते । 'एक दश शतमस्मात्संहस्रमयुतं ततः परं लक्षम्। प्रयुत कोटिमथार्बुदमन्जं खर्व ततो निखर्व च ॥ तस्मान्म- हासरोज श सरितांपतिं ततश्चान्त्यम् । मध्यं परार्धमाहुर्य- थोत्तरं दशगुणं हि वै तज्ज्ञाः ॥' इति हि गणनाप्रकार।। तथा चोक्तं विष्णुपुराणे-'स्थानात्स्थानं दशगुणं एकस्मागण्यते द्विज । ततोऽष्टादशमे भागे परार्धमभिधीयते ॥ इति । कालस्य भगवद्विभूतित्वम् । एवं कालोऽनन्तवपरिणामभेदैराब्रह्मस्तम्बपर्यन्तानामुदयस्थिति- विनाशहेतुर्भगवतः सृष्ट्यादिके लीलाव्यापारे प्रवृत्तस्यै लीलोपकरणं भवति । सर्वशक्तोऽपि भगवान् सत्यसंकल्पो यथा स्वसङ्कल्प तत्तकालागमनमपेक्ष्यैव प्राकृतसृष्ट्यादिकं करोतीति । कालस्य भग- चच्छक्तित्वं सृष्टिस्थितिसंहारेपु सदुपकरणत्वं च ‘स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद्भुवि ।' 'योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेपादिवत्सरान्तो महीयांस्तं त्वेशानं क्षेम धाम प्रपद्ये ॥' (भागवत) 'ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः । विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज । स्थितेनिमित्तभूतस्य विष्णोरेता विभूतयः ॥ रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्धा प्रलये ह्येता जनार्दनविभूतयः ॥' (वि.पु.) इत्यादि- वनसिद्धम्। सत्सगिजीवनेऽपि कालस्य परमात्मशक्तित्वं दृष्ट्या- गुपकरणत्वं वर्णितम्-'कालो माया पुमान् यस्य महत्तत्त्वा-, दयस्तथा । शक्तयः सन्ति' कार्योत्पत्तौ हि सर्वत्र मायो २१४ मानमेयप्रकाशिकायां [प्रमेय- कालश्च कर्म च । स्वभाव ईक्षणं पुंसो हरेरिच्छेति हेतवः। 'कालादिशक्तिभिः स्वाभिर्विश्वसर्गादि कारयन्' इति । हरि, वाक्यसुधासिन्धौ च 'कालः कर्म स्वभावश्च माया च पुरुपोऽ. क्षरम् । एतास्तच्छक्तयः सन्ति ततोऽसौ परमेश्वरः॥' इति । 'कालः पचति भूतानि' 'कालोऽयं परमाण्वादिपिरार्धान्त ईरितः नैवेशितुः प्रभुर्भून ईश्वरो धाममानिनाम् ॥' (भाग.) इत्यादिना च सर्वेषां भूतानामीश्वराणां च कालवश्यत्वं भगव- व्यतिरिक्तानां प्रतिपन्नम् । परमात्मनस्तु कालं प्रत्यपि नियन्तृत्वं 'ज्ञः कालकालो गुणी सर्वविद्यः' 'कालं स पचते तत्र न कालस्तत्र वै प्रभुः।' महाकालस्यापि कालं त्वां नुमः पुरुपो- त्तमम्' इत्यादिभिः । सत्सगिजीवने च कालकालत्वमुक्त-काल- स्यपि हि यः कालः' 'नियन्ता कालमायादेः' 'जीवेशकाल- मायानां नियन्ता पुरुषस्य च । कृष्ण इत्येव निश्चित्य' 'कालस्य स्थूलसूक्ष्मस्य चरतोऽण्डे च तद्वहिः ।...नियन्ता ह्येक एवास्ति' 'कालस्य प्रकृतेश्चापि नियन्ता पुरुषस्य च' इति । तथा च हरिवाक्यसुधासिन्धौ कालादेः स्वस्वकार्यशक्तिनिष्पादकः परमात्मेति वर्ण्यते-'मायां प्रकाशयति च कालं तत्क्षोभकं च सः' इति । एवं क्षणाद्यात्मा कालः प्रकृतिप्राकृतपरिणामहेतुर्णितः। नित्येन प्रलयेनैप कालो नैमित्तिकेन च । प्राकृतिकेन रूपेण चरत्या- त्यन्तिकेन च ॥' 'इत्थं प्रभोः कालशक्त्या लयैरेतेश्चतु- विधः । असदुद्धाऽखिलं तत्रारुचिराग्यमुच्यते ॥ वासुदे- तरान देवान कालमायायशीकृतान् । विदित्वा तेषु च प्रीति प्रकाशे] जडपरिच्छेदः। हित्वा तस्यैव नित्यदा ॥ गाढस्नेहेन या सेवा सा भक्तिरिति गीयते।' (वा. मा. अ. २५) नित्यो दैनन्दिनश्चैव प्रकृताख्य- स्तृतीयकः । आत्यन्तिकश्चेति मातः प्रलयोऽस्ति चतुर्विधः॥ तत्र प्रकृतिकार्यस्य ब्रह्माण्डस्याखिलस्य च । ब्रह्मादेः स्थावरा- न्तस्य भोगानां चापि सर्वशः ।। विनाशो जायते नूनं काले- नैव वलीयसा । एवं क्षयं लोकयतां वैराग्यं तेषु सम्भवेत् ॥' 'मायिकेपु विरक्तानां पदार्थेषु विवर्धते । कृष्णेऽनुरागो जननि ! तेन यान्ति परां गतिम् ॥' (स.प्र. १ अ. ३५) इति वचनोक्तप्रकारेण कालगत्या सर्वेपां प्राक्तानां तत्सम्बद्धानां च जीवेश्वराणां क्षरणशीलत्यमनुसन्दधानानां पुनर्भवेन्नाम मायिकेपु भावेपु अरुचि, भवेश्च नित्यापरिच्छिन्नसाहजिकानन्दरूपे पर. ब्रह्मणि श्रीकृष्णे गाढानुरागेन निरन्तरभजनलक्षणैकाग्रचित्तवृत्तिः, यतो निःश्रेयसमिति स्थितम् । यदवच्छेदरूपैस्तु क्षणादिभिरहर्निशम् । भूतानां भौति- कानां च विनाशः स्थूलसूक्ष्मकः ॥ ईश्वराणां च लोकानां यद्वशंवदता ध्रुवम् । सोऽयं कालो वर्णितोऽत्र स्थूलसूक्ष्म- स्वरूपभाक् ॥ क्षणादिः सूक्ष्म इत्युक्तः स्थूलः संवत्सरादिकः। मायापुरुषवत्सोऽयं विभूति य ईशितुः ।।

जीवपरिच्छेदः जीवस्वरूपम् । वर्णिते कालमायाख्ये जडद्रव्ये समासतः । अथाजडं वर्णनीयं तत्रादौ वर्ण्यतेऽजडः॥१॥ जीवात्मा यत्स्वरूपं तु शुद्धमुत्सर्गतोऽपि हि । अनादिमायासम्बन्धादशुद्धं कर्महेतुकात् ॥ २॥ मायाकार्यसमारब्धदेहयोगवियोगतः । स्वतोऽनुत्पत्तिनाशं च जातादिव्यपदेशभाक् ॥ ३ ॥ आत्मा स्वतोऽनवच्छिन्नवोधानन्दात्मकोऽपि सन् । मायया मोहितत्वात्तु भवत्यज्ञश्च दुःखितः ॥ ४ ॥ मोहितत्यादेव देहं जडमप्यमिमन्यते। आत्मेति ममतां देहानुवन्धिष्वपि सन्ततम् ॥ ५॥ ततो रागद्वेपदोपाभिभूतः कुरुते त्वघम् । दुरन्तं फलमप्यस्य दुःखजातं भुनक्ति च ॥६॥ पुनःपुनस्ताहगेव कर्म प्रारभतेऽवशः। प्राप्ते विपाकसमये कर्मणां फलमश्नुते ॥७॥ * कालमायाभय चास्य नित्यमेव व्यवस्थितम् । एवं मायाकर्मवन्धप्रवाहेणाभिभूयते ॥८॥ शरीरं समवाप्तं यत्कर्मपाकादनेन हि । तदस्य क्षेत्रमाहुस्त तुतत्त्वान्यमूनि वै ॥९॥ महाभूतान्यहवारो बुद्धिरव्यक्तमेव च । अष्टौ प्रकृतयस्त्वेताः क्षेत्रस्यास्मिंश्च पोडश ॥ १० ॥ .

प्रवाशे]
जीवपरिच्छेदः।
२१७
विकाराः सन्ति रसनाचक्षुस्त्वकीननासिकाः ।
वाक्पाणिपादपायूपस्था मनश्च गुणास्तथा ॥११॥
शब्दस्पशौं रूपरसौ गन्धश्चेति श्रुतौ श्रुताः ।
कीर्तितं चैव गीतायां क्षेत्रं भगवता स्वयम् ॥ १२ ॥
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
महाभूतान्यहङ्कारो धुद्धिरव्यक्तमेव च ॥१३॥
इन्द्रियाणि दशकं च पश्च चेन्द्रियगोचराः।
इति क्षेत्रारम्भकाणि तत्त्वानि क्षेत्रवृत्तयः॥ १४ ॥
विकाराश्चैव निर्दिष्टाः सङ्घात इति तस्य तु ।
स्वरूपं जडभूतांशसमुदायात्मकं स्मृतम् ॥ १५॥
इच्छा द्वेषः सुखं दुःखमिति तत्कार्यमीरितम् ।
क्षेत्राख्यस्य शरीरस्य सम्बन्धादात्मनः खलु ॥ १६ ॥
सुखादेच समुत्पत्तिरतोऽस्य क्षेत्रकार्यता ।
चेतनाधृतिरित्युक्त्या भोगायतनतोच्यते ॥ १७ ॥
कर्मवीजफलोत्पत्तिस्थानत्वेन शरीरिणः ।
शरीरं क्षेत्रमित्युक्तं आत्मा तद्वेदिता मतः ।। १८ ।।
क्षेत्रस्य वेदनात्सोऽयं क्षेत्रज्ञ इति कथ्यते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति च स्मृतिः ॥१९॥
ज्ञातृज्ञेयस्वभावत्वाद्विवेको देहदेहिनोः ।
वर्णितो भूतसङ्घरताऽसङ्घरतात्मतयापि च ॥ २०॥
भोगावच्छेदकीभूतं चपुस्तत्करणानि तु ।
इन्द्रियाणि च शब्दादिर्भोगस्य विषयो मतः ॥२१॥

। मानमेयप्रकाशिकायां [प्रमेय- एते तु तारतम्येन प्रतिजीवं व्यवस्थिताः । भोक्ता तु पुरुपः प्रोक्तः शरीरादिविलक्षणः ॥ २२॥ अणुत्वे सति चित्त्वं वा शेपचेतनतैव वा। लक्ष्म तस्य तु विज्ञेयं व्यावृत्तमचिदीशतः ॥ २३ ॥ न मायादेश्चित्त्वमस्ति न ह्यणुत्वादि चेश्वरे । यथाऽणुत्वादि जीवस्य तथाऽग्रे वर्णयिष्यते ॥ २४ ॥ देहादिरेव जीवात्मा नातिरिक्तोऽस्ति कश्चन । इति वादान्निरस्यात्मा तव्यावृत्तोऽद्य वर्ण्यते ॥ २५ ॥ देहात्मवादः। अत्र लोकायता मन्यन्ते-योऽयमुपलभ्यते शिरःपाण्यादिल- क्षणपिण्डविशेषात्मको देहः स एवात्मा । प्रत्यक्षमतिलक्ष्य कोऽर्थः सिद्धयेत् । अहं गच्छाम्यहं स्थूल इति प्रत्यक्षप्रतीतिर्हि गमनस्थी- ल्याद्याश्रयतयाऽमर्थ ग्राहयन्ती देहमेवात्मानं गमयति । अनुमा- नातु प्रत्यक्षं प्रबलम् । ननु मृतशरीरे चैतन्यं नोपलभ्यते । कि तेन । प्राणो हि तदा ततो विनिष्क्रान्तः । तदपगमे च शरीरं विशी- र्णमेव । तथा च विनष्टश्चेतन इत्येव धूमः । प्राणस्य ज्ञाने सहकारि- त्यादपि न मृते तत्प्रसङ्गः । किश्च रोमहर्षमुसविकासादिमुखकार्य देहे जायमानं स्वकारणस्य सुसस्य देहधर्मतामेवावगमयति । न धन्यत्र कारणमन्यत्र कार्यमिति घटेत । तस्मादेह एवात्मा । तनिरासः। गनु-फिशिरसि चैतन्यं मन्यसे; अध पाणी; अथ पादे, एक- निवेदन्येषु सदुपटम्भः क्यम् ? । ननु सर्वेषु तेपु, हन्तानेकचे- धनसमयायमसनः । किं ततः ?, मिथो येमध्ये विवादप्रसन्न प्रकाशे] जीवपरिच्छेदः। २१९ व्यवहारोच्छेदप्रसङ्गः । अनेकपुरुपाधिष्ठिते प्रामे वैमयं हि अव- श्यंभावि । हस्ताद्यन्यतमोच्छेदे तदनुभूतस्य स्मरणानुपपत्तिः, अनु- भवितुर्विनाशात् । ननु नावयवे प्रत्येकं चैतन्यम् , अपितु शिरःपा. ण्यादिसद्धाते । मैवम् । नहि संहतिमात्रेण प्रत्येकतोऽतिरिक्तता। एकत्र संहतानामपि वैमत्यप्रसङ्गोऽनिवार्यः । नन्ववयविनि वपुपि चैतन्गम् । को विशेपस्तावता? । अवयविगतेन विशेपगुणेनाधय- वगुणपूर्वकेणैव हि भाव्यमिति प्रत्येकमवयवेष्वपि चैतन्यप्रसङ्गो हि दुर्वारः । ननु पाकजगुणेनेवानेन चैतन्यगुणेनाकारणगुणपूर्वकेणापि भवितुं शक्यम् । अथापि प्रत्येकावयवचैतन्यपक्षोकदोपादनिर्मोक्ष एव । पाकजोऽप्यवयवेष्वपि जायमानो हि दृष्टः । किञ्च कारण- गुणपूर्वको वा पाकजो वा विशेषगुणो रूपादिर्यावद्व्यभावी दृष्टः । चैतन्यं तु न तथा । तत् कथं तद्वत् देहधर्मों भवितुम- हति । एतेन किण्वादिभ्यो मदशक्तिवत् अकारणगुणपूर्वकं चैतन्य देह उत्पद्यत इत्येतदपि निरस्तम् । इदमनाह प्राभाकरमतानुयायी शालिकानाथ:--'स्यादेतत् मदशक्तिवचैतन्यगपीति, यथा मदशक्तिः पार्थिवेष्वणुपु असत्यपि तदारब्धे द्रव्ये सुराख्ये निप्पद्यते तथा चैतन्यमपि निष्पत्स्यते इति । तन्न । शक्तेरविशेपगुणत्वात् । शत्तयाख्यो हि गुणः सर्वत्र द्रव्येषु तत्तत्कार्यविपयः कार्यस- मधिगम्योऽभ्युपगम्यते । चैतन्यं तु न देहादन्यस्य विद्यते इवि विशेपगुणोऽसौ। अपि च-द्रव्यान्तरसंयोगादकार्यभूतेषु पार्थि- वाणुष्वकारणगुणपूर्वकोऽपि मदशक्तयाख्यो गुणो नानुपपन्नः । तदारव्ये सुराख्ये कार्यद्रव्ये कारणगुणपूर्व एय, चैतन्यं तु न प्रत्ये- कपरमाणुष्वभ्युपगम्यते । तस्मात् शरीरादन्यस्य गुणो शानमिति' २२० [प्रमेय- मानमेयप्रकाशिकायां इति । स्थूलोऽहं गच्छामीति प्रतीतिस्तु अहमर्थेदमयो दामहादेव । स्थूलोऽहं जानामीति च तथैव । देहात्मनोर्गाढसंयोगकारिता चैक्यबुद्धिरन्यवान्यधर्मप्रतिपत्तिश्च । यथा अतितप्ते लोहे वह्नि- बुद्धिर्दाहकत्वबुद्धिश्च । वस्तुतो यथा मम गृहं मम क्षेत्रमिति गृहक्षेत्रादिरात्मनो भिन्नत्वेनैव प्रतीयते एवं मम देह इति देहोऽपि विविक्ततया प्रतीयत एव । ममात्मेति तु घटस्य स्वरूपमित्यादिव- नेयम् । न चैवं मम देह इत्यत्रापि सम्भवतीति वाच्यम् । तत्र मम शब्देनावयवपरामर्श हस्तादीनां मिलितानां चैतन्येऽस्माकं देह इति प्रतिसन्धानप्रसङ्गात् । न च करादिः प्रत्येक चेतन इत्युक्तमेव । न च ममेति प्राणेन्द्रियविशिष्टस्य शरीरस्य परामर्शः, देह इति तु विशेष्यमात्रस्येति वाच्यम् । सप्राणेन्द्रियस्यापि देहस्य मम देह इति विविच्यानुसन्धानस्य दर्शनात् । अतो ममेदं शरीरमितीदन्तया गेहादिवत्प्रतीयमानो देहो देहिनोऽहमीदर्थान्तरभूत इति प्रतीति- खारस्यादभ्युपेत्यम् । चेतनाधिष्ठिततया च चेष्टादिरिव रोमहर्षाद- योऽपि देहे भवेयुरेव । किञ्च-अहमर्थेदमर्थयोरनन्यतायां 'अहमिदं जानामी तिप्रत्यये करचरणाद्यवयवयुक्तस्यावभासोऽवर्जनीयः । ज्ञा- तृतयाऽवभासमानस्य तस्य सोऽयमाकृतियोगः कस्मान्न स्फुरति ? । यथाऽऽद शालिकानाथ:-'घटमहमुपलभे इति घटस्यानुभविता शरीरातिरिक्तः प्रतिभासते । शरीरं हि करचरणाधनेकावयवयोगि। न च घटानुभवसमये तस्यावभासोऽन्वयी । अवश्यं ज्ञातुरव- भासो मेयानुभवेप्यनुपर्तत इत्यास्थेयम्।' इति । देहो नास्मा सतात- रूपत्वात् घटादिवत् इत्याद्यनुमानतोऽपि देहस्यानात्मत्वसिद्धिः । उकं च तत्वमुक्ताकलापे-'यो मे हस्तांदिवत्यवयवनिवहाभा- जीयपरिच्छेदः। २२१ ति भिन्नः स एका प्रत्येकं चेतनत्वे वहुरिह कलहो वीतरागो न जातः । तत्सद्यातातिरिक्तेऽप्यवयविनि कथं तेप्यसिद्धा मतिः स्यात् सातत्वादिभिर्वा घट इव तदचित् स्यान्ममा- त्मेत्यगत्या ॥ इति । श्रीविष्णुपुराणे च विप्रसौवीरराजसंयादे देहातिरेक आत्मनः स्पष्टमुपर्णितः । तथादि-सौवीरराजेनाशातखवैभयो जडवितो शिविकावाहने नियुक्तो योगीन्द्रोऽपि प्रारब्धं कर्मभोगेन क्षपयि- प्यन् शिविका वहन् शिविकावाहकेपु तुतगतिप्वयं गन्दगतिः 'किं श्रान्तोऽस्यल्पमध्वानं त्ययोढा शिविका मम। किमायास- सही न त्वं पीवानसि निरीक्ष्यसे ।' इति राशा पृष्टगतस्य देहातिरिक्तात्मबुद्धिमुत्पिपादयिपुः प्रत्युत्तरयामास "नाहं पीवा न योढा' इत्यादिना । अहंशब्दवाच्यो हात्मा, तस्य न पीन- त्वादि, किन्तु भूतपरिणतिभेदस्य देहस्यैव । देहावयव एव च शिविकावाहको नात्मा 'भूमी पादयुगं त्यास्ते जाने पादद्वये स्थिते । ऊऊर्जाद्वयेऽवस्थे तदाधारं तथोदरम् ॥ वक्षःस्थलं तथा बाह स्कन्धी चोदरसंस्थितौ । स्कन्धाश्रितेयं शिविका मम भारोऽन किं कृतः ॥' इति । ततोऽस्य ज्ञानित्वमवगत्य शिविकातोऽवरुष को भयानिति राज्ञाऽऽपृष्टो देविषयेऽदंशब्दस्य भ्रान्तिमूलकत्वं 'शब्दोऽहमिति दोपाय नात्मन्येप तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो चा भ्रान्तिलक्षणः ॥' इति शापयन् देहेऽहंशब्दस्यानुपपत्तिमेवाह-'पिण्डः पृथक् यतः पुंस: शिरस्पाण्यादिलक्षणः। ततोऽहमिति कुवैतां संज्ञां राजन् करोम्यहम् ॥ किं त्वमेतच्छिरः किं नु ग्रीवा तच तथोदरम् ।

२२२ मानमेयप्रकाशिकायां प्रमेय- किमु पादादिकं किं वा तवैतत् किं महीपते ॥ समस्ताव- यवेभ्यस्त्वं पृथगू भूप व्यवस्थितः । कोऽहमित्येव निपुणो भूत्वा चिन्तय पार्थिव ॥' इति । प्रतिशरीरं चेतनैक्यस्यानुभव- सिद्धत्वाद्देहस्य चानेकापयवसङ्घातरूपत्वादवयवातिरिक्तस्यावयवि- नोऽभावाच न शरीरस्यात्मत्वमिति यावत् । गीतायां च देहव्यति- रिक्तत्वमात्मनो विस्तरशो वर्णितमस्ति । अत एव देहत्येव नात्मनश्छेद्यत्वादि । हरिवाक्यसुधासिन्धौ च देहादन्यत्वमात्मनः स्पष्ट कथ्यते 'सच्चिदानन्दरूपोऽहं शरीरं तद्विपर्ययः । कथं भवेद् द्वयोरैक्यं तेजस्ति मिरयोरिव ॥ देहो जडो विकारी च कर्मतन्त्रश्च नश्वरः । आत्मा तु नित्यश्चिद्रूपो निर्विकार प्रकाशकः ॥ इति । इन्द्रियात्मवादखण्डनम् । अपरे त्वाहुः-इन्द्रियाण्यात्मेति । नैतदुपपद्यते । तथा सति हि एकस्मिन् वपुपि बहूनां चेतनानां सगवायोऽभ्युपगतः स्यात् । बहूनां परस्परवार्तानभिज्ञत्वेन च व्यवहारविलोपप्रसङ्गः । योऽह- मद्राक्षं सोऽहं स्पृशामीति प्रत्यभिज्ञानुपपत्तिश्च । सा हि द्रष्टुः स्त्रष्टुश्चैक्यं गमयति । इन्द्रियात्मवादे चान्यो द्रष्टा, अन्यश्च श्रोतेति । दृष्टस्पृष्टेऽप्यर्थे दृष्टमाने स्पृष्टमान इव मयेदं केवलं दृष्टं न स्पृष्टम् , केवलं स्पृष्टं न दृष्टमिति च प्रत्ययप्रसङ्गः । किश्व-चक्षुरादीन्द्रिय- धेकल्ये सति विकलोऽहमिति धीनोंपपद्येत । चक्षुपि विनष्टे तद्वैक- ल्येन वैकल्यं कोऽन्यो वेत्तु । भिन्नाचक्षुरादय आत्मानः । नान्य- १ स्वं नित्यत्वम् , चित्त्वं ज्ञानरूपत्वम् । आनन्दत्वं अनुकूलस्वम् । २ प्राणेत्रियामवादिनस्लु मुशिक्षितचार्वाकाः।

प्रकाशे] जीवपरिच्छेदः। २२३ स्यात्मनः अन्येनात्मना साकल्यं पैकल्यं या। न चान्योऽन्य वेदितुं प्रभवतीति । चक्षुपा विकलोऽहमिति धिया च गम्यते चक्षु- राशुपकरणसम्पन्नोऽन्य एवाहमर्थ इति । मन आत्मवादः। कश्चिदाह-सत्यं चक्षुरादीनीन्द्रियाण्यन्यान्यानि प्रतिनिय- तार्थावभासकानि, मनरत्वेकम्, न ततोऽन्य आत्मा । अस्यैवोप- करणतां यान्ति चक्षुरादीनि फरणानीति । तन्निरासः। ननु किं मनसि प्रमाणं मन्यसे । चाक्षुपश्रावणादीनामेकाश्रय. त्वोपपत्तये करप्यते तदिति चेन्न । यतो द्रष्टा श्रोता स्प्रष्टा मन्ता च विज्ञानात्मा चेतन एव । ननु-यं त्वं ज्ञातारं वदसि तं मनोऽनन्य झूमः । आत्मानमभ्युपगच्छता मनोऽप्यभ्युपगम्यते । मनसैव च सर्व निर्वाहे किमात्मनान्येनेति । मैवम् । प्रतिनियतरूपाद्यर्थतया चक्षुरादीनामिव प्रतिनियतसुखाद्यर्थतया मनसोऽपि करणतयैव हि सिद्धिः । अन्यमना अभूवं यतोऽप्रेऽवस्थितमपि नावेदिपमिति च मनसोऽसन्निधानादात्मनि ज्ञानानुदयं प्रतिसन्धत्ते । तथा च श्रुतिः-'अन्यत्रमना अभूवं नादर्शम्' इति । 'अन्यन्त्रमना' इति व्यतिरेकनिर्देशोऽवहितेन मनसा शृणु इति च मनसो व्यतिरिक्त. मात्मानं गमयति । 'त्रीण्यात्मनेऽकुरुत मनो वाचं प्राणम्' 'मनसा ह्येव पश्यति' इत्यादिश्रुत्या च धागादिवदात्मन उपकर- णता मनसो गम्यते । स्मर्यते च भोत्तारात्मनः प्रधानोपकरणत्वं मनस:-'मन एव मनुष्याणां कारणं वन्धमोक्षयोः । वन्धाय विपयासङ्गि मुक्त्यै निर्विपयं मनः ॥' इत्यादौ । अतो मनो - । मानमेयप्रकाशिकायां [प्रमेय- नात्मा । तथा चोकं तत्त्वमुक्ताकलापे-'वाद्याक्षेभ्योऽन्य आत्मा तदखिलविपयप्रत्यभिज्ञातुरैक्यात् कर्तुः स्मृत्यादिकार्ये कर- णमिति मनो मानसिद्धं ततोऽन्यत् ।' इति । प्राणात्मवादनिरास। देहात्मवादनिरसनेनैव प्राणालवादोऽपि निरस्तो भवति । वायवयवसङ्घातरूपा हि प्राणाः । तेषां च प्रत्येकसमुदायचैतन्य- विकल्पमासादेहस्येवानात्मत्वमेव । उक्तं च 'प्राणाः सङ्घातरूपा वपुरुदितनयात् न ध्रुवं चेतयन्ते' इति । देहे प्राणस्थित्यपग- माभ्यां जीवस्यास्तिनास्त्रिव्यवहारात् 'प्राणोऽसि प्रज्ञात्मा' इति श्रुत्या च प्राणस्यात्मत्वं स्यादित्यविकाशवा । प्राणस्यापि आत्मोपक- रणतायाः 'त्रीण्यात्मनेऽकुरुत' इत्यादिश्रुत्या प्रतिपादितत्वात् 'तमुत्क्रामन्तं प्राणोऽनूकामति' इति श्रुत्या जीवेन सहोत्का- न्तिश्रवणाच भवति देहे जीवस्थितौ लिङ्ग प्राणस्थितिः । अत एवं निरुक्तव्यवहारोऽन्यथासिद्धः । 'प्राणोऽस्मि' इति श्रुतिस्तु इन्द्र- प्राणशरीरकपरमात्मविषयेति परिहारः । विज्ञानात्मवादः। अपरे त्वतिरिकात्मानमाक्षिपन्ति । विज्ञानेनैव सर्वव्यवहार- सिद्धेः क्रिमन्मेन तदाश्मयतया कल्पितेनात्मना। प्रतिदेहं भिन्नभि- नसन्ततिनिधारा प्रतिक्षपामन्यात्यज्ञानघटिताऽनुवर्तमाना लोक- सिद्धय । वात्मा । सा च पूर्वपूर्ववासनावैचित्र्यात्तत्तदर्थोपरता भवति फलुपिता, पत एर घ वधव्यवहारः । सा चेदपगत- यासना व्यपेतवियोपरागा विमला प्रवत् मुक्तिरिति भवति रुपयहारः । विज्ञासधारोपतिरेयापवर्ग इति न कश्चित् । नास्ति प्रकाशे] जीवपरिच्छेदः। २२५ - नीलादिर्यासोऽर्थः, विज्ञानमेव तु तत्र्याफारमवभासते । यथोक्तं 'अविभागोऽपि युद्ध्यात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसं- वित्तिभेदवानिय लक्ष्यते । इति । सरस्वपि चाहोपु न ते स्थिरा: किन्तु सर्व एव क्षणिका भावा इति । तन्निरासः। अत्र घूमः । विज्ञानेनैव सर्वव्यवहारसिद्धेरिति पचसि विज्ञानेन व्यवहारसिद्धिरित्यविवादम् । अवधारणे सर्वशब्दे च विसंवादः। व्यवहारमा ज्ञानज्ञातशेयसापेक्षम् । व्यवहारो व्यवहार व्यवहार्य चानपेक्ष्य स्वात्मानं यथा न लभते तथैव तन्मूलभूतं विज्ञान- मपि विज्ञेयं विज्ञातारं पानपेक्ष्य स्वात्मानं न लभते । सत्यमपेक्षताम् , पारमार्थिको तावपेक्षते इति कोऽयं नियमः । ताभ्यामपारमार्थि- फाभ्यामेव माव्यमिति षा कोऽयं नियमः । ननु मो:-विना विज्ञानं न कस्यचित्प्रकाशः, प्रकाशपथमनुपगतो न व्यवहारपथमुपैति । अतो व्यवहतिनिहाय विज्ञानं तु पारमार्थिकमित्येवाभ्युपेयम् । स्वम इव विज्ञानमेवार्थात्मनाऽवभासत इत्युपपन्नः सर्यो व्यवहारः। कृतं पारमार्थिकेनान्येन । हन्त ते यस्तुतत्त्वाभ्युपगमे लापवपालो- चनाकौशलम् । यत्प्रत्यक्षमप्यपलपितु प्रभवसि । ननु दृश्यते गन्धर्वनगरमिति किं तत् पारमार्थिकम् ।। ननु पश्चात् पाधदर्शनाद- पारमार्थिक तत् । नेह नीलादेर्याधदर्शनम् । ननु सहोपलम्भनि- यमादभेदो नीलतद्धियोः । हन्त साहित्यनियम एयायमर्थद्वयसत्तां गमयति । साहित्यं हि द्वयोरेव । सहोपलम्भनियमे च उपलम्भ- कसामग्रीनयत्रं प्रयोजकम् । अर्थाकारता पासत्यर्थे ज्ञानस्य घास- नामात्रेण दुरुपपादा । किञ्च विज्ञानधाराऽनुषर्तत इत्येतावता न मान० प्र०१५ २२६ मानमेयप्रकाशिकायां [प्रमेय- प्रत्यभिज्ञानिर्वाहः । प्रत्यभिज्ञा हि ज्ञातारं स्थिरमपेक्षते । तथा स्मृतिश्च । ननु धारैका । प्रलोभकमिदं वचनम् । धारा त्वविच्छिन्ना एकेति व्यपदिश्यते । प्रवहत् सलिलं तु भिन्नभिन्नमेव । क्षणिक विज्ञानं वदतस्तव न किमपि ज्ञानं स्थिरम् । अन्यदेव दर्शनसम- येऽन्यदेव तु स्मरणसमये । अथैवं सति कोऽनुभवति को वा स्मरति । ननु संस्कार उत्तरोत्तरेषु सङ्कामति । फोऽयं सङ्गमः । उत्तरोत्तरत्र सम्बन्ध इति चेत् स हि स्थिरस्यै कस्य घटेत, न तु क्षण- विनाशिनः । अधोनिक्षिप्तस्य मृगमदस्याणवस्तु सर्वतः सूक्ष्मतमा उपर्युपरि वासःसु प्रसर्पन्तीति सौरभोपलम्भ उपपद्यते। न च क्षणविनाशिनस्ते । ननु पूर्वपूर्वतः कारणादुत्तरोत्तरकार्ये वासनाया उत्पत्तिरेव सङ्कमः । विचारयामः-फयोर्जन्यजनकभाव इति । पूर्वोत्तरयोः इति चेत्, पूर्वत्वमुत्तरत्वं च सर्वेपामविशिष्टमिति सत्त्वभेदेन तद्व्यवस्था दुरुपपादेव । न च समानदेशस्थतया नियमः, देशस्यापि स्थिरस्यैकस्याभावात् । नापि सदृशस्य सदृशारम्भकत्व- मिति । भिन्नदेशस्थयोरपि जन्यजनकभावप्रसगात् । एतेन 'तत्स्या- दालयविज्ञानं यद्भवेदहमास्पदम्। तत्स्यात्प्रवृत्तिविज्ञानं यन्नी- लादिकमुल्लिखेत् ॥' इत्युक्तरीत्या आलय विज्ञानकल्पनयाऽपि न निस्तारः । तस्यापि क्षणिकत्वेन प्रत्यभिज्ञादेर्दुर्घटत्वात् । किश्च अहं जानामीत्यहमर्थधर्मतया प्रतीतेः ज्ञानस्यात्मत्वकल्पनमनुपपन्नम् । आलयविज्ञानस्य च न वस्तुतो ज्ञातृत्वमनुमन्यते भवता । न च शातृत्वप्रतीतिनान्तिः, नाहं जानामीति बाधबुद्धरदर्शनात् । उक्तं पैवत्सर्व तत्त्यमुक्ताकलापे-'ज्ञानं च ज्ञातृधर्मः क्षणिकमपि च वस्तेन नास्यात्मभावः' इति ।

जीपपरिच्छेदः। २२७ फस्यायों नेफस्यानयों नेपो नैफेनोपायर नेफमर्थ रायगीति ज्यपहारव्यवखागायोच्छेदासझेग जनपदयोग निरन् प्रजा प्रति इन्त गुगलो येराग्यगापायं सरपगुपविशशीति प्यागोहनम् । अहतमतनिरासः। एरोग नित्यगेकं विमानमयलम्ब्य पेशाराहानिरूपणाय प्रशा- नागभिगतिरमि पराणा । ननु पर्य शेयं नापछपामा । अामिति शु भूगः । ननु सांगिदगखिलगिति पपराः गोगतस्य भाविध- फगत्तमिति पदरासायाप को विशेष। गतु मानमेप शेयारगना भासीति से । ययं गु गूग:-निसे विशानामनि अमानेन परिका- रिपतं शुक्ततायिय रणसं यायान्यपदारगनुपर्तते । व्यपहारगूलभू- होने विनष्टे गियर्सले सोऽयं साएशेयमेव । सानपरिफरिपरा- स्यार, शानेकगियर्सत्यापामगिरि । अमाए. शालिगमाया प्रकार- पश्चिकाया-'एपोऽपि गादायानिकपक्षानुपवेशितां याविना ध्यागोड एन । प्रत्यक्षमगाणसिमं मामशानशेयर किरणशापि- पपरामिति या प्रमाणमयीयामसिखारो गोऽयं पा प्रमाणार- जान फोटो प्रवेशमाईति । इति । गनु प्रत्यक्षगप्यानायन पापि- सार्थतया परात्यापेपफम । यायव्ययपार गुना पायरो इति प्रगा- णव्ययस्था । सपियं च्या पपनम, प्रमाणमप्रमाण पेति । न को घूते अप्राणमिति । व्ययक्षारपये पर्रागानागामेप प्रमाणामगाण- चिरा।। या प्रमाणमेय प्रसाग । हन्त राशीमायोऽपि ध्ययहार- पथे परगारमपिएसयेति याव्यम् । एवं सत्यानायेग मराक्षग्य माधा फाथम् । पापल्याविति धेर । म प्रायल्यम् । मामाय मोय । गेपण । पायराशौ लौकिफयपसां श्रीरापासां च विरोधे, प्राप्त ૨૨૬ मानमेयप्रकाशिकायां [प्रमेय- प्रत्यभिज्ञानिर्वाहः । प्रत्यभिज्ञा हि ज्ञातारं स्थिरमपेक्षते । तथा स्मृतिश्च । ननु धारैका । प्रलोभकमिदं वचनम् । धारा त्वविच्छिन्ना एकेति व्यपदिश्यते । प्रवहत् सलिलं तु भिन्नभिन्नमेव । क्षणिक विज्ञानं वदतस्तव न किमपि ज्ञानं स्थिरम् । अन्यदेव दर्शनसम- येऽन्यदेव तु स्मरणसमये । अथैवं सति कोऽनुभवति को वा स्मरति । ननु संस्कार उत्तरोत्तरेषु सङ्कामति । कोऽयं सनमः । उत्तरोत्तरत्र सम्बन्ध इति चेत् स हि स्थिरस्यैकस्य घटेत, न तु क्षण- विनाशिनः । अधोनिक्षिप्तस्य मृगमदस्याणवस्तु सर्वतः सूक्ष्मतमा उपर्युपरि वासःसु प्रसर्पन्तीति सौरभोपलम्भ उपपद्यते । न च क्षणविनाशिनस्ते । ननु पूर्वपूर्वतः कारणादुत्तरोत्तरकायें वासनाया उत्पत्तिरेव सङ्क्रमः । विचारयामः-कयोर्जन्यजनकभाव इति । पूर्वोत्तरयोः इति चेत्, पूर्वत्यमुत्तरत्वं च सर्वेपामविशिष्टमिति सत्त्वभेदेन तद्व्यवस्था दुरुपपादेव । न च समानदेशस्थतया नियमः, देशस्यापि स्थिरस्यैकस्याभावात् । नापि सदृशस्य सदृशारम्भकत्व- मिति । भिन्न देशस्थयोरपि जन्यजनकभावप्रसङ्गात् । एतेन 'तत्स्या- दालयविज्ञानं यद्भवेदहमास्पदम् । तत्स्यात्प्रवृत्तिविज्ञानं यन्नी- लादिकमुल्लिखेत् ॥' इत्युक्तरीत्या आलयविज्ञानकल्पनयाऽपि न निस्तारः । तस्यापि क्षणिकत्वेन प्रत्यभिज्ञादेर्दुर्घटत्वात् । किश्च अहं जानामीत्यहमर्थधर्मतया प्रतीतेः ज्ञानस्यात्मत्वकल्पनमनुपपन्नम् । आलयविज्ञानस्य च न वस्तुतो ज्ञातृत्वमनुमन्यते भवता । न च शाहत्वप्रतीतिर्धान्तिः, नाहं जानामीति बाधबुद्धेरदर्शनात् । उक्त घेतत्सर्व तत्त्यमुक्ताकलापे-'ज्ञानं च ज्ञातृधर्मः क्षणिकमपि च यस्तेन नास्यात्मभावः' इति । " . जीवपरिच्छेदः। २२७ नैकस्यार्थी नैकस्यानों नैको नैकेनोपायेन नैकमर्थ साधयतीति व्यवहारव्यवस्थामात्रोच्छेदप्रसङ्गेन अनर्थावहतो नं निवर्तेरन् प्रजा इति हन्त सुगतो वैराग्यमाघातुं तत्त्वमुपदिशतीति व्यामोहनम् । अद्वैतमतनिरासः। एतेन नित्यमेकं विज्ञानमवलम्ब्य वेदान्तहार्दनिरूपणाय प्रवृत्ता- नामभिमतिरपि परास्ता । ननु वयं ज्ञेयं नापलपामः । अनृतमिति तु ब्रूमः ननु सांवृतमिदमखिलमिति वदतः सौगतस्य आविद्य- कमनृतमिति वदतस्तवच को विशेपः ? । ननु ज्ञानमेव ज्ञेयात्मना भातीति ते । वयं तु भ्रूम:-निये विज्ञानात्मनि अज्ञानेन परिक- ल्पितं शुक्ताविय रजतं यावद्व्यवहारमनुवर्तते । व्यवहारमूलभू- तेऽज्ञाने विनष्टे निवर्तते सर्वोऽयं शादृज्ञेयभेदः। अज्ञानपरिकल्पित- त्वात् ज्ञानैकनिवर्त्यत्वाचानृतमिति । अन्नाह शालिकनाथः प्रकर- णपश्चिकायां-'एषोऽपि माहायानिकपक्षानुप्रवेशिनां ब्रह्मवादिनां व्यामोह एव । प्रत्यक्षप्रमाणसिद्धं ज्ञातज्ञानज्ञेयभेदं शुक्तिरजतादि- वदनृतमिति वदन् प्रमाणमर्यादामतिलवते । सोऽयं कथं प्रमाणशर- णानां कोटौ प्रवेशमर्हति ।' इति । ननु प्रत्यक्षमप्यानायेन बाधि, तार्थतया न तत्त्वावेदकम् । यावद्व्यवहारं तु न बाध्यते इति प्रमा- णव्यवस्था । तदिदं व्याहतं वचनम् , प्रमाणमप्रमाणं चेति । ननु को जूते अप्रमाणमिति । व्यवहारपथे वर्तमानानामेव प्रमाणाप्रमाण- चिन्ता । तदा प्रमाणमेव प्रत्यक्षम् । हन्त ताम्नायोऽपि व्यवहार पये वर्तमानमधिकृत्यैवेति वक्तव्यम् । एवं सत्यानायेन प्रत्यक्षस्य बाधः कथम् ? । प्राबल्यादिति चेत् । किं प्रावल्यम् ? आम्नाय इत्येव । मैषम् । शब्दराशौ लौकिकवचसा औववचसां च -विरोघे प्राप्ते २२८ मानमेयप्रकाशिकायां [प्रमेय पुरुपबुद्धिदोषमूलकत्वेन पौरुषेयवचसा दौर्बल्यम् । अपौरुषेयतया नित्यनिर्दोषतया चान्नायवचनानां प्रावल्यमिति युक्तम् । न तु अबा. धितमपि प्रत्यक्षं श्रुतिर्वाधते इति । यत्र च प्रत्यक्षविरुद्धोऽर्थः श्रूयते, (आदित्यो यूप इत्यादी) तत्रापि गौण्या वृत्त्या प्रत्यक्षाविरुद्ध एवार्थ उन्नयः । अयमेव च प्रमाणनयनमार्गः। ननु भेनिषेधश्रुतीनां प्रामाण्यं हीयेत । भेदश्रुतीनां प्रामाण्यं हीयेतेयत्र के समाधि पश्यसि । ननु व्यवहारतोऽवगतं भेदमनूद्य तत्त्वमवगमयन्ती श्रुतिस्तं प्रतिपेधति । ननु लोकतोऽनवगतः प्रक- तिपुरुपयोर्भेदः, तथा पुरुपाणां भेदः, ईश्वरस्य चैतेभ्यो भेदः, एव- मप्राप्तमर्थजातमवगमयन्ती श्रुतिस्तदेव वाधते इति कथमुपपद्येत?। ननु बाधो व्यक्तः। तेन विधिवचनं बाधितं स्यात् । मैवम् । विरोघे हि वाधः । विषयमेव्यवस्थया भेदतन्निपेधश्रुत्योर विरोधेन नयने कस्ते प्रद्वेपः । तथाहि, सर्वस्य कार्यस्यास्य कारणानात्मतालक्षणो हि भेदो निपिध्यते । घटशरावादीनां स्वात्मना मिथो भेदेऽपि मृदनात्म- तालक्षणभेदो हि नैव । ब्रह्मणश्च सकलजगदुपादानता तत्रतत्र श्रूयते । न चासत्कार्यवादमनुमन्यते श्रुतिः । एकस्यापि नानात्मना परिणमतः फारणकार्यावस्थाभेदेन एकत्वं नानात्वं चावाधितं न्यायोपेतं च । तदेवं विपयभेदेन विरोधपरिहरणे सुकरे श्रुत्योरेव मिथ उपमोपम- कमावं कस्मात्कल्पयसि ननु वचनयोयोः समवलत्वे सम्पाद्यो विपयभेदः । प्रयला तु भेदनिषेधश्रुतिः, दुर्यला तु भेदश्रुतिः । ननु फि प्रापल्यं तस्याः । भेदमुपमृद्यैव तनिषेधश्रुतिरुदेतीति । हन्त 'अग्नीपोमीयं पशुमालमेत' इति श्रुतिमुपमृद्यैव 'मा हिंस्यात्सर्वा भूतानि' इति श्रुतिरदेतीति आलमनश्रुत्यपेक्षया हिंसानिपेधश्रुतेः ।

प्रकाशे] जीवपरिच्छेदः।- २२९ प्रावल्यादालमनचतिर्वाध्येत । ननूत्सर्गापवादन्यायमविजानतोऽय- माक्षेपः। तन हि निषेधश्रुतिविधीयमानादन्यत्रायकाशं प्राप्य स्वयम- पसरत्यनुपमृद्यैव विधिम् । ननु भोः श्रूयमाणं भेदमनुपमृधैवापस- पंति विपयान्तरलाभेनेति सुशकं वक्तुमत्रापि-। ननु 'नेह नानास्ति किञ्चन' इति निपेघवविर्भेदमानं कोडीकरोतीति चेत् । 'मा हिंस्या- त्सर्वा भूतानि' इति श्रुतिर्भूतमात्रमपि क्रोडीकरोतीति तुल्यं तत्रापि । अपच्छेदनयश्च प्रयोगे प्रवर्तते न तु वचनार्थविनिर्णये। किश्व--कचि- दर्थे विवदतोरस्ति नास्तीति स्ववपक्षसाधनाय प्रतिज्ञावाक्यं प्रयु- जानयोर्वादिप्रतिवादिनोर्नास्तीति निषेधं प्रयुञ्जानः प्रतिवादी निपे- घवचनस्य भाववचनोपमर्दनपूर्वकमेव समुत्थानात प्रावल्येन प्रति- ज्ञाप्रयोगमात्रेण विजयी भवेत् । ननु कारणमात्रस्य सत्यता कार्यमात्रस्यासत्यता घ फण्ठरवेण श्रुयैव प्रतिपाद्यते 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति । अनेन कारणभूतस्य ब्रह्मणः सत्यता कार्यभूतस्य प्रपञ्चस्यासत्यता घ व्यक्तमवगम्यते । नैवम् । कारणादनन्यतैव तु कार्यमानस्य प्रतिपाद्यतेऽत्र नासत्यता। अवस्थाभेदेऽपि घटशरावादि- कार्यजातं कारणभूतान्मृद्रव्यानार्थान्तरम् , मृत्तिकेत्येव हि अवाधि- तेन प्रत्यक्षेण गम्यते । सत्यता चावाधितप्रत्ययसिद्धता । ननु सदेव चेत् कार्य नापूर्वम्, तर्हि भिन्नभिन्नव्यवहाराणां किमालम्बनम् । उच्यते-योऽयमवस्थाविशेषलक्षणो विकारभेदः, तत्प्रयुक्तश्च नाम- भेदः, तदुभयमेव वाचारम्भणम्-मिन्नभिन्नव्यवहारालम्बनम् । अतोऽसवोत्पद्यते इत्यपास्तम्। देवं स्वरसतो वाक्येनावगम्यमाने सुतेहार्दे क अभ्यासवादस्य प्रसङ्गः । एकविज्ञानेन सर्वविज्ञानप्रति.

२३० मानमेयप्रकाशिकायां [प्रमेय शानं च कार्यस्य कारणानन्यतायामेव स्वरसगतिकम् , न तु निध्यात्वे । शुक्तिस्वरूपे झवगते कल्पितं रजत बाध्यते, नतु विज्ञायते । विस्तरस्त्वन्यत्र । अतो ज्ञातृयज्ञानभेदोऽवाधित- प्रतीतिसिद्धो यथार्थ एवेसास्तां तावत् । प्रकृतमनुसरामः । देहेन्द्रियार्थमनःप्राणबुद्धिभ्योऽन्यत्वं चात्मनस्तैत्तिरीये अन्नमय- प्राणमयमनोमयेभ्योऽन्यत्वस्य विज्ञानमये ज्ञातरि प्रतिपादनादवग- म्यते । तथा आत्मनः शरीरादीनां च रथित्वस्य रथादित्वस्य च रूपणमुखेनोपकरण्युपकरणभावप्रतिपादनादपि शक्यमवगन्तुम् । तथा च कठश्रुति:-'आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हया- नाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुकं भोत्याहु- मनीपिणः ॥' इति । सत्सगिजीवने च देहेन्द्रियादिभ्योऽन्यत्वमात्मनः स्पष्टं वर्णित- मस्ति । यथा-'आत्मा जीव इह प्रोक्तो व्याप्य सर्व वपुः स्थितः । बाह्यान्तःकरणानां तद्देवतानां प्रकाशकः ॥ जान- तादिष्ववस्थासु स्थूलादिषु वपुष्षु च । वद्धस्तादात्म्यसम्ब- न्धाद्वस्तुतस्तद्विलक्षणः। यथैव गोलकं लौहं तादात्म्येन धन- अयः । व्याप्य स्थितोऽपि तदिन्नलक्षणोऽस्ति तथा ह्यसौ ॥' 'स्थूलादिदेहत्रितयमानखादाशिखं च यः । व्याप्येन्द्रियान्तः- करणैः करोति विविधाः क्रियाः॥ अजो नित्यः शाश्वतश्च निरंशश्च प्रकाशकः । सोऽच्छेद्यादिगुणो ज्ञेयो जीवात्मा चर्णिसत्तम ॥ 'चिद्रूप आत्मा विज्ञेयः साक्ष्यवस्थात्रयस्य च । देहेन्द्रियमनःप्राणवुयादीनां प्रकाशकः ॥' स्थूलादिदेहनि- प्रकाशे] जीवपरिच्छेदः। २३१ तयं सहाध्यात्माधिदैवतम् । गुणात्रयस्तथावस्था एतत्क्षेत्रमि- तीरितम् ॥ य एतद्वेत्तिस वात्मा क्षेत्रज्ञ इति कथ्यते । सामा- न्यसत्तया देहं स सर्व व्याप्य वर्तते ॥ विशेषसत्तया त्यास्ते हृदि क्षेत्रज्ञ एव च । रत्नदीपप्रतीकाशो ज्ञाता सूक्ष्मोऽणुव- द्रुवः ।।' 'श्रोत्रमध्यात्ममित्युर्क दिशस्तत्राधिदैवतम् । श्रोत- व्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ॥' इत्यारभ्य 'अध्यात्मा- दिविभागोऽयं स्फुट त्रेधा निरूपितः। तत्र करणे ज्ञेये जेयं कर्म तृतीयकम् ॥ स विष्वन्यतमाभावे कर्तुं न क्षमते कियाः। तथापि संविदापोऽस्ति स्वयं तेभ्यः पृथक्स्थितः॥' इति । हरिवाक्यसुधासिन्धौ घ-'देहेन्द्रियान्तःकरणदेवताविप- यादितः। बोद्धव्यः पृथगात्मा तु' 'चिद्पो ज्ञानवान्नित्यो निर्विकारः सुखात्मकः । स्थिरः सदैकरूपश्च स्वप्रकाशोऽति. निर्मलः ॥ असगी व्यापको द्रष्टा दिव्योऽच्छेद्यादिलक्षणः । 'अनझोडमायिकोऽमृत्युरात्माऽस्तीत्यवधार्यताम् ॥' 'चतुर्वि- शतितत्वेभ्य आत्मा ज्ञेयः पृथक् परः' इति । सिद्धमेतावता देहादिभ्योऽन्य आत्मेति । आत्मनः स्वयम्प्रकाशत्वम् । ननु-सिद्धान्तेऽन्यात्मा ज्ञानरूपः, तत्कथमात्मनो ज्ञानरूपत्व- निषेधः । उच्यते-यदिदं घटपटादिविपयाषगाहि ज्ञानं घटमहं जानामीति प्रतीत्याऽमर्थधर्मतया प्रतीयते तस्य नात्मत्वम् । किन्तु सविषयज्ञानाश्रयोऽहमर्थ एव धर्मितया प्रतीयमान आत्मा । वन- काशत्वात्स ज्ञानरूपोऽपि । खेतरनिरपेक्षप्रकाशत्वं च स्वयम्प्रकाश- त्वम् । ज्ञानाश्नयस्यात्मनो ज्ञानरूपत्वात् धर्मभूतज्ञानसात्मस्वरूप- मानमेयप्रकाशिकायां [प्रमेय- निरूपकत्वेन स्वरूपनिरूपकधर्मशब्दस्य धर्मिपर्यन्तत्वाच, 'यो विज्ञाने तिष्ठन्नित्यादिश्रुतौ विज्ञानशब्देन संशब्दनम् । तथा च सूत्रम् तद्गुणसारत्वात्तद्व्यपदेशः:प्राज्ञवत्' 'यावदात्मभावि- त्वाच न दोषस्तदर्शनात्' इति । अत्र चकारेण स्वरूपस्य ज्ञान- रूपत्वं ज्ञानव्यपदेशे निमित्तं क्रोडीकृतम् ।.सदा स्वयम्प्रकाशत्वा- देव नात्मनि कदापि सन्देह उदेत्यहमस्मि न वेति । 'कोऽयमात्मा योऽयं, प्राणेषु हृद्यन्तोतिःपुरुषः'.. 'अनायं पुरुषः- स्वयं- ज्योतिर्भवति' 'यथा सैन्धवयनोऽनन्तरोऽवाह्यः कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नो प्रज्ञानधन एवं' 'विज्ञानधन एव' इत्यादिश्रुतयश्चात्मनो ज्ञान- रूपत्वे प्रमाणानि । न च ज्ञानस्य सविषयकत्वनियमात्स्वरूपस्य निर्विषयकस्य कथं ज्ञानत्वम् । स्वरूपज्ञानस्यापि स्वरूपविषय- फत्वादेव सविषयकस्वोपपत्तेः । ननु स्वभिन्नविषयकत्वमपि ज्ञानस्य, दृष्टम् । सत्यम् । तत्तु धर्मभूतस्य । धर्मिणस्तु स्वरूपविषयकत्वमेव । वस्तुतोऽत्रापि प्रत्यक्त्वैकत्वानुकूलत्वविषयकत्वमस्त्येव । अहमों हि प्रत्यक्त्वेनानुकूलत्वेनैकत्वेन च खतो भाति । अत एव न स्वात्मन्येकानेकत्वसन्देहोऽहमनहत्वसन्देहोऽपि वा कदाप्युदेति । आत्मनः सुखत्वम्। स्वरूपस्य सुखरूपत्वं तु 'सुखमहमस्खाप्स'मिति सुप्तोत्थितमति- सन्धानाज्ञायते । अनेन हि स्वापकालिक सुखत्वं स्वतोऽनुकूलत्य- लक्षणमनुभूतं प्रतिसन्धीयते । न च स्वापकाले विपयानुभवज मुखमनुभूतम् । विपयानुभवस्य पदानी विरहात् । न च यथेदानी मुसं भवति चथा पूर्वमस्वाप्समिति शक्यमुत्प्रेक्षितुम् । अतथाकार- प्रकाशे] जीवपरिच्छेदः। ૨૨૨ स्यात्प्रतिपत्तेः । क्रियाविशेषणेन हि क्रियासमानकालिकेन भूयते । 'मन्दमगच्छं मधुरमगाय'मित्यादी तथैव दर्शनात् । न चैवमपि खापस्यैव सुखत्वं स्यात् नात्मन इति वाच्यम् । निरस्तनिखिलविक- ल्पस्वरूपावस्थितिलक्षणत्वात्स्वापस्य तत्सुखत्वस्य स्वरूपसुखत्व एव विश्रमात् । न च स्वरूपभूतज्ञानस संस्कारानाधायकत्वात् कथं सुखत्वांशे वरूपे च प्रतिसन्धानरूपत्वं निरुक्तप्रत्ययस्येति वाच्यम् । पूर्वगृहीतार्थमाहित्वमानेग प्रतिसन्धानवाचोयुक्तेः । स्वरूपं तत्सु- खत्वं च स्वापेऽप्यनुभूतं स्वरूपेणैव । जागरेऽपि तथैव गृह्यते । अस्खाप्समिति स्वापांशे त्वनुमितिः । आत्मानुभवलक्षणकैवल्यार्थि- प्रवृत्त्या चात्मनः सुखरूपत्वं ज्ञातुं शक्यम् । आत्मनोऽहमर्थत्वम् । स्वप्रकाशोऽयमात्मा अहमित्येव प्रकाशते, प्रत्यक्त्वात् । इदमहंचु- द्विशब्दाभ्यां हि पराक्प्रत्यक्तत्त्वविवेकः । योऽहमिति न भासते नासौ प्रत्यक यथा घटः । स्वस्मै स्वयंप्रकाशत्वं च प्रत्यक्वं न स्वयं- प्रकाशत्वमात्रम् । तच्चाहंबुद्धिशब्दव्यवस्थाप्यम् । ननु जडोऽपि देहः अहमिति भासते-स्थूलोऽहं गौरोऽहमिति । सत्यं, देहात्मभ्रमवतां त्वेवमेव प्रतीतिः । देहात्मविवेकवतां तु 'नाहं देवो मनुप्यो वा न तिर्यक् स्थावरोऽपि च । शरीराकृतिभेदास्तु देवाद्याः कर्मयोनयः।।' इत्येव । यतः स्थूलोऽहमिसेवाकारो देहात्मभ्रमस्थ, अतोऽपि आत्मनोऽमर्थसं स्थितम् । एतावन्तं कालं न किञ्चिदह- मक्षासिप मिति सुप्तोत्थिवप्रतिसन्धानेन च सुपुप्तिकाले विषयज्ञान- सामान्यस विरहोऽहमर्थस्य स्फुरणं च सिद्ध्यति । अतः सुपुति- कालेऽपि स्वतःसिद्ध्यन्नात्माऽहमर्थ एव । चैतन्यमेव अज्ञानसाक्षि- . २३४ मानमेयप्रकाशिकायां [प्रमेय- तया सुपुप्तौ वर्तते, अहमर्थस्त्वन्तःकरणं न तदेति धादस्योपलम्भ- विरोधः स्थितः । अनेन हि प्रतिसन्धानेनाहमर्थस्य प्रकाशः:सवि- पर्यकज्ञानसामान्यविरहश्च सिद्ध्यति । ननु मामप्यहं न ज्ञातवानिति अहमर्थस्यापि सुपुप्तौ प्रतीत्यभावः सिद्ध्यति । मैवम् । जागराधव. स्वदेहसुखादिवाह्यान्तराकारविशिष्टविषयकप्रतीत्यभावस्यैव तद्विष. यत्वात् । अहमर्थस्यैव तदाऽप्रतीतो तत्कालीनाहमर्थावस्थितिपरा- मर्शस्यायोगाच । स्वापात्पूर्व कृतस्यापरदिने प्रतिसन्धानाचाहमर्थस्य स्वापे नाशो नाभ्युपगन्तुमुचितः । किश्च ममैव नित्यमपरिच्छिन्नं सुखं भविष्यतीतीच्छया मोक्षोपायादौ प्रवर्तते पुमान् । स चेदहेम- र्थनाशं मोक्षे जानीयात् नैव प्रवर्तते तत्र । स्वरूपनाशस्यापुरुषार्थ- त्वात् । ननु निर्विशेपसचिदानन्दरूपमेव,स्वस्य स्वरूपं तदवाप्ती- च्छया मोक्षोपायेपु स्यात्प्रवृत्तिः । मैवम् । स्वर्गादेहत्यागानन्तर- माविफलस्य भोक्तुदेहातिरिक्तस्य देहनाशेऽप्यनाशेन इच्छाविपयत्वेन स्थानाम तदुपायेपु प्रवृत्तिः । भोक्तुरेवाहमर्थस्य मोक्षदशायां नाशे तु ज्ञाते न तथाविधाय मोक्षाय कोऽपि स्पृहयेन्मनःपूर्वकमिति । मुक्तात्माप्यहमित्येव प्रकाशते स्वस्मै प्रकाशमानत्वात् यथोभयसम्प्रति- पन्नो बद्धात्मा इति न्यायेन च मुक्तावपि अमर्थप्रकाशः स्थितः । अव एव मुक्तस्य व्यवहारः 'अहमन्नम्' इत्यादिः । निरस्तसम- साविधादिदोषगन्धस्य परमेश्वरस्यापि अहमित्येव स्वस्वरूपानुस- न्धान 'हन्ताहमिमास्तिम्रो देवताः' 'न त्वेवाहं जातु नासम्' इति । प्रक्षात्मकत्वसाक्षात्कारनिधूतनिसिलाविद्यानां यामदेयादीना- मपि अहमित्येव स्वात्मानुभवः 'अहं मनुरभवमहं सूर्यश्च' इति । पेदपुरषोऽपि सरूपमइमिग्रेप निर्दिशनि मुमुक्षु शरणमहं प्रपये' प्रकाशे] 'जीवपरिच्छेदः। इति । अतोऽहमर्थ एव आत्मा । तथाचोक्तं श्रीभाष्ये-'अहमों न चेदात्मा प्रत्यक्त्वं नात्मनो भवेत् । अहंबुझ्या परागर्थी- प्रत्यगर्थो हि भिद्यते । निरस्ताखिलदुःखोऽहमनन्तानन्दभाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थ- विनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसदसौ मोक्षकथाप्रस्ता- वगन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्या काचिज्ञप्तिरवस्थिता । इति तत्प्राप्तये यत्नः कस्यापि न भविष्यति ॥ स्वसम्बन्धितया ह्यस्याः सत्ता विज्ञप्तितादि च । स्वसम्बन्धवियोगे तु ज्ञप्ति- रेव न सिद्ध्यति ।। छेत्तुश्छेद्यस्य चाभावे छेदनादेरसिद्धिवत् । अतोऽहमर्थों ज्ञातैव प्रत्यगात्मेति निश्चितम् ॥' इति । उक्तं चाभियुक्तैः-'प्रत्यक्त्वादुपलम्भतो मम सुखं भावीति मोक्षे- च्छया मुक्तब्रह्ममुमुक्षुवेदवचसां सुप्तोऽहमित्युक्तितः। मां नाज्ञासिषमित्यपि स्ववपुराद्यज्ञानमात्राश्रयात् स्वापप्राच्य- निजक्रियास्मरणतोऽप्यात्माहमर्थः स्थिरः ॥' इति । आत्मनो ज्ञातृत्वम्। अहं जानामीति प्रतीत्या ज्ञानाश्रयत्वमपि अहमर्थस्यात्मनः सिद्ध्यति । श्रूयते च ज्ञानस्वरूपस्यैवात्मनो ज्ञानाश्रयत्वमपि-- एप हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः-'यो वेदेदं जिघाणीति स आत्मा' इति । ननु ज्ञानस्य ज्ञानाश्रयत्वं न लोके दृष्टम् । ननु तस्य खातव्यमपि न दृष्टम् । शास्त्रवलात्स्यातव्यमिष्यते चेत् तद्वलादेव ज्ञासृत्वमपीप्यताम् । धर्मभूतस्यैवतु ज्ञानस्य पारतत्र्यं ज्ञानानाश्रयत्वं च न धर्मिणः । ज्ञानस्वरूपस्यापि ज्ञानाश्रयत्वं तेजोरूपप्रदीपस्य तेजोरूपप्रभाश्रयत्व- भानमेयप्रकाशिकायां [प्रमेय- युक्तमेव । हरिवाक्यसुधासिन्धौ चात्मनो ज्ञानरूपत्वं ज्ञानाश्रयत्वं च वर्णितमस्ति-'ततो, जीवः स्वरूपतः स्वभावतश्च चिद्रूप' 'चिद्रूपो ज्ञानवान् नित्यो निर्विकारः सुखात्मकः ।' इति । यत्तु अन्तःकरणमेवाहमर्थः, चिच्छायापत्त्या भवति जाना- म्यहमिति भ्रम । इति । तत्रेदं विचार्यते-केयं चितश्छायापत्तिः । ननु चिदिति ज्ञप्तिमात्रम्, छायापत्तिश्च तस्य प्रतिफलनं दर्पण इव मुखस्यान्तःकरणेऽहमर्थे । अत एव दर्पणनिष्ठतया मुखस्येव अमर्थनिष्ठतया ज्ञानस्य भवत्यारोपः अहं जानामीति । नैतयु- कम् । प्रतिफलता हि चाक्षुषेण भाव्यम् । यत्र प्रतिफलति तेनापि चाक्षुपेण भाव्यम् । बिम्बप्रतिविम्यभावयोगो हि तनैव दृष्टः । ननु छायापत्तिरिति न मुख्यार्थम् , अध्यासमात्रपरमिति चेत् । कस्य कस्मिन्नध्यासः । ननु शानस्यान्तःकरणेऽहमर्थे । इदमपि न युज्यते । अध्यासो घन्यत्र सतोऽन्यत्रारोपः । न चाहमर्थाद- न्यत्र ज्ञानं वर्तमानतया दृष्टम् । ननु नायं नियमः अध्यस्यमाने- नान्यत्र सता भाव्यमिति । तत्त्वतस्तस्मिन्नसता भाव्यमित्येव । एवमप्यध्यस्तस्यानृतत्वेन ज्ञानमात्रस्यानृतत्वापत्तेः । सत्यं शानमेव न सिक्येत्तत्व । ननु अनध्यस्तं ज्ञानं स्वतनं निराश्रयं निर्विशेष चास्ति सत्यमिति चेत् । न तन प्रमाणमुपलभामहे । किञ्च-शुक्ती रजतमिवाहमर्थऽन्तःकरणे शानं कल्पिवं चेत्तस्य जातु बाधेन निय. सेन माव्यम् । न प बाधः । नहि भवति नाहं ज्ञातेति । अपि तु झावा फर्वा भोकाऽहमित्येवावाधितः प्रत्ययः । नन्वास्तामवाधित: प्रत्यया, अमर्यस्त्वन्तःकरणमेव, नात्मेति चेत् । किं ततः । महमर्थेऽन्तःकरणे ज्ञानमध्यस्तमित्येवत्तु परित्यकम् । एतेन अग्नि- ।

नकाशे जीवपरिच्छेदः। संपर्कादयःपिण्डे औपण्यभ्रम इव चित्संपर्काद्भवत्यहमर्थेऽन्त:- करणे ज्ञातृत्वभ्रमः इत्यपि निरस्तम् । न हि सन्निहितेऽमावौष्ण्य- मिव सन्निहिते चिन्मात्रे ज्ञातृत्वमस्ति, यत्संपर्काज्ज्ञातृत्वमन्तःकर-. णेऽध्यस्थत इति वक्तुं शक्येत । ननु भोः न वयं ज्ञातृत्वस्याध्यासं मः, किन्तु घटतद्रूपादौ दृष्टस्य धर्मिधर्मभावस्य अहमर्थभूतान्त:- करणज्ञानयोरध्यासमभिमन्यामहे । सान्निध्यमनयोरस्मिन्नध्यासे मूलभूतो दोपः । सत्यमभिमतिरियं भवतः । अन्तःकरणे ज्ञान- धर्मित्वाध्यासवत् ज्ञाने अन्तःकरणमित्वाध्यासो वा किं न स्यात् ?, सान्निध्यदोपतौल्यात् । वस्तुतो युष्मदर्थलक्षणस्यान्तःकर- णस्यास्मदर्थत्वमनुपपन्नमेव । कापिलैः सह सौहार्दमहमर्थविनि- ये । कल्पते हन्त लाभाय पुरुषार्थविधूनने ॥ तस्मासिद्धं निर्वाधयाऽहं जानामीति प्रतीत्या ज्ञानस्यात्मधर्मत्वम् । एतनिरू- पणं चैतत्परिच्छेदान्ते भविष्यति । आत्मनः कर्तृत्वम् । कर्तृत्वमप्यस्यैव धर्मः । तथाहि 'भोक्ता भोग्यं प्रेरितारं च मत्वा' इति चिदचिदीश्वररूपतत्त्वत्रयं निरूपयन्ती श्रुतिश्चेतनं भोक्तृत्वेन लक्षयति । भोक्तृत्वे प्रयोजकं च कर्तृत्वम् । नान्यः करोति अन्यो भुङ्क्ते इत्युपपद्येत । कर्मकर्तुरेव च कर्मणः फलम् । समर्थयति च कर्तृत्वमात्मनः सूत्रकारः 'कर्ता शास्त्रार्थवत्त्वात्' इति । तथा चोक्तं हरियाक्यसुधासिन्धौ-'ज्ञाता देहेन्द्रियादीनामात्मा योध्यः पृथक् पृथक् । एपां स्वरूपवक्ता च श्रोता मन्ता प्रमा- पकः। सर्वक्रियाणां कर्तेत्थमात्माऽस्मीत्यवधार्यताम् ॥ इति । यत्तु कैश्चित् कर्तृत्वं प्रकृतेरिष्यते तत्तु प्रत्यक्षतो व्याहतम् । अह- मानमेयमकाशिकायां [प्रमेय- मिदं जानामीतिवत् अहमिदं करोमीत्येव हि भवति प्रत्ययः । तेन च ज्ञानस्येव कृतेरप्यात्मधर्मतैवावगम्यते । जानात्यन्यः करोत्यन्य इति चानुपपन्नम् । ननु 'अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते' इत्यात्मनः कर्तृत्वं प्रतिक्षिप्यते । वचनस्य तात्पर्यमजानतोऽयमा- क्षेपः । इदमस्य हार्दम्-ज्ञानमिवेच्छा कृतिश्चात्मन एव धर्मः । इयं कृतिः कर्मसामान्ये साधारणं कारणम् । कर्म च गुणविशेपोन्मेषानु- गुणं जायमानं सात्विकादिभेदेन मिद्यत इति तत्तत्कर्मवसाधारण- कारणानि गुणविशेषा एवेति प्रकृतेर्गुणमय्या गुणविशेपैः कार्यमाणेपु कर्मसु गुणवैपम्यप्रयोज्यत्वमविज्ञाय अहमेव कर्तेत्यहङ्कारविमूढात्मा मन्यते इति । भगवतैवोत्तरत्र व्यक्तीकृतोऽयमाशय:-'पञ्चैतानि महावाहो कारणानि निबोध मे। अधिष्ठान तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥ शरीरवाडमनोभिर्यत्कर्म प्रारभते नरः । न्याय्य वा विपरीतं चा पश्यैते तस्य हेतवः॥ तत्रैवं सति कर्तारमात्मानं केवल तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥ इति । अत्र कर्ता इत्यात्मा निर्दिश्यते । अतश्च कृतिरात्मधर्म इति स्पष्टम् । 'देयम्' इति च अधिष्ठानादीनां चतुर्णामात्मतयाऽवस्थाय सत्ताप्रय- त्तिशचयाधायकः सर्वान्तरात्मा सर्वेश्वरः । 'देयं चैवान पञ्चमम्' इति सर्योपरि निर्देशात् पश्चत्वस्य प्राधान्यं गम्यते । न्याय्यं या विपरीतं या-विदितं या प्रतिपिद्धं वा । अनेन गुणयेपम्यमूलत्वं गम्यते । तदेवं हेतु पञ्चसापेक्षेषु गुणवैपम्यानुगुणेषु कर्मसु यस्त्व- विवाय पारणान्तरसापेक्षवा दुरमिमत्या फेवलमात्मानमेव फार पश्यति सोऽयमसयुसिनियति । इति ।

प्रकाशे] जीवपरिच्छेदः। २३२ इदं च कर्तृत्वं परमात्मायत्तम् । 'परात्तु तच्छुतेः' इति सूत्र- कारश्चाह । श्रुतिश्च 'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' 'य आत्मानमन्तरो यमयति' इति । उक्तं च तत्त्वमुक्ताकलापे- 'योद्धा कर्ता च भोक्ता दृढमवगमितः प्रत्यगर्थः प्रमाणः कर्त- स्वाभाववादे स्वयमिह भगवानान्यपर्य त्वगायत् । कर्ता शास्त्रार्थवत्त्वात् कृतिषु च स पराधीन आभापि सूत्रश्चित्रैः कर्मप्रवाहयतनविपमता सर्वतन्त्राविगीता ॥' इति ॥ उक्त च पारतत्र्यं जीवानां स्वरूपस्थितिप्रवृत्तिपुः हरिवाक्यसुधा- सिन्धौ-'जीवानां पारतव्यं च स्वतन्त्रत्वं परात्मनः ।' 'तं विनाऽक्षरपर्यन्तं स्थूलं सूक्ष्मं यदस्ति तत् । परतन्त्रमिति ज्ञेयं स्वतन्त्रस्त्वेक एव सः ॥' इति । सत्सगिजीवनेऽपि 'एवं हि मातः सर्वेऽपि परतन्त्रा भवन्ति हि । कृष्ण एव स्वतन्त्रोऽस्ति सर्वसेव्यस्ततस्तु सः ॥ इति । ननु कर्तृत्वं चेत्पराधीनं तर्हि 'कर्ता शास्त्रार्थवत्त्वात्' इत्येतन्नोपपद्यते । नहि परेण प्रेर्यमाणः कर्म कुर्वन् विधिनिषेधा- घर्हति । मैवम् । ईश्वरो हि जीवस्य प्रलयकाले उपसंहृतकरणकले- एव कुण्ठितचित्प्रवृत्तिशक्तिकस्य करणकलेवरदानेन चित्प्रवृत्तिशतयापादनमात्रेण भवत्याद्यप्रवृत्तौ हेतुः । जीयोऽपि वदाहितसामयः खयमेव पूर्ववासनानुगुणं इष्मनिष्टं तत्साधनं चावबुद्ध्य तत्तदुपादित्सुरुधुझे। एवं स्वबुद्धिरुचिपूर्वकप्रवृत्तिम- त्यालरधीनसापि कर्तुः सम्भवलि विधिनिषेधपश्यत्यम् निभा र सूत्र 'कृतप्रयत्नापेक्षस्तु विहितमतिपिद्धावैयादिभ्यः' इति । आद्यप्रवृत्तावपि देहादिदानद्वाराऽस्त्येवोपकारकत्वमीश्वरस्य । आद्य- वरस्यात २४० + मानमेयमकाशिकायां [प्रमेय- प्रवृत्तिफलतया द्वितीयादिप्रवृत्तावनुमतिपूर्वकं योजनम् । विहित- विषये प्रथमतः प्रवृत्तमनुमनुते सः, निपिद्धविषये प्रवृत्तं चोपेक्षत इति च पक्षोऽस्ति । सर्वथा तत्तत्प्रवृत्त्यनुगुणं फलं तस्मै तस्मै व्यव- स्थितं दत्ते सर्वेश्वरे इति सर्वमवदातम् । तथा चोक्तं पूर्वाचार्यः 'आदावीश्वरदत्तयैव पुरुषः स्वातन्यशक्त्या स्वयं तत्तज्ज्ञान- चिकीर्षणप्रयतनान्युत्पादयन् वर्तते । तत्रोपेक्ष्य ततोऽनु- मत्य विदधत्तन्निग्रहानुग्रही तत्तत्कर्मफलं प्रयच्छति ततः सर्वस्य पुंसो हरिः ॥' इति । अत्यन्तानुकूल्यपातिकूल्यव्यव- स्थितविपया तु ईश्वरस्य साक्षात्प्रयोजकत्वश्रुतिः । ननु प्रथम- प्रवृत्तावेवेश्वरस्यासाधारणकारणत्वं किन्न स्यादिति चेन्न । विधि- निषेधशाखावयायाद्यप्रवृत्तौ । साधारणहेतुत्वस्यैवेश्वराभिमतस्व- कल्पनात् । श्रुतप्रकाशिकायां चोक्तम्-'वैयर्थ्य यावता न स्याद्विधानप्रतिपेधयोः । नियन्तृत्वश्रुतेस्तावान् सङ्कोचो न 'त्वतः परः ॥' इति । विस्तररतत्रैयानुसन्धयः । आत्मनोऽणुत्वम् । अणुपरिमाणत्वं चात्मनः श्रुतितदर्थापत्तिभ्यां सिद्ध्यति । श्रुति- स्तावत्-'एपोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश 'आराममात्री ह्यवरोऽपि दृष्टः 'वालाग्रशत- भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः' इति । 'हदि ययमात्मा' इत्यल्पस्थानता श्रूयते । सा च स्थानिनोऽल्प- त्वमाधिपति । उत्क्रान्तिगत्यागतयश्च श्रूयन्ते-'तस्य ह वा एतस्य हृदयस्यानं प्रद्योतते तेन प्रद्योतेनैप आत्मा निष्कामति चक्षुपो या मूर्भो याऽन्येभ्यो वा शरीरप्रदेशेभ्यः' 'ये चै के चास्मात् प्रकाशे] जीवपरिच्छेदः। लोकात्प्रयान्ति चन्द्रमसमेव ते सर्ये गच्छन्ति' 'तस्मात् लोका पुनरेत्यस्मै लोकाय कर्मणे' इति । किश्च-स्वमस्थानेषु नाडीपु सुषुप्तिस्थाने च पुरीतति जीवस्वरूपस्यैव गतिः श्रूयते-'आसु तदा नाडीपु सृप्तो भवति 'ताभिःप्रत्यवसृप्य पुरीतति शेते' इति । विभुत्वे चैतासामनुपपत्तिः । ममर्थयति चाणुत्वं सूत्रकार:-'उत्क्रा- न्तिगत्यागतीनाम्' 'स्वात्मना चोत्तरयोः' 'नाणुरतच्छतेरिति चेन्न इतराधिकारात् 'स्वशब्दोन्मानाभ्यां च' इति । अणो- रप्यात्मनो धर्मभूतज्ञानव्याप्त्यैव यायदेहावयवव्यापी भोग उपप- द्यते । तथा च सूत्रं 'गुणाद्वाऽऽलोकवत्' इति । ज्ञानप्रभा च जीयस्य तत्तदेहारम्भककर्मवशात् स्वाश्रयचेतनवत्येव देहे प्रसर- त्यधिष्ठानाय न देहान्तरे । योगमहिना पुनर्देहान्तरेष्वपि । अत एव सौभर्यादेरनेकदेहपरिग्रहस्तवच्छेदेनानुभवश्वोपपद्यते । तत्तद- वयवावच्छेदेन भोगप्रयोजककर्मनाशे च न तत्तदवयवे धर्मभूतज्ञान- व्याप्तिः। एतदभिप्रायमेव च 'अथ यदैकां शाखां जीवो जहाति अथ सा शुष्यति' इत्यादिवचनम् । न चाणुत्वे जीवस्य ‘स चान- न्त्याय कल्पते' 'नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः' 'तस्यात्मपरदेहेपु सतोऽप्येकमयं हि यत्' इति श्रुतिस्मृतिभिः सर्वगतत्वप्रतिपादनं कथं घटत इति वाच्यम् । मुक्तावानन्त्यश्नुतेर्ध- र्मभूतज्ञानानन्त्यपरत्वात् । कर्मणा प्रतिरुद्धप्रसरं हि धर्मभूतज्ञानं तिरोधाननिवृत्तौ सर्वत्र व्याप्नोति । 'नित्यः सर्वगतः' इत्यत्र क्रमात्स. वाचेतनेषु प्रविष्टत्यस्य वा अतिसूक्ष्मतयाऽप्रतिरुद्धगतिकत्वात्सर्वत्रा- चेतनेपु प्रवेशसामर्थ्यस्य वा 'वायुः सर्वत्रगो महानितिवदात्म- जातीयस्य सर्वगतत्वस्य या विवक्षितत्वात्। एपमेव 'वस्यात्मपरदेहेषु मान०प्र०१६ ૨૪૨ मानमेयप्रकाशिकायां [प्रमेय- सत' इत्यत्र चात्मजातीयस्य सर्वशरीरप्रवेशो विवक्षित इति । आराम- मात्रस्याप्यात्मनोऽगुप्ठमानत्वं श्रूयमाणं च जीवनिकेतनस्य हृदयस्याङ्गु- टमात्रत्येनोपपद्यते 'अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कार- समन्वितो यः' इत्यादौ । 'बुद्धेर्गुणेनात्मगुणेन चैव आराग्र- मात्र' इत्यत्र बुद्धेर्गुणेनाराममात्र आत्मगुणेन महानित्यर्थकरणं त्वनुपपन्नम् । महानिति पदस्याश्रवणादण्याहारे क्लेशाच्च । बुद्धिपरि- माणेनाराममानत्वं च युद्धेः सुपुप्तिदशायामत्यन्तसङ्कोचाबोध्यम् 1 'रवितुल्यरूप' इत्यनेन च यथा सूर्य एकदेशस्थितोऽपि सर्व प्रका; शयति स्वप्रभया, एवं जीवो हृदये शरीरैकदेशे वर्तमानोऽपि खना भया बुद्ध्या व्याप्य सर्व प्रकाशयतीति लभ्यते । तथा च गीयते- 'यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥' इति । एतत्सर्व सङ्ग्रह्योक्तं तत्त्वमुक्ताकलापे-'देहान्तर्मात्रदृष्टेः पृथगिह विपयिप्राणजीवो- त्क्रमोक्तेः भूयोवाक्यानुसारात् अणुरिति वचने तादृशोपाध्य- नुक्तेः। ईशादाराग्रमात्री ह्यवर इति भिदावर्णनात् स्पन्द- वाक्यात् च्याप्युक्तिर्जातिधर्मप्रतिहतिविनिवृत्त्यादिमात्रेण जीवे ॥' इति । यतु आत्मनोऽणुत्वे मानसप्रत्यक्षानुपपत्तिरिति काणादैरुच्यते । तन्न। विभुत्वेऽप्यानाशादिवन्मानसप्रत्यक्षानुपपत्तिप्रसङ्गात् । यथो- पलम्भं व्यवस्था त्वणुत्वपक्षेऽपि घटते। 'एपोऽणुरात्मा चेतसा वेदितव्यः' इति श्रुतिश्च मनोप्राह्यत्वमणोरप्यात्मन आह । यच्च देशान्तरे भोग्योत्पादस्य भोक्त्रदृष्टाधीनत्वात् अदृष्टसन्निधानस्य पारष्टषसुरुपसग्निधानमन्तराऽनुपपत्तेः पुंसो विभुत्वमेष्टव्यम् ।

प्रकाशे जीवपरिच्छेदः २४३ किश्च विभुत्वे शरीरगमनमात्रेण देशान्तरेषु भोगनिर्वाहः, अणुस्वे तुं आत्मनोऽपि गमनं कल्प्यमिति गौरवमिति । तदपि मन्दम् । विहिव. निपिद्धक्रियाजनितस्य पुण्यपापरुपस्यादृष्टस्य तत्तत्कर्त विपयकेश्वर- प्रीतिकोपलक्षणत्वातिरेकेण चेतननिष्ठादृष्टधर्मान्तररूपत्वस्यासिद्धः। भुतिस्मृती हि भगवदाशारूपे। तदुक्तं 'श्रुतिस्मृती ममैवाज्ञा' इति । अतस्तच्छासनानुवृत्त्यतिवृत्तिभ्यां तस्य तत्तत्कर्तरि अनुग्रहनिग्रहस- कल्पयोनासम्भवः । तत एव तत्तद्देशकालानुभाव्यतत्तत्फलोदय. सम्भवे न जीवस्य विभुत्वकल्पनाया अवसरः । किञ्च विभुत्वे जीव- * स्थान्यदीयदेहायवच्छेदेनापि अन्यस्योपभोगप्रसक्तिः। न च तदीया- दृष्टजनितेनैव देहादिना तस्योपभोगो नान्यादृष्टजनितेन तेनेति व्यवस्थेति घटते । आत्मनो विभुत्वेऽदृष्टस्यापि प्रत्यात्मनियतत्वानु- पपत्तेः । पञ्चामिविद्यादौ चात्मनो गमनं श्रुतमिति न श्रौतेऽर्थे लाघ- वगौरवचर्चावतारो यथा दृष्टे इति । यत्तु आत्मनां देहपरिमाणत्वं जैनैरुच्यते-पिपीलिकाशरीरे पिपी- लिकापरिमाणो गजशरीरे गजपरिमाण इति । तदपि न । आत्मनः सङ्कोचविकासरूपावस्थास्वीकारे स्वरूपान्यथाभावलक्षणस्य विका- रस्य प्रसत्तेः । किञ्च योगिभिः युगपव्यवहितदेशस्थानेकशरीरपरिग्रहे आत्मनो भिदुरत्वापत्तिः । क्रिश्च मुक्तौ परिमाणविरहः प्रसज्यते स्वदेहाधीने परिमाणे। परिमाणसिद्ध्यर्थमेव मुक्तौ कस्यचिद्देहस्य परिग्रह इच्छाभोगाद्यभावेऽपीति त्वगतिकगतिः । अत आत्मनः परिमाणं किञ्चित्स्वाभाविकं मुक्तिकालिकमेष्टव्यम् । तस्यात्मनश्च नित्यत्वाद्वन्धावस्थायामपि तत्परिमाणमेव युक्तम् । तथा च सूत्रम्- 'अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः' इति । उक्तं च तत्वमु- मानमेयप्रकाशिकायां [प्रमेय- काकलापे-'नारमा देहानुरूपं विविधपरिणतिनिर्विकारोक्तिबा- धात् स्थूलोऽहं मूर्ध्नि जातं सुखमिति च मतिस्तस्य देहात्म- मोहात् । नानादेहश्च योगी प्रसजति भिदुरः पुंसि देहप्रमाणे मुक्तौ देहात्ययात्स्यात्परमिति विरहस्तत्प्रयुक्तेऽस्य माने । निर्मुक्तस्त्वन्मते स्यात्कथमपरिमितो नित्यमूर्ध्व प्रधावन् देहा कश्चित्तदानीमपि यदि नियतः स्यात्तु तन्निन्नतास्य । इच्छातो देहमेकं विशति स परमित्यर्थमेवेति हास्यं तस्मादस्माकनी- त्या परिमितिरिह सा स्थायिनी या विमुक्तौ ।।' इति । आत्मनो नित्यत्वम् । नित्यश्वायम् । तथा च श्रूयते- 'न जायते म्रियते वा विप- श्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ।।' 'नित्यो नित्यानां चेतनश्चेतनानाम् 'अविनाशी वाऽरेऽयमात्मा' 'ज्ञाज्ञौ द्वावजौ' इति । गीतायां च देहस्य विना- शित्वं आत्मनो नित्यत्वं च विस्तरशोऽस्ति वर्णितम्-'अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चि- स्कर्तुमर्हति ॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युद्ध्यस्व भारत ॥' इत्यादिना । 'यासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोड- पराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।" इति षस्वयात्मनः पूर्वपूर्वदेहपरित्याग- प्रकाशे] •जीवपरिच्छेद २४५. पूर्वकमुत्तरोत्तरनानानूतनदेहपरिग्रह उच्यते । देहपातानन्तरभाविख- र्गादिफलसाधनविधयश्च भोक्तुरात्मनो नित्यत्वमन्तराऽनुपपद्यमाना नित्यत्वमाक्षिपन्ति । किश्च सर्गाद्यकालिकविषमसृष्टेः पूर्वपूर्वकल्पी. यजीवीयकर्मवैचित्र्यहेतुकताया वाच्यतया सिद्धे जीवस्यानादित्वेऽ.. नादिभावस्य आत्यन्तिकस्वरूपोच्छेदायोगान्नित्यत्वमपि सिद्ध्यति । जीवस्यानादित्वमपि 'प्रकृतिं पुरुष चैव विद्ध्यनादी उभावपि' इत्युक्तम् । आत्मनामनित्यत्वे तु कृतहानाकृताभ्यागमप्रसङ्गो मोक्ष- शास्त्राणां चासामञ्जस्यं भवेत् । आत्मनोऽनुत्पत्तिमत्त्वं सूत्रकृवाऽपि समर्थितम्-'नात्मा श्रुतेनित्यत्वाच्च ताभ्यः' इति । नित्यस्यापि जीवस्य सूज्यत्वजातत्वादिव्यवहारास्तत्तदेहयोगादिविशिष्टवेपाभि- प्रायेण नेतव्याः। सत्सङ्गिजीवने चोक्तं नित्यत्वादि-नानादुःखवि- कारात्यो योऽयं देहोऽस्ति देहिनाम् । आत्मा ततोऽस्ति भिन्नो वै निर्विकारः सुखात्मकः ॥ अच्छेद्योऽसावभेद्यश्च नित्योऽजा शाश्वतोऽक्षरः । देहेन्द्रियान्तःकरणदेवतासुप्रकाशकः ॥' इति । हरिवाक्यसुधासिन्धौ च-'श्रुतौ हि नित्यो नित्यानामिति तन्नित्यतोदिता । नत्वेवाहं जातु नासमित्यादौ च स्मृता- वपि ।' 'अतो नित्याश्चेतनाश्च जीवा ईशाश्च सर्वशः। कृष्णादिन्ना भवन्तीति श्रीभाष्ये निर्णयः कृतः ॥' 'जीवाः. स्वरूपतो नित्याः कृष्णाद्भिन्नाः परस्परम् । असंलग्नाश्च विजे- या चिद्रूपा माययाऽऽवृताः ॥' 'उत्पत्तिराविर्भावश्च तिरो- भावो लयः स्मृतः । कृष्णेच्छयैव जीवादेर्जन्मनाशौ तु नः कचित् ।।' 'नित्यसिद्धा एव जीवा मायायां सन्ति सर्वशः। पृथिव्यामिव वीज़ानि ते नोद्गच्छन्ति नूतनाः ॥ इति ।। , २४६ मानमेयमकाशिकायां [प्रमेय- आत्मनां भेदः। भिन्नश्वारमा प्रतिशरीरम् , सुखदुःखादिवैचिश्यात् । अयं च पुरु- पभेदः सर्वैरपि वेदप्रामाण्यवादिभिर्दर्शनकारैरभ्युपगतः । श्रीहरि- णाऽप्यभ्युपगतः 'एकैकस्मिन्नतोदेहे जीव एकैक एव हि' इति । अनभ्युगम्य पुरुषभेदं बन्धमोक्षव्यवस्था दुरुपपादा । ननु निपिध्यते शरीरभेदेऽप्यात्मभेद:-'यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिव- सत्तम । तदैषोऽहमयं चान्यो वक्तुमेवमपीप्यते ।।' 'तस्यात्म- परदेहेषु सतोऽप्येकमयं हि यत्' इति । मैवम् । प्रकारभेदनिषे- धपरत्वाद्वचनस्य । प्रतिशरीरभिन्नानामपि जीवानां स्वरूपं ह्येकरू- पम् । सर्व एव हि विज्ञानकाकाराः। देवत्वमनुष्यत्वादिभेदः सर्वोऽयं शारीर इति । व्यक्तं चैतत्तत्रैव-'चतुर्विधोऽपि भेदोऽयं मिथ्या- ज्ञाननिवन्धनः । देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हि सः॥' इति । प्रकारक्यमभिप्रेत्य च भवति एकशब्दप्रयोगो भेदनिपेधश्च अयमयं चैको व्रीहिरिति, अयं श्रीहिरस्माद्वीहेर्नान्य इति च । वैपम्य- प्रतिपेधपराणीदृशानि वचनानीति यावत् । केचिन्मन्यन्ते-आमोक्षं जीवभेदः, मुक्तौ तु ब्रह्मभावेन न भेद इति । नैवम् । अस्येव मु- क्यवस्थायामपि भेदः । तथा च श्रूयते 'तदा विद्वान पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इति । स्मयते च-'मम साधने य॑मागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।।' इति । 'निर्दोपं हि समं ब्रह्म' इति च निरस्ताविद्यादिदोपाणामा- स्मनां परस्परं साम्यमात्रमुच्यते नाभेदः । 'यथोदकं शुद्ध शुद्ध- मासिक्तं तादृगेय भवति । एवं पुनर्विजानत आत्मा भवति गौतम।। इति कठतौ च प्रक्षसारुप्यमेव मुक्कावुच्यते । दृष्टान्तेऽपि .

प्रकाशे] जीवपरिच्छेदः। २४७ जलयोहि न स्वरूपैक्यम् । प्रामरूपाविर्भावादेव च भषति ब्रह्मणाऽभे- व्यवहारो 'ब्रह्म वेद ब्रह्मैव भवति' इति । सूत्रकारैरपि 'सुषुप्त्यु- मान्त्योभैदेन' 'मुक्तोपमृप्यव्यवदेशाच' इत्यादिना मुक्तावपि भेद उक्तः। मुक्तस्य भोगमात्रसाम्यं परमात्मना नतु जगत्कारणत्वा- दीति च 'जगद्व्यापारवर्ज' 'भोगमात्रसाम्यलिशाच' इति सूत्रयो- वर्णितम् । न च मुक्तो भेदश्रुतीनामर्वाचीनमुक्तिविषयत्वं न तु परममु- क्तिविषयत्वमिति वाच्यम् । प्रजापतिवाक्यानन्दवयादिपु परममु- क्तावपि भेदस्य प्रतिपादितत्वात् । सर्वोऽप्ययमर्थः सत्सगिजीवने स्फुटमुक्त-'भेदो हि वास्तवो नूनं जीवेशब्रह्मणां हरेः। नित्यानां नित्य इत्यादिश्रुतिभिः प्रतिपादितः । ब्रह्मवित्परमानोती- त्येषा श्रुतिरपि स्फुटम् । प्राह ब्रह्मविदां सेव्यं परं ब्रह्मेति सन्मते ॥ आत्मा शरीरं यस्यास्ति नैवात्मा वेत्ति यं तथा। य आन्तरो यमयति ह्यात्मानममृतः प्रभुः ॥ शरीरमक्षरं यस्य नैव यं वेत्ति चाक्षरम् । आन्तरो यो यमयति यक्षरं सोऽमृतः प्रभुः ॥ इत्याद्यर्थाः श्रुतिगणास्त्वक्षरब्रह्मणोऽपि च । प्राहुः कृष्णशरीरत्वं तद्भिन्नत्वं तथा स्फुटम् ॥' इति । आत्मन आनन्दित्वम् । आत्मनः स्वाभाविकमानन्दित्वमेव, 'ज्ञानानन्दमयस्त्वात्मे'- त्यानन्दमयत्वप्रतिपादनात् । कर्मोपाधिकरतु दुःखान्ययः । तथा चोक्तं विष्णुपुराणे 'निर्वाणमय एवायमात्मा ज्ञानमयोऽमल' इति । 'अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिःसा वेष्टिता नृप सर्वगा । संसारतापानखिलानवा- मोत्यतिसन्ततान् । इति च । तथा च वर्णितमात्मस्वरूपं मानमेयप्रकाशिकायां प्रियेय- श्रीमद्यामुनमुनिभिः-'देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसा- धनः। नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ॥" इति । हरिवाक्यसुधासिन्धौ च 'आत्मैकः सुखरूपोऽस्ती'त्युक्तम्। आत्मनो भगवच्छेपत्वम् । भगवच्छेषभूतश्चायमात्मा। तथा च श्रुतिः-'यस्यास्मि न तमन्तरमि' 'पतिं विश्वस्यात्मेश्वरम्' इत्यादिः । 'यस्यात्मा शरीरम्' इति च भगवच्छरीरत्वमात्मनः श्रूयते । अतोऽप्यात्मनः परमात्मशेषत्वं लभ्यते । शरीरं हि शरीरिणोऽतिशयाधायकत्वात्त. च्छेपभूतम्। 'ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः' 'पर- पानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते' 'दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः' 'दासभूताः स्वतः सर्वे ह्यात्मानः परमा- त्मनः। नान्यथा लक्षणं तेषां वन्धे मोक्षे तथैव च ॥' 'स्वोजी- वनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । आत्मदास्यं हरेः स्वाम्यं स्वभावं च सदा स्मर ॥' 'स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम् । उभयोरेप सम्बन्धो न परोऽभिम- तो मम ।' 'अहमात्मा न देहोऽस्मि विष्णुशेपोऽपरिग्रहः ।' इत्यादीनि अध्यात्मशास्त्रवचनानि च शेषशेपिभावं जीवपरयोरावेद- यन्ति । अयमर्थः सत्सगिजीवने 'ब्रह्माहं कृष्णदासोऽस्मि' इत्यनेनाष्टाक्षरमन्त्रेण ज्ञापितः । ननु शेपत्तस्य दुःसरूपत्वान्न जीवस्वरूपानुवन्धित्वम् । तथात्वे हि आनन्दमयत्यगस्य खरूपमुपसद्धयेत । मैवम् । कर्मोपाधिकस्यैव शेपत्वस्य दुःसरूपताया दर्शनात् । किञ्च स्वामिनो दुर्गुणत्वे हि तच्छे- पत्वं दुःसरूपं भवति । मुगुणत्वे तु तदेवानन्दाय स्यात् । यथा . प्रकाशे] जीवपरिच्छेद। २४९ या सत्याः सुगुणभत्रनुवृत्तिर्महते मोदायैव कल्पते, एवं भगवच्छे- पत्वमप्यमन्दानन्दायैव भवतीति । तथा चाभ्यधायि तत्त्वसारे वात्स्यवरदगुरुभिः-'शेपत्वं ननु दुःखमीक्षितमतो मुक्तेषु युक्तं न तन्मैवं माधवदास्यमौपनिपद जागर्ति भूयः प्रियम् । धर्मिग्राहकमानधीक्षतमतस्तहुःखतासाधनं यद्वा तव्यतिरि- कदास्यमसुखं साध्येत सिद्धं हि तत् ॥' इति । अध्यात्मशा- खसारभूतोऽयमर्थः । अत एवोक्तं श्रीभागवते-'सेवानुरक्तमन- सामभवोऽपि फल्गुः' 'मत्सेवया प्रतीतं च सालोक्यादिचतु- ष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविद्रुतम् ॥ 'नैकात्मतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः।' 'अपवर्गमात्यन्तिकं परमपुरुषार्थमपि नो एवाद्रियन्ते भग- वदीयत्वेनैव परिसमाप्तसर्वार्थाः' इत्यादि । भगवच्छेपत्त्व- स्थात्मस्वरूपत्वादेव स्वरूपानुरूपो मोक्षपुरुषार्थों भगवत्सेवैवेत्युक्तं शिक्षापत्र्याम्-'कृष्णसेवा मुक्तिश्च गम्यताम्' इति । हरिवाक्य- सुधासिन्धौ च-'आत्माहं ब्रह्मरूपोऽस्मि महापुरुपसेवया । तथाविधोऽपि कृष्णस्य दासोऽहं राधिकापतेः ॥' देहत्रय- पृथक्सत्तारूप आत्मैव केवलम् । हरिदासोऽहमस्मीति वेदनं ज्ञानमुत्तमम् ॥' 'सचिद्रूपः स एवास्मि हरेर्दासः सदा शुचिः । विलक्षणोऽतिमलिनात् क्षेत्रादस्मि जडादहम् ।' 'ब्रह्माऽहं कृष्णदासोऽस्मीत्येवं यस्य निश्चयः । सुदृढी जायते तर्हि मुक्तसंज्ञामुपैति हि ॥' इति । आत्मधर्मभूताश्च अणुत्वशेपत्वादयः शास्त्रतो ज्ञायन्ते न पुन: स्वयंप्रकाशात्मकस्वस्वरूपत एव । प्रत्यक्त्वानुकूलत्वैकत्वैरेव स्वयं- २५० मानमेयप्रकाशिकायां [प्रमेय प्रकाशमानत्वादात्मनः । अत एवात्मनि नित्यत्वानित्यत्वविभुत्वाणु- त्वादिषु विवादः स्वयम्प्रकाशेऽपि घटते । आत्मा देहादिव्यतिरि- कोऽजडत्वात् , आत्मा अणुर्निरवयवत्वे सति क्रियावत्त्वात् इत्या- धनुमानगोचरोऽपि भवति । परशरीरं सात्मकं चेष्टावत्त्वात् इत्या- धनुमानेन च भवति ग्रहणं परात्मनः। योगजधर्मसंस्कृतेन च मनसाऽणुत्वशेपत्वादिविशिष्टः स्वात्मा साक्षाक्रियते । यथोक्तमात्म- सिद्धौ-'एवमात्मा स्वतः सिद्ध्यन्नागमेनानुमानतः। योगाभ्या- सभुवा स्पष्टं प्रत्यक्षेण प्रकाशते ॥' इति । न च ज्ञानान्तर- गोचरत्वे स्वयंप्रकाशत्वविरोधः । ज्ञानान्तरं विनाऽपि प्रकाशमान खरूपत्वलक्षणस्य स्वयंप्रकाशत्वस्याकारविशेपावगाहिज्ञानान्तरवि- पयत्वेन विरोधाभावात् । एवमात्मा स्वयंप्रकाशतया मितिरूपो ज्ञानविपयतया मेयो ज्ञानाश्रयतया माता च भवति । तदुक्तं प्रज्ञा- परित्राणे-'प्रमाता च प्रमेयं च प्रमाणं च भवेत्पुमान्' इति । प्रमाणमिति भावे ल्युट् । प्रमारूप इत्यर्थः । धर्मभूतज्ञानं तु स्वयम्प्रकाशतया मितिरूपं ज्ञानान्तरविषयातया मेयं च भवति । न मार । घटादयस्तु मेया एव । तथा चोक्तं तत्रैव 'प्रमा मेया च धीरेव मेया एव घटादयः ॥ इति । एवमेवात्मस्वरूपं वर्णितं भगवता शिक्षापत्र्याम्-'हृत्स्थोऽणु- सूक्ष्मश्चिद्रूपो ज्ञाता व्याप्याखिलां तनुम् । ज्ञानशक्त्या स्थितो जीवो ज्ञेयोऽच्छेद्यादिलक्षणः ॥' इति । हृत्स्थ इति शरी- रैपदेशे हत्पद्मेऽवस्थितत्वस्य प्रतिपादनादात्मनः न शरीरादिरूप- त्यमिति व्यज्यते । अच्छेद्यादिलक्षण इति च देहादिवैलक्षण्य- सयपरम् । हृदयस्थस्यापि 'नेत्रस्यं जाग्रतं विद्यात्' इति जाग- प्रकारो] जीवपरिच्छेदः। २५१ रणे नेत्रस्थानत्वकीर्तनं धर्मभूतज्ञानद्वारफेण नेत्रशब्दोपलक्षितबा- घेन्द्रियसामान्याधिष्ठानेनोपपद्यते । न हि जागरणे नेत्रमाने स्थिति: सम्भवति । तथा सति श्रवणायभावप्रसङ्गात् । अतो नेत्रशब्द उपलक्षणमेव । अणोधानेकन युगपस्थितिः खप्रभास्थानीयज्ञान- व्याप्त्यैव घटते । पर्यायेणानेकेन्द्रियसम्बन्धे तु गमनदर्शनादेर्योग- पद्यायोगप्रसङ्गः। वर्णितमेतच्छीभाष्ये-'जीवस्यापि सर्वेन्द्रिय- व्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूते स्थानविशेपे वृतिरिति चक्षुपि नावस्थानम्' इति । सूत्रितं च हृदयस्थानत्वमात्मन:- 'अवस्थितिवैशेप्यादिति चेन्नाभ्युपगमादि हिं' इति । 'गुहां प्रविष्टावात्मानौ हि तदर्शनात्' इति च । स्मृतिश्चान 'द्वासप्ततिः सहस्राणि हृदयादभिनिःसता । हिताहिता नाम नाड्यस्तासां मध्ये शशिनिभम् । मण्डलं तस्स मध्यस्थ आत्मा दीप इवा- जलः ॥' इत्यादिरनुसन्धेया । 'कण्ठे स्वप्नं विनिर्दिशेत्' इति स्वप्ने कण्ठसमीपस्थहृदयानुवन्धिनाडीगमनाभिप्रायम् । 'आसु तदा नाडीषु सृप्तो भवति' इति श्रुतेः । नाडीनां हृदयानुबन्धित्वं च 'शतं चैका च हृदयस्य नाड्यः' इति श्रुतिसिद्धम् । 'सुपुतं हृदयस्थम्' इति च सुषुप्तौ 'हृदयते' इति व्युत्पत्त्या हृदयशब्दि- तपरमात्मसंश्लेपविशेषाभिप्रायम् । 'यत्रायं पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति' 'प्राज्ञेनात्मना सम्परि-. प्वक्तो न वाह्यं किञ्चन वेद नान्तरम्' इत्यादिश्रुतेः। एतेन सुयुप्तावेव हृदयस्थानत्वोक्त्या न जागरणे हृदयस्थानत्वमिति शङ्का निरस्ता । 'तुरीयं मूर्धनि स्थितम्' इति तु परमशरीरा- दुत्क्रान्तिसमयाभिप्रायमेव । 'तासां मूर्धानमभिनिःस्तैका । तयोर्ध्वमायन्नमृतत्वमेति' इतिश्रुतेरित्यास्त्रां तावत् ।

[प्रमेय २५२ मानमेयमकाशिकाय हत्स्थ इत्युक्त्या प्रतिशरीरं जीवभेदोऽपि व्यञ्जितः । हृदयान्त:- स्थानत्वप्रतिपादनादात्मनो न विभुत्वमिति लभ्यते । तर्हि किं मध्यमपरिमाणत्वं नेत्याह 'अणुसूक्ष्म' इति । सर्वत्राचेतने प्रवे? समर्थः । नास्य कुत्रचिद्गतेरुपरोध इति निष्प्रतिधत्वं सूक्ष्मशब्द- स्यार्थः । अणोरप्यात्मनः सर्वगत्ववचनं सर्वत्रापि प्रवेशनसामर्थ्या- भिप्रायमिति च सूक्ष्मशब्दस्य तात्पर्यम् । नन्वस्तु अणुसूक्ष्मत्वं अथापि वैशेपिकनय इव जडरूपोऽस्तु तत्राह 'चिद्रूप' इति । चिदिति भावे कियन्तो ज्ञानवाची प्रसिद्धः । कचित्कर्तरि किबन्तो ज्ञातर्यपि प्रयुज्यते । अथाप्यत्र ज्ञाता इत्यनन्तरवचनात् ज्ञानवा- च्येवायं चिच्छब्द । ननु साङ्ख्यादिनय इव किं ज्ञानमात्ररूपः नेत्याह 'ज्ञाता' इति । ज्ञानाश्रयोऽपीत्यर्थः । ज्ञातेत्यनेन कर्तृत्वं भोक्तृत्वं च विवक्षितम् , अहमर्थत्यमपि । कृतिभो- गयोीनापस्थाविशेषत्याज्ञानस्याहन्त्वसामानाधिकरण्यानुभवाच । नन्वणुत्वे सकलदेहानुयायिवेदनानुपपत्तिस्तत्राह-व्याप्याखिला तनुं ज्ञानशक्त्या स्थितो जीवः' इति । ज्ञानमेव शक्ति:-कार्योप- योग्यपृथक्सिद्धविशेषणं, तेन स्वप्रभास्थानीयेन व्याप्तेः यावदेहप्रदे- शानुयायियेदनोपपत्तिः । आत्मधर्मभूतस्यापि शानस्य यावदेई च्याप्तिः प्रदीपधर्मभूतप्रभाया इय विकासशक्त्या घटते इति भावः । 'अच्छेद्यादिलक्षण' इति चात्मस्वरूपस्य निर्विकारत्वेन नित्यत्व: मपि वियक्षितम् । विसरशो व्याख्यातोऽयं श्लोको भाप्ये । बदुप- संहारगतश्लोकद्वयमाप्रमोदादराम:-'आत्मानं देहमाहुः कतिच; न कतिचिन्द्रियं केचिदाहुर्विज्ञानस्यान्यवायं कतिचन जग- दुनित्ययिशानमात्रम् । प्यन्तकान्तवृद्धाः पुमतिविलसितं . -प्रकाशे] जीवपरिच्छेदः। २५३ सर्वमेतद्विलव्य ज्ञाता कर्ता मिथोऽन्यो हृदिहृदि विलसत्येष इत्याहुरेनम् ॥ स्वयंज्योतिरणः सोऽयमहंप्रत्ययगोचरः । हृद्यः कौस्तुभवद्भूयात्सख्या येन तु चेष्टते ॥ इति । - आत्मन्नविध्यम् सोऽयमात्मा प्रकृतिसंसर्गवान् प्रकृतिसंसर्गप्रध्वंसवान् प्रकृतिसं- सर्गात्यन्ताभाववानिति भवति त्रिवर्गः । आयो पद्धो द्वितीयो मुक्तस्तृतीयो नित्य (अनादिः) इति व्यपदिश्यते । पुण्यवत्त्वं पाप- वत्त्वं सङ्कुचितज्ञानवत्वं चा बद्धलक्षणम् । स्वतमानकालिककर्म- भागभावासमानाधिकरणकर्मध्वंसक्त्त्वं मुक्तलक्षणम् । कर्मात्यन्ता- भाववत्त्वं नित्यासङ्कुचितज्ञानत्वं वा नित्यलक्षणम् । वन्धवर्णनम्। तन कर्मपाशेन प्रकृती प्रमथितो बद्धो नाम भवति केशकर्मवि- पाकाशयदूपितः । प्रकृतिश्च जीवस्यापरिच्छिन्नज्ञानानन्दलक्षणस्व. भावावरणभूता स्थूलरूपा सर्गे सूक्ष्मरूपा च प्रलये सर्वदा तममिस- म्यद्धा स्वपरिणामभूतेष्वेव देहगेहादिपु 'देहतदीययोः । जीवस्य पाहंममताहेतु रित्युतप्रकारेण अहंममताभिमानमुत्पाद्य मोह- यन्ती आमोक्षमेनं न यजति । 'देहयोगादा सोऽपि' इति सूत्रभाष्ययोश्च स्थूलसूक्ष्मरूपप्रकृतिसम्बन्धो जीवस्य स्वरूपाचारको वर्णितः । जीवोपि मायया तिरोहितस्वस्वरूपो देहगेहादिप्येय निरुदाईममताभिमानो यथाभिमानं तत्तदनुवन्धिरक्षणायानयरत प्रवृत्तः सुग्पलयलिप्सया नानाविधाकृत्यकरणादिनाऽनन्तदुःपसागर एव निमजनपसीदति । सेयं पदापस्था 'समाने वृक्ष पुरुपो निम- प्रोऽनीशया शोचति मुह्यमानः' इति भुवो वर्णिता समा TA मानमेयप्रकाशिकायां [प्रमेय सतः । कर्मणा देहसम्बन्धस्ततो मिथ्याज्ञानं ततः पुनः कर्म तेन देहसम्बन्धः पुनरियेवं चक्रवत्परिवर्तमानोऽयं संसारोऽनादिः। पुण्यपापरूपकर्मानुसारेण चास्योचायचविविधविचित्रसाध्वसा- घुयोनिप्राप्तिः श्रूयते-'साधुकारी साधुर्भवति पापकारी पापो भवति' 'पुण्यः पुण्येन कर्मणा पापः पापेन' 'तद्य इहरमणीय- वरणा अभ्याशो ह यत्ते रमणीयां योनिमापोरन् ब्राह्मणयोनि क्षत्रिययोनि वैश्ययोनि वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापधेरन् श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा' इति । शरीरं च चतुर्विधं देवतिर्यमनुष्यस्था- वरभेदेन हेतुभेदेनापि भवति चतुर्धा जरायुजमण्ड स्वेदजमुद्भिज चेति । 'तेषां खल्वेषां भूतानां त्रीण्येव वीजानि भवन्त्यण्डजं जीवजमुनिजम्' इति श्रुतावुद्भिजशब्देनैव स्वेदजस्यापि ग्रहणम् । तथा च सूत्रं-तृतीयशब्दावरोधः संशोकजस्य' इति । एकैक- वैकविंशतिलक्षावान्तरविधाभेदागवति योनीनां चतुरशीतिसङ्ख्या- कत्वमिति च सत्सङ्गिजीवनेऽवर्णि-'जरायुजाण्डजोद्भिजस्वेद- जाख्याः खनीश्च ते' इति । 'योनीश्चतुरशीतिं च लक्षाणि पुनरेव ते' इति च । सर्वोऽप्ययमों हरिवाक्यसुधासिन्धौ स्पष्टमुक्तः-- 'केचित्सत्त्वमया जीयाः सन्ति केचिद्रजोमयाः। केचित्तमो- मयाः सन्ति तद्गुणाः कर्महेतवः॥ तेषां गुणानुरूपाणां कर्मणा- मीश्वरः फलम् । ददाति तादृशान् देहान् दत्त्वोच्चमध्यमाध- मान् ॥ जरायुजानण्डजांश्च स्वेदजानुदिदस्तथा। दत्ते देहान् यथाकर्म न चैपम्यं स्वतः प्रभो॥' 'चतुरशीतिलक्षाणि श्रूयन्ते देहजावयः।अनुभूता हिताः सर्वाः सर्वैरपि च देहिभिः॥' इति ।

प्रकाशे] जीवपरिच्छेदः २५५ जीवत आध्यात्मिकादिदुःखं मृतस्य च नरकदुःसं वाचाम- गोचरम् । आध्यात्मिकादिदुःखत्रयस्य निदर्शनं चोक्तं स्मृतौ 'सकु- हुम्बः क्षुधाविष्टो दुर्जनेनाथ ताडितः । पातितो ज्वलिते वही क्रमात्रियु निदर्शनम् ॥' इति । ससारदुःखं च वर्णितं सत्सङ्गिजी- यने हरिगीतायां 'गर्भवासमहादुःखं जन्मदुःखं ततो महत् । व्याधिदुःखं जरादुःखं मृत्युदुःखं पुनः पुनः॥ आध्यात्मि- कादि त्रिविधं दुःखं मातश्च ते जनाः । यथाकर्म लभन्ते वै रुदन्तो भुञ्जते च तत् ॥' इति । 'यमदूतकरान् प्राप्य मह- तीर्यान्ति यातनाः' इति च । एवं जागरणावस्थायां दुःसान्वय उक्तः । खमेऽपि जामद्दशावद्भयहेतुपदार्थदर्शनं वर्ण्यते-'ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नः ताव- ताऽणिना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहि- तस्य (अन्नरसस्य ) पूर्णाः अथ यत्रैनं नतीव जिनन्तीव हस्तीय विच्छाययति गर्तमिव पतति यदेव जाग्रदयं पश्यति तदनाविद्यया ( कर्मणा) मन्यते' इति । तथा स्वप्रार्थानामपि वाह्यार्थानामिव सत्यत्वमीश्वरसृष्टत्वं च 'यानि ह्येव जाग्रत्पश्यति तानि सुप्तः' 'न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पधः सृजते.. हि कर्ता' इति श्रुतिसिद्धम् । अव एव स्वमेऽपि जीवस्यासनगमनकर्मकरणादी- नामपि श्रूयमाणानामुपपत्तिः । ईश्वरो जीवानामतिपरिमितपुण्य- पापफ्लं खप्ने तत्कालमानासानपदार्थसध्या प्रयच्छतीति श्रीमाप्ये यर्णितम् । खप्ने सुसान्वयवद्दुःसान्ययस्यापि दर्शनान्न स्वाप्निकममि रूपं जीयस स्वाभाविकम् । अत एव उपदिष्टेऽपि तस्मिन् 'नाह- [प्रमेय 7 २५६ मानमेयप्रकाशिकायां मत्र भोग्यं पश्यामि इति इन्द्रस्यांतृप्त्या पुनरात्मस्वरूपाव जिगमि- पया प्रश्नः प्रजापति प्रति । अथ या सुषुप्त्यवस्था करणप्रामाद्यधिष्ठा- नेनायस्तस्य विनान्यर्थी तत्र यद्यपि न भयदर्शनं अथापि स्वर- विज्ञानाभावाचेतनस्यासत्समत्वान्न सौपिप्तिकमपि जीवस्य स्वाभा- विक रूपम् । अत एवोपदिष्टेऽपि तस्मिन्निर्भये इन्द्रस्य न तत्रा- दरः । तथा च श्रूयते-'नाह खल्वयमेवं संप्रत्यात्मानं जानाति अयमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमन भोग्यं पश्यामि' इति । अथेन्द्रस्यात्मस्वरूपोपदेशयो- ग्यतामवधार्य स्वाभाविकमपहतपाप्मत्वादिरूपं निर्दिष्टम् । अना- दिकर्महेतुकाचित्संसर्गात्स्वाभाविकस्यापि रूपस्यावृतत्वात्तु जीवस्य बन्धावस्थेति यावत् । तथा च श्रूयते तत्रैव-'यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिन् शरीरे प्राणो युक्तः' इति । 'आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः। प्राणिनः कर्म- जनितसंसारवशवर्तिनः ॥' इत्युक्तप्रकारेण मन्विन्द्रचतुर्मुखप्रभू- तीनां भूरादिलोकत्रैलोक्यचतुर्दशलोकेश्वराणामपि बद्धत्वमेव । एते चाधिकारिकपुरुषाः । एषु निष्पन्नभगवड्याना अपि प्रारब्धफल- तया तत्तत्पदेपु निष्ठिताः प्रारब्धं भोगेन क्षपयित्वा मुक्ति प्रामुवन्ति । तथा च सूत्रं 'यावदधिकारमवस्थितिराधिकारिकाणाम्' इति । पुण्यवशाचतुर्मुखलोकं प्राप्तानामपि तत्रैव कृतपरब्रह्मस- माधीनां सह ब्रह्मणा प्रतिसश्चरे मुक्तिः स्मर्यते 'ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसश्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।।' इति । .

प्रकाशे] जीवपरिच्छेदः। २५७ पद्धेषु बुगुचममुभुभेदाद्वैविध्यं भवत्यधिकारिणाम् । ऐहिकामु- मिकफलभोगेप्सवो बुभुक्षवः । ये पुनरनाहतशास्त्रप्रमाणाः प्रत्यक्ष- कशरणा ग्राम्यभोगैकासक्ताः पशुसधर्माण; तान् वयमत्र वुमुक्षु- शब्देन न निर्दिशामः । ये तु धुभुक्षया त्रयीधर्ममनुप्रपन्नास्त एवेह बुभुक्षव इति निर्दिष्टाः । पुण्यकर्मणां च धूमादिमार्गेण धुलोकप्राप्ति- स्तत्रामृतमयदेवशरीरप्राप्तिपूर्वकः वर्गानुभवस्ततः क्षीणे पुण्ये पुनः कर्मभूमि प्रति प्रत्यावर्तनं च वर्णितं छान्दोग्ये। 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रानेरपरपक्षं अपरपक्षाद्यान् पडूदक्षिणैति मासास्तान नैते संव- त्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमा- कांशाच्चन्द्रमसम्' इति तावद्भूमादिमार्गेण चन्द्रलोकप्राप्तिःश्रूयते । 'एप सोमो राजा' इति च देवशरीरप्राप्तिः। तस्मिन् यावत्सम्पा- तमुपित्याथैतमेवाध्वानं पुनर्निवर्तन्ते' इति च पुनरावृत्तिः । एकादशेन्द्रियप्राणसंयुक्तः भूतसूक्ष्मः सम्परिप्वक एवायं संसारे परिभ्रमतीति घ तदन्तरपतिपत्याधिकरणे नितम् । तस्मिन्नेत- स्मिन्नन्नी देवा श्रद्धां जुहति' 'इति तु पञ्चम्यामाहुतावापः पुरुपवचसो भवन्ति' इति जीवसम्यन्धिनां श्रद्धापशब्दोपलक्षि- तानां भूतसूक्ष्माणां स्थूलशरीररूपपरिणामअयणाद्भूतसूक्ष्गसहितत्वं जीवस्य गमनागमनयोः सिद्धम् । 'तमुत्क्रान्त'मित्यादिभुत्या पेन्द्रियप्राणसाहित्यम् । सोऽयमिन्द्रियप्राणभूतसूत्मसाहातः सूदन शरीरमित्युच्यते। महाप्रलये तु भूतसूक्ष्मादीनां विलयेऽपि फर्माज्ञान- यासनालक्षणं फारणशरीरमनुवर्तते । सत्सगिजीयने प शरीर- प्रयकरूपं पर्णिवमस्ति-'देदोऽयं स्यूलसंज्ञोऽस्ति मलमूत्रमयोs- मान.प्र.१७ २५८ मानमेयप्रकाशिकायां प्रमेय- शुचिः । सम्बन्धाज्जीवसत्तायास्तस्मिन्प्रेमास्ति देहिनाम् । स्थूलदेहस्य मध्येऽस्ति जीवस्यान्यत्कलेवरम् ।प्राणेन्द्रियमनो- बुद्धिसङ्घातः सूक्ष्मसंज्ञितम् ॥ एतत्सूक्ष्मं वपुः प्रोक्तं धपुपोः स्थूलसूक्ष्मयोः । अन्योन्याश्रय एवास्ति सूक्ष्मस्यान्तश्च कार- णम् ॥ तच्चाविद्यामयं प्रोक्तं युक्तं सञ्चितकर्मभिः बन्धेनाना- दिना तेन जीवस्त्वग्वीजवद्वतः ॥ यथा भूमेश्च गन्धस्य न भावो व्यतिरेकतः । तथा कारणदेहस्य जीवस्य न पृथक्- स्थितिः ॥' इति । पञ्चभूतमात्राणामपि सूक्ष्मशरीरान्तर्भाव उप- लक्षितोऽन । चेतनेन गाढसम्बन्धतः स्थूलशरीरारम्भकत्वतश्च सूक्ष्मकारणयोरपि शरीरपदव्ययहारोपपत्तिः । बुभुक्षाभेदात् भोगसाधनतया परिगृह्यमाणधर्मभेदाच भवन्ति विविधा घुमुक्षवः । सामान्यतस्तु देवतान्तरपरा भगवत्पराश्चेति वैविध्यं यतुं सुशकम् । ईश्वरतनुभूतेन्द्रादिदेवतामात्राराधनपरा: साक्षादीश्वराराधनपराश्चेति यावत् । स्मयते च -'कामैस्तैस्तैर्हत- ज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ यो यो यां यां तनुं भक्तः श्रद्धयाऽचिंतुमि- छति । तस्य तस्याचलां श्रद्धांतामेव विदधाम्यहम् ॥स तया श्रद्धया युक्तस्तस्याराधनमीहते।लभते च ततः कामान् मयैव विहितान् हि तान्॥ इति । 'चतुर्विधा भजन्ते मां जनाः सु- तिमोऽर्जुन । आर्को जिज्ञासुराधी ज्ञानी च' इति च । अन्न 'आतोऽर्थाथी' घेति युगुक्षयो निर्दिष्टा द्विविधाः । आर्यो नष्टे- वर्यपामः । अपरस्तु नूनैश्चर्यकामः । 'जिज्ञासु नीति प गुगु- पायो द्विविधाः । गत जिशामुक्षानुभव मात्रामा फेयः शानी प्रकाशे] जीवपरिच्छेदः। २५९ स्वात्मानुभवसुखेऽपर्यवस्मन् परमपुरुपानुभवसेवारसकामः। ज्ञानी च द्विविधः-साध्योपायनिष्ठः सिद्धोपायनिष्ठश्चेति । कर्मज्ञानाङ्गको भक्तियोगः साध्योपायस्तत्र निष्ठा यस्यायमाद्यः । साध्योपायेन यः प्रसन्नः फलं प्रयच्छति सर्वेश्वरः परमात्मा, तमेवोपायत्वेनाध्यवस्थ परित्यज्य उपायान्तरं तमेव शरणं प्रपन्नाः ये, ते तु सिद्धोपायनिष्ठाः। मोक्षनिरूपणम् । मोक्षश्च मुख्यो गुणमयादस्माद्भवमण्डलाइन्धनागाराद्विनिर्गम- पूर्वकाक्षरधामस्थपरमपुरुपोपसम्पत्यनन्तरभाविस्वस्वरूपाभिनिष्प- त्तिलक्षणस्तदनुभवसेवागमः । तथा च श्रूयते-'एप सम्प्रसादोड- स्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनि- प्पद्यते' इति । परंज्योतिश्च परमात्मा। अर्चिरादिना मार्गेण प्राप्य देशविशेष परमात्मानं समुपसम्पन्नस्य भवति स्वस्वरूपाविर्भावः । अचिरादिमार्गश्च पञ्चाग्निविद्यादिपु श्रुत:-'तद्य इत्थं विदुर्ये चेमेs- रण्ये श्रद्धा तप इत्युपासते तेऽचिपमभिसम्भवन्ति अर्चिपो- हरह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्पडुदतिमासांस्तान्। मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्र- मसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येप देव- यानः पन्था' इत्यादिना । गीतायां च पुण्यकर्मणां गन्तव्यो धूमादि- मार्गः पुनरावृत्तिः, ज्ञानिनां तु अर्चिरादिमागोंऽपुनरावृत्तिश्च प्रतिपा- दिताः-'यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ अग्निोतिरहः शुक्लः पण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥धूमो रात्रिस्तथा कृष्णः पण्मासा दक्षिणायनम् । तत्र । - २६० मानमेयप्रकाशिकायां [प्रमेय चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥' इति । हरिवाक्यसुधासिन्धौ चोक्तोऽर्चिरादिमार्गः 'प्राप्य- मेकान्ति केनैव ब्रह्मधामार्चिरध्वना' इति । सत्सङ्गिजीवनेऽपि निर्दिष्टः 'अचिर्मार्गाधिष्ठितदेवैश्च नियन्ता मुक्तानां वै ब्रह्मगतिं प्रापयितासि' इत्यादौ । विचारितश्च भगवता वादरायणेन शारीर- कमीमांसायामचिरादिपादे । अचिराद्यातिवाहिकदेवताभूयस्तया मार्गस्यार्चिरादिरिति नाम । आतिवाहिकाच पुरुपाः ऋ डीकृताः प्राचार्यै:-'अर्चिरहःसितपक्षानुदगयनाव्दमरुदन्दून् । अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः॥ इति । खस्वरूपं च 'अपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजि- घत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः' इत्युक्तमपहसपाप्मत्या- दिगुणाष्टकम् । अनादिकर्मप्रवाहेणाभिभूतस्यास्य कर्मप्रक्षयेऽभिव्य- क्तिरेव न त्वपूर्वस्वरूपस्योदयः, येनोदितेन विनाशिना भाव्यमि- त्याशङ्कावकाशः । स्मर्यते च स्वाभाविकानां रूपाणामाविर्भावमात्र मुक्तौ न त्वपूर्वाणामुत्पाद इति-'यथा न क्रियते ज्योत्स्ना मल- प्रक्षालनान्मणेः । दोपप्रहाणान्न ज्ञानमात्मनः क्रियते तथा।। यथोदपानकरणाक्रियते न जलाम्बरम् । सदेव नीयते व्यक्ति- मसतः सम्भवः कुतः ॥ तथा हेयगुणध्वंसादववोधादयो गुणा प्रकाश्यन्तेन जन्यन्ते नित्या एवात्मनो हिते।।' इति । गनु स्वाभाविकस्यापि रूपस्याविद्ययाऽमिभूतस्य तदपगमे युक्त आविर्मायः, स एच मोक्ष इति युक्तं नाम । अथ किमन्यदुप- सम्पादनीयम् । 'परंज्योतिरित्यात्मज्योतिरेप परमित्युच्यते, चैत.

प्रकाशे] जीवपरिच्छेदः। न्यैकस्वभावतया प्रकाशकत्वयोगात् । जडाव्यावर्तकं च परमिति । मैवम् । 'तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति उपेग्रुपेययोः पुरुपयोर्भेदो हि स्पष्ट गम्यते । तथा 'ब्रह्मविदाप्नोति परम्' इत्यत्रापि । ब्रह्मविदिति प्राप्ता परमिति च प्राप्यम् । तथा तत्रैवानुपदं तस्यैवार्थस्य विवेचनम्-'यो वेद निहित गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा 'विपश्चिता' इति । तथा तत्रैव 'रसो वैसः रसं ह्येवायं लब्ध्वाss- नन्दी भवति' इति । अयं स इति लब्धृलभ्ययोर्भेदेन निर्देशः । "विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पार- 'मानोति तद्विष्णोः परमं पदम् ॥' इति च अनुकूलेन बुद्ध्याख्य- 'सारथिना शोभने पथि नीयमानस्य रथिन आत्मनो भवाध्वपारभू- 'तविष्णुपदप्राप्तिः प्रतिपाद्यते । 'एतैरुपायैर्यतते यस्तु विद्वां- स्तस्यैप आत्मा विशते ब्रह्मधाम' इति च श्रुत्यन्तरं मुक्तप्रा- 'प्ययोर्धामधामिनोमुक्ताद्भेदं प्रतिपादयतीति । कतिचन ( कापिला) पुनरविगणय्येश्वरं प्रकृतिपुरुषविवेक- मात्रेण कैवल्यलक्षणमपवर्ग पुरुपस्य वदन्तः, अन्ते पुनरेवं वदन्ति-'तस्मान्न वध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति वध्यते मुच्यते च नानाश्रया प्रकृतिः ॥' इति । अपरे (हेरण्यगर्भाः ) पुनः ईश्वरं जगतो निमित्तकारणभूतं तत्मणिधानं च प्रकृतिविविक्तात्मस्वरूपध्यानेऽपवर्गसाधनभूते आरा- दुपकारकतयाऽभ्युपगच्छन्तोऽप्यपवर्गविचारे पूर्वेपामेव पक्षगनु- प्रविशन्ति । उभयेऽप्येते भोगापवर्गयोः पुरुषार्थतामापाततो माद- प्यन्तः तत्त्वतो विचारे सत्प्रतिपेष एव विचारं परिसमापयन्ति।

मानमेयप्रकाशिकायां [प्रमैय: सुखदुःखादि सर्व त्रिगुणपरिणतेर्बुद्धेरेव धर्म इति हि तदभिमतम् । पुरुषस्तु पुष्करपलाशवन्निर्लेपः । यस्तु प्रकृतिपुरुपयोरविवेकस्त- द्विवेको वा सोऽपि तस्या एवेति हि स्वीकार्यम् । अथ बन्धो वा मोक्षो वा कस्य, कस्य वा मुमुक्षा यस्यायमपवर्गः फलं स्यात् । ननु सत्यं पुरुपो निर्लेपः, अथापि प्रकृतिपरिणतेर्बुद्धेः पुंसश्च मिथः सन्निधानानडायामपि चैतन्याध्यासः, तथा पुंसि कर्तृत्वाध्यासो भेदामहमूलको भवति । ततश्च जायते संसरणम् । गृहीते तु भेदे- ऽध्यासः समूलो निवर्तते । सोऽयमपवर्गः । यथोक्तम्-'तस्मात्त- संयोगादचेतनं चेतनावदिव लिङ्गम् 'गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः' 'ज्ञानेन चापवर्गो विपर्ययात्तद्विप. र्यासः॥ इति । एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरि- शेपम् । अविपर्ययाद्विशुद्ध केवलमुत्पद्यते ज्ञानम् ॥ तेन निवृ- त्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् । प्रकृतिं पश्यति पुरुषः प्रेक्षकवट्यवस्थितः स्वस्थः । प्रकृतेः सुकुमारतरं न किश्चिद- स्तीति मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरु- पस्य ।' इति च । कृपाणे प्रतिफलितमुखमलिनतान्यायेन जपाकुसु- मसन्निहितस्फटिकरागन्यायेन चातात्त्विकं पुंसः संसरणमित्येत- पक्षसारः। तर्हि कस्य वेदं संसरणम्। प्रकृतेरेव। 'संसरति वध्यते मुच्यते च नानाश्रया प्रकृतिः।' हन्त तर्हि बद्धो मुक्त इतीयं व्यवस्था विलुप्ता नाम । सत्यम् । पुंस्येपा व्यवहतिरतात्विकी, नानाश्रयायां तस्यां तु साऽस्त्यैव । सैव पुंसः सन्निधानात्स्वस्या- मारोपिततदीयचैतन्यभाया तं तमपेक्ष्य स्वविलासान् प्रदर्शयन्ती सेन विविच्य दृष्टा निवर्वते 'रङ्गस्य दायित्वा निवर्तते नर्तकी ३ प्रकाशे] जीवपरिच्छेदः। २६३ यथा रङ्गात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः। अहो मिथो व्याहतं नुवन् कथं नाम स्वपक्षं स्थाप- यति भवान् । 'पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च ।' इत्यनेन भोगापवर्गों पुंसोऽनुमन्येते । 'तस्मान्न वध्यते नापि मुच्यते' इति प्रतिपिध्येते च । पुनरिदगिह विचारयामः-संसरण- मूलं यो भेदाग्रहः स कस्माद् भेदस्य कस्मिन् वर्तमानस्याग्रहः ?, ननु पुरुपे सतः त्रिगुगाद् भेदस्य । किमस्ति भेदो नाम धर्मः पुरुपे स्वरूपादतिरिक्तः । यद्यतिरिक्तः, सिद्धान्तमङ्गः । अथानतिरिक्तः, चिन्मात्रतया स्वरूपं सदैव प्रकाशते इति कथं भेदाग्रहः । किञ्च- अविक्रिये पुंसि ज्ञानक्रियाकर्तृतारूपं ज्ञातृत्वं नोपपद्यते इति ज्ञातृत्वमपि प्रतिक्षिपतस्तव मते प्रकृतेर्भेदमात्मगतमपि नैव पुमान वेत्तीति सदैव पुंसि भेदामहो निरायाधः । अथ प्रकृतिरेव स्वगतं पुरुपाद् भेदमविज्ञाय संसरति, विज्ञाय विनिवर्तते संसरणात् इति चेद्धन्त पुरुपार्थकथा विलुप्रैव स्यात् । किश्च भेदाग्रहे अन्योन्य- धर्माध्यासे वा मूलतया भवताऽभिमतं प्रकृतिपुरुपसान्निध्यं सदैव सर्वान् प्रत्यविशिष्टमिति नकस्याप्यपवर्गप्रसनः । असी पद्धः अयं तु मुक्त इति व्यवस्थाऽपि दुर्घटा । तथा चोक्तं तत्त्यमुक्ताफलापे- 'नीरूपे विम्बितत्वं क नु भवति कथं रूपशून्यस्य तत्स्यात् नितेपे संसृतिः का कथमतियिशदो निष्क्रियश्चैप मुह्येत् । नित्यं वा किं न मुह्येदुपधिभिरितरैर्वेत्तुं भेदं कथं या को वा मोक्षोऽद्य पुंसः प्रथममपि न सल्यस्य दुःसादिगन्धः। व्यापिन्येकाऽपि साहयः प्रकृतिरभिहिता सर्वसाधारणी सा व्याप्ता जीवाश्च सर्व प्रकृतिपरिणतिर्भोग एपाममीष्टः । सर्वे २६४ मानमेयप्रकाशिकायां [प्रमेय- सर्वस्य भोगाः स्युरिह तत इमे सन्निधानादिसाम्याहुद्धीच्छाये च सर्व प्रकृतिगतमतो न व्यवस्था ततोऽपि ॥' इति । अपरे (अतिनः) पुनरंशतः कापिली प्रक्रियामनुसरन्तः, अंश- तन्ध सौगती प्रक्रिया अतात्विक्या अविद्यायाः सकलभेददर्शनमू- लभूताया निवृत्तिमेव मोक्षं तत्साधनभूतं च तत्त्वज्ञानं तत्त्वम- सीति वाक्यजन्यं ब्रह्माहमस्मीत्यपरोक्षलक्षणमाचक्षते । 'येनाक्षर पुरुपं वेद सत्यम्' इति वेदनीयतया श्रूयमाणं परमपुरुपं सक- लविशेपप्रत्यनीकनित्यचैतन्यमावलक्षणमेकमद्वितीयं सत्यमभ्युपग- च्छन्तः, दृश्यस्यास्य सर्वस्य च तदितरस्य तस्मिन्नधिष्ठाने शुक्ताविव रजतस्याविद्याझल्पिततया मिथ्यात्वं, अविद्याख्यदोपस्यापि तस्येव मिथ्यात्वं वदन्तः, औपनिपदं तत्त्वं योगाचारमतच्छायया नयन्ति । पुरपस्वरूपविशोधने कापिलप्रक्रियामनुसरन्तोऽपि पुरुपबहुत्वे विप्रतिपद्यन्ते । त्रिगुणपरिणतायेव कर्तृत्वं स्थापयन्तोऽपि गुणमयस्य सत्यत्वे विप्रतिपद्यन्ते । दृश्यस्य सर्वस्य मिथ्यात्वं स्वीकुर्वन्तोऽपि मिथ्यात्वनिर्वहणप्रकारे विप्रतिपद्यन्ते । एपां मतेऽपि न बध्यते नापि मुच्यते आत्मा परमार्थतः । अथापवर्गाख्यः पुरुषार्थः कः । ननु प्रपश्चस्वास्य सुखदुःखमयस्याविद्याकल्पितस्य स्वामप्रपश्वस्येव प्रबोधेन ब्रह्मविद्यया समूलस्य निवृत्तिरपवर्गः । हन्त भोः शोभते निदर्शनम् । निदर्शने स्वाप्नदृश इव प्रपश्चदृशः कस्यचित्सत्ता वक्तव्या, यस्य प्रपञ्चदर्शनमूलभूताविद्यान्वयः, विद्यया तदपगमश्च । स पब मते दुर्घटः। या चाविद्यायाः शक्तिरिष्यते आच्छा- दिका विक्षेपिफेति, सया कोऽयमाच्छाद्यते । प्रकाशकरसस्य ब्रह्मण बाच्छादनं नोपपद्यते । यवनिफेव मध्ये स्थित्वाऽऽच्छादयतीति . । .

'प्रकाशे] २६५ . साचा- जीवपरिच्छेदः। चेत् कयोरिति वक्तव्यम् । जीवपरयोरिति चेत् । नैवं भवता वक्तुं शक्यते । न हि जीवो नामान्यः कश्चिदस्ति । अविद्यया ‘कल्पितो जीव इति चेत्, ब्रह्मस्वरूपमाच्छाद्य फल्पयेजीवं, 'जीवं कल्पयित्वा च तं प्रति ब्रह्मस्वरूपमाच्छादये दित्यन्योन्याश्रय- प्रसङ्गः। ब्रह्मवाविद्यया संसरति, तस्यैव संसरणनिवृत्तिर्मोक्ष इति तूपहासास्पदम् । निरस्तश्चायं पक्षः श्रीभाप्ये विस्तरशः। अपरे तु (नैयायिकाः) पुरुपभेदं प्रपञ्चसत्यतां चाङ्गीकुर्वन्तः पारमार्थिकं पुरुपस्व मिथ्याज्ञानान्वयं वन्मूलभूतसुखदुःखान्वयं च स्वीकुर्वन्तः, आत्यन्तिकं दु.खविनाशमपवर्गमाचक्षते । अय- माशयः-अनात्मन्यात्मवुद्धिरविद्या देहात्माभिमानलक्षणा, नादिकालानुस्यूता, तया रागद्वेषलक्षणो दोपः, तेन प्रवृत्तिः, तथा प धर्माधी, ताभ्यां जन्म, ततश्च सुखदुःसान्वयः पुन- मिथ्याज्ञानं च, ततो दोपादि । सोऽयमात्मनो बन्धः । 'न ह वै सदारीरस्य सतः प्रियाप्रिययोरपहतिरस्ति' इति श्रुत्या शरीर- सम्यन्धस्य सुसदुःसान्वयहेतुत्यमवगम्यते । तस्य च धर्माधर्ममूल- फत्वम् , तयोश्च प्रगृत्तिमूलकता, तस्याश्च रागद्वेपमूलकत्यम्, तयोश्च देहात्माभिमानरक्षणाविद्यामूलकता । एवं बन्धमूलहेतोरविद्यायाः श्रवणमननपूर्वरूध्यानपरिपाकनिष्पन्नात्मस्वरूपसाक्षात्कारेण विनाशे फ्रमेण तत्प्रयोज्यानां दोपादिजन्मान्तानां व्यपगमे सचिवानां "प कायव्यूहेन भोगतो नाशादात्यन्तिकदुःसनिवृत्तिलक्षणोऽपयर्ग: थेयल्यायस्थितिरूप भात्मनः सिध्यति । तया प न्यायसूत्र- 'दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्त- रापायादपवर्गः' इति । पेपत्त्याय स्थितिम युरिमुखदुःसैन्यादिसप.

२६६ मानमेयप्रकाशिकायां [ममेय- लविशेषगुणशून्यावस्थितिः । (बुद्ध्यादयो हि क्षणद्वयावस्थायिनी मनःसंयोगादिकारणजन्या:, अपगते शरीरे न बुद्धेरप्युदयावसरः) आत्मस्वरूपध्याननिष्पत्तये ईश्वरोपासनं च करणीयमित्येषां पक्षः। सेयं कैवल्यावस्था पापाणकल्पेति नास्यैकोऽपि स्पृहयेत् । ननु सति ज्ञाने दुःखमवर्जनीयमिति न स्यादस्य वन्धविच्छेदः । कोऽयं नियमो ज्ञानं दुःखं जनयेदिति । ननु विना मनोयोगं न ज्ञानमुत्पद्येत । तस्मिंश्च सति शरीरसम्बन्धः प्राप्तः । तथा सति बद्ध एवायम् । ज्ञानमागन्तुको धर्म इति वदतस्तवायं दोपः । अथ ज्ञाने विनष्टे मुक्तौ कथमयं चेतन इत्युच्येत । 'नहि विज्ञातुः विज्ञातेविपरिलोपो विद्यते' इतिश्रुत्या च ज्ञानस्यानपगमो मुक्ती गम्यते । तत् श्रुतिविरुद्धोऽयं पन्थाः । जैमिनीयाः पुनः केचित् बुद्धिसुखदुःखेच्छाद्वेपप्रयत्नधर्माध- मसंस्काराणामात्यन्तिकनिवृत्तिमात्रलक्षणं कैवल्यमपवर्गमाचक्षते । इयानेव विशेष एषामाक्षपादेभ्यः-ज्ञानापगमेऽपि ज्ञानशक्तियुक्त एव मुक्तात्मा, यतश्चेतन इति । रागद्वेपप्रवृत्तिधर्माधर्मजन्मसुख- दुःखैरविद्यामूलकैः कार्यकारणभावापन्नः संसृतिः, यथावस्थिता- स्मस्वरूपध्यानाकर्पजन्यविशदतमात्मावभासलक्षणया विद्ययाऽ. पवर्गः । सा च विद्या कर्मसमुचिता धर्माधर्मक्षयाय प्रभवति । उक्तं च शानदीपिकायाम्-'सुखदुःखविहीनोऽतो मुक्तः स्वस्थोऽव- तिष्ठते । किमिदं स्वस्थ इति, ये ह्यागमापायिनो धर्माः बुद्धिसु- सदुःसेच्छापप्रयत्नधर्माधर्मसंस्कारास्तानपहाय यदस्य नै रूपं झानशकिससच्यत्यादि तस्मिन्नवतिष्ठते इत्यर्थः । ... तस्मात् मुरादुःसादिसमस्तवैशेपिकगुणोच्छेदो मोक्षः, सुखदुःसोच्छेदश्य प्रकाशे] जीवपरिच्छेदः। २६७ धर्माधर्मयोरुच्छेदात्, धर्माधर्मयोरुन्छेदश्च उत्पन्नानां धर्माध- र्माणामुपभोगेन नित्यनैमित्तिककर्मानुष्ठानेन आत्मज्ञानेन च, उत्पा- द्यानां च काम्यानुष्ठाननिमित्तानां धर्माणां तदननुष्ठानेनानुत्पादात्, विहिताकरणप्रतिपिद्धानुष्ठाननिमित्तानां चाधर्माणां विहितागुष्टानेन प्रतिपिद्धाकरणेन च परिहारात्, असति शरीरारम्भे पूर्वशरी- रनिपाते चाशरीरोऽवस्थितो मुक्तो भवति ।' इति । ननु कथम- भावस्य पुरुषार्थता । कुवो न पुरुपार्थता । दुःखामिहतो भीत- मीतो दुःखतस्तदपगमं प्रार्थयेवैव । सुखमपि धर्ममूलकं शरीर- सम्बन्धसापेक्षं दुःखमिव । विवृतं चैतत् शास्त्रदीपिकायाम्- 'दुःखपरिलोपाच पुरुषार्थत्वम् । सुखपरिलोपादपुरुषार्थत्वमिति चेत-नैवमल्पं हि संसारे सुखं तदपि सूरयः । वहुप्रयाससाध्य- त्वात् दुःखमेवानुजानते ॥ जन्ममृत्युजराव्याधिदुःखान्यनु- दिनं नृणाम् । स्वयमेव विना यलानिपतन्ति सहस्रधा ।। विहिताकरणात् नित्यं प्रतिपिद्धनिपेवणात् । महदामुष्मिकं दुःखं यन्नरैनैव गम्यते ॥ बहुदुःखपरिवतं यन्नाम स्वल्पक सुखम् । सुरापानादिसुखपत् वर्जनीयं विवेकिनाम् ॥ एवं. भूतेऽपि संसारे ये रक्ताः सुखतृप्णया । न तेपामधिकारोऽ.. स्ति मुक्तिशास्त्रे कथश्चन ॥ संसारादुद्विजन्ते ये दृष्टलोकप- रावराः। त एव खलु मुच्यन्ते न तु यः प्राकृतो जनः ।। तेपामेवापवर्गाख्यः पुरुषार्थो महात्मनाम् । तेषामेवाधिकारश्च मुक्तिशाखे मनीपिणाम् ॥ तेनाभायात्मकत्वेऽपि मुकिर्नापुर- पार्यता । सुखदुःसोपभोगो हि संसार इति शब्द्यते ॥ तयों- रनुपभोगं तु मोक्ष मोक्षविदो विदुः॥ इति ।

. मानमेयप्रकाशिकायां [प्रमेय- • मुक्तिस्वरूपं तत्तद्वाद्यभिप्रेतं प्रदर्शितम् । सर्ववन्धविनि- र्मोकपूर्वकैवल्यसंस्थितिः॥ मुक्तिर्मतेतैः संसारनिवृत्त्यकाभि- लापुकैः । सत्यमेते न जानन्ति स्वरूप प्राप्तमुत्तमम् ॥ शेषिणः 'परिपूर्णस्य गुणैश्वर्यविभूतिभिः । निरस्ताखिलद्रोपस्यामन्दा- 'नन्दमयस्य वै ॥ अनुभूतिसुखं भूरिप्रीत्यानुभवजन्यया । सेवामकृत्वाऽवस्थातुमशतस्य रसात्मकम् ॥ नानासेवावि- धानं च पुरुपार्थमनुत्तमम् । इदमेव तु जीवस्य सत्यं मोक्ष- सुखं महत्॥ प्रमाणवचनान्यत्र निर्दिष्टान्येव चात्मनः। शेप- त्ववर्णने ज्ञेयः श्रीभाप्यादिपु विस्तरः॥ मुक्तस्य सार्वश्यम् । मुक्ता ज्ञानशक्तिमात्रं विद्यते जीवस्य न ज्ञानमित्येतदपि मतं मुक्तावपि सर्वसाक्षात्कारप्रतिपादकश्रुतिविरुद्धम् । श्रुति:-'सर्व ह पश्यः पश्यति' 'एतान् कामान् पश्यन् रमते 'य एते ब्रह्मलोके' इत्यादिः । ननु कामदर्शनं मुक्तेः स्याद्विघात- 'पाम् । मैवम् । अत्र हि काभ्यन्त इति कामा भगवतः कल्याण- गुणा एव विवक्षिताः । नन्वेवमपि 'जक्षत् क्रीडन् रममाण: स्खीभिर्वा यानी ज्ञातिभिर्वा' इत्यादिना प्रतिपन्नं ख्यन्नपाना- 'दिकं स्यात्तथा । नैवम् । यथासङ्कल्पं सर्वकामसिद्धिमात्रस्यापह- तपाप्मत्वादिस्वरूपाविर्भावफलभूतस्यात्र विवक्षितत्वात् । तथा हि त्यन्तरं 'सर्वमामोति सर्वशः' इति । न च भगयदनुभयेकमोगो मुकः फेवलं स्वार्थतया किञ्चिकामयेत सङ्कल्पयेद्वा। भगवदनुभव- 'सेयाशेपतया च सवल्पमात्रष्टाः सर्वेऽपि पदार्या दिव्या एवेति न गुर्विरोधः । प्रायतेप्यन्वय विशेपो हि पन्धः । नत्येपामस्ति तथा च प्रकाशे] जीवपरिच्छेदः। सः। 'नोपजनं स्मरन्निदं शरीरम्' 'न पश्यो मृत्यु पश्यति न रोग नोत दुःखताम्' इति च प्राकृतहेयदेहाद्यदर्शनं श्रूयते इति । मुक्तस्य देहादियोगः। एवं 'स एकधा भवति त्रिधा भवति पञ्चधा । सप्तधा न- वधा चैव पुनश्चैकादश स्मृतः । शतं च दश चैकं च सह- स्राणि च विंशतिः।' इति निरवयवस्याच्छेद्यस्वरूपस्यैकस्यात्मनो मुक्तौ श्रूयमाणं बहुभवनमपि अप्राकृतनानाशरीरयोगलक्षणं भग- वतः सर्वविधसेवोपयुक्तं न मुक्तर्विघातकं वेदितव्यम् । 'न हवे सशरीरस्य' इत्यादिश्रुतेः प्रकरणादुन्धकालिफकर्मकृतमाफवशरीर- योगविपयत्वात् । तस्यैव च दुःसादिहेतुत्यदर्शनात् । त्रिगुण- द्रव्यापेक्षया विलक्षणमप्राकृतमेव द्रव्यं किश्चित् भगवद्दिव्यलोक- नगरधामादिरूपेणाप्राकृतगन्धकुसुमोद्यानादिरूपेण च वर्तमान- मनाद्यनन्तं मुक्तानामैच्छिकरूपाद्याकारेणापि परिणति प्राप्नोति तदा तदेति तु मोक्षशास्त्रप्रक्रिया । मुक्तस्य शरीरादिकमस्ति न वेति विशये 'अभावं वादरिराह ह्येवम्' इति शरीराद्यभावं पादरेरभिमतमुक्त्या, 'भावं जैमिनिर्विकल्पामननात्' इति प शरीरादिभावं 'स एकधा भवति त्रिधा भवति' इत्यादिविक- ल्पोपदेशसिद्ध जैमिन्यभिमतमुक्त्वा, मुक्ती सत्यसङ्कल्पस्य यथा- सङ्कल्पं कदाचिच्छरीरादिभावं कदापिय तदभार स्वाभिमतं प्रद- सिववान भगवान् यादरायणः- द्वादशाहवदुभयविधं यादरा. यणोऽतः' इति । एकस्याणारात्मनो नानादेहेषु व्यातिं पशान- द्वारिकामाह 'प्रदीपवदावेशस्तथाहि दर्शयति' इति । श्रीमाप्ये घ सम्य निरूपितो मुक्तस्य दिव्यदेहेन्द्रिययोगः। ।

२७० मानमेयप्रकाशिकायां [प्रमेय- : तत्त्वविवेकविधुराः केचित्तु मुक्तस्यात्मन एव देहाकारेण स्वरू- पपरिणाम भगवत्सेवार्थ मन्यन्ते । तदसत् । आत्मनोऽणुपरिमा- णत्वस्य श्रुतिस्मृतिसूत्रैः स्वाभाविकत्वसिद्धेः स्वाभाविकाकारावस्था- नलक्षणायां मुक्तौ तस्यैव सम्भवात् । मुक्तावानन्त्यश्रुतिस्तु धर्म- भूतज्ञानस्यानन्त्यपरा व्याख्याता । तत्तु स्वतो विभ्यपि सोच- विकासाहम् । न त्वात्मनः सदैकस्वरूपस्य सहोचो विकासो वा । किञ्च निर्विकारस्य निरवयवस्याच्छेद्यस्य चास्यैव नानाच्यवहित- देहरूपपरिणामे खण्डितत्वं प्रसज्यते करचरणादिसङ्घातात्मकत्वं सविकारत्वं च । (विकारः परिणामः) किश्च चेतनत्वान्न खाद- पपरिणामः सम्भवतीश्वरवत् । अप्राकृवद्रव्यं तु अजडमपि स्वय- मचेतनं सचेतनभूतेश्वरनित्यमुनेच्छानुसारान्नानाऽप्राकृतदिव्या- कारादिरूपेण परिणमतीति युक्तम् । चेतनाचेतनयोरपरिणामि- स्वपरिणामित्वलक्षणस्वभावनियमस्तु नित्यभगवत्सङ्कल्पाधीनः । अतो न तसङ्कल्पतोऽपि मुक्तस्य देहरूपपरिणागसम्भवः । तथा च वर्णितं भट्टपराशरपादैः 'रूपप्रकारपरिणामकृतव्यवस्थं विश्व विपर्यसितुमन्यदसच्च कर्तुम् । क्षाम्यन् स्वभावनियम किमुदीक्षसे त्वं स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः ॥ इति । सस्य तस्य वस्तुनः स्वभावनियमो निरङ्कुशस्वतत्रस्य परमात्मनो नियेच्छासिद्धोऽपर्यनुयोज्य इत्यर्थः । 'अथ नामधेयं सत्यस्य सत्यं माणा वैसत्यं तेपामेप सत्यम्' इति (बृ. उ.) वाक्यव्या. ख्यानावसरे गोपालानन्दमुनिभिरपि भापितं जीवस्थापरिणा- मिल-प्राणा जीयाः सत्यं स्वरूपतोऽचिकृतत्वात् । तेपामेप सत्यम् । सम्पन्धसामान्ये पटी । तेभ्योऽध्येप सत्यं स्वरूपतः प्रकाशे] जीवपरिच्छेदः। २७१ समावतोऽविकृतस्वात् । यहा माणानां सत्यवाप्येतत्सकल्पायत्तेति तेपामेप सत्य मिति । खरूपविकारवत्त्वादचेतनमनृतमुच्यते । खरूपविकाराभावाच जीवः सत्यमिति । तस्याविकारिस्वरूपत्वं च भगवत्सकल्पायत्तमिति भावः । 'गुणापाये ब्रह्मशरीरमेति' 'निरिच्छंस्त्यजति प्राणान् ब्राह्मीं संविशते तनुम्' इत्यादिश्रुति- स्मृतिपु चाप्राकृतदेहप्राप्तिरेयोच्यते न तु स्वरूपतो देहभावः । किश्व-'मुक्तात्मानो दिव्यवस्नभूपणादिभिरुज्ज्वलाः। दिव्य- नगनुलेपायैः शोभमानाश्च वर्णिताः ॥ सच्चिदानन्दरूपाश्च दिव्याङ्गयस्त्रभूपणा: । हरिवाक्यसुधासिन्धौ तथा सत्सङ्गि- जीवने ॥ अप्राकृतेन्द्रियप्राणा दिव्यालङ्कारवाससः । न मुक्तस्य स्वतो वस्त्रभूपादिवहुरूपतः ॥ परिणामो युज्यते हि नित्याखण्डस्य वस्तुनः । किञ्चैवं सति बन्धेऽपि जीव एच प्रप- द्यते ॥ देहादिभावमित्येवं कुतो वा नानुमन्यते । तथा च लोकायतकपक्षादपि जघन्यता ॥ तस्मात्स्वरूपतो नानापरि- णामस्य चेतने । वन्ध एवासम्भवे तु मुक्तौ स्यात्सम्भवः कथम् ॥ मुक्तस्य वस्त्राभरणस्थानादिवहुरूपतः । विवर्तते च यद्वस्तु विशुद्धं भास्वरं स्वतः ॥ तदेव देहरूपेण मुक्तस्य भवति ध्रुवम् । स्पष्टं चैतत्सम्प्रदायग्रन्थेप्वरित निरूपितम् ।। तथाहि-हरिवाक्यसुधासिन्धौ मुक्तस्याप्राकृतपरप्रकृतितो देहः प्रादुर्भवति, तेन सङ्गतो भगवतः सेवायां वर्ततेऽयमिति वर्णना- मुक्ती देहदेहिभेदः स्पष्टं प्रतीयते-'कृष्णेच्छयाऽथ दिव्योऽसौ परामकृतितो मुने । आविर्भवति देहो ये तेन संयुज्यते च सः॥' इति । विवृतं च टीकायां-"अथ-अनन्तरम् । अस्स-चिद्रूपस्य ૨૭૨ मालमेयप्रकाशिकायां [प्रमेय जीवस्य । कृष्णेच्छया-सम्यगुपासितश्रीहरिसङ्कल्पेन । पराप्र- तित:- अक्षरब्रह्मात्मकपराप्रकृतेः सकाशात् । देहः-जामयतनुः ।, आविर्भवति । सः-एवंभूतो भगवद्दतात्मा । तेन-आविर्भूतत्रया- शरीरेण सह संयुज्यते--पदमिमानयुक्तो भवति । 'गुणापाये ब्रह्मशरीरमेति' इति श्रुतेः" इति । अन्नाभिमान्यभिमन्तव्यमा- वोक्त्या देहात्मनोमदो लभ्यते । स्वरूपस्यैव परिणाम को वाऽभि- भन्ता किं वाऽभिमन्तव्यम् । 'ते स्निग्धभक्ता देहान्ते गत्वा भागवतं पदम् । कृष्णेच्छानुसृतान् देहान् प्रागुवन्ति हि निर्गुणान् ॥ तादृशास्ते ततो भकाः श्रीहरि तत्र धामनि । प्रेम्णा संसेवमानास्तु वर्तन्तेऽतिमुदान्विताः ॥' इत्यत्र च देह- देहिभेदः स्पष्टं प्रतीयते । अत्र निर्गुणानित्यप्राकृनत्वं मुक्तदेहानां विवक्षितम् । भक्त एवंविधो ज्ञानी देहान्ते चिन्मयाकृतिः ।। ब्रह्मधामैव संप्राप्य सेवायां वर्तते हरेः ॥' इत्यत्र च चिन्मया- कृतिरित्यत्रातिशब्दः शरीरवाची । वहुव्रीहिणा च तद्विशिष्टत्वं लभ्यते । तथा च विवृतं टीकायां-'ब्रह्ममयशरीरः सन्' इति । स्वरूपस्यैव शरीरतया परिणामे तु नझशरीरं सदिति व्याल्येय भवेत् । अतोऽपि भेदो ज्ञायते । सत्सट्निजीवने व 'दिव्यां तर्नु ब्रह्मरूपां प्राप्य कृप्पोच्छया स च । दिव्यं विमानमारुह्य स्वेष्टं तद्धाम याति वै ॥ गोलोके सोऽक्षरे धानि चैकुण्ठे चापि भतराद । तस्य वर्ततेऽखण्डं सेवायां सर्ववन्दितः ॥ 'एकान्तिनो माया ये ते त्यक्त्वा भौतिकानिह । देहान सध्या दिव्यागालोपं धाम यान्ति हि ॥ स तुरीयप्रका- शोऽथ दिव्यं भागवताभिधम् । देहं स सन्ध्या परने भग:

प्रकाशे] जीवपरिच्छेदः। २७३ वद्धान्नि मोदते ॥ न तस्य कर्मजन्योऽसौ देहः किन्त्वस्ति चिन्मयः । प्रलये न व्यथामेति न सर्गे च स जायते ।। सत्यसङ्कल्पापहतपाप्मत्वादिगुणान्वितः। स मुक्तो वर्तते तत्र सेवमानो हरिं मुदा ॥'. 'वासुदेवप्रसादेन ततो भागवती तनुम् । सम्प्राप्य परमानन्दं जुषमाणः स वर्तते ॥' इत्यादिपु मुक्तस्य देहयोगमात्रं प्रतिपाद्यते न तु स्वरूपस्यैव देहभावः । नापि सम्प्रदायमूलप्रन्थेषु कुत्रापि मुक्तस्यैव देहरूपेण परिणाम इति वर्णितमस्ति । अतः ‘स एकधा त्रिधा भवति' इति श्रुत्युक्तं मुक्तस्य बहुभवनं नानादेहयोगलक्षणमेव युक्तम् । मुक्तानां भोगसाम्यम् । मुक्तानां परस्परं सर्वेश्वरेण च साम्यमेव स्वरूपरूपभोगैः । अपहतपाप्मत्वादिगुणाष्टकस्य ब्रह्मस्वरूपस्याविर्भावात्स्वरूपतः सा- म्यम् । स एकधा भवति' इत्यताकृतरूपान्वयाद्रूपतः साम्यम् । 'सोऽभुते सर्वान् कामान सह ब्रह्मणा विपश्चिता' इति च भोगतः साम्यम् । न प सर्वकर्मवन्धविनिर्मोकपूर्वकं परमपुरुष- मुपसन्नानां तदनुभवैकमोगाना पसरतममाये किश्चित्प्रयोजक- मस्ति । तदुक्तमभियुक्तैः–'सर्वकर्मविनिर्मुक्त मुक्तिभेदः कथं भवेत् । कमैकदेशयोगे तु न मुक्तिर्मुक्तिभेदयत् ॥' इति । अत एव वर्णितं सत्सद्गिजीवने 'रूपं समृद्भिरेश्वर्य स्थान भोगाः सुखानि च । समान्येतानि सर्वेषां सच्चिदानन्दरूपि- णाम् ॥ न्यूनत्वे चाधिकले वा भोगादेस्तत्र सर्वधा । इच्छेवैकास्ति भोक्तृणां हेतुर्नान्यस्तु कहिचित्॥यथा कश्चि. समृद्धोऽपि स्वेच्छयैय नराधिपः। भोगान् भुकेन भुके मान. प्र.१८ मानमेयप्रकाशिकायां [प्रमेयन: वा तथा तेऽपि निजेच्छयां ॥' इति । 'मत्सेवया प्रतीतं च सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्य- कालविद्रुतम् ॥' इत्याद्युक्ताः सालोक्यादयंस्त्ववान्तरमुक्तिभेदा गौणाः । मुख्या मुक्तिस्तु सायुज्यलक्षणा । युज्यत इति युक्गुणः । समानगुणफत्वं सायुज्यमपहतपाप्मत्वादिगुणाष्टकवत्त्वरूपम् । इदमेव 'मम साधर्म्यमागताः' इति भगवतोक्तं साधर्म्यम् , 'निरञ्जनः परमं साम्यमुपैति' इति श्रुत्युक्तं साम्यं च । तथा चोक्तं सुधासिन्धौ-'निरञ्जन इति श्रुत्या महिमाऽस्यैव' वर्ण्यते । मायाञ्जनविहीनेन साम्यं यत्प्राप्यते- हरेः ॥ साम्य साधर्म्यमित्युकं प्राप्नोति परमं स तत् ।' इति । अन्न च सालोक्यादिकमन्तर्भूतम् । तथा घोकं तत्त्वमुक्ताकलापे-'सालो- क्याद्याः प्रभेदा ननु परिपठिताः क्वापि मोक्षस्य मैवं सायु- ज्यस्यैव तत्त्वात्तदितरविषये मुक्तिशब्दस्तु भाक्तः । तस्मिन् ते च त्रयः स्युस्तदपि च सयुजोर्भाव इत्यैकरस्यं युक्साम्यं लोकसाम्यादिवदपरधियां तावतवैक्यमोहः ॥' इति । 'लोकेषु विष्णोनिवसन्ति केचित्सामीप्यमृच्छन्ति च केचि- दन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यमेके स तु मोक्ष उक्तः ॥' 'मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन । इच्छाम्यहं महावाहो सायुज्यं तव सुव्रत ॥' इत्यादियचनेपु सालोक्यादीनामवान्तरमुक्तिभेदत्वं सायुज्यस्यैव मुख्यमोक्षत्वं च प्रोफम् । 'सायुज्यं प्रतिपन्ना ये तीनभक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवन्ति निरुपद्रयाः ॥' इति च सायुज्यमुक्ति प्राप्तानां भगवत्सेवारसानुभययोगित्वमुच्यते । अतः सेवागर्भि:

'प्रकाशे] 'जीवपरिच्छेदः। ... तमेव सायुज्यं मुख्यो मोक्ष इति स्थितम् । अत एव सेवाविर- हितस्स सायुज्यस्याप्यनुपादेयत्नमुक्तं श्रीभागवते-'सालोक्यसा टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना -मत्सेवनं जनाः ॥ इति । स्वरूपत ऐक्यासम्भवादेकत्वं सायुज्य- रूपं वोध्यमत्र । तथा च वर्णितं सत्सगिजीवने-'निष्कामा इतरे ते तु कृष्णसेवनमन्तरा । मुक्तीश्चतुर्विधाः सिद्धीश्चाष्टी नेच्छन्ति कर्हिचित् ॥' 'विहीनान सेवया विष्णोरसौ मुक्ति चतुर्विधाम् । अपि नेच्छेच्च कैवल्यं तुच्छं स्वर्गादि किं पुनः इति । अत एव 'तेजःपुजेऽक्षरे धाम्नि नित्यं कृष्णों विराजते । तद्भक्ताश्च तदाकाराः सेवन्ते स्वामिनं हि तम् ॥ कृष्णः स्वामी सेवकास्ते पुरुषाः पुरुषोत्तमम् । भजन्तीति विशेषोऽस्ति तत्सारूप्येऽपि सेविनाम् ॥' इत्यत्र सायुज्यमुक्ति प्राप्तानामत्य- तसरूपाणामपि भगवता सेव्यसेवकभावलक्षणो भेदोऽस्तीति चर्णितम् । अतश्च सायुज्यमुक्तिब्रह्मैकतापत्तिलक्षणेति मतमना- दरणीयम् । हरिवाक्यसुधासिन्धौ ४६ तरङ्गप्रभृतौ च सर्वमेतन्नि- रूपितमस्ति श्रीहरिणा । मुत्युपायसङ्कीर्तनम् । भक्तिनिरूपणम् । प्रसङ्गात्प्रकृतमुक्तिसाधनस्वरूपं निरूप्यते । 'ब्रह्मविदाप्नोति परं' 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽय- नाय' इति परब्रह्मभूतस्य पुरुपोत्तमस्य वेदनमेव मुक्तिसाधनं भूयते । वेदनं च न शास्त्रजन्यज्ञानमात्रम्, किन्तु श्रवणमननाभ्यां सुदृढावधारितशास्त्रार्थस्य तदनन्तरभाविध्यानात्मकमेव । तथा २७६ मानमेयप्रकाशिकायां प्रमेय- च श्रुतयः-'अनुविद्य विजानाति' 'विज्ञाय प्रज्ञां कुर्वीत' 'आत्मेत्येवोपासीत' 'आत्मानमेव लोकमुपासीत' 'ओमित्ये- वात्मानं ध्यायथ' इत्याद्याः । मोक्षसाधनीभूतस्य ज्ञानस्यासझदा- वृत्तज्ञानरूपत्वं सूत्रकृताऽप्युक्तं- आवृत्तिरसकृदुपदेशात्' इति । 'एवं मुक्तिफलानियमः' इति पूर्वसूत्रे हि मोक्षसाधनं ज्ञान प्रस्तु- तम् । तस्यैवासकृदावृतत्वमत्र सूच्यत इति । आह च वृत्तिकार:- 'वेदनमुपासनं स्यात्तद्विपये श्रवणात्' इति । असकृदावृत्तं च ज्ञानं ध्यानमुपासनमिति चोच्यते । तच्च विजातीयप्रत्ययान्तराव्य- बहिवमविच्छिन्नस्मृतिसन्ततिलक्षणं भुवानुस्मृतिशब्देन संशब्द्यते 'ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः' इति । तथा च वृत्तिकार:-'उपासनं स्याद्धृवानुस्मृतिर्दर्शनान्निर्वचनाच' इति । अत्र च वाक्ये धुवानुस्मृतेः मोक्षहेतुत्वमुक्तम् । 'भिद्यते हृदयग्रन्थिः तस्मिन् दृष्टे परावरे' इत्यत्र च दर्शनस्य । वाक्य- द्वयैकाऱ्यांनुरोधेन च दर्शनसमानाकाराया ध्रुवानुस्मृतेः मोक्षोपा- यत्वं बोध्यम् । तथा च 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यत्रापि श्रवणमनने अनूद्य दर्शन- समानाकारं ध्यानं विधिसितम् । भगवद्विपये ध्यानं च प्रीतिपू- चक कर्तव्यं भवति । 'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैप वृणुते तेन लभ्यः' इत्यन्न न केवलं अयणमनननिदिध्यासनैर्भक्तिविरहितलभ्यः परमात्मा । किन्तु परगपुरुपवरणीयताहेतुगुणविशेषलक्षणभक्तियुक्तेनैवोपासफेन लभ्य इति वर्णनान् । तथा च प्रीतिपूर्वकं क्रियमाणध्यानमेव भक्ति- शब्देनोच्यते । तथा प निरुक्ति:-'स्नेहपूर्वमनुध्यानं भक्तिरित्य- २७७ प्रकाशे] जीवपरिच्छेदः। भिधीयते' इति । तथा पोफमभियुक्त:-'वेदनं ध्यानविप्रान्त ध्यानं श्रान्तं सुवास्मृतौ । सा च दृष्टित्वमभ्येति दृष्टि- भक्तित्वमृच्छति' इति । अस्याश्च भुवानुस्मृतेराप्रयाणादनुवर्त- नीयत्वं 'स खल्वेवं पर्तयन यावदायुपं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते' इति श्रुतिसिद्धम् । सूत्रितं च 'आप्रयाणात्त- त्रापि हि दृष्टम्' इति । अहरहरभ्यासेनैव हि परभक्तित्वादिल- क्षणा विपीकाः सम्भवेयुः। स्थिते चाप्रयाणादनुवर्तनीयत्वे नित्यनैमित्तिकादिवर्णाश्रमोचित कर्मापि यावदायुपमनुवर्तनीयमेव भगेवदाराधनैकवेपमुपास- नाङ्गतया। तथा च सूत्रं 'सर्वापेक्षा च यज्ञादिश्रुतैरश्ववत् 'सहकारित्वेन च' इति । भुवानुस्मृतेहि अन्तःकरणपिशुद्धि- निष्पाद्यत्वं 'सत्त्वशुद्धौ ध्रुवा स्मृतिः' इति श्रुतम् । सत्वम- न्तःकरणं तच्छुद्धिश्चाहारशुद्धया श्रूयते 'आहारशुद्धौ सत्त्व, शुद्धिः' इति । आहारस्य च शुद्धिर्जात्यानयनिमित्तकृतदोष. राहित्यं यज्ञशिष्ठत्वं च । तथा चोपासनोपयोगिचित्तशुद्धेर्यज्ञविनि- युक्तविशुद्धाहारसेपयैव सम्भवाद्यज्ञाद्यधिकारापादकं नित्यनैमि- त्तिककर्माप्यनुष्ठेयमेव । यज्ञशिष्टाहारसेवनस्य च पापनिषहण- द्वारा रजस्तमःकालुप्यनिवर्तकतया सत्त्ववर्धकतया ध चित्त- शुद्धावुपयोगो गीयते-'यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकि- ल्विपैः। ते त्वधं भुञ्जते पापा ये पचन्त्यात्मकारणात्' इति । उपासनोपयोगिशरीरधारणस्य यज्ञशिष्टाहारेणैव निष्पाद्यत्वात्क- मणोऽघर्जनीयत्वं च गीतम्-'शरीरयात्रापि च ते न प्रसिद्धयेद- कर्मणः' इति । तथाऽनभिसंहितफलस्य भगवदाराधनेकवेपस २७८ मानमेयप्रकाशिकायां [प्रमेय- कर्मणः भगवत्प्रसादद्वारोपासनासिद्धावुपयोगित्वं चागायि 'यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥' इति । तथा 'तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समा- हितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्' 'नाविरतो दुश्चरिता- नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैन- मामुयात्' इत्यन्वयव्यतिरेकाभ्यां दुश्चरितनिवृत्तिकामक्रोधवेगरा- हित्यशमदमादिलक्षणसहकारियोगित्वं चोपासनस्यावगम्यते अविहितनिपिद्धानर्थककाम्मेष्विन्द्रियव्यापारनिवृत्तिलक्षणस्य शमा- देरङ्गभूतनिष्कामक्रियानुष्ठानेन ने विरोधः । अत एव 'शमदमा-' धुपेतः स्यात्तथापि च' इति सूत्रेऽनुष्ठेयभक्त्यङ्गनिष्कामकर्मभिः समुच्चय एव शमदमादेर्वर्णितः । विवेकादिसाधनसप्तकं च ध्रुवा- नुस्मृतेरुक्तं धृत्तिकृता बोधायनेन-'तल्लब्धिविवेकविमोकाभ्यास- क्रियाकल्याणानवसादानुद्धभ्यः सम्भवान्निर्वचनाच' इति । विवेकः-शुद्धाहारसेवया देहादेविवेचनं दुष्टाहारवर्धितेभ्यो देहा- दिभ्यः । विमोक:- कामानभिष्वगः । शुभाश्रयस्य पुनः पुनः परिशीलनमभ्यासः । शक्तितो वर्णाश्रमधर्माचरणं निष्कामतया क्रिया । कल्याणानि सत्यार्जवदयादानाहिंसानभिध्या: । (अभि- ध्या-निष्फलचिन्ता, वदभावोऽनभिध्या) शोकहेतूपनिपातादा- वपि अतिदैन्यराहित्यं अनवसादः । हर्पहेतूपनिपातेऽयतिहर्पर- हितत्वमनुर्पः । एतेषां च भुयानुस्मृतिहेतुत्वं यथासम्भवं दृष्टाह- प्रविधयोहम्। साधनसप्तके चास्मिन् कर्मणः शमादेश्च यथासम्भ- पमन्तीवो योध्यः ।

२७९ जीवपरिच्छेदः। 'तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक महामुने। आगमोत्थं विवेकाच द्विधा ज्ञानं तथोच्यते ॥” इति विष्णुपुराणत्रचने च कर्मज्ञानयोरङ्गाङ्गिभावेन ब्रह्मप्राप्तिहेतुत्वमभिमतम् । शास्त्रजन्यं ज्ञानं प्रथमं विवेकादिसाधनसप्तकजन्यं ज्ञानमुपासनात्मकं च द्वितीयम् । 'विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अवि- द्यया मृत्यु ती विद्ययाऽमृतमश्नुते' इत्यत्र च कर्मज्ञान- समुन्धयोऽङ्गाङ्गिभावेन । अविद्यया-कर्मणा मृत्यु-विद्योत्पत्तिप्र- तिवन्धकं पापं तीवा विद्यया-अनन्तरप्रवृत्तयोपासनारूपयाऽमृत- मश्रुते-मोक्षं प्राप्नोतीत्यर्थात् । 'इयाज सोऽपि सुवहून् यज्ञान ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय ततु मृत्युमविद्यया ॥' इत्युपबृंहणानुसारादयमेवार्थो ग्राह्यः । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन तपसाउनाशकेन' इत्य- त्रापि सन्प्रकृत्यर्थवेदनाङ्गत्वमेव यज्ञादेर्विवक्षितम् । रथेन जिगमि. पतीत्यादौ गमनादावेव रथादिकरणकत्वान्वयस्य दर्शनात् । यथा शमादेश्चित्तैकाग्यसम्पादनद्वारोपासनाङ्गत्वं एवं कर्मणोऽपि चित्तनै- मल्यसंपादनद्वारा युक्तं वत्। तथा चोकं तत्त्वमुक्काकलापे-स्वान्त- ध्वान्तप्रसूतं दुरितमपनुदन् योगिनः सत्त्वशुद्ध्यै सर्वो वर्णा- दिधर्मः शमदममुखवत्सन्निपत्योपकारी। विद्यां चेत्यादिवा- क्येष्वनुकथितमिदं नैकवाक्यानुरोधात् कर्मापेक्षाभिसन्धिं कचन विवृणुते तत्समुच्चित्यवादः ॥' इति । 'त्रयो धर्म- स्कन्धा:-यज्ञोऽध्ययनं दानमिति प्रथमः, (गाईरथ्यं ) तप एवं द्वितीयः, (वानप्रस्थसन्यासौ) ब्रह्मचार्याचार्यकुलवा- सीति तृतीयः, त्रयोऽप्येते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽ- ૨૮૨ मानमेयप्रकाशिकायां [प्रमेय- द्धिप्रसङ्गः। वैराग्यस्य खरूपं च विविच्य वर्णितं सत्सङ्गिजीवने- 'वैराग्यस्य स्वरूपं ते कथयाम्यथ मानदे।भगवन्तं विना- न्यत्र रागाभावस्तदुच्यते ॥ देहे च दैहिकेष्वम्ब! स्त्रीपुत्रध- नवेश्मसु । पशुयानोपकरणक्षेत्रादिप्वरुचिस्तथा ॥ शब्दादि- पश्वविषयभोगेषु विविधेषु च । अन_वस्त्रभूपादौ राज्यभो- गेषु चारुचिः ॥ स्वर्गादौ पुण्यलोके च सद्भोगेष्वखिले- प्यपि । अनासक्तिः सर्वथेति वैराग्यं स्पष्टमीरितम् ॥ एवं संसृतिदुःखं ये पश्यन्त्यत्र मुहुर्नृणाम् । तेपामुदेति वैराग्यं सत्सङ्गात्तच्च वर्धते ॥ इति । एवं त्रितयानकत्वं भक्तेर्वर्णितं श्रीमद्यामुनमुनिभिर्गीतार्थसत- हे गीवाप्रमेयनिर्देशे-'स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म गीताशाने समीरितः ॥' इति । वेदार्थस- नन्हे चोपन्यस्तं श्रीभाष्यकारैरुपासनस्य धर्मज्ञानाङ्गकत्वं-'जीव- परयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुष- चरणयुगलध्यानार्चनप्रणामादिरत्यर्वप्रियस्तत्प्राप्तिफल' इति । इदं च पैराग्यस्याप्युपलक्षणम् । उपासनं मानसं ध्यानलक्षणं, वाचिक कीर्तन, अर्चनप्रणामादिकं प शारीरम् । वेदनध्यानादि- शब्देन अर्चनप्रणामादिसहितस्य पूर्णोपासनस्यैव विवक्षितत्वम् । 'सततं कीर्तयन्तो मां यतन्तश्च दृढमत्ताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥' 'मन्मना भव मदतो मद्याजी मां नमस्कुरु ।' इत्याशुपसृष्णानुसारात् । सत्सगिजीवने च धर्मशानवैराग्यानां भयात्वं सुस्पष्टमुक्तम्- 'सच्चाखसम्मतं मातः शृणु मदचनं हितम् । मायय विष्णोः सर्वेपामस्ति प्रकाशे] .जीवपरिच्छेदः। २८३ संसृतिकष्टदा ॥ तस्यास्तु सन्निवृत्तिः स्यात्कृष्णे भत्त्याऽतिती- जया । स्वधर्मज्ञानवैराग्योपेतया मनसि स्थिरे ॥' 'धर्मो ज्ञानं च वैराग्यं भक्तर्वेद्यानि तत्त्वतः । अङ्गानि त्रीण्युत्तमाङ्गहृत्पा- दाख्यान्यनुक्रमात् ।।' भक्तिर्भगवति श्रेयः साधनं मे मतं परम् । स्वधर्मज्ञानवैराग्यैर्युक्ता कार्या च सा दृढम् ॥ सच्छा- स्त्राणां च सर्वेषां सिद्धान्तोऽस्त्ययमेव हि । साङ्गा भक्तिं ततः कृष्णे कुरु मोक्ष्यसि संसृतेः ॥' 'स्वधर्मज्ञानवैराग्ययुजा भक्त्या ह्यनन्यया । ये भजेयुस्त एवामुं तथाभूतं विचक्षते ॥' 'मुख्या मया तु तव भत्त्यधिकारिणो ये वैराग्यधर्मनिजबो- धयुतास्त एवं'।' इति । हरिवाक्यसुधासिन्धौ च-'स्वधर्मज्ञान- वैराग्योपेता भक्तिढा तु या । सैवास्ति भगवत्तोपहेतुरि- त्यवगम्यताम् ॥' 'अतःप्रीतिहरावेव कार्या सद्भिः सदा मुदा। धर्मज्ञानविरागेषु तत्सेवोपयिकेषु च ॥' 'चिद्रूपेणात्मना कार्या धर्मज्ञानविरागयुक्। भक्तिभंगवतो नित्यमनन्येनैव भावतः ॥' 'आत्मज्ञानं च वैराग्यं यद्धर्मों वा य आत्मनः । दृढः स्याद्गुणता तेषां कार्या भक्केस्तु मुख्यता ॥ एषामन्यतमो यस्तु भक्तौ स्यादन्तरायकृत् । गुणोऽपि स तु विज्ञेयो नूनं दोप इवाहितः ॥' (तरंग१५८) स्वधर्म आत्मनिष्ठा च वैराग्यं मायिकार्थतः । अङ्गान्येतानि भक्तर्वै सन्ति तत्पुष्टिहेतवः ।। एकाकिन्येव भक्तिस्तु जीवं तारयितुं क्षमा । देशकालादिवैषम्ये पान्ति धर्मादयश्चताम् ॥ स पप्रच्छ सतोभकिः केनोपान कहिंचित् । असतो देशकालादेर्योगेऽपि नामुयात्क्षतिम् ॥ ततस्तदुत्तरं कर्तुमशक्तांस्तांतदाह सः। आत्मज्ञानेन वैराग्य- २८० मानमेयप्रकाशिकायां [प्रमेय- मृतत्वमेति' इति श्रुतौ सर्वेष्वपि आश्रमेपु ब्रह्मणि ध्याननिष्ठाया अमृतत्वसाधनभूताया अमिधानात्तत्तदानमोचितमेव कर्म तस्य तस्याधिकारिणोऽनभिसंहितफलमनुष्ठीयमानं विद्याङ्गं भवतीति योध्यम् । यज्ञादिसर्वीपेक्षत्ववचनं तु विद्याया गृहस्थाधिकारिवि- पयम् । 'कृत्स्नभावातु गृहिणोपसंहारः' 'अत एव चाग्नीन्ध- नाद्यनपेक्षा' इति सूत्रयोश्च सर्वेष्वाश्रमेषु उपासनान्वयः । ऊर्ध्व- रेतास्याश्रमेषु यज्ञादिविरहितैराश्रमोचितैरेव फर्मभिर्विद्योपका- रश्च वर्णितः । एवं कर्मणो विद्याशत्वं स्थितम् । धर्मस्य भत्त्यत्वादेव धर्मेण सहैव भक्तेः करणीयत्वं शिक्षाप. ज्यामादिष्टं 'धर्मेण सहिता कृष्णभक्तिः कार्येति तद्रहः 'धर्मण रहिता कृष्णभक्तिः कार्या न सर्वथा' इति । सत्सगिजीवनेऽपि वर्णाश्रमोचितधर्मपरैरेच कृष्णभक्त कार्यत्वं यावदेहमानं स्वधर्मा- णामत्याज्यत्वं च कथित-स्ववर्णाश्रमधर्मेण युक्ता श्रीराधि- कापतेः । भक्तिः कार्या दृदेत्येतल्लक्षणं युद्धवाध्वनः ॥' 'तस्माद्भवनिः सततं स्वधर्मनियतस्थितः । उत्साहेनैव कर्तव्या तभक्तिः श्रद्धयाऽन्वितैः ॥ यावद्देहस्मृतिर्वः स्यात्स्वस्वधर्मा मयोदिताः। तावन्नैते कचित्याच्या इत्याज्ञा मेऽस्ति सत्तमामा' 'वर्णाश्चमोचितं धर्म स्वाधिकारानुसारिणम् । यावद्दे- हस्मृतिस्तावत्पालयस्तं भजेत्सदा ॥' इति । हरिचाक्यसुधा- सिन्धौ च-'यायदेहस्मृतिस्तावन्मच्छितः सकलैरपि । यथाई नियमाः पाल्या इत्याज्ञा मम वर्तते ।।' 'धर्मोपेता ततो भक्ति कार्या इति। सानमप्यमुपासनस्य । तच वावत् स्वात्मपरमारमवियफविषयं प्रकाशे] जीवपरिच्छेदः। माखजन्यम् । अधिगतखखरूपपरखरूपस्यैव युपासनान्वयः । 'अध्यात्मयोगाधिगमेन देवं मत्वा धीरोहर्षशोकौ जहाति' इति श्रुतौ च ज्ञानयोगजनितात्मसाक्षात्कारस्य परमात्मोपासनाङ्गत्वं तृतीयाश्रुत्या लभ्यते । गीतायां च कर्मयोगज्ञानयोगाभ्यामध्य- क्षितस्वस्वरूपस्य परभक्त्युत्पत्तिर्वर्णिता 'ब्रह्मभूतः प्रसन्नात्मा न शोचति न काशति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥' इति । शिक्षापत्र्यां च स्वस्वरूपयाथात्म्यभावनं भक्त्य- जमुक्तं-'निजात्मानं ब्रह्मरूपं देहत्रयविलक्षणम् । विभाव्य तेन कर्तव्या भक्तिः कृष्णस्य सर्वधा ।।' इति । सत्सङ्गिजीवने चोपासनाङ्गभूतस्य ज्ञानस्य जीवात्मपरमात्मविषयकत्यमुक्तं तच्च ज्ञानं द्विधा प्रोक्तं तत्रैकं ज्ञानमात्मनः । परमात्मस्वरूपस्य ज्ञानं चेत्यपरं मतम् ॥ इति । हरिवाक्यसुधासिन्धौ घ-'विशु- द्धात्मस्वरूपेण भजनीयो हरिः सदा । 'आत्मनिष्ठा हढा कृष्णमाहात्म्यस्य च वेदनम् । एते भवेतां यस्यान स संपूर्ण इतीयताम् ॥' 'नाहं देहोऽस्मि चिद्रूप आत्मैवेति निजा- न्तरे । भावयनिहरिः सेन्यो भक्कैः सोऽस्तीष्टसिद्धिदः ॥ 'एवं निर्गुणसद्रूपात्मनैव प्रीतिरादरात् । कार्या श्रीराधिका- कान्ते' 'मायिकोपाधिरहितसन्मात्रेणात्मना हरेः । साक्षा- दुपासना सर्वैः करणीयाऽस्ति सर्वथा ।' 'प्रीतिः कार्या हरी दृढम् । सा तु केवलसद्रूपात्मना कार्या न चान्यथा॥' इत्यादि। पैराग्यं नाम परमात्मतदनुपन्धिन्यतिरिक्तेषु वैतृप्ण्यम् । व रूपास्सिरत्यागनुसन्धायनुसन्धानाद्भवति तदप्यमेवोपासनस्सा सति हि पिपयातररागे मुमुक्षापा अगमस्थानादुपासनाया मसि- मानमेयप्रकाशिकायां [प्रमेय युजा कापि न तत्क्षतिः ॥ विना विरतिं भक्तस्य मायिका- थेऽपि नवरे । प्रीतिर्भगवतीच स्यात्ततः पातः सदध्वनः ।। आत्मज्ञानं विना दैह्यं सुखं दुःखं यदाऽऽपतेत्। भक्तोऽपि हर्षशोकाभ्यां तदा विह्वलतामियात् ॥ ततस्तदुभयेनैव भक्ति- निर्विघ्नतामियात् । एतदेव ततो भक्तः साधनं दृढयेद्धिया । विरक्त्या भगवन्मूर्तीतराकाराश्च सर्वशः। क्रियन्ते मायिका मिथ्या न स्यात्तेषु ततो रुचिः । तथैवात्माववोधेन सुखं दुःखं च मायिकम् । भवेभक्तस्य मिथ्यैव स्थान विह्वलता ततः ॥' 'ते यदा शरणं गत्वा साक्षात्तं सर्वकारणम् । स्वध- मज्ञानवैराग्ययुजा भस्या भजन्ति च ॥ तदैव ती| तन्मायां ज्ञानिभक्तास्तु ते द्विज । समानत्वं प्रयान्त्येव नारदर्षिशुका- दिमिः' 'रोचते भक्त ईदृग्मे मनस्तत्रावरुध्यते । स्वधर्माचल- निष्ठो यश्चिद्रूपात्माभिमानवान् ॥ तेजोराशी हरिनित्यं तिष्ठतीति विदन् दृढम् । भक्तिं यस्तस्य कुर्याच प्रीत्या दृढ- विरक्तिमान् ॥ केवलं भगवत्प्रीत्यै निश्छद्म विदधीत यः। तपो योगं प्रतादिं च सत्समागमलालसः ॥' 'स्वधर्मज्ञानवैरा- ग्योपेसा भक्तिदृढा हरेः । साधनीया प्रयत्लेन स्यादेकान्ति- कता यतः॥ एकान्तिकस्तु यो भक्तो वासुदेवे स निश्चितम् । पविश्यास्ते सेयते च लक्ष्मीवत्तं सदाऽऽदरात् ॥' इत्यादि । गीतायां भगयणमाहात्म्यशानस्य भत्त्युत्पत्तिपिद्धितुरवगु- सम्-'पतो विभूति योगं च मम यो वेत्ति तत्वतः । सोऽवि- फम्पेन योगेन युज्यते नात्र संशयः ॥ अई सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसम- ।

प्रकाशे] जीवपरिच्छेदः। न्विताः' इति । सत्सगिजीवने घ-'श्रीकृष्णो भगवान् साक्षात् यो विष्णुः पुरुषोत्तमः । स एव सर्वभावेन सेवनीयो मुमुक्षुभिः ॥ सतां सङ्गेन बुवादौ तन्माहात्म्यं तदाप्तया । स्वधर्मज्ञानवैराग्ययुजा भक्त्या स सेन्यताम् ॥ सद्भय एत- छुतेः कृष्णमाहात्म्यं सम्यगीयते । तेनैव भक्तिः कृष्ण स्थात् स्वधर्मादिभिरन्विता ॥' 'तदीयमाहात्म्यविवोधपूर्व स्वभावतो वृत्तिरविच्युता या। सप्रेम तस्मिन् सकलेन्द्रियाणां सा भक्तिरुक्ता नवधास्ति साऽपि ॥' 'स्नेहेन सेवनं यत्तु माहात्म्यज्ञानपूर्वकम् । तदेव लक्षणं ज्ञेयं भक्तरिह महा- व्रताः॥ नराकृतिरपि कृष्णः सकलैग्वर्यसंयुतः। दिव्यविग्रह एवेति माहात्म्यं ज्ञेयमस्य च ॥ क्रियमाणाऽपि भक्तिस्तु माहा- स्यज्ञानमन्तरा।न वर्धते न च गुणास्तं भजन्ति शमादयः।। साप्यारम्भदशायां तु वर्धमानापि निर्चला। नवं नश्यति तारुण्यात् प्राक् स्त्रीव क्षयरोगिणी । माहात्म्यज्ञानपूर्व सा क्रियमाणा त्वनुक्षणम् । विवर्धतेऽतिवलिनी दाववहिशिखा यथा । विज्ञातं येन माहात्म्यं यावत्तस्य तु तावती। श्रद्धा कृष्णे भवेत्स्याच्च भक्तिः श्रद्धानुरूपिणी ॥ विज्ञाय तस्य माहात्म्यं श्रद्धया या कृता दृढम् । भक्तिः सकैव मेऽत्यन्तं प्रसन्नत्वस्य कारणम् ।।' इत्यादि । हरियाक्यसुधासिन्धी प- 'माहात्म्यातिशयज्ञानं विना कृष्णस्य सर्वथा। प्रीतिर्न स्यादतो नित्यं सेव्याः सन्तस्तदासये॥' (सरंग २१) 'धर्मनिष्ठस्ततो भर्भजदिर्नवधा हरिम् । आत्मनिष्ठा चमाहात्म्यज्ञानं माध्यं हरेदृढम् ॥' 'उपासनायाः सिद्धिश्च कृष्णस्य स्यात्तदैव हि मानमेयनकाशिकायां [प्रमेय- युजा कापि न तत्क्षतिः ॥ विना विरक्तिं भक्तस्य मायिका- थेऽपि नश्वरे । प्रीतिर्भगवतीव स्यात्ततः पातः सदध्वनः ।। आत्मज्ञानं विना देयं सुखं दुःखं यदाऽऽपतेत् । भक्तोऽपि हर्षशोकाभ्यां तदा विह्वलतामियात् ॥ ततस्तदुभयेनैव भक्ति- निर्विघ्नतामियात् । एतदेव ततो भक्तः साधनं दृढयेद्धिया ।। विरक्त्या भगवन्मूर्तीतराकाराश्च सर्वशः। क्रियन्ते मायिका मिथ्या न स्यात्तेषु ततो रुचिः ॥ तथैवात्मावबोधेन सुखं दुःखं च मायिकम् । भवेद्भक्तस्य मिथ्यैव स्यान्न विह्वलता ततः ॥' 'ते यदा शरणं गत्वा सार सर्वकारणम् । स्वध. मज्ञानवैराग्ययुजा भक्त्या भजन्ति च ॥ तदैव ती, तन्मायां ज्ञानिभक्तास्तु ते द्विज । समानत्वं प्रयान्त्येव नारदर्षिशुका- दिमिः' 'रोचते भक्त ईदृग्मे मनस्तत्रावरुध्यते । स्वधर्माचल- निष्ठो यश्चिद्रूपात्माभिमानवान् ॥ तेजोराशौ हरिनित्यं तिपतीति विदन् दृढम् । भक्तिं यस्तस्य कुर्याच प्रीत्या दृढ- विरक्तिमान् ॥ केवलं भगवत्प्रीत्यै निश्छद्म विदधीत यः। तपो योगं प्रतादिं च सत्समागमलालसः ॥' 'स्वधर्मज्ञानवैरा- ग्योपेता भक्तिढा हरेः। साधनीया प्रयलेन स्यादेकान्ति- कता यतः ॥ एकान्तिकस्तु यो भक्तो वासुदेवे स निश्चितम् । भविश्यास्ते सेवते च लक्ष्मीवत्तं सदाऽऽदरात् ॥' इत्यादि । गीतायां भगवद्गुणमाहात्म्यज्ञानस्य भक्त्युत्पत्तिविमिधेतुत्वगु- पम्-'पतो विभूति योगं च मम यो वेत्ति तत्त्वतः । सोऽवि- फम्पेन योगेन युज्यते नात्र संशयः ॥ अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते । इति मत्त्वा भजन्ते मां चुधा भावसम- प्रकाशे] जीवपरिच्छेदः। २८५ न्विताः ॥” इति । सत्सङ्गिजीवने च-'श्रीकृष्णो भगवान् साक्षात् यो विष्णुः पुरुषोत्तमः । स एव सर्वभावेन सेवनीयो मुमुक्षुभिः ॥ सतां सङ्गेन बुद्धादौ तन्माहात्म्यं तदासया । स्वधर्मज्ञानवैराग्ययुजा भक्त्या स सेव्यताम् ॥ सद्भय एत- छुतेः कृष्णमाहात्म्यं सम्यगीयते । तेनैव भक्तिः कृष्णे स्यात् स्वधर्मादिभिरन्विता ॥' 'तदीयमाहात्म्यविवोधपूर्व स्वभावतो वृत्तिरविच्युता या । सप्रेम तस्मिन् सकलेन्द्रियाणां सा भक्तिरुक्ता नवधास्ति साऽपि ॥' 'स्नेहेन सेवनं यत्तु माहात्म्यज्ञानपूर्वकम् । तदेव लक्षणं ज्ञेयं भक्तरिह महा- व्रताः॥ नराकृतिरपि कृष्णः सकलैश्वर्यसंयुतः। दिव्यविग्रह एवेति माहात्म्यं ज्ञेयमस्य च॥ क्रियमाणाऽपि भक्तिस्तु माहा- म्यज्ञानमन्तरा।न वर्धते न च गुणास्तं भजन्ति शमादयः॥ साप्यारम्भदशायां तु वर्धमानापि निर्बला । ध्रुवं नश्यति तारुण्यात् प्राक् स्त्रीव क्षयरोगिणी ॥ माहात्म्यज्ञानपूर्व सा क्रियमाणा त्वनुक्षणम् । विवर्धतेऽतिवलिनी दाववह्निशिखा यथा ॥ विज्ञातं येन माहात्म्यं यावत्तस्य तु तावती। श्रद्धा कृष्णे भवेत्स्याच्च भक्तिः श्रद्धानुरूपिणी ॥ विज्ञाय तस्य माहात्म्यं श्रद्धया या कृता दृढम् । भक्तिः सैकैंच मेऽत्यन्तं प्रसन्नत्वस्य कारणम् ॥” इत्यादि । हरिवाक्यसुधासिन्धौ घ- 'माहात्म्यातिशयज्ञानं विना कृष्णस्य सर्वथा। प्रीतिर्न स्थादतो नित्यं सेव्याः सन्तस्तदाप्तये ॥' (तरंग २१) 'धर्मनिष्टैस्ततो भक्तैर्भजन्निर्नवधा हरिम् । आत्मनिष्ठा च माहात्म्यज्ञानं साध्यं हरेदृढम् ॥' 'उपासनायाः सिद्धिश्च कृष्णस्य स्यात्तदैव हि ।

मानमेयप्रकाशिकायां [प्रमेय- माहात्म्यवेदनं सम्यग् यदा स्यात्सन्निपेवया ॥' 'राधापतेः स्वरूपस्य माहात्म्यस्य च तत्त्वतः । वेदनं यत्तदेवोक्तं परमं मुक्तिकारणम् ॥' 'भक्ति हरौ विदधता माहात्म्यं तस्य सर्वथा । यथा ज्ञेयं तथा वच्मि येन भक्तिर्भवेद् दृढम् ॥' 'माहात्म्य- ज्ञानरहिता भक्तिः साक्षाद्धरावपि । वर्धमानापि सा नाशं परिणामे ह्यवाप्स्यति ॥ तस्माच्छ्रीकृष्णमाहात्म्यमञ्जसा सत्य- सगतः। सच्छास्त्रसेवनाद्वापि वेदितव्यं प्रयत्नतः ॥' 'स्वधर्मों ज्ञानवैराग्ये सम्यड् माहात्म्यवोधयुक् । भक्तिभंगवतश्चेति साधनानि महान्ति च ॥' 'राधारमणमाहात्म्यातिशयस्या- चवोधनात् । अवसर्पति मानोऽयं ॥' 'एवं हि कृष्णमाहा- त्म्यसम्यग्ज्ञानेन देहिनाम् । कः को न सद्गुणः सिद्धयेन्न- श्येत्कः को न दुर्गुणः॥' 'भक्तस्तु सम्यग् माहात्म्यं बुद्धा कृष्णस्य तस्य या। प्रीत्या सेवा सैव मता सर्वेषां सुलभा न सा ॥' 'कृष्णमाहात्म्यवोधेन मायैपा तु निवर्तते । यदा तदैव - कृष्णे स्यात्मीतिश्च स्थिरतात्मनः ॥' 'माहात्म्यज्ञानयुग्भक्ति- यशोमना । दृढा यस्य भवेन्नित्यं भक एकान्तिको नः॥' 'महत्ताबोधयुग्भक्तिदृढा भगवतः स हि । गुणस्त- थाविधो ज्ञेयः' 'माहात्म्याववोधेन युक्ता भक्तिस्तु या हरेः। सा विनैन विहन्येत' स्वधर्मज्ञानवैराग्यैः सहिता यस्य मापतेः। माहात्म्ययोधयुग्भकिः स्यात्सोऽस्ति युद्धिमत्तरः ।।' 'फिच ये भगमकान्तः संपाद्यं बलद्वयम् । आत्मनिष्ठावलं चाथ माहात्म्यस्य बलं हरेः ॥ इन्यादि। अपमेय फर्मशानपैराग्यागको महियोग ऐकान्तिपो भर्म - २८७ प्रकाशे] जीवपरिच्छेदः। उच्यते भागवतधर्म इति च । तथा चोक्तं स्कान्दे वासुदेवमा- हात्म्ये-'स्वधर्मज्ञानवैराग्यैः सह लक्ष्मीवदीश्चरे । तस्मिन्न- नन्या भक्तिर्या धर्म एकान्तिकः स वै ॥' 'त्रिभिः स्वधर्मप्रमु- खैर्युक्ता भक्तिरियं मुने!। धर्म एकान्तिक इति प्रोक्तो भाग- वतश्च सः ॥' इति । सत्सगिजीवने च तथैवोक्तम्-'इत्थं ये दीक्षिता भक्ताः स्वस्वधर्मेपु संस्थिताः ॥ज्ञानवैराग्यसम्पन्नाः प्रोक्ता एकान्तिका हि ते ॥ एतानाश्रित्य सद्धर्मान् ज्ञान- वैराग्यसंयुतान् । भजेयुर्ये वासुदेवं प्रोक्का एकान्तिनो हि ते ॥' 'प्रवृत्तश्च निवृत्तश्च धर्मो हि द्विविधो मतः । द्वयोऽपि विष्णुसम्बन्धाभवत्येकान्तसंज्ञितः ॥ निवृत्तधमैकान्तित्वं प्रापुर्हि सनकादयः। प्रवृत्तधर्मेकान्तित्वं मरीच्याद्यास्तथाऽऽ- भुवन् ॥ एकान्तेनैव धर्मेण मुक्तिरात्यन्तिकी मता। न केवलं निवृत्तेन धर्मेणापीतरेण वा ॥ स्वरूपमस्य धर्मस्य कथ्यते चाधुना स्फुटम् । विद्वद्भिरपि दुज्ञेयं विना हरिसमाश्रयम् ।। आन्तराणां च वाह्यानां करणानां स्वभावतः । नैरन्तर्येण सक्ताः स्युर्विष्णावखिलवृत्तयः॥ ततः पुमान् प्रवृत्तं वा निवृत्तं कर्म वैदिकम् । कुर्यादहिंसं निप्कामं ज्ञानवैराग्ययुक्तु यत् ॥ स एवैकान्त इत्युक्तो धर्मो निःश्रेयसप्रदः। तद्वन्तः पुरुषा ये ते प्रोफा एकान्तिका बुधैः ॥ स्वधर्मादियुतानन्यभगमन- क्तिलक्षणः । एप धर्मो हि भवतीत्यल्पसत्त्यैः सुदुर्धरः एकान्तिनो वैष्णवा ये ते त्यक्त्वा भौतिकानिह । देहान् लन्ध्या दिव्यतनूर्गोलोकं धाम यान्ति हि ॥ इत्येकान्तस्य धर्मस्य लक्षणं कथितं स्फुटम् । तपांस्युग्राणि यत्प्राप्त्यै चक्रुः मानमेयप्रकाशिकायां [प्रमेय- पूर्व महर्षयः॥ तस्मान्मुमुक्षुरिच्छेद्यः श्रेय आत्यन्तिकं सतु। एकान्तधर्म सेवेत मुक्तः स्यात्संसृतेस्ततः॥ इति । हरिवाक्य- सुधासिन्धौ च-'साध्यं कृष्णैकान्तिकत्वं तेपामस्त्यतिदुर्ल- भम् । सधर्मज्ञानवैराग्या भक्तिरेकान्तिकत्वकृत् ॥” 'स्वधर्म- ज्ञानवैराग्यैर्युक्तां भक्तिं हरेस्तु यः । अनन्यां विदधीतासौ भक्त एकान्तिको मतः॥ 'औद्धवे सम्प्रदायेऽस्मिन् सत्वेका न्तिक उच्यते । भक्तिदृढा भवेद्यस्य ज्ञानवैराग्यधर्मयुक् ।। मुमुक्षुणां सेवनीयः स च प्राधान्यमर्हति ।' इत्यादि । अस्यैकान्तिकधर्मस्य प्राप्तिर्भगवत्सङ्गाद्भागवतसङ्गाद्वा स्यादि- 'त्यपि वासुदेवमाहात्म्ये प्रोक्तम्-'साक्षाद्भगवतः सङ्गात्तभक्तानां च दृशाम् । धर्मों होकान्तिकः पुम्भिः प्राप्यते नान्यथा क्वचित् ॥' सतां मुखाद्भगवन्माहात्म्यनवणस्य भत्त्युत्पादकत्वं सत्सङ्गस्य साङ्गभक्तिपोषकत्वं च सत्सङ्गिजीवने न्यरूपिपाताम्- 'एतेपामेव सङ्गेन साङ्गा भक्तिर्मुमुक्षुभिः । कृष्णस्य प्राप्यते नूनं माहात्म्यज्ञानपूर्विका ॥ एभ्यः कृष्णावताराणां चरित्र- श्रवणं भवेत् ......सस एतच्छ्रुतेः कृष्णमाहात्म्यं सम्यगी- यते । तेनैव भक्ति कृष्णे स्यात्स्वधर्मादिभिरन्विता।' 'पुंसां गुणाश्च दोपाश्च सदसत्सङ्गतोऽपि हि......यूयं सर्वे ततो भक्ताः सतामेव समागमम् । कुर्वन्त एवाऽऽचरत स्वस्वधर्म यथोचितम् ॥' 'सर्वेपां देहिनां भकाः! कृष्णभक्तिर्विमु- तिदा । उदेति सा तु सत्सङ्गानश्यत्यसुरसङ्गतः ॥ इति । हरियाक्यमुधासिन्धौ च-मनोलयस्तु साझाया भक्तर्दादा- धरौ भवेत् । तचैकान्तिकभकानां स्यान्निकैतवसेवा . प्रकाशे] जीवपरिच्छेदः। नात् ॥' 'नित्यं सतां प्रसङ्गेन तन्माहात्म्यावबोधनम् ।' इति । उक्तः सर्वोऽप्यर्थः सत्सगिजीवने सुस्पष्टं सहीत:-'धर्म- स्त्याज्यो न कैश्चित्स्वनिगमविहितो थासुदेवे च भकिर्दिच्या- कारे विधेया सितघनमहसि ब्रह्मणैक्यं निजस्य । निश्चित्य- वान्यवस्तुप्वणुमपि च रतिं संपरित्यज्य सन्तस्तन्माहात्म्याय सेव्या इति वदति निजान् धार्मिको नीलकण्ठः ॥' इत्यादी । यद्यपि वेदान्तविहितेषु सद्दहरानन्दमयादिविद्याभेदेषु त्रैवर्णि- कानामेवाधिकारोऽपशूद्राधिकरणनयसिद्धः । अथापि भगवन्माहा- म्यज्ञानपूर्विका निरन्तरप्रीतिलक्षणा भक्तिः, अर्चनादयश्च भक्ति- भेदाः प्रीतिकारिता नवधा सर्वाधिकारिसाधारणा एव । स्ववर्णा- श्रमोचिताश्च धर्मा निष्कामतयोपसंहतुं शक्या एवेतरैरपि । तथेति- हासपुराणश्रवणायभ्यनुज्ञया ज्ञानमपि सुसंपादमेव । शब्दादिवि- पयेषु वैराग्यं भगवति रक्षकत्वाध्यवसायपूर्विका निःसीमप्रीतिश्चै- तेष्वपि सम्भवत्येव । अत एपामपि मुत्तयन्वयो नानुपपनः । उक्तं च गीतायां-'मां हि पार्थव्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपियान्ति परांगतिम् ॥ किं पुन- ब्राह्मणाः पुण्या भका राजर्पयस्तथा । अनित्यमसुख लोक- मिमं प्राप्य भजस्व माम् ॥' इति । तथा चोकं तत्वमुक्ताफ- टापे-'पुम्भिः सिद्धाधिकारैः क्रतव इव निराकाहभावं भजन्त्यः प्रोकावैवर्णिकार्हाः श्रुतिनयवशतो यद्यपि ब्रह्म- विद्याः । अस्तेयायैः प्रपत्त्या परिचरणमुसैरप्यघीतैः स्वजातेः सर्वेऽपि प्रामुयुस्तां परगतिमिति तु ग्रामगीतादिसिद्धम् ॥' इति । सर्वसाधारणा भक्तिप्रफाराम्य यर्णिता यासुदेयमाहात्म्ये- मान.प्र.१७ २९० मानमेयप्रकाशिकायां [प्रमेय- 'वासुदेवेतरान् देवान् कालमायावशीकृतान् । विदित्वा तेषु च प्रीति हित्वा तस्यैव नित्यदा ॥ गाढस्नेहेन या सेवा सा भक्तिरिति गीयते । श्रवणं कीर्तनं तस्य स्मृतिश्चरणसेवनम् ।। पूजा प्रणामो दास्यं च सख्यं चात्मनिवेदनम् । इत्येतैर्नवभि- र्भावैर्यः सेवेत तमादरात् । अनन्यया धिषणया स हि भक्त इतीर्यते ॥ इति । शिक्षापत्र्यां च धर्मादीनां चतुर्णा स्वरूपं सद्देपेण वर्णितमस्ति- 'धर्मो ज्ञेयः सदाचारः श्रुतिस्मृत्युपपादितः । माहात्म्यज्ञान- युग्भूरिस्नेहो भक्तिश्च माधये । वैराग्यं ज्ञेयमप्रीतिः श्रीकृ- प्णेतरवस्तुषु । ज्ञानं च जीवमायेशरूपाणां सुष्टु वेदनम् ॥' इति । सत्सद्भिजीवने च-वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विप- ययः' 'यमायोः क्रियमाणं हि स्तुवन्त्यागमवेदिनः। स धर्मों यं च निन्दन्ति तमधर्म प्रचक्षते ॥ तत्र त्रयाणां लोकानां सेश्वराणां तु धारकः । धारणीयश्च जीवेशैः सदा धर्मः स उच्यते ॥ स चापि वर्तते नृणां वर्णाश्रमविभागशः। श्रुति- स्मृतिसदाचारः प्रमितो हि पृथक् पृथक् ॥' 'श्रुतिस्मृत्यु- दितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥' 'नानादुःखविकारान्यो योऽयं देहोऽस्ति देहिनाम् । आत्मा ततोऽस्ति भिन्नो वै निर्विकारः सुखा- एपारमनिष्ठा सुदृढा ज्ञानमित्युपवर्णितम् । वैराग्यस्याथ वक्ष्यामि लक्षणं साधुसम्मतम् ॥ स्वरूपमादी देहस्य क्षेयं स्वस्थ परस्य छ। क्षयिष्णुत्वं सदुःखत्व मित्थं ज्ञालाऽसिलस्य च । अनासतिः स्वदेहादी या तद्वैरा- ..

प्रकाशे] जीवपरिच्छेदः। २९१ ग्यमुच्यते ॥ वासुदेवावतारेऽथ माहात्म्यज्ञानपूर्विका । स्नेहेन सेवावृत्तिर्या सा भक्तिरिति कथ्यते ॥ श्वेतद्वीपे ब्रह्मपुरे गोलोकेऽपि च धामनि । वैकुण्ठादौ यदैश्वर्य दिव्यं दिव्याश्च, पार्पदाः ॥ स्वेच्छया मनुजाकारे हरौ तद्विद्यतेऽखिलम् । दिव्यभावेनेति चोधो माहात्म्यज्ञानमुच्यते ॥' इति । इति, ज्ञात्वैव नवभिः प्रकारैः श्रवणादिभिः । सेवनं तस्य, यत्प्रेरणा तत्प्रोक्तं भक्तिलक्षणम् ॥ ज्ञानवैराग्यसहितां भक्तिः मेवंविधां तु ये । हरौ कुर्युः स्वधर्मस्थास्ते तु भक्तोत्तमा मताः ॥' इति च । हरिवाक्यसुधासिन्धावप्येवं धर्मादीनां स्वरूपं सप्रपञ्चं निरूपितमस्ति । भक्तिश्च द्विविधा सकामा निष्कामा चेति । 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ! । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ॥' इत्युक्तप्रकारेण ऐश्वर्याद्यर्थितया क्रियमाणा सकामा। भगवत्सेयाफलतया क्रियमाणा च निष्कामा । तथोक्तं सत्संगिजीवने-'भजधातोस्तु सेवार्थः प्रेम क्तिन्प्रत्ययस्य च । स्नेहेन भगवत्सेवा भक्तिरित्युच्यते बुधैः ॥ पतिव्रता यथा नारी सेवेत स्वपतिं यथा । अनन्यभावेन हरि मुमुक्षुः सर्वदा भजेत् ॥ xxx एवं भजन्ति ये कृष्णं श्रुत्यादिनवलक्ष्मया। भत्त्या ते कथिता भक्का द्विविधास्तेऽपि कीर्तिताः॥ तत्राद्यास्तु सकामास्ते धर्ममर्थ च विस्तृतम् । कामं च स्वेप्सितं मोक्षं कृष्णादेवाप्नुवन्ति हि ॥ देहान्ते ते च कृष्णस्य गोलोकादिषु धामसु । लभन्ते खेप्टसौख्यानि तस्मादेवाक्षयाणि हि ॥ निष्कामा इतरे ते तु कृष्णसेवनमन्तरा। मुक्तीश्चतुर्विधाः [ममेय- मानमेयप्रकाशिकायां 'वासुदेवेतरान् देवान् कालमायावशीकृतान् । विदित्वा तेषुः च प्रीति हित्वा तस्यैव नित्यदा ॥ गाढस्नेहेन या सेवा सा. भक्तिरिति गीयते । श्रवणं कीर्तनं तस्य स्मृतिश्चरणसेवनम् ।। पूजा प्रणामो दास्यं च सख्यं चात्मनिवेदनम् । इत्येतेनैवभि- भावैर्यः सेवेत तमादरात् । अनन्यया धिषणया स हि भक्त इतीर्यते ॥ इति । शिक्षापत्र्यां च धर्मादीनां चतुर्णा स्वरूपं स पेण वर्णितमस्ति- 'धर्मो ज्ञेयः सदाचारः श्रुतिस्मृत्युपपादितः । माहात्म्यज्ञान- युग्भूरिस्नेहो भक्तिश्च माधवे ॥ वैराग्यं ज्ञेयमप्रीतिः श्रीकृ- प्णेतरवस्तुपु । ज्ञानं च जीवमायेशरूपाणां सुष्टु वेदनम् ॥' इति । सत्सगिजीवने च-'वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विप- र्ययः' 'यमार्याः क्रियमाणं हि स्तुवन्त्यागमवेदिनः। स धर्मों यं च निन्दन्ति तमधर्म प्रचक्षते ॥' 'तत्र त्रयाणां लोकानां सेश्वराणां तु धारकः। धारणीयश्च जीवेशैः सदा धर्मः स उच्यते ॥ स चापि वर्तते नृणां वर्णाश्रमविभागशः। श्रुति- स्मृतिसदाचारः प्रमितो हिँ पृथक् पृथक् ॥ 'श्रुतिस्मृत्यु- दितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमचामोति प्रेत्य घानुत्तमं सुखम् ॥ 'नानादुःखविकारान्यो योऽयं देहोऽस्ति देहिनाम् आत्मा ततोऽस्ति भिन्नो वै निर्विकारः मुखा एपात्मनिष्ठा सुदृढा ज्ञानमित्युपवर्णितम् । पैराग्यस्याध पक्ष्यामि रक्षणं साधुसम्मतम् ॥ स्वरूपमादी देहस्य ज्ञेयं स्वस्य परस्य च । क्षयिष्णुत्वं सदुःसत्य मिरथं शात्याऽसिटस्य च । अनासफिः स्वदेहादी या तद्वरा- रमकः ।। ...... ......

प्रकाशे] जीवपरिच्छेदः। भक्तियोगाच्छरणागती विशेपो यथा। भक्तियोगोऽसकृदाप्र- चाणादनुष्ठेयः । इयं तु सकृदेवानुष्ठेया । तथा च वचनानि- 'सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्गतं मम ॥' 'अहमस्मि तवैवेति प्रपन्नाय सकृत्स्व- यम् । देवो नारायणः श्रीमान् ददात्यभयमुत्सुकः ॥ इति । भक्तियोगः प्रारब्धव्यतिरिक्तानां कर्मणां निवर्तकः । शरणागतिस्तु प्रारब्धस्यापि । “उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी । साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी' ॥ 'आर्ताना- माशु फलदा सकृदेव कृता ह्यसौ । हप्तानामपि जन्तूनां देहा- न्तरनिवारणी' ॥ इति वचनात् । अत एव शरणागतिनिष्टानां तदेहपात एव मोक्षः सिद्ध्यति । किञ्च अन्तिमस्मृत्यपेक्षा भक्ति- योगस्य । 'प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।' 'अन्त- काले च मामेव स्मरन् मुक्त्वा कलेवरम्।यः प्रयाति स महावं याति नास्त्यत्र संशयः॥' इत्यादिवचनात्। प्रपत्तेस्तु तदनपेक्षा । प्रपन्नविषये 'अहं स्मरामि मद्भक्तं नयामि परमां गतिम्' इति वराहमूर्तेर्भगवतो वचनात् । प्रपन्नस्यापि भफिरस्ति पुरुषार्थतया । अत एवं प्रपत्तेः साध्यभक्तिरिति नाम । अतो मद्भकशब्देन निरू- तवचने प्रपन्नपरामर्श उपपन्नः । 'सर्वधर्मान् परित्यज्य' इत्यनेन च सर्वधर्माणामुपायचयाऽनु- यानमेव व्यावय॑ते । अत एव कर्मणां भगवदाज्ञाकैर्यरूपतया भक्तेर्भगवद्गुणानुभवरूपतया १ प्रपनराचरणगुपपन्नम् । शानं वैराग्यं च प्रपन्नस्याप्यावश्यकमेव । अर्चनादिपु चास्य रागव एवं प्रवृत्तिः नोपायवुया । आनुकूल्यस्य सकल्पः प्रातिकूल्यस्य वर्जन मानमेयप्रकाशिकायां [प्रमेय- सिद्धीश्चाप्टी नेच्छन्ति कहिंचित् ॥ दीयमानं भगवताऽप्यैश्व- यमिदमूर्जितम् । तस्य सेवान्तरायत्वात् न गृह्णन्ति हुदाऽपि ते॥निष्कामभावेनेत्थं यो मातः कृष्णं भजेन्नरः। भक्तोत्तमः स विज्ञेयः पूर्णो हृदयमस्य हि ॥' 'तदीयमाहात्म्यविबोधपूर्व स्वभावतो वृत्तिरविच्युता या। सप्रेम तस्मिन् सकलेन्द्रियाणां सा भक्तिरुक्ता नवधास्ति सापि ॥xxx उक्ता नवते ननु भक्ति- भेदाः स्वशक्तितस्तैर्भजनीय ईशः । नराः सकामा निजवा- मिछातार्थास्तेनाप्नुवन्ति ह्यपरे च मुक्तिम् ॥ निष्कामभक्तिस्तु हरौ प्रवृद्धा दिने दिने सिद्धिगणागरिष्ठा । जीवस्य कोशं जर- यत्यवश्यं वैश्वानरो भुक्तमिवौदरोऽन्नम् ॥ अनन्यभक्तास्तु रमापतेर्ये नेच्छन्ति कैवल्यमपीह ते तु । सेवारतास्तस्य तद- र्थचेष्टास्तेनैव पूर्णाः सततं प्रसन्नाः ॥” इति । प्रपत्तिनिरूपणम् ॥ तत्र सकामभक्तिः साधनभक्तिः, निष्कामभक्तिः साध्यभक्ति- रियमिधीयते । साध्यभक्तिनिष्ठानां तु भगवत्येव सुदृढोपायत्व- बुद्धिः । एपां च भगवानेवोपायो भवति । तथा च शरण्यवचनम्- 'सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ इति । उपायभूतोऽपि स्वयं भगवाने- वेर्पा प्रार्थनानुसारेणेच सर्व कार्य करोतीति उपाययप्रार्थनाऽवश्यं फरणीया नाम । सेयमुपायत्वप्रार्थना प्रपत्तिः। तथा चोक्तं-'अन- न्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाश्या मपत्तिः दारणागतिः ॥' इति ।

प्रकाशे]] जीवपरिच्छेदः। २९३ भक्तियोगाच्छरणागतौ विशेपो यथा । भक्तियोगोऽसकृदाम- चाणादनुष्ठेयः । इयं तु सकृदेवानुष्ठेया । तथा च वचनानि- 'सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम ॥' 'अहमस्मि तवैवेति प्रपन्नाय सकृत्स्व- यम् । देवो नारायणः श्रीमान् ददात्यभयमुत्सुकः ॥ इति । भक्तियोगः प्रारब्धव्यतिरिक्तानां कर्मणां निवर्तकः । शरणागतिस्तु प्रारब्धस्यापि । 'उपायभक्तिः प्रारब्धव्यतिरिक्कापनाशिनी। साध्यभक्तिस्तु सा हन्त्री पारब्धस्यापि भूयसी' ॥ 'आना- माशु फलदा सकृदेव कृता ह्यसौ । दृप्तानामपि जन्तूनां देहा- न्तरनिवारणी' ॥ इति वचनात् । अत एव शरणागतिनिष्ठानां तदेहपात एव मोक्षः सिद्धयति । किञ्च अन्तिमस्मृत्यपेक्षा भक्ति- योगस्य । 'प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः। 'अन्त- कालेच मामेव स्मरन मुक्त्वा कलेवरम् । यःप्रयाति स मद्भावं याति नास्त्यत्र संशयः॥' इत्यादिवचनात् । प्रपत्तेस्तु तदनपेक्षा । प्रपन्नविषये 'अहं स्मरामि मद्भक्तं नयामि परमां गतिम् प्रति वराहमूर्तेभंगवतो वचनात् । प्रपन्नस्यापि भक्तिरस्ति पुरुपार्थतया। अत एव प्रपत्तेः साध्यभक्तिरिति नाम । अतो मद्भक्तशब्देन निर- जयचने प्रपन्नपरामर्श उपपन्नः । 'सर्वधर्मान् परित्यज्य' इत्यनेन च सर्वधर्माणामुपायवयाऽनु- मानमेव व्यावय॑ते । अत एव कर्मणां भगयदाज्ञाकैर्यरुपवया भक्तर्भगवद्गुणानुमवरूपतया च प्रपन्नैरापरणमुपपन्नम् । ज्ञानं वैराग्यं च प्रपतस्याप्यावश्यफमेव । अर्चनादिपु चास्य रागत एवं प्रवृत्तिः नोपाययुद्धया । आनुकूल्यस्य सङ्कल्पः प्राविकूल्यस्य वर्जन । मानमेयप्रकाशिकायां [प्रमेय- च प्रपन्नस्य स्वारसिकावाकारविशेपो । यः परमात्मानमेव स्वर- क्षणोपायत्त्वेनाध्यवस्यति स हि तदनुकूलवृत्तावेव वर्तेत, तदा- ज्ञारूपशास्त्रनिपिद्धे च नैव प्रवर्ततेति । कार्पण्यं नामोपाया- न्तरराहित्यं प्रपत्तावनभूतम् । रक्षिष्यत्यवश्यं शरणागतं मामिति दृढाध्यवसायपूर्वकं तस्मिन्नेवोपायत्वप्रार्थना शरणागतिः । उपाय- त्वप्रार्थनापूर्वकं च क्रियमाणमात्मात्मीयभरसमर्पणमात्मनिक्षेप 'उच्यते । सोऽयं प्रपत्तियोग आत्मनिक्षेपणांशेन न्यास इत्युच्यते, "प्रार्थनांशेन च शरणागतिरिति । सेयं पडंशा शरणागतिरुक्ता- 'आनुकूल्यस्य सङ्कल्पः प्रतिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा । आत्मनिक्षेपकार्पण्ये पडिधा शरणागतिः॥ 'प्रपत्तिरानुकूल्यस्य सङ्कल्पोऽप्रतिकूलता। विश्वासो वरणं न्यासः कार्पण्यमिति पद्विधा ।।' इति । प्रपत्तौ च नाधिकारिनियमः । साधनभक्तावनधिकारिणामपि अयं योगो वर्णितः शास्त्रेषु । तथा च वचनानि-'प्राप्तुमिच्छन् परां सिद्धिं जनः सर्वो ह्यकिञ्चनः। श्रद्धया परया युक्तो हरि शरणमाश्रयेत् ॥ ब्रह्माक्षत्रविशः शूद्रास्त्रियश्चान्तरजास्तथा । सर्व एव प्रपद्येरन् सर्वधातारमच्युतम् ॥' 'न जातिभेदं न कुळ न लिङ्गं न गुणक्रियाः । न देशकालौ नावस्थां योगो ह्ययमपेक्षते ॥' 'शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः। तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥' (माले) इति । आकिश्चन्यमनन्यगतित्वमेय चाधिकारिविशेषणम् । आकिश्चन्यमु- पापान्तरराहित्य, अनन्यगतित्वं रक्षकान्तरराहित्यम् । तथा चोक- "अहमस्म्यपराधानामालयोऽफिञ्चनोऽगतिः । त्वमेवोपाय- - प्रकाशे] जीवपरिच्छेदः, २९५ भूतो मे भवेति प्रार्थना मतिः । शरणागतिरित्युक्ता सा दे- 'वेऽस्मिन् प्रयुज्यताम् ।।' इति । 'योन कामकामेन न साध्य साधनान्तरैः । मुमुक्षुणा यत्साहयेन योगेन न च भक्तिः। प्राप्यते परमं धाम यतो नावर्तते यतिः। तेन तेनाप्यते तत्त- च्यासेनैव महामुने! परमात्मा च तेनैव प्राप्यते पुरुषोत्तमः॥' ( अहिर्बुभ्यसंहिता ) इति च प्रपत्तेः सर्वफलसाधनत्वमुच्यते । तथा चोक्तं वेदान्ताचार्यै:-'सुदुष्करेण शोचेद्यो येन येनेष्टहे- तुना। स स तस्याहमित्येव चरमश्लोकसङ्ग्रहः॥” इति । किश्लो- पायान्तरनिष्ठानां प्रपत्तिरपेक्षिताऽगतया, प्रपन्नस्य तु नोपायान्त- रम्। किन्तु तन्निवृत्तिरेव ।आकिश्चन्याधिकारकत्वात्प्रपत्तः। ब्रह्मा- खशणसूत्रबन्धनन्यायेनोपायान्तरसंसर्गे हि प्रपत्तिः च्युता भव- तीति । साधनान्तरानुष्ठानसमर्थानामपि अविलम्बतो मोक्षमिच्छता प्रपत्तावधिकारः 'भक्त्या परमया वापि प्रपत्त्या वा महामुने । प्राप्योऽहं नान्यथा प्राप्यो मम कैङ्कायलिप्सुभिः ॥' इति विकल्पोऽपि शक्काशकविलम्बक्षमाक्षमरूपाधिकारिभेदेन व्यव- स्थितः । अतो न लघुगुरुविकल्पानुपपत्तिशद्वावकाशः । वस्तुतः प्रपत्तिनिष्ठाया अपि दृढतमाध्यवसायगर्भतया गुरुत्वमस्त्येव । अत एवोच्यते 'उपायः सुकरः सोऽयं दुष्करश्च मतो मम ।' इति । 'नरस्य बुद्धिदौर्वल्यादुपायान्तरमिप्यते । त्यामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥' इत्यत्र प घुद्धिदौर्यल्यशब्देना- ध्यवसायदायरादित्य, मनीषिण इति पाध्ययसायदादयं विवक्षि- तमिति । निरुकप्रकारेण प्रपत्तेर्नानाविधं वैशिष्टयमभिप्रेत्यैव क्षुति- स्मृलोरद्धप्यते 'न्यासमेपां तपसामतिरिक्तमाहुः 'कृतान्यनेन मानमेयमकाशिकायों [प्रमेय- सर्वाणि तपांसि तपतांवर । सर्वे तीर्थाः सर्वयज्ञाः सर्वदा. नानि च क्षणात् । कृतान्यनेन मोक्षश्च तस्य हस्ते न संशयः॥' 'यानि निःश्रेयसार्धानि चोदितानि तपांसि वै। तेपातु तपसां न्यासो ह्यतिरिक्तं तपः श्रुतम् ॥' इति । प्रपत्तेरपि भगवद्विपयज्ञानविशेषरूपतया न 'तमेव विदित्वा' इति श्रुतिविरोधो मुक्त्युपायत्वे । अयं च प्रपत्तियोगः शेपिणि रक्षकत्वप्रार्थनालक्षणः शेपवरूपानुगुणो नितराम् । शेषभू- तस्य रक्षणं हि शेपिण एव कृत्यमिति । सेयं भगवत्येवोपायत्व- प्रार्थनालक्षणा प्रपत्तिः 'श्रीकृष्ण त्वं गतिर्मम' इति मत्रे गर्भिता । मुक्तिलक्षणसेवापुरुषार्थाभ्यर्थना च 'ब्रह्माहं कृष्णदासोऽस्मि' इति मत्रे । द्वयमत्रे (श्रीमन्नारायणचरणौ शरणं प्रपद्ये । श्रीमते नारायणाय नमः) ऽप्येवमेव पूर्ववाक्ये उपायत्वप्रार्थना, उत्तर- वाक्ये च मुक्तिलक्षणसेवाप्रार्थना गर्भिता । 'कालमायापापक- मयमदूतभयादहम् । श्रीकृष्णदेवं शरणं प्रपन्नोऽस्मि स पातु माम् ॥ इति सङ्कल्पमत्रे च शरणागतिः सनकारा संसूचिता । शरणागतेन च वैष्णवदीक्षावता भाव्यम् , दीक्षातदभावयोः स्तुतिनिन्दादर्शनात् । 'संप्राप्य वैष्णवी दीक्षा विष्णुं भुवि भजन्ति ये । ते कृतार्था मनुष्या वै भारभूता भुवोऽपरे ।' 'अदीक्षितस्य वामोरु! कृतं सर्वमनर्थकम् । पशुयोनिमवामोति दीक्षाहीनो नरो मृतः ।।' इति । अयमर्थः सत्सगिजीवने रफुटमुक्त:--'संप्राप्य दीक्षामिह भक्तिधर्मयुकाद्गुरोर्भागवती नरः प्राक् । अर्चा ततः प्राप्य तदुक्तरीत्या भकिं विदध्या- दपतन्द्रि विष्णोः ॥ इति। दीक्षा च सनियमममादिमहण- ।

। प्रकाशे] जीवपरिच्छेदः। २९७ लक्षणा। दीक्षाशब्दनिरुक्तिश्व-'दीयते विमलं ज्ञान क्षीयते कर्म- 'वासना । दिव्यं ज्ञानं यतो दद्यात् कुर्यात्पापस्य सवयम् ।। तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः॥ 'दीपयत्याशु विज्ञानं मोहं च क्षालयत्यतः । दीक्षेति कथिता सद्भिः प्राप्तव्या वैष्णवी तु सा ॥ इति । दीक्षानुबन्धिनश्च पश्च संस्कारा उक्ताः-'तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः। संस्काराः पञ्च सम्मोक्ताः पारमैकान्त्यहेतवः ॥” इति । यागो नाम पर- 'मात्मनि स्वात्मनः समर्पणं न्यासलक्षणम् , आचार्यानुग्रहप्राप्तभगव- प्रतिमार्चनं वा । तथा च भागवते वचनम्-'लव्धानुग्रह आचा- र्यात्तेन सन्दर्शितागमः । महापुरुषमभ्यर्चेन्मूल्ऽभिम- तयाऽऽत्मनः ॥ इति । विस्तरस्तु साम्प्रदायिकग्रन्थेषु द्रष्टव्यः । हरिवाक्यमुधासिन्धावपि 'सर्वधर्मान्परित्यज्य' 'मामेव ये प्रपद्यन्ते' इत्यादिवाक्यं प्रमाणतया परिगृह्य शरणागतिप्रकारो वर्णितः-'आश्रयोऽतिदृढः स्यान्चेच्छीकृष्णस्य नृणामिह । तेनैकेनैव भगवान् सम्प्रसीदति निश्चितम् ॥ कृष्णप्रसाद- हेतुभ्यः सर्वेभ्योऽपि महत्तरम् । एतद्धि साधनमिति ज्ञातव्यं श्रेय इच्छता ॥' (तरङ्ग ३३) 'श्रेय आत्यन्तिकं यत्तद्धरेः साक्षात् समाश्रयात् । भवतीत्येव जानीहि नास्तीहक् साध- नान्तरम् ॥' इति । आश्रयशदः प्रपतिपर्यायः । गुरुपदेशलब्धात्मपरमात्मयाथात्म्यविज्ञानो भगवन्वमेव स्वस्थ सर्वविधानिष्टनिवृत्तौ सविधेटमाप्ती चोपायमूतमाचार्यद्वारा समा- श्रित्य तदुपदिष्टमन्त्रेण तदासारूपाणि कर्माणि फेर्यचुझ्या प्रीत्या कुर्वन् शब्दादिपु विरको माक्षरम्यानपूर्वकं तदुपासनमेव कर- २९८ मानमेयप्रकाशिकाय प्रमेय- नयेणापि प्रीत्या पुमर्थतयैव कुर्वन् सततं निःश्रेयसाय कल्पते । एवं भूतं च वभक्तं स्खस्मिन्निहितखरक्षणभरं 'स्थिते मनसि सुस्व- स्थे शरीरे सति यो नरः। धातुसाम्ये स्थिते स्मर्ता विश्वरूपं 'च मामजम् ॥ ततस्तं प्रियमाणं तु काठपाषाणसन्निभम् । अहं स्मरामि मनक्तं नयामि परमा गतिम् ॥ इत्युक्तप्रकारेण 'स्वयमेवान्तकाले स्मृत्वा तस्याविद्यादिकं निःशेषं विनिवर्त्य देश- विशेपे स्वसन्निधि प्रापल्याविर्भूतस्वखरूपाय तस्मै परिपूर्ण स्वानुभ- वसेवासुखलक्षणमोक्षसाम्राज्यं प्रयच्छति पुरुपोत्तम इति चाध्या- स्मशाखसारतमरहस्यार्थः। केचित्तु 'तत्त्वमसि' इति वाक्यजन्यं निर्विशेपचिन्मात्रब्रह्मा- स्मैक्यज्ञानमेवापरोक्षात्मकमविद्यानिवर्तकम् , निष्पन्ने च साक्षा- स्कार इहैव मुक्तो भवतीति वर्णयन्ति । तन्न सम्यक् । 'पृथगा- स्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' इति श्वेता- श्तरश्रुतौ नियाम्यनियामकभावधार्यधारकभावशेपशेषिभावादिना जीवपरयोर्भेदेन ज्ञानस्यैव परमात्मप्रसाद्वारा मुक्तिसाधनत्वस्य प्रतिपादितत्वात् । देहादिभ्यः पृथग्भूतमात्मानं प्रेरितस्वरूपाभिन्नं मत्वा मुक्तो भवतीत्यर्थवर्णनं तु छिष्टम् । च शब्दस्य 'जुष्टस्ततस्तेन' इत्यस्य पानन्ययात् । तत्रैवोपनिषदि 'भोक्ता भोग्य प्रेरितारं च मत्या सर्व प्रोक्तं त्रिविधं ब्रह्ममेतत् ।' 'क्षरं प्रधानममृता- क्षरं हर क्षरात्मानावीशते देव एकः ॥' इत्यादिना जीवपर. योसत्यतो भेदस्व बहुशो यर्णितत्वाथ । याक्यस प्रत्यक्षज्ञान प्रति जनकत्वमप्यनुपपन्नम् , इन्द्रियाणामेव तन सामर्थ्यात् । नन्वन्द्रि- पिराविषयकवाक्यस्यापरोभज्ञानजनकत्वं सम्भवति । मैवम् ।

प्रकाशे] जीवपरिच्छेदः। २९९ भूतले घटोऽस्तीति वाक्यस्य प्रत्यक्षार्थविषयकस्यापि परोक्ष- मजनकत्वात् । सति विन्द्रियार्थसनिक तन जायमानं ज्ञानं प्रत्यक्षमेव न वाक्यजन्यम् । स्वतः सदा भासमानार्थगोच- रस्य वाक्यस्याऽपरोक्षधीजनकत्वमित्येतदपि मन्दम् तदर्थस्य खत एव भानोपपत्तेर्वाक्यस्यानपेक्षितत्वात् । सतोऽपि वाऽकिञ्चि- करत्वात् । स्वरूपप्रकाशानवगताकारान्तरविपयत्वे च वाक्य- जन्यज्ञानस्य तदंशे परोक्षत्वमेव धर्मवांस्त्वमसीत्यादिवाक्यजन्य- ज्ञानस्येव धर्माशे । यत्तु दशमस्त्वमसीत्युदाहरणं वाक्यजन्यापरो- क्षस्य, तत्रापि यावन्न दशमत्वेन सन्निकर्षों न तावदध्यक्षम् । जाते तु सन्निकर्षे तज्जमेव तन्न वाक्यजम् । सन्निकर्पसम्पादनप्रवृत्तिमात्र- प्रयोजकता परोक्षज्ञानजनकस्य वाक्यस्येति यावत् । तत्त्वमसीत्य- त्रापि त्वंशब्दविवक्षितस्य जीवस्वरूपमात्रस्य स्वतःप्रकारात्वेऽपि तमात्मानं प्रति ब्रह्मणः स्वतो भानस्यासम्भवात् ब्रह्मात्मकत्वांशे परोक्षात्मकमेव ज्ञानं प्रथमतो वाक्यजन्यम् । अथ निदिध्यासन- विपाकेन च ब्रह्मात्मकत्वसाक्षात्कारो मानसो जायते इति तु पर- मार्थः । जीवब्रह्मणोभिन्नत्वेऽपि शरीरात्मभावेन समानाधिकरण- व्यपदेशाईतया पुनरुपासनानुभवश्वाहं ब्रह्मास्मीति ब्रह्मात्मकत्वेन न्यरूपिपाताम्-'आत्मेति तूपगच्छन्ति ग्राहयन्ति च' 'अवि- भागेन दृष्टत्वात्' इति सूत्रयोः । यदपि जाते ब्रह्मात्मकरवसाक्षात्कारे दग्धपटवत्प्रतिभासमानेऽपि शरीरादिकेऽयं मुक्त एव । अत एव श्रूयते 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ. -मोऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥' इति जीवन्मुक्तिरिति । तत्र बेम:-यदि शरीरादि- - ३०० मानमेयप्रकाशिकायां [प्रमेय सम्बन्धः साक्षात्कारेण दग्धो नायं जीवति । शरीरादिसम्बन्ध एव हि जीवन बन्ध इत्यप्युच्यते । अथ न दुग्धः कथं मुक्का, वन्धस्य सत्वात् । जीवन्मुकस्यापि शरीरादेर्गमनाभ्यवहारादिव्यव- हाराश्च दृश्यन्त एव । अतो न दुग्धपटसाम्यम् । नहि दग्धपटस्य प्रतिभासातिरेकेण कार्यान्तरार्हता । किञ्च जीवत एव मुक्ती मुक्त्यर्थं मूर्धन्यनाड्योत्क्रान्त्यादिप्रतिपादनं श्रौतमनुपपन्नं स्यात् । तथा च श्रूयते-'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानम- भिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वड्डन्न्या उत्क्र. मणे भवन्ति' इति । न चापरमुक्तिविषयेय श्रुतिरिति वाच्यम् । 'विमुक्तश्च विमुच्यते' इति हि पूर्व प्रकृतम् । शरीरे स्थित एव रागद्वेपादिदोपैर्पिमुक्तः अन्तकाले च मूर्धन्यनाड्या निष्कम्य मार्ग- विशेषेण देशविशेपं प्राप्य विमुच्यत इति तदर्थः । अत्रावस्थिते शरीरे मुक्तिः पूर्वमुक्ता सा अपरा, अनन्तरोता च परा । अतः परममुत्त्यथैवोत्क्रान्तिः प्रतिपाद्यत इति । आपस्तम्यादिभिश्च जीव- न्मुक्तिनिरस्ता-'बुद्धे क्षेभमापणं तच्छाधिप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणमिहेव न दुःखमुपलभेते' इत्यादिना । 'अध मोऽमृतो भवति' इलस्य च रागद्वेषादिदोपनिवृत्तौ पुनः संसा- रफारणाभावान्मुक्तमाय इत्यर्थः । 'अत्र ब्रह्म समभुते इति घ उपासनाकालीनब्रह्मानुभवपरम् । 'समाना चामृत्युपक्रमादमृतः त्वं चानुपोप्य' इति सूत्रभाष्ये एवमेव वर्णितं श्रीमाप्यकारः । अतो जीपन्मुक्तव्यपहारो मुक्तप्रायत्वामिमायो गौण एव । तथा पोक्तं तत्त्वमुकामलापे-'मुक्तिः प्राणाक्षदेहादिमिरपाधिमिर- त्यन्तविश्परूपा जीवदावोऽपि तैः सङ्गम इति विहतेर्जी- - प्रकाशे] जीवपरिच्छेदः। ३०१ वतःसा कथं स्यात् । आपस्तम्पादयश्च श्रुतिगतिभिरिमा युक्ति- भिश्च व्युदासुः जीवन्मुक्तादिशब्दः कचिदुपचरितस्तत्समा- वस्थयैव ।।' इति । अतो भक्तिप्रपत्त्यधीनभगवत्प्रसादाधीन एव परमो मोक्षोऽक्षरे धानि तदनुभवसेवालक्षण इति युक्तम् । ननु 'स स्वराभवति' इति मुक्तस्य स्वराट्वं श्रयमाणं मुक्तावपि सति परमात्मशेपत्वे विरुद्धयेत ।मैयम्। संसारदशायां यादृशं पारवश्यम- भूत्तन्निवृत्तिपरत्वात् स्वराट्ववचनस्य । 'अन्यराजानस्ते क्षय्य- लोका भवन्ति' इति कर्मपारवश्यं हि संसारदशायां श्रूयते तन्न मुक्तौ । ईश्वरपरतत्रोऽपि तत्सङ्कल्पतः स्वस्याप्रतिहतसङ्कल्पत्वान्मुक्तो यथासङ्कल्पं सर्व प्राप्तुं क्षमत एव । अत एव महर्षिभिरुपवर्णितम्- 'पारतव्यं परे पुंसि प्राप्य निर्गतवन्धनः । स्वातन्त्र्यमतुलं प्राप्य तेनैव सह मोदते ॥' इति । अत एव च सूने 'अनन्याधिपति' रित्येवोक्तं न वनधिपतिरिति । सूत्रेऽन्यशब्दः श्रुत्यनुसारात्कर्मपरो वोध्यः। ईश्वरस्य तु मुक्तेन समानाभिप्रायत्वात् मुक्तात्मनोऽनन्यत्वं विवक्षितम् । अतो भगवच्छेपस्यापि मुक्तस्य स्वरात्यमुपपन्नमेय । नित्यमूरिवर्णनम् । ये पुनरक्षरे धान्नि नित्यदिव्यविप्रहा अनन्तगरुडविष्वक्सेनादयो नन्दसुनन्दश्रीदामप्रभृतयश्च सन्ति ते अनादिमुक्ता नित्यसूरय इत्यप्युच्यन्ते । तेषु केचित्प्रतिनियताधिकाराश्च सन्ति भगवनिये च्छया । 'यत्रर्पयः प्रथमजा ये पुराणाः' 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः' 'ते ह नाकं महिमानः सचन्ते यत्र पूर्व साध्याः सन्ति देवाः' 'यदक्षरे परमे प्रजाः' 'तद्विप्रासो विप- न्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम्' 'वैकुण्ठे [प्रमेय- ३०२ मानमेयप्रकाशिकायां तु परे लोके नित्यत्वेन व्यवस्थिताः। पश्यन्ति च सदा देवं नेत्रैर्ज्ञानेन चामराः ।।' 'नित्यातीतो जगद्धाता नित्यमुक्तेश्व सेवितः। बद्धाञ्जलिपुटै टैनिर्मलैनिरुपद्रवैः॥' 'उपाश्रितं नन्द- सुनन्दमुख्यैः .....उपास्यमानं गरुडेन चाग्रतः''श्रीदा- मविश्वक्सेनाद्यैः पार्षदमवरैनिजैः । सेवितं राजचिहश्च छत्र- व्यजनचामरैः ॥' इत्यादिप्रमाणजातं नित्यसूरिविपये जागर्ति । अत एव मुक्तप्रवाहेणैवोपपत्तौ नित्यसूरयः केचन सन्तीत्यभ्युपग- मोऽनर्थक इति वादस्य नायसरः । यदा भगवतोऽप्राकृतं लोक- धामादिकं नित्यमिष्यते तदा नित्यपार्पदमात्रे को चा विद्वेपः । नित्येपु मुक्तेपु च स्त्रीविग्रहभेदोऽपि शास्रसिद्धः । तथा हि- "हीश्च ते लक्ष्मीश्च पत्यौ' 'अस्येशाना जगतो विष्णुपली', 'नित्यैवेपा जगन्माता विष्णोः श्रीरनपायिनी' 'अन्येषु चाव- 'तारेषु विष्णोरेपानपायिनी' 'राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि' 'श्रीर्वधूः साकमास्ते' 'राधालक्ष्मीयुतो नित्यं वसामि स्वाभितैः सह' इत्यादौ नित्यं भगवतो दिव्यमहिपीयोगो वर्णितः । तथा विमलादिनित्यपरिचारिकावर्गश्वोक्तो भगवच्छास्त्रेषु। 'जयासुशीलाललितामुखानां वृन्दैः सखीनां सह राधया च । समय॑मानं रमया च भामाकलिन्दजाजाम्बवतीमुखा- नाम् ।।' इति च वासुदेवमाहात्म्ये । सम्प्रदायमन्थेषु च राधाल-, म्यादीनां स्त्रीरूपिणीनां नित्यं भगवत्सेवानिरतत्वं वर्णितमस्ति- 'राधारमाद्या अपि शक्तयस्तं भजन्ति समाजमिव स्वदास्य' 'राधारमादिभिः स्वाभिः शक्तिभिश्च निषेवितम् ॥' 'राधा- लक्ष्म्यादिभिस्तत्र सेव्यमानः स्वशक्तिभिः । रत्नसिंहासने प्रकाशे] जीवपरिच्छेदः। ३०३ रम्ये श्रीकृष्णो हि विराजते ॥' 'राधारमाप्रमुखशक्तिभि- रानताभिर्भक्त्यानुवेलमभिसेवितपादपद्मः ॥' 'तस्थापश्यन् वामभागे लक्ष्मी पद्मकरां च ते।xxx वीजयन्तीं निजपति तादृशी राधिका तथाxxx योऽस्मत्स्वामी स एवासि कृष्णो राधारमायुतः।xxx कोट्यर्केन्दुप्रकाशस्य राधालक्ष्मीयुतस्य ते। ईक्षणं भक्तिधर्मादेश्चात्यन्तं दुर्लभं नृणाम् ॥ 'संपूजितो राधिकया च लक्ष्मया' 'श्रीकृष्णो भगवान् तत्र सदा स्वामी विराजते । सप्रेम राधालक्ष्मीभ्यामय॑मानपदाम्बुजः ॥' 'लीलाविहरणं राधादिभिः परमधामनि' 'कोट्यर्काभनखद्यो- तो यक्षरादौ य ईश्वरः । राधालक्ष्म्यादिभिर्दिव्यसामग्र्या सेव्यतेऽनिशम् ॥' 'तस्य पादरजो मूर्भा राधालक्ष्म्यादिश- तिभिः । ईशैब्रह्मादिभिः प्रीत्या योगेशैश्चोह्यतेऽखिलैः ॥' 'राधालक्ष्मीतत्सखीभिर्जुष्टो ध्येयः प्रभुर्भवेत् । ... श्रीराधा- तत्सखीनां च रूपाण्यपि पृथक् पृथक् । अवश्यं तत्र वानि तदङ्गानि पृथक् पृथक् ॥ राधादीनां तु देवीनां वाङमाधुर्य सुगन्धिता।यादृशं चास्ति सौन्दर्यतादृग् नास्त्येव कुत्रचित्॥' इत्यादि । श्रीभाष्यकारैश्च वर्णितं वेदार्थसगहे-'स्वाभिमतस्वा- नुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाधनवधिकमहिममहिपी' इति । गद्यत्रये च-'शेपशेपाशनगरुडप्रमुखनानाविधानन्तप- रिजनपरिचारिकापरिचरितचरणयुगलः' इति । विरजामुप- सन्ने च मुक्ते परमात्मनाऽऽज्ञप्तानामप्सरःस्त्रीणां मालादिहस्तानां मुक्तमलङ्कर्तु प्रत्युद्गमनं श्रूयते कौषीतक्याम्-'तं पञ्चशतान्यप्स- रसा प्रतिधावन्ति शतं मालाहस्ताः शतमजनहस्ताः शतं 2 T- ३०४ मानमेयप्रकाशिकायां [प्रमेय- चूर्णहस्ताः शतं वासोहस्ताः शतं फणहस्तास्तास्तं ब्रह्मालङ्का- रेणालङ्कुर्वन्ति स ब्रह्मालङ्कारेणालङ्कृतो ब्रह्म विद्वान ब्रह्मैवा- भिप्रेति इति । सत्यपि स्त्रीविग्रहभेदे न प्राकृतवत्कामविकारस्यावसरः, यतः श्रीपुरुपोत्तमानुभवैकप्रचणाः सर्वे । चणितं चैतत्सत्सदिजीवने- 'एकान्तिकानां मुक्तानां कोटिभिस्तत्परिनितम् । योपाभिः कृष्णभक्ताभिर्मुक्ताभिश्चापि कोटिशः॥ स्त्रियश्च पुरुषाश्चैते भवन्ति दिव्यमूर्तयः । अप्राकृतेन्द्रियप्राणा दिव्यालङ्कारवा- ससः॥ कृष्णादेव सुखेच्छाऽस्ति तेपां तत्र न चान्यतः। सुखं समै हि सर्वेभ्यो ददाति स च सर्वदा ॥ न कामवासना तेषां स्त्रीपुंसानां परस्परम्' इति । ह. वा. सुधासिन्धौ च -'विलोक्य मातरं स्वस्य स्वसारं वापि कन्यकाम् । सुरूपामपि नोदेति विक्रिया मनसि क्वचित्॥ इयं मातेत्यादिवुद्धेर्दाात्तत्रान्यथा मतिः। यथा न जायते पुंसः कामुकस्यापि कहिंचित् ॥ तथैव भगवद्भक्तसुन्दरीष्वपि सर्वदा । जगन्मात्रादिबुद्ध्यैव नोदि- याद्विक्रिया कचित् ॥' इति । नित्यानां मुक्कानां च भगवत्सेवाप्रकारोऽपि वर्णितस्तत्रैव-'श्री- दामविपक्सेनाद्यैः पार्पदैर्दिव्यविग्रहैः । सेव्यमानश्च सच्छ- त्रचामरव्यजनादिभिः ॥ सुदर्शनादिभिः स्वार्मूर्तिमन्छि- रुपाश्रितः । ऐश्वर्याधैर्भगैः पनिः सिद्धिभिश्चाणिमादिभिः ।। असहयैश्च महामुक्तैर्दिव्यसुन्दरविग्रहः । दिव्यैरनेकोपचारैः पूज्यमानपदाम्बुजः ॥' 'श्रीदामनन्दप्रमुसैः पार्पदैर्दिव्यवि- प्रहः। सेव्यमानः सितच्छत्रचामरादिभिरादरात् ॥ शिव- .

प्रकाशे] जीवपरिच्छेदः। - ३०५ ब्रह्मादिभि कब्रह्माण्डाधीश्वरैनतैः । मुक्तैरन्यैश्वाच॑मानों गन्धपुष्पांशुकादिभिः॥ इति । भक्का एकान्तिका येन देहान्ते तेऽपि धाम तत् । प्राप्याक्षरसधर्माणः सेवन्ते कोटिशो हरिम॥ अतः सत्सङ्गिभिः सर्वैः प्राप्यं धामाक्षरं बृहत् । तन्मुक्तपतौ स्थास्याम इति कार्योऽत्र निश्चयः॥' 'तस्मिन् हि.परमे धाम्नि सदा कृष्णो विराजते । स्वसधर्मेरसंख्यातैर्महामुक्तैरुपासितः॥ 'निजेऽक्षरे परे धाम्नि कोटिसूर्यादिभास्वरे। सदा दिव्याकृतिः कृष्णो भगवान् पुरुपोत्तमः॥ मुक्तैर्विराजते दिव्यब्रारूपैनि- पेवितः स एव कृपया भूमौ जायतेऽत्रं नराकृतिः ॥' 'अक्षरात्मकमुक्तौघसेविताभिश्च वर्तते ।' 'दिव्यसिंहासना- रूढं नैकमुक्तगणैर्वृतम्......दिव्यचन्दनपुष्पस्रशेखरैर्चित निजैः' 'दिव्याभिःसर्वसम्पद्भिः पार्पदैदिव्यविग्रहः । शक्तिभिः सेव्यमानश्च स्वतन्त्रोऽस्तीश्वरेश्वरः॥' 'परोक्षं ब्रह्मधामस्थ गोलोके द्विभुजं सदा । राधया च श्रिया जुष्टं कोदिसूर्य- समद्युति ॥ श्रीदामनन्दप्रमुखैः पार्पदैस्तन्निपेवितम् ॥' अक्षरे धानि कृष्णस्य तद्भक्तानां च सर्वशः। याः सन्त्याकृतयस्ता: स्तु सत्यां दिव्याश्च भासुराः ॥ पुरुषाकृतयः सन्ति स च ते तन धामनि । सच्चिदानन्दरूपाश्च दिव्याङ्गवस्त्रभूपणाः॥ तैः सेवितोऽसौ विविधैः प्रेम्णा दिव्योपचारकैः । परमान: न्ददस्तेभ्यो वर्तते तत्र सर्वदा ॥' इति च । वर्णितं नाम जीवस्य स्वरूपं ज्ञातृतादिकम् । जीव इत्यु- च्यते देहादिकजीवयितृत्वतः ॥ तथा च जीवशब्दार्थः सुधासिन्धौ- समीरितः । प्रकाशकत्वाच्चिद्रूपो जीवनाजीव . मान०प्र०२० [प्रमेय- ३०६ मानमेयप्रकाशिकायां उच्यते ॥ प्रतीपमञ्चनाच्चैव प्रत्यगित्युच्यते त्वयम् । सर्वो हीदमिति त्वन्यस्मा एव प्रतिभासते ॥ आत्मा त्वमिति स्वस्मै तस्मात्सिद्धा प्रतीपता। धारकत्वनियन्तृत्वशेषित्वैा-, पनादयम् ॥ वपुष्यात्मेति कथितो यद्वा वै विपयादनात् । शरीराख्ये पुरे शेते यतोऽतः पुरुपो मतः ॥ क्षेत्रस्य वेदित त्वाच्च क्षेत्रज्ञ इति कथ्यते । स्वरूपमस्य तु सदा भासमानमहं त्विति ॥ अतो ज्ञानस्वरूपोऽयं ज्ञाता च विषयग्रहात् । घटा- दिज्ञानरूपस्तु न स्वयं नित्य एप हि ॥ अस्यार्थग्रहरूपत्वे स्युनित्या अर्थबुद्धयः । अतोऽस्य धर्मो यज्ज्ञानं तदेवार्थस्य 'बोधने ॥ क्षमं हासविकासादियोगि तच्चोररीकृतम् । प्रसंग- तोऽवबुद्ध्यर्थ तल्लक्ष्माद्यत्र कथ्यते ॥ अस्य प्रकाराः कति- चिद्धमप्रत्यक्षतादयः । उक्ताः प्रमाणभागेऽत्र कथ्यन्ते कति- चित्पुनः॥ धर्मभूतज्ञाननिरूपणम् । ज्ञानलक्षणम् । नित्यविभूतिभिन्नत्वे सत्यचेतनत्वे सति स्वयम्प्रकाशत्वम् , विभुत्वे सति कालान्यत्वे सत्यपृथक्सिद्धधर्मत्वम् , अर्थप्रकाशासाधारण- फारणत्यमित्यादीनि ज्ञानस्य लक्षणानि । यद्यपि स्वयंप्रकाशत्वं जीवपरयोः, अथापि नाचेतनत्यम् । तदुभयं नित्यविभूती; न तु तद्भेदः । नित्यविभूतिभिन्नत्वे सत्यचेतनत्वं प्रकृत्यादेः; न तु स्वयं- प्रकाशत्वम् । अपृथक्सिद्धिः सत्त्यादी; न तु विभुत्वम् । विभुत्वे सतीश्वरोपक्सित्यं फाले; न तु सद्भेदः । कालान्यत्वे सति 'विभुत्वमीश्वरे; न तस्याप्यसिद्धधर्मत्यम् । ज्ञानस्य त्यहमर्थमा- .

. प्रकाशे] 'जीवपरिच्छेदः। ३०७ स्मानं प्रत्यपृथक्सिद्धधर्मत्वं प्रतीतमहं जानामीति । घटादेरर्थस्य 'प्रकाशो नाम व्यवहारानुगुण्यम् । तदसाधारणकारणं च ज्ञानमेव । यद्यपि जीवज्ञानस्य न विभुत्वं सर्वद्रव्यसंयोगित्वलक्षणम् । अथापि तहत्वरूपमेवात्र विवक्षितम् । सुपुप्तौ सतोऽपि ज्ञानस्य भानाभावोऽतिसङ्कोचावस्थाप्राप्त्या । विषयप्रकाशकाल एव तु खाश्रयायेदं स्वयंप्रकाशम् । उत्पन्ने घटज्ञानेऽहं घटज्ञानवान्न वेति संशयस्यानुदयाटज्ञानस्य प्रकाशे वक्तव्ये तस्यान्याधीनत्वक- रूपनायां गौरवात्स्वपरनिर्वाहकत्वमाश्रिय स्वाधीनत्वकल्पनस्यैव युक्तत्वात् । अत एव ज्ञानस्यातीन्द्रियत्वमनुमेयत्वं च ज्ञाततालि- ड्रेनेति मतनिरासः। विषयविपयिभावलक्षणसम्बन्धमात्रेण ज्ञातो घट इति प्रतीतेर्निवाहे ज्ञातताशब्दितस्य धर्मान्तरस्य कल्पनायां चातिगौरवम् '। अन्यथा इष्टत्वद्विष्टत्वकृतत्वादिकमपि धर्मान्तरं कल्पनीयं प्रसज्यते । अतीतानागतेपु च ज्ञातताव्यवहारो विपय- विषयिभावेनैव निर्वाह्यः, तेषां ज्ञानकालेऽसत्वेन समवाय्यभावेन ज्ञाततायास्तदोत्पत्तेरयोगात् । साधितं च ज्ञानस्य स्वयम्प्रकाशत्वं बुद्धिलक्षणबुद्धीश्वरबुवादिनिदर्शनेन सत्त्वमुक्ताकलापे 'धीत्वा- द्वनीति सिद्धा स्वयमितरमतिर्युद्धिलक्ष्मादिधीवद्यद्धा सर्वज्ञ-. धीवन समतियुगवान् नापि चैकोनवेदी।नो चेद्धारामती सा प्रथममपि सती नावयुद्धेति धीः स्यात् स्वस्यां वृत्तेविरोधोऽ- प्युपशमनमियादुक्तदृष्टान्तनीत्या ॥' इति । ज्ञानस्य नित्यत्वम् । नित्यस्यात्मनः स्वरूपनिरूपधर्मत्वेनेदं नित्यं च । तथा च अविस्मृतयः- अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा' ३०८ मानमेयप्रकाशिकायां [प्रमेय- 'एवमेवास्य परिद्रष्टुरिमाः पोडशकलाः पुरुषायणाः पुरुष प्राप्यास्तं गच्छन्ति' 'न विज्ञातुर्विज्ञातेविपरिलोपो विद्यते अविनाशित्वादात्मनः' 'ज्ञानं वैराग्यमैश्वर्य धर्मश्च मनुजे- श्वर!। आत्मनो ब्रह्मभूतस्य नित्यमेतच्चतुष्टयम् ॥' (अत्र धर्मो भगवच्छेपत्वम्) इत्याद्याः । आये 'अनुच्छित्तिधर्मे'त्यत्र बहु- बीहिगर्भवहुव्रीहिणा धर्मतोऽप्यनुच्छित्तिलाभात् , द्वितीये कलापोड- शकस्य लयकालेऽपि स्वरूपनिरूपकधर्मत्वेन निर्देशतो लयाभा- वावगमात्, तृतीये स्वरूपनिरूपकधर्मत्वेन निर्देशादात्माविनाशन- युक्ताविलोपकीर्तनाथ ज्ञानस्य नित्यत्वं सिद्ध्यति । 'ज्ञोऽत “एवं' इत्यत्रातः श्रुतिप्रमाणादेवात्मा ज्ञ एवेत्यवधारणेन ज्ञानस्यात्मस्वभा- वत्वव्यवस्थापनाच नित्यत्वं लभ्यते । नच ज्ञानस्य नित्यत्वे सुपु- त्यनुपपत्तिः, सर्वविज्ञानोपरमस्यैव सुषुप्तित्वादिति वाच्यम् । विद्यमानस्यापि ज्ञानस्योद्बुद्धतमोगुणाभिभूतकरणकत्वेनार्थाप्रकाशक- त्यादेव सुपुप्त्युपपत्तेः । 'पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियो- गात्' इति सूत्रे च सुपुप्तौ सतोऽपि ज्ञानस्य जागरस्वप्नयोर्विप- यग्रहणकाल एवाभिव्यक्तिरुच्यते । मुक्तौ च ज्ञानमस्त्येव । मुक्तस्य सर्वसाक्षात्कारश्रुतेः 'सर्व ह पश्यः पश्यती'यादेः । 'न प्रेत्य- संज्ञास्ती'ती मुक्ती ज्ञाननिपेधश्रुतिस्तु हेयदुःसाद्यदर्शनपरा । 'नोपजनं स्मरन्निदं शरीरम् 'नपश्यो मृत्यु पश्यति न रोग नोत दुःखताम्' इत्यायैककण्ठ्यात् । एवं सुपुप्तिमुक्त्योरप्यन्वया- ज्यानस्य नित्यत्वं स्थितम् । ज्ञानस्य प्रसरणसङ्कोची। नित्यस्यात्मनो नित्यभूतं च ज्ञानं एकेकस्यैकैकमेव लापवायुक्तं प्रकाशे]. जीवपरिच्छेदः। भन्तुम् । तस्यैव ज्ञानस्य तत्तदिन्द्रियद्वारिकया तत्तत्कालिकतत्तदर्थग्रह- णार्थप्रमृतिमिदया पुनस्तत्तदर्थज्ञानभेदः प्रसिद्धः। प्रसरणसङ्कोचौ च ज्ञानस्य "प्रज्ञा च तस्मात्मसृता पुराणी" (श्वेता.) "आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा" . 'अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिप्यते । यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥ संसारतापानखिलानवामोत्यतिसन्ततान् । तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ॥ सर्वभूतेषु भूपाल तारतम्येन वर्तते । अप्राणवत्सु स्वल्पा सा स्थावरेपु ततोऽ- धिका । सरीसृपेषु तेभ्योऽपि ह्यतिशत्या पतत्रिपु । पत- त्रिभ्यो मृगास्तेभ्यस्तच्छत्या पशवोऽधिकाः ॥ पशुभ्यो मनु- जाश्चातिशक्त्या पुंसः प्रभाविताः। तेभ्योऽपि नागगन्धर्वय- क्षाद्या देवता नृप ।। शक्रः समस्तदेवेभ्यस्ततश्चातिप्रजापतिः । हिरण्यगर्भोऽपि ततः पुंसः शत्स्युपलक्षितः ॥' 'इन्द्रियाणां हि चरतां ययेकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥' इत्यादिश्रुतिस्मृतिसिद्धौ । अयमाशयः-स्वतः सर्वविषयावगाहनसमर्थमपि ज्ञानं बन्धा- वस्थायां कर्मणा सङ्कुचितत्वात्तत्तज्जीवगतसुकृततारतम्यात्प्रतिजीवं तरतमभावापन्नविषयग्रहणात्मकं वर्तत इति । तरतमभावेन विप- यग्रहणमपि तदेन्द्रियद्वारकं प्रसरणभेदमपेक्ष्य । प्रसरणतन्निवृत्त्य- पेक्षश्च घटज्ञानमुत्पन्नं पटज्ञानं विनष्टमित्यादिव्यवहारः । अत्र श्रीभाध्य-"अतः क्षेत्रज्ञावस्थायां कर्मणा सङ्कुचितस्वरूपं तत्त- स्कर्मानुगुणेन तरतमभावेन वर्तते । तच्चेन्द्रियद्वारेण व्यव.. स्थितम् । तमिममिन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्योदयास्तमय- ३१० मानमेयप्रकाशिकायां .[प्रमेय- व्यपदेशः प्रवर्तते" इति । योगिनां तु प्रकृष्टादृष्टविशेषसहकारा- द्विप्रकृष्टादिप्रकाशकत्वं धियः । मुक्तधियस्तु कर्मकृततिरोधानस्या- त्यन्तिकनिवृत्त्या सर्वविपयावगाहितालक्षणो वैभवातिशयः । सूत्र- कारैश्च संसारदशायां कर्मानुगुणाद्भगवतः सङ्कल्पाजीवज्ञानादेः खाभाविकावस्थातिरोधानमुपासनादिप्रसन्नस्य तस्यैव सङ्कल्पविशे- पाच तिरोधाननिवृत्त्या स्वाभाविकनिरतिशयविकासप्रादुर्भावोs- प्यसूत्रि-“पराभिध्यानात्तु तिरोहितं ततो ह्यस्य वन्धविपर्ययो" "देहयोगाद्वा सोऽपि” “सम्पद्याविर्भावः स्वेन शब्दात्" इत्यादिना । मुक्तज्ञानस्य युगपद्वित्रिक्षणान्तरे या सर्वब्रह्माण्डोदर- व्यापित्वमुद्यत एच सहस्रदीधिते रश्मीनां द्यावापृथिव्योरन्तराले कृत्स्नेऽपि व्याप्तिरिव वेगातिशयाद्भगवत्सङ्कल्पवलाच घटते । उक्त चैतत्सर्व तत्त्वमुक्ताकलापे-"ज्ञातुप्रिलोपं कथयति निगमः स्मयते चैवमेपा तस्मादेकत्वसिद्धौ प्रसरणभिदया तदिदैकत्र पुंसि । योग्यादृष्टेरभावान्न च भवति सुषुप्त्याद्यवस्थासु वाधः तत्तद्वस्तुप्रकाशक्षणविरहवती न प्रकाशेत बुद्धिः ॥ नित्यं नित्यादिवुद्धिनिखिलविपयिणी तद्वदेव स्वभावः शास्त्रैः क्षेत्र- ज्ञबुद्धेरपि समधिगतः कर्मभिस्तन्निरोधः। सङ्कोचोल्लासयोश्च प्रतिनियतिरिह स्यादुपाधिप्रभेदान्निम्शेपोपाधिमोक्षे निखि- लविषयतामनुवीत स्वभावात् ॥ मुक्तानां धीः क्रमाञ्चेत् प्रसरति न कदाप्यन्तमेपाधिगच्छेत् सद्धिप्तायाश्च दूरान्ति- फपरिपतने यौगपद्यं न शक्यम् । संयोगो भूतभव्येप्चपि न हि घटते तद्धि यः सांप्रतिक्या इत्याद्यैर्न क्षतिः स्यात् श्रुतिमु- सविदिते योग्यतोवैभवेऽस्याः॥" इति ।

प्रकाशे]. जीवपरिच्छेदः। ज्ञानस्य द्रव्यत्वम् । इन्द्रियद्वारेण प्रसृत्य द्रव्येण संयोगाज्ज्ञानस्य द्रव्यत्वम् ; गुण- 'क्रियावत्त्वात् । आत्मसम्बन्धमपरित्यज्यैव विकासशत्तया प्रसर- णादात्मधर्मत्वं च स्थितम् । यथा प्रभायाः प्रदीपादिधर्मभूतायाः प्रदीपसम्बन्धापरित्यागेनैवान्यन व्याप्तिः । अत एव प्रभारूपतेजो- धर्मकत्वात्तेजस्वीति व्यपदेशः प्रदीपादेः । यो यदाश्रितस्वभावः स तद्गुण इति च गुणलक्षणम् । वैशेषिककल्पिताऽद्रव्येष्वेव गुण- परिभाषा तु नादर्तव्या । अप्रधानेपु सेवकादिपु ध्यादिध्यपि हि गुणत्वन्यपदेशो लौकिकवैदिकसम्प्रदायसिद्धः । तथा चोक्तं श्रीम- द्यामुनमुनिभिः-"आश्रयादन्यतो वृत्तेराश्रयेण समन्वयात् । द्रव्यलं च गुणत्वं च ज्ञानस्यैवोपगम्यताम् ॥” इति । उपपा- दितं च तत्त्वमुक्ताकलापेऽपि ज्ञानस्य द्रव्यत्वम्-"वुद्धिव्यं विकारान्वयत इतरवद् योवञ्चाजडत्वात् सङ्कोचादिप्रयोगा वहव इह तथा नह्यमुख्या भवेयुः। एवं नास्या गुणत्वं गलति न खलु तत्तनसङ्केतसिद्धं लोके धर्मस्वभावो गुण इति विदितं सापि सिद्धा प्रभावत् ॥” इति । विषयविपयिभावः। अत्रेदं योध्यम्-ज्ञानस्येन्द्रियद्वारा प्रसृत्य संयोगो वर्तमानैर्वि- पथैर्घटते । स एव विपयतालक्षणो योग्यविपये । तद्गुणेषु च योग्येषु संयुक्ताश्रितत्वं विषयत्वम् । वाय्वादिना संयोगेऽपि अप्र- कारानं चाक्षुषेण ज्ञानेन तस्सायोग्यत्वात् । चक्षुर्दारकप्रसरणवि. शिष्टस्य ज्ञानस्य वायवाद्यवाहकत्यात् । अतीतानागतैस्तु सम्बन्धो . विपय विपयिभावलक्षणः एवेपितव्यः । स च खरूपसम्बन्ध- ३१२ मानमेयप्रकाशिकायां [प्रमेय- विशेपोऽतिरिक्तो वाऽस्तु । तथा चोक्तं सर्वार्थसिद्धौ "मुक्तानां धीः क्रमाचेदिति श्लोकव्याख्याने-"मुख्यासम्भवे गौणग्रहः साधा- रणः। तथा च संयोगसम्भवे स एव पाह्यः । तदभावे विपयविप- यिभावस्तत्स्थानापन्नः स्वीकार्यः' इति । इच्छादीनां ज्ञानेऽन्तर्भावः। इच्छाद्वेपसुखदुःखयत्नसंस्काराश्च ज्ञानस्यैवायस्थाभेदाः । आग- न्तृकापृथक्सिद्धधर्मो ह्यवस्था । तद्वत्त्वं च द्रव्यलक्षणं ज्ञानस्यास्ति । प्रत्यक्षत्वानुमानत्यादिव दिच्छात्वद्वेपत्वादेरपि ज्ञानस्यैव तत्तदुपा- धिप्रयुक्तावस्थाभेदरूपत्वं सम्भवि । यथा प्रकृतेर्मदादिविकाराः । यथा इच्छेकैव विपयभेदात्कामक्रोधसंज्ञां लभते अनुकूलविषय- प्राप्तीच्छा कामः प्रतिकूलविपयनिरासेच्छा च क्रोध इति । यथा वा एकैव भगवत इच्छा सिसृक्षा सजिहीर्षेति चोच्यते विषयभे- दात् । विषयभेदनियममात्रेणेच्छातो द्वेपस्य गुणान्तरत्वे तु माने- ासूयादीनामपि गुणान्तरत्वं प्रसज्यते । चन्द्रस्पर्शादीच्छन्तोऽपि न चन्द्रग्रहणे प्रवर्तामहे । अतो यत्नस्त्ववस्थाभेद इच्छातिरिक्तः खीकर्तव्यः । सुखदुःसहेतुभूतानुकूलप्रतिकूलज्ञानयोरेव सुखदुःख- रूपत्वमुचितम् । 'मुखमनुभवामी'त्यादि तु 'घटं पश्यामी'त्या- दिवत् । सांशस्य ज्ञानस्य नित्यद्रव्यत्वात्पूर्वानुभवसूक्ष्मांश एय संस्कारोऽपीति । न च "कामः सङ्कल्पो विचिकित्सा श्रद्धा- श्रद्धा धृतिरधृति ही(भीरित्येतत्सर्व मन एवं" इति श्रुती पामादीनां मनोधर्मत्वोच्या फयं झानायस्थारूपत्वमिति पाच्यम् । तत्र फागादिशानावस्थाजनकच्यापारविशिष्टस्य मनसः फामाद्य- भदोपचारात् "आयुर्वं घृत"मित्यादियत् । प्रफरणानुसारादयमे प्रकाशे] जीवपरिच्छेदः। ३१३ वार्थः । सर्वशब्दानां वाचोचार्यमाणानां वागभिन्नत्वेन वर्णनं हि, तत्रैवास्ति। अत्र संसारदशायां धर्मभूतज्ञानस्य तत्तद्विपयसंप्रयोगोपाधि- वशाजायमानाः सुखत्वदुःखत्वाद्यवस्थाभेदाः कर्मवैचित्र्यकृत्ता न स्वाभाविकाः, गुणमयप्रकृतिसंसर्गविशेषप्रयुक्तत्वात् । सर्वोपाधि- विनिर्मोके या भगवद्विभूतिभूतसकलपदार्थावगाह्यपरिच्छिन्नान- न्दरूपसाक्षात्कारावस्थाप्राप्तिः सैव स्वाभाविकी । तथा चोक्तं विष्णुपुराणे-“निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमला धर्माःप्रकृतेस्ते न चात्मनः ॥ जलस्येवाग्निसं- सृष्टस्थालीसङ्गात्तथापि हि । शब्दोद्रेकादिकान् धर्मान् तत्क- रोति यथा मुने ॥ तथात्मा प्रकृतेः सङ्गादहम्मानादिदूपितः। भजते प्राकृतान् धर्मानन्यस्तेभ्योऽपि सोऽव्ययः ॥” इति । (अनात्मधर्मस्य दुःखादेः प्रकृतिसंसर्गोपाधिनिवन्धनत्वात्मकृते. रित्युक्तं प्राप्ताप्राप्तविवेकतः ) "निरस्तातिशयाहादसुखभावैकल- क्षणा । भेप भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥” इति च । मुक्ती सर्वोऽपि पदार्थो भगवद्विभूतित्वेनानुकूलतयैव भासते न कोऽपि प्रतिकूलतया । तदुच्यते 'नोत दुःखतामिति । अनुकूल- प्रकाश एवानन्दो नाम । तथा च सर्वसाक्षात्कारिणो मुक्तस्यापरि- च्छिन्नानन्दयोगः सिद्ध्यति । एवं मुक्तेन क्रियमाणे परिपूर्णपर- ब्रह्मानुभवसुखे च ब्रह्माण्डाधिपत्यादिसुखं समुद्र विन्दुरिव कणि- कामात्रमिति वर्णितं तत्त्वमुक्ताकलापे-"निःसीमब्रह्मतत्त्वानुभ- वभवमहाहाददुग्धार्णवेऽस्मिन् निःशेपैश्चर्यजीयानुभवरस- [प्रमेय- मानमेयप्रकाशिकायां भरो विन्दुभावोपलक्ष्यः।" इति । एवं मुक्तिकाले जीवज्ञानस्य अनवधिकातिशय विकासः स्थितः । स्वाभाविकं हि ज्ञानस्य सर्वार्थानामपि स्फुटम् । साक्षात्म- काशकत्वं तु मुक्तावीशादिबुद्धिवत् ॥ बन्धे तु कर्मणा ज्ञान तिरोभूतं न सर्वगम् । किन्विन्द्रियद्वारिकया प्रसृत्या ग्राहक मतम् ॥ नित्यजीवस्वभावत्वाज्ज्ञानस्यापि हि नित्यता । प्रसा- रतन्निवृत्तिभ्यां जातनष्टत्वधीमता ॥ द्रव्यत्वेऽप्यस्य सङ्कोच. विकासाद्यन्ययात्सति । नित्यमात्माश्रयत्वेन तद्गुणत्वं व्यव- स्थितम् । द्रव्यत्वादेव चान्यत्राश्रयात्प्रसरसम्भवः । अभक्त्वा धर्मिसम्बन्धमालोकस्येव तेजसः॥ त्रिवर्गता तु जीवस्य योक्ता वद्धादिभेदतः । ज्ञानावस्था- भेदतः सा विभाव्या तत्त्वदर्शिभिः ॥ ये तु सङ्कुचितज्ञाना बद्धास्ते सम्प्रकीर्तिताः । पश्चादुद्भुतवोधा ये मुक्तास्ते -तु प्रकीर्तिताः ॥ नित्योभूतप्रयोधास्तु कथ्यन्ते नित्यसूरयः। अनादिमुक्ता इति च कीर्त्यन्ते त्वेत एव हि ॥ चतुर्मुख- महेशाद्या ईश्वरा ये च तेऽपि हि । अन्तर्भवन्ति वद्धेषु गताश्च प्राकृतं लयम् ॥ ये मुक्तास्ते द्विधा केचित्स्वात्मभोगै- कतत्पराः। परे तु परमेशस्य भोगसेवासु तत्पराः ॥ मुक्ताः कचित्तु शब्द्यन्ते ब्रह्म चाक्षरमित्यपि ॥ मुक्तौ कर्मतिरोधान- निवृत्ता चेतनस्य तु ॥ चेतनाया बृहदावाद्रह्मशब्दोऽत्र युज्यते । परब्रह्मगुणस्यास्मिन्नाविर्भावादथापि वा ॥ मुक्ति- कालिकभोगस्य क्षरणाभायतोऽक्षरम् । उच्यते मुक्करूपं चापुनरावृत्तिदर्शनात् ॥ धर्मज्ञानान्यचैतृष्ण्यपूर्वभक्तिश्च वै हरी । निःश्रेयसंकरी पुंसो वर्णिताऽत्र समासतः ॥

A
ईश्वरपरिच्छेदः।
परमात्मनिरूपणम् ।
यदुपासनया जीवो मुच्यते बन्धनाद् भुवम् ।
तस्य स्वरूपप्रभृति वर्णयाम इह स्फुटम् ।।
स एव परमात्मा च परंब्रह्मेति कीर्त्यते
नारायणो वासुदेवः पुरुपोत्तम इत्यपि ॥
सर्वेश्वरः सर्वजगद्धाताऽयं परमो मतः ।
महापुरुपनाम्ना च पौरुपे सूक्त ईरितः ॥
आत्मब्रह्मादिशब्दा अप्येतस्यैवाभिधायकाः।
असङ्कुचितया वृत्त्या प्रयुक्तास्तत्र तत्र च ।।
धारकत्वादिभिः सर्वचेतनाचेतनेष्वयम् ।
व्यामोतीत्यात्मशब्दस्य मुख्या वृत्तिस्त्विहैव हि ।।
एवं ब्रह्मादिशब्दानां मुख्यवृत्तिरिहैव तु।
वक्ष्यतेऽथापि जीवेषु प्रयुक्ता गुणलेशतः ।।
तद्व्यावृत्त्यै विमे शब्दाः परशब्दसमन्विताः।
प्रयुज्यन्तेऽत्र शास्त्रेषु जडजीवविलक्षणे ॥
यथा हि चेतनत्वाविकारित्वगुणयोगतः।
जीवस्याचिद्भिदा प्रोक्ता तथा सा परमात्मनः ॥
जीवेभ्यस्त्रिविधेभ्यश्च वैलक्षण्यं परस्य तु ।
वैभवाग्ज्ञानशस्यादेश्चाननत्यान्निरुपाधिकात् ॥
नित्यानामपि माहात्म्यं परेच्छावशतो यतः।
अतोन निरुपाधित्वं तस्यापि भवति ध्रुवम् ॥
.

मानमेयप्रकाशिकायां • [प्रमेय- द्रव्यत्वादेः समानत्वेऽप्यवादेः पृथिवीभिदा। यथा तथा समे चित्त्वे जीवभेदः परात्मनः।। किश्च जीवसजातीयत्वे न तेन प्रयोजनम् । प्रधानपुम्भिरेव स्याल्लोकयात्रा तथा सति ॥ जीवेष्वेवातिशयितज्ञानशक्त्यादिकः पुमान् । ईश्वरः कश्चिदित्याहुः केचित्तन्न श्रुतेर्मतम् ।। आधारत्वनियन्तृत्वशेषित्वप्रमुखैर्गुणैः । अन्तर्यामित्राह्मणादौ ततो भेदः श्रुतोऽस्य यत् ॥ अतो हेयप्रत्यनीककल्याणगुणसागरः। मन्तव्य ईश्वरः साक्षाद्भगवान् पुरुपोत्तमः ।। परब्रह्मवरूपम् । वस्तुस्वरूपे ज्ञाते हि जिज्ञासा लक्षणादिके। अतः स्वरूपं प्रथमं कथ्यतेऽस्य श्रुतौ श्रुतम् ।। तत्र धर्मों द्विधा प्रोक्तः स्वरूपस्य निरूपकः । निरूपितस्वरूपस्यातिशयाधायकोऽपरः॥ विना येन धियं धर्मिस्वरूपं नाधिरोहति । स धर्म आद्यः कथितोऽपरो ज्ञाते विशेपकः ॥ यथा च कम्युग्रीवादि कलशस्य निरूपकम् । तेन ज्ञाते च कलशे हैमत्वादि विशेपकम् ॥ तथाऽनन्तानन्दविज्ञानत्वाद्यस्य निरूपकम् । 'तेन ज्ञातस्यातिशये गुणरूपादिविस्तरः। अस्ति यद्यपि जीवस्य ज्ञानानन्दस्वरूपता । अथापि नानन्तता तु मता त्वस्मिन्ननन्तता ॥ - प्रकाशे] ईश्वरपरिच्छेदः। किचावद्यानन्ययोऽपि जीवानां नास्ति सर्वथा। मुक्तस्य भूतपूर्वाज्ञानान्चयो दोप इप्यते ॥ नित्यस्यापि पराधीनत्वादिदोपो विवक्ष्यते । निरवद्यश्रुतिः सविद्यायोगपरा हि यत् ॥ सदा परब्रह्मणि तत् स्वरूपं श्रुतितोऽस्य तु । निर्दोपानन्तविज्ञानानन्दात्मकमुदाहृतम् ॥ श्रुतयस्तावत् 'सत्यं ज्ञानमनन्तं ब्रह्म' 'विज्ञानमानन्दं ब्रह्म' 'निरवा निरञ्जनम्' 'अजरोऽमृतोऽभयो ब्रह्म' 'आनन्दोऽ- जरोऽमृतः' 'रसो वै सः' 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' 'यद्वाय कं तदेव खं यदेव खं तदेव कं' इत्याद्याः। 'आनन्दादय: प्रधानस्य' 'इतरे त्वर्थसामान्यात्' इति सूत्रयोश्च सत्यज्ञाना- नन्तानन्दामलत्वादीनां परब्रह्मस्वरूपनिरूपकत्वेन सर्वोपासनानुया- यित्वं भाषितं श्रीभाष्यकारैः । सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्यमुदाहृतम् । तस्यार्थो वर्ण्यते यत्स्यात्स्वरूपप्रमितिर्विभोः ॥ तत्र सत्यपदं ब्रूते सततैकस्वरूपकम् । तेनाचिद्वस्तुनो भेदो गम्यते विक्रियावतः ॥ ऐकरूप्यमसङ्कोचाद्धर्मितो धर्मतोऽपि च । अतो वद्धाच्च भेदः स्याद्विक्रियाश्रयधर्मकात् ।। वन्धे हि जीवज्ञानं तु नैकरूपं व्यवस्थितम् । विकासादिन्द्रियद्वारात्स्वापे सङ्कोचतोऽस्य च ॥ एवं ज्ञानपदं ब्रूते ह्यसङ्कुचितवृत्तितः । स्वरूपतः स्वभावाच नित्यासङ्कोचबोधताम् ।। न . ३१८ मानमेयप्रकाशिकायां [प्रमेय- सिद्धयेत्पुंसः परस्यातो भेदो मुक्तात्मवर्गतः । न हि स्वभावतो नित्यासङ्कोचज्ञानताऽस्य च ॥ :, पूर्व ह्येतत्स्वभावस्य सङ्कोचः सर्वसम्मतः । भेदश्च जडवर्गात्स्यात्स्वरूपज्ञानतोक्तितः॥ तथाऽनन्तपदाच्चैवापरिच्छेदपराद्विभोः। परिच्छिन्नस्वरूपेभ्यो नित्येभ्योऽपि भिदा स्थिता ।। विकारिमात्राद्धेदस्य यदि सत्यपदात्प्रभोः। जडमात्राच्च भेदस्य सिद्धिर्ज्ञानपदान्मता ।। तथाप्यनन्तपदतस्त्रिविधाजीवतो भिदा । सिद्धयेदेव स्थितश्चैवं परोऽचिज्जीवतः परः ॥' अनन्तपदं चासकोचाद्देशतः कालतो गुणतो वस्तुतश्च परि- च्छेदराहित्यमा । तथा चानन्तनाम्नो निरुक्ति:-'देशतः कालतो याऽपि गुणतो वस्तुतोऽपि वा । अवधिर्यस्य नास्तीति सोऽनन्तः समुदाहृतः ॥' इति । अन्न देशतोऽवधिर्नाम एतदेशे पर्वते नान्यत्रेति प्रदेशनियमः; यथा घटादेः । तदभावश्च सर्वदेश- सम्बन्धित्वलक्षणे विभुत्वे पर्यवस्यति । इदानी वर्तते नान्यदेति फालतोऽवधिः, तनिषेधेन चानाद्यनन्तत्वं सिद्धयति । एत एप गुणाः सन्ति नान्य इति गुणेयत्ता गुणतोऽवधिः, स नास्तीत्यनेन पासहोयकल्याणगुणारत्यम् । घटः पटो न इत्यादियद्वरतुश्वा. यधिपस्तुपरिच्छेदः, वग्निपेघेन प 'ज्योतीपि विष्णुर्भुवनानि विष्णुः' इति सर्पपरतुसामानाधिकरण्यनिर्देशाईत्यरूपं सर्वशरीर- फत्यम् । यता यस्तुकृतपरिच्छेदो नाग समाभ्यधिकान्तरपत्ता, अय- मेवमाश रवि या एतन्यून इति था, पदभापश्च सगाम्यधिक प्रकाशे] ईश्वरपरिच्छेदः। राहित्यलक्षणः । तथा च श्रूयते-'न तत्समश्चाभ्यधिकश्च दृश्यते' इति । समाभ्यधिकराहित्यं च सर्वप्रकारानौपाधिकस- विधिकोत्कर्षरूपं निखिलहेयप्रत्यनीकत्वविशिष्टसमस्तकल्याणगु- णगणपरिपूर्णत्वे पर्यवस्यति । एतत्कल्प गुणतोऽपरिच्छेदोऽत्रैवान्त- र्भवति । इदं च त्रिविधपरिच्छेदराहित्यं 'नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययम्' इत्यादावपि व्यक्तं परमात्मनः । सर्वगतं सर्वत्रान्तर्यामितया व्याप्तं, सर्वशरीरकत्वेन सर्वात्मभूतमित्यर्थः । तन हेतुः सुसूक्ष्मत्वम् । अव्ययमिति च सर्वत्र प्रविष्टस्यापि स्वाभाविकानन्तकल्याणगुणगणप्रच्युतिराहित्यमभिप्रेति । सर्वत्र पूर्ण एवासौ. परमात्मेति भावः । त्रिविधानां च जीवानां कालकृतप- रिच्छेदराहित्येऽपि न देशतो वस्तुतो वा परिच्छेदराहित्यम् । तत्तु परमात्मन एव । एवं 'सत्यं' 'निरवयं निरञ्जनम्' 'अजरोड- मरः' इत्यादिना विकारादिनिखिलहेयप्रत्यनीक, 'ज्ञानमनन्तं' "कं ब्रह्म खं ब्रह्म' 'यदेप आकाश आनन्दः' इत्यादिना चापरि- च्छिन्नज्ञानानन्दलक्षणं ब्रह्मस्वरूपं निखिलाचिजीवविलक्षणं प्रसि- यंतितराम् । इतरानपेक्षप्रकाशत्वात्स्वरूपं ज्ञानरूपं, कास्न्यन स्वस्मा अनुकूलतयैवाभासाचानन्दरूपं भवति । अनुकूलप्रकाशत्व- मेव ह्यानन्दत्यम् । एतेन ज्ञानानन्दयोर्मेदानोभयरूपत्वं स्वरूपस्य सम्भवतीति शक्षा निरस्ता परमात्मस्वरूपं चेदं स्वस्मै स्वयं भासमानमहमियेव भासते, प्रत्यत्वात् । भवति च परमात्मनोऽप्यहमिति स्वरूपव्यपदेश:- 'हन्ताहमिमास्तिम्रो देवताः' इत्यादौ । क्षराक्षरशब्दितयमुफ- विलक्षणं पसरूपं 'अहमित्येव निर्दिष्टं श्रीकृष्णेन-'यस्मात्तरमती- - [प्रमेय . ३२० : मानमेयप्रकाशिकायां तोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुपोत्तमः ॥' इति ।-'अहमात्मा गुडाकेश सर्वभूताशय- स्थितः । 'न त्वेवाहं जातु नासं' इत्यादौ च वरूपेऽहंशब्दः प्रयुक्तः । परमात्मस्वरूपस्यैव हि सर्वभूतान्तरात्मत्वं सम्भवति । नित्यत्वं च स्वस्वरूपस्यैव जीवस्वरूपनित्यत्वे दृष्टान्तविधया विव- क्षितमिति । तथा 'अहं सर्वस्य प्रभवः' 'तेपामहं समुद्धर्ता' 'अहं त्वा सर्वपापेभ्यः' इत्यादिषु बहुपु स्थलेपु :चाऽहमिति परमात्मनो निर्देशा जाप्रति नाम । 'किन्वहं साम्प्रतं 'भूमौं' 'सोऽहं पूर्ण करिष्यामि' 'भक्त्यैवाहं प्रसन्नः स्यां' 'अहमे- वास्मि वै साक्षात्' इत्यादिषु श्रीहरिणापि स्वस्वरूपमहमिति निर्दिष्टं चास्ति । अतश्चाहप्रत्ययः परस्य ब्रह्मणो नान्तःकरणोपाधिका, किन्तु स्वरूपप्रयुक्त एवेति सिद्धम् । सच्चिदानन्दरूपोऽयं कीर्त्यते तत्र तत्र च । नैतावता प्रसिद्धयेत्तु निर्विशेपत्वमस्य वै ॥ सत्यशब्दार्थ एवोक्तः सच्छ- ब्देन हि सर्वथा । सदैकरूपता, ज्ञानघनत्वं च समीरितम्॥ चिच्छब्देन ज्ञानशब्दस्यार्य, आनन्दशब्दतः । प्रोक्तो त्वान- न्दघनता सानुकूल्यैकलक्षणा ॥ स्वरूपतो धर्मतश्च ज्ञानान- न्दारमतात्मिका । विज्ञानानन्दघनता न निर्धर्मत्वसाधिका ।। हरिवाक्यमुधासिन्यौ च-'सच्चिदानन्दरूपोऽसौ' 'ज्ञानमानन्द- रूपं च सूक्ष्म तत्त्वं निरञ्जनम् । वासुदेवः परब्रह्म क्षेत्रज्ञः पुरुषोत्तमः ॥' इत्यादिना ज्ञानानन्दस्वरूपत्वं परमात्मन उक्तम् । सत्सगिजीयनेऽपि-निर्गुणो निर्विकारश्च सच्चिदानन्दलक्षणः । अनन्तकोटिब्राह्माण्डाधारोऽनन्तोऽपि यः स्वयम् ॥ 'स्वतन्त्रः H " प्रकाशे] . ईश्वर परिच्छेदः। ३२१ स्वप्रकाशश्च' 'श्रीकृष्णो य: परब्रह्म स्वयंज्योतिः परात्परः । ज्ञेयो नारायणो विष्णुर्भगवान् पुरुषोत्तमः ॥' इत्यादौ अनन्त- ज्ञानानन्दस्वरूपत्वं तस्योपवर्णितम् । परब्रह्मणो लक्षणम् । परस्वरूपमित्युक्तमथ तल्लक्ष्म कथ्यते । लक्ष्येतरेभ्यो व्यावृत्तिहेतुर्लक्षणमुच्यते ॥ * बहूनां ब्रह्मधर्माणां भवेल्लक्षणता ततः। .: अलक्ष्याभेदकत्वस्याविशेषादेकशोऽपि हि ।। तथा हि-(१) विभुत्वे सति चेतनत्वम् (२) खत एव सदा निरस्तनिखिलइयत्वम् (३) स्वाभाविकानन्तकल्याणगुणवत्त्वम् (४) सर्वाधारत्वम् (५) सर्वनियन्तृत्वम् (६) सर्वशेपित्वम् (७) चेतनाचेतनशरीरकत्वम् (८) सर्वकर्मसमाराध्यत्वम् (९) सर्वकर्मफलप्रदत्यम् (१०) सर्वजगदेककारणत्वम् (११) मुमुक्षपास्यत्वम् (१२) मुक्तप्राप्यत्वम् इत्यादीनि तस्य लक्षणानि सम्भवन्ति । यद्यप्येकेनैव लक्षणेन समस्ताचिजीवविलक्षणं ब्रह्म- स्वरूपमधिगतं भवति, अथापि नानाविधवैभवप्रतिपत्त्युपयुक्तानि नानालक्षणानि साधीयांस्येव । प्रथमलक्षणविचारः। तत्र विभुत्वं नाम व्यापकत्वं सर्वदेशसम्बन्धित्वलक्षणम् । श्रूयते चेदं परमात्मनः ‘स वा एष महानज आत्मा' 'महान्तं विभुमात्मानं मत्वा धीरो न शोचति' परात्परं यन्महतो महान्तं' 'विवेश भूतानि चराचराणि' 'वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् 'सर्वव्यापी स भगवान्' इति । मान.भ.३१ . ३२२ मानमेयप्रकाशिकायां [प्रमेय- अगीयत च भगवता खस्य सर्वव्यापित्वं 'मया ततमिदं सर्व जगदव्यक्तमूर्तिना' 'सर्वस्य चाहं हृदि सन्निविष्टः' इति । 'यो लोकत्रयमाविश्य' इति च । यद्यपि कालस्य धर्मभूतज्ञानस्य च विभुत्वमस्ति, अथापि न चेतनत्वं तयोः । चेतयते इति हि चेतनः, स च ज्ञाताऽहमर्थ एव, न ज्ञानमात्रम् । चेतनत्वं यद्यपि जीवानां वर्तते, अथापि न विभुत्वम् । यद्यपि स्वभावतो विभुत्वं मुकानामपि, अथापि न स्वरूपतः । स्वरूपत एव च सर्वव्यापि- त्वमेतल्लक्षणघटकं बोध्यम् । परमात्मस्वरूपस्य तु 'य आत्मनि तिष्ठन्नात्मनोऽन्तरः.........स त आत्माऽन्तर्याम्यमृतः' 'आत्मानमन्तर्हदि सन्तमात्मनाम्' 'अहमात्मात्मनां धातः' 'कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम्' 'अखिलदेहि- नामन्तरात्महक्' 'आत्मात्मा चाक्षरात्मा च' इत्यादिवचनैर्व- द्धमुक्तलक्षणसर्वजीवान्तापित्वप्रतिपादनाच विभुत्वं लभ्यते । 'च्याप्य सर्वानिमाल्लोकान् स्थितः सर्वत्र केशवः। ततश्च विष्णुनामासि विशेर्धातोः प्रवेशनात् ॥' 'सर्वत्रासौ समस्तं च वसत्यति वै यतः। ततःसवासुदेवेति विद्वद्भिः परिपठ्यते ।।' इत्यादिनिरुक्तिबलाञ्च । 'ईशावास्यमिदं सर्व यत्किञ्च जगत्यां जगत्' इति च नियन्त्रा परमात्मना इदं चेतनाचेतनात्मकं कृत्वं जगन्नियन्तव्यतया व्याप्तमिति प्रतिपाद्यते । अतो गगनादिव्यात्य- पेक्षया विलक्षणेयं व्याप्तिः प्रतीयते । 'तदेजति तन्नेजति तरे तद्वदन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य वाह्यतः ॥ 'यच किश्चिजगत्यस्मिन् दृश्यते श्रूयतेऽपि या । अन्तर्वहिश्च तत्सर्व च्याप्य नारायणः स्थितः ॥' इत्यत्र च सर्वेषु चेतनाचेतनेषु प्रकाशे] . ईश्वरपरिच्छेदः। अन्तर्बहिश्च व्याप्तिामुरीश्वरस्य नारायणत्वं च व्यक्तम् । गीयते चान्तरात्मतया व्याप्ति:-'अहमात्मा गुडाकेश सर्वभूताशय- स्थितः' इति । 'सर्व समाप्नोपि ततोऽसि सर्वः' इति च श्रीकृष्णं प्रत्यर्जुनवाक्यम् । श्रीविष्णुनामसहने विष्णुनाम च सर्वव्यापक- त्वमस्याऽऽह । तथा च निरुक्ति:-'चराचरेषु भूतेषु वेशनाद्विष्णु- रुच्यते' इति । 'अप्रमेयात्मा' इति नाम च सर्वेष्वेव चिचि- द्विभूतिपु पहिरन्तश्च व्याप्तिमाह । निरुक्तिश्च ‘एकैकशोऽप्रमेया या ह्यसङ्ख्याता विभूतयः । तासां चैवाममेयात्मा व्याप- नाद्वहिरन्ततः' इति । अनेन सर्वगतत्वमायामयशब्दा- दिभ्यः' 'नाणुरतच्छुतेरिति चेन्नेतराधिकारात्' इति ब्रहासू- त्रयोश्च ब्रह्मणो विभुत्वममिहितम् । स्वरूपस्वभावोंके ये महत्तराः पदार्थास्तेभ्योऽप्युत्कर्षातिशयात् 'महतो महीयान्' इति श्रुतिशिरासु जोघुध्यतेऽयम् । एवंभूत- स्याप्यस्य सर्येषु सूक्ष्मेष्वपि प्रवेशेऽप्रतिरोधलक्षणं निरतिशयं सौक्ष्म्यमनुसन्धाय 'अणोरणीयान्' इति च श्रुतौ व्यपदेशः। तथा चाणुरिति नान्नो निरुक्ति:-'अतिसूक्ष्महृदाकाशाव्यक्तजीव- प्रवेशने । शक्तिमानणुरित्युक्तः' इति । इदमेव निरतिशयसूक्ष्मत्वं 'यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यम्' 'सर्वगतं सुसूक्ष्मम्' 'यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्' 'यदर्चिप्मदणुभ्योऽणु च' 'बृहच्च तद्दिव्यमचिन्त्य- रूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति' इत्यादिप्याम्नायते । शाण्डि- ल्यविद्यायां चात्यन्तं वृहत्तोऽप्यस्योपाससकानुग्रहार्थ आश्रितवात्स- ल्यादल्पायतने हृदयफमले सूक्ष्मरूपेण सन्निधानमनुसन्धेयवयो- .

३२६ मानमेयमकाशिकायां [प्रमेय- इत्यादिना । 'प्रज्ञा च तस्मात्मस्ता पुराणी' 'मत्तः स्मृतिर्ता- नमपोहनं च' इत्यादिश्रुतिस्मृतिभ्यां इतरेपां ज्ञानप्रसरणसम्पाद- कत्वेन प्रसिद्धस्य हृषीकेशस्य सार्वइये किं वक्तव्यम् । विष्णुनामस- हले 'महाबुद्धिः' इति नामव्याख्याने च श्रीपराशरभट्टायः भग- वज्ञानस्य सर्वविषयत्वं नित्यत्वं प्रत्यक्षरूपत्वममोघत्वं च भापि- तम्। यथा "-महत ज्ञानमस्येति महाबुद्धिः, इदं चास्याशेषदेशका- लस्वभावविप्रकृष्टाविप्रकृष्टविपयं, सार्वग्यात् । अविशयविपर्यासतया यथार्थ, केशकर्मविपाकाशयाद्यपरामर्शात् । स्वाभाविकत्वान्नित्यं च । करतलामलकावलोकनक्दपरोक्षं च, वैशद्यात् । अमोघं च सर्वनिर्वहणात् । तथा च वचनं-'मनसैव जगत्सृष्टिं संहारं च करोति यः। तस्यारिपक्षक्षपणे कियानुद्यमविस्तरः॥ इत्यादि । तथा 'पश्यत्यचक्षुः स शृणोत्यकर्णः' इत्यादिनाऽवगतकरणनैर- पेक्ष्यस्यापि एतज्ज्ञानप्रसरणस्यैच्छिकं करणापेक्षत्वं पुण्डरीकाक्षशु- चिश्रवत्वादेः । अथापि न करणनियमः, सर्वेण सर्वकार्यकरण- शक्तेः" इति । अत्र प्रमाणं च जयाख्यसंहितावचनमुदाहृतं- 'सर्वतः श्रुतिमांश्चासौ यथा इच्छावकोरगः' इति । तथा 'उदारधी' इतिनाम्ना च भगवदीयज्ञानस्य सर्वोपकारकत्व- मुक्तम् । तथा च निरुक्ति:-'सर्वोपजीव्यसार्वज्यादुच्यते स उदारधीः' इति । अनन्तज्ञानानन्दस्वरूपस्यास्यानन्तज्ञानानन्दगुणाभयत्वमपि 'यः सर्वज्ञः सर्ववित् 'ब्रह्मणा विपश्चिता' 'तस्माद्वा एतस्मा- द्विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः' 'यतोवाचो निव- र्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्' इत्या. +

प्रकाशे]
ईश्वरपरिच्छेदः।
३२७
दिश्रुतिप्रसिद्ध सम्भवत्येव । जगजन्मादिकारणत्वेन लक्षितस्य
परस्य ब्रह्मणोऽचिज्जीववैलक्षण्यप्रतिपादनप्रवृत्तयोरीक्षयानन्दमया-
धिकरणयोः सूत्रकृताऽप्यपरिच्छिन्नज्ञानानन्दयोर्गुणयोरेव ह्यचि-
जीववैलक्षण्यसाधकप्रधानहेतुतयोल्लेखः कृतः-'ईक्षते शव्दम्'
'आनन्दमयोऽभ्यासात्' इति ।
ज्ञानानन्दस्वरूपे हि ब्रह्मण्यस्ति न सम्भवः ।
ज्ञानानन्दाश्रयत्वस्य गुणित्वाभावतो गुणे ॥
मैयं वोचो गुणत्वं हि न सिद्धं ब्रह्मणोऽपि तु ।
प्रधानभावाव्यत्वमेवातो गुणसम्भवः ।।
द्रव्यस्य ज्ञानरूपत्वमानन्दत्वं कथं भवेत् ।
उच्यते प्रतिभासे स्वेऽनपेक्षातोऽयवोधता ॥
अनुकूलतयाऽऽनन्दत्वं च द्रव्येऽपि सम्भवेत् ।
धर्मभूतं तु यज्ज्ञानं सुखं वा न तदाश्रयः ।।
तद्भवेद्धर्मिणस्तु स्यात्तद्वत्त्वं नात्र बाधकम् ।
यथा प्रदीपो ज्योतिः सन् ज्योतीरूपप्रभाश्रयः॥
एवं सुखज्ञानरूपोऽप्ययं तद्धर्मको भवेत् ।
ज्ञानाद्यभावो ज्ञानादेर्धर्मत्वोपाधिको मतः॥
आर्थगुणनिषेधपरता च ज्ञानानन्दश्रुतेः सूत्रकृता प्रतिक्षिप्ता-
'आह च तन्मात्रम्' 'दर्शयति चाथो अपि स्मर्यते' इति सूत्रा-
भ्याम् ।ज्ञानश्रुतिीनत्वगुणयोगमात्रमाह । तेन तद्विरुद्धस्य जाड्या-
देनिपेधः सिद्ध्येन्नाम, नतु धर्मिस्वरूपज्ञानत्वाविरुद्धानां गुणा-
नाम् । यथा रक्तोऽयमिति रक्तत्वयोगप्रतिपादनादरक्तव्यावृत्तिमात्रं
सिद्ध्यति; न तु रसादेः समानाधिकरणस्य गुणान्तरस्य निषेधः,
गुणान्तराणि च ब्रह्मणः श्रुतिस्मृतिषाक्यगणः प्रदर्शयतीति सूत्रद्वयस्य

[प्रमेय- , ३२८ मानमेयमकाशिकायां तात्पर्यम् । अपरिच्छिन्नज्ञानानन्दानयस्य ब्रह्मणः 'सत्यं ज्ञानमनन्तं ब्रह्म' 'आनन्दो ब्रह्म' इति ज्ञानानन्दव्यपदेशस्तद्गुणसारत्वा- दपि सम्भवति । सति हि तत्प्राचुर्य तद्रूपताव्यपदेशः स्वारसिक एप लोके दरीदृश्यते । यथा-शर्कराप्रचुरः खाद्यपदार्थः शर्करा इत्येव व्यपदिश्यते, लवणप्रचुरश्च लवण इत्येव । यथा वा कण्टकभू- यिष्टो ग्रामः कण्टक इति च । एवं चैतन्यानन्दप्रधानः प्राज्ञो ज्ञाना- नन्दव्यपदेशमर्हति । प्रज्ञ एव च प्राज्ञः, 'प्रज्ञादिभ्यश्च' इति सार्थेऽणो विधानात् । अतश्च न ज्ञानादिव्यपदेशमात्रेण गुणनिपेधः शकनीयः । तदेवं विभुः परमात्मा ज्ञानानन्दघन इति स्थितम् । तथा च श्रुति:-'विज्ञानघन एवानन्दमयः' इति । ज्ञानानन्द- श्रुतेरेवं द्विधा निर्वाह ईरितः । ज्ञानानन्दप्रधानत्वाज्ज्ञानान- न्दत्वतोऽपि च ॥ हरिवाक्यसिधासिन्धौ च-'स्वप्रकाशश्च सर्ववित्' इति ज्ञानस्वरूपत्वं ज्ञानाश्रयत्वमपि निर्दिष्टं परस्य ग्रह्मणः । रात्सगिजीचनेऽपि 'नारायणो वासुदेवः स्वतनः स्वप्रकाशकः । आनन्ददिव्यमूर्तिश्च विष्णुः कृष्णोऽच्युतोऽव्ययः ॥ सर्वज्ञः सत्यसङ्कल्पः सर्वकर्मफलप्रदः ।' 'स्वतन्त्रः स्वप्रकाशश्च सर्वकारणकारणम् । अनेककल्याणगुणः स ज्ञेयः पुरुषो- त्तमः ॥' 'आत्माऽऽत्मनां चेतनानां चेतनश्च श्रुतीरितः' इति ज्ञानानन्दस्वरूपस्यैव ज्ञानसङ्कल्पाद्यनन्तगुणवत्त्वमभिहितमस्ति । द्वितीयतृतीयलक्षणविचारः। (ब्रह्मण उभयलिङ्गत्वम्) चिदानन्दः परात्माऽसौ विभुश्चेतन ईरितः । अथोच्यतेऽस्य निर्दोपकल्याणगुणता सदा ।।

प्रकाशे] ईश्वरपरिच्छेदः। स्वत एव सदा निरससमस्तहेयत्वं स्वाभामिफानन्तकल्याणगुण- वत्त्वं चोभयलिङ्गमित्यभिधीयते । असाधारणधर्मतयेनयोर्ब्रह्मण इतर- लक्षण्यानुमापकत्वात् । यद्यपि निरस्तहेयत्वं मुक्तानामस्ति, अथापि न तत् सदा तेपाम् । सदातनमपि तन्नित्यानां न स्वतः, नित्यभग- वत्सकल्पाधीनत्वात्तेपा तथात्वस्य । एवं सदा कल्याणगुणवत्त्वमपि तेषां परसङ्कल्पोपाधिकत्वान स्वाभाविकमिति बोध्यम् । तथाच वर्णित श्रीवत्साङ्कमित्रैः-'इच्छात एव तव विश्वपदार्थसत्ता नित्यं प्रियास्तव तु केचन ते हि नित्याः । नित्यं त्वदेकपरतन्त्रनिज- स्वरूपा भावक्तमगुलगुणा हि निदर्शनं नः॥ इति । खत एव सदा निरस्तसमस्तहेयत्वं तावत् श्रूयते परमात्मनः- 'नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुप्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते अपहतपाप्मा ह्येप ब्रह्मलोकः' इति । अत्र तरतिः प्रासिवचनो वेदान्तं तरतीतिवत् । एतं नोलसन्त इति व्याख्याने तु सदा सर्वहेयानामत्रैवावस्थानं प्रतीयत । तथाच 'सर्वे पाप्मानोऽतो निवर्तन्ते' इत्याद्युत्तरस- न्दर्मों विरुध्येत । अहोरानयोः परिच्छेदकत्वेन प्राप्तिः, कर्मणश्च वशित्वेन प्राप्तिः प्रसक्ता प्रतिपिध्यते । अपहतपाप्मत्वं च कर्मसा- मान्यप्रतिभटत्वं कृतेऽपि कर्मणि तत्तत्फलजननशक्युत्पादप्रतिरोध- कत्वलक्षणम् ॥ 'न सुकृतं न दुप्कृतं सर्वे पाप्मान' इति पुण्य- स्वापि पाप्मनशब्देन क्रोडीकाराच्यापह्त्तपाप्मेत्यादौ पाप्मन् शब्देन कर्मसामान्यमेव विवक्षितम् । एवंभूतत्वात्कर्मवश्यत्वतत्कृतशोका- दीनां सदा ब्रह्मण्यप्राप्तिरिति भावः । अत एवोदिति नामाल श्रूयते-'तस्योदिति नाम स वा एप सर्वेभ्य पाप्मभ्य उदितः' ३३० मानमेयप्रकाशिकायां [प्रमेय- इति । स्वरूपानुबन्धि नाम चेदं सदा स्वत एव कर्मोद्गतत्व एवास्य सङ्गच्छते । 'एप आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः' इति श्रुतिश्च परस्य ब्रह्मणः सर्वं हेयजातं प्रतिपिध्य कल्याणगुणान् विदधाति । अशनायापिपासे शोकमोही जरामृत्यू इत्यूमिपदं व्यावर्त्यतेऽपहत- पाप्मेत्यादिना पदषद्धेन । तत्र मोहस्य देहात्मभ्रमादिलक्षणस्य 'अनु- तेन हि प्रत्यूढाः' इत्यनृतशब्दितसांसारिकफलकर्महेतुकत्वात्कर्म- निवृत्तिप्रतिपादकेनापहतपाप्मेत्यनेन तन्निवृत्तिरर्थसिद्धा। कर्मफल- शोकादिराहित्यं तु स्वशब्देनैव प्रतिपादितम् । यद्यपि मुक्तानाम- प्यहतपाप्मत्वादिकमस्ति, परं तत्तिरोधानाहम् । संसारकाले हि तिरोहितं तत्कर्मणोपासनाप्रीतभगवत्प्रसादेन प्रकृतिबन्धविनिर्मोक- पूर्वकं पुरुपोत्तममुपसन्नस्य चाविर्भवति । तथा च सूत्र-'पराभि- ध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययो' 'सम्पद्यावि- र्भावः स्वेनशब्दात्' 'उत्तराच्चेदाविर्भूतस्वरूपस्तु' इति । पर- मात्मा तु नित्याविभूतस्वतःसिद्धापह्तपाप्मत्वसत्यकामत्वादिः । 'एप सर्वेश्वर एष भूताधिपतिरेप भूतपाल' 'प्रधानक्षेत्रज्ञ- पतिर्गुणेशः' 'पापनुदं भगेशं' इत्यादिवाक्यैरसकोचान्नित्याना- मपि नियन्तृत्वेन स्वामित्वेन च प्रतिपन्नस्य परमात्मन एव तणा- नामपि व्यवस्थापकत्वम् । 'पत्यादिशब्देभ्यः' इतिसूत्रे च त्रिवि- धानपि चेतनान् प्रति स्वामित्वनियन्तृत्वादिकं परब्रह्मणो निरूपित- . .. मित्यासां तावत् । ननु 'एप आत्माऽपहतपाप्मा' इत्यादिवाक्यं न गुणतात्वि- पचायां प्रमाणम् , दहरोपासनाविधिशेषत्वात् । उपासनं हि प्रकाशे] ईश्वरपरिच्छेदः । ३३१ कल्पितैरपि गुणैः सम्भवतीति । अन्न ब्रूमः-स्यान्नाम कल्पितैरपि भावनम् । प्रकृते कल्पितत्वं कथं निश्चीयते । प्रत्युत काम्यमान- त्वेन कामशब्दितानां गुणानां सत्यत्वमेवोच्यतेऽत्र । कर्मसम्बन्ध- निषेधपूर्वकं श्रुतानां गुणानामकर्मकृतत्वेन स्वाभाविकत्वं च लब्धम् । 'य इहात्मानमनुविद्य वजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति' इति श्रुतौ च परमात्मस्वरूप- स्येव तदीयगुणानामपि पारमार्थिकानामेव भावनया प्रजापतिया- क्योक्तसत्यसङ्कल्पादिस्वरूपाविर्भावलक्षणं मोक्षफलं प्रतिपाद्यते । मुक्त्युपायोपासनाकर्मतया च स्वरूपस्येव गुणानामपि पारमार्थिक- त्वम् । नायथार्थभावनस्य मुक्त्युपायत्वम् । सर्वकल्याणगुणाश्रय- स्यैव परस्य ब्रह्मणः साकल्येन चिन्तयितुमशक्यत्वात्पुनः कतिप- यैर्गुणविशेषैस्तत्र तत्र विद्यायामुपास्यत्वं श्रूयते । अतो विद्यान्तरो- पास्यमपि ब्रह्म वस्तुतो विद्यान्तरोकगुणविशिष्टमेव । अत एव तत्मा- प्तिफलानां दहरायुपासनानां विकल्पोऽसूत्रि-'विकल्पोऽविशिष्ट- फलत्वात्' इति । सद्विद्यायां च जगत्कारणत्वादिभिः कतिपयैर्गु- रुपास्यमानापि देवता वस्तुतः सकलकल्याणगुणविशिष्टैव, स्वरू- पानुबन्धित्वाद्गुणानाम् । अतः सगुणैव तत्राप्यनुसन्धेया प्राण्या चेति दहरविद्यादिमिस्तस्या अपि विकल्पो वाक्यद्रमिडभाष्यकारा- भ्यामुपपादितः । तथा च वाक्यं-'युक्तं तद्गुणकोपासनात्' सगु- णाया देवताया उपास्यत्वात्तस्या एव प्राप्यत्वं युक्तमित्यर्थः । व्याख्यातं च मिटमाप्यकारेण विद्याविकल्पं वदता-"यद्यपि सचित्तो न निर्भुग्नदैवतं गुणगणं मनसानुधाचेत् । तथाप्यन्तर्गुणामेव देवतां भजत इति तत्रापि सगुणव देवता प्राप्यते" इति ।

[प्रमेय- मानमेयप्रकाशिकायां 'अन्तर्गुणा'मिति पदेन गुणानां ब्रह्मस्वरूपानुवन्धित्वं विवक्षितम् । श्रूयते च खाभाविकत्व-'पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभा- विकी ज्ञानवलक्रिया च' इति । अतो ब्रह्मगुणानामुपासनार्थ कल्पितत्वमेवेति न शक्यं वक्तुम् । परमनिःश्रेयससाधनस्य ब्रह्म- वेदनस्य फलमपि ब्रह्मसम्बन्धिसफलकल्याणगुणानुभवलक्षणमेवा- नन्दवल्या प्रतिपाद्यते-'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' इति । परममुक्तिकालीनानुभवविपयत्वाच्च ब्रह्मगुणानां पारमार्थिकत्वमेव सिद्ध्यति । "सत्यधर्मपराक्रमः' इति नाम च भगवद्गुणचेष्टितानां सत्यत्वमाह । एतेन-परंब्रह्म निर्गुणं, यद्वेदनात्परा मुक्तिः सेत्स्यति । अपरं. तु ब्रह्म सगुणम् । परविद्यानधिकारिणामेतदुपासनयेतत्सायुज्यल- क्षणामपरां मुक्ति प्राप्तानां परब्रह्मवेदनाधिकारसम्पत्त्याऽधिगतप- रविद्यानां परान्तकाले परमा मुक्तिर्भवितेति कल्पनं दत्तोत्तरम् । श्वेताश्वतरे वेद्यपरतत्त्वनिरूपणप्रकरण एव ज्ञानशक्त्यादिगुणानां स्वाभाविकत्वोक्तः । अविद्याया ब्रह्मस्वभावत्यायोगेन स्वाभाविकी- यस्याविद्याकार्येत्यर्थवर्णनस्यासमञ्जसत्यात् । 'य ईशेऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यते ईशनाय' इति नित्यनिरङ्कुशैश्वर्य- स्थानौपाधिकत्वभवणात्तत्सहचरितानां ज्ञानादीनामपि निरुपाधि- कत्वसिद्धेश्च । किञ्च तत्रैव चिदचित्प्रपञ्चोऽयं यस्मादुदयादिमुखेन विपरिवर्तते सोऽयं जगत्कारणभूतः प्रकृतिप्राकृतेभ्यः कालात्कर्ट- भूतेभ्यो जीवेभ्यश्चात्यन्तविलक्षणो विश्वस्याधारः पाडण्यपरि- पूर्णः । स्वान्तर्यामिणं विदित्या जीवो मुक्तो भवतीत्युच्यते- 'स वृक्षकालाकृतिभ्यः परोऽन्यो यस्मात्मपञ्चः परिवर्ततेऽ- प्रकाशे] ईश्वरपरिच्छेदः। यम् । धर्मावहं पापनुदं भगेशं ज्ञात्वाऽऽत्मस्थममृतं विश्व- धाम' इति । वृक्षवच्छेदनाईत्वादुक्ष इति विक्रियाई प्रकृतिकार्याणि विवक्षितानि । आकृतिशब्देन चासमन्तात्कतिर्विविधकर्मसु कर्तृत्व- मस्येति जीवः । एवं चिदचिद्वैलक्षण्यं पूर्वार्धेनोक्तम् । ज्ञानोत्पत्ति- विरोधिपापनिवर्तकत्वेन ज्ञानानुकूळकर्मप्रेरकत्येन च स्वज्ञाननिप्पा- दकत्वं भगशब्दितानां कल्याणगुणानामाश्रयत्वं वेदितुरन्तरात्मत्वं मरणाद्यवद्यरहितत्वं सर्वाधारत्वं च वेद्यस्य परब्रह्मण उत्तरार्धन प्रतिपादितम् । अत्र 'अमृतं 'भगेश' इति पदवयेनोभयलिङ्गत्वं तस्य सिद्ध्यति । एवं तत्रैव प्रकरणे सर्वजगत्स्रष्टत्वमवाप्तसमस्त- कामत्वमनन्याधीनत्वं सर्वज्ञत्वं सर्वविद्याप्रवर्तकत्वं सर्वचेतनाचेत- ननियन्तृत्वं तच्छेपित्वं संसारमोक्षहेतुत्वमनन्येश्वरत्वं सर्वेश्वरत्वं सर्वान्तर्यामित्वमित्यादयो गुणाः कल्याणगुणसामान्यवत्वपरेण गुणीतिशब्देन तत्तद्विशेपशब्दैश्च वेद्यस्य परस्यैव ब्रह्मणो निरुपा- धिकाः प्रतिपादिता:-'स विश्वकृद्विश्वविदात्मयोनिर्जः काल कालः गुणी सर्वविद्यः । प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्ष- स्थितिवन्धहेतुः । स तन्मयो एमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोता' इत्यादिना । न चात्र प्रकरणे उपासनाशब्दः श्रूयते, येनोपासनाशेपतया गुणानां कीर्तनमिति कध्येतापि । अपि तु परममोशोपायवेदनकर्मीगूतस्य परस्मैव ब्राह्मण एतेगुगैर्विशेषणं स्वरूपकीर्तनमेव मन्तव्यम् । मन्यव प्रकरणे निपेधोऽपि श्रूयते- 'निष्कलं निष्क्रिय शान्तं निरवयं निरअनम्' 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च' इति । सत्यम् ।

मानमेयप्रकाशिकायां [प्रमेय- स तु हेयगुणक्रियादिगोचरः। निष्कलत्वं-निरवयवत्वम् । तन लिङ्गं निष्क्रियत्वं चेष्टाराहित्यम् । अवयवनिपेधेन च तत्समुदायरू- पस्य शरीरस्य निषेधसिद्धिः । शान्तत्व-शरीरसम्बन्धप्रयुक्तोर्मिप- दूरहितत्यम् । शरीरनिषेधे हेतुर्निरवद्यत्वम् , अवयं कर्म तत्स- म्यन्धराहिल्यमिति यावत् । अकर्मत्वादेवाजनशब्दितकर्मफललेप- शून्यत्वं चात्र ब्रह्मणो विवक्षितम् । शान्तादिपदसममिव्याहाराच 'निष्कल'मित्यादेः प्राकृतशरीरादिनिषेधपरत्वमवगम्यते । यच्छरीरे यत्क्रियायुक्तस्योर्मीणां प्रसङ्गस्तच्छरीरादेरेव निषेध्यत्वात् । न तु जगत्सर्जनादेर्व्यापारस्याप्राकृतस्य पाहण्यविग्रहस्य चात्रैव 'स्वाभा- विकी ज्ञानवलक्रिया च' 'वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात्' इत्यादिना प्रतिपादितस्य निषेधः । निर्गुणशदे- नापि सत्त्वादिगुणत्रयवश्यताया एच निषेधः । सर्वेषु भूतेषु तैर- विदितस्तदन्तर्यामितया सर्व तत्तद्गुणानुगुणकर्मसु प्रवर्तयन् य ईशः सदा सर्व साक्षात्कुर्वन्नास्ते, स सर्वस्य चेता-स्रष्टापि सर्जनव्या- पारफलभूतकर्मफलानुभवानन्वयात्केवल:-उदासीनः । अगुणव- श्यतया फलामिसन्धिपूर्वककर्तृत्वाभावात् । तथा च भगवता खयमेवोक्तं "चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा" इति । "सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्य- हम् ।। प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राम- मिमं कृत्स्नमवयं प्रकृतेर्वशात् ॥ न च मां तानि कर्माणि नियमन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥" - प्रकाशे] ईश्वरपरिच्छेदः। ३३५ इति च । स सर्वजगत्कर्ता 'एको देवः...दिव्यो देव एको नारा- यणः' इति श्रुतिप्रसिद्धः समाभ्यधिकदरिद्रोऽप्राकृतपरमव्योमनिल- योऽतिभास्वरदिव्यमङ्गलविग्रहो नारायण इति च 'एको देव' इति मत्रार्थः । पूर्व हि क्षेत्रज्ञस्य गुणपरवशतया तत्तद्गुणानुगुणं सकामकर्मकर्तृत्वं तत्फलभोक्तृत्यं चामिहितम्-'गुणान्वयो- यः फलकर्मकर्ता कृतस्य तस्यैव फलोपभोक्ता' इति । अगुणवश्य- तया तद्वैलक्षण्यमन्त्रेशस्य प्रतिपिपादयिपितम्-'चेता केवलो निर्गु- णश्च' इति । अत्रैव मन उक्तैः सर्वसाक्षात्कर्तृत्वसर्वस्रष्तृत्वसर्वा- त्मत्वादिगुणैः समुच्चयानुपपत्तेश्च 'निर्गुण' इति न गुणसामान्य- निपेधोऽभिमतः। श्रीविष्णुपुराणेऽपि हेयगुणादिरहितत्वं कल्याणगुणाद्याश्रयत्वं च परतत्त्वभूतस्यैव परमेश्वरस्य वासुदेवस्य प्रतिपाद्यते-'समस्तहेय- रहितं विष्ण्वाख्यं परमं पदम्' 'गुणादिदोपांश्च मुने व्यतीतः' 'समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः इच्छागृहीताभिमतोरदेहः संसाधिताशेषजगद्धितोऽसौ ॥ तेजोवलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यन क्लेशादयः सन्ति परावरेशे ॥' इति । गुणादिसामान्यनिपेघे तु दोषपदं व्यर्थम् । गुणादींश्च व्यतीत इत्येव हि तदानी वचनं पर्याप्तम् । 'सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ।' इति प्राकृतगुणानां विशिष्य निपेघवचनं पाप्राकृतगुणसद्भावाभि- प्रायेण । गुणसामान्यनिषेधे विवश्वेि च प्राकृवपदमनर्थकं स्यात् ।

2 मानमेयप्रकाशिकायां [प्रमेय- श्रीमद्भागवतेऽपि ज्ञानानन्दस्वरूपस्यैव परस्य ब्रह्मणोऽनन्तगुण. वृत्त्वं प्रतिपादितम्-'भक्तिं लब्धवतः साधोः किमन्यदवशि- प्यते । मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥' 'मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियमात्मानं साम्यासङ्गादयो गुणाः॥ इति । 'यो वा अनन्तस्य गुणानन- न्ताननुक्रमिप्येत्स तु वालबुद्धिः। रजांसि भूमेर्गणयेत्कथञ्चि- कालेन नैवाखिलसत्त्वधाम्नः ॥ इति च । नित्यत्वं चैषां 'त इमे सत्याः कामाः' 'एते चान्ये च भग- वन्नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कहिंचित् ॥' इत्यादिश्रुतिस्मृतिसिद्धम् । आविद्यत्वे तु गुणाना- नविद्यानिवृत्ती निवृत्त्यवश्यंभावेन नित्यत्वायोगः । एषां निःसी- मत्वं. योऽस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न चेद' 'न ते विष्णो जायमानो न जातः देव महिम्नः परमन्तमाप' इत्यादिश्चतिसिद्धम् । अभिधीयते च तत्त्वज्ञेः- 'श्रुतिस्तवानन्दमुखान् हरे गुणान् इयत्तया मातुमिवो- यता सती । उवाच वाचो मनसा सहोचितां निवृत्तिमेव त्वयघेरसम्भवात् ॥ इति । हरियाक्यमुधासिन्धावपि भगवद्गु- णानां निसत्य, अपरिच्छिन्नत्वं पामिहितमस्ति जातो गुणेभ्यः सम्यो यः स्नेहः स तु भवेदृढः । तत्र कृष्णे नित्यसिद्धाः सन्ति ते स्वनपायिनः ।।' 'कृष्णस्तु साक्षाद्भगवान् राधालक्ष्मीपतिः प्रभुः । अनन्तकोटिनलाण्डस्थित्युत्पत्यादिकारणम् ॥ शार- दाममोपाधान पारं यान्ति यस्य च । येदा अपि गुणान् यस्प गायन्तोऽन्तं न यान्ति च ॥ इति । सत्याशिजीपने - प्रकाशे] ईश्वरपरिच्छेदः। ३३७ 'स्वरूपं च स्वभावश्च विभूतिश्च तथा गुणाः । नित्याः सन्ति हरौ ह्येतेऽन्यत्र त्वागन्तुका मताः' 'अनन्तगुणः' 'सकल- गुणैकधाम' इति । एवं तत्त्वप्रकरण एव श्रुतिस्मृत्योः परस्य ब्रह्मणो निर्दोपत्वस्येव समस्तकल्याणगुणाकरत्वस्य प्रतिपादनाद्गुणानां मायिकत्वमेवेति कल्पनाया नावसर इति स्थितम् । निर्गुणश्रुतीनां तात्पर्य च महर्षिभिरेव वर्णितम्-'योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः। प्राकृतैयसंयुक्तैर्गुणहीनः स उच्यते ॥ इति । निर्गुणशब्दस्य निरुक्तिश्च-'स्थितोऽपि नीरक्षीरवज- गतोऽस्पर्शनाद्गुणैः । उक्तः स निर्गुणः' इति । सत्त्वादिगुण- वश्यत्वाभावो निर्गुणत्वमिति यावत् । 'यत्तु “यतो वाचो निवर्तन्ते । अप्राप्य मनसा सही इति वाङ्मनसागोचरत्वप्रतिपादनानिर्गुणत्वं फलति । सगुणमेव हि वस्त्विदमित्थमिति गृहीतुं प्रतिपादयितुं वा शक्यत इति । तत् श्रुत्यक्षरापर्यालोचनकृतम् । 'यद्वाचो न स्पृशन्ति मनसा सहेति हि तदा वचनशैली साधीयसी । अन तु किश्चित्स्पृष्ट्वा साकल्येन गृही- तुमत्यादरेण प्रवृत्तयोः पारानुपलम्भेन प्रतिनिवृत्तिरेव प्रतिपाद्यते । प्रतीयमानानां ब्रह्मगुणानां सीमानं तु चेदपुरुषोऽपि वाचा प्रतिपाद- यितुं किंबहुना मनसा चिन्तयितुमपि नाशाकोदिति यावत् । एवं घापरिच्छिन्नगुणकत्वमेव वायनसनिवृत्तिकथनेन सिस्थति न निर्गुणत्वम् । निर्गुणत्वेन ज्ञानाविषयत्वविवक्षायां तु 'ब्रह्मविदामोति परम्' 'आनन्दं ब्रह्मणो विद्वान्' इति पूर्वापरवाफ्यविरोधश्च । अनन्तत्वात्स्वरूपगुणादिमिरेतावदिति परिच्छेदायोग्यं महा परि- च्छिद्य शानयतां तदशावम् । परिच्छिन्नत्वेनातानतां पास मान.प्र.२६ ३३८ . मानमेयप्रकाशिकाय [प्रमेय- भवतीत्युच्यते-'अविज्ञातं विजानतां विज्ञातमविजानताम्' इति । परिच्छिन्नत्वेनाज्ञानं च परिच्छिन्नचिदचित्प्रपञ्चवैलक्षण्येन ज्ञानमेव भावान्तरत्वादभावस्येति विज्ञातमविजानतामिति साधू- पपद्यते । शानसामान्याविपयत्वविवक्षायां तु चिज्ञातत्वकीर्तनं विरुद्धक्षेत । पूर्व हि 'तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति प्राकृतजनोपसेव्यमिदारगोचरं प्राकृतशब्दादिमयं.परिच्छिन्नं वस्तु व्यवच्छिद्यापरिच्छिन्नमप्राकृतस्वासाधारणाकार परंब्रह्मैव मुमुक्षुस्त्वमुंपारस्वेति प्रतिपादितम् । न चानोपास्यसामान्यवैलक्षण्यं विवक्षितम् । तदात्वे 'नेदं यदुपासते' इत्येव पर्याप्तरवाहितीये- दम्पदवैयर्थ्यप्रसङ्गात् । अस्माकं तु परिच्छिन्नपरतया सार्थक्यम् । ब्रह्मोपासनस्यैव निःश्रेयसहेतुत्वाद्ब्रह्मण उपास्यसामान्यवैलक्षण्य- प्रतिपादनायोगश्चेति । तस्मात्परिच्छिन्नव्यावृतिपरप्रकरणानुगुण्ये- नापि ब्रह्मणः परिच्छिन्नत्वेन ज्ञानस्याज्ञानत्वमेवान विवक्षितम् । आवश्यकं हि पूर्वोत्तरसन्दर्भपालोचनं वाक्यार्थविनिश्चये । अत एव च न्यायविदामुद्रोप:-'पूर्वापरापरामृष्टः शब्दोऽन्यां कुरुते मतिम्' इति । एवं च ब्राह्मणोऽशातत्यपधनं न निर्गुणत्वात् किन्त्व- परिच्छिन्नत्वादिति सिद्धम् । एतेन शब्दागोचरत्वमपि व्याख्यातम् । शन्दा अपि हि वैदिका चेदोपहणभूताश्च ब्रह्मणो गुणादीन वर्णयितुं प्रवृत्ता यथाशक्ति विविच्य पारं गन्तुमशक्नुवन्तस्तेपाम- परिच्छिन्नत्वमेव प्रतिपाद्य श्राम्यन्ति ।.तथा चोपवर्णितं यामुनमुनिमि:-'उपर्युपर्यनभुयोऽपि पूरुषान् प्रकल्प्य ते ये शतमित्यनुक्रमात् । गिरस्त्वदेकैकगुणावधीप्सया सदा स्थिता नोद्यमतोऽतिशेरते ॥ इति । अतः स्वरूपतो गुणैश्वा- - प्रकाशे] ईश्वरपरिच्छेदः। ३३९ परिच्छिन्नं ब्रह्मेयत्तया शब्देन प्रतिपादयितुं मनसा चिन्तयितुं वा न शक्यमिति स्थितम् । . हेयसामान्यशून्यत्वकल्याणगुणाकरत्वलक्षणोभयलिङ्गप्रवृत्ति- निमित्तकश्च भगवच्छब्दः परस्मिन्नेव ब्रह्मणि वासुदेवे नित्य- शुद्धेऽपरिच्छिन्नविभूतिके सर्वकारणे मुख्यवृत्त इति- श्रीविष्णुपुराणे प्रतिपाद्यते-'शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय भगवच्छब्दः सर्वकारणकारणे ॥ सम्भर्तेति तथा भर्ता भका- रोऽर्थद्वयान्वितः। नेता गमयिता स्रष्टा गकारार्थस्तथा मुने। ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययो- चैव पण्णां भग इतीरणा ॥ वसन्ति तत्र भूतानि भूतात्म- न्यखिलात्मनि । स च भूतेष्वशेपेषु वकारार्थस्ततोऽव्ययः ।। ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः। भगवच्छन्दवाच्यानि विना हेयैर्गुणादिभिः ॥' 'एवमेप महाशब्दो मैत्रेय भगवा- निति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥' 'तत्र पूज्य- पदार्थोक्तिपरिभापासमन्वितः। शब्दोऽयं नोपचारेण ह्यन्यत्र झुपचारतः ॥' इति । (पूज्यपदार्थोक्तिर्योगः, परिभाषा' रूढिः) उपचारनिमित्तं च ज्ञानाधिक्य मिति वर्णितम्-'उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥' इति । परमते त्वविद्योपहितस्य जगत्कारणस्या- शुद्धत्वात्सगुणस्य चापरब्रह्मत्वान्निर्विशेपे च प्राणि प्रवृचिनिमित्ता- नन्वयाजगत्कारणे शुद्धे परस्मिन् ब्रह्मणि भगवच्छन्दमुख्यपृत्ति- १ सयुपयोगिसम्भारसम्पादयितृत्वं प्रकृतिपुरपादेः सृष्टपोन्मुरयायापादन. लक्षण सम्भर्तृत्वम् , भर्तृत्वं स्वामित्वं, नेतृत्व स्थितिकर्तृत्वम् , गमवितृत्वं लय- कर्तृत्वम्, श्रीः भोग्यसम्पतिः, वैराग्य पूर्णकामतया अनादरता । -- ३४० मानमेयप्रकाशिकायां [प्रमेय- प्रतिपादनस्यायोगः । किञ्च 'अधात आदेशो नेति नेति' इति निषेधमुखेन प्रतिबोधितस्यैव परस्य ब्रह्मणो नाम कीर्यते-'सत्यस्य सत्यम्' इति । एतेन-परस्य ब्रह्मणः शब्दागोचरत्वमेव, अविद्यो- पहितस्यैव ब्रह्मादिशब्दवाच्यत्वमित्यपि परास्तम्। अनार्य सङ्ग्रहः- ज्ञानानन्दश्रुतेश्चैवममतत्वश्रुतेरपि। निवृत्तिश्रुतितो वाङ्म- नसयोनिर्गुणश्रुतेः । निर्गुणं तत्परं ब्रह्म सगुणं ब्रह्म कल्पि- तम् । इति वादो न युक्तस्तु गुणानां सत्यताश्रुतेः ॥ स्वाभा- विकत्वश्रुत्या चापरिच्छेदाशया मता। अमतादिश्रुतिवाध्या हेयाभावे च तत्परा ॥ निर्गुणत्वश्रुतियगुणाभावस्फुटश्रुतेः । मानान्तरासिद्धशुद्धकल्याणगुणतत्परा ॥ विधिश्चास्याबाधिका स्यादग्नीपोमादिवाक्यवत् । सूत्रकारोऽपि कल्याणगुणेषु पर- मार्यतः ॥ त्रय्यन्तानां हार्दमादरादलोप इति स्फुटम् । वर्ण- यामास किश्चास्य ब्रह्मत्वं तु स्वरूपतः॥ गुणतश्चानवधिका- तिशयत्वेन सिद्ध्यति। निरुक्तं ब्रह्म परिवृढं सर्वत इति ह्यतः॥ ब्रह्मत्वायाप्यस्य शुभगुणवत्ताभ्युपेयताम् । एवं निर्दोपकल्या- णगुणवंद्रह्म वर्णितम् ॥ हरियाक्यसुधासिन्धौ सत्सगिजीवनेऽपि निर्दोपत्वं समस्तक- ल्याणगुणाकरत्वं च समुपवर्णिते-'गुणातीतो निर्विकारः' 'परा- त्परः शुद्धः' 'मायागुणैविहीनत्वान्निर्गुणः परमेश्वरः' 'भग- वान् पुरुषोत्तमः । सर्वदेवातिशुद्धोऽस्ति स्वतन्त्रोऽविक्रिय- स्तथा' 'अनन्तकल्याणगुणरतान्धिः' 'निर्गुणं सद्गुणगणं हरि' एवं हि भगवानेको भूयांसः सन्ति तद्गुणाः' 'निर्गुणो निर्विकारच सच्चिदानन्दलक्षणः' 'नित्यासस्येयकल्याणदि- .

प्रकाशे] ईश्वरपरिच्छेदः। व्यसद्गुणमण्डितः । सेवितश्च भगैः पद्भिः' 'अप्राकृतगुणो विष्णुनिर्गुणश्चेम्वरेश्वरः' 'अनन्तकल्याणगुणः स ज्ञेयः पुरु- षोत्तमः' इति । पाहुण्यविवरणम् । "सहयातुं नैव शक्यन्ते गुणा दोपाश्च शाणिः । आनन्त्यात्प्रथमो राशिरभावादेव चान्तिमः॥" "न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्त्वाचैरखिलैर्गुणैः॥" "यथा रत्नानि जलघरसंख्येयानि पुत्रक । तथा गुणा ह्यनन्तस्य ह्यसंख्येया महात्मनः ॥" "इपुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ॥" "चतुर्मुखायुर्यदि कोटिवको भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानामयुतैकदेशं वदेन वा देववर प्रसीद ॥" "वर्षायुतर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः । महात्मनः शङ्खचक्रासिपाणेविष्णोर्जिप्णोर्वसुदेवात्मजस्य ॥" "गुणात्मनस्तेऽपिगुणान् विमातुं हितावतीर्णस्यक ईशिरेऽस्य। कालेन यैर्या विमिता सुकल्पैर्भूपांसवः खे मिहिका युभासः॥" इत्यादिवचनरसंख्येयगुणवत्त्येन प्रतिपन्नस्यापि भगवतः सृष्टपा- शुपयोगितया प्राधान्येन पहुगुणा गण्यन्ते शानशक्तियलेश्वर्यवीर्यश- क्तितेजांसि नाम । एतद्विततिरूपत्वं चान्येषां गुणानागुच्यते-'तवा- नन्तगुणस्यापि पदेव प्रथमे गुणाः। यैस्त्वयेव जगत्कुक्षी अन्येऽप्यन्तनिवेशिताः ॥' इति । वर्णितं प भीयरसायनि- मानमेयप्रकाशिकायां [प्रमेय- वरदराजस्तवे-'प्रकृष्टं विज्ञानं वलमतुलमैश्वर्यमखिलं विम- र्यादं वीर्य वरद परमा शक्तिरपि च । परं तेजश्चेति प्रवरगु- णपटकं प्रथमजं गुणानां निःसीम्नां गणनविगुणानां प्रस- वभूः ॥' इति । एतेपां स्वरूपं च वर्णितम्-"अजडं स्वात्मस- म्बोधि नित्यं सर्वावगाहनम् । ज्ञानं नाम गुणं प्राहुः प्रथम गुणचिन्तकाः ॥ जगत्प्रकृतिभावो यः सा शक्तिः परिकी- र्तिता । श्रमहानिस्तु या तस्य सततं कुर्वतो जगत् ॥ वलं नाम गुणस्तस्य कथितो गुणचिन्तकैः । कर्तृत्वं नाम यत्तस्य स्वातन्त्र्यपरिबृंहितम् ॥ ऐश्वर्य नाम तत्प्रोक्तं गुणतत्त्वार्थचि- न्तकैः । तस्योपादानभावे हि विकारविरहो हि यः ॥ वीर्य नाम गुणः सोऽयमच्युतत्वपराह्वयः । सहकार्यानपेक्षा या तत्तेजः समुदाहृतम् ॥” इति । स्वाभाविकनित्यसपिरोक्षलक्षणं भगवतो ज्ञानम् , अघटितघटनासामय शक्तिः, विश्वस्य धारण- सामयं बलम् , नियमनसामर्थ्यमैश्वर्यम् , सत्यपि हेतौ विक्रियावि- रहलक्षणं वीर्यम्, परामिभवसामयं तेजः, इत्यपि सुवचम् । नामसहस्रे च 'महोत्साहः' इति निरवधिकमैश्वर्य, 'महाद्युतिः' इति प्रकृष्टं तेजः, 'महावलः महाबुद्धिः महावीर्यः महाशक्तिः' इति च तथाविधा बलबुद्धिवीर्यशक्तयो भगवतः प्रतिपाद्यन्ते । नन्वघटितं चेद्धटयेदीश्वरो नीलमरुणं कुर्याद्धटं च पटम् । वस्तुस्वभावनियमो विलुप्येतैवम् । मैवम् । परैः कल्पशतेनापि रपयितुमशक्यान् सघटनाविशेपानविरुद्धतया तत्त्वेषु घटयति स्वसामध्येनेयेर विवक्षितत्वात् । यथोक्त तत्वमुक्ताकलापे- 'नीर फियित्तदानीमरुणमिति न खल्विन्द्रजालाहते स्यानो प्रकाशे] ईश्वरपरिच्छेदः। ३४३ चेदेवं विरोधः कचिदपि न भवेत् कश्च जैनोपरोधः । तस्मादीशो विरुद्धद्वितयमघटयन् सर्वशक्तिः कथं स्यान्मैवं व्याघातशून्येप्वनितरसुशकेष्वस्य तादृक्त्वसिद्धेः ॥' इति । विष्णोरचिन्त्यशक्तिशता एव मेघोदयादयोऽन्यैर्मनसापि चिन्त- यितुमशक्या विचित्रा भावाः स्मर्यन्ते-'मेघोदयः सागरसन्निवृत्ति- रिन्दोविभागः स्फुरितानि वायोः । विद्युद्विभङ्गो गतिरुष्ण- रश्मेर्विष्णोर्विचित्राः प्रभवन्ति मायाः॥ इति । जले पृथिव्या अछिन्नतया स्थितिः, गुरुत्ववतां द्युलोकप्रभृतीनामपततां निराल- ग्वने आकाशप्रदेशे स्थितिः, जलेनाग्नेविनाश्यत्वेऽपि मेघोदरगतवि- धुदादितेजसां जलेन्धनत्वादि च भगवतोऽघटितघटनासमर्थस्य सङ्कल्पकृतमेव । नृसिंहादिरूपपरिग्रहोऽप्यघटितघटनाशक्तिकृत एंव । कृष्णस्योदरे ब्रह्माण्डस्यावस्थितिरपि तथैव । भगवता स्ववि- प्रहविभूतीनां सङ्कोचविकासयोगादिनाऽविरुद्धावस्थान्वयस्य सम्पा- दनात्सर्वमुपपन्नम् । नतु अन्यत्रादृष्टत्वमात्रेणास्य विचित्र घटना- विशेपस्यैन्द्रजालिकत्वं मन्तव्यम्, तत्र तत्र पारमार्थिकताया एव प्रतिपादितत्वात् । अत एव परावरतत्त्वयाथात्म्यविदामपि भका- प्रेसराणां वदनुभवैकरसता सद्गच्छते । नमैन्द्रजालिकत्वे विवे- किनां तदनुभवप्रवणवा घटेत । यशोदा च कृष्णोदरगतं ब्रह्माण्ड पश्यन्ती किमयं स्वमः; उत देवमाया; आहोस्विन्मतिमोह इति वितर्कयन्ती जागरावस्थत्वान स्वप्नः, अन्यः पार्श्वस्थैरनुपलभ्यत्यान्न देवमाया, विद्युदादिकं हि दैविकं कर्म सर्वैरुपलभ्यते, निपुणं निरू- पणेऽप्यविपर्यासान्न भ्रमः, रजुसादिकं हि निपुणं निरूप्यमाणं वाधितं भवतीति तत्रं वनाऽनयेणाऽन्तवो भावयति ममेव पुनस्यै- ३४४ मानमेयप्रकाशिकायां [प्रमेय- श्वरः स्वाभाविको गुणविशेपोऽयं स्वान्तर्गतब्रह्माण्डत्वलक्षण इति । 'किं स्वम एतदुत देवमाया किंवा मदीयो बैत बुद्धिमोहः । अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्म- योगः ॥ इति । अतोऽचिन्त्यशक्तियोगप्रभवमत्यद्भुतं भागवतं कर्म परमार्थभूतमेव भक्तशिरोमणीनां रस्यत्वाय कल्पत इति स्थितम् । उक्तं च अक्रूरेण-जगदेतन्महाश्चर्य रूपं यस्य महात्मनः । तेनाश्चर्यवरेणाहं भवता कृष्णसङ्गतः ॥' इति । तथा च हरिवाक्यसुधासिन्धावुक्तम्-'विधृता येन पृथिवी चारामुपरि तिष्ठति । ताराचक्र चान्तरिक्ष लोकाः स्वर्गादयस्तथा ।। सूर्याचन्द्रमसौ यात उदयास्तमने तथा । वर्षन्त्यम्बूनि वर्षासु मेघाश्चापि यदाज्ञया । काले काले पुष्पफलं सूयन्ते तरवोऽपि च । मर्यादा न जहात्यन्धिर्वर्षास्वपि यदाज्ञया ।। अम्बुधिन्दोः स्त्रीजठरे जायन्तेऽझिकरादयः। यदिच्छयेह- शाश्चर्यगुणो यो भगवान् प्रभुः ॥' इति । नन्वेवमपि भागवतं चेज्ज्ञानं सदा सर्व गोचरयति; तर्हि भविष्यदपि भविष्यत्वेन विषयीकरोति न वा । तथा विषयीकारे तव पस्तुनो वर्तमानत्वातीतत्वावस्थयोरपि तथैव विपयीकारे भ्रान्तित्यमापद्येत । न घ वर्तमानत्याद्यवस्थासु वर्तमानत्वादिनै- 'चोल्लेखान भ्रान्तित्वमिति वाच्यम् । अकरणायत्तस्योलेसान्तरे हेतोपत्वात् । उल्लेखान्तरस्वीकारे वा नित्यैकरूपत्वं तस्य न स्यात् । अब घूम:-सत्यं भगववो शानं करणनिरपेक्षमेव सर्वन सर्वदा प्रसृतं सर्वसाक्षात्कारलक्षणम् । परन्तु यदा यदा यद्यत् यद्य- परसापयति तत्कालीनतचदयस्वमेव तत्तद्विषयीकरोति सर्व- . . न ज . ~ 'प्रकाशे] ईश्वरपरिच्छेदः। ३४५ देश ज्ञानं, न तु कालान्तरीणावस्था कालान्तरीणत्वेनेति न भ्रान्ति- त्वम् । किञ्च संयम्युलेखभेदे कालभेदेन तत्तद्वस्तुगतावस्थाभेद- निवन्धंने नित्यैकरूपताम्यवहारस्तज्ज्ञानस्य सार्वत्रिकव्याप्तेः सदात- नत्वाभिप्रायेण भवेत् । न हि जीवत्येव ज्ञानं कदाचित्सङ्कुचितप्र- सरमभूदेवदीयं ज्ञानमिति । सन्ति नाम भगवतः सहस्रशो गुणाः पाडण्यविततिरूपाः अथाप्याश्रयणसौकर्यापादका आश्रितकार्यापादकाश्च केचन गुणा वित्रियन्ते। येषामनुसन्धानेनानयणे सज्ञातरुचीनां सुकृतिनामय- मस्सत्कार्य साधयिष्यत्येवेति महाविश्वासपूर्वकं निर्भीकतया भग- वत्समाश्रयणं घटेत नाम । तत्र सौशील्यवात्सल्यादय आश्रयण- सौकर्यापादकाः, ज्ञानशत्यादयश्वामितकार्यापादका इति विवेकः । (१) सौशील्यं नाम महतो मन्दः सह नैरन्ध्येण संश्लेपस्य- भावः। यथा श्रीरामचन्द्रस्य व्याधकपिनाक्षादिमिः । यथा वा श्रीकृष्णस्य गोगोवत्सगोपगोप्यादिभिः । इदमनुसन्धीयमानमान- यो प्रवृत्तस्य स्खनिकर्पानुसन्धानेन प्रसक्तं पश्चात्पदत्वं निवर्त- यति । (२) भक्तगतदोषोपेक्षादिरूपज्ञानावस्थाविशेपो वात्स- ल्यम् । (३) अपराधसहिष्णुत्वं क्षमा । इमे च स्वापराधभूय: स्त्यानुसन्धानेन प्रसक्तं तत् । (४) सौलभ्यं नाम 'न मांसंच- क्षुरभिवीक्षते तम्' इत्यादिना फथितस्यातीन्द्रियस्य रूपस्य तत्तत्स- जातीयसंस्थानत्यापादनेन चक्षुर्विपयत्यसम्पादनम् । इदं च दुलम- त्वज्ञानप्रसक्तम् । (५) स्वार्थगन्धविरहिवमन्यदीयं दुःसं दृवाड- सहमानत्यं दया । 'आवृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः। राघवं शोभयन्त्येते पगुणाः पुरुषोत्तमम् ॥' इति + मानमेयप्रकाशिकायां [प्रमेय हि दयादयः श्रूयन्ते । वर्णितं च श्रीकृष्णस्य परमकारुणिकत्वं सत्सशिजीवने-'स हि नारायणः स्वामी धाम्नः स्वादक्षरा- त्परात् । आविर्वभूव भूलोके त्राकृतिः श्रेयसे नृणाम् ॥ रक्षार्थ च स्वाश्नययोर्दुष्टेभ्यो भक्तिधर्मयोः। जातस्य तस्य कारुण्यं को वा वक्तुं क्षमो भवेत् ॥' 'कथंकारं मे स्याद्यदि न पुरुकारु- ण्यपदवीं श्रयेथा नाथ! त्वं त्वयि हि तदिदं केवलमहो ।' 'तदपि यस्त्वं दृशिगतो न जाने तद्धेतुं त्वदतितरकारुण्यत ऋते' इति । (६) सदा चेतनहितपर्यालोचनं सौहार्दम् । (७) औदार्य नाम दानशीलत्वम् । स्वात्मपर्यन्तसर्वस्वदातृत्वं च भगवतो 'य आत्मदा घलदा' "तस्मात्त्वमपि विप्रेन्द्र ! नारायणपरो भव । तदन्यः को महोदारःप्रार्थितं दातुमीश्वरः ॥' इत्यादि- श्रुतिस्मृतिसिद्धम् । (८) आर्जवं नाम मनोवाकायवृत्तीनामेकरूं- पता । एते च गुणा विश्वसनीयत्वोपपादकाः । (९) आश्रितका- र्यसम्पादनावश्यम्भावप्रयोजकः , सम्बन्धविशेषः स्वामित्वम् । स्वभूतस्य चेतनस्येष्टसिद्धौ खामिनोऽतिशयाचेतनकार्यमीश्वरेणावश्य करणीयमेव हि । सेवायाः पुरुपार्थतोपयुक्तं चेदम् । प्राप्तस्य गुर्वादेः सेवाया एव पुरुपार्थता हि लोके दृष्टा । अप्राप्तसेवायाश्वा- वर्जनीयत्यबुद्धिप्राप्तत्वमेव न तु रागत इत्यपरोक्षमेवेति । भक्तग- तानिष्टवर्गतन्निवर्तकोपायादिज्ञानपूर्वकतन्निवर्तनस्य सर्वविधभक्ता- भिमवपूरणस्य प (१०-११-१२) ज्ञानशक्तिपूर्तिकार्यत्वमि- सेते फार्यापादकगुणत्वेन व्यपव्हियन्ते । येपां गुणानां विधानेन चेतनानां भगवद्विपये स्वात्मनो रुचि- पर्थिफा सेपकत्यप्रतिपतिरविच्छिन्ना भयेते प गुणा पशित्यादयः . प्रकाशे] ईश्वरपरिच्छेदः। ३४७ स्तोत्ररत्ने सङ्ग्रहीताः श्रीमद्यामुनमुनिभिः-'वशी वदान्यो गुण- चानृजुः शुचिर्मूदुर्दयालुमधुरः स्थिरः समः । कृती कृतज्ञस्त्व- मसि स्वभावतः समस्तकल्याणगुणामृतोदधिः ॥' इति । अत्र वशित्वं सर्वेश्वरत्वमाश्रितपरवशत्वं वा । 'इमौ स्व मुनिशार्दूल- किङ्करी समुपस्थितौ । आज्ञापय यथेच्छं वै शासनं करवाव किम् ॥” इत्यादिवचनसिद्धमिदम् । पाण्डवदूतत्वादौ च प्रसिद्धम् । अर्थिभ्यः प्रियवादनपूर्वकं दानशीलत्वं वदान्यत्वम् । इदं च । 'उदाराः सर्व एवैते' 'ससर्वानचिनो दृना समेत्य प्रतिनन्ध च' इत्यादिवचनसिद्धम् । भक्तवर्यः पुनःपुनः गुण्यते-अभ्यस्यते इति गुणः-आश्रितचित्ताकर्षकं सौशील्यम् । अनुसन्धीयते चेदं श्रीव- साङ्कमित्रैः श्रीभाष्यकारमुख्यशिष्यैः-'मात्रा यदि त्वमसि दामनि सन्निवद्धः तच्छाविणामुदितचाक्षुपनिर्झराणाम् । वभासि हन्त हृदयं भगवन् कुतस्तत् सर्वो हि वश्यविपये विवृणोति वीर्यम् ॥' इति । 'मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्' इत्युक्तलक्षणं ऋजुत्वम् । शुचित्वं परमपायनत्यम्-'पावन: सर्वभूतानां त्वमेव रघुनन्दन' 'पवित्राणां हि गोविन्दः पवित्रं परमुच्यते।' इत्यादि मुनिवचनसिद्धम् । परमपावनत्वं च स्ससम्ब- न्धात् क्षेत्रज्ञानां वाह्याभ्यन्तरसफलकल्मपनियहकत्वं मोक्षहेतुत्य- पर्यवसितम् तथानन्तज्ञानशपयादिगुणयोगात्पुरुपोचमस्यैव घटते । सन्ति नाम पुण्यानि तीर्थानि क्षेत्राणि च परःसहरं चेवन- दुरितापहारकाणि । भगवत्सम्बन्धनिवन्धन एय तेषां स महिमा। अत एव 'पवित्राणां पवित्रं यः' इत्युच्यते । पवित्राणामपि पवित्रत्वापादक इत्यर्थः । जीयानामनादिप्रष्ठतियन्धनकर्मरूपमट- - । ३४८ मानमेयप्रकाशिकायां [प्रमेय- सम्बन्धं तु न तानि निवर्तयितुं क्षमाणि साक्षात् । उपासितः परमपुरुषस्तु साक्षात्सर्वविधकर्मबन्धनिवर्तकः श्रूयते-'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' 'यथे- पीकतूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' 'यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पाप कर्म न श्लिष्यते' इति । आह च वासुदेवः स्वयमेव-'सर्व- धर्मान्परित्यज्य मामेकं शरणं ब्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥' इति । स्मर्यते च वासुदेवस्यैव कृत्ल- पापनिवर्तकत्वं मोक्षप्रदत्वं च महर्षिभिः-'त्वामाराध्य परंब्रह्म याता मुक्तिं मुमुक्षयः । वासुदेवमनाराध्य को वा मोक्षमवामु- यात् ॥' 'संसारार्णवमनानां विषयाक्रान्तचेतसाम् । विष्णु- पोतं विना नान्यत्किञ्चिदस्ति परायणम् ॥' 'ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु । प्रायश्चित्तिहिं सर्वस्य दुष्कृतस्येति वै श्रुतिः ॥' 'प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै। यानि तेषामशेषाणां कृष्णानुस्मरणं परम्.।।' इति । योगिनां योगविरोधिसकलकर्मनिवर्तकश्च स एवेत्युच्यते-'यथाऽग्निरुद्धत- शिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्यो- गिनां सर्वकिल्बिषम् ॥' इति । आह च स्वयमेव-'यो मामज- मनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्येषु सर्व- पापैः प्रमुध्यते ॥' इति । वासुदेवव्यतिरिक्तानां तु द्वहिणरुद्रा- दीनामपावनत्वमत एव मोक्षप्रदानासामध्य च । स्मर्यते च तेषां कर्मपरवशतयाऽशुद्धिः-'आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यव- स्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः।।' 'अशुद्धास्ते ।

प्रकाशे] । ईश्वरपरिच्छेदः। ३४९ समस्तास्तु देवाद्याः कर्मयोनयः।' इति । सापराधैरपि सहसा- ऽऽश्रयितुं शक्यत्वं मार्दवम् । तथा च रावणं प्रति सीतादेव्या वचनम्-'विदितः स हि धर्मज्ञः शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।।' इति । दया दुःखि- तेषु गजेन्द्रकाकासुरप्रभृतिषु । 'स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः । त्रीन् लोकान् सम्परिक्रम्य राघवं शरणं गतः ॥ स तं निपतितं भूमौ शरण्यः शरणागतम् । वधार्ह- मपि काकुत्स्थः कृपया पर्यपालयत् ॥' इति श्रीरामायणे जय- . न्तवृत्तान्त उच्यते । माधुर्य-निरतिशयानन्दस्वरूपत्वं 'प्राणो 'ब्रह्म कं ब्रह्म खं ब्रह्म' 'रसो वै सः' इत्यादिश्रुतिसिद्धम् । वाचिकं कायिक च माधुर्य "प्रियवादी व भूतानां सत्य- वादी च राधवः ।' 'रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारि- णम् ॥' 'तासाभाविरभूच्छौरिः स्मयमानमुखाम्वुजः । पीता- म्बरधरः बग्वी साक्षान्मन्मथमन्मथः ॥' इति महर्पिभिरुपव- णितम् । स्थैर्य-आश्रितरक्षणे तदपराधप्रदर्शकैरत्यन्तसुहजनैरप्य- क्षोभ्यत्वम् । यथाह विभीषणशरणागतौ सुग्रीवादीन् तदगीकार- निषेधकान् प्रति राघवः स्वयमेव 'मित्रभावेन सम्प्राप्तं न त्यजेयं कथश्चन' इत्यादिकम् । साम्य-जातिवृत्तायनपेक्षया सर्व- राश्रयणीयत्वम् । तथोक्तं 'देवानां दानवानां च सामान्यमधिल दैवतम् 'सर्वलोकशरण्याय राघवाय महात्मने' इति । आह च स्वयमेव 'समोऽहं सर्वभूतेषु न मे द्वेप्योऽस्ति न मियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥' इति । कृतित्वं-भानितेष्टप्रपूरणेन कृतकृत्यंमन्यत्वम् । तथा चोकं श्रीरा- मानमेयप्रकाशिकायां [प्रमेय- मायणे-'अभिपिच्य च लङ्काया राक्षसेन्द्रं विभीपणम् । कृत- कृत्यस्तदा रामो विवरः प्रमुमोद ह ॥ इति । यद्वा कृतमुप- कारः लोकोपकारार्थानुन तद्वत्वम् । यथाह स्वयमेव-'न में पास्ति कर्तव्यं त्रिषु लोकेषु किश्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥' इति । कृतज्ञत्वं-परैः कृत उपकारलेशेऽपि बहुमन्तृत्वम् । उक्तं च 'न स्मरत्यपकाराणां शतमप्यात्मव- तया । कवञ्चिदुपकारेण कृतेनैकेन तुप्यति ॥' 'गोविन्देति यदाकन्दत् कृष्णा मां दूरवासिनम् । ऋणं प्रवृद्धमिव मे हृद- यान्नापसपति ॥' इति । एते कतिपयगुणा उक्ता उपलक्षणतया । सर्वेऽपि कल्याणगुणाः स्वाभाविकाः सन्तीत्युपसहियते-'त्वमसि स्वभावतः समस्तकल्याणगुणामृतोदधिः' इति । अमृतशब्देन भगवत्स्वरूपस्येव कल्याणगुणानामपि भोग्यतमत्वं 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' इति श्रुत्युक्त विवक्षितम्। लोको हि गुणिने स्पृहयति । भगवांश्च निरतिशयकल्याणगुण- गणनिधिः । अवस्तदीयकल्याणगुणानां ज्ञाने जाते चेतनानां स्वाभाविकतच्छेपत्वप्रतिपत्तिनिर्गल प्रसरणमर्हति स्वरसतः । आह च लक्ष्मणो हनूमन्तं प्रति 'अहमस्यावरोधाता गुणैर्दास्यमु- पागतः । इति । भागयते च 'आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकी भक्तिमित्थंभूतगुणो हरिः ॥' इति । वासुदेवमाहात्म्ये च-'आत्मनाक्यसम्पन्नर्विनिवृत्तगु- गैरपि । क्रियते वासुदेवस्य भक्तिरित्वंगुणी हि सः॥ इति । ज्ञातेप्यपि भगवद्गुणेषु भगवद्विपये रुच्यनुत्पत्तिस्तु हपम्मतीनां दुपर्मपरिपाकयाहुल्यत इति परं शोकस्थानम् । सुकृतिनां तु भरा- प्रकाशे] ईश्वरपरिच्छेदः। ३५१ धद्गुणाः कर्णाकर्णिकयाऽपि श्रूयमाणासाद्विषये रुचिमुत्पाद्य तद्वेद- नाद्युपयुक्तां सदाचार्योपसत्तिं प्रयोजयन्ति । आचार्यप्रसादलब्ध- दीक्षादिकानां चाधिकारिणामनवरतं भगवद्गुणा एव उपासनीया भवन्ति निःश्रेयसायेहानुभवार्थतया च । भगवत्प्रसादनिवन्धने सर्वकर्मबन्धविनिर्माक्षे च त एव परमानुभाव्याः । तदनुभवज- नितप्रीतिकारिताशेपशेपवृत्तिरेव च परमः पुरुपार्थः । एवमुपक- मप्रभृत्यामोक्षं चेतनस्य भगवद्गुणा एव परमालम्बनं भवन्ति स्वश्रेयसीति नैत उपेक्षास्थानतामर्हन्ति । न चैते गुणा अवतार-. दशायामेव न परदशायामिति वाच्यम् । परदशायां पाइगुण्यं तु वर्तत एव हि । तदेवतेपां सौशील्यादीनां गुणानां वीजरू- पम् । न चाक्षरे धाग्नि निकृष्टाः सापराधा वा वर्तन्ते, येन तत्प्र- तिसम्बन्धिकानामेपां तत्र स्फुटप्रकाशो भवेत् । अतः परदशाया- मनुद्भूततया वर्तमानानामेव सौशील्यादीनामत्र स्फुटप्रकाशोऽन्ध- कार इव प्रदीपस्य । अत एव श्रूयते-‘स उ श्रेयान् भवति जायमानः ॥ इति अलं विस्तरेण । एवं हेयप्रतिभटं पाइगुण्यप्रमुखैर्गुणैः । निःसीमकैरनन्तैश्च जुष्टं ब्रह्म परं स्थितम् ॥ अथोक्तगुणकार्या ये धर्मा अस्य हि विश्रुताः। सर्वाधारवादयोऽसाधारण्यालक्ष्मतां गताः॥ • विविच्यन्ते समासेन ते तूदेशक्रमादिह । तत्र विश्वस्य भरणं महावलनिवन्धनम् ।। ऐश्वर्यगुणतो विश्वप्रशासनमुदीरितम् । तत एव च सर्वेषां शेपित्वमपि सम्भवि ।। .

३५२ मानमेयप्रकाशिकायां [प्रमेय- सर्वकर्माराध्यताऽस्य स्वामित्वान्निरुपाधिकात् । ज्ञानशक्त्यादितः सर्वफलदत्वं प्रसिद्धयति ।। समस्तचिदचिद्वस्तुवपुष्वं यच्छ्रुतं तु तत् । अंशः शक्तस्ततस्तेजःसम्भिन्नादस्य सम्भवेत् ।। अशेषजगतामेकहेतुता या श्रुतौ श्रुता। मुमुक्षूपास्यता त्वस्य पावनत्वात्प्रसिद्ध्यति ॥', मुक्तप्राप्यत्वममितमाधुर्यादस्य सम्भवेत् । यस्तूक्तो निखिल पैरसङ्गोऽस्य महात्मनः॥ महावीर्यगुणेनायं प्रयुक्त इति भाव्यताम् । तत्र सर्वाधारताऽस्य प्रथम तूपवर्ण्यते ।। चतुर्थलक्षणविचारः। (सर्याधारत्वम्) 'तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एव- मेता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एप प्राण एव प्राज्ञ आत्माऽऽनन्दोऽजरोऽमृतः' 'अथ य आत्मा स सेतुर्विधृतिरेपां लोकानामसम्भेदाय 'येन चौरया पृथिवी च दृढे' 'भर्ता सन् भ्रियमाणो विभर्ति' 'विश्वं विभतिः . भुवनस्य नाभिः' 'ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धाम'. 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ. विधृतौ तिष्ठतः......द्यावापृथिव्यौ विधृते तिष्ठतः'.'परमात्मा च सर्वेपामाधारः परमेश्वरः । विष्णुनामा स वेदेषु घेदान्तेषु च गीयते ॥ 'आधारभूतं विश्वस्य' इत्यादिधविस्मृतिप्रसिद्धं नाम परस्य साधारस्यम् । अतएय 'भूत- प्रकाशे] ईश्वरपरिच्छेदः। भृत्' इति नामाऽस्य पठ्यते नामसहस्रे । श्रुतिवाक्ये प्रज्ञाशब्दो जीववाची, ज्ञानरूपत्वात्तस्य । मात्राशब्दः ससातैकदेशाभि- प्रायः । विशिष्टस्य ब्रह्मण एकदेशरूपत्वाच्चिदचिताम् । तथा च भूतशब्दवाच्यानामचेतनानामाधाराः प्रज्ञामात्रशब्दनिर्दिष्टा जीवाः । तथा चोपबृंहणम्-'अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महावाहो ययेदं धार्यते जगत् ॥” इति । तेपामप्या- धारः प्राणशब्दितः परमात्मा निरुपाधिकसार्वश्यानन्दत्याजरत्वा- मृतत्वाभय इत्यर्थः । योऽयं दहराफाशः परमात्मा स सेतुरिव . विधृतिर्विधारक एषां लोकानामसम्भेदायासङ्कराय । यद्ययं पर- मात्मा स्वशासनेन जगन्न धारयेत् सर्वधर्माणां साकर्यमेव स्यात् । पृथिव्या गन्धयत्त्वं जलस्य शैल्यमित्यादयो हि धर्माः परमात्माज्ञया व्यवस्थिता भवन्ति । इति च द्वितीयवाक्यस्यार्थः । सिनोति-बध्नाति स्वस्मिन् चिदचिद्वस्तुजावमसङ्कीर्णमिति सेतुरुच्यते इति 'सामा- न्यात्तु' इति ब्रह्मसूत्रे श्रीमाध्ये स्फुटम् । तैत्तरीयारण्यके च द्यावापृथिव्योरन्तरा पर्तमानं किंभूतं परतु तयोर्धारकमिति वितर्कपूर्वकं विष्णोरेव तदापारत्वं प्रतिपादितम्- 'किंस्विदन्तरा भूतं येनेमे विधृते उभे । विष्णुना विधृते भूमी' इति । गीयते च सर्वेश्वरस्य स्वस्यैव सर्वाधारत्वं श्रीकृष्णन 'यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः' 'मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव' इति । अन्तःप्रविष्टस्पेकस्यैयान्तर्या- मिण: सधैरदृष्टस्य सर्वपदार्थधारकत्वमाधेयपदार्थानधीनस्थितिकत्यं घ सूरमणिगणदृष्टान्तेन वियक्षितम् । अर्जुनेनापि सर्वाधारयं श्रीकृष्णस शापितम्-'त्वमस्य विश्वस्य परं निधानम्' इति । । मान.प्र.२३ ३५४ मानमेयप्रकाशिकीयां [प्रमेय- सम्प्रदायग्रन्थे च परस्य ब्रह्मणः सर्वाधारत्वं निरदिश्यत-'अने- ककोटिब्रह्माण्डाधारोऽनन्तोऽपि यः स्वयम्' 'सर्वाश्रयः सर्व- पतिस्त्वमेव' 'सर्वकर्ता च सर्वत्रान्वयेन परमाश्रयः' 'सर्वाधा- रश्च सर्वात्मा सर्वरूपस्ततः प्रभुः' इति । यतः सर्वस्यायमाधा- रोऽतो नास्यान्य आधिारः सम्भवतीत्यनन्याधारोऽयम् । श्रूयते च ‘स भगवः कस्मिन् प्रतिष्ठितः इति स्वे महिम्नि' इति । अन- न्याधारवलक्षणे महिनि स्थित इत्यर्थः । तथा च वचनम्-'रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो राजन नाहं कश्चिदुपाश्नितः ॥ ममाश्रयो न कश्चित्तु सर्वेपा- माश्रयो ह्यहम् । इदंरहस्यं कौन्तेय प्रोक्तवानहमव्ययम्॥ इति । पञ्चमलक्षणविचारः। (सर्चनियन्तृत्वम्) नियन्तृत्वलक्षणमैश्वर्य च सर्वदेशकालवर्तिसर्वचेतनाचेतनविपयं निरङ्कुशमन्याख्यायते परमात्मनो बाह्यमान्तरं च । वाह्य-स्वशा- सनभूतश्रुतिस्मृत्यादिमुखेन । आन्तरं-अन्तर्यामिरूपेण । तथा च श्रुतयः-'ईशावास्यमिदं सर्वम्' 'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते' ‘एको वशी सर्वभूतान्तरात्मा' 'एष सर्वेश्वर एप सर्वज्ञ एपोड- न्तर्यामी' 'स एप सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किन्छ' 'ईशः सर्वस्य जगतः प्रभुः' 'क्षरं प्रधा- नममृताक्षरं हरः क्षरात्मानावीशते देव एका' 'उतामृतस्ये- शानः' (मोक्षस्यापि नियन्तेत्यर्थः ) इति । अतोऽयमेवोभयविभू- तिसार्यभीमः । 'एक इद्राजा जगतो वभूव' ‘स वा अयमात्मा प्रकाशे] . ईश्वरपरिच्छेदः। ३५५ सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा' इति श्रुतेः । आह च मनुः-'यमो वैवस्वतो राजा यस्तवैप हृदि स्थितः। तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः' इति । नियम- यतीति यमः सूर्यमण्डलमध्यवर्ती अन्तर्यामितया तव हृदि स्थितो य उभयविभूतिसार्वभौमो नारायणः, तेन सर्वशेपिणा ते यदि विवादोऽहं स्वतत्रोऽन्यशेपो वेत्यभिमानकृतः न स्यात् तर्हि तच्छे- पित्वाध्यवसायिनस्तव तीर्थक्षेत्रयात्रादिकं कृतकरमित्यर्थः 'शास्ता विष्णुरशेपस्य' 'कालस्यापि हि मृत्योश्च जङ्गमस्थाव- रस्य च । ईशते भगवानेकः सत्यमेतद्रवीमि ते ॥' 'यत्किञ्चि- दर्तते लोके सर्व तन्मद्विचेष्टितम् । अन्यो ह्यन्यचिन्तयति स्वच्छन्दं विदधाम्यहम् ॥' इति च निरङ्कुशमैश्वयं लब्धम् । गीतं च श्रीकृष्णेन 'यो मामजमनादिं च वेत्ति लोकमहेश्वरम्' 'भूतानामीश्वरोऽपि सन्' 'अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते' 'ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥' इति । वासुदेवमाहात्म्ये च 'राजाधिराजाय नमोस्तु तुभ्यम्' 'नियन्तारं नमामहे' 'समस्तकल्याणगुणो निर्गुणश्चेश्वरेश्वरः' इति । नियन्तृत्वे च वचनानि संप्रदायप्रन्थेपु-'नियन्ता कालमा- यादेः सर्वकारणकारणम्। 'कालस्य प्रकृतेश्चापि नियन्ता पुरुषस्य च ।' 'अन्तर्यामी च सर्वेपामात्मनां योऽच्युतो हरिः। 'स हरिस्त्वक्षरस्याथ प्रकृतेः पुरुपस्य च । प्रधान- पुरुषाणां च महदादिगणस्य च ॥ कालस्य स्थूलसूक्ष्मस्य घर- तोडण्डे च तद्वहिः । एतेषां कार्यभूतस्य घेराजस्य महा- [प्रमेय- मानमेयप्रकाशिकायां मते ॥ तज्जातानां प्रजेशानां ब्रह्मादीनां च सर्वशः । नियन्ता ह्येक एवास्ति सम्राट् खण्डभुजामिव ॥ एषां यत्रा- धिकारे ये जगतस्तेन योजिताः । ते सावधानास्तगीतास्तदा- ज्ञायां सदा स्थिताः॥ एवं हि मातः सर्वेऽपि परतन्त्रा भवन्ति हि । कृष्ण एकः स्वतन्त्रोऽस्ति सर्वसेव्यस्ततस्तु सः॥ 'सर्वात्मा चाक्षरादीनां नियन्ता चेश्वरेश्वरः' 'स्थावरे जगामे चास्ते स्थूले सूक्ष्मे नियामकः। 'सर्वपां प्रेरकचासौ स्वतन्त्रोऽस्ति नियामकः ।' इत्यादीनि । अप्रतिहतप्रसरणत्यादेतन्नियमनस्यायं 'अपराजित' इति, ब्रह्मशादिभिरप्यनुल्लङ्घनीयशासनत्वात् 'अर्जितशासन' इति घ नामसहस्रे वर्ण्यते । तथा सर्वस्य निय- न्तृत्वात् 'दमयिता' इति । स्वं प्रति दमयितुरन्यस्य विरहात् 'अदम' इति च । 'भस्म कुर्याजगत्सर्व मनसैव जनार्दनः। न तु कृत्स्नं जगत् शक्तं किञ्चित्कर्तु जनार्दने ॥' इति च स्मृतिः । लोकेश्वरा इन्द्रादयोऽपि तदाज्ञोलनप्रसक्तानर्थशङ्काभयतः स्वस्वकर्मण्यप्रमत्तप्रवृत्ता भवन्तीति श्रूयते-'यदिदं किञ्च जग- सर्व प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एत- द्विदुरमृतास्ते भवन्ति ॥' 'भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥' 'भीपाs- स्माद्वातः पवते भीपोदेति सूर्यः। भीपाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः ॥' इति । अत एवेश्वरेश्वरत्वममन्येश्वरत्वं घ श्रुतिस्मृतिषु जोघुप्यते-'तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् । पति पतीनां परमं' 'न तस्येशे कश्चन तस्य नाम महद्यशः 'न तस्य कश्चित्पतिरस्ति लोके न प्रकाशे] ईश्वरपरिच्छेदः। ३५७ चेशिता' 'तस्मिंस्तुष्टे किममाप्यं जगतामीश्वरेश्वरे' “यस्येदं सेश्वरं वशे' इति । 'सर्वस्य वशी सर्वस्येशानः' इति नियमनसङ्कल्पेन सर्व स्ववशे करोतीति श्रवणाच 'वपट्कार' इति नामास्य पठ्यते नामसहसे । अस्य निरुक्ति:-'स्वेच्छया यो वशे सर्व वषट्कारः करोति सः' इति । तथा च वचनम्-'ससुरासुरगन्धर्व सयक्षो- रगराक्षसम् । जगद्वशेऽवर्ततेदं कृष्णस्य सचराचरम् ॥' इति । यतः सर्वाधारस्य सर्वनियन्तुरस्य स्वरूपस्थितिप्रवृत्त्योरन- न्याधीनता, अतोऽयं व्यपदिश्यते 'ज्ञेयः स्वतन्त्र ईशोऽसौ' इति शिक्षापत्र्याम् । पष्ठलक्षणविचारः। (सर्वशेपित्वम्) सर्वस्वामित्वं च 'स वा अयमात्मा सर्वेषां भूतानामधि- पतिः' 'एप लोकाधिपतिरेप सर्वेशः' 'प्रधानक्षेत्रज्ञपतिः' 'प्रजापतिश्चरति गर्ने अन्तः' 'भूतभव्यभवनाथः केशवः केशिसूदनः' 'कृष्ण एव हि लोकानामुत्पत्तिरपि चाव्ययः। कृष्णस्य हि कृते भूतमिदं विश्वं घराचरम् ॥' (कृष्णस्य कृते-कृष्णसेवार्थ, कृष्णशेपभूतमित्यर्थः) इत्यादिश्रुतिस्मृतिषु प्रसि- द्धम् । प्रधानक्षेनक्षयोः पतिः, स्वामीयर्थः । 'पा रक्षण' इति धातोनिप्पन्नोऽपि पतिशब्दो रूढः शेपिणि । यया गोशब्दो 'गो' प्रत्ययेन निष्पन्नोऽपि चतुप्पाद्विशेपे । अस एष 'पृद्धी च मातापितरौ सानी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरनवीत् ॥' युएरीया पित्रोः सरक्षणेऽपि [प्रमेय- मानमेयप्रकाशिकायां पुत्रे नं पंतिशब्दर्व्यवहारः । 'पत्यादिशब्देभ्यः' इति ब्रहांसूत्रे च परस्य ब्रह्मणः सर्वांधारत्वनियन्तृत्वशेपित्वादयः प्रतिपादिताः। निरुपाधिकं स्वामित्वं श्रीहरेरेव । तदुपासनाधीनतत्प्रसादप्राप्तमेव कतिपयशेपित्वं ब्रह्मरुद्रादीनामपि । तथा चापं वचनम्-'एक एव हरिः स्वामिशब्दवाच्योऽस्ति सर्वथा । अन्यस्तु तदुपा- स्त्याप्तगुणयोगात्तथोच्यते ॥ इति । देवपिभूतात्मनृणां पितॄणां न किङ्करो नायमृणी च राजन् ।' इति च जीवानां भगवदितर- शेपत्वमौपाधिकमेवेति प्रतिपाद्यते । 'दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः। नान्यथा लक्षणं तेषां वन्धे मोक्षे तथैव च ॥' इति वचनाजीवानां परमात्मशेषत्वं तु स्वाभाविक- सया मोक्षदशायामप्यनुवर्तत इति स्थितम् । किञ्च शेपत्वलक्षणस्य यथेष्टविनियोगाईत्वस्य भगवन्तं प्रति सर्वचेतनानामविशिष्टत्वात्सर्व तच्छेपभूतमेव । तथा च वचनम्-'यथेष्टविनियोगार्ह शेपमि- त्यभिधीयते । विष्णुना च जगत्सर्व यथेष्टं विनियुज्यते ॥' इति । 'भूतभव्यभवत्प्रभुः' इति नाम च भगवतः सर्वपित्व- परं पठ्यते । अस्य निरुक्ति:-'त्रिकालवर्तिनां शेपी भूतभव्य- भवत्प्रभुः' इति । सर्पशेपित्वे चेमानि वचनान्यनुसन्धेयानि सम्प्रदायप्रन्थेषु 'जय- त्येकः स्वामी स च सुरनरेन्द्रार्चितपदः' 'ज्ञातोऽस्यद्य हरे मयाऽसिलजगत्स्वामी त्वमेकः प्रभुः' 'त्वमेवैकः स्वामी सकटजगतामित्यपि हरे' 'स हि नारायणः स्वामी श्रीकृष्णो भगवांस्तत्र सदा स्वामी पिराजते' 'सकलेश्वर्यसम्पन्नः सर्व- गोपी परात्परः' 'अनन्तकोटिब्रह्माण्डाधीशो राधारमेश्वरः' ..

. प्रकाशे] ईश्वरपरिच्छेदः। ३५९ 'ज्ञेयः स सर्वकर्तेति स्वामी चैकोऽखिलात्मनाम् 'स्वामी नारायणः सोऽयं नित्यं हृदि मयेक्ष्यते' 'शेपीकृताक्षरपर- श्रीकृष्णः' इति । गीतायामपि चेतनाचेतनयोः स्वशेपत्वं भगवतैव प्रत्यपादि-- 'भूमिरापोऽनलो वायुः सं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृति विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥' इति । 'तद्धाम परमं मम' इति च मुक्तानामपि स्वशेषत्वम् । मे इति षष्ठी शेपशेपिभावपरा 'राज्ञः पुरुष' इत्यादिवत् । यतः सर्वस्वामित्वं वासुदेवस्यैवांतो नान्योऽस्य स्वामी सम्भ- वति । अत एव श्रूयेते आत्मेश्वरत्वमितरनिषेधश्च ‘पति विश्व- स्यात्मेश्वरम्' 'स कारणं करणाधिपाधिपो न चास्य कश्चिज- निता न चाधिपः' इति । सर्वस्य परब्रह्मापृथसिद्धत्वम् । आधारत्वं नियन्तृत्वं वर्णित परमात्मनः । तथा सर्वपतित्वं च तत्प्रकारो विशोध्यते ।। पृथसिद्धो घटादि धारकाद्भूतलादिकात् । भृत्यादिश्च पृथसिद्धो नियन्तुर्नृपतेस्तथा ॥ एवं पृथकसिद्ध एव प्रपञ्चश्चिदचिन्मयः । धार्यः सर्वेश्वरेणेति प्रसक्ते त्वभिधीयते ॥ जीवापृथक्सिद्धमेव शरीरं धृतमात्मना । नियाम्यं शेपभूतं च यथा तस्य तथाऽत्र वै ॥ सर्व च चिदचिद्वस्तुजातं वपुरितिश्रुतेः। परमात्मापृथसिद्धं तद्धार्यत्वादिमद्भवेत् ॥

.. मानमेयप्रकाशिकायां [प्रमेय- तथाहि सर्वस्य चिदचिद्वस्तुजातस्य स्वापृथसिद्धत्वमगायि भग- वतैव-'न तदस्ति विना यत्स्यान्मया भूतं चराचरम्' इति । मया विना भूतं लब्धसत्ताकं किमपि वस्तु नास्ति । यथा जलस- म्बन्धाभावे मत्स्यादीनां सत्ताहानिः, एवं स्वसम्बन्धविरहे सर्वेषां सत्त्व न सिद्ध्ये दिति भावः । अत एव परमसुहृत्तया स्वविरोधि- नामप्यन्तः प्रविश्य सत्तामापादयत्यदृश्यरूपः। 'अहमात्मा गुडा. केश सर्वभूताशयस्थितः।' इति पूर्वमन्तरात्मतया स्वस्थ सर्व- धारकत्वं यदुक्तं तदेवात्र व्यतिरेकोत्तया दृढीकृतम्-अन्तरात्म- तया मत्स न्धविरहे कस्यापि सत्ता न भवेदिति । अतः सर्व मदविनाभूतं मदात्मकमिति फलितम् । अत एव 'नेह नानास्ति किञ्चन' इति निषेधोऽपि विनाभावविषयो बोध्यः । नाना-विना- भूतमित्यर्थः । तथा च परमात्मना विनाभूतं खनिष्ठं यः पश्यति लौकिक पदार्थजातं स पुनः पुनः संसारमेय प्राप्नोतीति स्वनिष्ठ- तादर्शनस्य निन्दा चोच्यमानोपपन्नैव 'मृत्योः स मृत्युमामोति य इह नानेव पश्यति' इति । तस्यायथार्थत्वात् । पूर्व च 'एकधै- वानुद्रष्टव्यम्' इति ब्रह्मात्मकत्वरूपैकप्रकारतयैव सर्वस्य ज्ञातव्य- त्वमुक्तम् । अतो यथोक्त एवार्थः । 'विष्णुः स्यादविनाभावाद्या- प्यव्यापकभावतः' इति निरुक्तिवलाच सर्वस्य परमात्माविना- भूतत्वं सिद्ध्यति । सप्तमलक्षणविचार। (सर्वचेतनाचेतनशरीरकत्वम् ) सर्वस्य चिदचित्प्रपञ्चस्य परमात्मशरीरत्वे श्रुतयश्च-'य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न घेद यस्य प्रकाशे] ईश्वरपरिच्छेदः। ३६१ पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष ते आत्माऽन्त- योग्यमृतः' 'योऽप्सु तिष्ठन्' 'योऽनौ तिष्ठन्' 'यो वायौ तिष्ठन्' 'यो दिवि तिष्ठन्' 'य आदित्ये तिष्ठन्' 'यो दिक्षु तिष्ठन्' 'यश्चन्द्रतारके तिष्ठन्' 'य आकाशे तिष्ठन्' 'यस्त- मसि तिष्ठन्' 'यस्तेजसि तिष्ठन्' इत्यधिदैवमथाधिभूतम्-'यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुः यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयति एप त आत्मान्तर्याम्यमृतः' इति । अथाध्यात्म-'यः प्राणे तिष्ठन्' 'यो वाचि तिष्ठन्' 'यश्चक्षुपि तिष्ठन्' 'यः श्रोत्रे तिष्ठन्' 'यो मनसि तिष्ठन्' 'यस्त्वचि तिष्ठन्' 'यो विज्ञाने तिष्ठन्' 'यो रेतसि तिष्ठन्'...एप त - "आत्माऽन्तर्याम्यमृतः' 'य आत्मनि तिष्ठन्नात्मनोऽन्तरो वमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति' (माध्यन्दिन) 'यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद...योऽपामन्तरे सञ्चरन् यस्यापः शरीरं... योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद...यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युः शरीरं यं मृत्युनं वेद एप सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः' इत्याद्याः। शरीरात्मभावो नाम-द्रव्यत्वे सति अपृक्सिद्धाधाराधेयभावो, नियाम्यनियामकमावस्तथाविधः शेपशेपिभावश्च तादृशः । जीवो हि देहस्यान्तःप्रविश्याघारो भूत्वा तस्य सत्तामापादयति, सं यथा- सङ्कल्पं तत्तत्कायें नियोजयति, तेन च खभोगं सम्पादयति । यथे- मानमेयप्रकाशिकायां [प्रमेय- प्रविनियोगाईत्याच देहस्तं प्रति शेपभूतः । एवं चेतनाथसिद्धत्वे सति तस्याधेयं नियाम्यं शेपभूतं च द्रव्यं शरीरं भवति । तत्प्रतिस- भ्वन्धी चात्मा अपृथक्सिद्धाधारनियन्तृशेपिभूत इति यावत् । शरीरलक्षणम् । श्रीभाप्ये च-'यस्य चेतनस्य यहव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्य; तच्छेपतैकस्वरूपं च तत्तस्य शरीरम्' इति शरीरलक्षणमभिहितम् । 'चेतनं प्रत्यपृथक्सिद्ध- विशेषणं द्रव्यं शरीरम्' इति तु लघुलक्षणं श्रीभाष्यकाराभि- प्रेतम् । न च-मृतशरीरे चेतनापृथक्सिद्धत्वविरहादव्याप्तिशङ्का । चेतनोत्क्रान्तिसमय एव शरीरस्यारब्धविशरणत्वात् । शरीरतया परिस्कृप्तसहातैकदेशतया पुनस्तत्र शरीरत्वव्यवहारो गौणः । न चैवमपि सौभरिप्रभृतीनां नानाशरीरपरिग्रहे एकस्य शरीरस्य चेत- नापृथक्सिद्धत्वेऽपि शरीरान्तराणामतथात्वाव्याप्तिरिति वाच्यम् । तचैतन्याप्पृथक्सिद्धद्रव्यत्वं तच्छरीरत्वमित्युक्तावदोपात् । अणो- रपि सौभर्याद्यात्मनो ज्ञानद्वारा नानाशरीरेषु व्याप्तिविशेपस्योपग- मात् । तथा च सर्वेषां चेतनाचेतनद्रव्याणां परमचेतनीभूतपर- मात्मापृथक्सिद्धविशेषणत्वात्तच्छरीरत्वं साधीयः । अत एचानन्द- मयः परमात्मा 'शारीर आत्मा' इति श्रूयते । असङ्कुचितया वृत्त्या शारीरशब्दस्य समस्तचेतनाचेतनशरीरकपरब्रह्मवाचित्वमेव हि स्वरसम् । अत एव च तत्प्रतिपादकस्योत्तरमीमांसाशास्त्रस्य शारीरकशास्त्रमिति नाम सूपपन्नं भवतीति । 'ईश्वरतज्ज्ञानव्यति- रिक द्रव्यं शरीर'मिति च फूटस्खलक्षणं योध्यम् । यानि पुनर्वाचन्तरोवानि शरीरलक्षणानि-हस्तपादादिमत्त्वं, . प्रकाशे] ईश्वरपरिच्छेदः। पश्चगृत्तिप्राणाधीनधारणत्वं चेतनभोगहेतुत्वं; चेष्टाश्रयत्व; इन्द्रि- याश्रयत्वं; अर्थाश्रयत्वं; कर्मफलभोगार्थत्वं; भोगायतनत्वं; इत्या- दीनि तान्यव्यात्यतिव्याप्तिदूपणप्रस्तानि नोपादेयानि । तथा हि- न हि पश्चादीनां हस्तादिमत्वम् । न वा वृक्षादेः पञ्चवृत्तिप्राणा. धीनधारणत्वम् । तत्र प्राणस्य सद्भावेऽपि पञ्चधा वृत्तेरभावात् । प्राणाधीनधारणत्वमिति चेन्द्रियेष्वतिप्रसक्तम् । तेषां शरीरे स्थित्यादेः प्राणाधीनत्वात् । चेतनभोगहेतुत्वमपि तथैव । चेष्टा- शब्देन चेतनकृतिप्रयोज्यक्रियामात्रस्य विवक्षणे तदाश्रयत्वं घटा- दावतिप्रसक्तम् । हिताहितप्राप्तिपरिहारानुकूलविजातीयक्रियाया विवक्षणे तु तदानयत्वस्याइल्यादिशरीरभूतशिलादिप्वव्याप्तिरेव । इन्द्रियाश्रयत्वं चेन्द्रियसंयोगित्वं चेद्धटादापतिप्रसक्तमेव । स्वज- न्यज्ञानावच्छेदकत्वसम्बन्धेनेन्द्रियवत्वं चाहल्याशिलादिशरीरेष्व- व्याप्तमेव । अर्थाश्रयत्वं च शब्दादिभोग्याश्रयेषु भूतेष्वतिप्रस- क्तम् । स्वभोगावच्छेदकत्वसम्बन्धेन तद्वत्ता तु पूर्वोक्ताव्याप्तिदूप- णमस्ता । फर्मफलभोगार्थत्वं चेन्द्रियार्थेष्वतिप्रसक्तम् । भोगायत- नत्वं नाम भोगावच्छेदकत्वं, तच वेश्मादिसाधारणम् । वेश्मनि मे भोग इत्यनुभवात् । विलक्षणस्य भोगावच्छेदकत्वस्य विवक्षणेऽपि परकायस्य प्रविष्टं प्रति भोगायतनस्यापि तच्छरीरत्वाभावेन तच्छ- रीरलक्षणस्यातिप्रसक्तैवेति । किन्त्र उक्तानां सर्वेपामेय लक्षणानां परमात्मशरीरतया शास्त्रसिद्धेवव्यक्तमहदहङ्कारादिपु क्षेत्रज्ञेपु चाप्रसङ्ग एवेति । अतस्तत्तचेतनाटयक्सिद्धविशेषणद्रव्यं तत्तच्छरी- रमित्येव लक्षणं साधीयः । एवं च अव्यक्तपुरुपादीनां सर्वेषामेव परमात्मापृथक्सिद्धविशेपणत्वात्तं प्रति शरीरत्वं सुस्थिरम् ।

३६४ मानमेयप्रकाशिकायां [प्रमेय- इदमेव भगवदपृथक्सिद्धविशेषणत्वं चेतनाचेतनानां शरीर- तनुवपुःशक्तिरूपादिशब्दैः प्रतिपाद्यते श्रुतिस्मृतिषु । श्रुतिस्तावत् 'वे वा ब्रह्मणो रूपे मूर्त चामूर्तमेव च' इति । स्मृतयश्च-'जग- सर्व शरीरं ते 'यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज। तस्य 'सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः ॥' 'तानि सर्वाणि तद्वपुः 'ऐकदेशस्थितस्याग्नेयोत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ॥' इत्यादयः । प्रकृत्यादेः परमात्मशक्तित्वं सम्प्रदायमन्थे चावर्णि-'कालो माया पुमान् यस्य महत्तत्त्वादयस्तथा । शक्तयः सन्त्येक- मेवाद्वितीयं ब्रह्म यः प्रभुः ॥' 'विश्वोत्पत्त्यादिहेतू हे शक्ती प्रकृतिपुरुपौ' इति । तथा सर्वस्य परमात्मापृथक्स्थितिश्च सुरु कण्ठमुक्का-'सर्वकारणता सर्वाधारता ब्रह्मणोऽस्ति हि । पृथक् नाधेयमाधारात्तिष्ठेत्कार्य च कारणात् ॥' कारणं चोपादानरूपं बोध्यम्, तस्यैव हि कार्यावस्थायामन्वय इति यथा मणिप्रभादेर्मण्याद्यपृथक्सिद्धविशेषणतया मण्याग्रंशत्यम् , एवं चेतनाचेतनानां ब्रह्मांशत्वं 'अंशो नानाव्यपदेशादन्यथापि १ सग्यस्योत्पादक सर्व ब्रह्माशरीरभूतम् । तत्तच्छरीरकं प्रौर सर्व सजती- त्यर्थः । 'दृष्टिं ततः करिष्यामि त्वामाविश्यम्रजापते' इति च चतुर्मु- सकार्यदेवादिस्टैरपि हि तद्वारा परब्रह्मवृक्त्वमुच्यते । २ सया प्रकाशकस्याः प्रकाशनकार्योपयुक्तमपृथसिद्धविशेषणं तत्प्रभा । एवं परस्य प्रारः गुथ्यमादिकार्योपयुक्तमधनिराद्ध विशेष चेतनाचेतनामक सर्व जगर सचिरूपम् । यार्योपयोग्यपृथक्सिद्धविशेषणस्यैव शफिरूपत्वादिति भावः ।

प्रकाशे] ईश्वरपरिच्छेदः। दासकितवादित्त्वमघीयत एके' 'प्रकाशादिवत्नु नै पर 'पूर्ववद्वा' इति सूत्रेषु प्रतिपादितम् । वत्र ब्रह्मांशत्वे जीवानामेक- वस्त्वेकदेशस्यैवांशरूपतया ब्रह्मस्वरूपाभेदेन तद्गतदोपाणां ब्रह्मणि प्रसङ्ग इत्याशङ्कय विशिष्टवस्त्वेकदेशत्वलक्षणमेवांशत्वमन विवक्षि- तम्, यथा प्रभादेस्तद्विशिष्टमण्याघेकदेशतया मण्याचंशत्वं तद- दिति परिहृतं 'प्रकाशादिवत्तु' इति । चेतनानां यादशमंशत्वं तादृशमेवाचेतनानामपि ब्रह्मांशत्वमिति च अहिकुण्डलाधिकरणा- न्तर्गतस्य 'पूर्ववद्वा' इति सूत्रस्य भावः । आत्मलक्षणम् । आप्नोति सर्वात्मनाऽऽधारतया नियन्तृतया शेपितया च शरी- रमिति चात्मा । सर्वात्मनेत्यनेनापृथक्सिद्धत्वं विवक्षितम् । अयं च आत्मशब्दस्तत्तच्छरीरप्रतिसम्बन्धिनि तत्तजीवे प्रयुज्यमानोऽपि सर्वचेतनाचेतनापृथक्सिद्धाधारे तन्नियन्तरि तच्छेषिणि परमात्म- न्येवासङ्कुचितवृत्तिः स्वरसवृत्तो भवति । अत एव जगत्कारणस्य परस्य ब्रह्मण आत्मशब्देन निर्देशः 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः' 'आत्मा वा इदमेक एवाग्र आसीतू' इत्यादौ । तथा च धुभ्यायधिकरणे श्रीभाष्येऽन्वग्राहि-'आत्म- शब्दश्च निरुपाधिकः परस्मिन् ब्रह्मणि मुख्यवृत्तः । आप्नोतीति ह्यात्मा । स्वेतरसमस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव सम्भवति' इति । अन्तःप्रविश्य नियन्तृत्वमात्मत्वमिति च 'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' इति श्रुतिसिद्धम् । नियमनं च धार- णार्थम् । तथा च श्रुति:-'एतत्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृतौ तिष्ठतः।' इत्यादिः । प्रपन्यतेऽयमों मानमेयप्रकाशिकायां [प्रमेय- गीतायां भगवतैय 'मत्स्थानि सर्वभूतानिन चाहं तेष्यवस्थितः । न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥ भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥' इति । अयमर्थः-इमानि सर्वाणि भूतानि मदधीनधारणानि । यद्यप्यहं विभुस्वरूपतया सर्वत्र वर्ते, परं मम स्वरूपसत्ता नैतद्धीना । एषां तु भूतानामहं धारको यद्यपि, अथापि न भारवाहक इव लोकदृष्टान्तेन छेशतः, किन्त्वैश्वर्यशक्तियोगात्सङ्कल्पैकदेशेनैवानायासतः । ममात्मा-स्वभा- वभूतः सङ्कल्प एव भूतानां धारणादि निर्वहतीति । तथा परि- धावक्ष्यते-'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' इति । स्मयते च पराशरादिभिः-'यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता' 'द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूमहोदधिः।वासु- देवस्य वीर्येण विधृतानि महात्मनः ॥' इति । नियमनेन सर्व- पदार्थाधारस्वं च परस्य ब्रह्मणः 'अक्षरमम्बरान्तधृतेः' 'साच प्रशासनात्' 'धृत्तेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः' इति सूत्रेषु निरूप्यते । सङ्कल्पेनैव जगद्विधारणाय न केशरूपमिदं धारणमिति बोध्यम् । यथा सुपुप्ता जीवस्य सत्तया धारकत्वं जागरादौ सङ्क- ल्पेनापि, एवं परमात्मनोऽपि सत्तया सङ्कल्पेनापि सर्वधारकत्वं सम्भवति । सम्भेदे मान्यतरवैयर्थ्यमिति हि न्यायः । सर्वेपां चेतनाचेतनानामन्तःप्रविश्य नियमनेन धारकत्वाच पुरुपोत्तमस्यैव परमात्मत्वं गीयते-'उत्तमः पुरुषस्त्वन्यः परमा- त्मेत्युदाहतः । यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः ॥' इति । लोक्यन्त इति लोकाः प्रमाणसिद्धाः पदार्था:-अचित् , वत्सम्बद्धः क्षरपुरुपः, तत्सम्बन्धविरहितोऽक्षरपुरुपश्चेति पूर्वप्र. , प्रकाशे] ईश्वरपरिच्छेदः। तुताः, तेषां त्रयं, अर्थाचेतनाचेतनात्मकं कृत्स्नं जगत् ईश्वरोऽन्त:- प्रविश्य विमति, स उत्तमः पुरुषः, क्षराक्षरेभ्यः स्वरूपस्वभावा- भ्यामुत्कृष्टतमः परमात्मेत्यर्थः । धनवान् सुखीत्यत्र सुखस्य धन- प्रयोज्यत्वमिव ईश्वरो विभीति वचनशैल्या धारणस्यैश्वर्यात्मक- नियमनसङ्कल्पाधीनत्वं लभ्यते । विष्णुनामसहस्रके परमात्मेति नाम च सर्वभूतान्तरात्मत्वमनन्यात्मत्वं चाह । निरुक्तिश्च- 'येन भूतान्यात्मवन्ति नायमन्येन चात्मवान् । अतो ह्यात्म- श्वरत्वाच्च परमात्मा प्रकीर्तितः॥ इति । तथा च श्रुतिस्मृतयः 'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' 'आत्मा नारायणः परः' 'यस्मात्परं नापरमस्ति किञ्चित्' 'तस्माद्धान्यं न परः किश्च नास' 'न तत्समश्चाभ्यधिकश्च दृश्यते' 'यस्मात्परस्मा- पुरुपादनन्तादनादिमध्यादधिकं न किञ्चित्' 'परं ह्यमृत- मेतस्माद्विश्वरूपान्न विद्यते' 'परः पराणां परमः परमात्मात्म- संस्थितः।' 'परं हि पुण्डरीकाक्षान्न भूतो न भविष्यति' इति । सर्वेष्वेव चेतनाचेतनेप्यन्तर्यामितयाऽवस्थानेऽपि न कश्चिदोपः परमात्मन इति चोभयलिगाधिकरणे 'न स्थानतोऽपि पर- स्योभयलिङ्गं सर्वत्र हिं' इत्यादिसूत्रनिरूप्यते । अत एव सर्वा- न्तरात्मनः प्रतिपर्याय 'अपहतपाप्मा अमृत' इति विशेषणं श्रूयते । यथा वाऽऽकाशस्य सूर्यादेश्व घटादिपु जलाशयेषु प प्रतीतो सम्बन्धेऽपि न तद्गतदोपसंसर्गः, एवं परमात्मनोऽपि पद्म- पनवनिलेपखमावस्य न तत्र तत्रायस्थानेऽपि दोपसंसर्ग इति प्रति- पाद्यते-'आकाशमेकं हि यथा घटादिषु पृथक् भवेत् । तथा- स्मैको बनेकस्थो जलाधारेवियांशुमान् ॥' इति । पृथफ् . ३६८ मानमेयप्रकाशिफायां प्रमेय- घटादिपु सम्बध्यमानोऽप्याकाशो यथैकस्वभावः, एवं परमात्माऽपि सर्वन सम्बद्धोऽपि एकः-एकस्वभावोऽपहतपाप्मत्वसमस्तकल्या- णगुणाकरत्वरूपनियतस्वभाव एवेत्यर्थः । यद्यपि सूर्यादिर्जलादी दृश्यते केवलं न सम्बध्यते, आकाशस्तु वस्तुतः सम्बध्यते । अथाप्युभयदृष्टान्तकथनस्य त्वयं भावः-यथाऽसम्बद्धस्य सूर्यादे- दोपहेत्वभावान दोपः, एवं सम्बद्धस्यापि निर्लेपस्वभावतया दोप- हेत्वभावादेव न दोष इति । 'न स्थानतोऽपि परस्येति सूत्र औपाधिकमपि साकारत्वं नेति प्रतिपिध्य पुन वृद्धिहासभाक्त्व' मितिसूत्र औपाधिकसाकारत्वप्रतिपादनस्यासङ्गतत्वात् सर्वगत- स्यापि ब्रह्मणः सर्वगतदोपासंस्पर्श एव सूत्रद्वयेनापि विवक्षितः श्रीभाष्यप्रक्रियया 'उभयसामञ्जस्या'दित्यस्य चाचस्थिता- 'नवस्थित दृष्टान्तद्वयसामञ्जस्यादित्येवार्थः । न तु दृष्टान्तदाष्टी- न्तिकयोः सामञ्जस्यादिति । तथात्वे उभयपदस्यानावश्यकत्वा- पातात् । वृद्धि हासपदं चोपाधिगतसर्वदोषोपलक्षणम् । तथा च यथाऽऽदिस आकाशे चौपाधिकदोपाः प्रतीयमाना अपि न, एवं ब्रह्मणोऽपि सर्वगतस्य न दोपप्रसक्तिरिति भावः । विस्तरस्तु श्रीभा- प्यादौ द्रष्टव्यः ॥ अत एव स्मर्यते-'एतदीशनमीशस्य प्रकृ- तिस्थोऽपि तद्गुणैः । न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदा- श्रया ॥' 'पश्य देवस्य माहात्म्यं महिमानं च नारद । शुभा- शुभैः कर्मभिर्यो न लिप्येत कदाचन' इति । अत एव 'पूतात्मे'- ति परिशुद्धं नाम पठ्यते श्रीविष्णुनामसहस्रे । एवं च सर्वचेतना- चेतनशरीरकत्वेन सर्व नियन्तृत्वादिलक्षणो महिमैव प्रसिद्धयति- तरां न दोपसम्बन्ध इति स्थितम् ।

. प्रकाशे] ईश्वरपरिच्छेदः। एवमेव सम्प्रदायग्रन्थेऽपि, खरूपतः परमात्मनः सर्वत्र व्या- प्तिरथापि निर्दोपत्वं च सनिदर्शनमुपापादिपाताम् । यथा-'क्षरा- क्षराणां सर्वेपां हृदि साक्षितया स्थितिः । पुरुषोत्तमपर्यायकृ- ष्णस्यान्वयलक्षणम् ॥ लीलाविहरणं राधादिभिः परमव्यो- मनि । तिरोभावेऽपि कालादेर्व्यतिरेकोऽस्य चोदितः ॥' 'अन्तर्यामिस्वरूपेण शक्तिद्वययुतश्च सः । प्रतिजीवं स्थितो दत्ते तत्तत्कर्मफलं प्रभुः ॥' 'देहस्यान्तर्यथा जीवो जीवस्या- न्तस्तथेश्वरः। साक्ष्यन्तर्यामिपर्यायस्तदुपास्यो हि वर्तते ॥' 'किन्तु स्वयं स्वरूपेण पृथगेव स्थितः प्रभुः। वर्ततेऽन्वीय स- र्वत्र सामर्थ्य तस्य हीदृशम् ॥ नास्य प्रवेशे मायायामशुद्ध- त्वभयं क्वचित् । धाम्ना स्वेनैव स सदा निरस्तकुहकोऽस्ति हि ॥ वृक्षस्य वीज आकाशो योऽन्वितोऽस्ति स एव हि । तच्छाखापत्रपुष्पादौ अन्वितो भवति ध्रुवम् ॥ तथाप्यसौ न वृक्षस्य छेदे दाहे च कर्हिचित् । छिद्यते दह्यते वापि यत्तद्रूपं हि तादृशम् ॥ एवं सकार्यमायायामन्वीयापि हरि- स्ततः । पृथगेव स्वरूपेण वर्तते सर्वदाऽच्युतः ॥' (अत्र मायामायिकेपु स्वरूपतोऽन्ययेऽपि गगनवद्विविक्तस्वभावत्वलक्षणा- त्पृथग्भावाहोपराहित्यमुक्तं परमात्मनः) 'स्वधामस्थस्त्वयं कृष्णः स्थितो ब्रह्माण्डकोटिपु । अन्तर्यामिस्वरूपेण जीवेश्वरनजे- प्पपि ॥ अश्मकाष्ठादिगस्यापि यह रूपं यथा पृथक् । हरेस्ते- पु स्थितस्यापि त्वन्यदेव तथैव तत् ॥' इति । 'क्रमेणानेन वोद्धव्यं महत्त्वं कमलापतेः। सूक्ष्मत्वं कारणत्वं च कार्य- व्यापकता तथा ॥' इत्यत्र घोपादानतया सूक्ष्मतया च सर्वव्या- मान.प्र.२४ ३७० मानमेयप्रकाशिकायां [प्रमेय- पकत्वमुक्तम् । अतश्च स्वरूपेण सर्वत्र स्थितिः सिद्धा । उपादान- स्वरूपस्य कार्येषु समन्वयात् । 'मायायाः परतः परश्च भगवान् सर्वेश्वरः श्रीहरिः स त्वं प्रकृतीः प्रविश्य कुरुपेऽनेकाण्डस- र्गादिकम् । तत्रापीश न वध्यसे प्रकृतिभिर्नित्यं स्वतन्त्र: प्रभुर्निर्लेपः पवनो यथाऽखिलगतश्चेष्टाः प्रकुर्वन्नपि ॥' 'और्वोs निर्जलधौ वसन्नपि पराभूतिं जलै नुवंस्तान्यश्नन्नुत वर्धते खलु यथा त्वं तद्वदत्र प्रभो' 'तेषु त्वं तु वसन्नपीश्वरतया नो वध्यसे नाज्यसे व्योमेव स्थिरजङ्गमस्थमघहन्न स्पृश्यसे तद्गुणैः' 'ईशत्वं तव चैतदेव नृतनोर्मायागुणानञ्जनम्' 'हीनो गुणैखिभिरधीश्वर मायिकैस्त्वं नृत्वेऽपि दिव्यतनुरि- त्यसि निर्गुणाख्यः' इत्यत्र च सर्वत्रापि प्रविष्टस्यापि असगत्वं निर्दोपत्वं चोक्तम् । 'सर्वत्रैवान्वितः शक्त्या व्यतिरिक्तः स्वतः स्थितः । 'वासुदेवः स च स्वाभिः सत्यज्ञानादिशक्तिभिः । तेषु सर्वेप्वन्वितोऽस्ति व्यतिरिक्तोऽस्ति च स्वतः ॥' इत्यादौ चान्तःप्रवेशपूर्वकनियमनसामर्थ्यलक्षणयाऽन्तर्यामित्वशच्या ज्ञाना- दिगुणगुणविशिष्टस्यैव परमात्मनः सर्वत्रान्वयः प्रतिपादितः । सर्वत्रान्वितस्यैव स्वतो व्यतिरिक्तत्वं नाम विविक्तस्वभावत्वं नित्या- प्राकृतस्वासाधारणदिव्यभोग्यभोगोपकरणादिसम्पत्तिमत्त्वं च अतः शक्तिरेव सर्वव्यापिका न स्वरूपमिति शङ्काया नावकाशः । आदित्यादिदृष्टान्तवलात्परमात्मनो ज्ञानादिशक्तरपि सर्वव्यापित्व- मस्तीति बोध्यम् । ज्ञानादेः सर्वव्यापित्वं नाम अप्रतिहतसर्वविषय- सश्चारित्वलक्षणम् । विस्तरस्त्यन्यन्न । तथा चेतनाचेतनयोः पर- मात्मनः शरीरत्यमात्मत्वं च वस्य तो प्रति वर्णिते हारिवाक्यसुधा- - प्रकाशे] ईश्वरपरिच्छेदः । ३७१ सिन्धौ-'शरीरता तयोः कृष्णव्याप्याधीनत्वधर्मतः । व्याप्यत्वं परतन्त्रत्वं शारीरो धर्म उच्यते ॥ मूर्तिमान भग- वान् कृष्णः सर्वेपामपि चात्मनाम् । तद्व्याप्यदृश्यदेहाना- मप्यस्त्यात्मतया स्थितः ॥' इति । शास्त्रेप्वपि क्वचिद्यत्र दृश्यरूपः स वर्णितः। भवेद् दृश्यात्मता तत्र ज्ञातव्यास्यैव वर्णिता ॥ देहद्रष्ट्रात्मरूपेण यत्रारूपः स वर्णितः । भवेद्र- ष्ट्रात्मात्मतया ज्ञेयस्तत्र तु वर्णितः ॥ वस्तुतस्तु स भिन्नोऽस्ति दृश्येभ्यः सर्वदेहतः । तद्रष्टुभ्योऽप्यरूपेभ्य आत्मभ्यो दिव्य- विग्रहः ॥ इति च दृश्यादृश्याचिञ्चेतनप्रपञ्चविलक्षणस्यैव तत्त- च्छरीरकतया तत्तदभेदव्यपदेशः शाखेपु कृत इत्युपपादितम् । सत्सगिजीवने च बद्धमुक्तोभयात्मात्मत्वं परमात्मत्वं च श्रीकृ- एणस्य वर्णितमस्ति-'दिव्यरूपोऽक्षरात्मा च' 'आत्मात्मनां चेत- नानां चेतनश्च श्रुतीरितः' 'श्रीकृष्णो यः परं ब्रह्म परमात्मा स कीर्तितः' इति । अत्रेमे सद्धहश्लोका:-सर्वाधारनियन्तृस्वामित्वैर्नियमतोऽस्य तु । सर्व शरीरं चिदचिदात्मायं तस्य विश्रुतः ॥ अन्तः प्रविश्य सङ्कल्पाद्धारको ह्यात्मशब्दितः । शरीरस्य यथेच्छं तु विनियोगात्स शेष्यपि ॥ किञ्च ज्ञात्रपृथक्सिद्धद्रव्यं दृष्टं च तद्वपुः । शरीराजीवगमने वपुपः पतनाद् भुवम् ॥ अपृथक्सिद्धता ज्ञेया स्थितेत्यं देहदेहिता । अन्तःप्रविश्या- धारत्वमगायि स्वयमेव हि ॥ मयि सर्वमिदं मोतं सूने मणिरि- वेति तु । अपृथक्सिद्धता चापि सर्वदन्यस्य वर्णिता ॥न तदस्ति विना यत्स्यान्मया भूतं त्विति स्फुटम् । नियमेन च [प्रमेय- मानमेयप्रकाशिकायां सर्वस्य स्वशेषत्वं च कीर्तितम् ॥ भूमिरापोऽनलो वायुः खं मनो वुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । इत्युक्ता प्रकृते- स्तद्बद्धात्मनां च स्वशेषता ।। मुक्तानां च स्वशेपत्वं तद्धाम परमं मम । इति सङ्कीर्त्यतेऽतोऽवस्थितोऽयं चिदचित्तनुः ॥ अष्टमनवमलक्षणविचार। (सर्वकर्मसमाराध्यत्वं सर्वकर्मफलप्रदत्वं च।) यतः परमात्मा सर्वचिदचिच्छरीरस्तदन्तर्यामी, अतोऽयमेवे- न्द्रादितत्तद्देवान्तर्यामी सर्वकर्मसमाराध्यस्तत्फलप्रदश्च प्रथतेऽध्या- त्मशास्त्रेषु । 'इष्टापूर्त वहुधा जातं जायमानं विश्वं विभर्ति भुवनस्य नाभिः । तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा' 'यस्त्वमिज्यसे नाथ सर्वदेवमयाच्युत' 'ये यजन्ति पितॄन् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते॥' इति । 'पूजयन्ति तमेवेशं प्रवृत्तं धर्ममास्थिताः। तमेव पूजयन्तीशं निवृत्तं धर्ममास्थिताः॥ वासुदेवस्याङ्गतया भावयित्वा सुरान् पिढन् । अहिंसपूजाविधिना यजन्ते चान्यह हि ते॥ चतुर्वर्गे तेषु यस्य यद्यदिष्टतमं भवेत्। तत्तत्सम्पूरय- त्येव सर्वशक्तिपतिः प्रभुः॥ इति च। तत्तद्विधिवास्यगता इन्द्रादि- सन्दा अपि इन्द्रादिशरीरकपरमह्मण एय वाचका इति मनुनो- च्यते-'एनके बदन्त्यग्निं मरुतोऽन्यं प्रजापतिम् । इन्द्रमेके. परे प्राणं अपरे नाम शाश्वतम् ॥ इति । एफे वेदभागा एनं पर- मायारो भुपरसमस नाभिरिमापारमतः परमारमेय सटिक याग. पानदोमादि भी गादिनिर्मागदाग म्मान व पर्म माराधनोन मिति सः।

प्रकाशे] ईश्वरपरिच्छेदः। ३७३ मात्मानं अग्निशब्देन प्रतिपादितवन्त इत्येवमर्थोऽवसेयः । 'यज देवपूजायाम्' इत्यर्थनिर्देशाद्देवताराधनरूपत्वं यज्ञानां लब्धम् । 'यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्य- र्य सिद्धिं विन्दति मानवः ॥' 'भोक्तारं यज्ञतपसां सर्वभूत- महेन्वरम्' इति च यज्ञदानतपोहोमादीनां सर्वेपामेष कर्मणां सर्वान्तरात्मभूतपरमपुरुषाराधनरूपत्वं प्रतिपाद्यते । यथा वा लोके स्वशरीरं, परिचरत्सु दासेपु प्रसादो जायते स्वाम्यात्मनः, एवं स्वशरीरभूतेन्द्रादिपरिचारकेपु सर्वान्तरात्मनः प्रसादो भवतीति सङ्गच्छते । एवमिन्द्राद्याराधनात्मना कर्मणा वदन्तर्यामी परमा- स्माहं स्वयमेवाराधितोऽभीप्सितं फलमिन्द्रादिद्वारा तस्मै तस्मै प्रद- दामीति च गीतायां श्रीकृष्णेन स्फुटं प्रतिपादितम्-'यो यो यां यां तनुं भक्तः श्रद्धयाऽचिंतुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया युक्तस्तस्याराधन- मीहते । लभते च ततः कामान् मयैव विहितान् हि तान् ।' इति । 'ये त्वन्यदेवताभका यजन्ते श्रद्धयाऽन्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।। अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु माममिजानन्ति तत्त्वेनातश्श्यव- न्ति ते ॥ इति च सर्वेषां कर्मणां सर्वान्तरात्मभगवदाराधनात्म- फत्वमजानद्भिस्तचदेवारापनत्वमानप्रतिपत्तिपूर्वक क्रियमाणानामपि भोक्ताऽऽराभ्यः प्रमुस्तत्तत्फलप्रदश्वाहमेव । तत्त्ववो ममानविर- हितत्वाय तेपाममिमतेन्द्रादिक्षयिपदप्राप्तिमात्रं भवतीति भावः । एतेन-आशुतरविनाशिनां फर्मणां फालान्तरमाविफटसाधन- स्वार्थ द्वारतयाऽपूर्वस्व कनिष्टवया भूतनिष्ठवया या पायन्तरः ३७४ मानमेयप्रकाशिकायां [प्रमेय- 'क्रियमाणं परिकल्पनमनवसरं व्याख्यातम् । कर्मणां विनाशित्वेऽपि तत्तत्कर्मजनितस्य देवताप्रसादस्यैव स्थिरस्य कालान्तरभाविफलप्र- योजकत्वसम्भवात् । देवताप्रसादस्य द्वारत्वं च 'वायव्यं श्वेत- मालभेत भूतिकामः । वायुर्वै क्षेपिष्ठा देवता...स एवैनं भूति गमयतीति विधिवाक्यशेपभूतार्थवादवाक्यैरेवावगम्यते कल्पान्ते वाय्यादीनां विनाशेऽपि परमात्मैव पूर्वपूर्वकल्पे तत्तद्दे- वताराधनत्वेन कृतैः कर्मभिः परितोपितोऽविच्छिन्नज्ञानः परम- कारुणिकः कल्पान्तरेऽपि तत्तद्वारा फलं प्रयच्छतीति न कृतहा- नादिप्रसङ्गस्यावकाशः । अत एव कर्मैवापूर्वद्वारा फलं साधयतीति जैमिनिपक्षं जडत्वेन कर्मणां न स्वातव्येण फलप्रदत्वं सम्भवतीति प्रतिक्षिप्य 'फलमत उपपत्तेः' इति परमचेतनस्य सर्वान्तरात्मनः परमपुरुपस्यैव फलप्रदत्वं समर्थयामास भगवान् बादरायणः । परमात्मन एव सर्वफलप्रदत्वं श्रूयते २-'स वा एप महानज आत्माऽन्नादो वसुदानो विन्दते वसु' 'एप ह्येवानन्दयाति' 'नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्' इति । स्मृतिषु च विष्णोः सर्वफलप्रदत्वं बहुधाऽन्या- ख्यायते-'भौमं मनोरथं स्वर्ग स्वर्गिवन्धं च यत्पदम् । प्रामो- त्याराधिते विष्णौ मुक्तिमप्यतिदुर्लभाम् ॥' 'यद्यदिच्छति यावच्च फलमाराधितेऽच्युते । तत्तदामोति राजेन्द्र भूरि स्वल्पमथापि वा ।' 'रलपर्वतमारुह्य यथा रलं नरो मुने । सत्त्वानुरूपमादत्ते तथा कृष्णान्मनोरथान् ॥' 'यथा कल्प- दुमात्सर्व प्राप्यते मनसेप्सितम् । तथा सम्प्राप्यते विष्णोर- पि स्यादुर्लभं द्विज ॥' 'सकलफलप्रदो हि विष्णुः' 'तस्मात्त्व- प्रकाशे ईश्वरपरिच्छेदः। ३७५ मपि विप्रेन्द्र नारायणपरो भव । तदन्यः को महोदारःप्रार्थितं दातुमीश्वरः ॥' इति । वासुदेवमाहात्म्ये च-'वासुदेवस्वरू- पोऽहं सर्वकर्मफलप्रदः । अन्तर्यामितया वर्ते स्वतन्त्रः सर्वदे- हिनाम् ।।' इति । सम्प्रदायप्रबन्धेयु च सर्वकर्मफलप्रदत्वं भगवत एवोक्तम्- 'सर्वज्ञः सत्यसङ्कल्पः सर्वकर्मफलप्रदः । अन्तर्यामी सर्वश- क्तिसेवितः परमेश्वरः ॥' 'असौ जीवेषु सर्वेषु प्रविश्य पुरु- पात्मना । यथाकर्म फलं दत्ते तेभ्यः साम्यमुपाश्रितः ॥' 'यथा चिन्तामणिों के कल्पवृक्षश्च कामधुक् । सेवितोऽसौ तथा कृष्णः सर्वाभीष्टफलप्रदः ॥' 'शुभाशुभानां सर्वेषां कर्मणां फलदश्च स' 'फलप्रदाता सर्वेषां कर्मणामस्ति हीश्वरः । अतस्तदिच्छयैवैते भुञ्जते कर्मजं फलम् ॥' इति । विष्णोः सर्वफलप्रदत्वं द्वेधा-तत्तदन्तर्यामितया तत्तत्फलप्रद- त्वमेकम्, फलान्तरकामनावद्भिरपि तपःप्रभृतिभिः साक्षादारा- धितस्य चापरम् । यथा भुवस्योत्कृष्टापूर्वपदप्रदत्वम् । अतः फला- न्तरार्थिभिरपि श्रीहरिरेव सेव्यः । अत एवैश्वर्याद्यार्थिभिरपि साक्षाद्भजनीयत्वं स्वस्य गीयते भगवतेव-'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरत- पभ ।।' इति । भागवते च-'अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रण भक्तियोगेन यजेत पुरुपं परम् ॥' इति । यासुदेवमाहात्म्ये च-'वासुदेवः परब्रह्म श्रीकृय्याः पुरुषोत्तमः। देवोऽकामः सकामैश्च पूग्यो मुर्निरैरपि ।।' इति । सर्वफलप्र- दस्य नारायणस्यैव सकाशान्मोक्षफ्लेन सोहिकं फलमपि यो [प्रमेय- ३७६ मानमेयप्रकाशिकायां लिप्सति स सकामभक्तः । यस्तु मोक्षफलादन्यत्किश्चिदपि परमा- स्मना दीयमानं नेच्छति सेवान्तरायत्वात्स निष्कामभक्त इति च वर्णितं सत्सगिजीवने-'एवं भजन्ति' इत्यादिश्लोकपञ्चकेन । दशमलक्षणविचार। (ब्रह्मणो जगत्कारणत्वम्) देवाद्यात्मतया सर्वकर्माराध्यत्वमीरितम् । चिदचित्तनुतः सर्वकारणत्वमिहोच्यते ॥ 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञास- तद्रह्म' इति भृगुवल्लीवाक्यं च जगजन्मादिकारणत्वं परस ब्रह्मणो लक्षणं वदति । तथा च सूत्रं-'जन्माद्यस्य यतः' इति । यद्यपि जन्मादिपु एकैकं प्रतिकारणत्वमेव कृत्स्नं जगत्प्रतीतरन्याव- तकं भवति अथाप्येकहेतुत्वमात्रोक्तो स्थित्यादिहेतुपदार्थान्तरसद्भा- वस्य शक्यशकतया लिलक्षयिपिताकारो निरतिशयबृहत्त्वलक्षणो न निश्चीयेत । कृत्स्नजगदुत्पत्त्यादिहेतुभूतानशक्त्यादिभिः परिपूर्णत्वं हि तत्। अतखितयहेतुत्वं लक्षणमुक्तम् । कृत्स्नं जगत्प्रति कर्तृ उपा- दानं च ब्रह्माभिमतम् । निमित्तान्तरस्य सद्भावे हद्वितीयत्वश्रुति- विरोधः । कृरनजगद्धेतुत्वेन समानवस्त्वन्तरसद्भावे च निरतिशयं वृहत्त्वमपि न सिद्धयेत् । अत्राह-कर्ता यदि स्यात्परः, लभ्येत । न चोपलभ्यते । सत्यम् । ततः किम् ? । नास्तीति प्राप्तम् । नेति वात् । योग्यानुपलब्धिह्मभावमनुपलब्धस्य साधयेत् । न त्वयोग्या नुपलब्धिः । अन्यथा तु स्वपरविभागमभ्युपगच्छता त्वयाऽदृश्यस्य परात्मनोऽपि स्यात्प्रतिपेधः । ननु शरीरमेवात्मेति पदतो ममाप- । झूमः । अयोग्य- प्रकाशे] ईश्वरपरिच्छेदः। ३७७ रोक्ष एव परात्माऽपि । सत्यम् , पिण्डः प्रत्यक्षः। चैतन्यं तु तस्य नैवोपलभ्यते त्वया । अन्यतो ज्ञास्यत इति चेत् ममापि जग- स्कर्ताऽन्यतः सेत्स्यत्येव । नन्वशरीरत्वान्न कर्तेश्वरः । मैवम् । ईश्वरस्य पक्षीकारेणाकर्तृ- त्वसाधने धर्मिग्राहकमानवाधात् । यथा लोके समर्थानां दृष्टोपक- रणसम्पत्तिशून्यानामपि विविधकार्यकर्तृत्वमुपलभ्यते । एवं परमा- त्मनोऽपि सर्वशक्तस्येच्छामानादशरीरस्यैव सर्गादिव्यापारो नानु- पपन्नः । सर्गादिकार्योंपयोगिप्रकृतिपुरुपादिशरीरकत्वं च शास्त्रतः प्रतिपन्नमेव । विगीतं जगदकर्तृकं कर्मवश्याजन्यत्वादित्यनुमानमीश्वरे वाध- कमाशङ्कयेतापि यद्यनुमानेनेश्वरस्य सिद्धिमातिष्ठेमहि । नित्यनिः- पागम ईश्वरे प्रमाणतया शरणीकृते तु न वाधकानुमानं प्रगल्भते वाधितुमागमिकमीश्वरं स्वयमेव प्रशिथिलबन्धं मृत्पिण्डादिकमिवा- श्मनि । यथा वा यागादिविलक्षणसुखसाधनतया 'यजेत स्वर्ग- कामः' इत्यादिभिरवगम्यते । यागादिर्न विलक्षणसुखसाधनं साध. नत्वात् किल्बिपवदिति च श्रुतियाधिवमनुमानं न तस्य श्रोतं विल- क्षणसुखसाधनत्यं प्रतिरोद्धमलम् । एवमत्रापि । ननु मास्त्वनुमानं बाधकं जगत्कर्तरि । आयवचनमेव खतषप्रधानकारणवादि तथा स्यादिति घूमः । कपिलो हि महर्पि- राजन्मसिद्धज्ञान: ऋत्तशालतात्पर्यवित् । तत्त्वविदस्तस्य वचन- मेव स्वतघ्रप्रधानकारणवादि जगत्कारणवादिन्याः श्रुतेस्तत्परत्वं व्यवस्थापयतीति । स्यादेतदेवम् । यदि कपिल एवाप्तो न फणा- दादिरित्यध्यवसीयेव ।। कणादादयोऽपि योगप्रमायलब्धसाश्या मानमेयमकाशिकायां [प्रमेय- इति हि तत्तद्दर्शनस्थैरभ्युपगम्यते । ननु भगवदवतारत्वं कपिलस्य विशेषः । न तावताऽप्याप्ततमत्वं सिद्ध्येत् । बुद्धस्यापि तथात्वात् । आवेशस्तत्रेति चेत्तुल्यं प्रकृतेऽपि । योगिनामपि क्षेत्रज्ञस्थामाव्या- दमः सम्भवत्येव कादाचित्कः कर्मविशेषतः । अतोऽन्यथासिद्ध कापिलवचनं न ब्रह्मकारणत्ववादिन्याः श्रुतैरान्यपर्यमापादयितुम- लम् । उद्घोषितं च भगवता बादरायणेन कापिलरमृतेरनादेयत्वं 'स्मृत्यनवकाशदोपप्रसङ्गः इति चेन्नान्यस्मृत्यनवकाशदोप- प्रसङ्गात्' इत्यादिना । उक्तं चागमिकेश्वरसिद्धौ प्रत्यक्षादेरबाधकत्वं तत्त्वमुक्ताकलापे-'अप्रत्यक्षः परात्मा तदिह न घटते धातुरध्य- क्षबाधो योग्यादृष्टेरभावान्न खलु न भवता स्वीकृतः स्वेत- रात्मा । तस्मिन् देहानपेक्षे श्रुतिभिरधिगते देहवाधान्न धाधो वेदेभ्यो नानुमानं न च पुरुषवचस्तिष्ठते वद्धवैरम् ।।' इति । येच वेदपूर्वभागविचारप्रवृत्ता देवतानां रूपादिपञ्चकं सर्गप्रल, . यौ चापलपन्तो विश्वकतारं नानुमन्यन्त इव कर्मजडाः केचित् । न तेपामपि तदपलापे हार्दम् । वेदापौरुषेयत्वसुरक्षणप्रत्याशया पुनः सर्गप्रलयापलापः । कर्मसु श्रद्धातिशयस्योत्पिपादयिषया च देवताया रूपाद्यपलापः 'विग्रहो हविरादानं युगपत्कर्मसन्निधिः। प्रीतिः फलप्रदानं च देवताया न विद्यते ॥ इति । सत्यां हि कर्माराध्यायां कर्मफलप्रदायां देवतायां साक्षात्तत्प्रसादनेष्वेवार्चना- दिपु सुकरेपु प्रवर्तेरन् । तथा च श्रद्धामान्य प्रसज्यते कर्मसु यहु- वित्तव्ययायाससाध्येपु । इति । जैमिनेरपि परब्रह्मसद्भावे हाद व 'परं जैमिनिर्मुख्यत्वात्' इत्यादिस्वतोऽयगम्यते । कर्मानभूवाया देवताया रूपाद्यभावेऽपि उपास्याया रूपादिकं स्वीकुर्वन्ति नल्यमी- मांसका इति न तेऽपि विश्वकर्तरि विद्वेपिणः ।

प्रकाशे] ईश्वरपरिच्छेदः। ३७२ ये खलु श्रुतेरीश्वरोक्तत्वेन प्रामाण्यं समृणन्तो धातारं विश्वस्या- नुमानत एव सिपाधयिपन्ति न तेपामप्यनुमानेनैय केवलेन विव- क्षितोऽर्थः सेत्स्यति । जलबुद्भुयागपदेवाण्डानां सर्वेपामुद्गमो. विलयश्च हि न शाखमन्तरा शक्योऽध्यपसितुम् । नच तदसिद्धी जीवातिरिक्तस्य विश्वसृजः कल्पनावसरः । जीवा एव विचित्रक- र्मपरिपाकमुवा ज्ञानशत्यतिशयेन तं तं लोकादिकं सक्ष्यन्ति प्रत्येक सम्भूय वेति । ननु न वयं कर्तृमानं जगतः सिपाधयिपाम:, किन्त्वेकं कर्तारं कृत्लस जगत इति न जीवैः सिद्धसाधनम् । स्यादेतदेवम् ; यदि एककर्तृकत्वनियतं लिङ्गमुपलभ्येत । कार्यत्वा- दिर्हि अनेकारब्धरथप्रासादादिसाधारण इति । तथा च स्वतः प्रमाणभूतेन वेदेनैव विश्वकर्ता परमेश्वरः सिद्ध्यति निरावाधम् । श्रुत्यवगतार्थदाचसम्पादकतया मननोपकारकत्वं पुनरीश्वरानुमा- नानां भवेन्नाम।न तुपुरोवादित्वलक्षणमीश्वरे प्रामाण्यम् । सूत्रकृता च शाकप्रमाणकत्वं जगत्कारणस्य परस्य ब्रह्मण उक्त-शास्त्र- योनित्वात्' इति । वासुदेवमाहात्म्ये च त्वदेवेश शास्त्राणि चैतानि भूम्नो बभूवुस्त्वदेकाश्रयाण्यादिकल्पे । रमासेव्यपा- दाम्बुजं शास्त्रयोनिं तमाचं भवन्तं भजे वासुदेवम् ॥' इति । ब्रह्मणो निमित्तत्वमुपादानत्वं च । 'अथ परा यया तदक्षरमधिगम्यते...यद्भूतयोनि परिप- श्यन्ति धीराः' 'सोऽकामयत बहु स्यां प्रजायेयेति' 'तदात्मानं स्वयमकुरुत' 'सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्ष- त बहु स्यां प्रजायेयेति तत्तेजोऽसृजत 'सन्मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा ऐतदात्म्यमिदं सर्वम्' मानमेयप्रकाशिकायां [प्रमेय- 'ब्रह्म वनं ब्रह्म सवृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीपिणो मनसा वित्रवीमि वो ब्रह्माऽध्यतिष्ठभुवनानि धार- यन्' इत्यादिमिश्वाभिन्ननिमित्तोपादानता ब्रह्मणो ज्ञायते। तथा हि-आद्य-योनिशब्देनोपादानत्वं ब्रह्मणो ज्ञायते । स हि उपादाने खारसिकः । उपादानत्वसाधकं च सूत्रं 'योनिश्च हि गीयते' इति । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासहचाराच्योपादानपरता तस्यै- पितव्या। द्वितीये-ब्रह्मण एव नानाकार्यरूपेण बहुभवनविषया- त्सत्यसङ्कल्पादुभयविधं कारणत्वं सिद्धम् । सङ्कल्पप्रयत्नाश्रयो हि कर्ता । कार्यावस्थामानुवञ्च कारणमुपादानमिति । सदेवेन्यत्र नानानामरूपस्य जगतः प्रलये नामरूपविभागराहित्येन सच्छ- व्दितब्रह्मात्मकतयाऽवस्थानप्रतिपादनाद्वितीयनिमित्तप्रतिपेधार ब्रह्म- णोऽमिन्ननिमित्तोपादानत्वावगमः । घटशरावादेः पूर्वदिने मृदात्म- कतयेव जगतः प्रलये ब्रह्मात्मकतयाऽवस्थानप्रतिपादनान्मृदिव घटशरावादेब्रह्म जगत्प्रत्युपादानं प्रतीयते । 'सन्मूला' इत्यत्र चोक्तं कारणत्वं लयाधिष्ठानतैकाधिकरण्यादुपादानत्वरूपम् । उपा- दान एव हि कार्यस्य लयः। अन्त्ये च-ब्रह्मैव सृष्ट्यधिकरणदे- शलक्षणमुपकरणं वृक्षशब्दितमुपादानं काष्ठमयपारगृहत्वादिरूपितं जगत्प्रति निमित्तं चाधिष्ठातृतयेति प्रतिपादनात्सर्वविधं कारणत्वं तस्य सिद्ध्यतितराम् । ननु-लोकविरुद्ध निमित्तोपादानयोरक्यं न शास्त्रं प्रतिपादयि- तुमलम् , यूपादियैक्यवत् । कार्याकारेण परिणामि कारणं किलो- पादानम् । परिणामयिर च निमित्तम् । प्रेक्षापूर्पकारी व परिणा- मयति मृदायतनं पटाद्यात्मना । कथं तयोरैक्यं चिदचितोप- प्रकाशे] । ईश्वरपरिच्छेद। टेत । अन धूमः-न खल्वयं नियमः उपादानेन निमित्तमिन्नेनैव भाव्यमिति । आत्मन एव तत्तत्सुखसाधनसमाहरणेन स्वात्मनि सुखमुत्पादयतः स्वसुखे निमित्तत्वोपादानत्वयोर्दर्शनात् । निर्माण- कायाधिष्ठान ईश्वरस्यैव निमित्तत्वोपादानत्वयोायाचार्याद्यमि- मतत्वाच । कुलालादेर्घटादिकं प्रत्युपादानत्वविरहो मृदादेनिमित्त- त्वविरहश्च शक्त्यभावप्रयोज्यः । न हि कुलालादिर्घटादिरूपेण परिणन्तुं समर्थः । मृदादिर्वा दण्डचक्रादिकारककलापसनन्हे । शक्त्यशक्ती हि सर्वत्र नियामिके । यस्तूभयविधसामर्थ्यवान् यत्कार्य स तत्रोभयविधमपि कारणं भवितुमर्हत्येव । एवं च 'पराऽस्य शक्तिर्विविधैव श्रूयते' इत्यादिश्रुत्या विविधविचित्रशक्तिमत्तयाऽ- वगतस्य ब्रह्मणः सर्वविधमपि कारणत्वं सङ्गच्छत एव । अथैवमपि ब्रह्मणो जगत्प्रति सति निमित्तोपादानत्वे 'निष्क्रियं' 'निरवयं' इत्यादिश्रुतिविरोधोऽवर्जनीयः । न हि निर्व्यापारत्वेन श्रुतस्य तस्य सर्गादिकतत्वं निर्विकारत्वेन श्रुतस्य वा नानाकार्यरू- पभवनेनोपादानत्वं च श्रुत्यैव प्रतिपिपादयिपितमिति सम्भवति । किञ्च 'सत्यकामः' 'तस्मिन् कामाः समाहिता' 'सर्वमिदम- भ्यात्तोऽवाक्यनादरः' इति अवाप्तसमस्तकामत्वेन परिपूर्णत्वेन च प्रतिपन्नस्य जगत्सर्जनादिना साध्यं न किञ्चित्फलम् । जीवहिता- धानं चेत्तर्हि नानाविधदुःसबहुलं संसारं जीवस्याहितरूपं नेय सृजेत् । अत्र घूमः-स्वयंप्रमाणभूतेषु श्रुतिवाक्येपु तावत् पर- सरविरुद्धार्थप्रतिपादनमुन्मत्तयाझ्यवच्छद्वितुमपि न शक्यम् । तात्पर्य विशेपेण परस्परमविरोध एव त्वषधारयितुमुचितः । वन निरवचत्वविदोपसामान्यनिपेधिका स्वरूपपरिणामलक्षणं विका.

[प्रमेय- ३८२ मानमेयप्रकाशिकायां रमपि निषेधत्येव । उपादानत्वश्रुतिस्तु चिदचिद्विशिष्टविपया । स्वरूपविकाराभावेऽपि शरीरगतावस्थाभेदेन जीवस्यैव सदेहस्य यथा 'वालो देवदत्तो युवा जातः' इति जातत्वव्यवहारो लोके दृश्यते, एवं ब्रह्मणोऽपि शरीरभूतचिचिद्गतसूक्ष्मस्थूलावस्थाभेदेन तद्विशिष्टस्य कार्यकारणभावः श्रुत्यन्तेषु व्यवहियते । तत्र शरी- रगतजन्मजरामरणादिना आत्मा यथा न स्पृश्यते, एवं चिचि- गताज्ञत्वदुःखित्वपरिणामित्वादिदोषैः परमात्मा न स्पृश्यते । ननु शरीरगतजरामरणादिधर्मानन्वयेऽप्यात्मनि शरीरसम्बन्धप्रयुक्तं नानाविधसुखदुःखभोक्तृत्वं दृष्टम्, वद्वत्परमात्मनोऽपि प्रसज्येत । मैवम् । न हि चिरिच्छरीरकेण भगवताऽवश्यमेव सुखदुःख- भोक्रा भवितव्यम् । शरीरं चेत्सुखदुःखभोगं साधयत्येवेति निय- माभावात् । न च भोगायतनत्वं शरीरलक्षणम्, स्थावरशरीरे- प्वव्याप्तेः । किन्तु चेतनापृथक्सिद्धविशेषणद्रव्यत्यमित्येव । एवं च ब्रह्मणश्चिदचिच्छरीरकत्वश्रुत्या न कर्मफलभोक्तृत्वादिप्रसङ्गोऽप- हतपाप्मत्यादिना श्रुतस्य । किन्तु अपृथक्सिद्धसर्वचेतनाचेतनवि- शिष्टत्यमेव । अयं हि परमात्मनो महिमा, स्वसम्बन्धाभावे चेत- नाचेतनयोर्न स्वरूपसत्ताऽपि सम्भवति । स्वयमेव तु सर्वदाऽपृथ- क्सिद्धाधारः शेपी च सर्वस्य सत्तां निहितीति । प्रपश्चितं चेद- मधस्तात् । 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति' इति श्रुतिस्तु जीवविपया, बन्धस्य प्रस्तुतत्वात् । कर्मकृतशरीरवि- पया चेयं न शरीरसामान्यविपया । एवं च ब्रह्मणश्चिदचिद्वि- शिष्टस्योपादानत्वादिकं निरवद्यत्वश्रुत्सविरुद्धमेव । अनाः-फारणझुतेर्विशिष्टविपयत्वं नाध्यवसितुं शक्यम् । - प्रकाशे ईश्वरपरिच्छेदः। ३८३ यतोऽवधारणद्वयेनाद्वितीयपदेन च निघूता निसिला विशेषाः। तथा च सन्मात्रेऽधिष्टानेऽविद्यया कल्पितत्वमेव भेदप्रपञ्चस्य प्रतीयते । अतश्च कारणवादिन्याः श्रुतेरविद्योपहितविपयत्वेन निर्दोषभुतेः पारमार्थिकदोपराहित्यपरत्वेनैव चाविरोध उन्नेय इति । मैवम् । एवमपि विशिष्टपरत्वं हि कारणवाक्यस्य प्रसज्यते, अविद्योपहित- स्यैवोपादानत्वाभ्युपगमात् । अविद्योपहितपरत्वं वा तस्य कुतोऽ- ध्यवसीयते । नह्यविद्योपस्थापकं किञ्चित्पदमन दृश्यते । श्रुत्यन्त- रादिति चेत् किं तत् श्रुत्यन्तरम् ? । 'मायां तु प्रकृति विद्यान्मा- यिनं तु महेश्वरम्' 'नासदासीनो सदासीत्तदानीं तम - आसीत्' 'अनृतेन हि प्रत्यूढाः' 'तेषां सत्यानां सतामनृतम- पिधानम्' इत्यादिकमिति चेत् । आन्यपर्येणेषां वाक्यानां भव- दमिमतसदसदनिर्वचनीयाविद्याख्यदोपविपयत्वाभावात् । तथाहि-'अस्मान्मायी सृजते विश्वमेतत्' इति पूर्वया- क्ये तापदेतच्छब्दनिर्दिष्टान्मायाख्यादुपादानादचेतनप्रपञ्चस्य सर्गः प्रस्तुतः । तत्र कोऽसौ मायाख्यः पदार्थः सटा च गायी क इत्य- पेक्षायां मायामायिपदविवरणार्थे 'मायां तु' इत्यत्र मायाशब्दितस्य त्रिगुणप्रकृतित्वं मायिनश्च सर्वेश्वरत्वमेव विधेयम् । न तु जग- दुपादानस्य मिथ्यात्वम् । लोके बसत्यार्थप्रतिभासमात्रसाधनं मनादिर्माया, साधनानुष्ठानायत्ततत्सिद्विमांश्वापूर्णः कश्चिजीयो मायी दृश्यते । नैवमनासत्यार्थप्रतिमासमारसाधनं मायाशन्दितम् । किन्त्यत्साश्यपविविधपरमार्थकार्यकारिणी निगुणात्मिका प्रकृतिरेय तथा । मायिशन्दितच नापूर्णः फश्चित् शेनाः, किन्तु सर्वेश्वर एवेति सुवेदीर्दम् । महेश्वरमित्युपया मुतस्यापि न जगन्यापार [प्रमेय- . मानमेयप्रकाशिकायां इति सूच्यते । किञ्च मायाशब्दस्य न मिथ्यात्वमानं प्रवृत्ति- निमित्तम् । भूदलनाम्बुधारादौ- मिथ्याभूतेऽपि मायाशब्दप्रयोग- स्यादर्शनात्, । नाप्याश्चर्यत्वसहितमिथ्यात्वम् । आश्चर्यत्वमा- त्रस्य लाघवात्प्रवृत्तिनिमित्तत्वसम्भवे मिथ्यात्वस्य प्रवृत्तिनि- मित्तघटकताया अयोगात् । अत एवार्थक्रियाकारिष्वेव मेघोदया- दिपु मायाशब्दः पौराणिकैः पठ्यते । मायामृगस्य च मारीचसृष्टेः रामशरवध्यत्वमप्यमिथ्यात्वादेव। मिथ्यात्वे हि 'नायं मृगः' इति लक्ष्मणवाक्यजन्यज्ञानेनैव निवृत्तिरभविष्यदिति न शरप्रयोगापेक्षा। • न च. मायामृगस्तु वाक्यजन्यज्ञानेनैव बाधितः, प्रतिभासते केवलम् , अधिष्ठाननिवृत्त्यर्थमेव तु शरप्रयोग इति वाच्यम् । बाधितानुवृत्तौ दग्धपटवदकार्यकरत्वप्रसङ्गात् । अत्र तु धावनं सुदूर समाकर्षणमुचैराक्रन्दनमित्यादयो बहुवो व्यापारा मायामृगस्य बाधकज्ञानानन्तरमपि संदृश्यन्ते इति । 'नासदासीनो सदासीत् तदानीं तम आसीत्' इत्यत्रापि सदसतोः स्थूलचिदचितोः कार्यावस्थयोनिपेधः सूक्ष्मावस्थायाश्चि- समष्टिगर्भाया मूलप्रकृतेस्तमःशब्दितायाः सद्भावश्च प्रतिपाद्यते । न तु सदसदनिर्वचनीयाऽविद्या । सदसन्निपेधश्रवणमात्रेण तत्प- रत्वादरे तु 'अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते' इत्यत्राफि मुक्तात्मनः सदसदनिर्वचनीयत्वं निर्वाच्यं भवेत् । 'अनृतेन हि प्रत्यूढाः' इत्यत्र च 'यथा हिरण्यनिधि निहि- तमक्षेत्रज्ञाः' इत्यादिपूर्ववाक्यप्रस्तुतं नित्यसर्वगतपरमात्मस्वरुपा- ज्ञानं प्रति हेतुभूतमन्तशब्दितसांसारिकफलपुण्यपापलक्षणकर्महे- तुकमपरिच्छिन्नज्ञानत्वस्वभावविप्रतीपं सङ्कचितज्ञानत्वं जीवानां ..

प्रकाशे] ईश्वरपरिच्छेदः। ३८५ प्रतिपाद्यते । अनृतशब्दश्वानित्यत्वं प्रवृत्तिनिमित्तीकृत्य स्वरूपतः फलतश्चानिये पुण्यपापरूपे कर्मणि वर्तते । अनाशी परमार्थश्च' इति भगवत्पराशरवचनपर्यालोचनया च नाशित्वलक्षणमेवापर- मार्थत्वमध्यात्मशास्त्रेषु विवक्षितमिति ज्ञायते । अनृतयोरपि पुण्य- पापयोः फलभोगनियमाभिप्रायेण तु 'ऋतं पिवन्तौ' इत्यत्र ऋत- शब्देन व्यपदेशः । एवं च 'अनृतेन हि' इत्यादिश्रुतावनृतशब्दो न मिथ्यावाची- किन्तु कर्मवाचीति स्थितम् । 'तेपां सत्यानां सतामनृतमपिधानम्' इत्यत्र च भगवत इव तदीयकल्याण- गुणानामपि परमार्थसतां तिरोधायकमनादिकालार्जित कमैवेति' विवक्षितम् । एवमविद्याशब्दोऽपि 'क्षरं त्वविद्या' इत्यत्र 'क्षरं प्रधानम् इति वाक्यान्तरानुरोधेन प्रधानपर एव । प्रधानं च न मिथ्या । 'त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम्' इत्यादी नियत्वप्रति- पादनात् । प्रधानपुरुपयोनित्ययोर्ब्रह्मणि लयप्रतिपादनं तु नामरूप- विभागमहाणपूर्वकं परमात्मन्यविभागेनावस्थानमभिप्रेत्य । अन्यत्र चाविद्याशब्दो विद्यान्यत्व विद्याविरोधित्वाद्याफारेण भ्रंमकर्मादो वत्र तत्र प्रयुज्यत इति न ततोऽपि भवदभिमतानिर्वचनीयाविद्यासिद्धिः। किञ्च-अह्मणोऽविद्याकल्पनं खाभाविकसाक्ष्यादिपरभुतिविरुद्ध निरपद्यत्वध्रुतिविरुद्धं च । न प-निरवयत्यमुतिः परमार्यतया दोपो नास्तीत्येवंपरा, अविद्या त्वपरमार्य इति न विरोध झवि याच्यम् । न हि भयगते परमार्थतया फश्चिदोपो पर्वते, येन स निपिप्येत मागि । निरपवरमुतिश्च दोपत्यायन्टिनदोपसामा- न्यनिपेधिय स्वरमतः प्रतीयत इति न परमापत्यरूपन्यधिकर- मान..०५ तस्याः ३८६ मानमेयप्रकाशिकायां [प्रमेय- णधर्मावच्छिन्नप्रतियोगिताकदोपाभावपरत्वपरिकल्पनं सापटीति । अतो . ब्रह्मण्यविद्यादोपपरिकल्पनं निरवद्यत्वश्रुति- विरुद्धमेव । उक्तं च तत्त्वमुक्ताकलापे-'मायाऽविद्यादिशब्दैः प्रकृतिरभिहिता ज्ञानकर्मादयो वेत्येतत्तत्तत्प्रदेशे स्फुटविदित- मतो न त्वदिष्टाऽस्त्यविद्या । किश्चाविद्यादिशून्यः पर इति विविधाम्नायकण्ठोक्तमर्थ क्षेप्तुं मायादिशब्दः क्षम इति वदतः स्यादविद्या तवैव ॥ इति । यत्तु-निरवद्यत्वश्रुत्यविरोधायेशजीवयोर्मायाविद्योपाधिभिदाक- ल्पनं-मायोपाधिरीश्वरोऽविद्योपाधि वः । तत्राविद्या स्वकल्पि- तानां जीवानां सत्यं तिरोधाप्यासत्यं सत्यत्वेन प्रतिभासयति । दुःखं च दोन्धि । माया तु सत्यमसत्यं च सम्यगेव दर्शयन्ती दुःखं चानुत्पादयन्ती ब्रह्मणो विश्वव्यापारलीलारसं केवलं प्रसूते । माया परभ्रमहेतुरविद्या च स्वभ्रमहेतुरिति । तदप्यापातरमणी- यम् । मोहनीयानामदर्शने मोहनप्रवृत्तेरयोगेन मोहनीयजीवदर्शन- हेत्वविद्यादोपान्वयस्य ब्रह्मण्यपि प्रसक्तः ननु मायैव जीवदर्श- नहेतुरिति चेदन ब्रूमः। मायया क्रीडनप्रवृत्ता हि न स्वयं मुह्यन्ति । किन्त्वन्यानेव मोहयन्ति केवलम् । न हि वस्तुतोऽन्ये मोहनीया वर्तन्ते । मोहकरणोपकरणभूवान् जीवादीन् यदि कल्पितत्वेन पश्येन्माययेश्वरस्तहिं कथं तान् मुमोयिपेत् तैश्चिक्रीडिपेद्वा । यदि मायेचाऽऽविद्यान् क्रीडनपरिकरभूतान् जीवादीन् सत्यत्वेन दर्श- यन्ती संव्यवहारं प्रयोजयेत्तर्हि सैवाविद्या संवृत्ता। न चापुरुपा- थीपरमार्थदर्शनहेनुरेवाविद्या, माया त्वपरमार्थदर्शनहेतुरपि नापु- रुपार्थहेतुरिति नाविद्यात्वमस्या इति वाच्यम् । अपुरुषार्था हेतु- प्रकाशे] ईश्चरपरिच्छेदः। ३८७ त्वेऽनुच्छेद्यतया ब्रह्मभिन्नाया मायाया अपि नित्यत्वप्रसङ्गादद्वैत- भङ्गापत्तेः । किच्चापुरुपार्थदुःखाद्यजनकस्यापि द्विचन्द्रज्ञानहेतो- पिस्य यथा निरसनीयत्वं, एवमपरमार्थजीवादिदर्शनहेतोरपर- मार्थभूताया मायाया अपि निरसनीयत्वमेवेति तदन्वयोऽपि हेय- प्रत्यनीकत्वश्रुतिपराहत एव । उक्तं च तत्त्वमुक्ताकलापे-'निर्दोष- श्रुत्यवाधप्रणयिभिरुदितो ब्रह्मजीवानुवन्धी मायाऽविद्यावि- भागोऽप्यफल इह परोन्मोहनार्था हि माया । मिथ्यार्थान दर्शयन्ती विहरणमपि तैस्तादृशं भावयन्ती मायैव स्याद- विद्या न कथमितरथा स्यादनुच्छेदनीया ॥' इति । अतो निर्विकारत्वादिश्रुत्यविरोधेन ब्रह्मणो जगदुपादानत्वश्रुतेनिहोs- विद्योपाध्याश्रयणेन न सम्भवति । चिचिद्विशिष्टत्वावलम्बनेन तु स्यादिति सिद्धम् । चिदचिद्विशिष्टत्वं च जगत्कारणस्य ब्रह्मणः श्रुतिस्मृतिभ्यामवग. म्यते । तथा हि-'यस्यात्मा शरीरम्' 'यस्य सर्वाणि भूतानि शरीरम्' 'यस्य पृथिवी शरीरम्' 'यस्यापः शरीरम्' 'यस्या- व्यक्तं शरीरम्' 'यस्याक्षरं शरीरम्' 'यस्य मृत्युः शरीरम्' 'एप सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारा- यणः' इत्यन्तर्यामिवामणमुबालोपनिपदोस्तावत्कार्यकारणीभयाव- स्वस्य चेतनाचेतनप्रपश्चस्य परब्रह्मशरीरत्वमुच्यते । तैत्तरीये च 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः' इति आत्मश- ब्देन निर्देशात् कारणम्य ब्रह्मणः सूक्ष्मचेतनाचेतनशरीरकत्वमर्थसि- खम् । आत्मशब्दश्चायं न स्वरूपपपनो मृदात्मको घट इत्यादाविय, किन्वन्तर्यामिवचन इति शारीरशब्देन मामानाधिकरण्यादयसी- यते 'तस्यैप एवं शारीर आत्मा' इति ।

३८८ मानमेयप्रकाशिकायां [प्रमेय- श्रीविष्णुपुराणे च-'स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्व- रूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥' इति स्थूलसूक्ष्मावस्थचेतनाचेतनशरीरकत्वमु- क्तम् । सर्वरूपत्वं चेदं सर्वशरीरकत्वं न तु सर्वाभेदः । परम- चेतनस्याचेतनस्वरूपत्वायोगात् । सर्वखरूपत्वे सर्वस्य नियन्तृत्वा- देरयोगाच । चेतनाचेतनशरीरकत्वेन ब्रह्मण एव कार्यकारणभावो मुक्तकण्ठं चोकः- स एव सृज्यः स च सर्वकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेपमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥' इति । मनुस्मृतौ च प्रलयान्ते नारायणः सिसृक्षुश्चि- चिन्मियं विश्वं स्वशरीरभूताव्यक्तात्सूक्ष्मचिन्मिश्रान्महदादि- क्रमेणापः पृथिवीगर्भाः सृष्ट्वा सृष्टेपु तत्त्वेषु परस्परं सम्मिश्रीकर- णेनाण्डोत्पादनानुकूलं वीर्य सम्पाद्य तस्मिन् देवादिव्यष्टिसर्गद्वार- भूतं चतुर्मुखं स्वनाभिकमलादुत्पाद्य स्वयं च तदन्तर्यामितयाऽव- स्थित इति प्रतिपाद्यत आरम्भ एव सप्तश्लोक्याम् । ननु 'यस्याव्यक्तं शरीरम्' इत्यादिना सूक्ष्माचिद्विशिष्टत्वमेव परमकारणस्य ब्रह्मणो लभ्यते, न तु सूक्ष्मचिद्विशिष्टत्वमपि । मैवम् । महाप्रलये समुपस्थिते प्राकृतानां लोकानां महातपवृष्ट्या- दिभिर्विनाशे पृथिव्यादितत्त्वानां च स्वस्थपूर्वतन उत्तरोत्तरस्य लये तत्तत्संयुक्तानां यद्धात्मस्वरूपाणामपि पूर्वपूर्वतत्त्वसङ्गमणक्रमे- णाचित्सूक्ष्मेऽव्यक्त सङ्कमात्सूक्ष्मचित्संसृष्टाचित्सूक्ष्म विशिष्टताया: सिद्धेः। अव्यक्तादिविशेषान्तं चेतनाचेतनात्मकम्' इति भग- यत्पराशरवचनेन च सर्वावेवावस्थासु चिद्गर्भताया अचेतने प्रतिपा- दितत्यादय्यफत्यादि कारणावस्थायामपि सूक्ष्मचिद्गर्भवाया लाभात् ।

प्रकाशे] ईश्वरपरिच्छेदः। 'दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेवस्थितो व्यापी' इति प्रधानस्य चित्समष्टिगर्भताया उक्तत्वाच्च । 'यस्या- व्यक्तं शरीरम्' इति सूक्ष्माचिद्विशिष्टत्वं प्रतिपाद्य 'यस्याक्षर शरीरम्' इति सूक्ष्मचिद्विशिष्टता च ब्रह्मणि प्रतिपादितैव । सूक्ष्म- चेतनसमष्टिवाची चायमक्षरशब्दः 'अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकीभवति' इति श्रुतौ तद्गीयां मूलप्रकृतायुपचरितः । अयमर्थः-कार्योन्मुखं प्रधानमव्यक्तशब्दितं महाप्रलये कार्यानुन्मुखं सत् सूक्ष्मचिद्गर्भत्वेन विवेचयितुं योग्य- मक्षरशब्दितं भवति । यदाऽतिसूक्ष्मदशापत्त्या चित्समष्टिगर्भस्वस्थ स्थितस्यापि विवेकायोग्यता तदा तत्तमःशब्दितं भवति । न च 'अक्षरं तमसि लीयते' इति लयश्रुत्या सूक्ष्मचिद्गर्भत्वमेव निवर्तत इति वाच्यम् । अनादीनां बद्धात्मस्वरूपाणां नित्यत्वेन तद्र्भताया अवर्जनीयत्वात् । लयश्रुतिस्तु सूक्ष्मतरावस्थापत्त्या विविच्य ग्रहणा- योग्यत्वार्थिकैव । अत्यन्तसूक्ष्मावस्था तु अविभक्ततमःशब्दिता परमात्मनि विलक्षणगाढसंयोगलक्षणा, यस्यामवस्थायां परमात्मनैव संवेद्यस्वरूपा भवति सूक्ष्मचित्तमुदायगी मूलप्रकृतिस्तल्लीना। श्यमेवाचित्समष्टिभूता मूलप्रकृतिर्महामायेत्युच्यते । तद्गर्भस्थय सूक्ष्मचेतनसमुदायः चित्समष्टिमहापुरुप इति च । इमी घ महामायापुरुपौ सर्वाण्डकारणभूतौ । प्रलयकाले स्वाविमचयोश्वे. तयोर्महामायापुरुपयोः प्रारीप्सिते सर्गे विविधकार्योन्मुस्यफलं परस्परसंपविशेपं सम्पादयति तच्छरीरी परमात्मेत्युच्यते 'प्रकृति पुरुष चैत्र प्रविश्यात्मेच्छया हरिः। क्षोभयामास सम्प्राप्त सर्गकाले व्ययाव्ययौ ॥ इति । तस्माय चिचित्समष्योः संसर्ग.

[प्रमेय- ३९० मानमेयप्रकाशिकायां विशेषात्सर्गऽऽयकालिकादनेके प्रधानपुरुषा एतदंशभूताः प्रत्य- ण्डमन्तर्गता महदादिक्रमेण प्रविभक्कविविधविचित्रभोग्यभोक्तृवर्ग- भोगस्थानादिकार्यजातनिर्वाहका जायन्ते । मूळप्रकृतेरनन्तायास्तत्त- प्रदेशभेदेपु मदादिकार्योन्मुखावस्थाप्राप्त प्रधानबहुत्वव्यवहार तादशप्रधानसंयुक्ताश्च जीवाः प्रधानपुरुषा उच्यन्ते । समष्टिचेव- नाचेतनाद्यभिमानिदेवतानां च सृष्टिद्वारतयोल्लेखः कृतोऽस्ति साम्प्र- दायिकग्रन्थेषु । एवं 'प्रकृतिं पुरुष चैत्र' इतिवचनबलात्सूक्ष्मा- चित इव चित्सूक्ष्मस्यापि सर्गाद्यकालेऽवस्थानं सिद्धम् । अतश्चि- दृचिन्मिश्रप्रपञ्चोपादानतायां ब्रह्मनिष्ठायामचित्सूक्ष्मस्येव चित्सू- क्ष्मस्याप्यवच्छेदकत्वं साधीय एव । एतेन-अचित्सूक्ष्मभूताविद्योपहितमेव ब्रहा विवर्तोपादानम् । न तु कारणतावच्छेदकशरीरे चित्सूक्ष्मस्यापि निवेशः । प्रमाणाभा- वात् । जीवस्तु तत्तदुपाधौ प्रतिविम्वलक्षण एवेति प्रत्युक्तम् । कारणस्य ब्रह्मणोऽचिद्विशिष्टताया इव चिद्विशिष्टताया अपि निरु- क्तश्रुतिस्मृतिवचनेभ्यो लाभात् । रुपरूपिमिन्नस्य चैतन्यस्य प्रति- विम्यायोगाच । यत्तु ब्रह्मैव चिचिदीश्वररूपेण परिणमतीति यादवप्रकाशमतं तत्रापि ब्रह्मण्येव सर्वविकाराणां परमार्थतः प्रसङ्गेन निरवचत्वच- तिविरोधस्तदवस्थः । चिचिदीश्वराणां सादित्वमप्यापद्येत । तद्- नादित्वं च 'ज्ञाज्ञी द्वावजावीशनीशौ' 'अजामेकां लोहित- शुकृष्णाम्' इत्यत्र श्रूयते । ननु शक्तिरूपेणेतेषां महाप्रलयेऽ. यस्थानान सादित्वं प्रसज्येत । मेवम् । का नाम शक्तिः । यदि प्रक्षणतत्तद्रूपेण परिणामसामथ्य तर्हि घटादेरिय मृत्परिणामस्य , प्रकाशे] ईश्वरपरिच्छेदः। ३९१ सादित्वमवर्जनीयम् । यदि त्रीण्येव तत्त्वानि सूक्ष्मरूपेण सन्ति शक्तिशब्देनोच्यन्ते तर्हि सूक्ष्माणां तत्तदंशानामेव स्थूले वनतनो- पादानतया सर्वस्य ब्रह्मपरिणामवादो भज्येत । ननु शक्तित्रयस्य ब्रह्मणो भिन्नामिन्नत्वस्वीकाराद्ब्रह्मणो निर्विकारत्वमुपादानत्वं चेत्यु- भयोपपत्तिः। मैवम् । भिन्नत्वाभिन्नत्वयोर्विरुद्धयोरेकनासमावे- शात् । उक्तं च तत्त्वमुक्ताकलापे-'ब्रह्मोपात्तान् विकारान् कति- चिदभिदधुश्चेतनाचेतनेशान् नैतद्युक्तं यदीशादनधिकम- नघं निर्विकारं श्रुतं तत् । भिन्नाया ब्रह्मशक्तर्विकृतय इति चेद्बह्मजन्यत्वभङ्गो भेदाभेदोपपाद्य सकलमिति मते सप्तभी न दूप्या ॥' इति । किश्वाविद्याविशिष्टं ब्रह्मोपादानमित्यद्वतिनः । अनिर्वाच्यावि- द्याद्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽम्ब्य- वनयः' इति हि ते वदन्ति । 'उपाधिविशिष्टं तत्तथै ति भास्क- रीयाः । 'चिचिदंशविभक्तं ब्रह्मद्रव्यमचिदंशेन विक्रियते, तद्वि- कारोपहितेन चिदंशेन संसरति' इति च तेषां प्रक्रिया । यादवा- काशीयास्तु 'सर्वात्मकं सदूपं ब्रह्म चिदचिदीश्वररूपांशत्रयशक्ति- विशिष्टं समुद्र इव फेनवुद्रुतरङ्गप्रभेदेन सावान्तरप्रभेदनिविघ- च्यष्टिभावेन परिणमति' इति वदन्ति । विशेषणानां चाविद्यादीनां स्वीकारेऽपि यथा परमते 'एकमेवाद्वितीयम्' इति श्रुत्यविरोधो निरूह्यते, एवं सूक्ष्मचिचिद्रूपविशेपणाभ्युपगमेऽपि अविरोधः सुनियंहः । इयांस्तु विशेप:-परमते मरण एयाविद्यायपुरुपार्य- भारतमवर्जनीयम् । सिद्धान्ते तु सर्वावस्थायामपि समलयेवना- चेतननियमनलक्षणो महिमेय प्रामोतीति । 'विभूति प्रसनं त्यन्ये [प्रमेय- विभूतिशब्दितविविधरूपपरिणामप- मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैविक- ल्पिता । इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।। क्षस्य विवर्तपक्षस्य चान्यदीयत्वोपन्यासपूर्वकं सर्वशक्तस्य ब्रह्मणः विदामनुमत इति प्रतिपाद्यते । अत्र प्रभुशब्देन सर्वविधसामर्थ्य- मानमेयप्रकाशिकायां इति माण्डूक्यकारिकायां घ सङ्कल्पमात्रकृता सृष्टिः परमार्था निर्विकारस्यैवेति पक्ष एव तत्त्व वाचिना स्वयं निर्विकारमेव जगदुपादानं भवति ब्रह्मेति विवक्षितम् । निरयद्यस्यब तथात्वं च समुपकरणीभूतयोश्चिदचितो. परमात्मः शक्तित्वादुपपद्यते । स्मयते च तत् 'एकदेशस्थितस्याग्नेयोत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथैतदखिलं जगत् ॥ इति । कार्योपयोग्यपृथक्सिद्धविशेषणं च शक्तिः । अतश्चिदधि- द्विशिष्टबहाकारणवाद एव श्रुतिस्मृत्यनुगुण इति सिद्धम् । 'त्वत्तोऽस्य जन्मस्थितिसंयमा विभो भवन्त्यनीहादगु- णादविक्रियात् । त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते तदाश्रय- त्वादुपचर्यते गुणः ॥ इति श्रीमद्भागवते गुणमयस्याचितो गुण- परवशस्य जीववर्गस्य शरीरतया परब्रह्मनियाम्यत्वात्सत्यादिगु- णानां तत्प्रयुक्तकार्याणां च चिदचिच्छरीरद्वारा प्रक्षसमीपगामित्या- रखरूपतो निर्गुणस्याविक्रियस्यापि कारणत्वसम्भवः प्रतिपाद्यते । सर्वेश्वरत्वेनागुणवश्यतया प सर्वशरीरकत्वेऽपि न साक्षात्सुख- 'दुःसादेः प्रसङ्गः । 'अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशम्' इति श्रुतेः । गुणत्रयवश्यस्य फुलालादेरिय 'भोगतृष्णामूळव्यापारविरहिणोऽपि परिपूर्ण सङ्कल्पमात्रकृतं सर्गादि लीलामात्रं सार्थमोमस्य कन्दुकाघारम्भ इवेतीश्वरशब्देन छोयते ।

प्रकाशे] ईश्वरपरिच्छेदः। अभिन्ननिमित्तोपादनत्योपयुक्तः सार्वज्ञ्यसर्वशक्तित्वादिगुणैः स्वरू- पतश्च बृहत्त्वं ब्रह्मशब्देन विवक्षितम् । शरीरगतावस्थाभेदेन विशिष्टस्योपादानोपादेयभावे संकल्पतो निमित्तत्वे च दृष्टान्तः श्रूयते-'यथोर्णनाभिः सृजते गृह्णते च' इति । स्मर्यते च-'यथोर्णनाभिर्हदयादूर्णा सन्तत्य वक्रतः । तया विहृत्य भूयस्ता ग्रसत्येवं जनार्दनः ॥' इति । यथोर्णना- भिर्विहारेच्छु: स्वान्तीनं खांशभूतं तन्तुमास्यानिष्कास विस्तार्य च तन्तुजालेन विहरन् पुनरुपसंहरति, एवं परमात्मापि लीलार- समनुवुभूपुः स्वांशभूते चेतनाचेतने प्रलयकालेऽतिसूक्ष्मदशापत्त्या स्वाविभक्त सङ्कल्पेन विविच्य समष्टिव्यष्टिरूपेण वितन्य विहृत्य चान्तत उपसंहरति । यथा बालानां मृद्गृहादेर्निर्माणवत्तद्विध्वंसनमपि लीलारूपमेव संहारोऽपि लीलैय । लीलाया लक्षणमुक्कं सर्वार्थ- सिद्धौ-'प्रीतिविशेपप्रभवः स्वयंप्रियो व्यापारो लीला' इति । प्रीतिविशेषप्रभवत्वोक्या पूर्णानन्दसैव लीलाव्यापारे प्रवृत्तिरोत्स- गिकीति ज्ञाप्यते । स्वयंप्रियत्वोत्तया च प्रयोजनान्तरानभिसन्धि- पूर्वकत्वम् । स्मरन्ति च सर्गादेविहरणमात्ररूपता च्यासादय:-'त्वं न्यचदिरुदम्वद्भिः कर्मसूत्रोपपादितैः । हरे विहरसि क्रीडाक- न्दुकैरिव जन्तुभिः ॥' 'अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । मोदते भगवान् भूतैर्वालः क्रीडनकैरिव ॥ इति । सूत्र घ-'लोकवत्तु लीलाकैवल्यम्' इति । 'भोगार्थ सृष्टिरित्यन्ये क्रीडामिति चापरे । देवस्यैप स्वभावोऽयं आरमकामस्य का स्पृहा ।।' इति माण्डूक्यकारिकायां प क्रीडाशब्दः कोहान- न्यधनप्रशंसादिप्रयोजनपरः । अयमर्थ:-अपूर्णकामस्य भोगायी .

३९४ मानमेयप्रकाशिकायां [प्रमेय- , सृष्टिरित्येके । सम्पन्नस्यापि लोके प्रशंसादिफलान्तरकामनया यथा कन्दुकारम्भः, एवं सर्गादिक्रीडाजन्यफलान्तरकामनया सर्गादो प्रवृत्तिरिति चापरे । अवाप्तसमस्तकामस्य प्रयोजनान्तरकामनाया असम्भवेन देवस्य क्रीडाशीलस्य (दिवु क्रीडायाम् ) भगवतो लोकहितार्थः स्वभाव एव क्रीडारूपः सर्गादिव्यापार इति सिद्धान्तः। सर्गादेर्लीलारूपत्वस्यैव निषेध इत्यर्थस्तु श्रुतिस्मृतिसूत्रैविरुद्ध्येत । सम्प्रदायप्रवन्धेषु च निखिलजगजन्मादिहेतुत्वं जगद्व्यापारस्य लीलात्वं च वर्णितमस्ति-ब्रह्माण्डकोटिप्रभवादिहेतुस्त्वं कार- णानामपि कारणं हि' 'त्वं हि साक्षात्परंब्रह्म क्षराक्षरपरं विभु । अनेककोटिनमाण्डोदयस्थित्यन्तकारणम् ॥' 'वासुदेवोऽय- मेवास्ति भगवान जगतः प्रभुः। स्वातन्त्र्येण करोत्यस्य भव- स्थित्यप्ययान् यतः ॥ कालकर्मस्वभावानां मायायाश्चैप आदितः । कर्ताऽस्तीत्युच्यतेऽनादिरादिकर्तेश्वरेश्वरः ॥ 'स्वामिस्त्वं परमेश्वरश्च परमं ब्रह्मासि वेदोदितं धृत्वादी पुरु- पाकृतिं विधिमरीच्यादिक्रमेणाखिलम् । विश्वं स्थावरजङ्ग- मात्मकमिदं शत्त्या सृजस्यात्मनः' 'मायायाः परतः परश्च भगवान् सर्वेश्वरः श्रीहरिः स त्वं घुप्रकृतीः प्रविश्य कुरुपे नकाण्डसर्गादिकम्"मायापरोऽपिजगदुद्भवपालनान्तलीलार्च- मात्तविधिविष्णुशिवादिरूपः' "उत्तस्ते संप्रदायोऽधश्रीकृष्णोs- स्तीप्टदेवता । परमात्मा परंप्रम सर्वकारणकारणम् ॥' "नेका- ण्टसर्गस्थितिनाशलीलाविधायकापागनिरीक्षणं च' 'नेका- ण्टजननस्थानलयलीलश्च निर्गुणः' 'तत्र स्थितोऽस्ति भग- वान् मर्यकारणकारणम् । अनन्तकोरित्रामाण्डोत्पत्तिस्थिति- स्यक्रियः ॥' इत्यादी। .

प्रकाशे] ईश्चरपरिच्छेदः। ननु लीलारसानुभवार्थश्चेत्सर्गादिव्यापारस्तर्हि भज्येतावाप्तस- मस्तकामत्वम् । स्थविष्टमिदं चोद्यम् । अवाप्तसमस्तकामत्वं हि नाम सदा स्वाधीनसर्वविधभोगोपकरणसम्पत्तिमत्त्वम् । अत एव सङ्क ल्पमात्रात्सर्वेष्टसिद्धिः । नापि प्रकृतिपुरुपादिसहकारिसापेक्षे सर्गादों ब्रह्मणः स्वातत्र्यहानिः । करादेरिव तेपामपि स्वरूपस्थित्यादेस्ताद. धीन्यात् । यथा महावीरो निरायुध एकाक्येव स्वभुजवलेन सङ्कामे निरस्यन् प्रतिभटान स्वतन्त्रो भवति विजये, एवमत्रापि भाव्यम् । निष्कियत्वश्रुतिस्तु पुण्यपापलक्षणगुणकर्मनिपेधार्थिका । ननु-एवमपि कश्चन सुखिनं कश्चन दुःखिनं च सृजतो वैपम्यं त्रिविधतापवहुलं संसारं सृजतो नैघण्यं च स्याताम् । मैवम् । न हि साम्यकारुण्यादय एघ गुणा भगवतः श्रुताः, किन्तु यथाकर्मफलप्रदत्यादयोऽपि । एवं प पूर्वपूर्वभवार्जितशुभाशुभ- कर्मानुगुण्येन देवादिविषमसृष्टिं कुर्वतो न वैपम्यम् । आश्रयणी- यत्वे च समत्यं गीयते-'समोऽहं सर्वभूतेषु न मे द्वेप्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥' इति । विपाकापन्नानां विविधविचित्रर्मणां फलभूतेन दुर्वि. पहानन्तदुःसजातेन मोमुहतो जीवाननन्तान्विलोक्यातिमानप्र- सूतेन कारुण्येन तदुजीवनामवतारादिकं कृत्वा रक्षितुं प्रयतत इति न नैपुण्यमपि । तया च सूत्र-'वैपायनघण्ये न सापेक्ष- त्त्वात्तथाहि दर्शयति' इति । सर्गादिव्यापारस लीलारूपस्य जीवेषु फारुण्यमूलत्वं प यहुलं सम्पपते । प्रलये खतिमानस- चितमान उपसंहृतफरणालेयरो भोगमोक्षप्रवृत्त्यनोऽचित्समः प्रकृतिलीनो वर्तते जीववर्गः । वद्विपयाकारण्याझोगमोशप्रपत्त्यु- ३९६ मानमेयप्रकाशिकायां [प्रमेय- पयुक्तं ज्ञानविकासहेतुभूतं करणकलेवरमामं सृजति प्रभुः । तथा च शुकवचनम् 'बुद्धीन्द्रियमनःप्राणान् जनानामसूज- प्रभुः। मात्रार्थ च भवार्थ च आत्मनेऽकल्पनाय च ॥ इति । हिताहिताववोधनार्थं वेदांश्च प्रवर्तयति चतुर्मुसादिद्वारा । प्राप्त- करणकलेवरं च जीवमन्तः प्रविश्य सत्तामापाद्य हिताहित- प्रवृत्तिनिवृत्तिशक्त्युद्धोधनादिना रक्षति च 'विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुता ॥' इत्युक्तप्रकारेण स्वाश्रयणोपकरणतया प्रदत्तं करणकलेवरादिकं पूर्वपूर्ववासनावलेनाप्राप्तशब्दादिविषयप्र- वणं कुर्वन् जीवः स्वाज्ञारूपं विधिनिषेधशास्त्रं समुल्लङ्यातिमात्र- विपरीतप्रवृत्तो यदा भवति, तदा भगवान् विपरीतप्रवृत्तिहेतुभूतं करणकलेवरादि संहृत्य प्रवृत्तिनिवृत्त्यक्षमं तं करोति तद्धितेच्छ. यैव । यथा पिता पुत्रमविनीतमतिमानविपरीतप्रवृत्तं निबध्य कारागारे विनिक्षिपति तद्वदिति । एवं च भगवत्कर्तृकस्य सर्गादि- व्यापारस्य स्वार्थत्वं परार्थत्वं चेति स्थितम् । (स्वार्थो लीला परार्थों जीवरक्षा) सर्वोऽप्ययमों हरिवाक्यसुधासिन्धौ स्पष्टमुक्तो भगवता। एवं जगत्कारणत्वं ब्रह्मणः सुनिरूपितम् । उपादानं निमित्तं च सहकार्यपि तन्मतम् ॥ सूक्ष्मावस्थाऽचिच्चिदा- त्मकं तूपादानमिप्यते । स्थूलावस्थाचिच्चिदात्मकं तु कार्य जगच्छुतम् ॥ अतो ब्रह्मानन्यभावात्तज्ज्ञानाज्ज्ञातताऽस्य तु । १ मीयन्त इति मानाः शब्दादयो विषयाः, देहा वा । भवः-धर्म, ऐहि:- - सुप्मिकभोगो वा । आत्मा अध्यात्मज्ञानं, आत्मसत्ता या। अक्ल्पनं मोक्षः। देहादिसाध्यहिकामुमिरफलभोगार्थ, आत्मज्ञानसाध्यमोक्षार्थ, च जीवानां उप- तिं स्टवान् प्रभुरित्यधः। - प्रकाशे] ईश्वरपरिच्छेदः। ३९७ स्यानिमित्तं च सङ्कल्पविशिष्टं स्वयमेव तु ॥ सहकारि च कालादिविशिष्टं भवति स्वयम् । कालादीनां च भगवच्छ- क्तित्वान्न स्वतन्त्रता ॥ पूर्णकामोऽपि जीवानां हितायैव सृज- त्यसौ । जीवकर्मापेक्षया तु वैपम्यं सर्गकर्मणि ॥ नापेक्ष्य स- जतः कर्म पारतन्द्रयं भवेत्प्रभोः। जीवगोचरसङ्कल्पो यतः कर्मेति शव्द्यते ॥ स्वाज्ञोलइनकृद्दण्डधारणं गुण एव हि । अतो नैण्यमपि न प्रसज्येतेशितुः सदा ॥ स्याच्चानायास- रूपेयं लीला सृष्ट्यादिका प्रभोः । फलान्तरानपेक्षा च क्रिया लीलेति शब्द्यते ॥ पूर्णकामस्यैव लीलाप्रवृत्तिदृश्यते यतः । ततश्च ब्रह्मणोऽपूर्णत्वादि न स्यात्मकुर्वतः॥ कारणत्वप्रसक्तानां दोपाणां विनिवारणम् । सत्यज्ञानादिवाक्येन क्रियते परमा- मनि ॥ अतः शोधकवाक्यत्वप्रथामेतदुपैति च । तत्प्रकारं समासेन प्रसङ्गाद्महेऽत्र च ॥ सत्यज्ञानादिवाक्यविचारः। उपादानं हि लोके विकारास्पदं जर्ट परिच्छिन्नं च दृष्टम् । कर्ता च सुखदुःखादिविकारान्वितः किश्चिज्ज्ञोऽपूर्णश्च । ब्रह्मेव चोपादानं निमित्वं चाभिमतं विश्वसर्गे । अतस्तदपि विकाराद्यास्पदं स्यादिति फारणत्वसामान्येन प्रसकानामाशद्वानां निरसनक्षम प सत्यज्ञानादिवाक्यम् । नानापरिणामभाक्त्यं कर्मप्रयोज्यधर्मान्वयित्वं या विकारित्वम् । यथा मृदादेर्यटादिस्पाः परिणामभेदाः क्षेत्रक्षयानुमारिणो विकारा भवन्ति । जीवस्य तु स्वरूपतोऽपरिणामस्यापि रागद्वेपप्रयत्नादयः पर्मप्रयोज्या भरन्ति विराराः। वन निर्विकारत्यपरेण तु सत्य- [प्रमेय- मानमेयप्रकाशिकायां पदेन ब्रह्मणः कारणत्वप्रयुक्तं विकारित्वं व्यावृत्तम् । विशेषणी- भूतचिदचिहारकावस्यान्वयेन कारणत्वं निर्विकारस्यापि सम्भवतीति च सत्यपदस्य तात्पर्यम् । एवं ज्ञानपदेनासङ्कोचात्स्वरूपतः स्वभा- वतश्चासङ्कुचितज्ञानत्वप्रतिपादकेनोपादानत्वप्रसक्तं जडत्वं निमि- तत्वप्रसक्तं किञ्चिज्ज्ञत्वं च निरस्तं भवति । एवमनन्तपदेनोपादा- नताप्रसक्तं परिच्छिन्नत्वं निमित्तत्वप्रसक्तमपूर्णत्वं च व्यावर्तित भवति । अनन्तपदं हि त्रिविधपरिच्छेदराहित्यमाह । तत्र वस्त्व- परिच्छेदः सर्वात्मत्वलक्षणोऽनन्तगुणवत्त्वलक्षणो वा । घटपटा- देहि वस्तुतः परिच्छिन्नस्य परस्परं व्यावृत्तबुद्धिशब्दगोचरत्वं इदमिदं नेति । ब्रह्मणस्तु सर्वात्मत्वेन सर्वैर्भावैः समानाधिकरण- व्यपदेशो दृश्यते 'ज्योतीपि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुगिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्व यदस्ति यन्नास्ति च विप्रवर्य ॥' इति । एतदनन्तरपूर्वलोके 'यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्व- ताभ्यादिसंयुता ।।' इत्यत्र भगवच्छरीरभूताप्परिणामभूतायाः पृथिव्यासच्छरीरत्वमर्थसिद्धमुपक्षिप्यानन्तरं सामान्याधिकरण्य- व्यपदेशः कृतो 'ज्योतीपि' इत्यादिना । अतः शरीरात्मभाव एय अस्तिनास्त्यात्मफकरूनचेतनाचेतनवस्तुसामानाधिकरण्ये निमित्त. मवगम्यते । 'सर्वगत्वादनन्तस्य स एवाहमवस्थितः' इति प्रहा- दवचनेन च शरीरात्मभाव एव सामानाधिकरण्यव्यपदेशहेतुरन्या- ख्यायते । गीवायां च 'वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप' 'अनन्तवीर्यामितविक्रमस्त्वं सर्व समाप्नोपि ततोऽसि सर्वः' इति शरीरभूते सर्यगिन् आत्मतया व्याप्तिरेष प्रकाशे] ईश्वरपरिच्छेदः। ३९९ ब्रह्मणः सर्ववस्तुसामानाधिकरण्यनिर्देशेसर्वशब्दवाच्यत्वे च निदान- मिति प्रतिपादितम्। एवं तत्र तन सामानाधिकरण्यव्यपदेशे शरीरात्म- भावस्तत्प्रयोजको मुक्तकण्ठं तात्पर्यवृत्त्या वा प्रतिपाद्यत इति स्थितम् । छान्दोग्ये च 'ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा' इति चेतनाचेतनात्मकस्य सर्वस्य जगतो ब्रह्मशरीरत्वं ब्रह्मणश्च सर्व प्रत्यात्मत्यमुपक्षिप्य सर्वान्तर्गते श्वेतकेतो ब्रह्मात्मकत्वस्य 'तत्त्वमसि' इति सामानाधिकरण्येनोपसंहारो दृश्यते । एतेन सच्छन्दितेन ब्रह्मणेदं प्रजासामान्य आत्म्य-व्याप्यम् । यथा शरीरं जीवेन । तच्छरीरमिति यावत् । तत् ब्रह्मात्मकमेवेदं चेतनाचेतनात्मक जगत् सत्यं-प्रामाणिकम् । न तु खनिष्ठमब्रह्मात्मकम् । यथा मृन्मयं घटशरावादि मृदात्मकमेव प्रामाणिकं न तु मृद्भिन्नत्वेन । यद्वा तत् सच्छन्दनिर्दिष्टं ब्रह्मैव सत्यं-स्वरूपतः स्वभावतो वा कदापि विक्रियानहत्वात् । तदेव ब्रह्म सर्वात्मभूतमित्यर्थः । एवं शरीरा- त्मभावं प्रतिपाद्य सामानाधिकरण्येन व्यपदेशात् 'तत्त्वमसि' इति शरीरात्मभावपरमेव । त्वमादिसर्वनानामपि ब्रह्मपर्यन्तवा- चित्वख्यापनार्थश्च त्वंशब्दघटितः समानाधिकरणव्यपदेशः । अतः सर्वशरीरकत्वेन ब्रह्मणः सर्ववस्तुसामानाधिकरण्यव्यपदेशाईत्वल. क्षणो वस्त्वपरिच्छेद उपपन्नः । यत्तु मतम्-चेतनेन सामानाधिकरण्यव्यपदेशो ब्रह्मणः स्वरू- पैक्यपरः, ब्रह्मण एवान्तःकरणोपहितस्य जीवभावात् । अचे- तनेन तु वाधार्थः, सन्मात्रेऽधिष्ठानेऽविद्यापरिणामस्य वियदादेरचे- तनप्रपञ्चस्याध्यस्तत्वात् । यथान्धकारे स्थाणौ चोरभ्रान्या मीतस्य भ्रमापनोदनाथ 'चोरः स्थाणुः' इति प्रयुज्यमानस्य वाक्यस्य . मानमेयप्रकाशिकायां [प्रमेय- चोरत्वेन प्रतीयमानमधिष्ठानं चोरनिवृत्तिमदिति बाध एव. तात्प- 'थम् । एवं 'सर्व खल्विदं ब्रह्म' इति सामानाधिकरण्यं नानाभे- दवत्तया प्रतीयमानमधिष्ठानं कल्पितभेदनिवृत्तिमदिति वाधपरमे- वेति । तन्न समीचीनम् । सर्वशब्देनानेन चेतनाचेतनवस्तुसमुदा- यस्यैव परामर्शात् । इदंशब्दितो हि प्रपञ्चश्चिदचिद्गर्भः। 'ऐत- दात्म्यमिदं सर्वम्' इति श्रुत्यन्तरे • सर्वशब्देन 'सदेव सौम्ये- -दम्' 'सन्मूलाः सौम्येमाः सर्वाः प्रजाः' इति पूर्वप्रक्रान्तं चेत- नाचेतनोभयं परामृश्योभयरैकरूपस्यैव ब्रह्मात्मकत्वस्य प्रतिपादि- तत्वाचानापि उभयस्यैकरूपमेव ब्रह्मात्मकत्वं विवक्षितम् । यथा 'ऐतदात्म्यमिदं सर्वम्' इत्यत्र सर्वशब्दश्चेतनविषयोऽपि, .एक- विज्ञानेन सर्वविज्ञानप्रतिज्ञाया उपपत्तये चेतनाचेतनयोयोरेय ब्रह्मात्मकत्वस्य विवक्षितत्वात् , एवं 'सर्व खल्विदं ब्रह्म तज्जला- निति शान्त उपासीत' इत्यत्र शान्त्यर्थब्रह्मात्मकत्वोपदेशे सर्वश- ब्दोऽपि जीवविषयोऽप्येपितव्यः । खेतरजीवगोचररागद्वेपादिमन:- कालुप्यनिवृत्तिलक्षणायाः शान्तेः सिद्ध्यै जीवानामपि हिब्रह्मा- स्मकत्वमनुसन्धेयमिति । एवं चैकस्यैव सर्वंशब्दस्योभयविषयत्वे स्थिते सामानाधिकरण्यमपि चेतनाचेतनयोरेकरूपमेव वक्तव्यम् । विञ्च वाधपरे सामानाधिकरण्ये पदद्वयलक्षणाऽर्जनीया। सर्वपदस्य सर्वारोपविषये ब्रह्मपदस्य तन्निवृत्तिमति च, लक्षणया सारोपविषयः सर्व निवृत्तिमानिति बोधस्याभिमतत्वात् । सिद्धान्ते तु 'सर्व खल्विदं ब्रह्म इत्यादौ सर्वादिशब्दानां सर्वशरीरकब्रह्म- वाचितया विदेव लक्षणा सर्वशरीरकामिन्नं ब्रह्मेति चोधस्य निर्वाहे परपझे पवयलक्षणाश्रयणं न सुहृदयहृदयङ्गमम् । किश्च वाधा- . । प्रकाशे]. ईश्वरपरिच्छेदः, ४०१ र्थत्वं तत्रैव दृष्टम् , यत्रारोपिताकारविरुद्धाकारः शब्देनैवोपस्थाप्यते । यथा 'चोरः स्थाणुः' इत्पन्न चोरत्वविरुद्धं स्थाणुत्वं स्थाणुपदेनैवो, पस्थापितम् । नैवं 'सर्व खल्विदं ब्रह्म', इत्यत्र भेदविरोध्याकारों ब्रह्मशब्देनोपस्थाप्यते । वृहत्त्वहणत्वरूपभेदोपस्थापकत्वात्तस्य । न चं ब्रह्मापदलक्षणयोपस्थितं सत्वरुपं भेदविरोधीति वाच्यम् । सत्वरूपस भेदविरोधित्वाभावात् । प्रतिपन्न एव, सत्स्वरूपेड़- धिष्ठाने भेदप्रपञ्चस्यारोपात् । पदद्वयलक्षणाप्रसङ्गश्च तदवस्थः ।. अतो. वाधार्थसामानाधिकरण्येऽपि वाध्याकार विरोध्याकारविशिष्ट- मेव वस्तु सिद्धयतीति न निर्भदवस्तुसिद्धिप्रत्याशा । उक्तं च तत्त्व- मुत्ताकलापे–'वाधार्थ यत्समानाधिकरणवचनं नाविशिष्टं वदे- सत् तत्रैकोऽध्यासयोग्याकृति वदति परो भेदयुक्तं तु शब्दः । निर्दिष्टे वस्तुमात्रे भवंतु कथमिहारोपितं वाधनीयं धान्ति- मैदाप्रतीती विरमतु च कथं हेतुपौंकल्ययुका 11' इति । चेतनसामानाधिकरण्यमपि न निर्विशेपवरूपैक्यपरम् । विशिष्ट- चाचिना तत्त्वंपर्दद्वयेन “स्वरूपमात्रोपस्थापने पदद्वयस्यापि लक्षणा- प्रसङ्गात । 'तत्पदोक्तसार्वश्यादेस्त्वंपदोकाशत्वादेश्व विरोधसैकप- दलक्षणयैव सुपरिहरत्वे पदद्वयलक्षणा ह्ययुक्ता। सिद्धान्ते तु त्वं. शब्दस्यापि जीवविशिष्टब्रह्मवाचितया न लक्षणागन्धः ।. नंनु वाक्यतात्पर्यानुगुणा सर्वपदलक्षणा न दोपाय । सामा- नाधिकरण्यस्य होक्ये तात्पर्यम् । तच विशेषणस्यापि विवक्षायां विशेषणविशेष्यार्थभेदेन विरुद्धोत् । मेयम् । विशिष्टैक्य एवं सामानाधिकरण्यस वात्पर्यात् । 'भिन्नप्रतिनिमित्तानां दान्दा. नामकस्मिन्नर्थे पृत्तिः सामानाधिकरण्यम्' इति शादियां । गान.प्र. २६ ४०२ मानमेयप्रकाशिकायां [प्रमेय- नानाप्रवृत्तिनिभित्तविशिष्टधम्क्यबोधकत्वमिति यावत् । तत्र प्राति- पदिकं नानाविशेषणविशिष्टपरं समानविभक्तिरैक्यपरेति विवेकः । विशेषणपरित्यागे तु सामानाधिकरण्यलक्षणहानिरेवेति । एवं च 'तत्त्वमसि' 'सर्व खल्विदं ब्रह्म' इत्यादिसामानाधिकरण्यानां चिंचितोब्रह्मणश्च शरीरात्मभावनिवन्धनानां विशिष्टाद्वैतपरत्वं मुख्यतयैवोपपद्यत इति सर्ववस्तुसामानाधिकरण्याईत्वरूपं सर्व- तनाचेतनशरीरकत्वं वस्त्वपरिच्छेद उपपद्यत एवेति स्थितम् । यद्वा वस्तुस्वभावकृतः परिच्छेदो वस्तुपरिच्छेदः सातिशयस्वरूपगुणक- त्वरूपः । यथा तुल्यकालयोस्तुल्यपरिमाणयोरपि कलधौवसुवर्णयो। कलधौतस्यापकपः सुवर्णात् । तद्राहित्यं वस्त्वपरिच्छेदः स्वरूपगु- गेभ्यो निरतिशयोत्कर्पलक्षणः । 'नान्तं गुणानां गच्छन्ति तेना- नन्तोऽयमुच्यते' इति निरुक्तिबलाच गुणतोऽप्यानन्यं सिद्धम् । • यत्तु-सत्यादिवाक्यं स्वरूपमात्रपरं न तु विशिष्टपरम् । यथा चन्द्रवरूपमात्रजिज्ञासया 'फश्चन्द्र' इति पृच्छते 'निशीथिन्यां प्रकृष्टप्रकाशो यः सः' इत्युत्तरमुच्यमानं प्रकाशविशेपोपलक्षितचन्द्र- स्वरूपमानपरं तद्वत् इति । तन्मन्दम् । सामान्यतश्चन्द्रपदव्यपदेश्य कञ्चनार्थ जानन्नेव हि तस्यासाधारणाकारं जिज्ञासमानः कश्चन्द्र' इति पृच्छति । तदुत्तरेण घासाधारणधर्मान्वयपरेणैव भवितव्य- मिति । एवं जगत्कारणत्वादिना विशिष्टं वस्तु प्रतिपन्नम् । तस्ये- तरसजातीयताव्यवच्छेदकं च सत्यत्वादिकमेतद्वाक्यविवक्षितम् । किश्च लक्षणवाक्यं खरूपमात्रपरमिति च स्वोको विरोध लक्षणं हि लक्ष्यसम्यद्धम् । लक्षणप्रतिपादने घ तद्विशिष्टमेव प्रतिपादित भयतीति 1. उतं च तत्त्वमुचाफळापे-'सत्याधुक्तिः प्रकृष्टद्युति- . 1 प्रकाशे] ईश्वरपरिच्छेदः। ४०३ रुडुपतिरित्यादिवद्वस्तुमात्रं ब्रूते लक्ष्मोक्तिभावादिति यदि न तथा खोक्तिवाधादिदोपात् । रोधः सद्वाक्यभावाद्भवति च कथितोदाहृतिः साध्यहीना मश्नोक्तश्चाविशिष्टं न विपय इति नापृष्टजल्पोपहासः॥ इति । : ननु सत्यत्वादिविशेषणमेकत्र न समावेशमर्हति; विरोधात् । ज्ञानं धन्तवदेवोपलभ्यते नानन्तम् । स्वाप्नज्ञानमसत्यं, तदृष्टान्ते- नान्यदपि ज्ञान तथेति । मैवम् । धर्मभूतज्ञानस्यान्तवत्त्वेऽपि धर्मिण आत्मस्वरूपज्ञानस्थानन्तत्वात्सत्यत्याच । स्वानज्ञानमपि विप- यमिथ्यात्वेऽपि सत्यस्वरूपमेव । विषयसत्यत्वं च तस्य श्रीभा- प्यादौ व्यवस्थापितमेव । स्वामज्ञानस्यासत्यत्वेऽपि न दृष्टान्तेन वाह्यज्ञानस्यासत्यत्वमर्थशून्यत्वलक्षणं स्थापयितुं शक्यते । साम- प्रीवैलक्षण्यादर्थावाधाव । 'वैधाच्च न स्वमादिवत्' इति सूत्र- भाष्यादौ चेदं विवृतमिति नेह प्रतन्यते । यदपि सत्यादिवाक्यं न सत्यत्वादिगुणविशिष्टपरम् । सत्यादि- पदानामसत्यादिव्यावृत्तिपरत्वात् व्यावृत्तीनां चाधिकरणस्वरूप- स्वात् । असत्यादिव्यावृत्तिरूपमेय ब्राखरूपमेतद्वाक्यविवक्षित- मिति । तदपि न समीचीनम् । सत्यादिपदानामसत्यादिव्यायची लक्षणाप्रसगात् । ब्रह्मपदस्यापि वृहत्त्वादिगुणविशिष्टवाचिनः स्वरू- पमात्रोपस्थापकत्वं लक्षणयेवेति सर्वपदलक्षणा घ । व्यावृत्तीनां प्रारूपत्व एफेनैव पदेन ग्रामस्वरूपं प्रतिपन्नमिति पदान्तरमयो- गयेयध्यपी ननु व्यावृत्तेर्षिफारिजलपरिच्छिन्नरूपतत्पदायप्रतियोगिफत्यप्र- तिपत्यर्थ पदान्तरमावश्यरम् । तत्तत्प्रतियोगिवत्याप्रतिपत्ती दि M ४०४ मानमेयप्रकाशिकायां [प्रमेय- तत्तद्रूपत्वशङ्का ब्रह्मणि प्रसज्येतेति । यद्येवं तर्हि तत्तत्प्रतियोगि- भेदरूपविशेपणभेदेनार्थभेदापत्त्यैकार्थवोधकत्वलक्षणस्य सामाना- धिकरण्यस्य हानिः । किञ्च विकार्यादिशङ्काया इव दुःखमित्रत्वा दिशङ्काया अपि ब्रह्मणो निरतिशयपुरुपार्थत्वप्रतीतिविरोधिन्याः' सम्भवेन तद्वारकपदान्तराश्रवणेन न्यूनता च स्यात् सत्यादिवाक्ये । अस्मन्मते तु बद्धमुक्तनित्यरूपत्रिविधजीववैजात्यप्रतिपादनतात्प- र्येण पदत्रयस्य श्रवणं समञ्जसमिति स्थितम् । एवं च जगत्कारणं परब्रह्म निर्दोपं ज्ञानशक्त्यैश्वर्याद्यनन्तकल्याणगुणकं त्रिविधचेतना- चेतनविलक्षणं तच्छारीरकं च सत्यज्ञानादिवाक्येन प्रतिपाद्यमिति राद्धान्तसनहः । ब्रह्मणः क्षराक्षरपुरुषविलक्षणत्वम् । 'यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्येषु सर्वपापैः प्रमुच्यते ।।' इत्यत्र च बद्धमुक्तनित्यरूप- निविधचेतनव्यावर्तकं विशेषणत्रयमुच्यते सर्वेश्वरस्य । तत्राजत्वं देवादिरूपेण जायमानानां बद्धानां व्यावर्तकम् । अनादित्वेन विशे- पितं च तत्तथाजातचराणां मुक्तानाम् । लोकमहेश्वरत्वं च नित्य- सूरिवर्गस्य । तेपामपि विभूत्यन्तर्भावात् । एवं व्यावर्तकधर्मेत्रिवि- धचेतनविलक्षणत्वेन सर्वेश्वरस्य ज्ञानमेवासम्मोहलक्षणं पापनिव- कं चेत्युत्तरार्धेन विवक्षितम् । एवं विशेषणत्रयलभ्यं क्षराक्षरपु- रुपयलक्षण्यं मुक्तकण्ठं चोकम्-'यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रवितः पुरुषोत्तमः ॥' इति । उत्तमश्चासौ पुरुपश्च पुरुपोत्तमः । राजदन्तादित्वात्परनिपात उत्तमराब्दस्य । क्षराक्षरेभ्य उत्तमत्तं फलति । केचित्तु सप्तमीति । ।

४०५ प्रकाशे] ईश्चरपरिच्छेद। योगविभागमाश्रित्य पुरुषेपूत्तम इति समासमाहुः । निर्धारणपट्याः समासनिपेघेऽपि शेषपष्ट्या पष्ठीसमासोऽपि सम्भवतीत्यपरे । पुरुपेभ्य उत्तम इति पञ्चमीसमासोऽपि ज्ञापनवलात्स्वीकर्तुमुचित इत्यन्ये । 'श्रीविष्णुपुराणे 'च मायावत्कार्येभ्योऽचिड्यो पमुक्तनिवेभ्य- श्विद्भ्यश्च वैलक्षण्यमुक्तं-'स सर्वभूतप्रकृति विकारान् गुणादि- दोषांश्च मुने व्यतीतः । अतीतसर्वावरणोऽखिलास्मा तेनास्तृतं यद्भुवनान्तराले ॥' इति । सत्त्वादिगुणसंसर्गप्रयुक्तरागद्वेपादि- दोपातीतत्वेन वद्धेभ्योऽतीतसर्वावरणत्वेन कदाचिदावृतज्ञानेभ्यो मुक्तभ्योऽखिलात्मत्वेन नियेभ्यश्च विलक्षणता फलति । न हि नित्यानामप्यणुस्वरूपाणां व्याप्यान्तर्भूतानां सर्वात्मत्वं सम्भवति । एवं तत्त्वप्रकरण एव क्षराक्षरपुरुपवैलक्षण्यं पुरुपोत्तमत्वं च पर- मात्मनः श्रुतिस्मृतिपु वर्णितमस्ति । तथा च वासुदेवमाहात्म्ये- "नित्यानामात्मनां नित्य आत्मा चेतनचेतनः। क्षराक्षरेभ्यश्च परस्त्वं ब्रह्म परमं हरे॥' इति । सम्प्रदायग्रन्थेऽपि क्षराक्षरपुरुष- चैलक्षण्यं पुरुषोत्तमत्वं च बहुश उपाणि । यथा [-'अशेपब्रह्माण्ड- प्रभुरपि...तमीशामीशानं क्षरपरमहं चाक्षरपरं हरिं' 'दिव्य- रूपोऽक्षरात्मा च श्रुतो यश्चाक्षरात्परः । त्वमेवासि...क्षरा- दक्षराच्चोत्तमः पूरुपस्त्वम्' 'यो वासुदेवो भगवान् अक्षरात्पर उच्यते' 'त्राकृतिर्यो भगवान् स एवारत्यक्षरात्परः। नैका ण्डकोटिजन्मादिहेतुश्च पुरुपोत्तमः' इत्यादी । एकादशद्वादशलक्षणविचार। (घमणो मुमुक्षूपास्यत्वमुक्तप्राप्यत्वे) सकलेतरविलक्षणस्य परस्य ब्रह्मणः पुरुषोत्तमस्यैव वेदनमुपास ४०६ 'मानमेयप्रकाशिकायां [प्रमेय . नात्मकमभयहेतुत्वेन भूयते सत्यज्ञानादिवाक्यप्रकरण एव 'यदा ह्येवैप एतस्मिन्नदृश्येऽनात्म्येऽनिरुकेऽनिलयनेऽभयं प्रतिष्ठा विन्दते अथ सोऽभयं गतो भवति' इति । प्रतिष्ठाशब्देन दृढ- सम्बन्धवाचिनाऽनानवरतभावनालक्षणः सम्बन्धश्चेतनस्य परमा- त्मनि विवक्षितः । अनापि विशेषणचतुष्टयमचितस्त्रिविधचेतनव- र्गाच व्यावर्तकं भवति । अदृश्य इति दृश्यस्याचितः, अनात्म्य इति 'आत्म्यशब्दितशरीरराहित्यपरेण वद्धानां, अनिरुक्त इति देवादिनामरूपाभ्यां निरुक्कचराणां मुक्तानां, अनिलयन इति च निराधारत्वपरेण ब्रह्माधारकाणां नित्यानां च व्यावृत्तिर्विवक्षिता । यद्यपि चरमेणैव विशेषणेन सर्वव्यावृत्तिः सिद्ध्यति । अथापि व्यावर्त्य युद्धयवतरणक्रमेण विशेपणानां क्रमनिर्देशः साधीयानेव । अभयं प्रतिष्ठामिति कार्यकारणयोरभेदनिर्देशः । एवं च पुरुषो- तमस्यैवोपासनं मोक्षसाधनमिति पर्यवसितोऽर्थः । 'शुभाशुभै- विनिर्मुक्त ऊर्मिपट्वात्परः प्रभुः । तं वेद्यममलं विष्णुं सदा ध्यायन् विमुच्यते ॥' 'नान्यत्र मद्भगवतः प्रधानपुरुपेश्व- रात् । आत्मनः सर्वभूतानां भयं तीवं निवर्तते ॥' 'वरं वृणीप्य भद्रं ते ऋते कैवल्यमद्य नः । एक एवेश्वरस्तस्य भग- वान् विष्णुरन्ययः ॥' 'आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिप्पन्नं ध्येयो नारायणः सदा ॥' 'विचार्याहं वेदान् मुहुरुपगतो निश्चयमिमं रमारामे भक्ति स्त्वयि दृढतरा यीसुभृताम्' इत्यादिस्मृती पाकर्मवश्यस्य विष्णोरेव ध्यानं मोक्षसाधनममिधीयते । 'कारणं तु ध्येयः' इति मुसा प कारणम्स परमात्मनो नारायणस्यैव मुमुक्षुपास्यत्वं सिद्धयति ।

प्रकाशे] ४०७ । ईश्चरपरिच्छेदः। न तु चतुर्मुसादेः सृज्यकोटिघटितस्य । किश्च तेपां परिमितफलप्र- दान एव सामर्थ्यम् । अत एव मुमुक्ष्वनुपास्यतोच्यते-'ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम् ॥ इति । गीतायां च देवतान्त- रोपासकानां तत्सायुज्यं प्राप्तानां पुनरावृत्तिः, स्वोपासकानां त्वपुन- रावृत्त्यानन्तफलत्वं चाभिहितं भगवतैव-'देवान देवयजो यान्ति पितॄन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ मामुपेत्य पुनर्जन्म दुःखालयमशाश्व- तम् । नामुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ आब्रह्म- भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुन- जन्म न विद्यते ॥ इति । तथा स्वस्यैव संसारनिस्तरणसाधनत्वं च 'दैवी ह्येपा गुणमयी मम माया दुरत्यया । मामेव थे प्रप- धन्ते मायामेतां तरन्ति ते ॥' इति । युक्तं चैतत् मुक्तिफलप्र- दत्वं हि स्वत एव निरस्तनिसिलहेयस्य समस्तकल्याणगुणाकरस्यैव सम्भवति । अनादिकालप्रवृत्तानामनन्तकर्मपाशानां त्रिगुणात्मक- मोहकप्रकृतिबन्धनानां मोचकत्वं च अकर्मपरवशं स्वतन्त्रमीश्वरं विना नान्यस्य सम्भवेन्नाम । न हि कारागृहनियन्त्रित एवान्यान कारागृहेभ्यो मोचयितुमलम् । चतुर्मुखादीनां च कर्मपरवशत्वं प्रसिद्धमेव । तथा च 'तस्य यथा कप्यासं पुण्डरीकमेवम- क्षिणी' 'तस्योदिति नाम' 'नो एव साधुना कर्मणा भूयान् नो एवासाधुना कनीयान्' 'पश्य देवस्य माहात्म्यं महिमानं च नारद । शुभाशुभैः कर्मभिर्यो न लिप्येत कदाचन ॥' इत्यादिनाऽकर्मवश्यतया प्रतिपन्नल पुण्डरीकाक्षस्यैव तु संसारव- ४०८ [प्रमेय- मानमेयमकाशिकायां न्धनान्मोचनसामर्थ्यम् । मुक्तानामविच्छिन्नानवच्छिन्नानन्दसम्पा- दुनं च स्वरूपगुणानन्यादेव सम्भवेत् । गुणानुभवजनितातिमात्र- प्रीतिकारिताशेपशेपवृत्त्यन्ययश्च पुरुपार्थोत्तमो भवतीति सेवामु- क्तिवादिनामपि गुणानुभवोऽपेक्षित एव । एवमुभयलिङ्गं परब्रह्म वासुदेव एव मोक्षनिर्वाहक इति तस्यैव मुमुक्षुनिरुपास्यत्वं सम्प- द्यतेतराम् । अत एव शिक्षापत्र्यां श्रीकृष्णस्यैव ध्येयत्वमुच्यते-'तस्यैव सर्वथा भक्तिः कर्तव्या मनुजैर्भुवि 'कृष्णस्तदवताराश्चध्येयास्त- प्रतिमाऽपि च न तु जीवा नृदेवाद्या भक्ता ब्रह्मविदोऽपि च॥' इति । सत्सगिजीवने चोक्तं-'वासुदेवो हि भगवान् साक्षान्ना: रायणः प्रभुः।मुमुक्षूणामुपास्योऽस्ति नान्य इत्यस्ति निश्चयः ॥' 'जीवानामीश्वराणां च भन्योपास्यः स एव हि । श्रीवासु- देवो भगवानेक एवास्ति नापरः॥ ततो निःसंशयो भूत्वा मुमुक्षुः सर्वथा हरिम् । यो भजेत स मुक्तः स्यादितरः संसृति प्रजेत् ॥' इति । सुधासिन्धौ च-'एक एव हरियेयोऽवतारा- स्तस्य ये च ते । देवस्य वा ब्रह्मविदोऽप्यन्यस्य त्याकृतिस्तु या॥ सद्यःफलाऽपिसा नैव ध्यातव्या पारतख्यतः।।' 'मुख्यः फर्ता तु सर्वेषां पावा हर्ता च सर्वथा । श्रीकृष्ण एव भव- तीत्येवं ज्ञात्वा स सेव्यताम् ॥' इति । यस्मात्परं नापरमस्ति किचिद्यस्मानाणीयो न ज्यायोऽस्ति फश्चित् । वृक्ष इस स्तब्धौ दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरु- पेण सर्वम् । 'ततो यदुत्तरतरं तदरूपमनामयम् । य एत- दिदुरमृतास्ते भवन्ति अधेतरे दुःखमेवापि यन्ति ॥ इति प्रकाशे] ईश्वरपरिच्छेदः। ४०९ श्रुतौ चाक्षरपरमव्योमनिलयनस्य परमपुरुपस्यैव सर्वोत्कृष्टत्वाच- स्यैव वेदनं मोक्षसाधनं एतदज्ञानिनां तु संसार एवेत्युच्यते । अत्र तत इति पञ्चमी नावधौ किन्तु हेतौ । सर्वत्र परिपूर्णत्वादेहेतोः पुरुपतत्त्वमेवोत्कृष्टतममित्यर्थः । अवध्यर्थकत्वे च तच्छन्देन व्याप्यस्य जगत एवेदंशब्दितस्य परामर्शः, न तु पुरुपस्य । ततोऽ- न्यस्य परस्य पूर्व निपिद्धत्वेनान्न ततः परस्य प्रतिपादयितुमशक्य- त्वात् । 'वेदाहमेतं पुरुपं महान्तमादित्यवर्ण तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इत्यत्र महापुरुपस्यैवाप्राकृताक्षरधामनिलयनस्य वेदनं मोक्षसाधनं नान्यत्तथेति व्यवस्थापितत्वाच । ननु अत्र ज्ञानस्यैव मोक्षसाधनत्वं श्रूयते, 'ब्रह्मविदामोति परम्' इत्यादौ च । सत्यम् । तच्च न वाक्यजन्यज्ञानमात्रम् , तावता बन्धनिवृत्तेरदर्शनात् । किन्तूपासनात्मकमेवेत्युक्तमेव प्रा । वेद- नादिसामान्यशब्दाश्च विशेषपर्यवसायिनः छागपशुन्यायेन । उपा. सनमेवात्यन्तप्रीत्या क्रियमाणं भक्तिरित्युच्यते । भक्तरेव पर्वभेदाः सन्ति त्रयः-परभक्तिः परज्ञानं परमभक्तिरिति । इदं भक्तिपर्व- नयमुक्तं गीतायां-'मद्भक्तिं लभते पराम् । भत्त्या मामभि- जानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥' इति । उत्कटदिक्षालक्षणया परभत्त्या यथावद्भगवदर्शनलक्षणं परज्ञानं प्राप्य तदनन्तरं तथाविधपरमा- स्मप्राप्ताचतिमात्रत्वरालक्षणया परमभत्त्या भगवन्तं प्राप्नोतीत्यर्थः । एवं विधभगवद्विषयकभक्तियोगः श्रवणादिभिर्नवभिः सम्पद्यत इति वर्णितमस्ति विस्तरशः सत्सगिजीवनादौ-श्रवणं कीर्तनं चैव मानमेयप्रकाशिकायां [प्रमेय- स्मरणं पादसेवनम् । अर्चनं चन्दनं दास्यं सख्यमात्मनिवे- दनम् ॥ एतैः प्रकारैर्नवभिः सेवते यस्तमादरात् । तस्य गाढं भवेत्प्रेम तस्मिन् नारायणे विभौ ।।' इत्यादिना । एवं पुरुषो- तमस्यैव मुमुक्षुभिर्भजनीयत्वं स्थितम् । अहं ब्रह्मेति भावना तु स्वान्तरात्मत्वेन परमात्मनोऽनुसन्धा- नरूपा । सा चाहबुद्धिशब्दयोरपि ब्रह्मपर्यन्तत्वज्ञानवतोपासकेन क्रियते । तथा च सूत्र-'आत्मेति तूपगच्छन्ति ग्राहयन्ति च' इति । एतेन 'तत्त्वमसि' इति वाक्यजन्योऽद्वितीयब्रह्मात्मैक्य- साक्षात्कार एव मोक्षसाधनमिति वादस्य नावसरः। मुक्तस्य ब्रह्मप्राप्तिश्च न तत्स्वरूपैक्यलक्षणा । हेयसम्बन्धार्हस्य जीवस्य सदा तदनhण परमात्मनैक्यायोगात् । 'अन्यद्रव्यं हि नैति तद्व्यतां यतः' इति हि तत्त्वविदः । 'परात्परं पुरुष- मुपैति दिव्यम्' 'परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति' 'एतमानन्दमयमात्मान- मुपसंक्रम्य इमान् लोकान् कामानी कामरूप्यनुसञ्चरन्' 'येन येन धाता गच्छति तेन तेन स गच्छति' इत्यादिभिश्च मुक्तावपि भेदस्यैव वर्णनात् । सूत्रकृता च 'पत्यादिशब्देभ्यः' 'मुक्तोपसृप्यच्यपदेशाच' 'जगद्व्वापारवर्ज' 'भोगमात्रसाम्य- लिङ्गाच्च' इति परमात्मनः .स्वरूपभेदो मुक्तानां, भोगमात्रसाम्यं च स्पष्ट न्यरूपि । गीतं च भगवता मुक्तानां साम्यमात्रम्- 'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः' इति । अत एव नामसहले पठ्यते 'मुक्तानां परमा गतिः' इति । 'सायुज्यं प्रति- पन्ना ये तीनभकास्तपस्विनः । किङ्कारा मम ते नित्यं भवन्ति प्रकाशे] ईश्वरपरिच्छेदः। निरुपद्रवाः ।। इति च परमसाधयं प्राप्तानामपि भगवत्सेवकत्वं स्मयते नाम । अतः सविभूतिसगुणसाकारपरब्रह्मानुभवसेवा- लक्षणैव मुत्स्य ब्रहाप्राप्तिमन्तव्या। सुधासिन्धावपि-'एक एवास्ति भगवान कृष्णो नान्योऽस्ति तत्समः। न कोऽपि तत्त्वमाप्नोति महद्भिरपि साधनैः॥ तत्सेवामेव सम्प्राप्ताः साधनस्तदुपासकाः । सेवास्ति दुर्लभा मुक्तेरपीत्याहुर्वि- चक्षणाः ॥' इति स्वरूपैक्यं प्रतिक्षिप्य सेवामुक्तिरुका। सत्सनि- जीवने च मुक्तानां वासुदेवसेवकत्वमेवेति न्यरूपि-'ब्रहाभूतैरप्यु- पास्यः' 'ब्रह्मवित्परमामोतीत्येपा श्रुतिरपि स्फुटम् । प्राह ब्रह्मविदां सेव्यं परं ब्रह्मेति सन्मते ॥' 'असंख्यैश्च महामुक्तै- दिव्यसुन्दरविग्रहः । दिव्यैरनेकोपचारैः पूज्यमानपदाम्बुजः॥' 'नित्यं योऽक्षरधाम्नि...मुक्तैर्दिव्यवपुर्मिराश्रितपदोऽसंख्यैश्च तेजोमयः' इति । शिक्षापत्र्यां च स्पष्टमेव वर्णितं श्रीहरिणा स्वयमेव 'कृष्णसेवा मुक्तिश्च गम्यताम्' इति । 'ब्रह्म वेद ब्रह्मैव भवति' इत्यभेदव्यपदेशस्तु परमसाम्यवि- वक्षया खारसिक एव, लोके तथा दर्शनात् । रुमागतकाष्ठादेरप्य- 'त्यन्तसंसर्गात्तत्स्वाभाव्यापत्तिरेव न स्वरूपैक्यम् । अन चानवरत- भावनयाऽपहतपाप्मत्वादिलक्षणपरमात्मस्वभावप्राप्तिरभिधीयते । 'आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने' इति । 'विमुञ्चति यदा कामान् मानवो मनसि स्थितान् । तर्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ इति प्रहादवाक्ये च 'भगवत्स्वाय-तत्स- मानैश्वर्याय' इति श्रीधरस्वामिनापि व्याख्यातम् । 'तद्भावभाव- मापन्नस्तदाऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञा .

। . ४१४ मानमेयमकाशिकायां [प्रमेय- शानं यतामः साम्प्रतं हरिम्' 'तदा तु भगवानीश आत्मानं सृजते हरिः' 'ददृशे कृष्णमीश्वरम्' 'महादेवं महाभागम- नन्तं शिवमच्युतम्' 'रुद्रो वहुशिरा वनुः' 'विष्णुर्नारायणः शिवः' इत्यादिषु । न चैवं शिवादिषु नारायणशब्दस्य प्रयोगो दृश्यते कापि । किश्च नारायण इति श्रीपतेः पुरुषोत्तमस्यैव संक्षा । संज्ञायामेव च णत्वप्राप्तिः 'पूर्वपदात्संज्ञायामगः' इति सूत्रतः । अतो वासुदेवान्वयत एव लब्धात्मकस्यास्य शब्दस्य नान्यगामिता शक्यशङ्केति । 'अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति नारायणाद्ब्रह्मा जायते नारायणाद्रो जायते' इत्यादौ च नारायणस्यैव कारणत्वं श्रूयते । 'क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गे सम्भूतौ तस्मात्केशवनामवान् ।' इति केशवशब्दनिरुक्त्या च तस्स ब्रह्मरुद्री प्रत्यपि कारणत्वं शक्य- मवगन्तुम् । 'यञ्च किञ्चिजगत्यस्मिन् दृश्यते श्रूयतेऽपि था । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः ॥' 'नारायणः परं ब्रह्म तत्त्वं नारायणः परः। नारायणः परं ज्योतिरात्मा नारायणः परः॥' इत्यादीनि च नारायणपारम्य- वचनानि बहूनि जामति । श्वेताश्वतरे च 'महान् प्रभु पुरुपः सत्त्वस्यैष प्रवर्तकः' 'वेदाहमेतं पुरुपं महान्तमादित्यवर्ण तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति परमसाविकदेवत्वेन प्रधितस्य महापुरुपस्य नारायणस्यैव घेदनं मोक्षसाधनमुक्तम् । पुरुषशब्दस्य च तस्मिन्नेव मुख्या गृत्तिरता भगयच्छन्दवत्-'भगवानिति शब्दोऽयं तथा * प्रकाशे] ईश्वरंपरिच्छेदः। ४१५ पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ।।' इति । भगवता वादरायणेन च नारायणस्यैव परमतत्त्वरूपत्वं मुमुक्षुभि- येयत्वं च स्पष्टमुक्त-तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतो. मुखैः। तत्त्वमेको महायोगी हरिनारायणः परः॥' 'आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ इति । एवं कारणत्वमोक्षार्थोपास्य- त्वयोरितरनिवर्तनपूर्वकं नारायणस्यैवान्वयप्रतिपादनात्कारणादिवा- क्यगताः शिवादिशब्दा अपि योगेन तत्परा एव नेतन्याः वाक्यार्थविरोधिरूढिपरित्यागेन तदविरोधियोगपरिग्रहस्य आकाशा- द्यधिकरणन्यायसिद्धत्वात् । किञ्च 'दिव्यो देव एको नारायणः' इत्यत्र नारायणस्यैव समाभ्यधिकराहित्यमेकशब्देनोक्तम् । 'न तत्स- मश्चाभ्यधिकश्च दृश्यते' इति श्रुत्यन्तरेण च परमपुरुपस्यैव तथात्वं वर्णितम् । श्रीकृष्ण प्रति चार्जुनवाक्यं 'न त्वत्समोऽस्त्य; भ्यधिकः कुतोऽन्यः' इति । सुधासिन्धावप्युक्-'एक एवास्ति भगवान् कृष्णो नान्योऽस्ति तत्समः इति । समस्यैव विरहेड- धिकस्य का सम्भावनेति भावः । नारायणस्यैव श्रीकृष्णत्वं च एप नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यवमु. त्सृज्य ह्यागतो मथुरां पुरीम् ॥' इत्यादिनाऽवगम्यते । वासु- देवमाहात्म्ये प 'तत्राथ कृष्णं भगवन्तमैक्षनारायणं निर्गुण- मास्थितं सः । सर्वज्ञमीशं पुरुषोत्तमं च यं वासुदेवं प्रव- दन्ति सात्वताः ।।' इत्यक्षरधामाधिपतेः श्रीकरणस्य नारायणत्वं प्रतिपाद्यते । तथा तत्रैव पुरुषो महापुरपो नारायण इदि घ नाम परस्य प्राणो वर्णितमस्तिमित्यं ज्ञानमनन्तं यो प्रति श्रुति- . ..

मानमेयप्रकाशिकायां [प्रमेय- वर्णितः । त्रिगुणब्यतिरिक्तश्च पुरुषो दिव्यविग्रहः ॥ महापु- रुप इत्युक्तो वासुदेवश्च यः प्रभुः । नारायणऋपिविष्णुः कृष्णश्च भगवानिति ॥ इति । अत एव नारायणपारम्यपरवचन- रपि श्रीकृष्णस्य पारम्यं न्यरूपि सुधासिन्धौ । किश्वाक्षरधामाधिपतेः श्रीकृष्णत्वं नारायणत्वं च चासकर्णितमस्ति सुधासिन्धुसत्स- शिजीवनयो:-'श्रीकृष्णो भगवांस्तत्र सदा स्वामी विराजते । सप्रेम राधालक्ष्मीभ्यामच॑मानपदाम्बुजः ॥......वेदादौ प्रोच्यते यश्च परंब्रह्म परात्परः । नारायणो वासुदेवस्तथा परमपूरुपः ॥ परमात्मा च विष्णुश्च प्रधानपुरुपेश्वरः । पर- मेश्वर ईशेशः पुरुषोत्तम इत्यसौ ॥' 'आत्यन्तिके लये पूर्व भगवानेक एव हि। आसीत्वयं वासदेवः स्वकीयेऽक्षरधा- मनि ॥ स श्रीकृष्णो दिव्यमूर्तिः प्रोच्यते पुरुषोत्तमः । पर- मात्मा परब्राह्म विष्णुर्नारायणश्च सः॥ ज्योतीरूपोऽक्षरातीतो हरिश्च परमः पुमान्।प्रोक्तः स एव वेदेषु पुराणेषु च भारते॥' इत्यादौ । श्रीकृष्णनारायणयोरभेदे शास्त्रतः स्थिते । नारा- यणस्य पारम्यमुक्तमस्येति गम्यताम् ॥ विशिष्य श्रीकृष्णस्य पारम्ये वयनान्यपि सन्येव-'कृष्ण एव हि लोकानामुत्पत्ति- रपि चाप्ययः। कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् ।। एवमेपोऽसुराणां च मुराणामपि सर्वगः । भयाभयकरः कृष्णः सरलोकमहेश्वरः ॥ इत्यादीनि ! अगीयत प श्रीकृष्णेन स्वयमेय-'अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किशिदस्ति धनञ्जय ॥' इति । आह पार्जुनसं प्रति-परंबा परंधाम पयिनं परमं भवान् । पुरुपं शाश्वतं.

प्रकाशे] ईश्वरपरिच्छेदः। दिव्यमादिदेवमजं विभुम् ॥ आहुस्त्वामृपयः सर्वे देवर्षि - रदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीपि मे ॥' इत्यादि । वासुदेवमाहात्म्ये च-'नास्ति तस्मात्परतरः पिता देवोऽथवा द्विज । आत्मा हि नौ स विज्ञेयः कृष्णो ब्रह्मपुरे- श्वरः ॥' 'न वासुदेवात्परमस्ति पावनं न वासुदेवात्परमस्ति मङ्गलम् । न वासुदेवात्परमस्ति दैवतं न वासुदेवात्परमस्ति वाञ्छितम् ॥' इत्यादि । एतत्सर्वमभिप्रेत्यैव पुरुपोत्तमनारायणा- दिशब्दवाच्यस्य श्रीकृष्णस्यैव पारम्यमभिहितं शिक्षापत्र्यां श्रीह- रिणा स्वयमेवेश्वरस्वरूपनिरूपणावसरे 'हृदये जीवजीवे योऽ- न्तर्यामितया स्थितः । ज्ञेयः स्वतन्त्र ईशोऽसौ सर्वकर्मफ- लपदः ॥ स श्रीकृष्णः परंब्रह्म भगवान् पुरुपोत्तमः । उपास्य इष्टदेवो नः सर्वाविर्भावकारणम् ॥' इति । निरूपितानि च परस्य ब्रह्मणो लक्षणान्येवच्छोकद्वये संसूचि- तानि । तथा हि-'हृदये जीववज्जीवे योऽन्तर्यामितया स्थितः' इति सर्वचेतनान्तर्यामित्वकीर्तनात्सर्वव्यापकत्वं सर्वनियन्तृत्वं सर्याधारत्वं सर्वशेपित्वं सर्वशरीरकत्वं च समसूचिपत । ज्ञातुरेव नियन्तृत्वसम्भवाज्ज्ञातृत्वमर्थलभ्यम् । 'स्वतन्त्र' इत्यनेनानन्या- धारत्वमनन्यनियाम्यत्वमनन्यशेपत्वं पाविवक्षिपत । ईशः' इति निरूप्यनिर्देशः। 'सर्वकर्मफलप्रदः' इत्यनेन मर्यकर्मसमाराध्य पार्थादापद्यते । ईशशब्दविवक्षितो धर्मी प्रकटीयतः 'स श्रीकृष्णः' इत्यनेन । ब्रह्मशब्देन प परसब्दविशेषितेन सरूपतो गुणवत्रा निरतिशयगृहत्यं लभ्यते । भगवच्छन्देन पोभयलिमम् (निर्दोषत्वफल्याणगुणाकरत्वलक्षणम् ) । पुरुषोत्तमशब्देन धरा- मान.. २७ मानमेयप्रकाशिकायां [प्रमेय- क्षरशब्दितबद्धमुक्तपुरुपवैलक्षण्यं विलक्षणविग्रहयोगश्च । 'उपास्य इष्टदेवो नः' इत्यनेन मुमुक्षुपास्यत्वमुक्तमाप्यत्वे । व्यञ्जितश्च सांप्रदायिकपसिया हरिकृष्णाभिख्यस्खाभेदः। 'सर्वाविर्भावकारण' मित्यनेन सर्वजगत्कारणत्वमुक्तम् । यद्वा-मुमुक्षुपास्यत्वफयनादेव तदर्धसिद्धम् । कारणस्पेव ध्येयत्वश्रुतेः । 'सर्वाविर्भावकारणम् इति तु पुरुषोत्तमशब्दितस्य पररूपस्यैव सर्वावनारमूलरूपत्वं विव- क्षितम् । विस्तरस्तु टीकाभाष्ययोर्द्रष्टव्यः । निर्दोपानन्तकल्याणगुणगणनिधिः सर्वदा सर्वभूतवातस्या- धार एकोऽप्रतिहतसकलव्यापिशास्तिश्च शेपी । सेव्यः सर्वा- न्तरात्मा च सकलफलदः सर्वकर्ताऽक्षरस्थः श्रीकृष्णोऽस्मान्स पुष्णात्वनितरशरणान् स्वामिनारायणात्मा ।। परब्रह्मणः साकारत्वनिरूपणम् । स्वरूपमुक्तं धर्माश्च परमस्य परात्मनः। वैभवातिशयज्ञप्तिहेतवः परिकीर्तिताः ॥ अथ रूपं वर्णयामो विश्वरूपविलक्षणम् । यद्योगेनैव सर्वत्र व्याप्तस्यास्य श्रुतौ श्रुता ॥ स्थितिरमाकृते ज्योम्नि नित्यधान्युपपद्यते । प्रशासितुरखण्डस्य मण्डलस्य भुवो यथा ॥ सार्वभौमस्य नगरे प्रधाने रूपतः स्थितिः । एवं सर्वात्मनोऽपि स्याद्विशेषस्त्वयमेव हि ।। खाज्ञया केवलं व्याधिक्षमः सर्वत्र भूपतिः । न स्वरूपेणाणुभावात्परमात्मा क्षमेत तु॥

प्रकाशे] .. ईश्वरपरिच्छेदः। ४१९ स्वरूपतः स्वाज्ञया च कृत्स्नं व्याप्तुं चराचरम् । स्वरूपतोऽस्तु मा व्याप्तिः शक्तिमानातु सा भवेत् ॥ इत्यादिक्षुद्रचोद्यानां न स्यादवसरस्त्विह। अत्यन्तातीन्द्रिये ब्रह्मण्यचिन्त्यमहिमादिके ।। यथाश्रुति हि मन्तव्या स्वरूपादिव्यवस्थितिः। श्रुतेस्तु शब्दमूलत्वादित्याद्याह च सूत्रकृत् ॥ अतः सर्वव्यापितया ज्ञातस्य श्रुतिभिः प्रभोः । स्थितिः प्रादेशिकी प्रोक्ता रूपान्वयत इप्यताम् ॥ कारणत्वमुपास्यत्वं मुक्तप्राप्यत्वमेव च । लक्ष्मोक्तमत्र सर्वत्र रूपयोगः श्रुतोऽस्य च ॥ तथा च श्रुतयः-'सर्वे निमेपा जज्ञिरे विद्युतः पुरुपादधि' 'यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुष ब्रह्मयोनिम् । तदा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुपमुपैति दिव्यम् ॥' 'यथा पादोदरस्त्वचा विनिर्मुच्यते एवं हैव स पाप्मना विनि- मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं, स एतस्माजीवधना- स्परात्परं पुरिशयं पुरुपमीक्षते' इत्यादयः ॥ परमात्मनः परस्य- ब्रह्मणो रुक्मवर्णत्वदिव्यत्वपुरिशयत्वानि चात्र प्रतिपाद्यमानानि विलक्षणविग्रहयोगेनैव सद्गच्छन्तेतराम् । 'व्यूह रश्मीन् समूह तेजो यत्ते कल्याणतमं रूपं तत्ते पश्यामि' इति चात्यन्तभास्वरं निरतिशयोज्यल्यसौन्दर्यलावण्य- महोदधिरूपं सर्वेश्वरस्य वर्ण्यते । 'भारूपः सत्यसङ्कल्प आका- शारमा सर्वकर्मा सर्वगन्धः सर्वरसः' इति पातिभास्वररूपसो- न्दर्यसौगन्भ्यादिवैशिष्टयमेतद्रूपस्याह । अत्युचलरूपसौन्दर्यमोग- ४२० [प्रमेय- मानमेयप्रकाशिकायां न्ध्यसौकुमार्यादेरनेकनिदर्शनपूर्वकं च भगवतोऽसाधारणं भूर्तामूर्त- प्रपञ्चविलक्षणं दिव्यं रूपं प्रपश्यते-'तस्य हैतस्य पुरुपस्य रूपं यथा माहारजनं चासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाऽग्यचिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् इति । 'परमात्मा वासुदेवो भगवान् दिव्यविग्रहः' 'अप्राकृत- तनुर्देवो नित्याकृतिधरो युवा' इत्यादिना च भगवतो रूपस्याप्रा- कृतत्वमुच्यते । इदं च पञ्चोपनिपत्संज्ञकदिव्यशक्तिरूपाप्राकृतपञ्च- भूतात्मकत्वात्पञ्चोपनिषदिति भगवच्छास्त्रेषु प्रतिपाद्यते-'पञ्च- शक्तिमयो देवो बहिर्लोकेश्वरेश्वरः। 'शक्तयः पञ्च विख्याता पञ्चोपनिपदाख्यया । परमेष्ठी पुमान् विश्वो निवृत्तिः सर्व एव हि ॥ परमेष्ठी स्मृतः शब्दे स्पर्श तु पुरुषः स्मृतः। विश्वात्मा तेजसि प्रोक्तो निवृत्त्यात्मा रसे स्मृतः ॥ सर्वात्मा कथितो गन्धे ॥' 'पद्योपनिपदासातदिव्यमझलविग्रहः।" इति । 'न तस्य प्राकृता मूर्तिर्मासमेदोऽस्थिसम्भवा' इति वच- नेकार्थ्याच्च 'न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः' इति वचनं प्राकृतभूतसङ्घातानात्मकत्यपरम् । तथा हि तत्रैव क्षरप्राकृ- तप्रपश्चविलक्षणमप्राकृतं परं रूपमुपक्षिप्य तस्यैव कृष्णरूपत्वं चोक्तम्-'अव्यक्तादिविशेपान्तं परिणामधिसंयुतम् । क्रीडा- हरेरिदं सर्व क्षरमित्यवधार्यताम् ॥ अक्षरं तत्परं नित्यं धैरूप्यं जगतो हरेः । तद्विद्धि रूपमतुलं अमृतत्वं भजच्छूिउम् ।। तदेव कृष्णो दाशार्हः श्रीमान् श्रीवत्सलक्षणः । न भूतसङ्घ- संस्थानो देहोऽस्य परमात्मनः ॥' इति । श्रीविष्णुपुराणे च प्रकृतिप्राकृतरूपविसजातीयत्वं भगवदसाधारणस्य रूपस्य वर्णित- कार- प्रकाशे] ईश्चरपरिच्छेदः। ૪૨૨ मस्ति-'समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः। तद्विश्व- रूपवरूप्यं रूपमन्यद्धरेमहत् ॥' इति । परमात्मनो रूपमहणं च न पुण्यपापकर्महेतुकं किन्त्यिच्छा: मानहेतुकमिति च तत्रैव प्रतिपाद्यते-'इच्छागृहीताभिमतोरुदेहः संसाधिताशेपजगद्धितौऽसौ ।' 'जगतामुपकाराय न.सा कर्म; निमित्तजा' 'नाकारणात्कारणाद्वा कारणाकारणान्न च । शरीरग्रहणं राजन् धर्मनापाय केवलम् ॥' इति । अकस्मार- णात् प्रापकापापात्, कस्य सुखस्यारणात्-पापकारपुण्यात् , णाकारणात् -मिश्रकर्मणो वा न भगवतः शरीरमणं किन्तु धर्म- वाणायैव केवलमिच्छाकृतमेवेत्याशयः । अवताररूपाणामेवाकर्म- निमित्तत्वे किं वक्तव्यं पररूपस्य तथात्वे । नित्यमुक्तानां शेपत्व- लक्षणस्य धर्मस्य तकर्तृकसेवाप्रतिसम्बन्धितया परिपालनार्थ नित्येच्छागृहीतं परं रूपं नित्यम् । अनित्येच्छागृहीतानि च स्वधर्म- ज्ञानवैराग्यमस्यायेकान्तिकधर्मप्रवर्तनादिफलकान्यवताररूपाण्य-: नित्यानीति विवेकः। एतेन रूपवत्त्वे परस्य ब्रह्मणो वाद्यन्तरैरुपपादिता दोषा अपि निराकृता वेदितव्याः । तथा हि-यथा जीवस्वरूपस्य ज्ञानानः न्दमयस्य तु । आवारकं वपुष्टं दुःखाज्ञानादिवर्धकम् ॥ तथा च परमस्यापि पुंसोज्ज्ञानादि साधयेत् । रूपवत्त्वमितीद तु चोद्यं मन्दतरं मतम् ॥ कर्माधीनं प्राकृतं यद्रूपं तत्स्या त्तथाविधम् । वद्धात्मनः परेशस्य रूपं ह्येतद्विलक्षणम्॥ इदं तु नाप्राकृतवज्ज्ञानानन्दादिमोपकम् । शुद्धसत्त्वतया किन्तु -ज्ञानादेर्वर्धकं भवेत् ॥ ज्ञानानन्दमयत्वं चावर्णि तस्मादमुष्य वै। पाइगुण्यव्यञ्जकत्वाचप्रोक्तं पाडण्यमित्यपि॥

४२२ [प्रमेय- मानमेयप्रकाशिकायां तथा च पाद्मसंहितावचनम्-'पाडण्यविग्रहं सर्वशक्ति स्वान यमाश्रितम् । भूतेशं भूतकृद्भूतं तमसः परतः स्थितम् ॥' इति । रहस्याम्नाये च भगवद्रूपस्य पाडण्यमयत्वमुच्यते-'किमा- त्मिका खल्वियं भगवतो व्यक्तिः। भगवदात्मिकैवैपा । किमा- त्मकश्च भगवान् । ज्ञानात्मक ऐश्वर्यात्मकः शत्त्यात्मकञ्च' इति । अयं भावः-यथा ज्ञानानन्दमयस्यापि जीवस्य कर्मकृतं शरीरं ज्ञानशक्त्यादेतिरोधायक, नैवं भगवतो रूपम् । किन्तु पाहुण्यपूर्णस्य तस्यात्यन्तानुरूपं पाहुण्यप्रकाशकं सदेति । तथा च विष्णुनामसहस्र 'अनिर्देश्यवपुः' इति नानो व्याख्यानावसरे भापितं श्रीपराशरभट्टाचार्यैः श्रीभगवद्रामानुजाचार्यमुख्यशिष्यभूत- श्रीवत्साङ्कमिश्रात्मजै:-'शुद्धसत्त्वमयेन ह्यनेन कनकदलेनेवरल- मुन्मील्यते पड्गुणी नतु त्रिगुणमयेनेव निमील्यते' इति । 'एत- नाम्नो निरुक्तिश्च ज्ञानादिपाडण्यमयमुपमानविवर्जितम् । वपुर- स्यास्ति तेजिष्ठं अनिर्देश्यवपुर्हि सः॥' इति । विश्वरूपविलक्षणत्वा- दस्य रूपस्वेदशमित्युपमाननिर्देशायोग्यत्वमनिर्देश्यत्वमिति यावत् । चोद्यान्तरमथैवं स्याद्रूपयत्त्वे परात्मनः । किमर्थो रूपयो- गोऽस्य पूर्णकामस्य सर्वदा ॥ स्वरूपानन्दमात्रेण नित्यतृप्तस्य चादरः । देहादी चेत्स्वरूपानन्दस्य स्यान्यूनताऽपि हि।। अमूर्तरूपताश्रुत्या किञ्चारूपं भवेद्भुवम् । परब्रह्म, तथा रूपा- देनिपेधः स्फुटं श्रुतः ॥ जितन्ते नामके स्तोत्रेऽखिलऋक्त्वेन सम्मते ।नते रूपंन चाकारोनायुधानिन चास्पदम्॥इतीत्यत्र वयं घूमः पूर्णकामत्वसिद्धये । गुणरूपविभूत्यादिमन्तव्यं पर. मार्थतः ॥ परमेशस्यान्यथा हि न सियेत्पूर्णकामता। आनन्दो प्रकाशे] ईश्चरपरिच्छेदः। ४२३ बहुधा चास्ति भोगलीलास्वरूपतः ॥ यथा नीरोगगात्रस्य स्वरूपानन्द इप्यते । सेवया स्रक्चन्दनादेर्भोगानन्दो भवे- दुवम् ॥ कन्दुकादिक्रीडनाच्च लीलानन्दः प्रजायते । एवं वेधाऽऽनन्दयोगात्स्यादानन्दधनः परः॥ अनन्तानन्दरूप- त्वात्स्वरूपानन्द इप्यते । अप्राकृतस्थानभोग्यरूपादेर्भोग इप्यते ॥ सृष्ट्यादिलीलाव्यापाराल्लीलानन्दश्च सम्मतः। आन- न्दमयता चास्य भवेदेवं यथाश्रुति ॥ अयमों 'लोकवत्तु लीलाकैवल्यम्' इति सूत्रे वेदान्तसारेऽनुगृहीतः श्रीभाष्यकारैः- 'अस्यात्मतृप्तस्यावाप्तसमस्तकामत्वं हि सदाभिमतसकलभोगोपकरण- सद्भावः । आत्मतृप्त गतृप्तिर्विसजातीया । लीलारसस्यापि तद्वि- लक्षणस्य त्रिगुणपुरुपाद्युपकरणं नित्यमेव' इति । भोग्यत्वं गुणरूपादेर्दष्टं च स्वानुवन्धिनः । न स्वभोग्यत्व- घाताय किन्तु तद्वर्धकं मतम् ॥ एवं रूपाद्यादरे स्वानन्द- न्यान्यं न सम्भवेत् । निर्दोपशुभरूपादिमत्त्वात्स्यात्पूर्तिरेव तु॥ वेदार्थसङ्घहतात्पर्यटीकायां च रूपस्याभिमतत्वे स्वरूपभोग्यत्वस्य वैकल्यमाशयेत्थं परिहृतं व्यासाय:-'रूपस्य भोग्यतमत्वे स्वरू- पस्य निरतिशयभोग्यत्ववैकल्यं स्यादिति चेन्न । स्वरूपस्य भोग्यतमत्वं स्वसम्बन्धिनोऽपि भोग्यतमत्वावहमिति स्वरूप- भोग्यत्वपूर्तिरेव' इति । श्रीभाष्यटीकायामपि 'परमात्मस्वरूपं हि निरतिशयानन्दरूपं, सर्वज्ञत्वाच्च तच्च जानात्येवेति स्वरू- पादन्यन भोग्यत्वज्ञानं न वक्तुं युक्तम्, अतः सर्वज्ञस्य तस्य विग्रहे स्पृहणीये स्वरूपस्य भोग्यतावैकल्यं स्यात्' इत्याशझ्य- 'स्वसम्बन्धिभोग्यत्वं स्वस्य न भोग्यताविरोधि अपितु स्वभो- રિટ , . मानमेयप्रकाशिकायां [प्रमेय- ग्यत्वातिशयावहं, यथा स्वसम्वन्धिगुणगणभोग्यत्वं, नहि स्वसम्वन्धिनामप्यामोदकस्य कस्तूरिकादेरामोदवैकल्यमपि तु तत्पौष्कल्यमेव, तथा स्वसम्बन्धाद्विग्रहभोग्यत्वमपि स्वभोग्य- त्वातिशयावहम्' इति परिहृतम् । अमूर्तत्वश्रुतिस्तावव्यापकत्वपरा प्रभोः । अरूपत्वश्रुतिश्च स्याद्धेयवर्मनिपेधिका ॥ न ते रूपं न चाकार इत्यत्र तु विव- क्षितः । तादर्थ्यस्य निषेधो हि तथाव्यक्तमनन्तरम् ॥ तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे । इति भक्तार्थता रूपादेहि सम्यङ् निरूपिता ॥ वर्णितं च श्रीवत्साङ्कमिशः भगवता स्वकीय सर्वस्वं भक्तार्थ परिगृहीतमिति-'परिजनपरिवर्हाभूपणान्यायु- धानि प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्तै । परमपदमधाण्डा- न्यात्मदेहस्तथात्मा वरद सकलमेतत्संश्रितार्थ चकर्थ ॥' इति । तस्मान्मुक्तानन्दनाय नित्यरूपपरिग्रहः । वद्धरक्षार्थोऽव- ताररूपग्रह इति स्थितम् ।। रूपस्वरूपभेदः। केचित्तु ब्रह्मणोऽरूपत्वश्रवणास्वरूपमेव करचरणादिसमुदाया- स्मकमिति वदन्ति । एवं चेत्तर्हि अद्वितीयस्वनवणवलाद्ब्रह्मस्वरू- पस्यैय चेतनाचेतनजंगद्रूपत्वमपि प्रसज्येत । तथा च विकारित्व- दुःखित्यादिकरनदोपप्रसक्तिः । उक्तं च सर्वार्थसिद्धौ यत्तु- नित्यं निष्कलं निर्विकारं च ब्रह्म अशरीरश्रुत्या स्वरूपत एवं विचित्र विग्रहाकारम् , तत एवं विग्रहनित्यत्वमिति, न तद्भा- वनीयम् । अन्यथा विश्वाद्वैतस्यापि सद्ग्राह्यत्वप्रसङ्गात् ।। इति । अस्त्वेयमेवेति घूयुः शुद्धाद्वैतिनों । नैतगुज्यते । अपरिच्छि- . प्रकाशे] ईश्वरपरिच्छेदः। ४२५ नज्ञानानन्दस्य परस्यैव ब्राह्मणो जडजीवरूपपरिणामे विकारित्वादि- दोपप्रसङ्गात् । ननु सुवर्णस्येव नानापरिणामेष्वपि शुद्धत्वमेय ब्रह्मण इति न दोपप्रसङ्गः । मैवम् । सुवर्णासाधारणाकारस्य मास्वररूपादेहि न कार्यावस्थायामपि तिरोधिः । ब्रह्मणस्तु स्वाभा- विकज्ञानानन्दादेस्तिरोधिरवर्जनीया । न च लीलार्थमैच्छिकीयं विरोधिग्रह्मण इति वाच्यम् । तथात्वेऽपि सुवर्णादेलोहखण्डत्वादि- प्राप्तिवद्धेयत्वादिप्रसङ्गस्य तादवस्थ्यादिति दिक् । यदि च निरुक्त- दोपपरिहारायाद्वितीयपदस्य समाभ्यधिकराहित्यमानपरत्वमभ्युपेत्य ब्रह्मप्रकारभूतं चेतनाचेतनस्वरूपमुररीक्रियते तर्हि तुल्यनयेन अरू- पश्नुतेः कर्मकृतशरीरनिपेधपरत्वमुपगम्य विलक्षणरूपयत्वमप्युररी- क्रियताम् । श्रुतिस्मृतिषु च रूपखरूपयोर्भेद एव प्रतिपादितः सर्वत्र । किञ्च स्वरूपस्यैव करंचरणादिसङ्घातरूपत्वाभ्युपगमोऽयुक्तः। सति च, तथात्वेऽगुलीप्रकोप्ठादिप्रदेशभेदेन कृशत्वस्थूलत्वादिलक्ष- णोपचयापचययोः स्वरूप एव प्राप्त्या 'अस्थूलमनण्वस्वम् इत्यादिस्वरूपपरश्रुतिविरोधप्रसगात् । अत एव प्रियशिरस्त्वादीनां ब्रह्मधर्मत्वमाशङ्कय परिहृतं सूत्रकृता-'प्रियशिरस्त्वाद्यप्राप्तिरुपच- यापचयौ हि भेदे' इति । श्रीभाष्यादिपु विस्तरः । किश्च-'यदा पश्यः पश्यते रुक्मवर्णम्' 'सर्वगन्धः सर्वरसः' इत्यादिनाऽप्रा- कृतविलक्षणरूपरसगन्धान्वयः प्रतीयते परमात्मनः । नचाचेतन धर्मभूतानां रूपादीनां योगः परमचेतने परमात्मखरूपे साक्षाटेत विना देहयोगेन । जीवात्मवत् । तथा च सूत्रं आत्मशब्दाच इति । अतोऽप्राकृतमगलरूपाद्यधिकरणं दिव्यं: रूपमेव परमात्मन एपितव्यम् ।

[प्रमेय- ४२६ मानमेयप्रकाशिकायां किञ्च वरुणोऽधिष्ठानशक्त्याऽप्सु सन्निहितो मूर्तिमांश्च खे लोके । यथा वा हुताशनो वह्निशिखायां स्वे लोके च । तत्र जलाद्यपि वरुणादे रूपं, करचरणादिलक्षणं तु खे खे लोके । एवं परमात्माऽपि सर्वेष्वपि चेतनाचेतनेषु शरीरभूतेप्वन्तःप्रविश्य नियन्तृत्वलक्षणेन सामर्थ्येन स्वरूपेण सन्निहितो मूर्तिमांश्च स्वे लोके । इयांस्तु विशेपः-धर्मभूतज्ञानव्याप्तिमात्रेण जलाद्यधिष्ठानं वरुणादेः । ब्रह्म-. णस्तु स्वरूपतोऽपि सर्वत्र व्याप्तिरिति । समानमन्यत् । व्यापर्क च स्वरूपं निरवयवमपि सर्वतः पाणिपादादिकार्यकृत्त्वान्यपदि- श्यते-'सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्' इति । (सात्त्वतसंहिता) विवृतं चैतत्पाद्मसंहितायां-'चराचरमिदं कृत्स्नमाक्षिप्तं परमात्मना । यतस्तत्सर्वपाणित्वं तस्य लक्षण- मुच्यते ॥ देशकालाविशेपेण संयुक्तं परमेष्ठिना । योगपद्येन सततं सर्वतःपात् प्रभुः स्मृतः॥तिर्यगूर्ध्वमधश्वोच्चैर्गत्वा भास- यते जगत् । रविर्यथा तथा कृत्त्वाद्विश्वतश्चक्षुरुच्यते ॥ सर्व पुरःस्थितं तस्य वस्तुजातं यतस्ततः । विश्वतोमुखता तस्य ब्राह्मणः कमलासन ॥ ज्ञानेन्द्रियाणि सर्वाणि धूयन्ते शिर उत्तमम् । तथा ज्ञानाश्रयत्वेन ज्ञेयः सर्वशिराः प्रभुः ॥' इति । यथा वरणादिः खे लोके साफार इत्युक्ते विलक्षणमूर्तिमा- नित्यर्थः, एवं परमात्मा स्खे लोके साकार इत्युक्तेऽपि स्वासाधारण- मूर्तिमानित्युकं भवति । प्रयुज्यते प शरीर आफारशब्दो महाफ- विभिः 'आकारसदृशप्रज्ञः' इत्यादी । श्रीमाष्यकाराश्यानुजगृहु- दार्यसवाहे-'सर्यात्मना आघेयतया नियाम्यतया शेपतया चापृथक्सिद्धप्रकारभूतमिति आकारः शरीरमिति घोच्यते' ४२७ प्रकाशे] ईश्वरपरिच्छेदः। इति । वेदान्तसारे च य एपोऽन्तरादित्य हिरण्मयः पुरुषः' इत्यादौ श्रूयमाणः पुरुषाकारः परमात्मैव । कुतस्तद्धर्मोपदे- शात्' इति । आकारशरीरशब्दयोरैफाय सुझानमेवम् । जातिगु- णयोरप्याकारशब्दः प्रयुज्यते-'कम्युग्रीवाद्याकार:' 'नीलाकार:' 'पीताकार:' इत्यादौ । अतः सामान्यतोऽपृथक्सिद्धविशेपणवा- च्याफारशब्दः चेतनापृथक्सिद्धविशेपणद्रव्यवाची च शरीरशब्द इति फलति । तथा च खापृथक्सिद्धसर्वचेतनाचेतनविशिष्टं निर्दो- पनिखिलकल्याणगुणाकरं विलक्षणासाधारणरूपवञ्च परंग्रह्म साकारं व्यवातिष्ठिपन श्रीभाष्यकृतः साकारब्रह्मवादिनः श्रीभाष्यादौ । अन्तरधिकरणे च श्रीभाष्ये स्वरूपतद्गुण-रूपतद्गुणा विविच्यो- दाहृताः, दिव्यरूपस्य स्वाभाविकत्वं च भापितं सप्रमाणम्-'एत- दुक्तं भवति-परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञा- नानन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानवधि- कातिशयासद्धयेयकल्याणगुणाश्च सन्ति, तद्वदेव स्वाभिम- तानुरूपैकरूपाचिन्त्यदिव्या तनित्यनिरवद्यनिरतिशयौज्व- ल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तकल्याण निधिदिव्यरूपमपि स्वाभाविकमस्ति' इत्यादिना । गीताभा- प्येऽपि-'अनन्तज्ञानानन्दैकस्वरूपः, अनन्तगुणनिधिदिव्य- रूपः' इत्येवं खरूपरूपयोर्विविक्ततया वर्णनं वरीवर्ति । वेदार्थस- अहे च 'तस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्यज्ञा- नानन्दामलत्वस्वरूपवत् , ज्ञानशक्तिवलैश्वर्यवीर्यतेजःप्रभृ- त्यनवधिकातिशयासययेयकल्याणगुणगणवत्, स्वसङ्कल्प- प्रवर्त्य स्वेतरसमस्तचिदचिद्वस्तुजातवत् स्वाभिमतस्वानुरूपैक- ૪૨૮ भानमेयप्रकाशिकायां [प्रमेय- रूपदिव्यरूप-तदुचितनिरतिशयकल्याणविविधानन्तभूपण- स्वशक्तिसदृशापरिमितानन्ताश्चर्यनानाविधायुध-स्वाभिमत- स्वानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाधनवधिकमहिमम- हिपी-स्वानुरूपकल्याणज्ञानक्रियाद्यपरिमेयगुणानन्तपरिजन- परिच्छद-स्वोचितनिखिलभोग्यभोगोपकरणाद्यनन्तमहाधि- भवावाङ्मनसगोचरस्वरूपस्वभावदिव्यस्थानादिनित्यतानिर- वद्यतागोचराश्च सहस्रशः श्रुतयः सन्ति" इत्यादिना दिव्य- रूपाभरणायुधदिव्यमहिपीनित्यपार्पदनित्यस्थानानि परमार्थतः सप्र- माणं व्यवस्थापितानि । एवमस्त्रवस्त्रभूपणादिजुष्टाक्षरपरमव्योमनिलयनदिव्यरूपवत्सा- कारं परब्रह्म श्रीभाष्यकारः व्यवस्थापितमेव स्वाभिमतत्वेन प्राचिख्यपद्भगवान श्रीहरिः स्वयमेव 'मतं विशिष्टाद्वैतं में 'शारी- रकाणां भगवद्गीतायाश्चावगम्यताम् । रामानुजाचार्यकृतं भाष्यमाध्यात्मिकं मम' इति कथयन् । अस्स च टीकायां 'अत्र स्वाभिमतभगवत्साकारत्वस्य सप्रपञ्चं प्रतिपादितत्वादिदमेवा, स्मदध्यात्मशास्त्रमिति भवद्भिरप्येतदध्येतव्यं श्रोतव्यं च' इति भावो वर्णितः। 'साकारब्रह्मनिश्चयान्' इति श्रीभाष्यादीनां विशेष णादपि तत्प्रतिपादितप्रकारमेव साकारत्वमभिमतं भवेत् । तथा 'मतं विशिष्टाद्वैतं मे गोलोको धाम चेप्सितम्' इत्यत्र भाष्ये 'नहि राजेव परिजनैः सेव्यमानः, क्वचित्समिन्धेऽयं यः परमात्मा, अस्य च स्वरूपं 'सत्यं ज्ञानमनन्तं' इति श्रूयते ..इत्याश: कायां सत्यज्ञानानन्तस्वरूपस्यैवास्य दिव्यविग्रहेण विराजमा; नस्य नित्यमुक्तानुमाव्यस्यास्ति देशविशेषः श्रुतिसम्प्रतिपन्न .....

प्रकाशे] ईश्वरपरिच्छेदः। इत्याह 'गोलोको धाम चेप्सित मिति वर्णनाच रूपस्वरूपयोर्भदोड- चगन्तुं शक्यते। सुधासिन्धावपि 'विशिष्टाद्वैतसिद्धान्तोमतोरामा- नुजेन तु। जीवेशमायाभेदश्च तात्विको नतु कल्पितः॥आका- रो वैभवैश्वर्य दिव्यं भगवतस्तथा । दास्येनोपासना तस्य कार्या जीवैस्तथेति च ॥' इति रामानुजाचार्यमतमुपन्यस्य स्वस्यापि तदेव मतं तदुपास्य एव च पुरुषोत्तमो दिव्यरूपोऽस्मदुपास्य इति स्फुटमवर्णि श्रीहरिणा-'प्रायोरामानुजस्वामिसिद्धान्तोऽस्तिमतो मम । ब्रह्मात्मना कृष्णसेवा भक्तिर्मुक्तिस्तथेप्सितौ ॥ रामानु- जाचार्यमतश्चोपास्यः पुरुषोत्तमः।' इति । अत्र चाकारशब्दो 'दिव्यविग्रह एव प्रयुक्तः । आकृतिशब्दोऽपि शरीरे प्रयुक्तस्तत्रैव- 'या या आकृतयः सन्ति ब्रह्माण्डे प्राकृता हि ताः। जाताःप्रकृ- तिपुंयोगादस्य त्वप्राकृताऽस्ति सा ॥' इति । तथा तत्रैवाप्राक- तप्राकृताकृत्योदिव्यादिव्यत्वतो महद्वैलक्षण्यं भवत्येवेति प्रतिपाद्य 'अनेककोटिब्रह्माण्डाधीश्वरो दिव्यविग्रहः।' इति प्रतिपाद- नात् नृशरीर इत्यर्थे त्राकृतिरिति प्रयोगाच विग्रहपर्यायताऽऽकृतिश- ब्दस्य विवक्षितेति गम्यते । अस्य त्वप्राकृताऽस्ति सा' इति व्यति- रेकनिर्देशस्वारस्याच रूपस्वरूपयोर्भेदः सिद्ध्यति । तथा 'सच्चिदा- नन्दरूपोऽतिलावण्यो दिव्यविग्रहः' इत्यत्रापि प्रथमविशेपणेन स्वरूपमनन्तरविशेषणतो लावण्यामृतमहोदधि दिव्यं रूपं च विव- क्षितम्। 'मायिकाकारतः कृष्णाकृतिरस्ति विलक्षणा। अतीवर- मणीयाङ्गा सर्वसौन्दर्यसङ्ग्रहा। दिव्या नित्याऽकालगुणा सर्वेषां च मनोहरा ॥' इत्यत्र च कृष्णमूर्तेरक्षरधामस्थाया अप्राकृतत्वं स्वर्णितमस्ति मायिफत्वनिषेधपूर्वकम् । नहि ब्रह्मण एव मूर्तिरूपत्वे [प्रमेय ४३० मानमेयप्रकाशिकायां मायिकत्वशङ्कायाः प्रसङ्गः । प्रसक्तस्यैव प्रतिपेधकरणस्यौचित्याच सर्वाङ्गसम्पन्नायाः कृष्णमूर्तेः स्वरूपतो भिन्नायाः प्राकृतशरीरव- हुःसादिनिदानत्यानित्यत्वादेः प्रसवस्य प्रतिपेधपरत्यमेव । 'अक्षरे धान्नि कृष्णस्य तद्भक्तानां च सर्वशः। याः सन्त्याकृतय- स्तास्तु सत्या दिव्याश्च भासुराः ॥' इत्यत्र च नित्यमुक्तानामिव श्रीकृष्णस्यापि अप्राकृतरूपवत्वमेव प्रतिपाद्यते । नतु रूपस्वरूपयोर- भेदः । सत्सगिजीवनेऽपि 'दिव्यं कृष्णस्य रूपं भवति च सततं तस्य लोकोऽपि दिव्यः' इति श्लोकेन स्वरूपापेक्षया रूपस्यापि लोकादिवत्पृथगेयाप्राकृतद्रव्यत्वमुपपादितम् । 'इत्थं -निर्दोपरूपं सकलगुणगणालङ्कृतं दिव्यमूर्ति......एकस्मिन्नद्वितीये भग- वति च परब्रह्मणि द्वैतबुद्धिः कर्तव्या नैव तस्मिन्नणुरपि च कुधीः सच्चिदानन्दरूपे॥' इत्यनन्तरश्लोकेऽपि 'सच्चिदानन्दरूपे इति स्वरूपम् , 'सकलगुणगणालङ्कृतम्' इति गुणाः, 'दिव्य- मूर्ति' इति विलक्षणरूपं च पृथगेव व्यपदिश्यन्ते । 'नराकृति परब्रह्म स्थितो योऽक्षरधामनि । निर्गुणो निर्विकारश्च सच्चि- दानन्दलक्षणः ॥' इत्यत्रापि 'नराकृति' इति रूपम्, 'सन्नि- दानन्दलक्षणः' इति स्वरूपमिति पृथगेव प्रतिपादितम् । गोपालानन्दस्वामिभिर्विरचिते दशोपनिपद्भाष्येऽपि रूपस्वरूपयो- भैदव्यपदेशा बहुलमुपलभ्यन्ते नाम । दिड्मात्रमुदाहियते । 'व्यूह रश्मीन्' इत्यादिमत्रभाप्यं यथा-(१) रश्मीन्-भवदी- यदिव्यदेहरश्मीन् , व्यूह-क्षणमात्रमुपसंहर, क्यमसमर्थास्त- दर्शन इति भावः । यत्तेजोऽस्मन्नयनसुखावहं तत्समूह पुत्री- पुरु । यत्कल्याणतमं ते रूपं सकलमङ्गलावहं ते रूपं तत्प- मा . . प्रकाशे] ईश्वरपरिच्छेदः। ४३१ श्यामि । कोटिसूर्यप्रकाशवदत्युग्रं तेज उपसंहृत्य मादृशजन- दर्शनक्षम सौम्यं तेजः स्वीकृत्य दिव्यामृतमत्याहादकं दिव्यं .रूपं मम लोचनसात्कुरु इति भावः। ईदृशे दिव्यतेजसि प्रणष्ट- दृष्टयः कतिचन भगवत्प्रसादविमुखा अविग्रहं भगवन्तमाहुः ।. श्रुतिस्तु जागर्ति या भगवतः परब्रह्मणो दिव्यं रूपं बोधयति 'य एपोऽन्तरादित्ये हिरण्मयः पुरुपो दृश्यते' 'रुक्माभं स्वप्न- धीगम्यं'-'आत्मैवेदमग्र आसीत्पुरुषविधः' 'आदिव्यवर्ण तम- सस्तु पारे' 'सर्वकर्मा सर्वगन्धः सर्वरसः' इत्यादिः। (२) 'स एपोऽन्तञ्चरते वहुधा जायमानः' इत्यस्य भाव्य-सएप सर्वान्त- रात्मैकोऽपि प्रतिहृदयं विग्रहविशिष्टवेपेणाविर्भवन् वहुधा भव- तीति 'बहुधा जायमानः' इत्युक्तिः । (३) "दिव्ये ब्रह्मपुरे ह्येप व्योमन्यात्मा प्रतिष्ठितः' इत्यस्य च भाष्यं-'अन्तश्च- रति नामैपः । प्रतिष्ठितस्तु दिव्ये व्योम्नि ब्रह्मपुरे हि । अप्राकृताकाशे ब्रह्माख्ये परे स्थानविशेपे प्रकर्पण दिव्य- मूर्त्या स्थितः' इति । अनेन च सर्वव्यापकस्य भगवत्तरूपस्य दिव्यविग्रहविशिष्टवेपेण स्थानविशेपे स्थितिरक्ता भवति। (४) 'भारूपः आकाशात्मा' इत्यस्य व्याख्यान-'अथापरमसाधारणं प्रकृतितत्संसृष्टविलक्षणं दीप्तिमयं रूपं तदसावुच्यते 'भारूप' इति । स्वयम्प्रकाशैकरसदिच्यतनुरित्यर्थः । आ-समन्तात् काशते इत्याकाशः, परितः प्रकाशमान आत्मा स्वरूपं यस्य सः पूर्व प्रकाशमयता शरीरस्योका, इह तु स्वरूपस्येति भेदः, इति । (५) 'श्यामाच्छवलं प्रपद्ये' इत्यस्य भाष्ये च 'दिव्य- विग्रहयोगेनेदं श्यामरयमभिप्रेतम्' इति वर्णितम् । नित्यानन्द- [प्रमेय- - , ४३२ मानमेयप्रकाशिकायां स्वामिभिरपि शाण्डिल्यभक्तिसूत्रभाष्ये 'तच्च दिव्यं स्वशक्तिमा- त्रोद्भवात्' इति सूत्रन्याख्यावसरे श्रुत्यादिप्रमाणोपन्यासपूर्वक रूपस्वरूपयोर्भेदः श्रीभाष्यादिप्रक्रिययैव समुपवर्णितोऽस्ति । मुक्ता- नन्दस्वामिभिश्च ब्रह्मसूत्रभाष्ये । श्रीभागवतस्य भक्तरञ्जनीटीकायां च श्रीभगत्प्रसादाचा:- 'अमलसत्त्वधान्नि' (स्कं०-१० अ०-२ श्लो०-२९) इत्यस्य व्याख्या कृता 'शुद्धसत्त्वमयविग्रहयुक्त' इति । 'यादृशं वा यदात्मकम्' (स्कं० ११ अ०-१४ श्लो०-३१) इत्यस्य व्यारया च 'यादृश'मिति विग्रहसंस्थानप्रश्नः, 'यदात्मक मिति दिव्या- त्मस्वरूपप्रश्नः' इति । तत्रैव 'यादृश'मित्यस्योत्तरं 'समं प्रशान्तं सुमुख' मित्यादिनोचवा, 'यदात्मक मित्यस्योत्तरं 'तत्र लब्धपदं चित्तमाकृप्य व्योम्नि धारयेत्' इत्यनेन प्रतिपाद्यते । अस्य च व्याख्या 'दिव्यात्मस्वरूपस्य व्योमोपमत्वं 'कं ब्रह्म खं ब्रह्मेति श्रुतिप्रसिद्धम्' इत्यादिः । एतेन परमात्मस्वरूपस्य विभुत्वं दिव्य- मूर्तिमत्त्वं च सिद्ध्यति । एवमन्येष्वपि सम्प्रदायग्रन्थेषु आचार्य- वर्यैः साधुवर्यैश्च कृतेपु रूपस्वरूपयोर्मेदव्यपदेशा देहात्मनोरिव सहस्रशः सन्त्येव ॥ श्रीवासुदेवमाहात्म्ये च श्रीहरिणा स्वसम्प्रदायमूलप्रमाणग्रन्थ- स्वैनात्यन्तं समादृते रूपस्वरूपयोर्भेदनिर्देशा यहुलमुपलभ्यन्ते । यथा-'सत्यं ज्ञानमनन्तं यो ब्रह्मेति श्रुतिवर्णितः । त्रिगुण- व्यतिरिक्तश्च पुरुषो दिव्यविग्रहः ॥' 'तेजोमण्डलमध्यस्थ- दिव्यसुन्दरमूर्तये । नमामो विष्णवे तुभ्यं परात्परपराय च ॥ 'पाणीमनोविमकृष्टमहिम्नेऽक्षररूपिणे । सर्वान्तर्यामिणे तुभ्यं प्रकाशे] ईश्वरपरिच्छेदः। ४३३ बृहते च नमोनमः ॥' इत्यादयः । 'तेजपुजाभिरुद्धाङ्गो गुणा- तीतागुताकृतिः। अखण्डानन्दरूपश्च सदा शुद्धोऽच्युतोऽस्ति सः ॥' 'रूपवर्णवयोवस्थाः प्राकृता नैव तस्य हि । सर्व तस्यास्ति तदिव्यं सर्वोपकरणानि च ॥' 'आत्मात्मा चाक्ष- रात्मा च ह्येप आकाशनिर्मलः । दिव्यद्दगीक्ष्यः सन्मात्रः पुरुपो वसुदेवजः। 'समस्तकल्याणगुणो निर्गुणश्चेश्वरेश्वरः । परया विद्यया वेद्य उपास्यो ब्रह्मभिः प्रभुः ॥' 'दिव्यमूर्ति तमीशानं तपसैकान्तिकेन च । यः प्रीणयति धर्मात्मा स धन्यतम उच्यते॥' इत्यत्र च 'अखण्डानन्दरूपश्च' 'आत्मात्मा चाक्षरात्मा च' इति अनन्तज्ञानानन्दस्वरूपं सर्वान्तर्यामि निर्दिष्टम् । 'तेजःपुञ्जाभिरुद्धाको गुणातीताद्भुताकृतिः' 'दिव्यमूर्ति' इति चाप्राकृतमत्युज्वलमत्यद्भुतं रूपम् । 'रूपवर्णवयोवस्था' इति श्लोके चाप्राकृतभोगोपकरणादिवद्रूपस्यापि भगवत्स्वरूपतो भिन्न-. स्यैवाप्राकृतत्वमुक्तम् । निर्दोपकल्याणगुणैकतानमप्राकृतरूपवय परब्रह्म परविद्याप्राप्यं मुक्तोपसेव्यं चेति वेदान्तसारार्थ एव श्रीभा- ष्यादिपु व्यवस्थापितोऽत्र प्रकरणे निर्दिष्टो वेदितव्यः । स्वरूपं निष्कलं व्यापि ज्ञानशक्त्यादिधर्मकम् । रूपं त्वक्षरधामस्थं दिव्यगन्धादिमद्भवेत् ॥ रूपस्यैव ब्रह्मभावे हस्तपादादिभेदतः। भवेद्ब्रह्मबहुत्वं तु श्रुतिवैयाकुली ततः॥ नातिरिक्तोऽवयव्यस्ति सङ्घातश्चेतयेन तु । सत्येव भेदे भेदस्य निषेधो ब्रह्मरूपयोः ॥ उपादेयत्वहेयत्वविशेषविपयो भवेत् । जीवस्य तदर्मणश्च यथा भेदोऽस्ति सम्मतः ॥ मान०प्र० २८ मानमेयप्रकाशिकायां [प्रमेय- त्याज्योपादेयभावेन नैवं भेदोऽन वै विति । उपादेयतमं रूपं ब्रह्मणो ब्रह्मवत्सदा ॥ एवमेव च तात्पर्य मुक्तात्मविषयेऽपि हि । देहदेहिभिदायास्तु निषेधोके समं मतम् ॥ स्वरूपरूपैकत्वोक्तिरन्तरङ्गत्वतो भवेत् । प्रत्यासत्तिविशेपाच साम्यतश्च क्वचित्कृता । ज्ञानानन्दात्मकत्वं हि समं रूपस्वरुपयोः। यथा हि भुज्यमानं च श्रीफलाद्युपलभ्यते ।। वहिरन्तश्चैकरसं तथा ब्रह्मापि मूर्तिमत् । मुमुक्षूपस्यिता मुक्तप्राप्यता च समा तयोः ॥ सत्यप्येवं समत्वे प्राधान्यतो रूपमेव तु । वर्णितं तत्र तत्रास्ति नीरूपभ्रान्तिमुक्तये ॥ शुभाश्रयो हि चित्तस्य रूपमेव प्रशस्यते । सेवा मुक्तिश्च रूपे हि स्वरसात्सम्भविष्यति ।। चेतनोज्जीवने मुख्यहेतुत्वेनैवमेव तु । अत्यन्ताभिमतं प्रोक्तमीश्वरस्य वकं वपुः ।। वथा घ यामुनमुनयः 'मूर्त ब्रह्म ततोऽपि तत्मियतरं रूपं यदत्यद्भुतम्' इति । यत ईश्वरस्यात्यन्ताभिमतं स्वकै रूपं, अतोऽ- त्यन्तभत्तायैव स्वीयं रूपं सम्यक् प्रदर्शयति स्वस्य सर्वस्वभूतं, यथा पिता प्रियायेव पुत्राय सर्वस्वं प्रकाशयति । तथा च श्रूयते-'यमे वैप पृणुते तेन लभ्यस्तस्यैप आत्मा विवृणुते तनूं स्वाम् इति । अयमेवार्थों यामुदेयमाहात्म्येऽपि विवक्षितः "कृष्णस्यानु- पत्र मी यहिर्गतिः, अन्तः सरूपम् । एकरसत्यं शनानन्दात्मकत्यम् । .

४३५ प्रकाशे] ईश्वरपरिच्छेदः। ग्रहो यस्मिन् स तेजसि समीक्षते । केवलं तेज एवान्ये पश्यन्ति न तु तं मुने ॥' इति । यथा ब्रह्मगुणेपूपासकस्यासक्तिरिष्यते । ब्रह्मणीव च भोग्यत्वं तथा रूपेऽपि भाव्यताम् ।। रूपभिन्नं ब्रह्म परं स्याच्चेद्रूपे तु मन्दता । समादरस्य स्यादेवं शङ्का न प्रसजेदतः ॥ दिव्यरूपं परब्रह्म ध्येयं प्राप्यमिति त्वपि । ध्यानाद्यालम्बनत्वात्स्याद्रूपमत्यादरास्पदम् ।। एवं च मङ्गलगुणगणाड्यं दिव्यमूर्तिमत् । साकारमिति निर्णीतं परंब्रह्म परात्परम् ॥ पररूपस्य सावयवत्वं नित्यत्वं च । परमात्मनो रूपं च सर्वावयवोपेतम्। 'बुद्धिमनोगप्रत्यङ्गवत्ता भगवति लक्षयामहे शास्त्रशन्देभ्यः' इति सहस्रनामभाष्ये वचना- त्, 'इन्द्रियाकाराङ्गप्रत्यङ्गव्यञ्जनवतीति रहस्यानायवाक्याच । अवयववैकल्यस्य कर्मनिबन्धनत्वाचाकर्मपरवशस्य परमात्मन इच्छा- मात्रपरिक्कृप्ते रूपेऽङ्गवैकल्यसम्भावना न पदमश्चति । य एषोऽन्त- रादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः, तस्य यथा कप्यासं पुण्डरीकमे- वमक्षिणी' इति श्रुतपुण्डरीकलोचनश्मश्रुकेशनखाद्यधिकरणतया च शिरःकरचरणादियोगः सिद्ध्यति । कप्यासथुतेरयमर्थः-कं जलं पिवतीति कपिः-सूर्यः, तेनास्यते-विकाश्यते इति कप्यासं, रविकर- विकसितमित्यर्थः । तथाविधं पुण्डरीकमिवामलमायतं घ नेत्रद्वय- मित्यर्थः । पुण्डरीकस्यैव विशेषणं कप्यासमिति शोभातिशयव्य- [प्रमेय ४३६ मानमेयप्रकाशिकायां अनार्थम् । न तु कुदृष्टिकल्पितोपमान्तरपरं तत् । यथाशब्दान्तरस्य चशब्दस्य वा अश्रवणादिति । श्रीभागवते च उपास्यस्य पररू- पस्य सर्वाङ्गसम्पन्नत्वं प्रतिपाद्यते-'ध्यायेद्देवं समग्राई यावन्न च्यवते मनः' इति । वासुदेवमाहात्म्येऽप्यस्य सर्वानपरिपूर्णत्वम- वर्णि 'रूपानुरूपसंपूर्णदिव्यावयवलक्षितम्' इति । 'वेदाहमेतं पुरुषं महान्तं' इति पुरुपशब्दश्रवणात् हिरण्यश्मश्रुत्वादिश्रवणाच पुरुपाकारैव भगवतो मूर्तिः। सर्वागसम्पन्नं चेदं पररूपं नित्येच्छासिद्धं नित्यमेव । तथा च वचनानि-'नित्यं नित्याकृतिधरं तेजसा सूर्यवर्चसम् ।' 'नित्य- सिद्धे तदाकारे तत्परत्वे च पौष्कर । यस्यास्ति सत्ता हृदये तस्यासौ सन्निधिं ब्रजेत् ॥' 'नित्यालिङ्गा स्वभावसंसिद्धिः।' इत्यादीनि । अन स्वभावसिद्धत्वान्नित्यत्वं भगवन्मूर्तेः प्रतिपाद्यते । अस्याश्च शाखैकसमधिगम्यतया लिङ्गाधीनसाधनवाधनायोग्यत्व- मलिङ्गेत्यनेन विवक्षितम् । लैगिकार्थसिद्धौ हि सावयवत्वादनि- त्यत्वं, शरीरत्वात्सप्तधातुमयत्वमित्यादिप्रतितर्कसंभावना, न त्वा- गमिकार्थसिद्धौ । तथा चोक्तमधिकरणसारावल्यां-'देहत्वात्सप्त- धातु त्रिमलमघभवं दुःखकृन्नाशयुक्तं सांशत्वादेश्च हेतोरिति यदि तदसद्धर्मिमानेन वाधात् । वाधः शास्त्रैकवेद्ये क्वचिदपि न भवेदन्यथाऽतिप्रसङ्गात् यत्तु स्वेच्छावतारेवभिनयति तद- प्यासुरोपप्तवार्थम् ।।' इति । विश्च किं नाम सावयवत्वं यदनित्यत्वे ) प्रयोजकमुच्यते। न तावदवयवसमवेतत्वम्, अतिरिक्तावयविनोऽ. नभ्युपगमात् । नाप्यवयवसयोगित्वम् , करादिसयोगस्य नित्यविभु- साधारण्यात् । नाप्यययवसहतिलक्षणम् , तस्याप्यनित्यत्वव्याप्यत्वे प्रकाशे ईश्चरपरिच्छेदः। प्रमाणाभावात् । जन्यत्वं ह्यनित्यत्वे प्रयोजकम् । तच्च नित्यसंहतेया- वर्तमानमनित्यत्वमपि व्यावर्तयति । नित्यसंहतिश्चास्त्येव सिद्धान्ते ।। गुणत्रयसद्धावलक्षणं प्रधानं नित्यमेवामनन्ति साया अपीति । श्रीरामायणे च तमोमण्डलादुपरितने परमे व्योनि विलसदना- कृतं लक्ष्म्यासिष्टं श्रीवत्सलाञ्छनं च भगवद्रूपं नित्यमभ्यधायि- 'व्यक्तमेप महायोगी परमात्मा सनातनः । अनादिमध्यनि- धनो महतः परमो महान् ॥ तमसः परमोधाता शङ्खचक्रगदा- धरः । श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ इति । 'अनादिमध्यनिधनः' इति स्वरूपतः, 'शाश्वतः' इति गुणतः, 'ध्रुवः' इति च विग्रहतोऽपि नित्यत्वमन विवक्षितम् । मोक्षधर्मे च पररू- पस्य नित्यत्वमुक्तं-'नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते तमेकं पुरुष वासुदेवं सनातनम् ॥' इति । नान पर- मात्मस्वरूपस्य नित्यत्वं विवक्षितम् , स्वरूपनित्यत्वस्य जीवसाधा- रण्यात् । किन्तु अक्षरपरमव्योमनिलयनदिव्यविग्रहविशिष्टस्यैव परवासुदेवस्येति पररूपनित्यत्वं सिद्ध्यति । न च नित्यमुक्तानां नित्यं भगवत्सेवातत्पराणामपि सविग्रहाणां नित्यत्वमस्तीति वाच्यम् । तेषां भगवत्सङ्कल्पप्रयोज्यनित्यत्वेन स्वाधीननित्यताविरहात् । स्वा- धीननित्यत्वस्य त्वत्र विवक्षितस्य भगवदसाधारणत्वात् । किञ्च सुरिभिः सदा दृश्यस्य दिव्यरूपस्य सदातनत्वमवश्यमेवैपितव्यम् । स्वचरणकमलसमाश्रयणादिना निरस्तनिखिलकर्मषन्धानां मुक्तानां नित्यानुभवफेवयलक्षणमोक्षैश्वर्यनिर्वाहकवयाऽप्येतपस्स नित्यत्व- मपरिहरणीयमेव । श्रीविष्णुपुराणादावीदं प्रतिपादितं-'सदैकरूप- रूपाय विष्णवे सर्वजिष्णवे' 'नास्ति विष्णोः परं तत्त्वं तस्य कालात्परा तनुः।' 'यद्रूपं ध्रुवमकृतकं' इति ।

[प्रमेय- मानमेयप्रकाशिकायां कौमारसम्भिन्नयौवनावस्थं चेदं सदा-'नित्याकृतिधरो युवा' 'युवा कुमारः' 'नित्यं तद्रूपमीशस्य परं धाम्नि स्थितं शिवम् । अमृतं शाश्वतं दिव्यं सदा यौवनमास्थितम् ॥ इत्यादिप्रमा- णानुसारात् । 'यः पूर्व्याय वेधसे नवीयसे' इति मत्रवर्णश्व नव- यौवनमा । तथाच 'क यौवनोन्मुखीभूतसुकुमारतनुहरिः' इति श्लोकोक्तावस्थावत्सिद्धं सदा सूरिसेव्यं पररूपम् । 'कन्दर्प- साहनमनोहराङ्गं सदा किशोरं करुणानिधानम्' इति अक्षर- धामाधिपतेः श्रीकृष्णस्य सदा किशोरत्वं चोच्यमानं नवयौवनत्व- परमेव । सत्सगिजीवनसुधासिन्ध्वोः किशोरावस्था यौवनावस्था च पररूपस्य प्रतिपाद्यमानैवमेव सङ्गच्छते-'किशोरवयसं प्रभुम्' 'सदा किशोरो वयसाऽतिरम्यः' 'अतिसौम्यो नराकारः किशोरः करुणानिधिः' 'सदैव तरुणः' 'तारुण्ये वयसि स्थितम् इति । भगवद्रूपस्य घनश्यामत्वम्- नवीनजीमूतसमानवणं च भगवतो रूपम् । 'तस्य मध्ये वहि- शिखा अणीयोा व्यवस्थितः। नीलतोयदमध्यस्था विद्युल्ले- खेव भास्वरा...तस्याः शिखायामध्ये परमात्मा व्यवस्थितः॥' इति भगवद्पस्य नीलवोयदनिदर्शनदर्शनात् । अस्यार्थो वेदार्थ- सदहे वर्णितः-'सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी बहिशिसा स्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा स्वान्तर्निहितनीलतोयदा विशुदियामाति' इति । 'शामाच्छवलं प्रपद्ये शवलाच्छामं प्रपद्ये' वि प्राविजिप्ये मने च श्यामशब्देन नीलवर्णविप्रहविशिष्टं भगवरवरूपं विवक्षितम् । शवलशब्देन प चिदचित्प्रपञ्चविशि- प्रकाशे] ईश्वरपरिच्छेदः। टम् । ल्यब्लोपे पञ्चमी । श्यामं प्रपद्योपास्य शवलं प्रपद्ये चिद- चित्प्रपञ्चविशिष्टमुपासे । शवलमुपास्य, चश्याममुपास इत्यर्थः । सासाधारणरूपतः चिचिद्विभूतिद्वययोगतश्च त्रिविधं घुपासनं सूत्रितं 'उपासात्रैविध्यात्' इति । तां त्रिविधामुपासनां निरन्तरं सम्पादयामीति भावः । 'कृष्णो वर्णश्च मे यस्मात्तेन कृष्णोऽह- मर्जुन' इति कृष्णशब्दनिरुक्तिवलादपि वासुदेवस्य मेघश्यामत्वं सिद्ध्यति । 'आदिदेवो जगन्नाथो वासुदेवो जगत्पतिः । चतु- भुजः श्यामलाभः परमे व्योम्नि निष्ठितः ॥' इत्यादिवचन- बलाच पररूपस्य घनश्यामत्वसिद्धिः । 'ऋतं सत्यं परंब्रह्म पुरुष कृष्णपिङ्गल' इति कृष्णपिङ्गलत्वोक्तिस्तु लक्ष्मीशोभासंचलित- वेनाभरणादिशोभासंचलितत्वेन च घटतेऽभिनवघनश्यामाया अपि भगवन्मूर्तेः । 'आदित्यवर्ण तमसः परस्तात्' 'यदा पश्यः पश्यते रुक्मवर्ण' इत्युक्तिश्चात्युज्यलदीप्तिमत्त्वकमनीयलावण्य- वत्त्वाभिप्राया । प्रतिकूलैर्दुष्प्रेक्ष्यत्वमनुकूलानां सुवर्णवन्निरतिशय- भोग्यत्वं च विशेपणद्वयेन विवक्षितम्। 'सितासितं चेश्वरमीश्व- राणाम् 'श्यामं च शुक्लं बहुरूपमेक' 'वैकुण्ठः पुरुषोऽनन्तः शुक्लः कृष्णः सनातनः' इत्यादिपु पुराणवाक्येपु कीर्यमानं सिता- सितत्वं च सितवर्णप्रभामण्डलाकृतत्वात्कृष्णमूर्तेर्घटते । तथा चाभि- हितं वासुदेवमाहात्म्ये-'नवीनजीमूतसमानवर्ण....निजागनिर्य- त्सितभूरितेजश्चयावृतत्वात्सितवर्णमुक्तम्' इति । 4स्य वसमण्यादेरेकरूपस्याप्यत्युज्वलनानावर्णप्रभोक्तिरत्वेन नाना- रूपत्वं प्रतीयते, एवं भगवन्मूर्तेरपि दिव्याया अतिविलक्षणाया अत्युवलनानाप्रमोतिरत्येन नानावर्णत्वमुपवर्ण्यतेतरां तत्र तत्रेति यथाऽत्य- [प्रमेय मानमेयप्रकाशिकायां बोध्यम् । पररूपस्यैवं घनश्यामत्वं स्थितम् । व्यूहादिरूपभेदानां तु नानावर्णत्वमैच्छिकमस्त्येव । 'अथ यदितः परो दिवो ज्योतिदीप्यते' 'न तत्र सूर्यो भाति न चन्द्रतारकं' 'दिवि सूर्यसहस्रस्य भवेयुगपदुत्थिता। यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥' इत्यादिश्रु- तिस्मृतिभिरुच्यमानं निरतिशयज्योतिष्ट्वं च भगवद्रूपस्यात्यन्तभा- स्वरविलक्षणवर्णवत्त्वाटते । इदमेवौज्वल्यं नाम । लावण्यं--- चन्द्रादेरिव पश्यतां चक्षुरानन्दजनकं सौम्यं तेजः समुदायशो- भापर्यवसितम् । उक्तं चाहिर्बुध्यसंहितायां-'भूयिष्ठं तेज एवानि- बहुलाभिर्मुदकृतम् । चक्षुरानन्दजनकं तल्लावण्यमिहोच्यते॥' इति । 'विश्वमाप्याययन् कान्त्या पूर्णेन्दयुततुल्यया' 'धपुपा सुन्दरेणैव दिव्येनाविष्कृतेन च । मुञ्चन्तमनिशं देहादालोक ज्ञानलक्षणम्' 'पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये । वदनेन्दुचयोत्थेन हादयन् गोगणेन तु ॥' 'शरञ्चन्द्रावदा- ताङ्गम्' इत्यादीन्यत्रानुसन्धेयानि । सौन्दर्य-अवयवशोभालक्ष- णम् । 'साक्षान्मन्मथमन्मथः' 'कन्दर्पसाहनमनोहराङ्गम्' 'कोटिकन्दर्पसुन्दरम्' इत्यादिममाणावसेयमिदम् । सौकुमार्य च मार्दवं पुष्पहासापरपर्याय 'सुकुमारौ महाबलौ' इत्यादिवचनसि- दम् । सौगन्ध्यं-सचन्दनायनपेक्षसुगन्धवत्त्वं खसम्पर्केणान्ये. पामपि सुरमित्यापादकम् । माधुर्य ध द्वेषिणामपि द्वेपनिवर्तनेन सारस्यापादकत्वम् । औज्वल्यसौगन्ध्यमाधुर्याणि 'भारूपः सर्व गन्धः सर्वरसः' इति वाक्यप्रतिपादितानि । सौन्दर्यलावण्यसौकु- मार्याणि च 'रूपसंहननं लक्ष्मी सौकुमार्य' इतिवाक्योकानि ।

प्रकाशे] ईश्वरपरिच्छेदः । ४४१ एते विप्रहगुणा वर्णिता गीताभाष्ये श्रीमद्रामानुजाचार्य:-'स्वाभि- मतानुरूपैकरूपाचिन्त्यदिव्यागुतनित्यनिरवद्यनिरतिशयोज्यल्यसौन्द- यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूप' इति । उपवर्णितामे रूपगुणाः सम्प्रदायग्रन्थेषु भूरिशः-'नूतना- म्बुधरसुन्दरमूर्ति तेजसाऽतिमहसा सितभासम् । कोटि- मन्मथविमोहनरूपं' 'स्वाङ्गनियाऽखिलमनोनयनाभिराम' 'कोटिकन्दर्पलावण्यं नवीनजलदासितम्' 'एकैकाङ्गत्रवत्को- टिकोटिभास्करतेजसम् । घनश्याम पीतपर्ट' 'स प्रभुद्धिर्भु- जस्तन राजते श्यामसुन्दरः । निजाङ्गातिमहापुञ्जावृतत्वा- कछेतदर्शनः' 'नवीनजलदासितम् । सुधांशुकोटिसंकाशम्' नवीनजीमूतसमानवर्णम्' 'स देवदेवोऽस्ति हिरण्यवर्णो ह्यशेपसौन्दर्यनिकेतमूर्तिः । एकैककेऽझे विधुकोटिकोटिप्र- काशतुल्योवलकान्तिमाली। पीताम्बरो दिक्प्रसरत्सुगन्ध 'मार्दवस्य कणिका किमु लेने पद्मकोशनवनीतशिरीपै' 'श्रीमाधुरीमूर्तये' 'कोटिकन्दर्पलावण्यो जलदश्यामसुन्दरः । अनेककोटिसूर्येन्दुप्रकाशतिप्रभोज्वला' 'उपमीयेत येनास्य रूपं भगवतो मुने । ब्रह्माण्डे तादृशं रूपं नैव दृष्टं न च श्रुतम् । एवं शब्दः सुगन्धश्च स्पर्शश्चापि न कुत्रचित् । सन्ति यैरुपमीयेरन् तस्य शब्दादयो बुधैः ॥' 'सच्चिदानन्दरूपोऽ- तिलावण्यो दिन्यविग्रहः । कोटिकन्दर्पसौन्दर्यः शान्तमूर्ति- दयानिधिः । एकैकरोमनिर्गच्छत्कोटिकोट्यर्कतेजसा । अनैका- न्तिकदुर्दश्यः' 'स तु प्रभुर्घनश्यामोऽप्यवदातोऽतितेजसा' इत्यादौ ।

४४२ मानमेयप्रकाशिकायां [प्रमेय- नित्यं सर्वाङ्गसम्पन्नं सदाप्रत्यग्रयौवनम् । लावण्यौज्वल्यसौगन्ध्यसौकुमार्यास्पदं शुभम् ॥ दिव्यं रूपं भगवतो वासुदेवस्य वर्णितम् । तस्याभरणवस्त्रास्त्रजुष्टत्वमिह कथ्यते ॥ सर्वाभूपणजुष्टत्वं चेश्वरसंहितायां प्रतिपादितं भगवद्पस्य- 'शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया । अनौपम्येन वपुपा ह्यमूर्ती मूर्ततां गतः ॥ विश्वमाप्याययन् कान्त्या पूर्णेन्दयुततुल्यया। पूर्ण आभरणैः सर्वैनिर्विकाराद्धिविग्रहः ॥ इति । सात्वतसंहितायां च तन्निष्ठाभरणादैः स्वयम्प्रकाशत्वेन ज्ञान- रसत्वमन्योन्यशोभाभिवर्धकत्वं चेतनाधिष्ठितत्वं च प्रत्यपादि- 'नग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः । चिन्मयैः स्वप्रका- शैश्च अन्योन्यरुचिरञ्जकैः ॥इति । 'विमलैर्भूषणैर्नित्यैर्भूपितो दिव्यविग्रहः । पञ्चायुधैः सेव्यमानः शङ्खचक्रधरो हरिः ॥' ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासन- सन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिर- ण्मयवपुर्धतशङ्खचक्रः ॥' 'तमसः परमो धाता शङ्खचक्रगदा- धरः' 'श्याम प्रशान्तं सुमुख दीर्घचारुचतुर्भुजम् । सुचा- रुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ समानकर्णविन्यस्त- स्फुरन्मकरयुपडलम् । हेमाम्बरं घनश्याम श्रीवत्सश्रीनिके- तनम् ॥ शङ्खचक्रगदापनयनमालाविभूपितम् ॥ नूपुरैर्चिलस- त्पादं कौस्तुभप्रभया युतम् ॥ धुमकिरीटकटककटिसूत्राग- दायुतम् । सर्वाङ्गसुन्दरं हृद्य प्रसादसुमुखेक्षणम् । सुकुमारम- भिध्यायेत्सहिषु मनो दधत् ॥' इत्यागुपदणवचनानि पात्रा- प्रकाशे] ईश्वरंपरिच्छेदः । ४४३ नुसन्धेयानि । नारायणकवचे च भगवत्स्वरूपस्येव तदीयरूपायु- धाभरणपार्षदानामपि दिव्यानां आपन्निवर्तकत्वेन प्रार्थ्यमानानां सत्यत्वं प्रतीयते-'सर्वापद्भयो हरेर्नामरूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान् पान्तु भूपणपार्पदाः ॥ तथा हि भग- वानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रयाः ॥ यथैकात्म्यानुभावेन (भावानां) विकल्पर- हितः स्वयम् । भूपणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ तेनैव सत्यमानेन सर्वतो भगवान् हरिः । पातु सर्वैः स्वरू- पैनः सदा सर्वत्र सर्वगः ॥' इति । सर्वचेतनाचेतनान्तर्यामित्व- निबन्धनानुभावेन स्वयं कर्मकृतनामरूपादिविकल्परहितोऽपि भग- वान् हरिः स्वसङ्कल्पमात्रायकृतं स्वासाधारणं दिव्यं नामरूपादिक यथा सत्यमेव विमति एवं स स्वविषयिणी तत्तद्रूपेण रक्षकत्वप्रा- थैनामपि सत्यां विदध्यादिति निदर्शननिदर्शनिभावोपन्यासस्य भावः । श्रीविष्णुनामसहस्रे च-"कुण्डली' 'कनकाङ्गन्दी' 'चन्द- नाङ्गदी' 'नग्वी' इत्यादिमङ्गलनामभिर्दिव्यभूपणयोगो वर्णितः । 'श्रीमान्' इति नाम्ना च दिव्यभूषणसम्पदा नित्योज्वलसुन्दरका- न्तिमत्त्वम्। 'शङ्कभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः' 'रथा- गपाणिः' 'सर्वप्रहरणायुधः' इति नामानि च नानाविधदिव्या- युधवर्गयोगपराणि । श्रीविष्णुपुराणे चास्त्रभूपणाध्याये प्रक्रान्तयोगानां चेतसः शुभा- श्रयतया ध्यानेऽतीवोपकारकं परस्य ब्रह्मणोऽत्यन्तान्तरङ्गभूतमप्रा- कृतं रूपं तत्त्वामिमानिभूपणाविजुष्टमपर्णि-'सर्वशक्तिमयो मानमेयप्रकाशिकायां [प्रमेय- विष्णुः स्वरूपं ब्रह्मणः परम् । मूर्त यद्योगिभिः पूर्व योगा- रम्भेपु चिन्त्यते ॥ स परः सर्वशक्तीनां ब्रह्मणः समनन्तरम् । मूर्त ब्रह्म महाभाग! सर्वब्रह्ममयो हरिः॥क्षराक्षरमयो विष्णु- विभहँखिलमीश्वरः । पुरुषाच्याकृतमयं भूपणास्त्रस्वरूपवत्॥ आत्मानमस्य जगतो निर्लेपमगुणालयम् । विभर्ति कौस्तुभ- मणिस्वरूपं भगवान् हरिः॥ श्रीवत्ससंस्थानधरमनन्ते च समाश्रितम् । प्रधानं बुद्धिरध्यास्ते गदारूपेण माधवे ॥ भूता- दिमिन्द्रियादिं च द्विधाऽहङ्कारमीश्वरः। विभर्ति शङ्खरूपेण शाहरूपेण च स्थितम् ॥ चलस्वरूपमत्यन्तजवेनान्तरिता- निलम् । चक्रस्वरूपं च मनो धत्ते विष्णुः करस्थितम् ॥ पञ्च- रूपा तु या माला वैजयन्ती गदाभृतः । स भूतहेतुसङ्घातो भूतमाला च वै द्विज ॥ यानीन्द्रियाण्यशेपाणि बुद्धिकर्मा- त्मकानि .च । शररूपाण्यशेपाणि तानि धत्ते जनार्दनः ।। विभर्ति यच्चासिरलमच्युतोऽत्यन्तनिर्मलम् । विद्यामयं तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥' इति । पञ्चरत्नमयत्वं च वैजयन्त्या वर्ण्यते- भूमेनीलमपां मुक्ता माणिक्यं तेजसस्तथा । वायोर्भवति वैदूर्य वज्रमाकाशसम्भ- १ खस्स रूपं खरूप, विग्रह इत्यर्थः । मूर्त सावयवम् । ब्रह्म महत्, रूपं, पर- ब्रह्मणः समनन्तरं अत्यन्तान्तरङ्गम् । अतिवृहत्त्वादत्रभूषणादिमुखेन सर्वाधारत्वाच्च परमात्मनों रूपस्य मूर्त ब्रह्मेति निर्देशः । श्रीविश्वरूपादेरविमहत्त्वं च द्यावापृ. थिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्याः' इत्यादिशास्त्र- सिसम् । अनेन विनव्याप्तिः फलति । 'न तर सूर्यो भाति...तस्य भासा सर्पमिदं विभाति' 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यश्चन्द्रमसि यचाग्नौ तत्तेजो विद्धि मामकम् ॥ इत्यादिश्रुतिस्मृतिय- लाध विप्रहदेजसोऽपि व्याप्तिरेष्टव्येसातो तावत् ।

प्रकाशे] ईश्वरपरिच्छेदः। वम् । पञ्चतत्त्वमयी माला वैजयन्ती प्रकीर्तिता।' इति । श्रीभागवते च विष्णुपुराणेऽनुक्तानामपि केपाश्चित्तत्त्वानामभिमा- नितया भगवद्रूपनिष्टानां भूपणादीनां निरूपणं दृश्यते 'वासः छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम् । विभर्ति साहयं योगं च वेदं मकरकुण्डले । मौलिं पदं पारमेष्ट्यं सर्वभूताभयङ्क- रम् ॥' इति । भूषणादीनां तत्त्वाभिमानित्वं चिन्मयत्वादुपपद्यते । नित्यसूरयो वनभूपणादिरूपेण परमात्मनः सेवासु निष्ठिता इति । एवमत्रवत्राभरणादिविशिष्टं पररूपं वर्णितम् । अनेन निरावरण- वादो निरस्तः । यथोक्तं तत्त्वमुक्ताकलापे-'अस्त्रैर्वा भूपणैर्वा किमिह भगवतोऽवाप्तकामस्य तस्मादेवो देहेऽपि वीतावरण इति जगुः केऽपि जैनोपजप्ताः । किंवा देहेन विश्वात्मन इति वदतां किं प्रतिव्युरेते तच्चेत्तस्यानितार्थ तदधिकरणकं सर्वमप्येवमस्तु ॥' इति । गीताभाष्ये च भूपणादिमत्त्वं दिव्यरूपस्य वर्ण्यते--'स्वोचि- तविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूपणः, स्वानुरूपासङ्ख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्या- णदिव्यायुधः' इति । शरणागतिगद्येऽपि-स्वोचितविविधविचित्रा- नन्ताश्चर्यनित्यनिरवद्यनिरतिशयसुगन्ध-निरतिशयसुखस्पर्श-निर- तिशयौज्वल्य-किरीट-मुकुट-चूडा-अवतंस-मकरकुण्डल-अवेयक-हा- र-केयूर-कटक-श्रीवत्स-कौस्तुभ-मुक्तादाम-उदरवन्धन-पीताम्बर-का- वीगुण-नूपुराद्यपरिमितदिव्यभूपण' इति । वासुदेवमाहात्म्ये चाक्षरे धाम्नि श्रीकृष्णो नानादिव्याभरणादिविशिष्टो विराजमानो वर्णित:-'अनर्थ्यदिव्योत्तमपीतवाससम् अनेकसद्रतविभूप.

मानमेयप्रकाशिकायां [प्रमेय- णान्यम् । निव्यमाणं च सुदर्शनाद्यैर्निजायुधैर्मूर्तिधरैरनेकैः' इत्यादिना । सत्सशिजीवने च-'स प्रभुर्दिव्यवसनो दिव्यालङ्कार- शोभनः' 'सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिपाश्रितः' 'दिव्या- भरणभूपितम् । दिव्यपीताम्बरधरं दिव्यगन्धानुलेपनम् । दिव्यैः सुरभिभिः पौप्पैः शोभित हारशेखरैः। धृत्वा कराभ्यां मुरली वादयन्तं मनोहरम् । दधतं कौस्तुभं कण्ठे वनमालां च शोभनाम् । विशालहृदयद्योतच्छ्रीवत्सं सुकिरीटिनम् । कर्णयुग्मोल्लसद्दिव्यमकराकृतिकुण्डलम् ॥' 'पीताम्बरः...कि- रीटकाचीवलयाङ्गदायैर्विभूपणभूपित इन्दुवकः । त्वं भक्त- सङ्घमवितुं स्वकमासुरेभ्यो दोभिर्दधदरगदारिसरोरुहाणि' इत्यादिना भूपणादियोगो वर्णितोऽस्ति । हरिवाक्यसुधासिन्धावपि- 'अनर्यदिव्यविविधवासोभूपणभूपितः । रतेन्द्रसारमुकुट; शेखरालिविराजितः । ...मकराकृतिकुण्डलः । चक्रादिभि- मूर्तिमद्भिः सेवितश्च निजायुधैः ।' 'योऽप्राकृतेन्द्रियो दिव्य- चासोऽलङ्कारमण्डितः।' इत्यादिना अक्षरधामाधिपतेः परस्यैव ब्रह्मणः पुरुपोत्तमस्य श्रीकृष्णस्य दिव्यनानाभूपणादिभूपितत्वं बहुशो निरुक्तमस्ति । एयम्भूतमेव रूपं आदित्यमण्डलादिषूपासास्थानेष्याविष्करोत्यु- पासकानुनहाय भगवानपारकारुण्यविवशः । तथा चादित्यमण्ड- लान्तर्वतिनो हिरण्मयपुरुषस्य परब्रह्मत्वं सूत्रितं-'अन्तस्तद्धर्मो- पदेशात्' इति । एतत्सूत्रस्य विवरणे च श्रीभाप्यवेदार्थसाहादी दिव्यं सामाविफमेयम्भूतं रूपं समर्थितं विस्तरश: प्रमाणोपन्या- सपूर्वकं श्रीमद्रामानुजस्यामिभिलत एयानुसन्धेयम् । वाक्ये प ..

प्रकाशे] ईश्वरपरिच्छेदः। ४४७ 'स्याद्रूपं कृतकमनुग्रहार्थ तच्चेतसामैश्वर्यात्' इति ध्यानाल- म्बनस्य रूपस्य कल्पितत्वमाशय स्वाभाविकत्वं समर्थितम्-'रूपं वातीन्द्रियमन्तःकरणप्रत्यक्षनिर्देशात्' इति । कठवल्यां हि एतद्रूपस्यातीन्द्रियत्वं भक्तियोगसहकृतविशुद्धमनोग्राह्यत्वं तदर्शन- स्यामृतत्वप्राप्तिसाधनत्वं च श्रुतम्-'न सन्दृशे तिष्ठति रूपमस्य न चक्षुपा पश्यति कश्चनैनम् । हृदा मनीपा मनसाऽभिकृप्तो य एनं विदुरमृतास्ते भवन्ति' इति । अतोऽमायिकत्वेन स्वाभा- विकत्वं सिद्ध्यति । न हि मायिकस्य रूपस्य दर्शनादमृतत्वसम्भवः । व्याख्यातं च द्रमिडभाष्ये-'अञ्जसैव विश्वसृजो रूपं तत्तु न चक्षुपा गृह्यते । मनसा तु साधनान्तरवता गृह्यते । न ह्यरू- पाया देवताया रूपमुपदिश्यते । यथाभूतवादि हि शास्त्रम् इति । तथा 'हिरण्मय इति रूपसामान्याञ्चन्द्रमुखवत्' इति वाक्यम् । हिरण्यसाधा द्धिरण्मयोक्तिन विकारित्वादिति भावः । अत्र च द्रमिडभाष्यम्-'नात्र मयट् विकारार्थमादाय प्रयुज्यते अनारभ्यत्वादात्मनः' इति । परमात्मनः सविग्रहस्य नित्यत्वा- दित्यर्थः। मूर्तामूर्ताख्यरूपेभ्यो विजातीयमनुत्तमम् । अत्यद्भुतं दिव्यभूपाधाड्यममाकृतं वपुः॥ परस्य ब्रह्मणो नित्यसिद्धं सर्वाङ्गसुन्दरम् । परमार्थतया शास्त्रसिद्धमेवं प्रकीर्तितम् ॥ परत्वादिपञ्चकम् । परस्य ब्रह्मणो दिव्यरूपयोगनिवन्धनः । पञ्चधाऽवस्थानभेदः स्फुटमत्र प्रकीर्त्यते ॥

मानमेयप्रकाशिकायां [प्रमेय परत्वं व्यूहविभवावन्तर्यामित्वमेव च । अर्चावतार इत्येवं मता पञ्चप्रकारता ॥ 'अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो मही- यान् । शुक्रेण ज्योतीपि समनुप्रविष्टः प्रजापतिश्चरति गर्ने अन्तः' इत्यत्र ताव दिदं प्रकारपञ्चकं समसूचि । तथाहि-'अम्भ- स्यपारे' इति पद्मनाभन्यूहस्य त्रैलोक्यमुपसंहृत्य प्रलयाणवे शयि- तस्य निर्देशः । 'भुवनस्य मध्ये' इति रविमण्डलमध्यवर्तिनो विष्ण्वाख्यस्य विभवस्य । 'नाकस्य पृष्ठे' इति च परमव्योमनि- लयस्य पररूपस्य । शुक्रेणातिभास्वरदिव्यरूपेण ज्योतीपि सुवर्णा- दिधातूननुप्रविष्ट इत्यर्चायाः । 'प्रजापतिश्चरति गर्भ अन्तः' इत्यन्तर्यामित्वस्य । तथा 'यमन्तः समुद्रे कवयो वदन्ति' 'उद्धृताऽसि वराहेण कृष्णेन शतवाहुना' 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुपेण सर्वम्' इत्यादौ च परव्यूहा- निर्देशोऽस्ति । सात्वतसंहितायां च परव्यूहविभवा वर्णिता विशेषतः-'पाहु- ण्यविग्रहं देवं भास्वज्ज्वलनतेजसम् । सर्वतः पाणिपादं तत्स- र्वतोऽक्षिशिरोमुखम्॥परमेतत्समाख्यातमेकं सर्वाश्रयं तथा। एतत्पूर्व त्रयं चान्यज्ञानाद्यैर्भेदितं गुणैः । विद्धि तद्व्यूहसं- शं वै निरायासफलप्रदम् ॥ मुख्यानुवृत्तिभेदेन युक्तं ज्ञाना- दिकैर्गुणैः । नानाकृति च तद्विद्धि वैभवं भुक्तिमुकिदम् ॥' इति । इदं चोपलक्षणमन्तर्यामित्वाचावतारयोः । विष्वक्सेन- संहितायां तु पश्चापि प्रकारा निर्दिष्टाः स्फुटम्-'मम प्रकारा पञ्चेति माहुर्वेदान्तपारगाः । परो व्यूहश्च विभवो नियन्ता सर्व- प्रकाशे]. ईश्वरपरिच्छेदः। देहिनाम् । अर्चावतारश्च तथा दयालुः पुरुषाकृतिः ॥” इति । वासुदेवमाहात्म्ये च-'असावहमिह ब्रह्मन्नस्मिन्नक्षरधामनि । राधालक्ष्मीयुतो नित्यं वसामि स्वाश्रितैः सह ॥ वैकुण्ठाख्ये महद्धान्नि लक्ष्म्या सह चतुर्भुजः । वसामि नन्दगरुडमुख्यैः साकं च पार्पदैः ।।' इति परत्वम्, 'कुर्वेऽनिरुद्धप्रद्युम्नसङ्कर्षण- समाहृयैः । स्वरूपैर्नैककोट्यण्डसर्गस्थित्यप्ययानहम् ॥' इति व्यूहः, 'यदा यदा च वेदोक्तो धर्मो नाशिप्यतेऽसुरैः। प्रादु- र्भावो भविष्यो मे तद्रक्षायै तदा तदा ॥' इत्यादिना विभवः, 'वासुदेवस्वरूपोऽहं सर्वकर्मफलप्रदः। अन्तर्यामितया वर्ते स्वतन्त्रः सर्वदेहिनाम् ॥' इत्यन्तर्यामित्वं च न्यरूपिपत - 1 'कृष्णस्य सा तु कर्तव्या द्विभुजा वा चतुर्भुजा।' इत्यादिनाऽर्चा- प्यभ्यधायि । सत्सङ्गिजीवनसुधासिन्ध्वोधेमे प्रकारभेदा वर्णितास्तत्र तत्र । 'नराकृति परं ब्रह्म स्थितो योऽक्षरधामनि । वासुदेवादयो यस्माब्यूहाः प्रादुर्भवन्ति च । यः क्रोडाद्यवताराणां धर्ता। 'आनन्ददिब्यमूर्तिश्च...सर्वज्ञःसत्यसङ्कल्पः सर्वकर्मफलप्रदः। अन्तर्यामी सर्वशकिसेवितः परमेश्वरः ॥ वराहावताराणां धर्ता कृष्णः परं बृहत् ।' 'श्रीकृष्णोऽस्तीप्टदेवता । परमात्मा परं ब्रह्म सर्वकारणकारणम् । स हि राधिकया, युकः... युक्तः स लक्ष्म्या रुक्मिण्या...श्रीवासुदेवप्रमुखाश्चतस्तस्य . मूर्तयः । चतुर्विंशतिसझयाकाः केशवप्रमुखास्तथा । पद्मा- नाभवराहाद्या भगवन्मूर्तयोऽपि च । श्रीकृष्णस्यावतारत्वा- •मान्याः सन्त्येव नोऽखिलाः ॥' 'शेली दारमयी लीही मान.प्र.२९ मानमेयप्रकाशिकायां • प्रमेय लेप्या लेख्या चें सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता । यथाविध्यर्चयेत्या यधालब्धोपचारकैः।' 'दीक्षि- तैरौद्धवाचार्याच्छ्रीकृष्णस्याखिलैरपि । प्रतिमा नित्यपूजायै 'ग्रहीतच्या यथारुचि॥' 'चतुर्णा ब्राह्मणादीनां वर्णानां योषि- "तां तथा । प्रतिमापूजन शस्तं विष्ण्वादीनां हि भक्तितः॥ 'भास्वरकोटिसमप्रभ सुवदनं...ध्यायेद्दीर्घभुजं च पीतवसन "श्रीवासुदेवं हृदि ।। अवतारा भगवतो वासुदेवस्य येऽभवन् । तेष्वन्यतममव्यग्रो ध्यायेद्वा योगसाधकः॥ प्रतिमां वा यथा- दृष्टां ध्यायेद्भगवतोऽन्वहम् ॥' 'साक्षात्कृष्णे भगवति नरे नारायणादिपु । तन्मूर्तिषु च नास्त्येव भेद इत्यवधार्यताम् ॥ •"व्यूहस्य वासुदेवादेः केशवादेश्च धारकः । वराहाद्यवताराणां धर्ता भक्तजनेष्टदः॥ वेदादौ प्रोच्यते यश्च परं ब्रह्म परात्परः। भगवानात्मनामात्मा वर्षे स भुवि भारते । प्रादुर्भवति सद्धर्म- रक्षायै च युगे युगे॥'.'अतः कृष्णः स्वयं दत्ते स्वार्चा भक्त- जनाय याम् । तस्यां निजेच्छया साक्षात्प्रविश्यैव विराजते ॥' 'अवतारा भगवतो जायन्ते भुवि ये हरेः। नरोत्तमस्य कृष्ण- स्याक्षरधाम्नो जगत्पतेः॥ प्रत्यक्षो भगवान् यहि न भवेद्भु- वि तर्हि तु । प्रतिमा तस्य संपूज्या यथालब्धोपचारकैः ॥' 'वासुदेवादिरूपेण चतु→हो निरूपितः। तत्र कृष्णस्ततस्त- स्याकृतिः स्पष्टं विभाव्यते ॥ नारायणो वासुदेवः स एव -स्वेच्छया प्रभुः । चतुर्भुजादिरूपेण वैकुण्ठादौ च वर्तते ।। - रामकृष्णादिरूपेण यथाकार्य स भूतले । स्वातन्येणावतीर्णः सन् निघ्नन् दुष्टान् सतोऽवति ॥' 'वासुदेवादिरूपेण चतु.

प्रकाशे] ईश्वरपरिच्छेदः। ४५१ व्यूहः स जायते । केशवाद्यात्मना चासौ चतुर्विंशतिधा प्रभुः ॥ स एव च वराहादीनवतारान् धरातले । दधाति' इत्यादौ । शिक्षापा च-'योऽन्तर्यामितया स्थितः'...स श्रीकृष्णः परंब्रह्म...सर्वाविर्भावकारणम् . कृष्णस्तदवतारांश्च ध्येयास्तत्प्रतिमापि च इत्याविना । तत्र परत्वं नाम अप्रास्ताक्षरपरमव्योमनिलयन वनभूपणा- युधभूपित समस्तशक्तिजुष्टं सुरिससेवित मुक्तप्राप्यं नित्यं रूपम् । 'वेदाहमेतं पुरुषं महान्तम्' 'आदित्यवर्ण तमसः परस्तात्र 'क्षयन्तमस्य रजसः पराके' 'स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवधनात्परात्पर पुरिशयं पुरुपमीक्षते' 'वैकुण्ठे तु परे लोके नित्यत्वेन व्यवस्थितम् । पश्यन्ति च सदा देवं नेत्रोनेन चामराः॥' 'तमसः परमो धाता शङ्खचक्रगदा- धरः । श्रीवत्सवक्षा नित्यनीरजय्यः शाश्वतो ध्रुवः।' इत्यादि- श्रुतिस्मृतिप्रसिद्धम् । न 'पादित्यवर्णत्वमपरिच्छिनचैतन्यप्रकाशखरूपत्वेन परमा- स्मन्युपचरितमिति वाच्यम् । विग्रहयोगेन मुख्य सम्भयति गौणा- श्रयणायोगात् । 'तमसः परसा दिसनेन पाप्रकाशव्यावृत्तिमान नोच्यते । तथा सति 'तमसः परमियेय वचनव्यः पर्याप्तत्वेना- स्वातिप्रत्ययस्य चैयापत्तेः । परखाच्छब्दस्य परदेशरूपाधिकरण- गृत्तिरूपार्थे स्वरसत्वाच तमाशब्दितात्प्रकृतिमण्डलात्परदेशपयु. ज्वलं पुरुपोत्तमस्य दिव्य रूपमेयात्र वियक्षिवम् । यद्विप्रहावच्छिन्ने भगवति पाहुण्यं नित्यामिव्य वत्सर. रूपम् । तत्र नित्यगुणानुभाव्यो पामुदेवो नियोदितसंशयः पर- ४५२ मानमेयप्रकाशिकायां [प्रमेय वासुदेवः, तत आविर्भूतः शान्तोदितसंज्ञकः सङ्कर्षणादिव्यूहकार णत्वात् व्यूहवासुदेव इत्युच्यते । उभयत्रापि नित्यं पाइगुण्यम- भिव्यकमेव । वथा चाभिधीयते विष्वक्सेनसंहितायाम्-'आदि- देवो जगन्नाथो वासुदेवो जगत्पतिः । चतुर्भुजः श्यामलाभ: परमव्योम्नि निष्ठितः॥ नित्योदितः शान्ततनुरास्ते व्योमनि पड्गुणः । शान्तोदितः शान्ततनुर्द्विभुजः पुरुषाकृतिः ॥ इति । 'नित्योदितात्सम्बभूव तथा शान्तोदितो हरिः' इति । 'सम्पूर्णपगुणस्तेषु चासुदेवो जगत्पतिः' इति च । पाझसंहि- तायां च 'ज्ञानादिगुणसामान्ये वासुदेवः प्रकीर्तितः' इति व्यूहवासुदेवस्यापि पागुण्यमुक्तम् । तथा तत्रैव ज्ञानपादे द्वितीयेऽध्याये पररूप एव भुजवर्णादिभेदो पर्णित:-'द्विहस्तमेकवकं च शुद्धस्फटिकसन्निभम् । सहस्र- रविवह्नीन्दुलक्षकोटिसमप्रभम् ॥ मरीचिचकमध्यस्थं चक्रा- द्यायुधलाञ्छितम् । श्रीवत्सकौस्तुभोरस्कं वनमालाविराजि- तम् ॥ किरीटहारकेयूरवलयादिविभूषितम् । पीताम्बरधरं सौम्यं रूपमाद्यं सनातनम् ॥ वासुदेवात्ततो जातो वासुदेवा- हृयोऽपरः । एकवक्रश्चतुर्वाहुश्चक्राद्यायुधलक्षणः ॥ श्रीवत्स- कौस्तुभोरस्को वनमालाविभूपितः । मयूरकण्ठवच्छयामः पीतनैसर्गिकाम्वरः ॥ स वासुदेवो भगवान् सृष्टिस्थित्यन्त- मुक्तिदः । आत्मानं स द्विधा चके पुनः केनापि हेतुना ॥ तयोरेको वासुदेवः शुद्धस्फटिकसन्निभः । नारायणो द्वितीयस्तु नीलाम्बुदसमप्रभः॥ इति । सथा तय पत्रादेः परत्यचिहरूपत्वं यणि सृष्ट्यादिव्यापार- प्रकाशे] ईश्वरपरिच्छेदः। ४५३ द्योतकतया-'स्थित्यै चक्रं सरसिज दधानं सृष्टये पुनः। मुक्तये पाञ्चजन्यं च गदा संहतये तथा ।।' इति । सृक्षादिचिह्नायुध. धारणौपयिकत्वाच चतुर्भुजत्वस्यापि पारमैश्वर्यविहत्व बोध्यम् । तथा च श्रीकृष्णेन चतुर्भुजतयैव खीयं पारमैश्वर्य देवक्यतरा- दिभ्यः प्रदर्शितम् । तथा च वर्णितं हरिवाक्यसुधासिन्धी- 'सोऽसौ कृष्णः सदैवास्ते द्विभुजो मुक्तमोदनः । चतुर्दोः स्वेच्छया क्वापि क्वापि चाप्टभुजस्तथा ॥ कृष्णो यथा स्वपितृभ्यामक्रूरायोद्धवाय च । अदीशच्च रुक्मिण्यै निजरूपं चतुर्भुजम् ॥ द्विवाहुश्च चतुर्वाहु सोऽष्टवाहर्जुनाय तु । सहस्रबाहु रूपं च समदीहशदिच्छया । अतः स सकलैश्व.. यसंपन्नो हि नराकृतिः । अस्तीत्येवावधातव्यं न ह्यसौ मर्त्यध- मवान् ॥' 'चतुर्भुजं चाप्टभुजं स सहस्रभुजं तथा । धामान्त- रेषु रूपं स्वं धृत्वाऽऽस्ते च पृथक्पृथक् ।। कृष्णेनानेन केभ्य- श्चिद्भक्तेभ्यश्च निजेच्छया । रूपान्तराफ्यद्धतानि दर्शितानि भवन्त्यपि ॥ चतुर्भुजं चाष्टभुजं सहनभुजमित्यपि । यथा- प्रयोजन रूपमाविर्भावयति स्म सः॥ इति । सत्यगिजीवनेऽपि- 'द्विभुजःस सदा स्वामी भक्केभ्यो निजदर्शनम् । चतुर्भुजादि- रूपेण दत्ते क्वापि तदिच्छया ।। स च तेषु स्वभक्केषु दिदृक्षा यस्य यादृशी । येषां स्यात्तादृशं तेभ्यो दर्शनं स्वं ददाति हि ॥ केचिच्चतुर्भुजं केचित्पश्यन्त्यष्टभुजं तथा। केचित्सहस्रबाहुँ तं तस्मिन् बृहति धामनि ॥ इति । वेदान्ताचार्यैश्च पररूपेऽपि आगमसिद्धो भुजादिभेदनिर्देशः समर्थितो गधनयव्याख्याने- 'एतेन वर्णभुजादिविप्रतिपत्तिरपि निरस्ता । अचिन्त्यशक्री- [प्रमेय- परमस्य मानमेयप्रकाशिकायां श्वरस्य स्वच्छन्दवृत्तेः परसंज्ञिते रूपेऽपि तत्तत्प्रतिपत्त्यर्थ तत्तत्संहितोता विशेपा नान्योन्यवाधमर्हन्ति । यथा नरसिंह- रूपे सप्तसप्ततिभेदाः। यथा च 'कृष्णरूपाण्यनन्तानी'त्युच्यते। एवं परव्यूहादिष्वपि यथोपदेशं सर्वस्य सत्यत्वम् । गीयते च 'पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः' इतीति । एवं पररूपेऽपि द्विभुजत्वचतुर्भुजत्वभेदयोगस्य प्रामाणिकत्वादेव वासु- देवमाहात्म्ये अप्राकृतगोलोकान्तर्वर्त्यक्षरधामाधिपतेः श्रीकृष्णस्य परतमस्य द्विभुजत्वं महावैकुण्ठे चाप्राकृते तस्यैव चतुर्भुजत्वं च सङ्घीय॑मानं साधु सङ्गच्छते । नित्यं च दिव्यधामस्थं मुक्तप्राप्यं सदैव तु । प्रोद्भूतपाइगुण्यमयं पररूपं प्रकीर्तितम् ।। द्विभुजं तत्वचित्मोक्तं चतुर्भुजमथापि च । स्वच्छन्दवृत्तेर्भतार्थ स्थितिः स्यात्तु तथा तथा । अथात्र दिव्यमहिपीयोगः स्फुटमुदीर्यते । यद्योगेनैव भगवत्सेवा रस्यत्वमञ्चति ।। लोकेऽपि पित्रोः सेवा हि प्रजानन्दविवर्धनी । तथा सेवा प्रीतिकरी भूयाद्राधारमेश्वरे ॥ दिव्यमहिपीवर्णनम् । 'ह्रीश्च ते लक्ष्मीश्च पल्यौ ।' 'महादेव्यै च विद्महे विष्णुपल्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात्' 'नियं देवीमुपह्वये श्रीर्मा देवी जुपताम्' 'ईश्वरी सर्वभूतानां तामिहोपाहूये नियम् "हिरण्यवर्ण हरिणी सुवर्णरजतजाम् । चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो म आवह 'अस्येशाना . प्रकाशे] ईश्वरपरिच्छेदः। जगतो विष्णुपत्नी' 'महीं देवीं विष्णुपत्ती' 'उद्धृताऽसि वराहेण 'वैकुण्ठे तु परे लोके श्रीसहायो जनार्दनः। उभाभ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः ॥' 'देवो वैकुण्ठनाथस्तु अनन्तासनसंस्थितः। सेव्यः श्रीभूमिनीलाभिः प्रादुर्भावस्तु चाखिलैः।' इत्यादिवचनैस्तावच्छ्रयादिदिव्यमहिपीयोगोऽवगम्यते। सर्वत्र भगवतो रूपे सर्वमहिपीयोगेऽपि तत्रतत्र रूपे एकैका प्राधान्यमञ्चति । यथाऽक्षरधामाधिपतेः श्रीकृष्णस्य राधा, यथा या वैकुण्ठाख्ये महद्धान्नि लक्ष्मीः, श्रीवाराहरूपे च भूमिः । तथा च वासुदेवमाहात्म्येऽक्षरे धाम्नि श्रीकृष्णस्य प्राधान्येन राधा- योग उक्त:-'असावहमिह ब्रह्मन्नस्मिन्नक्षरधामनि । राधा- लक्ष्मीयुतो नित्यं वसामि स्वाग्नितैः सह ॥' इति । 'जयासु- शीलाललितामुखानां वृन्दैः सखीनां सह राधया च । सम~- मानं रमया च भामाकलिन्दजाजाम्बवतीमुखानाम् ॥ इत्यत्र तु सर्वमहिपीयोगो वर्णित एव । सत्सगिजीवने सुधासिन्धौ च तथैव-'ददर्श ब्रह्मतेजः- स्थं लक्ष्मीनारायणं हृदि' 'स्ववर्णाश्रमधर्मेण युक्ता श्रीराधि- कापतेः । भक्तिःकार्या दृढेत्येतल्लक्षणं युद्धवाध्वनः।।' 'सेव्यते यो राधाकमलादिभिर्भगवतोचिं तं न सेवेत का' 'श्रीराधि- केशो भगवान् योऽस्ति सर्वेश्वरोऽनघ । इष्टदेवः स एवास्ति मम सच्छास्त्रसम्मतः॥' 'राधारमाद्या अपि शक्तयस्तं भजन्ति सम्राजमिव स्वदास्यः' 'नमो दिव्यगोलोकधाम्नि प्रकाशे समं राधिकागोपिकाभिर्विलासम् ।सदा तन्वते वेणुवाद्याय' 'उक्तस्ते सम्प्रदायोऽथ श्रीकृष्णोऽस्तीष्टदेवता । परमात्मा परब्रह्म सर्व- मानमेयप्रकाशिकायां [ममेय- कारणकारणम् । स हि राधिकया युक्तोराधाकृष्ण इतीर्यते । युक्तः स लक्ष्म्या रुक्मिण्या लक्ष्मीनारायणस्तथा ॥' 'केचि- दाहुश्चिदाकाशे प्राकृततमसः परे । राधालक्ष्मीयुतः साक्षादृष्टी ब्रह्मपुरे ह्ययम् ॥ 'प्राकृततमसः पारे महसि प्रथमाने श्रीरा- धासहितस्त्वं ब्रह्मपुरेऽमाने ॥' 'भक्ता एते तु देहान्ते धाम गोलोकमुत्तमम् । लभन्ते राजते यत्र श्रीराधाकृष्ण ईश्वरः ॥' 'श्रीकृष्णो यः परब्रह्म... नवीननीरदश्यामस्तत्र दिव्ये स्वधामनि । विभात्यतिश्वेतरुचिः सूर्यचन्द्राग्नितेजसः॥ स प्रभुर्दिव्यवसनो दिव्यालङ्कारशोभनः । राधालक्ष्म्यादिभिः स्वाभिः शक्तिभिश्च निपेव्यते॥ 'दिव्यं कृष्णस्य रूपं...शक्त यस्तस्य दिव्याः 'जय देव जय देव जय मङ्गलदाता लक्ष्मीवर राधावर' 'राधालक्ष्म्यादिभिस्तत्र सेव्यमानः स्वशक्तिभिः । रत्नसिंहासने रम्ये श्रीकृष्णो हि विराजते ॥ त्वं प्राकृता- ख्यतमसः पर एव तस्मिन् राधारमाप्रमुखशक्तिभिरानताभि- भक्त्यानुवेलमभिसेवितपादपद्मः॥' 'कृष्णो राधारमायुतः। कोव्यर्केन्दुप्रकाशस्य राधालक्ष्मीयुतस्य ते । ईक्षणं भक्तिध- आदेश्चात्यन्तं दुर्लभं नृणाम् ॥' 'नवीनजीमूतसमानवणं.. श्रीराधिकाकृष्णमहं नमामि ॥ 'इत्थं ये दीक्षिता भक्ता ...देहान्ते परमं धाम विष्णोगोलोकसंज्ञितम् । प्राप्य श्रीरा- धिकाकृष्णं लभन्ते स्वेप्सितं सुखम् ॥' 'सम्पूजितो राधिकया च लक्ष्म्या पश्यन् स्वभक्तं करुणादृष्ट्या ।' 'मुरली वाद- यन्तं च स्थितं राधारमायुतम्' 'लक्ष्मीनारायणं भजेत्' 'श्री- कृप्णो भगवान् तत्र सदा स्वामी विराजते । सप्रेम राधाल- प्रकाशे] ईश्वरपरिच्छेदः। ४५७ क्ष्मीभ्यामर्यमानपदाम्बुजः॥ गोपीगोपानन्दकरो वेणुवादन- तत्परः ॥' 'कांश्चित् श्रीकृष्णरूपं च गोलोकेऽक्षरधामनि । लक्ष्मीराधाद्युपेतं खं दर्शयामास स प्रभुः ॥' 'लीलाविहरणं राधादिभिः परमधामनि' 'कोव्याभनखद्योतो ह्यक्षरादौ य ईश्वरः।राधालक्ष्म्यादिभिर्दिन्यसामथ्या सेव्यतेऽनिशम्॥' 'राधापतेः स्वरूपस्य माहात्म्यस्य च तत्त्वतः । वेदनं यत्तदे- वोक्तं परमं मुक्तिकारणम् ॥' 'सर्वेभ्योऽपि वरिष्ठेभ्यो महत्त्वं राधिकापतेः। श्रुतिस्मृतिपुराणाद्यैर्वणितं वर्तते भृशम् ॥' 'आत्माऽहं परमात्मासौ साक्षात्कृष्णः परात्परः । अनेककोटि- ब्रह्माण्डाधीशो राधारमेश्वरः ॥' 'मूर्ति तु तत्र पश्यामि यदा श्रीराधिकापतेः । तदैव तत्रातिरुचिर्जायते मे स्वभावतः ॥' 'अनन्तशक्तिकलाधिपः' 'एवं निर्गुणसद्रूपात्मनैव प्रीतिराद- रात् । कार्या श्रीराधिकाकान्ते यथाशक्त्यखिलाधिका ॥ 'कृष्णस्तु साक्षाद्भगवान् राधालक्ष्मीपतिः प्रभुः। अनन्तकोटि- ब्रह्माण्डस्थित्युत्पत्त्यादिकारणम् ॥' 'इष्टदेवस्तु भगवान श्रीकृष्णो राधिकापतिः। प्रत्यक्षं च परोक्षं च ज्ञेयं रूपं यदस्य तत् । परोक्षं ब्रह्मधामस्थं गोलोके द्विभुजं सदा । राधया च श्रिया जुष्टं कोटिसूर्यसमद्युति ।।' 'तस्य पादरजो मूर्धा राधा- लक्ष्म्यादिशक्तिभिः । ईशैब्रह्मादिभिःप्रीत्या योगेशैश्चोह्यतेऽ- खिलैः ॥ इति । शिक्षापत्र्यां चारम्भ एवेष्टदेवस्य श्रीकृष्णस्योपास्यभूतस्य पुरुपो- त्तमस्य राधालक्ष्मीभ्यां नित्ययोगः स्फुटमुक्तः श्रीहरिणा स्वयमेव- 'वामे यस्य स्थिता राधा श्रीश्च यस्यास्ति वक्षसि । वृन्दावनविहार मानमेयप्रकाशिकायर्या [प्रमेय तं श्रीकृष्णं हदि चिन्तये ॥ इति । महालक्ष्म्याश्च परमात्मरूपे वक्षसि निवासः पुराणप्रसिद्धः 'का चान्या त्वामृते देवी सर्व- यज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः॥ पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः' 'सततमुरसि सौम्य श्रीर्वधूःसाकमास्ते' 'दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः- श्रियैकरमणं च भवाम दास्यः' 'तस्थाः श्रियस्त्रिजगतां जनको जनन्या वक्षोनिवासमकरोत्परमं विभूतेः' इति । एतच्छ्लोक- टीकायामेव लक्ष्म्या अखण्डसाहचर्य पुरुषोत्तमेन वर्णितं शतानन्द- मुनिना । तथा श्रीमन्नारायणस्मृत्या' इत्यस्य टीकायां परमपुरुषस्य नारायणस्य लक्ष्म्या नित्ययोग उक्त:-'नित्यं श्री लक्ष्मीः विद्यते यस्यासौ श्रीमान् । भूमनिन्देति नित्ययोगे मतुप् । स चासो नारायणश्च' इति । तथा 'हृदये जीववत् स श्रीकृष्णः' इति श्लोकद्वयेन यः सर्वान्तरात्मा सर्वेश्वरः सर्वकर्मफलप्रदः परब्रह्म भग- वान पुरुपोत्तमः सर्वाविर्भावकारणं उपास्यःप्राप्यश्च श्रीकृष्णःप्रस्तुतः' तस्यैव राधालक्ष्म्यादिनित्ययोगः प्रतिपादित:-'स राधया युतो ज्ञेयो राधाकृष्ण इति प्रभुः । रुक्मिण्या रमयोपेतो लक्ष्मी- नारायणः स हि ॥ इत्यादिना तच्छब्देन परामर्शपूर्वकम् । जनमङ्गलस्तोत्रे च 'श्रीकृष्ण नामव्याख्याने श्रीरघुवीराचार्य- रपि पररूपस्यैव राधालक्ष्मीयोगो वर्णितः-'श्रयते-सेवते नित्य- मिति श्रीः, सर्वकालं सर्वभावेन परिचर्यानिरता राधिका, तया युक्तः कृष्णः श्रीकृष्णः परंब्रह्मेत्युक्तः पुरुपोत्तमः। श्रीभ्यां राधालक्ष्मीभ्यां युक्तः कृष्ण इति या। इति मूलस्वरू- पमुक्तम्' इति । तथा 'राधाकृष्णेष्टदेवतः' इति नाम्ना च राधावि- शिष्टस्यैव श्रीकृष्णस्येप्टदेयत्वं श्रीहरेर्मतमिति विज्ञायते ।

1 ४५९ प्रकाशे ईश्वरपरिच्छेदः। एताश्च महिप्यः कचित्पार्श्वतो व्यक्तरूपेण सन्निदधते । कचिचा- दृश्यरूपेण भगवन्मूर्तावेवातिसंश्लिष्टा वर्तन्ते । प्रपश्चितश्चायमर्थः शिक्षापत्र्यां-'स राधया युतो ज्ञेयो राधाकृष्ण इति प्रभुः। रुक्मिण्यारमयोपेतो लक्ष्मीनारायणः सहि ॥...एते राधादयो भक्तास्तस्य स्युः पार्श्वतः क्वचित् । क्वचित्तदङ्गेऽतिस्नेहात् स तु ज्ञेयस्तदैकलः ॥ अतश्चास्य स्वरूपेषु भेदो ज्ञेयो न सर्वथा ॥ इति । सुधासिन्धौ परमैकान्तिकभक्तानामपि लक्ष्मीव- दाढसंवन्धी भगवति वर्णित: “एकान्तिकस्तु यो भक्तो वासुदेवे स निश्चितम् । प्रविश्याऽऽस्ते सेवते च लक्ष्मीवत्तं सदा- दुरात् ॥” इति । लक्ष्मीनिरूपणम्। तत्र लक्ष्म्याः सर्वशक्तिप्रधानाया हरेरिव । रक्षकत्वं शर- ण्यत्वं स्वामित्वं श्रूयतेऽखिलम् ॥ तथा हि लक्ष्मीतने-'कान्त- स्य देवदेवस्य विष्णोः सद्गुणशालिनः । दयिताऽहं सदा देवी नित्यं तद्धर्मधर्मिणी ॥ ईश्वरी सर्वभूतानां पद्माक्षी पद्ममा- लिनी । नायिका सर्वशक्तीनां सर्वलोकमहेश्वरी ॥ महिपी देवदेवस्य सर्वकामदुधा विभोः । तुल्या गुणवयोरूपैर्मन प्रम- नैहरेः । करोमि सकलं कृत्यं नित्यं तद्धर्मेधर्मिणी । साऽह- मङ्कस्थिता विष्णोदेवदेवस्य शाङ्गिणः॥ लालिता तेन चात्यन्तं सामरस्यमुपेयुपी । कर्मणा मनसा वाचा देवदेवं जनार्दनम् ॥ प्रपन्नः शरणं शवन्मां च तद्धर्मधर्मिणीम् । लक्ष्म्या सह हपीकेशो देव्या कारुण्यरूपया । रक्षकः सर्वसिद्धान्ते वेदा- न्तेऽपि च गीयते ॥ इति । शक्तिशक्तिमद्रूपतया पतिपत्नीभाव- ४६०' मानमेयप्रकाशिकाय [प्रमेय- तश्च नियतसम्बन्धालक्ष्मीनारायणयोः कचिद्भेदेनान्यथा च क्वचिन्निरूपणमस्ति । उक्तं च न्यायसिद्धाञ्जने 'श्रिया सह तु दाम्पत्यं शाश्वतं तत एव तु । तयोः साम्यैक्यशक्तित्वतद्व- त्त्वादिगिरां गतिः॥ इति । अतो नारायणस्य जगत्कारणत्वादि- सर्वावस्थास्वपि लक्ष्मीवैशिष्टय विशिष्यानुक्कमप्यनुसन्धेयमेव । तदु- कमहिर्बुध्न्यसंहितायां-'देवाच्छक्तिमतो भिन्ना ब्रह्मणः परमे- ठिनः । एप चैपा च शास्त्रेषु धर्मधर्मिस्वभावतः ॥ भवद्भा- वस्वरूपेण तत्त्वमेकमिवोदितौ ॥ इति । ब्रह्मणः - कार्योपयोग्य- पृथक्सिद्धविशेपणत्वालक्ष्म्याः शक्तिरूपत्वम् । स्वरूपनिरूपफत्वेन चाहन्तारूपत्वमुक्तम् । नैतावताऽस्याः चेतनान्तरत्वनिषेधोऽभि- मतः । पृथड्महिषीरूपेण स्थितेस्तत्रैव वर्णितत्वात् । ये तु 'जग- दुत्पादिका शक्तिस्तव प्रकृतिरिष्यते।सैव नामसहस्रेस्तु लक्ष्मी श्रीरिति कीर्त्यते ॥ इति निर्देशान्मूलप्रकृतिरेवाचेतना लक्ष्मी, रिति वदन्ति । तन्न । एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुःतदंशाः शक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा । तथैवैका पराशक्तिः श्रीस्तस्य करुणाश्रया । ज्ञानादिपाइगुण्य- मयी या प्रोक्ता प्रकृतिः परा ॥' 'ज्ञानशक्तिवलैश्वर्यवीर्य: तेजःप्रभावतीम्' 'पूर्णपाडण्यरूपत्वात्साहं भगवती स्मृता' इत्यादिप्यस्या ज्ञानादिमत्त्वेन प्रतिपादनात् । 'प्रकृतेः पुरुपाचा- न्यस्तृतीयो नैव विद्यते' इत्यादिवचनानि तु लक्ष्मीनारायणयोः प्रकृतिपुरुषरूपविमतविभूतिविशेपामिमानित्वपराणि । 'यो यो जगति पुम्भावः स विष्णुरिति निश्चयः । यो यस्तु नारीभावः स्यात्तत्र लक्ष्मीर्व्यवस्थिता ।। इत्युझविभूविविभागोऽपि यथोचित प्रकाशे] ईश्वरपरिच्छेदः। ४६१ विभक्तोपयोगविशेषाभिप्रायो द्रष्टव्यः । 'मत्तः प्रक्रियते विश्व प्रकृतिश्चास्मि कीर्तिता । स्वतन्त्रा विश्वसिद्धीनां हेतुश्चात्र महा- झुतः॥ शक्तिर्नारायणस्थाहं नित्या देवी सदोदिता । तस्य में पञ्च कर्माणि नित्यानि त्रिदशेश्वर ॥ स्थिरोभावः तथा सृष्टिः स्थितिः संहृतिरेव च । अनुग्रह इति प्रोक्तं मदीयं कर्मपञ्चकम् ।। इत्यादिपु प्रतीयमानं जगत्कारणत्वमस्याः 'नैव शक्त्या विना कश्चिच्छक्तिमानस्ति कारणम् । न च शक्तिमता शक्तिर्विन- काऽप्यवतिष्ठते ।।' इत्युक्तरीत्या ब्रह्मकारणत्वाविरोधेन नेतव्यम् । भगवतो जगद्व्यापारप्रवृत्त्युत्तम्भकत्वादेतत्प्रीत्यर्थतया जगत्करणा- चास्या जगद्व्यापारमयोजकत्वपरं ईशवचनजातं मन्तव्यम् । *त्वया च विष्णुना चाम्ब व्याप्तमेतच्चराचरम्।' इति व्याप्तिवच- नमपि 'सौम्यासौम्यैर्जगद्रूपैः त्वयैतद्देवि पूरितम्' इत्युफविप्रह- व्याप्तिपरं नेतव्यम् । अणुत्वस्य भगवद्भिन्नसर्वचेतनधर्मतायाः स्वर- ससिद्धतया लक्ष्म्या अपि अणुस्वरूपत्वस्यैवैषितव्यत्वात् । अस्याश्च 'अस्येशाना जगतो विष्णुपली' इति श्रुतिसिद्धं परमात्मशेषत्वं अन्यसर्वशेपित्वं च श्रीशब्दस्य 'श्रीयते श्रयते' इति व्युत्पत्ति- द्वयतो लभ्यते । अहिर्बुध्यसंहितायां च श्रीशब्द एवं निरुच्यते- श्रयन्ती श्रीयमाणां च शृणन्ती शुपतीमपि 'शृणाति निखिलान् दोपान् श्रीणाति च गुणैर्जगत् । श्रीयते चाखि- लैनित्यं यते च परं पदम् ॥ इति। (श हिंसायाम् ) शृणाति- हिनस्ति जीवगतं प्रातिकूल्यदोषं इति श्रीजीवदोपनिवर्तिका, -(श्रीब् पाके) श्रीणाति पचति तद्तमन्तःकरणकाठिन्यं भगव- दानुकूल्यविरहप्रयोजक इति श्रीः भानुकूल्यव्यवसायादिगुणव- मानमेयप्रकाशिकायां [प्रमेय- पिका, (भि सेवाग्रां') 'श्रीयते सर्वैः पुरुपकारतया, अयते चे भगवन्तं सदाऽऽश्रितकार्यनिर्वर्तनायेति श्रीः, (भु श्रवणे) शृणोति खयमाश्रितार्तनाद, तं भगवन्तं श्रावयतीति च श्रीः, एवं श्रीशब्द- निर्वचनतोऽस्याः सर्वलोक्क्षेमकरसकलव्यापारवत्वं शक्यमव- गन्तुम् । 'जगत्तया लक्ष्यमाणा सा लक्ष्मी रिति गीयते' इति निर्वचनार्थ विभूतिभूतजगद्वैशिष्ट्यमस्या लभ्यते । एतत्कटाक्षाधीनं हि वैभवं सकलम् । तथोक्तं वासुदेवमाहात्म्ये 'ततः समीक्षिताः प्रीत्या तया मधुरया दृशा'। त्रिलोकीवासिनः सर्वे ऋद्धा आसन् यथा पुरा ।। तस्याः श्रियाश्च भगवान् ददौ स्थानमुरः स्वकम् । तत्र स्थित्वैवसाव्यांपत् त्रैलोक्यं सम्पदात्मना॥ इति । वर्णितं च श्रीवत्साङ्कमित्रैः श्रीस्तवे 'ऐश्वर्य यदशेपपुंसि यदिदै सौन्दर्यलावण्ययो रूपं यच्च हि मङ्गलं किमपि यल्लोके सदि- त्युच्यते । तत्सर्व त्वदधीनमेव यदतः श्रीरित्यभेदेन वा यद्वा श्रीमदितीदृशेन वचसा देवि प्रथामश्नुते ॥' इति । 'मातरं जगतामेतामनाराध्य महत्कुतः । त्वं माता सर्वलोकानां देवदेवो हरिः पिता' 'एकासने तो सह सन्निविष्टौ ब्रह्माण्ड- मातापितरौ मनोज्ञौ' इत्यादिना च सर्वजननीत्वमस्या उच्यते । 'नित्यैवेपा जगन्माता विष्णोः श्रीरनपायिनी' 'अनन्या राघनाहं भास्करेण यथा प्रभा' 'एका शक्तिहरेविष्णोः सर्वभावानुगामिनी । देवी पाडण्यपूर्णा सा ज्ञानानन्दक्रिया- भयी।' इत्यादिना घ भगवन्तं प्रति नियान्तरङ्गविशेषणत्वमस्या अवगम्यते । विष्णुनामसहने प लक्ष्मीयान् श्रीपतिः श्रीनिवास: श्रीनिधिः इत्यादिनामभिः नित्यश्रीमत्त्यं भगयतो लभ्यते । सथा घ प्रकाशं] ईश्वरपरिच्छेदः कि निरुक्तयः-'लक्ष्म्या च नित्ययुक्तत्वालक्ष्मीवानिति कथ्यते' (नित्ययोगे मतुप्) 'स्वयं नियः पतित्वेन वृतत्वात् श्रीपतिः स्मृतः' 'नित्योपघ्ननिवासत्वात् श्रीनिवासः श्रियः स्मृतः' 'श्रीरस्मिन् निहिता नित्यं श्रीनिधिः परिकीर्तितः' इति । 'सर्व- भावानुगामिनी' इत्यनेन सिद्धा अवतारेप्वप्यनुवृत्तिरस्या वयेते विष्णुपुराणेऽपि-'राघवत्वेऽभवत्सीता रुक्मिणी कृष्णज- न्मनि । अन्येषु चावतारेषु विष्णोरेपानपायिनी॥ देवत्वे देव- देहेयं मनुष्यत्वे च मानुणी । विष्णोर्दैहानुरूपां वै करोत्येपा- ऽऽत्मनस्तनुम् ॥' इति । वासुदेवमाहात्म्ये च-भगवतोऽवतारेषु लक्ष्म्या अनुवृत्तिरुक्ता-सीताभिधाना लक्ष्मीश्च भवित्री जन- कात्मजा' 'लक्ष्मीश्च भीष्मकसुता रुक्मिण्याख्या भविष्यति' इति । तथा भक्तान्तिके सदा सश्रीकः श्रीहरिः सन्निहितो वसतीति च तत्रैव व्यक्तम्-'यथा पतिव्रता नार्यों वशीकुर्वन्ति सत्प- तिम् । निजैर्गुणैस्तथा भक्ता वशीकुर्वन्ति मामपि ॥ अनु- यामि श्रिया साकं तानहं परवानिव । यत्र यत्र च ते सन्ति तत्र तत्राहमस्मि हि ॥' इति । तथा तत्रैव पररूपेऽपि लक्ष्मी- योगो वर्णित:-रमासेव्यपादाम्बुजं शास्त्रयोनि तमायं भवन्तं भजे वासुदेवम्' 'मायातीतं कालनियन्तारमुदारं ध्यायामः श्रीकान्तं परात्परमेकम् ।। इति । श्रीविशिष्टस्यैव मतिनिःश्रेयसक- रीति च-विचार्याहं वेदान् मुहरुपगतो निश्चयमिमं रमारामे भक्तिस्त्वयि दृढतरा यमुसुभृताम् । भवेत्तीवैषां क्षयविर- हिता भोगनिकरास्तथा स्युरोका वै परमपुरुषात्यन्तिक- गतिः।।' 'अत्याश्चर्याचनीया ! राधिकाकमलादिभिः ।

'मानमेयप्रकाशिकायां [प्रमेय त्वमेवात्यन्तिकं श्रेयोऽभीप्सतां परमा गतिः॥” इति । 'देव- तिर्यड्मनुष्येषु पुन्नामा भगवान् हरिः । स्त्रीनाम्नी लक्ष्मी- मैत्रेय नानयोर्विद्यते परम् ॥' इति सर्वपुरुषाभिमानित्वं श्रीहरेः सर्वख्य भिमानित्वं च लक्ष्म्या निरूप्य तयोरेव सर्वापेक्षया परत. रत्वं चावणि पुराणरत्ने। अतएव 'आद्या शक्तिर्भगवतो लक्ष्मी- देव्यस्ति नो मते' (स.प्र. २ अ. ३७) इति प्राधान्यं लक्ष्म्या वर्णितं सत्सगिजीवनेऽपि । तथा पररूपेणाक्षरधामस्थेन नित्यसं- श्लिष्टयो राधालक्ष्म्योः स्त्रीरूपता च समवर्णि 'तस्यापश्यत् वाम- भागे लक्ष्मी पद्मकरां च ते। कौसुम्भवसनां गौरी सर्वाभरण- भूपिताम् । मन्दारपुष्पकवरी दिव्यसीमन्तभूपणाम् । शर त्पूर्णेन्दुवदनां पीनोन्नतपयोधराम् ॥ सुनासां सुदती सुभ्रूलतां चारुविकोचनाम् । पादोल्लसद्धंसकयुग्रत्ननूपुर- शिञ्जिताम् ॥ विशालभालविलसद्दिव्यकाश्मीरपत्रिकाम् । सुकपोलां निष्ककण्ठी स्वेशवकवीक्षणाम् ॥ रत्नदण्डेन लघुना चामरेणातिभावतः। वीजयन्तीं निजपति तादृशीं राधिका तथा ॥ इति । लक्ष्मीस्तावत् 'देव्या कारुण्यरूपया' 'तथैवेका परा शक्तिः श्रीस्तस्य करुणाश्रया' इत्युक्तप्रकारेण करुणामयमूर्तिभंगवतः संसारदुःखादितेषु जीवेष्वानयणप्रवृत्तेपु कारुण्यमुद्बोधयति । भूश्च क्षमासारा सापराधानामपि तेपामपराधान् क्षमापयति । राधा च स्वभोग्यतातिशयाविष्कारेणाऽऽश्रितदोपा यथा न चित्ते प्रतीये- रन् तथा बवशीकृत्य भगवन्तं भक्तजनायनं साधयति । राघयतीति दि राधा (राध साध संसिद्धी) रानोति संसिद्धि प्राप्नोति भज- प्रकाशे] ईश्वरपरिच्छेदः। जनोऽनयेति वा । ब्रह्मवैवर्तपुराणस्थश्रीकृष्णजन्मसण्डे च राधा- शब्दो निरुकोऽक्षरश:-रेफो घनेकजन्माचं कर्मभोगं शुभाशु- भम् । आकारो गर्भवासं च मृत्यु रोगं च नाशयेत् ॥धकार आयुपो हानिमाकारो भववन्धनम्' इत्यादिना । तदेवं उजीवनो- पयोगितया चेतनानीमुपजीव्यतमो नाम भगवतो राधालक्ष्म्यादि- दिव्यमहिपीयोग इति स्थितम् । नित्यदिव्यपार्षदवर्णनम् । इदं च लक्ष्म्यादिविशिष्टं परं रूपं सूरिभिः सदाऽनुभूयमानमा- मायते-'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते' इति । पद्यत इति पदं पररूपम् । सूर्य इव सर्षलोकस्य चक्षुर्ज्ञानवि- कासकारणं यः, तं परमात्मानमप्राकृतपरमव्योमनिलयनमतिशयित- ज्ञानवन्तः स्तुतिशीला अस्थानरक्षाव्यसनिनः सूरयः सदाऽनुभव- न्तीति यावत् । 'यदक्षरे परमे प्रजाः' 'यस्मिन् देवा अधि- विश्वे निपेदुः' 'यत्र पूर्व साध्याः सन्ति देवाः' 'यत्रर्षयः प्रथमजा ये पुराणाः' इत्यादौ प्रजादिशब्दैव नित्यसूरय एव विवक्ष्यन्ते।प्रकर्षण जायन्ते इति प्रजाः। नित्यासङ्कुचितज्ञानप्रकाश- त्वाद्दीप्यमानदिव्यविग्रहयोगाद्वा देवाः । क्रान्तदर्शित्वाच ऋपयः, सूरय इति । अत्र चानुसन्धेयं नामसहस्र 'प्रजापति' रिति नानो भाष्यं-'बद्धमुक्तेभ्यःप्रकर्पण जायन्ते भवन्ति (लब्धसत्ताकाः) इति प्रजाः-सूरयः, तेयां पतिः-स्वामी नित्यपरिचरणीयः इति । तथा च निरुक्तिः-'वद्धादुत्कृष्टतो ये च जायन्ते सूरयः मजाः । तेषां यो नित्यसूरीणां पतिः स स्यात्प्रजापतिः ॥ मान०प्र० ३० [प्रमेय- ४६६ मानमेयप्रकाशिकायां इति । पररूपस्य नित्यमुक्तानुभाव्यत्वं विष्वक्सेनसंहितायामपि वर्णितम्-'वैकुण्ठे तु परे लोके श्रीसहायो जनार्दनः । उभा- भ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः ॥ महायोगी जग- द्धाता दिव्यसिंहासनोपरि । दिव्यसंस्तरणोपेते शेपाहिफण- मण्डिते ॥ अप्राकृततनुर्देवो नित्याकृतिधरो युवा । नित्या- तीतो जगद्धाता नित्यैर्मुक्तैश्च सेवितः ॥ बद्धाञ्जलिपुटैहष्टैनि- मलनिरुपद्वैः । विमलैर्भूपणैर्नित्यैर्भूपितो नित्यविग्रहः ॥ पञ्चायुधैः सेव्यमानः शङ्खचक्रधरो हरिः।' इति । अयमर्थो श्रीरामानुजाचायः गीताभाष्ये सङ्गृह्य निरूपितः-- 'स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेपशेपतैकरति- रूपनित्यनिरवद्यनिरतिशयज्ञानक्रियैश्वर्याद्यनन्तगुणगणापरि- मितसूरिभिरनवरताभिष्टुतचरणयुगलः' इति । नित्यसूरयश्चा- नन्तगरुडविष्वक्सेनादयः श्रीदामनन्दसुनन्दजयविजयप्रभृतयश्च । वथा च गद्यनये भगवता भाष्यकृता भापितं-'शेपशेपाशन- गरुडप्रमुखनानाविधानन्तपरिजनपरिचारिकापरिचरितचरण- युगल' इति । श्रीमद्यामुनमुनिभिश्च प्राधान्यतः अनन्तगरुडं- विश्वक्सेनानां सेवाप्रकारोपवर्णनपूर्वकमनन्तसूरिसेवाप्रकारः प्रद- शितः स्तोत्ररत्ने-'निवासशय्यासनपादुकांशुकोपधानवर्षातप- वारणादिभिः । शरीरभेदैस्तव शेपतां गतैर्यथोचितं शेप इतीरिते जनैः ॥ दासः सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः । उपस्थितं तेन पुरो गरुत्मता त्यदछिसम्मर्दकिणादशोभिना ॥ त्वदीयभुक्तोझितशेपभो- जिना त्वया निसृष्टात्मभरेण यद्यथा। प्रियेण सेनापतिना - प्रकाशे] ईश्वरपरिच्छेदः। ४६७ न्यवेदि तत्तथानुजानन्तमुदारवीक्षणैः ॥ हताखिलक्लेशमलैः स्वभावतस्त्यदानुकूल्यैकरसस्तवोचितैः । गृहीततत्तत्परि- चारसाधनैनिपेन्यमाणं सचिवैर्यथोचितम् ॥' इति । सर्वपां नित्यानां ज्ञानभोगयोरीश्वरेण मिथश्चात्यन्तसाम्येऽपि विग्रहाधिका- रयो¥यत्य केपुचित् भगवन्नित्येच्छासिद्धमिति चावणि एतद्भाष्ये वेदान्ताचार्यः । वासुदेयमाहात्म्ये चैवमेव दिव्यपार्पदसावः प्रत्यपादि- 'धर्मेण वेदैरखिलर्भगैश्च ज्ञानादिभिः संयतपाणिपः । निपे- व्यमाणं च सुदर्शनाद्यैर्निजायुधैर्मूर्तिधरैरनेकैः ॥ मसारमा णिक्यसुवर्णवर्णैः सितैश्च कैश्चिन्निजपार्षदाग्यैः । उपाश्रित चक्रगदाब्जशजलसद्भुजैनन्दसुनन्दमुख्यैः ॥ श्रीदाममुख्यै- रथ गोपवेपत्त्यावनम्रद्धिभुजैरनेकैः । उपास्यमानं गरुडेन चाग्रतो विभूतिभिश्चाष्टभिरानताभिः ॥' 'नन्दताादिभि- र्जुष्टं पार्पदैश्च चतुर्भुजैः' इति । सत्सगिजीवनेऽपि-'श्रीदामविष्वक्सेनाद्यैः पार्पदैर्दियवि- ग्रहः । सेव्यमानश्च सच्छत्रचामरव्यजनादिभिः ॥ अस- हयैश्च महामुक्तैर्दिव्यसुन्दरविग्रहः । दिव्यैरनेकोपचारः पूज्य- मानपदाम्बुजः ॥' 'श्रीदामनन्दप्रमुखः पार्पदैर्दिव्यविग्रहै। सेव्यमानः सितच्छत्रचामरादिमिरादरात् ॥ मुक्कैरन्यैश्चार्य- मानो गन्धपुप्पांशुकादिभिः' 'श्रीदामविष्वक्सेनाद्यैः पार्पद- प्रवर्निजैः। सेवितं राजचिह्नश्च छन्त्रव्यजनचामरैः ॥' इति । सुधासिन्धावपि-'श्रीदामाद्यैश्च नन्दाद्यैः पार्षदप्रवरैस्तथा । अणिमादिभिरैश्चविद्याद्याभिश्च शक्तिभिः॥' 'तस्मिन् हि ४६८ मानमेयप्रकाशिकायां प्रमेय- परमेधाम्नि सदा कृष्णो विराजते। स्वसधभैरसयातर्महामुक्कै- रुपाश्रितः॥' 'निजेऽक्षरे परे धाम्नि कोटिसूर्यादिभास्वरे । सदा दिव्याकृतिः कृष्णो भगवान् पुरुषोत्तमः । मुक्तैर्विराजते दिव्यब्रह्मरूपैनिपेवितः।' 'दिव्याभिः सर्वसम्पद्धिः पार्पदैदि- व्यविग्रहः । शक्तिभिः सेव्यमानश्च स्वतन्त्रोऽस्तीश्वरेश्वरः॥' 'परोक्षं ब्रह्मधामस्थं गोलोके द्विभुजं सदा। राधया च श्रिया जुष्टं कोटिर्यसमद्युति ॥ श्रीदामनन्दप्रमुखैः पार्पदैः सन्निपेवितम् ।' 'अक्षरे धाम्नि कृष्णस्य तद्भक्तानां च सर्वशः। या सन्त्याकृतयस्तास्तु सत्या दिव्याश्च भासुराः॥ पुरुषाकृ. तयः सन्ति स च ते तत्र धामनि। सच्चिदानन्दरूपाश्च दिव्या- गवस्त्रभूपणाः॥ तैः सेवितोऽसौ विविधैः प्रेम्णा दिव्योपचा- रकैः । परमानन्ददस्तेभ्यो वर्तते तत्र सर्वदा॥' इति । इदमेव सूरिसेव्यं भगवतो दिव्यं रूपं मुक्तप्राप्यम् । तथा ह्याम्नायते-'भक्तिप्रपत्तिभ्यां प्रसन्नस्य भगवतोऽनुग्रहान्निवृत्तकर्म- बन्धनस्यान्तकाले च हार्दानुमहेणाभिव्यक्तमूर्धन्यनाडीद्वारतः शीर्ष- कपालभेदनेन निष्क्रान्तस्यार्चिराद्यातिवाहिकगणैर्देवयाने पथि सत्कृ- तस्यामानवेन सह गच्छतः प्रकृत्यावरणादिभेदनपूर्वकं प्रकृतिम- ण्डलाप्राकृताकाशयोः सीमापरिच्छेदिकायां विरजायामवगाहनेन निवृत्तसूक्ष्मदेहस्याऽमानवकरस्टष्टस्याऽऽविर्भूतनिर्मलदिव्यदेहस्य दि- व्यदेवतागणेHझालङ्कारेणालङ्कृतस्स दिव्यद्वारपालायभ्यनुज्ञया पर- ब्रह्मणो भगवतो थासुदेवस्याऽऽस्थानमण्डपं प्राप्य तत्र तदिव्यपर्य- मधिरूढस्य तेन चावे स्थापयित्वा कृतप्रभप्रतिवचनश्रवणत आन- दनिर्भरेण परिपूर्णकटाक्षामृतवर्षेणाभिपिच्य निये स्पदास्ये नियो- ..

प्रकाशे] ईभ्यरपरिच्छेदः। ४६९ 'जितस्य गुक्तस्य यावदात्मभाव्यपरिछिन्नपरब्रह्मानुभवसेवालक्षणा मोक्षसाम्राज्यलक्ष्मी: कठच्छान्दोग्यतैत्तिरीयकोषीतम्यादी-वि- ज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।।' 'शतं चैका च हृदयस्य नाड्यस्तासों मूर्धानमभिनिःसृतका । तयोर्ध्वमायन्नमृतत्वमेति ॥' 'तेऽचि- पमभिसंभवन्ति अर्चिपोऽहरह आपूर्यमाणपक्षमापूर्यमाणपक्षा- धान् पडुद तिमासास्तान मासेभ्यः संवत्सरं संवत्सरादादित्यं आदित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुपोऽमानवः स एनान् ब्रह्म गमयति ॥' 'एप सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति ।' 'एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नी. कामरूप्यनुसञ्चरन् एतत्साम गायनास्ते' 'येन येन धाता गच्छति तेन तेन सह गच्छति' 'छाया वा सत्वमनुगच्छेत् ।' 'स एतं देवयानं पन्थानमापद्याग्निलोक- मागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकंस प्रजापतिलोकं स ब्रह्मलोकं स आगच्छति विरजां नदी तां मनसैवात्येति । स एप विसुकृतो विदुप्कृतो ब्रह्म- विद्वान् ब्रह्मैवाभिप्रैति।स आगच्छति अपराजितमायतनम् ! स आगच्छति इन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः। सं आगच्छति प्रभुविमितम् । स आगच्छति विचक्षणामासन्दी -सा प्रज्ञा । स आगच्छत्यमितौजस पर्यङ्कम् । तस्मिन् ब्रह्मास्ते तमित्यवित्पादेनैवाय आरोहति । तं ब्रह्माह कोऽसीति तं प्रतियात् । ऋतुरस्म्यातवोऽस्मि सा या ब्रह्मणो जितिर्या ज्यष्टिस्तां जिति जयति तां व्यष्टिं व्यर्थते य एवं वेद' इति ।

[प्रमेय भगवतः मानमेयप्रकाशिकायां • सूत्रकृता चैतत्सर्व निर्णीतम्-'तदधिगम उत्तरपूर्वाधयोर- श्लेपविनाशौ' 'अनारब्धकार्ये एव तु पूर्वे तदवधेः' 'भोगेन वितरे क्षपयित्वाऽथ सम्पद्यते' 'तदोकोग्रज्वलनं तत्पका- शितद्वारो विद्यासामर्थ्यात्तच्छेपगत्यनुस्मृतियोगाच हार्दानु- ग्रहीतः शताधिकया' 'अचिरादिना तत्प्रथितेः' 'सम्पद्या- विर्भावः स्वेन शब्दात् 'जगद्व्यापारवर्ज प्रकरणादसन्निहि- तत्वाच' 'भोगमात्रसाम्यलिङ्गाच' 'अनावृत्तिः शब्दादना- वृत्तिः शब्दात्' इति । क्वचिदेहान्त एव दिव्यदेहप्राप्तेर्वर्णनं त्वासनकालत्वाभिप्रायेण नेतव्यम् । अवश्यम्भावित्वाद्विदुपो दिव्यदेहप्राप्तः प्रसादविशेषात्पुरुपविशेपे सम्भवाभिप्राय वेत्यास्तां तावत् । मुक्त प्राप्यत्वादेव पररूपस्य 'मुक्तानां परमा गतिः' इति कल्याणतमं नाम परमात्मनोऽन्वाख्यायते नामसहस्रे । अन च बहुवचन- निर्देशाद्वयधिकरणप्रयोगाच मुक्तानां मिथः परमात्मनश्च भेदो व्यक्तः । अतोऽद्वितीयनिर्विशेपब्रह्मैक्यापत्तिलक्षणा मुक्तिरिति वादो न स्थाने । सर्वतो व्याप्तस्यापि परमात्मनः खासाधारणातिभास्वर- नित्यदिव्यमङ्गलविप्रहविशिष्टस्याप्राकृतेऽक्षरे धामविशेपेऽवस्थितिः सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः' इति श्रुतिप्र- तिपन्ना । इयमेव च परावस्था मुक्तप्राप्या नाम अत एवाचिरा- दिगतिश्रुतेरप्यर्थवत्त्वमिति यावत् । अचिरादिगतिप्राप्यदिव्यदे- शस्थितो हरिः। पाइगुण्यमूर्तिर्लक्ष्म्यादिजुष्टो भूपणभूपितः ॥ पक्रादिभिर्दिव्यमूर्तिधरैनित्यमुपासितः । नित्यमुकरनेकोप- चारतोऽर्यः परः स्मृतः ॥

प्रकाशे . ईश्वरपरिच्छेदः। व्यूहनिरूपणम् । नित्याविभूतपाइगुण्यं पररूपम् । सत्येव पाड्गुण्ये कार्यवशा- द्यद्यपे द्विकस्य द्विकस्याभिव्यक्तिस्तत् व्यूहसंज्ञम् । यथा सङ्क- पेणे ज्ञानयलयोः, प्रद्युम्न ऐश्वर्यवीर्ययोः, अनिरुद्ध च शक्तिते- जसोः । यथाहुः पराशरभट्टार्याः-'पाइगुण्याद्वासुदेवः पर इति स भवान् मुक्तभोग्यो पलाड्याद्वोधात्सङ्कर्षणस्त्वं हरसि वित- नुपे शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नः सर्गधौं नयसि च भगवन् शक्तितेजोऽनिरुद्धो विभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज॥' इति । एवमेव च गुणभेदनिवन्धनः कार्यभेद एपामुपवार्णितो विष्वक्सेनसहितायाम्-'तत्र ज्ञानवलद्वन्द्वाद्रूपं साङ्कर्षण हरेः। भगवानच्युत्तोऽपीत्थं पाड्रगुण्येन समेधितः॥ वलज्ञाने गुणौ तस्य स्फुटौ कार्यवशान्मुने । बलेन हरतीदं स गुणेन निखिल मुने ॥ ज्ञानेन तनुते शास्त्रं सर्वसिद्धा- न्तगोचरम् । वेदशाखमिति ख्यातं पाश्चरात्रं विशेपतः॥ ऐश्वर्यधीर्यसम्मेदादूपं प्राद्युम्नमुच्यते । ऐश्वर्येण गुणेनासौ सृजते तच्चराचरम् ॥ वीर्येण सर्वधर्माश्च प्रवर्तयति सर्वशः। शक्तेिजःसमुत्कर्षादनिरुद्धतनुहरे । शस्या जगदिदं सर्व- मनन्ताण्डनिरन्तरम् ॥ विभर्ति पाति च हरिमणिसानुरिवा- गुकम् । तेजसा निखिलं तत्त्वं ज्ञापयत्यात्मनो मुने ॥' इति। तथा सङ्कर्षणो रुक्माभः प्रद्युम्न इन्द्रनीलप्रतीकाशोऽनिरुद्धस्तादा- स्विकघनप्रभ इत्यपि तत्रैव स्फुटम् । 'तदेकान्तवपुर्धर' इति विशेपणादेपामसाधारणाप्राकृतरूपयत्त्वं च लब्धम् । श्रीभागवते व्यूहानां परमपुरुपादनन्यत्वं, क्षेत्रज्ञानां जामस्व- [प्रमेय- मानमेयप्रकाशिकायां प्रसुपुप्तिमुत्तयावस्थानिर्वाहकत्वेन तद्द्वारकविश्वतैजसमाक्षतुरीयनाम- • भाक्त्वं च कथितं-'वासुदेवः सङ्कर्पणः प्रद्युम्नः पुरुषः स्वयम्। अनिरुद्ध इति ब्रह्मन् मूर्तिब्यूहोऽभिधीयते ॥ स विश्वस्तै- जसः प्राज्ञस्तुरीय इति वृत्तिमिः । अर्थेन्द्रियाशयज्ञानैर्भग- वान् परिभाप्यते ॥ अङ्गोपाङ्गायुधाकल्पैर्भगवान् तच्चतुष्ट- यम् । विभर्ति स चतुर्मूतिर्भगवान् हरिरीश्वरः।।' इति । जामदाद्यवस्थात्रयवशावस्थितै वैस्तत्तदवस्थानिवृत्त्यर्थमुपास्याश्चैता व्यूहमूर्तयः । अस्यैव च चतुर्वृहस्य भगवतः समस्तव्यस्तप्रणवो- पासनं निःश्रेयसफलकमानायते माण्डूक्ये । मार्कण्डेयपुराणायुक्तं सर्पणादेः सगुणत्वं वासुदेवस्य निर्ग- णत्वं च अनन्तब्रह्माण्डसृयाद्यधिकृतसत्वादिगुणाधिष्ठाननिवन्धन कैवल्यामिमाननिबन्धनं च मन्तव्यम् । 'प्रधानक्षेत्रज्ञपति - णेश: 'संसारवन्धस्थितिमोक्षहेतुः' इति गुणाधिष्ठान संसारमु- क्तिप्रवर्तकत्वं च भगवत एव हि श्रूयते । अतः सङ्कर्षणादीनां न क्षेत्रक्षकोटावन्त यः शङ्कनीयः । 'वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्घर्पणात्मद्युम्नसंज्ञं मनो जायते प्रद्युम्नादनि- रुद्धसंज्ञकोऽहङ्कारो जायते' इत्यत्र च जीवाद्यभिमानी सङ्घर्पणा- दिविवक्षितः । 'विज्ञानादिभावे वा तदप्रतिषेधः' इति ब्रह्मसू- भाष्ये च सङ्घर्पणादेः परब्रह्मानन्यत्वं स्थापितं श्रीभाष्यकारैः । धतुर्वृहः परमात्मा सृष्टिस्थितिलयमोक्षनिर्वाहक इति श्रीविष्णुपु- राणेऽपि स्मयते-'व्यूह्यात्मानं चतुर्धा च वासुदेवादिमूर्तिभिः । सृष्यादीन् प्रकरोत्येप विशुद्धात्मा जनार्दनः॥ इति । यामु- देवमाहात्म्येऽपि अक्षरधामाधिपतेः श्रीकृष्णस्यैव सङ्कर्षणादिमूग प्रकाशे] ईश्वरपरिच्छेदः। ४७३ सृष्टमादिर्जगद्व्यापारः प्रतिपाद्यते-'कुर्वेऽनिरुद्धप्रद्युम्नसङ्कर्पण- समायैः । स्वरूपैनैंककोट्यण्डसर्गस्थित्यप्ययानहम् ॥' इति । तथा चोच्यते सत्सशिजीवने-'श्रीवासुदेवममुखाश्चतत्र- स्तस्य मूर्तयः। चतुर्विंशतिसंख्याकाः केशवप्रमुखास्तथा ।।' 'चासुदेवादयो यस्माद् व्यूहाः प्रादुर्भवन्ति च। चत्वारः केश- वाद्याश्च चतुर्विंशतिरीशितुः ॥ 'अनेकाण्डोद्भवाद्यर्थ निर्गुणः स यदा प्रभुः । मायागुणानुपादत्ते सगुणः प्रोच्यते तदा ॥ 'अनिरुद्धस्वरूपस्तु मायायास्तु रजोगुणम् । गृहीत्वा ब्रह्म- संज्ञः सन् ब्रह्माण्डं सृजति प्रभुः ॥ त्रैलोक्यमौदरीकृत्य लये नैमित्तिके ह्यसौ । एकार्णवजले शेते काले सृजति तत्पुनः॥ स प्रधुम्नस्वरूपेण वासुदेवोऽखिलं जगत् । सत्त्वं मायागुणं धृत्वा पाति विष्णुः प्रजापतिः ॥ असौ वैराजपुरुषः कथ्यते लोकपालकः । मुफि चतुर्विधां दत्ते स्वभक्तभ्यः सुरारिहा ।। सङ्कर्पणस्वरूपेण चासुदेवस्तमोगुणम् । अङ्गीकृत्यैव माया- याः शिवाख्यः संहरत्यदः ॥ शेषरूपेण भूगोलं धत्ते सङ्कर्षपो ह्यसौ। मूर्तयो वासुदेवस्य पडेताः सगुणा मताः ॥ कार्यार्था मूर्तयोऽप्यासां सन्त्यन्याश्च सहस्रशः। एताः सर्वे गुणत्यागे प्रोच्यन्ते निर्गुणा अपि ॥ इति । विष्णुनामसहस्त्रे च एकस्यैव परमात्मनः चतूरूपत्वं पासुदेवा- दिभेदतः 'चतुरात्मा चतुर्दूहः' इति नामभ्यामभिहितम् । तथा घ भाप्यम्-'इत्थं चतुरात्मा वासुदेवः सर्पणः प्रद्युम्नोऽनिरुद्ध इति। कथमेकस्य पातुरात्म्यं, तनाह चतुर्दूहः । यथोक्तप्रयोजनेभ्यो ध्येयाराध्यन्यतये प समस्तव्यस्तेन गुणपकेन तद्यक्षकव्यवस्थिवा- ४७४ प्रमेय मानमेयमकाशिकायां वयववर्णभूपणप्रहरणवाहनध्वजादिभि मदाद्यवसाचतुष्टयविशि- धामिमूर्तिभिश्चतुर्धाव्यूह्यत' इति । तत्तत्कार्यानुगुणगुणाभिव्यक्ति व्यक्षकविचित्रवर्णायुधायुपेतमूर्तिभेदत एकस्य पारात्म्यमी.. 'चतुर्दूह' इत्यस्य तात्पर्यम्। एकैकेऽपि व्यूहे जीवीयजाप्रदायव- स्थानिर्वाहकावान्तररूपभेदश्यातुरात्म्यशब्दितो भगवच्छाम्नसिद्धः । "चातुरात्म्यमथापीत्थं कृपया परमेष्ठिनः । उपासकानु महाथं यः परश्चेति कीय॑ते । शान्तोदितात्प्रवृत्तं च बातुरा- म्यत्रयं तथा। उपासकानुग्रहार्थ सेनेश मम तत्पुनः॥ सुपुति: स्वमसंज्ञ यजामत्संज्ञं तथा परम्। चातुरात्म्यं महाभाग पञ्चम पारमेश्वरम् ॥” इत्यादिकमत्र भाष्यम् । सद्गृह्य च वर्णितमिदं श्रीपरशरभट्टापायः 'जामत्स्वमात्यलसतुरीयमायध्यातक्रमवदुः पास्यः। स्वामितत्तत्सहपरिवहश्चातुव्यूह वहसि चतुर्धा॥' इति । संहिताभेदेषु दृश्यमानं व्यूहेऽभिन्न नानो विभिन्नमूलकत्वं वर्णभुजायुधकार्यादिवैपम्यं च कल्पभेदेन निर्वाह्य, यथा रुद्रस्य ब्रह्मानुजत्यनापुन्नत्वादिकं तद्वत् । तथा चोक्त तत्वमुक्ताकलापे- मूर्तीनां मूलमूलि प्रभृतिषु बहुधा चैपरीत्यप्रतीतर्वर्णादौ वीज. तादिव्यबहतिवदियं वर्णना भाषनार्था । मै कालादिभेदा- स्प्रशमितविहतौ कल्पितत्वं न कल्प्यं नोचेब्रह्माद्युदन्तेष्य- पि विषमकथामेदवैयाकुली स्यात् ॥' इति । तथा भगपच्छाने तन पत्र व्यूहभेदस्य प्रतिपाद्यमानं शिष्याचार्यभावादिकं पुरुषभेद- मन्दरा न घटेनेत्याशय तत्रैव परिहतं 'युक्ति प्रश्नोत्तरादेर्न हि पुरुषभिदा वुद्धिभेदं च मुक्त्या तस्मान्यूहादिभेदे कतिचन पुरुषाः स्युः परेणानुबद्धाः । तन्न स्वच्छन्दलीलः स्वयमभि- ।

। भकाशे] ईश्वरपरिच्छेदः। नयति स्वान्यतां सर्ववेदी तच्छिप्यादिवृत्तिप्रसूतिमिह सतां शिक्षयन् सानुकम्पः।। इति । सङ्घर्पणादेर्धामविशेषोऽपि वात्स्यवर- दगुरुभिरुपवर्णितः समासतः । यथा-'आमोदे भुवनेप्र मोद उत सम्भोदे च सङ्कर्षण प्रद्युम्नंच तथाऽनिरुद्धमपि तान् सृष्टि स्थिती चाप्ययम् । कुर्वाणान् मतिमुख्यपड्गुणवरयुक्तांत्रियुग्मा- स्मकैः व्यूहाधिष्ठितथासुदेवमपि तं क्षीराधिनाथ भजे॥ इति । अवार्य सङ्ग्रहः-तत्र ज्ञानवलाभ्यां युक्तः सङ्कर्षणः कुर्यात् । संहारं बलतोऽयं ज्ञानाच्छास्त्रप्रवर्तनं चापि ॥ प्रद्युम्नश्चैश्व- योत्सृष्टिं वीर्यात्प्रवर्तन तनुते । धर्मत्य त्वनिरुद्धः शत्स्या सर्वस्य रक्षणं कुरुते ॥ प्रतिपक्षनिरासं चै करोति तेजोगुणेन भक्तानाम् । पुंसा परमेणैवं तत्तत्कार्याय तत्तदाकाराः ।। स्वेच्छातो लीलायै धृताश्च कल्याणसिद्धये जगतः । ज्ञेया अगुणाः सर्वा ध्यातव्या मुक्तिकामनावद्भिः॥ वासुदेवादयो व्यूहाश्चत्वारः परिकीर्तिताः । एकैकमूर्तितो मूर्तित्रितयं च तथा स्मृतम् ॥ तथा व पानसंहितायां वचनम्- 'ज्ञानादिगुणसामान्ये वासुदेवः प्रकीर्तितः । सङ्घर्पणो वासुदेवात्तस्मात्प्रद्युम्नसंज्ञितः ॥ प्रद्युन्नादनिरुद्धोऽभूत्सर्व एते चतुर्भुजाः । मूर्तिभ्यश्च चतुर्थ्यश्च चतुर्विंशतिमूर्तयः ।। जायन्ते क्रमशो ब्रह्मन् दीपाद्दीपान्तरं यथा । सर्वे चतु- र्भुजाः पद्मशङ्खचक्रगदाधराः । वासुदेवादादिदेवात्मथमा- केशवस्तथा ॥ नारायणो माधवश्च जज्ञिरे भूसुरोत्तम।। सङ्कर्षणाचं गोविन्दो विष्णुश्च मधुसूदनः। त्रयस्ते समजायन्त प्रद्युम्नाच त्रिविक्रमः ॥ वामनः श्रीधरश्चैते जज्ञिरे मुनि- ४७६ मानमेयप्रकाशिकायां [प्रमेय सत्तम। अनिरुद्धात हपीकेशः पद्मनाभश्च सुव्रत ॥दामोदरश्च तेनेत्य द्वादशांशाः प्रजज्ञिरे।' इति । 'वासुदेवाञ्चतन्नाम्ना तथा सङ्कर्षणादपि । प्रद्युम्नादपि तन्नाम्ना तन्नाम्नैयानिरुद्धकात् ॥ अभूवन क्रमशः तेभ्यश्चतुर्व्यः पुरुषोत्तमः। अधोक्षजो नृसिं- हश्च चतुर्थश्चाच्युतो मतः॥ चतुर्थ्य एवं तेभ्योऽमी जज्ञिरे च यथाक्रमम् । जनार्दनस्तथोपेन्द्रो हरिः कृष्णः समाख्यया। इति च । तत्र केशवादयो मार्गशीपादिशक्लपक्षकादश्यधिदेवताः वासुदेवादयश्च कृष्णपक्षकादश्यधिदेवताः । मलमासे तूभयोरप्येका- दश्योः साक्षात्पुरुषोत्तम एवाधिदेवता भवति । तथा च सत्स- जिजीवने वर्णितं-'मूर्तीनां केशवादीनां वासुदेवस्य वो जनाः। कथयामि यथाशास्त्र लक्षणानि पृथक पृथक् ॥ चतुर्विंशति- रूपिण्या एकादश्याः प्रियाय सः । चतुर्विंशतिमेकोऽपि विष्णुमूतीर्दधाति वै ॥ शखचक्रगदाब्जानां स्थानभेदेन धारणात् । नामान्युक्तानि तासां वै चतुर्विंशतिरेव हि ॥ इत्यादिना । अत्र 'चतुर्विशतिमेकोऽपि विष्णुमूर्तीर्दधाति वै' इत्युक्त्या तावतीपु मूर्तिपु चेतनैक्यं तावरसुनिश्चेयम् । एयमन्य. त्रापि बोध्यम् । वासुदेवादीनां केशवादीनो चोर्ध्वपुण्डूस्थानेषु स्थित्यादि घाभिधीयते 'एतदन्तर्गताः सर्वे मूर्त्यन्तरसमायाः । केशयाद्या द्वादश च ललाटादिषु निष्ठिताः। शरीररक्षका सर्वे ध्यायिनां तापशान्तये ॥' 'तव तन स्मरन् मन्त्रैः केश- वादीन् न्यसेत्क्रमात् । 'ललाटे हृदि वाह्वोश्च वासुदेवादि- संज्ञया । धारयित्वोर्ध्वपुण्ड्रानि तन्मध्ये कौगुमं विधुम् ॥ 'यासुदेवं स्मरेद्राले हदि सङ्कर्षणं तथा । प्रद्युम्नमंनिरुद्धं च दक्षे यामे च दोपणि ।। इति दिक् ।

प्रकाशे] ईश्वरपरिच्छेदः। विभवः। -पूर्णपाड्गुण्याभिव्यक्तः परत्वम् । मूर्तिभेदेनाभिव्यविभक्तगुण- द्विकनयतयाऽवस्थान व्यूहः । विभूतिभूतेपु देवादिपु तत्तत्सजाती- यनामरूपादिमत्तया प्रादुर्भावो विभवोऽवतार इति चोच्यते । अवतारशब्दश्वाऽवतीर्यत इति भावे व्युत्पन्नः प्रादुर्भाववाची । अवतरत्यनेनेति फरणे व्युत्पन्नश्च येन रूपेण प्रकटीभवति तद्रूप- वाची योध्या प्रादुर्भाववर्णनम् । "अजायमानो वहुधा विजायते" इति श्रुतिस्तावत् प्राकृत- जनजनिविलक्षणां भगवतो जनि प्रादुर्भावलक्षणां प्रतिपादयति । लौकिकी हि सा कर्मफलभोगार्था कर्मकृता प्राकृतशरीरग्रहणात्मिका। इयं तु परार्थैकवेपा केवलमिच्छाकृताऽप्राकृतस्य • खासाधारणस्य विग्रहस्यैवेतरसजातीयसंस्थानतापादनलक्षणा । उक्तं च प्राकृतजनि- - विलक्षणत्वमुक्तरीया स्वप्रादुर्भावस्य गीतायां भगवता स्वयमेव- 'अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया यदा यदा हि धर्मस्थ ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजा- म्यहम् ।। परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे। जन्म कर्म च मे दिव्य- मेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन।' इति । आत्मनो माया-सङ्कल्पात्मकं ज्ञानं, कृपावा। 'माया वयुनं ज्ञानम् 'माया दम्भे कृपायांच' इति कोशात् । प्रकृति स्वां-स्थासाधारणी दिव्यप्रकृतिमेवाधिष्ठाय-मनुष्यादिसजा- ४७८ [प्रमेय- , मानमेयप्रकाशिकायां तीयतामापाद्य, सम्भवामि-प्रादुर्भवामीत्यर्थः । अन पूर्वार्धन त्रिवि- धचेतनव्यावृत्तिरभिमता । यथा-अज इति वद्धस्य देवादिरूपेण जनिमतो व्यावृत्तिः, अव्ययात्मेति मुक्तस्य भूतपूर्वसङ्कोचलक्षण- व्ययाईस्वभाववतः, भूतानामीश्वर इति च लब्धसत्ताकानां सर्वेषां नियन्तृत्वस्वामित्ववाचिना नित्यानामिति । एवं क्षराक्षरपुरुष- विलक्षणोऽप्यहं परमैश्वर्यादिस्वस्वभावमजहदेव कृपया केवलं स्वेच्छयैव स्वमेव रूपं मनुष्यादिसजातीयं कृत्वा प्रादुर्भवामि युगेयुगे साधुपरित्राणादिप्रयोजनसिद्धये । मदीयं तात्त्विकमेव दिव्यं जन्म कर्म चेतरजन्मकर्मभ्यामत्यन्तविसजातीयमनुसन्धीय- मानमनुसन्धातॄणां भवारण्यजनिभ्रमणादिजनितसमस्तक्लेशहरमिति परमार्थः प्रकटीकृतो भवत्यत्र प्रकरणे । एवं भगवतैव स्वीय- जन्मादेर्दिव्यत्वपारमार्थिकयोरमिधानेन पुरुपोत्तमो नैवावतरति, अवतरन्नपि वा मायिकेनैव रूपेणेत्याद्यवतारविद्वेपिवादस्य नाव- सरः । अत एवोक्तं श्रीहरिणा शिक्षापत्र्यां 'कृष्णकृष्णावताराणां खण्डनं यत्र युक्तिभिः कृतं स्यात्तानि शास्त्राणि न मान्यानि कदाचन ॥' इति । विश्वे च शतानन्दमुनिना टीकायाम् 'स्म- येते च बहुशोऽवताररूपागामैच्छिकत्वं केवलकृपामूलकत्वं पराबैं- कवेपत्वमप्राकृतत्वं च-'तद्विश्वरूपबैरूप्यं रूपमन्यद्धरेमहत् । समस्तशक्तिरूपाणि तत्करोति जनेश्वर ॥ देवतिर्यमनुष्या- ख्याचेप्टावन्ति स्वलीलया। जगतामुपकाराय न सा कर्मनिमि- तजा ॥ चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ।' 'इच्छागृहीताभिमतोरुदेहः संसाधिताशेपजगद्धितोऽसौ"जग- दुपकृतिमयं को विजेतुं समर्थः।' 'लीलातनूः स्वकृतसेतुपरी- प्रकाशे] ईश्वरपरिच्छेदः। ४७९ प्सयेशः काले दधत् स भगवान् मम केन तुष्येत्' 'मूर्तिनः पुरुकृपया यभार सत्त्वम् 'कृपयाऽवतीर्य' 'सुरेप्वृषिप्वीश तथैव तृप्यपि तिर्यक्षु यादास्वपि तेऽजनस्य । जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥ इत्यादिना । अवताराणां शापादि व्याजमात्रं इच्छैच हेतुरिति च व्यक्त- 'सर्यावर्तेपु वै विष्णोर्जननं स्वेच्छयैव तु । ऐरकास्त्रच्छलेनैव स्वेच्छया गमनं हरेः ॥' 'द्विजशापच्छलेनैवमवतीर्णोऽपि लीलया ॥' (लेहे) इति । 'स श्रीकृष्णः परब्रह्म भगवान् पुरुषोत्तमः । उपास्य इष्टदेवो नः सर्वाविर्भावकारणम्' इति च शिक्षापयां पररूप- खैव सर्वाविर्भावमूलत्वमुक्तम् । तथा च टीका शतानन्दमुनि- कृता-सर्वेपामाविर्भावानां वासुदेवादिकेशवादिव्यूहानां परा- हाद्यवताराणां च कारण, यस्मात्सर्वे प्रादुर्भावा भवन्ती- त्यर्थः । एवंभूतः स ईशः परमेश्वरः श्रीकृष्ण एव ज्ञेयोन त्वन्यः' इति । तत्रैव (२९) श्लोकटीकायां-- श्रूयते हि परस्य ब्रह्मणः स्वेनैव रूपेण स्वेच्छयाऽवतरणम्' इति प्रादुर्भावरू- पाणामप्राकृत्तमूलरूपांशत्वं च व्यञ्जितम् । शाण्डिल्यभचिसूत्र- भाष्ये नित्यानन्दमुनिना च 'तद्वाक्यशेपात्प्रादुर्भावेष्वपि सा' 'तच दिव्यं स्वशक्तिमात्रोद्भवात्' इति सूत्रयोः रूपरूपिभेदोऽथ- तारावतारिणोरनन्यत्वं च स्पष्टमेव भापितम्-'एतदुक्तं भवति- दृश्यते ह्यचतारेषु अवतारिण ऐश्वर्य अवतारिकार्यकरत्वं च । न चावताराणामयतारिस्वरूपतो भेदः, यावत्प्रयोजन- मैश्वर्यस्य प्रकाशनात्' इति । 'अस्य परस्य ब्रह्मणो निखिलहेय- [प्रमेय- ४७८ - . मानमेयप्रकाशिकायां तीयतामापाद्य, सम्भवामि-प्रादुर्भवामीत्यर्थः । अत्र पूर्वार्धेन त्रिवि- धचेतनव्यावृत्तिरभिमता । यथा-अज इति वद्धस्य देवादिरूपेण जनिमतो व्यावृत्तिः, अव्ययात्मेति मुक्तस्य भूतपूर्वसङ्कोचलक्षण- व्ययार्हस्वभाववतः, भूतानामीश्वर इति च लब्धसत्ताकानां सर्वेषां नियन्तृत्वस्वामित्ववाचिना नित्यानामिति । एवं क्षराक्षरपुरुषः विलक्षणोऽप्यहं परमैश्वर्यादिखस्वभावमजदेव कृपया केवलं खेच्छयैव स्वमेव रूपं मनुष्यादिसजातीयं कृत्वा प्रादुर्भवामि युगेयुगे साधुपरित्राणादिप्रयोजनसिद्धये । मदीयं तात्त्विकमेव दिव्यं जन्म कर्म चेतरजन्मकर्मभ्यामत्यन्तविसजातीयमनुसन्धीय- मानमनुसन्धातृणां भवारण्यजनिभ्रमणादिजनितसमस्तक्लेशहरमिति परमार्थः प्रकटीकृतो भवत्यत्र प्रकरणे । एवं भगवतैव स्वीय- जन्मादेर्दिव्यत्वपारमार्थिकयोरभिधानेन पुरुपोत्तमो नैवावतरति, अवतरन्नपि वा मायिकेनैध रूपेणेत्याद्ययतारविद्वेपिवादस्य नाव- सरः । अत एवोक्तं श्रीहरिणा शिक्षापत्र्यां 'कृष्णकृष्णावताराणां. खण्डनं यत्र युक्तिभिः कृतं स्यात्तानि शास्त्राणि न मान्यानि कदाचन ॥' इति । विवने च शतानन्दमुनिना टीकायाम् 'स्म- यते च बहुशोऽयताररूपागामैच्छिकत्वं केवलकृपामूलकत्वं पराथै- कवेपत्यमप्राकृतत्वं च-'तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेमहत् । समस्तशक्तिरूपाणि तत्करोति जनेश्वर ॥ देवतिर्यडमनुप्या- ख्याचेष्टायन्ति स्वलीलया। जगतामुपकाराय न सा कर्मनिमि- सजा ॥ चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ।' 'इच्छाग्रहीताभिमतोरुदेहः संसाधिताशेपजगद्धितोऽसा"जग- दुपकृतिमत्यं को विजेतुं समर्षः। 'लीलातनूः स्वकृतसेतुपरी- प्रकाशे] दृश्यते ह्यवतारेषु अवतारिण ऐश्वर्य अवतारिकार्यकरत्वं च । न चावताराणामवतारिस्वरूपतो भेदः, यावत्प्रयोजन- मैश्चर्यस्य प्रकाशनात्' इति । 'अस्य परस्य ब्रह्मणो निखिलहेय- ईश्वरपरिच्छेदः। ४७९ प्सयेशः काले दधत् स भगवान् मम केन तुप्येत्' 'मूर्ति नः पुरुकृपया धभार सत्त्वम्' 'कृपयाऽवतीर्य' 'सुरेप्वृषिप्पीश तथैव नृप्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य । जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥ इत्यादिना । अवताराणां शापादि व्याजमात्रं इच्छैच हेतुरिति च व्यक्तं-- 'सर्वावर्तेषु वै विष्णोर्जननं स्वेच्छयैव तु । ऐरकास्त्रच्छलेनैव स्वेच्छया गमनं हरेः ॥' 'द्विजशापच्छलेनैवमवतीर्णोऽपि लीलया ॥' (लैङ्गे) इति । 'स श्रीकृष्णः परब्रह्म भगवान् पुरुषोत्तमः । उपास्य इष्टदेवो नः सर्वाविर्भावकारणम्' इति च शिक्षापत्र्यां पररूप- स्यैव सर्याविर्भावमूलत्वमुक्तम् । तथा च टीका शतानन्दमुनि- कृता-'सर्वेपामाविर्भावानां वासुदेवादिकेशवादिव्यूहानां वरा- हाद्यवताराणां च कारण, यस्मात्सर्वे प्रादुर्भावा भवन्ती- त्यर्थः । एवंभूतः स ईशः परमेश्वरः श्रीकृष्ण एव ज्ञेयोन त्वन्यः' इति । तत्रैव (२९) श्लोकटीकामां-'श्रूयते हि परस्य ब्रह्मणः स्वेनैव रूपेण स्वेच्छयाऽवतरणम्' इति प्रादुर्भावरू- पाणामप्राकृतमूलरूपांशत्वं च व्यञ्जितम् । शाण्डिल्यभक्तिसूत्र- भाष्ये नित्यानन्दमुनिना च 'तद्वाक्यशेपात्मादुर्भावेप्यपि सा' 'तच दिव्य स्वशक्तिमात्रोद्भवात्' इति सूत्रयोः रूपरूपिभेदोऽय- तारावतारिणोरनन्यत्वं च स्पष्टमेव भापितम्-'एतदुक्तं भवति- ४८० ..... मानमेयप्रकाशिकायां [प्रमेय प्रत्यनीककल्याणकतानवरूपस्यानवधिकातिशयासोयकल्याणगुण- वत् स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरति- शयोज्यल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधि दिव्यं रूपमपि स्वाभाविकम् । अपारकरुणानिधिरयमुपासक- जनानुग्रहाय तदेव रूपं तत्तदनुरूपसंस्थानयोगेन प्रकाशयति तत्त- लोकेषु' इति । 'श्रुतिश्च निखिलजगदेककारणतयाऽवगतस्य परस्य ब्रह्मणः• 'सत्यं ज्ञानमनन्तं ब्रह्म' 'विज्ञानमानन्दं ब्रह्म' इंसादिभिः स्यरूपम्, 'अपहतपाप्मा विजरो विमृत्युर्विंशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पा'. ..'परास्य शक्तिर्विविधैव श्रूयते 'खाभाविकी ज्ञानवलक्रिया च' .......इत्यादिभिः कल्याणगुणयोगम्, 'वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात्' 'विद्युतः पुरुषादधि' 'तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी' इत्यादिभिर्दिव्याकार- योग च वदति । अजायमानो वहुधा विजायते' इति च प्रादु- भवम् । तस्मादवतारेषु भक्तिनिःश्रेयसायेवेत्यनवद्य'मिति च । सत्सगिजीवनेऽपि परमपुरुषस्यैव तत्तद्रूपेण प्रकटीभावोऽ- वताररूपाणां मुमुक्षूपास्यत्वं च बहुशो वर्णितमस्ति- वराहाय- वताराणां धर्ता कृष्णः परं बृहत् 'उक्तस्ते सम्प्रदायोऽथ श्रीकृष्णोऽस्तीष्टदेवता । परमात्मा परं ब्रह्म सर्वकारण- कारणम् ॥श्रीवासुदेवप्रमुखाश्चतस्रस्तस्य मूर्तयः । चतुर्विंश- तिसङ्ख्याकाः केशवप्रमुखास्तथा ॥ पद्मनाभवराहाद्या भग- चन्मूर्तयोऽपि च । श्रीकृष्णस्यावतारत्वात् मान्याः सन्त्येव नोऽखिलाः ॥' 'निःश्रेयसाय जीवानां श्रीविष्णुर्भगवान् प्रकाशे] ईश्वरपरिच्छेदः। ४८१ स्वयम् । आविर्भवति भूलोके स्वतन्त्रः करुणानिधिः ॥ नरनारायणो दत्त ऋषभः कपिलादयः। रामकृष्णादयश्चा- स्यावताराः सन्ति भूरिशः॥ ते निहत्यासुरान् दुष्टान् धर्म- साधुसुरद्रुहः । धर्म प्रवर्तयन्त्यत्र सेव्यास्ते मोक्षकाशिमिः ।। प्रवृत्तिमार्गमाश्रित्य भगवान् यहि वर्तते । रामकृष्णादिरूपेण तदा तान् हन्ति हेतिभिः ।। क्वचित्वचिच्च तन्निष्ठान कामा- दीनान्तरासुरान् । ज्ञानोपदेशखङ्गेन स हन्ति न तु तत्तनूः।। निवृत्तिमार्गमाश्रित्य भगवान् यहि वर्तते । नारायणादि- रूपेण तदा हन्त्यान्तरान् रिपून् ॥ स्वाभाविकान् हन्ति दोपान कामादीनसुरस्थितान् । सांसर्गिकांश्च देवस्थान् नतु तेषां तनूः क्वचित् ॥ स एव भगवान पुम्भिधृतमानुप- विग्रहः । उपासनीयः श्रेयोर्थमज्ञानतिमिरापहः ॥' 'यदे- तत्परमं धाम श्रीकृष्णस्योदितं जनाः । अतयं तदगम्यं च सदानन्दरसात्मकम् ॥ तदीया येऽवताराः स्युस्तेपामेव छुपा- सया । भक्तैः स्वधर्मनिरतैस्तत्प्रसादात्तदाप्यते ॥” इति । अवतारा अवताररूपाणीत्यर्थः । तत्रैव तृतीयप्रकरणे श्रीहरिस्तुती च परब्रह्मभूतस्य श्रीहरेः सर्वावताररूपधारकत्वमवताररूपा- णामप्राकृतत्वं परमेश्वरलक्षणलक्षितत्वमजहत्स्वस्वमावत्वं चाभ्य- धायिपत-'स्वामिस्त्वं परमेश्वरश्च परमं ब्रह्मासि 'वेदोदितं धृत्वादौ पुरुपाकृति विधिमरीच्यादिक्रमेणाखिलम् । विश्व स्थावरजङ्गमात्मकमिदं शक्त्या सृजस्यात्मनः पातुं तत्ति- मिकूर्मशूकरमुखा धत्ते स्वतन्त्रस्तनूः ॥ देवान् साधु- जनांश्च धर्ममभितो रक्षश्च धर्मद्रुहो दैत्यान् हसि धृताकृतिः मान०प्र० ३१ ૨ मानमेयप्रकाशिकायां [ममेय- प्रतियुगं धर्मप्रियस्त्वं विभो । सर्वास्तास्तनवस्तवाखिलनिजै- श्वर्येण युक्तास्तथा चक्राद्यायुधदर्शितातिमहसः सन्ति प्रताप- श्रुताः ॥' इति । सर्वेष्वपि प्रादुर्भावेषु सर्वैश्वयं परिपूर्णमेव । ऐच्छिकमेव तस्य प्रकटीकरणं यथायथं तिरोधापनं चेत्ययमर्थः पुराणेषु व्यक्त:-'रामकृष्णादिरूपाणि परिपूर्णानि सर्वदा । न चाणुमानं भिन्नानि तथाप्यस्मान् विमोहसि ॥" (नारदीये) "परिपूर्णानि रूपाणि समान्यखिलरूपतः । तथाप्यपेक्ष्य मन्दानां दृष्टिं त्यामृपयोऽपि हि । परावरं वदन्त्येव ह्यभक्ता- नां विमोहनम् ॥ (गारुडे ) इति । अवताररूपाणामपि गुणपूर्णत्वं तस्य च भक्तजनकगम्यत्वं भगवता गीताया- मुक्त स्वयमेव-'नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥' 'अव- जानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजा- नन्तो मम भूतमहेश्वरम् ॥' 'महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादि- मव्ययम् ॥' इति । तथा चानुसन्धीयते यामुनाचार्यैः "त्वां शील- रूपचरितैः परमप्रकृष्टसत्त्वेन सात्त्विकतया प्रबलैश्च शास्त्रैः । प्रख्यातदेवपरमार्थविदा मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बौद्धम् ॥ उल्लद्वितत्रिविधसीमसमातिशायिसम्भावनं तव परिवढिमस्वभावम्।मायावलेन भवतापिनिगुह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥' इति । सुधासिन्धौ चाक्षरधामाधिपतेः पुरुपोत्तमस्यैवाजहत्स्वैश्वर्या प्रा- पृतनानावताररूपधारणेन सर्पजीवोद्धारकत्वमवताररूपाणां मुमु- भकाशे] ईश्वरपरिच्छेदः। ४८३ स्पास्यत्वं चास्ति वर्णितं भूरिश:-'निजेऽक्षरे परे धाम्नि कोटिं- सूर्यादिभास्वरे। सदा दिव्याकृतिः कृष्णोभगवान् पुरुषोत्तमः॥ मुक्तैर्विराजते दिव्यन्नमरूपैनिपेवितः । स एव कृपया भूमी जायतेऽत्र नराकृतिः ॥ ब्रह्मरूपो हि तदेहो दृश्यते भौतिको यथा । न त्वसौ भौतिकः किन्तु दिव्य इत्यवधार्यताम् ॥' 'प्रोवाचतं हरिः साधोऽनन्तैश्वर्यनिधिहरिः। मत्स्यकूर्मादिरू- पश्च जायते क्वापि कार्यतः॥ यावदर्थ तत्र तत्र स्वैश्वर्य दर्शय- त्यपि। स्वयं तु द्विभुजो नित्यं वर्तते त्राकृतिःप्रभुः॥ साक्षाद्भग- चतःप्राप्त्या श्रेय आत्यन्तिकं भवेत्। इति तु श्रेयसोरीतिः सर्व- कविधास्ति हि ॥ स एव हि वराहादि रूपं रामादि चेच्छया। तत्तत्कार्याय धत्ते स्वं सकलैश्वर्यमत्यजन् ॥ यथोपयोग स्वैश्वर्य तत्र तत्र निजेच्छया। आविष्कृत्य पुनः स्वस्मिन् तत्तिरोधापयत्यसौ ॥' 'भेदस्तु सर्वथा नास्ति मूलैतद्रूपयो- हरेः। सकलैश्वर्ययुक्तत्वे 'अतितेजोमये स्वीये धाम्नि ब्रह्मणि सर्वदा । कृष्णोऽक्षरात्मभिर्मुक्तैरास्ते सेवितपत्कजः ॥ तत्रस्थ एव कृष्णस्तु प्रतिब्रह्माण्डमात्मनः । योगैश्वर्येण रूपैः स्वैरास्ते कार्यस्य सिद्धये ॥ यथैव रासलीलायामेकोऽपि स निजे- च्छया । भिन्नमिन्नस्वरूपेण प्रतिगोपि वभूव ह ॥ यथोपयोग- मनापि स तथैवाखिलेश्वरः । स्वभक्तसुखदानार्थमास्ते रूपैरनेकधा ।' 'तथा स्वाभाविकानन्तैश्वर्यसम्पन्न ईश्वरः । स्थित एवाक्षरे धाम्नि व्यामोत्यण्डानि कोटिशः ॥ यदा यदा यत्र यत्र दातुमिच्छेत्स्वदर्शनम् । तदा तदा तत्र तत्र स्वेच्छ- याविर्भवत्यसौ॥ एकोऽप्यनेकरूपोऽसौ स्वसामर्थ्येन जायते।'

४८४ मानमेयप्रकाशिकायां [प्रमेय- 'तमुवाच हरिर्योऽत्र भगवान् वर्तते भुवि । सर्वावतारधर्ताऽसौ सर्वजीवोद्धृतिक्षमः ॥' 'साक्षात्कृष्णोऽत्र मानां श्रेयसे जायते नृषु । राजरूपः क्वचित्स स्यात्साधुरूपश्च कहिंचित् ॥ उभयोऽपि स्वसम्बन्धानणां श्रेयः करोति हि। सकलैश्वर्य- पूर्णः स्यान्नराकारोऽपि स ध्रुवम् ॥ अतो न प्राकृतनरैस्तु- ल्यता तस्य सम्भवेत् ॥' 'भूतानां श्रेयसे भूमाववतीर्णस्य तस्य च । द्विविधानि स्वरूपाणि नराकारस्य सन्ति वै ॥ कानि- चिद्राजरूपाणि साधुरूपाणि कानिचित् । तत्राद्यानां भागवते प्रोक्तानि स्कन्ध आदिमे । लक्ष्माणि सत्यमुख्यानि संवादे भूमिधर्मयोः॥ स्कन्ध एकादशेऽन्येषां कृपालुप्रमुखानि च । लक्ष्माण्युक्तानि तान्यादौ ज्ञेयानि श्रेय इच्छता ॥ उभयेपां च साधर्म्य न देहक्रियया त्विह । भवत्यथ प्रपन्नानामस्ति श्रेयोविधौ त्विदम् ॥ एवं हि लक्षणः कृष्णं ज्ञात्वाश्रित्य च ते दृढम् । स्थित्वैव तस्य चाज्ञायां कार्या तभक्तिरुत्तमा ॥ अनेनैव ह्युपायेन मुमुक्षोः पुरुषस्य तु । आत्यन्तिकं भवेच्छेयो नान्यथेत्यस्ति निश्चयः ॥ इति । एतैश्च पचनैर्नानावताररूपे- प्वपि चेतनैक्यं शक्यमवगन्तुम् । तथा-'अवतारा भगवतो जायन्ते मुवि ये हरेः । नरोत्तमस्य कृष्णस्याक्षरधाम्नो जग- सतेः॥ धर्मसंस्थापनार्थास्ते सन्त्यधर्मोच्छिदस्तथा । स्वधर्म- ज्ञानवैराग्यभक्तिमद्रक्षणाय च ॥ यथा सीता रघुपती साध्वी निष्ठां दृढां व्यधात् । तथैव तेषु सा कार्या वर्तमाने विशे- पतः ॥ कृष्णस्नेह फतव्या सदा भक्तिर्मुमुक्षणा। न ह्यन्य- देवतायास्तु माधीधर्मच्युतिर्यतः ॥ कृष्णस्य या तदर्चाया प्रकाशे] ईश्वरपरिच्छेदः। ४८५ ध्यान कार्य च चेतसि । न त्वन्यदेवताया या सिद्धमुक्तस्य कहिंचित् ॥ इति कृष्णवदववारत मिष्टानामेफविपयत्नान- कान्सविरहप्रतिपादनाच सर्वत्रावताररूपेषु परमात्मन एवाभिमा- नित्वं शक्यमवगन्तुम् । एतेन रामकृष्णाद्ययवारेषु चेतनभेदवादस्य नावसरः । वासुदेषमाहात्म्ये च स्थानभेदनिवन्धने मूर्तिभेदे प्रादुर्भावमूर्तिभेदे वा परमात्मस्वरूपभूताहमर्थस्यैय साक्षात्सर्व जानुत्तिः प्रतिपादिताऽत्रानुसन्धेया । 'पान्तरं प्राप्तमिवात्मतन्त्रं नरोत्तम सन्ददृशुः सहर्षम् ।' 'नराकृतिस्तथा कृष्णो ज्ञातव्यो दिव्यविग्रहः । दिव्यवि- ग्रह एवासी नरनाट्यधरश्च वै ॥' 'गोलोकाधिपतियों हि •स एवास्त्यत्र नेतरः। स्वतन्त्रः स्वेच्छयवासौ नराकारेण दृश्यते ॥ वेपान्तरं धृतवतो नटस्येवास्य सर्वथा । स्वरूपभेदो नास्त्येव ज्ञेयमित्थं मनीपिभिः ॥ 'यमाहुरक्षरं ब्रह्मानन्तं कृष्णस्य धाम च । अस्ति तत्र स्वयं साक्षाद्भगवान् पुरुषोत्तमः। अवतारा भवन्त्यत्र तस्मादेवाखिला अपि ॥ अक्षरे धान्नि या मूर्तिर्वर्तते परमात्मनः । तस्याः साक्षात्तु कृष्णस्य मूर्ते- श्चास्ति सहक्षता ॥ 'नटो वेपान्तरमिव लोकान् दर्शयते प्रभुः ।......यादृशं तु भवेत्कार्य स धृत्वा तादृशं वपुः । तद्विधाय पुनः स्वेन रूपेणास्ते विहाय तत् ॥ इत्यादिना धापा- कृतमूलरूपत एवावताररूपाणां प्रादुर्भावोऽत एव वत्सदृक्षवा, नटस्येव वराहत्वादिसंस्थानलक्षणभूमिकापरिमहस्तत्तत्कार्यानुगुणा, निप्पने चायवारप्रयोजने तत्तत्संस्थानलक्षणभूमिकाप्रहाणेन निय- सिद्धाक्षरव्योमनिलयनाकारेणाप स्थितिश्च प्रसपादिपत । सहहतोका अनुसन्या:- [प्रमेय- मानमेयप्रकाशिकायां • न स्वरूपं विभिद्येत रूपं चा भूमिकाग्रहे । नटस्य किन्तु तद्रूपं स्वरूपं च तदेव हि ॥ अपूर्वाकारमात्रं च कल्पितं प्रतिभासते। तथा प्रादुर्भावरूपेप्वपि चोध्यं स्वरूपतः॥ रूपतश्चाद्वैतमेवाऽऽकारयोगः परं नवः । गृहीतः कार्ययोग्य- स्तन्निवृत्तौ त्यज्यते त्वयम् ॥ एतदाशयवानेव श्लोको भागवते स्फुटः। 'भूभारः क्षयितो येन तां तनुं विजहावजः ॥ कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् । यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः ॥ कण्टकीभूतासुरादिनिरासार्थ परिग्र- हात् । कार्यान्ते त्यागतः साम्यात्कण्टकत्वोक्तिरञ्जसा ॥ अव- तारस्वरूपेषु नतु हेयखभावतः । कण्टकत्वं विनिर्दिष्टं किश्च मूलस्वरूपतः॥ अप्राकृतत्वसर्वैश्वर्यजुष्टत्वैच्छिकत्वतः। साम्यं प्रादुर्भावरूपेष्वस्त्युपास्यत्वतोऽपि च ॥ इति । मुख्यावतारयाथात्म्यं मूलग्रन्थानुसारतः । यथाशास्त्र विनिर्दिष्टमथ गौणो निरूप्यते ॥ स्मर्यते च भगवच्छास्त्रेषु प्रादुर्भावस्य द्वैविध्यं गौण मुख्यभेदतः। तत्र गौणो नामाविश्य जीव- विशेपे कस्यचिदैश्वर्यादेः प्रक्टीकरणम् । मुख्यस्तु जीवमद्वारीकृत्या प्राकृतरूपस्यैव मनुष्यादिसजातीयसंस्थानतापादनेन प्रकटीकरण- मिति भिदा। कचिचेतनमाविश्यालौकिकक्रियानिर्वहणं कचित्कदा- चित्स्वेनैव रूपेण प्रकटीभूयेत्यत्र चेच्छैव भगवतो नियामिका । वदुकम्-'मदिच्छया हि गौणत्वं मनुष्यत्वमिवेच्छया' इति । तत्र मुख्यानां प्रादुर्भावानां मुमुक्षुपास्यत्वं नामुख्यानामिति च वन- व स्पष्टम्-'प्रादुर्भावास्तु मुख्या ये मदंशत्वाद्विशेषतः । अजह- स्वभावविभवा दिव्याप्राकृतविग्रहाः । दीपादीपा इवोत्पन्ना ..

प्रकाशे] ४८७ ईश्वरपरिच्छेदः। जगतो रक्षणाय ते । मुख्या उपास्याः सेनेश अना- नितरान् विदुः॥ इति । गौणमुख्यविशेपा अप्युद्देशतः परिगणिताः सन्ति तत्रैव 'ब्रह्मरुद्रार्जुनव्याससहस्रकरभार्गवाः । ककुस्था- त्रेयकपिलवुद्धाद्या ये सहस्रशःशक्त्यावेशावतारास्तु विष्णो- स्तत्कालविग्रहाः । अनुपास्या मुमुक्षुणां यथानीन्द्रादि- देवताः ॥' 'अनानपि वक्ष्यामि प्रादुर्भावान् यथाकमम् । चतुर्मुखस्तु भगवान् सृष्टिकार्ये नियोजितः ॥ शङ्कराख्यो महारुद्रः संहारे विनियोजितः । मोहनाख्यस्तथा बुद्धो व्यासश्चैव महान् ऋपिः । वसूनां पावकश्चापि वित्तेशश्च तथैव च । एवमाद्यास्तु सेनेश प्रादुर्भावैरधिष्ठिताः ॥ जीवात्मानः सर्व एते नापास्तिर्वैष्णवी हि सा । आविष्टमात्रास्ते सर्वे कार्यार्थममितद्युते ॥' इति । 'पद्मनाभादिकाः सर्वे वैभवीयास्तथैव च । पत्रिंशत्सङ्ख्यासङ्ख्याताः प्राधान्येन गणेश्वर ॥ पत्रिंशद्भेदभिन्नास्ते पद्मनाभादिकाः सुराः । अनिरुद्धात्समुत्पन्ना दीपाद्दीपा इवेश्वराः॥' इति च । पति- शति च मत्स्यादीनां समावेशो भवति । कपिलदत्तात्रेयपरशुराम- सङ्कलनेनैकोनचत्वारिंशत्सङ्ख्याऽपि वैभवीया वर्णिताऽस्ति सहिता- न्तरे । एतेषां गौणत्वे मुख्येषु परिगणनं छत्रिन्यायाद्वोध्यम् । कल्प- भेदेन मुख्यत्वमप्येपां नासम्भवीति च बोध्यम् । कचिच्च पुराणादाववतारस्यानेकधा विभागोऽस्ति कृतः । यथा- 'अंशांशोऽशस्तथावेशः कला पूर्णः प्रकथ्यते । व्यासाद्यैश्च स्मृतः पष्ठः परिपूर्णतमः स्वयम् ॥' इति । (गर्गसंहिता) दिवत्रेच तत्रैव 'अंशांशस्तु मरीच्यादिरंशा ब्रह्मादयस्तथा ।

[प्रमेय- ४८८ मानमेयप्रकाशिकाय कलाः कपिलकूर्माद्याः आवेशा भार्गवादयः ॥ पूर्णो नृसिंहो रामश्च श्वेतद्वीपाधिपो हरिः । वैकुण्ठोऽपि तथा यज्ञो नरना- रायणः स्मृतः ॥ परिपूर्णतमः साक्षाच्छीकृष्णो भगवान् स्वयम् । असंख्यब्रह्माण्डपतिर्गोलोके धाम्नि राजते ॥ कार्याधिकारं कुर्वन्तः सर्दशास्ते प्रकीर्तिताः । तत्कार्यभारं कुर्वन्तस्तेऽशांशा विदिताः प्रभो ॥ येपामन्तर्गतो विष्णुः कार्य कृत्वा विनिर्गतः । नानावेशावतारांश्च विद्धि राजन् महामते ॥ धर्म विज्ञाय कृत्वा यः पुनरन्तरधीयत । युगे युगे वर्तमानः सोऽवतारः कला हरेः॥ चतु→हो भवेद्यन्न दृश्यन्ते च रसा नव । अतः परं च वीर्याणि सतु पूर्णः प्रकथ्यते ॥ यस्मिन् सर्वाणि तेजांसि विलीयन्ते स्वतेजसि । तं वदन्ति परे साक्षात्परिपूर्णतम स्वयम् ॥ पूर्णस्य लक्षणं यत्र संपश्यन्ति पृथक्पृथकू ।। भावेनापि जनाः सोऽयं परिपूर्णतमः स्वयम् ।। परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि । एककार्यार्थ- मागत्य कोटिकार्य चकार ह॥' इति । भागवते घ 'एते' चांश- कला विष्णोः कृष्णस्तु भगवान् स्वय' मिति श्रीकृष्णस्य परिपूर्णत्वं अन्येपामंशत्वं कलात्वं च यथासम्भवं विनिर्दिष्टम् । अनेदं योध्यम् । समप्रभगस चतुर्थो भागोंडशा, पोडशो भागश्च कला । यत्र यत्र परमैश्वर्यस्य पोडशो भागः प्रकटीकृतः स स फलावतारः। यत्र यत्र चतुर्थः स स अंशावतारः । यन तु राममेश्वर्य स परिपूर्णः पोडशकल इति । एषु च गौणमुख्या- यताराणां भवति समावेशः । इति । इदन्तु तत्त्वम् । यथेच्छं यथाकार्यमेश्वर्याविष्करणतारतम्येऽपि प्रकाशे] ईश्वरपरिच्छेदः। मुख्यप्रादुर्भावेषु वस्तुतः सर्वैश्वर्ययत्त्वादप्राकृतरूपत्त्वाच्च मुमुक्षणा- मुपास्यता मुक्तिफलप्रदचा चाक्षुण्णैव । एतदभिप्रेत्यैव श्रीहरिणाs- नुशिष्यते 'कृष्णस्तदवताराश्च ध्येयास्तत्प्रतिमाऽपि च । नतु जीवा नृदेवाद्या भक्ता ब्रह्मविदोऽपिच ॥' इति । अन्न भाष्यं 'कृष्णः सर्वस्मात्परोऽक्षरनिलयः पुरुपोत्तमः परब्रह्म । तदवताराम्ब रामकृष्णादयः' इति । अतः सिद्धं परमपुरुपानन्या मुख्यप्रादुर्भावा मुमुक्षूपास्या इति मतं श्रीहरेः। कृष्णावतारष्ट्यम् । अन च श्रीकृष्णरूपं सर्वेश्वर्यप्रकाशनात् । विशिष्टमिष्ट- देवत्वेनो श्रीहरिणा स्वयम् ॥ तथा च वचनानि-स श्रीकृष्णः परंब्रह्म भगवान् पुरुषोत्तमः । उपास्य इष्टदेवो नः सर्वाविर्भावकारणम् ॥' 'उक्तस्ते सम्प्रदायोऽथ श्रीकृष्णोऽस्ती टदेवता । परमात्मा परब्रह्म सर्वकारणकारणम् ॥' 'अस्माक- मिष्टदेवोऽस्ति श्रीकृष्णः पुरुषोत्तमः।व्रतं तस्यैतदस्तीति सर्वैः कार्यप्रयलतः॥ 'इष्टदेवस्तु भगवान् श्रीकृष्णो राधिकापतिः। 'मया व्यासकृता ग्रन्थाः सन्ति सर्वेऽपि संश्रुताः। तदर्थों निश्चितश्चास्ति पौर्वापर्यविचारतः॥ तत्रावताराः कृष्णस्य मत्स्यकूर्मादयोऽखिलाः । आविर्भूता यथाकार्य कृष्णस्तु भगवान् स्वयम् ॥ अतोऽवतारी कृष्णोऽन्येऽवतारा इति निश्चयः । स हीष्टदेवोऽस्त्यस्माकमुद्धवाध्वनि तिष्ठताम् ॥ 'अवतारा भगवतो भवन्त्येव सहस्रशः । तत्र कृष्णसमों नान्योऽवतारः सर्वशक्तिधृत् । अन्येषां स्वस्वरूपाणां भावा ये तेऽखिला अपि । अन्न सन्दर्शितास्तेन कृष्णः स्वयमिती- ४९० [प्रमेय- मानमेयप्रकाशिकायां यते । स्वजन्मकाले मथुरापुर्या लक्ष्मीशतात्मनः । चतुर्भुजेन रूपेण पितृभ्यां तेन दर्शिता ॥ गोकुले च यशोदायै विश्वरूप- त्वमात्मनः। प्रदर्शितं चार्जुनाय वैराजत्वं महामृघे ॥ अर्जुना- यैव दत्तंचभूमरूपस्य दर्शनम् । पुरुषोत्तमता चोक्ता स्वमुखेनैव तं प्रति ॥...राधादिसहितत्वेन गोलोकेश्वरता तथा ।। यमुना प्रति गोप्युक्त्या दर्शिताऽऽद्यर्पितात्मनः॥ अक्रूरेण च कालिन्द्यां दर्शिता शेषशायिता । नैकाण्डदर्शनेनैव ब्रह्मणे- क्षरता तथा ॥ एवं स्वस्य स्वरूपाणि भिन्नस्थानगतान्यपि । तदैश्वर्याणि च स्वस्मिन् शक्तयश्च प्रदर्शिताः॥ अतः सर्वा- वतारेभ्यः कृष्ण एव महानिति । दृढं निश्चित्य तद्भक्तिः कार्या सर्वैर्मदाश्रितः ॥' इति । सर्वैश्वर्यविभूतियोगप्रकाशना- दभिव्यक्तपूर्णपाइगुण्याच्च 'कृष्णस्तु भगवान् स्वयं' इत्यमिहित- मित्याशयः श्रीहरेः। 'वामे यस्य स्थिता राधा श्रीश्च यस्यास्ति वक्षसि । वृन्दा- वनविहारं तं श्रीकृष्णं हृदि चिन्तये ॥ इति श्रीराधिकाकृष्णस्यो- पास्यत्वकीर्तनाच तत्क्रतुन्यायेन प्राप्यमपि तागू रूपं गोलोक- मध्यवर्त्यक्षरधामनिलयनं दिव्यवृन्दावनविहारकृद्विवक्षितम् । तथा च वासुदेवमाहात्म्ये गोलोकमध्यवर्त्यक्षरधामनिलयः श्रीकृष्णो वर्णित:-'सुगन्धिसच्चन्दनचर्चिताङ्गं श्रीवत्सलक्ष्माङ्कितहृत्क- पाटम् । निनादयन्तं मधुरं च वेणुं कृत्वा मुखाग्रेऽम्बुजचारु- दोाम् ॥ इति । 'इष्टदेवस्तु भगवान् श्रीकृष्णो राधिका- पतिः । प्रत्यक्षं च परोक्षं च ज्ञेयं रूपं यदस्य तत् । परोक्षं ब्रह्मधामस्थं गोलोके द्विभुजं सदा । राधया च श्रिया जुष्टं प्रकाशे] ईश्वरपरिच्छेदः। ४९१ कोटिसूर्यसमद्युति ॥ श्रीदामनन्दप्रमुखैः पार्पदैस्तनिपेवि- तम् । स कृष्णोऽनन्तकोट्यण्डसर्गस्थित्यन्तकारकः॥ चतुर्भुज चाटभुजं स सहनभुजं तथा । धामान्तरेषु रूपं स्वं धृत्वाऽऽस्ते च पृथक्पृथक् ॥ वासुदेवादिरूपेण चतुर्दूहः स जायते। केशवाद्यात्मना चासौ चतुर्विंशतिधा प्रभुः ॥ स एव च वरा- हादीनवतारान् धरातले । दधाति सर्वशास्त्राणां तात्पर्य चास्ति तत्र वै ॥ परोक्ष रूपमित्थं हि ज्ञेयं कृष्णस्य तत्त्वतः । प्रत्यक्ष तु नराकारं वर्तमानं धरातले ॥' 'श्रीकृष्णो यः परंब्रह्म स्वयंज्योतिः परात्परः । ज्ञेयो नारायणो विष्णुर्भगवान् पुरुपो- त्तमः ।। महेश्वरो वासुदेवो भूमा च परमेश्वरः ।...दिव्याङ्गो निर्गुणो ह्येप देवक्यां वसुदेवतः । प्रादुर्बभूव कृष्णाख्यो भूतले मनुजाकृतिः ॥ दिव्यमूर्तिनराकृत्योस्तस्य भेदो न कश्चन । इति जानीहि सदुद्धे वैष्णवाचार्यनिश्चयम् ॥” इत्या- दावक्षरधामाधिपतेः श्रीकृष्णस्यैव वसुदेवदेवकीतः प्रादुर्भावेन मूलावताररूपयोरेकत्वकीर्तनाच कृष्णावतारस्य सर्वावतारधारकत्व- कीर्तनं समञ्जसम् । अवतारान्तरेष्ववतारित्वकीर्तनमप्येवमेवा- प्राकृतत्वेनैकद्रव्यतया सर्वरूपाणामधिष्ठातुः परमात्मन एकत्वेन सर्वत्र वस्तुतः सर्वेश्वर्यविशिष्टत्वेन च निर्वहणीयम् । तथाहि श्रीराम- चन्द्रस्यैवावतारित्वं स्मर्यते 'अवतारी रघूत्तमः' 'भवान्नारायणी देवः श्रीमान् चक्रायुधः प्रभुः। एकशृङ्गो वराहस्त्वं भूतभव्यस- पत्नजित् ॥ अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः । त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैविक्रमस्त्रिभिः ।। महेन्द्रश्च कृतो राजा बलिं वहा सुदारुणम् । सीता लक्ष्मीर्भवान् पन्नतया परमात्मानन्यत्वेन ४९२ मानमेयप्रकाशिकायां [प्रमेय- विष्णुदेवः कृष्णः प्रजापतिः।" इत्यादौ । एवमवतारान्त- रेप्वपि विभाव्यम् । अनेदं तत्त्वम् । नानावताररूपनिदानं मूलरूपमवतारि । देवादिसजातीयसंस्थानतया प्रादुर्भूतं च रूपमवतारः । उभयं चाप्राकृतमेव । तत्तद्रूपायच्छेदेनैक एव परमात्मा परमेश्वरोऽवतारी अवतार इति चोच्यते । अवतारेषु चेतनान्यत्वावभासकमिव यद्यदाचरणं दृश्यते तत्तु लोकशिक्षणलीलादिप्रयोजनं मन्तव्यम् । मूलरूपस्य प्रादुर्भावैः परिजुष्टत्वकीर्तनं च संहितायां तदंशत्वाविना घटते । अवताराणां सर्वैश्वर्यशक्तिसम्पन्न चावतारित्वादिमहिमा पररूपगतोऽविशेपतो वर्ण्यतेऽवतारेऽपि तत्र तन पुराणादौ । एवमेव श्रीहरिकृष्णस्यापि अवतारित्यादिमहामहि- मानुवर्णनं सत्सगिजीवनादिगतं साधु सङ्गच्छतेतराम् । इति । औद्धवे चास्मिन् सम्प्रदाये श्रीकृष्णरूपमेव मूलरूपत्वेनाभिमत- मक्षरधामस्थम् । स एव च श्रीकृष्णः साक्षाद्धरिकृष्णरूपेण पुन- र्धरातलेऽस्मिन् प्रादुर्भूतो धर्मभक्तिभ्यां साधुपरित्राणादिप्रयोज- नाय । एतत्प्रादुर्भावयाथात्म्यं चानव सम्प्रदायपरिचये प्रपश्च- यिष्यत इत्यास्तां तावत् । श्रीकृष्णोऽक्षरदिव्यधामनिलयः सर्वेश्वरो ब्रह्मभू- तानन्तात्मभिरीडितस्वचरणोऽवाचित्तगम्यप्रथः । कारुण्यात्परमान्निजाश्रितजनान् रक्षन् स धर्मद्विपो नानारूपधरो निरस्य परमं धर्म च पाति स्वयम् ॥ पणिवेपरमणीयदर्शनमाश्रिताभयदपाणिपङ्कजम् । दर्शितस्वविभवं दयावशं भक्तिधर्मतनयं स्मरामि तम् ।। इति चिमयः।

प्रकाशे] ईश्वरपरिच्छेदः। ४२३ अन्तर्यामिनिरूपणम् । बाह्यरक्षां हि जगतो विधत्ते विभवात्मना । आन्तरी तु विधत्तेऽन्तर्यामित्वेन परः पुमान् ॥ प्राणिनां हृदयकमले नियन्तृतया स्थितिरन्तर्यामित्वम् । इदं च स्वरूपतो रूपतश्चेति भवति द्वेधा। वरूपतस्तावज्जीवानां वैमुख्यद्- शायामपि स्वयं तदन्तः प्रविश्य सत्ताधायकतया स्थितिः सुहृद्भा- वत्तः । 'य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्त- म्यमृतः ॥' 'अहमात्मा गुडाकेश सर्वभूताशयस्थितः'। इत्यादि वाक्यजातमत्रानुसन्धेयम् । प्राप्तामिमुख्यानां च योगे 'प्रवृत्तानां हृदयकमले रूपतोऽपि सनिधानविशेपो ध्येयरूपाभिव्य- अनेनानुग्रहार्थः । अयोगिनां हृदयकमलेऽपि विग्रहतः सन्निधानं स्थाद्वा मा वा, न तत्र समस्ति प्रयोजनम् । इदं च रूपमङ्गुष्ठमात्र- मुशन्ति प्राज्ञाः । 'मध्ये वामनमासीनं विश्वे देवा उपासते।' 'अहुटमात्रः पुरुपोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः' इत्यादिश्रुतेः स्वरसार्थपर्यालोचनया । ‘स यश्चायं पुरुषे यश्चा- सावादित्ये स एकः' इति च हृदयकमल उपास्यत्वेन सन्निहितस्य हिरण्मयपुरुपत्वमाह । वात्स्यवरटगुरुभिरेवं द्विविधमप्यन्तर्या- मिखरूपमनुसहितं परत्वादिपञ्चके-'यो देवादिचतुर्विधेष्टजनियु ब्रह्माण्डकोशान्तरे सम्भक्तपु चराचरेषु निवसन्नास्ते सदान्त- हिः । विष्णुं तं निसिलेष्वणुष्वणुतरं भूयासु भूयस्तरं स्वागुष्ठप्रमितं च योगिहदयेप्वासीनमीशं भजे ॥ इति । तथा हि-'पुरश्चक्रे द्विपदो पुरश्चक्रे चतुप्पदः । पुरः स पक्षी भूत्वा ४९४ [प्रमेय- मानमेयप्रकाशिकायां पुर आविशदिति स वा अयं पुरुषः सर्वासु पूर्ष पुरिशयो नानेन किञ्चनानावृतं नानेन किञ्चनासंवृतम् ॥' इत्यत्र ताव- स्वरूपतोऽन्तर्यामित्वमुक्तम् । अयमर्थः। द्विपाचतुष्पाद्रूपशरीरेषु 'अनेन जीवनात्मना' इत्युक्तरीत्या संसरणहेतुकाम्यविद्याकर्मा- ख्यपक्षवज्जीवशरीरकः परमात्मा प्रविष्टः निरुपाधिकपुरुषशब्द- वाच्यो भवति । अनेन न किञ्चिद्वहिरनावृतमन्तश्चासंवृतं वाऽस्ति । तथा च श्रुत्यन्तरं 'अन्तर्वहिश्च तत्सर्व व्याप्य नारायणः स्थितः' इति । तत्रैव मधुब्राह्मणेऽनन्तरमने रूपव्याप्तिश्चोक्ता-रूपं रूपं प्रतिरूपो वभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति... तदेतद्र- ोति' । रूप्यते इति रूपं दृश्यं वस्तु, तत्तद्वरत्वनुरूपतयाऽन्तर्या- मित्वेन तत्रतत्र रूपतः प्रतिष्ठितः । प्रतिचक्षणाय- व्यवहाराय यद्योग्यं तत्सर्वमस्य शरीरमेव । परमेश्वरः सकल्पात्मकज्ञानरेवा- नन्तान्तर्यामिविप्रहो भवति । योगेश्वरस्यास्य शता दश अनन्ता हरयः अन्तर्यामिविग्रहास्तत्तद्वस्तुनियमनोपयोगिनः सम्भवन्तीत्यर्थः । सर्वशक्तः सर्वत्र परिपूर्णोऽपि भगवान् देवेषु तद्योन्यनुगुणं ज्ञान- शच्यादिविकासमुद्भावयति मनुष्यादिपु च तथैवेति तत्तद्वस्तुसह- शावस्थानमन्तर्यामिणो मन्तव्यम् । परमयोगिभिर्गोपालानन्दस्वा- मिभिश्चैवमेव दशोपनिपद्धाप्येऽन्तर्यामिप्रकारभेदो भापितः । यथा-'तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम्' । इत्यत्र अनुप्रविष्टं-सृष्टेषु सृष्टिमनुप्रविष्टम् । इदमन्तामितया । गुहाहितं-हृदयगुहासग्निहितम् । इदं तु विप्राइतोऽपि' इति । तथा 'स एपोऽन्तश्चरते पहुधा जायमानः' इत्यम स एप सर्यान्वर- प्रकाशे] ईश्वरपरिच्छेदः। ४९५ स्मैकोऽपि प्रतिहृदयं विग्रह विशिष्टवेपेणाविर्भवन् बहुरूपो भवती त्यभिप्रायेण बहुधा जायमान इत्युक्ति'रिति । सुधासिन्धौ च साका- रस्यैव परब्रह्मणः सर्वव्यापकत्वमनन्तरूपमहणाटत इत्यु- चम्-"तथा स्वाभाविकानन्तैश्वर्यसम्पन्न ईश्वरः । स्थित एवा. क्षरे धाम्नि व्यामोत्यण्डानि कोटिशः ।। यदा यदा यत्र यत्र दातुमिच्छेत्स्वदर्शनम् । तदा तदा तत्र तत्र स्वेच्छयाऽऽ. विर्भवत्यसौ ॥ एकोऽप्यनेकरूपोऽसौ स्वसामर्थ्येन जायते । एवं व्यापकता तस्य ज्ञातव्या न त्वरूपतः ॥ एवं स व्यापको ज्ञेयो नित्यदिव्यतनुः प्रभुः ॥ अप्राकृतस्वरूपत्वादरूपः क्वचिदुच्यते ॥” इति । अनेनान्तर्यामिरुपभेदोऽप्युपपादितो वेदितव्यः । अन्तर्यामी चाष्टाङ्गयोगाभ्याससंस्कृतचेतसां निप्पन्न- भक्तियोगानामेव ग्राह्यो भवति । नान्येषामिति कृतं विस्तरतः । अर्चावर्णनम् । अतः परं वर्णयामो ह्य रूपस्य वैभवम् । देशकालादि- नियमो न यस्यास्ति परादिवत् । अस्माकं नास्ति पररूपस्य व्यूहस्य वार्चने । सामर्थ्य विप्रकर्षाच्च देशतो मांसचक्षुपाम् ।। विभवो भिन्नकालस्थो नास्माभिः प्राप्यते ध्रुवम् । अन्तर्यामी तु हस्थोऽपि न गम्योऽयुक्तचेतसाम् । अतः सर्वापाश्रयोऽर्चा- वतारोऽयं समीरितः । सर्वैरर्यत्वयोगाच्च कथितोऽर्चति खल्व- यम् । तथा चोकं श्रीहरिणाऽपि-'प्रत्यक्षो भगवान् यहि न भवे- द्भुवि तर्हि तुप्रतिमा तस्य सम्पूज्या यथालन्धोपचारकैः।। इति । अर्चावतारो नामाश्रिताभिमतमूर्विपु विशिष्टप्रविधाविधिना पूर्णपाड्गुण्यस्य भगवतो वासुदेवस्य दिव्यरूपेणाविर्भूय सन्निधा- ४९६ मानमेयप्रकाशिकायां [प्रमेय- नम्, आश्रिताभिमतद्रव्यस्यैवात्यन्तादरतः शरीरत्वेन परिग्रहणं च । तथा च वचनं-'सर्वातिशायि पाडण्यं संस्थितं मन्त्र- विम्वयोः । मन्त्रे वाच्यात्मना विम्वे कृपया समुपस्थितम् । तेनार्यों भगवान् साक्षान्नोपचारधिया क्वचित् ॥' इति । कूर्चादायावाहनविधिना देवपित्रादीनां सन्निधाने प्रामाणिके किं वक्तव्यं सर्वव्याप्तस्य परमात्मनः । 'न तस्य प्रतिमाऽस्ति' इति च नार्चाया निषेधः । किन्तु 'अप्रतिमनभावे' त्यादिवदुपमा-- नस्यैव । 'प्रतिमास्वप्रबुद्धानाम्' इत्येतत्तु अप्रतिबुद्धानामपि प्रतिमासु इति योज्यम् । श्रीभागवतेऽपि प्रतिमाया अय॑त्वमुक्तम्- 'लब्धानुग्रह आचार्यात्तेन सन्दर्शितागमः । महापुरुषमभ्यर्चे- न्मूाभिमतयात्मनः ॥' इति । प्रतिमायां देवतासान्निध्ये निदानं चान्यत्र व्यक्तम्-'अर्चकस्य तपोयोगादर्चनस्यातिशा- यनात् । आभिरूप्याच्च विम्बानां देवः सान्निध्यमृच्छति ॥' इति । 'सौलभ्यतो जगत्स्वामी सुलभो ह्युत्तरोत्तरः । इत्युक्तं निरवधिकं सौलभ्यमर्चायां । तथैव सौशील्यं क्षमा वात्सल्य चानाध्यक्ष्यन्ते सर्वैरपि । वर्णितं चेदं गुणजातं विष्वक्सेनसंहिताया- मर्चावतारस्य-'अर्चावतारः सर्वेषां वान्धवो भक्तवत्सलः । स्वतन्त्रः स जगन्नाथोऽप्यस्वतन्त्रो यथा तथा ॥ सर्वशक्तिर्ज- गद्धाताप्यशक्त इव चेष्टते । सर्वान् कामान् दधत्स्वाम्यप्य- शक्त इव लक्ष्यते । अपराधानभिज्ञः सन् सदैव कुरुते दयाम् ॥' इति । अनुसहितश्या प्रकारः श्रीपराशरभट्टायें:- 'आस्तां ते गुणराशिवद्गुणपरीवाहात्मनां जन्मनां संख्या भीमनिकेतनेप्यपि कुटीवुझेपु रद्धेश्वर । अर्यः सर्व- - ४९७ प्रकाशे] ईश्वरपरिच्छेदः । सहिष्णुरर्चकपराधीनाखिलात्मस्थितिः प्रीणीपे हृदयालुभिस्तव ततः शीलाजडीभूयते ॥' इति । शौनकभगवताऽपि अर्चावता. रस्य रुचिजनकत्वमुपास्यत्वं प्राप्यत्वं चोपवर्णितम्-'सुरूपां प्रतिमा विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वात्मनः प्रीतिकरी सुवर्ण- रजतादिभिः ॥ तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् । तामचयेत्तां प्रणमेतां भजेचां विचिन्तयेत् ॥ विशत्यपास्त- दोपस्तु तामेव ब्रह्मरूपिणीम् ॥' (वि. ध.) इति । स्वयंव्यक्त- दिन्यासुरापमानुपभेदेन तत्र तत्र स्थले सन्निहितोऽयमर्चावतार सकलगुणसम्पन्नो यथारुचि सकलपुरुषार्थप्रदो जीवानुग्रहैकप्रवणो महीयते । अ वैभवादि शिक्षापत्र्यादौ निरूपितं तत्र तत्र-'कृष्णस्तद- वताराश्च ध्येयास्तत्प्रतिमापि च' 'प्रणम्य राधाकृष्णस्य लेख्यार्चा तत आदरात्' 'शैली वा धातुजा मूर्तिः शालग्रा- मोऽर्य एव तैः' शैली दारुमयी लौही लेप्या लेख्या च सैकती। मनोमयी मणिमयी प्रतिमाप्टविधा स्मृता ।। एतास्वपि भवेच्छ्रद्धा यस्य यन्न स तां नरः । निश्छद्म पूजयेद्भक्त्या यथालब्धोपचारकैः ॥ चतुर्णा ब्राह्मणादीनां वर्णानां योपितां तथा । प्रतिमापूजनं शस्तं विष्ण्वादीनां हि भक्तितः।।' 'सामान्यां सविशेषां वा दीक्षामुद्धववर्मनि । प्राप्ता ये तैः प्रतिदिनं कार्य श्रीकृष्णपूजनम् ॥ दीक्षितैरौद्धवाचार्याच्ट्री- कृष्णस्याखिलैरपि । प्रतिमा नित्यपूजायै ग्रहीतव्या यथा- संचि ॥' 'वासुदेवीमिमां दीक्षा गृहीत्वाऽथानुवासरम् । पूजनार्थ च कृष्णार्चा ग्राह्या स्वस्वगुरोर्जनाः ॥ यथाधिकार कर्तव्यं यथाहं च तदर्चनम् । स्थित्वा सर्वैः स्वधर्मेपु नान्यथा मान०प्र०३२ । ४९८ मानमेयप्रकाशिकाय प्रमेय- तु मदाश्रितैः ॥ 'साक्षात्कृष्णे भगवति नरनारायणादिषु । तन्मूर्तिपु च नास्त्येव भेद इत्यवधार्यताम् ॥' 'अतः कृष्णः स्वयं दत्ते स्वार्चा भक्तजनाय याम् । तस्यां निजेच्छया साक्षा- त्मविश्यैव विराजते । अतः साक्षादगवतो मर्यादा पाल्यते यथा । तथैव पालनीयाऽत्र तस्या अपि च पूजकैः ॥ इति । निरूपितं तावत्परत्वादिपञ्चकम् । सर्वत्र च भगवान् सकलसद्गु- णसुपूर्ण एव । तथा च श्रुतिः 'इदं पूर्णमदः पूर्ण पूर्णात्पूर्ण- मुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । सर्व पूर्ण सहोम्' इति । इदमिति अन्तर्यामिरूपं विवक्षितम् । तत्पूर्ण गुण- गणेन । अदः पररूपं च पूर्णमेव । तस्मात्पूर्ण व्यूहरूपमुद्गतं भवति । व्यूहरूपमुपादाय च विभवरूपं कल्याणगुणपूर्ण विशि- ध्यते । सर्वम रूपमपि पूर्वोक्तैः सह गुणपूर्णमेव । इदं पञ्चवि- धमपि पूर्ण वस्तु ओङ्कारवाच्यं परंम्रोवेत्यर्थः । तथा च सर्वस्य गुणपूर्णत्वं भक्तजनैकगम्यत्वं च श्रीवत्साङ्कमित्रैरनुसंहितम्-'परो वा व्यूहो वा विभव उत वार्चावतरणो भवन् वान्तर्यामी वर- वरद यो यो भवसि चै। स सत्वं सन्नशान वरवरगुणान् विभ्र- दखिलान् भजन्यो भास्येवं सततमितरेभ्यस्त्वितरथा ॥ इति । भगवतो विभूतिद्वययोगः। परत्वादिस्वरूपेण विभूतिद्वयमच्युतः। विभर्त्यच्युतभावं यत्तत्प्रकारोऽत्र कथ्यते ॥ पररूपेण तावत्परमात्मा नित्यमुक्तानानन्दयन् नित्यां विभूति निर्वहति । व्यूहादिभिश्व लीलाविभूतिम् । तत्र व्यूहमूर्तिभिरनन्ताण्डो- त्पत्तिस्थितिलयान्निर्यहति । शास्त्रप्रणयनधर्मप्रवर्तनवस्वप्रकाशनै- श्योपफरोति जगताम् । लोकशास्त्रमर्यादापरिपालको भवति लोक- - प्रका] ईश्वरपरिच्छेदः। रक्षको विमवरूपी। अन्तर्यामी नरकादिप्रवेशेऽपि जीवानत्यजस्त- तत्कर्मफलप्रदः खोपासादौ रुच्युत्पादनायावसरप्रतीक्षो वत्सलत- याऽन्तः प्रविश्य स्वरुपसत्ता निर्वहति परमसुहृद्भूतः । वत्करणाना- मपि च शत्युबोधकः । येनैव जीयो यत्किंचिदपि कर्म कतुं क्षमते । अ रूपी च मन्दानामप्यर्चनीयत्वेन स्थितः सकललोकक्षेमकरः । 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इतिश्रुत्या घ विभूतिद्वयसिद्धिः । विभूति मेश्वर्य नियन्तृत्वलक्षणम् । तत्पतिसम्बन्धिनः प्रधानपुरुपपरमव्योमनित्यमुक्ता अपि विभूतित्वेन संशब्द्यन्ते नाम । तत्र प्रकृतिमण्डलस्य सृष्टिसंहारादिलीलोपकरण- तथा लीलाविभूतित्वम् । परमव्योम्नस्तु सृष्टिसंहारागोचरतया नित्य- त्वा-गवदसाधारणदिव्यभोगोपफरणत्वान्नित्यमुक्तानामविच्छेदेन भगवदनुभवस्थानत्वाञ्च नित्यविभूतिरक्षरं धाम भोगविभूतिरित्यपि व्यपदेशः । पायोत्तरखण्डे च त्रिपाद्विभूतेर्नित्यत्वं लीलाविभूतेर- नित्यत्वं चोक्तम्-'त्रिपाद्व्याप्तिः परंधाम पादोऽस्येहाभवत्पुनः निपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम् ॥” इति । महाभार- तेच मोक्षधर्मे 'अव्यक्तादिविशेषान्तं परिणामर्धिसंयुतम्। क्रीडा हरेरिदं सर्व क्षरमित्यवधार्यताम् ॥ इति प्रकृतिमण्डलस्य लीला- विभूतित्वमुक्त्वा 'अक्षरं तत्परं ब्रह्म' इत्यादिना नित्यविभूतिरभि- हिता । अस्याश्च लीलाविभूयपेक्षयाऽतिमहत्त्वं 'महाविभूतिसंस्थान नमस्ते पुरुषोत्तम' इति विष्णुपुराण उक्तम् । अतएव ब्रह्मशब्देनास्या व्यपदेशः। तथा तत्रैव भगवद्रूपधामादेर्नित्यत्वं चोक्तं-'कलाकाठा- मुहूर्तादिकालसूत्रस्य गोचरे। यस्य शक्तिर्न शुद्धस्य स नो विष्णुः प्रसीदतु ।' 'कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणाम- हेतुः । अजन्मनाशस्य सदैकमूर्तेरनामरूपस्य सनातनस्य ॥'

५०० मानमेयप्रकाशिकायां [प्रमेय- इति । महाभारते च - एते वै निरयास्तात स्थानस्य परमात्मनः । कालं स पचते तत्र न कालस्तत्र वै प्रभुः।। इति अप्राकृतभोग्या- दिसमृद्धिशालित्वाकालकाल्यत्वे भगवद्धाम्न उक्ते, तदृष्ट्या सुरेन्द्र- प्रजापत्यादिस्थानानां सर्वकामसमृद्धानामपि निरयप्रायत्वं च । श्रीमा- गवते 'कालोऽयं परमाण्वादिदिपरार्धान्त ईरितः । नैवेशितुः प्रभुर्भून ईश्वरो धाममानिनाम् ।।' इति सत्यलोकान्तधामाभिमा- निनां चतुर्मुखादीनां प्रभुरपि कालः सर्वेश्वरस्य परमपुरुषस्य न प्रभु- रित्युत्तया च भगवद्धामादेनित्यत्वं सिद्ध्यति । भगवद्यामुनमुनिभिश्च विभूतिद्वयं सहान्तर्वर्तिभिर्भावैर्विभूतिभूतैः सङ्गृहीतं स्तोत्ररने- 'यदण्डमण्डान्तरगोचरं च यद्दशोत्तराण्यावरणानि यानि च । गुणाःप्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते विभूतयः' इति । अन्न परात्परं ब्रह्मेति भगवतोऽसाधारणं नित्यं रूपं विवक्षितम् । चकारेण नित्यमुक्तमहिध्यादयोऽप्राकृतभोग्यभोगोपकरणादयश्च । तत्र लीलाविभूतिसंस्थानप्रकारो जडपरिच्छेदे निरूपितो नाम समासतः । नित्यविभूतिप्रकारमत्र विवृणुमः समासतः । नित्यविभूतिनिरूपणम् । नित्यविभूतिरतु प्रकृतिमण्डलादुपरिष्टादस्पृष्टरजस्तमस्का विलक्षण- सत्त्ववती निरवधिकतेजोरूपा नित्यमुक्तसङ्घजुष्टा परमव्योमाक्षरब्रह्म- पुरपरमपदादिशब्दवाच्याऽचिरादिगत्या न्या च । तथाच श्रुतिस्मृतयः-'क्षयन्तमत्य रजसः पराके' (पराके-परस्तादित्यर्थः) 'आदित्यवर्ण तमसस्तु पारे' 'तदक्षरे परमे व्योमन्' 'विज्ञान- सारथिर्यस्तुमनःप्रग्रहवान्नरः।सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्' 'न तत्र सूर्यो भाति न चन्द्रतारकम्' 'तद्विष्णो परमं पदं सदा पश्यन्ति सूरयः।' 'ते ह नाकं महिमान:

१५०१ प्रकाशे] ईश्वरपरिच्छेद। सचन्ते यत्र पूर्व साध्याः सन्ति देवाः 'अत्यनिलदीप्तं तत्स्थानं विष्णोर्महात्मनः । स्वयैव प्रभयाँ राजन् ! दुप्पक्ष्य देवदानवैः॥' 'प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी' 'विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसंप्रयाहो न विद्यते तेऽग्रहणानुवन्धः ।' 'दर्शयामास लोकं स्वं गोपानां तमसः परम्' 'क्षेमं विन्दन्ति मत्स्थानं यद्रह्म परमं विदुः' 'यगत्वा न निवर्तन्ते तद्धांम परमं मम' 'स्थान प्राप्स्यसिं शाश्वतम्' 'ओंकाररथमारुह्य मनः कृत्वा तु सारथिम् । ब्रह्मलोकंपदान्वेपी याति विष्णोः परंपर्दम् 'कालातीतमनाद्यन्तमप्राकृतमचञ्चलम् ।प्राप्यमर्चिः- पथात्सद्भिर्मयि सन्न्यस्तमानसः ॥' 'एकान्तिनः सदा ब्रह्म ध्यायिनो योगिनो हि ये। तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः ॥' 'अमृतं शाश्वतं दिव्यमनन्तं परमं पदम् । शुद्ध- सत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् । अनेककोटिसाहस्रानि- चर्च ध्रुवमव्ययम् ॥ सर्ववेदमयं शुभं 'सर्गप्रलयवेर्जितम् ॥' 'सत्त्वेककालसम्भूतकोटिकोट्यर्कसन्निभम् । स व्यचष्ट मह- त्तेजो दिव्यं सिततरं मुने ॥' इत्याद्याः । 'प्रकृतेः परस्तात्' इवि प्रकृतिमण्डेलादूर्ध्वस्थत्वप्रतिपादनादर्चि- रादिगतिप्राप्यत्वकीर्तनाचास्या अपरिच्छिन्नत्वं वर्ण्यमानमूर्ध्वपर्यन्त- प्रदेशतो व्यवस्थाप्यम् । सर्वव्याप्तिप्रतिपादनमपि कचिदस्य प्रमादि- द्वारकं घटते नाम । 'सत्त्वं यद्ब्रह्मदर्शनम्' 'सत्त्वं सुखे सञ्जयति 'सत्त्वात्सञ्जायते ज्ञानम्' इत्यायुक्तप्रकारेण ज्ञानसुखजननवभावो हि सत्त्वम् । नित्यविभूते: सर्वदा सर्वेपां वत्रसानां मुंतादीनां ब्रह्मज्ञानानुभवानन्दामिवर्षकत्वाच विशुद्धसत्त्वतोक्तिः । प्राकृत- ५०२ मानमेयप्रकाशिकायां [प्रमेय- सत्त्ववद्रजस्तमःसम्भेदरहित्यं च सत्त्वस्य विशुद्धत्वम् । सत्त्वस्य प्राकृतसुखसनद्वारा मोहकत्वमपि गुणान्तरसम्भेदकारितमेव । इदं तु प्राकृतसत्त्वाद्विलक्षणमेव गुणान्तरामिश्नत्वात् स्वयंप्रकाशाश्रयत्वाच । तथा च वचनम्-'स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम् ।' इति । अतोऽस्य प्राकृतसत्त्ववन्न बन्धकत्वम्, किन्तु स्वाभाविकम- गवज्ज्ञानानुभवाप्यायकत्वमेव । अत एव शुद्धसत्त्वस्य निर्गुण- त्वोक्तिः । बन्धकगुणवत्त्वं हि सगुणत्वं हेयम् । तदभावतश्च विशुद्ध- सत्त्वस्याऽप्राकृतस्य निर्गुणत्वकीर्तनं भूरिशो वरीवर्ति पुराणादिषु । अतो विशुद्धसत्त्वनिर्गुणत्वयोर्न विरोधः । अत एव 'अमल- सत्त्वधानि' इत्यस्य पदस्य 'शुद्धसत्त्वमयविग्रहयुक्ते' इति व्याख्यानं कृतं भक्तरञ्जनीटीकायां श्रीभगवत्प्रसादाचार्यैः । एतेन प्रकृतिमण्डलान्तर्गत एव कश्चनाक्षरशब्दितः प्रकृतेः परिणतिभेदो नित्यममिभूतरजस्तमस्कः शुद्धसत्त्वनामा ईश्वरस्य मुक्तानां च भोग- प्रदेश इति यादवप्रकाशमतं न साधीयः । पाद्मोत्तरखण्डे-'प्रधान- परमव्योम्नोरन्तरा विरजा नदी । वेदाङ्गस्वेदजनिततोयै- विस्राविता नदी॥ तस्याः पारे परे व्योन्नि त्रिपाद्भूतिः सना- तनी ।...अथातो ब्रह्मणो लोकः शुद्धसत्त्वः सनातनः।' इति भगवत्स्थानस्य प्रकृतिमण्डलोत्तीर्णत्रिपाद्विभूतिस्थत्वप्रतिपाद- नात् । विष्णुपुराणे-'एक तवायं परमं पदं यत्' इत्यत्रैकमत्र्य- मित्यनेन केवलाप्राकृतत्वस्य वर्णितत्वाच । (अप्रे प्रकृतिमण्डला- पूर्व भवमम्यम् ) साम्प्रदायिकमन्थेषु च भगवत्स्थानस्य विशुद्ध- सत्त्वात्मकस्यापि निर्गुणत्वमेवोकं बहुशः। निःशेषाविद्यानिवृत्तिदेशविजातीयान्यत्वं, रजोरहितत्वे तमोर- हिवत्ये या सत्ययत्त्यमित्यादीन्येवलक्षणानि । एतद्विभूते; स्वयंप्र- प्रकाशे] ईश्वरपरिच्छेदः। ५०३ काशत्वादत्यन्तानुकूलत्वेन च ज्ञानानन्दत्यव्यपदेशः 'ज्ञानानन्द- मया लोकाः' इत्यादौ । एतत्स्थान प्राप्तानां ज्ञानशचयादिगुणोन्मे- पहेतुत्वात् पाडण्यदेशत्वेन चास्य व्यवहारस्तत्र तत्र तोऽस्ति 'आयुर्वै घृतम्' इत्यादिवत् । अप्राकृताः पञ्चशक्तयो विलक्षणशब्दा- द्याश्रयाः इन्द्रियाणि चाप्राकृतानि सन्त्यत्र । शुभाश्रयविग्रहस्य पुण्डरीकाक्षत्वशुचिश्रवत्वादिश्रवणाचेन्द्रियसिद्धिः । चक्षुरादि- शब्दस्य गोलकेऽमुख्यवृत्तित्वामुख्यार्थग्रहणे च स्वारस्यातिरेकात् । 'इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वशः' इति तु कर्मकृतेन्द्रि- यराहित्यपरम्, 'अशरीरं वा व सन्तम्' इत्यादिवत् । इन्द्रिया- नपेक्षज्ञानप्रसरणादिपरं वा । 'सर्वगन्धः सर्वरसः' इत्याविना चाप्राकृतविपयसिद्धिः । श्रीभाष्ये च मुक्तानामप्राकृतदेहेन्द्रियस- दावः स्थापितोऽभावाधिकरणे । 'देहेन्द्रियासुहीनानां वैकुण्ठ- पुरवासिनाम्' इत्यत्र च प्राकृतदेहादिराहित्यमेव विवक्षितम् । 'वैकुण्ठपुरवासिनाम्' इसनेनैवाप्राकृतदेहादेरभिव्यञ्जितत्वात् । इयं च विभूतिरनन्तभगवल्लोकगोपुरमण्डपप्राकारायतनवाहन- सभास्थानादिरूपेण भगवतो नित्यमुक्तानां चैच्छिकानन्तविग्रहरू- पेण दिव्यगन्धकुसुमवस्त्रविभूषणादिनानाभोगोपकरणादिरूपेण च भगवदिच्छया परिणममाना भवति भगवतो मुक्तानां च भोग- भूमिः । 'नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकताम्' इत्यप्राकृ- ताकाशस्योपरिभागे ब्रह्मलोकस्य सद्भावोऽवगम्यते । कौषीतक्यां च प्रथमेऽध्याये ब्रह्मलोके दिव्यसरोनदीतरुगुल्मादयो दिव्यनगर दिव्यमन्दिरं हिरण्मयं सभास्थानं धर्मादिपीठयोगपर्यङ्कादयश्च विस्त- रशोऽवर्णिपत । स देवयानं पन्थानमापद्याग्निलोकमाग- च्छति...सब्रह्मलोकं तस्यारो हृदो मुहूर्ता यष्टिहा....विरजा मानमेयप्रकाशिकायां [प्रमेय- सत्त्ववद्रजस्तमःसम्भेदरहित्यं च सत्त्वस्य विशुद्धत्वम् । सत्त्वस्य प्राकृतसुखसङ्गद्वारा मोहकत्वमपि गुणान्तरसम्भेदकारितमेव । इदं तु प्राकृतसत्वाद्विलक्षणमेव गुणान्तपमित्रत्वात् स्वयंप्रकाशाश्रयत्वाच । तथा च वचनम्-'स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम् ।' इति । अतोऽस्य प्राकृतसत्ववन्न बन्धकत्वम्, किन्तु स्वाभाविकभ- गवज्ञानानुभवाप्यायकत्वमेव । अत एव शुद्धसत्त्वस्य निर्गुण- त्वोक्तिः । बन्धकगुणवत्त्वं हि सगुणत्वं हेयम्। तदभावतश्च विशुद्ध- सत्त्वस्याऽप्राकृतस्य निर्गुणत्वकीर्तनं भूरिशो परीवर्ति पुराणादिषु । अतो विशुद्धसत्त्वनिर्गुणत्वयोन विरोधः । अत एव 'अमल- सत्त्वधानि' इत्यस्य पद्स्य 'शुद्धसत्त्वमयविग्रहयुक्ते' इति व्याख्यानं कृतं भक्तरञ्जनीटीकायां श्रीभगवत्प्रसादाचार्यैः । एतेन प्रकृतिमण्डलान्तर्गत एव कश्चनाक्षरशब्दितः प्रकृतेः परिणतिभेदो नित्यममिभूतरजस्तमस्कः शुद्धसत्त्वनामा ईश्वरस्य मुक्तानां च भोग- प्रदेश इति यादवप्रकाशमतं न साधीयः। पानोत्तरखण्डे-'प्रधान- परमव्योम्नोरन्तरा विरजा नेदी । वेदाङ्गस्वेदजनिततोयै- विनाविता नदी ॥ तस्याः पारे परे व्योम्नि त्रिपाभूतिः सना- तनी ।...अथातो ब्रह्मणो लोकः शुद्धसत्त्वः सनातनः। इति भगवत्स्थानस्य प्रकृतिमण्डलोत्तीर्णविपाद्विभूतिस्थत्वप्रतिपाद- नात् । विष्णुपुराणे-'एक तवाम्यं परमं पदं यत्' इत्यत्रैकमत्र्य- मित्यनेन फेवलाप्राकृतत्वस्य वर्णितत्वाच । (अप्रे प्रकृतिमण्डला- दूर्व भवमग्यम् ) साम्प्रदायिकमन्थेषु घ भगवत्स्थानस्य विशुद्ध- सत्त्वात्मकस्यापि निर्गुणत्वमेवोकं बहुशः। निशेषाविद्यानिवृत्तिदेशविजातीयान्यत्वं, रजोरहितत्वे तमोर- दिखरये पा सत्ययत्यमियादीन्येवलक्षणानि । एतद्विभूते: स्वयंप्र- .. . प्रकाशे] ईश्वरपरिच्छेदः। ५०३ काशत्वादत्यन्तानुकूलरवेन च ज्ञानानन्दत्वव्यपदेशः 'ज्ञानानन्द- मया लोकाः' इत्यादौ । एतत्स्थान प्राप्तानां ज्ञानशचयादिगुणोन्मे- पहेतुत्वात् पाहुण्यदेशत्वेन चास्य व्यवहारस्तत्र तत्र कृतोऽस्ति 'आयुर्वे धृतम्' इत्यादिवत् । अप्राकृताः पञ्चशक्तयो विलक्षणशब्दा- द्याश्रयाः इन्द्रियाणि चाप्राकृतानि सन्त्यन्न । शुमाश्रयविग्रहस्य पुण्डरीकाक्षत्वशुचिश्रवत्वादिश्रयणाचेन्द्रियसिद्धिः । चक्षुरादि- शब्दस्य गोलकेऽमुख्यवृत्तित्वान्मुख्यार्थपणे च स्वारस्यातिरेकात् । 'इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वशः' इति तु कर्मकृतेन्द्रि- यराहित्यपरम् , 'अशरीरं वा व सन्तम्' इत्यादिवत् । इन्द्रिया- नपेक्षज्ञानप्रसरणादिपरं वा । 'सर्वगन्धः सर्वरसः' इत्यादिना चाप्राकृतविपयसिद्धिः । श्रीभाष्ये च मुक्तानामप्राकृतदेहेन्द्रियस- द्वावः स्थापितोऽभावाधिकरणे। 'देहेन्द्रियासुहीनानां वैकुण्ठ- पुरवासिनाम्' इत्यत्र च प्राकृतदेहादिराहित्यमेव विवक्षितम् । 'वैकुण्ठपुरवासिनाम्' इत्यनेनैवाप्राकृतदेहादेरभिव्यक्षितत्वात् । इयं च विभूतिरनन्तभगवल्लोकगोपुरमण्डपप्राकारायतनवाहन- सभास्थानादिरूपेण भगवतो नित्यमुक्तानां चैच्छिकानन्तविग्रहरू- पेण दिव्यगन्धकुसुमवस्त्रविभूपणादिनानाभोगोपकरणादिरूपेण च भगवदिच्छया परिणममाना भवति भगवतो मुक्तानां च भोग- भूमिः । 'नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकताम्' इत्यप्राकृ- ताकाशस्योपरिभागे ब्रह्मलोकस्य सद्भावोऽवगम्यते । कौपीतक्या च प्रथमेऽध्याये ब्रह्मलोके दिव्यसरोनदीतरुगुल्मादयो दिव्यनगर दिव्यमन्दिरं हिरण्मयं सभास्थानं धर्मादिपीठयोगपर्यवादयश्च विस्त- रशोऽवर्णिपत । 'स देवयानं पन्धानमापद्याग्निलोकमाग- च्छति...सब्रह्मलोकं तस्यारो ह्रदो मुहर्ता यष्टिहा....विरजा ५०४ मानमेयप्रकाशिकायां [प्रमेय- नदी,...तिल्यो वृक्षः...सालज्य संस्थानम्...( पुरोयहि- भौगः) अपराजितमायतनं...इन्द्रप्रजापती द्वारगोपौ... विभुप्रमितं...(सभास्थानम् ) विचक्षणा असन्दी (धर्मादिपीठं) अमितौजाः पर्यङ्कः' इत्यादिना । छान्दोग्ये चाष्टमे प्रपाठफे-'अरश्च ह वै ण्यश्चार्णवी, ब्रह्मलोके तृतीयस्यामितो दिवि, तदैरम्म- दीयं सरः, तदश्वत्थः सोमसवनः, अपराजिता पूर्ब्रह्मणः' इति सरस्त्रयवृशनगरसभास्थानानि न्यरूपिषत । 'दिव्ये ब्रह्मपुरे ह्येप व्योमन्यात्मा प्रतिष्ठितः' 'देवानां पूरयोध्या तस्यां हिरण्मयः कोशः (मन्दिर) 'हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छु_ ज्योतिषां ज्योतिस्तद्य आत्मविदो विदुः' 'प्रजापतेः सभां वेश्म प्रपद्ये सहस्रस्थूणे विमिते दृढ उने यत्र देवानाम- धिदेव आस्ते' इत्यादिश्रुतिवाक्येषु च नित्यमुक्तजुष्टा अयोध्याs- पराजितादिनाम्नी परस्य ब्रह्मणो दिव्यनगरी, तन हिरण्मयं भगवन्मन्दिरं, तन च सभास्थानं, तन च नित्यमुक्तानामधिदैवतस्य भगवतो निवास इत्यादिकं समासतो निरूपितमस्ति । मायासीमविरजापारे परमपदपरमाकाशचिदाकाशाक्षरवैकुण्ठगो- लोकादिशब्दितायां निपाद्विभूतावनन्तदिव्यभोग्यभोगोपकरणभोग- स्थानसमृद्धानन्ताश्चर्यानन्तपरिमाणदिव्यलोकानन्यं नित्यमुक्तानां यथेष्टभगवद्भोगैकान्त सम्भवतीति चोपबृंहणतोऽवगम्यते । 'अथ यदतः परो दियो ज्योतिर्दीप्यते सर्वतः पृष्ठेषु विश्वतःपृष्ठेष्वनुत्त- मेपूत्तमेपुलोकेषु' इति श्रुत्या चाप्राकृतलोकानन्त्यं व्यञ्जितम् । श्री- भाष्ये च कार्याधिकरणे भगवतः खेच्छामानसिद्धा अप्राकृता लोका यहवः सन्तीति वर्णितम्। यथा-'परस्य मह्मणः परिपूर्णस्य सर्वगतस्य सत्यसङ्कल्पस्य स्वेच्छाकल्पिताः स्वासाधारणा अप्राकृताच लोका नासन्ताय न सन्ति । श्रुतिस्मृतीतिहासपुराणप्रामाण्या' दिति ।

। प्रकाशें] ईश्वरपरिच्छेद। ५०५ तन्नाप्राकृतो महावैकुण्ठलोको विष्वक्सेनसंहितादो वर्णित:- 'भक्त्या परमया चैव प्रपत्त्या वा महामुने । प्राप्यं वैकुण्ठ- मासाद्य न निवर्तन्ति तेऽव्ययाः ॥ इति । 'वैकुण्ठे तु परे लोके श्रीसहायो जनार्दनः। उभाभ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः ॥ महायोगी जगद्धाता दिव्यसिंहासनोपरि । दिन्यसंस्तरणोपेते शेपाहिफणमण्डिते ॥ अप्राकृततनुर्देवो नित्याकृतिधरो युवा । नित्यातीतो जगद्धाता नित्यमुक्तश्च सेवितः ॥ चतुर्भुजः श्यामलाङ्गः श्रीभूभ्यां सह लीलया ।। विमलैर्भूपणैर्नित्यभूपितो नित्यविग्रहः ॥ पञ्चायुधैः सेव्यमानः शङ्खचक्रधरो हरिः । सहस्रस्थूणसंयुके मण्डपे परमेश्वरः ।। विन्यस्य वामकं वाहुमासने वामपार्धके । दक्षिण जानुके न्यस्त लम्बयन जगतां पतिः ॥' इति च श्रीवैकुण्ठनाथः । श्रीभागवते च श्रीकृष्णेन गोपानां स्वलोकः प्रकृतेः परतः स्थितः प्रदर्शित इसभ्यधायि-'दर्शयामास लोकं खं गोपानां तमसः परम् ।...यद्धि पश्यन्ति मुनयो गुणापाये समाहितार इति । अयं च लोको विकुण्ठशब्दितः 'लोकं विकुण्ठमुपनेष्यति गोकुलं स्म' इति कृष्णचरितानुवर्णनसमये विकुण्ठशब्देनास्य निर्दे- शात् । विगतः कुण्ठः-ज्ञानादिप्रसरणप्रतिरोधो यत्र स लोको विकुण्ठो मुक्तिस्थानत्वात् । अयं विकुण्ठस्य भगवतो विकुण्ठानां नित्यमुक्तानां च निवासस्थानतया कुण्ठनामाऽपि भवति । तथा चतुर्मुसस्य तपस्यतः समाधौ वैकुण्ठलोकः, तत्र च सपनी- परिजनपरिवारस्य स्वस्य स्वरूपं च पादर्शि भगवतेति श्रीभागवते वासुदेवमाहात्म्ये चान्ववर्णि-'तस्मै स्वलोकं भगवान् सभा- जितः सन्दर्शयामास परं न यत्परम् । व्यपेतसंक्लेशविमोह- .. + ५०६ मानमेयप्रकाशिकाय [प्रमेय- साध्वसं स्वदृष्टवद्भिः पुरुपैरधिष्ठितम् ॥ प्रवर्तते यत्र रजस्त- मस्तयोः सत्त्वं न मिनं न च कालविक्रमः। न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः॥ भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योत- मानः प्रमदोत्तमायुभिः सविद्युदभ्रावलिभिर्यथा नभः ॥ श्रीयंत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभू- तिभिः ॥ प्रेङ्खाश्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती ॥ ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपति जगत्पतिम् । सुनन्दनन्दप्रवलाहणादिभिः स्वंपार्षदमुख्यैः परिपेवितं विभुम् ॥ भृत्यप्रसादाभिमुखं गासवं प्रसन्नहासा- रुणचारुलोचनम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीताम्बरं वक्षसि लक्षितं श्रिया ॥ अभ्यर्हणीयासनमास्थितं परं वृतं चतुःपोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाधुवैः स्व एव धामन् रममाणमीश्वरम् ॥' इति । 'पझे तपस्यते तस्मै तपःशुद्धात्मने ततः। समाधौ दर्शयामास धाम वैकुण्ठ- मच्युतः ॥ प्राधानिका गुणा यत्र त्रयोऽपि रजआदयः । न भवत्यल्पमपि यत्कालमायामयं नच ॥ सहोदितार्कायुत- वन्दास्वरे तत्र तेजसि । वासुदेवं ददर्शासौ रम्यदिव्यासिता- कृतिम् ।। चतुर्भुजं गदापद्मशङ्खचक्रधरं विभुम् । पीताम्बरं महारत्नकिरीटादिविभूषणम् ॥ नन्दताादिभिर्जुष्टं पार्षदैश्च चतुर्भुजैः । सिद्धिभिश्चाप्टभिः पर्विद्धाञ्जलिपुटै गैः॥ सिंहा- सने श्रिया साकमुपविष्टं तमीश्वरम् । प्रणम्य प्राञ्जलिस्तस्थौ चिरिन्चो हृष्टमानसः ।।' इति च । लोकोऽयं प्रकृतिगण्डलादहि- भूतः, मायाद्यतीतत्वप्रतिपादनात् । -रमारुचये कल्पितरस्तु रमा- प्रकाशे] ईश्वरपरिच्छेदः। ५०७ वैकुण्ठः प्रकृतिमण्डलान्तर्गतः । यथोच्यते भागवते 'चैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः' इति । सत्सगिजीवनेऽपि एवमेवोक्तमस्ति । तथा भूनः पुरुपस्य भवनं च प्राकृतान्धतमसात्परपारवर्ति निरवधिकतेजोरूपं भ्राजन्मणिस्तम्भविराजितं वर्णित भागवते वैदिकपुत्रानयनवर्णने-'द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारम् । समनुवान प्रसमीक्ष्य फाल्गुनः प्रताडि- ताक्षोऽपिदघेऽक्षिणी उभे ॥ ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्ब्रहदूमिभीपणम् । तत्राद्भुतं वै भुवनं धुमत्तम भ्राजन्मणिस्तम्भसहस्रशोभितम् ॥' इति । तत्र च भूमा पुरुपोऽनन्तभोगिनि सुखासीनोऽष्टभुजः च्यादिसहितो वर्णितः । इदं च भवनं अव्याकृतधामब्रह्मपुरादिनामभिः सत्सगिजीवनर-- ट्टीकादावनूदितम् । महावैकुण्ठे चतुर्भुजस्यैवात्राष्टभुजत्वं कीर्वमान- मुपपद्यत एव । महावैकुण्ठाभिन्नत्वे त्वेतत्स्थानस्य कादाचिक्तैच्छिका- विष्करणाशयकमेतदधिपतेरष्टभुजत्वकीर्तनमुन्नेयम् । किश्वाऽप्राक- तेषु बहुपु स्थानेष्ववयवार्थयोगतो वैकुण्ठादिनानामन्वय उपपन्न एव । अतो भूमभवनस्य महावैकुण्ठस्थानाभिन्नत्वेऽपि तन्नाम्ना व्यपदेशोऽपि नानुपपन्नः । स्कान्दे च वासुदेवमाहात्म्ये गोलोकोऽप्राकृतः विरजानदीपर. पारवर्ती प्रतिपादितः, तन्मध्यस्थं चाक्षरं धाम, तन्न च भगवान् पुरुषोत्तमः श्रीकृष्णो राधालक्ष्मीवल्लभो द्विभुजो वेणुवादनतत्परो नटवर्यवेपः । 'भूम्यतेजोनिलाकाशाहंमहत्मकृतीः कमात् । क्रान्त्वा दशोत्तरगुणाः प्राप गोलोकमद्भुतम् ॥ इत्यादिना । (अ. १६ श्लो. १२. प्रभृति अ. १७ श्लो. २२ पर्यन्तमत्रानु- १५०८ मानमेयप्रकाशिकाय [प्रमेय- सन्धेयम् ) ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मसण्डेऽपि गोलोको निरुक्त- प्रकारेणैव वर्णितः । तत्र , मन्दिरान्तरास्थानमण्डपे दिव्यसिंहा- सनोपरि दिव्यं तेजा, तन्मध्ये च श्रीकृष्णो राधया सह । यथा 'तत्र तेजःसमूहं च सूर्यकोटिसमप्रभम् । प्रभया ज्वलितं ब्रह्मन्नाश्चर्य महदद्भुतम् ॥ सप्ततालप्रमाणं तद्व्याप्तमूर्ध्व सम- न्ततः। तेजोमुपं च सर्वेषां महाश्रमविवर्जितम् ॥ सर्वव्यापि सर्ववीजं चक्षुरोधकरं परम् ।' इति । 'ददृशुस्तेजसो मंध्ये शरीरं कमनीयकम् । सजलाम्भोदवर्णाभं सस्मितं सुमनोहरम्।। परमाह्लादकरूपं त्रैलोक्यचित्तमोहनम् । गण्डस्थलकपोलाभ्यां ज्वलन्मकरकुण्डलम् ॥ सद्रत्ननूपुराभ्यां च चरणाम्भोजरा- जितम् । वह्निशुद्धहरिद्राभामूल्यवस्त्रविराजितम् ॥ मणिरले- न्द्रसाराणां स्वेच्छाकौतुकनिर्मितैः। भूपितं भूपणै रम्यैस्त- द्रूपेणैव भूपितैः ॥ विनोदमुरलीयुक्तविम्वाधरमनोहरम् । प्रसन्नेक्षणपश्यन्तं भक्तानुग्रहकातरम् ॥ सद्रनगुटिकायुक्तं कवचोर स्थलोजवलम् । कौस्तुभासक्तसद्रलप्रदीप्ततेजसो- ज्यलम् ॥ तत्र तेजसि चार्वङ्गीं ददृशू राधिकाभिधाम् । पश्यन्त सस्मितं कान्तं पश्यन्तीं वक्रचक्षुपा ॥ ॥ भूपितां भूपणैः सर्वैः सौन्दर्येण विभूपितैः॥ इति च । (अ. ६) वासु- देयमाहात्म्ये धामतेज उत्तम् । अन तु स्वरूपतेज इति भिदा। तत्रैव गोलोके द्विभुजत्वं वैकुण्ठे चतुर्भुजत्वं च स्पष्टमुक्तमन्यन्न । यथा-'शुद्धसत्वस्वरूपेण द्विधा रूपो बभूवह । दक्षिणांशश्च द्विभुजो गोपवालकरूपकः ॥ नवीनलदश्यामः शोभितः पीत्तकासप्त। श्रीवंशयदनः श्रीमान् सस्मितः पद्मलोचनः।। सोऽयं गोलोकनाथश्च राधेशो नन्दनन्दनः।गोकुले गोपवेपश्च . प्रकाशे] ईश्वरपरिच्छेदः । ५०९ पुण्ये वृन्दावने वने ॥ चतुर्भुजश्च वैकुण्ठे महालक्ष्मीपतिः स्वयम् । नारायणश्च भगवान् यन्नाम मुक्तिकारणम् ॥सुनन्द- नन्दकुमुदः पार्पदैः परिवारितः । शङ्खचक्रगदापद्मधरः श्रीव- सलाञ्छनः ॥ कौस्तुभेन मणीन्द्रेण भूपितो वनमालया' इति । (अ. १२९) स्कान्दे वासुदेवमाहात्म्येऽप्येवमेवास्ति वर्णितम् श्रीकृष्णस्यैवेष्टदेवत्वेन तद्धाम गोलोकसंज्ञकं स्वाभिमतं कथितं शिक्षापत्र्यां श्रीहरिणा 'मतं विशिष्टाद्वैतं मे गोलोको धाम चेप्सितम् । तत्र ब्रह्मात्मना कृष्णसेवा मुक्तिश्च गम्यताम्॥ इति । निरतिशयदीप्तियोगात् गोलोक इति प्रसिद्धं तत् । तथा च' श्रूयते-'यत्र गावो भूरिशृङ्गा अयासः, अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि' इति । विवृतश्चायं मन्त्रः शिक्षापत्री- भाष्ये-'यत्र गावो रश्मयः, भूरिशृङ्गा बहुशृङ्गा अत्यन्तोन्नताः, अयासः अतिविस्तृताः, अत्रह अत्र खलु लोके, उरुगायस्य नित्यसूरि- भिरभिष्टुत्यस्य, वृष्णः कामानां वर्पितुः परमपुरुपस्य, तत् मुक्तप्राप्य, तया श्रुतिस्मृतिप्रसिद्ध परमपदं भूरि अनन्तायागं, अवभाति सर्वदा खयं स्फुरति" इति । गोलोकमध्यवर्ति अक्षरधामाख्यं सर्वोत्कृष्टं भग-' वतः स्थानं मुक्तप्राप्यं निरतिशयतेजोमयमवमातीत्यर्थः । औद्धवेऽस्मिन् सम्प्रदाये दीक्षितानां प्राप्यतया चेदमेव गोलो- कधाम निर्दिष्टम् 'भक्ता एते तु देहान्ते धाम गोलोकमुत्तमम्। लभन्ते राजते यत्र श्रीराधाकृष्ण ईश्वरः ।। इति । श्रीहरिस्तु- तावपि 'स्वभक्तगोलोकनय' इति गोलोकनेतृत्वं तस्यावणि । श्रीह- रैकान्तिकभक्तोऽभयारयो राजापि देहान्ते गोलोकमवाप्तवानिये- वोक्त-विहाय दिव्य प्रतिपद्य देहं तद्धाम गोलोकमवापं भूप' इति । अन तद्धामेत्युच्या श्रीहरेम गोलोक इति लभ्यते । तात- , मानमेयप्रकाशिकायां [प्रमेय- मेव, गोलोकाधिपतिरेव हि श्रीहरिरूपेण प्रादुर्भूतः । तथा च वचनं- "गोलोकाधिपतिर्यो हि स एवास्त्यत्र नेतरः' । इति । भगवतोऽक्षरधामस्थत्ववर्णनं मुक्तानामक्षरधामप्राप्तिवर्णनं च गोलोकमध्यवर्त्यक्षरधामाभिधभवनविपयं चोध्यम् । तथा च वचनानि-'आत्यन्तिके लये पूर्व भगवानक एव हि । आसी- स्वयं वासुदेवः स्वकीयेऽक्षरधामनि ॥ 'नारायणोऽक्षरे धाग्नि वासुदेवो व्यराजत' 'श्रुतिस्मृतीतिहासेषु मूलभूतं सनातनम् । प्रोक्तं रूपं हरेर्दिष्यमित्येवाक्षरधामगम् ॥' 'अतो योऽस्त्यक्षरे धाम्नि गुणातीतो हरिः स्वयम् । 'स्वीयं धाम तमःपरं नयति तान् देहावसानेऽक्षरम् (स्वधर्मज्ञानवैराग्योपेता भक्तिदृढा तु या । सवास्ति भगवत्तोपहेतुरित्यवगम्यताम् ॥ साङ्पा भक्तिरेवान धर्म एकान्त उच्यते । तद्वन्तः साधवो ह्यत्र सत्सङ्गे सन्ति साम्प्रतम् ॥') 'भक्तो एकान्तधर्मस्था ब्रह्माख्य धाम वैष्णवम् । अक्षरं यान्ति देहान्ते यद्गत्वा न पुनर्भवः॥' ('अतो गृहस्थैरपि मे धर्म एकान्त आदरः। कर्तव्यः सर्वदा येन सर्वदुःखक्षयो भवेत् ॥') 'प्राप्यमेकान्तिकेनैव ब्रह्मधा- मारिध्वना' 'वेधोक्तमक्षरं ब्रह्म मूर्त चामूर्तमित्यदः । मूर्त तत्रास्ति कृष्णस्य सेवायां दिव्यविग्रहम् ॥ अमूर्त धाम कृष्णस्य स नित्यं तत्र राजते । चिदाकाशादिपर्यायैस्तदेवा- न्यत्र तूदितम् । भक्ता एकान्तिका येऽत्र देहान्ते तेऽपि धाम तत् । प्राप्याक्षरसधर्माणः सेवन्ते कोटिशो हरिम् । अतः सत्सङ्गिभिः सर्वैःप्राप्यं धामाक्षरं बृहत् । तन्मुक्तपतौ स्थास्याम इति कार्योऽत्र निश्चयः ॥' इत्यादिना । अत्र मुक्तप्राप्यमक्षरं ब्रह्म द्वेधोक्तम् । तत्र मूर्त साकारं भगवत्सेवानिरतं मुक्तवृन्दम् । फरक- रणायाकाररहितं धामूर्त धाम । तदुभयमपि हि मुक्तप्राप्यम् ।

प्रकाशे] ईश्वरपरिच्छेदः। 'तन्मुक्तपको स्थास्यामः' इति च मूर्त अक्षरं प्रक्ष मुक्तवृन्दलक्षण- मेव विवक्षितमिति गमयति । गोपालानन्दस्वामिभिर्भागवतदशम- स्कन्धान्तर्गतवेदस्तुतिटीकायां-"अक्षरब्रह्मसंज्ञास्त्रयः सन्ति । तत्राचं प्रकृतिसम्बन्धरहितं पुरुषोत्तमस्य निवासभूतमक्षर- ब्रह्माभिधं ब्रह्मपुरं धाम वोध्यम् । द्वितीयं पुरुषोत्तमोपासक तद्धामस्थं मुक्तकोटिवृन्दं च । तृतीयः पुरुपोत्तमेच्छया ब्रह्माण्डोत्पादकः प्रकृत्यधिष्ठाताऽक्षरपुरुपश्च” इति कथनाच मूर्तामूर्तयोरक्षरब्रह्मणोः स्थानमुक्तवृन्दरूपत्वमेव प्रत्येतव्यम् । ' एवमक्षरधानो मुक्तप्राप्यत्वकीर्तनान्मुक्तप्राप्यतया निर्दिष्टे केव- लेऽपि गोलोकशब्दे 'तात्स्थ्यात्ताच्छन्द्यम्' इति न्यायागोलोकमध्य- वर्त्यक्षरं धामैव विवक्षितम् । तथा च गोलोकान्तर्वर्तिनोऽक्षरधानो भगवत्स्थानत्वं मुक्तप्राप्यत्वं च मुक्तकण्ठमेव वचनान्तरैः प्रतिपादि- तम् । यथा-'गोलोक एवाक्षरधान्नि दिव्ये 'नमो दिव्यगोलोक- धानि प्रकाशे' 'तेजोमण्डलमध्यस्थो गोलोके यः स एव हि' 'परोक्षं ब्रह्मधामस्थं गोलोके द्विभुजं सदा । राधया च श्रिया जुष्टं कोटिसूर्यसमद्युति ॥' इति । गोलोकान्वयित्वेऽप्यक्षरधानो गोलोकतः तस्य पार्थक्येनसहोपादानंचकचिसामान्यविशेपभावतो भवनस्थितियाह्योपवनादिविहरणादिविशेषाकारविवक्षातश्च सङ्ग- च्छते नाम । यथा 'केचिदाहुश्चिदाकाशे प्राकृतात्तमसः परे। राधालक्ष्मीयुतः साक्षादृष्टो ब्रह्मपुरे ह्ययम् ॥ अनेकभूति- सञ्जष्टे गोलोके राधिकेश्वरः। कृष्णमूर्तिरसावेव रासमण्डल- भूपणम् ॥ नारायणमुनिदृष्टो गोपगोपीनिपेवितः । इत्यादी। अक्षरे धान्यपि सर्वदा श्रीराधादिवैशिष् प पटुमिः सत्सङ्गि- जीपनसुधासिन्भ्वादियचनः स्पष्टमेयावगम्यते इति त्यपपेयम् ।

१२, मानमेयप्रकाशिकायां प्रिमेय- - इदमेयाक्षरं धाम चिदाकाशब्रह्मपुरामृतधामब्रह्मपदशब्दैरप्युक्त तत्र तत्र-धामाक्षरंतु यत्तस्य तदापुरमुच्यते। यदुच्यतेचिदा- काशं ध्रुवमाकाशवत्सदा।' 'विमलामृतधामवास' 'तदेतत्परम धाम श्रीकृष्णस्य सनातनम् । गोलोक इति यत्माहुर्गोपगोपीग-, णावृतम् ॥... तन्मध्येऽस्ति महत्तेजः कोटिकोट्यर्कभासुरम् । मनोहरमतिश्वेतं धनं सच्चित्सुखात्मकम् ॥ यदाहुरक्षरं ब्रह्म सर्वाधार तथामृतम्॥"परमंयाति तद्धामयब्रोत्याहुरागमा।' 'प्राप्स्यन्त्येव हि तत्पदम्' इत्यादौ । इदमेव गोलोकस्थमक्षरे धाम, वैकुण्ठशब्देनाप्युच्यते इति वर्णित 'प्रोक्तं नामान्तरेण च' इति । तथा च शिक्षापत्र्यां 'कृष्णकृष्णावताराणां' इति श्लोकटीकायां अक्षरधाम्नोऽनेकपर्यायनामान्तरप्रदर्शनपूर्वक 'एतदेव धाम वैकुण्ठशब्देनाप्युक्तम्' इत्युक्तं शतानन्दमुनिना सप्रमाणम् । श्रीभाष्यकारैरपि परमपदंपरमाकाशचिदाकाशाक्षरवैकुण्ठादि- शब्दर्भगवद्धाम वर्णितं-'अक्षरपरमव्योमनिलयः' 'चिद्व्योम- निलयः' 'परमखपदः' 'वैकुण्ठनाथ' इत्यादी । कचिदक्षरब्रह्मचिदाकाशादिशब्देन दिव्यप्रकृत्याख्या नित्यवि- भूतिः कचिच तदन्तर्वति भगवद्भवनादि विवक्ष्यते यथासन्दर्भ- मित्यप्यवधेयम्। सत्यप्यप्राकृतमुवनानन्त्ये सर्वत्रैक एव भगवान् सर्वेश्वरः सर्व- स्वामी पुरुषोत्तमो नारायणः श्रीकृष्णो गोलोकवय॑क्षरधामाधिपः राधालक्ष्म्यादिमहिपीनन्दसुनन्दगरुड विष्वक्सेनप्रभृतिपादपरिया- रयुक्त ऐन्छिपभुजायुधादिविकल्पवान् नित्यमुक्तान तत्तदुचिभेदानु- गुणमानन्दयन् विराजते इति धामिन एकत्वमपि व्यकं साम्प्रदा- यिकप्रन्थेषु-'चतुर्भुजं चारभुज स सहनभुजं तथा। धामा- न्तरेषु रूपं स्वं धृत्यास्ते च पृथक पृथक् ॥ 'आत्माऽहं पर- प्रकाशे] ईश्वरपरिच्छेदः। मात्मासौ साक्षात्कृष्णः परात्परः। अनन्तकोटिब्रह्माण्डाधीशो राधारमेश्वरः॥ गोलोकवैकुण्ठबृहत्पुरश्वेतादिधामपः।' इति । गोलोकान्तवर्यक्षरधाम्न्येव च भक्तच्छानुगुण्येन कदाचिञ्चतुर्भुजादि- रूपेण दर्शनं ददातीति च व्यक्तं सत्सङ्गिजीवने-'स च तेषु स्वभ- तेषु दिदृक्षा स्वस्य यादृशी। येषां स्यात्तादृशं तेभ्यो दर्शनं स्त्र ददाति हि॥ केचिच्चतुर्भुजं केचित्पश्यन्त्यष्टभुजं तथा। केचि- त्सहस्रवाहुं तं तस्मिन् बृहति धामनि ॥' इति । यथा स्थानैक्ये रूपभेदेऽपि न धर्मिभेदः एवं स्थानभेदेऽपि न धर्मिभेदः सौमर्यादेरिव कायव्यूहाधिष्ठातुः 1 अयमेवाशयः 'चतुरादिभुजत्वं च द्विवाहो- स्तस्य चैच्छिकम्' इत्यनुशासता श्रीहरिणा प्रकटीकृतः । अत एव सर्वधामाधिपनीकृष्णानन्यतया श्रीहरिकृष्णस्यापि 'गोलोकरमणः, वैकुण्ठनायकः, अक्षरस्थः, ब्रह्मक्रीडः' इत्यादीनि नामानि शुभानि प्रथन्तेतराम् । अत एव च धामभेदानादरेण श्रीकृष्णसेवारूपैक- पुरुपार्थान्वय एव वर्णितः श्रीहरिगीतायां-'गोलोके सोऽक्षरे धानि वैकुण्ठे वापि भक्तराट् । कृष्णस्य वर्ततेऽखण्ड सेवायां सर्व- वन्दितः ॥ तेन कृष्णेन दत्तानि ह्यनन्तान्यक्षयाणि च । तत्र दिव्यानि सौख्यानि प्राप्नोति जननि ! ध्रुवम् ॥' इति । सत्यपि धामानन्त्ये सर्चेपां भक्तानामचिरादिकया गत्यैकस्मिन्नेय धानि भग- चदुपसम्पदनानन्तरं आविर्भूतस्वस्वरूपाणां यथेष्टं तत्तल्लोके भगवत्से- चारसानुभवलक्षणा मुक्तिसाम्राज्यलक्ष्मीरप्रतिहतेति तु परमार्थः । मायातत्कार्यकथनालीलाभूतिनिरूपिता । पररूपमसहेन नित्या भूतिश्च वर्णिता।। विभूतिद्वयनाथोऽसौ श्रीकृष्णः पुरुषोत्तमः । प्रभुः सर्वस्य जगतः स्वामी नारायणः स्मृतः ।। इति इश्वरपरिच्छेदः। , मान-म०३३ मानमेयप्रकाशिकायां सम्प्रदायपरिचयः। प्रावर्तयत्सम्प्रदायमौद्धवाख्यं यमादरात् । स्वामिनारायणः साक्षाद्धरिस्तद्रीतिरुच्यते ॥ प्रत्यक्षेण भगवता श्रीस्वामिनारायणेन प्रवर्तितोऽयं सम्प्रदाय उद्धयसम्मदाय इत्यन्वाख्यायते स्वामिनारायणसम्प्रदाय इति च प्रवन्धकनाम्ना प्रवर्तकनानाः च । तत्र 'सम्प्रदीयत' इति सम्प्रदायो गुरुपरम्परागतः सदुपदेशः। स चायं गुरुपरंपरा- गर्भः । 'सम्प्रदायो गुरुकमः' इत्यत्र तु सदर्थोपदेष्टगुरुपरम्परा सम्प्रदायशब्दार्थ उच्यते । विशेष्यविशेषणभावे व्यत्यासमा- त्रम् । विवक्षितार्थस्त्वनुगत एव । सम्यक्त्वं नाम दाने गुरु- परंपरागतत्वलक्षणम् । प्रकर्पश्च वेदवेदान्तार्थगोचरत्वरूपः । वैष्णयमबागुपदेशस्यैव निःश्यससाधनत्वलक्षणप्रकर्पयत्त्वममित्य त्रैवं निरुक्तः सम्प्रदायशब्द:-'मन्त्रादीनां श्रीहरेर्यद्गुरुशिप्यक्र- मागतम् । सम्यक् प्रकर्पवदानं सम्प्रदायः स उच्यते ॥ इति । गुरुपरंपरोपदेशप्राप्तस्यैव मत्रस्य सर्वफलसाधनत्वमन्यला निरर्थकत्वं च मर्यते-'धर्मार्थकाममोक्षाणामालयः साम्प्रदा- यिकः । सम्प्रदायविहीना ये मन्त्रास्ते निष्फला मताः ।।' इति । अत एव श्रुतिस्मृत्योराचार्यत एव मन्त्रविद्यामहणं नियससाधन- मुद्रुष्यते-आचार्यवान् पुरुषो वेद । तत्प तावदेव चिरं यावन विमोक्ष्येऽध सम्पत्स्य।' 'आचाद्धिव विद्या विदिता साधिष्ठं प्रापयति'। 'तस्माद्गुरुं प्रपद्युत जिज्ञासुः श्रेय उत्त मम् । शाददे परे च निष्णात ब्रमण्युपशमाश्रयम् ।।' 'पुस्तक प्रत्ययाधीतं नाधीतं गुरुसनिधौ। भ्राजते न सभामध्ये भारगर्भ व लिया। इत्यादी तथा गुरुपदेशप्राप्त गगन पयो पेपत्यं वैष्णययापार्यायाधिकरते-कृष्णमन्त्री सम्प्रदायपरिचयः। द्विजमुखाद्यस्य कर्ण प्रविशति । तं वैष्णवं जगत्पूतं प्रवदन्ति पुराविदः॥ महाकुलप्रसूतोऽपि सर्वयज्ञेषु दीक्षितः। सहन- शाखाध्यायी च न गुरुः स्यादवैष्णवः ॥ अवैष्णवोपदिष्टेन मन्त्रेण नरकं ब्रजेत् । पुनश्च विधिना सम्यक् गृह्णीयाद्वैष्ण- वाद्गुरोः ॥ आचार्य संश्रयेत्पूर्व अनिन्धं वैष्णवं द्विजः। शुद्धसत्त्वगुणोपेतं नवेज्याकर्मकारकम् ॥ सत्सम्प्रदायसंयुक्त मन्त्ररत्नार्थकोविदम् । ज्ञानवैराग्यसंपन्नं वेदवेदाङ्गपारगम् ॥ शासितारं सदाचारैः सर्वधर्मविदांवरम् । महाभागवतं विप्रं सदाचारनिषेविणम् आलोक्य सर्वशास्त्राणि पुराणानि च वैष्णवः। तदर्थमाचरेयस्तु स आचार्य इतीरितः ॥' इति । सम्प्रदायघटकगुरुपरम्परानिष्टाभूतश्च श्रीमन्नारायण एव । तथा च वचनानि-'पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्' 'चराचरगुरुं हरिम्' 'ममाप्यखिललोकानां गुरोर्नारायणो गुरुः' 'हरि गुरुं यज्ञभुजामधीश्वरम् 'प्रसन्नो भगवान् येपामपवर्गगुरुहरिः' इसादीनि । अत एवाचार्य परम्प- राया आभगयतोऽनुसन्धेयत्वं श्रूयते स चाचार्यवंशो ज्ञेयः, आचार्याणामसावसावित्याभगवत्तः' इति । सत्सम्प्रदायत एव वेदवैदिकसनातनधर्मब्रह्मविद्यादेरविच्छेदस्रोतोवृत्त्या प्रवृत्तिरिति चापरोक्षमेव । सचायं सम्प्रदायो वष्टुधा गुरुशिष्यपारम्पर्यक्रमेण भगवतः प्रवर्तमानः पारम्पर्यघटकातिशयितवैभवव्यक्तिविशेषा. पिष्टानविशेषेण बहुधा व्यपदेशमभजत् रामानुजसम्प्रदायो यल्लम- सम्प्रदायो मध्यसम्प्रदाय इत्यादिरूपतः । एवमेवोद्धवाधिष्ठानवि- शेपितः प्रथते स्मोद्धवसम्प्रदाय इति । एतत्सम्प्रदायघटकगुरुपरम्पराया शेयलं च स्वयमेवायोपच्ची- मानमेयप्रकाशिकायां हरिः । यथा सुधासिन्धौ वृत्तालयप्रकरणे अष्टादशतरङ्गे-'सम्प्रदा- यस्तथाभीष्टग्रन्था गृहिसतां वृपाः । इष्टदेवश्चेति सम्यक् बोध्यं सत्सशिपुरुपैः ॥ तत्राद्यः सम्प्रदायस्तु स्वगुरूणां परम्परा । गुरुस्तत्रादिमो ज्ञेय उद्धवोऽध्वप्रवर्तनात् ॥ वोध्यः स रामानन्दो हि कृष्णार्पितगुरुत्वधूः । स्वामिनस्तस्य च ज्ञेयः साक्षाद्रामानुजो गुरुः॥ श्रीरङ्गाख्ये महाक्षेत्रे समाधौ स गुरोस्ततः । प्राप्तवान् वैष्णवी दीक्षा तस्य शिष्यो भवाम्य- हम् ॥ मयाऽयोध्याप्रसादे च रघुवीरे सुते स्विका। धर्म- वंश्येऽस्ति निहिता गुरुतेति गुरुक्रमः ॥ इति । उद्धवस्य कृष्णा- र्पितगुरुत्वधूर्वहत्वं श्रीकृष्णाज्ञया बदरीवनगमनं च भागवत उक्त- 'ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः । संहृत्य स्वकुलं स्फीतं त्यक्षन देहमचिन्तयत् ॥ अस्माल्लोकादुपरते मयि ज्ञान मदाश्रयम् । अत्युद्धव एवाद्धा सम्प्रत्यात्मविदां वरः॥ नोवोऽण्वपि मन्यूनो यद्गुणैर्नार्दितः प्रभुः। अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु' ।। 'एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना।वदर्याश्रममासाद्य हरिमीजे समाधिना॥ इति । वदरिकाश्रमे चोद्धवेन संसेव्यमानचरणनलिनस्य संदर्शनार्थ मरीच्यादीनां धर्मप्रजापतेश्च समू- तिफस्य समागमनं, ऋष्युक्तासुरधर्मगुरुक्षनबन्ध्वाधाचर्यमाण- साधुधर्मद्रोहपरिजिहीर्पाकृतसङ्कल्पस्य नारायणस्य छन्दतो दुर्वा- ससः समागमन, नारायणवातोश्रवणतस्परस्य सर्वस्य सभास- दलोकस्यानवधानेन कुपितस्य दुर्वाससः शापमिपतश्च मसच्यादेर्म- हर्पिगणस्य स्वपित्रोच धर्ममूर्योदिजातिपु प्रादुर्भावाज्ञापन, उद्धवस्य घ पूर्वमेव कृष्णरूपस्वार्पितगुरुपदस्साचार्यरूपेण प्रकटीभावप्रेरणं, नरना- रायणस्य - सम्प्रदायपरिचयः। ५१७ स्वभक्तधर्मरक्षणायासुराधर्मविनाशाय च प्रादुर्भूयोद्धवशिष्यतामनु- भूय सद्धर्मप्रवर्तनादिलीलायाः स्वेन करिष्यमाणायाः प्रतिपादन चैतत्सम्प्रदायोपोद्घातरूपम् । तथैवोद्धवस्य रामानन्दरूपेण प्रादुर्भूयाचार्यपदमधिष्ठाय कृष्ण- भक्तिप्रवर्तन, भगवतश्च धर्मभक्तिभ्यां हरिकृष्णसमाख्यया प्रादुर्भूय रामानन्दस्वामिनः सकाशात्प्राप्तदीक्षागुरुपदस्यौद्धघाध्वप्रवर्तकत्वं, मरीच्यादेश्च साधुवादिवेपेण प्रत्यक्षस्य भगयतोऽनुवर्तनप्रकार:, आसुरप्रकृतिनिरसनपूर्वकमैकान्तिकधर्मप्रवर्तनं च साम्प्रदायिक- ग्रन्थेषु सष्टतरमुपापादि । हरियाक्यसुधासिन्धौ यथा-'महर्पयो मरीच्याद्या एकदा बदरीवने । दर्शनार्थमुपाजग्मुर्नरनारायण- प्रभोः॥' (उपोद्घात. श्लोक २९ तः ४८ पर्यन्तम् ) इत्यादिना । सत्सशिजीवनेऽपि श्रीहरिकृतं स्वस्थ रामानन्दस्वामिसकाशा- दीक्षागुरुपदप्राप्तिप्रकारवर्णनं 'कः सम्प्रदायस्तव को विष्णुदी- क्षाप्रदो गुरुः' इति शिवरामद्विजकृतप्रभोत्तरतयोपनिबद्धम् । 'चिन्तयन् कृष्णमेवैकमहं तीर्थानि भूरिशः। सेवमानो रैव- तकं सौराष्ट्रेप्वाप्तवान् गिरिम् ॥ उपत्यकासु तस्याहं मामे पि- प्पलसंज्ञके । रामानन्दस्वामिसंज्ञमपश्यं वैष्णवेश्वरम् ॥' 'व्युत्थायाथास्य शिष्यत्वं प्राप्तोऽहं द्विजसत्तम । सहजानन्द इति मे नाम कृत्वा स आह माम् ॥ महतो वाल्पकात्पुंसो गुणः सारश्च शास्त्रतः । दत्तात्रेयवदादेय इति मेऽनुग्रह व्यधात् ॥' 'स गुरुमम विप्रेन्द्र साक्षादुद्धव एव हि । कृष्णा. दप्यणुरन्यूनः कृष्णभक्तिप्रवर्तकः ।। तदाश्रितानथायोचं तत्र सर्वाश्च वैष्णवान् । एप नः सद्गुरुः साक्षादुद्धयोऽस्ति स्वयं किल ।। अतो नः सम्प्रदायोऽयं सर्ववैष्णवसम्मतः। औद्ध- ५९८ मानमेयप्रकाशिकायां वाख्योऽस्त्विति श्रुत्वा तथोचुस्तेऽखिला अपि ॥ स गुरुमयि सन्यस्य निजधर्मधुरं प्रभुः। तिरोदधे तत्प्रतापान्मया सैवोह्य- तेऽधुना ॥' इति । श्रीरामानन्दस्वामिना श्रीहरये दीक्षाप्रदानं, सहजानन्दखामी नारायणमुनिरिति प दीक्षाङ्गनामकरणं, स्वीयाचार्यपदे तस्य प्रतिष्ठापनं च सत्सङ्गिजीवने प्रथमप्रकरणे द्रष्टव्यम् । तत्रैव स्वीया- चार्यपदप्रतिपादनसमये रामानन्दस्वामिनः श्रीहरि प्रति समा- 'देश:-'नारायणमुने धीमन् शृणु मद्वाक्यमादरात् । श्रुत्वा च तत्तथैव त्वं कर्तुमर्हसि सर्वथा ॥ एते मदाश्रिताः सन्ति कृष्णभक्ता नराः स्त्रियः। स्थापनीयास्त्वया धर्ममर्यादायां तु तेऽखिलाः ॥ श्रीवासुदेवमाहात्म्यं यत्त्वया पठ्यतेऽन्वहम् । वर्णाश्रमवतां धर्मास्तत्र स्त्रीणां च सन्ति हि ॥ यथाधिकार तेप्वेव स्थापनीयास्त्वया जनाः । ग्राह्य श्रीविठ्ठलेनोक्तं कृष्णसेवनवमं तु॥व्रतानामुत्सवानां च सर्वेपाराधिकापतेः। प्रवर्तनीयस्तत्मोक्तो निर्णयो वैष्णवोचितः॥ सम्प्रदाये स्थितिः पूर्वमासीद्रामानुजस्य मे। उपद्रवो महांस्तत्र वैष्णवैर्मत्सरा. स्कृतः ॥ ततो हित्वा बाह्यमेव तद्वत्र्मेदं मया भुवि । नूतं प्रवर्तितं वर्म सच्छास्त्राण्यनुसृत्य वै ॥ अध्यात्मज्ञानसिद्ध्यै तु रामानुजकृता मया । ग्रन्थाः संस्थापिताः सन्ति कृष्णोपा- सनपोपकाः ॥ अतो रूपाणि निश्चेतुं जीवमायापरात्मनाम् । रामानुजाचार्यकृतभाष्यादि त्वं प्रवर्तयेः ॥ इत्याज्ञा मम पाल्या ते सर्वशास्त्रार्थवेदिनः । त्वमेक एव मत्स्थाने स्थातुम- ोऽसि साम्प्रतम् ॥ यस्मिन्दिने भवान् दृष्टस्तत आरभ्य में त्ययम् । मनोरथो भयति तं त्वं पूरयितुमर्हसि ॥ इति । अनेन सम्प्रदायपरिचयः। च चाहचिपु ऊर्ध्वपुण्डूसन्निवेशकण्ठमालिकादिपु भेदो रामानुज- संप्रदायात्, न तु तत्वांश इति ज्ञायते । बाह्यचिह्नपु भेदकल्पनमपि सत्यामावश्यकतायां नूनवमप्रच- निविपयकरामानुजगुर्वनुमतिपूर्वकं श्रीकृष्णाज्ञामूलकं चेति हरिदि- ग्विजये प्रतिपादितम् । तत्र हृद्धयावतारस्य रामशर्मण आज- म्नसिद्धकृष्णभक्तेः कृष्णदर्शनलालसतया गृहानिर्गतस्य रैवताचले. आत्मानन्दयोगिनः सकाशाल्लब्धयोगविद्यस्यापि योगे तेजोमाननि- रीक्षणेनादृप्तस्य साकारब्रह्मप्रतिपादकगुर्वन्वेपणया श्रीरङ्गाप्राप्तिर्ष- र्णिता । यथा-'तेज एव हि कृष्णोऽस्तीत्युक्तस्तेनापि सोऽन्तरे। तुष्टिमप्राप्य तं नत्वा श्रीरङ्गक्षेत्रमाययौ ।।' इति । अथ च तत्र रहसि निध्यायतोऽस्य समाधौ प्रादुर्भूय रामानुजस्वामिभिरस्मै दीक्षा प्रदत्ता । कृतश्च स्वसम्प्रदायस्थवैष्णवकृतोपद्रवप्रसङ्गे नूनवमप्रव- तनादेशः । तथा विशेषाकाराश्च नूनवर्त्मनः प्रतिपादिता इति चर्णितम् । यथा-'तत्र ध्यायन् कृष्णमेव निपण्णो रहसि क्वचित् । साक्षा द्रामानुजाचार्य वैष्णवेन्द्रमवैक्षत ॥ कृष्णाप्ति- हेतुं स प्राप्य तस्माद्दीक्षां च वैष्णवीम् । साक्षात्कृप्णेक्षणा- यैनं प्रार्थयत्स तदाह तम् ।। न त्वं साधारणो मर्त्यः कृष्ण- कान्तिक उद्धवः। न प्राकृतमनुप्यस्य जायते दर्शनं मम ॥ सम्प्राप्तो वैष्णवी दीक्षां भज कृष्णं द्वयं जपन् । ततः प्रीतः स ते कृष्णः साक्षादास्यति दर्शनम् ॥ रामानन्द इति ख्याती वर्णीन्द्रो वैष्णवोत्तमः । स्वधर्मदृढनिष्ठस्त्वं मुमुक्षून बोधयं- श्वर ॥ मत्तो दीक्षां प्राप्तमपि त्यां मदध्यस्थवैष्णयाः । संश- विप्यन्ति धर्मिष्ठं मानमत्सरिणो ध्रुवम् ॥ उपद्वं यदा कुर्युस्ते तदा त्वं ततः पृथक् । भूत्या प्रवर्तयः स्वीयं सम्प्रदाय १२० मानमेयप्रकाशिकायां मदाज्ञया ॥ पञ्च चत्वारि वा कुर्याः सौम्यपुण्ड्राणि तत्र च । श्रीस्थाने चन्द्रकं कुर्या ललाटादिषु शोभनम् ॥ स्वकण्ठ- परिवर्तिन्यौ नजौ सूक्ष्ममणी उभे । धारयेः सर्वदैवेति भेदोऽस्मत्सम्प्रदायतः ॥ इत्युक्त्वाऽन्तर्दघे साक्षाद्यतीन्द्रः सोऽथ विस्मितः । लब्धं समाधौ तं साक्षात्प्रणम्य व्यचर- क्षितौ ॥” इति । अथ च रामानुजाचार्यलब्धदीक्षस रामानन्दस्य तत्र तत्र तत्सम्प्रदायप्रवर्तनं एतस्य ज्ञानवैराग्यादिसम्पत्त्यतिशयावहूनामे- सत्समाश्रयणमेतद्वैभवयशःप्रसूतिमसहमानैः श्रीवैष्णवजनैः कृतं विविधपीडनादि पर्यालोच्य परित्यज्य बाह्यलिङ्गमस्य वृन्दावनं प्रति गमनमुक्तम् । तत्र चैतत्कृतार्चनादिना प्रसन्नस्य श्रीकृष्णस्य प्रत्यक्षी- भूय नूतनाध्वप्रवर्तनप्रेरणं, स्वस्य च नरनारायणाश्रमे दुर्वासःकृत- शापव्याजेन साधुपरित्राणायावतीर्यंतत्समागमकरणीयताप्रतिपा- दनमेतस्मै स्वमन्त्रद्वयोपदेशनं च प्रत्यपादि-'अलक्ष्यलिङ्गः स ततो वृन्दावनमुपागमत् । वसंस्तत्राभजत्कृष्णं स्वस्थो भूत्वा महा- मतिः॥श्रीकृष्णमाराधयतस्तस्य भक्त्याऽनुवासरम् । साक्षा- कृष्णेक्षणमभूत्समाधौ स्वाभिवाञ्छितम् ॥ तमाह भगवान प्रीतः स्वप्रेष्ठं विनयानतम् । मम प्रियोऽसि भो वर्णिन् दुर्जनै- स्त्वमुपद्रुतः। तच्चिन्ता नैव कर्तव्या क्षयं यास्यन्ति ते द्रुतम्। त्वमुद्धवोऽसि मे भक्तो नरोऽस्यात्रेयशापतः॥सम्प्रदाय नवीनं त्वं भिन्नं रामानुजाध्वनः । प्रवर्तय त्वयि मम प्रीतिरस्त्येव भूयसी ॥ मन्त्रद्वयं गृहाणेदं मदीयं त्वमुपादिशेः । स्वशि- प्येभ्योऽयमदकिंधर्मोपेतां प्रवर्तय । नारायणर्पिरूपस्य मम तेच सहर्षिभिः । शापो जातोऽस्त्यतोऽहं च भविष्यामि नरो सम्प्रदायपरिचयः। ५२१ भुवि ।। सौराष्ट्रदेशे भविता सङ्गमो मे त्वया सह । अतस्ती- थानि विचरंस्तत्र गत्वा सुखं वस ।। मुमुक्षवो हि वहवस्तत्र सन्ति तथाऽन्यतः। आयास्यन्तीति तान्सर्वान् मद्भक्तिं त्वमु- पादिशेः ॥ इत्युक्त्वा स मनुद्वन्द्वं तस्मै दत्वा तिरोदघे । अप- श्यस्तमसौ सद्यः समाय॒स्थितोऽभवत् ॥” इति । ततः श्रीकृष्णानुग्रहतः कृष्णं प्रत्यक्षतोऽनुभवतः समाधिपूजनादौ, दुर्वासःशापनिमित्तं पीडनादिकमनुसन्धाय समाहितचेतस एतस्य श्रीकृष्णनिदेशतो मूनाध्यप्रवर्तनप्रकारः समनुवर्णित:-'साक्षा- त्कृष्णेक्षणानन्दो निराधिश्च स वर्णिराट् । कृष्णेच्छयैव स्वम- वैदुद्धवं तस्य सेवकम् ॥ दुर्जनोपद्रवं तं च दुर्वासाशापस- म्भवम् । ज्ञात्वा खेदमकुर्वाणो भेजे कृष्णं सुखाम्बुधिम् ॥ ततो हिताय जीवानां कृष्णेनाज्ञापनं कृतम् । तदेव सर्वथा कार्यमित्यन्तनिश्चिकाय सः ॥ सच्छास्त्रसारमादाय कृष्णवा- क्यानुसारतः । ववन्ध सम्प्रदायं स्वधर्मयुग्भक्तिलक्षणम् ॥' इति । दीक्षायां श्रीराधाकृष्णमनोपदेशः सचन्द्रकोर्ध्वपुण्ड्रघारणं गोपीचन्दनेन द्विसरसूक्ष्मतुलसीमणिमालिकायाः सदा कण्ठधार्य- त्वं चेत्यादिरेतत्सम्प्रदायस्य विशेपः। विशेपाश्चात्त्याःनोकाः शिक्षापत्र्यां सहतः 'देवतापितृया- गार्थमप्यजादेश्च हिंसनम् । न कर्तव्यमहिंसैव धर्मः प्रोक्तो- ऽस्ति यन्महान् ॥ न भक्ष्यं सर्वथा मांसं यज्ञशिष्टमपि कचित् । न पेयं च सुरामद्यमपि देवनिवेदितम् ।। देव- ताये भवेद्यस्यै सुरामांसनिवेदनम् । यत्पुरोजादिहिंसा च न भक्ष्यं तन्निवेदितम् ॥ दृष्ट्वा शिवालयादीनि देवागा- राणि वर्मनि । प्रणम्य तानि तद्देवदर्शनं कार्यमादरात् ।।

૬૨૨ मानमेयप्रकाशिकायां भक्तिं वा ज्ञानमालम्व्य स्त्रीद्रव्यरसलोलुपाः। पापे प्रवर्त- मानाः स्युः कार्यस्तेपां न सङ्गमः ॥ कृष्णकृष्णावताराणां खण्डनं यत्र युक्तिभिः। कृतं स्यात्तानि शास्त्राणि न मान्यानि कदाचन ॥ धर्मेण रहिता कृष्णभक्तिः कार्या न सर्वधा । अज्ञनिन्दाभयान्नैव त्याज्यं श्रीकृष्णसेवनम् ॥ उत्सवाहेषु नित्यं च कृष्णमन्दिरमागतैः । पुंभिः स्पृश्या न वनितास्तत्र ताभिश्च पूरुषाः ॥ कृष्णदीक्षां गुरोः प्राप्तैस्तुलसीमालिके गले । धार्ये नित्यं चोर्ध्वपुण्डूं ललाटादौ द्विजातिभिः ॥ ('चकारा- चप्तमुद्राधारणमपि वैष्णवानां नित्यत्वात्समुच्चीयते' इति टीका ।) तत्त गोपीचन्दनेन चन्दनेनाथवा हरेः । कार्य पूजावशिष्टेन केसरादियुतेन च ॥ तन्मध्य एव कर्तव्यः पुण्डूद्रव्येण चन्द्र- कः। कुङ्कुमेनाथवा वृत्तो राधालक्ष्मीप्रसादिना। सच्छूद्राः कृष्णभक्ता ये तैस्तु मालोर्ध्वपुण्डूके। द्विजातिवद्धारणीये निज- धर्मेषु संस्थितैः॥ भक्तस्तदितरैर्माले चन्दनादीन्धनोद्भवे । धार्ये कण्ठे ललाटेऽथ कार्यः केवलचन्द्रकः॥ त्रिपुण्डूरुद्राक्षधृ- तिर्येपां स्यात्स्वकुलागता । तैस्तु विप्रादिभिः कापि न त्याज्या सा मदाश्रितः ॥ (स्वकुलक्रमागतं त्रिपुण्डूधारणादि वैष्णवराज- शङ्करलिगत्वान्न स्वाश्रयणविरोधीति हार्द हरेः) ऐकात्म्यमेत्र विज्ञेयं नारायणमहेशयोः। उभयोब्रह्मरूपेण वेदेषु प्रतिपा- दनात् ॥ (अत्र नारायणो विष्ण्ववतारो बोध्यः ) आचार्येणैव दत्तं यत् यच्च तेन प्रतिष्ठितम् । कृष्णस्वरूपं तत्सेव्यं वन्द्य- मेवेतरत्तु यत् ।। भगवन्मन्दिरं सर्वः सायं गन्तव्यमन्वहम् ! नामसङ्कीर्तनं कार्य तत्रोच्चै राधिकापतेः ॥ एकादशीनां सर्वासां कर्तव्यं मतमादरात् । कृष्णजन्मदिनानां च शिवराने- सम्प्रदायपरिचयः। પ૨ च सोत्सवम् ॥ सर्ववैष्णवराजश्रीवल्लभाचार्यनन्दनः । श्रीविष्टलेशः कृतवान् यं व्रतोत्सवनिर्णयम् ॥ कार्यास्तमनु- सृत्यैव सर्व एव ब्रतोत्सवाः । सेवारीतिश्च कृष्णस्य प्राया तदुदितैव हि ॥ विष्णुः शिवो गणपतिः पार्वती च दिवाकरः । एताः पूज्यतया मान्या देवताः पञ्च मामकैः ।। (अत्र विष्ण्व- गतया समर्चनीयस्यादितरेपां नैकान्त्यभङ्गप्रसङ्ग इति भाष्यम्) भूताद्युपद्रवे क्वापि वर्म नारायणात्मकम् । जप्यं च हनुमन्मनो जप्यो न क्षुद्रदेवतः ।। हृदये जीववजीवे योऽन्तर्यामितया स्थितः । ज्ञेयः स्वतन्त्र ईशोसौ सर्वकर्मफलप्रदः। स श्रीकृष्णः परंनहा भगवान् पुरुषोत्तमः । उपात्य इष्टदेवो नः सर्वा- विर्भावकारणम् ॥ तस्यैव सर्वथा भक्तिः कर्तव्या मनुजैर्भुवि । निःश्रेयसकरं किञ्चित्ततोऽन्यन्नेति दृश्यताम् ॥ गुणिनां गुण- वत्ताया ज्ञेयं ह्येतत्परं फलम् । कृष्णे भक्तिश्च सत्सङ्गोऽन्यथा यान्ति विदोऽप्यधः ॥ कृष्णस्तदवताराश्च ध्येयास्तत्प्रतिमा पि च । न तु जीवा नृदेवाचा भता ब्रह्मविदोऽपि च ॥ निजारमानं नमरूपं देहत्रयविलक्षणम् । विभाव्य तेन कर्तच्या भक्तिः कृष्णस्य सर्वथा ॥ मतं विशिष्टाद्वैतं मे गोलोको धाम चेप्सितम् । तत्र ब्रह्मात्मना कृष्णसेवा मुक्तिश्च गम्यताम् ॥' इति ।। (विवरणं तु टीकामाप्ययोर्योध्यम्.) दीक्षायामुपदेश्यस्य कृष्णमयदयस्य द्वयगकाध्यप पूर्वमेयोक्त- म्। सत्यपि कतिपयविशेपेपु गुरुपरंपरायां मधमतया रामानुजस्सा- निनः परिगणनात् 'मतं विशिष्टादतं में' इति मुगकण्ठं प्रतिपा- दनाए रामानुजसम्प्रदायानुगवत्यमे स्वप्रयतिनम्बोस्यमम्मदा- यस श्रीहरिकृष्णभगवदभिगवमित्यपत्र वितरः । सोऽरमुदय- ५२४ मानमेयप्रकाशिकायां सम्प्रदायशब्दार्थः स्फुटमुपवर्ण्यते। यथा-'कृष्णालब्धप्रबोधो जगदुपकृतये तन्निदेशानुसारात् श्रीरामानन्दरूपः पुनरपि धरणावुद्धवः प्रादुरासीत् । स श्रीकृष्णश्च भूयः प्रकटितसह- जानन्ददिव्यस्वरूपस्तं मेने स्वं गुरुं यत्तदयमिति मतो द्यौद्धवः सम्प्रदायः॥ इति । उद्धवावतारश्रीरामानन्दस्वामिना व्यवस्थापितश्चायं सम्प्रदाय: श्रीस्वामिनारायणेन साक्षाद्भगवता विश्वतोमुसतया प्रवर्तितत्वादेत. नाम्नैव प्रसिद्धिभूमानमगमत्तमाम् । अथ चैतत्प्रादुर्भावप्रकार अपश्चयामः समासोक्त्यैव । हरिकृष्णप्रादुर्भाववर्णनम् । श्रीकृष्ण एव तावदासुरराक्षसप्रकृतिकैर्नृपधर्मगुरुभूमिकाधरैः प्रतिहते धर्मपथेऽखिलजीवकल्याणकारिणि परमवैदिकेऽधर्मप्रव- तेने चाधिक्रियमाणे धर्ममिपेण प्रवृत्तेऽपि प्रबले कलौ स्वीयेनैव सर्वै- श्वर्यजुष्प्टेन रूपेण प्रकटीबभूव पुनर्धर्माद्भक्तिमातृतः स्वैकान्तिकभक्त- जनानवितुं धर्मद्रुहोऽभिभवितुं च । अयं च हरिकृष्णः हरिः कृष्णः घनश्यामः सहजानन्दस्वामी नारायणमुनिः स्वामिनारायण इत्या- दिभिर्दिव्यनामभिः पप्रथेवराम् । एतत्प्रादुर्भावश्च 'अन्योऽपि धर्मरक्षायै देहः संधियते मया । विरामायाप्यधर्मस्य काले प्रभवतः क्वचित् ॥” इति श्रीकृष्णवचनात्समसूचि । विवृतश्चैत- प्रादुर्भावविपयतयैवाऽयं श्लोको गूढार्थदीपिकाभक्तरञ्जन्योः गोपा- लानन्दस्वामिभिः भगवत्प्रसादाचार्यश्च । तथा 'कलौ खलु भवि- प्यन्ति नारायणपरायणाः' इति वचनमेतत्प्रादुर्भावाश्रितभक्त- जनताविपयं च विवृतं तत्रैव ।। यासुदेवमाहात्म्ये चायं प्रादुर्भा- योऽभिव्यनित:-'मया कृष्णेन निहताः सार्जुनेन रणेषु ये।

सम्प्रदायपरिचयः। ५२५ प्रवर्तयिष्यन्त्यसुरास्ते त्वधर्म यदा क्षिती ॥ धर्मदेवात्तदा मूतौ नरनारायणात्मना । प्रवृत्तेऽपि कलौ ब्रह्मन् भूत्वाह सामगो द्विजः । मुनिशापान्नृतां प्राप्तं सर्प जनकमात्मनः । ततोऽविता गुरुभ्योऽहं सद्धर्म स्थापयन्नज ॥ इति । सुधासि- धोरुपोद्धात एतत्प्रादुर्भावरीतिः समनुवर्णिता नाम-'अस्ति श्रीमति गोलोके सर्वलोकविभूपणे । नित्याविर्भूतममलं कार्ण धामोत्तमोत्तमम् ।। श्रीकृष्णो भगवांतत्र सदा स्वामी विराजते । सप्रेम राधालक्ष्मीभ्यामय॑मानपदाम्बुजः ॥ भगवानात्मना- मात्मा वर्षे स भुवि भारते। प्रादुर्भवति सद्धर्मरक्षायै च युगे युगे । साम्प्रतं च कलेः प्राप्य बलं भुवि समेधितैः । असुरां- शगुरुक्ष्मेशैः क्लिष्टं धर्म सुरक्षितुम् ॥ अधर्म चोन्मूलयितुं पातुं भक्तानृपींश्च सः । निजभक्तिं प्रथयितुं सर्वाभीष्टप्रदा पराम् ।। स्वदिव्यमूर्ती जनताचेतसां च समाधये । सफलै- श्वर्यजुष्टेन जीवकल्याणकारिणा ॥ आत्मीयेनैव रूपेण जज्ञे हरिरिति श्रुतः। जन्मकर्माणि तस्यादौ कथयामि समासतः॥' इत्यादिना । सत्स गिजीवनशास्त्रं च कृत्स्नमेतचरित्रामृतसम्भृतमेव सत्सगिनां जीवनभूतं वरीवति । तत्र च 'नारायणावतारोऽत्र हरिरस्ति गुरुर्हि नः । सहस्रशो जनस्तस्य मया चैश्वर्यमीक्षि- तम्॥ इति श्रीनारायणावताररूपत्वं श्रीहरेराकं मुक्कानन्दमुनिना । तथा चादिविवादशमनपूर्वकं फलावपि श्रीविष्णोरवतारसम्भपश्च विस्तरशस्तव समर्धितः । तत्रैव श्रीहरेः प्रादुर्भाववर्णने निजेना- प्राशतेनेव कृष्णरूपेण प्रादुर्भाव उक्तः 'गोलोक एयाक्षरधान्नि दिव्येऽनन्ते च यायमते स नित्यम् । तं तादृशं ते ददृशु- द्विहस्तं निनादयन्तं मुरली मुकुन्दम् ॥ वृन्दावने यादृश ५२६ मानमेयप्रकाशिकायां आत्मना प्रागाराध्य दृष्टः परिवारयुक्तः । तं तत्र तौ ताह- शमेव दृष्ट्वा निश्चिक्यतुः कृष्ण इति स्वचित्ते ॥ इति । श्रीहरिस्तुती राधिकावल्लभत्वेन स्तुतिरपि श्रीकृष्णानन्यत्वमेवोपो- द्वलयति-त्वं हि साक्षात्परंब्रह्म...राधिकारमणः स्वयम् ।। 'प्राकृततमसः पारे महसि...मुरलीरवकर्ता' इति । किञ्च श्रीरा- मानन्दम्बामिनमुद्धवरूपं प्रति स्वस्त श्रीकृष्णानन्यत्वं साधुधर्म- रक्षणार्थ नृनाट्यानुकरणमानं च प्रक्टीकृतं श्रीहरिणा । (सत्सङ्गि- जीवने प्रथमप्रकरणे ५९ अध्याये) शिक्षापत्रीटीकायां च शतानन्दमुनिना श्रीकृष्णानन्यत्वं हरिक- ष्णस्य मुक्तकण्ठं प्रकटित 'सश्रीकृष्णः परंब्रह्म' इति श्लोकव्याख्याने -'यः साक्षात् भगवान् क्षराक्षरपरः कृष्णः स एव स्वयं भक्तो धर्मत आस भूरिकृपया श्रीस्वामिनारायणः। मानुष्यं भुवि नाटयन निजजनाचार्यत्वधर्मे स्थितः कृष्णं प्राह परोक्ष- वनतु ततोऽन्यः सोऽस्ति यत्स स्वयम् ॥' इति । श्रीकृष्णा- नन्यभूते चास्मिन् अवतारित्वसर्वोत्कृष्टत्वादिविभवो विस्तरशः समुपवर्णितो नाम साम्प्रदायिकग्रन्थेषु । हरिदिग्विजयेऽपि कला- यपि भगवदघतारसम्भवोपपादनपूर्वकं विशेषतः श्रीकृष्णान- न्थत्वं बहुभिर्युक्तिभिः समार्थितं श्रीहरेः ( उल्लास-४२) श्रीकृष्ण- हरिकृष्णरूपयोर्विशेपोऽपि तत्रैवोक्त:-'एतावांस्त्वत्र भेदोऽपि ज्ञातव्यः कृष्णयोद्वयोः। एको गृही क्षत्रधर्मा वर्ण्यन्यो ब्रह्म- धर्मभाक् ॥' इति । किश्च श्रीकृष्णलक्ष्माणां पाद्मोत्तानां पादपद्मयो रेसारूपाणामेत- पदकमलयोर्दर्शनादप्यस्य श्रीकृष्णानन्यत्वं शक्यमभ्यूहितुम् । पाझ- वपनानि तावत् चिरिश्चिनारदसपादे-'अयतारा ह्यसंख्येया:

सम्प्रदायपरिचयः। कथिता मे तवानघ । परं सम्यक् प्रवक्ष्यामि कृष्णस्तु भग- वान् स्वयम् ॥ यैरेव ज्ञायते देवो भगवान् भक्तवत्सलः । तानि लक्ष्माण्यहं वेद सत्यमेतन्मयोदितम् ॥ पोडशैव तु चिह्नानि मया दृष्टानि तत्पदोः । दक्षिणे नव चिह्नानि इतरे सप्तसंख्यया ॥ ध्वजः पद्मं तथा वज्रमङ्कुशो यव एव च । स्वस्तिकञ्चोयरेखा च अष्टकोणं च जाम्बवम् ॥ इन्द्रचाप- खिकोणं च कलशश्चार्धचन्द्रकः । अम्बरं मत्स्यचिह्न च गोष्पदं चेति पोडश ॥ इति । एतानि च चिहानि श्रीहरेश्चरण- कमलयोरुपवर्णितानि सद्गुरुभिः साक्षात्कृतान्येव-'सत्स्वस्तिका- दिनवलक्षणदक्षपादं मत्स्यादिसप्तकसुलक्षितवामपादम्' इति । 'कृष्णत्यैव हि दृश्यन्ते लक्ष्माण्यस्मिन्नशेषतः । ध्वजवज्राङ्कः- शादीनि रेखाचिह्नानि पोडश । पादयोरस्य वर्तन्ते कृष्ण- स्येव स्फुटानि हिं' इति च । अन्यान्यपि चिह्नान्यधिरा- ज्यसूचकानि तत्र तत्र निर्दिश्यन्ते नाम-'शङ्खध्वजातपत्रैश्च चिहितं चरणाद्वयम्' (गोपालचापि-) 'चक्रातिपदा तेन' (वराह) 'भृगारासनवाजिकुअररयश्रीवत्सचापेषुभिर्माला- कुण्डलचामरागुशयवैः शैलध्वजस्तोमरैः । मत्स्यस्वस्तिक- वेदिकाव्यजनकः शङ्खातपत्राम्बुजैः पादे पाणितले नरा नृप- तितां यान्ति स्त्रियो राज्ञिताम् ।।' इत्यादी । एतेपु कतिपय- चिहान्येच सार्वभौमादिपु प्रायशः सम्भाषितानि । सर्वाग्यपि तु सर्वेश्वर एप खेच्छाग्रहीतदिव्यमहलविग्रहे सद्गच्छन्तेतराम् । श्रीभागववादी उपलक्षणवया कतिपयानि चिहान्युपवर्णि- वानि भगवतश्चरणारविन्दयोः-'सञ्चिन्तयेद्भगवतश्चरणारविन्द चनाकुशधजसरोरुहलान्छनाध्यम्। 'शहाचक्रगदापरहितं ५२८ मानमेयप्रकाशिकायां पादपङ्कजम्।' इत्यादौ । पूर्वाचारप्येवमेवानुसंहितानि 'कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवनलाञ्छनम् । त्रिविक्रम त्वञ्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ॥' 'वज्राङ्गु शध्वजसरोरुहशङ्खचक्रमत्सीसुधाकलशकल्पककल्पिताङ्कम् । त्वत्पादपद्मयुगलं विगलत्प्रभाभिर्भूयोऽभिपेक्ष्यति कदानु शिरो मदीयम् ॥' "शिञानश्रुतिशिञ्जिनीमणिरवैर्वनारविन्दध्वज- च्छन्नीकल्पकशङ्खचक्रमुकुरैस्तैस्तैश्च रेखामयैः । ऐश्वर्येण जयं त्रिविक्रममुखं घुष्यभिरानेडितं श्रीरङ्गेशयपादपराजयुगं बन्दामहे सुन्दरम् ॥' इत्यादौ । एवं परमपुरुपचिह्नानां सर्वेषां श्रीहरेश्चरणारविन्दयोर्दशनात्परमपुरुपत्वं शक्यमवधारयितुम् । किश्च श्रीवत्सशङ्खचक्रादेः परमपुरुपासाधारणचिन्ह भूतस्य श्रीहरिणा सत्र तत्र स्वस्वरूपे प्रदर्शितत्वाच परमपुरुषत्वं सुस्थिरमेव । विस्तरस्तु साम्प्रदायिकमन्यतोऽयसेयः । स्वामिनारायणशब्दनिरुक्तिः । अस्य च स्वामिनारायणेति शुभं नाम सुतरां प्रसिद्धिमुपगतं ध्यानजपादौ विनियुज्यते नाम । इदं नाम व्यसं समस्तं च प्रयुज्यते श्रीहरौ 'स्वामिनारायणाख्यया। प्रसिद्धोऽस्ति' "स्वामिनाराय- णाख्यश्च स्वाम्याख्यश्च विराजते' 'भको धर्मत आस भूरि- कृपया श्रीस्वामिनारायणः''स्वामिनारायणः स्वामी' 'स्वामी प्रम परब्रह्म ॥ इत्यादी । स्वामी चासो नारायणश्च स्वामिना- रायणः । स्वामी-सर्वस्य पतिः सर्पश्चर्यसम्पन्नः। 'स्वामिन्नेश्वर्य' इति सूत्रात् नारायणः-सान्तोगी साधारः । नरम्प नराकार- रम्य धर्मम्मापरामिविया। मधर्यसम्रमः सर्पशेषी सर्यान्तर्यामी सम्प्रदायपरिचयः। ५२९ सर्वाधारः साक्षाद्धर्मनन्दनः स्वामिनारायणशब्दार्थ इति यावत् । 'स्वामिनारायणे ति षड़ों मत्रश्च सदा जप्योऽस्त्यस्मिन् सम्प्रदाये। अक्षरधामाधिपतेः श्रीकृष्णस्वैव साधुधर्मरक्षार्थमधर्मनिरासाय च साक्षात्मादुर्भावरूपत्वादस्यैव ध्यानार्चनादि विशेषतो निःश्रेय- सार्थमनुष्ठीयते चास्मिन् सम्प्रदाय इति स्थितम् । एतत्सम्प्रदायमहत्ता चोक्ता हरिदिग्विजये 'स्तेयं मांसं परस्त्रीगमनमथ सुरापान- मुन्मूलयानो मानं मोहं च लोमं मदमदनरुपः कर्पयन् जीव- हिंसाम्। शुष्कज्ञान सकौलं भुवि चरमदशां प्रापयन् भक्तिधमी पुष्यन् व्यभ्राजदूर्ध्व सकलमतवतामौद्धचः सम्प्रदायः॥ इति । एतत्सम्प्रदायेऽत्यन्ताभिनतानां प्रमाणपन्थानामिष्टदेवस्य प विवरणं सुधासिन्धौ कृतम्-'ग्रन्थास्त्वभीष्टा अष्टौ हि भवन्त्यु- द्धववय॑नि । वेदाश्च व्याससूत्राणि श्रीमद्भागवतं तथा ॥ विष्णुनामसहस्राख्यं स्तोत्रं भगवतोदिता । गीता विदुरनी- तिच भारतस्थमिदं त्रयम् ॥ श्रीवासुदेवमाहात्म्यं तथा स्कन्द- पुराणगम् । याज्ञवल्क्यस्मृतिश्चेति ग्रन्था अष्टौ प्रकीर्तिताः ।। त्यागिनां च गृहस्थानां धर्मा ये च पृथक्पृथक् । श्रीवासुदेव- माहात्म्याद्विज्ञातव्या अशेषतः ॥ इष्टदेवस्तु भगवान् श्रीकृप्यो राधिकापतिः।' इसादिना । अभीष्टमन्थाष्टके च विशेषांशा उकाः शिक्षापयां 'तत्राचार- व्यवहतिनिष्कृतानां च निर्णये । ग्राहा मिताक्षरोपेता याज- वल्क्यस्य तु स्मृतिः ॥ श्रीमद्भागवतस्येषु स्कन्धी दशम- पञ्चमी । सर्वाधिकतया ज्ञेयौ कृष्णमाहात्म्यबुद्धये ॥ दशमः पञ्चमः स्कन्धो याज्ञवल्क्यस्य व स्मृतिः। भक्तिशास्त्रं योग- मान.प्र.३४ કરે मानमेयप्रकाशिकायां शास्त्रं धर्मशास्त्र क्रमेण मे ॥ एतेषु यानि वाक्यानि श्रीकृ- प्णस्य वृपस्य च । अत्युत्कर्पपराणि स्युस्तथा भक्तिविरा- गयो। मन्तव्यानि प्रमाणानि तान्येवेतरवाक्यतः। धर्मेण सहिता कृष्णभक्तिः कार्येति तद्रहः ॥ इति । तथा तत्रैव व्याससूत्रभगवद्गीताशास्त्रयोः श्रीमद्रामानुजाचार्यभाष्यसहितयोरेव स्वाभिमताध्यात्मशास्त्रलमिति च प्रकटीकृतं श्रीहरिणा । तथा 'मतं विशिष्टाद्वैत में इति 'कीर्तनात्स्वेप्रवर्तितस्यौद्धिवसम्प्रदायस्य श्रीरामानुजार्यप्रवर्तितश्रीविशिष्टाद्वैतसिद्धान्तमूलकत्वमपि समसूचि। तथा "रामानुजाचार्यमतश्चोपास्यः पुरुषोत्तमः" इति पर- सत्त्व विषये रामानुजमतान्न स्वमतस्य भेद इति च व्यक्तीकृतं सुधासिन्धौ । अवान्तरविषयेष्वाचरणेषु चैवाल्पो भेदो दृश्यते नाम । अत्रेदमवधेयम् । यथा पूर्वतन एव स स सिद्धान्तस्तीर्थक- रैस्तैस्तैर्देशकालाधिकारिभेदेन तदा तदा कतिपयविशेषांशपूरणा- दिना परिष्कृत्य प्रवर्तितः, तथा पूर्वतन एव विशिष्टाद्वैतसिद्धा- न्तोऽपि प्रकृतदेशकालस्थास्तिकजनतामनोरञ्जकैः कतिपयैर्विशेपैर्वि- शेपितः परिष्कृत्य प्रवर्तितः सत्सगिर्जनावनाय श्रीसहजानन्द- स्वामिनेति । विशेषांशाश्चात्रत्याः विस्तरतोऽवसेयाः साम्प्रदायिक- प्रन्थतः । इत्यलं विस्तरेण । चातुर्वर्ण्यकृतव्यवस्थ इह सद्गुर्वादिसंशीलितः श्रुत्यादिप्रथिताप्टशास्त्रघटितो बोधप्रबन्धोज्वलः । धर्मज्ञानविरागशोभिभगवद्भक्तिं च सम्प्रापयन् "अध्वा ह्यौद्धव एप सर्वसुखदो जागर्ति सद्भिः श्रितः ।। गोलोके दिव्यलोके प्रकृतिघनतमःपार ऊर्य च चित्खे तीरे प दिव्यधुन्या भगवति नियतं भक्तिमनिस्तु गम्ये ।

. सम्प्रदायपरिचय गत्या नानाचिराया बहुतरमहसि ज्ञानशक्तररोधात वैकुण्ठाख्येऽक्षरे धान्यनिशमभिचकास्ति श्रिया कृष्णदेवः ।। स एव राधारमणो युगेयुगे स्वेनैव रूपेण जगद्धितार्थम्।। धृत्वाऽवतारान् चहुभक्तवर्गान्निनाय धाम स्वमकुण्ठधामा।। स एव कालेऽपि कलौ सुरजिंदवर्गत्तु धर्मे प्रतिहन्यमाने । महीतले धर्मगुरुक्षितीशवभ्वादिवः प्रकटो बभूव -11-- वैराग्यपूर्व निजभक्तियोग विस्तारयन् देशिकवेपरम्या। ऐश्वर्यमुख्यैश्च गुणैः सुपूर्णः श्रीस्वामिनारायण एपनोऽव्यात।। उपसंहारः। मान च मेयं द्विविधं पदार्थजातं विभक्त खलु तत्र चाद्यम् । मतं विधाऽन्त्यं तु मतं द्विधा चद्रव्यं च तद्भिन्नमिहादिमं तु ॥ धर्मित्वमामोत्यपरं च नित्यं द्रव्यस्य धर्मो ह्यपृथस्थितत्वात् । अतोऽप्रधानानविचक्षयित्वा पद्रव्यमानं जगदुः परे तु ।। तत्रापि मापीयपदार्थजातावच्छेकत्वेन पृथग्विवक्षा। यदान कालस्य तथा च युद्धेः पुंधर्मतातोऽक्षरदिव्यधाम्नः ॥ परस्य रूपस्य विशेषकत्वात्तदा तु तत्त्वं त्रिविध मत । माया पुमानीवर इत्ययं च तत्त्वस्य संख्यानविधिः प्रसिद्धः॥ तत्रैव पुंसः खलु धर्मभेदविवक्षया पथविधं च तत्त्वम् । निरूपितं ह्यौद्धयसम्प्रदाये अन्ये सुधासिन्धुमुखे विविध्य ॥ तत्त्वत्रयं चैव हरिस्तु शिक्षापत्र्यां सुयोध्यं स्वयमन्वशास्त । अत्रापि तच्छैल्यनुशीलनाद्वै तत्त्वत्रयं विस्तरशो व्यशोधि । मायापुमांसायपि धर्मभावात्पृथग्विवक्षा न यदा भजेते । सदा तु सर्वेश्वर एक एव सर्वप्रकारः परिनिष्ठितः स्यात् ।।

५३२
मानमेयप्रकाशिकायां
अयं विशिष्टैक्यमतस्य सारः एवं क्वचिद्बह्मण एव कीर्यो ।
शास्त्रेषु भेदस्य सतो निषेधो जीवेश्वरादेर्न विवक्षितः स्यात् ।।
उक्तः समासादयमर्थसारो ह्येतत्प्रबन्धस्य च धारणाय ।
मानस्य मेयस्य च तत्वभेदसुखावबोधाय कृतिस्त्वियं स्यात् ॥
मूलं च सम्प्रदायस्य प्रकारा अपि वर्णिता।
औद्धवाख्यस्य सत्सङ्गिजीवनादौ तु विस्तरः ।।
भूयात्प्रकरणं ह्येतद्विशिष्टाद्वैतगोचरम् ।
औद्धवाध्वानुगं चित्तरञ्जनाय सुमेधसाम् ।।
लघुवाकुसुमस्तोमेन स्वपदार्पितेन च ।
भगवान् सहजानन्दस्वामी सम्प्रीयतां हरिः ॥
मखग्योमखनेवाले (२००५)वैक्रमाब्दे प्रकाशिका ।
वसन्तायदिने सेयं मकटा राजता चिरम् ॥
इति श्रीमद्भगवरसहजानन्दस्वामिचरणकमलैकपरायणरय
(परमसतुरुवर्याद्भुतानन्दस्वामिशिष्यसद्गुरुश्रीघनश्यामचरणदासशिष्यस)
सहरुशास्त्रिश्रीहरिजीवनदासस्य कृतिः
मानमेयप्रकाशिकानामकं प्रकरणं
समाप्तिमगमत् ॥

शुद्धिपत्रिका। ३ शुद्धम् फलमित्येव तु य दिदं " " पृष्ठे पती अशुद्धम् २ ६ फलमिति २१ 'यदिदं ११ मातज १२ ६ नेति अश्व १७ तत्तदेश १९ न्याचक्षु २० नापि स्मर लब्धिसतं चाशुप १४ ३ वधूते १६ गृह्यते । नच ३ वगत तदवगम १८ १८ प्रमा २२ १९ पक्षमा २३ १७ यादिप्रस १८ भवति २ प्रसाद ३२ विघटवास दिति । नेतर ९ पादिन ४२ १४ ऐन्द्रियकरपार १८ कानास्पया १७ माय माहि ७ योऽस्तु माताज नेति । अश्व तत्तद्देश न्या भस्याचक्षु नापीदं स्मर लब्ध्यादिसहकृताक्षज वधृतं , न च धिगतः तदधिगम प्रमा प्रथमा यादि प्रस पमिशि प्रसाति। विघटकरम दिति नेतर पादिनः ऐन्द्रिपिस्तार पायला भायमाहि 2- ४८ पोष्ट मानमेयप्रकाशिकायां पृष्ठे पतो अशुद्धम् चेपा शुद्धम् 'पां बाह्या स्मृत बाह्याः स्मृत " " प्रणनयना १७ गौ प्रमेयः ८० ११ स्रष्टाके, ५ चैतत् निका प्रोफ ८७ " ११ खासाधा। तथाचान २२ चलतीति ६ प्रस्यक्ष १४ पृथिव्यादि- २२ स्फाटिका १६ भिधात " ९८ प्रणयना गौः प्रमेय नाटके चैतत्रिका तोक्ता खासाधा तथा।नच चलतीतीतिः प्रत्यक्ष. पृथिव्यादि स्फटिका भिघात. साह्य दनात् 'सर्वज्ञः वा विभु तात्पर्यम् । यथा- चेतनश्चेजीव वृन्दं क्वचि,- सत्यया प्रकारो जनयति । गच्छति- बोध्यम्. पहुख १४ साध दनात् । सर्वज्ञः ३ चा विभु १०५ ४ तापयांत । ९ यथा १११ ११३ ११५ २३ चेतनश्वजीव १६ वृन्द, चि- सङ्ख्याया प्रकरो २३ गच्छति-जनयति १७ बोध्यम् ११८ १२६ . " घदुत्व शुद्धिपत्रिका। पृष्ठे पक्की अशुद्धम् शुद्धम् दव्यत्वात् । सद्धवावि- अवयवसङ्ख्या च महत्त्वादाव ૧૨૮ २ ट्रव्यत्वात् १२ सक्ष्यवि- १३ कार्यद्रव्यारब्धत्व १२८- १५ महत्वेऽ- " महत्त्वादेः . } महत्त्वादिप्र १२८- १३२ १३३ वादः नैया वादो नैया महत्त्वस्य- १८ १८ महत्त्वप्र- १३ ९ मधिकता खकायें २० नभूधः १ ननुन्यग्रोध चित्ताख्ये ५ त्रैविध्यम् । हरि २२ कि "" १३५ १३६ १३७ १४४ " १३ भवन्तुराज- १५५ मधिकतो खकार्य स तूधः किञ्च न्यग्रोध चिन्ताख्ये वैविध्य हरि किमिति भवन्तु मनोवदाज- रकमणं पादरायणेन भयादिगतिधु निस्सा- देतत्पश इत्या लम् भागस्पेव भातररूपम् पिरा . २२ नारायणेन २४ अयादिश्रु १ निःसा २ देतत् पक्ष १५८ तखत्र ७ १९ भामस्पेय भासरसम् १२ पिER १८८ ४ १९२ मानमेयप्रकाशिकाया पृष्ठे पडतो अशुद्धम् शुद्धम् १९१ ४ वर्णिता वर्णिताः ४ कपचा कवचा: ७ शीणा शीष्णा १९३ २३ योजनानि योजनाना १९६ १६ मानीमि मानिनीभि १९७ २१ जातवेदस जातवेदो २०० २० सुपर्णादय सुपर्णादयः २०३ १ स्थारा स्थावरा २०४ २० आर्यभट्टेन आर्यभटेन २०५ शिलादयो शिलादयः ६ रव रय २१२ १० सहनदिनं सहस्र दिन २१२ २३ धपर्यान्तावधि र्धान्तावधि नह्या ब्रह्मा २१३ २२ करणत्वं व करणत्वं च व २१५ २ प्रकृता प्राकृता शालिकानाथ: शालिकनाथः २२० २२२ १. निर्विकार निर्विकारः १२४ ११ दितत्वात दितत्वानात्मा प्राणः । २. दोपरक्ता दाकारा २२ विषयोपरागा विषयाकारा ३ सत्वपि २२९ विवदतो विषदमानयो २३२ ९ धरतो पुरमा प्रवर्ववे प्रपतत " " - " २२५ सत्स्वपि वा शुद्धम् " शुद्धिपत्रिका। पृष्ठे पती अशुद्धम् २३५ १२ वचसां वचसा २३ यत्व, यत्वव २३६ ५ भ्रम । इति भ्रम इति २३८ १९ पश्चत्वस्य पञ्चखस्य २३९ १८ शक्त्यापाद शक्त्युद्दोधापाद २४४ परमि परिमि २४७ ३ व्यवदेशा व्यपदेशा २५१ ७ पृति वृत्ति २५२ १० चिच्छब्द चिच्छन्दः २५३ ७ (अनादिः) (अनादिमुका) २५४ १४ रशीति स रसीविलक्षस २५९ १५ दति द्वेति २३ सम्पाद सम्पद २० पेत्तुं बेतु २६७ २१ मुकि मुके २७५ विहीनान् विहीनां ६ वृतत्व वृत्तत्व तथापितु २७८ ११ तथापि च' देहमान २८० १२ देहमान २८. १९ पालयस्तं पालवस्त २९१ यथा। तथा २९८ १७ क्लिष्टम् । किष्टमयुकं च। रुपधि युगल' २६. २२ रुपाधि २. युगलः' २२ लवं १९ सास खान द वर्तते। " ७ " " १६ न्दमों मानमेयप्रकाशिकायां पृष्ठे पती अशुद्धम् शुद्धम् १८ वर्तत इति। व्यवहारः। व्यवहार इति। ३१२ न्तका न्तुका २० ही ३२३ ९ यामयश यामश ३२४ १८ ब्रहयति बृंहयति १९ ब्रह्मण दृह्मण ३२९ महुल महल न्दर्भो ३३७ २३ ज्ञानवर्ता ज्ञातवतां ३४२ १० भावे हि भावेऽपि तत्वपरा तत्वापरा वादन वदन इदं च। प्रज्ञामात्र प्रज्ञामात्रा ३५५ षित्वा षत्वा २३ विधृतो विधृते ४०४ ९ तच्छारीरक तच्छरीरक ४२० २० च्छ्रितम् च्छ्रितम् ४२२ २. नेऽखिल त्रे खिल ४२५ ५. मैच्छिकी ऐरिछको रि १६ प्रकाशति प्रकाशाति ४६३ मानुणी मानुषी ४७३ १६ कार्यायी कार्याची २१ पोन पटून " ७ " ७ : . } सुरि ८ " शुद्धिपत्रिका। ७ पृष्ठ पङ्का अशुद्धम् ४७५ ४८६ १३ सर्वा ४८८ शुद्धम् सर्वे ययाहरभुवो भार कला. पुंसः रूपत्वाच धर्षिता अक्रूराय जाचार्य ६ भूगार क्षयितो येन- १६ कला विष्णोः १ रूपत्वाच ६ अर्पिता अरेण १५ जाचार्य तत्त २२ लक्ष्माणा ४८९ ५१९ ५२२ लक्ष्मणा अतिस्फुटोपलम्भा याः काश्चिदत्र त्वशुद्धयः । न ता विशोधितास्त्वन्याःमायशोऽत्र विशोधिताः॥ गच्छतः स्खलनं कापि भवेदिति समाहितः। सर्या अशुद्धयोऽप्येवं शोध्याः प्रार्दयापरैः ।।

Manameya Prakashika

Author
Shastri,harijivandas
Title
Manameya Prakashika
File name
Manameya Prakashika
Text
OCR done
Citation
1949
Published
2012/08
Publisher
Vadtal.,shastri Harijivandasji Swaminaraya Temple
Language
Sanskrit
Pages
578
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
311756
Barcode
99999990320612.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
mSlp2EKajv0
Download PDF

Manameya Prakashika