Banasthali University
Saugandhikaharana
Front matter
No text on this page.
KÄVYAMÂLÂ. 74.
THE
SAUGANDHIKAHARANA
OF
VISVANATHAKAVI.
1
EDITED BY
MAHÂMAHOPADYÂYA PANDIT SIVADATTA
Head Pandit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KASINATII PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JÁVAJÍ
PROPRIETOR OF JAVAJI DADAJI'S NIRNAYA-SAGARA' PRESS,
BOMBAY
1902.
Price 4 Annas.
(Registered according to Act XXV of 1867.) [ All rights reserved by the publisher, सौगन्धिकाहरणम् । JUL मावाश्यं नीतम् । काव्यमाला. ७४. श्रीमद्विश्वनाथकविविरचितं जयपुरमहाराआश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्याय- पण्डितशिवदत्तशर्मणा, मुम्बापुरवासिपरवोपाह्व- पाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितम् । मुम्बया निर्णयसामसुख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा mata e १९०२ (अस्य पन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः ।) मूल्यं रूप्यकपादः ।
pay.....!
hLolto
*88094
:*;:7
il/ l'ir
szer
काव्यमाला। श्रीमद्विश्वनाथकविविरचित सौगन्धिकाहरणम् । शारदायाः स्थिति सूक्ष्मां प्राक्संस्कारसर्मिणीम् । वाक्प्ररोहभुवं वन्दे देवतां प्रतिभामयीम् ॥ १ ॥ (नान्द्यन्ते) सूत्रधारः-अद्य खलु निखिलराजलोकमौलिमाणिक्यमञ्जरीपुञ्जकिञ्ज- ल्कितचरणारविन्देन वृन्दारकनगरकामिनीमुखाधिवासचतुरयशःकर्पूर- जालेन वेलावनावलीविश्रान्तनिजबलतुरङ्गखुरमृदङ्गनिनदमिश्रितजलधि- तरङ्गनिर्घोषणदुरवलिप्तदमनवीरभद्रेण राज्ञा प्रतापरुद्रेण संभावितैरशेषवि- द्याविशेषसारसार्वज्ञधौरेयमतिभिः सभासद्भिराहूय सबहुमानमादिष्टोऽस्मि- वृत्तिगिरामुक्तिविशेषहृद्या धीरोद्धतं नेतृविचेष्टितं च । वीराद्भुतौ यत्र रसौ च दीप्तौ प्रत्येकमेतानि हरन्ति चेतः ॥ २ ॥ निरूपय तावदीदृशं किमपि निबन्धम्, भवति यः संवननं सामाजिक- हृदयानाम् । (विचिन्त्य । सोल्लासम् ।) विश्वनाथ इति ख्यातः कविरस्ति यदुक्तयः । अकाञ्चनमरत्नं च विदुषां कर्णभूषणम् ॥ ३ ॥ १. 'ख्यातेतिवृत्तो व्यायोगः खल्पस्त्रीजनसंयुतः । हीनो गर्भविमर्शाभ्यां नरैर्वहुभिरा- श्रितः॥एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः । कैशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ॥ राजर्षिरथ दिव्यो वा भवेधीरोद्धतश्च सः । हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥ यथा--सौगन्धिकाहरणम् ॥ इति साहित्यदर्पणे षष्ठपरिच्छेदे श्रीमद्विश्वनाथकविराजः. अस्य व्यायोगस्यैकं पुस्तकं तौर्नगरवर्तिभिः श्रीमद्भिः टी. एस्. कुप्पुस्खा- मिशास्त्रिभिरस्मभ्यः प्रहितमिति तेषामुपकारगौरवं विभृमः.
२ काव्यमाला। अथवा। वाचस्तस्य कवेरुदारमधुरा इत्यत्र चित्रं किमु प्रख्यातः सकलासु दिक्षु गुणिषु श्रेयानगस्त्यः सुधीः । वेधश्चन्द्रमुखीकराङ्गलिदलासङ्गकणद्वलकी वाचोयुक्तिसहोक्तिदर्शितसुधाजन्मा स यन्मातुलः ॥ ४ ॥ तेन कविना प्रणीतमभिनवं सौगन्धिकाहरणं नाम प्रेक्षणकमस्मास्वभिनी- तपूर्वमास्ते । तदिदानी प्रयुञ्जानः सामाजिकमनास्यावर्जयामि । (सहर्षम् ।) खयंवृत्य सभास्तारैर्निरदृश्यन्त ये गुणाः । इममेव हि ते सर्वे प्रबन्धमधिकुर्वते ॥ ५॥ किं च । सख्यं बिभ्रतु सूक्तयः स्फुटरसव्यक्तिप्रगल्भर्गुणै- रस्तु प्रौढपराक्रमाद्भुतनिधिधीरोद्धतो नायकः । अस्य प्रेक्षणकस्य किं तु भवति श्लाध्यत्वमेतावता प्रेक्षाकर्मणि यजनोऽयमधुना वैज्ञानिको वर्तते ॥६॥ (परिक्रम्य । नेपथ्याभिमुखमवलोक्य ।) आर्ये, इत इतः । (प्रविश्य) नटी-~-अज, इअं म्हि । (क) सूत्रधारः-चिरकृतविलम्बनयापि किं न विधृतं नैपथ्यम् । नन्वा- स्ते पुनरियमावयोरभिनयावलोकनकुतूहलितहृदयसामाजिका रङ्गभूमिः । नटी--अन्ज, बहुविहभूमिआविसेसणेवच्छधारणणिमित्तं मालाआर- भवणादो कुसुमाई समाहरिदुं अणुपेसिदो दाणिं वि णागदो परिअणो तदो एवं णु विलम्बिदो एसो जणो । (ख) (क) आर्य, इयमस्मि । (ख) आर्य, बहुविधभूमिकाविशेषनेपथ्यधारणनिमित्तं मालाकारभवनात् कुसुमानि समाहर्तुमनुप्रेषित इदानीमपि नागतः परिजनः । तत एवं नु विलम्बित एष जनः । १. एतेनायं कविवरः श्रीमान्विश्वनाथाभिधानः श्रीमदगस्त्यनामकविदुषः खमा- तुलाद्विद्यामभ्यस्तवानिति सूच्यते.
सौगन्धिकाहरणम् । सूत्रधारः कृत्यं कियन्मात्रमिदं भवत्याः सद्यः प्रसूंनान्यहमाहरामि । देव्याः कृतेऽसौ द्रुपदात्मजायाः सौगन्धिकानीव समीरसूनुः ।। ७ ।। (इति निष्कान्तौ ।) प्रस्तावना। --- (ततः प्रविशत्यंसविषक्तकार्मुको गदापाणिभीमसेनः ।) भीमसेनः- सौगन्धिकं किमपि गन्धवहोपनीत- मालोक्य कौतुकवता हृदयेन कृष्णा । अन्यानि याचितवती किल तादृशानि सज्जस्तदा हृतिविधौ मम बाहुरेषः ॥ ८ ॥ नित्यमखण्डितप्रणया खलु मया पार्वती । अथवा । भीमाते विधावस्मिन्नियोज्यः कस्तया परः । असावप्यपहायैनां कस्याः प्रीतिं विधास्यति ॥ ९ ॥ अन्यच्च । परीक्षितुमियं मम प्रगटमात्मनि स्निग्धतां बलं च भुजदण्डयोनियतमेवमभ्युद्यता । कुबेरमपि विक्रमायुधि विजित्य निष्पादिते विधाविह मया तदा द्वयमियं च वेत्स्यत्यसौ ।। १० ॥ (विचिन्त्य ।) तदभ्यर्थनानन्तरमेतदध्यवसितमार्यस्यानिवेद्यैव निर्गतेन मया साधु कृतम् । यतः। अवश्यमार्यो विनिवारयेदिदं तदा मतेऽस्यैव मयावलम्बिते । ध्रुवं प्रियायाः प्रणयक्षति बजेद्विपर्यये स्याद्गुरुवागतिक्रमः ॥ ११ ॥ अहो मम विनिर्गमवेलायां तत्रभवत्याः किमपि वैक्लव्यम् । आदिश्य मां प्रथममात्तरतिर्विलोभ्ये वस्तुन्यसौ मम तदन्विदमाजिहीर्णोः ।
४
काव्यमाला।
प्रस्थानदत्तविरहातिविषण्णमास्त
निष्पन्दपक्ष्मनिभृताश्रुभिरक्षिपातैः ॥ १२ ॥
अथवा नूनमियं स्त्रीखभावसुलभेन मौग्ध्येन मम दिव्यजनाभियोगमसु-
खोदर्कमाशङ्कय बाढमेवमुद्विना । अत एवाहमित्थमेनामभिधाय धैर्ये पुनः
पर्यवस्थापितवानेव ।
कातर्यमुत्सृज नतभ्र कुतस्तवेदं
त्वं क्षत्रियासि ननु वेसि वृकोदरं च ।
गत्वाधुनैव सहसा भुजविक्रमेण
त्वत्प्रार्थितं सफलयिष्यति वीर एषः ॥ १३ ।।
त्वरितमस्याः प्रतिश्रुतमर्थमुपपादयामि । (इति परिक्रामितकेनावलोक्य। सहर्षम्।)
खैरं जुगुप्सितवनद्रुमपुष्पगन्धै-
रग्रे मधुव्रतकुलैरुपभुज्यमानः ।
सौगन्धिकस्य कथयत्युपयानमार्ग
कोऽप्येष सौरभमयो बहलः प्रवाहः ॥ १४ ॥
अमुमेव तावदनुगच्छामि । (इति परिक्रामन् ।)
दोद्रिक्तशरारुपातसुलभातङ्कद्रवद्रकवः
पाकोद्गन्धिकपित्थघस्मरकपिक्रीडासहिष्णुद्रुमाः ।
दृश्यन्ते पुरतो रतोत्सुकशुकव्यापारवीक्षादर-
मेरान्योन्यविषक्तदृष्टिशबरस्त्रैणा वनक्षोणयः ॥ १५ ॥
अन हि ।
भान्ति कण्टकमुखव्यतिषक्तैर्बालरोमभिरमी चमराणाम् ।
पाकभिन्नपरुरन्तरुदीनुमौंक्तिकांशुनिकरिव वंशाः ॥ १६ ॥
अपि च ।
अमीभिरगरुद्रुमैः क्षतिमुखान्तनिर्यद्रस-
द्विरुक्तमदकज्जलप्रसरचर्चितं त्वक्पुटैः ।
प्रकम्परभसश्लथग्रथनवल्कलैर्दन्तिनां
कठोरमनुभूयते करटपिण्डकण्डूयनम् ॥ १७ ॥
सौगन्धिकाहरणम् ।
अहो, मुहूर्तादेव त्वरितगामिना मया विलचिता विपिनभूमयः । (निरूप्य
सहर्षम् ।) नन्वयं पुरस्ताददूर एव
सानूनामुरुनिझरध्वनिनदत्पर्यन्तदर्यन्तरै-
राभोगैर्मम गन्धमादनगिरिधत्ते दृशोरुत्सवम् ।
केलिस्रस्तकुबेरयौवतकचहीवेरगन्धस्पृशः
कर्पूरद्रुमगर्भधूलिसुहृदः प्रेडन्ति यत्रानिलाः ॥ १८ ॥
(स्मरणमभिनीय ।)
येन वीरेण लङ्कायां पुरि व्यामृष्टसंपदि ।
रावणाक्रमणनीलाममुञ्चदमरावती ॥ १९ ॥
अम्भोधिं समशीर्षभावमिव यः पुंसामतिकान्तवा-
न्यस्याजायत दुर्जयाक्षसमरङ्ताक्षधूर्तो भुजः ।
निःशल्यां भुवनत्रयीमकलयत्सौमित्रिणा यः समं
तेनार्येण हनूमता ननु सदा शैलोऽयमध्यास्यते ॥ २० ॥
(इति परिकामति ।)
(ततः प्रविशति हनूमान् ।)
हनूमान्-
अत्र स्थितो रघुपतेश्चरितामृतानि
देवस्य किन्नरगणैरुपवीणितानि ।
आकर्णयन्नमृतसिन्धुमिवावगाढः
कालं महान्तमपि यातमहं न जाने ॥ २१ ॥
(सस्मरणम् ।) अहो देव्या विदेहराजदुहितुर्मयि महानुत्कर्षः प्रसादस्य ।
स्वस्मै प्रेषितमीश्वरेण मरुतां राज्याभिषेकोत्सवे
वैदेबै विततार हारमखिललाध्यं रघूणां पतिः ।
सुग्रीवप्रमुखषु वानरचमूवीरेषु पश्यत्स्वपि
प्रीत्या तं बहुमानबन्धुरतया मह्यं पुनः सा ददौ ॥ २२ ॥
काव्यमाला। (परिक्रम्य । दक्षिणाक्षिस्पन्दं सूचयित्वा ।) सीताविमार्गणविधौ मम चक्षुषोऽस्य स्पन्दः परीक्षितशुभागम एष जातः । संप्रत्यपि स्फुरति हन्त तदेव भूय- स्तत्किं नु भद्रमनुभावयिता जनोऽयम् ॥ २३ ॥ भीमसेनः-अमीषां तावदरण्यगहनप्रदेशजन्तूनां क्षोभाय श्वेलां करोमि । (इति यथोक्तमनुतिष्ठति ।) हनूमान्-(आकर्ण्य ।) आः, कुतस्त्योऽयमशनिविनिपातसमानः कुलभूधरध्वानमेदुरः सिंहनादः । यस्य हि निगीर्णनिनदान्तरो हरिणगाणिभ्रूणहा हरिखपनतस्करः शरभदम्भसंस्तम्भकः । क्षणेन वनहास्तिकप्रमदनास्तिकः स्त्यायते दिगन्तबहलप्रतिध्वनिपिचण्डिलश्चण्डिमा ॥ २४ ॥ (दिशोऽवलोक्य ।) अहो, महदमुना श्वेलितेन संक्षोभितस्य वनचरयूथस्य भयचेष्टितम् । तथा हि। उत्प्लुत्य त्वरितं पतन्ति शिखिनस्त्रासादनाप्तद्रुमा विनश्यान्तिकदेश एव हरिणद्वन्द्वं मिथोऽन्विष्यति । धावन्नेव विवर्तिताननमिभः प्रेम्णा प्रियामीक्षते निर्निद्रः क्षणमास्त एष शयनादधोत्थितः केसरी ॥ २५ ॥ कस्य पुनरुद्वृत्तकर्मणश्चेष्टितमेतत् । (विलोक्य ) कोऽयमतिगम्भीरसत्त्वा- वष्टम्भलक्ष्यमाणसंभवत्पौरुषः पुरुषः । य एष धृतवपुरिवोत्सेकः साक्षाद्भवन्निव विक्रमो हृदि विरचयन्नोजोभिः सर्ममापि चमत्कृतिम् । वहति समरक्रीडागोष्ठीविधौ विदुषीं गदा धनुरपि च यद्भूविक्षेपक्रियैकधुरावहम् ॥ २६ ॥ प्रायः परमनेनैव निरर्गलकठोरवृत्तिना वनचरक्षोभकारिणा भवितव्यम् । यद्वा जगत्युपादेयस्य वस्तुनः प्रकृतिरेतादृशी।
सौगन्धिकाहरणम् । भीमसेनः-(सोत्सेकम् ।)भो भो गन्धमादननिकटवासिनः सर्वे वनौकसः, यः प्राच्यां दिशि राजकं भुजबलोसिक्तं विजित्याहृतै- रथैः संभृतराजसूयमकृत ज्येष्ठं निजभ्रातरम् । भीमः सोऽयमुपागतो भुवमिमा सौगन्धिकैरुत्सुक- स्तस्मै शंसत वर्त्म येन धनदक्रीडासरः प्राप्यते ॥ २७ ॥ हनूमान्- (आकर्ण्य । सानन्दम् ।) अयं तु स वृकोदरः सकलवीरवर्गाग्रणी- रुदग्रवकविग्रहगढिमगर्वसाम्राज्यहृत् । स्वमुष्टिकुलिशेन यः सपदि राजसूयक्रतो- रुरुक्रमविधौ पशुं मगधनाथमालव्धवान् ।। २८ ।। कालाबहोरिह गिरौ स्थितिर्मम फलेग्रहिः । जाता येनाद्य वत्सोऽयं वर्तते दृष्टिगोचरः ॥ २९ ॥ (सुचिरं निर्वर्ण्य ।) अहो, महासत्त्वतां जितश्रमत्वमुभयमप्येष धारयति । कुतः। पादन्यासविमर्दतः प्रतिपदं चूर्णीक्रियन्ते शिला जङ्घाकाण्डभुवा जवेन झटिति त्रुट्यन्ति पार्श्वद्रुमाः। अप्युद्दामगतेरमुष्य वपुपि खेदाम्बुनवोद्वतं निश्वासप्रसरोऽपि नैव कुरुते स्वस्यावधेर्लङ्घनम् ॥ ३० ॥ अथवा किमतदाश्चर्यम् । ननु देवः प्रभञ्जनोऽस्य जनयिता । किं च । अमानुषी कामपि शौर्यशक्तिं न चेत्प्रवीरोऽयमधारयिष्यत् । मनुष्यसाधारणदुष्प्रवेशं प्राप्तुं वनं नैतदपारयिष्यत् ॥ ३१ ॥ अचिरादप्रकाशितस्वरूप एवाहं कंचित्कालममुना सह विनोदसंपादनार्थ- मागमनमार्गमधितिष्ठामि । (इति परिक्रम्य तथा करोति ।) भीमसेनः-(अग्रे निरूप्य ।) अये, शाखामृगः कोऽपि पन्थानमध्यास्ते । आश्चर्यमाश्चर्यम् ।
काव्यमाला। मदर्शनाच्चकितविद्रुतधीरसत्त्वं पश्यन्नरण्यमिदमप्यविषक्तभीतिः । उत्सृज्य जात्यमपि चापलमेष धैर्या- त्तिर्यक्प्रसार्य पथि वालधियष्टिमास्ते ॥ ३२॥ हनूमान्-(आत्मानं निर्वर्ण्य । सहासम् ।) हन्त, किमिदानीं कृतं मया । दिग्दन्तावलदन्तकूटविकटप्रौढांसपीठौ भुजी प्रत्यादिष्टसुपर्वशैलकटका घाटं च वक्षस्थलम् । तेजश्च त्रिजगद्विदाहि तदहो संवृत्य सर्व क्षणा- अातुः प्राथमिकावलोकनविधौ जातोऽहमेवंविधः ॥ ३३ ॥ इत्थं न यदि मामेष विदित्वा विनयान्वितः । शौर्यसंरम्भधीरेषु प्रवर्तेत वचःसु किम् ॥ ३४ ॥ तदेवंरूपा ममेयमौपयिकी वृत्तिः । भीमसेनः-(सविस्मयम् ।) बाढमदृष्टपूर्वोऽयं प्रकारः प्लवङ्गमेषु, यदव- लोकनेऽप्यसंभ्रान्तनिश्चला सैवेयमस्यासिका । कः पुनरस्य धैर्यस्य हेतुरिति न जानामि । अथवा। अस्या दिव्यतया भूमेविशिष्टः कोऽप्ययं गुणः । (विचार्य) नैवं च यदिहान्येषु सत्त्वेष्वेष न लक्ष्यते ॥ ३५ ॥ तत्किमेतत् । 1) हनूमान्-(आत्मानं निर्वर्ण्य ।) निकुत्य विश्रुतगुणं निवसामि रूपं कांचिदशामभिनयनलसरिवाज्ञैः । किं चास्य दर्शनमुदोत्थितमक्षिबाध्य शक्नोमि न स्थगयितुं पुलकं च गात्रे ॥ ३६ ॥ किं च। अनुजमधिकश्लाघ्यं शौर्येण दुर्लभदर्शन- व्यतिकरममुं भाग्यादक्ष्णोविलोक्य यदृच्छया ।
९ सौगन्धिकाहरणम् । प्रतिमुहुरहं गाढाश्लेषे वयं प्रसृतौ भुजौ यदि निभृतयाम्येतौ धिमे दृढां हृदयस्थितिम् ॥ ३७ ॥ अथवा कंचित्कालमवतिष्ठे । युक्तमेव मया स्थातुं न तावदुपगूहितुम् । अज्ञातपूर्वसंवन्धः किं वक्ष्यत्ययमेव माम् ॥ ३८ ॥ भीमसेनः-तिरश्चोऽप्यस्य पुरश्चोरयति मम हृदयमवष्टम्भः । धीरत्वेन न केवलः कपिरसावित्येव निश्चीयते यन्मय्यप्यपसर्पति प्रतिभये धत्ते न किंचिद्भयम् । . नो विद्राति न वापंसर्पति न वोत्तिष्ठत्यही प्रत्युत प्रायो वक्तुमनाः किमप्यथ पुनः सावज्ञमालोकते ॥ ३९ ॥ हनूमान्-(भीमं प्रति ससंरम्भम् ।) भोः, किं त्वदीयचेष्टितोपादान एष संक्षोभः काननभुवाम् । भीमसेनः--अथ किम् । हनूमान्-~अये, किमर्थमाकुलयसि त्रासविवशविभ्रान्तसकलसत्त्व- जातानि काननानि । भीमसेनः---(साश्चर्यम् । आत्मगतम् ।) अहो, धाष्टयं वानरस्य । (प्रकाशम् ।) किमत्र भवतः संरम्भः । हनूमान्- वनान्यमूनि वृत्तिं नः कल्पयन्ति फलैर्दुमैः । तदेषां परतः पीडा युज्येत किमुपेक्षितुम् ॥ ४० ॥ भीमसेनः-ततः किम् । हनूमान-तत एव खलु मया त्वमित्यं नियम्यसे । भीमसेनः-अहो, वानरः कथमस्य नियन्ता वीरस्य । हनूमान्--(विहस्य ।) वारयामि नयमेव विवृण्वन्सापराधमपि दुर्नयतस्त्वाम् । प्रत्युत त्वमिदमप्यवजानन्भाषसे परुषमेव किमेतत् ॥ ११ ॥ २ १० काव्यमाला। भीमसेन:-आः, कथं शूर इव भवानप्युक्तिप्रत्युक्तिकाभिरस्मानति- संधत्ते । ' हनूमान्-अये, वयमरण्यचारिणः । कुतो नाम शौर्यममासु । (विहस्य ।) त्वमसि यदि भोः शूरः शूरा न सन्ति कति क्षिता- वियमनिभृतिस्तेभ्यः संदर्शिता यदि शोभते । भयसहभुवामेषां यत्रासनं विपिनौकसां धिगिदमपि किं शौर्य किं वा बलं किमु साहसम् ॥ ४२ ॥ भवतु । किमिदानीमतिकान्ते कर्मणि कलहेन । अथवा अस्मदीयं देशमुपागतवतस्तवातिथेरेकवारमतिक्रमोऽपि सोढव्य एव । भीमसेनः--(हसित्वा ।) भोः, साधु निपुणोऽसि, यदुक्तिः क्षमारूपेण परिणमिता। हनूमान्-(स्वगतम् ।) साधु । सत्यमसौ भरतकुलप्रसूतो वत्सः, यदेवं मृदुभिर्वचोभिरवस्कन्दितस्याप्यस्य प्रकृतिसुलभाद्धैर्यान्न विभ्रष्टं चेतः। (प्रकाशम् ।) कस्त्वमीशप्रभावः । भीमसेनः-ननु भोः, क्षत्रियोऽहम् । हनूमान्-~-अये, किं त्वयेदमभिधेयम् । द्वितीयवर्णप्रभवो भवान्न वेत्यहो किमस्मिन्नमात्तसंशयः । महाभुजेनायतवक्षसामुना निवेद्यते त्वद्वपुषैव किं न तत् ॥ ४३ ॥ भीमसेनः--(स्वगतम् ।) अहो, प्रवीणोऽयं कपिरतावता न प्रतिपद्यते। हनूमान्-भद्, व्यपदेशतोऽवगन्तुं भवन्तमुत्कण्ठते मे चेतः । भीमसेनः-अपि जानासि पौरवकुलपारावारपारिजातमजातशत्रुरिति त्रिभुवनविदितनामानं महाराजम् । हनूमान् --(स्वगतम् ।) अत्र किंचित्प्रतीपमिव कथयामि । (प्रकाशम् ।) कोऽयमजातशत्रुरिति ।
सौगन्धिकाहरणम् । ११ भीमसेनः-(सरोषम् । विहस्य ।) जातं राजकमौलिरत्नकिरणक्रीडापदं यत्पदं खाराज्यं यदनिच्छयैव मरुतां पत्युर्वशे वर्तते । लोके बिभ्रति शूरनाम परतो व्यावर्त्य यस्यानुजाः श्रीमान्सोऽपि युधिष्ठिरः श्रुतिपथं न प्रापितः किं त्वया ।। ४४ ।। हन्मान्-(सविनयाभिमर्श स्थित्वा ।) विदितमिदानीम् । न किमसौ यः शत्रुभिरतिबलैनिर्जित्य हृतराज्यः काननमधिवसति । भीमसेन:-अहह, शान्तं पापम्, शान्तं पापम् । ख्यातस्तैस्तैर्भुवि गुणैः प्रभावः कापि मीलितः । कान्तारवास एवास्य किमु ज्ञापकतां गतः ॥ ४५ ॥ বিশি সিভিলহিক্কানি ওলী जीर्णद्रोणवितीर्णचापनिगमप्रौढेन वीरेण किम् । धिक्तौ पश्चिमदक्षिणाम्बुधितटन्यस्तप्रतापौ यमौ जित्वा संगरसीमि शत्रुभिरयं राज्याधदि अंशितः ॥ ४६ ॥ भवतु । किमनेन ज्ञातार एवैतदपि जानन्ति । हनूमान्-अत्रभवतः किं नाम पाण्डवेषु पक्षपातः । भीमसेनः- नैवाहमेको महताममीषां के नाम पक्षे न पतन्ति सन्तः । यद्वा तवैवं वदतोऽपि शङ्के चेतः परं तेषु सपक्षपातम् ॥ ४७ ॥ हनूमान्—(स्वगतम् ।) सत्यमित्थमेव । (प्रकाशम् ।) तर्हि तेषामन्यत- मेन भवितव्यं भवता । भीमसेनः-किमत्र बहुना । प्रमाथविद्याधिगमाय रक्षसामधत्त यस्याक्षरशिक्षणं करः । हिडिम्बवक्षःफलके, महाबलः स एष भीमोऽस्मि युधिष्ठिरानुजः॥४८॥ हनूमान्–किं नु भवान्भीमसेनः, यस्य शृणुमः शिशोरेव धीरोद्ध- तानि विक्रमजृम्भितानि ।
१२
काव्यमाला ।
भीमसेनः-(गमनोद्योगमभिनयन् ।)
मयातिकालः किमिवातिपात्यते विकृष्यतां वालधिरध्वनस्त्वया ।
विलङ्घय गच्छाम्यधुना जवादहं पुरा हनूमानिव राशिमम्भसाम् ॥ ४९॥
हनूमान्-
(सहर्षमात्मगतम् ।)
खस्य वीर्येण भुवने मां निदर्शयत्तामुना ।
स्नेहश्च बहुमानश्च निर्व्याजं मयि दर्शितः ॥ ५० ॥
तदमुना प्रस्तावेन भूयोऽपि दत्तवचनावकाशोऽस्मि । (इतिःसाकूतं स्मयते।)
भीमसेनः-किमिति सस्मितं ते मुखम् । तत्प्रकाश्यतामभिप्रायः ।
हनूमान्-न किंचिदन्यत् ।
भीमसेनः-भवतु । किमाकाररूपितैकदेशेऽत्र वस्तुनि वचननिहवेन ।
हनूमान्–तर्हि कथयामि । (सावज्ञम् ।) हनूमानिति कस्यचित्कपेरुपरि
कोऽयं लोकस्य बिरुदवादबहुमानः ।
वीरास्ते श्रुतिगोचरं किमु गता दुर्वारदोर्विक्रम-
प्रागल्भ्यप्रतिरक्षितत्रिभुवना राजन्न रामादयः ।
अप्येवं बहु मन्यते गुणलवात्तिर्यञ्चमेनं जनो
वैधेयत्वनिधितानुगतिको लोकः किमित्युच्यते ॥ ११ ॥
भीमसेनः-(सामर्षम् । विहस्य ।)
निशाचरगृहोत्थितैर्तुतभुजः शिखामण्डलै-
र्यदीयबलसंपदामजनि जैत्रमारार्तिकम् ।
असावपि निरुध्यते त्रिभुवनैकवीरस्त्वया
ततस्तव महात्मनः पुनरमी कियन्तो वयम् ॥ १२ ॥
भोः शाखामृग,
ज्ञाताश्चेन्न हनूमतोऽस्य भवता सौमित्रिवक्षःस्थली-
शल्याकर्षणशस्त्रकर्मभिषजस्ते विक्रमप्रक्रमाः ।
एषोऽहं कथयामि संशृणु गुणान्वीरस्य तस्याधुना
जानञ्जल्पसि यत्किमप्यहह ते वक्तुं न शक्ता वयम् ॥ १३ ॥
सौगन्धिकाहरणम् । १३ उत्सर्पहलदर्पक्लुप्तसमरप्रक्षोभरक्षोभट- क्षोदोपक्रमघोरविक्रमहताहंकारलङ्काधिपः । वायोर्नन्दन एव धीरमहिमा लोकत्रये तं विना कश्चक्रे कुरुते करिष्यत इति प्रौढाद्भुतं चेष्टितम् ।। १४ ॥ हनूमान्–अये पाण्डव, मर्कटः खल्वसौ किमेवमतिभूमिमारो- प्यते । अथवा । जरासंधादीनां प्रमथनविनोदैकरसिकं प्रतीमस्त्वां वीर प्रथमगणनायाः पदमिति । इह क्षुद्रे जात्या वनसदि कृता योग्यविनुति- र्मया निर्ज्ञातस्त्वं स्फुटमयमियत्पौरुष इति ॥ ५५ ॥ भीमसेनः--(सक्रोधहासम् ।) अरे, किमात्थ मर्कट इति । ममाप्यग्रतः किमयमतिवादः । किं त्वरे दुर्विदग्ध, त्वयैव तुल्यजातित्वान्मान्यमेनं विशेषतः । निन्दति प्रत्युत भवान्धिक्त्वां जात्यैकदूषकम् ॥ १६ ॥ (विहस्य ।) कस्त्वमिह निन्दितुमथवा श्लाधितुम् । को विन्द्यागिरिकन्दरोदरदिवाभीतं भवन्तं पुनः प्रख्यातः स तु लोकरक्षणविधौ संवर्मितैः कर्मभिः । किनानोऽसि पितुः सतः स मरुतो देवात्प्रसूतः सुतो जात्या केवलयापि तस्य न समस्त्वं किं पुनश्चेष्टितैः ॥ १७ ॥ अथवा किमेकेनैव भवता । यस्यासीत्फलचर्वणं प्रणयनं बालेन तिग्मत्विषा वृत्तिः पल्वलकेलिलङ्घनसखी येनाम्बुधौ निर्मिता । आधत्त द्रुमभङ्गकर्मसमिति क्रूरेषु रक्षःसु यः सोऽयं कोऽपि कपिः परेऽपि कपयः कान्तारदुष्टग्रहाः ॥ १८ ॥ हनूमान्- .(सोपहासम् ।) साधु राजपुत्र, साधु । सत्यमतिप्रगल्भोऽसि, यदेवंवादिना त्वयैव दर्शितं हनूमति प्लवङ्गत्वम् । कः पुनरस्मासु दोषः ।
१४ काव्यमाला । • । भीमसेनः-भवतु । किमेतावतापकृष्यते स महावीरः । द्रारदक्षिणादुत्तरतो दिगन्ताधस्याहृताभ्यामजनिष्ट बाहुः । मैथिल्यभिज्ञानमहौषधीभ्यां काकुत्स्थयोर्जीवितदानशौण्डः ॥ १९ ॥ हनूमान्–(सहर्षमात्मगतम् ।) अहो, महती खल्विह भ्रातृवत्सलता । कुतः। स्तोकप्रवृत्तमपि कंचिदवर्णमेष भ्रातुनिशम्य मम संभृतचित्तभेदः । सोढुं न पारयति किं च धिनोति युक्त्या स्निह्यत्यसौ मयि युधिष्ठिरतोऽपि वत्सः ॥ ६० ॥ भवतु | किंचिदुच्छङ्खलभाषितैः कोपयामि तावदेनम् । (प्रकाशम् ।) दृष्टे यत्र बिभर्ति नास्तिककथां द्यावापृथिव्योर्वपुः पातालं च कुलीरगर्ततुलितं जागर्ति यस्योदरे। अम्भोराशिरसावलद्धि कपिना तेनेति जाल्मोदितः कष्टः कोऽपि कलङ्क एष भुवने तस्याप्यहो वर्तते ॥ ६१ ॥ भीमसेनः-अये, चार्वाक इव निर्विवेकहृदयोऽसि । यत्तस्य विक्रमकथाखपि वायुसूनोः प्रत्यक्षमेव विबुधैरभिनन्दितासु । संस्मृत्य यस्य मुहुरुद्यममूर्मिलौल्या- द्धत्तेऽधुनापि भयकम्पमिवाम्बुराशिः ॥ १२ ॥ हनूमान्-(साक्षेपम् ।) अहो, प्रमाणपरिच्छिन्नोऽयमुपन्यासः । भीमसेनः तत्प्रत्यक्षयितुं न शक्यमधुना नैवागमस्ते .मतः किं च त्वामनुमानतः स्फुटमहं प्रत्याययामि क्षणात् । हनूमान्–साधु प्रतिजानीषे । तदिदमङ्गीकुर्मः। भीमसेनः- नन्वास्ते जलराशिलइनकृतावष्टम्भदीप्यद्वपु- भीराभुग्नशिखैर्महेन्द्रशिखरैदिग्दक्षिणा साक्षिणी ॥ ६३ ॥ । - सौगन्धिकाहरणम् । १५ हनूमान्–(आत्मगतम् ।) सम्यगभिहितं वत्सेन । एतदप्यनङ्गीकृत्य कथयामि । (प्रकाशम् ।) भोः, त्वमिदमात्थ । ईदृशो हनूमानिति मानयामि । भीमसेनः- (सोल्लुण्ठम् ।) आः, कः पुनरस्मास्त्रपूर्वोऽयं समुदाचारः । लङ्कायां पुरि साहसैकरसिको रक्षापियारोदन- खाध्यायप्रणवोपदेशगुरुभिदौःसारवीरायितैः । अक्षं यः परिमृद्य शोकविहृतिप्रस्तावनामादधे पौलस्त्यस्य मनस्यसौ न भुवने कैर्मारुतिर्मानितः ॥ १४ ॥ हनूमान्-(विहस्य ।) अहो, महदिदमपूर्वमपदानम्, योऽयं कस्यचि- तुच्छस्य राक्षसशिशोरालम्भः । किं च भोः कौरव, अक्षं रणे विजितवानयमित्युदग्रं यद्वीर्यमत्र हनुमत्युररीकरोषि । तेनैव शक्रजिदपि क्षपितस्तथा चे- देवं प्रशंसितुमसौ विषयस्तदा स्यात् ।। ६५ ॥ किमेतावदेव चेदतिगौरवम्, कष्टं भोः, कष्टम् । प्रत्युतेन्द्रजिता सोऽभूत्स्त्रीवद्धन्दीकृतो रणे । श्लाघ्यं हि निधनं शत्रोर्न तु दुर्जातमीदृशम् ॥ ६६ ॥ भीमसेनः-(सकोपाहासम् ।) भोः शाखामृग, अज्ञश्चेद्गदितुं विपर्ययमपि प्रस्तौति न प्रौढतां ज्ञाता चेत्परमार्थमेव कथयत्येवं विपर्येति किम् । एकोऽपि त्वयि पक्षयोः किमनयोरालक्ष्यते केवलं जल्पाकस्य महत्स्वपि व्यवहृतां धिक्ते पुरोभागिताम् ॥ ६७ ॥ किं च रे दुर्विदग्ध, बन्दीभावमसौ वीरः खयमेवामिनीतवान् । मेघनादशतेनापि बद्धः स्यात्कथमन्यथा ॥ ६८ ॥ हनूमान्-अतत्त्ववेदिनस्त्वेतदेवं विपरिणमयन्ति । अथवा किमे- तद्रीडाकरमाञ्जनेयस्य ।
काव्यमाला। अनीयत मरुच्चमूमदमलिम्लुचेन क्षणा- दनीकभुवि वन्दितां सपदि येन संक्रन्दनः । स एव कपिमग्रहीत्कमपि मेघनादस्ततो. वृथा किमिह गोप्यते मघवतोऽपि को नाम सः ॥ १९ ॥ भीमसेनः- हठादेव गृहीतं तं द्विषद्भिर्यदि मन्यसे । किमित्यक्षरिपुं हत्वा न ते वैरमशोधयन् ॥ ७० ॥ हनूमान्-(विहस्य ।) तत्र विभीषणप्रसादः परं हेतुरभूत् । किं च । अमुष्य नयभाषितैर्न यदि रावणः स्तम्भये- निहन्तुमुदितां रुषं द्विषममुं सुतद्रोहिणम् । असावसहनाग्रणीरहह चन्द्रहासः कथं सहेत युधि जम्भजित्कुलिशदम्भकुक्षिभरिः ॥ ७१ ॥ (भीमसेनः कोपमभिनयति ।) हनूमान्-(खगतम् ।) अहो, किमेतत् । प्रसरति दरस्पष्टापाङ्गप्रमं दृशि रक्तता स्फुरणमधरं लीढे खेदोऽप्युदेति कपोलयोः । भ्रुकुटिरपि च स्पष्टं भाले पदं तनुते ततो विकृतय इमाः कोपारम्भ मुखस्य विवृण्वते ॥ ७२ ॥ भीमसेनः- रक्षःपुरीसुभटरत्नविशेषसार- विज्ञानवैकटिकवाहुरयं न वीरः । सर्वज्ञ कस्तव मते कथय प्रवीरः श्रोतव्यमन्यदपि किं विरमाञ्जसा ते ॥ ७३ ॥ हनूमान्-आः, प्रागेव विरताः स्मः । किं तु प्रासङ्गिकतया कथित- मस्माभिः । किं च भवानत्र स्निह्यतीति न ज्ञातम् । , -- . सौगन्धिकाहरणम् । १७ भीमसेनः- स्नेहं विरोधमथ वा सुभटेन तेन के वा वयं रचयितुं परिमेयसत्त्वाः । आद्यं पुनः प्रथयितुं रघुसूनुरेव तत्रेतरं तु दशकंधर एव योग्यः ॥ ७४ ॥ हनूमान्-(आत्मगतम् ।) अहो, सारमहती वत्सस्य वाचोयुक्तिः । (आत्मानं निर्दिश्य ।) सौहार्दहारि धृतभक्ति सपारमार्थ्य- मायुष्मतोऽस्य भणितं ननु शृण्वतो मे। अङ्गानि संमदभृशोच्छुसितानि भेत्तुं प्रायेण निगुतितिरस्करणीं यतन्ते ॥ ७९ ॥ ईशोऽयं मयि महानस्य प्रेमबन्धः । किं नु शूरसामान्यतः, किं वा भ्रातृसंबन्धतो न जानामि । (प्रकाशम् ।) भोः पाण्डव, किंनिवन्धनोऽयं वायुपुत्रे भवतः प्रीतियोगः । भीमसेनः-~-अये वायुपुत्र इति हेतुमेव व्याहरन्कि न जानासि । हनूमान्-(सविमर्शम् ।) ज्ञातमिदानीम् । भीमसेनः कथं नाम । हनूमान्-अभिन्नजनिहेतुत्वाद्रातरौ ननु तद्युवाम् । भीमसेनः-यथा भवानभिधत्ते । हनूमान्–स्थाने तर्हि तवात्र सेहवृत्तिः । ननु भोः, केवलं भ्रातृ- नेह एव भवन्तं व्याहारयति, न पुनर्महावीर इति बहुमानः । भीमसेनः--मा मैवम् । द्वितयमप्यत्र परस्परं न परिहीयते । हनूमान्-(सानन्दम् । आत्मगतम् ।) साधु महावीर, साधु । सत्यमिदानी मदनुजोऽसि । (विचार्य ।) सोद्भेदमिव कथयामि । (प्रकाशम् ।) इमां भुवं भ्रातुरुपेयुषो निजां तवैवमाविष्कृतवत्सलात्मनः । असौ हनूमानधुनाप्यहो दृशः स्थितः पुरो नात्र कथं प्रकाशते ॥ ७६ ॥ भीमसेनः-(विमृश्य । स्वगतम् ।) अये, अपदिश्यैव कथितमनेन । प्रायः ml २ १८ काव्यमाला स एवायमुपरचिताकारगुप्तिरार्यो महावीरः । अन्यथा तथाविधं वीरप्र- काण्डमधिक्षिपतः कस्य वान्यस्य जिहा न दीर्यते । (प्रकाशम् ।) महा- भाग, स किं नु भवानार्य इति वितर्कः किंचिदुन्मिषति । हनूमान-(आत्मगतम् ।) अवसरः खल्वात्मप्रकाशनाय । अलमतः परमनया संवरणविडम्बनया । (प्रकाशम् ।) आश्लेषनिर्वृतिषु कालमियन्तमारा- दुत्कण्ठया विमृदितानि बलान्निगृह्णन् । गात्राणि वज्रकठिनप्रकृतिः पुरस्ता- दास्ते स एष ननु वत्स तवाग्रजन्मा ॥ ७७ भीमसेनः-तथा चेदप्रतिहतभावमूर्जखलं खमाकारमुपदर्शय । कथमे- तावत्येव प्रत्येमि, यदश्रद्धेयान्येव ते वचनानि । हनूमान्-उचितोऽयमुपालम्भः । वत्स, तथा करोमि । (इति सहज- माकारमाविर्भावयति ।) भीमसेनः-(स्खलितमवलोक्य ।) ताग्विधे सपदि तत्र दशाविकारे खाकारसंवरणकारिणि लीयमाने । तेजोभिराक्षिपति चाक्षुषमेष धैर्य त्यक्तोपराग इव तिग्मकरः प्रवीरः ॥ ७८ ॥ कृतं संदेहेन । (सहर्षसंभ्रमाश्चर्यमुपसृत्य ।) आर्य लोकैकसुभट, एष भीमसेनो- ऽभिवादयते । हनूमान्- आ कैलासाद्दशास्यस्थिरभुजपरिषप्रौढनिर्मातशक्ते- रा च क्रोधान्धरामप्रहितशरशतक्षुण्णकूटात्रिकूटात् । सर्वानुत्सृज्य वीरान्प्रहितरणकथागर्वसर्वामिसारे वीर त्वत्के भुजेऽस्मिन्वसतु च सुचिरं निर्विशङ्का जयश्रीः ॥ ७९ ॥ अथवा किमेतदाशासनीयं भवतः । वत्स, चिरनिबद्धोऽयं परिरम्भणमनो- रथः पूर्यतामस्य जनस्य । (इति गाढमाश्लिष्य स्पर्शसुखमभिनयन् ।)
सौगन्धिकाहरणम् । १९ मया किमेतस्कृतमज्ञतावशायदेवमापादितरोमविक्रियः । उपेक्षितः कालमियन्तमन्तिके तव स्थितस्याप्युपगूहनोत्सवः ।। ८० ॥ भीमसेनः- यत्पाणेर्नखमण्डलस्य सहजां शस्त्रश्रियं बिभ्रतो निःस्यन्दैर्युधि वीरपाणमसृजामक्षस्य वक्षस्यभूत् । लङ्काद्वीपगतागतेषु भवता सांयात्रिकेणामुना चक्षुर्वम॑गतेन सांप्रतमहो धन्यो जनोऽयं कृतः ॥ ८१ ॥ हनूमान्-(सस्नेहम् । भूयः समाश्लिष्य पार्श्वे उपवेशयन् ।) अहो, सौभ्रात्रं नाम सर्वातिशायिनश्चित्तनिर्वृतिनिधेः प्रणयप्रसरस्य परा काष्ठा । किं च । यं कंचिदपि भावमात्मनिर्देशादेव लोकः प्रमाणयति । कुतः । अनितरपदं दृष्ट्वा हार्द मिथो रघुवीरयो- रहह किमिदं कीदृग्वेति प्रतयं न निश्चितम् । हृदयमधुना वत्स त्वत्संगमामृतनिर्वृते- रनुभववलादीदृग्भूतं तदित्यनुभाति मे ॥ ८२ ॥ भीमसेनः-(सलज्जम् ।) आर्य वायुनन्दन, मद्वाक्यं त्वयि सुचिरं विवेकतन्तु- व्यत्यासायभिचरति म यद्विनीतेः । तेनात मम हृदयं विलक्षमास्ते क्षन्तव्यस्तदयमतिक्रमो मदीयः ।। ८३ ॥ हनूमान्-किं नाम कृतमस्मासु वत्सेन । अथवा समयः खल्वयं शूराणाम्, यद्विदितेष्वविदितेषु वा खजनावमानिषु प्रातिकूल्यमाचरन्ति महासत्त्वाः । किं च। ललाटबद्धभृकुटीकमाननं वचश्व धीरोद्धतनिष्ठुरं तव । विलोकितुं श्रोतुमपि स्पृहावता मयैवमुक्तोऽसि परोक्षमार्दवम् ॥ ८४ ॥ अलमतिक्रान्तेन । यत्सत्यमधुना ब्रवीमि । शब्दब्रह्मणि नो तथाप्यधिगते देवान्निदाघाते- निक्यां न तथा पुरे सुररिपोरालोकितायामपि ।
२० काव्यमाला। प्रत्यावर्तितजीवितेन च पुनर्दिव्यौषधैर्लक्ष्मणे दृष्टे त्वय्यधुना तथा भवति मे मनं प्रमोदे मनः ।। ८५ ॥ भीमसेनः-आर्य, किमत्रोच्यते गर्भरूपेष्वीदृशा भवन्त इति । किं च। कुलेऽद्य विमले विभोर्जनिमता मया भूयते भवामि सहजोऽधुना ध्रुवमजातशत्रोरहम् । यदेष बहु मन्यते त्रिदिवकण्टकग्रामणी- यशःकलमलुण्ठनक्षणकडङ्गरीयो भटः ॥ ८६ ॥ हनूमान्-अहो भ्रातृवात्सल्यम् । अथवा किमेतदाश्चर्य पाण्डवा- नाम् । ननु सौभ्रात्रकथने वः प्रत्युदाहरणमन्ये जगति भ्रातरः । (सारं भीमस्य भुजशिखरं स्पृशन् ।) मदादृप्यद्दोष्णोर्गणयति तृणं यो मधुरिपुं जरासंधः सोऽभूत्त्वदुरुभुजशार्दूलहरिणः । किमन्ये निर्देश्या भुवि भुजभृतस्त्वद्रणविधौ ततस्ते विक्रान्तिः सुभट परिमातुं न विषयः ॥ ८७ ॥ भीमसेनः-किमत्र विद्यते स्तोतुमार्यस्य । खल्पमपि गुरुकृत्य लालयन्ति गुरवः शिशुचेष्टितम् । हनूमान्-(सस्नेहं तमवलोक्य ।) आश्वासं हृदि मे धत्ते तेनैष विनयक्रमः । नेहसौजन्यसंभेदः परिष्वङ्ग इवापरः ॥ ८ ॥ भीमसेनः-(सगौरवम् ।) लोकानामुपकर्तुमेव भवतो जाताभिजाता जनि- स्तद्रक्षांसि विमर्दितानि बहुशो दुष्टानि धीर त्वया । ईदृक्पौरुषसाहसैकरसिकं सूत्वा सुतं त्वामभू- देवो गन्धवहः स एष भुवनेष्वग्रेसरः पुत्रिणाम् ॥ ८९ ॥ हनूमान-भविशेषः खल्वयमावयोलोंकवादः ।
सौगन्धिकाहरणम् । २१ भीमसेनः-(अञ्जलिं बना ।) यद्यत्येति गिरो धियश्च महतीः प्राचां मुनीनामपि स्तोतुं तत्र विचेष्टते तव पुनः शक्यं कियन्मादृशैः । तत्ते शत्रुविमुक्तशक्तिभुजगीनिष्पीतरामानुज- प्राणत्राणकथाहितुण्डिकभुजस्थेने महिम्ने नमः ॥ ९० ॥ अहो महोपकारिणी मे द्रुपदसुता । यतः क्षितिमिमामहं प्रतिनवेषु सौगन्धिके- प्ववाप्तुमतिकौतुकप्रणयया तया प्रेषितः । अतः खलु विलोक्यते सुकृतिना मयैवं भवा- न्सुपर्वरिपुदोर्वनप्रथनगर्वसर्वातिथिः ॥ ९१ ॥ हनूमान्-अपि सौगन्धिकान्याहर्तुमागतो वत्सः । भीमसेनः-यथाभिहितमार्येण । हनूमान्–तदाधारभूतं दिव्यं सर एव तर्हि तवाग्रतस्तावदानयामि । भीमसेनः-कियदेतत्कार्यमार्यस्य । त्वदाज्ञाक्षराण्येवमाकारयितुम- हन्ति । हनूमान्-वत्स, जानामि भवतो बाहुवलम् । तथापि स्नेह एव मां मुखरयति । अन्यच्च कथयामि । भीमसेनः-आज्ञापयः। हनूमान्-वत्स, ननु जानात्येव भवान्छद्मबहुलानि यक्षचरितानि । किं च तन्मायानिगूढं च दिव्यं सरस्त्वदक्षिविषयं न गाहिप्यते । अत- स्तेषामपि जयाय तस्य च प्रकाशनाय विद्यां कामपि भवते समर्पयितु- मिच्छामि । भीमसेनः-(सगर्वम् । आत्मगतम् ।) अहो विजेप्यते यक्षान्भीमः किमनुधारणे । प्रत्याख्यातुमथाप्येनामार्यमादृत्य नोत्सहे ॥ ९२ ॥ (इति विचारयति ।) हनूमान्-(खगतम् ।) नूनमत्यन्तमानित्वादेष विजयोपायमन्यतः खी- कर्तुमपत्रपते । (प्रकाशम् ।) वत्स, किमत्र विचारेण ।
२२
काव्यमाला।
-
भीमसेनः-(अञ्जलिं बचा।) महानयं प्रसादः ।
(हनूमान्प्रणिधानं नाटयित्वा विद्यामाविर्भावयति ।)
भीमसेनः-(साश्चर्यमवलोक्य ।)
अमुष्य तेजोविसरः स्फुरन्मुखादुदेति कोऽपि स्थिरविद्युदुज्ज्वलः ।
हृदि प्रभाशेष उपस्थितः पुरा निगीणमुक्तस्य निदाघरोचिषः ॥ ९३॥.
हनूमान्-वत्स, इयं सा विद्या प्रतिगृह्यताम् । (इति भीमस्य विद्यामुप-
दिशति ।)
भीमसेनः-आश्चर्यमाश्चर्यम् । बाढमुपदेशकोपदेश्ययोरभिन्नकार्य
प्रभावचातुर्यम् । कुतः।
भजति भृशतां सत्त्वं धत्तस्तमोरजसी क्षयं
स्फुरति हृदये बोधः कोऽपि प्रसीदति चेतना ।
यदिदमखिलं प्रागेवोन्मीलितं त्वयि वीक्षिते
नियतमधुनाप्येषा विद्या ददाति तदेव मे ॥ ९४ ॥
हनूमान्-आयुष्मन् , ईदृशप्रभावस्य भवतः कुबेरोऽपि न परिपन्थी-
भवितुमर्हति, किं पुनर्यक्षबलम् ।
भीमसेनः-(अञ्जलिं बवा ।)
अप्रधानमुपादानं मन्ये बाहुबलं मम ।
ईदृशानां तु भद्राणां मूलं भवदनुग्रहः ॥ ९५ ॥
(मार्ग निरूप्य ।) आर्य, नूनमनेनैव वर्त्मना गन्तव्यम् ।
हनूमान्-आयुष्मन् , इदं कदलीवनमतिक्रम्य तमालकान्तारमध्य-
निर्गतेन मार्गेण गच्छतस्ते क्रोशमात्रमग्रतस्ते विद्याबलात्प्रादुर्भविष्यति
तद्दिव्यं सरः ।
(उभावुत्तिष्ठतः।)
भीमसेनः-(सप्रणयम् ।) मम हि संप्रति
युधिष्ठिरस्य विरहो न ज्ञातस्त्वयि संगते ।
त्वद्वियोगेन तेनापि नूनं संबध्यते मिथः ॥ ९६ ॥
, सौगन्धिकाहरणम् । २.३ हनूमान्-वत्स, अचिरेणैव कालेन द्वितयमप्यंजातशत्रोरवलोक- नादपनेष्यते । प्रस्तुते कर्मणि प्रवर्ततां महाभागः । (इति परिष्वज्य ।) आवयोर्विदधे योगं ध्रुवमाकस्मिकं खलः । वियोगदुःखमन्योन्यमनुभावयितुं विधिः ॥ ९७ ॥ भीमसेनः--(सास्त्रम् ।) एवमेव । हनूमान्-खस्ति भवते । साधयामि । (इति निष्क्रान्तः ।) भीमसेनः-अये, तिरोहितमार्येण । (सोत्साहं परिकामन् ।) ममोपदिष्टावनृजुत्वमुक्तौ मार्गावुभौ मारुतनन्दनेन । एकेन गच्छाम्यधुना सरस्तदन्येन तद्यक्षवलं विजेष्ये ॥ ९८ ॥ (परिक्रम्य । सर्वतो दृष्ट्वा । सहर्षम् ।). एतास्ताः कदलीवनान्तरभुवो नीरन्ध्रनद्धद्रुम- च्छायान्तःशिशिरीभवत्तलगुहानिद्राणसिद्धाध्वगाः । यत्र क्रीडति पाकजर्जरपतत्काश्मीरगुच्छावली- पीडाप्रेडनपिञ्जरीकृतनिजकोडं कुरङ्गीकुलम् ॥ ९९ ॥ (परिक्रामन् ।) एतानि खलु निरन्तरनिपतदनोकहकुसुमपटलपूरितहरि- णखुरपुटस्थानानि वनगजकपोलकषणकम्पितसरलशाखादोलाधिरूढवन- देवतान्यतिक्रम्य त्वरितमुपसृतोऽस्मि दिव्यसरःपरिसरभुवम् । (पुरो निर्दिश्य ।) सोपानोपलमूलघातमुखरप्रेड्डत्तरङ्गाकुलं दृष्टेर्दर्शितदृष्टिवृद्धि तदिदं दिव्यं सरो दृश्यते । यक्षःस्त्रीकुचकुट्टनाद्विललितं यस्य प्रसादं शनै- राबध्नाति तलप्रदेशनिपतत्काश्मीरपकं पयः ॥ १०॥ (परितो विभाव्य ।) अहो रामणीयकमस्य सरसः । उद्दामप्रचलपदोपमर्दनेष्वक्लिष्टानि प्रतिनवकान्तकेसराणि । एतस्मिन्कनकमयानि वस्तुशक्त्या पद्मानि भ्रमरकदर्थनां सहन्ते ॥ १०१॥ (उपसरणं निरूपयन् ।) एतानि खलु तानि सौगन्धिकानि येषु पाञ्चाल्याः, २४ काव्यमाला। स्पृहा जाता । अहो, प्रथममेतदवलोकनादेव किमप्यन्तरा मुषितोऽस्मि । 'बहिरिदानी पुनरेते अश्रान्तमस्य सरसो लहरीविमर्दा- दुद्दामबद्धजलशीकरदुर्दिनाः । सौगन्धिकप्रसृतसौरभसार्थवाहाः श्रान्तिव्ययं विदधते मम गन्धवाहाः ॥ १०२॥ इदमपरिमितयक्षसंरक्षितमिति संशृणुमहे । (साशंसम् ।) अस्य रक्षाकरैर्यक्षैर्यस्य स्यान्मम संगरः । श्लाध्यमेतद्भवेत्कर्म धन्यं भुजबलं च मे ॥ १०३ ॥ . चौरेणेव मयाहृतेषु रभसादेतेष्ववीरोचितं किं दोष्णा मम शूरसिंहमृगयावतंसिकेनामुना । किं ब्रूयुर्भुवनत्रये भुजभृतः सर्वेऽपि मामीदृशं यद्वा वीरवधूत्वगर्वमहती मन्येत किं द्रौपदी ॥ १०४ ॥ अतः केनापि प्रकारेण धनदपुरसैनिकैः सह समरसुखमनुभवितुमीहते हृदयम् । (नेपथ्ये ।) भो भो गन्धमादनवनविहारिणः सौगन्धिकसरःसंरक्षणाधिकारिणो यक्षभटाः, परिजानन्तु भवन्तः । केन पुनरनावेदिना कृतान्तबलविलसि- ताकृष्टन प्रविष्टोऽयमस्मदभिरक्षणातिदुष्प्रवेशो वनोद्देशः । भीमसेनः--(श्रुत्वा । सहर्षोत्साहं गदामवलोक्य ।) भवत्सत्त्वोदिक्ते हृदि मम यदा शंसितमभू- पुरस्तादासन्नस्थिति भवति पुण्येन तदपि । तदीपद्रज्यन्त्याः सपदि जयलक्ष्म्याः परिगमे निसृष्टार्था दूती प्रियसखि ननु त्वं मम गदे ॥ १०५ ॥ (विचिन्त्य ।) किमेभिरिदानी स्वयमभियोगसंभ्रमेण । 'तत्सरसि कृताव- तरणस्य मे सौगन्धिकापचय एवं कलहनाटकोपक्षेपमुपपादयति । (इति परिक्रामन्सरोऽवतरितुमिच्छति ।) मे .
सौगन्धिकाहरणम् ।
२५
(नेपथ्ये।)
अरे दुरात्मन्, विरम विरम सरोवतरणसाहसिक्यात् ।
भीमसेनः-अहो, समकालमेवोपजग्मुषः कार्यद्वयस्य तुल्यवलता ।
यतः।
द्रुपददुहितुः प्रेम्णानीतः क्वचित्परतन्त्रता
क्वचिदपि बलात्कृष्टो वीरश्रिया प्रणयादरम् ।
युगपदधुना पाणिः सौगन्धिकान्यपचेतुम-
प्यभिलपति में छेत्तुं चैषां शिरांसि विरोधिनाम् ॥ १०६ ॥
अथाप्यहमव्यग्र एव तावहृतमुखेन कथयामि । (नेपथ्याभिमुखमवलोक्य ।)
भो यक्षेश्वरवलप्रधानयोधाः,
सर इदमहं प्राप्तः सौगन्धिकेपु कुतूहली
कथयत मया किं युष्मासु प्रतीपमनुष्ठितम् ।
जगति निरुपादानं वैरायितं किमु भाति त-
न्मयि किमुपंधिः संरम्भोऽयं भवद्भिरुपास्यते ॥ १०७ ॥
(नेपथ्ये ।)
अये प्रत्यक्षविहितावतार एव किमेवमस्मान्प्रतारयसि ।
किं नो वेत्ति भवांस्त्रियम्बकसखस्यैतत्सरो वल्लभं
तस्मिन्निच्छसि चोत्पलानि मिषतामस्साकमेवाग्रतः ।
न्यग्भूता वयमप्यमी धनपतेराज्ञाप्यवज्ञायते
तत्संपाद्यमतः परं किमपरं नः प्रातिकूल्यं त्वया ॥ १०८ ॥
भीमसेनः-(सरोपसंरम्भम् ।) भवतु प्रातिकूल्यमेव वा । किमिदानी
भयेन निवः क्रियते । भोः, सम्यगवगतं भवद्भिः ।
सौगन्धिकाहृतिरियं कियती तदर्थ
प्राप्तो भवेदयमहो किमु भीमसेनः ।
व्याजेन केनचिदनेन भुजावलेपा-
न्विज्ञातुमेव भवतामुपयात एषः ॥ १०९ ॥
२६ काव्यमाला। अथवा । किर्मीरबकजरासंधसमरराद्धान्तभेदिनस्तस्य मे कियदेतत्करणी- यम् । किं च । गाण्डीविना धनपतिर्न जितः किलाभू- दामेरु निर्जितवतापि दिशां तदीयम् । इत्यस्ति चेतसि समानुशयस्तदादि तच्छान्तयेऽद्य ननु सत्यमहं प्रपन्नः ॥ ११० ॥ अपि च । भोः, कथयन्तु भवन्त एव खाण्डवदाहोत्साहसोपाधिनार्जु- नेन निर्जिते निर्जरपतावपि तमेव तत्सहोदरस्य मम पुनराजौ राजराज पराजेतुम् । (नेपथ्ये ।) अये कतिपयक्षपाचरजधन्यजन्य क्रिया- समर्थितविकत्थनः प्रलपसीत्थमत्रापि किम् । तव श्रुतिपथेन किं पदमधाद्गदा नः प्रभो- रशेषदिविषद्विषद्विषनिषेधदिव्यौषधिः ॥ १११ ॥ भीमसेनः-(उच्चैर्हसिला साधिक्षेपम् ।) भो भो महावीराः, नेव भवतामभिमानः, यत्किनरपतेरेव गदायां समरधुरारोपिता न पुनः खायुधेषु । यद्वा युक्तमभिहितं भवद्भिः । दत्तं मे गदयानया सर इदं किं नाम यूयं क्षमा मत्तः प्रत्यपहर्तुमत्र तु ननु व्यर्थश्रमः प्रार्थ्यते । प्रख्याता किल नायकस्य भवतामस्त्येव काचिद्दा शक्यं चेदधुना विजित्य युधि मामेतत्तयाहार्यताम् ॥ ११२ ॥ (नेपथ्ये।) कौरव, कीदृशोऽयमहंकारस्य परिणामः, येन महतोऽप्येवमवमन्यसे । पुरद्विषोऽर्धासनवासयोग्यः क्वायं कुवेरः क भवान्वराकः । तत्र त्वयेत्थं किमतिप्रसक्तं योद्धं तवेच्छा यदि योधयास्मान् ॥ ११३ ॥ आकर्णितः श्रुतिपरम्परयैव दूरे बाल्यावरुग्णवकराक्षसबाहुसारः । , सौगन्धिकाहरणम् । २७ । अस्माभिरद्य ननु पाण्डव पारमार्थ्या- दोर्दण्डदर्पदवथुस्तव दर्शनीयः ॥ ११४ ॥ भीमसेनः-अरे, किं ब्रूथ । दोर्दण्डदर्पदवथुस्तव दर्शनीय इति । अहो, भीमसेनोऽप्येवं यक्षभटैरभिधीयते । (विहस्य ।) प्रागपि भवद्भिदृष्ट- साराः कति नाम प्रवीराः । किं त्वरे अनात्मज्ञाः, साकं स्त्रीभिररण्यसीनि मदिरां पीत्वा मदान्धं स्थितै- र्युष्माभिः क्व विलोकिता रणभुवो धीरैकगम्यक्रमाः । शूराश्चेदपि यूयमीदृश इमे शस्त्रैरलं दोप्मतां निष्प्राणाय भवत्वपि स्थितवते शौर्याय दत्तोऽञ्जलिः ॥ ११५ ॥ (नेपथ्ये ।) भो यक्षार्यमधिक्षिपस्यनुकलं दर्पादथापि त्वया सत्यं साहसविक्रमप्रगुणितैः क्रीता वयं चेष्टितैः । अप्येवं त्वदुपेक्षणं त्वनुचितं मन्यामहे यद्तो राजाज्ञामतिवृत्तवानिति भवान्नो हन्त हन्तव्यताम् ॥ ११६ ॥ भीमसेनः-अहो, भवतामिव भीमस्यापि राजा वैश्रवणः । किं च को नाम सौगन्धिकसरसोऽस्य धनपतिराधिपत्यं कर्तुम् । (विहस्य ।) यावत्केनापि वीरेण हीयेत न बलादिदम् । तावदेव कुबेरोऽस्य प्रभवेदन्यथा कुतः ॥ ११७ ॥ (नेपथ्ये ।) इत इतो देवः । भीमसेनः-(श्रुखा ।) कस्य पुनरयं राजोपचारः । (साशंसम् ।) भीमोऽसौ कतिचन गन्धमादनस्था- विक्रान्तः समिति गतो विजित्य यक्षान् । इत्येतत्प्रबलवचो जगत्सु न स्या- दायातः स यदि भवेत्स्वयं कुबेरः ॥ ११८ ॥ (ततः प्रविशति कुवेरः कञ्चुकी च ।) कञ्चुकी-इत इतो देवः ।
२८
काव्यमाला ।
र
कुबेरः--(सहर्ष परिक्रम्य ।) अहो, श्लाघ्यजनकृतः परिभवोऽपि प्रमोदाय
भवति लोकस्य, यन्मदाज्ञातिक्रमणसाहसादपराद्धमपि वृकोदरमुद्दिश्य
प्रीयते मे हृदयम् ।
कञ्चकी-ननु सौजन्यमत्रभवतो देवस्य, यत्प्रत्यनीकवृत्तेरप्यस्य स-
भाजनायैव निर्गतं देवेन ।
भीमसेनः-(नेपथ्याभिमुखमवलोक्य ।) आः, कथमाकृष्टकोदण्डपाणयः
परस्परावष्टम्भनिर्भराः प्रसभमभिद्रवन्ति मामेते यक्षभटाः। (तान्प्रति ससंभ्रमम्।)
निष्ठचूता धनुषः कृतान्तहृदयानन्दैकनान्दीकरा
वेगक्षुण्णकठोरकटपुटप्रच्छेदलब्धान्तराः ।
निर्मिन्नावयवप्रसारिरुधिरस्रोतःसहावजितैः
प्राणैर्वो युधि मृष्टभोजिन इमे तृप्यन्तु मे सायकाः ॥ ११९।।
(इति धनुरास्फालयनिष्क्रान्तः ।)
कुबेर:-(सादरमवलोक्य ।)
किर्मीरबाहुबलवध्यशिलातलेऽस्मि-
न्प्रेडन्ति पाण्डुसुतवक्षसि यक्षबाणाः ।
तानेष कङ्कटविघट्टनतः पृषकैः
प्रत्युत्थितां नभसि खण्डयति प्रवीरः ॥ १२० ॥
कञ्चकी-यथाभिहितं देवेन । (निपुणं निर्वर्णयन् ।) अहो पाण्डवस्य
कापि चमत्कारकारिणी कृतहस्तता । तथाहि ।
दृष्टा येऽर्धपथस्पृशः प्रकटितज्यामोक्षमात्राश्च ये
ये चापेषु समर्पिताः करतले संघित्सया ये धृताः ।
तूणीरादसमग्रकृष्टवपुषो ये च द्विषां सायका-
श्छिद्यन्ते विशिखैरनेन रभसात्ते ते यथैव स्थिताः ॥ १२१॥
कुबेर:-अतिगरीयानिदानीमेषां परस्परविमर्दः । यतः ।
इदं शनैरुत्थितमाहवस्थलात्पृषक्तपक्षानिलनुन्नसंहति ।
पदं विधत्ते विटपेषु शाखिना जरत्कपोतच्छदधूसरं रजः ॥१२२॥
सौगन्धिकाहरणम् । २९ कञ्चकी-(सचमत्कारम् ।) देव, पश्य पश्य । सुभटचापनिरन्तरनिःसृतैः शरशतैः स्थगिते नभसि क्षणम् । दिनपतेर्महसा रजसाप्यहो पतितुमुत्पतितुं च न पार्यते ॥ १२३ ॥ कुवेरः-(परितो विलोक्य ।) अमी पुनरिदानीम् प्रीत्या मुहुः कृतखगध्वनिसाधुवादा वातावधूतविटपाहितपुष्पवर्षाः । स्कन्धेषु सान्द्रविशिखप्रसरान्वितेपु रोमाञ्चजालमिव विभ्रति पार्श्ववृक्षाः ॥ १२४ ॥ कञ्चुकी हन्त, महद्विषममिव पश्यामि, यदमी निर्दयगदाप्रहार- निर्भिन्नवर्माणः क्षुण्णकवचान्तरनिरन्तरप्रसृतरुधिरधाराभिवृष्टपङ्किलगमन- पथाः प्रशिथिलपौरुषावष्टम्भलघवो वृकोदरसमरसंमर्दमसहमानाः समन्ततः प्रद्रुवन्ति यक्षभटाः । (सश्लाघम् ।) विक्रमानुरूपः खल्वमुष्य वीरव्रतचर्या- यामनतिक्रमः, यदमूनपक्रमतोऽवलोक्य सरभसमुपसंहृतायुधव्यापार एष संजातः । कुवेर:--(सस्पृहं विलोक्य ।) आश्लिष्टो विजयश्रिया रणरजःसंसक्तंगण्डस्थल- स्तोकस्तोकविरज्यदक्षिकथितक्रोधैकदेशव्ययः । वक्षःसीनि कठोरकङ्कटदृढस्यूतानिषूनुर्द्धर- न्वीरः पौरव एष सांप्रतमितो धीरोद्धतं वर्तते ॥ १२५ ॥ (प्रविश्य ।) भीमसेनः-(आकाशे लक्ष्यं वदा ।) भो भो यक्षवीराः, युष्माकं भुजदर्पण खैरमुक्तवतां तथा । युज्यते संप्रति प्राप्तुं किमेवं कांदिशीकताम् ॥ १२६ ॥ भोः, कष्टमेवमरातित्रासतः समरभूमेरतिक्रान्तैर्भवद्भिः स्वामिमुख कथं पुनरवलोक्यते । (विहस्य ।) अथवा किमर्थमसमानकक्ष्यानधिक्षिपामि ताव- दमून् । कुबेर एवात्र वाच्यः, य इत्थमेतेष्वतिकातरेषु समरशौण्डतां समर्थयते । (विचिन्त्य ।)
३० काव्यमाला। स च यक्षपतिः स्वकिंकराणामपयानानि निशम्य मय्यमर्षी । स्वयमप्युत बद्धविग्रहः स्यादपि वा विक्रमतोषितोऽनुकूलः ॥ १२७ ॥ भवतु । द्वयोरपि कर्मणोरौचित्यतः प्रतिविधास्ये । (सस्मयम् ।) अयमि- दानीमहम् अनेन विक्रान्तवता भुजेन मुहूर्तसंस्तम्भितयक्षयोधः । निरन्तरायः प्रसभं भवामि सौगन्धिकानामुपलम्भधन्यः ॥ १२८ ॥ (इति परिकामति ।) कुवेर:-(साश्चर्यकौतुकं निर्वर्ण्य । आत्मगतम् ।) समग्रधैर्यस्थितयोऽस्य दृष्टयो जगन्त्यपि त्रीणि तृणाय मन्वते तदेष जेतुं हृदि मामपि प्रभुळजेष्ट यक्षानिति कोऽत्र विस्मयः॥१२९॥ (प्रकाशम् ।) आर्य, इतस्तावदाहूयतामेष वीरः । कञ्चुकीयदाज्ञापयति । (इति परिक्रामति ।) भीमसेन:-अये, कोऽयमग्रतो वेत्रपाणिः पुरुषः । नन्वमुना धनप- तिदौवारिकेण भवितव्यम् । कञ्चकी-(उपसृत्य ।) भो वृकोदर, एष खलु देवस्त्वदीयसांपरायचे- ष्टितव्यतिकरितचमत्कारः कृतप्रसादो धनपतिर्भवन्तं द्रष्टुमुत्कण्ठते । तदागत्य देवस्य दर्शनादिकं सत्कारविशेषमनुभवत्वायुष्मान् । भीमसेनः-अपि मां दिदृक्षते यक्षराजः । कञ्चुकी-अथ किम् । भीमसेनः-किमर्थमपराद्धे मयि प्रसन्नं भगवता । कञ्चुकी–स खलु महात्मा त्वदागमनहेतुमायोधनाभ्युपगमनिमित्तं च सम्यगान्तरेण चक्षुषा विभाव्य भवन्तमनपराद्धमेव निर्णीतवान् । भीमसेन:-तर्हि कृतार्थोऽस्मि । तथाप्यस्ति चेदपराधस्तमहमचिरात्र- भोरस्य शासनानुष्ठानतः प्रमार्जयामि । कञ्चुकी-विक्रमानुरूपस्ते विनयः । (उभौ परिकामतः ।) कुवेर:-दिष्ट्या प्रतिपन्नमन्नियोगो महावीरः । यद्वा किमाभिजात्येन विरुद्धा प्रश्रयिता।
सौगन्धिकाहरणम् । - कञ्चकी-दृश्यतामेष देवस्त्वदागमनमुद्वीक्ष्य तिष्ठति । भीमसेनः-लोकपालात्मकं ज्योतिरद्य संदृश्यते । (उपगम्य ।) भग- वन् , भीमसेनः प्रणमति । कुवेरः -आयुष्मन् , अनुभूतविजयमङ्गले त्वयि पुनरुक्ता इव मा- दृशां विजयाशिषः । भीमसेनः-भगवन् , मा मैवम् । नन्वासामेव भाविनीनां फलम- ग्रतः प्रव्यक्तम् । कुवेर गात्रैदृढं वितर मे परिरम्भमेभिः प्रत्यग्रयुद्धसुखलम्भितरोमहर्षेः संस्पृश्य निर्वृतिमुपैतु ममैतदङ्ग सौगन्धिकाहरणसाहसिकौ भुजौ ते ॥ १३० ॥ (इति गाढमालिङ्गति ।) भीमसेनः-(स्वगतम् ।) अयं तु मामेवमाद्रियते । मया पुनरविद्या- वशादयुक्तमस्मिन्नाचरितम् । (प्रकाशम् ।) भगवन् , मृष्यतामत्र विनयव्य- तिक्रमो वृकोदरस्य । कुवेर:-किं नाम कृतं भवता । कञ्चकी-नूनमसौ निजव्यवसितविघातजन्मना रोषेण देवकिंकरेषु प्रतिपन्नकार्कश्यस्तर्कयत्यात्मानमपराद्धम् । कुबेर:-भोः, किमेतावताप्यपराधः । ननु मानरुचेरयं गुणः सहतेऽसौ परगर्जितं न यत् । निशमय्य घनाघनध्वनि निभृतस्तिष्ठति किं नु केसरी ॥ १३१ ॥ कञ्चकी-एवमेतत् । कुवेर:-(सश्लाघम् । जाताः प्राग्रजनीचरा युधि जगत्प्रध्वंसविद्याभृत- स्त्वत्कौमारकरीन्द्रपोतनलकस्तम्बा हिडम्बादयः ।
३२ . काव्यमाला। आस्तां तत्समरेऽद्य यद्विजितवान्दिव्यानपि त्वं ततो या त्वामीदृशमभ्यसूत भुवने सैव प्रसूर्वीरसूः ॥ १३२ ॥ भोः, सत्यमेव धन्यः खलु राजा युधिष्ठिरः, यस्य भवानेवमपदानसह- सहोदरो भ्राता निदेशवर्ती । (नेपथ्ये ।) भो भोः, सत्यं वनौकसः कथयन्ति भवन्तः । किमस्मिन्नुद्देशे विलोकितो भवद्भिः सौगन्धिकार्थमागतो धृतायुधः पाण्डवो भीमसेनः । (सर्ने समाकर्णयन्ति ।) भीमसेनः-(सहर्षोल्लासम् ।) भगवन् , प्रायेण मदन्वेषिणः प्राप्ता यु. धिष्ठिरादयो मम भ्रातरः । कुवेरः-भोः, सानुबन्धाः कल्याणसंपदः । भीमसेनः-भगवन् , अहं तावदभिमुखं गतस्त्वदन्तिकममून्प्राप- . यामि । कञ्चकी-तथा क्रियताम् । कुवेरः-न खलु युक्तमेतत् । वयमेव महाराजमजातशत्रु प्रत्युद्गम्य पश्यामः। कञ्चकी-किमुच्यते युक्तकारितायां देव इति । (सर्व परिक्रामन्ति ।) (ततः प्रविशति नकुलसहदेवाभ्यां सह युधिष्ठिरो द्रौपदी च ।) युधिष्ठिरः-(सशोकं निश्वस्य ।) हन्त भोः, छलबहुलानेकयक्षराक्षसप्र- चारभयंकरेषु गन्धमादनवनोद्देशेषु एकाकिनो वत्सस्य प्रवेशमसुखोदर्क- मिव तर्कयामि । सौगन्धिकाहृतिविधौ हठवृत्तिरेव चेष्टिष्यते नियतमेष बलावलिप्तः । एतत्समेत किमु यक्षपतिस्तदस्मा- त्कि नाम कृच्छ्रमनुभावयिता कृतान्तः ॥ १३३ ॥ नकुलः-समाश्वसिहि समाश्वसिहि । किमेवमविदितवृकोदरप्रभाव इव खेदयस्यात्मानम् ।
सौगन्धिकाहरणम् । ३३ सहदेवः-किमुच्यते । अविषयः खलु शङ्कायास्तादृशं वीरस्य वार- यितुम् । यः प्रागजायत महौजसि मागधेये रात्रिंचरेषु च बकादिषु दृष्टवृत्तिः । यक्षा विशेकुरिह यद्यनिलस्य सूनो- स्तस्यास्त एव सहजोऽप्यधुनापि सारः ॥ १३४ ॥ द्रौपदी-मह उण मन्दभाइणीए एव्वं संस पत्तो णाहो भीमसेणो। तुम्हे वि ईरिसाइं अणुहोन्तु दुःखाई । (क) नकुल:-देवि, किमेवमुद्विमासि । सहदेवः- अयि मुञ्च विषादिनी दशामपि दिव्येष्वपि शक्यविक्रमः। परिपूरयितुं मनोरथानचिरादेष्यति ते वृकोदरः ॥ १३५ ॥ भीमसेनः-(सत्वरमुपसृत्य ।) अयमहमागतोऽस्मि मनोरथमस्याः पूर- यितुम् । नकुल:-(विलोक्य ।) आर्य, दिष्ट्या वर्धसे । नन्वयमार्यो भीमसेनः प्राप्तः। द्रौपदी-एदेण अमिअवरिसासारसीअलेण वअणेण पञ्चुज्जीविद म्हि । (ख) भीमसेनः-(राज्ञः पादयोः पतित्वा ।) जयत्वार्यः । युधिष्ठिरः-वत्स साहसिक । (इति परिष्वजति ।) नकुलसहदेवी-जयत्वार्यः । द्रौपदी-(सवाष्पम् ।) जेदु णाहो । (ग) भीमसेनः-किमेवमुद्विग्नरूपेयमाकृतियुष्माकम् । (क) मम पुनर्मन्दभागिन्या एवं संशयं प्रापितो नाथो भीमसेनः । यूयमपि ईदृशान्यनुभवथ दुःखानि । (ख) एतेनामृतवर्षासारशीतलेन वचनेन प्रत्युज्जीवितास्मि । (ग) जयतु नाथः । ५ ३४ काव्यमाला। युधिष्ठिर:-(भूयः समाश्लिष्य ।) वत्स वृकोदर, आतङ्कमुत्सृजति नाप्यधुना मनो मे प्रत्येमि सत्यनुभवेऽपि न सौख्यमेतत् । अद्यापि न त्वदवलोकनसंमदेन व्यावर्तते हृदि विषादमयो विकारः ।। १३६ ॥ सहदेवः-नन्विदानीमुत्खात एव हृदयातङ्कः । (सर्वे हर्षे नाटयन्ति ।) कुवेर:-अये, प्रकामरमणीयोऽयं सहोदराणां व्यतिरेकः । कञ्चकी-देव, किमुच्यते । नन्वसाधारणमेषां सौभ्रात्रम् । भीमसेनः-आर्य, अयं खलु भगवान्कुबेरः प्रसादादस्मासु विशेषत- स्त्वयि बहुमानाद्भवन्तं द्रष्टुकामः प्रत्युद्गच्छति । युधिष्ठिरः-किमेवमस्मासु यक्षपतिः प्रसादमाविर्भावयति । नकुल:-आर्य, दृश्यतां त्वदनुभावस्य माहात्म्यम्, यदित्थं देवता अप्यनुवर्तन्ते । युधिष्ठिरः-(विलोक्य ससंभ्रममुपसृत्य साञ्जलिः ।) पर्युत्सुको न लभते निजमुत्तमाङ्गं त्वत्पादपीठमपि लम्भयितुं महेन्द्रः । अर्धासनार्हमसि मित्रममुष्य शंभोः प्रत्युद्गमस्तदिह ते मयि किं नु योग्यः ॥ १३७ ॥ तत्कृतमत्यादरेण । वयमेव भवन्तं प्रत्युद्गम्य कृतार्था भवामः । भीमसेनः-भगवन् , अयमायों युधिष्ठिरः । (कुबेरयुधिष्ठिरौ परस्पर निर्वर्ण्य ।) दिष्ट्या भुवनरक्षणप्रवीणमहिमानमेनं महापुरुषमधुना विलोकया- मि । (उपसृत्य । परस्परं यथोचितमाचरतः ।) कुवेर:-(राजानं निरूप्य सश्लाघमात्मगतम्।) लौकिको यदनुवृत्तिमीहते लौकिकश्च जगति व्यवहारः । जन्मना प्रथममेष पुनीते पूरुवंशमधुना पुरुषार्थः ॥ १३८ ॥ (नकुलसहदेवौ कुवेरं प्रणमतः ।) 7
सौगन्धिकाहरणम् ।
३५
कुवेर:-महाभागौ भरतकुलधुरंधरौ भूयास्ताम्। (द्रौपदीं निरूप्य ।) अ-
प्यसौ महाभागा पाञ्चाली ।
(द्रौपदी सविनयं वन्दते।)
कुबेरः-कल्याणि, संततमुपपादयन्तु ते वाञ्छितानि भर्तारः ।
युधिष्ठिरः-भगवन् , अद्य खलु वयसमी सुकृतिनः, यदित्थं त्या-
दृशा अपि समुदाचरन्ति ।
कुवेरः-कोऽयमधुना विशेषः । सर्वथा सुकृतिनो महानुभावाः खलु
भवन्तः । यतः॥
प्रवीरगोष्ठीषु नितान्तमुन्मनाः सुराङ्गनागीतिनिबद्धमीश्वरः ।
शृणोति वः शश्वदनाश्रयीभवन्निमेषभूषोरगचाक्षुषं यशः ॥ १३९ ।।
भीमसेनः-आर्य, कथं पुनर्युष्माभिरिह परापतितम् ।
कुवेरः-किमत्रानुयोगः । अस्मादृशां सुकृतविशेषादिति निश्चिनुमहे ।
सहदेवः-भगवन् , अस्मदभिधेयमेतद्वचः । .
युधिष्ठिरः-यक्षेश्वर, किमन्यत् । अस्याः पाञ्चालराजदुहितुरभ्यर्थ-
नाबलेन सौगन्धिकाहरणनिमित्तमागतस्य दुष्प्रवेशां भुवमेकाकिनः प्रवि-
ष्टस्य वत्सवृकोदरस्य को वृत्तान्त इत्यरिष्टमाशङ्किनस्तत्कालस्मरणसंनिहि-
तेन घटोत्कचेन वयमिमां भूमिमानीताः ।
भीमसेनः-आः, कष्टमेवमश्रद्धेयविक्रमः किं भीमसेनः ।
कुवेर:-(स्मित्वा ।) जितमत्र स्नेहेन यदेवंविधस्याप्यस्य पुरतः पुनरपा-
यमाशङ्कते महाराजः । दृश्यतामितस्तावत् ।
एतस्मिन्क्षणमत्र दर्शितरणारम्भे भृशं बिभ्यतां
यक्षाणामपयानवम॑वदभूदने तदाचक्षते ।
एताः पार्श्वनमेरुशाखिविटपिन्यासक्तवर्मायुधाः
प्रत्यग्रक्षतगात्रनिःसरदसृग्धारानुविद्धा भुवः ।। १४०॥
युधिष्ठिरः-भगवन् , मा मैवम् ।
अनेन यत्किंचिदकारि चापलं स्वबाल्यमोहात्वदनुप्लवेष्वपि ।
त्वयि प्रसन्ने त्वभिनन्दति ध्रुवं विवर्तते तन्ननु विक्रमात्मना ॥ १४१ ॥
काव्यमाली। कञ्चकी-धर्मनन्दनाहते कस्य पुनरुत्सेकपेशलान्येवमक्षराणि । कुबेरः-अहो, पुरुषदर्शनव्यतिकरजन्मना प्रहर्षेण कृत्यशेषं वयं विस्मृताः स्मः । भीमसेनः-भगवन् , किमन्यदवशिष्टमास्ते । कुबेरः--(विहस्य ।) आयुष्मन् , अजानतेव त्वया किमुक्तम् । अहो प्रस्तुतकार्यपरित्यागिनस्ते कार्यान्तरं प्रत्यभिनिवेशः । यतः । सौगन्धिकानि द्रौपद्यावतंसयितुमेयुषा । यशस्तु समरश्लाघ्यं दिशामुत्तंसितं त्वया ॥ १४२ ॥ (भीमसेनो लज्जते।) कुवेर:- (कञ्चुकिनं प्रति ।) आर्य, समुपपादय सौगन्धिकानि । कञ्चकी-यदाज्ञापयति देवः । (इति निष्क्रम्य पुनः प्रविश्य ।) देव, नन्वे- तानि सौगन्धिकानि । (इत्युपनयति ।) कुबेरः-(तान्यादाय भीम प्रति ।) वीर वृकोदर, पूर्यतामस्याः पाञ्चाल. राजदुहितुरभिनिविष्टा मनोरथास्त्वया वीरेण दयितेन । युधिष्ठिरः-वत्स, क्रियतां यक्षपतेराज्ञा । भीमसेनः-यत्प्रभवे रोचते । (इति सादरं सौगन्धिकानि गृहीत्वा द्रौपद्याः पाणावर्पयति ।) (नेपथ्ये पुष्पवृष्टिः ।) सहदेव:-अहो, कुबेर इव भगवान्पुरंदरोऽप्यस्माननुमोदते । कुवेरः-एवमेतत् । अन्यच्च । सौगन्धिकाथै विहितं विमर्दमालोक्य यक्षेषु वृकोदरेण । मन्दारपुष्पाण्यमुना मिषेण प्रायेण भीताः प्रकिरन्ति देवाः ॥ १४३ ॥ युधिष्ठिरः-दिष्टया वर्धसे धनपतिप्रसादसुलभेन सौगन्धिकाभ्यु- दयेन । कञ्चकी-(सश्लाघम् ।) हरति न मृदुर्वायुर्वेभ्यो रजोऽपि यदाज्ञया परिमलमतो घातुं येषां त्रसन्त्यपि षट्पदाः।
सौगन्धिकाहरणम् । ३७ पुरहरसुहृद्दत्ते सौगन्धिकानि स तानि व- स्तदिह भवतां माहाभाग्यं किमप्यतिमानुषम् ॥ १४४ ॥ कुवेरः-भद्रे द्रुपदराजनन्दिनि, किमन्यदभिमतं भवत्याः पूरयतु भीमसेनः । (द्रौपदी सलज्जमवनतमुखी तिष्ठति ।) युधिष्ठिरः -- (सप्रश्रयम् ।) भगवन् , भगवदनुग्रहादपि किमन्यदस्त्य- भिमतम् । तथापीदमस्तु भरतवाक्यम् । राजानः परिपालयन्तु सततं न्याय्येन गां वर्मना मर्यादानतिलविनश्च सुचिरं दीव्यन्तु वर्णाश्रमाः । किं चान्यत्प्रतिभाप्रकाशसुलभा सानन्तसंविन्मयी खैरं वक्रसरोरुहेपु विदुषां वाग्देवता वर्तताम् ॥ १४५ ॥ (इति निष्कान्ताः सर्वे।) समाप्तमिदं सौगन्धिकाहरणं नाम प्रेक्षणकम् ।
No text on this page.