Bharatiya Vidya Bhavan Library, Mumbai
Fhakkika Prakash
Front matter
फक्किकाप्रकाशस्थविषयानुक्रमणिका
१
प्रकरणम्.
पृष्ठम्. ।
प्रकरणम्.
पृष्ठम्.
संज्ञाप्रकरणम्
अजंताः स्त्रीलिंगा: ८६
परिभापाप्रकरणम् १०
अजंता नपुंसकलिंगाः, ९९
स्वरसंधिः
१२ । हलंताः पुंल्लिंगाः,
व्यंजनसंधिः
स्त्रीलिंगाश्च
....९८
विसर्गसांधिः
३७ । हलंता नपुंसकलिंगाः
स्वादिसंधिः
४३ अव्ययानि.... १४०
पलिंगाः
४७ स्त्रीप्रत्ययाः
१४१
अजंताः पुंल्लिंगाः ४७ विभक्त्यर्थाः
इति विपयानुक्रमणिका समाप्ता।
...
पुस्तक मिलनेका ठिकाना-
गंगाविष्णु श्रीकृष्णदास,
लक्ष्मीवेंकटेश्वर' छापाखाना,
कल्याण-संवर्ड
-
श्रीगणेशाय नमः । अथ फक्किकाप्रकाशः। Rose अथ सज्ञाप्रकरणम् ११ संवास्य मास्यकजालिं हरिं हृदयपङ्कजे । सिद्धान्तकौमुदीगूढ- शकिकार्थः प्रकाश्यते ॥ १ ॥ गर्गवंशावतंसो यो वैयाकरणके- सरी । उपाध्यायोपनामेन्द्रदत्तस्तस्यैव सत्कृतिः ॥ २ ॥ एतदेक- माचार्यस्य मङ्गलार्थ मृष्यतां माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते मङ्गलादीनि मङ्गलमध्यानि मङ्गला- न्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुष- काणि । चाध्येतारश्च वृद्धियुक्ता यथा स्युरिति भाष्यप्रामाण्यान्मङ्गल- मारचयति मुनीति । नन्वस्यां पाणिन्युक्तायां चतुर्दशसूत्र्यामक्षर- समानायामाम्नाय इति व्यवहारानुपपत्तिराभायसमाम्नायशब्दयोर्वेद विदितत्वादित्यत आह । माहेश्वराणीति । इमानि महेश्वरादागता- नीत्यर्थः । शास्त्रप्रणिनीषुणा पाणिनिना वरिवसितमहेश्वरप्रसादाल्ल- ब्धानीति फलितमेव चैतादृशानुपूर्विका श्रुतिरेवैषा, एतन्मूलक- वादस्य व्याकरणस्य वेदाङ्गत्वमुच्यते मुखं व्याकरणमित्यादिना । 'नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्भर्तुकामः है (२) फकिकाप्रकाशः। सनकादिसिद्धानेतद्विगर्श शिवसूत्रजालम् ॥' येनाक्षरसमम्निाय- मित्यादिकमप्यत्र मूलम् । 'यद्याप सोऽयमक्षरसमाम्नायो वर्णसमा- नायः पुष्पितः फलितश्चन्द्रतारकात्प्रतिमाण्डितो वेदितव्यो ब्रह्म- राशिः सर्ववेदपुराणफलावाप्तिश्चास्य शाने भवति मातापितरी चास्य स्वर्ग लोके महीयते ' इति भाष्येण । इदं ब्रह्मतत्त्वमेव शब्दरूप- त्या प्रतिभाति एतत्पठने सर्ववेदाध्ययनकृतस्य पुण्यस्य यत्फलं तत्प्रामोतीति माहात्म्यातिशयः शास्त्रस्यैतत्फलाख्यानद्वाराख्यायत इत्यादि कैयटेन चास्याश्चतुर्दशसूत्र्याः फलमुक्तं तथाप्यदृष्टं तत् । अथ किमर्थो वर्णानामुपदेशः, वृत्तिसमवायार्थः, का पुनर्वृत्तिः शास्त्रप्रवृत्तिरिति भाष्येण पाणिनेलाघवेन शास्त्रप्रवृत्त्यर्थः स चाणा- दिनत्याहारद्वारेति कैयटेन न दृष्टं प्रत्याहार एव मुख्यं फलमित्याश- येनाह । भणादिसंज्ञार्थानीति । अणू आदिर्यपामिति तद्गुणसंवि- ज्ञानो बाबीहिस्ताश्च ताः संज्ञाश्च ता एवार्थः प्रयोजनं येपां सानि अणादिसंज्ञाभ्य इमानीति वा । संज्ञार्थत्वनिष्पत्तये तत्प्रका- रमनुक्रामात एपामिति । चतुर्दशसूत्राणामन्तिमा वर्णा हलन्त्यमिति वक्ष्यमाणसूत्रेणेत्संज्ञाः स्युरित्यर्थः । एतद्वाक्यार्थेनाप्राप्तेराह अका- रश्चेति । प्रत्याहारार्थमनुनासिकत्वेन प्रतिज्ञात उपदेशऽजित्यनेनेत्सं- ज्ञक इत्यर्थः । ननु हयेत्यादावकारोचारणेनाकारविशिष्टस्यव तत्तत्मत्याहारेषु ग्रहणे रामो हिनस्ति स्म रावणमित्यादों हाशचे त्युत्वादिकं न स्यादत आह हकारादिष्विति । न पुनरन्तरेणाचं व्यंजनस्योचारणमपि संभवतीत्युचैरुदात्त इति भाष्यण प्राथम्या- दकारेणैव हस उच्चारिता नतु तत्राकागे विवक्षित इति भावः ।
मज्ञाप्रकरणम् । (३) हयेत्यादावकारोचारणेन तस्य हल्पसङ्ग इत्यवतरणं पुनररम्यम् । हकारादिवत् सकृदुचारयितव्ये पुनः पुनरुच्चारणेन हल्मसनम- ङ्गादित्याहुः । हलसंज्ञायामिति । आभ्यां सूत्राभ्यां हलमात्रसंज्ञायां सिद्धायामित्यर्थः ॥ सप्तम्यन्तेनेह संज्ञा सूचितेति भावः अयं भावः । न विभक्तावित्यादीनां सार्थक्योपपत्तये हलन्त्यमित्य- स्योपदेशेऽन्त्यं हलित्संज्ञं स्यादिति वाक्यार्थ आवश्यकः सच वाक्यार्थबुद्धी पदार्थवुद्धिः कारणमिति हल्पदार्थबोधमन्तरा बाधितः हलपदार्थबोधश्चादिरन्त्येनेत्येतद्वाक्यार्थपरतन्त्र आदि- रन्त्येनेतद्वाक्यार्थवोधं विना वाधितः हल्पदार्थबोधश्च हलन्त्यमि- त्येतद्वाक्यार्थाधीन इति हलन्त्यमादिरन्त्येनेत्यनयोः परस्परापेक्षत्वे- नान्योन्याश्रयदोष आपद्यते तदितरेतराश्रयं भवतीतरेतराश्रयाणि कार्याणि न प्रकल्पन्त इत्युक्तं भाष्ये । अत्र समर्थयन्ते उपदेशे इदन्त्यम्, अच्, अनुनासिक, इति सूत्रत्रयमस्तु उपदेशेऽन्त्यमि- स्यादिति प्रथमयोगार्थः, सामर्थ्यांदन्त्यमिति न संवध्यते तेन उपदेशेऽजित्संज्ञ इति द्वितीयसूत्रार्थः, अजित्यनुवर्तते पूर्वण सिद्धे नियमार्थस्तृतीयो योगः अञ्चद्भवति तद्यनुनासिक एवेति तदर्थ- स्तेन रुप्रभृतौ न दोपः, अनुनासिकश्चेद्भवति तर्खच एवेति विपरीतनियंमस्तु न भवति मिदचोन्त्यादिति ज्ञापकात् । ननु सूत्र- भेदेऽदृष्टफलहानिः पारायणादौ स्यात् तदुक्तं भाष्ये सिध्यत्येवम- पाणिनीयन्तु भवतीति, नैप दोपः सूत्रभेदं तमुपाचरन्ति यत्र तदेवान्यत्क्रियते भूयो वा यदि तदेवोपसंहृत्य क्रियते नासौ सूत्र- भेद इत्युक्तमत्र उपसर्गात्त इत्यत्र सप्तमे भाष्ये एवं च हल्ग्रहणं (४) फचिकामकाशः। न कर्तव्यमेवमन्योन्याश्रयदोषश्चोद्धृत इत्येके । तदसत् । योग- विभागनियमज्ञापकाश्रयणे प्रतिपत्तिगौरखदोपानुदारात् । नहि वर्णाभिव्यक्तिजनककण्ठाद्यभिघातगौरवमेवादर्तव्यं न तु ज्ञानजन- कमनोव्यापारगौखमिति राजाज्ञास्ति अपरे तु आदिरन्त्येनेति सूत्रेणापेक्षितेऽज्ञानार्थ हलन्त्यमित्यस्य न वाक्यार्थः कारणं किंतु सह आसमन्ताद्गच्छतीति सहता मध्यमो वर्णः सोऽन्त्येनादिः संज्ञेति तदर्थनादोपादेवं च नान्योन्याश्रय इति तदप्यकिंचित्क- रम् । अन्योन्याश्रयतत्परिहारादीन्वदता भगवता इटकिटकटीत्यत्र अश्लिष्टादीडिणभ्या च सहाउपपदे तृजभावबोधनाद्योगमयो- दयोक्तार्थालाभाच हयवरेत्यादेरावृत्त्या शपसरेत्यन्तं समुदायमुद्दिश्य हलित्यनेन हलसंज्ञा विधेयातो नान्योन्याश्रय इत्यपि केचित् तदतीव दोषकरम् । दश सूत्रावृत्ती गौरवतमत्वात् । तस्मादने- कक्लेशकल्पनापेक्षयान्याय्यत्वेनावृत्त्या स दोषः परिहियते । पुन- रनुक्रमणमावृतिरित्यावर्तितस्य हलन्त्यमित्यस्योपदेशेऽजित्यस्मा- दितमनुवर्त्य चतुर्दशसूत्राणामन्तिमस्य हलित्यस्यान्त्यो लकार इत्संज्ञः स्यादित्यर्थः । न ह्यत्रादिरन्त्येनेत्येतद्वाक्यार्थापेक्षास्ति तत- श्वेत्पदार्थज्ञाने आदिरन्त्येनेत्येतदाक्यार्थसाम्राज्यमित्येवं परि- हतोऽन्योन्याश्रयः । उपदेश आद्योचारणमिति । उपस्याद्यर्थ- कलादिशेरुच्चारणक्रियत्वादिति माध्यायुक्तरिति भाकः । आद्यं प्रथममुधारणं प्रत्यासत्त्यैतच्छास्त्रप्रवर्तकाचार्याणामेव, आद्यत्वं चानाज्ञातस्वस्वरूपज्ञापकत्वमित्यधिकं नागेशीये। ननु शास्त्रेऽनुना- सिकोचारणाभावात्तत्त्वज्ञानं दुर्लभमत आह प्रतिज्ञोते । मति सज्ञाप्रकरणम् । ज्ञायते इति प्रतिज्ञा अनुनासिकस्य भाव आनुनासिक्यम् । प्रति- ज्ञानुनासिक्यं येषान्ते पाणिनीयाः पाणिनिप्रभृतिप्रोक्ताः वर्णास्ते प्रतिज्ञाविषयानुनासिक्यवन्त इत्यर्थः । प्रतिज्ञा चायमेवमिति वर्णानां तत्वज्ञापकेदितो नुमित्यादि व्यवहारश्चेत्यतस्ताभ्यामनु: नासिकत्वज्ञानं सुलभामिति भावः । ये तु पाणिनिशास्त्राध्येतारः प्रतिज्ञानुनासिक्यवन्त इत्याहुस्ते मान्या अनुनासिकधर्मस्य वर्णनिष्टत्वादिति दिक् । उरण रपर इत्यत्र लकारग्रहणाय लपर- श्चेति वक्ष्यामीति भाष्यकृत्प्रतिज्ञायां कुत्रचिदपि तद्वचनानुल्ले- खायाख्यास्यामीति भाष्यकर्तुराशयमनुरुध्य व्याख्यायां रप्रत्या- हारोऽनुकान्तस्तुल्यास्यसूत्रे कैयटेन तत्प्रकारमत्राप्याह लण्- सूत्रस्थेति । अत्रानुनासिकत्वेन प्रतिज्ञातस्तिष्ठतीति स्थः स चासाववर्णश्च तेनेत्यर्थः । प्रत्याहारस्तु आदिरन्त्येनेत्यनेनेति. तद्वाक्यार्थ सूचयति सहेत्यादि । ननु रलयोरिति न्यूनं टकारस्य मध्यगत्वेन रटलानामित्युचितमत आह प्रत्याहारेष्विति । प्रत्या- हियन्तेऽनेके वर्णाः संक्षिप्यन्ते यत्रेति बाहुलकादधिकरणे घज्ञ । ननु प्रकृतिप्रत्ययार्थमात्रबोधकत्वरूपया योगशक्त्यकारादिष्वपि दीर्वादीनां संक्षेपात्तेष्वपि तत्संज्ञात्वापत्यातिव्याप्तिः मैवम् प्रकृतिप्र- त्ययान्वितसमुदायार्थवोधकत्वरूपयोगरूढशक्तेर्विवक्षितत्वेनाणा- दिष्वेव तत्प्रसक्तेः निर्देशादिति इत्संज्ञकानां ग्रहणे तत्रानुनासिकादौ यणाद्यापत्तिर्दोष इति भावः । न चेत्त्वविधानसामर्थ्यान्न यणिति . वाच्यम् । तस्यापि प्रत्याहारेष्वनुवन्धाग्रहणज्ञापनद्वारैव यणभावक- ल्पकत्वौचित्यात्साक्षाच्छास्त्रवाधकल्पनापेक्षयास्यास्याचित्यात् ।
- - (६) पकाशः। आदिना पापाणकेकुत्सितैरेकः पूर्वपरयोरित्यादिसंग्रहः । ननु प्रत्याहारेऽनुबंधनां कथमज्ग्रहणेपु नेति भाष्योक्तवात्तिके प्रत्या- हारशब्दस्याक्षरसमाम्नाये प्रसिद्धेः प्रत्याहारेवितामित्यनुपपन- मत आह आदिरन्त्येनेति । नच वार्तिकेऽसंगतिः तात्स्थ्यात्ताच्छ- ब्द्यमित्यभिप्रायात, इत्थं च रप्रत्याहारोपपत्तिः अन्ये तु सति रप्रत्याहारेऽतो लरान्नेतिसूत्रे लकारासंगतिः किञ्च यण्घाटितसूत्रेषु वहुप्यर्दमात्रालाघवेन यप्रत्याहारेणैव व्यवहारः स्यात् तस्माल्टण- सूत्राकारस्यानुनासिकत्वमप्रामाणिकं ऋलवर्णयोरितिवल्लग्रहणं कर्त- व्यमेवोरणसूत्र इत्याहुः। ननु स्पृष्टप्रयत्नादिभिस्त्रिभिरेव सकलवानी व्याप्तत्वात्संवृतेन कुत्र भाव्यमत आह हवस्येति । एवन्तर्हि दण्डान- यनमित्यादी हसस्य संवृतस्यानेन विवृतेन दीर्घाकारेण प्रयत्न - दात्सवर्णदीपों न स्यादत आह प्रक्रियादशायामिति । साधनाव- स्थायामित्यर्थः । विवृतमेवेति । तत्र विवृतत्वं प्रतिज्ञेयमित्यर्थः । ए चोक्तमयोगे गवर्णदीर्घः सिद्ध इति भावः । हस्वस्य प्रयोगे संवृतत्वे सूत्रं प्रमाणयति अअ इति । मुपा मुरिति विभक्त्योलक आयो विवृतः परः संवृत्तस्तदाह विवृतमनूद्यत्ति । विवृतस्थान इत्य- र्थः । अनेनोते । अअ इति सूत्रणेत्यर्थः । एवं चोमयोरकारयाः प्रयनमेदात्मवर्णदीर्घा न । विवृतत्वमस्त्येवति । ताई सवर्णदीर्घस्या- दिति चेन्न । पूर्वोक्तार्थज्ञापनार्थ तदभावात् । पर्यवसितार्थमाह । एतेषु परेप्चिति । उपलक्षणमिदमेतेषु विद्यमानस्यापि । तेन हका- रादिषु दीर्घादिर्नत्यर्थः । एतेन हरेत्यादिषु चतुर्यु हकारगकारयोः पकारमकारयोश्च सवर्णदीर्घस्प यणादेशस्य चापादयितुं शक्यत्वेन सज्ञाप्रकरणम् १. (७) दधीत्यस्योत व्यर्थमित्यपास्तम् । अन्यथेति । नाज्झलावित्यस्या- नारम्भे । अच्त्वं स्यादिति । अच्पदवोध्यत्वं स्यादित्यर्थः । इदं प्रत्याहारघटकेष्वपि वर्णेषु ग्रहणकशास्त्रप्रवृत्तिरिति मते व्यक्तिपक्षे च बोध्यमित्याहुः । अत्रेति । ग्राहकसूत्र एवेत्यर्थः। व्याख्यानतो विशेषप्रतिपत्तिनहि संदेहादलक्षणमिति परिभाषणादिति भावः । एतचाणिणप्रत्याहारः परेणः पूर्वेण चेति संदहोजासनाय लणसूत्रे वर्णान्तरेणानुबन्धे कर्तव्ये, णकारों ज्ञापयतीति भाष्ये स्पष्टम् । तदर्थस्तु विशेषस्थान्यतराद्यर्थरूपस्य प्रतिपत्तिनिश्चयो व्याख्याना- च्छिष्टकृताधत्संदेहाच्छास्त्रमलक्षणमननुष्ठापकं नहि भवतीत्येवमिण परेणैवाचिक्षुधातुभुवामिति सूत्रे इण इत्येव सिद्धे य्योरिति गुरुनिर्देशा- चेति लणित्यत्र स्पष्ट भाष्ये इति दिक् । नन्वेकारैकारयोः कण्ठतालु- स्थानं विवृतश्च प्रयत्नस्तथोकारौकारयोः कण्ठौटस्थानं प्रयत्नश्च विवृत एवेति तुल्यास्यति सूत्रेण परस्परं सावर्ण्य स्यादत आह सामर्थ्या- दिति । नच खसत्त्ववोधनार्थं तदारम्भोऽन्यथातयोरसत्त्वं स्यादिति ऋलसूत्रभाष्ये व्यक्तेयं रीतिरिति वाच्यम् । सति तयोः सावण्य कारेणानुपदिष्टदीर्घादीनामिवेडापि तदुपदेशसंभवात् । ननु एचोय- वायायो, वृद्धिरादैच् नय्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच इत्यादी प्रत्याहाराय इति चेन्न, एडो यवायाव इति न्यासे स्थानेऽ- न्तरतमेव निर्वाहाङिबृद्धिरारेडिति पठिते गुणसूत्रे च परस्परस- वर्णसंज्ञा वादिमते चतुर्णां ग्रहणसंवेऽप्यदोपात न य्वाभ्यामित्यत्रैव औं इति स्वरूपेणैव पठनीयत्वात् । एवं चैतदारम्भवैयर्थ्यात्सवर्णा- भावज्ञापनं सुस्थम् । यदि तु 'स्वराणामृष्मणां चैव विवृतं करणं (८) फपिकामकाशः। स्मृतम् । तेभ्योऽपि विवृतावंडी ताभ्यामची तर च।' इति शिक्षो- तेन विवृततरविवृततमप्रयत्नद्वयेनेडोरेंचोश्च भेदः सिद्ध इति मते तदारम्भो न व्यर्थ पवंति बोध्यम् । नापादनीयमिति । तेन ग्लाव ग्वाल इत्यत्रीतोम् शसोरिति न प्रवर्तते इति भावः। ननु विश्वपाभि- रित्यादौ तुल्यास्याणुदित्सत्योक्यिार्थबोधोत्तरं निपेधसूत्रप्रवृत्त- दिघेरप्यज्भिहलां सावर्ण्यगग्णाइढत्वादेरप्रसक्तिः किश्च जाति- पक्षेत्वजात्याकान्तदीर्घादेरापि निषेधसिद्धिरिति किमुक्ताकारमश्ले- पेणानर्थकेनेत्याशक्य निषेधविधेः माग्ग्राहकविधेरवोधाइवस्यैव तेन नियरिगयत्मदिहत्यभाष्यादिप्रामाण्येनात्र व्यक्तिपक्षस्य- वालम्ननाच प्रश्लेपमाफल्यादित्याशयेनाह यद्यपीति । नाज्झ- लाविति सूत्रभाष्योक्ताक्यापरिममाप्तिन्यायादित्ययः । तत्र हि कुमारी शेत इत्युपक्रम्य प्रयत्नभेदेनाज्झलोः सावामाश्म- मिधाय समाधानान्तरमुक्तं वाक्यापरिसमाप्तेर्वा पुनः सिद्धमेतत् किमिदं वाक्यापरिसमाप्तिरिति वर्णानामुपदेशस्तावत् उपदंशो- तरकालेत्संज्ञा तदुत्तरकाले आदिरन्यनेतिप्रत्याहारस्तदुत्तरकाला मार्णसज्ञा तदुत्तरकालमगुदिति मरणग्रहणमित्यनेन सर्वण समुदितन वाक्येनान्यत्र सवर्णाना ग्रहणं भाति न चाकारः शकारं गृहानीति । अयं भावः उपदेशोत्तरं मंजाविज्ञानात्मत्या- हारस्नत उपजीपस्वासवर्णसंज्ञा । इष्टविषये संज्ञासंजित्वग्रहणं ततो ग्रहणे मिद ग्राहकेणादित्मरणम्पत्यनन पूर्वस- १ ननु मूलनायगावनि निस्पो चयपी यादिनोक्तमयुक हक राक रयो सवर्णेऽप्य ग्राभान पाप दास्यगायत्त ।
सज्ञाप्रकरणम् । त्रेण: यावद्वाक्यार्थबुद्धेरकारादिभिः स्वसवर्णत्वेन ज्ञातानां तावतां ग्रहणं . बोधनीयम् । अपरिसमाप्तोरत्यस्य सवर्ण- संज्ञाजन्यशक्तिग्रहे नाझलावित्येतद्रूपवाधकसंभावनया. प्रापिता- प्रामाण्यग्रहादणुदिदित्येतद्वाक्यार्थासामार्थ्यादिति ।. एवं . च प्रकल्प्य . चापवादविषयमुत्सर्गः प्रवर्तते । पूर्व ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गा भुक्तवन्तं प्रतिब्रूयात् माभुङ्था इत्येतैर्वाधकसंभावनया सवर्णसूत्रवाक्यार्थबोधानुपपत्त्या च विधि- निषेधसूत्रयोरकवाक्यता कार्या । अज्झभिन्नं यत्तुल्यास्यप्रयत्नं तन्मिथः सवर्णमित्युभयविधिबोधितसवर्णसंज्ञोत्तरं ग्राहकसूत्रवा- क्यार्थावतारः तथा च निषेधसूत्रेणागृहीतदीर्घादिभिरभिहलामनिपे- धकं पर्यवसन्नमित्याशयेनाहाक्षरोति । अक्षराणां समाम्नाय उपदेश- सूत्राणि तत्र भवः बबचोऽन्तोदात्तादिति ठञ् । अत एव कुमारी शेते इत्यादौ दीर्घशकारयोः सावयासवर्णदीर्घत्वं प्राप्तमचीत्यनु- वृत्त्या निवार्यत इत्युक्तमत्र च कैयटे वक्ष्यति च मूले । तर्हि विश्वपाभिरित्यादौ का गतिस्तत्राह आकारस्यापि प्रश्लिष्टत्वादिति । तत्र कालसमयवेलास्वित्यादिनिर्देशालिङ्गात् । अपिना दीर्घात्परत्र प्लुतस्यापि प्रश्लेपः तेन हे यियासो इत्यादौ गुरोरनृत इति प्लुतादकारात्परस्य सनः सस्य पत्वं नेति भावः। होढ इतीति । हकारेणाकारग्रहणे सति यद्यत्मामोति तस्य. सर्वस्याप्युपलक्षण- मिदम् । भाष्ये प्रयत्नभेदोऽज्झलोरुन्नीतस्तद्यथासिद्धमनच्त्वात्क- थमनचत्वं . स्पृष्टं करणं स्पर्शानाम् इषत्स्पृष्टमन्तःस्थानां विवृतमूष्मणाम् ईपदेवानुवर्तते. स्वराणां चेत्यत्र विवृतमनुवर्तते (१०) फक्षिकामकागः। ईपदिति निवृत्तमिति एवं चेदं प्रत्याख्यातमिति कैयटीयाः। अपरे तु प्रयत्नभेदप्राप्तसावाभावानुवादास्येव बोधकागद सूत्रमन व भाष्ये पतन्न नव्यमिति नोक्तमित्याहुः ॥ इति सज्ञामवरणम् ॥१॥ अथ परिभापाप्रकरणम् २। नन्विको यणचीत्यादावनिर्धारितपष्ठी विषयपठी स्थाने योगेति परिभापोपस्थितेरिक' स्थाने इकं विनाश्य यण स्यादिति सूनार्थ न शब्दनित्यताहानिरित्यत आह स्थानं च प्रसङ्ग इति । स्थीयते इति स्थानं भावे ल्युट् दर्भाणा स्थाने शरैः प्रस्तरितव्यमित्यादी तथार्थदर्शनात् । प्रमङ्गश्च सति संभवेऽर्थवत एवार्थप्रत्याय- न्मार्थ शब्दप्रयोगात् । एवं चापरेकारघटितशब्दस्यार्थवोधनाय प्रसंगे तत्परयकारघटितशब्दः प्रयोक्तव्य इत्यर्थः । पर्यव. एरित्यस्य तेस्तुरित्यर्थः । एवंरीत्या सर्वत्र शास्त्रे बोव्यम् अर्थत एव स्थान्यादेशभावविश्रान्तः । तदुक्तम् । सव सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेश- विकारे हि नित्यत्वं नोपपद्यते' इति । ननु सर्वादेशे सुतरा विकार इति चेन्न । अवयविनोनयवमनरूपो यो विकारः सर्वादेशे च तदभाव इति तात्पर्यात् । उक्तं च वार्तिककृता । कार्यविप- रिणामावेति । कार्यमिह ज्ञानं योग्यतावलात् । तथा च ज्ञान- निष्टमुत्पत्यादिकं शब्दे आगेप्यते इत्यर्थ इति कैयटादयः । एवं चेकाग्वुद्धिप्रसङ्गे यकारवुद्धिः काति बुद्धरेव विपरिणामो न परिभाषाप्रकरणम् २। (११) शब्दादीनाम् । किं च शास्त्रमन्याख्यायकमेव तदुक्तं भाष्ये नित्ये शब्दार्थसम्बन्धे किमर्थं शास्त्रमिति चेन्निवर्तकत्वात्सिद्धमिति । असाधुशब्देभ्योऽन्याख्यानद्वारा साधुशब्दबोधकमिति तात्पर्यार्थी। साधुशब्दोच्चारणे च पुण्योदयः एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवतीति भाष्योक्तेः । नित्याश्च शब्दा नित्येषु कूटस्थरविचालिभिवर्णैरनपायोपजनविकारिभिरित्यइउण्मू- त्रादिषु भाष्ये उक्तमिति विरम्यतेऽस्माभिः । नन्वष्टाभ्य औशित्यत्र जशशसोरिति स्थानषष्टीश्रुत्यालोन्त्यपरिभाषोपस्थितेरन्त्यादेश- प्राप्तावप्यष्टाभ्य इति पञ्चमीश्रुत्या तस्मादित्युत्तरस्यति परत्वबोध- नादादेः परस्येत्यनेनाइलोन्त्यादेशबाधकेन जशशसोरादेरकार- स्यौश जायमाने रूपासिद्धिरत आह परत्वादिति। विप्रतिपेधादिति भावः । आदेः परस्येत्यस्यावकाशः द्वीपम् । यन्तरुपसर्गेभ्योऽप ईत् ॥ अनेकालित्यस्य इतः तसिल्प्रत्ययः इदम इशू आदिनातो भिस ऐस इत्यादिः । परस्येति । वाध्यतेऽनेकाल् इत्यनेनेत्यर्थः अत एव तस्मादित्युत्तरस्येत्यत्र तस्मादित्युनरस्यादेरिति लाघ- चान्न सूत्रितं तथा सति तदेव परत्वादनेकालित्यस्य बाधक स्यादित्युक्तरूपासिद्धेः । न चानेकालित्यतः प्राक् पट्यतां तस्मिनिति निर्दिष्ट तस्मादित्युह्यरस्यादेरिति सूत्रद्वयमिति वाच्यम् । आदरित्यंशे षष्ठी स्थाने योगेत्यसम्बन्धे आज्जसेर- सुगित्यादावप्यादेरिति प्रवृत्त्यापत्तौ देवास इत्यादिरूपासंगतेः। अस्तु पष्ठी स्थान इत्यस्यात्र सम्बन्धः को दोप एवं तर्हि मध्येऽपि तस्मिनिति तस्मादित्यनयोरपि तत्सम्बन्धे तयोरप्यागम- (१२) फविकाप्रकाश विप । प्रवृत्त्यनापत्तेः । न चालोऽन्त्यस्यति सिद्ध डिच्चोते नियमार्थ डिदेवानेकालन्त्यस्य स्यान्न त्वडिदपाति- सुत्यजमनेकालग्रहणमिति शक्यम् । तद्हणाभावेऽतोमिस एसि- त्यादावादः परस्येत्यस्यैव प्रवृत्त्यापतेः । ननु शिद्रहणं व्यर्थम् इदम इशित्यादौ शकारोचारणसामर्थ्याभूतपूर्वमनेकाल्त्वमादाय सर्वादेशत्वसिद्धेरिति चेत्सत्यम् । नानुवन्धकृतमनेकालत्वमिप्ति परिभाषाज्ञापनाय तत्सत्वात् । ननु नानेकाशिदिति सूत्रमस्तु मास्तु च सर्वस्येतिग्रहणं पूर्वसूत्राविषयान्त्याद्योरादेशनिषेधेन सर्वा- देशताया एव पर्यवसन्नत्वादिति चेन्न । अनन्तरस्येति न्यायेनादेः परस्येत्यस्यैव निषेधापत्तेःपात् । यदि तु बाध्यसामान्यपक्षमाश्रित्य सर्वस्यापि बाधकमित्युच्यते तदा दृष्टार्थमेव तद्रहणमित्याहुः ॥ इति परिभाषाप्रकरणम् ॥ २॥ अथ स्वरसंधिः। ननु मुध्युपास्य इत्यत्रैकमात्रावच्छिन्नेकारेण द्विमात्रावच्छिन्ने- कारोपस्थानाद्यणसिद्धावपि वध्वीश इत्यादी हस्खाकारेण दीर्घाकार- बोधनात्तदनापत्तिः। उच्चरितः शब्दः प्रत्यायको नानुचरित इत्यणु- दित् सवर्णस्येत्यत्र भगवदुक्तेः । नैप दोषः । प्रत्याहारेषु तद्वाच्य- वाच्ये लक्षणाऽभ्युपगम्यते । तैनेकपदेन वाच्यो ह्रस्वोकारादिस्तेन वाच्योदीर्घाकारादिस्तत्र च लक्षणावृत्तिरिति तदर्थः । नन्वेवें सिद्धे- ऽणुदित्सवर्णस्येति व्यर्थमिति वाच्यम् । लक्ष्यतावच्छेदकज्ञानार्थमेव तश्चारितार्थ्यात् । नन्चे रीत्या नाझलावित्यादिविषयेऽपि लक्षणायां स्वरसंधिः ३ । (१३) जायमानायां वाक्यापरिसमाप्तिन्यायादिकं विप्रतिपद्यतेति चेन्न । बोधकाले लक्ष्यतावच्छेदकबोधकाणुदित्सवर्णबोध्यसावय॑स्य प्राङ्ग निवेदनात् । एवं चेक्शब्देन पट्पष्टिवां गृह्यन्ते यण्पदेन चत्वारः यणपदे तु न लक्षणा भाव्यमानः सवर्णान्न गृह्णातीति परिभाषया यण- वाच्ययकारादिवाच्यानामभावात् । अतो यथासंख्यसूत्रविषयता- प्यत्र नास्ति । ननु तात्पर्यानुपपत्तिार्ह लक्षणावीजम् । प्रकृते च ल्वादिभ्य इत्यादि यण्घटितनिर्देशादस्तु लक्षणा सा च शक्यसं- वन्धरूपा शक्तेविषयाः शक्याश्चत्वार इको यणश्च चत्वार एवेति शक्यार्थमादाय यथासंख्यमप्यस्तीति चेन्न । एवमपि तृतीयच- तुर्थाभ्यामृकारलृकाराभ्यां प्रत्येकं त्रिंशदुपस्थितौ लुवर्णं रादेशस्य ऋवर्णे लादेशस्य च प्रसंगात् । अत एव भाष्ये स्थानेऽन्तरतम इत्यस्य किमुदाहरणं दध्यत्रेत्युक्तं कैयटे च स्थान्यादेशानां साम्यं नास्त्यतो नास्ति यथासंख्यमित्युक्तं तदेतत्सकलमभिसंधायाह स्थानत आन्तर्यादिति । स्थानेऽन्तरतसूत्रसंचारेणेत्यर्थः। एतेन स्थानप्रमाणोभयान्तरतमे हस्वेकारे चरितार्था यणविधिः कथं स्यादिति शङ्कापि निर्दलिता स्थानत आन्तर्यस्य सर्वतो वलवत्त्वात् यत्रानेकविधमान्तर्यमिति परिभाषणात् । चतुर्विधमान्तर्य स्थानार्थ- गुणप्रमाणकृतं स्थानतो दध्यत्र, अर्थतस्तृज्वत्क्रोष्टुः, क्रोष्टुशब्दस्य नपक्तशब्दादेशः, गुणतो वाग्घरिरित्यादौ इह घोषवतो महामणस्य तादृश एव घः । प्रमाणतस्तु अमुम्, अमू इत्यादौ । अत्रादसोसे- रित्यनेन ह्रस्वस्य ह्रस्वो दीर्घस्य दीर्घ उकारः । इयं च परिभाषा स्थानेऽन्तरतमसूत्रे पष्ठी स्थाने इत्यतः स्थाने ग्रहणेऽनुवर्तमाने पुनः (१४) फकिकाप्रकाशः। स्थानेग्रहणं वाक्यभेदमाश्रित्य प्रसंगे सति संभवे स्थानत एवान्त- रतम इत्यर्थकम्, तेन निष्पन्नेति भाष्ये स्पष्टम् । त्रिविधापेक्षया स्थानत आन्तर्यस्य बलवचादेव चेता स्तोतेत्यादौ प्रमाणत आन्तर्यवानकारो नेति दिक् । एवं च स्थानेऽन्तरतमसूत्रेणैवात्र निर्वाह इत्याहुः । भाष्ये तु दीर्घादीनामिक्पदादिभिरुपस्थितये जातिपक्ष एवाश्रितोऽणुदित्सवर्णस्येति सूत्रे, तद्यथा, अणग्रहणम- परिमाध्यमाकृतिग्रहणात्सिद्धमतत् अवर्णाकृतिरुपदिष्टा सर्वमवर्ण- कुलं गृहीष्यति तथेवर्णाकृतिस्तथोवणाकाते, अइउणसूत्रे भाष्ये- ऽस्य चारित्यत्र सवर्णग्रहणं न प्राप्नोति किंकारणमनणत्वात् न ह्यत्र तेऽणो येऽनुवृत्तौ के तर्हि येऽक्षरसमाम्नाये उपदिश्यते इत्याशक्य जातिपक्ष एवाश्रितः युक्तश्चायमेव पक्षोऽन्यथा शलझलादिमत्याहा- रेषु सकलशलादीनां ग्रहणं दुरुपपादं स्यात् । तत्र न लक्षणा लक्ष्य- तावच्छदेकाभावादिति दिक् । तथा चेपदप्रतिपाद्येत्वादि जात्यव- च्छिन्नानां क्रमेण यणप्रतिपाद्यत्वादि जात्यवच्छिन्ना यकाराद्य इको यणचीत्यनेन विधीयन्ते अत्र पक्षे यथासंख्यसूत्रेण निर्वाहः। तदुक्तं संख्यातानुदेशेनाप्येतत्सिद्दामतिस्थानेऽन्तरतम सूत्रे भाष्ये। न चाभेदका गुणा इति पक्षे यणः। रसप्तति। यथासंख्यवैषम्यामिति बाच्यम् । अणुदित्सूत्रेणग्रहणसामर्थ्यन यणं गुणभेदका इत्य- स्यैव न्याय्यत्वेन भाव्यमानत्वेन च रावर्णानुनासिकानामग्रहणादण- प्रयाख्यानपक्षेऽप्यारम्भप्रत्याख्यानयोः फलामेदाय भेदकपक्षस्यै- बायाश्रयणात् । अत एव मतुपोऽनुनासिको वकारो धनवानित्यादी न । न च स्वीजसित्यत्रानुनासिको कारस्थाने सानुनासिकलकारः, स्वरमांधः ३। (१५) न च पथिमथ्यभुक्षामादित्यत्राकारप्रश्लेपक्लेश इति वक्ष्यते । ननु भाव्यमानः सवर्णान्न गृह्णातीति परिभापासत्त्वे पूर्वोक्तानि सिध्यन्तु नाम तज्ज्ञापकं त्वप्रत्ययग्रहणं नचाणप्रत्याख्यानेनैव दृपिताशय- मिति चेन्न । प्रत्याख्यानपक्षे तपरस्त्रस्य जातिपक्षप्राप्तसवर्णग्रहण- नियमार्थत्ववत् जातिग्रहणप्राप्तसवर्णग्रहणप्रतिषेधायाप्रत्यय इत्यंशः कर्तव्यश्चेत्याशयात् ध्वनितं चेदं ज्यादादीयस इत्यत्र पष्ठे भाष्ये व्यक्तं नागेशीये । अत एव जातिपक्षेऽपि त्यदादीनाम इत्यादी न दीर्घादिसंग्रहः । स्वादिभ्य इत्यादिनिर्देशो जातिपक्षाश्रयणे मानम् , तस्माजातिपक्ष एव भगवताभिप्रेत इत्याहुः ॥ इकारस्य यकार इति । इकारोच्चारणप्रसंगे यकार उच्चारणीय इत्याशयः । उपपादितश्चायं प्राक् । नन्विह सुधीशब्दस्य ध्यायतेः संप्रसारणे संप्रसारणाचेति पूर्वरूपापत्तेर्यण न स्यात् मैवम् । संप्रसारणपूर्वत्वे समानाङ्गग्रहणमिति वार्तिकोक्तेः। न च न भूसुधियोरिति निषेधः । अङ्गाधिकारस्थितत्वेन प्रत्यये परत एव तेन निषेधात् अनन्तरो- क्तयोरनेकाच ओः सुपीत्यनयोः प्रतिपेधाच्च । न चेको सवर्ण इति हवप्रसंगो न समासे इति वार्तिकेन निषेधात् । न च नित्यसमः- सस्यैव तेन निपेध इति वाच्यम् । नित्यग्रहणस्य भाष्ये प्रख्या- नादिति संक्षेपः ॥ ननु यद्यपि गव्यमित्यादौ भत्वाल्लोपः शाक ल्युस्य हाल सर्वेषामिति वा लोपो न प्राप्नोति तथापि गम्यूतिरि- त्यत्र स्यादत आह वान्त इत्यत्रोत ।। तेन च सूत्रे फलाभावो गव्यादौ भत्वेन वारणात् । न च गमिच्छतीत्यादौ फलम् तत्रापि नः क्ये इति नियमेन नान्तस्यैव पदत्वप्रतिपादनेनेतरेषां भत्ववो- (१६) फाधिकाप्रकाशः। थनादिति वाच्यम् । वान्त इत्यस्य वार्तिकेऽनुवृत्त्या श्रूयमाणवा- न्तादेश इत्यर्थसंपादनफलफत्वात् । ननु विष्णवे इत्यादौ तस्य लोप इति दुर्निवार गव्यतावुच्चारणस्य चारितार्थ्यादिति चेन्न गवि च युक्त इत्यादिनिर्देशेन तद्वारणात् । ननु लोपो व्योवलीति कथं बलोपो नहि कार्यो निमित्ततयाऽऽश्रीयते नहि निमित्वं कार्यत्वेनति परिभाषया वस्य कार्यित्वेन निमित्तत्वबाधादिति चन्न । निमित्त स्वानाश्रितविषये कार्यित्वस्य चरितार्थत्वात् । न च लोपो व्योरि- त्यत्र वकारो भाष्ये प्रत्याख्यातः । प्रत्याख्यानस्य लौक्किोदाहर- गाभावपरतया शास्त्रीयप्रयोगार्थ तत्सत्त्वादित्याशयात् । अत एवातोलान्तस्यत्यन लुप्तनिर्दिष्टो वकार इत्युक्तमिको गुणेति सने भाष्ये । न तु वान्तग्रहणमेव भाष्ये प्रत्याख्यातं, न च चेयं जेय- मित्यादौ यान्तादेशापत्तिः योगविभागात् क्षप्यजय्यावित्येको योगः पूर्वण माप्तेनियमार्थः एचश्चेवान्तादेशस्तर्हि क्षिज्योखे तत: शक्याथै, क्षिज्योः शक्यार्थ एव तेनार्हाद्यर्थ क्षेयं पापमित्यादी न दोपः न च क्षिज्योरिति सजातीयापेज्ञत्वादेकाराशे नियमेप्यैकाराशे नियमाभावाद्रायमिच्छति रैयतीत्यत्र यान्तापत्तिः रायिच्छान्दस इति भाष्योक्तश्लन्दसि दृष्टानुविधित्वेन रूपान्तरानापादनात् । यादो प्रत्यये रैशब्दश्लन्दसि वर्तत इति कैयटः एतत्सर्व स्थानेऽ- न्तरतमसूत्रे भाष्ये स्पष्टमिति चेत् एवं तर्हि वार्तिक एवं प्रश्लेष उचित इत्यभिप्रेत्याह छकारादिति । अन्ये तु छान्दसत्त्वान्न लोपो गव्यूती छन्दसि दृष्टानुविधायित्वेन रूपान्तरानापादनात् । अश्वपरिमाणेऽपि संज्ञाशब्दत्वान्न लोपः संज्ञात्वभङ्गापत्तेः। अत एवं स्वरसधिः । (१७) रघुनाथशब्दादौ पूर्वपदात्संज्ञायामिति नित्यणत्वाभावः । अत एव भृञोऽसंज्ञायामिति तृतीये भाष्येऽसंज्ञायामाभिधेयायामिति नार्थः । कि तर्हि तत्कार्यविशिष्टत्वेन चेत्संज्ञा गम्यते इत्युक्तम् । ननु सर्वादीनाति । सूत्रे सर्वनामानीत्यत्र णत्वं प्राप्नोतीत्याश- इन्क्य निपातनात् णत्वाभाव इत्युक्तं भाष्ये तत्र तव मते पूर्वो- त्तरपक्षयोर्निर्दलत्वापत्तिः संज्ञाशब्दत्वेनैव तदभावादिति चेन्न । आधुनिकविनियोगस्थले. शास्त्रानुगतस्यैव विनियोग रचितो न तु शास्त्रविरुद्धस्येत्याशयात् । सर्वनामानीति त्वाधुनिको वियोगः अत एव महत्याः संज्ञायाः करणे एतत्प्रयोजनमित्यग्रिमं भाष्यं संगच्छते. अनादिविनियुक्तस्थले तु यथा विनियुक्तानामेव साधुत्वं यथा रघुनाथशब्दादाविति दिक् । नन्वेवमपि मोराजि समः कावित्यादीनां वैयर्थ्यापत्तिः समाडिति राजविशेषस्य संज्ञात्वेनानु- स्वागभावस्य वक्तुं शक्यत्वादिति चेन्न। तस्य संज्ञोत्वस्य प्रामाणिकै- रनुक्तेः । संज्ञाया एकनिवेशिनीत्वेन वाक्याथै साम्राज्यामित्या- धभियुक्तप्रयोगानापत्तेश्च । अत एव तत्र संज्ञापदानुपादानाच्च नखमुखात्संज्ञायामित्यादेरपि सामर्थ्यांदुक्तार्थ. तात्पर्यग्राहकताया वक्तुं शक्यत्वाच्च । अप्रमितस्य तु वकारप्रश्लेषस्योक्तार्थे तात्प- र्यग्राहकत्वरूपफलकल्पनस्य निष्फलत्वाच्च । एतेन नखमुखादि- त्यादेवैयादुक्तलल्पना न युक्तेति मन्दोक्तमपास्तम् । वस्तु- गत्या शास्त्रव्यापारपूर्वकप्रयोगस्यैवाभ्युदयहेतुनात्रापि तद्यापारक- ल्पनं संज्ञाशब्देऽप्युचितमेवति मूलाशय इत्याहुः । तन्निमितस्यै- होति किमिति । पूर्वेण -सिद्धावस्य नियमार्थत्वेनैव एवकारे लब्धे (१८) फकिकामकाशः। तद्हणस्य स्पष्टतोऽवधारणार्थत्वात्तच्छब्दपरामृष्ट्यादिप्रत्ययनि- मित्तस्यैचश्चेत्तर्हि धातोरेखेति सूत्रार्थवारणादाभ्रव्य इत्यस्योपप- सावपि लव्यमित्यादेः पूर्वणैव निष्पत्तेः सूत्रमेव फिमर्थम् इति पर्यनुयोक्तुराशयः । उत्तरमाह । ओयत इति । आइपृर्वादेशः मणि लटि यजादित्वात्संप्रसारणेऽकृत्सार्वधातुकयोरिति दीर्घ आडा सहाहणे च कृते वान्तादेशापत्तिः । अथ पूर्व धातुः साधनेन युज्यत्त इति भाष्यसिद्धान्तपक्षे यदुपसर्गनिमित्तं कार्य- मुपसर्गार्थाश्रितं तदन्तरङ्गं विशिष्टोपसर्गनिमित्तत्वात् । यच्च न तथाभूतं तत्र पूर्वागतसाधननिमित्तकमेान्तरङ्गम् । अत एव प्रेद्ध इत्यत्र गुणो बहिरङ्ग इति न धातुलोपसूत्रे भाष्यकैयटयोरुक्तम् । तथा चात्र धातूपसर्गकार्यस्य गुणस्य बहिरङ्गत्वाइन्तरने वान्ता- देशेऽसिद्धत्वानोक्तदोषावकाश इत्यपरितोपादाह । ओयतेति । ननु नाजानन्तर्य इति निषेधादस्तु पूर्वोक्तमपि प्रत्युदाहरणमिति चेन्न यत्र कार्यविधावानन्तयणाचोराश्रयणं तत्रैव परिमापोप. स्थितेः । यथाक्षाः तत्र होको यणचीति वचनादिगचोराश्रयण- मिह तु न तथेति दिक् । एवं चेदमेव प्रत्युदाहरणम्, अत्रापि वेजः कर्मणि लडि यकि सम्प्रसारणे दीर्धे आटा सहाटश्चेति वृद्धी वान्तापत्तिः । न ह्यन धातृपसर्गकार्यमस्ति येनासिद्धलं स्यादिति मावः । लोपः शाकल्यस्यति लोपस्योत्थानप्रसङ्गालोपान्तरस्यो; त्थानेन कार्यप्रसङ्गमाह । कानि सन्तीति । अयं भावः । अस्ति तावासद्धान्तग्रन्येषु तत्र तत्रोपनिबद्धं पक्षद्वयं पदसंस्कारो वाक्य- मंग्कारश्चोते । तत्र परस्परनिरपेक्षाणि पदानि संस्क्रियन्ते साधुत्वे.
स्वरसंधिः ३। (१९) नान्वाख्यायन्ते यत्रेति वाहुलकादधिकरणे घञ् । अत एव युष्म- युपपदे इत्यादीनि निर्वहन्ते । तदुक्तं संस्कृत्य संकृत्य पदान्युत्स- ज्यन्ते तेषां च यथेष्टमभिसंबंधो भवत्याहर पात्रं पात्रमाहरेति वृद्धिरादैच् सूत्रे भाष्ये । वाक्यसंस्कारस्तु वाक्यात्सुप्तिडन्तचय- रूपात्पदादीनि संस्क्रियन्ते यत्रेति तथोक्तः । यद्यपि वाक्यमखर्ड निरवयवं तत एवार्थ प्रतीतेलोंके तस्यैव व्यवहाराच्च तथाप्यन्वा- ख्यानलाघवाय तत्रावयवं कल्पयित्वा शास्त्रं सफलीक्रियत इत्यन्यत्र विस्तरः । तदप्युक्तम् । वाक्यादुद्धत्य पदान्वाख्यायन्त इति भाष्ये तथा चाद्यपक्षे कानि सन्तीत्यनयोः पार्थक्यनिष्प- नत्वादचः परस्मिन्नित्यस्य प्रवृत्तेर्न चोयावसरः किन्तु वाक्य- संस्कारे कानि सन्तीति वाक्ये प्रक्रियाक्रमेण किम्शब्दोत्तरं जस्त- दुत्तरासधातोः झीति किमः कादेशे जसः श्यादेशे नुमि दीर्घ असधातोश्श्नसोरल्लोपे झोऽन्त इत्यन्तादेशे चाचः परस्मिन्नित्य- नेन परझिनिमित्तकालोपः स्थानिवत्स्थानिभृतादकारात्पूर्वत्वेन दृष्टस्य नकारोत्तरीयेकारस्य यणरूपे विधी कर्तव्ये स्थानिवद्भावा- दिति कोऽस्यावसरः । नचात्रापि पक्षे विनिगमनाविरहात्ताव- सन्तीति साधयित्वा कानीति निष्पादने दोपाभाव इति वाच्यम् । अन्तरंगवहिरंगयोरन्तरंगं बलवदिति ज्ञापयिष्यमाणपरिभाष- यात्र पूर्वीपस्थितनिमित्तत्वरूपमन्तरंगमादायान्तरङ्गाणां प्रथम प्रवृत्तिरिति कानीत्यस्यैव तावत्साधनीयत्वात् । पदांतविधाविति । पदस्य चरमावयवे विधावित्यर्थः । तन्निपेधादिति । न पदा. तेति सूत्रेण स्थानिवत्त्वनिषेधादित्यर्थः । न च तस्मिन्प्रतिषि- (२०) फधिकाप्रकाशः। देपि बहिरङ्गपरिभाषया लोपस्यासिद्धत्वेन यणादिकं दुर्वारम् । पदद्वयापेक्षत्वेन यणादेखे ' वहिरङ्गत्वात् नाजान्तयें वहिष्वप्रक- प्तिरिति निषेधाचेति दिक् । ननु रपर इत्युक्ते रमत्याहारेण लपरश्चेति वचनेन वा रेफलकारयोधेि ऋकारलकारयोः प्रमा- णत आन्तर्यात्सांकर्य स्यादत आह । तत्रान्तरतम्यादिति । स्थानत इति भावा रेफशिरस्कस्यारित्यस्य रेफद्वारा प्रकारेण मूर्दादिस्थानत्वात् । अयं भावः । उरण्स्त्रे पष्ठीस्थाने स्थानेऽ- न्तरोत सूत्राभ्यां स्थानेशब्दद्वयमनुवर्तते, तत्रैकस्यानुवादेपि स्थानसंबंधलामो द्वितीयस्य लक्षणया प्रसंगावस्थाकालबोधश्च प्रयोजनं तेन गुणवृद्धयोः प्राप्त्यवस्थायामेवाणोरपराः सम्पन्ना इति प्रमाणतोऽन्तरतमावेडेचौ बाधित्वा स्थानतोऽणेव भवतीति तदाह । कृष्णद्धिरित्यत्रारिति । न चैवं कर्तत्यादावनेकालत्वा- त्सर्वादेशप्रसङ्गः । स्थानित्वमुपजीव्य प्रवृत्तस्य रपरत्वस्य सर्वा- देशतानपादानादुपजीव्यविरोधात् । तदुक्तं स्थानेऽन्तरतमसूत्रे बार्तिककृता सर्वादेशप्रसंगस्त्वनेकाल्त्वात् । न चानेकाल्त्वस्य तदाश्रयत्वादादेशेनाविधात इति । न च क्रियते इत्यादौ रिडा- दिष्वणपरः कुतो नति वाच्यम् । अनादेशत्वात् । आदेशत्वं हि समुदाये विश्रान्तम् । नन्वेवं कृष्णदिरित्यादी पूर्वपरसमु- दायस्य स्थानित्वेन ऋकारस्यैव स्थानित्वाभावाद्रपरत्वं न स्यादिति चेन्न । पूर्वपरयोरिति द्विवचननिर्देशन सहितयोरवयवयोख स्थानि- त्वात् । तदुक्तं भाष्ये यो हामयोः स्थाने भवति लभतेऽसाव- न्यतरो व्यपदेशमिति, अत एव भिन्नादिष्विव द्वयोः स्थानिनो- स्वरसंधिः ३ (२१) द्वावादेशौ माभूतामित्येकग्रहणम् । गुण इत्यादेविधेयबोधकत्वेन तत्रैकत्वसंख्याया विवक्षणेनोभयोः पूर्वपरयोरेकतयैव विधेया- न्वयेऽनयोः पूलयोः कटं कुर्वित्यादावियोभयसंबंध्येकविधेयस्य प्रतीतेरेकग्रहणं स्पष्टार्थमित्यन्यदेतत् । न च सर्वत्र विधावादे- शानेव रलपराविधायेदं सूत्रं सुत्यजमिति वाच्यस् । आप्ज्ञ- पृधामीत् भृजामिदित्यादौ दोषापत्तिरिति संक्षेपः । परस्मादप्य- पवादस्य प्रबलत्वावृद्धिरेव वाधिका. तत्रापवादविषयबाध्यविशेष- चिन्तापक्षमूलकं न्यायमाह । पुरस्तादिति । पुरस्तादपवादा अनन्तरान्विधीन्वाधन्ते नोत्तरानिति न्यायः । प्राग्वर्तिनोऽपवादा इत्यर्थः । एतत्सर्वमुपपादयिष्यते । एत्येध, एङिपर, ओमा- ङोरिति पाठक्रमः । अव्यवहितोत्तरवार्तन एङि पररूपस्यैव बाधिका वृद्धि त्वन्तरालवर्तिन ओमाङोरित्यस्य भवति । अप- वादस्यावश्यं स्वपरस्मिन्बोधनीये प्रथमोपस्थितानन्तरवाधेनाका- डक्षानिवृत्तेश्चारितार्थ्ये पश्चादुपस्थितान्तरालवाधे मानाभावादा- कांक्षाशान्तेः सकृदुपस्थितये विप्रतिषेधशास्त्रावाधनेऽपि पुनरुप- स्थितये तद्बाधे बीजाभावाचति भावः । असाधुरेवेति वृद्धिग्र- युक्तोऽयं प्रयोगोऽपपाठ इत्यर्थः । आङिणोरेकादेशस्य पूर्वान्त- बद्भावत्वेनाङिविप्रतिषेधसूत्रमावल्यादोमाङोश्चेत्यनेनोपैतीत्यत्र ल- ब्धावकाशवृद्धेबाधादिति भावः । ननु प्रौढ इत्यत्रेव प्रौढवानि- त्यत्रापि वृद्धिः प्राप्तेत्यत आह अर्थवदिति । विशिष्टरूपोपादाने । उपस्थितस्थार्थस्य शब्दं प्रति विशेषणतयान्वयसंमो तत्त्यागे मानाभावोऽस्याः परिभाषाया मूलम् । किञ्च स्वं रूपमिति सूत्रे (२२) फकिकाप्रकाशः। स्वंशब्देनात्मीयवाचिनार्थी गृह्यते रूपशब्देन स्वरूपं तेन तदुर्भयं शब्दस्य संज्ञीति सूनार्थः । तत्रार्थो न विशेष्यो अर्थ शास्त्रो. यकार्यासंभवात् किन्तु शब्दस्य विशेषणम् । एवञ्चार्थविशिष्टः शब्दः संज्ञीति फलितं तेनपा परिभाषा निष्पन्नति भाष्ये समाख्यातम् । कुत्रचिदर्थस्य शब्दो विशेषणमित्यादिक संवाद- चिन्तामणौ व्यक्तम् । प्रकृते चार्यवत्तायाः समुदाये व्यासक्तत्वा- दूढवत एकदेशस्योढस्याऽनर्थकत्वादश्यवस्यार्थवाचकत्वाभावान्नाव- वृद्धः प्राप्तिरिति भावः । केचित्तु प्रादृहेतिविधेः पदविधित्वेन समर्थः पदविधिरित्यस्यावश्यमुपस्थिती प्रशब्दद्योत्यान्वितार्थ- केपूढादिषु वृद्धौ नियूंढायामुत्तरपदाक्षेपे सति क्तवत्वन्तकदेशो- दशब्दे परे वृद्रेः माप्तिरेव नास्तीति नार्थोऽर्थवत्परिभाषासंचा- रेण संचारितव्यश्वावश्यं पुनः समर्थः पदविधिरुत्तरपदाक्षेपश्चात्र अन्यथोदश्च घटश्नोत्घटी प्रकृष्टाबूढघटी प्रौढघटापित्यन उढश- न्दस्य देवेन सह सामर्थ्य तदवयवन सह सामर्थ्यस्य निष्प्रत्यूहत्वात ऊहस्य शक्यार्थवत्त्वाच । अथरा सत्यप्युत्तरपदाक्षेपे यदि कस्य. चिन्नामोढ इति क्रियते तदा तस्मिनुत्तरपदे मोह इत्यनाति- प्रसंगवारणाय प्रसिद्धचप्रसिद्धिनिवन्धनो गीणमुरयन्यायोऽनुसरणा- यः ग चार्थवत्परिभाषाप्रवृत्यधीन इत्यभिप्रायफ्स्तत्संचारोऽस्त्वि- त्याहुः । ननु रपरश्रुतेरन्यत्र चरितार्थत्वादुपाच्छतीत्यादावेकादे- अस्थले विसर्गः स्यादत आह । अन्तबद्भावेनेति । मानमाह ! निर्देशादिति । न च कतरि चत्यिादी गुणभ्य पदद्वयगंधिवर्ण- व्यापेक्षत्वेन बहिरंगसिद्धत्वाद्रेफाभावान पिसर्ग इति वाच्यम् ।
स्वरसंधिः ३ । (२३) गुणस्येव विसर्गस्वापि रेफपकारात्मकवर्णयाश्रितत्वेन बहिरंग- त्वात् । परनिमित्तकत्वं तूभयोः समम् । उरणरपर इत्यत्र भाष्ये तु रेफस्य पूर्वान्तवत्त्वे विसर्जनीयप्रतिषेधो वक्तव्यो नार्कल्पिना- कुंटाद्यर्थमित्यपूर्ववचनमेवारब्धमिति दिक् । उपसगणवति । विना यस्यानुपपत्तिः स तेनाक्षिप्यते यथाकृतिः पदार्थ इति दर्शने घटमानयेत्युक्तं जातेरमूर्तत्वादानयनानुपपत्या जातिर्व्यक्तिमा- क्षिपति । तथोपसर्गसंज्ञायाः क्रियामन्तरानुपपन्नत्वादुपसर्गः क्रियामाक्षेपयति । सा च धात्वर्थस्तस्य चाक्षेपासंभवात्तद्वा- चिन आक्षेपः फलतीत्यभिप्रेत्याह । धातोरिति । पुनर्बुद्वीति । तत्सामर्थ्यावृद्धिरेव न कदापि तदभाव इति फलितार्थः । ननूपसर्गणाक्षिप्तेऽपि तस्मिन्प्रगत ऋद्धः पर्द्ध इत्यादी प्रस्यो- पसर्गत्वादृद्धस्य ऋकारादिधातुप्रभवत्वाच्च वृद्धेः प्राप्तौ तन्नि- वारणायोपसर्गताप्रयोजकधातुत्वलाभार्थ धातुग्रहणमस्तु' कथम- न्यार्थतोत चेन्न, यत्क्रियायुक्तः । प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञे भवत इत्युपसर्गात्सुनोतीत्यत्राष्टमे भाष्योक्त्यैव समाधानात् । ज्ञा- पितश्चायमर्थः उपसर्गाः क्रियायोग इति सूत्रस्थयोगग्रहणेन, अन्यथा तृतीयांतेन सप्तम्यन्तेन वा क्रियापदेन तदर्थ सिद्धे तद्वैय- यमेव । पाक्षिकोऽपीति । ऋत्यक इत्यस्य विकल्पप्राप्तिकत्वात्तद- भावे यथाश्रुतेनैव सिद्धेोगविभागस्थ पाक्षिकानिष्टवृद्धयाभाववारण- फलकत्वादिति भावः । ननु न माङयोग इत्यत्र भाष्येऽटश्चेति सूत्र- यित्वाऽस्वपो हसनित्यत्र वृद्धिमाशंक्य धातानित्यपकृष्य समाहि- नत्वेन धातावित्यस्य चारितार्थ्याद्योगविभागे मानाभाव इति चेन्न (२४) पविकाप्रकाः। पूर्व कर्तव्ये प्रकरणात् । अत एव धातापित्युभयोः शेष इत्युक्तं भाष्यकृता, केचित्वाक्षिप्तेनैव सिद्धेऽतिरिच्यमानधातुपदेनोपसर्गाव- यवाकाराद्वात्ववयवत्ररकारे परे तयो' पूर्वपग्योवृद्धिरेवेत्युचितार्थः मंपद्यते, तथा चेवं रीत्या पाक्षिकप्रकृतिभाववारणे सिद्धे नार्थो गौरव- अस्तेन योगविभागेनेत्याहः । ननु संत्रे उपसर्गपदं विमृज्य गते- रिति कुतो नोक्त राघवान्मैवम् । अचछठतीत्यादी वृद्धयापत्तेः अच्छगत्यथादेष्विति गतिसंज्ञात्वात् । वाक्यभेदेनोत । एकवाक्यत्वे हि प्रजेत इत्याद्यसङ्गत्यापत्तेगिति भावः । सुब्धाताविति । सुबन्त- प्रकृतिके धातावगादी पररूप वा स्यात्तदभावे उत्सर्गसुनेण वृद्धिरिति द्वितीयवाक्यार्थः। अत्र वदन्ति । एडयेडिति सूत्रयिनव्ये परग्र- हणमुत्तरार्थम् । रूपग्रहणं तु स्पष्टार्थम् । अमि पूर्व इति वदेटि पर इत्येव सिद्धरिति । अचि किमिति । अझलोः सावर्ण्यनिषेधादकः सवागेव भविष्यतीति प्रश्न. । अनिष्पत्तेति । नाझलाविति सूत्रविपयनिर्णयेऽपवादविषयपरिहारेण तत्ततवर्णीयसवर्णपदवार- त्वनिर्णयोत्तरं तावता ग्रहणम्य ग्रहणक्शास्त्रेण वोध्यतया निषेध- वोधकाले ग्रहणकशास्त्रस्य तावद्ग्रहण गोधकत्वासिद्धिरित्यर्थः । अन वत्तव्यमुक्त प्राङ् न विस्मरणीयम् । अशोक दीर्घ इत्येव मुव- चमिति । दध्यरेत्यादो यथासस्यविज्ञानेनातिप्रसङ्गभङ्गादोहलकार इत्यनापि ऋकारलकारयोः सावादुपपत्तेरीकारगकारयोः सति सावण्यंञ्चीत्यनुवृनिमन्तरापीष्टसिदिलाधमाचेत्यागमः। ननु यथा न्यामेसनान्त कोरिनिविष्टसवर्णपदमग्रिमवार्तिकद्धयेऽनुवर्तमेवं सति नव तत्करणे विपरीतगोरखापत्तिरिति चेन्न । वचनदयविधेयमरः स्वरसधिः ३। (२६) सवर्ण इत्यनेनैव निष्पाद्य तस्य तुल्यास्यसूत्रे भाष्यकृता प्रत्या- ख्यानात् तया अक इति सूत्रेणैव ऋकारदयस्यस्थाने रेफद्ध- यवत्तारूपगुणान्तर्येण कदाचिद्रेफद्वयगर्भस्य विवृतत्वान्तर्येण कदा- चिदिवृतस्य लकारे लकारवृत्तान्तर्येण कदाचिद्धि लकारस्य कदा- चिद्विवतत्तत्वसाम्येन रेफवता साम्येन च तादृशस्य ऋकारस्य सिद्ध्या विकल्पफलासिद्धः कैयटे च स्पष्टतरमिदम् । ननु गोअग्रमित्यादाविव पक्षे प्रकृतिभावो दुरि अत आह । व्यवस्थितविभापयति । विगतावस्था विकल्परूपा जातास्यां सा चासो विभाषा च तया नैमित्तिकप्रवृत्त्येत्यर्थः । विभापारूपे विकल्पे विधिनिषेधरूपांशद्वयं सामान्येनोपस्थितमत्र विशेपवि- धिरूपा व्यवस्थिता कचित्तु निषेधरूपा व्यवस्थिता, तथा च मूले वक्ष्यति कचिन्न पापेऽभिनिवेश इत्यादि । गवाक्ष इति । गवां कि- रणानामक्षीवत्यक्षतोऽदर्शनादित्यच् पुंस्त्वं लोकात् वातायनेऽयं रूढः नन्वेवरीत्या गवेन्द्र इति सिद्धे इन्द्रे चेति व्यर्थ मैवम् । भाष्योक्ता- तिरिक्तव्यवस्थितविभाषाणामप्रामाणिकत्वज्ञापनार्थ तत्सत्त्वात् । अ- ग्नीत्प्रेपणे परस्य चेति सूत्रेणाग्नीदग्नीन्विहरेत्यत्र प्राप्तप्लुतत्वव्याव- त्यर्थ तत्र वहुलग्रहणस्य वार्तिककृताकृतस्य प्रत्याख्यानाय विभा- पापृष्ठप्रतिवचने हेरिति सूत्रे विभाषेति योगविभागं कुर्वता भाष्यकृ- तैतस्या विभाषायाः व्यवस्थितविभापात्वध्वननात् । देवत्रातो गलेग्राह इति योगे च सद्विधिः । मिथस्तेन विमाष्यन्ते गवाक्षः शंसितवमिति शाच्छोरिति सूत्रे भाष्ये स्पष्टम् । कृतेवङि सन्निपातपरिभाषाया अनित्यत्वात्सवर्णदीर्वइति केचित् । विभापानुवृत्तेः स्फोटायनपदम- (२६) फक्किाप्रकाशः। दृष्टार्थम् । अगिति स्वयितव्ये अबदग्रहणमदृष्टार्थमेवेत्याहुः । नित्य- ग्रहणं किमिति । यद्यपि प्लुतप्रमया इति सूनान्तःकोटिनिविष्टप्ल- तादिज्ञानार तत्तत्सताबोधकसनपाठानन्तर प्लुतेति सूत्रे पठितव्ये तदलेसनेन प्राचीनपठितेन्द्रे च नित्यमितिन्यासे नित्यमित्यस्य प्रामादिकत्वस्यनान्नित्यमित्यत्यस्यानुवृत्यभावस्तथापि विकल्पनि. वृत्त्येव नित्यत्वलामो भवित्यतीति प्रष्टुर्भावः मा भूदिति। हरी ईशा- नित्यन प्लुनप्रगृह्या इति सावकाशम् । चकि जत्रत्यादाविको सवण इति लभावसरम् । हरी एतावित्यादी विप्रतिषेधेन परत्वाट्रस्वस- मुचित एव स्यादिति विकल्पी दोपः। नित्यग्रहणेन तु सामर्थ्या- परमपि वाध्यत इति भावः । न च प्रकृतिभावे कर्तव्ये प्लतस्यासि- द्वत्वं शंक्यम् । प्लुतमन्द्य प्रकृतिभावविधानसामात् । नन्बची- त्यनुवृत्तेऽजग्रहणं सूने मुत्यजम् । सामात्मत्यामत्या यस्मिन्नचि प्रकृतिभावस्तदनिमित्तकार्यस्यैव तेनाभात इत्यर्थमंपादनेन जानु उ अस्य रुजतीत्युञः प्रगृह्यत्वेऽपि जान् अस्येति सवर्णदीर्घरूपसंधि- फलकत्वान्न दोपः । ह्रस्वविधानसामर्थ्यादेवोते । चकारेण प्रकृत्यनुष्यते इति भाग्यम चकारखंडनपरभाष्यस्यायं भावः तेन प्रकृतिभावानुकपणेऽपि चानुकृष्टं नोत्तरत्रेति परिभाषया चकांग्णानु- कृष्टत्वेन प्रकृतिभावस्य प्रत्यक इत्यत्र संवन्धामावेन तदाक्यार्या- सामञ्जस्येन तदर्थ हस्वविधानसामर्थ्यस्यावश्यक्त्वाचकारो अर्थ इति । उक्तपरिभापाया जापतु स्वादुमि णमुलित्यतो णमुल्चनु- वर्तमानेऽन्यये यथाभिप्रतार पाने कृतः क्त्वाणमुलाविति स्ने मुरणग्रहणम् । अन्यथा क्त्वा चेति वदेत् । तद्रि उत्तपत्र तिर्यन्य- स्वरसंधिः। (२७) पवर्ग इत्यादिसूत्रे उभयोः संबंधार्थम् । अत एव वदः सुपि क्यप् चति सूत्रे चानुकृष्टस्याचो यदित्यतो यतो भुवो भावे इत्यत्र नानुवृत्तिः लुटि च कृप इत्यत्र सर्व चकाराः प्रत्याख्यायन्त इति भाष्येण विरुद्धेयम् । व्याख्यानादेवानुवृत्तिनिवृत्त्योर्निर्वाह इति तदाशय इति दिक् । भाष्ये स्थितमिति । प्रकृतसूत्रे पूर्वोक्तो भावः स्थित इत्यर्थः । ननु ह्रस्वाभावे प्रकृतिभावार्थ चकारोऽस्तु तेन चक्री अत्र चक्रि अत्र चक्योति रूपत्रयसिद्धिरिति चेन्न । समुच्चयार्थकत्वे उक्तभाष्यविरोधात् । त्वदुदितरूपस्य संहिताया अविवक्षयैव सिद्धेश्चेत्यलं भाष्यविरुद्धकल्पनया । चयत्रेत्यत्र स्कोरिति कलोपो न स्थानिवद्भावात् । पूर्वत्रासिद्धेन स्थानिवदित्यपि न वाच्यम् । तस्य दोषः संयोगादिलोपलत्वण- त्वेष्विति निषेधस्य वक्ष्यमाणत्वात् । नन्वको सवर्ण इति सूत्रमस्तु मास्तु ऋत्यक इति पृथक् सूत्रमिति चेन्न । सवर्णार्थमनिगर्थ च तस्य पृथकरणात् होतृऋकारो ब्रह्मऋषिरित्यादावित्याहुः । पत्किामिति । अप्लुत इत्युक्तेऽपि प्लुत इत्यस्याध्याहारे विधायकमे- वास्तु सूत्र लाघवमप्यस्तीति प्रश्नः । सत्यामित्याह । प्लुत एव निपिध्येतेति । प्लुतस्य स्थानेऽप्लुनविधानेन विजातीयत्वविरोधेन प्लुतो निवर्ततेति भावः । एवञ्च सत्यन्यत्र दोषः स्यादित्याह । प्रगृह्याश्रयति । एतमग्नी इति वाक्यैकदेशमग्नी इत्यनुकृष्य दूरात इति प्लुते एकसंज्ञाधिकाराभावादीदूदेद्विवचनमिति प्रगृह्यत्वं प्लुनप्रगृह्या इति प्रकृतिभावे सति प्लुतस्यासिद्धत्वादीर्घत्वबुद्धि- वत्तद्गतं प्रगृह्यत्वं प्रकृतिवदनुकरणमिति वक्ष्यमाणातिदेशादनुकरणे (२८) फदिकाप्रकाशः। सुलभमनुकार्य त्वन्यथैवेति सिद्धान्ते प्लुतोऽपि श्रूयते अयं भावः। वतिप्रत्यय सादृश्यार्थकः । सादृश्यं च तदिन्नत्वे सति तद्गतभृयो- धर्मवत्त्वम् । यथा चन्द्रवन्मुखमित्यादी मुखचन्द्रयोभिन्नत्वे चन्द्र- गताहादकत्वं मुखे तथा प्लुतोऽप्लुतवदित्युक्ते तयोभिन्न- वेऽप्लुतगतं संध्यादिरूपकार्य प्लुतेऽतिदिश्यते न तु प्लुत- निवृत्तिः नियतेऽनिदेशाना स्वभावात् अत एवोक्तमप्लुतकार्य यणादिकं करोतीति मृले 1 पतिदेशाभावे विधायकत्वे स्वीकृते तु प्लुतस्य निवृत्तिः स्यादिति । अत्र भेदघटितसादृश्यं प्राचामनुरोधेन व्याख्यातं मतभेदेऽपि सादृश्यं भवतीति चिन्ता- मणी नागेशीये च निरूपितम् । न चानी इतीत्यादौ प्रगृह्या- श्रयप्रकृतिभावं वाधित्वा परत्वादप्लुतबद्भावे यणादिकं स्यादिति वाच्यम् । इति शब्दसापेक्षाप्लुतवद्दावापेक्षया वर्णमात्रापे- क्षप्रकृतिभावस्यान्तरगत्वात् । मात्किमिति । एवं सति गौरव- मिति प्रश्नः अमुकेनेति । अदसशब्दात्कृताक्चो जासे त्यदा द्यत्वे मुत्वेजसश्श्यादेशे आगुणः । असतीति । अयं मारः । ईदेदिति सूनादीदूतावानुवर्तते । एकदेशे स्वरितत्वप्रतिज्ञानात् तमोकारानुवृत्तिः शीपस्त्रीलिङ्गयोरमू आसाते इत्यन नपुंसकाच यौङ आप इति सूत्राभ्यामौकारस्य श्यादेश आद्गुणे एकारा- न्तत्वात्पूर्वसूण सिद्धेळां । तथापि पुंसि मकारात्परीकारा- न्तस्य संमवात्पूर्वेणाप्राप्ते सति सफला । अत एव मूले राम- कृष्णावित्युक्तम् । अदसो मादिति सूत्रं प्रति मुत्वं मीत्वं नामिद्धम् आरम्मसामान् एवञ्चादसो मात्परस्यैकारासंभवादेकारो ना- स्वरसंधिः ३। (२९) नुवर्तते तस्मादेकाराननुवृतितात्पर्यग्रहफलकमेवमाद्रहणम् । अर्थ- ग्रहणं किमिति । तदभावे ईदूदेद्दिवचनमितिवदीदृदन्ताया तप्त- मीत्यर्थापत्तावेकादेशस्य परादिवद्भावेन सप्तमीत्वाद्ययो आस इत्यादावेव स्यान्नतु गौरी अधिश्रित इत्यादी सप्तम्या लुकापहारात् अत्रापि सवर्णदीर्घ एकादेश इत्युक्तौ तु परत्वादाङ्गत्वादेकादेश बाधित्वा डेराम् आण नद्या इत्याट् च स्यादिति तु न वाच्यम् । ईदूतौ सप्तमी प्रगृह्यम् । अदसः एच द्विवचनमित्येवं सूत्रयितव्ये गौरवग्रस्तन्यासकरणेन तत्तत्प्रकरणापेक्षयाऽस्य वैजात्यवोधना- दूकारांशे त्वदुक्तार्थासंभवाद्यप्यादेरनभिधानाच्च । सञ्जाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति ज्ञापयिष्यमाणपरिभाषाया इहाप्रवृत्तिस्तदन्तग्रहणे सतीदंतं सप्तम्यंतं प्रगृह्यसंज्ञमित्यर्थ- संपत्ती सकललक्ष्यनिर्वाहेनार्थोऽर्थग्रहणेनति पर्यनुयोक्तुराशयः अत्र समाधत्ते । वृत्ताविति । कृत्तद्धितसमाससनाद्यंतधातुरूपाया- मित्यर्थः । अर्थान्तरेति । अवयवान्वितसमुदायापिसर्जन इत्यर्थः । उपसंक्रमश्च तदालिंगितस्यैव स्वार्थस्योपस्थितिः। तत्र समासवृत्तिमुदाहरति । वाप्यश्व इति । संज्ञायामिति समासः। सुप्सुपेति वा, अयं भावः वृत्तो तावदेकार्थीभावः स्वीकृतः । समर्थः पदविधिरिति सूत्रात् स च विशिष्टविषयकशक्त्यै- कोपस्थितिजनकत्वम् राजपुरुष इति वाक्ये पृथगानि पदानि राजपुरुष इति वृत्तावेकार्थानीति समर्थसूत्रभाष्यात् । अन्य एवावयवार्थान्वितः समुदायार्थः प्रादुर्भवति तदपेक्षका भाव इदि कैयटाच्च संसृष्टं समर्थमितिभाष्याच लभ्यते । एवञ्च वाप्यश्व (३०) फक्किाप्रकागः। इत्यादाववयवान्वितसमुदायेन वाप्यधिकरणकद्रव्यरूपोऽर्थ उचित इति अतिरिच्यमानेनार्थग्रहणेन तु सामर्थ्यादाधेयासंमृधाधा- ग्बोधस्वरूप समभिव्याहतपदान्तरार्थानन्वयित्वेनोपस्थिति- विषयत्वरूपं वा सप्तम्यर्थपर्यवसन्नत्वं वोध्यते । वाप्यश्व इत्य- जावयमश्वरूपं द्रव्यं तत्र संसृष्ट एवाधारः सप्तम्यर्थः । एकार्थी- भावस्योक्तत्वादिति न भवति प्रगृह्यसंज्ञा सोमो गौरी अधिश्रितः। इत्यटी सोमादिराधेयस्तनासंसृष्ट एवाधिकरणरूपः सप्तम्यर्थ इति सज्ञा भवति । ननु गौरीपदवोध्याधिकरणत्वस्याधिश्रय- णक्रियाया विशेषणतयान्वयः कारकाणा क्रियायामन्वयसिद्धा- न्तात्तत्कुतो नाधेयसंसष्ट आधार इति चेन्न । यस्यावयवार्थस्य समुदायार्थमन्तरा नोपस्थितिस्तस्यैवानोक्तलक्षणकोटिप्रविष्ट एका- थीभावविपयत्वात् । इह तुअवयवार्थस्य पार्थक्येनाप्युपस्थितिरिति दोपाभावात् तदुक्तमत्रैव भाष्ये, अर्थग्रहणे क्रियमाणे कस्मादेवात्र न भवति वाप्यामश्वो वाप्यश्व इति जहत्स्वार्था वृत्तिरिति । अथा- जहत्स्वार्थाया दोष एव, अजहत्स्वार्थायामाप न दोपः । समुदा- यार्थोऽभिधीयत इति अत्र क्यटः । अस्त्येवान सप्तम्यर्थ इति प्रश्नाभिप्रायः । जहत्स्वाति । समासस्यैवार्थवत्त्वात्पूर्वोत्तरपदयो- वर्णवदानर्थयात्सप्तम्यर्थीऽत्र नास्तीत्यर्थः । समुदायार्थ इति । वृत्ती हि पूर्वपदं स्वार्थमभिधत्ते प्रधानार्थमपीति स्वार्थसंसृष्टस्य प्रधानार्थस्याभिधानात्पाशूदकवत्स्वार्थस्य विवेकानवगमात्समुदा- यार्थी वृत्ती संसृष्टरूप एवाभिधीयते सप्तम्यर्थग्रहणेन यावत्स्वार्य व्यंजनसंधिः। (३१) तिस्तस्यैव ग्रहणामति समासेन भवति प्रगृह्यसंज्ञोत व्याख्यानात् । तत्र वर्णवदानर्थक्यादिति केयटस्य सञ्ज्ञायामिति समासे रूढि शब्दावयवार्थाप्रतीरित्यर्थः । अन्यथा सर्वसमासे पूर्वोत्तरपदयोरा- नर्थक्येऽवयवान्वितेत्यायुक्तकैयटेन पूर्वापरविरोधः स्यात् अत्राहुः जहत्स्वार्थापदेनका भावः पदे वर्णवद्वृत्तिपदानामानर्थस्यमिति तदर्थः । अजहत्स्वार्थापदेन व्यपेक्षेति भूपणकृत्प्रभृतयः । तन्न । एकार्थीमावमुपक्रम्य जहत्स्वार्थाऽजहत्स्वार्था चेति समर्थसूत्रभाष्योक्ते रेका भावे एव पक्षद्वयलाभात् तत्रोपसर्जनपदस्यार्थत्यागो न वेति भाष्याशयः । जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनीति वृद्धोक्तेश्र सर्वथार्थत्यागे पूर्वोक्तकैयटविरोधाच महावाहुरित्यादी महतोऽनर्थ- कत्वादान्महत इत्यात्वानापत्तेश्च तस्माद्वृत्तावयवान्वितसमुदा- यार्थ इति सिद्धमधिकं संवादचिन्तामणावबसेयम् ॥ इति स्वरसंधिः ॥ ३ ॥ अथ व्यंजनसांधः।। टोः किमिति । अस्ति तावत्परिभाषा एकयोगनिर्दिष्टानां सह वा मवृत्तिः सह वा निवृत्तिरिति तत्र वाशन्द एवकारार्थ परस्परान्वित- पदार्थकपदानां सहैव प्रवृत्तिनिवृती इति तदर्थः । एवञ्चतत्मारवर्ति ष्टुना टुरित्यस्मात्ष्टुनेत्यनुवर्त्य पदान्तादिति सामानाधिकरण्येन पञ्चमी कल्प्यते ततश्च पदान्तात्वकारटवास्तोः टुर्न स्यादित्यर्थ संपत्तेः सर्पिष्टममित्यादी ष्टुन्यप्रतिधप्राप्तावपि ह्रस्वात्तादो तद्धिते इत्यनेन जातस्य पस्य झलाञ्जशान्त इति जश्त्वस्यैव विधानान्न (३२) पहिलाप्रमशः। काप्यनुपपत्तिरिति प्रश्नः । उत्तरयति । सर्पिष्टममिति । जश्त्वम्मति पत्वस्यासिद्धत्वात् जश्त्वाप्रवृत्तेरक्तरीत्या ष्टुत्वनिषेधापत्ती रूपा. सिद्धेः । यदि तु एकयोगनिर्दिष्टानामेक्देशो यमनुवर्तत इति परि- भापान्तरम् । एकदेशे स्वरितत्वप्रतिज्ञापललधमिदम् । एकनायें योगः सम्बन्धस्तेन निर्दिष्टयोः समुदायाभिधायिविनिर्दिष्टयोरिति तदर्थ इति पक्षात्तिरिति सन पञ्चमे कचटः अत एवालुगुत्तरपटे इत्येश्योगनिर्दिष्पत्वेऽपि अलुगधिकारः प्रागानट: उत्तर पदाधि- कारस्तु मागदाधिकारादिति सद्गच्छते । विश्वदामहायनान्ताचेत्यन संरयादेरित्यनुवर्तते अव्ययादेगिति निवृत्तमित्युपपद्यते । स्पष्टश्चेद दामहायनेति सूने चतुर्य भाष्ये । एवञ्च टुनेत्येकदेगस्य टोरेवानुवृत्तिः । किञ्च हुनेत्यसमस्तमेर ततोऽपि टोरेवानुवृत्तिः तस्मात्पदान्तावर्गादित्येवार्थ सम्पतेः मर्पिटममित्यादी दोपामार इत्युच्यते । तदा टोHदणमदृष्टार्थफ्लकमेकेत्याहुः । स्थानप्रयत्रा- भ्यामिति । अय भावः । स्थानेऽन्तरतम उरणपर इति संहितया सूरमतानुरान्ते सप्तम्पन्न प्रयमान्तो वेति विचारः । तत्रायपक्षे पष्टीत्यनुवर्तने । जन्तरतमो य आदेशस्य स्थानी तब पष्ठी उपसहर्नया पर पी नवादेश इति सूत्रार्थन प्रतिनियम्रते तया च वान्नो जीवनच इत्युनुसन्यापि आदेशम्प वान्तरम्पान्तर तमस्थानिनि यो बाम्पे पी उपराहतेनि तनवादयान तु मपूर्ण- स्वच । अन्त्यपरंतु जादयोऽन्नरतमो मानीति सत्राथनादेशो नियम्यते इत्यादेगनियमपसे गपूर्णम्यचा या-वापत्तिदोपारसप्त- म्यन्तपाठ एव युक्त । प्रहनेऽप्यनुनासिकम्पादेशस्पान्तरतमे व्यंजनसंधिः । (३३) स्थानिनि सति षष्ठ्या उपसंहारा फस्यानुनासिकणकारप्राप्तिरिति तां मत्वा वारयति, रेफेन प्रवर्तत इति । जातिपक्षे लक्ष्यत्वजा- तेरैक्याचारितार्थ्याद्विधेरिति . भावः । व्यक्तिपक्षे तु लक्ष्यभेदो लक्षणभेदादस्यां व्यक्ती लक्षणस्याचारितार्थ्याद्रफेऽपि प्रवृत्तिर्दुवा- खोत लक्ष्यानुरोधाज्जातिपक्ष एवाश्रितः । व्यक्तिपक्षेऽपि तादृश- व्यक्तौ चरितार्थस्यैतव्यक्तिविषयतयापप्लव एव नेति दोपाभाव इत्याहुः । इत्थं सप्तम्यन्तच्छेदपक्षे प्राप्तौ समाधानं परन्तु स पक्षो भाष्ये दूषित एव । तद्यथा । इको यणचीति यण ह्रस्वानामेव स्यादत्र पक्षे न तु दीर्घाणाम् । आदेशस्याईमात्रिकस्य यणोंऽतर- तमः स्थानी सन्निकृष्टत्वान्मात्रिको ह्रस्व एवेति तत्रैव पष्ठ्या उपसंहारात् वान्तो यीत्यत्रोक्तो दोषो वान्तग्रहणदूषणेनैवोद्धृतः । दूषणप्रकारश्चोक्तः प्राङ् न विस्मर्तव्यः । तस्मादनुस्वारस्योत सूत्रात्स- वर्णग्रहणमपकृष्य परस्सवर्णोऽनुनासिको भवतीति सूत्रार्थो रचनीयः। एवञ्च यरन्तर्गतरेफस्य सवर्णाभावान्न प्रकृतानुपपत्तिः तदुक्तं रेफेऽनुनासिकपरसवर्णत्वयोः प्रतिषेधो वक्तव्यो न वक्तव्यः रेफो- ष्मणां सवर्णा न सन्तीति हयवरट्सूत्रे भाष्ये । ननु सवर्णाभावेऽपि रफे एवानुनासिकोऽस्तु मैवम् उक्तसूत्रादिति दिक । दकारनिपा- तनादिति । तत्र प्रकृतिप्रत्ययसमुदायस्य पाठादिति मतेनति भावः । केचित्तु यचि भं तसौ मत्वर्थ इति संहितापाठे तकारा- त्पूर्वत्र दकारप्रश्लेपेण भत्वान्नानुनासिकः द्विवचनं तु दतयोस्समाहार- द्वंद्वोत्तरं. सकारेण सहेतरेतरयोगादिति न युक्तम् अल्पाच्तरत्वा- सस्न पूर्वनिपातापत्तेः । किंतु तसयोहोत्तरं दकारेणेतरेतरयो- (३४) फक्षिकामकाशः। गादिति । न चानुनासिकमवृत्ती झपन्तत्वाभावेन क्षष इति । वकाराभावागणे पाठानर्थक्यादेव समाधेयम् । अनुना- सिकविधेरसिद्धत्वेन झय्त्वानपायादित्याहुः । थस्यासिद्धत्वा- दिति । त्रिपाद्यां परत्वादित्याशयः । एतच्च पाणिन्यनुकान्तपाठ- रीत्या भाष्यकृत्संमते । अनुस्वारस्य ययि, वापदा, तोलि, उदः- स्या, झयो हो, गश्छोटीति पदव्युत्तरं झलां जश्, अभ्यासे चर्च, सरि च, वावसाने, अणोऽप्रगृह्यस्यति पाठे यस्यासिद्धत्वामावेन चत्वं भवत्येव । अत एव प्रकृनमुत्रे भाष्ये उदः पूर्वत्वे स्कन्देश्छन्दस्युप- मंख्यानम् । उत्कन्दा रोग इत्युक्तम् । ननूत्थानमित्यादी झलो झलीति मलापे चत्वं चोपपत्तिरितीदं सूत्रमेव निष्प्रयोजनमिति चेन्न सामादनेन झलादी प्रत्यये लोप इति तदर्थस्य ज्ञापनात् उद- स्थादित्यत्र तु निर्दिश्यमानपरिभाषया निर्दिश्यमानादेख म्या- निवत्त्वान्न दोप इत्याहुः । संस्कृतति । सम्परिभ्यामिति करोतेस्मुद्र ननु लोपपक्षे एव द्वित्वेन हिसकारस्य सिद्धत्वात् समस्सुटीति व्यर्थ- मत आह । त्रिसकारमपीति । स्कोरिति लोपस्तु न अम्यासिद्ध- त्वात् । ननु पुनर्दित्वे त्रिसकारमिद्धिर्मवम्, लक्ष्ये लक्षणस्य मकृदेव प्रवृत्तेः तेन समः मुटीति सने पति पाठेनैव पक्षे मोऽनुस्वारेण सिद्धे- 'रनुनासिकात्पर इति सूत्रं व्यर्थमित्युक्तिनिरस्ता । नन्वनुम्वारस्यान- ऋत्वात्कथं द्वित्वमत आह अनुस्वारस्येति । अयोगवाहानामट्युप- मंख्यानं शपु चोते हयवरदस्त्रे भाष्योक्तरिति भावः । अकागेप- गीत । इकाराद्युपरिपाठे तु पयस्मु इत्यादाविणः प इत्यादिपत्वा- देशपत्तिारीते भाष्याशयः । न चाचत्वे हरि म्मरेत् रामः पाठ हरिः व्यंजनसंधिः । (३५) करीतीत्यादौ यणादिप्रसङ्गः त्रिपादीत्वे विसर्गादीनामसिद्धत्वात् । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तेराह वचनान्तरेणेति । अंचो रहाभ्या- मिति यणो मय इत्यनेनेति भावः । अथोणादयोऽव्युत्पन्नानि 'व्युत्पन्नानि च प्रातिपदिकानीति तत्र तत्र भाष्योक्तेराह व्युत्पत्तिपक्ष इति । पूजोडुम्मुनिति व्युत्पादितस्य पुंसः संयोगान्तलोपे विशि- भागस्येदमनुकरणं पुम इति । पर्युदासादिति । इदुदुपधस्थति सूत्रेप्रत्ययस्येत्यस्य प्रत्ययावयवभिन्नस्येत्यादिति भावः । अव्यु- त्पत्तीति । तत्पक्षे प्रकृतिप्रत्ययविभागाभावादिति भावः । अयं चातः कृकमीति सिद्धे कंसग्रहणेन ज्ञाप्यत इति कैयटः । ननु कथमेतत्प- क्षोपपत्तिः शास्त्रव्युत्पादनाभावात्तत्प्रयोगाणामधर्मजनकत्वेन हेय- त्वात् तदुक्तं शास्त्रपूर्वके प्रयोगे धर्मोऽन्यदा त्वधर्म इति भाष्ये मैवम् । अबुधवोधनाय व्युत्पाद्यमाना अपि उणादयो व्युत्पत्तिनि- 'मित्तं कार्य न लभन्त इत्यादेशप्रत्यययोरित्यत्राष्टमे कैयटोक्तरीत्या- शयेन तथा व्यवहारात् रूढिशब्द इव तंत्राप्यवयवसाजात्येन व्यु- त्पादनात् अन्याचार्याभिप्रायेणतत्पक्षस्य भाष्योक्तावपि पाणिने- व्युत्पत्तिपक्षस्यैवायनेति सूत्रादौ भाष्ये सिद्धान्तितत्वाचेत्यप्यन्ये । पत्वप्राप्ताविति । एतच्चानुनासिकपक्षे ज्ञेयम् अनुस्वारविधानेनेदुदु- पधत्वाभावात् क पोरेव प्राप्तिः कुप्वोरित्यस्यापवादकत्वं तत्फलं चाह । येन नेति । येन नाप्राप्ती यो विधिरारभ्यते स तस्य वाधको भवतीति हि न्यायः येनति कतरि तृतीयाप्राप्तेरिति भावे क्तः नवयं प्रकृत्यर्थदार्चवोधकम् । तेन यत्ककावश्यमानावित्यर्थः तदप्राप्तियोग्यविषयेऽचारितार्थं बाधकत्व वीजम् तदुक्तं शपूर्वाः (३६) पकिकामकागः। खय इत्यत्र भाष्ये । शपूर्वी इत्येतद्वलादिः शेषस्य वाधकम् । कथं विषयभेद वाधकत्वम् इदं तावदयं प्रष्टव्यः यदि तन्नाच्येत किमिह स्यात् हलादिः शेषश्चेन्नाप्राप्ते तस्मिन्नारंभादिदं वाधक भावष्यतीति अपवादे वृत्रहन्शब्देनिरूपयिष्यमाणा बाध्यसामान्यचिंता बाध्यवि- शेपचिंता पक्षी तीच लक्ष्यानुरोधादयवस्थिती तर बाध्यविशेषाता- पक्षप्रवृत्त्याह न तु अपरे इत्यस्येति । ननु विसर्जनीयस्य सोऽशपर इत्येव सून्यताम् अशर्पर इति बहुव्रीहिणा पर्युदासेन च व्यव- हितादपि खरवसानयोरिति सूत्रात्वरीत्यनुवृत्तिः मुकरा वा शरीति सत्वविकल्पात् पक्षे विसर्गश्रुत्वा महितरूपनिद्धिः । कुत्वारित्यत्र शपर इत्यनुवृत्त्यापि दोपाभावः । एवञ्च वामः क्षाममित्यादी कुप्वोरित्यस्यवाप्रवृत्तिरिति चेन्न । एवं सति सूत्रे बिसगाभावे कृप्वीरित्यतद्विपये चकाराद्विसर्गलामानापनेः । ननु वा गरि कुप्पो- रित्यस्यवाप्रवृत्तिरिति कपी विसर्जनीय इत्यपि न्यासाऽस्तु- भवम् विपयविभागस्य दुर्विज्ञेयत्वापत्तेः बहुलाघवाभावात्प्रतिपत्तिा- खान । ननु गर्पर इत्येतदिहितविसर्गस्य क पा दुर्निवारी । विश्व पतदिसर्गस्यैव तो स्याताम् । सरखसानयोरिति जातस्य त्वेतयार- सिदित्वात् सत्वमेव स्यादवञ्च वासः सौममित्यादावसंगतिरिति चन्न । पिरे विसर्जनीय इति सूत्रं कुप्योरित्यत्रानुवर्त्य गर्परयोः कुप्वाः क पयारपवादो विसर्गस्य विसगा भवतीति पृथक वाक्याथन व्याख्याने दोपाभावादिति भाप्यं स्पष्टम् । जम्त्वेन द इति । स्वशब्दे उपपदे छो छदन इत्यस्मात्प्रत्ययेऽन्तर्वति- विभत्तया स्वगन्दस्य पदत्वादाधन्ती रकितापिति तुकोऽपि तदव- विसर्गसन्धिः । (३७) वत्वेन पदांतत्वाञ्झलाञ्जश इति प्रवृत्तरिति भावः । ननु दीर्घा- दिति पंचमी श्रवणाच्छे इति सप्तमीश्रुत्या पंचम्या षष्ठीप्रकल्प- नेन छन्च तुकि छकारी परिप्रकृतिचकारभंवणापत्तेरित्याशये- नाह । दीर्घस्यायमिति ज्ञापकाळ्याख्यानाद्वा दीर्घादिति पष्ठ्यर्थ पञ्चमीति भावः । इदमेओस्त्रे माप्येऽपि वनितम् । चेच्छि- द्यते इति । छ चेति सूत्रेकार उज्ञारणार्थो न तु विवक्षित इत्या- शयः । नन्वत्र तुको हलादिशेषोऽस्तु सैवम् । अभ्याससंज्ञाप्रवृ- त्तिकाले स्थानिद्वारा साक्षादा सन्निहितानां हलामेव तेन निवृत्ति- करणात । अत एव नुगतोऽनुनासिकस्येत्यादि चरितार्थम् ॥ इति हल्सन्धिः । अथ विसर्गसन्धिः ।
(३८) फक्किाप्रकाशः। मातुः' कार्यमित्यादावपि दोपाभावाद्भाष्ये मूले च ज्ञापनं तत्फलं चासंगतमिति तु न वाच्यम् । यत्र प्रत्यत्वाभावात् । तद्यथा माट- शब्दान्टसस्त उदित्युत्वं रपरत्वे रात्सस्यति लोपे रेफस्य विसर्ग तत्र सकारसन्निधावकारे नास्ति प्रत्ययत्वम् । प्रत्ययसंज्ञायां समुदायनिवेशिनीत्वादिति तदादेशस्योरः प्रत्ययत्वाभावेन विसर्गस्य प्रत्ययसम्बधित्वाभावः यस्तु उत्वे कृतेऽविशिष्टस्सकारः प्रत्यय- संज्ञकः स लुप्त एवेति कैयटः । न चान्तादिवचेत्यस्य पूर्वपरस्य समुदायस्यान्तादिभ्या वर्णाभ्या पृथगवस्थिताभ्या ये व्यवहाराः मत्ययत्वादयस्ते एकादेशविशिष्टस्यापीत्यादुरसित्यत्र प्रत्ययत्वस्य सुलभत्वादेकदेशविकृतमनन्यवदिति न्यायेनोर इत्यस्य प्रत्ययतया न दोप इति वाच्यम् । त्रिपाद्या असिद्धत्वेन तत्रान्तादिववेत्य- स्याप्रवृत्तेः । स्थानिवद्भावेनापि न प्रत्ययत्वम् । उपात्तस्थानिनोऽ- कारस्य प्रत्ययत्वाभावात् । प्रत्ययसम्बन्धित्वमपि न स्थानिवद्भा- वलभ्यम् । अशास्त्रीयत्वादिति दिक । एतदुक्तं मातुः क्रोति । अप्रत्ययस्योत पत्वं प्रसज्येत अप्रत्ययविसर्जनीयस्येत्युच्यते प्रत्ययविसर्जनीयश्चायम् । लुप्यतेऽत्र प्रत्ययो रात्सस्येति प्रकृ- तोरणपरसूत्रयोर्भाष्ये । एवञ्चार प्रत्ययभिन्नविसर्जनीयत्वात्पत्वं स्यादिति सकलमभिसंवायाह । एकादेशेति । तदुक्तम् एवं तर्हि भ्रातुष्पुत्रग्रहणं ज्ञापक्मेकादेशानिमित्तात्पत्वप्रतिपेधस्य, कर्य कृत्वा ज्ञापकं यदयं क्स्कादिषु भ्रातुष्पुत्रगन्दं पठति तज्ज्ञा- पयत्याचार्य एकादशनिमित्तात्पत्वं न भवतीति तंत्र भाष्ये । ऋत उदित्येकादेगविधायकं गावं तन्निर्यमत्तं प्रयोजकं यस्य - विसर्गसन्धिः ।। (३९) विसर्गस्येत्यर्थः विसर्गस्यैकादेशशास्त्रनिमित्तकं तु एकादेशशास्त्र- संपन्नरेफस्थानिकत्वाद्रोद्रव्यम् । पाठादिति । न च पत्वतुकोरसिद्ध इति सूत्रेणैकादेशशास्त्रस्यासिद्धत्वात्पत्वाप्राप्तौ तत्र पाठो विध्यर्थ एवास्तु कथं ज्ञापनायेति वाच्यम् । पत्वे तु किं च कर्तव्ये पदा- न्तपदायोखेकादेशोऽसिद्ध इति भाष्यसंमतार्थन कोसिचदित्या- दावेकादेशस्यासिद्धत्वादिति कैयटादयः ननूक्तज्ञापकान्मातुः कृपे- त्यादाविव शकान् हूयन्तीत्यत्रादेच उपदेश इत्यात्वे क्विपि संप्र- सारणे संप्रसरणाचेत्येकादेशे हल इति दीर्घ शकहूष्वित्यत्रापि पत्वं न स्यादिति चेन्मैवम् तुल्यजातीयकत्वात् कश्च तुल्यजातीयः कुप्वोर्गिति दिक् । हयवरट्सूत्रे भाष्ये तूपधाग्रहणं न करिष्यते इदुग्यां तु परं विसर्जनीयं विशेषयिष्याम इति प्रत्याख्यातं सूत्र- स्थमुपधाग्रहणमित्यन्यदेतत् । यद्यपि द्वित्रिभ्यां सुजन्ताभ्यां चतुश्शब्दस्यापि सुजन्तत्वे लब्धे कृत्वोर्थग्रहणं साहचर्य न व्यवस्थापकं सर्वत्रेत्यर्थज्ञापनार्थम् । तेन दीधीवेवीटामित्यत्रागमस्येटो ग्रहणं न तु धातोरिति ज्ञापनफलं दर्शितं तथापि प्रकृते किमिति पृच्छति । कृत्वोर्थे किमिति नन्वस्त्वेवं कृत्वोर्थ इत्यनेनैव कृत्वोथ वर्तमानस्येदुदुपधस्य पदस्य यो विसर्गस्तस्य पत्वं वेति सूत्रार्थ दशकृत्वः करोतीत्यादी नातिव्याप्तिर्न वा चतुष्करोतीत्यादा- वव्याप्तिरिति द्विस्त्रिश्चतुरिति न कर्त्तव्यमिति चेन्न । कृत्वोथ इत्यस्येदुदुपधस्यति सूत्रं प्रत्यसिद्धेश्चतुश्शब्दे नित्यपत्वापत्तेः । ननु प्रकरणे प्रकरणमसिद्धं न तु योगे योगः । तदुक्तमुपसर्गादस- मासेऽपि णोपदेशस्येत्यत्राष्टमे भाष्ये । समासे पूर्वपदादिनियमान्न (४०) फरिकामकागः । प्रामोति । असिद्धमुपसगाण्णत्वं तस्यासिद्धत्वानियमो न मवि- ष्यति एवं तर्हि सिद्धे सति यदममामग्रहण करोति तज्ज्ञापयत्या- चार्यः न योगो चोगे सिद्धः किं तार्ह प्रकरणे प्रकरणमसिद्धमिति । एवं च तदहणं व्यर्थमेवोत चेन्न । रसास्वामित्यत्र समानपदं समानमेव यनित्यं पदं तदाश्रीयते इति समासेनास्य प्रवृत्ति- रिति पूर्वपदात्संज्ञायामग इत्यस्य विध्यर्थत्वेन समासग्रहणस्य ज्ञापकत्वानुपपत्तिरिति कैयटेन तत्पक्षस्य दूपितत्वात्पूर्वत्रासिद्ध- मित्यत्र पूर्वपदेन प्रकरणग्रहणे व्यवहितप्रकरण एव त्रिपाद्या असिद्धत्वं स्यादिति दोपादस्याधिकारत्वे प्रतियोगमुपस्थित्या प्रतिसूत्रमासिद्धत्वस्य दुरित्वाच । ननु मुच इत्येवास्तु सूत्रम् पदस्थेत्याधिकारात् सुजन्तपदावयवविसर्गस्येत्यर्थसंभवेन द्विक रोतीत्यादर्निष्पत्यृहत्वात् । न च परमहिष्करोतीत्यादा पत्वा- नापत्तिः । प्रत्ययग्रहणपरिभाषया ज्ञापयिष्यमाणयाऽवयवस्य सुजन्तत्वेऽपि उत्तरपदत्वे चापदादिविधाविति निषेधेनापदत्वादिति वाच्यम् । अनुत्तरपदस्थस्यति निषेधेन वंचिदुपातविशेष्यासत्त्वेऽपि शब्दरूपविशेष्यमादाय तदन्तविधिरिति ज्ञापनेन शब्दरूपविशेष्य- मादाय प्रत्ययग्रहणपरिमापया लन्धतदन्तार्थस्य पदविशेषणतया सुजन्तान्तस्येत्वयनादोपात् । एवमेव वनोग्चेत्यादेरर्य इति दिक् । तस्मात्सुच इत्येव सूत्रयितुमुचितामति माहुः । चतुष्कपाल इति । चतुर्यु कपालेपु संस्कृत इत्यर्थ मस्कृतंभक्षा इत्यनेन जातस्याणो द्विगो गनपत्य इति लुरु । चतुश्गन्दस्पाव्यु स्पन्नत्वादिदुदुपपस्योति नित्यं पः । अत एव चतुष्पान्यो विमर्गन्धिः । (४१) डजित्यादिनिर्देशसंगतिः । न च हयदरतत्रभाष्ये इदुदुपधस्य सस्य यो विसर्ग इति मूत्रार्थकयनेन कथसत्र प्रवृत्तिः । विसर्गस्य पाठाभावेनोपधात्वासंभवात्तत्स्थानिनिमिनमुपधात्वं ग्राह्यामिति भाष्यकर्तुराशयात् । भन एवाष्टमे समस्नुटीतिसूत्रे सुपुंकाना- मिति वार्तिकेन विधानसेवास्त्वित्याशंक्य नई शंक्यं पुंस्कामे- त्यत्रेदुदुपधस्यति पत्वं प्रामोतीत्युक्तं संगच्छते । नन्विह साम-- र्थ्यपदस्थैका भावप्रसरत्वात्तदेव युक्तं नया च सर्पिष्करोती- त्यादी प्रवृत्तेरभावान्सूत्राप्रवृत्ताविपधस्येति नित्यपत्वप्राप्ति- रत आह । इह व्यपेक्षेति । इहैवेत्यर्थः । अत एवोत्तरसूत्रे भाष्ये पूर्वयोगे अपेक्षासामयम् । न चात्र व्यपेभासामथ्यमित्युक्तम् । अयं भावः । इहका भावसामर्थ्यग्रहणे परमसर्पिः कुण्डिके- त्यादावेका भावरूपसमासेऽप्येतत्प्रवृत्त्या विकल्पापतिः । उत्त- रसूत्रान्तःकोटयनुत्तरपदस्थेत्यनया नित्यं नमास इति कोटे- व्युदामादिति । सामर्थ्य किमिनि । नन्वतदभावे प्रतियोगित्वे- नेकार्थाभावपर्यवसाने तत्र चोक्तदोपसन्दापात्प्रश्नानपपत्तिः । न (४२) फाधिकाप्रकाशः। नायं किंशब्दोऽत्र पृच्छायांक ताहे जिज्ञासायां व्यपेक्षापदेन की- दृशोऽर्थो विवक्षित इति तात्पर्यम् । प्रत्युदाहरणमुखेन ज्ञाप- यति । तिष्ठतु मारिति । तनपरस्पराकांक्षारूपोऽर्थ इति नात्र प्रवृत्तिरिति भावः। विभक्तेः क्रियामन्तगनुत्पादादेकक्रियान्वये- न्यत्रापेक्षाभावादित्यर्थः । वैपरीत्येनान्वये विष्टमेवेति वोध्यमिति दिक् । अनुत्तरपदस्थस्येति विमिति । इतिशब्दोऽप्ययें समाप्त्यर्थे वा इति शब्दापाठे तु अवयवद्वारा समुदायस्य संग्रहः । उभयत्रापि सत्रे किमर्थमिति प्रश्नः । माष्ये तु वसिष्टसूनदेयादेराशहनात् तद्यया । किमर्थं तींदमुच्यते । प्रतिपेधार्थस्तु यत्नाऽयमनुत्तरपद- स्थस्योत इदं व्याचष्ट कैयरः । इससोस्सामर्थ्य इत्यत्र व्यपे- क्षालक्षणसामर्थ्यग्रहणात् । समासे इदुदुपधस्येति नित्यं पत्वं सिद्धं तत्किमर्थमिदं सूत्रमिति प्रश्नाशयः । उत्तरपदस्थस्य समासे पत्वनिवृत्यर्थ सूत्रमित्यर्थ इति तदेव समाधत्ते। पर- मसपिरिति । नित्यग्रहणन्तु न कर्त्तव्यं समासे इदुदुपधस्येति नित्यं पत्वसिद्धरिति कैयटः । नित्यं ममास इत्यनेन निधाप- त्यर्थ्यमाशंक्याह । कस्कादिविति । ननु तत्र पाठमामा- दुत्तरपदस्थस्यापि पत्वमस्तु कथमन्यातेति चेन्न । अनुत्तरपद्- स्थस्येति ग्रहणस्य तज्ज्ञापनमाप्यस्य चासंगत्यापत्तेः । असमासे व्यपेक्षाविरहेऽपीति । तिष्ठतु सपिप्कुंटिकामानयेत्यादी नित्य- समासे इससोरित्यनयोरप्रवृत्तेः पत्वं न स्यादिति भावः । व्यपे. क्षायामिति । संदरं सर्पिष्कुण्डिकाया इत्यादी इससोरिति विक- ल्पापत्तिारीत भावः ॥ इति विसर्गमान्धः। -- । (४३३ .. स्वादिसांधः। अथ स्वादिसंधिः । ननु यत्वस्यासिद्धत्वादुत्वे कृतेऽपि तस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यार्दत्यत आह । यत्तस्यापवाद इति । ननु पूर्वत्रासिद्धत्वेनोत्वे कर्तव्ये रुत्वमसिद्धमत आह । न भवतीति । आश्रयासिद्धरित्याह । सामर्थ्यादिति । ननु रोः सुपीत्यस्यानन्तरम् अत उरतीत्येवास्तु, सूत्रं मैवम् । उत्वस्यासिद्धत्वेनाद्गुणप्रवृत्त्यनापत्तरित्याहुः । अशि किमिति । असति रिक्त यादेशेऽपि भो भगो खरवसानयोरुभयो- खिपादीस्थत्वेऽपि पूर्वम्प्रति परस्यासिद्धत्वादिसर्गविधि प्रति यत्व- विधेरसिद्धत्वाद्विसर्गस्यैव लाभान्न कुत्राप्यनिष्टमापद्येतति नार्थोऽश्- ग्रहणेनेति पर्यन्योक्तुराशयः । सत्यमिति तदाशयमनूय समा- धत्ते । यद्यपीत्यादिना । स्थानिवद्भावेनति न चातिदेशं प्रति वि- सर्गविधरसिद्धत्वं शंक्यम् । नमुने इत्यत्र नेतियोगविभागेन प्रत्ययः परश्चेति निर्देशश्च क्वचित्रिपादी पूर्व प्रति नासिद्धेति ज्ञापनात् । ननु रोरुकारस्यानुबंधत्वाद्रेफमात्रं विसर्गस्य स्थानी- त्यल्विधित्वेन स्थानिवद्भावो न स्यादित्यत आह । न ह्ययम- विधिरिति । व्याख्यानात्समुदायस्योकारविशिष्टरेफस्य स्वीकारादि- ति भावः । यथाऽग्रहइमईइति स्थिते ग्रहो लिटि दीर्घ इत्यनेना- कारस्य दीर्घ तस्य स्थानिवद्भावेनेटमाश्रित्येट ईटीति सिज्लोपः क्रियते । तदुक्तं माप्ये विशिष्टो होपोऽनलमाश्रयते इटन्नामेति तस्मादत्र स्थानिवद्भावेन रुत्वाद्यत्वं स्यादित्यग्रणं स्थितम् । ननु ग्रहो लिटीत्यत्र दीर्वस्व स्थानिवत्त्वेनेट एव निदशो न त्वच इट इति श्रुत्याचश्चेत्यस्याप्रवृत्तेः अनियमे नियमकारिणी परि- (४४) फकिकामकागः । भाषेति न्यायादिति कैयटः । ईट इटीत्यत्रापीटत्वेनैव निवेश इति बाढमनलाश्रयणं तत्र भाष्यकर्तुः । इह नु विसर्ग रेफस्वैव स्थानिवत्वेन वैषम्यान्न मवचनं दृष्टान्ततामभिनति । अनल्विधा- वित्यस्य च स्थान्यल्वृत्तिधर्माश्रये स्थान्यलसम्बन्धात्वृत्तिवर्माश्रये च स्थानियदायो न भवनीति भाष्यसम्मत्तार्थः । प्रकृते च स्थान्य- रेफवृत्तिरुत्वं स्थानिवद्भावेन दुर्लभमल विधित्वात् । तस्मायंत्र विसर्गस्य स्थानी समुदितो रुस्सम्भवति तासमुदाहार्यम् यथा य- शःसु पयःसु इत्यादौ । इह रोः सुपीत्यनेन रोम्समुदायस्य विस- विधानेन रुवृत्तिरुत्वस्याल्लिधित्वाभावन स्थानिवत्त्वालामेन यत्वं स्थादित्यग्रहणमिति चेत्सत्यम् । गेस्सुपीत्यत्रापि रोरीत्यतो रेफस्यानुवर्तनातफस्यैव विसर्गविधानेनाल्लिधित्वादुक्तोदाहरणे सम- त्वात् । न तृत्तरार्थम् । तदुक्तं भो भगो इत्यत्राष्टमे भाष्ये उत्तरा- थन्तर्हि अश्ग्रहणं कर्त्तव्यम् । हाल सर्वेपां हल्यशीति यथा स्यात् इह मा भूत् वृक्षवयतेरप्रत्ययः वृक्षव्करोतीति चेन्न। न पदान्ता हलोडणः सन्तीति लणसूत्रभाष्येण सह विरोधात् । किंच वृक्ष- व्हसतीत्यत्रापि हलि सर्वेषामिति लोपे प्राप्ते ईदृशप्रयोगस्यानमि- धानस्यैव शरणीकरणीयत्वेन सर्वत्रेदशानामनभिवानमेव युज्यते वक्तुम् । किंच हाल सर्वेषामित्यत्र वकाराननुवृत्यापि गतार्थयितुं शक्यते। व्याख्यातं च भाष्यं कैयटेन । अवाश्ग्रहणानुरोधेन चैत- दाष्यकारणोदाहतं लणसूत्रे तुन पदान्ता हलोऽणस्सन्तीत्युक्तमिति अनः एव भगवद्रुिदासीनरुत्तरार्थ तीत्युक्तम् । तस्मादग्रहणम- दृष्टार्थ मूलं तु यथाश्रुतमेव । पदे किमिति । गौरवात्प्रश्नः। तन्त्रयुता- स्वादिसंधिः। (४५) मिति तन्त्र उक्तम् । एकारस्यावादशः । उत्तरामिति । तदुक्त- मत्र भाष्य पद इति शक्यमवक्तुं कस्मान्न भवति तन्त्रयुतम् । लक्षणप्रतिपदाक्तयारिति । उत्तरार्थ तहि डमो ह्रस्वादचि डमुणनि- त्यमित्यादेमाभूदृण्डिनेति । भुवश्च महाव्याहतेरिति सूत्रे महा- न्याहतिग्रहणेनोक्तपरिभाषा नित्या । यदि त्विति वदतो मूलकृतोऽ- प्ययमेव स्वरसस्तेन पदग्रहणमिहार्थमपीति कश्चित् । अजादेः पदस्य डमुण्नति भाष्याक्षरार्थः । ह्रस्वात्परो या डम् तदन्तं यत्पदमित्यादिकं तत्मत्रार्थ तु परमदण्डिनावित्यादावन्तर्वति- विभक्त्या पदत्वान्नुटू स्यात् । ननृत्तग्पदत्वे चेति निषेध इति चेन्न अपदादाविति पर्युदासेन पदान्तत्वनिमित्तके विधौ प्रत्ययलक्षणं नोति न लुमनेत्यत्र भाष्यसंमतार्थनेहाप्रवृत्तेः । किंच यत्रोत्तरपदस्य कार्यित्वं तत्रैव तत्प्रवृत्तिः । अत एव मापकुम्भवापेनेत्यादी पद- व्यवायेंऽपीति प्रतिपेधसिद्धिरित्यधिक नागेशीये दर्शयिष्यते चेदं हलन्तनपुंसके। तस्मान्मण्डूकप्लुत्योत्तरार्थ पदग्रहणमिति स्थितम् । अणः किमिति । दीर्घश्रुत्यायश्चेति परिभाषया च एव दीघा भवि- व्यतीति प्रष्टुर्भावः । वृढो घृढ इनि । ऊदित्त्वेन वेट्कत्वाद्यस्य विभाति नेटूठत्वधत्वष्टुत्वठलोपाः । ऋकारो नाणन्तर्गत इति दीर्घो नेति भावः। अणग्रहणसामदेिवात्राण पूर्वणान्यथोक्तरी त्यैव सिद्धः । अत्राण पूर्वणैव व्याख्यानादिनि तु न युक्तम् । व्याख्यानस्यागतिकगतित्वादित्याहुः । ननु पूर्वस्येति न कार्य सप्तमीश्रुत्येव तस्मिन्निति परिभाषोपस्थानादत आह । पूर्वग्रहण- अस्य सूत्रस्योत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरे मिति ३ (४६) फविकासकाशः। -ढरेफेयोः परतो दीर्घविधानं स्यादिति भावः । एवं चेदित्याह यजर्घा इति । गृधेर्य इलुकि ठत्वेऽभ्यासस्य रुगागमे लडः सिपि शब्लुकि लपधगुणे रपरत्वे इतश्चेतीकारलोपे हल्डयादिलोपे भष्मावे जग्त्वे दश्चेति रुत्वे अजबरर इति स्थिते रोरीति रेफलोपेऽ- नेन दीर्घ इति दिछ । मनमुरथ इत्यादि । हशि चेति देवो हसती- त्यादी सावकाशम् । रोरीति पुना रमत इत्यादौ लब्धावसरम् । उत्वमेवति । सिदासिद्धयोरतुल्यबलत्वेन विप्रतिपेधसूनाप्रवृती निष्प्रतिपक्षत्वादुत्वमेव भवतीत्यर्थः । तदुक्तम् । पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्येति । अकोः किमिति । अकच्- सहितयोश्शब्दान्तरत्वादेव तर नाऽतिप्रसंगः इति प्रश्नः । एपक इति । अकोरिति निषेध एव तन्मध्यपतितस्तदर्णन गृह्यते इति परिमापा ज्ञापयतीति समाधानम् । अनसमास इति किमिति । नमोऽभावार्थकत्वेनाभावे प्रतियोगिनो विशेषणत्वात्पूर्वपदार्थप्रधा- नेनोपसर्जनत्वात्यदादीनाम इत्यस्याप्रवृत्ती हलट्यादिलोप एवं भविष्यतीति शंकितुगशयः । तर पूर्वपदार्थप्रधानत्वेऽतीस्त इत्यन द्विवचनादि अत्वं भवतीत्यादौ पुरुषव्यवस्थादि च न सिध्येदित्याशयेन ममाधत्ते । अस इति । एतदहणमुत्तरपदार्थ- प्रधानता नसमासे ज्ञापयतीति भावः । अत एवात्तरपदार्थ- प्रधानम्तत्पुम्प इति प्रवादोऽपि सम्पद्यत इनि दिक ।। इति स्वादिसंधिः । इति पञ्चमभिः ।
षडालंगप्रकरणम् । (४७) अथ षडलिंगम्। अथ पाचक औपगव इत्यादी प्रत्ययान्तत्वेन प्रातिपदिकसंज्ञा- पर्युदासात्कृत्तद्धितयोग्रहणमावश्यकं समासे स्वरसन्ध्युक्तरीत्या समुदायस्यार्थवत्त्वादर्थवत्सूत्रेणैव सिद्धेळथै तद्हणमत आह । नियमामिति । ननु राजपुरुप इत्यादावपि प्रत्ययान्तत्वेन निपेधाविध्यर्थमेवास्तु कथमेतदिति चेन्न । प्रत्ययग्रहणे यस्मादिति परिभाषया स्त्रीप्रत्यये ज्ञापयिष्यमाणया वारणात् । तद्यथा । कृते समासे सुपो धातुप्रातिपदिकयोरिति सुपो लुगर्थमपेक्षिता प्राति- पदिकसंज्ञा तत्र च पुरुषशब्दस्य प्रत्ययान्तत्वेऽपि राजपुरुष इति समुदायस्योक्तपरिभापया प्रत्ययान्तत्वाभावात् । ननु राजकुमारी- त्यादी स्त्रीप्रत्यये चानुपसर्जनेनेति वाचनिक्याष्यङः संप्रसारण- मिति सूत्रे भाष्योक्तपरिभाषाया अप्राप्तेर्दोष इति चेन्न, अन्तरङ्गानपि विधीन्वहिरङ्गो लुग्बाधत इति हलन्तपुंल्लिङ्गे ज्ञापयिष्यमाणया पार- भापायान्तरङ्गहल्ङ्यादिलोपस्याप्रवृत्तेः श्रूयमाण एव सुपि समासेन तत्र चाप्रत्ययान्तत्वेन प्रवृत्तायाः प्रातिपदिकसंज्ञाया एकदेशविकृत मनन्यवदिति परिभापया निरशब्दे वक्तव्यया विभक्तिलुक्यपि सुलभत्वात् । ननु चार्थवत्त्वं शक्तिलक्षणाव्यञ्जनान्यतमसम्बन्धेनार्थ- बोधकत्वमिति स्वीकाराच्छशशृङ्गामित्यादौ तदभावात्समा सग्रहणं विध्यर्थमिति चेन्मैवम् । तत्रापि बौद्धशक्तिस्वीकारस्यान्यत्र प्रपञ्चित- त्वात्। ननु वृत्तिमत्प्रातिपदिकमित्येवास्तु सूत्रमिति चेन्न भापाशब्दा- नामप्यवश्यं शक्तिस्वीकारेण तत्रापि संज्ञया साधुतापत्तेस्तिकादावाप (४८) फक्किामकामः। दोपापत्तेश्च । न च वृद्धादिवृत्त्यभिप्रायेण तादृशं सूत्रमास्तामिति चेत् अव्युत्पन्ने डित्थादावव्यानेः । मनाद्यन्ते क्षुद्रोपावाञ्चति दिक। ननु भाष्यकृदाभिहितप्रत्याहारादति प्रातिपदिकमिति न्यामस्वीका- रेण सुप्तिङन्तभिन्न प्रातिपदिकमंज्ञा स्त्रादित्वात्समामस्थापि स्यान् मास्ताञ्च नियमसूत्रमिति चेन्न । प्रत्येक वनमित्यादी च दशदा- डिमानि पडप्रपा इति ममुदायेषु च मज्ञानिरासाय बहुपटव इत्या- यर्थ चार्थवत्सूत्रस्यावश्यकरणीयत्वे नियमसूत्रस्यापि करणीय- त्वात् । एतेनाहन्नित्यत्र इन्तेर्लटि नलोपवारणायाधातुग्रहणस्वाव- श्यत्वे निमयसूत्रम्य लिधुगित्यायर्थ कृग्रहणम्यावश्यक्त्वात् काण्डे कुण्डे इत्यादावतिव्याप्तेश्चोक्तन्यासो न कार्य इति मन्दोक्त- मपास्तम् । प्रत्ययलक्षणेन लुप्ततिटन्तमुवन्तत्वाश्रयणे नवेष्ट- सिद्धेः । सप्तम्यधिकरणे चेत्यादिनिर्देशैविभक्त्यादेशस्यान्तवनावा: नभ्युपगमात् काण्डे इत्यादी दोपाभाव इति यथान्याम एवानापि वक्तुं शक्त्यत्वादिति दिक । नियमस्वरूपमाह यत्रोत । संघातेऽर्थ- वति पदसमुदाये इत्यर्थः । समासस्य सजातीय एव नियम इत्याह पूर्वी भागः पदमिति । चतुर्विधेऽपि समान पूर्वभागस्य पदत्वाव्य- भिचाराादीत भावः ननु जन्मवानित्यादौ स्वादिष्वसर्वनामेत्यनेन पूर्वभागस्य पदत्वात् सज्ञानापत्तिः । न च तद्वितान्तत्वात् सिद्धिः तस्यौपगवमित्यादी यचि भमिति पूर्वभागस्य भवन नियमाप्राप्त्या चरितार्थत्वादिति चेन्न । पूर्वनिम्मे उत्तरस्तु प्रत्ययो नत्यंशपुर- णात् । एवमपि राजेयानित्यत्र पूर्वमागस्य पदत्वेऽप्युतरस्य प्रत्व- यत्वानियमाप्राः समुदायस्थ प्रातिपदिकत्वं स्थादिति चेन्मेरम् ।
पब्लिङ्गम् । (४९) -- पूर्वभागप्रकृतिकप्रत्ययो नेति व्याख्यायात्रातथात्वात् । न चोक्तरी- त्यापि पूर्वो भागः पदमिति नियमांशं विनापि समीहितसिद्धेस्त- दंशो व्यर्थ' इति वाच्यम् । बहुपटव इत्याद्यर्थमावश्यकत्वात्तद्यथा बहुचविशिष्टस्य प्रातिपदिकत्वेन जसो लुकि सति चितः सप्रकृते- बहकजर्थमित्यनंन प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदा- तो वाच्य इत्यर्थः । केन पटुपदोत्तरोकारस्योदात्तत्वसिद्धिः अन्यथा जस एवोदात्तत्वे अनिष्टापत्तेः । न च तद्धितग्रहणस्य तद्धितविशि- टपरत्वान्न दोष इति शंक्यम् । पचतकीत्यादावतिव्याप्तेः । ननु वृषण्वसुरित्यत्र वृषण्वस्व श्वयोरिति सूत्रेण पूर्वभागस्य भत्वान्निय- माप्राप्त्या संज्ञानापत्तिरित चेन्न । तस्य छान्दसत्वात् वृषणसु वसु सु इत्यवस्थायामेव प्रातिपदिकसंज्ञाप्राप्तेस्तदानीं च वसुशब्दपर- त्वाभावेनैव भसंज्ञायाः प्रवृत्तेश्चेति दिक् । नियमफलमाह । वाक्य- स्य नेति । गामानय शुक्लां दण्डेनेत्यादौ सति प्रातिपदिकत्वे सुपोऽ- श्रवणापत्तिरिति भावः । ननु कृदहणे' गतिकारकपूर्वस्यापि ग्रह- णमिति परिभाषया समासे कथयिष्यमाणया मूलकेनोपदंश मुंक्तं इत्यादिवाक्यस्य स्यादेव संज्ञा । न च भुजिक्रियायां मूल- केनेत्यस्य करणत्वेनान्वयादुपदंशं कृदन्तं प्रति कारकत्वमेव नास्तीति भ्रमितव्यम् । उपदंशमित्यत्र कर्मत्वेनाप्यन्वयस्य वक्तुं शक्यत्वात् तत्र च प्रधानभुजि क्रियानिरूपितकरणत्वसंज्ञाप्रयुक्त- तृतीयव पश्य मृगो धावतीत्यादाविवति स्पष्टमन्यत्रोत चेन समासकृतनियमेन परत्वात्कृदन्तप्रयुक्तकार्यवाधनस्याङ्गीकारा- दिति संक्षेपः । अधिकारसूत्रे ह्यापोर्ग्रहणं मास्त्वित्याक्षिपति । ३ (५०) फकिकामकागः। लिङ्गविशिष्टस्यापीति । लिङ्गबोधकप्रत्ययविशिष्टस्यापीति तदर्थः । इयं च परिभाषा युवाखलतीत्यादिसूत्रे युवग्रहणादिभिज्ञापितोत स्पष्टमाकरे । तदितोत्पत्तिरिति । अन्यथोभयत्रापि प्रत्ययत्वेनो- त्पत्तावनियमः स्यादिति भावः । ड्यावन्तात्तद्वितोत्पत्ती तु आर्यका आर्यिकेति रूपद्वयसिद्धिस्तद्यया प्रथममार्यपदादपि ततः स्वार्थि- केकनिकेण इति हस्खत्वे उदीचामातस्थाने यकपूर्वाया इत्याकार- स्थानिकाकारस्यत्वविकल्पात् । अन्यथा तु प्रत्ययस्थादित्यने- नोत्सर्गविधिना नित्यमवेत्वे आर्यिकत्येकमेवरूपं सिध्येत् ड्याव- ग्रहणं स्त्रीप्रत्ययमात्रोपलक्षणम् तेन युवतितरेत्यादी वयोवाच के वैकल्पिकजातित्वस्य स्वीकाराजातेश्चेति युक्त्वनिषेवसिद्धिः । किंच तद्धितग्रहणं समासान्तमत्ययाद्यातीरक्तपरम् तेन यूनीतिरिति वहुगोमतिकेति प्रयोगो नेति बोध्यम् । वस्तुगत्या ड्याग्रहणं न कर्तव्यम् । तथाहि वकालतनेषु कालनाम्न इत्या- दिज्ञापनात्सुबन्तासद्धितोत्पत्तिरिति परमार्थः । तत्र स्वार्थद्रव्यलिं- गसंख्याकारकेति पञ्चविधप्रातिपदिकार्थप्रयुक्तकार्याणां कर्मनि- यमः प्रथमं शब्दप्रवृत्तिनिमित्तत्वेन जातिबोकः । ततो धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिरपेक्षितत्वाच व्यक्तिबोधः ततः स्वमात्रापे- क्षत्वाल्लिङ्गबोधः ततो विजातीयक्रियापेक्षया कारकापेक्षया सजा- तीयपदार्थपेक्षसंख्यायाः प्रथममुपस्थितत्वात्संख्यावोधः । ततः कारकरूपविभक्त्यथापक्षया कारकबोधः । तथा च लिङ्गकार्यान्त- मेव तद्धितोत्पत्तेः पूर्वोक्तमयोगाणां नानुपपत्तिरिति वदन्ति ननु रामा इत्यादौ दीर्थो न स्यात्सर्वदीर्घबाधकत्वाढतो गुणस्ये- पड्लिङ्गम् । (५१) त्याशंक्यापवादविषयवाध्यविशेषचिन्तापक्षमूलन्यायेन समाधचे पुरस्तादिति । अयं च न्यायो नादिचीतीज्ग्रहणेन ज्ञाप्यते तद्धि रामा रामानित्यादौ निषेधाभावार्थ क्रियते पररूपेणैवं पूर्वस- वर्णदीर्घवाधने हि तद्रहणं व्यर्थमिति । एवं हि पाठक्रमः अंतो गुणे, अंकः सवर्ण दीर्घः, प्रथमयोः पूर्व इति अत्र वक्तव्यमुक्तं स्वरसन्धौ, वक्ष्यते च । हे रामेत्यादौ विप्रतिपत्तिं निरस्यति । संबुध्याक्षिप्तस्येति । प्रत्ययविधावङ्गस्यापेक्षितत्वेनाङ्गाक्षेपस्योचित- त्वादिति भाव इत्येके । संबुद्धेः प्रत्ययत्वेन यस्मात्स विहितस्त- दादीत्यंशरूपस्याङ्गस्याक्षेपो न त्वङ्गस्येति सूत्रस्येति स्पष्टं भाष्य इत्यन्ये । एवं च मौलिकार्थस्य हे राम इत्यादिपियो न त्वन्ध इत्याह हे कतरदितिः । इह. प्रकृत्यकारस्य टिलोपेनापहारादू ह्रस्वान्ताङ्गात्परहलोऽभावादित्याशयः । ननु येन यदाक्षिप्यते तत्तस्यैव विशेषणमिति न्यायस्य जात्याक्षिप्तव्यक्ती व्यक्तत्वा- त्प्रकृतेऽपि संबुद्धचाक्षिप्तस्याङ्गस्य सम्बुद्धी एवान्वयस्योचित- त्वेनाङ्गात्परस्यां. संवुद्धेरवयवस्य हलो लोप इति सूत्रार्थ उचिं- तस्ततश्च हे कतरदित्यादिसिद्धेमूलोक्तार्थी न युक्तो उक्तन्यायवि- रोधादिति चेन्मैवमित्याह कुलेति । तथा सतीति । तथासतीदं न सिध्यतीत्यभिप्रायः । अत्र स्वमोनपुंसक इति लोपात्परत्वाद- तोऽमि कृतेऽमि पूर्वरूपत्वे च हलन्ताङ्गात्परसंबुद्धेरभावान्मलोपो न स्यात् । नन्वेकादेशस्य पूर्वान्तवद्भावेन ह्रस्वान्ताङ्गात्परत्वमिति चेत् हन्त भोः परादिवद्भाव विना आमि संबुद्धित्वस्यैवाभावात् । न च व्याराश्रयणमुभयत आश्रयणेनान्तादिवदिति निषेधात् सत्य- (५२) फकिकामकाशः। प्येवं ह्रस्वसंबुद्धयाः पौर्वापर्यव्यवहारासंभवापचेश्च । एवं च लक्ष्यानुरोधादन्याक्षिप्तस्याप्यन्यत्रान्वय इति स्वीकारेण कुत्राच- न्यायास्वीकार इति भावः । नन्वेवमपि कथमत्र मकारलोपः संबुद्धित्वस्य सकारमात्रनिष्ठत्वेन स्थानिभूताधर्मत्वादनल्विधा- विति निषेधेन स्थानिवद्भावाभावेनामः संवृद्धित्वविरहान्मस्य मंबु- व्यवयवत्वाभावादिति चेन्न । सुसज्ञाया उकारविशिष्टे सत्त्वेन सुबुपस्थाप्ये जायमानैकवचनसंज्ञाया विशिष्टे सत्वे संबुद्धिस- ज्ञायामित्सञ्जकोकारविशिष्टस्यैवोद्देश्यत्वेन तस्यानविधित्वा- स्थानिवद्भावेन संबुद्धित्वस्य सुलभत्वादिति न कश्चित्क्षुद्रोपद्रवः । एग्रहणं किमिति । हरे विघ्नो इत्यादावङ्गाधिकारस्थात्परनिमित्ता- पेक्षाच्च गुणात्पूर्व ह्रस्वान्तत्वादेव सिद्धिः । सेप्रभृतीनां त्वनाम- धानमेव सति वाभिधाने एडग्रहणेनैव सिद्धेः प्रत्याहारो व्यर्थ इति प्रष्टुराशयः । समाधत्ते हरे इति । तत्सामर्थ्यादेवात्र सन्निपातप- रिभाषानिवृत्तिः गुणात्संबुद्धरिति वक्तव्ये एडह्रस्वग्रहणसामा- चति दिक् । संनिपातपरिभाषाया अप्रवृत्तेरवे हे लक्ष्मि इत्यादी संबुद्धिलोप इत्याहुः सन्निपातेति । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषाशरीरम् । सन्निपातः संश्लेषः, लक्षणं निमित्तं यस्य स तं सन्निपातं यो विहन्ति निवर्तयति स तद्विघातस्तस्य निमित्तं कारणं न भवतीति तदर्थः । एवं चेयं परिभाषोपजीव्योपजीवकभावविरोधमूलिका । उपजीवकावधिरुप- जीव्यविधेर्विघाते कारणं न भवतीति वर्तुलार्थः । ननु यत्रादि- त्वसापेक्षदीर्घस्य वहिरड्गतया सिद्धत्वान्नेह संनिपातविघात इति स पड्लिङ्गम् । (५३) चेन्न । आरोपितासिद्धत्वेऽपि वास्तविकतद्विघातस्य जायमानत्वेन तत्प्रवृत्तेरिति दिक् । कष्टायति । न चात्राकृत्सार्वधातुकयोरिति दीर्घोऽतः कथमस्यानित्यताज्ञापकत्वम् । तस्यापि संनिपातपरि- भापयैवाप्राप्तरित्याशयात् । विरोधाभावात्फले विशेषाभावाच्च परत्वेऽ- प्यकृदिति सूत्रमत्र नोपन्यस्तम् । नन्वकृत्सार्वति पर्युदासेन तिङन्ते एवास्य प्रवृत्तिरित्यपि युक्तम् । अंगवृतपरिभाषां चाज्ञापयितुं ज्यादादीयस इति सूत्रे ह्रस्वमकार विधाय ज्यायानित्यत्राकृत्साति दीर्घ विदधतां भाष्यकृतां विरोधापत्तेः । झलि किमिति-। रामाणा- मित्यादिकं सन्निपातपरिभाषया न दोपसहम् । उतो वृद्धिलकि हलीत्यनुवर्त्य हलि परत एव एत्वविधानादिति प्रश्नः। अतिरिच्यमानं झल्ग्रहणमेत्वविधावुक्तपरिभाषाया अनित्यतां ज्ञापयति तेन सर्वपामित्यासिद्धमित्युत्तरम् । स्यादेतत् । बहुवचने झलीगित्यस्तु लाघवात्सूत्रम् मैवम् । आद्यन्तौ टकिताविति किदागमस्यान्ता- वयवत्वादिगन्तनपुंसकत्वेनेकोऽचीति सूत्रेण ज्ञानयोरित्यादी नुमा- यत्तेः । न चाद्गुणोऽन्तरङ्गत्वात्प्रवर्ततति वाच्यम् । वार्णादाङ्गमिति न्यायेन नुम एव प्रवृत्तेः । न च समाननिमित्तकत्वरूपसमाना- 'श्रयत्वे एवायं न्याय इति वाच्यम् । इयाय इयेपेत्याद्यसिद्धेः द्वित्वे कृते अन्तरङ्गं सवर्णदीर्घ ‘न्यायेनैव वाधित्वा वृद्धिप्रवृत्ती रूपसिद्धिः त्वदुक्तसमानाश्रयत्वाभावेन तदसङ्गतिः स्यादाङ्गचारणयोः समानकार्यित्वे एव तत्प्रवृत्तिरित्युक्तेन दोपः । इहापीकारस्य नुमस्थानित्वादाद्गुण इत्यस्यापि पूर्वपरयोरित्यादिनिर्देशनेकारस्य स्थानित्वेन समानाश्रयत्वात् । एतेनेह वार्णादाङ्गामित्यस्याप्रवृत्तेरन्त- (५४) फविमाप्रकाशः। रगत्वानुमः पूर्वमेकादेशस्यैव प्रवृत्तिारति मन्टोक्तमपास्तम् । ननु ठकारोऽनुबन्यताम् । एवमपि सुवाद्यवयवत्वान् निर्जरेभ्य इत्यादी जरसादेशापत्तिरिति केचित् । वस्तुगत्या एभ्य इत्यत्र नित्यत्वादिटि कृते हलि लोपं बाधित्वाऽनादेशापत्तेः । एतेन प्रतिपत्तिक्लेशवारणाय तथा न्यासो न कृत इति मन्दोक्तमपास्तम् । ननु बहुवचने स्भ्येदिति न्यासोऽस्तु मैवम् सुतियोरित्यादाविकारो- चारणेन न पुनरन्तरेणाचमित्युच्चैरिति सूत्रस्थभाष्येण च शास्त्रावो. धिताजव्यवहितहल्समुदायस्यासाधुत्वबोधनात् स्कोरित्यादिस्तु सौ- प्रयोग इत्याहुः । यद्यपि पर इति । ननु इदं न सत् नामीत्यस्य नित्यत्वात् कृतेऽपि सुपि चेति दीर्घ पर्जन्यवल्लक्षणप्रवृत्त्याना- मोत्यस्य प्रवृत्तरिति चेन्न । शब्दान्तरस्येति न्यायेनानित्यत्वात् । न चकदेशविकृतेति न्यायेन शब्दान्तरत्वाभाव इति वाच्यम् । शब्दान्तरस्यति न्यायविषय एकादेशन्यायाप्रवृत्तेः अन्यथोक्त- न्यायस्य सर्वथा वयापत्तेः । अत एव चिकीर्षतीत्यादावज्झ- नगमामिति दीर्घ दीर्घस्यान्यथा तु हस्वस्येति शब्दान्तरमात्म्या द्वित्वमनित्यमिति भाष्योक्तं संगच्छते । न च नामशब्दमुच्चार्य- विहितत्त्वेन प्रतिपदोक्तत्वात् नामीत्यस्यैव प्रथमं प्रवृत्तिरिति वाच्यम् । प्रतिपदोक्तेऽपि निरवकाशस्य वीजत्वेन नामीत्यस्य निरूपयिष्यमाणावकाशत्वात् नाम्त्वमुप्त्वाश्रयणेन बहिरंगत्वं तूभयोः समम् । तस्मान्मूलोक्तं युक्तमेवेत्याहुः । परिमापाविरोधा- दिति । अनित्यता सर्वनाभ्युपेयेत्यत्र मानाभाव इत्याशयः । आरम्भसामर्थ्यादिति । मुपि चेति तु रामाभ्यामित्यादी साव- पनिङ्गम् । (५५) काशमिति भावः ननु षट्चतुर्म्य इति नुटि कतीनामित्यत्र परि- भाषाप्रवृत्त्याभावान्नामीत्यपि चरितार्थम् । किञ्च सरूपाणामित्या- दिनिर्देशेनोक्तपरिभाषाया अनित्यताभ्युपगमेऽपि रामाणामित्यादौ परत्वात्सुपि चति अस्यैव प्रवृत्तरत्र नामीत्यस्योपन्यासो मोघ एव । न च चतुर्ग्रहणेन हलन्तपट्सङ्घकादेव नुट् नतु कतिशब्दा- दिति वाच्यम् । द्विस्त्रिश्चतुरिति सूत्रे कृत्वोर्थग्रहणेन साहचर्य- स्थानित्यताश्रयणात् रेफो यथा हलसञ्ज्ञकस्तथाऽमूसञोऽपीत्य- मन्तषट्सङ्घकादेव नुट् नतु षकारांतादिति षण्णामित्यत्र नुड- नापत्तेश्च । तस्मात्कतीनामिह चरितार्थ्यान्नामीत्यस्य कथं वैयर्थ्य- मिति चेत् कर्नामीत्येवास्तु विशेपसूत्रम् नैकमुदाहरणं योगारम्भ- म्प्रयोजयतीति भाष्यकृदुक्तेः । योगारम्भमिति सामान्यं योगारम्भ- मित्यर्थस्तेनानियमित्यस्याग्नेढगतिप्रयोजकत्वमव्याहतमिति भावो भाष्यकत्र्तः । सामर्थ्यादित्यस्य सामान्यसूत्रारम्भसामर्थ्यादित्यर्थः । ननु ह्रस्वनद्याप इत्यत्र नुटीति योगं विभज्य सामान्यैन नुटं विधाय नद्याप 'इति दीर्घान्ताचेन्नद्याप एवेति नियमादीर्घान्तेषु दोषो न हलन्ताचेत्पट्चतुर्थ्य एवेति नियमाद्वा द्रुहमुहष्णुहष्णिहामि- त्यादिनिर्देशाद्वा हलन्तेषूपपत्तिं प्रतिपाद्य ह्रस्वग्रहणं प्रत्याख्यायते ततश्चोक्तपरिभाषायां अप्राप्तेर्नामीति नोपक्षीणमिति चेन्मैवम् । नद्याप इत्यस्य स्त्रीलिंगाच्चेन्नद्याप एवेति विपरीतनियमापत्ती मतीनामित्यादौ नुडनापतेरुक्तकल्पनावैफल्यात् । एतेन बहु- श्रेयस्यादीनां पुलिंगानामनदीत्वदर्शनात्तिसृणामित्यत्र नामि- दीर्घनिषेधाज्ज्ञापकाच स्त्रीलिंगाचेन्नद्याप एवेति नियमः - (५६) फक्किकाप्रकाशः। कर्तुमशक्यः । दीर्यान्ताचोत नद्याप एवेति तु सुकर एव । आ आविति प्रश्लेषेण सिद्धान्ते दीर्घाकारस्य ग्रहणात् । तत्साह- चर्येण नदीसञ्जकानामपि दीर्घानामेव ग्रहणादिति मन्दोक्तम- पास्तम् । यतो नदीत्वस्य नित्यत्रीविषयत्वेनान्नित्यमित्यस्य सिद्धत्वान्निवेशादा त्रिशन्दस्य च नियमान्तर्गतत्वेन पदचतुर्य- श्वेत्यत्र त्ररित्यस्यानुवर्त्तनेन वा नु सिद्धयोक्तज्ञापकसम्भवात् बहु- श्रेयस्यादीनां तु अर्थान्तरसंक्रमात्पूर्व विद्यमानं नित्यस्त्रीत्व- मादाय तस्या अर्थान्तरसंक्रमेऽपि नदीत्वं वक्तव्यामित्यर्थकेन प्रथमेतिवार्तिफेनाभीष्टं तत् । वार्तिकाभावेऽपि यथोद्देशपक्षे पूर्वमवृत्तां सज्ञां कार्यकालेऽप्यवयवगतामादायातिदिश्यते भाष्ये:- प्युक्तम् । अव्यवस्वीविपत्वात्सिद्धिम् । अवयवोऽत्र नाविषयस्त- दाश्रया नदीसज्ञा भविष्यतीति । तस्माद्रस्वाश्रय एवेह नुडिति परिभाषाप्रवृत्तेनामीत्यारम्भसामर्थ्यात्णरभाषां वाधत इत्युक्तम् । इण्कोः किमिति । टासीत्यत्र सकारोचारणसामर्थ्यादेव दीपा- भाव इति प्रश्नः । तत्र सकारोचारणस्येण्कोरित्यनुवृत्तावेव तात्पर्य- ग्राहकत्वमन्यथाऽमुष्येत्यादी पत्वं न स्यादित्युत्तरम् । विशेष्या- भावात्सर्वाद्यन्तस्य सञ्जानुपपत्तिम्मत्वा तां साधयितुं प्रतिजानीते । तदन्तस्यापीति । द्वन्दे चेति प्रथमार्थ सप्तमीयम् । द्वन्द्वः सर्वनाम- सञो नेत्यर्थः । नहि तदन्तविधि विना समुदायेऽस्ति सम्ज्ञापा- प्तिर्या तेन पर्युदस्यतेति मारः । नन्वनाधिकागेक्ततदन्तविधि विनव परमसर्वस्मायित्यादी सिद्धस्तदन्तसज्ञायाः किं फलमत आह । तनात । त्रलादी सन्जाविधाविति निषेधाचदन्तविध्यभारादित्या- पड्लिङ्गम् । (५७) शयः । नन्विहावयवनिष्टसर्वनामत्वेन सुबुत्पत्तेः प्रागेव त्रलादय- स्सेत्स्यन्तीति चेन्न । सुवन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् सर्व- नामप्रकृतिकसुवन्तात् त्रलादय इति तत्सूत्रार्थेन परमसर्व इति समुदायस्यैव सुवन्तत्वादिति दिक् । किं च प्रथमार्थ सप्तम्यन्तत्वा- 'दिदं सूत्रं समुदायस्यैव सज्ञानिषेधकं पर्यवस्यति । अवयवानां. निषेधे तु वर्णाश्रमेतराणामित्यादौ सर्वार्थवाचकसर्वाद्यन्तत्वेन समुदायस्य सज्ञायां सुडापत्तिः । अवयवस्य निपेधेऽपि सर्वार्थ- वाचकसर्वादित्वानपायात् । अत एव वक्ष्यति समुदायस्यायं निषेध इति ।नं चावयवमर्वनामत्वेनाकजापत्त्या तन्मध्यपतित- न्यायेन शीभावः स्यादिति वाच्यम् । विभाषा जसीत्यत्र जसा- धारे इत्याद्यर्थवर्णकयनेनैव तद्वारणात् । एतेन वर्णाश्रमेतरका इत्य- त्राकचि शीभावः स्यादिति मन्दोक्तमपास्तम् । अवयवनिषेधे फला- भावोऽपि त्वच्छब्दस्य तान्तत्वेकाकचोर्विशेषस्तु न फलम् । तस्य सर्वनामत्वे दृढतरमानाभावात् वद्वसंमतत्वाञ्चेत्यधिकं नागेशीये। वस्तुगत्या येन विधीत्यत्र भाष्योक्ततदन्तस्य प्रयोजनं सर्वनामा- व्ययसञ्ज्ञायामिति वार्तिकाद्विशेषशब्दस्वरूपस्य संभवाच विशे- प्यविशेषणभावेनैवास्तान्तदन्तविधिः केवलानान्तु व्यपदेशिवदा- वेन सर्वादीनीत्यावर्तनेन वा सज्ञासिद्धिः । गौणे महासङ्घयैव सञ्ज्ञाभावः । किञ्च इन्डे चेत्यस्य ज्ञापकत्वमेव न युज्यते । इंदुस- मासे हि उद्भूतावयवानुभृतावयवभेदरूपे समूहो विशेष्यो घटक, पदानि विशेषणानीति बहुव्रीहाविवोपसर्जनत्वं घटकपदानाम् । अत एव कुक्कुटमयूर्यावित्यादावुपसर्जनहस्वत्वमाशंक्य इन्दे प्रतिषेधो (५८) फकिकामकाश। वक्तव्य इति वचनमवस्थापितं भाष्ये, कैयटे च स्पष्टतरमिदम् । एतत्सर्व दर्शयिष्यते समासे एवं चेदमपि सूत्रं न बहुव्रीहावित्येत- समानगतिम् । तस्मादयमेव प्राकारश्चतुरचित्ते चमत्कारचातुरी विधत्ताम् । नानुबन्धकृतमिति । इयश्चानेकालित्यत्र गिदहणेन ज्ञाप्यते इति तत्र सूत्रे उक्तम् । मागित्सझाया इति । दृप्रान्ते तृइत्योपदेश एवोपदेशेऽजित्यनेन सारस्येत्सझोत भवत्वन्त्या- देशः । इह तु तावत् सर्वादेशस्ततस्थानिवद्भावेन प्रत्ययत्वं ततो लग्गकिति प्रत्ययादित्वनिमित्तकेत्सञ्ज्ञा ततश्शित्वं भवतीति क दृष्टान्तदान्तिक्योः समतेत्याशयः। वस्तुगत्यानेकाल्सूत्रे इत्स- ज्ञायोग्यशकारवत्त्वमेव शिवं स्वीकृतमतोत्र शित्त्वादेव सर्वादेशः परिभाषया अनेकालत्वाभावात् । तत्र हि अनुवन्धकृतमित्य- स्यानुबन्धनयोग्यकृतमित्यर्थः । न च डाणलादी दोपः । डा आण ल् इति प्रश्लेपेणानेकाल्त्वात्सर्वादेशसिद्धेः । एतेनेत्सञ्ज्ञायो- ग्यग्रहणे डाणलादीना सर्वादेशतानापत्तिरिति मन्दोक्त- मपास्तम् । ध्वनितश्चेदं लुटः प्रथमस्यानेकालिति सूत्रयो- र्भाष्ये इत्यधिक नागेशीये । अथोमादुदात्तो नित्यमुभम्य सर्व- नामत्वे कोऽर्थ इति भाष्यप्रयोगयोः प्रति पिसितद्वित्वार्थबोधक- द्विवचनान्ततयानुपपत्तिं मत्वा स्वरूपाणामनुकरणे अस्मद्युत्तम इत्यादावनभिव्यक्तमत्वादादेशामाववदर्थपरस्य॑व द्विवचनान्ततेति सूचयन्नाह । उभगब्द इति । उभश्वासा शब्दश्चेत्यर्थः । व्याप्य- व्यापक्योर्मध्ये व्याप्यस्यैव पूर्वनिपातो भीम भृप इत्यादाविव तेन शब्दस्य विशेपणत्वात्पूर्वनिपात इति न शंकनीयम् । पञ्चकं पब्लिङ्गम् । (५९) प्रातिपदिकार्थ इति सिद्धान्तं व्यवस्थापयति । द्वित्वेति । संख्या- प्रकारकसंख्येयविशेष्यकाभिधायक इत्यर्थः । ननु प्रकृत्यैव सकलार्थबोधे विभक्तिरनर्थिका । किञ्च द्वेकयोर्दिवचनैकवचने इत्यादिकमसंगतमित्याशंक्य द्योतकत्वेनैव विभक्तिः सार्थिका सूत्राणि तु नियमार्थान्येवत्याह । अत एवेति । यतः प्राकृत एवार्थी अस्मादेव हेतोरित्यर्थः । नित्यमित्यादि । द्विवचनान्त एवेत्यर्थः । अनन्वितविभक्तेरपेक्षया अनुवादकविभक्तेाय- त्वादिति भावः । एतत्सर्वकारके दर्शयिष्यते । ननु किमर्थ- स्सर्वादिषूभशब्दपाठः । सर्वनामकार्याणां स्मयादीनां .द्विव- चनेऽभावात न च सर्वनाम्नः तृतीयेतिसूत्रेण षष्टीतृतीयेति पाठ- फलम् । निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनमिति हेताविति सूत्रे भाष्योक्तवार्तिकेनैव तयोः सिद्धत्वादत आह । तस्येहेति । ननु कात्ययेनैव सामान्यतो विहितेन समीहितरूपसिद्धः कृतमकजणपाठेन । न च काकचोः स्वरेस्ति विशेषः । प्रत्य- यस्वरचित्स्वराभ्यामन्तोदात्तस्यैव सत्त्वात् । न च सुबन्तात्तद्धितो त्पत्तिरिति मते अकचि तत्प्रयुक्तमन्तोदात्तत्वमुभकाभ्यामित्यादी सुवन्तस्य भवाति कप्रत्यये तु प्रकृतरित्यस्ति विशेषः तद्धितविधौ प्रातिपदिकादित्यस्यैवाधिकारात् प्रातिपदिकस्यैव प्रकृतित्वात्स च जायमानो न्यायात्सुवन्तात्पर इत्यन्यदेतत् । न च ओकारसकार- भकारादौ सुपि सर्वनाम्नष्टेः प्रागकजन्यत्र तु सुवन्तस्यति सुबन्त- प्रकृतित्वं तव मते विरुद्धम् । वचनप्रामाण्यात् । न चाकचि तन्मध्यपतितन्यायेन तस्योभग्रहणेन ग्रहणे उभकावयवौं यस्येत्यर्य, (६०) फक्किाप्रकाशः। उभकशब्दादयचि उभयक इति प्रयोगो भवति कात्यये तु नेति विशेषः । ईदृशप्रयोगस्यानभिधानस्य वक्तुं शक्यत्वात् । कश्चेदानीं काकचोविशेष इति सर्वादिसत्रभाष्यप्रामाण्यात् । तस्मात् कप्रत्ययेनैव सिद्धिरित्याभप्रेत्य पर्यनुयुक्ते। न च केति । उभशब्दस्य द्विवचनपरत्वमकचा न निहन्यते । टेः प्राग्जायमानत्वेन तन्मध्य- पतितन्यायेनोभयग्रहणेनोभकग्रहणात् कमत्ययेन तु द्विवचनपरत्वं विहन्यते । प्रातिपदिकात्परत्र जायमानत्वेन व्यवधायकत्वादि- त्याशयेन समाधत्ते । द्विवचनेति । अयच्प्रसंगादिति । उभशब्दा- तसोः परतः स्वार्थ यथाऽयज्भवति तथा कात्ययेऽपि स्यादिति भावः । तथा हि उभादुदात्तो नित्यमिति सूत्रं विभज्यते । उभादु- दात्त इत्येको योगः। द्वित्रिभ्यामिति सूत्राइत्यस्य नानुवृत्तिरस्व- रितत्वात् । तेनावयववृत्तेः संख्यावाविनः उभशब्दादवयविन्यर्थेऽ' यस्यात्, उभयो मणिः । ततो नित्यम् । उभशब्दादत्तिविपये नित्यमयच्स्यात्स्वार्थे उभयत उभयत्रेति सिद्धिः नन्वेवमकाच कृतेऽप्ययन्दुवारो वृत्तिविषये स्वार्थ नित्यमयाजति त्वयैवोक्तत्वात् , मैवम् । योगविभागस्येष्टसिद्धयर्थतयोभीसांभ्यासस्योत निर्देशन च यत्र द्विवचनं न श्रूयते तत्रैवायच् न तु वृत्तिविषये इति व्याख्या- नात् । ननु द्विवचनेनायजिति किं राज्ञामाज्ञास्ति तत्राशंक्य वार्तिकं प्रमाणयति । उभयोऽन्यत्रेति । उभय इति यः स्वार्थि- कायतस्सोऽन्यत्र प्रयुज्यते न तु द्विवचने उभशब्दादुत्पन्न दिवचनं लुका नापहृतं यत्र नतोऽन्यत्रायजिति विवक्षितार्थात् । तस्मादुभयशब्दपाठोऽकार्थः सर्वादिगण इत्याहुः। भाष्ये नूभशब्द- ।
पड्लिङ्गम् । (६१) पाठः प्रत्याख्यातः । तद्यथा केऽप्यन्तरेण वचनं द्विवचनपरो भवि- ष्यति कथं स्वार्थिकप्रत्ययाः प्रकृतितोऽविशिष्टा भवतीति । अयं भावः यथाकच्यज्ञातोपसर्जनेऽप्यवैजात्यार्थात्स्वार्थानुवादकद्विवच- नपरत्वमस्ति तथा कप्रत्ययस्याप्यज्ञाताद्यर्थविशिष्टस्वार्थे विधानेन द्वित्वसंख्याप्रकारसंख्येयविशेष्यकबोधविषयार्थानुवादकत्वमिति । ननु कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्यय इति न्यायेन कृत्रिमस्यैव द्विवचनस्य वार्तिके ग्रहीतुमुचितत्वम् अन्यथात्र तसिला दावतिप्रसक्तत्वादिति चेन्न । उभयशब्देनोभशब्दग्रहणवद्वार्त्तिके. द्विवचनशब्देनाकृत्रिमस्यापि ग्रहणे दोपाभावात् । अत एवोभयो रुभावित्यादौ नायच् । किश्चात्र तसिलादौ विभक्त्यंतस्य स्वार्थ विहिताविति तत्तत्कारकशक्तिप्रधानावेवोत न तदुक्ताद्विवचनमिति दिक् । उभयशब्दस्येति । उभावयवौ यस्येति उभादुदात्तो . नित्य- मिति तयपोऽयच उभयोऽन्यत्रेति वार्त्तिके तयप् समानार्थकोऽ-: प्ययज्गृह्यते उभंयोमणिरुभये देवमनुष्या इति भाष्ये उदाहरणात् स्वार्थिकस्य च ग्रहणं तदुपक्रमेण वार्तिकप्रवृत्तेः एवं चावयवद्या- रब्धमणिद्वयविवक्षयोद्भूतावयवभेदविवक्षया चोभयशस्य द्विवच- नमसाधु ॥ अत एवोभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्ति- त्वेनाव्ययत्वं प्राप्तं परिगणनं क्रियते इति तद्धितश्चासति सूत्रे कैयट आचष्टे तदाह । कैयट इति । अनभिधानाद्भाष्ये उभ-- योमणिरुभये देवमनुष्या इत्यस्यैव दर्शनाचेति भावः । हरदत्त इति । अयश्च पक्षो हेयः । उक्तभाष्यविरोधादिति । तत्र तयपो- ऽयजादेश इति मतं गृहीत्वाह । तस्मादिति । उभयशव्दादित्यर्थः।
(६२) फविकाप्रकाशः। जसीति । अवयवारब्धसमुदायत्वविवक्षायामित्यर्थः । अन्तरङ्ग- स्वादिति । अन्तरङ्गवहिरङ्गयोग्न्तरङ्गं वलवदिति न्यायादित्यर्थः । अयश्चोमाटोश्चेत्याग्रहणेन ज्ञाप्यते तद्धि शिव जा इहीति स्थिते 'पग्मापि सवर्णदीर्घ वाधित्वा धातूपसर्गयोः कार्यमन्तरङ्गमित्यन्तर- ङ्गत्वादाद्गुणे वृद्धिप्राप्ती सत्या पररूपं यथा स्यादिति क्रियते यदि दीर्य एव स्यात्तदा वृद्धयप्राप्ती किं तेनेति सम्प्रसा- ग्णाचेत्या पष्टे भाष्ये स्पष्टम् । ननु सर्वार्थवोधक्त्वरूपार्थस्यापे- क्षितत्वेन नित्यसंज्ञाया एव बहिरङ्गत्वमिति चेन्न । तस्त्र प्रथम- चरमेत्यस्याप्यपेक्षितत्वात् अन्यथोपसर्जनादी प्रवृत्तिः स्यात् । ननु नोक्तपरिभाषाया इह विषयः युगपत्प्राप्त्यभावात् नित्यमझापाति- पदिक्संज्ञासमकालमेव प्रवर्तते । अत एवोभर इत्यन सर्वनाम्नो विहितत्वेन शीभावसिद्धिः । वैकल्पिके तु नसनिमित्तं, किं चैवं न्यायेनैव सिद्ध वैकल्पिकीमाशंक्यायच्प्रत्ययान्तरेण साधयता भाष्यकृता सह विरोधापत्तिः । तद्यथोक्त स्थानिवत्सूत्रे तयादेश उभयप्रतिपेध उभये देवमनुष्याः तयपोग्रहणेन ग्रहणाजसि विभाषा प्राप्नोति नैष दोपः । अयचप्रत्यवान्तरम् यद्येवमुभयीति डीन प्राप्नोति माभूदेव कथ मात्रजितिप्रत्याहारग्रहणं मात्रशब्दात्म- भृति अयचश्चकारात् तर्हि कतीत्यत्रापि प्रामोति । अत इति वर्तते एवमपि तैलमात्रा अगापि प्राप्नोति महशस्याप्यसन्निविष्टस्य न भवति प्रत्याहारग्रहणेन ग्रहणमिति । रिच विभापति व्यवस्थित- विभाषाश्रयणेनापि सिद्धम् । न च भाष्योक्तातिरिक्तविभापाया व्यवस्थितत्वमिन्द्रेचेति सूत्रेणाप्रामाणिकमित्युक्तमिति वाच्यम् ।
पलिंगम् । (६३) तयवादेशाय जयच्प्रत्ययान्तरयोः फलामेदायास्याः व्यवस्थितत्वस्य भगवता बननादिति चेत्सत्यम् । नवीनानुरोधेन तथोक्तरित्याहुः । सुप्तिङन्तमिति ज्ञापकादिति । तत्सूत्रे सुप्तिङितीत्युच्यमाने प्राति- पदिकादिना विशेषणत्वेन येन विधिरित्यनेनैव सिद्धेळीदन्त- ग्रहणाज्ज्ञापकादित्यर्थः । तेन प्रयोजनं सर्वनामव्ययसञ्ज्ञापका- दित्यर्थः । तेन प्रयोजनं सर्वनामाव्ययसझायामिनि येन विधिरि- त्यत्र भाष्योक्तवार्तिकेन डतरान्तं गृह्यते इति भावः । न च पर- मकतरशब्दे कथमिति चेत् प्रत्ययग्रहणे तदन्तग्रहणमिति परिभाष- णात् डतरान्ते तु व्यपदेशिवद्भावेन बोध्यम् । तत्रैव मानान्तरमाह केवलयरिति । प्रयोजनाभावात्फलाभावादित्यर्थः । प्रकृतिप्रत्यय- योरन्यतरप्रयोगाभावादिति भावः । न च केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय इति समयात् । अयं च परश्चेति सूत्रेण ज्ञाप्यते तस्य वयर्थ्यमुक्तं तृतीये प्रकृते भाष्ये किमर्थ- मिदमुच्यते परो यथा स्यात्पूर्वो मा भूदिनि बहुचि पुरस्तादहणेन वहुव पूर्वी नान्य इति ज्ञाप्यते, मध्ये तर्हि मा भूदिति मध्येऽपि अव्ययसर्वनाम्नामिति प्रास्टेग्रहणेन न भविष्यति । य इदानीम- तोऽन्यः प्रत्ययः शेषः मोऽन्तरेण वचनं पर एव भविष्यति नार्थः परखचनेनेनि । प्रत्ययविधी सर्वविभक्तेः पत्रमीकल्पनेन परः पृवा वेत्यनियमेनाध्याहारे प्रसक्ते पर एवेति नियमार्थमिदं सुत्रं तय तस्मादित्युत्तरस्वत्यनेन सिद्धमिति व्यर्थ सज्ञापयतीति कयंट विस्पष्टम् । प्रकृतित्वं च प्रत्ययविधाबृद्देश्यतावच्छेदकाकान्तमत्वं ननु लिद इयानित्यादी दोष इनि चेन्न । शास्त्राबोधिताल्पतरप्रयो- (६४) फक्किकाप्रकाशः। गविपये एवान्यस्य न्यायस्य प्रवृत्तरिति दिक् । एतन्यायमूलक- मेवापदं न प्रयुञ्जीतेति पठ्यते । अपरिनिष्ठितमिति तदर्थः । परिनिष्ठितत्वं चामवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वमिति दिक । ननु बहुव्रीहावन्यपदार्थस्य प्रधानत्वेन घटकपदा- र्थानां स्वार्थविशिष्टार्थान्तरवोधकत्वरूपोपसर्जनप्रतिषेधेनैव सज्ञा- व्युदाससिद्धत्वायर्थ सूत्रमित्याशंक्य बहुबीहाविति विषयस- समीत्वेन समासात्पूर्व सज्ञानिषेधार्थ तत्सार्थकमित्याशयेनाह । त्वकमित्यादि । अज्ञाते कुत्सिते वाऽव्ययसर्वनाम्नामित्यकन् । प्रक्रियेति । अलौकिकविग्रहवाक्य इत्यर्थः तत्त्वं च लोके प्रयोगानई- त्वम् । तच युष्मद् सुपिट्स इत्याद्याकारम् । न चालीफिके समास. प्रवृत्त्येकार्थीमावस्यापि तत्रैव कल्पनादुपसर्जनादेव निपेयसिद्धी सूत्रस्य वेयर्थ्यमेवोति वाच्यम् । तत्रैकार्थीभावस्यारोपेत्युक्तरूपोप- सर्जनत्वाभावेनातिमवकानित्यत्रेव प्राप्तस्याकचाऽभावार्थ सद्भा. निषेध इत्यत्र सूत्रतात्पर्यात् । लौकिकेति । तत्त्वं च लोके प्रयोगाईत्वम् । तदाकारस्तूक्त एव त्वपित्रवेत्यादिः। ननु तत्रापि निधोऽस्तु मैवम् । लौक्केि समासस्य चिकीर्पितत्वाभावात् । नन्चास्तामकच्चो दोपस्तत्राह । श्रयतेति । न चाकृतव्यूहपरि- माषयाकचः समासे निवृत्तिः तस्यानित्यत्वात् । तत्रच ज्ञापकं चेदं सूत्रम् । लौकिक्वाक्यममासयोदृष्टान्तावाइ । अतिक्रान्त इत्या- दिना । एवं च भाषार्थ सत्रमिति वृत्तिकारमतम् । सिदान्तमाह । भाष्यकारस्त्विति । 'अकस्वरौ तु कर्वव्या प्रत्यङ्गं मुक्तसंगयो इनि माप्योक्तिः । द्विकपुनस्त्वकपिटक इत्याधनकागन्तेवक पलिंगम् । (६५) विश्वप्रिय इत्याद्यदन्तेषु खाङ्गाशटामदन्तानामित्यायुदात्तस्वर हात तदर्थः । ननु स्मृतिद्वयवलाद्विकल्पः स्यात्प्रत्याख्यानं कथमत आह यथोत्तरमिति । तया चेदानीं पातञ्जलोक्तव्यवस्थैव ज्याय- सीति भावः । ननु अविशेषात्सर्वनामसञ्ज्ञाया विधानात्सर्वत्र स्यादत आह । न सर्वादय इति । सर्वनामत्वाभावेन सर्वादिपाठा- भाव इत्यर्थः । अयं भावः सर्वनामेति महासंज्ञाकरणमन्वर्थ- सद्भाविज्ञानार्थम् । सर्वेषां नामानीति । तद्बलात्सर्वाभिधानसाम- Wविशिष्टानामेव संज्ञित्वमनुमीयते । एवं च तथाभूतानां गणेऽनुकर- णावश्यकत या प्रकारान्तरीभूतानामनुकरणे प्रमाणाभावेनैव विशेपेऽ- वस्थितानां संज्ञानामुपसर्जनानां च सर्वादिपाठवहिर्भावः । एकद्रव्यो- पनिवेशिनी हि संज्ञा । इतरविशेपणेनार्थीपस्थापकत्वं चोपसर्ज- नत्वमित्युभयभूतानामन्वर्थसञ्जाननुरूपत्वात्सर्वनामत्वं नास्तीति तदाह । महासंजेति । अन्यथाटि घुमादिवल्लध्वक्षरसंजैव क्रियेत । प्रातिपदिकसंज्ञा तु , आथर्वणश्रुत्यनुरोधादिति दिक् । प्रवृत्तिनिमित्तेन प्रयुक्ता इतरं प्रत्यनुपसर्जनीभूता एवेह संज्ञिनः । ननु कृत्स्नसकलादिशब्दानामतिप्रसंगोऽत आह । गणे इति । पञ्चत्रिंशात्मक इत्यर्थः । सन्निवेशादिति । तदनुमानादित्यर्थः । अन्वर्थसंज्ञायाः फलमाह । अत इत्यादिसंज्ञापयुक्तं स्मायादिकम- न्तर्गणकार्य तु अड्डतरादिभ्यस्त्यदादीनामस्तदोस्सावित्यादिक- मित्यर्थः । यज्ञ स्वरूपानाश्रयं कार्य न तु गणपाठं संज्ञां वापेक्षते तद्भवत्येव प्रकारान्तरजुपाम् । यथा युष्मदस्मयां उसोग इत्या- दिकम् । युष्मद्युपपदे समानाधिकरणे इत्यादौ तु न त्वमादिप्रसङ्गः। एवं च (६६) फक्षिकाप्रकाशः। अभिव्यक्तपदार्था ये स्वतन्त्रा इति न्यायेन लोकमसिद्धार्थपरवाया- मेव त्वमादिप्रवृत्तेरिति दिक् । ननु वार्तिकरीत्या एकसंज्ञाधिकारे सर्वनामसंज्ञानन्तरमेन्द्रव्योपनिवेशनी संज्ञति संज्ञायां सर्वनामसंज्ञा वाधिष्यते। किंच पूर्वापरेति गणसूत्रेऽसंज्ञायामिति योग विमज्य पूर्वोत्तरयोः शेपो व्याख्येयः । पूर्वादयो वक्ष्यमाणाश्चादयश्चासं- ज्ञायामिति । अपि च संज्ञाव्यावृत्तिर्गौणमुख्यन्यायेनापि सेत्स्यति तथोपसर्जनव्यावृत्तिरप्यन्यथैव तद्यथा अनुपसर्जनादिति सूत्रेऽनुप- सर्जनात लुप्तपष्ठीकं पदम् । अ आदिति च्छेदः । अश्च अश्च तयोः समाहार आत् । अकारात्पगवअदित्यादेशौ यत्र क्रियेते तत्रानुपसर्जनस्य ग्रहणमिति तदर्थः । तेनादत्यदायत्वं च गाणे न भवतीति सर्व भाष्ये स्पष्टम् । तथा च महासंज्ञा विफलैवेति चेन्न । अतिसर्वायेत्यादिसाधनफलकत्वात् । ननु तदो सः साविति सूत्रेऽदस एव दस्य नान्यस्यति नियमे दीयतेरप्रत्यये द इति मामोति स्व इति चेष्यतेऽत्वसत्ययोगौणे वारणस्य सिद्धान्तितत्वा- दिति चेन्न। तस्यैकदेश्युक्तित्वेनादोपात्। अन्यथा प्रकृतसूत्रस्थान- कमाण्यविरोधं स्यादिति संक्षेपः ननु जराशब्दस्यादेशविधानानि- र्जरशब्दस्य कथमत आह । पदाङ्गेति । पदमङ्गं च विशेष्यं विशेषणेन तदन्तविधेलामादिति भावः । इटं च येन विधिरिति सूत्रस्य प्रपञ्चभूतमेव न त्वपूर्व वचनं सोपपदं स्यादिह निर्दिश्यमानस्पति । पष्टी स्थाने योगति सूत्रमावर्तते । तत्र द्वितीय- स्वायमर्यः पष्ठयन्तमुच्चार्यमाणमेव स्थानेन स्थाननिरूपितसम्बन्धेन युज्यते न तु प्रतीयमानामति तेनेयं परिभाषा निष्पन्ना। न पलिंगम्। (६७) चास्य च्यावित्यत्राकारस्यैव निर्दिश्यमानत्वान्माली भवतीत्यादा- वादेशो न स्यादिति वच्यम् । तत्र जातिपक्षाश्रयणात् । न भूसुधियोरिति निषेधसामयन ग्रहणकशास्त्रगृहीतानां निर्दिश्य- मानकार्थित्ववोधाच्च । नन्चियडबङोर्डित्त्वं व्यथै, निर्दिश्यमान- त्वेनैवान्त्यादेशस्य डित्त्वं विनाप्युपपत्तेरिति चेन्नं । धातोरपि निर्दिष्टत्वादन्त्यादेशत्वार्थन्तस्यावश्यकत्वात् । रीटिङोर्डित्त्वं तु स्पष्टार्थमिवेत्याधिक नागेशीये। नन्वयं जरशब्दो न जराशब्दोऽत आह । एकदेशेति । एकदेशविकृतमनन्यवदिति न्यायशरीरम् । अनन्यवदित्यस्यान्यवन्नेत्यर्थः । तत्रान्यसादृश्यनिषेधेऽन्यत्वाभावः सुतराम् । अत एव तादृशादर्थबोधः । अन्यथा शक्ततावच्छेदका- नुपूर्व्यज्ञानात्ततो न स्यादिति शब्दकौस्तुभगुणे विवेचितमस्माभिः । इदं च प्राग्दीव्यत इत्यत्र चतुर्थ स्पष्टम् तद्यथा दीव्यत इति कोऽयं शब्दो दीव्यति शब्दैकदेशदीव्यच्छब्दानुकरणमिदम् किमर्थं विकृतनिर्देशः । एतदेवज्ञापयत्याचार्या भवत्येपा परिभाषा एकदेशविकृतमन- न्यवदिति यत्र त्वर्द्ध तदधिकं वा विकृतं तत्र जातिव्यञ्जक- भूयोऽवयवदर्शनाभावे तत्त्वाप्रवृत्तौ कार्यसिद्धयर्थ विकृतानलस- पावयवप्रतीत्यर्थ च स्थानिवत्सूत्रमिति दिक् । परत्वाजरासति । जराया इति सूत्र निर्जरसावित्यादी सावकाशम् । टाडसीत्या- दिकं तु रामेणेत्यादौ सावकाशम् । इन्नादिविपये विप्रतिपेधशास्त्र- पावल्याजरसादेश एव । वृत्तिकृतति । इति केचिदित्युक्तमि- त्यन्वयः किमुक्तं तदाह । पूर्वविप्रतिषेधेनेत्यादि । विप्रतिपेध- वोध एवं (६८) फक्किाप्रकाशः। सूत्रे परशब्दः क्वचिदिष्टार्थवाची । इष्टश्चेनाद्यादेश एव स च नादेशे विधातव्य इकारदीर्घाकारौ क्वचिदपि स्वरूपश्रवणफलको विधतः सूत्रकृतः। समाजग्रस्त इति तदभिमानः । तर्हि सन्निपा- तपरिभाषया क्यं जसित्यत आह । अनित्यत्वमिति । अत्रा- पीरारदीर्घानुकरणमेव ज्ञापकमित्यमिमानः । तदनुसारिभिारति । ये तु निर्जसिनेत्यादि व्याचक्षते तेपा मतानुयायिभिरित्यर्थः । पष्ट्येक्वचने इति । एकसूत्रोपात्तत्वात्स्यादेशविषयेऽपि पूर्ववि- प्रतिषेधाश्रयणमिति तद्गावः । एतच्च भाष्य इति, इनातोरिका- रदीर्वोच्चारणप्रत्याख्यानपरभाष्येत्यर्थः । जराया इति सूत्रे सप्तमे अष्टमे तत्संगृहीतम् निर्जर्गिति भवितव्यं सन्निपातपरिभाषयेति माष्यति चार्थः । इत्यं हि प्रत्याख्यातम् । टाडसीतिसूत्रे नादे- गोऽदादेशश्चास्तु । आटि चाप इति सूने आडि चोत योगं विमज्य बहुवचने झलीत्यत एत्वमनुवाडे च परे एत्वं स्यादिति विभक्तेन सूनान ममीहितरूपसिद्धेः। न च नादेशे कृते हलि लोपप्रवृ- त्यानेनेत्येतन सिध्यतीति वाच्यम् । अनाप्यक इत्यनाऽनापीति च्छित्वा नपुंसात्सोलकि नलोपेनापोः समाहारे सप्तम्येकवचनं नकारे परतो विशियानादेश विधानसामध्यन हाल लोपामवृत्तेः । न च टसेरदादेशे पररूपापत्तिः । अमारोच्चारणसामाद्दीघस- म्भवादति । अन्ये तु अयं मान्यविरोधो निर्जसिनेत्यादिरूपागेन तु पृर्वविप्रतिषेधाने जगया इति सूत्र माय जरमादेगविम- तवादेगानामे पूर्णविप्रतिपेपेने त्वात् । तद्यथा जरासीत्या नुम- जग्मोः प्राप्त गोषिप्रतिपेधेन जरामिति विमत पादेगा पूर्व जरस:
षडलिंगम् । (६९) 'प्रवृत्ती तु शिभावात्पूर्वञ्जरास कृते तदा सर्वनामस्थानत्वाभावा- नुमा विप्रतिषेधविचारसङ्गतिः किञ्च टाङसीति सूत्रे कैयटः भाष्य- कारस्सन्निपातपरिभापया जरसादेशमनभ्युपयन्नतिजरेणातिजरादिति भाव्यन्न तु अतिजरसि नातिजरसादिति गौरवमुभावितवानिति विभक्त्यादेशात्पूर्वञ्जरसादेशे तु इनाद्यप्राप्त्या सन्निपातपरिभाषया जरसादेशमनभ्युपयन्नित्यस्यासङ्गतिरिति दिक् । तस्माद्भाष्येष्टेन पूर्वविप्रतिषेधेन विभक्त्यादेशे कृते ततस्सन्निपातपरिभाषाया अत्र भाष्ये संचारितया नजरसित्याहुः । तदपरे न क्षमन्ते विभक्तिस- ज्ञाद्यनपेक्षत्वेनान्तरङ्गत्वाजरसादेशं बाधित्वा शिभावे तस्य विप्रति- धविचारसंगतिः। अत एवातिजरसं पश्येत्यत्र संनिपातपरिभाषया लुग्वारणं भाष्ये संगच्छते । व्याख्यातञ्च कैयटेन । परत्वान्नित्यत्वा- चामभावात्प्राग्जरसि कृतेऽनदन्तत्वादभोऽप्राप्त्या लुकः प्राप्तिरिति । इदन्तु न सत् संज्ञाकृतवहिरंगत्वस्यानाश्रयणाद् इति दर्शयिष्यते स्त्रीप्रत्यये शिभावस्यापि क्लीवत्वाद्याश्रयणाच । नन्वेकस्यैकैव संज्ञेति सूत्रबोधिते विशेषानवगतिस्तदाह । या परेति । योस्साव- काशयोः परैवैकस्यानिरवकाशत्वे तु निरवकाशैवेत्यर्थः । ननु संज्ञयैव संज्ञा वाध्यतां परत्वादिना कृतं सूत्रेणेति चेन्न । अधि- कारातिरिक्तस्थले तव्यदादी कृत्कृत्यप्रत्ययसंज्ञादीनां समावेशदर्श- नेन विरोधाभावाद्विप्रतिषेधसूत्राप्रवृत्तेः । नन्वेवं विप्रतिपेधसूत्रा- प्रवृत्तौ कथमत्र परत्वादिवर्णनमिति चेन्मैवम् । परत्वादेरन्यत्र प्रवलत्वेन दृष्टतयात्रापि तादृशरीत्यैव व्यवस्थोपपत्तेः । न च राजन्य इत्यादी सुप्तिङन्तमित्यनेन पदत्वं स्यादेव परया भसंज्ञया तु न (७०) फकिकाप्रकाशः। वाध्यत पदसंज्ञाया अन्तरङ्गत्वादिति शंक्यम् । समानावधिकाया अन्तरंगाया अप्यनया वाध्यसामान्यचिन्तयाऽपवादत्वेनैव वाधात् कचित् समानावधिकयोरपि संज्ञयोस्समावेशस्तु गमकवलादेवोत दिक् । तेनोते । अनवकाशत्वेनेत्यर्थः । पदसंज्ञायास्सर्वनाम- स्थानवजे हलजादिर्विषयः । मसंज्ञायास्त्वजादिरित्यतद्विपयापि पदसंज्ञाप्रवृत्ती मसंज्ञानिरवकाशवेत्यभिप्रेत्याह । शसादावचीति । पूर्वस्मादिति । अचः परस्मिन्नित्यत्र पूर्वस्माद्विधिारति पंचमीसमा- सस्याप्याश्रयणादयमों लभ्यते इति भावः । इति पक्षे विति । तुनास्य पक्षस्यानित्यताववोध्यते इत्यन्यत्र वक्तव्यम् । अव्य- वाय इत्येवेति । अकुप्वाङित्यनेनैवेत्यर्थः । एवकारसाधका- न्तराभावं व्यनक्ति । पूर्वनासिद्ध इति । इयञ्च परिभाषा न्यायसि- दार्थानुवादिका । त्रिपाद्या असिद्धत्वन वत्रत्ये कर्तव्येचः परस्मि- नित्यतिदेशस्याप्रवृत्तेः । एतत्फलन्त्वतिदेशान्तराणां वत्यर्थ- घटितानां त्रिपाद्यामप्रवृत्तेधिनम् । तेनामी क्षीरपेणेत्यादी मीत्वणत्वे सिध्यतः । तत्रकारस्थादसंवन्धित्वं ये इत्यस्यैकाजु- त्तरपदत्वश्चान्तवद्धावाधीनं तस्स दोप इति । इदं वाचनिकं न तु ज्ञापकसिद्धम् । न मुने इत्यत्र नेति योगविमागस्य भाष्येऽदर्शनेन तस्य ज्ञापक्त्वामावादित्याहुः । तस्य पूर्वचासिद्ध इत्यस्य दोपो याधस्तथा च स्थल गये स्थानिवद्गावो वक्तव्य इति तदर्थः । ननु राघवाच्छसादाविति वक्तव्ये यताधिक्यं किमर्थमत आह प्रकारा- यमिति । प्रकारकः सादृश्यं तय साधारणधर्मसम्बन्धप्रयोग्यम् । साधारणधर्मवर चोपमानोपमेयोमयवृत्तित्वम् । उपमानत्वं षडलिंगम्। (७१) साधारणधर्मवत्वेनेपदितरपरिच्छेदकत्वंम् उपमेयत्वमाप साधारण- धर्मवत्त्वेनेषदितरपरिच्छेदकत्वम् तथा च स्वादौ शसादौ चोभयत्रापि सुप्त्वस्य साधरणधर्मस्य वृत्तित्वात्सुत्वनैव सादृश्यम् तदध्वनयन्नाह । औझ्यामिति । तत्रैव मानमाह । भाष्ये इति । तत्र हि शस्मभृ- तिष्वित्युच्यतेऽशस्प्रभृतिष्वपि दृश्यते ककुद्दोपणी याचते महादेव इत्युक्तम् । अस्य भाग्यस्यापि सुप्त्वेनैव सादृश्यमित्यत्रैव स्वरसः। प्रायोज्यनञ्चटिते नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्यावग- तिरिति न्यायेन सदृशार्थावगमात् । तदुक्तं भाष्येऽब्राह्मणमानये- त्युक्ते ब्राह्मणसदृशमानयति न, हि कश्चन लोष्टमानीय कृती भवतीति । अन्यथान्यत्रापि दृश्यत इत्युच्यतेति सर्व संवादचि- न्तामणी व्यक्तम् । एवं च मांस्पचन्याः पदंघ्रिः हृन्मानसमि- त्येतषु न लुमताङ्गस्येत्यस्यानित्यत्वेन स्वादिपरत्वं वोध्यम् । एतेन शब्दत्वेन ‘प्रत्ययत्वेन वा सादृश्यामिति केपांचिदुक्तिर- पास्ता । वा शोकष्यञ् रोगेष्वित्यस्य वैयर्थ्यापत्तेः । अत्र सुप्रभृ- तिष्विति वाच्ये शसप्रभृतिष्वित्युक्त्याऽन्यत्र क्वचिदेव प्रवृत्तिा- व्यतेऽत एव यत् हन्निशां ग्रहणं चरितार्थम्, । तेषां द्विविधानामापि कोशसिद्धतया तत्र तृवत्कोष्टरित्यत्र व्यवस्थार्थताया एव वक्तव्यतया सुमात्रे प्रवृत्तौ तस्या असंभवेन तदैयर्थ्यमेव स्यादिति दिक् । काशिकायाः प्रामादिकत्वमुक्तं ध्वनयन्विवृणोत । आस्ये भवमिति । शरीरावयाद्यत् । तथा च श्रुतिः ." आस्रो वृकस्य वर्तिकाम् ॥ इत्यादि । तत्र वृकस्य आस्नो मुखादित्येव निरुक्तार्थात् ॥ अत एवेति । ककुद्दोपणी इति प्रयोगादेवेत्यर्थः ।
(७२) फकिकाप्रकाशः। यद्यपि ककुच्च दोपश्चेति समाहारद्वन्दे एकशेपे च कृते भाष्य- मन्यथोपपन्नं दोपशब्दस्य नपुंसकत्वं प्रामोति । तथापि ककुच्छ- ब्दस्य पृथक्पदत्वं युक्तम् । अन्यया बाहोर्दित्वे लब्धेऽपि ककु- दित्यस्येकत्वं न लभ्येतेत्याशयः। तेन तमुपाद्रबद्यम्य दक्षिण दो- निशाचर इति रघुकाव्यमनुगृहीतं भवति । तत्र दक्षिणं दोर्बाहुमुद्यम्य तल्लवमुपाद्रवादिति सम्बन्धः । साहचर्यादिति । पुंल्लिंगादिनिर्णायक साहचर्यादिकमापि स्वसंकेतेनोक्तममरासिंहेन प्रायशो रूपमेदेनेत्या- दिनेति भावः दोषमिति । 'दोपं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुणम् ' इति नैषधः । दोपं हस्तं दृपणं च भजतश्चापस्येति संबंधः । ननु दीर्घाच्छसाति सूत्रयता प्रथमयोः पूर्वसवर्ण इत्यनेन सिद्धेदीर्घाच्छस्येव पूर्वसवर्णदीर्घ इत्यर्थके नियमे नादिचीत्यत इचीत्यपकर्पणार्थश्चकारोऽनुवर्तितनकारश्च नाश्रय णीयः । फिंच शस्यप्यातो धातोरित्यस्यैवेह प्रवृत्तरत्रानुपयुक्त चेदं सूत्रामति ध्वनयन्नाह । यद्यपीत्यादि । उक्तं नियमफलं दर्शयति । गौर्यो गौर्य इति । इत्याद्यर्थमिति । नियमत्वेन पूर्वसवर्ण- दीर्घव्यावृत्यर्थमित्यर्थः । न्याय्यत्वादिति । विश्वपाशब्दोऽपि शसि प्रवृत्तियोग्यत्वादित्यर्थ इत्याहुः । यद्यपि क्त्वोल्यव् अश्शा- नज्झावित्यादिसूनगत सौनत्वादेव निर्वोढुं शक्यते तथापि क्त्वोल्य भवति नश्नानज्झमरतीति व्याख्यानवाक्यस्थन्तत्सा- धयितुं वार्तिककृता आतोऽनाप इति वक्तव्यमित्यारब्धं तच भाष्ये प्रत्याख्यातं योगविभागेन तदाह आत इति । एवञ्च माण्यवार्ति- कृता एव निर्णियोक्त आकारस्सर्वोऽपि रोपविषय इति स्वरसः।
पलिंगम् । (७३) तर्हि धातुग्रहणं व्यर्थमत इतीयतैव सिद्धेरिति चेन्न । आवन्त- व्यावृत्तिफलकत्वात् । एवञ्च धातोः किं हाहान् अव्युत्पन्नमिदम् । यदिहेति कष्टे जहातीति क्रियाशब्दस्तदा अकारो वासुदेवस्तेन सह वर्तते सास्तान् सानित्यत्र लोपस्यादुतो 'धातुग्रहणमित्युक्ति- रसमाजग्रस्ता अव्युत्पन्ने हाहाशब्दाद्दौ प्रमाणीभूताभिधाने साशब्दाद्दौ वा लोपस्य भाष्यवार्तिकयोरष्टत्वात् । एतेनाचारक्कि- वन्तात्कर्तृविपते प्रयोगा निर्वाह्या इत्यपास्तम् । आचारक्विवन्तस्य भाष्ये काप्यनुपन्यासेनादन्तेभ्यः कर्तृविपोऽनभिधानस्यैव लाभा- चेति दिक् । शेषः किमिति । पूर्ववर्तिना यूस्व्याख्यावित्यनेन नित्यस्त्रीलिङ्गयोर्दीधै दूदन्तयोर्नदीसज्ञाविधानात् । ङिति ह्रस्व- श्चेत्यनेन च दीर्घे दूदन्तयोस्त्रीलिङ्गयोर्हस्वे. दूदन्तयोर्विकल्पेन नदी- सज्ञाविधानात् । ध्यसखीत्यपि यूहस्वपदे अनुवर्त्य तत्रैव सामान्यतो घिसंज्ञाविधानेन समाहितरूपसिद्धेः शेषपटं व्यर्थमिति प्रष्टुरभिप्रायः । मत्यै इति । नदीत्वपक्षेऽपि वित्वे सत्याण नद्या इत्याडागमे घेड़ितीति गुणेऽवांदेशे च मतयै इत्यनिष्टमापद्यतेत्यु- र्भावः । वस्तुतः पुन्नपुंसकयोः प्राप्तौ सावकाशां घिसंज्ञां वाधित्वा मत्यै इत्यत्रानवकाशत्वान्नदीसंज्ञवै भविष्यतीति व्यर्थ शेषग्रहण- मित्याशयेनाह एकेति । अधिकारादिति । कडाराः कर्मधारये इत्येतत्पर्यन्तमधिकारस्य बुद्धिस्थत्वादित्यर्थः । नन्वेवं पुरुषपर- स्मैपदसंज्ञयोरेकत्र समावेशः कथम् । कथञ्च गुरुनदीत्वयोर्लघु- घिसंज्ञयोरिति चेन्न । णलुत्तमो वेति ज्ञापकादेव समाधानात् । अंत्ये च गुरुलघुसंज्ञे वर्णस्य नदीघिसंज्ञे तदन्तस्येति भिन्नावधि- (७४) फक्किाप्रकाशः। . कत्वात्समावेशादिति दिक् । स्पष्टार्थमिति । स्पष्टतया तदन्त- विधिामार्थमिति भावः । यू किमिति । ह्रस्व इत्यनुवृत्त्या निर्देश- ज्ञापकादिनेष्टमतिपत्तावपि विशेष्येणेदुतोरप्यनुवृत्ती किंफल- मिति प्रश्नः । मात्रेइति । अत्र पित्वे घाईतीति गुणः स्यादिति वित्वनिवृत्तिः फलम् । ननु ऋतो डीति गुणेन व्यर्थन ऋदन्ते घिसंज्ञाभावज्ञापनेनात्र दोपाभावस्तस्मात्परिच्छेतृवाचिनो मातृ- शब्दस्य टाविभक्ती पित्वे सात याडो नेति नात्वापत्त्या मात्रेति प्रत्युदाहर्त्तव्यमिति चेन्न । ऋतो डोत्यस्य यू इत्यनुवृत्तावेव तात्पर्यग्रहफलकत्वान्मुक्तेर्युक्तत्वात् । ननु यू च्याख्यावित्यत्रैव यूग्रहणं न कर्त्तव्यं डेराम् नद्याम् हवनयाप इति ज्ञापकेन नेयवस्थानेति नदीत्वनिषेधे इयडुवस्थानत्वेनाचिश्नु इत्यत्र योरेव प्रसिद्धत्वेन चेदूदन्तोरेव ख्याख्यनदीत्यतावता सूत्रेण सिद्धेस्तत्कथमत्रानुवृत्तिरिति चेन्न । अनेकगौरवापत्तेः । ननु दीर्घयो' इति निर्देशासंगत्या ह्रस्वयोर्ग्रहणमस्तु दीर्घयोस्तु ग्राहक- त्वात् सिद्धेः । न चाणुदिदित्यत्राशब्दसंज्ञत्यनुवृत्तिरन्ययोकालसूत्रे ग्राहकतापत्तिः । नेयडुबढित्यत्र निपेधपर्युदासाभ्यां सवर्णग्रहणस्य ज्ञापनात् । तदुक्तं माप्येविगेपणनदीसंज्ञा उत्सर्गस्तस्या ह्रस्व- योर्विसंज्ञापवाद इति ख्याख्यस्य हवदीर्घा सञ्ज्ञा तु वाध्य- त्वलक्षणमादृश्यादुत्सर्ग इति व्यवहार इति चेन्न । अनेकलेश- कल्पनापेक्षया दीर्घयोरेव निर्देश इति पक्षस्यैव मुकरत्वात् छन्दोव- सूत्राणीति भाष्योक्तर्निटंगोपपत्तिः । ननु यू इति' किमर्थमित्या- शंक्य माने मातरित्यादावाण नद्या इत्याद प्रसज्येतोते माध्यो- पलिंगम् । (७५) क्तमसंगतं नवृतश्चोत ऋग्रहणेन ऋदन्तानां नदीत्वाभावबोध- नादिति चेन्मैवम् । अख्यर्थे बहुपितृक इत्यादी काफलत्वादि- त्याहुः । ननु घेर्डीत्येवास्तु । यस्मिन् विधिस्तदादाविति परिभा- पया डकारादौ सुपीत्यर्थेन सकललक्ष्यनिर्बाधत्वात् । न चाड्या- जरायामुपसंख्यानमिति वार्तिकेनाआदेशे आदित्वाभावेन गुणाप्रवृत्त प्रवाह वेति रूपासिद्धिरिति वाच्यम् तत्रापि ङादेशस्यैव विधेयत्वादिति चेन्मैवम् । अण् नद्या इत्यत्रापि. ङीत्यस्यानुवृ- त्तावल्विधित्वेन स्थानिवद्भावाप्रवृत्त्या मत्यामित्यादावाडागमा- नापत्तेः । इग्रहणे तु अनुवन्धकार्यत्वात्स्थानिवद्भावः सुलभ इति स्त्रीप्रत्यये स्फुटीभविष्यति । ननु सुतरांसखोत विग्रहीते राजाहः सखिभ्य इति टचा भाव्यमित्याशंक्य न पूजनादिति निषेधप्रवृत्तये विवृणोति शोभनः सखा सुसखेति । एवमातिशयि-- तसखेत्यत्रापि बोध्यम् । ननु सखिशब्दस्य विहितं कार्य कथ- मत्र स्यादत आह आङ्गत्वादिति । तत्तत्कार्यस्याङ्गाधिकारस्थत्वे-. नाधिकृतमंगं प्रति सख्युर्विशेपणाद्येन विधिरिति प्रवृत्तेस्तदन्त- लाभादिति भावः । सखेत्यादौ व्यपदेशिवद्भावेन बोध्यम् शेषो ध्यसखीत्यत्र नञ् न प्रसज्वप्रतिषेधकोऽसमर्थसमासादिति दोपात् किन्तु पर्युदासकः स च सदृशग्राही । सरखीसदृशश्च समुदायो नास्तीत्यभिप्रेत्याह समुदायस्येति । ननु · पर्युदस्यमानसमर्पक- सखिशब्दे तदन्तग्रह समुदायस्यापि सखिशब्दान्तभिन्नत्वाभावेन कथमत्र निषेधाभाव इति चेन्मैवम् । विशेष्यासन्निधानेन येन विधिरित्यस्याप्रवृत्तेस्तदन्तालाभात् । सत्यपि विशेष्ये सखिश- (७६) फकिसानकाशः। । ब्दभिन्नान्तस्यत्येवार्थो न तु सख्यन्तभिन्नस्यति । नकार्थीमा- वापन्नस्य सखिशब्दस्यान्यत्रान्वयायोगात् । यस्येति चेति सूत्रे भाष्यकारस्त्वत्रापि असखीति घिसंज्ञानिपेधमभिप्रति । तद्यथा । इवर्णस्य किमुदाहरणमतिसखेरागच्छति । यद्यत्र लोपो न स्या- त्तदा प्रकृतीकारस्य डीपा सह दीर्घ पूर्वान्तवद्भावेन सखिशब्द- त्वादुपजसनहस्वत्वे कृतेऽपि घिसंज्ञा न स्यात् लोपे तु लक्षणप्रति- पदोक्तपरिभाषया न दोपो भवतीति । साखिशब्दस्य तटवयवे लक्षणा ततश्च सख्यवयवभिन्नयोरिदुतोरिति वर्णसंज्ञापक्षे तत्सू-' त्रार्थः । इउवर्णान्तसंज्ञापक्षेऽप्यसखीति य्वोरेव विशेषणं ततस्त- दन्तावधिः । ततश्च सख्यवयवभिन्नवर्णोवर्णोन्तमिति तदर्थः । एवञ्च प्रकृतेन घिसंज्ञति भावो भाष्यकर्तुः । पूर्वरीत्या तु विशि- एस्य सखिभिन्नत्वेन घिसंज्ञा निर्वाधवति भाष्यासंगतिरेखेति दिगि- त्याहुरन्ये । एतेन शेषो ध्यसखि पती पतिसखी समास एवेति वा सूत्र्यतामिति परास्तम् । उक्तमाष्यरीत्या सुसख्येत्यादीष्टासिध्या तथान्यासस्य कर्तुमशक्यत्वात् । इहं पतिना सखिनेत्यादिपुराणादौ दृष्टं त्वसाधेवतद्याकरणान्निष्पन्नत्वात् । ननु परमश्चासी सखा चेति विग्रहे न पूजनादित्यस्याप्रवृत्तेष्टच स्पादित्यत आह यस्येति विग्रह इति । नन्वेवं सत्युपार्जनत्वं तचेतरविशेषणत्वेनापिस्था- पकत्वमित्युक्तं तत्कयं तत्कार्यमित्याशंक्य वाधवचनामावाद- विगेपाइविष्यतीत्याह । गौणत्वेपोति । उपसर्जनत्वेऽप्यस्थ्या- धनवादत्यर्थः । न च गौणमुरययोरिति वाधकम् । अत्र गौण- त्वामावात् अप्रसिद्धलाक्षणिकत्वान्यतररूपत्वस्यैव तत्त्वात् गीणो- षडार्लंगम् । (७७) पसर्जयोः पर्यायत्वेऽपि न्यायेनैव सिद्ध उपसर्जनानां सर्वना- मत्वनिषेधपरवार्तिकभाष्यादयो विरुद्धेरन् न्यायस्य पदकार्ये प्रवृ- त्तेश्चेति दिक् । सखीशब्दे सख्यशिश्वीति भाषायामिति डीषन्तेऽपि लिङ्कविशिष्टपरिभाषया सखिकार्यमाशंक्याह । अनित्यत्वादिति । शक्तिलांगलांकुशेति वार्तिके घटघटीग्रहणमत्र लिङ्गम् । उपसर्ज- नेऽप्युक्तं कार्यमाशंक्याह । इहेति । लाक्षणिकत्वादिति । लाक्ष- णिकस्यानुमीयमानरूपत्वाप्रतिपदोक्तस्य प्रत्यक्षत्वादिति परिभाषा- बीजम् । ननु बाधकामावादविशेषादुपसर्जने त्रयादेशः स्यादत आह । गौणत्वे तु नेतीति । उपसर्जने तु . नेत्यर्थो यथानन्तरो- तस्यामि सर्वनाम्न इत्यस्यानुपसर्जने एव प्रवृत्तिस्तद्वत्तत्साहच- दिस्यापीति भावः । केचिदिति । अत्रासाचैवजिन्तु साहचर्य- स्यासार्वत्रिकत्वं सूत्रान्तरस्थतदाश्रयणे दृढतग्रमाणाभावश्चेति अत एवाह वस्तुत इति । गौणमुख्यन्यायस्यात्र प्रवृत्तौ समन-. न्तरोक्तसमाधिरनुसंधेयः । षड्भ्यो लुक् पट् चतुभ्यश्चेति- वदर्थप्राधान्यवोधकवहुवचनस्यात्रांभावागौणेऽपि त्रयादेशो च्याय्य इत्यादिकं संगतमिति हलंते वक्ष्यते । ननु सूत्रेयङ् इत्ये- • वास्तु मैवम् । अयङ्यीत्यादाविवोच्चारणार्थत्वशंकावारणफलक- त्वात् । एतेन तत्करोतीति णिचि प्रकृत्यैकाजिति टिलोपाभावे तु कित्रित् तस्य त्रयाणामिति साधनार्थ त्रयादेशः । नच तु कित्रि- शब्दो नास्ति नच यदागमा इत्यस्य प्राप्तिर्हस्वमात्रस्यागमत्वा- दिति वाच्यम् । अवयवावयवोऽपि समुदायावयव इति स्वीकारा- दिति मन्दोक्तमपास्तम् । सत्यभिधाने निर्दिश्यमानपरिभापया . + (७८) फक्षिकाप्रकाशः। त्वदुक्तरूपस्पैवासंगतेः । यदागमा इति लभ्यस्यार्यस्य स्थानित्वा- भावो येन विधिरिति बोधिततदन्तस्य च निर्दिश्यमानपरिभाषया क्रियते तेन उदस्स्थादित्यत्र पूर्वसवर्णो न सुपद इत्यादी पाद इत्यस्य पदादेश इति सिद्धान्तात् । किश्चात्र तु कियदागमा इत्यस्य कुतो न प्रवृत्तिः प्रणिदापयतीत्यादी दापेः कथं धुत्वमित्या- शंक्य यदागमा इत्यनेन भविष्यतीति दाधेतिसूत्रे भाष्योक्तेत्रितो- ऽपि तुल्यत्वात् । प्रनिदारयतीत्यत्र रेफोदाग्रहणेन न गृह्यते आकारस्य तदागमित्वेऽपि दा इत्यस्य तत्त्वाभावादिति स्पष्टमाकरे । अवयववयवः समुदायावयवोऽपीति त्वपसिद्धान्तः तत्साध्यार्थस्या- न्यथैवोपपत्तेरित्ति दिक् । यद्यपि निजां प्रयाणामिति निर्देशन त्रयादेशस्य सान्तत्वाभाववदुचारणार्थत्वशंकामावोऽपि शक्यते वक्तुन्तथापि लाघवाभावात् त्रेरयङ् न कृत इति नत्त्वम् । विपर्य- न्तानां किमिति । युष्मदस्मदोरात्वयत्वलोपविशेषविहितरत्वस्य बाधात्किमः कादेशविधानाच न दोप इति प्रश्नः।भावानिति भवंत्सु इति स्थिते तकारस्यात्वे अतो गुणे इति पररूपे उगिदचामिति नुमि सर्वनामस्थान इति दीर्घ मुलोपे नलोपे च भवा इति स्यादिति मावः । उत्तरे दत्तेऽपि दाढर्याय पुनराह भवन्ताविति । पूर्ववदत्वे पररूपे नुमि दीघे च भवानाविति स्यादिति भावः । नये रामाणामित्यवकाशयोराट्नुटोयुगपद्बहुश्रेयस्यामित्यत्र प्राप्ती विप्रतिषेधसूत्रप्रवृत्तेराह । इह परत्वादिति । ननु तावदाडामोः प्राप्तावनवकाशत्वादाट वाधित्वाम्भवति चागमादे शयोध्यवाधकमावो न दृष्टचरः । दीर्घाकित इत्यत्रापवादो । न:
। षडालैंगम् । (७९) नुग्दीर्घत्वस्येति भाष्योक्तेदृष्टत्वात् । एवञ्च बाधितत्वे न पुनरप्रवृत्तेराटः कथं नुटा विप्रतिषेधविचार इति चेन्मैवम् । अपवांदेन विनिर्मुक्ते पुनरुत्सर्गः प्रवर्तत इत्यदोषात् तौ सदित्यादिनिर्देशात् अत एव च गण इति सूत्रेणेत्वन्नापवाद- त्वाद्धलादिश्शेष बाधते किं तीनवकाशत्वादिति गुणो यड्लुको- रित्यत्रोक्तं भाष्ये । नन्वेवमपि शब्दान्तरस्य प्राप्नुवन्विधिरनित्य इत्यनित्ययोराडासोः परत्वादामिति पादः पदित्यत्र भाष्याक्तं विरुध्येतति चेन्न । तस्यैकदेशित्वोक्तेः परत्वादुत्कृष्टत्वादपवाद- वादित्यर्थेनादोपाच्च । आटा नुडिति । ननु रामो लाक्षाणिकत्वा- न्नुटोरप्राप्तिरेखेति चेन्न । अत्र नुट्प्रवर्तकभाष्यप्रामाण्येन तदना-. श्रयणात् ननु तर्हि षष्टीबहुवचनस्यामो ग्रहणमिति ह्रस्वनद्याप इत्यत्र साप्तमिकभाष्योक्तिरेव कथमिति चेत् इत्थम् । आटामिनुटो बाधित- त्वेन तस्यैवामः पर्यवसानात् । नचाटि कृतेऽपि पुनर्नुटू प्रवर्तताम् । सकृद्गतिन्यायस्यात्र लक्ष्यानुरोधेनाश्रयणात् । नन्वाण्नद्या इति सूत्रेट इत्येवास्तु आटश्चत्यत्रापि न माडूयोगे इति सूत्रभाष्येऽ- टश्चेत्येवं सूत्रितमाडजादीनामित्यापि सूत्रमनादेयमटैव सिद्धत्वादि- त्यपरमनुकूलम् । न चाटिकृते अतोगुण इतिपररूपापत्तिः विधा- नसामर्थ्यादिति चेन्न । अटश्चेति न्यासे दोपाभावेऽप्यत्र त्वट्क- रणेऽटश्चेति वृद्धयनापत्तेः । अस्वपोहसन्नित्यत्र वृद्धिनिवारणाय उपसर्गाहतीत्यतो धातावित्यपकादिति स्पष्टं न माङ्योंग इत्यत्र पष्ठे भाष्ये । नच . वृद्धिरेचीति वृद्धाविष्ट- सिद्धिः । बहुश्रेयसी अ ए इत्यास्थिते पररूपापत्तेः।
(७८) फकिकामकाशः। त्वदुक्तरूपस्यैवासंगतेः । यदागमा इति लभ्यस्यार्थस्य स्थानित्वा- भावो येन विधिरित बोधिततदन्तस्य च निर्दिश्यमानपरिभाषया क्रियते तेन उदस्स्थादित्यत्र पूर्वसवर्णो न सुपद इत्यादी पाद इत्यस्य पदादेश इति सिद्धान्तात् । किश्चात्र तु कियदागमा इत्यस्य कुतो न प्रवृत्तिः प्रणिदापयतीत्यादौ दापेः कथं धुत्वमित्या- शंक्य यदागमा इत्यनेन भविष्यतीति दाधेतिसूत्रे भाष्योक्तेवितो- ऽपि तुल्यत्वात् । प्रनिदारयतीत्यत्र रेफोदाग्रहणेन न गृह्यते आकारस्य तदागमित्वेऽपि दा इत्यस्य तत्त्वाभावादिति स्पष्टमाकरे । अवयववयवः समुदायावयवोऽपीति त्वपसिद्धान्तः तत्साध्यायस्या- न्यथैवोपपत्तेरित्ति दिक् । यद्यपि निजा नयाणामिति निर्देशेन त्रयादेशस्य सान्तत्वाभाववदुच्चारणार्थत्वशंकाभावोऽपि शक्यते वक्तुन्तथापि लाघवाभावात् नेरयड् न कृत इति नत्त्वम् । दिपर्य- न्ताना किमिति । युष्मदस्मदोरात्वयत्वलोपविशेषविहितैरत्वस्य बाधात्किमः कादेशविधानाच न दोप इति प्रश्नः। भावानिति भवत्स इति स्थिते तकारस्यात्वे अतो गुणे इति पररूपे उगिदचामिति नुमि सर्वनामस्थान इति दीर्घ सुलोपे नलोपे च भवा इति स्यादिति मावः । उत्तरे दत्तेऽपि दाढाय पुनराह भवन्ताविति । पूर्ववदत्वे पररूपे नुमि दीपे च भवानाविति स्यादिति भावः । नये रामाणामित्यवकाशयोरानुटोयुगपद्भहुश्रेयस्यामित्यन प्राप्ती विप्रतिषेधस्त्रप्रवृत्तेराह । इह परत्वादिति । ननु तावदाडामोः प्राप्तावनवकागत्वादाट वाधित्वाम्भवति चागमादे- शयोध्यवाधकमावो न दृष्टचरः । दीर्घाक्ति इत्यनापवाडी । न.
षडार्लंगम् । (७९) नुग्दीर्घत्वस्येति भाष्योक्तेदृष्टत्वात् । एवञ्च बाधितत्वे न पुनरप्रवृत्तेराटः कथं नुटा विप्रतिपेधविचार इति चेन्मैवम् । अपवादेन विनिर्मुक्ते पुनरुत्सर्गः प्रवर्तत इत्यदोषात् तौ सदित्यादिनिर्देशात् अत एव च गण इति सूत्रेणेत्वन्नापवाद- त्वाद्धलादिश्शेष बाधते किं तीनवकाशत्वादिति गुणो यङ्लुको- रित्यत्रोक्तं भाष्ये । नन्वेवमपि शब्दान्तरस्य प्राप्नुवन्विधिरनित्य इत्यनित्ययोराडामोः परत्वादामिति पादः पदित्यत्र भाष्योक्तं विरुध्येतति चेन्न । तस्यैकदेशित्वोक्तेः परत्वादुत्कृष्टत्वादपवाद-. वादित्यर्थनादोपाच । आटा नुडिति । ननु रामो लाक्षाणिकत्वा-' न्नुटोरप्राप्तिरेखेति चेन्न । अत्र नुप्रवर्तकमाष्यप्रामाण्येन तदना-. श्रयणात् ननु तर्हि षष्ठीबहुवचनस्यामो ग्रहणमिति ह्रस्वनद्याप इत्यत्र साप्तमिकभाष्योक्तिरेव कथामिति चेत् इत्थम् । आटामिनुटो बाधित- त्वेन तस्यैवामः पर्यवसानात् । नचाटि कृतेऽपि पुनर्नुटू प्रवर्तताम् । सकृद्गतिन्यायस्यात्र लक्ष्यानुरोधेनाश्रयणात् । नन्वाण्नद्या इति सूत्रेट इत्येवास्तु आटश्चत्यत्रापि न मायोगे इति सूत्रभाष्येऽ- टश्चेत्येवं सूत्रितमाडजादीनामित्यपि सूत्रमनादेयमटैव सिद्धत्वादि- त्यपरमनुकूलम् । न चाटिकृते अतोगुण इतिपररूपापत्तिः विधा- नसामर्थ्यादिति चेन्न । अटश्चेति न्यासे दोषाभावेऽप्यत्र त्वट्क- रणेऽटश्चेति वृद्धयनापत्तेः । अस्वपोहसन्नित्यत्र वृद्धिनिवारणाय उपसर्गादतीत्यतो धातावित्यपकादिति स्पष्टं न माझ्योग इत्यत्र पष्ठे भाष्ये । नच . वृद्धिरेचीति वृद्धाविष्ट- सिद्धिः । बहुश्रेयसी अ ए इत्यास्थिते पररूपापत्तेः।
(८०) फक्किाप्रकाशः। नच विधानसामध्यम वहुश्रेयस्यामित्यादौ नुटो निवारणेन चारितार्थ्यात् । ननु हवनद्याप इत्यनन्तरं डेनेंति सूत्रयित्वामी- त्यनुवर्त्य डेरामो नुइ नेत्यान्न दोष इति चेन्न । बचनारंभे गौर- वादनाकराच्च । एतेन श्रियै श्रिया इत्यादौ सावेकाचस्तृतीयादि- विमक्तिरित्यनेन विभक्तेरुदात्तत्वं माभूदागमानुदात्तत्वं यथा स्यादि- त्यइविधानस्य चरितार्थत्वात्पररूपं स्यादेवोत मन्दोक्तमपास्तम् । अर्टि सत्यप्येकादेशेन विभक्तेरेवोदात्तत्वस्य जायमानत्वादडमावप- क्षेण तुल्यत्वात् । किञ्च यथान्यासेऽप्याटोऽनुदात्तत्वेन फलम् । आग- मा अविद्यमानवद्भवन्तीत्यविद्यमानवत्त्वेन सावेकाच इति कृते एकादेशे नोदात्तत्वस्यैव श्रुतेः । अनेकाचशब्दे सुप्तेनायुदात्तश्चति वाधित्वा विभक्तरेखानुदात्तत्वश्रुतेश्च । अत एवागमा अनुदात्ता भवन्तीत्युक्ताः के पुनरागमा अनुदात्ता इति प्रश्नो आडनुदात्तोक्तो भगवता नच व्यारयामिरुपात्तः स्पष्टं चेदमायुदात्तश्चेत्यत्र तृतीये भाष्ये इति दिक् । तस्मादनकक्लेशकल्पनागोरखापेक्षया यथान्यासमेव युक्तमि- त्यलमियता । यदि गतिकारकपूर्वस्य यणित्युच्येत तदा कुमार्या- वित्यादावव्यापिरतो भाष्ये गतिकारकपूर्वस्यैवोति नियमघाटतं पठितं तेन गतिकारकपूर्वभिन्नस्य न यणिति फलति तद्दिन्नं च तत्सदृशं पूर्वपदमेवेत्युक्ते व्याप्तिः । यत् किंचित्पूर्वस्य चेत्तदाग- तिकारकपूर्वस्यैवेतरत्र तु नियमानन्तर्गतत्वावत्येवोत फलितार्या- त्तदाह । गतीति । कारकाणि कर्तृकर्मकरणसंप्रदानापादानाधि- करणरूपाणि पट् । क्रियाजनकत्वं च कारकत्वं, विभाक्तिीधा कारकविभक्तिरूपपदविभक्तिश्चेति । आधा क्रियायोग एव ।
पड़ालंगम्। (८१) अन्त्या तदभावेऽपि । तथा च प्रथमान्तस्य क्रियानपेक्षत्वान्न कारकत्वमित्यभिमानेनाह । शुद्धधियावित्यादि । शुद्धा धीर्यवोः परमा धीर्ययोरिति विग्रहः । शुद्धं ध्यायतीत्यर्थ तु यणेवेति भावः। वस्तुगत्याऽस्तिर्भवतिपरोऽप्रयुज्यमानोऽप्यस्तीति भाष्योक्तेरस्ति- क्रियायाः सर्वत्र सत्त्वात्प्रथमाया अपि कारकविभक्तित्वमायाति, प्रकृते त्वयं परिहारः । यद्यपि सत्त्वभूतार्थकधीशब्दस्य विशेषण- त्वाच्छुद्धस्यासत्वभूतक्रियाविरहाचेह कारकत्वं नास्ति तथापि प्रतीयमानामस्तिक्रियामपेक्ष्य तत्त्वमस्त्येवेतरथासुवेव न स्वात्. अत एव दध्योदनादावुपसेचनक्रियामन्तर्भूतामूरीकृत्य कृतः समासः कैयटादिभिः । अत्र यण् तु न शंकनीयः । दुर्धिय इत्यादाविव प्रत्यासत्त्यायां क्रियामाश्रित्य सुवुत्पत्तिस्तां प्रत्येवकारकत्वमिति विवेचनादिति । एवञ्च सत्त्वभूतार्थकधीशब्दविशेषणत्वाच्छुद्धस्य कथमपि न कारकत्वमिति भट्टोक्तेरभिमान. एवेति सर्वसंवादचि- न्तामणौ विस्तरेण निरूपितमस्माभिः । दुायति, दुष्टा धानं येषां, वृश्चिकाझीर्येपामिति विग्रहमभिप्रेयन्पर्यनुयंक्ते । कथं तीति । दुःस्थितेति प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपद- लोपश्चेति वार्तिकेन स्थितपदादेर्लोपः । दुःशब्दोपात्तदुष्टत्वस्य स्थितिक्रियाविशेषणत्वमिति भावः । नन्वेरीत्या प्रध्यमित्यादी भाष्योक्ते यणनापत्तिमॆवम् । प्रकर्षः प्रशब्दार्थो धीशब्दोपात्त- धात्वर्थे विशेषणमित्याशयात् । यक्रियति । या चासौ क्रिया चति विग्रहः । तं प्रतीति । तद्रांचकं धातुं प्रतीत्वर्थः । इदं तत्र तत्र स्पष्टं भाष्ये इत्युक्तं प्राक् । किं च भाष्यकृतापादानविषये तत्तद्धा- (८२) फविकाप्रकाशः। तूना स्वार्थपूर्वकवीद्धविश्लेषजनकनिवृत्तिलक्षणया ध्रुवमपाय इति सूत्रेणैव सिद्धिमासाद्य मीत्रार्थानामित्यादीनि प्रत्याख्यातानीत्याश- येनाह । वुद्धिकृतमिति । विवक्षितमिति । विवक्षात एव कारक- विभक्तयो भवन्तीति भाष्यसिातादिति भावः । ततश्च संबंध- सामान्ये पष्ठयैव समास इति नात्र कारकपूर्वकत्वमित्याशयः। उपायस्योपायान्तरादूपकत्वेनाह । वृश्चिकसंवधिनीति । सा चासौ भोश्चेति विग्रहे पूर्वपदातर्गतस्योत्तरपदस्य शाकपार्थिवादत्त्वालो- पप्रवृत्तेराह । उत्तरोति । अल्लोपयलोपाविति । अतो लोपो लोपो व्योवलीति सूनाभ्यामित्यर्थः । नच यलोपेऽलोपस्य स्थानिवत्वम् । यलोपे तन्निपेधात् । नच पूर्व वेरपृक्त इति किलोपे लपरत्वा- भावात्कथं यलोपः । बेरपृक्तलोपात्पूर्व वलिलोप इष्यते इत्युक्तेः । स्थानिवत्त्वादिति । एवं सति एरनेकाच इति यणादेशे यरोप सख इति स्यादिति भावः । ननु अन्तर्वर्तिनी विभक्तिमाश्रित्य सखी- शब्दस्य पदत्वान्न पदान्तेति निपेच इति चेन्मैवम् । नः क्ये इति सामान्यापेक्षनियमेनास्यापवादत्वात् । परपदस्थामादेशस्यैव तेन स्थानिवत्त्वनिषेधाचति वक्ष्यते । न चान्तरंगे यणि कर्तव्ये विव- पेक्षत्वेन वहिरंगस्य क्यच्संबंधियलोपस्यासिद्धत्वम् । परिमापाया अनित्यत्वात् । तत्र मूलं वक्ष्यते अत आह । पाविति । लुप्तमि- त्यन मावे क्तो लोप इत्यर्थः ॥ गोमन्तमिच्छति ततः विपि गोमानिति भाष्योरिदमपि कचित्स्वीकर्तव्यमिति भावः । सार्व- निकं तु पौविधि प्रति न स्थानिवदित्यरेति दिक् । एकदेगेति । नच दीर्घस्य कथं विकृतत्वम्, स्वरूपमंगस्यैव विकारपदार्थ- स्यात्र न पड्लिङ्गम् । (८३) 'त्वादिति भावः । अनाति । अभिव्यक्तपदार्था ये इति न्याय- विषयता गौणमुख्यन्यायवत्पदकार्यविषय- त्वादित्याहुः । ननु व्युत्पत्तिपक्षे तृनन्तत्वात्तृजन्तत्वाद्वा दीर्घ सिद्धे नत्रादिग्रहणं व्यर्थमत आह । नियमामिति । उणादि व्युत्पन्नानां संज्ञाशवदानां दीर्घश्चन्नतादीनामेव नान्येषाम् , भवन्ति हि नप्त्रादय औणादिका इति दीर्घभाजनो भवन्ति चेतरे पितृभ्रात्रादय औणादिका इति न दीर्घभाजः । धातृकर्तृयन्त्रा- दयश्च नोणादिव्युत्पन्ना इति नियमानन्तर्गतत्वाद्दीर्घभाज एवेति भावः । अव्युत्पत्तिपक्षे तु न आदिग्रहणं विध्यर्थमिति स्पष्टमेव । पितृभ्रात्रादीनामप्यत्रपक्षेऽप्तृन्निति सूत्रे पाठाभावादेव न दीर्घशं- कालेश इति दिक् । तृतीये भाष्ये तु ण्वुल्चाविति सूत्रे कि । मर्थ वकारः । अप्ठन्तृच इति विशेषणार्थः । तृ इत्युच्यमाने मातरोपितरावित्यादावपि प्राप्नोति । नप्तृग्रहणं नियमार्थ भवि- यति योनिसंवंधवाविनां चेदस्यैव नान्येषां योनिसंवन्धवाचिना- मिति तृवश्चकारो व्यर्थ इति । एवंञ्च पित्रादयोऽपि निरनुबंधक- तृप्रत्ययान्ता एवेति लभ्यते । तृन्निति सूत्रे नेष्टुत्वष्टक्षतहोतृपोतॄणां तुन्नंतत्वस्य प्रशास्तृशब्दस्यापि तृन्नंतत्वस्य भाष्यवार्तिकयोरुक्त- त्वेन तेषां ग्रहणम् दृष्टार्थ प्रपंचार्थमेव वा तथा च यथान्यासे नियमफलं चिन्तनीयमिति प्राहुः । यद्यपि तुन्प्रत्ययान्तस्य कोष्ट्रनित्यादि सिद्धयति तथापि शृगालवाचिनोस्तुन् तृजन्तयोः क्रोष्ट्रकोष्टशब्दयोरुभयोरप्यविशेपणप्रयोगे प्राप्ते सर्वनामस्थाने स्त्रियां च नृजन्त एव तृतीयादावच्युभयमन्यत्र तृन्नंतमेवेति नियमार्था (८४) फकिकायकागः। तुजवत् ऋोष्टुः स्त्रियां च विभाषा तृतीयादिष्वाति त्रिसूत्री आरभ्यते ततश्च पक्षे प्रसक्तदोषं प्रतिपादयितुमाह परत्वादिति । नच कृताकृतप्रसंगित्वेन नुटो नित्यत्वात्परस्मादपि नित्यस्य प्रक- लबत्त्वाडव तावत्स्यादिति वाच्यम् सति तृवद्भावे सन्निपातपरि- भापया नुटोऽप्रसक्त्या नित्यत्वालाभात् नुमचिरेति वारीणामित्या- दाविकोचीति नुमि सति नामीति दीर्घा न स्यादिति सफलम् । तिस- गामित्यत्राचिरस्त इति रादेशे रूपासंगतिः प्रकृतेऽपि रुपासंगति- रेख । नयाचिरक्त इति अपवादसूत्रं वाध्यसामान्यचिन्ताश्रयणेन स्वविपये प्राप्तस्य सर्वस्यापि वाधकम् अत एव गुणदीपोत्वानाम- पवाद इति वक्ष्यतीति तृवत्सूत्र स्पष्टं भाष्ये । एवं चाविशेपादनेन वाधिष्यंत नुडित्युत्सर्गापवादयोरसमबलत्वात्कयमिह विप्रतिषेध- संगतिरिति वाच्यम् । तृवत्सूत्रे न तिसिति ज्ञापकेन नुड न तु विप्रतिषेधति भोप्योक्तेः । दीर्घऋकागतस्य लकारांतस्य च प्रायः प्रयोगाभावादनुकरणशब्दं निरूपचति क त इत्यादिना । प्रकृतिवादति । अनुकरणस्य शब्दमात्रीचारणतात्पर्यविषयत्वेना- नुकार्यगन्दम्बम्पमात्रबांधकं तत्, प्रकृतिरनुकार्य तेन तुल्यं वर्तते इति तदर्थः । अनुकार्य चानुकरणादिन्नमवति मती इत्यत्र सष्टं भाष्ये । अयं चातिदेयो यत्तदेतभ्य इत्यत्रानुकरणेत्यदाय- वकग्णन ज्ञाप्यते, एकशेपाकम्णेन क्षिय इत्यादी धात्वनुकरणे विभक्तिकरणेन चास्य वैकल्पिकत्वमाप ज्ञाप्यत इत्याह वैकल्पि- केति । अनुग्णस्वानुकार्यशब्दरूपमर्थ इत्यर्थवत्वान्प्रातिपदिकलं ततः मुत्पतिः । न चैवं भृमत्तायामित्यादावापि स्यात् अव एवं पङ्लिङ्गम् । (८५) निर्देशादनुकरणाद्रिभक्त्यभावोऽपि क्वचित्, गवित्ययमाहेत्यत्र बांतस्यैवानुकरणमनुकार्यशब्दभंगभियावलोपश्च न झलां जसित्यादौ जस्त्वामाववदित्यपि पाहुः । इत्व इति । ऋत इद्धातोरित्यनेनेति- भावः । न च धातोरुच्यमानं कार्य तत्प्रत्यये भवतीति न्यायात्कथ- मत्रेत्वम् । किरश्च पंचभ्य' इत्येतत्सूत्रनिर्देशादेव तदप्रवृत्तेः । कीरिति । कृधातुरित्यर्थः । ननु ईना श्रिया सह वर्नते इति विग्रहे तेन सहेति तुल्ययोगे इति बहुव्रीही वोपसर्जनस्येति सहस्य सभावे आगुणे कृते से इत्यादि सिद्धौ तत्रैकादेशस्य पूर्वान्तव- भावेनाव्ययत्वात्सुलुागति चेन्न । लिंगाद्यन्वयार्थप्रतिपादिकत्वा- दव्ययमिति महासंज्ञाया अन्वर्थत्वेनास्याव्ययत्वाभावात् । न च •सादेशात्पूर्वमन्तरंगत्वादागुणे ततः सहेत्यस्य सादेशेऽदन्त एव नत्वेकारान्त इति वाच्यम् । नेन्द्रस्य परस्येत्युत्तरपदवृद्धिविप्रति- पेधे न पूर्वपदनिमित्तककार्योत्तरमेकादेश इति सामान्येन ज्ञापनात् । ननु स्वादिष्विति योगं विभज्य स्वादिषु पूर्व पदामिति तदर्थः । ततोऽसर्वनामस्थाने यचीति । तत्रायचीति च च्छित्वा प्रसज्यप्रति- पेधमाश्रत्य यजादी सर्वनामस्थाने पूर्व पदंन मध्ये चेत्सुवंतं तदापि पदं नेत्युक्तं भाष्ये तथा च सावपि पदत्वसत्त्वात्से इत्यादिशब्द- स्वीकारे नान्तः पादमित्यत्र न चैङः। पदान्तात्परोरस्तीति भाष्यो- क्तिया॑हन्येतति चेन्न । योगविभागसिद्धस्य सौपदत्वस्य काचित्क- त्वेनादोपात् । न च स य इत्यादझवन्ततिविभक्त्यापदत्वादेङ पंदांतादतीनि पूर्वरूपेण भाव्यामिति वाच्यम् । उक्तरीत्या पढ़त्वा- भावात् । उत्तरपदत्वे चेति प्रत्ययलक्षणप्रतिषेधाच्च । नन्वीतोम - (८६) फकिकामकाराः। शसोरित्यत्राम् शसोस्तद्धितयोरपि संभवात्सुबन्तर्गतयोरेवेति कथं विशेपावगतिरित्याशंक्याचीत्यधिकारादजादिश्शस्सुदेव संभवति न तु तद्धित इति निश्चित्याह । साहचर्यादिति । न च गामित्यत्र परत्वादचोजाणितीति वृद्धिः, अनवकाशत्वादात्वस्यापवादत्वेन वृद्धाधकत्वात्तदाह । ओतो णिदिति सूत्रे तपरकरणाद्गकारो न विवक्षित इत्यागयः । तेनौकारान्ताभावादल्विधौ स्थानिवत्त्वा- भावाञ्च चित्रगुरित्यादौ न दोपः । अन्यथांगाधिकार तदन्तवि- धिलाभात्स्थानिवत्वेन गोन्तत्वात् स्यादेव दोषः। नन्वोत इति- पंचम्यतत्वात्परत्वलामेन हे भानो इत्यादी प्रत्ययलक्षणेन संयु- द्विपरऽत्वात् णिहदावे वृद्धिप्रसंग इत्यत आह । विहितामिति । यदि वर्णग्रहणेऽपि लक्षणप्रतिपदोक्तपरिमापा प्रवर्तते इति मन्यते तदा विहितविशेषणामिति नारब्धव्यम् । किंच गोतो णिदित्यत्र तपरकरणं प्रत्याख्याय चित्रगुरित्यादी गोपूर्वत्त्वणित्त्वात्वस्वरेपु स्थानिवत्त्वप्रतिषेध इत्यनेनातिप्रसंगं समाधाय हे चित्रगो इत्यादी लाक्षणिकत्वान्न दोप इति तत्रैव स्पष्टं भाष्ये, योः सर्वनामस्थाने णित्त्वं वक्तव्यमित्यौतोम् शसोरित्यत्रोक्तं भाष्ये, पूर्वोत्तरमतयो- रुभयोराप भाष्यवाकिस्थयायुक्तत्वायुक्तत्वे विभावनीये इत्याहुः ।.. इति अजन्ताः पल्लिंगा। अथाजताः स्त्रीलिंगाः। ननु रमततेः पचाद्याचे टाऽप्येकादेशस्य पूर्वांतत्वेन प्राति- पदिकत्वात्मपि सम्बोधने हल्ठ्यादिलोपेऽपि संबुटी चेति विप- .
यत पड्लिङ्गम्। (८७.) यसप्तमीत्वात्प्रत्ययलक्षणेन वा संवृद्धिगुणे सिद्धमिष्टमित्येङ्ग्रहणं तत्र विफलमित्याशंक्याह । एहस्वादिति । संयुद्धौ प्रतिपदो- क्तत्वेन शीघ्रोपस्थितिकया हल्ङयादिलोपात्प्रथममत्वे सत्यनेनैव लोपसिद्धिरिति भावः । अत एव सन्निपातपरिभाषा न प्रवर्तते ननु रमाभिरित्यादों एकादेशस्य पूर्वा- न्तवत्त्वेन ग्रहणादतां भिम ऐम् स्यात् एवाव- न्तस्य सर्वादिगणे पाठाभावेन .सर्वनामत्वाभावमाशंक्यकादेश- स्वेत्यादि समनन्तरं वक्ष्यति । न च तपरत्वसामर्थ्यान्नन् । अकृतकादेशे विश्वपाभिरित्यादी कृतार्थत्वादिति चेन्न । वर्णमा- त्रवृत्तिधर्मस्य तेनातिदेशाभावात् । अत एव पत्वे तुकि च एका- देशो सिद्ध इत्यर्थकस्य पत्वतुकोरासद्ध इति सूत्रस्व चारिता- yम । अन्यथाधीत्येत्यादावनेनादिवद्भावे सति ह्रस्वस्य पितीति हस्वप्रयुक्ततुकसिन्दा तव्ययमेव स्यात् । नन्वस्त्वेवं वक्ष्यमाणे सर्वासामित्यादी पूर्वान्तवत्वन सर्वनामत्वेऽप्यावन्तवं कथम् । नच परादिवद्भावेन लभ्यं तत उभयत आश्रयणेनान्तादि वदिति चेन्न । उभयन इत्यस्य भाष्यकदोशनोक्तः । यद्वा लिंगविगिष्टपरिभा- पयावन्तस्य सर्वनामत्वमावन्तत्वं तु परादिबन्दावनति मृलोक्तं तु न युक्तमिति प्राहुः । सर्वस्वामित्वादी स्वाइविधंगवन्तमर्व- नानारपेक्षिनत्वेनास्मन्वदुक्तिरेय, मूलम्य तु मुधिः सर्वनामत्व- स्वापेक्षिनवन पूर्वान्तबद्भावस्यवेहोपयोगात प्रवृत युक्तति वस्तु- गतिः । केचिदिनि । निरनिनेत्यादिपरिकतार इत्यर्थः । त- निर्मूलामिति । पूर्ववत सन्निपानपरिमापाप्रवनकपरमाप्यादिवि- (८८) फक्किाप्रकाशः। रोधेन त्वोत्प्रेक्षितमूलस्याप्रमाणत्वादीते भावः । नवीनानुरोधेन विभत्तयादेशेभ्यः परत्वाजसित्यत्रापि पक्षे दोषमुद्भावयात । यद्यपीति । ननु जरसादेशः नुट्शीभावयोरपेक्षया • परत्वादास्तां जरस् एत्वयाडामा तु जरसपेक्षया परत्वात्ते एव जरसं वाधि- त्वा संपोरन • मैवम् । एत्वे कृतेऽप्येकदेशविकृतन्यायेन जरसा- देशप्रसक्त्या नित्यत्वेन जरस एव प्रवृत्तेः न चैत्वमाप नित्यम् । जरसादेशे कृतेऽपि स्थानिवत्त्वेन तप्पसक्तेरिति शंक्यम् । प्रश्ले- पस्य वक्तव्यत्वेन स्थानिवत्वाप्रवृत्तेः । याटमपि बाधते जरसं त्वंतरंगत्वात् । आकाररूपापःपरस्य डितः सुपो विहितस्य याटो वरपेक्षत्वेन बहिरंगत्वात् । आमपि वाधते जरसनित्य- त्वात् । न चाकाररूपावन्तात्परस्यामि कृते संनिपातपरिभाषया जरसोऽप्रवृत्तौ न तस्य नित्यता तस्याः परिभाषाया अनाश्रय- णादिति सर्वथा प्रथमं जरसादेशमेवोत भाव इत्याहुः । उक्तरी- तिमन्यनाप्यतिदिशति । एवं न सिति । अल्बिधित्वं व्याचष्टे । आकाररूपस्यैवेति । स्थानिन आप आकारमानाश्रयणे तथात्व- मिति भावः । अन्ये त्वाहुः । एत्वशीनुड्याडामां नित्यत्वात्प्रथम- मेतेषु कृतेषु वचिदजादित्वाभावात्कचित्संनिपातपरिमापया जरसो- ऽनापत्तिरेख । यत्तु याटो बहिरङ्गत्वमामो नित्यत्वं चोक्तं तत्तु यहि- रंगपदस्य शब्दमर्यादया वहपेक्षत्वालाभादाण्यानुक्तत्वाच्च जरसा- देशविपये विशिष्य संनिपातपरिमापाया अनित्यत्वमाश्रयतो भाष्यकृतो विरोधादुपेक्ष्यम् । पूर्वप्रतिषेधेन जरसादेशादिमत्त्यादेश एवेष्टो भाप इत्युक्तमेव । तस्मात्पूर्वोक्तपंचविधिषु कृतेषु ततो नुड- पब्लिङ्गम् ।। (८९) 'याटोरजादित्वाभावादितरत्र.संनिपातपरिभाषया जरसोऽप्राप्तौ सर्व- दोषोद्धाराजरानासिकादिशब्दे आकारप्रश्लेषस्य न फलं नापि मान- मिति । अत एवानुपपत्तेरन्यशब्दे फलं दर्शयितुमुक्तरीतिमाह एव- मिति । प्रत्याख्येयमिति । दीर्घग्रहणं हि अतिखट्दो निष्कौशां- विरित्यादौ स्थानिवद्भावेन ङ्याप्त्वमाश्रित्य लोपप्राप्तेर्वारणार्थम् । प्रश्लेषे तु ङ्यापोः स्थानिनोराकारकारमात्राश्रयणेऽल्विधित्वात्स्था- निवत्त्वाप्रवृत्तेलापाप्राप्तौ व्यर्थत्वात्तस्यति भावः । याडाप इत्यादौ प्रश्लेषफलं दयितुं चोदयति न चेति । स्वाश्रयमिति । स्वः श्रूय- माण आकारः स आश्रयोऽधिष्ठानं यस्य तत् धर्मधर्मिणोरेकाधिक रणत्वात्तदाहाकारत्वमिति । यत्तु यजादिसुनिमित्तकमित्यर्थ इति तत्त्वाकारस्य तथात्वेप्याकारत्वस्य तदभावाटुपेक्ष्यम्, यहा यथा घटोऽस्तीत्युक्ते घटत्वस्य पृथक् सत्त्वोल्लेखाभावात्समनियत- त्वेन धर्मधर्मिणोः तहाप्यास्तामित्यन्यत्र विस्तरः । स्थानिव- द्भावेनाप्त्वमिति । न च ङ्याप्स्थानिकोऽदीर्घ आदेशो न स्थानि- वदित्यर्थकेन ड्याग्रहणेऽदीर्घ आदेशो 'न स्थानि वदिति वार्तिकेन' ह्रस्वे आप्त्वस्य विच्छेदात्कथं दीर्घ स्थानिवत्वे- नाप्त्वलाभ इति वाच्यम् । याडाप इत्यादिषु , प्रश्लेमाश्रित्य स्थानिवत्त्वनिपेधप्रत्याख्यातृभाष्यमते शंकाऽसत्त्वेनादोपात् । इदं . च भाष्य एव स्पष्टं याडाप इति सूत्रे, तद्यथातिखट्वायत्यत्र स्थानिवत्त्वाद्याट प्राप्नोति तस्य प्रतिषेधो क्तव्यो न वक्तव्यः ड्याव्ग्रहणेऽदीर्घ इति स्थानिवत्त्वनिषेधादिति । याद स्वादिति । न चाकारस्य लाक्षणिकत्वान्न स्यादीत वाच्यम् । अतिदेशविपये । (९०) फक्किाप्रकाशः। लक्षणप्रतिपदोक्तपरिभाषायाः प्रवृत्तावविदेशवैयापत्तरेत आह आवन्तं यदंगमिति । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्त- दन्तस्य ग्रहणमिति परिमापयातिखटोति यदंगं न तदावन्तं यच्चावन्तं खदेति न तदङ्गमिति न याडागमप्रसक्तिरिति मावः । ननूक्तपरिमापयावन्तग्रहणेऽहं प्रत्यावन्तस्य विशेषणादावन्तान्तं यदङ्गमित्यर्यादीतखट्यायेत्यादावावन्तान्तं यदङ्गमित्यर्याद्याद स्यादेव, न चाङ्गेनैवाघन्तं विशिष्याङ्गसंज्ञकं वदावन्तं तस्माद्या- डित्यर्थान्न दोष इति वाच्यम् । अङ्गस्य विशेपणत्वे दृढतरमाना- भावात् पदाङ्गाधिकारे इति वार्तिनाङ्गस्य विशेष्यताया एव. लाभाच । खट्माया अढेऽर्द्धखट्वायामित्यादावुक्तायें सति याडना पत्तश्चति दिक। किं च श्रुतमाकारं स्मृतमनुबंधं चादायाप्त्वानुसं- धानात्स्यादेव याडिति चेन्न भाष्येऽस्याकारस्य लाक्षणिक्त्वान्न याडित्युक्तेः । न च सति खट्वाय इत्यन याडनापत्तिः । स तु निशाय इत्यादी चरितार्थमिति वाच्यम् । यस्य रूपस्य लक्ष- णप्रवृत्तिमन्तरेणासमवस्तस्यैव रक्षाणिस्य तत्परिभाषाविषयत्वेन प्रचकादेशात् प्रागपि आत्वसत्त्वेन तपत्वात्परिभाषाया अप्रवृत्तेः । ननु लाक्षणिक्त्वादाकारस्यति क्यमत्र समाधानम् । वर्णग्रहणे उक्तपरिभाषाया अप्रवृत्तेः, अन्यथा हरये इत्यत्रैसम्स्य लाक्षणिकत्वादेचोयवायोति न स्यादितिचेन्न । अनदः अदः अमवत् अदो भवदित्यन प्राप्तामोदिति सण प्रगृह्यसंज्ञा निवारयितुं लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येत्येवं न मरिष्यतीति भाष्योक्तस्तत्रापि परिभाषायाः प्रहत्तेः अब पलिङ्गम् । लाक्षणिकत्वान्न याडिति भाष्योक्तेश्व, अतिग्रसङ्गस्तूक्तस्यानि- त्यत्वाद्वारणीय इत्यधिक नागेशीये । अंगस्येत्यधिकारेण लामें साक्षाच्छ्रतत्वात्त्रियामिति त्रिचतुरोरेख विशेषणं न त्वङ्गस्येत्यभि- प्रेत्याह । स्त्रियामिति । तेन स्त्रीनिष्ठसंख्यायां वर्तमानयोरित्यर्थः संपद्यते । तेनेहेति । त्रिशब्दस्य पुन्नपुंसकवृत्तित्वेऽपि समुदायस्य स्त्रियां वृत्तेरङ्गविशेषणत्वे त्वादेशः स्यादिति भावः । प्रियतिस्रति । अंगविशेषणत्वे त्वत्राव्याप्तिः स्यादिति भावः । प्रिया जस् त्रि जस् इति स्थिते अंतरंगानपीति न्यायेन सुब्लुकि पुनः सुपि तदन्तविधिना निर्दिश्यमानपरिभापया त्रिशब्दस्यादेशः नवृत- श्चेति कप तु न समासार्थालौकिकवाक्ये ऋदंतोत्तरपदत्वाभा- वात् । ऋदुशनेत्यनङ्ग । अनित्यत्वादिति । इकोऽचीत्यज्ग्रहण- मिह ज्ञापकम् । तद्यथा । भ्यामादो नुमि सति न लोपः प्रातिप- दिकान्तेति लोप एव । न च नङि संबुद्धयोरिति निषेधात्संबुद्धा नलोपो न भवतीति तत्रानिष्टवारणायाचीत्यावश्यकम् । संवुद्धिश्च लुका लुप्तेति प्रत्ययलक्षणेन नुमः प्राप्तिर्वाच्या प्रत्ययलक्षणञ्च न लुमतेति निषेधस्यानित्यतां विना दुर्लभमित्यज्ग्रहणं व्यर्थ सत् ज्ञापकं सामान्यापेक्षमित्याकरे स्फुटम् । ननु कथं ज्ञापकत्वं वृद्धचा- त्वतज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेनेति वचनात्प्रथमं नुमि अति- राभ्यामित्यादों नलोपे सत्यपि तस्यासिद्धत्वेन नुमा व्यवधानात् रायो हलीत्यात्वं न स्यात् पदाङ्गाधिकारानुमाङ्गस्य व्यवधानाभा- वेऽपि नुम एवात्वे पूर्वस्य याण रूपासंगतेवेति चेन्न । तत्र हि वृद्धिशब्देन विहितवृद्धेरेव ग्रहणादत्रात्वस्य तथात्वाभावात् । ननु (९२) फक्किाप्रकाशः। शुचीनामित्यादी नुटि. नुमि च सतीनहनिति नियमादोर्जो न स्यादिति चेन्न । नुमचिरेति पूर्वविप्रतिषेधेन नुमं वाधित्वा नुटि सकृनतिन्यायेन नुमोऽप्रवृत्तेः । लक्षणप्रतिपदोक्तपरिभाषयात्र नियमाप्रवृत्तेश्च । न च पञ्चत्रपुभ्य इत्यादौ नुमि सतीगन्तोचरप- दद्विगुत्वमयुक्तपूर्वपदप्रकृतिस्वरो न स्यादिति वाच्यम् । समुदा- यस्य भक्तत्वेनावयवस्येगंतत्वाविघातात् अनिमित्तकत्वे नान्तरंग- त्वात्प्रथम स्वरस्यैव प्रवृत्तेश्च । बहुभिः कुलरित्यत्र नुमि पदसंज्ञ- कत्वेन झल्युपोत्तममिति प्राप्त्या तदभावेऽपि बहुराब्दस्यान्तोदात्त- तया न स्वरे विशेपः । न च अस्थिधीत्युत्तगर्थमज्ग्रहणम् । तंत्रव कर्तुमुचितत्वात् । कृतं चात्र तदनित्यत्वे जापकमिति स्पष्ट- म्भाष्ये । द्वेरत्वे सत्याविति । विभक्तिसन्निपातकृतमपि त्यदायत्वं टापो निमित्तं भवत्येव । नयासयोरिति निदशेन तस्याः परिमा- पाया अनित्यत्वज्ञापनात् । न चानिमित्तकत्वेन टापोऽन्तरङ्गत्वात्तत्र फर्तव्ये त्वस्यासिद्धत्वम् । उक्त निर्देशेनास्या अपि अनित्यत्वज्ञा- यनात् । न होकेनैकमेर ज्ञाप्यामिति राज्ञामानास्ति किन्तु यावतां विना स्वस्यानुपपत्तिस्तस्य सर्वस्यापि ज्ञापनात .। मख्याशिश्रीति दीपि यस्यति चेतीकारलोपे सखीशब्देऽपि मखिगब्दोक्तं कार्यमु- झावयति प्रातिपदिकाते । विमक्ताविति । विभक्त्याश्रये कार्य क्रियमाणे लिङ्गविशिष्टपरिभापा नेष्यत इत्यर्थः । इदं च ट्याप्पा- तिपदिकादित्यादी भाष्ये पठितम् । प्रातिपदिकतिपरिभाषाया अनित्यत्वमाश्रित्य दूषितं च तदिनि दिक । दिति हस्तश्चेत्य- नास्ति याक्यद्वयम् । एकत्र यू. इनि ख्याख्याविनि अनीइति इय- 4- पड्लिङ्गम् । डुवस्थानाविति वेति चानुवर्तते । अपरत्र तु यूइति स्त्रीवाचकका- वित्येतन्मात्राथकं ख्याख्याविति । तत्राये इयडुबइस्थानी स्त्रीश- ब्दभिन्नों नित्यस्त्रीलिङ्गाविति त्रीणीदूतोर्विशेषणं ह्रस्वयोस्तु स्त्रिया- मिति तथा चातिस्त्रिशब्दे. पूर्ववाक्यस्याप्राप्तिरित्याशयेनाह । डिति ह्रस्वश्चति । ननु नित्यस्त्रीलिङ्गाविति हस्वयोर्विशेषणं मास्तु । अन्यथा इष्वशनिप्रभृतीनामुभयलिङ्गानां मृदुपटुप्रभृतीनां सर्वलि- ङ्गानां स्त्रीत्वेऽपि नदीत्वं न स्यात् । वक्ष्यमाणे कैयटमते नित्यत्री- त्वाभावात् । मतान्तरेऽपि ह्रस्वांशे नित्यग्रहणव्यावालाभाचेति अस्त्रीति ह्रस्वयोर्विशेषणं स्वादेव ततश्च स्त्रीशब्दावयवभिन्नहस्वे- वर्णान्तादित्यर्थन कथमत्र विकल्पप्राप्तिरित्यत आह । अस्वीति । तत्र हेतुमाह । तत्सम्बद्धस्यैवेति । इबङबस्थानावित्यत्र विशे- पणीभृतस्यैवास्त्रीत्यस्य ङिति ह्रस्वश्चेत्यत्रानुवृत्तरित्यर्थः । एकत्र विशेषणतयान्वितस्यापरत्र हवांशे विशेषणतयवान्वयायोगादिति भावः । नन्वियडुवंस्थानावित्यनेनापि ह्रस्वस्य निषेधः किन्न स्वादत आह दीर्घस्यायमिति । तत्र हस्वपदाभावादिति भावः । तदाह । न तु ह्रस्वस्येति । एवञ्चेति । त्रिशब्दस्यैकदेशविकृत- न्यायनेयस्थानत्वेऽपि ह्रस्वान्तप्रयुक्त एव विकल्प इति पुष्कलम् । प्रधीशब्दस्येति । प्रकृष्टं ध्यायतीत्यर्थकस्येत्यर्थः । वृत्तिकारादीना- मिति । तेपामयं भावः । आध्ये प्रध्य इत्यादाववयवस्वेयर- स्थानत्वान्ने यवडू स्थानाविति । नदीत्वनिषेधः ग्रामोति सिद्धं त्वंगग्रहणात् । यथागस्वेयुवी भवतस्तस्येदं अणं . न चतस्याङ्गस्येयुचौ भवत इत्युक्तं भाष्य तत्र न बहुव्रीहिः (९४) फक्किाप्रकाशः। कवुत्पत्तेः किन्तु प्रकृष्टं ध्यायतीत्याद्यर्थकन्तत् । तत्र कैयटो- क्तनित्यस्त्रीत्वाभावेन नदीत्वाप्राप्त्या भाष्यासंगतिः । अतो यूख्याख्याविति सत्रे स्त्रीविषयावेव यो यू नित्यमिति माप्योक्ती एवकारो भिन्नामः । नित्यमेव यो स्त्रीविषयावित्यर्थः । नित्यमेवेत्यस्य पदान्तरं विनापीत्यर्थः । खलपृकटमग्रामण्या- दीनां मियागन्दतया पॅलिड्ने मुख्या वृनिः । पुंसः सल्वयमु- चितो धर्मशक्तत्वाद्यहितत्वाच । अतस्तेपा न पदान्तरं विना स्त्रीवृत्चित्वम् । घानादिकं तु स्त्रीपुंसमाधारणमिति । कैयटमत इति । अस्यायं भावः ।' पूर्वोक्तं नित्यस्त्रीत्वं त्वसंगतं सूरमाया- द्यक्षरमादयोक्तार्थालाभात् भाग्योदाहते कापि न नतश्चेत्यन ऋकारसाहचर्येण यस्य वृत्तेः प्राग्नदीत्वं तदुत्तरपदके व तत्प्रवृत्तेः। धौशब्दस्य चेयडूस्थानवृत्त्वेन पाइनदीत्वनिपेयात् । गतिपूर्वक- त्वाद्यणपि सुलमः । तम्मात्सप्रभाष्याद्यक्षरानुगृहीतं लिङ्गान्तरेति मदुक्तंमेव युक्तमिति । अन्ये तु प्रवृत्तिनिमित्तस्ये लिट्रान्तविशि- धार्थानमिधायकत्वं तदित्याहुः । ननु नेयसने स्थानान्दो भावल्युडन्त इयडुबडो स्थितियोरिति बहुव्रीहिम्तन नंबुद्धिवि- स्थितेरमावेन नदीत्वनिषेधाभावात् हस्वप्रामावपि तदारणाय तस्थितरुपलक्षणतया व्यारयाननेयटादिविषये तत्स- चादिति समाधानेऽपि नेयडिति समवयवम्या नदीत्वनिषेध- कम् । तदुक्तं भाष्ये । आसम्बेयदुवटम्यानपानदीवनिषेधः प्रामोतीति तया च मुभूगन्दे हस्वः म्याटेवेत्यानंत्याने माध्ये मिटं त्वा रूपग्रहणाद्यपागम्येयुवी मातम्तम्येदं ग्राणमित्युत्तम् । पये तत् - पड्डिङ्गम् । (९५) यत्र नदीकार्याश्रयेऽङ्गे वाधिकाबाधिते यङादिः स्थितिः क्वचिद् दृष्टा तस्य तदवयवस्य निषेध इति फलितार्थो भाष्ये इति व्याख्यातारः । एवं नदीत्वनिषेधादम्बार्थनद्याोरीति न हस्व इत्यभिप्रेत्य शंक्यते कथं तीति । हा पितः वास हे सुभु बढेवं विललाप सः । विधिना त्वया हापितस्त्याजितं स रामो हेसुभ्र कासीति एवं बहु विललापेति तदर्थः । रावणेन सीतापहरणोत्तर रामविलापपरम् । प्रमाद इति । विरहपीडितत्वेनानवधानलक्षणोऽत्र प्रमादः स च विरहपोषकत्वात्काव्ये गुणः । तादृशशब्दस्तु व्याकरणविरुद्ध एव । केचन सामान्येनपुंसकादिना समादधुरि- त्याह । वहव इति । ननु वाभावकरणयोरित्यतो वेत्यनुवर्तते तेन प्रातिपदिकान्तेत्यनेन वैकल्पिकणत्वप्राप्तावपि तद्वारणाय रषाभ्यां नोण इत्यस्माषणकारानुवर्तनेन सिद्धाविहत्यणग्रहणं नित्यार्थमाव- श्यकमित्यत आह आरम्भसामर्थ्यादिति । वैकल्पिकस्यैवात्र णत्वस्य समीहितत्वे तु पूर्वेणैव तत्सिद्धावेतत्सूत्रवैयापत्तेरिति भावः । एवं चान्यथैव नित्यत्वलाभे णकारग्रहो नोपयोगीत्याह स्पष्टार्थमिति । स्पष्टतवाऽदृष्टार्थफलकमित्यर्थः ॥ इत्यताः स्त्रीलिंगाः। अथाजन्ता नपुंसकलिंगाः। सोरमोत । लुको बाधकत्वादिति भावः । परत्वादिति । अज- रासि इति स्थिते प्रथममतलक्षणे नुमि तस्यांगभक्तत्वादङ्गाव्यव- धायकत्वेऽप्यवयवस्य जराशब्दस्य व्यवधायकत्वेन निर्दिश्यमानप- (९६) फक्किाप्रकाशः। रिभाषयापि जरसो न प्राप्तिः अन्त्यादचः परस्तस्यैवान्तावयवो मित्स्यादिति मतेऽप्यवयवावयवः समुदायस्याप्यवयवः इत्यभ्यु- पगमेन कचिजरसादेशे जातेऽपि सान्तमहत इति दीघा न स्यादिति भावः । अपवादमिति । अदन्तेऽपि लकि वचनवक- ल्यादिति भावः । सन्निपातेति । जराशब्दे सर्वथा नित्यप्तवृत्ति कयोत मावः अन्ये त्वाहुः । अजरासीत्यत्र नुम्जरसोः प्राप्तयो- विप्रतिषेधेन जरसि झलन्तलक्षणो नुमिति शब्दत्वेन सादृश्य न लुमतेत्यस्यानित्यत्वं चेति प्रभृतिग्रहणस्याप्रकारार्थत्वेपि माष्यं संगतमित्यभिमन्यमानं प्रत्याह वस्तुत इति । सुत्वेनव सादृश्यं मांस्पचन्या इति न लुमतेत्यस्यानित्यत्वेन उपरत्व- मिति भावः । न च मासंस्त्र पचि युद्धजोरित्यनेनैव मिदं तस्याप्येतत्सिद्वार्थानुवादक्त्यात् । उक्तमयोगे मांसीत्यस्वाय- स्मयादीनि छन्दसौति सूत्रेण भपदसंजयोर्यथा साधुता तथा वोधनान भत्वेनत्र साधुत्वाइत्वबोधनादित्याशयेनाह संयोगा- न्तलोपो नोति । छन्दमीति । गीर्य उउन्दसति सुनादिति भावः । वृत्ताविति । वृत्तिग्रंथे इत्यर्थः । अनारनिर्मात्यकृटननुपर्ननम् । मासग्छन्दसीति । मासस्तकारः स्याहादा प्रत्यये इत्यर्थः । माहिः शरदिरोवरं तवेत्युदाहरणम् । सामथ्यादिति । अनुवर्तनेनैव छन्दस्वादशे सूत्रणव सिद्ध तद्व्यर्थत्वादिति भावः । क्यटस्य माष्ये ननुवर्तनेऽपि छन्दस्यपि प्रयोगे वाधकाभावादित्यपिना- ब्दार्यः । संनिपातोते । एक्मानावच्छिन्नाकारमाश्रित्य कृतो यादेशः कयं तल्लोपे निमिचं स्यादिति । तत्र यद्यपि कनर पलिंगम् । (९७) क्रमणे इति निर्देशनापितदीर्पण हस्वत्वांशो निवर्तितस्तथाप्य- त्वमादेशेऽनुवर्तते तदपि चेल्लोपेन निवर्तेत तर्हि परिभापाविरोधः स्पष्ट एवेति भावः । परे तु व्याप्यत्वजातिरूपयजादिसन्निपातनि- मित्तो दीर्यों न स्वसन्निपातविघातकलोपनिमित्तम् । सन्निपातपरि- भापायाश्च सन्निपातलक्षणविधिप्रवृत्तेः प्राक् तन्निमित्तभूतो यः सन्निपातः तद्विघातकस्य स्वातिरिक्तस्य स्वयमानिमित्तमित्यर्थ इत्याहुः। अनित्यत्वाश्रयणेऽत्र न दृढतरं मानमिदं भाष्यकै- यटयोः स्पष्टम् । भापितः पुमान्येन शब्देनेति सूत्रार्थड- नादिशब्दे तत्सत्वेऽपि पीलुशन्देऽतिप्रसङ्गः स्यात्तस्माद्भापितः पुमान्यस्मिन्प्रवृत्तिनिमिनरूपेऽर्थे इति बहुव्रीहिः । भाषण- क्रियया स्वकरणातयाक्षिप्तशब्दश्च क्लीवेन समानानुपूर्वीकः समानार्थश्च गृह्यते प्रत्यासत्तेस्ततोऽर्श आद्यच् तस्मात्फलिनम् । प्रवृत्तिनिमित्तैक्ये इति । एकस्मिन्प्रवृत्तिनिमित्ते भापितपुंस्क यच्छब्दरूपमित्यर्थः । यस्य पुनपुंसकयोरेकं प्रवृत्तिनिमित्तं तत्पुम्ब- दिति वर्तुलार्थः । एवं चानादिशब्दस्योभयत्रारोपितादित्वं प्रवृत्ति- निमित्तमिति भवति पुम्वत्वम् । न च भवति पीलुशब्दस्य वृक्षे वृक्षत्वव्याप्यजातिः प्रवृत्तिनिमित्तं फलं तु फलत्वव्याप्यजाति- रित्येकजातेरुभयत्वाभावादित्याह प्रवृत्तिनिमित्तेति । अयं भावः । शब्दानां प्रवृत्तों कारणं चतुर्विधम् । जातिगुणः क्रिया संज्ञा चति । एवं च जात्यवच्छिन्नो जातिशब्दो यथा घटादिः । गुणाद्यवच्छिन्नो यथा शुलथलो डित्य इति । तदुक्तं च चतुष्टयी शब्दानां प्रवृत्तिरिति भाष्ये । त्रयीपक्षोऽपि न सन्ति यदृच्छाः ६ (९८) फक्किाप्रकाशः। भन्दा इत्यादिना भाष्य एव स्पष्ट इत्यन्यत्र विस्तरः परीणामिति। माधवस्यायं भावः । नुटो निमित्तस्य हस्वस्य संनिपातस्य दोघेण विनाशावश्यकत्वेन तद्विपये सन्निपातपरिभाषाया विषय एव नास्ति । रामाणामित्यादौ मुपि चेति दी? नामीत्यनेन नित्यत्वाद्वाध्यत इति । अय त्वाशयः श्नान्नलोप इत्यत्र पाष्ठभाष्य- यटविरांपादुपेक्ष्यः । नामीत्यस्य नित्यत्वमपि निराकृतं रामा- यामित्यरेत्यरुचिबीजं हदि निधायाह वस्तुतस्त्विति । परी- णामिति । ननु हलीति विषयससमीत्वात्मागेवात्वमिति चेन आत्वे कृते नुटा पाया हलादिविषयत्वाभावात् । नन्वेवमपि कृते नामीति दीर्घ सन्निपातपरिभाषाविरोधासंभवादेकदेशविकृतन्या- येनात्वं दुर्वारमेवेति चेन्न । नामि परे सामर्थ्यानोकारस्य दीर्घ- कारकरणेऽपि विजातीयात्वकरणे तु निमिचेकारापाये नुटीति निवृत्त्यापत्तेः विजातीयकरणे सन्निपातपरिभाषाया विरो- धापत्तेश्च । अत एव श्रीपायेत्या विजातीयलोपो निवारितः। एतेनानात्वं स्यादेवति मूलोक्तमयुक्तमितिमन्दोक्तमपास्तम् ॥ इत्यजन्ता नपुंसकलिङ्गाः। अथ हलन्ताः पुंलिंगाः। उपदेशे सिमिाते । धातोरित्वस्थावर्त्तनेन तु योपदेशिकस्य धातोरित्यर्थन दामरिदो व्यावृत्तावपि जयोगिति न संगृह्येता- तो दादरित्यावर्तते । नत्रवेनातिरिच्यमानेन दादिपदेनोपदेशकाली लक्ष्यत इत्यम्भूपदेशलामस्तथापि तस्य सिलमिति प्रमः।
पलिंगम् । (९९) अव्याप्तरतिव्याप्तेश्च परिहारः फलम् । लक्ष्ये लक्षणागमनमाद्या अलक्ष्ये लक्षणगमनमंत्येति समाधत्ते अधोगित्यादि मा भूदित्यं- तेन । अटि सत्यप्यौपदेशिकदादित्वाददोषः । संप्रति दादिधातु- त्वेऽप्योपदेशिकधातुत्वाभावान्नाातिव्याप्तिः । वस्तुगत्यातिव्याप्ति- परिहार एव फलं धातोरवयवो यो दादिरित्यर्थेनाधोगित्यादेः सिद्धेः । वैयधिकरण्यान्वयस्तु गर्द्धवित्यादौ भष्भावसिद्धये आवश्यकः स्पष्टं चेदं भाष्ये । केचित्तु व्यधिकरणपष्टयैवाव्याप्त्यतिव्याप्तिपरि- हारः। धातोरवयवो यो दादिस्तस्य हकारस्य घो भवतीति सूत्रार्थः । अधोगित्यादावडागमेऽदोहिति धातुस्तदवयवो दोहिति तदीयो हकारतस्य यः। दामलिडिति धातोरवयवो यो दादिर्दामेति न तदीयो हकार इति यत्वाभाव इत्याहुः । ननु समानाधिकरणत्व- मेकर्मिवोधकत्वमेवोत कारके वक्ष्यते तत्र विशेष्यविशेषणभादमानं वैयधिकरण्ये तु भेदः संसर्गो विशेष्यविशेषणभावश्चेत्यत एवो- च्यते । संभवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वमिति प्रवादः । एवं च लाघवात्समानाधिकरणत्वेनैवान्वयोस्त्वित्याशं- क्याह एकाच इति । एकाविशिष्टस्य धातोरित्यर्थ गईवित्य- स्यानेकाच्त्वाद्भभावो न स्यादिति वैयधिकरण्येनैवान्वयो धातो- वयव इत्यायुक्तः । ननु धात्ववयवो धातुरिति व्यपदेशिवद्भावेनैव सिद्धावलं वैयधिकरण्यान्वयेन मैवम् । अर्थवतावव्यपदेशिव- द्भाव इति भाष्योक्तेः । तर्हि दुहेर्घत्वे धात्ववयवमेका- ब्रूपं दुइ ति उघ् इति वा तत्राद्यो न झपन्तोऽन्त्येनवश् दुधिति तु नावयव इति प्रकृतासिद्धिरत आह । व्यपदेशिवदिति ।
(१००) फक्किाप्रकाशः। असहाये व्यपदेगिवहावा वक्तव्य इत्यायन्तवत्सूने भाष्ये व्यक्तम् । विशिष्टोऽपदेशो मुख्यव्यवहारः सोऽस्यास्तीति तेन तुल्यमित्यर्थः । ननु धुगित्यादेः प्रातिपदिकत्वात्कथं धातुकार्य- मिति चेन्न । अत्वसन्तस्य चाधातोरित्यादिनिधन कारकं प्रत्य- प्रधानभृतरियावाचकस्यापि धातुत्वज्ञापनात् । न च धातोरुच्य- मानं कार्य तत्प्रत्यये भवतीति परिभाषया धातुसंशब्दनेन विहितः प्रत्ययस्तस्मिन्नित्यर्थकतया कथमन धातुकार्यमिति वाच्यम् । अस्य पदान्तनिमित्तत्वेन प्रत्ययनिमित्तत्वाभावात् । अत एवा- प्रशानिति चरितार्थम् । अन्यथा मो नो धातोरित्यनापि परिभा- पायाः प्रवृत्ती नत्वानापत्त्या व्यर्थमेव स्यात् । ननु मुधियावि- त्यादावियडादिकं न स्यादुक्तपरिभाषाप्रवृत्तरिति चेन्न । इयडा- देवस्तुतोऽङ्गस्यवोच्चमानत्वादिति दिक । ननु सर्वनामस्थाननिमि- तकत्वेन सामान्यत्वादामपेक्षया मुनिमित्तकत्वेन विशेषत्वं नुम इति सामान्यविशेपयोर्विगेपो वलीयानिनि न्यायेन नुमाम् वाध्य- तामित्याशंक्याह न वाध्यते इति । उपजीव्योपजीवक्योर्विरो- वाभावेन वाध्यवाधकमावो नास्तीत्वभिप्रायेणोक्तम् । आदित्या- विकारादिति । अाच्छीनयोरित्यस्मादनुवर्तनादित्यर्थः । मु- जीव्यः, नुमुपजीवकः । नन्वादित्यनुवृत्तावपि नित्यमनदुहि विद्य- मानो योकारस्तस्मात्कुतो न भवति, मैवं मित्त्ववैयर्थ्यात् । अमा चेति । नुमपेक्षया सम्बुद्धिनिमित्तरत्वेन विशेषविहितनापीत्यर्थः । उपजीवकत्वादेवति भावः । दत्वं नेति । विधानसामर्थ्यानावि. मनो नुम भवितुमर्हतीति भावः । नन्वनमास्तरतीत्यत्र नरवीति 205११ पलिंगम् । (१०१) रुत्वमपि न स्यात् । अत्र भाष्ये समाधानम् । यं विधि प्रत्यु- पदेशोऽनर्थकः स विधिर्वाध्यते, यस्य तु निमित्तमेव नासौ वाध्यते। भवतीह दत्वं प्रति नुविधिनिरर्थकः रुत्वं प्रति तु निमित्तमेवेति । ननु हे अनड्वन्नित्यत्र सम्बुद्धिलोपेऽवश्यं प्राप्तेऽम आरम्भादमोऽ- पवादत्वेन तद्विषये संबुद्धिलोपानापत्तिः विपयभेदेऽप्य- चिरादेशस्य नुडपवादत्वमाशङ्कितं सप्तमे भाष्य इति चेन्न । प्रत्ययलोपविधायकैः प्रत्ययानुत्पत्तरेवान्वाख्यानेनापवादत्वस्यैवासं- भवादित्यधिकं नागेशीये । ननु इम इत्येवास्तु सूत्रम्, न च तिमष्टिम इत्यादौ दोपः, त्यदादीनामित्यनुवर्त्य त्यदादी- नाभिमो अः स्यादित्यर्थात् । न च त्यदादित्वाभावः । प्राक् किमः पठितव्यत्वात् । एवं सति किं सर्वनामवहुभ्यां इत्यत्र किंग्रहणमकर्त्तव्यमित्यपरमनुकूलम् । तत्र हि अयादिना इति पर्युदासात्किमोऽप्राप्तौ पृथक् पाठः । द्विपापदित तु पर्युदासाप्राप्तौ सर्वनामत्वादेव सिद्धेः । न चेमावित्या में दावयं स्यात् अङ्गवृत्तपरिभाषया वारणात् । न चैवमप्यन्त्यस्य स्यात् नानर्थके इति निषेधात् । त्यदादीनाम इति सिद्धे आरम्भ- सामर्थ्याच्च । न च कुतिहोरित्याद्यर्थं किम इति अन्यथेमः कुआ- देश कद्वयं स्यादिति वाच्यम् । तत्रापि उतिहोरिति विन्या- सात् । न चेहान्त्यस्योकारः स्यात्, नानर्थके इति निषेधादि- त्याशंक्याह अकच्सहितस्यति । किम इत्यस्याभावेऽकचि टेरत्वे कक इति स्यादिति भावः । सिद्धान्ने तु तन्मध्यपतितस्तदहणेन गृह्यते इति परिमापया साकच्कस्य किम् शब्दत्वाद्रूपसिद्धिः ।
(१०२) फदिकाप्रकाशः। न च सुवन्तात्तद्धितोत्पत्त्या सुबुत्पत्यनन्तरं परत्वात्कादेशे ततोऽ- काचे कक इत्येव स्यादिति वाच्यम् । प्रातिपादिकादित्येवाधि- कारात् । सुपः शब्देन निमित्तत्वेनाश्रयणादङ्गसंज्ञानिमित्तप्रत्य- यानपेक्षणेन चाकचोऽन्तरंगत्वाच । ननु निर्दिश्यमानस्येति परि- भापया साकच्कस्य कथमादेश इति चेन्न । कादेशविधानसाम- त् आवच्याश्रयणेन साकच्कस्यादेश इति कैयटोक्तेश्च । उक्तसामत्किमशब्दे उक्तपरिभापाया अप्रवृत्तिः । यतु सर्वनाकविपये तस्याः अप्रवृतिरिति तत्तु न युक्तम् । भिन्धकीत्यनाकचि कृते निर्दिश्यमानपरिभापया हेधित्वं न पामोति हुझल्भ्य इत्यन भाष्यविरोधात् । नन्विद ए इति स्थिते स्ममा- वात्परत्वादनादेशेऽसकृद्गतिन्यायेन स्मै न स्यादत आह । नित्य- त्वादिति । न च स्मैयादेशेऽनादेशः। हलि लोपेन वाधनात् । न च प्रवृत्तियोग्यत्वं नित्यत्वं तच्च वाधितेऽप्यस्तीति चेत् । लक्ष्या- नुरोधेन वाधकावाधितकृताकृतप्रसङ्गस्यैवानाश्रयणादिति दिक् । नन्चत्वे हलि लोपेनाभ्यामत्यादेनुदात्तत्वेन सिधावम् विधान व्यर्थमत आह । साकच्यामिति । शित्वात्सर्वादेश इति भावः । यद्यपीह शिद्ग्रहणं व्यर्थम् । आसारस्या- कारविधानसामादेव सर्वादेशसिद्धः । तथाप्यनुदात्तत्वार्थमेवाका- रविधानमित्याशहा स्यात्तन्निवारणाय गिद्ग्रहणमिति केचित् । अन्ये तु अ अ इति प्रश्लेषेण सर्वादेशसिद्धेस्तद्ग्रहणं न कव्यं तर समुदायस्पैवार्यरत्त्वाचत एव विभक्ती पूर्वस्यापदान्तत्वादतो गुणेन निर्दशमामादादेशमत्तिकाले अ य इति समुदाय' प्रा.
पलिंगम् । (१०३) र्तत इत्याहुः, स्पष्टं चेदं भाष्ये । अचः परस्मिन्नित्यत्र पूर्वस्मादि- धाविति । पञ्चमीसमासोऽप्यस्तीत्याशयेन शङ्कते । न चेति । पूर्व- त्रोत । अत्र बीजं शब्देन्दुशेखरे निरूपितम् । बहिरङ्ग इति । असिद्धं वहिरङ्गमिति परिभापयेत्यर्थः । अल्लोपो न इत्यस्य भसं- ज्ञायाः प्रकृतिप्रत्ययापेक्षत्वेन बहिरङ्गत्वम् । स्तोः श्रुनेत्यस्य वर्णद्वयापेक्षत्वेनान्तरङ्गत्वम् । तथा चेयं परिभाषा । संज्ञापरिभाषा- विपये पक्षद्वयं यथोद्देशं संज्ञापरिभाष कार्यकालं संज्ञापरिभाष, दिशिरत्रोच्चारणक्रियोऽधिकरणकार्थकश्च घज्ञप्रत्ययः उद्दिश्यते उच्चार्यते यत्रासावुदेशस्तमनतिक्रम्य वर्तते इति यथोदेशम् । यद्देशे उद्दिश्यते तत्रैव वाक्यार्थवोधेन गृहीतशक्त्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहार इति यथोद्देशपक्षार्थः । अत एव परिभापा एकदेशस्थितां सर्वं शास्त्रमभिज्वलयति प्रदीपवदित्युक्तं समर्थसूत्रे महाभाष्ये । कार्यण काल्यते स्वसंनिधि प्राप्यते, कार्येण स्वसं- स्काराय स्ववृत्तिलिङ्गचिह्नितपरिभाषाणामाक्षेप इति यावत् । भाष्येऽपि यत्र कार्य तत्रोपस्थितमिदं द्रष्टव्यमित्युक्तमिति कार्यकाल- पदार्थः । तत्राद्यपक्षे तावत् समाधत्ते । यथोद्देशे इति । परिभा- पाया देशं निर्दिशति । पाष्टीमिति । पष्ठे पष्टाध्याये भवं पाष्टं वाइ ऊद सूत्रं तस्माज्जातामित्यर्थः । तद्यथा । विश्वौह इत्यादी वस्य यजादिप्रत्ययनिमित्तमसंज्ञाश्रयत्वात् संपारणे संप्रसारणाचेति पूर्वरूपे पुगन्तोत गुणे वृद्धिरेचीति वृद्धौ रूपसिद्धावृग्रहणं व्यर्थ सज्ञापयत्येपा परिभाषाऽसिद्धं वहिरङ्गमिति । ननु पुगन्ततिसत्रे निमित्तमिको विशेषणमत एव भिनत्तीत्यादौ न गुणस्तथा च (१०४) फछिकाप्रकाशः। नाजानन्तर्य इति निषेधात् कथं परिभाषाप्रवृत्तिारति चेन्न । प्रत्यय- स्याङ्गाकाक्षित्वेनोपस्थितत्वात्तत्रैवान्वयात् । पुगन्तेत्यादौ कर्मधार- याश्रयणेन प्रत्ययपरागावयवलघूपधरूपेको गुण इतीको गुणेत्यर भाष्यसंमतेऽर्थे भिनत्तीत्यादौ दोपामावाच । न च वायुंह इत्या- दिरूपार्थमृग्रहणम् । ज्ञापनपरमाष्यप्रामाण्येनानकारान्तेऽकारान्तो- पसर्ग चोपपदे वहेर्दाहेर्वाण्विविचोरनभिधानात् । धातूनामनेकार्य- त्वेनोहयतेः किपि रूपसिद्धेश्चेति दिक् । तथा चेयं सपादसप्ता- ध्यायीस्था त्रिपाद्या न प्रवर्तते पूर्वनासिद्धामित्यनेन त्रिपाद्या असिद्धरित्याह अप्रवृत्तरिति । नन्वस्तु तावदेवं कार्यकालपक्षे तु दोष एवेति चेन्न । पूर्व प्रतिपरस्यासिढत्वेनान्तरङ्गाभावेन पूर्वस्या- न्तरङ्गनिरूपितवहिरङ्गत्त्वाभावात्तया तस्यासिद्धत्वप्रतिपादनासंभ- वात् । न चानया पूर्वस्यासिद्धत्वादभावेन पूर्व प्रति परामिद्धत्वं पूर्वनेत्यनेन वक्तुमशक्यमितिवाच्यम् । एव हि विनिगमनाविरहा- दुभयोरप्यप्रवृत्त्यापत्तः । ननु कार्यकालपक्षेपि त्रिपाद्या परिभाषा प्रवर्तत एवात एव नृकुटया मवो नार्कुटो नृपतेरपत्यं नार्पत्य इत्यादौ निपादिस्येन्तरङ्गे खग्वसानयोगिति विसर्गे बहिरङ्गायास्त- द्वितेष्वचामादेरिते वृद्धेरसिद्धत्वमुक्तं विसर्जनीयसूने भाष्ये । एवं चान पक्षे पपूर्वहनधृतराज्ञामणीति निर्देशेनास्याः पग्भिापाया अनित्यत्वात्समाधेयमिति चेन्न । माप्य एव पृक्तिवहिरङ्गत्वादि- खंडनात् । तदुक्तम् । अयुक्तोऽय परिहागे न वा बहिरङ्गलक्षणत्वा- दिति । किच उरणमने रेफस्य पूर्वान्तत्वे विसर्जनीयप्रतिषेधो वक्तव्यो नारिपार्ट इत्याद्यर्थमित्यपूर्व वचनमेवार भाष्ये । 1 . पलिंगम् । (१०५) अत एव निगाल्यत इत्यादौ लत्वार्यन्तस्य दोष इति वचनम् । इतरथान्तरङ्गत्वाण्णिलोपात्पूर्व वैकल्पिकलत्वसिद्धौ नारभ्येत । किञ्च सौत्रनिर्देशाश्रयणमगतिकगतिः प्रतिदिवन्शब्दे निर्देशभा- वश्च तस्मात्पक्षद्वयेऽपि परिभाषाप्रवृत्यभावाददोष इत्याधिक नागे- शीये । अथ वृत्रन्न इत्यादाक्काजुत्तरप्रातिपदिकान्तकुमतिचेति सूत्रैः प्राप्तं णत्वं निवर्त्तयितुं तेरत्पूर्वस्योत सूत्रेऽत्पूर्वस्येत्यंशो विभक्तो नियमरूपोऽपवादः स च येन नाप्राप्ते यो विधिरारभ्यते स तस्य वाधको भवतीति तत्र चास्ति पक्षद्वयं वाव्यसामान्य- चिन्तापक्षो वाध्यविशेषचिन्तापक्षश्चेति तदुक्तं यदा लक्षण- निरपेक्षं कार्याणां वाधकत्वमिति दर्शनं तदा विध्यन्तरै- रनाक्रान्तो विपयो नास्तीत्यविशेषात्सर्वकार्यवाध्यामित्याद्यः । 'यदा लक्षणम् बाध्यते इति दर्शनं तदा येन सर्वो विषय आक्रांतस्त- देव बाध्यते इत्यन्त्य इति उपसर्गस्यायतावित्यत्राष्टमे कैयटे । तत्रांत्यपक्षमूलकनानन्तरस्यति न्यायेनात्पूर्वस्येति सूत्रं हंतेरेख बाधकमाद्यपक्षे तु सर्वेषामपीत्युभयोः समकक्षयोः पक्षयोः कतरो ग्राह्यस्तत्राह । योगविभागेति । ननु विभक्तसूत्रांशे 'उपसर्गस्थादि- त्यस्य निवृत्तिस्तत्फलमिति चेन्न । सामर्थ्यादेव तन्निवृत्तिसिद्धेः । अनन्तरस्यति । अत एव संख्याव्ययादेरिति डीग्रहणं चरितार्थम् तद्धि अनन्तरस्य डीविधेरभावाय । किञ्च नक्तिचीति सूत्रे दीर्घ- ग्रहणं चरितार्थम् । तद्यन्तरितस्यानुनासिकस्य विझलोः कितीति दीर्घस्यानुदात्तोपदेशस्यत्यस्याभावायोति न्यायप्रचारः । न चैवं न षट्स्वस्रति निषेधोऽनन्तरस्य ऋन्नेभ्य इति ङीप्’ एव (१०६) फक्षिकाप्रकाशः। स्यान्न तु व्यवहिवस्य टाप् इति वाच्यम् । तत्र स्वरितत्वप्रति- ज्ञासामर्थ्येन तस्य न्यायस्य बाधितत्वात् । ननु विभक्तसूत्रस्य नियमरूपस्य विधिनिषेधरूपत्वाभावाक्यमत्र न्यायमाप्तिरित चेन्न। अन्यनिवृत्रिफलकसिद्धविषयकविधित्वमेव नियमत्वमित्य- दोपात् । अत एव पंच पंचनखा भक्ष्या इत्यत्र मक्ष्यनियमेऽ- भक्ष्यप्रतिषेधो गम्यते इत्युक्तं पस्पशाया भाष्ये । अयञ्च न्यायः शिसर्वनामस्थानमित्यादिपु भाष्ये स्पष्टः । एकाजुत्तरोत । न चाल्लोपे एकाचवं नास्तीति शंक्यम् । पंचमीसमासे स्थानिव- त्वात् । न च पूर्वत्रासिद्ध तान्नपेधः । तस्य दोषः संयोगादिल- वेत्युक्तेः । णत्वमपीति । आपि नाप्रातिपदिकान्त कुमति चेत्य: नयोः संग्रहः । बाध्यसामान्यचिन्ताश्रयणात्सर्वेषां वाध इति भावः । न च कुमति चेत्यस्य सन्निपातपरिभापयवाप्राप्तिः । तस्या अनित्यत्वात् । इदमत्पूर्वग्रहणं हस्थानिकक्वर्गाभाववद्ध- न्तेरुपलक्षणमतो वहुवृनहाणीत्या प्रयानि प्रधनाधन इत्यन च न दोप इति दिक् । अगारकटेश इति सूत्रे प्रघणप्रघाणयोः कृतणत्वयोरुधारणमुपलक्षणार्थत्वे मानम् । माधवेनोक्तमिति । अल्लोपे उत्तरपदस्यानचत्वादेकाजुत्तरेत्यस्याप्राप्ती प्रातिपदिका- न्तोत विकल्पो वृनष्णो वृनन इति तद्भावः । तद्भाष्यति । कुव्यवाये हादेशेषु णत्वप्रतिषेधो वक्तव्यः । वृताः सनप्राधानि हन्तेरत्वस्येत्यतात्पूर्वग्रहणं न कर्तव्यं भवतीति भाष्येत्ययः । एवञ्च माध्यवार्तिक्योर्णत्वामाचे तात्पर्यण विरोधः स्पष्ट एव । पतग वार्तिकानायवर्णनानुग्रहमानं न तु वस्तुस्थितिः वार्तिकेन पड़ालंगम् । (१०७) . सूत्रावयवप्रत्याख्यानापेक्षया योगविभागमाश्रिस्य वार्तिकार्थोप- संग्रहस्यैव व्याप्यत्वात्स चोपलक्षणार्थत्वेनोपसंगृहतिः । हादेश- कवर्गव्यवाये इत्यर्थ आपत्वात्समास इति दिक् । ननु कुन्नि- त्यादाविव संयोगान्तलोपस्यासिद्धत्वेन नान्तत्वाभावात्सर्वनामेतिदी- र्घत्वं न स्यादित्याशंक्याह । इहोत । बहुलग्रहणादिति । बहू- नर्थान् लाति आदत्ते इति योगेन क्वचिप्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषाक्वचिदन्यदेवेत्यभियुक्ताक्तेषु चतुर्विधार्थेषु क्वचिदन्य-- देवेत्यर्थस्यात्र पूर्व प्रति परं नासिद्धमिति विवक्षितत्वात् । ननु क्वचित्पदस्वारस्येन स्थलविशेपनियमितत्वात्कथमेकत्र युगपदर्थ- द्वयं विकल्पोऽसिद्धत्वाभावश्चेति चेन्न क्वचित्प्रयोजने इत्यर्थात् । आसिद्धत्वभावकल्पने मानमाह तथा चोत । श्वन्नुशन् पूषन प्लीहन् क्लेहन् स्नेहन् मृर्द्धन् मज्जन् अर्यमन् विश्वप्सन् परिज्ममन् मातरिश्वत् मघवन्नित्युणादिसूत्रेण महर्हस्य घोऽवुगागमः कनिप्रत्यय इति त्रितयस्य निपातनादित्यर्थः । प्रकारान्तरमाह । मघशब्दादिति । धनार्थकादित्यर्थः । मतुपो मस्य वः । प्रत्याख्यातमाकर इति । केशाह इत्यत्र पंचमे कैयटे । तद्यथा । मघवावहुलमित्येतन्न कर्त्तव्यं श्वन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्ददयस्य सिद्धत्वात् । तथा च मतुप्पक्षेऽत्वसन्तस्य चाधा- तोरिति दीर्घसत्त्वेन त्रादेशपक्षेऽपि दीर्घा युक्तः । अन्यथा फल- भेदे प्रत्याख्यानासंभवादिति भावः । ननु अन्तोदात्तस्य त्रादेशे वकाराकारस्योदात्तत्वं भवति ॥ मतुपि तु हस्व नुड्भ्यामिति प्राप्त- मतुबुदात्तत्वस्य नगोऽश्वन्निति निषेधेन पित्त्वादनुदात्तत्वे घोत्त- (१०८) फकिकामकाशः। राकारस्योदात्तत्वमित्यस्त्येव फलभेद इति चेन प्रादेगपक्षेऽपि दीर्ववत् बहुलग्रहणेन घोत्तराकारस्योदात्चत्वाङ्गीकारात् । ननु वादे- गपक्षे मघवानस्ति यस्यामित्यये मतुप्युागेतश्चेति टीपि मघवत्त्व- तीति प्रयोगो निष्पद्यते । मतुप्पक्षे तु न शपिकान्मतुर्थीयाच्छापको मतुर्थिकः सरूपः प्रत्ययोनष्टः सन्नन्तान्न मनिष्यत इति सन्सत्रमा- प्यसिद्धान्ताद् मतुबन्तान्मतुपोऽमवृत्तरिति चेन्न । तादृशप्रयोग- स्यानभिधानात् । ननु सप्तद्वीपा वमुमती त्रयो लोकाश्चत्वारो वेदाः साङ्गाः सरहस्या वहुधा मिन्ना एकशतमध्वर्युशाखा सहस्रवा सामवेदः एकविंशतिधा वाहच्यं नवधाथर्वणो वाकवाक्यमितिहास: पुगणं वैद्यकमित्येतावान् शब्दम्य प्रयोगविषयः एतावतं शब्दस्य प्रयोगविषयमनुनिशम्य मन्त्यमयुक्ता इति वचनं केवलं साहस- मात्रमेवोत पपगायां भाष्योक्तः कयमनभिधानमिति चेन्नैप दोपः। यतो हि अनभिधानं तस्माच्छिष्टलोकम्य बोधाभावरूपमिति ब्रूमः । एवं च दयी विवज्ञाप्रायोगी लांकिकी चेत्यादिना तदस्यास्त्यस्मिनि- त्यत्र भाष्ये कैयटे च स्पष्टम् । शिष्टाश्च गन्दतत्त्वविद इत्यपि पृषो- दरादिसूने स्पष्टं भाष्ये वोधनिश्चयश्च कोगादित्यलमाकग्व्यतिकर- कल्पनया । ननु व्ययो । लिटीत्यम्य श्वयुवेत्यस्य च प्रदेशान्तरस्थ- स्य कथमनेन निषेध इति चेन्न । संप्रसारणमित्यनोनुवृत्यैव मिदे पुनः संप्रसारणग्रहणसामर्थ्यान्निपेधः । न च व्ययो लिटवादारस्य चारिताथ्यन यून इत्यादी पूर्वसवर्णदीर्घरूपमादेशे तस्याचः परस्मिन्निति स्थानिवत्वेन मंप्रमारणत्वेऽपि तेनैव स्थानियत्वनोका. त्यवधानात्कथमनेन निषेध इति शंक्यम् । व्यथ इति सने यग्रह- - पड्लिङ्गम् । (१०९) णेनैव सिद्धी संप्रसारणग्रहणस्येतन्निषेधकतयैव चारितार्थ्यस्य वक्तव्यत्वेन व्यवहितेऽपि प्रवृत्तेनस्तिरिति निर्देशाचेत्याशयेनाह । यकारस्य नेत्वमिति । न चेदं व्यर्थम् इग्यण इत्युपस्थितस्य पदैकवाक्यतयान्वये निमित्तस्य यणाऽन्वयेन येन नाव्यवधानमिति न्यायेन पूर्वस्य संप्रसारणप्राप्तेरिति वाच्यम् । पदैकवाक्यतापक्षेऽपि संज्ञासूत्राणां वाक्यभेदेनैव संबन्धस्यान्यत्र प्रपंचितत्वाद्विधायकेषु यण इत्यस्याभावादिदमप्यत्र ज्ञापकम् । ननु सकृद्गताविति न्याये- नोभयोः संप्रसारणे जाते निषेधो व्यर्थों निमित्तत्वानुपपत्तिश्चेत्यत आह । अत एव ज्ञापकादिति । तदुक्तं भाष्ये इहोङ्गतेन चेष्टितेन निमिपितेन महता वा सूत्रप्रवंधेनाचार्याणामभिप्रायो गम्यते एतदेव ज्ञापयति परस्य पूर्व भविष्यतीति । ननु लक्ष्ये लक्षणस्यति न्यायेन कथं पुनः प्रवृत्तिरिति चेन्न । कार्याश्रयभेदेन लक्ष्यभेदा- दिति तिङन्ते निरूपयिष्यते । ननु ऋधातोर्विचि गुणे मतुप्य- चन्तावित्यादि स्याददिपद्यरीत्यादिना वनिपि अद्येत्यपि छन्द- सीवनिपाविति वेदेऽप्यति च सिध्यतीति किमर्थं सूत्रमित्याशंक्य नान्ततान्तयोः सर्वत्र प्रयोगे प्राप्ते सौपरे नञ्युपपदं च नान्तस्य प्रयोगो भवत्यन्यत्र तु नान्तस्य नेति व्यवस्थापनायेदं सूत्रं तृवत्कोष्टुरित्यादिवदित्यस्तु । तत्रानञ इत्यस्य को व्यावर्त्य इति पृच्छति । अनञः किमिति । उत्तरयति । अनवति । यज्वशब्द- सदृशोऽनर्वशब्दो व्यावर्त्य इति दिक् । नन्वस्थिदधीत्यत्रोदात्त- तयोच्चारण कर्त्तव्ये उदात्तग्रहणेन गुणा अभेदका इति ज्ञाप्यते तथा चात्र निरनुनासिकोचारणेऽपि तपरसूत्रस्थानणि विधीयमानेऽपि (११०) फकिकामकाशः। अण्प्रत्ययुयोरनुवृत्ती नियामकाभावाद्विध्यर्थत्वेनान्तरतम्याच न- कारस्यानुनासिकः स्यादत आह । आ आदिति । ननु परस्मै- पदाना णलतुसित्यनाकारप्रश्लेपादनेकालत्वेन यस्य सर्वादेशवढ- प्रापि सर्वादेशः स्यादिति चेन्न । अत्र विशेष्यविशेषणभावान्वयेन विधेयत्वात् । वस्तुगत्या नान प्रश्लेपक्लेगः कार्यः अन्यथैवो- पपत्तेः । तथाहि । भाष्यसमाजग्रस्तगुणाभेदकजातिपक्षाना प्राप्तस्य सवर्णगहस्यामत्ययग्रहणेन निषेधात् । भाग्यमानः सवर्णान्न गृह्णातीति निषेधाच । न च भाव्यमानोऽण् इत्यादिपाठादनाका- रस्यानण्त्वान्न निपेध इति वाच्यम् । अप्रत्ययग्रहणेनाणुदित्सने परिमापा ज्ञापयता भाष्यकृता अपघटितपाठस्यानुक्तत्वात् । न च चौः कुरित्यनाग्राहकतापात्तेः । 'उदित्करणसामर्थ्यात् । एतेन गुणाभेदकत्वमाप्तस्य न निषेधः । अत एव यवलपर इति वात्तिके नानुनासिकयकारादिविधानं न विरुध्यत इति मन्दोक्तमपास्तम् । तेन निरनुनासिकाना यादीना च विधानम्य सिद्धान्तितत्वादिति स्पष्टमुद्योते । ननु अष्टन ना विभक्तादित्यनापि शुद्धोचारणसाम- र्थ्यान्नानुनासिक इति चेन्न । रायो हलीत्युत्तरनानुवृत्त्या चारिता- र्थ्यात् । न च तनापि प्रश्लेपः शब्दतोऽनुनासिस्न्यात्तेरलाभात् गुणा- भेदकत्वेनान्तरतम्यादनुनासिकम्य दुर्निवारत्वात् प्रश्शेषस्तु पर्यायेण मक्लाकागरिधानार्थ । तस्मादनण्त्यान्नानुनामिक इति बोध्यम् । स्पष्टं चेद भाष्ये । इह तु माष्यकारा अनुनामिविधाने हि प्रतिपत्तिराषाय तस्यैवोपारणे काय तदनुचारगाछुटस्यैव विधान भविष्यतीनि युस्त्यन्तग्मेगामिदधिरे। गनेन पथीरतेः लिपि पड्लिङ्गम् । (१११) एकदेशविकृतन्यायेन पथीत्यस्याप्यात्वे न्यादेशे पन्था इत्य- पास्तम् । अत्र शुद्धार्थ तदनुच्चारणेऽप्यावश्यकत्वेन भाष्यासंगतेर- स्यानभिधानस्यैव युक्तत्वात् । नन्वदित्येवास्तां नकारेकारयोरत्वे सवर्णदीर्येण समाहितरूपसिद्धः । न च पररूपापत्तिः । पथिमथ्य- भुक्षा लोपः भस्य टेः इतोऽत्सर्वनामस्थान इति न्यासेन नकाराश्रव- णसिद्धावकारविधानसामर्थ्यादिति चेन्मैवम् । ज्ञानगौरवपरिहारेण स्पष्टार्थमाकारकरणात् । न च सिद्धान्तेऽप्यादित्यनुवृत्त्यवै सिद्धे- रितोऽदित्यत्रात्करणं व्यर्थम् । ऋभुक्षणमिन्द्रामिति श्रुतौ वा पपूर्वस्य निगमे इति सूत्रेण दीर्वविकल्पे हस्वश्रवणफलकत्वादिति दिक् ननु विंशत्याद्याः सदैकत्वे सर्वाः संख्येवसंख्ययोः इत्यमरोक्तेरे- कवचनस्यैव लाभ. इत्याशंक्यानुभृतावयवभेदे समूहाभिप्रायेण तदुक्तावप्युद्भूतावयवभेदसमुदायार्थ । द्विवचनादेरपि भाष्यसंमत- त्वालाभादत आह शतानीत्यादि । संनिपातेति इदं स्पष्टं भाष्ये । लक्षणप्रतिपदोक्तपारभापया न लागित्यन्ये । गौणत्वे तु न लुग्नुटा- विति । पड्भ्यो लुक् पट्चतुर्व्यश्च अष्टाभ्य शित्यादिषु वहुव- चननिर्देशस्यार्थप्राधान्यबोधकत्वेन षडाद्यर्थगतसंख्याभिधायीत्या- घर्थ गौणे तदप्रवृत्तेरिति नव्याः। अन्ये तु पद्भ्य इत्यादिषु बहु- वचनं नोक्तार्थसाधकम्, तिसृभ्यो जस इतिवत्सिद्धार्थकत्वात् । सर्वत्र जातिनिर्देशस्थानौचित्यात् तेपां बहुत्वाच्च बहुवच- नान्तानां सझावोधकत्ये नोपपत्तेश्च, किन्तु सर्वत्र विहितविशे- यणम् । परमपंचादीनामपि संख्याप्रकारकसंख्येयविशेष्यको- धजनकत्वेन संख्यावाचितया पट्त्वमस्त्येव .1 लोके गणनायां (११२) फकिलाप्रकाशः। प्रसिद्धानामेव ग्रहणमित्यत्र तु न मानम् । उपसर्जनत्वेऽतिकांता- द्यर्थस्य प्राधान्यं न तु संख्याया इति न दोपः । पडित्यन्वर्थ- संज्ञया न गाणे इत्यप्यसंगतम् । प्रियपंचा द्रौपदीत्यत्र न पडिति टावनिषेधानापत्तेः । सर्वनामसंज्ञावदत्रोपसर्जनप्रतिपे- धानारंभाच्चेत्याहुः। ननु ष्णान्ता पडिति विन्यासेन चतुःगन्द- स्याप्यस्तु पदमज्ञेव । चत्वार इत्यत्र लुग्न पड़भ्यो लुगर इति न्यासात् । ननु लाघवामावः पचतुर्थ्यश्च पत्रिचतुभ्यों हलादि- रित्यनयोश्चतुःशब्दस्यानिवेशादिति चिन्त्यम् । अष्टानामित्यत्र नित्यत्वान्नुटः प्रागात्वेनान्तत्वेन संजाभावात्रुटोऽप्रवृत्तिरित्याशंक्य रायो हलीत्यस्मादलीत्यपकृष्टम् अत एव हलीत्युभयोः शेप इत्युक्तं प्णान्तेति सूत्रे भाष्ये तया च जग्गसोर्विपये आत्वस्याप्रवृत्तः कृताकागदित्यनुपपन्नमत आह कृतात्वति । तदनुकरणमित्यर्थः । लक्षणवासंपन्नत्वे हि तस्य वैकल्पिक्तया लाघवादाभ्य इत्येव वदेदिति भावः । सूने इति । दीर्घान्तादष्टनः पग मर्वनामस्थान- विभक्तिरुदाचा स्यादिति तदर्थः । ज्ञापकादिति । तद्धि अभिगित हस्वेऽन्तोदात्तनिवृत्यर्थम् । तथा च ह्रस्वनिवृत्यर्थ क्रियमाणं दीर्घग्रहणमात्ववैकल्पिकत्वे ज्ञापक्म् । नन्वशाभिरित्यत्र दीपे लन्धावमरस्याप्टन इति सूत्रस्याप्यामिरित्या परत्वाज्झल्युपोत्तम- मित्यनेन पनिचतुम्यो या हलादिमिक्तिस्तदन्ते पदे उपोत्त- ममुदात्तं स्यादित्यर्यन वाघे मकृनताविति न्यायेन पुनः ग्मत्ती व्यर्थमेव दीर्घग्रहणम् । अष्टामिरित्यत्र झल्युपोत्तममिति तु न भवति कार्यकालपक्षेऽनान्तत्वेन पट्त्वामावादल्विधित्वेन स्थानिवदावामा- षडलिंगम् । (११३) न वाच्चेति चेन्न । पुनः प्रसङ्गबोधद्वारेणैतद्विषये यथोद्देशपक्षस्यैवाश्र- यणबोधनद्वारेण चात्वविकल्पे ज्ञापकं तद्ग्रहणमित्याशयात् । कुतः पुनरपवादत्वे परत्वचर्चा । न चाष्टौ पश्येत्यत्राष्टन स्वरः सावकाशः ह्यत्र षट्स्वरो लभ्यते हलादित्वाभावादिति वाच्यम् । एतद्भाष्यप्रामाण्यादेवाष्टनशब्दस्य घृतादिपाठादन्तो- दात्तत्वेनैकादेश उदात्ते नोदात्त इत्येव तत्रान्तादात्तत्वसिद्धेः। ननु पट्स्वरविधायके विहितविशेषणाश्रयणेन समासे गौणे च तदप्राप्तेः प्रियाष्टाभ्यामित्यादावष्टनुस्वरश्चरितार्थ इति चेन्न । एतज्ज्ञापकपरभाष्यमाहिनाष्टन इत्यस्यापि विहितविशेषणेन समासादावप्रवृत्तेः प्रियाष्टादीनामनभिधानस्य षसंज्ञासूत्रभाष्ये स्पष्टमुक्तत्वाञ्चेति दिक् । गौणत्वेति । अष्टाभ्य इति वहुवचन- निर्देशनार्थप्राधान्ये तत्प्रवृत्तेः अन्यथा हि कृतात्वानुकरणेऽपि एक- वचनेनैव निर्दिशेत् अष्टा और अष्ट औश् इति वा आत इति योग- विभागेनाकारलोपात् । तथा चीश्त्वविधौ कृतात्वनिर्देशवलेनानुमी- यमानमात्वमपि प्राधान्य एवोचितमत एव वक्ष्यति न गौणताया- मिति नव्यमतम् । पूर्वस्मादपति । न च पूर्वत्रासिद्धे इति निषेध- स्तस्य दोषः इत्युक्तेः । न च तत्र संयोगादिलोपसाहचर्याल्लत्वस्येव णत्वांशेऽपि प्रतिपदोक्तपरिभाषया रपाभ्यामिति निष्पन्नस्य णत्वस्य निषेध इति वाच्यम् । षाभ्यामित्यत्रापदान्तस्य मृर्द्धन्य इति- सूत्रमनुवर्त्य णग्रहणं पदान्तस्यति निषेधसूत्रं च प्रत्याख्यातं भाष्यकृता तन्मते ष्टुत्वमूर्धन्यशब्दानर्वयमानणकारे वैषम्याभावा- दुक्तपरिभाषाया अप्रवृत्तेः कार्यकालपक्ष इति । अत्रापि पक्षे (११४) फविकामकाशः। त्रिपाद्यां परिभाषाप्रवृत्तिरित्यभिमन्तुरर्वाचीन मतेनेदम् अत्र वक्तव्यं राज्ञ इत्यत्रोक्तम् । अथ बहुवचनं नोपसर्जननिवारकमित्युक्तम, अष्टन आ विभक्तावित्यत्र विहितविशेषणेनोपसर्जने दोपाभावः प्रियाष्टादी- नामनभिधानमेव वेति ष्णान्तेत्यत्र स्पष्टं भाष्ये अत एवाष्टाभ्य इति सूत्रे विभाषा आत्वं यदयमांत्वभूतस्य ग्रहणं करोत्यमभ्य इत्यन्यथाष्टन इत्येव कुर्यादित्युक्तं भाष्ये । पूर्वमते तु गौणे प्रवृत्त्य- भावाय बहुवचननिर्देशस्यावश्यकतया भाष्यासंगतिरित्यधिक नागेशीये । सूत्रान्तर्गतमलक्षणसिद्धं साधयितुमाह निपात- नादिति । ऋतायुपपदे यजे: क्विन् धृष्णोतदित्वमन्तोदात्तत्वश्च एजेः कर्मणि विनुमागमश्च दिशेः कर्मणि उत्पूर्वात्निहेश्च विन् उपसर्गातलोपः पत्वञ्च अंचेस्सुप्युपपदे क्विन्नित्यर्थः । निरुपप- दादिति । युजेरसमासे इत्यसमासे नुमो विधानेन सोपपादात् चोः कुरिति सिद्धत्वेन विनि विपि च विशेषाभावादिति भावः । कना- विताविति । उपलक्षणं चैतत् उच्चारणार्थकारस्यापि तत्रापि तस्य लोप इति प्रवृत्तेर्लोपात् उच्चारणार्थानां विनवशास्त्रमपगमस्तु न इत्संज्ञकानामपि तथैव सिद्धेस्तस्य लोप इत्यस्य वैयपित्तेः । न चाच घेरित्यादिविहितयोरेदौतोर्न विभक्ताविति निषेधापत्तिरिति वाच्यम् । इदमस्यमुरिति मकारपरित्राणाय कृतेनोकारेण तस्या- नित्यत्वज्ञापनादित्यन्यत्र विस्तर इत्याहुः । धातुपाठ इति । व्याख्यानादिति भावः । अन्ये तु पूर्वोत्तराभ्यामञ्चश्चाभ्यां परस्मै- पदिभ्यां साहचर्यात्कार संभवत्परस्मैपदिकस्य ग्रहे पाक्षिरस्य तस्य युजिर्योग इत्यस्यैव संभवादस्यैर ग्रहणम् एतदुपजीवकत्वेन पब्लिङ्गम् । (११५) युजेरसमासे इत्यत्राप्यस्यैव ग्रहणमित्येतध्वनयन्नाह आत्मनेपदीति इत्याहुः । फणादिरेवोत । न चश्तिपा शपानुबन्धनेन निर्दिष्टमिति गणनिर्दिष्टत्वाद्यङ्लुगन्ते राराष्टीत न स्यादिति वाच्यम् । तस्य छान्दसत्वेनादोषादित्याहुः । त्यदादीनामित्यनुवृत्तौ तत्र चोक्तां साष्येष्टिं स्मारयति द्विपर्यन्तानामिति उच्चारणति । त्वाही सावि- त्यत्रेत्यर्थः । चरितार्थत्वादिति । गौणेऽन्तर्गणकार्यत्वात्सत्वन्न । त्वाहावित्युक्तेऽतित्वमिति स्यादिति भावः। तदाहात्वसत्वेनेति । तयोरन्तर्गणकार्यत्वात् । ननु किमर्थमनन्त्ययोरिति हे स इत्यादि- साधनार्थमन्यथा परत्वात्यदाद्यत्वं वाधित्वा दस्य से सति हल्ङया- दिना सुलोपे रुत्वविसर्गयोर्ह स इति सविसर्ग स्यात् किञ्च स्त्रियां सति न स्यात् । वस्तुतोऽन्त्यस्य सकारेऽपि पुनःप्रसङ्गविज्ञानात्सि- द्धमिति न्यायेन सस्य त्यदायत्वे रूपसिद्धिः । सकृद्ताविति स्वीकारेऽपि तदोः सः सावित्यनन्तरमदस इति योग विभज्यादस एव दस्य सत्वं नान्यस्य दस्येति व्याख्यवाप्युक्तसिद्धिरिति. अदृष्टार्थफलकमनन्त्ययोरिति । स्यादेतत् । तोः सः साविति सूयतां, नैतत् । अनेप इत्यादौ तवर्गीयनस्य सत्वापत्तेः । न च तुइविधानसामर्थ्यम् । अनश्व इत्यादौ कृतार्थत्वात् । ननु परित्यज्य तस्मादिति पदं नुगचीति सूत्र्यताम् एवन्तर्हि न लोपःप्रातिपदि- कान्तस्यति नलोपापत्तेः । विधानसामर्थ्यान नलोप इति चेत् । एवमपि ङमो ह्रस्वादचि उमुटु स्यादिति । तस्मादिति कर्त्तव्य- मेव । टिदनुवन्धश्चेति यथान्यासमेवास्तु । कैयटस्तु तोरित्युक्तेऽपि अने' इत्यादौ नुडागमस्य पदव्यापेक्षत्वादिति चिन्त्यमे (११६) फकिकाप्रकाशः। चिन्त्यमिति परिचस्करुः। ननु यद्यपि त्वमावेकवचने इति युष्मदः सिद्धस्त्वादेश इति त्वाहावित्यत्र त्वग्रह्णमनर्थकं तथापि युष्मानतिक्रान्तोऽतित्वमित्यत्र युष्मदोऽनेकार्यत्वाद्विधानार्थमकेत्रोप- सर्जने चरितार्थत्वात्केवले परत्वात्तवममाभ्यां वाध इति न वाच्यम् । त्वमावपि प्रवाधन्ते पूर्वविप्रतिषेधत इति वक्ष्यमाणत्वात् । तत्र मपर्यन्तस्यादेशे शेषे लोप इति दस्य लोपेऽजन्नादेशपक्षेऽतो गुणे हलन्तादेशपक्षे तदमावेs- प्यदन्तत्वादजाद्यत इति टापमाशंकते नन्वित्यादिना । अन्त- रङ्गत्वादिति । परनिमित्तानपेक्षत्वेन टापोऽन्तरङ्गत्वमिति भावः । देप्रथमयोरित्यत्र युष्मानित्यत्र तस्माच्छसो न इति नत्वमिति भाष्येण लिङ्गबोधनात् साम आकमित्यत्रालिङ्गे युष्मदस्मदी इत्यपि भाष्येण लिङ्गाभावस्य बोवनादुक्तदोषमर्द्धमङ्गीकरोति सत्यमिति । अलिंगे इति । इयं भाष्योक्तिः । न टाविति । इदं साम इत्यत्र स्पष्टं भाष्ये । नन्वलिंगे इति भाष्यस्य पदा- न्तरसन्निधानं बिना लिङ्गविक्षेपो युष्मदस्मच्छब्दमानान्न प्रतीयते । इत्यादस्त्येव लिङ्गत्वमत एवं त्रिलिङ्ग्यामनयोः प्रयोगा न विरुध्यन्ते न वा शिशीनुमूलग्विधिभ्यो युष्मदस्मदादेशा विम- तयादेशाद् विप्रतिषेधेनौते नेतराच्छन्दसोत सूत्रस्थवार्तिकमा- ध्यवचनानीत्यत आह यद्दति । इदं च साम आकं त्यदादीना- मित्यनयोळक्तं भाष्ये । यद्यपि शेप इति विभक्तिविशेषणे च विपये आत्वयत्वाभ्यां विगेपविहिताभ्या लोपस्य वाधनाद्व्यर्य- मेव तथापि तत्सार्थस्याय तेन प्रकृति विशेष्य समाधत्ते यधि- पब्लिङ्गम् । (११७) करणत्वेत्यादिना । वृक्षस्य शाखेति युक्त वृक्षे शाखति वच्छे- पस्योत वाच्ये शेपे इत्युच्यते । सप्तम्यंतं पक्षेऽवशिष्टेऽन्तस्य दस्य लोप इह तु सर्वस्य तदाह अत्शब्दस्यति । एवमप्यद- न्तत्वमस्त्येवात आहान्तरङ्गे इति । अन्तरपेक्षत्वेनास्व तत् वलो- पस्य तु वहिर्भूतविभक्तिनिमित्तकत्वेन बहिरङ्गत्वमित्यर्थः । फलि- तमाह अदन्तत्वाभावादिति । ननु वार्णादाङ्गम्बलीय इति परि- भाषमा पररूपात्पूर्वमेव टिलोपस्तत्कथमदन्तत्वाभाव इति चेन्न । तस्या अनित्यत्वाङ्गीकारात् । अत्र च्छ्वोः शूडिति सूत्रे सतुक्क- निर्देशो ज्ञापकः । अन्यथाङ्गत्वापूर्वं तु कंः शादेशे तु कोहप्राप्त्या तवैयर्थ्य स्पष्टमेवेत्यन्यत्र विस्तरः । सर्वमेतददन्तादेशपक्षे हलन्तादेशसर्वलोपपक्षयोस्तु टापो प्राप्तिरेबोत स्पष्टमाकरे । अन्ये तु बुद्धावित्यत्राच्च परित्यादौ तोः कृतयोः सन्निपातपरिभाषया टाव नेति यथा कृन्मेजन्त इत्यत्र भाष्ये समाख्यातं तथात्रा- प्यस्तु किमुक्तातिक्लेशकल्पनयेत्याहुः । मपर्यन्तस्य किमिति । अधिकारसूत्रं किमर्थमिति प्रश्नः । अकसहितस्य तन्मध्यपति- तन्यायेनादेशः स्यादित्युत्तरमति युवकामिति । ननु समुदाया- देशत्वेऽपि युष्मदस्मद्विषये त्वयकेत्यादिसिद्धये ओकारसकार- भकारादौ मुपि सर्वनाम्नष्टेः प्रागकनन्यत्र तु सुवन्तस्य टेः प्रागिति व्यवस्थाया वक्ष्यमाणत्वेनान्तरङ्गत्वायुवामित्यादि सिद्धयु- त्तरमकजिति नोक्तरूपासङ्गतिरित्यस्वरसादाह त्वयेत्यादि । अन्- विशिष्टस्यादेशे यकारान्तादेशे च रूपासिद्धिरिति भावः । ननु योऽचीति सूत्रमच्ये इति विन्यस्याचि परे एकारादेशेध्यादेशे (१२८) फकिकाप्रकाशः। चोक्तरूपस्य नासङ्गतिरित्यपरितोपादाह युवकाभ्यामित्यादि । उक्तव्यवस्थया भकारादी सर्वनाम्नष्टरकजित्यस्य श्रवणानापत्तोरीत मावः । ननु किमः कादेशविधानं न सर्वत्राकविषये निर्दिश्य- मानपरिभापानिवृत्तेापकं किन्तु किंशब्दमात्रविषयेऽत एव भिन्ध- कीत्यत्राकचि कृते निर्दिश्यमानपरिभाषया हेर्धित्वं न प्राप्नोतीत्युक्तं हुझल्भ्य इत्यत्र पष्ठे भाष्ये । एवं चोक्तपरिभाषया युवकाभ्याभित्या- दावकश्रुतिरव्याहतैव अधिकारसूत्रस्य त्वादयो हलन्ता इति पक्षे त्वयेत्यादेरसिद्धिरादेशस्य सर्वादेशत्वं च न स्यात्तन्निवृत्तिरेख फलमिति चेन्न । अदन्तादेशपक्षे दोषाभावात् । नन्वेवं तर्हि मान्तस्येत्येवास्तु मैवम् । युष्मयतेः विपि सुप्यादेशाभावार्थं तत्करणात् । पर्यन्त- शब्देन मान्तापेक्षया शेपस्य लाभात् । कटिपर्यन्तं वास इत्युक्ते- रने किंचिदस्तीति नियमेन प्रतीतेरेवं च मान्ताद्यत्राने किश्चि- दवाशष्टं तत्रैवादेशा इति विपि नादेश इति सर्वमत्रव स्पष्टं भाष्ये । हलन्तादेशटिलोपपक्षयो!यमित्यादौ दोषामावेऽप्यन्यत्र पक्षे दोपमुद्भावयति इहेति । अङ्गकार्य इति । एतेनाङ्गवृत्ते पुनर्वृत्तावावीधारति परिभापार्थत उपनिबद्धा । अङ्गेहाधिकारे वृत्तं वर्तनं यस्य तदङ्गवृत्तं शास्त्रं तस्मिन्वृत्ते सति पुनरङ्गस्या- नवृत्तशास्त्रस्य प्रवृत्ती प्राप्तायामविधिरिति तदर्थः । इयं च भाष्ये स्पष्टा । तद्यथा ज्यादादीयस इत्यत्रान्मास्तु बहोर्लोप इत्यतो लोपानुवर्तनेनाकृत्साति दीर्पण सिद्धं ज्यायानिति । ज्ञाजनोर्जेत्यत्र हस्वोऽस्तु • अतो दीर्घा यजीति दीर्धे सिद्धं जायते जानातीति एवं सिद्धे यदाकारं करोति तज्ज्ञापय- पब्लिङ्गम् । (११९) त्याचार्यों भवत्येपा परिभाषाङ्गवृत्तति । अनित्या चेयं द्वयोरेक- स्येत्यादिनिर्देशात् । तस्या अङ्गसम्बन्धिकार्यविषयत्वात् प्रकृते प्रवृत्त्यभावावेत्यस्वरसादाह । मकारान्तरमिति । शसो नेत्यनेन संहितया पाठे इति शेषः । इदमुपलक्षणम् । जसः शीत्यत्र जसंः स इति सकारं प्रश्लिष्य सांतस्य जस इति व्याख्यानादतोऽ- मित्यतोऽमित्यनुवाममेवेति व्याख्यानाद्वेति बोध्यम् । अन्ये तु शेषविभक्तिभूतामादियुष्मदादिसन्निपातेन जातस्य लोपस्य तद्विघातकस्यादिनिमित्तत्वं नेति सन्निपातपरिभाषयैव श्याघभावः । सुटस्त्वाकमवयवत्वान्न तेन सन्निपातविघात इति सकारनिर्देशः साम आकमित्यत्र । मूलोक्तं तु न युक्तम् । अत एव नेतराच्छ- न्दसीसि सूत्रे नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा विप्र- तिषेधेनति वार्तिकं व्याख्याय कृतेषु पुनः प्रसङ्गाच्छिशीलुग्वि- धेयः कस्मान्न भवति । सकृद्गतिन्यायादित्युक्तम् । सर्वमते पुनः प्रसङ्गस्यैवाभावेन भाष्यासंगतिरित्याहुः । वस्तुगत्या नहि अम्लो- पस्य निमित्तं किं तर्हि शेपत्वं तच्चास्त्येव कृतेऽपि शीभावे इति नोक्तपरिभाषाविषयः । अत एव यूयं ब्राह्मणकुलानीत्यत्राम्भावे कृते सकृद्गतिन्यायाश्रयणाजश्शसोः. शिरिति. शिभावो नेति - भाष्योक्तं संगच्छते । त्वन्मते सन्निपातपरिभाषयैव शीभावाप्र- सक्तेर्भाष्यासंगतिः। तदुक्तभाष्यविरोधस्तु नास्त्येव उपायस्यो- पायान्तरादूषकत्वात् । तस्मान्मूलोक्तमेव युक्तमिति वदन्ति । भ्यसोऽभ्यमित्यत्र भाष्ये संदेहो भवति भ्यम् अभ्यम् वा, यदि भ्यमादेशः शेषे लोपान्त्यलोप इत्येवं प्राप्नोति अथाभ्यमादेशः - (१२०) फकिकाप्रकाशः। शेपे लोपष्टिलोप इत्यन्तस्योदात्तनिवृचिस्वरः प्राप्नोतीति यथे- च्छास तथास्तु इत्युक्तं तदाह आद्य इत्यादि । अङ्गवृत्त इत्यस्य अनित्यत्वे प्राप्ती वा संनिपातपरिभाषयोक्तरीत्या वारणीयमत्वं पक्षद्वयेऽपीति न चान्तलोपपक्षे स्वरूपं बाधित्त्वा सवर्णदीर्घः स्याद- कारोचारणसामर्थ्यादिति वाच्यम् । एत्वनिवृत्त्या चरितार्थत्वात् । न चाङ्गवृत्ते इत्यनयैव वारणे सिद्धेऽकारो व्यर्थ इति शंक्यम् । तस्या अनित्यत्वज्ञापनार्थत्वात् । तत्रान्त्यलोपे द्वयोरकारयोः पररूपे एकादेश उदात्तेनोदात्त इत्यनेनाभ्यम आयाकार उदा- त्तष्टिलोपेऽपि अनुदात्तस्य च यत्रेत्यनेन यत्रानुदाचे वर्णे परे उ- दात्तो लुप्यते सवर्ण उदाच इत्यथ केनोदात्त एवेति न विशेषः । वस्तुत इहाभ्यमेवादेशो भाष्याभिप्रेतः अत एव युष्मदस्मदोर- नादेश इत्यत्र न चादेशो हलादिरस्तीवि भाष्योक्तं संगच्छते । उक्तभाष्यस्य त्वयमर्थस्त्व यथेच्छसि तथास्तु तत्र दोपोद्धारो मया सुकर इत्येकदोशनं प्रत्युक्तिरिवि । एवं च टिलोपपक्षोऽपि व्यर्थः शेषग्रहणं तु प्रत्याख्यातमेव भाष्ये । ननु यद्यपि योऽ- चीत्यत्राज्ग्रहणाभावे युवाभ्यामित्यादौ दोषस्तथापि युष्मदस्म- दोग्नादेश इति सूत्रे रायो हलीत्यतो हलीत्यनुवर्तनेन परिशेपा- दत्राच्येव प्रवृत्चेरचीत्यस्य वैययेऽपि विशेषविहितत्वादाकमादे- शात्पूर्वमनादेशत्वाद्यत्वेन भाव्य ततश्च शेपे लोपाभावे हलन्त- त्वात्सुटोऽप्रसक्त्या माम इति निर्देशो व्यर्थ इत्यत आह भाविन इति । आकमि शेपे लोपे कृते प्राप्तस्येत्यर्थः । ससुदकस्य स्था- निवत्त्वेन निर्देशसामर्थ्यानिवर्तत इति भावः । म चोपसर्जनेऽ- पड्लिङ्गम् ।। ११२१) तित्वाकमित्यादौ कथमादेश इति वाच्यम् । साम इत्यत्र तंत्रेण केवलस्यामोऽपि निर्देशात् । एकशेपो वा । इत्थमुपपत्तिः । सामपंदस्पाम्पदेन एकशेषः असारूप्येऽपि विरूपाणामित्यस्य मवृत्तेः । एकत्र सुद्साहित्यार्थाधिक्येऽपि विशेष्यभूतस्यामोऽ- न्येनामासमानार्थत्वात् एवं चांकमः स्थानिवद्भावेनाम्त्वात्ससुङ्क- त्वाच साम इति प्रवर्तते उपसर्जने तु प्रथमप्रवृत्यैव. पर्यवसानम् अत्राकमः स्थानिवद्भावेन नुट् तु न । अंगवृत्तपरिभाषया हस्वन- द्याप इत्यत्र ह्रस्वान्ताद्विहितस्यामो नुडिति व्याख्यानेन वेति । अन्ये तु सामः प्रसंगे आकम् इति सूत्रार्थः । तेनाम्सकारपोरेत्र . विषयेऽत्यन्त्रमप्रयोगो बोध्यते । यथाऽस्थातुविषयेऽस्तेरप्रयोगो भुवश्च प्रयोगोऽस्ते रित्यनेन प्रतिपाद्य वे न तु सतो निवृत्तिः शब्दनित्यताहानेः किन्तु प्रसक्तबुद्धेरेव निवृत्तिः । वत्र सकार- बुद्धेः प्रकृते सांप्रतिक्या असम्भवाद्भाविन्या ग्रहणम् । सकारो- चारणसामर्थ्यात् तन्निवृत्तिश्चामोऽभावात् । अत्र सामः स्थानि- त्वोक्त्याकमि. स्थानिवद्भावेन साम्त्वमेव न त्वाम्त्वम् आम्येव साम्त्वस्याहाारोपणादेशः आदेशस्याम्त्वाभावाच्चोपसर्जनन नुट् । न च यत्र भावी सुद् तत्रैव आदेशो न तूपसर्जने। सामोभावित्वस्य सर्वथा दुरुपपादत्वादित्याहुः। ननु ह्रस्वा- दिरेवाकमस्तु मैवम् अन्त्यलोपपक्षेऽप्यकारस्यैत्वनिवृत्याचारितायन युष्माकमित्यादौ पररूपापत्तेः न नुपप्ठ्यादिविशिष्टयोरित्यर्थलाभः कथम् । न च पदस्वेत्याधिकाराद्विभन्यन्तस्यैव पदत्वादिति वाच्यम् । उक्तरीत्या वस्नसादौ दोपाभावेऽपि भ्यामादी विभ- (१२२) फविकाप्रकाशः। त्यविशिष्टस्यापि पदत्वसत्वात् । एवं चोक्तार्थसंपादनायास्तु स्थग्रहणमिति चेन्न । सर्वस्येत्यधिकारात्सामर्थ्यात्सर्वस्य विभक्ति- विशिष्टस्य पदस्येत्यर्थसंभवात् । अत एव पष्ठीचतुर्थीदितीयाना- मिति सूत्रितेऽपि विशेषणेन तदन्तलामात्पष्ठयाद्यन्तयोर्युष्मद- स्मदोरित्यर्थलाभो नतु युष्मदादिसंबन्धिनीना पष्ठ्यादीनामित्यर्थ इति किं स्थग्रहणेनेत्यत आह स्थग्रहणादिति । अहान्यर्थेत्र तिष्ठतिः यथा समये तिष्ठ सुग्रीवेत्यत्र समयं मा हासीरित्यर्थो गम्यते धातूनामनेकार्थत्वादत्र तल्लाम इति भावः । तेन पष्ठ्याः दीनविजहतोयुष्मदस्मदोरेवादेशा इत्याह श्रूयमाणेति। इति युष्मत्पुत्र इति । पदात्परत्वं संपादयितुमिति शब्दः प्रयुक्तः युवयोर्युष्माकं वा पुत्र इत्यर्थः । न तु तव पुत्रः इत्येवं सति त्वमादेशप्रसङ्गः। यद्यपि वृत्तौ संख्याविशेपो नावगम्यते वृत्तेः स्वभावादिति स्पष्टं भाष्ये तथाप्यवच्छेदकत्वेनैवानेकव्यक्त्यवगमो न द्वित्वादेर्मानं नाप्येकत्वस्येति वस्तुगतिः । प्रकृते तु संबोध्यत्वरूपावच्छेदकेन- वानेकव्यक्त्यवगतिरिति शास्त्रप्रवृत्युपयोगिवचनारोपेऽपि श्रूयमा- णत्वाभावान्नादेशाः । केचित्तु वृत्तावेक्त्वसंख्या प्रतीयते दित्वादिकं यत्नलभ्यमत एव संयोगस्योत सूत्रितेऽपि विशेषणेनान्तलामे संयोगावन्ते यस्येति दिवचनान्तेन समासलाभार्थमन्तग्रहणं तेन प्रत्येकं संयोगसज्ञापक्षे सुदृपत्करोतीत्यादौ न लोप इति तन्न सत अननुभवात् । किश्चाई नपुंसकमित्यत्राई पिप्पलीनामित्यर्थे समा- समाशक्यकाधिकरणेनेत्यस्यानुवृत्त्या समाहितं द्वितीये माध्ये पूर्वमते तूपसर्जनपदार्थे एकत्वस्यैव भानात् समासप्रसङ्ग एव पब्लिङ्गम् । (१२३.). नास्ति. मम तु पिप्पलीत्वेनानेकव्यक्तिबोधादाशंकोचितैवेत्यधिकं. नागेशीये । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थकं समानवा- क्यमिति स्वसंकेतं विषयीकरोति । एकतिहिति । तिङ्पदेन तिङन्तं गृह्यते. बहुव्रीहिरकतिङन्तघटितमित्यर्थः तेन । पचती- त्येतन्मात्रस्य न वाक्यत्वम् । ननु पश्य मृगो थावतीत्यादौ वाक्यप्रतिपादकपरभाष्यविरोधः किश्चास्तु एकातनावशेष्यर्क वाक्यंमत एव व्रजानि देवदत्तेत्यादौ सम्बोधनस्य क्रियान्वयनिय- मेन जानीहीत्यध्याहारेणैकवाक्यत्वप्रयुक्तनिघातस्वरः एवमपि समा- नवाक्ये तिइंद्धयलाभेन निघातव्यावृत्तये तिङतिङ इति सूत्रेऽ- तिग्रहणस्यावश्यकत्वेन तत्प्रत्याख्यानपरभाष्यविरोध इति चेन्न । पश्य मृगेत्यादौ लौकिकं वाक्यं वार्त्तिकविषये तु · स्वशास्त्रका-- पयोगिनिरुक्तमेकवाक्यमित्यदोषात् । एवमपि व्रजानि देवदत्ते- त्यादी कथम् श्रूयमाणकतिङन्तघटितमिति बत्तुलार्थनोपपत्तेरिति दिक् । लौकिकं त्वमरेणोक्तं सुप्तिङन्तचयो वाक्यं क्रिया वा कार- कान्वितेति । अयमर्थः । वाकारश्चेदर्थ कारकान्चितक्रिया चंद्रोध्येति शेषस्तेन निरर्थकशब्दसमुदायव्यावृत्तिः । सुप् च तिङन्तं च सुप्तिङन्ते सुविशिष्टं तिङन्तं तेपामेकशेपः। तेन कारकान्वित- क्रियावोधकः सुवन्तचयस्तिङन्तचयः सुतिङन्तचयश्चेति त्रिधा । चैत्रेण शयितव्यम् पचति भवति चैत्रः पचतीत्यादिक्रमेण बोध्यः। तुल्यार्थैरित्यादिवत्तृतीयानिर्देशेनैव सिद्धे युक्तग्रहणं व्यर्थमत आह युक्तेति । नपुंसके भावे क्तः। अयं भावः । चादिपञ्चकानां ऋणमे समुच्चयो विकल्पोऽटूतः खेदोऽवधारणं चति पश्चार्थाः । ते (१२४) फक्किाप्रकाशः। च चादिसमभिहारे विशेष्यशब्देन वाच्याश्चादिभिर्योत्यन्ते चादीनां द्योतकत्वादित्यन्यत्र विस्तरः शब्दशक्तिस्वभावान्नित्यानुभवसिद्ध- त्वाच्च नित्यपरतंत्रनियताः स्वार्थ परविशेषणत्वेनैव वोधयन्तीति, एवञ्च यत्र युष्मदस्मदर्थगतसमुच्चयादीन् द्योतयन्ति चादयस्तदा चादिभिः सहार्थद्वारा युष्मदस्मदोः साक्षाद्योगस्तत्रायं निषेधक इति त्वां मां चेत्यादावादेशाभाव उदाहृतः। परंपरेति । स्वार्था- श्रयान्वय्यन्वयित्वादिरूपे इत्यर्थः । हरो हरिश्च मे इति । इह हरिहरगतसमुच्चयं च शब्दो द्योतयति हरिहराभ्यां त्वस्मदः स्वस्वाम्यादिसम्बन्ध इति भवत्येवादेशः । एवञ्च युक्तग्रहणेन ज्ञाप्य- तेऽन्यत्र परंपरासम्बधेऽपि निषेध इत्याशयेन समनन्तरं वक्ष्यति परंपरेति । तस्य स्वान्वितान्वयित्वादिरूपे इत्यर्थो न तूक्त- तस्य द्योतकविषयत्वात् तत्र तस्मिन्धाती कर्मतयान्वितं रूपं तत्र युष्मदूशन्दार्थान्वय इत्यस्ति परंपरासम्वन्धः । भाष्ये तूक्तं पश्याथैश्च प्रतिषेधः सामान्यवाक्य इति प्रकृत्यवक्तव्यः इव- स्थाहि, पत्रव पश्यार्थानां युष्मदस्मदीसाधनं तत्रैव प्रतिषेधो ग्रामस्त्वा संप्रेक्ष्य गव इति इह न स्याद् ग्रामस्तव स्वं संप्रेक्ष्य गत इति । समानवाक्य इति करणेन समानवाक्ये पश्याथैर्युक्तयुक्ते च युष्मदाद्यर्थः आदेशप्रतिषेध इत्यर्थ कैयटो व्याचष्टे । एवञ्च भाष्यकैयटाभ्यां पश्यारित्यस्य युक्तग्रहणामावे साक्षाद्योग एवं प्रवृत्तिः समानवाक्य इतीह सम्बन्धाद्युक्तयुक्तेऽपि प्रवृत्तिरिति लभ्यते तस्य स्पष्टार्थत्वमेवेति । ननु भाव्यमानः सवर्णान्न गृह्मा- -तीति कथं ह्रस्वेन दीर्घसंग्रहोऽत आह उ इतीति । ह्रस्वव्यञ्जनयो- षड्रार्लंगम् । (१२५ रिति । व्यञ्जनस्य हि ह्रस्व ईपत्सदृश इति भावः। अत्राहुः । उस् उस् इति द्वन्दे सुलोपे घ्यन्तत्वाद्रस्वस्य पूर्वनिपाते नपुंसक- ह्रस्वसवर्णदीर्घयोः प्राप्तयोर्दीर्घस्य शब्दान्तरप्रात्यानित्यत्वेन नित्यत्वादपरनिमित्तत्वेनान्तरङ्गत्वाच ह्रस्वत्वे ततः सवर्णदीर्घ उ इति रूपासिद्धेर्मूलोक्तं न युक्तम् । तस्माद्दिव उत् ऋत उदिति च तपरकरणेन भाव्यमानोऽप्युकारः सवर्णान् गृह्णातीति परिभाषाया ज्ञापनेनात्र सिद्धिरिति वस्तुगत्या शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो- ऽन्तरङ्गं वलीय इति परिभाषयोः सौत्ररूपसामर्थ्येनानित्यत्वात् पूर्व दीर्घ एव ततो ह्रस्वः किं च समुदायस्यैव नपुंसकवृत्तित्वेन समुदा- याश्रयणरूपवहिरङ्गत्वस्यं ह्रस्वविधेरप्यावश्यकत्वम् । अपिच आकृ- तेरेकतया शब्दान्तरेत्यस्य प्राप्त्यभावः। उकाल इत्यत्र स्पष्टार्थ- मेव समाहारो न निर्दिष्टः इति न मूलासङ्गतिः । अस्तु चोक्तरीत्या पूर्व ह्रस्वस्ततो दीर्घ एवमपि पुनर्हस्वप्रवृत्तेः । न च लक्ष्ये लक्ष- णस्यति न्यायविरोधः कार्यभेदेन लक्ष्यभेदस्य वहुत्राभ्युपगमात् । किं च तत्रैव लक्ष्ये लक्षणन्यायः प्रवर्त्तते यत्र रूपासङ्गतिर्भविष्य- तीति इह तु पुनर्लक्षणप्रवृत्त्यैव रूपसिद्धिरिति वदन्ति । नन्वदस्य- तीत्यत्रासेरितीकारस्योच्चारणार्थतयाऽसान्तस्यादस इत्यर्थ दोपाभा- वेऽप्यदोऽत्राद इत्यादावुत्वाद्यापत्तिरिति चेन्मैवम् । सग्रहणस्य सस्थानिकौकाररेफयोरप्युपलक्षणत्वादित्याकरे स्फुटम् । तथा चा- दसोऽवयवदकाराभ्यां परयोरकाररेफयोरुत्वमत्वे चामुमुवङित्यादि सिद्धम् । ननु सूत्रेदस इति विनिगमनाविरहात्स्थानषष्टी तन्निबन्ध- नालोन्त्यपरिभाषोपस्थितिश्च तथा चादसो योऽन्त्य इकारः स (१२६) फकिकाप्रकाशः। दात्परो न भवति रेफव्यवधानाद्यश्च दात्परो रेफः सोऽदसोऽन्त्यो नति कथमत्र शास्त्रमाप्तिरित्याशंक्य भाष्योक्तपरिभाषामर्थतो विन्यस्यति अन्त्यबाध इति । अन्त्यस्य बाध कार्याप्राप्तावत्येन समानो देशो यस्य तस्य भवतीति तदर्थः अन्त्यसदेशत्वं चान्त्या- व्यवहितपूर्ववर्तित्व तादृशं च रेफस्यैवेति तस्योत्वम् । घ्यडः संप्रसारणमित्यत्र षष्ठे भाष्येऽनन्त्यविकारेऽन्त्यसदेशस्यति पठितम- न्त्यदेशान्त्यदेशयोरेकप्रयोगे युगपत्प्राप्तावन्त्यसदेशस्यति तदर्थोऽ- नन्त्यविकार इति लिङ्गमित्यधिकं नागेशीये । व्याख्यानान्तरमाह सेरिति । एवं विग्रहे एकदेशिसमासः । फलितमाह त्यदाद्य- त्वति । त्यदादीनाम इत्यत्र कृताकारान्तस्यांदस इति पठनार्थः । इह तु टेरट्यादेश इति भावः । इदमुपलक्षणमासर्वनान्न इत्यस्या- त्वस्यापि तेनामूदृगित्यादि सिद्धम् । उक्तपक्षत्रये वार्तिकं प्रमाण- यति उक्तं चोते । लत्ववदिति । चलीक्लप्यत इत्यत्र शिकारयोः कृपो रोल इति यथा लत्व तथेहापीति प्रथम दृष्टान्तः सूत्रे अप्र- त्यये इति पाठेऽविद्यमानः प्रत्ययोऽप्रत्ययः विवादिः वप्रत्यये इति पाठेऽपि अकारस्याविवक्षितत्वात्स एवार्थः । स च किमर्थ इति पृच्छति वप्रत्यये किमिति । तद्भावे मास्तु इत्युत्तरयति विष्वगञ्च- नमिति । अन ल्युट जनादेशः । ननु तदभावेऽप्यलगुत्तरपदे इत्यधिकारादेतत्सूनस्याञ्चुरूपे उत्तरपदे इत्यर्थस्यावश्यभावादिष्व- गंचनमिति स्युडन्तस्य व्यावृत्तिसिद्धौ व्यर्य तद्रहणमत आह वप्रत्यये इति । अश्चताविति । तमभिहारात्सजातीयज्ञापनं तत् फल चाहान्यत्रेत्यादि । अतः कृस्मीत्यादी स चातुरादियस्येति पडिङ्गम् । (१२७) तदादिस्तनाणाद्यन्तेऽपि भवतीत्याह तेनेति । अन्यथा तत्र नित्य- समास इत्यस्मादनुवृत्तसमासीनोत्तरपदाक्षेपेऽपि कृधातुरूपे उत्तरपदे इत्यर्थापत्तावयस्कृदित्यत्रैव स्यादिति भावः । पूर्वस्मात् परं वलवत् विप्रतिषेधशास्त्रात् तस्मानित्यं कृताकृतप्रसंगित्वमात्रम् । ताभ्या- मन्तरंगमसित्वात् तेभ्यश्चापवादो वचनमामाण्यादिति परनित्यति परिभापायां वीजं तदू ध्वनयन्नाह परमिति । न च दीर्घस्याचरि- तार्थत्वात् कथं विप्रतिषेधत्वं वचनसामर्थ्यात् पूर्वमुपधा पदासंबन्धेन चारितार्थ्यात्तस्येत्यभिमानः । अयमभ्युच्चय इत्याह नित्यमिति । सामर्थ्यादिति । वाक्यार्थबोधकाले विरोधाभावेनोपधासंबन्धे कृते सामर्थ्यात् पूर्व दोषप्रवृत्तिरेव कल्प्यत इति भावः । ननु एकानुवन्ध- कग्रहणेन ट्यनुबन्धकग्रहणमिति चतुर्थ भाष्ये स्पष्टया परिभापया मतुपोऽग्रहणेन धोमानित्यादी कथं दीर्घः । न च सूत्रसामर्थ्यादिति वाच्यम् । अनुनासिकोकारविशिष्टे भवतु शब्दे चरितार्थत्वादिति चेन्न । पकारस्य समुदायानुवन्धत्वेऽप्यनुमात्रस्य द्वयनुवन्धत्वा- (१२८) फकिकाप्रकाशः। न चाचवेश्चेन्नलोऽपि न एव तेन पूजार्थस्य नेति नियमसंपादनन तद्ग्रहणं चरितार्थ कथमुक्तार्थ ज्ञापयतीति, किञ्च नुम्मात्रविष- यको नियमोऽस्तु इति वाच्यम् । अचामिति नलोपस्याविवक्षित- त्वात् । नियमफलमाह तेनेति अंत्र नुम्न क्विवन्तस्य धातुत्वात् उखासत् ब्राह्मणीत्यत्र नुम् उगितश्चेति डीए च नेत्यर्थः । ननु गोमानित्यस्य धातुत्वात् कथं नुम्स्यात् अत आह अधातोरितीति न चौपदेशिकधातुविषयक एव नियम उक्तो भवतु किमनेनोते वाच्यम्। उगिदचामित्वत्र सप्तमे गोमत्यतेप्रत्यये गोमानिति भाष्येणोक्त- रूपस्यैव सामान्यापेक्षत्वादिति दिक् । अधात्विति । पूर्व भूतो भूतपूर्वः न धातुभूतपूर्वाधातुभूतपूर्वस्तस्येत्यर्थः । तेन साप्रतिका- भावे भूतपूर्वगतिरिति । परिभाषा सिद्धा कुत्वस्यासिद्धत्वाद् व्रश्चेति प इति । अयं भावः ब्रश्चेति निशादौ चरितार्थ क्विन्प्रत्ययस्येत्यपि ऋत्विगायंशे चरितार्थ तादृश इति स्थिते परत्वाविन्प्रत्येति कुत्व- शास्त्रे प्राप्ते पूर्वनासिद्धमिति पत्वविधिं प्रति कुत्वविधेरसिद्धत्वात् निष्प्रतिपक्षत्वेन पत्वमेवीते । ननु विवन्ते कथं क्विन्प्रत्ययस्येत्यस्य प्राप्तिः इत्थम् । प्रत्ययग्रहणेन वहुव्रीह्यर्थाश्रयणात् । तदुक्तं क्विन्प्र- त्ययस्येत्यत्राष्टमे भाष्ये । विन्कुरिति सिद्धयेत् प्रत्ययग्रहणं कृतं तेन येभ्यः प्रत्ययो विधीयते तेषामन्यप्रत्ययान्तानामपि कुत्वं यथा स्यादिति अत्र कैयटः ब्रश्चेति पत्वे प्राप्ते कुत्वं शस्य ख: वावसान इति चर्वेन कः पूर्वत्रासिद्धमित्यसिद्धत्वं पत्वे कुत्वस्य नास्ति प्रत्ययग्रहणसामर्थ्यात् पत्वापवादत्त्वात्कुत्वस्येत्याचष्टे तदाह पत्वेत्वादि । तस्यायमभिप्रायः क्विन्कुर्यत इति न्यासेन दृष्ट पलिङ्गम्। (१२९) इत्यध्याहारेण च बहुव्रीह्यर्थलाभे सिद्धे प्रत्ययग्रहणमन्यपदार्थ वीप्सागर्भबहुव्रीह्यर्थलाभार्थं तेन विशिष्य' ताक्छन्दादिविषयक- लक्षणोपप्लवेन ताक्छन्दविषये पत्वस्यापवादकं कुत्वं निरखकाश- त्वादिति अयमेवाशयो हरदत्तमिश्रादीनामाप वोध्यः । इदं च मतं भाष्यविरुद्धं प्रत्ययग्रहणस्य बहुव्रीह्यर्थमात्रफलकताया एव तत्रोक्तत्वात् तस्मादृत्विगायंशे चरितार्थस्य कुत्वविध पवादत्व- मिति स्थितम् इणको इत्यधिकारस्य पंचम्यर्थपष्टीत्वादनानन्तर्ये पत्वाप्राप्तौ नुम् विसर्जनीयेति व्यवायेऽपि पत्वार्थ तत्र यथा वृषलैन प्रवेष्टव्यमिति वृषलप्रवेशनिषेधपरेण वाक्येन प्रत्येकं समु- दायस्य च प्रवेशाभावो बोध्यते तथा नुमादीनां पत्वप्रतिबंधहे- तुत्वप्रतिपादनायोपादानात्प्रत्येकं समुदायेन च व्यवाये पत्व- प्राप्त्या निस्स्वेत्याद्यर्थ निसेः प्रतिषेधो वक्तव्य इति वार्तिकं तत्म- त्याख्याय भाष्यकृतोक्तं योगविभागात्सिद्धं तद्यथा नुम्व्यवाये विसर्जनीयव्यवाये शर्व्यवाये इति स तर्हि योगविभागः कर्तव्यो न कर्त्तव्यः प्रत्येकं व्यवायशब्दः परिसमाप्यत इति तदेवाह प्रत्येकमिति । निस्स्वति । णिसि चुंबने इदितो नुम् तस्यानु- स्वारः । नन्वाद्यसकारस्य प्रत्येकं व्यवायादस्तु पत्वमिति चेन्न आदेशप्रत्ययत्वाभावात् । न चास्मात्परत्रादेशप्रत्यययोरित्यस्य स्थितेः कथमत्र तदनुवृत्तिरिति वाच्यम् । अपदान्तस्य मूर्द्धन्य इण्कोरितिवदस्याप्यधिकारसूत्रत्वेन स्वातंत्र्येण विधायकत्वाभा- वात् नन्वयोगवाहानां शāपदेश इति हयवरसूत्रे भाष्योक्तेः शरन्तर्गतत्वेन यथा विसर्जनीयग्रहणं व्यर्थ तथा नुम्- ८ (१३०) फक्किाप्रकाशः। ग्रहणं मास्त्वित्यत आह उपलक्षणार्थमिति । व्याख्यानादिति । भाष्यकृतादित्यर्थः । तत्रैवोक्तं भाष्ये नुम्ग्रहणं नुमो यो:- नुस्वारस्तत्र यथा स्यादिह मा भूत्पुस्विति तदेतदाह अत एवेति । ननु पिपठीष्षु इत्यादी सनः सस्य रुत्वविसर्गयोः कृतयोर्वा शरीति वैकल्पिकशकारे शराव्यवाये सुपः सस्य पत्वेऽपदान्त- स्येत्यनेनादेशप्रत्यययोरित्यस्य वाचनाद्विसर्गस्थानिकस्य सस्य टुत्वेनैव सिद्धे सग्रहणमेवास्तु किं शम्रहणेनेति चेत् भवेदेवें यदि भाष्यकृत् शम्रहणमाश्रित्य विसर्जनीयग्रहणं न प्रत्याच- क्षीत न चानुमा नुम्स्थानिकानुस्वारमुपलक्षयेत् । ननु यचि भामिति प्रातिपदिकस्य भसंज्ञाविधानादातीस्तदभावे न टेरिति कथं प्रव- चैते इत्यत आह सामर्थ्यादिति । सति गमके रेरिति भं विनापि प्रवर्त्तत इति भावः । ननु अपवादत्वात्स्कोरत प्रवृत्ते रूपासि- द्विरत आह पत्वस्यति । आदेशप्रत्यययोरिति कृतस्येत्यर्थः । ब्रश्चेति प इति । सपादसप्ताध्यायीस्यकार्यप्रवृत्तियोग्यताया त्रिपादिस्थस्याप्रवृत्तेईल्डयादिलोपोत्तरं विविशस् इत्यवस्थाया प- त्वासिद्धया संयोगान्तलोपे पोभवतीति घटनार्थः । तक्ष्णोतेः विपि पदान्तसंयोगादिलोपस्य संयोगान्तलोपापवादकत्वात्कलोपे तडिति सिदं ण्यन्ते तु नेत्याह तक्षीति । णिलोपस्य रनिटीति कृतस्य स्थानिवद्भावात् अचः परस्मिन्निति जातात् । न च कौ लुप्तमिति निषेधः तस्यासार्वत्रिकत्वात् अपवादस्याप्रवृत्ता उत्सर्गविधिम- वृत्तेराह तस्मादिति न च बहिर्भूतक्विबपेक्षत्वेन णिलोपस्य बहि- रंगत्वासंयोगान्तलोपे कर्तव्येऽसिद्धत्वं, शक्यम् । परिभाषाया पलिंगम् । (१३१) अनित्यत्वात् पदसंज्ञासापेक्षत्वेन संयोगान्तलोपस्यैव वहिरङ्ग- वादित्यप्यन्ये । ननु संयोगान्तलोपं वाधित्वा स्कोरिति स्यादत आह कुत्वस्यति चोः कुरित विहितस्येत्यर्थः । पिपस् इत्यव- स्थायां कुत्वासिद्धया ककाराभावेन स्कोरित्यस्याप्राप्तः संयोगान्त- लोप इत्याशयः पद्ल इत्यस्मादापायां सदवस श्रुव इति लिटः वसुः द्वित्वं हलादिशेषः अत एक हलित्येत्वाभ्यासलोपो वस्वे- काजाबसामितीटशसादो वसोरिति संग्रसारणमित्यनयोर्मध्ये ताव- त्पत्याह अन्तरङ्गमिति । अन्तरपेक्षत्वेनति भावः अकृतेति । न च संप्रसारणं तदाश्रयं कार्यं च वलवदिति परिभापया संप्रसारणे कृते इटोऽप्राप्ति रेवेति लिट्यभ्यासस्येत्यत्र भाष्ये उक्तपरिभापायाः खण्डनात् तच्च तिङन्ते वक्ष्यते । अन्ये तु पदावधिकमन्वाख्यान इति पक्षे लक्ष्यानुरोधादाश्रीयमाणे सिद्धम् । सेवस् असि इति स्थिते इट्सप्रसारणयोः प्राप्ता प्रतिपदावधि- त्वेन शीघ्रोपस्थितिकत्वात्पूर्व संप्रसारणे तनो वलादित्वाभावान्नेटः प्राप्तिरित्यकृतेति परिभाषा व्यथेति । न च विदेः शनुर्वसोरेका- नुबंधकत्वादेकानुवन्धकेति परिमापया लिङादेशस्य वसोः संग्र- सारणं न स्यादिति वाच्यम् । वसुरादेशेन तस्यापि व्यनुबंधक- त्वादिति द्विसकारको निर्देश इत्यादिना तत्रैव सूत्रे पष्टे स्पष्टं भाष्ये । ननु पत्वतुकोरिति सुत्रेण संग्रमारणाचेति पूर्वरूपत्वम्य पत्वे कर्त्तव्ये सिद्धत्वमिति चेन्न । पदान्तपदाचोरेकादेशस्यैव तेनासिद्धत्ववोधनादिति स्पष्टं तृतीये ईचखन इत्यत्रान्यत्र च -भाष्ये । ननु प्रातिपदिकाधिकारागाह तत्वेनाविशेषाद्धातोरप्यु- (१३२) फक्किाप्रकाशः। पधाया दीर्घः स्यादत आह सान्तमहत इति साहचर्यादिति । महतः प्रातिपदिक्त्वाव्यभिचारादिति भावः । ननु महान्तमि- च्छतीत्यर्थे क्यच ततः विपि महतोऽपि धातुत्वमस्तीति चेन्न । औपदेशिकधातुत्वस्याभावात्तत्साहचर्येणौपदेशिकधातुभिन्नासन्तसं- योगस्य ग्रहणमित्यभिप्रायात् । न च सुहिन्नित्यत्र सर्वनामेति दीर्घोऽस्तु संयोगान्तलोपस्यासिद्धत्वात् । प्रत्ययस्योगित्त्वेन सिद्धे उकारस्य वैयर्थ्यमाशंक्याह उच्चारणार्थ इति । प्रत्ययस्योगत्वं सफ- लयति बहुपुंसीति त्वं न चात्राप्यन्तर्वर्तिनीं विभक्तिमाश्रित्य तस्या परतोऽसुडेवास्तु इति वाच्यम् । अनुवृत्तसर्वनामस्थाने इत्यत्र विवक्षितसप्तमीस्वीकारात् अत एव परमपुमानित्यत्रासुडि समासा- न्तोदात्तत्वं भवदसुड एवाकारस्य भवति परसप्तम्या नैतत् सिध्येत् सर्वनामस्थाने प्रागेव पुम्शब्दोकारस्योदात्तत्वे कृते संसनधर्मिणो हलः स्थाने तद्धर्मणोऽनुदात्तस्यैवादेशस्य प्रसंगात् । उक्तं च सप्तमे प्रकृतसूत्रे भाष्ये असुडयुपदेशिववचनं स्वरसिद्धचथै बहिरङ्गालक्ष- णत्वादिति । ननु बहुपुंस इत्यवस्थाया सर्वनामस्थानविवक्षोत्तरं डीवस्तु नैतत् । प्रातिपदिकत्वप्रयुक्तकार्याणा ऋमिकत्वस्वीकारस्यो- क्तत्वात् । न च डीवन्तस्याप्यसुइ स्याल्लिंगविशिष्टपरिभापयति वाच्यम् । विभक्ती लिंगति निषेधात् । अत्र वदन्ति विवक्षितसप्त- म्यामापे विमक्तिबुद्धिनिमित्तकत्वेनासुडो वहिरङ्गत्वाचतः पूर्व परमपुमानित्यत्र समासान्तोदात्तप्रवृत्तेदोंप एव । किंच परसप्तमीपक्षोऽपि सूपपादः अकृत्तव्यूहपरिभाषाया वहिरङ्गपरिभापापवादकत्वादिति । पहिरङ्गपरिमापायां तन्न पहिङ्गम् । (१३३) बुद्धिकृतवाहरङ्गत्वाश्रयणे बहूपप्लवापत्तेः अकृतत्यस्या असत्त्वाच्च । वहुपुंसीत्यत्रासुप्रवृतेश्चेति दिक् । पूञ् इति पातेरिति पाठान्त- रम् । स्त्रियामित्यत्र चतुर्थ सूतेः सस्य पो ह्रस्वोऽम्सुन्प्रत्यय इति भाष्यकैयटयोरुक्तमुभयथापि न दोष इत्याह । प्रत्ययस्थति । ननृचारणार्थानामपीत्संज्ञाया आवश्यकत्वादियमुक्तिनिष्फलेति चेन्न । उच्चारणमात्रार्थतदतिरिक्तार्थयोरित्सङ्ख्याऽपगमाविशेषेऽ- प्येकस्य कार्याप्रवर्तकत्वेन च विशेष्यस्यावश्यं वक्तव्यत्वादिति । स्यादेतत् अत्वसन्तस्येत्यत्र धातुभिन्नासन्तस्येत्यर्थात्सुवः पिण्डग्र इत्यादौ समुदायस्य धातुभिन्नत्वाद्दीर्घोऽत आह । अधातोरिति धात्ववयवभिन्नासन्तेति विवक्षितार्थकस्येत्यर्थः । ननु वार्तिकद्रय- प्रतिपाद्यकार्यव्यस्य पर्यायतापत्तिरत आह । प्रतिपेधेति सुधीवत्यत्र ङीवादेशवत् सन्नियोगशिष्टानामन्यतरापाये उभयो- रप्यपाय इति न्यायादिति भावः । अयं च बिल्वकादिभ्यच्छस्य लुगित्यत्र छग्रहणेन ज्ञाप्यते तद्यथा विल्लकादेरुत्तरप्रत्ययस्य भनिमित्ते तद्धिते विधीयमानोलुक् प्रत्ययान्तराभावाच्छस्यैव सिद्धि- रिति छमात्रस्य लुग्यया स्यान्न तु छसन्नियोगशिष्टकुको निवृत्ति- रित्यांच्छग्रहणमिति, इदं च न क्त्वा सेडित्यत्र प्रथमे स्पष्टं कयटे विल्वकादिभ्य इत्यत्र पठे भाष्ये च नदभाये औत्वप्रतिपेधाभावे, सादुत्वं चेत्यस्य तदोः सः साविति विहिनसकारात्परस्योत्वमि- त्यथः । अमुक इति, अमुक इत्यादि त्वव्युत्पन्नोऽदःशब्दप- व्यायः । ननु सोडी इत्येवास्तु मवम् । अनावित्यत्र टिलोपे कृते नित्यत्वात्सत्वं बाधित्वा त्वदायत्वेऽसावित्यसिन्दः । न च (१३४) फक्किाप्रकाशः। टिलोपात्परत्वेन नित्यत्वेन च त्यदायत्वस्यैव प्रवृतिः टिलोपस्य प्रतिपदविधित्वेन पूर्वकालमाप्तिकत्वरूपान्तरंगत्वेन वलीयस्त्वात् । तव मते वृदैयव सिद्धे डित्त्ववयात् सामर्थ्यनाङ्गमत्ववैकल्येऽपि प्रवृत्तिदर्शनेनास्य वलत्वाचेति लुटः प्रथमस्येत्या ध्वनितं भाष्ये स्पष्टमुद्योते। एतेन परत्वान्नित्यत्वाच टिलोपात्माक त्यदायत्वस्य प्रवृत्तेः सो वित्येव युक्तमिति मन्दोक्तमपास्तम् । अन्त्यत्वादक तव्यूहपरिभापया सत्वानापत्तेश्च । ननु सुलोप ात न कार्य सोरेवीकारोस्तु त्यदाद्यत्वेन रूपसिद्धिरिति चेन्न । असकी स्त्रीत्यत्र प्रत्ययस्यादिति त्वप्रसङ्गात् । न च प्रत्ययस्थादित्यत्र आ यापीति प्रलिनिर्देशादाकाररूपस्यैवापो ग्रहणेनात्र वृद्धी कृतायामीकाररूपत्वान्नेत्वमिति वाच्यम् । कारके इत्यादि द्विवचनादावष्यकाररूपत्वादित्वानापन्नोरिति स्पर्ष मायेन चारे- त्वमन्तरंगत्वात्मवुत्पत्तेः प्रागेव प्रतिपयेत असकावित्यन तु प्राक सुवुत्पत्तेा नास्ति विभक्तिनिमित्तमत्यदाद्यत्वाप्रवृत्तेरनन्तत्वादिति वाच्यम् अगापि कृते टाप्येकादेगात्पूर्व वार्णादांगं वलाय इती- त्वममंगात् । ननु प्रक्षेपनिर्देशवयर्यम् एवं ताई तत्सामर्थेन वाणपरिभाषा बाधित्वा एकादेश एव कारिकेत्यनाप्यन्तरंगा- दप्यात्वात् पूर्व रिमाक्तस्तन्निमित्तकार्याप्रसंग इति पोध्यते वस्तुतः प्रशिनियो व्यर्थः प्राप्तजीरिक इत्यन दोपाचति दिक् । त्यदादीनामित्यादिसपादसताध्यायी प्रत्यदसो सेरिति बपादिक- मावस्यासिद्धत्वादकृते तु त्यदादीनाम इति मितिमायें सात्तत्वादुत्वमत्वयोरमवृत्तिश्चेत्यानायेनाह । विभक्तिमार्य मागिति ।
पलिंगम्। (१३५) पूर्वत्र सिद्धं निष्पन्नं प्रवृत्तं तद्भिन्नमप्रसिद्धमप्रवृत्तमेवं चादसो सेरिति शास्त्रस्येवाप्रवृत्तत्वात्प्रथममेव विभक्तिकार्य यदि तु कार्यासिद्धत्वमिष्येत तर्हि अंमू इत्यादि न सिद्धचेत त्यदाद्यत्वे कृते पररूपात् प्रागेवोत्वमत्वयोर्जातयोः पश्चात् कार्ययोरसिद्धतयाऽ- तो गुण इति पररूपेऽमावित्याद्यनिष्टापत्तरित्यन्यत्र विस्तरः ।। इति हलन्ताः पुंलिंगाः स्त्रीलिंगाश्च ।
(१३६) फक्किाप्रकाशः। दन्नः सेचाविति पष्ठीसमासः इहादेशप्रत्यययोरिति प्राप्तं षत्वं प्रत्ययलक्षणेन विभक्त्या पदत्वमाश्रित्य सादित्यस्य पदादेश्च यस्य पो नेत्यर्थकेन सात्पदायोरिति सूत्रेण पदादित्वे पत्वनिषेधः सिध्यति पदादिविधिश्च प्रतिपदोक्तत्वात् सात्पदाद्योरित्येव तेन परमवुधावित्यादी भएभावो न अयं च निषेध उत्तरपदस्य कार्यित्व एवेति उत्रि च पदे इत्यत्रोक्तम् । ननु समासस्य चरमावयव इत्युक्तेः पूर्वदण्डिप्रिय इत्यादाववान्तरतत्पुरुषे पदत्वं तत्प्रयु- क्तनलोपो न स्यादिति चेन्न उत्तरपदशब्देन मध्यमपदत्वानाका- न्तोत्तरपदस्य ग्रहणात् । ननु बहुचपूर्वके वहुसेचावित्यत्र पत्वं स्यादेव बहुचोऽपदत्वेन पत्वमतिपेधाप्राप्तोति चेन्मैवम् । बहुच- पूर्वस्य नेति वचनान्तरादित्यन्यत्र विस्तरः । वस्तुगत्या याच भमित्यस्य योगविभागेन यजादौ मुपि पूर्व पदं नेत्यर्थो भाष्ये स्थितः स चोक्तः प्राक् एवं च परमवाचावित्यत्र प्रत्ययलक्षणेनापि पदत्वं न सम्भवति अत एव परमदण्डिन्नागच्छेत्यत्रोत्तरपदत्वा- श्रयो डमुद् सिध्यति दधिसेचावित्यत्र तु अवश्यमाश्रयणीयेन पदादादिः पदादिरिति पञ्चमीसमासेनैव निर्वाहः । एवं चोत्तर- पदत्वेनेति निषेधो व्यर्थ एवेति । नन्वहः अहोभ्यामित्यादी रोः सुप्यहनित्यनयोरचारितायेंनापपादरूपत्वान्नलोपसूनस्य एवेत्याशंक्य नलोपसूत्रस्यासिद्धत्वेन तयोश्चारितार्थ्यादसम्भवे सति अपवादत्वं स्यादित्यागयेनाह । सिद्धत्वान्नलोपे माप्त इति । ननु नलोपेकारस्य रोरेवाविषेपामावेनान्यतरेणेव सिद्धायुमयविधानमा मादेव लोपो न भविष्यति चेन्न । नडिसम्बुद्धयोरिति संबुद्धी बाध षडालंगम् । (१३७) प्रतिषेधेनाहर्गच्छेत्यादावुत्वाभावेन दीर्घाहो निदाघेत्यादावुत्वसं- पादनेन च कृतार्थत्वात् । न च नकारोच्चारणसामर्थ्यवललव्धन- कारान्तानुकरणेन नान्तस्याहनशब्दस्यति व्याख्यानान्नलोपो नेति वाच्यम् । दीर्घाहो निदाघेत्यादौ संबुन्द्री प्रवृत्त्याभ्यामादौ व्यावृत्त्या च नकारस्य चारितार्थ्यान्नलोपवाधे मानाभावात् । आवर्त्यति । आवृत्ती मानं च रूपरात्रीति वार्तिकम् । अन्यथा नलोपेकारस्य रेफादेशेनैव सिद्धे तद्यर्थमेव स्यात् । आवृत्तस्या- यमर्थः पदान्ते अहनिति निपात्यते इति तेन नलोपो न । यत्राहुः सत्यपि सम्भवेन वाधनमिति तु वार्तिकमतम् । मिदों- त्यादित्यत्र भाष्ये सत्यपि संभवे वाधनं भवतीत्युक्तेरयमेव भाष्य- सिद्धान्तः । अन्यथा संर्वभ्यो दधि दीयतां तकं कौण्डिन्यायेत्यत्र नक्रदानेन दधिदानस्य बाधो न स्यात् । तदानोत्तरं तत्पूर्व वा तहानस्य चरितार्थत्वसंभवादित्यन्यत्र विस्तरः । एवं चात्रापि सत्वरत्वे नलोपापवादभूते एवेति नलोपाप्राप्योक्तकुसृष्टिकल्पनं . ।
(१३८) फक्किाप्रकाशः। तस्यासिद्धत्वादिति । रुत्वात्पूर्व तु न दीर्घप्राप्तिः अकृतव्यूहा इति परिभाषया । तस्या असत्वे तु हल्टवादिलोपात्पूर्वमेव परत्वादीर्घ इति ज्ञेयम् । संवुद्धौ त्विति । संवृद्धिलोपेऽसंबुद्धावित्युक्ते दीर्वा- भावे रुत्वे हशि चेत्युत्वे आद्गुणः । वक्ष्यमाणभाष्यप्रयोगेणान- व्ययपूर्वपदे कुत्वाभावो बोध्यत इत्याभिमेत्याह असृज इति । विश्वसृडिति च विन्प्रत्ययस्येत्यस्यासिद्धत्वाद्रश्चेति पत्वे कुत्वं तु सृष्टमित्यादी सावकाशमित्याशयः। नन्वसृगिति गोणितार्थक इति सृजधातो रूपत्वेऽर्थासंगतिः । किञ्च पत्वस्यैव प्रवृत्तिरनवकाश- त्वादत आह यति । कुत्वापवाद इति मृजियज्योः पूर्वोत्तरसाह- चर्येण पदान्ते विशिष्य पत्ववोधनेन तद्वलात् कुत्ववाध इति । अत एव तृतीये काम्यञ्चेति सूत्रे माप्योक्त उपयट्काम्यतीति प्रयोगो यजधातोः संगच्छते । ननु मृगृत्विजोः कथमित्यत आह निपात- नादेवोत । निपातनं नामान्यागप्रयोगे प्रातेऽन्यामप्रयोगकर- णम् अपवादाप्रवृत्तिमानं निपातनेन वोध्यते कुत्वं तु उत्रेणयोति ध्येयम् । सृजधातो रूपं निवारयति असृगिति । एवं च नार्या- संगतिः । अस्यति उत्क्षिप्ता भवति क्षरतीति यावत् । अल्लोपस्येति । अतो लोपकृतस्येत्यर्थः । स्थानिपत्चात् अचः परस्मिन्निति कृतात् नुम् । नपुंसक्स्थ झल्यच इति विहितः । स्वविधी स्थानिवत्त्वा- मावादिति । यस्यव कार्य तस्य स्थानिवत्वासम्मवादित्यर्थः । अयं भावः अनादिष्टादचः पूर्वस्य स्थानिरहातो भगति न चेहाज- न्तमनादिष्टादचः पूर्व येनाजन्तस्य नुमि कर्तव्येऽल्लोपः स्थानिव- म्यादिति । एवं वक्ष्यमाणे पिपठिपि इत्यत्रापि नुममाव उपपा- ७ पलिंगम्। (१३९) दनीयः ननु कथं स्थानिवत्वम् आर्द्धधातुक इत्यस्य विपयसप्तमी- त्वात् । अत एवाचो यदित्यत्र तृतीये भाष्ये हलन्तात् ण्यतासिद्धे- ऽजग्रहणमजन्तभूतपूर्वादपि यथा स्यात् दित्स्यधित्स्यमित्युक्तम् । परसप्तमीत्वे तु प्राग्यतो लोपाभावाद्भाष्यासंगतिः स्पष्टवेति चेत्, सत्यम् । परसप्तमीपक्षस्यापि सत्त्वात् अत एव धिनुत इत्यादो धिन्विकृण्व्योरचेति वकारस्याकारे उप्रत्यये चाकारस्य लोपे तस्य स्थानिवद्भावालघूपधगुणाभावः । इदं चासिद्धवत्सूत्रे पाष्टे कैयटे स्पष्टम् । न च झलन्तलक्षणे नुम् दुर्वारः क्वौलुप्तमिति स्थानिव- त्वनिषेधादिति वाच्यम् । तस्यासार्वत्रिकत्वात् । अत एव ख्यत्या- त्परस्य मपर्यन्तस्येति सूत्रयोरेव तदाश्रितं भाष्ये इति दीधीवेवी- टामित्यत्र स्पष्टं कैयटादौ । नित्यादिति । कृताकृतप्रसंगित्वेनेति भावः । परादिति । विप्रतिषेधेनेति भावः । आप इत्यत्र दीर्घविधिः सावकाशः नुम् तु यशांसीत्यादौ । प्रतिपदोक्तत्वादिति । प्रति- पदोक्तो विधिर्वलीयानिति वचनादिति भावः । निरवकाशमिति । तस्य निरवकाशत्वे सत्येव वाधकप्रयोजकत्वादिति भावः । तदुक्तं शेषादिभाषेत्यत्र पञ्चमे भाष्ये शेपग्रहणमनर्थकं ये प्रतिपदं विधीयन्ते ते वाधका भविष्यन्तीत्याशंक्यानवकाशा हि विधयो वाधका भवन्ति समासान्ताश्च कवभावे सावकाशा इति । अन्ये तु क्वचिदनवकाशत्वाभावेऽपि परनित्यादि समवधाने शीघ्रोपस्थिति-- कत्वन पूर्वप्रयोजकं वलवत्त्वं प्रतिपदविधित्वेनापि अत एव हे रमे इत्यादौ प्रतिपदोक्तत्वात्पूर्वमेत्वे आकारमश्लेपाडलङ्यादिलोपो न (१३८) फकिकाप्रकाशः। तस्यासिद्धत्वादिति । रुत्वात्पूर्वं तु न दीर्घप्राप्तिः अकृतव्यूहा इति परिभाषया । तस्या असत्त्वे तु हल्ट्यादिलोपात्पूर्वमेव परत्वादीर्घ इति ज्ञेयम् । संवुद्धौ त्विति । संवुद्धिलोपेऽसंबुद्धावित्युक्ते दीर्घा- भावे रुत्वे हशि चेत्युत्वे आद्गुणः । वक्ष्यमाणभाष्यप्रयोगेणान- व्ययपूर्वपदे कुत्वाभावो बोध्यत इत्याभिप्रेत्याह असृज इति । विश्वसृडिति च विन्प्रत्ययस्येत्यस्यासिद्धत्वाइश्चेति पत्वे कुत्वं तु सृष्टमित्यादी सावकाशमित्याशयः। नन्वसृगिति शोणितार्थक इति सृजधातो रूपत्वेऽर्थासंगतिः । किञ्च पत्वस्यैव प्रवृत्तिरनवकाश- त्वादत आह यति । कुत्वापवाद इति सृजियज्योः पूर्वोत्तरसाह- चयेण पदान्ते विशिष्य पत्ववोधनेन तद्वलात् कुत्ववाध इति । अत एवं तृतीये काम्यञ्चति सूत्रे भाष्योक्त उपयदकाम्यतीति प्रयोगो यजवातोः संगच्छते । ननु सृगृत्विजोः कथमित्यत आह निपात. नादेवोत । निपातनं नामान्यागमयोगे प्राप्तेऽन्यादृशप्रयोगकर- णम् अपवादाप्रवृत्तिमा निपातनेन वाध्यते कुत्वं तु सुत्रेणवोत ध्येयम् । सृजधातो रूपं निवारयति असुगिति । एवं च नार्था- संगतिः। अस्यति उत्क्षिप्ता भवति क्षरतीति यावत् । अल्लोपस्येति । अतो लोपकृतस्येत्यर्थः । स्थानिवत्त्वात् अचः परस्मिन्निति कृतात् नुम् । नपुंसकस्य झल्यच इति विहितः । स्वविधौ स्थानिवत्त्वा- मावादिति । यस्यैव कार्य तस्य स्थानिवत्त्वासम्मवादित्यर्थः । अयं भावः अनादिष्टादचः पूर्वस्य स्थानिवद्गायो भवति न चेहाज- न्तमनादिष्टादचः पूर्व येनाजन्तस्य नुमि कर्त्तव्येऽलोपः स्थानिव- स्वादिति । एवं वक्ष्यमाणे पिपठिपि इत्यनापि नुमभाव उपपा- पलिंगम् ।। (१३९) दनीयः ननु कथं स्थानिवत्वम् आर्द्धधातुक इत्यस्य विपयसप्तमी- त्वात् । अत एवाचो यदित्यत्र तृतीये भाष्ये हलन्तात् ण्यतासिद्धे- ऽजग्रहणमजन्तभूतपूर्वादपि यथा स्यात् दित्स्यधित्स्यमित्युक्तम् । परसप्तमीत्वे तु प्राग्यतो लोपाभावाभाष्यासंगतिः स्पष्टवेति चेत् , सत्यम् । परसप्तमीपक्षस्यापि सत्त्वात् अत एव धिनुत इत्यादी धिन्विकृण्व्योरचेति वकारस्याकारे उप्रत्यये चाकारस्य लोपे तस्य स्थानिवद्भावाल्लघूपधगुणाभावः । इदं चासिद्धवत्सूत्रे पाष्टे कैयटे स्पष्टम् । न च झलन्तलक्षणे नुम् दुर्वारः क्वौलुप्तमिति स्थानिव- त्वनिषेधादिति वाच्यम् । तस्यासार्वत्रिकत्वात् । अत एव ख्यत्या- त्परस्य मपर्यन्तस्येति सूत्रयोरेव तदाश्रितं भाष्ये इति दीधीवेवी- टामित्यत्र स्पष्टं कैयटादौ । नित्यादिति । कृताकृतप्रसंगित्वेनेति भावः । परादिति । विप्रतिपेधेनेति भावः । आप इत्यत्र दीर्घविधिः सावकाशः नुम् तु यशांसीत्यादौ । प्रतिपदोक्तत्वादिति । प्रति- पदोक्तो विधिर्वलीयानिति वचनादिति भावः । निरवकाशमिति । तस्य निरवकाशत्वे सत्येव बाधकप्रयोजकत्वादिति भावः । तदुक्तं (शेपाद्विभाषेत्यत्र पञ्चमे भाष्ये शेषग्रहणमनर्थकं ये प्रतिपद विधीयन्ते ते वाधका भविष्यन्तीत्याशंक्यानवकाशा हि विधयो बाधका भवन्ति समासान्ताश्च कवभावे सावकाशा इति । अन्ये तु क्वचिदनवकाशत्वाभावेऽपि परनित्यादि समवधाने शीघ्रोपस्थिति- कत्वेन पूर्वप्रयोजक बलवत्त्वं प्रतिपदविधित्वेनापि अत एव हे रमे इत्यादी प्रतिपदोक्तत्वात्पूर्वमेत्वे आकारप्रश्लेपाडलङयादिलोपो न A (१४०) फक्किाप्रकाशः। मामोतीत्याशंक्यैडहस्वादिति लोपेन समाहितं भाष्ये। एवं चात्रापी- दृशपतिपदोक्तत्वस्वीकारेण पूर्व दीर्घ ततो नुमि स्वांपीत्येवेत्याहुः ।। इति हलन्ता नपुंसकलिंगाः। अथाव्ययानि । अव्ययमिति महासंज्ञाकरणमन्वर्थविज्ञानाय न व्यक्ति विशेष विकारं गच्छति सत्त्वधर्मान् लिङ्गसंख्यादीन गृह्णातीति यावत् । अतोऽत्युच्चैसावित्यादि सिध्यति । अतिक्रान्ताधर्यप्राधान्येन -सत्त्वधर्मपरिग्रहादव्ययत्त्वाभावात् । तत्रावयवस्याव्ययत्वानपायाद् अव्ययादाप्सुप इति लुमसक्तरित्याह विहितविशेषणान्नति । नन्वत्युचैः सावित्यादौ कथं समासः । उच्चरित्यास्याधिकरणशक्ति- प्रधानत्वेन द्वितीयाद्यन्ततायोगादिति चेत्सत्यम् । दोपाभूतमहो दिवाभूता रात्रिरित्यादिवत् क्वचिवृत्तिविषये शक्तिमत्प्रधानता- स्वीकारेणादोपात् । समुदायस्यापि अव्ययत्वमाशंक्य समाधत्ते यद्यपि तदन्तति । शब्दस्य विशेष्यत्वात्प्रयोजनं सर्वनामाव्यय- संज्ञायामिति वाचनिकस्तदन्तविधिरित्याशयः । न गौणेति । सामानाधिकरण्यसम्बन्धेन लिंगाद्यनन्वय्यर्थकवोधकत्वविशिष्टाव्य- यपदत्वेनाव्ययपदं वोधकमिति तादृशमहासंज्ञाकरणात्तादृशानी गणेऽनुकरणावश्यकत्वे इतरेपामनुकरणे मानाभावेन समुदायस्थ नाव्ययत्वमिति भावः । अन्ये तु अत्रार्थः प्रधानः प्रधानयोः प्रधा- नस्यैव ग्रहणमिति न्यायेन सर्वनामसंज्ञासाहचर्येण च प्रसिद्धानुपस- र्जनीभूतस्यैव लिङ्गायनन्वयिनो ग्रहणेन न समुदायस्य नाप्यवयवस्य स्त्रीप्रत्ययाः। (१४१) संज्ञा भविष्यति । एवं च विहितविशेषणमाक्षेपो वा व्यर्थः एवाव्ययात्परत्वस्याप्यभावादत्युच्चैसावित्यादेनिधित्वमित्याहुः ॥ इत्यव्ययानि । अथ स्त्रीप्रत्ययाः। ननु प्रत्ययविधौ तदन्तविधिप्रतिपेधप्रतिप्रसवेन उगिद्वर्णग्रहण-- वमित्यनेन तदन्तलाभेऽजादीनामप्यकारान्तत्वस्याव्याभिचारादत इययतैव सिद्धिरित्यत आह अजाद्युक्तिरिति । येन ना प्राप्त इति परिभाषया सामर्थ्याद्वाध्यसामान्यचिन्ताश्रयणादित्या- शयस्तदाह । डीपो डीपश्चेति । यथायथं जातेरस्वीविप- यादयोपधायास प्रथम इति सूत्राभ्यां प्राप्तस्येत्यर्थः । तदाहा- जेत्यादिना ङीप्प्राप्त इत्यन्तेन । अजत्वजातिविशिष्टा स्त्रीत्यर्थः । अतं एवाजादिवाच्यं स्त्रीत्वमित्युक्तम् । प्रत्ययवाच्यत्वे हि स्त्रीत्वस्य विशेष्यतानापत्तिः । ननु प्रत्ययवाच्यमेव तदिति चेन्न । वागादिपदे प्रत्ययमन्तरापि तरोधात् । ह्रत्वो नपुंसके त्वमोनपुंसकादिति सूत्रस्वरसाच्च । अत एव व्यावक्रोशीत्यादी कर्मव्यतिहारे णच् नियामिति णचि णचः स्त्रियामित्यनि च डीप सिध्यति । प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमिति व्युत्पत्तेर्यत्र प्रत्ययस्य वाचकत्वं तद्विषयत्वेनेहाप्रवृत्तेरित्यन्यत्र निरूपितम् । ननु च्याप्प्रातिपदिकादित्यादिना प्रत्ययविधी पञ्चम्यां युक्तत्वयोधनादजादिभ्यष्टाप्स्यात्स्त्रीत्वे द्योत्ये इत्यर्थस्य युक्तत्वं तच्च प्रत्यासत्त्या प्रकृत्यनिष्टमेव टापा द्योत्यमिनि कय- (१४२) फक्किाप्रकाशः। मजादीनामिति पष्ठवन्ततयार्थवर्णनमित्यत आह अजादिमि- रिति । व्याख्यानात्पष्ठयन्तत्वेऽपि अर्थात्पंचम्यन्तलाम इति भावः । उक्तयुक्तेः फलमाह पंचाजीति । पञ्चानामजाना समा- हार इति तद्धितार्य इत्यादिना दिगुसमासेऽकारान्तोत्तरपदो द्विगु: खियामिति स्त्रीत्वे दिगोरिति डीवेव न त्वनेन टापू । नन्वत्र प्रत्ययविधाविति निषेधात्तदन्तत्वालामादेव टापोऽप्रवृत्तिले कि- मुक्तव्याख्ययेति चेन्न । अमहत्पूर्वग्रहणेनानुपसर्जनादिति वक्ष्य- माणाधिकारेण च स्त्रीप्रत्ययेषु तदन्तविधेापनात् । न च तद- न्तविधावपि स्त्रियामित्यजादीनामेव विशेषणं श्रुतत्वादिति वाच्यम् । उक्ताधिकारेण तदन्तग्रहणस्येव स्त्रियामित्यस्य तद- न्तविशेषणत्वमित्यर्थस्यापि वोधनात् । अन हीति । समासे अजशन्दसत्त्वेऽपि समाहारनिष्ठं स्त्रीत्वं समुदायवाच्यं नाजशब्दमा- नवाच्यं सामर्थ्यनाजादिमात्रवाच्यस्त्रीत्वस्य ग्रहणादिति भावः । सामान्यति। तेन विशेषाग्रहणम्। वन इति सूत्रेऽनुवन्धरहितस्य वन उच्चारणात्तदनुवन्धग्रहणेनगतदनुवन्धकग्रहणमिति परिमापायाश्चतुर्थे वामदेवादित्यन भाष्ये स्पष्टाया इहाप्रवृत्तरित्याशयः । नन्वति- धीवरीत्यादौ कथं वन्नन्तत्वाभावात्तताह प्रत्ययग्रहणामेति । इयं च अंगसंज्ञा भाष्ये स्पष्टा । तद्यथा । यस्मात्मत्ययावधिस्तदादिम- त्यये इति योगो विभज्यते गृह्यमाणे उपतिष्ठते इति शेपस्तेन तदायंशः सिद्धस्तदन्ताशस्तु येन विधिरित्यनेन सिद्धः । तेन देवदत्तश्चिकीर्पतीत्यादी देवदत्चादेः सन्नन्तत्वादिप्रयुक्त कार्य नेति । तेनेति । वन्नन्तेनेत्यर्थः । तत्प्रातिपदिकं प्रतिविशेषण- स्त्रीप्रत्ययाः। (१४३) मिति भावः । न च कथमत्र तदन्तविधिः ग्रहणवता प्रातिपदिकेन न तदन्तविधिरिति निषेधात् । अनुपसर्जनादित्यधिकारस्याम- हत्पूर्वग्रहणस्य च ज्ञापकत्वात् । सूत्रे गृहीतस्य वन इत्यस्य प्रातिपदिकत्वं नास्तीति तन्निपेधाविषयत्वाचेत्याहुः । न पट्- स्वस्रादिभ्यः इत्येनानन्तरस्यति न्यायेनाव्यवहित ङीप एव निषेध- प्राप्तावपि स्त्रियां यद् प्राप्तं तन्नेति । व्याख्यानेनोभयो पटापो- रपि निषेध इत्याशयेनोदाहरति । पञ्च चतस्र इति । ननु न तिमृचतसृ इति नामि दीर्घत्वनिषेधात्तयोर्जीवभावः सिद्ध इति चेत्सत्यम् । सन्निपातपरिभाषाया अनित्यतां ज्ञापयितुं तत्र तयो- ग्रहणमिति केचित् । स्वस्रादिषु तयोः पाठो न कर्तव्य इति भाष्यकैयटयोः स्वरसः । ननु. कथं पट्त्वमदन्तस्येत्याशंक्यो- पपादयति नलोप इत्यादिना । असिद्धत्वादिति । इदं चासिद्ध- त्वोपवर्णनं कार्यकालपक्षे यथोद्देशे पंचन्निति नान्ते जाताया एकदेशविकृतन्यायेनादन्तेऽपि सुलभत्वात् ।। न चोक्तन्यायस्य स्थानिवत्सूत्रे उपसंख्यानादनल्विधौ तत्प्रवृत्तिरिति युक्तम् । पट्त्वस्थानल्धर्मत्वेन तदाश्रयविधीनामनल्लिधित्वादिति दिक् । नन्विह वहिरङ्गपरिभापयैव सिद्धमिति चेन्न । संज्ञाकृतं वहिरङ्गत्वं परिभापायां नाश्रीयत इति कृति तुरग्रहणेन ज्ञापनात् । तद्धि वृत्रहभिरित्यादौ हस्वस्य पितति तुकि नलोपस्यासिद्धत्वार्थ क्रियते ।। यदि परिमापयैवावहिर्भूतमिसनिमित्तो नलोपो सिद्धः स्याचद्यर्थ सदुक्तार्थ ज्ञापयतीति दिक् । अन्ये वाहुः न झुक्ता- सिद्धत्ववर्णनोपयोगः पञ्चेत्यत्र तु स्त्रियां यत्प्राप्नोति बन्नति । न (१४४) फक्किाप्रकाशः। पडितिसूत्राश्रयणमहिम्ना भूतपूर्वषट्त्वमाश्रित्य निषिध्यते अत एव पदसंज्ञायां नलोपासिद्धत्वस्य न फलमिति नलोपस्मवित्यत्रोक्तं भाष्य इति प्रत्ययस्थादिति। सूत्रकादित्यत्राकार उच्चारणार्थो वर्ण- मात्र विवक्षितमत एवंतिका इत्यादाक्कचीत्वं पचतकोत्यादिसिद्ध- येकच्यकारोऽविवक्षितः। किंच कारिकेत्यत्राकारण व्यवधानादाप् परककाराभावेनेत्वं स्यात् । एकादेशेऽप्यचः परस्मिन्निति स्थानिवत् वाद्यवधानमेवापि परतोऽकारस्य कात्पूर्वस्येत्ययपि निर्दिष्टपरिभाषया चेत्वं स्यादिति तु न वाच्यम् । येन नान्यवधानमिति ककाराका- राभ्यां व्यवधानेऽपि प्रवृत्तेस्तन रथकट्यापुत्रकाम्येत्यादावनेकव्य- वाये इत्वं नेति स्थितं तत्र सुपः परो न चेति प्रसज्यप्रतिषेधः किमर्थमाश्रितोऽसमर्थसमासादिति दोषापरित्याशयेनाह । अमुपः किमिति । पर्युदासाश्रयणे समुदायस्य सुभिन्नत्वेन सुवन्तभिन्न- त्वेन च ततः परत्वादित्वमत्र स्यादिति भावनाह । बहुपरिव्राजि- केति । परिपूर्वकाहजेवुल् । वहवः परिव्राजका यस्यामिति समासे सुपो लुकि कृतेऽपि प्रत्ययलक्षणेनापः सुवंता यत्परत्वेनात्वाना- पत्तिरित्याशयः। पूर्वस्य किमिति । कादिति पंचमी श्रुत्वा तस्मा- दित्युत्तरस्येत्युपस्थितेः परस्यति लाभेऽपि पूर्व टापा सह सवर्ण- दी परभूतह्रस्वाकाराभावादिति प्रष्टुराशयः। सिद्धांती प्रष्टुः पर्स दूपयन् स्वसिद्धान्तमाह परस्योति । सवर्णदीर्घात्पूर्व वार्णादागं बलीय इति तिडंते वक्ष्यमाणन्यायादपवादत्वाद्वान्त्यककारादनन्त- रस्याकारस्येत्वं स्यादिति रूपासंगतिस्तदाह । कटुकेति । कटुरत्र कटुरसवती अज्ञातार्थदौकः स्त्रियामपि कटुशब्द इत्यन्ये। अत्राहुः।
स्त्रीप्रत्ययाः। (१४५) प्रत्यये कीति सूत्रयित्वा पूर्वस्योत सुत्यजम् । नयासयोरिति निषे- धालिंगादेव कादौ प्रत्यये इति नार्थः किंतु आप्परस्याप्रत्ययस्थक- कारपरस्यात इत्वमित्यादिरर्थः सामर्थ्यादाप्परत्वांशे ककारव्यव- धानं सोढव्यमेवेति । भस्वैपेत्यनेनापि व्याख्यानान्नजपूर्वार्णा केव- लानां च संग्रहेण सकललक्ष्यनिर्वाहेऽप्यन्यथा सिद्धया नजित्यादि मास्त्वित्याह । तदन्तेति । स्पष्टार्थमिति च । पदांगाधिकारे तस्य तदंतस्य च सिद्धरित्याशयः। ननु भखाशब्दस्याकारस्थानिकाकारसं- भवादुत्तरविधिना वैकल्पिकं त्वसिद्धौ वयमित्याशंक्याह उपस- र्जनामिमि । अन्यस्य त्विति । अनुपसर्जनस्येत्यर्थः । उत्तरसूत्रे- जोत । अभाषितपुंस्काञ्चेत्यनेन वाधकाभावादित्यर्थः । भस्त्राजाज्ञा- स्वानां विद्यमानपूर्वकाणामपीत्वं भवत्येव । तत्र टापः कात्यया- त्परत्वेन सुपः परत्वाभावादसुप इति निषेधाप्रवृत्तरितरयोस्तु नेत्व- प्राप्तिरिति मनसि निधायाह एपादेति । सपूर्वयोर्विद्यमानपूर्वयोः । अंतर्वर्तिनीमिति । न एतत् सु इति स्थितेऽकचि कृतेऽकृते वा नञ्तत्पुरुषे अंतरंगानपि विधीन् वहिरंगो लुग्वाधते इति त्यदा- द्यत्वात्प्राक् सुबलुकि ततोऽकचि वा पुनर्विशिष्टात्सुपि त्यदाद्यत्वे दापि समासात्पूर्वोत्पन्नसुपः प्रत्ययलक्षणेन पर एव टाविति भावः । अनेपकेति । अज्ञाता एपा एपका । ततो नसमासः । एवमग्रेऽप्यहनीयम् । ननु स्वशब्दस्य चत्वारोऽर्थाः आत्मा ज्ञाति- र्धनमात्मीयश्चेति। तत्र स्वो ज्ञातावात्मनि स्वं विष्वात्मीये स्वोऽ. स्त्रियां धने' इति कोशादादिषु त्रिषु खीत्वाभावः किं त्वन्याय एव स्त्रीत्वं तत्र सर्वनामत्वादकचोवश्यंभावनातः स्थानिकाकारालामा- (१४६) फपिकाप्रकाशः। स्कयमयमुदाहर्तुमुचितोऽत आह स्वशब्देत्यादि । विशषणमिति । व्यावर्तक इत्यर्थः । संभवव्यभिचाराभ्यां स्याविशेषणमर्यादिति भावनाहासंभवादिति । स्वशब्दस्य नूभयमस्ति । उक्तं च हरदत्त- मिश्रेण । 'संभवव्यभिचारौ हि स्वशब्दे काकचोः सतोः । द्वैपयोः संमवो नास्ति नान्यत्र व्यभिचारिता ॥' इति तदेव दयति स्वशब्दस्त्विति । नित्यमेवेत्वमिति । अत्र त्वकचि कृते आतः स्थानिकाकाराभावात् प्रत्ययस्थादित्यस्यैव प्रवृत्तेरिति भावः। अभाषितपुंस्काञ्चेत्या स्त्रीविषयाचेति सूनिते तु न पुंसि दामेत्य- मरोक्त्या स्त्रीनपुंसकत्वपर्यवमानादामशब्दात् डीप्यज्ञातादी के दामिका दामका दामाकेति रूपत्रयासिद्धिरिति । परंतु पंचमीश्रुत्या परस्येति लब्धमपि त्यक्त्वा विहितस्थ व्याख्यातं तस्य किं फलं तदाह । बहुव्रीहेरिति । अविद्यमाना खट्वा यस्या इति विग्रहे शेषाद्विभाषेति समासांतस्य कपो वैकल्पिकत्वात्तदभावे गोखियोरिति हस्ते ततष्टापि सुप्यज्ञातादौ कमत्यये मुब्लुकि केण इति हस्खे पुनष्टाप्यभाषितपुंस्काद्विहिताकारस्थानिकाकाराभावे- नैतद्विकल्पामाप्तौ प्रत्ययस्थादित्यनेन नित्यमेवेत्वम् । परविशे- पणत्वे तु तादृशखट्दशब्दात्परत्वेन विकल्पः स्यादेवति दोष इति भावः । शैपिके कपीति । न खट्वास्वित्यवस्थायां कपि सुब्लुकि प्रत्ययलक्षणेन भागदयस्य मुवंतत्वात्समाससंज्ञायां समासांता इति शास्त्रमहिना कबंतम्यैव समासत्वेनोपसर्जनस्त्री- प्रत्ययांतातसमासरूपमातिपदिकाभावादोस्त्रियोरिति ह्रस्वाभावे कोण इत्यस्य न कपीति निषेधेऽप्यापोऽन्यतरस्यामिति हस्ते कपः स्त्रीप्रत्ययाः। (१४७) प्राग्वनिखट्वशब्दात्परस्यापोऽभाषितपुंस्कादिहितत्वेनाकारस्थानिका- कारस्यायं विकल्पः । ह्रस्वाभावे तु अखट्वाकेतीति भावः । वक्ष्यमाणेति । वर्लट् । लटः सद्देति शानच । स्वता- सीति स्यः । कुत्वपत्वे आने मुगिति मुक् । टित्वादुगित्त्वाचेति । न्यायसाम्यादुमयोरुपादानं, स्थानिवत्त्वेनेत्यर्थः । एतेन लुटि ऋकारस्याप्यनुवन्धत्वात्तद्नुवन्धकपरिभापया न टितप्रयुक्तीपः -प्राप्तिरत उगित्वाचेत्युक्तमित्यपास्तम् । उक्तपरिभाषया ऋकारेऽ- प्यग्राहकत्वसाम्यात् । टिड्डेति सूत्रेऽनुवन्धग्रहणात्परिभाषाया अप्रवृत्तेश्च । न चाल्लिधित्वात्कथमिह स्थानिवत्त्वं, नल्यपीति ज्ञाप- केन टित्त्वादेरशास्त्रीयस्यातिदेशोऽनुबन्धकार्येऽप्यनल्विधाविति निषेधाप्रवृत्तिश्चेति ज्ञापनात् । तद्धि प्रदाय प्रधायेत्यादौ क्त्वोऽल्यापि तस्य स्थानिवत्वेन कित्त्वमाश्रित्य घुमास्थागापा जहाति सां हलीति कित्त्वनिमित्तेत्वप्राप्तौ तन्निवारणाय क्रियते । तच्चानल्विधाविति कोटचैव स्थानिवन्वनिपेवादित्वाप्राप्तिरेवेति व्यर्थ सदुक्तार्थ ज्ञाप- यतीति । अत एव रमायामित्यादी परत्वात् डेरामित्यामि कृते स्थानिवद्भावेनामो ङित्वाद्याडागमः सिध्यति । समाधत्ते डिवेनेति । तेन सूत्रेण लिङादेशानां तिवादीनां यामुडागमस्व डिवं विधी- यते । नच्च स्थानिवत्त्वस्योक्तरीत्या वाधाभावात्तेनैव डित्त्वे सिद्धे व्यर्थमिति लाश्रयमादेशानां न भवतीति ज्ञाप्यते । तेनाऽचिनोद- मार्ट इत्यादी स्थानिवद्भावेन तिपो ङित्त्वेन मिति चेति निपंधप्रा- माऽवप्यनया रीत्या स्थानिवद्भावेन डिवनिषेधागुणवृद्धी सिध्यतः । प्रकृते लकाराश्रयटिदुगिट्टपानुबन्धकार्य डी न भवति । ननु (१४८) फक्षिकाप्रकाशः। स्नुयादित्यादावनिग्लक्षणवृद्धिप्रतिषेधार्थ चिनुयुरित्यादौ जुसि चत्य- स्य निषेधार्थ च यासुटो डिवमास्ताम् । रतो वृद्धिलकि हलीत्यत्र हि उत इति निर्दिष्टस्थानिकतया इक्परिभाषानुपस्थितिः अनियमे नियमकारिणी परिभाषेति न्यायात् । जुसि चोते च हिति चेत्य- स्थापवाद एव । तथा च स्थानिवद्भावलब्धङित्वं स्तुयाचिनुयारे- त्यादौ वृद्धिगुणौ निषटुं नालं स्यात् । घुनर्डित्त्वसामर्थ्याचभयो- निपंधो भवति । तस्मात्कथं डिवमुक्तार्थ ज्ञापयेदिति चेन्न । उत ऑदिति वक्तव्ये वृद्धिग्रहणेन संज्ञापूर्वको विधिरनित्य इति ज्ञाप- नात्स्थानिनिटेंशेऽपीपरिभापोपस्थितयेऽनियम इत्युक्तन्यायस्या- नित्यत्वज्ञापनाच्च । क्सस्याचीत्यनुवाजादौ जुसि गुणः स्यादिति जुसि चेति सूत्रार्थन चिनुयुरित्यादावजादित्वाभावेनादोपाच्चति दिक । ननु हलः श्न इत्यत्र तृतीये भाष्ये तु सार्वधातुक्मपिदिति सूत्रान्तर्गतमपिदिति योगं विभज्य गाइकुटादिभ्य इत्यस्मान्डित- मनुवावृत्ति चाश्रित्य प्रसज्यप्रतिरोधं विधाय डिच पिन्न भवति पिच डिन्न भवतीति वाक्यार्थद्वयं वर्णितं, तेन ब्रूयादित्यत्र ग इतीण न भवति । मातिदेशिकस्य पित्त्वस्यौपदेशिकेन ङित्त्वेन वाधनात् । अचिनोदमाई इत्यादावीपटेशिकेन तिवादीनां पित्वे- नातिदेशिकलाश्रयस्य डिवस्य बाधनागुणवृद्धौ भवतः, अते- दिधादुपदिष्टं बलीय इति न्यायात् । एवं च मृज्यादित्यादावोपटे- शिक्न पित्त्वनातिदेशिस्य डित्त्वस्य वाचनाद वृद्धयादिवारणाय यासुटो डिवमावश्यवमिति कयमुक्तार्थ ज्ञापयोदत्याशक्य गत्यन्तरमाह नः शानचः गित्त्वनति । शानचः शित्वं हि तिङ्- स्त्रीप्रत्ययाः। (१४९) शित्सार्वधातुकमिति सार्वधातुमंज़या सार्वधातुकमपिदित्यनेन ङित्त्वे- रिति चेत्यनेन पुवाणेत्यादी गुणनिषेधार्थ क्रियते । तच्च स्थान- बद्भावेन भाप्रत्ययस्य शित्त्वेनैव सिद्धे व्यर्थ सदुक्तार्थ ज्ञापयति । तथा चानेन ज्ञापितार्थन न ल्यपीत्येतज्ज्ञापितार्थस्य वाधादीह न डीप् स च बाधो न सार्वत्रिकोऽतिप्रसङ्गात् तदाह । क्वचिदिति । लक्ष्यानुरोधेन व्यवस्थेति भावः । एतेन ज्ञापकस्य सजातीयविषय- ताया न्याय्यतया शानजादेशस्य लाश्रयकार्याभावज्ञापकनानुप- युक्ता । अत एव सार्वधातुकादेशे अनुवन्धो न स्थानिवदित्येव ज्ञाप्य शरीरमुद्भावितं भाष्य इति मन्दोक्तमपास्तम् । अचिनोदमा- र्डित्वादी गुणवृद्धिसिद्धये भाष्ये सामान्यापेक्षस्यैवाभ्युपेयत्वात् । सार्वधातुकादेश इत्यत्र बहुव्रीह्याश्रयणेन लकारस्थापि क्रोडीकाराचेति दिक् । ननु शानचः शिवमपि तत्सूत्र भाष्ये प्रत्याख्यानं, तद्यया किमर्थः शकारः ज्ञापनार्थ इत्युक्त्वा ज्ञापनफलमुक्तरीत्या दूपयित्वा तस्मान्नार्थोऽनेनेति । तथा च कथमुक्तार्थज्ञापनेन प्रकृते डीवभाव इति चेत्सत्यम् । सत्यभिधाने वक्ष्यमाणेनेत्यादावजा- दिपाठादेव टाप स च डीवादेवाधक इत्युक्तं प्राक् । अनादि- स्त्वाकृतिगणः । न चात्र विवदितव्यम् । नमुने इत्यत्र टाया- मादेश इति फणिभाष्यप्रयोगात् । अजायां छागेनि टावन्नः प्रयोगों दृश्यतेऽनः छागशब्दोऽप्यनादिष्विति । प्रथमाध्याय- चतुर्थचरण चममबदविशेषादिति सूत्रे श्रीमदाचार्यशंकरभगवत्पू. 'ज्यपादभाप्चे पाचम्पतिकृतभामत्यां चनिश्चेति प्राहुः । ननु दिइटेन्यत्राग्रहणाचा शीलमस्या इत्यर्थ शीलं छत्रादिभ्यो ण + (१५०) फक्किाप्रकाशः। इति विहितणान्ते चौरीत्यत्र कयं डीवित्यत आह ताच्छीलिक इति । शीलार्थके णेऽप्यकार्य भवति कार्मस्ताच्छील्ये इति ज्ञापकात । तत्र हि अन्नित्यनेनाणि विहितं प्रकृतिभावं वाधितुं टिलोपो निपात्यते । यदि च णप्रत्ययेऽकार्य न स्यात्तर्हि कि तेनोते । ताच्छीलिक इत्युक्त्या दंडैः प्रहरणमस्यां क्रीडायामित्यर्थ तदस्यां पहरणमिति णप्रत्यये दाण्डेति टावन्त एवेति बोध्यम् ।। प्राचां फ तद्धित, इत्यत्र यत्र एवानुवृत्तये टिडढोत सूत्रात्पृथ- ग्योगविभक्ते यत्रश्चोते सत्रे यद्यप्यपत्यप्रत्ययग्रहणं कर्तव्यमित्यवे वार्तिककृता पठितं तथाप्यपत्याधिकारं तत् । तादृशश्च गर्गा- दिभ्यो यञ् इत्यनेनैव विहितस्तदन्तादेव च डीप नान्यस्मा- दित्यभिप्रेत्याह अनपत्याधिकारस्थादिति । अपत्याधिकारस्थ- मिन्नादित्यर्थः । अपत्यार्थभिन्नादपत्यार्थेऽप्यपत्याधिकारस्थभिन्नाच न डीबिति पर्वलार्थः। आद्यमाह द्वैप्यति । द्वीपादनुसमुद्र यञ् इति यञ् । अन्त्यमाह दैव्योते । प्राग्दीव्यतीय इति । बेन, दीव्यति जयतीत्यतः प्राग येऽर्था अपत्यादयस्तत्रायं विहितो न तु तस्यापत्यमित्यधिकारे इत्यर्थः । यदा विदं वार्तिकम् । प्रत्या- ख्यातं भाष्ये तदा तदुक्तयोगविभागाकारमश्लेषादिना ययश्चेत्य- जापत्याधिकारस्थस्यैव यजो ग्रहणमिति व्याख्यानेन चोक्तार्थः क्रोडीकरणीय इति बोध्यम् । प्राचां ष्फ इत्यत्र तद्धितग्रहण किमर्थमित्याशंक्याह प्रातिपदिकत्वमिति । फमत्ययान्तस्या पातिपदिकसंज्ञा यथा स्यादित्येवमयं तद्धितग्रहणं तेन पिगौरोवे डीप सिध्यति । न च पिगोरेत्यत्र प्रातिपदिकावेदशेपणे सत्येवं.
स्त्रीप्रत्ययाः। (१५१ स्याकिंतु तस्यैव फलाभावेन व्यर्थत्वादिति वाच्यम् । त्रपा क्षमा मृजेत्यादौ धातोः पितो ङीवारणफलकत्वात् । ननु तत्र पितोड- प्रत्ययसंपादनेन चरितार्थत्वादिह न स्यादिति कैयटोक्तेः, न च यवते यस्येति चेति लोपार्थ तत्तद्धितग्रहणमिति वाच्यम्, सवर्ण- दीर्घेणापि सिद्धेरिति चेत्सत्यम् । इजंतादपि ष्फः क्वचित्स्यादिति ज्ञापनार्थ तद्ग्रहणात् । तेनासुररुपसंख्यानमिति सिद्धमित्याहुः । ननु स्त्रियामेव ष्फविधानादुक्तार्थानामप्रयोग इति न्यायेन डीए न स्यादत आह । पित्त्वसामर्थ्यादिति । ननु पित्त्वसामर्थ्यात् प्रातिपदिकादेवेकारो न भविष्यतीति भाष्योक्तेः कथमीक सामर्थ्य व्यवस्थाप्यते । किं ततः तावतापीदृशमन्तरा सामर्थ्यस्योपक्षीण- त्वात् । उक्तेऽपीति । प्रकृत्या स्त्रीत्वार्थ उक्त प्रत्ययेन द्योति- वेऽपीत्यर्थः । सिद्धान्तसंमते पंचकं प्रातिपदिकार्थ इति पक्षे प्रत्ययानां द्योतकस्यैव युक्तत्वादिति कारकादौ निरूपयिष्यते । द्योतितविषये उक्तार्थानामित्ययं न्यायो न प्रवर्तते । व्यतिलूनीते इत्यादौ द्योतकसमुच्चयस्येष्टत्वात् । द्विवद्धं सुवद्धं भवतीति न्यायात् । अत्रेदं पित्त्वं ज्ञापकम् । अत एव येनांगविकार इति सूत्रे भाष्ये अक्षणा काण इति प्रयोगः संगच्छते। तत्र काणशब्दोऽक्षिगत- विकारवाचकः किंच हरत्यऽघं संप्रतीति माघप्रयोगोऽप्युपपद्यते इनि दिक् । द्योतकविषयेऽप्युक्तार्थानामिति प्रवर्तते क्वचित् गमकवला- दिति कारकमघट्टके वक्ष्यते । कुण्डोधो धेनुकमिति । कुण्डवदूधों यस्य धेनूनां समूहस्य इत्यर्थेऽचित्तहस्तिधेनोष्टक् इसुसुक्तांतात्कः तद्विधौ स्त्रियामिति । तच्च वार्तिकम् । नन्विहैव बहुव्रीहेरूवसो (१५२) फकिकाप्रकाशः। टीषु नश्चेति सूयतामनड़ चेति वा समासान्तेषु ऊधसोऽनडू इति सनं त्यक्त्वा धनुपोऽनड् इति सूत्र्यतामिति चेन्न । कबमावे लब्धावसरस्यास्य पक्षे कपा बाधापत्तेः । यथान्यासे तु अनडः समासान्ततया शेषत्वाभावान का । ननूधसोड- नडिति सूत्रेऽनादेश एवास्तु किं डित्कग्णेनेति चेन्मेवम् । वनुपश्चेत्येतदर्थतया शार्ङ्गधन्वेति वस्त्वेन फलकत्वात् । न चेहार्थमप्यावश्यकमन्यथाऽल्लोपो न इति न स्यादनो लाक्षणिक- त्वादिति वाच्यम् । भाष्यवार्तिकविरोधेन लक्षणप्रतिपादोक्तपरि- भापाया इहाप्रवृत्तेरिति वदन्ति । ननु ममेयमित्यर्थं युष्मदष्म- दोरन्यतरस्या खजू चेत्यण तवकममकायेकवचने इति ममकादेशे सत्यणंतत्वाहिड्ढोते सिद्धेऽत्र तद्ग्रहणं व्यर्थमत आह नियमार्थमिति । नित्वं सज्ञाछन्दसोरिति संपूर्णानुवृत्तेः संज्ञाछन्द- सोरेव डीविति नियमशरीरम् । व्यावर्त्यमाह लोकेसंज्ञायामिति । ननु नेदं व्यावृत्तिफलम् । प्रत्ययस्थककाराभावप्रयुक्ते त्वाप्राप्तावपि मामकनरकयोरिति वार्तिकेनापि प्रकृतिककारे इत्वविधानेनैव डीपोऽप्रवृत्तेरिति चेन्न । आप्परत्वाभावेऽपि सामर्थ्यादित्वकरणेन सिद्धार्थत्वात् । अन्तर्वदिति । मतुप्पतिवदिति वत्वं च नुक्सनि- योगेन नियम्यते । किमविशेषणेनेत्याह गर्भिण्या जीवत्पतिकाया चेत्युक्तं भाष्ये तदेवाह गर्भिण्यामित्यादि । अन्यथा सिध्यभावमाह वत्रेत्यादिना । अन्तःशब्दस्य मध्ये इत्यर्थकस्य तदेवाह अधिकरणेति । शब्दशक्तिस्वभावादिति भावः । एवं चास्यान्यहारैव क्रियायोग. सप्तम्यर्थस्येवोत भाव इत्याह अस्ति सामानाधिकर- स्वीप्रत्ययाः। (१५३) ज्येति । तदस्यास्त्यास्मन्निति मतुविति सूत्रस्य तदिति प्रथमान्तात् यष्ट्यर्थ सप्तम्यर्थ चास्तिना सामानाधिकरण्ये मति मतुप्स्यादित्यर्थ प्रथमांतस्यास्तीत्यत्र तिर्थन सामान्यकर्ताऽभेदान्वयेन ततो मतुए सिध्यति । प्रकृते च तदभावादप्राप्तिरिति भावः । ननु नत्सूत्रे शक्तिस्वभावादेव बहुव्रीहाविव वर्तमानकालाम्त्यर्थान्तभावेन मतुः । अस्तिग्रहणं तु अस्तिशब्दादस्तिसामानाधिकरमयाभावनाप्राप्तमतुपो विधानार्य तेनास्तिमानिति सिद्धं, मनाकर्तृधनवानिति तदर्य इति स्पष्टं भाष्ये । एवं चात्रापि तथैव मतुवस्त्विति चेन्न । नन प्राप्यमांतादेवे मतुपो विधानात् । कथमन्यथाऽस्तिना मामाधि- करण्यं नास्तीन्यप्राप्तो मतुप् निपात्यनेऽन्तर्वदिनि भाष्यकारा व्याचक्षीरन्नित्यलम् । ननु पत्युर्न इत्यत्राधिकारलब्धमनुपस- जनादिति तच्च पत्युरिति षष्ठयंतस्यानुगुण्याय पष्टचंन कल्प्यतेऽ- नुपसर्जनस्य पत्युरिति नत्सम्बन्धिनोऽनुत्तिरित्याशंक्याह अनु- पसर्जनस्येत्यादि । उत्तरार्ध, पूतक्रतोरित्याद्यर्थम् । न तु पत्यु- रिति । अयं भावः । सपूर्वस्येत्यत्र सहशब्दो विद्यमानवाची । पूर्वशब्दः पूर्यावययपरो व्याख्यानान् । तत्र केवलपनिशब्दस्य विद्यमानपूर्वावयवत्वामभवाव्यभिचाराश मामात्पतिशब्देन (१५४) फक्षिकाप्रकाशः। क्षणं, तेन पतिमतिकान्ताऽतिपतीति सिध्यति । दृढपत्नी । दृदा पतिर्यस्येति विग्रहः इह पत्यन्तो नोपसर्जनः किन्तु पतिरेवति विकल्पासद्धिः । बहवो वृपलपतयो यस्या , इति कर्मधारयोत्त- रपदबहुवीही वारणायेहार्थोऽप्यनुपसर्जनपदसम्बन्ध इत्यन्ये । तदयुक्तं, भाष्यक्यटविरोधात् । ननु विद्यमानपूर्वावयवस्येत्यनेन समास इति पर्यवस्यते तत्कथमन्यत्रेति शङ्कते । व्यस्ते कथ- मिति । नन्वेतत्सूत्रामातेरपि पत्युन इत्यनेनैतत् सिद्ध शकेव नादौते । मैवम् । पूर्वसूत्रे यज्ञसंयोगः यज्ञसम्बंधः स च यज्ञ- फलपतियौगिकैश्वर्यवत्त्वं तदाशयेन तत्कर्लकेत्यादिरर्थ उक्तः। यज्ञे तु त्रैवर्णिकानामेव समार्याणामधिकारो न तु शूद्रस्य यत्क- तव्यं तदनया सहेति श्रुत्या वोधितार्थश्चोक्तो दम्पत्योरित्यादिना । तथा च श्रुत्यधिकारिणा तथा प्रयोगो नान्तजस्येत्यदोषात् । तदुक्तं भाष्ये यज्ञसंयोग इत्युच्यते, तुपजकस्य पत्नीति न सिध्यति, उपमानासिद्धम्, पत्नीव पत्नीति तदाह । उपचारादिति । अग्निसाक्षिकपाणिग्रहणाश्रयणादिति भावः । नन्वेवं यज्ञसंयोग इत्यस्य व्यावयालामाद्वैयमित्याशंक्य स्वयं गत्यन्तरमाह यहोते । पतिरिवाचरतीति उपमानादाचार इति क्विपि पतयति ततः कर्तरि क्विम् कृत्संज्ञः अत्र दृढप्रमाणामावात् प्रौढिः । यज्ञसं- योग इति तु वृपलस्य पतिः स्त्रीति प्रयोगसाधनेन चरितार्थ- मिति प्रषमभाष्योक्तिसहायं समाधानमेव ज्याय इत्यलं भा- व्यक्यटविरुद्धकल्पनया । सपूर्वस्य किमिति । पूर्वावयवपर: पूर्वशब्दः । किमर्थ इति प्रश्नः । गवा पतिरिति । स्वामिनीत्यर्थः।
स्त्रीप्रत्ययाः। (१५५) पातीति पतिरिति क्रियाशब्दस्य त्रिलिङ्गत्वात्स्त्रीत्वमिति संक्षेपः। मातार पिचेति । पितृव्यमातुलति सूत्रस्थमिदं पितामहीति सिध्यर्थम् । दंष्ट्रेति । दंशेदनिशिसोत करणे ट्रन् । अयमजा-- दिषु पठ्यते गौरादिषु मातामहीपाठोऽनाप इत्यन्ये । ननु कम-- ण्डलुरूपामत्रातिरिक्ते कुडि दाह इत्यस्माद्गुरोश्च हल इत्यप्रत्य- यान्तः क्रियाशब्दो भवतु प्रत्युदाहरणमन्यो वारणीय इत्यासंक्याह 'यस्त्विति । अमृते जारजः कुण्डो मृते भतरि गोलक इति कोशा-- जातिवाची । डीविति । जातेरस्त्रीविषयादित्यनेन तत्र हि यः स्त्रीलिङ्गे नियतो न तस्माद्विधीयतेऽयं तु न तथाभूतः । कुंडी कमण्डली जारात्पतिवत्नीसुते पुमानिति मेदिनीकोशादुक्तकोशाच्च । ननु मेदिनीकोशापिठरे तु न ना कुण्डमिति विश्वकोशात्स्त्रीनपुं- सकयोः कुण्डशब्दस्य बोधनात्कमण्डलुपिठरयोः पर्यायत्वेन- कार्थात् स्त्रियामनियतत्वेन जातेरस्त्रीति डीपि सिद्धे जानपदकुण्डे- त्यस्य नियमार्थत्वन कथमत्रातिरिक्त जातिलक्षणे डीपत्याशक्य अनेकविधसंस्थानप्वमत्रेषु कुण्डव्यवहारेण कुण्डत्वे जातित्वस्य- वाभावात्तेनाप्राप्ते जानपदेत्यनेनैव विधीयते इत्यभिसन्धायाह अमत्रे. हीत्यादि । स्त्रीविषयत्वादिति तृपलक्षणं, तस्मादुक्ते कुंडीति सिद्धम् । अन्ये तु कमण्डलुसंस्थानस्यानुगतत्वात्कमण्डलुरूपाम- त्रवाचिनी जातित्वमस्येवेति जातरिति सिद्धे जानपदेति नियमा- र्थम् । अमृते भरि जारजायां कुण्डत्यवत्याहुः । ततः किमिति है. नन्वंतदभावे अत इति संबन्धे शुचिरित्यादौ न दोप इत्याशंक्य खरुसंयोगोपधादिति निषेधसामर्थ्यान्नात्रात इत्यनुवर्तते इति.
(१५६) फधिकाप्रकाशः। प्रश्नः । शुचिरिति । शुचेरीणादिकः कित् इत्प्रत्ययः । उणादी- नामव्युत्पन्नत्वात् कृदिकारादित्यस्याप्यप्रवृत्तेरनेन डीप्स्यादित्यु- त्तरम् । अन्ये त्वौणादिके व्युत्पत्तिपक्षस्यैव सिद्धान्तितत्वादत्र कृदित्यनेन डीप इष्टत्वान्नेदं प्रत्युदाहरण किन्तु शुरुति । तत्र खर्विति कोटयोत इत्यस्याभावेऽत इत्यस्य. सम्बन्धामावबोधन- द्वारोकारान्तत्वादेव डीप् पर्यवसानेऽपि ततोऽपि परत्वात्संयोगो- पधेत्यनेनाकारादीनामाप संभवात्ततो डीप्वोधनादित्याहु' । ननु स्वमग स्वागमित्यर्थश्वेत्सुमुखा शालेत्यत्रापि स्यात् मुखम्य शाला- गत्वात्सुकेगी रथ्येत्यत्र च न स्यात्केशाना ग्थ्यागत्वाभावाद- यातव्याप्यव्याप्तिपरिहारायाह स्वाग विधेति । स्पर्शवद् द्रव्यपरि- माण मूर्तिः । प्राणीति । मुखनासिकासचार्गवायुः प्राणः सोऽ- स्त्यस्य विकागे वातादिवैपम्यम् । एतच्चतुष्टयमेक्लक्षण तच्चातिके- शाटावस्ति इतरत्र तु नास्तीत्याह सुमुखेत्यादिक्रमण । इदानी सुकेगी रथ्येत्यादौ केशस्य प्राणिस्थत्वामावने डीपोप्राप्ती द्वितीयं लक्षणमाह अतत्स्थमिति । न तस्मिन् प्रणिनि तिष्ठतीति । तत्र प्राणिनि दृष्टं तदपि स्वागमित्यर्थम्तदाह अप्राणिस्थस्योते । ननु सुस्तनी प्रतिमेत्यत्र प्रतिमागतस्तनस्य प्राणिनि कदाप्यदृष्टत्वान्न स्यादिति तृतीय लक्षणमाह तेनेति । अप्राणिनोऽपि स्वाग यदि तेन तजातीयेन वस्तुना पाणी पथा मंवद्धस्तथा प्राणी चेत्संवद्ध- स्तदपि स्वागमित्यर्थस्तदाह माणिवादति । इद च स्पष्ट भाष्यक चटयोः स्वागासो, नासिकोदर, नक्रोडा, सहनन् इति पाठक्रमे रत्मनिषेधयोर्विप्रतिषेधाभावेन क्ल्याणकोडेत्यादी सावकाशेन स्वप्रित्ययाः। (१५७ न कोडांदीत्यनेन नासिकोदरयोरपि निषेधे प्राप्ते निरखकाशत्वेनाय- मनवाद इत्याह योरिति । ननु वाव्यसामान्यचिन्तायाः सह नजित्यपि बाध्यतामत आह पुरस्तादिति । लक्ष्यानुरोधेन वाध्य- विशेषचिन्तवाश्रितोत भावः । अत एव सहनञ् इत्यादि वक्ष्यति समनन्तरमेव । एतन्न्यायेन स्वांगादिति वाधितंग्न स्यादिति न्याया- न्तरमाह मध्येऽपवादेति । मध्येऽपवादाः पूर्वान् विधान् वाते नोत्तरानिति न्यायशरीरम् । पूर्वोपस्थितबाधनेन नैराकांक्ष्यमस्व वीजम् । ननु वाध्यसामान्यचिन्तामाश्रित्य सर्व वाध्यतां किमुक्त- न्यायद्यानुसरणेनेति चेन्मैवम् । सहनजित्यस्यापि वाधापत्तेः । न्यायाविमौ चात्रैव स्पष्टों भाष्ये । परत्वादिति । सहेत्यादिपूर्वाति- रिक्ते चरितार्थत्वात् निपातानामनेकार्थत्वादाह इति शब्दः प्रकारे इति । तथा च भाषायामिति न कार्य दीर्घजिबी च च्छन्दसीत्यतः छन्दसीत्यस्य दिक्पूर्व वाह इति सूत्रयोरसंबंधेनास्व- रितत्वादत्राप्यसम्बन्धसिद्धेः । स च भिन्नक्रम इत्याह अनन्तर- मिति । प्रकारस्य सादृश्यार्थत्वादाह छन्दसीति । अतिदिष्टस्य कादाचित्कत्वादाह क्वचिदिति । तेन सखा सप्तपदी भवेत्यपि सिद्धम् । अन्ये तु पूर्वसूत्रयोरपि छन्दसीत्यस्यानुवृत्तेर्भाष्ये दृष्ट- त्वादिहापि तत्संवन्धे प्राप्ते तन्निवृत्तये भाषायामिति । इति शब्दश्च- काराय तेन छन्दस्यपीत्याहुः । केचित्तु तादृशभाष्यस्य प्राचीन- पुस्तकेष्वदर्शनान्नानुवृत्तिरिति वदन्ति । ननु भिन्नेष्वभिन्नाभिधान- वोधहेतुर्नित्यमेकमनेकानुगतं सामान्यं जातिरिति दर्शनमिदं तम शुक्लादिगुणेऽप्येकत्वनित्यत्वपक्षेतिव्याप्तं जननेन प्राप्यते सा जाति- (१५८) फधिकाप्रकाशः। रित्यपि युक्त्वादावव्याप्तमिाते का सा जातिरित्यत आह आकृ- तीति । आकृतिरवयक्सन्निवेगो गृह्यते ग्रहणेऽतिकरणे ल्युट् सा- मान्ये नपुंसकम् । आकृतिम्रहणं यस्या इति विग्रहस्तदाह अनुग- तोते । ईदृशाकारो गौरित्याकृत्युपदेशादिव्यंग्येत्यर्थः । तटीति । जलसमापदेशविशेषो हि तटम् । ननु वालाद्यवस्थाभेदभिन्नानेकदे- हवृत्तिदेवदत्तत्वादेराकृतिव्यंग्यत्वेन लक्षणमतिप्रसक्तमिति चेन्म- बम् । समानकालिकानेकव्यक्तिवृत्त्यनुगतसंस्थानव्यंग्यत्यर्थात् । अवस्थाभेदेऽपि तद्भेदामतीतेश्च स एवायामति प्रतीतेश्चेति दिक् । ननु ब्राह्मणक्षत्रियादिव्यावृत्तावयवसंस्थानमावाद् वृपलत्वादीना जातित्वं न स्यादतो रक्षणातरमाह । लिङ्गानामित्यादि । इयमपि जातिरित्यर्थः । सर्वाणि लिङ्गानि न भजतीति सर्वशब्दस्य लिङ्गेन सापेक्षत्वेनासामर्थ्य भाष्यप्रयोगप्रामाण्यात् ण्विसमासौ आख्यात- माख्यानमुपदेशः निर्लाह्या नितरा ग्रहीतु गक्या तदाह असर्वलि- ङ्गोते । वृपलीति । एकन व्यक्तौ वृषलत्वे उपदिष्टे त्वतदपत्यत- त्सहोदरादी वृषलत्वं मुग्रहमिति भावः । ननृक्तनातिलक्षणाभ्या- मीपगवी कठीत्यादेरसंग्रहोऽनुगतसंस्थानव्यंग्यत्वाभावात्सर्वलिङ्गत्वा- चेत्यतस्तृतीयं लक्षणमाह गोत्रमिति । गोनपदार्थमाह अपत्येति । चरणपदेन विवक्षितमर्थमाह शाखेति । शाखाया अध्येतेति विग्रहः । कठी वहृचीति । कठेन प्रोक्तमधीते वैशपायनातेवासि- त्वाण्णिनेः कठचरकाल्लुक् अध्येनणस्तु प्रोक्ताक् । वय ऋचो- ऽध्येतव्या यस्याः सा ऋक्परित्यप । न स्त्रीशूद्री वेदमधीयाता- मिति श्रुत्यध्ययनानषेधेऽपि तदंश्यत्वात्ताच्छन्द्यमित्याधिक नागे- स्वीप्रत्ययाः। (१५९) शीये । नन्वलावूरिति भाष्योदाहरणादुत इति न संवध्यते कथमु-. कारांतत्वलाभोऽत आह पर्युदासादिति । स च सगग्राहीति भावः । ऊङः फलं दिदर्शयिषुस्तृतीयांतमुदाहरति अलाबोति । नोधात्वोति । ऊो धातोश्च परे शसादय उदात्ता न स्युरिति तदर्थः । एतदर्थमेव डकारः कृतोऽन्यथा यवाग्वेत्यादावपि निषेधः स्यात् । ननूङि दीर्घोच्चारणमसांप्रतिकम् । प्रयोगाणां सवर्णदीर्घेणैव प्रतिपत्तेः । न च श्वश्रूरित्येतत्साधनार्थं श्वशुरः श्वश्वेति निर्देशा- सिद्धेः । सत्यप्यूङि तन्निर्देशेनैवान्त्यकारलोपोऽन्यथादिमस्यापि लोपापत्तिः । ड्यावित्यत्र चतुर्थ भाष्ये श्ररित्येतदूदंत- मव्युत्पन्नं प्रातिपदिकमिति. स्वरसात्तस्मादृत्त्यादिपठितं श्वशुरस्येति वचनमनादेयामिति चेन्न । प्रश्लेपेणोकारद्धयप्रतिपादनद्वारा ब्रह्मवं- धुरित्यादिवहुव्रीही परकार्यनिवृत्यर्थत्वादिदं स्पष्टं भाष्ये । ननूरू- शफयोरेकार्थत्वाभावात् व्यधिकरणत्वेन · समासार्थासंगतिरित्या- शंक्य शर्फ क्लीवे खुरः पुमानित्यमरोक्तेऽपि शफः खुरे गवादीनां मूले विटपिनामपीति हेमचन्द्रोक्तेः । शफाविव जनुराणेति श्रुतेश्व शफस्य पुँल्लिंगत्वमपीति ध्वनयन्नाह शफावित्यादि । इवेति नोप- माद्योतकं किंतु फलितार्थकथनपरमित्याह उपचारादिति । शफश- ब्दप्रवृत्तिनिमित्तस्योरुपदार्थ आरोपाल्लक्षणयति भावः । शक्यताव- च्छेदकारोप एव लक्षणेत्यन्यत्र विस्तरश्चिन्तामणौ च । ननु वार्तिकं व्यर्थमाद्यस्य समो वाहितततयोरिति निष्पन्नस्यैकदेशविक- तन्यायेन संहितति सूत्रेणैव सिद्धेः। अन्त्यस्य सहशब्दस्य सर्व- स्याप्यूरुसहितत्वेन सहोरूरिति. प्रयोगस्यैवाभावादित्याशंक्याचे (१६०) फहिलाप्रकाशः। .आह हितेनोति । विद्यमानं हि तत्त्योरिति वक्तव्यार्थः । अंत्ये आह सहेते इति । निवम्वभारं रतिश्रमं बति शेषः । अस्तु सहो विद्य- मानार्थक एवमपि न दोष इत्याह यति । अतिमनोहराऽऽकृत्यूरू यस्या इत्यर्थः। कमलानि कमलानीतिवदित्यलंकारपरिपुष्टिः इदं कैपटे स्पष्टम् । संज्ञायां किमिति । उडुत इत्यन मनुष्यजातरित्यनुवृ- तिरत एव पडोश्च बान्तात्संज्ञायामिति चरितार्या तथाप्यविशे- पात्संज्ञाया क्दुकमंडलोः छन्दसीत्यनेन मिद्धिरिति प्रश्नः । लोके नागमातुः मंज्ञायां करित्यादि न सिद्धयेदित्युत्तरम् । एवं चंदें लौकिकार्थमित्याह छन्दोमिति । युवतिरित्यत्र तद्धितान्तत्वेन प्रातिपदिक्मंज्ञार्य यनस्तिरित्यस्याधिकारे पाठः साच परिमापर्यव सिद्धति क्मियादिकार इत्यत जाहोत्तरार्थ इति । इह करणं परि- माषाया अनित्यताज्ञापनार्थमित्यन्ये । ननु टापः प्रागेवाधिक्रियता प्राचा फो यस्येति चेत्यनयोः तद्धितेद्ग्रहणे च मास्ताम् । नैनत् पदवीत्यादावोगुणसङ्गान् । न चेट् ग्रहणमेव टीपि तद्वितकार्या- मावं ज्ञापयतीति नोक्तदोप इति वाच्यम् । कुरूरित्यादापति- प्रसंगात् । न च कुरुरित्यादिसिहयं स्वीप्रत्ययेषु तद्धितकार्या- मावाज्ञापस्मोग्रहणमिति चेत् । आस्गवर्णात्यादीफऽपि यस्वति लोपानापत्तेः । अत एव दंडिनीत्यादी टिलोपो नेत्याहुः । ननु युवतीकरनिर्मितं दधाति कथं प्रयोगः । सर्वनोऽक्तिनादिनि गणसूत्रेण तिप्रत्ययेन घोनितेऽपि वाले द्योतक्तमुमयस्याटो पान्टीसिदेः बाहुलका योतेरीणादिकेन वनिमत्यर्यन मिडेय। याये युक्तीनां समूह इत्याणे मस्याहे इति पहावे चौवामान विभक्त्याः। (१६१) स्यादिष्यते तु यौवसमिति अन्त्येऽगतिकगतित्वं चौत मनसि निधायाह शत्रंतादिति । यौति मिश्रीकरोत्यात्मानं ययेत्यर्थ लटः शतृङीष् एवं च यौवतमुक्तरीत्या सिद्धं त्यतात्तु यौवनमि- त्येव । न च भिक्षादिपाठसामर्थ्यान्नपुंवत्तत्पाठस्य भाष्यकृता प्रत्याख्यानादिति संक्षेपः ॥ इति स्त्रीप्रत्ययाः। अथ विभक्त्यर्थाः। अथ स्वौजसित्यादिना विहितसुवामविशेषव्यवस्थादर्शनाय कारकप्रकरणारंभः । तत्र जातिव्यक्तिलिंगसंख्याकारकति पंच प्रातिपदिकार्थ इति भगवद्भाष्यकृत्कृतान्तः । तथा च येकयोरि, त्यादिना प्रातिपदिकार्थेति सूत्रस्यैकवाक्यतया लिंगग्रहणेन च सत्त्वाभिधायिन एव प्रातिपदिकार्थत्यस्य संग्रहादव्ययात् प्रथमाया अनुत्पत्तावुच्चरित्यादौ रुत्वं ग्राम उच्चैस्ते स्वमित्यत्र सपूर्वायाः प्रथमाया इति ते आदेशो न स्यादिति तदर्थ प्रातिपदिकार्थत्यस्या- वश्यकत्वात्ततश्च लिंगेत्यस्य गतार्थत्वाद्वैयर्थ्यमित्यतो विवक्षितमाह नियतेति । यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोप- स्थितिः स तदर्थ इत्यर्थः । तटादिशब्दानां तत्तत्प्रत्ययसमभिहारे सकललिंगबोधकतया न किमापि लिंगं तेभ्यो नियतोपस्थितिक- मिति न तद्बोध्यलिंगस्य प्रातिपदिकार्थति संग्रह इति लिंगग्रहण- मित्याशयः । नन्वे सिंहो माणवको गौर्वाहीक इत्यादौ सिंहादि- सदृशरूपार्थस्य शक्यार्थरूपप्रातिपदिकार्थत्यनेनासंग्रहात्प्रथमानुप- (१६२) फक्किाप्रकाशः। पत्तिरिति चेन्न । शक्यायें पदं साधुत्वेनान्वाख्याय पश्चात्पदान्तर- समभिहारे तात्पर्यानुपपत्त्या लक्षणांगीकारेण लक्ष्यार्थबोधेन सर्व- सामंजस्यात् । न च विभक्तौ न लक्षणेति वादविवादः। एकविमक्ते- रपरविभक्तो न लक्षणा व्यत्ययो बहुलमित्यनुशासनविरोधादि- त्याशयात् । लक्षणा तु शक्यतावच्छेदकारोप एव अतस्मिन् स इत्यारोपार्थकभाष्यस्वरसात, आरोप्यते नादृप्यं न तु मुख्यमिति कैयटोक्तेश्च । यथाह सिंहत्वादिरूपावच्छेदकस्यारोपो माणवकादी ननु शक्यसम्बन्धो हि लक्षणा । अन्यथा शक्यादन्येन रूपेण ज्ञाते भवति लक्षणेत्यभियुक्तोक्तिविरुध्यति चेन्न । भाष्याद्यसंस्प- र्शात् । शक्यतावच्छेदकान्यरूपवत्त्वेन गृहीतेऽर्थ लक्षणा । शक्य- तावच्छेदकारोप इत्यर्थवर्णनेनाभियुक्तोक्तेमदुक्तलक्षणालक्षणपक्षपा- तित्वेनाविरोधाचेत्यधिकं नागेशीयचिंतामण्योः। ननु कणि द्विती- येवेतीहानियमात्मातिपदिकार्यादौ केवलप्रथमायाः पर्यवसानादव- धारणार्थकमावग्रहो व्यर्थ इत्याशंक्य सूत्रकृत्संमते कर्मण्येव द्वितीयेत्याकारकपत्ययनियमे कर्मादीनामनियमात्तेष्वपि प्रथमाति- प्रसङ्गमंगाय तद्ग्रहणमित्याशयेनाह मात्रशब्दस्येति । मानं कान्यवधारणे चेत्यमरादिहावधारणमर्थः इन्द्वोत्तरमस्वपदविग्रहे मयूरव्यंसकादित्वात्समासोअधेयः । प्रत्येकं योग इति । द्वन्दे इत- रेतरयोगसमाहारयोः समूहो विशेष्यो घटकपदार्थाविशेषणानीति समूहस्य चम्बशब्दैवाभिधानेनावयवानतिरेकेण भानामावात्तनान्व- यिनेपावयवेऽप्यन्वयसंभादित्यभिप्रायः । एतन्मूलकमेपोच्यते द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमामिसंबध्यते इति उपपादयिष्यते दें विमक्त्यर्थाः। (१६३) . समासे । ननु वीरः पुरुष इत्यादौ विशेष्यविशेपणभावस्याधिकस्य मानात्कथं प्रथमा । न च पूर्वापरोति समासविधानात् ज्ञापका- त्स्यादेव सा प्रथमा । द्वितीयाद्यन्ते तद्विधानस्य चारितार्थ्यादिति चेन्मेवम् । तस्य वाक्यार्थत्वेन वहिरङ्गत्वेन प्रथमप्रवृत्तसंस्कारवाधा- नुपपत्तेः । तदुक्तमत्रैव भाष्ये । यत्राधिक्यं स वाक्यार्थ इति । निरुक्तमातिपदिकार्थस्वीकारात्फलितमाह अलिङ्गा इत्यादि । यसत्त्वभूतस्वेन तत्र लिङ्गाद्ययोगादलिङ्गत्वव्यवहारादिति भावः । न चालिङ्गत्वे सदृशं त्रिषु लिङ्गेष्वित्याथर्वणप्रणवविद्यागतश्रुतिवि- रोधः । यथोपक्रमोपसंहाराभ्यामस्याः श्रुतेर्ब्रह्मपराया अप्यत्र माष्यप्रामाण्यादुपसंहारस्तथा लिङ्गाद्यभावपरताया अपि सुल- भत्वात् । आग्रहणं व्यर्थमलिङ्गत्वादिति वार्तिकोक्तेश्च । न चाव्ययीमावस्य कथं लिङ्गयोगः वचनप्रामाण्यादिति दिक् । नियतलिङ्गा इति । नियमेन पुल्लिङ्गासुपस्थापका इत्यर्थः । वासुदेवलक्ष्मीब्रह्मपराः कृष्णश्रीज्ञानशब्दा नियमेन पुंस्त्रीक्लीवानु- पस्थापयन्तीति भावः । मात्रपदेन कर्माद्याधिक्ये प्रथमा न भवे- दापितु लिङ्गपारमाणग्रहणालिङ्गाधिक्ये परिमाणाधिक्ये च स्या- देवेत्याशयेन लिङ्गमात्राधिक्ये इत्युक्तम् । यद्यपि लिङ्गादिमात्रे इत्येवाक्षरार्थस्तथापि प्रातिपदिकार्थे . विना लिङ्गादिप्रतीतेर- संभवादाधिक्यग्रहणम् । अन्ये तु सूत्रे प्रातिपदिकार्थशब्देन प्रवृत्तिनिमित्तं तदाश्रयश्च गृह्यते । एवं चालिङ्गालिङ्गप्रवृत्तिनि- मित्तकाश्चाव्ययपुम्शब्दादयः प्रातिपदिकार्थ इत्यस्योदाहरणम् । अन्ये सर्व लिङ्गाधिक्योति सविस्तरं प्राहुः । ननु द्रोणादीनां (१६४) फविकाप्रकागः। परिमाणमर्थ इाते प्रातिपदिकार्य इत्यनेन सिद्धांवतद्ग्रहो व्यर्थ इत्याशंक्य वढा मानमेयसम्बन्धात् बीह्यादा द्रोणादयो वर्तन्ते तदाव्यभिचारान्नास्ति मेयस्य ततो नियतोपस्थितिरिति तेनाग- तार्थत्वमित्यभिप्रेत्य प्रथमार्यमाह पारमाणोते । एवं च मानमेव मावस्य संसर्गस्य विधया शाब्दवोधे मानार्थ अमेर एव द्रोणादीनामर्थः । अन्यथा नामार्थयोरभेदबोधस्य व्युत्पत्ति- सिद्धत्वादभेदवोध एव स्यादिति भावः । तदेवोपपादयति दोण- रूपमित्वादिना । द्रोणाभिन्नमित्यर्थः । ननु पाचक औपगव इत्यादी पचनाश्रय उपग्वपत्यसम्बन्धीत्ययन भाष्यादिसिद्धेन सर्वन मंदान्वय एवं प्रकृतिप्रत्यचार्ययोरिति कयमुक्तार्यलाम इत्याशंक्यामिक्षा देवतायुक्ता वदत्येप तहित इति मीमासक निकान देवतार्थक्त्तद्धिताविन्द्रं हविरित्यादाविन्द्राभिन्नदेवताकं हविरिति वोधाभ्युपगमादिहाप्यदीपादित्यभिप्रत्य विवेचयति प्रत्यवाय इत्यादि । प्रकृतिप्रत्ययार्थयोः प्रत्यवार्थस्यैव प्राधा- न्यमिति व्युत्पत्तरिति भावः । अमेदन मंसर्गणोते । इतरस- म्वन्धानवच्छिन्नविशेषणविशेष्यभावेनत्यर्थः । अमेदस्तु न संसर्ग इति नागेशीयचिन्तामण्योर्विस्तरस्तत एवावसेयः । प्रत्ययार्यस्तु परिमाणं तु। परिच्छेयपरिच्छेदकभावेन प्रमेयमानसंबन्धेन । वीही, धान्यादी । एवं च द्रोणाभिन्नपरिमाणनिष्टपरिच्छेदक तानिरूपितपरिच्छेद्यताविशिष्टो ब्रीहिरित्ययः । अन्ये तु तिद- समानाधिकरणे प्रथमति वार्तिक्कवाक्यतया परिमाणेत्यस्य परिमाणे वर्तमानात्मातिपदिकादित्येवार्यः । न च प्रातिपदिकार्य- विभक्त्यर्थाः। (१६५) . वासिद्धिः । प्रवृत्तिनिमित्ततदाश्रयद्रव्ययोरेवात्र प्रातिपादकार्थ- पदेन ग्रहणात् । द्रोणादिपदानां च द्रोणत्वाद्येव प्रवृत्तिनिमित्तम् । द्रोणः परिमाणमिति द्वौ ब्राह्मणावितिवत्प्रयोगः । द्रोणस्यानेका- र्थत्वादा । एवं च भेदान्वयेन राज्ञः पुरुषमानयेतिवद्रोणो व्रीहि- मानयेत्यस्याप्यापत्तेः द्रोणो व्रीहिरिति प्रयोगस्तु गौर्वाहीक इत्या- दिवल्लक्षणया साधु तस्मात्परिमाणस्योदाहरणं द्रोणः खारी आढ- कमिति भाष्योक्तमेव रमणीयमिति प्राहुः । ननु वचनशब्दो वाचकपर्यायः स च व्यर्थाऽर्थ शास्त्रीयकार्यासम्भवादिति संशय्य वाच्यवाचकयोरभेदाध्यवसायेन पूर्वाचार्यैः संख्यायां व्यवहृत इत्याशयेनाह . वचनं संख्येति । उक्तार्थत्वादिति । उक्तानाम- प्रयोग इति न्यायादति भावः । अर्थप्रत्यायनाय लोके शब्दः प्रयुज्यते स चार्थी यद्यन्येन प्रतिपादितस्तदा प्रयोजनाभावा- च्छन्दान्तरणयोगेण · · न भाव्यम् अक्षिनिकोचेनाप्यवगतेऽर्थे शब्दो न प्रयुज्यते किं पुनः शब्दान्तरेण प्रतिपादिते इत्यनभिहितसूत्रकैयटेन मूलमुपदर्शितम् । न्यायस्वीकारश्चं भाष्येऽपीतिना . प्रामाण्यमाशंक्यम् । अनभिहितसूत्रसत्त्वे तु तदधिकारात्परिगणनस्य भाष्ये प्रत्याख्यानात्सि- द्धान्तपञ्चकपक्षे ग्रादिपदिकेनाभिहित एकत्वादी विभक्तेरप्राप्तिरिति भावः । ननु प्रातिपदिकत्वेनोक्तत्वं विभक्त्युत्पत्तौ न दूपकम्, अन्यथा पञ्चकपक्षे कर्मादी द्वितीयाद्यनापत्तरेवं, चोक्तार्थत्वादित्या- दिग्रन्थश्चिन्त्य इति चेन्न । भाष्यकैयटाद्यनवलोकनात् । यथो- तमनभिहितसूत्रे अभिहिते प्रथमा न प्राप्नोति किं कारणं प्रांति- (१६६) फकिकामकामः। । पदिक्नोक्ता एकत्वादय इत्यागंक्य वचनाद भविष्यतीति । एवं च प्रातिपदिकार्थमात्रस्यान्वैरभिधानाभावेऽपि प्रातिपदिकेना- भिहितत्वस्याविनाभावादनभिहिताधिकारेऽपि सूत्रसामर्थ्यात्मयमा स्यादेव । तदप्युक्तं तत्रैव । न क्वचित् प्रातिपदिकेनानुक्तः प्राति- पदिकार्य उच्यते च प्रथमा सा वचनाद्भविष्यतीति । द्वितीयादयस्तु कर्मादीनां विध्यन्तरैरप्याभिहितत्वसम्भवात् प्रातिपदिकेनाभिधानम- नादृत्य विध्यन्तरानभिधाने एव स्युरधिकारसूनसत्त्वे प्रत्याख्या- नेऽप्यनमिधाने सावकागा अभिहिते न स्युग्वेति गृहाभिनन्धिः । अस्मादेव वक्ष्यति प्रातिपदिकार्थमाने प्रथमैति । तदेतत्सक्ल. मभिप्रेत्याह वचनामिति । सूत्रे वचनग्रहणमित्यर्थः । न चैकादि- शब्देभ्यः सर्वविभत्तयापात्तरिति वाच्यम्। अनन्वितार्थकावभक्त्य- पेक्षयानुवादकविभक्तेरेव न्वाय्यत्वात् । यत्राहुः । अर्थे प्रथमेत्येव सारमितरत्सर्व त्यक्तुं शक्यम् । तद्यथा। अर्थे प्रथमेत्युक्त कस्याय इत्याकांक्षायां यस्मात्स्वादिविधिस्तस्येति लभ्यत एव । स्वादयश्च प्रादिपटिकालिङ्गप्रत्ययविशिष्टाम विधीयन्ते तदर्थत्वं च ततो नियतोपस्थितिक्त्वमेव । एवं च मृडानी हिमानीत्यादी पुंयोग- महत्वादेरपि दयन्ताद् नियतभानेन प्रथमा सिध्याते । पञ्चक पक्षस्य मिद्धान्तत्वेन लिङ्गमाप प्रातिपदिकार्थत्वात्तेने पमिटेऽप्यर्थे इति । द्रोणो व्रीहिरित्यपि गौवाहीक इत्यादिवच्छाचार्थे साथ- वित्वा लक्षणीयान्वयरोध इति परिमाणमाप व्यय, न केवा प्रकृतिः प्रयोक्तव्योत ममयादेव मिट्टी वचनग्रहणमप्यपार्यकं मान- ग्रहणमपि व्यर्थम् । विशेषविहितः कर्मणि द्वितीयत्यादिमिर्वाचित विभक्त्याः । (१६७) तत्लेन कर्मादौ प्रथमाया अप्रवृत्तेः कर्मणि द्वितीयेत्यादिषु कर्मणि द्वितीयैव नान्या विभक्तिरित्येवमर्थस्य नियमस्वीकारात् । न व कर्मण्येव द्वितीयेत्यादिप्रत्ययनियमपक्षे कर्मादौ प्रथमा मात्रपदेनैव चारणीयेति वाच्यम् । तत्र पक्षे प्रातिपदिकार्थ एव प्रथमेति नियमपर्यवसानेन तद्वारणादिति । अत्र वदन्ति । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थ भवन्तीति न्यायेनैवार्थऽपि तत्सिद्धों सम्पूर्ण सूत्रं न कार्यमिति । इदं तु न सत् । अर्थनियममाश्रित्य मात्रग्रहणं सम्बोधने चेति सूत्रं लिङ्गादिग्रहणं प्रत्याख्यात्रा वार्तिककृता तद्धितश्चेति सूत्रे प्रातिपदिकग्रहणमनर्थयता भाष्यकृता च सह विरोधापत्तेः । अनभिहितसूत्रसार्थक्याय कर्तव्यः कट इत्यादौ तव मते प्रथमाविधायकात्पूर्वकर्तृकर्मणोरिति सूत्रस्य पाठेन परकृ- द्योगलक्षणषष्ठीमादायेति वददिनभिहितसूत्रे भाष्यकैयटतव्या- ख्यावृभिः सार्द्ध विरोधाच । एवं चार्थग्रहणस्य वितथत्वेऽपि प्रथमेत्येतावन्मात्रमेव सारमित्यालोचयाम इति न कश्चित् क्षुद्रोपद्रवः ॥ इति प्रथमा । कर्तुः किमिति । कारक इत्यधिकारसूत्रे कारकशब्द: क्रियापरः करोति कर्तृकर्मव्यपदेशानिति व्युत्पत्तेः । आप्नोते. सनन्तान्मतिबुद्धीति वर्तमाने कर्मणि क्तः तत्र केनाप्तुमित्यपेक्षाया:- वश्यं जायमानत्वेनाधिकारात् क्रिययेत्यर्थलाभेनैव सूत्रार्थोपपत्ती नार्थस्तद्ग्रहणेनेति प्रष्टुराकूतम् । एवं सति क्रिययाऽऽप्तुमिष्य- माणमित्यर्थ फलाश्रवस्थापि फलनिष्टजन्यतानिरूपितजनकताव- च्छिन्नत्वसंसर्गण तदाप्ततमेऽपि कर्मसंज्ञा स्यादित्वाशयेनोत्तरयति मापेष्विति । माषेषु बुभुक्षया प्रसक्तमश्वं मापनाशो माभूदित्यन्यत्र (१६८) फक्षिकाप्रकाशः। वनातीति तात्पर्यार्थः । मापेष्वित्यत्राधारसंज्ञायाः परत्वाद्भाधकं कर्मत्वं स्यादिति भावः । तदेवाह । कर्मण इति । वस्तुगत्या साक्षात्समवायसंबंधेन व्यापारस्य कनिष्टत्वेन त्रिष्यमाणे एव तत्सज्ञासंपत्तिमविष्यति । अत एव करित्यस्य प्रश्नोत्तगमावो भाष्ये इति कर्तुरिति चिन्त्यप्रयोजनमित्याहुः । तमग्रहणं किमिति । अवयवद्वारा समुदायस्य प्रश्नः । कर्तुरुद्देश्यं कर्मेत्ये- वास्तामित्यभिप्रायः । पयसौदनमिति । इदं च प्रत्युदाहरणं तदानीं यदाकृतभोजनोऽपि पयोलामेन भोजने प्रवर्तते। भोजनक्रियायाः पय उद्देश्यत्वात् । ईप्सिततमशब्दस्तु क्रियाशब्द एवं नाभिप्रेतपर इति स्पष्टं वारणार्थानामित्यत्र भाष्यकैयटयोः। तयाच पयसस्तदा फला- श्रयत्वनोविवक्षणान्न कर्मत्वमित्याशयः । तार्ह तमपः किं फलामेति वाच्यम् । कृपादंधं वारयत्यग्नेर्माणवकं वारयतीत्यादावंधमाण- वकयोः कर्मसंज्ञासंपत्तिरेव इतरथा वारणार्थत्यपादानसंज्ञास्या:- पवादो भवेत् । न चाग्निकूपयोः सा सावकागति शंक्यम् । तयोरपि तदुपस्थाप्य संयोगरूपफलाश्रयत्वेन कर्मत्वस्यैव प्रवृत्तेः । वार- यतेश्च संयोगायऽनुकूलव्यापाराभावानुकूलव्यापारोऽर्थः स एव प्रवृत्तिविघात उच्यते । न च संयोगो न तत्वतव्यापारमयोज्य इति तत्र कर्मत्वाप्राप्तिः कर्तव्यापाखाचकधातूपातफलाश्रयत्वस्यैव लामात् । तस्मान्माणवकादेः कर्मत्वसंपादकं तमपत्रहणम् इप्सि- नमाने सावकागस्यापादानत्वस्यमिततमेऽनेन वाधनात् । तत्वं च प्रकृतधात्वर्यप्रधानीमृतव्यापारमयोज्यप्रकृतधात्वर्यफलाश्रयत्वेनोहे- श्यत्वम् । वध नानिकृपाटी, केविन प्मिनतमम्यापीप्सित- विभक्त्याः। (१६९) त्वादिति प्रश्नः । उत्तरे तु ओदन एवेप्सिततमो न तु पयः । नहि केवलपयःपानेन संतुष्टिः किंतु तत्संस्कृतेनौदनेन पयसस्तथात्वे तु भवत्येव पयः पिवतीति । यद्यपि इंदं न सत् । वारणार्थसूत्रे स्वव्यापारजन्यफलाश्रयार्थकस्यैवेप्सितपदस्य भाष्यकृदुक्तेः अन्यथा कूपाद, धारयतीत्यादा कूपादेरीप्सितत्वामाबादपादानत्वानापत्तेः । तथापि वारणार्थसूत्रे क्रियाजन्यफलाश्रय एवार्थः । इह तु तम- ग्रहणात्क्रियाजन्यफलाश्रयत्वेन कर्तुरिच्छाविषयत्वमिति भेदः । पयो हि फलाश्रयत्वेन कर्मण एवेच्छाविषयः । अत एव कर्मणो यदीप्सितं तदपादानमित्युक्तं भाष्ये इत्याहुः । ननु पूर्वप्रक्रान्तमे- वाधिशीस्थासां कर्मेति सूत्रे कर्मपदं तदेवानुवर्ततामित्याशंक्य- मानं प्रत्याह कर्मत्यनुवृत्ताविति । एकयोगनिर्दिष्टत्वेनाधारस्याप्य- नुवृत्तावाधारस्यैव कर्मसंज्ञा स्यात्तन्निवृत्यर्थमिह कर्मपदमित्यर्थः । अयं भावः। आधारोऽधिकारणमित्यत्र कस्याधार इत्याकांक्षोदये कारकाधिकारात् क्रियाया एवेत्युपलब्धौ स्वतंत्रेप्सिततमपदाभ्यां साक्षात् क्रियाया आधारे कर्तृकर्मसंज्ञाविधानेन परंपरया तस्या आधार इत्यवस्थितौ योग्यतया कर्तृकर्मद्वारेव क्रियाश्रयस्याधि- करणसंज्ञा संपद्यते । एवं च का स्वनिष्ठव्यापारेणाप्तुमिष्यमाण- स्तन्निष्ठक्रियायास्तद्द्वाराधारः कर्मत्वं प्रतिपद्येत । ततश्च यस्य धातोः विषयतासंर्वधन विषये समवायसंबंधेन कर्तर्यपि तिष्ठति तस्येव योगे तत्स्यादित्याशयेनाऽऽह गेहं प्रविशतीत्यत्रैवेति । इत्यादावेवेत्यर्थः । इहोक्तसम्बन्धाभ्यां गेहचैत्रयोः फलं तिष्ठतीति भावः । यद्रा फलसमानाधिकरणव्या- (१७०) फविकारागः। पारवाचकत्वेनायमकर्मको धातुस्तथा चताशयाग एव तत्स्यादि- त्याशय इति स्थितस्य गतिश्चिन्तनीया । वस्तुगत्या एवं सति कर्मधारयोः परस्परापेक्षत्वेन सूत्रद्वयवाक्यार्थानुत्पत्यैव नाधारानु- वृत्तिः । अकर्मकधातुयोगे तत्करणे बदूपतवापत्तिश्च । अत एव कर्मानुवृत्वननुवृत्तिविधानामावो भाष्ये इति सुभिर्विमावनयिम् । अथ पञ्चकं प्रातिपदिकार्थो विभक्तयश्च द्योतिका इति माष्यनि- द्वान्तः। द्योतक्त्वं च सममिव्याहृतवृत्त्युद्धोधकत्वम् ।माध्ये कर्मा- दीनां विभत्तयर्थत्वव्यवहागेजप द्योत्यतयव । अत एव येक्यो- रित्यादीनां नियमत्वं बहुप्पिति सूत्रे भायायुक्तं संगच्छते । एवं मावकारककालसंख्याश्चत्वारो धातोग्वास्तिटश्च द्योतकाः । अत एव प्रकृत्यर्यविशेष्यको बोध उमयत्रेत्यायस्मत्कृतचिन्तामणा नागेशीये चोपपत्तिविस्तरः । अनमिहिंत इत्येतदमारे स्वादिसूत्रे णानिर्दिष्टार्या इति न्यायेन वादी संख्यायां च स्वादिना मिद्धे नियमत्वोपपत्तिः । तत्र यदा कर्मणोत्यादेयकयोरित्यादेचक्या- क्यतायामेकस्मिन् कर्मणीत्यन्वयेन सूत्रजनितवोधे कर्माद्यर्यपा- धान्यं तदा सूरजनितवोधविपरमधानविषयेणोक्तानामप्रयोग इति न्यायेनैव सिद्धेरनमिहितसूत्रं न कार्यम् । यदा तु मंगते एक्त्वे इत्यन्वयेन संरयायाः प्राधान्यं तदा कार्यमेव तत् । तथा चानुक्त एव विमक्तिरित्यमिमारणाह । अमिहिते त्विति । प्रथम- वति । अनमिहिताधिकार प्रातिपदिकार्यस्य प्रतिपदिके नोक्तन्वेपि सूनसामर्थ्यात्सा भवत्येवोत मावः । अत एवामिहित प्रयमोन कार्तिक मंगच्छने । इहत्याभिनधिः मागप्युक्तः ।
विभक्त्यर्थाः। (१७१) अत 7 कियद्भिरभिधानं भवतीत्यपेक्षायामाह प्रायेण तिङित्यादि । एव कटं भीष्मं कुर्वित्यादौ विशेष्यपदोत्तरो- त्पन्नद्वितीयया विशेषणगतकर्मत्वोक्तेऽपि विशेषणादपि संपद्य- ते द्वितीया । यदा तु प्रक्रियादशायां कटोऽपि कर्म भीष्मादयोऽपि कमति स्वीकारात्कटत्वविशिष्टकटनिष्टकर्मत्वोक्तावपि भीष्मत्वगुण- विशिष्टनिष्ठकर्मत्वस्य बोधनाय विशेषणादपि सा तदा परिगणनं प्रत्याचख्युर्भाष्यकाराः । तिङ्कृतौ स्वप्रकृत्यर्थ प्रति यस्य कर्मत्वं तस्य सर्वस्यापि कर्मत्वमभिधत्त इति न कृतः कटः सुन्दर इत्यादी द्वितीयंत्यादिकं नागेशीयचिन्तामण्योरवसेयम् । लः कर्मणि तिए- तस्झीत्यनयोरेकवाक्यतया तिङापि कर्मणोऽभिधानमित्यभिप्रेत्याह हरिः सेव्यत इति । प्रीत्यनुकूलव्यापारो भजेः सेवेश्चार्थः । कर्ता- दयस्तिङो द्योत्यार्थाः । तेषां विशेषणत्वं प्रकृत्यर्थस्य विशेष्यत्वम् । कर्तृलकारे व्यापारो विशेष्यः। कर्मलकारे फलं विशेष्यम् । एवं च चैत्रकर्तृको वर्तमानकालिको हरिकर्मक एको व्यापारः । चैत्र- कर्तृकवर्तमानव्यापारजन्या हरिनिष्ठा एका प्रीतिरिति शाब्दवोधः । उपपत्तिस्तु चिन्तामणी वोध्या । तेन क्रीतमित्यधिकारे शताच्च ठन् यताविति यता कर्मणोऽभिधानमाह । शत्य इति । शतेन क्रीतोऽश्वः शत्यः शतिकः । भाष्ये प्रायेणेत्यदृष्टमपि प्राच्यानुरो- धेन यदुक्तं तस्य फलमाह । कचिन्निपातेनेति । वस्तुगत्यात्र पछे तुमुनः साधुत्वायेष्यते इत्यस्याध्याहारश्वावश्यकः । अन्यथा क्रियाया उपपदत्वाभावेन तुमुन्ण्वुलाविति सूत्रामवृत्तेः । एवं च तिवाभिधानम् । तथाच विषवृक्षोऽपि संवर्य छेतुं यदिष्यते (१७२) फक्किाप्रकाशः। तदसांप्रतमन्याय्यमित्यर्थः । तादृशेच्छाया अन्याय्यत्वं च तदि- पयस्यान्याय्यत्वेन ज्ञेयम् । युक्तं चैतत् । इतरथा प्रथमाया आप कारकविभक्तित्वेन क्रियामंतरानुत्पत्तिः स्यात् प्रथमान्तकार- कस्य क्रियायामन्वयनियमेन प्राच्यनये संगतिश्च । अमें नारद इत्यवोधि म इत्यादौ नारद इतीति श्रीकृष्णीयज्ञानानुकरणं प्रथ- मान्तस्य वा प्रातिपदिकत्वान्न द्वितीया नारद इत्येतच्छन्दामिल- प्यमानाकारो बोध इति तदर्थः। एवं सर्वत्र वोध्यम् । मातेव हितकारिणीमिति त्वसाध्येवेति चिन्तामणी विस्तरः । विभागानु- कूलव्यापारानुकूलव्यापारो दुहादेर्थ इत्यभ्युपगमात् गां पयों दो- ग्धोत्यादी गोः पयस्त्यजति गवा पयस्त्याजयतीत्याद्यर्थप्रतीत्या कर्तुरित्येव कर्मत्वे सिद्धे व्यर्थमकथितं चेति सूत्रं तथापि यदा पयोनिष्ठविभागानुकूलव्यापारादिरेव तद्धात्वर्थस्तदापादानत्वाद्यवि- चक्षायामन्येनासिद्धकर्मत्वप्रतिपत्तये तदावश्यकम् । तत्र नदस्य शृणोतीत्यादी नदस्यापि कर्मत्वे प्राप्ते गानद्वारा श्रवणक्रियाननक- वरूपकारकत्वसत्त्वात् । न च कर्मयुक्वं धात्वर्यव्यापारात् माक् तदनंतरं वा तत्संबद्धत्वम् । तन्न सति संमवे प्रार संवद्धत्व- मेव ग्राह्यमत एव गां पयो दोग्धि स्थाल्यामित्यादी स्थाल्यादेर्न दोषस्तथा च कर्मयुक्त्वामावादेव न तत्र दोप इति वाच्यम् । तदंगस्यापि परिगणनलभ्यत्वात् । अतः परिगणनमुक्तम् । एवं प तद्राजसूत्रे पृच्छिपर्यायस्य चुदृढिकर्मकत्वसमर्पकमहमपीदं चोद्यं चोय इति भाष्यप्रयोगमममंजसं मन्वान आह । अर्थनि- बंधननि । परिगणितत्वेऽपि न म्वरूपाश्रयति मावः । इदं कयटा- विभक्त्याः। (१७३.) नुरोधेन । वस्तुगत्या तथा सत्याख्यातोपयोग इत्यत्र भाष्योक्त परिगणनत्वं भज्येत । दुहियाचिरुधिप्रच्छिाभक्षिचिजत्रुविशालय इति हि भाष्योक्तार्थकया चिग्रहणेनैव सिद्धे मिक्षिग्रहणं व्यय च स्यात् । प्रागुक्तभाष्यप्रयुक्तचुदेरन्येषां च येषां द्विकर्मकत्वमिष्टं तेषां व्यापारद्वयार्थकत्वेन कर्तुरित्यनेनैव सिद्धमित्यधिकं नांगे- शीये। कारकं किमिति । एतदभावे कर्मयुक्ते माणवकेऽपि तत्स्यात् । तस्यापि परंपरया योगात् तद्वारणाय तद्हणे कृतेऽपि क्रियान्वयित्वरूपस्य तस्य परंपरया आधारसंज्ञायामवश्यं स्वीकर्त- व्यायां माणवकेपि सत्त्वेन न तदोपनिर्मुक्तिः। एवं च प्रश्नानुप-- पत्तौ जिज्ञासायामत्र किम्शब्दः कारकमित्यस्य कोऽर्थ इति भावः । जिज्ञासितं च प्रत्युदाहरणमुखेन दर्शयति माणवकस्येति । करोति क्रियां निवर्तयतीति व्युत्पत्तिप्रदर्शकभाष्येण क्रियाजनकमिति तदर्थः । जनकत्वं चान्यथा सिद्धिशून्यत्वे सति नियतपूर्ववर्तित्व- मिति माणवके न दोषः। प्रश्नरूपकार्यस्य तत्पित्राऽन्यथासिद्धेः माणवकसंबंधिपितृकर्मकपथिकर्मकप्रश्नानुकूलो व्यापार इत्यादिकं. चिन्तामणौ विस्तरस्तत एवावगंतव्यः । गतीत्यादि किमिति । अन्यानधीनत्वरूपप्रधानत्वस्य प्रयोजकव्यापारे सत्त्वेन तदनुरो- धिकर्मत्वस्यान्तरङ्गादपि कर्तृत्वाइलवत्त्वेन कर्तुरीप्सिततममित्यनेनैव कर्मत्वं सिव्यतीति प्रष्टुर्भावः । एवं सिद्धे णिजथे-- नाप्यमाणस्य चेदू भवति तर्हि गत्यादीनामेवेति नियमार्थ तत्सूत्रमित्याशयेनोत्तरयति । पाचयतीति । एवं च शत्रूनित्यादौ शत्रवः स्वर्गमगच्छन् तान् श्रीहरिः प्रेरयति शत्र- , (१७४) फक्किाप्रकाशः। पोऽनुत्पन्ने णिचि कर्तारः उत्पन्ने णिचि कर्माऽभवन् । स्वर्गकर्मक- गमनानुकूलशत्रुकर्मकव्यापारानुकूलो हशिनेष्ठो व्यापार इत्यादि- बोधः । इह तु ओदनकर्मकपचनानुकुलदेवदत्तककव्यापारानुकूल- यज्ञदत्तनिष्ठो व्यापार इत्यादि वोधः । गत्यादियोगे प्रयोज्यस्य कर्मत्वशक्तिमत्तया तदतिरिक्तधातुयोगे प्रयोज्यस्य कर्तृत्वशक्तिम- त्तया वोधादित्येवं सर्वत्र वोध्यम् । स्पष्टं चेदं हेतुमति चेत्पत्र फणिभाष्ये । ननु गतिबुद्धीत्यत्र वोक्नं बुद्धिर्ज्ञानमित्यर्थस्य दृशा- दावपि पश्यायश्चेत्यत्र प्रमिद्धत्वेन सत्त्वाद्ध्यर्थत्वेन सिद्धे दृशेश्चेति वार्तिकं व्यर्थमित्यत आह । सूत्रे ज्ञानसामान्येति । अयं भावः । ज्ञानं द्विधा जन्यते । केवलान्तःकरणेन अन्तःकरणानुसन्धान- सहायचक्षुरादीन्द्रियपश्चकेन च । आद्यं सकलविषयत्वात् व्याप- कत्वेन सामान्य व्यपदिश्यते अन्त्यम् प्रत्येकं रूपादिविषयकत्वात् व्याप्यत्वेन विशेप इति । अनेनेति । वार्तिकारंभेणेत्यर्थः । ज्ञान- फलमाह स्मरेति । ननु शब्दं करोतीत्यर्थे शब्दंवगेतिक्यडन्ताद् णिचि शब्दायतेर्गतीत्यादिसूत्रेण प्राप्ती वार्तिकं विफलमित्यत आह धात्वर्थत्यादि । धातोरर्थान्तरे वृत्तेर्धात्वर्थनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकामका क्रियेत्यभियुक्तोक्तः । शब्दरूप- कर्मणो धातुना क्रोडीकृतत्वादिति भावः । एवं चाकर्मकत्वमयु- क्तस्यापि कर्मत्वस्य मतिपेधार्यशब्दायनेनेति चार्तिकमिति कैयटा- दयः । अन्ये तु शब्दरूपकर्मणो धात्वर्थसंगृहीनत्वेऽपि पहि{त- पुत्रादिकर्मणोऽत्रामारे मानाभावः । अत एव गन्दकर्मेत्यत्य डान्द्रक्रियाणामिति पक्षे हायनिकंदयतिगव्दायतीनां प्रतिपेध विभक्त्योः। (१७५) उक्तो भाष्ये न तु शब्दकर्मणामिति पक्षेऽपि कैयटादिमते त्वक- मकत्वेन पक्षहये प्रतिषेधस्यावश्यकत्वेनैकपक्षे प्रतिषेधं विदधतो भाष्यस्यासंगतिः । एवञ्च सकर्मत्वाद्गतीत्यादेप्राप्त्या शब्दायतेनैति प्रतिपेधश्चिन्त्य इत्याहुः । गतीत्यादीति सूत्रं नियमस्य सजा- तीयापेक्षत्वात्सकर्मकाणां चेतेपामेति नियमपरम् एवं सिद्धेऽ- कर्मकग्रहणं सामर्थ्याद् देशकालादिभिन्नकर्माभावतो ग्रहणार्थ- मित्याशयेनाह । येपामिति । देशकालादीत्यादि नाभावाऽध्वनोः संग्रहः । अत्रेति । अत्रैव सूत्रे इत्यर्थः । इह शास्त्रे सर्वत्राविद्यमान- कर्मकाणामेवाकर्मकपदेन ग्रहणमिति कैयटोक्तं तु न युक्तम् । कृतपूर्वाकटमित्यादौ कर्मणोऽविवक्षया भावे क्तस्य भाष्यकैयटा- दावुक्तत्वात् । अधीगति सूत्रे कर्मणः शेषत्वविवक्षयाऽकर्मकत्वे मातुः स्मर्यते इत्यत्र भावे लकारस्य महाभाष्ये उदाहतत्वाचति दिक् । नत्वविवक्षितति। अत एव नहि कश्चिदपि कालभावा- ध्वभिरकर्मकः सम्भवतीति सामर्थ्यात्तभिन्नकर्माभाववतो ग्रहण- मित्युक्तम् गतिवुद्धीत्यत्र भाष्ये यदि ह्यत्राविवक्षितकर्मकाणां ग्रहणं स्यात्तदा क्रियामात्रविवक्षायां कालादीनामविवक्षितत्वात्तैरप्यकर्मकत्वं संभवत्येवति भाष्यस्यासंगतिः स्पष्टवत्यधिकं नागेशीये। ननु अल्पान्तरत्वेन पूर्वनिपाते कर्तव्ये तदकरणेनाभिनीत्येताह- शानुपूर्विकसमुदायस्य ग्रहणात् निविशते यदि शूकशिखापदे सृजति सा कियतीमिव न व्यथामिति नैपधीयपद्यस्य निष्प्रत्यूह- त्वेऽपि पापेऽभिनिवेश इत्यत्रापि कमत्वं दुर्निवारमित्यत आह परिक्रयण इत्यादि। अन्यतरस्यामितीदमखंडमव्ययं विकल्पार्थ- फक्किाप्रकाशः। समर्पकं विकल्पेंऽशद्वयं निषेधो विधिश्च । अत्रानुवृत्तिसामर्थ्या निषेध एवाश्रीयत इत्युपपादयितुमाह । व्यवस्थितेति । विशेषोऽ- वस्थिता निषेधरूपेत्यर्थः। फलितमाह कचिन्नति । अत्र बीज तु एष्वर्थेष्वभिनिविष्टानामिति समर्थसूत्रभाष्यप्रयोग एव । अन्ये तु उक्तभाष्यप्रयोगादभिनिविश् इत्यानुपूर्व्या अविकृताया एव । यत्र श्रवणं तत्रैवैतत्सूत्रप्रवृत्तिः । तथा च मण्डूकप्लुतौ व्यव- स्थिताश्रयणे च न मानमित्याहुः । वस्तुगत्या तत्रानुपूर्वी सूत्रगता सविसर्गा धातुगता हलन्ता प्रयोगगताऽदन्ता इति नेकविधा चेत्यानुपूर्व्या भेदेनाविकृतेति कस्य विशेषणमित्यव्यवस्थिते- यत्नातरमेवाश्रयणीयं किश्चैतत् सूत्रं पति पत्वविधेरसिद्धत्वा- दविकृतवास्यानुपूर्वीत्यपि मुवचमिति मूलकृतोऽभिप्राय इति वदन्ति । जपमनु प्रावर्षदित्यत्र लक्षणं तज- ज्ञानेन हि कालविशेषविशिष्टा वृष्टिाप्यते । लक्षणत्वं च ज्ञान- जनकज्ञानविषयत्वं तच्चानुना द्योत्यं, द्वितीयार्थञ्च लक्ष्यलक्षण- भावसम्बन्धः एवं च जपाभिन्नहेतुज्ञानजन्यज्ञानविपयो वर्षण- मिति बोधस्तथा चास्यापि हेत्वर्थे प्रवृत्तिरित्यभिप्रायेणाह परापीति । अयमाशयः हेतुत्वाविवक्षणे लक्षणे कर्मप्रवचनीयसंज्ञायाः वृक्षमनु विद्योतते विद्युदित्यनावकागः । हेताविति तृतीयायास्तु धनेन कुलमित्यत्र । प्रकृते हेत्वाविवक्षायां विप्रतिषेधशास्त्रमहिम्ना तृतीयेव प्रासति । वाध्यते इति । न चेद निशम्येत्यध्याहृत्य कर्मणि द्वितीयास्तु । उपपदविभक्तरि- त्यनेन देवतीया निवारिता । अनोः कर्मप्रवचनीयसंज्ञया गति- जपः - विभक्त्यर्थाः। (१७७) संज्ञाबाधनाद्गतिर्गताविति निघातो निवर्तितः । कर्मप्रवचनीययुक्त इति द्वितीया वृक्षं प्रति विद्योतते विद्युदित्यादौ चरितार्थति स्पष्टं कैयटे; एवं च वाध्यते इति रिक्तं वच इति शक्यम् । अनुना जप- स्यासंवन्धादुक्तवोधानापत्तेः । पुनः संज्ञेति । ननु च सजातीयस्थले बाध्यवाधकभावो दृष्टः विजातीयत्वात्संज्ञया विभक्तिवाघोऽशक्यः कर्तुमिति वाच्यं, पुनः संज्ञाकरणवोधितपुनर्द्वितीयाविधानसाम- दिति विवक्षितार्थत्वात् । नन्विह तृतीयार्थ इत्यनेन सिद्धेड- नुर्लक्षणे इति व्यर्थमिति चेन्न द्वयोर्विषयभेदात् । तत्र हि तृती- यापदेन तन्निमित्तशब्दः सहयुक्त इत्यत्रोपात्तोऽनंतरत्वात्सहशब्दो लक्षितस्तदर्थे साहित्ये द्योत्ये इत्यर्थोऽत एव नद्या सहेत्यर्थ सम- नंतरं वक्ष्यति । क्रीडोनुसंपरिभ्यश्चेत्यत्र प्रथमे कैयटे स्पष्टश्चाय- मर्थः । एतेन न चेह तृतीयार्थ इति सूत्रेण गतार्थत्वं शंक्यं पुरस्तादिति न्यायेन सहयुक्ते इत्येतन्मात्रवाधकत्वादिति मंदो- क्तमपास्तम् । अपिः पदार्थत्यत्र पदस्याप्रयुज्यमानपदांतरस्यार्थः पदार्थस्तत्र विदुरित्यादेः पदस्यार्थोऽपि द्योत्यः । एवं च सर्पिपोऽ- पि स्यादित्यस्य सर्पिपो बिंदुराप स्यादित्यर्थः । तादृशोत्प्रेक्षा- मभिव्यंजयितुमाह । संभावनायां लिङिति । उपसंवादाशंकयो- वेति सूत्रे भाष्यपठितेनोपसंवादाशंकयोलिङिति वार्तिकेनोत भावः । सुत्रमिदं यद्यपि छांदसं तथापि वार्तिकं लोकवेदसा- धारणमिति तत्रैव स्पष्टं भाष्ये । न चाशंकानामोत्प्रेक्षा, ततश्च कथमुक्तार्थेऽपि वार्तिकमाप्तिः । संभावनाया अप्युत्कटकोटिका- . शंकारूपत्वात् । नन्वेवं विद्यादिपदार्थ एवं यद्यपेोत्यस्तर्हि (१७८) फक्किाप्रकाशः। स्यादित्येतत्पदवाच्यक्रियया संबंधाभावेनायोगात् पत्वादेरमसक्ती गत्युपसर्गसंज्ञयोधेि. फलाभावादलमपेः । कर्मप्रवचनीयसंज्ञाभि- निवेशक्लेशेनेत्याशंक्याह तस्या एवेति । संभावनाया एवेत्यर्थः । तथा च विदोस्तदीर्लभ्यप्रयुक्तदौर्लभ्यसंबन्धस्य च संभावनामि- व्यजितस्यापोत्यत्वात्तत्संबंधन स्यादित्यनेनान्वयानोक्तदोष इति भावः। विपयभूते भरने इति । धातुना लिडा च माव- नैवोपस्थाप्यते । याद्या आर्थी भावना, अंत्या तु शब्दरूपत्वा च्छाब्दीत्युद्धोपः । तत्र धात्वर्थमावनायाः प्राधान्यं तयो संबन्धो विपयविपयिभावरूपः । एवं च पचेदित्यादी प्रेरणावि. पयः पचनमितिवदत्रापि लिडयसंभावनाया विपयो भवनरूपी धात्वर्थ इत्याशय इत्यन्यत्र विस्तरः । मदुक्तामेव गतिमाह । कदोर्लभ्येति । कर्तुर्विदोदौलभ्यं तेन प्रयुक्तं दीर्लभ्यं तेन तपसंबंधेन भरनक्रियायां स्यात्पदवाच्यायामपि द्योत्यविदोः कर्तृतया तद्दयोत्योक्तसंवन्धेन चान्वयादितिमाव- स्तदाह अपिशब्दवलेनेत्यादि । पदार्थद्योतकता नाम । अप्रयु- ज्यमानबिंदुरुपपदातरार्थद्योतकता नाम । ननु कर्मप्रवचनीय- द्योत्येऽर्थे सर्पिपोऽन्वयेन तस्य कर्मप्रवचनीययुक्तत्वात् द्वितीया स्यादत आह नेहेति । न त्वपिनेति । विदुना तद्योगेऽप्यपि द्योत्यसंबंधेनानन्वय इत्यर्थः । कर्मप्राचनीयद्योत्यसंबंधमातियो- गित्वमेव कर्मप्रवचनीययुक्तत्वं प्रकृते चापि द्योत्यस्योक्तसंबंधस्य विदुः प्रतियोगी न तु सपिरिति मावः । यदा तु स्पटमतिपत्तयेऽ- पि द्योत्यस्यापि विदोः प्रयोगस्तदापि द्वितीयां याधित्वोपपद- ', " विभक्त्याः । (१७९) विभक्तेरिति प्रथमैव शाब्दबोधस्तु सर्पिरवयवबिंदुदौर्लभ्यप्रयुक्त- दौलभ्यवती विंदुकका संभावनाविपया सत्तेति । तमग्रहणं किमिति । रामेण वाणेनेत्यादौ वाणः स्वगतक्रियया प्राणवियो- गादिसिद्धौ प्रकृष्ट उपकारकः प्रकर्षस्तु चयापारानन्तरम- व्यवधानेन फलोत्पादस्तद्रूपः रामश्च कर्ता स च . कर्तृप्रत्यय- समभिहारे प्रधानीभूतधात्वर्थाश्रय इति नागेशीयचिन्तामण्यो- रुपपत्तिविस्तरः । एवं च कारकाधिकारात्करणल्युडतकरणति महासंज्ञया च साधकत्वे लब्धे साधकग्रहणमेव साधकतमार्थ भवि- प्यतीति.प्रष्टुराकूतं, गंगायां घोप इति । आधार इति । सूत्रेऽप्ये- वरीत्याधिकरणमित्याधिकरणल्युडंतमहासंज्ञयैव सिद्धे आधार- ग्रहणसामात्सर्वावयवव्याप्त्या य आधारः सोऽधिकरणसंज्ञा स्यात् तथा चेदं सूत्रं तिलेपु तैलं दनि सपिरित्यादावे प्रवर्तत गंगायामित्यत्र नैव स्यात् संज्ञा, नहि सर्वावयवैगंगाव्याप्त्या तीरें वा, तीरधर्मस्य घोपाधारत्वस्यात्यंतसामीप्यात्प्रवाहेऽत्रारोपो वोध्यः शक्यतावच्छेदकारोप एव लक्षणा चतुर्भिः प्रकारेतस्मिन् स इत्येतद्भवति तादात्सामीप्यात्साहचर्यात् तास्थ्यादित सूत्रे चतुर्विधस्यैव संबंधस्य लक्षणानियामकत्वोक्तेः उदाहरणानि तु गौर्वाहीको गंगायां घोषो यष्टी प्रवेशय मंचाः कोशंतीति यथा- संख्यं वेदितव्यानीत्यन्यत्र विस्तरः । तथा चातिरिच्यमानं तम- ग्रहणमस्मिन् कारके प्रकरणे प्रकारार्थबोधकपदं विनाशब्दसाम- र्थ्यगम्यः प्रकी नाश्रीयते इति ज्ञापयति. तेन गौणाधारस्यापि संज्ञा सिध्यति । एवं गंगायां गाव इत्यादिकमुदाहरणम् । सर्वा- , (१८०) फकिकामकाशः। वयवव्याप्त्यभावेन मुख्याधारत्वाभावादिदं सर्व स्पष्टं प्रकृतसूत्रे फणि- भाष्ये । अन्ये तु तदाक्षेपकरणासमर्थ प्रति आधारादिपदं चरि- तार्थम् आध्रियतेऽस्मिन्नित्याधार इत्येतदर्थमाधारपदमित्याहुः मकृतसूत्रस्वरितसूत्रस्थभाष्यपक्षयोरेकतरपक्षस्वीकारेऽपरोपमर्दस्या- वश्यकत्वेनोपस्थितत्वात् प्रकृतसूत्रस्थ एवं ज्यायानिति मूलकाराशयं वर्णयन्ति साधकपदमप्यव्यवहितफलोत्पादकलाभार्थ- मावश्यकम्, एवं चाधारादिपदे स्वारतत्वप्रतिज्ञयाधिकः कारोऽ- धिकारः अधिकामिति तदर्थः तेन गौणाधारस्यापि ग्रहणं तथा च व्यवधानेन फलोत्पादक करणत्वोपचारेण तृतीयांतमयोगस्या- साधुत्ववोधनं तमप्फलम् । एतेन तमपा गौणमुख्यन्यायांप्रवृत्तिः कारकप्रकरणे वोध्यते इति परास्तं स्पष्टं चेदं स्वरितनेत्यत्र महा- भाष्ये । सहयुक्त इत्यत्र पृथगविनानानाभिरितिवत्सहेनति वाच्ये युक्तग्रहणं शब्दविशेपानादरेणार्थयोगे भवत्वित्यर्थमत एवोक्तमेव साकं सामिति । अत एव कचिच्छन्दयोग मिनापि भवतीति तदाह विनापीति । न्यायसिद्धेऽथे लिंगमप्याह वृद्ध इति । सहार्थः साहित्यं सममिव्याहतक्रियादिसमानकालिकतक्रियादिमत्त्वम्, यस्ति चेदं पुत्रेण सहेत्यादी । न च मापवापोत्तरं तर क्षेत्रे तिलवापे तिलः सह मापान् वपतीत्यन दोपः समानेत्येतदने देगेत्यस्यापि निवेशात् । ननु पुत्रेणेत्यत्रागमनक्रियाकर्तृत्वादेव तृतीया सिद्धा सत्यं, पुत्रेण सह स्थूल इत्यस्यैव मुख्योदाहरण- स्वात् । न चाप्रधानग्रहणं प्रत्याख्यातं ततश्च स्थूलादेरपि तृती- यापत्तिः । उपपदविमक्तरिति न्यायेन प्रथमाया एव बलीयस्त्वादि- विभक्त्यर्थाः । (१८१) त्युक्तं भाष्ये । एवञ्च प्रथमाया अपि कारकविभक्तित्वमिति स्पष्टमेव भाष्ये उक्त कारकविभक्तित्वं च क्रियाजनकत्वार्थकविभक्तित्वम् एतेन प्रथमायास्तन्नास्तीति नव्योक्तमपास्तम् । अधिकं चिन्ताम- जेवसेयं, हेताविति सूत्रण न शब्दस्वरूपं गृह्यते, सप्तमीनिर्देशात् । निमित्तकारणेति सिद्धेश्च स च लौकिक: फलसाधनीभूतो गृह्यते न तु तत्प्रयोजको हेतुश्चेति परिभापितः । तस्मात्कर्तृत्वादेव तृतीया, सिद्धेः । ननु लौकिकतोरपि तृतीयाकरणत्वादेवोपपद्यतेऽतो हेतु- करणयो दमाह द्रव्यादीति । आदिना गुणक्रिये, हेतुः क्रियान्व- य्यपि द्रव्यगुणयोरप्यन्वयस्तस्येत्याह । साधारणमिति । करणं तु क्रियामात्रजनकमिति भावः । वैषम्यान्तरमप्याह निर्व्यापारेति । व्यापाररहितमित्यर्थः । करणं तु व्यापारवदेवेति भावः । एवञ्च प्रतियोगित्वात् ततः करणत्वस्य बैलक्षण्यापलब्धाऽवपि स्फुटप्रति- पत्तये पुनराह । करणं त्विति । दंडेनेति । दंडनिष्ठजनकतानिरूपि- तजन्यताश्रयो घटः निरूप्यनिरूपकभावसंसर्गः पुण्येनेति । पुण्य- हेतुकदर्शनाश्रयो हरिरित्यर्थः । अत्र दंडे व्यापारसत्त्वेऽपि क्रिया- जनकत्वाभावान्न करणत्वं पुण्ये क्रियाजनकत्वेऽपि व्यापारराहत- त्वान्न करणत्वम् । नन्वलं श्रमेणेत्यादौ क्रियावाचकपदाभावाद- प्रतीतेः क्रियायाः कथमत्र करणसंज्ञेत्यत आह गम्यमानापीति । न तु श्रूयमाणैवेत्याशयः । प्रविश पिंडीमितिवाक्यार्थ वाक्यैकदेश- प्रयोग इत्यादिना स्पष्टमिग्यण इत्यत्र भाष्ये । अलमिति निषेधा- र्थकं तदाह । साध्यं नास्तीति ।साध्यमित्यस्य नामत्वेऽपि प्रकृतिमा- गस्य क्रियात्वादस्ति क्रियायोगाअत एव काष्ठैः पाक इत्यादि संगछते (१८२) फक्षिकाप्रकाशः। इत्याह । इह साधनेनेति । ननु रुच्यभिलापयोरेकार्थत्वादर्थ- ग्रहणसामर्थात्परामपि कर्मसंज्ञां वाधित्वा हरिमत्तिमभिलप्यती- त्यत्रापि संप्रदानसंज्ञा स्यादित्याशंक्यानयोर्भेदमाह । अन्यक- तूक इति । अभिलष्यति कत्रपेक्षया यदन्यदभिलष्यति कर्म तत्कर्तृक इत्यर्थः । हरिक्तिमभिलप्यतीत्यत्र भक्तिविपयक इच्छादिरूपो व्यापारोऽर्थः । हरये रोचते इत्यत्र तु हरिनिष्ठप्री- त्यनुकूलव्यापारोऽर्थ इति तयोरथभेदानोक्तो दोप इति भावः । तदाह हरिनिष्ठोत, प्रीयमाणः किमिति, एतदभावे रुच्यानांप्रयोगे कारक संप्रदानं स्यादिाते सूत्रार्थ जायमानेऽपि शेपत्वविवक्षायामस्य चारितार्थ्यन परत्वादधिकरणसंज्ञवैव भाव्यम्, एवञ्च पयो न दोप इति शंकितुर्भावः । शेपत्वविवक्षया चरितार्थत्वं नापवादत्वनिवार- कमन्यथा सकलकारकमारणे यथासम्भवमपवादत्वप्रतिपादकपरा याकरग्रन्था रच्छिोरन् किंतु कारकत्वविवक्षायामेर । तचान नास्तीत्यपवादत्वात्पथाऽपि संप्रदानत्वं स्यादित्यभिश्रयन्नाह । पति । एतेनाधिकरणसंज्ञायां न दोपः प्रीयमाणपदं तु परत्वा- कर्मत्वेन देवदत्तं रोचते इत्येतन्निवृत्त्यर्थमित्युक्तिश्चिन्त्या । एवं इलाघधारेस्पृहयतेरित्येतेपा शंकोत्तराशयी वेदितव्यावि- त्याहुः । नन्वीप्सितशब्दः क्रियापरो नाभिप्रेतपरस्तथा च तमपमन्तरेणेप्सिते एव च संज्ञास्ति तत्विमुच्यते इप्सितेति । किमुच्यते च प्रपतीत्याशंक्य स्पृहधातुरिच्छामानवाची फलारच्छिन्नेच्छावाची च । आये संप्रदानत्वमंत्ये कर्मत्व- मिति गृहाभिसंधिनाह । ईप्सितमाने इत्यादि प्रतिक्षायां विभक्त्यर्थाः। (१८३) फलाश्रयत्वेन विवक्षायां, परत्वादिति । संप्रदानत्वस्य क्रियाजनक त्वेनाद्यर्थे चारितार्थ्यनापवादत्वाभावादिति भावः । चतुर्थीसमवधाने पुष्पसंप्रदानिका ‘इच्छेति बोधः । द्वितीयासमवधाने पुष्पक मिकेति बोधः । कुमार्य इव कान्तस्य त्रस्यंति स्पृहयान्त चत्यादौ. तु क्रियासम्बन्धिमात्रविवक्षया षष्ठी । ननु चित्तदोपरूपता सर्वपामस्तीत्येकतरेणैव सिद्धिमाशंक्य भिन्नार्थ कत्वमाह । क्रोधोऽमर्षः । वाक्चक्षुरादिविकारानुमेयः प्ररूंढकोपः, अपकारः । अपकारविपयेच्छा । अक्षमा उत्कर्षविरोधि- धर्मारोपानुकूलो व्यापारः । गुणेषु, गुणविषयेषु, दोषः, दोपत्वं, कोपप्रभवा इति । क्रोधादिषु कोपाव्यभिचारादिति भावः ।, तदुक्तं न ह्यकुपितः क्रुध्यति न चाकुपितो द्रुह्यति इत्यादि भाष्ये । अत एवाह विशेषणं सामान्यनोत । उक्तभाष्यात् प्ररूढकोप एव क्रोध इति कुपेस्तदर्थत्वाभावात्तद्योगेनापादनत्वं यस्मै कुप्य- सीत्यादिकं त्वसाध्वेवेत्याहुः । पत्ये शेते इतिवत् क्रियया यम- भिप्रैवीति वार्तिकेनोक्तप्रयोग केचित्समर्थयते । स्वरूपमित्यस्य यत्नान्तरेणानिर्धार्यत्वात्स्वरूपस्यैव ग्रहणे इष्टासिद्धिं मत्वाह । अलमिति । अलमित्यनेन पर्याप्त्यर्थग्रहणं व्याख्यानादित्यर्थः । तत्र ज्ञापकमप्याह, तस्मै प्रभवतीति । प्रभुप्रभवतिभ्यामर्थो गृह्यते न तु स्वरूपम् । अत एवोक्तं भाष्ये प्रभुमल्लाय प्रभवति मल्लो मल्ला- योति तेन प्रभविष्यति मारणाय यज्जननीत्यादिसिद्धिः, षष्ट्या: साधुत्वे वीजमाह । स एषां ग्रामणीति । भाष्ये आशीविपये पष्टीं बाधित्वा पूर्वविप्रतिषेधेन चतुर्थी भवतीत्युक्तं तदर्थं व्याख्यातुमाह (१८४) फक्किाप्रकाश चकार इति । आशीविक्षायामिति आशीविषयत्वविवक्षायामित्यर्थः । परामपीति । स्वस्तियोगे चतुर्थ्या अवकाशः स्वस्ति जाल्मायति । अत्र तत्वकथनं जाल्मत्वादाशीरभाव इति कैयटः । स्वस्तिभिन्नाः कुशलार्थास्तु पठ्या अवकाशः । मन्यकर्मणीत्यत्रानमिहिता- धिकारेण मन्येति न यका निर्देशस्तद्योगे कर्मण उक्तत्वेन चतु- र्थ्यप्रवृत्तेरिति तादृशरूपं निश्चित्याह .। श्यनेति । एतेन यका निर्देशो नास्ति व्याख्यानादित्युक्तिाश्चन्त्या इयन तूपलक्षणं लिहा- दापि भवति तध्वनयन्नाह तानादेकेति । तमादी भवतत्र मर इति ढक् तेन तृणाय मत्वा रघुनन्दनोऽपि वाणेन रक्षः प्रधनान्निरास्यदिति भट्टिमयोगो व्याख्यातः तत्र मत्वेति रूपं देवादिकस्यैव इडभावदर्शनात् चेष्टायां किमिति । गत्यर्थयोगे विभक्तिविधानेन कियारूपत्वेन धात्वर्थामासादिष्ट एवेति प्रश्नः । धात्वर्थमासनेऽप्यभिमतायें तदित्याशयेनोत्तरयति । मनसेति । शारीरव्यापारस्यैवान ग्रहणादिति भावः । अत एव करचरणा- दिव्यापारश्चेष्टा इत्युक्तं भाष्यादौ । अनध्वनीति किमिति । एतदुक्ते कुन न मातीति जिज्ञास्यते तत्र स्वरूपमिति वचनात्स्व- रूपस्यैव ग्रहणे प्राप्तेऽध्वन्यर्थग्रहणं कर्तव्यमिति मायोक्तेः पर्याया- दपि चतुर्थी न भवतीत्यमित्य विज्ञापयति । पन्यानमिति । गत्यर्थर्माण चतुर्थी रेत्येवास्तु किं द्वितीयाग्रहणेन अपवादपि- पयेऽपि द्वितीयाविधानार्थत्वात्तद्रहणस्य । तेन आमं गंतेत्यत्र कृयोगलक्षणपष्ठी न भवतीति कैयत्तिकारादयः । अत्र वार्ते- नम् । आस्थितमतिपेयश्चेति यत्र भूते फर्माण का आस्थितः विमक्त्याः। (१८५) आक्रान्तः । तथा च क्रमणव्यापारजन्यफलाश्रयस्याध्वनः प्रतिषेध इति तदर्थस्तदाह गंत्राधिष्ठितेति । गंतृशारीरकक्रियाजन्यफलाश्रय इत्यर्थस्तेन पन्थानमित्यत्र चतुर्थी अस्या उक्तेयावृत्तिमाह यदा त्वित्यादि । उत्पथात् उत्पथं संत्यज्य ल्यप्लोपे पञ्चमी, इष्यते न तु आक्रान्तः उत्पथेन गंतुमशक्त इति शेपः । ननु स्वियं गच्छति अजां नयतीत्यादौ स्यादेव चतुर्थी मैवम् । अध्वपदेन गंतृप्राप्यार्थस्याभिधानात् स्त्रियाश्च प्राप्तत्वात् । पथोऽपि यत्राप्रा- तत्वं तत्र भवत्येव चतुर्थी । नयतेस्तु न गतिरर्थस्तस्य प्रापणान्व- यित्वादित्यत्रैव कैयटः । ननु घटाद्भिन्न इत्यादौ पञ्चमी कथमत आह अन्येत्यर्थेति । भेदवानन्यार्थः तीतरग्रहणं किमर्थमत आह प्रपञ्चार्थमिति । न च इतरस्त्वन्यनीचयोरित्यमरान्नीचार्थ- कस्येदं ग्रहणमिति वाच्यम् । अस्मात्तारो मन्दो वेत्यादाविव पञ्च- -मीविभक्तेः । इति सिद्धे । ननु इतरदिति निर्दिश्यमानप्रतियोगिक एव प्रयुज्यते तद्यथा चैत्रः शूर इतरः कातर इति । अतो नायम- न्यार्थ इति चेन्न । प्रतियोग्याकांक्षाया उभयत्र तद्वदन्यः कातर इत्यास्यापि वक्तुं शक्यत्वेन तुल्यत्वात् उक्तामरकोशविरोधाच । अन्ये तु ध्रुवमिति सूत्रेऽपायशब्देन भेदस्यापि ग्रहणां पञ्चमी- विभक्त इति सूत्रे विभागार्थकविभक्तपदेन भेदेन व्याख्यानात् अत एव घटा द.इति सिद्धं तद्योगेऽप्यपादानत्वात् अन्यशब्दार्थ- स्याक्रियात्वात्तद्योगे एतद्विधानमत एव घटः पटो नेत्यादौ न पञ्चमी । नजो भेदवदर्थकत्वेऽपि अक्रियात्वात् अत एवेतरग्रहणं चारितार्थ्यम् । अत एव भाष्येऽर्थग्रहणं नोक्तमित्याहुः । ननु (१८६) फावकाप्रकाशः। प्रागादिपदानां दिग्वाचकत्वाव्यभिचारात्तेनैव तसिद्धिरित्याह । अंचूत्तरपदस्योत । नन्वदिगर्थसम्यक्पदयोगे पंचमीविधानाय तद्- हणमिति चेन्न । दिक्शब्दसाहचर्येणांचूचरपदस्यापि दिग्वाचक- स्यैवात्र ग्रहणात् । न च समनन्तरं दिक्शब्दस्य देशकालार्थत्वोक्ते दिगर्थत्वस्य व्यभिचार इति वाच्यम् । शब्दग्रहणसामर्थ्येन ताह- शार्थपरत्वेऽपि स्वतो दिगर्थचारात् । वाधितुमिति । परत्वात्माप्त: मित्यादि, परत्वेऽपि प्रतिपदविधित्वादिदमेव वाधते इति भावः । पष्टयतसर्थत्यत्र प्रत्ययग्रहणात्तस्य श्रूयमाणप्रत्यय एवं प्रवृत्ति- स्तदेदं न कर्तव्यमिति तु तत्त्वमिति स्पष्टं भाष्ये । नन्वासकलाद्र- झेत्यभिविधौ न स्यादत आह वचनग्रहणादिति । मर्यादायामिति वाच्ये वचनग्रहणसामर्थ्यात् अवधिमात्रं विवक्ष्यते तेन विनति मर्यादा तेन सहेत्यभिविधिरिति वृद्धोक्तौ तेनति विशेषणांशस्तु न विवक्षित इति भावः । यदा मर्यादति शब्द उच्यतेऽस्मिन् तन्म- र्यादावचनमाइमर्यादाभिविध्योरिति सूत्रं तत्र य आङ् दृष्टः स उक्तसंज्ञ इत्यर्थः । शेपे किमिति । दिवस्तदर्थस्येत्यादिना विच्छे- दादनेनापि करणकारके एव पष्टींविधानं युक्तमिति प्रश्नः । द्विर- हीति वृत्यादिमामाण्यान्मंडूकानुवृत्तिराश्रयणीयेत्युत्तरम् कृति किमिति । कर्तृफर्मपदाभ्यामन्यथानुपपत्त्या क्रियाक्षिप्यते तद्वाच- कश्च धातुरेव । तस्माच इये प्रत्ययास्तिटः कृतश्च तत्राद्ययोगे न लोकति निषेधात् कृयोग एव पर्यवसानं न च न लोकेत्यकृदव्य- यस्याग्रहणार्य तत् । तत्राव्ययार्थस्य ये कर्मणी हात व्याख्या- 'नेनैवष्टसिद्धः । न चोमयमाप्तापित्यवान्यपदार्थसमर्पकं तदिति विभक्त्याः। (१८७) वाच्यम् । एकाचो । इत्यादी धातुलाभवव्याख्यैव कृतीत्येत- ल्लाभात् । ननु देवस्तेन शत्योऽश्व इत्यादौ षष्ठीप्रतिपेधार्थ तदिति चेन्न । विवक्षितक्रियाया अभावेनेह पष्ठ्यप्राप्तेः । कारकान्वययो- ग्यभावक्रिया धातूपस्थापितैव न तु तद्धितायुपस्थितेति स्पष्टमत्रैव द्वितीये भाज्ये । तस्मात्कृद्योग एव पर्यवसानात्किं तेनेति प्रष्टुराकू- तम् । समाधत्ते । तद्धित इति । तद्धितान्तशक्तिंग्रहमात्रप्रयोज्यो- पस्थितिविपयायाः क्रियायाः कर्तरि कर्मणि च .मा भूदित्यर्थः । कृद्धहणेन तु कृटनशक्तिग्रहप्रयोज्योपस्थितिविषयक्रियायाः कर्तृ- कर्मणोः पष्ठति सूत्रार्थः संपद्यते । ननु तण्डुलानां पाचकतर इत्यत्रापि न त्यात् मैवं पाचकादेस्तद्धितं विनापि प्रयोगात्त- च्छक्तिग्रहसत्त्वेन कृदन्तशक्तिग्रहप्रयोज्योपस्थितिविपयत्वस्य क्रियायाः सत्त्वात् । एतेन तद्धिताधिक्ये मा भूदित्येतदर्थ कृदः हणं तण्डुलानामित्यत्र पष्टी त्वसाध्वीति नव्योक्तमपास्तम् । अत एव तद्धितस्य ये कर्तृकर्मणी तत्र मा भूत्कृतो ये तत्रैव यथा स्थादित्येवममित्युक्तमत्र भाष्ये न तु त्वदुक्तम् । कृतपूर्वी कट- मिति । पूर्व कृतमननोत विग्रहेऽविवक्षितकर्मतया भावे क्ते पूर्वा- दिनिः सपूर्वाञ्चेतीनिस्तदनन्तरं कटरूपकर्मणोऽन्वयः अनभिहिता- धिकारेऽप्युक्तरीत्या कर्मणोऽनभिहितत्वात्पष्ठी स्यात्तद्वारणाय कृद्धह- णम् । इह च तद्धितान्तशक्तिग्रहणप्रयोज्योपस्थितिविपयाक्रिया- कर्मणस्सत्त्वेन कृदन्तशक्तिग्रहणमात्रप्रयोज्योपस्थितिविपयक्रिया- कर्मणोऽभावान्न दोषः । नन्विह निष्टान्तत्वेनैव पष्टीनिषेधसिद्धौ कृद्हणं व्यर्थमेवोत चेन्नैतदस्ति । निष्टान्तशक्तिज्ञानसहकारेणो- (१८८) फबिकाप्रकाशः। पस्थितक्रियान्वयिनोरेव न लोकति निषेधात् । न चाधीती व्याकरण इत्यत्रेव तस्येति सप्तमी स्यादिति वाच्यम् । क्तान्तप्रकृतेः कर्मणीति तदर्थादिह चातथात्वात् । कटकर्मकोत्पत्तिकर्तेति बोधः । सर्वोऽयमिति श्लाघादेशविपयक इत्यर्थः । कारकपष्ठ्या इति । कर्तृकर्मणोर्विहिताया इत्यर्थः । प्रतिषेध इति । अनन्तरस्योत न्यायादिति भावः । शेपे पटी विति । अन्ये तुः छात्रस्य हसित- मित्यत्र न लोकति निषेधे प्राप्ते वार्तिककृतोक्तं नपुंसके भाव तस्य योगे पष्ठ्युपसंख्यानमिति । तत्र प्रतिपदोक्तत्वानपुंसके भावे क्त इति विहितः क्तो गृह्यते तेन भ्रांत देशमिति मर्तृहरिपो गत्यर्थाकर्मकेत्यनेन भावे ते तद्योगे पष्ठयमावस्सिद्धः। तच शेपपष्ठया छानस्य हसितमिति प्रयोग निर्वाध प्रत्याख्यातं माप्यकृता । तथा च कारकपष्ठीनिषेधविपये शेपविवक्षा न कार्य- त्यभिप्रायो वार्तिकस्य लभ्यते । माग्यस्य तु क्तमत्ययातिरिक्त विपयेऽनभिधानाच्छेपत्वं न विवक्षणीयमिति । तस्मान्मूलोक्तं चिन्त्यम् । ब्राह्मणस्य कुर्वन्नित्यन कार्यमित्यध्याहारेण नरकस्य जिष्णरित्यन जातमित्यव्याहारेण तद्योगे पष्ठी साधरिति वदन्ति । तरीति किमिति । कर्मणोरिति नित्ये प्राप्ते वैकल्पिकोऽय- विभक्त्याः। (१८९) योगाऽवयव इत्यर्थः। उभयप्राप्तिना कृत्येन योगे पष्ठी नेति सूत्रार्थः । व्रजमिति । न च गुणकर्मणि वेष्यत इति विकल्पोऽ- स्त्विति वाच्यम् । कृत्यातिरिक्ते चरितार्थस्य विकल्पस्य दोग्धव्या गावः पयः कृष्णेनेत्यादौ गुणकर्मण उक्तत्वात्मधाने चरितार्थे- नानेन परत्वाद्धाधनादुक्तोऽर्थ इति । यथान्यासिक इत्यर्थः ॥ इत्युपाध्यायोपनामकेन्द्रदत्तविरचिते फक्किाप्रकाशे विभक्त्यर्थाः। ११।६।१६ पुस्तक मिलनेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, "लक्ष्मीवेंकटेश्वर" छापाखाना, कल्याण-मुम्बई. दूसरा पता-खमराज श्रीकृष्णदास, श्रीवेङ्कटेश्वर स्टीम् प्रेस-मुम्बई.
(१८८) फक्किामकाशः। पस्थितक्रियान्वयिनोरेव न लोकेति निषेधात् । न चाधीती व्याकरण इत्यत्रेव क्तस्येति सप्तमी स्यादिति वाच्यम् । तान्तप्रकृतेः कर्मणीति तदर्थादिह चातथात्वात् । कटकर्मकोत्पत्तिकति बोधः । सर्वोऽयमिति श्लाघादेशाविषयक इत्यर्थः । कारकपष्ठया इति । कर्तृकर्मणोविहिताया इत्यर्थः । प्रतिपेध इति । अनन्तरस्योत न्यायादिति मावः । शेपे पठी विति । अन्ये तुः छात्रस्य हसित- मित्यत्र न लोकति निषेधे प्राप्ते वार्तिककृतोक्तं नपुंसके मावे क्तस्य योगे पष्ठयुपसंख्यानमिति । तत्र प्रतिपदोक्तत्वानपुंसके भावे क्त इति विहितः क्तो गृह्यते तेन भ्रातं देशमिति भर्तृहरिपद्ये गत्याकर्मकेत्यनेन भावे ते तद्योगे पष्ठयमावस्सिद्धः। तच शेषपष्ठया छानस्य हसितमिति प्रयोग निर्वाह्य प्रत्याख्यातं भाष्यकृता । तथा च कारकपष्ठीनिषेधविपये शेषविवक्षा न कार्ये- त्यभिप्रायो वार्तिकस्य लभ्यते । भाष्यस्य तु क्तमत्ययातिरिक्त- विपयेऽनभिधानाच्छेपत्वं न विवक्षणीयमिति । तस्मान्मूलोक्तं चिन्त्यम् । ब्राह्मणस्य कुर्वन्नित्यन कार्यमित्यध्याहारेण नरकस्य जिष्णरित्यन जातमित्यध्याहारेण तद्योगे पष्ठी साधुरिति वदन्ति । तरीति किमिति । कर्तृकर्मणोरिति नित्ये प्राप्ते वैकल्पिकोऽय- मारम्भः । ततदमावे कर्मण्यपि विकल्पस्तु न भविष्यति प्रायो मावकर्मणोः कृत्यानां विधानेन कर्मण उक्तत्वादनभिहिताधि- कारात् कर्तर्यव मविष्यतीते प्रश्नः । सिद्धाती तु लक्षणं स्वविषयी- मूतसर्वलक्ष्यसाधकमित्यभिप्रयन्नाह सानामिति । एवं च कर्मा- ननुवृत्तिफलकं कर्तग्रहणम् । अतिव्यानि मत्वाह अत्र योग इति ।
विभक्त्याः। (१८९) योगाऽवयव इत्यर्थः। उभयप्राप्तिना कृत्येन योगे पष्ठी नेति सूत्रार्थः । ब्रजमिति । न च गुणकर्मणि वेष्यत इति विकल्पोऽ- स्त्विति वाच्यम् । कृत्यातिरिक्त चरितार्थस्य विकल्पस्य दोग्धव्या गावः पयः कृष्णेनेत्यादौ गुणकर्मण उक्तत्वात्प्रधाने चरितार्थे- नानेन परत्वाद्धाधनादुक्तोऽर्थ इति । यथान्यासिक इत्यर्थः ॥ इत्युपाध्यायोपनामकेन्द्रदत्तविरचिते फक्किकाप्रकाशे विभक्त्यर्थाः। पुस्तक मिलनेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, "लक्ष्मीवेंकटेश्वर" छापाखाना, कल्याण-मुम्बई. दूसरा पता-खमराज श्रीकृष्णदास, श्रीवेङ्कटेश्वर स्टीम् प्रेस-मुम्बई.
श्रीमत्समरसिंहविरचित मनुप्यजातक। संस्कृत टीका और उदाहरणों समेत । । यह ग्रन्थ श्रीमत्समरसिहने 'अनेक ताजिक अन्योंका सार भाग ग्रहण कर बनाया है. इसके वीस अधिकार हैं. पहले अविकारमें-राशियोंके अंग, सूर्यादिग्रहोंके उच्चादि, हद्दाधिपनि- र्णय, नवाशद्रेष्काणेश निर्णय, त्रैराशिकनिर्णय, दृक्काणपनिर्णय, निराशिपति, लग्नसे चतुर्दिग्भागनिर्णय, अंधाशनिर्णय तथा सूर्यादि ग्रहोंके हर्पस्थानोंका वर्णन है. दूसरे अधिकारमें-ग्रहोंके वर्ण वय आदिका वर्णन है. तीसरे अधिकारमें-इकवालादि सोलह योगोंका वर्णन है. चौथे अधिकारमें-पुण्य आदि बत्तीस सहमोंका वर्णन है. पाच अधिकारमें-लग्नशुद्धि होरासाधनादिका वर्णन है. छठे अधिकारमे-आयुःपरीक्षण आदि तथा जन्मकालीन मृत्युयोग आदि योगोंका वर्णन है. सातवें अधिकारमें-आयुःमद आदि योगोंका वर्णन है. आठवें अधिकारमें-उत्पन्न हुए वालकके वर्ण आकृति आदिका वर्णन है. नवें अधिकारमें-हिल्लाज निर्णय आदि तथा अनेक योगोंका वर्णन है. दशम अधिकारमें-अहंगण- साधनप्रकार तथा बुधदशा आदिका वर्णन है. ग्यारहवें अधि- कारमें-अहर्गणानुमानसे सूर्यादि ग्रहोंकी स्थिति और उससे उत्पन्न हुए रोगोंका वर्णन है. बारहवें अधिकारसे चीसवें अधि- अधिकारतक नाना प्रकारके शरीरयोग तथा 'अन्यान्य कतिपय योगोंका वर्णन है. टीकाकारने इसकी टीकामी विशेष बुद्धिमत्तासे की है और अंतमें बहुतसे उदाहरणमी दिखाये गये हैं. की. १९० महामहोपाध्यायश्रीमदमृतनाथविरचित कृत्यसारसमुच्चय। इस पुस्तकमें चैत्र आदि बारह महीनोंमें जो जो कृत्य किये जाते हैं उनका विस्तृत वर्णन किया है. पहले चैत्रकृत्य अर्थात् वारुण्यादिनिर्णय, प्रतिपद्देवीपूजा, लौहितास्नान, रामनवमी, वैशाखमें त्याज्योंका वर्णन तथा अक्षयतृतीया, ज्येष्ठमें दशहरा, आपांढकृत्य, श्रावणकृत्य, नागपंचपी, रक्षाबंधन, बहुलापूजा, जन्माष्टमी, महालक्ष्मीपूजा, कुशोत्पाटन, हरितालिका, भाद्रपद- शुक्लचतुर्थी, सूर्यषष्टी, दुर्गाष्टमी, अनंतवन, अगस्त्यर्षदान, शस्त्रादिहतश्राद्ध, महालक्ष्मीपूजन, जीवत्पुत्रिकाष्टमी, गजच्छाया, श्राद्धकाल, खंजनदर्शन, चंडीपाठ, सप्तमीनिर्णय, महाष्टमीनिर्णय, अपराजितापूजा, यात्राविजयदशमी, शमीग्रहण, कोजागरी, हवि- ष्यविचार, आमिषविचार, अमावास्यादिकृत्य, उल्काभ्रमण, दीपदान, यमद्वितीया, चित्रगुप्तपूजा, एकादशीनिर्णय, हरिवासर, नवान्नभक्षण, अर्घोदय, कौशिकीस्नान, गणेशचतुर्थी, श्रीपंचमी, भीष्माष्टमी, सीतोत्पत्ति, शिवरात्रि, नक्तवत, गोविंदद्वादशी, होलिका आदि सब कृत्योंका वर्णन किया है. फिर ग्रहणविचार तथा संक्षेपसे सव आह्निककाभी वर्णन किया है. फिर सतीविधान, विधवास्त्रीधर्म सब प्रकारके अशौच आदिका वर्णन, त्रिविध क्रिया, वृपोत्सादिदान, संस्कार, तीर्थश्राद्ध, गयाविधि, काशीवासफल आदि कतिपय विषयोंका वर्णन भली भांति किया है. यह ग्रन्थ संस्कृत है. कीमत १२ आना,
महादेवभट्टविरचित
मुहूर्तदीपक।
महादेवकविविरचितटीकासमेत.
वेदके छः अंगोमेंसे सर्वोत्तम अंग नेत्रसंज्ञक ज्योतिषही है.
जिसको प्राचीन ऋषियोंने सिद्धांत (गणितग्रंथ) संहिता (मुहूर्त
आदि) होरा (जातक ताजिक आदि फलादेश) इन तीन
स्कंधोंमें प्रक्ट किया. इसके बिना कोई श्रीत स्मात कर्म सिद्ध
नहीं होता. छोटेसेमी छोय वैदिक कार्य क्यों न हो उसके लिये
मुहूर्तकी आवश्यकता होतीही हैं और इसी कारणसे मुहूर्तविषयके
अन्यमी अनेक छप चुके हैं परंतु यह मुहूर्तदीपक छोटासा ग्रन्थ
श्रीमहादेवभट्टने लोकोपकारके लिये स्रग्धरा और शार्दूलविक्रीडित
आदि छंदोंमें बहुतही उत्तम बनाया है, इसमें आवश्यकीय समी
मुहर्त दशाये गये हैं. इसकी महादेवकविने विस्तृत टीकामी की
है. यह ग्रन्थ छोटा है पर बड़े ग्रन्योंका काम देता है.
कीमत ४ आना.
"
पुस्तक मिलनेका ठिकाना-
गंगाविष्णु श्रीकृष्णदास,
लक्ष्मीवेंकटेश्वर " छापाखाना,
कल्याण-मुंबई.
"